Bombay Sanskrit & Prakrit Series No. XLIX Too ! NYAYAKOS'A OR DICTIONARY OF TECHNICAL TERMS OF INDIAN PHILOSOPHY BY MAHĀMAHOPADHYAYA BHIMĀCĀRYA JHALAKIKAR REVISED AND RE-EDITED BY MAHĀMAHOPADHYAYA VĀSUDEV SHASTRI ABHYANKAR, PANDIT, FERGUSSON COLLEGE, POONA Lacné des PUBLISHED BY The Bhandarkar Oriental Research Institute, Loona 1928 Copies can be had direct from the Bhandarkar O. R. Institute, Price Rs. 15 per copy Poona, No. 4, India. exclusive of Postage All Rights Reserved Printed by Ramachandra Yesu Shedge, at the Nirnaya-sagar Press, 26-28, Kolbhat Lane, Bombay and published by S. K. Belvalkar, M. A., Ph. D., at the Bhandarkar Oriental Research Institute, Poona, No. 4 Third Edition, 1000 Copies न्यायकोशः ( सकलशास्त्रोपकारकन्यायादिशास्त्रीय पदार्थप्रकाशकः ) एल्फिन्स्टनमहापाठशालायां न्यायदर्शनाद्यनेकदर्शनाध्यापकेन कर्णाटदेशीयझळकीग्रामनिवासिश्रीमद्रामभट्टात्मजेन महामहोपाध्याय - भीमाचार्येण विरचितः 'फर्ग्युसन्कॉलेज' स्थ- संस्कृताध्यापकेन महामहोपाध्याय-अभ्यंकरोपाह-वासुदेवशास्त्रिणा तृतीयावृत्त्यर्थमुपबृंहितः संशोधितश्च स च पुण्यपत्तनस्थ - प्राच्यविद्यासंशोधनमन्दिराधिकृतैः मुम्बय्यां निर्णयसागरमुद्रणालये मुद्रयित्वा प्राकाश्यं नीतः शाके १८५० वत्सरे १९२८ खिस्ताब्दे मूल्यं पञ्चदश रूप्यकाः TIVISTEET FUALD COFRANC तृतीयावृत्तौ प्रास्ताविकं किंचित् । - न्यायशास्त्रगतानां पारिभाषिकशब्दानां विवरणं कुर्वतो न्यायकोशनाम्नोस्य ग्रन्थस्य तृतीयं मुद्रणमद्य संजात मिति नूनं महदेत प्रमोदकारण मद्य विद्वद्व- न्दानां न्यायादिविद्योत्कर्षाभिलाषिणां मनसि । महामहोपाध्यायैर्भीमाचार्यैरयं प्रथमं १८७४ मिते खिस्ताब्दे मुद्रितः । अनन्तरं तैरेव १८९३ मिते ख्रिस्ताब्दे द्वितीयं मुद्रणं कृतम् । प्रतिमुद्रणं समुपचीयमानशब्दार्थाद्यवयवोयं ग्रन्थः शरीरवृद्धिं शरीरदार्ढ्य च धारयन्नवलोक्यते । प्रथमावृत्तावस्मिन्प्रन्थे साधारणतश्चत्वारि शतानि शब्दानां (४००) संकलितान्यासन् । द्वितीयावृत्तौ शब्दसंख्या चतुर्गुणाधिका संजाता षडधिकैकशतोनसहस्रद्वयपर्यन्तं (१८९४) गता । शब्दविवरणमपि स्थले स्थले विस्तृततरं संजातम् । अस्यां तृतीयावृत्तौ द्वात्रिंशदूना सप्तशती ( ६६८ ) शब्दानामधिका संगृहीता। परिपूर्णा शब्द - संख्या चास्यां तृतीयावृत्तौ द्विषष्ट्यधिका पञ्चविंशतिशती ( २५६२ ) संजाता । अस्यां तृतीयावृत्ताववलोकनसौकर्यार्थमुपयुक्तताविवृद्ध्यर्थे चाधो- निर्दिष्टाः कतिपये विशेषाः संप्रयुक्ताः । द्वितीयावृत्तौ स्फुटमेदभिन्नानेका- र्थानां शब्दानां प्रत्येकार्थपरिसमाप्तौ न पतयन्तरं कृतं केवलं १ । २ इति प्रकारेणाङ्कास्तत्र तत्र मुद्रिताः । तृतीयावृत्तौ चास्यां तथैव तादृशार्थसमाप्तिः पडयन्तरप्रयोजिका न कृता । तथा द्वितीयावृत्तावे कस्यैवार्थस्य बहुभिर्विधाभिः प्रतिपादने कर्तव्ये प्रत्येका विधा पङ्कचन्तरेण [ क ] [ ख ] इत्याद्यक्षरा- न्तरेण चाङ्कितासी प्रस्तुतायां मुद्रणावृत्तावेकस्यैवार्थस्य प्रतिपादिका भिन्ना विधाः [ क ] [ ख ] इत्याद्यक्षरैरेवाङ्किताः न पड्यन्तरैः । लेशमात्रेऽ- र्थभेदेपि च न पङ्ख्यन्तरं कृतं किंतु [ क ] [ ख ] इत्याद्यक्षरचिहानि तत्रापि प्रयुक्तानि । अवलोकनसौलभ्यार्थमधःस्थिताष्टिप्पणीस्तत्र वर्तमानानि च भिन्नभिन्नानि चिह्नानि दूरीकृत्य शब्दविवरणेष्वेव टिप्पणीस्थितोर्थराशिः संगृ- हीतः । स्थळे स्थले भाषाया दुरवबोधतां दूरीकृत्य भाषासौलभ्यं संपादितम् । अस्मिंस्तृतीयावृत्तिसंपादने वर्षत्रयपर्यन्तं सुमहान्परिश्रमः कर्तव्यतया पतितः । भा तृतीयावृत्तौ प्रास्ताविकं किंचित् । अस्मच्छिष्यैरिदानीं रत्नागिरीस्थसंस्कृतपाठशालाध्यापकैर्जोशीत्युपाहैर्दिग- म्बरशास्त्रिभिरस्मत्सकाशात्सुमहान्तं श्रमभारं स्वीकृत्य महानुपकारभारो - स्मासु प्रतिनिवेशितः । तथा च प्राच्यविद्यासंशोधनमन्दिर - (भाण्डारकर ओरिएण्टल रिसर्च इन्स्टिटयूटू) नया संस्थयापि महान्तं द्रव्यव्ययमङ्गीकृत्य विद्वांस उपकृता एतस्य कोशस्य तृतीयावृत्तिसंपादनेनेत्यत्राप्यन्ते निवे- दनीयमेवेति मन्ये - अभ्यंकरोपाह-वासुदेवशास्त्री । तृतीयावृत्तावुपोद्धातः । १ कोशाभिध्या प्रसिद्धेषु ग्रन्थेषु न्यायशास्त्र विषये प्रस्तुतो ग्रन्थ एक एव दृष्टिपथमवतरति । यस्मिन्कस्मिन्नपि दर्शने शास्त्रे वा यावत्कालपर्यन्तं न लिखिता बहवो ग्रन्था न परिभाषाः सांकेतिकाः शब्दा वा विस्तरेण विवेचिता न वा विरचितानि चर्चारूपाणि विवरणानि न च प्रणीता वृत्तयो विवृतयष्टीकाश्च न चापि प्रसृता विद्वगोष्ठीषु विवादास्ताव - कालपर्यन्तं प्रायो न वर्तते कोशग्रन्थानां रचनावसरस्त स्मिन्विषये इति तु लोके बहुशो वयं पश्यामः । प्रतिपाद्यविषयस्य विस्तारस्तस्य च सप्रपञ्चं नैक विधया रीत्या स्थाने स्थाने विवेचनं द्वयमेतत्कोश निर्माणावसरदाने प्रायः प्रयोजकम् । अत एव बहुभिकैः प्रयुज्यमानायां भाषायां ये शब्दाः प्रत्यहं प्रयुज्यन्ते तेषां कोशाः प्रथमं प्रणीयन्तेऽनन्तरं विशिष्टानां नामा- ख्यातादीनामपरेषां च शब्दानां कोशाः प्रणीयन्ते तदनन्तरं च वेदादिवि - शिष्टविषयेषु प्रयोगवैशिष्यमर्थवैशिष्ट्यं वा प्रतिदधानानां शब्दानां कोशा निर्मीयन्ते । प्रत्यहं विस्तारमुपगच्छत्सु शास्त्रार्थ विषयेषु समुपजायमानतया शब्दार्थविशेषबाहुल्यस्य, मर्यादिततया च मानुषस्य मनसो धारणाशक्तेर्बु- द्वेश्च विषयाकलनशक्तेर्यथा यथा वृद्धिं समुपयान्ति शास्त्रार्थविषयास्तथा तथा प्रगुणीभवति प्रयोजनमपि कोशादिग्रन्थानाम् । शास्त्रग्रन्थोपस्थितिं प्रति प्रतिदिनमधिकतरं जायमानोनादरोपि बद्धादरं कोशादिकपर्या लोचने कुरुते जनमित्यपि प्रत्यक्षीकुर्महे ॥ . २ पर्यालोच्यमानायामुपरिनिर्दिष्टायां विचारसरण्यामेतावत्कालपर्यन्तं न्या- यशास्त्रे परिदृश्यमानस्य कोशग्रन्थाभावस्य हेतुरपि सुतरां प्रतीतो भवति । पुरातने काले यस्मिन्कस्मिन्नपि सांख्ययोगादौ मीमांसाव्याकरणादौ वा शास्त्रे पारंगततामुपेयुषां पण्डितप्रवराणां न्यायशास्त्रगतैस्तर्क दीपिकामुक्ताव- श्रीचिन्तामण्यादिभिः प्राथमिकैग्रन्थैः परिचयस्य नितरामावश्यकतया संपा त्विात्सांख्ययोगशास्त्राध्ययनाध्यापनादिकर्मणि व्याटताना ममीषां न्याय- H तृतीयावृत्तावुपोद्धातः । शास्त्रान्तर्गताः प्रत्यहं समुपयुज्यमाना ग्रन्थेषु च समुपलभ्यमानाः परिभाषा: संज्ञाश्च जिह्वाग्र एवावर्तन्तेति न तदानीं स्वल्पमपि प्रयोजनमासीन्यायशा- स्त्रविषये कोशादिग्रन्थनिर्माणस्य । न्यायशास्त्रपारदृश्वनामधीतसाङ्गसशि- रस्कन्यायवैशेषिकदर्शनग्रन्थानां जिह्वाग्रसमुपस्थितप्रधान ग्रन्थशास्त्रार्थविष- याणां प्रतिक्षणक्रियमाणगहन विषय विभावनासंजनितशेमुषीसंस्काराणां यिकपण्डितप्रकाण्डानां न काचिदण्यावश्यकतासीन्यायशास्त्र विषये कोश - न्थावलोकनस्य कोशग्रन्थविरचनस्य वा । अपरं च न कस्यापि विषयस्य नवा नैया- कोशग्रन्थेषु प्रतिभापरिप्लुतो नवीनतयोपन्यासः कर्तुं पार्यत इति नूनमनादर एवासीत्प्राचीनानां पण्डितानां कोशरचनकर्मणि चर्वितस्यैव पुनश्चर्वणप्रणयिनि । इदानींतनास्तु शास्त्राध्येतारः स्वयमचीय- मानशास्त्रगतानपि न सर्वान्प्रमाणभूतान्ग्रन्थान्साकल्येनाधीयाना दृश्यन्ते, दूरत एव वार्तेतरशास्त्रगतानां प्रमुखग्रन्थानामध्ययनस्य । अनधीत्य प्रमाण- भूतान्पञ्चषानपि शास्त्रग्रन्थानधुना त्वरिताः शास्त्र पण्डिता भवन्ति ये स्वयम- धीतानामल्पसंख्याकानां ग्रन्थानामध्ययनमपि न सर्वाङ्गीणतया कुर्वन्ति न पङ्किश: पाठान्गृहन्ति न च मुखप्रोक्तं ग्रन्थं कुर्वन्ति । सर्वथाध्ययनार्थ स्वीकृतस्यापि शास्त्रस्य ग्रन्थेषु सम्यगुपस्थितिरहितानामितरशास्त्रेष्वालोडनं चिकीर्षूणामिदानींतनानामध्यापकानामध्येतॄणां च सम्यग्रन्थानुपस्थितौ तेषु तेषु स्थलेषु परिदृश्यमानानां शास्त्रीयपरिभाषाणां संज्ञानां च सम्यगवबोधाय मुहुर्मुहुः कोशदर्शनावलम्ब एव कर्तव्यतयापतति । यथा यथा ग्रन्थोपस्थि- तिराहित्यं विवर्धते तथा तथा न केवलं कोशादिग्रन्थावलोकनं प्रत्यनन्यग- तिकतयाधिकाधिका प्रवृत्तिर्भवति किं तु कोशसदृशप्रन्धराहिये स्वाभीप्सि- तमन्थाध्ययनकर्मण्यमीषां संचारो दृगन्धानामिव भवति राजवर्त्मनीति यदि ब्रूमस्तर्हि तत्र नातिशयोक्तिलेशस्याप्यवकाशः ॥ ३ सागरवदतिगभीरेषु तेषु तेषु शास्त्रेष्ववगाहनां कृत्वा तत्तच्छास्त्रग- तानां बहुविधानां विषयाणां सूक्ष्मार्थानां च सम्यगाकळनं कृतवतां पण्डि- तानामिदानींतने काले प्रतिदिनं परिजायमानं दौर्लभ्यं समीक्षमाणा मन्यामहे यथा--" देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरा- तृतीयावृत्तावुपोद्धातः I मसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिलङ्गित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः" इत्यादिका मुरारिक- वेर्दर्पोक्तिर्नूनमुक्तेरतिशयं परित्यज्याधुना परिदृश्यमानयथार्थस्वरूपा संजा- तेति । स्मरामो वयं केवलं तस्य कालस्य यदा गुरोः समीपेधीयानोधस्ताहि- प्पण्याङ्कितं ग्रन्थमुपयुञ्जानः शिष्यो यथा सर्वेषां सहाध्येतॄणामवमानपात्र - मासीद्यथा चोपस्थितेरभावे कोशादिग्रन्थानामवलोकनं कुर्वाण: सब्रह्मचारि- णामुपहासभाजनमजायत । गुरवोपि ते गता व्याकरणादिशास्त्रपारयिष्णवो येषां भाष्यादिग्रन्थाक्षराणि मनश्चक्षुषः पुरतो हस्तामलकवत्स्फुरन्ति समव- र्तन्त । बहूनां व्याकरणोपाध्यायानामधुना पाणिनीयाष्टाध्यायी स्थ सूत्राण्यपि न क्रमेण मुखोद्गतानि समुपलभ्यन्ते दूरत एव कथा वार्तिकानां भाष्य- पङ्कीनां वा । दैवदुर्विलसितप्रभावेण संजातस्येदानींतनस्य न्यायशास्त्राध्यय- नहासस्य संसूचिका मेतादृशीमवस्थां प्रत्यक्षीकुर्वन्तो नैयायिकाग्रेसरा भीमा- चार्या न्यायशास्त्राध्ययनं कुर्वाणानां शिष्याणामध्यापनं च कुर्वतां गुरूणा- मुपयोगाय न्यायशास्त्रगतानां सांकेतिकानां शब्दानां कोशं न्यायकोशामिधं व्यरचयन् ॥ ४ कोशादयो ग्रन्थाः प्रायशः शास्त्रं प्रविविक्षूणां शास्त्रपारंगतानां गुरु- चरणानां समीपे पाठं ग्रहीतुमशक्नुवतां बालानामेव बहुश उपयोगार्थ प्रणीता भवन्ति । एकस्मिशास्त्रे कृतप्रवेशानां स्वातन्त्र्येण गुर्वनपेक्षयेतर- शास्त्रप्रवेशकर्म कुर्वाणानामपि जनानां यथावकाशमेतेषामुपयोगो भवति । कृतविविधशास्त्रालोडनानां स्फुरच्छास्त्रग्रन्थोपस्थितिकतया हर्निशं कृततत्त- च्छास्त्रगत कठिन विषयविभावनानां बुद्धिवैभवशालिनां प्रतिभासंपन्नानामुपा ध्यायानां न कोशग्रन्थैः किमपि फलं संपादितं भवति किंतु कोशग्रन्थसां- निध्यं तस्य मुहुर्मुहुरुपयोगकर्म चैते स्वसंपादितायाः शास्त्रोपस्थितेर्मालि- न्यमेव संपादयतः । समागते चोपस्थितिमालिन्ये शास्त्रार्थानामहर्निशं मनसि प्रचलिता चर्वणापि श्लथा भवति । श्लथायां तस्यां स्फुरदपि प्रतिभावैभवं प्रसरकर्मण्यवकाशाभावादकिंचित्करं भवति । हीयमाने च प्रतिभावैभवे नव- 2 न्या. को. तृतीयावृत्तावुपोद्धातः । नवा विचाराः सिद्धान्ताश्च न मनसः पुरतः प्रकटीभवन्ति । नष्टेषु च तेषु तत्तच्छास्त्रार्णां प्रगतिरपि मन्दा भवतीति महत्येषानर्थपरंपरा ॥ .' ५ नैक विधेष्वाध्यात्मिकेषु भौतिकेषु च शास्त्रेषु प्रतिदिनं वर्धमानया ग्रन्थसामग्र्या नवनवैरुत्पद्यमानैः प्रतिभाविलासैः प्रगुणीभवद्भिश्च कल्पनात- रङ्गैर्देशान्तरनिवासिनां धर्मान्तरानुयायिनां विदुषां विविधैश्च विचारैस्तथा नितरामिदानीं समुपचितो ज्ञानराशिर्यथा सुमहता यत्नेन दीर्घकालमवीयानेन बुद्धिविभवशालिनापि जनेन न सर्वासु प्रधानासु कलासु न वा सर्वेषु प्रधा- नेषु शास्त्रेषु प्रतीष्टः प्रवेशः कर्तु पार्यत इति यद्यपि यथार्थमेव तथापि नैतावता प्रमाणभूतानां प्राचीन ग्रन्थानां माहात्म्यमुपयुक्तता वा परिहीयते । "भिन्नभिन्नानां शास्त्राणां भिन्नभिन्नेषु कोशग्रन्थेषु प्रतिक्षणं शास्त्रेषूपलभ्य- मानानां शब्दानामुपयुक्ता विस्तृता अर्था व्याख्यानानि च निवेशयितव्यानीति न किमपि प्रयोजनं ग्रन्थानां पङ्किशोध्ययनेन पाठकरणेन वा निरर्थकशरीर- कृशीकरण हेतुना, यदा यदा तु केनापि पारिभाषिकेण संज्ञाशब्देन वा प्रयो जनं तदा कोशग्रन्थेषु तस्यार्थविस्तरोवलोकनीयः" इति यः कोपि जनो ब्रवीति चेद्रवीतु नाम, वयं तु मन्यामहेहर्निशमुपयुज्यमानाः प्रधानाः संज्ञा- शब्दाः परिभाषाश्च शास्त्रग्रन्थानामध्ययनमध्यापनं वा कुर्वद्भिर्जिहाग्रे एव धार- णीयास्तेषामर्थः खारस्यं विवरणं चैतानि मनसा सततं विभावनीयानि न तदर्थ कोशादिग्रन्थानामवलोकनं करणीयम् । विशेषतो न्यायव्याकरणादि- शास्त्राणां गीर्वाणवाणीलिखितसकलग्रन्थानां परिभाषाः संज्ञाश्च तथा दुर्बोध गहनार्थाश्च वर्तन्ते यथा प्राथमिकानां ग्रन्थानामध्ययनं विना केवलं कोश- ग्रन्थादिसाहाय्येन तदर्थावबोधं प्रति क्रियमाणो यलो बधिरं प्रति क्रिय- माणस्य विविध परितस्य सुरमणीयस्योदयनादिकथावर्णनस्य विस्तर इवा- किंचिकर एव । संक्षेपतो वक्तव्ये कोशग्रन्थेषु वर्तमानाः संज्ञाशब्दाः परि- भाषाश्च विदुषामापणस्थितभाण्डवत्परमार्थतोनुपयुक्ता एव वर्तन्ते इयस्मि- नवस्तुनि न कोपि विवादः ॥ * तृतीया वृत्तावुपोद्धातः । तु ६ अन्यच, सामान्यत उपलभ्यमानेभ्यस्तत्तच्छास्त्रगतप्राकरणिक प्रथम- ग्रन्थेभ्यः संज्ञादिशब्दान्समुपचित्य क्रियमाणेन सूचीग्रन्थानां कोशग्रन्थानां वा निर्माणेन न वर्तमानो ज्ञानराशिः समुपचितो भवति न वा प्रतिभाप्र- चुरा नवीना विचारास्तेषु ग्रथ्यन्ते न च बुद्धिवैभवकृतानि विवेचनानि तत्र दृश्यन्ते । एवंविधानां कोशग्रन्थानां विरचनं शब्दात्मकमैन्द्रजाल कर्मैव केवलम् । एतद्दोषपरिहारकर्मणि प्रस्तुते न्यायकोशे बहुतरः प्रयत्तः कृतः । न तत्र केवलं शब्दानामर्थः संप्रदर्शितो न वा केवला व्याख्याः संगृहीताः । किं तु भूयसां शब्दानां तत्र तत्र स्थलेषु परिदृश्यमाना अर्थभेदाः प्रदर्शिताः कथंकथं कदा- कदा तेर्थभेदा जातास्त प्रदर्शितं भिन्नभिन्नानां व्याख्यानामर्थानां च तुल- नात्मकं विवेचनं कृतम् । न्यायशास्त्रविषयकाणामपि न केवलानां प्राथ- मिकानां ग्रन्थानामेतद्ग्रन्थविरचनकर्मणि निरीक्षणं कृतं किंतु व्याख्यात्म- काष्टीकात्मकाश्च पाण्डित्यपूर्णा दुरवगाहा दुर्लभा अपि ग्रन्थाः समुपयुक्ताः । शब्दानां समुपचयोपि तथा कार्येन परिपूर्णतया वा कृतो यथा न्याय- शास्त्रीयो न कोपि संज्ञाशब्द: पारिभाषिको वा शब्दः प्रायो विगलितः । तथा चेतरशास्त्राणामपि प्रधानतमाः शब्दाः संज्ञाश्चात्र कोशे संगृहीता ये न्यायशास्त्राव्ययनकर्मणि बहुश उपयुज्यन्ते येषामर्थश्चावश्यकतयावगन्तव्यो भवति । तथाहि कोशेस्मिन्प्रतिक्षणमुपलभ्यमानानां प्रत्यक्षानुमान व्याप्ति- परामर्शादिशब्दानां न केवलं प्रमुखतया वर्तमाना द्वित्रा व्याख्याः संगृहीताः किंतु पण्डितवर्यैर्न्यायशास्त्रपारदृश्वभिर्दत्ताः सर्वा अपि व्याख्याः संकलिता येनाव्यात्यतिव्याप्त्यादिदोषपरिहारार्थं कालेकाले कृताः शब्दभेदा अर्थमेदाश्च समीचीनतया विदुषां निदर्शनपथमवतरेयुः । तथा चोपाधिचातुर्विध्यान्यथा- सिद्धिप्रभेदपाकजोत्पत्त्यादिस्थलगतानि विवरणानि विदुषामध्यापकानामधीया- नानां च मनसि तत्तच्छब्दगतानर्थमेदान्व्याख्या मेदान्भेदहेतूंश्च स्फुटीकुर्युरिति न्यायकोशस्यास्योपयुक्तता कोशावलोकनं कुर्वद्भिर्नैयायिकैरितरैर्वा स्वानुभवेनैव कथयितुं न्याय्या । इतरशास्त्रेष्वपि एवंविधानां तत्तच्छा स्त्रदृष्टानां पारिभाषि- तृतीयावृत्तावुपोद्धातः । काणां शब्दानां संज्ञाशब्दानां च परिपूर्णतया विवेचनं कुर्वतां कोशानां विरचनकर्मणि प्रतिदिनमधिकतरा विदुषां प्रवृत्तिर्भूयान्नचिराच्चैवंविधाः कोशाः प्रतिशास्त्रं प्रणीयेरन्नेको वा कृत्स्नकोशः सर्वशास्त्रावगाहको जनानां दृष्टिपथमवतरेदित्याशा से अभ्यंकरोपाह्न - वासुदेवशास्त्री ॥ PREFACE TO THE FIRST EDITION CONSIDERABLE attention has of late been directed to the Literature and Philosophy of the Ancient Hindus, and many efforts have been made to promote and facilitate their study. A number of Sanskrit poems, and works on grammar and on some of the other branches of ancient Hindu Science and Philosophy, have been published by learned scholars, but little or no help seems to have been afforded to the student of the Nyāyas'āstra or Hindu Logic. The study of that S'astra, besides its own in- trinsic uses both from a scientific and practical point of view, has the further merit of sharpening the mind of the student, and of accustoming it to close and accurate thinking; and the author is of opinion that, in this respect at any rate, the study of the Nyayas'astra deserves encouragement and assistance. To afford the latter, so far as was in his power, the author has composed this Nyaya Lexicon, under instructions from Dr. G. Bühler, formerly Professor of Oriental Languages in the Elphinstone College and at present Educational Inspector, Northern Division, and from Dr. F. Kielhorn, Superintendent of Sanskrit Studies in the Deccan College. This Lexicon, it is believed, contains all the technical terms of Hindu Logic (Nyaya ) occurring in the Aphorisms of Gautama, the Gādādharī, and other logical works enumerated in the annexed list. All these terms have been arranged in alphabetical order, and their meanings have been explained in a style as simple as the nature of the subject permitted, and also, it is hoped, with conciseness and perspicuity. In some cases illustrations have been added, mostly from the works above alluded to, but when those works did not furnish any, new ones have been framed. 14 PREFACE TO THE FIRST EDITION It is scarcely necessary to say, that the technical terms of the Nyāya Philosophy are employed throughout our whole philoso- phical literature. Those who have any knowledge of the great works of our ancestors on the philosophy of grammar or even of the treatises on the Vedānta and other systems, need not be told to what extent this is the case. And therefore it is necessary even for those who may devote their attention to any other of our phi- losophical systems than the Nyāya fully to grasp the meaning of the Naiyãyika phraseology, The author's aim, therefore, in the preparation of this Lexicon has been to assist the student not only of the Nyaya Philosophy but of all our ancient philosophical systems. The preparation of the Lexicon has been a work of great labour. The annexed list of the treatises consulted shows the extent of ground which it has been necessary to go over. And the further labour of selecting and digesting the material has not been very light. The author, therefore, can hardly hope that his work is free from imperfections and errors. For these he craves the indulgence of the reader. But he ventures to hope that the Lexicon will nevertheless be of some use to those for whose assist- ance it has been prepared, and if he should succeed, in any degree, in helping on the study of our ancient Philosophy, he will deem his labours amply rewarded. Bombay, December 1874. BHIMACARYA JHALAKIKAR, Sanskrit Teacher, Elphinstone College. PREFACE TO THE SECOND EDITION The present edition of my Nyāyakos'a may almost be describ- ed as an entirely new work. The first edition, which was publish- ed in 1874, consisted of 267 pages only. The present work, although its contents have been put in as economical and abridged a form as possible, extends to over 1000 pages. PREFACE TO THE SECOND EDITION 15 The work of preparing this edition has occupied me in- cessantly for the last eight years. The time may seem to some critics long. But I have during that long period given, on an average, nine hours daily to the task of improving my Nyāyakos'a and I will ask friendly critics to consider how responsible a task it is to prepare a work like the present, and to remember how obstructive old age is to continuous labour. My book, as it is now presented to scholars, contains about four times as many technical words as were explained in the first edition. I have inserted all the peculiar words I have met with in the course of my reading since 1874, which I carefully noted down in accordance with the proverb संग्रहः खलु कर्तव्यः कदाचित्फ- My earnest hope is that the notes and explanation I लदायकः. have given here of words not explained in the ordinary kos'as will bear witness that my toil has been both great and fruitful; and that my book will be of service to those who wish to make a real study of the six systems of the philosophy of my country. I have made a careful and life-long study of all books on Nyāya and Vais'eșika to which I have had access. I regret that I have not been fortunate enough to obtain access to all the books on those two systems that are known to exist. But, as it is, I hope my book will show that it is based on careful study of the works of the masters of old days, and that it was worth doing if the knowledge of the systems of these masters is not to perish out of the land. It is not so complete as it might have had not been left so much to the collection a poor man like myself I was able to make; but my labours will bear fruit if readers of my work are encouraged to make additions from their own read- if I ing to it. The knowledge of Sanskrit is, comparatively speaking, dying out in India before the advance of English. A work written, as this is, wholly in Sanskrit is not so much respected and cared 16 for as if the explanations had been put in English. Even our own countrymen do not appreciate works written in Sanskrit until praise of them comes out the West. I hope my book will seem praiseworthy to foreign scholars like Professors Bühler, Max Müller, Weber and Kielhorn, *but still more do I hope that my labours will prove of service to those, if they be only a few, whether Hindu or European, who are fellow-students with me of these old philosophies. This I shall look on as the fruit of my labours. PREFACE TO THE SECOND EDITION Those who find this book useful in their study of the old philosophies of India should know that they are under deep ob- ligation to K. M. Chatfield, Esq., Director of Public Instruction, who has shown his appreciation of Nyayakos'a by conferring on it this re-birth. I am greatly indebted to him for the opportunity he has given me of taking such place among the teachers of Nyaya as the learned world, after perusal of this book, may think fit to accord to me. My thanks are due also to my friend Dr. Peterson, who was good enough to recommend to Mr. Chatfield the publication of this second edition. Mahamahopadhyāya, Bombay, Elphinstone) College, July 1893. BHIMACARYA JHALAKIKAR. * I take this opportunity of thanking Professor Weber warmly for his review of my first Edition in the Literarisches Centralblatt wherein he says: "We have in this book a concise explanation, based on the chief work of the Nyaya Vais'eşika systems, and justified in every case by full quotations and references, of all technical terms of these two systems in alphabetical order... It is a work of the greatest merit and industry, demanding as it must have done the complete mastery of a literature of more than ordinary extent and difficulty, which is, moreover, in many cases only accessible as yet in manuscripts, and the greatest judgment in selecting and arranging the material. We gladly tender our thanks to the author for the pains he has spent upon it." द्वितीयावृत्तीची प्रस्तावना ( In Marathi. ) 7.5 १ ही जी न्यायकोशाची द्वितीयावृत्ति छापली आहे तीस द्वितीयावृत्ति न समजतां प्रथमावृत्तिच म्हणणें विशेष शोभेल. कारण इसवी सन १८७४ साली जेव्हां पहिल्यानें न्यायकोश छापण्यांत आला तेव्हां त्याचीं पृष्ठे सारी २६७ झालीं होतीं. ह्या द्वितीयावृत्तीच्या वेळीं होईल तितकी काट- कसर करून मोठ्याच संक्षेपानें हा ग्रन्थ छापला असतांनाही ह्याचीं पृष्ठे एक हजारावर झालीं आहेत. त्यावरून आतांचें न्यायकोशाचें स्वरूप पूर्वीपेक्षां फार भिन्न आहे असे वाचकांच्या सहज लक्षांत येईल. २ ही द्वितीयावृत्ति छापण्याचें काम म्हणजे नवीन शब्दांचा समावेश करणें, नवीन मूळप्रत तयार करून देणें, लिखित प्रत शोधणें, व प्रूफशीटें तपासणें वगैरे; ह्या कामास इसवी सन १८८६-८७ सालामध्ये सुरुवात झाली. तें आज सुमारें ७/८ वर्षे एकसारखें चालले आहे. आतां हें काम फार वर्षे चालले आहे ह्मणून तें फार सुस्तपणानें चालले आहे असें कोणास वाटेल. परंतु माझे इतर व्यवसाय संभाळून हा ग्रन्थ तडीस नेण्याकरितांच मी आज सात आठ वर्षे दररोज नऊ नऊ तास काम करीत आलों आहे. न्यायकोशासारखा ग्रन्थ करणें हें काम किती जोखिमीचें आहे व वार्धक्य हें अव्याहत परिश्रम करण्याला कसें प्रतिबन्धक होतें याचा विचार केला असतां हा ग्रन्थ सात आठ वर्षांत पुरा झाला म्हणजे लवकरच पुरा झाला असें कोणालाही वाटण्यासारखे आहे. ३ इसवी सन १८७४ सालीं न्यायकोशाची प्रथमावृत्ति निघाली तेव्हां - पासून निरनिराळीं शास्त्रीय पुस्तकें वाचतांना जे जे शास्त्रीय पारिभाषिक शब्द मजला आढळले त्या त्या शब्दांचा "संग्रहः खलु कर्तव्यः कदाचि- त्फलदायकः" या न्यायानें काळजीपूर्वक संग्रह करून ठेवून ते सर्व शब्द या कोशाचे प्रस्तुत आवृत्तींत गोंविल्यामुळे पहिल्या आवृत्तींतील न्याय- कोशामध्यें जितक्या पारिभाषिक शब्दांचा समावेश झाला होता त्यापेक्षां चौपट जास्त पारिभाषिक शब्दांचा ह्या आवृत्तींत समावेश झाला आहे. ह्यांतील निरनिराळ्या शब्दांवर घेतलेलीं टिप्पणें, निर्णय, सिद्धान्त वगैरे 3 न्या. को. द्वितीयावृत्तीची प्रस्तावना पाहून विद्वान् व शास्त्रमर्मज्ञ वाचकांस माझे मनोविचार व बुद्धिपरिश्रम यांची अप्रमेयता व अचंबा वाटेल; इतकेंच नाहीं तर शास्त्रीय ग्रन्थ वाचणारांस व त्याचा अभ्यास करणाऱ्यांस प्रस्तुत कोश फारच उपयोगी होईल असें त्यांना वाटल्यावांचून राहणार नाहीं. संस्कृत शब्दांचे जे कोश आज काल झाले आहेत ते सर्व फक्त काव्य पढण्याच्या उपयोगी आहेत, शास्त्र पढण्याचे उपयोगी नाहींत. म्हणून शास्त्रीय व लोकोपयुक्त असे शब्द शोधून घेऊन मीं हा जो न्यायकोश रचला आहे तो न्याय, वैशेषिक, पूर्वमीमांसा, उत्तरमीमांसा, सौख्य, व पातञ्जल ह्या सहाही शास्त्रांचें अध्ययन करणाऱ्यांस फार उपयोगी होईल अशी माझी पूर्ण उमेद आहे. ४ न्याय-वैशेषिक शास्त्रांवर असंख्य ग्रंथ आहेत, ते सर्व ग्रंथ माझ्या- सारख्या असहाय मनुष्याला मिळणें हें अवघड आहे. शिवाय जे ग्रंथ मिळणें शक्य होते ते ग्रंथ सुद्धां यत्न केला असतांनाही दुर्दैवानें मला मिळाले नाहीत, यामुळे व प्रस्तुत कोश रचण्याचे काम दुसऱ्या कोणाही विद्वानाची मजला मदत नसल्यामुळे सर्व शास्त्रीय ग्रंथ गोळा करून व त्यांतील शब्द काढून ते या न्यायकोशामध्यें वालावयास मजला सवड मिळाली नाही ह्याचें फार वाईट वाटतें. ह्यासंबंधानें आधुनिक विद्वानां- विषयों एक विशेष खेदकारक गोष्ट मजला येथें सांगणें भाग पडतें, ती अशी कीं, प्राचीन विद्वान् लोकांस 'धर्मभोळेपणामुळे, लोभामुळे व मनाच्या कोत्या समजुतीनें आपले जुने ग्रंथ प्रसिद्धीस आणीत नाहींत' म्हणून हल्लींचे लोक नांवें ठेवितात व उपहास करितात. तरी नवीन विद्वानांमध्येही असाच उणेपणा दिसून येतो. असो. आतां हा ग्रंथ सर्वथा परिपूर्ण आहे असें माझें मुळींच ह्मणणें नाहीं. कारण त्याला सर्व गोष्टींनीं परिपूर्णता असणें हें एका असहाय व्यक्तीला अशक्य आहे. व त्यांत मानसिक श्रम करण्याची कितीही उमेद असली तरी पुस्तकरूपी व इतर बाह्य मदती- शिवाय ती जितकी फलद्रूप व्हावी तितकी होणार नाहीं. तथापि हा ग्रंथ वाचून वाचकांना जर उत्साह वाटला व माझ्यापेक्षा जास्त मेहनत घेऊन ह्या ग्रंथांत भर घालण्याचें जर त्यांच्या अंगांत स्फुरण आले तर माझे श्रमाचें कांहीं तरी चीज झालें असें म्हणण्यास हरकत नाहीं. द्वितीयावृत्तीची प्रस्तावना ५ हल्लीं जिकडे तिकडे इंग्रजी भाषेचा प्रसार फार झाल्यामुळे संस्कृत भाषा ही ह्या भरतखंडामध्येसुद्धां लुप्तप्राय झाली आहे. ह्मणून इंग्रजी भाषे- मध्यें केलेल्या ग्रंथाचें जसें चीज होतें तसें संस्कृत भाषेमध्ये केलेल्या ग्रंथाचें होत नाहीं. जर प्रस्तुत ग्रंथ इंग्रजीमध्यें भाषांतररूपानें झाला असता तर त्यास किती महत्त्व आलें असतें याची वाचकांनींच कल्पना करावी. भरतखंडामध्यें प्रसिद्ध केलेल्या संस्कृत ग्रंथाच्या [ एतद्देशीय आंग्लविद्या- विशारद, प्रतिष्ठाकाम, विद्वन्मन्य, आधुनिक विद्वानांस ] योग्यतेची व उपयुक्ततेची थोरवी पश्चिमदिशेकडून फडकत आल्याशिवाय दिसत नाहीं. करितां बर्लीन येथील प्रसिद्ध संस्कृतज्ञ प्रोफेसर वेबर आणि इतर संस्कृतज्ञ पाश्चात्य विद्वान् ह्यांनी माझ्या न्यायकोशाची प्रथमावृत्ति वाचतांना "प्रोफेसर गोल्डस्टक्कर" यांचें स्मरण करून न्यायकोशाचें महत्त्व वर्णन केल्यावरूनच व्यप्रचित्तानें न्यायकोशाची स्तुति व संग्रह करणाऱ्या एतद्देशीय आधुनिक विद्वानांवर न्यायकोशाच्या प्रस्तुत आवृत्तीच्या उपयुक्ततेच्या संबंधानें अवलंबन घरून न राहतां, प्रोफेसर जी० बुलेर आणि मॅक्समुल्लर, कीलहार्न आणि वेबर इत्यादि परराष्ट्रीय विद्वान् लोकांना तरी या कोशाचा उपयोग होईल असे समजून मी आपल्या मनाची तृप्ति करून घेईन. आणि हजारों शास्त्राध्ययन करणाऱ्या मदेशबांधवांपैकी एखाद्या खन्या मार्मिक ज्ञात्यास तरी हा कोश उपयोगी झाल्यास मी आपणास कृतकार्य मानून माझ्या श्रमाचें फल मजला मिळालें असें समजेन. 6 व ६ मेहेरबान के० एम्० चाट्फील्ड साहेब, मुंबई इलाख्यांतील विद्याखात्याचे डायरेक्टर यांनी न्यायकोशाचें महत्त्व व उपयुक्तता जाणून त्यास पुनर्जन्म देवविला आणि संस्कृत भाषेच्या उत्कर्षास व शास्त्रांचें सुलभ रीतीनें अध्ययन करण्यास ते साधनीभूत झाले यामुळे त्यांचे सर्व संस्कृतजिज्ञासु लोकांवर फार उपकार झाले आहेत व माझी न्यायविद्या सफल झाली. त्याजबद्दल मी साहेबमजकुरांचा फार फार आभारी आहे. शके १८१५ । न्यायकोशकर्ता. आषाढमास. द्वितीयावृत्तौ प्रस्तावना लोकेस्मिंस्तावत्सकलप्रेक्षावन्तः प्रवृत्ति प्रयोजनमन्विष्य प्रवर्तन्ते । प्रयोजनं हि मुख्यगौणभेदेनैहिकामुष्मिकभेदेन च द्विविधम् । तत्रैहिकं प्रयोजनं च दुःखसंभिन्नत्वादल्पत्वादसारत्वाच्च नात्यादरणीयम् । आमुष्मिकं मुख्य प्रयोजनं तु निःश्रेयस शब्दवाच्यं दुःखासंभिन्नत्वादनत्पत्वात्सारत्वाच्च सर्वैरापामरमत्या- दरणीयमेव । तच्च न किल द्रव्यादिना लभ्यम्, अपि तु तत्त्वज्ञानेनैव । तच्च खलु तत्त्वज्ञानम् 'आत्मा शरीरादिपदार्थेभ्यो भिन्नः' इत्याकारकत्वा- च्छरीरादिपदार्थज्ञानं विना नोत्पद्यते । शरीरादिपदार्थज्ञानं चाशेषपदार्थ- प्रतिपादकन्यायशास्त्रेणैव साध्यम् । अत एव न्यायशास्त्रस्यात्मविद्यात्वेन संशयादिभेदानुविधायित्वेन च ' आन्वीक्षिकी' इति संज्ञा । अतो न्यायशास्त्र - मावश्यकारम्भम् । एवं वैशेषिकशास्त्रस्यापि सतामैहिकामुष्मिकसकल पदार्थानां व्यावृत्ति व्यवहारप्रयोजनकलक्षणस्वरूपादिप्रदर्शकत्वात् तर्कशास्त्रत्वेन सक- लपदार्थानां प्रमाणतो व्यवस्थापकत्वाच्चावश्यारम्भणीयता सिद्ध्यति । यद्यपि व्याकरणमीमांसादीनि बहूनि दर्शनानि ज्ञानप्रयोजनकानि सन्ति तथापि तानि शब्दस्वरूपनिष्पत्तिकर्मप्रतिपत्त्यादिमात्रपराणि, इति नाशेषपदार्था- न्याथातथ्येन व्युत्पादयितुं क्षमन्ते । किं च –न्यायवैशेषिकशास्त्रयोः सकलपदार्थविवेचनयुक्तिशास्त्रत्वात्तद- ध्ययनतस्तत्रत्यायन्त दुर्लभ विविधविचित्रसुतर्कप्रकाश कयुक्ति परिसंशीलनसंस्कृ- सर्वशास्त्रमर्माणि तबुद्धिसौक्ष्म्यद्वारकनिखिलपदार्थतत्त्वविज्ञानादनायासेनैव शक्यावगमानि भवन्ति इति न्यायवैशेषिकशास्त्रयोः सर्वशास्त्रोपकारकत्वाद- व्यत्यवश्यारम्भणीयता सिद्धा । समुद्धृत्य प्रकृते च खलु – कुशलमतयो यतमाना विद्वांसो व्याकरणादिशास्त्रेषु काव्यादिषु च सर्वेषामश्रमेण मनसः प्रवेशाय तत्तत्सारान्स्वमेधया : तत्र तत्र समासव्याससहितान्विविधान्सुगमनिबन्धानकोशांश्च रचयांचक्रुः । परंतु अभियुक्तैः "काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्" इति - द्वितीयावृत्तौ प्रस्तावना . सर्वशास्त्रोपकारकत्वेनोक्तयोर्मध्ये प्रथमोद्दिष्टे तर्कशास्त्रे (न्यायेsपि ) सुख- प्रवेशसाधनभूतो निबन्धोऽद्यावधि न केनापि विदुषा विहितः । अतः मुम्बापुरीस्थायामेल्फिन्स्टन्कालेजाभिधायां महापाठशालायां न्यायाद्यनेक- दर्शनाध्यापनेऽधिकृतेन कर्णाटदेशीयेन झळकीग्रामनिवासिना श्रीमद्राम- भट्टपादपुत्रेण सरस्वत्यम्बागर्भजेन आङ्गभूपालप्रदत्त 'महामहोपाध्याय' पदा- कितेन भट्ट-भीमाचार्येण मयातिगहनतरपदार्थरत्न पुञ्ज परिपूर्णतर्कमञ्जूषो- कुञ्चभूयायकोशाभिधो ग्रन्थो व्यरचि । अत्र च बहुविध- शास्त्रीय ग्रन्थव्युत्पादने समुपयुज्यमानाः प्रायेण सर्वे न्यायवैशेषिकशास्त्रीयाः पारिभाषिकाः, व्यवहारे समुपयुज्यमाना व्यावहारिकाश्च शब्दा गौतम- कणादसूत्र-तत्त्वचिन्तामणि-गदाधरीप्रभृतिग्रन्थेभ्य उद्धृत्याकारादिवर्णक्रमेण विन्यस्ताः । तेषामर्थश्च संगृह्य सुगमरीत्या परिष्कृत्य च प्रदर्शितः । तत्र लक्षणान्युदाहरणानि चोदाहृतानि । तत्र च यानि लक्षणोदाहरणानि गौतम- सूत्रादिग्रन्थेषूपलब्धानि तानि तत्रत्यान्येवेह संगृहीतानि । यदीयानि च लक्षणोदाहरणानि तत्र नोपलब्धानि तदीयानि शास्त्रानुरोधीनि नूतनानि तानि यथामति स्वयं विरच्येहोदाहृतानि । ● सर्वशास्त्रोपकारकयोर्दुर्गमतमयोर्न्यायवैशेषिकशास्त्रयोः सुखेन मनःप्रवेश - साधनमेनं कोशं विधाय परमकारुणिकस्य रमाब्रह्माद्यभिवन्दितपादारविन्दस्य श्रीमदिन्दिरारमणस्य चरणयोर्विकस्वर प्रसूनाञ्जलितयाऽहमर्पये । अत्र च शास्त्रदौर्गभ्याट्टग्दोषाद्वा यत्किंचिदसमञ्जसमापतेत्तदा तत्संशोध्य परिपूरयन्तु निर्मत्सरा दयालवो विद्वांसः इति प्रार्थयेऽहम् । महामहोपाध्यायो भट्ट-भीमाचार्यः । द्वितीयावृत्तौ विद्यावृद्धिप्रशंसा । इह किलानादिसिद्धाव्याहतपरिवर्तनशालिनि कालचक्रे कियन्तं समयं नानाविध सहृदयनृपतिप्रदत्तहस्तावलम्बतयोत्तरोत्तरमधिकाधिकप्रोछुसनेन प रिपूर्ण वृद्धिसुखमनुभूय पुनस्तादृशसहृदयवसुधाधिपतिविलयवशेन क्वचिदप्या - लम्बनमपश्यन्ती कतिचिद्दिनानि निरुत्साहतया केवलं प्रियमाणप्राणा विद्याविलासिनी यावत्पतत्प्रकर्षदशामनुभवन्ती लज्जावनतमुखी कालं यापयति तावन्निरुपधिकरुणाशालिचक्रवर्लाङ्गभूपालप्रदत्तकरावलम्बना किं- चिदुन्नमय्य वदनमितस्ततो दृशं संचारयन्ती तन्निवेशिता अनेकविधा 'अधिजिगांसुसुमल्यन्तेवासिनिवहालंकृताः पाठशाला ददर्श । तत्र चानेक- विधश्रुतिस्मृतीतिहासपुराणव्याकरणन्यायतर्कमीमांसासाहित्य शिल्पाद्यनेकविध 'शास्त्राध्यय नाध्यापन परिपाटीपर्यालोचनयाऽवश्यंभाविनमात्मोदयं निर्वर्ण्य ता- स्वेवानवरतं क्रीडासुखमनुबभूव । ततश्च साऽतिदुरवगाहनानाविधनिबन्धा- म्बुधिविलोडनं न पदपदार्थपरिज्ञानरूपतरणिसाधनमन्तरा संपद्येतेत्यनुविचिन्त्य तत्संपादनायोहापोहकुशलमतीन्विदुषः प्रैरिरत् । तया प्रेरिताश्च ते यतमानाः सन्तोऽखिलशब्द-शब्दार्थपरिज्ञानसाधनीभूतव्याकरणन्यायादिशास्त्रेषु सुख- प्रवेशाय समासव्याससहितान्विविधान्निबन्धानकोशांश्च रचयांचक्रुः इति । विद्याव्यसनतत्परो महामहोपाध्यायो - भीमाचार्यः । अथ ग्रन्थकृदुद्देशो नाम प्रथम उपोद्धातः । प्राचीनार्वाचीनन्याय तर्कग्रन्थालोडनाकलनाभ्यां प्रसिद्धतादृशग्रन्थकृता- मित्थं पूर्वापरीभावक्रमं प्रतीमः – ( १ ) पूर्व महर्षिगौतम आसीत् ( २ ) ततो महर्षिः कणादः ( ३ ) ततो महर्षिर्वात्स्यायन: ( ४ ) ततः प्रशस्त - पादाचार्य: ( ५ ) तत उद्योतकराचार्यः ( ६ ) ततो वाचस्पतिमिश्रः ( ७ ) ततः शिवादित्यमिश्र : ( व्योमशिवाचार्यः ) ( ८ ) तत उदयना- चार्य: (९) ततः श्रीधराचार्य: (१०) ततो वल्लभाचार्य: (११) ततो गङ्गेशोपाध्यायः (१२) ततो वर्धमानोपाध्यायः (१३) ततो वासुदेवभट्टाचार्यसार्वभौमः ( १४ ) जयदेवमिश्रश्च ( पक्षधरमिश्रः ) ( १५ ) ततो रघुनाथतार्किक शिरोमणिः ( १६ ) ततो मथुरानाथतर्क- वागीशः ( १७ ) ततः कणादापरनामा रघुदेवः ( १८ ) ततः शंकर- मिश्रः ( १९ ) ततः प्रगल्भः (२०) ततो भवानन्दः (२१) ततो जगदीश: ( २२ ) ततो गदाधरचक्रवर्ती ( २३ ) भगीरथठकुरव ( २४ ) ततो रुचिदत्तः ( भक्तुनामा ) (२५) ततः केशव मिश्रः (२६) ततो वरदराजः ( २७ ) ततः पद्मनाभः (२८) ततो जानकीनाथ : ( २९ ) ततो रामभद्रः ( ३० ) विश्वनाथन्यायपञ्चाननश्च ( ३१ ) ततो रुद्र भट्टाचार्यः ( ३२ ) अन्नंभट्टच इत्यलं विस्तरेण । अथ ग्रन्थकृञ्चरितं नाम द्वितीय उपोद्वातः । - इदानीं ग्रन्थकाराणां क्रमेण जन्मस्थितिकालचरितं निरूप्यते - तत्र (१) महर्षिगौतम आत्रेयः । स च न्यायदर्शनस्य कर्ता । न्यायदर्श- - १ अत्र प्रसङ्गतः षड्दर्शनानां सूत्राणां क्रमः सर्वग्रन्था कलनात्कथ्यते – 'पूर्व बादरा- यणीयं ब्रह्ममीमांसादर्शनं संबभूव ततो जैमिनीयं धर्ममीमांसादर्शनम् ततो गौतमं न्यायदर्शनम् ततः काणादं वैशेषिकदर्शनम् ततः कापिलं सांख्यदर्शनम् ततः पातञ्जलं योगदर्शनम्' इति क्रमं वयं प्रतीमः । केचित्तु - षण्णां सूत्रकाराणां समान- ग्रन्थकच्चरितं नाम द्वितीय उपोद्वातः । नस्य त्वध्यायपञ्चकम् । प्रत्यध्यायमाह्निकद्वयम् । पञ्चाध्याय्याः सूत्राणां संख्या च सप्तत्रिंशदधिकपञ्चशतानि ( ५३७ ) इति । एनं महर्षिगौतमं गोतमनामानं केचन मन्यन्ते । अन्ये तु – 'नैयायिकः अक्षपादः अक्षचरणः प्रशस्त - पादः प्रशस्तचरणश्च' इति महर्षेर्गौतमस्यैव नामभिदाः सन्ति इति मन्यन्ते । ( २ ) महर्षि कणादः कश्यपगोत्रजः 'उलूकः' इति 'औलूक्य: ' इति चाख्यायते । मिथिलादेशे तस्य निवासस्थानम् । योगाचारविभूया कालिकत्वमेव' इत्याहुः । चन्द्रकान्ततर्कालंकारस्तु – 'सांख्यदर्शनाविष्कर्तुः कपिलस्यैव ( नास्तिककपिलस्य ) दर्शनकारेषु प्राचीनतमत्वम् आदिपतञ्जलेस्तत्परजत्वम् आत्रे- यस्य काशकृत्स्नेश्च ततोऽवरजत्वम् कणभक्षाक्षचरणपाराशर्यजैमिनीनां ततोऽप्यर्वाचीन त्वम्' इत्याह । तदुभयकथनमतीवाविचारतरम् । ननु 'वेदान्तसूत्रादौ " एतेन योगः प्रत्युक्तः" इत्यादिना योगमतखण्डनदर्शनात् योगसूत्रानन्तरमेव वेदान्तसूत्रम् उपनि- षदादौ सांख्यकपिलमतप्रतिपादनात् सांख्यसूत्रानन्तरमेवोपनिषदाद्युत्पत्तिश्च' इति चेन्न । न ह्युपनिषदादौ प्रसिद्धाः कपिलवादरायणजैमिन्यादय आधुनिकषदसूत्र कर्तारो भवितुमर्हन्ति । "एतेन योगः प्रत्युक्तः" इत्यादिसूत्राणि तु अनादिसिद्धयोगसांख्यबौद्ध- चार्वाकादिमतखण्डनपराण्येव न त्वर्वाचीनसांख्ययोगादिसूत्र-बौद्धचार्वाकादिप्रणीतग्रन्थ- खण्डनपराणि इति । एतच्च 'सांख्य' 'योग' 'दर्शन' इत्यादितत्तच्छन्दव्याख्यानेषु संक्षे- पतः प्रदर्शितमेवेत्यत्रैव विरम्यते । बौद्धः शाक्यः । शाक्यमतं तु ख्रिस्तमतात्पूर्व (५८८) वर्षेऽभूत् । शाक्यमुनेर्जन्मतः पूर्व वाल्मीकि रामायणलेखनम् । तत्र किष्किन्धाकाण्डे ( १८, ३०, ३१, ३२ ) मनुवचनोतिदर्शनात (८ । ३१६- ३१८) मनुस्मृतेस्तत्पू- वैकालिकत्वं गम्यते । मनुसंहिता तु ख्रिस्तजन्मतः पूर्वं ( ९ ) नवशताब्यामभवत् । न्यायवैशेषिकादिषट्सूत्रानन्तरं मनुसंहिताभवत् इत्याहुः । २ अयं च कणभक्षणेन तपश्चरणादुन्छेन वर्तनाच 'कणादः' इति प्रसिद्ध्यति । ३ अत्रेतियम् – तपस्विने कणादमुनये खयमीश्वर उलूकरूपधारी प्रत्यक्षीभूय पदार्थषकमुपदिदेश । तदनु स महर्षिर्लोकानुकम्पया वैशेषिकसूत्राणि चकार । तेन तदर्शनस्य 'औलूक्यदर्शनम्' इति नामान्तरम् । अत्र केचिद्वदन्ति – 'सोऽयं मुनि- महाभारते भीष्मस्तवराजे उलूकनाम्न उल्लेखान्महाभारतादपि पूर्वकालिकः । किं च–"न वयं षद्रपदार्थवादिनो वैशेषिकादिवत्" इति सांख्यसूत्रादप्यतिप्राचीनः । एवम् - "महद्दीर्धवद्धा हवपरिमण्डलाभ्याम्" इति ब्रह्मसूत्रपर्यालोचनया वेदान्तदर्शना- दप्येतद्दर्शन ( वैशेषिकदर्शनम् ) प्राचीनम् । 'शब्दानामुत्पत्तिविनाशवत्त्वम्' इति का - णाद न्यायर्शनतिद्धान्तः । स च "कर्मैके तत्र दर्शनात्" इत्यादिसूत्रैरुद्धुल महता यत्नेन जैमिनिना खण्डितः इति मीमांसातोऽपि प्राचीनत्वम् । रावणेनापि भाष्यमस्य दर्शनस्योपरि रचितमिति रत्नप्रभादौ दर्शितम् इति लङ्कापुरीस्थरावणादपि प्राचीनत्वम्। ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः । महेश्वरनियोगप्रसादावधिगम्य वैशेषिकदर्शनं प्रणिनाय । वैशेषिकदर्शने चा- ध्यायदशकम् । प्रत्यध्यायमाह्निकद्वयम् । वैशेषिकदर्शनस्य सूत्राणि तु सप्त- त्यधिकानि त्रीणि शतानि ( ३७०) इति । ( ३ ) वात्स्यायनः परमर्षिर्न्यायसूत्राणां भाष्यमकरोत् । ( ४ ) प्रशस्तपादाचार्यश्च वैशेषिकसूत्राणां भाष्यमकरोत् । अस्य (प्र- किं च - - वैशेषिके दर्शनेऽनुमानस्य संक्षेपतो वर्णनात् हेत्वाभासस्य त्रैविध्यकथ- नावेति 'पूर्व कणादेन पूर्वोक्तविषयस्य रीतिः समुद्भाविता । ततोऽनन्तरमक्षपादेन विस्तारिता सम्यनिबद्धा च । समानतन्त्रे वैशेषिके प्रतितन्त्र सिद्धान्तसिद्धं नैयायिक मनस इन्द्रियत्वम्' इति वैशेषिकदर्शनस्य न्यायदर्शनादपि प्राचीनत्वमप्यवगम्यते इति । तदेतत्केषांचित्प्रकल्पनं चादूरदर्शित्वेन 'कहां रामराज, कहां पोतराज' इति प्राकृतन्या- यसमाकलितम् इत्यतो वयं सकलसूत्रशास्त्रतात्पर्याकलनादित्यं प्रतीमः- महाभारतप्रति- पादित उलूकर्षिरस्मादुलूकनाम्नः कणादाद्भिन्न एव । 'महद्दीर्घवद्वा' इत्यादिब्रह्मसूत्राणां तु अनादिसिद्धवैशेषिकमतखण्डनपरत्वमेव न त्वर्वाचीनकणादर्षित्रणीतसूत्रार्थखण्डनपरत्वम्। एवमेव जैमिनिमीमांसादर्शनस्यापि तात्पर्यमुन्नेयम् । रावणस्तु कश्चनार्वाचीन ब्राह्मण एव न तु श्रीरामद्वेष्टा रामायणप्रतिपाद्यः पौलस्त्यः इति । न केवलं हेत्वाभासत्रैविध्यरूपसं- क्षेपकथनेनैव न्यायदर्शनात्प्राचीनत्वं कणाददर्शनस्य संभवति । यतो विपरीतमपि वक्तुं शक्येत । तथा हि — 'न्यायदर्शने हेत्वाभासानां पञ्चत्वं प्रथमतः प्रतिपादितम् तदनन्तरं कणादेन पञ्चत्वं परित्यज्य हेत्वाभासस्य युक्त्या संक्षेपतो वा त्रैविध्यं प्रतिपादितम्' इत्यपि वक्तुं शक्यते इति । तस्मात् 'ब्रह्मसूत्रम् जैमिनिमीमांसासूत्रम् न्यायसूत्रम् वैशेषिक सूत्रम् सांख्यसूत्रम् योगसूत्रम्' इत्येवं क्रमेण सूत्राणि संबभूवुः इति ममाभिमतिः। ४ 'दर्शनान्तरकारैरनङ्गीकृतस्य 'विशेष' पदार्थस्याङ्गीकारादस्य वैशेषिकतया प्रसिद्धिः इति केचिदन्ति । वस्तुतस्तु — "द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः" इति । - ५ भाष्यलक्षणं च "सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिभिः । खपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः" इति । ६ केचित्तु - बौधायनसूत्रे प्रवराध्याये आशिरसगणान्तःपातिशारद्वतगणे पठितः 'प्रशस्तः' इत्येनममन्यन्त । अन्ये तु – 'प्रवररत्न' ग्रन्थे आङ्गिरसगणे गौतमवर्गे पठितः 'प्रशस्तः' इति प्रशस्तनामानमेनं मेनिरे । ७ अत्र – 'वैशेषिकसूत्राणां भारद्वाजवृत्तिर्गङ्गाधरकविरत्नकविराजकृताऽस्ति' इति श्रूयते । अन्ये तु—– भारद्वाजनाम्नोयोतकराचार्येणेयं वृत्तिः कृता इत्याहुः । अन्येतु-- 'उद्योतकराचार्यस्यैव 'भारद्वाज' इति नाम तेन कृता वृत्तिर्भारद्वाजवृत्तिः' इति मन्यन्ते । 4 न्या. को. ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः । शस्तपादाचार्यस्य ) 'प्रशस्तदेव: प्रशस्तचरणः' इति नामान्तरे । गौतम- वात्स्यायनयोरिव समानतन्त्रत्वेन कणादप्रशस्तपादयोरपि परमर्षित्वम् क पिल-पञ्चशिखाचार्ययोरिवाचार्यत्वं च उदयनाचार्य-कन्दलीकार- शंकर मिश्रा- दयः स्वीचक्रुः इति । - ( ५ ) उद्योतकराचार्यो न्यायसूत्राणां वार्तिकमकरोत् । अयं च इतो वर्षाणां द्वादशशत्याः ( १२०० ) पूर्वमासीत् । 'अयं च भारद्वाजगोत्रज : ' इति केचिदाहुः । तत्र मया संदिह्यते 'अयं च इतो द्वादशशत्याः पूर्व कदासीत्' इति मया न ज्ञायते च इति । ( ६ ) वाचस्पतिमिश्रंश्च न्यायवार्तिक ग्रन्थस्य व्याख्यानं A न्यायवार्ति- कतात्पर्यम्, B न्यायकणिकाम्, C परिशिष्टव्याख्यानं चाकरोत् इति । .. ( ७ ) शिवादित्य मिश्रश्च 'न्यायाचार्यः' इति स्तूयते । अयं च 'व्योम- शिवाचार्यः' इति केचिद्वदन्ति । शिवादित्य मिश्रस्तु 'सप्तपदार्थी' नामानं प्र- न्थमकरोत् इति । ( ८ ) उदयनाचार्यश्च विक्रमीय ( ८४५ ) वर्षादुत्तरं (१०४८ ) व- ८ वार्तिकलक्षणं च – "उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः" ( पराशरपुरा० अ० १८ ) इति । ९ 'अयं वाचस्पतिमिश्रः तत्त्वचिन्तामणिप्रकाशकृतो वाचस्पतिमिश्रादय एव' इति केचित्पण्डिता आहुः । अयं वाचस्पति मिश्रः 'शंकरभारतीकृतशारीरकमीमांसाख्यभा- व्यस्य भामत्याख्यव्याख्याकार एव' इति बहवो मन्यन्ते । अन्ये तु - 'अयं वाचस्पतिस्तु भामतीकारादन्य एव भामतीकारश्चान्यः कञ्चन वेदान्तशास्त्रज्ञ आसीत्' इत्याहुः । १० 'इदं परिशिष्टं तु उदयनाचार्यकृतम्' इति केचिद्वदन्ति । अन्ये तु - इदं परि- शिष्टं 'न्यायकलिकापरिशिष्टमेव' इत्यमन्यन्त । ११ व्योमशिवाचार्यस्तु प्रशस्तपादकृतभाष्यस्य टीकारूपं व्योमवती - नामानं ग्रन्थं कृतवान् । १२ 'उदयनाचार्येण सह जैनानां विवादः समजान । अवशिष्टनास्तिकानां मूलोच्छेद - श्श्रोदयनेन कृतः' इति जैनग्रन्थाकलनादवगम्यते । उदयनाचार्यः श्रीहर्षपितुः श्रीहीरस्य समानकालिकः । 'श्रीहर्षस्तु (शके ८८९ ) वर्षे आसीत्' इति नैपघटीकयाऽवगम्यते । केचित्तु -'खण्डनग्रन्थेन च श्रीहर्षात्पूर्व एवोदयन इत्यवगम्यते' इत्याहुः । यस्तु रत्नाव- - ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः । र्षापूर्व मिथिलादेशे न्यवसत् । केचित्तु – 'अभिनवोदयनाचार्यो दक्षिण- देशे वङ्गदेशे वा जातः' इत्याहुः । उदयनाचार्यो न्यायाचार्यत्वेन प्रसिद्धः A. न्यायवार्तिकतात्पर्यस्य टीकारूपं न्यायवार्तिकतात्पर्य परिशुद्धिनामानं ग्रन्थम् B न्यायपरिशिष्टम् C प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं किरणावलीनामानं ग्रन्थम् D आत्मतत्त्वविवेकम् ( बौद्धाधिकारम् ), E न्यायकुसुमाञ्जलिं च कृतवान् इति । वर्षे ( ९ ) श्रीधराचार्यश्च विक्रमाब्दे ( १०४८ ) तथा ( शके ९१३ ) प्रशस्तपादाचार्यकृतभाष्यस्य व्याख्यानरूपं न्यायकन्दलीनामानं ग्रन्थं कृतवान् इति । श्रीधराचार्यस्य पिता बलदेवः । माता तु अव्बोका । नि- वासस्तु गौडदेशापरपर्यायवङ्गदेशान्तर्गते गङ्गायाः पश्चिमे तटे 'राढ ' देशे भूरिश्रेष्ठिक इति प्रसिद्धे भूरिसृष्टिग्रामे 'राढापुरी' इत्यस्मिन् । ( १० ) महामहोपाध्यायो वल्लभाचार्यश्च न्यायलीलावतीनामानं ग्रन्थं कृतवान् इति । ( ११ ) गङ्गेशोपाध्यायश्च इतः सप्तशत्याः पूर्व (शके ११०० ) ए- कादशशतके बङ्गदेशे आसीत् । केचित्त – ( शके १०३० ) एतस्माद्- र्षापूर्वमासीत्' इत्यङ्गीचक्रुः । गङ्गेशोपाध्यायस्तु सकलन्यायतर्कग्रन्थेभ्यः सा- रमुद्धृत्य तत्त्वचिन्तामणि - नामानं नव्यपरिष्कारपरिष्कृतमुत्तमं ग्रन्थं विर- चितवान् इति । ( १२ ) वर्धमनोपाध्यायश्च गङ्गेशोपाध्यायपुत्रः मिथिलादेशे दरभंगा- ल्यादौ श्रीहर्षो वत्सराज उदयनश्च प्रतिपादितः सोऽन्य एव इति । अन्ये तु – 'श्रीहर्षा- त्पूर्व एव वाचस्पतिमिश्रः इति शंकर मिश्रग्रन्थादवगम्यते । अतो वाचस्पतिमिश्रात्पूर्व- मेवोदयनाचार्य आसीत्' इत्याहुः । परे तु – 'वाचस्पति मिश्रादनन्तरकालिक एवोदयना- चार्यः इति तात्पर्यपरिशुद्धिग्रन्थेनात्मतत्त्वविवेकेन चावगम्यते' इति प्राहुः । १३ अत्रेदमनुमापकम् - लक्ष्मणसेननामा नृपतिर्वङ्गदेशे बभूव यस्य सभापण्डितो हलायुधभट्ट आसीत् । तस्य राज्ञः प्रवृत्तिः ( शालि० शके १०३० ) वर्षे प्रादुरासीत् । तथाच 'ततोsपि पूर्व गङ्गेशोपाध्याय आसीत्' इति निश्चीयते । १४ गणरत्नमहोदधिकारो गोविन्दसूरिशिष्यो वर्धमानस्तु जैन एव इत्यस्माद्वर्धमानो- पाध्यायादन्यः इति ज्ञेयम् । गणरत्नमहोदधिर्विक्रमशकवर्षेषु ( ११९७ ) अतीतेषु विरचितः इति । ग्रन्थकूचरितं नाम द्वितीय उपोद्धातः । मण्डलान्तर्गते 'करिजन' ग्रामे जातः उदयनाचार्यकृतायाः किरणावल्या व्याख्यानरूपं किरणावली प्रकाशनामानं ग्रन्थं न्यायलीलावत्या व्याख्यानरूपं न्यायलीलावती प्रकाशनामानं ग्रन्थं उदयनकृतन्यायपरिशिष्टस्य प्रकाशं गौ- तमसूत्रस्य तत्त्वचिन्तामण्यादीनां व्याख्यानं च कृतवान् इति । ( १३) महामहोपाध्याय-न्यायपञ्चानन-वासुदेवभट्टाचार्यसार्वभौमश्च त- त्वचिन्तामणेर्व्याख्यानं कृतवान् । वासुदेवसार्वभौमस्य चत्वारः शिष्या आ- सन्- गौराङ्गदेवः रघुनाथ: रघुनन्दनः कृष्णानन्दश्चेति । तत्र ( १ ) गौराङ्गस्तु ' भगवतो विष्णोरवतारः ( शचीनन्दनः ) ' इति केचिदाहुः । अन्ये तु – 'विरक्तो भगवद्भक्त:' इत्याहुः । ( २ ) रघुनाथतार्किक शिरो- मणिश्च दीधितिकारो नैयायिक: । ( ३ ) रघुनन्दनभट्टाचार्यश्च धर्मशास्त्री । ( ४ ) कृष्णानन्दवागीशश्च मन्त्रशास्त्री जातः इति । एते च चत्वारस्तत्त- च्छास्त्रेषु निबन्धांश्चक्रुः इति किंवदन्ती । - ( १४ ) जयदेवमिश्रः ( पक्षधर मिश्रः ) हरि मिश्र शिष्यो वासुदेवसार्व- भौमस्य सहाध्यायी तत्त्वचिन्तामणेर्व्याख्यानमालोकनामानं ग्रन्थं चकार इति । ( १५) रघुनाथभट्टाचार्यतार्किकशिरोमणिश्च वासुदेव सार्वभौमशिष्यो वङ्गदेशे नवद्वीपग्रामे नद्याशान्तिपुरे ( भाषया 'नडिया' इति प्रसिद्धे ). जातः । स च ( रघुनाथतार्किक शिरोमणिः ) A तत्त्वचिन्तामणेर्व्याख्यानं दीधितिनामानं B बौद्धाधिकारापरपर्यायस्यात्मतत्त्वविवेकस्य व्याख्यानं दीधि- तिनामानं C किरणावल्या न्यायलीलावत्याश्च प्रकाशस्य ( वर्धमानकृतस्य ) व्याख्यानं द्रव्यप्रकाश विवृति गुणप्रकाश विवृति ( विषमपदटिप्पनीं ) दीधि - तिनामानं D पदार्थतत्त्वनिरूपणं नाम ( पदार्थखण्डनम् ) E आख्या- तवाद (आख्यात विवेकम् ) च ग्रन्थं चकार इति । - १५ गौराङ्गो नाम राजाऽस्ति । स च शालिवाहन शके (१४०७) वर्षे आविरासीत् । १६ मनुस्मृतिव्याख्यानकर्ता च राघवानन्दः अयं तु रघुनन्दनः इति तयोर्भेदः । १७ अत्रैतिह्यम् – 'सार्वभौमे चाध्ययन निवृत्त्या स्वदेशं गते तच्छिष्ये रघुनाथ शिरोम- ●णावपि पक्षधर मिश्राच्चाध्येतुं समायाते कदाचित् सामान्यलक्षणायाः प्रत्यासत्त्याः खण्डने च कृते सति पक्षधरमिश्रः शिष्यत्वमापन्नं रघुनाथं प्रति प्रोवाच – "वक्षोजपानकृत्काण संशये जाग्रति स्फुटे । सामान्यलक्षणा कस्मादकस्मादपलप्यते" इति । ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः । ( १६ ) मथुरानाथतर्कवागीश-भट्टाचार्यश्च रामतर्कालंकारात्मजः वङ्ग- देशीयो रघुनाथतार्किकशिरोमणेः शिष्यः आत्मतत्त्व विवेक-तत्त्वचिन्तामणि- प्रभृतिमूलग्रन्थानां रघुनाथाख्य स्वगुरुकृतानां च सर्वेषां ग्रन्थानां व्याख्या- नम् ( गुणप्रकाश विवृतिरहस्यादि ) कृतवान् इति । (१७) रघुदेवन्यायालंकारः ( कणादापरनामा) मथुरानाथस्य शिष्यो वङ्गदेशीयः । स च दीधितेरवयवग्रन्थस्य च व्याख्यां रघुनाथशिरोमणिकृत- पदार्थतत्त्वनिरूपणस्य टीकां (पदार्थतत्त्वविवेचनटीकाम् ) ईश्वरवादम् आकाङ्क्षावाद भाषारतं च कृतवान् इति । ( १८ ) म० म० शंकरमिश्रश्च रघुदेवशिष्यो भवनाथात्मजः A कणा- दरहस्यैनामानं B वैशेषिकसूत्रोपस्कारं C न्यायलीलावतीदीधितेर्व्याख्यानं न्यायलीलावतीकण्ठाभरणं D बौद्धाधिकारस्य ( आत्मतत्त्वविवेकस्य) व्या- ख्यानं कल्पलतानामानं च ग्रन्थं रचयामास इति । ( १९) प्रगल्मैश्च खण्डनोद्धौराख्यग्रन्थमकरोत् इति । PROPIN ( २० ) भवानन्दनामा महामहोपाध्याय-न्यायपञ्चानन-न्यायसिद्धान्त- तर्कवागीश - भट्टाचार्यश्च A तत्त्वचिन्तामणेर्व्याख्यानं B दीधितेर्व्याख्यानं C शब्दार्थमञ्जरीं, D कारकवादं च कृतवान्, इति । ( २१) म० म० न्यायवाचस्पति-जगदीशतर्कालंकार भट्टाचार्यश्च भवा- नन्दशिष्य: A प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं भाष्यसूक्तिनामानम् B शब्दशक्तिप्रकाशिकाम् C तर्काम्मृतम् D दीधितेष्टीकां रहस्यनाम्नीं च चकार इति । ( २२ ) म० म० गदाधरमिश्रो भट्टाचार्यचक्रवर्ती च जगदीशस्य रत्न- कोशक्कृतो हरिरामतर्कालंकार भट्टाचार्यस्य च शिष्य: A तत्त्वचिन्तामणि- १८ स च ग्रन्थो भाष्याभिप्रायबोधको वार्तिकलक्षणाकान्तः इति ज्ञेयम् । १९ 'रघुनाथतार्किकशिरोमणिना दीधितिग्रन्थे पूर्वपक्षीयव्याप्तिवादे प्रगल्भकृतग्रन्थ उदाहृतः' इति 'कश्चन प्रगल्भो दीधितिकारात्पूर्वकालिक एव आसीत्' इति विज्ञायते । २० अस्यैकं पुस्तकं ( शाके १४३६ ) वर्षे लिखितं वाराणस्यामुपलभ्यते । ग्रन्थकूचरितं नाम द्वितीय उपोद्वातः । व्याख्यान दीघितेष्टीकां संगतिनाम्नीं लक्षसंख्यकाम् B बौद्धाधिकारव्याख्याम्, C दीघितेश्च व्याख्यां गदाधरीम् D द्विपञ्चाशत्संख्यकान् (५२) वादार्थश्च चकार इति । ( २३ ) अथ भगीरथठकुरो मेघठक्कुरापरनामा मैथिल: पक्षधर- मिश्राणां शिष्यः जयदेवपण्डितकवेवशाब्दे जातः । भगीरथठकुरस्य महा- देवाख्यः थेघठकुरापरनामा सोदर आसीत् । भगीरथठक्कुरो वर्धमानो- पाध्यायकृतानां प्रकाशग्रन्थानाम् ( किरणावलीप्रकाशादीनाम् ) व्याख्यान - रूपान् द्रव्यप्रकाशिका-गुणप्रकाशिकादिनाम्नो ग्रन्थान् ( कुसुमाञ्जलिप्रका- शप्रकाशिकान्यायलीलावतीप्रकाशप्रकाशिकादीन् ) चकार इति । ( २४ ) रुचिदैत्तः ( भाक्तनामा ) पक्षधर मिश्राणां शिष्य: A तत्त्व- चिन्तामणेर्व्याख्यानरूपं प्रकाशनामानं B कुसुमाञ्जलिप्रकाशस्य वर्धमान- कृतस्य व्याख्यानरूपं मकरन्दनामानं च ग्रन्थं चकार इति । - ( २५ ) अथ - केशवमिश्रश्च न्यायसूत्रानुसारिणं तर्कभाषानामानं ग्रन्थं विरचितवान् इति । - ( २६ ) अथ – वरदराजश्च न्यायसूत्रानुसारिणं तार्किकरक्षानामानं श्लोक - ( १६१ ) निबद्धं ग्रन्थं विरचितवान् इति । ( २७ ) अथ – पद्मनाभमिश्रस्तु बलभद्र मिश्रात्मजो विजयश्रीगर्भजो ( विश्वनाथगोवर्धन मिश्रबन्धुः ? ) A तत्त्वचिन्तामणेर्व्याख्यानरूपं चिन्ता- मणिपरीक्षानामानं B राद्धान्तमुक्ताहारं ( अस्य व्याख्यानं कणादरहस्यम् ?) C किरणावल्या द्वितीयं व्याख्यानं किरणावलीभास्करनामानं च ग्रन्थं चकार इति । ( २८ ) अथ - म० म० जानकीनाथो भट्टाचार्यचूडामणिर्न्यायसिद्धा- •न्तमञ्जरीनामानं ग्रन्थं चकार इति । ( २९ ) रामभद्रो जानकीनाथभट्टाचार्यचूडामणेः पुत्रः न्यायसूत्रटीकां न्यायरहस्यनामानं ग्रन्थं चकार इति । ( ३० ) अथ – विश्वनाथ न्यायपञ्चाननश्च विद्यानिवासभट्टाचार्यात्मजो २१ केचित्तु रुचिदत्त-प्रगल्भ- रघुनाथानां द्वित्वेन विभिन्नत्वममन्यन्त । ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । वङ्गदेशीयः । अयं च A भाषापरिच्छेदनामानं B तट्टीकां न्याय सिद्धान्त- मुक्तावलीनामानं ग्रन्थं C न्यायसूत्रवृत्तिं च चकार इति । ( ३१ ) रुद्रभेट्टाचार्यो विश्वनाथन्यायपञ्चाननसहोदर: A गुणप्रकाश- विवृतेर्भावप्रकाशिकाम् B रौद्रीनाम्नीं दीघितेर्व्याख्यां च कृतवान् । अनेन मथुरानाथतर्कवागीशवत् बहवो ग्रन्था व्याख्याताः इति । ( ३२ ) अथ - अनंभट्टश्च कर्णाटकदेशीयः ( तैलङ्गदेशीयो वा ? ) । सच काश्योमैधीत्य A प्रशस्तपादकृत - वैशेषिकसूत्रभाष्यस्थग्रन्थान् संक्षे- पतो गृहीत्वा तर्कसंग्रहनामानं ग्रन्थं B तर्कसंग्रहस्य टीकारूपं तत्त्वचि न्तामणेः रघुनाथतार्किकशिरोमणिकृतदीधितिग्रन्थाच्च सारमुद्धृत्य तर्कदीपि- कानामानं च ग्रन्थं रचयामास इति संक्षेपः । अथ ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः ( न्यायवैशेषिकग्रन्थानामुत्पत्तिसंख्यानम् ) ग्रन्थः १ ( १ ) न्यायसूत्रम् ( १ ) - गौतमर्षिः । २ ( २ ) न्यायसूत्रस्य भाष्यम् – वात्स्यायनः । ३ ( ३ ) न्यायवार्तिकम् – उद्योतकराचार्यः । - ४ ( ४ ) न्यायवार्तिकतात्पर्यम् – वाचस्पतिमिश्रः । ५ ( ५ ) न्यायवार्तिकतात्पर्यपरिशुद्धिः - उदयनाचार्यः । ६ ( ६ ) न्यायसूत्रवृत्तिः - विश्वनाथपञ्चाननः । --- ( ७ ) न्यायसूत्रटीका ( न्यायरहस्यम्) - रामभद्रः । ८ ( १ ) षोडशपदार्थी - गणेशदासः । - कर्ता ९ ( २ ) टिप्पनम् - वासुदेव सार्वभौमभट्टाचार्यः । P २२ रामेश्वरभट्टाचार्यात्मजो रुद्रभट्टाचार्यस्त्वन्य एव । तेन च 'रौद्री' इत्याख्या न्याय- सिद्धान्तमुक्तावल्या व्याख्या कृता । २३ अत्रानंभप्रशंसाकिंवदन्ती –"काशीगमनमात्रेण नान्नंभट्टायते द्विजः" इति । ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । १० ( ३ ) पदार्थतत्त्वनिरूपणम् ( पदार्थखण्डनम् ) – रघुनाथ भट्टा- चार्यतार्किकशिरोमणिः । ( ४ ) पदार्थतत्त्वनिरूपणटीका ( पदार्थतत्त्व विवेचनटीका ) – रघु- देवन्यायालंकारः । - १२ ( ५ ) तार्किकरक्षा - वरदराजः । तर्कभाषा – केशवमिश्रः । । १३ ( ६ ) - १४ ( १ ) वैशेषिकसूत्रम् ( २ ) महर्षिः कणादः । १५ ( २ ) भाष्यम् – प्रशस्तपादाचार्यः । १६ ( ३ ) भाष्यम् – चन्द्रकान्ततर्कालंकारः (शके १८००) १७ ( ४ ) भारद्वाजवृत्तिः (वैशेषिकसूत्रव्याख्या ) – गङ्गाधरकविरत्न - कविराजः । १८ (५) न्यायकन्दली – ( प्रशस्तभाष्यस्य टीका ) - श्रीधराचार्यः । १९ ( ६ ) किरणावली ( प्रशस्तभाष्यस्य टीका ) – उदयनाचार्यः । २० ( ७ ) व्योमवती ( प्रशस्तभाष्यस्य टीका ) - व्योमशिवाचार्यः । २१ (८) लीलावती (प्रशस्तभाष्यस्व टीका ) — श्रीवासाचार्यः । २२ ( ९ ) भाष्यसूक्तिः (प्रशस्तपादकृतभाष्यस्य व्याख्यानम् ) दीशभट्टाचार्यः । - जग- २३ ( १० ) भिक्षुवार्तिकम् (प्रशस्तभाष्यस्य व्याख्यानम् (?) ) — कर्ता नोपलभ्यते । 'पञ्चशिखाचार्यः कर्ता' इति केचिदाहुः । 'विज्ञानभिक्षुः कर्ता' इत्यन्ये आहुः । २४ ( १ ) किरणावलीप्रकाश: ( किरणावल्या व्याख्या ) - वर्धमानो- पाध्यायः । २५ (२) किरणावलीटिप्पनम् - रघुनाथतार्किक शिरोमणिः । - २६ ( ३ ) द्रव्यप्रकाशिका ( किरणावली प्रकाशस्य व्याख्यानम् ) - भगीरथठकुरः । ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । २७ ( १ ) गुणदीधितिः गुणप्रकाशविवृतिर्वा — रघुनाथतार्किकशिशे- मणिः । २८ ( २ ) गुणप्रकाशविवृतिरहस्यम् गुणदीधितिमाथुरी वा मधु- रानाथतर्कवागीशभट्टाचार्यः । २९ ( ३ ) गुणप्रकाश विवृतिभावप्रकाशिका गुणप्रकाश विवृतिपरीक्षा वा ( गुणप्रकाशविवृतेर्व्याख्यानम् ) – रुद्रभट्टाचार्यः । ३० ( ४ ) गुणप्रकाश विवृतेर्व्याख्यानम्— रामकृष्णः । ३१ ( ५ ) गुणप्रकाश विवृतेर्व्याख्यानम् -जयरामभट्टाचार्यः ।) ३२किरणावलीभास्करः (किरणावल्या द्वितीयं व्याख्यानेम्) - पद्मनाभमिश्रः ( बलभद्र मिश्रात्मजः ) 1 (9) 2 पञ्जिका ( न्यायकन्दल्याष्टीका ) — राजशेखरसूरिः। ॐ - सिद्धान्तमुक्ताहारः - पद्मनाभमिश्रः । कणादरहस्यम् 000 ~ m लक्षणमाला 1 सप्तपदार्थी (७) ) ३७ ( १ ) पदार्थचन्द्रिकायाष्टीका--नरसिंहः ।. ३९ ( २ ) 1. मितभाषिणी— मध्वसरस्वती ( कृष्णातीर निवासी ) । ४० ( ३ ) टीका–जिनवर्धनसूरिः ( संवत् १४७१ ) ४१ ( ४ ) लघुटीका- सिद्धचन्द्रगणिः । निष्कण्टका मलिनाथः । बौद्धाधिकारः (८) (बौद्धधिक्कारः आस्मतत्व विवेको वा ) - उदयनाचार्यः । बौद्धाधिकारव्याख्याः कथ्यन्ते - -शिवादित्य मिश्रः । सप्तपदार्थ्याष्टीकाः कथ्यन्ते- Str पदार्थचन्द्रिका — शेषानन्तः । 5 न्या. को. प्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । - ४४ ( १ ) दीधितिः - रघुनाथतार्किकशिरोमणिः । ४५ ( २ ) कल्पलता - शंकरमिश्रः ( भवनाथात्मजः ) । - ४६ (३) गदाधरी गादाघरी वा ४७ ( ४ ) व्याख्या -नारायणः । गदाधर भट्टाचार्यचक्रवर्ती । बौद्धाधिकारदीघितेर्व्याख्या - गदाधर भट्टाचार्यचक्रवर्ती । न्यायकुसुमाञ्जलिः –उदयनाचार्यः । न्यायकुसुमाञ्जलेष्टीकाः कथ्यन्ते - ५० ( १ ) प्रकाशः - वर्धमानोपाध्यायः । ५१ ( २ ) व्याख्या - परमहंसपरिव्राजकाचार्य : श्रीनारायणतीर्थः । - ५२ ( ३ ) व्याख्या – म. म. त्रिलोचनः । - ५३ ( ४ ) व्याख्या – म. म. गुणानन्दः । ५४ ( ५ ) व्याख्या — हरिदासभट्टाचार्यः । - ५५ ( १ ) मकरन्दः ( प्रकाशस्य व्याख्या ) – रुचिदत्तः । न्यायलीलावती ( १० ) –म. म. वल्लभाचार्यः । ५७ (१) न्यायलीलावतीप्रकाशः - वर्धमानोपाध्यायः । - ५८ (२) न्यायलीलावतीदीधितिः (विभूतिः ) - रघुनाथतार्किक शि रोमणिः । M - ५९ (३) न्यायलीलावती कण्ठाभरणम्- म. म. शंकरमिश्रः । ६० ( ४ ) न्यायलीलावतीप्रकाश विवेकः - म. म. मथुरानाथतर्कवा- गीशभट्टाचार्यः' तत्त्वचिन्तामणिः (११) — शोपाध्यायः । तत्त्वचिन्तामणेष्टीकाः कथ्यन्ते- - ६२ ( १ ) व्याख्या - वासुदेवसार्वभौमभट्टाचार्यः । ६३ ( २ ) आलोकः – पक्षधर मिश्रः । ६४ ( ३ ) दीधितिः- रघुनाथ भट्टाचार्यतार्किकशिरोमणिः । ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । ६५ ( ४ ) प्रकाशः - रुचिदत्तः ( पक्षधरमिश्र शिष्यः ) । ६६ ( ५ ) रहस्यम्- मथुरानाथतर्कवागीश: ( रामतर्कालंकारात्मजः ) ६७ ( ६ ) आलोकः -जयरामभट्टाचार्यः । ६८ (७) हनुमदीया - हनुमान् । ६९ ( ८ ) जागदीशी - जगदीशभट्टाचार्यः । ७० (९) व्याख्या — महेश्वरः । ७१ (१०) व्याख्या - रघुदेवभट्टाचार्यः । - ७२ (११) रश्मिचक्रम् – म. म. गोकुलनाथमैथिलः । ७३ (१२) मणिसारः - गोपीनाथः । ७४ (१३) चिन्तामणिपरीक्षा – पद्मनाभः ( बलभद्रात्मजः ) । - ७५ (१४) व्याख्या — भवानन्दः । ७६ (१५) दर्पणम् - रामानुजदीक्षितः । ७७ (१६) तर्कचूडामणिः - धर्मराजाध्वरी । आलोक (१४) स्य टीका: कथ्यन्ते ---- ७८ ( १ ) मथुरानाथी— मथुरानाथतर्क वागीशभट्टाचार्यः । १७९ ( २ ) गदाधारी - गदाधरभट्टाचार्यचक्रवर्ती । ८० ( ३ ) आलोकरहस्यम् – न्यायकुमुदिनीपतिर्गोपीनाथः । ८१ ( ४ ) आलोकविवेकः – गुणानन्दविद्यावागीशभट्टाचार्यः । ८२ ( ५ ) आलोकरहस्यम् – म. म. रघुपतिः । तत्त्वचिन्तामणिव्याख्यानस्य दीघितेः (१५) टीकाः कथ्यन्ते - ८३ ( १ ) मथुरानाथी - मथुरानाथतर्कवागीशः । ८४ ( २ ) भवानन्दी – म. म. भवानन्दो न्यायपञ्चाननन्यायसिद्धान्त- तर्कवागीशभट्टाचार्यः । ८५ ( ३ ) जागदीशी–न्यायवाचस्पतिर्जगदीश तर्कालंकारभट्टाचार्यः । ८६ ( ४ ) गदाधरी ( संगतिनाम्नी ) -- गदाधर भट्टाचार्यचक्रवर्ती । ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । ८७ ( ५ X दीधितिव्याख्या - न्यायवाचस्पतिभट्टाचार्य: (?) (विद्यानि- वाससूनुः ) । ८८ (६) व्याख्या - जयरामन्यायपञ्चानन तर्कालंकारभट्टाचार्यः । - ८९ (७) व्याख्या - काशीनाथः । - ९० (८) रौद्री – रुद्रभट्टाचार्यः । - ९९ (९) व्याख्या — महेशः । A ९२ (१०) विद्योतम् – म. म. गोकुलनाथः । ९३ (११) प्रवेश: – विश्वेश्वरपण्डितः पर्वतीयः । सर्वोपकारिणी प्रवेशो वा (भवानन्दी व्याख्या ) - महादेवो 1 मुकुन्द पण्डितात्मजः पुण्यस्तम्भनिवासी (पुणतांचे कर ) संगतिविवृतिः ( गदाधरीव्याख्या ) — आर्डे इत्युपनामकः कृष्णभट्टः ( काशीस्थ: ). )t 1 न्यायरत्नम्' ( गदाधरीटिप्पणम् ) - पर्वते इत्युपनामको रघुनाथशास्त्री SMILNE र्याणां शिष्यः । पुण्यप्रामस्थरामानुजमतानुयायिराघवाचा- तर्कामृत (२१) स्य टीकाः कथ्यन्ते- -गङ्गाराम जडी ( नारायणपुत्रः नीलकण्ठ- शिष्यः दिनकरपुत्र्याः पुत्रः ) ९७ (१) चषकः ९८ ( २ ) तर्कामृततरङ्गिणी - मुकुन्दः । ९९ ( ३ ) तमृतदर्पणम्- } तर्कभाषा (२५) टीकाः कथ्यन्ते- WIM १०० ( १ ) ॥ १०१ (२) टीका – माधवभट्टः । तर्कभाषाटीका — गोवर्धन मिश्रः ( केशव मिश्रशिष्यः बल - भद्र-विजयश्री–पुत्रः पद्मनाभ - विश्वनाथ-बन्धुः) - ग्रन्थोत्पत्तिनामा तृतीय उपोद्वातः । - १०२ ( ३ ) प्रकाशिका - चिन्नुभट्टः सहजसर्वज्ञपुत्रः ( स च विजय- नगरे हरिहरराज्यसमये आसीत् ) । १०३ ( ४ ) प्रकाशिका ( भावार्थदीपिका ) - म. म. गौरीकान्तभ चचार्यः । प्रकाशिका - म. म. कौण्डिन्यदीक्षितः । amalga १०४ (५ ) १०५ ( ६ ) प्रकाशिका म. म. बलभद्रः ( त्रिपाठी विष्णुदासतनुजः) १०६ ( ७ ) तर्कभाषाभावः — रोंबिलवेंकटबुद्धः (धः) । - १०७ (८) तर्कभाषाव्याख्या - मुरारिः (गङ्गाधरपुत्रः) । - १०८ (९) तर्कभाषावृत्तिः - सिद्धचन्द्रगणिः ( भानुचन्द्रगणिशिष्यः जैनः ) १०९ (१०) युक्तिमुक्तावली - नागेशभट्टः (?) । ११० (११) तर्कभाषाव्याख्या – माधवाचार्यः । तार्किकरक्षा(२६)याष्टीकाः कथ्यन्ते — - १११ ( १ ) सारसंग्रह:- - ११२ ( २ ) निष्कण्टका - मल्लिनाथः । ११३ (३) न्यायकौमुदीविनायकभट्टः । 17833 तार्किक रक्षाव्याख्या व्याख्यानम् - हरिहरः । न्यायसिद्धान्तमञ्जर्याः (२८) टीकाः कथ्यन्ते - ११५ ( १ ) तर्कप्रकाशः ( शितिकण्ठी ) – श्रीकण्ठदीक्षितः ( विश्वना- थात्मजः ) । १९६ ( २ ) व्याख्या — श्रीकृष्णन्यायवागीश भट्टाचार्यः । ११७ ( ३ ) न्यायरत्नावली- ११८ ( ४ ) न्यायमञ्जरीप्रकाशः - भास्करः ( लौगाक्षीत्युपनामकः मु गलात्मजः ) ११९ ( ५ ) न्यायसिद्धान्तमञ्जरीसारः – यादवः (नृसिंहात्मजः ) । - - ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः । न्यायसिद्धान्तमुक्तावल्याः (३०) टीके कथ्येते- १२० ( १ ) रौद्री - रुद्रभट्टाचार्यः ( रामेश्वरपुत्रः ) ( महादेवभट्टः १२१ ( २ ) प्रकाशः । दिनकरभट्टः एतदुभाभ्यां निर्मितः । । - प्रकाशस्य व्याख्या ( रामरुद्री ) रामरुद्रभट्टाचार्यः । तर्कसंग्रह (३२)स्य टीकाः कथ्यन्ते - १२३ ( १ ) न्यायबोधिनी– शुक्लरक्षनाथः । १२४ ( २ ) दीपिका–अन्नंभट्टः । १२५ ( ३ ) व्याख्या – मुरारिः । १२६ ( ४ ) सिद्धान्तचन्द्रोदयः श्रीकृष्णधूर्जटिदीक्षितः । १२७ ( ५ ) न्यायबोधिनी–गोवर्धनः । १२८ (६) टीका–क्षमाकल्याणः । १२९ ( ७ ) न्यायार्थलघुबोधिनी — गोवर्धनरङ्गाचार्यः । - १३० (८) टीका - गौरीकान्तः । - १३१ ( ९ ) पदकृत्यम् - चन्द्रजसिंहः । १३२ (१०) निरुक्तिः– जगन्नाथशास्त्री । १३३ (११) निरुक्ति: ( वाक्यार्थः ) – पट्टाभिरामः । १३४ (१२) चन्द्रिका – मुकुन्दः । मेरुशास्त्री गोडबोले । अयं मम १३५ (१३) वाक्यवृत्तिः (उपन्यासः) ( न्याय कोशकारस्य ) न्यायगुरोः पितृव्यः । १३६ (१४) तरङ्गिणी — विन्ध्येश्वरीप्रसादः । १३७ (१५) तर्कचन्द्रिका - वैद्यनाथ गाडगीळ इति । अथ प्रकीर्णकं नाम चतुर्थ उपोद्धातः । १३८ ( १ ) अनुमानलक्षणम् – लक्ष्मीदासः । १३९ ( २ ) अनुमितिमानसम्— हरिरामतर्कालंकारः ( गदाधरभट्टाचा- र्यगुरुः )। १४० ( ३ ) आकाङ्क्षावादः - रघुदेव भट्टाचार्यः । - १४१ ( ४ ) आख्यातवादः ( आख्यात विवेकः ) - रघुनाथतार्किकशि - रोमणिः । - ईश्वरवादः— रघुदेवभट्टाचार्यः । १४२ ( ५ ) १४३ ( ६ ) एवकारवादार्थः– हरिरामभट्टाचार्यः । १४४ (७) कारकवादः - जयरामभट्टाचार्यः । १४५ ( ८ ) कारकवादः - भवानन्दः । १४६ ( ९ ) क्रोडपत्राणि - शंकर मिश्रः, न्यायकोशकर्ता च । १४७ (१०) गुणरहस्यम् ० - १४८ (११) गुणरहस्य प्रकाशः - ० - ९४९ (१२) चित्ररूपवादार्थः - । विद्यानिवाससूनुर्न्यायवाचस्पतिभट्टा- - जगन्नाथदीक्षितः । चार्यः 1:1 १५० (१३) जगन्नाथदीक्षितीयम् १५१ (१४) जातिमाला - ० 10 १५२ (१५) तर्ककुतूहलम् – ( इसवी १८ शतकम् ) । J - १५३ (१६) तर्कचन्द्रिका – विश्वेश्वराश्रमः । १५४ (१७) तर्कपरिभाषा - ० 1110 विश्वेश्वरपण्डितः पर्वतीयलक्ष्मीधरसूनुः १५५ (१८) तर्कप्रदीपः - कोण्डभट्टः । १५६ (१९) नअर्थवादटीका -जयरामः । १५७ (२०) न्यायकलिका – जयन्तः । - १५८ (२९) न्यायकौस्तुभः – महादेव-पुणतांबेकरः । - प्रकीर्णकं नाम चतुर्थ उपोद्धातः । १५९ (२२) न्यायपारिजातः यल्लभट्टः । १६० (२३) न्यायमञ्जरी जयन्तभट्टः १६१ (२४) न्यायसारः -- ० १६२ (२५) न्यायसार विचार:- राघवभट्ट ( म. म. शारङ्गसुतः ) । १६३ (२६) न्यायसिद्धान्ततत्त्वम् – गोकुलनाथः । - १६४ (२७) न्यायसिद्धान्तमाला-जयरामभट्टाचार्य: । १६५ (२८) पदार्थदीपिका— कोण्डभट्टः ( रंगोजीभट्टपुत्रः ) १६६ (२९) पदार्थमालाप्रकाशः - लौगाक्षिभास्करः । १६७ (३०) पदार्थविवेकः-० १६८ (३१) पदार्थविवेकटीका– गोपीनाथ-मौनी । १६९ (३२) परामर्शविचारः - म. म. हरिरामतर्कालंकार भट्टाचार्यः । १७० (३३) प्रकाशतावादार्थः "" "" १७१ (३४) प्रतियोगिज्ञानकारणताविचारः – रघुदेवभट्टाचार्यः । १७२ (३५) बालबोधः -- म. म. गोविन्द पण्डितः । १७३ (३६) बाबबुद्धिवादार्थः - १७४ (३७) भावदीपिका - श्रीकृष्ण न्यायवागीशभट्टाचार्यः । - १७५ (३८) भाषारत्नम् - कणादापरनामा रघुदेवः । - - १७६ (३९) मितभाषिणी-० १७७ (४०) मुक्तिहारः - गदाधरः । १७८ (४१) रत्नकोशवादः । म. म. न्या. पञ्चा. हरिरामतर्कालंकार- रत्नकोशविचारः [भट्टाचार्य : ( गदाधर भट्टाचार्य गुरुः ) । १७९ (४२) लाघवगौरवरहस्यम् -- गोकुलनाथः । १८० (४३) वाक्यार्थभेदवादः— आपदेवसूनुः । १८१ (४४) विधिनिरूपणम् - रुद्रभट्टाचार्यः । १८२ (४५) विधिवादः - गदाधरभट्टाचार्यः । १८३ (४६) विशिष्टवैशिष्ट्यवादार्थः हरिरामभट्टाचार्यः ९८४ (४७) विषयतावादार्थः -० - - 1 प्रकीर्णकं नाम चतुर्थ उपोद्धातः । १८५ (४८) व्युत्पत्तिवादः) १८६ (४९) शक्तिवादः -गदाधर भट्टाचार्य चक्रवर्ती । १८७ (५०) शब्दार्थतर्कामृतम् — / श्रीकृष्ण भट्टः ( गोवर्धनात्मजः मौनिकुलोत्पन्नः ) । ९८८ (५१) शब्दार्थमञ्जरी – भवानन्दः । १८९ (५२) समासवादः- १९० (५३) सिद्धान्तदीपप्रभा ( शशधरीयस्य व्याख्या ) । न्यायकोशकर्ता - म. म. न्या. पञ्चा. वासुदेव भट्टाचार्य- सार्वभौमः । एवमन्येऽपि न्यायवैशेषिकशास्त्रीयाः केचन नाममात्र प्रसिद्धाः केचन संग्रहादौ वर्त- माना बहवो ग्रन्थाः सन्ति । तथापि विस्तरभयात्तेषां नामानि न संनिवेशितानि इत्ये- तैरेवालम् इति शम् ॥ 6 न्या. को. ग्रन्थसंख्या. अथर्व, भा० आपस्त • ३ ए० वा० ऐतरेय ० ५ काव्यप्र० ६ का० व्या० ७ कि० कु० V ग्रन्थप्रतीकः (ग्रन्थ- चिद्दम्) कु० व्या० कु० व्या० ता० ११ कृष्णं ● गण० ग० १४ ग० व्यु० ग० शक्ति० १६ गीता, भा० *१७ गौ० गौ * १८ ० वृ० १९ / चि० २० चि० प्र० s २१ छान्दो० जग० जैमि० येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो व्यरचि विषयः- (न्याय.) गोतममतानुसारी (वैशे.) कणादमतानुसारी (मिश्रम् ) उभयमत मिश्रम् जै० ८० न्या० एतच्चिह्नानामर्थः (ग्रन्थनाम) अथवभाष्यम् (प्रस्तावना ) आपस्तम्बमहर्षेधर्मसूत्रम् एवकारवादार्थः ।ऐतरेयोपनिषत् काव्यप्रकाशः कारकव्याख्यानम् (कारकवादः ) किरणावलिः ।न्यायकुसुमाञ्जलिः न्वायकुसुमाजलेव्याख्यानम् कुसुमाञ्जलेर्व्याख्यानय तात्पर्य विवरणम् गदाधरीव्याख्यानम् कृष्णभट्टी । गणरत्नमहोदधिः गदाधरी गदाधरीव्युत्पत्तिवादः { इत्यादिरूह्यः । । भगवद्गीताया भाष्यम् । न्यायदर्शनम् गौतमसूत्रवृत्तिः । तत्त्वचिन्तामणिः । तत्त्वचिन्तामणेः प्रकाशः वेदार्थः धर्मः मिश्रम् ऋग्वेदोपनिषत् काव्यम् मिश्रम् छान्दोग्योपनिषत् जगदीशी जैमिनिसूत्रम् । जैमिनीयन्यायमाला वैशे० ) न्याय ० ) ( न्याय • ) ( मिश्रम् ) ( मिश्रम् ) मिश्रम् ) सामवेदः पूर्वमीमांसा पूर्वमीमांसा * १९२२ ख्रिस्ताब्दे आनन्दाश्रमसंस्कृतग्रन्थावल्यां मुद्रितमेकनवति ( ९१ ) ग्रन्थाङ्कयुतं व्याकरणम् ( मिश्रम् मिश्रम् ( मिश्रम् वेदान्त • न्याय • न्याय • ) मिश्रम् ) मिश्रम्) तेषां ग्रन्थानां नामादीनि ग्रन्थप्रतीकेभ्यो ज्ञेयानि । ग्रन्थकर्ता सायणाचार्यः आपस्तम्बः मम्मटभट्टः जयरामभट्टाचार्यः उदयनाचार्यः उदयनाचार्यः हरिदासभट्टाचार्यः महेशचन्द्र न्यायरत्नः कृष्णभट्ट : ( आर्डे ) वर्धमानः गदाधर भट्टाचार्य चक्रवर्ती गदाधरभट्टाचार्य चक्रवर्ती गदाधरभट्टाचार्यः श्रीमध्वाचार्यः गौतमः लिखितं पत्राणाम् अङ्कितं वा पृष्ठानां वा पुस्तकम् संख्या विश्वनाथपञ्चाननः गङ्गेशोपाध्यायः अङ्कितम् अङ्कितम् अङ्कितम् १३ अङ्कितम् ५३ अङ्कितम् १९८ लिखितम् १२ जगदीश भट्टाचार्य: जैमिन्याचार्य: माधवाचार्यः लिखितम् । २९ अङ्कितम् अङ्कितम् अङ्कितम् ६५ अङ्कितम् ७३ लिखितम् लिखितम् किंवा (४८) अङ्कितम् अङ्कितम् १४८ अङ्कितम् । ३९७ अङ्कितम् अङ्कितम् । २६४ अङ्कितम् । २२६ रुचिदत्तः (भाकु (क्तु) शास्त्री) लिखितम् ११४ किंवा (४८) अङ्कनलेखना- दिकालः - शकः संवत् अथवा इसवी मुंबई । इसवी १८६८ मुंबई O धारवाड । इसवी १८९३ मुंबई संवत् १९२३ बनारस अङ्कनस्थानम् इसवी १८६४ कलकत्ता इसवी १८६४ कलकत्ता इसवी १८६४ कलकत्ता संवत् १९३४ बनारस । इसवी १८५८ संवत् १९४२ बनारस इसवी १८८६ बनारस इसवी १८८७ मुंबई इसवी १८६५ कलकत्ता इसवी १८२८ । कलकत्ता इसवी १८७२ कलकत्ता संवत् १६४९ अङ्कितम् इसवी १८९३ मुंबई लिखितम् अङ्कितम् १२६९ संवत् १९२५ कलकत्ता अङ्कितम् पुणे यद्गौतममुनिप्रणीतन्यायसूत्रभाष्यं तत्पुस्तकस्थाः सूत्राङ्का अस्यां तृतीयावृत्तौ निर्दिष्टाः । पुस्तक- स्थानम् ए. कालेज स्त्रीया एलफिन्. कालेज ए. कालेज ए. कालेज ए. कालेज ए. कालेज ए. कालेज स्त्रीया ए. कालेज ए. कालेज एलफि. कालेज स्त्रीया जिनसीवाले ए. कालेज ग्रन्थसंख्या لله o O AAWAJ AAW ग्रन्थप्रतीकः (प्रन्थ- चिहम्) त० कौ त० दी० त० प्र० त० भा० त० व० त० वा० तत्त्वप्र० तत्त्व सं• त० सं० तर्का • ता० र० तैत्तिरी• दि० दीधि० २ येभ्यो ग्रन्थेभ्यः शब्दान गृहीत्वाऽयं न्यायकोशो व्यरचि विषय:- - (न्याय.) गोतममतानुसारी (वैशे.) कणादमतानुसारी मिश्रम्) उभयमतमिश्रम् i न्या० र० न्या० ली० नील● न्या० क० न्या० बि० टी० न्या० बो० न्या० म०' न्या० वा० न्या० सि० दी० पञ्च० कूट• एतचिहानामर्थः (ग्रन्थनाम ) तर्ककौमुदी तर्क दीपिका तर्कप्रकाशः ( शितिकण्ठी ) तर्कभाषा तत्त्वावलिः तर्कसंग्रहवाक्यार्थः तत्त्वप्रकाशिका तत्त्वसंख्यानम् तर्कसंग्रहः तर्कामृतम् तार्किकरक्षा तैत्तिरीयोपनिषत् दिनकरी दीधतिः, अनुमान खण्डः न्यायरत्नम् ( गदाधरीटिप्पणम्) न्यायलीलावती न्यायवार्तिकम् ( गोतम सूत्र टिप्पणम्) (वैशे० ) (मिश्रम्) ( न्याय ) (वैशे० ) ( मिश्रम् ) ( मिश्रम्) ( न्याय● ) ( मिश्रम् ) (मिश्रम्) (मिश्रम्) (मिश्रम्) मिश्रम् ) न्याय सिद्धान्तदीपः पञ्चदशी - कूटस्थ • O वेदान्तः वेदान्तः वैशे० ) ( मिश्रम् ? ) वेदान्तः नीलकण्ठी न्यायकन्दली ( प्रशस्तपादभाष्यटीका ) (वैशे० ) न्यायबिन्दुटीका न्यायबोधिनी न्याय सिद्धान्तमञ्जरी मिश्रम् ) मिश्रम् ) बौद्ध न्यायमतम् वैशे० ) न्याय • ) न्याय ० वेदान्तः तेषां ग्रन्थानां नामादीनि ग्रन्थप्रतीकेभ्यो ज्ञेयानि । ग्रन्थकर्ता लौगाक्षि- भास्करः अन्नंभट्टः श्रीकण्ठः ( शितिकण्ठः ) केशव मिश्रः चन्द्रकान्ततर्कालंकारः पट्टाभिरामः जयतीर्थार्यः श्रीमध्वाचार्यः अन्नंभट्टः जगदीश भट्टाचार्यः वरदराजः कृष्णयजुर्वेदः महादेवभट्टः मणिः नीलकण्ठभट्टः श्रीधरः धर्मोत्तराचार्यः गोवर्धनः लिखितं पत्राणाम् अङ्कितं वा पृष्ठानां वा पुस्तकम् संख्या अङ्कितम् अङ्कितम् रघुनाथभट्टाचार्यतार्किकशिरो- अङ्कितम् जानकीनाथभट्टाचार्यचूडा मणिः रघुनाथशास्त्री, पर्वते महामहोपाध्याय-वल्लभाचार्यः उद्योतकराचार्यः शशधरः अङ्कितम् अङ्कितम् लिखितम् लिखितम् अङ्कितम् अङ्कितम् अङ्कितम् अङ्कितम् अङ्कितम् लिखितम् १२ लिखितम् पत्र १० अङ्कितम् लिखितम् अङ्कितम् लिखितम् सायणाचार्य-कूटस्थदी पविद्या- अङ्कितम् रण्यः २२ । इसवी १८८६ मुंबई इसवी १८७५ बनारस O श्लो० ११ संवत् १७०४ २७८ संवत् १९२६ कलकत्ता शके १७९५ पुणे शके १८०५ मुंबई पृ० १ इसवी १८९३ मुंबई श्लो० १६१ अङ्कितम् अङ्कितम् अङ्कितम् अङ्कितम् २५ लिखितम् । अङ्कनलेखना- दिकालः - शकः संवत् अथवा इसवी अङ्कनस्थानम् पुणे इसवी १८९३ । मुंबई २३७ संवत् १९२३ बनारस २२६ इसवी १८७२ कलकत्ता 9 श० १८०५ मुंबई संवत् १८०६ O इसवी १८७५ बनारस बनारस ३३२ शके १७७२ पुणे इसवी १८९० मुंबई शके १७९४ । पुणे शके १७३५ इसवी १८८२ कलकत्ता शके १७८२ पुस्तक- स्थानम् स्वीया महा. चिम० आपटे ए. कालेज स्वीया स्वीयः स्त्रीया स्वीयम् स्वीयः ए. कालेज डे. कालेज स्वीया खीया स्वीयम् डे. कालेज मुंबई ग्रन्थसंख्या. प० च० प० मा० पाणि ग्रन्थप्रतीकः (ग्रन्थ- चिह्नम्) पात० सू० पु० चि० प्र० च० भवा भाग ० ६३ भार० प्रथमा ० प्र० प० प्र० प्र० प्रशस्त • बृह० ब्रह्मसू० भा० पू० मङ्गल● मध्व० भा० मनु० 1 मु० वि० म० प्र० मिता• मीमां ० कौ० मू० म० येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो ध्यरचि एतच्चिदानामर्थः (प्रन्थनाम) पदार्थचन्द्रिका ( सप्तपदार्थीटीका) पदार्थमाला पाणिनीयाष्टाध्यायी पतञ्जलयोगदर्शनम् पुरुषार्थचिन्तामणिः प्रमाणचन्द्रिका वेदेश तीर्थीसहिता प्रथमान्तार्थमुख्य विशेष्यकबोधविचारः प्रमाणपद्धतिः प्रमाणादिपदार्थप्रकाशिका कणादसूत्रभाष्यम् विषयः- (न्याय.) गोतममतानुसारी (वैशे.) कणादमतानुसारी, मिश्रम्) उभयमत मिश्रम् वैशे० वैशे० मङ्गलवादः ब्रह्मसूत्राणां मध्वभाष्यम् मनुस्मृतिः व्याकरणम् योगमतम् धर्मशास्त्रम् वेदान्तः मिश्रम् वेदान्तः न्याय ० वैशे० बृहदारण्यकोपनिषत् शुक्लयजुः - ब्राह्मणम् वेदान्तः ब्रह्मसूत्रम् वेदान्तः भवानन्दी ( दीधितिव्याख्या) श्रीमद्भागवतम् महाभारणम् भाषापरिच्छेदः मिश्रम् ज्ञान-भक्ति-वैराग्यम् वेदार्थविषयः मिश्रम् मिश्रम् वेदान्तः धर्मशास्त्रम् न्यायसिद्धान्तमञ्जरीप्रकाशः मिश्रम् मीमांसा मिताक्षरा ( याज्ञवल्क्यस्मृतिव्याख्या ) धर्मशास्त्रम् मीमांसार्थसंग्रह कौमुदी न्याय सिद्धान्तमुक्तावली मूलमथुरानाथी (तत्त्वचिन्तामणि- व्याख्या ) मिश्रम् मिश्रम् तेषां ग्रन्थानां नामादीनि ग्रन्थप्रतीकेभ्यो ज्ञेयानि । अङ्कनलेखना- दिकालः - शकः संवत् अथवा इसवी ग्रन्थकर्ता शेषालन्तः जयरामभट्टाचार्यः पाणिनिः पतञ्जलिः शेषाचार्यः अचलशर्मा जयतीर्थार्यः लौगाक्षि-भास्करः प्रशस्तपादाचार्यः सत्यवतीसुतो व्यासः भवानन्दभट्टाचार्यः सत्यवतीसुतव्यासः सत्यवतीसुतव्यासः विश्वनाथपञ्चाननभट्टाचार्यः हरिरामतर्कवागीशः श्री मध्वाचार्य ( आनन्दती थर्यः भृगुप्रोक्तसंहिता लिखितं । पत्राणाम् अङ्कितं वा पृष्ठानां वा पुस्तकम् संख्या लिखितम् । लिखितम् अङ्कितम् अङ्कितम् लिखितम् अङ्कितम् लिखितम् लिखितम् अङ्कितम् O अङ्कितम् अङ्कितम् सूत्राणि लौगाक्षिभास्करः विज्ञानेश्वरः अङ्कितम् अङ्कितम् रामेश्वरः (शिवयोगभिक्षुः ) अङ्कितम् विश्वनाथपञ्चानन भट्टाचार्य: मथुरानाथ तर्कवागीशभट्टा- चार्य: अङ्कितम् जिनसीवाले । स्त्रीया ६६२ । इसवी १८३९ बोन, यूरोपख० ए० कालेज १०८ शके १८०९ मुंबई । स्वीयम् O अङ्कनस्थानम् लिखितम् ७३ O धारवाड लिखितम् अङ्कितम् अङ्कितम् अङ्कितम् श्लो०१६९ संवत् १९३९ बनारस लिखितम् पृ० ४६ O अङ्कितम् । ३८१ शके १८०५ मुंबई अङ्कितम् अ० १२ शके १७८८ मुंबई श्लो. २६८४ । स्त्रीया । स्त्रीया संवत् १९४५ लाहोर किंच स्वीयम् किंच ६७ किंच १९४६ मुंबई इसवी १८९३ मुंबई शके १८०५ । मुंबई सुरत मुंबई मुंबई " संवत् १५४७ ३६९ शके १७८५ मुंबई संवत् १९३० बनारस पुस्तक- स्थानम् २३७ संवत् १९२३ बनारस ७६८ इसवी १८८४ कलकत्ता स्वीया O स्वीया स्वीयम् जिनसीवाले स्वीयम् ए० कालेज खीयम् स्वीया ए० कालेज स्वीया स्वीया स्त्रीया स्त्रीया ग्रन्थसंख्या. ७३ ( याज्ञ० ) * ८१ ग्रन्थप्रतीकः (ग्रन्थ- चिहम्) राम० ल० म० ल० व० लौ० भा० वाक्य ● वाक्यार्थ • वाच० वात्स्या • दावलिः ८३ वीरमित्रो० ८४ वेदा० प० ८५ वेदा० सा० वै० वै० उ० वै० वि० वै० सा० ९० वै० सा० द० येभ्यो ग्रन्थेभ्यः शब्दान गृहीत्वाऽयं न्याकोशो व्यरचि विषय:- (न्याय.) गोतममतानुसारी (वैशे.) कणादमतानुसारी । ( मिश्रम् ) उभयमतमिश्रम् + ९१ श० प्र० शाव०. भा० ९३ शारी० मा० t९४ / सर्व० सा० म० एतचिहानामर्थ: (ग्रन्थनाम) याज्ञवल्क्यस्मृतिः रामरुद्री लघुमञ्जूषा लक्षणावलिः मीमांसार्थसंग्रहः धर्मशास्त्रम् मिश्रम् व्याकरणम् मिश्रम् मीमांसा वाक्यवृत्तिः मिश्रम् संग्रहवाक्यार्थः ( संग्रहार्थविवेचनी ) मिश्रम् कोशः वाचस्पत्यम् गौतमसूत्रभाष्यम् वादावलिः वीर मित्रोदयः वेदान्तपरिभाषा न्याय ० वेदान्तः व्यवहारशास्त्रम् वेदान्तः वेदान्तः वेदान्तसारः ( टीकाद्वयसमेतः ) वैशेषिकदर्शनम् वैशेषिकोपस्कारः ( कणादसूत्रव्याख्या) कणादसूत्रविवृत्तिः वैयाकरणभूषणसारः (भट्टोजीकृतकारि- व्याकरणम् काणां व्याख्या वैयाकरणभूषणसारदर्पणः व्याकरणम् मिश्रम् मीमांसा । शब्दशक्ति प्रकाशिका शावरभाष्यम् (जैमिनिसूत्रभाष्यम् ) शारीरकमीमांसा ( ब्रह्मसूत्रभाष्यम् ) । वेदान्तः सर्वदर्शन संग्रहः सारमञ्जरी वैशे० वैशे० वैशे० सर्वेषां मतानि मिश्रम् * १९२२ ख्रिस्ताब्दे आनन्दाश्रमसंस्कृतम्रन्थावल्यां मुद्रितमेकनवति - ( ९१ ) ग्रन्थाङ्कतं + १८७२ ख्रिस्ताब्दे कलिकातानगरे ‡ १९२४ ख्रिस्ताब्दे पुण्यग्रामस्थराजकीयप्राच्यमन्थश्रेण्यामेकेनानुक्रमाङ्कन संवादज्ञानरत्नाकराख्य मुद्रणालये मुद्रितं यच्छब्दशक्ति- (१) युतं निर्णयसागर- तेषां ग्रन्थानां नामादीनि ग्रन्थप्रतीकेभ्यो ज्ञेयानि । अङ्कनलेखना- दिकालः-शकः ग्रन्थकर्ता याज्ञवल्क्यः रामरुद्र भट्टः नागेशभट्टः सुखदयालुशास्त्री लौगाक्षिभास्करः मेरुशास्त्री गोडबोले पट्टाभिरामः तारानाथ तर्कवाचस्पतिः पक्षिलवामी जयतीर्थमुनिः मित्रमिश्रः धर्मराजाध्वरीन्द्रः सदानन्दः कणादर्षिः शंकरमिश्रः जयनारायणतर्कपञ्चाननः कोण्डभट्टः हरिवल्लभः लिखितं पत्राणाम् अङ्कितं वा पृष्ठानां वा पुरतकम् संख्या अङ्कितम् अङ्कितम् । २३७ अङ्कितम् अङ्कितम् अङ्कितम् अङ्कितम् २४ अतिम् २२ अङ्कितम् ५४४२ अ० ३ शके १७८५ मुंबई श्लो. १०१४ अङ्कितम् । २९७ लिखितम् अङ्कितम् ७२४ लिखितम् ११३ अङ्कितम् अङ्कितम् ४७६ अङ्कितम् । ४७६ अङ्कितम् । ४७६ अङ्कितम् २१२ जगदीशभट्टाचार्यः शबरमुनिः शंकरभारती ( शंकराचार्यः ) अङ्कितम् सायणाचार्यः जयकृष्णतर्कालंकारः संवत् अथवा अङ्कनस्थानम् इसवी अङ्कितम् अङ्कितम् १२६९ संवत् १९२३ बनारस ० बनारस संवत् १९३५ लवपुरी संवत् १९३९। बनारस शके १७९५ पुणे शके १७९५ पुणे इसवी १८८४ कलकत्ता इसवी १८६५ कलकत्ता अङ्कितम् २१२ अ- संवत् १९२३ बनारस थवा ४६० अथवा १९४२ इसवी १८७५ कलकत्ता इसवी १८७३ संवत् १९४२ कलकत्ता इसवी १८६१ कलकत्ता इसवी १८६१ कलकत्ता इसवी १८६१ कलकत्ता संवत् १९२३ बनारस इसवी १८७२ कलकत्ता संवत् १९२५] कलकत्ता ० बनारस अङ्कितम् १८० इसवी १८५८ कलकत्ता अङ्कितम् ९१ शके १८०९ पुस्तक स्थानम् स्त्रीया स्वीया ए० कालेज स्वीया स्त्रीयः स्वीया स्वीया ए० कालेज ए० कालेज स्वी या ए० कालेज ए० कालेज ए० कालेज ए० कालेज ए० कालेज स्वीया ए० कालेज ए० कालेज ए० कालेज बनारस स्वीया स्वीयः स्वीया यद्गौतममुनिप्रणीत न्यायसूत्रभाष्यं तत्पुस्तकस्थाः सूत्राङ्का अस्यां तृतीयावृत्तौ निर्दिष्टाः । प्रकाशिका पुस्तकं तत्रत्याः पृष्ठाका अस्यां तृतीयावृत्तौ निर्दिष्टाः । मुद्रणालयद्वारा मुद्रितं सटीकं यत्सर्वदर्शनसंग्रहपुस्तकं तत्रत्याः पृष्ठाङ्का अस्यां तृतीयावृत्तौ निर्दिष्टाः । 7 न्या. को. ग्रन्थसंख्या प्रन्थप्रतीकः (ग्रन्थ- चिह्नम्) ९६ सा० सं० ९७ सांख्य० का० ९८ सांख्य० कौ० ९९ सांख्य० भा० येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो व्यरचि विषयः- (न्याय.) गीतममतानुसारी (वैशे.) कणादमतानुसारी मिश्रम्) उभयमत मिश्रम् १०० सांख्यसू० १०१ सि० च० १०२ स्व० * एतञ्चिह्वान।मर्थः ( ग्रन्थनाम ) सारसंग्रह: ( तार्किकरक्षाया व्याख्या ) न्याय सांख्यकारिका (श्लो०७२), टीकाद्वययुता सांख्यमतम् सांख्य तत्त्वकौमुदी सांख्यमतम् । सांख्य प्रवचनभाष्यम् सांख्य मतम् सांख्य सूत्रम् सिद्धान्त चन्द्रोदयः स्वयम् सांख्यमतम् मिश्रम् स्वयंकृतम् * एवमन्येपि भट्टि-नैषध-शिशुपालवध-कुमार- रघुवंश- इत्यादयः काव्यग्रन्थाः ग्रन्थान्तरेषूदाहृता उपलब्धास्तत्रत्या काञ्चन ग्रन्थपतय उपयुक्ता अत्र कोशे संगृहीताः । तथाऽपि 'ग्रन्थपृष्ठाधिक्य- तेषां ग्रन्थानां नामादीनि ग्रन्थप्रतीकेभ्यो ज्ञेयानि । ग्रन्थकर्ता ईश्वरकृष्णः वाचस्पतिमिश्रः विज्ञान भिक्षुः कपिलः श्रीकृष्ण धूर्जटिदीक्षितः न्यायकोशकर्ता भीमाचार्य: लिखितं पत्राणाम् अङ्कितं वा पृष्ठानां वा पुस्तकम् संख्या अङ्कनलेखना- दिकाल:- शकः संवत् अथवा इसवी अङ्कितम् अङ्कितम् अङ्कनस्थानम् लिखितम् । ७३ अङ्कितम् ५८ (४०) इसवी १८८३ बनारस अङ्कितम् ६३ इसवी १८७३ बनारस अङ्कितम् इसवी १८५६ कलकत्ता संवत् १९४२ बनारस पुस्तक- स्थानम् तनुसुखरा- म त्रिपाठी ।स्वीया ए० कालेज । टाउनहाल, मुंबई >> स्वीयः, नानाविधा ग्रन्थाः महाभारतादी तिहासग्रन्थाः मात्स्यादीनि पुराणानि आत्रेयादिस्मृतिग्रन्थाश्च ये ये भयान्त्रात्रानुक्रमणिकायां तन्नामानि संनिवेशितानि' इति क्षन्तव्यमेतन्जिज्ञासुभिः । चिह्नविवेकः । १ व्याख्यायमानशब्दस्य पुरतो वर्तमानः ( ) एतच्चिह्नान्तर्गतः शब्दो व्यापकधर्मविशिष्टस्य बोधकः । २ प्रमाणत्वेन गृहीतेभ्यो येभ्यो ग्रन्थेभ्यः शब्दानुद्धृत्यायं न्यायकोशो व्यरचि तेषां ग्रन्थानां प्रतीकान्यपि ( ) एतच्चिान्तः समुपन्यस्तानि । ३ यत्र समानार्थे लक्षणपरिष्काराणामनेकत्वं तत्रैकैकस्यादौ [ ] एत- चिह्नान्तर्गतः ककारादिवर्णः परिष्कारभेदबोधनाय समुपन्यस्तः । ४ यत्र मिथो विभिन्ना अनेकेर्थास्तत्रैकैकस्यादौ क्रमेण ११२ इत्याद्य- कोर्थभेदबोधनाय समुपन्यस्तः । ५ यस्य शब्दस्योपरि ११२ इत्यायका निर्दिष्टास्तस्याधस्तात्तत्पृष्ठे तादृ- शाङ्कयोतितं टिप्पनम् । ६ ययोर्ग्रन्थयोर्मध्ये एतादृशं बिन्दुसमूहरूपं चिह्नं भवेत् तच्चिं तयोर्मध्ये विद्यमानस्य ग्रन्थस्य परित्यागसूचकम् । · · ……….... <अंहस्पतिः> क्षयमासः । यस्मिन्मासे न संक्रान्तिः संक्रान्तियमेव वा । संसपहस्पती मासावधिमासश्च निन्दिताः ॥ ( पु० चि० पृ० १६) <अकर्मक:> (धातुः) [क] व्यापारसमानाधिकरण[^१]फलवाचकः ( ल० म०) । यथा वृक्षात्पर्ण प[^२]ततीत्यादौ पत्-धातुरकर्मकः । [ख] व्यापारव्यधिकरणफळवाचकत्वाभाववान् । [ग] व्याकरणशास्त्रीय कर्मसंज्ञकार्थानन्वय्यर्थक इति शाब्दिका बद- न्ति । ( ल० म० धा० ५ ) [घ ] फलावच्छि[^३]न्नव्यापारवाचको धातुरकर्मक इत्यपि कश्चिद्वक्ति । ( ल० व० ) [ ङ ] व्यापाराधिकरणमा[^४]त्रवृत्तिफलवाच[^५]कः । ( वाच ० ) [^१] व्यापाराधिकरणेतरावृत्ति यत्फलं तद्वाचक इत्यर्थः । तेन गम्यादौ फलस्य ( द्वि- ष्ठत्वेन ) व्यापाराधिकरणकर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । ( वै० सा० द० ८९ ) [^२] अत्र अधोदेशसंयोगानुकूलव्यापारस्य पत्-धात्वर्थत्वेनाघोदेशसंयोगरूपं फलं तदनुकूलव्यापारश्चैतद्वयमेकस्मिन् पर्णे तिष्ठतीति फलव्यापारयोः सामानाधिकरण्यं संगच्छत इत्यवधेयम् । [^३] अत्रावच्छिन्नत्वं च पूर्वोक्तसामानाधिकरण्यात्मकमेवेति भाति । [^४] तेन गम्यादेर्व्यापाराधिकरण- (कर्तृ) वृत्तिफलवाचित्वेऽपि नाकर्मकत्वम् । (वाच [^५] अत्रोक्तं हरिणा — फलव्यापारयो रेकनिष्ठतायामकर्मक इति । एकनिष्ठताया मे क मात्रवृत्तितायामित्यर्थः । ( वाच० ) <अकस्मात्> हेतुशून्यः कालः ( गण० ) । यथा अकस्मादयमागत इत्यादौ । <अकार:> शून्यवचनः । ( पु० चि० पृ० १० ) <अकारणगुणोत्पन्नगुण[^१]त्वम्> कारणगुणोत्पन्ना[^२]वृत्तिर्गुणत्वसाक्षा[^३]द्वयाप्या च या जातिस्तादृशजातिमत्त्वम् ( दि० गु० ) । तादृशजातिस्तु बुद्धित्व सुखत्व- शब्दत्वादिः । [^१] अकारणगुणोत्पन्नगुणास्तु बुद्ध्याद्यष्टकं भावना शब्दश्चेति । एते च विभुविशेष- गुणा इत्यप्युच्यन्ते । (प० मा० ) ( भा०प० गु० ) [^२] कारणगुणोत्पन्नत्वं चात्र स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् । तद्यथा-स्वं पटस्य रूपं तदाश्रयः पटः तस्य समवायी तन्तुः तत्र समवेतो गुणस्तन्तो रूपं तेन जन्यत इति पटस्य रूपं कारणगुणोत्पन्नं भवतीति बोध्यम् । [^३] गुणत्वसाक्षाद्व्याप्यत्वं* च संस्कारत्वान्यगुणत्वव्याप्याव्याप्यत्वे सति गुणवव्या- प्यत्वम् । ( दि० गु० ). * परममहत्त्वत्वादिकमादायांतिव्याप्तिवारणाय साक्षादिति पदम् । ( दि० गु० ) <अक्रिया> कर्माकरणम् । तत्रिविधम् । तदुक्तं छन्दोगपरिशिष्टे कात्यायनेन अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया । ( मिता० टी० बा० पृ० २५३ ) - <अक्षपादः> न्यायसूत्रकर्ता गौतमर्षिः । स हि प्रमाणप्रमेयादिषोडशपदार्थ- वादी पदार्थतत्त्वज्ञानान्मोक्षं मन्यते । [^४ ]अत्र श्रूयते । गौतमो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्य- मिति प्रतिज्ञाय पश्चात् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवान्-इति पौराणिकी कथा । अत्रान्यदुच्यते – अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिवि- रुद्धार्थ इति पद्मपुराणम् । ( वाच० ) ↑ अन्वयस्तु–संस्कारत्वान्यो यो गुणत्वव्याप्यस्तस्याव्याप्यत्वं तस्मिन्निति । अत्र सं- स्कारत्वान्येति विशेषणाभावे तु भावनात्वस्य गुणत्वसाक्षायाप्यत्वाभावेन भावनाया असंग्रहः स्यादतस्तद्विशेषणम् । <अक्षरम्> १ परं ब्रह्मेति मायावादिन आहुः । २ मोक्ष इत्यपीति वेदान्तिनः । ३ लक्ष्मीरपीति माध्वाः । ४ भगवदंशभूतो भगवद्रूपो धामविशेष इति वल्लभीयाः । ५ अकारादयो वर्णा इति काव्यज्ञाः । ६ वर्णस्मारकरेखात्म- कलिपिसंनिवेश इति लेखकाः । <अखण्डोपाधिः> (उपाधिः) अनिर्वच[^१]नीयो धर्मः । स च क्लृप्तसप्तपदार्था- तिरिक्त एव ( सि० च ० ) ( ल० व०) । यथा अनुयोगितात्वप्रति- योगितात्यविषयतात्वादिः । [^१ ]अत्रायं नियमो बोध्यः - जात्यखण्डोपाध्यतिरिक्तानामेव धर्माणां निर्वचनार्ह त्वमिति । <अग्नि:> तृतीया । ( पु० चि० पृ० ३७) <अग्निदैवत्यम्> कृत्तिका । ( पु० चि० पृ० ३५३) <अग्निहोत्रहवणी> निर्वापसाधनं काष्ठपात्रम् । <अघटकत्वम्> [ क ] स्वाविषयक प्रतीतिवृत्तितत्तन्निरूपितविषयिताकत्वम् । ( ग० कूटा० ) [ ख ] तद्विषयत्वाव्यापक विषयतावत्वम् । यथा वह्नयभावनिष्ठविषयत्वा- व्यापकं घटनिष्ठं विषयत्वं तद्वत्त्वस्य घटे सत्त्वेन घटस्य वह्नयभा- वाघटकत्वम् । वस्तु तद्धटकत्वम् । <अङ्गम्> १ प्रयोजकम् उपकारकं वा । यथा व्यातिरनुमित्यङ्गमित्यादौ ( सर्वद० पृ० ८ चावो०) । २ यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेङ्गमित शाब्दिकाः । ३ मुख्यफलाज[^२]नकत्वे सति मुख्यफलजनकव्यापारजनकमङ्ग- मिति मीमांसकाः । ४ लग्नमिति मौहूर्तिकाः । ५ शरीरावयवोऽङ्गमिति काव्यज्ञा वदन्ति । [^२] अत्र च कार्यकालवृत्तित्वेनैव कारणत्वस्य मीमांसकैः स्वीकृतत्वात्प्रयाजादिहोम- स्यापूर्व प्रत्येव जनकत्वेन मुख्यफलस्वर्ग प्रत्यजनकत्वमुपपद्यत इति । <अङ्गविधिः> ( विधिः ) गुणविधिः । यथा दध्ना[^१] होमं जुहोतीत्यादि । [^१] अत्र अग्निहोत्रं जुहोतीत्यनेन बोधिते होमे दधिरूपो गुणो विधीयत इति बोध्यम् । <अचित्> दृश्यम् । ( सर्वद० पृ० ९२ रामानु० ) <अचिरनिर्मथितः> (अग्निः ) १ चयनकाले निर्मथ्योखासु धृतोऽग्निरचि- रनिर्मथितः । २ सद्य एवालौकिकमथनेन जातोग्निर चिरनिर्मथितः । ( जै० न्या० अ० १ पा० ४ अधि० १०) ( वै० सा० ) <अजपादम्> पूर्वाभाद्रपदा । ( पु० चि० पृ० ३५३ ) <अजह[^२]त्स्वार्था> १ ( लक्षणा ) [ क ] लक्ष्यतावच्छेदकरूपेण लक्ष्यश- क्योभयबोधिका । यथा का[^३]केभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्यु- पघातके लक्षणा । ( न्या० बो० 0 ) [ख ] यत्र वाच्यस्याप्यन्वयस्तत्राजहती लक्षणा । यथा छ[^४]त्रिणो गच्छ- न्तीत्यादौ । ( त० दी० ४ ) [ग] शक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजह- त्स्वार्था । यथा द्रव्यत्वादिना नीलघटत्वादिना च घटपदस्य लक्षणा । ( श० प्र० ) [^२ ]अत्र व्युत्पत्तिः - न जहति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था - इति द्रष्टव्या । [^३] अत्र काकपदेन दध्युपघातकत्वात्मकलक्ष्यतावच्छेदकरूपेण काकस्तदितरमार्जा- रादयश्च बोध्यन्ते । तत्र दध्युपघातकेभ्यो दधिरक्षणे तात्पर्यात् । [^४] तिपाद्यसंबन्ध एव लक्षणा - इति मीमांसकमताभिप्रायेणेदमुदाहरणम् । तेन छत्रिन्नित्यस्य मतुबर्थकेन्प्रत्ययान्ततया पदसमूहरूपत्वेन * वाक्यत्वात् तच्छक्या- प्रसिद्ध्या शक्यसंबन्धरूपलक्षणाया अभावेपि नैतदुदाहरणासंगतिः । तथा चा- त्रैक सार्थवाहित्वेन रूपेण छत्र्यच्छत्रिषु गमनकर्तृत्वान्वयः । केचित्तु - छत्रपद- स्यैकसाथै लक्षणा । तद्धितार्थः संबन्धी । तथा चैकसार्थसंबन्धिनो गच्छन्तीय- न्वयबोध इत्याहुः । आदिना यष्टीः प्रवेशयेत्युदाहरणं बोध्यम् । ( नील० ) *नैयायिकमते पदशक्त्यैव निर्वाहे वाक्यशक्तिस्तलक्षणा च न स्वीक्रियत इति तात्पर्यम् । [घ ] स्वार्थापरित्यागेन परार्थलक्षणा । [ ङ ] यत्र स्वार्थस्य विशेष्यतया क्रियान्वये प्रवेशः सा । ( त० प्र० ख० ४ पृ० ४४ ) २ ( शक्तिः) अवयवार्थसंवलितसमुदायार्थबोधकत्वमजहत्वार्थत्वम् । उदाहरणं राजपुरुष इति ( ल० म० पृ० ३७) इति वैयाकरणाः । अत्रेदं बोध्यम् । वैयाकरणमते वृत्तिर्द्विधा शक्तिर्व्यञ्जना च । शक्तिश्च द्विधा प्रसिद्धा- प्रसिद्धा च । प्रसिद्धा च त्रिधा रूढि: योगो योगरूढिश्च । आद्योदाहरणा- नि― घटः पटः मणिः रथंतरम् (साम) शुश्रूषा (सेवा) । इयमेव जहत्वा- र्थेत्युच्यते । द्वितीयोदाहरणानि पाचकः पाठक इत्यादीनि । तृतीयोदाहर- णानि पङ्कजम् राजपुरुष इत्यादीनि । इयमेवाजहत्स्वार्थेत्युच्यते । कचिच्च तात्पर्यग्राहकवशात्केवलरूढ्यर्थस्य केवलयोगार्थस्य बोधः । यथा - अश्व- गन्धादिपदमोषधिविशेषे रूढम् अश्वसंबन्धिगन्धवत्तया वाजिशालाबोघे यौगिकम् । अत एव यौगिकरूढमित्युच्यते । अप्रसिद्धा शक्तिरेव नैया- यिकादिभिर्लक्षणेति व्यवयिते । एवं च वैयाकरणमते शक्यपेक्षया लक्षणावृत्तिः पृथङ्नास्त्येव । व्यञ्जना च द्विधा गूढव्य नवागूढव्यङ्गया च । <अजहल्लक्षणा> नैयायिकमतेजहत्स्वार्थावदस्यार्थोनुसंधेयः । <अजीव:> अबोधात्मकं सर्व वस्तु । ( सर्वद० पृ० ६७ आर्हत० ) <अज्ञानम्> १ ज्ञानाभावः । २ अविद्या । तत्रोक्तम् - अनादि भाव[^१]रूपं यद्विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षत इति मायावादिवेदान्तिनो वदन्ति । ( सर्वद० पृ० ९३ ) [^१ ]अत्राज्ञाने भावत्वसाधकं प्रमाणमनुमानम् । तच्च विवादास्पदं प्रमाणज्ञानं स्वप्रा- गभाव व्यतिरिक्तस्वविषयावरणस्वनिवर्त्य स्वदेशगत वस्त्वन्तरपूर्वक मप्रकाशितार्थप्र- काशकत्वादन्धकारे प्रथमोत्पन्न प्रदीपप्रभावदिति ( सर्वद० पृ० ९६ ) । एतत्प- दकृत्यं तु तत्रैव टीकायां द्रष्टव्यम् । <अज्ञानम्> (निग्रहस्थानम् ) [क] अविज्ञानं चाज्ञानम् (गौ०५।२।१८) । विज्ञातार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निप्र- हस्थानमिति । अयं खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति । ( वात्स्या ० ५/२/१८ ) [ख] परिषदा विज्ञातस्य वादिना त्रिरभिहितस्याप्यविज्ञानम् । इदं च किं वदसि बुध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति (गौ० वृ० ५/६०) । अत्र अविज्ञानमित्यस्यार्थस्तु वाक्यार्थस्या- बोध इति । ( नील० ) <अणुः> भोक्तुमशक्या अणवः । ( सर्वद० पृ० ७२ आर्हत० ) <अणुत्वम्> परिमाणविशेषः । स च परमाणौ द्व्यणुके च तिष्ठति । <अतद्गुणसंविज्ञान:> ( बहुव्रीहिसमासः ) [ क ] यो बहुव्रीहिः स्वार्थस्या- न्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधनेऽसमर्थः स इति प्राचीना आहुः । यथा दृ[^१]ष्टसागरमानय चित्रगुमानयेत्यादौ च । ( श० प्र० ) [ख ] यत्र स्वार्थस्योपलक्षणतया विधेयान्वयः सः । यथा - चित्रगुरि- त्यादौ । (त० प्र० ख० ४ पृ० ४९ ) [^१ ]अत्र दृष्टसागरमानय चित्रगुमानयेत्यादौ च गुणीभूतसमुद्रगवादीनामानयनेन्व- यासंभवेनातद्गुणसं विज्ञानोयं बहुव्रीहिरिति । २ स चातिदेशः षोढा-शा- स्वातिदेशः कार्यातिदेशः निमित्तातिदेशः व्यपदेशातिदेशः तादात्म्यातिदेशः रूपातिदेशश्चेति । उदाहरणानि शब्दकौस्तुभे स्थानिवत्सूत्रे द्र० । <अतद्व्यावृत्तिः> तद्भिन्ननिवर्तनम् । यथा- योगाचारबौद्धमते-नीलत्वादिरूपो धर्मः अनीलव्यावृत्तिरूप इति ( दि० १ आत्म० पृ० १००) । शिष्टं तु अपोह-शब्दव्याख्याने दृश्यम् । <अतलम्> षष्ट्यधिकशतत्रयम् । तथा हि गणकप्रसिद्ध्या कटपयाः वर्गाः । तत्र वर्णाक्षरसंख्यया संग्रहः । गणकप्रसिद्ध्याकारः शून्यवचनः । टकारा- षष्ठेन तकारेण षट् संख्या । यवर्गतृतीयेन लकारेण त्रित्वसंख्या। तत्राङ्कानां वामतो गतिरिति पूर्वोक्तप्रकारेण मेलने अतलशब्दः षष्ट्यधिकशतत्रय- संख्यामाह । ( पु० चि० पृ० १० ) <अतिक्रान्तभावनीयः> योगिविशेषः । ( सर्वद० पृ० ३८४ पातञ्जल०) <अतिदेश:> [ क ] एकत्र श्रुतस्यान्यत्र संबन्धः । यथा स्तोकं पचति मृदु पचतीत्यादौ स्तोकमृद्वादौ क्रियाविशेषणानां कर्मत्वमित्याद्यनुशासनेन कर्मत्वातिदेशः ( ग० व्यु० १ ) । यथा वा व्याकरणे स्थानिवदिति सूत्रेण भव्यमित्यत्र भू इत्येतस्मिन्नस्वृत्तिधातुत्वातिदेशैः । [ख ] इतरधर्मस्येतरस्मिन्प्रयोगायादेशः[^१] । ( वाच ० ) [ग] अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः प्राप्तिरतिदेशोभिधीयते । [घ ] १ प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मोपदेशो येन स्यात्सोतिदेश इति स्मृतः ( जै० न्या० अ० ७१५।१। अधि०१ ) । २ स्वविषयमुल्लुङ्क्षयान्यविषय उपदेशः । यथा- कालोपपाते तद्दैवते तद्दैवतं हुत्वा तद्वातिदिश्यानेन जुहुयात् ( काव्या० श्रौ० २५/२४ ) इत्यादौ – अतिदेशशब्दार्थः । ३ उपदेशः । यथा - इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ( भाग० ४।९।२८) इत्यादौ - अतिदेशशब्दार्थः । [^१] यथा मीमांसायां प्रकृतिवद्विकृतिः कर्तव्येत्यादिः* । * अत्रेदं बोध्यम् । प्रकृतिभूतदर्शकार्यादेरङ्गकार्याणि प्रयाजादीनि विकृतौ पश्वादियागेति दिश्यन्त इति । <अतिप्रसङ्गः> १ अतिव्याप्तिः । २ प्रकृतादन्यत्र प्रसञ्जनम् । <अतिरिक्तत्वम्> व्यतिरेक-शब्दस्यार्थवदस्यार्थोनुसंधेयः । <अतिव्याप्तिः> ( लक्षणदोषः ) १ [ क ] अलक्ष्यवृत्तित्वम् । यथा गोः शृङ्गित्वस्य लक्षणत्वेतिव्याप्तिः । ( त० दी० ) ( ल० व० ) [ ख ] लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छि- न्नप्रतियोगिताकभेदसामानाधिक[^२]रण्यम् ( न्या० बो० ) । यथा मनु- ष्यो ब्राह्मण इति लक्षणस्य शूद्रेतिव्याप्तिः ( त० कौ० ) । २ व्या[^३]प्य - [^२ ]अत्र मनुष्यत्वं हि लक्ष्यतावच्छेदक ब्राह्मणत्वाश्रये ब्राह्मणत्वाश्रयभिन्ने च शूद्रा. दावपि बर्तत इत्यतिव्याप्तं भवतीति तात्पर्यम् [^३ ]इदं च लक्षणस्य ( व्यतिरे कि हेतोः ) व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु 'लक्ष- णम् ' इत्यत्र द्रष्टव्यः । त्वासिद्धिः । विपक्षमात्राद्व्यावृत्त्यभावात्सोपाधिकत्वाच्च । यथा गोर्लक्षणस्य पशुत्वस्य महिष्या[^१]दावतिव्याप्तिः । गोत्वे हि सास्त्रादिमत्त्वं प्रयोजकं न पशुत्वम् । (त० भा० ) [^१] साधारणानैकान्तिकत्वमपि संभवति । <अतिसामान्यम्> यद् विवक्षितमर्थमाप्नोति चात्येति च तत् । यथा ब्राह्म- ण[^२]त्वं विद्याचरणसंपदं क्वचिदाप्नोति क्वचिदत्येति । (वात्स्या ० १ । २ । ५४ ) [^२] इदं च व्यावर्तकत्वेन विवक्षितं चेत्सव्यभिचार एवान्तर्भवतीति बोध्यम् । यथा अयं विद्याचारसंपन्नो ब्राह्मणत्वादिति । <अतीतकालः> १ कालाव्ययापदिष्टवदस्यार्थोनुसंधेयः ( गौ० वृ० १ । ४९ ) । २ भूतका[^३]लवदस्यार्थोऽनुसंधैयः । [^३] अत्रातीतत्वं च - १ चरमकृतिध्वंसः ( न्या० म० ४ ) । २ [ क ] वर्तमानध्वंस: ( ग० व्यु० ल० ) । [ ख ] वर्तमानकालवृत्तिध्वंसप्रतियोगित्वम् ( वाक्य ० ) । यथा दुर्दिनमतीत मित्यादौ दुर्दिनस्यातीतत्वम् । <अ[^४]तीन्द्रियगुणत्वम्> [क ] लौकिकसाक्षात्कारविषयगुणत्वन्यूनवृत्तिसं- स्कारत्वान्यधर्मसमवाय्यन्यगुणत्वम् । ( दि० गु० ) [ख] लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाव्द्या[^५]प्यजातिमत्त्वम् ( प० मा० ) ( ल० व० ) । सा च जातिगुरुत्वत्वम् अदृष्टत्वमित्यादिः । [^४] अतीन्द्रियगुणाञ्च गुरुत्वम् अदृष्टं ( धर्माधम ) भावना स्थितिस्थापकञ्चेति ( भा०प० गु० ) [^५] अत्र साक्षाव्याप्यत्वं च संस्कारत्वान्या या गुणत्वव्याप्या जातिस्तदव्याप्यत्वे सति गुणवृत्तित्वम् । (प० मा० ) <अतीन्द्रियत्वम्> इन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वम् । यथा कालस्याती- न्द्रियत्वम् । ( स्व० ) <अत्यन्तमहती> श्रवणद्वादशीयोगे बुधवारो भवेद्यदि । अत्यन्त महती नाम द्वादशी सा प्रकीर्तिता ॥ (पु० चि० पृ० २१५) <अत्यन्ता[^१]भावः> ( अभावः ) [क] यद्वस्तु यत्र न कदापि भविष्यति न च कदाचिद्भूतं तस्य वस्तुनस्तत्रात्यन्ता[^२]भावो मन्तव्यः (वै० उ०९।१।९) । यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोभावः (वै० वि०९।१।९) । [ ख ] त्रैका[^३]लिकसंसर्गा[^४]वच्छिन्न प्रतियोगिताकोभावः ( त० सं० ) । [ग] त्रैकालिकः संसर्गाभावः ( त० कौ० ) । [ घ ] नास्तीत्यनुभवसिद्धो नित्यः संसर्गाभावः (न्या०म० १) (मु०१) । [ ङ ] प्रतियोग्याश्रयोभावोत्यन्ताभावः (सर्व० औलु० पृ० २३२) । य- स्याभावस्याश्रयो भूतलादिवत्प्रतियोग्यपि संभवति सः । घटेपि घटात्यन्ता- भावस्य सत्त्वात् । घटप्रतियोगिकानां प्रागभावप्रध्वंसान्योन्याभावानां तु न कदापि घट आश्रयो भवति । घटप्रागभावस्याश्रयो मृत्पिण्डः । प्रध्वंसस्या- श्रयः कपालानि । अन्योन्याभावस्य च पटादिः । केचित्तु ( प्राञ्चः ) यत्र भूतले पूर्वं घटादिकं स्थितमथापसारितं पुनरानीतं च तत्रोत्पादविनाश- शाली सामयिकनामा चतुर्थ: संसर्गाभाव एव प्रतीयते नात्यन्ताभाव इत्याहु: (वै० वि० ९/११५ ) । केवलाधिकरणादेव नास्तीति व्यवहा- रोपपत्तावभावो न पदार्थान्तरमिति प्राभाकरा आहुः ( दि० १) ( त० [^१] अत्र [ क ] अत्यन्तः - अन्तमवधिमतिक्रान्तो नित्योभाष इति व्युत्पत्तिः । अत एवायमायन्तिकस्नैकालिक इत्यभिधीयते ( वै० उ० ९/१/९ ) । असौ त्रैकालिकस्तस्मादुक्त आत्यन्तिकस्तथा ( त० व० २७२ ) । [ ख ] अन्तं स्वप्रति- योगिनिष्ठाभावप्रतियोगित्वमतिकान्तोत्यन्तः स चासावभावश्च इति विप्रहः । तस्य भावोत्यन्ताभावत्वम् । स्वप्रतियोगिनिष्ठस्वसदृशाभावप्रतियोगित्व व्यभिचार्य- भावत्वमिति यावत् । तद्यथा-घटात्यन्ताभावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्र- तियोगित्वाभाववति घटवृत्तिधर्मे सत्त्वात्तत्त्वं तत्राक्षतम् । घटान्योन्याभाषस्य तु स्वप्रतियोगिनिष्टान्योन्याभाषप्रतियोगित्यव्यापकत्वास यावृत्तिः (वै० सा० द० ३३४) । अत्रेदं बोध्यम्-ध्वंसप्रागभावकालेपि तदधिकरणेत्यन्ताभावो वर्तत इति नवीननैयायिकानां मतम् । ध्वंसप्रागभावयोरत्यन्ताभावेन सह विरोधेन स न वर्तत इति प्राचीना वदन्ति ( ग० च० १ ) ( मुक्ता० १ ) । [^२] संसर्गाभावशब्दो द्रष्टव्यः । [^३] त्रैकालिकत्व मिह नित्यत्वम् ( नील० ) । तश्चाभावस्य विशेषणम् । [^४] तादात्म्यातिरिक्त संसर्ग इत्यर्थः । तेन नान्योन्याभावेतिव्याप्तिः । न्या० को० २ . दी०) । अत्यन्ताभावो द्विविध: । एकपर्याप्तधर्मावच्छिन्न प्रतियोगिताकः । अनेकपर्याप्तधर्मावच्छिन्न प्रतियोगिताकः । आद्योधर्मो घटत्वादिः । द्वितीय उभयत्वादिः । अयमेव व्यासज्यवृत्तिरित्युच्यते ( सि० च० ४ ) । <अथ> १ आनन्तर्यम् । २ आरम्भः । ३ प्रश्नः । ४ कार्यम् । ( सर्वद० पृ० ३३६ ३४३ ) । <अदः> परोक्षबुद्धिविषयः ( दि० ४ ) ( ग० श० ) । यथा असौ हरिश्चन्द्रो राजेत्यादावदःशब्दार्थः । विप्रकृष्टपरोक्षव्यक्तिरिति केचित् ( दि० ४ ) । <अदत्तम्> अदत्तं तु भयक्रोधशोक वेगरुगन्वितैः । तथोत्कोचपरीहासव्य- व्यासच्छलयोगतः ॥ बालमूढा स्वतन्त्रातमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलामेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्ये वा धर्मसंयुते । यदत्तं स्यादविज्ञानादत्त मिति तत्स्मृतम् ॥ ( मिताक्षरा २।१७६ ) <अदृष्ट[^१]म्> ( गुणः ) [ क ] धर्माधर्मशब्दवदस्यार्थोनुसंधेयः ( भा०प०) । [ ख ] पुण्यपापात्मकं भोग्यम् । अपूर्वशब्दवदस्यापि व्यवहारस्तत्तन्म- तानुरोधेन बोध्यः । [^१ ]अदो वासनया जन्यते । भोगप्रायश्चित्तज्ञानादिना नश्यति । अदृष्टसद्भावे प्रमाणं चानुमानम् । तच्च [ क ] चैत्रस्य शरीरादिकं चैत्रस्य विशेषगुण.. जन्यं कार्यत्वे सति चैत्रस्य भोगहेतुत्वान्चैत्रप्रयत्नजन्यकुसुमपर्यङ्कादिवदिति ( सि० च० ४) । [ ख ] विमता भोगव्यक्तयो हेतुसापेक्षाः कादाचित्कत्वात् घटवदित्यादि । तदुक्तम्- सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः । प्रत्यात्मनिय- माद्भुक्तेरस्ति हेतुरलौकिकः ॥ इति । चिरध्वस्तं फलायालं न कर्मातिशयं विनेवि च (कु० १ ) । आगमस्तु - पौरुषं दैवसंपत्त्या काले फलति पार्थिव । त्रयमे- तन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ इत्यादि । <अदृष्टार्थकः> ( प्रमाणशब्दः ) [ क ] यस्यामुत्रार्थः प्रतीयते सोदृष्टार्थकः ( वात्स्या० ११११ ८ ) । [ ख ] शब्दतदुपजीविप्रमाणमात्रगम्यार्थकः ( गौ० वृ० ११ १९१८ ) । स च स्वर्गापूर्वादीनामस्तित्वादिप्रतिपादकः शब्दः । <अद्यतन:> ( काल: ) [ क ] अतीतरात्रेरन्त्ययामेनागामिन्या रात्रे: पूर्व- यामेन च सहितः कालः । [ ख ] अतीताया रात्रेः पश्चार्धेनागामिन्या पूर्वार्धेन च सहितो दिवस इति शाब्दिका वदन्ति ( ल० म० ) । <अद्रव्यद्रव्यत्वम्> असमवेतद्रव्यत्वम् ( ग० दशा० ) । यथा आका- शादेर्निरवयवद्रव्यस्य कुत्रापि समवायेनावर्तमानस्य अद्रव्यद्रव्यत्यम् । <अद्वैतम्> द्विधा इतं द्वीतम् । तस्य भावो द्वैतम् । द्विधेतं द्वीतमित्याहुस्त- द्भावो द्वैतमुच्यते ( बृ० वा० ४ । ३ । १८०७ ) । न विद्यते द्वैतं द्विधा - भावो यत्र तत् ( सिद्धान्तवि० श्लो० १०)। <अधः> ( दिक् ) [क] गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगाश्र[^१]यो दिग्विशेषः ( वै० उ० २।२।१०) । [ख ] पतनजन्यसंयोगाश्रयः (वै० वि० २२।१० ) । यथा पर्ण- मंत्रः पततीत्यादौ । [^१] गुरुत्वमेव असमवायिकारणं यस्यास्तया क्रियया जन्यो यः संयोगस्तदाश्रय इति विग्रहः । <अधर्म:> ( गुण:) [ क ] शरीरादिजनकात्मविशेषगुणः (त० मा० गु० ३६ ) । अयं च जीवमात्रसमवेतो भोगप्रायश्चित्तादिनाश्यश्चेति विज्ञेयम् ( त ० कौ० ) । अधर्मोन प्रत्यक्षः किं त्वनुमानगम्यः। तच्चानुमानं देवदत्तस्य शरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तस्य भो- गहेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुवत् इति ज्ञेयम् (त० मा० गु० ३.६) । [ ख ] नरकदुःखादिदुः खानां साधनम् (मु० ) । [ ग ] निषिद्धकर्मजन्यः ( त० सं० ४ ) । निषिद्धकर्म चात्रानिष्टसा- धनत्वेन वेदबोधितं कर्म ( वाक्य ० ) । तच्च सुरापानादि । [ घ ] दुःखासाधारणं कारणम् ( प्र० प्र० ) । अधर्म आत्मगुणः कर्तुरहितप्रत्यवायहेतुः अतीन्द्रियः सम्यग्ज्ञानविरोधी । तस्य तु साधनानि शास्त्रप्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृत- स्तेयादीनि विहिताकरणं प्रमादश्च । एतानि दुष्टाभिसंधिं चापेक्ष्यात्मम- नसोः संयोगादधर्मोत्पत्तिरिति । अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मा- त्प्रकृष्टात्स्वल्पाधर्मसहिताद्ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्ट- शरीरेन्द्रियविषयसुखादिभिर्योगो भवति । तथा प्रकृष्टादवर्मात्स्वरूपधर्मसहि- तात्प्रेततिर्यग्योनिस्थानेषु अनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति । एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देवमानुषतिर्यङ्नरकेषु पुनःपुनः सं- सारप्रबन्धो भवति । ज्ञानपूर्वकात्तु कर्मणः कृतादसंकल्पितफला- द्विशुद्धकुले जातस्य दुःखवियोगोपायजिज्ञासोराचार्यमुपगम्योत्पन्नषट्- पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाभावात्तज्जयोर्धर्माधर्मयोर- नुत्पत्तौ संचितयोरुपभोगान्निरोधे संतोषसुखं शरीरपरिखेदं चोत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते । तदा नित्यस्यात्मनः शरीरादिनिवृत्तौ बीजाभावेन पुनः शरी- राद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ( प्रशस्त ० गु० पृ० ३६ ) । <अधिकम्> ( निग्रहस्थानम् ) [ क ] हेतूदाहरणाधिकमधिकम् ( गौ० ५।२।१३ ) । एकेन कृतत्वादन्यतरस्यानर्थक्यमिति । तदेतन्नियमाभ्युपगमे वेदितव्यमिति ( वात्स्या० ५।२।१३ ) । नियमश्चैकस्यैव हेतोदृष्टान्तस्य वा प्रयोगः कर्तव्य इत्याकारको वादिप्रतिवाद्युभयसंमतः पूर्वकृतः संकेतः । [ख] कृतकर्तव्यापुनरुक्ताभिधानम् ( गौ० वृ० ५ । २ । १३ ) । अनु- वादस्तु न कृतकर्तव्यः साभिप्रायत्वात् । प्रतिज्ञाधिक्यं च पुनरुक्तम् । धूमादालोकात् महानसवत् चत्वरवत् इत्यादिकं तु विना समयबन्धं दाढर्यादिभ्रमादुक्तमधिकम् । यथा महानसं महानसवत् - इति तु नाधिकं किं तु पुनरुक्तम् ( गौ० वृ० ५.२ । १३ ) । [ग] अधिकहेत्वादिकथनम् । यथा शब्दोनित्यः शब्दत्वाच्छ्रावणवा - च्चेत्यादि ( नील० ) ( दि० १ ) । <अधिकरणम्> ( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहस्थया सप्त- म्या यः स्वार्थोनुभाव्यते तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणं नाम कारकम् । यथा ग्रामे गन्तेत्यादौ । अत्र धात्वर्थे गतौ ग्रामनिष्ठम- धिकरणत्वं तन्निरूपितमाधेयत्वं वा सप्तम्यानुभाव्यत इति तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणकारकम् ( श० प्र० ८९ ) । अधिकरणत्वं च [ क ] अधिकरणमिति प्रतीतिसाक्षिकः स्वरूपसंबन्ध: विशेषः । यथा घटवद्भूतलमित्यादौ भूतले घटाधिकरणता । [ ख ] विषयताविशेष इति केचिद्वदन्ति । [ ग ] यथार्थविशिष्टधीविशेष्यत्वमित्यपरो वक्ति । [घ ] कर्तृद्वारा कर्मद्वारा वा क्रियाश्रयत्वमिति शाब्दि[^१]का वदन्ति । [^१] एतन्मतेधिकरणं च [क] कर्त्रादिव्यवहितक्रियाधारः । [ ख ] अधिकरण- त्वशक्तिमत् । सा शक्तिः कर्तृकर्मद्वारा यः क्रियाश्रयस्तन्निष्ठा । अधिकरणं त्रिधा। औपश्लेषिकम् वैषयिकम् अभिव्यापकं चेति । तदुक्तं हरिणा उपश्लेषस्य चा भेदस्तिलाकाशकटादिषु । उपकारास्तु भियन्ते संयोगिसमवायिनाम् ॥ अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः ॥ इति । औपश्लेषिकवैषयिकाभिव्यापकेषु त्रिष्वपि उपश्लेषोस्त्येव । उपकारः संबन्धः । तद्भेदात्तु त्रित्वेन व्यवहारः । कटे आस्त इत्यादौ संयोगिन्याधारे कतिपयाव- यवव्याध्यैव संबन्धः। तिलेष्वित्यादौ समवायिनि समस्तावयवव्याया सः । खे शकुनय इत्यत्रा काशस्य तात्त्विकावयवाभावेन कल्पितदेशत्वात् कल्पित देशापेक्षया चात्राप्युक्तान्यतर उपश्लेषः । केचित्तु औपश्लेषिकमित्यस्य उप समीपे श्लेष: संबन्धस्तत्कृतम् इत्यर्थः । एवं च यत्किंचिदवयवावच्छेदेना- धारस्याधेयेन व्याप्तिरप्युपश्लेषः । यथा कटे आस्ते गुरौ वसति इति । एवमेव गर्नैकदेशे तरन्तीषु गोषु कूपैकदेशस्थिते गर्गकुले गङ्गायां गावः कूपे गर्ग कुलम् इत्यादौ बोध्यम् । वैषयिकं तु अप्राप्तिपूर्वकप्राप्तिरूपसंयोगसमवायैतद्भिन्न संव न्धेन यदधिकरणं तत् । यथा से शकुनयः मोक्षे इच्छास्ति इत्यादि । अभि- व्यापकं तु यत्र सर्वावयवावच्छेदेन व्याप्तिस्तत् । यथा तिलेषु तैलं दध्नि सर्पि- रिति । अभिव्यापकमेव मुख्यमधिकरणमित्याहुः ( ल० म० ११८ ) । <अधिकरणम्> अवान्तरप्रकरणम् ( मीमांसाधिकरणकौमुदी पृ० १ ) । विषय संशय पूर्वपक्ष उत्तर सिद्धान्त एतत्पञ्चाङ्गबोधकवाक्यसमुदायरू- पन्यायत्वमधिकरणत्वमिति मीमांसका वेदान्तिनश्चाहुः । <अधिकरणसिद्धान्तः> ( सिद्धान्तः ) [ क ] यत्सिद्धावन्यप्रकरणसिद्धिः सोधिकरणसिद्धान्तः ( गौ० १ । १ । ३० ) । यस्यार्थस्य सिद्धावन्येर्था- अनुषज्यन्ते न तैर्विना सोर्थः सिध्यति तेथ यदधिष्ठानाः सोधिकरण- सिद्धान्तः। यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्याभेकार्थ- ग्रहणादिति । अत्रानुषङ्गिणोर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणं अनियतविषयाश्चेतना इति पूर्वार्थसिद्धावेतेर्थाः सिध्यन्ति । न तैर्विना सोर्थ: संभवतीति (वात्स्या० १ । १।३० ) । [ख ] यस्यार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धि- र्भवति सः । यथा तयणुकादिकं पक्षीकृत्योपादानगोचरापरोक्षज्ञानचि- कीर्षा कृतिमज्जन्यत्वे साध्यमाने सर्वज्ञत्वमीशस्य ( गौ० वृ० १ । १ । ३० ) । यथा वा क्षित्यादिकर्तृसिद्धौ कर्तुः सार्वज्ञ्यम् ( त० भा० ४३ ) । [ग] अनुमेयस्य सिद्ध्यार्थो योनुषङ्गेण सिध्यति । स स्यादाधार सिद्धान्तो जगत्कर्ता यथेश्वरः ॥ ( तार्किकर० श्लो० ६१ ) । <अधिकवृत्तित्वम्> तदपेक्षयाधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवी- त्वमपेक्ष्य द्रव्यत्वस्याधिक देशवृत्तित्वम् । योधिक देशवृत्तिर्धर्मः स एव व्यापकधर्मो भवति । <अधिकारः> १ स्वामित्वं यथेष्टऋयविक्रयादिकर्तृत्वसंपादकस्वामित्वं वा । यथा सर्वे स्युरधिकारिण इत्यादावधिकार इति धर्मशास्त्रज्ञाः । २ [ क ] यद्ध- र्भविशिष्टेन कृतस्य कर्मणः फलजनकत्वं सः[^१] ( मू० म० १ ) । [ ख ] य[^२]त् प्रवर्तमानपुरुषनिष्ठं तथा ज्ञायमानं सत्प्रवृत्तिहेतुः सः । [ग] य[^२]त् विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते सोधिकार इति मीमां- सकाः । ३ स्वसूत्रे लक्ष्यसंस्कारकवाक्यार्थशून्यत्वे सति विधिसूत्रैकवाक्य- तापन्नत्वमिति शाब्दिका वदन्ति । ४ आरम्भः । यथा अथ[^३] शब्दानु- शासनमित्यादावथशब्दार्थोधिकार इति शाब्दिका आहुः । [^१ ]यथा अथातो ब्रह्मजिज्ञासेत्यादौ शमदमादिसंपत्सारासार विवेकादिरधिकारः । [^२] यथा स्वर्गकामो यजेतेत्यादौ स्वर्गकामनादिकमधिकारो भवति । [^३] अत्र शब्दशास्त्रमधिकृतं भवतीत्यर्थो बोध्यते । <अधिकारविधिः> फलस्वाम्यबोधको विधिरधिकारविधिः ( मी० न्या० पृ० ४६ ) । <अधिवत्सरः> यस्मिश्चान्द्रसंवत्सरे मध्यममानेन गुरोः संक्रान्तिर्नास्ति सोधि- वत्सर: ( पु० चि० पृ० ११ ) । <अधिविन्ना> भर्त्रा विवाहान्तरे कृते पूर्वमूढा । <अधिवेदनम्> धर्मपत्नयां सत्यां रागत एव विवाहान्तरकरणम् । <अधिगमः> १ ज्ञानम् । २ प्राप्तिः । ३ स्वीकारः (वाच०) । ४ निध्यादेः प्राप्तिरिति व्यवहारज्ञाः । ५ व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधि- गम इत्यार्हता आहुः ( सर्व० आई० पृ० ६३ ) । <अधिश्रयणम्> विक्लित्तिहेतुभूतश्चुल्लयुपस्थापनरूपो व्यापारः । यथा तण्डुलं पचतीत्यादौ पाकानुकूलोवान्तरव्यापारः । <अधिष्ठाता> १ अध्यक्षः । २ नियन्ता । ३ अधिदेवः । यथा आत्मेन्द्रिया- द्यधिष्ठाता ( भा०प० श्लो० ४७ ) इत्यादौ । <अधिष्ठानम्> १ आश्रयः । यथा प्राणसंचारादेः प्राणवहनाड्यादिः ( दि० २३१) । २ आरोपविशेष्यः । यथा शुक्ती रजतस्याधिष्ठानम् । <अधीनत्वम्> १ [क] प्रयोज्यत्वापरपर्यायः स्वरूपसंबन्धविशेषः । यथा दण्डाधीनो घट इत्यादावधीनत्वम् । [ख] एतत्समयसंबन्धो दण्डाधीन इत्यादिप्रतीतिसाक्षिकः स्वरूपसंब- न्धविशेष इति केचित् ( मू० म० १ ) । २ तन्निर्वाह्य निश्चय कार्यका- रिताप्रयोजकरूपवत्वम् ( ग० बाघ ० ) । <अध्यक्षम्> १ प्रत्यक्षम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ( भा०प० श्लो० १५२ ) इत्यादौ । २ प्रत्यक्षविषयः । यथा अध्यक्षो विशेषगुणयोगतः ( भा०प० श्लो० ४९ ) इत्यादौ । <अध्ययनम्> [ क ] उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानु- कूलो व्यापारः । यथा उपाध्यायादधीत इत्यादौ धात्वर्थः (ल० म० ) । [^१] अत्र उच्चारणाश्रयोपादानम् । उपाध्यायान्निः सरन्तं ग्रन्थमधीते इत्यर्थः (ल०म०)। [ ख ] पठनम् । तच्च गुरुमुखोच्चारणानुसार्युच्चारणम् । [ग] ] सार्थाक्षरग्रहणमिति मीमांसकाः । यथा साङ्गो वेदोध्येतव्यो ज्ञेयश्चेत्यादौ । [घ ] अक्षरमात्रपाठोध्ययनमिति वेदाक्षरपठनकर्तार इदानींतना वैदि- कंमन्या मन्यन्ते । <अध्यवसायः> १ इदमेवमेव - इति विषयपरिच्छेदो निश्चयः । २ उपात्त- विषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोभिभवे सति यः सत्त्व- समुद्रेकः सोयमध्यवसाय इति वृत्तिरिति च सांख्या आहुः । स चाध्य- वसाय आत्मधर्म इति नैयायिकाः । बुद्धिधर्मः ( बुद्धेर्व्यापारः ) इति सांख्यादयः ( सां० कौ० ) । <अ[^१]ध्यात्मम्> आत्मसंबन्धि । यथा - इत्यध्यात्ममित्यादौ । अध्यायः - १ अध्ययनम् । यथा स्वाध्यायोध्येतव्य इत्यादौ । २ वे- दशास्त्रादिग्रन्थस्यैकार्थविषयसमाप्तिद्योतको विश्रान्तिस्थानमंशविशेषः । यथा श्रीभागवतस्य पञ्चमोध्याय इत्यादौ । [^१] अत्र आत्मानं देहमिन्द्रिमादिकं क्षेत्रज्ञं ब्रह्म वाधिकृत्येति व्युत्पत्तिः । <अध्यावहनिकम्> यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं नाम स्त्रीधनं तदुदाहृतम् ॥ ( मिताक्षरा अ० २ श्लो० १४३ ) <अध्यासः> १ अयथार्थज्ञानम् । २ स्मृतिरूपः परत्र पूर्वदृष्टावभास इति शंकरभारती वक्ति । यथा शुक्तौ इदं रजतमिति ज्ञानम् ( शारीर० )। स चाध्यासो द्विविधः - अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम्- प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तद्धीश्चाध्यास इति हि द्वयमिष्टं मनीषिभिः ॥ ( सर्वद० सं० शांक० पृ० ४२० ) । <अध्याहारः> १ अश्रुतपदानामनुसंधानम् ( दि० ४ ) । यथा घटमान- येत्युक्ते त्वमिति पदस्याध्याहारः । अध्याहारो द्विविधः । शब्दाध्याहारः । अर्थाध्याहारः । शब्दाव्याहारो नामाकाङ्क्षितार्थबोधकपदानुसंधानम् । अर्थाध्याहारो नामाकाङ्क्षितार्थानुसंधानम् । अत्रेदं बोध्यम् - नैयायिकैः शब्दाध्याहार एव स्वीक्रियते न त्वर्थाध्याहारः । मीमांस कैस्त्वर्थाध्याहारः स्वीक्रियत इति । २ तर्क: । ३ अपूर्वोत्प्रेक्षणमित्यपि केचित् (वाच ० ) । <अध्यूहनम्> भस्मनाङ्गारश्चानेरुपर्याच्छादनम् ( जै० न्या० अ० १० पा० १ अधि० ११ ) । <अध्येषणा> ( लिङर्थः विधि: ) [ क ] या श्रोतरि पूजा संमानव्यञ्जिका सा ( कु० ५ ) । [ ख ] अध्येषणीये प्रयोक्तुरनुग्रहद्योतिका इच्छा ( वै० सा० द० ) । [ग ] इच्छाविशेषः । यथा पाकं कुर्यामित्यादा- वुत्तमपुरुषार्थः ( दि०गु० ) । [घ ] सत्कारपूर्वकमाचार्यादेः प्रेरणमिति केचित् ( वै० सा० द० ) । <अनङ्गत्रयोदशी> मार्गशीर्ष शुक्लत्रयोदशी ( पु० चि० पृ० २२३ ) । <अनतिरिक्तत्वम्> स्वान्यूनवृत्ति ( यत् ) तत्कत्वम् ( दीधि० २ ) । यथाभिधेयत्वानतिरिक्तत्वं प्रमेयत्वस्येति । <अनतिरिक्तविष[^१]यकत्वम्> [क] प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यविषय- ताविलक्षणविषयताशून्यत्वम् ( दीधि० २) । यथा पर्वते धूमेन वह्निसा- धने पर्वतो वह्निमानिति प्रतिज्ञावाक्यजन्यशाब्दबोधस्य पर्वतो वह्निमान् इत्यनुमित्यन्यूनानतिरिक्तविषयकत्वम् । अत्रान्यूनविषयकत्वं च पक्षे साध्य वैशिष्ट्यावगाहित्वम् ( दीघि ० २) । [ ख ] प्रकृतहेतुकप्रकृतसाध्य- सिद्ध्यौपयिकव्यायविषयकत्वमिति केचित् ( दीधि० २ ) । [^१ ]इदमन तिरिक्त विषयकत्वं दीधितिप्रन्थस्थप्रतिज्ञालक्षणशरीर एव नान्यत्रेति ज्ञेयम् । न्या० को० ३ <अनतिरिक्तवृत्तित्वम्> ( अवच्छेदकत्वम् ) १ [ क ] स्वव्यापकं (यत्) तत्कत्वम् । यथा हृदो वन्ह्यभाववान् इति निश्चयविषयितायाः हृदो वह्निमान् इत्यनुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( ग० सामा० ) । अत्र स्वं विषयिता । तस्याः व्यापिका प्रतिबन्धकता । तत्कत्वं स्वस्मिन्निति बोध्यम् । [ ख ] तच्छ्रन्यावृत्तित्वमिति केचित् । २[ कं ]तदवच्छिन्नप्रतियोगिताका भाव बदसंबद्ध स्वविशिष्टसामान्यकत्वम् । [ ख ] स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगिता नवच्छेदकतत्कत्वम् । [ग] स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वम् २ ) । यथा पर्वतो वह्निमान् घूमादित्यादौ वह्नित्वात्मकस्य साध्यताव- च्छेदकस्य हेतु – ( धूम ) समानाधिकरणाभावप्रतियोगितानवच्छेदकत्व - मित्यादौ ( ग० च० २ ) । <अनद्यतनत्वम्> [ क ] प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । यथा तण्डुलमपचदित्यादौ लङर्थ: (ग० व्यु० ल० ) । [ख] अद्यतनभिन्नः कालोनद्यतन इति शाब्दिका वदन्ति ( ल० म० ) । <अनध्यवसाय:> १ विपर्ययः । यथा इदं किंचित् इति ज्ञानम् । अयं विशेषादर्शनेन जन्यत इति विज्ञेयम् ( सि० च० ४ ) । २ यस्तु ज्ञान विशेषः स्यादसाधारणधर्मजः । जिज्ञासाजनकः सोनध्यवसाय इहो- च्यते ॥ भवति हि नित्यानित्यव्यावृत्तं शब्दत्वं शब्दे उपलभमानस्य शब्द: किं नित्यः आहोविंदनित्यः इति जिज्ञासा । अयं च वैशेषिकमते अवि- द्याप्रभेदः ( त० व० २१८ ) । ३ अविद्याविशेषः । अनध्यवसायोपि प्रत्यक्षानुमानविषये एव संजायते । तत्र प्रत्यक्षविषये तावत् - प्रसिद्धार्थेष्व- प्रसिद्धार्थेषु वा व्यासङ्गादनर्थित्वाद्वा किमिदम् इत्यालोचनामात्रमनध्यव- सायः । यथा-वाहीकस्य पनसादिष्वनध्यवसायो भवति । अनुमानविषयेपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वयं प्राणी स्यात् इत्यनध्यवसायो भवति ( प्रशस्त ० २ पृ० ४८ ) । ४ वेदान्तिनस्तु - किंसंज्ञकोयं वृक्षः इति संज्ञाविषयकं जिज्ञासा मात्रमित्याहुः ( प्र० प० पृ० ५ ) । ५ हेतुदोषविशेषः । <अनध्यवसितः> (हेत्वाभास :) यश्चानुमेये विद्यमानस्तत्समानासमानजातीय- योरसन्नेव सोन्यतरत्रासिद्धः अनध्यवसायहेतुत्वादनध्यवसितः । यथा - सत् कार्यमुत्पत्तेः इति ( प्रशस्त ० २ ० २९ ३० ) । तथा च -अन- ध्यवसितत्वं पक्षमात्रवृत्तित्वम् । यथा-पर्वतो वह्निमान्पर्वतत्वात् इत्यादौ पर्वतत्वहेतावनध्यवसितत्वम् । <अननुभाषणम्> (निग्रहस्थानम् ) [क] विज्ञातस्य परिषदा त्रिरभिहित - स्याप्यप्रत्युच्चारणमननुभाषणम् ( गौ० ५ । २ । १६ ) ( नील ० ) । विज्ञा- तस्य वाक्यार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदप्रत्युच्चारणं ( अननुवादः ) तदननुभाषणं नाम निग्रहस्थानमिति । अप्रत्युच्चारयन्कि- माश्रयं परपक्षप्रतिषेधं ब्रूयात् ( वात्स्या० ५ । २ । १६ ) । [ ख ] त्रिरभिधानेपि यत्रानुभाषणविरोधी व्यापारस्तत्राननुभाषणं नाम निग्रह- स्थानम् । तदिदं चतुर्था । एकदेशानुवादात् विपरीतानुवादात् केवल- दूषणोत्तया स्तम्भेन वेति । सर्वनामपदेनानुवादात्पञ्चममित्याचार्या: (गौ० वृ० ५/२।१६ ) । <अनपदेशः> हेत्वाभासवदस्यार्थोनुसंधेयः ( त० व० ) । <अनभ्यासदशापन्नज्ञानम्> १ विशेषदर्शनाजन्यं ज्ञानम् । यथा स्थाणुर्वा पुरुषो वा इति संशयः ( सि० च० ४ ) । अत्रेदं बोध्यम् । अत्रो- दाहरणद्वयम् । स्थाणुर्वेत्येकं पुरुषो वेति द्वितीयम् । तथा हि आद्यस्य स्थाणु- त्ववान्वा तदभाववान्वेत्यर्थः । द्वितीयस्यापि पुरुषत्ववान्वा तदभाववान्वेति चार्थः । स्थाणुत्वव्याप्यवक्रकोटरादिमानयमिति पुरुषत्त्र व्याप्यकरादिमा नय- मिति वा विशेषदर्शने सति स्थाणुत्वस्य पुरुषत्वस्य वा निश्चय एव भवति न तु संशय इति । २ प्राथमिकं ज्ञानम् । यथा इदं जलज्ञानं प्रमा सम- र्थप्रवृत्तिजनकत्वात् इत्यत्र प्राथमिकं जलज्ञानम् ( त० कौ० ४ ) । <अनवधारणम्> अनिश्चयात्मकं ज्ञानम् । <अनवसरग्रहणम्> ( निग्रहस्थानम् ) १ अकाल एवोद्भावनम् । यथा त्यक्ष्य - सि चेत्प्रतिज्ञाहानिः विशेषयसि चेद्धेत्वन्तरमिति । २ अवसरमतीत्य कथनम् । यथा उच्यमानग्राह्यस्यापशब्दादेः परिसमाप्तौ । एवमनुक्तग्राह्या- ज्ञानाद्यननुभाषणावसरेनुद्भाव्यबोधाविष्करणानुभाषणप्रवृत्ते वादिनि तदु- द्भावनमित्यादिकमूह्यम् ( गौ० वृ०५/२/२२ ) । इदं निग्रहस्थानं च गौतमोक्तनिग्रहस्थानस्य निरनुयोज्यानुयोगस्य प्रभेद इति वृत्तिकारेणाङ्गी- कृतमिति विज्ञेयम् । <अनवसादः> दैन्यविपर्ययोनवसाद ( सर्वद० पृ० १२४ ) । <अनवस्था> १ ( तर्क: ) [क] कॢप्तवस्तुस जातीयवस्तुपरंपरा कल्पनस्य विरामाभावः । यथा जातौ जात्यन्तरं तत्रापि जात्यन्तरमित्येवं तत्र तत्र जात्यन्तरस्वीकारेनवस्था । [ख] अव्यवस्थितपरंपरोपाधीनोनिष्टप्र- सङ्गः । यथा— यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्व- व्याप्यं न स्यात् इति (गौ० वृ० ११ १२ १४०) । २ प्राचां संकेत इति केचित् । <अनवस्थितखम्> लब्धायामपि समाधिभूमौ चित्तस्याप्रतिष्ठानवस्थितत्वम् ( सर्वद० सं० पृ० ३५५ ) । <अनवस्थितिः> अनवस्थावदस्यार्थोनुसंधेयः । <अनाकाङ्क्षम्> जनितान्वयबोधत्वेन निराकाङ्क्षम् ( कु० ३ ) । यथा घटो घटः इति वाक्यमनाकाङ्क्ष भवति । इदं च शाब्दबोधविघटकं भवति । अत्र प्रथमघटशब्देन बोधित एवार्थो द्वितीयघटशब्देन बोध्यते । तादृश- बोधन आकाङ्क्षाविरहेण तद्वाक्यं निराकाङ्क्षमिति ज्ञेयम् । <अनागतस्त्रम्> भविष्यत्ववदस्यार्थोनुसंधेयः । <अनादित्वम्> १ उत्पत्तिशून्यत्वम् ( वाक्य० ) । यथा प्रागभावस्यानादि- त्वम् । २ सजातीयप्रयोगपूर्वकत्वम् । यथा शब्दस्यानादित्वमिति शाब्दिका वदन्ति ( चि० ४ ) । <अनादिषटुम्> जीव ईशो विशुद्धा चित्तथा जीवेशयोर्मिंदा । अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥ इति मायावेदान्तिनो मन्यन्ते । <अनायतिः> गत्यन्तराभावः । यथा अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत इत्यादौ । अत्र च सिद्धान्ते प्रवृत्तिं प्रतीष्टसाधनत्वज्ञानस्य कारणव- स्वीकारात्तादृशकारणाभावेन बालकानां स्तनपानप्रवृत्त्यनुपपत्त्या जन्मा न्तरानुभूतेष्टसाधनत्वस्मरणकल्पने जन्मान्तरानुभूतानामन्येषामपि पदा- र्थानां स्मरणापत्तिः । तद्वारणाय अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत इत्यवधेयम् । <अनारभ्याधीत:> ( मन्त्रः ) कंचित्कर्मविशेषमप्रकृत्यैव पठितः । <अनित्यः> उत्पत्तिमान्ध्वंसप्रतियोगी च । यथा - नैयायिकमते शब्दः अनित्यः ( त० प्र० ख० ४ पृ० १२४ ) । <अनित्यत्वम्> [क] प्रतियोगितासंबन्धेन ध्वंसवत्त्वम् ( मू० म० ) । ध्वंसप्रतियोगित्वमित्यर्थः ( त० दी० ) । यस्य ध्वंसः संभवति तत्त्व- मिति फलितम् । इदं लक्षणं च प्रागभावानङ्गीकारपक्षे ध्वंसस्य नित्यत्व- पक्षेपि च संगच्छत इति विज्ञेयम् । [ ख ] प्रागभावप्रतियोगित्वध्वंसप्र- तियोगित्वान्यतरवत्त्वम् ( वाक्य ० १ ) ( त० प्र० १ ) । यथा ध्वंस - प्रागभावयोः घटपटादेश्चानित्यत्वम् । <अनित्यसमः> ( जाति: ) [ क ] साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्र- सङ्गादनित्यसमः (गौ० ५ । १ । ३२ ) । अनित्येन घटेन साधर्म्यादनित्यः शब्द इति ब्रुवतोस्ति घटेनानियेन सर्वभावानां साधर्म्यमिति सर्वस्यानित्य- त्वमनिष्टं संपद्यते । सोयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति ( वात्स्या० ५ । १ । ३२ ) । प्रतिकूलतर्कदेशनाभासोयमिति ज्ञेयम् (गौ० वृ० ५।१।३२ ) । [ ख ] व्याप्तिमपुरस्कृत्य यत्किंचिद्दृष्टान्तसाधर्म्येण सर्वस्य साध्यवत्त्वापादनम् । यथा – यदि दृष्टान्तघटसाधर्म्यात्कृत कत्वात्तेन सह तुल्यधर्म तोपपद्यत इत्यतः शब्दे अनित्यत्वं साध्यते तदा सर्वस्यैवा- नित्यत्वं स्यात् । सत्त्वादिरूपसाधर्म्यसंभवात् ( गौ० वृ० ५/१ । ३२ ) । [ग] अनित्यदृष्टान्तसाधर्म्यात्सर्वा नित्यत्वप्रसङ्गोद्भावनम् । यथा यद्यनि- त्येन घटेन सादृश्यादनित्यः शब्द इत्युच्यते तदा येन केनचिद्धर्मेण सर्व- स्यैव तत्सदृशत्वात्सर्वस्यानित्यत्वप्रसङ्ग इति ( नील० ४५ ) । [घ ] साधर्म्यादिविवक्षायां संपक्षत्वप्रसञ्जनम् । साधनं त्वप्रतिवदन्स ह्यनि- त्यसमोदयः ( ता० र०प० २ श्लो० १२४ ) । <अनित्यसमास:> ( समासः ) स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यल्लभ्य- स्यार्थस्य बोधः सः । यथा राजपुरुषपूर्वकायादिः । अत्र तल्लभ्यार्थस्य राज्ञः पुरुषः पूर्वं कायस्य इत्यादिवाक्याद्रपि प्रतीतेः ( श० प्र० ४० ) । <अनिर्वाच्यम्> प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनि- र्वाच्यमाहुर्वेदान्तवादिनः ॥ ( सर्वद० सं० पृ० ४४७ ) । <अनिष्टप्रसङ्गः> अनभिमतार्थापादनम् । यथा पर्वते धूमेन वह्निसाधने वादिना अप्रयोजकशङ्कायां कृतायां पर्वते यदि वह्निर्न स्यात्तर्हि धूमोपि न स्यात् धूमो वह्निजन्यो न स्याद्वा इत्यापादनम् । अत्राप्रयोजकशङ्का च पक्षे हेतुरस्तु साध्यं मास्तु इति पर्यवसिता । तत्रानिष्टप्रसङ्गश्च सिद्धव्या- प्तिकयोधर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापक प्रसञ्जनम् ( त० भा० ४३ ) । <अनुकरणम्> सदृशक्रियादिकरणम् । तच्च गुणक्रियावयवादिभिः सदृशीक- रणम् । यथा चटचट इत्यनुकरणम् ( वाच० ) । अत्रेदं ज्ञेयम् । अनु- करणत्वं च शब्दमात्रतात्पर्यकोच्चारणविषयकत्वम् । यथा इतिशब्दसमभि- व्याहारे गौरित्याह इत्यादौ । इदं चानुकरणं पदार्थविपर्यासकृद्भवति । अर्थबोधकं न भवतीत्यर्थ: ( ल० म० ) 1 <अनुकल्पः> १ गौणकल्पः । यथा भार्याः कार्या: सजातीयाः सर्वेषां श्रेय स्यः स्युरिति मुख्यः कल्पः । ततोनुकल्पस्तु चतस्रो ब्राह्मणस्येत्यादिः (पैठीनसिस्मृतिः) । २ प्रतिनिधिः । यथा यवाद्यभावे गोधूमाः मध्वा- द्यभावे गुडादयः (वाच० ) । <अनुकूलखम्> – १ प्रयोजकत्वम् । यथा फलानुकूलव्यापार इत्यादौ । २ इच्छाविषयत्वम् । यथा निरुपाध्यनुकूलवेद्यं सुखमित्यादौ ( प० च० ) । <अनुकूलवेदनीयम्> [क] इष्टसाधनताज्ञानानधीनेच्छाविषयः । [ख] इतरेच्छानधीनेच्छाविषयः ( न्या०बी० ४ ) । यथा सुखम् । अत्रेदं बोध्यम् । सुखानन्तरमिष्टफलान्तरस्याभावेन सुखेच्छा (यागेच्छावत् ) नेष्टसाधनत्वप्रकारकज्ञानेनोत्पद्यते अपि तु सुखत्वप्रकारकज्ञानेनैवोत्पद्यते इति ( न्या० बो० ४ )। <अनुक्लृप्तिः> लक्षणम् । यथा कारणान्तरानुक्लृप्तिवैधर्म्याच्चे त्यादौ ( वै० २। १।२२ ) । <अनुगमः> अनुगतप्रवृत्तिनिमित्तम् ( ग० अव० ) । यथा सर्वेषां घटानाम- नुगमो घटत्वम् । <अनुग्रहः> [ क ] अभीष्टसंपादनेच्छारूपः प्रसादः । [ ख ] अनिष्टनिवा- रणपूर्वकेष्टसाधनेच्छारूपाभ्युपपत्तिः । यथा निग्रहानुग्रहे शक्तः प्रभु- रित्यभिधीयत इत्यादौ ( वाच० ) । <अनुज्ञा> (लिङर्थो विधिः) [क] या निवारणाभावव्यजिका पूजा इच्छा वा सा ( कु० व्या० ५ ) । [ ख ] निषेधाभावव्यञ्जिकेच्छा (वै० सा० द० ) । [ग] कर्तुरिष्टत्वे सति वॠनुमतत्वम् । यथा पत्नी पचत्वित्यादौ लोडर्थोनुज्ञा ( श० प्र० १४५ ) । <अनुतन्त्रम्> वार्तिकम् । नित्याः शब्दार्थसंबन्धाः समाम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ ( हरिः- वाक्यपदीये १ ।२३। ) <अनुत्पत्तिसमः> (जाति: ) ( क ) प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः (गौ० ५। १ । १२ ) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धटवदित्युक्ते अपर आह । प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति । तदभावान्नित्यत्वं प्राप्तम् । नित्यस्य चोत्पत्तिर्नास्ति । अनुत्पत्या प्रत्य- वस्थानमनुत्पत्तिसमः ( वात्स्या० ५। १ । १२) । यथा वा घटो न नित्यो जन्यैकत्वादित्यादौ कश्चिदाह । यदि जन्यैकत्वमनित्यत्वे प्रमाणं तदा घटे एकत्वोत्पत्तेः पूर्वं तदभावान्नित्यत्वम् । नित्यश्चेत्तर्ह्यनुत्पन्न एवेति ( नील ● ४४) । असिद्धयादिदेशनाभासोयमिति बोध्यम् ( गौ० वृ०५/१/१२ ) । [ ख ] साधनाङ्गपक्षहेतु दृष्टान्तानामुत्पत्तेः प्राग्धेत्वभाव इति अनुत्पत्त्या प्रत्यवस्थानम् । यथा घटो रूपवान्गन्धात्पटवदित्युक्ते घटोत्पत्तेर्गन्धोत्प- त्तेश्च पूर्वं हेत्वभावादसिद्धिः । पटे च गन्धोत्पत्तेः पूर्वं हेत्वभावेन दृष्टा- न्तासिद्धिः । एवमाद्यक्षणे रूपाभावाद्वाधश्च । अनुत्पत्त्या प्रत्यवस्थानस्य तत्रापि सत्त्वात् । उत्पत्तेः पूर्वं हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षण- त्वात् ( गौ० वृ० ५ । १२।१२ ) । [ग] अनुत्पन्ने साधनांशे हेतुवृत्तेर- भावतः । भागासिद्धिप्रसङ्गः स्यादनुत्पत्तिसमो मतः ॥ ( ता० २० २ श्लो० ११५ ) । <अनुद्धर्षः> देशकालानुकूल्येन प्रियवस्त्वनुस्मरणेन वा जायमानं मनः- शैथिल्यं तुष्टिः । अयमेवोद्धर्षः । तद्विपर्ययोनुद्धर्षः (सर्वद० सं० पृ० १२४ ) । <अनुद्भूतत्वम्> शुक्लत्वादिव्याप्यो धर्मः ( सि० च० १ पृ०४ ) ( मु० १ पृ०११९ ) । शिष्टं तु उद्भूतत्वशब्दव्याख्याने दृश्यम् । <अनुपकारसमः> ( जाति: ) कार्यकारणभावस्योपकारनियतत्वेनवस्था । असिद्धदेशनाभासोयम् ( गौ० ० ५ । १ । ३७ ) । इयं जाति: सूत्रानुक्ता वृत्तिकारेण वृत्तावुच्यते कार्यसम इत्यनेनोपलक्ष्यते चेति बोध्यम् । <अनुपधा> श्रद्धामनःप्रसादादयः । एते धर्मजनका: ( त० व० १३२ ) । <अनुपपत्तिः> उपपत्यभावः । यथा पीनत्वान्यथानुपपत्तिरित्यादौ । <अनुपलब्धिः> ज्ञान करणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणम् । अस्यार्थ:- ज्ञानरूपं यत्करणं तदजन्यो योभावानुभवो नामा- • भावज्ञानं तस्य यदसाधारणं कारणं तदनुपलब्धिरूपं प्रमाणं बोध्य- मिति । अनुमानादिना जन्योत एवातीन्द्रियो योभावानुभवस्तस्य हेतुभूते- नुमानादावतिव्याप्तिवारणायाजन्यान्तम् । अदृष्टादौ साधारणकारणेतिव्या- तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतौ संस्कारेतिव्याप्तिवार- णायानुभवेति विशेषणम् । एवं च घटादिज्ञानाभावो घटाद्यभावज्ञाने कारणमिति फलितोर्थः । तथा च घटाभाववति भूतले घटज्ञानाभावाद्ध- टाभावस्य ज्ञानं भवति । आत्मनि धर्माधर्माद्यनुपलब्धिसत्वेपि तदभावा- निश्चयेन योग्यानुपलव्धेरेवाभावग्राहकत्वं बोध्यम् । अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्चितप्रतियोगिकत्वरूपा । अस्यार्थ:- तर्कितं यत्प्रतियोगिसत्त्वं तेन प्रसञ्जित आपादितः प्रतियोगी यस्य तस्य भावस्त- त्वमिति । तथा च स्फीतालोकवति भूतले यदि घटः स्यात्तदा घटोप- लम्भ: स्यादित्यापादनसंभवात्तादृशभूतले घटाभावोनुपलब्धिगम्यः । अन्धकारे तु तादृशापादनासंभवान्नानुपलब्धिगम्यता । अत एव स्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत्प्रत्यक्षतापत्त्या तदभावोनुपलब्धिगम्यः स्तम्भः पिशाचो नेति । आत्मनि धर्माधर्मादिसत्त्वेपि तस्यातीन्द्रियतया निरुक्तोपलम्भापादनासंभवान्न धर्माद्यभावस्यानुपलब्धिगम्यत्वम् । ननूक्तं- रीत्याधिकरण इन्द्रियसंनिकर्षस्थले अभावस्यानुपलब्धिगम्यत्वं तवानुम- तम् । तत्र च कृप्तेन्द्रियमेवाभावाकारवृत्तावपि कारणम् । इन्द्रियान्वय- व्यतिरेकानुरोधादिति चेत् न । प्रतियोग्यनुपलब्धेरभावग्रहे हेतुत्वेन कृतत्वात्करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं संनिक- र्षाभावेनाभावज्ञाने हेतुत्वाभावात् । इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञाना- र्थमुपक्षीणत्वेनान्यथा सिद्धेः (वेदान्तपरि०) इति मायावादिनो वेदान्तिनः । अत्र नैयायिकाः तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धि सहकृतेनेन्द्रियेणैवा- भावज्ञानोपपत्तावनुपलब्धेः प्रमाणान्तरत्वासंभव इत्याहुः (तदी० १८) । तदर्थश्च - तर्किता आपादिता प्रतियोगिनो घटादेः सत्त्वस्य सत्त्व प्रसक्ते- विरोधिनी या उपलब्धिस्तत्प्रतियोगिकः अभावोनुपलब्धिस्तत्सहकृतेनेति ( नील० १८ ) । तथा हि । घटोपलब्धौ घटाभावाग्रहात् प्रतियोग्य- नुपलब्धिरभावप्रत्यक्षे इन्द्रियस्यैव सहकारिणी । न तु प्रमाणान्तरम् । इन्द्रि- येणैवाभावप्रत्यक्षोपपत्तेः । अन्यथा अभावप्रत्यक्षस्येन्द्रियजन्यत्वानङ्गीकारे इह घटो नास्ति इति निर्णयानन्तरं इह घटाभावं साक्षात्करोमि इति साक्षात्कारविषयक प्रतीत्यनुपपत्तेः ( त० कौ०१७-१८ ) । तथा च अनुपलब्धिसहकृतेन्द्रियग्राह्यत्वात् अनुपलब्धिग्राह्यः इत्युपचर्यते ( गौ० वृ० ५ । १ । ३० ) । अनुपलब्धिर्द्विविधा । अज्ञाता ज्ञाता च । तत्राज्ञाता- नुपलब्धिस्थले इन्द्रियेणैवाभावग्रहः । तावत्पर्यन्तमिन्द्रियव्यापारस्य विद्य- मानत्वात् । अनुपलब्धिस्तु सहकारिमात्रम् । ज्ञातानुपलब्धिस्थले खनु- मानम् इति नानुपलब्धिर्मानान्तरम् ( त० व० ९९ ) । यत्र त्वज्ञाता अनुपलब्धिः कारणं तत्प्रत्यक्षम् । ज्ञातानुपलब्धिजन्या भावज्ञानस्यानुमान- त्वम् ( कु० व्या० ३।३९ ) । <अनुपलब्धिसमः> (जाति: ) [क] तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ( गौ० ५। १ । २९ ) । प्रतिकूलतर्क देश- नाभासोयमिति ज्ञेयम् ( गौ० वृ० ५ । १ । २९ ) । [ख ] अनुपलब्धेर- प्यनुपलब्धिस्तस्या अप्यनुपलब्धिरित्येवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः । नैयायिकैस्तावच्छब्दानित्यत्वमेव साध्यते । यदि शब्दो निर्यः स्यादु- चारणाप्राक् कुतो नोपलभ्यते । न हि घटाद्यावरणकुड्यादिवत् शब्दस्या- वरणमस्ति तदनुपलब्धेरिति । तत्रैवं जातिवादी प्रत्यवतिष्ठते । यद्यावरणा- नुपलब्धेरावरणाभावः सिध्यति तदा आवरणानुपलब्धेरप्यनुपलम्भादावर- णानुपलब्धेरण्यभावः सिध्येत् । तथा चावरणानुपलब्धिप्रमाणक आव न्या० को० ४ रणाभावो न स्यात् अपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तम् ( गौ०० ५ । १ । २९) । [ग] वादिनानुपलब्धिवशा- त्कस्य चित्पदार्थस्यानङ्गीकारेनुपलब्धिवशादेव वाद्यभिमतस्यापि यत्कि- चित्पदार्थस्याभावसाधनम् । यथा जलादेर्विद्यमानस्याप्यावरणवशादंनु- पलब्धि: तद्वत् उच्चारणा पूर्व शब्दस्य विद्यमानस्याप्यावरणवशादनुप- लब्धिः । इत्येतन्मतं वादिना दूष्यते । यद्यावरणवशाच्छन्दो नोपलभ्यते तदा जलाद्यावरणमित्र शब्दाद्यावरणमप्युपलभ्येतेति । तत्रोत्तरम् । यदि भवद्भिरनुपलब्धित आवरणं न स्वीक्रियते तदानुपलब्धेरप्यनुपलब्ध्या अभावे सिद्धे तद्भावादावरणाभावासिद्धावावरणसिद्धिरिति ( नील ० ४४–४५)। [ घ ] स्वस्मिन्विषयिधर्माणां तदतद्रूपकल्पनात् । विप- र्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ( ता० र०प० २ श्लो० १२३)। <अनुपसंहारित्वम्> ( हेतुदोषः ) [ क ] विशिष्टसाध्यसाधनग्रहाविरोधिनो ज्ञानस्य विषयतया व्यतिरेकव्याप्तिग्रहविरोधितावच्छेदकरूपवत्वम् । ता- दृशं रूपं च साध्यादिनिष्ठमयन्ताभावाप्रतियोगित्वादिकम् । साध्यसाधन- योरप्रसिद्धेरसिद्धिभेदस्य वारणायाविरोधिन इत्यन्तम् । यस्य साध्यादेरत्य- न्ताभावः अप्रसिद्धस्तन्निष्ठमप्रतियोगित्वमित्यर्थः । इदं लक्षणोदाहरणादिकं च नव्यमतानुसारेणेति बोध्यम् (दीवि० २।२०४) (नील० २५ ) । यथा इदं वाच्यं ज्ञेयत्वादित्यादौ वाच्यत्वादिनिष्ठमत्यन्ताभावा प्रतियोगित्वादिकम- नुपसंहारित्वम् । अत्रेदमाकूतम् । इदं वाच्यं ज्ञेयत्वादित्यादौ ज्ञेयत्वे वाच्य- खात्यन्ताभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञाने ( भ्रमा- त्मके) अत्यन्ताभावांशे वाच्यत्वप्रतियोगिकत्वस्य भासने तुल्य वित्तिवेद्यतया वाच्यत्वांशे अत्यन्ताभावप्रतियोगित्वमपि भासते । तथा च वाच्यत्वांशे अत्यन्ताभाव प्रतियोगित्वविषयकं व्यतिरेकव्याप्तिग्रहं प्रति वाच्यत्वांशे अत्यन्ताभावाप्रतियोगित्वरूपानुसंहारित्वनिश्चयस्य तदभाववत्ताज्ञानमुद्रया विरोधित्वाल्लक्षणसमन्वय इति । [ ख ] अवृत्तिसाध्यहेत्वन्यतरत्वम् अवृ- त्तिसाध्यकत्वं वा । यथा आकाशवान्धूमादित्यादौ ( न्या० म० २ । २० ) । वस्तुतस्तु केवलान्वयिधर्मावच्छिन्न पक्षकत्वमनुपसंहारित्वम् । पक्षः संदि- ग्धसाध्यवान् । उदाहरणं च सर्वमनित्यं प्रमेयत्वादित्यादि । अत्र केव- लान्वयी धर्मः सर्वत्वमिति बोध्यम् । एवमन्यत्रापि प्रमेयत्वाभिधेयत्वादिकं केवलान्वयी धर्म इति ज्ञेयम् । न च सर्वमभिधेयं प्रमेयत्वादित्यत्राव्याप्तिः । विशेषादर्शनदशायां तस्यापि लक्ष्यत्वात् । अतएव तस्यानित्यदोषत्वम् । व्यतिरेकव्याप्तिग्रहप्रतिबन्धश्चास्य दूषकताबीज मिति तत्त्वम् ( म०प्र० २६)। एतदादीनि लक्षणानि प्राचीनमताभिप्रेतानीति ज्ञेयम् । [ ग ] केवलान्व- यिधर्मावच्छिन्नसाध्यसंदेहविषयवृत्तित्वम् । [घ ] साध्यवत्तानिश्चयसामा- न्यविरोधिसंशय विषयवृत्तित्वमिति कश्चिदाह ( दीधि० २।२०२ ) । [] केवलान्वयिधर्मव्यापकीभूतं यत्स्वप्रतिबन्धकतावच्छेदकीभूतसाध्यवत्तानि श्चयविशेष्यतासमानाधिकरणसाध्यसंशय विषयत्वं तद्वद्वृत्तित्वम् ( ग० ) । [ च ] किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति किंचिद्विशेष्यकनि- श्चयाविषयसाध्याभावकत्वमिति प्राञ्चो वदन्ति ( नील० २५ ) । <अनुपसंहारी> ( हेत्वाभासः ) [ क ] व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतः । स चान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्वे दृष्टान्ता- भावात् । अनित्यो घटो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादौ च हेतुः । अत्र साध्यसाधनसाहचर्याज्ञानात्तस्य विरुद्धत्वाज्ञानदशायाम- नुपसंहारित्वेनेष्टत्वात् ( चि० ९० ) । अयमनैकान्तिकप्रभेद इति विज्ञेयम् । अनुपसंहारिणो लक्षणं तु पूर्वोक्तानुपसंहारित्वमेव । तद्धे- तुकतत्साध्यकसाध्यसिद्ध्यौपयिकव्याप्तिग्रहानुकूलोपसंहाराभावस्तस्यानुप- संहारित्वमित्यर्थो लभ्यते ( दीघि ० २ । २०० - २०१ ) । [ख] केव- लान्वयिधर्मावच्छिन्नपक्षको हेतु: (चि० २१९० ) (भा०प० ७५ ) ( गौ० वृ० १ । २ । ५ ) । अत्र पक्ष इत्यस्य साध्यनिश्चयविरोधिनः साध्य वान्त्र वा इत्यादेः संदेहस्य विषय इत्यर्थः ( दीधि० २/२०१ ) । सर्वमभिधेयं प्रमेयत्वादिति सद्धेतौ न केवलान्वयी पक्षतावच्छेदको वा । निश्चितसाध्यवद्वृत्तित्वात् । विप्रतिपत्त्या साध्यानिश्चयदशायां पक्षत्वे तद- नुपसंहार्येव । व्यतिरेकिसाध्य के साध्याभाववद्वृत्तित्वाज्ञानदशायामिदं दूष- णम् । तदवगमेपि साधारणसंकर एव ( चि० २/९०) । [ग] वस्तु- मात्रपक्षको हेतुः ( त० कौ० १४) । यथा सर्वे नित्यं प्रमेयत्वादित्यादि ( गौ० वृ० १।२।५ ) ( त० कौ० १४) । [ घ ] अन्वयव्यतिरेकदृष्टा- न्तरहितो हेतुः । यथा सर्वमनित्यं प्रमेयत्वादिति ( त० सं० ) । इदं लक्षणचतुष्टयं प्राचीनमताभिप्रायेण । अत्र च साव्यसंदेहाद्व्याप्तिग्रहो न भवतीत्याशयः ( गौ० वृ० १२५ ) । सर्वमनित्यं प्रमेयत्वादित्यत्र सर्व- स्यैव पक्षवात् दृष्टान्तो नास्तीति प्रमेयत्वं हेतुरनुपसंहारी । एतज्ज्ञानं च व्याप्तिग्रहे प्रतिबन्धकम् । तथा हि । सर्वस्य पक्षत्वे व्याप्तिग्राहक- सहचारदर्शनस्थलाभावेन सहचारनिश्चयाभावे सति व्याप्तेरनिश्चयादिति ( त० कौ० ) । हेतावनुपसंहारित्वज्ञानदशायां हेतुसाध्ययोः सामाना- धिकरण्यनिश्चयासंभवेन पक्षान्तर्भावेन च साध्यसंशय सत्त्वेन व्याप्तिसंशय- संभवादिति (नील० २।२७)। [ङ ] केवलान्वयिधर्मसाध्यको हेतुः । सच अत्यन्ताभावाप्रतियोगिताध्यकादिः (मु० १६८ ) । यथा घटो- भिधेयः पटत्वादित्यादौ पटत्वं हेतुरनुपसंहारी । इदं च नवीनमतम् । तस्य चात्यन्ताभावाप्रतियोगिसाध्यकत्वरूपस्य ज्ञानाद्व्यतिरेकव्याप्तिग्रह - प्रतिबन्धो दूषकताबीजम् । <अनुबन्धः> १ इच्छा पूर्वकदोषविशेषाभ्यासः । यथा अनुबन्धादिकं दृष्ट्वा सर्वं कार्य यथाक्रमम् इत्यादौ । २ विषयप्रयोजनाधिकारिसंबन्धा एत- चतुष्टयमिति वेदान्तिनः । ३ वातपित्तादिदोषाणाम प्राधान्यमिति भिषजः । ४ प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्धयादिकार्यविशेषार्थमनुब- न्धनीयः परिनिष्पन्नपदकालेषु अश्रयमाणतया नश्वरः इत्संज्ञतया कृत- लोपो वर्ण इति शाब्दिकाः । ५ फलसाधनं पुनः पुनरनुष्ठानाभ्यास इति धर्मशास्त्रविदः । ६ बन्ध इति कोशकाराः । ७ आरम्भ इति केचिदाडुः ( वाच० ) । <अनुभव:> (बुद्धिः ) १ [ क ] स्मृतिभिन्नं ज्ञानम् ( त० सं० ) ( त० भा० २ ) ( न्या० म० ११२ ) ( त० कौ० ६ ) । यथा अयं घटः इति चाक्षुषप्रत्यक्षमनुभवः । [ख] अनुभवामि इत्यनुगतप्रती- ति सिद्धानुभवत्वजातिमान् (न्या० म० ११२ ) ( त० कौ० ६ ) । स द्विविधः । यथार्थः अयथार्थः । आद्यः तद्वति तत्प्रकारकानुभवः । स एव प्रमेत्युच्यते । द्वितीयः तदभाववति तत्प्रकारकानुभवः । सोप्रमेत्युच्यते । यथार्थश्चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः । यथार्था- नुभवकरणमपि चतुर्विधम् । प्रत्यक्षम् अनुमानम् उपमानम् शब्दः इति ( त० सं० ) (भा०प० ५३ ) । एवमेवायथार्थानुभवोपि चतुर्विध इति तत्करणमपि चतुर्विधमिति च विज्ञेयम् । वैशेषिकमतेनुभवो द्विविधः । प्रमा अप्रमा चेति । तत्राप्रमारूपोनुभवो द्विविधः । भ्रमः संशयश्चेति ( त० कौ० ६ ) । २ विषयानुरूपा बुद्धिवृत्तिरनुभव इति पातञ्जला: सांख्याः केचिद्वेदान्तिनश्चाहुः । विषयानुरूपत्वं च चित्तवृत्तेः वृत्तिसा- रूप्यमितरत्र (पा० सू० ११४) इति पातञ्जलसूत्रे भिहितम् । तथा हि । यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्त्राद्याकारेण परिणमते एवमेवेन्द्रियादिप्रणाल्यान्तःकरणं बहिर्निःसृत्य विषयाकारेण परिणमते । तादृश परिणामरूपवृत्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य विषयानुरूपभवन।दनुभवत्वम् । स्मृतौ तु विषयसंनिकर्षाभावात् न विषया- कारताप्राप्तिरिति तद्भिन्ने ज्ञाने एवान्तःकरणस्यानुभवत्वम् । <अनुभावः> १ अनुभववदस्यार्थोनुसंधेयः । २ कोषदण्डादिजातो राज्ञां तेजोविशेष इति नीतिशास्त्रज्ञाः । ३ रसव्यञ्जको भ्रूभङ्गादिरित्यालंका- रिकाः । तत्रोक्तम् - भावं मनोगतं साक्षात्स्वगतं व्यञ्जयन्ति ये । तेनुभावा इति ख्याताः इति । उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भवं प्रकाशयन् । लोके यः कार्यरूपः सोनुभावः काव्यनाट्ययोः ॥ इति च ( वाच० ) । ४ [ क ] सामर्थ्यमिति केचिदाहुः (वाच०)। [ख ] कर्मपुद्गलानां स्वकार्य- करणे सामर्थ्यविशेषोनुभावः ( सर्व० सं० पृ० ७८ आईत० ) । <अनुभूतिः> [क] अनुभववदस्यार्थोनुसंधेयः ( भा० प० ५२ ) । अनु- भूतिः प्रत्यक्षात्मिकैवेति चार्वाका आहुः । अनुमितिरपीति काणादसौ- गतौ । उपमितिरपीति केचिन्नैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभा- कराः । अनुपलब्धिरपीति भट्टवेदान्तिनः । संभवरूपा ऐतिह्यरूपा चापीति पौराणिका: ( दि० ११३ ) । चेष्टापीति तान्त्रिकाः ( सि० च० २० ) । [ ख ] अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यव- हारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोनुभवि- तुरात्मनो धर्मविशेषः (सर्वद० सं० पृ० ९८ रामानु० ) । <अनुमतिः> १ अनुज्ञा । यथा अनुमत्या व्यपेयादित्यादौ । २ कलाहीन- चन्द्रवती शुक्लचतुर्दशीयुक्ता पूर्णिमा तिथिरिति याज्ञिका आहुः (वाच०) । <अनुमा> अनुमितिः (मु० २) । यथा - अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि (भा० प० श्लो० ६८ ) इत्यादौ - अनुमा शब्दस्यार्थः । <अनुमानम्> ( प्रमाज्ञान विशेषः ) यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्ने- ग्रहणमनुमानम् (वात्स्या० २१११४६ ) । अत्र मितेन लिङ्गेनार्थस्य पश्चान्मान मनुमानमिति व्युत्पत्तिः ( वात्स्या० १ । १।३) । अनुमानस्य द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति । तत्र व्याया साभ्यसामान्यसिद्धिः । हेतोः पक्षधर्मताबलात् साध्यस्य पक्षधर्मत्वविशेषः सिध्यति । पक्षधर्मेण धूमवत्त्वेनाग्निरपि पर्वतसंबद्ध एवानुमीयते ( त० मा० १४ ) । अनुमानम् - ( प्रमाणम् ) १ अनुमितिकरणम् ( त० स० ) । अनु- मितिकरणं द्विविधम् । तत्र प्रथमं व्याप्तिज्ञानम् (गौ० वृ० १११।५) । यथा पर्वतो वह्निमान् धूमादित्यादौ धूमो वहिव्याप्यः इति व्याप्तिज्ञान- मनुमितिकरणं भवति ( त० कौ० १० ) । अनुमानं च लिङ्गलिङ्गिनो: संबन्धदर्शनम् (वात्स्या० ११११५ ) । तच्च सहचारप्रत्यक्षेण जन्यते ( गौ० वृ० १११।५ ) । एतस्य करणत्वाभिधानं च व्यापारवदसाधा. रणं कारणं करणमिति प्राचीनमतानुसारेण । अस्मिन् मतेनुमितिकरणप- दस्य जनकतयानुमितित्वावच्छिन्नजनकवत्त्वे सत्यनुमितित्वावच्छिन्नजन- कम् इत्यर्थः ( वाक्य ० ) । अत्र व्यापारस्तृतीयलिङ्गपरामर्शो ज्ञेयः ( त ० कौ० ) । द्वितीयमनुमितिकरणं तु लिङ्गपरामर्शः । यथा वह्निव्याप्यधूम- वानयम् इति ज्ञानमनुमितेः करणं भवति ( चि० २) (त०भा० ) ( त० सं० ) । अत्र च फलायोगव्यवच्छिन्नं कारणं करणमिति नवीनमतानुसा- रेणैतस्य करणत्वाभिधानम् । अनुमानं द्विविधम् । स्वार्थम् परार्थम् । स्वस्यैवार्थः प्रयोजनं ( अनुमिति: ) यस्मात्तत् स्वार्थम् । परस्य प्रतिवा- दिनो मध्यस्थस्य वा अर्थोनुमित्यात्मकं प्रयोजनं संशय निवृत्तिर्वा यस्मा- तत् परार्थम् । आद्यं खानुमितिहेतुः । द्वितीयं परानुमितिहेतुः। तथा हि । यत्र स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ संदिहानः पर्वते धूमं पश्यन् यत्र धूमस्तत्राग्निः इति व्याप्तिं स्मरति । तदनन्तरं वह्निव्याप्यधूमवान्पर्वतः इति ज्ञानमुत्पद्यते । अयं लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयमेव धूमाद- ग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेतं वाक्यं प्रयु तत्परार्थानुमानम् ( त० सं० ) । प्रकारान्तरेणानुमानं त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो दृष्टम् । अत्र व्युत्पत्तिः पूर्वी कारणं तद्वत् इति । तदर्थस्तु [ क ] कार- णलिङ्गकम् । यथा मेघोन्नतिविशेषेण वृष्ट्यनुमानम् (गौ०वृ०१।१।५ ) । [ ख ] यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिः इति ( वात्स्या० ११११५ ) । शेषवच्छब्दव्युत्पत्तिस्तु शेषः कार्य तद्वत् इति । तदर्थस्तु [ क ] कार्यलिङ्गकम् । यथा नदीवृद्ध्या वृष्टयनु- मानम् (गौ० वृ० १९९१ । ५ ) । [ख ] यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते भूता वृष्टिः इति ( वात्स्या० ११११५ ) । सामान्यतो दृष्टं च कार्यकार- णभिन्नलिङ्गकम् । यथा पृथिवीत्वेन द्रव्यत्वानुमानम् (गौ० वृ० १।१।५) । यथा वा इच्छादिभिरात्मानुमानम् । इच्छादयो गुणाः । गुणाश्च द्रव्यसं- स्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या० १।१।५ ) । एवं केव- लान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि इत्यपि त्रिविधमनुमानं बोध्यम् ( गौ० १ । १ । ५ ) । वीतमवीतमिति मेदेन द्विविधमनुमानमिति सांख्याः । मीमांसकास्तु अन्वयव्यतिरेक्याख्यमेकमेवानुमानमस्ति । केवलान्वयि केवलव्यतिरेकि वानुमानं नास्तीत्याहुः ( म० प्र० १८) । अनुमानस्य द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति ( म०प्र० २ । २३ ) । अनुमानप्रमा- णम् इत्यस्यार्थस्तु—अनुमितिप्रमा[^१]योगव्यवच्छिन्नमनुमानम् । तच्च व्याप्तिप- क्षधर्मताविशिष्टलिङ्गज्ञानम् । अत्रेदमवधेयम्-अनुमानप्रयोगे कर्तव्ये पक्षः साध्यम् हेतुः दृष्टान्तश्च एतच्चतुष्टयं प्रायशः प्रयोक्तव्यम् । तत्र सद्धेतु- स्थले व्यापकं साध्यम् । व्याप्यं हि लिङ्गम् ( हेतुः ) भवति । प्रकारान्त- लागेति पदच्छेदः । रेणानुमानं द्विविधम् । तथा चोक्तम्- दृष्टं सामान्यतो दृष्टमिति चास्य विधाद्वयम् । पूर्वे प्रत्यक्षयोग्यार्थं तदयोग्यार्थमुत्तरम् ॥ इति ( ता० र ० श्लो० २१ ) ( प्रशस्त ० २ ) । मायावादिनस्तु - अनुमानं न त्रिविधं किंतु अन्वयिरूपमेकमेवेत्याहु: ( वेदान्तप० पृ० ३४ ) । २ लिङ्गम् (चि० २) <अनुमिति:> ( अनुभवः ) [क] व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानम् ( चि० २ ) । अत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानेन जन्यमिति विग्रहः । तदर्थश्च व्याप्तिविशिष्टपक्षधर्मत्वविषयताशालिनिश्चयत्वावच्छिन्न कारणता- निरूपितकार्यत्वे सति ज्ञानम् ( वाक्य० ) । व्याप्तिनिष्ठप्रकारतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या पक्षतावच्छेदकावच्छिन्नविशेष्यता तच्छालिज्ञानजन्यं ज्ञानमिति निर्गलितोर्थ: ( दि० २ । १३८ ) । व्याप्तिवि शिष्टपक्षधर्मताज्ञानं च परामर्शशब्दव्याख्यानावसरे निरूपयिष्यामः । अत्रेदं बोध्यम् - ज्ञानलक्षणसंनिकर्षसत्त्वेपि तस्य दुर्बलत्वेन परामर्शा- नन्तरं पर्वते वह्नयनुमितिरेव न तु प्रत्यक्षमिति ( म०प्र० ७३ ) । अनुमितेर्लक्षणं च अनुमितित्वमेव । तच्च अनुमिनोमि इत्यनुभव- सिद्धो जातिविशेषः । जन्यशब्दधीजन्यत्वव्यभिचारिणी या जन्यज्ञान- जन्यत्वाव्यभिचारिणी च जाति: ( अनुमितित्वं ) तद्वदनुभवत्वम् ( न्या० म० २ (१४) (त० प्र०) । पदप्रयोजनादिकं तु तत एव ज्ञेयम् । [ ख ] परामर्शजन्यं ज्ञानम् ( त० सं० ) । [ ग ] लिङ्गज्ञानजन्यं लि- ङ्गिज्ञानम् ( त० कौ० ) । [घ ] व्याप्तिज्ञानकरणकं ज्ञानम् ( मु० ) । यथा पर्वते धूमेन वहिसाधने पर्वते धूमज्ञानानन्तरं पर्वतो वह्निमान् इति ज्ञानम् ( त० कौ० ) ( त० सं० ) । अनुमितिद्वेधा । पक्षतावच्छेदकसाध्ययोः सामानाधिकरण्यमात्रावगाहिनी तयोरवच्छेद्याव- च्छेदकभावावगाहिनी च ( ग० पक्ष० ) । अत्रेदमवधेयम् । पर्वतो वह्निमान् इत्याद्यनुमितौ यदा वह्निपर्वतत्वयोः सामानाधिकरण्यमात्रं विव क्षितं तदा सानुमितिः सामानाधिकरण्यमात्रावगाहिनी । यदा तुला र्व्याप्यव्यापकभावो विवक्षितस्तदावच्छेद्यावच्छेदकभावावगाहिती । तथा तीति । प्रकारान्तरेणानुमितिर्द्विविधा । लाघवज्ञानसहकृतानुमिति: इतर- बाघग्रह सहकृतानुमितिश्चेति । अत्रेदं बोध्यम्– अन्वयव्यतिरेकव्यात्योर- न्यतरनिश्चयेनाप्यनुमितिर्जन्यते इत्यनुभवो न तु युगपदुभयव्याप्त्युपस्थित्यैव जन्यत इति नियमः ( चि० २ ) । <अनुमित्सा> सिषाधयिषाशब्दवदस्यार्थोनुसंधेयः <अनुमेय:> १ पक्षः । यथा - यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः (सव्यभिचारः ) ( प्रशस्त • ४७ ) इत्यादौ — अनुमेयशब्दस्यार्थः । २ साध्यम् । यथा- पर्वतो वह्निमान्धूमादित्यत्र वह्निरनुमेयः । <अनुयोगिता> १ स्वरूपसंबन्धविशेषः । यथा भूतले घटसत्तादशायां भूत- लनिष्ठा भूतलस्वरूपा संयोगसंबन्धस्यानुयोगिता । २ अभावत्वात्मिका (ग०सि० ) । यथा घटो नास्ति इति प्रतीतिविषये अभावे घटनिष्ठप्र- तियोगितानिरूपितानुयोगिता । इयमपि स्वरूपसंबन्धविशेष एवेति केचि- न्नैयायिका वदन्ति । अखण्डोपाधिरित्यन्ये वदन्ति । <अनुवत्सरः> प्रभवादिषष्टिसंख्यानां वत्सराणामादितः पञ्चानां पञ्चानां युग- संज्ञकानां यथासंख्यं संवत्सर - परिवत्सर - इदावत्सर - अनुवत्सर - इद्वत्सर इति पञ्च संज्ञाः । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तु- तीयस्तु चतुर्थश्चानुवत्सरः । इद्वत्सरः पञ्चमस्तु तत्संघो युगसंज्ञकः ( पु० चि० पृ० ११ ) । <अनुवाद:> ( अर्थवादः ) [ क ] विधिविहितस्यानुवचनमनुवादः (गौ० २।१।६४) । प्राप्तस्यानु पश्चात्कथनं सप्रयोजनमनुवाद इति सामान्य- लक्षणम् ( गौ० वृ० २।१।६५ ) । विध्यनुवचनं चानुवादो विहिता - नुवचनं च । पूर्वः शब्दानुवादो परोर्थानुवादः । किमर्थं पुनर्विहि- तमनूयते । अधिकारार्थम् । विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा #विधिशेषो वाभिधीयते । विहितानन्तरार्थोपि चानुवादो भवति । लोप चानुवादः । पचतु पचतु भवानित्यभ्यासः । क्षिप्रं पच्यता- त्या० को० ५ मिति वा । अङ्ग पच्यतामित्यध्येषणार्थम् । पच्यतामेवेति वावधार- णार्थम् ( वात्स्या० २१११६५ ) । [ख ] प्रमाणान्तरेणावधृत- स्यार्थस्य प्रतिपादकः । यथा अग्निर्हिमस्य भेषजमित्यादिः ( सि० च० ३३ ) ( म० प्र० ६४ ) । भेषजं विरोधीत्यर्थः । अत्र हिमविरोधित्व- स्याग्नौ प्रत्यक्षावगतत्वादेतद्वाक्यस्यानुवादकत्वमिति बोध्यम् ( लौ० भा० )। अन्यरीत्यानुवादस्त्रिविधः । भूतार्थानुवादः स्तुत्यर्थानुवादः गुणानुवादश्चेति । आद्यो यथा सदेव सौम्य इदमग्र आसीदित्यादिः वज्रहस्तः पुरंदर इत्यादिश्च । अयं च विधिसमभिव्याहाराभावेप्यनुवादो- स्तीति वृत्तिग्रन्थाल्लभ्यते (गौ० वृ० २।१।६५) । द्वितीयः वायुर्वै क्षेपिष्ठे- त्यादिः । तृतीयः अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्याग्निहोत्रहोमस्य दना जुहोति इत्यादिवाक्ये अनुवादः ( वाच० ) । अत्र तादृशहोमे दधिकरणकत्वमात्रं गुणो विधीयत इति बोध्यम् । तर्कप्रकाशेनुवादो- दाहरणं यथा – यन्त्र दुःखेन संभिन्नम् .... तत्सुखं स्व:पदास्पदमित्यादि वाक्यम् । यथा वा - परिणतिसुरसमा म्रफलम् परिणतिविरस पनसफ- लम् इत्यादि वाक्यं चानुवादः । प्रत्यक्षप्रमाणादिना तत्तदर्थनिर्णयात् • ( त० प्र० ख० ४ पृ० १२ ) । ग ज्ञातस्य कथनमनुवादः ( जै० न्या० अ० १ पा० ४ अधि० ६ ) । <अनुवादकत्वम्> गृहीतग्राह्यनुभवमात्रजनकत्वम् । स्वसमानाधिकरणस्वाव्य- वहितपूर्ववर्तिस्वसमानाकार निश्चय विषयविषयक तद्वद्विशेष्यकतत्प्रकारकानु- भवमात्रजनकत्वमिति यावत् । अत्र स्वपदमनुभवादिपरम् ( कु० व्या ०३ ) । अनुवाद्यता प्रमाणान्तरसिद्धस्य किंचिद्धर्मविधानार्थं पुनरुपन्यास्यता । यथा पर्वतो वह्निमानित्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेपि वह्निमत्वरूपध- र्मविधानार्थमुपन्यासः ( वाच० ) । <अनुवृत्तत्वम्> १ सामानाधिकरण्यम् ( ग० सव्य ० ) । यथा धूमानु- वृत्तो वहिरित्यादौ वह्नौ धूमानुवृत्तत्वम् । २ धारातः प्राप्तत्वम् । यथा विज्ञानवादिबौद्धमते विज्ञानसंतानस्यानुवृत्तत्वम् । <अनुवृत्तिः> दवीयःस्थानान्तरस्थितस्य (पदस्य ) सर्वत्रानुसंधानम् ४ दि० ४। १८८ ) । तच्च व्याकरणादौ पूर्वसूत्रस्थपदस्योत्तरसूत्रे आकाङ्क्षापूरणार्थ- मनुसंधानम् । यथा इको यणचि इत्यतः अचीति सप्तम्यन्तपदस्य आद्गुणः इत्यादावनुवृत्तिः । अनुवृत्तिस्त्रिधा । सिंहावलोकितवत् मण्डूकडतिवत् गङ्गास्रोतोवत् इति ( दि० ४) १८८ ) । <अनुव्यवसायः> व्यवसायगोचरं प्रत्यक्षम् ( म० प्र० ६९) । यथा घटज्ञानानन्तरं घटमहं जानामि इति मानसं ज्ञानम् । २ ज्ञाततावभा- सकं ब्रह्मचैतन्य मिति मायावादिनः (पञ्च० कूट० ) । <अनुशासनम्> १ गमकम् । ज्ञापकं शास्त्रम् । यथा अथ शब्दानुशासन- मित्यादौ । अनुशासनमिति हि शास्त्रमाह । अनुशिष्यते व्याख्यायते लक्ष- णभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः ( सर्व० सं० पृ० ३३७ पात ० ) । २ यथार्थज्ञापनम् । यथा ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नुते तद्विगुणं तन्मनोरनुशासनमित्यादौ । ३ दण्डनम् । यथा एष स्तेनानुशासी राजेत्यादौ ( विक्रमोर्वशी ) । ४ देशनया प्रवर्तना । यथा पुत्रं धर्ममनुशास्तीत्यादौ धात्वर्थः ( श० प्र० ९९ ) । अत्र पुत्रनिष्ठस्य देशनया प्रवर्तनस्यानुकूलव्यापारवानि- त्यर्थः । तथाविधो व्यापारः संध्यां विधेहि समिधमाघेहि इत्यायुपदेश- रूपः ( श० प्र० ९९) । <अनुषङ्गः> १ अविनाभावः । यथा सुखं दुःखानुषङ्गाद्दुः खमेवेत्यादौ ( त० भा० ४१ ) । २ नेदीयः स्थानान्तरस्थितस्य (पदस्य ) क्वचिदनुसंधानम् ( दि० ४।१८८ ) । यथा पञ्चावयववाक्येषूपनयवाक्यस्थस्य अयम् इति पदस्य तस्माद्वह्निमान् इति निगमनवाक्येनुषङ्गः । ३ [ क ] प्रसङ्गः । स चान्योद्देशेन प्रवृत्तस्य तन्नान्तरीयक विधयान्यसिद्धिः । यथा- क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्य- वायस्य मन्वते । नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुति- मित्यादौ ( वाच० ) । नान्तरीयक विधयान्यसिद्धिश्च यथा - विप्रवध- प्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरणदण्डनिपातनप्रायश्चित्तसिद्धिः । नान्तरीयकत्वं च तत्सत्तानियतसत्ताकत्वम् । [ ख ] अन्यार्थं प्रवृत्तस्य नान्तरीयकफलजनकत्वमित्यपि केचिदन्ति । <अनुसंधानम्> उपनयशब्दवदस्यार्थोनुसंधेयः ( प्रशस्त ० २ पृ० २८) । <अनेकत्वम्> १ एकत्वभिन्नसंख्याविशिष्टत्वम् ( दि० गु० १९२ ) । यथा - अनेके ब्राह्मणाः सन्तीत्यादौ ब्राह्मणानामनेकत्वम् । २ अपेक्षाबुद्धिविशे- षविषयत्वम् । यथा - अस्मिन्द्रव्येनेके गुणाः सन्तीत्यादावनेकत्वम् । <अनेकद्रव्यलम्> अत्र अनेकं द्रव्यमाश्रयो यस्य तदनेकद्रव्यम् । तस्य भावः इति विग्रहः (वै० उ० ४।१।६ ) । [ क ] अनेकद्रव्याश्रिताश्रित- त्वम् । स्वसमवेतसमवेतत्वसंबन्धेन नानांद्रव्यवत्त्वमित्यर्थः ( राम० १ ) । तद्यथा स्वशब्देन परमाणवो गृह्यन्ते । तत्समवेतं द्व्यणुकम् । तत्समवेतत्वं त्र्यणुके वर्तत इति अनेन संबन्धेन परमाण्वात्मकनानाद्रव्यवत्वं त्र्यणुके- स्तीति त्र्यणुकादीनामनेकद्रव्यत्वं विज्ञेयम् । [ ख ] अवयवबहुत्वा- घीन महत्त्वाश्रयत्वम् (बै० उ० ४।११६ ) । [ग] अनेकसमवे- तसमवेतत्वम् (वै० वि० ४।१।६ ) । [ घ ] पारिमाण्डल्याभाव- विशिष्टद्रव्यत्वम् ( सि० च० २० ) । [ ङ ] अणुभिन्नद्रव्यत्वम् ( दि० १।५४ ) । यथा प्रत्यक्षे महत्वं कारणम् । अनेकद्रव्यत्वमन्यथा सिद्धम् ( मुक्ता ० १९५४ ) इत्यादौ त्र्यणुकादिघटपर्यन्तानामनेकद्रव्यत्वम् । <अनेकाश्रितगुणत्वम्> [क] एकत्वभिन्नसंख्या विशिष्टधर्मिवृत्तिगुणत्वम् । अनेकाश्रितगुणाश्च संयोगो विभागो द्वित्वादिकाः संख्या द्विपृथक्त्वादयः ( भा० प० गु० ) । [ ख ] स्वाश्रयप्रतियोगिकान्योन्याभावसमानाधि- करणगुणत्वमिति केचिदन्ति (दि० गु० १९२) । घटः पटेन संयुक्तः इति व्यवहारात्संयोगस्य द्विष्ठत्वं प्रतीयते । तथा च स्वं संयोगस्तदाश्रयो घटस्तत्प्रतियोगिको योन्योन्याभावः ( घटभेदः ) तत्समानाधिकरणत्वं ( तदाश्रयः पटस्तद्वृत्तित्वं ) संयोगे वर्तत इति संयोगादीनामनेकाश्रितत्वं ( अनेकवृत्तित्वम् ) संभवतीति बोध्यम् ( कि० टी० ) । [ग] एक- त्वानवच्छिन्नवृत्तिकगुणत्वमित्यपि कश्चित् ( ल० व० ३६ ) । <अनैकान्तिकः> (हेत्वाभासः) अत्र व्युत्पत्तिः । एकस्य साध्यस्य तदभावस्य वा योन्तः सहचार: अव्यभिचरितसहचार एकान्तः । तद्वानैकान्तिकः (गौ० दृ० १।२।४६ ) । अनैकान्तिकः सव्यभिचारशब्देन व्यवह्रियते । वैशेषिकमते तु संदिग्ध इत्युच्यते च इति बोध्यम् । अनैकान्तिकलक्षणं च साधारणाद्यन्यतमत्वम् (मु० ) ( वाक्य ० ) । अथवा सव्यभिचार- त्वात्मकदोषवत्त्वम् । शिष्टं सर्वं तु सव्यभिचारलक्षणव्याख्यानावसरे संपा- दयिष्यते । एकमात्रव्याप्तिग्राहकसहचारवानैकान्तिकः । तदन्योनैकान्तिकः ८० ( गौ० वृ० ११२४६) । निदर्शनम् [क] नित्यः शब्दः अस्पर्शत्वा- -दित्यत्रास्पर्शत्वादित्यनैकान्तिको हेतुर्बोध्यः । तथा हि-यत्र नित्यत्वाभावो नामानित्यत्वं तत्रास्पर्शत्वाभावो नाम स्पर्शवत्वम् । यथा कुम्भः । तत्र हि स्पर्शवत्त्वमनित्यत्वं च । तथा यत्रास्पर्शत्वं तत्र नित्यत्वं यथा आत्मा । एवं द्विविधदृष्टान्तसंभवेपि उभयोरपि बुद्धौ व्यभिचारः । तथा हि – बुद्धावनि- त्यत्वेपि स्पर्शवत्वं नास्ति तथा अस्पर्शत्वेपि नित्यत्वं नास्तीति सव्यभिचार- त्वादनैकान्तिकः । एवं चात्र नित्यत्वमध्येकोन्तः । अनित्यत्वमप्येकोन्तः । एकस्मिन्नन्ते विद्यत इत्यैकान्तिकः । विपर्ययादनैकान्तिकः । उभयान्तव्या- पकत्वादिति वात्स्यायनभाष्ये (१।२।४६ ) स्पष्टम् । [ ख ] यस्माद्विषाणी तस्माद्गौरिति चानैकान्तिकस्योदाहरणम् ( वै० ३।१।१७ ) । [ग] यथा वा घूमवान्वहेरित्यत्र वहिरनैकान्तिकः ( त० सं ) । साध्यसंदेहजन - कपक्षधर्मताज्ञानविषयोनैकान्तिकः (वै० वि० ३१ । १५ ) ( त० व० ) । इदं लक्षणं पूर्व च प्राचीनमतानुसारेणोक्तमिति ज्ञेयम् । नवीनमतानुसारेण लक्षणं तु सव्यभिचारत्वशब्दव्याख्यानावसरे संपादयिष्यते । साध्यसंदे- हश्च त्रिविधः । पक्षे सहचरत्वाद्वा साध्यतद्रहितत्वयोः । सामान्याद्वा विशे- बादा संशयो भवति त्रिधा । तदर्थश्च – साध्यतदभावयोः पक्ष एव हेतुसाहचर्यदर्शनात् संशयो भवति । यथा सर्वमनित्यं प्रमेयत्वादित्यादौ । ( अयमनुपसंहारी ) । सामान्यधर्मदर्शनादपि संशयो भवति । यथा घटः क्षितित्ववान् द्रव्यत्वादित्यादौ । द्रव्यत्वं हि क्षितित्ववति घंटादौ तदभाव- वति जलादौ च वर्तत इति साधारणधर्मदर्शनादेवात्र संशय इति । (अयं साधारणानैकान्तिकः) । विशेषधर्मदर्शनादपि संशयो भवति । यथा शब्द: अनित्यः शब्दत्वादित्यादौ । (अयमसाधारणो हेतुः ) ( त० व० २।३।४९ ) ( वै० उ० ३।१।१५ ) । साध्यसंशयहेतुरनैकान्तिकः । स द्विविधः । साधारणः असाधारण: ( त० मा० ४८ ) । प्रकारान्तरे- णानैकान्तिकस्त्रिविधः साधारण: असाधारणः अनुपसंहारी ( गौ० वृ० १/२/५ ) ( भा० प० ७३ ) ( त० सं० ) । <अनैकान्तिकलम्> सव्यभिचारत्ववदस्यार्थोनुसंधेयः । <अन्तः> १ संबन्धः । यथा ते विभक्तयन्ताः पदम् (गौ० सू० २१२/६० ) इत्यत्र । विभक्तिर्नाम वृत्तिः । अन्तो नाम संबन्धः । तेन वृत्तिमत्त्वं पदत्व- मित्यर्थः । एतच्च गौतमसूत्रवृत्तावत्रैव स्पष्टम् । २ ध्वंसः । यथा सादिरनन्तः प्रध्वंस: ( त० सं० ) इत्यादावन्तः । ३ चरमावयव इति शाब्दिकाः । ४ निर्णय इति वेदान्तिनो वदन्ति । ५ स्वरूपम् । ६ स्वभावः । - ७ सीमा । ८ निकटम् । ९ मनोहर इति काव्यज्ञाः । <अन्तःकरणम्> १ मनोबदस्यार्थोनुसंधेयः (प० मा० ) । २ ज्ञानसुखा- दिसाधनमाभ्यन्तरं मनोबुद्ध्यहंकारचित्ता दिपदाभिलप्यमान मिन्द्रियमिति मायावादिन आहुः । तन्मते अन्तःकरणं चतुर्विधम् । तदुक्तम्- मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे इत्युक्तकार्यभेदात् । अन्यत्र व्यक्तमुक्तम् - यदा तु संकल्प विकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धिसंज्ञं च यदा तु वेत्ति सुनिश्चितं संशयरूपहीनम् । अनुसंधानरूपं तच्चित्तं च परिकीर्तितम् । अहंकृत्या- त्मवृत्त्या तु तदहंकारतां गतम् इति (वाच० ) । <अन्तरम्> १ मनः । २ अवकाशः । ३ अवधिः । ४ परिधानांशुकम् । ५ अन्तर्धानम् । ६ भेदः । ७ परस्परवैलक्षण्यरूपविशेषः । ८ ताद- र्थ्यम् । ९ छिद्रम् । १० आत्मीयम् । ११ विनार्थः । १२ बहिरर्थः । १३ व्यवधानम् । १४ मध्यम् । १५ सदृशम् । १६ आसनं च ( वाच० ) । <अन्तर्धानम्> स्वनिष्ठो योन्यकर्तृकदर्शनविषयता विरहस्तदुद्देश्यको व्यापारः । स्वविषयकप्रत्यक्षविरोधिव्यापार इति यावत् । यथोपाध्यायादन्तर्धेत्ते छात्र इत्यादौ धात्वर्थः । अत्र पञ्चम्यर्थः कर्तृत्वनिरूपकत्वम् । तस्य अन्तर्धिष- टकदर्शनेन्वयः । एवं च उपाध्यायकर्तृकदर्शन विषयतायाः यः स्वनिष्ठः अभावस्तदुद्देश्यकव्यापारकर्ता छात्र इत्यन्वयबोध: ( ग० व्यु० ५ ) । छात्रो हि मामुपाध्यायो न पश्यतु इतीच्छया दर्शनाभावप्रयोजकं व्यापारं करोतीति फलितार्थः । अथवा अत्र - पञ्चम्या वृत्तित्वमर्थः । तस्य धात्व- र्थतावच्छेदके प्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । तथा च उपा- ध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ्छिष्यः इति वाक्यार्थ: ( का ० व्या० पृ० १० ११ ) । <अन्तर्यामी> सकंलजीवनियामकः । य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति इति श्रुतिः । <अन्तिकलम्> दैशिकमपरत्वम् (मु० ९३) । यथा दूरान्तिकादिधीहे- तुरेका नित्या दिगुच्यते ( भा० प० ४७ ) इत्यादौ । तद्धि प्रागस्य जनस्थानमपेक्ष्य वाराणस्यन्तिकत्वम् । <अन्त्यः> १ अवसाने वर्तमानः । यथा विशेष: ( मु० १ । ३७ ) । इद- मत्राकूतम् । परमाण्वादिनित्यपदार्थव्यावर्तकत्वेन परमाण्वादौ विशेषाख्यः पदार्थः सिद्धान्ते स्वीकृतोस्ति । तथा च तत्तद्विशेषव्यावृत्त्यर्थमपि विशेषा न्तरस्वीकारेनवस्था स्यात् । अतः परमाण्वादिवृत्तितत्तद्विशेषः स्वस्य स्वय- मेव व्यावर्तकः । तदपेक्षया विशेषान्तरं नास्तीति विशेषोन्त्यो भवतीति । २ पूर्वस्मिन्सति यस्मात्परो नास्ति सोन्त्य इति शाब्दिका वदन्ति । <अन्त्यावयविलम्> [ क ] द्रव्यानारम्भकद्रव्यत्वम् (दि० १।७१) । [ ख ] द्रव्यानारम्भकत्वे सति कार्यद्रव्यत्वम् ( त० कौ० ३ ) । [ग] अवयवजन्यत्वे सत्यवयव्यजनकत्वम् ( सि० ० ६ ) । यथा घटा देरन्त्यावयवित्वम् । इदमत्राकूतम् । परमाण्वादिकपालपर्यन्ता अवयवा द्रव्यान्तरमारभन्ते । घटस्तु न किंचिद्रव्यान्तरमुत्पादयितुं क्षमत इति घटस्यान्त्यावयवित्वमिति । <अन्यतमम्> [ क ] तत्तवृत्तिशून्यम् ( ग० कूट ० ) । [ ख ] भेदकू- टावच्छिन्नप्रतियोगिताकभेदवत् । यथा घटो घटपटस्तम्भान्यतमो भवति । तत्तद्भिन्नभिन्न इति स्पष्टार्थः । इत्थं च घटपटस्तम्मैतद्भेदवान् यः पाषाणादि: तद्भेदो घंटे वर्तत इति विज्ञेयम् । [ग] बहूनां मध्ये निर्धारितमेकं वस्तु इति शाब्दिका वदन्ति । <अन्यतरत्> [क] भेदद्वयावच्छिन्न प्रतियोगिताकभेदवत् । यथा घटो घटपटान्यतरो भवति । [ ख ] द्वयोर्मध्ये निर्धारितमेकं वस्तु इति शाब्दिका वदन्ति । <अन्यत्वम्> १ भेदः । यथा - उत्थितं सदृशेन्यच्च कबन्धेभ्यो न किंचने- त्यादौ । यथा वा घटः पटादन्य इत्यादौ । एवमितरत्वं भिन्नत्वमित्यादि बोध्यम् । २ सादृश्यम् । यथा नान्वये सति सर्वस्वं यच्चान्यस्मै प्रति- श्रुतम् इत्यादौ ( वाच० ) । <अन्यथा> १ अभावः । यथा अन्यथानुपपत्तिरित्यादौ । २ अन्यप्रकारः । यथा यदभावि न तद्भावि भावि चेन्न तदन्यथा इत्यादौ (वाच० ) । <अन्यथाख्यातिः> [क] ( ख्याति: ) अयथार्थानुभवः (नील० ३७ ) ( सि० च० १९ ) । अत्रेदं बोध्यम् । अन्यथाख्यातिभ्रमः । स च यस्य यद्धर्मवत्वेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञानम् । यथा हृदो वह्निमान् इति ज्ञानम् । तच्च विशिष्टमेकं ज्ञानम् प्रवर्तकत्वादिति नैयायिकाः । मीमांसकादयस्तु तत्र ज्ञानद्वयम् । बहिज्ञानं हृदज्ञानं च । असंसर्गाग्र- हवशाच्च तयोः विशिष्टज्ञानकार्यकारिता । सति च हृदे वरसंसर्गज्ञाने तत्र न प्रवृत्तिरित्यतः असंसर्गाग्रह एव तत्प्रवर्तकः । अप्रवृत्तिस्तु तदभावे इत्याहुः । केचिद्वेदान्तिनस्तु धर्मिणः असंनिकर्षस्थले नान्यथाख्यातिः । किं तु अलौकिक पदार्थान्तरोत्पत्त्या तस्य लौकिकं प्रत्यक्षं जायते । यथा इदं रजतमिति ज्ञानमित्याहुः (वाच०) । [ख] भ्रमात्मकज्ञानीयप्रकारता । यथा इदं रजतम् इति ज्ञाने रजतत्वस्य तादृशप्रकारता । तत्र रजतत्वप्रकार- कत्वावच्छेदेन शुक्तिविशेष्यकत्वमन्यथाख्यातिरिति केचित् (मू० म० १ ) । वाचस्पतिमिश्रास्तु शुक्तौ इदं रजतम् इति ज्ञाने प्रसिद्धशुक्तिरजतत्वयो- रलीक एवं समवायो भासत इत्यसत्ख्यातिमङ्गीचक्रुः ( सि० च० १९ ) । <अन्यथानुपपत्तिः> स्वाभावप्रयोज्यासंभवः । यथा पीनो देवदत्तो दिवा न भुत इत्यादौ रात्रिभोजनानङ्गीकारे रात्रिभोजनाभावप्रयोज्यपीनत्वासं- भवात्मिका पीनत्वान्यथानुपपत्तिः । अत्र दिवा अभोक्तर्देवदत्तस्य पीनत्वं रात्रिभोजनं विनानुपपन्नम् ( असंभव ) इति ज्ञानादिवा भोजनाकर्तृवृत्ति- पीनत्वेन रात्रिभोजनं कल्प्यते । तथा च भोजनस्य (साध्यस्य ) पीनत्व- व्यापकतया व्यापकाभावस्य च व्याप्याभावव्याप्यतया साध्याभाव- (रात्रि- भोजनाभाव - ) व्यापकीभूताभाव- ( दिवा भोजना कर्तृवृत्तिपीनत्वाभाव - ) प्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानात् देवदत्तो रात्रिभोजी इत्यनुमितिरूपा- र्थापत्तिरुदेति ( वाच० ) । इदं चार्थापत्तिप्रमाणमनुमान एवान्तर्भव- तीति विज्ञेयम् । अत्रानुमानं च देवदत्तो रात्रिभोजी दिवा अभुजानले सति पीनत्वात् इति बोध्यम् । <अन्यथासिद्धः> अवश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसंभवे तत्सहभूतः । यथा अवश्यक्लृप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसंभवे तत्सह- भूतं दण्डत्वं घटं प्रति अन्यथासिद्धम् ( सि० च० २० ) ( प्र० प्र० ) । अन्यथासिद्धत्रिविधः । तत्र प्रथमः - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तेन तं प्रति सोन्यथासिद्धः । यथा तन्तुना तन्तुरूपं तन्तुत्वं च पटं प्रति अन्यथासिद्धम् । यथा वा घटं प्रति दण्डेन दण्ड- रूपं दण्डत्वं चान्यथासिद्धम् । दण्डेन सहैव दण्डरूपस्य दण्डत्वस्य च घटं प्रति पूर्वभावग्रहात् । अत्र सहितत्वमेकज्ञानविषयत्वमिति बोध्यम् । किं च येनेयस्य स्वतन्त्रान्वयव्यतिरेकशालिना इति यस्येव्यस्य तु स्वत- ब्रान्वयव्यतिरेकशून्यस्य इति च विशेषणं बोध्यम् । तेन नातथाभूतेन तन्तुत्वेन तन्तोरन्यथासिद्धिः । न वा तन्तुसंयोगस्य तन्तुना सहान्यथा- सिद्धिरिति । परे तु इतरान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालि यत्तद- न्यथासिद्धमित्याहुः ( नील० १६ ) । द्वितीयः- अन्यं प्रति पूर्ववृत्तित्त्रे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति सोन्यथासिद्धः । यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव घटं प्रत्याकाशस्य पूर्ववृत्तित्वग्रहात् घटं प्रत्याकाशोन्यथासिद्धः । एवं कुलालपितापि पुत्रकृतघटं प्रत्यन्यथा- सिद्धः । अत्राद्योदाहरणे आकाशस्याकाशत्वेन घटं प्रति पूर्ववृत्तित्वं न्या० को० ६ प्राह्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम् । तच्च शब्दनियतपूर्व- वृत्तित्वघटितमिति भावः । द्वितीयोदाहरणे कुलालं ( पुत्रं ) प्रति पूर्ववृत्तित्वे 1 ज्ञाते एव घटं प्रति कुलालपितुः पूर्ववृत्तित्वग्रहाद्वटं प्रति कुलालपितान्य- थासिद्ध इति भावः ( त० कौ० ७ ) । तृतीयः - अन्यत्र क्लृप्तनियतपूर्व- वृत्तिनैव कार्यसंभवे तत्सहभूतोन्यथासिद्धः । यथा पाकजस्थले गन्धं प्रति रूपप्रांगभावः । यथा वा घटविशेषं प्रति दैवादागतो रासभः (त० कौ० ७) ( त० दी० १६ ) । आद्ये अपाकजस्थले गन्धं प्रति क्लृप्तनियत- पूर्ववर्तिना गन्धप्रागभावेनैव पाकजस्थलेपि गन्धात्मक कार्य संभवे रूपप्रा- गभावोन्यथासिद्धः ( नील० १६ ) । द्वितीये घटविशेषादन्यत्र घटान्तरे क्लृप्तनियतपूर्ववृत्तिदण्डचक्रादेरेव घटविशेषस्यापि संभवे दण्डचक्रादिसह भूतो दैवादागतो रासभोन्यथासिद्धः ( त० कौ ० ७ ) । प्रकारान्तरेणा- न्यथासिद्धं पञ्चविधम् । यत्कार्ये प्रति कारणस्य पूर्ववृत्तित्वं येन रूपेण गृह्यते तत्कार्यं प्रति तद्रूपमन्यथासिद्धम् । यथा घटं प्रति दण्डत्वम् । अत्र घटं प्रति दण्डस्य कारणत्वं दण्डत्वेनैव गृह्यत इति दण्डत्वमन्यथासिद्ध- मिति बोध्यम् ( १ ) । यस्य स्वातन्त्र्येणान्वयव्यतिरेकौ न स्तः किं तु स्वकारणमादायान्वयव्यतिरेको गृह्येते तदन्यथासिद्धम् । यथा घटं प्रति दण्डरूपम् । अत्र दण्डरूपस्य स्वातन्त्र्येणान्वयव्यतिरेको दण्डरूपसवे घटसत्त्वम् दण्डरूपाभावे घटाभाव इति न स्तः । किंतु दण्ड रूपस्य कारणं दण्डमादायैवान्वयव्यतिरेकौ दण्डसत्त्वे घटसत्त्वम् दण्डाभावे घटा- भाव इति गृह्येते इति घटं प्रति दण्डरूपमन्यथासिद्धमिति बोध्यम् (२) । अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वम् । यथा घटादिकं प्रत्याकाशस्य ( ३ ) । यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् । यथा घटं प्रति कुलालपितुः ( ४ ) । [क] अवश्यक्लृप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तद्भिन्नम- न्यथासिद्धम् । यथा घटादिकं प्रति रासभादीति ( भा०प० श्लो० १९ - २२ ) ( मु० १/५४ ) । [ ख ] यस्यानुकूलतर्काभावः सोन्य- थासिद्ध: ( ता० रं० श्लो० ८८ ) । यथा घटं प्रति रासभोन्यथा- सिद्धः ( ५ ) । परे तु अत्र अवश्यक्लृप्तत्वं लघुनियतपूर्ववर्तित्वं बोध्यम् । तेन पाकजगन्धोत्पत्तिं प्रति अवश्यक्लृप्तपूर्ववर्तिनः पाकजरूपप्रागभावस्य कारणत्वनिरासः गन्धप्रागभावस्यान्यथासिद्धत्व निरासश्चेत्याहुः ( दि० १९५४ ) । एतेषु पञ्चस्वन्यथासिद्धेषु पञ्चममावश्यकम् । अन्येषां चतुर्णां ( दण्डत्व दण्डरूप आकाश कुलालपितॄणाम् ) अनेन पञ्चमान्यथासि- द्धेनैव संग्रहादिति बोध्यम् ( भा०प० श्लो० २२ ) ( मु० ५४ ) ( दि० ) ( राम० १।५४ ) । अन्यथासिद्धस्त्रिविध इति मणिकारम- तम् । नवीनास्तु लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासि- द्धम् । एवमनुगतैकलक्षणेनैक विधमेवान्यथासिद्धम् । एवं च त्रिधा पञ्चधेति प्रकारौ शिष्यबुद्धिवैशद्यायेत्याहुः । अत्र लघुत्वं च त्रिविधम् । शरीर- कृतम् उपस्थितिकृतम् संबन्धकृतं चेति । तत्र प्रथमम् - प्रत्यक्षं प्रत्यनेक- द्रव्यत्वापेक्षया महत्त्वस्य कारणत्वे लघुत्वमस्ति । द्वितीयम् - गन्धं प्रति रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे लघुत्वम् । गन्धस्य प्रति- योगिन उपस्थितत्वेन शीघ्रं तदुपस्थितेः । तृतीयम् - घटं प्रति दण्डत्वद- ण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे लघुत्वम् । खाश्रयदण्डसंयोगादिरूप - परंपराया गुरुत्वात् ( नील० १७ ) । <अन्यथासिद्धिः> पूर्वोक्तेष्वन्यथा सिद्धेषु वर्तमानस्तत्तद्धर्मविशेषः । इयं च कारणत्वसंपादिका न भवति अपि तु कारणत्वविघटिका भवतीति ज्ञेयम् । <अन्योन्यम्> क्रियाव्यतिहारविषयत्वम् । व्यतिहारश्च विनिमयः । परस्परक- रणमिति यावत् ( ल० म० ) । यथा अन्योन्येषां पुष्करैरामृशन्त इति माघः ( सि० कौ० त० ) । <अन्योन्याभावः> ( अभावः ) [ क ] नित्यत्वे सत्यत्यन्ताभावभिन्नत्वे सत्यभावः ( ग० सि० ) । [ ख ] अत्यन्ताभावव्यतिरिक्तत्वे सत्यनव- धिरभावः ( सर्व० औल्लु० पृ० २३२ ) । [ग] अधिकरणे प्रतियो- गितावच्छेदकारो पहेतुकनिषेधधीविषयः ( प० च० ) । स च तादात्म्या- भावः । यथा असन्नश्वो गवात्मना । अघटः पट इति ( प० च० ) (वै० उ० ९ । १ । ४ ) । यथा वा घटः पटात्मा न भवतीति ( सर्व ७ औलु० पृ० २३३) । [घ ] तादात्म्यसंबन्धावच्छिन्न प्रतियोगिताकः अभाव: ( त० सं० ) ( ग० सि० ) ( त० कौ० २१ ) । घट: टोन भवतीत्यादितो घटात्मा पटो न भवति इत्यर्थो बोध्यते । एवं च घटता- दात्म्यस्याभावः घटतादात्म्येनावच्छिन्ना या घटनिष्ठा प्रतियोगिता तन्नि- रूपको भेदो वा पढे वर्तते इत्यवधेयम् । [ ङ ] इमिदं भवति इदमेतद्भिन्नम् इति प्रतीतिसाक्षिक अभाव: ( न्या० म० ११ ११ ) । यथा घटः पटो न भवति इति प्रतीतिसाक्षिको भेदः ( ग० सि० ) ( प्र० प्र० ) । अन्योन्याभावो धर्मिस्वरूप एव न तु पृथगिति मध्वाचार्या - नुयायिन आहुः । अन्योन्याभावशब्दे व्युत्पत्तिस्तु अन्योन्यस्मिन् तादा- त्म्येनाभावः अभवनम् इति ( वै० सा० ८० ३३४ ) । स च (अन्योन्याभावः ) भेदः । भेदो हि घंटे पटस्य पढे घटस्य च सदास्तीति नित्यः । प्रतियोगिसमानाधिकरणश्चायमभावो भवति । घटो भूतलम् इति प्रतीत्या घटाधिकरणेपि भूतले घटभेदस्य विद्य- मानत्वात् । अत्रेदमवधेयम् - न हि कंचिदभावं प्रति येन केनापि संबन्धेन प्रतियोगिनो विरोधिता । किंतु प्रतियोगितावच्छेदकसं- बन्धेनैव प्रतियोगी अभावस्य विरोधी । तथा च अन्योन्याभावस्य प्रतियोगितावच्छेदकः संबन्धस्तादात्म्याख्य एव । अत एवायम- तादात्म्यसंबन्धावच्छिन्न प्रतियोगिताकः इत्युच्यते । तेन संबन्धेन च घटस्य स्वस्मिन्नेव सत्त्वेन भूतलादावसत्त्वात्तत्र घटान्यो- न्याभावो वर्तत इति ( वै० वि० ९२११४) । अन्योन्याभावग्रहेधिकर- णयोग्यतामात्रं तन्त्रम् ( वै० उ० ९/११४ ) (९२११८ ) । यथा पिशाचभेदाधिकरणे स्तम्भे योग्यतायाः सत्त्वेन स्तम्भः पिशाचो न इति ग्रहः ( चाक्षुषग्रहः ) उपपद्यते (मु० ११ १२७ ) । नव्यास्तु ध्वंसप्रा- गभावयोरिवान्योन्याभावस्यापि प्रतियोगितावच्छेदकसंबन्धे मानाभावः । अत्यन्ताभावस्य तु प्रतियोगितावच्छेदकसंबन्धः स्वीक्रियते । संयोगेन समवायेन वा घटो नास्ति इति प्रतीतेः । इत्थं चान्योन्याभावत्वमख- •ण्डोपाधिरित्याहुः ( म० प्र० १२ ) ( ल० ब० ) ( ग० सि० २।५५ ) । <अन्योन्याश्रयः> तर्कविशेषः । अयमितरेतराश्रयशब्देन सर्वदर्शनसंग्रहे अक्ष- पाददर्शने उक्तः ( सर्वद० पृ० २३९) । अत्र अन्योन्यपदस्य तज्ज्ञाने तदुत्पत्तौ तत्स्थितौ च लक्षणा । तदाश्रयोन्योन्याश्रय इति त्रितयसा- धारणो विग्रहः । एवं चान्योन्य संबन्धिनो ज्ञानोत्पत्तिस्थित्येतदन्य- तमस्याश्रय इत्यर्थः ( वाच० ) । स च स्वापेक्षापेक्षितत्वनिमित्तकोनिष्ट- प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्र ज्ञप्तौ यथा घटोयं यद्येतद्धटज्ञानजन्यज्ञानविषयः स्यात् तदैतद्धटभिन्नः स्या- दिति । तत्र स्वज्ञानस्य स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत । खापेक्षापेक्षितज्ञान- त्वात् स्वापेक्षितघटज्ञानविषयस्य तजनकज्ञान विषयाद्भेदरूपमनिष्टं च प्रस- ज्येत । अतो घटस्य घटभेदप्रसङ्गोनिष्टः । उत्पत्तौ यथा घटोयं यद्येतद्घट- जन्यः स्यात् तदैतद्घटानधिकरणक्षणोत्तरवर्ती न स्यादित्यादि । एतद्धट- स्योत्पत्तौ एतद्घटसापेक्षत्वे कारणस्य कार्याद्भेदनियततया एतद्घटस्य एत- द्घटभेदरूपोनिष्टः प्रसङ्गः । स्थितौ यथा घटोयं यद्येतद्धटवृत्तिः स्यात्तदा तथात्वेनोपलभ्येत । न च तथोपलभ्यते । तथात्वे च घटस्य घटवृत्ति- त्वापत्तिरनिष्टा प्रसज्येतेति । एतेषु ज्ञप्तिविषयतयैव प्रायशोनिष्टप्रसङ्गः । सर्वत्र दृश्यते । तन्मूलकमेव स्वग्रह सापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र व्यवयिते । अत एव परस्परज्ञानसापेक्षज्ञानाश्रयोन्योन्याश्रय इति स्मार्तेरुक्तम् (वाच० ) । <अन्वयः> साध्यम् । यथा अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यति- रेकि इत्यादौ ( त० सं० ) । २ अन्वयव्याप्तिः (वाक्य० ) । यथा यत्र यत्र धूमस्तनाग्निः इति साहचर्यनियमः ( त० सं० ) । यथा वा हेतु- व्यापकसाध्यसामानाधिकरण्यम् ( न्या० बो० १५) । ३ कोटिद्वयसह- चरितत्वज्ञानम् (ग० सं० २१) । यथा धूमवान्वहेरित्यादौ अयं धूम- धूमाभावसमानाधिकरणवह्निमान् इति (भ्रमात्मकं ) ज्ञानम् । इदं ज्ञानं च साधारणधर्मवत्ताज्ञानविधया संशये प्रयोजक मिति प्राचीनमते साधार- णानैकान्तिकलक्षणे ह्युपयुज्यते इति च विज्ञेयम् (चि० सत्प्र० २ । १०) । ४ [क] कारणाधिकरणे कार्यस्य सत्त्वम् ( राम०५२ ) । यथा यत्सत्त्वे ( कारणसत्त्वे ) यत्सत्त्वम् ( कार्यसत्त्वम् ) इत्यन्वयः । [ख ] कार्य- कारणयोः साध्यसाधनयोर्वा साहचर्यम् ( सि० च० २ । २६ ) । तत्र कार्यकारणयोः साहचर्यं च स्वस्वव्याप्येतरयावत्कारणसत्त्वे यत्सत्त्वेवश्यं यत्सत्त्वमिति ( त० प्र० ) । यथा चक्रादिघटितसामग्रीसमवहितदण्डा- दिसत्त्वे घटसत्त्वमिति । साध्यसाधनयोर्यथा पर्वतो वह्निमान्धूमात् इत्यादौ घूमवह्योः साहचर्यम् यत्र धूमस्तत्राग्निः इति । [ग] के चित्तु कार्ये कार- णस्यानुसरणम् । [ घ ] कार्यसत्तापादकखसत्ताकस्य कारणस्य कार्ये स्थितिः । [ ङ ] स्वसत्तानियतसत्तावत्कार्यसंबन्ध इत्याहुः । ५ हेत्वभाव- वति कार्यान्वयज्ञानम् । व्यभिचारज्ञानमिति यावत् इति नव्या आहुः (मू० म० १ ) । ६ शाब्दबोधीयसंसर्गताख्यविषयतावान् । यथा घटमानय इति वाक्यजन्यशाब्दबोधे घटानयनादीनां पदार्थानां परस्परं संबन्धः । अयं चान्चयो द्विविधः । भेदान्वयः अभेदान्वयः । आद्यो राज्ञः पुरुषः इत्यादौ राजपदार्थपुरुषपदार्थयोः । द्वितीयो नीलो घटः इत्यादौ नीलप- दार्थघटपदार्थयोः (ग० व्यु० का० १ ) । ७ वृत्तिः । ८ आनुकूल्यम् । ९ संततिरिति काव्यज्ञा वदन्ति ( वाच० )। <अन्वयदृष्टान्तः> ( दृष्टान्तः ) [ क] निश्चितसाध्यवान् ( वाक्य० २ ) । [ ख ] पक्षे हेतुप्रत्यक्षानन्तरं यदन्तर्भावेण साध्यनिरूपितव्याप्तिः स्मर्यते सः । यथा पर्वते धूमेन वह्निसाधने महानसोन्वयदृष्टान्तः । <अन्वयबोधः> शाब्दबोध - शब्दवदस्यार्थोनुसंधेयः । अत्रेयं व्युत्पत्तिः। अव्ययनिपातातिरिक्तनामार्थयोः क्रियाप्रातिपदिकार्थयोश्च साक्षाद्भेदे- नान्वयबोधः अव्युत्पन्नः इति । यथा - नैयायिकमते राजपुरुषः इत्यादौ राजपदार्थस्य पुरुषपदार्थे स्वस्वामिभावसंबन्धेनान्वयो वाच्यः । तथाविधा- न्वयस्य पूर्वोक्तव्युत्पत्तिविरुद्धवेन तं परित्यज्य राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्य तादृशराजपदार्थस्याभेदेन पुरुषपदार्थेन्वयः । वैयाकरण- मते तु राजपुरुषः इत्यादौ लुप्तषष्ठ्यादिविभत्तया स्मृतया प्रतिपाद्येनैव स्वस्वामिभावसंबन्धेन ( न तु साक्षात् ) राजपदार्थस्य पुरुषादावन्वयः स्वीकृत इति ( मु० ४ पृ० १८२ ) । उक्तव्युत्पत्तावव्ययनिपाताति- रिक्तेतिपदप्रयोजनमुच्यते । घटो न पटः इत्यादौ घटपटाभ्यां नञः साक्षा- देवान्वयात् निपातातिरिक्त इति पदं दत्तम् । चन्द्र इव मुखम् इत्यादौ इवार्थसादृश्ये चन्द्रस्य प्रतियोगितया भेदेनान्वयात् अव्ययातिरिक्त इति च पदं दत्तम् । नीलो घटः इत्यादौ नामार्थयोः स्तोकं पचति इत्यादौ क्रियाप्रातिपदिकार्थयोश्चामेदेनान्वयात् भेदेन इत्युक्तम् । भूतले घटः इत्यादौ आधेयतासंसर्गेणापि घटभूतलयोरन्वयात् साक्षात् इति पदम् । प्रत्ययार्थमद्वारीकृत्य इति साक्षात् इत्यस्यार्थ : ( मु० ४ पृ० १८२ ) ( दि० ) । भेदेन इत्यस्य तु तादात्म्यातिरिक्तेन इत्यर्थो बोध्यः । राजा पुरुष: इत्यादौ स्वत्वरूपमेदसंबन्धेन राजपदार्थस्य पुरुषादावन्वयमादाय राजसंबन्धी पुरुषः इति बोधवारणायास्या व्युत्पत्ते- रावश्यकत्वम् । कर्मतानिरूपकत्वसंबन्धेनापि ( भेदसंबन्धेन ) तण्डुलादिपदार्थस्य पचनक्रियायामन्वयमादाय तण्डुलकर्मकः पाकः कारकबोधमादाय तण्डुलः पचति इति प्रयोगवारणाय चेयं व्युत्प त्तिरवश्यं स्वीकार्या इति ( मु० १।४ पृ० १८२ ) ( ग० अवय० हेतु० ) । अत्रेदमवधेयम्-पचिक्रियायां तण्डुलादिकर्मकत्व प्रकारकशाब्द- बुद्धित्वावच्छिन्नं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतिपदसमभि- व्याहाररूपाकाङ्क्षाज्ञानं कारणम् इत्यावश्यक कार्यकारणभावेनैव तण्डुलः पचति इत्यादिप्रयोगवारणोपपत्तावलमेताद्दश्या व्युत्पश्येति (ग० अवय० हेतुप्र० ) ( ग० व्यु० कार० २ ) । <अन्वयव्यतिरेकि> ( लिङ्गम् ) [ क ] गृहीतान्वयव्य तिरेकिसाध्यकम् ( दी- घि० २।१५६ ) । अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं भवति । पञ्च रूपाणि च पक्षधर्मत्वम् सपक्षे सत्त्वम् विपक्षाद्वयावृत्तिः अबाधितवि- षयत्वम् असत्प्रतिपक्षत्वं चेति ( सि० च० २१ २६ ) ( त० कौ० २।१२) । एतानि पञ्च रूपाणि च बहिसाध्यकघूमादावन्वयव्यतिरेकिण्येव विद्यन्ते । केवलान्वयिनि विपक्षाद्व्यावृत्तिर्नास्ति । विपक्षाप्रसिद्धैः । केव- लव्यतिरेकिणि तु सपक्षसत्त्वं नास्ति । सपक्षाप्रसिद्धेः (त० कौ०१२ ) । अबाधित विषयत्वमित्यत्र व्युत्पत्तिः अबाधितो विषयः साध्यं यस्येत्यबाधि- तविषयः । तस्य भावः अबाधितविषयत्वम् इति । अत्राबाधित विषयत्वं च प्रमाणान्तरेणाप्रमितसाध्याभावकत्वं बोध्यम् ( त० कौ० १२) ( सि० च० २।२६ ) । असत्प्रतिपक्षत्वं च साध्याभावसाधकहेत्वन्तरशून्यत्वं बोध्यम् (त० कौ० १२ ) ( सि० च० २ (२७) । [ख ] सत्सपक्ष- विपक्षो हेतुः । यथा वह्निमान् घूमादित्यादौ (मु० २१९)। अत्र सपक्षस्य महानसादेः विपक्षस्य जलहदादेव सत्त्वात् इति (मु० २१९ ) । [ग] अन्वयेन व्यतिरेकेण च व्याप्तिमत् ( त० सं० ) । अन्वयसह- चारग्रहग्राह्यव्याप्तिमत्त्वे सति व्यतिरेकसहचारग्रहग्राह्यव्याप्तिमदित्यर्थः (नील० २।२३ ) । [घ] यत्रान्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च विद्यते तत् । यथा वह्निमान्धूमादित्यादौ निरुक्तपञ्चरूपोपपन्नो धूमः ( प्र० प्र० ) ( त० कौ० १२ ) । अत्र पर्वतः पक्षः । तस्य वह्निमत्त्वं साध्यम् । धूमात् इति हेतुः । तस्मिन् हेतौ यत्र यत्र घूमस्तत्र तत्र वह्निर्यथा महानसादौ इत्यन्वयव्याप्तिः । यत्र यंत्र वह्नयभावस्तत्र तत्र धूमाभावः यथा जल- हदादौ इति व्यतिरेकव्याप्तिश्चास्तीति ज्ञेयम् ( त० कौ० १२ ) । <अन्वयव्यतिरेकी> ( अवयवः) [क] प्रतीतान्वयव्यतिरेकव्याप्तिकहेतुबो- धको हेत्ववयवः (गौ० वृ० १ । १ । ३४ ) । [ ख ] अन्वयव्यतिरेकोदा- हरणाकाङ्क्षाप्रयोजकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवः । [ग ] पक्ष- सपक्षसतो विपक्षासतो हेतोर्वचनम् ( चि० अव० २।७९ ) । यथा पर्वतो वह्निमान्धूमादित्यत्र धूमात् इति पदम् । <अन्वयव्यभिचारः> ( व्यभिचार ) । कारणसमवधानाव्यवहितोत्तरक्षणाव- च्छेदेन कारणतावच्छेद कावच्छिन्न यत्किंचियत्तयधिकरणे कार्याभाव- वत्त्वम् । कारणसखे कार्याभाव इति संक्षिप्तार्थः । यथा समाप्तिं प्रति मङ्गलस्य कारणत्वे वक्तव्ये कादम्बर्यादा वाशङ्कितोन्वयव्यभिचार ' ( त० दी० १।१ ) । - <अन्वयव्याप्तिः> (व्याप्तिः) प्रकृतहेतुनिष्ठा प्रकृतसाध्यनिरूपिता व्याप्तिः । अन्वयनिरूपिता व्याप्तिरित्यर्थः ( ग० सामा० ) । अन्वयव्याप्तावयं नियमः—अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभाव व्याप्यो व्यापकः साधनात्ययः ॥ इति ( त० कौ० १२ ) ( सि० च० २।२६ ) । हेतुसाध्ययोर्व्याप्तिः (त० दी० २ । २३ ) । यथा यत्र धूमस्त- त्राग्निः इति साहचर्यनियमः ( त० सं० ) । धूमव्यापकवह्निसामानाधि- करण्यमित्यर्थः ( न्या० बी० २ । १४ ) । व्याप्तिश्चात्यन्ताभावान्योन्या- भावभेदेन भिन्ना अव्यभिचरितसामानाधिकरण्यव्यापकसामानाधिकरण्य- रूपा ( ग० सामा० २३ ) । साध्यवदन्यावृत्तित्वहेतुव्यापकसाध्यसा- मानाधिकरण्यादिरूपेत्यर्थ: ( न्या० बो० २।१४ ) । तद्भेदतत्स्वरूपत- लक्षणप्रपञ्चश्च व्याप्तिशब्दव्याख्यानावसरे सविस्तरं संपादयिष्यते इस- त्रैव विरम्यते । <अन्वयिहेतुः> ( अवयवः ) [ क ] उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ( गौ० ११ १२ १३४ ) । उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः । साध्ये प्रतिसंधाय धर्ममुदाहरणे च प्रतिसंधाय तस्य साधनतावचनं हेतुः । उत्पत्तिधर्मकत्वादिति उत्पत्तिधर्मकमनित्यं दृष्ट- मिति ( वात्स्या० १ । १॥३४ ) । उदाहरणसाधर्म्यमुदाहरणबोध्यान्वय- व्याप्तिः । ततोन्वयी हेतुर्ज्ञातव्यः ( गौ० वृ० १।१।३४ ) । अन्व- यिहेतुलक्षणं चान्वयिहेतुत्वमेव । तच्च अनुमितिकारणीभूतपराम- र्शप्रयोजकशाब्दज्ञानकारणसाध्या विषयकशाब्दधीजनकप्रतीतान्वयसाध्य- साधनवाचकहेतुविभक्तिमच्छन्दत्वम् । अस्यार्थप्रयोजनादिकं च हेतु- शब्दव्याख्यानावसरे संपादयिष्यते । अन्वयव्यात्यभिधायकावयवा- भिधानप्रयोजकज्ञानजनकहेतुत्व प्रतिपादकविभक्तिमन्न्यायावयवत्वम् ( चि० २।७९) । [ ख ] ज्ञातान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ० वृ० १ । १ । ३४ ) । यथा पर्वतो वह्निमान्धूमान्महानसवदित्यादौ घूमात् इति शब्दः । न्या० को० ७ <अन्वय्युदाहरणम्> ( उदाहरणम् ) तलक्षणं चान्वय्युदाहरणत्वमेव । तच्च साध्यसाधनसंबन्धबोधजनकत्वम् ( चि० अव० २१८० ) । अन्वयव्याप्तिबोधकत्वम् ( दीधि ० २ ११७७ ) । तच्च एतद्यो यो धूमवान्स सोग्निमानिति शब्दवृत्त्यवयव विभाजकोपाधिमत्त्वम् ( न्या० म० २ । २३ - २४ ) । [क ] साव्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः ( गौ० १ । १ । ३६ ) । साध्येन साधर्म्य समानधर्मता । साध्यसाधर्म्यात्कारणात्त- द्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः । तस्य साध्यस्य । साध्यं च द्विविधम्-धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम् । धर्मविशिष्टो वा धर्मी अनित्यः शब्दः इति । इहोत्तरं तद्ब्रहणेन गृह्यत इति । कस्मात् । पृथग्धर्मवचनात् । तस्य धर्मस्तद्धर्मः । तस्य भावस्तद्धर्मभावः । स यस्मिन्द- ष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्यात्तद्धर्मभावी भवति । इहोत्तरं तहणेन गृह्यत इत्यत्र इह तग्रहणेनोत्तरं गृह्यत इत्यन्वयः । अयमर्थ :- इह नाम तद्धर्मभावीत्यत्र तद्ग्रहणेन नाम तच्छन्देन उत्तरं नाम द्विविध- साध्यमध्ये द्वितीयं धर्मविशिष्टो धर्मीत्याकारकं गृह्यत इति । स चोदाह- रणमिष्यते । तत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् । तच्च भूत्वा न भवत्यात्मानं जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्मकत्वं साधनम् । अनित्यत्वं साध्यम् । सोयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधर्म्याद्वयवस्थित उपलभ्यते । तं दृष्टान्ते उपलभमानः शब्देप्यनुमिनोति । शब्दोप्युत्पत्तिधर्म- कत्वादनित्यः स्थाल्यादिवदित्युदाह्वियते । तेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम् (वात्स्या० १ । १ । ३६ ) । [ ख ] साधनवत्ताप्रयुक्तसा- ध्यवत्तानुभावकोवयवः । साध्यसाधनव्याप्युपदर्शकोदाहरणमिति यावत् ( गौ० वृ० १ । १ । ३६ ) । [ग] प्रकृतहेतुमति प्रकृतहेतुव्यापक- त्वविशिष्टसाध्यबोधकवाक्यम् (नील० २२ ) । यथा पर्वतो वह्निमान्धू- मान्महानसवदित्यादौ यो यो धूमवान्स स वह्निमान्यथा महानसः इति वाक्यम् ( त० सं० २ ) । <अन्वय्युपनयः> [ क ] उदाहरणापेक्षस्तथेत्युपसंहारः साध्यस्योपनयः ( गौ० ११ १२ १३८ ) । उदाहरणापेक्ष उदाहरणतन्त्रः । साध्यसाधर्म्य- युक्ते उदाहरणे स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टं तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमुपसंह्रियते । उपसं- ह्रियतेनेनेति चोपसंहारो वेदितव्यः ( वात्स्या० ११११३८ ) । [ख] तथेति साध्यस्योपसंहारः । यथा पर्वतो वह्निमान्धूमादित्यत्र वह्निव्याप्य - धूमवानयम् इति वा तथा चायम् इति वोपन्यासः ( गौ० वृ० १।१। ३८) । अन्वय्युपनयलक्षणं चान्वय्युपनयत्वमेव । तच्च साभ्यव्याप्यवि- शिष्टपक्षबोधकावयवत्वम् ( चि० अव० )। <अन्ववसर्गः> कामचारानुज्ञानम् । यथेष्टं क्रियताम् इत्येवंरूपानुज्ञेत्यर्थः । यथा अपि सिञ्च अपि स्तुहीत्यादौ यथेष्टं कुर्याः इत्याद्यर्थोपिना द्योयते न तु कुत्राप्यनुज्ञया प्रतिरोधः क्रियत इति ( वाच० ) । <अन्वाख्यानम्> तात्पर्यावधारणार्थे प्रतिपादनम् । यथा वस्त्वन्वाख्यानं क्रियान्याख्यानमित्यादौ ( वा० च० ) । <अन्वाचयः> उद्देश्यसिद्ध्यानुद्देश्य सिद्ध्यर्थोपदेशः । यथा भिक्षां गच्छ यदि गां पश्येस्तां चानयेत्यादौ । अत्र भिक्षायामेवोद्देशः न तु गवानयने । तत्सि- द्धयुत्तरं गवानयनमनुद्दिष्टमपि साध्यतया निर्दिष्टम् इति ( वाच० ) । प्रधानगुणभावेन यत्र क्रियान्वयतात्पर्य सोन्वाचयः ( त० प्र० ख० ४ पृ० ५२ ) । क्रियामेदे त्वन्वाचयः । यथा एधानाहतु वनं व्रज शाक- मप्यानेष्यसि इति । <अन्वादेश:> [ क ] पूर्वोपात्तस्य किंचित्कार्यान्तरं विधातुं पुनरुपदेशः । यथा अनेन व्याकरणमचीतम् न्यायमेनं पाठय इति न्यायपाठनार्थे पुन- रुपदेश: ( सि० कौ० ) ( वाच० ) । [ ख ] कथितकथनम् ( वाच० ) । <अन्वाधानम्> इध्माबहि:संपादनम् अग्निपरिग्रहः उपस्तरणं चेत्येवमादि ( पु० चि० पृ० ३१८ ) । <अन्वाधेयम्> विवाहात्परतो यच्च लब्धं भर्तृकुलास्त्रिया ।अन्वाधेयं तु तद्रव्यं लब्धं पितृकुलात्तथा ॥ ( मिताक्षरा अ० २ को० १४४ ) । <अन्वाहितम्> यदेकस्य हस्ते निहितं द्रव्यं तेनापि अनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् ( मिताक्षरा अ० २ श्लो० ६७ ) । <अन्विताभिधानवादः> शक्तिज्ञानाविषयस्य शाब्दबोधाविषयत्वनियम इति वादः ( कृष्ण० शक्ति० ) । भट्टते च इतरान्वितघटो घटपदशक्य इत्येतादृशमेव शक्तिज्ञानं शाब्दबोधप्रयोजकम् । एवं च शाब्दबोधे पदा- र्थसंसर्गस्यापि पदशक्यत्वमङ्गीकुर्वन्ति ( ग० शक्ति० ५ ) । एवमेत- न्मते वाक्येपि शक्तिं स्वीकुर्वन्ति इति विज्ञेयम् । इदं च प्राभाकरमतम् न तु भट्टमतमिति बहवो ग्रन्थकारा वदन्ति । <अन्वीक्षा> प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणम् । यथा आन्वीक्षिकी न्याय- विद्येत्यादावन्वीक्षा ( वात्स्या० ११ १२ १ ) । अत्र व्युत्पत्तिः-श्रवणात् अनु (पश्चात् ) ईक्षा अन्वीक्षा उन्नयनम् ( गौ० वृ० १११।१ ) । <अपकर्षः> विद्यमानधर्मापचयः । तथा च साध्यसाधनान्यतरस्याभावप्र- सञ्जनम् । यथा अपकर्षसमो जातिरित्यादौ ( गौ० वृ० ५/११४ ) । २ गुणनिष्ठजातिविशेषः । यथा महत्त्वत्वं चापकर्षानाश्रय परिमाणत्वम् इत्यत्रा- पकर्षः ( राम० १।५८ ) । ३ उचितधर्मापेक्षातो हीनता । यथा - उत्कर्ष चापकर्षे च मनुष्येष्विह जन्मतः इत्यादौ ( मनु० १०/४२ ) । ४ स्वकर्तव्यकाळापूर्वकाले करणम् । यथा-मरणोत्तर मृताहे मासि मासि कर्तव्यानां मृताहनिमित्तकमासिकादीनां द्वादशाहेषु एकाहेषु च कर्तव्यत्वोक्तेः सर्वापकर्षः । तदुक्तम्- मुख्यं श्राद्धं मासि मासि अपर्या- वृतुं प्रति । द्वादशाहेन वा कुर्यादेकाहे द्वादशेथ वा इति ( स्मृतिः ) । ५ परसूत्रपदानामन्वयार्थ पूर्वसूत्र आकर्षणमिति शाब्दिका वदन्ति ( वाच० ) । <अपकर्षसमः> ( जाति: ) [ क ] साध्ये धर्माभावं दृष्टान्तात्प्रसञ्जयतो- पकर्षसमः । लोष्टः खलु क्रियावान विभुर्दृष्टः काममात्मापि क्रियावानवि- भुरस्तु । विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या० ५/१/४ ) । [ख पक्षदृष्टान्तान्यतरस्मिन्व्याप्तिमपुरस्कृत्य सहचरितधर्माभावेन हेतु- साध्यान्यतराभावप्रसञ्जनम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र यद्यनि- त्यत्वसहचरितघटधर्मात्कृतकत्वादनित्यः शब्दस्तदा कृतकत्वानित्यत्वसह- चरितघटधर्मरूपवत्त्वव्यावृत्त्या शब्दे कृतकत्वस्यानित्यत्वस्य च व्यावृत्तिः स्यात् । आद्ये असिद्धिदेशना । द्वितीये बाधदेशना । एवं शब्दे कृतकत्व- सहचरितश्रावणत्वस्य संयोगादावनित्यत्वकृतकत्वसहचरितगुणत्वस्य च व्यावृत्त्या घटे अनित्यत्वं कृतकत्वं च व्यावर्तेत इति दृष्टान्ते साध्यसाधन- विकल्पदेशनाभासापीयम् ( गौ० वृ० ५ । १ । ४ ) । अत्र लक्षणे व्याप्ति- मपुरस्कृत्य सहचरितधर्माभावेन पक्षदृष्टान्तान्यतरस्मिन्हेतुसाध्यान्यतरा- भावप्रसञ्जनमित्यन्वयः । अयमर्थः-व्याप्ति मनसि अगृहीत्वैव हेतुसा ध्याभ्यां सहचरितो योन्यः कश्चिद्धर्मस्तस्य प्रकृतपक्षे दृष्टान्ते वा अभावं दृष्ट्वा तत्साहचर्यात्साध्यस्य वा हेतोरपि वा अभावकल्पनमपकर्षसमः । यथा शब्दः अनित्य इत्यादेः स्पष्ट एवार्थः । आद्ये असिद्धीत्यत्र आद्ये नाम कृत- कत्वरूपहेतोरभावकल्पनपक्षे । असिद्धिदेशना नाम स्वरूपासिद्धिरू- पोक्तिः । दोष इति यावत् । प्राप्नोतीत्यर्थः । एवं च स हेतुः स्वरूपासिद्धो भवति । द्वितीये बाधदेशनेतीत्यत्र अनित्यत्वरूपसाध्यस्याभाव कल्पनपक्षे बाधरूपोक्तिः । दोष इति यावत् । प्राप्नोतीत्यर्थः । एवमित्यस्य पूर्व यथा पक्षे हेतुसाध्यान्यतराभाव उक्तस्तथेत्यर्थः । शब्दे कृतकत्वेत्यस्य शब्दे कृतकत्वेन सह सहचरितस्य श्रावणत्वस्येत्यर्थः । अस्य व्यावृत्या सहा- न्वयः । संयोगादावित्यादेः संयोगादावनित्यत्वेन कृतकत्वेन च सह सहच- रितस्य गुणत्वस्येत्यर्थः । अस्यापि व्यावृत्त्या सहैवान्वय: ।- व्यावृत्त्येत्य श्रावणत्वस्य गुणत्वस्य च घटे व्यावृत्त्येत्यर्थः । घटे अनित्यत्वमित्यादेः घटे श्रावणत्वस्य गुणत्वस्य व्यावृत्त्या अनित्यत्वं कृतकत्वं च व्यावर्तेतेत्यर्थः । दृष्टान्ते इत्यादेः । एवं च घटरूपे दृष्टान्ते साध्यस्य साधनस्य चाभाव कल्पनया साध्यसाधन विकल्पदेशनाभासापीयमित्यर्थः । [ग] परोक्तदृष्टान्तसाधर्म्येण पक्षे पराभिमतधर्मान्तरस्याभावसाधनम् । यथा शब्दः अनित्यः कृतकत्वा- टवदित्यादौ यदि कृतकत्वेन शब्दो घटवदनित्यः स्यात्तर्हि तेनैव शब्दो घटवदश्रावणोपि स्यादिति ( नील० ४३ ) । <अपक्षेपणम्> ( कर्म ) [ क ] अधोदेशसंयोगहेतुः कर्म ( त० सं० ) ( त० कौ० २० ) । [ख ] तद्विपर्ययेण ( उत्क्षेपणविपर्ययेण ) संयोगविभागकारणं कर्म ( प्रशस्त० पृ० ३७ ) । तल्लक्षणं च अधोदेशसंयोगजनकक्रियानुकूल क्रियात्वम् ( ल० ० ३८ ) । <अपगमः> स्पन्दः ( ग० हेतु० ) । यथा वृक्षादपैतीत्यादौ धात्वर्थः । <अपचिकीर्पा> ( द्रोहः ) अहितेच्छा ( ग० व्यु ० ४ ) । <अपदेश:> १ कथनम् ( गौ० वृ० ३ । २ । २३ ) । यथा नोत्पत्तिकारणान- पदेशात् ( गौ० ३ । २ । २३ ) इत्यादौ । २ हेतुः । यथा सोनपदेशः इत्यादौ ( वै० ३ । १ । ३ ) । <अपरत्वम्> १ व्याप्यत्वम् । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव च (भा० प० श्लो० ८) इत्यादौ अपरत्वशब्दस्यार्थः । अल्पदेशवृत्तित्वम् (मु० १ । ३४ ) । यथा घटत्वजातेद्रव्यत्व पृथिवीत्रे अपेक्ष्याल्पदेशवृत्ति- त्वम् । २ ( गुणः ) अपरव्यवहारे असाधारणं कारणम् ( त० सं० ) ( त० कौ० ६ ) । अपरव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वं • लक्षणमित्यर्थः ( वाक्य ० ) । यथा अयं कनिष्ठः अयं समीप इत्यादौ कनिष्ठसमीपयोरपरत्वम् (वाक्य ) । तद्विविधम् । दिकृतम् कालङ्कृतम् । समीपस्थे दिक्कृतमपरत्वम् । कनिष्ठे कालकृतमपरत्वम् ( त० सं० ) । • पर्यायान्तरेणाप्यपरत्वप्रपञ्चः कथ्यते । तद्यथा यो यदपेक्षया संनिहितस्तत्र तदबधिकमपरत्वं दिक्कृतम् । अत्र दिपिण्डसंयोगोसमवायिकारणम् । संनिहितत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् । दिक्कृतमपरत्वं मू- . र्तद्रव्यमात्रवृत्ति भवति । यो यदपेक्षया कनिष्ठस्तत्र तदवधिकमपरत्वं • कालकृतम् । अत्र कालपिण्डसंयोगोसमवायिकारणम् । कनिष्ठत्वज्ञानं निमि- •त्तम् । तन्नाशश्च तन्नाशनिमित्तम् । कालकृतमपरत्वं तु जन्यद्रव्यमात्रवृत्ति भवति ( त० कौ० ६ ) ( सि० च० १ । १८ ) । अत्र दिक्कृतत्वं च ज्ञायमान दिग्जन्यत्वम् ( वाक्य ० ) । अल्पतरमूर्त संयोग विशिष्टशरीरज्ञाना- दपरत्वमुत्पद्यत इति ( सि० च० ११ १८ ) । यथा झळकीग्रामात्सो- लापुरापेक्षया भीमानदी स्वसमवायिसंयुक्तसंयोगेनाल्पतरदेश संयोगवती इति ज्ञानेन दैशिकमपरत्वमुत्पद्यते । अधिकं तु अन्यत्र ( वै० उ० ७७२।२१ ) द्रष्टव्यम् । कालकृतत्वं च स्वसमवायिसंयुक्त संयोगसंबन्धेन रवि- क्रियाप्रकारककालविषयकज्ञानजन्यत्वम् (वाक्य० ) । अल्पतरदिवाकर - क्रियाविशिष्टशरीरज्ञानात् अपरत्वोत्पत्तिः ( सि० च० १।१८ ) । दिक्कृतमपरत्व मिदमस्मात्संनिकृष्टम् इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अवलोकनीयात्र दिकशब्दव्याख्या । कालकृतमपरत्वं तु अयमस्मादल्पतर- कालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अवलोकनीयात्र काळशब्दव्याख्या । अत्र नव्या आहुः-अल्पतरसूर्य परिस्पन्दान्तरित जन्यत्व- रूपकनिष्ठत्व - अल्पसंयोगान्तरितत्वरूपसंनिकृष्टत्वाभ्यां कालिकदैशिकाप- रत्वव्यवहारोपपत्तेर्नापरत्वस्य गुणान्तरत्वम् इति ( दि० गु० पृ० २०९ ) । <अपराजिता> मासि भाद्रपदे शुका सप्तमी या गणाधिप । अपराजितेति विख्याता महापातकनाशिनी ॥ ( पु० चि० पृ० १०४ ) । <अपराह्न:> पञ्चधा विभक्तेहनि चतुर्थो भागः । २ द्विधा विभक्तेहन्युत्तरो भागः ( मिताक्षरा अ० २ श्लो० ९७ ) । <अपरिग्रहः> ( व्रतम् ) सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ( सर्व ० सं० पृ० ६६ आर्हत० ) । <अपवर्ग:> १ अस्यार्थो निःश्रेयसवदनुसंधेयः । आत्यन्तिकी दुःखनिवृत्तिर- पवर्ग:। निवृत्तेरात्यन्तिकत्वं नाम निवर्त्य सजातीयस्य पुनस्तत्रानुत्पादः ( सर्वे० सं० पृ० २४६ अक्षपा० ) । २ फलप्राप्तिः । यथा अपवर्गे तृतीया ( पाणि० सू० २१३१६ ) इत्यादौ । <अपवादः> १ बाधनसाधनं वस्तुमात्रम् । २ विशेषशास्त्रम् । यथा मा हिं स्यात्सर्वा भूतानीत्युत्सगेस्य वायव्य श्वेतमालभेत इति शास्त्रमपवादः । ३ मिथ्याभूतपदार्थ निवारणार्थमुपदेशविशेष इति मायावादिन आहुः । ४ मिथ्यावाद इति सांख्याः । ५ निन्दा निरासनं वेति काव्यज्ञाः । ( वाच० ) । <अपशब्दः> शक्तिवैकल्यप्रमादादिना साधुशब्दस्यान्यथोच्चारणसाध्योपभ्रं- शशब्दः । यथा म्लेच्छो ह वा नाम यदपशब्दः ( पा० म० भा० १ । १।१ ) । हरिणाप्युक्तम्-त एव शक्तिवैकल्य प्रमादालसतादिभिः । अन्यथो- च्चारिताः शब्दा अपशब्दा इतीरिताः ॥ इति । <अपसिद्धान्तः> ( निग्रहस्थानम् ) [ क ] सिद्धान्तमभ्युपेत्यानियमात्क- थाप्रसङ्गः ( गौ० ५।२।२४ ) । कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययादनियमात्कथां प्रसञ्जयतोपसिद्धान्तो वेदितव्यः । यथा न सदात्मानं जहाति न सतो विनाशो नासदात्मानं लभते नास- दुत्पद्यत इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति–एकप्रकृतीदं व्यक्तम् । विकाराणामन्वयदर्शनात् । मृदन्वितानां शरावादीनां दृष्टमेकप्रकृ- तित्वम् । तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते । तस्मात्स मन्वयदर्शनात्सुखादिभिरेकप्रकृतीदं शरीरमिति । एवमुक्तवाननुयुज्यते । अथ प्रकृतिर्विकार इति कथं लक्षितव्यमिति । यस्यावस्थितस्य धर्मान्तर- निवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः । यच्च धर्मान्तरं प्रवर्तते स विकार इति । सोयं प्रतिज्ञातार्थविपर्यासादनियमात्कथां प्रसञ्जयति । प्रतिज्ञातं खल्वनेन नासदाविर्भवति न सत्तिरो भवतीति । सदसतोश्च तिरोभावा- विर्भावमन्तरेण न कस्यचित्प्रवृत्तिः प्रवृत्त्युपरमश्च भवति । मृदि खल्व- वस्थितायां भविष्यति शराबादिलक्षणं धर्मान्तरमिति प्रवृत्तिर्भवति । प्रत्यवस्थितो यदि सतश्चात्महानम् असतश्चात्मलाभमभ्युपैति तदस्याप- अभूदिति च प्रवृत्त्युपरमः । तदेतन्मृद्धर्माणामपि न स्यात् । एवं सिद्धान्तो निग्रहस्थानं भवति । अथ नाभ्युपैति पक्षोस्य न सिध्यति । ( वात्स्या० ५/२/२४ ) । ख कथायां स्वीकृतसिद्धान्तप्रच्यवः । तथा च सांख्यमतेन अहं वदिष्यामीत्यभ्युपेत्यारब्धायां कथायामावि- र्भावस्याविर्भावाभ्युपगमेनवस्थेति दूषणोद्धारायाविर्भावस्यासत उत्पत्ति यद्यभ्युपैति तदापसिद्धान्तः ( गौ० वृ० ५/२/२४ ) ( दि० १) । [ग] एकसिद्धान्तमतमाश्रित्य कथाप्रवृत्तौ तद्विरुद्धसिद्धान्तमतमाल- म्ब्योत्तरदानम् ( नील० ४६ ) । सिद्धान्तादपध्वंसोपसिद्धान्त इत्यर्थः ( त०. भा० ५१ ) । सौगतास्त्वपसिद्धान्तं दूषणं न मन्यन्ते ( गौ० वृ० ५ । २ । २३ ) । <अपह्नवः> [क] अबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रति- पादनेच्छा । यथा कलिङ्गेषु दृष्टोसि । नाहं कलिङ्गाजगामेव्यादावत्यन्ताप- हृवः ( ग० व्यु० ल० ) । अत्र च कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकम् । तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपस- नेव ( न तु ज्ञातः ) लिट्साधुतानियामकः ( ग० व्यु० ल० ) । [ ख ] सत्त्वेन ज्ञातस्यापि वस्तुनः असत्त्वेन कथनम् । स द्विविधः शब्दतोर्थतश्चेति । तत्र मिथ्यैव तत् इति शब्दतः । अर्थतस्तु नाभि- जानाम्यहम् । तत्र तदा न मम स्थितिः इति ( वाच० ) । <अपादानत्वम्> ( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यस्थपञ्चम्या यः स्वार्थोनुभावयितुं शक्यः तस्य तद्धातूपस्थाप्यतादृशक्रियायामपादानत्व- मुच्यते । यथा वृक्षात्पतित इत्यादौ वृक्षादेरपादानत्वम् ( श० प्र० ७९ ) । अपगमाय आदीयते अवधित्वेनेति व्युत्पत्तिः ( वाच० ) । अपादानशब्दस्तु तत्तत्कर्मानधिकरणीभूते तत्तत्कर्मजन्यविभागाश्रये शक्त इत्यवधेयम् । वृक्षात्पतित इत्यस्माद्वाक्यात् वृक्षावधिक विभागानुकूलपतन- कर्ता इत्यन्वयबुद्धौ धातूपस्थाप्यपतने पञ्चम्युपस्थाप्यो विभागः खानु- कूलत्वसंबन्धेन प्रकार इति स विभाग एव तत्रापादानत्वमिति विज्ञेयम् ( श० प्र० ७९ ) । अत्रावधित्वं च स्वरूपसंबन्धप्रभेदः पदार्थान्तरं वेस्यन्यदेतत् । अपादानत्वं च [ क ] क्रियानाश्रयत्वे सति तज्जन्य- विभागाश्रयत्वम् ( ग० अव० ) । परसमवेतक्रियाजन्य विभागाश्रयत्व- मित्यर्थः । यथा भूभृतो गङ्गावतरतीत्यादौ भूभृतो गङ्गासमवेतक्रियाजन्य- विभागाश्रयत्वादपादानत्वम् । गङ्गायामतिव्याप्तिवारणाय परसमवेतेति क्रियायां विशेषणम् (श० प्र० ६) । वृक्षात्पर्णे पततीत्यादौ पर्णक्रिया वृक्षपर्णयोर्विभागो जायते । तत्र क्रिया पर्णमात्रनिष्ठा विभागस्तूभय- निष्ठ इति वृक्षस्य क्रियानाश्रयत्वं विभागाश्रयत्वं च संगच्छत इत्यवधे- यम् । [ख] स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्य विभागाश्रयत्वम् न्या० को० ८ ( ग० व्यु० ५ । २१ ) । अत्र स्व विभागाश्रयो वृक्षः । तन्निष्ठः क्रियावतः पर्णात्सकाशात् भेदः । तत्प्रतियोगितायाः पर्णनिष्ठाया अवच्छेदिका पतन- क्रिया। तज्जन्यविभागाश्रयत्वं वृक्षस्येति । अत्र क्रियायां स्वनिष्ठभेदप्रति- योगितावच्छेदकत्वविशेषणेन पर्णादेः स्वनिष्ठवृक्षादिविभागजनकपतनापा- दानत्वनिरास इति ज्ञेयम् (ग० व्यु० ५/२१) । [ ग ] परकीय क्रिया- जन्य विभागाश्रयत्वम् ( का० व्या० ९ ) । यथा वृक्षात्पर्ण पततीत्यादौ वृक्षादेरपादानता । अत्र पञ्चम्या अन्योन्याभावप्रतियोगितावच्छेदकत्वं विभागजनकत्वं चार्थः । विभागे अन्योन्याभावे च वृक्षोन्वेति ( का० व्या० ९ ) । तथा च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकं तन्निष्ठविभाग- जनकं च यत् पतनं तदाश्रयः पर्णमित्याकारको बोध: ( ग० व्यु ० ५।२१)। [घ] अवघित्वम् । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेर- पादानता (ग० व्यु० ५/२१ ) । अत्र वृक्षाद्यवधिकत्व विशिष्टविभाग- निरूपितमेवाश्रयत्वमाख्यातेन बोध्यते । अतो वृक्षः स्वस्माद्विभजते इति (न प्रयोगः (ग० व्यु० ५/२१ ) । विशेषस्तु पञ्चमीशब्दव्याख्याने व्यक्तीभविष्यति । शाब्दिकमते अपादानं च [ङ ] ध्रुवमपायेपादानम् ( पाणिनिसूत्रम् ॥४॥२४ ) । अपाये विभागे ध्रुवं निश्चलम् प्रकृत- पञ्चम्यर्थ विभागजनकत्वान्वयिक्रियाशून्यमित्यर्थः ( का० व्या ० ९ ) । तत्रोक्तं हरिणा- अपाये यदुदासीनं चलं वा यदि वाचलम् । ध्रुवमेवा- तदावेशात्तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावष्यध्रुवौ मेषौ यद्यप्यु - भयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ मेषान्तर- क्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥ इति । अपाये गतिविशेषे सति यद्भुवम् अवधिभावोपगमाश्रयत्वे सति तदतिरिक्तस्यावधित्वोपयोगिव्यापारस्यानाश्रयं तदपादानमिति सूत्रार्थ: । अस्य पदकृत्यं शब्देन्दुशेखरे स्पष्टम् । [ च ] विश्लेषाश्रयत्वे सति विश्लेषजनकधात्वर्थतत्तत्क्रियानाश्रयः ( वै० सा० ) । [छ ] अवधिभावोपगमव्यापारम् (ल० म० ) । अपादानं त्रिविधम् । निर्दिष्ट - विषयम् उपात्तविषयम् अपेक्षितक्रियं चेति । तत्राद्यम् - यत्र साक्षात् ( मुख्यवृत्त्या ) धातुना गतिः ( विभागजनकक्रिया ) निर्दिश्यते तन्नि- र्दिष्टविषयम् । यथा अश्वात्पतति । द्वितीयम् - यत्र धावन्तरार्था स्वार्थ धातुराह तदुपात्तविषयम् । समभिव्याहृतधातुनोपात्तो लक्षितो गतिरूपो विषयो यत्रेति व्युत्पत्तिः (वै० सा०द० १९२) । स्वविषयक्रियाघटित- श्रूयमाणक्रियान्तरमित्यर्थः । यथा बलाहकाद्विद्योतते विद्युदित्यादौ । अत्र निःसृत्य इत्यध्याहार्यम् । तथा च निःसरणाङ्गे विद्योतने युतिः ( द्युत्- धातुः ) वर्तते । द्युतिश्च लक्षणया निःसरणपूर्वक विद्योतनबोधक इति यावत् (वै० सा० ) । एवं च बलाहकाद्विद्योतते विद्युत् इत्यादिवा- क्यात् बलाहकावधिकनिःसरणोत्तरकालिकं विद्युत्कर्तृकं विद्योतनम् इति बोध: ( वै० सा० द० १९२ ) ( ल० म० १०८ ) । तृतीयम्- अपेक्षिता क्रिया यत्र तदपेक्षितक्रियम् । अनुपात्तधात्वर्थक्रियासाकाङ्क्ष- मित्यर्थः ( वै० सां० द० १९२ ) । यथा कुतो भवान् पाटलिपुत्रादि- त्यादौ । अत्रागमनमर्थगव्याहृत्य आगतः इति पदं वाध्याहृत्यान्वयः कार्यः ( बै० सा० द० १९२ ) । नैयायिकास्त्वित्थं व्याचक्षते - यत्र विभाग- स्तज्जनकक्रिया चोभयं धातुनाभिधीयते तदाद्यम् । यत्र विभागो- ध्याहृतधातुनाभिधीयते तद्वितीयम् । यत्र तूभयमध्याहृतधात्वभिधेयम् तत्तृतीयम् इति ( वै० सा० द० १९२ - १९३ ) । <अपानः> (वायुः ) [क] गुदादीनामध उन्नयनादपान: ( दि० १९८५ ) । [ ख ] मलादेरधो नयनादपानः ( सि० च० ११८ ) । <अपार्थकम्> ( निग्रहस्थानम् ) [ क ] पौर्वापर्यायोगादप्रतिसंबद्धार्थम् । ( गौ० ५/२/१० ) । यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्च- ययोगो नास्तीत्यसंबन्धार्थत्वं गृह्यते तत्समुदायोर्थस्यापायादपार्थकम् । यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्ड: अधरोरुकमे- तत्कुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति (वात्स्या० ५/२/१०) । [ख] अभिमतवाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकपदम् । उदा- हरणं तु अयोग्यानासन्नानाकाङ्क्षवाक्यम् ( गौ० दृ० ५/२/१० ) ( दि० १ ) । [ग ] परस्परानन्वितार्थकपदसमूहः । यथा शब्दो घटः पटो नित्यमनित्यं च प्रमेयत्वात् इत्यादि ( नील० पृ० ४५ ) । [घ ] याद्दशशाब्दबोधत्वावच्छेदेनापार्थत्वं तादृशबुद्धयर्थं प्रयुक्त पद- समूह: ( श० प्र० ) । <अपि> (अव्ययम् ) १ संभावना । २ संदेहः । ३ निन्दा । ४ प्रश्नः । ५ समुच्चयः । ६ अरुपपदार्थः । ७ कामचारानुज्ञा । ८ अवधारणम् । ९ पुनरर्थ: ( वाच० ) । <अपूर्वम्> [क] यागादिकर्मणः का चिदुत्तरावस्था फलैकनाश्या ( ल० म० ) । [ ख ] यागादिजन्यः स्वर्गादिजनकः कश्चन गुणविशेषः । तं गुणविशेषमपूर्वमिति मीमांसका वदन्ति । प्रारब्धकर्मेति वेदान्तिनः । धर्माधर्माविति नैयायिकाः । अदृष्टमिति वैशेषिका: । पुण्यपापे इत पौराणिकाः । अपूर्वं दर्शपूर्णमासयोर्द्विविधम् । परमापूर्वम् कलिका- पूर्व चेति ( दि० गु० २३५) । प्रकारान्तरेणाप्यपूर्व मीमांसकमते त्रिवि धम् । प्रधानापूर्वम् अङ्गापूर्वम् कलिकापूर्वी चेति । तत्र दर्शपूर्णमासाद्य- पूर्वं प्रधानापूर्वम् । तदेव परमापूर्वम् । प्रयाजाद्यङ्गजन्यापूर्वमङ्गापूर्वम् । तवान्तरक्रियाकूटजन्यपूर्व कलिका पूर्वम् । तच्च त्रीहिप्रोक्षणाभ्युक्षणादि जन्यं द्रव्यनिष्ठमिति मीमांसकाः । तज्जन्यसंस्कारविशेष एव कलिकापूर्व- तथा व्यवयिते स चात्मनिष्ठ इति नैयायिकाः । कलिकापूर्वं च परमापूर्व जनयित्वा नश्यति । अङ्गापूर्वेस्तु परमापूर्वे विशेष आधीयत इति भेदः । तथा चाङ्गापूर्वसहितं परमापूर्वं विशिष्टफलं जनयति । तद्विहीनं तु स्वल्पं फलम् । अत्रेदमवधेयम् - परमापूर्वं च नित्यकर्मणि पण्डापूर्वत्वेन मीमांस- कैर्व्यवह्वियते। संध्यावन्दनस्य किञ्चित्फलाजनकत्वात् । नैयायिकास्तु अर्थ- वादोपस्थापितब्रह्मलोकादिप्राप्तिरूपफलजननान्न तत्रापूर्वस्य फलाजनकत्वेन पण्डत्वमित्याहुः ( वाच० ) । विस्तरस्तु चिन्तामणिशब्दखण्डे कुसुमा अलिप्रथमस्तबके चावलोकनीयः । अत्रेदं बोध्यम्-परमापूर्व वाच्यम् । कलिका पूर्वाणि तु कल्प्यानीति मीमांसकसिद्धान्त इति ( त०प्र०ख० ४ पृ० ११४ ) । <अपूर्वविधिः> ( विधिः ) [ क ] अप्राप्तप्रापको विधिः । स च यागा- दीना मिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधको लिङादिशब्दः । यथा स्वर्गकामो यजेतेत्यादौ ( सि० च० ३३ ) ( वाच० ) । अप्राप्तप्राप- कत्वं च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वम् प्रमाणान्तरजन्यप्रतीत्य- विषयविषयक प्रतीतिजनकत्वं वा । इदं यजनं तु केनापि प्रमाणान्तरेण न बोधितम् ( सि० च० ३३ ) । अत्रेदं बोध्यम्-लिङा यागादाविष्ट- साधनत्वं बोध्यत इति नैयायिकाः । कार्यत्वेनापूर्वी बोध्यत इति प्राभाकरा मन्यन्ते ( वाच० ) । [ ख ] प्रमाणान्तरेणाप्राप्तप्रापको लिङादिपदवे- दनीयः शब्द विशेषः । यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यम् । अपूर्वविधिश्चतुर्विधः । कर्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधि- श्चेति । तत्राग्निहोत्रं जुहोतीत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः कृतिसा• ध्यतायाः भावनाया वा मतभेदेन बोधनात् कर्मविधित्वम् । द्रव्यदेवतादि- विधायकविधिर्गुणविधिः । यथा दना जुहोतीत्या दिवाक्यम् । प्राप्तस्याग्नि- होत्रस्यानुवादेनाप्राप्तगुणरूपद्रव्यादेः ( दध्यादेः ) विधानात् । विनियोज- नाद्विनियोगविधिः । यथा ऐन्द्या गार्हपत्यमुपतिष्ठते इत्यादि । अत्र ऐन्द्या ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः । एवं कृत्वा एवं कुर्यात् इत्यादिप्रयोगज्ञापको विधिः प्रयोगविधिः । यथा अधीय स्नायादित्यादि उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यादि च । अयं च विशिष्टविधिरिति भेदः ( वाच० ) । [ग यस्य यदर्थत्वं प्रमाणा- न्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोपूर्वविधिः । यदाहुः - विधिर- त्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ ( मी० न्या० पृ० ४६ ) । विस्तरस्तु विधिशब्दे दृश्यः । <अपेक्षा> १ आकाङ्क्षा । सा च शाब्दबोधप्रयोजनिका । २ असामर्थ्यम् । अस्यामपेक्षायां च प्रायशो वृत्तिर्नेष्यते । यथा प्रवीरं पुत्रकाम्पति ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः । तत्रोक्तम् - सापेक्षे प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्त विशेष- णम् ॥ इति । ३ प्रयोजकत्वम् । तच्च ज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानु- रोधित्वम् । ज्ञानादिकार्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधस्तस्य तद - पेक्षा । अत एव तर्कग्रन्थे जगदीशेन स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या इत्यायुक्तम् । अधिकं तु अन्योन्याश्रयशब्दव्याख्याने द्रष्टव्यम् । ४ अपेक्षाबुद्धिवदस्यार्थोनुसंधेयः । ५ अनुरोधः । यथा सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिरित्यादौ इति धर्मज्ञाः । ६ स्पृहा । यथा समुपोढेषु कामेषु निरपेक्षः परिव्रजेदित्यादौ ( मनुः ६ । ४१ ) इति काव्यज्ञाः । <अपेक्षाबुद्धिः> ( बुद्धिः ) [क] नानैकत्वसमूहालम्बनरूपा बुद्धिः ( वै० उ० ४।११११ ) । अपेक्षाबुद्धिः क्षणत्रयावस्थायिनी इति सिद्धान्तः । द्वित्वादिकं त्वपेक्षाबुद्धिजन्यम् ( वै० उ० ४।१।११) । अपेक्षाबुद्धेरिच्छादिजनकत्वं नास्तीत्वयं मन्तव्यम् । अन्यथा तेनैव तस्या नाशात्क्षणत्रयावस्थायित्वमेव न स्यादिति केचित् ( भवा ० २९०)। विस्तरस्तु अन्यत्र ( बै० उ० ७/२८) द्रष्टव्यः । अत्रेदं बोध्य- म्-द्वित्वादिकं परार्धान्तमपेक्षात्मकबुद्धया जन्यते तन्नाशेन नश्यति च । अपेक्षाबुद्धेर्द्वित्वादेश्चोत्पत्तिनाशादिप्रपञ्चस्तु द्वित्वशब्दव्याख्यानावसरे व्यक्तीभविष्यति । अत्रेदं विचार्यते- यद्यपि द्वित्वादिसमवायः प्रत्येकं घटादावस्ति तथापि एको द्वौ इति ज्ञानाभावात् एको न द्वौ इति ज्ञानाच द्वित्वादीनां पर्याप्तिस्वरूपः कश्चित्संबन्धोनेकाश्रयङ्गीक्रियते । पर्याप्तिसंब न्धेन च प्रत्येकं घटादौ न द्वित्वादि । तादृशसंबन्धश्चापेक्षाबुद्धिसापेक्षः । • तेन तत्सत्त्वे तथा ज्ञानम् तदसत्त्वे न तथा ज्ञानम् इति ( वाच ० ) । वस्तुतस्तु द्वित्वादिकं तु न संख्या किं त्वपेक्षाबुद्धिविशेषविषयत्वमेव । • तच्चापेक्षाबुद्ध्यधीन मिति न कोपि दोष इति तु वयम् । [ख ] अनेकै • कत्वबुद्धिः ( भा०प० गु० श्लो० ११० ) । अनेकानि यान्येकत्वानि तेषां बुद्धिः । सा च अयमेकः अयमेकः इत्याकारिका बुद्धि: ( मु० गु० २०४ ) । यथा सेनावनादिबुद्धिः ( त० व० ) । अत्राश्वादिसमूहः सेना । वृक्षसमूहो वनम् । तथा च सेना वनम् इत्यादिबुद्धि विशेषविषयत्वं सेनात्ववनत्वादि ( म०प्र० ४।४६ ) । [ग] अपेक्षाबुद्धिर्नाम विनाशकविनाश प्रतियोगिनी बुद्धिः ( सर्व० सं० पृ० २२४ औल० ) । <अपोहः> १ अतद्वयावृत्तिः । यथा विज्ञानवादिबौद्धमते नीलत्वा दिर्धर्मः अनी- लव्यावृत्तिरूपः ( दि० १) । तन्मतेयं धर्मोपारमार्थिक एवेति सर्वस्यापि विज्ञानरूपत्वं क्षणिकत्वं चेति च ज्ञेयम् । २ अपरतर्कनिरासाय कृतो विपरीततर्कः । यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा । ऊहोपो- होर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति हेमचन्द्रोक्तो बुद्धिगुणभेदः । यथा वा स्वयमूहापोहसमर्थ इत्यादौ । ३ व्याग इति काव्यज्ञा वदन्ति ( वाच० ) । <अवम्> ( जाति: ) सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम् ( सर्वद० सं० पृ० २१८ औलु० ) । <अप्रतिपत्तिः> [ क ] आरम्भविषये अनारम्भः । परेण स्थापितं वान प्रतिषेधति । प्रतिषेधं वा नोद्धरति ( वात्स्या० १।२।६० )। इयं चाननुभाषणाज्ञानादिनिग्रहस्थानप्रयोज्या ( वात्स्या० १/२/६१ ) । [ ख ] प्रकृताज्ञानम् ( गौ० वृ० ११२/६० ) । <अप्रतिभा> ( निग्रहस्थानम् ) [ क ] उत्तरस्याप्रतिपत्तिरप्रतिभा (गौ० ५/२/१९ ) । परपक्षप्रतिषेध उत्तरम् । तद्यदा न प्रतिपद्यते तदा निगृ- हीतो भवति ( वात्स्या० ५/२/१९ ) । [ख ] उत्तराईं परोक्तं बुध्वापि यत्रोत्तरसमय उत्तरं न प्रतिपद्यते तत्राप्रतिभा ( गौ० वृ० ५/२/१९) ( दि० १) । [ग] उत्तरापरिस्फूर्तिः (त० भा० ५१ ) । [घ ] उत्तराईं परोक्तं बुध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णींभावः ( नील० ४५-४६ ) । <अप्रतिष्ठितः> १ निर्धनः ( मिताक्षरा० अ० २ श्लो० ११७ ) । २ अनपत्यः ( मिताक्षरा० अ० २ श्लो० १४५ ) । <अप्रधानकर्मत्वम्> (कर्मत्वम् ) परंपरया धात्वर्थतावच्छेदकफलशालि त्वम् (ग० व्यु० २ ) ( श० प्र० ९६ ) । यथा गां दोग्धि पय इत्यादौ गवादेर प्रधानकर्मत्वम् (ग० व्यु० २) । अत्र विभागावच्छिन्नक्षरणा- नुकूलो व्यापारो दुइधात्वर्थः । तथा च धात्वर्थव्यापारांशे साक्षाद्विशेष- णस्य ( साक्षाद्धात्वर्थतावच्छेदकस्य ) क्षरणस्याश्रयः पय एव । गौस्तु तादृशक्षरणांशे विशेषणीभूतस्य ( परंपरया धात्वर्थतावच्छेदकस्य ) विभागस्याश्रय इति गोरप्रधानकर्मत्वं बोध्यम् ( ग० व्यु० २ ) । शब्दशक्तिप्रकाशकारास्तु मोचनानुकूलव्यापारो दुहेरर्थः । मोचनं च. बहिः क्षरणानुकूला क्रिया । तादृशक्रियायाः साक्षाद्धात्वर्थतावच्छेदकी- भूताया आश्रयो गौरिति गोः प्रधानकर्मत्वम् । पयसस्तु परंपरया धात्व- र्थतावच्छेदकीभूतबहिःक्षरणात्मक फलाश्रयत्वेन गौणकर्मत्वमित्यङ्गीचक्रुः ( श० प्र० ९८ ) । अत एव पयःप्रभृतेर्गौणकर्मत्वसंपत्तये अकथितं च (पा० १ । ४ । ५१ ) इति सूत्रान्तरम् ( श० प्र० ९६ ) । <अप्रधानत्वम्> १ गौणत्ववदस्यार्थोनुसंधेयः । २ कर्मणः अप्रधानत्वं च अप्रधानक्रियाफलाश्रयत्वम् । ३ प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधा[^१]न- तेति भाट्टाः ( वाच० ) । [^१] अंप्रधानतेति पदच्छेदः । <अप्रमा> (बुद्धिः) [ क ] तच्छ्रन्ये तन्मतिः (भा०प० गु० श्लो० १२८ ) । इयं च दोषाज्जन्यते । दोषास्तु पित्तमण्डूकवसाञ्जनादयो नानाविधाः । तथा हि कचित्पित्तभ्रमे पित्तं दोषः । क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः । क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । एवंरूपा दोषा अन- नुगता एव भ्रान्तिजनका इति ( भा०प० श्लो० १३२ ) (मु० गु० २११ ) । अधिकं तु भ्रमशब्दव्याख्यानावसरे संपादयिष्यते । [ ख ] प्रमाणाभासजन्यः अयथार्थानुभव: ( त० कौ० ६ ) । [ ग ] यत्र यन्नास्ति तत्र तस्य ज्ञानम् । [ घ ] तदभाववति तत्प्रकारकानुभवः ( चि० १।१० ) । यथा पुरोवर्तिन्येवारजते शुत्ताद इदं रजतम् इति रजतारोपः ( त० भा० ४० ) । अप्रमा त्रिविधा । संशयः विपर्ययः तर्कश्चेति ( त० सं० ) (त० भा० ४०) । प्रकारान्तरेणाप्रमा द्वेधा । । भ्रमः संशयश्च । तत्र भ्रमो विपर्ययतर्कावित्युच्यते (त० कौ० ६ ) ( भा० प० श्लो० १२८ - १२९ ) ( मु० गु० २०९ ) । <अप्राप्तकालम्> ( निग्रहस्थानम् ) [ क ] अवयवविपर्यासवचनमप्राप्तका- लम् ( गौ० ५/२/११) । प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशा- क्रमः । तत्रावयवविपर्यासेन वचनमप्राप्तकालमसंबद्धार्थकालं निग्रहस्था- नमिति ( वात्स्या० ५।२।११ ) । [ ख ] समयबन्धविषयीभूतकथा- क्रमविपरीतक्रमेणाभिधानम् ( गौ· वृ० ५/२/११ ) ( दि० १ । २२)। तत्रायं क्रमः - वादिना साधनमुक्वा सामान्यतो हेत्वाभासा उद्धरणीया इत्येकः पादः । प्रतिवादिनश्च तत्रोपालम्भो द्वितीयः पादः । प्रतिवादिनः स्वपक्षसाधनम् तत्र हेत्वाभासोद्धरणं चेति तृतीयः पादः । जयपराजय- व्यवस्था चतुर्थः पादः । एवं प्रतिज्ञाहेत्वादीनां क्रमः । तत्र सभाक्षोभ- व्यामोहादिना व्यत्यस्ताभिधानमप्राप्तकालमिति ( गौ० वृ० ५/२/११) । [ग] अवयवानां व्युत्क्रमेण कथनम् । यथा शब्दत्वाच्छन्दः अनित्य इत्यादि ( नील० ४५)। <अप्राप्तिसमः> (जातिः) [क] प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अवि- शिष्टत्वादप्राप्त्या असाधकत्वाच्च प्रात्यप्राप्तिसमौ ( गौ० ५११।७ ) । हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा । अप्राप्य साधकं न भवति । ना- प्राप्तः प्रदीपः प्रकाशयतीति । अप्राध्या प्रत्यवस्था नमप्राप्तिसमः (वात्स्या० ५/१/७) (नील० ४४ ) । [ ख ] अप्राध्या असाधकत्वादनिष्टाषा- दनम् । यदि चाप्राप्तं लिङ्गं साध्यबुद्धिं जनयति साध्याभावबुद्धिमेव किं तन्न जनयेत् । अप्राप्तत्वाविशेषात् इति । अयं चाप्राप्तिसमः प्रतिकूल- तर्कदेशनाभास इति बोध्यम् (गौ० वृ० ५/१२/७) । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं सा- ध्यते किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न साध्यते । उभयोरविशेषात् । इति दोषादप्राप्तस्य हेतोः साध्यसाधकत्वं वाच्यम् । तथा चाप्राप्तत्वाविशे- षात्सर्वः सर्वं साधयेदिति । अयमेव हेतुः साध्याभावं किमिति न साधयेत् इत्यत्र विनिगमकाभावादिति ( नील० ४४ ) । [ग ] अप्राप्य साध- येत्साध्यं हेतुः सर्वत्र साधयेत् । अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसमे स्थितिः ( ता० २० परि० २ श्लो० ११२ ) । <अफललम्> मुख्यफलाजनकत्वम् ( मू० म० १ ) । यथा स्वर्गोदेशेन कृतस्य चैत्यवन्दना देरफलत्वम् । ९ न्या० को० <अभाव:> १ ( पदार्थ: ) [क] असमवायत्वे सत्यसमवायः ( सर्व० पृ० २३२ औलु०) । समवायमिन्नत्वे सति समवायशून्य इत्यर्थः । [ख] भावमिन्नः प्रतियोगिज्ञानाधीनज्ञानविषयः । [ग] माध्वास्तु प्रथमप्रतीतौ यः नास्ति इति प्रमाविषयः सः अभावः इत्याहुः (प्र० च० परि० पृ०४९ ) । अभावश्चतुर्विधः । प्रागभावः प्रध्वंसः अत्यन्ताभावः अन्योन्याभावश्चेति ( त० सं० ) । अभावपदार्थस्योपयोगमाह न्यायलीलावतीकारः अभावो वक्तव्यो निःश्रेयसोपयोगित्वाद्भावप्रपञ्चवत् इति । कारणाभावे कार्याभावस्य सर्वमतसिद्धत्वादुपयोगित्वसिद्धिः ( न्या० ली० पृ० १-२ ) । अन्ये तु अभावो द्विधा-संसर्गाभावः अन्योन्याभावः । आद्यस्त्रिविधः प्रागभावः प्रध्वंसः अत्यन्ताभावः इति ( भा० प० श्लो० १२ ) ( त० को ० २१) । द्वितीयस्त्वेकविध एवेति (मु० ११४१ ) । अत्र संसर्गाभावत्वं च तादात्म्येतरसंसर्गावच्छिन्नप्रतियोगिताकाभावत्वमिति संप्रदायः । भेदेतराभावत्वमिति नव्याः (प० मा० ) । अत्रेदं बोध्यम्- अभावश्च भावभिन्नः पदार्थः । तत्र भावत्वं च द्रव्यादिषट्रान्य- तमत्वम् । अथ वा समवाय एकार्थसमवाय एतदन्यतरसंबन्धेन सत्तावत्त्वम् ( ल० व० २-३ ) । अभावलक्षणं चाभावत्वमेवेति बोध्यम् । अभावविषये केचन नियमाः संभवन्ति । तत्र प्रथमः- अव अच्छेदक मेद: अभावमेदनियामक इति । द्वितीयः - विशेषाभावकूटानां सामा न्यधर्मावच्छिन्न प्रतियोगिताकत्वं स्वीक्रियत इति ( दीधि० २ ) । .तृतीयः- अभावप्रत्यक्षं प्रति योग्यानुपलब्धिः कारणम् । तथा हि यद्यत्र घट: स्यात्तह्युपलभ्येत इति तर्कितया घटसत्त्वस्य प्रसत्त्या आपादिताया घटविषयकोपलब्धेरभावो घटाभावप्रत्यक्ष इन्द्रियस्य सहकारीति । : अनुपलब्धिरूपप्रमाणगम्य इत्याहुः । चतुर्थः - एकप्रतियोगिकयोर- भट्टास्तु अभावो नेन्द्रियग्राह्यः कृप्तसंनिकर्षाणामभावात् । किं तु प्यत्यन्ताभावान्योन्याभावयोः प्रतियोगितावच्छेदकधर्मप्रतियोगितावच्छेद- कसंसर्गमेदाद्वद्धुत्वम् । तत्र प्रतियोगितावच्छेदक धर्मसंसर्ग मेदादत्यन्ताभा- बबहुत्वम् प्रतियोगितावच्छेदकधर्ममेदाद' योन्याभावबद्भुत्वम् इति योजना । तदेव दर्शयामः – केवलदेवदत्ताभावाद्दण्ड विशिष्टदेवदत्ताभावो- तिरिक्तः । एकसत्त्वेपि द्वौ न स्तः इति प्रतीत्या द्वित्वावच्छिन्नाभावः संयोगेन घटवति भूतले समवायसंबन्धेन घटाभावः तत्तद्धटाभावा- द्घटत्वावच्छिन्न प्रतियोगिवाकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभाव- भेदोपि बोध्यः अत्यन्ताभावाभावः ध्वंसप्रागभावः प्रागभाव- ध्वंसश्च नातिरिक्तः । अपि तु प्रतियोगिस्वरूप एवेति प्राञ्चः । नव्यास्तु तत्रात्यन्ताभावाभावोतिरिक्त एव । तृतीयाभावश्च प्रथमाभावरूप इति नानवस्थेति प्राहुः । अन्योन्याभावाभावस्तु स्वप्रतियोगिभेदप्रतियो- गितावच्छेदकरूप इति बोध्यम् । सौन्दडोपाध्यायः घटत्वेन पटो नास्ति इति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभावं स्वीकरोति । इतरे नैयायिकास्तु तं न स्वीकुर्वन्ति । किंतु घटत्वेन पटो नास्ति इति प्रतीतो पट- वृत्तिघटत्वाभावमेव विषयं केवलान्वयिनं मन्यन्ते । यस्मिन्भूतलात्मके- धिकरणे घटो नास्तीत्यादिप्रत्ययस्तस्मात् केवलाधिकरणादेव नास्ति इति व्यवहारोपपत्तावभावो न पदार्थान्तरम् किं त्वधिकरणात्मक एवेति प्राभाकरा आहुः ( त० दी० ) (मु० ) ( सि० च० ) ( न्या० म० ) । अत्रेदं बोध्यम् - प्रागभावस्योत्तरावधिकत्वम् । प्रध्वंसस्य पूर्वावधिकत्वम् । अन्योन्याभावस्य प्रतियोगिसमानाधिकरणत्वम् । अत्यन्ताभावस्य तु त्रितयवैधर्म्यम् । अतश्चतुर्थोयमभावः (वै० उ०९।१।५) । अत्यन्ताभा- वोन्योन्याभावश्च प्रत्येकं द्विविधः । एकमात्र पर्याप्तवृत्तिकधर्मावच्छिन्न प्रतियो- गिताकः व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकश्च । तत्राद्यो यथा घट- त्वावच्छिन्नाभावः । घटत्वादेः प्रत्येकमपि पर्याप्तत्वात् । एकत्रापि अयं घटः इति घटत्वप्रतीतेः ( म०प्र० १३ ) । द्वितीयः एकघटवति द्वित्वावच्छिन्नाभावः ( न्या० म० ११ १२) । घटवति घटपटौ न स्तः एकघटवति न घटौ घटो न घटपटौ एको न द्वौ इति प्रतीतिभ्य एकघटवति द्वित्वावच्छिन्नोभयात्यन्ताभावस्य एकस्मिन्नुभयान्योन्याभावस्य च सत्त्वात् ( न्या० म० ११ १२ ) ( स० प्र० १३) । अन्येपि केचि- दत्यन्ताभावभेदाः प्रदर्श्यन्ते । सामान्याभावश्च - स्वान्यूनानतिरिक्तवृत्तित्व- स्वनिष्ठावच्छेदकतानिरूपितत्वोभयसंबन्धेन सामान्यधर्मविशिष्टप्रतियोगिता- काभावः । विशेषाभावश्च– उक्तोभयसंबन्धेन विशेषधर्मविशिष्टप्रतियोगि- ताकाभावः । व्यधिकरणधर्मावच्छिन्नाभावश्च स्वाश्रयावृत्तिःवस्वनिष्ठावच्छे- दकतानिरूपितत्वोभयसंबन्धेन किंचिद्धर्मविशिष्ट प्रतियोगिताकाभावः । विशेषरूपेण सामान्याभावश्च स्वसामानाधिकरण्यस्वाधिकरणवृत्त्यभावप्रति योगित्वोभयसंबन्धेन प्रतियोगित्वविशिष्टधर्मावच्छिन्न प्रतियोगिताकाभावः । सामान्यरूपेण विशेषाभावश्च स्वसामानाधिकरण्यस्खाधिकरणवृत्त्यभावा- प्रतियोगित्वोभयसंबन्धेन प्रतियोगित्वविशिष्टधर्मावच्छिन्नप्रतियोगिताका भावः (ल० च० ३८-३९)। २ प्रमाणविशेषः । व्याप्तिसापेक्षोनुमानम्। तच्च विरोध्यभावज्ञानाधीनं विरोध्यन्तरकल्पनम् । यथा नकुलाभावज्ञाने नकुलविरोघिनो व्यालस्य कल्पनम् । कारणाभावादिना कार्या- भावादिज्ञानम् ( गौ० वृ० २१२ । १ ) । अत्राथमाशयः - न चतुष्टुमैति- •णान्तरत्वं केचिदाशशङ्किरे । तन । अभावनिष्ठव्याप्तेरनुमानाइत्वे विरो ह्यार्थापत्तिसंभवाभावप्रामाण्यात् ( गौ० २।२।१ ) इत्यत्राभावस्य प्रमा- धाभावात् । तेनाभावस्यानुमानान्तर्गतत्वमेव न तु प्रमाणान्तरत्वमिति ( गौ० वृ० २।२।२ ) । <अभावत्वम्> [क] इदमिह नास्ति इदमिदं न भवति इत्यादिप्रतीति- नियामको भावाभावसाधारणः स्वरूप संबन्ध विशेषः (दीधि ० २) । [ख] प्रतियोगिज्ञानाधीनज्ञान विषयत्वम् ( सि० च० ४ ) ( ल० व० ४ ) । [ग] द्रव्यादिषट्रान्योन्याभाववस्वम् (मु० ११४१ ) । [ घ ] भाव- भिन्नत्वम् (वाक्य० १ ) ( सि० ०१४)। [] समवाय- एकार्थसमवाय ( सामानाधिकरण्य) एतदन्यतरसंबन्धावच्छिन्न प्रतियोगि ताकसत्ताभाव इति नव्याः ( दि० १।४१ ) । च भावव्या- वृत्तोखण्डोपाघिः अनुयोगिताविशेषो वेति संप्रदाय: ( मू० म० १) ( सि० च० ४) (दि० १।४१ ) । <अभिगमनम्> ( उपासनम् ) देवतास्थानमार्गस्य संमार्जनोपलेपनादि ( सर्व० सं० पृ० ११७ रामानु० ) । <अभिघातः> ( संयोगः ) [ क ] यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषो- भिघातः (वै० उ० ५/२/१) । यथा कुठारायभिघातः (वै० वि० ५।२।१) । [ख] स्थिरस्य वेगवद्रव्यसंयोगविशेषः । <अभिचारः> [ क ] मारणम् । शत्रुवध इत्यर्थः । यथा श्येनेनाभिचर- न्यजेतेत्य़ादावभिचारः । [ ख ] वैरिवधायुत्कटकामना ( त० प्र० ख० ४ पृ० १० ) । अत्र विप्रतिपद्यन्ते । हिंसा च मरणोद्देश्यकः अदृष्टा- द्वारकमरणानुकूलव्यापारः । तेन श्येनस्य न हिंसात्वम् । अदृष्टद्वारक- त्वात् । एवं च श्येनेनाभिचरन्यजेतेत्यादौ बलवदनिष्टा ननुबन्धित्व विशिष्टे- ष्टसाधनत्वादेर्विशिष्टस्य विध्यर्थत्वेपि तादृशविध्यर्थान्वयबोधो भवत्येवेति प्राञ्चो नैयायिका आहुः । अन्त्रायमभिप्रायः - प्रथमं श्येनः ततो वधः ततः अपूर्वम् ततो मरणमिति स्थितिः । तथा च श्येनोन स्वरूपतो निषिद्धः किं तु फलत इति बलवदनिष्ठाननुबन्धित्वमप्यक्षतम् । तथापि वधाच नरक इति न तत्रास्तिकानां प्रवृत्तिरिति ( न्या० म० ४।२७) ( म०प्र० ६० ) । नव्यास्तु - श्येनस्याभिचारतया पापजनकत्वस्म- रणान्मरणोद्देश्यकं मरणप्रयोजकव्यापारमात्रं हिंसेति निर्वचनीयम् । न त्वदृष्टाद्वारकत्वविशेषणेनापि घटितम् । तेन च श्येनस्य हिंसात्वमस्त्येव । तथा च विधिप्रत्ययस्य बलवदनिष्टा ननुबन्धित्वविशिष्टेष्टसाधनत्वविशिष्ट- कृतिसाध्यत्व एका शक्तिस्युक्ता । किं तु बलवदनिष्टाननुबन्धित्वम् इष्ट- साधनत्वम् कृतिसाध्यत्वं चैतत्रिषु पृथक् शक्तित्रयं स्वीकृत्य कचित्कस्य- चित् कचिरकस्यचिदर्थस्य बोध इत्यङ्गीकरणीयम् । एवं च श्येनेनेत्यादौ बलवदनिष्टाननुबन्धित्वस्य अविवक्षितत्वात् बोधो न भवत्येवेत्याहुः । केचित्तु श्येनो हि न हिंसा किं तु श्येनस्य फलं हिंसा । सा च साक्षा- न्मरणानुकूलव्यापारः । स च व्यापारः श्येनजन्यः खनाघातादिरूपः । स एवाभिचारपदार्थः । तस्य पापजनकत्वम् । एवं च श्येनेनाभिचरन् यजेतेत्यादौ श्येनस्य हिंसात्वाभावेन बलवदनिष्टाननुबन्धित्वमपि विधि- प्रत्ययेन बोभ्यत इत्याहुः । अत्रेदमाकूतम् - प्रथमं श्येनः । ततस्तज्जन्यम- पूर्वम् । ततः खङ्गाघातादिरूपा हिंसा । तदव्यवहितोत्तरमेव मरणमिति । अत्र श्येनस्य वैधत्वात्पापाजनकत्वेपि अग्रिमपापं प्रतिसंधाय सन्तो न प्रवर्तन्त इति ( दि०) ( राम० २२९ ) । <अभिजन:> यत्र पूर्वैरुषितं सोभिजन: ( सिद्धान्तकौ० पृ० १३८ तद्धित० ) । <अभिधा> १ संकेतवदस्यार्थोनुसंधेयः (दि० १) । २ संकेतग्राह्यः शक्ति रूपः अतिरिक्तः पदार्थ इति मीमांसका आहुः ( न्या० म० ४ । ३ ) । <अभिधाभावना> क फलजनकव्यापारानुकूलव्यापाररूपा शब्दनिष्ठा भावनेति भट्टाः । [ख] प्रेरणापरपर्याया पुरुषप्रवृत्तिरूपार्थभावना- भाव्या भावना ( सर्व० सं० पृ० २६४ जै० ) । <अभिधेयत्वम्> [क] भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव वर्तते । सर्वस्यैव भगवदिच्छाविषयत्वात् । वस्तुपदशक्यत्वात् ( न्या० म० २।१९ ) । [ख ] शब्दशक्तिविषयत्वम् (त० प्र० २ ) ( दि० १ ) । गशब्दशक्यत्वम् ( दीधि० २) । यथा घटपटादेः सर्वस्या- मिधेयत्वम् । <अभिनयः> १ साक्षादिवार्थाकारादिप्रदर्शिका हस्तादिक्रिया । यथा हस्तचेष्टादिना बदरघटाद्याकारेण अल्पस्तनी स्थूलस्तनी इति प्रदर्शनम् ( काव्य० टी० २) । २ अभिलापकशब्दोच्चारणम् । यथा - यत्र धूमस्तत्र वह्निः इति व्याप्तेरभिनयः इत्यादौ ग्रन्थे अभिनयशब्दस्यार्थः ( त० दी० २ पृ० २० ) । यथा वा पर्वतो वह्निमान् इत्यनुमितेरभिनयः इत्यादौ ग्रन्थे अभिनयशब्दस्यार्थ: ( सि० च० २ पृ० २३ ) । <अभिनिवेश:> (क्लेश: ) पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्या कृमेरा विदुषः संजायमानः शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपोभिनिवेश: ( सर्व० सं० पृ० ३६४ पातञ्ज० ) । <अभिप्रायः> इच्छावदस्यार्थोनुसंधेयः ( दि० गु० ) । <अभिभवः> १ [ क ] बलवत्सजातीयसंबन्धः । यथा सुवर्णे तेजोरूप- स्याभिभवः । तदुक्तम् – भूसंसर्गवशाच्चान्यरूपं नैव प्रकाशते इति (वै० उ० २।१।७) (दि० १ । २ ) ( प० मा० ) । [ख] बलवत्स- जातीयग्रहणकृतमग्रहणम् । यथा सुवर्णगतरूपवृत्तिशुकृत्वभावरत्वयोरभि - भवः । सुवर्णगतरूपस्याप्यभिभव इत्येके ( वै० उ०४।१।९) ।२ परा- जयप्राप्तिरभिभव इति काव्यज्ञा वदन्ति । <अभिमानः> १ (दोषः) अपकारिण्यकिंचित्करस्यात्मनि द्वेषः ( गौ० वृ० ४ । १ । ३ ) । २ भ्रम इत्यस्मगुरुचरणा: ( भिकुशास्त्रिणः ) प्राहुः । <अभियोगः> परेण कृतस्यापराधस्य राज्ञे प्राडिवाकाय वा आवेदनम् । (फिर्याद इति महाराष्ट्रभाषायां प्र० ) । स चाभियोगो द्विविधः । तदुक्तं रन-अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्कास[^१]तां तु संसर्गात्तत्त्वं होढाभिदर्शनात् ॥ ( मिताक्षरा० अ० २ श्लो० ५ ) । होढाशब्देन लिङ्गमुच्यते । [^१] अंसताम् इति पदच्छेदः । <अभिलाषः> १ विषयतासंबन्धावच्छिन्नप्रीत्यनुकूल: प्रीतिव्यधिकरणो व्या- पारः । यथा हरिर्भक्तिमभिलषतीत्यादावभिलषतेरर्थः (ल० म० १०२) । २ ( गुणः ) अभ्यवहारेच्छा (भोजनेच्छा) (प्रशस्त ० २ १० ३३ ) । <अभिविधिः> १ अभिव्याप्तिवदस्यार्थोनुसंधेयः ( श० प्र० ११७ ) । २ व्यापकत्वम् । यथा - आ सकला सादावाड्यो त्योभिविधिरूपः सं- बन्ध: पञ्चम्यर्थः । सकलव्यापकं ब्रह्म इति बोधः । अभिविधिर्द्विविधः । कालिकः दैशिकश्च । तत्राद्यो यथा - कार्तिक्याश्चैत्रं यावच्छीतमित्यादौ । अत्र चैत्रपदं तदन्त्य कालपरम् । एवं च कार्तिकीप्रभृतिचैत्रान्तकाल- व्यापकं शीतमिति बोधः । अत्र - कार्तिक पूर्वकालोत्तर- चैत्रोत्तरकाल- पूर्व-कालव्यापकत्वं चैत्रोत्तरकालावृत्तित्वसहितं शीतभावने यावच्छब्देन प्रत्याय्यते ( ग० व्यु० का० २ ख० २ १० ७६ ) । द्वितीयं यथा- काशीतः पाटलिपुत्रं यावदृष्टो देव इत्यादौ । अत्र काशीप्रभृतिपाटलि पुत्रान्तदेशव्यापकत्वं वृष्टौ प्रतीयते । अत्र काशीपश्चिमदेशपूर्व–पाटलि - पुत्रपूर्वदेशपश्चिम–देशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावच्छब्देन प्रत्याय्यते । विशेषः पूर्ववत् ( मर्यादाशब्दव्याख्यानोक्त- रीत्या ) द्रष्टव्यः ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । अनयोः दैशिककालिकयोरभिविध्योः तात्पर्यवशात्कदाचिद्वयापकत्वं तद्भिन्नका- लावृत्तित्वविशिष्टं तद्भिन्नदेशावृत्तित्वविशिष्टं च प्रतीयत इति बोध्यम् <अभिव्याप्तिः> १ अभिविधिः । स च तदारम्भकयावदवयवावच्छेदेन तत्संयुक्तत्वम् । यथा- गृहं यावद्धनं तवेत्यत्र यावदित्यस्यार्थः । अत्र गृहाभिव्याप्तं त्वद्धनम् इत्याकारो बोधः ( श० प्र० ११७ ) । २ तद्वृ- त्यधिकरणता - ( मासवृत्त्यधिकरणता-) वच्छेदकीभूतयावत्त्वपर्याप्त्यधिक- रणकालवृत्तित्वम् तथाविधयत्किंचिद्यावत्वव्यापकं वा । यथा मासं सु प्यत इत्यादौ मासादेरभिव्याप्तिर्द्वितीयार्थः । अत्र कालाध्वनोरत्यन्तसंयोगे (पा० सू० २।३।५) इत्यनेन द्वितीया । मासाभिव्याप्तः स्वापः इति वः ( श० प्र० ११७ ) । देशविषये तु तद्वृत्त्यधिकरणता - ( क्रोशग- (म्यदेशवृत्त्यधिकरणता) वच्छेदकीभूतया वत्त्वपर्यायधिकरणदेशवृत्तित्वम् तथा विधयत्किंचिद्यावत्त्वव्यापकं वा । यथा क्रोशं गम्यत इत्यादौ क्रोशा- देर भिव्याप्तिर्द्वितीयार्थः । अत्र क्रोशाभिव्याप्तगतेः कर्मत्वम् इति बोधः ( श० प्र० ११७ ) । <अभिहितान्वयवादः> शाब्दबोधाविषयस्य शक्तिज्ञानाविषयत्वनियम इति बादः । यथा तात्पर्यार्थोपि केषुचित् ( काव्यप्र० उ० २) इत्यादौ । अत्र अभिहितानां पदोपस्थितानामर्थानामन्वयः संसर्गः संसर्गमर्यादया वाक्यार्थबोघे विषयो भवतीति वादः कथनम् इति व्युत्पत्तिः । भट्ट- तार्किकाणां मतमेतत् । तन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव पदान्याकाङ्क्षादिसहकृतया तत्तत्पदवृत्त्यैव ( शक्त्या लक्षणया वा ) परस्परान्वितं विशिष्टमेकमर्थं बोधयन्ति । विशिष्टार्थबोधने अतिरिक्ताया वाक्यशक्तेरपेक्षा नास्तीति भावः । अयमेव वाक्यार्थबोध इति शाब्द- बोध इति चोच्यते । किं च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ तप्रत्ययः प्रकृत्यर्थोपरक्त भावनामभिधत्त इति सिद्धे व्युत्पत्तिमभ्युपगच्छतां भट्टाचार्याणां सिद्धान्त इति विज्ञेयम् (सर्व० पृ० २८६ जैमि० ) । <अभीष्टत्वम्> स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् ( मू० म० १ ) । यथा सुखस्याभीष्टत्वम् । <अभेदः> तादात्म्यम् । तच्च स्ववृत्त्यसाधारणधर्मः । यथा नीलो घटः इत्यादौ घंटे तन्नीलत्वरूपं तादात्म्यम् ( ग० व्यु० १ ) । <अभ्यर्थना> अधीष्टवदस्यार्थो नुसंधेयः (वै० सा० द० १३१ ) । अधीष्ट- शब्दस्तु लिङ्शब्दव्याख्यानावसरे व्याख्यास्यते । <अभ्यासः> १ [क] पुनःपुनः संशीलनम् (सर्व० पृ० १२४ रामा० ) । [ख] स्थितौ यत्नोभ्यासः । प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामविशेषः स्थितिः । तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथा- त्वेन चेतसि निवेशनमभ्यासः ( सर्व० सं० पृ० ३६६ पातञ्ज० ) । [ग] पौनःपुन्यम् । यथा समाधि विशेषाभ्यासात् (गौ० सू० ४/२/३६) इत्यादौ विषयान्तरानभिष्वङ्गस्याभ्यासः ( गौ० वृ० ४/२/३६ ) । [घ ] संस्कारबाहुल्यम् । [ङ ] दृढतरसंस्कार इति केचित् ( गौ० वृ० ३।२।४२ ) । [च ] एकप्रकारा असकृदुक्तिरभ्यास इति मध्वाचार्यानु- •यायिनो वेदान्तिनः । [ छ ] समाने विषये ज्ञानानामभ्यावृत्तिः (वात्स्या ३।२।४२ ) । [ज ] एकविषयाने कविज्ञानोत्पादोभ्यासः (न्या० वा० ) । १२ विहितयोद्वयोः पूर्वोभ्यास इति शाब्दिका वदन्ति । <अभ्यासदशा> [क] विशेषदर्शनाधिकरणकालः । [ख] प्राथमिकज्ञान- समानाकारज्ञानान्तराधिकरणकालः । यथा द्वितीयादिजलज्ञानकालः । <अभ्युपगमः> १ निश्चयविशेषः ( मू० म० १) । २ स्वीकारः । यथा- न्या० को० १० अस्तु द्रव्यं शब्द इति ( वात्स्या० १११।३१) । यथा वा सूत्रकृता- भ्युपगत मित्यादावभ्युपगमः ( गौ० वृ० १ । १२।३१ ) । <अभ्युपगमसिद्धान्तः> ( सिद्धान्तः ) [क] अपरीक्षिताभ्युपगमात्तद्वि- शेषपरीक्षणमभ्युपगमसिद्धान्तः (गौ० ११ १२ १३ १ ) । यत्र किंचिदर्थजात्- १.. मभ्युपगम्यते–अस्तु द्रव्यं शब्दः स तु नित्योधानित्य इति द्रव्यस्य सतो नित्यता अनित्यता वा तद्विशेषः परीक्ष्यते सोभ्युपगमसिद्धान्तः खबु - द्व्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाच्च प्रवर्तत इति ( वात्स्या 1 . १।१।३१ ) । [ख] साक्षादसूत्रिताभ्युपगमः । यथा मनस इन्द्रियत्व- मिति (गौ० वृ० १ । १ । ३१ ) । [ग ] तन्त्रान्तरसिद्धः स्वयमभ्यु- पगतः । यथा वैशेषिकाभ्युपगतस्य मनसीन्द्रियत्वस्य नैयायिक्रेनाभ्यु- पगम इति । <अमषेः> ( दोषः ) कृतापरावे असमर्थस्य द्वेष: ( गौ० वृ० ४।१।३ ) । <अमावास्या> सूर्याचन्द्रमसोर्यः परः संनिकर्षः सा तिथिः (पु० चि० ३३ ) । <अमुर्तगुणत्वम्> [क] मूर्तगुणवृत्तिः संस्कारत्वान्या गुणत्वव्याप्या च या जातिस्तच्छून्यगुणत्वम् । अत्र तादृशी जातिः रूपत्वरसत्वादिर्भवति । तच्छ्र- अन्यत्वं बुद्धयादौ वर्तत इति लक्षणसमन्वयः । अमूर्तगुणाच बुद्धिः ( सुखम् दुःखम् इच्छा द्वेष प्रयत्नः धर्मः अधर्मः भावना शब्दश्चेति ( दश सन्ति ( भा० प० गु० १९२ ) । [ख ] मूर्तताभावव्याप्यता- वच्छेदिका परिमाणावृत्तिश्च या जातिस्तद्वत्त्वम् ( दि० गु० १९२ ) । ० यत्र यत्र बुद्धयादयः अमूर्तगुणास्तत्र तत्र मूर्तत्वाभाव इति नियमेन [ग] मूर्तावृत्तिः संख्यादिपञ्चकभिन्नो यो गुणस्तत्त्वम् (ल० व०३६) । बुद्धित्वसुखत्वादिजातिर्मूर्तत्वाभावस्य व्याप्यतावच्छेदिका भवतीति बोध्यम् । <अयथार्थबुद्धिः> (बुद्धिः ) [ क ] अर्थव्यभिचार्यप्रमाणजन्यं ज्ञानम् ( त० भा० ) । अत्रायथार्थत्वं च तदभाववति तत्प्रकारकत्वम् । [ख] प्रमाणाभासजन्यं ज्ञानम् ( त० कौ० ६ ) । [ग] तच्छ्रन्ये तन्मति: ( भा० प० गु० श्लो० १२८ ) । घ यत्र यन्नास्ति तत्र तस्य ज्ञानम् । ङ तदभाववति तत्प्रकारकं ज्ञानम् ( चि० १।१०) । यथा शुक्तौ इदं रजतम् इति ज्ञानम् । एतानि च पूर्वोक्तानि लक्षणानि स्मृतिसाधारणान्यपि भवन्ति इति बोध्यम् । शुक्तौ इदं रजतम् इति ज्ञाने प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसख्याति वाचस्पतिमिश्रा अङ्गीचक्रुः ( सि० च० १११९) । मीमांसकास्तु अय- । (थार्थज्ञानमेवाप्रसिद्धम् । पुरोवर्तिज्ञानरजतस्मरणाभ्यामेव रजतानयने प्रवृ- युपपत्तेरिति वदन्ति (सि० च० ११ १९ ) । <अयथार्थानुभवः> अप्रमावदस्यार्थोनुसंधेयः (मु०) (सि० च० ) । <अयनम्> ऋतुत्र्यं चायनं स्यात् ( विष्णुध ० ) ( पु० चि० पृ० ९ ) । <अयाचितम्> [ क ] संकल्पोत्तरं याञ्चां विना लब्धस्य दिने रात्रौं वा भोजनयोग्यकाले सद्भोजनम् । अयाचितालाभे उपवासः । एतदन्य- तरदयाचितस्वरूपम् । [ख] याचनां विना अन्येन दत्तस्य भोजनमया- चितम् (पु० चि० पृ० ४९ ) । <अयुतसिद्धम्> ययोर्द्वयोर्मध्य एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुत- सिद्धौ । नाशपूर्वक्षणपर्यन्तमित्यर्थः । अत्रेदं बोध्यम्-न घटाद्यवयवी कपालाद्यवयवासंबद्धः सन् तिष्ठति (वै० वि० ७/२/१३ ) । अवयव्यादयो हि अविनश्यन्तोवयवाद्याश्रिता एवावतिष्ठन्ते । अवयवा- दिनाशानन्तरं विनश्यन्तस्तु क्षणमात्रं निराश्रिता एवावतिष्ठन्त इति ( त० कौ० २० ) । अयुतसिद्धौ च पञ्चविधौ । यथा - अवयवावय- गुणगुणन क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ( त० सं० ) ( त० कौ० २० ) ( त०] भा० पृ० ३ ) । <अर्कदैवत्यम्> (नक्षत्रम्) हस्तः ( पु० चि० पृ० ३५७ ) । <अर्चा> प्रतिमादयः ( सर्व० सं० पृ० ११५ रामानु० ) । <अर्जनम्> स्वत्वजनकव्यापारः । यथा याजनाध्यापनप्रतिग्रहैर्द्विजो धन मर्जयेदिति श्रुतौ धात्वर्थः (श० प्र० ८५ ) । <अर्थ:> १ अर्थ इति द्रव्यगुणकर्मसु (वै० ८।२।३) । एतस्य व्याख्या- [क] एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम् । तेन । तेषु त्रिषु वैशेषिकाणामर्थ इति परिभाषा । अर्थपदेन त्रयाणामुपस्थितेः । तदुक्तं प्रशस्तदेवाचार्यैः- त्रयाणामर्थशब्दाभिधेयत्वं च इति (वै० उ० ८।२।३ ) । [ख ] अर्थ इति शब्दो द्रव्यगुणकर्मसु वर्तते । स च तत्र पारिभाषिकः। गौतमीये तु गन्धरसरूपस्पर्शाः पृथिव्यादिगुणास्तदर्थाः (गौ० १।१।१४ ) इत्युक्तम् । अतः पञ्चेन्द्रियग्राह्येषु पञ्चसु गुणेष्वपि अर्थशब्दस्य परिभाषान्तरं समानतन्त्र सिद्धम् (वै० वि० ८ २ ३ ) । २ यत्परः शब्दः सः ( चि० ) । यथा षट् पदार्थाः । ते च द्रव्यगुणकर्मसामान्यविशेषसमवायाः ( त० मा० २७ ) ( वै० १। १।४ ) । प्रमाणादयोर्था गौतमसूत्रपठिताः षट्खेवान्तर्भवन्ति । प्रयोजन वशात्तु भेदेन निरूपिता इति बोध्यम् ( त० भा० २७ ) । अयं च शब्दार्थ इत्युच्यते ( चि०४ ) ( ग० शक्ति० ) । अयमर्थो नैयायिक मते द्विविधः । वाच्यः लक्ष्य इति । व्यङ्ग्योपि तृतीयोर्थ इत्यालङ्कारका आहुः ( काव्य० २ ) । वृत्त्या पदप्रतिपाद्यः अर्थ इत्युच्यते ( ग० शक्ति० ) । यथा घटशब्दस्यार्थः कम्बुग्रीवादिमान् । ३ प्रकार: (वाक्य० ) । यथा अर्थाबाधो योग्यतेव्यादावर्थः प्रकारः । अत्र जलेन सिञ्चतीत्यादी जलकरणकत्वरूपप्रकारस्य सेचनक्रियायामबाध इति बोध्यम् । ४ निवृत्तिः । यथा - अनुमानं परार्थमित्यादौ ( चि० अव० २।७६) । अत्र परस्य मध्यस्थयार्थः संशयस्य निवृत्तिर्यस्मादिति व्युत्पत्त्यानुमानस्य संशयनिवृत्तिफलकत्वरूपं परार्थत्वं युज्यत इति बोध्यम् । ५ यदाकाया यत्प्रवर्तते स ( फलम् ) तस्यार्थ: (मू० म० १) । ६ विधिजन्यबोधविषयः (धर्मः ) अर्थ इति मीमांसका आहुः । ७ धनमथ इति लौकिकजना वदन्ति । ८ विषयः । तथा चोक्तम्- अर्थाः स्युरिन्द्रियग्राह्याः इति ( ता० र० श्लो० २९ ) । <अर्थनिश्चयप्रसङ्गः> तत्कार्यनिष्कम्पप्रवृत्त्यादिप्रसङ्गः ( ग० बाघ ० ) ! <अर्थपुनरुक्तम्> (निग्रहस्थानम् ) एतस्य प्रमादादिना संभवः (गौ० वृ० ५।२।१४ ) ।[क] अर्थस्य पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् गौ० ५।२।१४ ) । समानार्थक भिन्नानुपूर्वी कशब्दस्य निष्प्रयोजनं पुन- रभिधानम् । यथा घट कलश इति ( गौ० वृ० ५/२/१४ ) । यथा वा- अनित्यः शब्दो निरोधधर्मको ध्वान इति ( वात्स्या० ५/२।१४ ) । [ख ] अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ( गौ० ५/२/१५ ) । पुनरुक्तमिति प्रकृतम् । निदर्शनम् । उत्पत्तिधर्मकत्वादनित्यमित्युक्त्वा अर्थादापन्नस्य योभिधायकः शब्दस्तेन स्वशब्देन ब्रूयादनुत्पत्तिधर्मकं नित्यमिति । तच्च पुनरुक्तं वेदितव्यम् । अर्थसंप्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोर्थोर्थापत्त्येति (वात्स्या० ५/२/१५ ) । [ग ] यस्मिन्नुक्ते यस्यार्थस्यौत्सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पुन- रुक्तम् । इदमेव चार्थपुनरुक्तमिति गीयते । यथा वह्निरुष्ण इति । पूर्व- पदाक्षिप्तोक्तिरियम् । उष्णो वह्निरिति उत्तरपदाक्षिप्तोक्तिः । एवं बहि- । (रस्ति गेहे नास्ति इति विध्याक्षिप्तोक्तिः । जीवन्गेहे नास्ति बहिरस्ति इति निषेधाक्षिप्तोक्तिः ( गौ० वृ० ५/२/१५ ) । <अर्थवादः> (शब्दः ) अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थप्रशंसापरं वचनमित्यर्थः । अर्थवादो हि स्तुत्यादिद्वारा विध्यर्थं शीघ्रं प्रवृत्तये प्रशंसति ( गौ० वृ० २।१।६३ ) । निषिद्धार्थ शीघ्रं निवृत्तये निन्दति च । स चार्य अर्थवाद: लोके वेदे च समानः ( त० कौ० ४।१७ ) । तत्र लौकिक:- ओदनकामस्तण्डुलं पचेत तृप्तिका मस्तण्डु- लौदनं भुञ्जीतेत्यादौ विध्यर्थस्य तण्डुलपाककरणस्य तण्डुलौदनभोजन- रूपस्य च स्तावकं तण्डुलपाक ऋषिभिः पूर्व स्वर्गाद्यर्थं कृतः ओदनम- मृतम् इत्यादि वाक्यम् । एवं कफज्वरपीडितो दुग्धं न पिबेदित्यादि- निषेधविधिस्थलेपि दुग्धपानस्य निन्दकं पशुभिर्भक्षितेनापथ्यतॄणा दिना दुग्धं जन्यते तच्च विषरूपमित्यादिकं वाक्यम् । वैदिकोदाहरणानि स्वनु- पदं प्रदर्श्यन्ते । अर्थवादश्च विधिनिषेधभिन्नः शब्दः । यथा- आदित्यो यूपः अग्निर्हिमस्य भेषजम् वज्रहस्तः पुरंदर इत्यादि ( त० कौ० ४ पृ० १७) । अत्राद्यं गुणवादोदाहरणम् । द्वितीयमनुवादोदाहरणम् । तृतीयं भूतार्थवादोदाहरणम् । प्राशस्त्यनिन्दान्यतरपरं वाक्यं चार्थवादः ( लौ० भा० ) । यथा वायुर्वै क्षेपिष्ठा देवतेत्यादिः । सोरोदी दिल्या- दिर्वा । अत्र च वायव्य५ श्वेतमालमेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता (वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति ( कृष्णयजु:- (संहिता २।१।१) इत्यादौ वायुर्वै क्षेपिष्ठेत्याद्यर्थवादो हि वायव्य श्वेत- मालमेतेत्यादिविधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको यागः प्रशस्त : इति प्रशंसतीति विज्ञेयम्। सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( कृष्णयजु: ० १९५१ ) इति वाक्यं तु क्रतावृत्विग्भ्यो रजतं न देयम् इति निषिद्धं रजतदक्षिणादानं निन्दतीति बोध्यम् । अर्थवादश्चतुर्विधः । स्तुतिः निन्दा परकृतिः पुराकल्पः (गौ० २१११६४ ) । प्रकारान्तरेण स त्रिविधः । गुणवादः अनुवाद: भूतार्थवादश्चेति ( न्या० म० ४ पृ० ३० ) । तदुक्तम्-विरोधे गुणवादः स्यादनुवादोवधारिते । भूता- र्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ( न्या० म० ४ पृ० ३१ ) । मीमांसकास्तु विधिशेषः निषेधशेषश्चेत्यर्थवादं द्वैविध्येन विभेजिरे (लौ० भा० ) । <अर्थान्तरम्> ( निग्रहस्थानम् ) [ क ] प्रकृतादर्थादप्रतिसंबद्धार्थमर्था- अन्तरम् ( गौ० ५।२।७ ) । यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् । नित्यः शब्दः अस्पर्शत्वादिति हेतुः । हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम् । पदं च नामाख्यातोप- • सर्गनिपाताः । अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम । क्रियाकारकसमुदायः । कारकसंख्या विशिष्टक्रियाकालयोगाभिधाय्या तम् । धात्वर्थमात्रं च कालाभिधान विशिष्टम् । प्रयोगेष्वर्थादभिद्यमान- रूपा निपाताः । उपसृज्यमानाः क्रियावद्योतका उपसर्गाः इत्येवमादि । तदर्थान्तरं वेदितव्यम् (वात्स्या० ५।२।७) (नील० पृ० ४५ ) । [ख] प्रकृतोपयुक्तमर्थमुपेक्ष्यासंबद्धार्थाभिधानम् । प्रकृतनाकाङ्क्ष भिधानमिति फलितार्थः । यथा अनित्यः शब्दः कृतकत्वादित्युक्त्वा शब्दो गुणः स चाकाशस्येत्यादि ( गौ० वृ० ५ ।२।७ ) ( त० मा० ० ५१) ( दि० १ पृ० २२ ) । <अर्थापत्तिः> ( अनुमानम् ) [ क ] वाक्यार्थसंप्रत्ययेनानभिहितस्यार्थस्य प्रत्यीक भाषाहणमर्थापत्तिः (वात्स्या० २१२१२ ) । [ख] अनु- पपद्यमानेनार्थेनोपपादककल्पनम् । यथा वृष्ट्या मेघज्ञानम् ( गौ० पृ० २।२।१) । [ग] यत्राभिधीयमानेर्थे योन्योर्थः प्रसज्यते सोर्थापत्तिः। यथा मेघेष्वसत्सु वृष्टिर्न भवतीति । किमत्र प्रसज्यते । सत्सु भवतीति ( वात्स्या० २।२।१ ) । [घ ] पुनरनुसंधीयमानशब्दासहकृतमनु- पपत्तिज्ञानमिति गदाधरभट्टाचार्याः । [ङ ] उपपाद्यज्ञानेनोपपादक- कल्पनमर्थापत्तिः । तत्र उपपाद्यज्ञानं करणम् । उपपादकज्ञानं फलम् । येन विना यदनुपपन्नं तत्तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिस्तत्तत्रोपपाद- कम् । यथा रात्रिभोजनेन विना दिवा अभुजानस्य पीनत्वमनुपपन्न मिति तादृ- शपीनत्वमुपपाद्यम् । यथा वा रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्ति- रिति रात्रिभोजनमुपपादकम् । अत्र अर्थस्य आपत्तिर्नाम कल्पनेति षष्ठीस- मासेन रात्रिभोजनकल्पनारूपायां प्रमितावर्थापत्तिशब्दो वर्तते । अर्थस्य आपत्तिर्नाम कल्पना यस्मादिति बहुव्रीहिसमासेन कल्पनायाः करणभूते पीनत्वादिज्ञानेपि वर्तते । एवं च फलकरणयोरुभयोरर्थापत्तिपद प्रयोगो भवति । सा चार्थापत्तिर्द्विविधा - दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र दृष्टार्थापत्तिर्यथा इदं रजतमिति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य नेदं रजतमिति तत्रैव निषिध्यमानत्वं सत्यत्वे सति अनुपपन्नमिति रजतस्य मि- थ्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्ति- मुखेनार्थान्तरकल्पनं सा । यथा तरति शोकमात्मविदित्यत्र श्रुतस्य शोक- शब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यस्यानुपपरया बन्धस्य मिथ्यात्वं कल्प्यते । श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिरभिहितानुपपत्तिश्च । तत्र यत्र वाक्यैकदेशश्रवणे अन्वयाभिधानानुपपत्या अन्वयाभिधानोपयोगि पदा- न्तरं कल्प्यते तत्राभिधान।नुपपत्तिः । यथा द्वारमित्यत्र पिधेहीत्यध्याहारः । अभिहितानुपपत्तिस्तु - यत्र वाक्यावगतोर्थोनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या । यथा स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र क्षणिक- तथा अवगतज्योतिष्टोमस्य स्वर्गसाधनत्वानुपपत्त्या मध्यवर्त्यपूर्व कल्प्यते । अत्र नैयायिकाः–अर्थापत्तिर्न प्रमाणान्तरम् । किंतु व्यतिरेकव्याप्त्या अनुमाने अन्तर्भावादिति । वेदान्तिनां मते तु व्यतिरेकव्याप्तिर्नाम यत्र साध्याभावस्तत्र साधनाभावः । तथा च साध्याभावेन साधनाभावस्य सिद्धावपि साध्यसिद्धौ न तस्योपयोगः । कथं तर्हि धूमादावन्वयव्याप्तिम- विदुषोपि व्यतिरेकव्याप्तिज्ञानादनुमितिरिति चेत् । अर्थापत्तिप्रमाणादिति बोध्यम् । वेदान्तपरिभाषायां स्पष्टमेतत् । <अर्थापत्तिसमः> (जातिः ) [ क ] अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्ति- समः (गौ० ५/१/२१ ) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धट- वदिति स्थापिते पक्षे अर्थापत्या प्रतिपक्षं साधयतोर्थापत्तिसमः । यदि प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः शब्द इति अर्थादापद्यते नित्य साधर्म्यान्नित्यः इति । अस्ति त्वस्य नित्येन साधर्म्यमस्पर्शत्वमिति (वात्स्या० ५।१।२१) । [ ख ] अर्थापत्त्याभासेन प्रतिपक्षसाधनाय प्रत्य- वस्थानम् । अयमाशयः- अर्थापत्तिह्युक्तेनानुक्तमा क्षिपति । यथा - अनित्यः शब्द इत्युक्तेदान्यन्नित्यम् । तथा च दृष्टान्तासिद्धिर्विरोधश्च । कृतकत्वादनित्य इत्युक्तेर्थादापन्नम् अन्यस्माद्धेतोर्बाधः सत्प्रतिपक्षो वा । अनुमानादनित्य इत्युक्ते प्रत्यक्षान्नित्य इति च बाधः ( गौ० वृ० ५।१।२१ ) । [ ग ] अर्थापत्तिपुरस्कारेण साध्याभावोद्भावनम् । अनित्यः शब्दः कार्यत्वादित्यादौ शब्दस्यानित्यसाधर्म्यादनित्यत्वं यि तदा अर्थापत्त्या सिद्धं नित्यसाधर्म्यान्नित्यत्वमपि । एकतरावधारणे नियाम- काभावादिति ( नील० पृ० ४४ ) । [घ ] व्याप्तिं विना वादि- । बाक्यादर्थापेक्षाभिमानतः। विपरीतसमारोपमर्थापत्तिसमं विदुः ॥ (ता० २० २ श्लो० १२० ) । <अर्थी> साध्यस्यार्थस्य निर्देष्टा ( मिताक्षरा० अ० २ श्लो० ८० ) । <अर्धोदयः> अमार्कपातश्रवणैर्युक्ता चेत्पौषमाघयोः । अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥ ( पु० चि० पृ० ३१६ ) । <अर्हन्> सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवो- र्हन्परमेश्वरः ( सर्व० सं० पृ० ५६ आर्हत० ) । <अलंकारः> १ शब्दार्थभूषणमनुप्रासोपमादिः । स च बहुविधः । अत्रा- लंकारत्वं च रसादिभिन्नं यद्व्यङ्ग्यं तद्भिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयतासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदक- त्वम् इति । अत्र अनुप्रासादिविशिष्टशब्दज्ञानात् उपमादिविशिष्टार्थज्ञा- नाच चमत्कृतिर्जायत इति लक्षणसमन्वयो बोध्यः (अलंकारचन्द्रिका) । अलंकाराणां च शोभातिशायित्वमुक्तम् – शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः । रसादीनुपकुर्वन्तोलंकारास्तेङ्गदादिवत् ॥ इति । २ हारादिभूषणमलंकार इति काव्यज्ञा वदन्ति । <अलब्धभूमिकत्वम्> कुतश्चिन्निमित्तात्समाधिभूमेरलाभः (सर्व० सं० पृ० ३५५ पातञ्ज० ) । <अलम्> १ समर्थम् । यथा सुखायालं भोजन मित्यादौ । अत्र अलमादि- पदार्थैकदेशे सामर्थ्य सुखादिनिरूपितत्वं चतुर्थ्या बोध्यते । २ वैफल्यम् । यथा अलमनेनेत्यादौ ( श० प्र० पृ० १२६ ) । <अलीकत्वम्> १ ज्ञानाविषयत्वम् । यथा शशशृङ्गादेरली कत्वम् । अत्र वेदान्तिनस्तु शशशृङ्गकूर्मरोमादीनि तुच्छशब्देन व्यवहरन्तीति बोध्यम् । २ अन्यव्यावृत्तिः । यथा नास्तिकमते अयं घटः इति ज्ञाने विषयीभूतस्य घटत्वादेरली कत्वमित्यत्र । अयं भावः । अघटव्यावृत्तिरेव घटे घटत्वम् न तु भावरूपम् । अभावस्तु तुच्छ एवेति नास्तिकैरभ्युपगम्यते इति ( म० प्र० १ पृ० ९ ) । अत्र नैयायिकाः नास्तिकमते शशशुङ्गाद्यलीकमस- त्ख्यात्या सिध्यति । सा चासत्ख्यातिर्नोपपद्यते । ज्ञानविषयत्वस्यास्तित्व- व्याप्यतया असत्ख्यातिविषयत्वस्य संनिकृष्टमेदप्रतियोगितावच्छेदकत्वा- सिद्धेरित्याहुः ( म०प्र० पृ० १७ ) । <अलौकिकत्वम्> [ क ] लोकाबगतेष्टसाधनताश्रयान्यत्वम् । अत्र लोक- शब्दार्थश्च वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा नमस्कारादिकं १० मङ्गलं वेदबोधितसमाप्तिसाधनताकम् समात्युद्देश्यकालौकिका विगीत- न्या० को० ११ शिष्टाचारविषयत्वात् दर्शादिवत् ( मू० म० मङ्ग० १ पृ० १६ ) इत्यादावाचारस्य मङ्गलस्य वा अलौकिकत्वम् । [ ख ] उपाध्यायास्तु लोकावगतबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताश्रयान्यत्वम् इत्याहुः ( मू० म० मङ्ग० १ पृ० १७ ) । [ग] रागतोप्राप्तत्वमित्यस्मद्गुरु- चरणाः प्राहुः । [ घ ] वेदबोधितेष्टसाधनताकत्वमिति मीमांसकाः ( मू० म० १ ) । <अलौकिकप्रत्यक्षम्> ( प्रत्यक्षम् ) अलौकिकसंनिकर्षजन्यं प्रत्यक्षम् । अत्र संनिकर्षे अलौकिकत्वं च सामान्यलक्षणज्ञानलक्षणयोगज एतदन्यतम- त्वम् । विषयताविशेषो वा । यथा धूमत्वज्ञानानन्तरं सामान्यलक्षणप्र- त्यासच्या जायमानं सर्वे धूमा घूमत्ववन्तः इति घूमत्वाश्रयसकलघूमवि षयकं प्रत्यक्षम् ( मु० १ पृ० १२७ ) । <अवकीर्णी> ब्रह्मचारी सन् स्त्रीरतः ( जै० सू० वृ० ६ ।८।२४ ) । <अवक्षेपणम्> ( कर्म ) अपक्षेपणवदस्यार्थोनुसंधेयः । <अवगाह> अन्यवस्तुप्रदेशमध्ये अन्यस्य वस्तुनः प्रवेशोवगाहः ( सर्व० सं० पृ० ७१ आई० ) । <अवगाहनम्> [क विषयिता । यथा घटवद्भूतलम् इति ज्ञानं घटा- द्यवगाहीत्यादाववगाहनं विषयिता भवति । [ख] विषयीकरणमित्यपि केचिद्वदन्ति । <अवचरः> साधनम् (जै० सू० वृ० ३।१।२१ ) । <अवच्छिन्नत्वम्> १ व्यापकत्वम् ( मू० म० १ ) । यथा हृदे वद्दिम- त्ताबुद्धिनिरूपितप्रतिबन्धकतायां हृदो न वह्निमान् इति निश्चयीयविषयि ताया अवच्छिन्नत्वम् ( ग० सामा० ) । अवच्छिन्नत्वावच्छेदकत्वयोः (खरूपसंबन्धरूपयो; ) तुल्यवित्तिवेद्यत्वेन साकाङ्क्षत्वेन च परस्परं निरूप्यनिरूपकभावो बोध्यः । तथा चावच्छेदकता निरूप कता कत्वमेवा- वच्छिन्नत्वमित्युत्त्यैव निर्वाहेवच्छिन्नत्वनिरुक्तिः शिष्यबुद्धिवैशद्यायेति सर्वं समञ्जसम् । २ सामानाधिकरण्यम् । यथा वह्निव्यायधूमवान्पर्वतः इति परामर्श निरूपितयो धूमनिष्ठ विषयतयोर वच्छेद्यावच्छेदकभावः । अत्रेदं बोध्यम् - मध्यवृत्तिविषयतयोर्भेदपक्षे पर्वतत्वावच्छिन्नविशेष्यता निरूपितधू- मनिष्ठप्रकारत्वस्य व्याप्तिनिष्ठ प्रकारता निरूपितधूमत्वावच्छिन्न विशेष्यत्वस्य च परस्परमवच्छेद्यावच्छेदकभावः सामानाधिकरण्यात्मकः स्वीकृत इति । ३ स्वरूपसंबन्धविशेषः । यथा अग्रे वृक्षः कपिसंयोगी न मूले इत्यादौ कपिसंयोगस्याप्रावच्छिन्नत्वम् । वृक्षसंबन्ध्यग्रभागवृत्तित्वमित्यर्थः । ४ विशिष्टत्वम् । यथा घटत्वावच्छिन्नो घट इत्यादौं घटस्य घटत्वावच्छिन्न- त्वम् । ५ साहित्यम् । यथा शरीरावच्छिन्न आत्मनि भोगो जायत इत्यादौ आत्मनः शरीरावच्छिन्नत्त्रम् । ६ अनुकूलत्वम् प्रयोजकत्वं वा । यथा फलावच्छिन्न व्यापारो धात्वर्थ इत्यादौ व्यापारस्य फलावच्छिन्नत्वम् । ५११७ संबन्ध इति शाब्दिका वदन्ति ( वै० सा० द० ) । ८ इयत्ताकरणम् । यथा द्रोणावच्छिन्नो नीहिरित्यादौ । ९ सीमाकरणम् । यथा गृहावच्छिन्न आकाशः कर्णशष्कुल्यवच्छिन्न आकाश इत्यादौ । एवमन्तःकरणावच्छिन्नं चैतन्यं जीव इति मायावादिमतेपि ज्ञेयम् ( वाच० ) । <अवच्छेदः> १ प्रतियोगी । यथा अवच्छेदग्रहन्ध्रौव्यादध्रौव्ये सिद्धसाधना- दित्यादौ (कु० ३ श्लो० २२ टी० ) । २ व्याप्तिः । यथा पक्षताव- च्छेदकावच्छेदेन साध्यसिद्धावित्यादौ साध्यनिरूपिता पक्षतावच्छेदकनिष्ठा व्याप्तिः । अथ व्यापकत्वमप्यंवच्छेदशब्दस्यार्थः संभवति । तथा च पक्षतावच्छेदकव्यापकत्वविशिष्टसाध्यसिद्धौ इति बोधः । ३ इयत्ताकर- णम् । यथा अग्रावच्छेदेन कपिसंयोगः मूलावच्छेदेन कपिसंयोगाभाव इत्यादौ । ४ अवधारणम् । यथा शब्दार्थानामवच्छेदे ( शब्दार्थस्थान - वच्छेदे ) विशेषस्मृतिहेतव इत्यादौ । ५ इयत्ताकरणसाधनम् । यथा अप्रे वृक्षः कपिसंयोगी न मूल इत्यादौ संयोगादेरव्याप्यवृत्तित्वनियामको वृक्षैकावयवो मूलाग्रादिप्रदेश: ( वाच० )। यथा वा इदानीं चत्वरे गौर्नास्तीत्यादा वेतःकालोप्यवच्छेदो भवति । अत्रायें अवच्छिद्यतेनेनेति करणे घञ् । तेनावच्छेदकशब्दार्थः संपन्न इति ज्ञेयम् । ६ संकोचः । <अवच्छेदकत्वम्> १ स्वरूपसंबन्धविशेषः । स च क्वचित् [क] प्रति- योग्यंशप्रकारीभूतधर्मत्वम् । यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छे- दकत्वं घूमत्वे । अत्रायं नियमः - संभवति लघौ गुरौ सदभाव इति । तेन गुरुभूते प्रमेयत्वविशिष्टधूमत्वेवच्छेदकत्वमनादृत्य शुद्धघूमत्व एवा- वच्छेदकत्वं स्वीकृतमिति ज्ञेयम् । समानाधिकरणयोरेव धर्मयोरवच्छेद्या- वच्छेदकभाव इति सामान्यनियमो बाहुल्येन प्रवर्तत इत्येतत्सुधीभि- श्चिन्त्यम् । क्वचित् [ ख ] अनतिरिक्तवृत्तित्वम् । तच्च द्विविधम् । तत्राद्यम्-तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रतियोगित्वम् । यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्वे । अत्रायं नियम :- अन्यूनानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वम् इति । तेनातिरिक्तवृत्तिद्रव्यत्वा दौ घटाभावीयप्रतियोगिताया अवच्छेदकत्वनिरासः । अनतिरिक्तवृत्तित्व- रूपमवच्छेदकत्वं च यद्यपि न स्वरूपसंबन्धरूपावच्छेदकत्वेन्तर्भवेत्तथा- प्युदाहरणानुरोधेन तत् अन्तर्निवेशितम् । वस्तुतस्तु तत्तन्निष्ठमवच्छेद- कत्वं च तत्तद्वित्तिवेद्यमेवेति नैवानुगमय्य निर्वक्तुं शक्यमिति तु वयम् । द्वितीयं तु व्यावर्तकत्व - सामानाधिकरण्य- स्वनिष्ठावच्छेद्यताकत्व - एत त्रितयसंबन्धेन यत्किंचिद्धर्मविशिष्टत्वम् । यथा घटकारणताया अवच्छेद- कत्वं दण्डत्वे । अत्र च इतरभेदानुमितिजनकज्ञानविषयत्वात्मकव्याव- तकता यामवच्छेदकस्तु परंपरासंबन्धो बोध्यः । क्वचित् [ग ] तदधि- किं तु शाखायामित्यादौ वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगा करणस्य तन्निष्ठधर्मावच्छेदकत्वम् । यथा मूले वृक्षे न कपिसंयोगः भावावच्छेदकत्वम् वृक्षाधिकरणस्य शाखादेर्वृक्षनिष्ठकपिसंयोगावच्छेद च ( ल० व० पृ० २२) । अत्रावच्छेदकत्वं च स्वाश्रयसंबन्धित्वम् । • नितम्बे हुताशनः न शिखर इत्यत्र नितम्बरूपदेशस्य हुताशनावच्छेद- स्वम् अवच्छेद्यत्वेनाभिमतः कपिसंयोगाभावादिः । यथा वा इह पर्वते कत्वम् शिखरस्य तु हुताशनाभावावच्छेदकत्वं च । अत्रायं विशेष:- . यथा वा इदानीं चत्वरे गौर्नास्तीत्या दावेतत्कालेपि गवाभावस्यावच्छेदक संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमिति मत एतस्यावच्छेदकत्वम् इति । त्वम् । अत्रेदं बोध्यम् । देशे वृत्तौ कालस्यावच्छेदकत्वम् काले वृत्तौ देशस्यावच्छेदकत्वम् इति नियमेन गवाभावावच्छेदकत्वं कदाचिद्देशस्य कदाचित्तु कालस्यापि संभवति इति । किंचात्र अवच्छेद्याधिकरणत्वं यस्य संभवति तस्यैवावच्छेदकत्वम् इति नियमोप्यङ्गीकर्तव्यः तेन प्रलयस्य गवावच्छेदकत्वापत्त्यसंभवः (ग० च० १ स्वलक्षण ० ) । देशकालयोरवच्छेदकत्वं तु स्वरूपसंबन्धरूपमेवेति नियमोत्र ज्ञेयः । २ अवच्छेदकत्वाख्यो विषयतात्मकः स्वरूपसंबन्धविशेषः । यथा पर्वते वह्निसाधने पर्वतत्वस्य पर्वतो वह्निमान् इत्यनुमित्यात्मकज्ञानीयवह्निनिष्ठ- विधेयतानिरूपितोद्देश्यतावच्छेदकत्वम् । ३ स्वाश्रयजन्यत्वम् स्वाश्रय- विशेषणत्वं वा । यथा धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यादौ फले धात्वर्थताया अवच्छेदकत्वम् । स्वं धात्वर्थता । तदाश्रयो व्यापाररूपो धात्वर्थः । तज्जन्यत्वं फले । शाब्दिकास्तु फलावच्छिन्न- व्यापार इत्यादौ फलसंबन्धिव्यापारः इति बोधोदयात् संबन्ध एवात्रा- वच्छेदकत्वमित्याहुः ( वै० सा० द० सु० ) । ४ व्यापकत्वम् । यथा पर्वतत्वावच्छेदेन वहौ साध्ये पर्वतो वह्निमानित्यादौ पर्वतत्वव्यापकवह्नि- प्रतियोगिकसंयोगत्वस्यावगाहमानं संसर्गतावच्छेदकत्वम् (ल० व० पृ० २२ ) । अत्र पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगस्याप्रसिद्ध्या तादृशसंयोगत्वे संसर्गताया अवच्छेदकत्वं न भासते अपितु केवल- संयोग एव पर्वतत्वव्यापकत्वं संसर्गतावच्छेदकत्वेन (अवच्छेदककोटि- प्रविष्टानामध्यवच्छेदकत्वमिति पक्षे ) भासते इति तु वयम् । ५ व्याप्य- त्वम् । यथा यद्रूपावच्छिन्नविषयतानिरूपित विषयिता अनुमितिप्रतिबन्धक- तावच्छेदिका तद्रूपावच्छिन्नत्वमिति हेत्वाभाससामान्यलक्षणे हृदो न वह्निमान् इति निश्चयीयविषयितायां हृदो वह्निमान् इत्यनुमिति निष्ठप्रति - • बध्यता निरूपित प्रतिबन्धकताया अवच्छेदकत्वम् । व्याप्यत्व मित्यस्य स्वव्यापकतत्कत्वमित्यर्थः ( ग० सामा० प० ९) । कचिच्च स्वव्यापक- तत्कान्यत्व-तत्सामानाधिकरण्य- एतदुभयाभाववत्त्वम् । तेन व्यधिकरण - धर्मस्य प्रतियोगितावच्छेदकत्वं संगच्छते ( ग० च० द्वितीयस्वलक्षण ० प० १७ ) । ६ तदधिकरणावृत्तित्वेन ज्ञायमानत्वम् ( वै० उ० ९। ७११८ ) । ज्ञायमानत्वमित्यत्र ज्ञानपदं प्रमापरम् । तेन घटत्वादेः समाना- धिकरणधर्मस्य घटाद्यभावीय प्रतियोगितावच्छेदकत्व निरासः । यथा घट- ! त्वेन पटो नास्तीत्यादौ घटत्वे पटनिष्ठप्रतियोगिताया अवच्छेदकत्वम् । अत्र तृतीयान्तोल्लेख्यस्यावच्छेदकत्वम् इति नियममनुसृत्य केवलान्वयी व्यधिकरणधर्मावच्छिन्नाभावः सौन्दडोपाध्यायेन स्वीकृतः । गङ्गेशो- पाध्यायादयो नैयायिकास्तु नेमं व्यधिकरणधर्मावच्छिन्नाभावं स्वीचक्रुरिति विज्ञेयम् । यद्यप्येतस्यार्थान्तराभिप्रायेणोच्चारितस्यात्र ग्रहणं नोपस्कारसंद- र्भमनुसरति तथाप्यत्रार्थेपि नियोक्तुं युज्यत इति मयायं शब्दोत्र गृहीत इति बोध्यम् । ७ विशेषणत्वम्। यथा वक्तृज्ञानावच्छेदकतयेत्यादौ (कु० ३ लो० १४ व्या० ता० पृ० ३४ ) । ८ नियामकत्वमेवावच्छेदकत्व- मिति केचिद्वदन्ति ( वाच० ) । सामान्यतोवच्छेद्यावच्छेदकभावो द्विविधः । स्वरूपसंबन्धरूपः व्याप्यव्यापकभावश्च । तत्राद्यो यथा इदानीं चत्वरे गौर्नास्तीत्यांदावेतत्कालगवाभावयोरवच्छेद्यावच्छेदकभावः । अत्र एतत्कालावच्छेदेन ( एतत्काले ) गवाभावः इति शाब्दबोधो भवतीति बोध्यम् । यथा वा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ मूलादि- संयोगाद्यवच्छेद्यावच्छेदकभावः । द्वितीयो यथा पृथिवी रूपवतीत्यादौ रूपपृथिवीत्वयोरवच्छेद्यावच्छेदकभावः ( ग० पक्ष० पृ० २०) । अत्र पृथिवीत्वव्यापक रूपम् इति शाब्दो बोधो भवतीति बोध्यम् । <अवच्छेद्यत्वम्?> अवच्छिन्नत्ववदस्यार्थोनुसंधेयः । <अवच्छेद्यावच्छेदकभावावगाहिनी> ( अनुमितिः ) [ क ] पक्षतावच्छे- दकाक्रान्तयावद्व्यक्तिविषयकानुमितिरिति प्राञ्चो नैयायिका वदन्ति । इयं च देशकालभिन्नानां यत्र पक्षतावच्छेदकता तादृशस्थलीयेति ज्ञेयम् । एवमुत्तरत्रापि । [ख] पक्षतावच्छेदकव्यापकत्व विशिष्टसाध्यतावच्छेद- .कसंबन्धावच्छिन्ना साध्यतावच्छेदकावच्छिन्ना या विधेयता तच्छा लिन्यनु- मितिरिति नवीननैयायिकाः प्राहुः । यथा पर्वतत्वावच्छेदेन वहौ साध्ये. पर्वतो वह्निमान् इत्यनुमितिः । अत्र नवीनमते पक्षतावच्छेदकव्यापकत्वं साध्ये साध्यसंबन्धे वा संसर्गतया संसर्गतावच्छेदकतया च यथाक्रमं भासते । अतोवच्छेदकावच्छेदेनानुमितेर्न पर्वतत्वाद्यवच्छिन्नवह्निमान् पर्वतः इत्याकारकता इति बोध्यम् । अत्रेदमवधेयम् । यत्र देशकालयोः पक्षता- बच्छेदकता यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालाव- च्छिन्नो घटो गन्धवानियादौ च तत्र स्वरूपसंबन्धरूपावच्छेद्यावच्छेदक- भावावगाहिन्येवानुमितिर्भवति । यत्र तु देशकालभिन्नानां पक्षतावच्छेद- कता यथा पर्वतो वह्निमानित्यादौ पृथिवी रूपवतीत्यादौ च तत्र व्याप्यव्यापकभावरूपावच्छेद्यावच्छेदकभावावगाहिन्यनुमितिर्भवतीति (ग० पक्ष० पृ० २० ) । <अवदानम्> हविष्टप्रयोजकः संस्कारः ( जैमि० न्या० १०।७ अधि०१) । <अवधानम्> चित्तस्य विलक्षण: संबन्धविशेषः । तद्द्विविधम् । अनुपेक्षणी- यत्वं विषयान्तरसंचारराहियं च ( त० प्र० २ ) । यथा शिष्याव- धानाय चिकीर्षितं प्रतिजानीते इत्यादौ ( म०प्र० १ १० ३ ) । <अवधारणत्वम्> एकाकारावगाहिज्ञानत्वम् इति वेदान्तिन आहुः ( प्र० प० टी० वेदेश० पृ० ६ ) । <अवधारणम्> तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् (गौ० वृ० १।१।४०) । यथा घटे अयं घट इति घटत्वाभावाप्रकारकं घटत्व प्रकारकं ज्ञानं निर्णयात्मकम् अर्थस्यावधारणम् । अत्रावधारणत्वं च [ १ ] निश्चयनिष्ठो विषयताविशेष: ( मू० म० १ ) । [ २ ] अवधारणत्वं न निर्णयत्वम् किं तुत्कटनिश्चयत्वम् । औत्कट्यं च विषयतविशेष इति मिश्राः (ग ० सत्प्र० पृ० १७ - १८ ) । अयं भावः - तन्मते व्याप्यदर्शनाधीनज्ञाना- नन्तरमेव अवधारयामि इत्यनुव्यवसायोदयेन व्याप्यदर्शनात्मक विशेषदर्श- निजन्य एव प्रत्यक्षेनुमियात्मके च ज्ञाने अवधारणत्वं स्वीक्रियते न तु निश्चय सामान्य इति | <अवधिः> सम्यग्दर्शनादिगुण जनितक्षयोपशम निमित्तमवच्छिन्नविषयं ज्ञान- मवधिः ( सर्व० सं० पृ० ६३ आर्हत० ) । <अवधित्वम्> १ [क] संबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ द्रव्यनिष्ठमवधित्वं पञ्चम्यर्थः ( दीधि ० २ अव० पृ० १७५) । [ख] स्वरूपसंबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेरवधित्वात्मक- मपादानत्वम् ( ग० व्यु० ५ ) । २ सीमात्वम् । तच्च स्वाभिधेयापेक्षया विभागाश्रयत्वम् । सीमा च त्रिविधा । कालकृता देशकृता बुद्धिकृता च । तत्र प्रथमा मासात्पूर्वं घट इत्यादौ । द्वितीया नद्या वनमित्यादौ । वनस्य नद्यपेक्षविभागाश्रयत्वात्तथा त्वम् । तृतीया तु माथुराः पाटलिपुत्रेभ्य आढ्यतरा इत्यादौ ( वाच० ) । <अवधिमत्त्वम्> संबन्धविशेषः । यथा वृक्षाद्विभजते इत्यादौ धात्वर्थ विभागे अवधिमत्त्वं पञ्चम्यर्थः । वृक्षात्पर्ण पततीत्यादौ च विभागे अवधिमत्त्वं संबन्ध: ( दीधि ० २ अव० पृ० १७५ ) । <अवयवः> (द्रव्यावयवः) द्रव्यस्य समवायिकारणम् (त० दी० पृ० ४० ) । यथा अवयवावयविनो: संबन्धः समवाय इत्यादौ कपालं घटस्यावयवः तन्तुश्च पटस्यावयवः । स चावयवः परमाणुनारभ्य कपालपर्यन्तं तन्तुपर्यन्तं चानेकधा । <अवयवः> ( न्यायावयवः ) [क] साधनीयस्यार्थस्य यावति शब्दसमूद्दे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते । तेषु प्रमाणसमवाय आगमः प्रतिज्ञा । हेतुरनुमानम् । उदा- हरणं प्रत्यक्षम् । उपनयनमुपमानम् । सर्वेषामेकार्थसमवाये सामर्थ्यप्र- दर्शनं निगमनमिति । सोयं परमो न्याय इति ( वात्स्या० १११।१ ) । [ख ] अर्थसाधकभावात्तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति ( वात्स्या० १।१।३२ ) । [ग ] परार्थानुमानवाक्यै- कदेश: ( सर्व० सं० पृ० २३८ अक्ष० ) । ते चावयवाः पञ्च । प्रतिज्ञा हेतु: उदाहरणम् उपनयः निगमनं चेति ( गौ० १/१/३२ ) ( त० भा० पृ० ४३ ) ( त० सं० ) । वाक्यैकदेश इत्य- स्वार्थस्तु पूर्वस्मृत्यपेक्षोन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसंधीयमानो विशेष प्रतिपत्तिहेतुर्वाक्यं तस्य भाग एकदेश इति ( न्या० बो० ) । प्रतिज्ञादिमेदादवयवाः पञ्चेति न्यायमकरन्दे ( न्या० म० २१ २४ ) उक्तम् । एते प्रतिज्ञादयः पञ्चानुमानस्यावयवा इव अवयवाः । न तु सम- वायिकारणम् । शब्दस्याकाशसमवेतत्वात् ( त०] भा० पृ० ४३ ) । केचित्तु ( मीमांसकाः ) उदाहरणान्तास्त्रय एवावयवा इत्याहुः । तन्न । तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्षधर्मतावगाहिनोवयवान्तरादलाभात् । तदनभ्युपगमेपि पक्षधर्मताया अलाभात् । न च हेतुवचनादेव तदव - गमः । तस्य को हेतुः इत्याकाङ्क्षायां प्रवृत्तत्वेन हेतुस्वरूपोत्थापकस्यात- त्परत्वात् (चि० २ पृ० ८१) । हेतूदाहरणोपनयनानि एते त्रयोवयवा इति केचित् मन्यन्ते ( वाच ० ) । उदाहरणोपनयौ द्वाववयवाविति बौद्धा आहुः ( म० प्र० २ पृ० ३३ ) । रामानुजीयास्तु वदन्ति अस्माकं तु अनियमः । कचित्पञ्चावयवो न्यायः । कचित्र्यवयवः । कचित्द्व्य- वयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् । तावतै- वानुमित्युपपत्तेश्च । मृदुमध्यमकठोरधियां विस्तरसंग्रहाभ्यां व्यवहार उपपद्यत इत्यनियम एवेति ( यतीन्द्र० दी० द्वि० अ० पृ० २१ ) । जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेति एते प्रतिज्ञादिसहिता दशावयवा इत्यतिप्राचीन नैयायिका आहुः ( म० प्र० २ पृ० ३३ ) (चि० प्र० पृ० ५२ ) (गौ० वृ० १ । १ । ३२ ) (वात्स्या० १ । १॥३२) । जिज्ञासादीनामर्थश्च तात्पर्यटीकाया- मुक्तः । प्रयोजनं हानोपादानोपेक्षाबुद्धयः । तत्प्रवर्तिका जिज्ञासा । तज्जनकः संशय: । प्रमाणानां जननसामर्थ्यं शक्यप्राप्तिः । संशयव्युदासस्तर्कः ( गौ ० वृ० १ । १ । ३२ ) ( वात्स्या० ११ १२ १३२ ) । तत्र विप्रतिपत्ति- जिज्ञासेति कश्चित् । मञ्जरीप्रकाशकारास्तु पदवाक्यप्रमाणानां ज्ञानजनन- योजक प्राप्तिः । कथायां यदुद्देश्यं तत्प्रयोजनमित्याहुः ( म० प्र० २ पृ० ३३) । एते जिज्ञासादयः पञ्च न न्यायावयवाः । अवयव- १२ न्या० को० लक्षणाभावात् । न्यायाघटकत्वाच्च । किं तु न्यायाङ्गतयोपयुज्यन्ते (चि० २ पृ० ८३ ) (गौ० वृ० १ । १ । ३२ ) ( वात्स्या० १ । १ । ३२ ) । 'अवयवप्रयोगे विशेषो ज्ञेयः - केवलव्यतिरेकिण्यनुमाने प्रतिज्ञाहेतू तुल्या- वेव । अन्वयव्यतिरेक्यनुमाने केवलान्वय्यनुमाने च यादृशाकारौ प्रतिज्ञाहेतू भवतस्तादृशाकारावेवेति यावत् । उदाहरणोपनयनिगमनानि तु भिद्यन्ते । यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यत्र यत् सात्मकं न भवति तत् प्राणादिमन्न भवति यथा घटः इत्युदाहरणम् । न चेदं जीवच्छरीरं प्राणादिमन्न भवति इत्युपनयः । तस्मान्न तथा इति निगमनम् इति (त० कौ० २ पृ० १३ ) । <अवयवत्वम्> (न्यायावयवत्वम् ) [ क ] प्रतिज्ञाद्यन्यतमत्वम् (गौ० वृ० १ । १ । ३२ ) ( न्या० म० २ पृ० २४ ) ( न्या० बो० पृ० १५ ) ( म० प्र० २ पृ० ३३ ) । प्रतिज्ञाद्यन्यतमत्वं प्रतिज्ञादिभेदपञ्चकाभाव- वत्त्वमित्यर्थः । प्रतिज्ञायां हेत्वादिमेदचतुष्टयसत्त्वेपि स्वभेदाभावाद्भेद- पञ्चकाभाववत्त्वं संपद्यते । एवं हेतावपीति लक्षणसमन्वयः ( म०प्र० २ पृ० ३३ ) । [ ख ] अनुमितिचरमकारणलिङ्ग परामर्शप्रयोजशब्द- ज्ञानजनकशाब्दज्ञानजनकवाक्यत्वम् (चि०अव० पृ०७६ ) । तदर्थश्च - अनुमितेश्वरमं कारणं यः परामर्शः तस्य प्रयोजकं शाब्दज्ञानम् न्यायात्मक- • प्रतिज्ञा दिपञ्चवाक्यंजन्यं तावदर्थविषयकं विशिष्टवैशिष्ट्यावगाहिज्ञानम् समू- हालम्बनात्मकं वा । तस्य जनकं शाब्दज्ञानम् प्रत्येकावयवजन्यज्ञानम् । • तस्य जनकं वाक्यम् तत्त्वम् इति । [ग] न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतम त्वम् । न्यायान्तर्गतत्वं च स्वाविषयकप्रतीत्यविषयन्यायकत्वम् । न्यायत्वाश्र यत्वं वा । प्रतिज्ञोत्तरहेत्वादिघटितवाक्यपञ्चका नुपूर्वीविशेषावच्छिन्नभेदप्रति योगितावच्छेदकत्वं वा । तादृशानुपूर्वीविशेषप्रकारकनिश्चयत्वसमनियत कारणतावच्छेदकविषयिताकत्वं वा । प्रतिज्ञाद्यन्यतमत्वं च प्रतिज्ञात्वाद्य- वच्छिन्नानुयोगिताकभेदप्रतियोगितावच्छेदकं यद्यत्तदवच्छिन्नप्रतियोगिता कभेदानुयोगितावच्छेदको यः प्रतिज्ञादिभेदपञ्चकानुयोगितावच्छेदकं यद्य द्रूपं तदवच्छिन्नानुयोगिताक भेद प्रतियोगितावच्छेद की भूतो धर्मस्तद्वत्वम् (ग०अव०) । [ घ ] प्रतिज्ञाद्यघटकत्वे सत्युभयघटकभागद्वयाघटितत्वम् ( दीवि० २ पृ० १६६) । प्रतिज्ञाद्यघटकत्वं च मिलितभेदपञ्चकानु- योगितावच्छेदकभिन्नधर्मवत्त्वम् (ग० अव०) । उभयं च प्रतिज्ञाहेतू हेतू- दाहरणे उदाहरणोपनयौ उपनयनिगमने इति विशिष्य वक्तव्यम् ( दीधि० २ पृ० १६६) । यथा पर्वतस्य पक्षत्वे वहेः साध्यत्वे धूमस्य हेतुत्वे पर्वतो वह्निमान् इति प्रतिज्ञावाक्यस्य धूमात् इति हेतुवाक्यस्य चावयव - स्त्रम् । एवमुदाहरणादेरण्यवयवत्वं ज्ञेयम् । [ङ ] प्रतिज्ञादिप्रतिपाद्य- तत्तद्विशिष्टार्थविषयक ज्ञानपञ्च कान्यतमज्ञानजनक वाक्यत्वमित्यपि केचित् ( दीधि० अव० पृ० १६६ ) । <अवयवि> जन्यद्रव्यम् ( त० दी० पृ० ४० ) । यथा घटपटादि । <अवरुद्धा> ( दासी) दास्य एव स्वामिना शुश्रूषाहानिव्युदासाथै गृह एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः ( मिताक्षरा २।२९ ) । <अवरोधः> गतिप्रतिरोधहेत्वावरणम् । यथा गामवरुणद्धि ब्रजमित्यत्रावरु धेरथ: (श० प्र० पृ० ९९) । अत्र गोगतिप्रतिरोधस्यानुकूलं यह्रजस्यावरणं तत्कृतिमानित्यन्वयः ( श० प्र० पृ० ९९ ) । <अवर्ण्यसमः> (जातिः) [क] स्थापनीयो वर्ण्यः । विपर्ययादवर्ण्यः । तावेतौ साध्यदृष्टान्तधर्मो विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः (वात्स्या० ५/१४) । अत्रावर्ण्यत्वेन समः अवर्ण्यसम इति व्युत्पत्तिः । असिद्धिदेशनाभासोयम् । [ ख ] अवर्ण्यत्वं संदिग्धसाध्यकत्वाभावः (गौ० दृ० ५/१४ ) । पक्षे असंदिग्धसाध्यकत्वापादनम् । दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव गमक इत्यभिमानेनैवमापादनम् । दृष्टान्ते यो हेतुः सिद्धसाध्यकवृत्तिः स चेन्न पक्षे तदा गमकहेत्वभावात्स्वरूपासिद्धिः स्यादतस्तादृशो हेतुरवश्यं पक्षत्वाभिमते स्वीकार्यः । तथा च संदिग्धसाध्यकत्वलक्षणपक्षत्वाभावादा- श्रयासिद्धिः ( गौ० वृ० ५/१४ ) । [ग] साध्यहेत्वोर्धर्मयोरपि पक्षे तु[^१]ल्यतया साधनम् । यथा आत्मा सक्रिय: क्रियाहेतुगुणवत्त्वालोष्टव- [^१] तुल्यतासाधनमिति पाठान्तरम् ( नील० पृ० ४३ ) । दित्यादौ लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्त्वमात्मन्यसिद्धम् । तथा च तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेनात्मनि क्रियावत्त्वं साध्यते तथा तादृशेन क्रियावत्वेन तज्जनकगुणवत्त्वमपि किमिति न साध्यते । निया मकाभावादिति ( नील० पृ० ४३ ) । <अवश्यक्लृप्तत्वम्> लघुपस्थितिकत्वम् । यथा पाकजस्थले गन्धं प्रति जनकत्वे गन्धप्रागभावस्य ( गन्धं प्रति रूपप्रागभावस्य जनकत्वमपेक्ष्य ) अव- श्यक्लृप्तत्वम् । <अवश्यम्> १ अप्राध्यभावः । यथा एतेष्वावश्यकस्त्वसौ ( भा०प० श्लो ०२२) इत्यादौ । २ अशक्यनिवारणम् । ३ निश्चय इत्यपि केचित् ( वाच० ) । <अवसरः> ( संगतिः ) [क] प्रतिबन्धकी भूत शिष्य जिज्ञासानिवृत्त्या अन न्तरवक्तव्यत्वम् । यथा प्रत्यक्षनिरूपणानन्तरं तत्कार्यत्वेनानुमानोपमानयो- • नानुमान निरूपणेन प्रतिबन्धक जिज्ञासानिवृत्ताववरसंगत्योपमानरूप रुभयोर्निरूपणप्राप्तौ बहुवादिसंमतत्वेन प्रथममनुमान एव जिज्ञासोदये- णम् ( राम० ३ पृ० १७० ) । [ख प्रतिबन्धकीभूतशिष्यजिज्ञा सानिवृत्तिकालावच्छिन्नावश्यवक्तव्यत्वम् ( वै० सा० द० ) । [ग] • माननिरूपणानन्तरं तादृशजिज्ञासानिवृत्ताववश्यवक्तव्यत्वज्ञानात् किं वक्त- प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वम् । यथा अनु व्यम् इति श्रोतुर्जिज्ञासानन्तरमुपमाननिरूपणम् इति । [घ ] जिज्ञा- सितार्थसिद्धत्वमिति केचित् ( भवा० ) । <अवस्था> १ काळकृतः परिणामः । सा चावस्था जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इति भावविकारः षड्विध इति यास्को वक्ति । अविद्यास्मि[^१]तारागद्वेषाभिनिवेशभेदेन पञ्चविधेति योगिनः । अना गतावस्था अभिव्यक्तयवस्था तिरोहितावस्थेति त्रिविधेति सांख्याः / जाग्रत्स्व- मसुषुप्तिरूपास्ति स्रोवस्था: चतुर्थी मोक्षावस्था चेति चतुर्विधेति वेदान्तिनः। जाग्रदवस्था नाम इन्द्रियद्वारा बुद्धेविषयाकारः परिणामः । स्वप्नावस्था [^१] अस्मिता इति पदच्छेदः । च संस्कारमात्रजन्यो बुद्धेर्विषयाकारः परिणामः । सुषुयवस्था तु द्विविधा समयभेदात् । तत्रार्धलये स्वगतसुखदुःखमोहाकारैव बुद्धि- वृत्तिर्भवति न तु विषयाकारा वृत्तिर्भवति । समग्रलये तु बुद्धिवृत्तिसा- मान्याभावरूपा मरणादाविव भवति । पुरुषस्तदा तत्साक्षी न भवतीति विज्ञेयम् । सिद्धान्तबिन्दौ (पृ० १८८) जाग्रदादीनां लक्षणान्युक्तानि । इन्द्रियवृत्तिक/लीनार्थोपलम्भो जागरणम् । इन्द्रियवृत्त्यभावकालीनार्थो- अपलम्भः स्वप्नः । न किंचिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः इति । कौमारपौगण्डकैशोरयौवनबाल्यतारुण्यवृद्धत्ववर्षीयस्त्वभेदेनाष्टविधेति पौरा- णिकाः । बाल्यकौमारयौवनवृद्धत्वभेदेन चतुर्विधेति भिषज: । अभिला- षश्चिन्तास्मृतिगुणकथनोद्वेगसंलापाः । उन्मादोथ व्याधिर्जडता स्मृतिरिति दशैव कामदशाः॥ इति भेदेन दशविधेत्यालंकारिका आहुः (वाच० ) । आ लाभप्राप्तेरेकमर्यादावस्थितस्य यदवस्थानं सा अवस्था ( सर्व० सं० पृ० १६३ नकुली० ) । <अवाची> ( दिक् ) दक्षिणावदस्यार्थोनुसंधेयः । <अवान्तरप्रलयः> (प्रलयः ) खण्डप्रलयवदस्यार्थोनुसंधेयः ( त० दी ० १ पृ० १० ) । <अविज्ञातार्थम्> ( निग्रहस्थानम् ) [क] परिषत्प्रतिवादिभ्यां त्रिरभिहित- मप्यविज्ञातम विज्ञातार्थम् ( गौ० ५/२/९) । यद्वाक्यं त्रिरभिहितमपि परिषदा प्रतिवादिना च न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतिद्रु- तोच्चारितमित्येवमादिना कारणेन तदविज्ञातमविज्ञातार्थमसामर्थ्य संवरणा प्रयुक्तमिति निग्रहस्थानमिति ( वात्स्या० ५/२/९ ) । एतस्य त्रेधा संभवः । असाधारणतन्त्र मात्रप्रसिद्धम् अतिप्रसक्तयोगमनपेक्षितरूढिकम् श्लिष्टं चेति । तत्राद्यं यथा पञ्च स्कन्धादयो बौद्धानाम् । तत्र रूपादयः पञ्चेन्द्रियाणि च रूपस्कन्धः । सविकल्पकं संज्ञास्कन्धः । रागद्वेषाभिनिवेशाः संस्कारस्कन्धः । सुखदुःखे वेदनास्कन्धः । निर्विकल्पकं ज्ञानस्कन्ध इति । द्वितीयं यथा कश्यपतनयाधृतिहेतुरयं ( भूधरोयम् ) त्रिनयनसमान- नामधेयवान् ( अग्निमान् ) तत्केतुमत्त्वात् ( तस्य अग्ने: केतुर्धूमस्त- द्वत्त्वात् ) इत्यादीति । धरा धरित्री धरणिः क्षोणि काश्यपी क्षितिरिति कोशात् कश्यपतनया भूरिति भावः । पर्वतो वह्निमान् धूमवत्त्वादिति यावत् । तृतीयं यथा श्वेतो धावति ( श्वा इतो धावति ) इत्यादि । एवम् अतिद्रुतोच्चारितादिकमपीति ( गौ० वृ० ५१२/९ ) । [ख] अवहिताविकलव्युत्पन्नपरिषत्प्रतिवादिबोधानुकूलोपस्थित्यजनकवाचकवा क्यप्रयोगः ( गौ० वृ० ५।२९ ) ( दि० १ पृ० २२ ) । अत्र च पराज्ञानापादनेन मम जयो भविष्यति इति भ्रमादुक्तिसंभवः ( गौ० दृ० ५।२/९ ) । [ग] परिषत्प्रतिवाद्यबोधप्रयोजकपदप्रयोगः । तच्च क्लिष्ट - न्वयमप्रसिद्धार्थकं त्वरितोच्चारितमित्यादिरूपम् ( नील० पृ० ४५ ) । <अवितत्करणम्> कार्याकार्यविवेकविकलस्येव लोकनिन्दितकर्म करणम् ( सर्व० सं० पृ० १७० नकुली० ) । <अवितद्भाषणम्> व्याहतापार्थकादिशब्दोच्चारणम् ( सर्व० सं० पृ० १७० नकुली ० ) । <अविद्या> [ क ] ज्ञानाभावः । अत्र मतभेदेन बहुप्रकाराः सन्ति । विस्तरभयान्नोच्यन्ते । [ ख ] अनित्याशु चिदुःखानात्मसु नित्यशुचिसु खात्मख्यातिरविद्या ( पात० यो० सू० २।५ ) । [ग] अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम् । अविद्या (सर्व० सं० पृ० ३६२ पातञ्ज ० ) । घयदेव पररूपादर्शनं सैवाविद्या (सर्व० सं० पृ० ४५८ शांकर०) । [ङ ] असत्प्रकाशनशक्तिरविद्या ( सर्व० सं० पृ० ४३९ शांकर०) । अविद्या च (वैशेषिकमते ) दूरत्वपित्तदोषेत्यादीन्द्रियदोषजन्यो बुद्धि विशेषः (अयथार्थबुद्धिः ) ( प्रशस्त० गु० पृ० २३ ) । <अविनाभावः> १ व्याप्तिः । यथा कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोद[^१]र्शनान्न न दर्शनात् ( सर्व० बौद्ध० पृ० १६ ) इत्यादौ ग्रन्थे अविनाभावशब्दार्थो व्याप्तिः । २ संबन्ध [^१] अदर्शनादिति पदच्छेदः । मात्रम् । यथा मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । अभिधेयावि- नाभूतप्रतीतिर्लक्षणोच्यते ॥ ( भट्टवार्तिके ) इत्यादौ अविनाभावशब्दार्थः ( काव्यप्र० उ० २ पृ० २० ) । २ मीमांसकमते तु स्वदेशवृत्तित्वं तादात्म्यं च अविनाभावः । यथा व्यक्त्यविनाभावात्तु जात्या व्यक्तिरा- क्षिप्ते ( काव्यप्र० २ १० १७) इत्यादौ अविनाभावशब्दार्थः । अविनाभावो गुरुमते जातेर्व्यक्तिदेशत्वम् । भट्टमते तु तादात्म्यम् इति ( काव्यप्र० टी० कमला० पृ० १७ ) । <अविरतिः> [ क ] पृथिव्यादिषट्कोपादानं षडिन्द्रियासंयमनं चाविरतिः ( सर्व० सं० पृ० ७५ आर्हत० ) । [ ख ] विषयाभिलाषः ( सर्व० सं० पृ० ३५५ पातञ्ज ० ) । <अविवेकः> १ विवेकाभावः । २ अन्योन्यतादात्म्यारोपरूपं मिथ्याज्ञा- नमिति सांख्याः । <अविशेषसमः> ( जाति: ) [ क ] एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्र- सङ्गात्सद्भावोपपत्तेरविशेषसमः ( गौ० ५/११२३) । एको धर्मः प्रयत्ना- नन्तरीयकत्वं शब्दघटयोरुपपद्यत इत्यविशेष उभयोरनित्यत्वे सर्वस्या- विशेषः प्रसज्यते । कथम् । सद्भावोपपत्तेः । एको धर्मः सद्भावः सर्व- स्योपपद्यते । सद्भावोपपत्तेः सर्वाविशेष प्रसङ्गात्प्रत्यवस्थानमविशेषसमः (वात्स्या० ५।१।२३) । अविशेषेण समः अविशेषसमः इति व्युत्पत्तिः । [ख] सन्मात्रवृत्तिधर्मेणाविशेषापादनम् । प्रतिकूलतर्कदेशनाभासोयम् ( गौ० वृ० ५/१/२३ ) । [ग] सर्वाविशेषप्रसङ्गोद्भावनम् । यथा शब्दः अनित्यः कृतकत्वादित्यादौ यदि कृतकत्वादिना अनित्यघटा दिसा- धर्म्येण शब्दस्यानित्यत्वं तदा प्रमेयत्वादिरूपेण तत्साधर्म्येण सर्वस्यैवा- नित्यत्वं स्यात् । मदुक्तसाधर्म्येण तत्सिध्यति न तु त्वदुक्तेनेत्यत्र विनिग मकाभावादिति ( नील० पृ० ४४ ) । <अवेष्टिः> राजसूये अवेष्टिसंज्ञकाः पञ्च यागाः । ते च यथा आग्नेयमष्टा- कपालं निर्वपति हिरण्यं दक्षिणा । ऐन्द्रमेकादशकपालमृषभो दक्षिणा । वैश्वदेवं चरुं पिशङ्गी पष्ठाही दक्षिणा । मैत्रावरुणीमामिक्षां वशा दक्षिणा । बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा ( जै० सू० वृ० २।३।३ ) । <अव्यभिचारः> साध्याभाववद्वृत्तित्वं व्यभिचारः । तस्याभावः । <अव्ययम्> [क] संकेतसंबन्धेनाव्ययपदवत् । यथा स्वः इत्याद्यव्ययम् । तत्र कानिचिदव्ययानि सार्थमुदाह्रियन्ते । लक्षणवीप्सेत्थंभावेष्वभिर्भागे परिप्र- ती । अनुरेषु सहार्थे च होने उपश्च कथ्यते । समया निकषा चाव्ययं सामी- प्यार्थकम् । तेन तद्योगे समया ग्राममित्यादौ ग्रामस्य समीपम् इत्यन्वये प्रामा- वघिकत्वं तत्प्रतियोगिकत्वं वा द्वितीयया बोध्यते । विद्यामृते अन्तरेणान्तरा विना बा नरः शोच्य इत्यादावृतेप्रभृत्यव्ययानामत्यन्ताभावस्तद्वैशिष्ट्यं वार्थ इति विद्यात्यन्ताभाववान् नरः शोच्य इत्यन्वये अत्यन्ताभावेन्वितं प्रति- योगित्वम् । गगनमृते द्रव्यं न शब्दवदित्यादौ तूक्ताव्ययानां भेदोप्यर्थः । तेन गगनभिन्नद्रव्यं न शब्दवत् इत्याकारकस्तत्र बोधः । हा पुत्रमित्यत्र "हाव्ययस्या कष्टे द्वितीयान्तेन पुत्रसमवेतत्वं बोध्यते । धिक् पुत्रमित्य धिगर्थगर्हायां पुत्रविषयित्वम् । उपर्युपरि गृहं पताकेत्यत्र द्विरुक्तस्योपरि- निपातस्य संनिकृष्टोर्ध्वभागार्थकत्वेन गृहस्य संनिकृष्टोर्ध्वभागे पताका इत्यर्थः । अधोधो मेघमम्भः अध्यघि शिखरं घन इत्यत्राप्युक्तदिशैवा- न्वयः । द्विरुपर्यधोधीनां सामीप्यवाचितायां तद्योगे द्वितीयानुशिष्टेः ( श० प्र० पृ० ११७ ) । अत्र प्रमाणम् – उभसर्वतसोः कार्या धिगु- पर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते ॥ इति । नदीं यावन्मम पुरम् गृहं यावद्धनं तवेत्यत्र यावदित्यव्ययस्य मर्यादा अभिविधिश्च क्रमेणार्थः । तेन नदीपर्यन्तं मत्पुरम् गृहाभिव्याप्तं त्वद्धनम् इत्याकारस्तत्र बोध: ( श० प्र० पृ० ११६ - ११७ ) इत्यादि तत्तग्रन्थाज्ज्ञेयम् विस्तरभयान्नोच्यत इति । [ख ] सदृशं त्रिषु लिङ्गेषु सर्वासु च विभ क्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति शाब्दिका आहुः । अत्रायं नियमः - नियताः प्रयोगा हि केषांचिदव्ययानामिति ( न्या० म० ख० ४ पृ० १४ ) । अत्राधिकं तु नशब्दव्याख्यानावसरे द्रष्टव्यम् । <अव्ययीभावः> (समासः)अव्ययीभावाधिकार पठितत्वमव्ययीभावत्वम् । पूर्वपदार्थप्रधानोव्ययीभाव इति लक्षणं तु प्रायिकं बोध्यम् । तथा हि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः । सूपप्रतीत्य- व्ययीभाव उत्तरपदार्थप्राधान्यादव्याप्तिश्च । अतो नेदं सिद्धान्तभूतं लक्षणमिति ( वैयाकरणभू० ) ( श० पृ० ३१ ) । अर्धपिप्पलीत्यादौ तत्पुरुषे पूर्वपदार्थप्राधान्यादतिव्याप्तिरप्यस्मिन् लक्षणे बोध्या । अनव्य- यमव्ययं भवतीत्यव्ययीभावः । अव्ययीभावस्याव्ययत्वम् अव्ययीभावश्च ( पाणि० सू० ११ १२ १४१) इति सूत्रेण बोध्यते । <अव्यवधानम्> तदधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वम् । यथा क्रमि- कपदार्थोपस्थितीनामव्यवधानम्। अथ वा तङ्कंसाधिकरणक्षणोत्पत्तिकत्वम्। अव्यवहितत्वम् – तत्पूर्वकालीन ध्वंसाप्रतियोगित्वम् (ग० २ प० पृ० ३८ ) । यथा अनुमित्यव्यवहित पूर्ववृत्तिसिद्धिभिन्नसिद्ध्यभावः पक्षता ( दीधि० ) इत्यत्रानुमित्यव्यवहितपूर्वक्षणे सिद्धावेव वा विशेषणीभूत- मव्यवहितत्वम् । <अव्यवहितपूर्वत्वम्> [क] तदुत्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगित्वम् (दिधि० पक्ष० पृ० १२९) । अत्र तत्पदेन क्षणद्वयावस्थायि ज्ञानादिक ग्राह्यम् । विग्रहस्तु तस्य ज्ञानादे: उत्पत्तिक्षणे उत्पत्तिर्यस्य स तदुत्पत्तिक्षणोत्पत्तिकः । सचासौ ध्वंसश्च । तस्य प्रतियोगि । तस्य भावः इति । ज्ञानाद्युत्पत्तिक्षणे यस्य ध्वंस उत्पद्यते तत्त्वमिति विग्रहार्थः । इदं लक्षणं प्रागभावानभ्युपगन्तृनयेपि संगच्छते इति विज्ञेयम् ( ग० पक्ष० पृ० ४४ ) । [ख तत्प्रागभावाधिकरणकालप्रागभावानधिकरण सति तत्प्रागभाववत्वम् ( ग० पक्ष० पृ० ४१) । अत्र सत्यन्तदलेन अव्यवधानम् विशेष्यदलेन तु पूर्वत्वं बोध्यत इति विज्ञेयम् । इदमव्यव- हितपूर्वत्वं च प्रागभावाङ्गीकर्तृपक्ष एव संगच्छत इत्यवधेयम् । यथा विशेषणज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्वत्वम् । यथा वा परामर्शस्यानु मित्यव्यवहितपूर्वत्वम् । <अव्यवहितोत्तरत्वम्> स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसाधिकरणत्व- सामान्याभाववत्त्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वम् । यथा विशिष्ट- ज्ञानस्य विशेषणज्ञानाव्यवहितोत्तरत्वम् । यथा वा अनुमितेः परामर्शाव्य- वहितोत्तरत्वम् । अत्र सत्यन्तेन दलेन अव्यवधानम् विशेष्यदलेन तूत्तरत्वं गम्यते इति ज्ञेयम् । इदं विशिष्टलक्षणं च ज्ञानाद्युत्पत्तिद्विती- यक्षणसाधारणम् ( ग० पक्ष० पृ० ४२ ) । तृतीयक्षणसाधारणं तु ज्ञानादेस्तृतीयक्षणे विनाशेन स्वध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वरूपं ज्ञानाद्यव्यवहितोत्तरत्वम् ( दीधि ० २ पृ० १२७ ) । <अव्यापकविषयिताशून्य[^१]त्वम्> यद्रपावच्छिन्ननिरूपित विषयितात्वं विशि- ष्ट विषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्ननिरू- पितविषयिताशून्यत्वम् । यथा हृदो वह्निमानित्यादौ वयभाववद्धदरूप - बाधविषयकस्य हृदो न वह्निमान् इति निश्चयस्य अव्यापकीभूतजातित्व- द्यवच्छिन्ननिरूपितविषयिताशून्यत्वम् ( ग० सामा० २ लक्षणे ) । स्वभिन्नत्व–स्वनिरूपितसंसर्गतान्यविषयतानिरूपितत्व-एतदुभयसंबन्धेन यद्रूपावच्छिन्नविषयता विशिष्टयद्रपावच्छिन्नविषयतानिरूपित विषयितात्वं ता दृशविशिष्टविषयकत्वसमानाधिकरणाभाव प्रतियोगितावच्छेदकं तद्रूपाव- च्छिन्नविषयताविशिष्टतद्रूपावच्छिन्नविषयतानिरूपितविषयिताशून्यत्वं- कृष्टार्थ इत्यस्मद्गुरुचरणाः प्राहुः । अधिकं तु क्रोडपत्रादितो ज्ञेयम् । [^१] इदं च निश्चयस्य विशेषणं गदाधर्या हेत्वाभाससामान्यनिरुक्तौ द्वितीयलक्षणे ह्युपयुज्यते । उपयोगस्तु हृदो वह्निमान् धूमादित्यादौ जातित्वेन हृदत्वायवगाहिनो जातिमान् वह्नयभाववान् इति निश्चयस्य प्रतिबन्धकत्ववारणरूप इति बोध्यम् । <अव्याप्तिः> ( लक्षणदोषः ) १ [क] लक्ष्यतावच्छेदकसमानाधिकरणा त्यन्ताभावप्रतियोगित्वम् ( न्या० बो० १ पृ० ३ ) । अत्र गोः कपि- लत्वं लक्षणमित्युक्तौ गौर्लक्ष्या भवति । लक्ष्यतावच्छेदकं गोत्वम् / त समानाधिकरणः गोत्वस्याधिकरणे शुक्लगवि वर्तमानः कपिलत्वस्या त्यन्ताभावः । तस्य प्रतियोगि कपिलत्वं भवति । तथा च प्रतियोगित्वं कपिलवे वर्त इति द्रष्टव्यम् । [ख] लक्ष्यैकदेशावृत्तित्वम् । यथा गोः कपिलत्वस्य लक्षणत्वाङ्गीकारे शुक्लगवि कपिलत्वस्याभावेन अव्याप्तिः ( त० दी० १ पृ० ४ ) । लक्षणतावच्छेदकत्वाभिमतसंब- न्धेन किंचिलक्ष्यावृत्तित्वमित्यर्थः ( नील० १ पृ० ४ ) [ग] लक्ष्यैकदेशे लक्षणस्यावर्तनम् । यथा शिखासूत्रवान् ब्राह्मणः इत्यस्य लक्षणस्य संन्यासिन्यव्याप्तिः । संन्यासिनः शिखासूत्रवत्त्वाभावादिति भावः ( त० कौ० पृ० २१) । २ भागासिद्धत्वम् । यथा गोर्लक्षणस्य शबलत्वस्य भागासिद्धिः (त० मा० पृ० ५०) (नील० १ पृ० ४ ) । इदं च लक्षणस्य व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु लक्षणशब्दव्याख्यानावसरे संपादयिष्यते । ३ हेत्वाभासविशेषः । हेत्वाभास शब्दव्याख्याने दृश्यम् । <अव्याप्यवृत्तिगुणत्वम्> अव्याप्यवृत्तिवृत्तिर्गुणत्वव्याप्या च या जातिस्ता- दृशजातिमत्त्वम् ( दि० गु० पृ० १९४ ) । तादृशी जातिस्तु बुद्धित्व- शब्दत्वादिः । अव्याप्यवृत्तिगुणा द्विविधाः दैशिकाव्याप्यवृत्तयः कालि- काव्याप्यवृत्तयश्चेति । तत्र दैशिकाव्याप्यवृत्तयो बुद्ध्यादयोष्टौ शब्दः भावना संयोगः विभागश्चेति । एते गुणाः प्रादेशिकगुणा इत्यपि व्यव- ह्रियन्त इति बोध्यम् । कालिकाव्याप्यवृत्तिगुणास्तु रूपादयः इति विज्ञेयम्। <अव्याप्यवृत्तित्वम्> स्खात्यन्ताभावसमानाधिकरणत्वम् ( त० दी० १ पृ० १३ ) ( मू० म० ) ( ग० ) । यथा वृक्षे कपिसंयोगतदत्यन्ताभा- वयोरव्याप्यवृत्तित्वम् । यथा वा संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमते पर्वते वहितदभावयोरव्याप्यवृत्तित्वम् । स्वात्यन्ताभाव समानाधिकरणत्वमित्यस्य स्वस्यात्यन्ताभावेन सहकाधिकरणे वर्तमानत्वमित्यर्थः । स्वप्रतियोगित्व- स्वसामानाधिकरण्य- एतदुभयसंबन्धेनाभाववत्त्वमिति निष्कर्षः (नील० १ पृ० १३ ) । तदर्थश्च स्वशब्देन कपिसंयोगाभावो गृह्यते । स्वस्य प्रति- योगी कपिसंयोगस्तत्त्वं कपिसंयोगे वर्तते । तथा स्वसामानाधिकरण्यमपि वर्तते । स्वस्य कपिसंयोगाभावस्य सामानाधिकरण्यमेकाधिकरणे वर्तमान- त्वम् । तथा चैतादृशोभयसंबन्धेन कपिसंयोगाभाववत्वं कपिसंयोगे वर्तत इति कपिसंयोगः अव्याप्यवृत्तिर्भवति । एवं कपिसंयोगाभावेप्यव्याप्यवृत्तित्वं स्वयमूह्यम् । अत्रायमाशयः । अग्रे वृक्षः कपिसंयोगी न मूले इति प्रती- त्यैकस्मिन्नप्यधिकरणे वृक्षे कपिसंयोगकपिसंयोगाभावयोरग्रमूलात्मकप्र- देशविशेषावच्छेदेन विद्यमानत्वात्तयोरव्याप्यवृत्तित्वं संगच्छत इति । <अशिष्टः> यो यदा वेदनिषिद्धकर्ता स तदा अशिष्टः । यथा बौद्धपाषण्डा - दिरशिष्ट: ( चि० १ पृ० १०८-१०९) । <अश्रुमुखाः> पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्तिताः ॥ तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः स्मृताः ( पु० चि० पृ० २९९ ) । <अस्> ( धातुः ) [ क ] कालसंबन्धविशेषः । यथा चैत्रोस्तीत्यादौ धा- त्वर्थः । [ख] शाब्दिकास्तु स्वधारणानुकूलो व्यापारः अस्धात्वर्थ इत्याहु: (वै० सा० धा० पृ० ९० ) । यदाह वाक्यपदीये-आत्मान- मात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सक- र्मकः ॥ इति । अत्रायमाशयः । आत्मा द्विविधः । शरीरात्मा अन्तरात्मा चेति । शरीरात्मा शरीरावच्छिन्नात्मा । अन्तरात्मा अन्तःकरणावच्छिन्नात्मा । त न्तरात्मना शरीरात्मनो धारणं भवति । तत्र धारणानुकूलव्यापारस्य त्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति हेतोः अ धात्वर्थवेपि फलव्यापारयोः सामानाधिकरण्येन अकर्मकत्वमुपपद्यत इति । <असंगतिः> १ संगत्यभावः ( संदर्भाभावः ) । २ वेदान्तिनस्तु आका- ङ्क्षाविरहः ( हेत्वाभासः ) इत्याहु: ( प्र० च० पृ० ३० ) । <असंप्रज्ञातः> १ यथार्थज्ञानाविषयः । २ ज्ञेयज्ञानज्ञातृमेदशून्यो निर्विक ल्पकरूपः समाधिरिति योगशास्त्रविद आहुः ( वाच० ) । सर्ववृत्तिनि रोघे त्वसंप्रज्ञातः ( सर्व० सं० पृ० ३५७ पातञ्ज० ) । <असंबन्धः> १ असमवेतत्वम् । यथा समवाये अभावे चासंबन्धः (नील० १ पृ० ६ ) । असमवेतत्वं च प्रतियोगित्व-अनुयोगित्व - एतदन्य तरसंबन्धेन समवायाभावः ( नील ० १ पृ० ६) ( दि० १ पृ० ३६) । अथवा प्रतियोगित्व - अनुयोगित्व - एतदन्यतरसंबन्धावच्छिन्नावच्छेदका निरूपित प्रतियोगिताकमेद इति ( ल० व० पू० ३) । अयमाशयः । यस्मिन् किंचिदपि वस्तु समवायेन संबन्धेन न वर्तते यश्च कस्मिंश्चिदपि वस्तुनि समवायेन संबन्धेन न वर्तते तत्रायमसंबन्धः । यथा समवाये अभावे च न किंचिद्वस्तु समवायेन वर्तते सोपि समवायः अभावश्च न कस्मिंश्चिदपि वस्तुनि समवायेन संबन्धेन वर्तत इति समवाये अभावे चायमसंबन्धोस्ति । स च असंबन्धः समवायत्वस्य अभावत्वस्य च जातित्वे बाधक इति न्यायसिद्धान्तः । २ परस्परावच्छेद्यावच्छेदकभावा- पन्नविषयितानिरूपकत्वशून्यत्वम् (ग० अव० ) । अयं चैकवाक्यत्व- विघटको गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् इति जैमिनिसूत्र- घटकासंबन्धपदस्यार्थ इति विज्ञेयम् । यथा सुन्दरः पुरुषो दण्डीत वाक्यजन्यशाब्दबोधे पुरुषांशे दण्डसौन्दर्ययोर्विशेषणतया युगपद्भानस्वी कारे तयोः परस्परमसंबन्धः । वस्तुतस्त्वेतादृशवाक्यस्वरसात्सौन्दर्यस्य विशेष्यतावच्छेदकत्वेन दण्डस्य विशेषणत्वेन भानाङ्गीकारे नायमसंबन्ध- दोषः । अपि तु पुरुषः सुन्दरो दण्डीत्य।दावेव तादृशदोष इति ज्ञेयम् । <असंभवः> ( लक्षणदोषः ) १ [ क ] लक्ष्यमात्रावृत्तित्वम् । यथा गोरे- कशफत्वरूपलक्षणस्यासंभवः ( त० दी ० १ पृ० ४ ) । संबन्धविशेषा वच्छिन्नलक्ष्यवृत्तित्वसामान्याभाव इत्यर्थः (नील० १ पृ० ४) । [ख] लक्ष्यतावच्छेदकव्यापकीभूतो यः अभावस्तत्प्रतियोगित्वम् ( न्या० बो० १ पृ० ३ ) । यत्र यत्र लक्ष्यतावच्छेदकं गोत्वम् तत्र तत्रैक- शफत्वस्याभाव इति व्याप्तेरेकशफव्वाभावो लक्ष्यतावच्छेदकस्य व्यापको भवतीति तत्प्रतियोगित्वमेकशफत्वे वर्तत इति बोध्यम् । [ग] लक्ष्ये कापि लक्षणस्यावर्तनम् । यथा झुण्डदण्डवान् ब्राह्मण इति लक्ष- णस्यासंभवः । कस्यापि ब्राह्मणस्य शुण्डदण्डाभावादसंभव इति भावः (त० कौ० पृ० २१) । २ स्वरूपासिद्धिः । यथा गोरेकशफत्वस्य लक्षणत्वे स्वरूपासिद्ध्यात्मको हेत्वाभासः ( त० भा० पृ० ५० ) । इदं च लक्ष- •णस्य व्यावर्तकत्वाभिप्रायेणेति विज्ञेयम् (नील० १ पृ० ४ ) । तथाहि । -गौरितरेभ्यो मिद्यत एकशफत्वा दित्यत्रैकशफत्वात्मकहेतोः स्वरूपासिद्धिः । ..एतत्प्रपञ्चस्तु लक्षणशब्दव्याख्यानावसरे संपादयिष्यते । <असंसर्गाग्रहः> [क] बाधग्रहः प्रतिबन्धकग्रहो वा असंसर्गः । तस्याभावः । यथा प्राभाकरमते कार्यतावाचकलिङादिपदासमभिव्याहारस्थले व्यवहा- रस्त्वसंसर्गाग्रहादेवेल्यत्र ( म० प्र० ४) । [ख] भेदाज्ञानम् । यथा सांख्य- मते बुद्धिपुरुषयोरसंसर्गाग्रहात्कर्तृत्वाद्यभिमान इत्यत्र ( दि० १ आत्म०पृ० १०५ ) । केचित्तु असंसर्गस्य परस्परसंबन्धाभावस्याग्रहः अबोधः । यथा मीमांसकमते इदं रजतमित्यादौ इदम् इति रजतम् इति च ज्ञानद्वयस्यापि प्रवृत्तिजनकताप्रयोजकत्वेन परस्परसंबन्धाभावस्याबोध इत्याहु: (वाच०) । <असत्> १ सत्तावद्भिन्नम् । यथा प्राचीननैयायिकमते सामान्यादिचतुष्टयम सत् । २ तत्कालीन स्वजनका भावप्रतियोगि । यथा घटपटादिकार्य स्वस्वोत्पत्तेः प्रागसत् ( वै० उ० ९ । १ । १ ) । ३ यत् कालसामान्या- संबन्धि तत् । यथा शशशुङ्ग कूर्मरोमादि इति मध्वाचार्यानुयायिनो वेदा- •न्तिनः । ४ नामरूपाभ्यामव्याकृतं कारणात्मना स्थितं सूक्ष्मरूपमन्य क्तमिति मायावादिनः । ५ अर्थक्रिया[^१]कारि । अकिंचित्करम् अभा वादिकमिति बौद्धा आहुः ( वाच० ) । [^१] अकारीति पदच्छेदः । <असदर्थविषयकत्वम्> विशेष्यावृत्तिप्रकारकत्वम् । यथा शुक्तौ इदं रजतम इति ज्ञानस्य विशेष्यभूतशुक्तौ रजतत्वस्यावृत्तित्वेन असदर्थविषयकत्वम् । <असद्धेतुः> ( हेतुः ) हेत्वाभासवदस्यार्थोनुसंधेयः । <असमर्थविशेषण:> ( स्वरूपासिद्धः ) यद्धेतुघटकं यत् विशेषणं साय- साधने अप्रयोजकं भवति तद्विशेषणविशिष्टः स हेतुः । यथा शब्दो नित्यो विशेषणं गुणत्वं तु न साध्यसाधने प्रयोजकं भवति । विशेष्याकारणत्व- गुणत्वे सत्यकारणत्वादिति । अत्र च गुणत्व विशिष्टमकारणत्वं हेतुः । तत्र स्यैव नित्यत्वसाधनसामर्थ्यात् ( त० भा० पृ० ४६ ) । <असमर्थविशेष्यः> (स्वरूपासिद्धः) यद्धेतुघटकं यत् विशेष्यं साध्यसाधने अप्रयोजकं भवति तद्विशेष्यघटितः स हेतुः । यथा शब्दो नित्यः अकारणले सति गुणत्वादिति । अत्र चाकारणत्वविशिष्टं गुणत्वं हेतुः । तत्र विशेष्यं गुणत्वं तु न प्रकृतसाध्यसाधने प्रयोजकम् । विशेषण मात्रस्यैव अका- रणत्वस्य नित्यत्वसाधने समर्थत्वात् ( त० भा० पृ० ४६-४७ ) । <असमवायिकारणम्> ( कारणम् ) [ क ] समवायिकारणे प्रत्यासन्नं कारणम् (प्र० प्र०) (भा०प० श्लो० १८) (त० कौ० १ पृ० ८) । कार्यैकार्थ–कारणैकार्थ–एतदन्यतरप्रत्यासत्या समवायिकारणे प्रत्यासन्नं ज्ञानादिभिन्नं यत् कारणं तदसमवायिकारणम् इति पर्यवसितोर्थः ( मु० १ पृ० ५१ ) । कार्यैकार्थप्रत्यासत्तिरत्र समवायसंबन्धेन कार्य- सामानाधिकरण्यम् ।कारणैकार्थप्रत्यासत्तिश्चात्र स्वसमवायिसमवाय- संबन्धेन कार्यसामानाधिकरण्यम् ( सि० च० १ पृ० २१ ) । अत्रायं सिद्धान्तः । आत्मविशेषगुणानां ज्ञानादीनां कुत्राप्यसमवायिका- रणत्वं नास्ति इति ( दि० १ पृ० ५१ ) ( मु० १ पृ० ५०/५१ ) ( राम० १ पृ० ५० ) । तेन असमवायिकारणत्वनिरासाय ज्ञानादीनां पर्युदासः । असमवायिकारणं च कार्यस्थितौ नियामकं भवतीति बोध्यम् । [ख ] कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतत्वे सति कारणं यत्तत् । यथा तन्तुसंयोगः पटस्यासमवायिकारणम् । तन्तुरूपं पटगतरूपस्यासमवायिकारणम् ( त ० सं० ) । अत्र तन्तुसंयोगस्य पटसमवायिकारणेषु तन्तुषु प्रत्यासन्नत्वात् कारणत्वाच्च तन्तुसंयोगः पट- स्यासमवायिकारणमिति ज्ञेयम् । तथा तन्तुरूपस्य परंपरया पटादौ प्रत्या सन्नत्वात् ( तन्तुरूपस्य पटरूपादिसमवायिकारणे पढे स्वाश्रयसमवेतत्वेन प्रत्यासन्नत्वात् ) कारणत्वाच्च लक्षणसमन्वयो बोध्यः ( त० कौ० १ पृ० ८ ) । अत्रेदं बोध्यम् । असमवायिकारणता च गुणकर्ममात्रवृत्तिर्भवति (भा०प०श्लो०२३) इति । गुणकमोतिरिक्त न वर्तत इत्येव तत्तात्पर्य न तु यावगुणवृत्तिरिति । तेन ज्ञानादीनामसमवायिकारणत्वविरहेपि नोक्तिवि- रोधः । एवं चासमवायिकारणता द्विविधा । कार्यैकार्थसमवायात् कारणै- कार्यसमवायात् । तत्र प्रथमा यथा आत्ममनः संयोगस्य ज्ञानादिकं प्रति कारणता । तन्तुसंयोगस्य च पटं प्रति । तत्र कार्येण पटेन सह कारणस्य तन्तुसंयोगस्य एकस्मिन् तन्तौ प्रत्यासत्तिरस्ति इति लक्षणसमन्वयो बोध्यः ( मु० १ पृ० ५० ) । इयं च असमवायिकारणता लध्वी इति संज्ञां लभते । लघुप्रतिपत्तिकत्वात् ( वै० उ० २ । १ । २२ ) । द्वितीया यथा तन्तुरूपाणां पटरूपं प्रति कारणता (वै० उ० २।१।२२) (५/२/२ ( त० मा० पृ० ४ ) । तथाहि स्वगतरूपादिकं प्रति समवायिकार पटः । तेन सह तन्तु रूपस्यैकस्मिन्तन्तौ प्रत्यासत्तिरस्तीत्यसमवायिकारण संगच्छते ( मु० १५० ५० ) । इयं च असमवायिकारणता महत इति संज्ञां लभते । गुरुप्रतिपत्तिकत्वात् ( वै० उ० २।१।२२ ) । <असमवायिगुणत्वम्> ज्ञानाद्यतिरिक्तभावकार्यासमवायिकारणगुणत्वम् (लव् व० पृ० ३७ ) । असमवायिकारणगुणाश्च रूपम् रसः गन्धः रसः गन्धः स्पर्श, एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः स्थितिस्थापकश्चेति । ( भा० प० गु० श्लो० ८८) (मु० दि० गु० पृ० १९४)/ "आत्मविशेषगुणानां कुत्राप्यसमवायिकारणत्वं नास्तीति नियमेन तेषामस मवायिकारणत्ववारणाय ज्ञानाद्यतिरिक्तेति गुणविशेषणम् ( मुक्ता० १ पृ० ५०-५१ ) । <असाधारण:> १ ( हेत्वाभासः ) [क] सपक्षविपक्षव्यावृत्तो हेतुः १० वृ० १।२।४ ) ( भा०प० २ श्लो० ७४ ) ( त० सं० ) ( चि० २ पृ० ८७ ) । [ख] सपक्षविपक्षव्यावृत्तत्वे सति पक्षवृत्तिः । यथा शब्दो नित्यः शब्दत्वादिति । अयं चानैकान्तिकप्रभेद इति ज्ञेयम् । लक्षणं तु वक्ष्यमाणमसाधारणत्वमेव । अत्र सपक्षो निश्चितसाध्यवान् । विपक्षो निश्चितसाध्याभाववान् । पक्षः संदिग्धसाध्यवान् इत्यर्थो बोष्यः ( गो० वृ० ११४५ ) । इदं लक्षणद्वयं च ( क ख - इत्यत्र विद्यमानम्) 'प्राचीनमतानुसारेणेति विज्ञेयम् । तन्मते पक्षवृत्तित्वे सति साध्यव्या- साध्यासामानाधिकरण्यरूपोन्वयव्याप्तिग्रह विरोधी । इदं च साक्षादनुमि पकीभूताभावप्रतियोगित्वमेवासाधारण्यम् । विरोधस्तु हेत्वाभासदोषः । तिविरोधि ( दीधि ० २ पृ० १९७ ) । तद्विरोधित्वं च असाधारण त्वशब्दव्याख्यानावसरे प्रदर्शयिष्यते । अत्र शब्दत्वं हि सपक्षाद्वग नादे विपक्षाच्च घटादेर्व्यावृत्तम् पक्षे शब्दे च वर्तत इत्यसाधारणम् ( चि० २ पृ० ८८ ) । अत्र प्राचीनमते असाधारणत्वज्ञानं हि साक्षा- दनुमितिप्रतिबन्धकम् । तथाहि शब्दत्वं हि नान्वयी हेतुः । दृष्टान्ता- भावात् । किंतु व्यतिरेकी । तथाच यो हेतुः यद्धर्मवतो व्यावृत्तः स स्खाश्नये तद्धर्माभावं साधयति । यथा धूमो वह्नयभाववतो जलइदादे- र्यावृत्तः स्वाश्रये पर्वतादौ वहयभावाभावं ( वह्निम् ) साधयति । तथा शब्दत्वं नित्यत्ववतो गगनादेः सपक्षाद्व्यावृत्तमिति स्वाश्रये शब्दे नित्यत्वा- भावं ( अनित्यत्वम् ) साधयेत् । एवं नित्यत्वाभाववतो घटादेर्विपक्षात् व्यावृत्तमिति स्वाश्रये शब्दे नित्यत्वाभावाभावं (नित्यत्वम्) अपि साधयेत् । परंतु नैवैकत्र शब्दे नित्यत्वानित्यत्वयोः संभवः । तयोर्विरोधात् । तस्मा- (च्छब्दत्वे असाधारणत्वज्ञाने सति न साध्यानुमितिरिति ( त ० कौ० २ पृ० १३-१४ ) ( चि० २ पृ० ८८ ) ( दीवि० २ पृ० १९६-१९७ ) । [ग] साध्यासमानाधिकरणो हेतुः । यथा शब्दो नित्यः शब्दत्वादित्यादौ नित्यत्वासमानाधिकरणं शब्दत्वमसाधारणो हेतु: (मु० २ पृ० १५९ ) ( गौ० वृ० ११२/५ ) । इदं लक्षणं च नवीनमतानुसारेणोक्तम् । प्राचीनमते त्वयं हेतुर्विरुद्ध एवेति मन्तव्यम् । नवीनमते असाधारण्यं साध्यासामानाधिकरण्यम् । एतस्य साध्यसहचार- ग्रहप्रतिबन्धेन व्याप्तिग्रह प्रतिबन्धो दूषकताबीजम् (गौ० वृ० १/२/५ ) । २ ( जाति: ) नित्यसमविशेषः । स च त्रिविधः युक्ताङ्ग्रहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति ( सर्व० पृ० १५३ पूर्ण० ) । <असाधारणकारणत्वम्> [क] कार्यत्वानवच्छिन्नकार्यतानिरूपितकारण- ताश्रयत्वम् (त० प्र० ) ( वाक्य० १ पृ० १० ) । [ख ] कार्यत्वा- तिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् । यथा घटत्वा- वच्छिन्नं प्रति दण्डस्यासाधारणकारणत्वम् (न्या० बो० १ पृ० ८) । अत्रेदं बोध्यम् । कार्यमात्रं प्रति कारणं कालादि इत्येव व्यवहारात्काला- दीनां साधारणकारणत्वम् । दण्डादिकं कार्यमात्रं प्रति कारणम् इति न व्यवहारः । अपि तु घटादिकं प्रति कारणं दण्डादि इत्येव व्यवहारा - १४ न्या० को० इण्डादीनां कार्यत्वातिरिक्तो यो धर्मः घटत्वादिः तदवच्छिन्ना या घटनिष्ठा कार्यता तन्निरूपितकारणतावस्वादसाधारणकारणत्वमिति । [ ग ] साधारणकारणभिन्नकारणत्वम् ( म० प्र० १ पृ० ५) । <असाधारणत्वम्> १ ( हेतुदोषः ) सर्वसपक्षव्यावृत्तत्वम् ( चि० २ सव्य ० पृ० ८९) (मु० २ पृ० १५९ ) । अयं चासाधारणानै कान्ति कहेत्वाभास • निष्ठो दोष इति विज्ञेयम् । यथा शब्दो नित्यः शब्दत्वादित्यादौ शब्दत्वस्य असाधारणत्वम् (न्या० म० २ पृ० २०) । एतज्ज्ञानं चानुमितेः साक्षाप्र तिबन्धकम् । नित्येष्वनित्येषु च कापि शब्दत्वस्य हेतोरदर्शनेन हेतुज्ञानेपि शब्दे नित्यत्वसंशयस्यानिरासात् । २ असाधारणकारणत्ववदर्थो द्रष्टव्यः । <असाधारणधर्मः> लक्ष्यतावच्छेद कसमनियतो धर्मः । यथा गोर्लक्षणं हि सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्युच्यते ( त० दी० १ पृ० ४ ) । अत्र धर्मे असाधारणत्वं च तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम् (त० प्र० १ ) । अथवा लक्ष्यतावच्छेदकसमनियतत्वम् ( त० दी० पृ० ४) । लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेद कव्याप्यत्वमित्यर्थः ( नील० १ पृ० ४) । भवति हि सास्त्रादिमत्त्वं लक्ष्यतावच्छेद की भूत- गोत्वस्य व्यापकं व्याप्यं चेति । स चासाधारणधर्मो द्विविधः । व्यावर्तकः अव्यावर्तकश्च । आद्यो गोः सास्नादिमत्त्वम् । द्वितीयः सप्तपदार्थानाम- भिधेयत्वम् ( सि० च० १ पृ० ५) । अयमाशयः । सप्तपदार्थातिरिक्त पदार्थाप्रसिद्ध्या तद्भेदासंभवेनाभिधेयत्वस्य व्यावर्तकत्वं न संभवतीति । <असाधारण्यम्> असाधारणत्ववदस्यार्थोनुसंधेयः । <असाधुत्वम्> महाजनपरिगृहीत व्याकरणस्मृति निषिद्धत्वम् ( चि० ४) । यथा अचीक्रमतेत्यादिप्रयोगस्य स्वर्णस्तेयादेश्च यथाक्रममसाधुत्वम् । <असामर्थ्यम्> वृत्त्यघटकपदार्थान्वितस्वार्थबोधकत्वे सति वृत्तिजन्यबोधीय- प्रकारताश्रयस्वार्थबोधकत्वम् । यथा ऋद्धस्य राजमातङ्ग इत्यादौ ऋद्ध- पदार्थस्य राजपदार्थेनान्वये विवक्षिते राजपदस्यासामर्थ्यम् ( ग० व्यु० साधुत्वे प्रयोजकं च भवतीति बोध्यम् । वृत्तिशब्देनात्र वैयाकरणसंमताः का० १ ) । इदमसामध्येमेव सापेक्षत्वम् अपेक्षा वेत्युच्यते समासाद्य- कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो गृह्यन्ते । स्वार्थ - बोधकत्वे सतीत्यत्र स्वार्थश्च स्वीयशक्तिग्रहे विशेष्य इति विवक्षणीयः । अत एव शरैः शातितपत्रः चैत्रस्य दासभार्येत्यादौ न समस्यमानस्य शातितदासपदादेः सापेक्षता पदार्थैकदेशशातनदासत्वादावेव शर- करणकत्वचैत्रनिरूपितत्वादीनामन्वयात् ( ग० व्यु० का० १ ) । ऋद्धस्य राजमातङ्ग इत्यादौ वृत्तिः राजमातङ्ग इति समासवृत्तिः । तदघटकं पदं ऋद्धस्येति पदम् । तदर्थान्वितः खार्थ: राजपदार्थः । तद्बोधकत्वे सति वृत्तिजन्यो बोधः राज्ञो मातङ्गः इति बोधः । तादृशबोधे प्रकारताश्रयः विशेषणम् राजा । तद्बोधकत्वं राजपदेस्ति इति लक्षण- समन्वयः । अत्र ऋद्धपदार्थस्य राजपदार्थेन्वयो न भवति । सामर्थ्या- भावात् । तत्तदर्थविशेष्यकान्वयबोधं प्रति तत्तत्सामर्थ्यस्य प्रयोजकत्वात् । समर्थः पदविधि: ( पा० सू० २११११ ) इति सूत्रव्याख्यानावसरे तथैवोक्तत्वादिति । एवं च ऋद्धस्य राजमातङ्ग इत्यत्र राजमातङ्ग इति समासः असाधुरेव । राजपदस्य समासाघटकऋद्धपदसापेक्षत्वादिति । वृत्त्यघटकेत्यादिलक्षणे ऋद्धो राजमातङ्ग इत्यादौ मातङ्गपदस्य सापेक्षत्व- वारणाय विशेष्यदलम् । <असिद्धः> ( हेत्वाभासः ) [ क ] यत्र व्याप्तिः पक्षधर्मत्वं वा नास्ति सः असिद्धः (वै० वि० ३११११५ ) । असिद्धत्वं च लिङ्गत्वेनानिश्चित- त्वम् । [ ख ] व्याप्तिपक्षधर्मतान्यतररहितो हेतुः ( प्र० प्र० ) । यथा घटो द्रव्यं श्रावणत्वादित्यादौ श्रावणत्वादिर्हेतुरसिद्धः । असिद्ध- स्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धश्चेति ( त० सं० ) ( त० कौ० २ पृ० १४ ) ( प्र० प्र० ) (भा०प० श्लो० ७६ ) । प्रकारान्तरेण असिद्धश्चतुर्विधः । उभयासिद्धः अन्यतरासिद्धः तद्भावासिद्धः अनुमेयासिद्धश्चेति । तत्र उभयासिद्धः उभयोर्वादिप्रतिवादिनोरसिद्धः हेतुः । यथा नित्यः शब्दः सावयवत्वात् इति । अन्यतरासिद्धः वादिप्रतिवाद्य- न्यतरस्यासिद्धो हेतुः । यथा कार्यत्वादनित्यः शब्द इति । तद्भावासिद्धः खसद्भावासिद्धः । यथा धूमाभावेश्यनुमाने । अनुमेयासिद्धो यथा पार्थिवं तमः कृष्णरूपवत्त्वात् इति । एवमाश्रयासिद्धिरप्युभयथा अन्यतरा- सिद्धिरुभयासिद्धिश्च ( प्रशस्त ० २ पृ० २९ ) । असिद्धो हेतुश्च साध्य सम इत्युच्यते ( वात्स्या० ११२१८ ) ( गौ० वृ० १२१२१८ ) । <असिद्धिः> (हेतुदोषः ) [ क] परामर्शप्रतिबन्धकज्ञानविषयो धर्मः ( त० कौ० २ पृ० १४ ) । अत्रेदं बोध्यम् । यत्र योसिद्धिस्तत्र तद्व्या- प्योप्यसिद्धिरेवेति (बै० वि० ३ । १ । १५ ) । [ख ] व्यभिचाराधन्य परामर्श प्रतिबन्धकतावच्छेदकधर्मवत्त्वम् ( न्या० म० २ पृ० २१) । [ग साधारण्यासाधारण्यानुपसंहारित्वभिन्नं ज्ञानस्य विषयतया परा- मर्शविरोधितावच्छेदकं रूपमसिद्धिः (दीधि ० २ पृ० २१५-२१६) । सा चासिद्धिः आश्रयासिद्ध्याद्यन्यतमा ( मु० २ पृ० १६१ ) ( गौ० दृ० ११२१८) (चि० २ पृ० १०२) । यथा काञ्चनमय- हृदः काञ्चनमयवह्निमान्काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभाववज्र- दादिः । आश्रयासिद्ध्याद्यन्यतमेत्यस्य आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चैतासामन्यतमेत्यर्थः । अत्र परामर्शविषयाभावत्वेनानुग तेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधः हेत्वाभासाधिक्यं वा । अत एव ये व्याप्तिविरहपक्षधर्मताविरहरू पास्ते असिद्धिभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचारादय इति सिद्धान्तप्रवादोपि ( चि० २ पृ० १०२ ) । उदयनाचार्यास्तु पक्ष- धर्मताज्ञानाभावः असिद्धिः । व्याप्तस्य पक्षधर्मतया प्रमितिः सिद्धिस्तदभाव: असिद्धिरित्याहुः ( ग० बाघ ० ) । असिद्धित्रिविधा । आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चेति ( चि० २ पृ० १०२) (गौ० वृ० ११२१८) (वै० वि० ३।१।१५) ( न्या० म० २ पृ० २१) । प्रकारान्तरेण असिद्धिश्चतुर्विधा व्याप्तेः पक्षस्य हेतोश्च तज्ज्ञानस्याप्य भावतः ( ता० र० श्लो० ८५ ) इति । <असूया> [क] गुणिनि दोषाविष्करणम् । यथा शत्रवे असूयतीत्या दो धात्वर्थः । अत्र विषयताविशेष एव चतुर्थ्यर्थः ( ग० व्यु० का० ४) । असूया च कोपमूलिका (ल० म० पृ० १०३ ) । [ ख ] शाब्दिकास्तु शौचाचारादिगुणविषये दम्भादिक्कृतत्वरूपदोषारोपानुकूलश्चित्तवृत्तिवि शेषः । यथा हरये असूयतीत्यादौ इत्याहुः ( ल० म० पृ० १०३ ) । [ ग ] परगुणादौ द्वेषः ( गौ० वृ० ४ । १ । ३ ) । [घ ] गुणद्वेषः । यथा पुत्रायासूयतीत्यत्र धात्वर्थः । अत्र पुत्रस्य गुणं द्वेष्टि इत्याकारको बोध: ( श० प्र० पृ० ८७)। <अस्तिकायः> पदार्थः । स च पञ्चविधः । जीवाकाशधर्माधर्मपुद्गला- स्तिकायमेदात् । अत्र जीवादीनां पुद्गलान्तानां पञ्चानां द्वंद्वः । तत- श्वास्तिकायशब्देन कर्मधारयः समासः । एवं च जीवादीनां पञ्चानाम् अस्तिकाय इति संज्ञा बोध्या । एतेषु पञ्चसु तत्त्वेषु कालत्रयसंबन्धि- तया अस्तीति स्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः 10 ( सर्व० सं० पृ० ६९ आर्हत० ) । <अस्तित्वम्> [ क ] कालसंबन्धित्वम् (दि० १) (प० मा० ) । यथा घटोस्तीत्यादौ घटादेरस्तित्वम् । [ ख ] अस्-शब्दवदस्यार्थोनु - संधेयः । <अस्तेयव्रतम्> अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ( सर्व० सं० पृ० ६५ आई० ) । <अस्मद्> अहम् - शब्दवदस्यार्थोनुसंधेयः । <अस्मिता> सत्त्वपुरुषयोरहमस्मीत्येकताभिमानः अस्मिता । तदप्युक्तम् दृग्द- र्शनशक्त्योरे कात्मत्वाभिमानोस्मिता इति ( सर्व० सं० पृ० ३६२ पातञ्ज • ) । <अहंकारः> १ अहमित्यभिमानः । स च शरीरादिविषयको मिथ्याज्ञान विशेष उच्यते । स च दोषनिमित्तानां शरीरादीनां तत्त्वस्यानात्मत्वस्य ज्ञानानिवर्तते । आत्मत्वेन हि शरीरादौ मुह्यन् रञ्जनीयेषु रज्यति कोपनीयेषु कुप्यति(गौ० वृ० ४।२।१ ) । २ अभिमानाश्रयोन्तःकरण महंकार इति मायावादिनः । ३ महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां कारणीभूतस्तत्त्वविशेषोहंकार इत सांख्याः। तन्मते वैकारिकतामसभेदेन द्विविधोहंकार इति बोध्यम् । बाद- रायणाचार्यास्तु वैकारिकतैजसतामसभेदेन त्रिविधोहंकार इति प्रादुः । <अहः> १ संपूर्णादित्यमण्डलदर्शनयोग्यः कालः ( वै० उ० ) । अहो अहोभिर्महिमा हिमागमे (नैषध ० ) इत्यादौ । २ क्वचित् दिन रात्रिसमुदितः कालः । यथा मासैदशभिर्वर्षं दिव्यं तदहरुच्यते । ( सू० सि० ) । यथा वा विप्रः शुध्येद्दशाहेन द्वादशाहेन भूमिप ( मनु० ५/८३ ) इत्यादौ । ३ अहोरात्रसाध्यः एकः सोमयागो, वेदे अहःशब्देनोच्यते । तादृशानामहर्विशेषाणां गणः षडहः ( पु० चि० पृ० १०) । <अहम्> [क ] तत्कालीनस्वातन्त्र्योच्चारयितृचैत्रत्वादिविशिष्टः । अत्र स्वातन्त्र्योत्त्या च वाच्यस्त्वया मद्वचनात्स राजा इत्यादौ न मत्पदा- त्कवेर्बोध: ( दि० ४ पृ० १७९ ) । अत्र स्वतन्त्रोच्चारणं वाक्यान्तरस्थक्रियाकर्मतया स्वघटितवाक्यार्थप्रत्यायनेच्छानधीनस्वोच्चार णम् ( ग० शक्ति० पृ० २७ ) । [ ख ] स्वोच्चारणकर्ततावच्छेदक- धर्मावच्छिन्नः । यथा अहं गच्छामीत्यादावस्मदर्थः ( ग० शक्ति० पृ० २६-२७ ) । अत्र स्वोच्चारणकर्तृतावच्छेदकावच्छिन्नविषयकत्व- स्वजन्यत्व - एतदुभयसंबन्धेन अस्मत्पदप्रकारकबोधविषयकः संकेतः अस्म- त्पदस्थलेभ्युपेयते । <अहिंसात्रतम्> न यत्प्रमादयोगेन जीवितव्यपरोपणम् । चराणां स्थावराणां च तदहिंसाव्रतं मतम् ॥ ( सर्व० सं० पृ० ६५ आहेत० ) / <अहीनः> आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः (जै० न्या० अ० ३ पा० ३ अधि० १३ ) । <अहेतुसमः> ( जातिः ) [ क ] त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ( गौ० ५।१।१८ ) । हेतुः साधनम् । तत् साध्यात्पूर्वम् पश्चात्व् सह वा भवेत् । यदि पूर्व साधनम् असति साध्ये कस्य साधनम् । अथ पश्चात् असति साधने कस्येदं साध्यम् । अथ युगपत्साध्यसाधने द्वयोर्विद्य- मानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते । अहेतुना साधर्म्यात्प्रत्यवस्थान महेतुसमः (वात्स्या० ५/१/१८) (नील ० पृ० ४४ ) । प्रतिकूलतर्कदेशनाभासोयम् इति बोध्यम् ( गौ० वृ० ५ । १ । १८ ) । हेतुसमेति पाठे तु कालत्रयेपि हेतुत्वस्यासंभवकथनं हेतुसमेत्यर्थः (नील० । [ ख ] कालसंबन्धखण्डनेनाहेतु- तया प्रत्यवस्थानम् । अयमर्थः । दण्डादिकं घटादेर्न पूर्ववर्तितया कारणम् । तदानीं घटादेरभावात् कस्य कारणं स्यात् । अत एव न घटाद्युत्तर- कालवर्तितयापि । न वा समानकालवर्तितया । तुल्यकालवर्तिनोः सव्ये - विषाणयोरवावगमनापत्तेः । कारणमात्रखण्डनेन इप्तिहेतोरपि खण्डनान्न तदसंग्रह: ( गौ० वृ० ५/१/१८ ) । [ग] कालत्रयेपि हेतुत्वासंभवेना हेतुत्वकथनम् (नील० पृ० ४४ ) । <अहोरात्रम्> लध्वक्षरसमा मात्रा निमेषः परिकीर्तितः । अतः सूक्ष्म- तरः कालो नोपलभ्यो भृगूत्तम ॥ नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं पर- माणुतः । द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दशत्रुटिः स्मृतः ॥ विनाडिका तु षट् प्राणास्तत्षष्ट्या नाडिका स्मृता । अहोरात्रं तु तत्षष्ट्या नित्यमेव प्रकी- र्तितम्॥ त्रिंशन्मुहूर्ताश्च तथा अहोरात्रेण कीर्तिताः (पु० चि० पृ० २ ) । <आ.> <आकर्षणम्> गतिहेतुविकर्षणम् । यथा शाखां ग्राममाकर्षति देवदत्त इत्यत्र धात्वर्थः । अत्र ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवान् इति बोधः । विकर्षणं नम्रीकरणम् ( श० प्र० पृ० ९९) । <आकस्मिकम्> – यत्किंचित्कारणानियम्यम् ( दि० १ प्र० ६३ ) । यथा अकस्मादेव भवति कार्य न किंचिदपेक्षमिति तदेतन्मतमित्यादौ । <आकाङ्क्षा> [क] अभिधानापर्यवसानम् । इयं च ज्ञाता सती शाब्दबोधे शब्दस्य सहकारिणी । अत एव गौरवः पुरुषो हस्तीत्यादौ नान्वयबोधः । आकाङ्क्षाविरहात् (त० कौ० ४ पृ० १७ ) ( त० सं० ) । तदर्थस्तु यस्य येन विना स्वार्थान्वयाननुभावकत्वम् तस्य तत्पदसंनिधानम् इति (चि०) । [ख] स्वरूपयोग्यत्वे सत्यजनितान्वयबोधजनकत्वम् (तको० ४ पृ० १० ) । तेन घटः कर्मत्वम् आनयनम् कृतिः इत्यत्र नान्वयबोधः । स्वरूपायोग्यत्वात् । तथा अयमेति पुत्रो राज्ञः । पुरुषोप- सार्यताम् । इत्यत्र राज्ञः पुरुषः इति नान्वयबोधः । पुत्रेण जनितान्वय- बोधकत्वात् ( तर्का० ४ पृ० १० ) । [ग] यत्पदं यत्पदेन सह यादृशानुभवजनकं भवेत् तत्पदस्य तत्पदसमभिव्यहारस्ता • आकाङ्क्षा । भवति हि नामपदम् उत्तरवर्तिविभक्तिपदेनैव सहान्वय बोधकम् । अतस्तत्समभिव्याहारस्तादृशान्वयबोध आकाङ्क्षा । अत एव घटः कर्मत्वम् आनयनम् कृतिः इति वाक्यात् घटमानय इतिवत् न घटकर्मकानयनानुकूलकृतिमान् इति बोधः । आकाङ्क्षाविरहात् (० म० ४ पृ० २१ ) । [घ ] पदस्य पदान्तरव्यतिरेक प्रयुक्तान्वयाननु भावकत्वम् ( त० सं० ४) ( कु० ) (मु० ४ पृ० १८८) । तदर्थव यत्पदस्य यत्पदाभावप्रयुक्तमन्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पद- • त्वम् ( नील० ४ पृ० ३२ ) (मु० ) । [ङ यस्य पदस्य येन पदेन विना- • न्वयबोधजनकत्वं नास्ति तस्य पदस्य तेन पदेन समभिव्याहार आकाङ्क्षा (त० कौ ० २ पृ० १६ ) ( प्र० प्र० ) । यथा घटमानयेत्यादौ क्रिया- पदकारकपदयोराकाङ्क्षा । अत्र कारकपदस्य क्रियापदेन विना घटकर्मक- काङ्क्षा । एवं क्रियापदस्य कारकपदेनापि सह बोध्या ( प्र० प्र० ) मानयनम् इत्यन्वयबोधजनकत्वाभावात्कारकपदस्य क्रियापदेन स ( त० कौ० पृ०१६-१७ ) । वस्तुतस्तु प्रत्यये प्रकृत्युत्तरत्वमेवाकाङ्क्षा (मु० ४ पृ० १८८) । एवं वैयाकरणमते विभक्तिधात्वाख्यात क्रियाकारकपदानां परस्परं विना परस्परस्य न स्वार्थान्वयानुभावकत्वम् ( वाच० ) । [ च ] प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविर ( न्या० म० ४ १० २२ ) । अतो घटमानयति इति पदं एकदा अन्वय बोघे जनिते नान्वयबोधान्तरं जनयति । स्वजन्यान्वयबोधवैधुर्य- विरहात् । इतः सर्वे स्वरूपसन्तः शाब्दबोधे हतवः न तु ज्ञाता इति ज्ञेयम् ( न्या० म० ४ पृ० २२) । [छ ] पदार्थससंर्गावगमप्राग- भावः (कु० ३ ) । [ज ] समभिव्याहृतपदस्मारित पदार्थजिज्ञासा । यथा घटमित्युक्ते आनय पश्य इति आनयेत्युक्ते घटं पटं वा इति जिज्ञासा ( कु० टी० १३) । [झ ] एकपदार्थज्ञाने तदर्थान्वय- योग्यार्थस्य यज्ज्ञानं तद्विषयेच्छेति शाब्दिका वदन्ति । [ञ ] पदार्थानां परस्पर जिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षति मायावादिनः ( वेदा० प० ) । आकाङ्क्षा द्विविधा । उत्थाप्याकाङ्क्षा उत्थिताकाङ्क्षा चेति । अत्रेदं ज्ञेयम्। आकाडा च शाब्दबोधगोचरेच्छा शब्देनैव विषयसिद्धिद्वारा निवर्त्यते । अत्रायं न्यायः । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते इति । अनेन शब्दकल्पना आवश्यकी इति विज्ञेयम् । (त० प्र० ख० ४ पृ० २)। <आकार:> १ विषयता निरूप्यनिरूपकभावापन्नतत्तद्विषयता वा । यथा अयं घटः इत्याकारकं ज्ञानमित्यादौ तादृशविषयता ( वाक्यार्थ० २ पृ० २० ) । २ अभेदः ( तादात्म्यम् ) । यथा इत्याकारकं ज्ञानमित्यादौ ( वाक्यार्थ ० ) । यथा वा तथा चायम् इत्याकार उपनय इत्यादौ ( दीधि० पृ० १७०) । ३ अभिनयः। उदाहरणं तु पुर्वोक्तमेव इत्याकार उपनय उत । ४ अवयवसंस्थानविशेष इति काव्यज्ञा वदन्ति । ५ सांख्यास्तु अभेदस्थानीयः पदार्थविशेषः विषयिताविशेषो वा । यथा यत्संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षमित्यादौ इत्यादुः ( सां० सू० ) । ६ वर्णविशेष आकार इति शाब्दिकाः। ७ अतथा- भूतस्य तथाभूतेन सामान्यम् । तद्यथा स्थाण्वाकारः पुमान् इत्यत्र पुरुषस्य स्थाणोराकारः पुरुषेण यत् सामान्यम् सः ( न्या० वा० १/१/१३-१४ पृ० ७६ ) । <आकारकत्वम्> विषयिताविशेषः । यथा घटपदात् घटत्वविशिष्टो बोद्धव्यः इत्याकारकत्वविशिष्टेच्छेत्यादौ ( म०प्र० ४ पृ० ३७) । १५ न्या० को० <आकाशम्> (द्रव्यम् ) [ क] संयोगाजन्यजन्यविशेषगुणसमानाधिकरण - विशेषाधिकरणम् (सर्व० औल्लू० पृ० २१८ ) । तद्यथा संयोगा जन्यो यो जन्यविशेषगुणः विभागजः शब्दः तत्समानाधिकरणो विशेषः पदार्थप्रभेदः तदधिकरणत्वमाकाशेस्तीति । अत्र जन्यविशेषगुणः पाक- जरूपादिः तत्समानाधिकरणविशेषाधिकरणे पार्थिवपरमाणावतिव्याप्ति वारणाय संयोगाजन्येति । परमात्मन्यतिव्याप्तिवारणाय जन्येति । उभयं च विशेषगुणविशेषणम् इति बोध्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम् ( त० कौ० १ पृ० ७) (मु० १ पृ० ५२) । आकाशसत्त्वे प्रमा णमनुमानम् । तच्च शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यां नाश्रितत्वे सति समवायिकारणवत्त्वात् यन्नैवं तन्नैवं यथा रूपमिति, ( सि० च० १ पृ० ९) । यद्यप्याकाशोतीन्द्रियस्तथापि विलक्षण- ( शब्दात्मककार्यान्यथानुपपत्त्या स स्वीकरणीयः (प्र० प्र० ) । अथवा शब्दो गुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्स्पर्शवत् शब्दो द्रव्यसमवेतो गुणत्वात्संयोगवत् इत्यनुमानाभ्यां शब्दस्य द्रव्यसमवे- तत्वे सिद्धे पृथिव्याद्यष्टसु द्रव्येषु शब्दाधिकरणत्वस्य बाधात् शब्दा धिकरणं नवमं द्रव्यं गगननामकं सिध्यति ( मु० १ पृ० ८६-८७) (वै० सू० २ । १ । २७ ) (वै० उ० २।१।२७ ) । शाब्दिकास्तु इदं नक्षत्रचक्रमत्र तिष्ठति अत्रैतदभावः इति निर्दिष्टवस्तुविषये पृथिव्यादे राधारत्वासंभवेन तदाधारस्यैवाकाशसंज्ञकत्वम् इत्याहुः ( ल० म० ) । तत्रोक्तं हरिणा । आधारशक्तिः प्रथमा सर्वसंयोगिनामयम् । इदम भावानामभावानां च कल्प्यते ॥ १ ॥ व्यपदेशस्तमाकाशनिमित्तं तु प्रचक्षते । कालाक्रिया विभज्यन्ते आकाशात्सर्वमूर्तयः ॥ २ ॥ एता- वानेव भेदोयमभेदोपनिबन्धनः इति ( वाक्यप० ) । सांख्यास्तु । निष्क्रम- णादिकं कर्म आकाशानुमापकम् इति आहुः (वै० सू० २/१२/२०) ( त० व० पृ० १२८ ) । अयं भावः । निष्क्रमणप्रवेशनाद्युत्क्षेपण धर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते । एतदभिप्रायेण उक्तम् अन्तरिक्षातु शब्द: शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता चेति । वेदान्तिनोपि शब्दः श्रोत्रेन्द्रियं चापि छिद्राणि च विविक्तता । वियतो दर्शिता एते गुणा गुणविचारिभिः ॥ इत्याहुः (वाच०) । अत्रेदं । बोध्यम् । प्रदेशवद्रव्यसंयोगात् अयमाकाशस्य प्रदेश: इति व्यवहारो ॐ भवति इति ( त० व० पृ० १२८) । कारणद्रव्यं प्रदेशशब्देना- भिधीयते (गौ० २/२/१८ ) । [ ख ] शब्दसमवायिकारणम् । [ग] शब्दगुणकम् । तच्चैकं विभु नित्यं च । तच्च लाघवादेकम् । सर्वत्र कार्योपलम्भाद्विभु । विभुत्वाच्च नित्यम् । तथापि कर्णशष्कुल्यव- च्छिन्नं सत् शब्दग्राहकश्रोत्रेन्द्रियात्मकम् ( त० कौ० १ पृ० ३ ) ( भा० प० श्लो० ४५-४६) (वै० सू० २१११२८-३० ) । अत्र विभुत्वं च परममहत्परिमाणयोगः ( वै० उ० ७ १ । २२ ) (मु० १ पृ० १७ ) । अथवा सर्वमूर्तद्रव्यसंयोगित्वम् । इदमेव सर्व- गतत्वमित्युच्यते (मु० १ पृ० ५७ ) । आकाशे षड्गुणास्तिष्ठन्ति । संख्या परममहत्परिमाणम् एक पृथक्त्वम् संयोगः विभागः शब्दश्चेति (वै० सू० २१११३१ ) ( भा० प० श्लो० ३३ ) ( त० भा० पृ० ३० ) ( त० कौ० पृ० ३ ) ( त० सं० ) । <आकुञ्चनम्> ( कर्म ) [ क ] शरीरसंनिकृष्टसंयोगहेतुः कर्म ( त० सं० ) २ ( त० कौ० पृ० २०) । लक्षणं च स्वसंनिकृष्टदेश संयोगजनक - क्रियानुकूलक्रियात्वम् (ल० व० पृ० ३८ ) । वक्रतासंपादकं कर्मेत्यर्थः ( त० दी० पृ० ३९ ) । [ख] सत्यारम्भकसंयोगेप्यन्यसंयोग कार - णम् । अङ्गकौटिल्यजनकं कर्माकुञ्चनमुच्यते ॥ (त० व० पृ० २४१ ) । [ग] ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैर्विभागः संयोगश्च मूलप्रदेशैः येन कर्मणा भवति अवयवी च कुटिल: संजायते तदाकुञ्चनम् (प्रशस्त पृ० ५६ ) । <आकृति:> [क] आकृतिर्जा तिलिङ्गाख्या ( गौ० २१२/६७ ) । तद- र्थश्च जातिलिङ्गमित्याख्या यस्याः । जातेर्गोत्वादेर्हि सास्नादि संस्थान विशेषों लिङ्गम् । तस्य च परंपरया द्रव्यवृत्तित्वम् ( गौ० वृ० २/२/६७) । यया जातिजतिलिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात् । सा च नान्या सत्त्वानां तदवयवानां च नियताद्व्यहादिति । नियतावयवव्यूहाः खलु सत्त्वावयंवा जातिलिङ्गम् । शिरसा पादेन गामनुमिन्वन्ति । नियतेच सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति ( वात्स्या० २।२।६७ ) । ख ] अवयवसंस्थान विशेषः । यथा घटस्य कम्बुग्रीवादिराकृतिः (दि० ४ पृ० १७८) । [ग] रूपक्रियादिविशिष्टभवयव संस्थान जातिलिङ्गमेवाकृतिरिति शाब्दिका वदन्ति । आकृतिश्च शक्यार्थ केचित् ( पतञ्जलिप्रभृतयः ) मन्यन्ते ( वाच० ) । <आक्षेपः> १ अर्थापत्तिः ( न्या० म० ४५०६) (नील० पृ० २८ ) । अर्थापत्तिरित्यस्यानुमितिरित्यर्थः ( म० प्र० ४ पृ० ३९) । २ समान- वित्तिवेद्यत्वमाक्षेप इति गुरवः ( न्या० म० ४ पृ० ६ ) ३ आक्षेप- श्वानुमानमर्थापत्तिर्वेति भट्टाः ( ग० शक्ति० ) । अत्र बहूनां विप्रति- पत्तिरुदाह्रियते। गवांदिपदानां गोत्व एव शक्तिः व्यक्तिलाभस्त्वाक्षेपादित मीमांसकाः । तत्र गोत्वं हि स्वाश्रयं विनानुपपन्त्रमिति तमाक्षिपतीति भट्टा: ( न्या० म० ४ पृ० ६ ) (मु० ४ पृ० १७०) ( त० दी० ४ पृ० २८) ( ग० शक्ति० पृ० ४१ ) । जातिवाचकपदा- जातिबोधः शाब्दः । व्यक्तिबोधस्त्वौपादानिक एवेति श्रीकरमतम् । अत्रौ- पदानिकत्वं च उपादानमर्थापत्तिस्तत्प्रयोज्यत्वम् जातिकारणत्वं वा ( ग० शक्ति० पृ० ४६ ) । व्यक्तेरपि बोध: शब्दादेव न त्वाक्षेपा दितः । व्यक्तिशाब्दबोधे शक्तिविरहो नानुपपत्तिं प्रयोजयति । लक्षणात एव तदुपपत्तिरिति मण्डनाचार्यमतम् ( ग० शक्ति० पृ० ४६ ) । <आख्या> संज्ञात्मकं नाम । यथा पश्चादुमाख्यां सुमुखी जगाम ( कुमा० ) इत्यादौ । <आख्यातम्> तिङ्- प्रत्ययानाम् आख्यातम् इति संज्ञा । अतोत्राख्यात पदेन तिप् तस् झि इत्यादयोष्टादश प्रत्यया वैयाकरणसंमता गृह्यन्ते । तिङ्प्रत्ययार्थस्तु [क] कृतिः । यथा चैत्रस्तण्डुलं पचतीव्यादौ तिबर्थः । [ख] क्रियाजनकव्यापारमात्रमिति भट्टमीमांसकाः ( म० प्र० ) । [ग] उत्पादना । सा चोत्पादकतेति रत्नकोशकृत् ( चि० ४ ) । [घ ] कर्ता कर्म चाख्यातार्थ इति शाब्दिका वदन्ति ( म०प्र० पृ० ५५ ) । आख्यातपदं वैयाकरणमतेपि तिङ्परमिति मत्वेदमुक्तम् । वस्तुतो वैयाकरणमत आख्यातं नाम तिङन्तम् (शब्दे० शे० समा० पृ० २३६) इति बोध्यम् । वर्तमानादिकालश्च तिङर्थः (म० प्र० पृ० ५५ ) । एकत्वादिसंख्या च तिर्थ: ( चि० ४ ) । आख्यातत्वं दशलकार - साधारणम् ( लौ० भा० ) । सर्वत्र आख्यातार्थो भावनेति मीमांसकाः । मणिकृतस्तु (गङ्गेशोपाध्यायाः) जानातीत्यादौ यत्नो नाख्यातस्यार्थः किं तु कालसंख्ये उमे एवेत्याहुः ( न्या० म० ४ पृ० १९ ) । <आगमः> १ वेदशास्त्रमन्त्रादिः । यथा आगमः खल्वपि ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोध्येयो ज्ञेयश्चेत्यादौ ( म० मा० ११ १११ ) । आगमलक्षणं च प्रामाणिकैरित्थमुच्यते सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा । आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः ॥ इति । २ प्रत्ययादेशमिन्नत्वे सति साक्षालक्ष्यसंस्कारकतया शास्त्रविहितः प्रकृतिप्र- त्ययानुपघातको यः अट् इट् इत्यादिः स आगम इति शाब्दिका वदन्ति । (३ साक्षिपूर्वकं लिखितपत्रम् ( दस्तऐवज इति प्र० ) । यथा आगमो निष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो ( वीरमित्रो० २ दाय० ) इत्यादावागमशब्दस्यार्थ इति व्यवहारशास्त्रज्ञा आहुः । ४ स्वत्वहेतुः प्रतिग्रहक्रियादिरागमः ( मिताक्षरा अ० २ श्लो० २७)। ५ उत्पत्तिः । यथा आगमापायिनो नित्याः ( गीता० ) इत्यादौ ( वाच० ) । <आगमनम्> १ [ क ] किंचिदेशावधिकविभागजनकक्रिया । यथा संव- त्सरे व्यतीते तु पुनरागमनाय चेत्यादौ । [ख ] प्रयोक्तृसंनिकृष्टप्रदेशा नुयोगिकसंयोगानुकूलव्यापारः । यथा अयं देवदत्तोत्रागच्छतीसादौ । २ प्राप्तिः । यथा एतत्ते सर्वमाख्यातं वैरस्यागमनं महदित्यादौ रामा० ) । <आग्नेयी> (दिक् ) उदयगिरिसंनिहिता सुमेरुव्यवहिता च दिक् (वै० To २ । २ । १० ) । यथा मुम्बापुरीत आग्नेय्यां दिशि मद्रासपुरी । <आङ्> ( अव्ययम् ) १ ईषदर्थः । यथा आताम्रः आपिङ्गल इत्यादौ । २ अभिव्याप्तिः । यथा ब्रह्मास्त्यासकलात् इत्यदौ । ३ सीमा । यथा आसमुद्रक्षितीशानामानाकरथवर्त्मना मित्यादौ । ४ अभ्यासः । आवृत्ति- रित्यादौ ( बाच० )। यावत् मर्यादा अभिविधिः एतेषामर्थवदस्यार्थोनु- संधेयः ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । <आचारः> १ प्रवृत्तिविषयत्वम् ( मू० म० १ पृ० १०१ ) । यथा तथैव शिष्टाचारात् ( शि० १ पृ० १०० ) इत्यादौ । सदाचार लक्षण मित्थम् । विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः । विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ॥ इति ( म० प्र० ३ ) । २ क्रिया । ३ कृतिः । यथा अलौकिका विगीतशिष्टाचार विषयत्वमित्यादौ ( दि० १ पृ० ५ ) । ४ गुरूक्तस्यार्थस्याङ्गीकरणमाचार इति योगाचारबौद्धा वदन्ति ( सर्व० पृ० ३० बौद्ध० ) । <आचार्य:> [क] उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । साङ्गं च सरहस्यं च तमाचार्य प्रचक्षते ॥ ( सर्व० सं० पृ० २६८ जै० ) । [ख उपनीय ददद्वेदमाचार्यः स उदाहृतः ( मिताक्षरा अ० १ श्लो० ३४ ) । <आज्ञा> १ [क] यस्या इच्छाया भङ्गे भयं सा ( कु० ५) । यथा निष्टहेतुत्वम् । यथा शूलं विश विषं भुङ्क्ष्वेत्यादिराजवाक्यस्थलीय- गच्छतु भवान्देशान्तरमिति राजाज्ञा । ख ] वक्रनुमतत्वे सति कर्तुर लोडर्थः । [ग] अभिप्रायः । यथा कुर्या इत्यादौ लिडर्थ: ( कु० · टी० ५ श्लो० १३ ) । [घ ] भयजनकेच्छा लिङादिघटितं वाक्यं वा आज्ञेति शाब्दिका: ( वै० सा० द० ल० पृ० १३१) । [ङ ] निकृष्टस्य भृत्यादेः क्रियादौ प्रवृत्त्यर्थः व्यापारविशेषः । यथा आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथेत्यादौ इत्यपि कश्चिद्वक्ति । २ लग्नावविदशमभाव आज्ञेति ज्योतिःशास्त्रज्ञाः । ३ भ्रूमध्यस्थं सुषुम्ना - नाड्यन्तर्गतमाज्ञाचक्रमिति तान्त्रिकाः ( वाच ० ) । <आज्यत्वम्> यदाजिमीयुः तदाज्यानामाज्यत्वम् (जै० न्या० अ० १ पा० ४ अधि० ३ )। <आज्यस्तोत्रम्> अग्न आयाहि वीतये । आनो मित्रावरुण । आयाहि सुषुमा हि ते । इन्द्रानी आगतं सुतम् । तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते ( जै० न्या० अ० १ पा० ४ अधि० ३ ) । <आततायी> अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ ( मिताक्षरा अ० २ श्लो० २१ ) । <आत्मनेपदम्> तङानावात्मनेपदम् ( पाणिनिसू० १।४।१०० ) । अ- स्यार्थः । तङ्प्रयाहारः शानच्कानचौ चात्मनेपदसंज्ञाः स्युः । तङ्प्र- त्याहारान्तर्गत प्रत्ययास्तु त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ् इति । लटः शतृशानचावप्रथमासमानाधिकरणे ( पाणिनिसू० ३१२ । १२४ ) इति सूत्रेण लट: स्थाने विहितः शानच् । कानप्रत्ययस्तु लिट: कानज्वा (पाणिनिसू० ३१२११०६) इत्यनेन वेदे लिट: स्थाने विहितः । आत्मनेपदसंज्ञायाः प्रदेशस्तु अनुदात्तङित आत्मनेपदम् (पाणिनिसू० ११३११२) इत्यादिः । क्रमेणोदाहरणानि । एधते एघेते एधन्ते इत्यादीनि त प्रत्याहारस्य । पचमानं चैत्रं पश्येति शानचः । चक्राणा वृष्णिमिति कानचः । विस्तरस्तु सिद्धान्त- कौमुद्यादौ द्रष्टव्यः। अत्रेदं बोध्यम् । परस्मैपद आत्मनेपद एतदुभयपदि- धातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्मनेपदम् । यत्र च कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु । तत्र सूत्रं प्रमाणम् स्वरितञितः कर्त्रभिप्राये क्रियाफले ( पाणिनिसू० १३/७२ ) इति । तदर्थश्च कर्तारममिप्रैति संबनाति इति व्युत्पत्त्या कर्तृसंबन्धे क्रियाफल एवात्मनेपदम् इति । तदनुसृत्यैव दानादिस्थले स्वगते फले ददे इत्येवम् परगते तु ददानि इत्येवं वाक्यं प्रयुञ्जते वृद्धाः । चिन्तामणिकृतस्तु (गङ्गेशोपाध्यायाः) यत्र क्रियाफले कर्तुरभिप्राय इच्छा तत्रैवात्मनेपदम् इति । तेन याज- काद्यैर्दक्षिणादिलाभेच्छयैव यागादिकरणे यजन्ति याजकाः पठन्ति । पाठकाः इति परस्मैपदम् । परगतस्यापि यागादिफलस्येच्छया तत्करणे । तु यजन्ते याजकाः इत्यादिकः साधुरेव प्रयोगः । अत एव पितृस्वर्गकामः पुष्करिण्या यजेत इत्यादावण्यात्मनेपदम् धनकामो गणपतिं मोक्ष- कामोर्चयेद्धरिम् इत्यादौ परस्मैपदं च संगच्छते इत्याहु: ( श० प्र० पृ० १४५ ) । <आत्मा> ( द्रव्यम्) [क आत्मत्वसामान्यवान् ( त० कौ० १ पृ० ३ ) / आत्मत्वं नाम समवायेन ज्ञानेच्छादिमत्त्वम् ( वाक्य० पृ० ५ ) । अथवा अमूर्तसमवेतद्रव्यत्वापरजातिः ( सर्व० सं० पृ० २१९ औ० ) । ख ज्ञानाधिकरणम् ( त० सं० ) । यथा आत्मा वारे द्रष्टव्यः जीवात्मा परमात्मा चेति । तत्राद्यः प्रतिशरीरं भिन्नो विभुर्नित्यश्च कर्ता । श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिश्रुतौ । आत्मा द्विविधः । । भोक्ता च । द्वितीयः ईश्वरः सर्वज्ञ एक एव ( त० सं० ) (त० कौ० ) । तत्र प्रमाणं श्रुतिः । सा च द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च इति । तमेवं विदित्वातिमृत्युमेति इति च ( म० प्र० पृ० ३ ) । गुणविशिष्ट- मात्मान्तरमीश्वरः इति ( वात्स्या० ४।१।२१ ) । आत्मा चाप्रत्यक्ष एवेति । वैशेषिका : (वै० ८।१।२) । तन्मते आत्मानुमानगम्य एव । तच्चानु- स्यादिव्यापारवत् इति । करणव्यापारेण कर्तुरनुमानगम्यत्वे तत्साजात्यात् मानम् करणव्यापार सकर्तृकः करणव्यापारत्वात् छिदिक्रियायां वा ज्ञानक्रियाकरणमपि सकर्तृकं करणत्वात् इति चक्षुरादिना ज्ञानसाधने नात्मनोनुमानम् ( वाच० ) । नैयायिकास्तु जीवात्मा मानसप्रत्यक्षविषय । इति प्राडुः ( भा० १० श्लो० ५०-५१) । अन्यत्सर्वं जीवात्म । परमात्मशब्दव्याख्यानावसरे व्यक्तीभविष्यति । ज्ञानाद्भिनो न नाभिनो भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोयमात्मेति कीर्तितः ॥ (सर्व० सं० पृ० ६९ आर्हत० ) । चैतन्यमात्मा ( सर्व० सं० पृ० १९६ प्रत्यभि० )। चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते । इन्द्रियाण्या- त्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । मुख्यः प्राण एवात्मेति चान्ये । पुत्र एवात्मेति केचित् । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धाः । देहा- तिरिक्तो देहपरिणाम आत्मेति जैना जनाः प्रतिजानते । कर्तृत्वादिविशिष्टः परमेश्वराद्भिन्नो जीवात्मेति नैयायिकाः । द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते । भोक्तैव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः ( सर्व० सं० ४१४ शांक ० ) । <आत्माश्रयः> (तर्कः ) [क] स्वस्य स्वापेक्षापादकः प्रसङ्गः ( जग० तर्क० ) । यथा कार्यत्वावच्छिन्नकार्यतानिरूपित कारणत्वं साधारण- कारणत्वमित्यादौ । अत्र एकं कार्यत्वमवच्छेदकम् । अपरं त्ववच्छेद्यम् । तथा चावच्छेदकज्ञानं विना अवच्छेद्यज्ञानं न भवति । अवच्छेद्यज्ञानं विनाप्यवच्छेदकज्ञानं च न भवति । परस्परसापेक्षत्वादित्यात्माश्रय इति बोध्यम् । [ ख ] स्वस्य स्वापेक्षितत्वे अनिष्टप्रसङ्गरूपो दोषः । स चोत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा । क्रमेण यथा यद्ययं घट एतद्धटजन्यः स्यात्तदैतद्घटानधिकरणक्षणोत्तरवर्ती न स्यात् । यद्ययं घट एतद्धटवृत्तिः स्यात् एतद्धटव्याप्यो न स्यात् । यद्ययं घट एतद्धटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात् । एतद्धटभिन्नः स्यादिति वा । एवं सर्वत्रापाद्यम् ( गौ० वृ० ११ १/४० ) । [ग] स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः ( कृष्ण० ) । <आदानम्> यथेष्टविनियोगफलकः स्वीकारः । यथा विप्राद्धनमादत्ते इत्यादौ दाधात्वर्थः ( का० व्या ० पृ० १०) । <आदानसमितिः> आसनादीनि संवीक्ष्य प्रतिलक्ष्य च यत्नतः । गृढीया- न्निक्षिपेद्ध्यायेत्सादानसमितिः स्मृता ॥ ( सर्व० सं० पृ० ७९ आर्ह० ) । <आदिः> १ तत्प्रागभावाधिकरणकालः । यथा आदौ द्रव्यं स्वीकुरु इत्यादौ । यथा वा आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते इत्यादौ । २ कारणम् । यथा आदिमत्त्वादैन्द्रिय कत्वात्कृत कवटुपचाराञ्च (गौ० २।२।१४ ) इत्यादौ । अत्र आदीयते अस्मात् इति व्युत्पत्तिद्रष्टव्या (वात्स्या० २।२।१४ ) । ३ उत्पत्तिः । यथा अनादिः प्रागभाव इत्यादौ । ४ परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिरिति शाब्दिका वदन्ति । <आदेशः> १ आज्ञा । २ स्थान्यर्थाभिधानसमर्थ इति शाब्दिका वदन्ति । ३ कथनम् उपदेशो वा । यथा अथात आदेशः इत्यादौ इति वेदा- न्तिन आहुः । <आद्यत्वम्> अनागन्तुकैश्वर्यसंबन्धित्वम् ( सर्व० सं० पृ० १६८ नकु० ) । <आधारः> अतद्रूपोपि तद्रूपेणारोप्य बुद्धौ स्फुरन्नाधारः ( सिद्धा० ले० पृ० १८६ ) । <आधारता> अधिकरणतावदस्यार्थोनुसंधेयः । अयं चाखण्डोपाधिः इति । नैयायिका आहुः (वै० सा० सुबर्थ० पृ० ८६ ) (ग० व्यु० कार० ७ पृ० ११६) । <आधि:> आघीयते विश्वासार्थं स्थाप्यत इत्याधि: ( गहाण इति प्र० ) । गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तम अधिक्रियत आधीयत इत्याधि: ( मिताक्षरा अ० २।५७ ) । <आधिक्यम्> व्यतिरेकवदस्यार्थोनुसंधेयः ( श० प्र० पृ० १२८ ) । <आधिदैविकम्> देवकृतम् । यथा वातादिनिबन्धनं दुःखम् ( वाच० ) । अत्र देवान् वातादीन् अधिकृत्य प्रवृत्तम् इति व्युत्पत्तिद्रष्टव्या । <आधुनिकी> ( लक्षणा) पूर्वपूर्वी तादूपयेणाप्रत्यायकत्वादाधुनिकी । घटत्वादिना पटादिपदस्य लक्षणा ( श० प्र० पृ० ३१ ) । <आधेयता> [क] आधेयम् इति प्रतीतिनियामको धर्मविशेषः (वृत्तित्वम्) । यथा भूतलं घटवदित्यादौ घटे भूतलाधेयता । [ख] प्रकारताविशेष/ इति केचिद्वदन्ति ( ग० पक्ष० ) । [ग] अखण्डोपाधिरित्यन्ये वदन्ति । <आध्यात्मिकवायुः> प्राणाख्यो वायुः । यथा वृक्षादीनां शरीरत्वे आध्या- त्मिकवायुसंबन्धः प्रमाणमित्यादौ (मु० १ पृ० ७१ ) । अत्र आत्मानं मनः शरीरादिकमधिकृत्य इति व्युत्पत्तिर्दृष्टव्या । अयं च विषयवायावन्त- र्भवति इति विज्ञेयम् । <आनतिः> भृत्या परिक्रीय वशीकार आनतिः ( जै० न्या० अ० १० पा० २ अधि० ८ )। <आनन्तर्यम्> १ ध्वंसाधिकरणकालवृत्तित्वम् ( त० प्र० २ ) । यथा वैशाखमासस्य चैत्रानन्तर्यम् । यथा वा अथ हेत्वाभासास्तत्त्वनिर्णय- विजयप्रयोजकत्वान्निरूप्यन्ते इत्यादावथशब्दार्थोवयवान्तनिरूपणानन्तर्य हेत्वाभासनिरूपणे बोध्यते । २ अव्यवधानम् । यथा आनन्तर्यात्स्वयो- न्यास्तु तथा बाह्येष्वपि क्रमात् ( मनुः ) इत्यादौ ( वाच० ) । <आनन्द:> १ सुखम् । यथा रसो वै सः । रस ५ ह्येवायं लब्ध्वानन्दी भवति ( तै० उ० २।७।१ ) इत्यादौ । २ दुःखाभावः । यथा परमात्मन्या- नन्दानङ्गीकारपक्षेपि भारापगमे सुखी संवृत्तः इत्यादाविव दुःखाभावरूप आनन्दः (मु० १ पृ० १०३ ) । अत्र आनन्दशब्दो लक्षणया दुःखाभावबोधक इति ज्ञेयम् । <आनुपूर्वी> तदुत्तरत्वविशिष्टतदुत्तरत्वादिः । यथा घटमानयेत्यक्षराणामानु- पूर्वी । यथा वा उचितानुपूर्वी प्रतिज्ञोत्तरहेतूत्तरोदाहरणोत्तरोपनयोत्तर- निगमनत्वरूपेत्यादौ (ग० अव० पत्र० ४ ) । आनुपूर्वी च घटः इत्यत्र स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंबन्धेन घकारविशिष्टटत्वम् इति चिन्त्या ( त० प्र० ख० ४ पृ० १२७ ) । एवमन्यत्राप्यूह्या । <आनुपूर्व्यम्> क्रमः ( जै० सू० वृ० अ० ५ पा० १ सू० १ ) । <आनुषङ्गिकम्> उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तः प्रासङ्गि- कोनुद्देश्यः कार्यविशेषः । यथा भो बटो भिक्षामट यदि गां पश्येस्तां चान- येत्यादौ । अत्र भिक्षार्थ प्रवृत्तस्य दैवाद्गोदर्शनात्तस्या आनयनमानुषङ्गि- कम् । तत्रोद्देश्यत्वाभावादिति बोध्यम् (वाच० ) । <आन्वीक्षिकी> प्रत्यक्षागमाश्रितमनुमानं सा अन्वीक्षा । प्रत्यक्षागमाभ्या- मीक्षितस्यानु ईक्षणमन्वीक्षा । तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रम् (वात्स्या० १ । १ । १९ ) । यथा महर्षिगौतमप्रणीतं न्याय- दर्शनम् । श्रवणादनु पश्चात् ईक्षा अन्वीक्षा उन्नयनम् । तन्निर्वा हिका- न्वीक्षिकी । उपनिषदर्थश्चान्वीक्षिक्यनुसारी ग्राह्यः ( गौ० वृ० १।१।१ ) । एतस्या विद्यायाः प्रमाणप्रयोजनादिकं तु न्यायशब्दव्याख्या- नावसरे दृश्यम् । <आपः> (द्रव्यम् ) [क रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः (वै० २।१।२ ) । [ख अवसामान्ययुक्ताः ( त० मा० पृ० २७) ( त० कौ० १ पृ० २) । यथा आपः स्वभावतो मेव्याः किं पुन तल्लक्षणं च अभास्वरशुक्नेतररूपासमानाधिकरणा नैमित्तिकद्रवत्ववदवृत्तिर्वा हियोगत इत्यादौ । [ग] शीतस्पर्शवत्यः (वै० २१२१५ ) ( त० सं० ) । रूपवद्वृत्तिः द्रव्यत्वसाक्षाद्व्याप्या च या जाति: तद्वत्त्वम् इत्यादि ( वै० उ० २१११२ ) (मु० १ पृ० ७४) । तादृशी जातिश्च जलव मेव । अथवा नीलासमानाधिकरणा भास्वरशुक्लासमानाधिकरणा रूपव द्वृत्तिद्रेव्यत्वसाक्षाद्व्याप्या च या जातिः तद्वत्त्वम् (वै० वि० २ १/२ ) । ( त० दी० १ पृ० ८ ) । अवसामान्यं च सरित्सागरसमवेतत्वे सति यद्वा शीतस्पर्शसमानाधिकरणा द्रव्यत्वापरा च या जाति: तद्वत्त्वम् । ज्वलनासमवेतं सामान्यम् (सर्वे० पृ० २१८ औलू० ) । आपो द्विविधाः । नित्या अनित्याश्च । तत्र नित्याः परमाणुरूपाः । अनित्यास्तु कार्यरूपाः । अनित्यास्त्रिविधाः । शरीरम् इन्द्रियम् विषयश्च । तत्र शरीरमयोनिजं वरुण लोके प्रसिद्धम् । तस्य च शरीरस्य पार्थिवावयवोपष्टम्भेनोपभोगसमर्थत्वम् ( प्रशस्त० पृ० ४ ) । इन्द्रियम् रसग्राहक रसनम् । तच्च जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिर्हिमकरकादिश्च (त० सं० ) (भा०प० श्लो० ४१) (त० मा० पृ० २७) ( त० कौ० १ पृ० २) । अत्रेदं बोध्यम् / हिम- करकादीनां सांसिद्धिकं द्रवत्वमस्त्येव । परंतु तेषामदृष्टविशेषेण घनीभावा- त्सासिद्धिकद्रवत्वप्रतिबन्धमात्रं कल्प्यत इति विज्ञेयम् (मु०) (सि० च०) । दिव्यतेजःसंयोगात्तु तत्र द्रवत्वप्रतिरोधः । काठिन्यप्रतीतिस्तु तत्र गीय भ्रान्तिरेव । केचित्तु दिव्यतेजः संयोगाज्जलपरमाणुभ्यां द्व्यणुकम् । तैश्च त्रसरेण्वादिकं क्रमेण हिमादौ जायते । तादृशद्व्यणुकादिकं च द्रवत्व- रहितं कठिनमेवेति हिमादौ काठिन्यप्रतीतिर्न भ्रान्तिरित्याहु: (वै० वि० २ । १ । २ ) । तत्र करकाया उत्पत्तिकारणं तज्जन्यगुणाश्च भावप्रकाशे दर्शिताः । यथा दिव्यवाय्वग्निसंयोगात्संहताः खात्पतन्ति याः । पाषाण- खण्डवच्चापस्ताः कारिक्योमृतोपमाः ॥ करकाजं जलं रूक्षं विशदं गुरु सुस्थिरम् । दारुणं शीतलं सान्द्रं पित्तहृत् कफवातकृत् ॥ इति ( वाच० ) । अप्सु चतुर्दश गुणा वर्तन्ते । अभास्वरं शुकरूपम् मधुरो रसः शीतः स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम् सांसिद्धिकं द्रवत्वम् स्नेहः वेगश्चेति । स्थितिस्थापकाख्य- संस्कारोपि जले वर्तत इति केचित् ( त० कौ० १ पृ० २) ( त० भा० पृ० २७ ) (भा०प० श्लो० ३१ ) । अत्राभास्वरं च परा- प्रकाशकम् ( प० मा० ) । वियति विक्षेपे जले धवलिमोपलब्धेर्जले शुक्लरूपमेव ( मु० १ पृ० ७५ ) । यदि तु वियति विक्षिप्तजल उपलभ्यमानो धवलिमा तेजोगत एव तत्र भासत इत्युच्येत तदा घट- गतरूपमपि तेजोगतमेव किं न स्यात् इति । कालिन्दीजलादौ नीलि- मोपलब्धिस्त्वाश्रयौपाधिकी भ्रान्तिरेवेति (मु० १ पत्र० ७५ ) । यद्यपि जले कोपि रसो नानुभूयते तथापि हरीतक्यादिकषायद्रव्यभक्षणानन्तरं जलमाधुर्यमभूव । तस्य तद्व्यञ्जकत्वात् । न च जलसंयोगाद्धरी- तक्यादावेव माधुर्योत्पत्तिरिति वाच्यम् । पात्रस्थहरीतक्यादावपि जल- संयोगेन मधुरिमोत्पत्त्यापत्तेः । हरीतक्यां चामलक्यामिव कषाय एव रसोनुभूयते । कर्कटीभक्षणानन्तरं जलस्य या तिक्ततोपलभ्यते कर्कट्या एव । जलमन्तरेणापि तहात् । जम्बीररसादावम्लोपलब्धिः करवेल्ल-(करवीर-) रसादौ तिक्तत्वोपलब्धिश्चेतेन व्याख्याता । सूर्य- करादिसंयोगाज्जले य उष्णस्पर्श: प्रतीयते सोषि सूर्यकरादेरेव । स्नेहस्तु जल एव । घृतादावपि तदुपष्टम्भकजलस्यैव स्नेहः । स्नेहप्रकर्षाच्च ( तादृशस्नेहस्योत्कृष्टत्वेन ) घृतादेर्दहनानुकूलत्वम् । सक्तुसिकतादौ पिण्डीभावः संग्रहनामकः संयोगविशेषो द्रवत्वस्नेहकारित एव इति (वै० वि० २ । १ । २ ) (वै० उ० २ । १ । २ ) । आपो वायुविशेषसंयोग- जन्या वायुविशेषरूपा एव न तु द्रव्यान्तरमित्याधुनिका हू विद्यावा वदन्ति । तन्न सह्यते नैयायिकैरित्यलं तदुपपत्तिदोषोपन्यासेन । <आप्तः> [क ] आप्तः खलु साक्षात्कृतधर्मा । ऋष्यार्यम्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहारा: प्रवर्तन्ते । साक्षात्करणमाप्ति- स्तया प्रवर्तत इत्याप्त इत्यर्थः ( वात्स्या० ११११७ ) । अत्राप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् ( न्या० बो० ४ पृ० १९ ) । [ ख ] प्रकृतवाक्यार्थयथार्थज्ञानवान् ( गौ० वृ० १।१।७ ) । यथा आप्तो- पदेशः शब्दः ( गौ० १११७ ) इत्यादावाप्तः । [ग] यथाभूतस्या- बाधितार्थस्योपदेष्टा पुरुष: ( त० भा० पृ० १७ ) ( प्र० प्र० ) ( सि० च० ४ पृ० ३० ) । घ यथार्थवक्ता ( त० सं० १ ) । यथा सत्यवतीसुतव्यासगौतमादिराप्तः । [ङ ] अनुभवेन वस्तुतत्त्वस्य कार्येन निश्चयवान् रागादिवशादपि नान्यथावादी यः स आप्तः इति चरके पतञ्जलि: ( ल० म० पत्र० २ ) । <आप्तोपदेशः> ( प्रमाणशब्दः ) [ क ] यथादृष्टस्यार्थस्य चिख्यापयिष प्रयुक्तः शब्दः । [ख प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः । अथवा आप्तो यथार्थ उपदेश: शाब्दबोधो यस्मात् ( गौ० वृ० ११ १/७ )। यथा ब्रह्मसूत्रन्यायसूत्रादिराप्तोपदेशः । <आप्यम्> ( नक्षत्रम् ) पूर्वाषाढा ( पु० चि० पृ० ३५३ ) । <आप्यायनम्> कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षणं मनोः । वारिबीजेन विधिवदेतदाप्यायनं मतम् ॥ ( सर्व० सं० पृ० ३७० पातञ्ज० ) । <आभासः> १ ( निग्रहस्थानम् ) व्यभिचारादावसिद्ध्यायुद्भावनम् ( वृ० ५।२।२२ ) । यथा पर्वतो धूमवान्वहेरित्यादौ वह्निः स्वरूपासिद्धः स्यादिति । निरनुयोज्यानुयोगप्रभेदोयमिति विज्ञेयम् (गौ० वृ० ५/२/२२) । २ अप्रमाज्ञानहेतु: ( ग० बाघ० ५ - ६ ) । यथा तत्प्रयुक्तं सामान्यतो दृष्टस्याप्याभासत्वमिति बाधस्यासांकर्यात् ( चि० २ पृ० १०५ ) इत्यादावाभासः । ३ प्रतिकूल: विरुद्धो वा । यथा तर्काभासः प्रमाणा- भासः न्यायाभासः इत्यादौ ( कु० ५/३ ) ( वात्स्या० १११।१ ) ( त० कौ० १० पृ० ६ ) । ४ भ्रमः । यथा शुक्तौ रजताभास इत्यादौ । ५ ज्ञानविषयः । यथा हेत्वाभास इत्यादौ हेतुदोषः । अत्र हेतावा- भासत इति व्युत्पत्त्या आभासपदं हेतुनिष्ठदोषपरम् इति ज्ञेयम् ( न्या० र० सामा० ) । ६ उपाधितुल्यतया भासमानं प्रतिबिम्बम् आभास इति मायावादिन आहुः । तत्रोक्तम् । बुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् ॥ ( पञ्चद० ७/९१ ) इति ( वाच० ) । ७ विकलः । यथा लिङ्गाभासः इत्यादौ आभासशब्दस्यार्थः । <आमन्त्रितत्वम्> स्वकर्तव्यत्वप्रकारकधीजनकं प्रत्याख्यानाहँ यद्वाक्यं तत्प्र- तिपाद्यत्वम् । यथा पुत्रोत्सवे भवान् भुञ्जीतेत्यादौ लिङर्थः । अत्र स्वपदं निरुक्तप्रतिपाद्यत्वाभिमतभवदादिपरम् । वाक्ये प्रत्याख्यानार्हत्वं च प्रत्य- वायाजनकप्रत्याख्यानकत्वम् । यत्प्रत्याख्याने कामचारस्तत् वाक्यम् आमन्त्रणमिति स्मृतेः ( श० प्र० पृ० १५६ ) । अत्र प्रत्यवायस्याजनकं प्रत्याख्यानं यस्येति बहुव्रीहिः । एवं च पुत्रोत्सवे भवान्भुजीत इत्युक्तस्य भोजनस्य त्यागेपि न काचित्क्षतिः । इच्छा चेद्भोक्तव्यं नोचेन्न भोक्तव्यमिति तात्पर्यम् । तादृशं वाक्यं च भवतात्र भोक्तव्यम् इत्यामन्त्रणरूपम् । तत्प्रतिपाद्यो भवदादिः इति विज्ञेयम् । भवान् भुञ्जीतेत्यत्र लिङर्धामन्त्रि- तवैकदेशे स्वकर्तव्यत्वबोघे धात्वर्थो विशेष्यकत्वेनान्वेति । तथा च पुत्रोत्सव निमित्तकभोजनधर्मिकस्वकर्तव्यत्वधीजनक वाक्यप्रतिपाद्यो भवान् इत्याकारो बोधः । एवम् बालं युद्धात्तारयेस्त्वम् जलाद्विप्रं समुद्धरे: • इत्यादावप्युक्तरीत्यैवान्वयो द्रष्टव्यः ( श० प्र० १५६ ) । वैयाकर- णास्तु आमन्त्रणं कामचारानुज्ञा । तदर्थश्च खेच्छया प्रवृत्तस्येतरत्र प्रवृत्तिप्रतिबन्धफलकस्वाभिलषितविषयक प्रवृत्त्यनुकूलो व्यापारः । अथवा स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबोधनम् । यथा इहासीतेति । अत्र उपवेशनादिव्यापारे इष्टसाधनताज्ञानात्प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति इति बोध्यम् । यद्वा अनुज्ञातुः प्रवृत्तप्रयोजनस्येतरप्रवृत्तिप्रति- बन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथा आरब्धं कुरुत तत्कुरुष्व यथाहितमित्यादावामन्त्रणं लोडर्थः इत्याहुः ( वै० सा० द० पृ० १३१ - १३२ )। <आमिक्षा> तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिम्यो वाजिम् इति श्रूयते । तत्र घनीभूतः पयः पिण्ड आमिक्षा जलं वाजिनम् ( जै० न्या० अ००२ पा० २ अघि० ९ ) । <आम्नायः> १ सम्यगभ्यासः । अत्र सम्यक्त्वं च नियमधारणपूर्वकत्वम् गुरु- मुखश्रवणपूर्वकत्वं चेति बोध्यम् ( वाच ० ) । २ सम्यक् पाठः । ३ वेदः । <आयतनम्> १ अवच्छेदकम् (नील० पृ० ७ ) । यथा आत्मनो भोगा- यतनं शरीरमित्यादौ । २ प्रतिमेति वैदिका वदन्ति । यथा देवतायत नानि हसन्ति रुदन्तीत्याद्याथर्वणश्रुतौ । ३ आश्रयः स्थानं वेति बौद्ध- काव्यज्ञा आहुः । <आयीभावः> विद्यमान एव अकारस्योपरितन इकार: सामप्रसिद्ध्या प्रक्रि- यया वृद्धः सन्नैकारो भवति । तस्य संध्यक्षरत्वादकार: पूर्वभाग: ईकार उत्तरभागः । तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्येते ( जै० न्या० अ० ९ पा० २ अधि० ९ ) । <आयोजनम्> १ कर्म । यथा कार्यायोजनधृत्यादेः पदाव्प्रत्ययतः श्रुते- रित्यादौ ( कु० ५/१ ) ( दि० १ पृ० १९) । २ व्याख्यानम् । यथा वेदास्तदर्थविदायोजिताः इत्यादौ । व्याख्याता इत्यर्थः । <आरब्धकर्म> १ तत्सामग्रीसंपादनम् ( मू० म० १ पृ० २४ ) । दिस्थले दण्डचऋादिरूपसामग्रीसंपादनम् । २ चरमवर्णसमूहो ( मू० म० १ पृ० २३ ) । यथा ग्रन्थस्थले तच्चेदम् मङ्गलम् आरब्धकर्माङ्गम् कर्मार्थितया शिष्ठस्तत्पूर्व क्रियमाणत्वात् प्रयाजादिवत् ( चि० १ पृ० १९ ) इत्यादावारब्धकर्म । चरमवर्णसमूहो नाम चरम- वर्णपर्यन्तवर्णसमूहः । केचित्तु कण्ठताल्वाद्यभिघातदृष्टप्रतिबन्धकाभावा- दिरेवारब्धकर्मेत्याहुः । ३ वेदान्तिनस्तु फलदानाय संमुखः पुण्यपापान्य- तरात्मकः अदृष्टविशेषः । यथा प्रारब्धकर्मणो भोगादेव परिक्षय इत्यादौ प्रारब्धकर्म इति वदन्ति । <आरम्भः> १ आद्यप्रवृत्तिः । यथा अथेदमारभ्यत इत्यादौ आडुपसर्ग- पूर्वकरभधातोरर्थः । २ अप्रवृत्तस्याद्या प्रवृत्तिः । यथा सृष्यारम्भः । ३ कर्तव्यकर्मचिकीर्षेति मीमांसकाः (मू० म० १) । ४ औत्सुक्यमारम्भ इति नाटकालंकारज्ञा वदन्ति । तदुक्तं प्रतापरुद्रे औत्सुक्यमात्रमारम्भः परिरम्भाय भूयसे इति । ५ ज्ञातुः ईप्साप्रयुक्तस्य सुखसाधनावाप्तये स भीहाविशेषः ( वात्स्या० १११११ प्रस्तावना ) । <आरादुपकारकम्> द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म ( मी० न्या० पृ० ३६ ) । <आराधनम्> [क] गौरवितवृत्तिनिष्ठप्रीतिहेतुभूता क्रिया (त० प्र० २) ( ग० शक्ति ० ) । अन्न गौरवितवृत्तित्वमुपलक्षणम् ( कृष्ण० श० ) । गौरवं त्वाराध्यत्वावगाही ज्ञानप्रभेदः । अयं ज्ञानप्रमेद एव भ क्तिरित्युच्यते ( श० प्र० पृ० ९५ ) । [ ख ] गौरवितप्रीतिहेतु- क्रिया ( कि० व० ४ ) । [ग] गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रिया । यथा पितरमाराधयति उपास्ते पूजयतीत्यादौ धात्वर्थः । अत्रेदं बोध्यम् । परमात्मानमाराधयतीत्यादौ गौरवप्रयुक्तक्रियामात्रमाराधनम् । तदेव लक्षणया धात्वर्थः । तेन न परमात्मनः प्रीतिविरहादयोग्यत्वापत्तिः । अत्रायं विशेषो ज्ञेयः। पित्रादिसेवायाश्च मन्त्रकरणकत्वाभावान्न तत्र पितरं यजते इत्यादिकः प्रयोगः । अत्र धात्वर्थनिविष्टयोर्गौरवप्रीत्योः क्रमेण विषयत्वाघेयत्वाभ्यां पित्रादेरन्वयः । तेन पितृगोचरगौरवप्रयुक्ता या पितृनिष्ठप्रीतिहेतुक्रिया तद्वान् इत्येवं बुद्धिः ( श० प्र० पृ० ९५ ) । १७ न्या० को० <आरामः> पुष्पफलोपचयहेतुर्भूभागः ( मिताक्षरा व्य० श्लो० १५४ )। <आरोपः> भ्रमवदस्यार्थोनुसंधेयः । <आरोहणम्> ऊर्ध्वदेशावच्छिन्नसंयोगानुकूलक्रिया । यथा आरूढवानरो वृक्षः इत्यादौ । अत्र आरूढो वानरो यम् इति व्यासे क्तप्रत्ययस्याश्रयोर्थः । द्वितीयाया आधेयत्वम् । तथा च वृक्षवृत्त्यूर्ध्वदेशावच्छिन्नसंयोगानुकूल- क्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहणकर्तृवानरसंबन्धी वृक्षः इत्यन्चयबोधः । संबन्धश्च तत्र स्वकर्तृकारोहणकर्मत्वरूपः ( त ० प्र० ख० ४ पृ० ४९ )। <आर्थीभावना> १ प्रयत्नविशेषः । २ अन्योत्पादनानुकूलव्यापारसामान्यम् ( मी० न्या० पृ० ७२ )। <आर्षम्> १ ( विद्या ) आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वर्थे- ष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगवि- शेषाद्धर्मविशेषाच्च यत्प्रातिभं प्रतिभाजन्यं ज्ञानं यथात्मनिवेदनमुत्पद्यते तत् आर्षम् इत्याचक्षते । तच्च ज्ञानं बाहुल्येन देवर्षीणाम् । कदाचिदेव लौकिकानाम् । यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्ता इति हृदयं मे कथयति इति । सिद्धदर्शनं न ज्ञानान्तरम् । कथम्[^१] । यत्सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु सिद्धानां द्रष्टृणामञ्ज नपादलेपगुटि - कादिसिद्धीनां दर्शनं तत्प्रत्यक्षमेव । दिव्यान्तरिक्ष भौमानां ग्रहनक्षत्र- संचारादि निमित्तमुपलभ्य प्राणिनां धर्माधर्मविपाकदर्शनं यत् तदनुमान- मेव । अथ लिङ्गानपेक्षं धर्मादिदर्शनं तदार्षप्रत्यक्षयोरन्यतरस्मिन्नन्तर्भूतम् इति ( प्रशस्त ० गुण० पृ० ३२ ) । २ विवाहमेदः । आदायार्षस्तु गोद्वयम् । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्षः ( मिताक्षरा अ० १ श्लो० ५९ )। [^१] अत्र पाठान्तरम् - कथम् । प्रत्यक्षानुमानाभ्याम् । तत्र प्रत्यक्षेण विप्रकृष्टपदार्थ - दर्शनम् । अनुमानेन तु दिव्यान्तरिक्ष • इति । <आलम्बनम्> यस्मिन्विज्ञाने यदवभासते तत्तदालम्बनम् ( सर्व० सं० पृ० ४२२ शां० ) । <आलस्यम्> १ कृतेरभाव: ( सि० च० १ पृ० ३ ) । शरीरवाचि त्तगुरुत्वादप्रवृत्तिरालस्यम् ( सर्व० सं० पृ० ३५५ पातञ्ज० ) । २ आ- लस्यं गुणविशेष इति केचिदाहुः । <आलोक:> १ सूर्यादितेज:प्रकाशः । यथा गृह्णाति चक्षुः संबन्धादा- लोकोद्भूतरूपयोः ( भा० प० श्लो० ५६ ) इत्यादौ । २ दर्शनम् । यथा यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् ( शाकु० ) इत्यादौ । <आलोचनम्> १ विशेषधर्मादिना विवेचनम् । २ चाक्षुषज्ञानम् । सांख्यास्तु सामान्य विशेषशून्यतयेन्द्रियजन्यो निर्विकल्पकस्थानीयोन्तःक- रणवृत्तिविशेष इत्याहुः ( वाच० ) । <आवरणम्> १ प्राप्तिप्रतिषेधः (वात्स्या० ११२१८)। २ अविद्येति माया- वादिनों जगुः । ३ बाह्यं तम इति माध्वाः । ४ आच्छादन मिति काव्यज्ञाः । <आवापः> १ आनयनम् । २ आक्षेप इति केचित् । ३ संग्रहः । घटं नय गामानय इत्यावापोद्वापाभ्यामित्यादौ । ४ प्रधानहोम आवाप इति याज्ञिका आहुः ( वाच० ) । ५ यस्त्वावृत्त्या बहूनुपकरोति स आवापः ( जै० सू० वृ० अ० ११ पा० १ सू० १ ) । <आविर्भाव:> १ उत्पत्तिः । यथा मृदो घटस्याविर्भावः । २ सांख्यास्तु प्रकाशात्मिका अभिव्यक्तिरराविर्भावः । यथा कूर्मशरीरादङ्गानामाविर्भाव इत्याहुः ( वाच ० ) । इत्थं हि सांख्या मायावादिवेदान्तिनश्च वदन्ति । एकस्या मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते । न पुनरसतामुत्पादः सतां वा निरोधः इति । नैयायिकास्तु बुद्धिशब्द कार्यकालाकारसंख्यादिभेदात्कार्यस्य कारणाद्भि- नतया ( श्रीभाष्य० २।१।१५) कारणादुत्पत्तिरिति प्राडुः । <आवृत्तिः> ९ पुनः पुनरभ्यासः । भूय एकजातीयक्रियाकरणमिति यावत् । यथा आवृत्तिरसकृदुपदेशात् (ब्र० सू० ४ । १ । १ ) इत्यादौ श्रोतव्यो मन्तव्य इति श्रवणादीनामावृत्तिः । यथा वा आवृत्तिः सर्वशास्त्राणां बोधादपि गरीयसी ( उद्भटः ) इत्यादौ । २ स्वस्थानस्थितस्य पदस्य पदसमूहस्य वा पुनरनुसंधानम् ( दि० ४ पृ० १८८) । यथा हलन्त्यम् ( १ । ३ । ३ ) इति पाणिनिसूत्रस्यान्योन्याश्रयदोषवारणाय पुनरनुसंधानम् । <आशंसनम्> आशीर्वादवदस्यार्थोनुसंधेयः । <आशयः> आ फलविपाकाच्चित्तभूमौ शेरत इत्याशयाः धर्माधर्मसंस्काराः ( सर्व० सं० पृ० ३६५ पातञ्ज० ) । <आशा> अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना ( काठ० ११८ भाष्यम् ) । रमाई <आशी:> [ क ] वक्त्रिच्छाविषयत्वम् । यथा घटमानय इत्यादौ लोडर्थः । अत्र घटकर्मकमदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यर्थः (तर्का० ४ पृ० १४ ) । यथा वा आयुराशास्तेयं यजमानोसौ ( तैत्तिरीयब्राह्मणे ३।५।१० ) इत्यादावाङ्पूर्वकशास्धात्वर्थः । [ ख ] शाब्दिकास्तु हितविषयिका लोडाद्यन्तशब्दप्रयोक्त्रिच्छा । यथा भवतु ते शिवप्रसाद इत्यादौ लोडर्थः इत्याहुः । अत्र हितविषयकमदिच्छाविषयो यस्त्व- त्संबन्धिशिवप्रसादस्तत्कर्तृकं भवनम् इति बोध: ( वै० सा० द० पृ० १२९ ) । [ ग ] इष्टार्थाविष्करणमिति कश्चिद्वक्ति । यथा यां वै कांचन यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा ( शत० ब्रा० १।३। १ । २६ ) इत्यादौ ( वाच० ) । <आशीर्लिङ्> (लिङ् ) य आशंसनस्य भावित्वस्य च बोधको लकारः स आशीर्लिङित्युच्यते । यथा भूयात् भूयास्तामित्यादावाशीर्लिङ् । जीवतु भवानित्यादौ तु लोडादिकं आशंसनीयत्वस्य बोधकमपि न भावित्वस्य । जीविष्यतीत्यादौ भावित्वस्य बोधकोपि ऌडादिर्नाशंसनीयत्वस्य बोधकः । अतो न तत्र लोट्लडादौ अतिप्रसङ्गः । आशीर्लिङ् प्रत्ययस्तु प्रकृत्यर्थस्याशंसां भावित्वं चानुभावयतीति लक्षणसमन्वयो बोध्यः ( श० प्र० पृ० १६२) । <आशौचम्> न शुचिः अनुचिः । तस्य भाव आशौचम् । आशौचशब्देन च कालविशेषस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेरध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते ( मिताक्षरा अ० ३।१ ) । <आश्रयत्वम्> अधिकरणतावदस्यार्थोनुसंधेयः । <आश्रयासिद्धः> ( हेत्वाभास : ) [ क ] यस्य हेतोराश्रयो नावगम्यते सः । [ ख ] यस्य हेतोः पक्षोप्रसिद्धः सः । स च आश्रयासिद्धः पक्ष- तावच्छेदकाभाववत्पक्षकः । यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजा- रविन्दवदित्यनार विन्दत्वमाश्रयासिद्धम् ( त० सं० ) ( प्र० प्र० ) ( त० कौ० २ पृ० १४ ) ( त० भा० पृ० ४५ ) । आश्रयासिद्ध- शब्दार्थस्तु आश्रयस्य पक्षस्य असिद्धिः पक्षे पक्षतावच्छेदकस्याभावः तद्वान् इति । एतल्लक्षणं च वक्ष्यमाणाश्रयासिद्धिमत्त्वमेवेति बोध्यम् ( वाक्य० २ पृ० १७ ) । अनन्तरोदाहरणे गगनारविन्दमाश्रयः स च नास्त्येव ( त० भा० पृ० ४५ ) ( त० सं० ) । अत्र चारविन्दे पक्षे गगनीयत्वं पक्षतावच्छेदकं नास्तीत्यरविन्दत्वं हेतुराश्रयासिद्धः । आश्रया- सिंद्धस्य हेत्वाभासत्वं त्वित्थम् । आश्रयासिद्धत्वज्ञानं च परामर्शप्रतिबन्ध - कम् । अत्र आश्रयासिद्धत्वज्ञानस्य पक्षे पक्षतावच्छेदकवैशिट्यावगाहि- ग्रहप्रतिबन्धकत्वेन परामर्श प्रतिबन्धकत्वमिति ज्ञेयम् । अरविन्दे गगनी- यत्वं नास्ति इति ज्ञाने सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दम् इति परामर्शासंभवात् । एतस्य परामर्शस्य अरविन्दे गगनीयत्वसंबन्धावगा- हित्वात् इति ( त० कौ० २ पृ० १४ ) । तथा च अरविन्दे गगनी- यत्वाभावे निश्चिते गगनीयत्वविशिष्ट रविन्दे सौरभानुमितिप्रतिबन्धः फलम् (न्या० बो॰ २ पृ० १८ ) । आश्रयासिद्धो द्विविधः असदा- श्रयासिद्धः असाधकश्चेति । तत्राद्यो यथा गगनारविन्दं सुरभि अर- विन्दत्वात् सरोजार विन्दवत् इति । द्वितीयो यथा ईश्वरवादिनं प्रति क्षित्यादिकं सकर्तृकम् कार्यत्वाद्धटवत् इति । अत्र साध्यस्य निश्चितत्वेन पक्षे साध्यसंदेहानुपपत्तौ संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धि- बोध्या ( प्र० च० पृ० ३१ ) । <आश्रयासिद्धिः> ( हेतुदोषः ) ज्ञानस्य विषयतया विशिष्टपक्षग्रहविरो- धितावच्छेदकं रूपम् ( दीधि ० २ पृ० २१७) । तच्च रूपम् पक्षता- वच्छेदक विशिष्टपक्षासिद्धिः । अथवा पक्षतावच्छेदकाभाववान् पक्षः । यद्वा पक्षे पक्षतावच्छेदकस्याभावः ( न्या० बो० २ पृ० १८) । यथा गगनकमलं सुरभि कमलत्वादित्यत्र कमले पक्षे गगनीयत्वाभावः ( न्या० म० २ पृ० २१ ) । यथा वा काञ्चनमयः पर्वतो वह्निमा- नित्यादौ पर्वते काञ्चनमयत्वस्याभावः (मु० २ पृ० १६१ ) ( गौ० वृ० १।२।७)। अत्र पर्वतो न काञ्चनमयः इति ज्ञाने विद्यमाने काञ्चनमये पर्वते वह्निव्याप्यधूमवान्काञ्चनमयपर्वतः इति परामर्श प्रति- बन्धः फलम् । यथा वा अनित्यगगनं रूपवदित्यादौ गगनादेरनित्यत्वा दिकम् आश्रयासिद्धिः ( दीवि० २ पृ० २१७) । <आसत्तिः> १ [ क ] एकेनैव पुंसा पदानाम् अविलम्बेनोच्चारितत्वम् ( त० मा० ४ पृ० १८ ) । एतस्य ज्ञानं च शाब्दबोधस्य जनकमिति विज्ञेयम् । अत एव एकैकशः प्रहरे प्रहरे असहोच्चारिते गामानयेत्यादौ नान्वयबोधः । संनिधेरभावात् इति ( त० कौ० ४ पृ० १७ ) ( त० सं० ) । [ ख ] पदानामविलम्बेनोच्चारणम् ( त० सं० ) । तदर्थश्च अविलम्बेन पदार्थोपस्थितिः ( त० दी० ४ पृ० ३२ ) । अथवा तत्पदे तत्पदाव्यवहितत्वम् । तथा च गोपदनिष्ठं अम्पदा- व्यवहितत्वम् गोपदे अम्पदसंनिधिरित्यर्थः ( वाक्य० पृ० १९ )। यथा गामानय शुक्लां दण्डेनेति वाक्ये पदानामविलम्बे नोच्चारणात् संनिधिरूपा आसत्तिः ( त० कौ० ४ पृ० १७ ) ( भा० प० श्लो० ८४ ) । [ग ] प्रकृतान्वयबोधानुकूलव्यवधानाभाव आसत्तिरिति प्राञ्चः । अन्वयप्रतियोग्यनुयोग्यर्थोपस्थापकपदयोरव्यवधानमित्यर्थः । तेन गिरिर्मुक्तमग्निमान् देवदत्तेनेत्यादौ नातिव्याप्तिः ( म० प्र० ४ पृ० ५७ ) । इदं लक्षणत्रयं ( क ख ग इत्यत्र विद्यमानम् ) प्राचीनमतमनुसृत्योक्तमिति बोध्यम् । नव्यास्तु नैतादृश्या आस- तेर्ज्ञानं शाब्दबोघे कारणम् । किंतु अव्यवहितपदतात्पर्यमासत्तिः तज्ज्ञानं शाब्दबोधे कारणमित्याहुः ( न्या० म० ४।२३ - २४ ) ) ( म० प्र० ४ पृ० ५७) । तत्तात्पर्य च एतत्पदं एतत्पदाव्यवहितो- त्तरमभिसंदधातु इत्यभिसंधापयितुरिच्छा । अत एव मौनिश्लोकेप्या- सत्तिः । वक्तुरभावेप्यनुसंधातुः सत्त्वात् । शुकवाक्ये च भगवत्तात्पर्य - मादायैव गतिः इति ( न्या० म० ४ पृ० २४ ) । [घ ] अव्यवधाने- नान्वयप्रतियोग्यनुयोग्युपस्थिति: (चि० ४ ) ( तर्का० ४ पृ० १३ ) । [ङ ] यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोरव्यवधानेनोपस्थितिः (मु० ४ पृ० १८५ ) । [ च ] वृत्त्या ( शक्तिलक्षणान्यतरसंबन्धेन ) पदजन्यपदार्थोपस्थितिः । सा च स्वरूपसती शाब्दबोधहेतुः न तु ज्ञाता इति बोध्यम् ( न्या० म० ४ पृ० २४ ) ( म० प्र० ४ पृ० ५७ ) । २ प्रत्यक्षजनकः संनिकर्षः । यथा आसत्तिराश्रयाणां तु सामान्यज्ञान- मिष्यते ( भा०प० लो० ६५ ) इत्यादौ । <आसनम्> स्थिरसुखमासनम् । तच्च पद्मासनभद्रासनवीरासनस्वस्तिकासन- दण्डकासनसोपाश्रयपर्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थान मेदादशविधम् ( सर्व० सं० पृ० ३७६ पातञ्ज० ) । <आसुरः> ( विवाहभेदः ) आसुरो द्रविणादानात् ( याज्ञवल्क्य ० अ० १ लो० ६१ ) । <आसेधः> राजाज्ञया अवरोध: ( मिताक्षरा अ० २ श्लो० ५ ) । <आस्तिकः> १ [ क ] परलोकाद्यस्तित्ववादी । यथा सत्यवतीसुतो व्यासः । [ ख ] नरकभीरुरास्तिकशब्दवाच्यः ( त० प्र० ख० ४ पृ० १०५ ) । आस्तिकास्तु वेदान्तिमीमांसकादयो बहवः नास्तिकेभ्यो विभिन्नमतिका- श्चेति बोध्यम् । २ जरत्कारुमुनिपुत्र ऋषिविशेषः । <आस्रवः> [ क ] औदारिकादिकायादिचलनद्वारेणात्मनश्चलनं योगपद- वेदनीयम् ( सर्व० सं० पृ० ७३ आई० ) । [ ख ] आस्रवः कर्मणां बन्धः ( सर्व० सं० पृ० ३६ आई० ) । आस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् इति ( सर्व० सं० पृ० ८० आई० ) । <आहार्यम्> १ ( प्रत्यक्षम् ) [ क ] स्वविरोधिधर्मधर्मितावच्छेदककं स्वप्रकारकं ज्ञानम् । यथा निर्वह्निः पर्वतो वह्निमान् इति ज्ञानम् ( ग० सामा० २ पृ० १९ ) । तथा हि स्वं वह्निः । तस्य विरोधी धर्मः बहघभावः । स एव धर्मितावच्छेदको यस्मिन् ज्ञाने तत् । किंच स्वं वह्निः स एव प्रकारो विशेषणं च यस्मिन् ज्ञाने तत् इति विग्रहार्थ- (समन्वया विज्ञेयाः । [ख ] स्वविरुद्धधर्मावच्छिन्न धर्मितावच्छेदकक स्वावच्छिन्न प्रकारकं ज्ञानम् । यथा धूमव्यभिचार विशिष्टवह्नयादिधर्म- तावच्छेदकको घूमव्याप्यतया वह्यादिप्रकारको धूमव्यभिचारिवह्निमान् घूमव्याप्यवह्निमान् इत्याकारको ग्रहः ( ग० सामा० २ पृ० १४ ) । अत्र । ( स्व धूमव्याप्यत्वम् । तद्विरुद्धो धर्मः घूमव्यभिचारः । तदवच्छिन्नः वह्नयादिः । स एव धर्मितावच्छेदको यत्र ग्रहे सः । किंच स्वं धूमव्याप्यत्वम् । तदवच्छि नः तेन रूपेण वह्नयादिः । स एव प्रकारो यस्मिन् ग्रहे सः इति विग्रहा- र्थलक्षणसमन्वया विज्ञेयाः । [ग । स्वस्मिन्स्वावृत्तित्वावच्छिन्न प्रकारकं । ज्ञानम् । यथा पर्वतः पर्वतावृत्तिमान् इति ज्ञानम् (ग० सामा० २ पृ० १९ ) । अत्र स्वपदं पवेतपरम् । तथा च एतज्ज्ञानस्य पर्वते स्वविषयकेच्छाव्यवहितोत्तरक्षणोत्पन्नप्रत्यक्षम् । अत्र स्खमाहार्यम् । तथा पर्वतावृत्तित्वविशिष्टप्रकारकत्वेनाहार्यत्वं संपद्यते इति बोध्यम् । [ घ ] च विषयत्वस्वाव्यवहितोत्तरत्व - एतदुभयसंबन्धेनेच्छावच्छिन्न प्रत्यक्षमित्यनु गमो बोध्यः ( ग० सत्प्र० पत्रे १७ ) । [ङ ] बाधकालीनेच्छा जन्यं ज्ञानम् । यथा हृदो वह्निमान् इति ज्ञानम् । इदं त्ववधेयम् । (आहार्यात्मकं ज्ञानं प्रत्यक्षमेवेति नैयायिकानां सिद्धान्तः । शाब्दबोधा त्मकमपीत्यालंकारिका वदन्ति इति । २ व्याप्यम् । यथा कार्य च तस्य दशधाहार्य धायें प्रकाश्यं च ( सांख्यकारिका ३२ ) इत्यादौ । लौकिक औपासनिकोग्निराहार्य इति याजका वदन्ति ( वाच० ) । <आढीनैबुकम्> स्वस्वकुलागतं करजार्कादिस्थावरदेवता पूजादिकम् (जै० न्या० अ० १ पा० ३ अघि० ८ ) । <इच्छा> [क] (गुणः) इच्छात्वसामान्यवती (प्र० प्र० १७ ) ( त० भिलाषो वा ( त० सं० ) । सा च मनोग्राह्या आत्ममात्रवृत्तिक्षेति कौ० पृ० १८ ) । सा च यथा इदं मे भूयात् इत्येवंरूप: कामो विज्ञयम् ( भा०प० श्लो० ५८) । इच्छालक्षणं च प्रवृत्तेः साक्षादनुकूलत्वम् (वाक्य० पृ० २१ ) अथवा यत्नसंस्कार भिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वम् ( ल० व० पृ० ३५ ) । अत्रेदमुक्तम् । आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेक्रिया ॥ इति । इच्छा चात्मधर्म इति नैयायिक- सिद्धान्तः । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरभृतिहींधर्भी- रित्येतत्सर्वं मन एव इति श्रुतेः स मनोधर्म इति सांख्या मायावादिन- श्वाहुः । श्रुतौ कामपदेनेच्छोच्यते । इच्छा द्विविधा । फलविषयिणी तदुपायविषयिणी चेति । अत्र मुख्यं फलं सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानमात्रं कारणम् । अत एव फलस्य स्वतः पुरुषार्थत्वं संभवति इति बोध्यम् ( भा०प० श्लो० १४७ ) (मु० गु० पृ० २२० - २२१ ) ( त० कौ० पृ० १८) । अत्रेदं रहस्यम् । सुखस्यैव चरमफलत्वेन सुखाद्यात्मक फलानन्तरं फलान्तराभावात् सुखे- च्छाया नेष्टसाधनत्वज्ञानापेक्षा । अपि तु सुखज्ञानेनैव सुखेच्छोत्पद्यते इति । उपायेच्छां प्रति त्विष्टसाधनताज्ञानं कारणम् ( भा०प० श्लो० १४७ ) (मु० गु० पृ० २२१ ) ( त०] कौ० पृ० १८ ) । यथा स्वर्गात्मकफलस्य उपायो यागः । तद्विषयकेच्छां प्रति यागो मम इष्टस्य स्वर्गात्मकफलस्य साधनम् इति ज्ञानं कारणम् । इच्छां प्रति बलवद- निष्टाननुबन्धित्वज्ञानमपि कारणं भवति । पुनरपि नित्यानित्यभेदेनेच्छा द्विविधा । तत्र जीवेच्छा अनित्या । ईश्वरेच्छा तु नित्या सर्वे जगद्भूयात् इति समूहालम्बनात्मिका चेति । मायावादिनस्तु व्योमादिवत्सा अनित्ये- त्याहुः (वाच० ) । [ख] स्वार्थ परार्थं वा अप्राप्तप्रार्थना । सा चात्म- मनसोः संयोगात्सुखाद्यपेक्षात्स्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः। काम: अभिलाषः राग: संकल्पः कारुण्यम् वैराग्यम् उपधा भावः (इत्येवमादय इच्छाभेदाः । मैथुनेच्छा कामः । अभ्यवहरणेच्छा अभि- लाषः । पुनः पुनर्विषयानुरञ्जनेच्छा रागः । अनासन्नक्रियेच्छा संकल्पः । स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयत्यागेच्छा वैराग्यम् । परवञ्चनेच्छा उपधा । अन्तर्निंगूढेच्छा भावः । चिकीर्षा- जिही त्यादि क्रियाभेदादिच्छाभेदा भवन्ति ( प्रशस्त ० २ पृ० ३३ ) । १८ न्या० को० <इज्या> देवतापूजनम् ( सर्वद० पृ० ११७ रामानु० ) । <इतरबाधग्रहः> साध्यतावच्छेदकव्याप्ययत्किं चिद्धर्मावच्छिन्नेतरसाध्यतावच्छेद- कविशिष्टाभाववत्पक्षविषयकं ज्ञानम् । यथा पर्वतो वह्निमानित्यादौ महानसीयेतरवह्रय भाववान्पर्वतः इति ज्ञानम् । तथा हि । साध्यतावच्छेद- कमत्र वह्नित्वम् । तद्व्याप्यो यत्किंचिद्धर्मः महानसीयत्वम् । तदवच्छिनः महानसीयवह्निः । तस्मादितर: ( भिन्नः ) यः साध्यतावच्छेदक विशिष्ट अस्य प्रयोजनं हि यथा पर्वतो वह्निमान् इत्यादिस्थले वहिव्याप्यधूमवान् चत्वरीयादिर्वह्निः । तदभाववान् पक्षः पवेतः । तद्विषयकं ज्ञानम् इति । पर्वतः इति परामर्शादपि महानसीयवह्निभिन्नवयभाववान् इतीतरबाध- ग्रहबलात् महानसीयवह्नित्वा दिनानुमितिः पर्वतो महानसीयवह्निमान् इति जायत इति ( त० प्र० ख० ४ ) । <इतरबाधग्रहसहकृतानुमितिः> (अनुमितिः ) सामान्यधर्मावच्छिन्नस्य सा ध्यत्वे विशेषधर्मावच्छिन्नेतरबाधग्रहसत्त्वे जायमाना विशेषधर्मावच्छिन्नवि- धेयकानुमितिः । यथा पर्वते धूमेन शुद्धवह्नित्वावच्छिन्नस्य साधने पर्वतो वह्निमानित्यादौ पर्वतो महानसीयवह्निमान् इत्यनुमितिः । अत्र च तादृश- बाधग्रहकाले सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शादपि विशेषधर्मावच्छि न्नविधेयकानुमितिः स्वीक्रियत इति नैयायिकसिद्धान्तो ज्ञेयः । <इतरेतर:> (द्वंद्वसमासः ) एकवचनान्यसुबाका समासः । यथा धवख दिरौ छिन्धीत्यादा वितरेतरद्वंद्वः । अत्र हि धबखदिरावगतौ द्विवचनादिः प्रमाणम् ( श० प्र० पृ० ६६ ) । अत्रेदं बोध्यम् । धवखदिराविति स्वरूपद्वयप्रतीतेर्न लक्षणा शक्तिर्वेति नैयायिकसिद्धान्तः । मीमांसका धवखदिरावित्यादावुत्तरपदे धवखदिरादिसाहित्याश्रये लक्षणामाहुः। वैया- करणास्तु तादृशसाहित्याश्रये शक्तिमाहुः ( न्या० म० ४ पृ० १३:) । शाब्दिकाश्च मिलितानामन्वय इतरेतरः इति वदन्ति । 31 <इतरेतरत्> अन्योन्यशब्दवदस्यार्थोनुसंधेयः ( ल० म० ) । <इति> (अव्ययम् ) १ हेतु: । २ प्रकाशनम् । ३ निदर्शनम् / ४ प्रकारः / १५ अनुकः । ६ समाप्तिः । ७ प्रकरणम् । ८ स्वरूपम् । ९ सांनि- ध्यम् । १० विवक्षानियमः । ११ मतम् । १२ प्रत्यक्षम् । १३ अव- धारणम् । १४ व्यवस्था । १५ परामर्शः । १६ मानम् । १७ इत्थ- मर्थः । १८ प्रकर्षः । १९ उपक्रमः । तत्र हेतौ उदाहरणम् इतीव धारामवधीर्य (नैष०) इति स्म सा कारुवरेण लेखितम् (नैष ० ) । प्रकाशार्थे यथा इतिहरि । प्रकारे यथा इति मदमदनाभ्यां रागिणः स्पष्टरागाः (माघ ० ) । प्रकरणे यथा इतिकृत्यम् इतिकर्तव्यम् इतिवृत्तम् । इदमर्थे यथा विरोधिसिद्धमिति कर्तुमुद्यतम् इत्यादि ( वाच० ) । अत्रायं विशेषो ज्ञेयः । स्वरूपार्थद्योतकता त्रिधा । शब्दवरूपद्योतकता प्रातिपदि- कार्थद्योतकता वाक्यार्थद्योतकता चेति । तत्र शब्दस्वरूप द्योतकत्वे तद्योगे न प्रथमा । यथा कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते इत्यादौ । प्रातिपदिकार्थद्योतकत्वे तु प्रथमा भवति । यथा चयस्त्विषा- मित्यवधारितं पुरस्ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं १५ पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ( माघः १ ) इत्यादौ । वाक्यार्थद्योतकत्वे चन प्रथमा । यथा अत एव गवित्याह भू सत्ताया- मितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् ॥ (वैया ० सि० का० २७) । श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य बाधा- दित्येवं परिसंख्या त्रिदोषिका ॥ ( मीमांसा० का ० ) इत्यादौ (वाच० ) । <इतिकर्तव्यता> इत्थंकर्तव्यता क्रमयुक्तकर्तव्यतेत्यर्थः । एवं सर्व विधा- येदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ ( मनु० ७/१४२) इत्यादावितिकर्तव्यता । अत्र कर्तव्यस्य इति प्रकारः इतिकर्तव्यता इति व्युत्पत्तिर्दृष्टव्या । तदर्थश्च कर्तव्यसामान्यस्य कः कर्तव्यविशेषः । यथा मीमांसकमते प्राशस्त्यं शब्दभावनायामितिकर्त- व्यतत्वेन्यं ( लौ० भा० टी० पृ० ८ ) । यथा वा तेषामेव मते स्वर्गकामो यजेतेत्यादौ लिडाख्यातबोध्याया अर्थभावनाया अपेक्ष्या प्रयाजाद्यङ्गजातात्मिका इतिकर्तव्यता भवति ( लौ० भा० पृ० १० ) । यथा वा ओदनकामः पचेदित्यत्र लिङा भावनाभिधीयते । । तत्र किं भावयेत् कथं भावयेत् इति भाव्याद्याकाङ्क्षायां तृणफूत्कारादि- भिरुपकारं संपाद्य पाकेनौदनं भावयेत् (संपादयेत् ) इति भाव्याद्यन्वयेन । वाक्यार्थः संपद्यते (लौ० भा० टी० पृ० १० )। <इतिहासः> पुरावृत्तप्रकाशको ग्रन्थविशेषः । यथा महाभारतादिः (वाच०)। तत्राम्नायते वाको वाक्येतिहासपुराणः पञ्चमो वेदानां वेदः (छान्दो० ) । स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ ( मनु० ३ । २३२) इति । इतिहासलक्षणं च धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तकथायुक्तमितिहास प्रचक्षते ॥ इति ( वाच ० ) । <इदम्> प्रत्यक्षबुद्धिविषयः ( दि० ४ पृ० १७९) (ग० शक्ति० ) । यथा अयम् उदयति विततोर्ध्वरश्मिजालः (माघ ० ) इदं किलाव्याज मनोहरं वपुः ( शाकु० ) इत्यादाविदंपदार्थः । इदमर्थश्च लौकिकप्रत्यक्ष विषयता विशिष्टम् (ग० शक्ति० टी० पृ० ११६ ) । चक्षुःसंनिकृष्टे "व्यक्तिविशेषे अयं घटः इति प्रत्यक्षे घटस्येदमर्थता । अत्रेदं बोध्यम् । इदमः संनिकृष्टवाचित्वम् । तत्रोक्तम् अस्येति प्रत्यक्षादिसंनिधापितस्य जगत इदमा निर्देश: ( शारी० भा० ) इति । संनिकृष्टत्वं च बुद्धिमात्रेणापि । तच्च ज्ञानलक्षणया प्रत्यासत्त्या स्मरणादिना च भवति । यथा कौमुदीय विरच्यते इत्यत्र भाविन्यपि कौमुदी बुद्ध्या संनिधापितत्वेन इदमा निर्दिश्यते ( वाच० )। <इन्द्रियम्> [ क ] स्वविषयग्रहणलक्षणानीन्द्रियाणि ( वात्स्या० १११ १२) । [ख शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियम् ( त० कौ० पृ ३ ) ( प्र० प्र० पृ० ११ ) । तच्च प्रत्यक्षप्रमाणमित्युच्यते ( त० कौ० पृ० ८ ) ( त० सं० ) । अयमाशयः । यदा निर्विकल्पकरूपा फलं तदा इन्द्रिय करणम् । तद्यथा आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन । इन्द्रियाणां स्वसंबद्धवस्तुप्रकाशकारित्वम् इति नियमात् । ततोर्थसंनिकृष्टेनेन्द्रियेण निर्विकल्पकज्ञानं जन्यते । तस्य ज्ञानस्येन्द्रियं करणम् छिदाया इव परशुः । इन्द्रियार्थसनिक वान्तर व्यापारः छिदाकरणस्य परशोरिव दारुसंयोगः । निर्विकल्पकं ज्ञानं फलम् परशोरिव छिदा इति ( त० भा० पृ० ६ ) । इन्द्रियसत्त्वे प्रमाणं चानुमानम् । तच्च ज्ञानक्रिया सकरणिका क्रियात्वाच्छिदि- क्रियावत् इति (वाच० ) । लक्षणं चेन्द्रियत्वमेव । तच्च स्मृत्यजनक- ज्ञानजनकमनः संयोगाश्रयत्वम् ( चि० ) ( प० मा० ) ( वै० उ० ४।२।१ ) । अथवा शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारण- मनः संयोगाश्रयत्वम् ( त० प्र० १ ) ( वाक्य० पृ० ३ ) ( त० दी० ७१ पृ० ७) (वै० उ० ४।२।१ ) ( वै० वि० ४।२।१ ) । तदर्थश्च शब्दादितरे ये उद्भूता विशेषसंज्ञकाश्च गुणास्तेषामनाश्रयत्वे सति ज्ञानस्य कारणीभूतो यो मनः संयोगः इन्द्रियैर्मनसः संयोगः तदाश्रय- त्वम् । आत्मव्यावृत्त्यर्थं सत्यन्तदलम् । शब्दभिन्न उद्भूतो विशेषसंज्ञकश्च ( गुणो न कोपि कस्मिंश्चिदपीन्द्रिये तिष्ठति । अनुद्भूत विशेषगुणस्तु अनु द्भुतरूपादिः वर्तत एवेति । नक्तंचरनयनरश्मिस्तु ( व्याघ्रादिनयनरश्मिः तेजोन्तरमेव । तस्य चक्षु तु शब्दरूपैतदितरोद्भुत विशेषगुणाना- ११ श्रयत्वे सति इति विशेषणं देयम् ( वै० उ० ४।२।१ ) । उद्भूतत्वं चानुद्भूतत्वाभावकूटरूपम् । अनुद्भूतत्वं च शुक्लत्वादिव्याप्यं नानैव (मु० १ पृ० ११९ ) । अथवा ज्ञानासमानाधिकरणो ज्ञानकारणीभूतो यो मनःसंयोगस्तदाश्रयत्वम् । चक्षुरादिमनःसंयोगमादायैव लक्षणसम- न्वयः ( म० प्र० १ पृ० १३) । घ्राणाद्यन्यान्यत्वं वा । प्रत्यक्षजनक- तावच्छेदकतयेन्द्रियत्वमखण्डोपाधिरित्यन्ये ( गौ० वृ० ११ ११ १२ ) । सांख्यास्तु इन्द्रियत्वं सात्त्विकाहंकारोपादानत्वम् ( न्या० म० १ पृ० ७ ) अहंकारकार्यत्वे सति कारणत्वं वेत्याहुः ( वाच० ) । [ग] साक्षात्कारमात्रवृत्तिधर्मावच्छिन्न कार्यता निरूपितकारणताश्रयव्या- पारवदतीन्द्रियम् (प० च० ) । इन्द्रियं द्विविधम् । अन्तरिन्द्रियं बहिरिन्द्रियं च । तत्राद्यं मनः । द्वितीयं घ्राणादि । पञ्चविधम् घ्राणम् रसनम् चक्षुः श्रोत्रम् त्वक् चेति । तदुक्तम् घ्राणरसनचक्षुस्त्वक्श्रोत्राणी- न्द्रियाणि भूतेभ्यः ( गौ० १/१/१२) इति । अत्र भोगसाधनानीन्द्रियाि ( वात्स्या० १।१।९ ) इति भाष्यकार आह । इन्द्रियविषयास्तु गन्ध- रसरूपस्पर्शशब्दाः इति ( गौ० ११ १२ १४ ) । एवं चेन्द्रियाणि षट् (प्र० प्र० पृ० ११) (गौ० वृ० ११ ११२) (त० भा० पृ० २६ ) । केचित्तु इन्द्रियाणि दश ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च । तत्र ज्ञाने- न्द्रियाणि घ्राणादीनि । कर्मेन्द्रियाणि तु वाक्पाणिपादपायूपस्थानि इत्याहु ( वाच० ) । ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि । वाक् पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिणः ॥ वचनादानगतयो विसर्गानन्द- संयुताः । कर्मेन्द्रियार्थाः संप्रोक्ताः इति ( शाः ति० ) । अन्धु लिङ्गम् (राघवभट्टः ) । हस्तौ पादावुपस्थं च जिह्वा पायुस्तथैव च । कर्मे- न्द्रियाणि पञ्चैव इति ( शङ्ख० ) ( वाच० ) । तत्र ज्ञानेन्द्रियाणां मध्ये घ्राणरसनश्रोत्राणि न द्रव्यग्राहकाणि । अपि तु गुणमात्रग्राहकाणि । चक्षुस्त्वङ्मनांसि तु द्रव्यग्राहकाणि गुणग्राहकाण्यपि ( प्र० प्र० पृ० १२) ( त० कौ० १ पृ० १० ) । अत्र केचित्तु मनो नेन्द्रियम् इत्याहुः । वैशेषिकैः साधितं मनस इन्द्रियत्वं नैयायिका अप्यभ्युपगच्छन्ति ( प्र० प्र० पृ० २१ ) ( त० मा० पृ० ४२-४३ ) । तच्च शरीर- संयोगे सत्येव साक्षात्प्रमितिसाधनम् इति ( ता० र० श्लो० २८) । <इन्द्रियार्थसंनिकर्षः> प्रत्यक्षात्मक ज्ञान हेतुरिन्द्रियस्य विषयेण संबन्धः ( राम० १ पृ० १२८) । अत्रेदमवधेयम् । यदा इदं किंचिदिति निर्विकल्पकं ज्ञानं जायते तदा तस्य ज्ञानस्येन्द्रियं करणम् । इन्द्रियार्थ- संनिकर्षोवान्तरव्यापारः । निर्विकल्पकज्ञानं फलम् । यदा निर्विकल्पक- ज्ञानानन्तरं सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणम् । निर्विकल्पकज्ञानमवान्तर व्यापारः । सविकल्पकज्ञानं फलम् इति ( त० मा० पृ० ६) । विस्तरस्तु अन्यत्र ( वै० उ० ८।१।४-५ ) अनुसंधेयः । स चेन्द्रियार्थसंनिकर्षो द्विविधः । लौकिक: अलौकिकश्च । तत्र लौकिको लौकिक प्रत्यक्षे कारणम् (त० कौ० पृ० ८ ) षडिन्द्रियसहकारी इति । ( प्र० प्र० पृ० ३ ) ( न्या० म० १ पृ० ७) । वक्ष्यमाणमलौकिक संनिकर्षत्रयं तु षडिन्द्रिय सहकारीति संप्रदायविदः । मनस एव सहका- रीति शूलपाणिमिश्राः ( त० कौ० १५० ९) । तत्र लौकिकः षड़िधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति । तत्र चक्षुषा इह घटोस्ति इति घटोयम् इति वा घटप्रत्यक्षजनने संयोगः संनिकर्ष उपयुज्यते । द्रव्यचाक्षुषस्पार्शन- मानसेष्विन्द्रियसंयोग एव संनिकर्षः ( न्या० म० १ पृ० ७) (सि० च० १ पृ० २२ ) । चक्षुरादेर्घटादिना संयोगसत्त्वादिति भावः । एवं मनसा संयोगेनात्मग्रहः अहमस्मि इति ( त० कौ० १ पृ० ८ ) । अत्रायं नियमः । आत्मा मनसा संयुज्यते । मन इन्द्रियेण । इन्द्रियमर्थेन ( विषयेण ) । ततः संनिकृष्टेनेन्द्रियेण निर्विकल्पकप्रत्यक्षमुत्पद्यते ( Fo भा० पृ० ६ ) ( प्र० प्र० ) । वटे रूपादिकमस्ति इति घटरूपादि- प्रत्यक्ष संयुक्तसमवायः । द्रव्यसमवेतचाक्षुषरासनप्राणजस्पार्शन- मानसेष्विन्द्रियसंयुक्तसमवाय एव संनिकर्षः (सि० च० १ पृ० २२ ) । चक्षुरादिसंयुक्ते घटे रूपादीनां समवायादिति भावः ( त० कौ० १ पृ० ९ ) । शब्देतरगुणाः कर्म द्रव्यगता जातिः संयुक्तसमवायेन गृह्यते ( न्या० म० १ पृ० ७ ) । घटगतरूपे रूपत्वाद्यस्ति इति रूपत्वादि- सामान्य प्रत्यक्षे संयुक्त समवेतसमवायः । शब्देतरगुणगता कर्मगता च जातिरित्यर्थ: ( न्या० म० १ पृ० ७ ) । अत्रायं नियमः येनेन्द्रियेण यद्गृह्यते तेनेन्द्रियेण तद्वतं सामान्यम् तत्समवायः तदभावश्च गृह्यते इत्यनुसंधेयः (त० कौ० १ पृ० १०) । द्रव्यसमवेतसमवेतस्य चाक्षुष- रासनघ्राणजस्पार्शनमानसेष्विन्द्रियसंयुक्तसमवेतसमवाय एव संनिकर्षः । चक्षुरादिसंयुक्ते घटे समवेतं रूपादि । तत्र रूपत्वादेः समवायादिति भाव: ( सि० च० १ पृ० २२) । श्रोत्रेण कर्णे ध्वनिः पतति इति इह वीणाशब्दोस्ति इति वा शब्दसाक्षात्कारे समवायः । कर्णशष्कुल्य- वच्छिन्नं नभः श्रोत्रम् । तत्र ध्वनिशब्दस्य समवायस्य सत्त्वादिति भावः ( न्या० म० १ पृ० ८ ) ( प्र० प्र० पृ० ४ ) ( त० कौ० १ पृ० ९ ) । इह शब्दे शब्दत्वगुणत्वादिकमस्ति इत्येवं श्रोत्रेण शब्द- वादिसामान्यप्रत्यक्षे समवेतसमवायः । अत्र श्रोत्रसमवेते शब्दे शब्द- त्वादे: समवायादिति भावः ( त० कौ० १५० ९) । समवायभव्यक्षे इह भूतले घटो नास्ति इति अभावप्रत्यक्षे च विशेषणविशेष्य भावः (विशेषणता विशेष्यता च ) इति ( त० सं ) ( त० मा० पृ० ६-८) (सि० च० पृ० २२ ) । तथाहि । यदा चक्षुःसंयुक्ते भूतले घटाद्यभावो गृह्यते इह भूतले घटो नास्ति इति तदा चक्षुःसंयुक्तस्य भूतल घटाद्यभावो विशेष्यम् । भूतलं विशेषणम् । अत्र चक्षुःसंयुक्त विशेष्यत्वं । संनिकर्षः । यदा मनःसंयुक्त आत्मनि सुखाद्यभावो गृह्यते अहं सुखा- दिरहितः इति तदा मनःसंयुक्तस्यात्मनः सुखाद्यभावो विशेषणम् । अत्र मनःसंयुक्त विशेषणत्वं संनिकर्षः । यदा च श्रोत्रसमवेते गकारे घत्वाभावो गृह्यते गकारो घत्वाभाववान् इति तदा श्रोत्रसमवेतस्य गकारस्य धत्वा भावो विशेषणम् । अत्र श्रोत्रसमवेत विशेषणत्वं संनिकर्षो ज्ञेयः । तदेवं संक्षेपतः पञ्चविधान्यतमसंबन्धसंबद्ध विशेषणविशेष्यभावलक्षणेनेन्द्रियार्थ संनिकर्षेणाभाव इन्द्रियेण गृह्यते । एवं समवायोपि चक्षुःसंबद्धस्य तन्तोर्विशेषणभूतः पटसमवायो गृह्यते इह तन्तुषु पटसमवायः इति (त० मा० १ पृ० ८) । तत्र विशेषणता नानाविधा । तथाहि भूत । ९. लादौ घटाभावः संयुक्तविशेषणतया गृह्यते । संख्यादौ रूपाद्यभावः । संयुक्तसमवेत विशेषणतया गृह्यते । संख्यात्वादौ रूपाद्यभावः संयुक्त समवेतसमवेतविशेषणतया गृह्यते । शब्दाभावः केवलश्रोत्रावच्छिन्न विशेषणतया गृह्यते । कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषण- तथा गृह्यते । एवं कत्वाद्यवच्छिन्नाभावे खत्वाभावादिकं श्रोत्रावच्छिन्न विशेषणविशेषणतया गृह्यते । घटाभावादौ घटाभावश्चक्षुः संयुक्तविशेषण विशेषणतया गृह्यते इति । एवमन्यत्राप्यूह्यम् (मु० १ पृ० १२२ ) ॥ एवं विशेष्यताया नानाविधत्वम् पूर्वोक्तं तदुदाहरणादिकं च द्रष्टव्यम् अत्र समवायस्य प्रत्यक्षवर्णनं न्यायमतेन । वैशेषिकमते तु समवायो तीन्द्रिय एवेति ज्ञेयम् ( त० कौ ० १ पृ० ९ ) (मु० १ पृ० १२२ ) ॥ अत्रेदं बोध्यम् । विशेषणतया विशेष्यतया च समवायाभावयोमह इत्युक्तम् । तत्र विशेषणता द्विविधा। इन्द्रियविशेषणता इन्द्रियसंबद्ध विशेषणता च । तत्रेन्द्रियविशेषणतया अयं शब्दसमवायवान् इति शब्द - समवायस्य अयं शब्दाभाववान् इति शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेषणत्वादिति भावः । ( न्या० म० १ पृ० ८) (त० कौ० १ पृ० ९) । अभावस्य स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं तदेव विशेषणत्वम् न तु तदर्थान्तरम् इति विज्ञेयम् ( त० भा० पृ० २० ) । इन्द्रियसंबद्ध विशेषणतया तु इदं कपालं घटसमवायवत् इति घटादिसमवायस्य इदं भूतलं घटाभाव- वत् इति घटाभावस्य च ग्रहः ( त० कौ० १ पृ० ९ ) ( न्या० म० पृ० ८ ) । तचक्षुरादिसंयुक्ते कपाले घटसमवायस्य चक्षुरादिसंबद्धे भूतले घटाभावस्य च विशेषणत्वादिति भावः ( न्या० म० १ पृ० ८ ) ( त० कौ० १ पृ० ९ ) । अत्र इन्द्रियसंनिकर्षस्य संयोगादेर्बहुविधस्य प्रवेशात्तादृशविशेषणतापि बहुविधा । तद्यथा इन्द्रियसंयुक्त विशेषणता इन्द्रियसंयुक्तसमवेतविशेषणता इन्द्रियसंयुक्तसमवेतसमवेत विशेषणता इन्द्रियसमवेतविशेषणता इन्द्रियसमवेत समवेतविशेषणता इन्द्रियविशेषण- (विशेषणतेत्यादिः । तत्र आद्यया इन्द्रियसंयुक्तविशेषणतया भूतले घटा- भावग्रहः । द्वितीयया घटरूपादौ रसत्वाभावग्रहः । तृतीयया रूपत्वादौ रसत्वाभावग्रहः । चतुर्थ्या श्रोत्रसमवेते ककारे खत्वाभावग्रहः । पञ्चम्या खत्वाभावग्रहः । षष्ठ्या श्रोत्रे विशेषणीभूतककाराभावे खत्वाभाव - ग्रहः इति बोध्यम् ( म० प्र० १ पृ० १० - ११ ) । एवं विशेष्यतापि द्विविधा । इन्द्रियविशेष्यता इन्द्रियसंबद्धविशेष्यता च । तत्रेन्द्रियविशेष्य- तया इह शब्दसमवायोस्ति इति शब्दसमवायस्य इह शब्दो नास्ति इति शब्दाभावस्य च ग्रहः । तत्र श्रोत्रेन्द्रिये शब्दसमवायस्य शब्दाभावस्य च विशेष्यत्वादिति भावः । इन्द्रियसंबद्धविशेष्यतया तु इह कपाले घट- समवायोस्ति इति घटादिसमवायस्य इह भूतले घटो नास्ति इति घटा- भावस्य च ग्रहो भवतीति । तत्र चक्षुरादिसंयुक्ते कपाले घटसमवायस्य तादृशे चक्षुरादिसंयुक्ते च भूतले घटाभावस्य च विशेष्यत्वादित्यवधेयम् । तत्र षड्डिधसंनिकर्षमध्ये विशेषणविशेष्यभावो न विषयतारूपः । अपि तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभाव एवेति विज्ञेयम् ( नील० १ १९ न्या० को० पृ० १८ ) । द्वितीयः अलौकिकः संनिकर्षश्च त्रिविधः । सामान्य- लक्षणः ज्ञानलक्षण: योगजधर्मश्चेति ( भा० प० १ श्लो० ६३-६५) ( मु० १ पृ० ११९ - १२२ ) । स चालौकिकप्रत्यक्षे कारणम् । एतन्त्रितयसंनिकर्षः षडिन्द्रियसहकारीति संप्रदायविदः । मनस एव सहकारीति शूलपाणिमिश्रा: ( त० कौ० १ पृ० ९) इत्युक्तमेव । <इष्टत्वम्> [क ] इच्छाविषयत्वम् । यथा इष्टदेवता नमस्कारलक्षणं मङ्गलं शिष्यशिक्षार्थी निबध्नन् ( त० दी० पृ० १ ) इत्यादा विष्टत्वम् । [ख] समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । यथा ओदनकामः पचेत स्वर्गकामो यजेतेत्यादावोदनस्वर्गरूपफलयोरिष्टत्वम् ( ग० व्यु० पृ० १३९ ) । <ई.> <ईर्या> ( समितिः ) लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षा । र्थमालोक्य गतिरीर्या मता सताम् ॥ ( सर्व० सं० १० ७९ आई०) । <ईर्ष्या> ( दोषः ) १ अक्षान्तिः । सा च परोत्कर्षासहिष्णुता ॥ या शत्रव ईर्ष्यतीत्यादौ धात्वर्थः ( ग० व्यु० का० ४ पृ० ९६ ) / अथवा / साधारणे वस्तुनि परस्वत्वात्तग्रहीतरि द्वेषः । यथा दुरन्तदायादा नामीय ( गौ० वृ० ४ । १ । ३ ) । शाब्दिकास्तु उत्कर्षविरोधिधर्मारोपानुक "लव्यापारजनकश्चित्तवृत्तिविशेषः । यथा हरये ईर्ष्यतीत्यादौ इत्या ( ल० म० सुब० का० पृ० १०३) । ईर्ष्या च कोपमूलिका तत्रोक्तम् पैशुन्यं सहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं पारुष्यं क्रोधजोपि गणोष्टकः ॥ ( मनु० ७१४८ ) इति । गोचरो द्वेष इति परमार्थः । तथा च तादृशद्वेषविषयस्य पर क्रुद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ( पा० सू० ९/४/३७ ) इत्यनेन यथा शिष्यायेर्ष्यतीत्यत्र धात्वर्थः । अत्र शिष्यानिष्टं नोपेक्षत इति वाक्यार्थ: ( श० प्र० पृ० ८७ ) । <ईश्वरः> परमात्मवदस्यार्थोनुसंधेयः । ईश्वरश्चिदचिच्चेति पदार्थंत्रितयं हरिः । । ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः ॥ ( सर्व० सं० पृ० ९२ रामानु० ) । अत्र हरिः ईश्वरः इति संबन्धः । <ईश्वरप्रणिधानम्> अभिहिताना मन मिहितानां च सर्वासां क्रियाणां परमेश्वरे परमगुरौ फलानपेक्षया समर्पणम् ( सर्व० सं० पृ० ३७१ पातञ्ज० ) । <ईषा> शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः (जै० न्या० अ० २ पा० ३ अधि० ५ ) । <उ> <उच्चरितत्वम्> उच्चारणं च शब्दोत्पत्त्यनुकूलव्यापारः । तज्जन्यत्वमुच्चरित- त्वम् । शाब्दिकास्तु ताल्वोष्ठसंयोगादिजन्या भिव्यक्ति विशिष्टत्वम् । यथा वर्णमुच्चारयतीत्यादौ वर्णस्योच्चरितत्वम् इत्याहुः (वै० सा० स्फोट ० पृ० ४४४ ) । <उच्चारणम्> कण्ठताल्वाद्यभिघातेन शब्दजनकव्यापारः । यथा वेदोच्चारण- कार्यार्थमयुक्तं तत्त्वया धृतम् ( भार० व० अ० २१४ ) इत्यादौ । तत्प्रकारस्तु आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूर्यमिहतो वक्रमा- पद्य मारुतः । वर्णान् जनयते तेषां विभागः पञ्चधा मतः ॥ इति शिक्षोक्तशावयः ( वाच० ) । अधिकं तु अनुमान चिन्तामण्यादौ द्रष्टव्यम् । <उच्छ्वासः> प्राणवायोर्व्यापारविशेषः ( गौ० वृ० ३।१।३० ) । यथा निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् (गौ० ३।१।३०) इत्यादावुच्छ्वासः । <उत्कर्षः> १ अविद्यमानधर्मारोपः । यथा उत्कर्षसमो जातिरित्यादा- वुत्कर्षः । ( गौ० ० ५/११४ ) । २ गुणनिष्ठजातिविशेषः । स च रूपत्वादिव्याप्यो रूपादिनिष्ठः । एतन्मूलिकैव अयमस्मादुत्कृष्टः इति प्रतीतिः । कालखात्मदिशां साधर्म्ये परममहत्त्वे परममहत्त्वत्वं चापकर्षानाश्रयपरिमाणत्वमित्यत्रापकर्षोप्येवमेव । ३ उत्कृष्टः इति प्रतीतिसाक्षिको द्रव्यादिवृत्तित्वेन ज्ञांयमानो धर्मः । यथा उत्कर्षवत्तया ज्ञापनं ( ज्ञानानुकूलः शब्दः ) स्तुतिरित्यादौ । स च धर्मः कचिज्जातिः कचिद्दया कचिच्च दानादीनि । यथा त्वं ब्राह्मणः त्वं दयाशीलः दाता पुत्री इत्यादौ दयादीनामप्युत्कर्षत्वम् । अत्र दयादिष्वप्युत्कर्षव्यवहा रेण तेषामप्युत्कर्षपदवाच्यत्वमिति बोध्यम् ( मू० म० १ पृ० १०३ ) । यथा वा त्वमेव राजा इत्यादौ । अत्र च कश्चिद्दरिद्रो याचक उदार धनिकं ग्राम्यप्रभुं वाभ्येत्य त्वमेव राजेति अन्ययोगव्यवच्छेदेन राज, भावमारोपयतीति लोकप्रसिद्धिद्रष्टव्या । <उत्कर्षसमः> ( जाति: ) [ क ] दृष्टान्तधर्मं साध्येन समासजनुक - समः । यदि क्रियाहेतुगुणयोगाल्लोष्टव त्क्रियावानात्मा लोष्टवदेव स्पर्शवा नपि प्राप्नोति । अथ न स्पर्शवान् लोष्टवत्क्रियावानपि न प्राप्नोति ॥ विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या० ५११४ ) । [ख] व्यातिमपुरस्कृय पक्षदृष्टान्तान्यतरस्मिन्साध्यसाधनान्यतरेणाविद्यमानधर्म- प्रसञ्जनम् । यथा शब्द अनित्यः कृतकत्वादिति स्थापनायामनित्यत्वं । कृतकत्वं घटे रूपसहचरितम् । अतः शब्दोपि रूपवान्स्यात् । तथा च बोध्यम् ( गौ० वृ० ५११४ ) । [ग] परोक्तसाधनादेव तदव्यापक विवक्षितविपरीतसाधनाद्विशेषविरुद्धो हेतुः । विरुद्धदेशनाभासोयमिति । धर्मस्य पक्ष आपादनम् । यथा शब्द अनित्यः कृतकत्वाद्धटवदित्यादी । तेनैव हेतुना शब्दो घटवत्सावयवः स्यात् इति ( नील० पृ० ४३ ) । कश्चिदेवमाह यदि कृतकत्वेन हेतुना शब्दो घटवदनित्यः स्यात्तहिं । <उत्क्षेपणत्वम्> उत्क्षेपणत्वं नामोर्ध्वदेशसंयोगासमवायिकारणसमवेतकर्मत्व । परजाति: ( सर्व० सं० पृ० २२० औलु० ) । अथ वा ऊर्ध्वदेशसं योगजनकक्रियानुकूलक्रियात्वम् ( त० व० ) । <उत्क्षेपणम्> ( कर्म ) [क] ऊर्ध्वदेशसंयोगहेतुः कर्म ( त० सं० ) ( त० कौ० पृ० २०) (त० व० पृ० २४० ) । यथा हस्तेन मुसलमुत्क्षिपतीयादावुत्क्षेपणम् । आत्मनः संयोगप्रयत्नाभ्यां प्रथमतो हस्तकर्म भवति । तत्र हस्तः समवायिकारणम् । प्रयत्नवदात्मसंयोगो समवायिकारणम् । प्रयत्नश्च निमित्तकारणम् ( त० व० परि० १६/ पृ० २४१ ) । ततो मुसलोत्क्षेपणे मुसलं समवायिकारणम् / प्रयत्न वदात्मसंयुक्तोत्क्षेपणवद्धस्तसंयोगोसमवायिकारणम् । प्रयत्नहस्तोत्क्षेपणादिकं निमित्तकारणम् इत्यादिकमुन्नेयम् । अत्रेदं बोध्यम् । उत्क्षेपण कर्तुः प्रयत्नः तस्यैव हस्तनोदनम् उत्क्षेप्यलोष्टादीनां गुरुत्वम् एतत्रयं हि कारणमुक्षे- पणादेः कर्मणः इति । उत्क्षेपणादिकर्मणः कार्याणि तु संयोगविभाग- - वेगा भवन्ति । स्थितिस्थापकोपि कर्मकार्यमित्यन्ये वदन्ति ( त० व० ) । [ख ] ऊर्ध्वसंयोगफलकक्रियावच्छिन्नव्यापारः । यथा गगने लोष्ट- मुत्क्षिपतीत्यादौ धात्वर्थः ( श० प्र० पृ० ९६ ) । [ग] शरीरा- वयवेषु तत्संबद्धेषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणम् अधो- भाग्भिश्च प्रदेशैर्विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्यः तत् ( प्रशस्त० कर्मनि० पृ० ३७)। <उत्तमसाहसः> वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ ( मिताक्षरा अ० २ श्लो० २६ ) । <उत्तरत्वम्> १ स्वाधिकरणकालध्वंसाधिकरणत्वम् । यथा चैत्रोत्तरत्वं वैशाखमासस्य । अत्र च त्रिंशदिवसात्मकचैत्रमासस्याधिकरणं तावान् दण्डकालः । तद्धंसाधिकरणत्वं वैशाखस्येति लक्षणसमन्वयः । यथा वा भुक्त्वा व्रजतीत्यादौ व्रजनस्य भोजनोत्तरत्वम् । २ मेरुसंनिहितदेशा- वच्छिन्नत्वम् । यथा झळकीग्रामादुत्तरस्यां दिशि सोलापुरग्राम इत्यादौ ततो वायव्यैशान्योर्मध्यदिश उत्तरत्वम् । ३ क्रियाजन्यसंयोगानुयोगित्वम् भाविक्रियाजन्यसंयोगाश्रयत्वं वा । यथा ग्रामं गच्छतीत्यादौ ग्रामात्मक- प्रदेशस्य पूर्वदेशमपेक्ष्योत्तरत्वम् । ४ दक्षत्वम् उत्तरसंज्ञकत्वं वा । यथा उत्तराः कुरव इत्यादौ इति काव्यज्ञा वदन्ति । <उत्तरपद:> (द्विगु: समासः ) यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्ष- नामान्तरेण समासस्यान्तर्गतः सः । यथा पञ्च गावो धनमस्येति विग्रहे पञ्चगवधनः पुरुषः इत्यादौ बहुव्रीह्यादिनिविष्टः पञ्चगवादिः ( श० प्र० १० ४७)। <उत्तरम्> १ परपक्षप्रतिषेधः (वात्स्या ० ५।२।१९) । यथा उत्तरस्या- प्रतिपत्तिरप्रतिभा (गौ० ५/२/१९) इत्यादौ । २ प्रश्ननिवर्तकं वाक्यम् । यथा कोसि इति पृष्टे देवदत्तोहमस्मि इति वचनम् । तत्रोक्तम् प्रश्नश्चोद्यधिया पृच्छा तस्य खण्डनमुत्तरम् इति ( वाच० ) । - जिज्ञासितविषयावेदकं वाक्यमुत्तरमिति केचित् (वाच७) । शाब्दिकास्तु -यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्मा- ! (वच्छिन्ने जिज्ञासिततद्धर्मावच्छिन्नसंबन्धबोधकवाक्यम् । यदाहुः जिज्ञासि - तपदार्थस्य संसर्गो येन गम्यते । तदुत्तरमिति प्रोक्तमन्यदाभासशब्दि- तम् ॥ इति । यथा कस्माद्धटः इति प्रश्नस्य दण्डाद्घटः इत्युत्तरम् । अत्र घटत्वावच्छिन्ने जिज्ञासितधर्मावच्छिन्नसंबन्धबोधकस्य कस्माद्धट इति प्रश्नवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्नस्य हेतुहेतु- मद्भावबोधकं दण्डाद्दटः इति वाक्यमुत्तरम् ( वै० सा० द० पृ० ८७ ) इति वदन्ति । ३ सिद्धान्तानुकूलत पन्या सरूपोधिकरण विशेष इति मीमांसका वेदान्तिनश्चाहुः । ४ राजसमीपे वादिकृताभियोगापनोद कमुत्तराख्यं व्यवहाराङ्गमिति व्यवहारज्ञाः । पक्षस्य व्यापकं सारसंदि ग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥ ( मिता- क्षरा अ० २ श्लो० ७) । ५ नक्षत्रविशेष इति ज्योतिर्विद आहुः । <उत्तरमीमांसा> ( दर्शनम् ) उत्तरस्य वेदशेषभागस्योपनिषद्वपस्य मीमांसा जिज्ञासा ( ब्र० सू० १।१।१ ) इत्यारभ्य अनावृत्तिः शब्दात् (ब्र० पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मको विचारः । यथा अथातो ब्रह्म- सू० ४।४।२३ ) इत्येतावान् अध्यायचतुष्टयात्मको सत्यवतीसुतव्यास- कृतो ब्रह्मविचारः ( वाच ० ) । <उत्तीर्णता> १ निश्चयः (ग० सव्य ० ) । यथा असाधारण्योत्तीर्णतादशाया- मित्यादौ । २ नद्यादेः पारगमनकर्मत्वमुत्तीर्णत्वमिति काव्यज्ञा वदन्ति । <उत्तेजकत्वम्> १ प्रतिबन्धककोटिप्रविष्टाभावप्रतियोगित्वम् । यथा दा प्रति मणिविशेषस्योत्तेजकत्वम् । अत्र च दाहं प्रति मणिविशेषस्य प्रति बन्धकत्वं लोकसिद्धम् । परंतु मणिविशेषान्तरस्य च समवधाने द उपत्या मणिविशेषान्तराभाषविशिष्टमणिविशेषस्यैव प्रतिबन्धकत्वस्यावश्यं - वक्तव्यतया मणिविशेषान्तरस्योत्तेजकत्वमुपपद्यत इति । २ प्रेरकत्वमिति काव्यज्ञाः । ३ उद्दीपकत्वं वर्धकत्वं वेत्याधुनिका लौकिकजना वदन्ति । <उत्थाप्याकाङ्क्षा> ( आकाङ्क्षा) अनियताकाङ्क्षा ( राम० १ पृ० २ ) । यथा उदयति चन्द्रः कुमुदबान्धव इत्यादौ चन्द्रपदकुमुदबान्धवपदयोर- नियताकाङ्क्षा । अत्र समाप्तपुनरात्तत्वाख्यः काव्यदोषोस्तीति बोध्यम् । <उत्थिताकाङ्क्षा> (आकाङ्क्षा) नियताकाङ्क्षा । यथा क्रियाकारकपदानां परस्पराकाङ्क्षा । यथा वा पुत्रादिपदानां पित्रादिरूप प्रतियोगिवाचकपदा- काङ्क्षा नियता ( राम० १५० २) । नियतत्वं चात्रावश्यंभावित्वम् । अत्र च पुत्र इत्युक्ते कस्येत्या काहोदयादेवदत्तस्येत्याद्यपेक्ष्यत इति देवदत्त - स्येति षष्ठ्यन्तपदपुत्रपदयोर्नियताकाङ्केति ज्ञेयम् । <उत्पत्तिः> अत्र बहवो विप्रतिपद्यन्ते । असतः सदुत्पद्यते इति बौद्धाः । प्रागुत्पत्तेरसत् कारणव्यापारादुत्पद्यते इति नैयायिकाः । सत एव कार- णात् असतः कार्यस्य कारणव्यापारात् उत्पत्तिरित्यर्थः । उत्पत्तेः प्रागसत् उत्पत्तिकाले च सदिति तद्भावः । प्रागुत्पत्तेः सदपि कारणव्यापारादभि- व्यज्यते इति सांख्याः मायावादिवेदान्तिनश्च प्रतिपेदिरे । यथा पीडनेन तिलेषु तैलस्य अवघातेन धान्येषु तण्डुलानाम् दोहनेन सौरमेयीषु पयसः अभिव्यक्तिः तद्वत् । तत्र सतो विवर्त इति मायावादिनां मतम् । परिणाम इति सांख्यानां मतम् ( वाच०) । उत्पत्तिशब्दार्थस्तु आद्यक्षणसंबन्धः । स च [ क ] स्वाधिकरणक्षणावृत्तिप्रागभावप्रति- योगिक्षणसंबन्धः ( आत्मत व्या० शिरोम०) ( वाच० ) ( म० प्र० १ पृ० १२ ) ( त० प्र० १ ) । [ ख ] स्वाधिकरणक्षणध्वंसान- धिकरणक्षणसंबन्धो वा ( म० प्र० १ १० १२ ) ( त० प्र० १ ) । यथा उत्पत्तिमानभावो ध्वंस इत्यादावुत्पत्तिः । यथा वा घटपटादे- रुत्पत्तिः । स्वम् उत्पद्यमानत्वेनाभिमतं घटादि ( म०प्र० १ पृ० १२) । क्षणश्च स्वजन्यविभागप्रागभावावच्छिन्नं कर्म । अत्र स्वम् उत्पद्यमानं कर्म ( म० प्र० पृ० १२) । [ग] यो यत्कालवृत्तिध्वंसयोग्यवृत्ति- स्तस्य तद्वृत्तित्वमुत्पत्तिरित्यपि केचित् ( दीधि० २) । [घ ] स्ववृत्ति- ध्वंसप्रतियोगिकालावृत्तित्वविशिष्टस्व वृत्तित्वम् । इदं च महाप्रलये क्षण- व्यवहारानङ्गीकारेपि महाप्रलयस्योत्पत्तिः संपद्यत इत्यभिप्रायेणोक्तमिति ( विज्ञेयम् ( दि० १ पृ० ९३ ) । [ ङ ] तदधिकरणक्षणावृत्तित्व व्याप्यस्ववृत्तिध्वंसप्रतियोगिताकसमयवृत्तित्वम् । तत्पदमुत्पत्स्य मानपदार्थप रम्। तथा च दधिकरणक्षणावृत्तित्वस्य व्याप्या यत्समयवृत्तिध्वंस प्रतियोगिता तस्य तत्समयवृत्तित्वम् इति ( राम० ११ १२ १९२ ) । इदं । च महाप्रलयस्यापि क्षणत्वं वर्तते इत्यभिप्रायेणोक्तमिति विज्ञेयम् ( दिन० १ पृ० ९२ ) । [च ] यत्समयवृत्तिध्वंसप्रतियोगिताव्यापकं तत्कार्या धिकरणक्षणवृत्तित्वं तत्समयवृत्तित्वमिति केचित् ( दि०) । सा द्विविधा । स्वत उत्पत्तिः परत उत्पत्तिश्च । तत्राद्या यथा मीमांसकनये स्वतः प्रमात्वस्योत्पत्तिः । द्वितीया यथा घटादीनामुत्पत्तिः । सकलकारणयोग पद्यमुत्पत्तिरिति केचित् । आत्मन उत्पत्तिस्तु देहसंगतिः ( ता० र० श्लो० २१ ) । <उत्पत्तिकालावच्छिन्नत्वम्> स्वाधिकरणसमयध्वंसवदन्यकालसंबन्धः (ग०) पक्ष० पृ० ३९) । यथा यदा यो घट उत्पद्यते तदा तस्य घटत्य, देरुत्पत्तिकालावच्छिन्नत्वम् । अथ वा तत्तदधिकरणसमयध्वंसाधिकरण तत्कालावच्छिन्नत्वम् । यथा वा द्वितीयक्षणपर्यन्तावस्थायिनोपि ज्ञाना समयसंबन्धानामभावकूटविशिष्टत्वम् (ग० २ प० पृ० ४१ ) । <उत्पत्तिविधिः> ( विधिः ) कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः ( मी० न्या० पृ० ९) । तत्स्वरूपं द्विविधम् । द्रव्यं देवता चेति । "यथा दर्शपूर्णमासे आग्नेयोष्टाकपालो भवति इत्यादि । ज्योतिष्टोमे सोमेन यजेत इति । क्वचित् अग्निहोत्रं जुहोतीत्यादौ रूपाश्रवणेप्युत्पत्ति विधित्वमस्त्येव ( म० प्र० ४ पृ० ६२ ) । <उत्पातः> शुभाशुभसूचको भूतविकारः । यथा वाताय कपिला विद्युदि त्यादौ । अत्र ज्ञाप्यज्ञापकभावश्चतुयेर्थः । तथा च वातरूपज्ञाप्यज्ञापिका कपिला विद्युत् इति बोध: ( ल० म० सुब० का० ४ पृ० १०५)। । <उत्पादः> [ क ] स्वाधिकरणसमयध्वंसान धिकरण समयसंबन्धः । [ख ] तत्तत्समयवृत्तिध्वंस प्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसंबन्धः । यथा धर्मादुत्पद्यते सुखम् दण्डाज्जायते घट इत्यादौ धातोरर्थः । अत्र तादृश- संबन्धरूपधात्वर्थनिष्ठं जन्यत्वं पञ्चम्यर्थः । तथा च धर्मजन्यो यः स्वाधि- करणसमयध्वंसानधिकरणसमयसंबन्धस्तद्वत्सुखम् इत्याकारको बोधः । वृत्तिकृतस्तु उत्पद्यत इत्यादौ प्रागभावप्रतियोगित्वरूपमेवोत्पत्तिमत्त्वं धात्वर्थ इत्याहु: ( श० प्र० कार० पृ० ८१ ) । <उत्पाद्यम्> १ कार्यवदस्यार्थोनुसंधेयः । २ निर्वर्त्य इत्याख्यः कर्मविशेषः । इदं च प्रकृतिकर्मासमभिव्याहारे संपद्यते । प्रकृतिकर्म समभिव्याहारे तु विकार्यम् इत्युच्यत इति विवेकः । शिष्टं तु निर्वर्त्य विकार्य इत्यादिशब्द- व्याख्याने दृश्यम् ( ग० व्यु० का० २ पृ० ६५) । <उत्सर्गः> १ उत्सर्जनवदस्यार्थोनुसंधेयः । २ सामान्यशास्त्रमिति मीमांस- कादयो वदन्ति । तल्लक्षणं तु बलवद्वाधकापोद्यत्वम् । अत्रायं नियमः अपवादाभावे उत्सर्गप्रवृत्तिः इति । यथा न हिंस्यात्सर्वा भूतानीति शास्त्रमुत्सर्गः । अस्य यागीयहिंसायां न प्रवृत्तिः । तत्र पशुमालमेत इत्यपवादसत्त्वात् । <उत्सर्गसमितिः> कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले । यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ॥ ( सर्व० सं० पृ० ७९ आई० ) । <उत्सर्जनम्> १ [क] स्वानुयोगिकप्राप्तवस्तुप्रतियोगिकसंबन्धविरहेच्छा । यथा उत्सृजति धनं देवदत्त इत्यादौ धात्वर्थः । अत्र स्वपदार्थस्तु उत्सर्जनकर्ता देवदत्तादिः । [ख ] त्यागः । २ कर्मविशेष इति श्रोत्रिया वदन्ति । <उदानः> (वायुः ) [क] अन्नादेरूर्ध्वनयनादुदानः ( सि० च० १ पृ० ८) (दि० १/२ पृ० ८५) । अत्रोक्तम् स्पन्दयत्यधरं वक्रं गात्रनेत्रप्रकोपनः । उद्वेजयति मर्माणि उदानो नाम मारुतः ॥ विद्युत्पावकवर्णः स्यादुत्थानासनकारकः । पादयोर्हस्तयोश्चापि सर्वसंभिषु २० न्या० को० वर्तते ॥ इति ( पदार्थादर्शे ) ( वाच ० ) । [ ख ] अथ योस्योर्ध्वः सुषिः स उदानः स वायुः स आकाश: ( छान्दो० उ० ३।१३।५ ) । <उदारत्वम्> सहकारिसंनिधिवशात्कार्यकारित्वम् ( सर्व० सं० पृ० ३६० पातञ्ज० ) । <उदासीनत्वम्> विहित निषिद्ध एतदुभयविपरीतत्वम् । यथा उदासीनं वाक्यम् इत्यादावुदासीनशब्दस्यार्थः । शिष्टं तु तटस्थशब्दव्याख्यानादौ दृश्यम् । <उदाहरणम्> ( न्यायावयवः ) [क] साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ( गौ० १ । १ । ३६) । दृष्टान्तो दृष्टान्तवचनम् । दृष्टान्त- कथनयोग्यावयव इत्यर्थ: ( गौ० वृ० १ । १ । ३६ ) । हेतावुक्ते कथमस्य गमकत्वम् इत्याकाङ्क्षायां व्यातिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथ म्यात् तत्प्रदर्शनायोदाहरणम् ( चि० २ पृ० ८० ) । व्याप्तिज्ञानमुदा हरणस्य प्रयोजनम् ( त० दी० २ पृ० २२) । उदाहरणत्वं च अनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनिय तव्यापकत्वाभिमतसंबन्धबोधजनकशब्दत्वम् ( चि० २ अव० पृ० ८०) । यद्वा अवयवान्तरार्थानन्वितार्थकावयवत्वम् ( गौ० वृ० १/१/३६ ) । अथवा इतरार्थान्वितस्वार्थाबोध कन्यायावयवत्वम् ( दीधि ० २ पृ० १७७)। तद्यथा यो यो धूमवान् स सोग्निमानिति शब्दवृत्त्यवयव विभाजकोपा धिमत्त्वम् ( न्या० म० २ पृ० २३ २४ ) । [ख ] व्याप्तिप्रति पादकं दृष्टान्तवचनम् ( त० दी० २ पृ० २२) । तदर्थश्च प्रकृत हेतुमति प्रकृतहेतुव्यापकत्व विशिष्ट साध्यबोधकवाक्यम् । उदाहरणघटक- साध्यपदान्निरूढलक्षणया हेतुव्यापकत्वविशिष्टस्य साध्यस्य बोधनात् २२ – २३ ) । यथा पर्वते धूमेन वहिसाधने यो यो धूमवान्स साग्निमान् यथा महानसः इति वाक्यमुदाहरणम् ( त० मा० २ पृ० ११) / ( चि० २ अव० पृ० ८० ) । उदाहरणं द्विविधम् । अन्वय्युदाहरणम् उपनयाभिधान प्रयोजकजिज्ञासाजनकवाक्यमुदाहरणमित्यन्ये । व्यतिरेक्युदाहरणं चेति (गौ० वृ० १ । १ । ३५) (चि० २ १० ८०) । [ ग ] उदाहरणस्य व्याप्तिप्रतिपत्तिपरत्वमक्षतमिति बोध्यम् (नील० <उदाहरणाभासः> निदर्शनाभासशब्दवद स्यार्थोनुसंधेयः । उदीची—(दिक् ) [ क ] प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची (वै० उ० २/२/१० ) (वै० २१ २११५ ) । अत्र वामत्वं तु शरीरा- वयववृत्तिजातिविशेषः (वै० उ० २१ २११० ) । [ख] मेरुसंनिहित- देशावच्छिन्ना दिक् ( वाक्य० १ पृ० ५ ) ( न्या० बो० १ पृ० ३ ) । यथा झळकीग्रामा दुदीच्यां सोलापुरग्रामः । <उद्देशः> १ [क] नामधेयेन पदार्थमात्रस्याभिधानम् ( वात्स्या० ११ १२ ) ( त० मा० पृ० १ ) ( त० दी० १ पृ० ७ ) । यथा प्रमाणप्रमेय - संशयप्रयोजनदृष्टान्तसिद्धान्त (गौ० १११११ ) इत्याद्यभिधानम् ( त० भा० पृ० १ ) । यथा वा पृथिवीजलतेजस्वायुआकाशकालदिश- आत्ममनांसि इत्याद्यभिधानम्। [ख] वस्तुप्रतिपादकनाममात्रम् (नील० १ पृ० ७ ) । [ग] लक्ष्यतावच्छेदकमात्रेण लक्ष्यसंकीर्तनम् (त० कौ० पृ० २१) । यथा द्रव्यं गुणः कर्मेत्यादिकथनम् । [घ ] संज्ञा- मात्रेण पदार्थानामभिधानम् । २ इच्छाविशेषः । ३ शाब्दिकास्तु उपदेशदेशः । तत्र देशश्वोच्चारणकालः । यथा यथोद्देशं संज्ञापरिभाषम् इत्यादावित्याहुः । ४ समासकथनमुद्देश इति सुश्रुतोक्तस्तन्त्राधिकरणभेदः । ५ काव्यज्ञास्तु उत्कृष्टप्रदेश : ६ संक्षेपश्चोद्देशशब्दार्थ इत्याहुः (वाच० ) । <उद्देश्यत्वम्> [ क ] विषयताविशेषः । यथा पर्वत हिमान् इत्यनुमितौ पर्वतस्योद्देश्यत्वम् । विषयताविशेषश्चानुमितौ शाब्दबोधे च योजनीयः । प्रवृत्तौ तूद्देश्यत्वं स्वजनकेच्छाविषयत्वम् । यथा स्वर्गकामो यजेतेत्यादि- वाक्यजनितेष्टसाधनताज्ञानतः स्वर्गफलोद्देशेनैव यागे प्रवृत्तिः इति स्वर्गस्य तत्रोद्देश्यता ( वाच० ) । अत्रेदं बोध्यम् । यमुद्दिश्य विधेयप्रवृत्तिः तदुद्दे- श्यमनुवाद्यम्। उद्देश्यविधेयभावस्थलेयं नियमः उद्देश्यवाचकपदस्य .विधेयवाचकपदात्प्राक् प्रयोगः कर्तव्यः इति । तत्रोक्तम् अनुवाद्यमनु- क्त्वैव न विधेयमुदीरयेत् इति ( वाच० ) । यथा पर्वतो वह्निमानित्यत्र पर्वतः । [ख ] इच्छा विशेष्यत्वमिति केचित् ( न्या० २० ) । [ग] इच्छाविषयत्वम् । यथा पर्वतत्वावच्छेदेन साध्यसिद्धेरुद्देश्यतायाम् (दीधि ० २ पृ० १६८) इत्यादौ । यथा वा वैयाकरणमते विप्राय गां ददातीत्यादौ विप्रे गोस्वामित्वभागितयेच्छा विषयत्वमुद्देश्यत्वम् (वै० सा० द० सु० पृ० १९४ ) । [घ ] प्रकृतत्वम् ( दीधि ० २ पृ० १६७ ) । यथा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकेत्यादौ ( चि० २ प्रतिज्ञाग्रन्थ० ) । [ङ ] शाब्दिकाश्च यच्छन्दप्रतिपाद्यत्वे सति सिद्धत्वेन प्रतीयमानत्वे सत्यनुवाद्यत्वमुद्देश्यत्वमिति बदन्ति । [च] मानान्तरप्राप्तत्वे सति विधेयान्वयित्वेन निवेश्यत्वमिति मीमांसकाः । [ मानसापेक्षो विषयत्वाकार उद्देश्यत्वम् ( जै० न्या० अ० १ पा० ४ अधि० ६ ) । <उद्धोधकत्वम्> स्मृतिप्रयोजकत्वम् । यथा प्रणिधाननिबन्धादीनामुद्बोधक त्वम् ( गौ० ३।२।४२ ) । उद्बोधकानि च प्रणिधानादीनि स्मृतिजन संस्कारस्य सहकारीणि भवन्ति। अत्रेदं बोध्यम् । उद्बुद्ध एव संस्कारः स्मृतिं जनयति । तत्रोद्बोधश्च सहकारिलाभ: ( त० मा० पृ० ३७) । स्मृतिजननाय संस्कारोद्दीपनम् ( वाच ० ) । स्मृतिप्रयोजकत्वं च कारण- कारणतावच्छेदकसाधारणं ज्ञेयम् । तेन प्रणिधानादिषु कस्यचित्स्वरूप - सतः कस्यचिज्ज्ञातस्यापि स्मारकत्वेपि नासंग्रहः । उद्बोधने च एक संबन्धिज्ञानमपरसंबन्धिस्मारकम् इति प्रायिको नियमो द्रष्टव्यः । <उद्भवः> १ [ क ] बाह्यैकैकेन्द्रियग्रहणयोग्यगुणत्वात्मक उपाधिः । स च रूपादिविशेषगुणगतो जातिविशेष एव रूपत्वादिव्याप्यः । अयं च उद्भूतत्ववदस्यार्थोनुसंधेयः । [ग] अनुद्भवाभावोद्भव रूपप्रत्यक्ष प्रयोजक इति ज्ञेयम् (वै० उ० ४।११८ ) । [ख] (वै० उ० ४।११८) । २ उत्पत्तिः ( मिता० अ० ३ पृ० ३९ ) । यथा विष्णुपादोद्भवा गङ्गा इत्यत्र स्थैर्य चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ( याज्ञ० स्मृ० अ० ३ श्लो० ८० ) इत्यादौ च ( वाच० ) । <उद्भूतत्वम्> [ क ] प्रत्यक्षत्वप्रयोजको धर्मविशेष: ( त० दी० १.५० १३) । स च रूपत्वव्याप्यजातिमत्त्वम् ( चि० १) । इयं जातिश्च घटादिगतकादिवृत्तिरिति विज्ञेयम् । उद्भुतत्वं च केषुचित् रूपरसगन्ध- स्पर्शेषु चतुर्षु वर्तते इति बहूनां मतम् । यथा उद्भूतरूपं नयनस्य गोचरः ( भा० प० श्लो० ५४ ) उद्भूतस्पर्शवद्रव्यं गोचरः सोपि च त्वचः (भा० प० श्लो० ५६) इत्यादौ नीलत्वादिव्याप्यानुद्भूतत्वाभावकूटवत्वम् । [ख] प्रत्यक्षयोग्यरूपरसगन्धस्पर्शसंयोगाद्यन्यतमत्वम् । [ग] उद्भूतत्वं जातिस्तदभावोनुद्भुतत्वमिति जरनैयायिकाः । तदयुक्तम् । यथाहि अनुद्भूतत्वं जातिर्न भवति शुकृत्वादिना संकरात् । एवमुद्भूतत्वमपि जाति भवतीति विज्ञेयम् ( सि० च० १ पृ० ४ ) । अत्र नव्याः उद्भूतत्वं जातिः । न च शुकृत्वादिना सांकर्यम् । गुणसांकर्य न बाधक- मित्याहुः ( नी० १ पृ० १३) । [घ ] अनुद्भूतत्वं जाति- स्तदभाव उद्भूतत्वमिति गङ्गेशोपाध्यायः (सि० च० १ पृ० ४-५ ) । केचित्त शुक्लत्वादिव्याप्यमनुद्भूतत्वं नाना । तत्तदभाव कूटवत्वमेवोद्भूतत्व- मित्याहुः ( नील० १ पृ० १३ ) । <उद्वापः> १ श्रूयमाणपदपरित्यागः पश्चात् । यथा घटं न गामानय इत्यादिवाक्यादावावापोद्वापाभ्यामित्यादौ ( मुक्ता ० ४ पृ० १७६ ) । २ उद्धरणम् ( वाच० ) । <उद्धृषभयज्ञः> ज्येष्ठमासे पौर्णमास्यां बली वर्दानभ्यर्च्य धावयन्तीत्याचारः । सोयमुद्द्वृषभयज्ञः ( जैमि० न्या० अ० १ पा० ३ अधि० ८ ) । <उन्नयनम्> १ अनुमानम् । २ वितर्कः । ३ यज्ञीयः पूतभृदाख्यः पात्र- विशेष इति याज्ञिका आहुः । ४ ऊर्ध्वप्रापणमिति काव्यज्ञाः (बाच ० ) । ५ संस्कारविशेष इति मौहूर्तिकाः । <उन्नायकत्वम्> ज्ञापकत्वम् । अत्र ज्ञापकत्वं जनकज्ञानविषयत्वम् । यथा पर्व घूमेन वह्निसाधने वह्निमपर्वतोन्नायकत्वं वह्निव्याप्यवत्पर्वतस्य । <उन्नेयत्वम्> ज्ञाप्यत्वम् । अत्र ज्ञाप्यत्वं जन्यज्ञान विषयत्वमिति बोध्यम् । यथा पर्वते धूमेन वह्निसाधने वहिव्याप्यवत्पर्वतोन्नेयत्वं वह्निमत्पर्वतस्य । <उन्मत्त:> उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः ( मिताक्षरा अ० २ श्लो० ३२ ) । <उपकारः> [क सहकारिलाभः । यथा घटाद्युत्पत्ती दण्डाद्युपकारः । यथा वा स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ( भा० प० लो० १०४ ) इत्यादौ स्पार्शनप्रत्यक्षे कारणात्मकस्य स्पर्शस्योपकारः ( मुक्ता० गु० पृ० १९७ ) । [ ख ] सहकारिभिः कारणस्य कार्यो त्पादनार्थमानुगुण्यम् । यथा मीमांसकमते दर्शादियागस्य प्रधानापूर्व- साधने प्रयाजादीनामङ्गानां कलिकापूर्वसाधनद्वारा तदानुगुण्यम् । यथा वा बौद्धमते कुर्वद्रूपतारूपस्य बीजादेरुच्छ्रनत्वस्य संपादनरूपातिशया- धानमुपकार इति ( वाच० ) । <उपक्रमः> १ आरम्भः । उपायज्ञानपूर्वकारम्भो वा । यथा ॐ ज्योतिरुप क्रमात्तु तथा ह्यघीयत एके ॐ (ब्र० सू० ११४।१० ) इत्यादौ । १२ तात्पर्यनिर्णायको हेतुविशेषः । यथा वेदान्तिनां मते उपक्रमोपसं हारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये ॥ इत्यादौ ( वाच० ) । <उपगतम्> द्रव्यादिस्वीकारद्योतकं पत्रम् (पावती) इति प्रसिद्धम् । <उपचयः> १ वृद्धिः । यथा अवयवोपचय इत्यादौ । २ उन्नतिः । यथा स्वशक्त्युपचये केचित् परस्य व्यसने परे ( माघः स० २ लो० ५७ / इत्यादौ । <उपचार:> स्या० १।२।१४ ) । [ख शक्यार्थत्यागेन लक्षणयान्यार्थबोधनम् । -१ [क] सहचरणादिनिमित्तेनातद्भावे तद्वदभिधानम् (वा यथा मञ्चाः क्रोशन्ति अग्निर्माणवक इत्यादौ । अत्र तु अन्वयानुपपत्ति रेवोपचारबीजम् । यथा आत्मकर्म हस्तसंयोगाच्च (वै० ५/१/६) । इत्यादावात्मशब्दः शरीरावयवपर उपचारात् इति (वै० उ० ५/१/६// तात्पयनुपपत्तिरेवोपचारे बीजमिति तु युक्तम् । २ ज्ञानम् । यथा तदये व्यक्त्याकृतिजातिसंनिधावुपचारात्संशयः ( गौ० २/२/६१ ) इत्यादा उपचारो ज्ञानम् (गौ० वृ० २/२/६१) । ३ व्यवहारः । यथा स्मृतेरुपचारादन्यार्थदर्शनाच ( शब० भा० ) इत्यादौ । ४ चिकित्सोति भिषजो वदन्ति । ५ पूजा सेवा धर्मानुष्ठानं चेति काव्यज्ञाः । ६ साह- श्यमित्यालंकारिका आहुः (वाच० ) । <उपचारच्छलम्> ( छलम्) [ क ] धर्मविकल्पनिर्देशेर्थसद्भावप्रतिषेध उपचारच्छलम् (गौ० १।२।१४) । अभिधानस्य धर्मो यथार्थप्रयोगः । धर्मविकल्पोन्यत्र दृष्टस्यान्यत्र प्रयोगः । तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा मञ्चाः क्रोशन्तीति । अर्थसद्भावेन प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः कोशन्ति (वात्स्या० १ । २।१४ ) । [ख ] शक्तिलक्षण- योरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलम् । यथा मञ्चाः क्रोशन्ति इत्यत्र मञ्चस्था एव क्रोशन्ति न तु मञ्चाः । एवम् नीलो घट इत्यत्र घटस्य कथं नीलरूपाभेदः । एवम् अहं नित्य इति शक्त्या प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोप्युपचारच्छलम् । वाद्यमिप्रेतार्थस्यादूषणेन छलस्यासदुत्तरत्वम् ( गौ० वृ० १।२।१४ ) । [ग] उपचारप्रयोगेषु गौणलाक्षणिकेषु यः । मुख्यार्थासंभवाद्वाध उपचारच्छलं च तत् ॥ इति । (ता० २० परि० १ श्लो० ९६-९७) । <उपजीवकत्वम्> [ क ] कार्यत्वम् । यथा घटस्य दण्डोपजीवकत्वम् । यथा वा संगतिश्च प्रत्यक्षेणोपजीव्योपजीवकभाव इत्यादावनुमाने प्रत्यक्ष- कार्यत्वम् ( राम० २ पृ० १३४ ) । ख प्रयोज्यत्वम् । यथा शाब्द- <उपजीवी> प्रयोज्यः । यथा शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगार्थको बोधस्योपमितिप्रयोजकत्वम् ( राम० १३४ ) इत्यत्रोपमितेः प्रयोज्यत्वम् । दृष्टार्थकः शब्दः (गौ० वृ० १११।८) इत्यादौ ग्रन्थे उपजीविन् शब्दस्यार्थः । <उपजीव्यत्त्रम्> १ [क] कारणत्वम् । [ ख ] प्रयोजकत्वम् । उदाह- पूर्वोक्तम्। उपजीव्यत्वं च द्विविधम् । स्वसत्ता- प्रयोजकत्वम् स्वज्ञान प्रयोजकत्वं च । उपजीव्योपजीवकभावश्च ज्ञान- सत्त्वयोः प्रयोज्य प्रयोजकभावः । यथा एकस्यान्यसत्ताप्रयोजकत्वम् अप रस्य च तत्प्रयोज्यसत्ताकत्वम् । एवम् अन्यज्ञानप्रयोजकत्वम् अन्याधीन- ज्ञानविषयत्वम् । २ काव्यज्ञास्तु उपजीवनोपायवान्। यथा सूचकाः सेतुभेत्तार: परवृत्युपजीवकाः । अकृतज्ञाश्च मित्राणां ते वै निरयगा- मिनः ॥ ( भा० आ० अ० २३) इत्यादौ इत्यादुः ( वाच० ) । <उपदेशः> १ शब्दः ( गौ० वृ० २/१/५२ ) । यथा आप्तोपदेश- सामर्थ्याच्छन्दार्थे संप्रत्ययः ( गौ० २११/५२ ) इत्यादौ । २ प्रति- पत्त्यनुकूळव्यापारः। यथा शिष्यं धर्मे वदति वक्ति ब्रूते उपदिशति आचष्टे इत्यादौ वदप्रभृतिधात्वर्थः । अत्र धात्वर्थघटकप्रतिपत्तौ शिष्यस्या- धेयत्वेन धर्मस्य च विषयत्वेनान्वयात् धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूलव्यापारवान् इत्याकारको बोधः । अत्र तादृशव्यापारो धर्मः सेव्यताम् इत्यादिको गुर्वाद्यभिलापः ( श० प्र० पृ० ९८ ) । ३ अनुशासनम् । यथा आर्षे धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मे वेद नेतरः ॥ ( मनु० अ० १२ श्लो० २०६ ) इत्यादौ । ४ हितकथनं ५ प्रवर्तकवाक्यं वा । यथा धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः ( मनु० अ० ८ श्लो० २७२) इत्यादौ । ६ शिष्याय सविधानं मन्त्रकथनमुपदेश इति मात्रिकाः । ७ दीक्षाभेद इति तात्रिका: ( वाच० ) । ८ आद्योच्चारणमुपदेश इति शाब्दिका वदन्ति । तदुक्तम् धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः ॥ इति । ९ यत्रापेक्षितस्यार्थजातस्य प्रतिपादको ग्रन्थसंदर्भः पठ्यते स उपदेश इति मीमांसकाः ( जै० न्या० अ० ७ पा० १ अवि० १) । <उपधा> १ कामक्रोधादयो भावदोषाः । एते अधर्मजनकाः ( त० व० ) । २ धर्मार्थकामाद्युपन्यासेनामात्यपरीक्षणम् । यथा चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः (भट्टि ) इत्यादौ इति नीतिशास्त्रज्ञाः । ३ छलम् । यथा उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ( मनु० अ० ८ श्लो० १९३) इत्यादौ इति व्यवहारज्ञाः । ४ अलोन्त्यापूर्व उपधा (पा० सू० ११११६५) इति शाब्दिका वदन्ति ( वाच० ) । ५ परवश्च- नेच्छा ( प्रशस्त० गु० कामनि० पृ० ३३ ) । <उपधानम्> १ उपधायकत्ववदस्यार्थोनुसंधेयः । २ व्रतविशेष इति धर्मज्ञाः । ३ विशेषः ४ प्रणयश्च इति काव्यज्ञा आहुः ( वाच० ) । <उपधायकत्वम्> १ ( कारणत्वम् ) अव्यवहित पूर्ववृत्तित्वसंबन्धेन फलव शिष्टत्वम् । यथा परामर्शस्यानुमित्यात्मक फलोपधायकत्वम् । यथा वा विशेषणज्ञानस्य विशिष्टज्ञानात्मक फलोपधायकत्वम् । <उपधिः> १ अन्यथा स्थितस्य वस्तुनः अन्यथाप्रकाशनरूपो व्यापारः । यथा योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत्सर्वे ३ विनिवर्तयेत् ॥ ( मनु० अ० ८ श्लो० १६५ ) इत्यादौ । २ छलमिति काव्यज्ञा वदन्ति (वाच० ) । <उपधेयः> १ यत्किंचिद्धर्मविशिष्टो धर्मी । यथा उपधेयसंकरेप्युपाभ्यसंकरा - दित्यादौ । अत्रेदमुदाह्रियते । वायुर्गन्धवान् स्नेहादित्यादानुपधेयस्य दोषा- श्रयस्य धर्मिणः स्नेहादेर्हेतोः संकरेपि (ऐक्येपि ) उपाधीनां व्यभिचार- विरोधादिरूपदोषात्मकधर्माणामसांकर्यात् ( भेदेन प्रतीयमानत्वात् ) पृथक् तत्तद्दोषव्यवहार उपपद्यत इति । एवमन्यत्राप्यूह्यम् । २ मन्त्रविशेषेण स्थापनीय इष्टकादिरिति याज्ञिका आहुः ( वाच० ) । <उपनयः> १ ( न्यायावयवः ) [क] उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ( गौ० ११११३८ ) । साध्यस्य पक्षस्योदाहरणापेक्ष उदाहरणानुसारी य उपसंहार उपन्यासः स इत्यर्थः ( गौ० दृ० ११ १२ १३८) । उदाहरणानन्तरं भवतु व्याप्तिस्तथापि व्याप्तं किं पक्षे वर्तते न वा इत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्वप्रदर्शनायोपनयः । पक्ष- धर्मताज्ञानमुपनयस्य प्रयोजनम् ( त० दी० २ पृ० २२) । उदा- हरणान्त एव प्रयोग इति न वाच्यम् । तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्ष- धर्मतावगाहिनोवयवान्तरादलाभात् । उपनयानभ्युपगमे पक्षधर्मताया अ- लाभात् ( चि० २ पृ० ८१ ) । लक्षणं तूपनयत्वमेव । तच्च अनुमिति- कारणतृतीयलिङ्गपरामर्शजनकावयवत्वम् ( चि० २ अव० पृ० ८१ ) । विशेष्ये निगमनार्थस्य विशेषणत्वेनान्वयालक्षणसमन्वय इति बोध्यम् । इतरोपस्थापितार्थविशेषण कस्वार्थबोधजनकन्यायावयवत्वं वा । उपनयार्थे एवमुत्तरत्रापि ज्ञेयम् । अथवा स्वार्थविशेष्यकेतरार्थान्वयबोधजनकन्याया वयवत्वम् ( दीधि० २ पृ० १७७ - १७८) । यद्वा वहिव्याप्यघूम- बानयमिति शब्दवृत्त्यवयवविभाजकोपाधिमत्त्वम् ( न्या० म० २ १० २४ ) । [ख] प्रकृतोदाहरणोपदर्शितव्याप्तिविशिष्टहेतु विशिष्टपक्षबोध- जनको न्यायावयवः (गौ० वृ० ११ १२ १३८ ) । [ग ] पक्षे व्याप्त- २१ न्या० को० लिङ्गोपसंहारः (त० भा० पृ० ४३ ) । [घ ] उदाहृतव्याप्तिविशिष्ट- त्वेन हेतोः पक्षधर्मताप्रतिपादकं वचनम् ( सि० च० २५० २५ ) । [ङ ] परामर्शित्ववचनम् । [च ] व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचः नम् ( त० दी० २ पृ० २२ ) । यथा तथा चायम् तद्व्याप्य हेतुमान् तद्वान् वा इति वाक्यमुपनय: ( दीधि० २ अव० पृ० १७० ) । अयम् । तथा चायम् इत्याकारः प्राचामुपनयः । नव्यानां तु तद्व्याप्यहेतुमान् तद्वान् वेत्याकार उपनयः ( दीधि० पृ० १७०) । एवं च पर्वते धूमेन वहिसाधने वह्निव्याप्यधूमवानयम् इति वाक्यमुप- नयः । तथा चायम् तद्वान् इत्यत्र तच्छब्देन वह्निव्याप्यधूमस्य तद्व्याप्य वान् इत्यत्र तु तच्छन्देन साध्यस्य परामर्शात् ( ग० २ अव० पू० ३५ ) ( त० भा० पृ० ४३ ) ( त० सं० ) । केचित्तु पर्वतो वहि मानित्यादौ तथा चायम् इत्याकारः वह्निमद्व्याप्यधूमवानयम् इत्याकारो वा उपनय इति प्राहुः ( दीधि० पृ० १७० ) । उपनयो द्विविधः यथा सुरभि चन्दनम् इत्यादिप्रत्यक्षस्य जनको ज्ञानलक्षणः संनिकर्ष अन्वय्युपनयः व्यतिरेक्युपनयश्चेति ( गौ० वृ० ११ १/३८) । २ ज्ञानम् उपनयः ( मू० म० १ ) । स्वविषये मनसः संनिकर्ष इत्यर्थः (ग० बाघ० पृ० २१ ) । अत्र व्युत्पत्तिः । नीयत उपस्थाप्यते ज्ञानविषय तामापाद्यतेनेन इति करणे अच् । अधिकं तु ज्ञानलक्षणः एतव्या- ख्याने सविस्तरं संपादयिष्यते । ३ उपनयनाख्यः संस्कारविशेष इति धर्मज्ञा वदन्ति । <उपनिक्षेपः> रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः । स्वं द्रव्यं यत्र विस्रम्भान्निक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥ ( मिताक्षरा अ० २ श्लो० २५ )। <उपनिधिः> असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधि निक्षेपं गणितं विदुः ॥ ( मिताक्षरा अ० २ श्लो० ६५ ) । <उपनिषत्> १ ब्रह्मविद्या । २ ब्रह्मविद्याप्रतिपादकं वेदशिरोभागरूपं वेदान्तशास्त्रम् । यथा ऐतरेयकठवडीईशावास्यकेनप्रश्न इत्यादि। अत्र व्युत्पत्तिः । सेयं ब्रह्मविद्योपनिषच्छन्दवाच्या तत्पराणां सहेतोः संसारस्यायन्तावसादनात् । उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याग्रन्थो- प्युपनिषदुच्यते ( बृ० शं० भा० ) । <उपनीतभानम्> १ उपनीततत्तादिविषयकत्वम् । यथा प्रत्यभिज्ञात्मके घटो नास्ति सुरभि चन्दनम् इत्यादौ प्रत्यक्ष उपनीतभानम् । अत्र उपनीतस्य ज्ञातस्य भानम् विषयिता इति विग्रहः । अत्रायं विशेषोवधार्यः । इदमुप- नीतभानं प्रत्यक्ष एव तिष्ठति न त्वनुमित्यादावपीति (ग० बाघ ० पृ० २१ ) ( दीधि ० २ पृ० २२२ ) । २ लौकिकालौकिकोभय- संनिकर्षजन्यं ज्ञानम् । यथा सुरभि चन्दनम् इति प्रत्यक्षमुपनीतभानं भवति । तच्च सौरभ्यांशे अलौकिकसंनिकर्षः चन्दनांशे लौकिक- संनिकर्षश्चैतदुभाभ्यां जन्यत इति बोध्यम् । अत्र उपनीतस्य भानं यत्र तत् इति व्युत्पत्तिर्द्रष्टव्या । <उपनीतम्> ज्ञानलक्षणसंनिकर्षेण ज्ञातम् । यथा उपनीतं विशेषणतयैव भासते मानसे तु नायं नियम इत्यादौ ( वाच० ) । <उपन्यासः> १ वाक्योपक्रमः । २ वाक्यप्रयोगः । यथा तस्माद्ब्रह्मजिज्ञासो- पन्यासमुखेन ( शा० भा० ) इत्यादौ । ३ विचारः ( कुल्लूकभट्टः ९। ३१ ) । यथा पुण्यमुपन्यासं निबोधत ( मनु० अ० ९ श्लो० ३१) इत्यादौ । ४ विश्वासेनान्यसमीपे द्रव्यन्यासः ( उपनिधिः ) इति व्यव- हारज्ञा आहुः । <उपपत्तिः> १ ज्ञानम् । यथा समानानेकधर्मोपपत्तेः ( गौ० ११ १२ १२३) इत्यादी ज्ञानम् ( गौ० वृ० १ । १ । २३ ) । यथा वा अविज्ञाततत्त्वेर्थे कारणोपपत्तितः ( गौ० ११११४० ) इत्यादा बारोपात्मकं ज्ञानम् । २ साधक प्रमाणोपन्यासरूपा युक्तिः (वै० सा० द० ) । यथा श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यचोपपत्तिभिरित्यादौ । ३ संगतिः । यथा उपपत्ति- मदूजिताश्रयं वचनम् ( किरा० स० २ श्लो० १) इत्यादौ । ४ हेतुः ५ उपाय: ६ प्राप्तिः ७ सिद्धिः इति काव्यज्ञा वदन्ति ( वाच० ) । <उपपत्तिसमः> ( जातिः ) [क] उभयकारणोपपत्तेरुपपत्तिसमः ( गौ० ५।१।२५ ) । यद्यनित्यत्वकारणमुपपद्यते शब्दस्येत्यनित्यः शब्दः तदा नित्यत्वकारणमप्युपपद्यतेस्य।स्पर्शत्वमिति नित्यत्वमप्युपपद्यते । उभय- स्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमः । ( वात्स्या० ५१११२५ ) । बाघदेशनाभासः प्रतिरोधदेशनाभासो वायम् इतिज्ञेयम् ( गौ० वृ० ५।१।२५ ) । [ख] व्याप्तिमपुरस्कृत्य यत्किंचिद्धर्मेण परपक्षदृष्टान्तेन स्वपक्षसाधनेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः कृतकत्वादित्युक्ते यथा त्वत्पक्षे अनित्यत्वे प्रमाणमस्ति तथा मत्पक्षोपि सप्रमाणकः त्वत्पक्षमत्पक्षान्यतरत्वात् त्वत्पक्षवत् । तथा च बाधः प्रतिरोधो वा ( गौ० वृ० ५ । १ । २५ ) । ग उभयपक्ष- साधर्म्येण साधनोपपत्तिकथनम् । यथा यदि चानित्यत्वसाधनं कार्यत्व मुपपद्यत इति शब्दस्यानित्यत्वं तदा नित्यत्वसाधनमपि किंचिदुपपद्यत इति नित्यत्वं किं न स्यादिति ( नील० पृ० ४४ ) । <उपपदम्> १ समीपोच्चारितः पूर्वमुच्चार्यः शब्दः । यथा तस्याः स राजो पपदं निशान्तम् ( रघु० स० १६ श्लो० ४०) । फलन्ति कल्पोप- पदास्तदेव ( माघ० स० ३ श्लो० ५९ ) इत्यादौ । २ नामोत्तर मुच्चारितः शर्मवर्मादिशब्दः । ३ शाब्दिकास्तु सप्तम्यन्तेन निर्दिश्यमानं पदम् । यथा कर्मण्यण् (पा० सू० ३।२।१ ) इत्यादौ कर्मणि इति सप्तम्यन्तेन निर्दिश्यमानं कुम्भकार इत्यादौ कुम्भादिकं पदं अणूप्रत्यय विधाने उपपदम् इत्याहुः ( वाच० ) । <उपपदसमासः> ( यौगिक नाम ) धातुकृद्भ्यां निष्पन्नं यस्योत्तरपदं शब्दान्तनुत्तरं सद्यादृशार्थस्य बोधं प्रत्यसमर्थ तादृशार्थकान्त्यपदक समासः स उपपदसंज्ञकः । यथा कुम्भकारः क्षीरपायीत्यादावपपद- समासः । अत्रोत्तरपदशब्द: समासचरमावयवे रूढ इत्यनुसंधेयम् । तु समासे धातुकृत्र्यां निष्पन्नं कर्त्राद्यर्थकं कारादिपदम् पदान्तरानुत्तरं सन्न कर्त्रादेरन्वयबोधक्षममिति लक्षणसमन्वयो बोध्यः ( श० प्र० पू० ६६ ) । एवं क्षीरपायीत्यादावप्यूह्यम् । उपपदसमासश्च उपपदमतिङ् (पा० सू० २।२।१९) इत्यनेन भवतीति ज्ञेयम् । उपपदसमासश्च कर्मकर्त्राद्युपपदभेदाद्बहुविध एव । वैयाकरणास्तु कारकमात्रोपपदकत्वात् ५ षड्डिध एवेत्याहुः । अत्रेदमवधेयम् । ब्रह्मभूयमित्यादौ कारकभिन्नेनाप्युप- पदेन समास इति न षड्डिधत्वमात्रं तस्य किंत्वसावुपपदसमासोनेकविध एवेति । असूर्येपश्या इत्यत्राप्युपपदसमास एव ( श० प्र० पृ० ६७ ) । <उपभोगः> विषयसेवनजन्यसुखविशेषः । यथा स्त्रीणां स्वपतिदायस्तु उपभोगफलः स्मृतः ( महाभा० दान० वीरमित्रो० अ० २ पृ० ६२८ ) इत्यादावुपभोगः । <उपमर्दः> १ [ क ] एकरूपनिवृत्तौ रूपान्तरोपजनः (वात्स्या० २१ २ ॥ [क] ५६ ) । [ख ] धर्मिनिवृत्तौ धर्म्यन्तरप्रयोगः । यथा अस्तेर्भूः (गौ० वृ० २१२/५६ ) । तथाहि व्याकरणशास्त्रे आर्धधातुकप्रत्ययविवक्षायाम - सूधातोर्मू इत्यादेशे ( पा० सू० २/४/५२) बभूवेत्यादि रूपं सिष्यतीति विज्ञेयम् । यथा वा ब्रूञो वचिः स्था इत्यस्य तिष्ठ इत्यादेशः ( वाच० )। २ नाश इति मायावादिनः । ३ निष्पीडनमिति काव्यज्ञा वदन्ति । <उपमा> १ उपमानजन्यं शब्दशक्तिज्ञानम् । यथा गवयादिपदानां तु शक्ति- धीरुपमा फलम् (भाषा० ३ लो० ८१) इत्यादौ सादृश्यज्ञानजन्य गवयो गवयपदवाच्यः इत्युपमितिः । २ गवादिसादृश्यज्ञानम् उपमान- मिति मायावादिनः । ३ अर्थालंकारविशेष इत्यालंकारिकाः । ४ साह- श्यम् । यथा स्फुटोपमं भूतिसितेन शंभुना ( माघः स० १ श्लो० ४ ) इत्यादौ इति काव्यज्ञा वदन्ति । <उपमानम्> १ ( प्रमाणम् ) [क] प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् । तदर्थश्च प्रसिद्धस्य पूर्वप्रमितस्य गवादेः साधर्म्यात्सादृश्यात् तज्ज्ञानात साध्यस्य गवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिः । यत इत्य- मध्याहारेण च करणलक्षणम् । अथवा साध्यसाधनमिति करणल्युटा करणलक्षणमेवेदम् ( गौ० वृ० ११ १/६) । प्रज्ञातेन सामान्यात्प्रज्ञा- पनीयस्य प्रज्ञापनमुपमानमिति । यथा गौरेवं गवय इति । अत्र उपमीयतेनेनेति करणे ल्युट् ( ल० म० ) । उपमानस्य प्रमाणा- न्तरत्वमित्थम् । उपमितेः प्रत्यक्षादिप्रमितिभ्योतिरिक्तत्वात् विलक्ष- णोपमितिकरणत्वेनोपमानमपि प्रमाणान्तरम् इति ( म० प्र० ३ पृ० ३५) । लक्षणं तु उपमितिकरणत्वम् ( चि० ३ पृ० १७ ) । शाब्दिकास्तु साधारणधर्मवत्त्वेनेष दितर परिच्छेदकत्वम् इत्याहु: ('ल० म० ) । किं पुनरत्रोपमानेन क्रियते । यदा खल्वयं गवा समानधर्मे प्रतिपद्यते तदा प्रत्यक्षतस्तमर्थ प्रतिपद्यत इति । समाख्यासंबन्धप्रतिपत्ति- रुपमानार्थ इत्याह । यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समान- धर्ममर्थमिन्द्रियार्थसंनिकर्षादुपलभमानोस्य गवयशब्दः संज्ञेति संज्ञा संज्ञिसंबन्धं प्रतिपद्यत इति । यथा मुद्गस्तथा मुद्द्रपर्णी यथा माषस्तथा। माषपर्णीत्युपमाने प्रयुक्त उपमानात्संज्ञासंज्ञिसंबन्धं प्रतिपद्यमानस्तामोषध भैषज्यायाहरति (वात्स्या० १।१।३ ) । [ख] सप्रतियोगिकपदार्थ- ज्ञानेन तत्प्रतियोगिकपदार्थज्ञानम् ( चि० ३ पृ० ८ ) । [ ग ] उप मितिकरणम् । तच्च सादृश्यज्ञानम् । यथा गोसदृशो गवयः इति ज्ञान- मुपमानं भवति ( त० सं० ३ ) ( न्या० म० ३ पृ० २४ ) । अत्रेदं बोध्यम् । उपमितिकरणमुपमानमित्यत्रोपमा नमित्यस्योपमानपदवाच्य- मित्यर्थः । तथा चोपमानपदवाच्यमुपमितिकरणमिति वाक्यार्थः । यथा- श्रुत उपमानशब्दस्य करणव्युत्पत्त्योपमितिकरणार्थकत्वेनानन्वयापातात् । दण्डवान् दण्डवानियत्रोद्देश्यतावच्छेदकविधेययोरैक्येऽनन्वयस्य सर्वसंमत- त्वादिति ( म०प्र० ३ पृ० ३४ ) । सादृश्यज्ञानमित्यस्य सादृश्यप्रका रकं ज्ञानमित्यर्थः ( सि० च० ३ पृ० २९) । अत्र भाष्यम् उपमान सारूप्यज्ञानम् । यथा गौरेवं गवय इति । सारूप्यं तु सामान्ययोगः ( वात्स्या० १।१।३ ) । उपमानस्योपमितिकरणत्वं चेत्थम् । कश्चिद्भवय- शब्दवाच्यमजानन्कुतश्चिदारण्यक पुरुषात् गोसदृशो गवयः इति श्रु वनं गतो वाक्यार्थी स्मरन्गोसदृशं पिण्डं पश्यति । तदनन्तरं अयं गवय पदवाच्यः पिण्डः इति संज्ञासंज्ञिसंबन्धप्रतीतिरुपमितिरुत्पद्यते। सैव फलम् इति ( त० सं० ) ( त० मा० पृ० १७) ( सि० च० ३ पृ० ३० ) । यद्वा अतिदेशवाक्यार्थज्ञानमुपमितिकरणम् ( न्या० बो० ) । अतिदेश वाक्यार्थस्य ज्ञानं ( अनुभवः ) करणम् । अतिदेशवाक्यार्थस्मरण व्यापारः । उपमितिः फलम् इति । प्राचीन नैयायिकमतमेतत् । अथवा अतिदेशवाक्यार्थस्मरणसहकृतं सादृश्यविशिष्टज्ञानमुपमितिकरणम् । यथा गोसादृश्यविशिष्टपिण्डज्ञानम् ( त० भा० ३ पृ० १७) (सि० च० ३ पृ० ३० ) । आगमस्मृतिसहितं सादृश्यज्ञानमुपमानमिति जरन्नैयायिका जयन्तप्रभृतयः ( चि० ३ पृ० १० ) । [घ ] सादृश्यप्रमाकरणमिति मायावादिनः ( वेदान्तपरि० ) ( चि० ३ पृ० १ ) । [ङ ] आगमा- हितसंस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् ( न्या० वा० १पृ० १६) । [च ] अव्युत्पन्नपदोपेतवाक्यार्थस्य हि संज्ञिनि । प्रत्यक्षप्रत्यभिज्ञानमुप- मानमिहोच्यते ॥ इति (ता० २० श्लो० २२) । वैशेषिकाः सांख्याश्च पद- वाच्यत्वव्याप्यसादृश्यादिपरामर्शात्पदवाच्यत्वस्यानुमितिरेव । अतो नोपमानं प्रमाणान्तरमित्याहुः ( सां० कौ० ) । तच्चिन्त्यम् । व्याप्तिज्ञानमन्तरेणापि पदवाच्यत्वप्रमितेः शब्दादितोनुभवसिद्धत्वात् ( नील ० ३ पृ० २७ ) (न्या० म० ३१२४) (चि० ३) (भा०प० श्लो० १४२ ) । अनु- मिनोमि इत्यनुव्यवसायविषयीभूता अनुमितिर्यथा प्रमित्यन्तरं तथा उपमि- नोमि इति विलक्षणानुव्यवसायविषयीभूतोपमितिरपि प्रमित्यन्तरम् इति तत्क- रणत्वेनोपमानं प्रमाणान्तर मिति नैयायिकाः प्राहु: (राम० ३ पृ० १७३) । तु ब्रूमः । अयं गवयपदवाच्यः इत्याद्युपमितौ गवयादिशब्दवाच्यस्य गवयत्व विशिष्टपिण्डस्येव गवयादिशब्दस्यापि विषयत्वेन सकलप्रमिति- वैलक्षण्येनोपमितेः सर्वैरप्यभ्युपगन्तव्यतया तत्करणत्वेनोपमानस्य प्रमा- णान्तरत्वमावश्यकम् इति । उपमानं त्रिविधम् । सादृश्यविशिष्टपिण्ड- (ज्ञानम् असाधारणधर्मविशिष्टपिण्डज्ञानम् वैधर्म्यविशिष्टपिण्डज्ञानं चेति । तत्राद्यम् गोसाय विशिष्टपिण्डज्ञानम् । द्वितीयम् खड्गमृगज्ञानम् । तृतीयम् उष्ट्रज्ञानम् ( सि० च० ३ पृ० ३०) । खड्गमृगे असा- धारणधर्मश्च नासिकालसदेकशृङ्गत्वम् इति ज्ञेयम् । उष्ट्रे वैधर्म्यं तून्नत- पृष्ठदीर्घग्रीवादि ऊह्यम् । प्रकारान्तरेणोपमानं त्रिविधम् । साधर्म्यापमा नम् वैधर्म्यापमानम् धर्ममात्रोपमानं चेति ( म० प्र० ३ पृ० ३४ ) । तत्राद्यम् गोसदृशपिण्डानुभवः । द्वितीयम् इयं (पृथिवी ) जलादि- विधर्मगुणवती इत्यनुभवः । तृतीयम् गन्धवती पृथिवी इत्यनुभवः इति । ( न्या० म० पृ० २४-२५) (म० प्र० ३ पृ० ३५ ) ( दिन० ३ पृ० १७२ ) । अत्र अयं (गवयः ) गवयपदवाच्यः इति इयं (पृथिवी) पृथिवीपदवाच्या इति इयं पृथिवीपदवाच्या इति च क्रमेणोपमितय उत्पद्यन्ते इति विज्ञेयम् (न्या० म० ३ पृ० २४ २५ ) ( म० प्र० पृ० ३५ ) ( दि० ३ पृ० १७२ ) । एवम् कीदृक् करभपदवाच्यः लम्बग्रीवः प्रलम्बोष्ठः कठोरकण्टकाशी इति प्रश्नोत्तरेपि धर्ममात्रोपमानं ज्ञेयम् ( म० प्र० ३ पृ० ३५ ) । २ उपमितिः । ३ आलंकारिकास्तु सादृश्य प्रतियोगि उपमानम् । यथा चन्द्र इव मुखमित्यादौ चन्द्र उप- मानम् इत्याहुः । <उपमितिः> ( अनुभवः ) [ क ] नियतधर्मसमानाधिकरणप्रवृत्तिनिमित्त ज्ञानम् । प्रवृत्तिनिमित्तत्वं च प्रकारतया शक्तिग्रहविषयत्वम् । [ख] अगृहीतसमयसंज्ञाया वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्त परिच्छेदः । गवयत्वविशिष्टो धर्मी गवयशब्दवाच्यः इति प्रवृत्तिनिमित्तविशेषपरि [ग] किंचिद्वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्तपरिच्छेदः । च्छित्तिरुपमितिः (चि० ३ पृ० १५ - १७) । [घ ] लिङ्गवादि- लक्षणातिदेशवाक्यार्थज्ञानजन्यज्ञानम् ( दीधि ० ) । [ङ ] सादृश्यज्ञान- करणकं ज्ञानम् (मु० १ पृ० १११ ) ( न्या० म० ३ पृ० २४) (त० प्र०) ( त० सं० ) । तच ( उपमित्यात्मकं ज्ञानम् ) संज्ञा- संज्ञिसंबन्धज्ञानम् ( त० सं० ) ( न्या० बो० ३ पृ० १९) / यथा अयं गवयपदवाच्यः इति ज्ञानम् उपमितिरिति प्राञ्चः ( त० सं० ३) / संज्ञा पदम्। संज्ञी पदार्थः । तयोः संबन्धः शक्तिः । तज्ज्ञानमित्यर्थः शब्दशक्तिग्रह विशेष इत्यर्थः (भा० प० ३ श्लो० ८१) । तथाहि ( न्या० बो० ३ पृ० १९) ( नील० ३ पृ० २७) । तयोः संबन्धी वाच्यवाचकभावः ( वाक्य० ३१० १८) । अत्रेदं बोध्यम् ।' अर्य गवयपदवाच्यः इत्याकारिकायामुपमितौ गवयत्वावच्छेदेन गवयपद- वाच्यत्वमवगाहते न तु गोसादृश्यावच्छेदेन । तस्य गौरवेणानवच्छेदक - त्वात् इति ( न्या० म० ३ पृ० २५ ) । गवयो गवयपदवाच्यः इत्याकारिका उपमितिरिति नवीननैयायिकाः प्राहु: (मु०३पृ० १७१) । [ च ] शक्तिपरिच्छित्तिः (त० प्र० ख० ४ पृ० १ ) । यथा वयो गवयपदवाच्यः इति । उपमितित्वं च उपमिनोमीत्यनुभवसिद्धो जाति- विशेषः । अथवा शब्द विषयकत्वाव्यभिचारिजातिमत्परोक्षत्वम् ( न्या० म० ३ पृ० २४ ) ( नील० ३ पृ० २७ ) । अत्र अनुमित्यादिवारणाय जातिमदन्तम् । श्रवणवारणाय परोक्षपदम् प्रत्यक्षान्यपरम् ( न्या० म० ३ पृ० ४ ) । यद्वा सादृश्यविशिष्टे पदवाच्यत्वप्रकारकस्मृतित्वावच्छि- न्नकारणतानिरूपितकार्यत्वम् (वाक्य ० ३ पृ० १८) । अत्रेदं बोध्यम् । उपमितिर्हि पदवाच्यत्वविषयिका । पदं च शब्दात्मकम् इत्युपमितेः शब्द- विषयकत्व नियम इति ( न्या० म० ३ पृ० २४ ) । सा च प्रत्यक्षादि- भ्योतिरिक्तैव । इयं प्रमितिः प्रत्यक्षादिप्रमितिभ्यो भिद्यते तद्विरुद्धधर्मत्वा- दित्यनुमानस्य प्रमाणत्वात् । उपमिनोमीति विलक्षण प्रमितित्वाच्चोप मितिरति- रिक्तेति सिध्यति ( त० प्र० ३ ) । कणादमते गवयपदं सप्रवृत्तिनिमित्तकं, साधुपदत्वादित्यनुमानेनैवात्रापि निर्वाह: । उक्तानुमाने च पक्षधर्मताबलाद्ग- वयत्वप्रवृत्तिनिमित्तकत्वं पर्यवस्यतीत्यनुसंधेयम् ( त० व० पृ० ९८ ) । उपमितेरुत्पत्तिप्रकार स्वित्थम् । गवयशब्दार्थमजानन् कश्चिन्नागरिकः कंचिद्वनेचरं कीदृशो गवयपदवाच्यः इति पृच्छति । ततस्तेन गोसदृशो गवयपदवाच्यः इत्युत्तरितः स कदाचिद्वनं गतो गोसदृशं पिण्डं प्रागुक्तातिदेशवाक्यार्थी स्मृत्वा असौ गवयपदवाच्यः इति प्रतिपद्यते । सा उपमितिः (त० कौ० ३१० १६) ( न्या० म० ३५० २४ ) (त० मा० पृ० १७) । अत्रेदमवधेयम् । अतिदेशवाक्यार्थज्ञानं शाब्दबोधरूपं करणम् । अतिदेशवाक्यार्थस्मृतिर्व्यापारः । सादृश्य- विशिष्ट पिण्डदर्शनं सहकारि । उपमितिः फलम् । इति प्राचीननैयायिक मतम् । सादृश्यप्रत्यक्षं करणम् । अतिदेशवाक्यार्थस्मृतिः व्यापारः । अत्र सादृश्यविशिष्ट पिण्डदर्शनस्योद्बोधक विधया तादृश वाक्यार्थस्मारकत्वात् । उपमितिः फलम् । इति नवीननैयायिकमतम् (न्या० म० ३१० २५) २२ न्या० को (त० प्र० ३) (दि० ३ । १७० - १७१ ) ( म० प्र० ३ । ३४ ) ( न्या० बो० ३ पृ० १९) । अत्रातिदेशवाक्यार्थस्त्रिविधः प्रतिगृह्यते । साधर्म्ये धर्ममात्रं च वैधर्म्यं चेति मेदतः ॥ इति ( ता० र० श्लो० २३ ) । <उपमेयत्वम्> सादृश्यानुयोगित्वम् । यथा चन्द्रवन्मुखमित्यादौ मुखस्योप- त्वम् । शाब्दिकास्तु साधारणधर्मवत्तया परिच्छेद्यत्वमुपमेयत्वम् इत्याहुः ( ल० म० ) । <उपयोगः> १ [क] इष्टसाधनत्वम् । यथा यागः स्वर्गोपयोगी याद यागस्य स्वर्गात्मकेष्टसाधनत्वम् । [ख ] आनुकूल्यम् । यथा अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम् ( सुश्रु० ) इत्यादौ । यथा वा अनङ्ग लेखक्रिययोपयोगम् ( कुमार० स० १ श्लो० ७ ) इत्यादौ ( वाच● २ सहजचिद्रूपपरिणतिं स्वीकुर्वाणे ज्ञानदर्शने उपयोगः ( सर्व० सं० पृ० ६७ आई० ) । ३ विवक्षितार्थपरिच्छित्तिलक्षणो उपयोग इति बृहद्रव्यसंग्रहे । <उपरवः> ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ता चतसृष्वाग्नेय्यादिविदिक्षु चत्वारो गर्ता अरनिमात्रखाता अधोभागेर स्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता उपरवनामकाः (जै० न्या० अ० ३ पा० ८ अधि० १६ ) । <उपलक्षणम्> ( व्यावर्तकम् प्रकारो वा ) [क] प्रत्याय्यव्यावृत्त्यधिकरण तावच्छेदकान्यत् व्यावर्तकम् । प्रत्याय्यव्यावृत्तिकारणतावच्छेदकान्यत इति पाठान्तरम् । अत्र विशेषः । उपलक्षणं स्वानधिकरणेपि व्यावृत्तिं बोधयति इति ( चि० १ पृ० ३४ ) । अत्रेदं बोध्यम् । उपलक्षणस्य शाब्दबोधे भानं नास्तीति सिद्धान्तः । अत्रोपलक्षणत्वं च तत्पदजन्य- बोधविषयत्वेन शक्त्यविषयत्वम् ( दि० ४ पृ० १७९) । भगवदि च्छायां बोधविषयत्वेनाभासमानत्वे सति भासमान विषयांशे प्रकारत्वम मिश्राः । शाब्दिकास्तु तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वे स शक्तिविषयत्वम् । यथा धातूनां व्यापारमात्रवाचकत्ववादिनां प्राचीन नैयायिकानां मते फलस्योपलक्षणत्वम् इत्याहु: (वै० सा० द० ) । विषयित्वाविशेषणतया विषयविशेषणतया पदजन्यतावच्छेदकनिष्ठत्वमिति गुरवः (कृष्ण० श० २०)। [ख] विवक्षितान्वयप्रतियोगितानवच्छेदकं व्यवच्छेदकम् । यथा काकेन देवदत्तगृहमित्यादौ काको न गृहस्य देवदत्तान्वयप्रतियोगितावच्छेदकः । अत्रायं भावः । प्रयोगकाले गृहे काकासत्त्वेपि यदाकदाचित्काकसमवधानेपि पूर्वोपस्थितकाकस्मरणेन देव- दत्तगृहं विज्ञायत इति काकस्योपलक्षणत्वमिति बोध्यम् । [ग] यद- विज्ञ तात्पर्यविषयीभूतेतरान्वयधीस्तद्व्यवच्छेदकं यत् तद्भिन्नम् ( चि० १ पृ० ३४ ) । [घ ] अविद्यमानं सत् व्याव- र्तकम् । यथा जटामिस्तापस इत्यादौ तापसादेः कालान्तरीणजटादिकम् ( ग० न्यु० का० ३ पृ० ९१ ) । यथा वा यदा तु देवदत्तगृह उपरि भ्रमन्नसन् काकः तदोपलक्षणम् ( वै० उ० ७ १२१८ ) । जटाभिरित्य- त्राविद्यमानजटादे: संबन्धविवक्षया मतुबाद्यनवकाशात् इत्थंभूतलक्षणे ( पा० सू० ३।३।२१ ) इत्यनेन तृतीया ज्ञेया । अयमाशयः। विशेषणस्य संबन्धो मतुबादिभिः प्रत्याय्यते । अस्ति इत्यर्थे तदस्यास्यस्मिन्निति मतुप् (पा० सू० ५/२/९४ ) इत्यनेन विहितानां वर्तमानसंबन्धार्थक- त्वात् । अतो जटाभिस्तापस इत्यादावविद्यमानजटादे: संबन्धविवक्षया मतुबाघनवकाशात् तृतीया । अत्रायं विशेष: । कचिच्च विद्यमानमपि अतद्ध्यावृत्ति – ( तद्भिन्न व्यावृत्ति-) न्यूनाधिकवृत्तितया न तत्र विशेषण- मित्युच्यते किंतूपलक्षणम् । यथा विद्यमानापि जटा तापसे उपलक्षणम् । न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणम् ( ग० न्यु० का० ३ पृ० ९२ ) । [ङ ] सदसद्वा समानाधिकरणं व्यावर्तकं विशेषणम् व्यधिकरणमुपलक्षणमित्युदयनाचार्या: ( चि० १ पृ० ३४ ) । [च ] क्वचित् विधेयान्तरसमानकालीनमपि विशेषणं तदनन्वयितया तदन्वयि न्युपलक्षणमित्युच्यते । यथा रूपवान् रसवानित्यादौ रूपादिकं रसा- न्वयिनि । सास्नावान्गोपदवाच्य इत्यादौ सास्नादिकं गवादिपदवाच्ये । कचित् धर्मिंसंबद्धधर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युप- लक्षणम् । अतः दण्डपुरुषौ इत्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षित- पुरुषादिविषयकः नतु विशिष्टविषयक इत्युच्यते ( ग० व्यु० का० ३ पृ० ९२ ) । २ अजहत्स्वार्थलक्षणया अन्यग्राहकम् ( म० प्र० ३ पृ० ३५ ) । यथा अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषय त्वम् ( चि० २) इत्यत्रानुमितिपदं परामर्शस्यापि ग्राहकम् ( दीधि ० सामा० ) (ग० २ सामा० पृ० २) । यथा वा साधर्म्यापमानं वैधर्म्याद्युपस्थापकम् ( म०प्र० ३।३५ ) । यथा वा काकेभ्यो दि रक्ष्यतामित्यादौ काकपदं दध्युपघातकत्वेन रूपेण काकाकाकोभय- बोधकम् ( वाच० ) । अत्र उपलक्ष्यते स्वं स्वेतरच्चानेन इति व्युत्पत्तिः । करणे ल्युट् । लक्षणं तु लक्ष्यतावच्छेदकरूपेण स्वस्खेतरबोधकपद त्वम् ( वाच० ) । <उपलब्धिः>. बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ( गौ० १/१/१५ ) // २ ज्ञानेन पुरुषस्य यः अतात्त्विकः संबन्धः स इति साख्याः (मु० १॥२ आत्म० ) । अयं भावः । स्वच्छायां बुद्धौ वर्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य मेदाग्रहात् अहं जानामि इति योभिमान विशेषः । सैवोपलब्धिः इति (वै० उ० ८ । १ । १ ) । चेतनोहं करोमि इत्याकारेण बुद्ध्यारोपितस्य पुरुषस्य ज्ञानेन सह इद ज्ञानम् इति प्रतीयमानोतात्त्विक संबन्धो यः स उपलब्धिः इति ( दि० ११२ ) ( राम० १/२ पृ० १०५ ) । ३ प्राप्तिरिति काव्यज्ञा वदन्ति । <उपलब्धिसमः> (जातिः ) [ क ] निर्दिष्टकारणाभावेप्युपलम्भादुपल- ब्धिसमः ( गौ० ५/१ । २७ ) । प्रतिकूलतर्कदेशनाभासः बाघदेशन । भासश्चायम् ( गौ० वृ० ५ । १ । २७ ) । निर्दिष्टप्रयत्नानन्तरीयकत्वस्या- नित्यत्वकरणस्याभावेपि वायुनोदनाद्वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्व- । मुपलभ्यते । निर्दिष्टस्य साधनस्याभावेपि साध्यधर्मोपलब्ध्या प्रत्यवस्थान । मुपलब्धिसमः (वात्स्या० ५१११२७ ) । [ख वादिना निर्दिष्टस्य कारणस्य साधनस्याभावेपि साध्यस्योपलम्भात्प्रत्यवस्थानम् । तथा हि पर्वतो वह्निमान्धूमादित्यादिकं वयवधारणार्थमुच्यते । न च तत्संभवति । धूमं विना आलोकादितोपि वह्रिसिद्धेः । तथा च न तस्य त्वमिति प्रतिकूलतर्कः । न वा धूमाद्वह्निमानेवेत्यवधारणम् । द्रव्यत्वादेरपि धूमेन साधनात् । न वा पर्वत एव वह्निमानित्यादिकमवधारयितुं शक्यते । महानसादेरपि वह्निमत्त्वात् । अन्यथा दृष्टान्तासिद्धिः स्यात् । एवं वह्नि- शून्यपर्वतस्यापि सत्त्वाद्वाध इत्यादि ( गौ० वृ० ५/११२७ ) । [ग] वायुपदर्शितसाधनाभावेपि साध्यस्योपलब्धिकथनम् । यथा शब्दः अनित्यः प्रयत्नानुविधायित्वाद्धटवदित्यत्र प्रयत्नं विनापि वायुनोदनवशालक्षशाखा- भङ्गजन्यस्य शब्दस्योपलब्धेर्न प्रयत्नानुविधायित्वं शब्देस्तीति ( नील० पृ० ४४ ) । [घ ] अवधारणतात्पर्ये वादिवाक्ये विकल्पयत् । तद्बाधात्प्रत्यवस्थानमुपलब्धिसमो मतः ॥ इति ( ता० ० ० २ श्लो० १२३ ) । <उपवासः> उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥ (पु० चि० पृ० १९८ ) । <उपवासविधिः> उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम् । पक्षयोरुभयो- रेष उपवासविधिः स्मृतः ॥ (पु० चि० पृ० १०७ ) । <उपवेष:> येयं पलाशशाखा छित्वा वृक्षादाहृता तां पुनरिछत्वा मूलभाग: प्रादेशपरिमित उपवेषः ( जै० न्या० अ० ४ पा० २ अधि० ३ ) । <उपष्टम्भः> १ आलम्बनम् ( वाच ० ) । २ संयोगविशेषो वा । यथा जलीयतै जसवायवीयशरीराणां पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् (मु० १ पृ० ८४ ) इत्यादौ । यथा वा सुवर्णस्य उष्णस्पर्श भास्वर रूपयोरुप- ष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिरित्यादावुपष्टम्भः ( त ० दी० १५० ९ ) । ३ पतनप्रतिरोध इति काव्यज्ञा वदन्ति (वाच० ) । <उपसंख्यानम्> तत्रानुक्तार्थस्य ग्रन्थान्तरेण कथनम्। यथा व्याकरण- शास्त्रे अक्षादूहिन्यामुपसंख्यानम् प्रकृत्यादिभ्य उपसंख्यानम् (वार्ति० ) इत्यादौ । <उपसंहार:> १ सहचार: ( दीधि० २) । यथा अनुपसंहारी हेतुरित्यत्र साध्यहेत्वोरुपसंहारस्याभावः । २ उपन्यासः ( गौ० वृ० ११ ११३८ ) । यथा उपनयलक्षणे उदाहरणापेक्षस्तथेत्युपसंहारः (गौ० ११ १२ १३८) इत्यत्रोपसंहारः । ३ निश्चयः ( दीधि ० २ ) । ४ विस्तरेण निरूपितत्य पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम् । यथा तदेतन्त्रिविधकारण- मध्ये यदसाधारणं कारणं तदेव करणम् ( त० सं० ) इति करण - लक्षणस्योपसंहारः ( त० दी० १ पृ० १७ ) । ५ ग्रन्थतात्पर्यावधा। रकलिङ्गविशेषः । यथा उपक्रमोपसंहारौ····हेतुस्तात्पर्यनिर्णये इत्यादौ । ६ एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः । यथा गुणोपसंहार इत्यादौ । ७ साकल्येन संबन्धः । यथा सर्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात् इत्यादौ ( वाच ० ) । ८ मीमांसकास्तु सामान्यप्राप्तस्य विशेषे नियमनम् इत्याहुः ( लौ० भा० टी० पृ० २३ ) । <उपसदः> दीक्षादिवसादूर्ध्वं सोमामिषवदिवसापूर्व कर्तव्याः होमाः । ( जै० न्या० अ० ३ पा० ३ अधि० १३ ) । <उपसर्ग:> १ [क] जन्यबोधविषयीभूतक्रिया विशेष विषयक तात्पर्य ग्राहकले । सति प्राद्यन्यतमः । यथा प्रहरति विहरतीत्यादौ प्रादिरुपसर्गः । प्रादय उपसर्गा द्वाविंशतिधा प्र परा अप सम् अनु अव निस् निर दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप । ख उपसर्गाः क्रियायोगे ( पा० सू० १/४/५९ ) इति शाब्दिकाः । उपसर्गस्य त्रिधा प्रवृत्तिः धात्वर्थ बाधते कश्चित् कश्चित्तमनुवर्तते । विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥ इति । क्रमेणोदाहरणानि यथा आदते प्रसूते प्रणमति इत्यादीनि ( वाच० ) । प्रादयो द्योतका इति नैयायिका वैयाकरणाश्चाहुः । अत्र द्योतकत्वं च तात्पर्यग्राहकत्वम् ( वै० सा० ) / अत्रेयं व्यवस्था । उपसर्गाणां मध्ये यत्र यस्योपसर्गस्य किंचिदर्थे शक्तिर्न शक्तिः प्रामाणिकी तस्य वाचकत्वमेव । यथा उपकुम्भम् इत्यादौ । अन्यथा प्रामाणिकी तस्य तत्र द्योतकत्वमेव । यथा प्रसूते इत्यादौ । यस्य च तत्राव्ययीभाव समासानुपपत्तेः । तस्य निरर्थकत्वेन निराकाङ्क्षत्वात् । पूर्वे वाच्यं भवेद्यस्य सोव्ययीभाव इष्यते इत्यनुशासनात् । अन्ये तु प्रादेश्च निरर्थकत्वेपि स्वाद्यन्तमिह नामेष्टम् इत्यनुशासनेन खाद्यन्तत्वेन तस्यापि नामत्वात् नाम्नामेव समासविधानात्प्रादेः समास उपपद्यते ( त० प्र० ख० ४ पृ० ७० ) इत्याहुः । वैयाकरणास्तु सर्वेषां द्योतकत्वमेवाहुः । २ उत्पात इति काव्यज्ञाः । <उपसर्जनम्> १ गौणम् । २ अप्रधानम् । यथा धनवान्देवदत्त इत्यादौ विशेषणीभूतं धनमुपसर्जनम् । अत्रोपसर्जनत्वं च वृत्तिजन्यबोधीय- प्रकारताश्रयत्वम् । वृत्तिशब्देनात्र वैयाकरणसंमताः कृत्तद्धितसमासैक- शेषसनाद्यन्ताः पञ्च वृत्तयो गृह्यन्ते । ३ शाब्दिकास्तु विग्रहवाक्ये यनि- यतविभक्तिकं तदुपसर्जनसंज्ञम् स्वार्थविशिष्टार्थान्तरबोधकमुपसर्जनम् इति च वदन्ति । <उपस्थितिः> १ बुद्धिवदस्यार्थोनुसंधेयः । २ स्मृतिरित्याधुनिका वदन्ति । उपहारः - नियमः । स च षडङ्गः । तदुक्तं सूत्रकारेण हसितगीतनृत्य- ढुड्डुक्कारनमस्कार जप्यषडङ्गोपहारेणोपतिष्ठेतेति ( सर्व० सं० पृ० १६९ नकुली० ) । <उपहितत्वम्> १ उपधायकत्ववदस्यार्थोनुसंधेयः । २ मायावादिनस्तु उपाधिसंगतत्वम् । उपाध्युपलक्षितत्वं वोपहितत्वम् । यथा अन्तःकरणोप- हितं चैतन्यं जीव: अज्ञानोपहितं चैतन्यमीश्वरः इत्यादा वित्याहुः (वाच ० ) । <उपहिति:> अङ्गारेषु कपालस्थापनम् (जै० न्या० मा० १०/१ अधि० ११ ) । <उपाकरणम्> स्तोत्रं प्रति प्रेरणम् । यथा उपावर्तध्वमिति मन्त्रबर्हिभ्यां स्तोत्रमुपाकरोति ( जै० न्या० मा० १० ४ अघि० २ ) । <उपादानत्वम्> ( कारणत्वम् ) मायावादिमते [१] जगदध्यासाधिष्ठान- त्वम् । यथा ब्रह्मणो जगदुपादानत्वम् । [२] जगदाकारेण परिणा- मित्वम् । यथा मायाया जगदुपादानत्वम् (वे० प० पृ० ६५) । उपादानम् - १ समवायिकारणम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ( भा० प० श्लो० १५३) इत्यादौ इति प्राचीननैया- यिकाः । २ अधिष्ठानमात्रम् । यथा यागादेर्हनि: शब्दस्य मृदङ्गादिः प्राणसंचारादेच प्राणवहनाड्यादिरुपादानमिति नवीननैयायिकाः (दि० पृ० २३१) । ३ स्वेष्टसाधनताप्रकारकं ज्ञानम् (प० च० ) । सुखसाधनत्वज्ञानं वोपादानम् । यथा स्रक्चन्दनवनितादिकं मत्सुख- साधनम् इति ज्ञानम् ( सि० च० १ पृ० २ ) । ४ आध्यात्मिकतु- ष्टिविशेष इति सांख्याः (वाच० ) । ५ विज्ञानवादिनो बौद्धास्तु असहकृतं कारणमुपादानम् । यथा उत्तरोत्तर विज्ञानव्यक्तौ पूर्वपूर्वविज्ञान• व्यक्तिरुपादानम् इति वदन्ति ( राम० आत्म० पृ० १००) । ६ अनुसंघीयमानशब्दसहकृतानुपपत्तिज्ञानम् ( ग० नियोज्यान्वयग्रन्थे । प्राभाकरास्तु अनुपपत्तिज्ञानम् । यथा औपादानिको बोधः इत्यादौ उपादान- शब्दस्यार्थः इत्याहुः ( त० प्र० ख० ४ पृ० ११२ ) । अत्रायमर्थः । अपूर्वे कृतिसाध्यत्वं यागे कृतिसाध्यत्वं विनानुपपन्नम् इत्यनुपपत्तिज्ञान- सहकारेण स्वर्गसाधनं स्वर्गकामनियोज्यको यागः स्वर्गकामकृतिसाध्यः इत्यौपादानिको यागविशेष्यकः पञ्चमो बोधः स एव च प्रवर्तकः ( त० प्र० ख० पृ० ११२) । ७ गन्धपुष्पादिपूजा साधनसंपादनात्मक उपासनविशेष: (सर्व० सं० पृ० ११७ रामानु० ) । ८ अननुष्ठित स्यानुष्ठानमुपादानम् ( जे० न्या० मा० २/३ अधि० १३) । <उपादेयत्वम्> अनुष्ठीयमानताकारः (जै० न्या० मा० १४ अधि० ६) । <उपादेयम्> १ समवेतवदस्यार्थोनुसंधेयः । यथा यद्रव्यं यद्द्रव्यध्वंसजन्यम् कर्म ( ग्राह्यं वस्तु ) । यथा हेयोपादेयरहित आत्मा इत्यादा विति तत् तदुपादानोपादेयम् (मु० १ पृ० ६५) इत्यादौ । २ ग्रहण- काव्यज्ञा वेदान्तिनश्चाहुः । <उपाधिः> १ निमित्तम् । तदर्थश्च [क] प्रयोजकम् ( त० भा० )। [ख कारणम् । यथा वायोः प्राणापानादिसंज्ञायां हृदादिस्थानं मुख निर्गमादिक्रिया चोपाधि: ( मु० ११० ८५ ) । २ धर्ममात्रम् । २ धर्मः कचिज्जात्यादिः । कचित्तद्भिन्नोपि भवति । यथा पदार्थविभाजको पाधिमत्त्वमित्यादौ । पदार्थविभाजकोपाधयस्तावत् द्रव्यत्वगुणत्व कर्मत्व- सामान्यत्व विशेषत्व समवायत्व अभावत्वरूपाः सन्ति । तत्र द्रव्यस्वादयो। जातिरूपाः । सामान्यत्वादयस्तु तद्भिन्नाः । जातिभिन्नो धर्मोपि द्विविधः सखण्डोपाधिः अखण्डोपाधिश्चेति । तत्राद्यः आकाशत्वादिः ( सि० च० पृ० ३ ) । द्वितीयः प्रमेयत्वकुण्डलित्वप्रतियोगित्वादिः ( त० कौ० पृ० २० ) । ३ वृत्तिमत् । यथा उपधेयसंकरेप्युपाध्यसंकरः (चि० २ पृ० ८७ ) इत्यादौ धर्ममात्रमुपाधिः । यथा वा जन्यमात्रं क्रियामात्रं वा कालोपाधिरित्यादौ । ४ स्वरूपम् । ५ मायावादिनस्तु स्वसामीप्या- दिना अन्यस्मिन् स्वधर्मारोपसाधनं विशेषणविशेषः । यथा उपाधिमेदेप्ये- कस्य नानायोग आकाशस्येव घटादिना । गतिश्रुतिरप्युपाधियोगादाकाशवत् ( सां० सू० ) उपाधिना क्रियते भिन्नरूपः (श्रुतिः ) कार्योपाधिरयं जीवः कारणोपाघिरीश्वरः इत्यादावुपाधिः इत्याहुः ( वाच० ) । ६ शक्तिरिच्छा चेति वेदान्तिनः । ७ हेत्वाभासविशेषप्रयोजकीभूतोर्थः । [क] ययभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं सः । उदय- नाचार्यमते उपाधिपदं योगरूढम् । अत्र व्युत्पत्तिः । उप समीपवर्तिनि आदधाति संक्रामयति स्वीयं धर्ममित्युपाधिः इति । यद्धर्मबोधक- शब्दभिव्यहारेण चोपाधिपदं प्रयुज्यते तद्धर्मसंक्रामकत्वं तद्बोधयति । यथा स्फटिकलौहिये जपाकुसुममुपाधिरित्यत्र लौहित्यसंक्रामकत्वम् । प्रयुज्यते च शास्त्रे व्याप्यत्वबोधकशब्दसमभिव्याहारेण तत् अत्र साधने असावुपाधिरिति । अतो व्याप्तिसंक्रामकत्वलाभ: (दीधि० २५०९६) । इत्थं च घूमवान्चरित्यादौ धूमसामग्र्यादिकमुपाधिः । स्फटिकलौहित्ये जपाकुसुममिव धूमसामग्र्यादे: स्वसमवहितवहौ स्वनिष्ठधूमव्यायाधायक- त्वात् ( म० प्र० २ पृ० २८) । ख यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः सः ( चि० २ पृ० २६) । साध्यव्यभिचारो- नायकत्वं च साध्यव्यभिचारानुमापकत्वम् । उपाघेर्दूषकताबीजं तु खव्यभिचारेण साधने साध्यव्यभिचारोन्नायकत्वम् । तथाहि धूमवान्व- रत्र आर्द्रेन्धनमुपाधिरित्युपन्यासानन्तरं वह्निर्धूमव्यभिचारी धूमव्यापका- न्धनव्यभिचारित्वात् यो यद्व्यापकव्यभिचारी स तद्व्यभिचारी यथा द्रव्यत्वव्यापकगुणवत्वव्यभिचारि प्रमेयत्वं द्रव्यत्वस्यापि व्यभिचारिइत २३ न्या० को ० सामान्यव्याप्तेः यत् आर्द्रेन्धनव्यभिचारि तत् धूमव्यभिचारि यथा वटः इति विशेषव्याप्तेरेवोपाघिव्यभिचारेण शुद्धसाध्यव्यभिचारानुमानम् । यद्वा स्वव्यतिरेकेण साधनवति साध्यव्यतिरेकोन्नायकत्वमुपाघेर्दूषकता - बीजम् । धूमसाध्यकवह्निहेतुकार्द्रेन्धनायुपाधिना वह्निमति क्वचित् स्वव्यतिरेकेण धूमव्यतिरेकानुमानात् । यत् आर्द्रेन्धनाभाववत् तत् धूमा- भाववत् यथा जलम् इति व्याप्तेः । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यक त्वात् ( म०प्र० २ ० ३० ३१ ) ( त० प्र० २ ) । [ग] स्वानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वे सति साध • नाव्यापकः । अत्र स्वं उपाधित्वेनाभिमतं ग्राह्यम् । उपाध्यनधिकरणं यत् साधनाधिकरणम् तद्वृत्तिर्धर्मः क्वचित् साधनं मित्रातनयत्वादि । क्वचित् पक्षधर्मो बहिर्द्रव्यत्वादिः । क्वचिदुदासीनोपि । यथा घटरूपं प्रत्यक्षं मेयत्वात् इत्यादौ बहिर्द्रव्यत्वमेव । तदवच्छिन्न प्रत्यक्षत्वव्यापकत्वं चोद्भूतरूपोपाधाविति नाव्याप्तिः । इत्थं चोपाघेश्चतुर्विधत्वमिति मन्त- व्यम् । शुद्धसाध्यव्यापकार्द्वन्धनादौ तु केवलं लक्षणसमन्वयाय स्वान- धिकरणसाधनाधिकरणतप्तायः पिण्डवृत्तिधर्मो द्रव्यत्वादिर्ग्राह्यः । तद- वच्छिन्नधूमव्यापकत्वस्य तत्र सत्त्वात् इति बोध्यम् ( म० प्र० पृ० २९ - ३० ) ( त० प्र० २ ) । ननु द्रव्यं जातेरित्यादौ विशिष्ट- सत्त्वात्मकोपाधावव्याप्तिः । विशिष्टसत्तायाः शुद्धसत्तानतिरेकेण तदन- धिकरणजात्यधिकरणाप्रसिद्धेः । अतो लक्षणान्तरमन्यत्रोक्तम् । तथाहि । [घ ] स्वावच्छिन्नान धिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन साध्यव्यापकतावच्छेदकवत्त्वे सति साधनाव्यापकः ( न्या० म० पृ० २२ ) ( दीधि० २ पृ० १०५) अन्वयश्चास्य स्वावच्छिन्नान- धिकरणं यत् साधनाधिकरणम् तद्वृत्तिर्यो धर्मः तदवच्छिन्नं यत्साध्यम तद्व्यापकतेत्यादि । अत्र स्वं उपाधितावच्छेदकत्वेनाभिमतं आन्धन- वादि ग्राह्यम् । यथा ( १ ) धूमवान्वरित्या दावार्द्रेन्धनम् धूमसामग्र्या दिकम् उपाधिः । भवति हि आर्द्रेन्धनत्वावच्छिन्नानधिकरणं यद्वह्निमत् अयोगोलकम् तन्निष्ठो यत्किंचिद्धर्मः द्रव्यत्वम् तदवच्छिन्नो धूमः तद - धिकरणनिष्ठा यावन्तो धर्मा आर्द्रेन्धनत्वावच्छिन्न समानाधिकरणा भवन्ति । अतस्तद्वदार्द्रेन्धनमुपाधिः ( न्या० म० २ पृ० २३) । यथा वा ( २ ) वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः । भवति हि उद्भूतरूपत्वावच्छिन्नानाधिकरणं यत् प्रत्यक्षस्पर्शाश्रयत्वा- वच्छिन्नम् वायुः तन्निष्ठो धर्मः बहिर्द्रव्यत्वम् तदवच्छिन्नं साध्यम् प्रत्यक्षत्वम् । तदधिकरणं यत् घटपटाद्येव तन्निष्ठा यावन्तो धर्मा उद्भूतरूपत्वावच्छिन्नसमानाधिकरणा भवन्ति । अत उद्भूतरूपवत्त्व- मुपाधि: ( न्या० म० २ पृ० २३ ) । यथा वा ( ३ ) स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः । भवति हि शाकपाक- जत्वत्वावच्छिन्नानधिकरणं यन्मित्रातनयत्ववत् अन्यः अश्यामो मित्रा- तनयः तन्निष्ठं यत् मित्रातनयत्वम् तदवच्छिन्नं श्यामत्वम् । तदधिकरणं यत् श्यामो मित्रातनयः तन्निष्ठा यावन्तो धर्माः शाकपाकजत्वत्वा- वच्छिन्न समानाधिकरणा भवन्ति । अतस्तद्वच्छाकपाकजत्वमुपाधिः । ( न्या० म० २ पृ० २३ ) । यथा वा ( ४ ) घटरूपं प्रत्यक्षं प्रमेयत्वा- आदित्यादौ उद्भूतरूपमुपाधिः । भवति हि उद्भूतरूपत्वावच्छिन्नानधिकरणं यत् प्रमेयत्ववत् चक्षुरादि तन्निष्ठो यत्किंचिद्धर्मः बहिर्द्रव्यत्वम् उदासीन- धर्म: तदवच्छिन्नं प्रत्यक्षत्वम् तदधिकरणं यत् घटपटादि तन्निष्ठा यावन्तो धर्मा उद्भूतरूपत्वावच्छिन्न समानाधिकरणा भवन्ति । अत उद्भूतरूपमुपाधि: ( म० प्र० २ पृ० २९-३०) । एवं च वक्ष्य- माणचतुर्विध विभागविभक्तस्योपाधिचतुष्टयस्य यथाक्रममुदाहरणचतुष्ट- मेतदिति विज्ञेयम् । [ङ ] साध्यव्यापकत्वे सति साधनाव्यापक उपा- दिनचर्या ( न्या० म० २ पृ० २१ ) ( त० कौ० २ पृ० १५ ) ( त० सं० ) ( दीधि ० २ पृ० १०५ ) । यो यध्यापकत्वे सति यदव्यापकः स तत्रोपाधिरिति निर्गलितोर्थ: (दीधि० २ पृ० ९२) । यस्य यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वं च स तत्साध्यकतद्धेतावुपाधिरित्यर्थः । भवति च तत् आर्द्रेन्धनम् साध्यस्य धूमस्य व्यापकम् । यत्र यत्र धूमस्तत्रार्द्वन्धनम् इति नियमसत्त्वात् । भवति च साधनस्य वह्नेः अव्यापकम् । यत्र यत्र वह्निस्तत्रार्द्रेन्धनम् इति\ 1 नियमासत्त्वात् । तप्तायः पिण्डे बह्निसत्त्वेप्यान्धनाभावादिति ( त० कौ० २ पृ० १५ ) । [च ] यदभावेन यद्वदन्यत्वेन वा साधनवति साध्याभाव उन्नीयते स उपाधिरिति नव्या वदन्ति ( दि० पृ० २१७ ) । [छ ] अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र गग हेतावुपाधिरित्याहुः (चि० २ पृ० २८) ( दीधि० २ १० १०२ ) । स च धर्मः यस्याभावात् पक्षे साध्यसाधनसंबन्धाभावः । यथा आर्द्रेन्ध- नवत्त्वम् । व्यावर्तते हि तद्ध्यावृत्त्या धूमवत्त्वमयोगोलके । एवं भाव- व्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः संबन्धो निवर्तमानः पक्षधर्मताबला - दनित्यत्वाभावमादाय सिध्यति । यथा वा वायावुद्भूतरूपवत्त्वं निवर्तमानं बहिर्दव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति इत्यादि (चि० २ पृ० २८ ) । [ज ] अव्याप्तसाधनो यः साध्य- उपाधिश्चतुर्विधः । केवलसाध्यव्यापकः पक्षधर्मावच्छिन्नसाध्यव्यापकः समव्याप्तिरुच्यते स उपाधि: ( सर्व० सं० पृ० ११ बौ० ) । साधनावच्छिन्नसाध्यव्यापकः उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । तत्राद्यः धूमसाध्यकवह्निहेतुकस्थल आर्द्रेन्धनसंयोगः । द्वितीयः वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्न प्रत्यक्षत्वव्यापक- मुद्भूतरूपवत्त्वमुपाधिः । तृतीयः ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् । स श्यामो मित्रातनयत्वादि त्यत्र शाकपाकजवं वा । चतुर्थस्तु प्रागभावो विनाशी प्रमेयत्वा दिव्यत्र जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् ( त० दी० २ पृ० २६ ) / घटरूपं प्रत्यक्षं प्रमेयत्वादित्यादावुद्भूतरूपं वा उपाधि: ( म० प्र० पृ० ३० ) ( न्या० म० २ पृ० २३ ) । पुनरप्युपाधिर्द्विविधः । निश्चितः संदिग्धश्च । तत्र साध्यव्यापकत्वेन साधनाव्यापकत्वेन निश्चितो व्यभिचार निश्चयाधायकत्वेन निश्चितोपाधिः । यथा वह्निमत्त्वेन घूमवत्त्वे साध्य आर्द्रेन्धनप्रभववह्निमत्त्वम् । यत्र साधनाव्यापकत्वसंदे साभ्यव्यापकत्वसंशयो वा तदुभयसंदेहो वा तत्र हेतौ साध्यव्यभिचारसंश- याधायकत्वेन संदिग्धोपाधिः । यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाका- द्याहारपरिणतिजन्यत्वम् ( चि० २ पृ० २९) ( म०प्र० २ पृ० ३१ ) । अत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात् संदेहः इति । प्रथ- मत उपाधिर्द्विविधः निश्चितः शङ्कितश्चेति ( ता० र० श्लो० १५ ) । <उपाध्यायः> एकदेशमुपाध्यायः । अस्यार्थः वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकम् अङ्गानि वा योध्यापयति स उपाध्यायः ( मिताक्षरा अ० १।३५ ) । <उपाय:> क साक्षात् परंपरया वा यत्किंचित्कार्यजनने समर्थः । उपायो द्विविधः । लौकिक: अलौकिकश्च । तत्र घटादिकं प्रति दण्डादि- लौकिकोपायः । स्वर्गे प्रति यागादिरलौकिकोपायः । नीतिशास्त्रज्ञास्तु साम दानम् भेदः दण्डश्चेत्येते चत्वार उपाया इत्याहुः । [ ख ] साधकस्य शुद्धिहेतुरुपायः । स च वासचर्यादिभेदात्पञ्चविधः । तदप्याह वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । प्रपत्तिश्चेति लाभानामुपायाः पञ्च निश्चिताः ॥ (सर्व० सं० पृ० १६३ नकुली ० ) । <उपालम्भः> १ [क परपक्षदूषणम् ( गौ० वृ० ११ १/४१ ) । [ख ] प्रतिषेधः (वात्स्या० १११४१ ) । यथा प्रमाणतर्कसाधनो- पालम्भः ( गौ० १।२।१ ) इत्यादौ । २ स्पर्श इति वैष्णवयाज्ञिका आहुः । ३ हिंसेति स्मार्तयाज्ञिकाः । ४ अहितेच्छेति काव्यज्ञा वदन्ति । <उपासना> १ मुक्तिप्रयोजकविद्या ( कु० १) । २ आराधनवदस्यार्थोनु- संधेयः ( श० प्र० पृ० ९५ ) । ३ समानप्रत्ययप्रवाहकरणमुपासन- मिति मायावादिन आहुः ( शा० भा० ) । अभिगमनमुपादानमिज्या स्वाध्यायो योग इति पञ्चविधमुपासनं श्रीपञ्चरात्रेभिहितम् ( सर्व० सं० पृ० ११७ रामानु० )। <उपेक्षा> १ सुखदुःखोभयासाधनत्वज्ञानम् । यथा तृणं सुखदुःखासाधनम् इति ज्ञानम् ( सि० च० १ पृ० २१) । २ उभयाप्रकारकं ज्ञानम् ( प० च० ) । ३ भावनाविशेष इति योगशास्त्रविदः । ४ परस्वत्वान- मिसंधान पूर्वकस्वत्व प्रागभावासमानकालीनस्वत्वाविषयकेच्छेति व्यवहारज्ञा आहुः (वाच० )। स्वत्वध्वंसमात्रजन कुस्त्याग इति मैथिला आहुः । यथा धनस्योपेक्षा इत्यादौ ( श० प्र० श्लो० ७० टी० पृ० ८५ ) । <उपोद्धातः> ( संगतिः ) [ क ] प्रकृतोपपादकत्वम् ( दि० २ ) । [ख] प्रकृतोपसाधकत्वम् । यथा परामर्शजन्यज्ञानत्वरूपेनुमितिलक्षणे वक्तव्ये विशिष्टपरामर्शस्यानुमितिहेतुत्वमुपोद्वातसंगत्या व्यवस्थाप्यते ( राम० पृ० १३४ ) । यथा वा प्रमाकरणरूपे प्रमाणे निरूपणीये सत्युपो. द्धातसंगत्या करणनिरूपणम् (वाक्य० १ पृ० १० ) । [ ग ] चिन्ता प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः ( सर्व० सं० पृ० २६७ जैमि०) (भवा० ) ( जग ० ) । तदर्थश्च प्रकृतसिद्ध्यनुकूल चिन्ताकालावच्छेदेन प्रकृतानुकूलत्वम् । चिंता च वक्तर्माद्या । अत्रानुकूलत्वं क्वचिद्घटकत्वम् कचिज्ज्ञापकत्वम् । तत्र घटकत्वं यथा व्याप्तिविशिष्टपक्ष- धर्मताज्ञानजन्यज्ञ।नमित्यत्राज्ञातव्याप्तिकरय व्याप्तिपदवाच्यत्वेन का व्याप्तिः इत्याकारिकायां जिज्ञासायां व्याप्तिनिरूपणम् । ज्ञापकत्वं यथा (विशिष्टज्ञानस्यानुमितिहेतुत्वे किं ज्ञापकम् इत्याकाङ्क्षायां परामर्श हेतुत्वव्यवस्थापनम् ( भवा० ) । [व] निर्दिष्टोपपादकत्वम् (जग० [ ङ ] शाब्दिकास्तु प्रकृतसिद्व्यनुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूल त्वम् इत्याहुः (वै० सा० द० ) । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वा- दिरूपं यथायथं ग्राह्यम् । तत्रावच्छेदकांशः चिन्ताकालपर्यन्तः स्वरूप- सन् इतरांशश्च ज्ञातः सन्नुपयोगी भवति इति ज्ञेयम् ( वै० सा० द० ) । <उभयत्वम्> [क] उभयव्यवहारविषयतावच्छेदको धर्मः ( ग० सिद्धा० ) । यथा घटपटोभयमित्यादौ घटपटोभयपर्याप्तमुभयत्वम् । [ ख ] बुद्धिविशेषविषयत्वमिति केचिदाहुः । अयं च धर्मो व्यासज्यवृत्तिर्भवतीति विज्ञेयम् । एवं बहुत्वादयोपि धर्माः स्वयमूह्याः । <उमामाहेश्वरी> ( तिथि: ) अष्टमी नवमीविद्धा नवमी चाष्टमीयुता । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ (पु० चि० पृ० १०६)। <उरूक:> १ उल्लूकनामा पक्षिविशेषः । २ मेदखिनी वपा । उरु वि- स्तीर्णमूको मेदो यत्र इत्यवयवार्थ: ( जै० न्या० अ० ९ पा० ४ अधि० ४ ) । <उष्णत्वम्> स्पर्शनिष्ठो जातिविशेषः । यथा स्पर्श उष्णस्तेजसस्तु ( भा०प० श्लो ४२ ) इत्यादौ । उष्णस्पर्शवत्तेजः (मु० १ पृ० ७७) इत्यादौ च। सूतके मृतके चैव न स्नायादुष्णवारिणा इत्यादौ उष्णशब्दस्य उष्णस्पर्शवदित्यर्थो बोध्यः । <ऊ> <ऊर्ध्वा> (दिक्) अदृष्टबदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयो दिक् (बै० उ० २१ २११० ) । यथा ऊर्ध्व गत इत्यादौ । एवं च इन्द्राग्नि- यमनिरृतिवरुणवायुसोमेशाननागब्रह्माधिष्ठानोपलक्षिता दशदिश इति व्यपदेशान्तरम् प्राच्यादिव्यपदेशात् (वै० उ० २१ २ । १० ) । <ऊष्मा> १ उष्णस्पर्श: ( राम० १ पृ० ७०) । यथा चक्षुरूष्मादिसंततेः (मु० १ प० ६८) इत्यादौ । २ तेजोद्रव्यस्य सूक्ष्मावयवः (भा ० ) ( वाच० ) । यथा यथाग्नेर्धूम उदयते एवमेषामूष्मोदयते ( शत० ब्रा० १/६/२।१२।५ ) इत्यादौ । ३ श ष स ह एते वर्णा ऊष्माण इति शाब्दिका आहुः (वाच० ) । <ऊहः> १ तर्कः । स च [क परीक्षणम् । ख अनुमानम् । यथा ऊह: ( जै० सू० ११२/५२ ) इत्यादौ । न पिता वर्धते न माता इत्युक्ते अन्ये वर्धन्त इति गम्यते ( शाबरभा० १/२/५२ ) । [ग] अध्याहारः । घ कल्पनम् । अन्वययोग्यविभक्तयादिकल्पनमित्यर्थः । यथा पार्वणे सौम्यास इति बहुवचनसमन्वितमपि एकोद्दिष्टे अनन्वित त्वात् सौम्यः इत्येकवचनान्ततया कल्प्यते । यथा वा अग्नये जुष्टं नि इत्यस्य सौर्ये चरौ सूर्याय जुष्टं निर्वपामि इत्येवं पदान्तरप्रक्षेप ऊहः (जै० न्या० अ० २ पा० १ अधि० ९) । [ङ ] प्राकृतस्थान- पतितपदार्थान्तर कार्यतः । ऊहः प्रयोगो विकृत ऊपमानतयोदितः ॥ (जै० न्या० अ० ९ पा० १ अधि० १ ) । २ ताराख्यः सिद्धि- विशेष ऊह इति तन्त्रवेत्तार आहुः ( वाच ० )। <ऋ> <ऋक्> [क] पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः (जै० न्या० अ० २ पा० १ अधि० १२ ) । [ ख ] तेषामृग्यत्रार्थवशेन पाद- व्यवस्था । अस्यार्थः यत्र वाक्ये अर्थवशेन छन्दोविशेषवशेन पाद- व्यवस्था सा ऋक् (अ० २ पा० १ अधि० १० सू० ३५ ) । <ऋणम्> [क] पश्चाच्छोध्यत्वेनाङ्गीकृत्य गृहीतं द्रव्यम् ( श० प्र० पृ० ८६ ) । यथा ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि । अय मत्कृतानि ऋणानि इत्यादौ ( भा० ) ( वाच० ) । [ख ] उत्तमर्णाय दातव्यत्वेन स्वीकृतं धनम् । [ग शाब्दिकास्तु सजातीयद्रव्यातर दान मङ्गीकृत्य परदत्तपरकीयद्रव्यादानम् । तज्जन्योधमर्णनिष्ठः परिशोधन नाश्यः अदृष्टविशेषो वा इत्याहुः ( ल०म० ) । <ऋतम्> ऋतशब्दः कर्मवचनः । ऋतं पिबन्तौ इति वचनात् ( स०) सं० पृ० १०० रामानु० ) । <ऋतु:> [क] सौरं मासद्वयं राम ऋतुरित्यभिधीयते (पु० चि० ० ८ ) । ख द्वंद्वमुपददाति तस्माद्वंद्वं ऋतवः (अग्निचयने पु० चि० पृ० ७)/ [ग] ऋतौ चन्द्रनिमित्तत्वं ऋतूनन्यो विदधज्जायते पुनरित्यतः मन्त्र• वर्णाप्रतीयते । पुनः पुनर्यो जायते स एव विदधतून् । चन्द्रः पुनः पुनर्जन्यः तस्माच्चन्द्रवशाहतुः (त्रिका० म० पु० चि० पृ० <ऋते> अभावः । यथा ऋते कृष्णान्नोत्पद्यते सुखमित्यादौ । योगत्वं पञ्चम्यर्थः । कृष्णशब्दस्तद्भक्तिलाक्षणिकः । एवं च कृष्णभक्ति यथा वा अभ्रातृको हरेत्सर्वे दुहितॄणां सुतादृते ( याज्ञ० २/१३९) प्रतियोगिकाभावप्रयोज्य: सुखकर्तृकोत्पत्त्यभावः इति बोध: ( ल० म० ) । इत्यादौ । <ऋत्विक्> ऋत्विग्यज्ञकृदुच्यते । यः पाकयज्ञादिकं वृतः करोति स ऋत्विक ( मिता० १।३५ ) । <ए> <एकः> [क] सजातीयनिष्ठभेदाप्रतियोगी । यथा अत्रायमेको भुत इत्या- दावेकपदार्थः । अत्र एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोगी भुङ्क्ते इयाकारकबोधः (n० श० पृ० १२४ ) । [ ख ] केवलः । कैवल्यं च द्वितीयरहितत्वम् । एवं चत्ताकर्तृत्वादिविशिष्टसजातीय- राहित्यम् । यथा अयमेकोत्र भुङ्क्त इत्यादाविति शाब्दिका आहुः । अत्र एतद्देशाधिकरणकभोजनकर्तृसजातीयरहितो भुङ्क्ते इति बोधः। द्वितीय- शब्दश्च सजातीये सहाये रूढः ( ल० म० ) । अत्र गदाधरः कैवल्यं च सजातीयद्वितीयरहितत्वम् इत्याह । <एककार्यकारित्वम्> एककार्यत्ववदस्यार्थोनुसंधैयः । <एककार्यत्वम्> (संगतिः) १ एककार्यानुकूलत्वम् ( म० प्र० पृ० १५)। अत्रार्थे एकं कार्य ययोः कारणयोः तयोर्भावः इति व्युत्पत्तिः ( जग ० ) । बहुव्रीहेरनन्तरं त्वप्रत्ययः । यथा गुणागुणमनासङ्गमेककार्यमनन्तरम् । एतत्तु ब्रह्मणो वृत्तमाहुरेकपदं द्वयम् ॥ ( भा० व० अ० २१२ ) ( वाच० ) । इदं तु कार्येक्यमित्यप्युच्यते । २ एकस्य (कारणस्य) कार्यता (प्रयोज्यता कार्ययोः ) । सा च जन्यता जन्यज्ञानविषयता च (भवा० ) (वै० सा० द० ) । यथा ईश्वरशक्त्योरनुमानाजन्यत्वेपि तज्जन्यज्ञान विषयत्व लक्षणैककार्यत्वसंगत्या ईश्वरवादानन्तरं मीमांस शक्तिराशङ्किता। नैयायिकेन च ईश्वरसिद्ध्यनन्तरं शक्ति निरस्य परम प्रयोजनं त्वनुमानस्य पवर्गः इत्यनेन ईश्वरसिद्व्यपवर्गयोरनुमानजन्यत्व- लक्षणैकार्यत्वं संगतिः सूचिता ( भवा० ) । <एकत्र द्वयम् इति रीत्या जायमानं ज्ञानम्> उभयप्रकारतानिरूपितैकविशेष्यताशालिज्ञानम् ( ल० व० पृ० ९) । यथा सुन्दरः पुरुषो दण्डी इत्याकारकं ज्ञानम् । अत्र सौन्दर्यदण्डयोः पुरुषे युगपद्विशेषणत्वेनान्वय- विवक्षायां ज्ञानं तादृशं भवति । सौन्दर्यविशिष्टपुरुषे दण्डमात्रस्य दण्ड- विशिष्टपुरुषे वा सौन्दर्यमात्रस्य विशेषणत्वेनान्वयविवक्षायां तु विशिष्टे चैशिष्ट्यम् इति रीत्या ज्ञानं जायते इति ज्ञेयम् । २४ न्या० को० <एकत्वम्> ( संख्या ) [क] एकम् इति प्रतीतिविषयो गुणविशेषः यथा गगनमेकम् काल एक इत्यादावेकत्वम् । रूपरसगन्धस्पर्श व्यतिरेका दर्थान्तरमेकत्वम् ( वै० ७।२।१ ) इत्येवमेकत्वस्य सूत्रकृता अर्थान्तर त्वमुक्तम् । [ख ] धीविशेषविषयत्वम् । यथा एकः समवायः एकः अभाव इत्यादौ समवायादीनामेकत्वम् (वै० वि० ७।२।१ ) । [ग] स्वरूपाभेद इति भूषणमतम् (वै० उ० ) (वै० वि० ७१२।१ ) । यथा घटगतमेकत्वं घटस्वरूपमेव । [६] स्वसजातीयनिष्ठभेदप्रति सुबर्थ: (ग० व्यु० का० १ पृ० २) । तथा च स्वप्रकृत्यर्थसजातीयः योगितानवच्छेदकैकत्वम् । यथा संपन्नो व्रीहिरित्यादौ व्रीह्या दिगतमेकत्वं दकैकत्वमिति समुदितार्थ: । साजात्यं च स्वसमभिव्याहृतपदार्थसर्गि स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टश्च यः तन्निष्ठभेद प्रतियोगितानवच्छे खसजातीयेत्यत्र स्वं ब्रीह्यादि निष्ठमेकत्वमिति वङ्गदेशीया आहुः । परे तु विशिष्टप्रकृत्यर्थतावच्छेदकरूपेण बोध्यम् ( ग० व्यु० का० १ पृ० २ ) । स्वम् एकवचनप्रकृत्यर्थः । स्वसमभिव्याहृतेत्यत्र स्वं तु एकवचनमित्याहुः । वयं तु उभयस्वपदाभ्यामेकवचनमेव ग्राह्यमिति ब्रूमः । इदं च भाषिकं सजातीयद्वितीयरहितत्वरूपमेकत्वमिति बोध्यम् । अत एव पशुना यजेतेत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरण कयागाना दृष्टसिद्धिः (ग० व्यु० का० १ पृ० २ ) । अत्राहुः । पशुना रुद्र यजेतेत्यादौ स्वप्रकृत्यर्थसजातीयः ( स्वसमभिव्याहृत पदार्थसंसर्गित्वविशिष्ट प्रकृत्यर्थतावच्छेदकरू पविशिष्टः ) यागीयपशुरेव । तन्निष्ठभेद प्रतियोगि तानवच्छेदकम् एतत्पशुनिष्ठमेकत्वमेव बोध्यत इति नानेकपशुकरणकया । गाददृष्टसिद्धिः इति । संपन्नो व्रीहिरित्यत्र लक्षणसमन्वय स्त्वित्थम् ।' व्रीहिपदोत्तरमेकवचनम् सुप्रत्ययः । स्वस्य समभिव्याहृतं संपन्नः इति । पदम् । तदर्थप्रतियोगिकसंसर्गित्वविशिष्टं प्रकृत्यर्थतावच्छेदकं व्रीहित्वम् ॥ एतादृशरूपेण स्वसजातीय एतद्रीहिरेव । तन्निष्टो भेदोन्यनिषैकत्ववद एव ( न त्वेतद्रीहिनिष्ठैकत्ववद्भेदः) । तत्प्रतियोगितानवच्छेदकम् एतद्रीहि गतमेकत्वं भवति इति । <एकदेशान्वयः> समस्तादसमस्ताद्वा पदादुपस्थितस्यार्थस्य घटको योर्थः तेन सह तादृशपदार्थाघटकपदार्थान्वयः । यथा चैत्रस्य पितेत्यादौ । अत्र समस्तादित्यत्र समासः वैयाकरणसंमतानां कृत्तद्धितैकशेषसनाद्यन्ता- नामवशिष्टानां चतसृणां वृत्तीनामुपलक्षणम् इति ज्ञेयम् । चैत्रस्य पितेत्यत्र जनकत्वविशिष्टपुंसः पितृपदार्थत्वेन तदेकदेशेन जनकत्वेन सह चैत्रपदार्थस्य निरूपितत्वसंबन्धेनान्वयादेकदेशान्वयो ज्ञेयः । अत्रेदं बोध्यम् । पदार्थः पदार्थेनैवान्वेति न तु पदार्थैकदेशेन इति नियमोस्ति। परंतु ससंबन्धिकस्थल एकदेशेष्यन्वयस्वीकारात्तादृशनियमोपवाद्य एवेति । एकस्मिन् दृष्टे श्रुते वा अपरसंबन्धिनः स्मरणं ससंबन्धिकपदार्थः । यथा हस्तिहस्तिपकादिरिति ( म० प्र० ४ पृ० ४८ ) । अथवा नित्यसाकाससंबन्धिकपदार्थः । यथा चैत्रस्य गुरुकुलम् मैत्रस्य दास- भात्यादौ गुरुत्वदासत्वादौ चैत्रमैत्रपदार्थयोरन्वयस्य नित्यसाकाङ्क्षत्वेनैक- देशान्वयः सह्यत एव इति । तथा च चैत्रस्य पितेत्यादावेकदेशान्वयो युक्त एव ( न्या० म० ४ पृ० १४)। <एकपदत्वम्> [क एकार्थविषयकशक्तिनिरूपकत्वम् । यथा राम इति पदस्यैकपदत्वम् । अत्र व्युत्पत्तिः एकं पदं पदोच्चारणयोग्यकालो यत्र तस्य भाव इति ( वाच० ) । अत्रार्थनिष्ठमेकत्वं च तदितरावृत्तिस्त व्यक्तित्वादिरूपोसाधारणधर्म एवेति न काचिदनुपपत्तिरिति । [ख] शक्तिनिरूप काभाववदुत्तरत्वे सति शक्तिनिरूपकत्वम् । यथा घट इत्यस्यै- कपदत्वम् । [ग अखण्डपदत्वमिति शाब्दिका वदन्ति । अत्रा- खण्डत्वं च पदत्वाभाववदुत्तरखण्डकत्वम् । <एकप्रसरताभङ्गः> (दोषः ) एकस्यां वृत्तौ या प्रसरता घटकतया प्रविष्टता । अत्र चोद्देश्य विधेयभावाप्रतीतिः ( मी० न्या० पृ० ३७ ) । <एकभक्तम्> दिनार्धसमयेतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्त- मतस्तत्स्याद्दिवैव हि ॥ ( पु० चि० हे० स्का० पृ० ४३ ) । न्यूनं प्रासत्रयेण तु इति चतुर्थचरणे पाठान्तरम् । तदहोरात्रावयवान्तरा- धिकरणभोजनाभावे सति अष्टममुहूर्तोत्तरार्धादिसार्धमुहूर्तात्मकावयवाधि- करणं भोजनमेकभक्तमिति निष्कर्षः । <एकमात्रवृत्तिगुणत्वम्> एकत्वावच्छिन्नवृत्तिकगुणत्वम् ( ल० १० १० ३६ )। इदं चैकैकवृत्तिगुणत्वमित्यप्युच्यते । <एकमात्रवृत्तित्वम्> स्वाश्रय निष्ठभेदाप्रतियोग्याश्रयकत्वम् ( राम० १ प० ३५ ) । यथा आकाशत्वस्यैकमात्रवृत्तित्वम् । अत्र भेदश्च व्यासज्य- वृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वेन विशेषणीयः ( राम० १५० ३५ ) । स्वप्रतियोगिवृत्तित्वस्वासमानाधिकरण्यएतदुभयसंबन्धेन मेदविशिष्टान्यत्व मिति निष्कर्षः । इदं च आकाशत्वादेर्जातित्वे बाधकम् । <एकवाक्यत्वम्> १ [क] विशिष्ठैकार्थप्रतिपादकत्वम् ( ग० २ अव० पृ० २ ) । निरूप्यनिरूपकभावापन्नविषयताशालिबोधजनकत्व मित्यर्थः । यथा देवदत्तो ग्रामं गच्छतीति वाक्यस्यैकवाक्यत्वम् । [ ख ] तत्प्रयोज्य विषयतया साक्षात्परंपरया वा निरूपिता या विषयता तत्प्रयोजकत्वम् ( ग० व्यु० का० १ पृ० २७ ) । अत्र तत्पदजन्यज्ञाननिरूपितत्वेन तत्पदप्रयोज्यत्वव्यवहारो विषयतायामिति बोध्यम् । अत्र विशेष्यताद्वय- निरूपितक प्रकारताशालिज्ञानजनकवाक्ययोरेव एकवाक्यत्वम् इति नियमो ज्ञेयः ( कृष्ण० ) । [ग] तदुत्थाप्याकाङ्क्षानिवर्तकत्व तन्निवर्तनीया- प्रतिज्ञादिपञ्च वाक्यैरेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते ( चि० २ काङ्क्षोत्थापकत्व एतदन्यतरवत्त्वम् (ग० २ अव० पृ० २ ) । यथा अव० पृ० ७६ ) इत्यादौ प्रतिज्ञादीनां पञ्चानामवयवानामेकवाक्यत्वम् । तदुत्थाप्याकाङ्क्षा निवर्तकत्वं च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या आकाङ्क्षा तत्प्रतियोगिकनिवृत्तिजनकज्ञानजनकत्वम् । इदं च हेतूदाहरणादीनामेक- तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या निवृत्तिः तत्प्रतियोग्याकाडाजनक वाक्यत्वम् । अत्र तत्पदं प्रतिज्ञापरम् । तन्निवर्तनीयाका होत्थापकत्वं ज्ञानजनकत्वम् । इदं च प्रतिज्ञादीनामेकवाक्यत्वमित्यवधेयम् । अत्र तु तत्पदं हेत्वादिपरम् । [घ ] स्वभिन्नत्वस्वानवच्छिन्नत्वस्वसामानाधि करण्यएतत्रितयसंबन्धेन विषयताविशिष्टविषयताशून्यबोधजनकवाक्यत्व - मित्यस्मग्दुरुभिकुशास्त्रिचरणाः प्राहुः । एकवाक्यं द्विविधम् । पदैकवाक्यम् वाकवाक्यं चेति । तत्राद्यं यथा सोरोदी दित्याद्यर्थवादसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यता । द्वितीयं यथा यत्र प्रत्येकं भिन्न- भिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थबोधकत्वम् तत् । यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत इत्यादिवाक्यानां समिधो यजति इत्यादिवाक्यानां च परस्पराङ्गाङ्गिभावबोधकतयैकवाक्यता ( वाच० ) । [ङ] अर्यैकत्वादेकं वाक्यं साकाङ्कं चेहिभागे स्यात् । अस्यार्थः । विभागे बाक्यघटकपदानां विभागे साकाङ्कमेकपदरहितस्यापरपदस्य शाब्दबोधा- जनकत्वं तयोरेवार्थैकत्वम् एकफलप्रतिपादकत्वम् । विभागे साकाङ्क्षवे सत्येकफळप्रतिपादकं यत्तदेकं वाक्यमित्यर्थः (जै० सू० वृ० २।१।४४) । २ अविसंवादिवाक्यत्वमेकवाक्यत्वम् । यथा श्रवणकटु नृपाणामेक- वाक्यं विवः ( रघु० ६/८५) इत्यादौ इति काव्यज्ञा वदन्ति । <एकविशेषवाधः> इतरबाधग्रहवदस्यार्थोनुसंधेयः । <एकशेषः> (वृत्तिः ) व्याकरणशास्त्रसिद्धो वृत्तिविशेषः । एकशेषो द्विविधः सरूपैकशेषः विरूपैकशेषश्च । तत्र सरूपैकशेषो घटौ घटाः इत्यादौ । विरूपैकशेषस्तु वक्रदण्डौ पितरौ श्वशुरौ भ्रातरौ पुत्रौ शिवौ इत्यादौ । अत्रायं वैयाकरणानां नियमः यः शिष्यते स विज्ञेयः । अत्र सरूपाणामेकशेष एकविभक्तौ ( पाणि० ११२/६४ ) इत्यनेन सूत्रेण घटश्च घटश्च घटौ इत्येकशेषो बोध्यः । वक्रदण्डावित्यत्र विरूपाणामपि समानार्थानामित्येकशेषः । अत्र लक्षणया वक्रदण्डश्च कुटिलदण्डश्च इति बोधः । विग्रहोप्येवमेव । पितरौ इत्यत्र जनकशरीर- त्वेन मातापित्रोरवगमाच्छत्त्या पितुर्बोध: । लक्षणया च जनकस्त्रीत्वेन रूपेण मातुर्बोध: । विभत्तयुपनीतं पुंस्त्वं तु पितर्येवान्वेति इति प्राश्च आहुः । नव्यास्तु एकयैव लक्षणया पितृत्वमातृत्वाभ्यां बोधकं पितृ- पदम् इत्याहुः (त० प्र० ख० ४ पृ० ५३ ) । अत्र माता च पिता च पितरौ इति विग्रहः । पिता मात्रा (पाणि० ११२/७०) इत्यनेन सूत्रेणैकशेषो बोध्यः । श्वशुरौ इत्यत्र श्वशुरः श्वश्र्वा (पाणि० १/२/७१) इत्यनेन सूत्रेणैकशेषो बोध्यः । श्वश्रूश्च श्वशुरश्व इति विग्रहः । अत्र च श्वशुरपदे स्त्रीजनकदंपत्योर्भर्तृजनकदंपत्योर्वा लक्षणा (दि० ४ ) । जनक- शरीरत्वेन प्रातिस्विकरूपेण वा बोधः ( त० प्र० ख० ४ पृ० ५३ ) । भ्रातरौ पुत्रौ च इत्यादौ स्वसा च भ्राता च भ्रातरौ दुहिता च पुत्रश्च पुत्रौ इति विग्रहौ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् (पाणि० ११२१६८ ) । इत्यनेन सूत्रेणैकशेषौ च बोध्यौ । शिवौ इत्यत्र शिवा च शिवश्व इति विग्रहः । पुमान्स्त्रिया (पाणि० १॥२।६७ ) इत्यनेन सूत्रेणैकशेषश्च बोध्यः । भ्रातरावि भ्रातृपदेन भ्रातृस्वसारौ सोदरत्वेन पुत्रावित्यत्र पुत्रपदेन च स्वापत्यत्वेन पुत्रदुहितरौ लक्ष्येते ( त० प्र० ख० ४ पृ० ५३ ) । शिवावित्यत्र शिवपदं शिवदुर्गान्यतरत्वेन बोधकम् इति प्राश्च आहुः शक्त्या शिवत्वेन लक्षणया च शिवाया बोधकम् इति तु नव्या आहु ( त० प्र० ख० ४ पृ० ५३ ) । <एकान्त:> १ अव्यभिचारः । यथा अनैकान्तिक इत्यादावेकान्तः । २ नियमः । यथा न तावदयमेकान्तेनाविषयः ( शारी० भा० ) इत्यादौ । <एकार्थसमवायः> [क] स्वसमवायिसमवेतत्वम् ( सि० च०) । [ख] एकस्मिन्नर्थे समवायेन सत्त्वम् ( नील० १ पृ० ६) । यथा एक रूपमित्या दावेकत्वरूपयोरेकार्थसमवायः ( त ० दी० १ पृ० ६ ) । <एकेन्द्रियग्राह्यगुणत्वम्> एकेन्द्रियग्राह्यजातिमणत्वम् ( ल० व० पु ३६) । एकमात्रेन्द्रियग्राह्यगुणास्तु रूपम् रसः गन्धः स्पर्शः शब्दः बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः वेगश्चेति । <एकैकवृत्तिगुणत्वम्> [क] स्वसमानाधिकरणान्योन्याभावप्रतियोगिता वच्छेदकैकत्वकत्वे सति गुणत्वम् । एकैकवृत्तिगुणाश्च रूपादिचतुष्टयम् एकत्वम् परिमाणम् एकपृथक्त्वम् परत्वादिसंस्कारान्ताः पञ्चदश चेति द्वाविंशतिर्गुणा: (मु० गु० पृ० १९२ ) । [ख ] स्वाश्रयान्योन्या तदर्थश्च स्वम् रूपादिव्यक्तिः । तस्याश्रयः तद्धटः । तत्प्रतियोगिकोन्योन्या भावव्यापकात्यन्ताभावप्रतियोगिगुणत्वम् ( दि० गु० पृ० १९२ ) / भावः तद्धटभेदः । तस्य व्यापकोत्यन्ताभावः तादृशरूपादिव्यत्तयत्या भावः । तत्प्रतियोगित्वं रूपादिव्यक्तीनामिति लक्षणसमन्वयो बोध्यः । अत्र तद्घटाद्यतिरिक्ते तद्रूपव्यक्तीनामसत्त्वेन यत्र यत्र तद्घटा दिभेदस्तत्र तत्र तद्रूपव्यक्त्याद्यत्यन्ताभावः इति व्याप्तेः सत्त्वात्तादृशरूपादिव्यत्तय- त्यन्ताभावस्य तादृशान्योन्याभावव्यापकत्वं संभवतीति बोध्यम् । एवं रसादावपि लक्षणसमन्वयः स्वयमूह्यः । <एतत्> [क] प्रत्यक्षबुद्धिविषयः ( दि० ४ प० १७९) ( ग० शक्ति० पृ० ११६ ) । यथा एतत् जलमस्ति इति प्रत्यक्षे विषयो जलम् । [ख] समीपतरवर्ति वस्तु इति केचिद्वदन्ति ( दि० ४ प० १७९)। [ग] एतदोर्थश्च लौकिक प्रत्यक्षविषयताविशिष्टम् (ग० शक्ति० टी० पृ० ११६) । यथा एषोर्भ्यः इति प्रत्यक्षेयस्यैतदर्थता । <एव> १ एवकारार्थस्तु त्रिविध इति प्राश्चः । तथाहि । विशेषणसंगतः विशेष्यसंगतः क्रिया संगतश्चेति त्रिविध एवकारः । तत्राद्ये एवकारार्थः अयोगव्यवच्छेदः । यथा शङ्खः पाण्डुर एवेत्यादौ । अत्र शङ्खत्वावच्छेदेन डुवायोगव्यवच्छेद बुध्यते । अथवा विशेष्ये पाण्डु- व्यवच्छेदो बोध्यते ( म० प्र० १ पृ० ७) । केचित्तु पाण्डुरत्वादौ शङ्खादिनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो बोध्यत इत्याहुः (प० मा०) । द्वितीये अन्ययोगव्यवच्छेदः । यथा पार्थ एव धनुर्धर इत्यादौ (नील० पृ० ४९ ) ( म० प्र० १ पृ० ७ ) । अत्र धनुर्धरे पार्थान्यतादात्म्य- व्यवच्छेदो बुध्यते । अथवा विशेषणे धनुर्धरे पार्थान्ययोगव्यवच्छेदो बोध्यते । धनुर्धरपदस्योत्कृष्टधनुर्धरे लक्षणा । तथैव तात्पर्यात् । पा न्ययोगस्तत्तादात्म्यम् ( म० प्र० १ पृ० ७) । केचित्तु धनुर्धरादि- (प० मा० ) । यद्वा पार्थान्यस्मिन् प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते ष्ठान्योन्यभावप्रतियोगित्वव्यवच्छेदः पार्थादौ प्रतीयता: ( वाच ० ) । तृतीये अत्यन्तायोगव्यवच्छेदः । यथा नीलं सरोजं भवत्येवेत्यादौ । अत्र अन्वयितावच्छेद कसरोजत्व सामानाधिकरण्येन सरोजनीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बुध्यते । अथवा संभवाभि- प्रायके नीलं सरोजं भवत्येव इत्यादौ अन्वयितावच्छेदकसरोजत्वसामाना- घिकरण्येन सरोजे नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बोध्यते ( म० प्र० पृ० ७ ) । यद्वा सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते ( वाच० ) । केचित्तु यावत्सरोजनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो नीलभवनकर्तृत्वादौ प्रतीयत इत्याहुः ( प० मा० ) । नव्याः शिरो- मणिभट्टाचार्यप्रभृतयस्तु सर्वत्रान्ययोगव्यवच्छेदेनैवोपपत्तावयोगव्यव- च्छेदात्यन्तायोगव्यवच्छेदौ न स्वीकार्यावित्यवीवदन् ( म० प्र० १ पृ० ७-८) । परमप्राचीनमते तु एवकारार्थो द्विविधः । अयोगव्यव च्छेदः अन्ययोगव्यवच्छेदश्चेति । तत्रायोगव्यवच्छेदो द्विविधः केवला- योगव्यवच्छेदः अत्यन्तायोगव्यवच्छेदश्च । यत्रान्वयितावच्छेदकसामाना- करण्यमाणायोगव्यवच्छेदः प्रतीयते यथा नीलं सरोजं भवत्येव । तत्रात्यन्तायोगव्यवच्छेदपरिभाषा । यत्र चान्वयितावच्छेदकावच्छेदेना- योगव्यवच्छेदः प्रतीयते यथा शङ्खः पाण्डुर एव इत्यादौ योगव्यवच्छेदपरिभाषा । अन्ययोगव्यवच्छेदस्तु पार्थ एव इत्यादावेवकारार्थः । एवम् अन्यान्यपि अन्ययोगव्यवच्छेदस्योदाहरणा न्यूह्यानि । तत्र जातिमत्येव सत्ता इत्यादौ सत्तापदेन लक्षणया तद धिकरणत्वमर्थः । तथा च सत्ताधिकरणले जातिमदन्यवृत्तित्वव्यवच्छेदः प्रतीयते । अथवा जातिमत्येव सत्ता इत्यादौ सप्तम्या निरूपितत्वमर्थः । तथा च सत्ता जातिमन्निरूपितसमवायप्रतियोगिनी सत्तासमवाये जाति- मदन्यानुयोगिकत्वव्यवच्छेदश्च इत्युभयान्वयविषयकसमूहालम्बनबोधः । एवकारस्य अयोगव्यवच्छेदार्थकत्वे त्वन्यान्युदाहरणानि । ज्ञानम निरूपितत्वं द्वितीयार्थः । तथा च ज्ञानम् अर्थनिरूपितविषयित्वा गृह्णात्येव इत्यादौ ग्रहधातोर्विषयित्वमर्थः । आख्यातस्याश्रयत्वमर्थः । श्रयत्ववत् अर्थनिरूपित विषयित्वाश्रयत्वायोगव्यवच्छेदवच्च इत्यन्वयबोधः । अत्र अयोगव्यवच्छेदोन्वयितावच्छेदकज्ञनात्वावच्छेदेन प्रतीयते न तु सामानाधिकरण्यमात्रेण इति विज्ञेयम् । द्विजो वेदानधीत एव इत्यादी द्विजत्वावच्छेदेन वेदकर्मकाभ्ययनकर्तृत्वायोगव्यवच्छेदो बोध्यते । अत एव नरो वेदानधीत एव इत्यादिप्रयोगवारणम् । चक्षू रूपं गृह्णायै इत्यादौ ग्रहधातोर्ज्ञानमर्थः । द्वितीयाया विषयत्वमर्थः । आख्यातस्य जनकत्वमर्थः । तथा च रूपविषयकज्ञानजनकं चक्षुः इत्यन्वयबोधः । ज्ञानं रजतं गृह्णात्येव इत्यादिप्रयोगो भवत्येव । यदि च न भवति तदा 'ज्ञानेनार्थो गृह्यत एव इत्यादौ ज्ञानत्वावच्छेदेनार्थप्राहकत्वायोगव्यवच्छे- दोर्यो वाच्यः इति ज्ञानेन रजतं गृहात एव इत्यादौ ज्ञानत्वावच्छेदेन रजतत्वप्रकारकत्वा योगव्यवच्छेदबोधस्यासंभवेन तथाविधप्रयोगो न भवति इति बोध्यम् । रूपं पृथिव्यां वर्तत एव इत्यादौ सप्तम्या निरूपितत्वमर्थः । धातोर्वृत्तिरर्थः । आयातस्याश्रयत्वमर्थः । तथा च पृथिवीनिरूपित- वृत्याश्रयत्वायोगव्यवच्छेदवद्रूपम् इत्यन्वयबोधः । अत्र च रूपत्वसामाना- करण्यमात्रेणान्वयः इति विज्ञेयम् । रूपेण पृथिवी व्यावर्त्यत एव इत्यादौ रूपे पृथिवीनिरूपितधात्वर्थव्यावृत्त्ययोगव्यवच्छेदः प्रतीयते । 11 आत्मनैव ज्ञायते इष्यते क्रियते इत्यादौ आत्मवृत्तित्वायोगव्यवच्छेदः प्रतीयते । अत्र आत्मपदोत्तरतृतीयाया वृत्तित्वमर्थः । ऋतौ स्वदारान् गच्छेदेव इत्यादौ सप्तम्या अवच्छेद्यत्वमर्थः । एवार्थश्चायोगव्यवच्छेदः । विध्यर्थश्चेष्टसाधनत्वम् । इष्टं च प्रत्यवायाभावरूपम् । द्वितीयार्थः कर्म- त्वम् । तथा च ऋतुकालावच्छिन्नस्खदार कर्मकामिग मनायोगव्यवच्छेदः प्रत्यवायाभावसाधनम् इत्यन्वयबोधः । अत्र यस्यायोगव्यवच्छेदः प्रत्यवा- याभावहेतुत्वेन विधिबोधितः स प्रत्यवायजनकाभावप्रतियोगी इति व्याप्ति- स्वीकारेण तादृशाभिगमनाभावस्य प्रत्यवायहेतुत्वसिद्धिः । ननु च ऋतु- कालावच्छिन्नस्खदार कर्मकामिगमनाभावस्य सामानाधिकरण्येन प्रत्यवाय- हेतुत्वं वाच्यम् । तथा च यस्यां कस्यामपि निशि ऋतावभिगन्तुः पुरुषस्य ऋत्वन्तराभिगमनाभावेपि प्रत्यवायो न स्यात् । एवं नानादारवतः प्रभोः दारान्तराभिगमनाभावेपि प्रत्यवायो न स्यात् इति चेत् अत्र वदन्ति । तत्त- तुकालावच्छिन्नतत्तद्दारकर्मकत्वतत्तत्पुरुषकर्तृकत्वएतदुभयाभाववदभिग- मनसामान्यस्य तत्तत्पुरुषीयतादृशप्रत्यवायं प्रति हेतुता इति विशिष्य तेमनम् इत्यादौ भवनपदोत्तरसप्तम्या उत्पत्तिरर्थः । तथा च एतद्भवनो- पुरुषमेनैव कार्यकारणभावः कल्प्यते इति । इह भवने मैत्रेणैव पक्ष्यते २५ न्या० को त्पत्तिकतेम[^१]नत्वावच्छेदेन मैत्रपक्ष्यमाणत्वायोगव्यवच्छेदः प्रतीयते । चैत्रो जलमेव भुङ्क्ते इत्यादौ चैत्रो जलान्यभोजनकर्तृत्वव्यवच्छेदवान् जलकर्मकः भोजनकर्तृत्ववांश्च इति बोधः । अत्र नव्यास्त्वेवमाडुः । एवकारस्य अन्य योगव्यवच्छेद एक एवार्थः । पृथिव्यामेव गन्धः इत्यादौ सप्तम्या वृत्तित्वमर्थः। अन्ययोगश्चान्यसमवेतत्वादिः । तेन पृथिवीसमवेतत्वम् पृथिव्यन्यसमवेतत्वव्यवच्छेदश्चार्थो बोध्यते । वह्निमत्येव धूमः इत्यादौ भाववत्येव द्रव्यत्वाभावः इत्यादौ द्रव्यत्वाभावे घटत्वाभाववद्भिन्नवृत्तित्व घूमे वह्निमत्संयुक्तत्वम् वह्निमदन्यसंयुक्तत्वव्यवच्छेदश्च प्रतीयते । घटत्वा- व्यवच्छेदः घटत्वाभाववद्वृत्तित्वं च प्रतीयते । पक्षधरमिश्रास्त्वेवमाः । व्यवच्छेदमात्रं एवकारार्थः । पृथिव्यन्यसमवेतत्वादौ सप्तम्यादीनामेव / "लक्षणा इति । वस्तुतस्तु अन्ययोगव्यवच्छेद एवकारार्थः । व्यवच्छेद यन्ताभावः अन्योन्याभावश्च । पृथिव्यामेव गन्धः इत्यादौ पृथिव्या गन्धः पृथिव्यन्यस्मिन्गन्धाभावश्च इति बोधः । शङ्खः पाण्डुर एव इत्यादौ शङ्खतादात्म्यवान् पाण्डुरः पाण्डुरान्यस्मिञ् शङ्खान्योन्याभाव इति बोधः । पार्थ एव धनुर्धरः इत्यादौ पार्थतादात्म्यवान् धनु पार्थान्यस्मिन्धनुर्धरत्वव्यवच्छेदश्च प्रतीयते इति । स्वतन्त्रास्त्वेवमाहुः । एवकारो न कुत्रापि शक्तः । किंतु तात्पर्यग्राहकः । पृथिव्यामेव इत्यादी २ सादृश्यम् । ३ अनियोगः । ४ आचारनियोगः । ५ विनिग्रहः । च कुत्रचित्पदे लक्षणया पृथिव्यन्यसमवेतत्वव्यवच्छेदः प्रतीयते इति । ६ परिभवः । ७ ईषदर्थः इत्यादि काव्यज्ञा आहुः । [^१] तेमनं व्यञ्जने क्लेदे इति विश्वलोचनकोशः ( नान्तवर्गे ७१ ) । <एषणासमितिः> द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । सुनिर्यदन मादत्ते सैषणासमितिर्मता ॥ (सर्व० सं० पृ० ७९ आहे ० ) । <ऐ> <ऐकाधिकरण्यम्> सामानाधिकरण्यम् । यथा साध्येन हेतोरैकाधिकरणं । व्याप्तिरुच्यते ( भा० प० २ श्लो० ७० ) इत्यादौ साध्यहेत्वो: सामाना। धिकरण्यम् । <ऐकान्तिकः> १ एकमात्रव्याप्तिग्राहकसहचारो यंत्र सः ( गौ० दृ० १ । २ । ५ ) । यथा अनैकान्तिक इत्यादावैकान्तिकः । यथा वा वह्निमान् धूमादित्यादौ घूम ऐकान्तिकः । अत्र व्युत्पत्तिः एकस्य साध्यस्य तद - भावस्य वा योन्तः सहचारः अव्यभिचरितसहचारः तस्यायमित्यै- कान्तिकः इति । २ अवश्यंभावीति सांख्यवेदान्तिनः ( वाच० ) । <ऐतिह्यम्> [क] इति होचुः इत्यनिर्दिष्टप्रवक्तकं प्रवादपारम्पर्यम् ( वात्स्या २१२११) । [ख] अनिर्दिष्टप्रवक्तृकं परंपरागतं वाक्यम् । यथा वटे वटे यक्षः इत्यादी। इति होचुरित्यनेन प्रकारेण उच्यते (गौ० वृ० २१२११) । [ग] अज्ञातमूलवक्तकः शब्दः । विशिष्या- निश्चितप्रथमवक्तकः शब्द इत्यर्थः ( नील० पृ० ३४ ) । यथा इह वटे यक्षस्तिष्ठति इति ( त० दी० पृ० ३४ ) । ऐतिहां प्रमाणान्तर मिति अष्टप्रमाणवादिनः पौराणिकाः ( म० प्र० पृ० ६५ ) ( नील० पृ० ३४ ) । तत् प्रमाणान्तरं नेति नैयायिकसांख्यादयः प्रातुः । अत्रेदं बोध्यम् । तदेतदैतिह्यमाप्तोक्तं चेच्छब्दान्तर्भावादनुमानमेव । न चेत् प्रमाणमेव न भवतीति ( त० व० पृ० १०० ) ( न्या० म० २ पृ० ३२) (नील० पृ० ३४ ) । <ऐन्द्राग्नम्> (नक्षत्रम् ) विशाखा ( पुरु० चि० पृ० ३५३) । विशाखा- नक्षत्रस्येन्द्राग्निदेवताकत्वादैन्द्राग्नमिति संज्ञा । <ऐशानी> ( दिक् ) सुमेरुसंनिहिता उदयगिरिसंनिहिता च दिक् ( वै० वि० २।२।१० ) । यथा झळकीग्रामत ऐशान्यामकलकोटग्रामः । <ओ> <ओषधिः> फलपाकावसानाः शालिप्रभृतयः ( मिता० २१ २२९) । <औ> <औग्यम्> आत्मन्युत्कर्षप्रत्ययः (न्या० वा० पृ० १ ) । <औदयिकः> कर्मोदये सति भवन्भाव औदयिकः ( सर्व० सं० पृ० ६८ आर्ह० ) । <औदार्यम्> सन्मार्गवर्तिनी बुद्धिः ( न्यायक० पृ० १० ) । दानशीलत्वम् इति काव्यज्ञा आहुः । <औपनिधिकम्> वासनस्थमनाख्याय हस्ते न्यस्य यदर्प्यते । द्रव्यं तदीप - निधिकं प्रतिदेयं तथैव तत् ॥ ( याज्ञ० २१६५ ) । <औपशमिकः> अनुदयप्राप्तिरूपे कर्मण उपशमे सति जीवस्योत्पद्यमानो भावः। यथा पङ्के कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादधः पतिते जलस्य स्वच्छता (सर्व० सं० पृ० ६८ आई० )। <औपादानिकः> अनुपपत्तिज्ञानसहकृतशब्दजनितो बोधः। अत्र व्युत्पत्तिः। उपादानम् अनुपपत्तिज्ञानम् । तत्सहकृतशब्देन जनितो बोधः औपादान निकः इति ( तर्कप्र० ख० ४ पृ० ११२ ) । यथा प्राभाकराणां मते स्वर्गकामो यजेत इत्यादिवाक्यात् स्वर्गसाधनं स्वर्गकामनियोज्यको यागः स्वर्गकामकृतिसाध्यः इत्यौपादानिको बोध उत्पद्यते इत्यादौ ग्रन्थे औ दानिकशब्दस्यार्थः । केचित्तु अनुमित्यात्मको बोध औपादानिक इत्याहुः ( तर्कप्र० ख० ४ पृ० ११३ ) । <औपाधिकः> उपाधिकृत औपाधिकः । यथा न स्वभावतो बद्धस्य मोक्ष साधनोपदेशविधिः ( सां० सू० ) इत्यादौ जीवस्य बन्ध औपाधिकः " नैमित्तिकः नापि तात्त्विक इत्यत्र (वाच ० ) । यदुपाध्यवच्छिन्नशक्तिमन्नाम तदौपाधिकम् । यथा आकाशपश्चादि ( श० प्र० पृ० २५-२६ ) / <औपाधिकी> (संज्ञा ) या अनुगतोपाध्यवच्छिन्नसंकेतवती संज्ञा सा / य भूतदूतादिः । अत्र सा हि संज्ञा सचेतनावृत्तिविशेषगुणवत्त्वम् वार्ताहार- कत्वम् इत्याद्यनुगतोपाधिपुरस्कारेणैव प्रवर्तते ( श० प्र० पृ० २५ ) / <औलूक्यः> वैशेषिकसूत्रकारः कणादः । अत्र व्युत्पत्तिः उलूकस्य मकस्य ऋषेरपल्य मौलूक्यः इति ( वाच० ) । विस्तरस्तु कणादशब्द द्रष्टव्यः । <औष्ण्यम्> उष्णस्पर्श: ( राम० १ पृ० ७० ) । <क> <कक्ष:> शिक्यतलम् ( मिताक्षरा २।१०२ ) । <कठिनत्वम्> १ अवयवसंयोगविशेषः (त० दी० १ पृ० ६ ) ( त० भा० पृ० २७) । यथा गण्डाभोगात्कठिन विषमामेकवेणीं करेण (मेघ० उ० ३१ ) इत्यादौ । २ स्पर्शविशेष: ( सि० च० ) । यथा काठिन्यादि क्षितावेव (भा० प० श्लो० १०५) इत्यादौ पृथिवीमात्र- वृत्ती कठिनसुकुमारस्पर्शी (मु० गु० पृ० १९७ ) । द्रव्यस्यारम्भक- संयोगविशेषात्स्पर्शविशेष इति केचित् । गुणान्तरमिति केचिदाहुः । अकठिनैरपि तन्तुभिरारचय इति ( न्या० ली० पृ० ५०) । ३ शब्दा- देस्तु दुर्बोधत्वमेव काठिन्यम् । ४ हृदयादेश्च काठिन्यं तु अवच्छेदकता- संबन्धेन दयाया अभाव एव इत्यादिक स्वयमूह्यम् । <कणाद:> १ वैशेषिकसूत्रकारः कश्यपगोत्रजः ऋषिविशेषः । सच अथातो धर्मे व्याख्यास्यामः इत्यारभ्य तद्वचनादाम्नायस्य प्रामाण्यम् इत्यन्तं दशाध्यायात्मकं वैशेषिकदर्शनाख्यं तर्कशास्त्रं प्रणिनाय । तन्मते सप्त पदार्था इत्याद्यस्मिन् कोशे संपादितमेव । अधिकं व्याख्याने द्रष्टव्यम् । २ स्वर्णकार इति काव्यज्ञाः (वाच० ) । <कथा> १ [क] नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भः ( त ० भा० पृ० ४४ ) ( त० दी० पृ० ४३) । एकेन पूर्वपक्षः क्रियते । ( नील० पृ० ४३) । कथाधिकारिणस्तु तत्त्वनिर्णयविजयएतदन्य- अन्येन समाधानम् । एवं क्रमेण नानाकर्तृकत्वं वाक्यसमूहस्यावसेयम् तराभिलाषिणः सर्वजनसिद्धानुभवानपलापिनः श्रवणादिपटवः अकलह- कारिणः कथौपयिकव्यापारसमर्थाः ( गौ० वृ० १ । २ । १९ प्रस्तावना ) । कथकस्य कथायां नियमविशेषः खण्डने दर्शितः । यथा अथ कथायां वादिनो नियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाम्यामभ्युपेयम् इति । तदपरे न क्षमन्ते । तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन तत् कस्य हेतोः । किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्य नियतस्य तस्य प्रवर्तयितुमशक्यत्वात् उत कथकाभ्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतु- भावात् उत लोकसिद्धत्वात् अथवा तदनभ्युपगमस्य तत्त्वनिर्णय विजयाति - प्रसञ्जकत्वात् । न तावदाद्यः । तदनभ्युपगच्छतोपि चार्वाक माध्यमिकादे र्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् । तस्यैव वा अनिष्पत्ती भवतस्तन्निरासप्रयासानुपपत्तेः इत्यादि ( वाच० ) । [ख ] तत्त्वनिर्णय- विजयएतदन्यतरस्वरूपयोग्यो न्यायानुगतवचनसंदर्भः (गौ० दृ० १।२।१ प्रस्तावना ) । [ ग] वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः ( सर्व० पृ० २३९ अक्ष० ) । [घ ] विचारसमयः (ग० अव०)। तिस्रः कथा भवन्ति वाद: जल्पः वितण्डा चेति (वात्स्या० १/२/४२) ( गौ० वृ० १ । २।४२) । २ प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः इति काव्यज्ञा आहुः ( वाच० ) । <कथाभासः> ( जातिः ) यत्र वादिप्रतिवादिभ्यां परस्परमसद्दूषणमुद्भाव्यते अनित्यः प्रयत्नानन्तरीयकत्वादित्यत्र प्रयत्नानन्तरीयकत्वं न शब्दानित्यत्वं सः । यथा प्रतिषेधेपि समानो दोषः ( गौ० ५ । १ । ३९ ) । शब्दः साधयति अनैकान्तिकत्वादिति यो दोषः स त्वत्पक्षेपि तुल्यः प्रयत्नाभि- व्यङ्ग्यत्वस्याप्यसाधकत्वादिति ( गौ० वृ० ५/१/३९ ) । अत्र षट् पक्षाः प्रवर्तन्ते । तथाहि शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादिति स्थापनावादिनः प्रथमः पक्षः । प्रत्यत्नकार्यानेकत्वात्कार्यसम इति प्रति- वादिनो द्वितीयः पक्षः । प्रतिषेधाप्रतिषेधेष्यनैकान्तिकत्वं तुल्य मिति वादिनस्तृतीयः पक्षः । विप्रतिषेधस्तत्रापि तथैवानैकान्तिकत्वं तत्समान दोषोद्भावनं वा चतुर्थः पक्षः ( गौ० वृ० ५/१/४१ ) । प्रतिषेध सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानप्रसङ्गो मतानुज्ञा ( गौ० ५।१।४२ ) इति पञ्चमः पक्षः । स्वपक्षलक्षणापेक्षोपपत्त्यपसंहारे हेतु निर्देश परपक्षदोषाभ्युपगमात्समानो दोषः (गौ० ५/१/४३ ) इति षष्ठः पक्षः ( गो० वृ० ५/१/४१- ४३ ) । अत्र त्रयः पक्षा अपि संभवेयुः ( गौ० वृ० ५११४० ) । कथा तस्याः षडङ्गानि प्राहुश्चत्वारि केचन ( ता० २० ) । <कनिष्ठत्वम्> अल्पतरस्पन्दान्तरितजन्मत्वम् ( दि० गु० ) इति वैशेषिकाः। कालकृतं संनिकृष्टत्वमित्यर्थः । कालकृतमपरत्वम् (सि० च० ) इति नैयायिकाः। यथा दशरथपुत्रस्य लक्ष्मणस्य राममपेक्ष्य कनिष्ठत्वम् । <कनिष्ठा> परिणीतत्वे सति भर्तृन्यूनस्नेहा कनिष्ठेति रसिका आहुः (रसम०) (वाच ० ) । <कपालवेधः> अर्धरात्रेपि केषांचिद्दशम्या वेध इष्यते । अरुणोदयवेलायां नावकाशो विचारणे ॥ कपालवेध इत्याहुराचार्या ये हरिप्रियाः (पु० चि० पृ० १४९ ) । <कपिला> नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्तिता ॥ (पु० चि० पृ० १०२ ) । <करणम्> ( कारकम् ) [क] स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकम् । इदमेव साधकतमम् (ल० मञ्जु० पृ० ३२ ) । साधकतमं करणम् (पाणि० १९४।४२ ) । अस्यार्थः । क्रियासिद्धौ प्रकृष्टोपकारकं करण- संज्ञं स्यात् । यद्यापाराव्यवधानेन क्रियानिष्पत्तिस्तत्प्रकृष्टं बोध्यम् । यथा रामेण बाणेन हतो वाली । अत्र हि बाणनिष्ठव्यापाराव्यवधानेन प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । तदुक्तं हरिणा क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ इति । क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । विवक्ष्यत इत्यनेन स्थाल्यादीनामपि वैवक्षिक करणत्वं सूचयति । तदप्युक्तम् वस्तुतस्तद- निर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा तृतीयया यादृशः स्वार्थोनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः दृश्यते यतः ॥ इति । [ख ] सविकरणस्य यद्धातोरुपस्थाप्ययादृशा करणसंज्ञकं कारकमुच्यते । यथा दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ ( श० प्र० पृ० ८८ ) । [ग] यस्मिन्सति क्रिया भवत्येव तत् (चि० ४ ) । हेतुकरणयोरयं विशेषः सव्यापारं निर्व्यापार वा द्रव्यो- त्पादकं यत्स हेतुरेव । तादृशमेव गुणोत्पादकं यत्सोपि हेतुरेव । निर्व्यापारं क्रियोत्पादकं यत्सोपि हेतुरेव । सव्यापारं क्रियोत्पादकं तु करणमेवेति । [घ ] प्राचीननैयायिकमते व्यापारवदसाधारणं कारणम् ( न्या० म० १ पृ० २ ) ( न्या० बो० १ पृ० ८ ) (मु० पृ० ११८ ) ( त० सं० ) । यथा अनुमितिं प्रति व्याप्तिज्ञानं करणम् (सि० च० २ पृ० २५) ( त० दी० २१० २३ ) । यथा वा इन्द्रियं करणं मतम् ( भा० प० श्लो० ५९) इत्यादौ प्रत्यक्ष प्रतीन्द्रियं करणम् । यथा वा छिदिक्रियां प्रति कुठार: ( त० कौ० १ पृ० ७) । अत्र लक्षणे घटं प्रति कपालसंयोगवारणाय व्यापारवदिति । ईश्वरज्ञानवारणाया साधारणेति ( न्या० म० १ पृ० २)। । अत्रासाधारणत्वं च कार्यत्वानवच्छिन्नकार्यतापितकरण ( वाक्य० १ पृ० १०) । अथवा कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता-/ निरूपित कारणताशालित्वम् ( न्या० बो० १ पृ० ८) । अत्र प्राचीनाः व्यापारवत्त्वे सति इति वक्तव्यम् । अतश्चक्षुःसंयोगादौ नातिव्याप्तिः । श्रोत्रमनः संयोगः शब्दो वा व्यापारः संभवत्येवेति न श्रोत्रेन्द्रिये करण लक्षणाव्याप्तिः इति वदन्ति । नव्यास्तु असाधारणमेव कारणं करणम् यद्विलम्बात्प्रकृतकार्यानुत्पादस्तत्कारणत्वस्या साधारणत्वात्मकता तादृशकारणत्वाभावान्नातिव्याप्तिः । व्यापारत्वेना भिमतेन्द्रियसंयोगादिकमेव प्रत्यक्ष करणम् इत्याहुः (नील० १ पृ० १६ ) । वाक्यवृत्तौ ( १ स्वसाधारणकारणमित्यर्थ उक्तः । कुठारस्य छिदिक्रियाकरणत्वे कुठार १० ) तु व्यापारवदिति लक्षणस्य जनकतासंबन्धेन स्वजनकवत्त्वे सति दारुसंयोगो व्यापारो बोध्यः ( त० कौ० पृ० ७ ) । [ङ ] नवीन नैयायिकमते फलायोगव्यवच्छिन्नं कारणम् (प० च० ) ( नील० १ प० २३ ) ( सि० च० २ पृ० २३) (वै० सा० द० ) । यथा अनुमितिं प्रति परामर्श: करणम् ( त० सं० ) (नील० ) ( भवा० यथा वा प्रत्यक्ष इन्द्रियार्थसंनिकर्षः करणम् ( नील० १ पृ० १६) फलायोगव्यवच्छिन्नमित्यस्यार्थश्च फलव्याप्तम् (१० च० ) इति । तत्व करणतायां सामानाधिकरण्यं प्रत्यासत्तिः (भवा० ) । यद्विलम्बात्प्रकृत कार्यानुत्पादस्तत् (नील० १ पृ० १६) । शाब्दिकास्तु स्वव्याप्येतर- यावत्कारणसमवधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तदित्याहुः (बै० सा० द० सुब० पृ० १७९) । फलायोगव्यवच्छिन्नं फलोपधायकं वा कारणमेव करणम् । ज्ञानादावात्मापि करणमिष्टमेव ( श० प्र० पृ० ८८ ) ( न्या० म० १ पृ० २ ) । आभ्यन्तरम् बाह्यम् इति द्विविधः कारणविशेषः करणम् इति सांख्या आहुः । सांख्यानामयं सिद्धान्तः कारणविशेषः करणम् । करणं त्रयोदशविधम् । यदाह करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । ( स० का० ३२ ) । करणं त्रयोदशविधम् । इन्द्रियाण्येकादश बुद्धिरहंकारश्चेति त्रयोदशप्रकारं करणम् ( वाच० ) । तत्रेन्द्रियरूपं करणमाहारकम् । बुद्धिरूपं प्रकाशकम् । अभिमानरूपं धारकमिति बोध्यम् । <करणी> वैश्याच्छ्रदायामुत्पन्ना ( रथकारशब्दे दृश्यम् ) । <कर्कट:> कर्कटौ तुलान्तयोः शिक्याधारावीषद्वकावायसकीलकौ कर्कट - शृङ्गसंनिभौ ( मिताक्षरा अ० २ श्लो० १०२ ) । <कर्ता> क्रियानुकूलकृतिमान् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रादिमुख्यः कर्ता । स्वतन्त्रः कर्ता (पा० १।४।५४ ) इति सूत्रे स्वातंत्र्यमपि क्रिया- नुकूलकृतिमत्त्वमेवेति न तद्विरोध: ( म० प्र० पृ० ६ ) । शाब्दिकास्तु स्वातन्त्र्यं च सममिव्याहृतकार कान्तरा नवीनत्वे सति कारकत्वम् ( वै० सा० द० ) । धात्वर्थव्यापाराश्रयत्वं वा ( ल० म० सुब० पृ० ९५ ) ( वै० सा० पृ० १७३) । अत्रोक्तं हरिणा धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । प्राधान्यतः शक्तिलाभात्प्राग्भावापादनादपि ॥ तदधीन- नात् ॥ आरादप्युपकारत्वात्स्वातन्त्र्यं कर्तुरिष्यते इति । नागेशभट्टादयस्तु प्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् । अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्श- कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसंबन्धेन धात्वर्थनिष्टविशेष्य- तानिरूपित प्रकारतानाश्रयतद्धात्वर्थाश्रयत्वम् (ल० म० सुब० पृ० ९५ ) ( वै० सा० द० सुब० पृ० १७३) इत्याहुः । घटो भवति पटो नश्य- २६ न्या० को० तीत्यादावचेतनकर्तृप्रयोगे तु घटपटा दिर्गौण एव कर्ता । घटो भवनाश्रयः पटो नाशप्रतियोगी इति बोधात् ( म० प्र० पृ० ६ ) । कर्तुः कार कान्तर- प्रवर्तनं व्यापारः इति शाब्दिकाः ( मजू० ) । केचिच्छाब्दिकास्तु साधनान्तरनियोगव्यापारवान् कर्तेव्याहुः ( ल० म० सुब० पृ० ८४ ) । अन्ये तु शाब्दिकाः धात्वर्थव्यापाराश्रयः कर्ता । अत एव यदा यदीयो व्यापारो धातुनाभिधीयते तदा स कर्तेति स्थाली पचति अग्निः पति एधांसि पचन्ति तण्डुलः पच्यते स्वयमेव इत्यादि संगच्छते इत्या ( वै० सा० सुब० पृ० १७३ - १७४ ) । न्याये व्याकरणे च शाखे कर्ता त्रिविधः । शुद्ध प्रयोजकहेतुः कर्मकर्ता चेति । तत्राद्यस्यो दाहरणम् मया हरि: सेव्यते । द्वितीयस्योदाहरणं च कार्यते हरिणा तृतीयस्योदाहरणं तु गमयति कृष्णं गोकुलं गोप इति बोध्यम् (३० सा० सुबर्थ० पृ० १७८) । शुद्धत्वं च हेतुत्वकर्मकर्तृत्व एतदन धिकरत्वम् । प्रेरणार्थकणिजप्रकृतिधातूपात्तव्यापाराश्रयत्वमिति यावत् । प्रयोजकहेतुत्वं च णिजर्थप्रेरणाश्रयत्वम् । कर्मकर्तृत्वं च धातूपास व्यापाराश्रयत्वे सति णिजर्थव्यापारेणाप्यमानत्वेन विवक्षितत्वम् । मया हरिः सेव्यते इत्यत्र मदभिन्नाश्रयको हरिकर्मकसेवनानुकुलो व्यापार इति बोधः । कार्यते हरिणेत्यत्र हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापार इति बोध: ( वै० सा० सुब० पृ० १७९ ) । गमयति कृष्णमित्यत्र कृष्णः कर्मकर्ता । तथा च गोपाभिन्नकर्तृको गोकुलकर्मकगमनानुकूल कृष्णाश्रयकव्यापारानुकूलो व्यापारः इति बोधः । किंच यदा सौकर्याति शयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञा लभन्ते ( सिद्धान्तकौ० तिङ० कर्मकर्तृप्र० ) इत्युक्तरीत्या कर्मण कर्तृत्वविवक्षायां कर्मकर्ता भवति । तदुक्तंम् क्रियमाणं तु यत्कर्म स्वय - मेव प्रसिध्यति । सुकरैः स्खैर्गुणैः कर्तुः कर्मकर्तेति तद्विदुः॥ इति ( व्या० का० ) ( वाच० ) । इदं च निर्वर्त्यविकार्ययोरेव न तु प्राप्ये इति ज्ञेयम् । केचित्तु क्रियामुख्यो भवेत्कर्ता हेतुकर्ता प्रयोजका अनुमन्ता ग्रहीता च कर्ता पञ्चविधः स्मृतः ॥ इत्याहुः । षड्विधो घातकर्तेति मनुः । अष्टविधः कर्तेत्यन्ये । तथाहि अनुमन्ता विश- सिता नियन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च षडेते घातकाः स्मृताः ॥ इति । अत्र चतुर्थचरणे खादको घातकस्तथा इति पाठा- दष्टानां कर्तृत्वं बोध्यम् । त्रिधैव ज्ञायते कर्ता विशेषेण क्रियां प्रति । योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः ॥ इति त्रिविधः कर्तेति भट्ट- मीमांसकाः । सात्त्विकराजसतामसभेदेन त्रिविधः कर्तेति वेदान्तिनः (गीता १८/२६ - २८ ) ( वाच० ) । <कर्तृत्वम्> (कारकम् ) । कर्तृशब्दोवयववृत्तिलभ्ये कृत्याश्रये यौगिकः । [क] सविकरणेन यद्धातुनोपस्थाप्यो यादृशार्थस्तत्तता खोपस्थाप्य- यादृशानुभावयितुं शक्यः तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वम् । यथा पचति जानातीत्यादौ । अत्र स्वोपस्थाप्यकृत्याश्रयत्वादौ धातूपस्था- प्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्यत इति पाकस्य यत्नवत्त्वं ज्ञानस्याश्रयत्वं च कर्तृत्वम् । एवं नश्यतीत्यत्र नाशस्य प्रतियोगित्वम् । प्रतिबिम्बत इत्यत्र भ्रमात्मनः प्रतिबिम्बस्य प्रकारत्वमेव कर्तृत्वम् । कर्मत्वादी धातुनोपस्थाप्योर्थस्तिङानुभाव्योपि न विकरणाक्तेन इति न तत्र प्रसङ्गः । इदं कर्तृत्वं च अत्ति जुहोतीत्यादावण्यदायुत्तरं लुप्तस्यैव भोजनकर्तृत्वादेरवगम इति त भिन्नस्य बोध्यम् ( श० प्र० पृ० १०३ ) । [ख ] यगन्तभिन्नधातूपस्थाप्य याशार्थप्रकारकयदर्थधर्मिकान्वयबोधं प्रति लटः सामर्थ्यम् । स एवार्थो धातूपस्थाप्यतदर्थस्य कर्तृत्वम् । इदं कर्तृत्वं चात्ति जुहोतीत्यादौ लुप्तस्य वाप्रतिधापि भवति इति मताभिप्रायेण बोध्यम् । पच्यते तण्डुलः इत्यादी धातोरर्थवत्तया स्वार्थकर्मत्वं लटानुभाव्यमपि न यगन्त- । पक्ष्यते तण्डुल इत्यादौ तु तादृशस्य धातोरर्थवत्तया तिढैव स्वार्थ: कर्मत्वमनुभाव्यते न तद्विशेषेण लटा इति तयुदासः ( श० प्र० पृ० १०४ ) । [ग] क्रियायाः कृतेर्वा समवायित्वम् (चि० १, ४) । र मुख्यं कर्तृत्वम् । तन्मते अचेतने काष्ठा दौ कर्तृपदप्रयोगस्तु गौणः । क्रियाश्रयत्वं कर्तृत्वमिति वैयाकरणाः (काo व्या० पृ० २ ) । तन्मते अचेतनकाष्ठादीनामपि मुख्यं कर्तृत्वमिष्टमेव इति विज्ञेयम् । इदमत्रावधेयम् । कारककर्मादिपदवत्कर्तृपदेपि कृधातुः क्रिया- र्थक एव अचेतनसाधारण्याय ग्राह्यः । आश्रयत्वमिह तत्तदाख्यातार्थद्वारा । तथा च यगाद्यसमभिव्याहृताख्यातेन यद्धात्वर्थान्वितयद्धर्मवत्त्वं बोभ्यते तद्धात्वर्थनिरूपितधर्मवत्त्वं तद्धात्वर्थकर्तृत्वम् । यथा पचतीत्यादौ पाकाय नुकूलव्यापारवत्त्वम् जानातीत्यादौ ज्ञानाद्याश्रयत्वम् नश्यतीत्यादौ नाश- प्रतियोगित्वम् इति । चैत्रेण पच्यत इत्यादौ पाकजन्य फलाश्रयत्ववारणाय । यगाद्यसमभिव्याहृतेति । अत्र चैत्रादेः कर्तृत्वं पचतीत्याख्यातबोभ्यं धर्ममादायैवेति ज्ञेयम् ( का० व्या० पृ० २) । [घ ] उपादान- गोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । यथा ईश्वरस्य द्व्यणुकादिकर्तुलन ( त० दी० १ आत्म० पृ० ११ ) । यथा वा कुलालस्य घटकर्तृत्वम् इदं च प्राचीननैयायिकमतानुसारि मुख्यं कर्तृत्वम् । [ङ ] इतर- कारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वम् ( सर्व० सं० पृ० २५४ । अक्ष० ) । यथा चैत्र ग्रामं गच्छतीत्यादौ चैत्रस्य कर्तृत्वम् । क्वचित् व्यापाराश्रयत्वम् । यथा रथो गच्छतीत्यादौ रथादेः कर्तृत्वम् क्वचित् प्रतियोगित्वम् । यथा घटो नश्यतीत्यादौ घटस्य कर्तृत्वम् । क्वचित् कृत्यवच्छेदकत्वम् । यथा शरीरस्य कर्तृत्वम् (गौ० वृ० ३/१/६) क्वचिदित्येवमुक्तानीमानि त्रीणि सर्वेषां मते गौणानि कर्तृत्वानि इति विज्ञेयम् । शाब्दिकास्तु कर्तृप्रत्यय ( शपश्यनादिप्रत्यय-) समभिव्याद्भुत धातूपात्तप्रधानीभूतव्यापाराश्रयत्वम् । अथवा कर्तृसंज्ञाबोधितकर्तृत्वशक्ति मत्त्वम् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रस्य कर्तृत्वम् (ल०म० सुब० पृ० ९५ ) इति वदन्ति । सा शक्तिश्च कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसंबन्धेन तद्धात्वर्थनिष्ठविशेष्यता निरूपितप्रकारताना-/ करणाधिकरणकर्मणामेव विवक्षया कर्तृत्वमिति नापादानसंप्रदानयो श्रयतद्वात्वर्थाश्रयत्वम् ( ल० म० सुब० पृ० ९५ ) । अत्रेदं बोध्यम // कर्तृत्वमिति महाभाष्यकाराः । उत्पत्तिमात्रे कर्तृत्वं सर्वत्रैवाति कारके / व्यापारमेदापेक्षायां करणत्वादिसंभवः ॥ इत्यनया कारिकया विवक्षा - वशात्सर्वेषां कर्तृत्वं हरिणोक्तम् इति ( बाच० ) ( ल० म० सुब० पृ० ८४ ) । अनुकूलकृतिमदन्तःकरणप्रकृतित्वं कर्तृत्वमिति सांख्या आहुः । न्यायनये कर्तत्वं द्विविधम् मुख्यं गौणं चेति । तत्राद्यं कृतिमत्त्वम् । द्वितीयम् आश्रयत्वप्रतियोगित्वादि । <कर्म> १ ( पदार्थः ) [ क ] एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारण- मिति कर्मलक्षणम् (बै० १११११७) । अत्र एकद्रव्यत्वं च एकमात्र- मूर्तसमवाधिकारणकत्वम् ( वै० उ० २१११२१ ) । मूर्तमात्रसमवेतत्वं वा (वै० वि० २१ २१ ) । संयोगेत्यादेः संयोगविभागयोर्निर- पेक्षकारणमित्यर्थः संयोगविभागयोः प्रत्येकमेव कारणत्वम् न मिलितयोः ( त० व० पृ० २४० ) । कर्म च संयोगविभागयोः स्वानन्तरोत्पन्नभावनैरपेक्ष्येण कारणम् (वै० वि० ११ १२ ११७) (मु० गु० पृ० १९८) । अत्र निरपेक्षत्वं च खोत्पस्यनन्तरोत्पत्तिकान- पेक्षत्वम् । पूर्वसंयोगध्वंसस्तु स्वोत्पत्त्यनन्तरानुत्पत्तिक एव । अभाव- वेन तस्याद्यक्षणसंबन्धाभावात् (वै० उ० १११११७ ) । तच्च कर्म मूर्तद्रव्यमासमवेतम् अनित्यमेव । उत्तरसंयोगात् नश्यति इति ज्ञेयम् ( त० कौ० पृ० २० ) । तथाहि प्रथमं द्रव्ये कर्मोत्पद्यते । ततो विभागः । ततः पूर्वसंयोगनाशः । तत उत्तरदेश- संयोगः द्रव्यनाशश्च । ततः कर्मनाशः इति । कर्म पञ्चविधम् । ऊर्ध्वं चाघश्चाभिमुखं तिर्यग्विष्वगिति क्रमात् । तानि पञ्चापि कर्माणि दश संयोगभेदतः ॥ इति ( ता० र० श्लो० ५२) । [ख ] चलनात्म- कम् ( त० सं० ) । संयोगविभागानुकूलमित्यर्थ: ( वाक्य पृ० २२) । [ग] संयोगभिन्नत्वे सति संयोगासमवायिकारणम् ( त० दी० १ पृ० ६ ) । [घ ] कर्मत्वजातिमत् ( त० दी० १ पृ० ६ ) ( त० कौ ० १ पृ० १ ) । तल्लक्षणं तु विभागासमवायिकारणत्वे सति संयोगहेतुत्वम् (दि० गु० पृ० १९८) । नित्यावृत्तिसत्तासाक्षाद्व्याप्य जातिरूपं कर्मत्वम् (वै० उ० ११ १/१७ ) । नित्यावृत्तिपदार्थविभाज- कोपाधिमत्त्वम् (ल० व० ) । अनेकाश्रितावृत्तिसत्तासाक्षाद्व्याप्यजाति- मत्त्वम् ( त० व० परि० १६ पृ० २४० ) ( वै० उ० १११११७ ) इत्यादि बोध्यम् । संयोग एव कर्मेति भूषणमतम् ( प्र० प्र० ) । भूषणम संयोगापेक्षया कर्मणोतिरिक्तत्वं नास्तीति विज्ञेयम् ( दि० १ पृ० १९) । न्यायवैशेषिकनये कर्म पञ्चविधम् । उत्क्षेपणम् अपक्षेपणम् आकुञ्चनम् प्रसारणम् गमनं चेति (बै० ११११७ ) ( त० कौ० १ पृ० १ ) ( त० सं० ) ( भा०प० श्लो० ६ ) । गमनलक्षणं चोत्क्षेपणादिचतु- ष्टय भिन्नत्वे सति कर्मत्वव्याप्यजातिमत्त्वम् ( वै० उ० १११।७) । तच्च गमनं बहुविधम् भ्रमणम् रेचनम् स्पन्दनम् ऊर्ध्वज्वलनम् तिर्यग् मनम् इति ( भा० प० १ श्लो० ७ ) । भ्रमणादिप्रकार: शिक्षिताश्व- गत्यादौ प्रसिद्ध इति श्रूयते । भ्रमणादिषु गमनत्व जातेस्त्वनियत दिग्देश- संयोगविभागासमवायिकारणत्वमेव व्यञ्जकम् इति ज्ञेयम् ( वै० उ० १ । १ ।७ ) ( वै० वि० १ । १।७ ) । उत्क्षेपणादीनां पञ्चानामपि कर्मत्व- ( संबन्ध: एकद्रव्यवृत्तित्वम् क्षणिकत्वम् मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वम् गुरुत्वद्रवत्व प्रयत्न संयोगजन्यत्वम् स्वकार्यसंयोगविरोधित्वम् संयोगव निरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रय समवेतकार्यारम्भ च । वस्तुतः कर्मैकविधमेव निष्क्रमणत्व प्रवेश नत्वा दिव दुत्क्षेपणत्वादे- जतित्वाभावेन मेदकत्वाभावात् इति विज्ञेयम् (प० मा० ) । २ क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजप्रवाह रूपेणानादि (० सं० पृ० १८८ शैव० ) । यथा कर्मणैव हि संसिद्धिमास्थिता जनकादयः (गीता ३१२० ) इत्यादौ । कमोणि षट् शान्तिकरणम् वशीकरण स्तम्भनम् विद्वेषः उच्चाटनम् मारणं चेति । एते षट् प्रयोगास्तवाद्यक्ताः । यजनम् याजनम् अध्ययनम् अध्यापनम् दानम् प्रतिग्रहश्चेति एतानि कपालभातिश्चैतानि षट् कर्माणि समाचरेत् ॥ इत्यनेनोक्तानि शुद्धिकराणि ब्राह्मणस्य षट् कमोणि । धौतिर्वस्तिस्तथा नेतिनलिकी त्राटकस्तथा । षट् कर्माणि हठयोगाङ्गानि ( वाच० ) । केचित्त कर्म त्रिविधम् " काम्यं नित्यकाम्यं चेति । तत्र केवलं नित्यं संध्यावन्दनादि । केवलं काम्यं यागादि । नित्यकाम्यं तु एकादशीव्रतादीत्याहुः । एतद्वतस्यकरणे प्रत्यवायश्रवणान्नित्यत्वम् । पुत्रादिकामना श्रवणात्काम्यत्वमपि संगच्छते ( त० प्र० ख० ४ पृ० १०३) । मीमांसकनये नित्यम् नैमित्तिकम् काम्यं चेति त्रिविधं कर्म ( व्यासस्मृ० ) । तत्र यदकरणे प्रत्यवा- यस्तन्नित्यम् । यथा संध्योपासनादि । अनियतनिमित्तकं नैमित्तिकम् । यथा ग्रहणश्राद्धादि । तत्र राहूपरागस्यानियतस्यैव निमित्तत्वात् । अत्र नित्यत्वं च प्रत्यवायसाधनीभूताभावप्रतियोगित्वम् । नियतनिमित्तकत्व मिति यावत् । संध्योपासनादौ प्रातरादिसमयस्य नियतस्यैव निमित्तत्वात् ( म० प्र० ४ पृ० ६० ) । अथवा फलकामनानधीनकर्तृकत्वम् ( त० प्र० ख० ४ पृ० १०३ ) । नैमित्तिकत्वं च निमित्तनिश्चयाधीनकर्त- व्यताकत्वम् । यथा वा जातेष्ट्यादौ ( वाच० ) । काम्य तु फलका- मनाधीनकर्तव्यताकं कर्म । यथा स्वर्गेदोशेन कृतं अश्वमेधयागादि ( म० प्र० ४ पृ० ६० ) (वाच० ) । सात्त्विकराजसतामसभेदेन त्रिविधं कर्मेति वेदान्तिन: ( गीता १८/२३ - २५ ) । वेदान्तिनां मते कर्म पु- ण्यपापजनकम् । तच्च द्विविधम् संचितम् प्रारब्धं चेति । तत्र अनारब्ध- विपाकः कर्माशयः संचितम् । तच्च ज्ञानाग्निना दह्यते । आरब्ध- विपाक कर्माशयः प्रारब्धम् । तच्चोपभोगेनैव नश्यति इति बोध्यम् । इदं च शुक्लृकृष्णकृष्णशुक्लभेदेनापि त्रिविधम् । तत्राद्यम् हिंसाद्यनपेक्षं पुण्यजनकं स्वाध्यायादि । द्वितीयम् शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि । तृतीयम् हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं पशुयागादि (वाच०) । ३ [क] कर्तुरीप्सिततमं कर्म (१९१४।४९ पाणि० ) इत्यादिभिः सूत्रैर्यस्य कर्मसंज्ञा विधीयते तत् । [ख ] परसमवेतक्रियाफलशालि (चि० १) । यथा देवदत्तो ग्रामं गच्छतीत्यादौ ग्रामः कर्म । यथा वा भूमिं प्रयाति विहगो विजहाति महीरुहमित्यादौ भूमिमहीरुहौ कर्मणी ( का० व्या० पृ० ३ ) । यथा वा अन्नवद्विषं भुत इत्यादौ विषम् । अत्रेदं बोध्यम् । ग्रामं गच्छति देवदत्तः भूमिं प्रयाति विग इत्यादौ संयोगानुकूलस्पन्दात्मकव्यापारो गम्धातोर्याधातोश्चार्थः । तथा च संयोगात्मकफलस्य द्विष्ठत्वेन देवदत्तविहगात्मक कर्त्रादावपि वृत्ति- त्वात् देवदत्तो विहगश्च स्वात्मानं गच्छति प्रयाति च इति प्रयोगापत्तिः । तद्वारणाय परसमवेतक्रियाजन्यत्वम् क्रियाजन्यफले ( मतभेदेन धात्वर्थ- तावच्छेदकफले वा ) विशेषणत्वेन निवेश्यम् । इत्थं च द्वितीयादे क्रियान्वयि परसमवेतत्वमप्यर्थः । परत्वं च स्वप्रकृत्यर्थापेक्षया । स्वपदेन द्वितीया गृह्यते । इदं च कर्मसामान्यलक्षणम् इति ज्ञेयम् । अत्र प्राशे नैयायिकाः क्रियाजन्यफलशालि कर्मेत्याहुः । नव्यास्तु धात्वर्थतावच्छे- दकफलशालि कर्मेति प्राहुः ( ग० व्यु० का० २ पृ० ३६-- ३८, का० ४ पृ० ९३ ) । फलशालित्वं च फलानुयोगित्वम् । [ ग ] फलाम, यतयेष्टम् ( ग० व्यु० का० ४ पृ० ९३) घ ] शशधरादयस्तु कारणव्यापारविषयः कर्मेव्याहु ( चि० १) ( का० व्या० पृ० ३) । यथा व्रीहीन्प्रोक्षतीत्यादौ ब्रीहिः कर्म ( न्या० सि० दी० पृ० १९) । कर्म ( त० प्र० ) । यथा भाविनं घटं जानातीत्यादौ घटः कर्म यथा वा चक्षुषा घटं जानातीत्यादी घटः कर्म । कचित् विषयः (गौणम्) । यथा वा मातुः स्मरतीत्यादौ माता कर्म ( म०प्र० पृ० ४, ६ ) । अत्रेदं बोध्यम् । नैयायिकमते सविषयार्थकधातुलम भिव्याहारे विषयत्वात्मकं गौणं कर्मत्वम् कर्तुरीप्सिततमं कर्म ( पा० स० ) १।४।४९) इत्यनेन बोध्यते । तथा च घटविषयताशालिज्ञानाश्रय - तावान् मातृविषयकस्मरणवान् इति बोधः । वैयाकरणमते तु कर्मत्वं बोध्यते नतु गौणम् । तथा च व्यापारमुख्यविशेष्यक ज्ञानानुकूलव्यापारस्य स्मरणानुकूलव्यापारस्य च धात्वर्थत्वेन मुख्यमेव सर्वत्र बोधः इति । दिवाकरस्तु संस्कारावच्छिन्नमेव ज्ञानं जानात्सर्य इति उक्तस्थले मुख्यमेव कर्मत्वम् इत्याह ( श० प्र० पृ० १०१) क्वचित् प्रतियोगि कर्म । यथा घटं नाशयतीत्यादौ घटः कर्मेति ( का० व्या० पृ० ३) । कर्म द्विविधम् । प्रधानकर्म अप्रचा- नकर्म चेति । तत्राद्यम् गां दोग्धि पय इत्यादौ पयः । द्वितीयं तत्रैव गौः इति ( ल० म० सुब० पृ० ९१ ) । अत्र गोरपादान- त्वाविवक्षायां अकथितं च (पा० सू० ११४/५१ ) इत्यनेन कर्मत्वम् । अत्र गौणकर्मणि गवादौ लादयः ( ल० म० सुब० पृ० ९१ ) । शब्द- शक्तिप्रकाशिकाकृतस्तु गां दोग्धि पय इत्यादौ प्रधानकर्म गौः पयस्त्वप्र- धानकर्म इत्याहुः (श० प्र० पृ० ९८) । एतत्तु पूर्वे ( ६४ पृष्ठे ) प्रपञ्चितम् तत्र द्रष्टव्यम् । प्रकारान्तरेण ईप्सिततमं कर्म त्रिविधं भवति । प्राप्यम् प्रकृतिविकृती च । तत्राद्यम् क्रियाजन्यफलशालि । यथा ग्रामं गच्छ- तीत्यादौ गम्यादेर्प्रामादि । घटं जानातीत्यादौ ज्ञानादेर्विषयश्च । द्वितीयं च क्रियया वस्स्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तत् । यथा तण्डुलानोदनं पचतीत्यादौ पाकादेस्तण्डुलादि । पुष्पाणि माल्यं करोति काशान्कटं करोति इत्यादौ कृतेश्च पुष्पकाशादि । तृतीयं च क्रियया निष्पाद्यं यत् तत् । यथा पाकादेरोदनादि । यथा वा कृतेः माल्यादि कटादि चेति । तत्र विकृतिरूपं कर्म प्रकृतेरसमभिव्या- हारस्थले ओदनं पचतीत्यादौ निर्व॑र्त्यमित्युच्यते । तत्रोक्तम् सती वा- वि[^१]द्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ इति । तदर्थश्च यस्य विकृतिकर्मणः नाश्रीयते न प्रयुज्यते इति। तण्डुलानोदनमित्यत्र तण्डुलादिरुपधर्मिनाशादेव पुर्वभाववि शिष्टतदसत्त्वम् ओदनादिरूपकर्मान्तरनिष्पाद कंक्रियातो निर्वह इति बोध्यम् । अत्रेत्थमन्वयः । तण्डुलानोदनं पचतीत्यादौ प्रकृतिक- मोत्तरद्वितीयायाः तण्डुलान् इत्यत्रत्यायाः नाशकत्वमर्थः । तण्डुलाद्यन्वितं नाशकत्वं च पाकेन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्च ओदनम् इत्यत्रत्यायाः नाशे चोत्पत्तेः प्रयोजकत्वम् उद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो उत्पादकत्वमर्थः । ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेन्वयः । भासते । तथा च ओदनोत्पादको यस्तण्डुलनाशकः पाकः तदनुकूल- कृतिमान् इति तण्डुलानोदनं पचतीति वाक्याद्बोधः । एवं डु करोति काष्ठं भस्म करोति दुग्धं दधि करोति इत्यादावपि प्रकृतिकर्मो- त्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते । विकृतिकर्मोत्तर द्वितीयया च विषयता विशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते । अत्र तण्डुलना- [^१] अविद्यमाना इति पदच्छेदः । २७ न्या० को० शिका या ओदनोत्पादिका ओदनविषयिका च कृतिः तदाश्रयः इति शाब्दबोधः । एवमन्यत्राप्यूह्यम् । काशान्कटं करोति पुष्पाणि माल्यं करोतीत्यादौ धर्मिणः काशकुसुमादेः सत्त्वेपि कटसंदर्भविरहरूप वैभावासत्त्वेन तद्विशिष्टस्यासत्त्वं कटसंदर्भादिनिष्पादकं क्रियातो निर्वहति इति ज्ञेयम् । अत्रेत्थमन्वयः । काशान् कटं करोति कुसुमानि मौक्तिकानि वा स्रजं करोतीत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयता विशेष बोधयति । काशायुच्छेदकतायास्तत्र बाधात् । कटमित्यादौ द्वितीयार्थः पूर्ववत् । स्रजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्व निर्वाहकत्वमर्थः । न्यासात्मक विशेषोत्पादकस्यापि स्वरूपसंबन्धविशेषरूप विशिष्टत्त्व 1 कत्वमक्षतमेव । ओदनं पचतीत्यत्र तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदना- देर्निर्वर्तनं क्रियया । पुष्पाणि माल्यमित्यत्र पुष्पादिरूपपूर्वद्रव्यविनाय तत्रैव संदर्भादिरूपविशेषनिष्पादनेन तद्विशिष्टस्य माल्यादेर्निर्वर्तन क्रियया । काशान् कटं करोतीत्यादौ काशादिरूपपूर्वधर्मिण मविनाश्य तत्रैव कटादिरूप धर्मिनिष्पादनं क्रियया (ग० व्यु० का ० २ पृ०६५) षयिका तदुत्पादिका च कृतिः तदाश्रयः इति बोधः । एवमन्यत्रापि अत्र काशादिनिष्ठविलक्षणविषयतानिरूपितविषयितावती या कटादिवि भवति । तथाहि निर्वर्त्यम् विकार्यम् प्राप्यम् उदासीनम् द्वेष्यम् बोध उद्यः । प्रकारान्तरेण व्याकरणशास्त्रोक्तरीत्या कर्म सप्तविध संज्ञान्तरैरनाख्यातम् अन्यपूर्वकं चेति । तत्राद्यत्रयम्क र्म ईप्सिततमं कर्तुः क्रिययेप्सिततमव्यापारं भवति ( ल० म० सुब० पृ० ८४ ) । । घटं करोतीत्यादौ घट: कर्म । द्वितीयम् सोमं सुनोतीत्यादौ सोमः । तदन्यदवशिष्टचतुष्टयम् इति विवेकः । तेषां सप्तानां मध्ये आद्यं यथा काष्ठं भस्म करोतीत्यादौ काष्ठादि विकार्य भस्मादि च निर्वर्त्य कर्म / तृतीयम् ग्रामं गच्छति घटं जानातीत्यादौ ग्रामघटादि । ग्रामं गच्छन् घटं पश्यतीत्यादौ घटः । पञ्चमं यथा विषं भुङ्क्त विषम् । अत्रेदं बोध्यम् । ताडनादिना पराधीनत नादिकं भवति । तत्र विषादि तादृशफलाश्रयत्वेनोद्देश्य चतुर्थ भड इत्यादी यथा विषभोज- अत एवार्तस्य विषमीप्सितं यत्तद्भक्षयतीति भाष्यं संगच्छते । तस्माच्चोरा- न्पश्यतीति द्वेष्योदाहरणम् । विषयेन्द्रियसंबन्धादृश्यमाना अपि न दर्शन।यथा गां दोग्धीत्यादौ गौः । सप्तमं यथा क्रूरमभिक्रुष्यतीत्यादौ क्रूरः कर्म इति । तन्त्रोक्तं हरिणा निर्वत्यै च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चा- प्यन्यपूर्वकम् ॥ इति । तत्र विकार्यमपि द्विविधम् । क्वचित् प्रकृत्युच्छेदः कचित्तु गुणान्तरोत्पत्तिमात्रम् इति । तत्राद्यम् काष्ठं भस्म करोति इति । द्वितीयं तु सुवर्णे कुण्डलं करोति इति (वै० सा. ( पृ० १६९ ) । तच्चोक्तं हरिणा विकार्य तु कर्म द्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचिरकाष्ठादि भस्मवत् । किंचिगुणान्तरोत्पत्त्या सुवर्णादि विकारवत् ॥ इति (ग० व्यु० का० २ पृ० ६५ ) । अप्राप्य क्रियाकृत विशेषानुपलभ्यमानत्वम् । निर्वर्त्यविकार्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठता असाधारण्येन तद्वत्त्वान्नातिप्रसङ्ग इति बोध्यम् (वाच०) । अथवा क्रियाप्रयोज्या साधारणधर्मप्र कारक प्रतीतिविषयतानाश्रयत्वे सति फलाश्रयत्वम् । निर्वर्त्यादावतिव्याप्तिवारणाय सत्यन्तम् ( वै० सा० द० सुब० पृ० १६८) । औदासीन्यत्त्रं च कर्तुरनुद्देश्यत्वे सति क्रियाजन्यफलवत्त्वम् । यथा ग्रामं गच्छन् तृणं स्पृशतीत्यादौ तृणादेर- नुद्देश्यत्वेपि क्रियाजन्यसंयोगरूपफलवत्त्वेनोदासीनकर्मता ( वाच० ) । द्वेष्यत्वं च द्विष्टसाधनवे सति क्रियाजन्यफलवस्वम् । संज्ञान्तरैरना- ख्यातं तु अपादानत्वादितत्तद्रूपविशेषैरविवक्षितम् (वै० सा० द० सुब० पृ० १६९ ) । अथवा कारक विशेषसंज्ञान्तरेणा विवक्षितत्वे सति कर्मोपकारकम् । यथा गां पयो दोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया अपादानत्वादे: अविवक्षया पयोरूपकर्मोपयोगितया कर्मत्वम् (वाच० ) । अदं बोध्यम् पूर्वविधिप्रसक्तिपूर्वकं तदविवक्षायां सर्वथा पूर्व विधे- रप्रसक्तौ च अकथितं च (पा० सू० ११४/५१) इत्यस्य प्रवृत्तिः इति (वै० सा० पृ० १६९) । अन्यपूर्वकं च अन्यसंज्ञाबाधनपूर्व शास्त्रबोधितम् । यथा क्रूरममिक्रुध्यतीत्यत्र क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः (पा० सू० १ ४ ३७) इत्यनेन प्रसक्तायाः संप्रदानसंज्ञायाः ६ क्रुधद्रुहोरुपसृष्टयोः कर्म (पा० सू० ११४ । ३८) इत्यनेन बाधनात् कर्मसंज्ञाविधानाच क्रूरस्य कर्मत्वम् । एवम् वैकुण्ठ मधिशेत इत्यादावपि बोध्यम् (वै० सा० द० सुब० पृ० १७०) । अथवा कारकान्त- रसंज्ञापूर्वकम् । यथा जलधिमधिशेत इत्यादौ जलधेराधारत्वेनाधिक- रणसंज्ञायाः प्राप्तत्वेपि अधिशीस्थासां कर्म (पा० सू० १/४/४६) इत्यादिना कर्मसंज्ञया कर्मत्वम् ( वाच ० ) । अत्र निर्वर्त्यविकार्यप्रण कर्मत्वं च कर्तृगतप्रकृतधात्वर्थव्यापारप्रयोज्यव्यापारव्यधिकरणला वेन कर्तुरुद्देश्यत्वम् । यथा तण्डुलं पचतीत्यादौ विक्लित्त्याश्रयत्वात्तण्डुल कर्मत्वम् । चैत्रं ग्रामं गमयतीत्यादौ ग्रामस्य कर्मत्वाय प्रयोज्यत्वनिवेशः । अत्र प्रयोज्यान्तेन फलविशेषणीभूतेन अग्नेर्माणवकं वारयति इत्यादाव ग्यादेः कर्मत्वं निवारितम् इति ज्ञेयम् ( ल० म० सु० पृ०८५-८६) । <कर्मजन्यगुणत्रम्> कर्मजन्यवृत्तिगुणत्वसाक्षाद्व्याप्य जातिमत्त्वम् (मु० उ पृ० १९४ ) । यथा संयोगः विभागः वेगश्च एतत्रयस्य कर्मजन्य गुणत्वम् ( भा०प० गु० श्लो० ८७ ) । <कर्मलम्> १ पदार्थविभाजको जातिविशेष: (वै० वि० ११ ११७ ) । यथा । उत्क्षेपणत्वादिकाः कर्मत्वसाक्षाद्व्याप्याः पञ्च जातयः (वै० ३० १।१।७) इत्यादौ कर्मत्वं जातिः । कर्मत्वं नाम नित्यासमवेतत्वसहित सत्तासाक्षाद्व्याप्यजातिः ( सर्व० सं० पृ० २१६ औ० ) ।२ ( कारकम) [क] परसमवेतक्रियाजन्यफलशालित्वम् । यथा चैत्रस्तण्डुलं पचतीत्यादौ पाकजन्यविक्कित्तिमत्त्वात्तण्डुलस्य कर्मत्वम् । घटं जानातीत्यादौ तु घटादेर्ज्ञान विषयत्वं कर्मत्वं गौणम् ( म० प्र० पृ० ६ ) । परसमवेतक्रियाजन्यधात्वर्थफलाश्रयत्वम् । यथा ग्रामं गच्छतीत्यादौ ग्रामस्य संयोगरूपफलाश्रयत्वं कर्मत्वम् । अत्र परसमवेतेति विशेष णाचैत्रश्चैत्रं गच्छतीति न प्रयोगः ( ल० म० सुब० पृ० ९०)। किंच ग्रामं गच्छति चैत्र इत्यादौ चैत्रादावतिव्याप्तिवारणाय पर - समवेतेति क्रियाविशेषणम् ( म० प्र० पृ० ६ ) । ग्रामं गच्छ- तीतिवत् स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ इष्यते ( ग० व्यु० का २ पृ० ४९ ) । गमिपत्योः पूर्वदेशे त्यजेरु- त्तरदेशे स्पन्देश्च पूर्वोत्तरयोः कर्मत्ववारणाय धात्वर्थेति ( ल० म० सु० पृ० ९० ) । [ग] शाब्दिकास्तु कर्तृगतप्रकृतधात्वर्थव्यापार प्रयोज्य- तदनधिकरणवृत्ति प्रकृतधात्वर्थफलाश्रयत्वम् ( वै० सा० द० पृ० १५३ ) । [घ] व्याकरणशास्त्रबोधित कर्मसंज्ञकत्वं कर्मत्वम् ( उ० म० सुब० पृ० ८५ ) । तेन अधिशय्यते प्रासादः इत्यादौ कर्मणि लकारोपपत्तिः। अधिशेतेः कर्मसंज्ञाविशिष्टान्वितस्वार्थबोधकत्वादित्याहुः ( वाच० ) [ङ ] प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्व- र्थफलाश्रयत्वेनोद्देश्यत्वम् । इदमेव कर्तुरीप्सिततमं कर्म (पाणि ० १॥ ४ ॥४९ ) इत्यत्र ईप्सिततमत्वं बोध्यम् । गां पयो दोग्धीत्यादौ पयोवृत्तिर्यो विभागस्तदनुकूलो व्यापारो गोवृत्तिः । तदनुकूलश्च गोष- वृत्तिः। अत्र यसः कर्मध्वसिद्धये प्रयोज्यत्वनिवेशः । जन्यत्वनिवेशे तु तन्त्र स्यात् । जन्यत्वं हि साक्षादेव । प्रयोज्यत्वं तु साक्षात्परंपरासाधा- रणम् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृत- धात्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थ: । किंतु नान्तरीयकतया गमने सति उत्पद्यते । प्रयागस्य फलाश्रयत्वेनानुद्देश्यत्वाच्च । ननु प्रकृतधात्वर्थस्य ग्रहणेनैवात्र वारणादुद्देश्यत्व निवेश: किमर्थ इति चेन्न । तस्यासाधारणं प्रयोजनं काशीं गच्छन्पथि मृत इति । अत्र हि काश्याः फलाश्रयत्वाभावेपि फलाश्रयत्वेनोद्देश्यत्वात्कर्मत्वम् । ननु काशीं गच्छति चैत्रे चैत्र: काशीं गच्छति न प्रयागम् इति प्रयोगानुपपत्तिः । प्रयागस्य फलाश्रयत्वेनोद्देश्यत्वाभावादिति चेत् उच्यते । कर्मलक्षण ईप्सिततम- पदस्य स्वार्थविशिष्टयोग्यताविशेषे लक्षणा । तथा च प्रकृतधात्वर्थप्रधानी- भूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वयोग्यताविशेषवं कर्मत्वम् । तच्च प्रयागस्याप्यस्तीति कर्मत्वं सुलभम् । [च ] न्याय- सिद्धान्तदीपिकायां तु करणव्यापारविषयकारणत्वं कर्मत्वम् । यथा ब्रीहीन् प्रोक्षतीत्यादौ ब्रीहेः कर्मत्वम् । तेन ब्रीहीन् प्रोक्षतीत्यादौ ब्रीहेः प्रोक्षणफलीभूतातिशयानाश्रयत्वेपि न कर्मत्वानुपपत्तिः ( न्या० सि० दी० पृ० १९ ) । एवमात्मनात्मानं जानातीत्यादावप्यूह्यम् । <कर्मधारयः> ( समासः ) [ क ] तत्पुरुषः समानाधिकरणः कर्मधारयः (पाणि० १।२।४२ ) । अत्रेदं बोध्यम् । कर्मधारये विशिष्टार्थेन शक्तिने वा लक्षणा । ताभ्यां विनापि विवक्षितान्वयबोधोपपत्तेः इति ( चि० ४) । शाब्दिकास्तु समासमात्रे विशिष्टार्थेतिरिक्तां शक्तिं कल्पयन्ति । [ख] क्रमिकम् अव्यवहितम् यन्नामद्वयम् एकस्य नाम्नोर्थे धर्मिणि तादा त्म्येनापरनाम्नोर्थस्यान्वयबोधं प्रति समर्थम् तादृशनामद्वयं कर्मधारयः ॥ यथा नीलोत्पलमित्यादावुत्पलादिपदस्यार्थे नीलादिपदार्थस्य नान्वयः । तथा पुरुषसिंह इत्यादावपि पुरुषादावुत्तरपदलक्ष्यस्य सिंहा दिसदृशस्य तादात्म्येनान्वयः। कुम्भस्य समीपम् इत्यर्थकस्तु उपकुम्भादिः न तादात्म्येनान्वयबोधकः इति तत्र नातिप्रसङ्गः (श० प्र० पृ० ४१ ) / पुरुषसिंह इत्यादौ पुरुष: सिंह इव इत्यादिविग्रहे प्रायेणोपमेयस्योपमानः । उपमानानि सामान्यवचनैः (पा० सू० २/३/५५ ) इत्यनेन कर्मधा रयोनुशिष्यते ( श० प्र० पृ० ४१ ) । [ग] समासप्रयुक्तलक्षणाशून्य / तुल्यार्थकोभयनामकसमासः । यथा नीलोत्पलमित्यादौ कर्मधारयः । पञ्चमूलीयादावपि तुल्यार्थको भयनामकत्वसत्त्वात्तद्वारणाय समासप्रयुक्त लक्षणाशून्येति नामविशेषणम् । धवखदिराविति द्वंद्ववारणाय तुल्यार्थ- केति नामविशेषणम् । नीलोत्पलमित्यत्र यद्यपि नीलपदे नीलगुणाश्रये निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्वाभावात् नाव्याप्तिः । द्वयस्य तुल्यार्थत्वाच्च लक्षणसमन्वयः संभवति इति ज्ञेयम् ( म० पृ० ४४ ) । स्तोकपक्ता इत्यादौ क्रियाविशेषणैः कर्मधारय एव महाकविर्महाविज्ञः इत्यादौ कवित्वादाविव प्रकृतेप्यनेकनामायैक देशे पचनादावपरनामार्थस्याभेदान्वयबोधकतया कर्मधारयत्वस्य वात् । स्तोकं पक्ता इत्यादौ अमस्तादात्म्यवाचित्वे तु तत्पुरुषः त्येव । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तु न देश्यम् स्तोकनम्रा स्तनाभ्याम् इत्यादेः कालिदासाद्यैः प्रयुक्तत्वात् ( श० प्र० श्लो० ३९ टी० पृ० ५५) । कर्मधारये समासे नीलोत्पलम् इत्यादौ न शक्तिर्न वा लक्षणा । नीलपदार्थस्योत्पलपदार्थे अभेदसं- बन्धेनैवान्वयोपपत्तौ शक्तिलक्षणानङ्गीकारात् । अत एव तत्पुरुषात्कर्म- धारयो लघीयान् भवति (न्या० प्र० ४ पृ० १३) । तथाहि निषादस्थप्तिं याजयेत् इति श्रुतौ बहुव्रीहितत्पुरुषसमासावपेक्ष्य कर्मधारय एव लक्षणाद्यभावाल्लघीयान् इति ( त० प्र० ख० ४ पृ० ५३ - ५४ ) । अत्रेदं बोध्यम् । निषादस्य संकरजातिविशे- सुषस्य शूद्रान्तर्गततया स्त्रीशूद्रौ नाधीयाताम् इत्यनेन निषिद्धत्वाद्वेदसा- मान्यानधिकारेपि निषादस्थपतिं याजयेत् इति विशेषश्रुतिबोधितयाज- नान्यथानुपपत्त्यैव यागमात्रोपयुक्तमध्ययनं निषादस्य कल्प्यते । तथा च स्त्रीशूद्राविति सामान्यशास्त्रघटकाध्ययनपंदस्य विशेषतः प्राप्ताध्ययनेतरा- अध्ययनपरत्वं वाच्यम् । तेन निषादस्य यागोपयुक्ताध्ययनेतराध्ययननिषेधः शूद्रान्तरस्य त्वध्ययनमात्रनिषेधः सिध्यति इति (मु० ४ ) ( दि० ४ वि० पृ० १८४ ) । <कर्मप्रवचनीयः> (अव्ययम् ) [ क ] क्रियानुयोगिक संबन्धविशेषद्योतक सत्यन्वाद्यन्यतमः । यथा अनु उप इत्यादिः । तदुक्तं हरिणा क्रियाया द्योतको नायं संबन्धस्य न वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य तु मेदकः ॥ इति । कर्मप्रवचनीया एकादश सन्ति अनु उप अप परि आङ् प्रति अभि अधि सु अति अपि । [ख ] क्रियाविशेषो- पजनितसंबन्धावच्छेदहेतवः ( सर्व० सं० पृ० २९९ पाणि० ) । एकादशानां मध्ये केषांचिदर्थः सोदाहरणं कथ्यते । तथाहि । यज्ञमनुप्रावर्ष- दिव्यत्रायमर्थः । कारकत्वरूपहेतुत्वं अनुशब्दार्थः । अनुलक्षणे (पाणि १।४।८४ ) इति कर्मप्रवचनीयसंज्ञा विधायकसूत्रे लक्षणपदस्य कार- कहेतुपरत्वात् । तथा च यज्ञमनु प्रावर्षत् इत्यादौ आधेयत्वं द्वितीयार्थः । तत्र यज्ञस्यान्वयः । आधेयत्वस्य च अनुपदार्थे हेतुत्वेन्वयः । हेतुतायाश्च निरूपकत्वसंबन्धेन वृष्टावन्वयः । अथवा जन्यत्वम् अनुशव्दार्थः । द्वितीयार्थो निरूपितत्वम् । तस्य यज्ञान्वितत्वस्यानुशब्दार्थे जन्यत्वेन्वयः। जन्यतायाश्चाश्रयत्वसंबन्धेन वृष्टावन्वयः ( ग० व्यु० का० २ १० २ पृ० ७६ ) । अन्वर्जुनं योद्धारः । अत्र अनुशब्दार्थोपकर्ष ( हीनत्वम् )। द्वितीयार्थोवधिकत्वम् । तत्रार्जुनस्यान्वयः । द्वितीयान्ताः र्थस्य अर्जुनावधिकत्वस्य चापकर्षेन्वयः इति । अवधित्वस्यापादानता- रूपत्वेपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः (ग० व्यु० का० २८० २ पृ० ७६ ) । वृक्षं प्रति विद्योतते विद्युत् । अत्र लक्षणेत्थंभूताख्या । नभागवीप्सासु प्रतिपर्यनवः (पाणि० १९१४/९० ) इत्यनेन सूत्रेण प्रति परि अनु एषां कर्मप्रवचनीयसंज्ञा अनुशिष्यते । तत्र प्रतिशब्द लक्षण इत्थंभूताख्यान भाग वीप्सा एतदात्मकानां चतुर्णामर्थानां विद्योतते विद्युत् इत्युदाहरणम् । अत्र परिचायकत्वरूपं लक्षणाव यथाक्रममुदाहरणानि कथ्यन्ते । तत्र प्रथमे लक्षणेर्थे वृक्षं प्रति ६) परिचेयत्वरूपं लक्ष्यत्वं वा प्रतिशब्दार्थः । वृक्षप्रकाशन विधुद्विद्योतनः । ज्ञानाद्वृक्षस्य परिचायकता । द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा (ग०) व्यु० ख० २ कार० २ पृ० ७६ ) । मातरं प्रति साधुः । का द्वितीये इत्थंभूताख्यार्थे संबन्ध: प्रतिशब्दार्थः । साधुत्वं च रित्वम् । द्वितीयार्थश्च प्रतियोगित्वं प्रतियोगित्वनिरूपकत्वं वा । पूर्वोक्त संबन्धेन्वयः । तादृशसंबन्धस्य च साधुत्वघटक क्रियायामन्त्रयः । इत्थं च मातृसंबन्धिप्रियकारी इति बोधः । यो मां प्रति स्याद अत्र तृतीये भागेर्थे प्रतिशब्दस्यार्थो भागः । भागश्च स्वत्वाश्रयः / द्वितीयार्थश्च संबन्धः । तस्य पूर्वोक्तभागेन्वयः । इत्थं च मत्संबन्धी यो भाग: स्यात् इति बोध: । वृक्षं प्रति सिञ्चति । अत्र चतर्थे वीप्सायें द्वितीया षत्वबाध एव संज्ञाफलम् प्रतिश्च निरर्थक इति ज्ञेयम (ग वृक्षं प्रति सिञ्चति इत्यादौ द्वितीयार्थः कर्मत्वम् । अत्र चतुर्थैर्थे कर्मण्येव / व्यु० का० २ ख० २ पृ० ७६ ) । एवं परि अनु एतयोरर्थ ऊहः। <कर्मयोगः> रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः (सर्व० सं० पृ० २०४ रसेश्व० ) । <कर्षणम्> १ [ क ] गत्यवच्छिन्नविकर्षणम् । यथा शाखा ग्रामं कृष्यत इत्यादौ कृषेरर्थः । अत्र ग्रामकर्मकगत्यवच्छिन्नविकर्षणकर्मताश्रयः शाखा इत्याकारको बोध: ( श० प्र० पृ० १०५ ) । [ ख ] देशान्तरसंयो- गानुकूलव्यापारानुकूलव्यापारः । यथा ग्राममजां कर्षतीत्यादौ कर्षणम् (बाच ० ) । अत्र अस्य कृषधातोः व्यापारद्वयबोधकतया कर्तुरीप्सिततमं कर्म (पा० सू० १।४।४९) इत्यनेन द्विकर्मकत्वम् । एकव्यापारबोधकत्वे तु अकथितं च ( पा० सू० १।४।५१ ) इत्यनेन प्रामादेः कर्मत्वम् । अत्र प्रधाने कर्मण्येव वाच्ये लकारादयः । यथा अजा ग्रामं कृष्यते इति । तत्रोक्तं हरिणा गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् इति । २ विलेखनम् । तदर्थश्च विदारणम् । अत्रार्थे कृषधातोर्न द्विकर्मकतेति भेदः । <कला>. (कार्यम् ) चेतनपरतन्त्रत्वे सत्यचेतना कला ( सर्व० सं० १० १६८ नकुली ० ) । <कलिकापूर्वम्> (अपूर्वम् ) परमापूर्वजनकः अङ्गजन्यः अपूर्वविशेषः । यथा उत्पत्यपूर्वाणि ( दि० गु० पृ० २३५ ) ( चि० ४) (मू०म० )। अत्र कलिकया अंशेन जन्यम् अपूर्वम् इति व्युत्पत्तिर्दृष्टव्या ( वाच० ) । उत्पस्यपूर्वाणि च पञ्चभिर्वाक्यैर्विहितेभ्यः षड्भ्य आग्नेयादिभ्य उत्पन्नानि षट् सन्ति । तत्र पञ्च वाक्यानि तु यदाग्नेयोष्टाकपालोमा- वास्यायां च पौर्णमास्यां चाच्युतो भवति ( तै० सं० २।६।३।३) उपांशु याजमन्तरा यजति ( तै० सं० २६/६/४ ) ताभ्यामेतमग्नीषो- मीयमेकादशकपालं पूर्णमासे प्रायच्छत् ( तै० सं० २/५/२/३ ) ऐन्द्रं दध्यमावास्यायाम् (तै० सं० २२५/४/१९) ऐन्द्रं पयोमावास्यायाम् इति ( दि० गु० पृ० २३५ ) । अत्र आमेयाष्टाकपाकयाग ऐन्द्रदधियाग ऐन्द्रपयोयाग एतत्रयं दर्शस्य । आग्नेयाष्टाकपालय उपांशुयाग अग्नीषोमीयैकादशकपालयाग एतत्रयं पौर्णमासस्य इतम् ( मू० म० ४ ) ( वाच० ) । <कल्पनम्> १ अनुमानवदस्यार्थोनुसंधेयः ( दि० १ ) (नील० ) । २८ न्या० को० २ अर्थापत्तिरिति मीमांसका वेदान्तिनचाहुः । ३ आरोप इति माया- वादिनः । ४ रचना ५ विधानं चेति काव्यज्ञा आहुः ( वाच० ) । <कल्याणम्> सत्यार्जवदयादानादीनि कल्याणानि ( सर्व० सं० पृ० १२४ रामा० ) । <कल्याणी> चतुर्वर्षा कन्या । कुमारिका द्विवर्षा तु त्रिवर्षा च त्रिमूर्तिनी । चतुर्वर्षा तु कल्याणी पञ्चवर्षा तु रोहिणी ॥ षड्वर्षा तु भवेत्काली सप्तवर्षो तु चण्डिका । अष्टवर्षा शांभवी तु दुर्गा तु नवमी स्मृता ॥ दशवर्षा सुभद्रेति नामभिः परिकीर्तिताः ( पु० चि० पृ० ६८ ) । <कषाय:> कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो। माया लोभश्च ( सर्व० सं० पृ० ७४ आर्ह ० ) । <काणः> [क] चक्षुःशून्यगोलकवखे सति सचक्षुर्गोलकवान् अक्षणा काण इत्यादौ । अत्र गोलकार्थकाक्षिपदोत्तरतृतीयाया विकतत्व । वृत्तिमत्त्वं चार्थः । तत्राद्यं विकृतत्वं संबोध्यत्वमिव प्रकृत्यर्थे विशेषण विधयान्वेति । चरमं वृत्तिमत्त्वं तु प्रकृत्यर्थनिरूपितं सत् काणत्वैकदेशे चक्षुःशून्यत्वेन्वेति । तथा च विकृतगोलकवृत्तित्वविशिष्टं यच्चक्षुःशून्य तद्वद्गोलकवान् सचक्षुष्कः इत्याकारस्तत्र बोध: ( श० प्र० पृ० ११८)। सचक्षुष्कः । अक्षणा काण इत्यादौ तादृशे विनाशे अक्षिपदस्यार्थत्य [ख] स्वाधिष्ठानवृत्तित्वसंबन्धेन चक्षुःशून्यो यश्चक्षुर्विनाशः तद्वान गोलकस्य विकारप्रयुक्तत्वं तृतीयया बोध्यते । तथा च गोलकविकार इत्याकारो बोध: ( श० प्र० पृ० ११८ ) । [ग] शाब्दिक प्रयुक्तस्य निरुक्तसंबन्धेन चक्षुःशून्यस्य चक्षुर्नाशस्याश्रयः सचक्षुष्का चक्षुनोशवान् सचक्षुष्कः । यथा अक्ष्णा काण इत्यादौ इत्या ( ल० म० सुब० पृ० १०० ) । अत्र येनाङविकारः (पा० सू० २।३।२० ) इत्यनेन तृतीया । विकारस्तु कनीनिकाद्यपगमः संस्थानवत्त्वं वा । तथाच अक्षिपदार्थो गोलकम् । गोलकविकारप्रयुक्त चक्षुनोशवान् सचक्षुष्कः इति बोधः ( ल० म० सुब० पृ० १००)। [घ ] लेशतोपि दर्शनसामर्थ्यहीनः काणः (श० शे० का० पृ० १८९)। <कादाचित्कत्वम्> [ क ] सत्वे सति किंचित्कालवृत्त्यभावप्रतियोगित्वम् । ( आत्मत• शिरो० ) । यथा अनादिश्चेत्कार्यकारणप्रवाह: कादाचित्क- त्वान्यथानुपपत्त्या कल्प्यः ( कु० टी० हरि० ) इत्यादौ । [ ख ] प्रागभावप्रतियोगित्व ध्वंसप्रतियोगित्व एतदन्यतरवत्त्वम् ( बौ० शि० ) ( वाच० ) । यथा घटपटादेरनित्यजातस्य कादाचित्कत्वम् । अत्र अन्यतरनिवेशेन च ध्वंसे प्रागभावप्रतियोगित्वस्य प्रागभावे च ध्वंस- प्रतियोगित्वस्य सत्त्वान्नाव्याप्तिः । नित्ये तु तदुभयासत्त्वान्न प्रसङ्गः (बौद्ध० शि० ) । <कामः> त्रयोदशी । यथा नागविद्वा तु या षष्ठी रुद्रविद्धो दिवाकरः । कामविद्धो भवेद्विष्णुर्न ग्राह्यास्ते तु वासराः ॥ (पुरु० चि० पृ० १०० ) इत्यादौ कामशब्दस्यार्थः । <कामरूपित्वम्> कर्मादिनिरपेक्षस्य स्खेच्छयैवानन्तसलक्षणविलक्षणसरूप- करणाधिष्ठातृत्वम् ( सर्व० सं० पृ० १६७ नकुली० ) । <काम्यत्वम्> [क] अभिलाषविषयत्वम् ( मु० गु० पृ० २२० ) । यथा सुखं तु जगतामेकं काम्यं धर्मेण जन्यते ( भा० प० गु० श्लो० १४६ ) इत्यादौ सुखस्य काम्यत्वम् । [ख ] फलेच्छाधीनेच्छा- विषयत्वम् । [ग] फलकामनाधीनकर्तव्यताकत्वं वा । यथा भोजना- देर्ज्योतिष्टोमादेश्च काम्यत्वम् (त० प्र० ४ पृ० १०३) । [घ आरब्ध- कर्मोत्पत्तिकामनाधीनकामनाविषयत्वम् इति केचित् ( मू० म० १ ) । <कायिकः> (नमस्कारः) करशिरः संयोगाद्यनुकूलचेष्टाविशेष: (मू० म० १ मङ्ग० पृ० १०५ ) । यथा देवदत्तः कराभ्यां यज्ञदत्तं नमस्करोतीत्यादौ कायिको नमस्कारः । <कारकम्> [क] यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायो कारकम् । यथा वृक्षात्पतति १ व्याघ्राद्विभेतीत्यादौ ब्राह्मणाय ददाति पुत्राय क्रुध्यतीत्यादौ दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ स्थाल्यां पचति शुक्तौ भासत इत्यादौ ग्रामं गच्छति घटं पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्यादुपस्थापितो विभागादिः प्रकारी भूय भासत इति तत्तद्धातूपस्थापिततत्तत्क्रियायां विभागादिकं प्रकृते कारकम् । [ख] यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य या धात्वर्थेन्वयः स तादृशधात्वर्थे कारकतया व्यपदिश्यते । तेन वृक्षात्पत तीत्यादौ वृक्षारपि पतनादिक्रियायामपादानत्वादिकारकव्यवहारः । [ग] क्रियाप्रकारीभूतोर्थः कारकम् इति शाब्दिकाः स्मरन्ति ( श० प्र० । श्लो० ६६ पृ० ७७) । [घ ] कारकत्वं च क्रियान्वितविभत्तय न्वितत्वम् । अस्ति च कर्मादौ क्रियान्वितसुबिभत्तयर्थान्वय इति । लक्षणसमन्वयः । चैत्रस्य तण्डुलं पचतीत्यादौ तु संबन्धिनि चैत्रादो षष्ठ्यर्थसंबन्धस्य तण्डुलादिनामार्थान्विततया क्रिया नन्वितत्वान्नातिव्याप्तिः । चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षष्ठ्यर्थसंबन्धस्य नामार्थेनैव तथा क्रियायाः कर्मत्वादिनैव साकाङ्क्षतया परस्पराकाहा विरहात् । ओदनस्य पक्ता मैत्रस्य पाकः इत्यादौ कर्मत्वकर्तृत्वार्थिका ष कारकविभक्तिरेव । कर्तृकर्मणोः कृति (पा० सू० २/३/६५) इत्यनेन तद्विधानात् । अत एव संबन्धस्य न कारकत्वम् । क्रियायोगाभावात् ।[ क्रियाप्रकारीभूतोर्थः कारकं तच्च षड़िधम् । कर्तृकर्मादिभेदेन शेषः संबन्ध । इष्यते ॥ इति शाब्दिकाः वदन्ति । अत एव गुरुविप्रतपस्विदुर्गान प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादौ सा लक्ष्मीरुपकुरुते यथा इत्यादौ च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम्परेवार अध्याहारेव बोधः । अयं भावः । अत्र षष्ठ्यर्थसंबन्धस्याध्याहृतनामार्थेनैवान्वयः " क्रियया इति नात्र कारकषष्ठी इति ( का० व्या० पृ० १) । अत्र षष्ट्यर्थ गदाधरभट्टाचार्यास्तु रोगे इति पदस्य नाध्याहारः कर्तव्यः । ' संबन्धस्य धात्वर्थेन्वयेपि नेयं कारकविभक्तिः किंतूपपदविभक्ति रेवेत्याहुः (ग० व्यु० का० २ ख० २ पृ० ५६ ) । यदि भा क्रियान्वित कर्तृत्व कर्मवादिषट् कान्यतमान्वयित्वम् कारकत्वं बोध्याय / हारमन्तरा क्रियायां षष्ठ्यर्थसंबन्धान्वयः प्रामाणिकः तदा । अत एव च चर्मणि द्वीपिनं हन्तीत्यादौ निमित्तादेरपि न कारकत्वम् इति । एता उपपदविभक्तयः न तु कारकविभक्तयः इति ( का० व्या० पृ० १ ) (श० प्र० पृ० ७७-७८)। शाब्दिकास्तु [ छ ] क्रियाजनकत्वयोग्यता- बुद्धिविषयत्वम् कारकत्वमित्याहुः ( ल० म० सुब० पृ० ७९ ) । [ज ] क्रियाहेतुः ( म० प्र० पृ० ६) । यथा चैत्रो ग्रामं गच्छ- तीत्यादौ चैत्रः कारकम् । अत्र क्रियां कुर्वद्धि कारकम् इति योगो द्रष्टव्यः ( म० प्र० पृ० ५ ) । [ झ ] कारकत्वं क्रियाजनकत्वम् । भाष्ये करोतिक्रियां निर्वर्तयतीति व्युत्पत्तिप्रदर्शनात् । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वम् । पुत्रेणान्यथासिद्ध्या तत्त्वाभावात् । अत एवैषां क्रियायामेवान्वयः । क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया जनकाकाङ्क्षया च तत्रैवान्वयस्यौ- चित्यात् । सर्वेषां च कारकाणां स्वखावान्तरक्रियाद्वारा प्रधानक्रिया- निष्पादकत्वं बोध्यम् । असंनिहितसंप्रदानस्यापि दातृबुद्धिस्थत्वावश्यक- वेन स्वज्ञानस्य पूर्वकालत्वेनैव जनकत्वम् । एवं स्तोकं पचतीत्यादौ फलस्यापि । घटं करोति स्मरतीत्यादौ बौद्धघटादे: पूर्वकालत्वेन स्मृत्यादि- निष्पादकत्वं बोध्यम् ( श० शेख० का० पृ० १७४) । अत्र वज्ञान- स्त्यत्र स्वपदेनासंनिहितं संप्रदानं बोध्यम् । स्तोकं पचतीत्यत्र च फलस्य कथं कर्मत्वं तदुच्यते । पच्धात्वर्थो विकित्यनुकूलो व्यापारः । तत्र विक्कित्तिरूपफलस्य व्यपदेशिवद्भावेन फलाश्रयत्वात्कर्मत्वम् । तद्वा- चकौ च द्वौ पच्चातुः स्तोकपदं चेति । तत्र धातोः प्रातिपदिकसंज्ञाया अभावात्तस्माद्वितीया न भवति । स्तोकशब्दस्य च तत्सत्वाद्वितीया भवति । कारकं षड़िधम् । अपादानत्वम् संप्रदानत्वम् करणत्वम् अधिकरणत्वम् कर्मत्वम् कर्तुत्वम् इति ( श० प्र० पृ० ७८ ) । तदुक्तम् कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कार- काणि षट् ॥ इति । कारकं प्रकासन्तरेणापि द्विविधम् । उक्तम् अनुक्त । तत्र धात्वर्थस्य विशेष्यतया तिङाद्यनुभाव्यत्वमेव कारकस्योक्तत्वम् । तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वम् । तत्र उक्तं कारकं यथा पचति पच्यते इत्यादौ तिङा पाचकः पच्यमान इत्यादौ च कृता कर्तृत्वं कर्मत्वं च विशेष्यत्वेथा पचनं काष्ठम् दानीयो द्विजः सीमो गजः शयनं गृहमित्यादौ यथाक्रमं करणत्वादि धात्वर्थविशेष्यत्वेनातु भाव्यते । व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेपि पचति पच्यते इत्यादौ कर्तृत्वादौ । धात्वर्थस्य पाकादेरन्वयात् । विषवृक्षोपि संवर्ध्य स्वयं छेत्तुम सांप्रतम् । १ ( कुमारसं० २।५५ ) सेवितुं सांप्रतं विज्ञैगुरुः परुषवागपि इत्यादौ तु निपातेन क्वचित् कर्मत्वकारकस्योक्तत्वम् ( श० प्र० पृ० १०५ ) ॥ अनुक्तं तु कारकं यथा रामेण हतो वालीत्यादौ रामनिष्ठं कर्तृत्वम् / ग्रामं गच्छतीत्यादौ ग्रामनिष्ठं कर्मत्वम् । शरैः शातितपत्र इत्यादौ शरनिम काष्ठैः पचतीत्यादौ च काष्ठनिष्ठं करणत्वम् । विप्राय ददातीत्यादौ विप्रतिष्ठ संप्रदानत्वम् । एतादृशमनुक्तं कारकं भवति । [ञ] कर्तृत्वादिव्यपदेश कारिणी क्रिया कारकम् । यथा कारके ( १ । ४ । २३) इति पाणिनिसूत्रे भाष्यं यावद्र्याक्रियायामिति तावत्कारके इति । अधिकं तु ( श० <कारकविभक्तिः ( सुप्) धात्वर्थे प्रकारीभूतार्थबोधिका विभक्तिः । यथा ग्रामं गच्छति घटं पश्यति वृक्षात्पतति इत्यादौ द्वितीया पञ्चम्यादि । कारकविभक्तिरुच्यते । अत्र गच्छतिपश्यत्याद्यर्थे गमनदर्शनादौ याद्युपस्थापितकर्मत्वादि प्रकारीभूय भासत इति द्वितीयादिः कारक विभक्तिर्भवति इति विज्ञेयम् ( श० प्र० पृ० ७७ ) । कारक विभक्ति / च क्रियाजनकत्वसमानाधिकरणकर्त्रादिषट्कान्यतमार्थत्व् ( ल० श० शे) पृ० १९३ ) । <कारकार्था> वृत्त्या कारकस्य बोधिका सुब्विभक्तिः । यथा वृक्षात्पतति श्री गच्छतीत्यादौ कारकाथ पञ्चम्यादिविभक्तिः ( श० प्र० पृ० ७७)। <कारकार्थान्यार्था> [क ] वृत्या कारकार्थबोधकान्या सुब्विभक्ति ( श० प्र० श्लो० ६६ पृ० ७७ ) । यथा नीलो घट इत्यादौ मतविशे अमेदार्थबोधिका एकत्वबोधिका वा प्रथमा विभक्तिः । [ख / यत्सुपो यादृशार्थो न प्रकारीभूय भासते। धात्वर्थे याहगर्थे सा कारकान्यार्थ सुबू भवेत् ॥ तथा हि । प्रथमादीनां सप्तानां विभक्तीना मेकत्वादयोर्था नव प्रकारीभूय भासन्ते । किंतु प्रकृत्यर्थे । पाक इत्यादावपि सुबर्थसंख्या न धात्वर्थे प्रकार: । किंतु पचनादिवरूपे नामार्थे इति । अथवा [ग] समासनिविष्टस्य धातोर इति वक्तव्यम् । न हि ग्रामगत इत्यादौ धात्वर्थे कर्मत्वादिरिवैकत्वादिरपि सुबर्थः प्रकार: । अत एव प्रासादात्प्रेक्षत इत्यादौ ल्यबर्थस्य धात्वर्थे प्रकारत्वेपि तदर्थक- पञ्चम्यां नाव्याप्तिः ( श० प्र० श्लो० ९२ पृ० ११४ ) । अत्रेदमव- घेयम् । कारक विभक्तिभिन्न विभत्त्यर्थस्य क्रियायामनन्वयः इति न नियमः । तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूप - धात्वर्थे हेतुविभत्स्यर्थस्यान्वयो दृष्टः । तस्मात् स्थीयते इत्यादौ च सर्वमत एव धात्वर्थस्थित्यादौ हेतुविभत्तयर्थस्यान्वयो दृष्टः । गुरुविप्रत- पस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्याद धात्वर्थेन्बयो दृष्टश्च इति न तादृशनियमोङ्गीकर्तव्यः (ग० व्यु० का० २ ख० २ पृ० ५६ ) । अत्र रोगे इति पदमध्याहार्य तदर्थे षष्ठ्यर्थस्या- न्वयः कार्यः इत्यपि केचिद्वदन्ति इति प्रागुक्तमेव । <कारणगुणपूर्वकत्वम्> कारणगुणेन कार्ये ये गुणा उत्पद्यन्ते ते कारण- गुणपूर्वका रूपादयो वक्ष्यन्ते ( मु० गु० पृ० १९३) । अग्निमशन्दे दृश्यम् । <कारणगुणोत्पन्नगुणत्वम्> स्वाश्रय समवायिमात्रसमवेतस्वसजातीयगुणज- न्यवृत्तिः पृथक्त्वसंख्यात्वातिरिक्ता भावनावृत्त्यन्या च या जाति: तादृशजातिमत्त्वे सत्यपाकजत्वम् ( दि० गु० पृ० १९४) । भवति हि घटादीनां रूपादिकं स्वाश्रयघटादिसमवायिक पालादिरूपादिमात्रा- समवायिकारणेकम् (प० मा० ) । स्वम् घटादीनां रूपादिकम् । तस्या- श्रयः घटादिः । तस्य समवाय कपालम् । तन्मात्रे तस्मिन्नेव समवेतः स्वसजातीयो गुणः कपालादिगतरूपादिः । तेन जन्यम् घटादिगतम- पाकजं रूपादि । तत्र वर्तमाना जाति: अपाकजरूपत्वादिः । तद्वत्त्वे सति इत्यथे। स्वसजातीयगुणेत्यत्र साजात्यं च गुणत्वव्याप्यव्याप्यजाव्या विचक्षणीयम् । तेन अवयवावयविनोरेकत्वयोः संख्यात्वेनापि साजात्यम- भ्युपगम्य तादृशैकत्वाभ्यां जनितेवयवावयविद्वित्वादौ नातिव्याप्तिः ( दि० गु० प० १९४ ) । कारणगुणोत्पन्नगुणाश्च अपाकजा रूप. रसगन्धानुष्णस्पर्शाः अपाकजं द्रवत्वम् स्नेहवेगगुरुत्वएकत्वानि एक पृथक्त्वम् परिमाणम् स्थितिस्थापकश्चेति ( भा० प० गु० श्लो० ९६ - ९७ ) । अत्र पृथिवीमात्रवृत्तीनां केषांचित् पाकजरूपरसगन्ध स्पर्शानाम् कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् (मु० गु० पृ० १९४ ) । वेगोत्र कर्माजन्यो वेगजन्यः ग्राह्यः ( प० मा० ) । करणगुणोत्पन्नत्वं च [क] स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् ( दि० गु० पृ० १९४ ) । अत्र स्वम् अवयविजलस्य रूपादि । तस्याश्रयः समवाय वा समवायेन संबन्धेनाश्रयः अवयविभूतं जलम् । तस्य समवापि, तेन जन्य: तस्य भाव इति विग्रहादिकं ज्ञेयम् । [ख ] स्वसमवायिसम अवयवभूतं जलम् । तत्र समवेतो गुणः अवयवभूतजलवृत्ती रूपादिः । वायिसमवेतगुणजन्यत्वम् ( ल० व० पृ० ३६ ) । यथा कार्यजलस- मवेतरूपस्य कारणगुणोत्पन्नत्वमेव । अत्र तादृशगुणजन्यत्वं च तादृशगुण निष्ठासमवायिकारणतानिरूपितकार्यताशालित्वम् ( ल० व० पृ० <कारणम्> १ [क] कारणं हि तद्भवति यस्मिन् सति यद्भवति यि श्वासति यन्न भवति ( न्या० वा० १ पृ० २४ ) । अत्रेदं बोध्यम्/ कारणत्वं द्विविधम् । वैदिकम् लौकिकं च । तत्र वैदिकम् अन्वयमात्रा । वगम्यम् । लौकिकं तु अन्वयव्यतिरेकोभयगम्यम् इति ( त० व परि० २ लो० ५० ५० ४० ) । पुनरपि न्यायमते काराव द्विविधम् । फलोपहितत्वम् स्वरूपयोग्यत्वं चेति । तत्राद्यं यथा अनुमि प्रति परामर्शस्य कारणत्वम् । फलोपहितत्वं च उपधायकत्वशब्देना व्यवह्रियते। द्वितीयं यथा अरण्यस्थदण्डादिसाधारणम् जनकतावच्छेदक लक्षणं दण्डत्वादिस्वरूपं घटकारणत्वम् । [ख] कार्यतत्पूर्वभावी नियतोनन्यथा सिद्धश्च तत् ( त० मा० पृ० २ ) । [ग] अनन्य थासिद्धकार्यनियतपूर्ववृत्ति । यथा तन्तुवेमादिकं कारणम ( त० मा० पृ० २ ) ( त० सं० ) । यथा वा नवीनानां मणिकारादीनां मते प्रतिबन्धकसंसर्गाभावोपि कार्यमात्रं प्रति कारणम् । स च प्रति- बन्धकात्यन्ताभावः । अनन्यथासिद्धेत्यस्यार्थश्च अन्यथासिद्धभिन्नं अन्यथा- सिद्धिशून्यम् यत् कार्यनियतप्पूर्ववृत्ति तदिति । अत्र व्यापारेण व्यापारिणो नान्यथासिद्धिः इति नियमोङ्गीकर्तव्यः । तेन कुठारेण वृक्षं छिनत्तीत्यादौ कुठारादीनां परंपरया छेदनक्रियाजनककुठारदारुसंयोगजनकविधया कारणत्वेपि नान्यथासिद्धिः इति । कार्यनियतेत्यस्यार्थश्च कार्यान्नियता अवश्यंभाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिः यस्य तत्तथा इति ( सि० च० १ पृ० ५० ) । अत्र घटं प्रति रासभादेः कारणत्वनिरासाय नियतपदम् । यद्यपि अनियतरासभादेस्तृतीयान्यथासिद्धत्वेन (तर्कदीपिकायुक्ततृतीया- न्यथासिद्धलक्षणाक्रान्तत्वेन) कारणलक्षणघटके विशेषणेन रासभादेः कारणत्वनिरासान्नियतपदं व्यर्थमेव तथापि घट- सामान्य प्रति रासभसामान्यस्य कारणत्वनिरासाय नियतपदमाव- श्यकम् । यदि नियतपदं लक्षणे न निवेश्यते तदा तत्र पूर्वोक्त- तृतीयान्यास संभवेनातिव्याप्तिः स्यात् इति । नियतपूर्ववृत्तित्वं चाव्य- वहितपूर्वकालावच्छेदेन कार्यदेशे सत्त्वम् । न चेदं रासभसामान्येस्ति अतो नातिव्याप्तिः (त० कौ० १ पृ० ८) ( नील० १ पृ० १६) । अत्र प्राभाकरास्तु कारणमात्रं कार्यसहभावनिरूपकमेव सत् कार्यकार इति प्रतिबन्धकाभावोपि कार्यसहभावेन कारणम् इति च वदन्ति । तन्निरूपकत्वम् । खोत्पत्ति स्वाव्यवहितपूर्वत्व एतदन्यतरसंबन्धेन यदा कार्यसहभावनिरूपकत्वं चात्र कार्योत्पत्तिक्षणावच्छिन्ना याधिकरणता कार्य तदा प्रतिबन्धकाभावादिः इति प्रत्यासत्या कारणम् इति (मू० म० १) । यथा दाहोत्पत्तिकाले मण्याद्यभावः । घ] कार्योत्पादकम् । अत्रेयं व्याप्तिरनुसंधेया यद्विशेषयोः कार्यकारणभावः असति बाधके तत्सामान्ययोरपि इति । यथा घटविशेषदण्डविशेषयोः कार्यकारण- भावे घटसामान्यदण्डसामान्ययोरपि कार्यकारणभावो निराबाध एव । अत्र घटविशेष प्रति दैवादागतरासभस्य कारणत्वे घटसामान्य- २९ न्या० को० रासभसामान्ययोरपि कार्यकारणभावापत्तिः । तद्वारणाय असति बाधके इत्युक्तम् । तथा च तत्रान्यथासिद्धत्वरूपबाधकसत्त्वेन न तयोः कार्य- कारणभावः इति । कारणं तावत् द्विविधम् । मुख्यम् अमुख्यं च । तत्र घटादिकं प्रति मृदादिकं कपालादिकं वा मुख्यम् । यथा वा । अभाव प्रत्यक्ष इन्द्रियम् अनुमितौ च परामर्शः इत्यादि मुख्यं कारणं । भवति । मुख्यभिन्नं त्वमुख्य कारणम् । तच्च सहकारिकारणमुच्यते । यथा अभावप्रत्यक्षे योग्यानुपलब्धिः अनुमितौ च सहचारज्ञानं कारणम् । अमुख्यं भवति । मुख्यमपि न्यायमते त्रिविधम् । समवाय असमवापि निमित्तं चेति । तत्र घटादिकं प्रति कपालादिकं समवायिकारणम् । कपालद्वयसंयोगादि असमवायिकारणम् । दण्डादयो निमित्तकारणानि । इति । अत्रेदं बोध्यम् । एतत् त्रिविधं कारणम् भावकार्याणामेवास्ति । न त्यभावस्य । ध्वंसस्य तु निमित्तकारणमात्रम् । ध्वंसस्य समवायाभावेन । समवाय्यसमवायिनोरभावात् इति ( प्र० प्र० १ पृ० २ ) । इंदं च । कारणत्रयम् भावकार्यस्यैव । अभावस्य तु निमित्तमात्रम् इति तर्कदीनि कायामप्युक्तम् । अत्रायं नियमः । समवायिकारणं द्रव्यमेव असमवायिकारणं तु गुणः कर्म च भवति । असमवायिकारणं गुण ११ कर्मातिरिक्तं न भवतीत्यर्थः (वै० १०/२/१ - ६ ) (मु० १५० इदं च बोध्यम् । समवायिकारणासमवायिकारणे असाधारणे स कारणे भवतः । निमित्तकारणं तु साधारणासाधारणमेदेन द्विविधम प्यस्ति । तत्र साधारणनिमित्तकारणानि चाष्टविधानि । ईवा तज्ञा। नेच्छाकृतयः दिक्कालौ अदृष्टम् (धर्माधर्मो ) प्रागभावश्चेति । 'प्रतिबन्धक संसर्गाभावस्तु कार्यमा प्रति साधारणं निमित्तकारणमेव । स च प्राचीननैयायिकानां मते प्रागभावप्रध्वंसअत्यन्ताभावएतत्रयम् । मयि कारादीनां नव्यनैयायिकानां मते तु अत्यन्ताभाव एव इति विदेश ( दि० १ मङ्ग० पृ० ११) । मायावादिवेदान्तिनस्तु अभावत्य कारणत्वं नेच्छन्ति । असाधारणनिमित्तकारणानि तु कार्यभेदेनानेक विधानि । अमुख्य कारणं तु असाधारणं निमित्तमेव अनेकधा चेति। २ उद्देश्यम् । यथा तस्यागमनकारणम् इत्यादौ कारणमुद्देश्यम् । प्रयोजनं फलं वेत्यर्थः । फलस्य कारणत्वं चेच्छाद्वारा । उपायेच्छां प्रति फलेच्छायाः कारणत्वात् । सर्वो हि लोकः फलमिच्छन्नेव तदुपाये प्रवर्त- मानो दृश्यते इति तस्य तथात्वं बोध्यम् ( वाच० ) । ३ समस्त सृष्टि- संहारानुग्रहकारि कारणम् ( सर्व० सं० पृ० १६८ नकुली ० ) । <कारुण्यम्> १ स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा । यथा परमेश्वरस्य जग- निर्माणे करुणया प्रवृत्तिः (सर्व० सं० पृ० २२५ अक्ष० ) । २ करु- णाविषयत्वम् । यथा दयासमुद्रे स तदाशयेतिथीचकार कारुण्यर गिरः (नैष०) इत्यादौ ( वाच० ) । <कार्पण्यम्> (दोषः) उचितव्ययाकरणेनापि धनरक्षणेच्छा (गौ० दृ० ४ । १ । ३ ) । यथा कृपणो धनाढ्य इत्यादौ । कार्पण्यमपि तृष्णाप्रमेद एव (गौ० वृ० ४ । १ । ३ ) । <कार्मिकम्> कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रं सूत्रैः क्रियते तत्कार्मिकमित्युच्यते ( मिताक्षरा २।१८० ) । <कार्यकारणभावः> यत्किचिन्निष्ठ कार्यतानिरूपित कारणत्व यत्किंचिनिष्ठा- रणतानिरूपितकार्यत्व एतदन्यतरात्मको धर्मः । यथा कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान न दर्शनात् ॥ इत्यादौ धूमधूमध्वजयोः कार्यकारणभावः ( सर्व० सं० पृ० १६ बौद्ध० ) । अत्र व्युत्पत्तिः कार्य च कारणं च तयोर्भावः इति द्रष्टव्या । अयं च हेतुहेतुमद्भाव इत्यप्युच्यते । एकस्य स्वकारणापेक्षया कार्यत्वे तदपेक्षया चान्यस्य कारणत्वम् इति ( वाच० ) । अत्रेदं बोध्यम् । कार्योत्पत्तिनिश्चयेनाविनाभावो निश्चीयते । तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । तथाहि कार्यस्योत्पत्तेः प्रागनुप- लम्भः कारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भा- दनुपलम्भः इति पञ्चकारण्या धूमधूमध्वजयोः कार्यकारणभावो निश्चीयते (सर्व० सं० पृ० १७ बौद्ध० ) इति । <कार्यम्> १ [ क ] प्रागभावप्रतियोगि ( त० सं० ) । यथा घटपटादि सर्वम् प्रागभावभिन्नम् अनित्यजातं कार्ये भवति । अत्रायमाशयः । घटो- त्पत्तेः पूर्वं इह घटो भविष्यति इति या प्रतीतिर्जायते तत्प्रतीतिविषयीभूतो । यः अभावः स एव घटप्रागभावः तत्प्रतियोगि घटादिरूपं कार्यम् इति ( न्या० बो० १ पृ० ८ ) । [ख ] कारणपश्चाद्भावि । तच्च द्व्यणुकत्र्यणुकादिभेदेनानन्तविधं भवति ( त० कौ० १ पृ० ३ ) । कार्यद्रव्यस्योत्पत्तिविनाशयोः क्रमस्तु सृष्टिशब्दप्रलयशब्दव्याख्यानावसरे संपादयिष्यते । अत्र कार्योत्पत्तिप्रकारो मतभेदेन प्रसरति । असतः । सज्जायत इति सौगताः संगिरन्ते । सतोसज्जायत इति नैयायिकादयः । सतो विवर्त ( अधिष्ठानज्ञानेन निवर्त्यम् ) कार्यजातम् न वस्तुसदिति । मायावादिनो वेदान्तिनः । सतः सज्जायत इति सांख्याः ( सर्व० सं० पृ० ३२१ सांख्य० ) । तस्यायमाशयः । अत्र कल्पचतुष्टयं भवति । असतः सत् असतोसत् सतः सत् सतोसत् इति । तत्र द्वितीयकल्पो नैव संभवति । तृतीयकल्पे पक्षद्वयं संभवति । सतः सकाशाद्याव. हारिक सत् सतः सकाशात्पारमार्थिकं सदिति । तत्राद्यः पक्षो माया- वादिनां वेदान्तिनाम् । अन्त्यस्तु सांख्यानाम् । तत्र असतः सौगता बौद्धाः । उत्पत्तेः पूर्वमविद्यमानं कार्य सतः कारणाज्जायत इ वादिनां सौगतानामयमाशयः । असतः कारणात्सत्कार्य जायत इति । नैयायिकानामाशयः । मायावादिनां वेदान्तिनां सांख्यानां चाभिप्राय एव । विस्तरस्तु सवदर्शनसंग्रहटीकायां ( पृ० ३२१ ) द्रष्टव्यः । २ यागादिकृतिसाध्यमपूर्व कार्यमिति प्राभाकराः / ३ आदिश्यमानो वर्णादिः कार्यमिति शाब्दिकाः । ४ आरोग्यं कार्यमिति भिषजः / जन्मलग्नावधि दशमस्थानं कार्यमिति ज्योतिषज्ञाः । ६ उद्देश्यं कार्य मिति व्यवहारज्ञाः । ७ प्रयोजनमिति काव्यज्ञा वदन्ति ( वाच० ) / <कार्यसमः> ( जाति: ) [ क ] प्रयत्नकार्यानेकत्वात्का[^१]र्यसमः ( गौ५ ३७ ) । प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति । यस्य प्रयत्नानन्तर [^१] अत्र क्वचित् कारणसमेति पाठः । तस्याप्ययमेवार्थ: ( नील० पृ० ४५) । मात्मलाभः तत् खल्वभूत्वा भवति । यथा घटादिकार्यमनित्यमिति च भूत्वा न भवतीत्येतद्विज्ञायते । एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् व्यवधा- नापोहाच्चाभिव्यक्तिर्व्यवहितानाम् । तत्किं प्रयत्नानन्तरमात्मलाभः शब्द- स्याहो अभिव्यक्तिरिति विशेषो नास्ति । कार्याविशेषेण प्रत्यवस्थानं कार्यसमः (वात्स्या० ५।१।३७ ) । [ ख ] सामान्यत उक्ते हेतोरन- भिमतविशेषनिराकरणेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः प्रयत्नानन्त- रीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वं प्रयत्नकार्ये घटादौ तथा व्यवधाना- पोहेन प्रयत्नानन्तरोपलभ्यमाने कीलकादावपि दृष्टम् । तत्र द्वितीयं न जन्यत्वसाधकम् । आद्ये त्वसिद्धम् ( गौ० वृ० ५/११३७ ) । [ग] वायुक्तहेतोरन्यकार्येणापि संभवाभिधानम् । यथा शब्दः अनित्यः प्रयत्नानुविधायित्वादित्यत्र प्रयत्नानुविधायित्वमुभयथापि संभवति । घटा- दिवच्छन्दस्वरूपोत्पत्तौ जलादिवदावरकनिवृत्तौ च । उभयत्रापि प्रयत्ना- नुविधायित्वदर्शनात् । तथा च तस्यावरकनिवृत्तिरूपकार्यान्तरस्य संभवा- न्नानित्यत्वनियतत्वमिति ( नील० पृ० ४५ ) । [घ ] असिद्धतां वादिहेतोरुक्त्वा तं साधयेत्स्वयम् । तद्दूषणान्मूलहेतुभङ्गः कार्यसमो मतः ॥ इति ( ता०र० परि० २ श्लो० १२७) । असिद्धदेशना- भासोयम् । अस्याकृतिगणत्वात्सूत्रानुपदर्शितानामपि परिग्रहः । यथा शाठीसमा अनुपकारसमेत्यादि ( गौ० वृ० ५ । १ । ३७ ) । <कार्यान्वितत्वम्> कार्यताबोधक पदप्रतिपाद्यार्थात्मककार्ययुक्तत्वम् । यथा॑ प्राभाकरमीमांसकनये घटमानयेत्यादौ घटादिपदानामानयनादिरूपक्रिया- रिति तेषां मतम् । अयमभिप्रायः । कथंचिदुपस्थितपदार्थानां शाब्द- विशिष्ट एव घटादौ शक्तिः इत्यत्र क्रियान्वितत्वम् । अन्विते शक्ति- बोधवारणाय तत्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः कल्पनीयतया अन्वयांशेपि शक्तिरपेक्षिता । अन्यथा तादृश- सामान्यकार्यकारणभावभङ्गापत्तेः । एवं च अन्वितो घटपदवाच्यः इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकम् इति (नील० ४५० ३२) । प्राभाकरमते शक्तिग्रहप्रकारस्त्वित्थम् । प्रयोजकवृद्धेन घटमानय इत्युक्तम् । तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः । तदवधार्य पार्श्वस्थो बालः घटा- नयनरूपं कार्ये घटमानयेति शब्दप्रयोज्यम् इत्यवधारयति । ततश्च घटं नय गामानय इत्यावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्ति गृह्णाति इति ( मुक्ता० ४ पृ० १७६ ) ( चि० ४) । अत्र नैयादि । कास्तु चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादौ सिद्धार्थ विषयकस्यापि शाब्दबोधस्योत्पत्तेर्न कार्यान्विते शक्तिः । अत एव यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपपन्नं च तद सुखं स्वःपदास्पदम् ॥ इत्यर्थवादोपस्थिते सुखे वेदादेव स्वर्गपदस्य । शक्तिग्रहः इति ( चि०४ ) । अन्वयस्य वाक्यार्थतया भानसंभवाद. । न्वयांशेपि शक्तिर्न कल्पनीया इति प्राहुः ( त० दी० ४ पृ० ३२ // अत्रायं निष्कर्ष: । पदार्थसंसर्गस्य पदसमभिव्याहारबलादेव शाब्दबोध भानसंभवात् तादृशसंसर्गांशेपि शक्तिर्न कल्पनीया इति ( नील० 8 पृ० ३२ ) । <कार्यैक्यम्> (संगतिः ) एककार्यानुकूलत्वम् ( राम० २ १४० १३१४) यथा अनुमितिलक्षणैककार्यानुकूलत्वसंगत्या पक्षधर्मतां निरूपयितुमाह / ( दीधि० २ पृ० १२३ ) इत्यादौ व्याप्तिपक्षधर्म तयोरनुमितिलक्षण कार्यैक्यं संगतिः । इदं च एककार्यत्वमित्यप्युच्यते । <काल:> १ ( द्रव्यम् ) [ क ] विभुत्वे सति दिगसमवेतपरत्वासमवायिका राधिकरणम् (सर्व० सं० पृ० २१९ औल० ) । तदर्थश्च दिश्य यत् परत्वस्यासमवायिकारणम् कालपिण्डसंयोगः तस्याधिकरणद इति । दिशि अतिव्याप्तिवारणायदिगसमवेतेति। [ख ] परापरव्यतिकर योगपद्यायौगपद्यचिरक्षिप्रप्रत्ययकारणं द्रव्यम् ( वै० उ० ७/१/२५/ ( भा० प० श्लो० ४७ ) । [ ग २५) अतीतादिव्यवहार ( त० सं० ) । तदर्थच अतीतः भविष्यद् वर्तमानः इति प्रतीति प्रयोजकः व्यवहारस्तस्यासाधारण निमित्तहेतुः । तेन व्यवहारस्य शब्दा त्मकत्वेन तस्याकाशे समवायसंबन्धेन सत्त्वेपि नाकाशेतिव्याप्तिः ( सि० च० १ पृ० १० ) । [घ] सूर्यक्रियोपाधिवशादतीतानागतवर्तमानादि- व्यवहारभाकू काल: ( प्र० प्र०) । [ङ ] शाब्दिकास्तु शब्दतन्मात्र- परिणाम: काल इत्याहु: ( ल० म० लका० प० २० ) । [च ] येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं काउमित्याहुः । तस्यैव कयाचित्क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया आदित्यगया । तयैवासकृदावृत्तया मास इति संवत्सर इति च भवति इति ( पात० म० भ० २/२/५ ) । काललक्षणं तु कालिकसंब- न्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितमधिकरणविधया निमित्तत्वम् (दि० ११२ पृ० ८९) । कालिकसंबन्धावच्छिन्नाधिकरणत्वमेव कालत्वम् इति निष्कृष्टार्थ: ( राम० १ काल० पृ० ८९)। अथवा विभुत्वे सति कालिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं कालत्वम् ( प० मा० ) । यद्वा अतीतादिव्यवहारजनकतावच्छेदकमुख्य- विशेष्यत्वम् ( वाक्य० १ पृ० ५ ) । कालसत्त्वे प्रमाणं चानुमानम् । तच्च परत्वापरत्वे सासमवायिकारण के भावकार्यत्वाद्धटवत् इति । अयं भावः । ज्येष्ठे परत्वप्रत्ययः कनिष्ठे अपरत्वप्रत्ययः । स च परत्वापरत्वगुण- विशेषाधीनः । परत्वापरत्वे च सासमवायिकारणके भावकार्यत्वात् । ( दि० १ पृ० ९१ ) । तथा च ज्येष्ठत्व कनिष्ठत्वज्ञानाधीनपरत्वापरत्वा- असमवायिकारणं च तयोः कालपिण्डसंयोग एव । तदाश्रयः काल इति नुमेयः कालः सिद्ध: ( त० कौ० पृ० ३) । अत्र सूत्रम् अपरस्मिन्न- परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि (वै० २/२/६ ) इति । अयमर्थः । इतिशब्दः प्रकारार्थः प्रत्येकमभिसंबध्यते । अपरं चिरमित्यादयः प्रत्ययाः काललिङ्गानीति । बहुतरदिवाकरक्रियाविशिष्टशरीरज्ञानात् कालिक- परत्वोत्पत्तिरिति सिद्धान्तः । तज्ज्ञानं विशेषणविशेष्योभयसंबन्धघटक- सापेक्षं साक्षात्संबन्धाभावे सति विशिष्टज्ञानत्वात् लोहितः स्फटिकः इति ज्ञानवत् इत्यनुमानेन तादृशसंबन्धघटकविधया कालः सिध्यति । तादृश- निमित्तकारणं चेति ( सि० च० पृ० १० ) । किं च इदानीं घटः इति प्रतीते: संभवेन सूर्यक्रियाया घटादेश्च संबन्धोवश्यं स्वीकर्तव्यः । स च स्व-(क्रिया-) -समवायि- (तपन - ) - संयोगिसंयोग एव भवति । तद्धटकतया । काल: सिध्यति इति ( दि० १ पृ० ९१ ) ( प० मा० ) । सांख्यास्त काल आकाशेन्तर्भवतीति कालमतिरिक्तं न स्वीकुर्वन्ति (सां० कौ० ) दिक्कालौ नेश्वरादतिरिच्येते इतीश्वरात्मक एव कालः इति दीधितिकृद्धषु नाथतार्किक शिरोमणिरघुदेवरामभद्रादय आहुः । एतन्मते काल ईश्वरा- नातिरिक्तः । किंतु क्षणा एवेश्वरादतिरिक्ता इदानीम् इत्यादिव्यवहार । विषयाश्चेति ज्ञेयम् ( वाच० ) । स च कालः एकः विभुः नित्यक्ष (वै० २१ २१६ - ९ ) (७ । १ । २५ ) ( त० सं० ) । काले पञ्च गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् पृथक्त्वम् संयोग विभागक्षेति ( भा०प० श्लो ३३ ) ( त० मा० पृ० ३१) । अत्रेदमवधेयम् । कालस्त्वेकोपि उपाधिमेदात् अतीतानागतक्षण दिनवर्षादिव्यवहारविषय: (मु० १ पृ० ९१ ) । काल एकोपि उपाधिभेदान्त्रिविधः । अतीतः अनागतः वर्तमानश्चेति (त० कौ० १ पृ० ३) । तत्र भूतभविष्यत्काडा वपि प्रत्येकमद्यतनानद्यतनभेदेन द्विविधौ इत्यादि ग्रन्थान्तरे द्रष्टव्यम् । कालोपाधिस्तु कालोपाधिशब्दव्याख्यानावसरे संग्रहीष्यते । कलनात्तक । भूतानां स कालः परिकीर्तितः ( वि० ६० पु० चि० पृ०• निमेषकाष्ठाकलामुहूर्तयामअहोरात्रअर्धमासमासऋतुअयनसंवत्सरयुगकल्प काल: सर्वकार्याणां चोत्पत्तिस्थितिविनाशहेतुः । तद्व्यपदेशात् / क्षणल मन्वन्तर प्रलयमहाप्रलयव्यवहारहेतुश्च । काललिङ्गाविशेषादेकत्वं सिद्धय // कारणे काल: (वै० ७।१।२५) इति वचनात्परममहत्परिमाणय कारणपरत्वात् (७।२।२२ ) इति वचनात्संयोगः । तद्विनाशाद्विभागा ( प्रशस्त० पृ० ७-८) । सोयं क्षणलवादिः कालः कालिकों व्याप्यवृत्तिताया नियामकः जन्यमात्रे साधारणनिमित्तकारणं च / पिण्डितं स्यात्कलावहम् ॥ इति । कृषेर्दृष्टिसमायोगे दृश्यन्ते फलसिद्धयः// प्रमाणम् । पौरुषं दैवसंपत्त्या काले फलति पार्थिव । यत्र एतन्मनुष्य तास्तु काले प्रदृश्यन्ते नैवाकाले कथंचन ॥ इति च द्रष्टव्यम् (वाच ० ;) कालोतीन्द्रिय इति नैयायिकसिद्धान्तः । तथा च दिग्विपरीतपरत्वापरत्वा- नुमेयः काल इति ( त० भा० पृ० ३१) । प्राभाकराश्च कालः षडि- न्द्रियवेद्य इति अमन्यन्त ( म०प्र० पृ० ६५ ) । मायावादिनस्तु कालः साक्षिप्रत्ययभास्य इति अङ्गीचक्रुः । २ विवेकसाक्षात्कारान्तरायो मेघाख्यस्तुष्टिविशेषः काल इति सांख्या आहुः ( वाच ० ) । <कालातीत:> १ (बाधितहेत्वाभास: ) [ क ] कालात्ययापदिष्ट: काला- तीतः (गौ० ११२१९ ) । [ख] कालातीतो बलवता प्रमाणेन प्रबाधितः (ता० २० श्लो० ८६ ) । २ कालातिक्रमः । यथा काला- तीते वृथा संध्या वन्ध्यास्त्रीमैथुनं यथा इत्यादौ । अत्रार्थे कालातीतशब्दस्य कालस्यातीतमव्ययः इति व्युत्पत्तिद्रष्टव्या (वाच० ) । <कालात्ययापदिष्टः> ( हेत्वाभासः ) [ क कालस्य साधनकालस्या- त्यये अभावेपदिष्टः प्रयुक्तो हेतुः । एतेन साध्याभावप्रमा लक्षणार्थ इत सूचितम् । साध्याभावनिर्णये साधनासंभवात् । अयमेव बाधितसाध्यक इति गीयते । यथा वहिरनुष्णः कृतकत्वादित्यादौ ( गौ० वृ० १/२/९) । कालात्ययापदिष्टः कालातीतः ( गौ० १।२।९ ) । कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते । निदर्शनम् नित्यः शब्दः संयोगव्यङ्ग्यत्वाद्रूपवत् (वात्स्या० ११२१९ ) । [ख यस्य बलवत्प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नः सः । स एव बाधितविषय इत्युच्यते । यथा अग्निरनुष्णः पदार्थत्वात् कृतकत्वाद्वा जलवदिति । यथा वा घटः क्षणिकः सत्त्वादित्यादौ सत्त्वं : हेतुः कालात्ययापदिष्ट: । अग्निरनुष्ण इत्यत्र कृतकत्वं हेतुः । तस्य च यत् साध्यम् अनुष्णत्वम् तस्याभावः प्रत्यक्षेणैव परिच्छिन्नः (परिज्ञातः) । क्षणिक इत्यत्र हेतोः सत्त्वस्य यत् साध्यम् क्षणिकत्वम् तस्याभाव: अक्ष- त्वगिन्द्रियेणाग्नेरुष्णत्वपरिच्छेदात् ( त० मा० पृ० ५० ) । घटः णिकत्वम् प्रत्यभिज्ञया पूर्वावस्थानुभवजनितसंस्कारसहकृतेन्द्रिय पूर्वोपरकालाकलनया घटस्य स्थायित्वं परिच्छिद्यत इति तस्य हेतो- ३० न्या० को० स्तथास्वं संभवति । [ग] बाधितवदस्यार्थोनुसंधेयः । यथा काला त्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधा ( भा० प० श्लो० ७२ ) इत्यादौ । <कालिकविशेषणता> ( स्वरूपसंबन्धः) कालिकसंबन्धवदस्यार्थोनुसंधेयः । <कालिकसंबन्धः> कालेन कृतः संबन्धः ( वाच० ) । यथा कालगन्धयोः। संबन्धः । अयं च संबन्धः सर्वाधारताप्रयोजकसंबन्ध इति जेगीयते ॥ तथाहि अनेन संबन्धेन सर्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्त्वम् । नियेषु तु कालिकसंबन्धेन न कस्यापि सत्त्वम् । नित्यानुयोगिककालिक संबन्धस्यानुपगमात् । कालस्य च नित्यत्वेपि कालानुयोगिकस्तादृश संबन्धस्तु स्वीक्रियत इति नैयायिका मन्यन्ते । अत्र च कालातिरिक्त नित्ये कालिकायोगः इति नैयायिकानां सिद्धान्तो द्रष्टव्यः । कालिक संबन्धश्चार्य स्वरूपादनतिरिक्त इत्यन्ये ( ग० सिद्धा० ) । महाकाल जन्यपदार्थयोः एककालवृत्तिमतोर्जन्यपदार्थयोश्चायं संबन्धः / स च कालिकविशेषणताख्यः सर्वाधारताप्रयोजकः। यथा कालस्य गन्धादिसर्ववस्त्वाधारताप्रयोजकः कालिकाख्यः संबन्धः । एवं ति विशेषणतापि बोध्या ( त० दी० १ पृ० ७ ) । अत्रायं विवेकः// गगनादिकं सर्वदैवास्ति इत्यादिव्यवहारात्कालिक विशेषणताख्यसंबन्धेना काशपरमाण्वादयो नित्या अपि काले वर्तन्ते । दिग्विशेषणताख्यया । सर्वाधारतानियामिकया तु जन्यमात्रं दिशि तिष्ठति इति ( राम० ११ पृ० ५६ ) । <काली> ( कल्याणीशब्दे दृश्यम् ) । <कालीनत्वम्> कालवृत्तित्वम् । यथा घटकालीनः पट इत्यादौ पटव दृश्यते । स चानुक्तोप्यवगन्तव्यः । अन्यथा बहुतरलक्ष्यक्षतिप्रसाद घटकालीनत्वम् । प्राक्कालीनोत्तरकाली नार्वाक्कालीनप्रभृतिप्रयोगेषु स्यात् ( गण० ) । अत्र च कालाट्ठञ् ( ४ । ३।११ ) इति पाणिनि काळात् इति योगं विभज्य युष्मदस्मदोरिति सूत्रान्मण्डूकडल्या खञतु वर्त्य विधेयः इत्याकूतम् । गौडाश्च समासप्रत्ययविधौ प्रतिषेधो वक्तव्यः (पा० सू० ११ १/७२ वार्ति० ) इत्युक्तेः तदन्तविधिपरिभाषाया अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः । तेन तदन्तशब्दात् ख एव साधुः । समानकालीनः प्राक्कालीन इति भूरिप्रयोगात् इत्याहुः । वस्तुतस्तु तद्धिताः (४।१।७६) इति पाणिनिसूत्र स्थबहुवचनेनानुक्त- स्थलेपि तद्धितप्रत्ययो बोध्यते । स चात्र खप्रत्ययः इति विज्ञेयम् । वैयाकरणमते तु भाष्यानुक्तत्वादप्रमाणमेतत् । अत एव अपभ्रंशा एवैते इति प्रामाणिका इति सिद्धान्तकौमुयामुक्तम् (कौ० ४ । ३ । ११ ) । <कालोपाधिः> क्षणदिनादिव्यवहारविषयत्वनियामको धर्मः । स च जन्य- मात्रं (अनित्यमात्रं ) क्रियामात्रं वा कालोपाधिः । तथाहि स्वजन्यविभा- गप्रागभावावच्छिन्नं कर्म (१) पूर्वसंयोगावच्छिन्नविभागः (२) पूर्वसंयोग- नाशावच्छिन्नोत्तरसंयोगप्रागभावः (३) उत्तरसंयोगावच्छिन्नं कर्म (४) च इत्यादि (मु० १ पृ० ९२ ) । स्वजन्येत्यस्यार्थश्च स्वम् रविक्रिया । तज्जन्यो विभाग: रविपूर्वदेशयोर्विभागः । तस्य प्रागभावः । स तादृशक्रियोत्पत्ति- काले तिष्ठति । तदवच्छिन्नम् तदेव कर्म इति (सि० च० १ पृ० १०) । पूर्वसंयोगेल्यादेः स्वजन्य विभागनाश्यपूर्वसंयोगविशिष्ट स्वजन्यविभाग इत्यर्थः । पूर्वसंयोगनाशेत्यादेः स्वजन्यविभागजन्यपूर्वसंयोगनाशावच्छिन्नः स्वजन्योत्तरसंयोगप्रागभाव इत्यर्थः । उत्तरसंयोगेत्यादेः स्वनाशकोत्तर- संयोग इत्यर्थ: ( दि० १ पृ० ९२ ) । अनेनोपाधिचतुष्टयेन क्षण- चतुष्टयव्यवहार उपपद्यते । एवम् क्षणान्तरव्यवहारनियामकं कर्मान्तरादि ऊह्यम् । महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदा सोनायत्या ध्वंसेनैव उपपादनीयः इति (मु० १ पृ० ९३ ) । स्ववृत्तिध्वंसप्रतियोगिप्रतियोगि कावसविशिष्ट समयस्यैव तत्र क्षणव्यवहारविषयत्वमिति भावः (दि० १ पृ० ९३ ) । अत्र प्रथमक्षणे क्रियोत्पद्यते । अनन्तरं क्रियातो विभागः । ततः पूर्वसंयोगनाशः । तत उत्तरदेशसंयोग उत्पद्यते । इति एकवारं नेत्रनिमीलने नैयायिक प्रक्रिया ज्ञेया । एत एव क्रियादयश्चत्वारः क्र चत्वार उपाधयो बोध्याः । <काव्यम्> नायकादिप्रतिपादको वाक्यसंदर्भः । यथा वाल्मीकिविरचितं रामायणं काव्यम् । आलंकारिकास्तु अदोषौ सगुणौ सालंकारौ शब्दार्थों काव्यम् । दोषवर्जितं सगुणं सालंकारं शब्दविशिष्टार्थ अर्थविशिष्टशब्द एतदन्यतरत् काव्यम् इति समुदितार्थः । तदुक्तम् । गुणालंकारसहितों शब्दार्थों दोषवर्जितौ । गद्यपद्योभयमयं काव्यं काव्यविदो विदुः इति ( प्रतापरु० पृ० १२) । तददोषौ शब्दार्थो सगुणावनलंकृती / पुनः कापि इति ( काव्यप्र० उ० १ श्लो० ४ ) । पूर्वोक्तविशेषण- विशिष्टः शब्द एव काव्यं नार्थः काव्यमिति रसगङ्गाधरकृदादय आहुः । काव्यसंपत्सामग्री तु शब्दार्थो मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ! हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ शोभामाधु प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुण्यविश्रान्तिः शय्या शब्देव संमता ॥ रसास्वादप्रभेदाः स्युः पाका: पाका इव स्थिताः । लोकवदियं सामग्री काव्यसंपदः ॥ इति ( प्रतापरु० पृ० १२ ) । <कासराक्षः> महिषाख्यो गुग्गुल: ( पु० चि० पृ० ३०४ ) । <किंच> (अव्ययसमुदाय: ) १ आरम्भः । २ समुच्चयः । ३ साकल्यम ४ संभावना । ५ अवान्तरम् ( वाच० ) । <किंचन> ( अव्ययसमुदाय: ) १ असाकल्यम् । २ अल्पम् ( वाच० । <किंचित्> ( अव्ययसमुदायः ) १ असाकल्यम् । २ अल्पम् । यथा कम्पेन किंचित् प्रतिगृह्य मूर्ध्न: ( रघु० ) आवर्जिता किंचिदिव स्तनाम्याद ( कुमार० ) इत्यादौ ( वाच० ) । <किंतु> ( अव्ययसमुदाय: ) १ पूर्ववाक्यसंकोचज्ञापनम् / २ प्रायुक्त विरुद्धार्थः । ३ किंपुनरर्थ: ( वाच० ) । <किंतु> (अव्ययसमुदायः ) १ प्रश्नः । २ वितर्कः । ३ सादृश्यद । ४ स्थानम् ( वाच० )। <किम्> १ [क] जिज्ञासितम् ( ग० शक्ति० पृ० १०४ ) (दि० १ पृ० १७९ ) ( म० प्र० ३।३४ ) । यथा किं तव नामधेयमित्यादी । [ ख ] अनिर्धारित विशेष विशिष्टम् । यथा कीदृशो गवयपदवाच्यः इत्यादौ ( म० प्र० ३ पृ० ३४ ) । यथा वा कस्मै नाथ समर्प्य कौरवकुलं व्योमान्तमालम्बसे ( उद्भटः ) इत्यादौ । २ ईषदर्थः । यथा न किमप्यस्यास्ति इत्यादौ । ३ अतिशयः । यथा किमप्येष प्रगल्भते इत्यादौ । अत्र अतिशयितं प्रगल्भते इति बोधः (वाच० ) । ४ प्रश्नः । यथा किमिदं किंनरकण्ठि सुप्यते (रघुः) इत्यादौ (वाच० ) । ५ वितर्कः । स च प्रयोक्तः संभावनात्मकं ज्ञानम् । यथा किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा कि कुचौ ता तारा वा कनकलतिका वा किमबला ॥ इत्यादौ किंशब्दार्थः । ६ कुत्सा । यथा किंगौरित्यादौ ( ग० शक्ति ० १० १०९ - ११० ) । यथा वा स किंसखा ( किरा० १।५ इत्यादौ ) । एवम् वाशब्दस्याप्यर्थो ज्ञेयः ( ग० शक्ति० पृ० १०९ ) । <किमु> ( अव्ययम् ) १ प्रश्नः । २ निषेधः । ३ वितर्कः । ४ निन्दा । यथा किमु भीरु ररार्यसे (भट्टिः ) इत्यादौ ( वाच० ) । <किमुत> (अव्ययम् ) १ प्रश्नः । २ वितकेः । तत्र प्रमाणम् आहो उताहो किमुत वितर्फे किं किमूत च इति ( हेम० ) ( वाच० ) । ३ विकल्पः । ४ अतिशय: ( वाच० )। <किल> (अव्ययम् ) १ आगमप्रसिद्धिः । यथा कंसं जघान किल वासु- देवः इत्यादौ । अत्र कृष्णकर्तृकं कंसहननमागमसिद्धम् इति बोधः । २ अरुचिः । यथा एवं किल केचिद्वदन्ति इत्यादौ । अत्र केषांचिदेवं कथनं वक्तररुचिविषयः इति बोधः । ३ न्यक्कारः । यथा स किल योत्स्यते इत्यादौ । अत्र तस्य योधनशक्तिराहित्यद्योतनात् तिरस्कारो गम्यते । ४ संभावना । यथा पार्थः किल विजेष्यते कुरून् इत्यादौ । अत्र पार्थकर्तृककुरुविजयः संभावनाविषयः इति बोधः । ५ हेतुः । यथा स किलेवमुक्तवान् इत्यादौ । अत्र तत्कथनस्यान्यत्र हेतुता योग्यते । ६ अलीकम् । यथा प्रसय सिंहः किल तां चकर्ष ( रघु० स० २) इत्यादौ ( गणरत्न० ) । अत्र सिंहकर्तृकं नन्दिनी । कर्षणमलीकम् इति बोधः ( वाच० ) । ७ वार्ता । ८ अनुशयः । ९ निश्चयः इत्यादि ( वाच ० ) । <कुतुपः> अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुद्रतो । यः स कालः कुतुपः स्मृतः ॥ (पु० चि० पृ० ३३९ ) । <कुमारिका> कुमारिका द्विवर्षा ( कल्याणीशब्दे दृश्यम् ) । <कुम्भः> विंशतिद्रोणकः कुम्भः ( मिताक्षरा अ० २१ २७५) । <कुम्भकः> अन्तःस्तम्भवृत्तिः ( सर्व० सं० पृ० ३७७ पातञ्ज ० ) । <कुर्वद्रूपत्वम्> यत्किंचित्कार्यजनकतावच्छेदकतया सिद्धो जातिविशेषः । यथा विज्ञानवादिमते अङ्कुरोपधायकक्षणिकबीजव्यक्तिमात्रवृत्तिबीज व्याप्या जाति: ( दि० १ आत्म० पृ० १०१ ) ( राम० ) । कुर्वेत् फलोन्मुखं रूपं यस्य तस्य भावः इति विग्रहो द्रष्टव्यः (वाच० ॥ अत्र नैयायिकाः क्षेत्रादा वुप्तबीजव्यक्तिविशेषेणैवाङ्करोत्पत्तिः न उ कुसूलस्थवीजव्यक्त्त्या । तथा च फलजननाय योग्ये धान्यादिबीजेतिशय ( उपकार: ) सहकारिभिः धरणिसलिलसंयोगादिभिः आधीयत इत्यवश्य ( दि० १ आत्म० पृ० १०१) (सर्व० पृ० २४ बौद्ध० ) ( वाच०) वाच्यम् । तेनैवाङ्कुरादिनियमोपपत्तौ अलं कुर्वद्रपत्वकल्पनेनेत्याई । <कुलम्> ज्ञातिसंबन्धिबन्धूनां समूह: ( मिता० अ० २ श्लो० ३० ) । <कुसीदम्> उपचयार्थ प्रयुक्तं द्रव्यम् ( मिता० अ० २ श्लो० ४० ) / <कृञ्> (धातुः ) [क यत्नः । यथा पाकं करोतीत्यादौ कृधात्वर्या प्रयत्नः । आख्यातस्य यत्नवाचकत्वेष्यत्र लक्षणया आख्यातेन व्यापारी बोध्यत इति ज्ञेयम् । अत्रेदं बोध्यम् । कृञः फलावच्छिन्न व्यापाराबीच विषयत्वम् ( का० व्या० पृ० ६ ) । [ख शाब्दिकास्तु कतया पाकस्य गौणकर्मत्वम् । तच्च गौणकर्मत्वं अत्र साध्यताख्य उत्पादनम् । तच्चोत्पत्तिरूपफलसहितं यत्नादि । यथा घटं करोतीत्या कृञोर्थः इत्याहुः । अत एवास्य धातोः सकर्मकत्वमपि संगच्छते । तत्रोक्तम् व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृञोकर्मकता- पत्तेर्नहि यत्नोर्थ इष्यते ॥ किंतूत्पादनमेवातः कर्मवत् स्याद्यगाद्यपि । कर्मकर्तर्यन्यथा तु न भवेत् तद्दृशेरिव ॥ इति (वै० सा० धात्वर्थ ० भर्तृ० श्लो० ५/६ पृ० ५०-६१ ) । <कृतिः> १ प्रयत्नवदस्यार्थोनुसंधेयः (त० सं० ) । २ प्रवृत्तिः । <कृत्यपञ्चकम्> पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः । तद्वदनुग्रह- करणं प्रोक्तं सततोदितस्यास्य ॥ ( सर्व० सं० पृ० १८० शै० ) । <कृदन्तम्> (यौगिकं नाम) यद्धात्वर्थान्वितस्वार्थान्वयबोधं प्रति यादृशानु- 'पूर्व्यवच्छिन्नस्य यत्कृतो निश्चयः कारणम् तद्धातूत्तरगं तत् कृदेव तादृ- शानुपूर्व्यवच्छिन्नं सत् कृदन्तं नाम यथा पाचकपाठ्यमानेत्यादि । तद्धि धात्वर्थेनान्वितस्य स्वार्थकर्त्रादेः कर्मत्वादावन्वयबोधं प्रति द्वितीया तादृशानुपूर्वीकत्वेन निश्चीयमानं हेतुर्भवति इति लक्षणसमन्वयो बोध्यः ( श० प्र० श्लो० ५२ पृ० ६८) । <कृपा> निरुपधिपरदुःखप्रहाणेच्छा । यथा मिथुने कृपावती ( कुमार ० ) इत्यादौ । <कृषिः> विलेखनम् । यथा भृतिभुजः कर्षन्ति हलैरित्यादौ धात्वर्थः । विलेखनं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारः । कचित् प्रतिविधानम् । यथा पञ्चभिर्हलैः कर्षति गृहीत्यादौ धात्वर्थ: (ग० व्यु० का० ३ पृ० ८१ ) । प्रतिविधानं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारानुकूल- व्यापारः । स च प्रेरणादिरूपः । <कृष्णपक्षः> कलाक्षयाधिकरणकालः ( पु० चि० पृ० ३१ ) । <कृष्णलम्> सुवर्णशकलम् ( जै० न्या० अ० ८ पा० १ अधि० १८) । <कृसत्वम्> १ नियतत्वम् अवधारणेन कल्पितत्वं वा ( वाच० ) । यथा अवश्यकृप्तनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम् (मु० १) इत्यादौ । २ छिन्नत्वम् । यथा कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः (मनु० ) इत्यादौ इति धर्मज्ञा आहुः । ३ रचितत्वम् । यथा कॢप्तेन सोपानपथेन मञ्चम् ( रघु० स० ६ ) इत्यादौ इति काव्यश आहुः (वाच० ) । <केवलत्वम्> १ इतरासहायत्वम् । यथा यथैव ताः पुरः केवलीरोषधीर श्नन्ति केवलीरपः पिबन्ति केवलमेव पयो दुहे ( शत० प्रा० १/६/ १७/१५ ) । तदर्थश्च यथा पुरा अमावास्यातः पूर्वदिवसे. केवलीश्चन्द्र प्रवेशरहिता ओषधीरपश्चाहारं कृत्वा केवलं चन्द्ररहितमेव । पयो दुहे दुहते ( भा० ) ( वाच० ) इत्यादौ । २ अवधारणत्वम् । ३ ज्ञान विशेषनिष्ठं वैजात्यम् । यथा जयन्ति ते जिना येषां केवलज्ञान शालिनाम् इत्यादौ । <केवलम्> ( ज्ञानम् ) तपःक्रियाविशेषान्यदर्थ सेवन्ते तपस्विनस्तानः । मन्यज्ञानासंस्पृष्टं केवलम् ( सर्व० सं० पृ० ६४ आई० ) । <केवलव्यतिरेकि> (लिङ्गम् अनुमानं वा ) [ क ] अगृहीतान्वयव्याति । कसाध्यकम् ( दीधि ० २ पृ० १५६ ) । अत्र साध्याभाव साधनाभावो साहचर्य व्यतिरेकः । तथा च व्यतिरेकेणैव व्याप्तिर्यस्मिस्तत् इति समासो द्रष्टव्यः । केवलव्यतिरेकि तु चतूरूपोपपन्नं भवति । चत्वारि पक्षत्वं चेति । अत्र सपक्षाभावेन सपक्षसत्त्वं नास्तीति चत्वारि रूपये रूपाणि च पक्षधर्मत्वम् विपक्षाड्यावृत्तिः अबाधितविषयत्वम् असत्प्रति वेति भावः ( सि० च० २ पृ० २७) । तेन चतुरूपोपपनसे तत्स्वसाध्यं साधयितुं क्षमते (वै० उ० ३।१।१७ )। केवलव्यतिरे किणि प्रतिज्ञाहेतू तुल्यावेव । उदाहरणोपनयनिगमनानि तु मियन्ते यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्सात्मकं नम तत्प्राणादिमन्न भवति यथा घटः न चेदं जीवच्छरीरं प्राणादिमन्न भ तस्मान्न तथा इति (त० कौ० २ पृ० १३ ) । [ख] असत्सपक्षय ( मु० गु० पृ० २१९ ) ( न्या० म० २ पृ० १९) । असदसपक्षत्व च पक्षातिरिक्ते अनिश्चितसाध्यसाधनसहचारकत्वम् ( न्या० म० पृ० १९ ) । अथवा अगृहीतहेतुसहचारं यत् व्यतिरेकिसाध्यम् तत्कत्वम् ( दि० गु० पृ० २१९) । यद्वा यत्र निरुपाधिव्यतिरेक- सहचारेणान्वयव्याप्तिग्रहस्तत्त्वम् (चि० २ पृ० ४८-४९ ) । [ग] व्यतिरेकमात्रव्याप्तिकम् (त० सं० ) ( न्या० म० २ ) । [घ ] यत्र व्यतिरेक व्याप्तिरेवास्ति तत् ( त० कौ० २ पृ० ११ ) । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र गन्धवत्वं केवलव्यतिरेकि (त० सं० ) (न्या० म० २ ) । अत्र जलादीनां त्रयोदशान्योन्याभावास् त्रयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते इति तात्पर्यम् । अत्रानुगमश्च योभावो यस्याभावस्य व्यापकत्वेन गृहीतः तदभावाभावेन तस्य व्याप्यस्याभावः पक्षे साध्यत इति ( चि० २ पृ० ६३ ) । पृथिवीतरेभ्यो भिद्यते पृथिवीत्वात् इत्यादौ यन्नेतरेभ्यो भिद्यते तन्न पृथिवी यथा जलम् । न च नेयं पृथिवी तस्मादितरेभ्यो भिद्यत इति व्यतिरेकिणमुदाहरन्ति । न च पक्षातिरिक्त जलादौ साध्यसाधनयोः सहचारोस्ति निश्चीयते वा ( न्या० म० २ १० १९ ) । यथा वा जीवच्छरीरं सात्मकं चेष्टावत्त्वात् प्राणादिमत्त्वात्यादौ हेतुः केवलव्यतिरेकी ( चि० २ पृ० ५६-६३ ) ( त० कौ० २ पृ० ११) । अत्र सात्मकत्वं च चेष्टाया असमवायि- कारणसंयोगाश्रयत्वे सति शरीरत्वम् । तच्च जीवच्छरीरे सायम् । चेष्टा- वस्वादिति हेतुः । चेष्टाविरहश्च घटादौ प्रत्यक्षसिद्धः । चेष्टाविरहात्तद- समवायिकारणसंयोगविरहोपि सुग्रहः इत्यादि ( चि० २ पृ०५८ ) । अत्र यत् सात्मकं न भवति तत् प्राणादिमन्न भवति यथा घटः इति व्यतिरेक व्याप्तिरेवास्ति । न तु यत् प्राणादिमत् तत् सात्मकम् इत्य- न्वयव्याप्तिरस्ति । जीवच्छरीरमात्रस्य पक्षीकरणेन दृष्टान्ताभावात् । पक्षातिरिक्त हेतुसाध्ययोरेवासत्वादिति ( त० कौ० २ पृ० १२ ) ( प्र० प्र० पृ० ६ ) ग <केवलसमासः> (समासः ) अव्ययीभावादिषट्रान्यत्वे सति यः समासः सः । यथा पूर्व भूतः इति विग्रहे भूतपूर्वः इत्यादिः ( म०प्र० ४ पृ० ४४ ) । ३१ न्या० को० <केवलान्वयि> (लिङ्गम् अनुमानं वा ) [ क ] अत्यन्ताभावाप्रतियोगि- साध्यकम् ( दीधि ० २ पृ० १५६ ) ( न्या० बो० २ पृ० १५) । यथा न तावदव्यभिचरितत्वम् । तद्धि न साध्यवदन्यावृत्तित्वम् । लान्वयिन्यभावात् ( चि० २ पृ० २) इत्यादौ । केवलान्वयितु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते । चत्वारि रूपाणि च पक्षधर्मत्वम् सपक्षे सत्त्वम् अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति ( सि० च० ) । तत्र हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्वर ( मुं० गु० पू० २१९ ) । तस्य विपक्षाभावेन विपक्षव्यावृत्त्यभावादिति भावः (सि० च० २ पृ० २७) । अत्यन्ताभावाप्रतियोगिसाध्यक मित्येतल्लक्षणं च हेतोर्व्यतिरेकित्वेपि संगच्छते (न्या० बी० पृ० १५)// [ख] असद्विपक्षम् । तदर्थस्तु पक्षव्यापकम् सपक्षे वर्तमानम् विपक्ष । शून्यम् अबाधित विषयम् असत्प्रतिपक्षम् इति ( ता० र० श्लो० १६) । न्वयिनोभिधेयत्वस्य न विपक्षः । अभिधानेनभिधाने च विपक्षत्वव्याया यथा ज्ञेयमभिधेयत्वादित्यादौ ( मु० गु० पृ० २१९ ) । अत्र केवल तात् (चि० २ पृ० ४६) । [ग] अन्वयमात्रव्याप्तिकम् (त० सं० ) । तदर्थश्च व्यतिरेका प्रतियोगिसाध्यकम् (वाक्य० २ पृ० १५) / व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वयव्याप्तिमत् (न्या० बो० २ पृ० १५)। अत्र अन्वयेनैव व्याप्तिर्यस्मिंस्तत्तथा इति समासो द्रष्टव्यः ॥ यत्रान्वयव्याप्तिरेवास्ति तत् ( त० कौ० २ पृ० ११) / घटोभिधेयः प्रमेयत्वादित्यत्र प्रमेयत्वं केवलान्वयि ( त० सं० /// यत्र यत्र प्रमेयत्वम् तत्र तत्राभिधेयत्वम् यथा पटः इत्यन्वयव्याप्तिरेवाि अत्र घटः पक्षः । तस्याभिधेयत्वं साध्यम् । प्रमेयत्वं हेतुः । तस्मिन् हेत न तु यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति व्यतिरेकव्याप्रिस्ति अभिवेयत्वस्य प्रमेयत्वस्य च सर्वत्र सत्त्वात् साध्याभावादेरेव प्रसिद्धसाप सर्वत्र वर्तते यस्य चायन्ताभावः अप्रसिद्धः सः धर्मः केवलान्य/ ( त० कौ० २ पृ० ११) (मु० गु० पृ० २१९ ) / २ यो लक्षणं च अत्यन्ताभावाप्रतियोगित्वम् ( चि० २ पृ० ४६ ) (त० दी०) (न्या० बी० पृ० १५) । यथा अभिधेयत्वम् ज्ञेयत्वम् प्रमेयत्वम् वाच्यत्वं च केवलान्वयि भवति ( न्या० म० २ पृ० १९ ) । अत्रा- भिधेयत्वं भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव वर्तते । तस्य न कुत्राप्यत्यन्ताभावोस्ति । सर्वस्यैव भगवदिच्छाविषयत्वात् । वस्तुपदशक्यत्वात् । एवं वाच्यत्वम् । ज्ञेयत्वं च ज्ञानविषयत्वम् । तच्च सर्वत्रैव वर्तते। सर्वस्यैव भगवज्ज्ञान विषयत्वात् । एवम् प्रमेयत्वं प्रमावि- षयत्वम् । तच्च सर्वत्रैव वर्तते । सर्वस्यैव भगवत्प्रमाविषयत्वात् (न्या म० २ पृ० १९ ) । प्रमाजातीयविषयत्वं वा प्रमेयत्वम् । अथवा प्रमात्वमेव हि परंपरासंबन्धात् स्वाश्रयप्रमाविषयत्वरूपात् घटादौ प्रमेय - त्वमनुगतम् ( चि० २ पृ० ४७ ) । <केवलान्वयिहेतुः> (अवयवः) अत्यन्ताभावाप्रतियोगिसाध्यसमानाधि- करणपक्षसपक्षसद्धेतुवचनम् ( चि० २ अव० पृ० ७९ ) । यथा घटोभिधेयः प्रमेयत्वादित्यादौ प्रमेयत्वात् इति हेतुपदम् । <कैवल्यम्> १ मोक्षः । स च आत्यन्तिकदुःखत्रयविगम इति सांख्याः ( सां० भा० ) । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम् स्वरूपप्रतिष्ठा चितिशक्तिः इति योगिन आहुः । पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यम् ( सर्व० सं० पृ० ३३६ पात० ) । अद्वि- तीयब्रह्मभावापत्तिरिति मायावादिनः । २ एकत्वम् ( ग० शक्ति० ) । <कोटि:> १ संशयजनकज्ञानीयप्रकारतावान् । यथा वह्निमान्न वेत्यादिविप्र- तिपत्तिवाक्यजन्य कोट्यपस्थितिः इत्यादौ वयादिः । २ पूर्वपक्षः । ३ त्रिकोणादिक्षेत्रावयवरेखाविशेषः कोटिरिति लीलावतीकारादयः । ४ राशिचक्रस्य तृतीयांश इति ज्योतिर्विदः । ५ संख्याविशेष इति गणकाः । ६ प्रकर्षः । ७ अग्रभाग इति काव्यज्ञा वदन्ति । <कोटिता> प्रकारताविशेष: ( ग० सत्प्र० ) । यथा वह्निमान्न वा इति संशये वह्नयादेः कोदिता । <कोपः> १ उत्कटद्वेषः । यथा चैत्राय कुप्यति क्रुध्यतीत्यादौ धात्वर्थः । धात्वर्थद्वेषे विषयत्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते । तेन चैत्रविषयकोत्कटद्वेषवान् इत्याकारकस्तत्र बोध: ( श० प्र० लो० ६९ पृ० ८७ ) । चैत्राय कुप्यतीत्यादौ क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः (पा० १ ४ । ३७ ) इति सूत्रेण संप्रदानसंज्ञा बोध्या । यथा वा धन कुलं वक्ष्यति विप्रवह्निः (भट्टिः ) इत्यादौ धात्वर्थः । शाब्दिकास्त प्ररूदो । वाक्चक्षुरादिविकारानुमेयश्चित्तवृत्तिविशेष इत्याहुः ( ल० म० ) । प इति क्रुधाक्रुश्यत तेन केतकम् (नैष० ) इत्यादौ । कामव्याघातहेतु कश्चित्तवृत्तिविशेष इति कामशास्त्रज्ञाः । वधाद्यनुकूल श्चित्तवृत्तिविशेषः । यथा अपकारिणि चेत्कोपः कोपे कोपः कथं न हि । धर्मार्थकाममोक्षाणा प्रसह्य परिपन्थिनि ॥ इत्यादौ इति नीतिशास्त्रज्ञाः ( नीतिसा० ) कामानवाप्तिजन्यश्चित्तवृत्तिविशेषः । यथा रिपौ बन्धौ स्व कात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ इल्ला एते स्वभावत एव दोषाणां संचयप्रकोपशमप्रतीकार हेतवः (सुते/ इति वेदान्तिनः । २ धातुवैषम्यकारिदोषाणां विकार विशेषः । यथा व इत्यादौ इति भिषजः । ३ शृङ्गाराङ्गं मानः कोपः । यथा कोपात्कान्तं परित्यज्य पश्चात्तापसमन्विता ( प्रतापरु० ) इत्यादौ इत्यालंकारिक आहुः (वाच० ) । अत्रोच्यते मानः कोपः स तु द्वेधा मणयेय समुद्भवः । द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिल गामित्वात् कोपो यः कारणं विना ( सा० ८० ) इति । <कोमलत्वम्> १ स्पर्शविशेषः । यथा निशा च शय्या च शशाङ्ककोमा ( नैषधo ) इत्यादौ । २ अवयवसंयोगविशेष: ( सि० च० ) / या काठिन्यकोमलत्वादिनानावयवसंयोगविशेषयुक्ता पृथिवी ( त० पृ० २७) इत्यादौ । एवम् मृदुत्वादिकं व्याख्येयम् । <कौमारिकी> आषाढे शुक्लषष्ठी तु तिथिः कौमारिकी स्मृता (पु० विश् पृ० ९६ ) । <कौमुदी> आश्विन्यां पौर्णमास्यां च अक्षैर्जागरणं निशि । कौमुदी सा समा- ख्याता कार्या लोकविभूतये ॥ ( पु० चि० ० ३०२ ) । <क्त्वा> ( प्रत्ययः ) पूर्वकालीनत्वम् कर्ता च ( तर्का ० ४ पृ० ११ ) । यथा भुक्त्वा व्रजतीत्यादौ भोजने व्रजनपूर्वकालीनत्वं क्त्वाप्रत्ययार्थः ( त० प्र० ४ पृ० ७० - ७२ ) । अत्र पूर्वत्वं च संनिहितक्रिया- पेक्षया बोध्यम् । क्रियापूर्वकालीनत्वं च क्रियाप्रागभावकालवृत्तित्वम् क्रियोत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्वं वा । तेन भुक्त्वा ब्रज- तीत्यत्र गमनप्रागभावावच्छिन्नकालवृत्तिभोजनकर्त्रमिन्नो व्रजति इत्यर्थः। अत्र कालस्तापर्यवशात् व्यवहिताव्यवहितसाधारणो बोद्धव्यः । तेन पूर्वस्मिन्नन्दे गत्वास्मिन्नब्दे समागतः इत्यत्र तादृशप्रयोगावहमः (तर्का० ४ पृ० ११ ) । केचित्तु अव्यवहितपूर्वकालीनत्वमित्याहुः । अत्र अव्यवधानं च क्रियान्तरानुकूलविलम्बाभाववत्वम् । केचित्तु तदु- त्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगिकालत्वमेव तदव्यवहित पूर्वकालत्वम् । कालश्चात्र यावता कालेन भोजनानन्तरं व्रजनं तावान् स्थूलकालोपाधि- विंशिष्य निवेशनीयः । तेन नासंभवः इत्याहुः ( त० प्र० ख० ४ पृ० ७० ) । प्राभाकरास्तु समानकर्तृकत्वमेव क्त्वाप्रत्ययार्थ इत्याद्दुः । मणिकृतस्तु आनन्तर्यमेव तदर्थ इत्याहुः । अन्ये तु कचित् सामाना- विकरण्यविशिष्ट व्याप्यत्वमपि क्वार्थ इत्याहुः । अधीत्य तिष्ठतीत्यत्र निरन्तराध्ययनशालिन्येव तथा प्रयोगात् अयमर्थ आवश्यकः । अत्र व्याप्तिश्च कालिकी । तथा च अध्ययनसामानाधिकरण्यविशिष्टाध्ययन- व्याप्यस्थितिमान् इत्यन्वयधीः ( त० प्र० ख० ४ पृ० ७२ ) । अपरे तु आश्रय एव क्त्वा प्रत्ययार्थ इत्याहुः । अयं भावः । क्त्वाप्रत्ययस्य कृत्प्रत्ययान्तर्गतत्वात् सामान्यशक्त्या आश्रयोपस्थितेः कृत्प्रत्ययेन संभवात् मुखं व्यादाय स्वपिति इत्यादौ स्वापपूर्वकालीनत्वस्य मुखव्यादाने अस- वेपि व्यादानाश्रये स्वापाश्रयत्वस्य विशिष्टे वैशिष्ट्यम् इति न्याव बोध: ( त० प्र० ख० ४ पृ० ७२) । अन्ये वाहुः । स्वकर्तृकत्वस्वो- त्तरत्व एतदुभयसंबन्धेन यत्किंचिद्विशिष्टं क्त्वा प्रत्ययार्थः । यथा ओदनं पक्त्वा भुज्यत इत्यादिभावार्थकक्त्वाप्रत्ययस्थले पाकक्रिया विशिष्टा भुजि क्रिया ( कृष्ण० ) । <क्यच्> ( धात्वंश: प्रत्ययः ) इच्छा । यथा चैत्रः पुत्रीयतीत्यादौ पुत्रीयति माणवकमित्यादौ च । एवम् श्येनायते काक इत्यादौ क्यथोपि बोम्यः । अयं च प्रत्ययो नामप्रकृतिको बोध्यः । अत्र क्यजर्थेच्छायां तत्प्रकृत्यर्थ- तावच्छेदकीभूतपुत्रत्वाद्यवच्छिन्नविषयतया प्रकृत्यर्थस्य पुत्रादेरन्वयः । तस्याश्च तिर्थे आश्रयत्वे निरूपकत्वेनान्वयः । तथा च पुत्रत्वेन पुत्र गोचरेच्छाया आश्रयत्ववांश्चैत्रः इत्येवमन्वयधी: ( श० प्र० श्लो० १०७ पृ० १६५ ) । अत्र क्यजन्तस्या कर्मकत्वमेव विज्ञेयम् ( ग० का० २ ख० २ पृ० ६५ ) । पुत्रीयति माणवकमित्यत्र च आचारसः । शाचार: क्यजर्थः । तत्र विशेषणीभूत आचारे कर्मत्वेन प्रकृत्यर्थस्यान्वयः । । विशेष्यीभूते च माणवकादेः कर्मत्वेनान्वयः । तेन पुत्रकर्मकाचरण / ( श० प्र० श्लो० १०७ पृ० १६५ ) । पुत्रकर्मकाचरणं चेह सदृशं यन्माणवककर्मकाचरणं तदनुकूलकृतिमान् इत्याकारकस्तत्र बोध पानादिना संवर्धनतोषणादि ज्ञेयम् । अत्रार्थे क्यजन्तस्य सकर्मक बोध्यम् (ग० व्यु० का० २ ख० २ पृ० ६५ ) पृ० १६६ ) । अधिकं द्वितीयाशब्दव्याख्यानावसरे संपादयिष्यते । श्येनायते काक इत्यत्रापि आचारसदृशाचार: क्यडर्थः । तत्र च प्रकृत्यर्थस्य श्येनादेः कर्तृ अन्वयः । श्येनकर्तृकाचारसदृशाचारवान्काकः इत्येवं तत्र बोधः अत्र श्येनकर्तृकाचारश्च मांसहरणादिर्ग्राह्यः ( श० प्र० श्लो० १०० <क्रमः> १ उद्दिष्टानामर्थवशाद्यथावग्रहणम् । यथा द्रव्यनिरूपणानन्तर क्रमेण गुणादिकं निरूप्यते इत्यादौ । २ अर्थानां नैयत्येन पूर्वापरावा नम् । यथा उद्देशक्रमेण द्रव्यादिनिरूपणम् इत्यादौ । यथोचित संनिवेशः ( वाच० ) । यथा शेषशेषिभावे अधिकृताध वा सत्येव वैदिककर्मणोनुष्ठाने पौर्वापर्यरूपक्रमग्रहणम् अत्र मीमांसकमते कर्मक्रमनियामकानि प्रमाणानि श्रुत्यर्थपाठस्था मुख्य प्रवृत्त्याख्यानि षड़िधानि ज्ञेयानि ( मीमांसान्यायप्रकाश पृ० ७३ )। <क्रय:> मूल्यदानजन्यस्वत्वस्य जनकः स्वीकारः । स्वत्वजनकं मूल्यदानं वा । यथा ग्रामं क्रीणातीत्यत्र धात्वर्थः । अत्र क्रयफले स्वत्वे ग्रामस्या- धेयत्वेनान्वयः । तेन ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलखीकारवान् १० ग्रामनिष्ठं यत् स्वत्वम् तदनुकूलमूल्यदाता वा इति तत्र क्रमेण बोधः ( श० प्र० श्लो० ७२ पृ० ९६ ) । क्रयस्य स्वत्वहेतुत्वमुक्तं मनुना सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० १० श्लो० ११५) इति । गौतमेना- प्युक्तम् स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु इति । क्रयादिरूपा- गमसहितभोगस्यैव स्वत्वे प्रामाण्यम् ( वीरमित्रो० ) । अत्रेदं बोध्यम् । वैदिक कर्माङ्ग परिक्रयादौ प्रायेण यजमानस्यैवाधिकारोस्ति इत्याह जैमिनिः (जैमि० सू० ३१८८१) । अथवा क्रयो नाम मूल्यदानप्रयुक्तस्वसंबन्धि- स्वत्वोत्पादकस्वीकारः । यथा गां क्रीणातीत्यादौ । अत्र गोवृत्तिमूल्यदान- प्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमान् इत्यन्वयबोधः इति संप्रदायः ( का० व्या० पृ० ५) । शाब्दिकाः मूल्यदानपूर्वकस्वीकार इत्याहुः ( ल० म० ) । केचित्तु पणपूरणादिमूल्यदानेन विक्रेतु: स्वत्वापनयन स्वत्वोत्पादनव्यापारः क्रय इत्याहु: ( वाच ० )। <काथनम्> असुप्तस्यैव सुप्तलिङ्गदर्शनम् ( सर्व० सं० पृ० १७० नकुली० ) । <क्रिया> १ धात्वर्थः । स च धातूपनीतफलानुकूलसजातीयविजातीय- व्यापारप्रचयः (त० प्र० ख० ४ पृ० ५० ) । यथा चैत्रस्तण्डुलं पचतीत्यादौ पचनादिक्रिया ( ल० म० ) । इयं च क्रिया मतभेदेन फलविशिष्टव्यापाररूपा फलव्यापारोभयरूपा वा इत्यन्यदेतत् । किया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिधीयमाना इति (वाच० ) । तथा चोक्तं हरिणा व्यापारो भावना सैवोत्पादना सैव च किया ( वाक्यप० ) इति । साध्यत्वसाधनत्वएतदन्यतररूपेण प्रतीय- मानोर्थः क्रिया इति शाब्दिका वदन्ति । अत्रोच्यते । क्रिया द्विविधा साध्या सिद्धा च। तत्र धातुवाच्या क्रिया साध्या । सैवासत्त्वरूपेत्युच्यते। यथा पचति करोतीत्यादौ क्रिया साध्या । घञादिप्रत्ययप्रतिपाद्या तु क्रिया सिद्धा । यथा पाक इत्यादि । तदुक्तम् यावत्सिद्धमसिद्धं वा । साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ गुण- भूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियते व्यपश्॥ि (०म० ) (वै० सा०) । अत्र साध्यत्वं व निष्पाद्यत्वमेव । केचित्तु पूर्वापरीभूतावयवत्वसमानाधिकरणं कारका । न्वयादियोग्यतावच्छेदकं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं च यद्वैजास तद्रूपं साध्यत्वम् । सिद्धत्वं तु क्रियान्तराकाङ्कोत्थापकतावच्छेदकं जात्यं तद्रूपम् । यथा पाक इत्युक्तेस्ति भवतीत्यादिक्रियान्तरा का होत्थाना / सिद्धत्वम् । पचतीत्युक्ते तु तदनुत्थानात्साध्यत्वम् इत्याहुः ( ल० म० // अथवा अत्र सिद्धत्वं च यद्धर्मवत्ताज्ञानात् क्रियान्तराकादयः त ज्ञाने प्रकारतयावच्छेदकं यत् तत् । तद्भिन्नत्वम् ज्ञाननिष्ठतादृशाः । काङ्क्षोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् (वै० सा० तेन अपचत् पक्ष्यति पचति इत्यादौ सर्वत्र साध्यत्वेना सत्वरू स्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शिता इति । ( वाच ० ) । अत्रोक्तं हरिणा साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते । ज्ञेयम् । अथवा साध्यत्वं लिङ्गसंख्यानन्वयित्वम् । तद्विपरीतं सिद्धवर इति ( वाक्यप० ) । तिङ्पदशब्देन तिङन्तं पदं गृह्यते । क्रियापद यावत् । तथा च तिङ्पदैरित्यस्य क्रियापदघटितैर्धातुमिरित्यर्थः विवेकः । पाक इत्यादौ धातुना साध्यत्वेनोपस्थाप्यायाः सिद्धक्रियारूपे घञर्थे विशेषणत्वम् । पचत्यादौ तु नैवम् इति ( वाच० ॥ प्रवृत्तिविषयः क्रियेति मीमांसका: ( मू० म० १) । २ श्रौतस्मार्तकमा नुष्ठानं शक्तितः क्रियेति रामानुजीयाः ( सर्व० सं० प्र० १२४ क्रियाया रामानु० ) । ३ चलनात्मकं कर्म । यथा परापरत्वमूर्तस्वक्रिया वेगाल अमी (भा०प० लो० २५) इत्यादौ क्रियाशब्दार्थः कर्म / 8 प्रयोगः । यथा तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः (कुमा० २।४८ ) इत्यादौ । ५ अनुष्ठानम् । यथा यथाक्रमं पुंसवनादिकाः क्रियाः (रघु० ३।१० ) । यथा वा आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ( जैमि० सू० १।२।१ ) इत्यादौ । ६ शिक्षा । यथा क्रिया हि वस्तू- पहिता प्रसीदति ( रघु० ३।२९) इत्यादौ । ७ चिकित्सा । यथा क्रियाः सर्वा गतायुषः (सुश्रुते० ) इत्यादौ । मोघा इति शेषः । ८ धात्वर्थो व्यापारमात्रम् । यथा तेन तुल्यं क्रिया चेद्वतिः (पा० सू० ५/१/११५) क्रियासमभिहारे यङ् ( पा० सू० ३१११२२ ) इत्यादौ । ९ धात्वर्थः फलमात्रम् । यथा कर्मवत् कर्मणा तुल्यक्रियः (पा० सू० ३१११८७ ) इत्यादौ । १० श्राद्धम् । यथा चतुर्दश्यां क्रियाः कार्या अन्येषां तु विग- हिंता: ( मरीचि० ) इत्यादौ (वाच० ) । ११ प्रमाणदर्शनम् ( पुरावा इति प्र० ) । <क्रियायोगः> तपः स्वाध्यायेश्वरप्रणिधानानि (पात० सू० २११ ) ( सर्व ० सं० पृ० ३६७ पातञ्ज० ) । <क्रियाविशेषणम्> धात्वर्थसाध्यात्मक क्रियायां शाब्दबोधे विशेषण भासमानः पदार्थः । यथा स्तोकं पचति मृदु पचतीत्यादौ स्तोकमृद्वादि विक्कत्त्यादिरूपधात्वर्थविशेषणम् । अत्र विशेष्यतवशेषणम् व्युत्पत्त्या विशेषणपदं भेदाभेदान्यतरसंबन्धेनान्वयिविशेषणपरम् । तथा च आख्यातं सकारकविशेषणम् इति महाभाष्येण चैत्राभ्यां सुप्यते देवदत्त जानीहि इत्यादौ कारकादीनां चैत्रदेवदत्तादीनां भेदसंबन्धेन क्रियाविशेषणत्वम् । स्तोकं पचतीत्यादौ तु विक्लितिरूपे धाव गच्छति इत्यादा धात्वर्थव्यापारे अभेदेन स्तोकद्रुतादीनां विशेषणत्वम् इ ज्ञेयम् । अत्रेदं बोध्यम् । भेदसंबन्धेन क्रियायामन्वयिविशेषणे पौनःपुन् गच्छति अतिशयेन पचति समेनैति विषमेणैति इत्यादिषु प्रकृयादवेन तृतीयेति केचिदाहुः । अन्ये तु नाम्ना शिवः इत्यादिवदमेदे तृतीयेत्याहुः । भत्रायं विवेकः । क्रियायामभेदसंबन्धेनान्वयविवक्षायाम् क्रियाविशेषणा कर्मत्वम् इत्यनुशासनेन द्वितीया । भेदप्रकारेणान्वयविवक्षायां तु तृतीया ३२ न्या० को० इति । अत्र साध्यात्मकक्रियाया लिङ्गसंख्यान्वयित्वाभावेन तद्विशेषण- स्तोकादिवाचकपदस्योत्सर्गत एकवचनक्कीबता । अत एव स्तोकं पच्चत इत्यादि साधु संगच्छते । घञाद्यन्ते साध्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्या बोधनस्थले तु कातन्त्रपरिशिष्टाद्युक्ते स्तोकं पाकः इत्यादौ धातुबोय. साध्यरूपक्रियाविशेषणत्वविवक्षायामेकवचनक्की बता । घञ्वाच्यसिद्धक्रिया- न्वयविवक्षायां तु विशेषणस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणपदस्य द्विवचनपुंस्त्वादि । अत एव संचारो रतिमन्दिरावधि सखीकर्णावधि । व्याहृतम् इति आगमो निष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो इतिच प्रयोगः संगच्छते इति शाब्दिकमतम् । अत्र के चिन्नैयायिकास्तु शुद्ध- धात्वर्थविशेषणत्वविवक्षायां द्वितीयैव । घञाद्यन्तसमुदायविशेषणत्वेतुन द्वितीयाक्कीबतानियमः । अत एव स्तोकं पाकः इति प्रयोगो न साधु सार्थक प्रत्ययान्तधातूपस्थाप्यार्थः इत्यर्थपरत्वेन न कुत्राप्यनुपपत्तिः 5 इत्याहुः । वस्तुतस्तु क्रियाविशेषणानां कर्मत्वम् इत्यत्र क्रियेति पदस्य विज्ञेयम् ( ग० व्यु० का० १ पृ० ६ ) । अत्रायं विशेषः । पक्तेत्यादौ क्रियाविशेषणैः कर्मधारय एव । महाकविर्महाविज्ञ इत्यादी बोधकतया कर्मधारयस्य संभवात् । स्तोकं पत्तेत्यादाव मस्तादात्म्यवाचित कवित्वादाविव प्रकृतेप्येकनामार्थैकदेशे पचनादावपरनामार्थस्या मेदान्वय- तत्पुरुषः संभवत्येव । अयमाशयः । यत्राभेदेनान्वयबोधस्तत्र कर्मधारयः । यत्र च भेदेनान्वयबोधस्तत्र तत्पुरुषः इति मर्यादा । एवं च तादात्म्यस्याम्वाच्यत्वेन पदोपस्थापितत्वात् पदादुपस्थापितस्य प्रकारतवापि भानं संभवति इति नियमेनामूवाच्यस्तोकतादात्म्यस्याश्रयतासंब पचनक्रियायामन्वयो वाच्यः । तथा च तादृशसंबन्धस्य भेदसंबन्धला. । तत्पुरुषः इति । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तुन देश्यम् । स्तोकनम्रा स्तनाभ्याम् (मेघदू० २।१९) इत्यादेः काजिद- साद्यैः प्रयुक्तत्वात् ( श० प्र० श्लो० ३८ पृ० ४८ ) । <क्रीतानुशयः> क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशर इत्येतद्विवादपदमुच्यते ॥ ( मिताक्षरा २११७७)। <क्रोडपत्रम्> [ क ] त्रुटितप्रन्थस्य परिपूरणाय ग्रन्थस्थपत्रयोर्मध्ये चिह्न- विशेषेण लिखित्वा स्थापितं पत्रम् ( वाच ० ) [ ख ] न्यायादिशास्त्र- ग्रन्थस्थलक्षणादिपरिष्काराणामूहापोहाभ्यां शङ्कोत्तररूपेण खण्डनमण्डन- व्यवस्थापनपत्रम् । यथा न्यायशास्त्रे चन्द्रनारायणीदुलालीकालीशाङ्करी- पत्राणि क्रोडपत्राणि सन्ति । <क्रोधः> १ (दोषः ) नेत्रलौहित्यादिहेतुर्दोषविशेषः (गौ० दृ० ४।१।३) । ज्ञानविशेषो वा । यथा पुत्राय क्रुद्ध्यतीत्यादौ धात्वर्थः । अत्र क्रुधद्रुहेर्ष्या- सूयार्थानां यं प्रति कोपः (पा० ११४ । ३७) इति सूत्रेण कर्मणः संप्रदानसंज्ञा । तथा च अत्र विषयित्वं चतुर्थ्यर्थः । तस्य कोपेन्वयः । एवम् पुष्पेभ्यः स्पृहयतीत्यादावप्यन्वयो बोध्यः ( ग० व्यु० का० ४ पृ० ९६ ) । शाब्दिकास्तु वधायनुकूलव्यापारजनकश्चित्तवृत्तिविशेषः । यथा हरये क्रुभ्यतीत्यादौ क्रुघेरर्थः । क्रोधश्च कोपमूलकः । अत्र हरि- संप्रदानकः क्रोधः इति बोध: ( ल० म० सुब० ४ पृ० १०३ ) । केचित् पष्टिषेणानिष्टविषयकद्वेषहेतुकश्चित्तवृत्तिविशेषः । यथा क्षमैव क्रोधविजये समर्थेति विवेकिनः । क्रोधः कार्यविभङ्गाय तस्मात्तं क्षमया जयेत् (शकुनशा ० ) इत्यादौ । यथा वा क्रोधं विभो संहर संहर ( कुमार ० ३।७२) इत्यादौ इत्याहुः । दुःखे तत्साधने च इदं मे मा भूत् इति स्पृहाविरोधिनी चित्तवृत्तिः क्रोधः इति पातञ्जलभाष्ये उक्तम् । क्रोधोमर्ष इति मिताक्षरा ( अ० २ लो० १) । रौद्ररसस्य स्थायिभावः क्रोध इत्या लंकारिका आहुः । सांख्यास्तु काम एव कुतश्चित्पराहतः क्रोधरूपेण - । स च रजोगुणकार्यः । यथा सङ्गात्संजायते कामः कामात्क्रोधोभिजा- यते ( गीता २।६२) इत्यादौ इति मन्यन्ते । २ षष्टिवर्षान्तर्गतोष्ट त्रिंशत्तमो वर्षविशेषः । यथा विषमस्थं जगत्सर्वे व्याकुलं समुदाहृतम् । जनानां जायते भद्रे ! क्रोधे क्रोधः परस्परम् ॥ इति पौराणिका आहुः (वाच० ) । <क्लेद:> [क] जलविशेषः । जलविशिष्टपृथिवी वा (गौ० वृ० ३।१।३१) । अत्रोक्तं याज्ञवल्क्येन रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ( अ० ३ (७७) इति । अत्रेदं बोध्यम् । देहस्थ: केदः श्लेष्मकार्यः । अत्रोक्तं भावप्रकाशे कफस्यैतानि नामानि केदनश्वावलम्बनः । रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः ॥ इति ( वाच ० ) । [ख] क्षरणम् । स्वेद इति यावत् ( दि० १ पृ० ७० ) । [ग] जलविकार विशेषः । यथा तदञ्जनक्लेदसमाकुलाक्षम् ( रघु० ७१२७) इत्यादौ ( वाच० ) । <क्लेशः> क्लेशाः पुनः पञ्चधा प्रसिद्धा अविद्यास्मितारागद्वेषाभिनिवेशाः (पात सू० २१३) ( सर्व० सं० पृ० ३५८ पात ० ) । सांसारिक विविधदु: खोपहा- रहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः ( सर्व० सं० पृ० ३६५ पात० ) । <क्षण:> १ (कालः ) [क ] वर्तमानार्थग्राहित्वेन स्वोत्पत्त्याश्रयः क्षणः । ( मू० म० १ ) । तल्लक्षणं तु क्षणत्वमेव । तच्च स्ववृत्तिध्वंसप्रतियोग्य नाधारत्वम् स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्धंसविशिष्ट समयत्वम् पूर्ववर्तियावत्पदार्थविशिष्टसमयत्वं वा । स्वपूर्वत्वं च स्वाधिकरणयावत्काल स्ववृत्तियावङ्कंसविशिष्टसमयत्वम् स्ववृत्तियावदभाव विशिष्टसमयत्वम् स्वस्व वृत्तिध्वंसप्रतियोगित्वम् । जन्यमात्रस्य कालोपाधित्वाददोषः (दीधि० २) ( प० म० ) । अथवा स्ववृत्तियावद्धंस विशिष्टत्वम् ( ग० सार्वभौम पक्षता०)। [ख] स्ववृत्तिध्वंसप्रतियोगिकालावृत्तित्वविशिष्टस्ववृत्तित्ववान् अत्र स्वपदद्वयम् यत्समयवृत्तित्वमुत्पत्तित्वेनाभिमतं तत्समय व्यक्तिपरम् । कालावृत्तित्वं च तादृशकालवृत्तित्वसामान्याभावः ( राम० १ काल०) पृ० ९२ ) । इदं च महाप्रलये क्षणव्यवहारो नास्ति इत्यभिप्रेत्योक्तर/ [ग] स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावङ्कंसविशिष्टसमयः । क्षणो महाप्रलयव्यवहारविषयो भवतीति ज्ञेयम् । घ ] स्वाधेयपदार्थ समयः चरमध्वंस एवेति भावः ( दि० १ काल० पृ० ९२ ) / अ प्रागभावानाधारः समयः ( आत्मत शिरोम ० ) । [ङ ] निमेष क्रियावच्छिन्नकालस्य चतुर्थभागः क्षण: ( चि० ४) । यथा क्षणावि स्यादुपाधितः ( भा० प० श्लो० ४७) इत्यादौ । च ] त्रिंशत्कला कालांशः । यथा स्थिताः क्षणं पक्ष्मसु ताडिताधराः ( कुमा० ५/२/ इत्यादौ । [छ ] अवसरः । यथा स्थानं नास्ति क्षणो नास्ति नासि प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ इत्यादी [ज ] प्रशस्तमुहूर्त: नाडीद्वयात्मको मुहूर्तरूपः कालांशश्च इति मौहू- र्तिका आहुः । २ उत्सवः । यथा गार्हस्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत् (ब्रह्मपु०) इत्यादौ । ३ मध्यभागः । ४ पराधीनत्वम् इति काव्यज्ञा आहुः ( वाच० ) । <क्षणिकत्वम्> तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् (मु० १ पृ० ५९ ) । यथा अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ( भा०प० श्लो १७ ) इत्यादौ । योग्यविभुविशेषगुणानां ज्ञानादीनां अपेक्षाबुद्धिव्यतिरिक्तानां क्षणिकत्वम् (मु० १ पृ० ५९ ) । अत्र च योग्यविभुविशेषगुणानां खोत्तरवृत्तिविशेषगुणनाश्यत्वम् इति नियमोनुसंधेयः । अत्र स्वं नाश्यम् तदुत्तरवृत्तिः तद्वितीयक्षणवृत्तिरित्यर्थः ( दि० १ पृ० ५९ ) । तथा च प्रथमक्षण उत्पद्यते द्वितीयक्षणे तिष्ठति तृतीयक्षणे नश्यति इति तात्पर्यम् । अथवा स्वाधिकरण समयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे सति कादाचित्कत्वम् उत्पत्तिमत्त्वं वा। स्वाधिकरण समय प्रागभावाधिकरण- क्षणावृत्तित्वम् इति ज्यायः (आत्मत• शिरो० ) ( वाच० ) । बौद्धास्तु द्वितीयक्षणोत्पन्नध्वंस प्रतियोगित्वम् क्षणिकत्वम् इत्याहुः । तन्मते सृष भावानां क्षणिकत्वम् । तच्च नीलादिक्षणानां सत्वेनानुमातव्यम् । यत् सत् तत् क्षणिकम् यथा जलधरपटलम् सन्तश्चामी भावाः इति । अत्र सत्त्वं चार्थक्रियाकारित्वम् इति ज्ञेयम् ( सर्व० पृ० २६ बौद्ध० ) " <क्षयः> (मासः ) सूर्यसंक्रान्तिद्वययुतो मासः । असंक्रान्तमासोधिमासः स्फुट: स्यात् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यतः स्यात् तदा वर्षमध्येधिमासंद्वयं च ॥ ( पुरु० चि० पृ० १४ ) । <क्षरः> क्षरतीति क्षरः विनाशिपदार्थः । क्षरः सर्वाणि भूतानि ( गीता १५/१६) । <क्षरणम्> द्रवद्रव्य विभागः । यथा पयः क्षरति गोस्तनात् इत्यादौ क्षरतेरर्थः । <क्षायिकः> कर्मणः क्षये सति जायमानो भावः क्षायिकः ( सर्व० सं० पृ० ६८ आई० ) । <क्षिप्तम्> तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तम् ( सर्व० सं० पृ० ३५४ पात० ) । <क्षुद्रम्> मृद्भाण्डासनखट्टास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतानं च क्षुद्रं द्रव्यमुदाहृतम् ॥ ( मिता० २।२७५ ) । <क्षुपः> करवीरादयः सरलप्रायाः ( मिता० २१ २२९ ) । <क्षेत्रम्> शरीरम् । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ( गीता १३ । १ ) । <क्षेत्रज्ञः> जीवात्मा । शरीरसंबन्धेन ज्ञानवान् । यथा अहम् त्वम् इत्यादि । क्षेत्रं शरीरम् आत्मत्वेन जानातीति क्षेत्रज्ञ इति व्युत्पत्तिः । <क्षेमः> १ [क] सिद्धस्य रक्षणम् ( दि० गु० ) । [ख] रक्षणम् ( आ० त० ) । यथा उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । लब्धस्थ ( याज्ञ ० ) इत्यादौ । २ विद्यमानसत्ताकस्य वस्तुनः स्वाधिकरणे स्वविशिष्ट बुद्धि नियामक संबन्धविशेषव्यवस्थापनम् । यथा दुःखात्यन्ताभावस्य मोक्ष वादिमते अत्यन्ताभावस्याजन्यत्वेपि स्वप्रतियोगिदुःखानुत्पादनद्वारा करणे स्वविशिष्टबुद्धिनियामकदुःखाकाली नस्वरूपसंबन्ध निर्वाहकल वज्ञानस्येति दुःखात्यन्ताभावस्य क्षैमिकी (क्षेमनिर्वाह्या) तत्त्वज्ञान इत्यादावहोरात्रभोजनाभावस्य क्षैमिकं ( क्षेमनिर्वाह्यम् ) कृतिसाध्यत्वम् । इति (वाच० ) । ३ कुशलमिति काव्यज्ञा वदन्ति । <ख> <खञ्जः> सहजसंस्थानशून्यचरणवान् । यथा पादेन खज इत्यत्र / का विकृतपादवृत्तित्वविशिष्टं यत् सहजसंस्थानशून्यत्वं तद्वच्चरणवान् विकारप्रयुक्तस्य यथोचितसंस्थान वैधुर्यस्याश्रयीभूतचरणवान् बोध: । एवम् श्रोत्रेण बधिर : कायेन वामनः इत्यादावप्युक्तैव ( श० प्र० श्लो० ९२ पृ० ११८ ) । खञ्जलक्षणं च भावप्रका उक्तम् । यथा वायुः कव्याश्रितः सक्नः कण्डरामाक्षिपेद्यदा / खजप भवेज्जन्तुः पङ्गुः सक्नोर्द्वयोर्वधात् ॥ इति । तदर्थश्च सक्नः कट्यादि- गुल्फस्य कण्डरां कक्षास्नायुम् आक्षिपेत् गमनादौ कम्पयेत् वधात् गमनादिक्रियाघातात् इति । तथा च एकपादविकलत्वे खज: द्विपाद - विकलत्वे परिति भेदः । तस्यैव भेदः कलापखञ्ज : इति । तल्लक्षणं च कम्पते गमनारम्मे खञ्जन्निव च लक्ष्यते । कपालखअं तं विद्यान्मुक्त- संधिप्रबन्धनम् ॥ इति ( वाच० ) । <खण्डतिथिः> उदयस्था तिथिर्या हि न भवेद्दिनमध्यगा । सा खण्डा न व्रतानां स्यात्तत्रारम्भसमापनम् ॥ ( पु० चि० पृ० ५० ) । <खण्डप्रलयः> ( प्रलय ) [क] कार्यद्रव्यानधिकरणकार्याधिकरण- काल: (न्या० म० ४) (दि० ४) । अयमेवावान्तरप्रलयः इत्युच्यते । खण्डप्रलयाङ्गीकारे प्रमाणं वेदः धाता यथापूर्वमकल्पयत् इति ( त० दी० १ पृ० १० ) (त० प्र० ख० ४ पृ० १८) । खण्ड प्रलय प्रकारस्तु दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते । तदेकसप्ततिगुणं मन्वन्तर- मिहोच्यते ॥ एतच्चतुर्दशगुणमहर्ब्राह्ममिहोच्यते ( हरिवंशे अध्या० १९८-९९९) इत्यादिनोक्तः । स च तस्मादेवावगन्तव्यः । [ख] जन्य- द्रव्यानधिकरणद्रव्यप्रागभावाधिकरणकालः । [ग] सर्वकार्बद्रव्यध्वंसः ( त० दी० १पृ०१० ) । यथा युगप्रलयः । [घ] चतुर्युगसहस्ररूप- ब्राह्मदिनावसाने भूम्यादिखण्डलयाधारः कालविशेषः (वाच० ) । तदुक्तं सिद्धान्तशिरोमणौ वृद्धिर्विधेरहि भुवः समन्तात् स्याद्योजनं भूभवभूत- पूर्व: । ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेखिलायाः ॥ इति । <खर्विका> संमिश्रा या चतुर्दश्या अमावास्या भवेत्कचित् । खर्विकां तां विदुः केचिद्गताध्यामिति चापरे ॥ ( पु० चि० पृ० ३३१ ) । <खलेवाली> खले बलीवर्दबन्धनाय निखातो मेढिः खलेवाली ( जै० न्या० अ० १० पा० १ अधि० ६) । <ख्याति:> १ ज्ञानम् ( मलि० मा० टी० ४/५५ ) । यथा ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ( माघ० स० ४ श्लो० ५५ ) इत्यादौ । यथा वा योगिनस्तु विवे- कख्यातिरविप्लवा हानोपायः ( पात० सु० २१ २६) । प्रतः ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ( पात० सू० ४।२८) इत्यादौ पतञ्जलिना निर्दिष्टा विवेकख्यातिः । अत्र वदन्ति । आत्मख्यातिरसख्यातिरख्यातिः ख्यातिरन्यथा । तथानिर्वच । नख्यातिरित्येतत्ख्यातिपञ्चकम् ॥ १ ॥ योगाचारा माध्यमिकास्तथा । मीमांसका अपि । नैयायिका मायिनश्च पञ्च ख्यातीः क्रमाजगुः ॥ २॥ / रामानुजीयास्तु सत्ख्यातिमाहुः । तत्रात्मख्यातिर्नाम आत्मनो बुदे ख्यातिर्विषयरूपेण प्रतिभासः । इदं रजतमिति बुद्धिरेव रजतरूपेणाव- । भासते । न तत्र विषयान्तरापेक्षा । अयं घट इत्यादिषु सर्वत्र बुद्धख विषय कारोल्लेखसंभवे नात्रापि तथैवौचित्यात् । प्रयोगश्च विमतं स्वतं बुद्धिरूपं चक्षुरादिप्रयोगमन्तरेणापरोक्षत्वात्संमतबुद्धिवदिति विज्ञान / वांदिनो बौद्धाः । असत्ख्यातिर्नाम असतो रजतादेः ख्यातिः प्रतीतिरेते शून्यवादिनो बौद्धाः । वाचस्पतिमिश्रा अपि शुक्ताविदं रजतमिति प्रसिद्धयोः शुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसत्ख्याति मङ्गीचक्रुः । मीमांसकास्त्वख्यातिमाहुः । अख्यातिर्नाम ख्यातिए प्रतीतिविषयः । न रजतांशः । तस्य चक्षुराद्यसंनिकर्षात् / रजतसिं ख्यातिरप्रतीतिः । शुक्तिरजतस्थल इदं रजतमित्यत्रेदमंश एव प्रत्यक्षः देशकालान्तरगतं रजतमेव शुक्तिसंप्रयुक्तेन दोषोपहतेनेन्द्रियेण सु तु स्मृत्याकारदर्शन मिति । अन्यथाख्यातिर्नाम अन्यस्यान्यरूपेण प्रतीति // त्मना गृह्यते । न चैवमननुभूतस्यापि ग्रहणं स्यादिति वाच्यम् विषयो रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात्सत्यरजतबद सादृश्यादेर्नियामकत्वात् । प्रयोगश्च विवादपदं शक्तिशकलं रजतज्ञा रजतस्योपायः कारणं खन्यादिः । तस्य रजतार्थिप्रवृत्तिविषयत्वो रजतज्ञानविषयत्वाभावाद्व्यभिचारः । तद्वारणाय सत्यन्तं विशेषणमुपात मिति नैयायिकाः । मायिनस्तु अनिर्वचनीयख्यातिमाहुः । अनिर्वचनीय ख्यातिर्नाम सत्त्वेनासत्त्वेन चानिर्वचनीयस्य रजतादेः ख्यातिः प्रतीतिः । शुक्तिरजतस्थले च रजतं न सत् । भ्रान्तिबाधयोरसंभवात् । नाप्यसत् । ख्यातिबाधयोरसंभवात् । बाधस्य प्रतियोगि पूर्वकत्वेनासतस्तदसंभवात् । किंतु शुक्त्यज्ञानपरिणामभूतं सदसयामनिर्वचनीयमपूर्व रजतमुत्पद्यते । तदेव च तत्र रजतज्ञानविषयः । तदुक्तम् सत्त्वे न भ्रान्तिबाधौ स्तो नसत्त्वे ख्यातिबाधने । सदसयामनिर्वाच्या विद्याविद्यैः सह भ्रमः ॥ इति । आविद्यैरविद्यापरिणामभूतै रजतादिभिः । प्रपञ्चस्यापि अनाद्य- विद्यापरिणामभूतत्वादनिर्वचनीयत्वमेवेति । रामानुजीयास्तु सत्ख्यातिमाहुः। सत्ख्यातिर्नाम ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्विषय- व्यवहारबाधाद्भमत्वम् । तदुपपादयामः । पञ्चीकरणप्रक्रियया पृथिव्या- दिषु सर्वत्र सर्वभूतानां विद्यमानत्वम् । अत एव शुक्तिकादौ रजतांशस्य व्यवहार इति तज्ज्ञानं भ्रमः । विस्तरस्तु यतीन्द्रमतदीपिकायां तट्टीकायां विद्यमानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न च द्रष्टव्यः ( पृ० ९ - १२) । द्वैतवादिनां श्रीमध्वाचार्याणां सिद्धान्ते तुत शुक्तिकादौ प्रतीतस्य रजतादेः असदेवेदं रजतं प्रत्यभात् इत्यादिना बाघोत्तरकालमसत्त्वानुभवादसता च संबन्धायोगात् न शुक्ति रूप्यादिना क्संबन्धः । किंतु शुक्तिकादिसंनिकृष्टमेवेन्द्रियं दोषवशा- च्छुक्तिमत्यन्ता सद्जतात्मनावगाहते इति ( मध्वविजयटीका स० ५ लो० ६) । २ प्रशंसा । ३ प्रसिद्धिः । ४ कथनम् इति काव्यज्ञा आहुः । <ग> <गण:> चतुर्थी तिथि: ( पु० चि० पृ० ८४ ) । <गणेश:> महेश्वरः ( पु० चि० पृ० १२६)। <गतिः> १ गमनम् । यथा सूत्रस्येवास्ति मे गतिः ( रघु०१४ ) प्रण- भिन्नत्वे सति उत्तरदेशसंयोगानुकूलक्रियात्वम् ( राम० ११० ३४ ) । यातिभूमिमगमद्गतिभिः (माघः ) इत्यादौ । अत्रार्थे गतित्वं चोत्क्षेपणादि- ज्ञानम् । यथा इत्यर्थो गम्यते मया इत्यादौ । अत्रार्थे ये गत्यर्थका ३३ न्या० को० धातवः ते ज्ञानार्थकाः इति वैयाकरणानां नियमोनुसंधेयः । ३ परिणामः । ४ प्रमाणम् । ५ सरणिः । ६ स्थानम् । ७ स्वरूपम् । ८ विषयः । ९ अभ्युपायः इति काव्यज्ञा आहुः । १० नाडीव्रणमिति भिषजः । ११ प्रादयो निपाताः शब्दविशेषा इति शाब्दिका आहुः (वाच० <गन्धः> (गुणः ) [क घ्राणग्राह्यो योर्थः सः । स च पृथिवीमात्रवृत्तिः रसान् स्त्रियः ( मनु० ) इत्यादौ । यथा वा पृथिवी गन्धवतीत्यादौ ( त० सं० ) बाह्यैकेन्द्रियग्राह्यश्च । यथा वर्जयेन्मधु मांसं च गन्धं माझं । ( त० सं० ) । गन्धलक्षणं च गन्धत्वमेव । तच्च प्राणमात्रप्राह्मगुणत्व व्याप्यजातिमत्त्वम् । अथवा पृथिवीमात्रवृत्तिवृत्तिर्गुणत्वसाक्षाद्व्याप्या व या जाति: तादृशजातिमत्त्वम् (३० उ० ७।१।६ ) । तादृशजातिल गन्धत्वम् । [ख] घ्राणमात्रग्राह्यो गुणः ( वै० उ० ७/१/६/// अत्र मात्रपदप्रयोजनं चिन्त्यम् । [ग ] घ्राणमात्र ग्राह्यजातिमान् (त० १ पृ० ४ ) । स च गन्धो द्विविधः सुरभिः असुरभिक्ष द्विविधोपि गन्धः पृथिव्यामेवास्ति । स च पाकजः अनित्यक्ष ( त० कौ० १ पृ० ४ ) । पाकजप्रक्रिया त्वन्यत्र (वै० ७/१/६// द्रष्टव्या । जलादौ तूपाधिकृतो गन्धः । उत्कटानुत्कटमेदेनापि गयो द्विविधः । तत्र कस्तूयोदावुत्कटः । पाषाणादौ त्वनुत्कटः / तत्रोत्कट न्तरे तु गन्धो दशविधः इत्युक्तम् । यथा इष्टश्चानिष्टगन्धश्च मधुरोला गन्ध एवोपलभ्यते न त्वनुत्कटः इति । एवम् रसादयो ज्ञेयाः / शाला कटुस्तथा । निहोरी संहतः स्निग्धो रूक्षो विशद एव च ॥ एवं दश विधो ज्ञेयः पार्थिवो गन्ध इत्युत इति । तत्रेष्टः १ कस्तूरिकादौ ॥ कौ ० अनिष्टः २ विष्ठादौ । मधुरः ३ मधुपुष्पादौ । अम्लः ४ तिन्तिड्यादौ । कटुः ५ मरिचादौ । निर्हारी ६ हिङ्ग्वादौ । संहतः चित्रगन्धः । तैलादौ । विशदः १० शाल्यादौ इति (आश्व० अ० ५०) (वाच०)) ७ अनेककल्कद्रव्यादौ । स्निग्धः ८ सद्यस्तप्तघृतादौ । रूक्षः ९ साप <गमकत्वम्> नित्यसाकाङ्क्षत्वम् । यथा चैत्रस्य मैत्रस्य गुरुकुलम् दासभायें त्यादौ गमकत्वात्समासः इति । तदुक्तं महाभाष्ये सापेक्ष रामक त्समासः इति । एकदेशान्वयस्य शास्त्रे निषिद्धत्वेप्यत्र नित्यसकाइत्वेन चैत्रपदार्थस्य गुरुत्वे मैत्रपदार्थस्य च दासत्वे निरूपितत्वसंबन्धेनान्वयः सर्वैरुपगम्यत इति समासः संपद्यत इति बोध्यम् । यथा वा काक- तालीयमित्यत्र गमकत्वाद्वृत्तिः संपद्यते इति ( कुवलया० ) । <गमकम्> १ गतिप्रयोजकम् बोधकं वा । यथा यत्प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ( मालतीमा० ) इत्यादौ । २ स्वरविशेष इति गायका आहुः । तत्रो- क्तम् गमकः स्वश्रुतिस्थानस्थानां श्रुत्यन्तराश्रयात् । खरो यो मूर्छनामेति गमकः स इहोच्यते ॥ कम्पितः स्फुरितो लीनो भिन्नः स्थविर एव च । आहतान्दोलितौ चेति गमकाः सप्त कीर्तिताः ॥ इति ( संगी० दा० ) ( वाच० ) । <गमनम्> ( कर्म ) [क ] गमनत्वजातिमत् ( वै० उ० १११७) ( त० कौ० ) । [ ख ] उत्क्षेपणादिचतुष्टयभिन्नत्वे सति कर्मत्ववत् । अत्रेदं बोध्यम् । उत्क्षेपणादिसर्वकर्मसु यदि गमनव्यवहारस्तदा गमस्य पृथगभिधानं भ्रमणरेचनस्पन्दनोर्ध्वज्वलनोन्नमनादीनां भिन्नभिन्नबुद्धि- व्यपदेशभाजामेकेन शब्देन संग्रहार्थम् । यद्वा गमनत्वमपि कर्मत्वव्याप्या पञ्चमी जातिरेव । तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः । उत्क्षेपणापक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः । स्वाश्रयसंयोग- विभागासमवायिकारणत्वमेव गौणमुख्यसाधारणो धर्मः । गमनत्वजस् अनियत दिग्देश संयोग विभागासमवायिकारणत्वमेव भ्रमणादिषु सर्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति (बै० उ० १॥ ११७ ) । तच्च कर्म स्वाश्रयसंयोग विभागासमवायिकारणक्रियाविशेषः ( वाच० ) । अथवा उत्तरदेशसंयोगजनकक्रिया ( ल० व० ) । यथा ग्रामं गच्छतीत्यादौ संयोगावच्छिन्नस्पन्दो गच्छत्यर्थः (ग० व्यु० २ ) । विजिगीषोजिंगमिषोर्वा प्रयाणं गमनमिति काव्यज्ञा वदन्ति । <गर्तः> रूपादिमद्भिः सावयवारब्धकार्यैर्मध्यशून्यैः संस्थानविशेषोपहितमा- काशम् (न्या० वा० ११ १/१४ पृ० ८१ ) । <गर्वः> १ अभिमानः । २ अवज्ञाविशेषः । तत्रोक्तम् । ऐश्वर्यरूपतारुण्य- कुलविद्याबलैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥ इति । ३ मदः। तदुक्तम् गर्यो मदः प्रभावश्रीविद्यासत्कुलतादिजः इति । चारिभावः इत्यालंकारिका वदन्ति । स च अवज्ञासविलासाङ्गदर्शना व्यभि विनयादिकृत् इति ( वाच० ) । <गलग्रहः> कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च अष्टावेते गलग्रहाः ॥ ( पु० चि० पृ० ४३८ ) । <गवीधुकः> अरण्यस्थो गोधूमः ( जै० न्या० अ० १० पा० ८ अधि० ४ )॥ <गानम्> [क] स्वरविशेषेण निष्पाद्यः परिणतः शब्दविशेषः । [स गीतिः । सा च आभ्यन्तरयत्नजनितस्वर विशेषाणामभिव्यञ्जका यथा सामगानम् । गानं हि द्विविधम् । वैदिकं लौकिकं च । तत्र वैदिकलक्षणम् जैमिनिसूत्रभाष्ये (९/२/२९ ) प्रतिपादितम् त तत्र द्रष्टव्यम् । लौकिकं तु धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः गात्रविभागतः । यत्रं स्याद्वेणुवीणादि गात्रं तु मुखजं मतम् । पुनर्गत तत्र नादात्मको धातुर्मात्रा ह्यक्षरसंचयः ॥ गीतं च द्विविधं प्रोक्तं पक्ष निबन्धानिबन्धभेदेन द्विविधम् । तत्र निबन्धं तालमानरसाञ्चितः अनिबन्धं तु वर्णादिनियमशून्यम् इत्यादि ( संगीत० दा०) (वाच०)/ <गान्धर्वः> ( विवाह) गान्धर्वः समयान्मिथः ( याज्ञवल्क्य० अ० १ श्लो० ६१ ) । <गीतम्> १ छान्दसहार्दएतदन्यतरखरेण गुणकीर्तनम् । यथा ध्रुवकारी गानम् । २ गान्धर्वशास्त्रसमयानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमि त्तानां चिन्तनमिति नकुलीशाचार्यो वक्ति ( सर्व० सं० पृ० नकु० ) । अधिकं तु गानशब्दव्याख्यानावसरे संपादितम् । <गुच्छः> अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः ( मिताक्ष श्लो० २२९ ) । <गुण:> १ प्रमाया असाधारणकारणम् । यथा प्रमाया गुणजन्यत्वम् उत्पत्तौ परतस्त्वम् इत्यादौ । प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षो गुणः ( भा०प० गु० श्लो० १३२ - १३५ ) । अनुमितौ च व्यापकवति व्याप्यज्ञानं यथार्थपरामर्श: गुणः ( त० दी० प्रामा०प० ३७) (चि० १ प्रामा० ) । प्रमाया असाधारणकारणमित्यस्य प्रमात्वाधिकदेशवृत्ति- धर्मानवच्छिन्नप्रमानिष्ठकार्यतानिरूपितकारणताशालीत्यर्थः । तेन ज्ञान- मात्रहेतुभूतात्ममनःसंयोगादेः भ्रमजनकपित्तादिदोषाणां च व्युदासः ( नील० प्रामा० पृ० ३४ ३५ ) । २ अप्रधानम् । यथा षष्ठीं कुर्यात्तदा गुणे तद्गुणसंविज्ञानबहुव्रीहिः इत्यादौ इति । ३ वस्तुधर्मो गुण इति वैयाकरणादय आहुः । ४ अङ्गम् । यथा गुणवाद इत्यादौ । यथा वा दना जुहोतीत्यादौ प्रधाने यागादौ आधेयविशेषो दध्यादिः गुण इति मीमांसकाः । ५ सत्त्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्चा- क्रियाजश्व सोसत्त्वप्रकृतिर्गुणः ॥ इति शाब्दिका आहुः । अस्यार्थस्तु सिद्धान्तकौमुदी व्याख्यायां तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणे वो गुण- वचनात् (पाणिनिसू० ४।१।४४ ) इति सूत्रे उक्तः तत एव द्रष्टव्यः । ६ अकार: एकार: ओकारश्चैते त्रयो गुणा इत्यपि शाब्दिकाः संगिरन्ते । ७ सत्त्वम् रजः तमश्चैते द्रव्यात्मकाः त्रयो गुणा इति सांख्याः । ८ ज्ञानानन्दादयोपि गुणा इति वेदान्तिनः । ९ शमदमतितिक्षादयो गुणा इति योगिनः । १० शौर्यादयो गुणा इति व्यवहारज्ञाः । ११ संधिविग्रहादयः षड्गुणा इति नीतिशास्त्रज्ञाः । १२ श्लेषादयो दश माधुर्योजः प्रसादा इति त्रयो वा गुणा इत्यालंकारिकाः । १३ अकार्पण्या- स्पृहत्वादय इति धर्मज्ञाः । १४ देशकालज्ञतादयश्चतुर्दश गुणा इत पौराणिकाः । १५ उष्णाद्यष्टविधं वीर्य गुण इति भिषजः । १६ विशेषण- मिति भर्तृहरिः । १७ उत्कर्षः । १८ इन्द्रियम् इत्यपरे । १९ आवृत्तिरिति तान्त्रिकाः । २० रज्जुः । २१ सूपकारः । २२ त्याग इतिज्ञाः । २३ दोष गुण इत्यन्ये आहुः (वाच० ) । २४ कार्यस्य ज्ञाप्यस्य वा आश्रये य आश्रितः स गुणः । अयं च विभाषा गुणेस्त्रियाम् (पाणिनिसू० २१३१२५) इति तृतीयापञ्चमी विधायक- सूत्रस्थगुणशब्दस्यार्थः । यथा वह्निमान् धूमात् इत्यत्र धूमो गुणः । जाड्यात् जाड्येन वा बद्धः इत्यादौ जाड्यादिर्गुणः । अत्र धूमस्य स्वज्ञाप्यवह्न्याश्रये आश्रितत्वाद्गुणत्वम् । जाड्यस्य च स्वप्रयोज्य बन्धना । श्रये आश्रितत्वाद्गुणत्वम् ( व्युत्प० का० ३) । २५ रूपादयतु । विंशतिर्गुणा इति वैशेषिका नैयायिकाश्चाहुः । तल्लक्षणं च [क] ( वै० १।१।१६ ) । [ख ] सामान्यवानसमवायिकारण मस्पन्दात्मा द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् (त० मा० अर्थनि० पृ० ३२ ) । [ग] द्रव्यकर्मभिन्नत्वे सति । ( त० कौ० १ पृ० १ ) । गुणत्वं च समवायिकारणावृत्तिनित्यवृत्ति सामान्यवान् । [घ ] गुणत्वरूपजातिमान् ( त० दी० १ पृ० ६ सत्तासाक्षाद्व्याप्यजातिमत्त्वम् । कार्यासमानाधिकरणकर्मावृत्तिजातिमत्व वा इत्यादि ( वै० उ० ७/१/१ पृ० २८१ ) । अथवा समवायि ६) कारणासमवेतासमवायिकारणभिन्नसमवेतसत्तासाक्षाद्व्याप्यजाति: (सर्व०) पृ० २१५ औलू० ) । असमवायिकारणभिन्नाश्च आत्मविशेषगुण बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नधर्माधर्मभावनाः भवन्तीति विज्ञेयम् । षामसमवायिकारणत्वं नैयायिका न स्वीकुर्वन्ति । यद्वा द्रव्येतरवृत्तितान पृ० ४ ) । अथवा द्रव्यत्वव्यापकतावच्छेदकसत्तान्यजातिमत्त्वम् । १ पृ० २ ) । अथवा द्रव्यावृत्तिनित्यवृत्तिजातिमत्त्वम् ( ल०१० / १९१) गुणाश्चतुर्विंशतिः । रूपम् स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् गुरुत्वम् द्रवत्वम् स्नेहः शब्दः बुद्धिः सुखम् दुःखम् इच्छा वच्छेदकद्रव्यसामान्यवृत्तितावच्छेदकपदार्थविभाजकोपाधिमत्त्वम् (वाक्य मु०) धर्म: अधर्म संस्कारः इति । रूपाद्यपरत्वान्ताः एकादश बड्यादि प्रयत्नान्ताः षट् चेति सप्तदश गुणा इति कणादसूत्रे ( वै० १/१/६/ उक्तम् । सूत्रस्थचकारो गुरुत्वादीनवशिष्टान् सप्त समुच्चिनोतील अपरलम्दू षः प्रयत चतुर्विंशतिर्गुणा भवन्तीति प्रशस्तपादाचार्यादय आहुः । अत्रेदं बोय रूपम् रसः गन्धः स्पर्शः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम् स्नेहः वेगः स्थितिस्थापकः एते मूर्तगुणा इत्युच्यन्ते । बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दः एते अमूर्तगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः एते गुणा: मूर्तामूर्तगुणाः । संयोगः विभागः द्वित्वादिकाः संख्या: द्विपृथ- क्त्वादयः एते अनेकाश्रिता गुणाः । तद्भिन्नाः शिष्टास्त्वेकैकवृत्तयः । बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयतः धर्मः अधर्मः रूपम् रसः गन्धः स्पर्शः स्नेहः सांसिद्धिकद्रवत्वम् भावना शब्दः एते विशेषगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् नैमित्तिकद्रवत्वम् गुरुत्वम् वेगः एते सामान्यगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः एते द्वीन्द्रियग्राह्यगुणाः । रूपम् रसः गन्धः स्पर्शः शब्दः एते बाह्यैकै- केन्द्रियग्राह्यगुणाः । गुरुत्वम् अदृष्टम् ( धर्माधर्मो ) भावना एते अतीन्द्रियगुणाः । बुद्ध्याद्यष्टकम् भावना शब्दश्च एते अकारणगुणो- त्पन्नाः । अपाकजा रूपरसगन्धाः अनुष्णः स्पर्शः अपाकजं द्रवत्वम् हवेगगुरुत्वैकत्वानि पृथक्त्वम् परिमाणम् स्थितिस्थापकः एते कारणगुणोत्पन्नाः । संयोगः विभागः वेगः एते कर्मजा गुणाः । रूपम् रसः गन्धः स्पर्श: एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः स्थितिस्थापकच एते असमवायिकारणान्येव भवन्ति । बुद्ध्यादयोष्टौ वना एते आत्ममात्रवृत्तिविशेषगुणाः निमित्तकारणान्येव । न तु संयोग विभागौ एते गुणा असमवायिकारणानि निमित्तकारणानि असमवायिकारणानि भवन्ति । उष्णस्पर्श: गुरुत्वम् वेगः द्रवत्वम् भवन्ति । बुद्ध्यादयोटो शब्दः भावना संयोगः विभागः एते अव्याप्य वृत्तिगुणा उच्यन्ते (भा०प० गु० श्लो० ८७-१०० ) । सविक- रूपकज्ञानम् इच्छा प्रयत्नः सुखम् दुःखम् द्वेषः जीवात्मगतमेकत्वम् परिमाणम् एते आत्मयोग्यगुणा भवन्ति । रूपादीनामे कैकेन्द्रियग्राह्यत्वम् संख्यादीनां द्वीन्द्रियग्राह्यत्वम् सुखादीनां मानसत्वम् सत्तागुणत्वयोः सामान्ययोः सर्वेन्द्रियग्राह्यत्वम् (वै० उ० ४ । १ । १३ ) । परत्वापत्न- द्वित्वपृथक्त्वादयो बुद्ध्यपेक्षगुणाः । रूपरसगन्धस्पर्शशब्दपरिमाणैक- कपृथक्त्व स्नेहाः सजातीयारम्भकगुणाः । सुखदुःखेच्छाद्वेषप्रयशः । स्वासमानजातीयारम्भका गुणा भवन्ति । संयोग विभागसंख्या: गुरुल द्रवत्वोष्ण स्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजातीयारम्भका गुणाः । बुद्धिसुखदुःखेच्छा द्वेषभावनाशब्दाः स्वाश्रयसमवेतविशेषगुणारम्भकाः । रूपरसगन्ध स्पर्श परिमाणस्नेहप्रयत्नाः परत्रारम्भकाः । संयोग विभागसंख्यक वेगस्थितिस्थापक प्रयत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः । परत्वापरत्व पृथक्त्वगुरुत्वद्रवत्ववेगस्नेह प्रयत्नधर्माधर्मास्तूभयत्रारम्भकाः । गुरुत्वद्रवल- द्वित्वद्विपृथक्त्वादयो गुणा अकारणानि भवन्ति । स्वध्वंसप्रत्यक्षातरित प्रत्यकारणानीत्यर्थः ( दि० गु० ) । रूपादिसप्तकम् गुरुत्वद्रवत्वस्नेह वेगस्थितिस्थापकपरत्वापरत्वानि चाश्रयव्यापीनि भवन्ति । रूपरसग स्नेह गुरुत्वद्रवत्व स्थितिस्थापका एते स्पर्शव्याप्या भवन्ति । बुद्धिसुखदुःखे । च्छाद्वेषप्रयत्नधर्माधर्मभावना एते गुणा आत्ममात्रवृत्तयो भवन्ति ॥ बुद्धीच्छाद्वेषप्रयत्नभावनानामेव सविषयकत्वम् । अत्रेदं बोध्यम् / इच्छा- दीनां जनकज्ञानस विषयत्वेनैव सविषयत्वव्यवहार इति तु प्राञ्चः वान सविषयतेति तु नव्या आहुः ( प० मा० ) । रूपद्रवत्वे पृथिव्यात स्पतिमिश्रादयः आहुः । व्यवहारबलेन ज्ञानवदिच्छादेरपि साक्षादेव जोमात्रवृत्तिनी भवतः । संख्याप्रचयपरिमाणान्येव परिमाणासमवादि कारणानि भवन्ति । संयोग विभागशब्दा एव शब्दासमवाधिकारा भवन्ति । स्पर्शगुरुत्वप्रयत्नवेगा एवाभिघातहेतवो भवन्ति । एक पृथक्त्वसंयोगविभागाः एवानेकाश्रितगुणारम्भका भवन्ति / परत्वात एव दिक्कालपिण्डसंयोगजन्ये भवतः । परत्वा परत्वचरमज्ञानद्वित्वद्वि क्त्वादय एव निमित्तनाशनाश्या भवन्ति । एतदन्य एव गुणा गुणान्तरवि नाश्या भवन्ति । अपार्थिव परमाणुगत रूपरसस्पर्शसांसिद्धिकद्रवत्वस्नेह त्वस्थितिस्थापकनित्यद्रव्यग तैकत्वपृथक्त्वपरिमाणेश्वरबुद्धीच्छा प्रयत्ना नित्या अकार्याश्च सन्ति । एतदन्ये गुणास्तु अनहुते कार्यक्ष सन्ति इति (प० मा० ) । संख्यादयः पञ्च सर्वद्रव्यसाधारणा भवन्ति । परत्वापरत्वे तु मूर्तद्रव्य एव वर्तेते। भावना धर्माधर्मौ दुःखद्वेषौ एते जीवात्मन्येव वर्तन्ते । रूपरसस्पर्शैकत्वपरिमाणैक पृथक्त्वगुरुत्वसांसिद्धिक- द्रवत्वस्नेहा नित्यगताः नित्याः अनित्यगतास्त्वनित्या भवन्ति । एतदन्ये गुणा नित्यानित्यगताः अनित्या एव भवन्ति ( प्र० प्र० )। अत्रेदं बोध्यम् । रूपरसगन्धस्पर्शाः नित्येपि पृथिवीपरमाणौ वर्तमानाः सर्वे अनित्य एव पाकत्वात् इति ज्ञेयम् । जीवात्मसमवेता बुद्धिसुख दुःखेच्छाद्वेषप्रयत्नाः शब्दश्चैते द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति इति ( त० कौ० ) । अत्रायं विवेकः । संनिकृष्टत्वविप्रकृष्टत्वाभ्यां परत्वा- परखे उत्पद्येते इत्यतः परवापरत्वे संनिकृष्टत्व विप्रकृष्टत्वाभ्यामतिरिक्ते गुणावेवेति वैशेषिक मतम् । अत्र सूत्रं प्रमाणम् । एकदिक्कालाभ्यामेक- कालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च (वै० ७१२ २१ ) इति । ज्येष्ठत्व- नव्यास्तु संनिकृष्टत्वविप्रकृष्टत्वाभ्यां दैशिकपरत्वापरत्व व्यवहारस्य कनिष्ठत्वाभ्यां कालिकपरत्वापरत्वव्यवहारस्य चोपपत्तेः न तयोर्गुणान्तर- त्वमिति ( दि० गु० पृ० २०९ ) । पृथक्त्वं चान्योन्याभावान्नाति- रिच्यते इति चाहुः । एते रूपादयो गुणाः समवायनिराकरणेन द्रव्या- भिन्ना एवेति सांख्या वेदान्तिनश्च मन्यन्ते । तत्र वैशेषिकनैयायिक सिद्धान्तसिद्धेषु चतुर्विंशतौ गुणेषु मध्ये रूपरसगन्धस्पर्शाश्चत्वारः प्रत्येक मुद्भूतानुद्भूतभेदेन द्विविधाः । अनुद्भूतरूपादयो घ्राणरसनाचक्षु- स्वगादौ तिष्ठन्ति । उद्भूतरूपादयस्तु घटपटादौ योग्यपृथिव्याद्या- रम्भक परमाणुढ्यणुकत्र्यणुकादौ च तिष्ठन्ति ( त० कौ० ) । केचित्तु चित्राचित्रभेदेनापि ते द्विविधाः । तत्र नीलपीतादिभिर्मधुरतिक्तादिभिः सुरभ्यसुरभ्यादिभिः सुकुमारकठिनाद्यैश्चावयवैरारब्धपटादिषु चित्राः अ न्यत्राचित्राः इति मन्यन्ते ( त० कौ० ) । सिद्धान्तिनस्तु रूपादिषु चतुर्षु रूपस्यैव चित्राचित्रभेदेन द्वैविध्यमवय विचाक्षुषप्रत्यक्षान्यथानुपपत्त्या कल्प्यते । न तु रसादीनां द्वैविध्यम् । तेषां चित्रविधत्वानङ्गीकारात् इति प्राहुः ( त० दी० १) । प्रकारान्तरेण च ते पुनश्चत्वारोपि पाक- ३४ न्या० को० जापाकजभेदेन द्विविधाः । तत्र पाकजाः कस्यांचित्पृथिव्यामेव वर्तन्ते घटादिषु पावकसंयोगात्पूर्वश्यामादिनिवृत्तौ रक्ताद्युत्पादात् । अपाकजा पृथिव्यादिचतुष्टयेपि वर्तन्ते । पाकजा अपाकजाश्च ते सर्वे पृथिव्या मनित्या एव । अन्यत्र जलादिषु त्रिषु पाकासंभवेनापाकजा एव ते ते तु अपाकजाः जलादिषु नित्येषु गता नित्याः । अनित्येषु गतास्व. नित्या एव । अत्र प्रमाणानि सूत्राणि पृथिव्यादिरूपरसगन्धस्पर्शा द्वयाः । नित्यत्वादनित्याश्च । एतेन नित्येषु नित्यत्वमुक्तम् । अप्सु तेजसि वापी । च नित्या द्रव्यनित्यत्वात् । अनित्येष्वनित्या द्रव्यानित्यत्वात् । कारण गुणपूर्वकाः पृथिव्यां पाकजा: (वै० ७।१।२ - ६ ) इति । रूपादनां गुणानां सर्वेषां गुणत्वाभिसंबन्धः द्रव्याश्रितत्वम् निर्गुणत्वम् निष्क्रियलं । च । तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः । बुद्धिसुस दुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना शब्दतूल परिमाणोत्तरसंयोग नैमित्तिकद्रव- त्वपरत्वापरत्वपाकजाः संयोगजाः । शब्दोत्तरविभागौ विभागजों अपाकजरूपरसगन्धस्पर्श परिमाणैकत्वैक पृथक्त्वगुरुत्वसांसिद्धिक हानां यावद्द्रव्यभाविश्वम् । शेषाणामयावद्रव्यभावित्वं चेति ( प्रशलः । ११ । २४ २५ ) । रूपादीनां सर्वेषां गुणानां प्रत्येकमपरसामान्यसंबन्ध ट्र्पादिसंज्ञा भवन्ति ( प्रशस्त ० १२ । २५ ) । <गुणवादः> ( अर्थवादः) [क] विरोधे गुणवादः । विशेष्यतावच्छेदक शेषणशब्दार्थयोर्विरोधे इति विरोधे इत्यस्यार्थः ( त० प्र० १२४ ) । [ख] प्रमाणान्तरविरोधे सत्यर्थवादः । यथा आदित्यो यूप वति । अत्र च यूप आदित्याभेदस्य प्रत्यक्षबाधितत्वात् आदित्यवदज्ज्वल रूपगुणोनेन लक्षणया प्रतिपाद्यते ( लौ० भा० पृ० ५५ ) / रूप आदित्याभेदस्य प्रत्यक्षादिविरुद्धत्वात् तद्गतो गुणविशेष लक्ष्यते । आदित्यवदुज्वलो यूपः इति बोध: ( म० प्र० ( लो० मा० पृ० ५५ ) ( म० प्र० प० ६४ ) ( त० यथा वा यजमानः प्रस्तरः इत्यादिः ( सि० च० पू० ३३/ ख० ४ पृ० १२४ ) । अत्र प्रस्तरो दर्भमुष्टिः । तस्य यजमाने अमेवा न्वयबाधात् यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः इति बोध्यम् । गुणवादशब्दव्युत्पत्तिस्तु गुणस्य अङ्गस्य वादः इति द्रष्टव्या । <गुणविधिः> (विधिः ) प्राप्तस्याप्राप्तस्य वा कर्मणोङ्गद्रव्यविधानम् । तत्र प्रातस्य यथा दना जुहोति इत्यादौ दधिद्रव्यविधानम् । गुणविधौ च धात्वर्थस्य साध्यत्वेनैवान्वयः । न तु साधनत्वेनाप्यन्वयः । अत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् । दना होमं भावयेत् इति वाक्यार्थः ( लौ० भा० ) । अग्निहोत्रं जुहोति स्वर्गकामः इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादेरङ्गम् दना जुहोति इति वाक्येन दधिद्रव्यं विदधद्गुणविधिः ( वाच० ) । अप्राप्तस्य यथा सोमेन यजेत इत्यादौ सोमविशिष्टयागविधानम् । अत्र कर्म अङ्गं च मानान्तरेणाप्राप्तम् इति उभयविधानम् । यथा हि तस् अङ्गरूपगुणविधानेन गुणविधित्वम् तथा कर्मस्वरूपप्रापकत्वेन उत्पत्ति-• विधित्वं चेत्युभयरूपत्वम् (वाच० ) । अत्र सोमद्रव्यं यागश्चेत्युभयम् अप्राप्तम् इति सोमविशिष्टयागं विधत्ते । सोमपदे मत्वर्थलक्षणया सोम- वता यागेन इष्टं भावयेत् इति वाक्यार्थबोध: ( लौ० मा० ) । <गुणान्तरापत्तिः> धर्मिणि सत्येव धर्मान्तरापत्तिः । यथा शाब्दिकनये उदात्तत्वगुणमात्रनिवृत्त्या अनुदात्तत्वम् ( गौ० वृ० २/२/५६ ) । <गुप्> ( धातुः ) १ रक्षणम् । यथा आत्मानं सततं गोपायीत ( श्रुतिः ) इत्यादौ । २ गर्हापूर्वक निवृत्तिः । यथा पापाज्जुगुप्सत इत्यादौ धा- त्वर्थः । अत्र सुपो विषयित्वमर्थः । तच्च गनिवृत्योः क्रमेणान्वयि । तथा च पापविषयकर्हाप्रयुक्तपापगोचरनिवृत्तिमान् इत्याकारको बोधः ( श० प्र० श्लो० ६८ पृ० ८१) । ३ भासनम् । ४ व्याकुलत्वम् । यथा गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः सदैव । वित्तं न गोपयति यस्तु वनीयकेभ्यो धीरो न गुप्यति महत्यपि कार्यजाते ॥ (कविरहस्ये ) इति चतुर्णी गुप्धात्वर्थानामुदाहरणानि । <गुप्तिः> संचार कारणाद्योगादात्मनो गोपनम् (सर्व० सं० पृ० ७८ आर्ह ० ) । <गुरुः> १ वक्ष्यमाणगुरुत्वविशिष्टपदार्थः । २ प्रभाकराख्यो मीमांसक- विशेषः । अत्र प्रभाकरस्य गुरुनामप्राप्तौ आख्यायिका श्रूयते । अत्र तुनोक्तं तत्रापिनोक्तम् अतः पौनरुक्त्यम् इत्यत्र गुरोः संशये जाते तच्छिष्येण प्रभाकरेण तदसंनिधाने तत्पुस्तके तुना तुशब्देन अपिता अपिशव्देन इति पदच्छेदः कृतः । उत्तरकाले गुरुणा तदवलोकनेन केन ईदृश: पदच्छेदः कृतः इति पृष्ठे अन्य शिष्यद्वारा प्रभाकरकृतत्वं । निश्चित्य तस्य संशयापनोदकत्वात् गुरुः इति संज्ञा कृता इति (वाच० ॥ ३ निषेकादिक्रियाकर्तेति धर्मज्ञा आहुः । ४ सच्छास्त्रोपदेशक: आचा र्यादिः गुरुरिति मुमुक्षवः । ५ दीर्घाक्षरं गुर्विति वृत्तशास्त्रज्ञाः । ६ सुराचार्य इति पौराणिकाः । ७ बृहस्पत्याख्यो नक्षत्रविशेष इति ज्योतिः शास्त्रज्ञाः । ८ पित्रादिर्जनो गुरुरिति काव्यज्ञा आहुः / स गुरुले क्रियाः कृत्वा वेदमस्मै प्रयच्छति ( मिताक्षरा अ० १/३४) / ९५३ / संस्कर्ता कास्त्वष्टविज्ञेया गणश्चैक स्त्रिकात्मकः । वेत्ता नवगणस्यास्य गुरुरुच्यते ॥ ( सर्व० सं० पृ० १६२ नकुली ० ) । <गुरुत्वम्> (गुणः) आद्यपतनासमवायिकारणम् ( भा०प० श्लो० १५५// ( त० सं० ) ( त० व० पृ० २५० ) । यथा रक्तिकमाषकतोलकत्वारि ( दि० १ ) । आद्यत्वमिह स्वसमानाधिकरणपतनप्रतियोगिकम्बं समानकालिकत्वम् । द्वितीयपतनादीनां प्राथमिकपतनध्वंससमान कालिक "संयोगानुकूलो व्यापारः । तच्च पतनं यथा वृक्षात्पर्ण पततीत्यादौ त्वान्निरास इति भावः ( नील० १ पृ० १४ ) । पतनं नाम अधोदेश इति विभाग जनकव्यापारमारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः / तत्र प्राथमिकव्यापारो गुरुत्वजन्यः । द्वितीयादिस्त वेगजन्यः ( वाक्य ० १ पृ० ९) (३० ५/११७-१८) । इदं गुरुत्वम् १पृथिवी जलवृत्ति अतीन्द्रियं च । नित्यगतं नित्यम् अनित्यगतमनित्यम् ( प० श्लो० १५४ - १५५ ) । गुरुत्वं पतनानुमेयम् । अधोवच्छेदैन संयुक्तसमवायात् । अनुमानप्रयोगस्तु संयोगासमवधानकालीना गुणासमवायिकारणिका क्रियात्वात् संयोगजन्यक्रियावत इत्यनु इत्यनमनित गुरुत्वसिद्धि: ( दि० गु० पृ० २३२ ) । वल्लभाचार्यास्तु गुरुत्वं प्रत्यक्षम् ( स्पार्शनविषयः ) इत्याहुः ( प० मा० ) ( वै० उ० ४।१।१० ) । लीलावतीकारस्तु भस्मीभावदशायां गुरुत्वापकर्षदर्शनात्तदन्यथानुपपत्त्या गुरुत्वमपि पाकजं मेने । आचार्यास्तु कारणगुणपूर्वकमध्ये गुरुत्वे । पाकजत्वविशेषणमप्रवेशयन्तो गुरुत्वं पाकजं नेत्याविश्चक्रुः (प० मा० ) । सांख्यास्तु गुरुत्वं तमोगुणस्य धर्म इत्याहुः (वाच ० ) । अर्वाचीना हूण- विद्याविशारदास्तु पृथिव्यादिगताकर्षणशक्तिविशेषेणैव पतनस्योपपत्तावलं गुरुत्वेन इति मेनिरे । गुरुत्वं जलभूम्योः पतनकारणम् अप्रत्यक्षम् पतनकर्मानुमेयम् संयोगप्रयत्नसंस्कारविरोधि । तस्य चाबादिपरमाणु- रूपादिवन्नित्यानित्यत्वनिष्पत्तयः इति ( प्रशस्त० २ पृ० ५२ ) । अत्रेदं विज्ञेयम् । जन्यगुरुत्वमेव पतनं प्रति कारणम् इति कार्यकारणभाव- कल्पनात् आकाशादीनां गुरुत्वाभावो नैव । परमाण्वादीनां तु जन्य- गुरुत्वाभावेन पतनासंभवः । पार्थिवजलपरमाण्वोर्गुरुत्ववत्तया तस्य मालादि- देशसंयोगे पतनप्रतिबन्धकत्वाकल्पनेपि न परमाणुपतनापत्तिश्च इति (राम० १११ पृ० ५६) । गुरुत्वं स्पर्शविशेषः प्रत्यक्षसिद्ध इति बल्लभाचार्याः (नैयायिकविशेषाः ) आहुः । <गुरुधर्म:> [क] अव्यावर्तकपदार्थघटितो धर्मः । यथा प्रमेयघट इत्यादौ घटत्वमपेक्ष्य प्रमेयत्वविशिष्टं घटत्वं गुरुधर्मः । [ ख ] अवच्छेदकत्वाद्य- प्रयोजकपदार्थघटितो धर्मः । यथा पर्वतो वहिमानीलधूमादित्यादौ नीलघूमत्वं गुरुधर्मः । अत्र नीलधूमवं शुद्धधूमत्वमपेक्ष्य गुरुधर्म इति व्याप्यतावच्छेदकं न भवतीति विज्ञेयम् । यथा वा कम्बुप्रीवादिमान्ना- स्तीत्यादौ कम्बुग्रीवा दिमत्वं गुरुधर्मः । अत्र च न्यायः संभवति लघौ धर्मेवच्छेदकेतिप्रसङ्गानापादके गुरुधर्मो नावच्छेदकः इति । तेन च लघोर्घटत्वाभावी प्रतियोगितायामवच्छेदकत्वसंभवे कम्बुग्रीवा दिमत्त्वं गुरुतया नावच्छेदकम् इति बोध्यम् । [ग] बहुपदार्थोपस्थितिसापेक्षो धर्मः । यथा घूमत्वापेक्षया नीलधूमत्वं गुरुधर्मः इत्यादौ । <गुरुभम्> पुष्यनक्षत्रम् (पु० चि० पृ० ३५७) । <गुल्मः> अनतिदीर्घनिबिडलता मालत्यादिः ( मिताक्षरा २१ २२९ ) । <गोचरत्वम्> १ जन्यज्ञान विषयत्वम् । यथा घ्राणस्य गोचरो गन्धे गन्धत्वादिरपि स्मृतः ( भा०प० श्लो० ५४ ) इत्यादौ गन्धरूपरता । दीनां गोचरत्वम् । २ मायावादिनस्तु ज्ञानमात्रविषयत्वम् । यथा । अवाङ्मनसगोचरम् ( वेदान्तसा० ) इत्यादौ इत्याहुः ( वाच० ) । । ३ ग्रहाणां गतिविशेष इति ज्योतिर्विद आहुः । ४ सूर्यादिग्रहगमन • निमित्तशुभाशुभनिरूपणमिति मौहूर्तिका आहुः ( वाच० ) । <गोत्रम्> १ ऋषीणां वंशपरंपरा ( मिता० ११५३ ) ( धर्मसि० ) । वय / मम ( न्यायकोशकर्तुः ) शालङ्कायनगोत्रम् । गोत्रकाराश्च मुख्यत्वेनाथ । सुप्रसिद्धाः प्रवरमञ्जर्यामुक्ताः । यथाह बौधायनः विश्वामित्रो जमदि र्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः इति । तदर्थश्च सप्तानामृषीणामगस्त्याष्टमानां यदपत्यम् तद्द्वोत्रम् इति (निर्ण सि० परि० ३ पृ० २७ ) । २ पर्वतादिरिति काव्यज्ञा आहुः । <गौण:> १ गौण्या वृत्त्या प्रवृत्तः शब्दः । यथा ॐ गौणश्चेन्नात्मशब्दाव ( ब्रह्मसूत्र० १११।६) इत्यादौ । यथा वा बहूनि कीर्तितानि महर्षिभिः । गौणानि तत्र नामानि कर्मजानि च कानिचित ( भा० शान्ति० अ० ३४३ ) इत्यादौ । २ अमुख्यम् । यथा एव मागामियागीयमुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः व कर्मणः ॥ (छन्दोग० ) इत्यादौ । ३ अप्रधानम् । यथा गां दोन सर्वव्य पय इत्यादौ गौरप्रधानं कर्म । गौते पय इत्यत्राप्रधाने गोल कर्मणि लकारः । अत्रोक्तम् गौणे कर्मणि दह्यादेः प्रधाने नीकृष्णा इति । अधिकं तु अप्रधान कर्मत्वादिशब्दव्याख्यानावसरे संपादितम् / <गौणी> (लक्षणा ) [क] शक्यसदृशत्वप्रकारेण बोधकतया गश्र अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाम्यादिपदस्य गौणी वृत्तिः ( प्र० पृ० २९ ) । इयमेव गौणी वृत्तिः । यथा लक्ष्यमाणगुणैर्योगात तु गौणता ( तन्त्रवा० १/४/२२ पृ० ३१८ ) ( काव्यप्र० उ०२) इत्यादै॥ अत्रोक्तम् सादृश्यात्तु मता गौण्यस्ताश्च षोडश भेदिताः इति (सा० द०) ( वाच ० ) । शक्तिलक्षणाभ्यामतिरिक्तैव गौणी वृत्तिरिति मीमांसकाः। सा च तदतिरिक्ता नेति नैयायिका आहुः ( म० प्र० ४ पृ० ४१ ) । अन्यत्र तु विशेष उक्तः सादृश्येतरसंबन्धेपि वृत्तेर्गौणत्वमिच्छन्ति शास्त्रकृतः इति । [ख] शक्यपरंपरासंबन्धः ( म० प्र० ४ पृ० ४१ ) । [ग] लक्ष्योपस्थितिनियामकः सादृश्यात्मकः संबन्धः । यथा गौर्वाहीक इत्यादौ (वै० सा० द० ) ( त० प्र० ख० ४ पृ० ३६ ) । अत्रायमर्थः। वाहीको वाहीकदेशोद्भवः गौर्बलीवर्द इत्यर्थः । अत्र वाहीके गवाभेदस्य बाधाद्गोपदेन गोसदृशो लक्ष्यते । गोसादृश्यं च गोगतजाड्यमान्यादिक- मेव । तथाच जडो मन्दश्च वाहीकः इति शाब्दबोधः । एवं सिंहो माणवक इत्यत्रापि गौणी लक्षणा बोध्या (त० प्र० ख० ४ पृ० ३६) । गौरवम -१ आराध्यत्वावगाही ज्ञानभेदः । येयं भक्तिरित्युच्यते ( श० प्र० ०७२०९५)स्रं तु पन्ता गौणाति- द्रविडदेशीया वदन्ति । रिच्यते ( मनुस्मृति ० ) इत्यादौ । यथा वा प्रायश्चलं गौरवमाश्रितेषु ( कुमार० स० ३ श्लो० १ ) इत्यादौ । २ गुरुत्ववदस्यार्थोनुसंधेयः । ३ गौरवहेतुकमभ्युत्थानादिकं गौरवमिति काव्यज्ञाः पौराणिकाचाहुः । गौरी - तृतीया ( पु० चि० पृ० ८६ ) । यथा गौरी विनायकोपेता । ग्रन्थः - १ एकार्थको वाक्यसंदर्भः । यथा महाभारतरामायणादिः । चरम- वर्णपर्यन्तवर्णसमूहो ग्रन्थ इति केचिद्वदन्ति । शास्त्रम् इत्यन्ये । यथा ग्रन्थग्रन्थिरिह कचित्कचिदपि न्यासि प्रयत्नान्मया (नैष० ) प्रथग्रन्थि तदा चित्रं मुनिर्मूढं कुतूहलात् ( भा० आ० अ० १) इत्यादौ । ( वाच० ) । ३ वर्णविशेषाणां (अक्षरविशेषाणाम् ) ग्रन्थसंज्ञेति २ द्वात्रिंशद्वर्णमितानुष्टुपूछन्दस्कः श्लोको ग्रन्थ इति छन्दःशास्त्रज्ञा आहुः ग्रह - (धातुः ) १ ज्ञानम् । यथा शिष्यं वेदं ग्राहयतीत्यादौ धात्वर्थः । यथा वा गृह्णाति चक्षुः संबन्धादालोकोद्भूतरूपयोः (भा०प० लो० ५६) इत्यादौ । २ बुद्धिविशेषप्रयुक्तहस्तव्यापारः । यथा गृहाण शस्त्रं यदि सर्ग एष ते (रघु० ३/५१) तयोर्जगृहतुः पादान् राजा रानी च मागधी ( रघु० १९५७ ) दश ग्रहान् ( यज्ञपात्राणि ) गृह्णाति (श्रुतिः) हंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामा । दरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ( नैष० ३१४ ) इत्यादी ॥ ३ स्वीकारः । स च द्विविधः । स्वत्वापादनव्यापारः सेवनादिना आयत्तीकरणं च । तत्राद्यो यथा तत्र किंचिन्न गृह्णीयात् प्राणैः कण्ठगते- करपि ( प्रा० त० गङ्गामाहा० ) इत्यादौ । द्वितीयो यथा शरद्रौदें गृह्णीयात् गृह्णीयान्मार्गपौषयोः ( नीति० ) । <ग्रहः> सूर्योदयो नव ग्रहा इति ज्योतिर्विदो वदन्ति । बालारिष्टकाराः स्कद ग्रहादय इति पौराणिका भिषजश्चाहुः ( वाच० ) । ते च सुश्रुत यथा स्कन्दग्रह १ स्तु प्रथमः स्कन्दापस्मार २ एव च । शकुनी १ ४ चैव पूतना ५ चान्धपूतना ६ ॥ पूतना शीतनामा । मुखमण्डिका ८ । नवमो नैगमेयश्च ९ यः पितृग्रहसंज्ञितः ॥ इति । <ग्रामः> ब्राह्मणकर्षक पुरुषप्रधानो देशो ग्रामः ( कैयटः ७/३/१४/ अत्र महाभाष्यकाराः । ग्रामशब्दोयं बर्थः । अस्त्येव शालासमुद वर्तते । तद्यथा ग्रामो दग्ध इति । अस्ति वाटपरिक्षेपे वर्तते । ग्रामं प्रविष्ट इति । अस्ति मनुष्येषु वर्तते । तद्यथा ग्रामो गतो आम आगत इति । अस्ति सारण्यके ससीमके सस्थण्डिलके तद्यथा ग्रामो लब्ध इति ( महाभाष्यम् १।१।७ ) । वाटपारिक्षेपा वाटपरिक्षेपशब्दे द्रष्टव्यः । <ग्राह्यः> १ प्रतिबध्यज्ञाने प्रकारीभूतो धर्मः । यथा हृदो वह्निमान् इति झरे प्रकारभूतो वह्निर्ग्राह्यो भवति । तथाहि हृदो वह्नयभाववान् इति प्रतिबध्ये हृदो वह्निमान् इति ज्ञाने प्रकारो वह्निरस्तीति वह्निर्माहाः सु विज्ञेयम् । २ ग्रहणविषयः । यथा चक्षुर्मात्रग्राह्यो गुणो रूपम् इला रूपं ग्राह्यं भवति । ३ स्वीकार्यम् ( वस्तु ) इति काव्यज्ञा वदन्ति । <ग्लहः> परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युक्ते ( मिताक्षरा अ० २।१९९) । <घट> ( धातुः ) १ चेष्टा । यथा अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः (भट्टिः) । २ हिंसा। ३ युतिः । यथा कमलवनोद्घाटनम् । ४ शब्दकरणम् । यथा घण्टयति घण्टा निघण्टुः इत्यादौ ( वाच० ) । <घट:> १ कम्बुग्रीवादिमान् पृथुबुनोदराकृतियुक्तः पदार्थविशेषः । यथा घटं प्रति दण्ड: कारणम् इत्यादौ घटः । २ कुम्भकाख्यः प्राणायाम- विशेष इति तान्त्रिकाः । ३ द्रोणविंशतिपरिमाणम् इति शाब्दिका आहुः । ४ कुम्भराशिरिति मौहूर्तिकाः । ५ हस्तिकुम्भस्थल काव्यज्ञा आहुः ( वाच० ) । <घटकत्वम्> १ तद्विषयताव्यापक विषयतावत्वम् । स्वभिन्नत्वस्वव्यापकत्व- एतदुभयसंबन्धेन विषयताविशिष्टविषयतावत्त्वमित्यर्थः । यथा वह्नयभाव- ज्ञानीयविषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन वहेयभावघटक- त्वम् । २ अवच्छेदकत्वम् । यथा साध्याभावाधिकरणत्वं च साध्यवत्ता- ग्रहविरोधिताघटकसंबन्धेन विवक्षणीयम् साध्याभावप्रतियोगित्वं च साभ्यताघटकसंबन्धेन विवक्षणीयम् इत्यादौ घटकत्वम् । ३ योजकत्वम् इति तान्त्रिका आहुः । तद्भेदाचोक्ताः । धावको भावकश्चैव योजक- श्रांशकस्तथा । दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः ॥ इति । <घटितत्वम्> तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्नयभावविषयताय न्तराघटितत्वम् विशिष्टद्वयाघटितत्वम् प्रतियोगिवैयधिकरण्यघटितत्वम् वह्निविषयताव्याप्यत्वेन वह्नयभावस्य वह्निघटितत्वम् । यथा वा विशिष्टा- इत्यादौ घटितत्वम् । <घोषः> गोमहिष्यादियुक्तो देश: ( कैय० ७ । ३ । १४ ) । घ्रा - (धातुः ) [क] गन्धविषयकलौकिकप्रत्यक्षम् । यथा पुष्पं जिन- तीत्यादौ प्राधात्वर्थः । अत्र द्वितीयार्थ आधेयत्वम् । व्युत्पत्तिवैचित्र्येण तस्य प्राधात्वर्यैकदेशे गन्धेन्वयः । एवं च पुष्पवृत्तिगन्धलौकिक प्रत्यक्षा- ३५ न्या० को० श्रयतावान् इत्याकारकः शाब्दबोधः इति संक्षेपः ( ग० व्यु० का० २ पृ० ५१ ) । [ख] घ्राणजन्यप्रत्यक्षम् । यथा षाड़र्गिकं जिप्रति षडणेश: (भा० २१।३।६ ) इत्यादौ ( वाच० ) । <घ्राणम्> (इन्द्रियम् ) [क] गन्धोपलब्धिसाधनमिन्द्रियम् ( त० मा प्रमे० पृ० २६ ) । [ख ] गन्धग्राहकं महदिन्द्रियम् ( न्या० म० १ पृ० १४ ) ( त० सं० ) । [ग] चन्दने सौरभम् इति गन्धप्रत्यक्ष साधारण कारणम् । तच्च नासाग्रवृत्ति ( प्र० प्र० पृ० ११) (त० सं० /// पृ० १४ ) । घ्राणस्य पार्थिवत्वे प्रमाणं चानुमानम् । तच्चानुमान तच्च घ्राणेन्द्रियं पार्थिवम् ( त० मा० पृ० २६ ) ( न्या० म० १ । घ्राणं पार्थिवम् द्रव्यत्वे सति रूपादिपञ्चकमध्ये गन्धस्यैव व्यञ्जकला- द्वायूपनीतसुरभिभागवदिति कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् इति वा (मु०) पृ० ७२ ) ( प्र० प्र० ) । अथवा यदिन्द्रियं रूपादिपञ्चकमध्ये गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तम् । यथा चक्षू रूपग्राहकं रूपवत् // गन्धग्राहकं घ्राणमतो गन्धवत् इति ( त० मा० ० २६ ) / <च> <च> ( अव्ययम् ) १ पादपूरणोपयोगि । तस्य च निरर्थकतैव । तत्रो निरर्थकं चादि पादपूरणैकप्रयोजनम् (चन्द्रालोके । २ द्योतनम् । पक्षान्तरं चात्र पुनरर्थकम् । यथा मूर्खोपि शोभते त सभायां वस्त्रवेष्टितः । तावच्च शोभते मूर्खो यावत्किंचित्र भाषते ॥ ( हितो० ) इति । ३ अवधारणम् । ४ चार्थः समुच्चयादिः । विभागो ज्ञेयः । चार्थाश्चत्वारः १ समुच्चयः २ अन्वाचय: ३ इतरेता योगः ४ समाहारश्चेति । अत्र सूत्रम् चार्थ द्वन्द्व (पा० इति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्ष नेकस्यै कस्मिन्नन्वयः समुच्चयः । यथा अहरहर्नयति क्षिणश्च यम इत्यत्र । अन्यतरस्यानुषङ्गिकत्वेन्वाचयः / आनुषङ्गिकल नुद्देश्यत्वम् । अन्यतरस्य प्राधान्यं च तत्संबन्धिक्रियाया अवश्यककर्तव्यता रूपम् । तथा च समभिव्याहृतक्रियादिगतमानुषङ्गिकत्व व्याप्यत्व मन्वाचय- चकारार्थः ( वाच० ) । यथा भिक्षामट गां चानयेति । अत्र हि अदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनस्तु मिक्षां न गामानयति । तथा अटन्नपि नान्विष्य गामानयति ( शब्दकौ० २।२।२९ ) । मिलितानामन्वय इतरेतरयोगः । तथा च मिलितानाम् परस्परापेक्षाणा- मुद्भूतावयवभेदकसमूहरूपाणाम् अन्वयः एकधर्मावच्छिन्नेनान्वयः इति निष्कृष्टार्थः (वाच० ) । समूहः समाहारः । अत्र इतरेतरसमाहारयोरयं विशेषो ज्ञेयः । उद्भूतावयवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म एवेतरेतरयोगे प्रवृत्तिनिमित्तम् । समाहारे तु द्वित्वत्रित्वादिनैव भानात् समूहत्वमेव प्रवृत्तिनिमित्तम् । एवं च उभयत्रैव समूहस्य बोधः इति । अन्योपि विशेषः । इतरेतरयोगे साहित्यं विशेषणम् । द्रव्यं विशेष्यम् । समाहारे तु साहित्यं प्रधानम् । द्रव्यं विशेषणम् इति ( वाच० ) । ५ तुल्ययोगित्वम् । तथाहि तुल्ययोगितालंकारस्य चेन द्योतनात् तदर्थकता । यथा संकुचन्ति सरोजानि स्वैरिणीवदनानि च ( चन्द्रालोकः ) । एवम् दीपकालंकारद्योतकतापि । चकारद्वयप्रयोगे कचिदविलम्बयोगितायाः कचित् तुल्यप्रधानस्य चावबोधनम् । यथा इतीरिता पत्ररथेन तेन हीणा च हृष्टा च बभाण भैमी ( नैष० ) कला च सा कान्तिमती कलामृतस्त्वमस्य लोकस्य च नेत्रकौमुदी (कुमार०) इत्यादौ (वाच ० ) । ६ विनियोगः ( वाच० ) । <चक्रकम्> १ ( तर्क: ) [ क ] तदपेक्षापेक्ष्यपेक्षितत्वनिबन्धनोनिष्ट- प्रसङ्गः । इदं च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रिविधम् । तत्प्रपञ्चस्तु आत्माश्रयवदनुसंधेयः । अत्रेदं ज्ञेयम् । चतुष्कक्षादावपि स्वस्य स्वापेक्षा- पेक्ष्यपेक्षितत्वसत्त्वान्नाधिक्यम् ( गौ० वृ० ११ १/४०) । अपेक्षायाः साक्षात्परंपरा साधारण्या ग्राह्यत्वात् । [ख ] स्वापेक्षणीयापेक्षितसापेक्षत्व- निबन्धनः प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ( जाग० तर्क ० ) । तत्र ज्ञप्तौ यथा एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात् तदा एतद्धटज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात् इति । उत्पत्तौ यथा घटोयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्धटजन्यजन्यभिन्नः स्यात् इति । स्थितौ यथा घटोयं यद्येतद्धटवृत्तिवृत्तिवृत्तिः स्यात् तदा तथा- त्वेनोपलभ्येत इति ( वाच ०) । २ चक्राकारश्छन्दोविशेष इत छन्दोज्ञाः । ३ दद्रुरोग इति भिषज आहुः ( वाच० ) । <चक्रवृद्धिः> वृद्धेर्वृद्धिः । उत्तमर्णाय मूलादधिकं यद्रव्यमधमर्णेन दीवते । तद्वृद्धिशब्देनोच्यते । <चक्षुः> १ ( इन्द्रियम् ) [क] रूपोपलब्धिसाधन मिन्द्रियम् ( त० मा० प्रमेय० पृ० २६ ) । अत्रेदमवधेयम् । चक्षुषोधिष्ठातृदेवः सूर्यः । तत्र दिग्वार्क प्रचेतश्वि इत्यादि प्रमाणम् ( शा० ति० ) । चक्षुः सद्भावे प्रमाणमनुमानम् । तच्चानुमानम् रूपोपलब्धि: सकरणिका क्रियाला च्छिदिक्रियावत् इति । अनेनानुमानेन पक्षधर्मताबलाच्चक्षुः सिद्धिः । इयमेव रीतिघ्रणादावपि बोध्या ( म०प्र० १ पृ० १४ ) / चक्षुः तैजसम् ( न्या० म० १ पृ० १४ ) । चक्षुषस्तैजसत्वेनुमान प्रमाणम् । तच्चानुमानम् चक्षुस्तैजसम् स्पर्शाद्यव्यञ्जकत्वे सति परकप रूपव्यञ्जकत्वात्प्रदीपवत् । प्रभावत् इति वा (मु० ११० ( त० मा० पृ० २७) । चक्षुष्यनुद्भूतशुक्को गुणोस्ति । संख्या परिमार पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् जातिः समवायश्च एतानि योग्यव्यक्तिवृत्तीनि चक्षुर्ग्राह्याणि । तथा रूपम् उद्भूतरूपवद्द्रव्यं च चक्षुर्ग्राह्यम् (भा०प० श्लो० तच्चाप्राप्यप्रकाशकारि भवति इति विज्ञेयम् ( दि० १ तेजोनि० पृ०८०// तैजसं गोलकमेव चक्षुः इति बौद्धा आहुः । उच्छृङ्गलमते तु गोलक चक्षुः न तैजसम् । ख रूपग्राहकं महदिन्द्रियम् ( न्या० म० पृ० १४ ) ( त० मा० पृ० २६ ) । घ्राणादिवारणाय रूपमा हर इति विशेषणम् । मनोवारणाय महत् इति । आलोकादिवारणाय ३ इति ( म० प्र० १ पृ० १४ ) । [ग] घटे रक्तो वर्णः इति के प्रत्यक्षासाधारणं कारणम् । तच्च कृष्णताराग्रवर्ति ( प्र० प्र० पृ० ( त० सं० ) घ ] सर्वप्राणिनां रूपव्यञ्जकम् अन्यावयवानभिभूतै स्तेजोवयवैरारब्धं च चक्षुः ( प्रशस्त ० १ तेजोनि० पृ० ६) । २ तेजः । यथा सूर्यश्चक्षुषे ( ताण्ड्यब्रा० ) इत्यादौ (वाच० ) । <चण्डिका> ( कल्याणीशब्दे दृश्यम् ) । <चतुरशुकम्> ( जन्यद्रव्यस्यावयवः ) चतुर्भिरुयणुकैर्यदुत्पद्यते तत् ( त० दी० १ पृ० ९) । एवं पञ्चाणकाम् (त० कौ० १पृ० ३ ) । नव्या नास्तिकास्तु संयुक्ताणुचतुर्विंशतिकं चतुरणुकम् इत्याहुः ( प० मा० ) । <चतुर्थी> (विभक्तिः ) तत्तद्धात्वर्थे संप्रदानत्वादिबोधिका विभक्तिः (श० प्र० श्लो० ६५ पृ० ७५ ) । यथा विप्राय गां ददातीत्यादौ विप्रायेति चतुर्थी। चतुर्थ्यर्थश्च [१] संप्रदानम् । तच्च क्रियाकर्मीभूतवस्तुनिष्ठ- स्वत्वभागित्वेनोद्देश्यम् । यथा विप्राय गां ददाति राज्ञे दण्डं ददातीत्यादौ अत्र दानेन गोदण्डादौ यजमानस्वत्व- निवृत्तौ विप्रराजादेः स्वत्वोत्पादात् गोदण्ड निष्ठस्वस्वभागित्वेन विप्र- राजोद्देश्यकगोदण्डकर्मकदानकर्ता इति बोध: ( म० प्र० पृ० ६) । [२] उद्देश्यत्वम् । यथा एषोर्ध्यः शिवाय नमः इत्यादौ चतुर्थ्यर्थः (ग० व्यु० का० ४ पृ० ९९ ) । [३] तादध्येम् । यथा यूपाय दारु इत्यादौ चतुर्ध्यर्थः । अत्र तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थी । [४] संबन्धः । यथा नारदाय रोचते कलह वैश्याय शतं धारय- तीत्यादौ । नारदायेत्यत्र रुच्यर्थानां प्रीयमाणः (पा० १/४/३३ ) इति सूत्रेण संबन्धमात्रबोधिका चतुर्थी उपपदविभक्तिरेव ( म०प्र० पृ० ६ ) । वैश्यायेत्यत्र धारेरुत्तमर्णः (पा० १/४/३५) इति सूत्रेण संबन्धमात्रे चतुर्थी । विष्णवे नमः इत्यादौ च चतुर्थ्यर्थः संबन्धः । अत्र नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पा० २।३।१६ ) इति सूत्रेण विषयित्वम् । यथा पुष्पेभ्यः स्पृहयति पुत्राय क्रुद्ध्यतीत्यादौ चतुर्थ्यर्थः । संबन्धार्थ चतुर्थी उपपदविभक्तिरेव ( म० प्र० पृ० ६ ) । [५] पुष्पेभ्य इत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सितः (पा० सू० १/४ । ३६) इत्यनेन संप्रदानत्वाच्चतुर्थी । तदर्थो विषयित्वम् । तस्येच्छारूपक्रियाया- मन्वयः । पुत्रायेत्यत्र क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः (पा० सू० १ । ४ । ३७ ) इत्यनेन कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थो विषयित्वम्। तस्य कोपेन्वयः ( ग० व्यु० का० ४ पृ० ९६ ) । <चतुहूतः> पृथिवी होता इत्यादिको मन्त्रश्चतुर्होता । तस्य मन्त्रस्यामिमानि- त्वेनात्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्वारमामन्त्रितः प्रत्युत्तरमुवात स पुरुषश्चतुर्हतः । तदीयनाम्ना मन्त्रोपि चतुर्हतः (जै० न्या० अ० ३ पा० ७ अधि० ४ ) । <चमसः> पात्रविशेषस्थिताः सोमरसाश्चमसाः ( जै० न्या० अ० ३ पा० २ अधि० १२) । <चयनम्> [क] छिदाहेतुर्विघट्टनम् । यथा वृक्षं फलान्यव चिनोतीत्यत्र चिनोतेरर्थः । अत्र फलकर्मकच्छिदानुकूलं यत् वृक्षस्य विधानन् (चालनम् ) तद्वान् इत्येवं बोध: ( श० प्र० श्लो० ७३ पृ० ९९// [ख] शाब्दिकास्तु विभागपूर्वकमादानम् ।यथा वृक्षमवचिनोति फलानीत्यादौ चिनोरर्थः इत्याहुः । अत्र वृक्षात्फलमादत्ते इति बोधः ( ल० म० सुब० पृ० ९२ ) । <चरमत्वम्> १ स्वसजातीयपदार्थप्रागभावानधिकरणत्वम् । यथा तन्तु, पटस्य चरमावयवः इत्यादाववयवस्य चरमत्वम् । यथा वा क्रियतामेषा सूतानां चरमा क्रिया ( भा० वि० अ० २४ ) अब्रवीत्प्र थमं चैव चरमं चैव संविशेत् ( मनु० ) क्वचित्स्वेतरभावकारणानपेक्षकार्यकत्वम् । यथा अनुमितिं प्रतिप इत्यादौ चरमकारणम् इत्यादी कारणस्य चरमत्वम् इति गुरुचरणाः <चर्या> ( विधिः ) प्रधानभूतः साक्षाद्धर्म हेतुश्चर्या ( सर्व० सं० पृ० प्राहुः नकुली० ) । <चाकचक्यम्> भ्रमोत्पादको दोषविशेषः । यथा शुक्तौ चाकचक्र ( नील० प्रामा० प० ३७ ) । अत्र च शुक्तौ चाकचक्यदोषवशाल, इदं रजतम् इति ज्ञानमुत्पद्यते इति ध्येयम् । उज्ज्वलत्वमिति कश्चिदाह / तदाकारोन्तःकरणवृत्तिविशेष इति मायावादिन आहुः । अत्रोच्यते । न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका । किंतु विलक्षणैव । तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा चाकचक्याकारा च काचिदन्तः करणवृत्तिरुदेति इति चाकचक्यसंदर्शन- समुहुद्धरजतत्व संस्कारसध्रीचीना इति च ( वेदान्तप० ) ( वाच० ) । <चाकचिक्यम्> चाकचक्यशब्दवदस्यार्थोनुसंधेयः । <चाक्षुपम्> १ चक्षुर्जन्यं प्रत्यक्षम् । यथा द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः कारणम् इत्यादौ । २ चक्षुर्ग्राह्यम् । यथा रूपादि । <चारित्रम्> सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ( सर्व० सं० पृ० ६५ आर्ह० ) । <चार्वाकः> (नास्तिकः ) बृहस्पतिशिष्यो लोकायताख्यः । अत्र व्युत्पत्तिः । चारु: लोकसंमतः वाकः वाक्यम् यस्य सः इति द्रष्टव्या ( वाच० ) । चार्वाकश्च प्रत्यक्षैक प्रमाणवादी परमेश्वरस्वर्ग नरकपुण्यपापादिकंग- ॥ तन्मतं तु सर्वदर्शनसंग्रहादौ सायणादिना किंचित् किंचित् करोति प्रदर्शितम् । तस्मादेव तत् ज्ञातव्यम् । <चिकीर्षा> [क] कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा । यथा पार्क कृत्या साधयामि इत्याकारिकेच्छा ( चि० ४) (मु० गु० पृ० २२१ ) । यथा वा पाकः कृत्या साध्यताम् इत्याकारिकेच्छा ( वाच० ) । अत्रेदमवधेयम् । कृतिसाध्यताज्ञानम् इष्टसाधनताज्ञानं च चिकीर्षो प्रति कारणम् । कृतिरत्र प्रवृत्तिरूपा ग्राह्या । नातो जीवनयोनि- यत्नसाध्यस्वाभाविक प्राणवायुसंचारे चिकीर्षा ( म० प्र० ४ पृ० ६१) । विषसंपृक्तान्नभोजने न चिकीर्षा ( मु० गु० पृ० २२१ ) । अन्ये तु बलवद्विष्टसाधनताज्ञानं तु चिकीर्षायां प्रतिबन्धकम् इति । अतो मधु- बलवद्वेषः प्रतिबन्धकः इत्याहुः । केचित्तु बलवदनिष्टासाधनत्वज्ञानमपि ( मु० गु० ) । गुरवस्तु कृतिसाध्यताज्ञानमात्रं चिकीर्षां प्रति कारणम् इसाइ (मु० गु० पृ० २२२ ) । नव्याश्चापि चिकीर्षो प्रति कृति- साध्यताज्ञानमेव कारणम् इत्याहुः (न्या० म० ४ पृ० २७ ) । अप माशयः । इच्छायाः समानप्रकारकधीसाध्यत्वम् इति नियमात्कृतिसाध्यल- प्रकारकेच्छां प्रति कृतिसाध्यत्वप्रकारकज्ञानत्वेनैव हेतुत्वम् इति (त० प्र० ४ पृ० १०६) । [ख ] कृतिप्रकारकयत्किंचिद्विशेष्यकेच्छा! । यथा पाकं चिकीर्षति इत्यादौ कृतिप्रकारकपाकविशेष्यकेच्छा । सा च पाकं कृत्या साधयामि इतीच्छा । अत्रेदं बोध्यम् । पाकादेव कृति कर्मत्वमेव द्वितीयया प्रत्याय्यते । न तु इच्छाया विषयत्वरूपं कर्मत्वम्, इति (ग० व्यु० का० २ ख० २ पृ० ५९ ) । ग ] कृतिविशेष्य- केच्छा । सा च यथा पाककृतिर्भवतु इतीच्छेव ( ग० व्यु० का० १. ख० २ पृ० ५९)। [घ गुरवस्तु कृतिसाध्यत्वप्रकारकेच्छा (मु० गु० पृ० २२३ ) । अत्रोच्यते । कार्यत्वज्ञानं प्रवर्तकम् । ज्ञानस्य कृतौ जनयितव्यायां चिकीर्षातिरिक्तं न कर्तव्यमस्ति । कृति विलम्ब हेत्वन्तराभावात् । चिकीर्षा च स्वकृतिसाध्यताज्ञानसाध्या । इच्छाया: स्वप्रकारकधीसाध्यत्व नियमात् । अत एव स्वकृतिसाध्ये पाके प्रवर्तते । न त्विष्टसाधनताज्ञानसाध्या । स्वकृत्यसाध्ये चिकीर्षापत्तेः (चि० ४) (वाच० ) । <चित्> १ [ क ] चैतन्यवदस्यार्थोनुसंधेयः । [ख ] चिदिति प्र जीवः ( सर्व० सं० पृ० ९२ रामानु० ) । २ असाकल्यम् । इत्यादौ । ४ अग्निः इति च याज्ञिका आहुः । ५ अव्यक्तानुकरणम् / कच्चित् कथंचित् जातुचित् इत्यादौ । ३ चयनकर्ता । यथा अग्निविद यथा नहि करिणि दृष्टे चित्कारेण तमनुमिमतेनुमातारः (चि० । वाचस्पतिमिश्रः ) इत्यादौ इति काव्यज्ञा वदन्ति ( वाच० ) । <चितिः> लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टकाभिः पक्ष्या कारेण स्थानं निष्पाद्यते सेयं चितिः ( जै० न्या० अ० पा० अधि० ७) । <चित्तम्> प्रमाणमात्रव्यङ्ग्या विवेकप्रवृत्तिश्चित्तम् ( सर्व० सं० ५० १८८ नकुं० ) । <चिरनिर्मथितः> (अग्निः ) आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोग्निः (जै० न्या० अ० १ पा० ४ अधि० १०) । <चुश्रुषा> इक्षुदण्डभक्षणे तद्रसस्वीकारे च यः शब्दविशेषस्तस्यानुकरणं चुश्रुषा इति (जै० न्या० अ० १० पा० २ अधि० ३ ) । <चूडामणिः> रविग्रहः सूर्यवारे सोमे सोमग्रहस्तथा । चूडामणिरिति ख्यात स्तत्रानन्तफलं लभेत् ॥ ( पु० चि० पृ० ३४७) । <चेत्> (अव्ययम् ) [क] संभावनाविषयता । यथा सुवृष्टिश्चेदभविष्यत् ( शब्दार्थचि० ) । यथा सत्यं चेद्गुरुवाक्यमेव पितरो देवाश्च चेत् सुभिक्षमभविष्यत् इत्यादौ । [ख ] असंदेहेपि संदिग्धतया कथनम् योगिनी प्रीता चेत् परदेवता च यदि चेत् वेदाः प्रमाणं हि चेत् । शाक्तीयं यदि दर्शनं भवति चेदाज्ञाप्यमोघास्ति चेत् स्वातन्त्रा अपि <चेष्टा> (कर्म) [१] [क] ईप्सितं जिहासितं वा अर्थमधिकृत्येप्सा- कौलिकाच यदि चेत् स्यान्मे जयः सर्वदा ॥ (तम्) इत्यादौ (वाच० ) । जिहासा प्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा (वात्स्या० १।१।११) । यथा चेष्टेन्द्रियार्थाश्रयः शरीरम् ( गौ० १ । १ । ११ ) इत्यादौ । [ख ] प्रयत्नवदात्मसंयोगासमवायिकारणकक्रिया । [ग] स्वासमवेत स्वातिरिक्त स्पर्शवदन्य प्रयत्नजन्य क्रिया ( वै० उ० ५ । १ । १) । तल्लक्षणं च चेष्टात्व- मेव । तच्च प्रयत्नजन्यतावच्छेदको जातिविशेषः (गौ० वृ० १।१।११)। अत्रोच्यते आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः । कृतिजन्या भवेच्चेष्टा तज्जन्यैव क्रिया भवेत् ॥ इति (वै० वि० ५/११) । [घ] हिताहितप्राप्तिपरिहारार्थ: स्पन्दः ( न्या० वा० १/१/१९ पृ० ७१) । [ङ ] हिताहितप्राप्तिपरिहारार्था क्रिया ( त० भा० प्रमे० पृ० २५ ) । [[२] शब्दस्मारकः शब्दानुमापको वा हस्तादिक्रियाविशेषः ( अभि- नयः ) । यथा मूकस्य पद्यगानकर्त्या वा हस्तक्रिया । अत्रानुमानं च अयम् घटमानयेतिशब्द विषयकाभिप्रायवान् घटमानयेतिशब्दव्य- कचेष्टाकर्तृत्वात् यथा अहम् इति । अस्मादनुमानाद्धटमानयेति ३६ न्या० को० शब्दानुमितिः । ततोर्थप्रत्ययः इति बोध्यम् ( म० प्र० ४ पृ० ६६) । क्रियाविशेषे चोच्यते । बाह्यैर्विभावयेलिङ्गैर्भावैरन्तर्गतं स्वरवर्णे ङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥ नेत्रवत्र विकारैश्च गृह्यतेन्तर्गतं मनः ॥ ( मनु० ) इति । बायोस्तु । स्पर्शनं चेष्टा व्यूहनं रौक्ष्यमेव च इति याज्ञवल्क्येन तस्या वायुकार्यत्व- मुक्तम् ( वाच ० ) । चेष्टा च शब्दस्मारकतया शब्दानुमापकतया प्रमायामुपयोगिनी । तथाहि । इयं चेष्टा तावद्विविधा कृतसमया अकृत- । समया च । तत्र कृतसमया लिप्यादिवदभिप्रेतं शब्दमेव स्मारयति न । किंचित्प्रमापयतीति लिपिरिव सापि न प्रमाणम् । अयमर्थः । शङ्खध्वनी त्वया आगन्तव्यमिति शङ्खध्वनि श्रुत्वा आगच्छति । यदा मया त क्रियते तदा त्वयासौ ताडनीय इति तथाविधकरणे ताडयति । तथा च / अनया चेष्टया केवलं पदार्थाः स्मार्यन्ते न तु तेषां संसर्गोपि बोध्यते । स्मारयन्ती सती प्रयोज्यं प्रवर्तयति ( त० व० पृ० १००-१०१)। इति प्रमितिविरहान्न प्रमाणत्वमस्याः इति । अन्ये तु मानसं बोधमाई', ( त० व० पृ० १०१ ) । अकृतसमया तु चेष्टा प्रयोजकाभिप्राय / एवं च चेष्टा न प्रमाणान्तरम् इति नैयायिकाः ।तान्त्रिकास्तु चेष्टापि प्रमाणान्तरम् इत्याहु: ( म० प्र० ४ पृ० ६६ ) (सि० च० ) । <चैतन्यम्> [१] [क] ज्ञानवत्वम् ( दि० ११२ ) । यथा शरीरस्य न ज्ञानेच्छा यत्नवत्वम् ( ल० व० ) । यथा आत्मनश्चैतन्यम् । अत्र श्रुतिः चैतन्यं मृतेषु व्यभिचारतः ( भा०प० श्लो० ४९ ) इत्यादौ । [ख] चैतन्यमात्मनो विद्यात् इति ( वाच ० ) । [२] प्रतिबिम्ब: ( चिच्छाया ) चैतन्यम् इति सांख्या: । [३] बुद्धयादा त्रात्माध्यासात् ( चिच्छाया चित्प्रतिबिम्ब: ) चैतन्यमिति मायावादिनो वदन्ति । अत्रोच्यते चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञान किये जगत्कर्यो दृश्येते चेतनाश्रये ॥ इति ( वेदान्तका० ) ( वाच० ) / चैतन्यं दृक्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते चितौ सर्वतोमुखम् ॥ ( सर्व० सं० पृ० १८२ शैव० ) । <चोदना> १ [क] विधिवाक्यम् । चोदना चोपदेशश्च विधिश्चैकार्थ- बाचिनः इति ( भट्टका० ) । यथा ओदनकामः पचेत स्वर्गकामो यजेत इत्यादि वाक्यम् । [ख प्राभाकरास्तु प्रवर्तकं वेदवाक्यं चोदना । यथा चोदनालक्षणोर्थो धर्मः ( जै० सू० ११ १२ ) इत्यादौ ज्योति- टोमेन स्वर्गकामो यजेत इत्यादि वाक्यम् इत्याहु: ( लौ० भा० पृ० ३ ) । [ग] प्रवर्तकः शब्द चोदना ( जै० सू० वृ० अ० १ पा० १ सू० २ ) । घ कर्मोत्पत्तिवाक्यम् (जै० सू० वृ० अ० २ पा० २० १६) । भट्टास्तु ङ प्रेरणा फलभावना । यथा स्वर्गकामो यजेत इत्यादौ लिङा- प्रवृत्तिहेतुः । यथा ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ( गीता ) द्यर्थाभिधारूपा चोदना इत्याहुः ( वाच० ) । [च ] प्रवर्तना । [छ] इत्यादाविष्टसाधनत्वज्ञानम् इष्टसाधनं कर्म एतज्ज्ञानाश्रयश्चेति त्रिविधा चोदना भवति ( श्रीधरः ) । [ज ] अज्ञातार्थज्ञापकं शब्दमात्रम् ( रत्न- प्रभा० पृ० १२ ) । यथा चोदनाप्रवृत्तिभेदाच्च ( शारी० भा० ११ १२ १ १० २ ) इत्यादौ । २ चोदनाविषयो यागादिप्रयत्नः । यथा एक वा संयोगरूपचोदनाख्याविशेषात् ( जै० सू० २१४/९ ) ( रत्नप्रभा० ) । इत्यत्र पुरुषप्रयत्नश्चोद्यते ( शाबरभा० २।४।९ ) इति ( वाच० ) । नाम अपूर्वम् (जै० सू० वृ० अ० २ पा० १ सू० ५) । <चौर्यम्> परमात्रस्वत्ववद्रव्यहरणम् । यथा सा च द्रव्यवशा कुतस्तव धनम् चौर्यद्यूतपरिग्रहोपि भवतोष्टस्य कान्या गतिः शुक्कीकरोती- (उद्भट: ) इत्यादौ ( वाच० ) । अत्रोच्यते मनुना स्यात्साहसं त्वन्वय- ( मनु० अ० ८ श्लो० ३३२ ) इति । अत्र अपव्ययते इति पाठान्त- । नारदेनापि उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्यमाहुर्मनीषिणः ॥ इति ( वीरमित्रो० २ पृ० ४८९ ) । यादौ शौयादिः । तदर्थश्च अभूतस्य पूर्वकालावच्छेदेन शुक्लत्वादि- भावरहितस्य तद्भावः शौक्कयादिः । अथवा अभूतः पूर्वकालावच्छेदेन धर्मिण्य विद्यमानस्तद्भावः शौक्लयादिः इति । अत्र शौक्लयादिभावश्चित - प्रत्ययार्थः । तथा च प्रकृत्यर्थस्य शुक्लस्य पूर्वकालावच्छिन्नस्वनिष्ठा- व्यु० का० ४ पृ० १०२ - १०३) । अत्र स्वपदम् लक्षणया भावप्रतियोगित्वसहिताघेयत्वसंबन्धेन प्रत्ययार्थे शौक्लचे अन्वयः (70) शुक्लवर्णविशिष्टशुक्लरूपप्रकृत्यर्थपरम् । [ख ] शाब्दिकास्तु यत्र प्रकृति- रेव विकार सादृश्यमापद्यमाना विवक्ष्यते तत्र च्चिप्रत्ययः । यथा स भवन्ति ब्राह्मणाः वद्भवति देवदत्त इत्यादावपि इत्याहुः ( ल० म० ) । <छ> <छलम्> [क] वचनविघातोर्थविकल्पोपपत्त्या छलम् (गौ० १/२/१० ) । । छलं निरनुयोज्यानुयोगरूपे निग्रहस्थाने एवान्तर्भवति नातिरिक्तः पदार्थः । इति ज्ञेयम् ( गौ० वृ० १ । १ । १ ) । [ख] वक्तृतात्पर्याविषयार्थः । । संसर्गे वा विज्ञेयम् । यथाक्रममुदाहरणानि यथा नेपालादागतोय कल्पनेन दूषणाभिधानम् । अत्र तात्पर्याविषयत्वं च विशेष्ये विशेषणे नवकम्बलवत्त्वादित्यत्र नवसंख्या परत्वकल्पनया असिद्ध्यभिधानम् / प्रमेये धर्मत्वा दिव्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्यभिधानम् । वह्निमात् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् इति ( गौ० वृ० १।२।१० ) । [ग] अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तर प्रकल्प्य दूषणाभिधानम् ( त० मा० ५० ५० ) ( त० दौ० पृ० ४३ ) । यथा नवकम्बलोयं देवदत्तः इति वाक्ये नूतनाभिप्रायेण प्रयुक्तस्य शब्दस्य नवत्वसंख्याविशिष्टमर्थान्तरमाशङ्कयं कश्चिद्वषयति । नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि संभाव्य कुतो नव इति ( त० भा० पृ० ५० ) ( नील० पृ० ४३ ) / यथा वा नवपुत्रोयं देवदत्त इत्यत्र नूतनाभिप्रायेण प्रयुक्तनवशब्दस्य नव- नेन लब्धः कुतोस्य नवसंख्याकाः पुत्राः इति ( प्र० प्र० पृ० [घ ] शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुः ( सर्व० सं० पृ०, अक्ष० ) । छलं त्रिविधम् वाक्छलम् सामान्यच्छलम् उपचारच्छलं (गौ० ११२।११ ) । प्रकारान्तरेण छलं त्रिविधम् अभिधानतात्पर्यो पचारवृत्तिव्यत्यय मेदात् इति ( सर्व० सं० पृ० २४० अक्ष० ) । [ङ ] अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम् इति ( ता० र० लो० ९४ ) । <छिद्रम> गर्तवदस्यार्थोनुसंधेयः ( न्या० वा० १११।१४ पृ० ८१ ) । <छेदनम्> आरम्भकसंयोग विरोधिविभागावच्छिन्नक्रिया । यथा तृणं छिन- तीत्यादौ छिदेरर्थः । अत्र छिद्यर्थनिविष्टे च संयोगे विभागे वा स्वावयव- वृत्तित्वसंबन्धेन तृणादेरन्वयः ( श० प्र० श्लो० ७२ पृ० ९४ ) । यथा वा करपाददतो भङ्गे छेदने कर्णनासयोः ( याज्ञ० अ० २ लो० २२४ ) अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ( कुमार स० २ श्लो० ४१ ) इत्यादौ ( वाच० ) । <जगत्> १ स्थावरजङ्गमात्मकं सर्वपदार्थजातम् । यथा यच्च किंचिज्जगत्सर्वे दृश्यते श्रूयतेपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ( नारा० उप० ) यदा स देवो जागर्ति तदेदं चेष्टते जगत् ( मनुः अ० १ लो० ५२) जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ ( कुमार० स० २ लक्षणं च प्रमेयत्वम् अभिधेयत्वं वा । तच्चेश्वरीय प्रमाविषयत्वम् ईश्वरीया- श्लो०९) इत्यादौ चराचरं सत्यभूतं सर्वे विश्वं जगद्भवति । जगतो भिधाविषयत्वं च ग्राह्यम् । तेन जीवानामसर्वज्ञत्वेन ऐहिकामुष्मिक- निखिलपदार्थानामज्ञानेपि नाव्याप्तिः । २ वायुरिति पौराणिकाः । ३ लोक इति काव्यज्ञा वदन्ति ( वाच० ) । <जडत्वम्> कूटवत्त्वम् । तेन सुषुप्तिकाले ज्ञानादिसामान्याभावसत्त्वेपि अव्याप्यवृत्ति- ताकमेदस्य चात्मनि सत्त्वेपि न दोषः (ल० व० ) । यथा वृक्षपाषाणा- धर्मावच्छिन्न प्रतियोगिताकमेदस्या व्याप्यवृत्तित्वेन ज्ञानाद्यवच्छिन्न प्रतियोगि दीनां जड़त्वम् । २ वेदग्रहणासामर्थ्य जडत्वमिति धर्मज्ञाः । ३ मन्द- । बुद्धित्वमिति नीतिज्ञाः । ४ मूर्खत्वं चेति काव्यज्ञा आहुः । <जनकम्> [क] कारणबदस्यार्थोनुसंधेयः । कारणत्वं च द्विविधम् । स्वरूप । योग्यत्वम् फलोपहितत्वम् । आद्यं यथा घटं प्रत्यरण्यस्थस्यापि दण्डादे । र्जनकत्वम् । द्वितीयं यथा इच्छां प्रति ज्ञानस्य जनकत्वम् । स्वरूपयोग्यव मित्यत्र दण्डत्वादिः । फलोपहितत्वं चाव्यवहितपूर्ववृत्तित्व संबन्धेन फ च जनकतावच्छेदकधर्मवत्त्वम् । स च धर्मो घटं प्रति दण्डः कारण / विशिष्टत्वम् । [ख] उत्पत्तिप्रयोजकत्वम् । यथा जन्यानां जनकः कालः । ( भा० प० श्लो० ४६ ) इत्यादौ । <जननम्> १ उत्पत्तिवदस्यार्थोनुसंवेयः । २ जन्म । ३ आविर्भावः । यथा यदैव पूर्वे जनने शरीरम् ( कुमार० स० १ श्लो० ५३) इत्यादौ । ४ दीक्षितस्य यज्ञादिषु दीक्षादिसंस्कार विशेष इति याज्ञिकाः । श्रुतिः पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ये दीक्षयन्ति इत्यादिः (बाच० )॥ स्मृतिरपि मातुरधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षाप द्विजस्य श्रुतिचोदनात् ॥ (मनुः अ० २ ० १९६९) मातृकावर्णादुद्धारो जननं स्मृतम् ( सर्व० सं०) <जन्म> [क] शरीरेन्द्रियबुद्धीनां निकाय विशिष्टः प्रादुर्भावः (वात्स्या १ । १ । २ ) । अत्रोच्यते अण्डजोद्भिज्जसंस्वेदजरायुजमथापि वा / चतुरा जन्म इत्येतद्भूतग्रामस्य लक्षणम् ॥ (भा० आनु० अ० [ख] देहेन्द्रियमनोबुद्धिवेदनाभि: संबन्ध: ( वात्स्या० ०२२) इति । (वै० उ० ६ । २ । १५ ) । [ग] विशिष्टशरीरसंबन्धः ( गौ०० १।१।२ ) । [घ ] विजातीयशरीराद्यप्राणसंयोगः (गौ० १।१।१९ ) । शरीरप्राणसंयोग आद्यत्वं च स्वसजातीयशरीरवृत्तिप्राय संयोगध्वंसाधिकरणत्वम् ( राम० १ पृ० २० ) । [5] शरीरप्राणसंयोगः ( दि० १ पृ० २० ) । यथा अस्मदादीनां जन्म/ शरीर आद्यत्वं च स्वसजातीयशरीरध्वंसानधिकरणत्वम् / शरीरप्राण संयोगे त्वाद्यत्वमुक्तमेव । [च ] जातिविशिष्टाभिर्देहेन्द्रियमनोहंकार- बुद्धिवेदनाभिः पुरुषस्याभिसंबन्धः इति सांख्या आहुः (सांख्य० कौ० ) । [छ ] स्वादृष्टोपनिबद्धशरीरग्रहणमिति केचित् ( वाच० ) । [ज ] निकाय विशिष्टाभिः शरीरेन्द्रिय बुद्धिवेद नाभिः संबन्धो जन्म (न्या० वा० ) । <जन्यत्वम्> यदधीनो यस्य समयसंबन्धः यद्व्यतिरेक प्रयुक्तो यद्व्यतिरेकश्व तत्त्वम् ( मू० म० १ ) । यथा जन्यानां जनकः काल : (भा०प० श्लो० ४६ ) इत्यादौ घटपटादीनां मृत्तन्त्वादिजन्यत्वम् । अधिकं तु कार्यशब्दव्याख्यानावसरे संपादितं तत्र द्रष्टव्यम् । <जय:> १ ग्रहणावच्छिन्नपराभवः । यथा शत्रुं शतानि जयतीत्यत्र जयत्यर्थः । पराभवश्च तिरस्कारः । अत्र शतस्य ग्रहणानुकूलो यः शत्रुकर्मकः परा- भवः तत्कर्ता इत्येवं बोध: ( श० प्र० श्लो० ७३ पृ० ९८ ) । २ परा- पेक्षयोत्कर्षलाभः । ३ वशीकरणम् । यथा इन्द्रियजय इत्यादौ ( वाच० ) । <जयनम्> जयशब्दवदस्यार्थोनुसंधेयः । <जयन्ती> १ नन्दा मार्गशिरे शुक्ला सप्तम्यानन्ददायिनी । जयन्ती नाम २ श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप । रोहिणी यदि लभ्येत सा प्रोक्ता पुण्या पापहरा स्मृता ॥ ( पु० वि० पृ० १०४ ) । जयन्ती नाम सा तिथि: ॥ ( पु० चि० पृ० ११९ ) । <जयपत्रकम्> ( हुकुमनामा इति प्र० ) यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तर- क्रियम् । सावधारणकं चैव जयपत्रकमिष्यते ॥ ( मिताक्षरा अ० २ श्लो० ९१ ) । <जरायु:> [[क] गर्भवेष्टनचर्मपुटकम् ( दि० १ पृथिवी० पृ० ७०) । इत्यादौ । जरायुजभेदाच मनुना ( अ० १ श्लो० ४३ ) दर्शिता यथा यथा जरायुजं मानुषादीनां शरीरम् ( मु० १ पृथिवी० पृ० ७० ) पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनु- तलक्षणं तु या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते इति । जरायुजाः ॥ इति । तत्र व्यालाः सिंहाद्याः ( कुल्लू० ) । शुक्रशोणितयोर्योगस्तस्मिन्संजायते यतः । तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥ इति (देवीभाग० ) ( वाच० ) । [ख ] गर्भावरणवर्म (कुल्लूक० १।४३) । यथा जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते/ वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ ( सुश्रुत ० ) इत्यादौ । [ग या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ( देवी- भाग० ) । <जर्तिलाः> आरण्यास्तिला: ( जै० न्या० मा० १०/८ अधि० ४ ) । <जलम्> १आपः इत्यस्यार्थोनुसंधैयः । अत्रोच्यते अपां शैत्यंत केदो चतुर्थमापो विज्ञेयं जिह्वाध्यात्मं प्रचक्षते । अधिभूतं रसास्तत्र सोमस्त्रा द्रवत्वं स्नेहसौम्यता । जिह्वाभिष्यन्दनं चापि भौमानां स्रवणं तथा ॥ विदैवतम् ॥ ( भा० आश्व० ) इति । अपां परिणामछान्दोग्ये समा नायते । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तका भवति । यो मध्यमस्तल्लोहितम् । योणिष्ठः स प्राणः इति ( वाच० ) । अत्रेदं बोध्यम् । हिमकरकादीनां सांसिद्धिकद्रवत्वमस्त्येव । न तु ( सि० च० १ पृ० ७ ) । २ लग्नावधिकं चतुर्थस्थानमिति कार्ता कद्रवत्वम् । अदृष्टविशेषेण घनीभावात्सांसिद्धिकद्रवत्व प्रतिबन्धमात्रय न्तिका आहुः । ३ पूर्वाषाढा नक्षत्रमिति मौहूर्तिका आहुः । <जल्पः> ( कथा ) [क] यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपा लम्भो जल्पः ( गौ० १।२।२) । यथोक्तोपपन्न इति । प्रमाणतर्कसाधनो पालम्भ: सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिप्रहः । छलजातिनिग्रहस्थानसाधनोपालम्भ इति । छलजातिनिग्रहस्थान: । मुंपालम्भश्वास्मिन्क्रियत इति । एवं विशेषणो जल्पः (वात्स्या० १/२/२ // [ख उभयपक्षसाधनवती विजिगीषुकथा ( गौ० वृ० १/२/२/ ( त० मा० पृ० ४४ ) ( त० दी० पृ० ४३ ) ( सर्व० सं० २३९ अक्ष० ) । [ग स च छलादिसंपन्नो जल्पोस्य विजयः १ इति ( ता० र० श्लो० ७८) । जल्पश्च यथासंभवं सर्वनिग्रहाणाम धिकरणम् । परपक्षे दूषिते स्वपक्षस्थापनप्रयोगावसानश्च बोध्यम् (त० भा० पृ० ४४ ) । <जहत्वाथों> ( लक्षणा ) [ क ] यत्र वाच्यार्थस्यान्वयाभावस्तत्र जहती । यथा मञ्चाः क्रोशन्तीति ( त० दी० ४ पृ० ३०) । यथा वा आयु घृतम् इत्यादौ ( काव्यप्र० उ० २) । अत्र व्युत्पत्तिः जहत् स्वार्थो क्याम् इति ( वाच० ) । जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था (वै० सा० ) इति वा । अत्रायं नियमः । जहत्स्वार्थो च तत्रैव यत्र रूढिर्विरोधिनी इति (न्या० म० ख० ४ १० ११ ) । यत्र शक्या- न्वयबोधे । रूढि: प्रसिद्धिः समुदायशक्तिर्वा । विरोधिनी योगविरोधिनी । योग: संबन्धः । मञ्चाः क्रोशन्तीत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वया संभवान्मञ्चपदं मञ्चस्थ पुरुषे लाक्षणिकम् इति ( नील० ४ पृ० ३० ) । आयुर्घृतमित्यत्रायुः शब्देनायुः साधनस्य बोधनात्स्वार्थस्य शक्यार्थस्य आयु षस्त्यागाज्जहत्स्वार्थात्वमिति बोध्यम् । तथा चात्र आयुःसाधनं घृतम् [ख] लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोध लक्षणा (न्या० बो० ४ पृ०२०) । यथा गङ्गायां घोष इत्यादौ गङ्गा- पदस्य तीरे लक्षणा (मु० ४ पृ० १८० ) । ग शक्यावृत्तिरूपेण त्वम् ( श० प्र० ) । अत्रेदं बोध्यम् । गङ्गापदस्य शक्यार्थे प्रवाहरूपे बोधकतया जहत्स्वार्थत्युच्यते । यथा तीरत्वादिना गङ्गादिपदस्य बोधक- घोषस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसंधीयते तत्र लक्षण तीरस्य बोधः इति । अत्रायं विशेषः । गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदात्ती रोपस्थितिः स्मृतिः) । ततः शाब्दबोध: ( मु० ४ पृ० १८० ) ( न्या० बो० ४ ( तीर- पृ० २० ) । अन्ये त्वाहुः । यदा गङ्गापदात्तीरत्वेन तीरमात्रबोधस्तदा जहत्वाचैव लक्षणा । यदा तु गङ्गापदाद्गङ्गातीरत्वेन गङ्गातीरबोधस्तदा क्रोशन्ति इत्यादावपि बोध्यम् । तर्कप्रकाशेप्युक्तम् । गङ्गायां घोष इत्यादौ अजहस्वार्था लक्षणा इति ( दि० ४ पृ० १८० ) । एवमेव मञ्चाः तीरत्वेन बोधः तदा अजहत्स्वार्थेव इति ( त० प्र० ख० ४ पृ० ३९) । स्वार्थस्य प्रवाहस्य त्यागात् तीरे घोषः इत्येव बोधः । यदि च गङ्गा- शाब्दिकाच शक्यार्थपरित्यागेन इतरार्थलक्षणा जहत्स्वार्था । शक्यार्थ- घ ] स्वार्थपरित्यागेन परार्थलक्षणा ( त० प्र० ख० ४ पृ० ३९ ) । ३७ न्या० को० परित्यागश्च शक्यार्थस्य येन केनापि रूपेण लक्ष्यार्थान्वयिना अनन्वपि- त्वम् । गां बाहीकं पश्येत्यादौ गोपदस्य स गोस्तदन्वयिदर्शनक्रियान्वयित्वम् ( ल० म० ) । तेन गङ्गायां ६ इत्यत्र गङ्गातीरत्वेन बोधेपि जहत्स्वार्थैव लक्षणा न त्वजहत्स्वाति वदन्ति । मायावादिनस्तु शक्यार्थमनन्तर्भाव्य यत्रार्थान्तरस्य प्रतीति । तत्र जहलक्षणा । यथा विषं भुङ्क्त्यादौ । अत्र स्वार्थ विहाय शत्रुगृह भोजननिवृत्तिर्लक्ष्यते (वेदान्तप० ) । <जहदजहस्त्वार्था> ( लक्षणा ) [ क ] यत्र वाच्यैकदेशत्यागेक न्वयस्तत्र जहदजहती लक्षणा । यथा सोयं देवदत्त इत्यादी अमरा तत्त्वमसि श्वेतकेतो ( छान्दो० ६।८।७) इत्यादौ च ( त० पृ० ३० ) (नील० ४ पृ० ३०) । अत्र जहच्च अजहच्च याम् इति व्युत्पत्तिद्रष्टव्या ( वाच० ) । सोयं देवदत्त इत्यादौ तत्तांश दानीमसंभवाद्धानम् । इदंतांशस्य संभवादहानमिति जहदजहल्लक्षण तत्पदवाच्ये सर्वज्ञत्वादिविशिष्टे चैतन्ये त्वंपदवाच्यस्य किंचिज्ज्ञत्वान्तर माचक्षते नैयायिकाः ( नील० ४ पृ० ३०) । तत्त्वमसीत्यादौ तथा च तत्पदलक्ष्यस्य शुद्धचैतन्यस्य त्वंपदलक्ष्येण तेन सहाभेदान्वय करणादिविशिष्टस्यामेदान्वयानुपपत्त्या उभयत्र विशेषणांशपरित्याग:/ पपत्तिरित्यभिप्रायः । इदमुदाहरणं च जीवब्रह्मणोरैक्यं वादिनां सिद्धान्ताभिप्रायेणास्तीति विज्ञेयम् ( नील० ४ पृ० न्वयायोग्यत्वेपि विशेष्ये घटेन्वयः तथात्रापि विशिष्टयोरमेदान्वयात अत्र केचिदाहुः । यथा घटः अनित्य इत्यादावनित्यत्वस्य घटत्वादान स्वीक्रियते इति ( वेदान्तप० ) । [ ख ] वाच्यार्थैकदेश त्यागेनैक पपत्तावपि शक्त्युपस्थापितयोर्विशेष्यमात्रयोरमेदान्वयोपपत्तौ न वृत्तिलक्षणा ( वाच० ) । [ग मायावादिनस्तु यत्र विशिष्टवाच शब्द: एकदेशं विहायैकदेशे वर्तते तत्र जहदजहलक्षणेत्याहुः । हरणं तु काकेभ्यो दधि रक्ष्यतामित्यादिकमेव । तत्र शक्यकाकल परित्यागेनाशक्यदध्युपघातकत्व पुरस्कारेण काके अकाकेपि शब्दल वृत्तेः ( वेदान्तप० ) । केचिन्नैयायिकाश्च जहत्स्वार्थायामियं लक्षणान्त- र्भवतीति नातिरिक्तेयं जहदजहत्स्वार्था लक्षणाङ्गीकर्तव्या इति मन्यन्ते । <जहदजहल्लक्षणा> जहदजहत्स्वार्थावदस्यार्थोनुसंधेयः । <जहल्लक्षणा> जहत्स्वार्थावदस्यार्थोनुसंधेयः । अत्र व्युत्पत्तिः जहत् स्वार्थो याम् इति ( वाच० ) । उत्तरपदस्य स्वाथे इत्यस्य लोपः । <जागरणम्> यथार्थप्रत्ययप्रवाहः ( न्या० ली० गु० पृ० ३१ ) । <जाघनी> पशुपुच्छम् ( जै० सू० वृ० अ० ३ पा० ३ सू० २०) । <जाति:> १ ( सामान्यम् ) [क] समानप्रसवात्मिका जातिः ( गौ० (२१२/६८ ) । समानः समानाकारकः प्रसवो बुद्धिजननमात्मा स्वरूपं २१२/६८ ) । तल्लक्षणं च प्रकारतया शब्दशक्तिग्रहविषयत्वम् । शक्ति- द्धननयोग्यत्वमर्थः (गौ० दृ० संबन्न जातिपदवत्त्वम् इति नैयायिक सिद्धान्तः । अत्र जातौ व्यक्तौ वा विशिष्टे वा समुदाये वा शक्तिरित्यत्र प्राभाकरादीनां विप्रतिपत्तय- स्तावत् शक्तिशब्दव्याख्यानावसरे प्रदर्शयिष्यन्त इति तास्तत्रैवावलोक- जातिबाधकानि षट् सन्ति । तथा चोक्तमुदयनाचार्येण व्यक्ते- रभेदस्तुल्यत्वं संकरोथानवस्थितिः । रूपहानिरसंबन्धो जातिबाधक- ॥ इति ( द्रव्यकिर० ) । तदर्थश्च व्यक्तयभेदादिशब्देषु द्रष्टव्यः । [ग] समानाकारबुद्धिजननयोग्यधर्मविशेषः नित्यानेकसमवेतः इत्यपि (वात्स्या० २/२/६८) (वै० १ । २ । ३ ) ( वै० उ० १ । २।३ ) । वृ० २१२/६८ ) ( त० प्र० १ ) । यथा सामान्य- परिहीनास्तु सर्वे जात्यादयो मताः ( भा० प० श्लो० १५) इत्यादौ । यथा वा संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च । संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ( काव्यप्र० उ० २) असंपादयतः कंचिदर्थं गुणत्व कर्मत्वादितिः । [घ ] शाब्दिकास्तु अनुकरबुद्ध जातिक्रियागुणैः (माघ ० स० २ लो० ४७) इत्यादौ द्रव्यत्व- समर्थः अवयवव्यङ्ग्य: सकृदुपदेशव्यङ्ग्यश्च धर्मविशेषः इत्याहुः । अत्रोच्यते । आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् / सकृदा - ख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥ इति ( महाभा० ) । आकृतिग्रहणे त्यस्य अनुगतसंस्थानव्यङ्ग्येत्यर्थः । यथा मनुष्यत्वपशुत्व घटत्वादि जातिः । लिङ्गानां च न सर्वभाक् सकृदाख्यातनिर्ग्राह्येत्यस्य असत ङ्गत्वे सति एकस्यां व्यक्तौ कथना व्यत्त्यन्तरे कथनं विनापि सुग्रहेत्यर्थः । यथा ब्राह्मणत्वक्षत्रियत्वादिजातिः । तत्र ब्राह्मणा द्विविधाः गौडद्राविड भेदात् । सारस्वताः कान्यकुब्जाः गौडा उत्कला मैथिलाश्चेति प गौडा: । गुजेरा महाराष्ट्रीयाः कर्नाटकास्तैलंगाः केवलद्राविडा क्षेत पञ्च द्राविडाः । गोत्रं च चरणैः सहेत्यस्य अपत्यप्रत्ययार्थः शाखाध्येत रूपश्चैतार्थी जातिरित्यर्थः । यथा औपगवी कठी बहुची इति । [. संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां स नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ ( सर्व० सं० ५० ३०४ पाणि० ) । शुद्धसंकीर्णभेदेन प्रत्येकं द्विविधा ब्राह्मणत्वादिर्जातिरिति शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थे च धात्वर्थ च प्रचक्षते / सा मन्वादयः । आकृतिव्यङ्ग्यमेव सामान्यं जातिरिति प्राभाकराः / तन्मते गुणकर्मणोर्जातिर्नास्ति इति बोध्यम् ( वै० वि० १ १ २/३ ) / २२ इति काव्यज्ञाः । ३ मात्राकृतं छन्दो जातिरिति वृत्तशास्त्रज्ञाः । 'लीलावतीकाराः (वाच० ) । ५ जन्मेति धर्मज्ञाः । तत्रोक्तम् आचा दृष्टजातिशेषजातिविश्लेषजातिप्रभृतयः प्राचीनानामिष्टकर्मसंज्ञा भेदा: स्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा साजरामरा ॥ इति ( मनु० अ० २ श्लो० १४८) । ६ जातिवाचक शब्दो जातिरिति शाब्दिकाः । ७ स्थानं जाति: ( गौ० ११२११८ ) । तदर्थश्च व्याप्तिनिरपेक्षा साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिः । पेक्षतया दूषणाभिधानमित्येव वाच्यम् । तेन च संदर्भेण दू स्वव्याघातकत्वं वा दर्शितम् ( गौ० वृ० ११२।१८) । अत्र चिन्यते इयं च जातिर्हेत्वाभासदोषदेशनाभासा इति प्रतिभाति । इयं जातिनिरनु स्वभाव सा सत्या प्रत्यव व्यांप्तिनिद दूषणासमर्थल जायते सा जातिः । स च प्रसङ्ग साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानमु- ज्यानुयोगरूपे हेत्वाभासेन्तर्भवति इत्यन्ये । प्रयुक्ते हि हेतौ यः प्रसङ्गो पालम्भः प्रतिषेध इति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्यस्यो- दाहरणसाधर्म्येण प्रत्यवस्थानम् । उदाहरणवैधर्म्यात्साध्यसाधनं हेतुर त्यस्योदाहरणवैधर्म्येण प्रत्यवस्थानम् । प्रत्यनीकभावाज्जायमानोर्थो जाति- रिति ( वात्स्या० ११२।१८ ) । [ख छलादिभिन्नदूषणासमर्थमुत्त- रम् । [ग] स्वव्याघातकमुत्तरम् ( गौ० वृ० ११२११८ ) ( सर्व ० से० पृ० २४० अक्ष० ) ( नील० पृ० ४३ ) । घ ] असदुत्त रम् ( त० दी० पृ० ४३ ) ( त० भा० पृ० ५० ) । उत्तरस्यासखं तु खासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वम् ल० पू० ४३ ) । यथा पर्वतो वह्निमान् धूमान्महानसवदित्यत्र यद्ययं पर्वतो महानससाधर्म्याद्भूमवत्त्वाद्वह्निमान् तर्हि हृदसाधर्म्यात् द्रव्य- त्वत्त्वाद्वयभाववानेव किं न स्यात् इति ( प्र० प्र० पृ० २४ ) । ङ] मुत्तरम् ॥ ( ता० २० परि० २ श्लो० ९७ ) । जातयश्चतुर्विंशतिः । प्रयुक्त स्थापनाहेतौ दूषणाशक्तमुत्तरम् । जातिमाहुरथान्ये तु स्वव्याघातक- साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः वर्ण्यसमः अवर्ण्यसमः विकल्पसमः साध्यसमः प्राप्तिसमः अप्राप्तिसमः प्रसङ्गसमः प्रतिदृष्टान्तसमः शेषसम: उपपत्तिसमः उपलब्धिसम: अनुपलब्धिसमः नित्यसमः अनित्य- अनुत्पत्तिसमः संशयसमः प्रकरणसमः अहेतुसमः अर्थापत्तिसमः अवि- दी० पृ० ४३ - ४५ ) । अत्र अहेतुसम इत्यस्य स्थाने हेतुसम इति समः कार्यसमः इति (गौ० ५११११) (त० मा० पृ० ५०-५१ ) ( त ० केषुचिपुस्तकेषु दृश्यते स सूत्रेष्वनुपलम्भादपपाठः इति विज्ञेयम् । जातिबाधकम् - व्यत्तयमेदाद्यन्यतमम् । जातिबाधकानि तु षट् । व्यत्तय- भेद: तुल्यत्वम् संकरः अनवस्था रूपहानिः असंबन्धश्चेति ( द्रव्य- ( नील ० किर० ) । <जिज्ञासा> १ [क प्रश्नः ( ग० अवयव हेतु पृ० ६० ) । यथा लोके किं वह्निमत् इति प्रश्ने तद्गृहं वह्निमत् इत्युत्तरिते कुतः इति जिज्ञासायां धूमवत्त्वात् इत्युत्तरं च ( दीधि० हेतु० पृ० १७६) इत्यादौ । [ख ] अवान्तरधर्मप्रकारकज्ञानेच्छा । इयं च विशे षजिज्ञासेत्युच्यते ( ग० सव्य० ) । यथा घटे द्रव्यत्वेन ज्ञातेपि कोसौ इति विशेषतो जिज्ञासोदेति । [ग] विशेषज्ञानगोचरेच्छा । तब ज्ञानं स्वनिष्ठम् परनिष्ठं वा । तेन जल्पकथायां परं प्रति न प्रश्नानुपपत्तिः ( म० प्र० ३ पृ० ३४ ) । २ विचारः । यथा अथातो धर्मजिज्ञासा (जै० सू० १११११ ) ॐ अथातो ब्रह्मजिज्ञासा ॐ ( ब्र० स० १।१।१ ) इत्यादौ । यथा वा दुःखत्रयाभिघाताजिज्ञासा तदवघातके हेतौ ( सां० का ० ) इत्यादौ विचारो जिज्ञासापदार्थः । <जिन:> अर्हन्नामकस्तत्त्वज्ञानोपदेष्टा । यथा हस्तिना पीड्यमानोपन गच्छेज्जैनमन्दिरम् इत्यादौ जिन: ( वाच० ) । जिनलक्षणं तु दर्शनसंग्रहे उक्तम् । तद्यथा बलभोगोपभोगानामुभयोर्दानलाभयोः / अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम् ॥ हिंसा रत्यरती रागद्वेषा वविरतिः स्मरः। शोको मिथ्यात्वमेतेष्टादश दोषासः ॥ सम्यक्तत्त्वज्ञानोपदेशकः सर्व ० ) । तन्मतादिकं तु स्याद्वादादिकम् जीवस्य देहपरिमाणरूप त्वनिरूपणादिकं च सर्वदर्शनसंग्रहे आईतदर्शने अन्यजैनप्रन्थेषु <जीवः> १ ( आत्मा ) [क] यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा ( वै० उ० ३।११२ ) । जीवात्मैवायं क्षेत्रज्ञादिपदवेदनीयः (सि० च० १ आत्म० पृ० १२) । जीवलक्षणं च इच्छाद्वेष प्रयत्न सुरू ( त० दी० १ पृ० ११ ) इति वा । जन्यज्ञानाधिकरणत्वम् (सि० खदुःखादिकम् ( प्र० प्र० प्रमे० पृ० १० ) ( मु० १ ) । इति व० १ पृ० १२) इति वा । जीवसद्भावे प्रमाणं प्रत्यक्षमेव । अहं सुखी अहं दुःखी इत्यादिमानसप्रत्यक्षविषयत्वात् । विषयः इति वैशेषिका आहुः । अयमाशयः अहं सुखी इत्याद्या कारक योग्य विशेषगुण योगेनैवात्मनः ( जीवस्य ) प्रत्यक्षम् न तु केवलम् अहम् इत्याकारकम् इति ( त० व० प्रमाणपरि० ३ श्लो० ५१ ) ( मु० १ आत्म० पृ० १०७ ) (वै० ३।२।१८ ) ( भा०प० श्लो० ५० ) । जीवस्य प्रत्यक्षत्वे विप्रतिपत्तौ तु अनुमानमेव इन्द्रिया- निमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चा- थंमिन्नस्य जीवस्य सद्भावे प्रमाणम् । तत्र लिङ्गमुच्यते । प्राणापान- त्मनो लिङ्गानि (वै० ३।२।४ ) । सुषुप्तिदशायामपि प्राणापानयोरू- अर्ध्वाधोगत्योरनुकूलं प्रयत्नान्तरम् जीवनयोनिरूपम् अस्त्येव इति । उ० ३।२।४ ) । आत्मेन्द्रियार्थसंनिकर्षाद्यन्निष्पद्यते तदन्यत् ( वै० (३।१।१८ ) । इच्छा प्रणिधानम् प्राणापानौ निमेषादिः क्षतसंरोहणम् एवम् निमेषोन्मेषावपि शरीराधिष्ठातारमनुमापयतः इत्यादि ( वै० इत्यादीनि लिङ्गानि आत्मानम् ( जीवात्मानम् ) गमयन्ति ( त० व० प्रयोगस्तु रूपादिसाक्षात्कारो द्रव्याश्रितः गुणत्वाद्रूपवत् इत्यनुमानेने- यार्थप्रसिद्धिरिन्द्रियार्थेभ्योर्थान्तरस्य हेतुः (वै० ३।१।२ ) । अनुमा- तरबाधसहकृतेनात्मनः सिद्धि: ( वै० वि० ३।१।२ ) । प्रसिद्धिः कचि- दाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा । सा च प्रसिद्धिः करणजन्या क्रियात्वात् छिदिक्रियावत् । यच्च प्रसिद्धेः करणं तदि- न्द्रियम् । तच्च कर्तृप्रयोज्यम् करणत्वात् वास्यादिवत् । तथा यत्रेयं प्रसिद्धिराश्रिता यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा ( वै० उ० ३ । १ । २ ) । बुद्ध्यादयः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रिताः पृथि- व्याद्यष्टद्रव्यानाश्रितत्वे सति गुणत्वात् यस्तु पृथिव्याद्यष्टद्रव्यातिरिक्त- द्रव्याश्रितो न भवति नासौ पृथिव्याद्यष्टद्रव्यानाश्रितो गुणो भवति यथा रूपादि इति केवलव्यतिरेक्यनुमानम् ( त० भा० प्रमेय० पृ० २५ ) । [ख] इन्द्रियाद्यधिष्ठाता । इन्द्रियाणां शरीरस्य च परंपरया चैतन्य- संपादक इत्यर्थः (मु० १ आत्म० पृ० ९६ ) । तन्त्रान्तरे तु श्विवहीन्द्रोपेन्द्रमित्रकाः इति ( शारदाति ० ) । वैकारिका दिगाद्याश्व इन्द्रियाणामधिष्ठात्र्यो देवता उक्ताः । ता यथा दिग्वातार्कप्रचेतो- चन्द्रेणैकादश स्मृताः । इन्द्रियाणामधिष्ठातृदेवास्ते सात्त्विका मताः ॥ इति पदार्थादर्शे ( वाच० ) । [ग] बन्धमोक्षयोग्यः ( सि० च० १ पृ० १२ ) । [घ शरीरसापेक्षज्ञानवान् ( प्र० प्र० प्रमेय० १० १०) । [ङ अनित्यज्ञानवान् ( त० कौ० १ पृ० ३) । यया हन्ताहमिमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याज करवाणि (छा० ६।३।२ इत्यादौ ) । [च ] बादरायणाचार्यास्तु एवं लिङ्गं त्रिवृत् षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ( भाग ० ) इत्याहुः । छ मायावादिमते त्रयो हि जीवस्योपाधयः । तत्र सुषुप्तौ बुद्ध्या दिसंस्कारवासितमज्ञानमात्रम् स्वप्ने जाग्रद्वासनाम शरीर जावस्थायां सूक्ष्मशरीरसंसृष्टं स्थूलशरीरम् उप तत्तदुपाध्युपलक्षित जाग्रत्स्वप्नसुषुप्तयोप्युपाधिशब्देन व्यवहियन्ते (वाच०)/ तथा च तेषां मायावादिनां मते [ १ ] उपाधिप्रविष्टं वामनः प्राणकरण ग्रामानुप्रविष्टं ब्रह्म जीवः [२] घटावच्छिन्ना का शवच्छरीर त्रिता- अम्बम् [ 8 ] साभासाहंकारश्चित्प्रतिबिम्बम् [५] अन्तःकरणोपहित च्छिन्नं चैतन्यम् [३] दर्पणमुखप्रतिबिम्बवत् बुद्धिस्थं चैतन्यप्रतिनि चैतन्यम् [ ६ ] अज्ञानस्य व्यष्टिशक्तिभेदो जीवः स च परमात्मा श्वरः इति ( वेदा० प० ) । [ज अनेकान्तवादिनस्तु जीवास्तिका अभिन्नश्च इति बोध्यम् । अत्रोच्यते कार्योपाधिरयं जीवः कारणोपाधि यसंज्ञया परिभाषितः पदार्थविशेष इत्याहुः । [झ ] बोधात्मको जीव: ( सर्व० सं० पृ० ६७ आई० ) । न्यायवैशेषिकनये ज । सूत्रम् इन्द्रियासिद्धिन्द्रिया र्थान्तरस्य हेतुः (वै० ३।१।२ ) इति । तथा स जीव: प सकाशादतिरिक्तः । अत्र सूत्रम् शास्त्रसामर्थ्याच्च (वै० शास्त्रं च श्रुतिः द्वे ब्रह्मणी वेदितव्ये इत्यादि । तथा द्वा देहेन्द्रियार्थादिव्यतिरिक्तः ( प्र० प्र० प्रमे० पृ० १० ) ( मु० १ ) । इति सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं खाद्वत्त्यन न्योभिचाकशीति इति (वै० उ० ३।२।२१ ) । न श्वेतकेतो ब्रह्मविद्रह्मैव भवति इत्यादिश्रुतीनां का गतिरिति वाच्यम्/ तत्त्वमसि इति श्रुतेस्तदभेदेन तदीयत्वप्रतिपादनेनाभेदभावनापरत्वाव । ब्रह्मविद्रव इति श्रुतिश्च निर्दुः खत्वादिनेश्वरसाम्यं जीवस्याभिधत्ते न तु तदभेदम् इत्यादि ( वै० वि० ३।२।२१ ) । स च जीवः सुख- दुःखवैचित्र्यान्नानाभूत एव । तद्यथा कश्चिद्रङ्कः कश्चिदाढ्यः कश्चिद- न्यविधः पुनः । अनयैवात्मनानात्वं सिद्धयत्यत्र व्यवस्था ॥ ( त० व० आ० श्लो० ९० पृ० १५३ ) ( वै० ३।२।२० ) । तथा स जीवः प्रतिशरीरं भिन्नः । अत्र भोगवत्वे सति अनवच्छिन्नभोगवद्भिन्नो भिन्न- शब्दार्थ: । द्वितीयार्थोवच्छेद्यत्वं व्युत्पत्तिवैचित्र्यायोगे अनवच्छेद्यत्वे चान्वेति । शरीरपदं तु प्रयोज्यतासंबन्धेन तत्तन्मनोविशिष्टपरम् । तेन एकैकात्मनो जन्मभेदेनावस्थाभेदेन कायव्यूहस्थलेच शरीर न क्षतिः । एकस्यैव मनसः पूर्वपूर्वजन्मार्जितधर्माधर्मद्वारा सकलशरीर- प्रयोजकत्वात् । तथा च एकैकात्मा यत्किंचिन्मनोविशिष्टशरीराव- च्छिन्नभोगवत्वे सति तादृशशरीरानवच्छिन्नभोगवद्भिन्नः इति वा- क्यार्थ: ( वाक्य० १ पृ० ५ - ६ ) । अथवा एतच्छरीरावच्छिन्न- भोगवान् समानकालिकयोगजधर्माद्यजन्य शरीरावच्छिन्नभोगवद्भिन्नः इति ( नील० १ पृ० ११ ) । तथा स जीवात्मा सर्वत्र सर्वशरीरावयवेषु कार्यस्य ज्ञानादे: उपलम्भाद्विभुः । जीवस्याणुवाङ्गीकारे कायव्यूहस्थले योगिनः सुखादिसाक्षात्कारानुपपत्तिरतो विभुत्वमङ्गीकर्तव्यम् (नील १ पृ० ११ ) । विभुत्वान्नित्योसौ व्योमवत् ( त० भा० प्रमे० पृ० २५ ) ( वै० ३।२।५ ) । जीवस्यानित्यत्वाङ्गीकारे कृतस्य कर्मणो हाने: अकृतस्याभ्यागमस्य च प्रसङ्गः । अतस्तस्य नित्यत्वमङ्गी- कर्तव्यम् (त० दी० १ पृ० ११ ) । तथाच तर्कसंग्रहादावुक्तम् जीव: सुखदु: खवैचित्र्यान्नानाभूत एव प्रतिशरीरं भिन्नः विभुर्नित्यश्चेति ( त० सं० ) ( त० भा० पृ० २४ ) ( सि० च० १ पृ० १२ ) (बै० ३।२।५ ) ( प्र० प्र० प्रमे० पृ० १० ) । जीवो विभुः इति माणो नानाविधश्च जीव इति रामानुजीयमाध्वादयो वैष्णवाः । अत्र श्रुति: बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ इति । शङ्खस्मृतिरपि बालाप्रशतशो भाग: सांख्यनैयायिकवैशेषिकपातञ्जलमायावादिवेदान्तिन आहुः । अणु- ३८ न्या० को० कल्पितस्तु सहस्रघा । तस्यापि शतशो भागो जीवः सूक्ष्म उदाहृतः ॥ इति ( वाच० ) । मध्यमपरिमाणरूपो जीव इति माध्यमिकबौद्धाः । तत्रापि देहपरिमाणरूपो जीव इत्यार्हताः । अत्र जीवस्य विभुत्वं मत्व- माना नैयायिकाः समुत्तिष्ठन्ते । तथा हि जीवस्य परमाणुरूपत्वाङ्गीकारे जीवगतज्ञानादिप्रत्यक्षानुपपत्तिः । सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्ग योगिनो नानाशरीरावच्छेदेन सुखाद्यनुपलब्धिप्रसङ्गश्च । मध्यमपरिमाण- रूपत्वाङ्गीकारे च अनित्यत्वापत्त्या कृतहानाकृताभ्यागमयोः प्रसन इति जीवस्य विभुत्वमवश्यमङ्गीकर्तव्यमिति न्यायग्रन्थतात्पर्यम् ( स० च० १ पृ० १२) ( वाक्य० १ पृ० ५ ) ( नील० १ पृ० ११/ जीव एक एव न तु नाना इति मायावादिवेदान्त्येकदेशिन आई यावादिमते तु अन्तःकरणप्रतिबिम्बः स च जाग्रत्स्वप्नसुषुप्तिरूपावसा एतन्मते अविद्या प्रतिबिम्बो जीव इति मन्तव्यम् । अनेकजीववादिय त्रयवान् इति विवेकः ( वाच ० ) । वैशेषिक सिद्धान्ते जीवात्मनि च गुणा वर्तन्ते । ते च संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनाख्यसंस्कार ( त० मा० प्रमे० पृ० ३१ ) ( भा० प० श्लो० ३२-३३ // तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ता द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति / अत्रायं नियमः योग्यविभुविशेषगुणानां स्वद्वितीयक्षणोत्पन्नगुण न्ताश्च प्रत्यक्षसिद्धाः । तत्रात्मैकत्वपरिमाणे न प्रत्यक्षयोग्ये इति टीकाकून तु आत्मनो द्रव्यत्वेन सिद्धम् । आत्मैकत्वपरिमाणे बुद्ध्यादयः प्रया काव्यज्ञा वदन्ति ( वाच० ) । चतुदर्श जीवनम् - १ सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहि जीवत्वम् संसारित्वम् ( सर्व० सं० पृ० २०६ रसेश्व० ) । ( वात्स्या० ३।२।२७ ) । यथा शतं जीवन्तु शरदः ( ऋ०, १८।१ ) इत्यादौ संशय पुनरारुह्य यदि जीवति पश्यति (हितो इत्यादौ च ( वाच० ) । २ प्रणवान्तरितान्कृत्वा मन्नवर्णाजपेसु मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते ॥ ( सर्व० सं० पृ० ३६९ पातञ्ज ० ) । <जीवनयोनियत्तः> ( प्रयत्नः ) [क] साहजिक प्राणसंचार विषयकः ( दि० गु० ) । स च प्राणसंचार कारणम् यावज्जीवमनुवर्तते । स चाती- न्द्रियः शरीरे प्राणसंचारानुमेयश्च इति बोध्यम् ( वै० उ०५/२/१६ ) ( भा० प० श्लो० १५३ ) । तथाहि शरीरे अधिकश्वासादिः सुपुष्यवस्थायां जायमानस्यापि यत्नसाध्यत्वानुमानात् प्रत्यक्षप्रयत्नबाधा- प्राणसंचारो यत्नसाध्यतया दृष्टः । इत्थं च प्राणसंचारस्य सर्वस्य चातीन्द्रिययत्नसिद्धिः । स च प्राणसंचारहेतुत्वेनानुमीयमान एव जीव- नयोनियनः इति ज्ञेयम् ( मु० गु० पृ० २३१ ) । अयं भावः । दृष्टो त्कर्षः । इत्थं च एकत्र यत्नसाध्यत्वस्यानुभविकत्वेन तद्दृष्टान्तेन प्राणसं- धावतः पुरुषस्य प्रत्यक्षप्रयत्नोत्कर्षेणाधिकश्वासादिरूपप्राणसंचारो- चारत्यावच्छेदेन सर्वत्र भोक्तयत्नजन्यत्वानुमानम् इति ( दि० गु० पृ० २३२ ) । एतदुक्तं भवति । धावतः प्रयत्नोत्कर्षेण श्वासक्रियोत्कर्षदर्शनात् णभावः असति बाधके तत्सामान्ययोरपि इति न्यायाज्जीवनयोनियत्नसिद्धिः श्वासक्रियात्वावच्छिन्ने एव यत्नजन्यत्वनिश्चयः । यद्विशेषयोः कार्यकार- नाङ्गीचक्रुः । अयं भावः । प्राणक्रियाया अदृष्ट विशेष प्रयोज्यात्ममनोयोगरू- ४ पृ० ९७ ) । नव्यनैयायिकास्तु जीवनयोनियत ( त० प्र० ख० पाजीवनात् तत्प्रयोजकादृष्टाद्वा संभवात् उक्तानुमानस्याप्रयोजकत्वम् । अन्यथा एकत्र यत्ने ज्ञानजन्यत्वदृष्टान्तेन जन्ययत्नत्वावच्छेदेन ज्ञानज- न्यत्वकल्पनापत्त्या सुषुप्तौ ज्ञानादेरप्यतीन्द्रियस्य कल्पनापत्तिः । एवं [ख] जीवनादृष्टजन्यो गुणः ( सि० च० पृ० ३५ ) । [ग] च जीवनयोनियत्नस्वीकारे मानाभावः इति ( दि० गु० पृ० २३२ ) । श्वासप्रश्वासहेतुर्यत्नः ( त० कौ० गु० पृ० १९ ) ( सि० च० पृ० ३५ ) । सुषुप्तिदशायामपि आत्मनो येन प्रयत्नेन प्राणापानयोरू- अर्ध्वाधोगती भवतः स प्रयत्नो जीवनयोनिसंज्ञको भवतीत्यर्थः ( वै० उ० <जीवन्मुक्तिः> ( निःश्रेयसम् ) [ क ] योगजादृष्टजन्य तत्त्व साक्षात्कार ( न्या० सि० दी० पृ० २९ ) । इयं चापरनिःश्रेय समित्युच्यते । जीवन्मुक्तेरुपायास्तु श्रवणमनन निदिध्यासनतत्त्वज्ञानानियोगाभ्यासा दयश्च । तन्त्रोक्तकुलाचारा अपि तदुपायाः । यथोक्तम् जीवन्मुक्ता• बुपायस्तु कुलमार्गो हि नापरः इति ( तन्त्रम् ) ( वाच० नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्माणि शुकजनकादीनां जीवन्मुक्तिः । अत्र मायावादिन आहः । जीवन्मुको साक्षात्कृते अज्ञानकार्य संचित कर्मसंशयविपर्ययादीनामपि बाधित्व बन्धरहितो ब्रह्मनिष्ठः इति ( वेदान्तसा० ) । [ख] अवधारितात्मत- त्वस्य नैरन्तर्याभ्यासापहृत मिथ्याज्ञानस्य प्रारब्धं कर्मोपभुखानस्य ज सत एव जायमानश्चरमदुःखध्वंसः ( गौ० वृ० १/१/१ ) । जीवतः <जैमिनि:> सामवेदाध्ययनेन वेदव्यासशिष्य ऋषिविशेषः । अत्र अपने साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ( भाग ० अ० ६ श्लो० १८ ) इति । स च जैमिनि: अथातो धर्मजिज्ञासा ( सू० १११११ ) इत्यारभ्य अन्वाहार्ये च दर्शनात् ( जै० सू० ४।४६ ) एतत्पर्यन्तं द्वादशाध्यायात्मकं सूत्रबद्धं कर्मकाण्डाख्यं ध मांसादर्शनं प्रणिनाय । करणम् ( वाच० ) । <ज्ञप्तिः> १ ज्ञानम् । २ मारणम् । ३ तोषणम् । ४ स्तुतिः । ५ तीक्ष्णी ज्ञा-(धातुः ) [ क ज्ञानम् । यथा चैत्रो घटं जानाति चैत्रेण घटी जानातीत्यत्र प्राचीन मते द्वितीयार्थो विषयत्वम् । तत्र प्रकृत्यर्थस्य आधेयतासंबन्धेनान्वयः । तस्य द्वितीयार्थस्य विषयत्वस्य निरूपकत्व संबन्धेनान्वयः । नवीनमते तु विषयित्वं द्वितीयार्थः । माशय: । वृत्त्यनियामक संबन्धस्याभावप्रतियोगितानवच्छेदकतया ६ नाति पटं न इत्यादौ अन्वयस्य अनुपपत्तिः । अतोयमर्थः स्वीकार्य इति । तस्य च धात्वर्थज्ञान आश्रयता - ( स्वरूपाख्य-) संबन्धेनान्वय ( ग० व्यु० का० २ ख० १ पृ० ५१ ) । एवं च घटनिष्ठविषय- तानिरूपित विषयिताश्रयीभूतं यज्ज्ञानं तदाश्रयश्चैत्रः इति शाब्दबोधः । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्वमेव । विषयत्वादौ च द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदायिका आहुः । चैत्रेण घटो ज्ञायते इत्यत्र कर्माख्यातेन घटादौ धात्वर्थज्ञान निरूपितं विषयत्वं बोध्यते ( ग० व्यु० का० २ पृ० ५१ ) । तथा च चैत्रेणेति तृतीयाया अर्थः चैत्रान्वितं समवेतत्वम् । तस्य च धात्वर्थे ज्ञानेन्वयः । तस्य ज्ञानस्य चात्मनेपदार्थविषयत्वेन्वयः । तस्य तादृशविषयत्वस्य घटेन्वयः । एवं च चैत्रसमवेतज्ञानविषयो घटः इति शाब्दबोधः । [ख] शाब्दिकाश्च पतन्जलि प्रभृतयः ज्ञानानुकूलव्यापारः ज्ञाधात्वर्थः । ( उ० म० धात्वर्थ० पृ० ६ ) ० सा० ५० धात्व० पृ० ६३ ) । ॥ यथा देवदत्तो घटं जानातीत्यादौ जानात्यर्थः इत्याहुः ( वै० साo धात्व० पृ० ४६ ) । अत्र विषयतया ज्ञानं फलम् । आत्ममनः संयोगो व्यापारः । अत एव मनो जानाति इत्युपपद्यते ( ल० म० धात्वर्थ ० पृ० ६ ) । आत्ममनः संयोग इत्यत्रात्मान्तःकरणम् । मनोपि तद्वृत्ति- विशेषरूपम् ( ल० म० धात्वर्थ० पृ० ६ ) । अत्र देवदत्ता भिन्ना- श्रयको ज्ञानाद्यनुकूलो वर्तमानो व्यापारः इति बोध: ( वै० सा० णभङ्गादिफलानुकूलव्यापारः । यथा घटं जानातीत्यादौ धात्वर्थः इत्या- शशङ्किरे (वै० धात्वर्थ ० ० पृ० ६२ ) । अतीतानागतादिपरोक्ष- स्थलेपि ज्ञानजन्यस्य तादृशफलस्यावश्यकत्वम् । अत एव ज्ञादिधातोः सकर्मकत्वमुपपद्यते । ज्ञानस्यैव फलत्वाङ्गीकारे तदनाश्रयत्वाद्धटादेः कर्म- त्वानुपपत्तिः इति भावः (व० सा० धात्वर्थ० पृ० ६२ ) । सच व्यापारोर्थप्रकाशरूपः । अत्रेदं ज्ञेयम् । ज्ञाकृञादिधातुषु सकर्मकत्व- व्यवहारो भाक्त इति नैयायिकसिद्धान्तः ( वै० सा० धात्व० १०६० ) । <ज्ञातता> १ ज्ञानविषयता ( त० मा० प्रमाण० पृ० २२ ) । अत्रेदम- वधेयम् । ज्ञातता ज्ञानविषयत्वम् । तच्च स्वरूपसंबन्धरूपमेव । यथा ज्ञातो घटः इति प्रतीतिविषयो ज्ञाततेति नैयायिकाः प्राहुः । भट्टास्तु घंटादौ समवायेन वर्तमाना ज्ञानजन्या ज्ञाततेत्याहुः । अत्रेदं बोध्यम् । भट्टमते ज्ञातो घटः इति प्रतीतिं प्रति घटज्ञानं निमित्तकारणम् / घटादिकं समवा. करणम् । असमायिकारणं तु नापेक्षितम् । भावकार्य सासमवायिका. रणम् इति नियमस्य तु भट्टरनङ्गीकारात् इति ( त० प्र० ख०१ पृ० १२९ ) । यथा ज्ञातसारोपि खल्वेकः संदिग्धे कार्यवस्तुनि (माघ ० स० २ श्लो० १२ ) इत्यादौ सारस्य तत्त्वार्थस्य ज्ञातता । २२ मांसकास्तु ज्ञातः इति प्रतीतिसिद्धो ज्ञानजन्यो विषयसमवेतः परनामा अतिरिक्तपदार्थविशेष: ( मू० म० १ प्रामा० पृ० १२६// पृ० ३५ ) । ज्ञातताया ज्ञानजन्यत्वं चेत्थम् । घटादिविषये ज्ञाने जाते अथवा सविषयको ज्ञानजन्योतिरिक्त पदार्थः इत्याहुः ( नील० मारा: मया ज्ञातोयं घटः इति घटस्य ज्ञातत्वं प्रतिसंधीयते । तेन ज्ञाने जाते सति ज्ञातता नाम कश्चिद्धर्मो जातः इत्यनुमीयते । सा च ज्ञावा ज्ञानात्पूर्वमजातत्वात् ज्ञाने जाते च जातत्वादन्वयव्यतिरेकाभ्यां ज्ञा शक्यमनुभावयति सा शक्तिर्ज्ञाततेति केचिदाहुः ( चि० ) । जन्यते इत्यवधायते इति ( त० मा० प्रामा० पृ० २२ ) / १० <ज्ञानम्> १ बुद्धिवदस्यार्थोनुसंधेयः ( गौ० १/१/१५ ) ( वै० १ ) । २ बुद्धितत्त्वस्य महत्तत्त्वापरपर्यायस्य परिणामविशेषो इति सांख्या आहुः ( गौ० वृ० ११ १/१५ ) । अत्रायमर्थः / कारेण परिणताया बुद्धिवृत्तेश्चेतने प्रतिबिम्बना द्विषयप्रकाशरूपं ज्ञान तत्र पौरुषेयबोधे वृत्तिः करणम् वृत्तिरूपज्ञाने चेन्द्रियाि इति भेदः । ३ गुणपुरुषान्यताख्यातिरूपोध्यवसायो आहुः । ५ केचिद्वौद्धास्तु बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतया ज्ञानम् इत्यङ्गीचक्रुः । ६ मनोवृत्तिश्चैतन्यविशेषो मायावादिनः । मायावादिमते ज्ञानं द्विविधम् । वृत्तिरूपम् वृत्तिप्रतिबिम्बितचैतन्यरूपं चेति । तत्र प्रत्यक्षज्ञानमपि द्विविधम् मात्रद्योतकं निर्विकल्पकम् सविकल्पकं च । तत्र सविकल्पकं संज्ञा- दिद्योतकत्वादनेकधा । तथा हि संकल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः । ऊहोनध्यवसायश्च तथान्येनुभवा अपि ॥ इत्यादि ( वाच० ) । वैशेषि कमतेपि ज्ञानं द्विविधम् । विद्या अविद्या च । तत्र विद्या चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्या लक्षणा । अविद्यापि चतुर्विधा संशयविपर्यय- स्वप्मानध्यवसायलक्षणा इति ( वै० उ० ८।१।२ ) । ७ ध्यानोपास- नादिशब्दवाच्यं वेदनं ज्ञानम् ( सर्व० सं० पृ० १२१ रामानु० ) । <ज्ञानलक्षण:> ( संनिकर्षः ) स्वविषयविषयकप्रत्यक्षजनको ज्ञानविशेषः ( स्मरणम्) । यथा सुरभित्वज्ञानम् ( भा० प० १ श्लो० ६६ ) (मु० १ पृ० १३१ ) ( त० व० ) । अत्रेदमवधेयम् । अयं संनिकर्षः स्मॄत्यात्मकः अलौकिक प्रत्यक्षे कारणं भवति । ज्ञानलक्षण- न्यथा (ज्ञानलक्षणसंनिकर्षास्वीकारे ) कविकाव्यमूलभूततत्तत्पदार्थसं- संनिकर्षण तद्विषयीभूततत्तत्पदार्थानां प्रत्यक्षं मनसा जन्यते । कथम- सर्गज्ञानम् ( त० कौ० १ पृ० ९ ) । किंच ज्ञानलक्षणसंनिकर्षा- स्वीकारे यत्र सौरभत्वजात्युपस्थित्यनन्तरं सुरभिर्गन्धः इत् चन्दनम् इत्याकारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषम् तत्र सौरभत्वजातेभनं न स्यात् । नहि तत्र सुरभिगन्धस्य भानसंभवः । येन सुरभिगन्धभासनेन सामान्यलक्षणायास्तद्धर्मप्रकारकतदाश्रयप्रत्यक्षं प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्यतावच्छेदकतयैव सौरभत्वजा- तेर्भानं भविष्यति इति संभावनीयम् ( जग० ) ( वाच० ) । तादृशं स्मरणं च यद्विषयकम् तद्विषयकसाक्षात्कारजनिका प्रत्यासत्तिः । सुरभि ( म० प्र० १ पृ० २२ ) । अयं च यद्विषयकं ज्ञानं जननीयम् चन्दनम् इति चाक्षुषे सौरभस्य सौरभत्वस्य वा भानं ज्ञानप्रत्यासत्यैव भानमिति ( दीधि ० ) । ज्ञानलक्षणसंनिकर्षेण ( स्मरणेन ) पूर्वज्ञातव- स्तुनः अलौकिक प्रत्यक्षं जन्यते । यथा सुरभि चन्दनम् इति चाक्षुषे चन्दनस्य चक्षुर्ग्राह्यत्वेपि सौरभस्य तदग्राह्यत्वात् पूर्वज्ञातस्य सौरभस्या- लौकिकं प्रत्यक्षं जन्यते । तथा च सुरभि चन्दनमित्यत्र सौरभांशे अज किकत्वम् चन्दनांशे लौकिकत्वम् इति ( वाच ० ) । अत्र च सुर त्वज्ञानं ( स्मरणम् ) तु सुरभि चन्दनम् इति चाक्षुषोपनीतभानं जनपद तीति विज्ञेयम् । यत्र सौरभज्ञानलक्षणया चाक्षुषसामग्र्या च सुरभि चन्दनखण्डम् इति सौरभांशे अलौकिकम् चन्दनखण्डांशे लौकिकं चातु जायते तत्र सौरभज्ञाने सौरभप्रत्यक्षे जननीये सौरभस्मरणमेव प्रत्यासत्तिः । सौरभांशे चक्षुः संनिकर्षासंभवात् ( सि० च० १ पृ० २३ ) / स कत्वात् इति ( त० कौ० १ पृ० ९) । एवम् रजसर्पादियो भस्य चक्षुरयोग्यत्वेन चक्षुःसंयुक्तचन्दनसमवायस्य तत्र सत्त्वेप्यप्रयोज सर्प त्वाद्युपस्थितिर्ज्ञानलक्षणसंनिकर्षादेव भवति । यतः सर्पत्वादौ चतु संनिकर्षाभावादिति ( त० व० ) । एवं यत्र घूमत्वेन धूलीपटलं ज्ञा तत्र धूलीपटलस्यानुव्यवसाये भानं ज्ञानलक्षणया भवति । अयं च शार लक्षणः संनिकर्षः षडिन्द्रियसहकारी इति संप्रदायविद आहुः । एव सहकारी इति शूलपाणिमिश्रा अमन्यन्त ( त० कौ० १५० ९// ज्ञानाध्यासः - प्रमाणदोषसंस्कार जन्मान्यस्य परात्मता / तद्धीभाष इति हि द्वयमिष्टं मनीषिभिः ( सर्व० सं० पृ० ४२० शां० ) । ज्ञानेन्द्रियम् – ( इन्द्रियम् ) ज्ञानजनक मिन्द्रियम् । ज्ञानेन्द्रियाणि पर श्रोत्रम् त्वक् चक्षुः रसनम् घ्राणम् मनश्चेति । एतानि मनोव्यतिरिक्षा बहिरिन्द्रियाणि । मनस्तु अन्तरिन्द्रियम् । दिग्वातार्कप्रचेतोश्विनो बार रिन्द्रियाणां देवता ज्ञेयाः । तद्विषयाश्च शब्दस्पर्शरूपरसगन्धा: ३ अन्तरिन्द्रियस्य मनसः विषयस्तु सुखादिकम् चन्द्रमा देवता ज्ञेयम् । अत्रेदमवधेयम् नैयायिकमते ज्ञानेन्द्रियातिरिक्तानामिन्द्रिय नास्त्येव इति । अधिकं तु इन्द्रियशब्दव्याख्यानावसरे संपादित नात्र तनिरूप्यते । <ज्ञापकलम्> १ जनकज्ञानविषयत्वम् । यथा पर्वतो वह्निमान् घूमादिल धूमस्य ज्ञापकत्वम् (ग० अव० हेतु० ) । अत्र ज्ञापकत्वं च १ शयप्रकारत्व विशेष्यत्वैतदन्यतरवत्त्वमिति केचिद्वदन्ति । २ ज्ञानजनकत्वम् । यथा श्रुतिः स्मृतिः सदाचार: स्वस्य च प्रियमात्मनः । सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ( याज्ञ० १७) इत्यादौ श्रुत्यादेर्धर्मज्ञापकत्वम् इत्याहुः । <ज्ञापनम्> [क ज्ञानानुकूलशब्दः । [ख ज्ञानानुकूलव्यापारः । यथा चैत्रः स्ववृत्तान्तं मैत्रं ज्ञापयतीत्यादौ । [ग] शाब्दिकास्तु ज्ञानानुकूल व्यापारानुकूलव्यापारः इत्याहुः । <ज्ञाप्यलम्> १ जन्यज्ञान विषयत्वम् । यथा धूमाद्वह्निमानित्यादौ वह्नयन्वय ज्ञाप्यत्वं पञ्चम्यर्थः ( ग० अव० हेतु० ) । अयमर्थो नवीनमतानुसा रेण । प्राचीनमते तु ज्ञापकत्वमेव पञ्चम्यर्थः इति बोध्यम् । २ ज्ञानज न्यत्वमिति केचिद्वदन्ति । <ज्ञेयलम्> [क] ज्ञानविषयत्वम् (मु० १ साधर्म्य० पृ० ४५ ) । यथा भूतलं घटवत् इति चाक्षुषप्रत्यक्षे घटस्य ज्ञेयत्वम् । यथा वा ज्ञेयं यत्त- गम्यं हृदि सर्वस्य धिष्ठितम् ( गीता ० १३।१७ ) इत्यादौ । [ख ] प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ( गीता १३।१२ ) ज्ञानं ज्ञेयं ज्ञान- भगवज्ज्ञान विषयत्वम् ( न्या० म० २ पृ० १९ ) ( त० दी० २ पृ० २३ ) । यथा घटपटादे: सर्वस्य जगतो ज्ञेयत्वम् । तच्च केवला- न्वयि (मु० ९ साधर्म्य० पृ० ४५) । यथा वा इदं वाच्यं ज्ञेयत्वा- दित्यादौ ( मु० २ ) । <ज्येष्ठत्वम्> १ कालकृतः परत्वविशेषः ( सि० च० पृ० १८ ) । यथा नव्या आडु: ( दि० गु० पृ० २०९) । कालकृतो विप्रकर्ष इत्यर्थः । रामस्य लक्ष्मणमपेक्ष्य ज्येष्ठत्वम् । २ बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् इति नव्यमते परत्वस्य गुणान्तरत्वं नास्ति इति भावः । ३ स्मार्तास्तु उत्कर्षः श्रेष्ठत्वं वा । यथा विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीयेतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ( मनुः २/१५५ ) इत्यादौ ज्येष्ठत्वम् इत्याहुः । <ज्योतिर्मन्त्र:> तारव्योमाग्निमनुयुग्ज्योतिर्मन्त्र उदाहृतः ( सर्वे० सं० पृ० ३७० पात ० ) । ३९ न्या० को० ज्वाला— दर्भपिञ्जलै: प्रज्वालनम् ( जै० न्या० अ० १० पा० १ अधि० ११ ) । <ट> <टिप्पनी> १ टीकायाष्टीका । सा च टीकाव्याख्यारूपतयैव व्यवयिते । यथा चिन्तामणिटीकाया दीधिव्याख्यव्याख्यायाष्टीका जगदीशकृता जग दीशी गदाधरकृता गदाधरी च टिप्पनी । यथा वा ब्रह्मसूत्राणां भाष्यत्य व्याख्या तत्त्वप्रकाशिकाख्या जयतीर्थभिक्षुकृता पाणिनिसूत्राणां भाष्यस्य व्याख्या कैयटकृता इत्यादि । २ प्रथमव्याख्यापि टिप्पनीय च्यते । यथा श्रीमतङ्गाननं नत्वा लीलावत्याः सुटिप्पनी । भवेशेन सुबोधार्य <टीका> मूलग्रन्थस्य अप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तिनिवारणेन क्रियते यद्गुरोः श्रुतम् ॥ टिप्पनी दायभागस्य श्री नाथेन विधीयते इत्यादी रभिप्रेतार्थस्य शब्दान्तरेण विवरणम् । यथा श्रीमद्भागवतस्य ट विजयध्वजी । <ढ> <ढुण्ढा> दुण्ढा नामेति विख्याता राक्षसी मालिनः सुता । तथा चाराधित शंभुरुण तपसा पुरा ॥ ( पु० चि० पृ० ३०८ ) । <ण> <णिः> (धात्वंशः प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययो बोध्यः (श० प्र० १०७ पृ० १६९) । अनुकूलव्यापार व्यापारमात्रं वा णेरर्थः । चैत्रं भावयति आत्मानं गमयतीत्यादौ ण्यर्थः (श० प्र० श्लो० १०० हेतुकर्तृत्वम् । हेतुमति च ( पा० सू० ३/१/२६ ) इति पाणित्य नुशासनात् । तच्च स्वतन्त्रकर्तृप्रेरणा अन्यनिष्टकर्तत्व निर्वाहकव्यापार रूपा इत्याहुः । अत्र कर्तृत्वं कचित्प्रयत्नः । कचिदाश्रयत्वादिकर / यादृशधातूत्तराख्यातेन यादृशकर्तृत्वं बोध्यते तदुत्तरणिचूप्रत्ययेन त कर्तृत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादौ । प्राकादिक- तिनिर्वाहकः ज्ञापयतीत्यादौ ज्ञानाश्रयत्व निर्वाहकः नाशयतीत्यादौ नाश- प्रतियोगित्वनिर्वाहकः व्यापारः प्रतीयते । अत्र सर्वत्र निर्वाहकत्वं च स्वरू एवं च ण्यन्तसमुदायस्यापि धातुत्वेन ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं पसंबन्ध विशेषः न तु जनकत्वम् । अतो न नाशयतीत्यादावनुपपत्तिः । कर्तृत्वमेव । निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता । तादृशफल विशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायम् इत्यादयः प्रयोगा अपि साधव एव । अत एव अजिग्रहत्तं जनको धनुस्तत् इत्यादयो भट्टिप्रयोगाः । यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विव- व्यु० का० २ पृ० ४७) । कचित् ज्ञानानुकूलव्यापारोपि ण्यर्थः । क्षितम् तदा पाचयत्योदनं सहायेन इत्यादयः प्रयोगाः इति विवेकः ( ग० यथा कथकः कंसं घातयतीत्यादावभिनयादिरूपः । अत्र कंसकर्मक- स्वरूपं प्यर्थः । यथा चोरयति चिन्तयति इत्यादौ प्यर्थः स्वरूपमेव । बधमाचष्टे इति बोध: ( ग० व्यु० का० २ पृ० ६२ ) । कचित् अत्र चुरादिभ्यः स्वार्थिकस्य णे: स्वरूपमर्थः । तेन चोरयति चिन्तयती- त्यादौ स्तेयादिस्वरूपस्यानुकूलकृतिमान् इत्यादिरर्थ: ( श० प्र० श्लो० <णी> (धातुः ) १ नयनवदस्यार्थोनुसंधेयः । २ संमाननम् । ३ ज्ञानम् १०७ पृ० १६९ ) । निश्चयो वा ( वाच० ) । तटस्थ वादि प्रतिवादिभावानापन्न उदासीनः । यथा तटस्थः शङ्कते इत्यादौ । <तटस्थलक्षणम्> यावलक्ष्यकालमनवस्थायित्वे सति यध्यावर्तकं तत् । यथा पृथिव्या गन्धवचं तटस्थं लक्षणं भवति । अत्र महाप्रलये परमाणुषु दिमते ब्रह्मणो जगज्जन्मादिकारणत्वं लक्षणम् । अत्रेदं बोध्यम् । लक्षणं उत्पत्तिकाले घटादिषु च गन्धाभावात्तथात्वं युज्यते । यथा वा मायावा- द्विविधम् । स्वरूपलक्षणं तटस्थलक्षणं च । तत्राद्यम् सत्यं ज्ञानमनन्तं ब्रह्म इत्यनेन ब्रह्मणः स्वरूपलक्षणमुच्यते । द्वितीयं तु जगज्जन्मादिका रणत्वं ब्रह्मणो लक्षणम् इति ज्ञेयम् ( वेदा०प० वि० ) ( वाच० )। यतो वा इमानि (तै० उ० २।१।१ ) इत्यादीनि वाक्यानि ब्रह्मणः तटस्थलक्षणम् ( सर्व० सं० पृ० ४६७ शांक ० ) । <तत्> १ [क] वक्तृबुद्धिविषयः तत्पदार्थः । यथा तौ गुरुगुरुपतीच ( रघु० स० १ श्लो० ५७ ) ते हिमालयमामन्त्र्य ( कुमार ० स० ६ श्लो० ९४ ) इत्यादौ । [ ख ] केचित्तु परोक्षबुद्धिविषयः तच्छन्दा इति वदन्ति ( दि० ४ पृ० १७९ ) । इदमस्तु संनिकृष्टं समीपतरवर्ति भियुक्तोक्तेः (मनो० ) । [ग] कचित् यत्पदप्रतिपाद्यतया वक्त चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षं विजानीयात् ॥ इत्य विषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । इयं च व्युत्पत्तिः प्रक्रम्प- नियमतो यत्पदमपेक्ष्यते । यथा तमानय य इहास्ति इत्यादौ ( ० शक्ति० टी० पृ० ११५ ) । यथा वा स किंसखा साधु न श योधिपम् ( किरा० स० १ श्लो० ५) इत्यादौ । [घ ] शाब्दिका यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयो विधेयभूतः तत्पदार्थ इति वदन्ति । [ ङ ] कचित् स्वोच्चारक पुरुषप्रयुक्तपूर्वपदजन्योपस्थितिविषयताक कत्वोपलक्षितस्वप्रयोजक बुद्धिविषयतावच्छेदकधर्मावच्छिन्नः । अनोपि तिश्च स्वविशेष्यकवृत्तिज्ञानाधीना ग्राह्या । अतः पशुरस्ति तं पश्येत्या पश्वादिपदोपस्थापितलोमादीनां तदादिशब्देन न परामर्शः । इयं व्युत्पत्ति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ ( रघु० स० १ श्लो० १२ ) नास्ति । यथा तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः / दिलीप इति अत्र वैवस्वतादिपदोपस्थाप्यस्यापि तच्छब्देन परामर्शान ज्ञेयम् ( ग० शक्ति० पृ० ११५ ) । २ प्रसिद्धम् । कंज्ञान विषयत्वम् ( ग० शक्ति० टी० पृ० ११६ ) । प्रक्रान्त परामर्शकतच्छब्दस्य द्रष्टव्या । यतः संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला चसा क सं० ५/७१/ पेक्षा इत्यादौ । यत्पदापेक्षेति प्रसिद्धत्वं ने था कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी । ( कुमार० । तं केशपाशं प्रसमीक्ष्य कुर्यु: ( कुमार० सं० ११४८ ) इत्यादौ । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे प्रक्रान्त- प्रसिद्धानुभूतार्थविषयस्तच्छन्दो यच्छब्दोपादानं नापेक्षते इति (कुम ( छा० उ० ) इत्यादौ । तदुक्तम् ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः ३० ५/७१ ) । यथा वा तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो स्मृतः ( गीता० १७/२३ ) इति । ३ अनुभूतम् । यथा ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ( रत्नावली ) इत्यत्र । ४ हेतुः । यथा संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः ( मेघ० पूर्व० श्लो० ७) तदङ्गमग्र्यं मघवन् महाक्रतो: ( रघु० स० ३ श्लो० ४६ ) इत्यादौ । ५ तदा इत्येतदर्थः । यथा ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे माम् ( गीता० अ० ३ श्लो० १ ) इत्यादौ । तत्त्वज्ञानम् -[क] यथार्थज्ञानम् । अत्रोक्तम् । तत्त्वज्ञानं तु खलु मिथ्या- ज्ञानविपर्ययेण व्याख्यातम् (वात्स्या० १।१।२) । तच्च ईश्वरनोदनाभि- उपदेशः । वेद इति यावत् । तेनाभिव्यक्तात्प्रतिपादिताद्धर्मादेव भविष्यति व्यक्ताद्धर्मादेव ( प्रशस्त० मा० ११ १/१ पृ० ११ ) । ईश्वरनोदना इत्यर्थ: (किर० ११ १/१ पृ० ११ ) । [ ख ] यथावस्थितपदार्थाधि- इति ज्ञानम् । असति च शशशृङ्गादौ असत् इति ज्ञानम् । ग निखिल- । तच्च प्रमाणम् (न्या० वा० पृ० ४ ) । यथा सति घटादिवस्तुनि सत् लोकविमोक्ष मुख्योपायं मननोपायमात्मनस्तत्त्वज्ञानमामनन्ति ( न्या० fo १ पृ० १ ) । यथा आत्मा शरीरादिभ्यो भिन्नः इत्याकारकं ज्ञानम् ( त० प्र० १ पृ० ५ ) । यथा वा आत्मादेः खलु प्रमेयस्य तत्त्वज्ञा- नान्निःश्रेयसाधिगम इत्यादी ( वात्स्या० १।१।१ ) । इदं तत्वज्ञानं च पूर्वको ब्रह्मात्मावगम इति मायावादिनो वदन्ति । [ङ ] भगवद्विषयक- परमात्मविषयकम् निःश्रेयससाधनं चेति बोध्यम् । [घ ] इतरनिवृत्ति- मपरोक्षज्ञानमिति द्वैतवादिनो वेदान्तिन आहुः । गतिः' <तत्त्वम्> क सतश्च सद्भावः असतश्चासद्भावः । सत् सत् इति गृह्यमाणं यथाभूतमविपरीतम् तत्त्वं भवति । असच्च असत् इति गृह्यमाणं यथाभू- तमविपरीतम् तत्त्वं भवति ( वात्स्या० ११ १/१ प्रस्तावना ) । यथा तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौ० १११११) इत्यादौ प्रमेयादिकं तत्त्वम् । [ ख ] यो यथावस्थितः पदार्थः स तथा भू- तप्रत्ययोत्पत्तिनिमित्तं यत्तत् ( न्या० वा० १ पृ० १२) । [ग] अनारोपितं तत्त्वम् । प्रमितिविषय इति यावत् । इति वेदान्तिनः श्री र्णप्रज्ञाचार्यमतानुयायिनः प्राहु: ( तत्त्वसंख्या० टी० ) । [६ याथातथ्यम् (वात्स्या० १९४० ) । यथा अविज्ञाततत्त्वे ( गौ० १॥ १।४० ) इत्यादौ । यथा वा कार्य सोवेक्ष्य शक्तिं च देशकालो च तत्त्वतः ( मनुः ७।१० ) इत्यादौ । [ङ वार्तिककारास्तु यथावस्थितात्मप्रत्ययोत्पत्तिनिमित्तत्वम् इत्याहुः ( न्या० वा० १२ ) । [च काव्यज्ञास्तु स्वभावः । यथा निस्तत्त्वाः इत्यादी इत्याहुः ( वाच० ) । मतभेदेन तत्त्वानि प्रदर्श्यन्ते । [ १ / स्वतः न्तिनः प्राहुः ( तत्त्वसं० टी० ) । [ २ ] सदसदुभयानुभयात्मकच त्रास्वतन्त्रमेदेन द्विविधं तत्त्वम् इति द्वैतवादिनः श्रीपूर्ण प्रज्ञाचार्या वेदा तुष्कोणविनिर्मुक्तं शून्यमेव तत्त्वम् इति शून्यवादिनो बौद्धाः (सर्व पृ० २९ बौद्ध० ) । [ ३ ] पृथिव्यादीनि चत्वारि भूतानि तत्त्वाति इति चार्वाका आहुः ( सर्वे० पृ० २ चार्वा० ) । [ 8 ] वाख्ये द्वे तत्त्वे इत्यार्हता: ( सर्व० सं० पृ० ६७ आई० ) / [५) प्रमाणप्रमेय..... पदार्थानां ११० जवज सं० पृ० ६९ आहे० ) । [ ६ ] जीवाजीवात्रवबन्धसंवरनिर्जरमोक्ष सप्त तत्त्वानि इत्यपर आर्हतैकदेशिन: ( सर्व० सं० पृ० ७३ आई० ) । जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्च तत्त्वानि इत्यार्हतैकदेशिन: (सर्व ० [ ७ ] द्रव्याद्रव्यभेदेन द्विविधं तत्त्वम् इति रामानुजीयाः पृ० ११२ रामा० ) । [ ८ ] पतिपशुपाशेषु त्रिषु पदार्थेषु पृथिव्या दीनि पञ्च तत्त्वानि इति पाशुपतशास्त्रकोविदा नकुलीशाचार्याः । पृ० १६५ नकु० ) । [९] पृथिव्यादिकलापर्यन्तानि । पुर्यष्टक पदवाच्यानि कलाकालनियतिविद्यारागप्रकृति त्वानि इति च शैवा आहुः (सर्वे० पृ० १८५ शैव०) । [१०] मह दादीनि पञ्चविंशतिस्तत्त्वानि इति निरीश्वरसांख्या: कपिलादयः ( सर्व० सं० पृ० ३११ सां०) । [ ११ ] ईश्वरराधिकानि तानि (२५) इति षडिंशति- । तत्त्वानि इति सेश्वरसांख्या: पतञ्जल्यादयः ( सर्व० सं० पृ० ३३३ पात- झल० ) । [ १२ ] अशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वम् इति मायावादिनो वेदान्तिनः ( सर्व० पृ० ९२ रामा० ) । [ १३ ] विलम्बितं नृत्यवाद्यादि तत्त्वम् इति नाट्यशास्त्रज्ञा आहुः । [ १४ ] चेतः स्वरूपं च तत्त्वम् इति काव्यज्ञा आहुः इति ( वाच० ) । शाक्तास्तु मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च । पञ्चतत्त्वमिदं प्रोक्तं देवि निर्वाणहेतवे । मकारपञ्चकं देवि देवानामपि दुर्लभम् इत्याहु: ( गुप्तसाधनतन्त्रे ७ पटले ) । वैष्णवास्तु गुरुतत्त्वं मन्त्रतत्त्वं मनस्तत्त्वं सुरेश्वरि । देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं प्रकीर्तितम् ॥ इत्या ( निर्वाणतन्ने ) ( वाच० ) । <तत्परत्वम्> १ तात्पर्यम् । तत्परस्य भावः तत्परत्वम् । २ पौराणिकास्तु । यथा भगवद्भक्तितत्परः इत्यादी इत्याहुः । निष्ठा नामकसमासः तत्पुरुषः (समासः ) [क] यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्या- न्वयबोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थें तत्पुरुषः । समासप्रयुक्तलक्षण शून्योत्तरनामकत्वे सति लुप्तद्वितीया दिविभक्तिक पूर्व- यथा ग्रामगतः इत्यादिः ( श० प्र० श्लो० ३८ पृ० ४८) । [ख ] । यथा राजपुरुषः इति । अत्र लक्षणे पञ्चपूलीत्यादिवार- णाय सत्यन्तम् । नीलोत्पलमित्यादिवारणाय लुप्तद्वितीयादि विभक्ति आब्राह्मणमित्याद्यव्ययीभाववारणाय पूर्वेति च नामविशेषणम् । राजपुरुष- ष्यसत्त्वात् लक्षणसमन्वयः ( म० प्र० ४ पृ० ४३ ) । ग शाब्दि- इत्यत्र समास प्रयुक्तलक्षणायाः पूर्वपद एव स्वीकारात् सत्यन्त विशिष्ट विशे- काश्च तत्पुरुषाधिकार विहितः समासस्तत्पुरुषः इत्याहुः । तन्मते स च तत्पु- रुष: प्रकारान्तरेण त्रिविधः । व्यधिकरणपदघटितः समानाधिकरणपदघ- ढित: संज्ञानवबोधकसंख्यावाचकपदघटितश्चेति । तत्र संज्ञानव बोधकसंख्या- पूर्वकसमानाधिकरण पदघटितस्तःपुरुषो द्विगुरित्युच्यते । द्विगुविषयपहा- रेण समानाधिकरणपदघटिततत्पुरुषः कर्मधारय इत्युच्यते । तद्भिन्नो व्यषि- करणपदघटितः तत्पुरुष इत्युच्यते । यथा राजपुरुष इत्यादिः (वाच०) । उत्तरपदार्थप्रधानस्तत्पुरुषः इति केचिदाहुः । तन्न । अर्धपिप्पली इला दितत्पुरुषे अव्याप्तेः । सूपप्रति इत्याद्यव्ययीभावेतिव्याप्तेश्च (वाच०) । यथोक्तं वाक्यपदीये समासस्तु चतुर्धेति प्रायोवादस्तथापरः । दिभेदेन षड्डिधः । द्वितीयादिसुबर्थस्य कर्मत्वकर्तृत्वा पूर्वपदार्थादिप्राधान्यविषयः स च ॥ इति । स च तत्पुरुषो द्वितीया तत्पुरुषस्य द्वितीयातृतीयादितत्पुरुषत्वेन षडेदाः । तथा हि ग्रामग इत्यत्र द्वितीयातत्पुरुषः । चैत्रनीत इत्यत्र तृतीयातत्पुरुषः । ब्राह्मणद इत्यत्र चतुर्थीतत्पुरुषः । वृक्षपतित इत्यत्र पञ्चमीतत्पुरुषः / चैत्रधनम् गतिरित्यत्र षष्ठीतत्पुरुषः । गृहपक इत्यत्र सप्तमीतत्पुरुषः इति । पुण्येन सुखम् शमाय विद्या दण्डाद्वट: गवां कृष्णा संपन्नक्षीरा बोध्यम् । यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायो घटकः । पीठं परितः तैलम् इत्यादिविग्रहे तत्पुरुषस्यासाधुत्वात् ( श० प्र० श्लो० ३९″ ४८) । वर्षसुखी लोष्टकण: कुण्डलहिरण्यम् घटान्यः कुबेरबलिः क कुशल: इत्यादौ तु तत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः इति ( श० ४९ ) । अत्र मतभेदाः । राजपुरुष इत्यादौ राजपदस्य राजसंबधिनि लक्षणा । तेन पुरुषपदार्थस्याभेदेनान्वयः इति नैयायिका आहुः / तु लुप्तषष्ठ्येवान्वयबोधं जनयति । षष्ठीलोपमजानतस्तु पुरुषस्य तत्रात्य यप्रत्ययः शक्तिभ्रमात् राजपदलक्षणया वा इति खीचक्रुः / पूर्वक राजपदस्य राजसंबन्धिनि निरूढलक्षणा । एतन्मते भवस्थले राजपदे स्वारसिकी लक्षणा इति भेदः ( त० प्र० ख० ४ ४३ ) । वैयाकरणास्तु समासस्थशब्दसमुदाये विशिष्टार्थे शक्तिरेखेला ( न्या० म० ४ पृ० ११ ) । षष्ठीलोपस्मरणात <तथा> १ स प्रकार: । यथा कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य ( भा० व० ११ ) यथाकामो भवति तथाक्रतुर्भवति ( १४/७२।७ ) इत्यादी । २ साम्यम् । यथा ॐ तथा अन्य मां गत शत० बा तथा प्राणा: (ऋ० सू० २।४।१) ॐ तथान्यत्प्रतिषेधात् ॐ ( ब्रह्म० सू० (३।२।३७ ) इत्यादौ । यथा वा यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ( मनुः (६।९० ) इत्यादौ । ३ समुच्चयः । विघसो भुक्तशेषं तु यज्ञशेषं तथा- मृतम् ( मनु: ३।२८५) ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे ( मनुः ३।१३४ ) इत्यादौ । ४ अभ्युपगमः । ५ पूर्वेप्रतिवचनम् । ६ निश्चयः ७ सत्यम् ( वाच० ) । <तथा च> १ उक्तस्य दृढीकरणार्थः । यथा निरिन्द्रिया ह्यमन्त्राश्च स्त्रियो नृतमिति स्थितिः । तथा च श्रुतयो बढ्यो निगीता निगमेष्वपि ॥ ( मनुः १९११८ ) इत्यादौ । २ एवं सति इत्येतदर्थ: ( मध्व० भा० ) । यथा ॐ तथा चैकवाक्योपबन्धात् ॐ ( ऋ० सू० ३/४/२४) इत्यादौ । एवं सिद्धे सतीत्यर्थः ( तत्त्वप्रकाशिका ३।४।२४ ) । <तथापि> यद्यपीत्यनेनाक्षिप्तार्थस्य समाधानार्थः । यथा यद्यपि का नो हानिः परस्य द्राक्षां रासभश्चरति । असमञ्जसमिति मत्वा तथापि तरलायते चेतः ॥ ( उद्भटः ) इत्यादौ । <तथाहि> १ निदर्शनम् । २ प्रसिद्ध्यर्थः ( शब्दार्थचि० ) । ३ उक्तार्थ- दृढीकरणम् । यथा ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदा- तथा हि दर्शनम् ॐ ( ब्र० सू० ११ ११२५ ) इत्यादौ । <तदन्यवाधितार्थप्रस:> (तर्कः ) आत्माश्रय अन्योन्याश्रय चक्रक अन वस्था इत्युक्तचतुष्कान्यः प्रमाणबाधितार्थस्य प्रसङ्गः । स द्विविधः निश्चायकत्वेन परिशोधकत्वं बोध्यम् । तत्राद्यो यथा धूमो यदि वह्निव्य- व्याप्तिग्राहकः विषयपरिशोधकश्च । विषयस्य व्यभिचारशङ्कानिवृत्तिद्वारा भिचारी स्यात्तदा वह्निजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यात् निर्धूमः स्यात् इत्यादिः (जग ० ) ( गौ० वृ० १/१/४० ) । तथैव-तद्वदेवेत्यर्थः । तत्समुच्चयावधारणम् ( शब्दार्थचि० ) । यथा अस्ति पुत्रो वशे यस्य भार्या भर्तुस्तथैव च ( चाणक्यः ) इत्यादौ । <तदा> १ तत्कालः । यथा तदा विधिः कुण्डलनां विधोरपि ( नैष० ) इत्यादौ । २ यद्यर्थेनाक्षिप्तस्य विषयस्य खण्डनकरणम् । यथा धूमो यदि वह्निव्यभिचारी स्यात्तदा वह्निजन्यो न स्यात् इत्यादौ । <तदादयः> ( सर्वनामशब्दाः ) वक्तबुद्धिविशेष विषयत्वावच्छेदकत्वोपलक्षि तधर्मावच्छिन्नस्तदादीनामर्थः ( वै० सा० ८० ) । तदादयश्च तद् द् यद् एतद् इदम् अदस् इत्यादयः सर्वनामसंज्ञकाः । <तदीयत्वम्> १ संबन्धान्तरं विनापि तत्संबद्धस्वभावत्वम् ( चि० १॥ यथा देवदत्तस्वभावस्य आध्यात्मिकादिधर्मस्य देवदत्तीयत्वम् / २ तत्वा- हो० मिकत्वम् । यथा तदीयमातङ्गघटाविघट्टितैः ( माघ० स० १ ६४) इत्यादौ मातङ्गानां तदीयत्वम् । अत्र तदीयत्वं नाम रावणस्वाति कत्वम् । तत्संबन्धित्वमिति सार्वत्रिकोर्थः । <तद्गुणसंविज्ञान:> ( बहुव्रीहिसमासः ) [ क ] यो बहुव्रीहिः स्वीय विग्रह वाक्यस्य विशेष्यविधया प्रत्याय्यो योर्थस्तद्विशेष्यकबोधकृद्भवतिस कुटादिर्गणः इत्यादौ । नवीननैयायिकमते व्युत्पत्तिः तस्य स्वार्थगुणभि व्रीहिस्तद्गुणसंविज्ञानः इति नवीनाः प्राहुः । यथा घटस्वरूपः पदार्थ पृ० ५९-६० ) । अथवा तस्य समस्यमानपदार्थस्य गुणीभूत तस्य सम्यक् विशेष्यविधया विज्ञानं यस्मात् इति ( श० प्र० सम्यक् विशेष्य विधया ज्ञानं यस्मात् इति ( त० प्र० ख० 8 ४९ ) । घटस्वरूपः पदार्थ इत्यत्र घटः स्वरूपं यस्य इति विग्रहस स्वस्वरूपाभिन्नघटसंबन्धित्वेन घटाभिन्न स्वस्वरूपसंबन्धित्वेन वा शेष्यं कलशमेव विशेष्यविधया अनेन बहुव्रीहिणा बोध्यते इति / तथा विज्ञान एव बहुव्रीहिः ( श० प्र० श्लो० ४४ पृ० ५९ ) // कव्यवस्थाधर्मिणः संबन्धित्वेन धात्वन्तरमिव कुटमपि बोधयंस्त धातवः चैत्रादीन्भोजय लम्बकर्णमानय इत्यादौ । अत्र क्रियावाचित निमन्त्रितत्वेन लम्बकर्णावयविनोर्यः संबन्धस्तदवच्छिन्नत्वेन यत्र विशेषणस्यापि क्रियायां विशेष्यविधयान्वयः सः । यथा भूग बोध: । लक्षकसंबन्धस्यैव लक्ष्यतावच्छेदकत्वात् तेन रूपेणैव बोधात् । विशेषणस्यापि भूवादेः क्रियान्वयादजहत्वार्थात्र लक्षणा ( त० प्र० ख० ४ पृ० ४९ ) । [ग यो बहुव्रीहिः स्वार्थस्यान्वयिनि स्वार्थ- घटकस्याप्यर्थस्यान्वयबोधने समर्थः स तद्गुणविज्ञान: इति प्र आहुः । यथा लम्बकर्णमानय हारग्रीवं पश्येत्यादौ । अत्र हि बहुत्री- हिर्डम्बकर्णसंबन्धिनः स्वग्रीवावृत्तिहारसंबन्धिनश्च स्वार्थस्यान्वयिनि कर्म- त्यादौ स्वार्थघटकीभूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येण अन्व- यबोधने समर्थः इति ( श० प्र० श्लो० ४५ पृ० ५९ ) । [घ ] परे तु यत्र विशेषणतया स्वार्थस्य विधेयेन्वयः स तद्गुणसंविज्ञानबहुव्रीहिः एतत्कल्पे व्युत्पत्तिः तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य विशेषण इत्याहुः । यथा लम्बकर्णमानयेत्यादौ ( त० प्र० ख० ४ पृ० ४९ ) । संविज्ञानम् विशेष्यपारतंत्र्येण बोधनम् यत्र इति वदन्ति । अत्र परेषां मते लम्बकर्णादेः विशेष्यान्वयिनान्वयात् विशेषणतया विधेयान्वयः । स्यापि विशेष्यत्वेनैवान्वयेनुभवबाधः । तस्मात् अत्रापि जहत्वाव च विशेष्यान्वयिनान्वयित्वमेव । नवीनमतानुरोधेन लम्बकर्ण- लक्षणा ( त० प्र० ख० ४ पृ० ४९ ) । भवति च गुणीभूतस्य तद्धितः – ( प्रत्ययः ) [क] विभक्तिधात्वंशकृद्भयोन्यः प्रत्ययः । यथा कर्णादेरप्यानयने धर्मपारतन्त्र्येण धर्मिद्वारा अन्वयबोधः इति । मारीच इत्यादौ अणू दाक्षिरित्यादौ इञ् प्रत्ययस्तद्धितः । अत्र नामप्र- १७२ ) । अतो विभक्तिधात्वंशेत्याद्येव लक्षणं युक्तम् इति । अत्रेदम- पचतितरामित्यादौ तरबादिष्वव्याप्तेश्च ( श० प्र० श्लो० १०८ पृ० बधातव्यम् । वृक्षक इत्यादौ हस्खाद्यर्थकः कादिरपि तद्धित एव इति । अन्ये लक्षणे प्रत्ययो विशेषणीयः इति । अत्र षष्ठ्यन्तान्नाम्नः साक्षात्परंपरासा- वेवमाडु: । वृक्षक इत्यादौ कादिस्तु न तद्धितः । अतः तदन्यत्वेनापि धारणापत्यसामान्ये बोध्ये अण् इत्युत्सर्गः । तेन मरीचेरपत्यं मारीच इति रूपं सिद्ध्यति ( श० प्र० श्लो० १०८-१११ ) । [ख] तद्धिता- धिकारविहितः प्रत्ययविशेष इति शाब्दिका वदन्ति । अत्रेदं बोध्यम् । तद्धिताः ( पा० सू० ४।१।७६ ) इत्यधिकृत्य यूनस्तिः ( पा० ० ४।१।७७ ) इत्यारभ्यापञ्चमाध्यायसमाप्तेर्यावन्तः प्रत्यया विहिता भिन्नार्थकः स्वार्थिकश्चेति । तद्धितप्रत्ययश्च अपत्यादितत्तदर्थभेदबोध तद्धितसंज्ञका भवन्ति इति । तत्र सामान्यतस्तद्वितो द्विविधः । प्रकृत्यर्य नेन अण् इञ् ण्य इत्याद्यनेकविधः । तत्रोक्तम् तस्यापत्यं तद्विशेष दृक्षेण युतेन्दुमान् । कालस्तथा तेन रक्तं तस्य व्यूहोथ वेत्ति तत् अधीते वा देवतास्य सैवमादीन् यथायथम् । बोधयद्विविधानर्थास्ति स्यादनेकधा ॥ इति । तत्र के चित्तद्धितप्रत्ययास्तत्तदर्थेषु सोदाहरणाः प्र इर्यन्ते । यथा अपत्यार्थे अण् मरीचेरपत्यं मारीचः । वेत्तीत्यर्थे निमित वेत्ति नैमित्तः । अधीते इत्यर्थ छान्दसः वैयाकरणः त्रैविद्यश्च । सं न्ध्यर्थे वृक्षस्य संबन्धि वार्क्षम् । जातायें अमावास्यायां जात आमावासो बालकः । गोशालायां जातं गोशालम् । अनुराधायां जातः अनुराध अत्राणो लुक् । अपत्यार्थे इणूं दक्षस्यापत्यं दाक्षिः वैयासकिः । ण्यः स्यापत्यं गार्ग्य: जामदग्यः । अपत्यसामान्ये आर्यनण् तदुत्तरं कौञ्जायन्यः ब्राध्नायन्यः । अपत्यार्थे एयण् वैनतेयः आत्रेय: जावे द्रौपदेयः । एरण् दासस्यापत्यं दासेरः दासेयोपि । काणाया अपत्यं का? काणेयोपि । चटकायाः पुमपत्यं चाटकैर: । आयनिण तिकस्याप तैकायनिः । तस्य ( सर्वनाम्नः ) अपव्यं तादायनि: तादोपि ।' ईयः स्वसुरपत्यं स्वत्रीयः । समूहार्थे अश्वीयम् । भवार्थे कवर्गीयः अङ्ग लीयः मित्रवर्गीयः । अपत्यार्थ व्यः भ्रातुरपत्यं भ्रातृव्यः / अपया ये कुलस्यापत्यं कौलेयकः । ईनण् कुलीनः । डुरणू पाण्मातुरः । तदागपु क्तमित्यर्थ इकण् लाक्षया रक्तं लाक्षिकम् । समूहार्थे कैदारिकम / तो तदधीते वा इत्यर्थे नैयायिकः लौकायतिकः । भवार्थे अन्तदेि समानदैशिकम् । संज्ञार्थे शरदिका मुद्गभेदाः । रक्तमित्य रक्तो नीलः पटः । कः पीतेन रक्तः पीतकः पटः / समूहार्थे अकण् १ इण् आयनण् इत्यादयः केचित्प्रत्ययाः पाणिनिविहितप्रत्ययापेक्षया यः श्वशुरस्यापत्यं श्वशुर्यः । समूहार्थे धूम्या न्या । जगदीशेन कल्पिता इति बोध्यम् । गार्गकम् कैदारकम् । कण् घैनुकम् । समूहाथ यण केशानां समूहः कैश्यम् गाणिक्यम् ब्राह्मण्यम् । भवार्थे चतुर्मासेषु भवं चातुर्मास्यं व्रतम् । ( समूहाथै इनि: पद्मिनी । कव्यः रथकट्या । तलु बन्धुता जनता । यत् पृथ्यम् । वेत्तीत्यर्थे टिकः शतपथिकः । कः शिक्षक मीमांसकः । जातमित्यर्थे पूर्वाह्नकम् । तस्येदमित्यर्थे क ईयश्च स्वकीयम् । कस्यानित्य- त्वेन स्वीयं वा । ईनण् यौष्माकीणम् । हस्तीत्याद्यर्थे कण् आरण्यकः करी । तस्यायमित्यर्थे तु णः । अरण्यस्यायमारण्यः पशुः । तत्र भव इत्यर्थे म: आदिमः । डिमः अग्रिमः पश्चिमः । त्यः श्वस्त्यम् । तनटू श्वस्तनम् सायंतनम् । एण्यः प्रावृषि भवं प्रावृषेण्यं तृणम् । तः परुत्नम् परा- रिक्षम् । नः पुराणम् । ईयण पर्वते भवः पार्वतीयः । यत् दिशि भवं दिश्यम् दन्त्यम् मित्रवर्ग्यः । एयण कौक्षेयम् । ईनः मित्रवर्गीणः । नण् स्त्रियां भवः स्त्रैणः । स्नण् पुंसि भवः पौनः । जातमित्यर्थे इकः प्रावृषि जातं प्रावृषिकं पत्रम् । अकः आमावास्यको बालकः इत्यादि इति संक्षेपः । <तद्धिताक्तम्> १ ( योगरूढं नाम ) यथा वासुदेव: इत्यादि ( श० प्र० श्लो० २८ पृ० ३७ ) । २ ( यौगिकं नाम ) यादृशं नाम यच्च तद्धि- पूर्व्यवच्छिन्नं तद् द्वयमपि तादृशार्थे तद्धिताक्तं नाम । यथा बहुगुड : तम् यादृशानुपूर्व्यवच्छिन्नं सत् यादृशार्थस्यान्वयबोधे समर्थम् तादृशानु- द्राक्षा दाक्षिरित्यादि ( श० प्र० श्लो० ५१ प्र० ६७ ) । <तद्वितार्थ:> (द्विगु समासः ) यो द्विगुः स्वोत्तरतद्धितार्थान्वितस्वार्थकः पवित्रम् द्विगुजं स्वर्णम् त्रिकाण्डः पुरुषः पञ्चकपालचरुः इत्यादौ । तथा इति परिशिष्टकृत आहुः । यथा द्विमुद्रो वृषः द्विवर्षा गौः द्विदलं हि द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां क्रीतस्य द्विवर्षा गौरित्यादौ निर्मितस्य द्विगु स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य त्रिकाण्ड: पुरुष द्वाभ्यां वर्षाभ्यामभिन्नवयस्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां इत्यादी त्रिभिः काण्डैः परिमितस्य पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः संस्कृतस्य बोधने लुप्तस्यैव ठगादितद्वितस्य क्रीताद्यभिधायकत्वात् लक्षण- समन्वयः (श० प्र० श्लो० ३५ पृ० ४६ ) । यथा वा पौर्वशाल: पाण्मातुरः इत्यादौ । अत्र पूर्वस्यां शालायां भवः पौर्वशालः षण्णां मातृषा- मपत्यम् षाण्मातुरः इति विग्रहो द्रष्टव्यः ( सि० कौ ० ) ( मनोरमायाम् )। <तद्व्यक्तित्वम्> १ तत्तत्तादात्म्यविशिष्टो धर्मः । यथा घटनिष्ठं तद्व्यक्तित्व च घटतादात्म्य विशिष्टघटत्वादिकमेव । २ अखण्डोपाधिविशेष इति मखण्डमेव इति ( ग० शक्ति० टी० पृ० ११७)। केचिदाहुः । तादात्म्यस्य घटादिस्वरूपतामते तु घटादिनिष्ठं तव्यक्तित <तनुत्वम्> प्रतिपक्षभावनया शिथिलीकरणम् ( सर्व० सं० पृ० <तत्रम्> १ इतरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् ( वात्स्या १ । १ । २६ ) । यथा तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः (गौ १।१।२६) इत्यादी तन्त्रम् । २ शास्त्रविशेषः । यथा इदानीं क्ष्यामि तन्त्रमुत्तरमुत्तमम् ( सुश्रुत० ) इत्यादौ । यथा वा आरि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् । सप्तत्यां किल येर्यास्त सिद्धेश्वरादीनि महातन्त्राणि तथान्यान्युपतन्त्राणि सैद्धा कृत्स्त्रस्य षष्टितन्त्रस्य ( सांख्यका० ७२ ) इत्यादौ । शिवायला सन्ति । विस्तरभयात्तानि न प्रदर्शितानि । ३ प्रयोजकम (दि. पृ० १७४ ) । यथा चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रपदोत्तरवृतीयाया चैत्रगतसंख्यानभिधानं तन्त्रम् (मु० ४ पृ० १७४) । यथा का० १ ) । ४ सकृदुच्चारितस्यैकस्य शब्दस्य शक्तया अनेकार्थप्रतिपादि घट इत्यादावभेदान्वयबोधं प्रति समानविभक्तिकत्वं तन्त्रम् ( कत्वं तन्त्रम् इति शाब्दिका वदन्ति । ५ विवक्षितार्थज्ञापकं तन्त्रम् श भाष्यटीकाटिप्पणे एकादशतात्पर्योक्तिः ) । ६ नीत्यवयवः । वेदान्तिनः । तदुक्तम् तन्त्रं 'साधनमुद्दिष्टं तन्त्रं ज्ञापकमेव च इति (म नीतिशास्त्रज्ञाः । तानि च पञ्च तन्त्राणि मित्रभेदमित्रप्राप्तिकाकोडक पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ( पञ्चत ०१) पृ० हाँस बहुत लब्धप्रणाशापरीक्षितकारित्वानि इति । ७ धर्मज्ञास्तु कर्मणां युगपद्भा- वतन्त्रम् (कात्या० श्रौत० १।७१ ) । यथा मीमांसकमते उभयार्थैक- प्रयोगः तन्त्रम् । यत्र प्रधानकर्मणां युगपद्भावः ( सह प्रयोगः ) तत्रारा- दुपकारकाणामङ्गानां तन्त्रम् (सकृदनुष्ठानम् ) भवति न प्रतिप्रधानं पृथक् पृथक् । यद्धि सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । यथा बहूनां मध्ये कृतः प्रदीपः इति ( कर्कः ) ( वाच० ) । तन्यते विस्तार्यते बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं तन्त्रम् ( जै० न्या० अ० ११ पा० १ अधि० १ ) । उभयोद्देशेन सकृदनुष्ठानं तन्त्रम् (जै० न्या० १२ पा० १ अधि० १ ) । यत्सकृत्कृतं बहुनुपकरोति तत्तन्त्रम् (जै० सू० वृ० अ० ११ पा० १ सू० १ ) । कर्मज्ञाश्च अनेकोद्देशेन कृतप्र योगः । यथा द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा । मातामहाना- पितृ श्राद्धे मातामह श्राद्धे च वैश्वदेवं तन्त्रेण ( सकृदनुष्ठानेन) कर्तव्यम् मप्येवं तन्त्रं वा वैश्वदेविकम् ॥ ( याज्ञ० अ० १ श्लो० २२७ ) इत्यादौ ( मिताक्ष० अ० १ श्लो० २२७) इत्याहुः । ८ प्रबन्धः । ९ सिद्धान्तः । १० प्रधानम् । ११ परिच्छेदः । १२ वेदशाखा विशेषः । १३ स्वराष्ट्रचिन्ता । १४ औषधम् । यथा तन्त्रावापविदा योगैः (माघः २१८८) इत्यादौ । १५ परच्छन्दानुगमनम् इत्यादि ( वाच० ) । <तन्त्री> ज्योतिष्टोमे सवनीयपशु: (जै० न्या० अ० ११ पा०३ अधि० १६) । <तन्मात्रम्> शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । सांख्यास्तु सूक्ष्मप अभूतरूपमाकाशादि इत्याहु: ( वाच ० )। <तपः> विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहु- स्तपसां तप उत्तमम् ॥ ( सर्व० सं० पृ० ३६७ पात० )। <तमः> १ (अभाव:) [क] तेजसः अभाव: (मु० १) (गौ० वृ० ५/२/२०) ( त० दी० पृ० ३ ) । प्रौढप्रकाशकतेजःसामान्याभाव इत्यर्थः । तेन तमस्वत्यपि देशे तेजः परमाण्वादिसत्त्वेन तेजःसामान्याभावासत्वेपि न क्षतिः ( नील १ पृ० ४ ) । अत्र विप्रतिपत्तिः अन्धकारत्वं भाववृत्ति इति तौतातिताः । नेति वैशेषिकादयः इति ( न्या० दी० पृ० ४ ) । [ ख ] द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः ( वै० ५/२/१९ ) । उद्भूतरूपवद्यावत्तेजः संसर्गाभाव इत्यर्थः ( वै० उ० ५/२/२० ) । ग स्वपरप्रकाशकतेज: सामान्याभावः । यथा अदस्त्वया नुनम इत्यादौ । [घ ] नीलरूपारो पवि शिष्टतेजःसंसर्गाभव तमः । आसादितस्य तमसा नियतेर्नियोगात् ( माघ० स० ४ श्लो० ३४/ ( न्या० दी० पृ० ८ ) । [ङ ] भाभावः । द्रव्यगुणकर्मनिष्पत्ति भावस्तत्रैव देशे तम इत्यभिलप्यते । एवं च सति गच्छता द्रव्येण तेजस आवरणात् आवरकस्य द्रव्यस्य च गमनात् सुतरामेव तमसोपि भ्रम उपपद्यत इति ( त० व० ) । तेजसो द्रव्यान्तरेणावरणाच ( ५/२/२० ) । तदर्थश्च गच्छता द्रव्यान्तरेणावृते तेजसि पूर्वदेशानुपक गति (दे० वास्तवी तत्र गतिः । किं च नील नभः इति प्रतीतिवत् तमसि नीत पवत्ताप्रतीतिरपि भ्रम एव इति । अत्रायं तर्कः तमो यदि गतिमतवाद म्भादग्रिमदेशे चोपलम्भात्तेजोभावस्य गच्छद्रव्यसाधर्म्याद्गतिभ्रमः / न तेजो[^१]भावविषयकचाक्षुषसाक्षात्कारविषयो न स्यात् इति । यद्वा यदि गतिमत्स्यात् तेजोभावाविषयकचाक्षुषसाक्षात्काराविषय तो इति । अथवा तमो यदि तेजोभिन्नत्वे सति गतिमत्स्यात् न त्याद तेजोभावनि षयकसाक्षात्कार विषयगतिमन्न स्यात् इति ( न्या० दी० पृ० वि० १ । १ । ५ ) । अत्रेदमवधेयम् । आलोकस्यान्यत्र चाक्षुषप्रत्यक्षेस रूपवद्रव्यान्तरं इति भट्टा वेदान्तिनः सांख्या: कन्दलीकारावाहुः । रित्वेपि तमः प्रत्यक्षे न तत्सहकारस्यावश्यकता वस्तुस्वाभाव्याद तमसः पृथिव्यामन्तभोवः । अथवा दशमं द्रव्यमतिरिक्तमेव भट्टमीमांसकानामाशयः इति । तमसो भावत्वमङ्गीकुर्वाणानां बोध्यम् । आरोपितं नीलरूपमिति श्रीधराचार्याः सहका- तदिन रूपदर्शनाभाव सं० पृ० २२९ औलु० ) ( वै० वि० १/१/५ ) । अज्ञानं [^१] अभावः इति पदच्छेदः । ( तमोगुण: ) इति केचिद्वेदान्तिनः । अत्रोच्यते सत्त्वं ज्ञानं म रागद्वेषौ रजः स्मृतम् इति ( मनुः १२ । २६ ) । तमः अज्ञानमिति पदच्छेदः । त्रिगुणात्मकप्रधानस्य तमआख्यो गुणविशेषः इति सांख्याः । या च मोहात्मकता तत्तमः ( सर्व० सं० पृ० ३२६ सां० ) । आलो- काभावस्तम इति नैयायिकादयः ( सर्व० सं० पृ० २२९ औल० ) । २ राहुरिति ज्योतिर्विदः । ३ पादाग्रम् । ४ तमालवृक्ष इति काव्यज्ञाः । <तर्क:> १ आन्वीक्षिकी विद्या न्यायशास्त्रम् ( गौ० वृ० १११।१ ) । यथा प्रायस्तर्कमधीते ( न्यायमधीते सर्व:) तनुते तर्कान्निबन्धमप्यत्र ( दीधि ० २ लो० ४ पृ० १ ) गदाधरविनिर्मिता विषमदुर्गतर्काटवी (ग० २ हेत्वा० बाघ० पृ० ३४) यत्काव्यं मधुवर्षि धर्षितपरास्तकेंषु यस्योक्तयः (नैष० ) इत्यादौ । अत्र पुराणम् मीमांसा न्यायतर्कश्च उपाङ्गः परिकीर्तितः इति । त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । श्लो० ४३ ) । आन्विक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् इति ( भा० आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ इति ( मनु० अ० ७ अ० अ० ३७ ) । आन्वीक्षिकीत्रयीवार्तादण्डनीतिरूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः ( गौ० वृ० ११ १२ । १) । २ कणादमुनिप्रणीतं दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्शनम् । यथा अथातो धर्म प्रामाण्य मिति ( वै० सू० १०/२/९ ) इत्येतत्पर्यन्तं तर्कशास्त्रम् । द्रव्या- व्याख्यास्यामः ( वै० सू० १११।१ ) इत्यारभ्य तद्वचनादाम्नायस्य दिपदार्थतत्त्वज्ञानं मननं चास्य शास्त्रस्य प्रयोजनमित्यवधेयम् (त० व० ११२२ ) । अत्रोक्तम् तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः इति (सुश्रुत० ) । ३ अनुमानम् (युक्तिः) ( तत्त्वप्रकाशिका ) ( दि० ४) (गौ० वृ० १ । १ ) । यथा ॐ तर्काप्रतिष्ठानादप्यन्यथानुमेय मिति चेदेव- मप्यनिर्मोक्षप्रसङ्गः ॐ ( ब्र० सू० २११/१२ ) इत्यादौ । यथा वा अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । नाप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः ॥ ( वेदान्त० प्र० ) इत्यादौ । अत्रोक्तं मनुना ४१ न्या० को० त्रै विद्यो हेतुकस्तक नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्या दशावरा ॥ इति ( मनुः अ० १२ श्लो० १९९) । ४ आगमाविरो घिन्यायः । यथा नैषा तर्केण मतिरापनेया ( कठोप० ३/९ / इत्यादौ । तस्य प्रयोजनं चोक्तं मनुना आर्ष धर्मोपदेशं च वेदशास्त्राविरो घिना । यस्तकेंणानुसंधत्ते स धर्मं वेद नेतरः ॥ इति ( मनु० १२/१०६ ) / ५ मीमांसा । ६ आगमार्थपरीक्षणम् । ७ क ऊहः । अविज्ञातत भवसिद्धः त्वेर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ( गौ० सू० १/१/४० ) / अयमर्थः । तर्क इति लक्ष्यनिर्देशः । कारणोपपत्तित ऊह इति लक्षणम् । तस्योपपत्तिरारोपः । तस्मात् ऊह आरोपः अर्थाद्व्यापकस्य इति । अविज्ञाततत्त्वेर्थे तत्त्वज्ञानार्थमिति प्रयोजनकथनम् । कारणं व्याप्यम् । तु ऊह इत्येव लक्षणम् । तथा च कारणस्य व्याप्तिज्ञानादेरुपपादना त्यर्थ इत्याहुः । ऊहत्वं च मानसत्वव्याप्यो जातिविशेषः तर्कयामि इलातुर द्वः (गो० वृ० १ । १।४० ) । स च तर्कः व्यभिचारशङ्काि वृत्तिद्वारेणोपयोगी (न्या० ली० गु० पृ० ३६) प्रमाणानामनुप्राहकक्ष । किं च स तर्क: अङ्गपञ्चकसंपन्नस्तत्त्वज्ञानाय कल्पते । अङ्गपञ्चकं अनुग्रहस्तु पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रहः (ता० २० १ व्याप्तिस्त र्काप्रतिहतिरवसानं विपर्यये । अनिष्टाननुकूलत्वमिति तकन पञ्चकम् ॥ ( ता० २० श्लो० ७२ ) । तर्कभाषायां प्रमाणानुग्राहक- पर्वतोयं साग्निः उतानग्निः इति संदेहानन्तरं यदि कश्चिन्मन्यते अनभि मित्थमुपपादितम् । स चायं तर्कः प्रमाणानामनुग्राहकः / तथा इति तदा तं प्रति यद्ययमनग्निरभविष्यत्तर्हि धूमवान्नाभविष्यत इत्यवादि प्रवृत्तः तर्क: अनग्निमत्त्वस्य प्रतिक्षेपात् अनुमानस्य भवत्यनुग्राहक मत्त्वेनाधूमवत्त्वप्रसञ्जनं क्रियते । स चानिष्टप्रसङ्ग तर्क उच्यते /४ ( त० मा० पृ० ४३ ) । अनिष्टप्रसङ्ग इत्यस्य अनिष्टस्य वह्नयभाव व्यापकधूमाभावादेः प्रसञ्जनम् इत्यर्थः । अत्र हृदे निर्धमत्वापादन त्यर्थमनिष्टेति (प० च० ) । किं च त धूमाग्योर्व्याप्तिहे उत्पल माने कार्यकारणभाषभङ्गप्रसङ्गलक्षणो व्यभिचारशङ्का निवर्तक (० दी० २ पृ० २१ ) । तर्फे आपाद्यव्यतिरेकनिश्चयः आपाद्यापादकयो- व्यतिनिश्चयश्च कारणम् इति ( नील० गु० पृ० ३८) । तर्फे व्याप्यस्य व्यापकस्य च बाधनिश्चयः कारणम् इति ( न्या० वी० गु० पृ० २१) । अत्रेदं बोध्यम् । तो न प्रमाणसंगृहीतः इति न प्रमाणान्तरम् । अपितु कृतन हेतुना निर्वते आहोस्विदकृतकेन अथाकस्मिकम् इति । एव- प्रमाणानामनुप्राह कस्तत्त्वज्ञानाय कल्प्यते । तस्योदाहरणम् किमिदं जन्म मविज्ञातेथे कारणोपपत्त्योहः प्रवर्तते । यदि कृतकेन हेतुना निर्वते हेतूच्छेदादुपपन्नोयं जन्मोच्छेदः । अथाकृतकेन हेतुना ततो हेतूच्छेद- स्याशक्यत्वादनुपपन्नोयं जन्मोच्छेदः । अथाकस्मिकम् अतोकस्मान्निर्वर्त्य - इति । एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्म इत्यत्र प्रमाणानि प्रवर्तमानानि मानं न पुनर्निवर्त्स्यतीति निवृत्तिकारणं नोपपद्यते । तेन जन्मानुच्छेद तर्फेणानुगृह्यन्ते । तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्प्यते तर्क इति । सोयमित्थंभूतस्तर्क: प्रमाणसहितो वादे साधनायोपालम्भाय वार्थस्य भवति इति ( वात्स्या० १ । १ । १) । तर्कः संशयेन्तर्भवतीति कश्चिदाह ( त० भा० पृ० ४४ ) । यद्यपि त विपर्ययेन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद्भेदेन कीर्तनम् ( त० दी० गु० पृ० ३८ ) । इति । अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मो विभागेन विमृशति अत्र भाष्यम् । अविज्ञायमानतत्त्वेर्थे जिज्ञासा तावज्जायते जानीयेममर्थम् किंस्विदित्थम् आहोखिन्नत्थम् इति । विमृश्यमानयोर्धर्मयोरे कतरं कारणो- पपत्त्या अनुजानाति संभवत्यस्मिन् कारणम् प्रमाणम् हेतुः इति / कारणो- व्यमर्थ जानीते तं तत्त्वतो जानीय इति जिज्ञासा । स किमुत्पत्तिधर्मकः पपत्त्या स्यात् एवमेतत् नेतरत् इति । तत्र निदर्शनम् । योयं ज्ञाता ज्ञात- अथवानुत्पत्तिधर्मकः इति विमर्श: । विमृश्यमाने अविज्ञाततत्त्वेर्थे यस्य स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता । दुःखजन्मप्रवृत्तिदोष मिथ्याज्ञाना- धर्मस्याभ्यनज्ञाकारणमुपपद्यते तमनुजानाति । यदायमनुत्पत्तिधर्मकः ततः नामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम् । उत्तरोत्तरापाये तदनन्तराभावादप- वर्ग इति स्यातां संसारापवर्गी । उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम् । उत्पन्नः खल्लु देहेन्द्रियवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् । उत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरस वा स्वकृतकर्मणः फलोपभोगो नास्ति । तदेवमेकस्या नेकशरीरयोगः शरीरादिवियोगश्चात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति तत्रानुजानाति । सोयमेवंलक्षण ऊहस्तर्क इत्युच्यते (वात्स्या० १/१/४० ॥ हार्यारोपः सः । यथा निर्वहित्वारोपान्निधूंमत्वारोपः निर्वह्निः स्याचेनि: [ख] व्यापकाभाववत्वेन निर्णीते व्याप्यस्याहार्यारोपाद्यो व्यापकस्पा स्यात् इत्यादिः । हृदो निर्वह्निः स्याच्चेन्निर्धूमः स्यात् इत्यादिवारणाय व्याप काभाववत्वेन निर्णीत इति । निर्वह्निः स्याच्चेदद्रव्यं स्यात् इत्यादिवार णाय व्याप्यस्येति । तद्व्याप्यारोपाधीनस्तदारोपः इत्यर्थलाभाय व्यापक ( गौ० वृ० १ । १९१/४० ) । [ग अनिष्टप्रसङ्गः । स च सिद्धव्याप्ति- कयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनम् (त० भा० पृ० ६ ( प्र० प्र० ) । यथा पर्वतो वहिमान् धूमादित्यत्र धूमोस्तु हिमा इति हेतोरप्रयोजकत्वशङ्कायाम् यद्ययं निर्वह्निः स्यात्तर्हि निर्धूमः स्यात् । न भवति च निर्धूमः । तस्मान्न निर्वह्निः किंतु वह्निमानेवेति ( प्र० १० पृ० २१ ) । [घ] व्याप्यारोपाठ्यापकप्रसञ्जनम् ( गौ० वृ० ४/१/३/ पृ० २३८ अक्ष० ) । यथा यदि वह्निर्न स्यात् तर्हि घूमोपि [ङ ] व्याप्यारोपेण व्यापकारोपः ( त० सं० गु० ) ( सर्व० संव इति ( त० सं० गु० ) । अत्र व्याप्यपदं व्याप्यत्वेन ज्ञायमान परम् / ते व्याप्यारोपेण तर्फे नाव्याप्तिः । आरोपपदं ज्ञानमात्रपरम् / तेनायोगोठके यकायथार्थनिश्चयपरम् । तेन हृदो वह्निमान् इत्यनुमितौ नातिव्याप्तिः धूमाभावेन वह्नयभावतर्फे नाव्याप्तिः । व्यापकारोपेत्यत्रारोपपदं बाधर्मित बाधनिश्चये अयथार्थत्वनिवेशात् अयोगोलकं धूमाभाववत्स्यात् इति तर्क जन्यत्वे सति बाधविषयकायथार्थनिश्चयत्वं पर्यवसितम् ( वाक्य० पृ० २१ ) । नातिव्याप्तिः । अयथार्थानुभवस्यैव लक्ष्यत्वात् । इत्थं च व्याप्यत्वेन ज्ञान इति स्यात् व्यापकः ज्ञेयम् ( सि० च० गु० पृ० ३४ ) । [च ] अनिष्टस्य प्रसङ्गः । कधर्माभ्युपगमे द्वितीयस्य नियतप्राप्तिरूपः । अत्रानिष्टं च द्विविधम् । प्रामाणिकपरित्यागः इतरपरिग्रहश्चेति ( ता० २० श्लो० ७१) । स चायं तर्कः पञ्चविधः । आत्माश्रयः अन्योन्याश्रयः चक्रकम् अनवस्था तदन्यबाधितार्थप्रसङ्गश्च ( प्रमाणबाधितार्थकप्रसङ्गः ) इत्याचार्याः । सत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा एतद्घटज्ञानं यद्येतद्धटज्ञानजन्यं तत्र ( १) स्वापेक्षापादकोनिष्टप्रसङ्ग आत्माश्रयः । अपेक्षा च ज्ञप्तावु- स्यात् एतद्वटज्ञानभिन्नं स्यात् इति । द्वितीया यथा घटोयं यद्येतद्धटजन्यः स्यात् एतद्धटभिन्नः स्यात् इति । तृतीया च अयं घटो यद्येतद्घटवृत्तिः स्यात् तथात्वेनोपलभ्येत इति । ( २ ) स्वापेक्षापेक्षितत्व निबन्धनोनिष्टप्रस- सोन्योन्याश्रयः । यथा अयं घटो यद्येतद्घटज्ञानजन्यज्ञानविषयः स्यात् एतद्धटमिन्न: स्यात् इति । उत्पत्तौ स्थितौ च स्वयमुदाहायम् । (३) स्वापेक्षणीयापेक्षित सापेक्षत्व निबन्धनोनिष्टप्रसङ्गश्चक्रकम् । पूर्वोक्त एवापा- दके जन्य पदान्तरमन्तर्भाव्योदाहार्यम् । अपेक्षा त्वत्र साक्षात्परंपरासाधा- मूलकप्रसङ्गः । यथा घटत्वं यदि यावद्धटहेतुवृत्ति स्यात् घटजन्यवृत्ति स्यात् इति । वृत्तिकारास्तु अनवस्था च अव्यवस्थितपरंपरारोपाधीनानि- ष्टप्रसङ्गः । यथा यदि घटत्वम् घटजन्यत्वव्याप्यं स्यात् कपालसमवेतत्व- व्याप्यं न स्यात् इत्याहुः (गौ० वृ० १।१।४०) । (५) उक्तचतु- ष्कान्यः प्रसङ्गः प्रमाणबाधितार्थकप्रसङ्गः । सोपि द्विविधः । व्याप्तिप्राहकः बहिजन्यो न स्यात् इति । द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यात् निर्धूमः परशोधकश्च । तत्राद्यो यथा धूमो यदि वह्निव्यभिचारी स्यात् तदा स्यात् इत्यादिः ( जग० तर्कग्रन्थ० ) ( गौ० वृ० ११ १२।४० ) । सच तर्क एकादशविधः व्याघातः आत्माश्रयः इतरेतराश्रयः चक्र- कत्वेन एतत्तर्कस्य परिशोधकत्वमित्यवधेयम् । अत्र प्राचीननैयायिकास्तु घूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्नयादेः निश्चाय- काश्रयः अनवस्था प्रतिबन्धिकल्पना लाघवकल्पना गौरवम् उत्सर्गः अपवाद: वैजात्यम् इत्यङ्गीचक्रुः ( सर्वे० पृ० २३९ अक्ष० ) । नव्यास्तु व्याघातादीनामप्रसञ्ज नरूपत्वात् न तर्कात्मकत्वम् । किंतु पञ्चविधत्वमेव तर्कस्य इत्याहुः । प्रथमोपस्थितत्वम् उत्सर्गः विनिगमनाविरहः लाघवम् गौरवम् इत्यादिकं तु प्रसङ्गानात्मकत्वान्न तर्कः । किंतु प्रमाण सहकारित्व- रूपसाधर्म्यात्तथा (तर्कत्वेन ) व्यवहारः इति ( गौ० वृ० १/१/४० // <तर्काभासः> अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् । <तपेणम्> मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम् ( सर्व० सं० १० ३७० पातञ्ज ० ) । <तस्करः> भोगं केवलतो यस्तु कीर्तयेन्नागमं कचित् । भोगच्छलाप दे विज्ञेयः स तु तस्करः ॥ ( मिताक्षरा० अ० २ श्लो० २७ ) । <ताडनम्> मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा । प्रत्येकं वायुवतिक ताडनं तदुदाहृतम् ॥ ( सर्व० सं० पृ० ३६९ पात० <तात्पर्यम्> [क] इतरपदस्येतरपदार्थसंसर्गज्ञान परत्वम् (चि०) । तात्प निश्चय एव शाब्दबोधे शब्दस्य सहकारि कारणम् । तस्य च संशये तिरेकनिश्चये (सैन्धवपदं लवणपरं न इति निश्चये ) तमे चान्वयबोधाच ( न्या० म० ४ पृ० २४ ) ( दि० पृ० १८९ ) । अत्रान्यदप्युच्यते । प्रतिपादकेच्छा विषयत्वं तत्परत्वम् / शब्दो वा यदिच्छया प्रयुक्तः स तत्परः । सा च प्रतिपाद्यधीः निवृत्तिविषययोः तत्परत्वं नानार्थाच्छ्रिष्टादने कार्यान्वितैकक्रिया परान्ह चान्वयाबोध प्रवृति लाक्षणिकपदादनावृत्त्या क्रमेणानेकार्थज्ञानम् । न त्वेकदैव / सकृद नियमेनैकत्रोच्चारणे नेकपरत्वाभावादिति सकलतान्त्रिकैकवाक्यतया वर्ष (चि०) । [ख] तदर्थप्रतीतीच्छयोच्चरितत्वम् (तर्का० ४ ) ( त० दी० [घ ] इदमेतस्मिन्नर्थेस्यान्वयं प्रत्याययतु इति प्रयोक्तुरिच्छा । म० ४ पृ० २४ ) ( भा०प० ४ श्लो० ८५) (नील० go ख० ४ पृ० ९२ ) । प्रयोक्ता चाभिसंधापयितृमात्रम् मौनिश्लोकाव्याप्तेः । शुकवाक्ये भगवदिच्छैव गतिः (न्या तदर्थश्च एतत्पदमेतत्पदेन सह संभूयान्वयबोधं जनयतु इति ( त० (२४) (मु० ४ पृ० १८९ ) । अत्रायमाशयः । शुकवाक्याच्छाब्द- बोध ईश्वरीयतात्पर्यज्ञानस्यैव कारणत्वं कल्प्यते । तेन शुकस्वार्थज्ञानाभा- वेनाभिसंधापयितृत्वाभावेपि नाभिसंधापयितुरिच्छायास्तात्पर्यत्वानुपपत्तिः इति ( त० प्र० ख० ४ पृ० ९२ ) । अत्रान्ये मन्यन्ते शुकवाक्ये विनैव तात्पर्यज्ञानम् शाब्दबोधः इति ( मु० ४ पृ० १८९)। सैन्धवमानयेत्यादौ सैन्धवपदम् आनयनपदार्थे लवणं प्रत्याय इत्याकारिकाया वाक्यप्रयोक्तरिच्छायाः सत्त्वाल्लक्षणसमन्वयः ( म० प्र० (४५० ५८) । एवम् श्वेतो धावति इत्याद्यदाहार्यम् (दि० ४ पृ० १८९) । अत्र विशेषे तात्पर्यग्राहकाणि प्रकरणान्येव भोजनादीनि गमनादीनि वा विज्ञेयानि ( म० प्र० ४१०५०) । अत्रोक्तं भर्तृहरिणा संयोगो विप्रयो- गश्च साहचर्ये विरोधिता। अर्थ: प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्य मौचिती देश: कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । अत्रोदाहरणानि तु सशङ्खचको हरिः इत्या- दीनि ज्ञेयानि ( काव्यप्र० उ० २) । अत्रोक्तं कैश्चित् । प्रत्यक्षोपस्थिते- नापि कलायेन तात्पर्यग्रहसहकारिणमासाद्य पचति इत्यत्रान्वयबोधः इति ( न्या० सि० दी० पृ० ४६ ) । कलायं शमीधान्यम् मुद्द्रादि । अत्र इत्याहु: । केचित्त सैन्धवमानयेत्यादौ नानार्थस्थल एव तात्पर्यसंशयादेः मतमेदाः । शशधरादयः शाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणत्वं नास्त्येव संभवेन तत्रत्यशाब्दबोध एव तात्पर्यनिश्चयों हेतुः । न तु ध कुम्भपरम् लक्षणया पटपरं वा इति संशये घटशाब्दबोधाभावात् सर्वत्र घटादिशब्दबोघे हेतुः इत्याहुः । परे तु घटादिशाब्दस्थलेपि घटपदम् तात्पर्यनिश्चयः कारणम् इत्याहु: ( म० प्र० ४ पृ० ५८) । वस्तुतस्तु तीच्छयोच्चरितत्वरूपतात्पर्यज्ञानस्यैव हेतुत्वम् (त०प्र० ख० ४ पृ० १४) शाब्दसामान्य एकपदार्थप्रकारकापरपदार्थ विशेष्यकप्रती- नानाथनुरोधेन घटमान येत्या दौ । र्यतामित्यादौ राजपुत्रसंसर्गप्रतीतीच्छयोच्चरिते राज्ञ इत्यस्य पुरुषपदेन साकावारणाय यत् पदं यत्पदव्यतिरेकेण तात्पर्यविषयीभूतार्थान्वयान- नुभावकम् तत् पदं तेन पदेन साकाङ्क्षम् इति तात्पर्यगर्भाकाङ्क्षाज्ञानका- रणत्वावश्यकतया आकाङ्क्षाघटकतयैव तात्पर्यज्ञानं हेतुः न तु इत्याहुः ( त० प्र० ख० ४ पृ० ९३ ) । स्वातध्र्येण <तादर्थ्यम्> [क] तत्प्रयोजनकत्वम् । यथा यूपाय दार्बित्यादौ दार. स्तादर्थ्यम् । अत्र स एवार्थः प्रयोजनमस्य तत्त्वम् इति व्युत्पत्तिः । अत्र तत्प्रयोजनत्वं च समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छा विषयत्वम् । तत्प्रयोजनकत्वरूपतादर्थ्यं च तदिच्छाधीनेच्छा विषयव्यापाराश्रयत्वम् (ग० व्यु० का० ४ पृ० ९८ ) । अत्र तादात्म्यत्वं च संबन्धता विशेषः प्रतीतिसाक्षिकः ( त० प्र० १ पृ० ४५ ) । [ख ] उपकार्योपकार कभावरूपः संबन्धः इति शाब्दिका वदन्ति । [ग] तदुद्देश्यकत्वास केचित् । <तादात्म्यम्> १ [क] तद्वृत्तिधर्मविशेषः । यथा प्राचीनोक्ते त संबन्धावच्छिन्न प्रतियोगिताको यः अभावः तदवच्छित सोन्योन्याभावः न्याभावस्वरूपे निरूपणीये घटान्योन्याभाव इत्यत्र घटत्वमेव दात्म्यम् । तादात्म्यं च संबन्धताविशेषः प्रतीतिसाक्षिकः । भावः । घटान्योन्याभावबोधे घटत्वं संबन्धविधया प्रकार विधया च योगितावच्छेदकम् इति द्विविधतया घटत्वस्य भानम् । तियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः इति (त० प्र० पृ० ४५) । [ख] स्ववृत्त्यसाधारणो धर्मः । तादृशधर्मस्तद्व्यक्तिला रूपः (ग० व्यु० का० १ पृ० ५) । यथा नीलो प्रथमा विभक्तेरभेदार्थकत्वमते नीलादिनिष्ठतद्व्यक्तित्वमेव नीलपदोत्तर विभक्त्यर्थस्तादात्म्यम् । अत्रासाधारण्यं चैकमात्रवृत्तित्वम् (ग० का० १ पृ० ५) । भेदसहिष्णुरभेदस्तादात्म्यमिति केचिद्वेदार ( वेदा० ५० ) । भेदाभेदबुद्धिनियामकः संबन्धविशेष आहुः । मायावादिमते तत्सत्तातिरिक्तसत्ताकत्वाभावः इति आत्मा यस्य स तदात्मा । तस्य भावः तादात्म्यम् इति । <तादृशम्> तुल्यदर्शनम् । यथा यादृशप्रतियोगितावच्छेदकावच्छिन्नानधि- करणत्वं हेतुमतः तादृशप्रतियोगितानवच्छेदकत्वम् (मु० २ पृ० १४५) इत्यादौ । यथा वा तथाविधं प्रेम पतिश्च तादृशः ( कुमा० स० ५ श्लो० २) इत्यादौ ( वाच० ) । <तान्त्रिका:> ( मन्त्राः ) तन्त्रेषु कामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णि- तास्ते तान्त्रिका: ( सर्व० सं० पृ० ३६८ पातञ्ज ० ) । <तापः> कपालानामङ्गारैः प्रतापनम् ( जै० न्या० अ० १० पा० १ अधि० ११) । <तारतम्यम्> न्यूनाधिकभावः । यथा रमाब्रह्मादयो देवास्तारतम्येन संयुताः । यथा वा तारतम्ययोगयुक्तांश्च भावानतिरूक्षानतिस्निग्धानत्यु- ष्णानतिशीतानित्येवमादीन् विवर्जयेत् ( सुश्रुत० ) इत्यादौ । यथा वा निर्धनं निधनमेतयोर्द्वयोस्तारतम्य विधिमुक्तचेतसाम् । बोधनाय विधिना विनिर्मिता रेफ एव जयवैजयन्तिका ( उद्भट ) इत्यादौ । <तावत्> १ तदेत्यर्थः । यथा भर्तापि तावत्क्रथकैशिकानाम् ( रघु० स० (७ लो० ३२) इत्यादौ । २ साकल्यम् । यथा तावत्प्रकीर्णाभिनवोप- चारम् ( रघु० स० ७ श्लो०० ४ ) इत्यादौ । ३ अवधिः । यथा बन्धुं न संभावित एव तावत् ( रघु० स० ७ श्लो० ६ ) इत्यादौ । आलो- कमार्ग प्राप्तिपर्यन्तमित्यर्थः । ४ मानार्थः । यथा त्वमेव तावत् परिचि विचारणीयम् तावन्मात्रमित्यर्थः । ५ अवधारणम् । यथा इन्द्रप्रस्थगमस्ता- वत् कारि मा सन्तु चेदयः ( माघ ० स० २ श्लो० ६३ ) इत्यादौ । मा कारि तावत् न क्रियतामेवेत्यर्थः (माघ ० टी० मल्लि० २/६३ ) । ६ परिमाणविशिष्टम् । यथा जम्बूद्वीपोयं यावान् प्रमाणविस्तारतः तावता पण यथा पुरोस्य यावन्न भुवि व्यलीयत । गिरेस्तडित्वानिव तावदुच्चकैः रोधि परिवेष्टितः ( भाग० ५/२०/२ ) इत्यादौ । क्रियाविशेष (माघ ० स० १ श्लो० १२ ) इत्यादौ । ७ प्रशंसा । ८ पक्षान्तरम् । ४२ न्या० को ० ९ अधिकारः । १० संग्रामः ( वाच० ) । कचित् पादपूरणार्थ वाक्या- लंकारार्थ चापि तावच्छब्दः प्रयुज्यते । एतेष्वर्थेषु केचिदर्था: कोरो उक्ताः । यथा यावत्तावत्परिच्छेदे कार्ये मानावधारणे इति विश्वः / यावत्तावच्च साकल्येवधौ मानेवधारणे इत्यमरः ( का० ३ नानार्थव० श्लो० २४५ ) इति । <तिङ्> (विभक्तिः ) तिप्तस्झिसिप्० ( पाणि० ३/४/७८) इस विहिताः प्रत्ययास्तिसंज्ञका बोध्या: । एतद्विचारस्तु कौमुद्यादौ द्रष्टव्यः तिङ् शाब्दिकैराख्यातमित्युच्यते ( श० प्र० श्लो० ९५ पृ० ( श० प्र० श्लो० ९५ पृ० १३७) । यथा चैत्रः पचतीला धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दस्तिङ् णया बोध्यते । अत्र रथादीनामचेतनतया गमनानुकूलप्रयत्नशून्यत्वाबा तिबाख्यातम् । रथो गच्छतीत्यादौ तिबाख्यातेन व्यापारो निरू पार एव लक्ष्यते इति भावः ( न्या० म० ४ पृ० १८) (मु० जानाति इच्छति यत्नं करोति इत्यादावारख्यातस्याश्रयत्वे लक्षणा । क स्थीयते इत्याख्यातेन कृतिर्बोध्यते इत्याहुः । एतन्मते चैत्रेण इत्यत्र चैत्रकर्तृका स्थित्यनुकूला कृतिः इति बोधः । कृतौ संख् र्थविशेष्यक एव शाब्दबोधः । प्रत्ययस्य निरर्थकत्वम् इत्या नान्वयः इति भावः । अन्ये तु चैत्रकर्तृका वर्तमानस्थितिः इति क्ष म० ४ पृ० २० ) । अत्रेदमवधेयम् । उभयपदिधातूनां यत्र किया कर्तृनिष्ठम् तत्रात्मनेपदम् यत्र च कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु / मणिकृतस्तु यत्र क्रियाफले कर्तुरभिप्रायः (इच्छा) तत्रैवात्मनेपदम् ( श० प्र० श्लो० ९७ पृ० १४४-१४५ ) । अत्राधिकं तु शब्दव्याख्यानावसरे संपादितम् (पृ० १२०) । चैत्रः पचतीत्यादौ यत्नः (कृतिः) तिबाख्यातस्य वाच्यः क्वचित् समवायित्वम् आश्रयत्वं वा तिङर्थः । यथा ईश्वरो जानातिन रथो गच्छतीत्यादौ च । अत्र ज्ञानादिमत्त्वमात्रप्रतीतेः समवायित्वे निरूढलक्षणेति भावः । अत्रेदमवधेयम् । आश्रयत्वादौ तिडो लक्षणा । कृतित्ववदाश्रयतात्वादेरखण्डत्वे तदवच्छिन्नेपि तिङः शक्तिरेव इति ( श० प्र० श्लो० ९५ पृ० १३८ ) । कचित् अवच्छेदकत्वम् । यथा चैत्रो जानातीत्यादौ । कचित् दैशिकाश्रयत्वम् । यथा बुद्धिरवगा - हते घटो भासत इत्यादौ । कचित् प्रतियोगित्वम् । यथा घटो नश्यती- (त० दी० ) ( दि० ४) । एवम् तसादिप्रत्ययानामप्यर्था यथायोग्यं त्यादौ तिबर्थः ( श० प्र० श्लो० ९५ पृ० १३८ ) ( चि० ४) स्वयमूह्याः । अत्रेदं तत्त्वम् । जीवनयोन्यादिनिखिलयनगतं यत्नत्वमेव तिङः शक्यतावच्छेदकम् न तु प्रवृत्तित्वम् । चैत्रो निःश्वसिति इत्यादितोपि श्वासाद्यनुकूल प्रयत्नस्य प्रतीतेः । पचतीत्यादितः पाककृतिमान् इति प्रतीतेश्च ( श० प्र० श्लो० ९५ पृ० १३७ - १३८ ) । पचति पाकं करोति इत्यादियत्नार्थक करोतिना सर्वाख्यातविवरणात् वृद्धव्यवहारा- दिव बाधकं बिना विवरणादपि व्युत्पत्तेरित्यन्ये । किं करोति इति यत्न- (बाच ० ) । अत्रायमर्थः । चैत्रः पचतीत्यादौ तिर्थकृतौ धात्वर्थस्य तं प्रश्ने पचति इत्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेः इत्याचार्या: ( चि० ) करोमि इति प्रतीतिनियामकः साध्यत्वाख्यविशेष्यताप्रभेदः तद्विशिष्टं फलोपधायकत्वलक्षण मनुकूलत्वं वा संसर्गमर्यादया भासते । तादृश चैत्रादिनामार्थे ईश्वरः पचति इत्यादिप्रयोगापत्तिच्छे मतप्रक्रिया ज्ञेया । शाब्दिकाः भावप्रधानमाख्यातम् सत्त्वप्रधानानि नामानि संसर्गेणान्वयः ( श० प्र० श्लो० ९५ पृ० १३७ - १३८) । अत्रेयं इति यास्कमुनिपठितं निरुक्तमनुरुष्य चैत्रस्तण्डुलं पचति इत्यादौ चैत्र- भावना कृतिः प्रधानं धात्वर्थं प्रति इति विग्रहलभ्यस्य पूर्वोक्तयास्कनिरु- भिन्नकर्तृकस्तण्डुलनिष्ठविक्कित्यनुकूलो व्यापारः इत्याद्याकारकं सर्वत्र धात्वर्थमुख्य विशेष्यकमेव शाब्दबोधं स्वीकुर्वन्ति । नैयायिकास्तु भावो तार्थस्य स्वीकारेण तण्डुलनिष्ठविक्वित्त्यनुकूलव्यापारानुकूलकृतिमान् इत्या- द्याकारकं सर्वत्राख्यातार्थविशेष्यकं प्रथमान्तार्थमुख्यविशेष्यकमेव शाब्द बोधमुररीचक्रुः दीधितिकृतः । पचतीत्यादा वाख्यातस्य कृत्यर्थकत्वेपि चैत्रेण पक्कम् इत्यादा अधिकं तु शाब्दबोधः इत्यत्र द्रष्टव्यम् । अत्र विव चैत्रेण पच्यते इत्यत्रापि तृतीययैव कर्तृत्वमनुभाव्यते न त्वाख्यातेन । तिर्थ कृतेर्धात्वर्थविशेष्यत्वनियमात् इत्याहुः ( श० प्र० श्लो० ९५१० १४० ) । शाब्दिकास्तु कर्ता कर्म च भावश्च आख्यातार्थः इत्या अनुकूलव्यापारमात्रमाख्यातार्थः इति भट्टमीमांसका मण्डनमिश्राश्चादुः एतन्मते केवलं फलं धातोरर्थः इति ज्ञेयम् ( श० प्र० श्लो० ९५४ १४०) । काल: संख्यामात्रं सर्वत्राख्यातार्थः । पचतीत्यादौ धातुप्रति विकित्त्यनुकूलव्यापारो यत्नं विनानुपपन्नः इति तेन यत्न आक्षिप्यते प्राभाकराः । रत्नकोशकृतस्तु आख्यातार्थ उत्पादना । सा चोत्पादक सैव भावना । यथा पचतीत्यादावाख्यातस्य पाकमुत्पादयति इति । णात्तथास्वम् इत्याहु: (चि०४ ) ( श० प्र० पृ० १३९ / / एतल व्यापारमात्रं धातोर्वाच्यार्थः इति ज्ञेयम् । एकत्वादिसंख्या वर्तमान कालश्च तिर्थः । यथा चैत्रस्तण्डुलं पचतीत्यादौ तिबर्थकतावेकत्वम ( संख्या वर्तमानकालश्चाख्यातेन प्रतीयते ( चि० ४ ) । <तिथिः> चन्द्रार्कगत्या कालस्य परिच्छेदो यदा भवेत् । त क्ष्यामि गतिमाश्रित्य निर्णयम् ॥ भगणेन समग्रेण ज्ञेया द्वादश त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते ॥ आदित्याद्विप्रकृष्टस्तु : द्वादशकं यदा । चन्द्रमाः स्यात्तदा राम तिथिरित्यभिधीयते ॥ ( पुर पृ० ३ विष्णुधर्मोत्तरे ) । खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिय तयोः राशर ( पु० चि० पृ० ३६ ) । <तिरोभावः> नाशः । सांख्यास्तु अनभिव्यक्तिस्तिरोभावः इ तु ( अव्ययम् ) १ पक्षान्तरम् । यथा आचारेण तु संयुक्तः संपू भाग्भवेत् ( मनुः अ० १ श्लो० १०९ ) इत्यादौ । २ समुख इत्याहुः यथा उष्ट्र्यानं समारुह्य खरयानं तु कामतः । स्नात्वा उ प्राणायामेन शुद्ध्यति ॥ ( मनुः अ० ११ श्लो० १२१/६ ३ पूजा । यथा माणवकस्तु भु शोभनमित्यादौ ( पा० स० १।३९ ) । अत्र सूत्रम् तुपश्यपश्यताहैः पूजायाम् ११३९ ) इति । तदर्थश्च एतैर्युक्तं तिङन्तं पूजायां विषये नानुदात्तं स्यात् इति (पा० सू० दृ० ) । ४ पादपूरणार्थम् । दार्थक एव । अत्रोच्यते चन्द्रालोके निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ( वाच० ) । ५ भेदः । ६ अवधारणम् । ७ नियोगः । ८ प्रशंसा । ९ विनिग्रहः ( वाच० )। <तुमुन्> ( प्रत्ययः ) १ [क] प्रकृतक्रियासमान कर्तृकत्वसहिततद्विषयके- च्छाघीनेच्छाविषयत्वम् । यथा पक्तुं व्रजतीत्यत्र तुमर्थः (ग० व्यु० का० ४ १० ९८) (श० प्र० श्लो० ९२ पृ० १२७) । अत्र समन्वयः पक्तुं व्रजतीत्यादौ प्रकृतक्रिया पचनम् तत्समानकर्तृकत्वम् यः पाककर्ता स एव व्रजनकर्ता इति व्रजनेस्ति । पाकेच्छाधीनेच्छा व्रज- नेच्छा । तद्विषयत्वं च व्रजनेस्तीति सर्व सुस्थम् । अत्र तुमुन्नन्तेन व्रजने पाका दिसमानकर्तृकत्वसहितं पाकविषयकेच्छाधीनेच्छा विषयत्वं बो- सूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमान कर्तृकत्वसहिततदिच्छा- । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (पा० सू० ३।३।१० ) इति 'वीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात् (ग० व्यु० का० ४ पृ० ९८ ) । [ख तत्प्रागभावकालीनतद्वि- षयकेच्छा । यथा भोक्तुमागच्छतीत्यादौ । अत्र भोजनप्रागभावका- (३२ ) । २ इच्छावान् । यथा भोक्तुं व्रजतीत्यस्य भोजनेच्छावान् लीनभोजनविषयकेच्छावानागच्छति इति बोध: ( सि० च० ४ पृ० व्रजति इत्यर्थः । ३ कर्ता । यथा भोक्तुमिच्छतीत्यत्र तुमुनोर्थः । अत्र लक्षणया कर्ता बोध्यते । कर्तृविशेषणीभूतायां कृताविच्छाया अन्वयः । तेन भोजनकर्तारमात्मान मिच्छति इत्यर्थ: ( तर्का० ४ पृ० १२ ) । <तुरी> कुविन्दस्य काष्ठा दिनिर्मितस्तन्तुवयनसाधन विशेषः । यथा तुरीवेमा- पटस्य निमित्तकारणम् ( त० सं० १ ) इत्यादौ । <तुल्यत्वम्. १ [ क ] सादृश्यवदस्यार्थोनुसंधेयः । यथा सकामां दूषयं. स्तुल्यो न वधं प्राप्नुयान्नरः । सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् ( मनुः ) कुम्भकर्ण: कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ( रघु० स० १२ श्लो० ८० ) इत्यादौ । [ख ] भिन्नत्वे सति धर्मवत्त्वम् । यथा चैत्रेण चैत्रस्य वा तुल्य इत्यादौ । अत्र तुल्यशब्दार्थनिविष्टे च तृतीयाद्यर्थस्य प्रतियोगित्वस्य धर्मे चाधेयत्वस्य अन्वयात् भेदे चैत्रत्वावच्छि. मित्यादावपि द्रष्टव्यम् । अत्र विशेषो ज्ञेयः पाणिनीयाः तुल्योपमयोयोग नान्यत्वे सति चैत्रवृत्तिधर्मवान् इत्यर्थः । एवम् चैत्रेण चैत्रस्य वा सादृश्य- तृतीयां नेच्छन्ति इति ( श० प्र० श्लो० ९२ पृ० १२४)/ २ क अन्यूनानतिरिक्त व्यक्तिकत्वम् । यथा न्यायमते बुद्धित्वज्ञानत्वया घटत्वकलशत्वयोवो तुल्यत्वम् ( त० प्र० १ ) ( वै० उ० १/१// इदं तु घटत्वकलशत्वादीनां भेदे भिन्नजातित्वे वा बाधकम् इति बोधम् ( दि० १ । १ पृ० ३४ ) ( नील० ) । [ ख ] तुल्यव्यक्तिवृत्तित्वम् । यथा घटत्वकलशत्वयोस्तुल्यत्वम् ( त० प्र० १ ) । स्वभिन्नजातिसमनियतत्वमिति फलितोर्थः (दि० १/१ पृ० ३४ // <तुल्यवित्तिवेद्यत्वम्> एकज्ञानविषयत्वम् (त० प्र० ख० ४ पृ० २१// यथा साधनवद्वृत्तिः साध्याभावो वा हेतुदोषः (दीधि० २ हेत्वा० ) इत्यत्र प्राचीनमते वह्निमद्वृत्तिर्धूमाभावः इति ज्ञाने धूमाभावे म वस्य भासने वही घूमाभाववद्वृत्तित्वमपि तुल्यंवित्तिवेद्यता पाज्जातिविशिष्टव्यक्तिप्रतीतिः । अत्रायं विशेषो ज्ञेयः । तन्मते जातो व्य ज्यते इति ( त० प्र० ख० ४ पृ० २१ ) । इदं च कुब्जशक्तिवाि शाब्दबोधे कारणम् । व्यक्तिशक्तिस्तु स्वरूपसती ( न तु ज्ञाता ) <तृतीया> (कारकविभक्तिः ) तत्तद्धात्वर्थे करणत्वादिबोधक कारकतृतीयालक्षणं च पच्यर्थधर्मिककरणत्वान्वयबोधानकळप सजाती यत्वम् ( श० प्र० श्ली० ६५ पृ० ७५) । यथा काष्ठेन तमु पचतीत्यादौ काष्ठेनेति तृतीया । तृतीयार्थश्च १ कर्तृत्वम् । यथा चैत्रेण ग्रामो गम्यते पुत्रेण सहागतः पितेत्यादौ तृतीयार्थः । चैत्रेणेत्यत्र कर्तृ- करणयोस्तृतीया (पा० सू० २१३/१८) इत्यनेन कर्तरि वा व कारकतृतीया इति ज्ञेयम् । पुत्रेणेत्यत्र सहयुक्तेप्रधाने (पा० सू० २।३।१९) इत्यनेन विहिता कारकार्थान्या तृतीया । अत्र कर्तृत्वं तृती- यार्थः । सहशब्दसमभिव्याहृतपदोपस्थाप्यक्रिया ( आगमनम् ) सह- थेः । एकदेशावच्छेदैककालीनत्वसंबन्धेन तस्याः समभिव्याहृतक्रिया- याम् आगतपदोपस्थाप्यायाम् अन्वयः । तथा च पुत्रकर्तृकागमन- विशिष्टागमनकर्ता पिता इत्यर्थः ( का० व्या० पृ० ८ ) । शब्दशक्ति- प्रकाशिकाकृतस्तु पुत्रेण सहागतः सूपेन सार्धं भुक्तः चक्रेण साकं दण्डेन जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्ययार्थैकदेशे कर्तृ- तृताकगतिकालीन गतिकर्तृतावान् सूपनिष्ठकर्मताकभोजनकालीनभोजन- वादिकारके स्वप्रकृत्यर्थस्याधेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिक- कर्मतावान् चक्रनिष्ठकरणताकोत्पत्तिकाली नदण्ड निष्ठकरणताकोत्पत्तिमान् पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्याकारस्तत्र बोधः इत्याहुः । अत्र सहाद्यव्ययार्थस्तु स्वान्वयितत्तत्कर्तृत्वादिकारकावच्छि- प्र० श्लो० ९२ पृ० ११९) । कचित् हेतुकर्तृत्वमपि तृतीयार्थः । नायाः समभिव्याहृतक्रियायाः समानकालीनत्वरूपं साहित्यम् (श० छिनत्तीत्यादौ तृतीयार्थः । साधकतमं करणम् ( पा० सू० १/४/४२) तत्स्वरूपं प्रागुक्तम् (पृ० ३०६) । २ करणत्वम् । यथा कुठारेण वृक्षं इति पाणिनिसूत्रेण करणसंज्ञा । साधकतमत्वं च असाधारणकारणत्वम् व्यापारवदसाधारणकारणत्वं वा ( म० प्र० १ पृ० ६ ) । तथा च कर्तृकरणयोस्तृतीया (पा० सू० २१३११८) इत्यनेन तृतीया । अधिकं तृतीया द्विविधा । कर्तृतृतीया करणतृतीया च । तत्राद्याया आश्रयोर्थः । तु करणशब्दव्याख्याने संपादितम् (पृ० १९९ ) । अत्र शाब्दिकाः । इयं वृत्तित्वम् । यथा अक्षणा काणः पादेन खञ्ज इत्यादौ तृतीयार्थः । करणतृतीयायास्तु आश्रयव्यापारावर्थों इत्याहु: (वै० सा० ) । ३ अत्र येनानविकारः ( पा० सू० २।३।२०) इति सूत्रेण तृतीया । एवं च अत्र तृतीयाया वृत्तित्वमर्थः । तच्च काणादिपदार्थैकदेशे विकारे तदर्थश्चयेनाङ्गविकारो हानिराधिक्यं वा तदङ्गबोधकात् तृतीया इति । न्वेति । काणत्वं च बहिरवच्छेदेन चक्षुःशून्यगोलकवत्वम् / प्रसत्ता- न्धस्य काणत्वे तु चक्षुष्मद्गोलकवत्त्वे सतीति वाच्यम् । यदि बहिरव च्छेदेन चक्षुःसत्त्वेपि उपघातादेर्न चाक्षुषं तदोपहतगोलकव त्वमेव काण- त्वम् । अक्षिपदं चक्षुष्मद्गोलकपरम् । तथा च तादृशगोलकवृत्ति क च्चक्षुःशून्यत्वम् उपघातो वा तद्विशिष्टगोलकवान् इति अक्षणा काण: इत्यस्यार्थः । परे तु अक्षणा काण इत्यादौ अभेदे तृतीया । तथा च खञ्जत्वं च संस्थानविशेषशून्यपादवत्त्वम् । तथा च पादवृत्ति यत् । तादृशगोलकाभिन्नं यच्चक्षुः शून्यमुपहतं वा तद्वान् इति वाक्यार्थः इत्याहुः । एवम् मुखेन त्रिलोचन इत्यस्यापि मुखवृत्तिलोचनत्रयवान् इत्यर्थः (का विध संस्थानशून्यत्वम् तद्विशिष्टपादवान् इति पादेन खजः इत्यस्यार्थः । व्या० पृ० ८ ) । ४ विशेषणम् । यथा ज्ञायमानत्वेन लिङ्गं करण मिल्यादौ तृतीयार्थः । अत्र इत्थंभूतलक्षणे ( पा० सू० २१२१२१ ) इत्यनेन लक्षणवाचिपदात्तृतीयानुशिष्यत इति ज्ञेयम् । अयं भावः । अत्र लक्षणं व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् । तत्र विशेषणवावि दात् ज्ञायमानत्व इत्यस्मात् तृतीया इति ( ग० व्यु० पृ० ९१-९२ ) । ५ उपलक्षणम् । यथा जटाभिस्तास तृतीयार्थः । अत्रोपलक्षणत्वं च अतद्व्यावृत्त्यनवच्छेदकत्वे सत्यतद्यावृति समानाधिकरणत्वम् । अस्ति च जटायामतापसव्या वृत्त्यनवच्छेदकत्व शमदमादिमत्त्वस्यैव तदन्यूनानतिरिक्तवृत्तितया तदवच्छेदकत्वात् / शमादिना तापसः इति प्रयोग इष्टस्तदा विशेषणोपलक्षणैतदुभ धारणवैशिष्ट्यमेव तृतीयार्थ: ( का० व्या० पृ० ७ ) । अत्र उ । वैशिष्यं चातळ्यावृत्तत्वम् । तथा च अजटव्यावृत्तिमांस्तापसः इत्याक सू० २।३।२१ ) इत्यनेन विहितायास्तृतीयायाः वैशिष्ट्यम् तथा इत्याद ( पृ० ६ ) । इदं तु बोध्यम् । प्रकृत्यर्थस्य निरुक्तवैशिष्टयं यदि वर्तमानतया स्तत्र फलितार्थ: ( श० प्र० श्लो० ९२ पृ० ११९ ) ( म० प्र० १ प्रत्याय्यते तदेदं विशेषणत्वेन व्यपदिश्यते । यदि चावर्तमानत्वेन तदो- पलक्षणत्वेन व्यपदिश्यते । यथा शिखया परिव्राजको वर्तते इत्यादौ । यथा वा गुरुणा टीका कुरुणा क्षेत्रमित्यादौ ( श० प्र० श्लो ९२ पृ० ११९ ) । इदं च बोध्यम् । इत्थंभूतलक्षणे ( पा० सू० २।३।२१ ) इत्यत्र लक्षणं च व्यावर्तकम् । तच्च विशेषणोपलक्षणभेदेन द्विविधम् । तत्रोपलक्षणं चाविद्यमानं सद्व्यावर्तकम् । जटाभिस्तापस इत्यादावविद्य- मानजटादे: कालान्तरसंबन्धविवक्षया मतुबाद्यनवकाशादुपलक्षणवाचक- जटादिपदात् तृतीयैव ( ग० व्यु० का० ३ पृ० ९२ ) । केचित्तु (शाब्दिका: ) ज्ञानज्ञाप्यत्वं तृतीयार्थः । यथा जटाभिस्तापस इत्यादी इत्याहुः । अत्र तृतीयार्थैकदेशे ज्ञाने जटानामन्वयः । ज्ञानज्ञाप्यत्वस्य च तापसपदार्थैकदेशे तापसत्वेन्वयः । एवं च जटाज्ञाप्यतापसत्ववान् इत्यर्थः ( म० प्र० १ पृ० ६ ) । अत्रेदं चिन्त्यम् । जटाभिस्तापस इत्यादौ (पा० सू० २।३।२३) इत्यनेनैव तृतीयाया उपपत्तौ इत्थंभूतलक्षणे ज्ञानज्ञाप्यत्वस्य तृतीयार्थत्वे धूमेन वह्निमानित्यत्रेव प्रकृतस्थलेपि हेतौ (पा० सू० २।३।२१ ) इति सूत्रस्य वैयर्थ्यं स्यात् इति । ६ हेतुत्वम् । यथा घनेन कुलम् दण्डेन घटः । अत्र क्रियायोगाभावात् क्रियान्वय निरुक्त करणत्वार्थिका कर्तृकरणयोस्तृतीया (पा० सू० २/३११८ ) न तृतीया । किंतु हेतौ ( पा० २१३ । २३) इति सूत्रेणानुमा- नार्थप्यन्वितहेतुत्वार्थिका तृतीयानुशिष्यते इति विशेष: ( का० व्या पृ० ८) । अत्र हेतुत्वं च जनकज्ञापकोभयसाधारणं बोध्यम् । तेन ' इत्याकारो बोध: ( श० प्र० श्लो० ९२ पृ० १२१ ) । पर्वतो धूमेन धनेन कुलमित्यादौ हेतुत्वं जनकत्वम् । तथा च धननिष्ठहेतुताककुलम् वह्निमानित्यादौ तु ज्ञापकत्वमेव हेतुत्वम् ( ग० व्यु० का० ३ पृ० ८७ ) । घूमेन वह्निः अणुत्वेन द्रव्यत्वम् इत्यादौ ज्ञापकत्वलक्षणं गौणमेव हेतुत्वं तृतीयार्थः । ( नवीनमते ज्ञाप्यत्वं तृतीयार्थः) । तेन धूमनिष् ४३ न्या० को० यज्ज्ञापकत्वम् निरूपकत्वसंबन्धेन तद्वान्वह्निः इत्याकारस्तत्र बोध: ( श० प्र० श्लो० ९२ पृ० १२२ ) ( ग० व्यु० का० ३५० ८७ ) । घटेन शून्यः विधुरः रहितः इत्यादौ च हेतुत्वमेव तृतीयार्थः । अत्रापि हेतौ ( पा० सू० २।३।२३ ) इत्यनेनैव तृतीया । हेतुत्वं च प्रतियोगिसाधारणमपि इति भाति । तथा च घटत्वाव वच्छिन्नं प्रतियोगित्वमेव तृतीयार्थः । तस्य शून्यत्वेन्वयः । एवम् चैत्रस्य वा तुल्य इत्यादावपि प्रतियोगित्वमेव तृतीयार्थ: ( श० प्र० लो० ९२ पृ० १२३ – १२४ ) । ७ फलम् ( प्रयोजनम् ) । यथा धनेन कुशलम् अध्ययनेन वसति इत्यादौ तृतीयार्थः । अत्रापि होतो ( पा० सू० २।३।२३ ) इत्यनेन फलार्थकातृतीया इति ज्ञेयम् । तत्र हेतुशब्देन कारणमिव फलमपि गृह्यते । ८ अभेदः । यथा धान्येत धनी गोत्रेण गार्ग्यः प्रकृत्या अभिरूपः प्रकृत्या कृपणः स्वभावन सरल: घटत्वेन साजात्यम् वाजपेयेन यजनम् जात्या ब्राह्मणः इत्यादी तृतीयार्थः । अत्र प्रकृत्यादिभ्य उपसंख्यानम् इत्यनेन वार्ति अमेदार्थे तृतीया । अमेदस्य धान्यादावन्वयः । तथा च धान्यामित क्रमेण बोधा भवन्ति ( का० व्या० पृ० ८ ) । केचित्त धूमेन के धनवान् गोत्राभिन्नगर्गकुलोत्पन्नः साहजिकरमणीयतावान इत्यादय इत्यादाविव धान्येन धनम् इत्यादावपि ज्ञापकत्वमेव तृतीयार्थः श वदन्ति ( श० प्र० श्लो० ९२ पृ० १२४ ) । प्रकृत्या कृपण इत्य प्रकृत्यादिपदं यावदाश्रयभाविधर्मपरम् । तृतीयार्थश्चाभेदः तादात्म्यं वा एवं च स्वाश्रयाधिकरणयावत्कालवृत्तिकार्पण्यवान् इत्याकारस्तत्र ( श० प्र० श्लो० ९२ पृ० १२४ ) । जात्या ब्राह्मण इत्यत्र ब्राह्मणपद यादृष्टविशेष प्रयोज्यधर्मवत्परतया तादृशधर्म एव जात्यभेदस्यान्वयः / स पत उपस्थिते ब्राह्मण्ये तदन्वयायोगात् इति विज्ञेयम् ( श् ९२ पृ० १२४ ) । ९ अवच्छेदकत्वम् अवच्छेद्यत्वं वा । यथा ( विषयत्वम् ) । यथा भोगैः प्रसितः उत्सुकः इत्यादौ तृतीयार्थ प्रकारत्वं वा इत्यादौ तृतीयार्थः । १० अधिकरणल अत्र विषयत्वलक्षणं गौणमधिकरणत्वं तृतीयया बोध्यते । तेन भोगेष्व नुरक्तः इत्येवं तत्र बोध: ( श० प्र० श्लो० ९२ पृ० १९८-१२५) ( ग० व्यु० का० ३ पृ० ९१-९८ ) ( का० व्या० पृ० ७-८) । ११ वैशिष्टयम् । यथा वह्निमत्वेन पर्वतमनुमिनोमि इत्यादौ वह्निविधे- यकस्वरूपं वैशिष्ट्यं तृतीयान्तार्थः । यथा वा रजतत्वेन शुक्तिं जानाती- यादौ ज्ञाने रजतत्वादिप्रकारकत्वरूपं वैशिष्ट्यम् । घटत्वेन वह्निर्नास्तीत्यादौ च ( सौन्दडमते) अभावे घटत्वावच्छिन्न प्रतियोगिताकत्वरूपं वैशिष्ट्य म् तृतीयान्तार्थः इति संक्षेपः ( ग० व्यु० का० २ ख० २ पृ० ५६ ) । <तृप्तिः> फलेच्छा विच्छेदः (कु० टी० ५) । यथा भोजनेन तृप्तोस्मीत्यादौ । यथा वा वाणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ( मनुः अ० ३ श्लो० २७१) तस्यालमेषा क्षुधितस्य तृप्त्यै ( रघु० स० २ श्लो० ३९) इत्यादौ । <तृषा> पिपासा । यथा न हन्ति मण्डूककुल तृषाकुल: ( ऋतु० ) इत्यादौ । तृषाकुलस्य लक्षणं च -सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति । मुहुः काङ्क्षति तोयं तु तं तृष्णार्दितमादिशेत् ॥ इति ( भावप्र० ) । <कृष्णा> ( दोषः ) १ इदं मे न क्षीयताम् इतीच्छा ( गौ० वृ० ४ । ३ ) । २ अप्राप्ताभिलाषः । लोभजन्या मनोवृत्तिः । यथा लोभो जनयते तृष्णां तृषार्ता दुःखमानुयात् (हितोप ० ) इत्यादौ । <तेज:> १ ( द्रव्यम् ) [क] तेजो रूपस्पर्शवत् ( ३० २।१।३ ) । तद- चैध रूपं भास्वरम् स्पर्शश्च उष्णः तद्वत्तेजः । भास्वरशुक्लरूपवत्त्वम् उष्णस्पर्शवत्वं च-तेजोलक्षणम् इति । ऊष्मणि भर्जनकपालस्थे तेजसि उष्णस्पर्शवत्वेनानुमीयते ( वै० उ० २ । १ । ३ ) ( वै० वि० २ । १ । ३ ) । वारस्तेजसि च तेजस्त्वेन भास्वररूपमनुमीयते । तत्र तेजस्त्वं तु (वै० २। २।४ ) । ग तेजस्त्वसामान्यवत् ( प्रशस्त ० ) ( त० कौ० १ पृ० २) । तच्च चक्षुःशरीरसवितृ सुवर्णवह्नि विद्यदादिप्रभेदम् (त० मा० अर्थ० पृ० २७ ) । यथा सामानाधिकरण्यं हि तेजस्तिमिरयोः कुत: ( माघ० स० २ श्लो० ६२) इत्यादौ सूर्यादीनां प्रौढप्रकाशः । तेजोलक्षणं च तेजस्त्वमेव । तच्च चन्द्रचांमीकरसमवेतत्वे सति ज्वलन- समवेतं सामान्यम् ( सर्व० औलू० पृ० २१८ ) । जन्योष्णस्पर्श- समवायिकारणतावच्छेदकतया सिद्धो जातिविशेषः । जन्यतेजस्वा तेजो० पृ० ७८) ( दि० १ पृ० ७८) । शुक्लभास्वररूप समाना वच्छिन्नसमवायिकारणतावच्छेदकतया सिद्धो जातिविशेष: (मु० ) धिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् । सांख्यास्तु शब्द स्पर्शतन्मात्रसहिता- द्रूपतन्मात्रादुत्पन्नं शब्दस्पर्शरूपगुणं तृतीयं महाभूतं तेज इत्याहुः । अत्रोच्यते । तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं सूर्यस्तत्राधिदैवतम् ॥ इति ( भा० आश्व० ) । २ सात्त्विकोधिक्षेपा पमानादेरसहनरूपो नायकगुणविशेषस्तेज इति साहित्यशास्त्रज्ञाः । अत्रोच्यते । अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेप्यस अत्रोच्यते । तेजो नाम दर्पापरनामा सत्त्वगुणविकारः प्रकाशकोन्त:सार तत्तेजः समुदाहृतम् ॥ इति ( सा० द० ) । ३ हयवेग इत्यश्वशास्त्रज्ञाः विशेषः । यथाह भोजराजः । तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः क्रोधस्तम इति ज्ञेयास्त्रयोगि सहजा गुणाः ॥ इति । अत्रोच्यते । रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोज तदेव बलमित्युच्यते इति ( सुश्रु० ) । ५ सारः इति भिषजः ६ दीप्तिः । ७ प्रभावः । ८ पराक्रमः । ९ नवनीतं चेति काव्यज्ञा सिद्धं तेजो द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यं परमाणुलक्षणम् अनित्यं कार्यलक्षणम् । अनित्यं त्रिविधम् । शरीरम् इन्द्रियम् विषयम तत्र शरीरमयोनिजमेव । तच्चादित्यलोके प्रसिद्धम् । तच पार्थिवभाग पष्टम्भाच्चोपभोगसमर्थ भवति ( प० मा० ) ( प्रशस्त ० ) । रूपग्राहकं चक्षुः कृष्णताराप्रवर्ति । विषयरूपं चतुर्विधम् । भी कम् खद्योततेजआदि च । दिव्यम् अविन्धनं सौरचान्द्रविद्यद्वा दिव्यम् औदर्यम् आकरजं च । तत्र भौमम् पार्थिवमात्रेन्धनं वहया लादि । अद्भिरिध्यते प्रकाश्यत इति विग्रहो द्रष्टव्यः ( सि० च० १ पृ० ७ ) । औदर्य पार्थिवजलोभयेन्धनं तेजः । तच्च भुक्तस्य परिणाम- हेतु: ( जाठरानल: ) । आकरजम् अनुभयेन्धनं तेजः । तच्च सुवर्ण- त्रपुसीसरजतकांस्याद्यष्टकम् ( प्रशस्त ० ) ( तर्कसं० ) (मु० १५० ७९ ) ( तर्ककौ० १५० २) । अत्र केचिदाहुः । सुवर्ण पार्थिवम् तैजसं चेति मिश्रितं वस्तु । तत्र तैजसम् अग्निसंयोगानुच्छिद्यमानद्रवत्वाधि- सुवर्णम् न तु तैजसम् इति ( प० मा० ) । न्यायवैशेषिकनये सुवर्ण करणम् । पार्थिवं तु अद्भुतं पीतरूपवत् इति । वस्तुतः द्रुतं पार्थिवमेव तेजसमेव । तस्य तैजसत्वे प्रमाणमनुमानम् । तच्च सुवर्णमपार्थिवम् असति प्रतिबन्धकेत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवी (घृतादि ) इति । जलमध्यस्थघृतादौ व्यभिचार- वारणाय असति प्रतिबन्धके इति । अग्निसंयोगासमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारवारणाय अत्यन्तानलसंयोगे सति इति च विशेषणं दत्तम् ( नील० १ पृ० ८ ) ( दि० १ पृ० ८१ ) । अनेनानुमानेना- पार्थिवत्वसिद्धौ अत्यन्तानलसंयोगी पीतिमाश्रयः ( पृथिवी पक्षः ) द्रवत्व- गुरुत्वात् ( हेतु: ) जलमध्यस्थवृतवत् इत्यनुमानेन तैजसत्वसिद्धिर्दृष्टव्या नाशप्रतिबन्धकद्रवद्रव्यान्तरेण ( तेजस्वामिमतेन सुवर्णेन) संयुक्तः (साध्य: ) अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वे सति तैजसम् असति प्रतिबन्धके अत्यन्ताग्निसंयोगेप्यनुच्छिद्यमानजन्यद्रवत्वा- (मु० १ पृ० ८१ ) । यद्वा पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूपप्रति- करणत्वात् यन्नैवं तन्नैवं यथा पृथिवी इति व्यतिरेकिणा तैजसत्वसिद्धिः बन्धकद्रवद्रव्यसंयुक्तः प्रहरपर्यन्तमनलसंयोगेपि पीतरूपभिन्नरूपाना- सुवर्णस्य तैजसले अग्नेरपत्यं प्रथमं हिरण्यम् इत्यागमसंवादोपि ज्ञेयः श्रयत्वात् अनलसंयुक्तजलमध्यस्थितपीतपटवत् इति (वै० उ० २।१।७) । ( न्या० सि० दी० पृ० ४० ) ( दि० १ पृ० ८१ ) । प्रकारान्तरेण तेजश्चतुर्विधम् । किंचित् उद्भूतरूपस्पर्शम् । यथा सौरादि तेजः पिण्डित तेजो वह्यादिकं च । किंचित् अनुद्भूतरूपस्पर्शम् । यथा नायनं तेज किंचित् उद्भूतरूपमनुद्भूतस्पर्शम् । यथा चान्द्रं तेजः प्रदीपप्रभामण्ड च । अथवा चान्द्रप्रभायां स्पर्शोप्युद्भुत एव । किं तु जलीयस्पर्शेनाभि भवादुष्णस्पर्शो न गृह्यते (वै० वि० २।१९।३) (मु० १) (सि० च० ) । किंचित् अनुद्भूतरूपमुद्भूतस्पर्शम् । यथा नैदाघं तेजः तस वारिभर्जनकपालादिगतं च तेजः ( बयादि ) ( बै० उ० २१११३- ( त० मा० पृ० २७ ) ( वै० वि० २।१।३ ) । अत्रेदं बोध्यम् • सुवर्ण तेजस्तूद्भूताभिभूतरूपस्पर्शम् नानुद्भूतरूपस्पर्शम् । अनु रूपत्वे अचाक्षुषं स्यात् । अनुद्भुतस्पर्शत्वे त्वचा न गृहोत अभिभवस्तु बलवत्सजातीयेन पार्थिवेन रूपेण स्पर्शेन च कृतः । ( त० मा० अर्थ० पृ० २८) । तेजस्येकादश गुणा वर्तन्ते । भाव शुक्करूपम् उष्णस्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभाग परत्वम् अपरत्वम् नैमित्तिकद्रवत्वम् वेगाख्यसंस्कारश्च (त० भा० पृ० २७ ) ( भा० प० श्लो० ३० ) ( त० कौ० ( प्रशस्त ० ) । द्रवस्वविषये सूत्रम् त्रपुसीसलोहरजतसवर्णानामनिस गाववत्वमद्भिः सामान्यम् ( ३० २।१।७) । उपलक्षणं चैतत् / व कांस्यताम्रारकूटपारदपित्तलरङ्गादीनामप्युपसंग्रह: (वै० उ० २११/० <तेजसम्> १ तेजस्त्वव्याप्यधर्मवत् । यथा चक्षुस्तैजसम् सुवर्णं तेजस (वै० वि० २।१।७) (त० कौ० पृ० २ ) । इत्यादौ (मु० १) (वै० उ० २११/७) । २ इति सांख्या आहुः । अत्रोच्यते । वैकृतः सात्त्विको नाम पदा रजोगुणोत्पन्नः तैजसो राज स्मृतः । भूतादिस्तामसस्तेपि पृथक् तत्त्वान्यवासृजन् ॥ इति ( पदा दर्शधृतं वाक्यम् ) । सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ इति ( स० ० ३ दशेन्द्रियजनकोहंकारतत्त्वप्रभेदः इति मध्वमतानुयायिनः ( मञ्जरी १।३ ) । ४ अन्तःकरणं तैजसमिति मायावादिनः । विशेष इति पौराणिकाः ( वाच ० ) । <त्यज्> (धातुः ) त्यागः । अत्रोदाह्वियते । यथा वृक्षं खगस्यजतीत्यादौ त्यजेरर्थः । अत्र द्वितीयाया विभागोर्थः । तेन वृक्षावधिकविभागवती या वृक्षावधिक विभागवत्त्वं च जनकत्वस्वाश्रयवृत्तित्व एतदुभयसंबन्धेनैव क्रि विभागावच्छिन्नक्रिया तद्वान् खगः इत्याकारस्तत्र बोधः । अत्रेदं बोध्यम् । यायां ग्राह्यम् । अतः खगावधिक विभागस्य खगादावसत्त्वात् खगं त्यजति खगः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ७२ पृ० ९२-९३ ) । यथा वा त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थ आत्मार्थे पृथिवीं त्यजेत् ॥ (चाणक्य ० ) इत्यादौ त्यजेरर्थः । <त्याग:> १ विभागावच्छिन्नक्रिया । न माता न पिता न स्त्री न पुत्रस्त्याग- महति ( मनु० अ० ८ श्लो० ३८९ ) । २ तस्यायं भवतु इत्यादि- फलेच्छाधीनस्वस्वत्वा भावेच्छा । यथा एषोर्ध्यः शिवाय नमः इत्यादौ नमः शब्दार्थस्त्यागः (ग० व्यु० का० ४ पृ० ९९ ) । ३ तन्न मम इति ज्ञानम् इच्छा वा ( म० प्र० पृ० ५३ ) । ४ स्वत्वध्वंसजनकेच्छा । यथा पुष्पेण विष्णुं यजते इत्यत्र यजेरर्थः ( श० प्र० ७२ श्लो० पृ० ९५) । ५ स्वत्वध्वंसानुकूलव्यापार इति शाब्दिका वदन्ति । सच त्यागः सात्त्विक राजसतामसभेदेन त्रिविध इति वेदान्तिनः । स च स्वत्वध्वंस: मूर्तद्रव्याणामेव भवति । अमूर्तद्रव्याणां तु वियोगमात्रम् इति विज्ञेयम् ( वाच ० ) । <त्रस:> ( जीवः ) शङ्खगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः ( सर्व० सं० पृ० ७० आई० ) । ३ संकी० <त्रसर:> तन्तुवायकृतसूत्रवेष्टनविशेष: ( अमरः काण्ड ० श्लो० २४ ) । <त्रसरेणु:> १त्र्यणुकम् । तद्यथा जालान्तरगते भानौ सूक्ष्मं यदृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ इति (मनु० अ० ८ श्लो० १३२) । सच जन्यद्रव्यावयव इति ज्ञेयम् । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः इति ( ब्रह्मवै ० ० पु० ) ( वाच० ) । अणु परमाणू पः स्मृतः स्यात्रसरेणुस्त्रयः इति ( भाग० ३।१२।५ ) । २ महादेवभट्टास्तु त्रिभिः सहितो रेगुः त्रसरेणुः इति व्युत्पत्त्या त्रिभिः परमाणुभिरेव त्रसरेणु: त्र्यणुकंवा भवतीत्याहुः ( दि० ) ( राम० १ पृ० ६९ ) । ३ त्रयोणवस्त्रसरेणु- रिति बादरायणाचायो आहुः इति केचित् । ४ भिषजस्तु जालान्तरगत सूर्यकरे ध्वंसी विलोक्यते । त्रसरेणुश्च स ज्ञेयस्त्रिंशता परमाणुभिः ॥ इत्याहुः । ५ सूर्यपत्नीति पौराणिका आहुः ( वाच०) । मैत्र <त्राणम्> [क] अनिष्टनिवृत्त्यनुकूलो व्यापारः । यथा दस्युभ्यो त्रायते रक्षति कुलालाइटं रक्षति इत्यादौ रक्षत्यर्थः । यनिष्ठखदुःखो पधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वकर्मकं रक्षणम् परमार्थः । दस्युभ्य इत्यत्र भीत्रार्थानां भयहेतुः (पा० सू० १/४/२५ इत्यनेनापादानसंज्ञा । तदर्थश्च अनिष्टविरहानुकूलव्यापाररूपत्राणार्थ (ग० व्यु० का० ५ पृ० १०६) । घटाद्यचेतनकर्मकरक्षण धातुयोगे यदनिष्टप्रयोजकं तदपादानम् इति । अनिष्टं च दुःख र्मकं रक्षणमिति निर्वाच्यम् । कुलालाद्धटं रक्षतीत्यादौ प्रयोज्यत्वं पञ्चम्यर्थः यन्निष्ठस्वविनाशोपधायकव्यापारविरहानुकूलव्यापारः तदपादानकं तथा च कुलालप्रयोज्यो यो घटनाशोपधायकव्यापारः तद्विरहानुकू व्यापारकर्ता इति बोधः । यथा वा न कुर्वीतात्मनस्त्राणं गोरक तु शक्तितः ( मनुः अ० ११ श्लो० ११३) इत्यादौ । स केचित्तु अनिष्टपरिहारः । यथा चोरात्रायत इत्यादौ इत्याहुः । चोरापादानकानिष्टपरिहारः इति बोधः । <त्रिपुटी> मितिमातृमेयविषयिका प्रमा । यथा प्रभाकरमते सर्वस्य ज्ञान मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति ( त० प्र० पृ० १२९ ) । <त्रिमूर्तिनी> त्रिवर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) । <त्रिवृत्> स्तोमः । यथा त्रिवृद्वहिष्पवमानः ( जै० न्या० अ० १०/- अधि० ७) । <त्रिस्पृशा> एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिस्पृशा नाम सा प्रोक्ता ब्रह्महत्यां व्यपोहति ( पु० वि० पृ० १७६) । <त्रुटि:> १ द्व्यणुकं त्र्यणुकं वा । यथा परं वा त्रुटे: ( गौ० ४।२/१५) इत्यत्र त्रुटिशब्दार्थः । तदुक्तम् त्रुटेरवयवस्तदवयवो वा परमाणुरिति (गौ० वृ० ४।२।१५ ) । त्रुटिश्च जन्यो द्रव्यावयवः । मीमांसकाश्चैवमाहुः । त्रुटावेवावयवधारा विश्रामात् त्रुटिरेव परमाणुरिति ( दि० १ पृ० ६९ )। २ त्रसरेणुत्रिकं भुते यः कालः सा त्रुटि: स्मृता ( भाग० ३।१२।६) इति बादरायणाचाय आहुः । अत्रोच्यते अणुद्रों परमाणू स्यात् त्रस रेणुनयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ त्रसरेणु- त्रिकं मुझे यः कालः सा त्रुटि: स्मृता । तत्रिभागस्तु वेधः स्यात् तैत्रिभिस्तु लवः स्मृतः ॥ निमेषत्रिलवो ज्ञेय आम्नातास्ते त्रयः क्षणः इत्यादि ( भाग० ३।१२।५ - ७ ) । तत्परस्य शतभागकालरूपा त्रुटिरिति गणका आहुः । अत्रोच्यते योदणोर्निमेषस्य खराम- ( ३० ) भागः स तत्परस्तच्छतभाग उक्ता । त्रुटिनिमेषैधृति - ( १८) भिश्च काष्ठा तत्रिंशता सद्गणकै कलोक्ता ॥ इति ( सि०शि० ) । क्षणद्वया- स्मकः कालत्रुटिरिति भरत आह । द्वौ निमेषौ त्रुटिर्ज्ञेया । अहोरात्रशब्दे दृश्यम् । ३ संशय: । ४ अल्पम् इति काव्यज्ञा आहुः (वाच० ) । <त्र्यणुकम्. त्रिभिर्यणुकैर्य दुत्पद्यते तत् ( त० दी ० १ पृ० ९ ) ( दि० ११२) ( त० कौ० १ पृ० ३ ) ( त० भा० प्रमेय० पृ० २८) (सि० च० १ पृ० ५ ) । तद्यथा गवाक्षरन्ध्रे तरणिकिरणस्थं निरीक्ष्यते । यद्रजः सर्वतः सूक्ष्मं त्र्यणुकं तन्निगद्यते ॥ इति ( सि० च० १ आहु: ( दि० १।२ पृथिवी० पृ० ६९ ) । संयुक्ताणुषटुं त्र्यणुकमिति नास्तिका आहुः (प० मा० ) । तच्च जन्यद्रव्यावयवः इति ज्ञेयम् । त्र्यणुकरूपेर्थे त्रसरेणुपदमपि त्रिभिः सहितो रेणुस्त्रसरेणुः इति व्युत्पत्या प्रयोक्तुं युज्यते ( राम० १ पृथि० पृ० ६९) । ४४ न्या० को० <त्वक्> १ ( इन्द्रियम् ) [क स्पर्शग्राहकं महदिन्द्रियम् ( न्या० म० १ पृ० १४) । त्वचि स्थितमिन्द्रियं त्वगिन्द्रियम् ( दि० १ पृ० ८५)/ पृथिव्याद्यनभिभूतैर्वाग्ववयवैरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् (प्र. शस्त० ) । तच्च देहव्यापि त्वचि स्थितम् सूक्ष्मवायोः सत्वांशेनोपत वाताधिष्ठातृदेवताकं च इति केचिच्छास्त्रकारानुयायिन आहुः (वेदा० सा० ) । त्वगिन्द्रियस्य वायवीयत्वे प्रमाणमनुमानम् । तच अनुमानन त्वगिन्द्रियं वायवीयम् द्रव्यत्वे सति रूपादिषु पञ्चसु मध्ये स्पर्शस्यैवाभि व्यञ्जकत्वादङ्गसङ्गिसलिलशैत्यव्यञ्जकव्य जनपवनवत् इति ( सि० च० पृ० ८) (मु० १ वायु० पृ० ८५) ( त० भा० प्रमेय० १० १६ ( प्र० प्र० इन्द्रि० पृ० ११ १२ ) । महदुद्भूतस्पर्शवद्रव्यम् उद्भूत स्पर्शश्च त्वगिन्द्रियेण गृह्यते । तेन वायुपरमाणु प्रदीपप्रभादयस्त्वचा न ह्यन्ते । परमाणोर्महत्त्वाभावात् प्रभाया उद्भूतस्पर्शाभावात् (न्या १ पृ० ६) । एवम् रूपभिन्नं रूपत्वादिभिन्नं च यच्चक्षुर्योग्यं तत्त्व न्द्रियेणापि गृह्यते (मु० १ पृ० ११३ ) । किं च त्वगिन्द्रियं महत्व द्भुतरूपस्पर्श व द्रव्य तद्वृत्ति कर्म सामान्यसमवायसंख्यापरिमाण पृथक्त्वसंप पृ० ८) । [ख] स्पर्शोपलब्धिसाधनमिन्द्रियम् ( त० मा० प्रदेश गविभागपरत्वापरत्वस्नेहानामपि ग्राहकम् ( सि० च० वापुनि पृ० २६) । [ग] जले शीतस्पर्श: इति स्पर्शप्रत्यक्षासाधारणं क ( प्र० प्र० इन्द्रिय० पृ० ११ ) [ ] शरीरव्यापकं स्पर्शह मिन्द्रियम् (मु० १ वायु० पृ० ८५) । यथा द्रव्याध्यक्षे मनसा ज्ञानकारणम् ( भा०प० श्लो० ५८) इत्यादौ । देहव्यापि त्वगिन्द्रियम् ( भा०प० श्लो० ४४ ) क्षयवद्रव्य सहजावरणं त्वगित्युच्यते ( वै० उ० ३।१।९ ) । <त्वम्> [क ] तत्कालीन संबोध्य चैत्रत्वमैत्रत्वादिविशिष्टः (दि० ४. १७८ - १७९ ) । [ ख ] स्वजन्य बोधाश्रयतया वक्रभिप्रायविषयता दकत्वरूपस्वसंबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः (ग० शि पृ० ७३) । यथा भो चैत्र त्वमत्रागच्छेत्यादौ त्वंपदार्थः / कार स्थले संकेतश्च स्वजन्यबोधवत्त्वेनाभिप्रायविषयतावच्छेदकावच्छिन्नविषय- कत्व स्वजन्यत्व एतदुभयसंबन्धेन युष्मत्पदप्रकारकबोधविषयकोभ्युपेयते (ग० शक्ति० टीका० पृ० ७५ ) । तत्र बोधः तादृशोभयसंबन्धेन युष्मत्पदवान् भवतु इत्याकारकः संकेतो ज्ञेयः । ग संबोध्यश्चेतन- स्त्वंपदार्थ इति शाब्दिकादय आहुः । <वाष्ट्रम्> ( नक्षत्रम्) चित्रा (पु० चि० पृ० ३५७ ) । <द> <दक्षिण:> १[क] शरीरावयववृत्तिजातिमान् ( वै० उ० २१ २ । १० ) । यथा पुरुषस्य दक्षिणभाग इत्यादौ । [ ख ] अवामो देहभागविशेष इत्यपि केचित् । २ नायकनायिका विशेषाविति साहित्यशास्त्रज्ञाः । ३ परच्छन्दानुवर्ती । ४ कुशल इति काव्यज्ञाः । <दक्षिणा> १ यज्ञाद्यन्ते दानम् । अत्राम्नायते तस्मान्नादक्षिणं हविः स्यात् इति शतपथश्रुतिः । पुराणमपि अदत्तदक्षिणं दानं व्रतं चैव नृपोत्तम । विफलं तद्विजानीयाद्भस्मनीव हुतं हविः ॥ इति ( भविष्यपु० ) ( वाच० ) । आनत्यर्थदान एव दक्षिणाशब्दो रूढः ( जै० सू० वृ० अ० १० पा० २ सू० ३६ ) । २ ( दिक् ) [क ] प्राच्यभिमुख- (२।१५ ) । अत्र दक्षिणत्वं तु शरीरावयववृत्तिजातिविशेषः । [ख] पुरुषदक्षिणभागावच्छिन्ना दिक् (बै० उ० २१२११०) (वै० २। मेरुव्यवहितदेशावच्छिन्ना दिक् ( वाक्य ० १ पृ० ५) ( न्या० बो० १ पृ० ३) (मु० १ पृ० ९४ ) ( बै० वि० २१२११० ) । यथा झळकी प्रामादक्षिणस्यां दिशि विजयपुरम् ( विजापुर ) । अत्र च मेरुगिरि संयुक्त संयोगवन्मूर्तवृत्ति विजयपुरम् इति शब्दबोध: । - रुगयुक्तसंयोगपर्याप्तसंख्या व्यापकसंख्या पर्याप् शशी । सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगघीश्वराः ॥ इति ( ज्योति ० त० ) । <दण्डः> १ लगुडः । यथा घटं प्रति दण्डो निमित्तं कारणमित्यादौ । २ [क] ग्रहणावच्छिन्नशासनम् । [ख ] ग्रहणपूर्वकशासनम् । प्रजाः शतं दण्डयति राजा गर्गाः शतं दण्ड्यन्त इत्यादौ दण्ड्यर्थः इति व्यवहारशास्त्रज्ञा आहुः । शासनं नियन्त्रणम् । अत्र शतग्रहणानुकूलं यत् प्रजानां शासनम् तत्कर्ता इत्येवं बोध: ( श० प्र० श्रो ७३ पृ० ९८ ) । <दण्डनीतिः> विद्याविशेषः। तच्च अर्थशास्त्रम् ( कुल्लूकः मनु ७ । ४३ ) ( अमरः ) । यथा कामन्द किनीतिशास्त्रम् । अत्रोच्यते व चान्वीक्षिकी चैव वार्ता च भरतर्षभ । दण्डनीतिश्च विपला विद्याल निदर्शिताः ॥ इति ( भा० शा० अ० ५९) / त्रैविद्येभ्यस्त्रयों विद्य दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः/ इति ( मनु० अ० ७ श्लो० ४३ ) । <दण्डपारुष्यम्> परगोत्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्रोप घातो दण्डपारुष्यमुच्यते ॥ ( मिताक्षरा २/२१२) । <दत्तम्> पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कादिग्रहार्थ दत्तं दानविदो विदुः ॥ ( मिताक्षरा २।१७६ ) । <दत्ताप्रदानिकम्> दत्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति / दत्ता प्रदाि <दमः> १ कुत्सितात्कर्मणो मनोनिवर्तनम् । २ बाह्येन्द्रियनिग्रह इति वेद नाम व्यवहारपदं हि तत् ॥ ( मिताक्षरा २।१७५ ) / न्तिनः । ३ दण्डनमिति धर्मशास्त्रज्ञाः । ४ कर्दम इति काव्यज्ञा ( वाच० ) । <दम्भः> [क] कपटेन धार्मिकत्वादिना स्वोत्कर्षख्यापनेच्छा (गौ० ४।१३ ) । [ख] धार्मिकत्वेन ख्यापनम् । यथा अभिसंधाय तु दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राज ( गीता० अ० १७ श्लो० १२) इत्यादौ ( ल० म० ) / /" अधार्मिणात्मनो धार्मिकत्वस्य ख्यापनमिति केचित् । च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ( मनु० ) इत्यादौ । <दया> १ परदुःखप्रहरणेच्छा । यथा प्राणा यथात्मनोभीष्टा भूतानामपि ते तथा । आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः ॥ इत्यादौ । अत्रो- च्यते । यत्नादपि परक्लेशं हतु या हृदि जायते । इच्छा भूमिसुरश्रेष्ठ सा दया परिकीर्तिता ॥ इति ( वाच० ) । २ शान्तिरसस्य व्यभिचारिभावो । दया इति रसशास्त्रज्ञा वदन्ति । यथाह शान्तरसोपक्रमे रोमाञ्चाद्याः स्वानुभावास्तथा स्युर्व्यभिचारिणः । निर्वेदहर्षस्मरणमतिभूतदयादयः ॥ इति ( सा० द० ) । <दपेः. १ पराबधीरणाहेतुश्चित्तवृत्तिविशेषः । यथा अहंकारश्च सर्वेषां पाप- भवेद ब्रह्माण्डेषु परात्परे । विज्ञाय सर्वं सर्वात्मा तेषां शास्ताहमेव बीजममङ्गलम् । ब्रह्माण्डेषु च सर्वेषां गर्वपर्यन्तमुन्नतिः ॥ येषां येषां च ॥ इति ( ब्रह्मवैव० ) इत्यादौ । २ दुःखिप्रतियोगिकः सुखित्वप्र- (बाच ० ) । ३ उत्साहः । यथा तेजोविहीनं विजहाति दर्पः (किरा० ) युक्तः चित्तवृत्तिविशेषः इति योगशास्त्रज्ञा आहुः ( पात० भा० ) इत्यादौ इति काव्यज्ञा आहुः । <दर्शनम्> १ चाक्षुषप्रत्यक्षम् । यथा घटं पश्यतीत्यादौ धात्वर्थः । अत्र व्यु० का० २) । २ ज्ञानम् । यथा विश्वं मिथ्या दृश्यत्वात् शुक्तिरज- घटपदोत्तर द्वितीयाया लौकिक विषयित्वमर्थः । तस्य धात्वर्थेन्वयः ( ग० तवत् इत्यादौ । ३ सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम् ( सर्व० सं० पृ० १६६ नकुली० ) । ४ तत्त्वज्ञानसाधनं शास्त्रम् । यथा महर्षिगौतममुनिप्रणीतं न्यायदर्शनम् । तच्च दर्शनं द्विवि- घम् । आस्तिकदर्शनम् नास्तिकदर्शनं चेति । तत्रास्तिकदर्शनं मुख्यत्वेन तदुक्तम् ॥ द्वौ योगौ द्वे च मीमांसे द्वौ तर्काविति षट् बुधाः इति । एतानि शास्त्राण्याहुरिति शेषः । तत्र सांख्यं कपिलकृतं द्वाविंशतिसूत्रा- त्मकम् अध्यायषद्वात्मकं च निरीश्वरवादः । पातञ्जलम् पतञ्जलिकृतं पादचतुष्टयात्मकं योगशास्त्रम् । पूर्वमीमांसा जैमिनिकृतं द्वादशाध्य मकं कर्मकाण्डम् । उत्तरमीमांसा वेदव्यासकृतमध्यायचतुष्टयात्मकं ज्ञानकाण्डम् । तर्कः कणादमुनिकृतमध्यायदशकं वैशेषिकशास्त्रम् । न्यायस्तु गौतममहर्षिप्रणीतं पञ्चाध्यायात्मकं न्यायशास्त्रम् इति । अ प्रशंसा षड्दर्शनानि मेङ्गानि पादौ कुक्षिः करौ शिरः । तेषु मेदं तु कुर्यान्मदङ्गच्छेदको हि सः ॥ इति ( तन्त्रशास्त्रम् ) । तत्र योगशास्त्रं पू हिरण्यगर्भोपदिष्टस्यैव योगशास्त्रस्य संक्षिप्तानुवादरूपमिति ज्ञेयम् ( याज्ञ० ) । उत्तरमीमांसा च वेदान्तदर्शनमित्युच्यते । तत्रापि मुख्यत्वेन त्रीणि दर्शनानि द्वेताद्वैतविशिष्टाद्वैतप्रतिपादकानि । तत्र द्वैतदर्शन वाय्ववतारत्वेन प्रसिद्धैर्मध्वाख्यश्रीपूर्णप्रज्ञाचार्यैः प्रणीतम् ३७ ग्रन्थास- कम् । अद्वैतदर्शनम् शंकरावतारत्वाभिमतशंकराचार्यप्रणीतम् / विश ष्टाद्वैतदर्शनं च प्राकृतभाषया द्रमिडकृतमूलम् शेषावतारत्वा भिमतरामानु जाचार्यकृततन्मूलव्याख्यानरूपम् इति । वैशेषिकशास्त्रादीनां पद्मपुराण उल्लेखो दृश्यते । यथा कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत् गौतमेन तथा न्यायं सांख्यं च कपिलेन वै ॥ इत्यादि ( पद्मपुरा उत्त० ख० अ० २०७ ) ( वाच० ) । नास्तिकदर्शनमपि षडियन चार्वाकसौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकाईतभेदात् । तत्र म माश्चत्वारो बौद्धविशेषाः । <दशा> कालविशेषः । यथा सत्प्रतिपक्षतादशायाम् (ग० बाल्यं यौवनं जरा इत्यवस्था इति पौराणिका आहुः । ३ सत्प्र० ) इत्यत्र साध्यतदभावव्याप्यवत्तापरामर्शद्वयसंवलनकालः / ' सुषुप्तय इत्यवस्था इति वेदान्तिनः । ४ गर्भवासाद्यवस्था इति मिलन ताश्च दश गर्भवासः जन्म बाल्यम् कौमारम् पौगण्डम् यौवनम् रता जरा प्राणरोधः नाश: चेति ( वाच० ) । ५ कामकृता नेत्ररागाद्यवस्था इति कामशास्त्रज्ञाः । ता अपि दश चित्तासङ्गस्ततोथ संकल्पः । निद्राछेदस्तनुता विषयनिवृत्तिस्त्र पानाश उन्मादो मूर्छा मृतिरिव्येताः स्मरदशा दशैव स्युः इति ( वाच० ६ नक्षत्रानुसारेण सूर्यादिग्रहाणां स्वामित्वेन भोग्यकालो दशा ज्योतिर्विदः । ७ चित्तमित्यजयपाल आह । दीपवर्ती इति काव्यज्ञा भाई <दशापवित्रम्> [ क ] वासःखण्डः । यथा शापवित्रेण ग्राष्टि (जै० न्या० अ० ३ पा० १ अधि० ७ ) । ख दशापवित्रं खण्ड- १० सू० वृ० अ० ३ पा० १ सू० १२ ) । <दा> (धातुः ) उत्सर्गपूर्वः स्वस्वत्वनिवृत्तिपूर्वः स्वत्वेन संबन्धः (जै० सू० वृ० अ० ४ पा० २ सू० २९ ) । <दाक्षायणयज्ञ:> आवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षाय- णयज्ञः । आवृत्तिप्रकारस्तु द्वे पौर्णमास्यौ यजेत द्वे अमावास्ये इत्या- दिवाक्यशेषादवगग्यते ( जै० न्या० अ० २ पा० ३ अधि० ४ ) । <दाक्षिण्यम्> तत्त्वज्ञानाभिनिवेशिनी बुद्धिः ( न्या० क० पृ० १० ) । <दानम्> १[क] स्वस्वत्वध्वंस विशिष्टपरस्वत्वानुकूलेच्छा । यथा ब्राह्मणाय धनं ददातीत्यादौ ददात्यर्थः । अत्र तादृश स्वत्वरूपधात्वर्थता वच्छेदक- फल एव द्वितीयार्थान्वयः । उपेक्षायामतिव्याप्तिवारणाय परस्वत्वनिवेशः (ग० व्यु० का० २ ख० १ पृ० ४३ ) । [ख स्वस्वत्वध्वंसानुकूलपरस्व- त्वप्रकारिकेच्छा । दानं च न संप्रदान स्वत्वजनकम् अपितु तत्स्वीकार एव इति मताभिप्रायेणेदं निर्वचनम् । एतन्मते ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वंसरूपफलाश्रयत्वाद्धनस्य कर्मता इति बोध्यम् ( ग० व्यु० का० २ पृ० ४३ ) । [ग] मूल्यग्रहणं विना स्वस्वत्वध्वंसपरस्वत्व जनकल्याग इति संप्रदाय: ( दि० गु० ) । यथा विप्राय गां ददातीत्यादौ ददात्यर्थः । अत्र मूल्यग्रहणं विना विप्रोद्देश्यकगोवृत्तिस्व स्वत्वध्वंस परस्वत्व जन कल्या- शास्त्रोक्त संप्रदान स्वत्वावच्छिन्नद्रव्यत्याग इति रत्नाकरप्रभृतयः । अत्रो- देश्यपात्र विशेषो यदि न तद्रव्यं स्वीकरोति तदा सोपाधित्यागविशेष- स्यानिर्वाहान्न न दातुः स्वत्वं निवर्तत इति तन्मताभिप्रायो ज्ञेयः । [ङ ] शास्त्रोक्त संप्रदानस्वत्वापादकद्रव्यत्याग इति केचिच्छास्त्रज्ञा आहुः । नस्य तद्विषयज्ञानाभावदशायामपि स्वत्वमुत्पद्यते पितुः स्वत्वोपरमात्तद्व गर्भस्थस्येव इति । तथा च दत्तस्य प्रतिग्रहः न तु अत्रायमाशयः। प्रदानं स्वाम्यकरणम् इति मनूक्तेः दानमात्रात् संप्रदा- प्रतिग्रहघटितं दानम् इति ( वाच० ) । २ परायत्तीकरणम् । तदायत्तीकरणं च तत्कर्तृक निर्णेजनेच्छाप्रकाशको व्यापारः । यथा रजकस्य वस्त्रं ददातीत्याद ददात्यर्थ: । निर्णेजनं च मलापकर्षः । अत्र ददात्यथैकदेशे कर्तृ रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी इति ज्ञेयम् ( ग० व्यु० वा ४ पृ० ९६ ) । शैषिकी षष्ठी च षष्ठी शेषे ( पा० सू० २/३/५० इत्यनेन सूत्रेण विधीयते । तदर्थश्च कारकप्रातिपदिकार्थातिरित संबन्धरूपोर्थः शेषः तद्विवक्षायां षष्टी इति । ३ तस्कर्तृकताडनानुमा प्रकाशकव्यापारः । यथा हन्तुः पृष्ठं ददातीत्यादौ ददात्यर्थः । अत्रा ददात्यर्थैकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी इति ज्ञेयम् । एव संवाहकस्य चरणं ददातीत्यादावूहनीयम् (ग० व्यु० का० ९६ ) ( ल० म० सुब० पृ० १०१ ) । ४ उत्पादकव्यापारः / शत्रवे भयं ददातीत्यादौ ददात्यर्थः । अत्र ददातेः जनयति इत्य भाक्तः । एवं च उत्पादकव्यापाररूपे धात्वर्थे भयरूपं यत् तद्योगितयोद्देश्यत्वाच्छत्र्वादेः संप्रदानत्वम् ( ग० व्यु ० ९५ ) । ५ संयोगविशेषानुकूलो व्यापारः । यथा खण्डिकोपाध्यायस्त पृ० १०१ ) । ६ बोधनम् । यथा न शूद्राय मतिं दद्यात् ( अ० ४ श्लो० ८० ) इत्यादौ ददात्यर्थः । अत्र मतिशब्देन तज वेदादिरूपं शास्त्रमुच्यते ( ल० म० सुव० पृ० १०१) / कुल्लूक दृस्तु मतिशब्देन दृष्टार्थोपदेश उच्यते धर्मोपदेशस्य पृथड़िर्देशात् ( मनु० टी० ४/८०) । ७ छेदनम् । ८ पालनम् / ९ शुद्धि १० गजमदजलमिति काव्यज्ञा आहुः ( वाच० ) । <दाय:> यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तत् इत्य) क्षरा अ० २ श्लो० ११४ ) । <दायादवान्धवः> औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोल पविद्धश्च दायादा बान्धवाश्च षट् ॥ ( मिताक्षरा० अ० २ लो० १३२ <दार्शन्तिकत्वम्> दृष्टान्तप्रयुक्तोपमेयत्वम् । यथा चन्द्रव मुखस्य दार्ष्टान्तिकत्वम् । <दासः> दीयतेस्मै स्वामिना सर्वे यथाभिलषितमिति दासः ( सर्व० सं० पृ० १९९ प्रत्यभि० ) । दासभेदा मिताक्षरायामुक्ताः । गृहजात- स्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्वर्णाद्युद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता <दिक्> ( द्रव्यम्) अकालत्वे सत्यविशेषगुणा महती ( सर्व० पृ० चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ ( मिताक्षरा २११८२ ) । २१९ औलू ० ) । दिक्चानियतोपाध्युन्नायिकास्ति (वै० उ० २१२ १०) । कालस्तु नियतक्रियासंबन्धघटक एवेति न तस्य प्राच्यादिसंबन्ध- घटकता (प० मा० ) । अयं भावः । भवति हि यदपेक्षया यो वर्त मानः स तदपेक्षया वर्तमान एव इति कालो नियतोपाध्युन्नायकः । दि- गुपाधौ तु नैवं नियमः । यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याः प्रतीची- वात् इति (वै० उ० २।२।१० ) । दिक् जगदाधारा निखिलकार्यनिमित्त- 'कारणं च इति विज्ञेयम् ( सि० च० १ पृ० १०) (त० दी० १पृ० १०) । अत्र शाब्दिका: शब्दतन्मात्रपरिणाम एवं दिक् इत्याहुः ( ल० म० उका० पृ० २० ) । दिशो लक्षणं च प्राच्यादिव्यवहारजनकतावच्छे- दकमुख्य विशेष्यत्वम् ( वाक्य ० १ पृ० ५ ) । विभुत्वे सति दैशिकपर- स्वापरत्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं दिक्त्वम् ( प०मा० ) । साच दिक् दूरान्तिकादिधीहेतुः ( भा० प० श्लो० ४७ ) । दूरत्वं दैशिक परत्वम् । तच्च बहुतरमूर्तसंयोग विशिष्टपिण्डज्ञानादुत्पद्यते । अन्त- ( सि० च० १ पृ० १० ) । तथा च इतोल्पतरसंयुक्तसंयोगाश्रयादिदं कत्वं तु दैशिकमपरत्वम् । तच्च अल्पतरमूर्तसंयोग विशिष्टपिण्डज्ञानादुत्पद्यते संयुक्त संयोगाल्पीयस्त्वाधिकरणमपरम् इति नियतदिग्देशयोः समानका- बहुतरसंयुक्तसंयोगाधिकरणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिं ल्योः पिण्डयोर्यतो द्रव्याद्भवति सा दिगित्यर्थः (वै० उ० २/२/१० ) । ४५ न्या० अत्र सूत्रम् इत इदमिति यतस्तद्दिश्यं लिङ्गम् ( वै० २१२११० ) इति अस्मादिदं दूरम् अस्मादिदमन्तिकम् इति दैशिकपरत्वापरत्वबुद्ध ग्लिङ्गम् । तथा दैशिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयता दि सिध्यति (वै० वि० २।२।१०) (मु० १) । दिक्च पूर्वादिप्रत्य मेया । तेषामन्यनिमित्तासंभवात् ( त० मा०) । दूरत्वसंनिहितत्वज्ञानाधा नपरत्वापरत्वानुमेयेति यावत् ( प्र० प्र० ) (त० कौ० पृ० ३) । तर च तादृशपरत्वापरत्वे सासमवायिकारणके भावकार्यत्वाद्धटवत् इत्यनुसा द्रष्टव्यम् । अत्रासमवायिकारणं च दिपिण्डसंयोगः तदाश्रयो दिगि पूर्वादिप्रत्ययलिङ्गा इति प्रशस्त पादैरुत दिक्सिद्धिर्बोध्या । दिक् च ( प्रश० पृ० ८ ) । मूर्त द्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येषु एतस्मादि पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अ त्तरेण उत्तरपूर्वेण अधस्तात् उपरिष्टाच्च इति दश प्रत्यया यतो भवि सा दिक् । अत्रोच्यते । कृत्वैकमवधिं तस्मादिदं पूर्वं च पश्चिमम् / निर्दिश्यते देशो यया सा दिगिति स्मृता ॥ इति । दिग्लिङ्गाविशेषाि एकत्वेपि परमर्षिभिः श्रुतिस्मृतिलोकसंव्यवहारार्थ मेरुं प्रदक्षिण वर्तमानस्य भगवतः सवितुर्ये संयुक्ता लोकपालपरिग्रहीत दिकप्रदेश सिद्धाः । तथा च दिग्दशविधा । प्राची अवाची प्रतीची उदीची प्राच्यादिभेदेन दशविधाः संज्ञाः कृताः । अतो भक्त्या दश यी नैर्ऋती वायवी ऐशानी ऊर्ध्वा अधः इति ( ० ० ) ६० २।२।१५ - १६ ) ( वराहपु० ) । तासामेव पुनर्देवतापरिग्रह शाद्दश संज्ञा भवन्ति माहेन्द्री वैश्वानरी याम्या नैऋती वारुणी वाय चान्द्रमसी ऐशानी ब्राह्मी नागी च इति ( प्रशस्त पृ० दिव्यवहारहेतुर्दिक ( त० सं० ) । इयं प्राची इयं प्रतीची पाधियोगात्प्राच्यादिव्यवहारभागित्यर्थः ( प्र० प्र० ) । प्रयोगरूपव्यवहारहेतुरित्यर्थः ( वाक्य ० २ पृ० ५ ) / उदयाचल घट: इत्यादिव्यवहारबलादुदयाचलसंयोगादिलक्षणघटादिसंबन्धघटक दिक्सिद्धिः (प० मा० ) । सा चैका विभ्वी नित्या च ( ३० ११ - १२ ) ( त० सं० ) । तथाप्युपाधिभेदाच्चतुर्विधा प्राची प्रतीची ( उदीची दक्षिणा चेति ( त० कौ० पृ० ३ ) ( त० मा० पृ० ३१) । अत्रायं नियमः सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति (मु० १ दि० पृ० ९४ ) ( सि० च० १ पृ० १०) । यद्यपि दिगेकैव येंमेदाच्च नाना (बै० २।२।१३ - १४ ) । दिशि पञ्च गुणा वर्तन्ते । तथाप्युपाधिमेदात्प्राच्यादिभेदव्यवहारः ( भा० प० श्लो० ४८) । का- संख्या परममहत्परिमाणं पृथक्त्वं संयोगः विभागश्चेति ( त० भा० पृ० ३१ ) ( भा० प० श्लो० ३३ ) । <दिगुपाधिः> प्राच्या दिव्यवहारोपपादकं मूर्तद्रव्यम् । यथा उदयाचलः प्राच्या उपाधिः (वै० २।२।१४ - १६ ) । दिगुपाधयः पञ्च मूर्तानि पृथिवी आपः तेजः वायुः मनश्चेति । <दिग्विशेषणता> ( स्वरूपसंबन्धः ) सर्वाधारतानियामको विशेष- ताख्यः । अयमेव दैशिक विशेषणताशब्देन व्यवयिते । <दिङ्भात्रम्> १ स्वल्पम् । २ एकदेशः । यथा दिङ्मात्रमुदाहियते इत्यादौ । <दिनम्> <दिवस:> दिवसेत्र च ( भा० उ० अ० १८२ ) इत्यादौ ( वाच० ) । सूर्यकिरणावच्छिन्नः कालः । यथा आयोजयत्स धर्मात्मा दिव पुरुषार्थचिन्तामणौ त्वित्थमुक्तम् । तिथिनैकेन दिवसश्चान्द्रमानेन की- सौरो दिवस उच्यते । चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः ॥ (पु० । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥ आदित्यभागभोगेन चि० पृ० २) । नाडीषष्टितमस्तत्र सावनो दिवसः स्मृतः । त्रिंशभागो- कराशेस्तु दिवसः सौर उच्यते ॥ चान्द्रस्तु तिथ्यवच्छिन्नो भौमो दात् । तत्र षष्टिदण्डात्मको मानुषो दिवसः । चान्द्रमासात्मकः पित्र्यः । भूपरिधेर्मतः इति (वाच० ) । दिवसश्चतुर्विधः मानुषपित्र्यदैवब्राह्मभे- सौरवर्षरूपो दैवः । ब्राह्मः कल्परूपः इति । <दिवाकरः> (तिथि:) सप्तभी । यथा रुद्रविद्धो दिवाकर इत्यादौ । रुद्रः अष्टमी । दिवाकरः सप्तभी ( पु० चि० पृ० १०० ) । <दीक्षा> १ नियमः । यथा द्वादश यागाङ्गदीक्षा: इत्यादौ । दीक्षणीयेष्ट्या संपन्न: संस्कारो दीक्षा ( जै० न्या० अ० ६ पा० ५ अधि० ८) [ २ उपनयनसंस्कार इति धर्मज्ञाः । ३ अभीष्टदेवमन्त्रग्रहणे तदुपदेश इति तान्त्रिका आहुः । अत्रोच्यते दीयते विमलं ज्ञानं क्षीयते कर्मवासना तेन दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥ इति । <दीक्षाकारि पञ्चकम्> द्रव्यं कालः क्रिया मूर्तिर्गुरुश्चैव हि पञ्चमः (सर्व- सं० पृ० १६४ नकुली० ) । <दीपनम्> तारमायारमायोगो मनोर्दीपनमुच्यते ( सर्व० सं० पृ० ३७ पात० ) । <दीर्घत्वम्> १ (परिमाणम् ) इदं दीर्घम् इति व्यवहारसिद्धः परिमा विशेष: (वै० वि० ७।१।१७ ) । अवयवसंयोगविशेष इति केवि ( दि० गु० पृ० २०६) । महत्त्वावान्तरभेद इति ( वाच० ) । २ द्विमात्राकालिकाच्वमिति शाब्दिका वदन्ति । शिक्षा एकमात्रो भवेद्धखो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु तो व्यञ्जनं चार्धमात्रकम् ॥ इति ( वाच० ) । ३ सिंहकन्यातुलावृषि राशिषु दीर्घत्वमिति ज्योतिः शास्त्रज्ञाः (वाच० ) । <दुःखम्> १ ( गुणः) [क] बाधनालक्षणम् ( गौ० १/१/२१) । बा ( मु० ) । दुःखं तु मनसैव गृह्यते । न्यायनये जीवमात्रवृत्ति पीडा । तदेव लक्षणं स्वरूपं यस्य तदित्यर्थः ( गौ० वृ० १/१/२- विज्ञेयम् । सांख्यमते तु दुःखं चित्तादिधर्म इति ज्ञेयम् ॥ तलक्षणं च इतरद्वेषानधीनद्वेषविषयत्वम् । सर्पादावतिव्याप्तिवार इतरद्वेषानधीनेति द्वेषविशेषणं दत्तम् । तेन सर्पद्वेषस्य सर्पजन्यदुःख जन्यत्वान्नातिव्याप्तिः ( न्या० बो० गु० पृ० २१ ) । अथवा अ साधनताज्ञानानधीनद्वेषविषयत्वम् (वाक्य० गु० पृ० २१) / 35 जातिविशेषः ( गौ० वृ० ११ ११२१ ) (मु० ) / कणादव सुखदु:खयोर्मिथो भेदमाह (वै० १०/१/१ ) । दुःखस्य कार्य च । मुखमालिन्यादि इति प्रशस्तपादाचार्यादयः ( वै० उ० १०/१/१ पृ० ४१७ ) । कविकल्पलतायां लोकसिद्धानि कतिचिद्दुःखकारणानि दर्शि- तानि । तानि यथा पारतन्त्र्यम् आधिः व्याधिः मानच्युतिः शत्रुः कुभार्या नैः ख्यम् कुग्रामवासः कुस्खामिसेवनम् बहुकन्याः वृद्धत्वम् परगृहवासः वर्षाप्रवासः भार्याद्वयम् कुभृत्यः दुईलकरणककृषिः इति । एवम् वराहपु- [ख] प्रतिकूलवेदनीयम् (वात्स्या० ११ १२ १२ ) ( त० सं० ) । प्रति- राणादावपि कतिचिद्दुःखकारणान्युक्तानि तानि तत एव वेद्यानि (वाच ० ) । कूलवेदनीयतया बाधनात्मकमित्यर्थः ( सर्व० पृ० २४६ अक्ष०) । अत्र प्रतिकूलत्वं च द्विष्टत्वम् । अत्रेदं बोध्यम् । दुःखं प्रतिकूलवेदनीयता द्वेषविषयः । दुःखसाधनं तु द्विष्टसाधनताज्ञानाद्वेषविषय: (वाच०) इति । दुःखत्वज्ञानादेव सर्वेषां दुःखं स्वाभाविकद्वेषविषयः । दुःखसाधनं तु द्विष्टसाधनत्वज्ञानाद्वेषविषय: ( मु० गु० पृ० २२० ) । दुःखं द्वेषवि- पयः इति वाक्यवृत्तिः ( वाक्य० गु० पृ० २१ ) । [ग] द्वेषाज- सचेतसां प्रतिकूलम् ( भा०प० श्लो० १४६) । अधर्ममात्रासाधारण- न्यद्वेषविषय: ( प्र० प्र० गु० पृ० १७ ) । [घ ] अधर्मजन्यम् कारणकगुण इत्यर्थ: ( सि० च० पृ० ३५ ) । तच्च दुःखमेकविंशति- भेदभिन्नम् । तथाहि शरीरम् षडिन्द्रियाणि षड्डिषयाः षड्डिधानि प्रत्य- विषया: प्रत्यक्षाणि च तत्साधनत्वात् । सुखं च दुःखानुषङ्गात् । दुःखं तु स्वरूपत एवेति । सिद्धान्तचन्द्रोदये च दुःखं चतुर्विधमित्युक्तम् ( सि० च० पृ० ३५ ) । देहेन्द्रियादिकं दुःखजनकत्वाहुःख ( ( ता० २० श्लो० ३२ ) । [ङ ] बुद्धितत्त्वस्य परिणामविशेषः । सच रजःकार्यः इति सांख्या: ( सां० कौ० ) । अत्रोच्यते । दुःख त्रिविधम् । आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति । तत्राध्या- त्मिकं द्विविधम् । शारीरम् मानसं च । तत्र शारीरम् वातपित्तश्लेष्मणां पादर्शन निबन्धनम् । सर्वे चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । वैषम्यनिमित्तम् । मानसं तु कामक्रोधलोभमोहभयेर्ष्या विषादविषयविशे- बाह्योपायसाध्यं च दुःखं द्वेधा । आधिभौतिकम् आधिदैविकं च । तत्रा- धिभौतिकं मानुषपशुपक्षिसरीसृपस्थावर निमित्तम् । आधिदैविकं यक्षराक्षस- विनायक ग्रहावेशनिबन्धनं चेति ( सां० कौ० ) । [च उपघातलक्षणं दुःखम्। विषाद्यनभिप्रेतविषयसांनिध्ये सति अनिष्टोपलब्धीन्द्रियार्थनिक- र्षादधर्माद्यपेक्षादात्ममनसोः संयोगात् अमर्षोपघात दैन्यनिमित्तमुत्पद्यते । तद्दुःखम् अतीतेषु सर्पव्याघ्र चौरादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । इति ( प्रशस्त ० २ पृ० ३२ ) । २ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रपञ्चिताः ( सर्व० सं० पृ० ४६ बौ० ) । <दुःखान्तः> मोक्षः । दुःखान्तो द्विविधः अनात्मकः सात्मकश्चेति । तत्रानः त्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्क्रियाशक्तिलक्षण मैश्वर्यम् ( सर्व० सं० पृ० १६६ नकुली ० ) । <दुर्गा> नववर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) । <दूरत्वम्> दैशिकं परत्वम् (मु० १ पृ० ९३ ) । स च गुणविशेष एव इति नैयायिकाः । वैशेषिकास्तु दिक्कतो विप्रकर्षः न तु गुणः इत्याहुः । यथा दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते (भा०प० इत्यादौ । झळकी ग्रामात्खेटकग्रामापेक्षया मणरग्रामस्य दूरत्वम्- बोध्यम् । दूरत्वं च भ्रमविशेषे कारणम् । यथा चन्द्रादेः स्वल्पपरि माणभ्रमे दूरत्वं दोषः कारणं भवति ( मुक्ता० गु० पृ० २११// अत्रोक्तम् दोषोप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादि रूपो दोषो नानाविधः स्मृतः ॥ ( भा०प० गु० श्लो० १३२ ) इति । । <दूषकत्वम्> सदोषत्वसंपादकत्वम् । यथा विपक्षवृत्तित्वं साधारणत्वम् // तन्मात्रस्य दूषकत्वात् ( चि० २ साधा निरयगामिनः ॥ यथा वा वेदविक्रयिणश्चैव वेदानां चैव दूषकाः / वेदानां निन्दका चैव ते ( भा० अनु० श्लो० १६४४ ) इत्यादौ । <दूषणम्> बाधकप्रमाणोपन्यासरूपयुक्तिभिः खण्डनम् (वै० सा० ८० )/ ८७) इत्यादौ । <दृक्शक्ति:> दृक्शक्तिरे कापि विषयभेदात्पञ्चविधोपचर्यते दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति ( सर्व० सं० पृ० १६६ नकु० ) । <दृष्टान्तः> १ [क] लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः (गौ० ११ ११२५ ) । लोकसाम्यमनतीता लौकिका नैसर्गिकं वैनयिक बुद्ध्यतिशयमप्राप्ताः । तद्विपरीता: परीक्षकास्तर्केण प्रमाणैरथं परीक्षितु- मर्हन्तीति । यथा यमर्थ लौकिका बुध्यन्ते तथा परीक्षका अपि सो दृष्टान्तः । दृष्टान्त विरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति । दृष्टा- न्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति । अवयवेषु चोदाहरणाय कल्पत इति ( वात्स्या० १११।२५ ) । वृत्तिकारैरप्युक्तम् । लौकिकोप्रा- शास्त्र परिशीलनप्राप्तबुद्धिप्रकर्षः प्रतिपादक इति फलितोर्थः । बुद्धेः शास्त्र परिशीलनजन्यबुद्धिप्रकर्षः प्रतिपाद्य इति फलितोर्थः । परीक्षक साध्यसाधनोभयविषयिण्याः तदभावविषयिण्या वा साम्यमविरोधो यस्मिन्नर्थे सोर्थो दृष्टान्तः ( गौ० वृ० १ । १ । २५ ) । [ख यत्र [ग] वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकतदभावद्वय प्रकारकान्य लौकिक परीक्षकाणां दर्शनं न व्याहन्यते सः (वात्स्या० १११११) । तरनिश्चयविषयः ( गौं० वृ० १ । १ । २५ ) । [घ ] प्रत्यक्षविषयोः (न्या० वा० १ पृ० १६) । किमुक्तं भवति लौकिकपरीक्षकाणां दर्शनाविधातहेतुरिति । एवं चात्मादिव्याप्तिरिति । दर्शनाविघातहेतुत्वेन दृष्टान्ते वर्ण्यमान आत्मादि व्याप्तं भवति ( न्या० वा० १ पृ० १६) । [ङ ] व्याप्तिसंवेदनभूमिः ( सर्व० पृ० २३८ अक्ष० ) । [च ] चादिप्रतिवादिनोः संप्रतिपत्तिविषयोर्थः ( त० साधर्म्यदृष्टान्तः ( त० सं० ) । दृष्टान्तो द्विविधः । साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तश्च । (दि० १ पृ० ३२) । वैधर्म्यदृष्टान्तश्च व्यतिरेकदृष्टान्तः । तत्राद्यः तः अन्वयदृष्टान्तः । स च साध्यसाधनोभयवत्तानिश्चयविषयः पर्वते वहिसाधने धूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव धूमस्य हेतो- महादः इति ( त० मा० पृ० ४२ ) ( त० सं० ) । २ अर्थालंकार- विशेषो दृष्टान्त इत्यालंकारिका आहुः । ३ शास्त्रम् । ४ मरणमिति काव्यज्ञा आहुः ( वाच० ) । <दृष्टान्ताभासः> निदर्शनाभासशब्दवदस्यार्थोनुसंधेयः । <दृष्टार्थक:> ( प्रमाणशब्दः ) [क] यस्येह दृश्यतेर्थः स दृष्टार्थ: (वात्स्या० १।११८) । [ख] शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणगम्यार्थक) । शब्दः ( गौ० वृ० १ । ११८ ) । यथा घटः पट: इत्यादिशब्दो दृष्टार्थकः । <देवता> अग्नीन्द्रादयः । निरुक्ते दैवतखण्डे देवताभेदानाह यास्कमुनिः। अग्र्यादिदेवपढ्यन्तं देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरि क्षस्थदेवताः ॥ सूर्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति । देवतानां / टिसंख्या कत्वमुक्तं पद्मपुराणे उत्तरखण्डे । यथा सदारा विबुधाः । प्राधान्यतस्त्रयस्त्रिंशत्त्वमुक्तम् । स्वस्वगणपत्नीसहितानां तासां त्रयस्त्रिंशत्को, स्वानां गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यातयाभवन् // इति । ( वाच ० ) । देवतात्वं च [क मन्त्रकरणकहविः कर्मकत्यांगभागिलेनी, द्देश्यत्वम् (चि० ४ ) ( त० प्र० ४ पृ० १२३ ) । मन्त्रप्रयोज्य हविः संबन्धवत्वेनोद्देश्यत्वमिति यावत् । हविर्निष्टं त्यागजन्यं फलम् स्वत्वम् // तदाश्रयतया ( तत्संबन्धितया ) उद्देश्यत्वम् इति तु वर्तुलार्थ:: / पदप्रयोजनं कथ्यते । स्वर्गसंबन्धितयोद्देश्यत्वस्य त्यागकर्तरि सत्त्वात्तत्राति / दिरूपहविः स्वत्वभागितयोद्देश्यत्वस्य प्रतिग्रहीतरि सत्त्वात्तत्रातिव्यातिवार/ व्याप्तिवारणाय हंविरिति । कोदात् कस्माददात् इति मन्त्रकरणककृती / पार्वणादौ पत्नया अपि स्वत्वभागितया तत्रातिव्याप्तिवारणायोद्देश्यत्वम् इति णाय मन्त्रपदं त्यागकर्तृमन्त्रपरम् । तपोविभ्यः पृथग्दद्यात् इत्यादिना / ( त० प्र० ख० ४ पृ० १२३ ) । [ ख ] द्रव्यत्यागोद्देश्यत्वम् (70 का ० १ पृ० ३ ) ( कृष्ण ० ) । वेदबोधिताबाधितद्रव्यस्वामित्व प्रकारेणेच्छा- विषयत्वमित्यर्थ: (वै० सा० द०) । यथा अग्नये स्वाहा पितृभ्यः स्वधेत्यादवि प्रमाणम् अग्निर्वे देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः। इति ( ऋ० ब्रा० १११११) । पितरो देवताः इति च ( ग० व्यु० का० १ पृ० २ ) । अत्रोच्यते । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० अ० १ लो० २६८) । [ग] मीमांसकास्तु देशनादेशित चतुर्थ्यन्त- देवतात्वम् । तदर्थश्च देशनया तद्धितादिरूपया देशितम् बोधितम् देश्यत्वम् इत्याहुः । यथा इन्द्राय स्वाहा अग्नये स्वाहेत्यादिमन्त्राणामेव चतुर्थ्यन्त पदनिर्देश्यत्वम् तच्छब्दोच्चारणम् यत्र तत् तथा । इन्द्राय इत्यु- चार्य दद्यात् इति वेदेन बोधनात् । अत्रोक्तम् तद्धितेन चतुर्ध्या वा मन्त्रलिङ्गेन वा पुनः । देवतासंगतिस्तत्र दुर्बलं तु परं परम् ॥ इति (त० प्र० ख० ४ पृ० १२२ ) । याज्ञवल्क्य आह यस्य यस्य तु मन्त्रस्य ( वाच० ) । अत्र विशेषः । शब्दमयी देवता इति केचिदाहुः । अर्थो- उद्दिष्टा देवता तु या । तदाकारं भवेत्तस्य देवत्वं देवतेति च ॥ इति शब्द एव देवता इत्यपरे अमन्यन्त ( त० प्र० ख० ४ पृ० १२२ ) । [घ ] वेदमेयत्यागोद्देश्यत्वम् । अत्रोद्देश्यत्वं च तस्येदम् पितृणामस्तीति श्राद्धादौ तेषां देवतात्वम् (वाच० ) । [ ] मन्त्रेण इत्यारोपज्ञानविषयत्वम् (श्राद्धविवेके ) । मन्त्रस्तुत्यत्वं वा । तदुभयं द्योत्यत्वम् । यथाह ऋग्वेदभाष्योपोद्धाते माधवः तथा देवनार्थदीव्यतिधा- तुनिमित्तो देवशब्दः इति । एतदाम्नायते देवनाद्वै देवोभूदिति तदेवानां देवत्वमिति । अतः दीव्यतीति देवः मन्त्रेण द्योत्य इत्यर्थः इति । <देश:> येनार्थानुसंधान पूर्वकं ज्ञानतपोवृद्धी प्राप्नोति स देशो गुरुजनादिः (सर्व० सं० पृ० १६३ नकु० ) । <देशना> नियोगः (विध्यादिः ) । यथा एकोद्दिष्टादिवृद्ध्यादौ हासवृद्ध्या- <दैवः> ( विवाहः ) यज्ञस्थऋत्विजे दैवः । यस्मिन्यज्ञानुष्ठाने वितते ऋत्वि दिदेशना (व्यास० ) इत्यादौ ( वाच० ) । शक्यलंकृता कन्या दीयते सः । <दैविकम्> देवानुद्दिश्य क्रियते यत्तदैविकमुच्यते ( पु० चि० पृ० ३९ ) । ४६ न्या० को० <दैशिकम्> १ देशकृतम् देशसंबन्धि वा । यथा परत्वमपरत्वं च द्विविधं । परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव च दैशिकम् ॥ ( भा० प० श्लो० ११२) इत्यादौ । अत्रार्थे देशेन निर्वृत्तम् दैशिकम् इति विग्रहो द्रष्टव्यः ( वाच ० ) । २ मन्त्राद्युपदेशकर्ता गुरुर्देशिकः इति धर्मज्ञा आहुः । <दैशिकविशेषणता> ( स्वरूपसंबन्धः ) अभावीयदेशिकस्वरूपसंबन्धः । यथा भूतले घटो नास्तीत्यादौ भूतलघटाभावयोः संबन्धः । <दोपः> १ अप्रमाया असाधारणकारणम् ( त० दी० गु० पृ० ३६ / / / अप्रमात्वाधिक देशवृत्तिधर्मानवच्छिन्नाप्रमानिष्ठकार्यतानिरूपितकारणता- शालीत्यर्थः ( नील० गु० पृ० ३६-३७) । यथा दोषोप्रसापा, स्मृतः ॥ ( भा०प० श्लो० १३२ ) इत्यादौ काचकामलपित्तमण्ट्रक जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः / वसाञ्जनादिर्भमोत्पादको दोषः (मु० गु० पृ० २११) । तथाहि । दोषः । क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । इत्येवंरूपदोषा अननुगता / शङ्खे पीतभ्रमे पित्तं दोषः । क्वचित् चन्द्रादे: स्वल्पपरिमाणभ्रमे दुलं / क्षणा दोषाः ( गौ० १।९।१८ ) । प्रवर्तना प्रवृत्तिहेतुत्वम् एव भ्रान्तिजनका इत्यर्थः (मु० गु० प० २११) / २ प्रवर्तनाला / विग्रहः । प्रवर्तना प्रवृत्तिजनकत्वम् । तदेव लक्षणं येषाम् इति (गौ०/ वृ० १।१।१८ ) । दोषास्तु बुद्धिसमानाश्रयत्वादात्मगुणाः (बारा) ४।१।२ ) । का पुनरियं प्रवर्तना । यथा अवशः प्रवर्तते तं प्रवर्तमानं / रागादयः प्रवर्तयन्तीति । सेयं प्रवृत्तिहेतुत्वात्प्रवर्तनेत्युच्यते ( १ । १ । १८ पृ० ८५ ) । ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये वा । यत्र मिथ्याज्ञानं तत्र रागद्वेषाविति । प्रत्यात्मवेदनीया हीमे तथा मूढः इति । दोषा रागद्वेषमोहा इत्युच्यमाने बहु रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा भजते । तथा ( वात्स्या० १।१।१८) (त० दी० पृ० ४२ ) । अत्रत्यम् दोषलक्षणं च लौकिक प्रत्यक्ष विषयत्वे सति प्रमान्यत्वे सति प्रवृत्तिजनकत्वम् लौचौकि कप्रत्यक्षविषयत्वे सतीत्युक्त्या शरीरादृष्टेश्वरेच्छादौ नातिव्याप्तिः । यागा- दिगोचरप्रमावारणाय प्रमान्यत्वे सतीत्युक्तम् ( गौ० वृ० ११ १/१८ ) । अथवा दोषत्वं प्रमाकारणीभूताभावप्रतियोगित्वम् ( मू० म० प्रामा उत्प० पृ० ३२४ ) । दोषाणां त्रयः पक्षाः रागपक्षः द्वेषपक्षः मोह- पक्षश्च । तत्राद्यः पक्षः कामः मत्सरः स्पृहा तृष्णा लोभः माया दम्भः इति । द्वितीयः पक्षः क्रोध: ईर्ष्या असूया द्रोह: अमर्षः अभिमानः इति । तृतीयः पक्षः विपर्ययः संशयः तर्क: मानः प्रमादः भयम् शोकः इति ( गौ० वृ० ४।१९। ३ ) ( वात्स्या० ४ । १।३) । ३ व्यावृत्तिव्यवहारै- तदन्यतरप्रयोजनविघटको धर्मः । स च लक्षणदोषः इति व्यवयिते । यथा एकशफत्वस्य गोर्लक्षणस्यासंभवः । स च दोषस्त्रिविधः । अव्याप्तिः अतिव्याप्तिः असंभवश्च ( नील० १ पृ० १) । ४ अनुमितितत्करण- परामर्शे तदन्यतर प्रतिबन्धकयथार्थज्ञानविषयः (त० दी० २ पृ० २४ ) । अथवा यद्विषयकत्वेन ज्ञानस्यानुमितितत्कारणीभूतपरामर्शेतदन्यतरप्रति- बन्धकत्वं सः । स च दोषः पञ्चविधः सव्यभिचारत्वम् ( व्यभि चार: ) विरोधः सत्प्रतिपक्षः असिद्धिः बाधश्च इति ( चि० २ ० सश्च इत्यपि व्यवहियत इति विज्ञेयम् । तल्लक्षणादिकं च हेत्वाभासश- ब्दव्याख्यानावसरे सविस्तरं संपादयिष्यत इत्यत्रैव विरम्यते । ५ विध्युल्लङ्घ नजन्य: अदृष्टविशेषो दोषः ( प्रत्यवायः ) इति मीमांसका आहुः । गुरु- तल्पगमनाभक्ष्यभक्षणादिजन्यपापविशेषः इति धर्मज्ञाः पौराणिकाश्च संजगदिरे । ६ काव्यज्ञास्तु अपकर्षप्रयोजको वस्तुनिष्ठो धर्मविशेषः (वाच० ) । अत्रोच्यते । स्याच्चेतो विशता येन सक्षतारमणीयता । अथवा मुख्यार्थहतिः ( काव्य० प्र० उ० ७ श्लो० ४८) । यथा यतिभङ्गश्रुतिकटुत्वादयः पदादिगतदोषाः संभवन्ति इति वदन्ति । अत्रो- चिताथै निरर्थकमवाचकं त्रिधाश्लीलम् ॥ संदिग्धमप्रतीतं ग्राम्यं नेयार्थ- मथ भवेत्क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥ इति ( दोषा: १८ ) ( काव्य० प्र० उ० ७ श्लो० ५०-५१) । इति विज्ञेयाः । ७ वातपित्तकफजाः इति त्रयो भ्रमदोषाः इति भिषजः प्रव एवम् वाक्यमात्रगतदोषाः रसदोषाः साक्षात्परंपरया वा तत एव दन्ति । अत्रोच्यते । वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः । विकृताविकृता देहं घ्नन्ति ते वर्धयन्ति च ॥ इति ( वाग्भट ० ) / त्र विशेषः । चिरज्वरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः । किराततिक्तादिगणः प्रयोज्य: शुद्ध्यर्थिने वा त्रिवृताविमिश्रः ॥ (चक्रदत्त० ) । अत्रार्थे दोषशब्दे दुष वैकृत्ये इति दुषधातोः करणे / घञ् । तथा चोक्तम् धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः । वातपित्त, कफा एते त्रयो दोषा इति स्मृताः ॥ इति ( वाग्भट० ) । अत्र दिपछि. र्दोषभेदाः इति सुश्रुतकारा आहुः । ८ अनुद्योगदेशान्तरापर्यटनदर्शनी । यवस्त्वाद्यनवलोकनादयो दोषाः इतीदानींतना विद्वन्मन्याः पाश्चात्याय / <दोहनम्. [क] क्षरणानुकूलव्यापारः । यथा गां पयो दोग्धि मैत्र/ तस्य जनकत्व संबन्धेन क्षरणेन्वयः । विभागे चाधेयतासंबन्धेन प्रकृत्यर्थ-/ इत्यादौ दुहेरर्थः । अत्र गोपदोत्तरद्वितीयाया अर्थो विभागः / गवादेरन्वयः । प्रधानकर्मक्षीरवाचकपयःपदोत्तरद्वितीयार्थो वृत्तित्वम् / तस्य धात्वर्थतावच्छेदके क्षरणरूपे फलेन्वयः । एवं च गोनिष्ठविभागा तस्तु विभागावच्छिन्नक्षरणानुकूलो व्यापारः । अत्रायं विशेषो शेय/ नुकूलपयोनिष्ठरणानुकूलव्यापारकर्ता मैत्रः इति बोधः । [ख] बढ़ यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतया विवक्षितम् क्षरणान्वयिति भागश्च विभत्तयर्थतया तत्रापादानत्वबोधिका पञ्चमी इति ( To का० २ पृ० ४४ ) । गां दोग्धि पयः दुह्यते गौः क्षीरमित्यादौ अकथितं च ( पा० सू० ११४/५१ ) इत्यनेन सूत्रेण केचिन्मन्यन्ते । वृत्तित्वात्पयसो मुख्यं कर्मत्वम् । गोस्तु तादृशक्षरणजन्यविभागाश्रयत्वा विवक्षया कर्मत्वं बोध्यम् । तत्र धात्वर्थतावच्छेदकीभूतक्षरणस्य द्रोणं कर्मत्वम् इति विवेकः । गां दोग्धि पय इत्यादौ द्विकर्मकधातुसम- भिव्याहृतगवादिपदोत्तर द्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेण अकथितं च (पा० सू० १/४/५१) नापादानत्वादिभिन्नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्म- दोग्ध पय इत्यादौ गोपदोत्तरद्वितीयाया वृत्तित्वमर्थः । तस्य धात्वर्थ- संज्ञाविधानात् इति (ग० व्यु० का० २ पृ० ४३ ) । अन्ये तु गां बोध्यम् । अस्य दुहे: गौणे कर्मणि लकारादि । तत्रोक्तम् प्रधानकर्मण्या- घटकविभागेन्वयः । शाब्दबोधस्तु पूर्ववदेव ज्ञेयः इत्याहुः । अत्रेदं येये लादीनाडुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति ( ग० व्यु० का० २ पृ० ४४ ) ( वाच० ) । इदं चात्रावधेयम् । धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् इत्यत्र धात्वर्थ- तावच्छेदकत्वस्य धातुवृत्तिग्रह विशेष्यांशे साक्षाद्विशेषणत्वरूपत्वम् इत्य न तादृशं कर्मत्वम् अत्र प्रवर्तते इति । दुह्यते गौः क्षीरमित्यादौ क्षरण जन्यविभागाश्रयत्वं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने दुहादीनाम् इत्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः । निष्ठरणानुकूल व्यापारजन्यक्षरणजन्यविभागाश्रयो गौः इत्याकारको बोधः आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः । तथा च विभागावच्छिन्नक्षीर- (ग० व्यु० का० २ पृ० ४४ ) । यथा वा तेषु तेषु तु पात्रेषु दुधमाना वसुंधरा ( हरिवं० श्लो० ८१) इत्यादौ दुहेरर्थः (वाच ० ) । अत्रादिशब्द ग्राह्येषूदाहरणान्तरेषु द्विकर्मकत्वादिविशेषो ज्ञेयः । यं सर्व- शैला: परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि इत्यादौ । यः पयो दोग्धि पाषाणम् पयो घटोनीरपि गा दुहन्ति (भट्टिः) इत्यादौ च दुहेर्द्विकर्मकत्वम् । दुहेरन्यकर्मकत्वाविवक्षायामेककर्मकत्वमपि । महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ (कुमार० स० १ श्लो० २) यथा दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ( मनुः ) इत्यादौ । यथा वा दुग्ध्वा पयः पत्रपुढे मदीयम् ( रघु० स० २ श्लो० ६५) इत्यादौ [ग] द्रवद्रव्यविभागानुकूल क्रियानुकूलव्यापार विशेषः । सच कर्तृनिष्ठः । यथा गां दोग्धि पय इत्यादौ । अत्र वायुर्वृक्षं गां दोषि इति प्रयोगवारणाय द्रवद्रव्येति पदम् । मेघो जलं दोग्धि इति वारणाय विशेषः इति पदं दत्तम् । अत्र विशेषो दुहधातुगम्यः । इत्थं च द्रव- द्रव्येति न देयमित्यपि वदन्ति । अत्र धात्वर्थघटके विभागे गाम् इत्यस्य / क्रियायां पयः इत्यस्य चान्वयात् गोवृत्तिविभागानुकुलपयोवृत्तिक्रिया- कूलकृतिमान् इति वाक्यार्थः ( का० वा० पृ० २) । [६] मोचनानुकूलव्यापारः । यथा गां पयो दोग्धि गोप इत्यादौ दुहेरर्थः । अत्र दुह्यर्थघटक मोचने गोराधेयत्वेन पयसः कर्मत्वेन ( कर्मतानिरूपक- इत्याकारको बोधः । अत्रेदं बोध्यम् । मोचनं च बहिःक्षरणावच्छिन त्वेन) अन्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तदनुकूलव्यापारवान / व्यापारः । तदनुकूलव्यापारो दोहनम् । अतः धात्वर्थतावच्छेदकीभूतं / ( धात्वर्थतावच्छेदकतायामवच्छेदकम् ) बहिःक्षरणरूपं फलमादाय / इति । एवं च दुहादयः फलावच्छिन्नक्रिया हेतुव्यापारवाचित्वादेव । पयसः गौणं कर्मत्वम् । मोचनात्मकं च फलमादाय गोः मुख्यं कर्मत्वम् निःसरणमात्रम् । यथा दुग्धेस्मै सर्व कामं यो वाचो दोहः (छान्दो०/ द्विकर्मका भवन्ति इति ( श० प्र० श्लो० ७३ पृ० ९८ ) / [5] / उ० ) इत्यादौ । यथा वा न कर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ( महाभा० व० श्लो० १९६५) इत्यादौ । यत्र धर्मदुघा सर्वकामदुधा मही । दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ( भाग० ४।१९।७ ) इत्यादौ च दुहेरर्थः । <द्यूतम्> अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ( मिताक्षरा २/१९९)/ <द्योतकत्वम्> [क] अर्थविशेषे तात्पर्यग्राहकत्वम् ( चि० ४ ) ( न्या म० ४ पृ० १८) (नील० ) । यथा प्रजयतीत्यादौ प्रशब्दस्य घ म० ४ पृ० १८ ) । यथा वा चित्रगुमानयेत्यादौ चित्रपदस्य द्योतक कत्वम् । जयतिरत्र प्रकृष्टजयलक्षकः । प्रशब्दस्तु तात्पर्यग्राहकः त्वम् । अत्र च गोपदेनैव लक्षणया चित्रगोस्वामिबोधना चित्रप द्योतकत्वमेव इति ज्ञेयम् (मु० ४ पृ० १८२) । [ख] शाि कानां मते कचित् समभिव्याहृतपदीयशक्तिव्यञ्जकत्वम् । यथा प्रहार इत्यादौ प्रादिनिपातानां प्रहरणाद्यर्थ द्योतकत्वम् ( ल० म० ) । अत्र च धातो- व शक्त्या प्रहारविहाराद्यर्थबोधकत्वसंभवेनोपसर्गाणां बोध्यम् । अत्र वैयाकरणानां गाथा श्रूयते धातूनामनेकार्थकत्वम् इति ( ल० म० धात्वर्थ० पृ० ८) । तदुक्तम् उपसर्गेण धात्वर्थो बला- दन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ इति ( सि० कौ० ) । [ग] कचित् समभिव्याहृतगतवृत्युद्बोधकत्वम् । [घ ] क्वचित्तु क्रियाक्षेपकः । तथा च प्रादेशं विमाय लिखति इत्यर्थोवगम्यते । क्रियाविशेषाक्षेपकत्वम् । यथा प्रादेशं विलिखतीत्यादौ । अत्र विर्विमान- यथा वा अथ शब्दानुशासनम् इत्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं कैयटादावुक्तम् ( ल० म० धात्वर्थ० पृ० ७) । [ङ ] कवितु संबन्धपरिच्छेदकत्वम् । यथा सर्पिषोपि स्यात् इत्यादौ कर्मप्रवचनीयानां द्योतकत्वम् (ल० म० धात्वर्थ ० पृ० ७ ) । अत्र बिन्द्वध्याहारेणापेः पदार्थद्योतकता । अपिः क्रियायां स्वद्योत्यबिन्दुदौर्लभ्य प्रयुक्तदौर्लभ्यस्यापि द्योतकः । एवं च सर्पिरवयवबिन्दुकर्तृका तद्विन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती <द्रवत्वम्> १ ( गुणः ) [क] स्यन्दनकर्मकारणम् ( प्रशस्त० पृ० ३३ ) । संभावनाविषयीभूता सत्ता इति बोधः (ल० म० सुब० पृ० ९४-९५ ) । द्रवत्वं पृथिव्यप्तेजोवृत्ति द्वीन्द्रियग्राह्यम् असमवायि निमित्तं च कारणम् । तत्र क्रियायामसमवाय संग्रहे तु निमित्तं कारणम् । ख आद्यस्य- दनासमवायिकारणम् । तत्र द्वितीयादिव्यापारजनकवेगवारणाय आ इति स्यन्दनस्य विशेषणम् ( वाक्य ० १ पृ० ९) ( दि० गु० पृ० २३२ ) । द्रवत्वं द्विविधम् । सांसिद्धिकम् नैमित्तिकं च । तत्र सांसिद्धिकम् अग्यादिसंयोगाजन्यम् । स्वाभाविकम् इत्यर्थः (वाक्य० १ पृ० ९ ) । हिमकरकादौ चादृष्टविशेषेण घनीभावेन सांसिद्धिकद्रवत्व- प्रतिबन्धः कल्प्यते ( सि० च० १ पृ० ७) । एवं च हिमकरकादावपि सांसिद्धिकं द्रवत्वमस्त्येव । न च तत्र नैमित्तिकं द्रवत्वं युक्तम् । द्रुते घृतत्वादिवत् करकात्वोपलम्भापत्तेः । नैमित्तिकद्रवत्वस्य निमित्त - नाशनाश्यत्वेन घृतादिवत्पुनः पिण्डीभावापत्तेश्च इति ( प० मा० ) । । तैलक्षीरादावपि जलस्यैव द्रवत्वम् । स्नेहप्रकर्षेण च दहनानुकूल्यम् इति । बोध्यम् (मु० १ पृ० ७७ ) । अत्रेदमाकूतम् । हिमकरकयोरौ / पांधिकद्रवत्वनिरोधात् सूर्यकिरणभूमिसंयोगादिनोपांधिनिवृत्तिमात्रम् न द्रवत्वोत्पत्तिः इति ( वाक्य० १ पृ० ९) । तथा च अदृष्ट विशेषग / द्रवत्वप्रतिरोधः । करकायां काठिन्यप्रत्ययो भ्रान्तिरेव (मु० ) पृ० ७७ ) । दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परसर- / संयोगो द्रव्यारम्भकः संघाताख्यः । तेन परमाणुद्रवत्वप्रतिबन्धा हिमकरकादौ द्रवत्वानुत्पत्तिः इति ( प्रशस्त० पृ० ३४ ) । जल एव । नैमित्तिकं पृथिवीतेजसोरेव वर्तते ( प्रशस्त० १०२३// च अभ्यादिसंयोगजन्यमित्यर्थः ( वाक्य ० १ पृ० ९) । तत्र सांसिरिक / (त० सं० ) (भा० प० लो० १५५- १५८) । सांसिद्धिकद्रवयास / जातिविशेषः प्रत्यक्षसिद्धः (मु० १ जल० पृ० ७६ ) ॥ पृथिवीषु सुवर्णादिस्सु चाग्निसंयोगजन्यं द्रवत्वं वर्तते इति श घृतलाक्षावि जल० कार्य (मु० १ पृ० २३२ ) ( त० सं० ) । अयं भावः परमाणुष्वग्निसंयोगाद्वेगापेक्षात्कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भ संयोगविनाशात्कार्यद्रव्य निवृत्तौ अग्निसंयोगादौष्ण्यापेक्षात् स्वतत्रेश माणुषु द्रवत्वमुत्पद्यते इति ( प्रशस्त० पृ० ३४ ) । तथा च दवा/ नित्यानित्यभेदेनापि द्विविधम् । तत्र नित्यद्रव्यगतम् नित्यम् / अनित (ल० म० ) । अत्रायं विवेकः । सांसिद्धिकं त्वमेव नित्यानिय द्रव्यगतमनित्यम् (मु० गु० पृ० २३२ ) ( प्र० प्र० ) ( त० द्रवत्वं त्वनित्यमेव इति ( वाक्य ० १ पृ० ९) । तस्य पाकजन्यले भेदेन द्विविधम् । तच्च नित्यगतं नित्यम् अनित्यगतमनित्यम् / नौमितिक विनाशसंभवान्न नित्यत्वमिति भावः । द्रवद्रव्याणि तु दुग्धदम्बाज्य क्रासवजलतैलादीनि दैहिकमूत्रादी नि च विज्ञेयानि । २. इत्यादी । यथा वा ततः किरीटी सहसा २ काव्यज्ञात गतिः । यथा समुद्रमेवाभिमुखा द्रवन्ति ( गीता अ० ११ श्रो०२८ (मा० आ० ५४/७८) तं दुद्रावाद्रिणा कपिः (भट्टि० ) इत्यादौ इत्याहु: ( वाच० ) । <द्रव्यत्वम्> १ ( सामान्यम् ) गगनारविन्दसमवेतत्वे सति नित्यत्वे सति गन्धासमवेतत्वम् ( सर्वे० पृ० २१५ औलू० ) । तच्च नित्यमनेकद्रव्यमात्र- समवेतम् (वै० उ० १ । २ । ११ ) । यथा क्षित्यादीनां नवानां तु द्रव्यत्वम् ( भा०प० श्लो० २४) । अत्र द्रव्यत्वत्वं तु द्रव्येतरासमवेतत्वे सति सकलद्रव्यसमवेतत्वम् । एवम् पृथिवीत्वत्वघटत्वत्वादिकमपि निर्वाच्यम् । २ लिङ्गसंख्यान्वयित्वं द्रव्यत्वम् इति शाब्दिका वदन्ति । लिङ्गसंख्या- कारकत्वशून्यत्वं सत्त्वत्वम् । तदेव द्रव्यत्वम् इति भावः (वाच ० ) । <द्रव्यम्> ( पदार्थ: ) १ [क ] गुणाश्रयः ( त० दी० पृ० ४) । अत्रायं नियमः । प्रथमं द्रव्यं निर्गुणं निष्क्रियं चैवोत्पद्यते पश्चात्तत्समवेता गुणक्रिया उत्पद्यन्ते इति । गुणाश्रयत्वं चात्र गुणयोग्यत्वम् । द्रव्यत्वजातिमत्त्वं वा द्रव्यलक्षणम् इति बोध्यम् ( त० दी० ११४ ) गुणात्यन्ताभावानधिकरणत्वम् ( त० भा० ) । इदं द्रव्यलक्षणम् ( त० कौ० ) । इत्थं च तत्र सूत्रम् क्रियागुणवत् समवायिकारण- द्रव्यलक्षणम् (वै० सत्ताभिन्ना च या जातिः ( द्रव्यत्वम् ) तद्वत्त्वम् । तेन आद्यक्षणा- ० १।१।१५) इति । अथवा गुणसमानाधिकरणा वच्छिन्ने उत्पन्नविनष्टे च द्रव्ये नाव्याप्तिः ( त० दी० १ पृ० ५ ) । ख समवायिकारणम् ( त० भा० अर्थ० पृ० २७ ) ( भा०प० पृ० ४ ) ( त० कौ० १ पृ० १ ) । द्रव्यत्वजातिस्तु कार्यसामान् साधर्म्य ० श्लो० २३) । [ग] द्रव्यत्वरूपजातिमत् ( त० दी० १ संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया सिद्ध्यति (वे० वि० ११ १२ १५) (मु० १ पृ० ३० ) ( नील० १ पृ० ४ ) । च्छिन्ना कारणता त्वाद्दण्ड निष्ठघटकारणतावत् इत्यनुमानेन द्रव्यत्वं जातिः तथाहि कार्यसमवायिकारणता किंचिद्धर्मेण ( अर्थात् द्रव्यत्वेन ) अव- सिध्यति । अनुगतः अन्यूनः अनतिप्रसक्तश्च यो धर्मस्तस्यैवावच्छेदकत्वेन ताशयत्किंचिद्धर्मस्य जातित्वावश्यकत्वात् इति भावः । एवम् गुणत्वा ४७ न्या० को० दीनामपि जातित्वमूह्यम् । द्रव्यं नवविधम् पृथिवी आपः तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति द्रव्याणि (वै० १/१/५) ( प्रशस्त० पृ० १ ) ( त० मा० अर्थ० पृ० २७ ) (त० सं० ) ( भा०प० श्लो० ३ ) । आकाशकालदिशा मे कैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालः दिक् इति ( प्रशस्त० पृ० ७ ) । तत्र दिक्कालौ परमात्मनो नातिरिच्येते इति दीधितिकृति (दि० १ ) ( प० मा० ) । आकाश ईश्वरान्नातिरिच्यते इत्येकदेशिन आहुः ( प० मा० ) । अत्र भाष्यम् । आकाशं गुणवत्त्वात् अनाश्रितत्वाच द्रव्यम् । शब्दो गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् / समाना- श्रोत्रभावेन ( प्रशस्त० पृ० ७) । द्रव्यम् प्रकारान्तरेण द्विविधय, समानजातीयकारणासंभवान्नित्यम् । सर्वप्राणिनां च शब्दोपलब्धिनिमित्तं बहिर्द्रव्यम् अन्तद्रव्यं च । बहिर्द्रव्याणि पृथिवी आपः तेजः वायुव ( न्या० वा० १ । १ । १३ धृ० ७६ ) । अत्रेदं बोध्यम् । वायोरनुमेयल तदन्यान्यन्तद्र्व्याणि इति । तत्रापि पृथिव्यप्तेजांसि द्वीन्द्रियमाद्यागि वादिनां प्राचां मते बहिर्द्रव्यप्रत्यक्षं प्रति उद्भूतरूपवत्त्वे सति म कारणम् । तेन प्रत्यक्षसामग्र्यभावान वायोस्त्वाच प्रत्यक्षम् / वाय प्रत्यक्षत्ववादिनां नव्यानां मते तु उद्भूतस्पर्शवत्वे सति महत्त्वमपि कारणम् इति ( न्या० सि० दी० पृ० ३२ ) (मु० १ पृ० // / तेन प्रत्यक्षसामग्रीसंपत्त्या वायोस्त्वाचप्रत्यक्षं भवति इति भावः / इन् नित्यानित्यभेदेनापि द्विविधम् । तत्र नवसु द्रव्येषु मध्ये पृथिव्यापि च) मनश्च एतानि नित्यद्रव्याणि । पृथिव्यादिचतुष्टयस्य द्व्यणुकमार चतुष्टयस्य परमाणव: आकाशम् काल: दिक् आत्मा (जीवः परमात्मा महत्पर्यन्तं सर्वाण्यनित्यद्रव्याणि भवन्ति ( मु० १) । तत्र अनित्यव्यं कार्यरूपत्वादवयवसमवेतम् । नित्यद्रव्यं त्वसमवेतमेव । २ शाब्दिका वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यत सा व्यवस्थितः ॥ ( भर्तृहरिः ) इति वदन्ति । ३ भिषजस्तुर वीर्यं विपाकः शक्तिरेव च । पञ्चानां यः समाहारस्तद्रव्यमिति कीमत इति । तन्मते द्रव्यरसगुणवीर्यविपाकानां प्राधान्याप्राधान्यभेदेन द्वैविध्यम् सुश्रुतग्रन्थे उक्तम् । तत्तु तस्मादेव विज्ञेयम् । प्रकारान्तरेण द्रव्यं पञ्च- विधम् अत्यन्तकठिन कठिनार्द्र कोल्बणद्रवद्रव्यभेदात् इत्याहुः ( वाच० ) । आईतास्तु गुणपर्यायवद्रव्यम् ( सर्व० सं० पृ० ७२ आई० ) इत्याहुः । ५ रामानुजीयास्तु इत्थं वदन्ति । तत्र द्रव्यं दशावत्प्रकृति- रिह गुणैः सत्त्वपूर्वैरुपेता कालोब्दाद्याकृतिः स्यादणुरवगतमाञ्जीव आत्मा । संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातुर्ज्ञेया- वभासा मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ॥ ( सर्व० सं० पृ० ११२ <द्रोण:> द्रोणत्वविशिष्टः परिमाणविशेषः । यथा द्विद्रोणेन धान्यं क्रीणाति द्रोहित्यिादौ । द्रोणत्वं चात्र इयत्ताविशेषावच्छिन्नपला- च्छिन्नधान्यादिपरिच्छेदकत्वसमानाधिकरणजातिविशेषः । एवम् प्रस्थत्वा- दयो बोध्या: (ल० म० ) । द्रोणो ब्रीहिरित्यत्र द्रोणरूपं यत् परिमाणं <द्रोह:> ( दोषः ) [क] अहितेच्छा । यथा शत्रवे द्रुह्यतीत्यादौ धात्वर्थः तत्परिच्छिन्नो व्रीहिः इति शाब्दबोध: ( सि० कौ० का० ) । (ग० व्यु० का० ४ १० ९६ ) । अत्र भाष्यम् प्रयत्नस्मृतिधर्माधर्म- हेतुहः । स च द्वेषभेदः ( प्रशस्त० पृ० ३३ ) । अत्र अहित- भागितयेच्छाविषयता । तन्निरूपकत्वं चतुर्थ्यर्थः । तादृशनिरूपकत्वस्य दिसूत्रस्य (पा० सू० १।४।३२ ) न विषयः ( ग० व्यु० का० ४ धात्वर्थेच्छायामन्वयः । अथवा आधेयत्वं चतुर्थ्यर्थः । अतः कर्मणेत्या- पृ० ९६ ) । तस्य चाधेयत्वस्य धात्वर्थघटकाहिते अन्वयः । अत्र दुहेर्ष्या सूयार्थानां यं प्रति कोपः (पा० सू० १/४/३७) इत्यनेन कर्मणः संप्रदानसंज्ञा ( ग० व्यु० का० ४ पृ० ९६ ) । [ख] मित्राय द्रुह्यतीत्यत्र । अत्र मित्रस्य द्विष्टमा चरतीत्यर्थः ( श० प्र० लो० ६९ नाशाय द्वेषः ( गौ० वृ० ४ । १ । ३ ) । [ग द्विष्टाचरणम् । यथा (पृ० ८७ ) । [घ ] शाब्दिकास्तु दुःखजनक क्रियारूपापकारजनक- श्चित्तवृत्तिविशेषः । यथा हरये दुह्यतीत्यादौ द्रुहेरर्थः इत्याहुः । अत्र हरिसंप्रदानको द्रोहः इति बोध: ( ल० म० सुबर्थ० पृ० १०३ ) । । अत्रायं विवेकः । कोपपूर्वकस्य द्रोहादेर्दुहधातुवाच्यत्वे तत्कर्मणः । संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तु कर्मत्वमेव इति पुनः कौमाराः। / सोपसर्गयोस्तु ऋधद्रहोः कर्मणः कर्मतैव न तु संप्रदानता । अत एव । शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि पठ्येव प्रमाणम् ( श० प्र० श्लो० ६९ पृ० ८७) । अत्रेदमवधेयम् / मित्रं संप्रदानत्वं वैकल्पिकम् इत्युन्नीयते । [ ङ ] हिंसा इति परे मन्यन्ते । शिष्यमीर्ष्यति पुत्रमसूयति इत्यपि प्रयोगात् द्रुहादि कर्मणः । (गौ० वृ० ४ । १ । ३ ) । <द्वन्द्वः> (समासः ) [क] यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य । तावदर्थको द्वन्द्वसमास: । घटघटेत्यादिकस्य घटकलशेत्यादिकस्य घटतब निश्चयस्तत्तदर्थप्रकार कान्वयबोधं प्रति तत्त्वेन समर्थः तादृश नामनिवह ए १ त्यादिकस्य च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्यहेतुत्वान् अतो न तादृडामनिवहो घटाद्यर्थे द्वन्द्वः । अत एव समस्यमानपदार्थ तत्त्वावच्छेदकयोर्वा यत्र मिथो भेदस्तत्रैव द्वन्द्वस्य साधुत्वसूचनाय द्वन्द्वः (पा० सू० २।३।२९ ) इति पाणिनिराह । अत एव भेदगर्भस मुच्चयार्थकं चशब्द मन्तर्भाव्य धवश्च खदिरश्च इत्यादिकं विग्रहमस्य प्रभु अते वृद्धाः ( श० प्र० श्लो० ४७ पृ० ६२ ) । पदजन्यप्रतीतिविषयभेद । द्वन्द्वः । अत्र हि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रति अमादि एव द्वन्द्वः ( भवानन्दी) । यथा पाणिपादं वादय धवखदिरौ छिन्धीत्या दो धर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिकनामस्तोमस्याव्यवहितो त्तरत्वसंबन्धेन निश्चयः कारणम् । अतः पाणिपादादिसमुदायः द्विविधः । समाहारः इतरेतरश्चेति ( श० प्र० लो०४७-४८ पृ० ६० - ६१ ) । अत्र वैयाकरणानां विवेकः । संहतिप्राधान्ये स हारद्वन्द्वः संहन्यमानप्राधान्य इतरेतरयोगः इति ( वाच ० ) । शाब्दिका धवखदिरावित्यादावितरेतरयोगद्वन्द्वे उद्भूतावयवभेदसमूहः इत्याहुः ( ल० म० वृत्तिवि० पृ० ३० ) । अत्रायं विशेषः । समु- च्चयान्वाचययोः सामर्थ्याभावान्न तत्र द्वन्द्वसमासः । यत्र युगपत्क्रियान्वय तात्पर्यम् तत्र समासः । समुच्चये च क्रमेण क्रियान्वयः न तु युगपत् इति ( त० प्र० ख० ४ पृ० ५२ ) । [ख परस्परानन्वितसमस्य- माननिखिलपदार्थबोधकसमासः । यथा धवखदिरावित्यादौ । अव्ययी- भावादावतिव्याप्तिवारणाय परस्परानन्वितेति पदार्थविशेषणम् । अव्ययी- भावादी यथायथं भेदेनाभेदेन वा परस्परान्चितपदार्थबोधकत्व सत्त्वान्नाति- व्याप्तिः । पाणिपादमित्यादिसमाहारद्वन्द्वे तु पाणिपादमात्रं प्रतीयते साहित्यमपि ( समाहारः ) न प्रतीयते इति तत्र नाव्याप्तिः । एकवचनं विहितं न विरुद्धम् । धवखदिरावित्यत्र च परस्परानन्वितसमस्यमान- तु द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ( पा० सू० २।४ २) इति सूत्रेण पदार्थधव खदिरादिबोधकत्वसत्त्वात्समन्वयः ( म० प्र० ४ पृ० ४४ ) । <द्वन्द्वम्> रहस्यादयः पञ्च द्वन्द्वशब्दार्थाः पाणिनिनोक्ताः । तथाच सूत्रम् द्वन्द्व [ग] सर्वपदार्थप्रधानः समासः ( न्या० वा० १ पृ० ११ ) । रहस्य मर्यादा वचनव्युत्क्रमणयज्ञपात्र प्रयोगाभिव्यक्तिषु (पा० सू० ८/१/१५) रहस्यम् । यथा द्वन्द्वं मन्त्रयते इत्यादौ । २ मर्यादा स्थित्यनतिक्रमः । ॥ तत्र रहस्यं द्वन्द्वशब्दवाच्यम् । इतरे प्रयोगोपाधयः । तथाहि १ पौत्रेण प्रपौत्रेणापि इति मर्यादार्थः । ३ व्युत्क्रमणम् पृथगवस्थानम् । यथा यथा आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति द्वन्द्वे व्युत्क्रान्ताः इति । द्विवर्गसंबन्धेन पृथगवस्थिता इत्यर्थः (वाच० ) । ४ यज्ञपात्रप्रयोगः । यथा द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति इति । अभिव्यक्ती साहचर्येणेत्यर्थः ( वाच ० ) । ६ काव्यज्ञाश्च युगलम् । यथा द्वन्द्वान भावं क्रियया विवव्रुः ( कुमार० ३।३५) इत्यादी इत्याहुः । ( गीता० ४ । २२) निर्द्वन्द्वो हि महाबाहो ( गीता० ४ । ३ ) न द्वन्द्व- परस्परविरुद्धस्वभावः शीतोष्णादिः । यथा द्वन्द्वातीतो विमत्सरः दुःखमिह किंचिदकिंचनोपि ( माघः ) इत्यादौ इति योगिनो वेदान्तिन- श्चाद्दुः । अत्रोच्यते क्षुत्पिपासे शोकमोहौ रागद्वेषौ तथैव च । लाम लाभौ च शीतोष्णे तथा मानापमानकौ ॥ कामक्रोधप्रभृतयो द्वन्द्वशब्देन / वर्णिताः इति । ८ दुर्गम् इति व्यवहारज्ञा आहुः । ९ रोगविशेष इति । भिषज आहुः ( वाच० ) । <द्वयोरेकम् इति रीत्या जायमानं ज्ञानम्> एकप्रकारतानिरूपितोभय / विशेष्यताशालि ज्ञानम् ( ल० व० पृ० ९ ) । यथा घटपटौ रक्तरूप- / वन्तौ इति ज्ञानम् । अत्र घटपटोभयनिष्ठविशेष्यताया रक्तरूपनिष्ठैक / प्रकारतानिरूपितत्वेन तथात्वं संपद्यते इति विज्ञेयम् । <द्वादशलक्षणी> जैमिनिसूत्रम् । द्वादशानां लक्षणानां ( अध्यायानां) समाहारः (जै० न्या० अ० १ पा० १ अधि० १) । <द्वादशायतनम्> पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् / यतनमेतानि द्वादशायतनानि तु ॥ ( सर्व० सं० पृ० ४६ बौ० ) 1 <द्वारम्> १ व्यापारवदस्यार्थोनुसंधेयः ( राम० मङ्ग० पृ० ४), क्राथनस्पन्दनमन्दनशृङ्गारणावितत्करणावितद्भाषणानि द्वाराणि (सर्व सं० पृ० १७० नकुली० ) । <द्विकर्मकः> ( धातुः ) फलावच्छिन्नक्रियाहेतुव्यापारवाचको धातुविशेषः:/ यथा दुह पृच्छ इत्यादिः ( श० प्र० श्लो० ७३ पृ० ९८// द्विकर्मकत्वं च कर्मद्वयसाकाङ्कक्रियाबोधकत्वम् इति ज्ञेयम् ( क पृ० २) । द्विकर्मका धातवस्तूक्ता यथा दुह्याचपच्दण्ड्रुधिप्रति ब्रूशासुजिमथुमुषाम् । कर्मयुक् स्यादकथितं तथा स्थानीढकृप्वहाय / <द्विगु:> १ ( समासः ) संख्यावच्छिन्नशक्तयत्पदोत्तरत्व विशिष्ट स्वार्थधर्मिकं तादात्म्यसंबन्धेन तदलक्ष्यार्थस्यान्वय इति ( सि० कौ० का० पृ० ५६ ) । त्रिकटुनिमुन पञ्चमूलीयादौ ( श० प्र० श्लो० ३४ पृ० ४५ ) । तन्नामोत्तरतापनं तन्नामैव तदलक्ष्यार्थाभिन्नस्वार्थे द्विगुरुच्यते । चतुर्युगचतुर्वर्गपञ्चगव्यपञ्चामृतषड्सषट्पदार्थसप्तर्ष्यष्टनागाष्टवसुनवरसन- वग्रहदशमूलैकादशरुद्रैकादशेन्द्रियद्वादशादित्येत्यादिकः कर्मधारयः ण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नबोधकतया न पूर्वपदालक्ष्यार्थस्य बोधकः । त्रिकटुप्रभृतिभ्यः कटुयादिसामान्यस्याप्रतीतेः । अतो नोक्तकर्मधारयेति- व्याप्तिः इति ( श० प्र० श्लो० ३४ पृ० ४५) । कटुत्रयं च शुण्ठी पिप्पली मरीच एतत्रयम् । अथवा संज्ञाविषयान्यत्वे सति संख्यावाचक- इत्यादौ इति प्राञ्चः । पञ्चाम्राः पञ्चकन्याः इत्यादिकर्मधारयवारणाय पूर्वनामतुल्यार्थ कोत्तरनामकः समासः । यथा पञ्चगवम् पञ्चाश्वम् पञ्चाम्रम् नीलोत्पल मित्यादिकर्मधारयवारणाय संख्यावाचकेति पूर्वनामविशेषणम् सत्यन्तम् । पञ्चानामाम्राणां समाहारः पञ्चाम्रमित्यर्थे तु द्विगुरेव । ( म० प्र० ४ पृ० ४४ ) । पञ्चगवमित्यादौ सत्यन्तस्य संख्यावाचक- मिन्नगवादिसमाहारः इति पञ्चाभिन्नाः समाहृतगवादयः इति वा वाक्यार्थ- पञ्चेतिपूर्वपदतुल्यार्थकगवादिपदस्य च सत्त्व लक्षणसंगतिः । तथा च पञ्चा- बोध: ( म० प्र० ४ पृ० ४४ ) । अयं द्विगुस्त्रिविधः । तद्धितार्थः उत्तर- पदपरक: समाहारार्थक श्चेति ( श० प्र० श्लो० ३४ पृ० ४५-४६) । तथाच पाणिनेः सूत्रम् संख्यापूर्वी द्विगु: ( पा० सू० २/१२/५२) इति । अस्यार्थः तद्धितार्थोत्तरपदसमाहारे च (पा० सू० २/१२/५१) १२ काव्यज्ञास्तु द्विगवस्वामिकः पुरुषो द्विगुः । यथा द्वन्द्वो द्विगुरपि इयत्रोक्तः संख्यापूर्वी द्विगु: स्यात् ( सि० कौ० स० पृ० ७४ ) । <द्विजः> मातुर्यद जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्त- सततमस्मद्गृहेव्ययीभावः ( उद्भट ) इत्यादौ इत्याहुः । स्मादेते द्विजाः स्मृताः ॥ ( मिताक्षरा अ० १।३९ ) । <द्वितीया> (विभक्तिः ) तत्तद्धात्वर्थादौ कर्मत्वादिबोधिका विभक्तिः । यथा क्रियाजनकत्वशक्तिः ( ल० म० ) । द्वितीयाया अर्थश्च १ कर्मत्वम् । द्विविधाः । कारकविभक्तयः उपपदविभक्तयश्च । अत्र कारकत्वं च चैत्रस्तण्डलं पचतीत्यादौ तण्डुलपदोत्तरं द्वितीया । द्वितीयादयोपि त फल विशेषो द्वितीयार्थः । यथा ग्रामं गच्छतीत्यादौ संयोगात्मक- फलम् परसमवेतत्वं च द्वितीयार्थः इति प्राञ्चो नैयायिका आहुः । अत्रायं भावः । कर्मत्वं च क्रियाजन्यफलशालित्वम् । तत्र क्रिया । व्यापारमात्रम् धातुत एव लभ्यते । फलान्वयि वृत्तित्वम् जन्यजनक वसंबन्धश्च ( पदार्थत्वं विना) संबन्धमर्यादया भासते इति फलमात्रं । संयोगविभागादि कर्मप्रत्ययार्थः इति प्राचां नैयायिकानां मतम् ॥ एतन्मते धातोर्व्यापारमात्रार्थकत्वम् इति बोध्यम् (ग० व्यु० का० १ पृ० ३६ ) ( का० व्या० ) । अत्र परसमवेतत्वमपि द्वितीयार्थी । वक्तव्यः । प्राचीनमते शाब्दबोधस्तु वृत्तित्वसंबन्धेन ग्रामविशिष्टो यः संयोग: जनकतासंबन्धेन तादृशसंयोगविशिष्टो यो व्यापारः (धातुलम्या) तद्विषयिणी या कृति: ( आख्यातलभ्या ) तद्वान् इत्युत्पद्यते । वृत्तिरेव द्वितीयार्थः । यथा ग्रामं गच्छतीत्यादौ धात्वर्थफलान्वयि वृत्तिय द्वितीयार्थः । अयं भावः । नव्यमते धात्वर्थतावच्छेदकफलशालिवमेव फले द्वितीयार्थवृत्तित्वमन्वेति । एवं च स्पन्द्यादेर्न सकर्मकत्वम् 19 कर्मत्वम् । तत्र फलावच्छिन्न व्यापारो धातुत एव लभ्यते । तदेव नव्यमते यत्र समभिव्याहृतधात्वर्थतावच्छेदकफलाश्रयत्वबोधः तत्र द्वितीया फलस्य धात्वर्थतानवच्छेदकत्वात् इति (ग० व्यु० का० २५० ३८ // इति व्युत्पत्तिः । तेन भूमौ पततीत्यादौ पतधातोरकर्मकतया धाव तावच्छेदकफलाभावेन ( सप्तम्या आश्रयत्वबोधेपि ) न द्वितीया ( कर्तृत्वम् तत्राधेयत्वं द्वितीयार्थः । यत्रानुकूलकृतिमत्वम् कर्तृत्वम् प्र० ख० ४ पृ० ८४) । अत्रेदमवधेयम् । नव्यमते च यंत्राप्रचण कृतिजन्यत्वम् द्वितीयार्थः । यत्र प्रतियोगित्वम् तत्रानुयोगित्वम् / मतेत्रायं बोधः निरूपितसंबन्धेन ग्रामविशिष्टं यद्वत्तित्वम् (आयात्रव चाश्रयतासंबन्धेनैवान्वयः ( ग० व्यु० का० २ १० ४७) / नाते तद्वान् यः संयोगस्तदवच्छिन्नव्यापारानुकूलकृतिमान् इत्युत्पद्यते / ' कर्मणि द्वितीया (पा० सू० २/३/२) इत्यनेन द्वितीया चोदा यथा वा गां पयो दोग्धि मैत्र इत्यादौ पयःपदोत्तरद्वितीयार्थी इति प्राहुः । अत्र विभागावच्छिन्नक्षरणानुकूलव्यापारो दुहेरर्थः । तत्र विभागे गोपदोत्तरद्वितीयार्थवृत्तित्वस्य क्षरणे च पयःपदोत्तरद्वितीयार्थ- बोध्यम् । गामित्यत्र अकथितं च ( पा० सू० ११४/५१) इत्यनेन वृत्तित्वस्यान्वयो बोध्यः ( ग० व्यु० का० २ पृ० ४४ ) । अत्रेदं कर्मसंज्ञा । पय इत्यत्र तु कतुरीप्सिततमं कर्म (पा० सू० १ । ४।४९) इत्यनेन कर्मसंज्ञा । तथा च कर्मणि द्वितीया (२।३।२ ) इत्यनेनो- भयत्र द्वितीया इति । अधिकं तु दोहनशब्दव्याख्यानावसरे संपादितम् इति तत्र द्रष्टव्यम् ।' अत्र आश्रयो द्वितीयार्थः इति शाब्दिका आहुः (वै० सा. ) । कचित्कर्मत्वं विषयरूपत्वम् । यथा भाविनं घटं जानाति ( न्या० म० ४ पृ० ६) पौरवं गां याचते इत्यादौ द्वितीयार्थः । अत्र विद्यमानघटस्थले ज्ञानेन ज्ञाततोत्पादनमङ्गीकृत्य क्रियाजन्यफल- कर्तुरीप्सिततमं कर्म इत्यनेन सूत्रेण लक्षणया विषयत्वात्मकं गौ पूर्व घटस्याभावेन ज्ञातताया जननासंभवात् इति भावः । एवं च शालित्वरूपकर्मत्वमपि कदाचित्संभवति इत्यतः भाविनम् इत्युक्तम् । तत्र पूर्वोक्तमेव गौणं कर्मध्वम् । पौरवस्य गां दोग्धि इत्यत्रेव कर्मत्वं बोध्यम् । बढिमनुमिनोमीत्यादौ द्वितीयार्थः । अत्रेदं बोध्यम् । ज्ञानादिरूपसविषयक तच विषयत्वरूपं कर्मत्वं क्वचिद्विधेयत्वम् विधेयित्वं वा । यथा पर्वते वस्त्वभिधायक धातुसमभिव्याहृतद्वितीयायाः प्राचीनमते विषयत्वमर्थः । तस्य च निरूपकतासंबन्धेन धात्वर्थेन्वयः । विषयत्वे प्रकृत्यर्थस्याधेयता- संबन्धेनान्वयः इति । नव्यास्तु वृत्त्यनियामकसंबन्धस्याभावप्रतियोगि तानवच्छेदकतया घटं जानाति पटं न इत्यादौ प्राचीनमते शाब्दबोध तासंबन्धेनान्वयः इति । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्व- अनुपपत्तेस्तत्र द्वितीयाया विषयित्वमेव शक्यार्थमुपवर्णयन्ति । तन्मते तत्र विषयित्वे प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन विषयित्वस्य च धात्वर्थ आश्रय- मेव । विषयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदा- यिका आहुः (ग० व्यु० का० २ ख० २ पृ० ५१ ) । कचित्त ४८ न्या० को ० त्वम् उद्देश्यत्वं वा । यथा वह्निमत्त्वेन पर्वतमनुमिनोमीलादौ । द्वितीयार्थः । अयं द्वितीयाथस्तु ( उद्देश्यत्वम् उद्देश्यित्वं वा) यदि वहि साध्यकपर्वतपक्षकानुमितिपरस्य वह्निमत्त्वेन पर्वतमनुमिनोमि इत्यादि । वाक्यस्यापि प्रामाण्यं मन्यते तदाङ्गीकर्तव्यः । तथा च तादृशद्वितीयायों वह्निमत्त्वेनेत्यत्र तृतीयार्थो वैशिष्ट्यम् । तच्चात्र विधेयत्वमेवेति न तृतीया- देश्यत्वादेश्च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेन्वयः कर्तव्यः । थोनुपपत्तिः ( ग० व्यु० का० २ ख० २ पृ० ५५-५६ ) / वया वा विष्णुं यजते इत्यादौ द्वितीयार्थः । कचिच्च समवायसंबन्धावच्छिन्न द्वितीयार्थः । अत्र तादृश प्रकारितायाश्च गन्धनिरूपितलौकिकविषयिता. धेयत्वसंसर्गावच्छिन्नविषयता निरूपित प्रकारिता । यथा पुष्पं जिम्रतीयादौ । तेन इदानींतनपुष्पे गन्धः इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकार। शालिप्रत्यक्षात्मकधात्वर्यैकदेशे विषयितायां निरूपितत्वसंबन्धेनान्वयः / कत्वेपि तादृश प्रत्यक्षदशायां न कालं जिघ्रति इत्यादिप्रयोगः ( ग का० २ ख० १ पृ० ५२ ) । कचिच्च लौकिकविषयित्वम् । यथा ग० न्यु० पश्यतीत्यादौ द्वितीयार्थ: । कचित् तादात्म्यसंबन्धावच्छिन्न प्रकारता / यथा रङ्गे अमेदेन रजतारोपस्थले रङ्गं रजतं जानाति इत्यादौ द्वितीयार्थः / कचित् विशेष्यता । यथा पार्क चिकीर्षतीत्यादौ द्वितीयार्थः । * पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते । न त्विच्छाया विषयाच रूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासति इत्यादिप्रयोगाते ( ग० व्यु० का० २ ख० २ पृ० ५९) । अत्रेदं ज्ञेयम् । पुत्रकाम्यतीत्यादी न्तादेरकर्मकस्य सन्नन्तसमानार्थकत्वेपि पुत्रीयति आचारार्थ साकाङ्क्षत्वानुपगमेन न द्वितीया । भृत्यं पुत्रीयतीत्यादौ तु विहितक्यजन्तस्य सकर्मकत्वं युज्यत एवेति तत्र द्वितीया (ग० ५० का० २ ख० २ पृ० ६३ ) । कचित् मुख्य विशेष्यत्वम् / दृष्टिसाध्यं सुखं भवतु इत्यत्र सुखस्यैव न तु वृष्टेः कर्मत्वं द्वितीयार्थः । अतस्तत्र तादृश विवक्षायां सुखमिच्छति इत्यादिवत् वृष्टिमिच्छति इत्याद न प्रयोगाः ( ग० व्यु० का० २ ख० २ पृ० ५९ ) साध्यताख्यविषयताविशेषः । यथा घटं करोतीत्यादौ द्वितीयार्थः । अत्रायं विशेषो ज्ञेयः । काशान् कटं करोति काष्ठं भस्म करोतीत्यादौ काशकाष्ठपदोत्तर द्वितीययोरुपादानीय विलक्षणविषयतैवार्थः (o व्यु० का० २ ख० २ पृ० ६५) । २ कर्तृत्वम् । यथा अजां ग्रामं प्रापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं म पाठयति घटं जनयति घटं नाशयति चैत्रः इत्यादौ अजादिपदोत्तर- कर्तृत्वम् आश्रयत्वमेव द्वितीयार्थः । अत्र गतिबुद्धिप्रत्यवसानार्थशब्द- द्वितीयार्थः कर्तृत्वम् । अजां ग्रामं प्रापयति इत्यादौ गतिनिरूपितमजाष्टिं (कर्माकर्मकाणामणि कर्ता स णौ ( पा० सू० १/४/५२ ) इत्यनेन कर्तुः अजा ग्रामं गच्छति चैत्रोजां ग्रामं गमयति इत्यर्थः । एवमुत्तरत्राप्यर्थ ऊह्यः । शिष्यं शास्त्रं ज्ञापयतीत्यादौ ज्ञाननिरूपितं शिष्यनिष्ठं कर्तृत्वं कर्मसंज्ञा विधीयते इति बोध्यम् । तथा च अजां ग्रामं प्रापयति इत्यस्य चाश्रयत्वमेव द्वितीयार्थः । घटं जनयतीत्यादावुत्पत्तिनिरूपितं घटनिष्टं निरूपितं ब्राह्मणनिष्ठं कर्तृत्वं च भोजनानुकूलकृतिमत्त्वमेव द्वितीयार्थः । कर्तृत्वं चाश्रयत्वमेव द्वितीयार्थः । ब्राह्मणमन्नं भोजयतीत्यादौ भोजन- पाठानुकूल कृतिमत्वमेव द्वितीयार्थः । घटं नाशयतीत्यादौ नाशनिरूपितं यजमानं मन्त्रं पाठयतीत्यादौ पाठनिरूपितं यजमाननिष्ठं कर्तृत्वं च घटनिष्ठं कर्तृत्वं च प्रतियोगित्वमेव द्वितीयार्थः । तस्य च कर्तृत्वस्य पूर्वोक्ताश्रयत्वकृतिमत्त्वप्रतियोगित्वात्मकस्य निरूपकतासंबन्धेन धात्वर्थेन्वयः इति प्राचीना आहुः । नव्यास्तु यत्राश्रयत्वं कर्तृत्वम् तत्राधेयत्वं द्विती- प्रतियोगित्वं कर्तृत्वं तत्रानुयोगित्वं द्वितीयार्थः । तेषां च पूर्वोक्तकर्तृत्वा- यार्थः । यत्रानुकूलकृतिमत्त्वं कर्तृत्वं तत्र कृतिजन्यत्वं द्वितीयार्थः । यत्र नाम् आश्रयतासंबन्धेनैव तत्तद्धात्वर्थेष्वन्वयः इति प्राहुः । ३ विभागः । यथा गां पयो दोग्धि मैत्र इत्यादौ गोपदोत्तरद्वितीयाया अर्थः । अत्रत्यो विषयस्त दोहनशब्दव्याख्यानावसरे संपादितः । तत्रावलोकनीयः । ४ अमेदः । यथा स्तोकं पचतीत्यादौ द्वितीयार्थः । अत्र नामार्थधात्वर्थयोर- भेदात्मकसंबन्धेन पदादनुपस्थितेनाप्यन्वयो भवतीत्यस्यास्वीकार एवाभेदो द्वितीयया बोध्यते । तत्स्वीकारे तु क्रियाविशेषणपदोत्तरद्वितीया विशेष- । णविभक्तिवत्प्रयोगसाधुत्वायैवेति ज्ञेयम् ( का ० व्या० पृ० ७ ) । ५ अधिकरणत्वम् । यथा मासमधीते चैत्र इत्यादौ द्वितीयार्थः । अत्र । कालाध्वनोरत्यन्तसंयोगे (पा० सू० २/१२/५ ) इत्यनेन द्वितीया ज्ञेया ६ अन्ये तु व्यापकत्वम् । यथा मासं रमणीया क्रोशं कुटिला नदीव्यादौ । द्वितीयार्थः इत्याहुः । अत्र अत्यन्तसंयोगोभिव्याप्तिः । अभिव्यायन्तः । र्भावेन मासस्य कर्मत्वम् । द्वितीयायाः साधुत्व निर्वाहकत्वमेवेति । अ क्तम् कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैर कर्मकैयोगे कर्मल मुपजायते ॥ इति (ग० व्यु० का० २ ख० २ १० ६८) । केचित्त अभिव्याप्तिः । यथा मासं सुप्यते क्रोशं गम्यते इत्या द्वितीयार्थ इत्याहुः । ८ प्रतियोगित्वम् अनुयोगित्वं वा । विना न घट उत्पद्यते रासभं विनापि घट उत्पद्यते इत्यादौ द्वितीयार्थः । यथा वा आरम्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम् इत्या प्रतियोगित्वम् अनुयोगित्वं वा द्वितीयार्थः । ९ अवधित्वम् उ वा । यथा काशीतः कौशिकीं यावद्यातीत्यादौ द्वितीयार्थः । १० यत्वम् । यथा यज्ञमनु प्रावर्षदित्यादौ द्वितीयार्थः । अत्रार्थे कारकल हेतुत्वम् अनुशब्दार्थः । अनुलक्षणे ( पा० सू० १/४/८४) ३ कर्मप्रवचनीय संज्ञा विधायकसूत्रे लक्षणपदस्य कारक हेतुपरत्वात् । यज्ञान्वितस्यायत्वरूपद्वितीयार्थस्यान्वयः । हेतुतायाश्च निरूपकत्वसंबन्धेन वृष्टावन्वयः (ग० व्यु० का० २ ख० २ पृ० ७६) । ११ । अत्रार्थे जन्यत्व तत्वम् । यथा उक्तोदाहरणे एव यज्ञमनुप्रावर्षदित्यत्र । शब्दार्थः । तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञाद्यन्वितस्यान्वयः / ज द्वितीयार्थो निरूपितत्वम् । अत्र अन्तरान्तरेण युक्ते (पा० सू० इत्यनेन द्वितीया । तथा च द्वितीयार्थनिरूपितत्व स्यान्तरापदार्थतावच्छे मध्यत्वेन्वयः (ग० व्यु० का० २ ख० २ पृ० ७७) । द्वितीयार्थ उक्तदिशा स्वयं परिच्छेद्यः (ग० व्यु० कारक० २ १-२ पृ० ३६-७७) यथा अवधिमत आवे तत्र च निरूपि २ खण्ड ० <द्वित्वम्. [क] संख्या विशेषः । इदं द्वित्वं च समवायेन द्रव्यद्वये प्रत्येक तिष्ठति इति ज्ञेयम् । यथा द्वौ घटावानयेत्यादौ द्वित्वम् । [ख] अपेक्षाबुद्धिजन्यो गुणविशेषः । यथा अमेकः कः बुद्ध्यनन्तरम् इमौ इति व्यवहारविषयो द्वित्वम् । इदं द्वित्वं तु व्यासज्य- वृत्ति पर्याप्तिसंबन्धेन द्वयोरेव द्रव्ययोस्तिष्ठति न प्रत्येकम् । इदमेव द्वित्वम् (औलू ० ) । एवम् त्रित्वचतुष्ट्वाधारभ्य परार्धत्वपर्यन्तं ज्ञेयम् । मीमांस- इमौ द्वौ इति व्यवहारविषयः इति च विज्ञेयम् ( सर्व० सं० पृ० २२१ कास्तु द्वित्वादीनामपेक्षाबुद्धिजन्यत्वं न स्वीकुर्वन्ति इत्यन्यत् । वस्तुतस्तु द्वित्वमपेक्षाबुद्ध्या जन्यते तन्नाशेन च नश्यति । कचिदाश्रयनाशादपि नश्यति ( प्रशस्त० पृ० १३) (मु० गु० ) । द्वित्वादेरपेक्षाबुद्धि- जन्यत्वे प्रमाणमाडुराचार्या अपेक्षाबुद्धिद्वित्वादेरुत्पादक व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानत्वात् शब्दं प्रति संयोगवत् इति । पृथक्त्वादिवत् इति सायणाचार्याः ( सर्व० सं० पृ० २२२ औळू० ) । वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्ग्यं न भवति इदानीं द्वित्वोत्पत्तिप्रकाराः प्रदर्श्यन्ते । ( १ ) यदा बोद्धुश्चक्षुषा समाना- सामान्यज्ञानोत्पत्तावेकत्वसामान्यतत्संबन्धज्ञानेभ्य एकगुणयोर- समानजातीययोर्द्रव्ययोः संनिकर्षे सति तत्संयुक्तसमवेत समवेतैकत्व- पुनस्तस्मिन् द्वित्वसामान्ये ज्ञानमुत्पद्यते । तस्माद्वित्वसामान्यज्ञानादपेक्षा- बुद्धिविनश्यति । द्वित्वसामान्यतत्संबन्धज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पद्यमानता इत्येकः कालः (प्रशस्त० पृ० १३ ) । ( २ ) प्रथममिन्द्रियार्थसंनिकर्षः । तस्मादेकत्वसामान्यज्ञानम् । ततोपेक्षाबुद्धिः । ततो द्वित्वोत्पत्तिः । ततो द्वित्वसामान्यज्ञानम् । तस्माद्वित्वगुणज्ञानम् । ततः संस्कारः ( सर्व० सं० पृ० २२१ औलू० ) । ( ३ ) उत्पत्स्यमानद्वित्वाधारेणेन्द्रियसंनिकर्षः । महालम्बनरूपापेक्षाबुद्धिः । ततो द्वित्वगुणोत्पत्तिः । ततस्तद्गतसामान्यस्य तत एकत्वगुणगतसामान्यज्ञानम् । तत एकत्वसामान्य विशिष्टैकत्वगुणस ज्ञानम् । ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानम् । ततो द्वित्वगुणविशिष्ट- द्रव्यज्ञानम् । ततः संस्कारः । इतीन्द्रियसंनिकर्षमारभ्य संस्कारपर्यन्तमष्टौ । क्षणा: (वै० उ० ७ १२१८ ) । अत्र मुक्तावली प्रथममपेक्षाबुद्धिः । ततो । द्वित्वोत्पत्तिः । ततो विशेषणज्ञानं द्वित्वत्व निर्विकल्पकात्मकम् । ततो द्वि त्वत्वविशिष्टप्रत्यक्षमपेक्षाबुद्धिनाशश्च । ततो द्वित्वनाशः इति (मु०गु०) ॥ वारपेक्षाबुद्धिनाशनाश्यत्वे प्रमाणमनुमानम् । तच्च द्वित्वमपेक्षाबुद्धिना शनाश्यम् आश्रयनाशविरोधिगुणान्तराभावे गुणस्य स्वतः अविनाशिलात् चरमज्ञानवत् । चरमज्ञानस्यादृष्टनाशनाश्यत्वात् इति (वै० उ०७/२१८॥ इदानीं द्वित्वविनाशप्रकाराः प्रदर्श्यन्ते । ( १ ) एकत्वत्व सामान्यज्ञानया पेक्षाबुद्धितो विनाश: । द्वित्वत्वसामान्यज्ञानादपेक्षाबुद्धेर्विनाशः / ि सामान्यज्ञानस्य च द्वित्वगुणबुद्धितो विनाश: । द्वित्वगुणबद्वेश दिल विशिष्टद्रव्यज्ञानात् । तस्य च संस्कारात् विषयान्तरज्ञानाद्वा । इति । एवम् द्वित्वोत्पत्तिविनाशवत् त्रित्वोत्पत्ति विनाशावप्यूहनीयौ । उ० ७७२१८ ) । (२) अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य । त्पत्तिसमकालं निवृत्तिः । अपेक्षाबुद्धेर्द्वित्वसामान्यज्ञानाद्वित्वगुणबुद्धिस समयं निवृत्तिः । द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्रव्यबुद्धिसमकालं निवृत्तिः / गुणबुद्धेद्रव्यबुद्धितः संस्कारोत्पत्तिसमकालं निवृत्तिः । द्रव्यबुद्धेस्तद संस्कारात् इति ( प्रशस्त० पृ० १३) । आश्रयनाशात्तन्नाशो ( ३ ) यत्र द्वित्वाधारावयवकर्मसमकालमेकत्व सामान्यज्ञानम् । अवयवकर्मसामान्यज्ञाने विभागापेक्षाबुद्धी संयोगनाशगुणोत्पत्ती नाश: अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकालत्वात् कार्यकारणसम वाधारावय तदा संयोग भावाभावात् (वै० उ० ७१२१८) । ( ४ ) क्रियते । अपेक्षाबुद्धेश्वोत्पत्तिः । ततो यस्मिन्नेव काले विभागाव कर्मोत्पद्यते तदैकत्वसामान्ये ज्ञानमुत्पद्यते । कर्मणा चावयवान्तरा •विनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते । संयोगविनाशाय सामान्यबुद्धेश्चोत्पत्तिः । ततस्तस्मिन्नेव काल आश्रयविनाशाहिलमियम इति शोभनमेतद्विधानम् ( प्रशस्त ० पृ० १४ ) / अपेक्षा विशेषविषयत्वं द्वित्वमिति केचिदाहुः ( दि० १) । यथा समवायाभावौ द्वौ इति प्रतीतिविषयो द्वित्वम् । इदं च द्वित्वं स्वरूपसंबन्धेन पदार्थमात्रे तिष्ठति इति ज्ञेयम् । द्वित्वादिकं स्वरूपमेद एव नातिरिक्तम् इति भूषणमतम् (वै० उ० ७।२।१ ) । <द्विधा> ( अव्ययम् ) प्रकारद्वयेन । यथा षड्जसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः ( रघु० स० १ श्लो० ३९) इत्यादौ । <द्विराषाढ> मलमासविशेषः । माधवाद्येषु षट्कमासि दर्शद्वयं यदा । द्विराषाढः स विज्ञेयः शेते कर्कटकेच्युतः ॥ ( पु० चि० पृ० ३० ) । <द्विष्ठत्वम्> [क] उभयनिरूपितवृत्तित्वम् । यथा संयोगविभागान द्विष्ठत्वम् । [ख] स्थानद्वयवृत्तित्वम् । यथा द्विष्ठास्तिथिक्षयाभ्यस्ता- <दीन्द्रियग्राह्यगुणत्वम्> [क] इन्द्रियत्वावान्तरत्वक्त्वचक्षुद्वैतदुभयधर्मा- वान्द्रवासरभाजिताः ( सू० सि० ) इत्यादौ इति ज्योतिः शास्त्रज्ञा आहुः । णाश्च संख्या परिमाणम् पृथक्त्वम् संयोग विभागः परत्वम् अपरत्वम् वच्छिन्नजनकता निरूपितजन्यताश्रयग्रहविषयगुणत्वम् । द्वीन्द्रियग्राह्मगु- तू वेग: स्नेहश्च ( भा० प० गु० श्लो० ९२-९३ ) ( दि० गु० द्रवत्वम् पृ० १९३ ) । [ख] चक्षुस्त्वगुभयग्रहणयोग्यत्वम् ( दि० गु० पृ० १९३) । चक्षुस्त्वगुभयग्राह्यभावनावृत्त्यन्यधर्मसमवायिगुणत्वम् इति तु निष्कर्षः । अत्र संस्कारत्वादिकमादाय भावनायामतिव्याप्तिवारणाय भावना वृत्त्यन्येति । कर्मादावतिव्याप्तिवारणाय गुणत्वस्य निवेश: (दि.० गु० पृ० १९३ ) । [ग] चाक्षुषस्पार्शन निर्विकल्पक विषयगुणत्वव्याप्य- जातिमत्त्वम् ( प० मा० ) । [घ ] बाह्यद्वीन्द्रियग्राह्यजातिमद्गुणत्वम् इति कश्चिद्वक्ति ( ल० व० ) । <द्वेषः> यथा इच्छाद्वेष प्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् (गौ० १/१/१०) इत्यादौ द्वेषः । यज्जातीयस्यार्थस्य संनिकर्षाद्दुःखमात्मोपलब्धवान् तज्जातीयमेवार्थ पश्यन् हातुमिच्छति । सेयं हातुमिच्छा द्वेषः । एवम् संमतोथे: ( वात्स्या० १११।१० ) । द्वेषश्च मनोग्राह्यः (भा०प० एकस्यानेकार्थदर्शिनोदर्शनप्रतिसंधाना दु:खहेतौ द्वेषः इति भाष्य- । (श्लो० ५८) जीवात्ममात्रवृत्तिश्च ( वात्स्या० ४।१।२) । द्वेषलक्षणं ( वाक्य० गु० पृ० २१) । अथवा विघ्नोत्पादकज्ञानजन्यगुणवत् च निवृत्तेः साक्षादनुकूलत्वम् । अत्र ज्ञानवारणाय साक्षात् इति पदम इति ( ल० व० गु० पृ० ३५ ) । [ख निवृत्तिलिङ्गः (वात्स्या इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ (गीता० ३/३४) इत्यादी ३।२।३७) । स च प्रज्वलनात्मकः ( प्रशस्त० पृ० ३३ ) / वया द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स चाल मनसोः संयोगाद्दुःखापेक्षात् स्मृत्यपेक्षाद्वा उत्पद्यते। धर्महेतुः । द्रोहः क्रोधः मन्युः अक्षमा अमर्षः इति द्वेषभेदाः (प्रशस्त पृ० ३३ ) । [ग] द्वेष्टि इत्यनुभवसिद्धद्वेषत्व सामान्यवान् प्रज्वलना त्मकः ( प्र० प्र० ) ( त० कौ० पृ० ८) (सि० च० भ पृ० ३५ ) । [घ ] द्विष्टसाधनताज्ञानजन्यो गुणविशेषः (सि० गु० पृ० ३५ ) ( भा० प० गु० लो० १४९) । भनेदं ज्ञेय दुःखोपायविषयकं द्वेषं प्रति बलवद्विष्टसाधनताज्ञानं कारणम् / बळव साधनताज्ञानं च प्रतिबन्धकम् । तेन नान्तरीयकदुःखजनके पास ज्ञानजन्यः अप्रीतिजनकश्चित्तवृत्तिविशेषः । यथा औषधं द्वेष्टि इत्यादौ इति शाब्दिका आहुः ( ल० म० ) वसाधनंता- च] दुःखानुशयो इति पातञ्जला आहुः । [छ दुःखज्ञस्य तदनुस्मृतिपुरःसरं त धने निन्दा द्वेष: ( सर्व० सं० कंडाविशेषः पृ० ३६३ पात० ) । बुद्धिधर्म एव नात्मधर्म इति सांख्या आहुः । न्यायनये द्वेषो द्विविधाः । दुःखविषयः तत्साधनविषयश्च । अत्र कार्यकारणभावो ज्ञेयः । दुःखदेय दुःखज्ञानमात्रं कारणम् । तथा दुःखसाधनद्वेषं प्रति दुःखसाधनताश इदं दुःखसाधनम् इत्याकारकम् कारणम् इति ( त० कौ० पृo : सांख्या दिमते च द्वेषोष्टादशविधः ( वाच० ) । <द्वैतवाद:> जीवेश्वरादिभेद निर्णायकः कथा विशेषः । यथा गौतमादिप्रणीतः कथारूपग्रन्थविशेषः । अत्र व्युत्पत्तिः । द्विधा इतं द्वीतम् । तस्य भावः द्वैतम् । स्वार्थे वा अण् । द्वैतमधिकृत्य वादो द्वैतवादः इति ( वाच० ) । द्वैतवादे प्रमाणानि ॐ भेदव्यपदेशात् ॐ ॐॐ प्रकरणात् ॐॐॐॐ स्थित्यदनाभ्यां च ॐ ( ब्रह्मसूत्र० १/३/५-७ ) । जुष्टं यदा पश्यत्य- न्यमीशमस्य महिमानम् । द्वा सुपणों सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति बहुत्वम् ( सां० सू० अ० १ सू० १४९) नाद्वैतश्रुतिविरोधो जाति- (मु० ३११११) (तत्त्वप्रका० १३/५ - ७ ) । जन्मादिव्यवस्थातः पुरुष परत्वात् ( सां० सू० अ० १ सू० १५४ ) इत्यादीनि ज्ञेयानि । सांख्य- कारिकायामप्युक्तम् । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषत्वं सिद्धं गुण्यविपर्ययाच्चैव ॥ (सांख्यका० श्लो० १८) इति । अद्वैतमतानि च सांख्ययोगन्यायतर्कपूर्वमीमांसोत्तरमीमां ज्ञेयानि । अत्रोत्तरमीमांसाशब्देन मध्वापरनामश्रीपूर्णप्रज्ञाचार्यप्रणीतं वेदा- तशास्त्रं ग्राह्यम् । शांकरमतमद्वैतम् रामानुजमतं विशिष्टाद्वैतम् वल्लभमतं तु शुद्धाद्वैतम् इति च ज्ञेयम् । द्वैतमतेषु जगतः सत्यत्वम् जीवेश्वरादि- सायुज्यादिमोक्ष प्रतिपाद्यते इति विज्ञेयम् । षड्दर्शनकर्तारश्च सांख्य मेदपञ्चकम् परमात्मनः सर्वोत्तमत्वं स्वातत्र्यं च जीवानां तु बहुविधत्वं शास्त्रप्रणेता कपिल: योगशास्त्रप्रणेता पतञ्जलिः न्यायशास्त्रप्रणेता मीमांसाशास्त्र प्रणेता श्रीसत्यवतीसुतो व्यासश्चेत्येते ज्ञेयाः । गौतमः तर्कशास्त्र प्रणेता कणाद : पूर्वमीमांसाशास्त्र प्रणेता जैमिनि: उत्तर <ॠणुकम्> [क] परमाणुद्वयसंयोगेन यदुत्पद्यते तत् ( त० दी० १ १० ९) (त० कौ० १ पृ० ३) । यथा विषयो द्व्यणुकादिस्तु [ख] अणु परमाणू स्यात् इति बादरायणाचार्या आहुः ( भाग० ) । ब्रह्माण्डान्त उदाहृतः ( भा०प० श्लो० ३९) इत्यादी द्व्यणुकम् । [ग] नव्या नास्तिकास्तु संयुक्ताणुद्वयं द्व्यणुकम् इत्याहुः (प० मा० ) । अत्र व्युत्पत्तिः द्वौ अणू कारणे यस्य तत् इति द्रष्टव्या । द्व्यणुकं तु ४९ न्या० को० जन्यद्रव्यावयवोतीन्द्रियं च इति न्यायसिद्धान्तः । महादेवभट्टस्तु गवा क्षरन्ध्रे दृश्यमानानामेव द्व्यणुकत्वमिति द्व्यणुकं नातीन्द्रियम् ( दि० १ पृथिवी० पृ० ६९ ) । अत्रायं विशेषः । गवाक्षरन्ध्रे दृश्य मानस्यैव द्व्यणुकस्य त्रसरेणुः इत्यपि व्यवहारः । द्व्यणुकार्ये त्रसरेणुः इति पदं केवलरूढमेव ( राम० १ पृथि० पृ० ६९) । अतो न मनुसृतेः (अ० ८ श्लो० १३२ ) विरोधः इति । <ध> <धमनी> स्थूलतरनाडी ( संगीतरत्नाकरे पृ० १९ ) । <धर्मः> १ आधेयः पदार्थः । यथा द्रव्यं गुणवदित्यादौ गुणो यथा संदिग्धसाव्यधर्मत्वं पक्षत्वम् ( चि० २ पृ० ३३) इति पक्षलक्षणे पर्वतपक्षकवह्निसाध्यकस्थले वह्वयादिर्धर्मः । अत्र वृत्तिमत्त्वं धर्मत्य लक्षणम् । यत्र कुत्रचिद्वर्तते यत् तत्त्वम् इत्यर्थः । तेन घटत्वाकाशला दिषु वृत्तिमत्पदार्थेषु लक्षणसमन्वयः । २ ( गुणः) [क] यतोभ्युदयनि श्रेयससिद्धिः स धर्मः ( वै० ११ १ । २ ) । स धर्मः निवृत्तिलक्षणः वि ( त० भा० गु० पृ० ३७ ) । स च विहितकर्मजन्यः अदृष्टविशेषा वा (वै० उ० १ । १ । २) । [ख] सुखासाधारणकारणम् (प्र०) इत्यादौ पुण्यात्मको धर्मः ग ] शरीरेण प्रशस्तानि दानपरपारं ( त० सं० ) । यथा धर्माधर्माश्रयोध्यक्षः ( भा० प० लो०५०/ णादीनि कर्माण्याचरति । वाचा हितसत्यादीनि । मनसा अजिघांसादन/ सेयं पुण्यरूपा प्रवृत्तिधर्मः ( सर्व० सं० पृ० २४६ अक्ष० ) // जीवमात्रसमवेतः वासनया जन्यते भोगतत्त्वज्ञानादिना न ( सि० च० ) । धमेस्तु न प्रत्यक्षः । किं त्वनुमानगम्यः / तच्चानुवर देवदत्तस्य शरीरादिकं देवदत्तस्य विशेषगुणजन्यम् कार्यत्वे सति देवदत्ता भोगहेतुत्वात् देवदत्त प्रयत्नजन्यवस्तुवत् इति । यस्तु शरीरादिजनक इयतीतिज्ञेयर आत्मविशेषगुणः स एव धर्मः । प्रयत्नादीनां इति ज्ञेयम् ( त० भा० गु० पृ० ३७) । ३ शरीराद्यजनकला प्रयोजनवदर्थो धर्मः इति मीमांसकाः ( लौ० भा० पृ० प्रयोजनमुद्दिश्य विधीयमानोर्थो धर्मः ( मी० न्या० पृ० १ ) । अर्थत्वे सति चोदनागम्यो धर्मः ( जै० न्या० १ । १ । १ ) । स च धर्मः भट्ट यागादिः प्राभाकरमते त्वपूर्वनाम पुण्यम् ( तत्त्वबोधिनी ) ( वाच० ) । एतद्धर्मप्रमाणम् वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एत चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ ( मनु० २११२ ) इति । दशविधं धर्मलक्षणं च मनुनोक्तम् धृतिः क्षमा दमोस्तेयं शौचमिन्द्रिय- निग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ( मनु० अ० ६ श्लो० ९२ ) इति । धर्मस्य शुद्धिश्च तेनैवोक्ता प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्र्यं सुविदितं कार्य धर्मशुद्धिमभीप्सता ॥ ( मनु० अ० १२ श्लो० १०५ ) इति । यथा धर्मः स्वनुष्ठितः पुंसा- मित्यादौ यागादिर्धर्मः ( मीमां० कौ० ) । यथा वा गङ्गास्नानादिव्या- पारः ( त० मा० ) । स च धर्मः षड़िधः वर्णधर्मः आश्रमधर्मः वर्णाश्रमधर्मः गुणधर्मः निमित्तधर्मः साधारणधर्मश्चेति ( मिता० १।१ ) । हेतुः अतीन्द्रियः अन्त्यसुखसंविज्ञान विरोधी पुरुषान्तःकरणसंयोगजः ४ कर्तव्यविशेषः पुरुषविशेषगुणः प्रयत्नगुणकर्तुः प्रियहितमोक्ष- विशुद्राभिसंधिजः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः । अस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थि तानि द्रव्य गुणकर्माणि । तत्र सामान्यानि धर्मे श्रद्धा अहिंसा भूतहितम् सत्यवचनम् अस्तेयम् ब्रह्मचर्यम् अनुपधा क्रोधवर्जनम् अभिषेचनम् शुचिद्रव्यसेवनम् विशिष्टदेवताभक्तिः उपवास: अप्रमादश्च । ब्राह्मण- याजनानि स्ववर्णनियताश्च संस्काराः । क्षत्रियस्य सम्यक् प्रजापरिपालनम् क्षत्रियविशा मिज्याध्ययनदानानि । ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापन- असाधुनिग्रहः युद्धेप्यनिवर्तनम् स्वकीयाश्च संस्काराः । वैश्यस्य क्र निवासिनः स्वशास्त्र विहितानि गुरुशुश्रूषाग्नीन्धनभैक्षाचरणादीनि मधु- विक्रयकृषिपशपालनानि स्वकीयाश्च संस्काराः । शूद्रस्य पूर्ववर्णेषु पार- तथ्यम् अमन्त्रिीकाश्च क्रियाः । आश्रमिणां तु ब्रह्मचारिणो गुरुकुल- मांसदिवास्वप्नाम्यञ्जनादिवर्जनं च । विद्याव्रतस्त्रात कस्य कृतदा गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैर्भूतमनुष्यदेवपितृषु पञ्चानां महायज्ञानां सायंप्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानां नित्यानां शक्तौ विद्यमानायामश्याधेयादीनां हविर्यज्ञसंस्थानाम् अग्निटोमा- दीनां च सोमयज्ञसंस्थानां क्रत्वन्तरेषु च ब्रह्मचर्यम् अपत्योत्पादनं च । ब्रह्मचारिणो गृहस्थस्य वा ग्रामा हिर्निःसृत्य वनेषु वासः वल्कलाजिन- केशश्मश्रुनखरोमधारणम् वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य वान प्रस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्वा संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थ परिसंख्याता द्योगस्य साधनं प्रव्रजितस्य इति । दृष्टं च प्रयोजनमनुद्दिश्यैतानि सा नानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगाद्धर्मोत्पत्तिः इति ( प्रशस्त० <धर्मशास्त्रम्> धर्मप्रतिपादकं मन्वादिप्रणीतं शास्त्रम् । अत्रेदं बोधार धर्मशास्त्रस्य कर्तारश्च मनुविष्णुयमदक्षाङ्गिरोत्रिबृहस्पत्युशन वसिष्ठकात्यायनपर शरव्यासशङ्खलिखितसंवर्तगौतमशातात पहारीतयाज्ञव क्यप्राचेतसादयः ( हेमाद्रिखण्डे ब्र० ) । आदिशब्देन च वृद्धदेवलो जमदग्निप्रजापति विश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायन छागलेय. त्रिर्दक्षो विष्णुस्तथाङ्गिराः । उशना वाक्पतिव्र्व्यास आपस्तम्बोथ गौतमः ॥ जाबालिच्यवनमरीचिकश्यपा ग्राह्याः । अत्राह यमः मनुर्यमो बलियो उ० पृ० ३५-३६ ) । कात्यायनो नारदश्च याज्ञवल्क्यः पराशरः । लिखितस्तथा ॥ एतैर्यानि प्रणीतानि धर्मशास्त्राणि वै प्रमाणानि न हन्तव्यानि हेतुभिः ॥ इति ( वाच० ) । <धर्माभासः> श्रुतिस्मृतिभ्यामुदितो यः स धर्मः प्रकीर्तितः । यः प्रोक्तो धर्माभासः स उच्यते ॥ ( देवीभाग० ) / <धातुः> १ वातपित्तकफास्त्रयो धातवः इत्यायुर्वेदविदः । २ रेतः इत्याची भिषजः । ३ रसासृङ्मांसभेदोस्थिमज्जाशुक्राणि सप्त धातवः त्वक्वम दयोपि च इति शारीरकशास्त्रज्ञा आहुः । ४ हिरण्यं रजतं कॉल्स सीसकमेव च । रङ्गमायसरैत्यं च धातवोष्टौ प्रकीर्तिताः ॥ इति पैद शङ्खध हारीतो पुरा / तान्येवाति अन्य शास्त्रज्ञाः तान्त्रिकाचाहुः । ५ आकाशादिमहाभूतानि इति पौराणिकाः । ६ इन्द्रियाणि रूपरसगन्धस्पर्शशब्दाश्च धातुशब्दवाच्या भवन्तीति यः शब्दः स्वोत्तरतृचः शक्येर्थे स्वोपस्थाप्यस्य यादृशार्थस्यान्वयबोधं शास्त्रान्तरविद आहुः ( वाच० ) । ७ शब्दप्रकृतिः [क ] प्रति समर्थः स तादृशार्थे धातुरुच्यते । यथा पच पिपक्ष इत्यादयो धातवः । अत्र धातूनाम् अनेकार्थकत्वम् इति सर्वे सर्वार्थवाचकाः इति च शाब्दिकादीनां राद्धान्तोनुसंधेयः । अत्र अनेकार्थकत्वं च व्याकरण- कोश इत्याद्यभियुक्तकृततत्तदर्थकत्वम् ( त० प्र० ख० ४ पृ० ७०) । सर्वार्थवाचकत्वं च स्वप्रवृत्तिनिमित्तसमानाधिकरणकृत्स्नधर्माश्रयवाचकत्वम्। धातुलक्षणं च क्रियावाचित्वे सति भ्वादिगणपठितत्वम् ( ल० व० ) । तृर्थ कर्त्रादौ स्वोपस्थाप्यानां पचनपाकेच्छादीनामन्वयधियं प्रति प्रभवो पचपिपक्षादयो हि शब्दा: पक्तृ पिपक्षितृ इत्यादिनामनिविष्टाः खोत्तर- भवन्तीति लक्षणसमन्वयोत्र बोध्यः ( श० प्र० श्लो० ५५ ५० ७० ) । [ख यः शब्दः स्वान्ते कृच्चिन्तनं विना सुबर्थे यादृशस्य निजार्थस्या- न्वयधियं प्रत्यसमर्थः स एव तादृशार्थको धातुः । यथा पाकं कुरु संपदं इति ज्ञेयम् । अत्र हि पचादिको धातुः स्वोत्तरस्य भावकृतः घञ् किप् इत्यादि प्रत्ययस्य प्रतिसंधानदशायामेव सुबर्थकर्मत्वादौ स्वार्थस्य पचनादेर- न्वयबोधमाधत्ते न त्वन्यथेति लक्षणसमन्वयः ( श० प्र० श्लो० ५५ ५० धात्वर्थप्रकारकबोधं प्रति धातुप्रकृतिकप्रत्ययजन्योपस्थितेर्हेतुत्वात् । [ग] शाब्दिकास्तु क्रियावाचको भ्वादिगणपठितः शब्दविशेषः इत्याहुः । अत्र वा इत्याद्यव्ययानामपि गणपठितत्वेन धातुत्वापत्तिः । तद्वारणाय क्रियावाचित्वविशेषणम् । हिरुगाद्यव्ययानां क्रियावाचित्वेन धातुत्वापत्तिः । तद्वारणाय गणपठितत्वं विशेषणं दत्तम् ( वाच० ) । [घ ] भाव- वचनो धातुः ( सर्व० सं० पृ० ३०५ पाणि० ) / धातुत्रिविधः । । यथा भूपचप्रभृतिः । अत्र सूत्रम् भूवादयो धातवः ( पा० सू० १ ।३।१ ) इति । भ्वादयो द्वाविंशतिशत विधा धातवः (२२००) इति शाब्दिका वदन्ति । (२) सूत्रमात्रोपात्तो धातुः सौत्र इत्युच्यते । यथा स्कम्भुजुप्रभृतिकः । (३) स्वावयवलभ्यार्थस्य बोधको धातु प्रत्ययान्त इत्युच्यते । यथा पाचि पिपक्षा तितिक्षा इत्यादिः इति / आन्दो लौकिकस्यापि सौन्तर्भाव इति नाधिक्यम् इत्यन्य आहुः । परस लप्रेङ्खोलादेर्लोकिकस्यापि सत्त्वाञ्चतुर्विध एव धातुरिति बोपदेव आह । दित्वात्मनेपदित्वोभयपदित्वभेदेनापि धातुस्त्रिविधः । तत्तलक्षणं च यो धातुः खोपस्थाप्यस्य यादृशार्थस्य यत्पदोपस्थाप्ये कर्तृत्वेन्वोधं त्पत्तिप्रभृतेर्मुख्ये गौणे वा परस्मैपदार्थ एव कर्तृत्वेन्वयं प्रति प्रभवः इति परस्मैपदिनः । (२) संगच्छते भवते इत्यादितः संगतिप्राप्त्यादि कर्तृत्वावगमात् तादृशार्थे आत्मनेपदिन एव ते । ( ३ ) यजति करो इत्यादित इव यजते कुरुते इत्यादितोपि यागादि कर्तृत्वस्यावग तेगाव यजि कृञ् इत्यादिरुभयपदी ( श० प्र० श्लो० ५७-५८ ५० ७१)/ प्रकारान्तरेणापि धातुर्द्विविधः । सकर्मकः अकर्मकच इति । तत्र सकर्मको द्विविधः । एककर्मकः द्विकर्मकश्च । तत्रैककर्मकश्च एक न्वितस्वार्थबोधकः । यथा गम्यादिरेककर्मकः । द्विकर्मकोपि द्विविध द्विकर्मान्वितैकव्यापारार्थकः द्विकर्मान्वितद्विव्यापारार्थश्च । दुह्यादिः । द्वितीयस्तु णिजन्तः इति । तत्र द्विकर्मकत्वं तु साकाङ्क्ष क्रियाबोधकत्वम् ( का० वा० पृ० २ ) / णिजन्ते नैकव्यापारोभिधीयते । द्वितीयस्तु व्यापारः णिचा । व्यापारद्वये च ईसित कर्मणः प्रयोज्यकर्तृरूपकर्मणश्च यथाक्रममन्वयः । तथात्वं च ग नाम् इति बोध्यम् । पच्यादीनां तु नैवम् । तद्योगे प्रयोज्यकर्तुः ज्ञाया अभावेन व्यापारद्वये कर्मद्वयान्वयाभावात् इति विवेकः ( तत्राच कर्मदय च धात गम्यादी कर्मर्स ( वाच० ) । त्रिविधोपि धातुरस्ति इत्यपि सिध्यति । अकर्मकस्तु कर्मानन्वितक्रियायक फलान वच्छिन्नव्यापारवाचकत्वमकर्मकत्वम् इति अकर्मकत्वस्य लक्षणं बोध्यम् । अकर्मक क्रियात्वे चत्वारो हेतवः हरिणा दर्शिताः । यथा धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्म- णोकर्मिका क्रिया ॥ इति । एवं च अकर्मकोपि धातुर्हेतुचतुष्टया- मतविशेषेषु यथा ( १ ) फलमेव धातोरर्थः । तदनुकूलक्रिया त्वाख्यातेन धीनाकर्म कक्रियार्थत्वाच्चतुर्विधः इत्यलं विस्तरेण ( वाच ० ) । धातोरर्थश् कर्नादावनुभाव्यत इति मण्डनमिश्र आह ( श० प्र० लो० ९५ फलं तु कर्मप्रत्ययेन बोध्यते इति प्राञ्चः रत्नकोशकृत्प्रभृतयः आहुः पृ० १४० ) । (२) क्रियामात्रं (केवलं व्यापारमात्रम् ) धात्वर्थः । (चि० ४) । एतन्मते द्वितीयासाकाङ्क्षतुमन्तधातुत्वप्रयुक्त एव च धातूनां सकर्मकत्वव्यपदेशः । न तु फलावच्छिन्नक्रियावाचित्वप्रयुक्तः । ज्ञाप्रभृतावव्याप्तत्वात् इति ज्ञेयम् ( श० प्र० श्लो० ७२ पृ० ९३) । (३) फलं व्यापारश्चैतदुभयं धात्वर्थः इति शाब्दिका आहुः । अत्र फलस्वं च तद्धात्वर्थजन्यत्वप्रकारकप्रतीतिविषयत्वे सति तद्धातुजन्योप- स्थितिविषयत्वम् तद्धात्वर्थत्वं वा । अत्र धात्वर्थव्यापारेतिप्रसङ्गनिरासाय सत्यन्तम् । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्य- दलम् ( वै० सा० ५० धात्व० पृ० ८ ) । मञ्जूषाकृतस्तु कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यता- विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे विभागसंयोगयोः फलत्ववारणायो- निरूपितप्रकारतावत्त्वम् । अत्र जन्यता चारोपिता अनारोपिता चेत्यन्यत् । भयदलम् । कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यत्वम् इत्या (वै० सा० द० धात्व० पृ० ८ ) । तथाहि चैत्रो ग्रामं गच्छती त्यादौ व्यापारजन्यसंयोगाश्रयो ग्रामः इति बोधात् संयोगस्य व्यापारनिरूपित- व्यापार निरूपित प्रकारत्वम् । चैत्रेण ग्रामो गम्यत इत्यादौ तु चैत्रसमवेत- प्रामनिष्ठ संयोगानुकूलव्यापारकर्ता चैत्रः इति बोधात् संयोगात्मकफलस्य विशेष्यत्वम् इति । अत्र व्यापारत्वं च पदान्तरसमभिव्याहाराप्रयोज्य- साध्यत्वग्नकारक प्रतीतिविषयत्वम् (वै० सा० ५० धात्वर्थ० पृ० ८ ) । फलव्यापारोभयं धात्वर्थ इत्यत्रोक्तम् फलव्यापारयोर्धाराये स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ इति ( वै० स १० पृ० ७ ) । अस्यायमर्थः । फलेति । फलं व्यापारश्च आश्रये इति । फलाश्रयः कर्म । व्यापाराश्रयः कर्ता । तौ तिङयौं । फले इति । विक्लित्त्यादिफलं प्रति व्यापारो विशेष्यः । तिङर्थ इति । तिह कर्तृकर्मसंख्याकालाः । तत्र कर्ता व्यापारे विशेषणम् । विशेषणम् । संख्या तु कर्तृप्रत्ययार्थे कर्तरि कर्मप्रत्ययायें कर्माणि विशेषणम् । समानप्रत्ययोपात्तत्वात् इति । एवं च वैयाकरण त्तस्तण्डुलं पचतीत्यादौ देवदत्ताभिन्नैक कर्तृकस्तण्डुलाभिन्न कर्मवृत्तिविलिय नुकूलो व्यापारः इति क्रियामुख्यविशेष्यको बोधः । देवदत्तेन तमुक्ता पच्यते इत्यादौ च देवदत्ताभिन्नकर्तृको यो व्यापारस्तजन्या तण्डु भिन्नैककर्मनिष्ठा विक्कित्तिः इति बोधः । देवदत्तस्तण्डुलं पचती. याद फलं विक्लित्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना किया। अयं च व्यापारः फूत्कारत्वाधःसंतापनत्वयत्तत्वादितत्त ( वै० सा० धात्वर्थ० पृ० ९ - १२ ) । नैयायिकमते तु देवदत्तस्तपु पचतीत्यादौ तण्डुलवृत्तिविक्लित्यनुकूलव्यापारानुकूल कृतिमानेकत्व विशि देवदत्तः इति प्रथमान्तार्थमुख्य विशेष्यको बोधः । देवदत्तेन तण् पच्यते इत्यादौ च देवदत्तसमवेता या कृतिः तज्जन्यो यो व्यापारः त या विक्कित्तिः तदाश्रय एकत्व विशिष्टस्तण्डुलः इति बोधः । विशेषः । पृथक्शक्त्या विशिष्टशक्त्या वा फलव्यापारौ धातुना ब वैयाकरणमतम् । गदाधरादिनवीनमते तु पृथकुश त्यैव बोध्येते इति । (४) नव्यास्तु न्यायभास्करकृदादयः विलक्षणव्यापार एव कर्त्राख्यातसम भिव्याहारे धात्वर्थः । कर्मप्रत्ययाप (द्वितीयार्थस्तु ) आश्रयता ( निष्ठत्वम्) । सा च धात्वर्यैकदेशे फ इति । कर्माख्यातसमभिव्याहारे तु व्यापारावच्छिन्नफलमेव धात्वर्यः श च प्राहुः ( म० प्र० ४ पृ० ५६ ) ( श० प्र० श्लो० ७२ पृ० कर्म फले वाच्या तपुडुल 2 तज्जन्या अत्रायं बोध्येते इति ( ल० म० ) । एतन्मते फलस्यावच्छेदकत्वेन धात्वर्थप्रविष्टत्वात् कर्मकलेन विलक्षणव्यापारमात्रे शक्तिः न तु तत्र फलस्यावच्छेदकत्वम् इति न पतेः सकर्मकत्वापत्तिः । अत एव फलानवच्छिन्नविलक्षणव्यापार- वाचित्वम् धातोरकर्मकत्वम् । फलावच्छिन्नविलक्षणव्यापारात्म् सकर्मकत्वम् । तच्च फलं यदोभयकर्मान्वितं तदा द्विकर्मकत्वम् । यथा चैत्रोश्वं ग्रामं नयतीत्यादौ नयत्यादेः । अश्वग्रामोभयनिष्ठसंयोगजनकनयन- कर्ता इति बोधात् । अत्र ग्रामो मुख्यं कर्म । अश्वस्तु गौणम् । अकथितं इत्येके । अत्र वैयाकरणा अप्याहुः । अवच्छिन्नपदस्य संबन्धपरत्वेन च इत्यनुशासनात् ( म० प्र० ४ पृ० ५६ ) (न्या० म० ४ पृ० २१) कर्मीभूतफलसंबन्धिव्यापारार्थकत्वस्य सुस्थत्वात् अकर्मकाणां फलार्थत्वा- नङ्गीकारेणातिव्यायव्याप्योरनवकाशः इति (वै० सा० द० ) । फला- वच्छिन्नविलक्षणव्यापारश्च । [क] धातूपनीतफलानुकूलसजातीय विजा- तीयव्यापारप्रचयः ( त० प्र० ख० ४ पृ० ५० ) । [ख फलानु- कूलत्वोपलक्षित विलक्षणव्यापारः ( न्या० म० ४ पृ० २० ) । इ कत्रोष्णीकरणमात्रे धातोर्न लक्षणा । रूपादिपरावृत्त्यवच्छिन्नाधःसंतापनस्य च उपलक्षितत्वविवक्षणेन कृष्णलं ( यवत्रयमितं सुवर्णम्) श्रपयेदित्य- ( म० प्र० ४ पृ० ५६ ) । [ग] शाब्दिकास्तु फलानुकूलो यत्न- श्रपणस्य बाधेपि तदुपलक्षिताधःसंतापनस्य तत्राबाधात् इत्यवधेयम् सहितः व्यापारः इत्याहुः ( ल० म० ) । अत एव गम्यादीनां सकर्म- <धात्वंश:> ( प्रत्ययः ) [क] सुबर्थानन्वितयादृशस्वार्थको यस्तिङन्यः प्रत्ययः स तादृशार्थे धात्वंशप्रत्ययः । यथा पुत्रीयतीत्यादौ क्यच् । पचतीत्यादी सुबर्थानन्वितकृत्यर्थकोपि तिबादिर्न तिङन्यः इति न तिहयें इति तत्र लक्षणसमन्वयो बोध्यः ( श० प्र० हो० १०६ तत्रातिप्रसङ्गः । पुत्रीयतीत्यत्र क्यजाद्यर्थस्येच्छादेर्न सुबर्धेन्वयः । किंतु पृ० १६४ ) । ख धात्वन्तावयवरूपः प्रत्ययः । यथा समादिप्रत्ययः पिपक्षादिधात्वन्तभागत्वाद्धात्वंशप्रत्ययो भवति ( श० प्र० श्लो० १०६ पृ० १६४ ) । धात्वंशप्रत्ययो द्विविधः । नामप्रकृतिकः धातुप्रकृतिक ५० न्या० को ० चेति । तत्र नामप्रकृतिकः क्यचू क्यडू इत्यादिः । धातुप्रकृतिकस्त सन् यङ् इत्यादिः ( श० प्र० श्लो० १०७ पृ० १६४) । <धारणम्> १ [ क ] द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्या• दृष्टविशेषवत्त्वम् । यथा विप्राय शतं धारयतीत्यादौ धात्वर्थः । अत्राप भाव: । ऋणग्रहणेनाधमर्णनिष्ठः परिशोधननाश्योदृष्टविशेषो जन्यते । मर्ण: (पा० सू० ११४१३५) इत्यनेन धनिकविप्रादेः संप्रदानता। तेनैवादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकम् इति । अत्र धारेत. तथा कर्तृत्वं चतुर्थ्यर्थः । तस्य धात्वर्थघटकादानेन्वयः (ग० सुन का० ४ पृ० ९६-९७ ) । [ख केचित्त पुनर्दानमङ्गीकृत्य ग्रहणम् इत्याहुः ( का० व्या० पृ० ९ ) । ग पाणिनीयाल ऋणग्रहणम् । यथा गुरवे गां धारयते इत्यादौ धारेरर्थः इत्याहुः । अत्र दत्तत्वं चतुध्येथेः । तथा च गुरुदत्तां गामृणत्वेन गृह्णाति इत्याकर स्तत्र वाक्यार्थः ( श० प्र० श्लो० ६९ पृ० ८६) । २ गृहावस्थितिः । यथा गुरवे गां धारयते इत्यादौ इति कालापाः । अत्र घृडा गृहावस्थिति द्वितीयया तदन्वितं कर्तृत्वम् चतुर्थ्या च तन्निविष्टगृहान्वितं संबन्धित्वम् श्लो० ६९ पृ० ८६ ) । शाब्दिक अपि अवस्थितिः भक्ताय धार इत्याकारको बोधः । धातूत्तरणिचा व्यापारबोधनात् इति भावः (श०प्र० मोक्षं हरिरित्यादौ धारेरथः इत्याहुः । अत्र धृङ् अवस्थाने इति धातोर्निचा कर्मकावस्थित्यनुकूलो व्यापारः इति बोधः ( ल० म० सुत्रधार धारेरुत्तमर्णः इति सूत्रात् । तथा च हरिकर्तृको भक्तसंप्रदानको मा पृ० १०३ ) । ३ प्राणस्य पूरकरेचककुम्भ कैर्निरोधरूपश्चित्तवशीकरण धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ( याज्ञ० ) इत्यादौ इति सक्रिया प्राणायामविशेषः ( सांख्यप्र० भा० अ० ३ सू० ३३) / आहुः । देशबन्धश्चित्तस्य धारणा (पात० सू० पाद ३ सू० योगिनो वदन्ति ( गो० वृ० ४।२।४४ ) । नासाग्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृतिके बाह्ये वा देशे चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा ( सर्व० सं० पृ० ३८२ पातञ्ज० ) । ४ धारणा मनसो ध्येये संस्थितिर्ध्यानवविधा ( अग्निपु अ० ३७४ ) इति पौराणिका आहुः । ५ जलसूचको वायुविशेष- धारणाद्यात्मको योगभेदः इति ज्योतिषज्ञा आहुः ( बृ० सं० अ० २२ ) । <धारणिक:>. अधमर्णः । <धूम:> १ सार्द्रेन्धनवह्निजातः मेघाञ्जनयोर्जनको द्रव्यविशेषः । यथा पर्वतत्वेन पक्षत्वे वह्नित्वेन साध्यत्वे विशिष्टधूमत्वेन च हेतुत्वे पर्वतो ( दीघि ० २ पृ० १७९) इत्यत्र । अत्र विशिष्टधूमश्च वह्निशून्य- वहिमान् विशिष्टधूमात् इत्यादौ पर्वतादेः काञ्चनमयत्वविरहो न दोषः देशान्तरवृत्तिधूमव्यक्तिव्यावर्तक विशेषणावच्छिन्नो धूमः । तादृशविशेषणं तु वह्निमत्तित्वादि ज्ञेयम् । यथा वा अभ्रंलिहां घूमलेखां पश्यति (मु० २ ) सधूमदीप्ताग्निरुचीनि रेजुः ( भट्टिः ) इत्यादौ च धूमः । २ अग्निमान्द्यसूचको वायुविशेष: ( ढेकर ) इति भिषजो वदन्ति । ३ ज्योतिर्विदस्तु धूमकेतुः इत्याहुः । ४ उल्कापातश्चेति काव्यज्ञा वदन्ति ( वाच० ) । <धृति:> १ गुरुत्ववतां पतनाभावः ( कु० ५/१ टी० हरिदासः ) ११ पृ० १९) । यथा कार्यायोजनधृत्यादेः पदात्प्रत्ययतः वृत्तशास्त्रज्ञा वदन्ति । ३ व्यभिचारिभावविशेष: इत्यालंकारिका आहुः । द्रव्यादि इत्याहुः • काव्यज्ञा आहुः (वाच० ) । सहासप्रतिभादिकृत् ॥ इति । ४ मौहूर्तिकास्तु विष्कम्भाद्यन्यतमयोग- विशेष: इत्याहुः । ५ गणकाश्च अष्टादशसंख्यायुक्तम् ६ गौर्यादिषोडशान्यतममातृकाविशेषः इति संस्कारकुलाचारज्ञा आहुः । ७ मानसधारणाविशेषः इति योगशास्त्रज्ञा आहुः । ८ धैर्यम् इति <ध्यानम्> [क] चिन्तनम् । यथा इति विज्ञापितो राज्ञा ध्यानस्तिमित लोचन: ( रघु० १/७३ ) इत्यादौ । [ ख ] योगशास्त्रज्ञास्तु तत्र प्रत्ययैकतानता ध्यानम् ( पात० पाद ३ सू० २) ( गौ ०१० ४२४४) । यथा ध्येयः सदा सूर्यमण्डलमध्यवर्ती परमात्मा इत्यादी / यथा वा लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् इत्यादौ । [ग] तस्मिन् देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन ! ध्यानम् । तदुक्तम् तद्रूपप्रत्ययैकाग्र्या संततिश्चान्यनिस्पृहा । प्रथमैरङ्गैः पडिर्निष्पाद्यते तथा ॥ ( सर्व० सं० पृ० ३८३ पातञ्ज० ) । [घ ] निदिध्यासनम् । यथा आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयेत्प्रज्ञां लभते योगमुत्तमम् ॥ ( श्रुतिः ) इत्यादौ । [३] रागोपहतियनम् ( सां० सू० ३।३० ) इति सांख्या आहुः / [ च ब्रह्मात्मचिन्ता ध्यानं स्यात् इति वेदान्तिनः । [छ ] मायावादिवेदान्ति- नस्तु ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशम्य विख्याता परमानन्ददायिनी ॥ इति मन्यन्ते । <ध्वंसः> ( अभावः ) [क] विनष्टः इति प्रतीतिसाक्षिक उत्पत्तिमानभाव ( न्या० म० १ पृ० ११ ) ( त० दी० १ पृ० ४० ) (वाक्य) पृ० २३ ) । स च प्रतियोगिजन्यः प्रतियोगिसमवायिनि देशे वर्तत ( त० दी० १ पृ० ४० ) । स च कार्यस्योत्पत्त्यनन्तरमपद्य इति ज्ञेयम् । अत्र गमकम् । ध्वंसो न विनाशी विनाशकेल. नायां मानाभावात् । नहि विनाशो विनष्टः इति कविप्रोति इति ( न्या० म० १ पृ० ११ ) ( नील० १ पृ० १०) / तलक्ष्य च ध्वंसत्वमेव । तच्च जन्याभावत्वम् (मु० १ ) खण्डोपाघिः ( म० प्र० पृ० १२ ) इति नव्यनैयायिकाः सत्यभावत्वम् (वाक्य० पृ० २३ ) । ध्वंसत्वं च अभावत्वव्यामो ( वाच० ) । अयं भावः । जन्यत्वस्य प्रायेण दर्ज्ञानत्वात तस्याखाण पाधिरूपत्वमङ्गीकर्तव्यम् इति । ख ] सादिरनन्तः (त० सं० ) उत्पत्तिमत्त्वे सति नाशशून्य इत्यर्थः । यथा घटो नश्यतीत्यादौ [ग] उत्पत्तेरनन्तरं समवायिकारणे कार्यस्य संसर्गाभावः (त० कौ० पृ० २१ ) । तदर्थश्च यथा इह कपाले घटो ध्वस्तः इत्यादौ उत्पत्तेर- नन्तरम् ( प्रतियोगिभूतस्य घटादेरुत्पत्तेरनन्तरम् ) जन्यः समवायिकारणे (घटस्य समवायिकारणे कपाले ) वर्तमानः कार्यस्य (घटादेः) संसर्गा- भावः ( तदाख्यः अभावः ) इति । अत्रायं नियमः ध्वंसप्रागभावौ स्वप्रतियोगिसमवायिदेशे वर्तेते इति । यथा इह कपाले घटो ध्वस्तः इति प्रतीतिसाक्षिकः अभावः ( प्र० प्र० पृ० २३ ) । यथा वा तदभ्यध्वंसदासाद्य माहेन्द्रं लक्ष्मणेरितम् इत्यत्र प्राणा दध्वंसिरे गात्रं तस्तम्मे च प्रिये हते (भट्टि ) इत्यादौ च । अत्र वैयाकरणाः ध्वंसस्या- तीतत्वाभावेपि फलव्यापारयोर्धात्वर्थत्वेन तदुत्पत्त्यनुकूलव्यापारस्य कारण- विशेषसंयोगस्यातीतत्वात् ध्वस्तः इति व्यवहार उपपद्यते इत्याहुः । तीतत्वादिनैव ध्वस्तः ध्वंसते इत्यादिप्रयोगः । अत्र कर्तृत्वं प्रतियोगित्वम् । नैयायिकमते नाशमात्रस्यैव धात्वर्थत्वेपि तदुत्पत्तौ लक्षणा । तस्याश्चा- तच नाशान्वयि इति । तथा च वर्तमानायुत्पत्तिकनाशप्रतियोगी घटः इत्यन्वयबोधः ( वाच० ) । अतीतावस्था ध्वंसः इति सांख्या आहुः । १. तिरोभावावस्था इति शाब्दिकाः सांख्याश्चाहुः ( ल० म० ) । अत्र सूत्रम् नाश: कारणलयः इति ( सांख्य० अ० १ सू० १२१ ) । कारणे ल ध्वनि: - (शब्द: ) १ तारत्वादिधीहेतुः शब्दविशेषः । यथा उन्मद इत्यर्थः । आत्यन्तिकनाशश्च कारणेन सह नाश इति भेदः ( वाच० ) । अत्रोच्यते । ध्वनिर्नाम यो दूरादाकर्णयतो वर्णविशेषमनधिगच्छतः कर्ण- ध्वनिमृता निभृताक्षर मुज्जगे ( माघ ० स० ६ श्लो० २०) इत्यादौ । (वाच० ) । स च ध्वनिर्वैयाकरणमते द्विविधः । प्राकृतः वैकृतश्चेति । पथमवतरति प्रत्यासीदतश्च तारत्वादिविशेषमवगमयति इति ( शारीर० ) अत्रोक्तम् भर्तृहरिणा स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थिति- स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वम् । चिरचिरतरकालस्थितौ तु मेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥ (वाक्यप० ) इति । अत्र विवेकः । प्राकृत ध्वनिजातवैकृतध्वनेः कारणत्वम् इति ( शब्दार्थरने ) ( वाच०) । शारदातिलके च तस्य ध्वनेरुत्पत्त्यादिप्रकारादिकमुक्तम् । यथा ता प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः । शक्तिं ततो ध्वनिस्तस्मान्नाद- स्तस्मान्निरोधिका ॥ ततोर्धेन्दुस्ततो बिन्दुस्तस्मादासीत्परा ततः । विशेषः । अनेकवर्णात्मकस्य कलशादिपदस्य श्रावणप्रत्यक्षं न संभवति । मध्यमा वाचां वैखरी ज्ञानजन्मभूः ॥ ( शारदाति ० ) इति । अ आशुविनाशिनां क्रमिकाणां वर्णानां मेलकाभावेन तन्मे मनः ग्रहीतुमशक्यत्वात् । पूर्वपूर्ववर्णानुभवजनितसंस्कार सहितेनानुभूयमान चरमवर्णेन श्रोत्रे व्यञ्जनाख्यो व्यापारः (शाब्दिकादिमतेन) जन्यते। तेनैव व्यापारेण नष्टवर्णघटितमपि पदं ( वैयाकरण इति महेश्वरः ( वाच० ) । २ उत्तमं काव्यं ध्वनिः इत्यालंकारिका पदम् ) श्रोत्रेण साक्षात्क्रयते इति । चरमवर्णात्मनि शब्दे ध्वनिव्यवहार आहुः ( प्रतापरुदे० प्र० २ ) । अत्रोक्तं मम्मटभट्टेन इदमुत्तममतिशि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः ( काव्यप्र० उ० १ श्लो० । <न> <न> १ अभावः ( न्या० म० ४ पृ० १४ ) । स च संसर्गाभाव भूतले घटो नास्ति ( दीधि ० ) घटः पटो न भवति इत्यादौ / एतदन्यतरात्मकः ( तो ० ४ पृ० १२ ) / दया भूतलवति यथा वा नैकः सुप्तेषु जागृयात् इत्यादौ निषेधः । भूतल इत्यत्र समन्या वृत्तित्वमर्थः । तस्य च नञर्थात्यन्ताभावेन्वयः । एवं र्घटत्वावच्छिन्नप्रतियोगिताकोत्यन्ताभावः इति बोधः । केचितु वृत्तिर्योत्यन्ताभावः तत्प्रतियोगी घटः इति बोधः इत्याहुः / अन्ये सप्तम्या निरूपितत्वम् असधातोर्विद्यमानत्वम् आख्यातस्याश्रयत्वम अर्थ / ( त० प्र० ४ पृ० ६१) (ग० व्यु० १ ) ( न्या० म० तथा च भूतलनिरूपित विद्यमानत्वाश्रयो घटाभावः इति बोधः इत्या पृ० १५) । घटः पटो नेत्यत्र घटः पटमेदवान् भवति इति बोबा / नञर्थो द्विविधः प्रसज्यप्रतिषेधः पर्युदासश्चेति ( म० प्र० पृ० २ उपमा । यथा तिष्ठा देवो न सविता ( श्रुतिः ) वयो न वसतीरुप (ऋ० सं० ११२५) इत्यादौ । ३ नकारस्वरूपो वर्णः । यथा दो धः सौख्यं मुदं नः ( बृ० व० टी० ) इत्यादौ ( वाच० ) । अत्र केचित् अत्यन्ताभाव एव नञः शक्तिः । अन्योन्याभावादौ तु लक्षणा इत्याहु: (शा० भा० ) ( वाच० ) । अत्रेदमवधेयम् । न घटः पट इत्यादौ नामार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इति व्युत्पत्तिविरोधापत्ति - वारणाय अघटः पट इत्यादौ समानविभक्तिकत्वेनाभेदान्वयबोधोपपत्त इति केचित् । परे तु नामार्थयोः इति व्युत्पत्तौ अव्यय निपात एतदति- च नञोभाववति लक्षणा घटपदस्य च घटप्रतियोगिके लक्षणा स्वीकार्या रिक्तेति नाम्नि विशेषणान्नञः अभाववति घटपदस्य घटप्रतियोगिके च न लक्षणाङ्गीकार्यो । किंतु नञः संसर्गाभावमात्रे अन्योन्याभावमात्रे च शक्तिरेव इति प्राहु: ( न्या० म० ४ पृ० १४-१५ ) ( त० प्र० ख० ४ पृ० ६०-६१ ) । अन्ये तु नामार्थयोः इति व्युत्पत्तिर्नाभ्युपगन्तव्या । भूतलं घट: राजा पुरुषः इत्यत्र आधेयतासंबन्धेन स्वत्वसंबन्धेन च घटपुरुषपदार्थयोर्भूतलराजपदार्थान्वयबोधतात्पर्येण तादृशप्रयोगापत्ति- वारणाय यथाक्रमं सप्तम्यन्तभूतलादिसमभिव्याहारषष्ठ्यन्तराजप- पूर्वोक्तस्थलयोः न घटः पट: अघटः पटः इत्याद्योः नञ्पदादौ न लक्षणा समभिव्याहारयोः पूर्वोक्तान्वयबोधं प्रति कारणत्वमङ्गीकर्तव्यम् । एवं इत्याहुः (ग० व्यु० का० १ ) । अन्यत्र च नञर्थाः षडुक्ताः । सादृश्यं तदभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् शर इत्यादी सादृश्यं नञर्थः । भूतले घटो नास्तीत्यादा वत्यन्ताभावः । अघटः पट इत्यादावन्यत्वम् । अनुदरमुदरं तरुण्या इत्यादौ स्वल्प- । अब्राह्मणो वाधुषिक इत्यादावपकृष्टत्वम् ( अप्राशस्त्यम् ) । । अन्यत्र चोक्तम् नञभावे निषेधेन स्वरूपार्थेव्यतिक्रमे । ईषदर्थे च सादृश् तद्विरुद्वतदन्ययोः ॥ इति । निषेधेन काका स्वरूपार्थे प्रकृतार्थे इत्यर्थः । एतादृशार्थस्वीकारेण च अभावेन न पौनरुक्त्यम् इति ध्येयम् ( वाच ० ) । <नक्तम्> प्रदोषाध्याक् तद्दिनाधिकरणकभोजनाभावे सति तदहोरात्रावयव - प्रदोषाधिकरणकं भोजनम् ( पु० चि० पृ० ४५ ) । <नगरम्> प्राकार परिखान्वितं श्रेणीधर्मसंयुक्तं संस्थानम् (कैयटः ७/३/१४)। <नच> शङ्कानिवारणार्थः । यथा नच स्वतः सिद्धविघ्नविरहवताकृत मङ्गलस्य निष्फलत्वापत्तिः इति वाच्यम् । इष्टापत्तेः । विनशङ्कया तदा- चरणात् (मु० १ मङ्गल० ) इत्यादौ । <नञ्तत्पुरुषः> (तत्पुरुषः ) नञर्थबोधकतया नञपदघटितः समासा / यथा अघटः पट इत्यादौ । अत्र घटपदं लक्षणया घटसंबन्ध्यर्थकद / घटप्रतियोगिकम् इत्यर्थकम् इति यावत् । नञ्पदं च अन्योन्याचे शक्तमेव ( न्या० म० ४ पृ० १४ ) । एवं च घटप्रतियोगिक भेदाद पटः इति वाक्यार्थबोध: । अघटं भूतलमित्यादौ नञो घटभिन्ने लक्षणान कलजं भक्षयेदित्यादौ बलवदनिष्टजनके लक्षणा (तर्का० ४१० ) <नतिः> १ नमस्कार ( ग० व्यु० कार० ४ पृ० १०१)।२ चत्रा ककक्षयोर्याम्योत्तरयोरन्तरं नतिः इति ज्योतिर्विद आहुः / ३ जम स्थितस्याधः पतनं नतिः इति काव्यज्ञा वदन्ति ( वाच० ) । <ननु> १ प्रश्नः । यथा ननु गमिष्ये इत्यादौ । २ अवधारणम् / 4 उपपनं ननु शिवम् ( रघु० १/६० ) । अ ( टी० मल्लिनाथः १।६० ) । यथा वा त्वया नियम्या ननु, चक्षुषा ( रघु० स० ३ श्लो० ४५ ) इत्यादौ । ( संबोधनम् ) । यथा ननु मां प्रापय पत्थुरन्तिकम् ( कुमार० इत्यादौ । ननु हे वसन्त इत्यर्थः ( टी० मल्लिनाथ: ४/३२/ ४ आक्षेपः ( शङ्का ) । यथा नन्वेवं धनाद्यर्जनस्य कुअरशोचवत् दुः निवर्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह ( सांख्य० प्र० भा० अ सू० २-३ ) इत्यादी (वाच० ) । ५ अनुज्ञा । यथा ननु ६ अनुनयः ( सान्त्वनम्) । यथा ननु कोपं मुख उपपन्नमेवेत्यर्थ दिव्या आमनणार गच्छेत्यादी कुरु इत्याद ( अमर: ३ नाना० श्लो० २४७ ) ( विश्वः ) । ७ विनिग्रहः । ८ परकृतिः । ९ अधिकारः । १० विनयः । ११ संभ्रमः (मेदिनी ) । १२ वाक्यारम्भः ( हैम० )। <ननु च> विरोधोक्तिः ( अमर: ३ अव्यय० श्लो० १४ ) ( वाच० ) । <नन्दा> या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी । नन्दा सा कथिता <नन्दिका> प्रतिपत् ( पुरु० चि० पृ०५८)। वीर सर्वानन्दकरी शुभा ॥ ( पुरु० चि० पृ० १०४ ) । <नपुंसकलिङ्कम> (नाम) नपुंसकत्वेन परिभाषितं पदम् । यथा तट- मित्यादि । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । सोत्र तट- मित्यादौ क्लीबत्वेन सुबादेरमादेशादिः इति । वैयाकरणास्तु तटादिवस्तुगतं नपुंसकत्वं पदार्थान्तरमेव । तच्च तटादिरूपप्रकृत्यैव बोध्यते । प्रत्ययानां तु व्यञ्जकत्वमात्रम् इत्याहुः ( श० प्र० श्लो० ५३ पृ०६८) । कचित् विलक्षणसंस्थानरूपविशिष्टवाचकम् । यथा न प्राणि प्राप्नुयादायम् इत्यादौ । कत्वं प्राणिन्यनुभूयते इति विज्ञेयम् ( श० प्र० श्लो० ५३ पृ० ६९ ) । <नमः> त्यागः । यथा एषोर्थ्यः शिवाय नमः गवादित्यागस्य इत्यादौ नमः शब्दार्थस्त्यागः ब्राह्मणोद्देश्यकस्य (ग० व्यु० का० ४ पृ० ९९ ) । शाब्दिकास्तु स्वस्वत्वनिवृत्त्यनुकूलो व्यापारः । यथा एषोर्व्यः शिवाय नमः इत्यादौ त्यागो नमः शब्दार्थः इत्याहु: । शाब्दिकमतेत्र उद्देश्यत्वं चतुथ्येथेः । तथा च शिवोद्देश्यक- त्यागविषयोर्ध्यः इति शाब्दबोध: ( ल० म० का० ४ पृ० १०५) । अन्ये तु मन्त्रकरणकस्त्यागोर्थः । यथा पुष्पमिदं विष्णवे नमः इत्यादौ । अन्न प्रीत्युद्देश्यकत्वम् तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणकत्यागे एवं च विष्णूद्देश्यकमन्त्रकरणकत्यागस्य कर्मेदं पुष्पम् इति बोधः । मन्त्रकरणकत्वे प्रमाणाभावात् ५१ न्या० को ० गौर्ब्राह्मणाय नमः इत्यादिको न प्रयोगः ( श० प्र० श्लो० ९२ पृ० १२६)। २ नमस्कारः । यथा हरये नम इत्यादौ ( ल० म० का० ४ पृ० १०५ ) ( ग० व्यु० का० ४ पृ० ९९ ) । ३ अन्तम् । ४ वज्रम् । ५ यज्ञः । यथा यज्ञो वै नमः (श्रुतिः) इत्यादौ (वाच०) । <नमस्कारः> [ क ] यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूल व्यापार- विशेषः तस्य स नमस्कारः ( चि० मङ्ग० १ पृ० १०३ ) ( म० प्र० २ ) । स्वापकर्षबोधानुकूल: विलक्षणः स्वीयव्यापारः इति परमार्थः । अत्र स्वमुच्चारयिता ( ग० व्यु० कार० ४ पृ० १०१ ) ( राम० ) । शिष्टानाम् इत्यादौ यथा देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः इत्यादौ ( मू० म० मङ्ग० १ पृ० १०१ ) । यथा वा हरये नमः नमस्कारः । अत्र नमःस्वस्तिस्वाहा स्वधालंवषड्योगाच्च ( पा० सु० (२।३।१६ ) इत्यनेन चतुर्थी ज्ञेया ( ल० म० सुब० कार० ४ पृ० १०५ ) । नमस्कारत्वं च स्वापकर्षबोध जनकतावच्छेद कजाति- मत्त्वम् ( मू० म० १ पृ० १०४ ) । अथवा मानसत्वव्याप्यजाति- विशेषः ( म० वा० पृ० १० ) । ज्ञानविशेषो वा । स च विशेषो व्यवहारसाक्षिको जातिभेद एव । कायिकाद्यन्यतमत्वं वा ( न्या० दी० पृ० ३ ) । नमस्कारभेदाश्च कालीपुराणे उक्ताः । यथा त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ इति (वाच० ) । [ ख ] स्वापकर्षबोधनानुकूल स्वीयव्यापारः । यथा हरये नम इत्यादौ नमःपदार्थः । अत्र स्वमुच्चारयिता । अवधित्वम् अवधिमत्त्वं वा चतुर्थ्यर्थः । तस्य नमस्कारपदार्थघटकेपकर्षेन्वयः । तथा च चैत्रायुच्चारितात् नमो हरये इत्यादिशब्दात् हर्यवधिकचैत्रापकर्ष - बोधानुकूलश्चैत्रीयव्यापारः इत्याकारको बोधः ( ग० व्यु० का० ४ पृ० १०१) । स्वापकर्षबोधानुकूलव्यापारे च कायिकवाचिकमानस- रूपे विशेषो जातिविशेष एवानुभवसाक्षिकः ( चि० १ पृ० १०३ ) । यथा वा ब्राह्मणेभ्यो नमो नित्यमित्यादौ । अत्र विषयत्वं चतुर्थ्या बोभ्यते ( श० प्र० श्लो० ९२ पृ० १२६ ) । यथा वा नमस्करोति नमस्कृत्य इत्यादौ । अत्र शाब्दिका आहुः । अत्र कृधातोरेव नमनार्थकता है नमः शब्दस्तु तदर्थद्योतकः । तेन नारायणं नमस्कृत्येत्यादौ द्वितीया । उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति न्यायात् । नमसो वाचकत्वे नमस्कृत्य ब्राह्मणेभ्यः इत्येवं नमः शब्द प्रयोगे चतुर्थी स्यात् । नमः स्वस्ति- स्वाहास्वधालंवषड्योगाच्च ( पा० सू० २/३ । १६) इत्यत्र त्यागार्थक- नमनार्थकयोरुभयोर्ग्रहणम् ( शब्देन्दु ० ) ( ल० म० कार० ४ पृ० १०५ - १०६) । [ग] अपकृष्टत्वबोधनानुकूलो व्यापारः । यथा हरये नम इत्यादौ । अत्रापकर्षः प्रयोक्तरूपविशेषनिष्ठो नमस्कार्या- वधिक एव प्रतीयते । व्यापारश्च प्रयोक्तूनिष्टः । स च व्यापारः कर- शिरःसंयोगादिः ईदृशशब्दप्रयोगश्च । चतुर्थ्यर्थ उद्देश्यत्वम् । एवं च हर्युद्देश्यक उक्तव्यापारः इति बोध: ( ल० म० का० ४ पृ० १०५ )। [ घ ] अयं मत्त उत्कृष्टः अहमस्मादपकृष्टः इति ज्ञानविशेषः इति परे वदन्ति ( त० प्र० १ पृ० ३ ) ( म० वा० पृ० १० ) । नमस्कार- त्रिविधः । कायिकः वाचिकः मानसिकश्च (मू० म० १ पृ० १०३) । कायिकादिलक्षणानि च योगिनी० गन्धर्वतन्त्रे उक्तानि । यथा जानु- भ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् । क्रियते यो नमस्कारः प्रोच्यते कायिकस्तु सः ॥ या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः । क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः ॥ इष्टमध्यानिष्टगतैर्मनो- भिस्त्रिविधं भवेत्। नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥ इत्यादि ( गन्धर्वतन्त्र ० ) ( वाच० ) । नमस्कारः प्रकारान्तरेण द्विविधः । क्वचित् ऐहिक: कचित् कारीर्यादौ आमुष्मिकः ( न्या० दी० पृ० ४) । <नय:> १ मतम् । यथा न्यायनयः मीमांसकनयः इत्यादौ । २ नीति- शास्त्रम् ( मल्लि० टी० २।३ ) । यथा विषमोपि विगाह्यते नयः कृत- तीर्थः पयसामिवाशयः ( किरा० स० २ श्लो० ३) इत्यादौ इति नीतिशास्त्रज्ञा वदन्ति । <नयनम्. [क] प्रापणम् । तच्चोत्तरदेशसंयोगावच्छिन्नक्रियानुकूलव्यापारः । यथा अजां ग्रामं नयति ग्रामं भारं वहतीत्यादौ नीयते अजा ग्रामम् उह्यते भारो ग्रामं चैत्रेणेत्यादौ च नीवहादिधात्वर्थ: (ग० व्यु० का ० २ पृ० ४६ ) । [ख गत्यवच्छिन्नव्यापारः । यथा ग्राममजां वइति नयतीत्यादौ वहिप्रभृतेरथः ( श० प्र० श्लो० ७३ पृ० ९९) / यथा वा गमनाय मतिं चक्रे ताथैनं निन्युरङ्गनाः ( रामा० वा० अ० ९/ इत्यादौ । यथा वा नयनं पारिजातस्य द्वारकां मम रोचते ( हरिवंश अ० १२९) इत्यादौ (वाच० ) । <नरकः> क दुःखविशेष: ( मु० गु० ) । यथा नरके पतनं केन र लिखितं यदि इत्यत्र । अत्र केनेत्यस्य ब्रह्मणेत्यर्थः । तथा एकस्य नरके इति पदस्य नरस्य मनुष्यस्य के मस्तके इत्यर्थः । यथा वा नरकेसरिण स्मर्तुर्नरके पतनं कुतः इत्यादौ च । पौराणिकाश्च [ख] पापभोग- स्थानविशेषो नरकः । स चासिवनक्षारादिः । यथा वेददूषयिता य (पाद्मे० उत्तरख० अ० ४८) । यो गुरूनवमन्येत स्वविद्यावा. वेदविक्रायकश्च यः । अगम्यागामी यश्च स्यात् ते यान्त्यसिवनं द्विज ॥ दर्पितः । स मृतः पात्यते क्षारसंज्ञकेधोमुखः पुमान् ॥ (विष्णुपुर अंश ० २ अ० ६ ) इत्यादी इत्याहुः ( वाच० ) । <नवद्रव्यवृत्तिगुणत्वम्> द्रव्यत्वाश्रयवृत्तिः प्रतियोगिव्यधिकरणः यः अ तत्प्रतियोगिता नवच्छेदकगुणविभाजकोपाधिमत्त्वम् ( ल० व० ) / प संख्यादिगुणानाम् । अत्र संयोगाद्यव्याप्यवृत्तिप्रतियोगिकात्यन्ताभावनादाय संयोगादावव्याप्तिः स्यात् । अतः प्रतियोगिव्यधिकरण इत्युक्तम् / <नवरात्रकम्> उपवासाद्यन्यतमनियमयुक्तकर्तृकप्रतिपदा दिनवम्यन्तन व तिष्य धिकरणकपूजारूपकर्म ( पु० चि० पृ० ६१) । <न हि> ( अव्ययसमुदायः ) सकारणको निषेधः । यथा न हि सामानाकि सामा० ल० १ पृ० ४ ) इत्यादौ । यथा वा न ह्यस्मिन् युज्यते करण्येन बाधसिध्योरुभयोः सत्योरनुमितिं कश्चिदभ्युपैति (ग० होता किंचिदा मौजिबन्धनात् ( मनु० अ० २ श्लो० १७१) इत्यादौ । <नाक्षत्रम्> नक्षत्रमेव नाक्षत्रम् । तन्नाक्षत्रमहोरात्रं यस्मिन्नस्तमियाद्रविः । यस्मिन्नुदेति सविता तन्नाक्षत्रं भवेद्दिनम् ॥ ( पु० चि० पृ० ५१ ) । <नागः> पञ्चमी ( कामशब्दे दृश्यम् ) । <नाटकम्> दृश्यकाव्यात्मको रूपक विशेषः । यथा मुरारिकवेरनर्धराघवम् भवभूते रुत्तररामचरितम् कालिदासस्याभिज्ञानशाकुन्तलं चेति । नाटकस्य पत्रिंशलक्षण (३६) यथा भूषणाक्षरसंघातौ शोभोदाहरणं तथा। हेतुसंशयदृष्टान्तास्तुल्यतर्क: पदोच्चयः ॥ निदर्शनाभिप्रायौ च प्राप्ति- विचार एव च । दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ॥ विशेषण- निरुक्ती च सिद्धिर्मेशविपर्ययौ । दाक्षिण्यानुनयौ मालार्थापत्तिर्गर्हणं तथा ॥ पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्तनम् । लेशो मनोरथो- नुक्तसिद्धिः प्रियवचस्तथा ॥ ( सा० द० ६।१७१ - १७४ ) इति । नाटकं च दशसु रूपकेषु प्रथमम् । रूपकाणि तु नाटकमथ प्रकरणं - व्यायोगसमवकारडिमाः ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ ( सा० द० ६ । ३ ) ( वाच० ) ( प्रतापरुद्र० प्रक० ३) इति । विलासर्यादिगुणवयुक्तं नानाविभूतिभिः ॥ सुखदुःखसमुद्भुति नानारस- निरन्तरम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्तिताः ॥ प्रख्यातवंशो मतः ॥ एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणेद्भुतः ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः पुच्छाप्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ ( सा० द० ६/७-११) इति । <नाडिका> अहोरात्रात्मकस्य कालस्य षष्टितमो भागः । <नानार्थकत्वम्> नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वम् (वै० सा० द० ) । यथा हरिपदस्य विष्णु सिंह भेक अंशु इत्यादिनानार्थकत्वम् । <नान्तरीयकत्वम्> १ व्याप्तिः ( काव्यप्र० टी० कमला० उल्ला० २) । विना नान्तरा । ततो भवार्थे छप्रत्ययः । अव्ययानां भमात्रे टिलोपः । तदभावरूपा व्याप्तिः इति महेश्वरः । अत्र व्युत्पत्तिः न अन्तरा ततः स्वार्थे कप्रत्यय इति । २ तत्सत्तानियतसत्ताकत्वम् । यथा नान्तरीयक फलजनकत्वमित्यादौ । यथा च प्रतिबन्धकाभावे नान्तरीयका अर्थोत्पत्तिः इत्यादौ । ३ मध्ये अवश्यंभावित्वम् इति केचिदाहुः । <नान्दीमुखाः> अश्रुमुखशब्दे दृश्यम् । <नाम> ( अव्ययम् ) १ संज्ञा । यथा सुरथो नाम राजेत्यत्र नामशब्दार्पः संज्ञा । सुरथो नाम राजा इत्यत्र सुरथः सुरथशब्दवाच्यः । तदेकदेशे तादात्म्यवत्सुरथशब्दवाच्यो राजा इत्यर्थः । एवम् नाम्ना चन्द्रमुखी च शब्दे संज्ञार्थकनामेत्यव्ययेन प्राप्तसंज्ञातादात्म्यान्वयः / तेन संज्ञ व्यादावनव्ययेनापि नामपदेनोक्तदिशैवान्वयो द्रष्टव्यः । अत्र कविह सुरथो नाम राजेत्यत्र संभाव्यत्वं नामशब्दार्थः । तच्च सुरथेन्वितम्झी ( श० प्र० श्लो० ९२ पृ० १२४ ) । २ कोपः । यथा ममापि नाम दशाननस्य परैरभिभवः इत्यादौ । ३ उपगमः / सासूयोङ्गीकारः / क्या एवं नामास्तु इत्यादौ । ४ प्राकाश्यम् । यथा हिमालयो नाम नगाषि- राजः इत्यादौ । अत्र हिमालयः प्राकाश्येनातिप्रसिद्धः इत्यर्थः (वाच० )। ५ संभावना । यथा इह नाम सीता भविष्यति इत्यादौ । ६ कुत्सद यथा अन्धो नाम गिरिमारोहति इत्यादौ । ८ अलीकम् । भीतो नामावप्लुतः ( शाकुन्त ० ) इत्यादौ । यथा अहं यथा को नामायं सवितुरुदये स्वापमेवं विधत्ते इत्यादौ । ७ विस्मयः । <नाम> ( अयं नामन् इति नकारान्तो नपुंसकलिङ्गः शब्दः ) १/ कं नाम । य न त्वन्यथा ( श० प्र० श्लो० १४ पृ० १५ ) । यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्य विशेष्य कान्वयबोधार्ये खोत्तरप्रपा विभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं नाम यथा घटादयो शब्दाः प्रथमान्तत्वेन निश्चिता एव स्वार्थमुख्यविशेष्यकं बोधमुत्पाद व्युत्पत्तिलक्षणे उच्येते । तत्र व्युत्पत्तिः नमति आख्यातायै प्रतिसा विशेषणत्वेन इति नाम । लक्षणं तु सत्त्वप्रधानानि नामानि ( निरुक्त० ) । तदर्थश्च लिङ्गसंख्ययोरत्र सद्भाव इति सत्वं दबार तथा लक्षणोपपत्तेः । तद्येषु प्रधानं गुणभूता किया नामान्येव ताि नमन्त्याख्यातशब्दे गुणभावेन नमन्ति वा स्वमर्थमाख्यातशब्दवाच्ये गुणभावेनेति नामानि । तथा चोक्तम् शब्देनोच्चारितेने ये प्रतीयते । तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ इति (निरुक्ते नैघण्टुक० पूर्वषट्के अ० १ पा० १ ख० १ दुर्गाचार्यकृतटीका ) । [ख] प्रातिपदिकरूपः शब्दविशेषः । यथा घटोस्तीत्यत्र घटशब्दः इति पाणिनीया आहुः । [ग] पौराणिकास्तु वाचकशब्दः । यथा हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । कलौ नवस्त्येव गतिरन्यथा ॥ इत्यादौ इत्याहुः । नाम चतुर्विधम् । रूढम् लक्षकम् योग- रूढम् यौगिकं चेति । केचित्त रूढयौगिकमप्यधिकं पञ्चमं नाम स्वीकुर्वन्ति । यथा मण्डपमहारजतादि । तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच समुदायशक्त्या रूढ्यर्थमेवाभिधत्ते इत्यपरेषां मतम् (श० प्र० श्लो० १५ पृ० १६) । पतञ्जलिस्तु पञ्चविधं नाम इत्याह । तत्र प्रथमम् सुपांमध्य एकवचनमात्र साकाङ्क्षम् । यथा एकविंशति इत्यादिपदम् । द्वितीयम् द्विवचनमात्राकाम् । यथा उभ द्वि पुष्पवत् पुष्पवन्त इत्यादिपदम् । कतिपदं च । चतुर्थम् द्विवचनमात्रनिराकाङ्क्षम् । यथा उभय इति पदम् । तृतीयम् बहुवचनमात्रसाकाङ्क्षम् । यथा प्राण त्रिचतुर् इत्यादि पदम् पञ्चमम् वचनत्रयसाकाङ्क्षम् । यथा घट पट इत्यादिपदम् ( श० प्र० कृदन्तं च तद्धितान्तं समासजम् । शब्दानुकरणं चैव नाम पञ्चविधं श्लो० ५४ पृ० ६९-७० ) । प्रकारान्तरेण नाम पञ्चविधम् उणाद्यन्तं स्मृतम् ॥ इति ( वाच० ) । नाम शब्दसंस्कारसिद्ध्यर्थं त्रिधा भिद्यते हनि पिता नाम कुर्यात् इतीश्वरेच्छया पिता स्वपुत्रस्य देवदत्त इत्याद स्त्रीलिङ्गम् पुंलिङ्गम् नपुंसकलिङ्गम् चेति ( श० प्र० श्लो० ५३ पृ०६८) । नाम करोति इति विज्ञेयम् । यथा च नामजात्यादियोजनाहीनं ज्ञानं २ संज्ञाशब्दः । यथा अयं देवदत्त इत्यादौ देवदत्त इति शब्दः । द्वादशे- निर्विकल्पकम् ( सि० च० १ पृ० २१ ) इत्यादौ । <नामकरणम्> पुत्रादीनां केशवादिनाम्ना व्यवहारः ( सर्व० सं० पृ० १३८ पूर्णप्र० ) । <नाशः> १ ध्वंसः । २ शाब्दिकास्तु अदर्शनानुकूलव्यापारः / संच ध्वंससामग्रीरूपः व्यवधानाद्यनुकूलव्यापाररूपश्च । यथा उत्पतिते काके नष्टं तद्गृहं भवति हृतं नष्टं च लभ्यते इत्यादी इत्याहुः । तन्मते ध्वंसतु तिरोभावावस्था ( ल म० धात्व० पृ० ६ ) । ३ सांख्यास्त नाश: कारणलयः ( सां० अ० १ सू० १२१ ) इत्याहुः । <नाशवत्वम्> विनाशित्वम् । बृहस्पति <नास्तिकः> [ क ] वेदमार्गमननुरुन्धान: किंचिदपिपरकम् स्वर्गनरका पूर्वादिकम् नास्ति इति वादी । यथा चार्वाको सात र्नास्तिकः । [ख ] परलोकतत्साधनादृष्टाद्यभाववादी तत्साक्षिण ईश्वरसा वेदनिन्दां च देवतानां च कुत्सनम् ( मनु० अ० ४ श्लो० १६३/ सत्त्ववादी च । यथा अतिमात्रोज्झितभीरनास्तिकः ( माघः ) नास्ति इत्यादौ । नास्तिकः षड़िध: । चार्वाकः बौद्धाश्चत्वारः दिगम्बर खेति / इदानीं चार्वाकादीनां षण्णां संक्षेपतो मतस्वरूपमुच्यते । तत्र इत्यादिसामानाधिकरण्यप्रतीतेः ब्राह्मणत्वादिधर्मवति शरीर एव प्रत्यक्षमाप्रमाणवादी । तन्मते ब्राह्मणोहम् गौरोहम् स्थलोहम जानामि सुखाद्याश्रयत्वं सिद्ध्यतीति शरीरमेवात्मा । तत्र श्रुतिरपि सवा पुरुषोन्नरसमयः इति । पृथिव्य तेजोवाय्वात्मकचतुर्विधभूत समुदायमेव दिकं नास्त्येव । अङ्गना लिङ्गना दिजन्यं सुखमेव पुरुषार्थः / कष्टका किण्वादिभ्यो मदशक्तिवञ्चैतन्यमुपजायते । पारत्रिकस्वर्गनर कपुण्यापा इति चार्वाकमतम् । चत्वारो बौद्धाश्च माध्यमिको योगाचारः जन्यं दुःखमेव नरकम् । लोकसिद्धो राजैव परमात्मा / देहोच्छेदो मोक्षा सुषुल्यव्यवहितोत्तरक्षण उत्थितस्य सुषुप्तावहं नासम् इत्यनुभवान वैभाषिकश्चेति । दिगम्बरो जैनभेदः । तत्र शून्यवादी माध्यमिकः / तल मेवात्मा । अत एव सर्वमिदं मिथ्यैव इति शून्यवादः / अत्र योगाचारः । तन्मते क्षणिकविज्ञानम् ( स्वयंवेदनम् ) एकमेव / रिक्तं बाह्यं ग्राह्यवस्तुजातं नास्ति । तच्च विज्ञानं द्विविधम् । विज्ञानम् आलयविज्ञानं च । तत्र अयं घटः इति ज्ञानं प्रवृत्तिविज्ञानम् । अहम् इति विज्ञानमालयविज्ञानम् । अयमेवात्मा । सुषुप्तावप्यालय विज्ञान- स्त्येव । सुखादिक मस्यैवाकारः । तदतिरिक्तवस्तुन एवाप्रसिद्धेः इति । अत्र श्रुतिः अन्योन्तर आत्मा विज्ञानमयः (ब्रह्म० उप० पृ० ३ ) इति ( सि० च० १ पृ० १२ ) ( सर्वे० पृ० ३७ बौद्ध०) । सौत्रान्ति- कस्तु ज्ञानाकारानुमेयः क्षणिक: बाह्यार्थ इतीच्छति । वैभाषिकस्तु क्षणभङ्गुरवादी क्षणिकस्य बाह्यार्थस्य प्रत्यक्षमपीच्छति । दिगम्बरस्तु देहा- तिरिक्तः देहपरिमाण आत्मा । स च दीपप्रभावत् संकोच विकासशाली इत्याह (सि० च० १ आत्म० पृ० १२–१३ ) । नास्तिकता -[क] मिथ्यादृष्टि: ( अमरः धीवर्ग: श्लो० ४) । [ख] नास्ति परलोकः इति बुद्धि: ( मनु० टी० कुल्लूक० ४।१६३ ) । यथा प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः । तस्मान्नास्तिकता चैव दुराचारच जायते ॥ ( भा० शान्ति० अ० १२३ ) इत्यादौ ( वाच०) <नास्तित्वम> अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा निगद्यते । प्रतियोगिनि दृश्ये च घटादिप्रतियोगिनः ॥ ( सर्व० सं० स्पष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वापि द्वयी साथ पृ० ४३० शां० ) । ( हरिवं० अ० २८ ) ग <नास्तिकदर्शनम> नास्तिक विरचितं शास्त्रम् । तच चार्वाक बौद्ध इत्यादि- दर्शनम् । अत्रोच्यते नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् इति निःश्रेयसम् – १ [क] जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् । निःश्रेयसं च शास्त्रश्रवणानन्तरं पदार्थतत्त्वज्ञानेनात्मसाक्षात्कारानन्तरम- सूत्रकारेणाप्येतदेव प्रदर्शितम् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्त- मारब्धकर्मणां ज्ञानात्प्रारब्धकर्मणां भोगाच्च क्षये उत्पद्यत इति बोध्यम् । रापाये तदनन्तरापायादपवर्गः (गौ० ११ १/२) इति । अयमाशयः । यदा तु तत्त्वज्ञानान्मिथ्याज्ञान मपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति । दोषा- पाये प्रवृत्तिरपैति । प्रवृत्त्यपाये जन्मापैति । जन्मापाये दुःखमपैति । दुःखापाये ५२ न्या० को० चाव्यन्तिकोपवर्गो निःश्रेयसम् इति ( वात्स्या० ११ १/२ ) । इदमा कूतम् । योगबलेनात्मतत्त्वसाक्षात्कारे सति तेन च सवासनमिथ्याज्ञाने ध्वस्ते तन्निबन्धनानां रागद्वेषमोहानां दोषाणामपायात्प्रवृत्तेरपाये त बन्धनस्य जन्मनः अपाये तन्निबन्धनस्य दुःखस्यापाय इति तावद्वस्तुगतिः (वै० उ० ५।२।१८ ) । द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधर्म्याम् तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त० पृ० १ ) । [ख] शान्तः खल्वयं योगाभावोप्रादुर्भावश्च मोक्षः (वै० ५/२/१८) । अस्यायमर्थः । तदभावे सर्वविप्रयोगः सर्वोपरमोपवर्गः (वात्स्या० १११।२) । [ग] तदभावे सं तस्यादृष्टस्याभावे सति । प्रारब्धेतरादृष्टानामात्मसाक्षात्कारेण प्रारब्धानां व भोगेन क्षये सतीति यावत् । संयोगाभावः देहप्रवाहसंबन्धस्य विच्छेदः। तदनन्तरं चाप्रादुर्भावः अर्थाद्दुःखस्यानुत्पत्तिः । देहरूपस्या दृष्टस्य च णस्य विरहात् । अतः तदानीमेव मोक्षोपवर्गः संभवतीति नापवर्गस्य का विषाणसमानता इति भावः (वै० वि० ५/२।१८) ।[घ ] अशेषविशेष गुणध्वंसावधिकदुःखप्रागभावः (वै० उ० १।१।४) । [ङ ] आत्यन्तिकी २४६ अक्ष०) (दि० १ ) ( त० दी० ) ( त० कौ० ) । अत्रात्यन्तिक दुःखनिवृत्तिः (वै० उ० १।१।४ ) ( गौ० वृ० १/१/२ ) (सर्व०१० मानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा (वै० च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । युगपदुत्पत ( त० दी० ) । अत्र संसारकालीनस्य दुःखध्वंसस्य मोक्षत्ववारणा ४ ) । अथवा स्वसमानाधिकरणदुःखासमानकालीनत्वम् ( दि० । कालीनान्तत्वं दुःखनिवृत्तिविशेषणम् । अस्मदीय दुःखसमान कालीनसुन मोक्षे अव्याप्तिवारणाय स्वसमानाधिकरणेति दुःखविशेषणं बोलन सजातीयस्य दुःखस्य पुनस्तत्रानुत्पादः ( सर्व० पृ० २४६ अक्ष०/ ( त० कौ० पृ० २२ ) ( म० प्र० १ पृ० ४ ) । यद्वा ( गौ० [च] स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंसः (त० प्रा १० वृ० १ । १ । २२ ) ( म० प्र० १ १४ ) (त० कौ० पृ० चकार अत्र दुःखध्वंसो दुःखानुत्पत्तिः इत्यर्थः इति वैशेषिकाः (त० ब० ॥ [छ ] एकविंशतिभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः ( त० मा ० प्रमेय० पृ० ४१ ) । एकविंशतिभेदास्तु शरीरम् षडिन्द्रियाणि षडिषयाः षडधानि प्रत्यक्षज्ञानानि सुखं दुःखं चेति । शरीरादीनां दुःखसाधनत्वा- दुःखत्वम् । सुखस्य च दुःखसंबन्धाद्दुःखत्वम् । अत्र वार्तिककारा आहुः । श्रेयः पुनः सुखम् अहितनिवृत्तिश्च । तच्छेयो भिद्यमानं द्वेधा व्यवतिष्ठते दृष्टादृष्टभेदेन । दृष्टं सुखम् । अदृष्टमहित निवृत्तिः । अहित- निवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च । अनात्यन्तिकी कण्टकादे- दुःखसाधनस्य परिहारेण । आत्यन्तिकी पुनरेकविंशतिभेदभिन्नदुःख- हान्या । तस्य हानिर्धर्माधर्मसाधनपरित्यागेन । अनुत्पन्नयोर्धर्माधर्मयोरनु त्पादेन उत्पन्नयोश्चोपभोगाप्रक्षयेण इति ( न्या० वा० पृ० २) ( त०] मा० प्रमेय० पृ० ४१ ) । [ज आत्यन्तिको दुःखाभावः ( न्या० वा० पृ० ४ ) । झ अहित निवृत्तिरात्यन्तिकी (न्या क० पृ० ४ ) । तस्याः सद्भावे प्रमाणम् दुःखसंततिर्धर्मिण्यत्यन्तमुच्छि द्यते संततित्वाद्दीपसंततिवत् इत्यनुमानम् इति तार्किका आहुः (न्या क० पृ० ४ ) [ञ नित्यनिरतिशयसुखाभिव्यक्तिः इति दीधिति- कृदाह ( ल० म० ) । [ट चरमदुःखध्वंसः ( त० दी० ) । यथा रुद्रादियोग्यजीवानां मोक्षः । द्रव्यगुणकर्मसामान्यविशेषसमवायानां तत्त्वज्ञानान्निः श्रेय साधिगमः ( गौ० १ । १ । १) इत्यादौ हिरण्यग पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० १ १ पृ० ५) । अत्र पदार्थतत्त्वज्ञानस्यात्मतत्त्वज्ञानद्वारा निःश्रेयसं प्रति साधनस्वमुच्यते ( त० कौ० पृ० २१ ) । अत्र विप्रतिपत्तिः । कर्मज्ञानयोस्तुल्यवत्समुच्चयेनापवर्गकारणत्वमित्येके । तत्त्वज्ञानद्वारा क- र्मणां तत्र कारणध्वम् । तथा च न तुल्यवत्समुच्चय इत्याचार्याः । तत्र समुच्चय प्रतिपादिका श्रुतिः विद्यां चाविद्यां (कर्म) च यस्तद्वेदोभयं आचार्य तु श्रुतिः तमेवं विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेय- सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ( ईशा० ) इति । नाय इति ( न्या० सि० दी० पृ० २४) । तदिदं तत्त्वज्ञानं निःश्रेय- साधिगमश्च यथाविद्यं वेदितव्यमिति । सर्वासु विद्यासु चतसृषु तत्त्व- ज्ञानमस्ति निःश्रेयसाधिगमश्च । तथा हि ( १ ) त्रय्यां तावत् तत्त्वज्ञानम् अग्निहोत्रादिसाधनानां याथार्थ्येन परिज्ञानम् । निःश्रेयसाधिप स्वर्गप्राप्तिः । (२ ) वार्तायां तु भूम्यादिपरिज्ञानं तत्त्वज्ञानम् / कृष्याद्य- धिगमश्च निःश्रेयसम् । ( ३ ) दण्डनीत्याम् सामदानदण्डभेदानां यथा- कालं यथादेशं यथाशक्ति विनियोगस्तत्त्वज्ञानम् / निःश्रेयसं पृथिवीजय इति । (४) इह तु अध्यात्मविद्यायाम् ( आन्वीक्षिक्याम्) आलज्ञान तत्त्वज्ञानम् । निःश्रेयसाधिगमोपवर्गप्राप्तिः इति ( न्या० वा० १ पृ० २३ ) । निःश्रेयसं तावद्विविधम् । परम् अपरं च । भ्यासापहृत मिथ्याज्ञानस्य प्रारब्धं कर्मोपभुखानस्य । परं निःश्रेयर्स जीवन्मुक्तिलक्षणं तत्त्वज्ञानानन्तरमेव । तदप्यवधारितात्मतत्त्वस्य नैरन्त क्रमेण भवति (गौ० वृ० १।१ । १ ) । उभयविधनिःश्रेयससा- धारणलक्षणं तु सवासन मिथ्याज्ञानध्वंसत्वम् । तत्त्वसाक्षात्कारप्रागमा वविरहत्वं वा । अथवा योगजधर्मप्रागभावविरहत्वम् ( न्या० । दी० पृ० २९) । जीवन्मुक्तौ चोक्तम् जीवन्नेव हि विद्वान संहर्षाया साभ्यां विमुच्यते इति ( न्या० वा० १ पृ० २४ ) । परनि सप्राप्तौ क्रमस्तावत् तत्त्वज्ञानेन मिथ्याज्ञाननाशः । मिथ्याज्ञाननाशे दा नाशः । दोषनाशे प्रवृत्तिनाशः । प्रवृत्तिनाशे जन्मनाशः । नाश: इति ( गौ० वृ० ११ १/२ ) । वार्तिककारास्त निःश्रेयस पुनर्दृष्टादृष्टभेदात् द्वेधा भवति । तत्र प्रमाणादिपदार्थतत्त्वज्ञानानिःश्रेय दृष्टम् । नहि कश्चित्पदार्थो ज्ञायमानो हानोपादानोपेक्षाबुद्धिनिमित्तं भवतीति । एवं च कृत्वा सर्वे पदार्था ज्ञेयतया अपेक्ष्यन्त इति / निःश्रेयसमदृष्टम् आत्मादेस्तत्त्वज्ञानाद्भवति । दृष्टम् प्रमाणादिपरिया नात् अदृष्टं पुनरात्मादेः प्रमेयस्य परिज्ञानादिति इत्याहुः वा० १ पृ० १२ ) । इदानीं मतभेदेन निःश्रेयसभेदा स्वातत्र्यं मृत्युर्वा मोक्षः इति चार्वाका आहुः । आत्मोच्छेदो इति माध्यमिकाः । धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदयः इति । वादिनः । आवरणमुक्तिर्मुक्ति: इत्यार्हताः । ब्रह्मांशिकजीवस्याि प्रभवमिथ्याज्ञाननिवृत्तौ स्वस्वरूपाधिगमः इति मायावादिनः परंत ( न्या उच्यते मोक्ष विज्ञान भदौति शांकरमतानुयायिनः । आनन्दमयपरमात्मनि जीवात्मलयो मुक्तिः इति त्रिदण्डिनः । तत्र लयश्च लिङ्गशरीरापगमः । लिङ्गशरीरं च एकादशे- न्द्रियाणि पञ्च महाभूतानि सूक्ष्ममात्रयावस्थितानि जीवात्मसुखदुःखा- वच्छेदकानि ( कि० व० पृ० ९ ) । एकादशेन्द्रिय पञ्चभूतरूपस्य लिङ्ग- शरीरस्य जीवात्मन्यपगमो विश्लेषः । स एव परे ब्रह्मणि जीवस्य ल इत्युच्यते ( न्या० सि० दी० पृ० २६ ) । जीवस्य लिङ्गशरीरापगमो मोक्षः इति भास्करीयाः । सर्वकर्तृत्वमेकं विहाय वासुदेवस्य सर्वज्ञत्वा- दीनां कल्याणगुणानामाप्तिमत्त्वे सति भगवद्याथात्म्यानुभवो मोक्षः इति विशिष्टाद्वैतवादिनो रामानुजीयाः । जगत्कर्तृत्वलक्ष्मीपतित्वश्रीवत्सवर्ज श्रुतिः आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् इति ( म०प्र० ४ ) । भगवज्ज्ञानायत्त निर्दुःखपूर्णसुखं मोक्षः इति द्वैतवादिनो माध्वाः । अत्र सच मोक्षस्तन्मते सारूप्यसालोक्यसामीप्यसायुज्यभेदाच्चतुर्विधः । द्विभुजकृष्णेन सह स्वांशभूतानां जीवानां गोलो लीला शुद्धाद्वैतवादिनो वल्लभीयाः । पारमैश्वर्यप्राप्तिः इति पाशुपतशास्त्रज्ञा नकुलीशाचार्यादयो माहेश्वराः । चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनम् इति कापालिकाः । पूर्णात्मतालाभः इति प्रत्यभिज्ञावादिनोभिनवगुप्ता- चार्या: । पारदरसपानेन देहस्थैर्ये जीवन्मुक्तिरेव मोक्षः इति रसेश्वर- गौतमीया नैयायिकाः । आत्यन्तिकदुरितनिवृत्तिः इति न्यायैक- वादिनो गोविन्दभगवत्पादाचार्यादयः । आत्यंन्तिकी दुःखनिवृत्तिः इति (दुःखानुत्पाद: ) इति कणादादयो वैशेषिकाः । स्वर्गादिः इति मीमांसकाः । तत्र दुःखसाधनशरीरनाशे नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः इति इति भट्टाः । आत्यन्तिकदुःखप्रागभावपरिपालनं मोक्षः इति प्राभाकराः । परा पश्यन्ती मध्यमा वैखरी इति वाणीचतुष्टये प्रथमायाः पराख् ब्रह्मरूपाया वाण्या दर्शनम् इति पाणिनीयाः । प्रकृत्युपरमे ( प्रकृति- तद्विारोपधानाद्विलये ) पुरुषस्य स्वरूपेणावस्थानम् आत्यन्तिकदुः खत्रयविगमो वा मुक्तिः इति सांख्याः । भट्टसर्वज्ञादयस्तौ तातिकाः । तत्रापि नित्यसुखसाक्षात्कारः बौदासीन्यम्- अहंकारनिवृत्ता पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यम् । पुरुषार्थशून्यां प्रतिप्रसवः कैवल्यम् स्वरूपप्रतिष्ठा वा चिच्छक्तिः मोक्षः इति पातञ्जलाः / ऊर्ध्वगतिः इति केचित् । निरुपप्लवा चित्तसंततिः इति परे । चित्तानुत्पादे पूर्वचित्तनिवृत्तिः इत्यपरे । आत्महानिः इत्येके / चिड- त्पादनं निरोधो वापवर्गः इत्यन्य आहुः इति ( न्या० वा० ११११२९ पृ० ८८ ) ( सर्व० ) ( सि० च० पृ० ३७ ) ( न्या० सि० दी० पृ० २५ ) ( वै० वि० १।१९।४ पृ० १६-१७) (पात० सू० ४।३४॥ २ मङ्गलम् । ३ विज्ञानम् । ४ भक्तिः । ५ अनुभावः । यथा पण्डित च्छेषु निःसरं वचः ( भार० स० श्लो० इत्यादौ ( वाच० ) । विद्या हि विप्रस्य निःश्रेयसकरं परम् ( मनु० अ० १२ श्लो० १०४/ निःश्वासः - [क] प्राणवायोर्व्यापार विशेष: ( गौ० वृ० ३/१/३०/- यथा निःश्वस्य मत्करघृतं निजमम्बरान्तमाकृष्य हन्त चलितैव जय प्रिया मे ( मुकु० भाण ) इत्यादौ । [ ख ] प्राणवायोनसिया दि निःसरणम् । यथा वृषलीफेनपीतस्य निःश्वासोपहतस्य च अ० ३ श्लो० १९) इत्यादौ । (मनु- <निक्षेपः> समक्षं समर्पणं निक्षेपः ( मिताक्षरा अ० २ लो० ६७/ <निगद :> १ परप्रत्यायनाथो मन्त्रा निगदाः ( जै० न्या० अ० २ १० अधि० १३ ) । २ देवतासंबन्धबोधकः पदसमूहो निगदः ।" संबोधनार्थलोडन्तपदयुक्तपदसमूहो निगद इत्यन्ये ( काव्यप्रदीपो पृ० २२१ ) । <निगमः> १ न्यायशास्त्रम् । २ तन्त्र विशेषः । ३ वेदः यथा कल्पतरोर्गलितं फलम् (भाग० १ । १ । ३ ) शतं जीव शरदो व इत्यपि निगमो भवति ( यास्कनिरुक्त ० ) इत्यादौ । <निगमनम्> ( न्यायावयवः ) [क] हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं मनम् ( गौ० १ । १९१३९) । तदर्थश्च हेतोः व्याप्तिविशिष्ठपक्ष अपदेश: कथनम् । प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनम् इति ( गौ० वृ० ११ १२ १३९ ) । साधर्म्मोक्ते वैधर्म्याक्ते वा यथोदाहरण- सुपहिय तस्मात्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् । निगम्यतेनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्र इति निगमनम् । निगम्यन्ते समर्थ्यन्ते संबध्यन्ते । तत्र साधयक्ते तावद्धेतौ वाक्यम् अनित्यः शब्दः इति प्रतिज्ञा । उत्पत्तिधर्मकत्वात् इति हेतुः । उत्पत्तिधर्मकं स्थाल्यादि द्रव्यमनित्यं दृष्टम् इत्युदाहरणम् । तथा चोत्पत्तिधर्मकः शब्दः इत्युपनयः । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् । वैधयक्तेपि अनित्यः शब्दः उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम् । न च तथा अनुत्पत्तिधर्मकः शब्दः । तस्मादुत्पत्तिधमे- कत्वादनित्यः शब्दः इति । सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्य प्रदर्शनं निग- कथन पूर्वकसाध्य विशिष्ट पक्षप्रदर्शकः व्याप्तपक्षधर्म हेतुज्ञाप्यसाध्यविशिष्टपक्ष- मनम् इति ( वात्स्या ० ११ १२ १३९ ) । [ख] व्याप्तिविशिष्टपक्षधर्महेतु- [ग] अनुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञान कारणव्याप्तिपक्ष- बोधकः तादृशसाध्यबोधको वा न्यायावयवः ( गो० वृ० १ / १२ / ३९) । [घ ] पक्षे साध्योपसंहारः ( त०] भा० पृ० ४३ ) । [ङ ] हेतु ताधीप्रयुक्तसाध्यधीजनकं वाक्यम् ( चि० अव० २ पृ० ८२ ) । साध्यवत्तया पक्षप्रतिपादकं वचनम् (त० दी० २ पृ० २२ ) । हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवद्विषयकबोधजनकवाक्यमित्यर्थः (नील० २ पृ० २२ ) [च ] पक्षे साध्यस्याबाधितत्वप्रतिपादकं वचनम् (सि० च० २ १० २५) । छ ] अबाधितत्वासव्प्रतिपक्षितत्वतात्पर्यकं वाक्यम् ( त० कौ० २ पृ० १३ ) । [ज ] लिङ्गसंबन्धप्रयुक्त- निश्चित साध्यवत्ववचनम् । यथा पर्वतपक्षकवहिसाध्यकधूम पर्वतो वह्निमान् धूमादित्यादौ तस्मादग्निमानिति तस्मात्तथेति वा वाक्यं निगमनम् ( त० भा० पृ० ४३ ) ( त० कौ० २ पृ० १३ ) ( त० सं० ) । अत्र व्याप्तिपक्षधर्मता विशिष्टधूमस्त पदार्थः । ज्ञान- ज्ञाप्यत्वं पञ्चम्यर्थः । तथा च व्याप्तिपक्षधर्मता विशिष्टधूमज्ञानज्ञाप्यवहि- त इति बोधः (वाक्य० २ पृ० १५ ) । [झ ] केचित मान्पर्वत वाक्यम् इत्याहुः । अत्रोच्यते असकृदनुचिन्तितानामव्याहततरनि प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनम् । तच्च तत् पदेशानाम् । प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥ इति ( वेदान्त० ) ( वाच० ) । <निग्रहः> १ [क पराजयप्राप्तिः ( वात्स्या० १/२/१९) । क्या साध्ये निश्चितमन्वयेन घटितं बिभ्रत्सपक्षे स्थितिं व्यावृत्तं च विपक्षी भवति यत्तत्साधनं सिद्धये । यत्साध्यं स्वयमेव तुल्यमुभयोः पक्षे विश्व च यत्तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥ ( मुद्रारा० नाट० ५/१० ) इत्यादौ । [ख] खलीकार: ( गौ० वृ० १/२/१९ // [ग] पराहंकारनिराकरणम् इति केचिदाहुः । २ भर्त्सनम् / ३ सीमा । निषिद्धे प्रवृत्तस ४ बन्धनम् । ५ अनुग्रहाभावः । ६ चिकित्सा । ७ तिरस्कारः । ८ मारणे प्रवृत्तिवारणाय निरोधः । ९ निरोधरूपयोग भ्यासवैराग्याभ्यां मनसो निरोधः । यथायोग्यमुदाहरणे यथा निमहा ग्रहे शक्तः प्रभुरित्यभिधीयते इति तस्याहं निग्रहं मन्ये वायोरिव ष्करम् ( गीता० अ० ६ श्लो० ३४ ) इति च ( वाच० , <निग्रहस्थानम्> [क] वादिनोपजयहेतुः शब्दप्रयोगः (त० दी० निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । तल्लक्षणं च उद्देशा गुणसम्यग्ज्ञानाभावलिङ्गत्वम् । प्रतिज्ञाहान्याद्यन्यतमत्वं वा इत्यपि व ( गौ० वृ० १।२।१९ ) । [ ख ] कथायां पराजयहेतुर्वाक्यम् । प्र० पृ० २४ ) । [ग] इष्टार्थभङ्गरूपो विरोधोपि निग्रहस्थानम् तर्कभाषाकृदाह (त० मा० पृ० ५१ ) । [घ ] हेत्वाभासप्रयो (गौ० वृ० ११ १२ १ ) ( त० मा० पृ० ५१ ) ( सर्व० २४३ अक्ष० ) । यथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । ११२/६० ) इत्यादौ । तदर्थश्च विप्रतिपत्तिर्विरुद्धा प्रतिपति अप्रतिपत्तिः प्रकृताज्ञानम् । तथा च विप्रतिपत्ति अप्रतिपत्ति एतदय कुत्सिता वा प्रतिपत्तिविप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं प्रामो रोन्नायकधर्मवत्वम् ( गौ० वृ० १/२/१९ ) । यद्वा विपरीता निप्रहस्थानं खलु पराजयप्राप्तिः । अप्रतिपत्तिस्त्वारम्भविषये न प्रारम्भः । परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति (वात्स्या० १।२।१९)। निग्रहस्थानानि खलु पराजयवस्तून्यपराधाधिकरणानि प्रायेण प्रतिज्ञाद्य- वयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिनं चाभिसंप्लवन्ते ( वात्स्या० ५/२/१ अवतरणम्) । निग्रहस्थानानि द्वाविंशतिधा । प्रतिज्ञाहानिः प्रतिज्ञान्तरम् प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वन्तरम् अर्थान्तरम् निरर्थकम् अविज्ञा- तार्थम् अपार्थकम् अप्राप्तकालम् न्यूनम् अधिकम् पुनरुक्तम् अननु- भाषणम् अज्ञानम् अप्रतिभा विक्षेपः मतानुज्ञा पर्यनुयोज्योपेक्षणम् निरनुयोज्यानुयोगः अपसिद्धान्तः हेत्वाभासश्चेति (गौ० ५/२/१ ) (त० मा० पृ० ५१ ) ( त० दी० पृ० ४५ ) ( प्र० प्र० पृ० २५ ) । <नित्यम्> उत्पत्तिविनाशशून्यं वस्तु । अनवच्छिन्नसद्भावं वस्तु यदेशकालतः । तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८१ शैव० ) । नित्यत्वं च [ १ ] प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रति- १ पृ० ३ ) । उत्पत्तिनाशशून्यत्वम् इति समुदितार्थः । अत्र ध्वंसेति- योगित्वम् ( त० प्र० १ पृ० १८) ( त० प्र० पृ० ४६ ) (वाक्य ० निवेश: ( त० प्र० १ पृ० १८) । यथा परमाण्वाकाशादीनां नित्य- व्याप्तिवारणाय सत्यन्तम् । प्रागभावेतिव्याप्तिवारणाय विशेष्यदलस्य त्वम् । यथा वा ईश्वरस्य तत्साक्षात्कारस्य च नित्यत्वम् । यथा इत्यादौ । [२] ध्वंसाप्रतियोगित्वम् ( त० दी० १ पृ० ७) । वा नित्यः संसर्गाभावोत्यन्ताभावः ( न्या० म० १ पृ० ११ ) च्छिन्नपरंपराकत्वम् । यथा शाब्दिकमते वर्णानां नित्यत्वम् (वाच० ) । प्रध्वंसवत्त्वविरहो वा । यथा केषांचिन्मते ध्वंसस्य नित्यत्वम् । [३] अवि- [ 8 ] कर्मस्तु यदकरणे प्रत्यवायः तत्त्वं नित्यत्वम् ( न्या० म० ४ निमित्तकत्व मिति यावत् । तथा चोक्तं मनुना अकुर्वन् विहितं कर्म पृ० २६) । प्रत्यवायसाधनीभूताभावप्रतियोगित्वमित्यर्थः । नियत- कमेत् । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ॥ फलश्रु ५३ न्या० को० तन्नित्यमिह कीर्तितम् इति ( ति० त० ) ( वाच० ) । इदं च कर्मणां नित्यत्वमिति ज्ञेयम् ( त० प्र० ख० ४ पृ० १०३ ) ( म०प्र०) ( ल० म० ) । यदकरणे प्रत्यवाय इत्यत्राकरणे इत्यस्य विहिततत्कालीता- करण इत्यर्थः । तेन अन्यदा संध्यावन्दनाकरणेपि न क्षतिः (त० प्र० ख० ४ पृ० १०३) । तादृशनित्यत्वस्योदाहरणं यथा अहारः संध्यामुपासीत इत्यादौ संध्योपासनाया नित्यत्वम् इत्याहुः ( ल० म० // अत्रोच्यते नित्यं नैमित्तिकं चैव नित्यनैमित्तिकं तथा । गृहस्थस्य कर्म तन्निशामय पुत्रक । पञ्चयज्ञादिकं नित्यं यदेतत्कथितं तव नैमित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम् ॥ नित्यनैमित्तिकं वय पर्वश्राद्धादि पण्डितैः इति ( श्रा० त० ) ( मार्के० पु० ) ( वाच० /- [ ५ ] नैरन्तर्यमिति काव्यज्ञा आहुः । <नित्यसमः> ( जातिः ) [क] नित्यमनित्यभावादनित्ये नित्यत्वोपपत्ते त समः ( गौ० ५ । १ । ३५ ) । तदर्थश्च [१] अनित्यस्य भावः त्वम् । तस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वं इत्यापादनं नित्यसमः । अयमाशयः । अनित्यत्वस्य नित्यमस्वीक अनित्यत्वाभावदशायां तस्यानित्यत्वं न इति तस्य नित्यत्वापत्तिः स्वीकार इत्यभ्युपगन्तव्यम् । तथा च शब्दस्यापि नित्यत्वापा नहि दण्डाभावदशायां दण्डी इत्युच्यते । अतः अनित्यत्वस्य नियम इत्याचार्याः । [२] वृत्तिकारास्तु अनित्यस्य भावो धर्मस्तस्य निल भ्युपगमे अनित्यत्वेनाभ्युपगतस्य नित्यत्वं स्यात् । यथा क्षितिः सका त्यानित्यक्षितेर्धर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमुपेयते न व चेत् तदा साध्याभावादंशतो बाधः । अथ क्षितौ नित्यमेव सकर्त मुपेयते तदा क्षितेर्नित्यत्वं स्यात् इत्याहुः ( गौ० वृ०) नित्यसमस्योदाहरणं यथा अनित्यः शब्द इति प्रतिज्ञायते । द्धर्मिणोपि सदाभाव इति नित्यः शब्द इति । अथ न सर्वदा अनित्यत्वस्याभावान्नान्नित्यः शब्दः । एवं नित्यत्वेन प्रत्यवस्थाना (वात्स्या० ५।१।३५ ) । अयं नित्यसमश्च आचार्यमते बाधदेश- नाभासः सम्प्रतिपक्षदेशनाभासश्च भवति । वृत्तिकारमते तु विरुद्ध- देशनाभासो भवति इति विज्ञेयम् ( गौ० वृ० ५/११३५) । [ख] धर्मस्य नित्यत्वानित्यत्वविकल्पाद्धर्मिणि नित्यत्वसाधनम् । यथा शब्द यदनित्यत्वं भवद्भिरुच्यते तन्नित्यमनित्यं वा । यदि नित्यम् तदा शब्द- वृत्तेरेव तस्य सदातनत्वाच्छब्दस्यापि तथात्वमागतम् । अथानित्यम् तदा नित्यत्वमिति ( नील० पृ० ४५ ) । [ग] धर्मस्य तदतद्रूपविकल्पानु- शब्दे कदाचिदनित्यत्वाभावोस्तीति नित्य एव शब्दः इत्युभयथापि शब्दस्य पपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ॥ ( तार्किकरक्षा ) । त्रिविधम् । युक्ताङ्ग्रहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति तद्विविधम् । साधारणम् असाधारणं च । तत्राद्यं स्वव्याघातकम् । द्वितीयं ( सर्व० पृ० १५३ पूर्ण० ) । <नित्यसमासः> (समासः ) [ क ] स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यलम्यार्थस्याबोधः सः । यथा कृष्णसर्प निर्मक्षिक असुर इत्यादिः । अत्रोक्तं जयादित्येन विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु । स्वार्थस्या- वोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । अत्र कृष्णः सर्पः मक्षि- काया नि: न सुरः इत्यादितस्तल्लभ्यस्य वैजात्यादेरग्रहात् लक्षणसमन्वयः ( श० प्र० श्लो० ३२ पृ० ४० ) । ख शाब्दिकास्तु समस्य- मानयावत्पदरहित विग्रहवाक्यसूचितः समासविशेष: इत्याहुः ( वाच० ) । दृष्टान्तः । यथोक्तं मायावादिभिः आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवो- दितम् । घटादिवञ्च संघातर्जातावेतन्निदर्शनम् ॥ इति । अत्र भाष्यम् जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो य यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा इति ( शब्दार्थचि ० ) ( वाच० ) । <निदर्शनाभास:> उदाहरण मानः पदार्थः । यथा नित्यः शब्दः अमूर्तत्वात् । यदमूर्ते तन्नित्यं दृष्टम् यथा परमाणुः यथा स्थाली यथा तमः । अम्बर वद्यत् द्रव्य तत् क्रियावद्दृष्टम् इति ( प्रशस्त ० २५०३०) । स च द्विविधः साधर्म्यनिदर्शनाभासः वैधर्म्यनिदर्शनाभास क्षेत ( प्रशस्त ० २ पृ० ४८ ) । <निदिध्यासनम्> [क] श्रुतस्यार्थस्य नैरन्तर्येण दीर्घकालमनुसंधानम् । ( त० प्र० १ पृ० ८) । तल्लक्षणं च निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात् । तन्निदिध्यासनं प्रोक्तं तच्चैकाग्र्येण लभ्यते ॥ इति । तान्यां निर्विचिकित्सेर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यात नमुच्यते ॥ ( पञ्चद० १।५४ ) इति च । ताभ्यां श्रवणमननाभ्याम् ( वाच० ) । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्याति तव्यः ( श्रुतिः ) इत्यादौ ( नील० पृ० ५० ) । [ख] सजातीयज्ञानधाराकरणम् (प० च० पृ० २० ) । [ग] विजातीय <निद्रा> १ मेध्यानाडीसंयोगः । २ योगजधर्मानुगृहीतस्य मनसो प्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणम् इति केचिदाहुः (नीव०) न्द्रियप्रदेशावस्थानम् । योगाचार्यास्तु ३ अभावप्रत्ययालम्बन विशेष: इत्याहुः । अत्र सूत्रम् अभावप्रत्ययालम्बना वृत्तिर्निद्रा (पा सू० १।१० ) इति । विवरणं च जाग्रत्स्वप्नवृत्तीनामभावस्तस्य कारणं बुद्धिसत्त्वाच्छादकं तमः । तदेवालम्बनं विषयो यस्याः सा वृत्तिर्निद्रा इति ( वाच० ) । ४ सुषुप्तिः इति वेदान्तिनः । <निन्दा> दोषवत्तया ख्यापनम् । यथा शुक्लयजुर्याज्ञवल्क्यप्रणीतत्वाल ॥षेयम् इति निन्दा । आरोग्यमाणदोषकथनमिति प्रामाणिकाः / वेदनिन्दारतान्मन् देवनिन्दारतांस्तथा । द्विजनिन्दारतांश्चैव निन्दकेन पूर्वकृतं पुण्यं हन्ति ( पुरु० चि० पृ० ३७ ) । न चिन्तयेत् ॥ ( कूर्मपु० अ० १५) इत्यादौ ( वाच० ) / निन्द्रा <निन्दार्थवादः> [क] अनिष्टफलवादः । स च वर्जनार्थः । नन्द समाचरेत् इति ( वात्स्या० २११/६३ ) । निन्दार्थवादवाक्यं लक्ष निषेध्यस्य निन्दितत्वबोधकतया अर्थवद्भवति इति विज्ञेयम् ( लौ० पृ० ५४ ) । [ ख ] अनिष्टबोधनद्वारा विध्यर्थप्रवर्तकं वाक्यम् । यथा स एष वा व प्रथमो यज्ञो यज्ञानां यज्योतिष्टोमो य एतेनानिष्वाथान्येन यजते (स: ) गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते वा ( श्रुतिः ) इत्येवमादि ( वात्स्या० २१११६४ ) ( गौ० वृ० २।१।६४ ) । [ग] निषेध्यनिन्दापरं वाक्यम् । यथा बर्हिषि रजतं न देयम् इत्यादिनिषेधस्य शेष: सोरोदीत् (तैत्ति० सं० १९५/१/१ ) असृग्धि रजतम् ( शत० ब्रा० ) इत्यादि । अत्राम्नायते सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( तैत्ति ० सं० ११५ ११११ ) इति । अस्मिन्विषये तैत्तिरीयसंहितायां ( १/५/१) कथा श्रूयते । पूर्व देवदैत्यसंग्रामोभूत् । तत्र लब्धं द्रव्यं देवैः कनिष्ठभ्रातु- रग्नेनिकटे निक्षिप्तम् । तद् द्रव्यं गृहीत्वा पलायमानोग्निर्देवैर्निरुद्धः सन्नरो- दीत् । तन्नेत्राश्रुणो जातस्य रजतस्यामङ्गलत्वेन रजतदक्षिणादाननिन्दा इति । असृग्धि रजतं यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति इति (शतपथब्रा० ) ( तै० सं० १/५/१/२) । अस्य वाक्यस्य निषेध्य- रजतनिन्दापरत्वमस्ति ( म० प्र० पृ० ६४) । तथा हि रजतस्या- सूपत्वेना योग्यत्वात् ऋतावृत्विग्भ्यो रजतदक्षिणा मा संवत्सरात्प्राग्रोदनरूपानिष्टबोधनद्वारा बर्हिषि रजतदक्षिणादानं निन्दतीति । यथा वा असत्रं वा एतद्यदच्छन्दोमम् (तैत्ति ० सं० ७ । १४ । २ । ३ ) इत्या- अकरणे असत्रम् इति निन्देयम् इति । [घ ] अनिष्टसाधनत्वबोधन- दिश्च । अत्रायमभिप्रायः । सत्रं छन्दोमसूक्तयुक्तमेव कर्तव्यम् । तथा द्वारा विध्यर्थप्रशंसावचनम् । यथा तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै पुमान् । विषमूत्रभोजनं नाम प्रयाति नरकं ध्रुवम् ॥ इत्यादि । नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुम् इति न्यायो- नुसंधेयः ( वाच ० ) । <निपात> अधोदेशसंयोगानुकूलव्यापारः । यथा पयोधरोत्सेधनिपात- (शाकु० अ० १) इत्यादौ । २ ( शब्दः ) यः शब्दः केवले यादृश स्वा चूर्णिता: (कुमार० ५१२४ ) क च निशितनिपाता वज्रसाराः शरा शब्दान्तरार्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुबादिप्रत्ययेभ्यः प्रत्येकं भिन्नः स तादृशार्थे भेदेनान्वयबोधं प्रति योग्ये निपातः । निपतत्यपू वचेषु इति निपातः (निरुक्ते ) । कर्तरि ज्वलादि० णः (पाणि० ० ( वाच० ) । यथा चादयो निपाताः स्वार्थे समुच्चयादौ नामाद्यर्थस्या ३।१।१४० ) । नानाविधार्थेषु वृत्त्या स्वार्थबोधकतया पतनशील इस देनान्वयबोधं प्रत्ययोग्याः । अत्र विप्रतिपत्तिः चादयो निपाता: स वाचकत्वात् । प्रादय उपसर्गो एव द्योतकाः इति नैयायिका आहुः । प्रादय उपसर्गो इव चादयो निपाता अपि द्योतका एव इति शाब्दिका मेनिरे ( वै० सा० निपा० पृ० ३३८ ) । अत्र केचिच्छान्दिका नागोजीभट्टादयः उपसर्गातिरिक्तनिपातानां द्योतकत्ववाचकत्वोभय स्वीकार इति अव्ययं विभक्तिसमीप (पा० सू० २/१।६) इति सूत्रस्थभाष्ये स इत्याहुः ( वाच० ) । स चायं निपातः च तु नञ् पुनः इव एवम स्म इत्यादिभेदाद्बहुविधः ( श० प्र० श्लो० १० टी० पृ० १२) / निपातत्वं च असत्त्वार्थकत्वे सति चादिगणपठितत्वम् इति शाब्दि आहुः । नैयायिकास्तु शक्तिसंबन्धेन निपातपदवत्त्वम् इत्याहुः । सा० निपा० पृ० ३३५ ) । <निपातनम्> ( शब्द: ) [ क ] अन्यथा प्राप्तस्यान्यथोच्चारणं निपात [ख शास्त्रान्तराप्राप्तकार्यघटितोच्चारणवत् शब्दस्वरूपम् ॥ वर्णागमादिना अन्यथोत्पद्यमानः सूत्रानिष्पाद्यः शब्दविशेषो निपाता यथा हंस सिंह इत्यादिशब्दः । तदुक्तम् भवेद्वर्णागमाद्धंसः सिंहो विपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥ इति (सि० कौ० ) विकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुद वर्णागमादिप्रकारश्च स्मर्यते । वर्णागमो वर्णविपर्ययश्च द्वौ चापरीव इति ( सारस्वत० ) । अत्रार्थे व्युत्पत्तिः निपतति स्वावयववर्णविनार दिनान्यथा निष्पद्यते इति निपातः (कर्तरि ज्वलादि० णः) (वाचन <निबन्ध:> १ एकग्रन्थोपनिबन्धनम् । यथा प्रमाण प्रमेययोन्यथ निबन्धनम् ( गौ० वृ० ३।२।४२ ) । २ कालविशेषे देयत्वेन प्रति वस्तु । यथा दद्याद्भूमिं निबन्धं वा कृत्वा लेख्यं च लेखयेत् इत्यादौ ३ परिगणितं द्रव्यम् । यथा भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ( याज्ञ० अ० २ श्लो० १२४ ) इत्यादौ इति व्यवहारज्ञा आहुः । अत्र मिताक्षरा निबन्ध: एकस्य पर्णभारकस्येयन्ति पर्णानि तथा एकस्य क्रमुकफलभारकस्येयन्ति ऋमुकफलानि इत्याधुक्तलक्षणः ( याज्ञ० मि० २ श्लो० १२४ ) इति । ४ मूत्ररोधरूपो रोगविशेषः इति भिषजः । ५ बन्धनम् ६ ग्रन्थः ग्रन्थविशेषश्च । <निबन्धनम्> १ [क प्रयुक्तम् । यथा वातादिनिबन्धनं दुःखमित्यादौ । [ख] जन्यम् । २ हेतुभूतम् । अत्रार्थे व्युत्पत्तिद्रष्टव्या निबध्यतेनेना बा इति । ३ वीणायास्तन्त्रीनिबन्धनमूर्ध्वभागः इति गायका आहुः ( वाच० ) । <निमन्त्रणम्> आवश्यके कर्मणि श्राद्धभोजनादौ प्रवर्तकं वाक्यम् । यथो निमन्त्रयेत पूर्वेधुर्ब्राह्मणानात्मवाञ्छुचिः ( याज्ञ० ११२२५ ) इति ब्राह्मणप्रतिवेश्यानामेतदेवानिमन्त्रणे ( याज्ञ० २/२६३ ) इति । च । तच्च निमन्त्रणम् भवतात्र भोक्तव्यम् इत्यादि वाक्यम् ( श० १०० टी० पृ० १५५ ) । अत्रोच्यते यस्याकरणे प्रत्यवायस्तत् निमन्त्रणम् इति । एतच्च नित्यम् । अत्र नित्यत्वं च णार्थ दूतांश्च प्रेषयामास शीघ्रगान् ( भार० व० अ० २२५) <निमन्त्रितत्वम्> स्वकर्तव्यत्वप्रकारकधीजनकमप्रत्याख्येयं यद्वाक्यम् तत्प्रति- पाद्यत्वम् । यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम् इत्यादौ श्राद्धे स्वपदं निरुक्त प्रतिपाद्यत्वाभिमतभवदादिपरम् । अप्रत्याख्येयत्वं च प्रत्यवाय- भोजनाय निमन्त्रितो भवान् इत्यनुभवान्निमन्त्रितत्वं लिडर्थः । अत्र जनक प्रत्याख्यानकत्वम् । तादृशधीजनकवाक्यं च भवतात्र भोक्तव्यम् इत्यादिकं निमन्त्रणरूपम् । तत्प्रतिपाद्यो भवदादिः इति ज्ञेयम् । श्राद्ध- सुपक्रम्य अनिन्दितेनामन्त्रितो नापगच्छेत् इति श्रुतेः सवेन तत्प्रत्या- इति वृद्धस्मरणं ज्ञेयम् । श्राद्धे भुजीत भवानित्यत्र लिडर्थनिमन्त्रितत्वैकदेशे स्वकर्तव्यत्वबोधे धात्त्रर्थो विशेष्यत्वेनान्वेति । तथा च श्राद्धभोजनधर्मिया या स्वकर्तव्यत्वधीः तज्जनकवाक्यप्रतिपाद्यो भवान् इत्याकारो बोध: ( श० प्र० श्लो० १०० टी० पृ० १५५-१५६) । <निमित्तमात्रगुणत्वम्> असमवायिकारण भिन्नत्वे सति निमित्तकारणगुण- त्वम् ( ल० व० पृ० ३७ ) । यथा आत्मविशेषगुणानां ज्ञानादीन निमित्तगुणत्वमेव । <निमित्तम्> १ ( कारणम्) समवायिकारणभिन्नमसमवायिकारणभिन्नं कारणम् । यथा तुरीवेमादिकं पटस्य दण्डचक्रादिकं च घटस्य निर्मित कारणम् ( त० सं० ) ( त० कौ० पृ० ८ ) । यथा वा आफ्न विशेषगुणा निमित्तकारणानि ( भा०प० गु० श्लो० ८८-८९ तद्वदित्यर्थः ( त० कौ० १ पृ० ८) । स्वगतरूपस्य समवायिकर समवायिकारणताभिन्ना असमवायिकारणताभिन्ना च या कारण दण्डादौ यथाश्रुतलक्षणासत्त्वेन नातिव्याप्तिः इति ज्ञेयम् । मित्वे सति यत्कारणं तन्निमित्तकारणम् इति मध्वमतानुयायिन ( प्र० च० पृ० १४ ) । २ प्रयोजकम् । यथा रोधने बन्धने चा योजने च गवां रुजः । उत्पाद्य मरणं वापि निमित्ती तत्र लिप्यते (अङ्गिर० ) इत्यादौ । ३ ज्ञापकम् । यथा शकुनादि कार्यवि ( स्मृतिः ) निमित्तानि च पश्यामि विपरीतानि केशव (गीता० ११३८ निमित्तम् । अत्रोदाह्रियन्ते यथा निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेत मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् (गीता० ११/३ अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह ( ति० त० भविष्यपु इत्यादीनि ( वाच० ) । यथा वा अनियतनिमित्तकं । नैमिति नैमित्तिकं इत्यादौ पुत्रजन्मग्रहणादि जातेष्टिस्नानादौ निमित्तम् ( म० प्र० : ६० ) । अत्रोच्यते निमित्तमात्रमाश्रित्य यो धर्मः संप्रवर्तते । १०४ शाब्दिकास्तु उद्देश्यम् फलं वा । यथा निमित्तात्कर्मयोगे स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥ इति ( मल० त० ) (वाच० वार्तिके निमित्तं फलम् इत्याहुः (सि० कौ० ) । ५ शरव्यम् इति काव्यज्ञा आहुः ( वाच ० ) । <निमित्तत्वम्. १ [ क ] क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषय- त्वम् । यथा चर्मणि द्वीपिनं हन्तीत्यादौ चर्मादीनां निमित्तत्वम् ( गदा ० व्यु० कार० ७ पृ० ११६) । अत्र विनियोज्यत्वेनेच्छा च इदं चर्म हननेन मम प्राप्यताम् इति प्राप्यत्व प्रकारकेच्छा । तथा च चर्मणि द्वीपिनं हन्तीत्यादौ हननादिक्रियाजनिका या विनियोज्यत्वेनेच्छा तद्वि- यत्वं चर्मादौ निमित्तत्वम् इति विज्ञेयम् । समुदितश्लोकस्तु चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हतः ॥ इति ( सि० कौ० ) । सीमा अण्डकोशः । पुष्क- लको गन्धमृगः । अत्र निमित्तात्कर्मयोगे (वार्तिकम् ) इत्यनेन सप्तमी यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तदर्थश्च - रूपकर्मयोगे निमित्ताञ्चर्मादिरूपात्सप्तमी । निमित्तं हि फलम् । योगस्तु निमित्तत्त्वं बोधयति । तथा च सप्तम्यर्थः स्वविषयकतादृशेच्छाधीनत्वम् । संयोगः समवायो वेति । इयं सप्तमी प्रकृत्यर्थचर्मादेर्हननादिक्रिया- तस्य क्रियायामन्वयः । तदेकदेश विषयितायां निरूपकत्वेन प्रकृत्यर्थस्या- न्वयः (ग० व्यु० का० ७ पृ० ११६ ) ( का० व्या० पृ० ११ ) । स्वपदार्थश्चर्म । एवं च चर्मादिविषयकेच्छाधीना या व्याघ्रकर्मिका हनन- क्रिया तत्कर्ता इति वाक्यार्थबोधः । [ख फलत्वेनेच्छाविषयत्वम् । यथा चर्मणि द्वीपिनं हन्तीत्यादौ सप्तम्यर्थः । अत्रायं विशेषो ज्ञेयः । चर्मा- तथा च चर्मप्रकारकेच्छा प्रयोज्यद्वीपिहननानुकूलकृतिमान् इति बोध: उद्देश्यत्वं वा निमित्तत्वम् । यथा निमित्तात्कर्मयोगे इत्यादौ इत्याहुः । इति ( का० व्या० पृ० ११ ) । ग] शाब्दिकास्तु फलत्वम् २ फलत्वेनेच्छा । यथा मशकनिवृत्तौ धूमं करोतीत्यादौ सप्तम्यर्थः । संबन्धेन करोतीत्यर्थेन्वयः । तथा च मशकनिवृत्तीच्छा प्रयोज्यधूमकरणा- अन मशकनिवृत्तिः फलम् । सप्तम्यर्थस्य मशकनिवृत्तीच्छायाः प्रयोज्यत्व- श्रयः इति बोधः (का० व्या० पृ० ११ ) । ५४ न्या० को० <निमेष:> लघ्चक्षरसमा मात्रा निमेषः परिकीर्तितः (अहोरात्रशब्दे दृश्यम्) । <नियतत्वम्> १ व्यापकत्वम् । यथा नियतसामानाधिकरण्यं व्याति इत्यादौ वर्धूमव्यापकत्वम् ( न्या० बो० २ पृ० १४ ) ( नील० १ पृ० २० ) । यथा वा अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता कारणत्वं भवेत् ( भा० प० श्लो० १६) इत्यत्र कारणभूतदण्डादिगत पूर्ववृत्तित्वस्य घटादिकार्यनियतत्वम् । अत्र सामानाधिकरण्यसंबन्धेन दण्डादौ कार्य तत्र स्वरूपसंबन्धेन पूर्ववृत्तित्वम् इति रीत्या व्याप्तेः सत्ते पूर्ववृत्तित्वस्य व्यापकत्वं बोध्यम् । २ नियमयुक्तत्वम् इति योगिन आ <नियमः> १ [क ] तद्वदन्यावृत्तित्वम् । व्याप्तिरिति यावत् । सिद्धा० ) । यथा कार्ये कारणनियमः इत्यत्र कार्ये कारणवदन्यावृत्ति ( ग० सप्र० पृ० २२ ) । यथा स्वसाध्यविपरीतेनानियमात् (विश् रूपो नियमः । यथा धूमे वह्निमदन्यावृत्तित्वम् । [ख ] व्याप्यात सत्प्र० पृ० ९७ ) इत्यादौ । ग तन्मात्रसत्त्वम् । यथा साहन नियमः इत्यादौ ( वाक्य० २ पृ० १३) । अत्रायमर्थः / साह साध्यनिष्ठ हेतुसामानाधिकरण्यम् । तन्नियमः तन्मात्रसत्त्वम् / सत्त्वमिति यावत् । विरोधि च हेतुसमानाधिकरणाभावप्रतियोगित्व यादशवर्यादृशधूमसाहचर्य तस्मिन्न तदव्यापकत्वम् इति विरोध पृ० १३ ) । २ व्यापकत्वम् । ३ धर्मज्ञास्तु प्रत्यवायजन की भूता अनुगतैकव्यक्तौ तु एकाधिकरणावच्छेदेनासत्त्वम् विरोधः इति (वाक्य प्रतियोगित्वम् । अयोगव्यवच्छेद इति पर्यवसितोर्थः । यथा स्वदारानुपेयादित्यादौ लिङर्थ इत्याहुः । अत्र नियमार्थैकदेशे म वायजनकी भूताभावस्य प्रतियोगि स्वदारगमनम् इत्याकारको ऋत्वादिकालस्यावच्छेदकत्वेनान्वयात् ऋतुकालावच्छेद्यत्वविशिष्टस्य यद्वा प्रत्यवायहेतुत्वम् अभावश्च द्वयं तत्र लिङर्थः । तेन प्रतियोगि बोधनात् ऋतुकालावच्छेद्यः स्वदारगमनाभावः प्रत्यवायहेतुः धात्वर्थयावच्छेद्यत्वेन च कालस्यान्वयिन्यभावे लिङा प्रत्यवायहे एव तत्र बोध: ( श० प्र० श्लो० १०० टी० पृ० ४ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ( पात ० योगसू० २ (३२) इति योगाङ्गविशेषाः इति योगिन आहुः ( गौ० वृ० ४ । २१४४ ) । ५ तत्तद्व्यापारेषु भगवत्प्रेरणम् इति वेदान्तिनो मध्वाचार्य- नुयायिनः प्राहुः । ६ प्रतिज्ञा । ७ स्वीकारः । ८ आगन्तुकसाधन- कर्मरूपं व्रतम् । ९ नियन्त्रणा । १० निश्चयः इत्यादि ( वाच० ) । <नियमविधिः> ( विधिः ) [क] यत्रोभयोः प्राप्तावेको नियम्यते तत्र नियम विधिः । यथा श्रीहीनवहन्ति ( श्रुतिः ) इत्यादौ ( सि० च० ४ टी० पृ० १७८ ) । अत्र व्रीहिषु नखविदलनमुसलावहननयोः प्राप्तौ मु- पृ० ३३ ) । अत्र नियमः अयोगव्यवच्छेदः ( श० प्र० श्लो० १०० सलावहननमेव नियम्यते ( सि० च० ४ पृ० ३३ ) । नियमविधेः प्रयोजनं च एतद्विध्यभावे दर्शपूर्णमासादिकेषु व्रीहिषूत्पत्तिवाक्यात- पुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यकार्यायावहननवत् कदाचिन्न- न्यथोपपत्तेरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सत्यस्मिन्विधौ अवहनने- खविदलनमपि प्राप्नुयादिति तस्मिन्पक्षे अवहननस्य प्राध्यभावात् कार्या- नैव वैतुष्यं कार्यम् इति नियमे सति विदलनं सर्वात्मना नियमविधिरयम् । न च वैतुष्यस्य नखविदलनेनापि संभवादवहन- नियमो व्यर्थः । प्रयोजनाभावादिति वाच्यम् । अवघातेनैव वैतुष्यकरणे [ख] पक्षे अप्राप्तस्य नियामको विधिः । यथा व्रीहीनवहन्ति इति किंचिदृष्टं जन्यत इत्यदृष्टाङ्गीकारात् ( मीमां० परि० ) ( वाच० ) । ( म० प्र० ४ पृ० ६२ ) । [ग ] नानासाधनसाध्यक्रियायामेक- ( लौ० भा०] पृ० ३९ ) । [घ ] यो विधिः पक्षे अप्राप्तमर्थं नियम- साधन प्राप्ताव प्राप्तस्यापरसाधनस्य प्रापको विधिः इति मीमांसका आहुः यति सः । यथा श्रीहीनवहन्ति इति ( मीमां० परि० ) । [ ] अन्य- .निवृत्तिफलक सिद्धविषयक विधिर्नियमविधिः इति शाब्दिका वदन्ति । परे तु यत्र क्रियायां विकल्पेन कारकान्वयः सः । यथा याजनाध्यापन- प्रतिग्रहैब्रह्मणो धनमर्जयेत् इत्यादौ नियमविधिः इत्याहुः ( त० प्र० ख० ४ पृ० १०८ ) । <नियामकत्वम्> १ प्रयोजकत्वम् । २ नियमकारकत्वम् । यथा कारणस्य कार्य प्रति नियामकत्वम् इत्यत्रादृष्टकालादेः कार्यमात्रं प्रति नियामकत्वम् / ३ निरासकत्वम् । यथा लोकप्रसिद्धमेवैतद्वारि वहेर्नियामकम् ( कामन्द०) । इत्यादौ ( वाच ० ) । <नियोगः> १ [क] एवं कुरु इत्याज्ञा ( कि० व० ६ ) । यथा पुत्रो त्पादनाय विधवाया नियोजनम् । अत्रोच्यते । उक्तो नियोगो मनुना / निषिद्धः स्वयमेव हि इति ( बृहस्पतिः ) । तथा हि नान्यस्मिन् विधा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मे हत्यु / सनातनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् / न विवाह, विधायुक्तं विधवावेदनं पुनः ॥ इति (मनु० अ० ९ श्लो० [ख] प्रेरणम् । [ग] इष्टसाधनत्वादिबोधनेन प्रवर्तनम् । [१] केचित्तु प्रवर्तकज्ञानोपधायकता निर्वाहकव्यापारः । यथा स्वर्गकामो यजेत / इत्यादौ योग्यतया नियोगो बोध्यत इत्याहु: ( वाच० ) / २ अवधार/ णम् । यथा तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ( रघु० २ श्लो० ४९ ) इत्यादौ । अत्र कौटिल्यः अनेनैवोपायेन नान्येन इति/ नियोगः इति ( रघु० टी० जकत्वम् ( त० प्र० ख० ४ पृ० १११) । <नियोजकत्वम्> तत्कामिकृतिसाध्यतया प्रतीयमानत्वम् (न्या० म० / पृ० ६३ ) । यथा प्राभाकरमते विध्यर्थस्या पूर्वात्मकस्य कार्यस्य नियो। <नियोज्यत्वम्> [क] प्रवर्तनीयत्वम् । तच्च प्रवर्तना कर्मत्वम् / प्रवर्तन / स्वर्गकामो यागे नियोज्य: (चि० ४ ) । [ख ] केचित प्रवर्तकज्ञानो कर्मत्वं तज्जन्य प्रवृत्तिमत्त्वम् ( वाच० ) । यथा स्वर्गकामो यजेत इसारो <निर्> (अव्ययम् ) १ वियोगः । यथा निःसङ्ग इत्यादौ । २ अत्ययः // पधायकत्वम् इत्याहुः ( वाच० ) । इत्यादौ । यथा निर्मेघम् इत्यादौ । ३ आदेशः । यथा :) ४ अतिक्रमः । यथा निष्क्रान्तः इत्यादौ । ५ भोगः । इत्यादौ । ६ निश्चितम् । यथा निश्चितमित्यादौ ( गणरत्न ० ) । ७ निषेधः । यथा निर्मक्षिकम् इत्यादौ । अयं शब्दः प्रादिः सान्तो रान्तश्चेति विज्ञेयम् (वाच ० ) । <निरनुयोज्यानुयोग:> (निग्रहस्थानम् ) [ क ] अनिग्रहस्थाने निग्रह- स्थानाभियोगो निरनुयोज्यानुयोगः ( गौ० ५/२।२२ ) । निग्रहस्थान- लक्षणस्य मिथ्याध्यवसायाद निग्रहस्थाने निगृहीतोसीति परं ब्रुवन्निर- योज्यानुयोगान्निगृहीतो वेदितव्य इति ( वात्स्या० ५/२/२२ ) । अवसरे यथार्थनग्रहस्थानोद्भावनातिरिक्तं यन्निग्रहस्थानोद्भावनं तत् इत्यर्थः । एतेन अवसरे निग्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावनेच नातिव्याप्तिः (गौ० वृ० ५।२।२२) । [ख] निग्रहस्थानरहिते निग्रहस्थानो- द्भावनम् (नील० पृ० ४६ ) । सोयं चतुर्धा । छलम् जातिः आभासः अनवसरग्रहणं च ( गौ० वृ० ५/२/२२ ) ( दि० १ ) ( ता० २० <निरर्थकम्> १ ( निग्रहस्थानम् ) अस्य संभवः प्रमादात् इत्यवधेयम् परि० ३ श्लो० १५१ ) ( सा० सं० पृ० ११७ ) । (गौ० वृ० ५/२१८ ) । [क] वर्णक्रमनिर्देशवन्निरर्थकम् (गौ० ५२१८ ) । तदर्थश्च वर्णानां क्रमेण निर्देशो जबगडेत्यादिप्रयोगः तत्तुल्यो निर्देशः इति ( गौ० वृ० ५/२१८ ) । यथा नित्यः शब्दः कचटतपाः जबगडदश्त्वात् झभञ्घढधष्वत् इति । एवंप्रकारं निरर्थ- कम् । अभिधानाभिधेयभावानुपपत्तावर्थग तेरभावाद्वर्णा एव निर्दिश्यन्त इति (वात्स्या० ५१२१८ ) । [ख समयबन्धव्यतिरेकेणा- व्यतिरेकेणेति विशेषणदानेन यत्र अपभ्रंशेन विचारः कर्तव्यः इति वाचकपदप्रयोगः ( गौ० वृ० ५/२१८ ) ( दि० १) । समयबन्ध- शास्त्रपरिभाषया वा बोध्यम् ( गौ० वृ० [५/२१८ ) । [ग] अवा- समयबन्धस्तत्रापभ्रंशे न दोषः । अत्र वाचकत्वं शक्त्या निरूढलक्षणया चकशब्द प्रयोगः अत्रोच्यते । यथा शब्दो नित्यः जबगडदस्त्वात् इत्यादि ( नील पृ० ४५ ) । २ काव्यदोषविशेषः इत्यालंकारिका आहुः । निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् इति ( चन्द्रा० ) । ३ निष्फलम् । यथा प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः (भा० उ० अ० ३५) । इत्थं जन्म निरर्थकं क्षितितलेरण्ये यथा मालती ( सा० द० ) इत्यादौ । इति काव्यज्ञा आहुः ( वाच० ) । <निराकाङ्क्षम्> अनाकाङ्क्षम् । शाब्दबोधोपयोग्याकाङ्क्षाशून्यमिति यावत् । । यथा तेषां वाक्यं निराकाङ्क्षम् ( काव्या० श्रौ० १/३/२) इत्यादौ । <निरिष्टकः> पुनः प्रयोगार्ह इत्यर्थः । इष्टान्निर्गतो निरिष्टः / कुन्सियो / निरिष्टो निरिष्टकः इति व्युत्पत्तेः । यथा भोजन उपयुक्तं कदलीपणे / प्रक्षाल्यापि न पुनस्तच्छिष्टाः स्वीकुर्वन्ति ( जै० न्या० अ० ११ / पा० ३ अधि० १२) । <निरुद्धम्> निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धमिति भाव्यते । ( सर्व० सं० पृ० ३५६ पातञ्ज० ) । <निरुपाख्यम्> [क ] निःस्वरूपम् ( रत्नप्रभा ० ) । [ ख ] प्रमाण / मात्राविषयोसत्पदार्थः । यथा वन्ध्यापुत्रशशशृङ्गकूर्मरोमादि । लीकमित्युच्यते । तुच्छमिति वेदान्तिभिरुच्यते । अभावपदार्थ दूरी । <निरूढः> १ शक्तितुल्यलक्षणयार्थबोधकः शब्दः । यथा पूर्वदव्य स्वाति / संबन्धाधीनं तत्स्वाम्युपरमे यत्र द्रव्येन्यस्वत्वम् तत्र निरूढो दायराव्य / केचिदाहुः । पशुपागविशेषः । यथा निर्मित ऐन इति जीमूतवाहनेनोक्तो निरूढशब्दः ( वीरमित्रो० अ० पृ० ५२२ ) । २ धर्मज्ञास्तु दायभाग० इत्याहु: ( वाच० ) । ( आश्व० श्रौ० ३।८४ ) ऐन्द्रानो निरूढो नाम पशुः कर्तव्यः इत्यारो <निरूढलक्षणा> ( लक्षणा ) [ क ] अनादितात्पर्यविषयीभूतार्थविका लक्षणा (त० प्र० ख० १ पृ० ४३ ) ( ग० व्यु ० अत्र तात्पर्येनादित्वं च स्वज्ञानजन्यशाब्दबोधध्वंसकालीन स्वज्ञान शाब्दबोधसामान्यकत्वम् ( कृष्णं० ) । तदन्वयश्च अनाविता वरिच्छा तद्विषयीभूतो योर्थः तन्निष्ठा शक्यसंबन्धरूपा लक्षणा इति । यथा रथो गच्छतीत्यादौ तिबाख्यातस्याश्रयत्वे निरूढलक्षणा (दि० ४ पृ० १७५ ) । यथा वा कर्मणि कुशल इत्यादौ । अत्र कुशांल्लाति इति व्युत्पत्त्या कुशलपदं दर्भादानकर्तरि यौगिकम् । विवेचकत्वसारूप्या- प्रवीणे वर्तमानमनादिवृद्धव्यवहार परंपरानुपातित्वेनाभिधानवप्रयोजन- मनपेक्ष्य प्रवर्तते (सर्व० पृ० ३७३ पात० ) । [ख] लक्ष्यताव- च्छेदकीभूततत्तद्रूपेण पूर्वपूर्वी प्रत्यायकत्वान्निरूढा । यथा अरुणय पिङ्गाक्ष्या एकहायन्या ( गवा ) सोमं क्रीणाति इत्यादावारुण्यादिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य आरुण्ये निरूढलक्षणा ( श० [ग] केचित्तु ( शाब्दिकादयः ) व्याकरणकोशादिहेतुतः प्रसिद्धार्थे प्र० श्लो० २४ टी० पृ० ३१ ) ( लौ० भा० पृ० १७-१८) । निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् (सर्वे० पृ० ३७४ पात ० ) । शक्तितुल्या लक्षणारूपा शब्दस्यार्थबोधनशक्तिः इत्याहुः (वाच०) । [घ ] <निरूढि:> १ निरूढलक्षणा । २ काव्यज्ञास्तु प्रसिद्धिः । यथा चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता ( किरात० स० २ श्लो० ४ ) इत्यादा वित्याहुः । <निरूपकत्वम्> १ स्वरूपसंबन्धविशेषः । यथा दण्डो घटस्य कारणम् इत्यादी घटनिष्ठकार्यतानिरूपकत्वं दण्डनिष्ठकारणतायाम् । यथा वा इत्यादौ भूतलनिष्ठाया आधारताया निरूपकत्वं घटनष्ठा- घेयत्वे । यथा वा घटस्य ज्ञानम् इत्यादौ ज्ञाने घटनिष्ठविषयतानिरूपक- त्वम् । एवमन्यत्रापि निरूप्यनिरूपकभावो ज्ञेयः । अत्रायं नियमः यनि- ( ग० अव० हेतु ० ) । यथा वृक्षाद्विभजेत इत्यादौ विभागस्य वृक्ष- <निरूपणम्> १ ज्ञानानुकूलशब्द: । लक्षणस्वरूप प्रामाण्यादिप्रकार कज्ञान- निष्ठावधितानिरूपकत्वम् । ३ प्रतियोगित्वम् इति केचिदाहुः । नुकूल व्यापारः इति फलितोर्थः ( त० प्र० ख० ४ पृ० ३ ) (दायमा ० श्रीकृष्ण ० ) । यथा अथ शब्दो निरूप्यते ( न्या० म० ४ पृ० १ ) इत्यादौ । यथा वा द्रव्यं निरूपयतीत्यादौ निरूपयत्यर्थः । अत्र तारा. / विशिष्टैकार्थस्य धात्वर्थस्य एकदेशे ज्ञानांशे द्रव्यस्य द्वितीयार्थविषयताः । निरूपित विषयितयान्वयः ( ग० व्यु० का० २ पृ० ४६ ) । तथा च / द्रव्यविषयकज्ञानानुकूलशब्दप्रयोगकर्ता इति बोधः । यथा वा हेत्वाभासास्तत्त्वनिर्णयप्रयोजकत्वान्निरूप्यन्ते ( चि० २) इत्यादौ ॥ अत्रेदं बोध्यम् । निरूपणप्रतिज्ञाफलं तु शिष्यावधान मेवेति ( म पृ० ३३ ) । २ विचार: । ३ निदर्शनम् । ४ आलोकः इति का रहा. आहुः ( वाच० ) । <निरूपितत्वम्> स्वरूपसंबन्ध विशेषः । यथा राज्ञः पुरुष इत्यादौ पुरुषि स्वत्वे राजनिष्ठस्वामित्वनिरूपितत्वम् । शिष्टं तु निरूपकत्वशब्दे <निरूप्यत्वम्> निरूपितत्वम् । <निरोधः> चित्तस्यावस्थाविशेषः । निरुध्यन्तेस्मिन्प्राणाद्या श्चित्तवृत्तयः व्युत्पत्तेः ( सर्व० सं० पृ० ३६५ पातञ्ज ० ) । <निर्गम:> पुत्र्युद्वाहस्तु निर्गमः ( पु० चि० पृ० ४५०)" हरी <निर्जरः> आस्रवः कर्मणां बन्धो निर्जरस्तद्वियोजनम् (आईतदर्शनम्। <निर्जर> क] अर्जितस्य कर्मणस्तपःप्रभृतिभिरि तत्त्वम् ( सर्वे० पृ० ८० आई० ) । [ ख ] यत्कर्म तपोबलात् नयोदयावलिं प्रवेश्य प्रपद्यते तत्कर्म निर्जरा । यदाह संसार बनिय तानां कर्मणां जरणादिह । निर्जरा संमता द्वेधा सकामाकामनिर्जरा ॥" सकामा यमिनामकामा त्वन्यदेहिनाम् इति (सर्व० सं० पृ०० <निर्णयः> १ [क] तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् (गौर निर्जल द्विविधम् । प्रत्यक्षम् अनुमानं च । तत्राद्यं यथा स्थाणुपुरुषयोता अत्रोच्यते । निर्णयो विशेषदर्शनजमवधारणम् संशयविरोधि । पुरुषो वा इति संशयोत्पत्तौ शिरः पाण्यादिदर्शनात् पुरुष एवायम् इत्य- वधारणज्ञानं प्रत्यक्षनिर्णय: । द्वितीयं यथा विषाणमात्रदर्शनात् गौर्गवयो वा इति संशयोत्पत्तौ सास्त्रामात्र दर्शनात् गौरेवायम् अनुमाननिर्णयः इति ( प्रशस्त ० २ पृ० ३२ ) । [ख] विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ( गौ० १।१।४१ ) । तदर्थ विमृश्य संदिह्य पक्ष प्रतिपक्षाभ्यां साधनोपालम्भाभ्यामर्थस्यावधारणम् । तदभावाप्रकारकं तत्प्रकारकं ज्ञानमित्यर्थः । यद्यप्येतावदेव निर्णय- सामान्यलक्षणं तथापि विमृश्येत्यादिकं जल्पवितण्डास्थलीयनिर्णयमधिकृत्य । तदुक्तं भाष्ये शास्त्रे वादे च विमर्शवर्जमिति । एवम् प्रत्यक्षतः शब्दाच । निर्णये न विमर्शपक्षप्रतिपक्षापेक्षेति ( गौ० वृ० ११ १/४१ ) ( वात्स्या १।१।४१ ) । अत्रायं विशेषो ज्ञेयः । निर्णयस्तत्त्वज्ञानम् प्रमा- निर्णयस्तत्त्वज्ञानम् प्रमाणानां फलम् । तच्च यदा वस्त्वन्तरपरिच्छेद- णानां फलम् (वात्स्या० १।९।१ पृ० ६ ) ( त० भा० पृ० ४४ ) । हेतुत्वेन नोपादीयते तदा फलम् । यदा तेन परिच्छिनत्ति तदा प्रमाणम् इति न व्यवतिष्ठते प्रमाणफलभावः ( न्या० वा० १ पृ० १९) । स्थापना साधनम् । प्रतिषेध उपालम्भः । तौ साधनोपालम्भौ पक्षप्रति- पक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावित्युच्येते । तयोर- न्यतरस्य निवृत्तिरेकतरस्यावस्थानमवश्यंभावि । यस्यावस्थानं तस्यावधारणं इति मीमांसका आहुः । अत्रोच्यते । विषयो विशयश्चैव पूर्वपक्षस्तथोत्त- (वात्स्या० ११ १२ १४९) । [ग] यथार्थानुभवपर्याया प्रमिति - <निर्देशः> ( सर्व० सं० पृ० २३९ अक्षपा० ) । २ अधिकरणाङ्ग विशेषः रम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेधिकरणं स्मृतम् ॥ इति । ३ सिद्धान्त- यथा अनुनासिक इति निर्देशात् इत्यादौ निर्दिश्यमानस्यादेशा भवन्ति क्रमनिर्देश वन्निरर्थकम् ( गौ० ५/२१८) इत्यादौ । [ ख ] उच्चारणम् । (सि० कौ० ) इत्यादौ च । ग यत्किंचिदर्थप्रतिपादकः शब्दः । सिद्धविचार्यवाक्यतात्पर्यावधारणमिति सांख्या आहुः ( सांख्य० कौ० ) । यथा साध्यनिर्देशः प्रतिज्ञा ( गौ० ११ १२ १३३ ) इत्यादौ । [६] प्रतिपादकः शब्दः । यथा ॐ तत्सदिति निर्देशो ब्रह्मणविविधः स्मृतः ( गीता अ० १७ श्लो० २३) इत्यादौ । २ निर्णयेन कय / नम् । यथा अतुषत्पीठमासन्ने निरदिक्षच काञ्चनम् (भट्टि ) इत्यादी । ४ शासनम् आज्ञा । ५ वेतनम् । यथा कालमेव / प्रतीक्षेत निर्देशं भृतको यथा ( पुराणम् ) इत्यादौ ( वाच० ) । <निर्धनः> भार्या दासश्च पुत्रश्च निर्धनाः सर्व एव ते । यत्ते सहाधि/ गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ( जै० सू० वृ० अ० ६ पा० / / सू० १३ ) । <निर्धर्मकत्वम्> १ किंचिन्निष्ठप्रकारत्वा निरूपकत्वम् । यथा निर्विकलक ज्ञानस्य निर्धर्मकत्वम् । २ मायावादिनस्तु स्वभिन्नधर्मशून्यत्वम् / यथा । ब्रह्मणो निर्धर्मकत्वम् इति वदन्ति ( दि० १ ) । <निर्धारणम्> [क] विशेषस्य स्खेतरसामान्यव्यावृत्तधर्मवत्त्वम् // नराणां क्षत्रियः शूरतमः नरेषु वा इत्यत्र ( श० प्र० लो० ९३ / टी० पृ० १२८ ) । [ ख ] जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन/ नम् । जात्यादयः जातिगुणक्रियासंज्ञाः । तथा च नराणां क्षत्रिय विशेषणशून्यतद्धर्मावच्छिन्न व्यावृत्तत्व विशिष्टविधेयवत्तया प्रतिपाद/ इत्यादौ जातिः क्षत्रियत्वम् तच्च तद्विशेषणं च तेन विशिष्टो य त्वम् तेन शून्यस्तद्धर्मावच्छिन्नः नरत्वावच्छिन्नः तस्माद्व्यावृत्तत्वम् वच्छिन्नः नरत्वरूपसामान्यधर्मावच्छिन्नः तस्य तादृशविशेषणम् नरेभ्यो राक्षसाः शूरतमाः इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तान्य त्वम् तेन विशिष्टम् सहितम् विधेयम् शौर्यम् तद्वत्तया प्रतिपादनम् नरादिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणम् / राक्षसलावि विशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात् । नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादी स्तद्धर्मावच्छिन्नेत्यस्य विशेषणं दत्तम् । तादृशक्षत्रियत्वज तिरूपि सामान्यव्यावृत्तत्वबाधात् असंभवः । अतः शून्यत्वान्तं व्यादृश्ययन षणशून्याद्ब्राह्मणादेश्च व्यावृत्तः क्षत्रियो भवति । नराणां क्षत्रियः । शूरः नरेषु वा । अध्वगानां रथगामिनः शीघ्रतराः अध्वगेषु वा । गवां कृष्णा संपन्नक्षीरा गोषु वा इत्यादौ यतश्च निर्धारणम् ( पा० सू० २ । ३ । ४१ ) इत्यनेन षष्ठीसप्तम्यौ विधीयेते । सूत्रार्थश्च जात्यादि- विशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यादृ- तत्व विशिष्टविधेयवत्तया प्रतिपादनम् तद्धर्मावच्छिन्नार्थकपदात् षष्ठी- । सप्तम्यौ इति । एतदुक्तं भवति । जातिगुणक्रियासंज्ञा विशिष्टस्यैकदेशस्य स्वघटितसमुदायात्खेतरसमुदायघटकव्यावृत्तधर्मकरणकं पृथक्कर तद्वाचकात् षष्ठीसप्तम्यौ स्त इति । अत्र स्वेतरार्थस्य समुदायघटकार्थे गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावञ्छीघ्रः । छात्राणां अभेदेनान्वयः । उदाहरणानि तु नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां छात्रेषु वा मैत्रः पटुः । विस्तरस्तु शेखरादौ द्रष्टव्यः । प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छ्रन्यनरादिव्यावृत्तत्वेन शौर्य- विशेषादिरूपविधेयसंबन्धोभिमतः इति नरादिपदात् षष्ठी ( ग० व्यु० का० ६ पृ० ११३) । <निर्मन्थ्यम्> प्रोक्षणसाधनजलम् ( जै० सू० वृ० अ० १ पा०४ सू०१२) । <निर्वर्त्यम्> ( कर्म ) [क ] क्रियया यन्निष्पाद्यते तत् । यथा कटं घ वा करोतीत्यादौ । अत्र कृञः फलावच्छिन्नव्यापाराबोधकतया गौण- निर्वर्त्यमेव च उत्पाद्यम् इति कैश्चिच्छास्त्रकारैर्व्यवयित इति विज्ञेयम् । कर्मत्वम् । तच्च साध्यताख्यं कृतिविषयत्वम् ( का० व्या० पृ० ६ ) । तादृश प्रकृतिवाचक पदासमभिव्याहृतपदोपस्थाप् अथ निर्वर्यत्वस्य लक्षणमुच्यते । घटौदनादीनां या मृत्तण्डुलादिप्रकृतिः सा० द० सुब० पृ० १६३ ) । अथवा प्रकृतिवाचकपदा- समभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वम् । यथा तदुक्तं भर्तृहरिणा सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस् घटं करोतीत्यादौ घटादेः क्रियाजन्योत्पत्तिमत्त्वान्निर्वर्यत्वम् (वाच० ) । नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणः । नाश्रीयते न प्रयुज्यते । न विवक्ष्यते इति यावत् (वै० सा० ६० सुब० पृ० १६३ ) । ख प्रकृत्यविवक्षायां निष्पाद्यम् । यथा वढं । करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वेनाविवक्षा (वै० सा० द० सुब० पृ० १६३ ) । अत्रोक्तं भर्तृहरिणा यदसज्जायते सदा । जन्मना यत्प्रकाशते । प्रकृतेस्तु विवक्षायां विकार्ये कैश्विदन्यथा ॥ सुब० पृ० १६३ ) । अत्र विवेको ज्ञेयः । प्रकृतिकर्मासमभिव्याहारे, तन्नित्यंम् इति ( ग० व्यु० का० २ पृ० ६५ ) (बै० सा० ६०. निर्वयम् इत्युच्यते । यथा कटं घटं वा करोति भस्म करोतिइयारों, निर्वम् । प्रकृतिकर्मसमभिव्याहारे तु विकार्यम् इत्युच्यते । काशान्कटं करोति मृदं घटं करोति काष्ठं भस्म करोति इत्यादौ विज्ञा र्यम् इति (ग० व्यु० कार० २ पृ० ६५ ) । <निर्वाह:> १ [क] कार्यसंपादनम् । यथा यावता स्यात्स्वनिर्वाह / स्वीकुर्यात्तावदेव तु ( नारदीयपु० ) इत्यादौ ( वाच० ) / [ 8 ] निष्पादनम् । २ समाप्तिः । <निर्वाहकत्वम्> ( संगतिः ) १ [ क ] कथंचिदनुकूलत्वम् ( म०प्र० १/ पृ० १५ ) । [ ख ] एककार्यनिर्वाहकत्वम् । एककार्यनिर्वाहकत्वं कारण कारणतावच्छेदक एतदुभयसाधारणं प्रयोजकत्वम् । यथा य पक्षधर्मतयोरनुमित्यात्मकैककार्याजनकत्वेपि तज्जन की भूतज्ञान विषयताक च्छेदकत्वेनैककार्यानुकूलत्वम् । तत्र सामान्यतोनुमितिलक्षणैककार्या/ कूलत्वज्ञाने किं तदनुकूलम् इति जिज्ञासायाम् अनन्तरं पक्षधर्मता / निरूपणमिति ( भवा० ) । [ग] एककार्यजनकत्वम् (वै० सा० ८०// कारणकारणतावच्छेदकसाधारण प्रयोजकत्वरूपमित्यर्थः । अत्र व्याख्यानम् । निर्वाहकत्वम् कारणता निर्वाहकत्वम् । यावत् ( जग ० ) । प्रयोज्यत्वं वा निर्वाहकत्वमिति केचिदाहुः । <निर्वाहकैक्यम्> १३४ ) । यथा प्रत्यक्षनिरूपणानन्तरं परामर्शानुमित्योर्निरूपणे निर्वाह ( संगतिः ) एकप्रयोजकप्रयोज्यत्वम् ( राम० २ १० व्याति कार्यत्वम्। कैक्यं संगतिः । यत्रैकेन कारणेन कार्यद्वयं तदधिकसंख्याकं वा कार्य- मुत्पाद्यते तत्रेयं संगतिया । इदं तु निर्वाहकत्वमित्यप्युच्यते ( भवा० ) । <निर्विकल्पकम्> ( प्रत्यक्षम् ) [ क ] नामजात्यादियोजनारहितम् वैशि- थानवगाह निष्प्रकारकं प्रत्यक्षम् ( चि० १ ) ( ता० र० ) । वैशिट्यानवगाहीत्यस्य वैशिष्ट्यनिष्ठसांसर्गिक विषयताशून्यमित्यर्थः (० प्र० १ ) ( म० प्र० १ पृ० ९ ) । निष्प्रकारकमित्यस्यार्थश्च प्रकार ताशून्यज्ञानम् ( न्या० बो० ) । [ख ] विशेषण विशेष्यसंबन्धानवगाि ज्ञानम् (त० दी० ) ( मु० ) ( त० कौ० १ पृ० ८ ) ( प्र० प्र० ) । तथा च ज्ञानत्वघटितं विशेष्यताशून्यत्वम् विशेषणताशून्यत्वम् संसर्गता- शून्यत्वं च लक्षणत्रयं पर्यवसितम् इति भावः ( नील० १पृ० १७) ( वाक्य ० १ पृ० १२ ) । तच्च वस्तुस्वरूपमात्रग्रहणम् । यदाहुः सांख्यवृद्धाः संमुग्धं वस्तुमात्रं तु प्राग्गृह्णात्यविकल्पितम् । तत्सामान्य- विशेषाभ्यां कल्पयन्ति मनीषिणः ॥ इति ( सांख्य० कौ० श्लो० २७ टी० पृ० ३६) । यथा किंचिदिदम् इति ज्ञानम् ( त० सं० ) । यथा वा दूरात् किंचिदस्ति इति प्रत्यक्षम् ( प्र० प्र० ) । घटघटत्वे इत्याकारकं वा प्रत्यक्षम् ( त० कौ० १ पृ० ८ ) । तच ज्ञानमतीन्द्रि- यम् अनित्यम् निराकारं चेति ज्ञेयम् ( भा०प० श्लो० ५९ ) ( न्या० म० ) । अत्र बौद्धैः वैभाषिकैः अमियते निर्विकल्पकज्ञानमेव प्रमाणम् । कल्पनापोढत्वात् । तद्भिन्नं सर्व मप्रमाणम् । कल्पनाज्ञानत्वात् इति ६० पृ० ४४ बौद्ध० ) । [ग] अलौकिक आलोचनात्मको ज्ञानविशेषः इति केचित् । तदुक्तं सांख्यवृद्धैः अस्ति ह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं मुग्धवस्तुजम् ॥ ततः परं पुनर्वस्तु धर्मेत्यादिभिर्यया । बुद्ध्यावसीयते सा हि प्रत्यक्ष चादिनस्तु ज्ञातृज्ञेयादिविभागशून्यं ब्रह्मैकात्मविषयमखण्डाकारकं विशेष्य [ ॥ इति ( सांख्य० कौ० श्लो० २७ पृ० ३६ ) । [घ ] माया- विशेषणसंबन्धरहितं ज्ञानम् इत्याहुः ( वाच० ) । मध्वमतानुयायि वेदान्तिनस्तु निर्विकल्पकं ज्ञानं नाङ्गीकुर्वन्ति ( प्र० प० पृ० ११) । अत्र नैयायिकाः । निर्विकल्पकज्ञानसत्त्वे प्रमाणमनुमानम् / तच्च विशि टज्ञानं जन्यविशेषणज्ञानपूर्वकम् जन्यविशिष्टज्ञानत्वात् दण्डी पुरुषः । इति विशिष्टज्ञानवत् इति ( न्या० दी० पृ० ३४ ) । निर्विकल्पकम् कल्पकासत्त्वे सुप्तोत्थितस्य अयं घटः इति विशिष्टज्ञानं न स्यात् । विशेषणीभूतस्य घटत्वस्याज्ञानात् । विशेषणज्ञानं विना विशिष्टज्ञाना' । येन विशेषणज्ञानस्य विशिष्टज्ञानहेतुत्वात् । तथा च विशेषणज्ञानमेव । तस्यावश्यकत्वमिति भावः ( त० पृ० ८ ) । कौ० १ विशिष्टज्ञानं न संभवति । पूर्व विशेषणस्य घटत्वादेर्ज्ञानाभावात्। चक्षुः संयोगाद्यनन्तरं घटः इत्याकारकं घटत्वादि । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । तथा च प्रथमतो घटघटल / योर्वैशिष्टयानवगाह्येव ज्ञानं जायते । तदेव निर्विकल्पकम् (मु० / / पृ० ११७ - ११८) । निर्विकल्पकं यद्यपि न प्रत्यक्षसिद्धं तथापि अयं घटः इति विशिष्टज्ञानरूपकार्यानुमेयम् । तथाहि । जन्यतविशिष् ज्ञानं प्रति जन्यतद्विशेषणज्ञानं कारणमिति निर्विवादम् । भवति व प्राथमिकमस्माकम् अयं घटः इति जन्यघटत्व विशिष्टज्ञानम् / अत स्तत्रापि घटत्वज्ञानं कारणम् । न च तदानीं घटत्वविशिष्टज्ञानमस्ति विशेषणीभूतघटत्वस्याज्ञानात् । अतो वैशिष्यानवगाव तद्वान्यद// तदेव निर्विकल्पकम् इति ( न्या० म० १ पृ० ३) । अत्रेदमवधेयद // इन्द्रियजन्यज्ञानस्य कदा पुनर्ज्ञानं करणम् इति चेत् उच्यते । संवि कल्पकज्ञानानन्तरं हानोपादानोपेक्षाबुद्धयो जायन्ते । ज्ञानं करणम् । सविकल्पकमवान्तरव्यापारः । हानादिबुद्धयः निर्विकल्पकज्ञानस्य इति ( त० मा० पृ० ६ ) । ननु तद्वन्निष्ठविशेष्यत्वा निरूपिता या या तत्तत्प्रकारता विषयक/ शून्यत्वे तद्वति तत्प्रकारकत्वरूपं यथार्थत्वं कथम् इति चेत् उच्चते / त्वम् स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्तनिरूपकत्वा बहिभूतमेव प्रवृत्त्यनङ्गत्वात् इति तत्र तद्वति तत्प्रकारकत्वायभावन भावकूटवत्त्वं वा याथार्थ्य विवक्षणीयम् । अथवा निर्विकल्पकं भ्रम नाव्याप्तिशङ्का इति । अत्रेदमवधेयम् । ज्ञानमात्रस्य सविषयक निर्विकल्पकेपि विषयतापेक्षितेति प्रकारता विशेष्यता संसर्गता एतत्र- यातिरिक्ता तुरीया विलक्षणविषयता स्वीक्रियते इति (नील०१पृ०१७) । <निलयनम्> किंचित्कर्तृकदर्शनाभावप्रयोजकदेशविशेषस्थितिः । यथा मातु- निलीयते कृष्ण इत्यादौ धात्वर्थो निलयनम् । धात्वर्थदर्शनकर्ता- त्रापादानम् । तत्पूर्वक निवृत्तिर्धातोरर्थः । तत्र मातुरपादानत्वेनान्वय इति भाष्यमतम् । दर्शने मातृकर्तृकत्वं प्रत्यासत्तिगम्यम् ( ल० म० सुब० का० ५ पृ० १०९) । अत्र अन्तर्धी येनादर्शनमिच्छति (पा० सू० १।४।२८ ) इत्यनेन मातुरपादानसंज्ञा । सूत्रार्थस्तु यत्कर्तृक दर्शनस्याभावमात्मनः माता मां न पश्यतु इति इच्छति ( कृष्णः ) तस्यापादानसंज्ञा इति । <निवर्तनम> विंशतिवेशपरिमिता भूमिः । वंशस्तु दशहस्तपरिमितः । <निवारणम्. वारणम् । <निवास:> यत्र देशे स्वयं वसति स देश: । अभिजनस्तु यत्र पूर्वेरुषित स देश इति विशेषः ( सि० कौ० तद्धि० पृ० १३८ ) । <निविष्टम्> मृत्या प्राप्तम् । <निवृत्तिः. १ [क] जिहासाप्रयुक्तस्य दुःखसाधन परिवर्जनम् (वात्स्या प्रस्तावना ० १ १ १ । १) । ख ] द्वेषजन्यो गुणः (सि० च० गु० १० ३५ ) । [ग] द्वेषजनितः प्रयत्नविशेष: (वै० उ० ३११/१९) । लक्षणं च निवृत्तित्वमेव । तच्च द्वेषजन्यतावच्छेदकतया सिद्धो जाति- द्विष्टसाधनताज्ञानं च कारणम् ( भा०प० ला० १५२, गु० ) । अत्रेदं बोध्यम् । निवृत्ति प्रति फलगतद्वेषो इत्यन्वय- व्यतिरेकाभ्यामवधार्यते गु० पृ० २३१) । अत्रायं विवेकः । दुःखसाधन विषयक निवृत्ति प्रति द्विष्टसाधनताज्ञानं कारणम् । दुःख- निवृत्ति प्रति तु दुःखद्वेष एव कारणम् इति । [घ ] उत्कटद्वेषजन्यो यज्ञविशेषः (वै० वि० ३।२।१९ ) । [ङ ] द्विष्टसाधनताज्ञानजन्यो यतः ( त० को० गु० पृ० १९) । यथा अपरोक्षीकृतश्रीशो विष- येभ्यो निवर्तते इत्यादौ । निवृत्तिश्च प्रवृत्त्यभाव एवेति नव्या आहुः । ( त० प्र० उ० ४ पृ० ७३ ) ( प० मा० ) । सुषुप्यवस्थायां अयमितो । निवृत्त: इत्यादिव्यवहारेण निवृत्त्याख्यप्रयत्नसिद्धिदुर्वारेत्यन्ये प्राचीननेगा- / यिकाः आहुः (प० मा० ) । २ सांख्यास्तु संयोगाभाव एव निवृत्तिः। / इत्यादी इत्याहुः । अत्रायं नियमोनुसंधेयः इच्छा विषयसिद्धौ इप्राओं / यथा औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः (सांख्यका० ५८ / / निवर्तते इति (सांख्य० कौ० श्लो० ५८) । ३ कलखाधिकरणे मीमांस कास्तु प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणत्य/ साध्यमानो निवृत्तिरित्युच्यत इत्याहु: ( वाच० ) । ४ अभावः / पणे/ व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् ( म० प्र० २ पृ० १ इत्यादौ । यथा वा निवृत्तपदार्थक इत्यादौ ( नसूत्रभाष्य ० ) । भू० ) । यथा वा विपक्षः साध्यधर्मनिवृत्तिमान् ( ता० २० १ इत्यादौ निवृत्तिशब्दस्यार्थः । <निवेशनम्> पलालकूटाद्यर्थं विभक्तो भूप्रदेश: (मिताक्षरा व्य० श्लो०१५९// <निशा> १ रात्रिः । यथा न स्नानमाचरेद्भुक्त्वा नातुरो न ( मनु० ) निशातुषारैर्नयनाम्बुकल्पैः (भट्टिः ) इत्यादौ । राशयः इति ज्योतिषज्ञा आहुः । ३ हरिद्रेति भिषज आहुः (वाच०)// <निश्चयः> ( बुद्धिः ) १ तदभावाप्रकारकत्वे सति तत्प्रकारकं शावर/ (त० प्र० २) (भा० प० श्लो० १३०) (मु० गु० तद्वद्विशेष्यकत्वावच्छिन्नतदभावप्रकारताशून्यतद्वद्विशेष्यकत्वावच्छिन मान् इत्यस्य समूहालम्बनज्ञानस्य पर्वते कारकत्ववज्ज्ञानमित्यर्थः । तेन न महानसोयं वह्निमान् नवा पर्वतो वही / गु० पृ० २०९ ) । तदभावप्रकारत्वानिरूपिततत्प्रकारता निरूपितविरो ष्यताशालिज्ञानम् इत्यर्थो वा ( त० व० ) । यथा भूतलं घटवद् सत निश्चयः । अत्र च संशयभिन्नं ज्ञानं निश्चयः इति सर्वेषां सिद्धान्तः । श्चयत्वं न जातिः । प्रत्यक्षत्वादिना सांकर्यात् । किं तु विषयिताविशेष पर्वते वह्निनिश्चयत्वाप्राप्तिः (दि०) २ कचित् विशेषण विशेष्यतावच्छेदकभावानापन्नविरोधिकोटिद्वयप्रकार- \ दकविशिष्टे निरुक्तसाध्यहेतुवैशिष्ट्यावगा हिनिश्चयावृत्तिविषयितैव विरोधि- कैकधर्मिविशेष्यकज्ञानान्यज्ञानम् । यथा द्वितीययत्तुकारमते पक्षतावच्छे- विषयितापदार्थः इति निर्वचने हृदो वह्निमान् घूमात् इत्यादौ हृदो मान् वहिव्याप्यघूमवांश्च इति निश्चयः । अत्र कोटिद्वये विशेषणविशेष्यताव- च्छेदकभावानापन्नत्वनिवेशात् निर्वह्निः पर्वतो वह्निमान् इत्यादौ निर्वह्निः पर्वतो वह्निमान् वह्निव्याप्यघूमवांश्च इति निश्चयस्य नासंग्रह: ( ग० २ ० सामा० पृ० २७ ) । ३ कचित्तु आधेयताविशेषणतापन्नस्या- धकरण या संशयत्वनिरूपक विशेष्यतान्यविशेष्यता तन्निरूपित प्रकारताशालि ज्ञानम् । अत्रेदमवधेयम् । संशये च प्रत्येककोटिनिश्चय- विशेष्यताभ्यामतिरिक्तैव विशेष्यता वर्तते इति ( ग० साधा० ) । तन्निरूपित प्रकारताशालि तादृशज्ञानं च साध्याभावांशे निश्चयः इत्युच्यते । ४ बुद्धेरसाधारणवृत्तिविशेषः इति मायावादिनो मन्यन्ते ( वेदा०प० ) । ५ अध्यवसायः इति सांख्याः ( सांख्य० मा० २।१३) । ६ अर्था- लंकारविशेषः इत्यालंकारिका आहुः ( वाच ० ) । <निषिद्धम> निषेधविषयीभूतम् । तच्च अनिष्टसाधनताबोधकलिङा धनुषक्त- निषिद्धम् । अत्र निषिद्धत्वं चाधर्मापादकत्वम् । अन्ये तु भ्रमावगतेष्ट- निषिद्धम् । यथा वा न सुरां पिबेत् ( श्रुतिः ) इत्यादौ सुरापानं नपदयोगिवाक्यगम्यम् । यथा न कलजं भक्षयेत् इत्यत्र कलञ्जभक्षणं <निषेधः> १ ( वाक्यम् ) [क] अनिष्टसाधनताबोधको वाक्यविशेषः । सच द्विविधः । लौकिक: वैदिकश्च । तत्र लौकिकम् विषं मा मुद्ध इति वाक्यम् । वैदिकं तु न कलजं भक्षयेत् न सुरां पिबेत् अष्टम्यां बोधयति इति बोध्यम् (वाच० ) । [ख 7 निवृत्तिपरं वाक्यम् । न कलक्षं भक्षयेत् इति । अत्र कलञ्जभक्षणं नेष्टविशेषसाधनम् इति वाक्यार्थ: । इष्टविशेषश्चात्र पापानुत्पत्तिरेव । तथैव वाक्यतात्पर्यात् ५६ न्या० को० इति विज्ञेयम् ( त० कौ० ४ पृ० १७) । मीमांसकास्तु पुरुषस्य निवर्तकं वाक्यं निषेधः । यथा न कलअं भक्षयेत् इत्यादिवाक्यम् इत्याहुः । तथाहि निषेधस्तु निवर्तनां प्रतिपादयन् स्वनिवर्तकत्व निर्वाहा निषेध्यस्य कलञ्जभक्षणादे: परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त यति इति ( लौ० भा० पृ० ४६ ) । अत्र प्रत्ययगतो य आख्यातांश स्तद्वाच्यायाः प्रवृत्तिरूपार्थभावनायाः नञर्थेन्वयः । अत्राहुः । नञधैव स्वभावः स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम् इति । यथा घंटो नास्ती. त्यादौ अस्तीतिशब्दसमभिव्याहृतो नञ् घटसत्त्वविरोधि घटासत्त्वं गमयति // तदिह लिङ्समभिव्याहृतो नञ्लिङर्थप्रवर्तनाविरोधिनीं निवर्तनामव बोधयति इति ( लौ० भा० पृ० ४८-५१) । अत्रायं विशेषो ज्ञेयः। / यदा तु प्रत्ययार्थस्य तत्र नञर्थे अन्वये बाधकं तदा धात्वर्थस्यैव तत्र नञ अन्वयः । तच्च बाधकं द्विविधम् । तस्य व्रतम् इत्युपक्रता / विकल्पप्रसक्तिश्च । तत्राद्यम् नेक्षेतोद्यन्तमादित्यम् इत्यादौ । तथा च / स्नातकव्रतस्य कर्तव्यार्थत्वेनोपक्रमात् तदनुरोधेनात्रत्यनजा नीक्षणसंकल्प एव लक्षणया प्रतिपाद्यत इति पर्युदासाश्रयणम् । एवं/ विकल्पप्रसक्तिः । यजतिषु ये यजामहं करोति नानुयाजेषु इत्यादी आदित्य विषयकानीक्षणसंकल्पेन भावयेत् इति वाक्यार्थ: । द्वितीयं व अत्र विकल्पप्रसक्तौ च नञोनुयाजसंबन्धमाश्रित्य पर्युदासस्यैवाश्रयणम् प्रतिषेधस्याश्रयणम् । इत्थं च अनुयाजव्यतिरिक्तेषु यजतिषु ये यजाम / इति शब्दं कुर्यात् इति वाक्यार्थबोधः । नञोनुयाजव्यतिरिक्ते मेन / वात् । एवं च न विकल्पः इति ( लौ० भा० पृ० ४८-५१/ निवृत्ति: । तदुक्तं भट्टै निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते २ अभावः । यथा त्रैकालिकनिषेधप्रतियोगित्वम इत्यादौ . ( वाच० ) । <निषेधविधिः> (विधि:) अभाव इष्टसाधनताबोधकं वाक्यम् / एकादश्यां न भुञ्जीत इत्यादिवाक्यं निषेधविधि: ( वाच० ) /; भोजनाभाव एवेष्टसाधनत्वं बोधयति । न तु यथा भोजने विध्यर्थेष्टसाधनला भावम् । अतः निषेधवाक्यादस्य भेदः ( ग० ) । एकादश्यां न भुञ्ज इति वाक्यस्यापि निषेधत्वे कालमात्रापेक्षतया तत्कालमात्रेण निवृत्तिः स्यात् इति । एवम् नेक्षेतोद्यन्तमादित्यम् इत्यादावपि निषेधविधित्वमाहुः ( वाच० ) । अत एव एकादशीभोजनाभावस्याभोजनसंकल्परूप व्रतत्वम् तिथिखण्डविशेषनियमनं च संगच्छते । निषेध विधिरित्यस्यार्थश्च निषेधे अभावे विधिः इष्टसाधनताधीहेतुः इति ( वाच० ) । <निषेधशेषः> निन्दार्थवाद: ( लौ० मा० पृ० ५४ ) । <निष्कर्ष:> १ निश्चयः । यथा निष्कृष्टार्थ इत्यादौ । २ खरूपम् । यथा स उपाधिर्भवेत्तस्य निष्कर्षोयं प्रदर्श्यते ( भा०प० श्लो० १३९) इत्यादौ । ३ सारांश: ( मेधा कुल्लू ० ) । यथा एतद्विदन्तो विद्वांस- त्रयीनिष्कर्षमन्वहम् ( मनु० अ० ४ श्लो० १२५) इत्यादौ । ४ इयत्तादिना स्वरूपपरिच्छेदः ( वाच० ) । <निष्कासः> आमिक्षाया लेपः । यथा वारुण्या निष्कासेन तुषैश्चावभृथं यन्ति (जै० १० न्या० अ० ७ पा० ३ अधि० ४ ) । <निष्कासिनी> ( दासी) स्वाम्यनवरुद्धा दासी ( मिताक्षरा २/२९ ) । <निष्कुट:> गृहाराम: ( पु० चि० पृ० २४२ ) । <निष्क्रमणम्> १ स्पर्शवद्रव्यसंचारः ( वै० उ० ) । यथा सांख्यम निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ( वै० २११/२०) इत्यादौ । २ आ प्रसवाचतुर्थे मासि शिशोः कर्तव्यः प्रथमनिष्क्रमनिमित्तः संस्कार विशेषो निष्क्रमणम् इति धर्मज्ञा मौहूर्तिकाश्च वदन्ति । <निष्ठा. १ [क] वृत्तिः (विद्यमानत्वम्) (मु० २ व्याप्ति० पृ० १४० ) । यथा अथवा हेतुमन्निष्ठविरहाप्रतियोगिता । साध्येन हेतोरैकाधिकरण्यं त्वम् । २ तक्तवतू प्रत्ययौ निष्ठा इति शाब्दिका आहुः । ३ व्याप्तिरुच्यते ॥ ( भा०प० श्लो० ७० ) इत्यादौ । ख ] आधेय- नस्तु स्वरूपेण स्थितिः ( गीताभाष्य ० ) । यथा लोकेस्मिद्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् ॥ (गीता० ३१३) इत्यादौ । अत्र निष्टाशब्दार्थः ४ श्रद्धा इति केचिदाहुः । ५ ज्ञानम् । यथा ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ (क्र०, जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च । न निष्ठामधिगच्छन्ति । सू० ११ ११७ ) इत्यादौ । ६ पौराणिकास्तु अवधारणम् । यथा प्राणं / बुद्धिस्तामधिगच्छति ॥ ( भा० आश्व० ६६५) इत्यादौ इत्याहुः । ७ समाप्तिः निष्पत्तिः संस्कारसंपत्तिर्वा ( मेधा कुलू० नन्दन ० // यथा मनुनारदावाहतुः पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् / तेषां / निष्टा तु विज्ञेया विद्भिः सप्तमे पदे ॥ ( मनु० अ० ८ २ श्लो० २२७// ( निर्ण० सि० ३ पृ० ३७) इत्यादौ इति धर्मज्ञा आहुः । ८ नाम / ९ अन्तः । १० सीमा । ११ निर्वहणम् । १२ याच्या (वाच० /// <निसर्गः> परोपदेशनिरपेक्षमात्मस्वरूपम् ( सर्व० सं० पृ० ६३ आई०) । <नीलः> ( वृषः ) लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुर:// खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ ( पु० चि० पृ० ३०६ // / <नीलज्येष्ठा> तत्राष्टम्यां यदा वारो भानोर्ज्येष्ठर्क्षमेव च । नीलज्येष्ठेत प्रोक्ता दुर्लभा बहुकालिका ॥ ( पु० चि० पृ० १३३ ) । <नृत्यम्> [क] नाट्यशास्त्रानुसारेण हस्तपादादी नामुत्क्षेपणादिकमङ्गप्र पाङ्गसहितं हावभावसमेतं च ( सर्व० पृ० १६९ नकु० ) शिवो नृत्यति संध्यायामुत्साहेन गणैः सह इत्यादौ नृत्यत्यर्थः । (6 तालमानयुक्तं सविलासाङ्गविक्षेपरूपं नर्तनम् ( वाच० ) । प्रतीतो यस्तालमानरसाश्रयः । सविलासोङ्गविक्षेपो नृत्यमित्युच्यते सुभे ङ्गनानृत्यमनन्दयत्तम् ( भट्टि० ) इत्यादौ । तल्लक्षणादि यथा देवस्था ताण्डवं च तथा लास्यं द्विविधं नृत्यमुच्यते । अङ्गविक्षेपबाहुल्यं त भिनयशून्यता ॥ ताण्डवं बहुरूपं तद्वारुणागलमुद्धतम् / छुरितं व नायिकानायकौ रङ्गे नृत्यतरछुरितं हि तत् ॥ मधुरं बद्धलीलामिनेटम चेति लास्यं द्विविधमुच्यते ॥ यत्राभिनयाद्यैर्भावै सैराश्लेषचुम्बने। अर्यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ गेष्ठ वाद्यं वाद्यादुत्तिष्ठते लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्तते ॥ इति (संगीतदामो० ) । <नृपः> यश्चैत्रशुक्लप्रतिपद्दिनवारो नृपो हि सः ( पु० चि० पृ० ५६ ) । <नेजक:> वस्त्रस्य धावकः ( मिताक्षरा २।२३८ ) । <नैगमः> ये वेदस्याप्तप्रणीतत्वेन प्रामाण्य मिच्छन्ति पाशुपतादयस्ते ( मिता- क्षरा २।१९२ ) । <नैमित्तिकत्वम्> १ निमित्तजन्यत्वम् । यथा द्वयोनैमित्तिको द्रवः ( भा० प० श्लो० २८) इत्यादौ सुवर्णलाक्षादीनां द्रवत्वस्य तेजः संयोगरूप- निमित्तजन्यत्वम् ( मु० १ ) । २ धर्मज्ञास्तु अनियत निमित्तकत्वम् । यथा पुत्रजन्माश्रित्य विहितस्य जातेष्ट्यादेः ग्रहणादिनिमित्तमाश्रित्य विहितस्य स्नानादेश्च नैमित्तिकत्वम् इत्याहुः । ३ स्मार्तास्तु निमित्त- निश्चयवदधिकारिकर्तव्यत्वम् । यथा यत्तु पापोपशान्त्यै च करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ (गरुडपु० ) इत्यादौ इत्याहु: ( वाच० ) । <नैमित्तिकी> संज्ञा- ( रूढनाम ) । यन्नाम जात्यवच्छिन्नसंकेतवत् सा नैमित्तिकी संज्ञा । यथा गोचैत्रादिः । सा हि गौर्गच्छतीत्यादौ गोत्वचैत्र- इत्याकारकग्रहात् गोत्वादिजातिमात्रम् । गामानयेत्यादौ गोत्वादिना गवा- देरन्वयानुपपत्तेः । एकशक्तत्वग्रहस्यान्यानुभावकत्वेतिप्रसङ्गात् इति ( श० म० श्लो० १८ पृ० १७) । ये तु जात्यवच्छिन्नसंकेतवतामपि चैत्रादि- पदानां पारिभाषिकत्वमाहुः ते जात्यवच्छिन्नशक्तिमन्नाम नैमित्तिकम् यथा गोगवयादि इत्याहु: ( श० प्र० श्लो० २२ पृ० २६) । <नेपायिक:> षोडशपदार्थानुसारिन्यायज्ञः । यथा नैयाथिकानांतु अणुकादावपीष्यते ( भा० प० लो० १०७) इत्यादौ गौतमर्ष्यादि- नैयायिकः । परममहर्षिगौतमश्च पञ्चाध्यायात्मकं न्यायदर्शनं नाम । सूत्रोपवद्धं प्रणिनाय । नैयायिकशब्दव्युत्पत्तिः न्यायं वेत्त्यधीते वा इति / नैयायिकः ( उक्थादि० ठक् ) । न्यायदर्शनं च प्रमाण प्रमेयसंशव- / प्रयोजन० ( गौ० सू० १११।१ ) इत्याद्यारभ्य हेत्वाभासाथ यथोक्ताः । ( गो० सू० ५/२/२५ ) इत्येतत्पर्यन्तं सूत्रसमूहात्मकम् । <नैर्ऋती> १ (दिक् ) [क] सुमेरुव्यवहितोदयगिरिव्यवहिताच ( वै० वि० २१ २११९० ) । [ख ] दक्षिण पश्चिमदिक् (वै० उ० / २।२।१० ) । यथा नैऋतीं दिशमाश्रयेत् ( आ० त० ) ( वाच० ) । यथा वा अक्कलकोटग्रामान्नैर्ऋत्यां झळकीग्रामो द्वादरड / क्रोशेषु । २ मूलनक्षत्रम् इति मौहूर्तिका आहुः । नैर्ऋत्या शि/ अधिष्ठाता निर्ऋतः इति विज्ञेयम् ( वै० उ० २/२/१० ) । <नैवेद्यम्> विधम् भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् । निवेदनीयं द्रव्यं तु नैवेद्यमिति कथ्यते ( स्मृतिः ) । तच पक्ष / <नोदनम्> १ [ क ] स संयोगविशेष: येन संयोगेन जनितं नैवेद्यमाराध्यस्य निवेदयेत् ॥ इति ( कालि० पु० ) ( वाच० ) / , संयोगिनोः परस्परं विभागहेतुर्न भवति यः संयोगः शब्दनिमित्तकार / न भवति वा सः ( वै० उ० ५/२/१ ) । ख क्रियादिकारणीभूत संयोगः ( सि० च० ) । [ग] चलस्य वेगवद्रव्यसंयोग विशेष मायावादिन आहुः । एतन्मते अभिघातस्तु स्थिरस्य वेगवद्रव्यसंयोग विशेष एव । २ खण्डनम् । ३ प्रेरणम् । विधिरूपा चोदना । <नोदना> क्रियां प्रति प्रवर्तकं वचः (षड्दर्शनसमुच्चये <न्यायः> १ [ क ] प्रमाणैरर्थपरीक्षणम् । किमुक्तं न्यायः इति भवति या० वा० १ ति गमाश्रितमिति प्रत्यक्षागमाविरोधि । यदि ह्यनुमानाधिगतोर्थ: [ख प्रत्यक्षागमाश्रितममुमानम् ( वात्स्या० १/१/१// गमाभ्यामनुसंधीयते अथ स्फुटतरप्रत्ययो भवति ( न्या० वा० १ पृ० १४ ) । [ग] परार्थानुमानम् ( सर्व० पृ० २६४ अक्ष० ) । इदं च शब्दात्मकमेवेति यद्यपि अग्रे अनुपदमेव वक्ष्यमाणे ( पृ० ४४७ प० २३) न्याये अन्तर्भवति तथाप्यस्यानुमानत्वेनोक्तत्वात्पार्थक्येनानुमान- प्रकरणे एतत्स्थापितम् इति ज्ञेयम् । २ आन्वीक्षिकी विद्या न्यायशास्त्रम् ( वात्स्या० १।१।१ ) ( गौ० वृ० ११ १२ १ ) । सेयमान्वीक्षिकी न्याय तर्कादिशब्दैरपि व्यवयिते । तथा च न्यायो मीमांसा धर्मशास्त्राणि इति श्रुतिः ॥ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इत्यादिस्मृतिः ( याज्ञव० अ० १ लो० ३) । मीमांसा न्यायतर्कश्च उपाङ्गः परिकीर्तितः इति पुराणम् । विद्येभ्यस्त्र विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांच लोकतः ॥ इति ( मनु० अ० ७ श्लो० ४३) । तथा आ धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तकेंणानुसंधत्ते स धर्मे वेद चान्वीक्षिक पराम् ॥ इति । उपनिषदर्थश्चान्वीक्षिक्यनुसारी प्रायः तत्रोपनिषदं तात परिशेषं तु पार्थिव । मध्नामि मनसा तात दृष्ट्वा इत्युक्तमिति ( गौ० दृ० १११।१ ) । अत्रोक्तं पक्षिलस्वामिना वात्स्या यनेन इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते विद्या प्रमाणादिभिः पदार्थैर्विभज्यमाना प्रदीपवत् सर्वविद्यानां भवति यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या इति । सेयमान्वीक्षिकी न्याय- प्रकाशकत्वात् । प्रदीपः सर्वविद्यानामुपाय: सर्वकर्मणाम् । आश्रयः ३ [क] साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते सर्वधर्माणां विद्योद्देशे परीक्षिता ॥ इति ( वात्स्या० ११ १/१) । मपेक्ष्यावयवा उच्यन्ते । तेषु प्रमाणसमवाय आगमः प्रतिज्ञा । हेतुर- स पञ्चावयवोपेतवाक्यात्मको न्यायः । पञ्चावयवाः प्रतिज्ञादयः समूह- नुमानम् । उदाहरणं प्रत्यक्षम् । उपनयनमुपमानम् / सर्वेषामेकार्थ- समवाये सामर्थ्य प्रदर्शनं निगमनम् । सोयं परमो न्यायः इति । अत्रा नियमः संशयितेर्थे न्यायः प्रवर्तते इति (वात्स्या० १११११ नानुपलब्वे न निर्णीतर्थे न्यायः प्रवर्तते अपि तु संदिग्धे इति (त भा० पृ० १० ) । अत्र गदाधर आह जल्पस्थले संशयस्यावश्यकत्वेपि वादस्थले न तथा इति संशयमन्तरेणापि अनुमित्साधीनानुमितिनिर्वाहा । न्यायप्रयोगसंभवात् इति ( ग० २ अवयव० पृ० २२) । तथा च / संदिग्धेर्थे न्यायः प्रवर्तते इति नियमस्तु जल्पे एव न तु भावः । [ख] समस्तरूपोपेतलिङ्गबोधकवाक्यजातं न्यायः वादे इति १( कु० टी० हरिदासः ) । वाक्यजातं च प्रतिज्ञादिपञ्चकम् / पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्यति । पक्षितत्वं चेति पञ्च ( म० प्र० २ पृ० ३१ ) ।[] अनुमित चरमकारणलिङ्ग परामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम् (चि० २ अ / पृ० ७६ ) । [घ ] क्रमिकप्रतिज्ञा दिसमुदायः । यथा पर्वतपक्ष / वह्निसाध्यकधूमहेतुकस्थले पर्वतो वह्निमान् इत्यादिप्रतिज्ञा दिघटितवाक्स / हरणम् उपनयः निगमनम् इति । यथा ( १ ) पर्वतो वह्निमान् (1) / पञ्चकं न्यायः । प्रतिज्ञादीनि पञ्च वाक्यानि तु प्रतिज्ञा हेतुः व्या / धूमात् (३) यो यो धूमवान् स स वह्निमान् (४) वहिव्याप्यधूमपात । यम् (५) तस्माद्वह्निमान् इति ( न्या० म० २ पृ० २३) /// उदाहरणान्त एव प्रयोगः इति न वाच्यम् / तृतीयलिङ्ग परामर्श / एतत्रयात्मकः न्यायः । बौद्धानामुदाहरणोपनयद्वयावयवको तायां अलाभात् इति । मीमांसकानामुदाहरणान्तः प्रतिज्ञा हेतु उ अतिप्राचीन नैयायिकानां दशावयवको न्यायः । दशावयवाश्च प्र पञ्चकम् संशयः जिज्ञासा शक्यप्राप्तिः प्रयोजनम् संशयव्यदास क्षेति अथ प्रतिज्ञादीनां पञ्चानामवयवानां क्रमोभिधीयते । कथायामाक क्रमेणाभिधानमिति प्रथमं साध्याभिधानं विना कुतः इत्याकारकहेवा पत्य समयबन्धानन्तरं शब्दानित्यत्वं साधय इति मध्यस्थस्य काङ्क्षाया अभावात् प्राथम्येन प्रतिज्ञाप्रयोगः । तथाहि वा आकाङ्क्षायां शब्दानित्यत्वं साध्यम् । न च साध्यनिर्देश उदाहरण प्रतिवादिप्रतिवादि अन्तरं कुतः इत्याकाङ्क्षायां साधनताव्यञ्जकविभक्तिमलिङ्गवचनमेवोचितम् निष्प्रतियोगिकमन्वयं बोधयितुमीष्टे । तस्मात् साध्यनिर्देशान- इति प्रतिज्ञानन्तरं हेतूपन्यास: । हेतावुक्ते कथमस्य गमकत्वम् इत्या- काङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तव्प्रदर्शना वर्तते नवा इत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्व प्रदर्शनायोपनयः । उप योदाहरणम् । उदाहरणानन्तरं भवतु व्याप्तिः । तथापि व्याप्तं किं प नयानन्तरं निगमनम् । न च व्याप्तिपक्षधर्मतायाश्चतुर्भिरेवावयवैः पर्याप्तेः किं तेन इति वाच्यम् । अबाधितास प्रतिपक्षत्वयोरलाभे चतुर्णामप्य- पर्यवसानात् इति ( चि० २ अव० पृ० ७७-८२) । अथवा पर्वतो वहिमान् इति प्रतिज्ञाते कुतः इत्याकाङ्क्षायां धूमात् इति प्रयोगः । ततः व्याप्तिः इत्याकाङ्क्षायां यो यो धूमवान् स स वह्निमान् यथा महानसम् कथमस्य गमकत्वम् इत्याकाङ्क्षायां व्याप्तिपक्षधर्मताभ्याम् । तत्र कासौ । ततः व्याप्तस्य पक्षधर्मत्वमस्ति न वा इत्याकाङ्क्षायां वह्निव्याय- वानप्ययं हेतुर्बाधित एव सत्प्रतिपक्ष एव वा स्यात् इत्याकाङ्क्षायामबाधित- घूमवांश्चायम् इति तथा चायम् इति वा प्रयोगः । ततः व्याप्तिपक्षधर्मता- त्यासत्प्रतिपक्षत्वबोधनाय तस्माद्वह्निमान् इति तस्मात्तथा इति वा निगमन- साध्यपुनर्वचनस्यानुवादतया प्रयोजनजिज्ञासायां परिशेषाद्वाधादिविधूनन- मेव तत् इत्यवसीयते । तथैव व्युत्पत्तेः । तदाहुः उपसंहारस्यायं महिमा यद्विपरीतशङ्काविलोपनं नाम इति । अत्रेदं बोध्यम् । दृष्टान्तप्रयोग चानेनाप्यबाधितत्वादिबोधः कथं जन्यत इति वाच्यम् । सामयिकः न नियतः ' इति ( म० प्र० २ पृ० ३१-३२ ) ।लोकशास्त्र प्रसि- गिरिः ) । यथा न्यायप्रसूनाञ्जलिः न्यायकुसुमाञ्जलिः इत्यादौ (वाच०) । वान् विष्णुरपि न्यायशब्देन लक्षितलक्षणया प्रतिपाद्यते ( आनन्द- ४ प्रमाणानामनुग्राहकस्तर्कः ( भा० ) । तदनुगृहीतप्रमाणगम्यो भग- १५ वेदार्थनिर्णयसाधनमधिकरणात्मकः पदार्थः । स च न्यायः पूर्वोत्तर- वेदसंबन्धो जैमिनिवेदव्यासाभ्यां बहुप्रकारो दर्शितः । ६ दृष्टान्त विशेषः । तत्र लोकप्रसिद्धो यथा अक्के चेन्मधु विन्देत किम पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ (सांख्य० । कौ० श्लो० १ टी० ) इति । कदम्बमुकुलन्यायः सूचीकटाहन्यायः इत्या । दिश्च । शास्त्रप्रसिद्धस्तु यथा सविशेषणे हि वर्तमानौ विधिनिषेधौ विशेषण । मुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः अध्यारोपन्यायः मानाघीरा / मेयसिद्धिः इतिन्यायः इत्यादि । <न्यायशास्त्रम्> असाधारण्येन व्यपदेशा भवन्ति इति न्यायेन न्यायस्य परा/ नुमानापर पर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया । प्रधानत्वेन गौतममुनिप्रणीतशास्त्रस्य न्यायशास्त्रम् इति व्यपदेशो युज्यते / / तथा अभाणि सर्वज्ञेन सोयं परमो न्यायः । विप्रतिपन्नपुरुषं प्रति प्रतिपा दकत्वात् तथा प्रवृत्तिहेतुत्वाच्च इति ( सर्व० पृ० २४४ अक्ष० /// यथा गौतममुनिप्रणीतं प्रमाणप्रमेयसंशयप्रयोजन ( गौ० १/१/१ ) इस द्यारभ्य हेत्वाभासाश्च यथोक्ताः ( गौ० ५/२/२५ ) इत्येतत्पर्यन्तं प ध्यायात्मकं सूत्रोपनिबद्धं न्यायदर्शनम् । तदुक्तम् कणादेन च । शास्त्रं वैशेषिक महत् । गौतमेन तथा न्यायं सांख्यं च कपिलेन है। इत्यादि ( पद्मपुराणे उत्तरखण्डे अ० २०७) । अस्य शास्त्रस्य प्रवृतिष / त्रिविधा उद्देश: लक्षणम् परीक्षा चेति (वात्स्या० १/१/२) (त० साँप / पृ० १ ) । अधिकं तु न्यायशब्दव्याख्यानावसरे संपादितम् । एतच्छा / स्त्रस्य प्रयोजनं च निःश्रेयसप्राप्तिः । यदाह भाष्यकार: आत्मादे इति । हैप पदानि सम्यग्बुध्वा प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः । तच्चैतदुत्तरसूत्रेणानूद्यत इ तस्य निर्वर्तकं हानमात्यन्तिकम् तस्योपायोधिगन्तव्य इत्येतानि चत्वार्थः न्याय सिद्धान्तः – न्यायो गौतमप्रणीतसूत्रसंदर्भरूपा तर्कविद्या निःश्रेयसमधिगच्छति ( वात्स्या० १/१/१९५० 1 सिद्धान्तः अबाधितार्थः ( म० प्र० पृ० ३) । यथा न्यायसिद्धा मञ्जरी इत्यादौ । नैयायिकस्य मनस इन्द्रियत्वम् पार्थिवावयव अवती/ न्यायाभासः- यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः सः (बाल एतदुभयेषु च पाकः इति न्यायसिद्धान्तः इत्यादौ च । १११११ ) ( न्या० वा० १ पृ० १५ ) ( ल० म० ५४५ तत्रागमविरुद्धं यथा शुचि नरशिरः कपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवत् इति । प्रत्यक्षविरुद्धं तावत् वह्निरनुष्णः कृतकत्वाद्धटादिवत् इति । ( न्या० वा० १ पृ० १५) । <न्यासः> गृहस्वामिनः परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणी- यमिति ( मिताक्षरा २६७) । राजचोरारातिभयाद्दायादानां च वञ्चनात् । <न्यूनम्> १ ( निग्रहस्थानम् ) [क] हीनमन्यतमेनाप्यवयवेन न्यूनम् स्थाप्यतेन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥ ( बृहस्पतिः ) । (गौ० ५।२।१२) । प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन हीनं न्यूनं निग्रहस्थानम् । साधनाभावे साध्यासिद्धिरिति (वात्स्या० ५/२/१२) । [ख] यत्र विवक्षितार्थसमर्पकात्किंचिन्यूनं तत् (त० मा० पृ० ५१ ) । [ग] यत्किंचिदवयवशून्यावयवाभिधानम् ( गौ० वृ० ५/२/१२ ) (दि० १ पृ० २२) ( नील० पृ० ४५ ) । यथा न्यायमते पञ्चाना- मवयवानां सिद्धान्तसिद्धत्वेन पर्वतो वह्निमान् घूमात् यो यो धूमवान् स स वह्निमान् तथा चायम् इति चतुर्णामेवावयवांनामभिधानं न्यूनं भवति । न चायमपसिद्धान्तः । सिद्धान्तविरुद्धानभ्युपगमात् । अपि तु सभाक्षोभा- अवयवेनेत्यस्य स्वशास्त्र सिद्धेनेत्यर्थः । तेन सौगतस्य अवयवद्वयाभिधानेप दिनानभिधानात् । अत्रेदं बोध्यम् । अन्यतमेनाप्यवयवेन न्यून न न्यूनत्वम् ( गौ० वृ० ५/२/१२ ) । २ ऊनम् । ३ गर्ह्यम् इति काव्यज्ञा आहुः । <न्यूनवृत्तित्वम्> अल्पदेशकालवृत्तित्वम् । यथा पृथिवीत्वस्य द्रव्यत्वमपेक्ष्य न्यूनवृत्तित्वम् । न्यूनवृत्तिधर्म एव व्याप्यधर्मो भवति । पक्षः-१ [क] विप्रतिपत्त्येक कोटि: ( गौ० वृ० १/२/१ ) । यथा पक्षप्रतिपक्षपरिग्रहो वादः ( गौ० १/२/१ ) इत्यादौ शब्दो नित्यो न चादिप्रतिवादिभ्यां दार्शतविप्रतिपत्तिरूप; संशायकः कोटिभेदः । यथा पर्वतपक्षकवहिसाव्यकस्थले पर्वतो वह्निमान्न वा इति । अत्र वह्निमान् । इत्येक पक्षः न वा इत्यपर: पक्षः इति ज्ञेयम् । २ पक्षतावान् (मु० १ । पृ० १४६) । यथा संदिग्धसाध्यधर्मा धर्मी सिषाधयिषितसाध्यधर्मा । वा पक्षः ( चि० २ पृ० ३३ ) इत्यादौ पर्वते घूमेन वहिसाधने । पर्वतः पक्षः ( त० सं० ) ( त० भा० पृ० १४-१५) / पक्षता यस्मिन्नस्ति स पक्ष इत्यर्थः (वै० उ० ९/२/१ ) । ३ व्यवहारज्ञा / पक्षविदो विदुः ॥ इत्याहु: ( वीरमित्रो० अ० २ लेख्य० पृ०५ प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं । बृहस्पतिः ) । ४ [क] मौहूर्तिकास्तु शुक्लकृष्णप्रतिपदादिपञ्चदश्यत । मासस्यैको भागः पक्षः ( पु० चि० पृ० ३१) । ५ वैयाकरणाच पञ्चदशतिथ्यात्मकः कालः इत्याहुः ।ख द्वेधा विभक्तस्य चात्र पक्षशब्दप्रयोगो ज्ञेयः । ६ काव्यज्ञास्तु खगानां पतन्त्रम् / ७ पार्श्वमानः समूहः । यथा केशपक्ष इत्यादी इत्याहुः । अत्र केशात्परः समूहा / १३ वलयः इत्याहुः । १४ देहार्धभागः इति भिषज आहुः (वाच०/ ८ गृहम् । ९ विरोध: । १० सहायः । ११ बलम् । १२ मित्रम १५ भाषा । भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् ( मिता० २/६/// <पक्षता> १ [क] साध्यवत्वेन संदिह्यमानत्वम् । यत्र साध्यनियोति । तत्रानुमितेरनुत्पत्तिः इति साव्यनिश्चयकालेनुमितिवारणाय साध्यसंशय / रूपा पक्षता अनुमितेरङ्गम् इति प्राचीनमताभिप्रायेणेयं बोध्यम् (न्या० म० २ पृ० १९) ( म०प्र० अत्र भाष्यम् नानुपलब्धे न निर्मातेचे न्यायः प्रवर्तते अपि आ ( त० सं० २ ) । अत्र संदिग्धं संदेहप्रकारीभूतं साध्यं त्रेनोपात्तत्वम् । [ग] संदिग्धसांध्यधर्मत्वम् ( चि० २ पृ० ) विग्रहे संदेहप्रकारीभूतसाध्यवत्त्वमित्यर्थः । यथा धूमानुमाने पर्वतत्व । पक्षत्वम् ( त० भा० पृ० १५ ) । इदं लक्षणत्रयम् अनुमितेः पूर्व साध्यसंदेहो नियमेन वर्तते इत्यभिप्रायेण प्राचीनैः कृतम् (न्या० बी० (पृ० १६) । २ क सिषाधयिषा विरह सहकृतसाधकमानाभावः (चि० २ पृ० ३४ ) । अत्रायमर्थः । सिषाधयिषा अनुमित्सा । साधकमानं सिद्धिः । साध्यनिश्चयः इति यावत् । एवं च सिद्धिर- मित्युदयात् । तथा च अनुमित्साविरहविशिष्टसिद्धिर्विरोधिनी । तदभावः नुमितिविरोधिनी । अतः तत्र सिषाधयिषोत्तेजिका वाच्या तत्सत्त्वेनु- पक्षता इति पर्यवसितोर्थ : ( म० प्र० २ पृ० २३ ) । अत्रेदं बोध्यम् । श्रवणसंबद्धमात्रे घनगर्जिते इदं घनीयं गर्जित विशेषत्वात् इत्यनुमान विहितत्वेन तत्र संशयाभावात् साध्यनिश्चये प्रत्यक्षेपि वही सत्यप्यनु संशयं विनाप्यानुभाविकत्वात् संशय विघटकशाब्दसिद्ध्यनन्तरं अनुमिते- मित्सायां सत्यामनुमिते रुत्पत्तेश्च तन्निर्वाहार्थं नव्यमतानुसारेणेयं पक्षतानु- मितिप्रयोजिका इति ( न्या० म० २ पृ० १९ ) ( म० प्र० २ पृ० २४ ) ( त० दी० २ पृ० २४ ) । अयमाशयः । गगनविशेष्य- गगन मेघवत् इत्याकारकगगनत्वावच्छिन्नोद्देश्यता निरूपित मेघत्वावच्छिन्न- कमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन विधेयता कानुमितिदर्शनात् प्राचीनलक्षणं विहाय नवीनैः अनु सिपाधयिषामात्रं न पक्षता । विनापि सिषाधयिषां घनगर्जितेन मेघानु- पक्षत्वम् इति स्थिरीकृतम् ( न्या० बो० २ पृ० १६-१७) । एवं मानात् । अतः संशयस्य सिषाधयिषायाश्च पक्षतात्वं तिरस्कृत्य सिद्धान्त- सिद्धेयं पक्षता स्वीकृतेति भावः । संशयविघटकशाब्दसिद्ध्यनन्तरमनुमितिश्च ध्यासितव्यः इत्यादिश्रुत्या श्रवणानन्तरं मननं अनुमितिरूपं विहितम् । वेदान्तवाक्यैर्विहिता यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- तथा च तन्त्रात्मनस्तादृशवेदवाक्येन निश्चितत्वेन संशयाभावाद्व्यभिचारः स्यादिति ।[ख] सिषाधयिषाविरहविशिष्टसिद्व्यभावः ( न्या० म० २ पृ० १९) ( भा० १० श्लो० ७१) । अत्रेदं बोध्यम् । सिद्धिः पर्वतो वह्निमान् इति निश्चयः । तस्य सत्त्वे पर्वतो वह्निमान् इत्यनुमितेर- वक्तव्यम् । एवं सत्यपि पर्वतादौ पक्षे साध्यनिश्चये सत्यपि त्यांच सिषाधयिषायां पर्वतो वह्निमान् इत्यनुमित्युत्पत्तिदर्शनात्तत्र प नुत्पत्तेः सिद्धिरनुमितौ प्रतिबन्धिका । सिद्ध्यभावोनुमितौ कारणमिति सिषाधयिषा विरह विशिष्टत्वं सिद्धेर्विशेषणम् ( दीधि ० २ पृ० १२४ )॥ सिद्धेः सिषाधयिषाविरहेण वैशिष्ट्यं चैक कालावच्छे देनै कात्मवृत्तित्वम् ( दीधि० २ पृ० १३१ ) ( म० प्र० २ पृ० २४ ) / तदर्पक्ष, एकक्षणावच्छिन्नैकात्मसमवेतत्वम् इति ( ग० पक्ष० पृ० ५१ ) // समुदितार्थस्तु सिषाधयिषायाः साध्या नुमितीच्छारूपायाः समवायेन या अभाव: स्वरूप समवाय एतदुभयघटितसामानाधिकरण्यसंबन्धेन ति शिष्टायाः सिद्धेः समवायेनाभावः इति ( नील० २ पृ० १९) (70 पक्ष० पृ० ५१ ) । अत्रायं विशेषः । यादृशयादृशसिषाधयिषास सिद्धिसत्वे यलिङ्गकानुमिति : तादृशतादृशसिषाधयिषाविरहविशिष्टसिद्धय भावस्तल्लिङ्गकानुमिती पक्षता इति वक्तव्यम् ( दीधि ० २ पृ० १२३/ (मु० २) ( न्या० म० २ ) । तेन सिद्धिपरामर्शसत्त्वे यत्किंचिज्ञान वह्निमान् इति प्रत्यक्षसत्त्वे शाब्दसामग्र्यसत्त्वे च प्रत्यक्षातिरिक्तं ज्ञा जायताम् इतीच्छायामपि नानुमित्यापत्तिः । वहिव्याप्यधूमवान् प जायताम् इतीच्छायां तु भवत्येवानुमितिः । तल्लिङ्गकत्वप्रवेशेन १ धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयाम् इतीच्छायामपि नानुमिति / इति (मु० २ पृ० १४८-१४९) । [ग] सिषाधयिषाविरोध/ पर्वतस्य पक्षत्वम् । [घ ] सार्वभौमस्तु सिसाधयिषाविरहविशिष्टस्वक्षण / प्रमाणाभावः (वै० उ० ९/२।१ ) । यथा पर्वते धूमेन वहिसाधत / व्यवहितोत्तरक्षणोत्पत्तिकानुमितिकमिन्ना या सिद्धिः सिसाधयिषासिह / [ङ ] उपाध्यायाश्च सिषाधयिषाविरहविशिष्टस्य सिद्धिप्रत्यक्षसामथ्र्यो / न्यतरस्याभावः पक्षतेत्याहुः । तेन सिद्धिकाले समानविषयक प्र विशिष्टायास्तस्या अभाव: पक्षता इत्याह ( दीधि ० २ १० १२७/// सामग्री कालेपि च नानुमित्यापत्तिः इत्युपाध्यायानामाशयः (दि० २ / पृ० १५१ ) । अत्र प्रत्यक्षसामग्रीस्थाने अनुमानातिरिक्तसाधकमान श दीधितिकृत्संमतपाठोस्ति ( दीधि० २ पृ० १२९) । केचित मात्रं पक्षतेत्यन्ये । अयमभिप्रायः । पक्षताया अनमित्यदेतत्वात प्राभाकरमते विनापि घूमादिलिङ्गकवह्याद्यनुमितीच्छां तादृशानुमि- व्युत्पत्या तादृशानुमित्सा विरह विशिष्टप्रत्यक्षादिसामग्र्यभावस्य कारणता- गौरवम् । पक्षताहेतुतामते तादृशानुमितेरिच्छानियततया तत्रे- च्छाया लघीयस्या हेतुतयैवोपपत्तेः पक्षतापि तत्रेच्छैव इति ( ग० पक्ष० पृ० ५८) । प्राभाकरास्तु विनाप्यनुमित्सां कचित्परामर्शानुमिति- पक्षता नानुमितिहेतुः । परार्थानुमाने तु सिद्धान्त प्रवाहस्याविरललग्नस्यानुभाविकत्वात् कालभेदकल्पनायां च मानाभावाच्च दूषणमित्याहुः ( दीधि० पक्षता० २ पृ० १३२ - १३३ ) । <पक्षधर्मता> [क] व्याप्यस्य ( हेतोः ) पक्षे वर्तमानत्वम् (त० सं० २) ( भा० प० २ श्लो० ६९ ) । ख व्याप्यस्य पक्षसंबन्धः ( वाक्य ० २ पृ० १३ ) । ग] पक्षताश्रयवृत्तित्वम् (त० कौ० २ पृ० ११ ) । यथा पर्वते धूमेन वहौ साध्ये वहिव्याप्यधूमवान् पर्वतः इत्पन्न घूमस्य पक्षधर्मता । <पक्षसम:> ( हेत्वाभासः ) । संदिग्धसाध्यकधर्म्यन्तरम् ( ग० साधा० ) । <पक्षासिद्ध:> ( हेत्वाभासः ) आश्रयासिद्धः । <पक्षासिद्धिः>. आश्रयासिद्धि: ( भा०प० २ श्लो० ७६-७७ ) । <पक्षिणी> १ आगामिवर्तमानाहर्युक्ता रात्रिः ( अमरः १ ) । यथा यापये- द्वावहावेकरात्रिश्च पक्षिणीत्यभिधीयते इति । तत्र पूर्वदिनरात्रौ तन्निमित्ते पक्षिणीं रात्रि शिष्यर्विग्बान्धवेषु च ( मनु० ) इत्यादौ । अत्रोच्यते जाते पूर्वदिवसीयदिनमादायैव पक्षिणी इति व्यवहारः ( शुद्धि० त० ) । अत्र पक्षतुल्यौ दिवसौ यस्याः सा इति विग्रहः । पक्षशब्दादिन्प्रत्यये डीप् ( वाच० ) । २ विहगजातिस्त्री इति काव्यज्ञा आहुः । <पक्षिल:> गौतममुनिप्रणीतन्यायसूत्राणां भाष्यकर्ता वात्स्यायनो मु विशेष: (त्रिका ० ) । <पति:> १ सजातीयपदार्थानां स्थितिविशेषः । यथा एकपचुपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ अग्निना भस्मना चैव षद्भिः पङ्किविभिद्यते ( कूर्मपु० अ० १५) इत्यादौ । २ छन्दोविशेषः इति वृत्तशास्त्रज्ञा आहुः । ३ दशसंख्या इति गणका आहुः । ४ गौरवम् । ५ पाकः इति काव्यज्ञा आहुः ( वाच० ) / <पचनम्> पाकः ( ल० म० ) ( ग० व्यु० का० २) । <पचिः> १ पचधातुः । २ पाकः । <पञ्चदशस्तोमः> पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया। पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया । पञ्चभ्यो हिंकरोत/ स एकया स एकया स तिसृभिः इति । एकं सूक्तं त्रिरावर्तनीयम् / म प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरम्यासः । द्वितीयावृत्तौ मध्यमायाः // तृतीयावृत्तावुत्तमायाः । सोयं पञ्चदशस्तोमः ( जै० न्या० पा० ४ अधि० ३ ) । <पञ्चमी> (विभक्तिः ) तत्तद्धात्वर्थे ( पत्याद्यर्थे ) अपादानत्वादिबोधिका विभक्तिः ( श० प्र० श्लो० ६५ ) । यथा वृक्षात्पर्ण पततीत्यादौ वृक्ष पदोत्तरपञ्चमी । पञ्चम्यर्थश्च १ [क अपादानम् । यथा भूभृतो वतरतीत्यादौ पञ्चम्यर्थः । अत्र भूभृतो गङ्गासमवेतक्रिया जन्मि (पा० सू० ११४ । २४ ) इति । तदर्थश्च अपाये विभागे सुक्र भागाश्रयत्वात् अपादानत्वम् । तथा च सूत्रम् ध्रुवमपायेपादातर / निश्चलम् परसमवेतक्रियाजन्यविभागाश्रयः अपादानं स्यात् इति । प्र० पृ० ६ ) । अत्र गङ्गायामतिव्याप्तिवारणाय ' विशेषणं दत्तम् । अयं विशेषः । स्पन्दजन्य विभागाश्रयत्वेन बुझाय पादन वृक्ष स्पन्दते इत्यपि प्रयोगः स्यात् । विभागे यत् अवधिभूतं ध्रुवम् निश्चलम् प्रकृतपञ्चम्यर्थविभाग सकर्मक धात्वर्थपरम् इति ( का० व्या० पृ० ९ ) / ३ पृ० ९ ) ( सि० कौ० कारक० ) । ख ] भेदप्रतियोगितावच्छेदक जनकत्वान्वयिक्रियाशून्यम् तदपादानसंज्ञं स्यात् इति (का० ॥ त्वम् विभागश्च । यथा वृक्षात्पर्ण पततीत्यादौ पञ्चम्यर्थः । वृक्षा विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । प्रतियोगिताव- पततीत्यादौ भेदप्रतियोगितावच्छेदकत्वं विभागश्च पञ्चम्यर्थः । भेदे च्छेदकत्वस्याश्रयतासंबन्धेन विभागस्य च जनकतासंबन्धेन पत्यर्थ- क्रियायामन्वयः । एवं च वृक्षनिष्ठभेद प्रतियोगितावच्छेदकं यक्षनिष्ठ- विभागजनकं पतनं तदाश्रयः पर्णम् इत्याकारको बोधः ( ग० व्यु० धित्वम् अवधितानिरूपकत्वं वा । यथा वृक्षाद्विभजते फलमित्यादौ कारक० ५ पृ० १०४ ) ( का० व्या० पृ० ९) । [ग] अब- पञ्चम्यर्थः । अत्रेदं बोध्यम् । अत्र नापादाने पञ्चमी किंतु अवधौ । वृक्षावधिकविभागाश्रयः फलम् इत्यवधित्वस्यैव बोधात् इति ( म० प्र० पृ० ६) । अथवा अत्र विभागावधित्वमपादानत्वम् । अपाये विभागे विभागाश्रयः फलम् इति वाक्यार्थः ( का० व्या० पृ० ९ ) ( श० ध्रुवमवधिभूतमपादानमिति सूत्रार्थः । तथा च वृक्षनिष्ठावधिता निरूपक- इत्यादौ पञ्चम्यर्थः । अत्र हेतुत्वं द्विविधम् । कारकत्वम् ज्ञापकत्वं च । यथा घटो दण्डादित्यादौ । द्वितीयं यथा वह्निमा ज्यत्वं ) पञ्चम्यर्थ: । अत्र भीत्रार्थानां भयहेतुः (पा० सू० १/४/२५) इत्यनापादानत्वम् । सूत्रार्थश्च भयार्थकधातुयोगे भयहेतुत्वेन संभावित- हेतुकत्वेन व्याघ्राद्विभेतीत्या दौ इति प्रयोगः संगच्छते (ग० व्यु० का० ५ पृ० १०६) / अत्राह मरणादिकं संभावयति तत्पुरुषपरः व्याघ्रादयं बिभेति इति तथाहि । धातोर्यथायथं भयं भयाभावश्चार्थः । पञ्चम्या हेतुत्वमर्थः । तच्च धात्वर्थे भये धात्वर्थतावच्छेदके च भयत्वेन्वेति । आश्रयत्वं व्यापारश्च नापादानपञ्चमी । किंतु हेतुत्वार्थिका पञ्चमी । यथायथमाख्यातार्थः । इत्थं च हेतुपञ्चम्यैवोपपत्तौ भीत्रार्थानां भयहेतुः सूत्रं प्रपञ्चार्थम् इति बोध्यम् ( का० व्या० पृ० ९-१०) । अत्रोदाहियन्ते । पण्डितात्पुराणं शृणोति उपाध्यायादधीते रामादधीत- ५८ न्या० को ० संदेश: इत्यादौ प्रकृत्यर्थपण्डितादिकर्तृकोच्चारणाधीनत्वं पञ्चम्यर्थः । तस्य च श्रवण उच्चारण अर्थविशेषज्ञान इत्यादिक्रियायामन्वयः । अत्रा- ख्यातुः पण्डितादे: आख्यातोपयोगे ( पा० सू० १/४/२९) इत्यनेना पादानता ( ग० व्यु० का० ५ पृ० १०७) । ३ वृत्तित्वम् । यथा कूपादन्धं वारयतीत्यादौ पञ्चम्यर्थः । एवम् अधर्माजगुप्सत इत्यत्रापि । इत्यर्थो बोध्यते । एवम् उपाध्यायादन्तर्धत्ते शिष्य इत्यादौ पत्रमा पञ्चम्या वृत्तित्वमर्थः । धातोर्निन्दार्थः । तथा चात्र अधर्मे निन्दते । वृत्तित्वमर्थः । धातोः स्वविषयक प्रत्यक्षविरोधिव्यापारोर्थः । पञ्चम्यर्थवृति त्वस्य धात्वर्थतावच्छेदकप्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । एवं व उपाध्यायसंबन्धिस्व विषयकप्रत्यक्षविरोधिव्यापारानुकूलताञ् इति बोध: ( का० व्या० पृ० १० ) । अत्र अन्तर्धी येना दर्शन मिच्छति त्तरक्षणवृत्तित्वम् संबन्धाधीनत्वं वा । यथा हिमवतो गङ्गा प्रभवतीया (पा० सू० १/४/२८) इत्यनेनापादानता । ४ संयोगनाशा व्यवहि पञ्चम्यर्थः । ५ कर्मत्वम् ( विषयत्वम्) । यथा कृष्णात्पराजय शिशुपाल: अध्ययनात्पराजयते बाल: इत्यादौ पञ्चम्यर्थः । अधर्मादि मतीत्यादावपि पञ्चम्याः कर्मत्वमर्थः । धातोः करणमकरणं इत्यर्थः । एवम् धर्मात्प्रमाद्यतीत्यादौ पञ्चम्या विषयत्वम् धातोरनवधातर पञ्चम्यर्थकर्मत्वस्य करणे अकरणे चान्वयः । तथा च अधर्मे पुनर्न करो आख्यातस्याश्रयत्वमर्थः । एवं च धर्मविषयकानवधानाश्रयः इति बोधाः । पञ्चम्या द्वेषोर्थः। तत्र प्रत्यर्थस्य विषयत्वेन तस्य व इति ( श० प्र० श्लो० ६८ टी० पृ० ८० ) । ६ यथेष्टविनियोगः धात्वर्थे जन्यत्वेनान्वयः । तेन पापगोचरद्वेषजन्यनिवृत्तिमान् इत्येवं कोषा श्लो० ६८ टी० ) । अत्र धातोरपि यथेष्टविनियोगफलकस्वीका यथा विप्राद्धनमादत्त इत्यादौ पञ्चम्यर्थः ( का० व्या० १० ९-१०/ ( म० प्र० पृ० ६ ( ग० व्यु० का० ५ पृ० १०६ ) ( श० प्र० योगेन्वयः । इत्थं च विप्रीय यथेष्टविनियोगा व्यवहितोत्तरधनवृत्तिया पञ्चम्यर्थस्य विनियोगस्याव्यवहितोत्तरत्वसंनन्धेन धात्वर्थतावच्छेदके विनियोगफल कस्वीकारवान् इति बोधः । अत्र अव्यवहितोत्तरत्वं च स्वस मानविषयकपुरुषान्तरीयविनियोगव्यवहितभिन्नत्वम् । तेन शूद्रात् प्रति- (ग्रहीत्रा विप्रेण दत्तं धनमादातरि शूद्रादादत्ते इति न प्रयोगः ( का० व्या० पृ० १० ) । पञ्चपाण्डवपतिका द्रौपदी पञ्चमीशब्देनोच्यते इति पौराणिका आहुः । ज्योतिर्विदः । तादृशकलोपलक्षिततिथिश्च पञ्चमी इति मौहूर्तिका वदन्ति । सूर्यकिरणप्रतिबिम्बयोग्यत्वयोग्यत्वाभावयुक्ता चन्द्रस्य पञ्चमी कला इति <पञ्चलक्षणम्> १ अनुमान चिन्तामण्युक्तं व्याप्तिस्वरूपपञ्चकम् । तच्च (१) साध्याभाववदवृत्तित्वम् (२) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् (३) साध्यवत्प्रतियोगिताकान्योन्याभावासामानाधिकरण्यम् (४) सकलसा- ध्याभाववन्निष्ठाभावप्रतियोगित्वम् (५) साध्यवदन्यावृत्तित्वम् इति ( चि० २ पृ० २) । पञ्चलक्षणप्रतिपादकग्रन्थस्य पञ्चलक्षणी इति नाम / तत्र (पञ्चलक्षणम् इति पौराणिका आहुः । अत्र पञ्चलक्षणानि तु सर्गश्च पञ्चानां लक्षणानां समाहार: ( ङीप् ) इति व्युत्पत्तिर्दृष्टव्या । २ पुरा प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्च- लक्षणम् ॥ इति ( अमर० क्षेपक० का० १ शब्दादि० ) । <पट:> १ वेष्टनवस्त्रम् । यथा तन्तवः पटस्य समवायिकारणम् इत्यादौ ( त० सं० ) । २ चित्रलेखनपटः इति तन्त्रज्ञा आहुः ( देवीपु० ) ( बृ० सं० अ० ७१ ) ( वाच ० ) । <पण्डा> १ (अपूर्वम् ) फलसाधनत्वयोग्यः अदृष्टविशेषः । यथा मीमां- सकमते अहरह: संध्यामुपासीत इत्यादौ नित्यकर्मणः संध्यावन्दनादेर- भावे दुरदृष्टं जायते संध्यादेवन्दने तु तस्यानुत्पत्त्या फलानुपहितं दुरदृष्टं नश्यति इति तत्पण्डापूर्वम् । अत्र गुरवः । कार्यत्वेन अपूर्व एव विधेः विषयकं कार्यम् इत्यन्वयबोधः । तच्चापूर्व न किंचित्फलजनकम् । नैयायिकास्तु नित्यकर्मणामपि पापध्वंसादिरूपफलसत्त्वात्पण्डा पूर्व नानी- तु स्वतः प्रयोजनं नित्यकर्मणः इत्यङ्गीचक्रुः (वाच० ) ( दि० गु० ) । कुर्वन्ति । २ वेदोज्वला बुद्धिः । यथा पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूखां यः क्रियावान् स पण्डितः ॥ ( भा० व० ) इत्यादौ । ३ आगमजन्यं ज्ञानम् ( गी० मा० टी० // यथा विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्व पण्डिताः समदर्शिनः ॥ ( गीता० ५/१८) इत्यादौ । ४ धिकत्वं यत्पाण्डित्यं तदुदाहृतम् इति साहित्यशास्त्रज्ञा आहुः (प्रतापरुदे॥। <पतञ्जलिः> योगसूत्रकारक ऋषिविशेषः । पाणिनिसूत्रव्याख्यान रूपमा भाष्यकारः शेषावतारत्वेन प्रसिद्धो मुनिविशेषः । अत्र पतन्नञ्जलिर्नल तथा यस्मिन् इति पतञ्जलिरिति व्युत्पत्तिद्रष्टव्या (तत्वसु ० ) / सपना पतन्नञ्जलित इति पतञ्जलिः इत्यपि व्युत्पत्तिः । अनैतिद्यम् गो नद्यास्तीरे तपस्यतः कस्यचिदृषेरञ्जलितः पतितः इति (शका वार्तिक० शेखरे ) । केचित्तु व्याकरणमहाभाष्यकार: पतञ्जलियोग गोनदर्द काराद्भिन्न एवेति वदन्ति । <पतनम्> १ [ क अधःसंयोगावच्छिन्नस्पन्दः । अत्र पतनत्वं च का० २) । [ख स्पन्दत्वावान्तरजात्यवच्छिन्नः (ग० २ अवयव समवायिकारणककर्मत्वम् ( दि० १ साधर्म्य० पृ० ६२ ) ( म० यथा वृक्षात्पर्ण पततीत्यादौ पतत्यर्थः । स च वृक्षविभागजनकव्यापारि मारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः पतनम् (वाक्य पृ० ९ ) । [ग] अधःसंयोगावच्छिन्नो गुरुत्व प्रयोज्यपतनलजा वच्छिन्नो वा स्पन्दः ( श० प्र० लो० ६८ टी० १० ८०// २ धर्मज्ञास्तु पातिव्यम् । तच्च [ क ] भोगावच्छिन्नं दुरितन / द नरकं पतित इत्यादौ ( श० प्र० श्लो० ६५ टी पृ० ७६)//al द्विजातिकर्मभ्यो हानिः ( गौतम ० ) । यथा विहितस्याननुष्ठानान च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ( याज्ञ० श्लो० २१९) इत्यादौ इत्याहुः । <पतिः> शिवः । यथा पतिपशुपाशास्त्रयः पदार्था इत्यत्र ( सर्व० सं० १७५ शैव० ) । <पतित्वम्> निरतिशय दृक्रियाशक्तिमत्त्वरूपेणैश्वर्येण नित्यसंबन्धित्वम् । <पदम्> १ [क] ते विभक्तयन्ताः पदम् ( गौ० २१२१६० ) । यथा- दर्शनं विकृत वर्णा विभक्तयन्ताः पदसंज्ञा भवन्ति । विभक्तिर्द्वयी । नामिकी आख्यातिकी च । ब्राह्मणः पचति इत्युदाहरणम् । उपसर्ग- निपातास्तर्हि न पदसंज्ञा: । लक्षणान्तरं वाच्यमिति । शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपः तयोः पदसंज्ञार्थमिति । पदेनार्थसंप्रत्यय इति प्रयोजनम् । नामपदं चाधिकृत्य परीक्षा गौरिति पदं खल्विदमुदा- हरणम् (वात्स्या० २१२/६० ) ( त० कौ० ) । पदत्वं च वृत्तिमत्त्वम् (गौ० वृ० २१२/६० ) । संकेतवद्वर्णत्वम् (वै० उ० २।२।२१ ) । पदानां साधुत्वं च व्याकरणव्यङ्ग्योर्थविशिष्टशब्द निष्ठः पुण्यजनक- कारणम् । सूत्रे विभक्तयन्तत्वं च शाब्दबोधौपयिक विभक्तिप्रकृतित्वम् तावच्छेदको जातिविशेष: ( ल० म० ) । पदज्ञानं च शाब्दबोधे ( ग० अव० हेतु ० ) । [ख ] वर्णसमूहः । समूहश्चात्रैकज्ञान विषय- भाव एव । अत्रोच्यते । वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः इति ( सा० ६० परि० २ श्लो० २) । एवं तत्र वर्णानां क्रमवतामाशुतर- विनाशित्वेनैकदानेकवर्णानुभवासंभवात् पूर्वपूर्ववर्णाननुभूयान्त्यवर्णश्रवण- काले पूर्ववर्णानुभवजनित संस्कारसह कृतेनान्त्यवर्णसंबद्धेन पदव्युत्पादन- समयग्रहणानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीति- जेन्यते । सहकारिसामर्थ्यात्प्रत्यभिज्ञावत् । प्रत्यभिज्ञाप्रत्यक्षे हि अतीतापि पूर्वावस्था स्फुरत्येव इति ( त० भा० प्रमा० ४ पृ० १८-१९ ) । [च ] वाक्यैकदेशः पदम् इति केचिदाहुः । न्यायनये पदं द्विविधम् । अर्थबोधकम् । [ङ ] सुप्तिङन्तं पदम् इति शाब्दिका वदन्ति । मुख्यमपि चतुर्विधम् । यौगिकम् रूढम् योगरूढम् यौगिकरूढं चेति । मुख्यम् । यथा गोघटादिव्यत्त्युपस्थापकं गोघटादिपदम् ( त० कौ० ) । तत्राद्यं पाचकादिपदम् । द्वितीयं ब्राह्मणवाचकं विप्रपदम् गोमण्डपादि- पदं च । तृतीयं पङ्कजादिपदम् । चतुर्थमुद्भिदादिपदम् इति (तर्का०४) (मु० ४ पृ० १८९ ) ( त० प्र० ख० ४ पृ० ३०) । यलक्षणा. यथा गङ्गायां घोष इत्यत्र लक्षणावृत्त्या तीरोपस्थापकं गङ्गापदर वृत्त्या यमर्थमुपस्थापयति तत्तस्मिन्नर्थे गौणम् लाक्षणिकम् इति चोच्यते। ( त० कौ० ४ ) । शास्त्रान्तरे चत्वारि पदजातानि । नामाख्याते प्रवचनीयं पञ्चमम् इति हेलाराज आह । अत्र हरिकारिका दिशा चोपसर्गनिपाताश्च ( निरुक्त० ) ( वै० सा० द० पृ० ३१ ) / कर्म कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृति प्रत्ययादिवत् ॥ इति ( प्रकीर्णके ) । कर्मप्रवचनीयेन वैञ्च पदस्य पञ्चविधत्वम् इति हेलाराजो व्याख्यातवान् । संबन्धविशेष द्वारेण क्रियाविशेषद्योतनवदुपसर्गेष्त्रेवान्तर्भवन्ति कर्मप्रवचनीयाः इलाम चेति त्रिविधं पदम् इत्यालंकारिका आहुः । २ श्लोकस्य चतुर्ण भागः । ३ व्यवसाय: । ४ स्थानम् । ५ त्राणम् । ६ चिह्नम संधाय पदचातुर्विध्यं भाष्यकारेणोक्तम् । वाचकम्लक्षकम् काव्यज्ञा आहुः । <पदार्थः> पदाभिधेयः ( त० दी० ) ( त० कौ० ) । सत्या भिधेयः घटत्वात्मकजातिकम्बुग्रीवादिरूपाकृतिविशिष्टो व्यक्तिविशेषो व्यक्तयः पदार्थः ( गौ० २/२/६८ ) । यथा घटमानयेत्यादौ घटपदा पदार्थः । पदार्थत्वं च [क] पदशक्तिः ( ग० व्यु ० [ख ] वृत्या पदोपस्थाप्यत्वम् । [ग] पदतात्पर्य विषयत्वम् ॥ इति (वै० उ० ७।२।२० ) । आकाशादिपदस्य जात्यवाचकत्लो पदानामियं गतिः । गुणकर्मादिवाचकपदानां तु जातिव्यक्ती न क्षतिः । जातिपदं वा धर्मपरम् ( गौ० वृ० २/२/६८ ) /अ वचनम् इति सांप्रदायिकाः । नव्यास्तु जातिव्यक्त्योरेव ( जातिविि व्यक्तौ ) एकशक्तिप्राप्त्यर्थ सौत्रमेकवचनम् । आकृतिरूपं तु संस् (पृथगेव शक्यम् इत्याहु: ( श० प्र० ) ( गौ० वृ० २१२१६८ ) ( दि० ४ पृ० १७८- १७९ ) । वस्तुतः आकृतिपदं न संस्थानपरम् । किंतु जातिव्यक्त्योः समवायात्मकसंसर्गपरमेव । करणव्युत्पत्त्या आकारनिरूप- कार्यकत्वात् ( श० प्र० ) । अथ पदार्थविभागः प्रदर्श्यते (क) पदार्थो द्विविध: । भाव: अभावश्चेति ( कि० व० १ पृ० ८) । तत्र भावा द्रव्यादयः षट् । अभावस्तु प्रागभावादिभेदेन चतुर्विध: । ( ख ) पदार्थाः सप्त द्रव्यम् गुणः कर्म सामान्यम् विशेषः समवायः अभावः इति (त० सं० ) ( भा०प० ) ( न्या० म० ) ( चि० ) । एषु सप्तसु पदार्थेषु गोतमोक्तानां षोडशानां ( वक्ष्यमाणानाम् ) पदार्थानामन्तर्भाव इत्थम् । प्रमाणस्येन्द्रियादेर्द्रव्येन्तर्भावः । व्याप्तिज्ञानादेर्गुणे । प्रमेयस्यात्म- बुर्गुणे । मनसो द्रव्ये । प्रवृत्तेगुणे । दोषाणामिच्छाद्वेष मिथ्याज्ञान- शरीरेन्द्रियस्वरूपस्य द्रव्ये । अर्थस्य गन्धरसरूप स्पर्शशब्द स्वरूपस्य गुणे । स्वरूपाणां रागद्वेषमोहपदप्रतिपाद्यानां गुणे । प्रेत्यभावस्य मरणानन्तर जन्मनो गुणे । सुखदुःखसंवेदनस्वरूपस्य मुख्यफलस्य गुणे । गौण- मुख्यसाधारणजन्यमात्र स्वरूपफलस्य द्रव्यादिषु । पीडालक्षणस्य दुःखस्य तयेच्छा विषयात्मकस्य प्रयोजनस्य यथायथं द्रव्यादिषु । साध्यसाधनो- गुणे । अपवर्गस्यात्यन्तिकध्वंसरूपस्याभावे । संशयस्य गुणे । साध्य- णामवयवानां गुणे । व्याप्यारोपेण व्यापकारोपस्य तर्कस्य गुणे । निर्णयस् भयवत्तानिश्चयविषयस्य दृष्टान्तस्य यथायथं द्रव्यादिषु । तत्तच्छास्त्र- सिद्धार्थरूपस्य सिद्धान्तस्य द्रव्यादिषु । शब्दस्वरूप प्रतिज्ञाद्यन्यतमरूपा- गुणे । तत्त्वबुभुत्सुकथारूपवादस्य गुणे । विजिगीषुकथारूपजल्पस्य गुणे । स्वपक्षस्थापनाहीन कथारूपवितण्डाया गुणे । अनुमिति तत्करणज्ञान एत- दन्यतर प्रतिबन्धकज्ञान विषयरूपाणां हेत्वाभासानां यथायथं द्रव्यादिषु । यथायथं द्रव्यादिष्वन्तर्भावः । तथाहि । प्रतिज्ञाहानेरभावेन्तर्भावः । प्रति- न्तरस्य गुणे । अर्थान्तरस्य गुणे । निरर्थकस्य गुणे । अविज्ञातार्थस्य शान्तरस्य गुणे । प्रतिज्ञाविरोधस्य गुणे । प्रतिज्ञासंन्यासस्याभावे । हेत्व- गुणे । अपार्थकस्य गुणे । अप्राप्तकालस्य गुणे । न्यूनस्य गुणे । एवं अधिकस्य गुणे । पुनरुक्तस्य गुणे । अननुभाषणस्याभावे । अज्ञानस्या- भावे । अप्रतिभाया अभावे । विक्षेपस्याभावे । मतानुज्ञाया गुणे । पर्यनुयोज्योपेक्षणस्याभावे । निरनुयोज्यानुयोगस्य गुणे । अपसिद्धान्त- स्याभावे । हेत्वाभासानां द्रव्यादिषु अन्तर्भावः इति ( दिन० १ पृ० २० - २२ ) ( नील० पृ० ४५ ४६ ) । सामान्यादयः पदार्था अलीका एव इति विज्ञानवादिनो वौद्धा आहुः ( राम० १) । दर्शनभेदेन मतभेदेन च पदार्था नानाविधाः । तथाहि विषयता तत्त्वादिवत् प्रति- योगित्याधिकरणत्वतत्त्व संबन्धत्वादयोप्यतिरिक्ता एव पदार्थाः इत्येकदेशिन आहुः ( दीधि ० २ सिद्धा० ल० पृ० ४१ ) । चिदचिदात्मको द्वौ पदार्थों इति मायावादिनो वेदान्तिन आहुः । चिदचिदीश्वरभेदेन त्रयः पदार्था इति रामानुजीयाः । स्वतन्त्रपरतन्त्रभेदेन द्वौ पदार्थों इति माध्वाः । पतिपशुपाशभेदेन त्रयः पदार्थाः इति शैवा नाकुलीशाश्चाहुः । द्रव्यम् गुणः कर्म सामान्यम् विशेषः समवायः एते षट् पदार्था इति कणाद- प्रधाना वैशेषिका आहुः । अत्र भाष्यम् प्रमेयाः पदार्थाः इति ( प्रशस्त० पृ० २६ ) । एते भावपदार्थाः । नञर्थानुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षिताः इति ( सर्व० पृ० २१४ औलू० ) । तथा च सूत्रम् धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याम्यां तत्त्वज्ञानान्निःश्रेयसम् ( ० १ । १४ ) इति । अभावस्तु कारणाभावात्कार्याभावः (वै० ११२ १ ) (९२१११- १०) इत्यादिसूत्रज्ञापितः इति बोध्यम् (त०व० ) (वै० वि० ११११४) । अत्र न्यायलीलावतीकाराः । अभावश्च वक्तव्यः निःश्रेयसोपयोगित्वा- द्भावप्रपञ्चवत् । कारणाभावेन कार्याभावस्य सर्वसिद्धत्वादुपयोगित्वसिद्धेः इत्याहुः । न्यायाचार्यास्तु द्रव्यकिरणावल्याम् एते च पदार्थाः षड्भावाः प्रधानतयोद्दिष्टाः । अभावस्तु स्वरूपवानपि नोद्दिष्टः । प्रतियोगिनिरू- पणाधीननिरूपणत्वात् न तु तुच्छवत् इत्यभावः सप्तमः पदार्थः इत्य- जीचक्रुः (वै० वि० ११११४ ) । प्रमाणम् प्रमेयम् संशयः प्रयोजनम् दृष्टान्तः सिद्धान्तः अवयवः तर्कः निर्णयः वादः जल्पः वितण्डा हेत्वाभासः छलम् जाति: निग्रहस्थानम् इत्येते षोडश पदार्था: इति गौतमप्रधाना नैयायिका आहुः । प्रकृतिर्विकृतिरुभ्यमनुभ॑यमिति भेदेन चत्वारः पदार्थाः संकलनया पञ्चविंशतिः इति सांख्याः पातञ्जलाश्चाद्दुः । तुतातभट्टमतानुयायिनां मते द्रव्यगुणकर्मसामान्यरूपाश्चत्वार एव पदार्थाः । प्राभाकरमते द्रव्यगुणकर्मसामान्यसंख्यासमवायसादृश्यशक्तयः इत्यष्टौ पदार्था: (वै० वि० ) ( प० मा० ) । <पद्मकः> सषष्ठीसप्तमीयोगे वारश्चेदंशुमालिनः । पद्मको नाम योगोयं सहस्त्रार्क हैः समः ॥ (पु० चि० पृ० १०५) । <परकृतिः> ( अर्थवादः ) [क] अन्यकर्तृकस्य व्याहतस्य विधेर्वादः । ( वात्स्या० २।१।६४ ) । [ख ] पुरुषविशेषनिष्ठमिथोविरुद्धकथनम् । यथा हुत्वा वपामेवाग्रेभिघारयन्ति अथ पृषदाज्यं तदुह चरकाध्वर्यवः पृषदाज्यमेवाग्रेभिघारयन्ति अग्ने: प्राणाः पृषदाज्य मित्येवमभिदधति ( श्रुतिः ) इत्येवमादि ( गौ० वृ० २ । १ । ६४ ) (वात्स्या० २।१।६४ ) । [ग] एककर्तृकमुपाख्यानं परकृतिः ( भादी० ६/७/२६)। परतत्रम् - १ इतरसत्ताधीनसत्ताकम् । यथा राजभृत्यः परतन्त्रः । २ क्वचित् स्वेतरबहिर्विषयकज्ञानजनक सामग्रीसापेक्षम् ( त० प्र० १ ) । यथा मनश्चाक्षुषादिप्रत्यक्षे परतन्त्रम् ( सर्व० पृ० ९ चार्वा० ) ( त० भा० ) । परत्वम् – १ ( गुणः ) [ क ] पराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधम् । दिक्कृतम् काळकृतं च । तत्र दिक्कृतम् दिग्विशेषप्रत्यायकम् । कालकृतं च वयोभेदप्रत्यायकम् ( प्रशस्त० पृ० २० ) । क्रमेणोदाहरणं यथा गण्डौ कपोलौ तत्परे हनू ( अमरः २१६ १९० ) इत्यादौ परश्वस्त - त्परेहनि (अमरः ३।४।२२ ) इत्यादौ च । अत्र सूत्रम् एकदिक्काभ्यामेक- कालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च ( वै० ७१२/२१ ) इति । परत्वस्य लक्षणं च परव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वम् ( वाक्य ० १ पृ० ८ ) । अत्र नव्याः बहुतरप्रदेशसंयोगान्तरितत्वरूप- विप्रकृष्टत्व बहुत रसूर्यपरिस्पन्दान्तरितजन्यत्वरूपज्येष्ठत्वाम्यां दैशिककालि ५९ न्या० को० कपरत्वव्यवहारस्योत्पत्तेर्न परत्वस्य गुणान्तरत्वमित्याहुः ( दि० गु० पृ० २०९ ) । वस्तुतस्तु विप्रकृष्टत्वज्ञानात्परत्वमुत्पद्यत इति विप्रकृष्टत्वा- उपरत्वं भिन्नमेवेति वैशेषिकसूत्रात् (७१२१२१) प्रतिभाति । [ख] परत्वत्वजातिमत् । परव्यवहारासाधारणकारणम् । परत्वं द्विविधम् । दिक्कृतम् कालकृतं च । तथा च परव्यवहारो द्विविधः । यथा अयं ज्येष्ठः अयं दूरः इति (वाक्य० १ पृ० ८) । तत्र दूरस्थे दिक्कृतं परत्वम् । ज्येष्ठे काळकृतं परत्वम् ( त० सं० ) । यो यदपेक्षया दूरस्थः तत्र तदवधिकं परत्वं दिक्कृतम् । अत्र दिपिण्डसंयोगोसमवायिकारणम् । दूरत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् । यो यदपेक्षया ज्येष्ठः तत्र तदवधिकं परत्वं कालकृतम् । अत्र कालपिण्डसंयोगोसमवायि- कारणम् । ज्येष्ठत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् इति ( त० कौ० पृ० ६ ) । दिकृतं परत्वं मूर्तमात्रवृत्ति भवति । कालकृतं परत्वं तु जन्यद्रव्य मात्रवृत्ति भवतीति ज्ञेयम् (सि० च० १ पृ० १८) (त० कौ० १ पृ० ६) । अत्रेदं बोध्यम् । दिकृतत्वं च ज्ञायमान- दिग्जन्यत्वम् । तथाहि वैराजाद्वेणासंगमापेक्षया करहाटकं स्वसमवायि- संयुक्तसंयोगेन बहुतरदेशसंयोगवत् इति ज्ञानेन दैशिकपरत्वम् उत्पद्यते । तच्च इदमस्माद्विप्रकृष्टम् इत्यपेक्षाबुद्ध्या जायते ( दि० १ ) । तत्र च संबन्धघटकतया दिशः प्रवेशात्तजन्यत्वं बोध्यम् (वाक्य० १पृ० ८) । एवम् पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः झळकीप्रामाद्विजयपुरम- कृष्णदत्यत्रापि ज्ञेयम् । कालकृतत्वं च स्वसमवायि- संयुक्तसंयोगसंबन्धेन रविक्रियाप्रकारकज्ञानविषयकालजन्यत्वात् तत्संबन्ध- घटककालजन्यत्वरूपम् स्वसंयोगजन्यत्वरूपं वा ( वाक्य० १ पृ० ८) । तच्च अयमस्माद्बहुतरकालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अ- थवा बहुतर दिवाकरक्रिया विशिष्टशरीरज्ञानात्कालिकपरत्वोत्पत्तिरिति (सि० च० ) । यथा रामो लक्ष्मणापेक्षया ज्येष्ठ इत्यादौ लक्ष्मणस्य सूर्य- परिस्पन्दापेक्षया रामस्य सूर्यपरिस्पन्दा अधिकाः इति रामो ज्येष्ठः । विशे- षस्तु अन्यत्र (वै० उ० ७/२/२१) द्रष्टव्यः । तत्र दिक्कतस्योत्पत्तिरभिधी- यते । एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सत्येकस्य द्रष्टुः संनिकृष्टमवधिं कृत्वा तस्माद्विप्रकृष्टोयम् इति परत्वाधारे विप्रकृष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात्परत्वस्योत्पत्तिः । विप्रकृष्टं चावधिं कृत्वा परस्मात् संनिकृष्टोयम् इत्यपरत्वाधार इतरस्मिन् संनिकृष्टा बुद्धिरुत्पद्यते । तामपेक्ष्यापरेण दिग्देशेन संयोगादपरत्वस्यो- त्पत्तिः ( प्रशस्त० पृ० २० - २१ ) । अत्र द्विविधयोः परत्वापरत्वयो- र्नाशकोपेक्षाबुद्धिनाशः इति मुक्तावलीकार आह । उपस्कारे तु त्रिविध- कारणनाशस्यैव परत्वापरत्वनाशकत्वमुक्तम् (वै० वि० ७/२/२१ ) । नाशो दैशिकयोर्ज्ञेयः सप्तधा शांकरे मते । निमित्तस्य विनाशाद्वास[^१]म- बायिन एव वा ॥ समवायिविनाशाद्वा निमित्तासमवायिनोः । नाशाद्वापि विनाशाद्वा निमित्तसमवायिनोः ॥ निमित्तभिन्नयोर्वापि नाशात्कारणयोः क्वचित् । विनाशादपि सर्वेषां हेतूना मेकदैव वा ॥ इति ( त०व० २१०) । अथ परत्वापरत्वयोः कालकृतयोरुत्पत्तिरभिधीयते । वर्तमानयोरनियत- दिग्देशसंयुक्तयोर्युवस्थविरयो रूढश्मश्रु कार्कश्यवलीपलितादिसानिध्ये सत्ये- कस्य द्रष्टुर्युवानमंवधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते । ततस्ताम- पेक्ष्य परेण कालप्रदेशेन संयोगात्परत्वस्योत्पत्तिः । स्थविरमवधिं कृत्वा यूनि संनिकृष्टा बुद्धिरुत्पद्यते तदा तामपेक्ष्यापरेण कालप्रदेशेन संयोगाद- परत्वस्योत्पत्तिः ( प्रशस्त० पृ० २१ ) । इदं च बोध्यम् । त्रिधा कालिकयोर्नाशः समवायिविनाशतः । निमित्तनाशतो वाभ्यामुभाभ्यां वापि कुत्रचित् ॥ निमित्तमात्रनाशेन तन्नाशः कस्यचिन्मते इति ( त० व० २११ ) । विनाशस्त्वपेक्षा बुद्धिसंयोगद्रव्यनाशात् इति प्रश- स्तपादाचार्याः ( प्रशस्त ० पृ० २१) । १ अपेक्षाबुद्धिविनाशात् २ संयो- गविनाशात् ३ द्रव्यविनाशात् ४ द्रव्यापेक्षाबुद्ध्योर्युगपद्विनाशात् ५ द्रव्य- संयोगविनाशात् ६ संयोगापेक्षाबुद्ध्योर्युगपद्विनाशात् ७ त्रयाणां समवाय्य - समवायिनिमित्तानां विनाशाचेति तदर्थः । तथाहि । १ उत्पन्ने परत्वे यस्मिन्काले सामान्यबुद्धिरुत्पन्ना भवति ततोपेक्षाबुद्धिविनश्यत्ता सामान्य- ज्ञानतत्संबन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । तत्रापेक्षाबुद्धे [^१] असमवायिनः इति पदच्छेदः । विनाशो गुणबुद्धेश्वोत्पत्तिः । ततोपेक्षाबुद्धिविनाशाद्गुणस्य विनश्यता गुणज्ञानतत्संबन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । तत्र प्रय बुद्धेरुत्पत्तिर्गुणस्य विनाशः इति । २ संयोगविनाशाद्यथा । अपेक्षावुद्धि समकालमेव परत्वाधारे कर्मोत्पद्यते । तत्कर्मणा दिकूपिण्डविभाग: तदैव च परत्वस्योत्पत्तिरित्येकः कालः । ततः सामान्यबुद्धेरुत्पत्तिः दिकू पिण्डसंयोगस्य विनाशः । ततो यस्मिन्काले गुणबुद्धिरुत्पद्यते व काले दिपिण्डसंयोगविनाशाद्गुणस्य विनाशः । ३ द्रव्यविनाशादपि व परत्वाधारावयवे कर्मोत्पन्नं यस्मिन्नेव कालेवयवान्तराद्विभागं करोति तस्मिन्नेव कालेपेक्षाबुद्धिरुत्पद्यते । ततो विभागाद्यस्मिन्नेव संयोगविनाशस्तस्मिन्नेव काले परत्वमुत्पद्यते । ततः द्रव्यविनाशः । तद्विनाशाच्च तदाश्रितस्य गुणस्य विनाशः । ४ द्रव्य संयोगविनाशा क्षाबुद्ध्योर्युगपद्विनाशादपि यथा यदा परत्वाधारावयवे कर्मोत्सव संयो तदैवापेक्षाबुद्धिरुत्पद्यते । कर्मणा तदवयवान्तराद्विभागः तदैव परत्वस्योत्पत्तिरित्येकः कालः । ततो यस्मिन्नेव काले गविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते । तदनन्तरं संयोगविना क्षाबुद्ध्योर्विनाशात्परत्वस्य विनाशः । ५ द्रव्यसंयोगविनाशादपि यथा यदा शाद्रव्यविनाश: सामान्यबुद्धेरपेक्षाबुद्धिनाश इत्येकः कालः । ततो दबा परत्वाधारावयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति तस्मिन्नेव पिण्डकर्मापेक्षाबुद्ध्योर्युगपदुत्पत्तिः । ततो यस्मिन्नेव काले परत्वत्योपवि दिपिण्डविभागश्च क्रियते । ततो यस्मिन्नेव काले सामान्य स्तस्मिन्नेव काले अवयवविभागाद्वव्यारम्भकसंयोग विनाशः पिण्डकर्मणा तत्समानकालमवयवसंयोगविनाशात् पिण्डविनाशः दिपिण्डविभागास नाशात् परत्वस्य विनाशः । ६ संयोगापेक्षाबुद्ध्योर्युगपद्विनाशादपिय परत्वमुत्पद्यते तदा परत्वाधारकर्म । ततो यस्मिन्नेव काळे परत्वसामान्य बुद्धिरुत्पद्यते तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते । इत्येकः कालः । ततः संयोगविनाशादपेक्षाबुद्धिनाशात्परत्वस्य विनाशः। सामान्य बुद्धितोपेक्षाबुद्धिनाशो विभागाच दिकूपिण्डसंयोग विनाश ७ त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशादपि यथा यदापेक्षाबुद्धि- रुत्पद्यते तदैव पिण्डावयवे कर्म । ततो यस्मिन्नेव काले कर्मणावय- वान्तराद्विभागः परत्वस्योत्पत्तिः तस्मिन्नेव काले पिण्डेपि कर्म । ततो विभागात् पिण्डारम्भकसंयोगविनाशः पिण्डकर्मणा च दिक्- पिण्डविभागः तदैव सामान्यबुद्धेश्वोत्पत्तिरित्येकः कालः । ततः संयोगविनाशात् पिण्डनाशः । विभागाच्च दिपिण्डसंयोगविनाशः । सामान्यज्ञानादपेक्षाबुद्धेर्विनाशः इत्यतः युगपत्रयाणां समवाय्य- समवायिनिमित्तानां विनाशात् परत्वस्य विनाशः इति ( प्रशस्त ० पृ० २१ - २३ ) । २ [क] प्रतिपादकेच्छाविषयत्वम् ( चि० ) । तच्च शाब्दबोधप्रयोजकं तात्पर्यापरपर्यायम् । यथा हरिशब्दः सिंहपरः इत्यादौ । यथा वा सैन्धवमानयेत्यादौ भोजनसमये सैन्धवपदस्य लवणपरत्वम् इत्यादौ । [ख तत्प्रतीतीच्छयोच्चरितत्वम् ( चि० १) ( मू० म० ) । यथा यत्परः शब्दः स शब्दार्थः इत्यादौ । ३ अधिक- देशवृत्तित्वम् व्यापकत्वं वा । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव च (भा०प० श्लो० ८) इत्यादौ सत्ताया द्रव्यत्वमपेक्ष्य द्रव्यत्वादेव पृथिवीत्वाद्यपेक्ष्य व्यापकत्वात् परत्वम् (मु० १ पृ० ३४ ) । ४ सूक्ष्मत्वम् । यथा परं वा त्रुटे: (गौ० ४।२।१५) इत्यादौ त्रुटिमपेक्ष्य परमाणोः परत्वम् । ५ मिन्नत्वम् । ६ श्रेष्ठत्वम् । यथा द्वे ब्रह्मणी वेदितव्ये परं चापरम् (श्रुतिः ) इत्यादौ । ७ ब्रह्मण आयुःकालविशेषः इति पौराणिका आहुः । अत्रोक्तम् । निजेन तस्य मानेन चायुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्धे च परार्धमभिधीयते ॥ त्रीणि कल्पशतानि स्युस्तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षे पराख्यं तच्च यत्पदम् ॥ इति ( कूर्म० अ० ५) ( वाच० ) । ८ शत्रुत्वम् इति काव्यज्ञा आहुः (वाच० ) । <परममुक्ति:> ( निःश्रेयसम्) समानाधिकरण विशेषगुणावच्छिन्नसवासन- मिथ्याज्ञानध्वंस: ( न्या० सि० दी० ) । यथा शुकभीष्मयुधिष्ठिरादीनां परममुक्तिः । <परमाणुः> १ मूर्तत्वे सति निरवयवः ( त० कौ० ) । स च जन्यद्रव्या- वयवः क्रियावान् अतीन्द्रियः निरवयवः नित्यश्चेति नैयायिकवैशेषिकाणां सिद्धान्तः । अत्र सूत्रम् न प्रलयोणुसद्भावात् ( गौ० ४/२/१४) । इति । परमाणुनामुत्पत्तिं नाशं च स्वीकुर्वन्ति क्षणभङ्गरवादिनो बौद्धाः । ( दि० १ पृथिवी० पृ० ६७-६८) । भूतत्वादि परमाणोर्लक्षणमिति सांख्या आहुः (गौ० वृ० ४।१।३१) । न्यायवैशेषिकनये परमाणु सद्भावे प्रमाणमुच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते तत् सावयवम् चाक्षुषद्रव्यत्वात् पटवत् इति । त्र्यणुकावयवोपि सावयवः स च नित्यः । कार्यत्वेनवस्थाप्रसङ्गात् । असमवेतभावकार्योत्पत्तिप्रसङ्गाञ्च महदारम्भकत्वात् तन्तुवत् इति । यो ह्यणुकावयवः स एव परमाणुः । (मु० १ पृ० ६८-६९) । परमाणुश्च परं वा त्रुटे: (गौ० ४/२/१५) तथा च मेरुसर्षपयोरपि तुल्यत्वप्रसङ्गः इति ( त० दी० १ पृ० १०) इति ज्ञेयः । त्रुटेः परं यदतिसूक्ष्मं तत्परमाणुः । वाशब्दोवधारणे अथवा त्रुटेरवयवस्तदवयवो वा परमाणुरिति विकल्पार्थो वाशब्दः / यद्वा त्रुटेः परं सूक्ष्मं परमाणु: । त्रुटावेव वा विश्रामः इति विकल्पोभिमतः ( गो० वृ० ४/२/१५ ) । इदं च नवीनमतम् ( दि० १पृ० ६९// अवयवविभागस्यानवस्थाना द्रव्याणामसंख्येयत्वा त्रुटिनिवृत्तिरिति (वात्स्या ४/२/१५) । स चायमल्पतरप्रसङ्गो यस्मान्नाल्पतरमस्ति परमोल्पस्तत्र निवर्तते । यतश्च नाल्पीयोस्ति तं परमाणुं प्रचक्ष्महे इति ( वात्स्या० ४।२।१४) । यथा जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः । तस्य षष्ठतमो भागः परमाणुः स उच्यते ॥ इति (वाक्य ० ) । भ्रमो यतः ॥ इति बादरायणाचार्यो आहुः ( भाग० ३/१२/१ ) । २ परमाण्ववच्छिन्नकालविशेषः । यथा स काल: परमाणुर्वै यो परमाणुताम् (भाग० ३।११।५ ) इत्यादौ । <परमात्मा> ( आत्मा ) [क सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः भावी (वात्स्या० ११११९ ) । परमत्वं चात्र प्रकृतेः सृष्टिस्थिति- कर्तृत्वम् (सि० च० १ पृ० १०) । अथवा नित्यज्ञानादिमखेन सर्वोत्कृष्टत्वम् ( त० प्र० १ १० ४ ) । ईश्वरस्य तज्ज्ञानादेर्नित्यत्व- मित्थम् । सर्गाद्यवसरे परमाणुना व्यणुकं करिष्यामि इति ज्ञानस्यावश्य- तदुत्पादकशरीरादिकारणकलापस्य तदानीं व्यतिरेकेण तस्य नित्य- त्वमुररीकुर्मः । एवम् ईश्वरेच्छाकृत्योरपि नित्यत्वम् ( सि० च० १ पृ० १०) । परमात्मलक्षणं चेश्वरत्वम् । तच्च नित्यज्ञानाद्यधिक (त० दी० ) ( सि० १ पृ० १० ) ( राम० ) । अत्रादिशब्देनानन्दो गृह्यते । केचित्तु श्रुतिस्थानन्दपदं दुःखाभावपरम् इत्याहुः । परमात्मसत्त्वे प्रमाणम् अनुमानम् । तच्च क्षिव्यङ्कुरादिकं कर्तृजन्यं कार्यत्वाद्धटवत् इति । क्षित्यादिमहाकार्यान्यानु स्वीक्रियते ( प्र० प्र० ) । तदुक्तम् । कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच साध्यो विश्वविदव्ययः ॥ इति ( कु० ५।१ ) । संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षप्रवृत्तस्वात् संज्ञाकर्मण: (वै० सू० २।१।१८-१९) । तदर्थं चाह । क्षियङ्करा- 30 दिकं कार्य स्वर्गापूर्वादि नाम च । लिङ्गमीश्वरसद्भावे काणादाः संप्र- चक्षते ॥ (त० व० आ० श्लो० ९७ पृ० १५५ ) । अधिकं तु न्यायकन्दल्याम् अनुमानचिन्तामण्यादौ च द्रष्टव्यम् । किंच सर्गादौ व्यवहारान्यथानुपपत्तिरेवेश्वरसत्त्वे मानम् । यः सर्वज्ञः एकः स एव चास्माकमीश्वरः (न्या० म० ४ पृ० ५) (सि० च० १ पृ० ११) । अत्र द्यावाभूमी जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता यः सर्वज्ञः स सर्वविद्यस्य ज्ञानमयं तपः इत्याद्या आगमा अपि प्रमाणत्वेना- नुसंघेयाः । अत्र कार्योत्पादने मतमेदाः प्रदश्यन्ते । शरीरमन्तरेणै- चेश्वरेण मन्त्रादिवत्कार्योत्पादनम् इति केचिन्नैयायिकाः संगिरन्ते । अत्र सूत्राणि ईश्वर: कारणं पुरुषकर्माफल्यदर्शनात् । न पुरुषकर्माभावे फलानिष्पत्तेः । तत्कारितत्वादहेतुः (गौ० ४/१/१९-२१) इत्यादी नि । शरीरत्वष्टाभावात्परमात्मा शरीररहित एवास्ति । अन्ये तु नैयायिका इत्यमाडु: । परमात्मा शरीरी । पुरुषादृष्टेन कान्ताशरीरस्येवास्मदीयादृष्टेन तच्छरीरस्य (इच्छाप्रयुक्तस्य ) जननसंभवात् । अत एव चतुर्भुज- त्वादिश्रवणं संगच्छते इति । परमाणव एवेश्वरस्य शरीरमिति केचिदाहुः । आकाशमेव शरीरमित्यपरे मन्यन्ते । ईश्वरः सर्गादौ शरीरद्वयम् (प्रयोज्य- प्रयोजकवृद्धशरीरद्वयम् ) परिगृह्य व्यवहरति इति परे जानन्ति । संसारणामदृष्टवशादीश्वरस्य शरीरम् तच्च ब्रह्मविष्णुशिवात्मम् इत्यन्ये रहित एव । परं तु संसारपङ्कनिमग्नानज्ञानिन उद्दिधीर्षुर्लीलाविग्रहं दधाति ब्रुवन्ति । भूतावेशन्यायेनेश्वरस्य शरीरम् इत्यपरे मेनिरे । ईश्वरः शरीर- इतीतरे प्रजल्पन्ति । जीवा एवेश्वरस्य शरीरम् इति रामानुजीयाः । अप्राकृतं सच्चिदानन्दाद्येव शरीरम् इति मतप्रवर्तकैक शिरोमणयो मध्वा- चार्याः प्राहुः । केशकर्मविपाकाशयैरपरामृष्टो निर्माणकामधिष्ठा संप्रदायप्रद्योतकोनुग्राहकच इति पातञ्जला: संजगदिरे । [ख] शरीर- निरपेक्षज्ञानवान् ( प्र० प्र० ) । यथा स्वर्गापवर्गयोर्मार्गमामनन्ति मनी- षिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ ( कु० स्त० १ लो० २) । परमात्मा परं ब्रह्म निर्गुणं प्रकृतेः परः । कारणं कारणानां च श्रीकृष्णो भगवान् स्वयम् ॥ ( ब्रह्मवै० पु० अध्याय २३) । उत्तमः ॥ भगवानिति शब्यते ( भाग० ११२/११) इत्यादौ परमात्मा । [ग] पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ( गीता० १५ १७ ) । ब्रह्मेति परमात्मेति नित्यज्ञानादिमान् ( त० कौ० ) । स च गुणविशिष्टमात्मान्तरमीश्वरः ( वात्स्या० ४।१।२१ ) । ईश्वर एक एव (त० सं० ) । माया- त्वेन देशितः इत्याहुः । कर्मैव इति मीमांसकाः समुपासते । वेदोक्त वादिवेदान्तिनस्तु मायावच्छिन्नचैतन्यमीश्वरः स एव जीवानामुपास्य- कर्मणः फलदातेश्वरः इति मीमांसकैकदेशिनः । आदिविद्वान् सिद्धः इति कापिलाः । लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रः इति महापाशुपताः । निरावरणः इति दिगम्बराः । यावदुक्तोपपन्नः ( कर्ता ) इति नैयायिकाः । शिवः इति शैवाः । पुरुषोत्तमः इति वैष्णवाः । पितामहः इति पौराणिकाः । यज्ञपुरुषः इति याज्ञिकाः । विशुद्धं चैतन्यम् इति माया- वादिनः । ब्रह्मशब्दवाच्यः गुणपरिपूर्णः विष्णुः इति माध्वाः / द्विभुजः कृष्णः इति वल्लभीयाः । परमेश्वरः इति पातञ्जला: । बुद्धः सर्वज्ञो वा इति बौद्धाः । अर्हन्नित्यार्हताः । पराख्यः शब्द एव इति शाब्दिकाः । काल एव इति ज्योतिषज्ञाः । लोकव्यवहारसिद्ध एव परमात्मा इति चार्वाकाः। विश्वकर्मा इति कारव उपासते । तत्र निलेश्वरं न मन्यन्ते सांख्या आर्हताश्चार्वाकाश्च ( कु० टी० ११२ ) । न्यायनये परमात्म- गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् एकपृथ- क्त्वम् संयोगः विभाग: बुद्धिः इच्छा प्रयत्नश्चेति ( भा०प० श्लो० ३४ ) । अपरिमिता अप्राकृता ज्ञानानन्दादयो गुणाः परमात्मनि सन्ति इति माध्वा जगुः । परमात्मा गुणशून्य एव इति मायावादिनो मन्यन्ते । <परमापूर्वम्> ( अपूर्वम्) [ क ] यत्र स्वर्गादिफलं प्रति दर्शपूर्णमा- काम: इत्यादौ प्रधानविधिबोधितं दर्शपूर्णमासात्मकयागद्वयजन्यमपूर्वम् जन्यत्वेन जनकत्वम् तत्परमापूर्वम् । यथा दर्शपूर्णमासाभ्यां यजेत स्वर्ग ( दि० गु० पृ० २३५ ) ( चि० ४ ) ( मू० म० ) । ख कलिकापूर्वजन्यः स्वर्गादिफलसाधनमपूर्वविशेषः । अत्र परमापूर्वी वाच्यम् कलिका पूर्वाणि तु कल्प्यानि इति मीमांसकानां सिद्धान्तः ( त० प्र० ख० ४ पृ० ११४) । कलिकापूर्व प्रदर्शितं प्राक् (पृ० २१७) । <परमेश्वरः> क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः खेच्छया निर्माणकायम- ष्ठ लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राण- मृतामनुप्राहकश्च ( सर्व० सं० पृ० ३३३ पातञ्ज ० ) । <परस्परम्> अन्योन्यशब्दवदस्यार्थोनुसंधेयः ( ल० म० ) । <परस्मैपदम्> ( तिङ् ) [क] ल: परस्मैपदम् (पा० ११४ / ९९ ) । ( चाच० ) । परस्मैपदं च तिप् तस् झि इत्यादि नवविधम् । [ख] अत्र व्युत्पत्तिः । परस्मै परोद्देशार्थफलकं पदम् इति ( अल्लुक्समासः ) क्यजन्तघातोरर्थस्य स्वार्थे कर्तृत्वेन्वयबोधनक्षमं यादृशमाख्यातम् तत् परस्मैपदम् । यथा पुत्रीयतीत्यादौ परस्मैपदम् (तिप् ) । घातिता घाति- तारी इत्यादौ आत्मनेपदानां निरुक्ताख्यातत्वेपि तदन्यत्वेन विशेषणान तत्रातिव्याप्तिः । अत्र पुत्रीयतीत्यादावेव पुत्रादीच्छा कर्तृत्वमाश्रयत्व- ६० न्या० को० लक्षणं बोध्यते न तु पुत्रीयते इत्यादौ । इच्छार्थस्य क्यचो निवेशादिति ज्ञेयम् ( श० प्र० श्लो० ९८ टी० ) । अत्र विशेषस्तु आत्मनेपद- शब्दव्याख्यानावसर उक्तः इति नात्र कथ्यते । <पराजयः> १ युद्धनिवृत्तिः । यथा रणात् पराजयते इत्यत्र धात्वर्थः । अत्र पञ्चम्यर्थो द्वेषः । तथा च रणगोचरद्वेषजन्ययुद्धनिवृत्तिमान् इत्येवं तत्र बोधः । कृत्यसाध्यत्वधीप्रयुक्तप्रवृत्त्यभाववत्त्वम् इति केचिद्वदन्ति । अत्रार्थे रणात्पराजयत इत्यत्र पञ्चम्यर्थो विशेष्यत्वम् । तच्च धात्वर्यैकदेशे बुद्धा वन्वेति । तथा च रणधर्मिक स्वकृत्य साध्यत्वधीप्रयुक्त प्रवृत्त्यभाववान् इत्या- कारको बोधः इति । अत्रेदं बोध्यम् । शत्रु पराजयते इत्यादौ त्वभिभव- हेतुव्यापारः पराजेरर्थः इति धात्वर्थतावच्छेदकफलशालितया शत्रुप्रभृतेः कर्मत्वमेवेति (श० प्र० श्लो० ६८ टी० पृ० ८१ ) । २ ष्णुता । यथा कृष्णात्पराजयते शिशुपालः अध्ययनात्पराजयते बालः इत्यादौ पराजेरर्थः । असहिष्णुता च द्वेषविशेषः । अभिभवाशक्यत्वज्ञानं वा । पञ्चम्याः कर्मत्वमर्थः । श्रीकृष्णम् अध्ययनम् न सहते इति विवरणात् । आख्यातस्याश्रयत्वमर्थः । तथा च कृष्णात्पराजयते शिशुपाल इत्यादौ त्पराजयते बाल इत्यादौ तु अध्ययनविषयकाभिभवाशक्यत्वज्ञानवान्बालः श्रीकृष्णविषयकाभिभवाशक्यत्वज्ञानवाञ् शिशुपालः इति अध्ययन- इति क्रमेण बोधः ( का० व्या० पृ० १० )। <पराप्रकृतिः> विकारापगमे सत्यं सुवर्ण कुण्डले यथा । विकारापगमो यत्र तामाहुः प्रकृतिं पराम् ॥ ( सर्व० सं० पृ० ३०९ सांख्य ) । <परामशे:> १ [क] व्याप्यस्य पक्षवृत्तित्वधीः (भा० प० २ श्लो० ६९ ) / व्याप्तिविशिष्टस्य हेतोः पक्षेण सह वैशिष्ट्यावगा हिज्ञानमित्यर्थः (मु० २ पृ० १३६ ) । अयं च परामर्श: अनुमितिकारणम् तृतीयं लिङ्गज्ञानमित्युच्यते । अत्रायं कार्यकारणभावः । तद्वत्ताज्ञानं प्रति तद्व्याप्यवत्ताज्ञानं कारणम् । तद्धर्मावच्छिन्नविधेयकानुमितौ तद्धर्मा वच्छिन्नव्याप्यवत्ताज्ञानं कारणम् इति यावत् (न्या० म० ४ पृ० अत्रेदमवधेयम् । वह्निव्याप्यधूमवान् पर्वतः इति शाब्दपरामर्शानुरोधेन व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानत्वेनैव (व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन) परामर्शस्यानुमितिकारणत्वमङ्गीकार्यम् । न तु मीमांसकमतमनुरुध्य व्या- प्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानवेन कारणत्वं स्वीकार्यम् इति (चि० २ पृ० ३४ ) (मु० २ पृ० १३७ - १३८) (न्या० सि० To पृ० ४८ ) । अत्रेदमधिकं बोध्यम् । परामर्श एवानुमितौ कारणम् । न तु परामृश्यमानं लिङ्गम् । अतीतानागतधूमादिज्ञानेप्यनुमितिदर्शनात् । तदानीं लिङ्गाभावादनुमित्यनुपपत्तिः इति ( चि० २ पृ० ४३–४४ ) (मु० २ पृ० १३५ - १३६ ) । [ख व्याप्तिविशिष्टपक्षधर्मता- ज्ञानम् । यथा पर्वते धूमेन वह्निसाधने वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानम् ( त० सं० ) । अत्र विग्रहः । व्याप्तिविशिष्टं (व्याप्तिप्रकारकम् ) " यत् पक्षधर्मताज्ञानम् इति । तावत्पदार्थानां तथाविधपरस्परोपश्लेषावगाहि स्वमात्रं विवक्षितम् ( दीधि ० २ पृ० ५ ) ( न्या० बी० २ पृ० १३ ) ( त० दी० २ पृ० २०) । केचित्तु व्याप्तिविशिष्टं च पक्षधर्मश्चेति द्वन्द्वाश्रयणाद्व्याप्ति विशिष्टत्वपक्षधर्मत्वावगाहिज्ञानत्वं लभ्यते । पदार्थयोर- मेदेपि पदार्थतावच्छेदकभेदेनैव प्रमाणप्रमेयेत्यादिसूत्रेन्यत्र च द्वन्द्व- दर्शनात् । विशिष्टपदस्य धर्मपरतया वा व्याप्तिवैशिष्ट्यपक्षधर्म. तयोर्लाभात् इत्याहु: ( दीधि ० २ पृ० ४ ) । कर्मधारयश्च व्याप्ति विशिष्टं च तत् पक्षधर्मताज्ञानं च इति । अत्र विशिष्टपदस्य प्रकारतानिरूपक- पदस्य संबन्धार्थकत्वात् कर्मधारय समासेन समस्यमानपदार्थयोरमेदसंसर्ग- परत्वात् पक्षधर्मताया ज्ञानम् इत्यत्र षष्ठ्या विषयत्वबोधनात् पक्षधर्मता- लाभाच व्याप्तिप्रकारकामिन्नं यत् पक्षसंबन्धविषयकज्ञानम् तत् परामर्श: इति लभ्यते ( न्या० बो० २ पृ० १३ ) । अन्ये तु वैशिष्ट्यं विषयता । पक्षधर्म: पक्षसंबन्धी । तस्य भावः पक्षधर्मता पक्षसंबन्ध इति यावत् । तस्या ज्ञानम् । व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं चेति कर्मधारयः । पक्षधर्मता विषयिता विशिष्टे व्याप्तिविषयिताभाने तन्निरूपितविषयतयोरपि परंपरया निरूप्यनिरूपकभावः संबन्धो भासत इति व्याप्तिविषयता- निरूपितसंबन्धविषयतानिरूपितपक्षतावच्छेदका वच्छिन्नविषयता ज्ञानं लभ्यते । ज्ञानपदं निश्चयपरम् । व्याप्तिविषयतानिरूपितविषयता च व्याप्तिघटकपदार्थविषयतानिरूपिता बोध्या । तेन भ्रमप्रमासाधारण्य - निर्वाहः इति (वाक्य० २ पृ० १३) इत्याहुः । अत्र व्याप्तिविशिष्टे पक्षधर्मता व्याप्तिविशिष्टपक्षधर्मता तज्ज्ञानम् इति सप्तमीतत्पुरुषाङ्गीकारे व्यभिचारिलिङ्गकानुमितौ धूमवान्वहेरित्यादौ व्याप्ति विशिष्टपक्षधर्मताज्ञान- जन्यत्वाभावेनाव्याप्तिः । अतः व्याप्तिविशिष्टपदस्य व्याप्तिविषय केल्यर्थम बलम्ब्य ज्ञानान्तपदेन कर्मधारयोङ्गीकार्य : ( नील० २ पृ० २०) (दीधि ० २ पृ० ४) । अत्रेदं बोध्यम् । अनुमितौ व्याप्तिज्ञानं करणम् । परामर्शो व्यापारः । तथाहि । येन पुरुषेण महानसादौ घूमे वहेर्व्याप्ति गृहीता पश्चात्स एव पुरुषः कचित्पर्वतादावविच्छिन्नमूलामभ्रंलिहां घूमलेखां पश्यति । तदनन्तरं घूमो वह्निव्याप्यः इत्येवंरूपं व्याप्तिस्मरणं परामर्श: इत्युच्यते । तदनन्तरम् पर्वतोयं वह्निमान् इति ज्ञानं जायते । तस्य भवति । तस्माच्च वहिव्याप्यधूमवानयम् इति ज्ञानं भवति । स एव तदेवानुमितिः इति (मु० २ पृ० १३५ ) ( त० मा० प्रमाण पृ० ११ ) । परामर्शो द्विविधः पक्षे व्याप्यः इति पक्षप्रकारको व्याय- विशेष्यकः पक्षो व्याप्यवान् इति पक्षविशेष्यको व्याप्यप्रकारकश्च । तत्राद्यो यथा पर्वते वह्निव्याप्यो धूमः इति ज्ञानम् । द्वितीयो यथा वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानम् । अत्रेदं बोध्यम् । पक्षे व्याप्य: इति परामर्शात् पक्षे साध्यम् इत्याकारिकानुमितिरुत्पद्यते । पक्षो व्याप् वान् इत्याकारकपर।मशत्तु पक्षः साध्यवान् इत्याकारिकानुमितिरुत्पद्यते इति प्राञ्चो नैयायिका आहुः । नव्यनैयायिकास्तु द्विविधादपि परामर्शद पक्षः साध्यवान् इत्याकारिका पक्षमुख्य विशेष्यिकैवानुमिति रुत्पद्यते इति प्राहुः (मु० २ पृ० १३६ ) । २ विवेचनम् । तच्च युक्त्या श्रुतार्था वधारणम् इति केचिदाहुः । ३ गुरुवाक्यतात्पर्यनिर्णायको विचारः ( सां० प्र० मा० ४।१७ ) । यथा नोपदेशश्रवणेपि कृतकृत्यता परा- मर्शादृते विरोचनवत् ( सां० सू० अ० ४ सू० १७) इत्यादौ इति सांख्या आहुः । <परार्थानुमानम्> ( अनुमानम् ) १ [ क ] न्यायप्रयोज्यानुमानम् (न्या० बो० २ पृ० १५) (चि० २५० ७६ ) । यथा परसमवेतानु- मितिकरणं लिङ्गपरामर्शः परार्थानुमानम् । अत्र परस्य मध्यस्थस्यार्थः प्रयोजनं साध्यानुमितिरूपं मध्यस्थसंशयनिवृत्तिरूपं वा यस्मात् इति व्युत्पत्तिर्दृष्टव्या ( नील० २ पृ० २१ ) । [ख] येन परं प्रतिपादयति तत् परार्थानुमानम् इति ( न्या० वि० परि० २ पृ० २१ ) । [ग] पञ्चावयवेनैव वाक्येन संशयित विपर्यस्ताव्युत्पन्नानां परेषां निश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् । अथावयवाः पुनः प्रतिज्ञा - पदेश निदर्शनानुसंधान प्रत्याम्नायाः इति ( प्रशस्त० २ पृ० २८ ) । २ पञ्चावयववाक्यम् ( नील० २ पृ० २२ ) । तथा चोक्तम् । परार्थानुमानं शब्दात्मकम् । स्वार्थानुमानं तु ज्ञानात्मकम् ( न्याय बिन्दु टी० प० २ पृ० २१ ) । अयं भावः । तस्य शब्दात्मकत्वेपि अनु- विज्ञेयम् । परार्थानुमानप्रयोजके पञ्चावयववाक्ये परार्थानुमानशब्दस्यौप- मानविषयत्वेन अविनाभावोपनायकत्वेन वानुमानत्वम् गौणम् इति चारिक प्रयोगः इति ( नील० २ पृ० २२) । अनेन प्रतिपादिता- लिङ्गापरोप्यग्निं वह्निमान् धूमादित्यादौ प्रतिपद्यते ( त० सं० ) । यथा यत्तु कश्चित्स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेतमनुमान- वाक्यं प्रयु तत् परार्थानुमानम् ( त० भा० २ प्रमाण० पृ० ११ ) ( त० सं० ) इत्यादौ पर्वतोग्निमान् धूमवत्त्वात् यो यो धूमवान् सोग्निमान्यथा महानसः तथा चायम् तस्मात्तथा इति पञ्चावयववाक्यं ( प्रतिज्ञादिसमुदाय:) परार्थानुमानम् (त० सं० ) ( नील० २ पृ० २२) । अत्र परस्य प्रतिवादिनोर्थो निवृत्तिर्यस्मात् इति व्युत्पत्तिर्दृष्टव्येति केचित् । <रावरणम्> शूर्पेण तण्डुलानां कणेभ्यो विवेचनम् ( जै० न्या० अ० ५ पा० २ अधि० ७ ) । <रि> ( अव्ययम्) १ समन्ततो भावः । यथा परिभ्रमति इति । २ व्याप्तिः । यथा परिणतः इति । ३ दोषकथनम् । यथा परिवादः इति । ४ भूषणम्। यथा परिष्करोति इति । ५ आश्लेषः । यथा परिष्वजते इति । ६ पूजनम् । यथा परिचरति इति । ७ वर्जनम् । यथा परि त्रिगर्तात् इति । ८ मर्यादा । यथा परिच्छिद्यते वासः इति । ९ आच्छादनम् । यथा परिदेवनम् इत्यादौ ( गण० टी० ) । १० व्याधिः । ११ शेषः । १२ उपरमः । १३ संतोष: । १४ संतोषभाषणम् इत्यादि (वाच० ) । अस्य परिइत्यव्ययस्यार्थविशेषेणोपसर्गत्वं कर्मप्रवचनीयत्वं च यथायथं ज्ञेयम्। अस्यार्थविशेषद्योतकत्वमेव न तु वाचकत्त्रमित्यपि विज्ञेयम् । <परिचय:> १ ज्ञातस्य पौनःपुन्येन ज्ञानम् ( वाच० ) । २ सर्वतश्चयनम् इति काव्यज्ञा आहुः ( माघ ० २/७५ ) । <परिचायकम्> १ तदघटकत्वे सत्यर्थविशेषज्ञापकम् । यथा शब्दगुणव रूपाकाशलक्षणे गुणः परिचायकः । यथा वा तत्तद्धर्मावच्छिन्ननिरूपित विषयितान्यतमविषयिता निरूपकतावच्छेदकधर्मवत्त्वरूपे हेत्वाभासलक्षणे तत्तद्धर्मावच्छिन्ननिरूपितत्वं विषयितानां परिचायकम् ( ग० हेत्वा० सामान्यनि० पृ० ३१ ) । २ उपलक्षणम् इति केचिद्वदन्ति । <परिच्छित्तिः.> अनुभवः ( कु० टी० ४/५ ) । <परिच्छेदः> १ ज्ञानम् ( चि० २) । यथा वाक्यार्थसामानाधिकरण्येन संज्ञानिमित्तपरिच्छेदः इत्यादौ । २ अवधारणम् । ३ अवधिः । ४ सीमा । ५ परिमाणम् । ६ ग्रन्थस्य संधिविशेषः । अत्रोच्यते । सर्गवर्गपरिच्छेदोद्धाताध्यायाङ्कसंग्रहाः । उच्छ्वासः काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्वाहिकं च ग्रन्थसंधयः दयोपि यथायथं ग्रन्थसंधय ऊह्याः । तत्र काव्ये सर्गः । कोशे वर्गः । अलंकारे परिच्छेदोच्छ्वासौ । कथायामुद्धातः । संहितापुराणादावध्यायः । नाटकेङ्कः । तत्रे पटलम् । ब्राह्मणे काण्डम् । इतिहासे पर्व । आह्निकम् इति ( वाच० ) । <परिणाम:> १ जीर्णता (पाकः ) ( सि० च० ) ( नील० ) । भुक्तस्य परिणामहेतुरौदर्यम् तेज: ( त० सं० ) इत्यादौ । २ सांख्याः त्पत्तिरिति (वात्स्या० ३।२।१६) । परिणामत्रिविधः प्रसिद्धः । धर्म- लक्षणावस्थाभेदात् (सर्व० सं० पृ० ३५३ पात ० ) । अथवा सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरोत्पत्तिः ( प्रादुर्भाव : ) । यथा पयसः परिणामो दधि इति (गौ० ० ३ । २ । १६) (वात्स्या० ३।२।१६ ) । विद्यमानस्य क्षीरस्य पूर्वरसतिरोभावोम्लरसात्मकगुणान्तरस्याविर्भावात् इति ( गौ० वृ० ३१२।१६ ) । नैयायिकास्तु अत्र परिणामो विनाश एव इत्याहुः । यद्वा प्रकृतेरन्यथाभावो विकारः । अत्र अन्यथाभावश्च प्रकृ- युच्छेदेन प्रकृतेर्गुणान्तराधानेन वा । यथा मृदादेर्घटादिरूपेण काष्ठादे- र्भस्मादिना ( वाच ० ) । यथा परिणामतापसंस्कारदु:खै: ० ( पात ० पाद (२ सू० १५ ) परिणामतः सलिलवत् (सां० का० १६) इत्यादौ इत्याहुः । यथा हि वारिदविमुक्तमुदकमे करसमपि तत्तद्भूमि विकारानासाद्य मधुराम्लतिक्त कटुकषायतया विकल्पते एवम् एकैकगुणसमुद्भवात् प्रधानं नारिकेलतालीबिल्वचिरबिल्वतिन्दुकामलककपित्थफलरसतया परिणामात् श्लो० १६ ) । मायावादिनो वेदान्तिनस्तु पूर्वरूपपरित्यागे सति नाना- गुणमाश्रित्याप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति ( सांख्य० कौ० कारप्रतिभासः । यथा क्षीरस्य दधिप्रतिभासः इत्याहु: । मायावादिमते- त्रायं विवेको ज्ञेयः परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः इति ( वेदा० ० परि० १ पृ० २२ ) । ३ शेष: ( अन्त्यावस्था ) । यथा परिणामे- मृतोपमम् ( गीता० अ० १८ श्लो० ३७ ) इत्यादौ । ४ अर्था- लंकारविशेष: इत्यालंकारिका आहुः । <परिनिष्ठा> १ अनन्यवृत्तित्वम् ।२ पर्यवसानम् (सांख्य० भाष्य (१९६८) । यथा पारंपर्येप्येकत्र परिनिष्ठा० ( सां० सू० अ० १ सू० ६८) इत्यादौ । <परिनिष्ठितत्वम्> अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम् । निहते तिङन्तादावव्याप्तिवारणायाप्रवृत्तेति । वैकल्पिकेडागमोद्देश्यतावच्छेदका कान्ते सेद्धेयादावव्याप्तिवारणाय नित्येति ( शब्दे० शे० पृ० ६९ ) <परिपाकः> १ परिणामवदस्यार्थोनुसंधेयः ( वाच० ) । २ वासनायाश्च स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः ( सर्व० सं० पृ० ३८ बौद्ध० ) । <परिभाषा> १ आधुनिकसंकेत : (ग० शक्ति ० ) ( वै० वि० ७।२।२०) । (यथा शाब्दिकमते वृद्धिपदस्याकारैकारौकारेषु पाणिनिसंकेतः । २ [क] अनियमे नियमकारिणी परिभाषा । [ख] परिष्टां भाषां परिभाषां प्रचक्षते । यथा यथोद्देशं संज्ञापरिभाषम् इत्यादौ । <परिमण्डलम्> १ परमाणुपरिमाणम् । २ परिमाणविशिष्टः परमाणु: (वै० वि० ७ । १ । २०) । तच्च परिमण्डलं नित्यम् ( वै० ७ । १ । २० ) । ३ वर्तुलाकारः इति काव्यज्ञा आहुः । <परिमाणम्> ( गुण:) [क] परिमाणत्वजातिमत् । तच्च नवसु द्रव्येषु वर्तते ( त० सं० ) । तत्राकाश दिषु चतुषु परममहत्त्वम् । परमाणु परमाणुत्वम् । द्व्यणुके अणुत्वम् । अतोन्येषु महत्त्वं दीर्घत्वं च । ह्रस्वत्वं चाणुत्वसमानाधिकरणम् । तत्राणुपरिमाणं परमाणौ ह्यणुकेच ति- ष्ठति । तत्रापि परमाणावणुपरिमाणं परमम् । विभुचतुष्टये महत्परि परमम् । त्रसरेण्वादिमहावयविपर्यन्तद्रव्येषु अवान्तरजन्यमहत्परिमाणम् (वै० वि० ७।११८) । परिमाणं च मानव्यवहारासाधारणकारणम् ( वि० ७७१।८) । यथा शतयोजनश्चन्द्रः इति ज्योतिः शास्त्रोक्तं परिमाणम् ( त० प्र० ४ पृ० २९) । मानव्यवहारश्च हस्तवितस्त्यादिव्यवहारः न तु पलसंख्या दिव्यवहारः (वै० उ० ७११८) । किंच मानं परिमितिः तस्य यो व्यवहारः इद महत् इदमणु इत्याद्यात्मकश्च ( सि० च० १ पृ० १७ ) । किंच मानव्यवहारः अणुत्वादिर्गुणः इति व्यवहारः ( वाक्य० १ पृ० ७) । [ख ] यवाङ्गुलप्रस्थादिभिः गुञ्जादिभिश्च द्रव्यस्य परिच्छेदः । अत्रोच्यते । जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञम् । तत्रयं कृष्णलः । तत्पञ्चकं माषः । तद्द्वादशकमक्षार्धम् । स चतुर्माषक तदष्टकं लिक्षा। तत्रयं राजसर्षपः । तत्रयं गौरसर्षपः । ते षट् यवः । सुवर्णः । तच्चतुःसौवर्णिको निष्कः इति । द्वे कृष्णले रूप्यमाषकः । ते षोडश घरणम् इति । तात्रिकः कार्षापणः पणः इति (विष्णुस्मृतिः) बाच ० ) । मनुयाज्ञवल्क्यादयस्तु प्रकारान्तरेण परिमाणगणनं चक्रिरे । तत्राङ्गुलादिपरिमाणमेव वैशेषिकमते गुणविशेषत्वेन चतुर्विधत्वेन च प्रतिपादितम् न तु गुजादिपरिमाणम् इति तारानाथतर्कवाचस्पतिराह । परिमाणं द्विविधम् । महत्त्वम् अणुत्वं च ( त० व० ) । प्रकारान्तरेण तच्चतुर्विधम् । अणु महत् दीर्घम् हस्वं च ( प्रशस्त ० ) ( तं० सं० ) ( मु० गु० ) । तत्र अणुहस्वपरिमाणे परमाणुद्व्यणुकयोः । महद्दीर्घ- त्र्यणुकचतुरणुकादौ ( प्र० प्र० ) । चतुर्विधमपि प्रत्येकं द्विवि- धम् परमं मध्यमं चेति । तत्र परमाणुत्वपरमहस्वत्वे परमाणुमनसोस्तिष्ठतः । मध्यमाणुत्वमध्य महस्वत्वे ह्यणुके तिष्ठतः । परममहत्त्वपरमदीर्घवे गग- नादौ तिष्ठतः । मध्यममहत्त्वमध्यमदीर्घत्वे घटादौ तिष्ठतः इति (सि० च १ पृ० १७) । पुनश्च चतुर्विधमपि परिमाणं द्विविधम् । नित्यम् अनियं च । तत्र नित्यगतं नित्यम् । अनित्यगतमनित्यम् । तच्च अनित्यम् त्रिविधम् । संख्याजन्यम् परिमाणजन्यम् प्रचयजन्यं च । तत्राद्यम् आश्रयनाशान्नश्यति ( वै० ७/१/१८- १९ ) ( प्रशस्त ० ) । अनित्यं परमाणुद्वित्वजन्यं द्यणुके द्व्यणुकबहुत्वजन्यं च त्र्यणुके । द्वितीयम् कपालपरिमाणजन्यं घटपरिमाणम् । तृतीयम् तूलावयवसंयोगजन्यं तूल पिण्डपरिमाणम् (वै० ७/११८-२५ ) ( मा० प० लो० ११०-११४ ) ( प्रशस्त ० ) ( सि० च० १ पृ० २१ ) ( त० कौ० ) । अयं तूलावयवसंयोगश्च शिथिल इत्युच्यते ( भा० ५० श्लो० ११३ ) । अत्रायं संग्रहः । परिमाणं चतुर्विधम् । अ महत् दीर्घम् हस्वं च । तत्र महत् द्विविधम् । नित्यम् अनित्यं च। नित्यम् आकाशकालदिगात्मसु परममहत्त्वम् । अनित्यम् त्र्यणुका- दावेव । तथा अण्वपि द्विविधम् । नित्यम् अनित्यं च । परमाणुमनःसु पारिमाण्डल्यं नित्यम् । अनित्यं द्यणुक एव । कुवलामलकबिल्वादिषु सूत्पाद्य महत्वाणुस्वैकार्थसमवेते । समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्र- महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोणुव्यवहारः । दीर्घत्वहस्वस्त्रे कर्षभावमपेक्ष्य भाक्तो हस्वव्यवहारः । अनित्यं चतुर्विधमपि संख्या- परिमाणप्रययोनि । तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना व्यणुकेषु बहुसंख्या ६१ न्या० को० कार्यकादिलक्षणे रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वं च करोति । बहुभिर्महद्भिरारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् । समानसंख्यैरारब्धेतिशयदर्शनात् । प्रचयस्तु तूलपिण्डयोर्वर्तमानः पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इतरेतरपिण्डा- वयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि । समानसंख्या परिमाणैरारब्धेतिशयदर्शनात् । द्वित्वसंख्या चाण्वोर्वर्त- माना यणुके अणुत्वमारभते । महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्व- समानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः । अणुत्ववत् ह्यणुके द्विव संख्यातो ह्रस्वत्वस्योत्पत्तिः । एतच्चतुर्विधमपि परिमाणमुत्पद्य- नाशादेव विनश्यति इति ( प्रशस्त ० पृ० १६) । उपस्कारेप्युक्तम् । परिमाणं चतुर्विधम् । महत्त्वम् अणुत्वम् दीर्घत्वम् हस्वत्वं च । तत्र पर- ममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्तिनी परमाणुत्व परमहस्वत्वे परमाणुव तिनी । अवान्तराणुत्वावान्तरहस्वत्वे ह्यणुकवर्तिनी । त्रसरेणुमारभ्य महा- परिमाणद्वयवन्ति । बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु वयविपर्यन्तमवान्तर महत्त्वावान्तर दीर्घवे । एवं च सर्वाप्यपि द्रव्याणि च ह्रस्वत्वव्यवहारो भाक्तः । भक्तिश्चात्र प्रकर्षभावाभावः । आमलके यः प्रकर्षभावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके । सच गौणमुख्योभयभागित्वात् भक्तिपदवाच्यः । अत्र दीर्घत्वहस्वस्त्रे नित्ये न वर्तेते इत्येके । परिमाणे एव ते न भवतः इत्यपरे । किंतु श्चाद्दुः (वै० उ० ७१११८) । इदानीं परिमाणकारणानि परिसंचछे अणुत्व महस्त्रे द्वे एव परिमाणे न तु चतुर्धा इति सांख्या वेदान्तिन- कारणबहुत्वाच्च (३० ७१११९ ) । तत्र कारणबहुत्वं केवलं त्र्यणुके महत्त्वदीर्घत्वे जनयति महत्वप्रचययोस्तष्कारणे अभावात् । ज्ञेयम् । तच्च बहुत्वं ईश्वरापेक्षाबुद्धिजन्यम् । तद्दुद्धेरनेक विषयत्वेप्यदृष्ट- विशेषोपग्रहो नियामकः इति (वै० उ० ७/१/९) । एवम् परमाणु- व्यगतं द्वित्वं यणुके परिमाणोत्पादकम् । द्वाभ्यां तस्तुभ्यामप्रचिताभ्या- भावात् । यत्र च दाभ्यां तूलकपिण्डाभ्यां तूलकपिण्डान्तरारम्भस्तत्र मारब्धे पढे केवलं महत्त्वमेवासमवायिकारणम् । बहुश्वप्रचययोस्तत्रा- परिमाणोत्कर्षदर्शनात् प्रचय: कारणम् । बहुत्वस्याभावात् । महत्त्वस्य सत्त्वेपि परिमाणोत्कर्षे प्रत्यप्रयोजकत्वात् । एवं च सति यदि महत्त्वं तत्र कारणम् तदा न दोषः । तदुक्तम् द्वाभ्यामेकेन सर्वैर्वा इति (बै० उ० ७/१।९) । <परिवित्तिः> दाराग्निहोत्रसंयोगं यः करोत्यग्रजे सति । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ ( मिताक्षरा अ० १ श्लो० २२३ ) । <परिवृत्तिसहः> ( शब्द: ) यौगिक: शब्दविशेषः । अत्र व्युत्पत्तिः परि वृत्तिं परावृत्तिम् सहते इति परिवृत्तिसहः । सहधातोरचूप्रत्ययः । अयं च पर्यायपरिवृत्तिसहः इत्यप्युच्यते । परिवृत्तिसहत्वं च समानार्थकत्वे सति विभिन्नानुपूर्वीकत्वम् । स च पूर्वोत्तरपदयोः परावृत्त्या योगलभ्यार्थ बोधयतीति तस्य तथात्वम् । स च त्रिविधः । पूर्वपदपरिवृत्तिसहः उत्तरपदपरिवृत्तिसहः उभयपदपरिवृत्तिसहश्च । तत्राद्यः जलधि दिनकर इत्यादिशब्दः । द्वितीयः वडवानलादिशब्दः । तृतीयः स्वस्वामिभाव- संबन्धरूपेर्थे भूपालादिशब्दः । तत्र जलधिशब्दे जलपदस्थाने तोयादि- पदस्य दिनकरशब्दे च दिनपदस्थाने दिवसादिपदस्य प्रक्षेपेण समा- . नार्थप्रतीतेः जल दिन इति पूर्वपदमेव पर्यायपरिवर्तनं क्षमते न तु घि कर इत्युत्तरपदम् । तत्स्थान आधारादिपदप्रक्षेपे जलाधार- दिनजनकेत्यादिपदात् समुद्रसूर्याद्यर्थाप्रतीतेः । वडवानलशब्दे चा- वर्तनं क्षमते न तु वडवेति पूर्वपदम् । वडवापदस्थानेश्वादिपदप्रक्षेपे नळपदस्थाने यादिपदप्रक्षेपेण समानार्थप्रतीतेरनल इत्युत्तरपदमेव परि अश्वानल हयानल इत्यादिपदात्तादृशार्थाप्रतीते: । भूपालपदे च तादृश- संबन्धस्य भूपाळादिपदादिव पृथ्वीभृत् महीपति इत्यादिपदादपि बोधनेन समानार्थप्रतीतेस्तस्योभयपदपरिवृत्तिसहत्वं संगच्छते । तथा चोक्तं हेम- चन्द्रेण वार्ष्यादिषु पदे पूर्वे वाडवान्यादिषूत्तरे । द्वयेपि भूभृद पर्यायपरिवर्तनम् ॥ एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः । मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः ॥ इति ( वाच ० ) । उभयपद- परिवृत्त्यसहं तु एतन्त्रितयलक्षणभिन्नं रूढमेव । तद्यथा गीर्वाणादिपदम् ( काव्यप्र० उल्ला० ७) । अत्र गी: वाण एते उभे अपि पदे वचो बाण इति परावर्तनं न क्षमेते इति तस्य तथात्वम् । अत्र गीःपदस्थाने वच इति पदस्य बाणपदस्थाने च बबयोरभेदात् बाणपदस्य प्रक्षेपे गीर्वाणपदाद्देवतार्थस्येव वचोबाणपदात्तादृशार्थाप्रतीतेः । प्रत्युत वाक्शर- "रूपार्थप्रतीतेश्च इति । <परिवेत्ता> ( परिवित्तिशब्दे दृश्यम् ) । <परिशेषः> [क] प्रसक्तस्य प्रतिषेधेन्यत्राप्रसङ्गात्परिशिष्यमाणे संप्रत्ययः ( सि० च० १ पृ० ९) । यथा परिशेषानुमानमित्यादौ । तथाहि । शब्दष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति समवायिकारण- कत्वात् यन्नैवम् तन्नैवम् यथा रूपम् इति परिशेषानुमानम् (सि० च० १ पृ० ९) । अत्र परिशेषपदार्थस्य समन्वयमित्थं वर्णयन्ति । प्रस क्तस्य अष्टद्रव्याश्रितत्वस्य प्रतिषेधे अभावे अन्यत्र द्रव्यादन्यत्र रूपादौ अप्रसङ्गात् प्रात्यभावात् परिशिष्यमाणे आकाशे संप्रत्ययः शब्दस्य संबन्धः इति । [ख प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धि: । द्विविधः विधिमुखः निषेधमुखश्च । तत्राद्यो यथा चैत्रः चैत्र मैत्रयोरयं इत्युक्ते अन्यस्मिन्मैत्रप्रमा । द्वितीयो यथा नायं चैत्रः इत्युक्ते तस्मिन्मैत्र- प्रमा । इयमनुमानजन्या । अत्र प्रयोगः विमतो मैत्रः चैत्रमैत्रयो- रन्यतरत्वे सति अचैत्रत्वात् व्यतिरेकेण चैत्रवत् इति ( प्र० च परि० १ पृ० ४४ )। <परिशेषानुमानम्> [क] तदितरविशेषाभाववत्वे सति सामान्यवस्वरूपो हेतुः ( राम ० १ मङ्गल० पृ० ५ ) । ख विशेषाभावसहकृत- सफलत्वे सिद्धे मङ्गलं समाप्तिफलकं समायन्याफलकत्वे सति सफलत्वात् सामान्यहेतुकानुमानम् । यथा अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य त्यनुमानम् ( राम० ) ( दि० १ मङ्गल० पृ० ४ ) । अत्र लक्षण- समन्वयः क्रियते । तस्मात् समाप्तिरूपात्फलात् इतरो विशेषः स्वर्गादि- रूपं फलम् तस्याभाववत्त्वे जनकतासंबन्धेन स्वर्गादिफलस्याभाववत्त्वे सति सामान्यवत्त्वम् फलवत्त्वम् इति । <परिषत्> जातिविशिष्टपुरुषोपग्रहेण वर्तमाना सभा (न्या० वा० १।१।१४ पृ० ७९ ) । धर्मज्ञास्तु दशावरा वा परिषद्यं धर्म परिकल्पयेत् । इयवरा वापि वृत्तस्था तं धर्म न विचालयेत् ॥ ( मनु० १२/११० ) इत्यादी इत्याहुः । <परिसंख्या> (विधिः ) [ क ] सर्वत्र प्राप्तस्य क्वचिद्विधिः । तदुक्तं भट्टपादैः । तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्यते इति ( न्या० म० ४ पृ० २८) । तदर्थश्च यत्रोद्देश्ये यस्य विधानम् तदन्यस्मिन्नपि तत्संबन्धस्य तस्मिन्वा तदन्यसंबन्धस्य प्रवृत्तितः प्रसक्तौ इति । यथा पञ्चपञ्चनखा भक्ष्याः इति । अत्र सर्वेषां पञ्चनखानां भक्षणे प्राप्ते पञ्चैव पञ्चनखा भक्ष्याः न त्वन्ये इति विधीयते (नियम्यते ) ( त० प्र० ४ पू० १०८ ) ( सि० च० पृ० ३३ ) । पञ्चपञ्चनखातिरिक्ताभक्षणं विधीयते इति तात्पर्यम् । पञ्चनखास्तु शशक: शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः इति ( सि० च० पृ० ३३ ) ( त० प्र० ४ पृ० १०८) । काल एव भार्यागमनं विधीयते । ऋत्वतिरिक्तकाले भार्यागमनस्य निषेधात् केचिदत्रैमाहुः । ऋतौ भार्यामुपेयादित्यत्रापि परिसंख्यैव । तत्र ऋतु- इति । वस्तुतस्तु तत्र ऋतुकाले भार्यागमनं कर्तव्यमेव इति बोधा- नियमविधिरेव इति । अत्रायं भावः । ऋतावुपेयात्स्वां भार्यामन्यथा भ्रूणहा भवेत् इत्यादिनिन्दार्थवादबलात् ऋतौ स्खदारगमनाद्यभावस्य दुरित हेतुत्वव्यवस्थित्यैव तद्विधेर्नियमपरत्वं कल्प्यते इति ( श० प्र० श्लो० १०० टी० पृ० १५९ ) । [ख अन्ययोगव्यवच्छेदः । यथा पञ्च पञ्चनखान् भुञ्जीतेत्यादौ लिङा परिसंख्या बोध्यते । अत्रत्यलिङा प्रत्यवा यहेतुत्वं प्रत्याय्यते । प्राथमिकपञ्चपदेन लक्षणया शशादिपञ्चभिन्नोर्थो बोध्यते । सा परिसंख्या च पञ्चैव पञ्चनखान् भुञ्जीत इत्याकारैव । तेन शशादिपञ्चभिन्नानां पञ्चनखानां भोजनं प्रत्यवायहेतुः इत्येव तत्र वाक्यार्थ: । अत्र शशादिपञ्चविधान् पञ्चनखानेव भुञ्जीत इत्याकारा परिसंख्या न भवति । पञ्चनखभिन्नस्यौदनादेर्भोजनस्य निषिद्धत्वे प्रमाणा- "भावात् इति । अत्रार्य भावः । श्वाविधं शल्यकं गोधां खड्गकूर्मशशां- स्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ इति मनुवचने ( अ० ५ श्लो० १८) पञ्चनखेष्विति निर्धारणसप्तम्या शल्लकादिपञ्चभिन्नपञ्चनखानां भक्षणस्य प्रत्यवायहेतुत्वम् इत्यर्थे क्लृप्तत्वात् इति ( श० प्र० श्लो० १०० टी० पृ० १५९) । एवम् याजनाध्यापनप्रतिप्र हैर्ब्राह्मणो धनमर्ज येदित्यादा - वपि लिङः परिसंख्यैवार्थः । तेनात्रापि याजनादिभिन्नैर्ब्राह्मणस्य धनार्जनं प्रत्यवायहेतुः इति बाक्यार्थः । न कृष्याद्यैरनापन्नो ब्राह्मणो धनमर्जयेत् इत्या दिवचनैरुपायान्तरेण विप्राणां धनार्जनस्य प्रत्यवायहेतुत्वस्य स्फुट- वात् इति बोध्यम् (श० प्र० श्लो० १०० टी० पृ० १५९) । अत्राहुः । _याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत् इत्यत्र नियमविधिरेव । तथाहि यत्र क्रियायां विकल्पेन कारकान्वयः स नियमः । यथा धनार्जने याजनप्रतिग्रहाभ्यामेकस्यार्जनस्यासंभवादेकस्यां धनार्जनक्रियायां याजना दीनां मिलितानामन्वयस्यासंभाविततया विकल्पेनैवान्वयः । शशकादिमांस:- निर्मितस्यैकस्य पिण्डस्य संभवात् भक्षणक्रियायां मिलितानामन्वयसंभवः इति परिसंख्येति भेदः इति ( त० प्र० ४ पृ० १०८) । शब्दशक्ति- प्रकाशिकाकृतस्तु अत्र याजनाद्यैर्ब्राह्मणो धनमर्जयेदेव इति नियम- विधिः । याजनादिना धनानर्जने ब्राह्मणस्य प्रत्यवायाश्रुतेः इत्याहुः ( श० प्र० श्लो० १०० टी० पृ० १६०) । [ग] उभयोर्युगपत्प्राप्ता- शशकः शलुकी गोधा खङ्गी कमोथ पञ्चमः ॥ (लौ० मा० १० १२ इति । परिसंख्या द्विविधा श्रौती लाक्षणिकी च । तत्राद्या अत्र ह्येवावयन्ति ( श्रुतिः ) इति । तदर्थश्च अत्र प्रकृते अवयन्ति अ जानन्ति गायन्तीति यावत् (लो० भा० टी० पृ० : ४२) । कारेण पवमानातिरिक्तस्तोत्रव्यावृत्तिरभिधीयते इति अस्याः परिसंख्यायाः श्रौतीत्वम् इति विज्ञेयम् ( लौ० मा० पृ० ४१) । द्वितीया पञ्च पञ्चनखा भक्ष्याः इति ( लौ० भा० पृ० ४१ ) ( म० प्र० ४ पृ० ६२ ) / इदं हि वाक्यं पञ्चानां पञ्चनखानां सेधागोधादीनां च न भक्षण- विधायकम् । तस्य रागतः प्राप्तत्वात् । नापि तेषां भक्षणनियम- परम् । तेषां च तदितरपञ्चनखानां च भक्षणस्य युगपदपि रागतः प्राप्ततया पक्षे अप्रांध्यभावात् । किंतु लक्षणया पञ्चेतरपञ्चनखानां श्वाविधादीनां भक्षणनिवृत्तिपरम् इति भवति परिसंख्या ( म०प्र० पृ० ६१-६२ ) (लौ० भा० ४ पृ० ४१ ) । अयं भावः । दोष- त्रयवती परिसंख्या भवति । दोषत्रयं च श्रुतहानि: अश्रुतकल्पना प्राप्तबाघश्चेति । श्रुञ्चभक्षणस्य हानात् अश्रुतायाः पञ्चेतर- पश्चनखभक्षणनिवृत्तेः कल्पनात् रागतः प्राप्तस्य पञ्चेतरपञ्चनखभक्षणस्य बाधनाच ( म० प्र० ४ पृ० ६२ ) (लो० भा० पृ० ४१ ) । केचित्तु इतरव्यवच्छेदस्य आर्थत्वशाब्दत्वाभ्यां नियमपरिसंख्ययोर्भेदः । तथाहि । याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जये दित्यादौ वित्तार्जन उपा- यत्रयसंबन्धस्य शब्दात्प्रतीतौ कृष्यादीनामनन्वयोर्थात्सिद्ध्यति । येषामेका अपरानन्वयः तेषां समुच्चयासंभवात् तत्रेतरोपायव्युदासे शब्दतात्पर्य कल्प्यते । परंतु धूमोस्तीति वाक्ये बहेरिव तस्यार्थत्वम् । परिसंख्यायां तु भक्षणक्रियायां पञ्चानामप्यन्वयसंभवादितरपञ्च नखव्युदासो नार्थः । तत्र पश्चानामपि समुच्चयसंभवात् । किंतु शाब्दः । एव च भक्ष्यपञ्चनखपद- योर्विरोधिलक्षणया पञ्चेतरपञ्चनखा न भक्ष्याः इति वाक्यार्थः । तथा च उपस्थितपदार्थ परित्यागात् अनुपस्थित पदार्थकल्पनात् अभावविधत्वाच नियमापेक्षया दोषत्रयवती परिसंख्या इत्याहुः ( त० प्र० ख० ४ पृ० १०९) । [घ ] प्रसञ्जकप्रवृत्तिविरोधिविधिः । यथा इमामगृभ्णन् रश- नामृतस्येत्यश्वाभिधानीमादत्ते (तै० सं० ५/१२) । तथाहि । इमामिया- दिमन्त्रस्य रशनामात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्दभरशनाया आदानेपि मन्त्रस्य विनियोगो लिङ्गागम्यते । तथा च तदादानक लेपि सम्मन्न्रपाठप्रवृत्त्या तत्रापि तन्मन्त्रसंबन्ध: स्यात् । एतस्माच्च विधितः प्रथममश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतया गर्दभर- शनाप्रहणे न तद्विनियोगलाभ इति एतद्विधेर्विधेयस्येतरोद्देश्यसंबन्धप्रस- अकमवृत्तिविरोधिता इति (षाच० ) । <परीक्षकः. [क] नैसर्गिकं वैनयिकं बुद्ध्यतिशयं प्राप्तः । परीक्षक- तर्केण प्रमाणैर परीक्षितुमर्हतीति (वात्स्या० ११ १/२५) । य लौकिक परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यम् स दृष्टान्तः (गौ० ११ १/२५) इत्यादी गौतमकणादौ मुनी परीक्षकौ । [ख] शास्त्रपरिशीलनप्राप्त बुद्धिप्रकर्षः ( प्रतिपादकः ) (गौ० वृ० १११।२५ ) । व्यवहाराद दिव्यभेदपरीक्षाकारकः परीक्षकः इति व्यवहारशास्त्रज्ञा आहुः (वाच०) । <परीक्षा> [ क ] लक्षितस्य यथाक्षणमुपपद्यते न वा इति प्रमाणैर- वधारणम्। इयं च शास्त्रस्य प्रवृत्तिः (वात्स्या० ११११२) (त० कौ० ) । प्रमाणादीनां षोडशानां पदार्थानां तत्त्वज्ञानार्थी परीक्षा कर्तव्या (त० भा० पृ० १ ) । [ख] यथावल्लक्षितस्यैतल्लक्षणमुपपद्यते नवा इति विचारः ( त० भा० पृ० १ ) । [ग] उद्देशलक्षणयोरुपपत्त्यनु णस्य सदसद्विचारः ( प्र० प्र० ) । यथा पृथिव्या गन्धवत्वमुपपद्यते न पपत्त्यन्यतरफलको विचार: ( त० कौ० पृ० २१) । [घ ] लक्ष- वा इति विचारः । २ प्रमाणतर्काभ्यां वस्तुतत्त्वावधारणम् । <परोक्षत्वम्> १ साक्षात्कारभिन्नज्ञानत्त्रम् ( चि० १ ) ( म०प्र० १) ( ग० शक्ति० टी० पृ० ११७) । यथा अनुमित्यादीनां ज्ञानानां परोक्षत्वम् । प्रत्यक्षज्ञानभिन्नज्ञानत्वम् इति तु वयं ब्रूमः । अत्रायं सिद्धान्तः परोक्षज्ञानमनाहार्यमेव निश्चयश्च इति (ग० हेत्वा० सामा० ) ( सत्प्र० ) । अत्र अक्ष्णः परम् इति व्युत्पत्तिः । परोक्षे लिडिति निपातनात्साधुत्वम् ( सि० कौ० पृ० ६९ ) २ परोक्षज्ञानविषयत्वम् । यथा पर्वतो वह्निमान् धूमादित्यादौ वः परोक्षत्वम् । ३ वक्तुः साक्षा योगी किल कार्तवीर्य: ( रघु० स० ६ श्लो० ३८) इत्यादौ लिटोर्थः (ग० व्यु० ल० पृ० १३९ ) । यथा बभूव काराविषयत्वम् परोक्षत्वम् । वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम् इति केचिदाहुः । व्यु० ल० पृ० १३९ ) । शाब्दिकास्तु साक्षात्करोमि इत्येतादृश षयताशालिज्ञानाविषयत्वम् इत्याहुः । साक्षात्करोमि इत्येतत्प्रतीति साक्षिकलौकिक विषयत्वाभाववत्त्वम् इत्यर्थः । तेन पपाचेत्यादी प्रत्यक्ष विषयता सत्त्वेपि तादृश विलक्षण विषयत्वाभाववत्त्वमक्षुण्णम् इति न तदनु- पपत्तिः इति (वै० सा० ६० लका० पृ० १२३-१२४ ) । <परोपकार:> स्वभिन्नस्य साधुवृत्तस्य हितसंपादनम् । यथा परोपकारः पुण्याय पापाय परपीडनम् इत्यादौ । यथा वा परोपकाराय सतां विभूतयः इत्यादौ च । <पर्यग्निकरणम्> दर्भज्वालया त्रिः प्रदक्षिणीकरणम् (जै० न्या० अ० ३ पा० ६ अधि० ७ <पर्यनुयोगः> दूषणार्थे जिज्ञासा । यथा एतेनास्यापि पर्यनुयोगस्यानव- काश: ( दायभागः ) इत्यादौ । <पर्यनुयोज्यः> निग्रहोपपत्त्या चोदनीयः (वात्स्या० ५/२/२१) । निप्रह- स्थानं प्राप्तोसि इत्यनुयोज्यः इति यावत् । <पर्यनुयोज्योपेक्षणम्> (निग्रहस्थानम् ) [ क] निग्रहस्थानप्राप्तस्यानि- ग्रहः पर्यनुयोज्योपेक्षणम् (गौ० ५/२/२१ ) । पर्यनुयोज्यो नाम निम- होपपत्त्या चोदनीयस्तस्योपेक्षणम् निग्रहस्थानं प्राप्तोसि इत्यनुयोगः । एतच कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयम् । न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति (वात्स्या० ५१२१२१) । [ख] निग्रहस्थानं प्राप्तवतो निग्रहस्थानानुद्भावनम् । अत्रेदं बोध्यम् । यत्र वनेकनिग्रहस्थानपात एकतरोद्भावनम् तत्र न पर्यनुयोज्योपेक्षणम् । अवसरे निग्रहस्थानोद्भावनत्वावच्छिन्नाभावस्यैव तत्त्वात् । ननु वादिना कथमिदमुद्भाव्यम् । स्वकौपीन विवरणस्यायुक्तत्वात् इति चेत् सत्यम् । म ध्यस्थेनैवेदमुद्भाव्यम् । वादे च स्वयमुद्भावनेप्यदोष: (गौ० वृ० ५/२/२१) । [ग] उद्भावनाईपरकीय निग्रहस्थानानुद्भावनम् ( नील० पृ० ४६ ) । <पर्यन्तत्वम्. तदवधिक विप्रकर्षशून्यत्वे सति तत्संनिकृष्टत्वम् । यथा नहीं यावन्मम पुरम् इत्यादौ यावदर्थो मर्यादा । अत्र नदीपर्यन्तं मत्पुरम् इति बोध: ( श० प्र० श्लो० ९३ टी० पृ० ११७) । <पयेवसितम्> पूर्वापरालोचनेनावधारितोर्थ: ( वाच० ) । यथा इति पर्य वसितो वायुः इत्यादौ ( मु० १ वायु० पृ० ८५ ) । अत्र पर्यवसानं च तत्तदर्थावधारणम् शेषावधिश्व इति ( वाच० ) । २ निष्कृष्टार्थः । ६२ न्या० को० <पर्याप्तिः> ( संबन्धः ) अयमेको घटः अयमेको घटः इमौ द्वौ इत्यादि- प्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः । यथा घटपटयो रूपगन्धावित्यादौ द्वित्वपर्याप्तिः (ग० व्यु० का० १ ) ( दीधि ० अवच्छे० निरु० प० १ ) । तदर्थश्च अयमेको घटः अयमेको घटः इति नानैक - त्वावगाहिन्या अपेक्षाबुद्ध्या जन्यः इमौ द्वौ इत्याकारकप्रतीतिप्रमाणकः द्वित्वस्वरूपसंबन्धविशेष: । द्वित्व एव पर्याप्तिसंबन्धता स्वीक्रियते इति कृष्ण ० ) । अत्रायमर्थ: । द्वित्वत्रित्वादिकं पर्याप्तिसंबन्धेन द्वित्र्यादिष्वेव वर्तते न प्रत्येकस्मिन् । समवायेन तु प्रत्येकवृत्ति । प्रत्येकावृत्तेः समुदा यावृत्तित्वम् इति नियमस्तु समवायादिनैव न पर्याप्त येन गुणे गुणस्यासत्त्वेपि चत्वारो गुणाः इति प्रतीत्या गुणादिषु बोध्यम् । पर्याप्तिसंबन्धश्च विशिष्टबुद्धिनियामकः संबन्धः । समवा- संख्यांदिसत्त्वनियामकोपि तादृशः संबन्धः इति जगदीश आह ( वाच० ) । पयोप्तिद्विविधा । अर्धपर्याप्तिः पूर्णपर्याप्तिश्च । तत्र प्रथमा 'यत्राधिकस्य निरासार्थ या पर्याप्तिर्निवेश्यते सा अर्धपर्याप्तिः । यथा पर्वतो वह्निमान् घूमादित्यादौ साध्यतावच्छेदक हित्वनिष्ठां पर्याप्तिः । तथाहि । साध्याभाववदवृत्तित्वादिरूपे व्याप्यलक्षणे साध्या साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रतियोगिताकाभावः पर्वतपक्षक- साध्यकधूमहेतुकस्थले महानसीयवह्य भाववारणाय विवक्षणीयः । एवमपि संबन्धादिभेदेनावच्छेदकताभेदान्महानसीयवह्न्यभावप्रतियोगितानिरूपित- समवायसंबन्धावच्छिन्नावच्छेदकतापर्याप्तेः साध्यतावच्छेदकवह्नित्वेपि "सत्त्वेन तद्वारणासंभवः । अतः साध्यतावच्छेदकपर्याप्तावच्छेदकता ' केल्यनेन साध्यतावच्छेद कनिष्ठावच्छेदकताभिन्नावच्छेदकत्वा निरूपकत्वम् द्वितीया तु यत्र च न्यूननिवारणार्थी या पर्याप्तिर्निवेश्यते सा पूर्णपर्याप्तिः। इति विवक्षणीयम् । तेन महानसीयत्वरूपाधिकधर्मव्युदासः इति । "विशिष्टवह्नित्वनिष्टा पर्याप्तिः । अत्रेदं बोध्यम् । पक्षतावच्छेदकावच्छिन्ने यथा पर्वतो महानसीयवहिमानित्यादौ साध्यतावच्छेद की भूतमहानसीयत्व- साध्यतावच्छेदकावच्छिन्न प्रकारता निरूपितप्रकारिताशाल्यनुमितित्वव्यापक- प्रतिबध्यतेत्यादिगादाधरीयहेत्वाभासलक्षणे पर्वतो महानसीयवह्निमानित्यत्र पर्वतो वह्निमान् इत्यनुमितेरपि तादृशानुमितित्वापत्या तत्रयबाघेव्याप्ति - साध्यतावच्छेदकतापर्याप्यधिकरणधर्मपर्याप्तावच्छेदकताक- प्रकारताकपक्षविशेष्यकानुमितित्वव्यापकत्वम् इति विवक्षणे च उभयं प्रत्येकानतिरिक्तम् इति न्यायेन शुद्धवह्नित्वेपि साध्यतावच्छेदकतापर्याप्तेः सत्त्वेन पुनस्तदोषापत्त्या साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकार- ताकपक्षविशेष्यकानुमितित्वव्यापकप्रतिबध्यतेत्यादि विवक्षणीयम् । तेन पर्वतो वह्निमान् इति ज्ञानीयप्रकारतारूपन्यूनधर्मव्युदासः इति । <पर्यायः> १ [क] समानप्रवृत्तिनिमित्तकस्वे सति विभिन्नानुपूर्वीकत्वम् । यथा घट: करीर: कलश: इति पर्यायः । अत्र पर्यायत्वं च शक्य- तावच्छेदकैक्ये सति विभिन्नशक्ततावच्छेदककत्वम् ( त० प्र० ख० ४ पृ० ८३ ) । [ख] समानार्थबोधकं शब्दान्तरम् इति केचिदाहुः । २ अनुक्रमः । ३ प्रकार: । ४ अवसरः । ५ निर्माणम् । ६ द्रव्य- धर्मविशेषः इत्यप्यन्य आहुः ( वाच० ) । ७ अर्थालंकारविशेषः । <पर्युदासः> [क] अन्योन्याभावः ( म० प्र० ४ ० ४८ ) । यथा घट: टोन भवतीत्यादौ अब्राह्मणमानयेत्यादौ च नबर्थः । पर्युदास- शब्दोन्योन्याभावे रूढः । पर्युदासे नञ् प्रसज्यप्रतिषेधे नञ् इति शब्द- चिन्तामण्यादौ प्रयोगात् । प्राञ्चस्तु पर्युदासः प्रसज्यप्रतिषेधश्च नञ्- विशेषसंज्ञे एवेत्याहुः । तन्मते पर्युदासत्वं चान्योन्याभावबोधकत्वम् इति विज्ञेयम् । अत्र प्राञ्चो नैयायिका आहुः । पर्युदासस्थ नजो लाक्षणिकत्वम् इति । नव्यास्तु तत्र शक्त्यैवार्थबोधकत्वम् इति माइः ( म० प्र० ४ पृ० ४८) । अत्रोक्तमभियुक्तैः । प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्र[^१]धानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ इति । तदर्थश्च प्रथमान्तप्रतियोगिवाचकपदसमभिव्याहृतेन समासघटकेन वा नजा (नञ् न एतदन्यतरेण शब्देन ) उत्तरपदार्थेन सह यस्यार्थस्या- इति । अत्र मणिकारा आहुः । नञ्समासे अब्राह्मण- [^१] अप्रधानतेति पदच्छेदः । मानयेत्यत्र पर्युदासे पूर्वपदे नञ्युत्तरपदार्थसंबन्धिनि क्षत्रिये लक्षणा । अघटः पट इत्यादौ पर्युदासाथै नज्यपि सामानाधिकरण्यादभाववलक्षणा । व्यासेपि न घटः पट इत्यादौ तथैव । यथा शुक्लपट इत्यत्र शुक्लवलक्षणा । न पचतीत्यादौ क्रियासंबन्धे भूतले न घट इत्यादौ च प्रसज्यप्रतिषेधे तु । नञो मुख्यार्थता । यजतिषु ये यजामहं कत पर्युदासे नञ् । तेनायमर्थः नानुयाजेषु अनुयाजव्यतिरिक्तेषु यजतिषु ये यजामहे इति मन्त्रं करोति इति ( चि० ४) । अत्रेदं बोध्यम् । नव- जलधरः संनद्धोयं न दृप्तनिशाचरः इत्यादौ तत्पुरुषसमासे गुणीमावे नञः पर्युदासतया निषेधस्य विधेयतानवगमः । जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अनुराददे सोर्थानसक्तः सुखमन्वभूत् ॥ इत्यादौ अत्रस्तादितामनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुण- भावो युक्तः इति । [ख फलप्रत्यवायशून्यतया समभिव्याहृतपदार्थ- भेदः । यथा रात्रौ श्राद्धं न कुर्वीत इत्यादौ नञर्थः पर्युदासः । तथाहि रात्रौ श्राद्धं न कुर्वीत इत्यादौ रात्रौ श्राद्धे न फलम् न वा प्रत्यवायः इति रात्रिः पर्युदस्ता तद्भिन्ना दिनावस्था नञा बोध्यते इति । अत्र मीमांसकाः । पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तर- पदेन नञ् ॥ (मी० न्या० पृ० ६२ ) । अयमर्थः । उत्तरपदं प्रत्ययः । तदन्यत्पूर्वेपदम् । तत्र यदा प्रत्ययार्थभावनया सह नमः संबन्धस्तदा प्रतिषेधः । यदा तु प्रत्ययार्थभावनाव्यतिरिक्तेन धात्वर्थेन वा पदार्थेन सह नञः संबन्धस्तदा पर्युदासः । आयोदाहरणम् न कल भक्षयेत् इति । अत्र हि लिङर्थप्रवर्तनया सह नञः संबन्धः । नञश्चैष स्वभावो यत्स्वसंबन्धि प्रतिपक्षबोधकत्वम् । तदत्र पक्षभूतां निवर्तनां प्रतिपादयति । तथा च कलअकर्मकभक्षणनिवर्तनेति वः । द्वितीयोदाहरणं तु नेक्षेतोद्यन्तमादित्यमिति । अत्र हि सह नञः संबन्धः । तथा च नजीक्षतिभ्यामीक्षणविरोधी ने इस नीक्षणसंकल्पः प्रतिपाद्यते । वैयाकरणास्तु समासघटकस्य नञो यदो- रपदार्थेन सहान्वयस्तदा पर्युदासः । यदा च तादृशस्यैव नञः क्रियया सहान्वयस्तदा प्रसज्य प्रतिषेधः । व्यस्तस्य तु नञः क्रिययैवान्वयात्प्रसज्य- प्रतिषेध एवेत्याहुः । तदुक्तम् । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् ॥ इति । <पर्षत्> चत्वारो ब्राह्मणा वेदशास्त्रधर्मज्ञाः पर्षत् ( मिताक्षरा अ० ११९ ) । <पललम्> तिलपिष्टम् (पु० चि० पृ० ३०७)। <पशु:> १ [क] पशुत्वसंबन्धी पशुः । सोपि द्विविधः साञ्जनो निरञ्जन- श्चेति । तत्र साञ्जनः शरीरेन्द्रियसंबन्धी । निरञ्जनस्तु तद्रहितः ( सर्व० पृ० १६८ नकु० ) । [ख ] अनणुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशु: ( सर्व० सं० पृ० १८० शैव० ) । पाशुपतशास्त्रज्ञास्तु सर्व- जीवानां पशुत्वं मन्यन्ते । २ लोमलालवान् ( श० प्र० श्लो० १०० टीं० ) । यथा पशुना रुद्रं यजते इत्यादौ मायावादिमते छागादीनां पशुत्वम् । अत्र मध्वाचार्यमतानुयायिनो वैष्णवाः समुत्तिष्ठन्ते । नायं साक्षात्पशुर्यज्ञादौ विहितः । अपि तु पिष्टात्मकहविर्द्रव्यमेव तत्र विहि- तम् । पिष्टपशोरेव श्रुतिस्मृतिपुराणादौ निर्वपणप्रतिपादनात् । साक्षात्प- श्वालम्भनं तु काम्यमेव । तत्र श्येनादिवन्नरकाद्य निष्टान्तरस्यापि श्रवणात् इति । अत्र श्रुतिः प्रमाणम् । पुरुषं वै देवाः पशुमालभन्त इत्यादिना पुरुषादिभ्यो मेधोत्क्रमणमुक्त्वा त एत उत्क्रान्तमेधा अमेध्याः पशव- स्तस्मादेतेषां नाश्नीयात्तमस्यामन्वगच्छत्सोनुगतो व्रीहिरभवत्तद्यत्पशौ पुरो- डाशमनु निर्वपति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेघेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद इति ( ऋ० ब्राह्म० २ ख० ८) । तदाहुः यदेष हविरेव यत्पशुः (६० ब्राह्म० २ ख० ११) इति च । स्मृतिरपि कुर्याद्धृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा । न स्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ इति ( मनु० अ० ५ श्लो० ३७) । महाभारतमपि न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर । धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो ॥ नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते । आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि ॥ विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत् । यज़ बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः ॥ एष धर्मो महाञ्च्छक महागुणफलोदयः इति ( भार० आश्व० अ० ९१) । अपरं च पिष्टमानीयतामत्र पश्वर्थ- मिति भाषते । ऋषय ऊचुः । बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः । १ अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ ॥ नैष धर्मः सतां देवाः कथं बध्येत वै पशुः इत्यादि ( भार० शान्ति० मोक्षधर्मे० ) । अन्यत्र चेद- मुक्तम् । इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । पुराणमृषिभिर्जुष्टं वेषु परिनिष्ठितम् ॥ प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुतः इत्यादिना काम्ये कर्मणि प्रत्यक्षं मांसमुक्त्वा निष्कामकर्मणीदमुच्यते य इच्छेत्पुरुषोत्यन्तमात्मानं निरुपद्रवम् । स वर्जयेत मांसा सर्वशः । श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः । येनायजन्त यज्वानः पुण्यश्लोकपरायणाः ॥ ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा इत्यादि ( भार० शान्ति० दानधर्मे ) । <पाकः> १ [क] विजातीयतेजःसंयोगः (त० भा० ) ( त० दी० ) ( न्या० बो० ) । रूपादिपरावृत्तिफलको विजातीय तेजः संयोगः इत्यर्थः ( दि० गु० ) ( वै० वि० ७१११६ पृ० २८७ ) । यथा आमनि घटे श्यामरूपादिपरावृत्तिफलकोग्निसंयोगः । अत्रोच्यते । स च संयोगो नानाजातीयः । तथाहि रूपजनको विजातीयतेजः संयोगः । तदपेक्षया रसजनको विजातीयः । एवं गन्धजनकोपि । एवं स्पर्शजनकोपि तथा । एवंप्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः ( न्या० बो० १ पृ० ५ ) । गदाधरभट्टाचार्याश्चाहुः । रूपरसगन्ध- स्पर्शानां नाशं प्रति तु एकजातीय एवान्झिसंयोग: कारणम् इति । पृ० १२ ) । इदं चात्र बोध्यम् । कारणगुणपूर्वकाः पृथिव्यां पाकजाः स्पर्शनाशकाले रूपनाश आवश्यकः इति ( ग० चतुर्द० : प्रसङ्गात्पाकजप्रक्रिया चिन्त्यते । तत्र कार्यकारणसमुदाय एव पच्य इति पिठरपाकवादिनो नैयायिकाः आहुः । पीलवः परमाणय एव स्वतन्त्राः पच्यन्ते । तत्रैव पूर्वरूपनाशाप्रिमरूपायुत्पत्तिः । कारणगुण- प्रक्रमेण चावयविनि रूपाद्युत्पद्यते इति पीलुपाकवादिनः वैशेषिकाः आहुः । अत्रेदं तत्त्वम् । आमपाके निक्षिप्तस्य घटादेरामद्रव्यस्य वह्निना नोदनादभिघाताद्वा तदारम्भकेषु परमाणुषु द्रव्यारम्भकसंयोग- । विरोधिविभागेनारम्भकसंयोगनाशे द्रव्यनाशावश्यंभावः । दृश्यते हि स्थाल्यामाहितानां तण्डुलादीनामप्यधःसंतापनमात्रेण भर्जनात्तदानीमेव नाशः । क्षीरनीरादीनां चात्यन्तमुल्बणता । तथा च आमपाके वह्नि- ज्वालाजालाभिहतानां द्रव्याणामवस्थानम् इति महती प्रत्याशा (वै० उ० ७१११६ ) ( त० कौ० ) । पार्थिवपरमाणुरूपादीनां पाक- जोत्पत्तिविधानमित्थम् । घटादेरामद्रव्यस्याग्निना संबद्धस्याग्यभिघातानो- दनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः । विभागेभ्यो विनष्टे परमाणुष्वनियोगादौष्ण्यापेक्षाच्छ्या मादीनां विनाशः । पुनरन्- द्रव्यारम्भक संयोगविनाशाः । तद्विनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मि- स्मादग्निसंयोगा दौ॰ण्यापेक्षात्पाकजा: रूपादयो जायन्ते । तदनन्तरम् भो- गिनामदृष्टापेक्षादात्मानुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्पर- संयोगांद्व्यणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणपूर्व रूपाद्युत्पत्तिः । न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा संभवति । अपि तु परमाणुष्वेव । सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याय- भावात् । अनुप्रवेशादपि च व्याप्तिर्न संभवति । कार्यद्रव्यविनाशात् इति ( प्रशस्त० पृ० १३) । पाकोपि रूपादेरसमवायिकारणं भवति । तत्र च परमाणावेव पाकाद्रूपादिपरावृत्तिः नावयविनि इति पीलुपाकवादिन आहुः । पीलुपाकवादिमते विजातीयाग्निसंयोगादारम्भ- कसंयोगनाशेन द्यणुकपर्यन्तावयविनाशे सति परमाणौ रक्ताद्युत्पत्तिः । गादिप्रक्रमेण पुनर्धणुकादिमहावयविपर्यन्तानामुत्पत्तिर्भवतीति । पिठर- विजयादारम्भकसंयोगानुगुणक्रियायुत्पत्यारम्भको पाकवादिमते तु अवयविनां सच्छिद्रतया विजातीयाग्निसंयोगात्ते- षामपि रूपादिपरावृत्तिर्भवति । न तु तत्रावयविनां नाशः । प्रत्यभिज्ञा- विरोधात् इत्याहुः (वै० वि० ७/११६ पृ० २८७-२८९) । तेजसा परमाणुनामभिघातेपि तस्य नियमत आरम्भकसंयोगप्रतिद्व- न्द्विविभागजनकक्रियाजनकत्वे मानाभावेन अवयविन्यपि पाकस्वीकार उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा संगच्छते । अन्त्य/- वयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १ पृ० १३) । द्रव्यादेः पाकप्रकारभेदादिकं पाकराजेश्वरे उक्तम् । यथा भर्जनं तलन स्वेदः पचनं कथनं तथा । तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥ तत्र भर्जनं केवलपात्रे । तलनं स्नेहद्रव्ये । स्वेदनमभ्युत्तापे । पचनं जले कथनं सिद्धद्रव्यरसग्रहणे । तान्दूरं द्वारबद्धतप्तयन्त्रे पुटपाक ऊर्ध्वाधोग्नितापे ज्ञेय इति ( वाच० ) । [ ख ] रूपादिपरावृत्तिजनक तेजःसंयोगः । यथा तण्डुलं पचतीत्यादौ पच्यर्थः पाकः । अत्र अव यविन्यपि पाकाङ्गीकर्तृनैयायिकमते तण्डुलं पचतीत्यादौ पचधात्वर्थघटके रूपादिपरावृत्यात्मकफले तण्डुलादिवृत्तित्वान्वयः । ओदनं पचतीत्यादौ भ्युपगमे वैशेषिक मते तु तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य तदारम्भक- तु ओदनादिपदस्य तन्निष्पादकतण्डुलादौ लक्षणा । अवयविनि पाकान- परमाणुषु लक्षणा (ग० व्यु० का ० २ पृ० ४३ ) । अत्र वैयाकरण- मते विशेषः । अनेन विकेदनाया उत्पत्यनुकूलव्यापारस्य चेति व्यापार- द्वयस्य वचनाद्विकर्मकत्वम् । तण्डुलानोदनं पचतीत्यस्य तण्डुलान् विक्केदयन् ओदनं निष्पादयति इत्यर्थः । दुहादित्वेन गौणे कर्मण लकारे च तण्डुला ओदनं पच्यन्ते इति ( वाच० ) । अधिकं तु द शब्दे द्रष्टव्यम् । [ग] रूपादिपरावृत्तिफलकतेजः संयोगावच्छिन्नक्रिया । यथा तण्डुलं पचतीत्यत्र पचेरर्थः पाकः । अत्र पचधात्वर्थनिविष्ठे च निरुक्ते तेज:संयोगे तण्डुलस्याधेयत्वेनान्वयः । ओदनं पचतीत्यादौ तु यार्थः इत्यपि कश्चिदाह । परमाणुं पचति इत्यपि प्रयुज्यत एव । तण्डुलादावोदनादिपदस्य लक्षणा । तत्र क्रियायामन्वितमनुकूलत्वं द्विती- प्र० श्लो० ७२ टी० पृ० ९४ ) । अत्रेदमवधेयम् । चुल्लीस्थाल्यारोपणा एव स्वतन्त्राः परमाणवः पच्यन्ते इति किरणावल्यामाचार्या आहुः (श० दिकं हि न प्रत्येकं पाकपदार्थ: । किंतु स्थाल्यारोपणाग्निनिवेशनतुष- प्रक्षेपाद्यनुस्फोटनपर्यन्तस्तत्तक्रियाकलापः । यदाह दुर्गः । क्रियत इति क्रिया । सा च पूर्वापरीभूतावयवैव इति ( श० प्र० श्लो० १०५ टी० पृ० १६३ ) । स च पाकः स्थालीमार्जनाधःसंतापनाद्योदनपरीक्षान्तो व्यापारसमूहः इति ( वाच० ) । [घ ] विक्लित्त्यनुकूलव्यापारः पाकः इति शाब्दिका आहुः । विक्कित्तिः इति मण्डनाचार्य आह । २ रसा- खादप्रभेदः पाकः इत्यालंकारिका आहुः ( प्रतापरु० ) । ३ व्यक्ती- करणम् । शिष्टं तु पचधात्वर्थे द्रष्टव्यम् । <पाठः> कण्ठताल्वाद्यभिघातः । यथा यजमानं मन्त्रं पाठयतीत्यादौ धात्वर्थ: ( ग० व्यु० का० २ पृ० ४७ ) । पाठस्य चतुर्दश दोषा यथा । शङ्कितं भीतमुद्धष्टमव्यक्तमनुनासिकम् । विस्वरं विरसं चैव विश्लिष्टं विसमाहतम् ॥ काकस्वरं निरसितं तथा स्थान विवर्जितम् । व्याकुलं तालहीनं च पाठदोषाश्चतुर्दश ॥ इति ( वाच० ) । अध्ययनक्रमो यथा आचम्य प्रयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ॥ इति । अध्यापनक्रमो यथा । अधीष्व भो इति ब्रूयाद्विरामो- स्त्विति चारमेत् ( कूर्मपु० उ० अ० १३ ) ( वाच० ) । अत्राधिकं च द्वितीया कर्मत्वम् इत्यादिशब्देषु संपादितम् तत्र दृश्यम् । <पाणिनि> पाणिनिनामकः प्रसिद्धो मुनिविशेषः । स च व्याकरणशास्त्रे अष्टाध्यायी रूपसूत्रपाठम् गणपाठम् धातुपाठम् लिङ्गानुशासनम् शिक्षां चेति ग्रन्थपञ्चकं चकार । अत्रोच्यते । येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति । व्याकरणशास्त्र प्रयोजनं तु निःश्रेयसम् इति । पाणिनिमतं च सर्वदर्श- मुख्यम् गौणं च । तत्र मुख्यं निःश्रेयसम् । गौणं तु रक्षोहागमलध्व- नसंग्रहमहाभाष्यकैयटादौ प्रतिपादितम् इति । अत्र प्रयोजनं द्विविधम् । <पात:> १ पतनम् । यथा दृष्टिपात: बाणपातः सूत्रपातः इत्यादि । संदेहा: प्रयोजनम् इति महाभाष्योक्तं ( पृ० १ ) द्रष्टव्यम् । २ ज्योतिर्विदस्तु रविभिन्नग्रहाणां दक्षिणोत्तराकर्षक: अदृश्यरूपः काल- मूर्तिरूपः भचक्रस्थितो जीवविशेषः इत्याहुः ( सू० सि० ) ( वाच० ) । ६३ न्या० को० <पातकम्> [क] पातित्यजनकदुरदृष्टप्रयोजक क्रियाविशेषः । यथा गोवा- ५ह्मणवधादि पातकम् । अत्र महापातकान्युच्यन्ते ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ इति ५१ ( मनु० अ० ११ श्लो० ५५ ) । उपपातकानि तु गोवधोय[^१]ज्यसंया- ज्यपारदार्यात्मविक्रयाः । गुरुमातृपितृत्यागः स्वाध्यायान्योः सुतस्य च ॥ इत्यादि ( मनु० अ० ११ श्लो० ५९ - ६६ ) । ख । पापजनकं कर्म । [^१] अयाज्येति पदच्छेदः । <पातालम्> एकषष्ट्यधिकशतत्रयपरिमिता संख्या ( अतलशब्दे दृश्यम् ) । <पानम्> १ द्रवद्रव्यस्य गलाधः संयोजनम् । यथा पानीयं पातुमिच्छामि त्वत्तः कमललोचने इत्यादौ । २ रक्षणम् । यथा पाहि मां भवसागरात् इत्यादौ । ३ निःश्वासः ( वाच० ) । <पापम्> १ ( गुण: ) वेदैकप्रतिपाद्योनिष्टसाधनमदृष्टविशेषः । अधिकं तु अधर्मशब्देनुसंधेयम् । २ सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ( सर्व० सं० पृ० ८७ आर्ह० ) । <पारदः> संसारस्य परं पारं दत्तेसौ पारदः स्मृतः ( सर्व० सं० पृ० २०२ रसेश्व० ) । <पारमार्थिकत्वम्> १ प्रमाविषयत्वम् । यथा घटपटादीनां पारमार्थिकत्वम् । २ [क] कालत्रयसंबन्धित्वम् । [ख ] केचिद्वेदान्तिनस्तु त्रिकाला ज्ञेयम् । अपारमार्थिकत्वं तु पारमार्थिकत्वाभाव एव । यथा खपुष्प- साधनत्वम् इति कर्मज्ञा आहुः । ४ स्वाभाविकत्वम् इति काव्यज्ञा आहुः । <पारिणामिकः> कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः शशशृङ्गकूर्मरोमवन्ध्यापुत्रादीनामपारमार्थिकत्वम् इति । ३ निःश्रेयस ( सर्व० सं० पृ० ६९ आर्ह० ) । <पारिभाषिकम्> ( शब्द:) आधुनिकसंकेतेनार्थबोधकं पदम् / यथा शास्त्रकारा दिसंकेतितं सव्यभिचार अप्राप्तकाल नदी वृद्धि इत्यादिपदं पारिभाषिकम् ( ग० शक्ति० पृ० ३ ) । <पारिभाषिकी संज्ञा> (रूढनाम) उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा। यथा आकाशडित्यादिः । सा हि द्वितयावृत्तिनैव शब्दादिना रूपेण तदाश्रयमभिधत्ते ( श० प्र० श्लो० २१ टी० पृ० २५ ) । केचित्त यत्रार्थे यन्नामाधुनिकसंकेतवत् तदेव तत्र पारिभाषिकम् । यथा पित्रादिभिः पुत्रादौ संकेतितं चैत्रादि । यथा वा शास्त्रकृद्भिः सिद्ध्यभावादौ संकेतितं पक्षतादिपदम् इत्याहुः ( श० प्र० श्लो० २२ टी० पृ० २६ ) । अत्र केचिदित्यस्य ये जात्यवच्छिन्नसंकेतवतामपि चैत्रादिपदानां पारिभाषिकत्व- माहुः ते इत्यर्थः । <पारिमाण्डल्यम्> अणुपरिमाणम् (मु० १ साधर्म्य० ) ( प्रशस्त ० पृ० १५) । <पार्थिवः> १ पृथिवीकारणकः । यथा शरीरमस्मदादीनां पार्थिवम् (त० सं०) इत्यादौ । अत्रार्थे पृथिव्या विकारः पार्थिवः इति विग्रहो द्रष्टव्यः । २ राजा इति काव्यज्ञा आहुः । अत्रार्थे पृथिव्या ईश्वरः पार्थिवः इति विग्रहो द्रष्टव्यः । <पाश:> पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात् ( सर्व० सं० पृ० १८७ शै० ) । <पाषण्डी> वेदबाह्यागमविहितकर्मकारी ( पुरु० चि० पृ० २०५ ) । <पिठरपाकवादी> ( नैयायिकः ) घटपटादिः कार्यकारणसमुदायोपि पच्यते न तु केवलं परमाणव एव पच्यन्ते इति यो मन्यते सः (वै० उ० ७/११६) । यथा गौतमप्रधाना नैयायिकाः पिठरपाक- वादिनः । एतन्मते च पूर्वघटनाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु च पाकेनैव युगपद्रूपान्तराद्युत्पत्तिः इति ( त० दी० १ पृ० १३)। "अतिशयवेगवता तेजसा परमाणूनामभिघातसंयोगेपि तस्य नियमत आरम्भकसंयोग प्रतिद्वन्द्वि विभाग जनक क्रिया जनकत्वे मानाभावेन अवयवि- अन्यपि पाकस्वीकार उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा संगच्छते । अन्त्यावयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १ पृ० १३)। घटादिकं सच्छिद्रमेव । अन्यथा तदन्तर्गततण्डुलादे: पाको न स्यात् । अतः एकदैव परमाण्वादिघटपर्यन्तेषु घटनाशं विना पाके- नैव रूपाद्युत्पत्तिः इति ज्ञेयम् ( सि० च० १ पृ० १६) । <पिठरम्> कार्यकारणसमुदायः (अवयवावयविसमुदायः) घटपटादिः । यथा पिठरपाकवादिनो नैयायिकाः इत्यादौ । <पिण्डीभावः> [क] चूर्णादेर्धारणाकर्षणहेतुभूतो विलक्षणसंयोगः (न्या० बो० १ पृ० ६ ) ( नील० १ पृ० १४ ) । [ख फूत्कारा दिहेतुक- देशान्तर निर्गमप्रतिबन्धकोवयवानां संयोगविशेष: (वाक्य० १ पृ० ९) । यथा चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ( त० सं० ) इत्यादौ पिण्डीभावः । <पितृत्वम्> १ [क] श्राद्धोद्देश्यत्वम् । [ख] सपिण्डीकरणोत्तरश्राद्ध- जन्यफलभागित्वम् (कृष्ण० ) । यथा श्राद्धादौ पितृपितामहप्रपितामहाः शालङ्कायनगोत्राः वसुरुद्रादित्यान्तर्गत प्रद्युम्नसंकर्षण वासुदेवाः इत्यादौ । अत्रोक्तं याज्ञवल्क्येन वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० स्मृ० अ० १ श्लो० २६८ ) । २ जनकपुंस्त्वम् । यथा चैत्रस्य पिता इत्यादौ पितृत्वम् ( त० कौ० ) ( त० प्र० ख० ४ पृ० ५९ ) । एवम् जनकस्त्रीत्वं मातृत्वम् इत्यादिकमूह्यम् । <पीलु:> परमाणुः (० उ० ७।१।६) । यथा पीलुपाकवादिनो वैशेषिकाः इत्यादौ । <पीलुपाकवादी> (वैशेषिक:) पीलवः परमाणवः । त एव स्वतन्त्रा: पच्यन्ते । तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्पत्तिः । कारणगुणण विनि रूपाद्युत्पद्यते इति यो मन्यते सः ( वै० उ० ७/१/६ ) । यथा न्मते च परमाणुष्वेव पाकः न द्यणुकादौ । आमनिक्षिप्ते घटे श्याम- कणादप्रधानाः पीलुपाकवादिनः । अधिकं च पाकशब्दे दृश्यम् । एत- घटनाशे परमाणुषु रूपान्तरोत्पत्तौ पुनर्व्यणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणुरूपे परमाणवः समवायिकारणम् । तेजः संयोगः असमवायि- कारणम् । अदृष्टादिकं निमित्तकारणम् इति । द्यणुकादिरूपे तु कारण- रूपमसमवायिकारणम् इति च ज्ञेयम् ( त० दी० १ पृ० १३) । अयमाशयः । अतिवेगवता तेजसा परमाणूनामभिघातसंयोगे सत्यवश्यं तेषु क्रिया जायते । ततो विभागः । तत आरम्भकसंयोगनाशे सत्यवश्यं यावदवयविनाशः । ततः स्वतन्त्रेषु परमाणुषु रूपान्तरोत्पत्तौ पुनरदृष्टादि- घटितसामग्रीवशात्परमाणुषु क्रियाविभागादिक्रमेण यथाव स्थित महावयवि- पर्यन्तमुत्पत्तिः इति ( नील० १ पृ० १३ ) । अयं भावः । आम- निक्षिते घटे हुताशनसंयोगात्परमाण्वादिकपालपर्यन्तावयवेषु क्रिया । ततः परस्परविभागः । ततः परस्परसंयोगनाशः । ततः असमवायि- कारणनाशाद्रव्यनाश: इति नियमेन श्यामघटनाशे शिष्टाः परमाणवः पच्यन्ते। तत्र पाकेन रूपादिचतुष्टयोत्पत्तिः । ततः परमेश्वरेण सर्गादा- विव व्यणुकादिक्रमेण पूर्ववद्रक्तघटो निर्मीयते । परमाणुरूपेण व्यणुक रूपं जन्यते इत्येवं क्रमः । अन्यथा घटस्य दृढतरत्वे हुताशनप्रवेशा- संभवाद्रपाद्युत्पत्तिने स्यात् इति ( सि० च० १ पृ० १६) । <पुंलिङ्गम्> (नाम) [क ] पुंलिङ्गत्वेन परिभाषितम् । यथा घटोस्तीत्यादौ घटशब्दः पुंलिङ्गः । पुंलिङ्गत्वेन परिभाषायाः प्रयोजनं च पदसंस्कारः । सच तटः इत्यादी पुंस्त्वेन सुवादिसद्भावः ( श० प्र० श्लो० ५३ टी० पृ० ६८) । [ख] कचित् विलक्षणसंस्थान रूपपुंस्त्वविशिष्टवाचकम् । यथा न विप्रोध्ययनं त्यजेदित्यादौ । अत्र अलुप्तेन सुपैव ( न तु प्रकृत्या ) उपस्थितं विलक्षणसंस्थानरूपं पुंस्त्वं विप्रेनुभूयते इति ज्ञेयम् (श० प्र० श्लो० ५३ टी० पृ० ६९ ) । <पुच्छम्> (नाडिका) मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ चतस्रः षट् कट्यां तिस्रः पुच्छाख्यनाडिका: । ( पु० चि० पृ० ३१०) । <पुण्यम्> १ ( गुणः ) धर्मवदस्यार्थीनुसंधेयः । यथा तस्मादात्मकृतं पुण्यं वृथा न परिकीर्तयेत् इति ( देवल: ) क्षीणे पुण्ये मर्त्यलोकं विशन्ति (श्रुतिः ) तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितो लोकः क्षीयते (श्रुतिः ) इत्यादौ पुण्यम् । २ लग्नावधिकं सप्तमस्थानम् इति मौहूर्तिका आहुः। ३ मेषकर्कटतुलामकररूपो राशिः इति ज्योतिर्विद आहुः । ४ सत्कर्मपुद्गलाः पुण्यम् ( सर्व० सं० पृ० ८७ आई० ) । <पुद्गलः> १ परमाणुः । २ बौद्धास्तु द्यणुकादिपदार्थविशेषः इत्याहुः । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ते च द्विविधाः । अणवः स्कन्धाश्च ( सर्व० सं० पृ० ७१ आई० ) । अत्रोक्तम् पूरणाद्गलनादेहे पुद्गलाः परमाणवः । इति ( विष्णुपु० ) । ३ सुन्दराकारः इति काव्यज्ञा आहुः (वाच० ) । <पुनः> (अव्ययम् ) १ द्वितीयवारम् । २ अप्रथमः । ३ भेदः । ४ विशेषः (गणर०) (अमरः ) । ५ अधिकारः । ६ पक्षान्तरम् ( वाच० ) । <पुनरुक्तम्> ( निग्रहस्थानम् ) [क] शब्दार्थयो: पुनर्वचनं पुनरुक्तम- न्यत्रानुवादात् ( गौ० ५।२।१४ ) । अन्यत्रानुवादाच्छन्दपुनरुक्तमर्थ- पुनरुक्तं वा । तेन पुनरुक्तं शब्द पुनरुक्तार्थपुनरुक्तमेदेन द्विविधम् इति बोध्यते । नित्यः शब्दः नित्यः शब्दः इति शब्दपुनरुक्तम् । अर्थ- पुनरुक्तम् नित्यः शब्दः निरोधधर्मको ध्वानः इति (वात्स्या० ५/२/१४) । तेन शब्द पुनरुक्तम् अर्थपुनरुक्तं च लभ्यते । अनुवादेतिव्याप्तिवारणाय अत्रायमर्थः । पुनर्वचनं पुनरुक्तम् । तस्य विभागार्थी शब्दार्थयोः इति । अन्यत्रानुवादात् इति । अनुवादस्तु व्याख्यारूपः सप्रयोजनक एव इति (गौ० दृ० ५।२।१४ ) । [ख] अनुवादान्यत्वे सति निष्प्रयोजनं पुनरभिधानम् ( गौ० वृ० ५/२/१४ ) ( दि० १) । [ग] अनुवादं विना कथितस्य पुनः कथनम् ( नील० पृ० ४५ ) । <पुमर्थत्वम्> शास्त्रजन्यज्ञानाजन्येच्छा विषयसाधनत्वम् (जै० सु० वृ० अ० ४ पा० १ सू० २) । <पुमान्> १ पुरुषः । अत्र पुंस्त्वस्वरूपं तु यस्याप्सु प्लवते बीजं हादि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति ( मिता० अ० १ श्लो० ५५ ) । अत्रायं विशेषः । बिन्दुरेको विशेद्गर्भमुभयात्मा क्रमादसौ । रजोधिका भवेन्नारी भवेद्रेतोधिकः पुमान् ॥ उभयोः सम- तायां तु नपुंसकमिति स्मृतम् इति ( शा० ति० ) । पुमान् पुंसोधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेपुमान् पुंस्त्रियौ वा क्षीणेल्पे च विपर्ययः ॥ इति च ( मनु० अ० ३ श्लो० ४९ ) । २ मनुष्यत्व- जातिविशिष्टमात्रम् ( अमर० २१६ । १ ) । सत्वप्रधान त्रिगुणकार्यः शब्द- संस्कारविशेषयुक्तः शब्दः पुमान् इति शाब्दिका आहुः ( वाच० ) । <पुराकल्प:> १ ( अर्थवाद: ) [ क ] ऐतिहासमाचरितो विधिः (वात्स्या० २।१।६३ ) । [ख] ऐतिहासमाचरिततया कीर्तनम् । यथा तस्माद्वा एतेन पुरा ब्राह्मणा बहिः पावमानं सामस्तोममस्तौषन् यज्ञं प्रतनवामहे इत्येवमादिः (गौ० वृ० २१११६३ ) ( वात्स्या० २।१।६३ ) । २ प्राचीनः कल्पः । यथा श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः। येनायजन्त यज्वानः पुण्यश्लोकपरायणाः ॥ इत्यादौ ( भार० शान्ति ० दानधर्मे०) । ३ बहुकर्तृकः विधिः पुराकल्पः (जै० सू० वृ० अ० ६ पा० ७ सू० २६) । <पुराणम्> पुरातनम् । यथा पुराणपत्रापगमादनन्तरं लतेव संनद्ध- मनोज्ञपलवा ( रघु० ३।७) इत्यादौ । २ पञ्चलक्षणात्मकः शास्त्र- विशेषः । यथा वेदव्यासकृतान्यष्टादश पुराणानि । तथोक्तम् सर्गश्च प्रति- सर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ इति । अष्टादशपुराणानां कर्ता सत्यवतीसुतः । पुराणानि च सात्त्विक राजसतामसभेदेन विभक्तानि पद्मपुराणे । यथा मात्स्यं कौर्म तथा लैङ्गं शैवं स्कन्दं तथैव च । आग्नेयं च षडेतानि तामसानि निबोधत ॥ इति । वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पाद्मं वाराहं शुभदर्शने । सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै इति । ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥ इति पद्मपु० उ० ख० अ० ४३ ) । तत्र प्रतिपाद्यानामेव सात्त्विकादिकारणत्वमाह । अग्नेः शिवस्य माहात्म्यं तामसेषु च कथ्यते । ब्रह्मणस्तरपुराणस्य माहात्म्यं राजसेषु च ॥ सात्त्विकेष्वधिकं तत्तद्विष्णोर्माहात्म्यमुत्तमम् । तथैव योगसंसिद्धा गमि- व्यन्ति परां गतिम् ॥ इति (मत्स्यपु० ) ( पद्मपु० उ० अ० ४३ ) (वाच ० ) । पुराणानां संख्या तु (४०००००) चत्वारि लक्षाणि । तदुक्तं श्रीभागवते तत्र ( १ ) ब्राह्मम् १०००० । ( २ ) पाद्मम् ५५०००। ( ३ ) वैष्णवम् २३००० । ( ४ ) शैवम् २४०००/ (५) श्रीमद्भागवतम् १८०००। (६) नारदम् २५०००। (७) (१२) वाराहम् २४०००। ( १३) स्कन्दम् ८११०० / (१४) मार्कण्डेयम् ९०००। ( ८ ) आग्नेयम् १५४००। (९) भविष्यम् १४५००। (१०) ब्रह्मवैवर्तम् १८००० । ( ११ ) लैङ्गम् ११००० । वामनम् १००००। ( १५ ) कौर्मम् १७०००। ( १६) मात्स्यम् १४०००। (१७) गारुडम् १९०००। (१८) ब्रह्माण्डम् १२०००/ इति ( भागवते स्क० १२ अ० १३ श्लो० ४-८)। <पुरुषः> अनुभयात्मकः पुरुषः । तदुक्तम् न प्रकृतिर्न विकृतिः पुरुषः ( सर्व० सं० पृ० ३२० सांख्य० ) । <पुरुषार्थ:> [क] बलवद्वेषाविषय: ( त० प्र० १ ) । [ ख ] यज्ज्ञातं सरस्ववृत्तितयेष्यते सः (मु० गु० इच्छानि० पृ० २२१ ) । यथा तल्लक्षणं चेतरेच्छानधीनेच्छ। विषयत्वम् (मु० गु० इच्छानि० पृ०२२१)। सुख दुःखाभावश्च पुरुषार्थ: । अयमेव स्वतः पुरुषार्थः इत्युच्यते । पुरुषार्थशब्दस्य पुरुषस्य अर्थः प्रयोजनम् इति व्युत्पत्तिर्दृष्टव्या । काममोक्षाश्च पुरुषार्थी उदाहृताः इति ( अग्निपु० ) । [ग] पुरुष- [घ ] यस्मिन्स्वर्गादिसुखविशेषे पश्वादिसुखसाधने चलब्धे प्रीतिः कृतार्थोस्मीति वृत्तिस्तत्साधनं पुरुषार्थः (जै० सू० वृ० अ० ४ पा० १ सू० २) । चार्वाकमते अङ्गनालिङ्गनादिजन्यं सुखमेव पुरु- पार्थः ( सर्व० सं० पृ० ३ चार्वा० ) । सांख्यमते सत्त्वपुरुषान्य- ताख्यातिः पुरुषार्थः ( सर्व० सं० पृ० ३९२ शां० ) । पुरुषैर इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थ- शब्दस्यार्थः ( सर्व० सं० पृ० ४०१ शां० ) । मध्यमते च भक्ति- रपि पुरुषार्थः । <पुर्यष्टकम्> १ स्यात्पुर्यष्टकमन्तःकरणं धीकर्म करणानि ( सर्व० सं० पृ० १८४ शै० ) । २ शब्द: स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् । बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम् ॥ ( सर्व० पृ० १८५ शै० ) । <पुष्करम्> अमा सोमे तथा भौमे गुरुवारे यदा भवेत् । तत्तीर्थं पुष्करं नाम सूर्यपर्वशताधिकम् ॥ ( पु० चि० पृ० ३१७ )। <पुस्तम्> लिप्यादिशिल्प कर्मयुतं वस्तु । यथा पुराणपुस्तकम् इत्यादि । किंच मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा । लोहरतैः कृतं वापि पुस्तमित्यभिधीयते ॥ <पुगः> भिन्नजातीनां भिन्नवृत्तीनामेकस्थाननिवासिनां समूहः । यथा ग्राम- नगरादयः ( मिताक्षरा अ० २ श्लो० ३० ) । <पूजा> [क] आराधना । [ख] उपासना । <पूरकः. ( प्राणायामः ) बाह्यस्य वायोरन्तर्धारणम् ( सर्व० सं० पृ० ३७७ पात ० ) । <पूर्णा> पित्र्येस्तमयवेळायां स्पृष्टा पूर्णा निगद्यते (पुरु० चि० पृ० ४०)। <पूर्णिमा> कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् । चन्द्रादित्यौ परा तु पूर्णत्वात्पूर्णिमा स्मृता ॥ ( पुरु० चि० पृ० ३१७ ) । <पूर्वकालीनत्वम्> [क] कालिकसंबन्धेन तप्रागभाववश्वम्। इदं च ध्वंसस्य (जन्यमात्रस्य ) कालोपाधिस्वपक्ष एव संगच्छते इत्यवधेयम् ( ग० सार्व० पक्ष० पृ० ३८) । यथा अनुमित्यव्यवहितपूर्ववृत्ति- सिद्धिभिन्न सिद्ध्यभावमात्रं पक्षता ( दीधि० २ पक्ष० ० २२७) इति पक्षतायाः शरीरप्रविष्टे अनुमितिपूर्वकालीनध्वंसाप्रतियोगित्वरूपे अव्य वृत्तित्वम् । यथा भुक्त्वा व्रजतीत्यत्र भोजने गमनप्रागभावावच्छिन्न- वहितत्वरूपे शरीरे ध्वंसस्य पूर्वकालीनत्वम् । [ख ] प्रागभावकाल- कालवृत्तित्वम् । [ग] तदुत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्व (तर्का० ४ पृ० ११) । यथा ज्येष्ठस्य पुरुषस्य कनिष्ठं पुरुषमपेक्ष्य पूर्वकालीनत्वम् । इदं च प्रागभावानभ्युपगन्तृमतेपि युज्यते इति बोध्यम् (ग० सार्व० पक्ष० पृ० ३८ ) । ६४ न्या० को० <पूर्वत्वम्> १ प्रागभाषवत्त्वम् (ग० सार्व० पक्ष० पृ० ३८ ) । यथा 1 कारणस्य कार्योत्पत्तिपूर्वक्षणवृत्तित्वम् इत्यादौ क्षणस्य पूर्वत्वम् । यथा या फाल्गुनस्य मासस्य चैत्रात्पूर्वत्वम् । अत्र पूर्वत्वं चाद्यत्वमिति लौकिक- न् । २ उदयगिरिसंनिहितदेशावच्छिन्नत्वम् । यथा पूर्वो ग्रामादित्यत्र । अत्र पूर्वपदार्थैकदेशे तादृशसंनिहितत्वे ग्रामाद्यवधिकत्वं पञ्चम्या बोध्यते (श० प्र० श्लो० ९३ टी० पृ० १२७) । ३ क्रिया- जन्यसंयोगप्रतियोगिदेशत्वम् यथा । मुंबईतो झळकीग्रामं गच्छत उत्तरोत्तरदेशमपेक्ष्य पूर्वपूर्वदेशस्य पूर्वत्वम् । <पूर्वपक्षः> १ [क] शास्त्रीय संशय निरासार्थप्रश्नरूपा फक्किका। [ख] सिद्धान्तविरुद्धकोटिः । [ग] अधिकरणावयव विशेषः । अत्रोक्तम् विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् इति । २ प्रतिज्ञापरपर्यायः भाषापत्ररूपः प्रथ- मावयवः पूर्वपक्षः । अयं चाभियोग इत्युच्यते ( फिर्याद इति प्र० ) । बृहस्पतिना पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा । क्रियापादस्तृतीयस्तु चतुर्थो निर्णयस्तथा ॥ इति ( वीरमित्रो० अ० २ लेख्य० पृ० ६०) । <पूर्ववत्> (अनुमानम् ) १ यत्र कारणेन कार्यमनुमीयते । यथा मेघोन्नत्या भविष्यति वृष्टिरिति ( वात्स्या ० १।९।५ ) ( गौ० वृ० १/१/५ ) 1 अत्रार्थे पूर्ववत् इत्यत्र पूर्व कारणम् तद्वत्तल्लिङ्गकम् इति व्युत्पत्तिर्द्रष्टव्या (गौ० वृ० १११।५) । २ यत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेना- न्यतरस्या प्रत्यक्षस्यानुमानम् । यथा घूमेनाग्निरिति (वात्स्या० १/१/५ ) । पूर्व प्रसिद्धं दृष्टस्खलक्षणसामान्य मिति यावत् । तदस्य विषयत्वेनास्त्य- अत्र सांख्यानामयमर्थ: । दृष्टस्वलक्षणसामान्यविषयं यत् तत् पूर्ववत् । नुमानज्ञानस्येति पूर्ववत् । यथा धूमाहित्वसामान्य विशेषः पर्वतेनुमीयते । तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणवह्निविशेषो दृष्टो रसवत्याम् ( सांख्य० कौ० का० ५ टी० पृ० १०) । ३ केवलान्वयि । यथा अभिधेयं प्रमेयत्वादित्यादि (गौ० वृ० १ । १/५ ) । अत्रार्थे पूर्ववत् इत्यत्र पूर्वमन्वयव्याप्तिः तद्वत् इति व्युत्पत्तिर्दृष्टव्या ( गौ० वृ० १/१/५ ) । <पूर्वाह्नः> १ पूर्वाह्नः प्रहरं सार्धं मध्याह्न प्रहरं तथा । आतृतीया- च्चापराह्नः सायाह्नश्च ततः परः । २ अहनि त्रिधा विभक्ते पूर्वो भागः ( मिताक्षरा अ० २ श्लो० ९७ ) । <पृच्छा> [क] जिज्ञासाज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा गुरुं धर्मे पृच्छतीत्यादौ पृच्छतेरर्थः । अत्र पृच्छधात्वर्थघटके ज्ञाने गुरुवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः । शब्दस्य च विषयता व्यापारानु- बन्धिनी । ज्ञानस्य परंपरया शब्दरूपधात्वर्थविशेषणत्वात्तदाश्रयीभूत- गुरोर्गौणकर्मता । धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता इति ज्ञेयम् ( ग० व्यु० का० २ पृ० ४५ ४६ ) । [ ख ] अभिधानावच्छिन्न- व्यापारः । यथा पान्थं पन्थानं पृच्छतीत्यत्र पृच्छधात्वर्थः पृच्छा । अभिधान मिहाभिलापः । तदनुकूलव्यापारश्च केन पथा गन्तव्यम् इत्या- दिप्रश्नः । तथा च पान्थनिष्ठं यत् पथोभिधानम् तदनुकूलव्यापारवान् इत्येवं तत्र बोध: ( श० प्र० श्लो० ७३ टी० पृ० ११२) । [ग] केचिच्छाब्दिकास्तु जिज्ञासाविषयकज्ञानानुकूलव्यापारः । स च कथं धर्म आचरितव्यः इत्यभिलापादिः । यथा पृच्छयते शिष्येण गुरुर्धर्ममित्यादौ पृच्छेरर्थः इत्याहुः ( वाच० ) । अस्य द्विकर्मकत्वेन गौणे कर्मणि गुरौ लकारादिः । अत्र ज्ञानविषयत्वेन धर्मस्य तज्ज्ञाना- श्रयत्वाच्च गुरोः कर्मत्वम् इति ज्ञेयम् । [ घ ] प्रश्नः इति काव्यज्ञा आडुः । <पृथक्त्वम्> १ असाहित्यम् । यथा दुनोति चन्द्रात्पृथगप्यनङ्गः इत्यादौ पृथक्त्वमसाहित्यम् (ग० व्यु० का० ५ पृ० ११० ) । २ ( गुणः ) [क] अपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यम् अनेकद्रव्यं च । तस्य च नित्यानित्यत्वनिष्पत्तिः संख्यावज्ज्ञेया ( प्रशस्त० पृ० १६) । [ख] पृथग्व्यवहारासाधारणकारणम् पृथक्त्वत्व जातिमत् वा (त० सं० ) (त० कौ० ) । यथा इदमस्मात्पृथक् इत्यादौ । पृथग्व्यवहारश्च अयमस्मात् पृथक् इति व्यवहारः । तादृशव्यवहारजनकतावच्छेदकमुख्य- प्रकारतावत्वं लक्षणम् इति ( वाक्य० १ १० ८) । विस्तरस्तु अन्यत्र (वै० उ० ७।२।२) द्रष्टव्यः । अत्र सूत्रम् तथा पृथक्त्वम् (वै० उ० ७।२।२ ) इति । तदर्थश्च पृथक्त्वमपि संख्यावगुणान्तरमेव । तत्रैकपृथक्त्वम् एकत्वसंख्यातुल्यम् । द्विपृथक्त्वादिकं च द्वित्वादि- संख्यातुल्यम् इति (वै० वि० ७ १२१२ ) । पृथक्त्वं सर्वद्रव्यवृत्ति । तथा च पृथक्त्वं द्विविधम् । एकवृत्ति अनेकवृत्ति चेति । तत्रैकपृथक्त्व- मेकवृत्ति । द्विपृथक्त्वाद्यनेकवृत्ति ( त ० कौ० ) । एवं च पृथक्त्वम् एकपृथक्त्वद्विपृथक्त्वादिभेदेन बहुविधम् ( सि० च० ) । तत्रैकपृथक्त्वं नित्यगतं नित्यम् । अनित्यगतमनित्यम् ( त० कौ० ) । द्विपृथक्त्वादि नित्यमेव इति च ज्ञेयम् ( त० कौ० ) । द्विवायुत्पत्तिविनाशवद्विपृथ च नानैकपृथक्त्व विषयकापेक्षाबुद्धिजभ्यम् तन्नाशनाश्यं च इति सर्वम द्युत्पत्तिविनाशावूहनीयौ ( वै० उ० ७ १२१८ ) ( वाक्य० १५० ८) । अत्र नव्याः ( दीधितिकाराः ) मीमांसकाश्चाहुः । पृथक्त्वमन्योन्याभाव एव न तु गुणान्तरम् इति ( ग० व्यु० का० ५ पृ० ११०) (दि० गु० ) । अन्ये वाहुः । पृथक्त्वं चान्योन्याभावाद्भिन्नमेव । अभाव प्रतियोगिसापेक्षनिरूपणत्वात् । पृथक्त्वस्य त्ववधिनिरूप्यत्वात् इति ( न्या० ली० गुणनि० पृ० २३ ) ( ता० र० श्लो० ४५ ) । <पृथिवी> (द्रव्यम्) [क] गन्धसमवायिकारणम् (मु० १ ) । तथा च सूत्रम् रूपरसगन्धस्पशेवती पृथिवी (वै० २।१।१ ) इति । व्यवस्थितः ( त० सं० ) । यथा आम्रादिफलम् । गन्धवतीत्यस्य गन्धसमानाधिकरण- पृथिव्यां गन्धः (वै० उ० २१२१२ ) इति च । [ख ] गन्धवती द्रव्यत्व व्याप्यजातिमतीत्यर्थः । तेन उत्पत्तिक्षणे घटादौ उत्पन्नविनष्टे च द्रव्ये गन्धासत्त्वेपि नाव्याप्तिः इति ( त० दी० १) । अत्रायं नियमः उत्पन्नविनष्टे अव्याप्तिकथनं च बौद्धमतमनुसृत्य । तन्मते तदुत्पत्तिक्षण प्रथमं द्रव्यं निर्गुणमेवोत्पद्यते पश्चात्तत्समवेता गुणा उत्पद्यन्ते इति । एतन्मते स्थितिक्षणेपि द्रव्यस्य सत्त्वस्वीकारात् इति । पाषाणादिभस्मनि एव तन्नाशस्वीकारात् । नैयायिकास्तु उत्पन्नविनष्टद्रव्यं न स्वीकुर्वन्ति । गन्धोपलम्भेन पाषाणादावपि गन्धोनुमीयते । तत्रत्यगन्धस्यानुस्कटत्वा- नोपलम्भः इति ज्ञेयम् (मु० १ पृथि० पृ० ६४-६५ ) ( त० व० पृ० १०२) । अत्रायं नियमः यद्रव्यं यद्रव्यध्वंसजन्यम् तद्रव्यं तदुपादानोपादेयम् इति । दृष्टं चैतत् खण्डपटे महापटध्वंसजन्ये (मु० १ पृथि० पृ० ६५ ) । भस्मखण्डपटयोरवयवानां पाषाणमहा- पटयोरवयवानां चैक्यम् इति नियमस्याभिप्रायः । अत्र पृथिवीत्वं तु पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः ( सर्व० सं० पृ० २१८ औलू० ) । अत्र पृथिवीत्वजाति सिद्धिप्रकारस्तु दिनकर्यादिग्रन्थेषु द्रष्टव्यः । विस्तरभयान्नोक्तः । लक्षणं च कटुरससमानाधिकरणद्रव्यत्वव्या- प्यजातिमत्त्वम् गन्धसमानाधिकरण-गन्धासमानाधिकरणगुणासमाना- धिकरणजात्यधिकरणद्रव्यत्वम् इत्यादि (वै० उ० २१११११० ६५ ) । अत्र द्रव्यपदप्रयोजनं चिन्त्यम् । पृथिव्या अध्यात्मादिभेदा यथा पृथिवी पञ्चमं भूतं घ्राणं चाध्यात्ममुच्यते । अधिभूतं तथा गन्धो वायुस्तत्राधि- दैवतम् ॥ इति (भा० आश्व० अ० ४२ ) । [ग] पृथिवीत्वजाति- मती । यथा घटः पृथिवी । पृथिवी द्विविधा । नित्या अनित्या च । तत्र नित्या परमाणुलक्षणा । अनित्या कार्यलक्षणा । अनित्या त्रिविधा । शरीरम् इन्द्रियम् विषयश्च ( वै० ४।२।१ ) । तत्र शरीरम् द्विविधम् योनिजम् अयोनिजं च (वै० ४।२।५ ) । तत्र योनिजमस्मदा- दीनां शरीरं प्रत्यक्षसिद्धम् । अयोनिजं तु क्रिमिदंशादीनाम् । अयोनिजं च अनपेक्ष्य शुक्रशोणितं देवर्षीणां शरीरम् धर्मविशेषसहितेभ्योणुभ्यो जायते । क्षुद्रजन्तूनां यातनाशरीराणि अधर्मविशेषसहितेभ्योणुभ्यो जायन्ते ( प्रशस्त ० पृ० ४ ) । इन्द्रियम् गन्धग्राहकं घ्राणम् । तच्च "नासाग्रवर्ति । इदम् सर्वप्राणिनां जलाद्यनभिभूतैः पार्थिवावयवैरारब्धम् ( प्रशस्त ० पृ० ४) । विषयः मृत्पाषाणादिर्ब्रह्माण्डान्तः । स च व्यणुकादिक्रमेणारब्धस्त्रिविधः । मृत् पाषाणः स्थावरश्चेति । तत्र मृत्पाषाणौ प्रसिद्धौ । स्थावरो वृक्षलतादिः (त० कौ० ) । तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणिवत्रादयः । स्थावरास्तृणौषधिगुल्मलताप्रतान वनस्पतयः इति ( प्रशस्त० पृ० ४ ) । पृथिव्यां चतुर्दश गुणा वर्तन्ते । रूपम् रसः गन्धः स्पर्शः संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वंम् अपरत्वम् गुरुत्वम् द्रवत्षम् संस्कारश्चेति ( प्रशस्त० पृ० ३ ) ( त० मा ० ) (भा०प० ) ( त० सं० ) । तत्र रूपरसगन्धस्पर्शाश्चत्वारः पृथिव्यामेव पाकजा: अन्यत्र जलादौ अपाकजा भवन्ति । एते चत्वारः पाकजा अपाकजा- श्चापि नित्यायामनित्यायां च पृथिव्यामनित्या एव भवन्तीति विज्ञेयम् ( प्र० प्र० ) ( त० सं० ) । अत्र सूत्रम् पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च (वै० ७ ११२ ) इति । एतेन नित्येषु नित्यत्व- मुक्तम् (वै० ७ १ ३) इति च । पृथिव्यां रूपादीनां गुणानां वृत्ति- त्वेयं विवेकः । क्षितावेव गन्धः । रूपमनेकप्रकारं शुक्कादि । रसः षडधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोस्या अनु- ष्णाशीतत्वे सति पाकज: ( प्रशस्त० पृ० ३) । परिमाणं परममहत्त्वा- अतिरिक्तम् । द्रवत्वं नैमित्तिकम्। संस्कारस्तु वेगः स्थितिस्थापकश्चेति । अनित्या पृथिवी च स्थैर्याद्यवयवसंनिवेशविशिष्टा अपरजातिब हुत्वोपेता शयनासनाद्यनेकोपकारकरी च ( प्रशस्त० पृ० ३) । द्विविधायाः पृथिव्या रूपरसगन्धस्पर्शाश्चानित्याः पाकजाच ( त० मा० अर्थ० पृ० २७ ) । अनित्यपृथिव्यां विषयरूपायां पाषाणे वज्रं तु पार्थिवमपि न लोहलेख्यम् । शक्तिभेदात् । अबिन्धनविद्युत्तेजोवत् इति ( न्या० ० पृ० १३ ) । मार्गगतधूलि: पृथिवी इति सर्वदर्शनसंग्रहे ( पृ० ७० ) उक्तम् । <पृथिवीकायः> इष्टकादिः ( सर्व० सं० पृ० ७० आई० ) । <पृथिवीकायिकः> पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिकः (सर्व० सं० पृ० ७० आई० ) । <पृथिवीजीवः> पृथिवीं कायत्वेन यो ग्रहीष्यति स पृथिवीजीवः ( सर्व० सं० पृ० ७० आई० ) । <पृषदाज्यम्> दधिमिश्रमाज्यम् (जै ० न्या० अ० ५ पा० २ अधि० <पृष्ठस्तोत्राणि> अभि त्वा शूर नोनुमः कया नश्चित्र आभुवत् तं बो दूस मृतीषहम् तरोभिर्वो विदद्वसुम् एतानि क्रमेण रथंतरवामदेव्यनौधसकालेय- सामभिर्मध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते ( जै० न्या० अ० १ पा० ४ अधि० ३ ) । <पेषणम्> अवयवविभागेन चूर्णनम् । यथा पाटीर तब पटीयान् कः परि- पाटीमिमामुरीकर्तुम् । यत् पिषतामपि नॄणां पिष्टोपि तनोषि परिमलै- स्तुष्टिम् ॥ इत्यत्र पिषधात्वर्थः । <पैतृकम्> मघा (पु० चि० पृ० ३५३ ) । <पैशाच:> ( विवाहः ) पैशाचः कन्यकाछलात् ( याज्ञवल्क्य० अ० १ लो० ६१ ) । <पौनःपुन्यम्> [क] प्रकृतधात्वर्थजातीयक्रियोत्तरतादृशक्रियानन्तर्यम् । यथा पापच्यत इत्यादौ यङोर्थः पौनःपुन्यम् । अत्र निरुक्तानन्तर्यरूपो यढर्थः प्रकृत्यर्थे विशेषणत्वेनान्वेति । तेन पाकोत्तरपाकानन्तर्यवत्पाक- कर्ता इत्येवं वाक्यार्थः ( श० प्र० श्लो० १०८ टी० पृ० १७१ ) । [ख] इदानींतनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमाना- दिकृतिविषयत्वम् । यथा पापच्यत इत्यादौ यहोर्थ: (तको० ४ पृ० ११) । <पौरुषेयत्वम्> सजातीयोच्चारणानपेक्षोच्चरित जातीयत्वम् (चि० ४) । यथा महाभारतादेः पौरुषेयत्वम् । वेदस्य तु मीमांसकादिमते अपौरुषेयत्वमेव । <पौर्णमासी> यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी ( पुरु० १० पृ० ३३ ) । <पौष्णम्> रेवती ( यु० चि० पृ० ३५३ ) । <पौष्कल्पम्> फलजननसामर्थ्यम् ( जै० न्या० अ० ४ पा० १ अधि० २)। <प्रकरणम्> १ संगतिप्रदर्शन प्रयोजिका आकाङ्क्षा । यथा प्रकरणलाघवाय इत्यादौ ( भवा० ) । २ प्रस्तावः । ३ पक्षप्रतिपक्षी (साध्यतदभाव- वन्तो ) ( वात्स्या ० १।२।७ ) । यथा यस्मात्प्रकरणचिन्ता ० ( गौ० १।२।७) इत्यादौ ४ ग्रन्थसंधिविशेषः । यथा प्रथमं प्रकरणम् द्वितीयं प्रकरणम् इत्यादौ । ५ [क उभयाकाङ्क्षा प्रकरणम् इति मीमांसका आहुः । अङ्गवाक्यसापेक्षं प्रधानवाक्यमित्यर्थः । अत्र शाबर- भाष्यम् । कर्तव्यस्येतिकर्तव्यताकास्यवचनं प्रकरणम् इति । यथा श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानांसमवाये पारदौर्बल्यमर्थ विप्रकर्षात् (जै० सू० ३।३।१४ ) इत्यादौ ।[ख] संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् ( ० न्या० अ० ३ पा० ३ अधि० ४ ) । ६ काव्यज्ञास्तु अभिनेयनायकादिको दृश्यकाव्यविशेषः इत्याहुः । तलक्षणमुक्तम् । भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोङ्गी नायकस्तु मात्योथ वा वणिक् ॥ सापायधर्मकामार्थपरो धीरप्रशान्तकः इति ( सा० ५० परि० ६ श्लो० ५११ ) । तत्र विप्रनायकं मृच्छकटिकम् / अमात्यनायकं मालतीमाधवम् । वणिनायकं पुष्पभूषितम् इति ( सा० द०वृ० ६।२२५ ) । <प्रकरणसमः> १ ( जाति: ) [क] उभयसाधर्म्या प्रक्रियासिद्धेः प्रकरण- समः ( गौ० ५।१।१६ ) । तदर्थश्च उभयसाधर्म्यात् अन्वयसहचारात् ( व्यतिरेकसहचाराद्वा । प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधन- मिति फलितार्थः । तत्सिद्धेः तस्य पूर्वमेव सिद्धेः इति । बाघदेशनाभासोयम् (गौ० वृ० ५।१।१६ ) । अत्र भाष्यम् । उभयेन नित्येन चानित्येन साधम्योत् । पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्ना- नन्तरीयकत्वाद्धटवदित्येकः पक्षं प्रवर्तयति । द्वितीयश्च नित्यसाधर्म्यात् । रणमतिवर्तते । अनतिवृत्तेस्तन्निर्णयानिवर्तनम् । समानं चैतन्नित्यसाधर्म्येणो एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्य साधर्म्येणोच्यमानो न प्रक- च्यमाने हेतौ । तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं १ ५/१११६) । [ख] अधिकबलत्वेनारोपित प्रमाणान्तरेण बाधेन चैतद्वैधर्म्येपि । उभयवैधर्म्यात्प्रक्रियासिद्धेः प्रकरणसम इति ( वात्स्या प्रत्यवस्थानम् । यथा शब्द अनित्यः कृतकत्वादित्युक्ते नैतदेवम् श्रावणत्वेन नित्यत्वसाधकेन बाधात् ( गौ० वृ० ५/१/१६) । [ग] वायुक्तहेतोः साध्यविपरीतसाधकहेत्वन्तरोद्भावनम् । प्रतिपक्षण- मेवात्रोदाहरणं बोध्यम् (नील० पृ० ४४ ) । २ ( हेत्वाभासः) [क] यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ( गौ० १।२।७ ) । सूत्रार्थस्तु प्रकृष्टं करणं लिङ्गं परामर्शो वा । को हेतुरनयोः साधकः एतयोः कः परामर्शः प्रमा इति वा यत्र जिज्ञासा भवतीत्यर्थः । यस्मादित्यादि तु वस्तुस्थितिमात्रम् ( गौ० वृ० ११२१७ ) । अत्र भाष्यम् । विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम् । तस्य चिन्ता विमर्शात्प्रभृति प्राङिर्णयाद्यत्समीक्षणम् । सा जिज्ञासा यत्कृता स निर्णयार्थ प्रयुक्त उभयपक्षसाम्यात्प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते । प्रज्ञापनं तु अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति । अनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि (वात्स्या० ११२१७) । अस्मिन्नभिप्राये सूत्रार्थश्च निर्णयार्थ प्रयुक्तो हेतुर्यत्र निर्णयं जनयितुम - शक्तस्तुल्यबलेन परेण प्रतिबन्धात् किंतु धर्मिणः साध्यवत्वम् तदभाव- वत्त्वं वेति चिन्तां जिज्ञासां प्रवर्तयति स प्रकरणसमः इति ( गौ० वृ० १।२।७ ) । प्रकरणसमस्य लक्षणं तु तुल्यबलविरोधिपरामर्शकालीन- पररामर्शविषयत्वम् । स्वसाध्यपरामर्शकालीनतुल्य बलविरोधिपरामर्शो वा (गौ० वृ० ११२ ७) इति । अन्यत्सर्वं सत्प्रतिपक्षवज्ज्ञातव्यम् । अत्रेदं बोध्यम् । विरोधिपरामर्शस्य च हेतुनिष्ठत्वम् एकज्ञान विषयत्वसंबन्धेन ज्ञेयम् । अन्यथा हेतोदुष्टत्वं न स्यात् । अयं च दशाविशेषे दोषः इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्टमेव इति ( गौ० वृ० १।२।७ ) । [ ख ] निबन्धे तु प्रकृतसाध्यहेत्वोः किं तत्त्वम् इति जिज्ञासाजनका व्याप्तिपक्षधर्मतोपस्थितिः तद्विषय: ( चि० २ हेत्वा पृ० ९७ ) ( म० प्र० २१ २७ ) । अत्र जिज्ञासा च प्रकृतसाध्यहेत्वोः कः समीचीनः इत्याकारिका ग्राह्या ( ग० सप्र० पृ० २३) । तथा च अनयोः किं तत्त्वम् इति जिज्ञासैव सत्प्रतिपक्षफलम् इति बोध्यम् (चि० २ हेत्वा० पृ० ९७ ) ( ग० सत्प्र० पृ० २२) (म० प्र० २ पृ० २७ ) । तदर्थश्च यादृशपरामर्शसहकारेण यादृशपरामर्शस्योक्त- जिज्ञासाजनकत्वं तादृशपरामर्शसहितता दृशपरामर्श: इति ( ग० सत्प्र० वान् बहुयभावव्याप्यजलवान् इति परामर्शद्वयसंवलनदशायां प्रकृतो पृ० २३ ) । अत्र च पर्वते धूमेन वह्निसाधने पर्वतो वहिव्याप्यधूम- घूमो हेतुः सत्प्रतिपक्षितः इति व्यवयित इत्यनुभवमनुसृत्येदं विज्ञेयम् । यस्य प्रतिपक्षभूतं हेत्वन्तरमस्ति स प्रकरणसमः । स एव ६५ न्या० को० सत्प्रतिपक्ष उच्यते । यथा शब्दो नित्यः अनित्यधर्मानुपलब्धेः इति शब्द: अनित्यः नित्यधर्मानुपलब्धेः इति च ( त० भा० पृ० ४९ ) । अत्र च विपरीतार्थसाधकं समानबलमनुमानान्तरं प्रतिपक्ष इत्युच्यते । यथा शब्दः अनित्यः नित्यधर्मानुपलब्धेः इति । यत्पुनरतुल्यबलम् न स प्रतिपक्षः। तथाहि। विपरीतार्थसाधकानुमानं त्रिविधम् । उपजीव्यम् उपजीवकम् अनुभयं चेति । तत्राद्यम् बाधकम् । बलवत्त्वात् । यथा अनित्यः परमाणुर्मूर्तत्वादिति । अस्य हेतोः परमाणुसाधकानुमानं नित्यत्य साधयदपि न प्रतिपक्षः। किंतु धर्मिग्राहकं ( परमाण्वात्मकस्यानित्यत्व- रूपसाध्यधर्मिणो ग्राहकम्) प्रमाणं बाधकम् । उपजीव्यत्वेन बलवत्वात् । नही प्रमाणेनागृह्यमाणे धर्मिणि परमाणौ परमाण्वनित्यत्वानुमान संभवति । आश्रयासिद्धेः इति । तथा च तारतम्यपक्षकानुमानं न समानबलम् । किंतु अधिकबलम् इति तत् परमाण्वनित्यत्वानुमानं प्रति बाधत एवेति न तत् प्रतिपक्षः इति भावः । परमाणुसाधकानुमानं च अणुपरमाणतारतम्यं क्वचिद्विश्रान्तम् । परिमाणतारतम्यत्वान्महत्परिमाण- तारतम्यवत् इति ( त० मा० पृ० ४९ ) । द्वितीयं दुर्बलत्वाद्वाध्यम् । ( त० मा० पृ० ४९ ) । व प्रतिरुद्धः प्रकरणसमः स्यात्प्रतिसाधनैः इदमेवानित्यत्वानुमानं स्यात् । तृतीयं तु सत्प्रतिपक्षः । तुल्यबलवत्त्वात् इ ( ता० र० श्लो० ८३ ) । [ङ ] तुल्यत्वमभ्युपेत्यैव परहेतोः स्खहेतुना । बाधेन प्रत्यवस्थान परस्य प्रक्रियासमः ॥ (ता० २० २ श्लो० ११७) । <प्रकार:> १ सामान्यस्य भेदको विशेषः ( लौ० भा० टी० पृ०८ ) । यथा द्रव्यं नवविधमित्यादौ पृथिवीत्वादिकं द्रव्यस्य प्रकारः । यथा वा प्रकारान्तरेण विभजते इत्यादौ । २ वक्ष्यमाणप्रकारतावान् ( पृ० ११८ ) । यथा दण्डवान्पुरुषः इति वाक्यजन्यबोधे दण्डः प्रकारः । तत्तदनिरूपकत्वं सर्वोशे याथार्थ्यम् ( ग० सामा० ) इत्यादौ प्रकारो ३ विशेषणम् । यथा स्वव्यधिकरणप्रकारावच्छिन्ना या या विषया विशेषणम् । कचित् उपलक्षणमपि प्रकार: (चि० ) । ४ कचित् सादृश्यमपि प्रकारशब्दार्थः । यथा प्रभृतिग्रहणं प्रकारार्थम् (सि० पृ० २०) इत्यादौ । <प्रकारता> १ ( विषयता ) [ क ] विशेषणत्वापरनामा विलक्षणविषय- ताविशेषः ( नील० १ पृ० १७ ) । यथा अयं घटः इति ज्ञाने विशे- षणस्य घटत्वादेर्विशेषणत्वापरनामा विषयता विशेषः ( न्या० म० १ पृ० ४ ) । [ख] अन्ये तु भासमान वैशिष्ट्यप्रतियोगित्वम् ( न्या० म० १ पृ० ५) । संसर्गावच्छिन्नविषयतेति यावत् (नील० १ पृ० १७ ) ( सि० च० ) । अत्र विशेष्यतासंसर्गतयोस्तु किंचित्संबन्धावच्छिन्नत्वम- प्रामाणिकम् इति सिद्धान्तोनुसर्तव्यः । तथा च संसर्गावच्छिन्नत्वं प्रकार - ताया एवं इति भावः । यथा अयं घटः इत्यत्र घटत्वस्य वैशिष्ट्यं भासते तत्प्रतियोगि च घटत्वम् इत्याहुः ( न्या० म० १ पृ० ५ ) । [ग] अपरे तु ज्ञायमान विशेषणप्रतियोगिकसंसर्गावच्छिन्नविषयत्वम् इत्याहुः (वाच० ) । २ विषयतानात्मिका प्रतियोगित्वादिनिरूपिता- वच्छेदकतातुल्यावच्छेदकताविशेषरूपा प्रकारता इति कश्चिदाह ( ग० बाघ० पृ० २) । यथा पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं बाध: ( चि० २ हेत्वा० पृ० १०३) इत्यत्र तादृशविषयत्व निरूपिता अभावनिष्ठा प्रकारता । हदो वह्निमान् धूमादित्यादौ पक्षः साध्याभाव- वान् इति ज्ञाने पक्षनिष्ठप्रमाविषयत्वस्य प्रकारः साध्याभावः इति लक्षण- समन्वयः ( दीधि ० २ पृ० २१८) । सप्रकारकत्वं विषयताया एव नतु ज्ञानस्य इत्यतिरिक्त विषयतावाद्येकदेशिमताभिप्रायकमतिसूक्ष्मतर- मेतत् । प्रकारताश्रयश्च विशेषणोपलक्षणभेदेन द्विविधो बोभ्यः । <प्रकाश:> १ ज्ञानम् । यथा अर्थप्रकाशो बुद्धिः इत्यादौ ( त० मा० ) ( त० प्र० ) । अत्र वैशेषिका आहुः प्रागप्रकाशरूपस्य जडस्यात्मनो मनः संयोगाज्ज्ञानाख्यः प्रकाशो जायते इति ( सांख्य० प्र० मा० अ० १ सू० १४५ ) । २ तेजः । यथा प्रचुरप्रकाशो रविरित्यादौ । तमो विरोध्याकारों हिं प्रकाशशब्दवाच्यः ( सर्व० सं० पृ० ४५७ शां० ) । ३ ज्ञानस्वरूप आत्मा प्रकाशः इति सांख्या आहुः । अत्र सूत्रम् जडप्रकाशयोगात् प्रकाशः इति ( सांख्य० सू० अ० १ सू० १४५ ) । अस्मिन्मते प्रकाशत्वं च तेजःसत्वचैतन्येष्वनुगतमखण्डोपाधिः अनुगत- व्यवहारात् इति ज्ञेयम् (सांख्य० प्र० मा० अ० १ सू० १४५ ) । ४ व्यवहारशास्त्रज्ञास्तु सर्वजनज्ञानविषयः । यथा प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः (वीरमित्रो० २ पृ० ५८६ स्मृतिः) इत्यादौ इत्याहुः । ५ सर्वश्राव्यं वाक्यं प्रकाशम् इति नाटकज्ञा आहुः । <प्रकीर्णम्> १ ग्रन्थविच्छेदः । २ विशकलिततया विद्यमानत्वम् । यथा प्रकीर्णवादस्यायुक्तत्वात् ( त० दी० पृ० ३३) इत्यादौ । ३ विभिन्न- जातीयानां मिश्रणम् ( वाच० ) । यथा भट्टिकाव्ये नानाजातीयप्रत्ययो- दाहरणबोधककाण्डम् । ४ विक्षेपः । ५ धर्मज्ञास्तु अनुक्तप्रायश्चित्त- विशेषको पापभेदः । अत्रोक्तम् अनुक्तं तत्प्रकीर्णकम् इति ( स्मृतिः) वाच० ) । यथा प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । बुधः कुर्याद्ब्राह्मणानुमतः सदा ॥ (विष्णु० ) इत्यादौ इत्याहुः । <प्रकृतत्वम्> [क]प्रतिज्ञाविषयत्वम् (न्या० र० सामान्यनि० पृ० १०) । यथा एवम् दुष्टहेतुनिरूपणस्याप्रकृतत्वे दुष्टहेतूनां विभागात ( ग० हेत्वा० पृ० २ ) इत्यादौ । यथा वा प्रकृतपक्षतावच्छेदका- वच्छिन्नविशेष्यता निरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताघटिते हेत्वाभासलक्षणे हृदो वह्निमान् धूमादित्यत्र पक्षतावच्छेद की भूतत्व साध्यतावच्छेद की भूतवह्नित्वस्य च प्रकृतत्वम् । ख उद्देश्यत्वम् ( म० प्र० ४ पृ० ५६ ) । यथा प्रकृतान्वयबोधसमानाकारस्वजन्या- न्वयबोधविरह आकाङ्क्षा इत्यादौ ( न्या० म० ४ पृ० २२ ) । [ग] वर्तमानकाले गृहीतत्वम् । [घ ] प्रकरणप्राप्तत्वम् । [ङ ] आरब्धवं इति केचिदाहुः । [च ] अधिकृतत्वम् ( वाच० ) । <प्रकृतिः> १ ( शब्दः ) [ क ] स्वेतरशब्दार्थाविशेषितस्य यादृशस्वार्थस्या- न्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्ताया निश्चय एव हेतुः तादृशस्तथाविधार्थे प्रकृतिः । यथा पटभूप्रभृतयो हि शब्दाः वोत्तरविभक्त्याद्यंशे निश्चिता एव स्वोपस्थाप्यस्य वसनजननादेरन्वयं प्रत्ययार्थे कर्मत्वकर्तृत्वादी बोधयन्ति न त्वन्यथा ( अनिश्चिता अपि ) । अत्रेदं बोध्यम् । चैत्रः पचति यजेत इत्यादौ शब्दान्तरधर्मिक- निश्चयस्यासत्त्वेपि तदर्थस्यैकत्ववर्तमानत्वादेश्चैत्रपाकादावन्वयात् स्वाव्यव हितोत्तरत्वसंसर्गेण तादृशशब्दवत्ताया निश्चय एव तदुपस्थाप्यया दृशा- न्वयबोधं प्रति हेतुः तादृशस्यैव च शब्दस्य प्रकृते तथाविधः स्वार्थः । स च पाकेत्यादेः शक्त्यादिविरहेपि पचनादिरूपः सुवच एव । पचनादेः कर्मत्वादावन्वयबोधं प्रति अमादिधर्मिकतादृशशब्दवत्ताया निश्चयस्यैव हेतुत्वात् लक्षणसमन्वयः । प्रत्ययास्तु पदान्तरार्थान वच्छिन्नस्य संख्या काल इष्टसाधनत्व इत्यादिस्वार्थस्यान्वयबोधं प्रत्यनिश्चिता अप्युपयुज्यन्ते इति तत्र नातिव्याप्तिः ( श० प्र० श्लो० ६ टी० पृ० ८ ) । [ख] स्वोपस्थाप्ययादृशार्थस्यान्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृश- शब्दवत्ता निश्चयत्वेन हेतुत्वम् तादृश एव शब्दस्तथाविधार्थे प्रकृतिः। बहु- गुडो द्राक्षे त्यादौ बहुजाद्यर्थस्यान्वयबोधं प्रति न गुडादिपदधर्मिक- बहुजादिनिश्चयत्वेन हेतुत्वम् । अपि तु सुवादिधर्मिकबहुगुडादिपदनिश्च- यत्वेन । अन्यथा केवलादपि बहुगुडादिपदाड्राक्षादौ बहुजाद्यर्थस्यान्वय- बोधापत्तेः इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ७ टी० पृ० ९-१०) । [ग] शाब्दिकास्तु पाणिनिप्रभृतयः प्रातिपदिकं प्रकृतिः इत्याहुः (श० प्र० श्लो० १३ टी० पृ० १५) । [घ नव्यशाब्दिकाः नागोजी- भट्टादयस्तु अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्द विशेषः इत्याहुः । अत्रावधित्वं च पूर्वापरत्वरूपं ग्राह्यम् । तेन बहुगुडो द्राक्षेत्यत्र बहुजादे- निमित्तप्रकृतौ नाप्रसङ्गः । वस्तुतस्तु बहुगुडो द्राक्षेत्यत्र प्रकृतिप्रत्ययविभाग एव नास्ति इति भाष्यकारमतमित्यन्यत् । अत्रार्थे व्युत्पत्तिः । प्रकरोति प्रत्ययं बोघं च इति प्रकृतिशब्दो योगरूढः ( वाच ० ) । अत्र प्रकृतित्वं बधित्वम् वा ( ल० म० ) । अथवा तदर्थान्वितखार्थबोधने तदपेक्षत्वे च प्रत्ययविधाबुद्देश्यतावच्छेदकाक्रान्तत्वम् ( शेखर ० ) । प्रत्ययविधाना- सति तद्विधानावधिभूतत्वम् । इयं प्रकृतिर्द्विविधा । नाम धातुश्चेति ( श० प्र० श्लो० १३ ) । २ कारणम् यथा मृत्पिण्डाद्धटो जायत इत्यादौ मृत्पिण्ड: प्रकृतिः ( ग० व्यु० का० ५५० १०८) । अत्र जनिकर्तुः प्रकृतिः ( पा० सू० १ । ४ । ३०) इत्यनेनापादानत्वम् । न चात्र हेतुपञ्चमी । गुणातिरिक्त हेतौ पञ्चम्यनुशासनविरहात् ( ग० व्यु० का० ५ पृ० १०८) । अत्र गुणत्वं च स्वप्रयोज्याश्रयवृत्तित्वम् । बहिमान् घूमादित्यादौ घूमस्य गुणत्वप्राप्त्या विभाषा गुणेस्त्रि[^१]याम् ( पा० सू० २/३/२५ ) इत्यनेन धूमपदात्तृतीपञ्चम्यौ गच्छे (ग० अवय० हेतु ० ) । अत्र समवाय असमवायि निमित्त एतत्रितय - साधारणं कारणत्वम् । न तु समवायिकारणत्वमात्रं विज्ञेयम् । दण्डाइटो जायत इति प्रयोग इष्यते । अत एव यतो द्रव्यं गुणाः इत्यादौ पञ्चमी ( ग० व्यु० का० ५ पृ० १०८) । यतः ईश्वरात् । अथ वा केवलं समवायिकारणम् (वै० वि० ) ( वै० उ० ८/२१५ ) । यथा पृथिवी ग[^२]न्धज्ञाने (घ्राणे) प्रकृतिः (वै० सू० ८/२/५ ) इत्यादौ । अथवा वजनकनाशप्रतियोगि। यथा दुग्धं दनः प्रकृतिः ( राम० १ १० पृ० ६८) । यथा वा महापट: खण्डपटस्य प्रकृतिः (मु० १ पृथिवीं० ) । स्वजनकेत्यस्यार्थश्च स्वम् दधि । तस्य जनको यो नाशः दुग्धनाशः तस्य प्रतियोगि दुग्धम् तत्वं दुग्धे इति । एवम् खण्डपटस्य जनकीभूतो नाश: महापटनाशः तत्प्रतियोगित्वं महापटादी इति द्रष्टव्यम् । ३ यावदाश्रयभाविधर्मः । यथा प्रकृत्या कृपणः स्वभा वेन सरलः इत्यादौ । अत्र तृतींयार्थश्चाभेदस्तादात्म्यं वा । स्वाश्रयाधिकरणयांवकालवृत्तिकार्पण्यवान् इत्याकारस्तत्र बोधः । अत्र प्रकृत्यादिभ्य उपसंख्यानम् (वार्तिकम् ) इत्यनेन तृतीया विधीयते ( १० प्र० श्लो० ९३ टी० पृ० १२४) । ४ स्वभावः । ५ मीमांसकास्तु समप्राङ्गोपदेशः सा प्रकृतिः । यथा दर्शपूर्णमासादिरूपप्रधानयागः प्रकृतिः (इष्टयग्निहोत्रसोमाः प्रकृतयः ) ( लौं० मा० पृ० २३) इत्याहुः । अत्रेदं बोध्यम् । यत्र कर्तव्यं सर्वे प्रकर्षेण कर्मा सा प्रकृतिः । यत्र विशेषरूपमेव कर्तव्यं श्रुत्योपदिश्यते इतरत्सर्वे कर्मान्तरादतिदिश्यते सा विकृति: ( वाच ० ) । तत्रापि मूलप्रकृतिः अवान्तरप्रकृतिः इति प्रकृतेर्हेविध्यादिकं तु विस्तरभयान्नोच्यते इति । [^१] अस्त्रियामिति पदच्छेदः । [^२] गन्धो ज्ञायते अनेन तत् । घ्राणेन्द्रियमित्यर्थः । ६ सत्वरजस्तमसां साम्यावस्था प्रकृतिः ( सां० सू० अ० १ सू० ६१) इति सांख्या आहुः । अयमर्थः । प्रकृतेः कार्य महत्तत्त्वम् । महतश्च कार्योहंकारः। अहंकारस्य कार्यद्वयम् तन्मात्राणि उभयमिन्द्रियं च । तत्रो- भयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां कार्याणि च पञ्च स्थूलभूतानि । स्थूलशब्दात्तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् । पुरुषस्तु कार्यकारणविलक्षणः इति । इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूहः । एतद- तिरिक्तः पदार्थो नास्तीत्यर्थः । दिक्कालौ चाकाशमेव इति ( सांख्य प्र० भा० अ० १ सू० ६१ टी० ) । एतन्मते प्रकृतित्वं च तत्त्वा- न्तरोपादानत्वम् ( सर्व० पृ० ३१८ सांख्य ० ) । ७ माया अविद्या चेति द्विविधभेदभिन्ना प्रकृतिः इति शांकरा अद्वैतवादिनो मन्यन्ते । ८ जडात्मको भगवदंशविशेषः इति वाल्लुभा आहुः । ९ लक्ष्मीरपीति श्रीमध्वाचार्यानुयायिनः प्राहुः । एतन्मते च प्रकृतिर्द्विविधा चित्प्रकृतिः जडप्रकृतिश्च । तत्राद्या लक्ष्मी: । द्वितीया तु मृत्पाषाणादिस्थावरात्मकं सर्व जगत् इति विज्ञेयम् ( भाग ० १ टी० विजयध्व० ) । अत्र लक्ष्मीपदेन भगवदिच्छा संगृह्यते ( मध्व० १० शरीरावस्था इति भिषजो वदन्ति । ११ मूलस्वरः प्रकृतिः इति गायका गायन्ति । १२ शाक्तास्तु प्रकृत्यंशदेवीपञ्चकरूपशक्तिविशेषः इत्याहुः । अत्रोक्तम् गणेशजननी दुर्गा १ राधा २ लक्ष्मी: ३ सरस्वती ४ । सावित्री ५ च सृष्टिविधौ प्रकृतिः पञ्चमी स्मृता ॥ इति । १३ प्रकृति- शब्दवाच्यो विष्णुः इति श्रीपूर्ण प्रज्ञाचार्या व्याचक्रुः (मध्यभा० ) । अत्र ब्रह्मसूत्रम् ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ इति ( ब्र० सू० १।४।२४ ) । प्रकृति प्रकृष्टकरणात् ( सर्व० सं० पृ० १४१ पूर्णप्र० ) । अत्र प्रकृतिशब्देन समवायिकारणं (ब्रह्म) ग्राह्यम् इत्यद्वैतिनो मायावादिनो मन्यन्ते । १४ स्वाम्यमात्यादिराज्याङ्गं प्रकृतिः इति नीति- शास्त्रज्ञा आहुः । अत्रोच्यते । स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । भाष्य ० १।४।२५ ) ।राज्याङ्गानि ७. प्रकृतयः पौराणां श्रेणयोपि च ॥ इति ( अमरः काण्ड० २ क्षत्रि० श्लो० १७-१८) । १५ एकविंशत्यक्षरपाद - कश्छन्दोविशेषः प्रकृतिः इति छन्दःशास्त्रज्ञा आहुः । १६ व्याकरण- शास्त्रोक्तकर्मविशेषः ( विकार्यम् ) । यथा काशाकटं करोति इत्यादौ काशादि प्रकृतिकर्म इति । <प्रकृतिविकृतिः> महदाद्याः प्रकृतिविकृतयः सप्त इति । अस्यार्थः । प्रकृतयश्च ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि ( सर्व० सं० पृ० ३१७ सांख्य ० ) । <प्रक्रिया> १ निरूपणम् ( दि० गु० पृ० १९८) । यथा नवक्षणा प्रक्रिया दशक्षणा प्रक्रिया एकादशक्षणा प्रक्रिया (मु० गु० पृ० १९८) इत्यादौ । २ पक्षप्रतिपक्षयोः प्रवृत्तिः । यथा अनित्यः शब्दः प्रयत्ना- नन्तरीयकत्वाद्धटवत् इत्येकः पक्षं प्रवर्तयति । द्वितीयश्च नित्यसाधर्म्यात् श्रावणत्वात् नित्यः शब्दः इति ( वात्स्या० ५ । १ । १६) । व्युत्पत्तिः । प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधननिति फलितार्थः इति ( गौ० वृ० ५/१/१६ ) । ३ शब्दप्रयोगसाधनावस्था प्रक्रिया इति शाब्दिका आहुः । ४ प्रकरणम् सा प्रक्रिया या कम् इत्यपेक्षा इति पार्थसारथिमिश्र आह । ५ अधिकारः । ६ नृपादीनां चामर- व्यजनच्छत्रधारणादिव्यापारः इति काव्यज्ञा आहुः । <प्रचयः> १ [क] शिथिलाख्यः संयोगः । यथा यत्र द्वाभ्यां तूलक- पिण्डाम्यां प्रचययुक्ताभ्यां तूलक पिण्डान्तरमारब्धम् तत्र परिमाणोत्कर्ष- दर्शनात् शिथिलाख्यसंयोगरूपः प्रचयस्तादृशावयविपरिमाणस्यासमवायि- कारणम् (वै० वि० ७१११९) (वै० उ० ७१११९) (भा० ५० T० ११३ ) । अत्र प्रचयश्चारम्भकः संयोगः । स च स्वाभि- मुखकिंचिदवयवासंयुक्तत्वे सति स्वाभिमुखकिंचिदवयवसंयोगलक्षणः । स त्ववयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः / गुण- [ख] किंचिदवयवावच्छेदेनावयवान्तरासंयोगिनि महत्यवयवे वर्तमानः कर्मारम्भे सापेक्षः इति वचनात् (वै० उ० ७११९) (त० व० ) / संयोगः इत्येके वदन्ति । अन्य आहुः । अत्र महत्पदं न देयम् । परमाणु- संयोगस्य प्रचयत्वे क्षतिविरहात् इति । अपरे तु भूयोवयवावच्छेदेना- वयवान्तरासंयोगिन्यवयवे वर्तमानः संयोगः प्रचयः । तेन परमाणुसंयोगो व्यणुकसंयोगो वा न प्रचयः इत्याहुः (दि० गु० पृ० २०५ ) । २ साहि- त्यम् ( कि० व० ५ ) । ३ चयनम् । यष्ट्यादिना वृक्षाग्रस्थानां पुष्पाणां प्रचयः इत्येव ( सि० कौ० कृद० पृ० ३४२ ) । अत्र व्याकरण- नियमः । हस्तादाने चेरस्तेये (पा० सू० ३ ३ । ४० ) । हस्तादाने तु घम् । हस्तेन पुष्पप्रचाय इत्येव । चौर्ये तु अच् । प्रचय इत्येव । चौर्येण पुष्पादेः प्रचयः इति । ४ समूह: । ५ उपचय इति काव्यज्ञा आहुः । ६ उदात्तानुदात्तखरितेभ्यो व्यतिरिक्तश्चतुर्थः स्वर एकश्रुतिः । तां चाभ्या- पकाः प्रचयः इत्याचक्षते (जै० न्या० अ० ९ पा० २ अधि० ९ ) । <प्रज्ञाज्योतिः. भूतेन्द्रियजयी योगिविशेष: (सर्व० सं० पृ० ३८४ पात०) । <प्रज्ञापनम्. १ उदाहरणम् । एतदर्थे वात्स्यायनभाष्यं ( १/२/७ ) द्रष्ट- व्यम् । २ बोधनम् । <प्रणति:> <प्रणाम:> ( नमस्कारः ) स्वापकर्षबोधकः करशिरः संयोगादिव्यापारः । यथा पञ्चां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चैव प्रणामोष्टाङ्ग उच्यते ॥ इति । बाहुभ्यां चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोयं प्रणामः स्यात्पूजासु प्रवरः स्मृतः ॥ इत्यादौ च ( वाच० ) । <प्रणिधानम्> १ सुस्मूर्षया (स्मर्तुमिच्छया) मनसो धारणम् (वात्स्या ३।२।४२ ) । २ मनसो विषयान्तरसंचारवारणम् ( गौ० वृ० ३।२।४२) । इदं च स्मृतेरुद्बोधकरूपं निमित्तं बोध्यम् । अत्र भाष्यम् सुस्मूर्षित- लिङ्गचिन्तनं चार्थस्मृतिकारणम् इति (वात्स्या० ३।२।४२) । ३ योगि नस्तु चिन्तनविशेषरूपः समाधिविशेषः इत्याहुः । ४ भक्तिविशेषः ( पात० यो० सू० १ । २३ ) । ५ अर्पणम् । ६ कर्मणां फलत्यागः (पात० यो० सू० २११) । ७ प्रयत्नः । ८ अभिनिवेश: इति काव्यज्ञा आहुः । ६६ न्या० को० <प्रतान:> प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः ( मिताक्षरा अ० २।२२९ ) । <प्रति> ( अव्ययम् ) १ सादृश्यम् । यथा प्रतिदेवता इत्यादौ । २ आदा- नम् । यथा प्रतिगृह्णाति इत्यादौ । ३ हिंसा । यथा प्रतििहन्ति इत्यादौ । ४ अङ्गीकारः । यथा प्रतिज्ञानम् इत्यादौ । ५ प्रतिनिधीकरणम् । यथा अभिमन्युरर्जुनतः प्रति इत्यादौ । ६ व्याधिः । यथा प्रतिश्यायः इत्यादौ । ७ आभिमुख्यम् । यथा प्रतिसूर्य गतः इत्यादौ । ८ व्याप्तिः । यथा प्रतिकीर्ण पांशुभिः इत्यादौ । ९ वारणम् । यथा प्रतिषिद्धः इत्यादौ ( गण० टीका० ) ( वाच० ) । १० प्रतिदानम् । यथा विद्योतते विद्युत् इत्यादौ । अत्र प्रतेः सादृश्याद्यर्थविशेषेषु द्योतकत्वमेव तिलेभ्यः प्रतियच्छति माषान् इत्यादौ । १९ लक्षणम् । यथा वृक्षं प्रति न तु वाचकत्वम् इति ज्ञेयम् । <प्रतिकूलत्वम्> १ द्वेषविषयत्वम् (मु० गु० पृ० २२०) । यथा दुःखस्य द्विष्टत्वरूपं प्रतिकूलत्वम् । २ विरुद्धपक्षावलम्बित्वम् इति काव्यज्ञा आहुः । <प्रतिग्रहः> [क] स्वस्वत्वजनकेच्छारूपस्वीकार विशेषः । यथा धनं प्रति- गृह्णातीत्यादौ धात्वर्थः । अत्र स्वस्वत्वरूपफले द्वितीयार्थाधेयत्वान्वयः (ग० व्यु० का० २ पृ० ४३ ) । अत्र मतविशेषो ज्ञेयः । दानस्यैव स्वस्वत्वध्वंसमिव परस्वत्वोत्पत्ति प्रति जनकता । प्रतिग्रहस्य तु न स्वत्व- जनकता । अपि तु दानेनोत्पन्नमपि स्वत्वं संप्रदानव्यापारेण प्रतिग्रहेण यथेष्टविनियोगार्हं क्रियते इति जीमूतवाहनमतम् (जीमूतवा० दायभाग वीरमित्रो० २ पृ० ५४३ ) । अत्र प्रमाणम् मनसा पात्रमुद्दिश्य इत्यादि शास्त्रम् । अयं भावः । प्रतिग्रहस्य स्वत्वजनकत्वं यदि स्वीक्रियेत तदा देशान्तरस्थं पात्रमुद्दिश्य यद्धनं ददाति तत्पात्रमरणानन्तरं तत्पुत्राण तद्धने तत्पितृस्वत्वानुत्पत्त्या स्वत्वाभावेन प्रवृत्तिर्न स्यात् । अतः प्रति- ग्रहस्यापि स्वत्वजनकत्वं नाङ्गीकर्तव्यम् इति । विदेशस्थं पात्रमुद्दिश्य व्यक्तधने स्वीकारमन्तरेणैव पात्रस्य मरणस्थले पितृदायत्वेन तद्धनं पुत्रादिभिर्विभज्य गृह्यते । अन्यथा तैरिवोदासीनैरपि तद्धनस्यारण्य कुशादेरिवोपादाने यथेष्टविनियोगे च प्रत्यवायो न स्यात् इति ( श० प्र० श्लो० ६९ टी० पृ० ८५ ) । वीरमित्रोदयकारास्तु प्रतिग्रहा- देव स्वत्वमुत्पद्यते । अन्यथा पात्रविशेषोद्देशेन त्यागे तेनास्वीकृतेपि तत्स्वत्वो- त्पत्तौ परस्मै तस्य प्रतिपादनासंभवप्रसङ्गः इत्याहुः ( वीरमित्रो० २ दाय० पृ० ५४२ ) । [ख ] पुण्यार्थकदानजन्यस्वत्वस्य जनकः स्वीकारः । ममेदम् इति ज्ञानमिति यावत् । यथा धनं प्रतिगृह्णातीत्यत्र । अत्र फली- भूतस्वत्ववत्तया धनस्य कर्मत्वं संगच्छते। विक्रयादेर्दान विशेषत्वेपि न तस्य पुण्यजनकत्वम् । अतस्तल्लुब्धस्य स्वीकारो न प्रतिग्रहः इति विज्ञेयम् ( श० प्र० श्लो० ७२ पृ० १०९ ) । प्रतिग्रहस्य स्वस्त्रजनकत्वे प्रमाणं श्रुतिः याजनाध्यापनप्रतिग्रहैब्रह्मणो धनमर्जयेत् इति । स्मृतिरपि ब्राह्मण- स्याधिकं लब्धम् ( गौतमः ) इति । तदर्थश्च मिताक्षरायाम् ( अ० २ व्यव० श्लो० ११४ ) ब्राह्मणस्य प्रतिग्रहादिना लब्धम् तत् अधिकम- ( साधारणम् ( वीरमित्रो० २ पृ० ५४३ ) इति । [ग] दत्तद्रव्य स्वस्व- वजनकस्वीकारः । यथा गां प्रतिगृह्णातीत्यादौ ( का० व्या० पृ० ५ ) । [घ ] शाब्दिकास्तु अदृष्टार्थदत्तस्वीकारः ( ल० म० ) इत्याहुः । अयाचितविषये प्रतिग्रहे न दोषः । तदुक्तम् अयाचितोपपत्रे तु नास्ति दोषः प्रतिग्रहे । अमृतं तं विदुर्देवास्तस्मात्तन्नैव निर्णुत् ॥ ( गारुडे ६० अ० २१५ ) ( वाच० ) । अदृष्टार्थत्यक्तद्रव्यस्वीकारः इत्यन्ये । <प्रतिघातः> १ बलवत्तरवेगप्रयुक्तद्रव्य संयोगविशेषः । २ मारणम् । <प्रतिज्ञा> १ [क] स्वकर्तव्यत्वेन निर्देश: ( राम० ) । कर्तव्यत्वप्रकारक- बोधानुकूलव्यापारः इति परमार्थः । यथा अथ हेत्वाभासास्तत्त्वनिर्णय- प्रयोजकत्वान्निरूप्यन्ते इति मया तर्कसंग्रहः क्रियते इत्यादि च प्रतिज्ञा । [ख] कर्तव्यत्वज्ञानम् ( राम० पृ० २ ) । यथा कारिकावलीं विशदी- करवाणि इति प्रतिज्ञा । २ व्यवहारज्ञास्तु पक्षाभिधायकः पूर्वपक्षभाषा- द्यपरपर्यायो वाक्यविशेषः प्रतिज्ञा । स च वाक्यविशेष व्यवहारपाद- विशेषः पूर्वपादः अर्थिपादश्चेत्यभिधीयते ( वीरमित्रो० २ व्यव० पृ० ६० ) । यथा ममेदं द्रव्यमनेन गृहीतं न ददाति इत्यादिः प्रतिज्ञा इत्याहुः । भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् ( मिताक्षरा अ० २ श्लो० ६ ) । भाषाशब्दे दृश्यम् । अत्र प्रतिज्ञालक्षणमाह याज्ञवल्क्यः । प्रत्यर्थिनोप्रतो वेतमर्थिन । समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ इति (वीरमि० २ पृ० ६१ ) । ३ अङ्गीकारः इति काव्यज्ञा आहुः । ४ न्यायावयवः । यथा पर्वतो वह्निमान् इति प्रतिज्ञावाक्यम् । पक्षज्ञानं प्रतिज्ञायाः प्रयोजनम् (त० दी० २ पृ० २२ ) । लक्षणं च प्रतिज्ञा- त्वमेव । तच्चात्र हेत्वभिधानप्रयोजक जिज्ञासाजनकवाक्यत्वम् । लिङ्गाविषय- कलिङ्गिविषयकज्ञानजनकन्यायावयवत्वं (चि० २ अव० पृ० ७७) वा । इतरान्वितस्वार्थबोधकत्वे सति स्वीयं यदन्त्यभिन्नं पदं तदर्थविशेष्यका- न्वयबोधजनकत्वे सति न्यायावयवत्वं वा । अथवा अन्त्यपदवत्त्वे सति स्वीयानन्त्यपदार्थ विशेष्यकान्वयबोधाजनकान्यत्वे सति न्यायावयवत्वम् ( दीघि ० २ पृ० १७७ ) । यद्वा एतन्न्यायघटकः पर्वतो वह्निमान् इति यः शब्दः तद्वृत्त्यवयवविभाजको पाधिमत्त्वम् (न्या० म० २१० २३ ) । प्रतिज्ञात्वं जातिः इति केचिदाहुः ( चि० २ अव० पृ० ७७) । वस्तुतस्तु प्रतिज्ञात्वमखण्डोपाधिरेव इत्यन्ये आहुः ( म० प्र० २ पृ० ३३ ) । प्रतिज्ञावाक्यं च उद्देश्यानुमितिहेतु लिङपरामर्शप्रयोजक शाब्दज्ञानजनकत्वे सत्युद्देश्यानुमित्यन्यूनानतिरिक्त विषयकशाब्दज्ञा वाक्यम् । सत्यन्तस्य प्रकृतन्यायावयवत्वं पर्यवसितार्थः । तेन प्रकृत- न्यायबहिर्भूतवाक्यवारणम् ( दीधि० २ अवय० पृ० १६७ ) । एक- मग्रेपि बोध्यम् । अथवा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञान- ( चि० २ अवय० पृ० ७७ ) । सा च प्रतिज्ञा क] साध्य निर्देश: जनकत्वे सत्युद्देश्यानुमितिविषयकलिङ्गाविषयकशाब्दज्ञानजनकं वाक्यम् प्रतिज्ञा ( गौ० १ । १ । ३३ ) । प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टत् परिग्रहवचनं प्रतिज्ञा । साध्यनिर्देशः अनित्यः शब्दः इति (वात्स्या १ । १ । ३३ ) । साधनीयस्य अर्थस्य यो निर्देशः स प्रतिज्ञा । तथा च पक्षतावच्छेदक विशिष्टपक्षे साध्यतावच्छेदकविशिष्टवैशिष्टयबोधको न्याया वयवः इत्यर्थः । साधनीयश्च वह्निमत्त्वादिना पर्वतादिः ( गौ० वृ० १ । १ । ३३ ) ( दीधि ० २ अव० पृ० १६७ ) । [ख] साध्य- धर्मविशिष्टधर्मिप्रतिपादकं वचनम् ( त० मा० पृ० ४३ ) ( त० दी० २ पृ० २२ ) । यथा पर्वतपक्षकवह्निसाध्यकस्थले पर्वतो वह्निमान् इति वाक्यं प्रतिज्ञा । साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारकपक्षतावच्छेदका- वच्छिन्न पक्षविशेष्यकबोधजनको न्यायावयवः इत्यर्थः (नील० २ पृ० २२ ) ( दीधि ० ) । अत्र निगमनवारणाय च साध्यांशे साध्य- तावच्छेदकातिरिक्ताप्रकारकत्वं वाच्यम् । तदर्थश्च साध्यतावच्छेदक- प्रकारताविलक्षणप्रकारताशून्यत्वम् । तेन प्रमेयवतः साध्यत्वे नासिद्धिः । उदासीनवारणाय च न्यायान्तर्गतत्वे सति इति विशेषणीयम् । न्यायान्त- र्गतत्वे सति प्रकृतपक्षतावच्छेदकावच्छिन्नपक्षकप्रकृतसाध्यतावच्छेदका- वच्छिन्नसाध्यविषयताविलक्षणविषयताकबोधाजनकत्वे सति प्रकृतपक्षे प्रकृतसाध्यबोधजनकत्वं तत् । प्रतिज्ञात्वावयवत्वादिकं परिभाषाविशेष- विषयत्वरूपम् तत्तद्व्यक्तित्वरूपं च ( गो० वृ० १ । १ । ३३ ) । उदाहर- णाच न पक्षतावच्छेदक विशिष्टे साध्यवैशिष्ट्यज्ञानम् । उपनयाच्च न पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यज्ञानम् इति तयो- युदासः ( दीधि० २ अवय० पृ० १६७ ) । [ग] अनुमेयोद्देशः अविरोधी प्रतिज्ञा । प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषया- पादनार्थमुद्देशमात्रम् । यथा द्रव्यं वायुः इति । अविरोधिग्रहणात् प्रत्यक्षा- नुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । यथा अनुष्णोग्निः इति प्रत्यक्षविरोधी । घनमम्बरम् इत्यनुमानविरोधी । ब्राह्मणेन सुरा पेया इत्यागमविरोधी । वैशेषिकस्य सत्कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी । न शब्दोर्थप्रत्यायकः इति खवचन विरोधी ( प्रशस्त ० २ पृ०२८) । <प्रतिज्ञान्तरम्> (निग्रहस्थानम् ) [ क] प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पा- तदर्थनिर्देशः प्रतिज्ञान्तरम् ( गौ० ५/२/३ ) । प्रतिज्ञातार्थः अनित्यः शब्द: ऐन्द्रियकत्वाद्धटवदित्युक्ते योस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभि- चार: सामान्य मैन्द्रियकं नित्यम् इति । तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे । धर्म- विकल्पादिति । दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात्सामान्य- मैन्द्रियकं सर्वगतम् । ऐन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात् । तदर्थनिर्देश इति साध्यसिद्ध्यर्थम् । कथम् । यथा घटोसर्वगत एवं शब्दोप्यसर्वंगतो घटवदेवानित्य इति । तत्रानित्यः शब्दतपूर्वा प्रतिज्ञा। असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् (वात्स्या०५।२।३) । [ख] प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते तद्दूषणोद्दिधीर्षया धर्मस्य धर्मा- न्तरस्य विशिष्टः कल्पो विकल्पः तस्मात् विशेषणान्तर विशिष्टतया प्रतिज्ञातार्थस्य कथनम् (गौ० वृ० ५/ २ / ३ ) ( ता० र० परि० ३ श्लो० १३५ ) । प्रतिज्ञातार्थस्येत्युपलक्षणम् हेत्वतिरिक्तार्थस्य इति तत्त्वम् । तेन उदाहरणान्तरमुपनयान्तरं च प्रतिज्ञान्तरत्वेन संगृहीतं भवति । अत्र प्रतिषेध इत्यनेन झटिति संवरणे विलम्बेनापि स्वयं दूषणं विभाव्य विशेषणे न दोषः इत्युक्तम् ( गौ० वृ० ५/२/३ ) । [ग] परोक्तदोषोद्दिधीर्षया पूर्वानुक्त विशेषणविशिष्टतया प्रतिज्ञाता- कथनम् ( दि० १ पृ० २२) ( नील० पृ० ४५) । यथा क्षित्या- दिकं गुणजन्यं कार्यत्वादित्यत्रा दृष्टजन्यत्वेन सिद्धसाधनोद्भावने सविषयक इति गुणविशेषणदानम् ( नील० पृ० ४५ ) । इदं च पक्षसाध्य- विशेषणभेदात्प्रत्येकं द्विविधम् । यथा शब्दः अनित्य इत्युक्ते ध्वनौ बाधेन परेण प्रत्युक्ते वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरम् । एवम् पर्वतो वह्निमान्सुरभिमलिनधूमवत्त्वादित्युक्ते असमर्थविशेषणत्वेन च परेण प्रत्युक्ते कृष्णागुरुप्रभववह्निमानित्यत्र । एवम् तादृशवहौ साध्ये यः सुरभिमलिन- धूमवान् स वह्निमान् इत्युदाहरणे न्यूनत्वेन प्रत्युक्ते स तादृशवह्निमानि त्यत्र । एवमन्यदप्यूह्यम् (गौ० वृ० ५।२।३) । प्रतिज्ञान्तरं च गुणे- न्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२ ) । <प्रतिज्ञाविरोधः> ( निग्रहस्थानम् ) [ क ] प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञा • विरोधः (गौ० ५२४ ) । गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा । रूपा- दितोर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयं प्रतिज्ञाहेत्वोर्विरोधः । कथम् । यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिर्मोपपद्यते । अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते । गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश्चार्थान्तरस्यानुपलब्धिरिति विरुष्यते । व्याहन्यते न संभवतीति ( वात्स्या० ५।२।४ ) । [ख] कथायां स्ववचनार्थविरोधः । यथा पर्वतो वह्निमान् धूमात् यो यो घूमवान् स स निरग्निः इत्युदाहरणे निरग्निश्चायम् इत्युपनये च प्रतिज्ञाविरोध: ( गौ० वृ० ५।२।४ ) । अत्रोच्यते । पदयोर्वाक्ययोर्वा य एकवक्तृकयोर्मिथः । व्याघातो निग्रहस्थानं स्यात्प्रतिज्ञादिरोधनः ॥ इति ( ता० २० परि० श्लो० १० १३६ ) । [ग] खोक्तसाध्यादिविरुद्धहेत्वादिकथनम् । यथा द्रव्यं गुणभिन्नं रूपादितः पृथक्त्वेनानुपलभ्यमानत्वादिति ( दि० १ पृ० २२) ( नील० पृ० ४५ ) । प्रतिज्ञाविरोधश्च गुणेन्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२ ) । <प्रतिज्ञासंन्यासः> ( निग्रहस्थानम् ) [क] पक्षप्रतिषेधे प्रतिज्ञातार्थ- स्यापनयनं प्रतिज्ञासंन्यासः ( गौ० ५२२१५ ) । पक्षस्य स्वाभिहितस्य परेण प्रतिषेधे कृते सति तस्परिजिहीर्षया प्रतिज्ञातार्थस्यापनयनमपलापः इत्यर्थः (गौ० वृ० ५/२/५) । यथा अनित्यः शब्द ऐन्द्रियकत्वादि- युक्ते परोब्रूयात् सामान्य मैन्द्रियकम् न चानित्यम् एवं शब्दोप्यैन्द्रियको न चानित्य इति । एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् कः पुनराह अनित्यः शब्दः इति । सोयं प्रतिज्ञातार्थनिहवः प्रतिज्ञासंन्यास इति ( वात्स्या ० (५/२/५ ) । [ख] खोक्र्ये परेण दूषिते तदपलापः । यथा शब्दः अनित्य ऐन्द्रियकत्वादित्युक्ते परेण सामान्ये व्यभिचारमुद्भाव्य दू खोक्तमपलपति क एवमाह शब्दः अनित्यः इति ( गौ० वृ० ५/२/५) (दि० ११२२ ) (नील० पृ० ४५ ) ( ता० २० परि० ३ श्लो० १३७ ) । प्रतिज्ञासंन्यासश्च गुणेन्तर्भवतीति विज्ञेयम् । <प्रतिज्ञाहानि:> ( निग्रहस्थानम् ) [क] प्रतिदृष्टान्तधर्माभ्यनुज्ञा - टान्ते प्रतिज्ञाहानि: ( गौ० ५१२१२ ) । साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेभ्यनुजानप्रतिज्ञां जहातीति प्रतिज्ञा- हानि: । निदर्शनम् ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृते अपर आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान तथा शब्द इति प्रत्यव स्थिते इदमाह यसैन्द्रियकं सामान्यं नित्यम् कामं घटो नित्योस्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं 17 जहाति । पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति ( वात्स्या० ५/२/२ ) । अत्र वृत्तिः । प्रतिकूलो दृष्टान्तो यस प्रतिदृष्टान्तः परपक्षः । स्वः स्वीयो दृष्टान्तो यत्र स स्वदृष्टान्तः स्वपक्षः इति (गौ० वृ० ५/२/२ ) । [ख ] स्वपक्षे परपक्षधर्माभ्यनुज्ञा । स्वयं विशिष्याभिहितपरित्यागः इति फलितार्थः ( गौ० वृ० ५/२/२ ) । अत्रोच्यते । कथायां यच्च पक्षादि येन निर्दिष्टमादितः । तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते ॥ इति ( ता० २० परि० ३ लो० १३४ ) । [ग] प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थपरित्यागो वा ( नील ० पृ० ४५ ) । [घ ] विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागः (दि० १ पृ० २२) । पक्षस्य पक्षत्वेन प्रतिपादनाभावरूपता इति भावः ( राम० १ पृ० २२ ) । यथा शब्दः अनित्यः प्रत्यक्षगुणत्वादिस्यत्र सोयं गकारः इत्यादिप्रत्यभिज्ञाबलात्परेण बाध उद्भाविते अस्तु नित्यः शब्दः इति नित्यत्वमङ्गीकुर्वन्वादी शब्दस्यत्वप्रतिज्ञ ( नील० पृ० ४५ ) । सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहा निभेदात्पञ्चधा भवति । यथा ( १ ) शब्दः अनित्यः कृतकत्वादित्युक्ते प्रत्यभिज्ञया बाधित विषयोयमित्युत्तरिते अस्तु तर्हि घट एव पक्षः इति । (२) एवम् तत्रैव ऐन्द्रियकत्वादिति हेतोरनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकस्वा दिति हेतुरिति । (३) एवम् पर्वतो वह्निमान् घूमादयोगोलकवदित्युक्ते दृष्टान्तः साधनविकल इति प्रत्युक्त अस्तु तर्हि महानसवदिति । (४) एवम् अत्रैव सिद्धसाधने च प्रत्युक्ते अस्तु तर्हि इन्धनवानिति । (५) अन्यहानिस्तु विशेषणहान्यादिः । यथा तत्रैव नीलधूमादित्युक्ते असमर्थ- विशेषणत्वेन प्रत्युक्ते अस्तु तर्हि घूमात् इति हेतुः इत्यादि (गौ० वृ० ५२१२ ) । प्रतिज्ञाहानिश्च अभावे अन्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२) । <प्रतितत्रम्> स्वमतविरुद्धशास्त्रम् । <प्रतितन्त्रसिद्धान्तः> ( सिद्धान्तः ) [ क ] समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ( गौ० ११११२९ ) । अत्र समानशब्द एकार्थः । तेन एकतन्त्रसिद्ध इत्यर्थः । स्वतन्त्रसिद्धः इति पर्यवसितोर्थः ( गौ० वृ०१।१।२९) । यथा नासत आत्मलाभः न सत आत्महानम् निरतिशया- श्चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेषः इति सांख्या- नाम् । पुरुषकर्मनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रवृत्तिश्च स्वगुण- विशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्नं निरुध्यते इति नैयायिकानाम् (वात्स्या० १।१।२९) । [ख] वादिप्रतिवाद्येकतरमात्राभ्युपगतस्तदेक- तरस्य प्रतितन्त्रसिद्धान्तः । यथा मीमांसकानां शब्द नित्यत्वम् ( गौ० वृ० १ । १ । २९ ) । यथा वा नैयायिकानां शब्दानित्यत्वम् (प्र० प्र० ) । यथा वा नैयायिकस्य मन इन्द्रियम् । तच्च समानतन्त्रे वैशेषिके सिद्धम् ( त० भा० पृ० ४३ ) । [ ग ] स्वतन्त्र एव सिद्धोर्थः परतन्त्रनिवारितः । प्रति- तन्त्रो यथा न्याये सर्वज्ञस्य प्रमाणता ॥ (ता० र० श्लो० ६०) इति । प्रति- तन्त्र सिद्धान्तश्च यथायथं द्रव्यादावन्तर्भवतीति विज्ञेयम् (दि०१पृ०२२) । <प्रतिदानम> द्रव्यान्तरग्रहणपूर्वकं दानम् । यथा तिलानस्मै प्रतियच्छ तीत्यादौ धात्वर्थः (श० प्र० श्लो० ६९ टी० पृ० ८६ ) । <प्रतिदृष्टान्तसमः> ( जाति: ) [ क ] प्रतिदृष्टान्तेन प्रत्यवस्थानाप्रति दृष्टान्तसमः ( गौ० ५/१/९ ) । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्त- समः । क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्टवदित्युक्ते प्रतिदृष्टान्त उपा- दीयते क्रियाहेतुगुणयुक्तमाकाशं निष्क्रियम् इति । कः पुनराकाशस् क्रियाहेतुर्गुणः वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति (वात्स्या० ५११/९) । [ख प्रतिदृष्टान्तमात्र बलेन प्रत्यवस्थानम् । मात्रपददानेन साधर्म्यसमव्युदासः । यथा यदि घटदृष्टान्तबलेनानित्यः इति बाधः प्रतिरोधो वा आपादनीयः । हेतुरनङ्गम् दृष्टान्तमात्रबला- शब्दस्तदा आकाशदृष्टान्तबलेन नित्य एव स्यात् । नित्यः किं न स्यात् देव साध्यसिद्धिरित्यभिमानः (गौ० वृ० ५/१९) । [ग] दृष्टान्तान्त- साध्याभावसाधनम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वा- ६७ न्या० को० ल्लोष्टवत् इत्यत्र लोष्टदृष्टान्तेन क्रियावत्वे साधिते निष्क्रियाकाशदृष्टान्ते- नात्मनो निष्क्रियत्वमेव किं न स्यात् । लोष्टदृष्टान्तेन क्रियावत्त्वम् आकाशदृष्टान्तेन निष्क्रियत्वं न इत्यत्र नियामकाभावात् इत्यादि (नील० पृ० ४४ ) । [घ ] अनङ्गत्वधिया हेतोः प्रतिदृष्टान्त- मात्रतः। प्रत्यवस्थानमाचख्युः प्रतिदृष्टान्तलक्षणम् ॥ ( ता० २० २ श्लो० ११४) । प्रतिदृष्टान्तसमश्च बाधप्रतिरोधान्यतरदेशनाभासः (गौ० वृ० ५/१।९ ) । स च असदुत्तरत्वेन गुणेन्तर्भवति ( दि० १ पृ० २२ ) । <प्रतिनिधित्वम्> तुल्यरूपतया मुख्य कार्यकारित्वार्थ निधीयमानत्वम् । यथा वैदिककर्मणि पुरोहितस्य औरसाभावे दत्तकादीनां च प्रतिनिधित्वम् । अत्रोच्यते । पुत्रं च विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्य ब्राह्मणं विनियोजयेत् ॥ ( स्कन्दपु० ) इति । तद्यथा वैदिककर्माङ्ग- द्रव्यादीनां मुख्यानामलाभे तुल्यरूपतयान्यो विधीयते इति । तदेतत् सूत्रकारैः ( कात्यायनश्रौत० १ कण्डिका० ४) व्यवस्थापितम् । तत्तत्रैव दृश्यम् । तथा दत्तकक्रीतपुत्रादीनां प्रतिनिधित्वं दत्तकमीमांसादौ व्यवस्था- पितम् । तत्तत्रैव दृश्यम् । <प्रतिपक्षः> १ विरोध्यनुमानम् । तच्च विरोधिव्यायादिमत्तया परामृश्य- मानो हेतुः । विरोधिपरामर्शो वा ( दीधि ० २ सत्प्रति० पृ० २०८ ) । यथा सत्प्रतिपक्ष इत्यत्र हदे धूमेन वह्निसाधने वह्नयभावव्याप्यवान् हृदः इति परामृश्यमानो जलरूपो हेतुः तादृशपरामर्शो वा प्रतिपक्षः । २ विप्रतिपत्त्यपरकोटि: ( गौ० वृ० ११ १/४१ ) । यथा विमृश्य पक्ष- प्रतिपक्षाभ्यामर्थावधारणं निर्णयः ( गौ० १/१/४१ ) इत्यादौ । ३ विरुद्धपक्षः । यथा परार्थानुमाने वादिना पर्वते वहिसाधने कृते प्रतिवादिपक्षः पर्वतो न वह्निमान् इति प्रतिपक्षः । ४ प्रतिवादी व्यवहारज्ञा आहुः । ५ विरोधी । ६ शत्रुः इति काव्यज्ञा आहुः । <प्रतिपक्षितत्वम्> १ सप्रतिपक्षः । २ प्रतिपक्षवदस्यार्थोनुसंधेयः । <प्रतिपत्> चन्द्रस्य प्रथमकलया दर्शनयोग्यत्वसंपत्त्यर्थं यावान्कालोपेक्ष्यते स कालः । तथा च सूर्येण सहातिसंनिकृष्टस्य चन्द्रस्य यावता कालेन सूर्याद्वादशभिरंशैर्विप्रकर्षो भवति तावान्कालः शुक्लपक्षे प्रतिपच्छब्द- वाच्यः । एवमादित्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादश भिरंशै: संनिकर्षो भवति तावान्कालः कृष्णपक्षे प्रतिपत्तिथिः ( पु० चि० पृ० ३२ ) । <प्रतिपत्तिः> १ बुद्धिवदस्यार्थोनुसंधेयः । २ [क] मीमांसकाश्च शेषस्य ( प्रधानादिकर्मण्युपयुक्तादवशिष्टस्य ) विहितस्थलविशेषे विनियोगः । यथा चात्वाले कृष्णविषाणां प्रास्यति ( तैत्ति ० संहि० ६ । १ । ३ ) इत्यादौ इत्याहुः । [ ख ] धर्मज्ञास्तु फलशून्यकर्माङ्गविशेषः । यथा श्राद्धादौ दत्तद्रव्यस्य कुशमयब्राह्मणपक्षे जलादौ निक्षेपः प्रतिपत्तिः । यथा वा पूजितप्रतिमादेश्च जलादौ निक्षेपः प्रतिपत्तिः इत्याहुः । [ग] उप- युक्तस्या कीर्ण करतानिवर्तकं कर्म ( मी० न्या० पृ० ३४ ) । ३ प्रवृत्तिः । ४ प्रागल्भ्यम् । ५ गौरवम् । ६ प्राप्तिः । ७ पदप्राप्तिः इति काव्यज्ञा आहुः ( वाच० ) । <प्रतिपादनम्> १ प्रतिपत्त्यनुकूलशब्दप्रयोगः । यथा श्रुत्यर्थं प्रतिपाद- यतीत्यादौ । २ दानम् इति काव्यज्ञा आहुः । प्रतिप्रसवः - १[क] प्रतिषिद्धैकदेशस्य पुनर्विधानम् । यथा अग्नीषोमीयपश्वा- लम्भनविधानम् । अत्र रागतः प्राप्तस्य मा हिंस्यात्सर्वा भूतानि इति श्रुतिवा- क्येन निषिद्धस्य हिंसासामान्यस्यैकदेश अग्नीषोमीयपश्वालम्भनम् अग्नि- षोमीयपशुमालभेत इति श्रुतिवाक्येन विधीयते इति । यथा वा न भक्ष- येदेकचरानज्ञातांश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखां- स्तथा ॥ ( मनु० अ० ५ श्लो० १७) इति निषिद्धस्य सर्वपञ्चनख मांसभक्षणस्यैकदेशस्य पञ्चपञ्चनखमांसभक्षणस्य विधानम् । पञ्चपञ्च- नखाश्च मनुस्मृतौ ( अ० ५ श्लो० १८) आपस्तम्बधर्मसूत्रे (१।५।१७।३७ ) चोक्ता: परिसंख्याशब्दे प्रदर्शिताः । [ख ] निषिद्धस्य पुनः प्राप्तिसंभावना । यथा स्मार्तानां मते एकादश्यां निषि द्धस्य भोजनस्य एकादशीश्राद्धादौ प्राप्तिः संभाव्यते इति । २ प्रतिजन्म इति काव्यज्ञा आहुः । <प्रतिवन्दिः> [क] प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरा- पादनम् । यथा अनुमित्यव्यवहित पूर्ववर्तिसिद्धिभिन्नसिद्ध्यभावमात्ररूप- पक्षता चानुमितौ कारणं चेत् तदा स्वसमानाधिकरणानुमित्यव्यवहित - पूर्वक्षणवर्तित्वविशिष्टज्ञानं कारणं स्यात् इति प्रतिबन्दिः ( दीधि ० पक्षता० पृ० १२७–१२८)। [ख] समानं विरोध्युत्तरम् (राम०) । <प्रतिबन्धः> १ प्रतिरोधः। यथा मणिहप्रतिबन्धं करोति इत्यादौ । २ व्याप्तिः ( सांख्य० मा० १।१०० ) । यथा प्रतिबन्धदृशः प्रति- बद्धज्ञानमनुमानम् ( सांख्यसू० अ० १ सू० १०० ) इत्यादौ । <प्रतिबन्धकत्वम्> [क] कारणीभूताभावप्रतियोगित्वम् ( कु० १ ) (दि०) (सि० च० १ तेजोनि० पृ० ८) । अत्र कारणपदं क्वचित्प्रयोजकपरमपि (मू० म० १ ) । कारणीभूतेत्या देरर्थश्च स्वावच्छि- धर्मस्तद्वत्त्वम् ( कु० १ टी० ) । तद्धर्मावच्छिन्न कार्यतानिरूपिताभाव- नप्रतियोगिताकत्वसंबन्धेना भावत्वावच्छिन्नकारणताया अवच्छेदको यो त्वावच्छिन्नकारणतानिरूपितस्वावच्छिन्न प्रतियोगिताकत्वसंबन्धावच्छिन्ना- वच्छेदकताश्रयधर्मवत्वम् इति निष्कर्षः । यथा हृदो वह्निमान् इति बुद्धौ हृदो न वहिमान् इति निश्चयस्य प्रतिबन्धकत्वम् । तथाहि । हृदो वह्निमान् इत्यनुमितौ कारणीभूतो यः अभावः हृदो वह्नयभाववान् इति निश्चयाभावः तस्य प्रतियोगी हृदो वह्यभाववान् इति निश्चयः निश्चयदायां हृदो वह्निमान् इत्यनुमित्यनुदात्ताश्च इति तस्य तथात्वं संपद्यते । अयं भाव: । हृदो वह्नयभाववान् इति मणेः प्रतिबन्धकत्वम् । तथाहि । मणिसमवधानदशायां वहेर्दाहानुत्पत्त्या तादृशानुमितिं प्रति कारणत्वमङ्गीकर्तव्यम् इति । यथा वा दाहं प्रति दाहं प्रति मण्यभावस्य कारणत्वेन तत्प्रतियोगित्वं संपद्यते । तत्र कार णत्वं मण्यभावत्वेन न तु प्रतिबन्धकाभावत्वेन । अतो नान्योन्याश्रयः । एवं प्रतिबन्धकाभावकूट एव कारणम् । तेन मणिसद्भावे यत्किंचि न्मण्याद्यभावेपि न कार्यम् ( चि० २) इति । अत्र मीमांसकमतेन कार्यसहभावेन प्रतिबन्धकत्वं तु कार्यसहभावेन प्रतिबन्धकाभावरूप- कारणदिशा व्यवस्थापनीयम् । [ ख ] कार्यानुकूलंकिंचिद्धर्मविघटकत्वम् । यथा केषांचिन्मते दाहानुकूलशक्तिविघटकत्वं मण्यादे: ( न्या० दी० पृ० १४) । निश्चयस्य प्रतिबन्धकत्वं पञ्चविधम् । तथाहि । तद्वत्ताबुद्धिं प्रति १ तदभाववत्तानिश्चयत्वेन २ तदभावव्याप्यवत्तानिश्चयत्वेन ३ तद - भावावच्छेदकतया गृहीतधर्मवत्ता निश्चयत्वेन ४ तदसमानाधिकरणधर्मव- तानिश्चयत्वेन ५ तद्व्यापकतावच्छेदकतया गृहीतधर्मावच्छिन्नाभाववत्तानि - श्चयत्वेन च प्रतिबन्धकत्वम् इति । एवम् तद्वद्भेदवत्तानिश्चयत्वादिनापि प्र- तिबन्धकत्वमवसेयम् । तत्राद्यं यथा हृदो वह्निमान् इति बुद्धिं प्रति हृदो न वह्निमान् इति निश्चयस्य प्रतिबन्धकत्वम् । द्वितीयम् हृदो वड्यभावव्याप्यवान् इति निश्चयस्य । तृतीयम् जलवान्वयभाववान् इति निश्चयविशिष्टस्य जल- वान्ह्रदः इति निश्चयस्य । चतुर्थम् वह्नयसमानाधिकरणजलवान् हृदः इति निश्चयस्य । पञ्चमम् हृदो घूमबान् इति बुद्धिं प्रति धूमव्यापकतावच्छेदकतया गृहीतं यद्वह्नित्वं तादृशवह्नित्वावच्छिन्नाभाववान्हदः इति निश्चयस्य इति । कार्यमा प्रतिकामिनीजिज्ञासायाः स्वातन्त्र्येण मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वम् । कचित् कार्यविशेषं प्रति स्वातव्येण कस्यचित्प्रति- बन्धकत्वम् । यथा दाहं प्रति मणेः प्रतिबन्धकत्वम् इति । प्रत्यक्षं प्रति आनुमानिकनिश्चयो न प्रतिबन्धकः । किंतु शाब्दबोधं प्रत्यानुमानिक- निश्चयः प्रतिबन्धकः इति सामान्यतो निर्णयः ( दीधि० ) । अत्रायमर्थः समानविषये प्रत्यक्षानुमितिसामथ्र्योरेककालावच्छेदेन सत्त्वे तयोर्मध्ये प्रत्यक्षसामग्री प्रबला इत्येतदनुभवसिद्धम् । तथा च तादृशप्रत्यक्षसामग्री तत्रत्यानुमितिं प्रतिबध्नाति । भिन्नविषये तु अनुमितिसामग्र्येव प्रबला । एवं च प्रबलो दुर्बलं प्रतिबध्नाति इत्यनुभवादत्रत्यविषये प्रतिबध्यप्रति- शब्दव्याख्याने संपादयिष्यते इति तत्तत्रावलोकनीयम । बन्धकभावप्रयोजकः प्रबलदुबेलभाव एव इति । अधिकं तु सामग्री- <प्रतिबन्धिः (धी ). [ क ] — प्रतिबन्दिवदस्यार्थोनुसंधेयः । [ ख ] प्र- तिवादिमते निष्टान्तरप्रसञ्जनम् । यथा आद्ये प्रतिबन्धिमाह ( गौ० दृ० २।२।३४ ) इत्यत्र । अत्राधिकं तु प्रतिबन्दिशब्देवलोकनीयम् । <प्रतिबिम्बनम्. १ अनुकरणम् । यथा दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रति- बिम्बनम् (सा० द० परि० १० श्लो० ६९८ ) इत्यादौ । २ बिम्बानु- रूपप्रतिच्छायाभवनम् । यथा मायावादिवेदान्तिमते जीवेश्वरयोर्बिम्ब- प्रतिबिम्बभावः इत्यादौ । अत्राधिकं तु सिद्धान्तलेशे द्रष्टव्यम् । <प्रतिभा> (बुद्धिः ) १ [ क ] स्फूर्त्याख्यो बुद्धिविशेष: (दि० १ मङ्ग० पृ० ८)। यथा समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापात् (मु० १ मङ्गल ० ) इत्यादौ । [ख] प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता ( रुद्र० ) । २ दीप्तिः इति केचिदन्ति । <प्रतिभूः> [ क ] प्रति भवति तत्कार्ये तद्वद्भवतीति प्रतिभूः ( मिता• अ० २ श्लो० १० ) ( जामीन इति प्र० ) । [ख ] धनिकाधम - योरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः (सिद्धान्तकौमुदी पृ० ३१४) । <प्रतियोगः> १ विरोध: । २ विरुद्धसंबन्धः । <प्रतियोगिता> १ विरोधित्वम् ( निषेध्यत्वम्) ( न्या०सि० दी० पृ०५६ ) । घटाभावस्य घटो विरोधी भवति इति तस्य तथात्वं संपद्यते । तच्च स्वरूपसंबन्धविशेष: ( दीधि० २) ( त० प्र० ) । यथा घटो नास्ती- त्यादौ घंटे अभावप्रतियोगितास्ति । अत्र अभावनिरूपिता घटनिष्ठा प्रतियोगितास्ति इति तदर्थो ज्ञेयः । अत्रेदमवधेयम् । घटाभावादिबुद्धे- विशिष्टवैशिष्ट्या वगाहिबुद्धितया अभावबुद्धिर्विशेष्य विशेष विशिष्टबुद्धित्वात् संयोगेन घटवद्भूतलम् इत्यादिबुद्धत् नव्यनैयायिका आहुः । अत्रायं नियमः अभावप्रत्ययो विशिष्टमर्यादां अभावे घटा दिवैशिष्ट्यबुद्धौ संबन्धतया अतिरिक्तप्रतियोगित्वसिद्धिः इति नातिशेते इति । श्रीहर्षखण्डनादौ दीधितिकारमते च तस्य स्वरूप- संबन्धविशेषरूपत्वेन प्रतियोगिस्वरूपत्वमनुयोगिस्वरूपत्वं वा स्वीकार्यम् । तेनैवोपपत्तौ न प्रतियोगित्वरूपातिरिक्तपदार्थकल्पना इति । अत्रो- पयोगित्वेनाधिकमुच्यते । प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमता न्यायः । तदर्थश्च यादृशसमभिव्याहारस्थले येन संबन्धेन यद्धर्मिणि येन रूपेण यद्वत्त्वं नञसत्त्वे प्रतीयते तादृशस्थले नञा तद्धर्मिणि तादृश- संबन्धावच्छिन्नतादृशधर्मावच्छिन्न प्रतियोगिताकतदभाव: प्रत्येतव्यः (ग० व्यु० का० १ ) । यथा पीतघटे घटो न नीलः इति वाक्यं प्रयुज्यते । तंत्र नञ्विनिर्मोकदशायां घटो नीलः इत्यत्र येन संबन्धेन ( तादात्म्य- संबन्धेन ) नीलपदार्थो घटे प्रतीयते तेनैव संबन्धेन नीलप्रतियोगिका- भावः घटो न नीलः इति वाक्यात्प्रयेतव्यः इति ( कृष्ण ० ) । एवम् अत्यन्ताभावस्थलेपि भूतले घटो नास्ति इत्यादौ पूर्वोक्तो न्यायः संयोज- नीयः । केचित्तु प्रतिकूलसंबन्धवत्वम् प्रतियोगित्वम् । यथा घटाभावस्य संबन्धः स्वरूपसंबन्धः तस्य प्रतिकूलः संयोगः तद्वत्त्वात् घटो घटा- भावस्य प्रतियोगी भवति इत्याहु: । अखण्डो धर्मविशेषः प्रतियोगिता इति संप्रदाय: (मू० म० १) । अन्योन्याभावविरहात्मत्वम् इत्यप्यन्य आहुः (वै० उ० ९/११८ ) ( न्या० सि० दी० पृ० ५६ ) । अत्रा- चार्या आहुः अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ( कु० स्त० ३ (० १ ) इति । एतन्मते इदं च वस्तुनिष्ठमभावनिरूपितं प्रतियोगित्वम् इति विज्ञेयम् । अत्र च यस्य पदार्थस्य अभावः तत्त्वं प्रतियोगित्वम् इति लौकिकजना वदन्ति । २ वित्तिवेद्यत्वम् ( चि० ३) । यथा चन्द्रवन्मुखमित्यादौ चन्द्रस्य सादृश्यप्रतियोगित्वम् । ३ अन्वयित्वम् ( अन्वयप्रतियोगित्वम्) । तच्च स्वरूपसंबन्धविशेषः । यथा चैत्रस्य पुत्र इत्यादौ षष्ठ्यन्तार्थस्य प्रतियोगित्वम् । यथा वा संयोगेन घटव- द्भुतलमित्यादौ घंटे भूतलानुयोगिकसंयोगसंबन्ध विशिष्टबुद्धौ प्रकारतया भासमानस्य घटस्य संसर्गप्रतियोगित्वम् इति विशेष्यतया भासमानस्य तु भूतलस्य अनुयोगित्वम् इति च ज्ञेयम् । ४ निरूपकत्वम् । यथा प्रकारताप्रतियोगित्वमनुमितौ (ग० सामा० अत्र वदन्ति इति कल्पे ) । यथा वा विलक्षणविषयताप्रतियोगित्वं संशयत्वम् इत्यादौ ( ग० सत्प्र० अर्वाचीन० पृ० १४) । ५ स्वाश्रय- संयुक्तत्वम् । यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वान्मद्व- दित्यत्र जीवनप्रतियोगित्वम् ( दीधि० बाघ० २ पृ० २३ ) ( चि०२ पृ० ६८) इत्यादौ आत्मनो जीवनस्य मरणस्य वा प्रतियोगित्वम् । अत्र आत्मशरीर विभागस्य चरमप्राणशरीरसंयोगध्वंसस्य वा मरणरूपत्वे स्वं विभाग: ध्वंसो वा । तदाश्रयः शरीरम् । तत्संयुक्तत्वमात्मनः इति लक्षणसंगतिः। जीवनप्रतियोगित्वं तु सदेहात्ममनःसंयोगस्य जीवन रूपत्वे स्वीकर्तव्ये तादृशसंयोगानुयोगित्वमेवात्मनः प्रतियोगित्वम् इति विज्ञेयम् । <प्रतियोगितावच्छेदकः> येन रूपेण ( धर्मेण ) यस्याभावादौ प्रतियोगिता बोध्यते स धर्मः । यथा घटाभावे घटस्य घटत्वरूपेण प्रतियोगिता बोध्यते । अतस्तत्र घटत्वं प्रतियोगितावच्छेदकम् । स च धर्मः कचि देकः क्वचिदनेकश्च । तत्र वह्निर्नास्तीत्यादौ वह्नित्वमेकम् । महानसीय- वह्निर्नास्तीत्यादौ महानसीयत्वं वह्नित्वं चेत्युभयम् । घटपटोभयं नास्ती- तु घटत्वम् पटत्वम् उभयत्वं चेति त्रयम् इत्यादिकमनेकम् । संबन्धोपि प्रतियोगितावच्छेदको भवति । स च येन संबन्धेन प्रति- "योगिताया अभावांश भानम् तादृशः संबन्धः । यथा संयोगेन घटो नास्ति इत्यादौ संयोगेन घटस्याभावांशे प्रतियोगिताभानम् इति तत्र संयोगसंबन्धः प्रतियोगितावच्छेदकसंबन्धः । एवम् साध्यतावच्छेदक संबन्धः पक्षतावच्छेदकसंबन्धः आधेयतावच्छेदकसंबन्धश्च इत्यादिक मूह्यम् । अधिकं चावच्छेदकशब्दे दृश्यम् । <प्रतिरुद्धः> १ प्रकरणसमशब्दवदस्यार्थोनुसंधेयः (ता० २० लो० ८३ ) । २ प्रतिरोधकर्मा । यथा साध्यविरोध्युपस्थान प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि० २ सत्प्र० पृ० ९४ ) इत्यादौ । <प्रतिरोधः> १ सत्प्रतिपक्षदोषः । यथा पक्षसाध्यसाधनाप्रसिद्धिस्वरूपा सिद्धिबाधप्रतिरोधानां निरासः ( दीधि ० ) इत्यादौ । २ प्रतिबन्धः कार्यविशेषानुत्पादो वा । ३ तिरस्कारः । ४ हठचौर्यम् इति व्यवहारज्ञा आहुः (वाच० ) । <प्रतिवादः> वादिप्रयुक्तन्यायवाक्यविरुद्धन्यायवाक्यप्रयोगः । यथा अनेन चौर्य कृतम् लोग्रहणकारणात् इत्यादिवाक्ये वादिना प्रयुक्ते तन्न कृतम् तद्विपरीतकारणात् इति प्रतिवादिप्रयोगः प्रतिवादः । <प्रतिवादी> [क] वादिप्रयुक्तन्यायवाक्यविरुद्धन्यायवाक्यप्रयोगकर्ता । यथा पर्वते वह्रिसिद्धये वादिना पर्वतो वह्निमान् धूमवत्त्वात् इत्यादिन्यायवाक्ये प्रयुक्ते तद्विरोधेन पर्वतो न वह्निमान् पाषाणमयत्वात् इत्यादि विरुद्ध- वाक्यं येन प्रयुज्यते सः । [ख] अर्थिप्रतिपक्षः । [ग] प्रत्यर्थी च इति व्यवहारशास्त्रज्ञा आहुः ( मिता० अ० २ श्लो० ६ ) । <प्रतिविधानम्> १ कृषिशब्दे दृश्यम् । २ प्रतीकारः । ३ प्रकृतस्योप- पादनाद्यर्थमुपायावलम्बनम् ( वाच० ) । <प्रतिश्रवणम्> १देयत्वेनाभ्युपगमः । यथा गुरवे गां प्रतिशृणोति आशृणो- तीत्यादौ धात्वर्थः । अत्र धात्वर्थे गोर्विशेष्यत्वेन तदेकदेशे च दाने गुरो- रुद्देश्यत्वेन अन्वयः । तेन गुरूदेश्यकदानकर्मत्वेन गामभ्युपगच्छति इत्येवं तत्र बोध: ( श० प्र० श्लो० ६९ टी० पृ० ८६-८७ ) । २ प्रतिशब्दः इति काव्यज्ञा आहुः । <प्रतिषेधः> १ [क] प्रसज्यप्रतिषेधवदस्यार्थो नुसंधेयः ( म० प्र० ४ पृ० ४८ ) ( पर्युदासशब्दे दृश्यम्) । [ ख ] निषेधः । [ग] मीमां- सकास्तु मा कुरु इति निवारणम् । यथा प्राधान्यं हि विधेर्यत्र प्रतिषेधे- प्र[^१]धानता ( मीमां० का० ) इत्यादौ इत्याहुः । घ प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नञ् ( मी० न्या० पृ० ६२) । २ दूषणाभिधा- नम् । ३ अर्थालंकारविशेष: इत्यालंकारिका आहुः । [^१] अप्रधानता इति पदच्छेदः । <प्रतिसंधानम्> १ ज्ञानम् । अनुसंधानमप्येवमेव व्याख्येयम् । २ अन्वे- षणम् । ३ अनुचिन्तनम् । ४ नष्टद्रव्यस्योपलब्धिव्यापारः (वाच ० ) । <प्रतीकः> १ अवयवः (भागः ) । यथा प्रत्यक्षोपजीवकत्वात् ( चि० २ पृ० १) इति प्रन्थस्य प्रत्यक्षविति ( दीधि० २ पृ० १) इति प्रतीको दीधितिकारेण गृहीतः । अत्रायं नियमः । यत्र समासघटकस्य अचू ६८ म्या० को० सहितस्य प्रतीकधारणम् तत्र श्रूयमाणाच्संवलितस्यैत्र प्रतीकधारणम् इति । तेन पूर्वोक्तस्थले प्रत्यक्षेति इत्युपेक्ष्य प्रत्यक्षविति इति प्रतीकधारणं दीधितिकृतां संगच्छते ( ग० पक्ष० पृ० १) । समासघटकस्येत्युंक्तत्वेन नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः ( चि० २ पृ० २ ) इत्यत्र नन्वेति इत्युपेक्ष्य नन्विति ( दीधि० २ पृ० ११) इति प्रतीकधारणं दीधितिकृतां न विरुध्यते । नन्वनुमितीत्यत्र ननु इत्यस्य समास- घटकत्वाभावात् (न्या० र० पक्ष० पृ० ३१५) । अचसहितस्ये- त्युक्तत्वेन साध्यवदन्यावृत्तित्वम् ( चि० २ पृ० २ ) इत्यस्य - वदेति इत्युपेक्ष्य साध्यवदिति ( दीधि ० २ पृ० १२) इति प्रतीक धारणं दीधितिकृतां न विरुध्यते । तत्र साध्यवदित्यादौ हलन्तस्यैव धारणात् इति ( न्या० र० पक्ष० पृ० ३१५) । २ प्रतिरूपम् । ३ विलोमः । <प्रतीक्षा> निर्ज्ञातप्राप्त्यर्थंप्रतीक्षणम् ( काठ० उ० ११८ भाष्यम् ) । <प्रतीची> ( दिक् ) [ क ] यदपेक्षया सूर्यास्ताचलसंनिहिता या क् तदपेक्षया प्रतीची (वै० उ० २१ २११९० पृ० ११५) । संनिधानं तु संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्यसंयोगा अल्पीयांसो दिगुपनेयाः (बै० उ० २१ २११० पृ० ११५ ) । पश्चिमदिग्वर्तिन- इति (वै० उ० २।२।१५) । [ख ] यदा यत्पुरुषस्योदयगिरि- गादिना सहादित्यसंयोगाद्भुतपूर्वाद्भविष्यतो भूताद्वा प्रतीचीव्यवहारः व्यवहिता या दिक् सा तत्पुरुषस्य प्रतीची (मु० १ पृ० ९३ ) / ( न्या० बी० १ पृ० ३) । यथा काशीतः प्रतीच्यां प्रयागः । अत्र [ग] अस्ताचलसंनिहितदेशावच्छिन्ना दिक् ( वाक्य० १५० ५ ) काशीनिष्ठोदयगिरिसंयुक्तसंयोग पर्याप्तसंख्याव्यापकसंख्या पर्याप्यधिक दयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इति शाब्दबोध: ( दि० १/२ पृ० ९४ ) । यथा वा झळकीग्रामतः प्रतीच्यां रत्नागिरिपुरम् इति । <प्रतीतिः> १ बुद्धिवदस्यार्थीनुसंधेयः । २ ख्यातिः । ३ आदरः । ४६ (वाच० ) । <प्रत्यक्षम्> १ ( अनुभवः ) [क] इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यप- देश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ( गौ० ११११४) (त० सं० ) (मु० १।३ पृ० १०८ ) । तदर्थस्तु अव्यपदेश्यम् अशाब्दं ज्ञानम् ( वात्स्या० ११ १९१४ ) । निर्विकल्पकज्ञानम् ( गौ० वृ० ११११४ ) ( दि० ११३ ) । अव्यभिचारि भ्रमभिन्नं ज्ञानम् ( वात्स्या० ) ( गौ० वृ० ) । व्यवसायात्मकम् सविकल्पकम् ( वात्स्या० १।१।४ ) (गौ० वृ० १ । १ ४ ) । अत्र इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम् इति प्रत्यक्षलक्षणे आत्ममनःसंयोगजन्यसुखादिवारणाय ज्ञानम् इति पदं दत्तम् ( गौ० वृ० १९९१४ ) । इन्द्रियत्वावच्छिन्नकारणता निरूपित- कार्यताशालिज्ञानत्वम् इत्यर्थः इति प्राञ्च आहुः ( म० प्र० १ पृ० ८ ) । इदं च जन्यप्रत्यक्षस्यैव लक्षणम् इति बोध्यम् । तदुत्पत्तिप्रकारस्तु आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन । ततः प्रत्यक्षं ज्ञानमुत्पद्यते ( वात्स्या० १।१४) (तर्कमा०पू० ६) (त० कौ०) । अत्र प्रत्यक्षत्वं च ज्ञानत्वव्याप्य जातिविशेषः । अत्र व्युत्पत्तिः अक्षमक्षं प्रतीत्योत्पद्यते इति प्रत्यक्षम् इति । अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक् श्रोत्रमनांसि षट् ( प्रशस्त० गु० पृ० २५) । प्रतिगतमाश्रितमक्षम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया (२।२।१८ पा० सूत्रे वार्तिकम् ) इत्यनेन समासः । प्राप्तापन्नालंगतिसमासेषु परवलिङ्गप्रतिषेधात् अभि- धेयवलिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः (न्या०बि० १ पृ० ७) । अत्र भाष्यम् । इन्द्रियस्यार्थेन संनिकर्षादुत्पद्यते यज्ज्ञानं तत्प्रत्यक्षम् । न तहदानीमिदं भवति । आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति (वात्स्या० ११११४ ) । अत्रेदं बोध्यम् । इन्द्रियाणां वस्तु प्राप्य प्रकाशकारित्वम् इति नियमोत्र द्रष्टव्यः ( म०प्र० ) ( त० मा० पृ० ६ ) । प्रत्यक्षं प्रति विषयस्य तादात्म्येन हेतुत्वम् इति नैयायिकानुभवसिद्धः कार्यकारणभावः । भट्टास्तु विषयस्य कार्यकाल - वृत्तित्वेन हेतुत्वम् न तु नैयायिकमत इव कार्य पूर्ववृत्तित्वेन हेतुत्वम् इत्यङ्गीचक्रुः (त० प्र० ४ पृ० १२४ ) । [ख] ज्ञानाकरणकं ज्ञानम् (चि० १) ( न्या० बो० १ पृ० ११) (मु० ११३ पृ० १०९)। ज्ञानकरणकत्वाव्यभिचारिजातिशून्यज्ञानध्वम् इति विवक्षितोर्थः ( दि० १।३ पृ० १०३ ) । इदं च जीवेश्वरोभयप्रत्यक्षसाधारणं लक्षणम् इति विज्ञेयम् ( न्या० बो० १ पृ० ११ ) । तथा च ईश्वरप्रत्यक्षस्य नित्यत्वेन न किंचिदपि करणमस्ति । जीवप्रत्यक्षस्य चेन्द्रियमेव कर- णम् न किंचिदपि ज्ञानं करणम् । एवं चोभयोः प्रत्यक्षयोर्ज्ञानाकरण- कत्वमक्षुण्णमेव इति लक्षणसमन्वयः । [ग] साक्षात्कारत्वव्यञ्जक- विषयताविशेषवज्ज्ञानम् ( ग० सप्र० ) । अत्र साक्षात्कारत्वं च साक्षा- करोमि इत्यनुव्यवसायसाक्षिको जातिविशेषः । अथवा जन्यधीजन्य- मात्रवृत्तिर्मानसावृत्तिर्या जाति: तच्छ्रन्यज्ञानत्वम् (या० म० १ । २ पृ० ३ ) ( म० प्र० पृ० ९ ) । भवति हि जन्यं ज्ञानम् ( व्याप्तिज्ञानम् अतिदेशवाक्यार्थज्ञानम् पदज्ञानादि ) । तज्जन्यम् अनुमित्युपमितिशाब्द- बोधादि। तन्मात्रवृत्तिर्मानसावृत्तिश्च या जातिः अनुमितित्वोपमितित्वशा- ब्दबोधत्वादिः तच्छ्रन्यध्वं साक्षात्कारे वर्तते इति लक्षणसंगतिः (त० प्र० १ पृ० १५ ) । अत्र पदप्रयोजनादिकं च तर्कप्रकाशे सविस्तरं कथितम् । तच्च विस्तरभयान्नात्र संगृहीतम् । [घ ] प्रतिविषयाध्यासः प्रत्यक्षम् । इति सांख्या: आहुः । [ङ ] साक्षाद्धी: इति प्राभाकरा आहुः (( चि० १ ) । साक्षात्त्वं च साक्षात्करोमि इत्यनुव्यवसायगम्यो जाति- विशेष: (चि० १ ) ( न्या० म० १ पृ० २ ) । न्यायमते साक्षात्वं च जातिविशेषः एव । प्राभाकरमते तु साक्षात्त्वं न जातिः । नियत- व्यञ्जकाभावादिति ( चि० १ पृ० ५५६ ) । [च ] यत्किंचिदर्थस्य साक्षात्कारिज्ञानमिति बौद्धा आहुः (न्या० वि० १ पृ० ७ ) । [छ ] वैशिष्ट्यानवगाहिज्ञानं प्रत्यक्षम् इति नास्तिका आहुः । [ ज ] अन्त:- करणवृत्त्यवच्छिन्नचैतन्येन विषयस्फुरणम् प्रत्यक्षम् इति मायावादिनो मन्यन्ते । अत्रोच्यते । बुद्धितत्स्थ चिदाभासौ द्वावपि व्यानुतो घटम् । तत्रा- ज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ इति (पञ्चद० ७।९१) । माया- वादिमते प्रत्यक्षलक्षणं च तत्तदिन्द्रिययोग्यवर्तमान विषयावच्छिन्न चैतन्या- भिन्नत्वं तत्तदाकारवृत्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् ( वेदा० परि० प० १ पृ० १२ ) । न्यायमतसिद्धं प्रत्यक्षं द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यं भगवतः । अनित्यं जीवस्य । अनित्यं प्रत्यक्षं द्विविधम् । लौकिकम् अलौकिकं च । तत्र लौकिकं प्रत्यक्षं द्विविधम् । सविकल्प- कम् निर्विकल्पकं च । अत्रोच्यते । अपरोक्षप्रमाव्याप्तं प्रत्यक्षं द्विविधं मतम् । सविकल्पकमित्येकमपरं निर्विकल्पकम् ॥ इति ( ता० र० श्लोक० ११-१२) । प्रकारान्तरेण लौकिकं प्रत्यक्षं षड्डिधम् । घ्राणजम् रासनम् चाक्षुषम् स्पार्शनम् श्रौत्रम् मानसं चेति ( न्या० म० १ पृ० ३ ) ( भा० प० श्लो० ५३ ) ( त० सं० ) (त० भा० पृ० ६ ) पृ० ८ ) 1 अलौकिकं तु त्रिविधम् ।( त ० कौ ० णम् ज्ञानलक्षणम् योगजं च । त्रिविधमपीदं प्रत्यक्षं ( त० व० ) (मु० १ परि० ३) । २ ( प्रमाणम् ) [ क ] साक्षा- त्काररूपप्रमाकरणम् ( न्या० म० १ पृ० २) । अत्रार्थे प्रतिगतमक्षं प्रत्यक्षम् इति व्युत्पत्तिः ( गौ० वृ० १ । १ ४ ) ( न्या० वा० १ पृ० ३० ) । अथवा अक्षस्याक्षस्य प्रतिविषयं वृत्तिः । वृत्तिस्तु संनिकर्षो ज्ञानं वा । यदा संनिकर्षस्तदा ज्ञानं प्रमितिः । यदा ज्ञानं तदा हानोपादानो- पेक्षाबुद्धयः फलम् (वात्स्या० ११ १२ १३ ) । [ख] साक्षात्कारिप्रमा- करणम् ( त०] भा० पृ० ५ ) । [ग] प्रत्यक्ष प्रमायोगव्यवच्छिन्नं प्रत्यक्षप्रमाणम् । (अयोगव्यवच्छिन्न मिति पदच्छेदः ) । तच्च ईश्वरप्राण- रसनचक्षुः स्पर्शनश्रोत्रमनोलक्षणम् । [घ ] प्रत्यक्षज्ञानकरणम् ( त० सं० ) । इदं च प्रमाणतदाभाससाधारणं लक्षणमपि स्यात् इति भाति । तच्च करणं त्रिविधम् । कचित् इन्द्रियम् कचित् इन्द्रियार्थसंनिकर्षः क्वचित् ज्ञानं च । तत्राद्यम् निर्विकल्पकज्ञाने करणम् । तथाहि यदार्थसंनिकृष्टे- नेन्द्रियेण निर्विकल्पकात्मकं ज्ञानं फलमुत्पद्यते तस्य ज्ञानस्येन्द्रियं करणम् । छिदाया इव परशुः । इन्द्रियार्थसंनिकर्षो व्यापारः । छिदा- करणस्य परशोरिव दारुसंयोगः । निर्विकल्पकज्ञानं फलम् । परशोरिव छिदा । अत्र कश्चिदाह सविकल्पकादीनामपीन्द्रियं करणम् । यावन्ति त्वान्तरालिकानि संनिकर्षादीनि तानि सर्वाण्यवान्तरव्यापाराः इति ( त० मा० प्रमाणनि० पृ० ६ ) । द्वितीयम् सविकल्पकज्ञाने निर्वि- कल्पकज्ञानद्वारा करणम् । तथाहि । यदा निर्विकल्पकज्ञानानन्तरं सवि- कल्पकज्ञानमुत्पद्यते तदा इन्द्रियार्थसंनिकर्षः करणम् । निर्विकल्पक- ज्ञानमवान्तरव्यापारः । सविकल्पकं ज्ञानं फलम् इति ( त० भा० प्रमाण० पृ० ६) । तृतीयं च निर्विकल्पकज्ञानम् । तच्च सविकल्पक- ज्ञानानन्तरं यत्र हानोपादानोपेक्षाबुद्धयो भवन्ति तत्र सविकल्पकज्ञानं द्वारीकृत्य करणम् ( सि० च० १ पृ० २१ ) । तथाहि । यदा सवि- कल्पकज्ञानानन्तरं हानोपादानोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकं ज्ञानं करणम् । सविकल्पकज्ञानमवान्तरव्यापारः । हानादिबुद्धयः फलम् ( त० मा० प्रमाण० पृ० ६) इति । अत्राहुः । सर्वत्रापि द्रव्यगुणकमो- दिप्रत्यक्षे इन्द्रियमेव करणम् । विषयेन्द्रियसंयोगः इन्द्रियमनः संयोगो वा व्यापारः । द्रव्यगुणकमोदिप्रत्यक्षं फलम् इति । तत्र षडिधद्रव्यप्रत्यक्षे त्वङ्मनः संयोगो महत्त्वं च कारणम् । तत्र द्रव्यचाक्षुषप्रत्यक्षे तु महत्त्वम् अनेकद्रव्यत्वम् उद्भूतरूपम् प्रकाशश्च कारणम् ( प्रशस्त ० गु० पृ० २५ ) । अत्र च येनेन्द्रियेण यद्वस्तु गृह्यते तेनेन्द्रियेण तद्ग सामान्यं तत्समवायस्तदभावश्च गृह्यते इति नियमो ग्राह्यः ( प्र० प्र० ) । तत्रेन्द्रियात्मकं प्रत्यक्षं द्वेधा। द्रव्यग्राहकम् द्रव्याग्राहकं च । पृ० ५ ) । यत् संबद्ध सत् तदाकारोल्लेखि विज्ञानम् तत् प्रत्यक्षम् चक्षुस्त्वङ्मनांसि । द्वितीयम् घ्राणम् रसनम् श्रवणम् इति (न्या० म० १ इति सांख्या आहुः ( सांख्य० सू० ११८९) । ३ प्रत्यक्षात्मकज्ञान- विषयः । यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वावत् ( त० दी०१ पृ० ९ ) इत्यादौ । अत्र प्रत्यक्ष इत्यस्य बहिरिन्द्रियजन्य प्रत्यक्षविषयः इत्यर्थः (नील० १ वायुनि० पृ०९) । मायावादिमते अत्रव्य- प्रत्यक्षलक्षणं च स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्व- शून्यत्वे सति वर्तमानयोग्यत्वम् ( वेदा० प० परि० १ पृ० १४ ) " <प्रत्यनुमानम्> प्रतिपक्षानुमानम् । यथा पर्वतो वह्निमान् धूमात् इति वादिनोक्ते पर्वतो वह्यभाववान् पाषाणमयत्वात् इति प्रतिवादिनः प्रतीपानुमानम् । <प्रत्यभिज्ञा> ( प्रत्यक्षम् ) [क] अतीतावस्थावच्छिन्नवस्तुग्रहणम् । प्रत्य- भिज्ञाप्रत्यक्षे हि अतीतापि पूर्वावस्था स्फुरत्येव ( त० भा० प्रमाण ० शब्द० पृ० १९ ) । प्रत्यभिज्ञाशब्दस्येत्थं व्युत्पत्तिः । प्रतिगता अभि- ज्ञाम् इति प्रत्यभिज्ञा (वाच० ) । तल्लक्षणं तु इन्द्रिय सहकृतसंस्कार- जन्यज्ञानत्वम् ( ल० व० ) ( न्या० सि० दी० पृ० ५९ ) । प्रत्य- भिज्ञायामुपनीततत्तादिविषयकत्वरूपमुपनीतभानमानुभाविकम् इति बोध्यम् ( दीधि० बाघ ० ) । प्रत्यभिज्ञायामात्मा विषयः इति सिद्धान्तः । माया- वादिनस्तु अन्तःकरणविशिष्ट एवात्मा प्रत्यभिज्ञाविषयः न तु केवल- श्चिदात्मा इत्याहुः । अत्र प्राभाकराः सोहम् इति प्रत्यभिज्ञायां विषय- त्वेनाश्रयो नात्मा सिध्यति । किं तर्हि सोयं घटः इत्यादिप्रत्यभिज्ञा- श्रयत्वेन इत्यमन्यन्त (विवरणप्रमेयसंग्रहे ) ( वाच ० ) । [ख] अती- तावस्थावच्छिन्नस्य वर्तमानमेदावगाहि प्रत्यक्षम् ( प० च० ) । सा च यथा स एवायं घटः यो मया पूर्वमुपलब्धः इत्याकारिका पूर्वावस्थानुभवजनितसंस्कारसहकृतेन्द्रिय प्रभवा प्रत्यभिज्ञा (त० भा० हेत्वाभा० पृ० ५० ) । यथा वा स एवायं चैत्रः इति प्रतिसंधानेना- भिमुखीभूते वस्तुनि ज्ञानम् ( सर्व० पृ० १९३ प्रत्यभि० )। अत्र तद्देशकालवृत्तित्वरूपतत्तासंस्कारात् स एवायं घटः इति प्रत्यभिज्ञा जायते इति बोध्यम् (नील० १ पृ० १४ ) । [ग] तदनुगृहीत - स्तदनुसंधानविषयः प्रत्ययस्तद्भावविषयः प्रत्यभिज्ञानम् ( न्या० वा० ) । <प्रत्यभिज्ञाशास्त्रम्> सूत्रं वृत्तिर्विवृतिर्लध्वी बृहतीत्युभे विमर्शिन्यौ । प्रकरण- विवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ (सर्व० सं० पृ० १९१ प्रत्य० ) । <प्रत्ययः> १ बुद्धिवदस्यार्थोनुसंधेयः । सांख्यास्तु स्रक्चन्दनादिविषय- निकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणाम- विशेषः ( महत्तत्त्वधर्मः ) स प्रत्ययः इत्याहुः (वै० उ० ८।१।१ ) । १२ अधीनः । ३ शपथः । ४ विश्वासः । ५ निश्चयः । ६ हेतुः । १७ छिद्रम् । ८ आचारः । ९ ख्यातिः । १० स्वादु । ११ सहकारि- कारणम् ( वाच ० ) । १२ (सार्थकः शब्दः ) [क] यादृशार्थक- प्रकृतिनिपाताभ्यां भिन्नो यादृशार्थे शक्तिनिरूदलक्षणान्यतरात्मकप्रशस्त- वृत्तिमान् यादृशः शब्दः सतादृशार्थकप्रत्ययः । यथा एकत्वार्थकाः सुबादयः प्रत्ययाः । शक्त्या निरूढलक्षणया च गुणगुणिनोः स्थिति - प्रस्थानयोश्च बोधका अपि शुक्लस्थाप्रभृतयः प्रकृतिभ्यो न भिन्नाः तथा शक्त्या समुच्चयादिप्रतिपादका अपि चादयो न निपातेभ्यः भिन्नाः इति तत्र नातिव्याप्तिः (श० प्र० श्लो० ८ टी० पृ० १० ) । [ख] यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणि तिर्थस्यान्वयबोधने स्वरूपायोग्यः स वानिभादिशब्देभ्यो भिन्नस्तादृशार्थे प्रत्ययः । यथा पचतीत्यादौ तिङाम् पाचकोस्तीत्यादौ कृताम् काश्यपिरित्यादौ च तद्धितानाम् प्रकृत्यर्थावच्छिन्न एव स्वार्थे कृत्यादौ तिङर्धस्य वर्तमानत्वा- देर्बोधकत्वम् न तु तदनवच्छिन्ने इति न तेष्वप्रसङ्गः ( अव्याप्तिः ) । चैत्रोस्तीत्यादावर्थान्तरानवच्छिन्ने स्वार्थे नाम्नां तिर्थान्वयबोधकत्वम् । एवम् यजेत स्थीयेत इत्यादौ यजादिधातूनाम् तिर्थान्वयबोधकत्वम् इति तत्र नातिव्याप्तिः । निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्ने सदृशसमु चयादिस्वार्थे तिर्थस्यान्वयं प्रति स्वरूपायोग्योपि निभादिरेव न तु तद्भिन्नः इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ९ टी० पृ० १२) । [ग] स्व स्वप्रकृति एतदन्यतरार्थप्रत्यायको यः स प्रत्ययः इति नागोजीभट्टादयः आहुः । अयं भावः । बहुजादेर्निरर्थकतया मुख्य प्रत्ययत्वाभावादेव पूर्वस्वरूपावधित्वनिवेशेपि न दोषः । अत एवोक्तं हरिणा यः स्वेतरस्य यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः ॥ इति ( वाक्यप० ) । परत्वेन विधीयमानत्वमेव प्रत्ययत्वमिति केचि च्छाब्दिका वदन्ति । तन्न योग्यम् । बहुजादावव्याप्तिप्रसङ्गात् ३ शब्दशक्ति प्रकाशिकाकृत आहुः । [घ ] अन्ये तु शाब्दिकाः प्रकृति- रत्न० ) ( वाच० ) । अत्र महाभाष्यम् स्वीयमर्थ प्रत्याययति इति । मवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेष: इत्याहु: ( शब्दार्थ- अत्रावधिश्च पूर्वापररूपो प्रायः । तेन बहुचि बहुगुडो द्राक्षा इत्यादौ नाप्रसङ्गः । प्रत्ययश्चतुर्विधः । विभक्तिः धात्वंशः तद्धितः कृत् इति । कादेष्टाबादेश्च तद्धितत्वानुपगमे पञ्चविधो वा प्रत्ययः इति ( श० प्र० १० ५९ टी० पृ० ७२ ) । <प्रत्यर्थी> [क] अर्थ्यत इत्यर्थः साध्यः । सोस्यास्तीत्यर्थी । तत्प्रतिपक्षः प्रत्यर्थी ( मिताक्षरा अ० २ श्लो० ६) । [ख ] साव्यार्थस्य प्रतिपक्ष- वादी तदभाववादी च ( मिताक्षरा अ० २ श्लो० ८० ) । <प्रत्यवस्कन्दनम्> अर्थिना लिखितो योर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥ ( मिताक्षरा अ० २ श्लो० ७)। <प्रत्यवस्थानम्> १ उपालम्भः प्रतिषेधः (वात्स्या० ११२।१८) । २ दूष- णाभिधानम् (गौ० वृ० ११२।१८ ) । यथा साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः (गौ० १ १२ ११८) इत्यादौ । ३ प्रतिपक्षतया अवस्थानम् इत्यपि केचिदाहुः । <प्रत्यवाय:> १ अधर्मवदस्यार्थोनुसंधेयः । यथा अनुत्पत्ति तथा चान्ये प्रत्यवायस्य मन्वते ( जाबालि: ) इत्यादौ । २ विपरीताचरणम् । ( मनु० टी० कुल्लूक० ४।२४५ ) । <प्रत्याम्नायः> १ [क] निगमनवदस्यार्थोनुसंधेयः (प्रशस्त० पृ० २८) । [ख] प्रतिज्ञायाः पुनर्वचनम् । अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन पुनर्निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनम् । यथा तस्माद्रव्यमेव इति पुनर्निश्च प्रव्याम्नाय: ( प्रशस्त ० २ पृ० २९-३१) । अत्रार्थस्यैव परिसमाप्तिः । कथम् । अनित्यः शब्दः इत्यनेनानिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते । प्रयत्नानन्तरीयकत्वात् इत्यनेन साध्यसमधर्ममात्रमभिधीयते । इह यत् प्रयत्नानन्तरीयकम् तत् अनित्यं दृष्टम् यथा घटः इत्यनेन साध्यसामान्येन साधनसामान्यस्यानुगममात्रमुच्यते । नित्यमप्रयत्नात रीयकं दृष्टम् यथा आकाशम् इत्यनेन साध्याभावेन साधनस्यासत्त्वं प्रदश्यते । तथा च प्रयत्नानन्तरीयकः शब्दः न च तथा आकाश- वदप्रयत्नानन्तरीयकः शब्दः इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य शब्देनु - ६९ न्या० को० संधानं गम्यते । तस्मादनित्यः शब्दः इत्यनेन अनित्य एव शब्दः इति प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते। तस्मात् पञ्चावयवेन वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं क्रियते इति चैतत्परामर्शनमनुमानं सिद्धम् ( प्रशस्त ० २ पृ० ३१ ) इति । अधिकं च निगमनशब्दार्थे दृश्यम् । २ धर्मशास्त्रज्ञास्तु प्रतिनिधित्वेन विधीयमानः पदार्थः प्रत्या- म्नायः । यथा दानार्थे साक्षागोरलामे गोप्रत्याम्नायः सुवर्णम् इत्याहुः । <प्रत्यासत्तिः> १ संबन्धः । यथा मानसस्थले तु ज्ञानप्रकारीभूतं सामान्यं प्रत्यासत्तिः सामान्यं येन संबन्धेन ज्ञायते तेन संबन्धेनाधिकरणानां प्रत्यासत्ति: सामान्यविषयकं ज्ञानं प्रत्यासत्तिः (मु० १ पृ० १२९ - १३०) इत्यादौ प्रत्यासत्तिः संबन्धः । यथा वा व्याकरणशास्त्रे हस्तादाने चेर- स्तेये ( पा० सू० ३।३।४० ) इति सूत्रव्याख्याने हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते ( सि० कौ० पृ० ३४२) इत्यत्र प्रत्यासत्तिः संबन्धः । २ नैकट्यम् इति व्यवहारशास्त्रज्ञा आहुः । <प्रत्यासन्नत्वम्> १ संबद्धत्वम् । यथा समवायिकारणे प्रत्यासन्नं कारणम् असमवायिकारणम् ( त० कौ० ) इत्यादौ । २ तद्विषयकप्रतीत्य- व्यवहितप्राक्कालिक प्रतिपत्तिविषयत्वम् । ३ समीपवृत्तित्वम् इति काव्यज्ञा वदन्ति । ४ धर्मशास्त्रे प्रत्यासन्नत्वं तु तदभावे यः प्रत्यासन्नः सपिण्ड: इत्यादौ कुलगोत्रादिकृतः संनिकर्षः इति स्वीकृतम् । <प्रत्याहारः> १ [क] बहिरिन्द्रियाणां स्वस्वविषयवै मुख्येनावस्थानम् (योगाङ्गविशेषः ) (गौ० वृ० ४/२/४४ ) । [ख ] चक्षुरादीना- मिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीयमोहनीयप्रवणत्व प्रहाणेनाविकृत- स्वरूपप्रवणचित्तानुकारः प्रत्याहारः ( सर्व० सं० पृ० ३८१ पात० ) । २ प्राणायामद्विषट्रेन प्रत्याहार उदाहृतः इत्यपि वदन्ति ( काशीख० ४१) ।३ वैयाकरणास्तु आदिरन्त्येन सहेता (पा० सू० १।१।७१ ) इत्यनेन कृता संज्ञा । यथा अण् इति अइउवर्णानां संज्ञा इत्याहुः । ४ उपादानम् इति काव्यज्ञा आहुः । <प्रत्युत> (अव्ययम् ) [ क ] वैपरीत्यमात्रम् । [ख] स्वस्वपक्षस्थापनाय परपक्षनिराकरणाय वोक्तस्य तद्वैपरीत्यभावः । यथा न दोषः पुनरुक्तोपि प्रत्युतेयमलंक्रिया ( काव्याद० ) इत्यादौ ( वाच० ) । <प्रथमा> १ (सुप् विभक्तिः ) [ क ] या विभक्तिस्तादात्म्यमिन्नस्वार्थध- र्मिकप्रकृत्यर्थबोधं प्रतिस्वरूपयोग्या सा प्रथमा ( श० प्र० श्लो० ६३ टी० पृ० ७४ ) । यथा नीलो घट इत्यादौ घटपदोत्तरप्रथमा । विशेष्यवाचकपदोत्तरप्रथमा च स्वार्थैकत्वादिप्रकारकमेव प्रकृत्यर्थबोधं प्रति समर्था इति तत्र नाव्याप्तिः । द्वितीयादयः स्वार्थे कर्मत्वादौ प्रकृत्यर्थस्यान्वयबोधं प्रति समर्थाः इति न तत्रातिप्रसङ्गः । प्रथमा तु विशेषणपदोत्तरस्था तादृशि तादात्म्ये तथान्वयं बोधयन्त्यपि न तादात्म्य- भिन्ने तथा इति नाव्याप्तिः ( श० प्र० श्लो० ६३ टी० पृ० ७४ ) । [ख] धात्वर्थावच्छिन्नतिर्थस्यान्वयबोधं प्रति यदन्तनामोपस्थाप्यत्वं तन्त्रम् तादृशी सुप् प्रथमा । स्वर्गकामो यजेतेत्यादौ तिङर्थस्येष्टसाधनत्वादेर्न प्रकृत्यर्थावच्छिन्नस्य यागादावन्वयः । किं तु केवलस्य । अतः तस्य प्र- थमान्तनामानुपस्थाप्यत्वेपि न क्षतिः । चैत्रमैत्रौ स्त इत्यादौ च द्वन्द्वेनैव प्रथमान्तनाम्ना चैत्रस्योपस्थापनान्न व्यभिचार: ( श० प्र० श्लो० ६४ टी० पृ० ७४) । प्रथमा त्रिविधा सु औ जस् इति । स्वादित्रिकान्यतमत्वं प्रथमात्वम् । एवम् अमादित्रिकान्यतमत्वादिना द्वितीयास्वादिकं निर्वाच्यम् इत्यप्याहुः ( श० प्र० श्लो० ६५ टी० पृ० ७६) । अत्र प्रथमाया द्विवचनम् औ द्वितीयायाः पुनरौद् इति भेदो वैयाकरणैः कल्पितः । प्रयोगे त्वर्थानुसारेण ज्ञेयः । २ आद्या । ३ प्रधानम् । <प्रथमाब्दिकम्> प्रथमाब्दे पूर्णे द्वितीयाब्दाद्यतिथौ क्रियमाणं श्राद्धम् ( पु० चि० पृ० २४ ) । <प्रथा> कपालेष्ववस्थितस्य पुरोडाशस्य हस्तसंघट्टनेन सर्वेषु कपालेषु प्रस- रणम् (जै० न्या० अ० १० पा० १ अधि० ११ ) । <प्रदेशानुबन्धः> कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशानामात्मप्र- देशानुप्रवेशः प्रदेशबन्धः ( सर्व० सं० पृ० ७८ आई०) <प्रदोष:> १ अस्तमानं समारभ्य सार्धाः सप्त च नाडिका: । प्रदोष इति विख्यातवर्धयाममतः शृणु ॥ ( पु० चि० पृ० २२७ ) । यामद्वयादर्वाग्यदि पश्येत्रयोदशीम् । प्रदोषः स तु विज्ञेयः ध्यायवर्जितः ॥ (पु० चि० ० ४४२ ) । ३ त्रिमुहूर्त प्रदोषः स्याद्भानावस्तंगते सति । नक्तं तु तत्र कुर्वीत इति शास्त्रस्य निश्चयः ॥ ( पु० चि० पृ० ४६ ) । <प्रधानकर्मत्वम्> (कर्मत्वम्) साक्षाद्धास्वर्थतावच्छेदकफलशालित्वम् । यथा गां दोग्धि पय इत्यादौ पयसः प्रधानकर्मत्वम् । अत्र साक्षा- द्धात्वर्थतावच्छेदकस्त्रं च धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वम् । गां दोग्ध पय इत्यत्र विभागावच्छिन्नक्षरणानुकूलव्यापारस्य दुहधात्वर्थत्वेन साक्षाद्धात्वर्थतावच्छेदकी भूतक्षरण रूपफलाश्रयत्वात्पयसः प्रधानकर्मत्वम् (ग० व्यु० का० २ पृ० ४४ ) । अत्र शब्दशक्तिप्रकाशिका- कारास्तु मोचनानुकूलव्यापारो दुहधात्वर्थः । मोचनं च बहिःक्षरणानु- कूलक्रिया । तत्र क्षरणं पयोनिष्ठम् । तदनुकूलक्रिया तु गोनिष्ठा । तथा च साक्षाद्धात्वर्थतावच्छेद की भूततादृशमोचनक्रियाश्रयत्वेन गोः प्रधानकर्मध्वम् । तादृशक्रियायां विशेषणीभूतस्य परंपरा धावत- च्छेदकस्य क्षरणस्याश्रयः पयः इति पयसः अप्रधानकर्मत्वम् इत्यङ्गीचक्रुः (श० प्र० श्लो० ७३, ७७ टी० पृ० ९८, १०५) । वैयाकरणास्तु कर्तृप्रत्ययसमभिव्याहारे प्रधानभूतव्यापार विशेषणफलाश्रयत्वम् । यथा देवदत्तो ग्राममजां नयतीत्यत्र गां दोग्धि पय इत्यत्र च अजाया गोश्च कर्मत्वम् । अत्रायं विशेषः । ण्यन्तविषय ईदृशप्राधान्यस्यैव ग्राह्यत्वम् / तच्चोक्तोदाहरणयोः स्पष्टम् । तण्डुलानोदनं पचति काष्ठं भस्म करोतीत्यादौ निर्वर्त्य मानौद नभस्मनोरेव । तन्निष्ठफल विशेषणकव्यापारस्यैव तत्सूत्रस्थ भाष्येण शाब्दप्राधान्यप्रतीतेः । तण्डुलरूपे कर्मणि लादय इति तु "नव्यानां प्रमाद एव । दुहादिषु भाष्ये गणनाभावाच्च । अत्र विक्केदनम् निर्वर्तनं च पचेरर्थः । तण्डुलान् विक्केदयन् ओदनं निर्वर्तयति इत्यर्थः । कर्तुरीप्सिततमं कर्म (पा० सू० १ । १४।४९) इति सूत्रेणैव द्वयोः कर्मत्वम् ( ल० म० सुबर्थ० कार० २ १० ८९)। नीहृकृष्व धातूनामुत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापारार्थकानां द्विकर्मकत्वम् । संयोगस्य फलतावच्छेदकः संबन्धो ग्रामनिष्ठः । तदनुकूलव्यापारश्चा- जानिष्ठः । प्रधानव्यापारजन्यफलाश्रयत्वादजा प्रधानम् । तत्र लादयो भवन्ति । प्रधानकर्मण्याख्येये लादीना हुर्द्विकर्मणाम् इति भाष्योक्तेः । गां दोग्धि पय इत्यत्र दुहेरन्तः स्थितद्रवद्रव्य निष्ठविभागानुकूलव्यापारानु- कूलव्यापारार्थकत्वे गोपयसोरुभयोरपि कर्तुरीप्सिततमं कर्म इति सूत्रेण कर्मत्वम् । तत्र गोः कर्तृव्यापारजन्यफलाश्रयत्वात् प्रधानकर्मत्वम् । पयसः कर्तृव्यापारप्रयोज्यविभागफलाश्रयत्वात् गौणकर्मत्वम् । अत्र गोर्विभागा- श्रयत्वेन तु न कर्मत्वम् । पयोनिष्ठविभागीयसंबन्धस्यैव फलतावच्छेदक- त्वात् । तत्त्वेनानुद्देश्यत्वाच्च । उक्तप्राधान्यं च गोः इति तत्र लादयः । एवम् अन्येषामपि याचिदण्ड्यादीनां द्विकर्मकत्वं बोध्यम् । तत्र निदर्शनम् । देव- दत्तेन ग्राममजा नीयते गौर्दुह्यते पय इत्यादौ च अजाया गोश्व प्रधा- नकर्मत्वेन लादिनाभिहितत्वात्तद्वाचकपदोत्तरं प्रथमैव भवति न तु द्वितीया इति ( ल० म० पृ० ९० ) । अत्रायं विशेषः । कर्तुरीप्सित- तमं कर्म इत्यनेन गोः प्रधानकर्मत्वम् । तत्र लादयः । अकथितं च (पा० सू० १/४/५१ ) इति सूत्रेण तु गोरपादानत्वाद्यविवक्षायां पूर्वोक्तप्राधान्यानाश्रयत्वादप्रधानकर्मत्वं विधीयते । गौणकर्मणि गवादौ लादयो भवन्ति । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः इति प्रामाण्यात् । अत्र पक्षे द्रवद्रव्यविभागानुकूलव्यापारमात्रं दुहेरर्थः इति ( ल० म० सुब० कार० २ पृ० ९१ ) ( ग० व्यु० कार० २ पृ० ४४ ) । अत्रायं भावः । तादृशविभागानुकूलव्यापारस्य कर्तृनिष्ठ- स्वेन विभागस्य तु पयोनिष्ठत्वेन च गोः कर्मत्वाप्राप्तौ अकथितं च इत्यनेन क्रियाजन्यफलशालित्वादन्यदेव गौणं कर्मत्वं विधीयते इति । <प्रधानजय:> ( मधुप्रतीकसिद्धिः ) प्रकृतिविकारेषु सर्वेषु वशित्वम् ( सर्व० सं० पृ० ३८५ पातञ्ज ० ) । <प्रधानम्> १ मुख्यम् । २ श्रेष्ठम् । ३ प्रशस्तम् । ४ सचिवः । ५ सेना- पत्यध्यक्षः । ६ मूलप्रकृतिः इति सांख्या आहुः । <प्रध्वंस:> १ उत्पत्तिमानविनाशी प्रध्वंस: ( सर्व० सं० पृ० २३२ अक्षपा० ) । २ अतीतावस्था इति सांख्या आहुः । <प्रपञ्चः> १ विस्तारः । २ वैपरीत्यम् । ३ प्रतारणम् । ४ संसारः ( वाच ० ) । अत्र वल्लभीया वेदान्तिनो मन्यन्ते । प्रपञ्चो भगवत्कार्यः । संसारस्तु मायाकार्यः । तथा च प्रपञ्चस्य स्थावरजङ्गमात्मकस्य भगव- कार्यत्वेन सत्यत्वम् । संसारस्य त्वहंताममतात्मकस्य मायाकार्यत्वा- न्मिथ्यात्वमेव । एवं च प्रपञ्चसंसारयोर्भेद एव इति । <प्रबन्धः> १ संदर्भः । २ ग्रन्थादेः रचनम् । <प्रभवः> १ प्रथमप्रकाशः । यथा हिमवतो गङ्गा प्रभवतीत्यादौ प्रभव- त्यर्थः । अत्र भुवः प्रभवः ( पा० सू० १/४/३१) इत्यनेनापादान- संज्ञा । तदर्थश्च यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः इति ( ग० व्यु० का० ५ पृ० १०८) । अत्र प्रभवत्यस्मिन् इति प्रभवः इति व्युत्पत्त्या प्रथमप्रकाशस्थानम् इत्यर्थो लभ्यते ( वाच० ) । अन्यतः सिद्धस्य प्रथमोपलम्भस्थानम् इति हेमचन्द्र आह । अत्र प्रकाशः आद्यबहि: - (भूखण्ड-) संयोगः धात्वर्थः । संयोगनाशाव्यवहितोत्तर- क्षणवृत्तित्वं पञ्चम्यर्थः । आख्यातार्थ आश्रयत्वम् । तथा च हिमालय- संयोगध्वंसाव्यवहितोत्तरक्षणवृत्त्याद्य पृथिवीसंयोगाश्रयत्ववती गङ्गा इति बोध: । यद्वा पञ्चम्यर्थः संबन्धाधीनत्वम् । तस्य तादृशक्रियायां प्रभव- त्यर्थे प्रथमप्रकाशे अन्वयः । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः ( ग० व्यु० कार० ५ पृ० १०८) ।एवम् वल्मीकाप्रात्प्रभवति ऊर्ध्वदेशसंयोगः प्रभवत्यर्थः । अन्यत्समानम् ( का० व्या० पृ० १०) । नु:खण्डमाखण्डलस्य (मेघदू० पू० १५) इत्यादावप्यूझम् । अत्र २ संवत्सरविशेषः इति मौहूर्तिका वदन्ति । <प्रभृतिः> आदिः । यथा तदाप्रभृत्येव वनद्विपानाम् ( रघु० स० २ श्लो० ३८) इत्यादौ । यथा वा मनुप्रभृतिभिर्मान्यैर्मुक्ता यद्यपि राजभिः ( रघु० स० ४ श्लो० ७) इत्यादौ । <प्रभेदः> १सामान्यधर्मव्याप्यावान्तरधर्मविशिष्टः । यथा घटो द्रव्यप्रभेदः इत्यादौ । २ स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मः । यथा अनित्या पृथिवी त्रिविधा शरीरेन्द्रियविषयभेदात् इत्यादौ ( वाक्य० १ पृ० ३ ) । ३ अन्योन्याभावः । अत्र भेदप्रभेदशब्दयोरेकार्थकत्वम् इत्यभिप्रायेणे- दमुक्तम् इति विज्ञेयम् । <प्रमा> ( अनुभवः ) [ क ] यदर्थविज्ञानं सा प्रमा ( वात्स्या० १११११ प्रस्तावना० ) । सा च द्रव्यादिविषयं ज्ञानम् ( यथार्थम्) ( प्रशस्त ० पृ० २६ ) । लक्षणं च वक्ष्यमाणं प्रमात्वमेव इति विज्ञेयम् । प्रमात्वस्य स्वतोग्राह्यत्वादिविचारः प्रमात्वशब्दे दृश्यः । [ख ] तत्त्वानुभवः । [ग] यत्र यदस्ति तत्र तस्यानुभवः । तद्वति तत्प्रकारकानुभवो वा (चि० १ पृ० ४०० ) (त० सं० ) । फलितार्थस्तु तद्वद्विशेष्यक- त्वावच्छिन्नतत्प्रकारकताशाल्यनुभवः इति । विशेष्यितासंबन्धेन तदव- च्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवः इति वा । तेन रजतरङ्गयोः इमे रङ्गरजते इत्यादिविपरीतसमूहालम्बनभ्रमे नातिव्याप्तिः ( मू० म० १ प्रामा० पृ० ४०३)। निर्विकल्पकज्ञानं तु प्रमा अप्रमा एतद्वहिर्भूतमेव । व्यवहारानङ्गत्वात् (चि० १ प्रामा० पृ० ४०२ ) । एवं च निर्वि- कल्पकं प्रमालक्षणालक्ष्यमेवेति तस्य प्रकारिता विशेष्यितादिशून्यत्वेपि न तत्राव्याप्तिशङ्का इति भावः । [घ ] यथार्थानुभव: ( ता० २० ) ( त० मा० ) ( न्या० म० १ पृ० १ ) ( त० सं० ) ( त० पृ० ७ ) । यथा रजते इदं रजतम् इति प्रत्यक्षं प्रमा ( त० सं० ) । अत्र याथार्थ्यं च तद्वति तदवगाहित्वम् (न्या० म० १ ) ( त० सं० ) । तद्वद्विशेष्यकत्वे सतीत्यर्थः। भवति हि रजते इदं रजतम् इति ज्ञानं रज- तत्ववति जतत्वावगाहि इति लक्षणसमन्वयः ( न्या० म० ) ( त० प्र० १ पृ० १० ) । अत्राहुरुदयनाचार्याः यथार्थानुभवो मानमन- पेक्षतयेष्यते ( कु० ४।१) इति । अत्र मानशब्दस्यार्थः प्रमा इति ज्ञेयम् । अत्र प्रयोगश्चेत्थम् । यथार्थानुभवः प्रमापदवाच्यः अनपेक्ष- वात् इति । अनपेक्षत्वं च स्वसमानाधिकरणं स्वसमानविषयकं च यज्ज्ञानं तत्प्रमात्यानधीनप्रमात्वकत्वम् ( म० प्र० १ पृ० ४ ) । स्मृतौ तु तादृशपूर्वानुभवप्रमात्वाधीनप्रमात्वकत्वेन स्मृतिव्यावृत्तिः। अत्रोभयत्र स्वपदं फलीभूतज्ञानपरमेव । अत्रेयमभिसंधिः । प्रमात्वस्य स्मृतिसाधार- णत्वे स्मृतिकारणानुभवस्यापि प्रमाणान्तरत्वापत्त्या शास्त्रे प्रमाणव्यवहा- रौपयिकं रूपमनुभवत्वघटितमेवानुमन्यन्ते तान्त्रिकाः ( दि० गु० पृ० २११ ) । अथ वा यज्जातीय विशिष्टज्ञानत्वावच्छेदेन समानाकार- निश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवागृहीतग्राहिलेन प्रमात्वम् । अत एव धारावाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्तित्वेपि न मिति । अयं चात्र विशेषः । अज्ञायमानकरणजन्यतत्त्वानुभवः तासां प्रमात्वहानिः । हानिस्तु समानाकारानुभवसमुत्थानां स्मृतीना- प्रत्यक्षप्रमा । ज्ञायमानकरणजन्यतत्त्वानुभवोनुमितिमा इति । [ङ विषयताश्रयावृत्त्यप्रकारकानुभवः । [च ] यत्प्रकारिका या विषयता तत्प्रकारसमानाधिकरणविषयताकः स्वप्रकारसमानाधिकरणविषयताको वा अनुभवः । अत्र प्रकारपदं धर्मपरम् । तद्धर्मसमानाधिकरणतद्विषय- ताक इत्यर्थः । एतल्लक्षणद्वये इदं रजतं रङ्गं च इत्यादौ प्रकारभेदेन विषयताभेदाभावेपि न क्षतिः इति ध्येयम् । अतिरिक्तविषयतापक्षे ( विशेष्यतावच्छेदकतातिरिक्ता प्रकारता विषयतापि च सविषयका इति पक्षे ) इदं लक्षणद्वयं ( ङ च इत्यत्र स्थितम् ) स्वीकृतम् इति ज्ञेयम् ( मू० म० १ प्रामा० पृ० ४१६ - ४१९ ) । [छ ] विशेष्यनिष्ठा- त्यन्ताभावाप्रतियोगिप्रकारक विषयताप्रतियोगी [ज ] विशेष्यनिष्ठा- त्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविषयता प्रतियोगी वा षयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारकविषयत्वाप्रतियोगी वा [ञ ] विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविष- यताप्रतियोगी वा अनुभवः ( चि० १ प्रामा० पृ० ४००-४२०)। एकधर्मावच्छिन्नतत्तदभावोभयवन्निष्ठविशेष्यताकं द्रव्यं रजतम् इत्यादि- ज्ञानं न लक्ष्यम् इति मते छ ज इत्यादीनि लक्षणानि ( मू० म० १ प्रामा० पृ० ४२० ) । वृत्तीद्धो बोधः प्रमा इति मायावादिनो वदन्ति । अनधिगतार्थस्य वस्तुनोवधारणम् इति सांख्या आहुः । पुरुषनिष्ठबोधः प्रमा इति पातञ्जला आहुः (पात० व्या० भा० ) (सां० भा० १९८७ ) । न्यायनये प्रमा द्विविधा । नित्या अनित्या च । तत्र नित्या भगवतः । अनित्या जीवस्य ( ता० र० श्लो० ४ ) । <प्रमाणबाधितार्थकप्रसङ्गः> तर्कविशेषः । शिष्टं तु तदन्यबाधितार्थप्रसङ्ग- शब्दव्याख्याने संपादितम् तत् तत्र द्रष्टव्यम् । अत्र व्युत्पत्तिः प्रमाणेन बाधितो यस्य इति ( कपू ) । <प्रमाणम्> १ [क] प्रमाता येनार्थं प्रमिणोति तत् (वात्स्या० ११ १/१ प्रस्तावना ) । अत्र प्रमीयतेनेन इति व्युत्पत्तिद्रष्टव्या । प्रमाणस्य स्वभावस्तु सतः प्रकाशकं प्रमाणमसदपि प्रकाशयति ( वात्स्या० ९१९ । ११।१ प्रस्तावना ) इति । तल्लक्षणं तु प्रमाणत्वमेव । तच्च तद्वति तत्प्रकारक- त्वरूपप्रकर्षविशिष्टज्ञानकारणत्वम् ( गौ० वृ० १ । १ । ३ ) । यद्वा अनु- भवत्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्यतानिरूपितकारणताशालित्वे सति व्यापारवत्त्वम् ( त० प्र० ख० १ पृ० १४ ) । अथवा अनधिगतार्थ- कानुभवकारणत्वम् । तच्च गृहीतग्राहीतरानुभवकारणत्वम् इति मीमांसका आहुः ( कु० टी० ३ ) ( त० प्र० ख० ४ पृ० ९) । स्वसमाना- धिकरणस्वाव्यवहितपूर्ववर्तिस्वसमानाकारनिश्चयविषयविषयकेतरतद्वद्विशे- ष्यकतत्प्रकारकानुभवकारणत्वम् इति यावत् ( कु० टी० ३ ) । सांख्यास्तु असंदिग्धाविपरीतान धिगत विषयबोधसाधनत्वम् इत्याहुः । अत्र द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा तत्साधकं यत् तत् त्रिविधं प्रमाणम् (सांख्यसूत्रम् ११८७) इति । तदर्थश्च असंनि- कृष्टः प्रमातर्यनारूढः अनधिगत इति यावत् ( सां० भाष्य ० ) । [ख] प्रमायाः करणम् ( न्या० म० पृ० १ ) (त० सं० ) (त० भा० पृ० ४ ) ( त० कौ० पृ० ८) । यथा चक्षुरादि प्रत्यक्षात्मक- प्रमायाः प्रमाणम् । अनुमितौ च लिङ्गदर्शनं प्रमाणम् । उपमितौ च सादृश्यज्ञानं प्रमाणम् । शाब्दे च वेदाः प्रमाणमित्यादौ शब्दः प्रमाणम् । अत्रेदं बोध्यम् । इन्द्रियसंयोगांदिरेव प्रमाकरणम् । न तु प्रमातृप्रमेया- दीनि । सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः । इन्द्रियसंयोगादौ तु सत्य- ७० न्या० को० । ( विलम्बेन प्रमोत्पत्तिः । अतः इन्द्रियसंयोगादिरेव करणम् न प्रमात्रादि ( त०] भा० पृ० ५ ) । [ग] साधनाश्रयाव्यतिरिक्तत्वे सति प्रमा- व्याप्तम् । अनेन च प्रतितन्त्र सिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतम् ( सर्व० पृ० २३५ अक्ष० ) ( कु० टी० ४।५ ) । अत्र सूत्रम् मन्त्रायु- र्वेदप्रामाण्यवच तत्प्रामाण्यमाप्तप्रामाण्यात् ( गौ० २११९६८ ) इति । [ घ] प्रमायोगव्यवच्छिन्नम् । प्रमया सहायोगव्यवच्छेदेन संबन्धि । [ङ ] अनधिगतार्थगन्तृ प्रमाणम् इति भट्टमीमांसका आहुः ( सि० च० १ पृ० २० ) ( कु० टी० ४ ! ५ ) ( तत्त्वसंख्या ० ) । तदसत् । एकस्मिन्नेव घटे घटोयम् घटोयम् घटोयम् इति धारावाहिकप्रत्ययस्थले अधिगतार्थगन्तॄणामप्रामाण्यापत्तेः ( सि० च० १ पृ० २० ) (त० भा० १ पृ० ५ ) । अत्र विवदन्ते । अविसंवादि विज्ञानं प्रमाणमिति सौगताः । अनुभूतिः प्रमाणं सा स्मृतेरन्येति केचन ॥ अज्ञातचरतत्त्वार्थ- निश्चायकमथापरे । प्रमेयव्याप्तमपरे प्रमाणमिति मन्यते ॥ प्रमानियत- सामग्री प्रमाणं केचिदूचिरे ( ता० र० श्लो० ५-७) इति । न्यायनये प्रमाणानि चत्वारि । प्रत्यक्षम् अनुमानम् उपमानम् शब्दश्च (गो० ११११३) इति । यत्प्रमाणं तत्प्रत्यक्षादिचतुष्टयान्यतमम् इति वाक्यार्थः । तेन न्यूनाधिकसंख्याव्यवच्छेदलाभः ( म० प्र० १ पृ० ७ ) । अत्रेदं बोध्यम् । नित्यप्रमाया आश्रयः ( समवायी) प्रमाणं ईश्वरः । अनित्य- प्रमायास्तु करणं प्रत्यक्षादिचतुष्टयम् ( ता० २० श्लो० ४) इति । च प्रमीयते परिच्छिद्यते अनेनेति प्रमाणम् । तच्च द्विविधम् मानुषं दैविकं च ( मिताक्षरा अ० २ श्लो० २२ ) । प्रकारान्तरेण प्रमाणं द्विविधम् । शब्दोपजीवि शब्दानुपजीवि च ( कु० टी० ) । इदानीं मतभेदेन प्रमाणसंख्या कथ्यते । प्रत्यक्षमेकमेव प्रमाणम् इति चार्वाका आहुः । प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति कणादप्रधाना वैशेषिकाः मन्यन्ते । एतन्मते शब्दोपमानयोरनुमान विधयैव प्रामाण्यम् न तु स्वात- ध्येणेति बोध्यम् ( त० कौ० पृ० ८) । अत्र भाष्यम् । शब्दादी- नामप्यनुमानेन्तर्भावः । समान विधित्वात् । यथा प्रसिद्धसमयस्यासंदिग्ध लिङ्गदर्शन प्रसिद्धानुस्मरणाभ्यामतीन्द्रियार्थे भवत्यनुमानम् । एवं शब्दादि- । भ्योपि इति । श्रुतिस्मृतिलक्षणोप्याम्नायो वक्तृप्रामाण्यापेक्षः । तद्वचना- दाम्नायस्य प्रामाण्यम् (वै० ११११३) लिङ्गाचानित्यः शब्दः (वै० २।२।३२) बुद्धिपूर्वा वाक्यकृतिवेंदे (वै० ६ । १ । १) बुद्धिपूर्वो ददातिः ६।१।३ ) इत्युक्तत्वात् । प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्श- नात्तदप्यनुमानमेव । प्रसिद्धगवयस्य गवयप्रतिपादनार्थमुपमानमाप्तव- चनमेव दर्शनार्थापत्तिर्विरोधे वा शब्दश्रवणादनुमितमनुमानम् । संभवोप्य- विनाभावित्वादनुमानमेव । अभावोप्यनुमानमेव । यथा उत्पन्नं कार्य कारणसंभवलिङ्गम् एवम् अनुत्पन्नं कार्य कारणासद्भावे लिङ्गम् । ऐतिह्य- मप्यवितथमाप्तोपदेश एव ( प्रशस्त० पृ० २ पृ० २८ ) इति । शब्दस्य स्वातन्त्र्येण प्रामाण्यमनिच्छन्तोनुमानान्तर्भावमाश्रित्य प्रामाण्यमिच्छन्ति वैशेषिकादयः । तेषामयमाशयः । गामानय इत्यादिवाक्यश्रवणसमनन्तरं तावदन्वयप्रतीतिरनुभूयते । वाक्य आकाङ्क्षादिमत्त्वप्रतिसंधानं तदर्थ- । प्रतिपत्त्यनुकूलतयावधृतम् । तथा च आकाङ्क्षादिमस्पदकदम्बकत्वप्रति - संधानस्यावश्यकतया तस्य च स्मारितार्थ संसर्गविज्ञप्तिपूर्वकत्वनियमेनानु- मानादेव तत्फलसिद्धौ किमिति शब्दस्य प्रमाणान्तरत्वाभ्युपगमः । तथाहि । एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादि- मदाप्तोक्तपदत्वात् गामभ्याजेतिपदकदम्बकवत् इति ज्ञानावच्छेदकतया संसर्गसिद्धिरनुमानादेव भवति इति पदपक्षकानुमानेन शब्दो न प्रमाणा- न्तरम् । अर्थपक्षकानुमाने साक्षादेव संसर्गसिद्धिः । एवं हि तत् । एते प- दार्था मिथः संसर्गवन्तः आकाङ्क्षादिमत्पदकदम्बकस्मारितत्वात् गामभ्याज मत्त । एवमुपमानमपि न प्रमाणान्तरम् । तथाहि । गवयपदं प्रवृत्तिनिमित्तकम् साधुपदत्वात् इत्यनुमानेनै वात्रापि निर्वाहः ( त० व० पृ० ९८) ( न्या० सि० दी २२) । प्रत्यक्षमनुमानं चेति प्रमाणद्वयमेवेति बौद्धा मन्यन्ते । लौकिकम् आर्षे चेति द्विविधं प्रमाणमिति सांख्या मन्यन्ते । तत्र लौकिकम् प्रत्यक्षानुमानाप्तवचनानि । आर्षम् विज्ञानम् । प्रत्यक्षं शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्याः प्रादुः । एतन्मते त्वनुमानं श्रुत्यनुसारित्वेन प्रमाणम् न तु स्वातन्त्र्येणेति बोध्यम् । मानुषदैवभेदेन द्विविधं प्रमाणम् ( याज्ञ० २ । ११६ ) इति व्यवहार- शास्त्रज्ञा आहुः । प्रत्यक्षमनुमानं शाब्दं चेति मन्वादयः आहुः । अत्र अलौकिके विषये वेदो ब्रह्मसूत्रं भगवद्गीता श्रीमद्भागवतमिति प्रमाणचतुष्टयमिति वाल्लभा मन्यन्ते । प्रत्यक्षमनुमानमाप्तवचनमिति त्रीणि प्रमाणानि इति सांख्या योगिनो मायावादिवेदान्तिनश्चाहुः । तत्र सांख्य- पातञ्जलमायावादिमते अन्तःकरणवृत्तीनां पौरुषेयचित्तवृत्तिप्रकाशरूप- बोधे कारणत्वम् । अन्तःकरणवृत्तिषु च ज्ञानत्वारोपेण तत्करणस्वमिन्द्रि- याणाम् इति विवेकः ( सां प्र० भा० ) ( पात० सू० ) । प्रत्यक्षा- नुमानोपमानानि त्रीणि इति नैयायिकैकदेशिन आहुः । प्रत्यक्षानुमानो पमानशब्दाश्चत्वारि प्रमाणानि इति गौतमप्रधाना नैयायिका आहुः । शब्दात्त्येमि इति विलक्षणप्रतीतेर्व्याप्तिनिरपेक्षादाकाङ्क्षादिज्ञानादुत्पत्तेः तत्करणतया शब्दस्यातिरिक्तं प्रामाण्यं सिद्ध्यति इति नैयायिकसिद्धान्तः । तत्र शब्दस्य स्वतन्त्रप्रामाण्यमुक्तम् आप्तोपदेशसामर्थ्याच्छन्दादर्थसंप्रत्ययः ( गौ० २।१।५२ ) इति । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्ति पञ्च प्रमाणानि इति प्राभाकरा आहुः । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्तिरनुपलब्धिश्चेति षट् प्रमाणानि इत्यपरे भट्टा वेदान्तिभेदाश्चाहुः । ..संभवैतिह्ये अप्यतिरिक्त प्रमाणे इति पौराणिका आहुः । चेष्टाप्यतिरिक्तं प्रमाणम् इति तान्त्रिका अमन्यन्त ( ता० २० श्लो० ८-११) [० च० १ पृ० २० ) । अनुभूतिरपि प्रमाणम् इति आहुः । केचित्तु शकुनलिप्यादिकमपि प्रमाणान्तरमिच्छन्ति । उपक्रमो नुमानमेव नातिरिक्तं प्रमाणम् इति ( प्र० प० पृ० ५ ) ( प्र० च० पृ० ४४ ) । २ प्रमा ( यथार्थज्ञानम् ) । यथा स्वतः प्रामाण्यम् ( सि० प्राभारा परतः प्रामाण्यम् इत्यादौ प्रमाणपदार्थः ४ इयत्ता । ५ परिच्छेदः । ६ हेतुः । ७ प्रमाता ( मेदिनी० ) । ८ विष्णु: ( विष्णुस० ) । <प्रमाणान्तरम् > ( स्वतन्त्रं प्रमाणम्) यदसाधारणं सहकारि समासाद्य मनो बहिर्गोचरां प्रमां जनयति तत् । यथा प्रत्यक्ष इन्द्रियं प्रमाणान्त- रम् । संशयस्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् (चि० २ पृ० ३५ ) ( कु० टी० ४ ) । <प्रमाता> १ यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः सः ( वात्स्या० १११११ प्रस्तावना ० ) । स च प्रमाता आत्मा ( प्रशस्त० पृ० २६ ) । यथा चैत्रो घटं प्रमिनोतीत्यादौ चैत्रः प्रमाता । अत्र प्रमातृत्वं च प्रमासमवायित्वम् । एतच्चाकारणत्वेपि प्रमाया ईश्वरस्य सिद्धम् ( कु० टी० ४/५ ) । अत्रेदं बोध्यम् । प्रमाता स्वतन्त्रः । स्वातन्त्र्यं च कारकफलोपभोक्तृत्वम् ( न्या० वा० १ पृ० ९) इति । २ शुद्धचेतनो वृत्तिसाक्षी प्रमाता इति सांख्या आहुः । ३ मायावादिनस्तु अन्तःकरणवृत्तिप्रतिबिम्बि- तम् तदवच्छिन्नं वा चैतन्यमेव प्रमाता इत्याहुः ( वाच० ) । प्रमात्वम् - तद्वति तत्प्रकारकज्ञानत्वम् ( गौ० वृ० १।१।४) । तद्वति तद्वै- 1 शिष्ट्यज्ञानत्वं वा ( चि० १ प्रामा० पृ० १७० ) । आद्यलक्षणे दलद्वय- । स्वार्थश्च तद्वन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वम् ( त ० प्र० ख० १ पृ० १४ ) ( वाक्य ० ) । वस्तुतस्तु तद्वतीत्यत्रावच्छिन्नत्वमेव सप्तम्यर्थः । अन्वयश्चास्य विशेष्यितासंबन्धेन तत्प्रकारकत्वे । तथा च विशेष्यितासंबन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवत्वं तत्प्रमात्वम् इति फलितम् । इदमत्रैतत्प्रकारकम् इति प्रतीत्या विशेष्य- स्यापि विशेष्यिंतासंबन्धेन तत्प्रकारितायामवच्छेदकत्वात् लक्षणसमन्वयः । रङ्गरजतयोः इमौ रजतरङ्गौ इति विपरीतभ्रमे च रजतावच्छिन्नं न ( रजतत्वप्रकारकत्वम् अपि तु रङ्गावच्छिन्नम् इति न तत्रातिव्याप्तिः । ( मू० म० प्रामा० सिद्धान्त० पृ० ४०३ ) । अथवा विशेष्य- तावच्छेदेन तद्धर्मावच्छिन्नप्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यता- 1. संबन्धेन तद्विशिष्टत्वे सति तद्वत्त्वम् । विशेष्यतासंबन्धेन तद्वदवच्छिन्ना या प्रकारिता तच्छानुभवत्वमिति वा ( मू० म० १ ) । तान्त्रिकास्तु i तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम् । तेन वढिगुञ्जयोर्गुजावगाहि- भ्रमे नातिव्याप्तिः इत्याहु: ( न्या० म० ख० ४ पृ० ३४ ) ( म० प्र० ४ पृ० ६९) । यद्वा तत्संबन्धानुयोगिविशेष्यकत्वावच्छिन्न तत्प्रतियोगिक- संबन्धावच्छिन्न प्रकारकज्ञानत्वम् । अयमेव सिद्धान्तलक्षणोक्तप्रमात्वे गदाधरभट्टाचार्याणामाशयः इति प्रतिभाति । अथवा विशेष्यितासंबन्धेन तद्धर्मबदवच्छिन्नत्वे सति प्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यिताप्र- कारितयोरिव विशेष्यिताप्रकारितासंबन्धेन विशेष्यविशेषणयोरपि पर- स्परमवच्छेद्यावच्छेदकभावोभ्युपगम्यते इत्यभिप्रायेणेदम् ( मू० म० १ । प्रामाण्य० पृ० १७५ ) । यद्यपि अन्यान्यपि विशेष्यावृत्त्यप्रकारकत्वम् अगृहीतग्राहित्वं वा सर्वधीयथार्थत्वपक्षे अनुभवत्वजा तेरभावेन स्मरणान्य- ज्ञानत्वम् विशिष्टज्ञानत्वं वा ( चि० प्रामा० पृ० १२६ ) इत्यादीनि प्रमात्वस्वरूपाणि सन्ति । एतन्मते निर्विकल्पकव्यधिकरणप्रकारक- ज्ञानयोरनभ्युपगमात् । तथापि तानि मीमांसकादिमतोक्तरीत्या न स्वतो ग्राह्याणि इति नात्रोदाहृतानि । विशेष्यावृत्त्यप्रकारकत्वादेर्विशेषणस्य प्रागनुपस्थितौ तद्वैशिष्टयस्य ज्ञातुमशक्यत्वात् । अत्रेदं बोध्यम् । तद्वति तत्प्रकारकज्ञानत्वम् तद्वति तद्वैशिष्ट्यज्ञानत्वं वेति प्रमात्वद्वयं च निष्कम्पप्रवृत्त्युपयोगि मीमांसकमते स्वतो ग्राह्यं च भवति ( चि० प्रामा० पृ० १७०) इति । अनधिगतार्थप्राहित्वं प्रमात्वम् इति मीमांसका आहुः । तच्च स्वसमानाधिकरणस्वाव्यवहित पूर्ववर्तिस्वसमानाकारज्ञान- विषयविषयकत्वम् इति निष्कर्षः ( कु० ४ टी० ) (मू० म० प्रामा० पृ० १७० ) । यथा सत्यरजते इदं रजतम् इति ज्ञानस्य प्रमात्वम् । यथा वा घटे अयं घटः इति ज्ञानस्य प्रमात्वम् । प्राभाकरमते सर्व- ज्ञानानां यथार्थत्वात् तत्प्रकारकज्ञानत्वमेव प्रमात्वम् (चि० १ प्रामा० ) ( त० प्र० ख० ४ पृ० १३३ ) ( न्या० म० ४ पृ० ३५) । अथात्र प्रसङ्गात्प्रामाण्यवादः प्रदश्यते । परमका रुणि कमुनिप्रणीताया मष्टादश- प्रेक्षावत्प्रवृत्त्यर्थं प्रमाणप्रमेय संशय तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौत निःश्रेयसप्रयोजिकायामान्वीक्षिक विद्य विद्यास्थानेष्वभ्यर्हिततमायां सू० १११११ ) इति सूत्रेण प्रतिपादितानां षोडशपदार्थानां मध्ये प्रथमोद्दिष्टस्य प्रमाणस्याधीन इतरेषां निश्चय इति प्रमाणतत्त्वनिश्चय आवश्यकः । स च प्रमात्वनिश्चयं विना न भवतीति प्रमात्वनिश्चयोपाय इदानीं चिन्त्यते (चि० १ प्रामा० पृ० ११४ - ११७) । अत्र विप्रतिपत्तिः प्रमात्वं स्वतो ग्राह्यं परतो वा इति । अन्यत्र त्वेवं विप्रति- पत्तयः प्रदर्शिताः । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहक- सामग्रीग्राह्यम् न वा इति । तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यम् न वा इति । स्वाश्रयग्राहकेण गृह्यत एव न वा इति । स्वाश्रयेण गृह्यत एव न वा इति । घटोयम् इति ज्ञानप्रामाण्यमेतज्ज्ञानग्राह्यम् न वा इति । एतज्ज्ञानग्राहकमात्रग्राह्यम् न वा इति ( चि० १ प्रामा० पृ० १२१ - १२६ ) । ज्ञानप्रमात्वस्य स्वतो ग्राह्यत्वं च खत एव ( स्वकीयेभ्य एव ) स्वजनकसामग्री स्वजन्यप्रत्यक्षसामग्री स्वजन्यज्ञाततालिङ्गकानुमिति- सामग्री एतदन्यतमज्ञानग्राहकसामग्रीग्राह्यत्वम् । अत्र स्वजन्य इति 1 पदद्वयं क्रमेण स्वप्रत्यक्षस्य ज्ञाततायाश्च विशेषणम् । पञ्चम्या जन्यत्वमर्थः ( मू० म० १ प्रामा० पृ० १२६ ) । गुरुभट्टमुरारि मिश्राणां मत- त्रयसाधारणं स्वतस्त्वं च तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्य- त्वम् ( त० दी० प्रामा० पृ० ३४ ) ( त० कौ० पृ० १८ ) । तदर्थस्तु ज्ञाननिष्ठाप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री इन्द्रियसंनिकर्षपरामर्शानुव्यवसायादिरूपा तज्जन्यग्रहविषयत्वम् । स च ग्रहः (प्राथमिकज्ञानग्रहः ) गुरुमते व्यवसाय: । भट्टमते ज्ञाततालिङ्ग- कानुमितिः । मुरारिमिश्रमते अनुव्यवसाय: (नील० प्रामा० पृ० ३५ ) । तत्तद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयिताप्रतियोगित्वम् इति निष्कर्षः । इदमेव ज्ञप्तौ स्वतस्त्वमित्युच्यते ( नील० पृ० ३४ ) । ( सि० च० पृ० ३३ ) । यया कारणसामग्र्या ज्ञानं गृह्यते तथैव तद्गतं प्रमात्वमपि गृह्यत इति स्पष्टार्थः । अत्र त्रीणि मतानि क्रमेणोक्तानि । तथाहिं । ज्ञानग्राहकं च सर्वमते घटमहं जानामि इत्याकारकमेव ज्ञानं भवति । ज्ञानस्य स्वस्यैव स्वप्रामाण्य विषयकतया स्वजनकसामग्र्येव खनिष्ठप्रामाण्यनिश्चायिका भवति इति गुरव आहुः । खोत्तरवर्तिस्वविषय- कलौकिक प्रत्यक्षस्य स्वनिष्ठप्रामाण्य विषयकतया स्वजन्यस्वविषयकप्रत्यक्ष- सामग्री खनिष्ठप्रामाण्यनिश्चायिका भवति इति मिश्रा आहुः । ज्ञानस्या- तीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री स्वनिष्ठ- प्रामाण्यनिश्चायिका भवति इति भट्टा आहुः ( मू० म० १ प्रामा ० पृ० १२६ )। तदप्रामाण्याग्राहकेत्यत्र पदप्रयोजनमित्थम् । नैयायिकमते प्रमात्मनुमानेन इदं ज्ञानं प्रमा इत्याप्तवाक्येन च गृह्यते इति सिद्ध- साधनम् । तद्वारणाय यावत् इति विशेषणम् । अनुमानं तु इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् इति । वस्तुतस्तु यावत् इति ग्रहस्य विशेष- णम् । तथा च ज्ञानग्राहकसामग्रीजन्ययावग्रहविषयत्वम् इति फलितम् । बाघख्य इदं ज्ञानमप्रमा इति ज्ञानेन व्यवसायनिष्ठप्रामाण्याविषयीकरणात् दोषः । तद्वारणाय अप्रामाण्याग्राहिका इति विशेषणं दत्तम् । तथा च तादृशज्ञानसामग्र्याः साध्यकोट्यनिविष्टत्वात् तथा प्रामाण्यस्याग्रहणेपि न बाधः इति भावः । ज्ञाननिष्ठाप्रामाण्येत्यत्र ज्ञानं तु यादृशं प्रामाण्यं प्रकृतानुमिताबुद्देश्यं तादृशप्रामाण्याश्रयः इति विज्ञेयम् । तेन इदं ज्ञानम प्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावेपि न स्वतस्त्वहानिः (त० दी० ) ( नील० प्रामा० पृ० ३५) / प्रामाण्ये स्वतस्त्वं नाम यावत्स्वाश्रयविषयकज्ञानग्राह्यत्वम् । प्रामाण्याश्रयविष- यकज्ञानं च स्वप्रकाशं तदेव इति गुरव आहुः । ज्ञानग्राहकातिरिक्तान- पेक्षत्वम् यावत्स्वाश्रयानुमितिग्राह्यत्वम् । प्रामाण्याश्रयानुमितिर्ज्ञातता- लिङ्गका समर्थप्रवृत्तिलिङ्गकापि इति भट्टा आहुः । मिश्रमते स्वतस्त्वं च प्रामाण्यग्रह प्रतिबन्ध काभावकालीन यावत्खाश्रयानुव्यवसायग्राह्यत्वम् ( त० प्र० ख० ४ पृ० १३२ ) ( म० प्र० प्रामा० पृ० ० ) । प्रामाण्य- ग्रह प्रतिबन्ध काभावकालीनप्रामाण्याश्रयीभूतज्ञानग्राहक सामग्रीग्राह्यत्वं वा । अथवा विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त हेत्वजन्यत्वम् । इदं स्वतस्वं च मुरारिभट्टानां मते उत्पद्यते ( कु० १ ) ( सर्व० पृ० २८३ जैमि० ) (त० मा० ४ ) (सि० च० पृ० ३४ ) । उत्पत्तौ प्रामाण्यस्य स्वत- स्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्तिः (अथर्वभाष्य० पृ० १२) मायावादिनो वेदान्तिनस्तु दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्रा- ह्यत्वं स्वतस्त्वम् । यद्वा यावत्स्वाश्रयग्राहकप्राह्ययोग्यत्वं स्वतस्त्वम् इत्याहुः । एतन्मतेपि प्रमात्वं स्वत एवोत्पद्यते ज्ञायते च । तथाहि । प्रमात्वम् ज्ञान- सामान्यसामग्रीप्रयोज्यम् । न त्वधिकं गुणमपेक्षते । प्रमामात्रेनुगतगुणा- ( भावात् । नापि प्रत्यक्षप्रमायां भूयोवयवेन्द्रियसंनिकर्षः । रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्खः इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सलिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां गुणः । असलिङ्गपरामर्शादिस्थलेपि विषयाबाधेनानुमित्यादेः प्रमात्वात् । अस्मिन्मते खतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्री- ग्राह्यत्वम् । तथाहि स्वाश्रयः वृत्तिज्ञानम् । तद्ब्राहकम् साक्षिज्ञानम् । तेन वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते । न चैवं प्रामाण्य - संशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटित- स्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् इति ( वेदा० प० अनुपल- ब्धिपरि० पृ० ७१) । यद्वा यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामाण्यस्योक्तयोग्यतायाः सत्त्वेपि दोषवशेनाग्रहात् न संशया- नुपपत्तिः इति । अप्रामाण्यं तु नः ज्ञानसामान्यसामग्री प्रयोज्यम् । प्रमाया- मप्यप्रामाण्यापत्तेः । किं तु दोषप्रयोज्यम् । नाण्यप्रामाण्यम् यावरस्वाश्रय- ग्राहकग्राह्यम् । अप्रामाण्यघटक तदभावत्वादेर्वृत्तिज्ञानानुपनीतस्वेन सा- क्षिणा प्रहीतुमशक्यत्वात् । किंतु विसंवादिप्रवृत्यादिलिङ्गकानुमित्यादि- विषयः इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति ( वेदान्तप० अनुपलब्धिपरिच्छेदः पृ० ७१-७२) । तत्र प्रमात्वं स्वतोप्राह्ममिति वदतां मीमांसकानामयमाशयः । यथा दूरात्प्रत्यक्षेण इन्द्रियेण जला- दिज्ञाने जाते तत्र स्वत एव यथार्थज्ञानस्वरूपप्रामाण्यमवधार्य जलार्थी प्रवर्तते । ज्ञानग्रहे तद्गतप्रामाण्यस्यापि ग्रहात्प्रमात्वस्य स्वतस्त्वमुपपद्यते ( त० कौ० प्रामा० पृ० १८) इति । अन्यत्र चेत्थमुक्तम् । मीमांसक- मते प्रामाण्यस्य स्वतस्त्वं द्विविधम् उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ स्वतस्त्वं नाम ज्ञानकरणमात्रजन्यध्वम् । येन ज्ञानं जायते तेनैव तद्गतं ७१ न्या० को० प्रामाण्यमपि जायत इति । ज्ञप्तौ स्वतस्त्वं नाम ज्ञानग्राहकमात्रप्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गतं प्रामाण्यमपि गृह्यत इति । नैयायिकमते परतस्त्वमपि द्विविधम् उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ परतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम् । ज्ञप्तौ परतस्त्वं नाम ज्ञानग्राहका- तिरिक्तप्राह्यत्वम् इति वस्तुस्थितिः ( प्र० च० परि० १ पृ० ४५ ) । मीमांसकाश्च त्रयो मिथो विप्रतिपन्नाः । प्रभाकरापरनामका गुरवः तुताताख्या भट्टाः मुरारिनामका मिश्राश्चेति । तत्र गुरूणां मतम् ज्ञानस्य स्वप्रकाशरूपत्वात्तज्ज्ञानप्रामाण्यं तेनैव गृह्यते इति । भट्टानां मतं च ज्ञान- मतीन्द्रियम्। ज्ञानजन्या ज्ञातता प्रत्यक्षा । तया च ज्ञानमनुमीयते । अत्रानु- मानं तु घटो घटत्ववद्विशेष्यकघटत्व प्रकारकज्ञानविषयो घटत्वप्रकारकज्ञात- तावत्त्वात् यन्नैवं तन्नैवम् इति ( नील० प्रामा० पृ० ३५) । मुरारिमिश्र - मतं तु अनुव्यवसायेन ज्ञानं गृह्यते इति । सर्वेषामपि मते तज्ज्ञानविषयक- ज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते । विषयनिरूप्यं हि ज्ञानम् । अतो ज्ञानवित्तिवेद्यो विषयः (मु० गु० ) इति । तदर्थश्च विषयनिरूप्यं विषयज्ञानजन्यसाक्षात्कारविषयीभूतम् इति ( म० प्र० पृ० ६९ ) । इदमत्र तत्त्वम् । गुरुमते घटत्वेन घटमहं जानामि इत्याद्याकारकं व्यवसा यात्मकमेव सर्वे ज्ञानम् । तच्च स्वप्रकाशम् । मितिमातृमेयैतत्रयविषयत्वा- त्रिपुटीत्युच्यते । स्वप्रकाशसामर्थ्यादेव स्वात्मानमिव स्ववृत्तिप्रामाण्यं स्वत एव गृह्णाति इति । भट्टमते अयं घटः इति ज्ञानानन्तरं घटे ज्ञाततानामकं फलं भवति । ततो ज्ञातो घटः इति प्रत्यक्षम् । पश्चात्तया ज्ञाततया ज्ञानमात्रस्यातीन्द्रियत्वाज्ज्ञानं तनिष्ठप्रामाण्यं चानुमीयते इति । च अयं घटः इत्याकारकज्ञानानन्तरं घटस्वेन घटमहं जानामि इति ज्ञानविषयकौकिकमानसमुत्पद्यते । तेन प्रामाण्यस्य ग्रहणम् । जानामि इत्यनुव्यवसायस्तु घटं घटत्वं समवायं च विषयी कुर्वन्नात्मनि प्रकारीभूतघटमात्मानं तत्संबन्धीभूतव्यवसायं विषयीकरोति । पुरोवृत्तिप्रकार संबन्धस्यैव ( पुरोवर्तिनि यः प्रकारसंबन्धः तद्घटितस्यैव ) प्रमात्वपदार्थत्वेन स्वत एव प्रामाण्यं गृह्णाति (नील० ) ( सि० च० पृ० ३४ ) । अत्रायमाशयः । नैयायिका अपि अनुष्यवसाये विशेष्यत्व- प्रकारत्वयोर्भानमङ्गीकुर्वन्ति । पुरोवर्तिनं घटत्वेन जानामि इत्याकारकस्यै- वानुव्यवसायस्य तैरङ्गीकारात् । परंतु पुरोवर्तिनि घटादौ घटत्वादिरूपप्रका~ रसंबन्धभानं नाङ्गीकुर्वन्ति । अतस्तत्र प्रकारसंबन्धमानस्य व्यवस्थापने कि- मपि नावशिष्टम् इति प्रामाण्यस्य भानं न सिध्यति । अनुपस्थितयोरपि विशे- ष्यत्वप्रकारत्वयोर्भानस्य सर्वसंमतत्वात् इति (नील० प्रामा० पृ० ३६) । प्राभाकराश्चेत्थमाहुः । ज्ञानस्य प्रत्यक्षत्वमेव । प्रमात्वं स्वत एव गृह्यते । प्रमात्वाश्रयीभूतं यत् ज्ञानम् तत् यया कारणसामग्र्या आत्ममनःसंनि- कर्षः इन्द्रियविषयसंनिकर्षः इत्यादिकया जन्यते तद्वृत्तिप्रमात्वमपि तयैव सामग्र्या गृह्यते । तथाच स्वप्रकाशमेव ज्ञानम् । अत्र व्युत्पत्तिः । स्वं प्रकाशते भासते यत्र तत् इति ( त० प्र० ख० ४ पृ० १२८ ) । यथा न्यायनये घटज्ञानं घटविषयकत्वाद्धटप्रकाशम् । यथा वा ईश्वरज्ञानं स्वविषयकत्वात्स्वप्रकाशमपि ( अन्यथा तज्ज्ञानस्य सर्वविषयकत्वं न स्यात् ) तथा गुरुमते सर्वमेव ज्ञानं स्वविषयकत्वात्स्वप्रकाशमेव ( म० प्र० पृ० ६७ ) । तथा च अयं घटः इति ज्ञानम् यथा घटादिकं विषयी- करोति तथा स्वात्मानं स्वस्वरूपम् स्वस्याधिकरणम् आत्मानं च विषयी- करोति । ज्ञानस्य घटादिविषय स्वस्वरूप आत्मरूपाधिकरण एतत्रय- विषयकत्वादेव सर्वमेव ज्ञानम् घटमहं जानामि इत्याकारकमेव । इत्थं सर्वस्य व्यवसायस्यानुव्यवसायात्मकत्वे च ज्ञानस्य मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षता इति प्रवादः । तदर्थश्च ज्ञानस्य सर्वस्य ज्ञानस्य । मितिः ज्ञानम् । माता आत्मा । मेयम् घटादि । तद्विषयकत्वात् मितिमातृ- मेयानां ज्ञानस्यैकसामग्रीकत्वात् । त्रिपुटी त्रयाणां पुटानां समाहारत्रिपुटी । मितिमातृमेयविषया तत्प्रत्यक्षता इति ( त० प्र० ख० ४ पृ० १२८- १२९ ) । तथा च स्वप्रकाशमहिम्ना स्वमिव स्वप्रामाण्यमपि सिद्ध्यति ( विषयीभवति) इत्याहु: ( न्या० म० ४ पृ० ३३ ३४ ) ( त० प्र० ख० ४ पृ० १२८) ( म० प्र० पृ० ६९ ) । स्वस्मिन्स्वविषय- कत्वं स्वीक्रियते इति भावः ( त० प्र० ख० ४ पृ० १३० ) । स्वप्रकाशत्वरूपज्ञानस्वभावेन यथा तेनैव ज्ञानेन तदेव सिद्ध्यति तथा तद्गतं तत्प्रकारकत्वरूपं प्रामाण्यमपि सिद्ध्यति इत्यर्थः ( म० प्र० पृ० ६८ ) । भट्टास्तु ज्ञानं तावत्स्वविषये ज्ञातताख्यं फलं जनयति इति निरूढम् । तथैवानुमेयं ज्ञानम् । तथा च ज्ञाततया ज्ञानानुमितिर्जायमाना प्रामाण्यमपि विषयीकरोति इत्याहुः । स्वविषये इत्यस्य ज्ञानविषये घटादा- वित्यर्थः । ज्ञातो घटः इति प्रतीतेर्ज्ञातताख्यं फलं जन्यते इति बोध्यम् । अस्य प्रतीतौ ज्ञानं निमित्तकारणम् । घटादिकं समवायिकारणम् । असम- चायिकारणं तु नापेक्षितम् । भावकार्यस्य सासमवायिकारणकत्वम् इति नियमस्य भरङ्गीकरात् इति । ज्ञानं न प्रत्यक्षम् । अनवस्थापत्तेः । किंतु अनुमितिग्राह्यमेव इति भट्टमतम् ( त० प्र० ख० ४ पृ० १२९) । । ( अनुमानं तु घटो ज्ञानवान् ज्ञाततावत्त्वात् इति ( म० प्र० पृ० ६७ ) । तदर्थश्च ज्ञाततया घटो ज्ञानवान् ज्ञाततावत्वात् इत्यादिना ज्ञानवि- धेयकानुमितिर्जायमाना घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्य- मपि विषयीकरोति ( त० प्र० ख० ४ पृ० १३० ) इति । घटत्वप्रकारकज्ञानविशेष्यः घटत्वप्रकारकज्ञाततावत्वात् इत्यनेन घंटे घटत्व प्रकारकज्ञान विशेष्यत्वानुमितिर्जायमाना घट विशेष्यघटत्व प्रकारक १ पृ० ६७ ) । मुरारिमिश्रास्तु तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं ज्ञानेपि विषयीकरोति । तयोः समान वित्तिवेद्यत्वादिति भावः ( म०प्र० प्रामाण्यम् । तच्च घटमहं जानामि इति प्रथमानुव्यवसायेनैव गृह्यते । तथाहि घटत्ववांस्तावत् घटोयम् इति व्यवसायेनोपनीतः ( मनसा सह संनिधापितः ) । अतः तद्वद्विशेष्यकता संसर्गरूपा ज्ञानेन मनसा 11 गृह्यते । विशेषणस्य पूर्वमुपस्थितत्वात् । एवम् घटत्वमपि व्यवसायेवो पनीतम् । अतः तत्प्रकारकता विषयतावत्सुग्रहा इत्युभयस्यैकग्रहेण गृहीतं प्रामाण्यम् इत्याहुः (न्या० म० ४ पृ० ३३-३४ ) ( म० प्र० ) । ॐ नैयायिकास्तु परतः अनुमानादिना ज्ञानस्य प्रामाण्यं ग्राह्यम् उत्पाद्यं चेति ( प्रथमं अयं घटः इति ज्ञानम् । ततः ज्ञानज्ञानले इति निर्विकल्पकम् । वदन्ति । अत्रायमर्थ: । द्वितीयानुव्यवसायेन प्रामाण्यं गृह्यते । त ततः घटमहं जानामि इत्यनुव्यवसायः । ततो व्यवसायस्य नष्टत्वात् पुनः घटोयम् इति व्यवसायः । ततश्च घटमहं जानामि इत्यनुव्यवसायः । तेन प्रामाण्यं गृह्यते इति ( त० प्र० ख० ४ पृ० १३१) । नैयायि- कानामयं भावः । प्रामाण्यस्य खतो ग्रहे अनभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्य- ग्रहः । ज्ञानाग्रहे धर्मिज्ञानाभावात् न संशयः । अनभ्यासदशोत्पन्नम् प्रामाण्यव्याप्यवत्तानिश्चयकालीनम् । तत्संशयः इदं प्रमान वा इति प्रामाण्यसंशयः ( सू० म० १ प्रामा० पृ० १८९ ) । अयं भावः । न च संशयस्थले ज्ञानग्रहोपि (प्रामाण्याश्रयज्ञानस्य विशेष्यस्य ग्रह एव ) नास्ति इति वाच्यम् । ज्ञानाग्रहे ज्ञानधर्मिक प्रामाण्यतदभावकोटिक संशया- अनुपपत्तेः । संशये धर्मिज्ञानस्य हेतुत्वात् (चि० १ प्रा० पृ० १८८-९८९ ) ( त० कौ० पृ० १८ ) इति । यदि मीमांसकाः प्रमात्वस्य स्वतो ग्राह्यत्वं स्वीकुर्युस्तदा अनभ्यासदशायां (प्राथमिकजल- ज्ञानग्रहोत्तरदशायाम् ) तन्मते प्रामाण्यसंशयानुपपत्तिः । तथाहि । ज्ञानग्रहानन्तरम् किंचिज्जातं मे यज्जलज्ञानम् तत् प्रमा न वा इति प्रामाण्यसंशयो लोकेनुभवसिद्धः । स न स्यात् ॥ तन्मते ज्ञानग्रहे प्रमात्वस्यापि निश्चितत्वेन तत्संशयायोगात् इति । अतः परत एव अनुमानादिना प्रमात्वमवश्यं ग्राह्यम् ( त० कौ० पृ० १८) इति । परतस्त्वं च ज्ञानसामान्यग्राहकातिरिक्तग्राह्यत्वम् । ईदृशपरतस्त्वं ज्ञप्तौ कचित् द्वितीयानुव्यवसायमादाय । कचित्तु अनुमानमादाय बोध्यम् । तथाहि । परतो ग्रहणे प्रमाणमनुमानम् । तच्च विमता प्रमा ज्ञान- हेत्वतिरिक्तहेत्वधीना कार्यवे सति तद्विशेषत्वादप्रमावत् (सर्व० पृ० २८२ जैमि० ) इति । तथा च द्वितीयानुव्यवसायेन व चित्प्रामाण्यग्रहे च प्रामाण्यरूपसाध्यप्रसिद्भावनुमानमपि प्रामाण्यग्राहकम् । तद्यथा इदं पुरुषज्ञानम् प्रमा करादिमति पुरुषज्ञानत्वात् संप्रतिपन्नवत् । यद्वा यनैवं तन्नैवम् इति व्यतिरेकी। तदर्थश्च इदम् द्वितीयानुमानेनागृहीतप्रामाण्य कम् पुरुषज्ञानं प्रमा ( पुरुषत्व वद्विशेष्यकत्वे सति पुरुषत्व प्रकारकत्ववत्) करादिमति करादिमद्विशेष्यकत्वे सति पुरुषत्वप्रकारकज्ञानत्वात् संप्रति - न्नवत् द्वितीयानुव्यवसायेन गृहीतप्रामाण्यकपुरुषज्ञानवत् इति । यद्वा यन्न पुरुषत्ववति पुरुषत्वज्ञानम् तन्न करादिमति पुरुषत्वज्ञानम् । यथा स्थाणौ पुरुषत्वभ्रमः इति व्यतिरेकी ( न्या० म० पृ० ३५ ) ( त० प्र० ख० ४ पृ० १३२ ) ( म० प्र० ४ पृ० ७१) । अत्र च परतस्त्वं द्विविधम् । ज्ञप्ती परतरत्वम् उत्पत्ती परतस्त्वम् । अत्र प्रामाण्यस्य परत उत्पत्तिकत्वं च ज्ञानसाक्षाद्विभाजकोपाध्यवच्छिन्नकार्यताप्रतियोगिककारणतानिरूपित कार्यतावत्त्वम् (मू० म० प्रामा० ) । आद्यं यथा प्रथमजलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् यत्प्रमा न भवति तत्समर्थप्रवृत्तिजनकं न भवति यथा अप्रमा (जलभ्रमः) इति व्यतिरेकिणानुमानेनानभ्यासदशापन्नज्ञाने प्रमात्वं निश्चीयते इति । अनभ्यासदशा पन्नप्राथमिकजलादिज्ञाने जाते तत्र प्रामाण्यसंशये सत्यपि पुरुषः प्रवर्तते इति विशेषोत्र द्रष्टव्यः (त० कौ० पृ० १८ ) । बोध्यम् । प्रथमं जलजलत्वयोर्निर्विकल्पकम् । ततः इदं जलम् इति विशिष्टज्ञानम् । तत इच्छा । ततः प्रवृत्तिः । तदनन्तरं जललाभः ( सि० च० ) इति । अभ्यासदशापन्नज्ञानेषु द्वितीयतृतीया दिजलादिज्ञानेषु तु प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणापि पूर्वज्ञानदृष्टान्तेन तत्सजाती प्रामाण्यमवधार्यते । तद्यथा द्वितीयादिजलज्ञानं प्रमा समर्थप्रवृत्तिजनक जातीयत्वादाद्यजलज्ञानवत् ( त० कौ० पृ० १८) ( नील० ) इति । द्वितीयं उत्पत्तौ परतस्त्वं तु प्रमाया गुणजन्यत्वरूपम् । तद्यथा प्रत्यक्ष- प्रमायां विशेषणवद्विशेष्यसंनिकर्षात्मक गुणजन्यत्वम् । अथवा भूयोवयवा- वच्छेदेनेन्द्रियसंनिकर्षात्मक गुणजन्यत्वम् । एवमनुमितौ व्यापकवति व्याप्य- वत्ताज्ञानरूपगुणजन्यत्वम् उपमितौ यथार्थसादृश्यज्ञानात्मक गुणजन्यत्वम् शाब्दबोधे च यथार्थयोग्यताज्ञानरूपगुणजन्यत्वं यथार्थवक्तृवाक्या- ज्ञानरूपगुणजन्यत्वं वा उत्पत्तौ परतस्त्वम् इत्याद्यूहनीयम् (नील ० पृ० ३७ ) ( म० प्र० ४ पृ० ७३ ) । अत्रायं संग्रहः । प्रमाणत्वा- प्रमाणत्वे स्वतः सांख्याः समाश्रिताः । नैयायिकास्ते परतः सौगता- श्चरमं स्वतः ॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः। प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥ ( सर्व० पृ० २७९ जैमि० ) इति । एवम् नैयायिकमते अप्रमात्वमपि परत एव अनुमानादिना गृह्यते उत्पद्यते च ( चि० १ प्रामा० ) ( त० दी० पृ० ३७) (सि० च० ) इति । अत्रानुमानादिनैवाप्रमात्वं गृह्यते ( अनुमीयते) । तत्र हेतुः पुरोवर्तिनि प्रकाराभावस्य व्यवसायेनाविषयीकरणात् । तथा च प्रत्यासत्तेरभावादप्रमात्वस्यानुव्यवसायेन ग्रहणं न भवति इति भावः । अत्रानुमानप्रयोगस्त्वित्थम् । इदं ज्ञानमप्रमा विसंवादि प्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा प्रमा नील● प्रामा० पृ० ३७) इति । एवं च अनुमानादिग्राह्यत्वादप्रमाया ज्ञप्तौ परतस्त्वम् इति बोध्यम् । तथा पित्तमण्डूकवसाञ्जनचाकचक्य दूरत्वादिदोषजन्यत्वादुत्पत्ता- वपि परतस्त्वमिति बोध्यम् ( सि० च० ) । अत्र पित्तदूरत्वादिदोषो- ननुगतोप्यन्वयव्यतिरेकाभ्यां हेतुर्भवति इति विज्ञेयम् ( म०प्र० प्रामा ० पृ० ७३) । <प्रमाद:> ( दोषः ) १ पूर्वे कर्तव्यतया निश्चितेप्यकर्तव्यताधीः । एवं वैपरीत्येपि ( गौ० वृ० ४ । १ । ३ ) । सा च पूर्वमकर्तव्यतया नि- श्चितेपि कर्तव्यताधीः । यथा प्रमादास्कुर्वतां कर्म इत्यादौ । २ कर्तव्ये अकर्तव्यत्वधिया ततो निवृत्तिः अकर्तव्ये कर्तव्यत्वधिया तत्र प्रवृत्तिर्वा प्रमादः इति केचिदाहुः ( वाच० ) । ३ अनवधानता इति काव्यज्ञा आहुः ( अमरः ) । ४ पञ्चसमितिगुप्तिष्वनुत्साह: ( सर्व० सं० पृ० ७६ आई० ) । समाधिसाधनानामभावनं प्रमादः ( सर्व० सं० पृ० ३५५ पातञ्ज० ) । <प्रमितत्वम्> १ प्रमाविषयत्वम् । यथा घटे स घटः अस्ति इति ज्ञानवि- षयत्वम् । यथा वा स्थावरजङ्गमात्मकस्य सर्वस्य जगतः प्रमितत्वम् । कचित् स्वविशेष्यकप्रमाप्रकारत्वम् (ग० बाघ ० ) । २ परिमितत्वम् । यथा प्रमितास्तण्डुलाः इत्यादौ । <प्रमितिः> प्रमावदस्यार्थोनुसंधेयः (कु० टी० ४१५) । <प्रमेयम्> १ [ क ] योर्थः तत्त्वतः प्रमीयते तत्प्रमेयम् (वात्स्या ० १ । १ । १ प्रस्तावना ) । यथा घटपटादि सर्व जगत्प्रमेयम् । अत्र प्रमेयत्वं च ईश्वरीयप्रमाविषयत्वम् (त० दी० २) । तच्च केवलान्वयि । सर्वेस्थापि जगत ईश्वरज्ञानरूपप्रमाविषयत्वात् ( न्या० म० ) । सामान्यतः प्रमा- विषयत्वं वा प्रमेयत्वम् । मायावादिमते विशुद्धं चैतन्यमेव प्रमेयम् । [ख] संसार हेतुमिथ्याज्ञान विषयः मोक्षहेतुधी विषयों वा । यथा आत्म- । शरीरादि प्रमेयम् । न्यायनये द्वादशविधं प्रमेयम् । आत्मा शरीरम् । इन्द्रियम् अर्थः बुद्धिः मनः प्रवृत्तिः दोषः प्रेत्यभावः फलम् दुःखम् ॥ अपवर्मश्च (गौ० १११।९ ) इति । अत्र प्रमेयत्वं च तत्त्वज्ञाननिया- भी मकतावच्छेदकम् इति ज्ञेयम् । २ परिच्छेद्यम् । ३ अवधारणविषयः न(अवधार्यम् ) इति काव्यज्ञा आहुः । <प्रयत्न:> ( गुणः ) १ [क] प्रयत्नः संरम्भः उत्साहः इति पर्यायः ( प्रशस्त० २ पृ० ३३ ) । स च मनोग्राह्यः (भा० प० श्लो० ५८ ) निराकारः सविषयकः आत्ममात्रधर्मश्च इति विज्ञेयम् । प्रयत्नलक्षणं च कृतित्वजातिमत्त्वम् (वाक्य० ० ० २१ ) । अथवा संस्कारेच्छा- भिन्नत्वे सति संबन्धान वच्छिन्न प्रकारताकत्वम् ( ल० ब० ) । [ ख ] प्रयत्नत्वसामान्यवान् उत्साहरूप : ( त० कौ० ) । तथा स्त्वात्मधर्मः स्यादुत्साहो भावना च सः ( ता० श्लो० ४६) इति । स च कृतिरित्युच्यते ( त० सं० ) । [ग] प्रयत्न- व्यवहारासाधारणं कारणम् ( प्र० प्र० १७) । यथा पचतीत्यादौ तिबर्थः । प्रयत्नव्यवहारश्च अहं यते स यतते इत्यादिव्यवहारः । स त्रिविधः प्रवृत्तिः निवृत्तिः जीवनयोनियत्नश्चेति (भा०प० श्लो० १५०) ( वा क्य० गु० पृ० २१) । प्रकारान्तरेण स प्रयत्नः द्विविधः जीवन- पूर्वकः इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसंतान- - प्रेरकः प्रबोधकाले चान्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः । अस्य जीवन- संज्ञकस्यात्ममनसोः संयोगाद्धर्माधर्मापेक्षा दुत्पत्तिः (प्रशस्त ० २ पृ० ३३ ) । शिष्टं तु जीवनयोनिशब्दव्याख्यानावसरे संपादितम् । इच्छाद्वेषपूर्वकस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः शरीरविधारकश्च आत्म- मनसोः संयोगादिच्छापेक्षाद्वेषापेक्षाद्वा उत्पद्यते ( प्रशस्त ० २ पृ० ३३)। २ फलार्थिभिः प्रारब्धस्य कर्मणोवस्थापञ्चकान्तर्गतोवस्थाविशेषः प्रयत्नः इति साहित्यशास्त्रज्ञा आहुः (वाच० ) । तदुक्तम् प्रयत्नस्तु फलावाप्स्यै व्यापारोतित्वरान्वितः ( सा० द० परि० ६ श्लो० ३२६ ) इति । ३ प्रयासः इति काव्यज्ञा आहुः । <प्रयुक्तत्वम्> १ प्रयोज्यत्वम् । तच्च कारणाभावात्कार्याभावः इति प्रतीति- साक्षिकः स्वरूपसंबन्धविशेषः । यथा दण्डाभावाद्धटाभाव इत्यादौ घटा- भावाद्यन्वयि पञ्चम्यर्थः प्रयुक्तत्वम् (मू० म० १) (गौ० वृ० १ । १ । २ ) ( ग० हेत्वा० साधा० पृ० २४ ) । यथा वा पदस्य पदान्तव्यतिरेक- प्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ( त० सं० ) इत्यादौ प्रयुक्तत्वम् ( नील० ४ पृ० ३२ ) । २ क्वचित्तु व्यापकत्वम् । यथा दीधितिहेत्वा- भाससामान्यनिरुक्तौ अत्र वदन्ति इति कल्पे यद्विषयकनिश्चयस्य विरोधि विषयिताप्रयुक्तः तदुत्तरमनुमितौ द्वयोर्व्यतिरेकः इति हेत्वाभाससामान्य- लक्षणस्य निर्वह्निर्वह्निमान् इत्यादौ बाधाद्यव्यायापत्तिवारणार्थे प्रथम- यत्तुकारेण प्रयुक्तपदस्य व्यापकत्ववान् इत्यर्थः स्वीकृतः । एवं च प्रथम- यत्तुकारमते विरोधिविषयकयद्विषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व साध्यव्याप्यहेतु वैशिष्ट्यावगाहित्व एतदुभयाभावः तत्त्वम् हेतुदोषत्वम् इति पर्यवसितोर्थः ( ग० २ हेत्वा० सामा० पृ० २७) । ३ प्रयोगकर्मत्वम् । यथा शब्दः प्रयुक्तः वाक्यं प्रयुक्तम् इत्यादौ शब्दवाक्ययोः प्रयुक्तत्वम् । ४ प्रेरितत्वम् इति काव्यज्ञा आहुः । <प्रयोगः> १ अनुमानम् (वै० उ० ७ ११।७) । २ उदाहरणम् । ३ शब्दोच्चारणम् । तत्र नैयायिकाः अनुमानाङ्गवाक्योच्चारणम् यथा अत्रायं प्रयोगः इत्यादौ पर्वतो वह्निमान् धूमात् इत्यादिप्रयोगः इत्याहुः । शाब्दिकास्तु शब्दानां यथायोगं समभिव्याहृतत्वेनोच्चारणं ७२ न्या० को० प्रयोगः इति वदन्ति । ४ यज्ञादिक्रियाकलापेतिकर्तव्यताबोधकानां समुच्चयप्रतिपादकः पद्धत्यपरपर्यायो ग्रन्थः इति याज्ञिका आहुः । ५ उत्तमर्णेन स्वद्रव्यस्य वृद्ध्यर्थमधमर्णाय दानं प्रयोगः इति व्यवहारज्ञा वदन्ति । ६ भूतप्रेतायुच्चाटनसाधनमन्त्रोच्चारणाद्यनुष्ठानम् इति तान्त्रिका आहुः । ७ नायकयोर्मेलने क्रियाविशेषः इत्यालंकारिका आहुः । ८ शस्त्रादिमोचनम् इति योद्धारो वदन्ति । <प्रयोगविधिः> (विधिः ) [ क ] प्रयोगाविलम्बबोधको विधिविशेषः । सच प्रयोगविधिः प्रयाजायङ्गजातवाक्यैकवाक्यतामापन्नो दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत इत्यादिप्रधान विधिरेवोक्तवक्ष्यमाण विधित्रय- मेलनरूपश्चतुर्थोयं विधिः न तु विध्यन्तरम् ( लौ० मा० टी० पृ० ३०) । ख अङ्गानां क्रमबोधको विधि: ( लौ० भा० पृ० ३० - ३१ ) । अत्र क्रमो नाम विततिविशेषः । पौर्वापर्यरूपो वा । तत्र क्रमे षट् प्रमा- णानि श्रुति अर्थ पाठ स्थान मुख्य प्रवृत्ति इत्याख्यानि इति ( लौ० भा० पृ० ३१ ) ( म०प्र० ४ पृ० ६२ ) । अत्र उत्तरोत्तरमपेक्ष्य पूर्वपूर्व बलीयः इति विज्ञेयम् । टीकायां चेत्थमुक्तम् । वितननं वितानो वा विततिः । तनु विस्तारे इति धातोर्भावे क्तिः । तथा च बहुभिः कर्तृभि युगपत् कृतानामपि पदार्थानां वितानविशेषो भवत्येव न तु क्रमव्यवहारः । तथाच तत्र प्रथमलक्षणस्यातिव्याप्तिः इत्यरुच्या लक्षणान्तरमाह ! पर्येति ( लौ० भा० टी० पृ० ३१ ) । [ग] अनुष्ठीयमानपदार्थानां क्रमबोधको विधिः । यथा वेदं कृत्वा वेदिं करोति इत्यादि । अत्र क्रमस्तु अव्यवहितोत्तरत्वम् ( भाट्टदी० ) । अथवा अव्यवहितपौर्वापर्यम् । सच "प्रयोगविधिः अङ्गविध्येकवाक्यतापन्नंः प्रधानविधिरेव । तेन क्रमेण ( लौ० भा० ३१ - ३३ ) । यथा वा अग्निहोत्रं जुहोति यवागूं पचति ( केवलक्रमेण ) पदार्थानामनुष्ठानात् ( म० प्र० ४ पृ० ३२ ) क्रम एवाश्रीयते । इत्थं च पूर्व यवागूपाकः ततो यवाग्वाग्निहोत्रहोमः इत्यादि । अत्र पाठक्रमादर्थक्रमो बलीयान् इति पाठक्रमं परित्यज्यार्थ- ( म० प्र० पृ० ६२ ) ( लौ० भा० ३३ ) । [घ ] प्रयोगप्राशुभाव- २. बोधको विधिः प्रयोगविधि: ( मी० न्या० पृ० ३७ )। <प्रयोजकत्वम्> १ [ क ] परंपरया ( न तु साक्षात् ) कार्यजनकत्वम् । यथा काश्यां मरणान्मुक्तिरित्यादौ मोक्षं प्रति काशीमरणस्य प्रयोजकत्वम् । अत्र मुक्तौ तत्त्वज्ञानस्यैव साक्षात्कारणत्वम् । काशीमरणस्य तु मुक्तौ परंपरया कारणत्वम् इति तस्य प्रयोजकत्वं ज्ञेयम् ( त० प्र० १ मङ्गल० ) । अत्रेदं तत्त्वम् । यस्यानुकूलतर्कोस्ति स एव स्यात्प्रयोजकः हेतुः इति । यस्यानुकूलतर्काभावः सोन्यथासिद्धः (ता० २० श्लो०८७- ८८ ) । अत्र वदन्ति कारणस्य यत् कारणम् तस्य प्रयोजकत्वम् इति । अत्र गुरुचरणाः प्राहुः तन्निष्ठान्यथासिद्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्याव्यवहितपूर्ववृत्तित्वम् इति । [ख] स्वरूपसंबन्धविशेषः । यथा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये यदुत्तरोत्तरम् तेषामपाये तत्पूर्व - स्यापायादपवर्गः इत्यादौ पञ्चम्यर्थः । यथा वा दण्डाभावाद्धटाभाव इत्यादौ दण्डाद्यन्वयी पञ्चम्यर्थः प्रयोजकत्वम् ( गौ० दृ० ११ १२ १२ ) । २ हेतुत्वम् । तच्च ज्ञापकज्ञान विषयत्वम् । यथा पर्वतो वहिमान् घूमा- दियाद धूमस्य प्रयोजकत्वम् (ग० व्यु० का० ३ पृ० ८७ ) । ३ वैयाकरणास्तु हेतुसंज्ञककर्तृत्वम् । यथा तत्प्रयोजको हेतुश्च (पा० सू० १/४/५५) इत्यादौ इत्याहुः । यथा वा धर्मशास्त्रे प्रयोज- यिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः । यो भूय आरभते तस्मिन् फलविशेष: ( आपस्त० सू० २।११।२९। १९ - २ ) इत्यादौ प्रयोजकत्वम् । अत्र प्रयोजकस्य हन्तृत्वम् ( प्रा० वि०) निर्णीतं यथा निरन्तरव्यापाराव्यवधानेन वधनिष्पादकः कर्ता । यः कर्तारं कारयति स प्रयोजकः । सोपि द्विविधः । तत्रैकः स्वतोप्रवृत्तं पदातिं वेतनादिना धार्थ प्रर्तयति। अरस्तु स्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति इति ( वाच० ) । <प्रयोजनम्> [क] यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् ( गौ० १।१।२४ ) । यमर्थमाप्तव्यं हातव्यं वाध्यवसाय तदाप्तिहानोपायमनु- तिष्ठति प्रयोजनं तद्वेदितव्यम् । प्रवृत्तिहेतुस्वात् । इममर्थमाप्स्यामि हास्यामि वेति व्यवसायोर्थस्याधिकारः । एवं व्यवसीयमानोर्थोधिक्रियत इति ( वात्स्या० १।१९।२४ ) । प्रयोजनत्वं च प्रवृत्तिहेत्विच्छाविषयत्वम् । विषयत्वं च साध्यताख्यविषयता विशेषः ( गौ० वृ० १११।२४ ) । अत्र वार्तिककारा आहुः । धर्मार्थकाममोक्षैः प्रयुज्यत इति केचित् । वयं तु पश्यामः । सुखदुःखाप्तिहानिभ्यां प्रयुज्यत इति । सुखदुःख- साधनभावात्तु सर्वेर्थाश्चेतनं प्रयोजयन्तीति । तदिदं प्रयोजनं न्यायस्या- श्रयः (न्या० वा० १ पृ० १४ ) । [ख] येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम् । यमर्थमभीप्सब्जिहासन्वा कर्मारभते तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः । तदाश्रयश्च न्यायः प्रवर्तते ( वात्स्या० ११ १/१ ) ( त० मा० पृ० ४२ ) ( न्या० वा० १ पृ० १४ ) । [ग] यदुद्दिश्य प्रवर्तन्ते पुरुषास्त प्रयोजनम् ( ता० र० लो० ५६) । [घ ] साध्यतयेच्छाविषयः ( दि० १) । यथा सुखं दुःखहानिश्च प्रयोजनम् (त० दी० ) ( त० भा० पृ० ४२ ) । प्रयोजनं द्विविधम् । मुख्यम् गौणं च । तत्राद्यम् सुखं दुःखहानिश्च । द्वितीयम् यागभोजनादिकम् । प्रयोजनस्य मुख्यत्वं च निरुपाधीच्छा- विषयत्वम् (चि० ४ ) ( गौ० वृ० १२।१।२४ ) । इतरेच्छानधीने- च्छाविषयत्वं वा । समानाधिकरणेच्छाजन्येच्छाविषयत्वं वा ( अत्र अजन्येति पदच्छेदः ) । प्रयोजनाजनकप्रयोजनवं वा ( न्या o सि० दी० पृ० ७० ) । प्रयोजनस्य गौणत्वं च मुख्य प्रयोजनेच्छाधीनेच्छा- विषयत्वम् ( गौ० वृ० १।१।२४ ) । <प्रयोजनलक्षणा> निरूढलक्षणाभिन्ना लक्षणा । सा च षड्डिधा। उपादान- लक्षणा लक्षणलक्षणा गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्ध- साध्यवसाना ( सर्व० सं० पृ० ३७४ पातञ्ज० ) । <प्रयोज्यत्वम्> १ प्रयोजकत्वनिरूपकत्वम् । २ प्रयुक्तत्ववदस्यार्थोनुसंधेयः । <प्रलयः> [क] अभावः (ध्वंस: ) ( गौ० वृ० ४ । २।१३) । यथा अव- यवावयविप्रसङ्गश्चैवमाप्रलयात् ( गौ० ४/२/१३) इति । यथा वा विश्व- स्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः । यस्या अपा- ङ्गलवमात्रतः ( द्वाद० स्तो० अ० ७ श्लो० १) इति । प्रलयसद्भावे प्रमाणं च श्रुतिः । सा च धाता यथापूर्वमकल्पयत् ( ऋ० सं० १०/१९०/३ ) इति ( सि० च० १ पृ० ९) ( त० दी० वायुनि० पृ० १०) । मीमां- सकास्तु संसारप्रवाहस्य बीजाकरन्यायेनानादित्वादनन्तत्वाच्च प्रलयसद्भावे मानाभावः इत्यूचुः ( सि० च० १ पृ० ९ ) । इदानीं प्रलयक्रमः कथ्यते । साकारोपासनापरिवासितचेतसो यतयस्ते हिरण्यगर्भपदवी- मनुप्राप्यापवृज्यन्ते इत्यागमात् ब्रह्मणो जीवभूतस्य ब्राह्मशतवर्षपर्याप्तस्या- पवर्गसमये शरीरिणां विश्रान्त्यर्थमीश्वरस्य संजिहीर्षा जायते । तदनन्तरं सर्वजीवगतादृष्टवृत्तिनिरोधः । यथा सुषुप्तौ कतिपयजीवानां युगपददृष्ट- वृत्तिनिरोधः तथा प्रलये सर्वेषामेव जीवानां युगपददृष्टवृत्तिनिरोधो भवति ( त० व० पृ० १२५) । तत आत्मसंयोगतो देहाद्यारम्भक- परमाणुषु ( प्रथमं पृथिवीपरमाणुषु ततो जलादिपरमाणुषु च ) कर्मोत्पद्यते । ततः परमाणुद्वयविभागः । ततः परमाणुद्वयसंयोगनाशः । ततो ह्यणुक- नाशः । ततस्त्र्यणुकनाशः । एवं चतुरणुकादिनाशक्रमेण महापृथिव्या- दीनां नाशः । अत्र प्राञ्चः कचित्समवायिकारणनाशाहूव्यनाशः यथा त्र्यणुकादिनाशः । कचिदसमवायिकारण नाशाद्रव्यनाशः यथा व्यणुकादि- नाशः इत्यङ्गीचक्रुः । नव्यास्तु लाघवात्सर्वत्रासमवायिकारणनाशाद्रव्य- नाशमङ्गीचक्रुः ( सि० च० १ पृ० ९) । इत्थं तेषां नाशः । पृथिव्युदकज्वलनपवनानामपि उदके सति पृथिव्याः ज्वलने सत्युद- कस्य पवने सति ज्वलनस्य पश्चात्पवनस्य च विनाश: इति ( प० मा० कालनि० पृ० ९३ ) ( प्रशस्त० पृ० ६ ) ( त० व० परि० ५ लो० ५ - ६ पृ० १२५) । ततः प्रविभक्ताः परमाणवो दोधूयमाना अवतिष्ठन्ते । अत्रोच्यते दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः इति ( भाष्य - कन्दली० ) ( प० मा० कालनि० पृ० ९३ ) । अदृष्ट- संस्कारविशिष्टा आत्मान आकाशादयश्चावतिष्ठन्ते तावन्तमेव कालम् ( शतवर्षम् )। अयमेव खण्डप्रलयः इति अवान्तस्प्रलयः इति चोच्यते (प० मा० कालनि० पृ० ९३) (त० व० पृ० १२५ ) ( त० ● दी० ) । महाप्रलयानन्तरं न सृष्टि: । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात् इति ( प० मा० पृ० ९३ ) । अन्यत्र चेत्थमुक्तम् । चतुर्णा महाभूतानां संहारविधिरुच्यते । ब्राह्मेण मानेन वर्षशतान्ते वर्तमानस्य ब्रह्मणोपवर्ग- काले संसारे खिन्नानां सर्वप्राणिनां निशि विश्रान्त्यर्थ सकलभुवनाधिपते- महेश्वरस्य संजिहीर्षासमकालं शरीरेन्द्रियभूतोपनिबन्धकानां सर्वात्मता नामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरे- न्द्रियकारणाणुविभागेभ्यः तत्संयोगनिवृत्तौ तेषां परमाण्वन्तो विनाशः । तथा पृथिव्युदकज्वलनपवमानानामपि महाभूतानामनेनैव क्रमेणोत्तर- स्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः । ततः प्रविभक्ताः परमाण- वोबतिष्ठन्ते । धर्माधर्मसंस्कारानुविद्धा आत्मानस्तावन्तमेव कालम् ( प्रशस्त ० १ पृ० ६) । न्यायमते स द्विविधः । खण्डप्रलय: महा- सि० दी० पृ० ७६ ) ( दि० ४ पृ० १८९) । सचागमप्रतिपाद्यः । प्रलयश्च । तत्राद्यः सकलकार्यद्रव्यानाधारकार्याधिकरणसमयः ( न्या० आगमस्तु नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरभून्नचान्यत् इति ( दि० ४ पृ० १८९) । द्वितीयस्तु सकलभावकार्यलयः । [ख ] त्रैलोक्यनाशः इति मायावादिन आहुः ( वेदा० परि० विषयप पृ० ८१ ) । [ग] पौराणिकास्तु भूतादिलयाधारः कालविशेषः प्रलयः । स च चतुर्विधः । नित्यः नैमित्तिकः प्राकृतः आत्यन्तिकश्च इत्याहुः । मायावादिनां मतेपि प्रलयश्चतुर्विधः । नित्यः प्राकृतः आत्यन्तिकश्चेति । तत्र नित्यप्रलयः सुषुप्तिः । प्राकृतप्रलयस्तु विनाशनिमित्तकः सकलकार्यविनाशः । नैमित्तिकप्रलयस्तु निमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव । नानाजीवादे दिवसावसान निमित्तक स्त्रैलोक्यमात्रप्रलयः । चतुर्थस्तु ब्रह्मसाक्षात्कार- क्रमेण । सर्व एकीभवन्ति इत्यादिश्रुतेः (वेदा० प० विषयप० पू० ८३-८४ ) इति । किंच युगप्रलयः मनुप्रलयः दिनप्रलयः महाप्रलय- श्वेत भेदेन चतुर्विधः प्रलयः इत्यपि पौराणिका वदन्ति । १० प्रलीनेषु निरुपलवविवेकख्यातिपरिपाकवशात्कार्यकारणात्मकानां प्रधाने लय: प्रलयः ( सर्व० सं० पृ० ३८६ पातञ्ज० ) । कूर्मपुराणे चैव- मुक्तम् । नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणे- स्मिन् प्रोच्यते प्रतिसंचरः ॥ इति । तत्र नित्यो यथा योयं संदृश्यते नूनं नित्यं लोके क्षयस्त्विह। नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ अत्र मायावादिन आहुः । नित्यप्रलयो नाम सुषुप्तिः । तस्याः सकल- कार्यप्रविलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मना- वस्थानम् । यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्च । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः । न क्रियाशक्ति- विशिष्टस्य इति प्राणाद्यवस्थानमविरुद्धम् इति ( वेदा० प० विषय० प० पृ० ८१-८२)। नैमित्तिको यथा ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ तत्र नैमित्तिकप्रलयकालश्च कल्पतुल्यः । यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वे निमीलति ॥ इति ( मनु० अ० १ श्लो० ५२ ) मनुना हिरण्यगर्भस्य निद्रासमये तत्प्रलयस्योक्तेः ( वाच० ) । प्राकृतो यथा महदाद्यं विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोयं प्रोच्यते कालचिन्तकैः ॥ अयमेव प्रलयः खण्ड- प्रलयः इति अवान्तरप्रलयः इति च नैयायिकैर्व्यवयिते इति ज्ञेयम् । आत्यन्तिको यथा ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गोयं कालचिन्तापरैर्द्विजैः ॥ आत्यन्तिकश्च कथितः प्रलयो लय- साधनः इति । <मलयाकलः> ( जीवः ) प्रलयेन कलादेरुपसंहारान्मलकर्मयुक्तो जीवः ( सर्व० सं० पृ० १८३ शैव० ) । <प्रवर:> ऋषेर्नाम ( मिता० अ० १ श्लो० ५३) । यथा भार्गववीतह- व्यसावेतसाः इति मम ( न्यायकोशकर्तुर्भीमाचार्यस्य ) त्रयः प्रवराः । <प्रवर्तकम्> प्रवृत्तिजनकम् । यथा नव्यनैयायिकमते बलवदनिष्टा ननुबन्धीष्ट- साधनले सति कृतिसाध्यताविषयकं ज्ञानं प्रवर्तकम् । अत्र बलवद- निष्टेत्यत्र बलवद्वेषे इष्टसाधनत्वघटकेच्छायां कृतिसाध्यता घटककृतौ च इदानींतनत्वं विशेषणं देयम् । तेन वक्ष्यमाणं सर्वे संगच्छते नानु- पपत्तिश्च । तथाहि । दोषदूषितचित्तो विषभक्षणादौ प्रवर्तते । इदानीं बलवद निष्टा ननुबन्धित्वज्ञानात् । तृप्तश्च भोजने न प्रवर्तते । इदानी - मिष्टसाधनत्वाज्ञानात् । भावियौवराज्ये बालस्य न प्रवृत्तिः । इदानीं कृतित्वज्ञानात् (दि० गु० पृ० २२५ ) । यथा वा जर न्नैयायिकमते इष्टसाधनताविषयकं कृतिसाध्यताज्ञानमेव प्रवर्तकम् । यथा विशेषणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानं प्रवर्तकम् ( चि० ४ ) ( न्या० म० ४ पृ० २५-२७) (दि० गु० पृ० २२२ - २२४ ) । स्वविशेषणवत्तेयादेरर्थश्च स्वम् प्रवर्तमानः पुरुषः । तत्र विशेषणम् काम्ये हि यागादौ कामना । नित्ये संध्यावन्द- नादौ तु विहितकालशौचादि । तद्वत्ता पक्षे तत्संबन्धः । तस्य प्रतिसंधा- नम् तत्संबन्धज्ञानम् । तज्ज्ञानमेव वा परामर्शात्मकम् । तेन जन्यं कार्यता- भोजनकाम: पचेत इत्यादि काम्यम् । अहरहः संव्यामुपासीतेत्यादि नित्यम् । ज्ञानम् कृतिसाध्यताज्ञानम् अनुमित्यात्मकम् इति । तत्र स्वर्गकामो यजेत इत्यर्थ: ( दि० गु० पृ० २२३) । अत्रानुमानयोगः तथाच काम्यस्थले काम्यसाधनताज्ञानम् नित्यस्थले तु शौचादिज्ञानम् मत्कृतिसाध्यो मत्कृति विना असत्वे सति मदिष्टसाधनत्वात् ( दि० गु० पृ० २२३ ) । नित्ये तु अहमिदानींतनकृतिसाध्यसंध्या- वन्दनः संध्यासमये शौचादिमत्त्वात् पूर्वसंध्यायामहमिव इति (चि० 8 ) । अत्र तदानींतनं स्वविशेषणम् इति वक्तव्यम् । तेन तृप्तश्च भोजने न प्रवर्तते । तदानीं कामनायाः पुरुषविशेषणत्वाभावात् । प्रतिसंधानं च बलवदनिष्टाननुबन्धित्वविषयकम् इति वक्तव्यम् । तेन मधुविष- संपृक्तानभोजने न प्रवृत्त्यापत्तिः । एवं च बलवदनिष्टानुबन्ध- विषयकं यत् स्वविशेषणवत्ताज्ञानम् तज्जन्यं कृतिसाध्यताज्ञानं प्रवर्तकं भवति इति निष्कृष्टोर्थ: ( दि० गु० पृ० २२३) । यथा वा चोद- नेति क्रियायाः ( नियोगस्य) प्रवर्तकं (ज्ञानद्वारा प्रवर्तकम् ) वचनम् इत्यादी (शावरभाष्यम्) । अधिकं तु विधिशब्दे प्रवृत्तिशब्दे च सवि- स्तरं संपादयिष्यते इति तत् तत्र द्रष्टव्यम् । <प्रवर्तनम्> <प्रवर्तना> १ प्रवृत्तिहेतुत्वम् (गौ० वात्स्या० भा० १।१।१८) । यथा प्रवर्तनालक्षणा दोषाः ( गौ० १११११८) इत्यादौ । २ [ क ] यद्वि- षयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं तत् । यथा स्वर्गकामो यजेत जल- माहरेतेत्यादौ लिडर्थो विधिः प्रवर्तनम् (वै० सा० ) ( कु० ५/६ ) । अत्र यत्पदार्थ इष्टसाधनत्वम् । तथा च इष्टसाधनत्वस्य ज्ञानं प्रवृत्तिं जनयतीतीष्टसाधनत्वं प्रवर्तनं भवति इति ज्ञेयम् ( बै० सा० द० ) । मण्डन मिश्राणामपीदमेव मतम् इति विज्ञेयम् ( दि० गु० प्रयत्न नि० पृ० २२६) । [ ख ] भट्टपादास्तु प्रवर्तयितुः प्रवृत्त्यनुकूलव्यापार- विशेष: इत्याहुः । स च चेतनस्याभिप्राय एव । अचेतनस्य तु वेदस्या- भिधानामा कश्चिच्छब्दसमवेतः शाब्दभावनापरपर्यायो लिङ्त्वांशेनोच्यते इति ( दि० गु० विधिनि० पृ० २२६ ) । [ग] प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना ( मी० न्या० पृ० ६९ ) । प्रवर्तना च प्रवृत्तिजनक- ज्ञानविषयितावच्छेदिका इति वैयाकरणाः ( दि० गु० पृ० २२६ ) । प्रवर्तना चतुर्विधा विधिनिमन्त्रणामन्त्रणाधीष्टभेदात् । तत्र विधिः प्रेरणम् । भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणम् । आवश्यके श्राद्ध- भोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः ( सि० कौ० पृ० १८९) । अत्रोक्तम् अस्ति प्रवर्तना रूपमनुस्यूतं चतुर्ष्वपि इति ( वाच० ) । <प्रवीचारः. भोगः । <प्रवृत्तिः> १ (प्रयत्नः ) [ क] उत्कटरागजन्यः प्रयत्नविशेषः (वै० ३११/१९ ) । लक्षणं तु प्रवृत्तित्वमेव । तच्च रागजन्यता- वच्छेदकतया सिद्धो जातिविशेषः (गौ० वृ० ११ १२ १९१७) । चिकी- र्षाजन्यतावच्छेदको जातिविशेषो वा ( मू० म० १) (ल० ब० पृ० १३७) । चेष्टाजनकतावच्छेदकतया सिद्धो जातिविशेषो ( श० प्र० श्लो० ९५ पृ० १३७ ) । प्रवृत्युत्पत्ताषयं क्रमः । प्रथमतः फलज्ञानम् । ततः फलेच्छा । तत इष्टसाधनताज्ञानम् उपाये । तत उपायेच्छा । ततः प्रवृत्तिरुत्पद्यते इति ( त० प्र० ख० ४ पृ० १०३ ) । ७३ न्या० को० प्रवृत्तिच्छिामपेक्षते । इच्छा चेष्टसाधनताज्ञानम् । तच्चेष्टसजातीयत्वे लिङ्गानुभवम् । सोपीन्द्रियार्थसंनिकर्षम् ( कु० ५/६ ) । प्रवृत्ति प्रति चिकीर्षा कृतिसाध्यताज्ञानम् इष्टसाधनत्वज्ञानं च कारणम् ( भा०प० श्लो० १५१) । कृतिश्चात्र प्रवृत्तिरूपा बोध्या । तेन जीवनयोनियन साध्ये प्राणपञ्चकसंचारे न प्रवृत्तिः अत्र मधुविषसंपृक्तान्नभोजनादौ प्रवृत्त्या - पत्तिवारणाय चिकीर्षेति ( मु० गु० पृ० २२२ - २२५) । नान्तरीयके श्रमे प्रवृत्तिवारणाय चिकीर्षा कारणम् इत्यवश्यं मन्तव्यम् । तेन इष्टसाधनत्वज्ञानस्य कारणत्वं व्यर्थम् । वृष्ट्यादौ प्रवृत्त्यापत्ते- वारणाय कृतिसाध्यताज्ञानम् । अनिष्टसाधने प्रवृत्यापत्तिवाराष्ट साधनत्वज्ञानं च कारणमित्युक्तम् । किंत्वनिष्टसाधने चिकीर्षैव नास्ति । प्रवृत्तिं प्रति चिकीर्षामात्रं कारणम् इति प्राभाकरी आहुः । प्राभाकरमते शुक्तौ रजतार्थिप्रवृत्तिं प्रति पुरोवर्तिनीष्टतावच्छेदकासंसर्गाग्रह एव हेतुः । न तु न्यायमतसिद्ध इष्टतावच्छेदकप्रकारकं ज्ञानं हेतुः ( त० प्र० ख० ४ पृ० १३३ ) । प्राभाकराणामयमाशयः । कार्यत्वज्ञानं प्रवर्त- कम् । तथाहि । ज्ञानस्य प्रवृत्तौ जनयितव्यायां चिकीर्षातिरिक्तं नापे- क्षितमस्ति । तत्सत्त्वे कृतिविलम्ब हेत्वन्तराभावात् । चिकीर्षा च कृति- अत एव स्वकृतिसाध्ये पाके प्रवर्तते । न त्विष्टसाधनताज्ञान- साध्यताज्ञानसाध्या । इच्छायाः स्वप्रकारकधीसाध्यत्वम् इति नियमात् । साध्या । स्वकृत्यसाध्ये चन्द्रमण्डलानयनादौ चिकीर्षाया अदर्शनात (चि० ४ ) (मु० गु० पृ० २२२-२२३) । अत्रेदं बोध्यम् । प्राभाकरमते प्रवृत्तेर्हि विषयता त्रिविधा । साध्यत्वाख्या उपादानवा- परनाम्नी सिद्धत्वाख्या उद्देश्यत्वाख्या चेति । तत्राद्या यनिष्ठकृतिसाध्य- ताज्ञानचिकीर्षादिना प्रवृत्तिः तन्निष्ठा । सा च घटयागपाकादिनिष्ठेव । करोमि यागं करोमि इत्याद्यनुव्यवसायः । न तु कपालहविरादेः सिद्धता- म तु तज्जनकीभूतकपालह विस्तण्डुलादिसिद्धनिष्ठा । अत एव घटं दशायां कपालं करोमि हविः करोमि इत्याद्यनुव्यवसायः व्यवहारो वा । (द्वितीया तु विषयता सिद्धकपालहविस्तण्डुलायुपायनिष्ठा । कपालेन घट करोमि हविषा यागं करोमि इत्याद्यनुव्यवसायात् । तृतीया च यत्साध- नताज्ञानाधीना चिकीर्षा तन्निष्ठा । तच्च जलाहरणस्वर्गौदनादिरूपम् । जलाहरणमुद्दिश्य घटं करोमि स्वर्गमुद्दिश्य यागं करोमि इत्यनुव्यवसायात् इति (मु० म०) (बाच ० ) । [ख] चिकीर्षाजन्यो यत्नः (त० कौ० ) । यथा विद्यार्थी विद्यायां प्रवर्तते इति । [ग] तस्येप्साजिहासाप्रयुक्तस्य समीहा (वात्स्या० १।१।१ प्रस्तावना ) । तस्येत्यस्य ज्ञातुरित्यर्थः । [घ ] प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ( गौ० १११११७ ) इति । तदर्थश्च वागारम्भो वाचिकी प्रवृत्तिः । सत्यं प्रियं हितमिति पुण्या । असत्यमप्रियमहितमिति पापा । बुद्धिः बुध्यते ज्ञायतेनेनेति मन उच्यते । तेन मानसी प्रवृत्ति - र्भूतदयादिः । शारीरी प्रवृत्तिः दानं परिचरणमित्यादिका दशविधा पापा दशविधा पुण्या चेति (वै० उ० ६।२।१४ ) । शरीरेण मनसा वाचा च प्रवृत्तिरारभ्यते । सेयं प्रवृत्तिः द्विविधा पुण्या च पापा च । पुण्या दशविधा कायेन परित्राणम् परिचरणम् दानमिति । वाचा सत्यम् हितम् प्रियम् स्वाध्यायः इति । मनसा दया स्पृहा श्रद्धा चेति । विपर्ययेण पापापि दशविधैव । प्रवृत्तिफले प्रवृत्युपचारः । तद्यथा अन्नं वै प्राणिनः प्राणाः इति । प्रवृत्तिफलं धर्माधर्मो ( न्या० वा० १।१।१७ पृ० ८५ ) । अत्र भाष्यम् । मनोत्र बुद्धिरित्यभिप्रेतम् । बुद्ध्यतेनेनेति बुद्धिः । सोयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । तदे- त्कृतभाष्यं द्वितीयसूत्र इति (वात्स्या० १११११७) । प्रवृत्तिस्तु द्वयी । कारणरूपा कार्यरूपा च । द्वे अप्यात्मसमवेते । तत्राद्या जन्यत्वेना- विशिष्टा विशिष्टा वा यत्नत्वजातिमती प्रत्यक्षसिद्धा । द्वितीया तु धर्माधर्मरूपा यागादेरगम्यागमनादेश्च चिरध्वस्तस्य व्यापारतया कर्म- नाशाजलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिद्ध्यतीति ( गौ० वृ० ४।१११ ) ( कु० ११९) । तदुक्तम् कर्मनाशाजलस्पर्शात्करतोया- विलङ्घनात् । गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इति । अत्र कर्मनाशा गयानिकटवृत्तिर्नदीविशेषः इति ज्ञेयम् । अत्र वार्तिककारा आहुः । प्रवृत्तेर्वैविध्यम् । पुरुषभेदानुविधानात् । तेषां पुरुषाणां प्रवृत्त.. यस्ताः पुरुषभेदमनुविधीयमाना उभयरूपा भवन्ति । वीतरागप्रवृत्तिरे- कधा । तत्र या वीतरागाणां प्रवृत्तिः सा खल्वेकरूपा । अनिष्टप्रतिषे- धार्था । अनिष्टं हास्याम इत्येव ते प्रवर्तन्ते । न पुनरेषां क्वचिदभिष- ङ्गोस्ति । रागादिमत्प्रवृत्तिस्तु द्विरूपा । ये तु रागादिमन्तस्तेषां याः प्रवृत्तयस्ता द्विविधा भवन्ति । इष्टानिष्टविषयाधिगमप्रतिषेधार्थाः । इष्ट- माप्स्यामीति सक्तः प्रवर्तते । अनिष्टं हास्यामीति द्वेषान्निवर्तते । रागादि- मत्प्रवृत्तेरपि द्वैविध्यं भवति । समर्थासमर्थभेदात् । या खलु रागादि- त्प्रवृत्तिः सा समर्था असमर्था च भवति । इष्टमाप्स्यामीति प्रवर्तमान प्राप्नोति तदा समर्था । तथा अनिष्टं हास्यामीति प्रवर्तमानो यदा जहाति तदा समर्था । यदा विपर्ययस्तदा असमति ( न्या० वा० पृ० ३ ) । भट्टपादा आहुः । लोके प्रवृत्तिर्द्वधा । स्वेच्छाधीना परप्रेरणाजन्या च । तत्राद्यायां प्रवर्तनाया अनुपयोगेपि द्वितीयप्रवृत्तौ सा प्रयोजिका आचार्यप्रेरणयेदं करोमि इति व्यवहारातू ( दि० गु० प्रयत्ननि० पृ० २२६)। २ शब्दानामर्थबोधनशक्तिविशेषः प्रवृत्तिः । यथा प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ( कुमार० २११७) इत्यादौ । ३ स्वविषय इन्द्रियादीनां संचारः । ४ प्रवाहः । ५ वार्ता इति काव्यज्ञा आहुः ( वाच० ) । <प्रवृत्तिनिमित्तम्> [क] पदशक्यतावच्छेदकम् यथा घटत्वं घट प्रवृत्तिनिमित्तम् । एवम् शुक्लादिपदस्य शुकृत्वम् पाचकादेः पाक: देवदत्तादेस्तत्तत्पिण्डादि प्रवृत्तिनिमित्तं भवति । प्रवृत्तिनिमित्तशब्दस्य व्युत्पत्तिः प्रवृत्तेः शब्दानामर्थबोधनशक्तेः निमित्तं प्रयोजकम् इति । तच शक्यतावच्छेदकं भवति इति ज्ञेयम् । तल्लक्षणं च प्रकारतया शक्तिग्रहविषयत्वम् ( चि०) । अथवा वाच्यत्वे सति वाच्यवृत्तिवे सति वाच्योपस्थितिप्रकारत्वम् इति ( ग० शक्ति० ) । [ ख ] निरवच्छिन्न- विशेष्यता निरूपितप्रकारतावत् इति शाब्दिका वदन्ति । <प्रवेशः> पुत्रोद्वाहः प्रवेशाख्यः (पु० चि० पृ० ४५० ) । <प्रवेशनम्> निष्क्रमणबदस्यार्थोनुसंधेयः । <प्रशंसा> (स्तुतिः ) गुणाविष्करणम् । <प्रश्नः> [क] अभिधानप्रयोजनादिजिज्ञासा ( कु० ५)। यथा भोः किं तव नामधेयम् किमर्थं च भवतावागतम् इति प्रश्नः । अत्र जिज्ञासा- शब्देन तत्प्रयोज्यकथांनुकूलव्यापारो लक्ष्यते । [ ख ] अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते । [ग] जिज्ञासाविष्करणम् । यथा कीदृशो गवयपदवाच्यः इति प्रश्नः ( म० प्र० ३ पृ० ३४ ) । [घ ] शाब्दिकास्तु उत्तरप्रयोजिकेच्छा इत्याहुः ( बै० सा० द० ) । [ ङ ] जिज्ञासाज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा गुरुं धर्मं पृच्छ- तीत्यादौ पृच्छतेरर्थः । अत्र धात्वर्थघटकज्ञाने गुरुवृत्तित्वस्यान्वयः । शब्दे च धर्मविषयकत्वस्य अन्वयः ( ग० व्यु० का० २ पृ० ४६ ) । शब्दस्य च विषयता व्यापारानुबन्धिनी । व्यापारस्तु ज्ञानम् इति बोध्यम् । अत्राधिकं तु पृच्छाशब्दव्याख्यानावसरे संपादितम् तत्तत्रैव दृश्यम् । [ च ] जिज्ञासाविषयार्थज्ञानानुकूलः केन पथा गन्तव्यम् इत्यभिलापादि- रूपो व्यापारः । यथा माणवकं पन्थानं पृच्छतीत्यादौ पृच्छेरर्थः । अत्र माणवकस्य व्यापारे संबन्धसामान्येनान्वयः । ज्ञानविषयत्वेन पथः कर्मत्वम् । माणवकेन च तज्ज्ञानाश्रयत्वं संबन्ध: ( ल० म० सुबर्थ ० पृ० ९२ ) । अत्रेदं बोध्यम् । यद्धर्मविशिष्टे यद्धर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तदुत्तरवाक्यात् तद्धर्मविशिष्ट एव तद्धर्मव्याप्य धर्मावच्छिन्नसंबन्धश्चेय्प्रतीतो भवति तदैव च प्रश्नोत्तरभावनिर्वाहः । यथा कस्माद्धटः इति प्रश्ने दण्डाद्धटः इत्युत्तरम् । यथा वा किं करोति इति प्रयत्नविशिष्टे प्रश्न पचति इत्यनेन पाककृतिबोध: ( त० प्र० ख० ४ पृ० ७३ ) । एवम् प्रश्नवाक्ये यत्प्रधानम् तत्समान लिङ्गवचन- शब्देनैवोत्तरं यथाकथंचित्प्रश्न विषयजिज्ञासानिवर्तकम् । एवं च के शिष्या अस्य इति प्रश्ने कठाः इत्येवोत्तरम् न तु कठः इति । एवम् किंशिष्योयम् इति बहुव्रीहिसमासेन प्रश्ने कठः इत्येव न तु कठाः इति । तस्क शिष्याणां कठत्वमर्थप्राप्तम् इत्यार्थमिदमुत्तरम् इति ( ल० म० लका० पृ० ७६ ) । <प्रश्वासः> कोष्ठ्यस्य वायोः बहिर्निःसारणम् (सर्व० सं० पृ० ३७६पातञ्ज ० ) । <प्रष्ठाही> यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति ताव- द्वयस्का प्रष्ठौही (जै० न्या० अ० ४ पा० ४ अधि० १ ) । <प्रसक्तिः> १ अनुमितिः (दीधि ० ) । २ आपत्तिः । ३ प्रसङ्गः । ४ व्याप्तिः । यथा अतिप्रसक्तिरन्यधर्मत्वे (सां० सू० अ० १ सू० ५३) इत्यादौ । तदर्थश्च बन्धतत्कारणयोर्भिन्नधर्मत्वेतिप्रसक्तिः मुक्तस्यापि बन्धापत्तिः इति ( सां० प्र० मा० ११५३ ) । तथा च अत्र अतिप्रसक्तिः अति- व्याप्तिरित्यर्थः । ५ प्राप्तिः । यथा प्रसक्तं हि निषिध्यते इत्यादौ । <प्रसङ्गः> १ (संगतिः ) [क] उपोद्वातादिभिन्नस्मरणप्रयोजकसंबन्धः ( राम० ) । प्रतियोगित्वानुयोगित्वाधारत्वादीनामप्यन्त्रैवान्तर्भाव: ( म० प्र० २ पृ० १५ ) । प्रसङ्गत्वं च संगतित्वे सत्युपोद्धातादिभिन्नत्वम् ( जगदीश: ) । [ख ] स्मृतस्योपेक्षानर्हत्वम् ( नील० १ पृ० १५) ( म० प्र० २ पृ० १५) । यथा यथार्थानुभवरूपप्रमाविभजनानन्तरं प्रमाकरणविभजने प्रसङ्ग : संगतिः ( त० दी० १ पृ० १५) । स्मृत- स्योपेक्षानर्हत्वमित्यस्यार्थश्च स्मृतिकालावच्छेदेनोपेक्षा नर्हत्वम् ( भवा० ) । मितिग्रन्थे गदाधरः) । अथवा स्मृतिकालावच्छिन्नोपेक्षानर्हतावच्छेदकधर्म- यद्वा द्वेषविषयतानवच्छेदकः स्मृतिविषयतावच्छेदको धर्मः इति ( अनु- वत्त्वम् (वै० सा० द० ) । २ व्याप्तिरूपः प्रकृष्टसंबन्धः । यथा अतिप्रसङ्गः अप्रसङ्गः इत्यादौ । ३ वैयाकरणास्तु प्राप्तिः । यथा कृताकृतप्रसङ्ग नित्यम् तद्विपरीतमनित्यम् (परिभाषेन्दु० पृ० ८१) इत्यादी इत्याहुः । ४ मीमां- सकास्तु अन्योद्देशेन प्रवृत्तौ तदन्यस्यापि सिद्धिः प्रसङ्गः । देशेनान्यदीयस्यापि सहानुष्ठानं प्रसङ्गः ( जै० न्या० अ० १२ पा० १ चे० १ ) । यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः पुरोडाशस्याप्युपकारः सिद्ध्यति । यथा वा तप्ते पयसि दध्यानयति सा वाजिनस्यापि सिद्धिः । यथा वा काम्ययागनिष्पत्त्यर्थमनुष्ठितैराग्नेयादिमि- वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्यत्र आमिक्षार्थी प्रवृत्तौ अनुदेश्य- नित्ययागादिसिद्धिः इत्याहुः ( मिता० ) ( प्रा० त० ) ( वाच० ) । <प्रसङ्गसमः> ( जाति: ) [ क ] दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थाना- त्प्रसङ्गसमः ( गौ० ५२११९ ) । साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रियाहेतुगुणयोगी क्रियावाँलोष्ट इति हेतुर्नापदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति ( वात्स्या ० ५।१।९ ) । अत्र वृत्तिः । दृष्टान्तस्य कारणं प्रमाणम् । तदनपदेशो- नभिधानम् । अभिधानं चानतिप्रयोजकम् । तथा च दृष्टान्तस्य साध्य- वत्त्वे प्रमाणाभावात् प्रत्यवस्थानम् अर्थः । यद्यपीदं सदुत्तरमेव तथापि दृष्टान्ते प्रमाणं वाच्यम् तत्रापि प्रमाणान्तरम् इत्यनवस्थया प्रत्यवस्थाने तात्पर्यम् । तदुक्तमाचार्यैः अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इति । एतन्मते हेतोर्हेत्वन्तरम् इत्यनवस्थापि प्रसङ्गसम एव । पूर्वमते तु हेत्व- नवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतम् इति विशेषः । अनवस्था- देशनाभासोयम् इति विज्ञेयम् ( गौ० वृ० ५/१/९) । [ख] साधन- परंपराप्रश्नः । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्ट वदित्यादौ क्रियावत्वे क्रियाहेतुगुणवस्वं साधनम् । तत्र किं साधनम् । न हि साधनं विना कस्यचिसिद्धिरस्ति । एवं तत्रापि किं साधनम् इत्यादि (नील० पृ० ४४ ) । [ग] अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इत्यु- दयनाचार्या : आहुः (गौ० वृ० ५१११९) । तथा चोक्तम् सिद्धे दृष्टान्तहेत्वादौ कारणप्रश्नपूर्वकम् । अनवस्थाभासवाचः प्रसङ्गसम- जातिता ॥ इति ( ता० ₹० परि० २ श्लो० ११३) । <प्रसङ्गी> सवनीयपुरोडाशः (जै० न्या० अ० ११ पा० ३ अधि० १६)। <प्रसज्यः> १ प्रसज्यप्रतिषेधवदस्यार्थोनुसंधेयः । अत्रार्थे भीमो भीमसेनवत् प्रसज्यप्रतिषेधशब्दस्यान्त्यलोपे प्रसज्य इति रूपं सिद्ध्यति । २ प्रसञ्जन- कर्मभूतः । आपाद्यः इति यावत् । <प्रसज्यप्रतिषेधः> (नञर्थः ) [क] संसर्गाभावः । तदर्थश्च क्रिया- समभिव्याहृतनञ्प्रतिपादोत्यन्ताभावः इति ( ल० म० ) । यथा चैत्रो न पचतीत्यादौ नञर्थ: (चि० ) । अत्र पाककृत्यभाववाश्चैत्रः इति शाब्दबोधः । यथा वा भूतले घटो नास्तीत्यादौ नञर्थोत्यन्ताभावः । प्रसज्यप्रतिषेधशब्दस्य व्युत्पत्तिस्तु प्रसज्य विधाय विहितस्य प्रतिषेधः इति । प्रसज्य क्रियागुणौ ततः पश्चान्निवृत्तिं करोति इति महाभाष्य- प्रामाण्यात् ( ल० म० ) । केचित्तु प्रसज्य प्रसक्तिं संपाद्य (आरो- व्येति यावत् ) प्रतिषेधः इत्याहुः । अत्रायं विवेकः । प्रसक्तं हि प्रति- षिध्यते इति न्यायेनारोपितप्रसङ्ग स्यैव निषेधः । तेन वायौ रूपं नास्ती - त्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञा बोध्यते इति ( वाच ० अत्रायमण्यन्यो विशेषः । प्रसज्यनञा तत्पुरुषो भावकृदन्तपदयोग एव । न घटादिपदयोगे । वादिनामविवाद इत्यायुदाहरणेषु भावकृदन्तस्यैवो- त्तरपदत्वात् इति संप्रदायविद आहुः ( श० प्र० ) । [ख ] शाब्दि- कलखं भक्षयेदित्यादौ नञर्थः प्रसज्यप्रतिषेधः इत्याहुः । तदुक्तमभियुक्तैः कादयस्तु यस्यार्थस्य धात्वर्थेनान्वयो नञा प्रत्याय्यते सः । यथा न प्रसज्यप्रतिषेधः स्याक्रियया सह यत्र नञ् इति । अत्र विशेषः । न कलअं भक्षयेदित्यत्र बलवदनिष्टासाधनत्व विशिष्टेष्टसाधनत्वरूपस्य विषय- र्थस्याभावो नञा भक्षणक्रियायां बोध्यते । तेन विधेरप्राधान्यम् नअर्था- भावस्य च प्राधान्यम् । तेन तत्र क्रियापदान्वयी नञ् प्रसज्यप्रतिषेधार्थकः । तदुक्तम् अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोसौ पुरा इत्यादावमुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्वमेवो- चितम् इति । न कलञ्जमित्यत्र गुरुमते तु कलञ्जभक्षणाभावविषयकं कार्यम् इति बोधेनाभावविशेष्यकबोधेपि प्रतिषेधस्य प्राधान्यात् तथा त्वम् । तथा च तन्मते कचित् विधेरप्राधान्येन कचिञ्च प्रतिषे धस्य प्राधान्येन इति व्यस्तमेव प्रसज्यप्रतिषेधप्रबोधप्रयोजकम् इति बोध्यम् ( वाच० ) । <प्रसञ्जनम्> १ [क] आपादनम् । यथा अत्र घट: स्यात् तर्छुपलभ्येत इति । ख ] आहायोरोपः ( राम० ) । यथा यदि पर्वतो निर्वह्निः स्यात्तर्हि निर्धूमः स्यात् इति । २ क्वचित् तुल्यत्वेनाभावयोः प्रतिभाव- वचनम् प्रसञ्जनम् । <प्रसादः> कर्तृत्व निर्वाहकं वरप्रदानम् ( कि० व०६) । यथा प्रसादं कुरु देवेश इत्यादौ । कर्तृत्वनिर्वाहश्च फलप्राध्या भवति । <प्रसारणम्> (कर्म) [क] शरीरविप्रकृष्टहेतुः कर्मविशेष: ( त० सं० ) (त० कौ० ) । ऋजुतासंपादकम् इत्यर्थः ( त० दी० ) । लक्षणं च दूरदेशसंयोगजनकक्रियानुकूल क्रियात्वम् (ल० व० ) । [ ख ] एवमाकु- ञ्चिताङ्गानां यत्कर्मोत्पद्यते पुनः । अनारम्भकसंयोगनाशकं तत्प्रसारणम् ॥ ( त० व० पृ० २४१ ) । [ग] आकुञ्चनविपर्ययेण संयोगविभागो- त्पत्तौ येन कर्मणावयवी ऋजुः संपाद्यते तत् प्रसारणम् ( प्रशस्त० पृ० ३७ ) । [घ ] प्रसारणत्वजातिमत् । [ङ] विस्तार करणक्रियाविशेषः इति केचित् ( वाच० ) । <प्रसिद्धिः> १ ज्ञानम् । २ ख्यातिः । ३ भूषणम् । ४ टङ्कारः इति केचिदाहुः (वाच० )। <प्रसुप्तत्वम्> प्रबोधसहकार्यभावेनानभिव्यक्तिः (सर्व० सं० पृ०३५९ पात ० ) । <प्रस्तावना > १ आरम्भः यथा आर्य बालचरित प्रस्तावनाडिण्डिमः ( वीरच० ) इत्यादौ । २ आमुखाख्यं नाटकाङ्गम् इति साहित्यशास्त्रज्ञा आहुः (वाच० )। तदुक्तम् आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ( सा० द० परि० ६ श्लो० २८७ ) इति । <प्रस्थानम्> १ गमनम् । २ अभीष्टवस्तुचालनम् इति मौहूर्तिका आड्डः ( धर्मसिन्धौ प० ३ पृ० ११७ ) । <प्रागभावः> ( अभावः ) [क] प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगि- जनकः भविष्यति इति व्यवहारहेतुरभावः ( त० दी० ) ( न्या० म० पृ० ११ ) ( त० प्र०) । यथा इह कपाले घटो भविष्यति इति प्रतीतिसाक्षिकः अभावः (त० कौ ० ) (प्र०प्र०) । [ ख ] उत्पत्तेः प्राकू समवायिकारणे कार्यस्य संसर्गाभावः । [ग] अनित्यः अनादि- तमः प्रागभावः ( सर्व० सं० पृ० २३२ अक्षपा० ) । अत्रेदं बोध्यम्। उत्पन्नस्यैव पुनरुत्पत्त्यापत्तिनिवारणार्थ प्रागभावः अवश्यं स्वीकार्यः । सच कार्यस्योत्पत्तेः पूर्व कार्यस्य समवायिकारणे तिष्ठति ( त० व० ७४ न्या० को ० २।६।९) इति । प्रागभावलक्षणं तु विनाश्यभावत्वम् (मु०) ( न्या० म० १ पृ० ११ ) ( त० सं० ) । अत्रायं विशेषो ज्ञेयः । प्रागभावस्य ( सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं नास्ति । किंतु तत्तद्व्यक्तित्वावच्छिन्न- ॐ प्रतियोगिताकत्वमेव इति ( वाच० ) । शाब्दिकास्तु कारणे शक्तिरूपेणा- वस्थानम् इत्याहुः (ल० म० धात्व० पृ० ६ ) । सांख्यास्तु भावस्या- नागतावस्थैव प्रागभावः इत्याहुः । <प्राग्देशम्> अभिजित् ( पु० चि० पृ० ३५४ ) । <ग्राङ्न्यायः> आचारेणावसन्नोपि पुनर्लेखयते यदि । सोभिधेयो जितः पूर्व प्राङ्न्यायस्तु स उच्यते ॥ ( मिताक्षरा अ० २ श्लो० ७ ) । <प्राची> (दिक् ) [ क ] यदपेक्षया सूर्योदयाचलसंनिहिता या दिक् सा तदपेक्षया प्राची। संनिधानं तु संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्य- संयोगा अल्पीयांसो भूयांसो वा दिगुपनेयाः (वै० उ० २१२/१० )। अत्र व्युत्पत्तिः प्राक् अस्यां सविता अञ्चति इति प्राची (वै० उ० २।२।१४ ) । [ख] यस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदि- (वै० उ० २१ २११४ ) । अत्र सूत्रम् आदित्यसंयोगाद्भूतपूर्वाद्भवि- त्यस्य प्रथमं संयोगो भूतपूर्वो भविष्यन्वा भवन्वा सा दिक्प्राची ष्यतो भूताच्च प्राची (वै० २।२।१४) । अत्र पुरुषाभिसंघिभेदमा- श्रिव्य कालत्रयोपवर्णनम् । भवति हि कस्यचित् पूर्वेयुः प्रातरस्यां दिशि आदित्यसंयोगः प्रथमं वृत्तः इति इयं प्राची इति प्राचीव्यव- हारः । कस्यचित् अपरेयुरस्यामादित्य संयोगः प्रथमं भावी इत्यभिसं- धाय प्राचीव्यवहारः । कस्यचित् इदानीमस्यामादित्यसंयोगो भवन्नस्ति इत्यभिसंधाय प्राचीव्यवहारः । सूत्रे भूतादित्यत्रादिकर्मणि क्तप्रत्ययः (वै० उ० २।२।१४) । एवम् दिगन्तरव्यवहारोपि स्वयं परिकल्पनीयः । [ग] उदयाचलसंनिहितदेशावच्छिन्ना दिक् (वाक्य० ११० ५ ) । [घ ] उदयाचलसंनिहितमूर्तावच्छिन्ना दिक् (नील० १ पृ० [च] यदपेक्षयोदय गिरिसंनिहितं यन्मूर्त सा ततः प्राची। तदपेक्षयो- [ङ] उदयाचलसंनिहिता या दिक् सा ( न्या० बो० पृ० ३ ) / दयगिरिसंनिहितत्वं च तन्निष्ठोदयगिरिसंयुक्तसंयोगापेक्षयाल्पतरोदयगिरि- संयुक्तसंयोगवत्त्वम् ( दि० १।२ ) । यथा मथुरातः प्राच्यां प्रयागः इति ( दि० ११२ ) । यथा वा झळकीग्रामात्प्राच्यां तिरुपतिः इति । मथुरात इत्यत्र मथुरानिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्याप्यसंख्या- पर्यायधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इत्यन्वयबोधः ( दि० १।२ ) । एवमन्यत्राप्यन्वय ऊह्यः । <प्राचीनवंशः> ( मण्डपः ) यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्राः भवन्ति स प्राचीनवंश: ( जै० न्या० अ० ३ पा० ४ अधि० ६ ) । <प्राजक:> सारथिः ( मिताक्षरा अ० २ । ३०० )। <प्राजापत्यः> ( विवाहः) इत्युक्त्वा चरतां धर्मे सह या दीयतेर्थिने । स कायः पाबयेत्तज्जः षट् षड्डुंश्यान्सहात्मना ॥ ( याज्ञवल्क्य०अ०१ श्लो०६०)। <प्राजापत्यम्> १ रोहिणी ( पु० चि० पृ० ३०६) । २ प्रायश्चित्तविशेषः । त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं तु नाश्नीयात्प्रा- जापत्यं चरन्द्विजः ॥ ( पु० चि० ४९ ) । <प्राडिवाकः> विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः । विचारयति येनासौ प्राड्ढिवाकस्ततः स्मृतः ॥ (मिताक्षरा अ० २ श्लो० ३) । <प्राण:> १ (वायुः ) [क] मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः (० १।२ ) । स च विषयात्मको वायुः (त० सं० ) । शरीरेन्द्रिय- विषयात्मकवायुभ्यो भिन्नश्चतुर्थः प्राणाख्यो वायुः इत्यप्याकरग्रन्थेषु प्रतिपादितम् । तत्तस्मादेवावगन्तव्यम् । [ख] शरीरान्तःसंचारी वायुः। चैकोपि हृदयादिस्थानभेदात् मुखनिर्गमादिक्रियाभेदाञ्चेत्येवमुपाधिभेदात् प्राणापानादिसंज्ञां लभते ( त० सं० ) ( सि० च० ) (मु० १ ) । यथा मूलाधारोद्गतः प्राणः ( शा० ति० ) इत्यादौ । [ग] कश्चित् ान्तःकरणवृत्त्या जीवनयोनिप्रयत्नरूपया व्याप्रियत इति कृत्वा प्राणोन्तःकरणवृत्तिः इत्यभेदनिदेशः इत्याह । २ इन्द्रियाणां साधारणी कारणत्रयस्य वृत्तिः ( परिणामः ) न तु वायुविकारः इति सांख्या आहुः । ३ परब्रह्म ( विष्णु: ) प्राणशब्द- वाच्यम् इति वेदान्तिन आहुः । अत्र प्रमाणानि ॐ अत एव प्राणः (ब्रह्मसू० १ । १ । २३) । तद्वै त्वं प्राणो अभवः महाभोगः प्रजापते- र्भुजः करिष्यमाणः यद्देवान् प्राणयो नव इति । श्रीश्च ते लक्ष्मीश्च पढ्यौ अहोरात्रे पार्श्वे (श्रुतिः ) इति च ( मध्यभा० १ । १ । २३ ) । तथा ॐ प्राणस्तथानुगमात् ॐ ( ब्रह्मसू० १११।२८ ) । तं देवाः प्राण- यन्त स एषोसुः स एष प्राणः स एष भूतिश्च प्राण ऋच इत्येवं विद्यात् तदयं प्राणोधितिष्ठति ( श्रुतिः ) इति ( मध्वभा० ११११२८) । प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो मनः ( श्रुतिः ) इति च ( मध्वमा० १ । ४।१३) । ४ दशगुरुवर्णः प्राणः षट् प्राणा: स्याद्विनाडिका तासाम् । षष्ट्या घटी घटीनां षष्ट्याहोरात्र उक्तश्च ॥ ( मिताक्षरा २।१०२) । अहोरात्रशब्दे दृश्यम् । <प्राणायामः> ( योगाङ्गम् ) [ क ] तस्मिन् सति श्वासप्रश्वासयोर्गति- विच्छेदः (पात० सू० पाद० २ सू० ४९ ) । तस्मिन् आसनस्थैर्ये सति इत्यर्थः ( गौ० वृ० ४।१११ ) । [ख] प्राणवायोर्गतिविच्छेद- कारकव्यापारविशेषः । अत्रोक्तं ज्ञानार्णवे कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुट- धारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ इति ( वाच० सच प्राणायामो द्विविधः । सगर्भ निगर्भश्च । तत्राद्यो मन्त्रजपेन । द्वितीयो मात्रया । मात्रा तु वामजानुनि तद्धस्तभ्रामणमात्रकालः । अधिकं तु तन्त्रसाराज्ज्ञेयम् । <प्रातः> ( अव्ययम् ) १ सूर्योदयावधि मुहूर्तत्रयमितः कालः । यथा सर्वेषामुपवासानां प्रातरेव हि पारणम् इत्यादौ । अत्र स्मृतिः प्रांतःकालो मुहूर्तास्त्रीन्संगवस्तावदेव तु ( वाच० ) इति । अन्यत्राप्युक्तम् । त्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नश्च तादृशः ॥ सायाह त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः । अन्यत्रापि प्रातस्तु संस्मृतः कालो भागश्चाहः स पञ्चमः । संगवत्रिमुहूर्तोथ मध्याहस्तु समः स्मृतः ॥ ततस्त्रयो मुहूर्ताश्च अपराहोभिधीयते । पञ्चमोथ दिनांशो यः स सायाह इति स्मृतः ॥ ( पु० चि० पृ० ३४ ) । २ प्रातः कालः आदित्यो- दयमारभ्य यावत्तु दशनाडिकाः । प्रातःकाल इति ख्यातः स्थापना- रोपणादिषु ॥ ( पु० चि० पृ० ६४ ) । ३ सार्धप्रहरात्मकः कालः इति कर्मज्ञा आहुः । स च वृद्धिश्राद्धाङ्गम् । तत्रोक्तम् प्रहरोप्यर्धसंयुक्तः प्रातरित्यभिधीयते ( नि० सि० ) इति । <प्रातिपदिकम्> १ [ क ] नामवदस्यार्थोनुसंधेयः ( श० प्र० ) । [ख] अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ( पा० सू० १।२।४५ ) इति वैया - करणा आहुः । अत्रार्थवत्त्वं च एतत्संज्ञाफलीभूत विभक्ती तरसमभि- व्याहारानपेक्षया लोकेर्थविषयकबोधजनकत्वम् (श० शेखरे ) । २ प्रति- पत्तिथिभवो वह्निः प्रातिपदिकः इति याज्ञिका आहुः ( वाच० ) । <प्रातिभाव्यम्> विश्वासार्थं पुरुषान्तरेण सह समयः ( मिताक्षरा अ० २ श्लो० ५३ ) । <प्रातिभासिकम्> (सत्त्वम् ) लौकिकेन प्रमाणेन यद्वाध्यं लौकिकेवधौ । तत्प्रातिभासिकं सत्त्वं बाध्यं सत्येव मातरि ॥ (सर्व० सं० पृ० ४४६ शां०) । <प्रातिस्त्रिकम्> [ क ] विशेषधर्मः । यथा घटस्य प्रातिखिको धर्मो घट- निष्ठं तद्व्यक्तित्वम् । [ ख ] असाधारणधर्मः इति केचिदाहुः गा <प्राथमकल्पिकः> (योगी) अभ्यासी प्रवृत्तमात्रज्योतिः ( सर्व० सं० पृ० ३८४ पातञ्ज ० ) । <प्रादुर्भावः> १ प्रथमप्रकाशः । २ आविर्भावः । यथा देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । प्रादुरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ ( भाग० स्कं० १० अ० ४ श्लो० ९) इत्यादौ । <प्रादेशिकगुणत्वम्> खाधिकरणवृत्तिदैशिकाभावप्रतियोगिगुणत्वम् (० व० ) । यथा विभूनां विशेषगुणानाम् संयोगस्य विभागस्य च प्रादे- शिकगुणत्वम् (भा०प० श्लो० १००)। अत्राधिकं तुं अव्याप्य वृत्तिगुणत्वशब्दव्याख्यानावसरे संपादितम् इति तत् तत्र द्रष्टव्यम् । <प्रादेशिकत्वम्> दैशिकाव्याप्यवृत्तित्वम् (मु० गु० ) ( दि० गु० पृ० १९५ ) । यथा विभुविशेषगुणानाम् संयोगविभागयोश्च प्रादेशिकत्वम् ( भा० प० श्लो० १०० ) । विभुविशेषगुणाश्च शब्द बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनाख्यसंस्कारश्च इति । <प्रापणम्> नयनम् ( ग० व्यु० का० २ पृ० ४५ ) । <प्राप्तिः> १ संबन्धः । यथा अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः ( भा०प० गु० श्लो० ११६ ) इत्यादौ । २ लाभः । स च स्वत्वाव- च्छिन्नो व्यापारः । यथा धनं प्राप्नोतीत्यादौ धात्वर्थः ( श० प्र० श्लो० ० ७२ टी० पृ० ९७) । ३ प्रापणम् । ४ संहतिः । ५ अणिमाद्यष्ट- विधैश्वर्यान्तर्गतैश्वर्यविशेषः । तदुक्तम् अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥ इति । ६ सुखान- विशेषः इत्यालंकारिका आहुः । अत्रोच्यते संप्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः ( सा० द० परि० ६ श्लो० ३४४ ) इति । ७ जरासंधसुता । ८ कंसभायो ( भा० स० १३ ) ( हरिवंश० ९१) । ९ कामभार्या इति पौराणिका आहुः (भा० आ० अ० ३६) (वाच० ) । <प्राप्तिसमः> ( जातिः ) [क] प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या[^१]वि शिष्टत्वात् असाधकत्वाच्च प्राप्तिसमः ( गौ० ५१११७ ) । हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा । न तावत्प्राप्य । प्राध्यामविशिष्टत्वादसाधकः । द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा । प्राप्त्या प्रत्य वस्थानं प्राप्तिसमः ( वात्स्या० ५१११७ ) । प्रतिकूलतर्क देशनाभासोयम् ( गौ० वृ० ५।१।७) । [ख ] प्राप्त्या अविशेषाद निष्टापादनेन प्रत्य- वस्थानम् ( गौ० वृ० ५ । १ ।७ ) । अत्र प्राप्तिश्च साध्यहेत्वोः सामाना-- धिकरण्यम् (नील० पृ० ४४) । यथा आत्मा सक्रियः क्रिया हेतुगुण- वत्त्वादित्यादौ क्रियाहेतुगुणवत्वेनैव किमिति क्रियावस्वं साध्यते । किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न साध्यते । उभयोरविशेषादिति पृ० ४४ ) । ग ] प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः । साध्यस्य पूर्वसिद्धिः स्यादिति प्राप्तिसमोदयः ॥ ( ता० ० २ श्लो० १११ ) । [^१] अविशिष्टत्वादिति पदच्छेदः । <प्राप्यप्रकाशकारित्वम्> १ संनिकृष्टग्राहित्वम् (राम० ११० ७९) । यथा बाह्येन्द्रियाणाम् । २ विषयदेशं गत्वा विषयप्रकाशकत्वम् । यथा न्याय- मते चक्षुरिन्द्रियस्यैव प्राप्यप्रकाशकारित्वम् । गोलकमेव चक्षुः न तैजसम् इत्युच्छृङ्खलमते तु चक्षुरप्राप्यप्रकाशकार्येव भवति । यदि प्राप्यप्रकाशकारि स्यात्तदा रसनादिवदधिष्ठानसंबद्धं गृह्णीयात् । न चैवम् । गोलका- संबद्धग्रहणात् इत्यादि (दि० १ तेजो० पृ० ७९-८०)। माया- वादिमते तु श्रोत्रस्यापि प्राप्यप्रकाशकारित्वम् (वाच० ) इति । <प्राप्यम्> १ (कर्म) क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयताना- श्रयत्वे सति फलाश्रयः ( क्रियाजन्यफलवत्त्वेनोद्देश्य: ) ( वाच० ) । यथा ग्रामं गच्छतीत्यादौ ग्रामः प्राप्यं कर्म । अत्र ग्रामादेः कर्तृसाधारण- संयोगरूपफलवत्वेपि क्रियाप्रयोज्यश्रमादिरूपासाधारणविशेषफलस्याना- धारत्वेन तादृशफलप्रकारकबोधाविषयत्वात् प्राप्यत्वम् । निर्वर्त्यविकार्य- योस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वा- नातिप्रसङ्ग इति बोध्यम् ( वाच० ) । क्रियाप्रयोज्येत्यादिलक्षणे निर्वदावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्वस्य धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्य असाधारणधर्मघटितस्य वा तस्य घटं जानातीत्यादौ घटादावसंभव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव क्रियाप्रयोज्यधर्मसंयोगप्रतीतिविषये प्रामादिकर्मण्यव्याप्तिनिरासायासाधा- रणेति । क्रियाजन्यफलानाश्रयेतिप्रसक्तिनिरासाय विशेष्यम् । प्राप्यकर्म- लक्षणमुक्तं वाक्यपदीये हरिणा क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति (ग० व्यु० का० २ पृ० ६५ ) । २ गम्यम् । ३ लभ्यं चेति काव्यज्ञा आहुः । <प्राभाकरः> मीमांसक विशेष प्रभाकरमतानुयायी तन्मतज्ञश्च । अत्र व्युत्पत्तिः प्रभाकरस्य इदं तन्मतं वेत्ति वा ( अणू ) इति । प्रभाकरस्य गुरु इत्यपरनाम । <प्रामाण्यम्> १ प्रमात्वम् । २ प्रमाणत्वम् । अत्रयः स्वतःप्रामाण्यादिप्रप- वस्तु प्रमात्वशब्दे संपादितः । तत्र द्रष्टव्यः । <प्रायश्चित्तम्> [क] दुरितनाशकत्वेन विहितः साधनविशेषः । यथा गोवधे प्रायश्चित्तमित्यादौ ( श० प्र० श्लो० ९३ टी० पृ० १३४ ) । अत्र निमित्तात्कर्मयोगे (वार्तिक० ) इत्यनेन सप्तमी ज्ञेया । तथा च जन्यत्वं सप्तम्यर्थः । तस्य प्रायश्चित्तपदार्थैकदेशे दुरितेन्वयः । जन्यत्वे च गोवधादेरन्वयः । प्रायश्चित्तशब्दस्य अस्मृतौ व्युत्पत्तिः प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चि- तमिति स्मृतम् ॥ इति ( वाच० ) । [ ख पापक्षय मात्रसाधनत्वेन विधिबोधितः कर्मविशेषः । अत्र मात्रपदात् तुला- पुरुषाश्वमेधादि- व्यावृत्तिः । तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य ततो नाशः (मतभेदेन ) इति विज्ञेयम् ( वाच ० ) । <प्रारब्धम्> ( कर्म ) [ क] तत्तच्छरीरभोगजनकं हि यत्कर्म तत् । यथा अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्प- कोटिशतैरपि ॥ इत्यादौ कर्म प्रारब्धमस्ति (मु० गु० पृ० २३५ ) । अत्र व्युत्पत्तिः प्रकृष्टमारब्धं स्वकार्ये येन इति (वाच० ) । जननाय कृता- रम्भम् इति यावत् । ख देहाद्यारम्भकः अदृष्टविशेषः । तस्य च भोगेनैव क्षयः । न तु ज्ञानेन । प्रारब्धातिरिक्तं कर्म तु ज्ञानेन नश्यति इति विवेकः । अत्रोक्तम् यथैधांसि समिद्धोग्निर्भस्मसात्कुरुतेर्जुन / ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ (गीता० अ० ४ श्लो० ३७) इति । <प्रार्थनम्> <प्रार्थना> १ उत्कर्ष प्रतिपादनेच्छा ( कु० ५ टी० ) । यथा देवदत्त ईश्वरं प्रार्थयतीत्यादौ धात्वर्थः । २ [ क ] दानाय प्रेरणम् । प्रेरणा प्रवर्तना । सा च दीयताम् इत्याद्यभिलापरूपा। यथा नृपमर्थ प्रार्थयते याचते भिक्षते इत्यादौ धात्वर्थः । अत्र नृपनिष्ठं यदर्थस्य दानं तत्प्रेरणा- बान् इत्यर्थ: ( श० प्र० लो० ७३ टी० पृ० ११२ ) । [ख] याच्या । यथा बलिं याचते वसुधाम् इत्यादौ । [ग] स्वसंप्रदानक- दानधर्मिक संबोध्य कर्तव्यत्वप्रकारकवच्छिाविषयत्वम् । यथा धेनुं दद्या स्त्वमस्मभ्यमित्यादौ लिडर्थ: प्रार्थना । अत्र चैत्रकर्तृकैतादृश वाक्यस्थ धेनुकर्मक चैत्रसंप्रदानकदानत्वावच्छिन्नधर्मिका या युष्मरकर्तव्यत्वप्रका- रिका चैत्रेच्छा तद्विशेष्यीभूतस्य दानस्यानुकूलकृतिमांस्त्वम् इत्याकारको बोध: [: ( श० प्र० श्लो० १०० टी० पृ० १७६ ) । [घ ] शाब्दि- कानां मते प्राप्तीच्छा विधिरूपा प्रार्थना । [ ङ ] स्वाभिलषित- वस्तुदानादौ स्वीयेच्छाबोधनम् । यथा भोजनं लभेयेत्यादौ लिङर्थः (वै०१० सा० द० ) । ३ आलंकारिकास्तु गर्भाङ्गविशेषः प्रार्थना इत्याहुः । अत्र अभूताहरणं मार्गो रूपोदाहरणे क्रमः । संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ॥ त्रोटकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा । इति गर्भाङ्गान्यु- द्दिश्य रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् इति प्रार्थना लक्षिता ( सा० द० परि० ६ श्लो० ३६४ - ३७२) । ४ मुद्रा विशेष : प्रार्थना इति तान्त्रिका आहुः । तदुक्तम् प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टौं च संमुखे । कुर्यात्स्वहृदये सेयं मुद्रा स्यात्प्रार्थनाभिधा ॥ इति ( तन्त्रसा० ) ( वाच० }} <प्रावृतिः> अशुचिः मलः । प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो दृक्क्क्रये इति प्रावृतिः ( सर्व० सं० पृ० १८८ शै० ) । <प्राशस्त्यम्> १ विधेयतावच्छेदकसामानाधिकरण्येन बलवदनिष्टाननुबन्धित्वे सति क्रियाजन्यसुखापेक्षयाधिकेष्टजनकत्वम् । यथा मीमांसकमते विध्यर्थ- वादेन लक्षणया बोधितं प्राशस्यम् शब्दभावनायामितिकर्तव्यतात्वेना- न्वेति । निषेधार्थवादेषु (निन्दार्थवादेषु ) स्वप्राशस्त्यं लक्ष्यते इति । तत्र विध्यर्थवादः प्रजापतिरात्मनो वपामुदखिदत् इत्यादिः (लौ० भा० टी० पृ० ८ ) । अत्राधिकं च अर्थवादशब्दव्याख्यानावसरे संपादितम्। तत्तत्र दृश्यम् । २ शीघ्रफलदातृत्वम् इति वैयाकरणा आहुः (ल० म० ) । ३ प्रशंसनीयत्वम् इत्यन्य आहुः । ४ क्षेमत्वम् (वाच० ) । यथा न भद्रं भद्रमिति श्रूयात् पुण्यं प्रशस्तमित्येव ब्रूयात् ( आपस्त० धर्मसू० १।११।३१।१३-१४ ) इत्यादौ । ५ श्रेष्ठत्वम् इति काव्यज्ञा आहुः । <प्रीणनम्> १ प्रीत्यनुकूलव्यापारः । यथा हरिं प्रीणयतीत्यादौ प्रीधातोरर्थः । २ इच्छा । यथा प्रीयत इत्यादौ (वाच० ) । ७५ न्या० को० <प्रीतिः> १ सुखविशेषः (मु० गु० ) । २ हर्षः । यथा प्रीयतां पुरुषो- त्तम इत्यादौ । ३ तृप्तिः । ४ कामस्य पत्न्या रत्याः सपत्नी इति पौराणिका आहुः ( मात्स्य - पु० अ० ८२ ) ( वाच ० ) । प्रेत्यभावः- [क] पुनरुत्पत्तिः प्रेत्यभावः ( गौ० ११ १/१९ ) । उत्पन्नस्य क्वचित्सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः । ।: उत्पन्नस्य संबद्धस्य संबन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः 1. पुनर्देहादिभिः संबन्धः (वात्स्या० ११ १२ १९१९ ) । अत्र वृत्तिः । मृत्वा भावो जननं प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात् प्रागु- पत्तिस्ततो मरणम् तत उत्पत्तिरिति प्रेत्यभावो जननादिरपवर्गान्तः । एतज्ज्ञानं च वैराग्य उपयुज्यते इति प्रेत्य इति न व्यर्थम् ( गौ० वृ० १।१।१९ ) (नील० ) । अयं धर्माधर्माभ्यामुत्पद्यते । अस्यैव च प्रेत्यभावस्य अजरंजरीभाव इति वैदिकी संज्ञा (वै० उ० ६/२/१५ ) । प्रेत्यभावश्च आत्मनः पूर्वदेहनिवृत्तिः उत्तरदेहसंघातलाभः इति ( त० भा० पृ० ४० ) । पुनर्ग्रहणं संसारानादित्वज्ञापनार्थम् । [ख] पूर्वोपात्तशरीरादिपरित्यागादन्यशरीरसंक्रान्तिः ( न्या० वा० १/१/१९ पृ० ८६ ) । [ग] मरणोत्तरं जन्म ( दि० १) (त० दी ० ) ( नील० ) ( ता० २० श्लो० ३१) । तद्यथा श्रूयते वसिष्ठर्षेरुवेश्यां पुनरुत्पत्तिः इति । [घ ] जन्ममरणप्रबन्धः संसारः (वै० उ० ६/२/१५ ) । प्रबन्ध: प्रवाहः (वै० वि० ६।२।१५ ) । [ङ ] प्रवाहरूपेणानादि- 1 संबन्धः संसार: ( वाच० ) । <प्रेरणम्> [क] प्रयोजकव्यापारः (धर्मविशेषः ) । यथा देवदत्तो यज्ञदत्तेन तण्डुलं पाचयतीत्यादौ णिजर्थो देवदत्तसमवेतव्यापारः । [ख] प्रेषणम् । तच्च निकृष्टस्य भृत्यादेः कार्यादौ नियोगः इति ॐ वैयाकरणा आहुः । [ग] मीमांसकास्तु प्रवर्तकनिष्ठः प्रवृत्त्यनुकूल व्यापारः । स च लिङादिसमभिव्याहारे लिङाद्यन्तशब्दरूपः ( ल० म० ) । 1 नुकूलो व्यापारः । यथा स्वर्गकामो यजेत जलमाहरेत्यादौ लिङाद्यर्थो [घ] स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृष्टप्रयोज्यस्योपायविषयक प्रवृत्त्य विधिः प्रेरणम् इत्याहुः (वै० सा० द० ) । <प्रोक्षणी> संस्कृतं जलम् । यथा प्रोक्षणीभिरुद्वेजिताः स्मः ( जै० न्या० अ० १ पा० ४ अधि० ९ ) । <प्रोत्साहनम्> हर्षानुकूलव्यापारः । यथा होत्रे प्रतिगृणातीत्यादौ गृणाते- रर्थः प्रोत्साहनम् । अत्र धात्वर्थप्रोत्साहनैकदेशे हर्षे होत्रादेरन्वयः । तृनिष्ठहर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोध: ( श० प्र० कार० ४ श्लो० ६९ टी० पृ० ९९ ) । <प्लीहा> वामपार्श्वस्थितो मांसविशेषः ( संगीतरत्नाकरे पृ० १९ ) । <फक्किका> १ असद्व्यवहारः । २ तत्त्वनिर्णयार्थ पूर्वपक्षादिबोधकं वाक्यम् । यथा फणिभाषितभाष्यफक्किका (नैष० ) इत्यादौ (वाच० ) । ३कर्म- कलापादिबोधको वाक्यरचनारूपः शब्दः इति याज्ञिका वदन्ति । <फळ्> (धातुः ) १ भेदनम् । यथा फलति काष्ठम् । मिनत्तीत्यर्थः । २ आ- रम्भः । यथा फलितः यज्ञः । आरब्ध इत्यर्थः । ३ निष्पत्तिः । यथा फलितः पट इत्यादौ । ४ गतिः । यथा फलयति प्रामम् इत्यादौ ( वाच ० ) । <फलचमसः> न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः ( जै० न्या० अ० ३ पा० ६ अधि० १३ ) । <फलम्> १ [ क ] प्रवृत्तिदोषजनितोर्थः फलम् ( गौ० १११।२०) । सुखदुःखसंवेदनं फलम् । सुखविपाकं कर्म दुःखविपाकं च । तत्पुन- र्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् ( वात्स्या० ११११२० ) । फलसामान्यलक्षणं तु जन्यत्वम् ( गौ० वृ० १११।२० ) । यथा घटजन्यो घटध्वंसोपि घटस्य फलम् । क्वचित् प्रवृत्त्युद्देश्यत्वम् ( दि० १ मङ्ग० पृ० ८) । यथा नव्यमते मङ्गलस्य विध्वंस एव फलम् (मु० १ मङ्गल० पृ० ८) । कचिच स्वकर्तव्य- ताप्रयोजकेच्छाविषयत्वम् ( मू० म० १) । यथा स्वर्गार्थयाग कर्तव्यता- प्रयोजकस्वर्गेच्छाविषयत्वेन स्वर्गो यागफलं भवति । अधिकं तु प्रयोजन- शब्दव्याख्यानावसरे संपादितम् । [ ख ] वैयाकरणादयस्तु यदुद्देशेन श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत् इत्याहुः ( वै० भू० ८० धात्व० पृ० ७)। न्यायमते फलं द्विविधम् । मुख्यम् गौणं च । तत्राद्यं सुखदुःखोपभोगः। लक्षणं च सुखदुःखान्यतरसाक्षात्कारत्वम् (गौ० वृ० १।१।२० ) । अथवा तदीयमुख्यफलत्वं तु यत्कामनात्वेन तदीय - फलं प्रति जनकता तत्त्वम् । यथा स्वर्गादिकामना स्वप्रयोज्यदर्शादि- संबन्धेन दर्शादिफलस्वर्गादिकं प्रति जनिका ( मू० म० मङ्गल० पृ०२२ ) । अत्र वेदान्तिन आहुः । अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां कचित् ॥ ( गीता० अ० १८ ०१२) इति । द्वितीयं शरीरादिकं सर्वमेव ( गौ० वृ० १ । १९/२०) ( न्या० वा० १ । १ ।२० पृ० ८६ ) । अत्रोच्यते फलं प्रवृत्तिसाध्यं स्यात् तच्च देहसुखादिकम् ( ता० २० श्लो० ३२ ) इति । २ धात्वीयवृत्तिग्रहप्रकारताश्रयः । यथा क्रियाजन्यफलशालित्वं कर्मत्वम् इत्यत्र ग्रामं गच्छतीत्यादावुत्तरदेशसंयोगः फलम् । अत्र सकर्मकधातूनां फलावच्छिन्नव्यापारे शक्तिः इत्यभिप्रायेणोक्तमिदम् इति ज्ञेयम् । कर्मा- ख्यातसमभिव्याहारस्थले तु शाब्दबोधे फलस्य द्विधाभाने चेष्टापत्तिरेव शरणम् इति भावः । अत्र शाब्दिका आहुः । यस्यार्थस्य प्रसिद्धयर्थ- मारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादिः प्रयोजनम् ॥ ( भर्तृ० ) इति । तेन पाकादिजन्यं भोजनम् यागादिजन्यं च पुण्य फलम् न वेतनादिरूपं फलम् । तेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थ- जन्यफलभागित्वम् इति । केचिच्छाब्दिकास्तु कर्तृप्रत्ययसमभिव्याहारे धात्वर्थजन्यत्वे सति धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयः फलम् इति वदन्ति । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादितम् । <फलोपधायकत्वम्> <फलोपहितत्वम्> फलनिष्पादकत्वम् । <बद्धः> ( पारदः ) अक्षतश्च लघुद्रावी तेजस्वी निर्मल गुरुः । स्फोटनं पुनरावृत्तौ बद्धसूतस्य लक्षणम् ॥ ( सर्व० सं० पृ० २०५ रसेश्व० ) । <वध> ( धातुः ) १ संयमनम् । यथा बाधयति बघते इत्यादौ धात्वर्थः । २ निन्दा । यथा बीभत्सत इत्यादौ । ३ प्रतिबन्धः । यथा प्रतिबध्यत्वम् इत्यादौ । <बन्ध> ( धातुः ) १ संयमनम् । यथा संसारपाशः पुरुषं बध्नाति इत्यादौ धात्वर्थः । २ निरोधनम् । यथा अनुमिति प्रतिबन्धकत्वम् इत्यादौ । <बन्धः> १ आत्मनः शरीरादिसंबन्धः । २ मिथ्यादर्शनाविरतिप्रमादकषाय- वशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तप्रदेशानां पुद्गलानां कर्म- बन्धयोग्यानामादानमुपश्लेषणं यत्करोति स बन्धः । तदुक्तम् सकषाय- स्वाज्जीवः कर्मभावयोग्यान्पुद्गलानादत्ते स बन्ध: ( त० सू० ८/२ ) ( सर्व० सं० पृ० ७५ आई० ) । ३ अन्योन्यं प्रदेशानुप्रवेशे सत्य- विभागेनावस्थानं बन्धः ( सर्व० पृ० ८१ आई० ) । ४ पारतत्र्यं बन्ध: ( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ( सर्व० सं० पृ० ४०२ शां० ) । <बन्धकम्> आधि: ( गहाण इति प्र० ) । <बलम्> १ साधनसामग्री । यथा गमकतौपयिकरूपसाकल्यं हि बलम् इत्यादौ (चि० २ बाध० पृ० १०६) । तच्च अनुमितौ व्याप्ति- पक्षधर्मतात्मकं बलम् ( चि० २ सत्प्र० पृ० ९४ ) (ग० बाध० ) । २ शरीरादिशक्तिविशेषः इति काव्यज्ञा वदन्ति । ३ सैन्यम् इति पौरा- णिका आहुः । ४ गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वजयस्तथा । धर्मश्चै- वाप्रमादश्च बलं पञ्चविधं स्मृतम् ॥ ( सर्व० सं० पृ० १६४ नकुली० ) । ५ रोधशक्तिः ( सर्व० सं० पृ० १८८ शै० ) । <बहिः> समभिव्याहृतपदार्थतावच्छेदका नधिकरण तत्संनिहित देशः वस्तु च । यथा ग्रामादूहित्यिादौ । अत्र बहिर्योोंगे पञ्चमीसमासविधान- सामर्थ्यात् तद्योगे पञ्चमी । बहिष्ट्वं च नियतमवध्याकाङ्क्षम् इति स पञ्चम्यर्थ: ( ल० म० सुबर्थ० पृ० ११२) । <बहिरिन्द्रियम्> ( इन्द्रियम् ) [ क ] मनोभिन्नमिन्द्रियम् ( राम० १ साधर्म्य० पृ० ५८) । यथा घ्राणम् बहिरिन्द्रियम् । बहिरिन्द्रियाणि पञ्च । घ्राणम् रसनम् चक्षुः त्वक् श्रोत्रम् ( गौ० १११ १२ ) इति । [ख] शब्दादिबाह्यविषयग्राहकमिन्द्रियम् । बहिरिन्द्रियलक्षणं च घ्राणाद्यन्यान्यत्वम् (गौ० वृ० १ । १ । १२ ) । अत्रेदमवधेयम् । प्राचीन- नैयायिकमते वायोरप्रत्यक्षत्वेन बहिरिन्द्रियजन्यद्रव्य प्रत्यक्ष रूपं कारणम् 'इति कार्यकारणभावः स्वीकृतः । तेन वायौ रूपाभावेन न तत्प्रत्यक्षम् इति । नवीननैयायिकमते तु वायोरपि त्वाचप्रत्यक्षविषयत्वेन बहिरिन्द्रिय- जन्यद्रव्यप्रत्यक्षमात्रे रूपं कारणम् इति न कार्यकारणभावः । किंतु तादृशप्रत्यक्ष आत्मावृत्तिशब्दभिन्न विशेषगुणवत्त्वं प्रयोजकम् इति प्रयो- ज्यप्रयोजकभावः स्वीकृतः । तेन वायोरपि त्वाचप्रत्यक्षत्वमुपपद्यते ( भा० प० श्लो० ५७ टी० मु० १ पृ० ११३ ) । <बहिद्रव्यम्> आत्मान्यद्रव्यम् ( नील० २ पृ० २६) । यथा पृथिवी बहिर्द्रव्यम् । अत्र बहिष्वं चात्मान्यत्वम् । मानसलौकिक प्रत्यक्षविषया- न्यत्वं वा ( म० प्र० २ पृ० २९ ) । <बहिष्पवमानम्> उपास्मै गायता नरः । विद्युतत्या रूचा । पवमानस्य ते कवे । इति सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते ( जै० न्या० अ० १ पा० ४ अधि० ३ ) । <बहुत्वम्> ( संख्या ) १ प्रतिनियतैकत्वानालम्बनापेक्षा बुद्धिजनितत्रित्वादि संख्या ( वै० उ० ) । यथा बहवो ब्राह्मणाः सन्ति इत्यादौ बहुत्वम् । अत्रेदं बोध्यम् । सेनावनादौ च शताद्यभिव्यक्तिस्तु न भवति । तादृश- व्यञ्जकाभावात् इति (वै० उ०७१२१८ पृ० ३२३ ) । २ उपस्कार- मते तु त्रिवादिसमानाधिकरणं संख्यान्तरमेव बहुत्वम् । यथा भवति हि शतं वा सहस्रं वा चूतफलान्यानयामि इति प्रश्ने बहवस्तावदा- नीयन्ताम् किं विशेष जिज्ञासया इत्युत्तरम् । इदं च त्रित्वादिजनकापे- क्षाबुद्ध्या जन्यते । अत्रेदं बोध्यम् । द्वित्वसहितापेक्षाबुद्ध्या त्रित्वमुत्पद्यते । त्रित्वसहितापेक्षाबुद्ध्या चतुष्ट्वमुत्पद्यते । एवमुत्तरोत्तरम् । बहुवोत्पत्तौ तु नापेक्षाबुद्धौ पूर्वपूर्वसंख्या विशिष्टत्वनियमः । अत एव सेनावनादिषु बहुत्वमात्रमुत्पद्यते । न तु संख्यान्तरम् । संशयस्त्वसत्कोटिकोपि भवत्येव ( बै० उ० ७/२१८ पृ० ३२३) इति । ३ कचित् त्रित्वमात्र पर्य- वसायि । कपिञ्जलन्यायात् । यथा वसन्ताय कपिञ्जलानालभेत इत्यादौ कपिञ्जलपदोत्तरबहुवचनबोध्य बहुत्वममुकसंख्याकेष्वेव तिष्ठति इति संख्या- नियमने नियामकाभावात्रिष्वेव बहुत्वं कल्प्यते । तच्च बहुत्वम् पर्याध्या सर्वत्र वर्तते । समवायेन प्रत्येकं वृत्तिमत् । <बहुव्रीहिः> १ ( समासः ) [ क ] स्वांशस्य निरूढलक्षणाया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्य संबन्धित्व प्रकारेणान्वयबोधं प्रति समर्थः समासः स स्वगर्भतादृशार्थसंबन्धिबोधने बहुव्रीहिः । यथा आरूढ- वानरो वृक्षः पीतपयस्कं पात्रम् दत्तदक्षिणो द्विजः चित्रगुः इत्यादौ । आरूढवानरो वृक्ष इत्यत्र आरूढो वानरो यम् इति व्युत्पत्त्या स्वकर्म- कारोहण कर्तृवानरसंबन्धिस्वेन वृक्षम् पीतपयस्कं पात्रमित्यत्र पीतं पयो येन इति रीत्या स्वकरणकपानकर्मजलसंबन्धित्वेन पात्रम् दत्तदक्षिणो इत्यत्र दत्ता दक्षिणा यस्मै इति क्रमेण स्वसंप्रदानकदानकर्मदक्षिणा- संबन्धित्वेन द्विजम् चित्रगुरित्यत्र चित्रा गौर्यस्य इति वाक्यानुसारेण चित्राभिन्नस्वगोसंबन्धित्वेन चैत्रं च बहुव्रीहिर्बोधयतीति सर्वत्र स्वगर्भत- त्तदर्थसंबन्धित्वेन धर्मिणामवगमो भवति ( श० प्र० श्लो० ४२ टी० पृ० ५३) । [ख] नियमतः समासप्रयुक्तलाक्षणिकोत्तरनामकसमासः । यथा चित्रगुरित्यादौ । अत्र चित्रगोस्वामिनि समासप्रयुक्तलक्षणोत्तरपद एव इति लक्षणसंगतिः । अन्यथा सुबर्यैकत्वादेस्तत्रान्वयो न स्यात् । प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वम् इति व्युत्पत्तेः । अत्र पद- प्रयोजनम् । राजपुरुषः इत्यादिवारणायोत्तरेति नामविशेषणम् । अर्ध- पिप्पली इत्यादितत्पुरुषवारणाय नियमतः इति पदम् । तत्पुरुषे तु न नियमतः । समासप्रयुक्तलाक्षणिकोत्तर नामके राजपुरुषः इत्यादौ व्यभि चारातू ( त० प्र० ख० ४ पृ० ४४ ) । [ग] शाब्दिकानां मते प्रायेणान्यपदार्थप्रधानः समासविशेषो बहुव्रीहिः । अथवा [ घ] बहुत्री- हिप्रकरणपठितः समासो बहुव्रीहिः । तेन उन्मत्तगङ्गाद्यव्ययीभावे नाति- व्याप्तिः । बहुव्रीहिर्द्विविधः । समानाधिकरणः व्यधिकरणश्च । तत्र समानाधिकरणो यथा चैत्रदत्तधन इत्यादौ आरूढवानरो वृक्ष इत्यादौ च । अत्र चैत्रेण दत्तं धनं यस्मै इति व्यासवाक्यात् चैत्रकर्तृकयत्संप्र- दानकदानकर्म धनम् इत्यन्वयबोध: । समासे तु चैत्रकर्तृकदा नकर्मधन- संबन्धी इत्यन्वयबोधः । संबन्धश्च स्वकर्मकदानसंप्रदानत्वम् इति बोध्यम् । आरूढवानर इत्यत्र आरूढो बानरो यम् इति व्यासे आडू- पूर्वकरुहधातोरूर्ध्वदेशावच्छिन्नसंयोगानुकूलक्रिया क्तप्रत्ययस्याश्रयः द्विती याया आधेयत्वम् अर्थः। तथा च वृक्षवृत्त्यूर्ध्वदेशावच्छिन्नसंयोगानु- कूलक्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहण कर्तृवानर- संबन्धी वृक्षः इत्यन्वयधीः । संबन्धः स्वकर्तृकारोहणकर्मत्वम् इति ज्ञेयम् । व्यघिकरणो यथा चक्रपाणिरित्यादौ । अत्र चक्रं पाणौ इति विग्रहवाक्ये यत्संबन्धिपाणिवृत्ति चक्रम् इत्यन्वयधीः । समासे तु चक्रयुक्तपाणिसंबन्धी इति बोधः ( त० प्र० ख० ४ पृ० ४९ ) । प्रकारान्तरेण बहुव्रीहिर्द्विविधः तद्गुणसंविज्ञान: अतद्गुणसंविज्ञानश्चेति । ( श० प्र० श्लो० ४४ ) । लम्बकर्णः चित्रगुः इति क्रमेणोदाहरण- द्वयम् । प्रकारान्तरेणापि द्विपदत्रिपदचतुष्पदादिभेदेन बहुविधः । यथा चित्रगुः जरतीचित्रगुश्चैत्रः महन्नीलोत्पला सरित् इत्यादौ ( ० प्र० श्लो० ४६ टी० पृ० ६० ) । २ काव्यज्ञास्तु अनेकधान्या दियुक्तः । यथा तत् पुरुष कर्म धारय येनाहं स्यां सदा बहुव्रीहिः ( उद्भट ) इत्यादौ इत्याहुः । <बाध:> १ अभावः ( वाक्य० ४ पृ० १९) । यथा अर्थाबाधो योग्यता इत्यादी ( त० सं० ) । २ प्रतिबन्धः । ३ पीडनम् इति काव्यज्ञा आहुः । ४ हेत्वाभासविशेषः । स च प्राचीनमते साध्याभाव- वत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् । तथा च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकता- नियमेन प्रतिबन्धकताध्रौव्यादिति भावः । तथाचैतन्मते प्रमात्वविषयक- त्वस्यैव प्रतिबन्धकतायां प्रयोजकत्वाद्धेत्वाभासलक्षणस्य समन्वयो भवति ( ग० बाघ ० पृ० १ ) । साध्याभावप्रमा च प्रमात्वेन ज्ञातैवोपयुज्यते न स्वरूपसती । हेत्वाभासत्वात् । प्रमात्वज्ञानं विनाधिकबलत्वाभावेनादो- षत्वात् । अप्रमायामपि प्रमात्वज्ञानेनुमितिप्रतिबन्धाच्च ( चि० २ पृ० १०३ - १०४ ) । एकदेशिमतेन पक्षनिष्ठप्रमाविषयत्व प्रकाराभावप्रति- योगिसाध्यकत्वम् (चि० २ पृ० १०३ ) । अत्रत्यविषयः प्रकारता- शब्दव्याख्यानावसरे संपादितः इत्यत्रैव विरम्यते । रघुनाथशिरोमणि- भट्टाचार्यैस्तु बाधवरूपमनेकविधमुक्तम् । तद्यथा १ साध्याभाववान् पक्षः । २ साध्यवदन्यः पक्षः । ३ पक्षावृत्तिसाध्यम् । ४ पक्षे साध्या- भावः । ५ पक्षनिष्ठसाध्याभाववत्त्वादिकम् । ६ साध्यादे: पक्षावृत्तित्वा- दिकम् । ७ साध्यवत्सामान्यादेः पक्षान्यत्वादिकम् । ८ विशिष्टसाध्ये पक्षादेर्विशेष्याभाववत्त्वादिकम् । ९ पक्षादेः साध्यासमानाधिकरणधर्म- वत्त्वम् ( दीधि० २ बाध० पृ० २१९ ) इति । यथा हृदो वह्निमान् घूमादित्यादौ हदे घूमेन बहिसाधने वयभाववद्धदादिर्बाध: ( न्या० म० २ पृ० २१ ) । अत्र प्रथमे साध्याभाववत्त्वमनवच्छिन्नं ग्राह्यम् । अतो नाव्याप्यवृत्तिसाध्यकस्थले कपिसंयोगवानयं वृक्षः इत्यादावति - प्रसङ्गः । व्याप्यवृत्तिसाध्यकस्थले च पक्षनिष्ठान वच्छिन्नसाध्याभाववत्त्वं बाधः । यथा जलं पृथिवी स्पर्शवत्वादित्यादौ जलनिष्ठपृथिवीत्वाभावो बाधः । अत्रायं विशेषो ज्ञेयः । यत्र तु देशकालावच्छेदेन साध्यसाधनम् यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यादौ च तत्र तदवच्छेदेन साध्याभाववत्त्वं बाधः । इमे असंकीर्णबाघोदाहरणे इति जेगीयेते ( न्या० म० २ पृ० २१ ) ( म० प्र० २ पृ० २८ ) । परे तु घटः सकर्तृकः कार्यत्वादित्यादौ यत्र लाघवोपनीतमेकमात्रकर्तृकत्वं भासते तत्र तदभावोसंकीर्णोदाहरणम् (गौ००१२/९ ) । यत्र तु पक्षतावच्छेदके धर्मेन- तिरिक्तवृत्तित्वरूपसाध्यावच्छेदकताभानमुद्देश्यम् यथा पर्वतो वह्निमानि- त्यादौ तत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्याभाववत्वं बाधः। यत्र तु तादृशधर्मसामानाधिकरण्यमात्रेण साध्यसिद्धिरुद्देश्या यथा हृदो बहिमानित्यादौ तत्र तादृशधर्मावच्छिन्नं साध्याभाववत्त्वं बाध: ( ग० ७६ न्या० को० बाघ० पृ० ९) ( दीधि० २) ( म० प्र० २ पृ० २८ ) । द्वितीयें च तद्वत्ताबुद्धौ तदत्यन्ताभावस्येव तद्वद्भेदस्यापि घियो विरोधि- त्वात् हेत्वाभासलक्षणस्यापि समन्वयः । एवं च वृत्त्यनियामकेन तादात्म्यसंबन्धेन अनुमितिस्वीकारे तत्संबन्धस्य प्रतियोगितावच्छेद- कत्वे च तत्र साध्यवद्भेदस्य बाधत्वं बोध्यम् (ग० २ बाघ० ५० ९ ) । । समशीलयोरेकस्य यत्प्रतिबध्यत्वम् अन्यस्यापि तत्प्रतिबध्यत्वमनुभवसिद्धम् तृतीये च प्राचीनमते पक्षः साध्यवान् पक्षे साध्यम् इति ज्ञानयोः इत्याशयेन तदुक्तिः । एवं च एतादृशबाधज्ञानस्य ग्राह्याभावानवगाहि- त्वेपि नानुमितिं प्रति प्रतिबन्धकत्वहानिः । चतुर्थे पक्षे साध्याभाव इत्यस्या- श्व आधेयतया पक्षेण पक्षवृत्तित्वेन वा विशिष्ट इति । तथा च विशेषणविशेष्यभावपरीत्येपि प्रतिबन्धकत्वमक्षतम् इत्याशयेनेदं लक्षणम् इति ज्ञेयम् । पञ्चमे साध्याभावाधिकरणत्वम् साध्यवद्भेदाधिकरणत्वं सप्तमे पक्षान्यत्वादिकमित्यस्य साध्यवत्त्वव्यापकानुयोगिताकत्वादिविशिष्टं चेत्यर्थः । अधिकरणताभेदपूर्वस्माद्भेदः । एतदपि प्राचीनमतेन । पदिकम् इत्यर्थः । तथा च भेदप्रतियोगिताभेदानुयोगित्वयोः समनियतयोरेकज्ञानं यत्र विरोधि अपरज्ञानमपि तत्र तथा इत्याशयेनेदम् ( ग० बाघ ० पृ० १०) । एवमन्यत्रोह्यम् । बाधितं च लिङ्गमनेकविधम् । १ धर्मिग्राहकमानबाधितम् । घटो व्यापकः सत्त्वादिति प्रत्यक्षेण । त्वादिति सुवर्णमयत्वबोधकागमेन । २ साध्यप्रतियोगिग्राहकमानबा- परमाणवः सावयवा मूर्तत्वादिति अनुमानेन । मेरुः पाषाणमयः पर्वत- धितम् । वह्निरनुष्णः कृतकत्वादिति प्रत्यक्षेण । शब्दोश्रावणो गुणत्वादिति ३: साध्यग्राहकमानबाधितम् । नरशिरः कपालं शुचि प्राण्यङ्गत्वादिि अनुमानेन । गवयत्वं गवयपदाप्रवृत्तिनिमित्तं जातित्वादिति उपमानेन । आगमेन । ४ हेतुग्राहकमानबाधितम् । जलानिलावुष्णौ पृथिवीतो विपरीत स्पर्शत्वात्तेजोवदिति प्रत्यक्षेण । मनो विभु ज्ञानासमवाय्या- धारत्वादिति अनुमानेन । राजसूयो ब्राह्मणकर्तव्यः स्वर्गसाधनत्वा- दग्निष्टोमवदिति राजसूयकर्तव्यताबोधकागमेन इति ( चि० २ बाघ ० राज्ञैव राज- पृ० ११० ) ।न्अत्र राजा राजसूयेन यजेत इति श्रुत्या सूयः कर्तव्यः इति बोधनेन ब्राह्मणकर्तव्यत्वस्य बाधः इति विज्ञेयम् । बाधविभाजकं तु प्रकृतपक्षप्रकृतसाध्यवैशिष्ट्यग्रहविरोध्युन्नायकत्वे प्रकृत- पक्षप्रकृतसाध्यग्रहाविरोधित्वे च सति प्रकृतपक्षप्रकृतसाध्य वैशिष्ट्य ग्रह- विरोधित्वम् ( दीधि ० २ बाव० पृ० २२०) इति । <बाधकमानम्> १ बाधवदस्यार्थोनुसंधेयः (दीधि० २ पक्ष० पृ० १२३ ) । २ बाधकं प्रमाणम् । यथा नापि साधकबाधकमानाभावः पक्षत्वम् ( चि० २ पक्ष० पृ० ३३ ) इत्यादौ । <बाधितः> ( हेत्वाभासः ) [क] साध्याभाववत्पक्षको हेतुः । यथा वह्नि- रनुष्णः पदार्थत्वात् इति ( प्र० प्र० ) ( त० कौ० पृ० १५ ) । [ख ] यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः । यथा वह्निर- नुष्णो द्रव्यत्वाज्जलवदिति ( त० सं० ) । यथा वा हृदो वह्निमान् धूमादित्यादौ धूमो बाधितः । बहिरनुष्ण इत्यत्र च वह्नौ पक्षे क्रिय- माणे साध्याभावस्य अनुष्णत्वाभावस्योष्णत्वस्य त्वगिन्द्रियेण निश्चयात् द्रव्यावं हेतुर्बाधितः । यस्य साध्याभाव इत्यादेरर्थश्च पक्षविशेष्यकप्रमा- निश्चयप्रकारीभूतसाध्याभावरूपबाधवान् । अथवा पक्षनिष्ठसाध्याभावादि- रूपबाधवान्यः स बाधितः ( वाक्य० २ पृ० १८) । बाधितत्वं च कालात्ययापदिष्टत्वम् । तच्च उपजीव्यप्रमाणनिश्चितसाध्यविपरीतत्वम् । अथवा बाधात्मकहेतुदोषवत्वम् । एतज्ज्ञानं साक्षादनुमितिप्रतिबन्धकम् । बावनुष्णत्वं नास्ति इति ज्ञाने सति वह्रिरनुष्णः इति अनुमितेरसंभवात् । तद्भावलौकिक निर्णयस्य तद्वत्ताज्ञाने प्रतिबन्धकत्वात् ( त० कौ० २ पृ० १५ ) । <बाल:> १ [ क ] ग्रहणधारणपटुः (त० दी० १ पृ० २ ) । तथा च ग्रहणपूर्वकधारणयोग्यः इत्यर्थः (वाक्य० ) । अयं शास्त्राध्ययने बालः इति ज्ञेयम् । यथा बालानां सुखबोधाय क्रियते तर्कसंग्रहः इत्यादौ । [ख] अधीतकाव्यकोशव्याकरणोनधीतन्यायो बालः इति केचिद्वदन्ति ( सि० च० पृ० १ ) । २ आ षोडशाद्भवेद्वालस्तरुणस्तत उच्यते इति व्यवहारज्ञा आहुः । ३ स्तनधंयो बाल इति लौकिकजना वदन्ति । <बाह्रैकैकेन्द्रियग्राह्यगुणत्वम्> [क] चक्षुस्त्वगुभयाग्राह्य बहिरिन्द्रियग्राह्य- परिमाणान्यगुणसमवेतजातिमत्त्वम् ( दि० गु० पृ० १९३ ) । यथा रूपादेर्बाह्यैकैकेन्द्रियग्राह्यगुणत्वम् । तादृशी जातिश्च रूपत्वादिः । एतादृश- जातिघटितलक्षणकरणेन संख्यादौ नातिव्याप्तिः । अतीन्द्रियरूपादौ नाव्याप्तिश्च इति ज्ञेयम् । बाह्यैकैकेन्द्रियग्राह्यगुणाश्च रूपम् रसः गन्धः स्पर्शः : शब्दश्च इति ( भा०प० गु० श्लो० ९४ ) (प० मा० ) । [ख ] बहिरिन्द्रियद्वयावेद्यबहिरिन्द्रियवेद्यगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् ( प० मा० ) । <बुद्ध:> १ वेदतत्कर्मणोर्निन्दाकर्ता भगवतोवतारविशेषः । स च विष्णो- चतुर्विंशत्यवतारमध्य एकविंशोवतारः । यथोक्तम् ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ ( श्रीमद्भाग० स्क० १ अ० ३ श्लो० २४ ) इति । तन्मतं तु बौद्ध- शब्दव्याख्यानावसरे संक्षेपतः प्रदर्शयिष्यते तत्तत्र दृश्यम् । २ जागरितः इति वेदान्तिन आहुः । ३ पण्डितश्च इति काव्यज्ञा आहुः । <बुद्धिः> १ धर्मपत्नीभेद इति पौराणिका वदन्ति ( भा० आ० अ० ६६ ) । २ (गुणः ) [क] बुद्धित्वसामान्यवती ( प्र० प्र० ) ( त० कौ ० १ पृ० ६ ) । सा चात्ममात्रवृत्तिः । न त्वन्तःकरणवृत्तिः । अव्याप्यवृत्तिः मनोमात्रगम्या च । लक्षणं च बुद्ध्यादिपदवाच्यत्वम् । अनुभवसिद्ध ज्ञानवजातिरेव वा (गौ० वृ० ११ १/१५) । अथवा जानामि इत्यनु- व्यवसायगम्यज्ञानत्वम् ( त० दी० १ पृ० १४ ) ( सि० च० पृ० १६) । अथवा संबन्धावच्छिन्न प्रकारतानिरूपितप्रकारितासमाना- घरगुत्वव्यायजातिमत्त्वम् ( ल० व० ) । बुद्धिविशेषाः केचि दुच्यन्ते । संनिकृष्टे वस्तुनि तावत् अयम् इति बुद्धिरुत्पद्यते । विप्रकृष्टे वस्तुनि एषः इति बुद्धिः । क्रियायां स्वतन्त्रोयम् इति बुद्धिमपेक्ष्य इति कर्तृत्वोपरक्ता बुद्धिः । करणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतम् इति कर्मबुद्धिः । अयं भुजिक्रियायां कर्ता प्रयोजकश्वायम् इति बुद्धिमपेक्ष्य भोजय इति बुद्धिः । नियोज्यनियोक्तृव्यापारस्य विषयोयम् इति बुद्धय पेक्षम् एनम् इति ज्ञानम् । एवमन्यदपि बुद्ध्यपेक्षमूहनीयम् ( वै० उ० ८।२।१ पृ० ३६८ - ३६९ ) । [ ख ] आत्माश्रयः प्रकाशः (प० च० पृ० ३०) । [ग] आत्मगुणत्वे सत्यर्थप्रकाश: (त० प्र० ) ( त० भा० ) ( त० कौ० ) ( ता० र० श्लो० २९ ) । [घ ] सर्व- व्यवहारहेतुर्ज्ञानम् (त० सं० ) । यथा भोगः (वात्स्या० १११।९ ) । भोगश्च सुखदुःखानुभवः । सर्वव्यवहारेत्यस्यार्थश्च व्यवहारः बुबोध- यिषापूर्वकवाक्यप्रयोगः । तथा च तादृशव्यवहारजनकतावच्छेदकजाति- मती समुदायार्थः । जातिपर्यन्तानुधावनेन निर्विकल्पकादौ नाव्याप्तिः । बुबोधयिषापूर्वकवाक्यप्रयोगे वाक्यार्थज्ञानत्वेन कारणत्वात् । कारण- तावच्छेदकज्ञानत्वमादाय सर्वत्र लक्षणसमन्वयः (वाक्य० १ पृ० ९ ) । अथवा सर्वे ये व्यवहारा आहारविहारादयः तेषां हेतुर्बुद्धिः इत्यर्थः (सि० च० १ पृ० १९) । बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ( गौ० १।१।१५) । बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः (वै० उ० ८।१।१ ) ( प्रशस्त० गु० पृ० २३ ) ( बै० उ० ३१११२ ) ( ३११११८ ) । यथा सा मणिकर्णिका स विश्वेश्वरः इत्यादिः (त० कौ० ) । बुद्धे र्ज्ञानपर्यायत्वकथनेन सांख्यमतनिरासः । तन्मते बुद्धेरन्तःकरणस्वरूप- त्वम् । न्यायमते तु मनोभिन्नान्तःकरणे मानाभावाहूद्धेरन्तःकरणभिन्नत्व- मेवेति बोध्यम् (सि० च० १ पृ० १९) । सांख्यास्तु सत्त्वरजस्तमो गुणात्मिकाया अनादिपरिणामिनित्यव्यापिप्रकृतेर्जडाया आद्यः परिणामो- न्तःकरणरूपो महत्तत्त्वापरपर्यायो बुद्धिः (कु० १) (वै० उ० ८।१।१ ) ( सि० १० च० पृ० १९) अध्यवसायो वा बुद्धिः इत्याहुः (सांख्यसू० अ० २ सू० १३) । योयं कर्तव्यम् इति निश्चयः (वृत्तिः ) चिति- संनिधानादापन्नचैतन्यायाः सोध्यवसायः इति तल्लक्षणम् । मायावादि- नस्तु निश्चयात्मकवृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते । निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते इति वाशिष्ठे ( सांख्य भा० १।६४) । मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया अमी ॥ इति (वेदा० सा० ) । न्यायमते बुद्धि- द्विविधा नित्या अनित्या च । तत्र नित्या परमात्मनः । सा च साक्षा- त्काराभिधा प्रत्यक्षप्रमात्मिकैव । अनित्या तु जीवस्य । अनित्या द्विविधा । स्मृतिः अनुभवश्च । तौ च प्रत्येकं द्विविधौ । यथार्थों अय- थार्थौ च । अनुभवश्च चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः शाब्दबोधश्च । तत्र यथार्थानुभव: प्रमा इत्युच्यते । अर्था अप्रमा इति भ्रमः इति चोच्यते । प्रत्यक्षमपि सविकल्पकनिर्विकल्पक - भेदेन द्विविधम् । तत्र निर्विकल्पकं न प्रमा नापि भ्रमः । संशय प्रत्यभिज्ञा उपनीतभान इत्यादिकं तु सविकल्पकप्रत्यक्ष एवान्तर्भवति । अथ प्रकारान्तरेण विभागः प्रदर्श्यते । बुद्धिर्द्विविधा । स्मृति: अनु- स्मृतिरनित्या जीवात्ममात्रसमवेता च । अनुभवस्तु प्रत्यक्षानुमित्युपमिति- भवश्च । उभयमपि प्रत्येकं यथार्थायथार्थभेदेन द्विविधम् । तत्र सर्वा प्रत्यक्षं नित्यानित्यभेदेन द्विविधम् । तत्र नित्यं प्रत्यक्षं परमात्मसमवेतम् शाब्दबोधन चतुर्विधः । तत्र यथार्थानुभवः शास्त्रे प्रमा इत्युच्यते । यथार्थमेव । अनित्यं प्रत्यक्षं तु जीवात्मसमवेतम् यथार्थमयथार्थे च । अनुमिति उपमिति शाब्दबोध एतन्त्रयं चानित्यमेव जीवात्ममात्रसमवेतं च इति । इदं च यथार्थमयथार्थं चेत्युभयविधमप्यस्ति । प्रत्यभिज्ञोपनीत- भानादिकं चानित्य प्रत्यक्ष एवान्तर्भवति इति नाधिक्यम् । वैशेषिकनये बुद्धिर्द्विविधा विद्या चाविद्या च । सा चानेकप्रकारा। अर्थानन्त्यात् चाविया (प्रशस्त० ० २३)। तत्र विशेषणवद्विशेष्यनिकर्ष प्रत्यर्थनियतत्वाच । तस्याः सत्यप्यनेकविधत्वे समासतो द्विधा । विद्या लिङ्गपरामर्श इत्यादिरूपगुणजन्या विद्या । दूरत्वपित्तादीन्द्रियदोषजन्य अविद्या ( त० व० पृ० २१३ ) । तत्र विद्या चतुर्विधा प्रत्यक्षलैङ्गिक स्मृत्यर्षलक्षणा । आर्षस्वरूपं च गालवाघृषीणातीतानग ज्ञानमार्षम् । अत्र नैयायिकाः इदं च योगिनां योगजधर्मसहकारेण जायमाने अलौकिक प्रत्यक्ष एवान्तर्भवति न चतुर्थम् इत्याहु: ( त० पृ० २२० ) । आर्षस्वरूपं प्रकारान्तरेणान्यत्रोक्तम् । आम्नायविधा- तृणामृषीणामतीतानागतवर्तमानेष्वर्थेष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धे- ष्वनुपनिबद्धेषु चात्ममनसोः संयोगविशेषाद्धर्मविशेषाच्च यत्प्रातिभं ज्ञानं यथात्मनिवेदनमुत्पद्यते तदार्षमित्याचक्षते ( प्रशस्त० पृ० ३२ ) । अविद्यापि चतुर्विधा संशयविपर्ययस्वप्नानध्यवसायलक्षणा । तत्र यदैङ्गिकं तद निन्द्रियजम् । लिङ्गदर्शनात्संजायमानं लैङ्गिकम् ( प्रशस्त ० पृ० २६ ) । इन्द्रियजमपि द्विविधम् । सर्वज्ञीयमसर्वज्ञीयं च । सर्वज्ञीयं योगजधर्म- लक्षणया प्रत्यासत्या तत्तत्पदार्थसार्थज्ञानम् । असर्वज्ञीयं च प्रत्यक्षं द्विविधम् । सविकल्पकम् निर्विकल्पकं च । तत्र सविकल्पकं ज्ञानं न प्रमाणम् इति कीर्तिदिङ्गागादयो मन्यन्ते । स्वमते तु संविकल्पकम- पीन्द्रियार्थ संनिकर्ष जत्वात्प्रत्यक्ष निर्विकल्पके प्रमाणं चेति (वै० उ० ८/११२ ) ( प्रशस्त० पृ० २३) । प्रकारान्तरेण विभागो यथा । बुद्धिः प्रथमतो द्विविधा अनुभूतिः स्मृतिश्च । अनुभूतिरपि कणादमते द्विविधा प्रत्यक्षम् अनुमितिश्च । प्रत्यक्षमपि घ्राणजादिभेदेन षड्डिधम् । सविकल्पकनिर्विकल्पकभेदेन तथा लौकिकालौकिकभेदेन च द्विवि- धम् । अनुमितिरपि केवलान्चयिकेवलव्यतिरेक्यन्वयव्यतिरेकिरूपत्रि- विधानुमानजन्यत्वात्रिविधा । स्मृतिश्चोपेक्षानात्मक निश्चयाधीनसमाना- कारकभावनाख्यसंस्काराधीनैकविधैव । प्रकारान्तरेणापि बुद्धिर्द्विविधा प्रमा अप्रमा चेति । संशय निश्चयभेदेनापि बुद्धिर्द्विविधा । वैशेषिकमते सादृश्यज्ञानस्थले पदज्ञानस्थले च तदुत्तरं लिङ्गपरामर्शोत्पत्त्यैवानुमिति- र्भवति । प्रत्यक्षानुमानातिरिक्तस्य प्रमाणान्तरस्यानभ्युपगमात् (३० वि० ८।१।११) । वेदान्तिमते बुद्धिः सात्त्विकराजसतामसभेदेन त्रिविधा। तन्त्र सात्त्विकी यथा प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं धर्ममधर्मे च कार्ये चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ तामसी यथा अधर्म धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ (गीता अ० १८ श्लो० ३०-३२ ) इति । बुद्धेः पञ्च गुणा यथा इष्टानिष्टविपत्तिश्च व्यव- साय: समाधिता। संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः ॥ ( महाभा० मोक्षधर्मे ) इति । बुद्धेः सप्त गुणा यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ ( हेमच० ) । बुद्धेवृत्तिः पञ्चधा । यथा प्रमाणविपर्यय विकल्पनिद्रा- स्मृतयः (पात० सूत्र० पा० १ सू० ६ ) इति । बुद्धिक्षयकरा यथा शोकः क्रोधश्च लोभश्च कामो मोह: परासुता । ईर्ष्या मानो विचिकित्सा हिंसासूया जुगुप्सता ॥ द्वादशैते बुद्धिनाशहेतवो मानसा मला: ( कालिकापु० अ० १८) इति । अत्रेदं बोध्यम् । सर्वे जन्य- ज्ञानं स्वङ्मनःसंयोगादुत्पद्यते । अन्ये तु चर्ममनः संयोगादनित्यज्ञान- मुत्पद्यत इति वदन्ति । अत्र ज्ञानसामान्यं प्रति त्वङ्मनःसंयोगः कारणम् इति कार्यकारणभावो मन्तव्यः । अत्र प्रमाणं तु सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा ज्ञानाजननम् (मु० १/३ पृ०११४) इति । <बोधः> ९ बुद्धिवदस्यार्थोनुसंधेयः । यथा शाब्दबोध इत्यादौ । २ देश- विशेषः इति पौराणिका आहुः । ३ जागरः इति वेदान्तिनो वदन्ति । <बोधनम्> विलिख्य मन्त्रवर्णास्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्या- हेन्यात्तद्बोधनं स्मृतम् ॥ ( सर्व० सं० पृ० ३७० पातझ० ) । <बौद्ध:> ( नास्तिकः ) वेदो न प्रमाणम् इति यत्किंचिद्वेद विशेष्यकाना- हार्यनिश्चयवान् ( मू० म० १ ) । यथा सुगतादिबद्धः । अत्र व्युत्पत्तिः । बौद्धं बुद्धप्रोक्तशास्त्रम् वेत्त्यधीते वा बौद्धः इति । अत्र व्याकरणम् तदधीते वेत्ति वा ( अण् ) इति । तत्र बौद्धाश्चतुर्विधाः (१) षिकाच इति । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थ ध्यमिका: ( २ ) योगाचाराः ( ३ ) सौत्रान्तिकाः ( ४ ) वैभा- कथयन्ति । चतुर्विधभावना च (१) सर्वे क्षणिकं क्षणिकम् इति (२) दुःख दुःखम् इति (३) स्वलक्षणं स्वलक्षणम् इति (४) शून्यं शून्यम् इति च । ते च बौद्धा यथाक्रमं ( १ ) सर्वशून्यत्व ( २ ) बाह्य- शून्यत्व (३) बाह्यार्थानुमेयत्व (४) बाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते ( सर्व० सं० पृ० १९ बौद्ध० ) । तत्र माध्यमिकादीनां संक्षेपतो मत- मुपन्यस्यते । तत्त्वचतुष्टये भगवतोपदिष्टे ( १) माध्यमिकाः तावदु- त्तमप्रज्ञा इत्थमचीकथन् । भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान- मुखेन स्थायित्वानुकूलवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्यावर्तनेन सर्व- शून्यतायामेव पर्यवसानम् । अतः तत्त्वं सदसदुभयानुभयात्मकचतु- ष्कोण विनिर्मुक्तं शून्यमेव । दृष्टार्थव्यवहारश्च स्वप्नव्यवहारवत् संवृत्या संगच्छते । अत एवोक्तम् परिव्राटामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ इति । तदेवं भावनाचतुष्टय- वशान्निखिलवासनानिवृत्तौ परं निर्वाणं शून्यरूपं सेत्स्यति इति वयं कृतार्थाः नास्माकमुपदेश्यं किंचिदस्ति इति । शिष्यैस्तावद्योगश्चाचारश्च इति द्वयं करणीयम् । तत्राप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः । गुरूक्तस्यार्थ- स्याङ्गीकरणमाचारः । तत्र गुरूक्तस्याङ्गीकरणादुत्तमाः पर्यनुयोगस्याकर- णादधमाश्च । अत एतेषां माध्यमिका इति प्रसिद्धिः ( सर्व० सं० पृ० २९ - ३० ) । (२) केषांचित् बौद्धविशेषाणां योगाचार इति संज्ञा । गुरूक्तभावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्य आन्तरस्य शून्यत्वं कथमिति पर्यनुयोगस्य करणादेतेषां योगाचारप्रथा । एषा हि तेषां प्रक्रिया । स्वयंवेदनं तावदङ्गीकार्यम् । अन्यथा जगदान्ध्यं प्रसज्येत । स्वव्यतिरिक्तग्राह्य ग्राहकविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूप- प्रकाशिका प्रकाशवदिति । ग्राह्यग्राहकयोरभेदश्च मन्तव्यः । यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानेनात्मा । वेद्यन्ते तैश्च नीलादयः । यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वा- वभास इव भ्रमः । अत्राप्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम् । वस्तुत: वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्न- ग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षणां केशेन्द्रनाडीज्ञानाभेदवद- नाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्यनुयोगायोगात् । तस्माहुद्धिरेवा- नादिवासनाबशाद नेकाकारावभासत इति सिद्धम् । ततश्च प्रागुक्तभावना- प्रचयबलान्निखिलवासनोच्छेदविगलित विविध विषयाकारोपप्लव विशुद्धविज्ञा- नोदयो महोदयः । अयमेव मोक्षः इति । (३) सौत्रान्तिका इत्थं मन्यन्ते । बाह्यमर्थजातमस्त्येव । तच्चानुमीयते । यथा पुष्ट्या भोजनमनुमीयते यथा ७७ न्या० को. च भाषया देशः यथा वा संभ्रमेण स्नेहः तथा ज्ञानांकारेण ज्ञेयमनुमेयम् इति । तथा च बाह्यार्थ सद्भावे प्रयोगः ये यस्मिन्सत्यपि कादाचिरकाः - ते सर्वे तदतिरिक्तसापेक्षाः । यथा अविवक्षत्यजिगमिषति मयि वचन- गमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवा- दाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाधु- लेखनाः इति । तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । अयमेवात्मा । नीलाघल्लेखि च प्रवृत्तिविज्ञानम् । ततश्च कादाचित्कत्व निर्वाहाय शब्द- स्पर्शरूप रसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्यया- न्प्रतीत्योत्पद्यन्ते । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बनसमनन्तर सह- कार्यधिपतिरूपाः । एवम् चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि । एवम् चित्तचैत्तात्मकः स्कन्धः पञ्चविध रूपविज्ञान वेदना- संज्ञासंस्कारसंज्ञकः । तदिदं सर्वे दुःखम् दुःखायतनम् दुःखसाधनं च इति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं संपादयेत् । तच्च प्राचीनभावना- बलाद्भवति इति परमं रहस्यम् ( सर्व० सं० पृ० ३१-४०)। सूत्रस्यान्तं रहस्यम् पृच्छतां भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्तु इति भगवता बुद्धेन अभिधानात् सौत्रान्तिकसंज्ञा संजाता इति । ( ४ ) केचन बौद्धा: (वैभाषिका: ) बाह्येषु गन्धादिषु आन्तरेषु च रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व शून्यम् प्राथमिकान् माध्यमिकान् विनेयानचीकथद्भगवान् । द्वितीयांस्तु योगा 1 चारान् विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं सत् इत्यचीकथत् । तृतीयान् सौत्रान्तिकान् उभयं सत्यम् इत्यास्थितान् विज्ञेयमनुमेयम् इत्यचीकथत् । सेयं विरुद्धा भगवतो भाषा इति वर्णयन्तो वैभाषिकाख्यया ख्याताः ३ ( सर्वे० पृ० ४३ बौद्ध० ) । वैभाषिकमते प्रात्यक्षिकं वस्तु सत् आनुमानिकं त्वसत् इति ज्ञेयम् । वैभाषिका इत्थं मन्यन्ते । अर्थो द्वि- विधः प्राह्मः अध्यवसेयश्च । तत्र ग्रहणं निर्विकल्पकरूपं प्रत्यक्षम् प्रमा- णम् । कल्पनापोढत्वात् । अध्यवसायस्तु सविकल्पकरूपः अनुमानम् अप्रमाणम् । कल्पनाज्ञानत्वात् । अवशिष्टं सौत्रान्तिकप्रस्तावे प्रश्चितम् इति ने प्रतन्यते ( सर्व० पृ० ४३ - ४५ बौद्ध० ) । यद्यपि भगवान् बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चतुर्विष्यम् । यथा गतोस्तमर्कः इत्युक्ते जारचौरानूचानादयः स्खेष्टानुसारेणाभिसरणपर- स्वहरणसदाचरणादिसमयं बुद्ध्यन्ते इति ( सर्व० पृ० १९ बौद्ध० ) । अत्र बौद्धानामष्टादश भेदाः प्रसिद्धाः । उपभेदास्तु बहवो विस्तरभया- नोदाहृता: ( सि० च० ११ १२ ) । विवेकविलासे बौद्धमतमित्थमभ्य- धायि । बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥ दुःखमायतनं चैव ततः समुदयो मतः मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशा- यतनानि तु ॥ रागादीनां गणोयं स्यात्समुदेति नृणां हृदि । आत्मा- त्मीयस्वभावाख्यः स स्यात्समुदयः पुनः ॥ क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोभिधीयते ॥ प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा । चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः ॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रा- न्तिकेन प्रत्यक्षग्राह्योर्थो न बहिर्मतः ॥ आकारसहिता बुद्धिर्योगाचारस्य संमता। केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ रागादिज्ञान- संतानवासनोच्छेदसंभवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ कृत्तिः कमण्डलुमण्ड्यं चीरं पूर्वाहभोजनम् । संघो रक्ताम्बरत्वं च शिश्रिये बौद्धमिक्षुभिः ॥ इति ( सर्व० सं० पृ० ४६ ४७ बौद्ध० ) । <बौद्धशास्त्रम्> प्रथमं बृहस्पतिप्रणीतम् ततो बुद्धावतारे प्रपञ्चितं च शा- खम् । तच्च शास्त्रं बौद्धः इति शब्दस्यार्थे तत्तन्मतोपन्यासवेलायां संक्षेपतः प्रादर्शि । बौद्धशब्दस्य व्युत्पत्तिस्तु बुद्धेन प्रोक्तं बौद्धम् इति । अत्र कथा श्रूयते मत्स्यपुराणे । आयुषो राज्ञो नहुषवृद्धशर्मरजिदम्भविपाप्मसंज्ञकाः पञ्च पुत्रा आसन् । तत्र रजेः पुत्रशतं जज्ञे । तै रजिपुत्रैर्बलाच्छिन्न- । यज्ञभागवैभवः शक्रो दीनः सन् स्वेष्टप्राप्तये वाचस्पतिं प्रार्थयामास । ततो बृहस्पतिः किं कृतवान् । तदाह गत्वाथ मोहयामास रंजिपुत्रान् बृहस्पतिः। जिनधर्मे समास्थाय वेदबाह्यं स वेदवित् ॥ वेदत्रयीपरि- भ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् ॥ 1 जघान शक्रो वज्रेण सर्वान् धर्मबहिष्कृतान् (मत्स्यपु० अ० २४ ) ( वाच० ) इति । <ब्रह्म> १ वेदः । यथाम्तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ( मु० १।१।९)। यथा वा तेने ब्रह्म हृदा य आदिकवये ( भाग० १।१।१ ) इत्यादौ । २ तपः । ३ सत्यम् । ४ तत्त्वम् । ५ हिरण्यगर्भादयो जीवाः । ६ विप्रः । ७ ऋत्विग्विशेषः । यथा यज्ञस्य हैष भिषक् ब्रह्मा ( श्रुतिः ) इत्यादौ । ८ विष्कम्भादिषु पञ्चविंशो योगविशेषः इति मौहूर्तिका आहुः । ९ विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम् दिव्यौदरिककामानां कृतानुमतकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् (सर्व० सं० पृ० ६५ आहे० ) इति । १० परब्रह्म ( परमात्मा ) इति ॐ वेदान्तिनो वदन्ति । अत्राम्नायते । यद्वाचानभ्युदितम् येन वागभ्यु- द्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ( केन० ४) । "तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्धते ॥ ( भाग० ११२।११ ) इति । तस्य नवधा रूपं यथा । तर्काणामेव षण्णां यत् षडिधं रूपमैश्वरम् । वैष्णवानामेकरूपं वेदाना- मेकमेव च ॥ पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्ण नीयं च यन्मतं शंकरोब्रवीत् ॥ नित्यं वैशेषिकास्त्वन्यं वदन्ति च वदन्ति विचक्षणाः । सांख्यो वदति तं देवं ज्योतीरूपं सनातनम् ॥ सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं च वेदाः सत्य स्वरूपकम् ॥ स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् ( ब्रह्मवै० पु० अ० १०८ ) इति । अत्राधिकं तु परमात्मशब्दव्याख्यानावसरे संपादितं तत्र दृश्यम् । अत्र मध्वमते विष्णुरेव परब्रह्म । स चैक एवं सच्चिदा- नन्दविग्रहः गुणपरिपूर्णः परमार्थतो जगदादिकारणम् सर्वान्तर्या स्वतन्त्रश्च इति विज्ञेयम् । रामानुजमते तु शेषशेषिभावाङ्गीकारेण विशेषः । परमात्मा शेषी । जीवास्तु परमात्मशरीररूपत्वाच्छेषाः इति । माया- वादिमते तु सगुणनिर्गुणभेदेन द्विविधं ब्रह्म । तत्र मायाश्रितः जाग्र- दाद्यवस्थात्रयसाक्षी च ईश्वर: सगुणः । मायातीतम् अवस्थात्रयातीतं च निर्गुणम् इति विशेषो ज्ञेयः । ब्रह्मणः तटस्थलक्षणं च जगज्जन्म- स्थितिप्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वम् इति । तेन नव- लक्षणवत्वम् । तदुक्तं ब्रह्मसूत्रकारैः जन्माद्यस्य यतः (ब्र० सू० ११ १ २ ) इति । अत्र श्रुतिः प्रमाणम् यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म ( तैत्ति ० उप० २११।१ ) इति । ब्रह्मणः स्वरूपलक्षणं च सच्चिदानन्दात्मकत्वम् इति । अत्र श्रुतिः सत्यं ज्ञानमनन्तं ब्रह्म ( तैत्ति ० उ० २।१।१ ) इति । निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम् ( श्वे० ६।१९) इत्यादिश्च । <ब्रह्मज्ञानम्> ब्रह्मविषयकतत्त्वज्ञानम् । तच्चारोपज्ञानं न्यायमतसिद्धम् इति केचित्प्रलपन्ति ( वाच० ) । वयं तु तच्च न्यायमते यथार्थज्ञानमेव इति बदामः । मायावादिनस्तु तस्वमसि ब्रह्माहमस्मि इत्यादिमहावाक्यार्थ- ज्ञानानन्तरं मनननिदिध्यासनादिना सर्वात्मकोहम् ब्रह्मैवाहमस्मि इति प्रमारूपं प्रत्यक्षम् इति मन्यन्ते । श्रीपूर्णप्रज्ञाचार्यानुयायिनः श्रवणमनना- दिना पञ्च भेदज्ञानम् विष्णुसर्वोत्तमत्वादिज्ञानानन्तरं भगवत्प्रसादफलं (अहेतुकम्) भगवदपरोक्षज्ञानम् इति प्राहुः । पञ्च भेदास्तु जीवेशयो- र्भेदः जडजीवयोर्भेदः जडेश्वरयोर्भेदः जीवयोर्भेदः जडयोर्भेदश्च (परमा श्रुतिः ) ( सर्व० पृ० १४२ पूर्ण० ) इति । <ब्रह्मतत्त्वम्> सजातीय विजातीयस्वगत नानात्व शून्यम् (सर्व० सं० पृ० १२८ पूर्णप्र० ) । <ब्राह्मः> (विवाहः ) ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ( याज्ञ वल्क्य० अ० ११५८)। <ब्राह्मणः> १ अदृष्टविशेष प्रयोज्यब्राह्मणत्वधर्मवान् । यथा जात्या ब्राह्मण इत्यादौ । अत्र ब्राह्मणपदार्थघटकतादृशधर्मे तृतीयान्तार्थस्य जात्यभेदस्या- न्वयः । अत्रार्थे व्युत्पत्तिः ब्रह्म वेदम् परब्रह्म वा वेत्त्यधीते वा इति । ब्राह्मणलक्षणं च विशुद्धमातापितृजन्यत्वम् । अत्र विशुद्धत्वं च षटुर्मा- धिकारवत्त्वम् ( त० कौ० पृ० २१ ) । तस्य स्वरूपं यथा जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते ॥ ( वह्निपुराणे ) ( वाच० ) इति । वसिष्ठेनोक्तं ब्राह्मणस्वरूपं यथा योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञान- मास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ इति । ब्राह्मणगुणप्रयुक्तं फलमाह सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवघे निवृत्ताः । प्रतिग्रहे संकु- चिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ इति । तस्य माहात्म्यादि यथा सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि दे भक्तिश्रद्धासमन्वितैः ॥ ( वाच० ) इति । किंच अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ( मनु० ९ । ३१७) इति । अत्र जन्मना ब्राह्मणो गुरुः इति स्मृतिज्ञया मनुनाप्युक्तं यथा वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ ( मनु० अ० १० लो० ३) इति । २ मन्नेतरवेदभागो ब्राह्मणम् ( ऋग्वे० भाष्य० उपो० पृ० २०) । अत्रापस्तम्बः सूत्रयामास मन्त्रब्राह्मणयोर्वेदनामधेयम् इति । सू० ३२-३३ ) इति । तल्लक्षणं तु नैरुत्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम् । प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ ( याज्ञव० ) इति ( वाच० ) । अत्र वात्स्यायनभाष्यम् । त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि विधिवचनानि अर्थवादवचनानि अनुवादवचनानि (वात्स्या २।१।६१ ) इति । <ब्राह्मम्> ( नक्षत्रम् ) रोहिणी ( पुरु० चि० पृ० ३५४ ) । <ब्रुवणम्> ज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्म ब्रूते इत्यादौ ब्रूञोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयक त्वस्यान्वयः । तथा च शिष्यवृत्तिज्ञानोद्देश्यक प्रवृत्त्यधीनधर्मविषयकशब्द- प्रयोगकर्ता इति बोधः (ग० व्यु० का० २ पृ० ४६ ) / <भक्तिः> १ [क] गौणीशब्दवदस्यार्थोनुसंधेयः । यथा ततो भक्त्या दश दिशः सिद्धाः (प्रशस्त० दिङ्गिरू० पृ० ८ ) इत्यादौ । [ ख ] भक्ति- र्नाम लक्षणावृत्तिः (जै० सू० वृ० अ० ३ पा० २ सू० ४३ ) । इयं भक्तिस्तु गौणत्वम् उपचारश्च इति व्यवयिते इति वदन्ति [ग] प्रकर्षभावाभावः । यथा बिल्वामलकादावणुत्वव्यवहारः समि- दिक्षुदण्डादिषु च हस्वत्वव्यवहारो भाक्तः इत्यादौ आमलके यः प्रकर्ष- भावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके । सच गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः (वै० उ० ७७११८ ) । २ [ क ] आराध्यत्वप्रकारकं ज्ञानम् ( कि० व० पृ० ४ ) ( म० प्र० १ पृ० १६ ) ( श० प्र० श्लो० ७२ टी० पृ० ९५ ) ( त० प्र० १ पृ० ६ ) ( सि० च० ) । यथा भक्त्या हरिमुपास्ते इत्यादौ । यथा वा भक्तिर्ज्ञानाय कल्पते इत्यादौ । [ख] निरतिशयानन्दप्रियानन्य- प्रयोजन स कलेतरवैतृष्ण्यवज्ज्ञानविशेषो भक्तिः इति रामानुजीया आहुः ( सर्व० पृ० १२३ रामा० ) । परे तु सा परानुरक्तिरीश्वरे ( शाण्डि ० सू० १।१ ) । यथा रस९ ह्येवायं लब्ध्वानन्दी भवति ( तैत्ति० उ० (२७७१ ) इत्यादौ रसो भक्तिः । यथा वा ब्रह्मसंस्थोमृतत्वमेति (छान्दो० २।२३।१ ) इत्यादौ संस्थापदवाच्या भक्तिः इत्याहुः ( शाण्डि० सू० टी० २/२ ) । अत्र रसशब्दवाच्यं संस्थाशब्दवाच्यं च भगवदपरोक्षज्ञानमेव इति वयं जानीमः । भक्तेर्लक्षणं च आराध्य- विषयकरागित्वम् भक्ते रागरूपत्वे प्रयोगः भक्तिर्भजनीयगोचररागरूपा तदनुवर्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वात् यन्नैवम् तन्नैवम् यथा द्वेषः इति (शाण्डि० टी० ) । अत्र वल्लभीया वदन्ति । इयं भक्तिर्द्विविधा साधनीभूता फलीभूता च । तत्र साधनभूता भक्ति- र्ज्ञानाय कल्पते वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याञ्जु वैराग्यं ज्ञानं च यदहैतुकम् ॥ इत्यादौ । फलभूता तु स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहेतुक्यव्यवहिता ययात्मा संप्रसीदति ॥ (भा० १।२।६-७ ) ब्रह्मसंस्थोमृतत्वमेति इत्यादौ इति । सुखानुशयी रागः ( पात० सू० २।७ ) भक्तिः इति शाण्डिल्यसूत्रटीकाकृत आहुः । जीवोपाध्यनवच्छिन्नचेतनविषयिण्यनुरक्तिरेव भक्तिः इत्यप्यन्य आहुः (शाण्डि० सू० टी० ) । माहात्म्यज्ञानपूर्वः सुदृढः स्नेहो भक्तिः इति पञ्चरात्रागमकुशला आहुः । इयं भक्तिस्त्रिविधा । सा ( उत्तमा ) साधनं भाव: प्रेमा चेति त्रिघोदिता इति । तत्र साधनभक्तिर्यथा कृति- साध्या भवेत्साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥ इति । भावभक्तिर्यथा शुद्धसत्त्व विशेषात्मा प्रेमा सूर्यो साम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥ इति । प्रेम- भक्तिर्यथा सभ्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ इति (भक्तिरसामृतसिन्धौ पूर्वभागः) । अत्रोच्यते अनन्यसमता विष्णौ ममता प्रेमलंगता । भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥ इति नारदपञ्चरात्रे । भक्तिरपि ब्रह्मविद्यायाम- धिकारे उपयुज्यते । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ( कठोप० २१ २२ ) ( मध्वभा० १/१/१ उपोद्धा० ) इति । ३ रचना यथा भवति विरलभक्तिम्लनपुष्पोपहार: ( रघु० स० ५ श्लो० ७४ ) इत्यादौ । ४ भागः इति काव्यज्ञा आहुः । इति व्यवहारज्ञा वदन्ति । ६ भङ्गी इत्यालंकारिका आहुः । <भक्ष> ( धातुः ) कठिनद्रव्यस्य गलाधःसंयोगानुकूलव्यापारः । यथा भक्षयत्यन्नमित्यादौ धात्वर्थो भक्षणम् । <भक्ष:> १ इष्टद्रव्यसंस्कारो हि भक्षः ( जै० न्या० अ० ३ पा० ५ वषट्कर्तुः प्रथमभक्षः (श्रुतिः) अधि० १९ ) । २ भक्षणकर्म । यथा इत्यादौ ( वाच० ) । <भज> ( धातुः ) प्रीत्यनुकूलो व्यापारः । यथा हरिं भजतीत्यादौ भजेरर्थः । अत्र हरिरूपं यत् कर्म तन्निष्ठशक्तिनिरूपकप्रीत्यनुकूलो व्यापारः इति वः । अत्र हरिरूपप्रकृत्यर्थनिष्ठशक्तिनिरूपकत्वं ( विभत्तयर्थः) प्रीतौ संसर्गतयान्वेति (ल० म० सुबर्थ० पृ० ८६ ) । <भजनम्> भजनं दशविधम् वाचा सत्यं हितं प्रियं स्वाध्यायः कायेन दानं परित्राणं परिरक्षणं मनसा दया स्पृहा श्रद्धा चेति । अत्रैकैकं निष्पाद्य नारायणे समर्पणं भजनम् ( सर्व० सं० पृ० १३८ पूर्णप्र० ) । <भट्टः> १ [ क ] वेदाभिज्ञः पण्डितः । [ ख ] चतुःशास्त्रज्ञः इति मालतीमाधवटीकाकार आह । [ग] मेधावी कृतविद्यः । यथा तुता- ताख्यो मीमांसक विशेषः । कुमारिलाख्यो मीमांसकः इत्यपि मीमांसका- नुयायिन आहुः । तुतातकुमारिलाभ्यां भट्ट इत्युपनाम विद्ययार्जितम् इति विज्ञेयम् । भट्टमतं तु मीमांसावार्तिके मीमांसान्यायप्रकाशे भाट्टदीपिकादौ च द्रष्टव्यम् । कुमारिलस्याख्यायिका नारायणपण्डिता- चार्यैर्मणिमञ्जय ( ५-६ सर्गे) प्रतिपादिता तत्र दृश्या । २ क्षत्रियाद्वि- प्रकन्यायां भट्टो जातोनुवाचकः ( ब्रह्मवै० पु०) इति पौराणिका आहुः । <भट्टाचार्य:> तुतातभट्ट उदयनाचार्यश्च । अत्र विग्रहः भट्टश्च आचार्यश्च भट्टाचार्यः इति । अत्रोच्यते नास्तिकानां निग्रहाय भट्टाचार्यौ भविष्यतः इति (बाच० ) । तत्रोदयनाचार्यस्तु न्यायतर्कग्रन्थेषु आचार्य इति व्यवद्दियते । स च किरणावली कुसुमाञ्जलिप्रभृतिग्रन्थद्वारेण परमात्मा- स्तित्वं प्रदर्श्य नास्तिकानजयत् इति सुप्रसिद्धम् । <भद्रा> (सप्तमी) शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् । आद्ये पादे तु देवेन्द्र तदा सा भद्रतां ब्रजेत् ॥ (पु० चि० पृ० १०५ ) । <भयम्> १ ( दोषः ) [ क ] अनिष्टहेतूपनिपाते तत्परित्यागानर्हताज्ञानम् ( गौ० वृ० ४।१।३)। [ख] अनिष्टविषयसाधनोपनिपाते तज्जिहासो- होनाशक्यता भयम् (न्या० बा० ) । [ग] परतोनिष्टसंभावना । यथा व्याघ्राद्विभेतीत्यादौ बिभेत्यर्थः । अत्र भीत्रार्थानां भयहेतुः ( पा० सू० १।४।२५) इत्यनेनापादानसंज्ञा । तदर्थश्च भयार्थकधातुयोगे भयहेतुत्वेन संभावितमपादानम् इति । तथा च व्याघ्राद्विमेतीत्यादौ प्रयोज्यत्व प्रकारकत्वं पञ्चम्यर्थः । तस्यानिष्टसंभावनायामन्वयः । संभा- वितम् इत्युक्त्या शत्रुभ्रमेण मित्रादपि बिभेति इति वाक्यस्यापि प्रामाण्य- ७८ न्या० को० निर्वाह: (ग० व्यु० का० ५ पृ० १०६) । अत्र शाब्दिका वदन्ति । मीत्रार्थानां भयहेतुः इति सूत्रस्थस्य भयहेतुः इत्यस्य भयपदार्थैकदेशा- निष्टहेतुः इत्यर्थः । यज्जन्यं भयमेव न प्रसिद्धम् तत्र पञ्चमी न भवत्येव । तत्र पञ्चम्याः इष्टत्वे तु हेतुत्वारोपेण सा पञ्चमी ( ल० म० सुब० कार० ५ पृ० १०९ ) इति ।[ घ ] भावित्वेन स्वानिष्टचिन्तनम् । यथा व्याघ्राद्विभेति त्रस्यतीत्यादौ धात्वर्थः । हेतुत्वं जन्यत्वं वा पञ्चम्यर्थः । तच्च धात्वर्यैकदेशे अनिष्टे चिन्तन एव वान्वितम् । तथा च व्याघ्र हेतुक स्वानिष्टस्य भाविलेन चिन्तनवान् इति व्याघ्रहेतुकत्वेन भाव्यनिष्ट- धर्मिक चिन्तनवान् इति वा तत्र बोध: ( श० प्र० श्लो० ६८ टी० पृ० ८०) । [ङ ] शाब्दिकास्तु अनिष्टज्ञानम् । यथा चोराद्विभेतीत्यादौ धात्वर्थो भयम् इत्याहुः । अत्र चोरापादानकानिष्टज्ञानम् इति बोधः ( ल० म० सुब० का० ५ पृ० १०९) । २ भयस्थायिभावको रस- विशेष: इति रसशास्त्रज्ञा आहुः । अत्रोच्यते रौद्रशत्त्या तु जनितं चित्तवैक्लव्यदं भयम् ( सा० द० परि० ३ श्लो० १७८ ) इति । बैक्कव्यमस्थिरत्वम् । ३ निर्ऋतिपुत्र विशेषः इति पौराणिका आहुः (भा० आ० अ० ६६ ) । <भवनम्> १ उत्पत्तिः कालस्य वस्तुना संबन्धविशेषो वा यथा घटो भवतीत्यादौ भूधात्वर्थो भवनम् । वैयाकरणास्तु उत्पश्यनुकूलो व्यापारः । यथा घटो भवतीत्यादौ भूधातोरर्थः इत्याहुः (वै० सा० द० ) ( वाच० ) । २ मन्दिरम् इति काव्यज्ञा आहुः । <भविष्यत्> १ ( काल: ) यत्प्रागभावेन यः कालोवच्छिद्यते स तस्य भविष्यत्कालः (वै० उ० २१२१८ ) । यथा घट उत्पत्स्यत इत्यादी घटप्रागभावेन यः कालोवच्छिन्नः (विशिष्ट: ) स घटस्य भविष्यत्कालः । तर्ककौमुद्यां तु तव्यक्तिप्रागभावविशिष्टः कालस्तव्यक्तेरनागतकालः इत्यु- क्तम् । अन्यत्र चोक्तम् वर्तमानप्रागभावप्रतियोग्यवच्छिन्नकालः इति । अत्रायं विशेषः कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति न देयम् ( १० मा० कालनि० पृ० ९२ ) । भविष्यत्वं च [क] वर्तमानकालवृत्तिप्राग- भावप्रतियोगित्वम् । यथा अनागतः कालः इत्यादौ कालस्य भविष्यत्त्वम् (वाक्य० १५०६) (नील० १ काल० पृ० १०) । [ ख ] आद्यकृति- प्रागभावः (न्या० म० ४ पृ० २०) । [ग] वर्तमानप्रागभावः । यथा पक्ष्यतीत्यादौ ऌडर्थः । अत्र ऌडर्थस्य तादृशप्रागभावस्य तदर्थकृतौ प्रति- योगितासंबन्धेनान्वयः । प्रागभावानङ्गीकारे तु वर्तमानध्वंस एव ऌडर्थः ( ग० व्यु० ल० पृ० १३६) । [घ] वर्तमानप्रागभावप्रतियोगित्वम् । यथा घटो भविष्यतीत्यादौ धात्वर्थोत्पत्तेर्भविष्यत्त्वम् । पक्ष्यतीत्यादौ चाख्यातार्थकृतेर्भविष्यत्त्वम् ( त० प्र० ख० ४ पृ० ८२) (ल० म० लकार० ) । [ङ ] विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् (तर्का ० ख० ४ ) ( दीधि० २) । यथा नयतीत्यादौ ऌडर्थः ( त० प्र० ख० ४ पृ० ८३ ) ( ग० व्यु० ल० पृ० १३५ ) । यथा वा आगमिष्यतीत्यादौ ऌटोर्थः । अत्र विद्यमानप्रागभावप्रतियोग्युत्पत्तिका- गमनानुकूलकृतिमान् इत्यर्थो बोध्यते ( तर्का ० ख० ४ पृ० ११ ) । [च] वर्तमानकालोत्तरकालोत्पत्तिकत्वम् ( त० प्र० २ ) ( दीधि ० २ ) । यथा ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्य लक्षणम् ॥ ( रघु० स० १० श्लो० ६ ) इत्यादौ । [ छ ] वर्तमानध्वंसः । यथा पक्ष्यतीत्यादौ ऌडर्थः । अयं च प्रागभावा- नङ्गीकारपक्षेपि संगच्छते इति विज्ञेयम् ( ग० व्यु० ल० पृ० १३६ ) । २ पौराणिकास्तु महापुराणान्तर्गतपुराणविशेषः । यथा भविष्यपुराण- मित्यादी इत्याहुः (नारदीय० पु० पा० ४ अ० १००) । <भाक्तः> १ लाक्षणिकः शब्दः । गौण इत्यर्थः । यथा सिंहो माणवक इत्यादौ सिंहशब्दः । अत्र सिंहपदस्य सिंहसदृशे लक्षणा । सादृश्यं च शौर्यादिना इति नैयायिका आहुः । तथा च सिंहवृत्तिगुणसदृशगुणवान्माणवकः इति शाब्दबोध: । शाब्दिकास्तु सिंहपदस्य सिंह एवार्थः । माणवके च सिंहवृत्तिशौर्यक्रौर्यादयो गुणा आरोप्यन्ते इत्याहुः । तथा चैतन्मते सिंहवृत्त्यारोपितगुणवान्माणवकः इति बोधः । २ गौण्या वृत्त्या <बोधितोर्थः> ( औपचारिकः ) । ३ भक्तमन्नम् तत्संबन्धि भक्तिम् इति काव्यज्ञा आहुः । <भागः> १ पक्षतावच्छेदकाश्रयो यः कश्चन पक्षैकदेशः । यथा भागासिद्धि- रित्यादौ। २ स्वत्वाश्रयः (धनम् ) । यो मां प्रति स्यात् इत्यादौ । अत्र भागः ( स्वत्वाश्रयः ) प्रत्याद्यर्थः । तदन्वयी संबन्धो द्वितीयार्थः । इत्थं च अस्मत्संबन्धी यो भागः स्यात् इति बोध: ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । ३ एकदेशः । ४ त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते इति ज्योतिषज्ञा आहुः । ५ पूर्वाफाल्गुनी नक्षत्रम् इति मौहूर्तिका आहुः । ६ एकादशसंख्या इति गणका आहुः । <भागवतम्> १ मोक्षप्रदश्रीभगवज्ज्ञानभक्तिवैराग्यप्रतिपादको महापुराण- विशेषः । यथा यैर्न श्रुतं भागवत पुराणम् ( भाग० ) पिबत भागवतं रसमालयम् ( भाग० १ । १ । ३ ) इत्यादौ । तथोक्तं श्रीमद्भागवते धर्मः प्रोज्झितकैतवोत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किंवा परीश्वरः हृद्यवरुध्यतेत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ( भाग० १/१/२) इति । अत्रोच्यते । मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् । श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम् ॥ तदष्टादशसाहस्रं कीर्तितं पापनाशनम् । सुरपादपरूपोयं स्कन्धैर्द्वादशभिर्युतः ॥ भगवानेव विप्रेन्द्र विश्वरूपी समीरितः ( नारदीयपु० ४ अ० ९६ ) इति । तेन श्रीमद्भागवतं बोपदेवकृतम् इति केषांचित्तामसानां प्रलापो निरस्तः । बोपदेवकृतं तु देवीभागवतमेव इति तु वयं तत्त्वत्तो जानीमः । २ भगवद्भक्तः पुरुषः । यथा यत्र ह वा वीरव्रत औत्तानपादिः ध्रुवः परमभागवतः ( भाग ० स्क० ५ अ० १७ गद्यम् २ ) इत्यादौ । तत्स्वरूपमुक्तं यथा सर्व- भूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ( भाग० स्कन्ध० ११ अ० २ श्लो० ४५ ) इति । येन सर्वात्मना विष्णुभक्तया भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि ॥ सः ॥ ( गारुडे० ) इति । <भागासिद्धिः> ( स्वरूपासिद्धिः ) पक्षतावच्छेदकसामानाधिकरण्येन हेत्व- भावः । यथा पृथिवी गन्धवती घटत्वादित्यादौ पृथिवीत्वसामानाधिकरण्येन पटादौ घटत्वाद्यभावः (ग० बाघ ० ) । यथा वा पृथिव्यादयश्चत्वारः परमाणवः अनित्याः गन्धवत्त्वादिति । अत्र गन्धवत्त्वं हेतुः पक्षीकृतेषु सर्वेषु नास्ति । पृथिवीमात्रवृत्तित्वात् । अत एव भागे स्वरूपासिद्धत्वम् ( त० मा० हेत्वा० पृ० ४५ ) । तस्या उदाहरणान्तरं यथा घट- शब्दावभिधेयौ मूर्तस्यात् ( प्र० च० पृ० २४) इति । <भाग्यम्> पूर्वाफल्गुनी ( पु० चि० पृ० ३५३ ) । <भाण:> ( रूपकम् ) दृश्यकाव्यविशेषः । यथा मुकुन्दानन्दभाणः पञ्चा- युधप्रपञ्चभाणः इत्यादिः । तल्लक्षणं च भाणः स्याद्धूर्तचरितो नाना- वस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥ ( सा० द० परि० ६ श्लो० ५१३) इत्यादि । अहोरात्रं विटानां च चरितं भाण इष्यते ( मुकु० भा० टी० ) इति च । <भानम्> १ विषयतावदस्यार्थो नुसंधेयः ( दि० १।२ ) । यथा उपनीत- भानमित्यादौ । २ ज्ञानम् । ३ प्रकाशः । ४ दीप्तिः । <भारतम्< १ जम्बूद्वीपसंबन्धी वर्षविशेषः । अत्रोच्यते हिमाहं दक्षिणं वर्षे भरणाय ददौ पिता । तस्माच्च भारतं वर्षम् (वाच ० ) इति । २ भरत- नृपस्य वंश्यः इति पौराणिका आहुः । ३ अग्निविशेषः इति याजका आहुः । ४ भरतमुनिकृतं नाट्यशास्त्रम् इति साहित्यशास्त्रज्ञा आहुः । ५ सत्यवती- सुतव्यासप्रणीतः ग्रन्थविशेषः । एतस्य महाभारतम् इति संज्ञा । तथाहि । चत्वारश्चैकतो वेदा भारतं चैतदेकतः । पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ॥ चतुर्ग्यः सरहस्येभ्यो वेदेभ्योभ्यधिकं यदा । तदाप्रभृति लोकेस्मिन्महाभारतमुच्यते ॥ महत्त्रे च गुरुत्वे च प्रियमाणं यतो- धिकम् । महत्त्वाद्भारतत्वाच्च (भारवत्त्वाच्च ) महाभारतमुच्यते ॥ (भार० आ० अ० १ ) इति । अयं च ग्रन्थो लक्षश्लोकात्मक इति वदन्ति । तत्र यत्संख्यको ग्रन्थ एतावता कालेनोपलब्धस्तत्संख्या प्रदर्श्यते पर्व.Puny १ आदिपर्व २ सभापर्व ३ वनपर्व ४ विराटपर्व ५ उद्योगपर्व ६ भीष्मपर्व ७ द्रोणपर्व ८ कर्णपर्व ९ शल्यपर्व १० सौप्तिकपर्व ११ स्त्रीपर्व १२ शान्तिपर्व १३ अनुशासनपर्व १४ आश्विमेधिकपर्व १५ आश्रमवासिपर्व १६ मौसलपर्व १७ महाप्रस्थानिकपर्व १८ स्वर्गपर्व १९ हरिवंशः न्यायकोशः । अध्यायाः ग्रन्थसंख्या अवान्तरपर्वाणि. MUTTA एतावानेवेदानींतनकालपर्यन्तं प्राप्तो ग्रन्थः । लक्षसंख्यको ग्रन्थस्तु प्राप्तः । उपलब्धेप्येतावति ग्रन्थे बहवः केचनाध्यायाः प्रक्षिप्ता: सन्ति न तु ते भारतकृता निर्मिताः इति विज्ञेयम् । भावः - १ अन्यनिगूढेच्छा ( प्रशस्त० २ पृ० ३३ ) / २ सत्ता ( सामान्यम् ) । यथा द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः (३० न ७।२।२७ ) इत्यादौ । ३ द्रव्यादिष्टुम् (मु० १ पृ० १९ ) । तल्लक्षणं च भावत्वमेव । तच्चात्र समवाय एकार्थसमवाय एतदन्यतरसंब- न्धेन सत्तावत्त्वम् ( दि० १ पदार्थनि० पृ० २० ) । अत्र समवायस्य खरूपेण स्वसंबद्धत्वाङ्गीकारेण समवायस्य समवायेनान्यत्रावृत्तावपि समवाये नाव्याप्तिः इति ज्ञेयम् ( राम० १ पृ० २० ) । अथवा समवाय सामानाधिकरण्य एतदन्यतरसंबन्धेन सत्तावत्त्वम् ( दि० १ अभावनि० पृ० ४९ ) । ४ नव्यास्तु इतराविशेषणतया क्रियाबोधपरत्वम् । यथा कृष्णेन स्थीयते इत्यादौ आत्मनेपदविधायके भावकर्मणोः ( पा० सू० १ । ३ । १३) इति पाणिनिसूत्रे भावपदार्थ इत्याहु: ( ग० व्यु० आख्या- तार्थनि० पृ० १२९ ) । ५ धातुवाच्या क्रिया । यथा भावप्रधानमा- ख्यातम् ( यास्कनिरुक्तम् ) इत्यादौ । यास्केन साध्यरूपाया भावत्वमुक्तं यथा तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् इत्यादि । अत्रायं भावः । शाब्दिकमते शाब्दबोधस्य धात्वर्थमुख्यविशेष्यकत्वस्वीकारेण भावस्य प्राधान्यं युज्यते। नैयायिकमते तु प्रथमान्तार्थमुख्य विशेष्यकशाब्दबोधाङ्गीकारेण तन्मते भावना भावशब्दार्थः । इयमेव कृतिः । तथा च भावप्रधानमाख्यात- मित्यत्र भावः प्रधानं धात्वर्थे इति विग्रहं वर्णयन्ति । ६ सिद्धाव- स्थापन्नो धात्वर्थो भाव इति वैयाकरणा आहुः । ७ उत्पत्त्यादि- रूपषड्भावविकारयुक्तः पदार्थ इति यास्क आह । अत्रोच्यते । षड्भाव- विकारा भवन्तीति वार्ष्यायणिः । जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति । तत्र ( १ ) जायते इति पूर्वभावस्यादि- माचष्टे नापरभावमाचष्टे न प्रतिषेधति । (२) अस्ति इत्युत्पन्नस्य सत्त्वस्यावधारणम् । (३) विपरिणमते इत्यप्रच्यवमानस्य तत्त्वाद्विकारम् । (४) वर्धते इति स्वाभ्युच्चयम् सांयौगिकानां वार्थानाम् वर्धते विजये- नेति वा वर्धते शरीरेणेति वा । (५) अपक्षीयते इत्येतेनैव व्याख्यातः प्रतिलोमम् । (६) विनश्यति इत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति (निरुक्त० ) इति । ८ धर्मादयोष्टौ भावाः इति सांख्या आहुः । धर्मादयस्त भावैरधिवासितं लिङ्गम् ( सांख्यकारि० ४० ) इत्यादौ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि भावाः ( सांख्य ० कौ० का० ४०-४५ ) इत्युक्ताः । ९ प्रकृतिजन्यबोधे प्रकारः असाधारणधर्मः भावः । यथा घटस्य भावो घटत्वम् इत्यादौ इति सर्वशास्त्रकारा आहुः । अत्रायं विशेषो ज्ञेयः । प्रकृतिजन्यबोधे येन संबन्धेन तत्प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन संबन्धेन तदितरा- वृत्तित्वे सति तद्वृत्तिर्धर्मः इति ( भवानन्दी० ) । अत्र तस्य भावत्व- तलौ (पा० सू० ५/१/११९ ) इति सूत्रेण भाववाचकस्त्वप्रत्ययो विहितः इति ज्ञेयम् । १० वासना संस्कारश्च इति मीमांसकाः प्रवदन्ति । १९ चेतनमचेतनम् इति द्विविधभेदयुतः अस्वतन्त्रतत्त्व विशेषो भावः इति मध्वाचार्याः प्राहुः । १२ भक्तिरपीति सर्वे वेदान्तिनो वदन्ति । १३ हृद्रतावस्थावेदको मानसविकारो भावः । स च निर्वेदादिर्व्य मिचारि- भावस्त्रयस्त्रिंशद्विधः रत्यादिः स्थायी भावश्च नवविध इति रसिका आहुः । तदुक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥ ( सा० द० परि० ३ श्लो० १) इति । १४ नाट्योक्तनानापदार्थचिन्तकः पण्डितः इति नाटकज्ञा ब्रुवते । १५ संगीतसंगतपदार्थद्योतक हस्तचेष्टशविशेषो भावः इत्यभिनयकलाज्ञा नर्तकाश्च संगिरन्ते । १६ अभिप्रायोपीति काव्यज्ञा संजगदिरे । १७ अलंकारविशेषः इत्यालंकारिका आहुः । स्त्रीणां यौवनकाले सख निर्विकारात्मके चित्ते भाव: प्रथमविक्रिया इति । १८ जन्म इति पौरा- भवाष्टाविंशत्यलंकारान्तर्गतोङ्गजः प्रथमालंकारोयम् । तथा चोक्तम् णिकाः संवदन्ते । १९ लग्नादितस्तन्वादिर्द्वादशविधो भावः इति मौहूर्तिका आहुः । २० ग्रहाणां द्वादशविधचेष्टा विशेषः इति ज्योतिर्विद आहुः । २१ दिव्यवीरपशुभेदेन त्रिविधो भावः इति तन्त्रज्ञा आहुः । २२ मध्व- मतानुयायिवेदान्तिनस्तु प्रथमप्रतीतौ यः अस्ति इति प्रतीतिविषयः भाव इत्याहुः ( प्र० च० परि० २ पृ० ४८) । <भावना> १ ( गुणः ) [क] अनुभवजन्यः स्मृतिहेतुर्गुण विशेषः ( त० सं० ४ ) । स तु संस्कारप्रभेदः जीवमात्रवृत्तिः अतीन्द्रियश्चेति बोध्यम् (भा०प० ) ( त० सं० ) । अत्र भाष्यम् । भावनासंज्ञक- स्त्वात्मगुणः दृष्टश्रुतानुभूतेष्वर्येषु स्मृतिप्रत्यभिज्ञानहेतुः ज्ञानमददुःखा- दिविरोधी पटु अभ्यास आदर एतन्त्रिविधप्रत्ययजः । तत्र पटुप्रत्ययजो यथा पटुप्रत्ययापेक्षादात्ममनसोः संयोगादाश्चर्येर्थे पटुः संस्कारो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । अभ्यासप्रत्ययजो यथा शिल्पविद्याक्रिया- व्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरो- त्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । आदर- प्रत्ययजो यथा प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थ दिदृक्षमाणस्य विद्युत्संपातदर्शनवदादर प्रत्ययः उत्पद्यते । तमपेक्षमाणादात्ममनसोः संयो- गात्संस्कारातिशयो जायते । यथा देवहदे सौवर्णराजतपद्मदर्शनात् ( प्रशस्त ० २ पृ० ३४) इति । अत्रेदं बोध्यम् । उपेक्षानात्मकेन निश्चयेन ( अनुभवेन ) यः संस्कारो जायते स एवोद्बुद्धः स्मृतिजनकः । उपेक्षा- त्मकनिश्चयजन्यस्तु न स्मृतिं जनयतीति । संस्कारोयमपि सविषयकः । संस्कारश्चान्त्यस्मृत्युत्पादनेन रोगेण कालविशेषेण वा नश्यति । केचित्तु समानविषयस्मृत्या स नश्यति इत्याहुः ( त० व० पृ० २३१ ) ( मु० स्मृतिनि० पृ० १९० ) । [ख] पूर्वानुभूतवस्तुनः स्मृतिहेतुः संस्कार: ( त० प्र० ) ( त० कौ० ) । [ग] ज्ञानजः संस्कारः । २ कृत्यपरनामा प्रयत्नः ( त० प्र० ख० ४ पृ० ८१ )। यथा चैत्र- स्तण्डुलं पचतीत्यादावाख्यातार्थः प्रयत्नो भावना । अत्रायं नियमः भावनान्वयिन्येव संख्याया अन्वयः इति । तेन कृष्णेन स्थीयते इत्यादौ भावनाया अनन्वयेन संख्याया अध्यनन्वयेपि न क्षतिः इत्यवधेयम् (त० प्र० ख० ४ पृ० ८१ ) । ३ शाब्दिकास्तु धातुवाच्यो व्यापारो भावना । यथा पचतीत्यादावधःसंतापनादिरूपव्यापार इत्याहुः । पचति पाकमुत्पादयति इत्यस्य पाकानुकूला भावना तादृश्युत्पादना इति विवरणात् विव्रियमाणस्यापि तद्वाचकता इति भावः । अत्राधःसंतापनत्व- फूत्कारत्वयु परिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः । अत्रोक्तं भर्तृ- हरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृञोकर्मकतापत्तेर्न हि यत्नोर्थ इष्यते ॥ (वै० सा० धात्व० पृ० ५०-५१) इति । ७९ न्या० को० ४ मीमांसकास्तु भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः । यथा यजेतेत्यादौ लिङाद्याख्यातार्थो भावनेत्याहु: (लौ० भा० ) । अत्रायं विशेषो ज्ञेयः । भट्टमते शाब्दी भावना आर्थी भावना चेति भेदेन द्विविधा भावना। तत्रान्त्यायां भावनायां भाव्यजनकत्वम् । भाव्यत्वं चेष्ट- त्वम् इति विज्ञेयम् (त० प्र० ख० ४ पृ० ९४ ) । ५ पौराणिकास्तु मानसज्ञानविशेषो भावना ( चिन्ता ० ) । सा च त्रिविधा भावना विप्र विश्वमेतन्निबोधत । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ( विष्णुपु० अं० ६ अ० ७ ) इत्याहुः । ६ बौद्धमते भावनाचतुष्टयम् । तच्च बौद्धशब्दे दृश्यम् । ७ मिषजस्तु निर्यासादिना चूर्णद्रव्यस्य मिश्री करणे चूर्णद्रव्यस्य निर्यासादिना संस्कारविशेषः (औषधसंस्कारविशेष:) भावना इत्याहुः । तत्प्रमाणमुक्तं भावप्रकाशे यथा द्रवेण यावन्मानेन चूर्णे सर्वे तं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ॥ ( वाच० ) इति । <भावनापञ्चकम्> हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाष णेनापि भावयेत्सूनृतं व्रतम् ॥ ( सर्व० सं० पृ० ६६ आई० ) । <भावित्वम्> १ भविष्यस्वम् । २ भावविशिष्टत्वम् । <भाव्यम्> भाव्यं च द्विविधम् ईश्वरस्तत्त्वानि च ( सर्व० सं० पृ० ३५६ पातञ्ज० ) । <भाषणम्> यत्किंचिज्ज्ञानानुकूलशब्दप्रयोगः । अत्रायं नियमः साधु भाषि- दोषः तव्यम् नापभ्रंशितवै न म्लेच्छितवै इति श्रुतिः । खरादिशब्दास्तु रासभादौ म्लेच्छे रिवार्यैरपि संकेतिताः इति तत्प्रयोगे न ( श० प्र० श्लो० २२ टी० पृ० २६ ) । न ग्लेच्छितवै इत्यस्य म्ले. च्छमात्रसंकेतितानां शब्दानां प्रयोगो न कार्य इत्यर्थः । <भाषां> १ तत्तद्देशस्थजनवर्तननिर्वाहकं वाक्यम् । यथा संस्कृतभाषा / ( ४ ) मागधी (५) अर्धमागधी ( ६ ) प्राच्या (७) अवन्तिका अथ भाषाविभागः (१) संस्कृता (२) सौरसेनी (३) महाराष्ट्री (८) दाक्षिणात्या (९) शाकारी (१०) बाह्रीका (११) द्राविडी (१२) आमीरी (१३) चाण्डाली (१४) शाबरी (१५) पैशाची (१६) शौरसेनिका (१७) प्राकृता (१८) एतदन्या तत्तद्देशभाषा चेति (सा० ८० परि० ६ श्लो० १५८-१६९) । तत्तद्भाषालक्षणानि च भाषार्णवे दृश्यानि । पात्रवर्णादिभेदेन भाषाप्रयोगस्तु साहित्यदर्पणे षष्ठे परिच्छेदे प्रतिपादितः स तत्रैव दृश्यः । तत्र संस्कृता सर्वदेश- भाषाणां मूलभूता । २ व्यवहारशास्त्रज्ञास्तु प्रतिज्ञासूचकं वाक्यं भाषा इत्याहुः । मिताक्षरायां विज्ञानेश्वरेण भाषालक्षणमुक्तम् । यथा अर्थव- द्धर्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधने क्षमम् । संक्षिप्तं निखिलार्थे च देश- कालाविरोधि च ॥ वर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्थानावसथ- साध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामवत् । परात्मपूर्व जानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्तृदा- यकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥ (मिताक्षरा अ० २ श्लो० ६) । भाषासमितिः - प्रिया बाचंयमानां सा भाषासमितिरुच्यते ( सर्व० सं० पृ० ७९ आई० ) । <भाषिकः> तत्तच्छाखीयब्राह्मणस्वरो भाषिक इत्युच्यते । तदुक्तमाचार्यैः छन्दोगा बहुचाश्चैव तथा बाजसनेयिनः । उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ॥ (जै० न्या० अ० १२ पा० १ अधि० ८ ) । <भाष्यम्> सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥ इति भाष्यलक्षणम् । <भासः> गोष्ठकुक्कुटः । <भासनम्> १ दीप्तिः । २ विषयता । यथा घटत्वं घटे भासत इत्यत्र भासधात्वर्थः । अत्र घटनिष्ठं विशेष्यत्वमवच्छेद्यतासंबन्धेन सप्तम्यानु- भाव्यते । एवम् ज्ञाने घटत्वं भासत इत्यादौ निरूपितत्वमपि सप्तम्यानु- भाव्यते इति विज्ञेयम् ( श० प्र० श्लो० ७१ टी० पृ० ९०) । <भास्वरत्वम्> परप्रकाशकत्वम् ( वै० उ० २ । १ । ३ ) । यथा भास्वरं शुक्लं तेजसि ( त० सं० ) इत्यादौ स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्कभास्वरम् ( भा०प० श्लो० ४२ ) इत्यादौ च सूर्यतेजसि विद्यमानस्य शुक्लरूपस्य भास्वरत्वम् । अत्रोक्तं दिनकरभट्टैः भास्वरत्वं जातिविशेषः । स च तेजोरूप- मात्रवृत्तिः शुक्लत्वव्याप्यश्च इति विज्ञेयम् ( दि० १ तेजोनि० पृ० ७८)। <भिक्ष> (धातुः) प्रार्थनम्। यथा नृपमर्थे भिक्षत इत्यादौ ( श० प्र० श्लो० ७३ टी० पृ० ११२) । <भिक्षा> १ याचनम् ( ल० म० ) । २ भक्षणीयमन्नम् । यथा भिक्षां देहि त्वमर्थिभ्य इत्यादौ । अत्र भिक्षाशब्दस्य भक्षणीय इत्यर्थः (श० ० १०० टी० पृ० १५६ ) । अत्र भिक्षाशब्दः कर्मसाधन इति बोध्यम् । <भिद्> ( धातुः ) १ अन्यत्वेन ज्ञापनम् । अत्र ज्ञापनं च ज्ञानविषयता- प्रयोजकव्याप्तिपक्षधर्मता । तदाश्रयोसाधारणधर्म एव भिदादिकर्तृत्वा द्भेदक उच्यते । अन्यत्व प्रकारकानुमितिविषयता रूपधात्वर्थतावच्छेदक फलाश्रयो भिदाकर्मतया मेद्यः । एवं च पृथिवीतरेभ्यो भिद्यत इत्यादौ पृथिव्यादेः कर्मतैव न केवलकर्तृता । २ भेदः । यथा पटाद्भिन्नम् घटा- द्भिद्यते इत्यादी धात्वर्थः । ३ विदारणम् । यथा भिद्यते हृदयग्रन्थिः इत्यादौ भिद्यते कुसूल इत्यादौ वा भिधात्वर्थः ( ग० व्यु० का० ५पृ० १११ ) । <भिदा> भेदः (अन्योन्याभावः ) । <भिन्नत्वम्> १ भेदानुयोगित्वम् । यथा घटः पटाद्भिन्नः इत्यादौ घटस्य पटप्रतियोगिकमैदानुयोगित्वम् । एवम् अन्यत्वादयः शब्दाः स्वयं नि र्वाच्याः । २ रोगविशेषनिष्ठो धर्मः इति भिषज आहुः । तदुच्यते भावप्रकाशे शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः । यत्किंचित्प्रस्रवेत्तद्वि भिन्नमित्यभिधीयते ॥ ( वाच० ) इति । आशयः कोष्ठः । ३ विदारण कर्मत्वम् इति काव्यज्ञा आहुः । <भुक्तिः> उपभोगः (वहिवाट इति प्र० ) । <भुजिष्या> (दासी) पुरुषनियतपरिग्रहा भुजिष्या (मिताक्षरा अ० २/२९०) । <भूतकालः> [ क ] यत्प्रध्वंसेन यः कालोवच्छिद्यते स तस्यातीतकालः (बै० उ० २१२१८ ) । [ ख ] तथ्यक्तिध्वंसविशिष्टः कालस्तव्यक्तेरती- तकाल : ( त० प्र० ) ( त० कौ० ) । [ग] वर्तमानध्वंसप्रतियोग्यव च्छिन्नः कालः (प० मा० ) । यथा गतः स कालो यत्रासीदवज्ञा कल्पशा- खिनाम् । उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम् ॥ इत्यादावतीतकालः । भूतत्वं च विद्यमानध्वंसप्रतियोगित्वम् । यथा अपाक्षीदित्यादौ लुङर्थों भूतत्वम् ( न्या० म० ख० ४ पृ० २४ ) ( ल० म० ) ( तर्का० ४ ) । अत्र उत्पत्तिः भूतत्वं च लुडोर्थ: । भूतत्वं चोत्पत्तावन्वेति । तथा च विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् (तर्का० ४ पृ० ११ ) । <भूतम्> १ पञ्चमी तिथि: ( पु० चि० पृ० ३७ ) । २ पृथिव्यादीनि पञ्च भूतानि । भूतत्वं च [ क ] बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् ( गौ० वृ० १ । १ । १३ ) (न्या० बो० ) ( ग० चतु० ) ( मु० १ साधर्म्य ० पृ० ५८) । अत्र पदप्रयोजनादिविशेष उच्यते । आत्मन्यतिव्याप्तिवारणाय बहिः पदम् । बहिरिन्द्रियग्राह्यजातीयसंयोगा दिमति कालादावतिव्याप्तिवा- रणाय विशेष इति । द्रव्यत्वमादायातिव्याप्तिवारणाय गुण इति ( दि० १ साधर्म्यनि० पृ० ५८) । [ख ] आत्मावृत्तिविशेषगुणवत्त्वम् (मु० १ साधर्म्यनि० पृ० ५८ ) । अत्र कल्पे दैशिकपरत्वापरत्वमादाय मनस्यति - व्याप्तिवारणाय विशेष इति पदं दत्तम् (दि० १ साधर्म्य० पृ० ५९ ) । यथा पृथिव्यादीनां पञ्चानां भूतत्वम् (भा०प० श्लो० २६) । पृथिव्या- दीनि च पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ( गौ० १११।१३ ) । भूतानां विशेषगुणास्तु शब्दस्पर्श रूपरसगन्धा भूतगुणाः स्मृताः इति । भूतानामेकैकविशेषगुणा उक्ता यथा आकाशस्य गुणः शब्दः । वायोः स्पर्शः । तेजसो रूपम् । जलस्य रसः । भूमेर्गन्धः ( गौ० १।१।१४ ) ( शा० ति० ) इति । सांख्यास्त्वन्यथाङ्गीचक्रुः शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत् । शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज इष्यते ॥ शब्दस्पर्श- रूपरसैरापो ज्ञेयाश्चतुर्गुणाः । शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही ॥ ( ईशानसंहिता) (वाच० ) इति । अत्रायं प्रसङ्गोपात्तो विशेषः । भौतिकं च भूतारब्धम् । यथा पाञ्चभौतिको देहः इत्यादौ ( सां० सू० अ० ३ सू० १७ ) । अत्र स्थूलशरीरे विप्रतिपत्तिः । स्थूलशरीरं चातुर्भौतिकमित्येके । ऐकभौतिकमित्यपरे ( सांख्य० सू० अ० ३ सू० १८-१९)। सार्वभौतिकम् इति पूर्णप्रज्ञाचार्याः प्राहुः ( क्र० सू० भा० ३।१।२) । सांख्यास्तु शरीरं न पाञ्चभौतिकम् किं तु पृथि- व्युपादानकमेव इत्याहुः । मायाबादिवेदान्तिनस्तु तेजोबन्नात्मकमित्येवं त्र्यात्मकमेव इत्यङ्गीचक्रुः । ३ सत्यम् । यथा भूतमप्यनुपन्यस्तं हीयते व्यवहारतः (याज्ञ० स्मृ० २१९) इत्यादौ । ४ तत्त्वानुसंधानम् । यथा छलं निरस्य भूतेन ( याज्ञ० स्मृ० २११९) इत्यादौ । ५ पिशाचम् इति मात्रिका वदन्ति । यथा ब्रह्मविद्या क्षत्रविद्या नक्षत्रविद्या भूतविद्या सर्पविद्या (छा० उप० ) इत्यादौ । भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपि- शाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म बलिहरणादि ग्रहोपशमनार्थम् इति । सा च भूतविद्या तत्रोत्तरतन्त्रे दर्शिता । ६ कृष्णचतुर्दशी इति मौहूर्तिका आहुः । ७ प्राणी । ८ प्रधानम् । यथा भूतमियं ब्राह्मण्य - स्मिन्गृहे । ९ विपरीतम् । यथा भूतमाह । १० अतिक्रान्तकालः । यथा भूतो धात्वर्थः । ११ देवताविशेषः । यथा भूतेभ्यो बलिः । १२ चेतनमात्रम् । यथा न हिंस्याद्भूतानि । १३ प्राप्तिवचनम् । यथा महद्भूतश्चन्द्रमाः । १४ उपमा । यथा काव्यभूतः । १५ उत्पन्नः । यथा देवदत्तस्य पुत्रो भूतः ( मनुस्मृ० ४ । ३२ मेधातिथि: टी० ) । <भूतार्थवाद:> ( अर्थवादः ) १ अतत्कालेपि तद्गुणज्ञापकः शब्दः । यथा जरायामव्ययं शूरः इत्यादि ( सि० च० पृ० ३३ ) । यथा वा राज्य- भ्रंशेप्यमायैः अयं राजा इति प्रयुज्यते ( त० प्र० ख० ४ पृ० १२४ ) । विधिसमभिव्याहाराभावेयमप्यर्थवादः संभवति इति बोध्यम् (गौ० वृ० २/१/६५ ) । २ मीमांसकास्तु प्रमाणान्तरविरोध- तत्प्राप्तिरहितार्थबोधको बादः । तदुक्तम् विरोधे गुणवादः स्यात् अनु- वादोवधारिते । भूतार्थवादस्तद्धा नादर्थवादस्त्रिधा मतः ॥ (न्या ० म० ख० ४ पृ० ३१ ) । तदर्थश्च तद्धानात् तयोः प्रमाणान्तरविरोध- प्रमाणान्तरप्राप्त्योः हानात् अभावात् इति । यथा इन्द्रो वृत्राय वज्र- मुदयच्छत् ( श्रुतिः ) ( म० प्र० ४ पृ० ६४ ) इत्यादिः । अयं भावः । अस्य वृत्रं प्रतीन्द्रवज्रोद्यच्छनाभावावगाहिप्रमाणान्तरस्यादर्शनात् न तद्बोधने प्रमाणान्तरविरोधः । नापि प्रमाणान्तरावगतार्थप्रतिपादक- त्वम् । वृत्रं प्रतीन्द्रवज्रोद्यच्छन प्रतिपादक प्रमाणान्तरस्यादर्शनात् । अतो भूतार्थवादत्वम् ( लौ० भा० पृ० ५५ ) । यथा वा वज्रहस्तः पुरंदर: इत्यादिश्च ( त० कौ० ) इत्याहुः । अविरुद्धाप्राप्तार्थबोधकः शब्दः अर्थवाद इत्यन्ये वदन्ति । <भूमिका> १ प्रयोजनसंपादिका युक्तिः ( राम० ) । यथा विशेषपदस्य प्रयोजनमभिधातुं भूमिकामाह इत्यादौ ( दि० १) । यथा वा तदेवो- पपादयितुं भूमिकां रचयति इत्यादौ ( सि० च० २ पृ० २४ ) । २ नाट्ये अभिनेयपात्रादिप्रवेशान्तरसूचिका रचना इति नाट्यकलाभिज्ञा आहुः । अत्रोच्यते अन्यरूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका इति । रङ्गसंचारिपात्राणां स्थानकं भूमिकां विदुः इति च । <भूयस्त्वम्> १ [ क ] इतरद्रव्यानभिभूतैः पार्थिवावयवैरारब्धत्वम् । पारिभाषिकं चैतद्भूयस्त्वं समानतन्त्रेपि (वै० उ० ८।२।५ ) । अत्र व्याकरणम् । अतिशयेन बहुः । ईयसुन् । बहोर्लोपो भू च बहोः ( पा० सू० ६।४।१५८) इत्यनेनेयसुन्प्रत्ययस्थस्येकारस्य लोपः बहुशब्दस्य भू इत्यादेशश्च । तेन भूयस् इति रूपं सिद्ध्यति । तस्य भावः भूय- स्त्वम् इति । [ख] जलाद्यनभिभूतभागारब्धत्वम् (वै० वि० ८।२।५ ) । यथा भूयस्त्वाद्गन्धवत्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः (वै० सू० ८/२/५ ) इत्यादौ घ्राणेन्द्रियस्य भूयस्त्वम् । २ पुनःपुनः परिशीलनवत्त्वम् । यथा भूयोदर्शन मित्यादौ । <भूयोदर्शनम्> साध्यसाधनयोर्व्याप्तिग्रहे जनकं तयोर्भूयः सहचारदर्शनम् । यथा धूमधूमध्वजयोर्नानास्थानावच्छेदेन सामानाधिकरण्यावगाहिज्ञानम् । अत्र भूयःसहचारदर्शनं च व्यभिचारज्ञान विरहेण सहितमेव व्याप्तिग्राहकं भवति न त्वन्यथा । पार्थिवत्वलोहलेख्यत्वयोः शतशः सहचारं पश्यतः केवलसहचारदर्शनेपि हीरकादौ व्यभिचारदर्शनेन व्याप्तिग्रहानुदयात् (सि० च० २ पृ० २४ ) ( त० दी० २ पृ० २१) । भूयो- दर्शनशब्दस्यार्थविशेषं विकल्प्य तस्य व्याप्तिग्राहकत्वं खण्डयति नील- कण्ठः । भूयोदर्शनम् इत्यस्य ( १ ) भूयसां दर्शनानां समाहारः इति ( २ ) भूयसां साध्य हेतूनां दर्शनम् इति ( ३ ) भूयस्त्वाधिकरणेषु दर्शनम् इति वार्थः । नाद्यः । एकत्रैव सहचारदर्शनधारया व्याप्तिनिश्चय- प्रसङ्गात् । न द्वितीयतृतीयौ । एतद्रूपवानेतद्रसादित्यादौ साध्यहेत्वोरे- कव्यक्तित्वात् साध्यहेत्वोरधिकरणे भूयस्त्वाभावेन व्याप्तिनिश्चया- नुत्पादप्रसङ्गात् ( नील० २ पृ० २१ ) इति । <भेदः> १ अन्योन्याभावः । २ प्रदः । ३ तादात्म्यातिरिक्तः संबन्धः ( म० प्र० ४ पृ० ४८) । यथा राजपुरुष इत्यादौ राजपदार्थपुरुष- पदार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इत्यादौ मेदः । अत्रायं नियमः निपातातिरिक्तनामार्थयोः साक्षात् ( विभत्तयर्थमद्वारीकृत्य ) भेदेनान्वय- बोध: अव्युत्पन्नः इति । एतादृशनियमस्वीकारेण राजा पुरुषः इत्यत्र स्वत्वसंबन्धेन राजपदार्थस्य पुरुषपदार्थे नान्वयबोधापत्तिः । ४ राज्ञः सामाधुपायविशेषः इति नीतिशास्त्रज्ञा आहुः । [ख ] वैरिणो बुद्धिभेदो भेदः ( जै० न्या० अ० १ पा० १ अधि० १ ) । तदुक्त- मग्निपुराणे परस्परं तु ये द्विष्टाः क्रुद्धमीतावमानिताः । तेषां भेदं प्रयु जीत परमं दर्शयेद्भयम् ॥ (अग्निपु० अ० २२५) इत्यादि । ५ पृथ करणम् । ६ विदारणम् इति काव्यज्ञा आहुः । ७ विरुद्धधर्माध्यासः । तदुक्तं सर्वदर्शनसंग्रहे अयमेव हि मेदो भेदहेतुर्वा यद्विरुद्धधर्माभ्यासः कारणमेदश्च ( सर्व० सं० पृ० ४०० शां० ) इति । <भेदकम्> १ ( व्यावर्तकम् ) भेदज्ञापकम् । यथा नीलो घट नीलत्वं विशेषणं रक्तघटादिभेदकम् । तदुक्तम् भेद्यं विशेष्यमित्याहुर्भेदक च विशेषणम् इति । अत्र विशेष्यस्य यादृशे लिङ्गवचने तादृशलिङ्गवचन- विशिष्टस्यैव विशेषणस्य भेदकत्वम् । तदुक्तम् स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ ( अमर० का० ३ वर्ग० १ श्लो० २) इति । यथा वा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ गन्धवत्वरूपं पृथिवीलक्षणं जलादिभेदकम् । २ भेदकारकम् । यथा कुठारो भिनत्तीत्यादौ कुठारो भेदकः । अत्र श्रीमध्वाचार्यैरुच्यते विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ( उपा० ख० ) इति । <भोग:> १ [क] सुखदुःखान्यतरसाक्षात्कार : ( त० भा० पृ० ४ ) ( त० दी० १ पृ० ७) ( वाक्य ० ) । [ख ] स्वसमवेतसुखदुःखा- न्यतरलौकिकसाक्षात्कारः (प्र० प्र०) । यथा आत्मनो भोगायतनं शरीरम् ( त० दी० १) इत्यादौ भोगः । अत्र वेदान्तिनस्तु आनन्दमात्रानुभवो भोगः । यथा ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ (ब्रह्मसू० ४।४।२२ ) इत्यादौ इत्याहुः । अत्र भविष्यत्पुराणम् मुक्ताः प्राप्य परं विष्णुं तद्भोगाँ- लेशतः कचित् । बहिःष्ठान् भुजते नित्यं नानन्दादीन् कथंचन ॥ ( मध्व- मा० ४ ४ ४ ) इति । २ रव्यादीनां राशिगतिकालः इति ज्योतिर्विद आहुः । अत्रोच्यते अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ( तिथि० त० ) इति । ३ सर्पदेहः इति काव्यज्ञा आहुः । <भोगायतनम्> भोगस्यावच्छेदकम् । यथा यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् (त० दी० १) इत्यादौ शरीरावच्छिन्न आत्मनि भोगो जायत इति शरीरं भोगायतनम् । तच्च भोगायतनम् स्थूलदेहः इति सांख्या आहुः । अत्र सूत्रम् भोक्तुरधिष्ठानाद्भोगायतननिर्माणम् । अन्यथा पूतिभावप्रसङ्गात् (सांख्यसू० अ० ५ सू० ११४ ) इति । अत्र केचि - द्वेदान्तिन आहुः । भोगसाधनं च लिङ्गशरीरमेव । तथा चोक्तम् पञ्चप्राण- मनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ इति । सांख्यमते तु पञ्चप्राणस्थले पञ्चभूतमात्राः इति भेदः । स्थूलदेहस्य भोगत्वं तु भोगावच्छेदकत्वात् उपचारात् इति बोध्यम् । अत्र सूत्रम् तदधिष्ठानाश्रये देहे तद्वादात्तद्वादः (सांख्यसू० अ० ३ सू० ११) इति । ८० न्या० को० <भोजनम्> गलाधो नयनम् । तच्च [ क ] गलाधःसंयोगावच्छिन्नक्रियानु- कूलव्यापारः । यथा ओदनं भुङ्क्त इत्यादौ धात्वर्थः । अत्र भुजधात्वर्थ- घटके तादृशक्रियारूपफल एव ओदनवृत्तित्वान्वयः (ग० व्यु० का० २ पृ० ४३ ) । [ख प्राञ्चस्तु कठिनद्रव्यस्य गलबिलाधःसंयोजनं भोजनम् इत्याहुः । <भ्रमः> १ (अप्रमा ) क यत्र यन्नास्ति तत्र तस्य ज्ञानम् । समुदा- यार्थश्च तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगि ज्ञानम् इति । अ स्मृतेरपि भ्रमतया अनुभवत्वमपहाय ज्ञानत्वप्रवेशः ( मु० म० १ प्रामा० पृ० ४०५) । भ्रमश्च दोषाज्जन्यते । भ्रमलक्षणं तु स्वानुयो- गिनिष्ठविशेष्यतानिरूपितत्व स्वप्रतियोगिनिष्ठत्व स्वावच्छिन्नत्व एतत्रितय - संबन्धेन संबन्धविशिष्टान्यप्रकारताशालिज्ञानत्वम् ( ग० अव० इति । अत्र स्वपदार्थस्तु विशेष्यविशेषणयोर्भासमानः संबन्धो ज्ञेयः । विषये तावत् प्रसिद्धानेकविशेषस्यापि पित्तकफानिलोपहतेन्द्रियस्यायथार्थ- अत्रेदमवधेयम् । विपर्ययोपि प्रत्यक्षानुमानविषय एव भवति । प्रत्यक्ष- लोचनात् संप्रत्यसंनिहित विषयविज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगा- दधर्माच्चातस्मिन् तत् इति प्रत्ययो विपर्ययः । यथा गव्येव अश्वः इति । असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा अपगतघनपटलमचल- जलनिधिसदृशमम्बरम् अञ्जनचूर्णपुजश्यामं शार्वरं तमः इति । अनुमान- विषयेपि बाष्पादिभिर्धूमाभिमतैर्वानुमानम् गवयविषाणदर्शनाञ्च गौः विपर्यय: ( प्रशस्त० पृ० २४ ) । [ख तदभाववति तत्प्रकारक- इति त्रयीदर्शन विपरीतेषु शाक्यादिदर्शनेषु इदं श्रेयः इति मिथ्याप्रत्ययो ज्ञानम् ( चि० १ प्रामा० पृ० ४०१ ) ( त० प्र० १ ) (त० दी० ) । [ग] अतस्मिन् तत् इति प्रत्ययः ( न्या० वा० १ पृ० २६ ) ( भा० प० श्लो० १२८ ) ( त० भा० पृ० ४० ) । घ विशे- ष्यताव्यधिकरणप्रकारक ज्ञानम् ( म० प्र० ४ पृ० ७३ ) । यथा पुरोवर्तिन्येवारजते शुक्त्यादौ रजतारोपः । इदं रजतम् इति ज्ञानम् ( त० भा० पृ० ४० ) ( त० प्र० १ ) ( त० दी० ) । यथा वा पीतः शङ्ख लोहितः स्फटिकः इत्यादि ज्ञानम् (त० कौ० ) (भा० प० श्लो० १२९ ) । यथा वा कृशोहम् बधिरः स्थूलः इति ज्ञानम् ( त० व० ) । भ्रमो द्विविधः विपर्यासः ( विपर्ययः ) संशयश्च । तत्राद्यो यथा शरीरादौ आत्मत्वप्रकारकं गौरोहम् इत्याकारकं निश्चयरूपं ज्ञानम् ( मु० गु० ) । द्वितीयो यथा स्थाणुर्वा पुरुषो वा इति संशयरूपः ( भा० प० श्लो० १३० ) । प्रकारान्तरेण भ्रमो द्विविधः निरुपाधिकः सोपाधिकश्च । तयोः स्वरूपं चेत्थम् । दोषेण कर्मणा वापि क्षोभिता- ज्ञानसंभवः । तत्त्वविद्याविरोधी च भ्रमोयं निरुपाधिकः ॥ उपाधि- संनिधिप्राप्तक्षोभाविद्याविजृम्भितम् । उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ॥ ( सर्व० सं० पृ० ४२१ शां० ) । [ङ ] मिथ्याज्ञानापर- पर्यायः अयथार्थनिश्चयः ( गौ० वृ० ४ । १ । ३ ) ( त० सं० ) । अयं च मोहपक्षान्तर्गतो दोषविशेष इति विज्ञेयम् । [च ] विपरीतनिर्णयः ( त० कौ० ) । अयं तु अप्रमाप्रभेदः । भ्रमसंशयभेदेन द्विविधा अप्रमा इति विभजनात् । तेन अत्रत्यभ्रमत्वस्य निर्णयत्वरूपस्य संशया- साधारणत्वेपि न क्षतिः । २ [क] अतिरिक्तविषयतापक्षे यत्प्रकारिका या विषयता तत्प्रकारव्यधिकरणविषयताकं ज्ञानम् । विषयतापक्षे इत्यस्य प्रकारताविशेष्यतावच्छेदकतातिरिक्ता सविषयका च इति पक्षे इत्यर्थः । यत्प्रकार केल्यादेरर्थश्च प्रकारो धर्मः तद्धर्माधिकरणावृत्तितद्विषयताकं ज्ञानम् इति । मिश्रास्तु तत्प्रकारव्यधिकरणत्वं तत्प्रकारानधिकरणवृत्ति- त्वम् इत्याहु: ( मू० म० १ पृ० ४१९ ) । [ ख ] स्वप्रकारव्यधि- करणविषयताकं ज्ञानम् । अत्र स्वप्रकारव्यधिकरणत्वं च स्वप्रकाराधि- करणावृत्तित्वम् । मिश्रास्तु स्वप्रकारव्यधिकरणत्वं च स्वप्रकारानधि- करणवृत्तित्वम् इत्याहुः । तेन ग्रन्थकर्तृमते रजतारजतसाधारणधर्मद्रव्य- विशेष्यकं द्रव्यं रजतम् इत्यादिज्ञानस्य न रजतत्वादिभ्रमत्वम् । मिश्रमते तु तस्य तद्भ्रमत्वमिष्टमेव इति ( मू० म० १ प्रामा० पृ० ४२० ) । [ग] स्वव्यधिकरण प्रकारावच्छिन्नविषयताप्रतियोगि ज्ञानम् । स्वव्यधि- करणेति स्वाश्रयावृत्तिधर्मप्रकारके अर्थ: ( मू० म०१ प्रामा० पृ० ४२२ ) । इदं रजतम् इति भ्रमे च विषयताद्वये व्यधिकरणप्रकारावच्छिन्नत्वस्य विषयत्वप्रतियोगित्वस्याविरोधात् समूहालम्बने च विषयताभेदान्नाप्रमाल - क्षणे अव्याप्त्यतिव्याप्ती ( चि० १ प्रामा० पृ० ४२१-४२२ ) । सर्वत्र स्वपदेन विशेष्यता। [ घ ] स्वसमानाविकरणप्रकारा नवच्छिन्नविषयता- प्रतियोगिज्ञानम् ( चि० १ प्रामा० पृ० ४१८-४२०) । स्वसमाना- धिकरणेति स्वसमानाधिकरणधर्मप्रकारकेत्यर्थः । प्रकारता च विशेष्य- तावच्छेदकतातिरिक्ता ग्राह्या । तेन इदं रजतम् इति शुक्तिमात्र विशेष्यक- भ्रमे नाव्याप्तिः । विशेष्यतावच्छेदकांशे भ्रमरूपम् विधेयांशे च प्रारूपं ज्ञानं न लक्ष्यम् इतनतत्र दोष इति भावः ( मू० म० १ प्रामा० पृ० ४२२) । ३ जलनिर्गमस्थानम् । ४ भ्रमणम् इति काव्यज्ञा आहुः । <भ्रमणम्> ( कर्म ) गतिविशेषः । अयं च गमनेन्तर्भवति (भा०प० श्लो० ७) । <भ्रान्तिः> १ भ्रमः ( अमरः ) । २ योगान्तरायश्चित्तविक्षेपो भ्रान्तिः इति योगशास्त्रज्ञा आहुः ( पात० पा० १ सू० ३०) । अत्रोच्यते व्यवहार- विषये षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते नृणाम् । घात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ (ज्यो० त० ) ( वाच ० ) इति । <भ्रान्तिदर्शनम्> अतस्मिंस्तद्बुद्धिः ( सर्व० सं० पृ० ३५५ पात● ) । <म> <मङ्गलम्> १ [क] विघ्नध्वंसद्वारकार्थसमाप्तिफलकं कर्म । तच्च यथा ग्रन्थारम्भे कर्तव्यमाशीर्वादाद्यन्यतमम् निधाय हृदि विश्वेशं विधाय गुरु वन्दनम् ( त० सं० ) इत्यादि । मङ्गलत्वं च प्रतिबन्धकान्यस्य सतः प्रारिप्सित प्रतिबन्धक दुरित निवृत्त्यसाधारणकारणत्वम् (कि० ब० पृ० ६) । दी० पृ० ३) । यद्वा मङ्गलत्वं निर्विघ्नमारब्धं परिसमाप्यताम् इति अथवा विघ्नोत्सारणासाधारणकारणत्वे सति साध्यत्वम् ( न्या० सि० प्राचीनमताभिप्रायेण । तन्मते समाप्तिरेव सुखसाधनतया पुरुषार्थत्वा कामनया वेदविहितत्वम् ( चि० १ मङ्ग० पृ० १०१ ) । अयं कल्पः तफलम् । श्रौतात्साङ्गात्कर्मणः फलावश्यंभावनियमात् । नतु विघ्नध्वंसो मङ्गलस्य फलम् । तस्यापुरुषार्थत्वात् (वै० उ० १११।१ ) इति । अत्र शङ्का । कृतमङ्गलस्यापि कादम्बर्यादौ फलादर्शनात् अकृतमङ्गल- स्यापि किरणावल्यादौ समाप्तिरूपफलदर्शनाच्च ग्रन्थारम्भे मङ्गलं नानु- ष्ठेयम् । नहि निष्फले प्रेक्षावान् प्रवर्तते इति । अत्रोत्तरम् । मङ्गला- करणस्थले किरणावल्यादौ जन्मान्तरीयस्य मङ्गलस्य मङ्गलकरणस्थले कादम्बर्यादौ चाङ्गवैगुण्यस्य कल्पनया सफलत्वं निश्चीयते इति । जन्मा- न्तरीयमङ्गलानुमानं तु इदम् मङ्गलम् आरब्धकर्माङ्गम् कर्मार्थितया शिष्टैस्तत्पूर्व क्रियमाणत्वात् फलान्तराभावे सति फलवकर्मारिप्समानेन नियमतस्तत्पूर्व क्रियमाणत्वाच्च दर्शे प्रयाजवत् ( चि० १ मङ्गलवा० पृ० १९) इति । अत्र मङ्गलस्य स्वाभिमतहेतुत्वे तथा विधशिष्टाचारानुमित- श्रुतिरेव मानम् ( चि० १ मङ्गलवा० पृ० १५) । अनुमितश्रुतिश्च समाप्तिकामो मङ्गलमाचरेत् इति । अत्र श्रुत्यनुमानं तु नमस्कारादिकम् मङ्गलम् वेदबोधितसमाप्तिसाधनताकम् समात्युद्देश्यकालौकिका विगीत- शिष्टाचारविषयत्वात् दर्शादिवत् इति । अत्र यो यदुद्देश्यकाविगीत- शिष्टाचारविषयः स वेदबोधिततत्साधनताकः यथा दर्शः इति सामान्यतो व्याप्तिर्दृष्टव्या ( मू० म० १ मङ्गल० पृ० १६ ) । अथवा मङ्गलं वेद- बोधितकर्तव्यताकम् अलौकिका विगीत शिष्टाचारविषयत्वाद्दर्शश्राद्धवत् (त० दी० १ मङ्ग० पृ० २ ) इति । मङ्गलस्य कर्तव्यत्वे प्रमाणमनुमान- मपि । तच्च मङ्गलं सफलम् अलौकिकाविगीतशिष्टाचारविषयत्वात् अग्नि- होत्रवदिति । अत्र शिष्टश्च वेदप्रामाण्याभ्युपगन्ता । वेदप्रामाण्यानभ्युपग- मविरोधिमत्त्वमिति यावत् । विरोधी तु सर्वे वेदाः प्रमाणमिति ज्ञानं तादृशसंस्कारश्च ( म० प्र० १ ) ( मू० म० १ मङ्गल० पृ० १६ ) । सफलत्वं च बलवदनिष्टाननुबन्धीष्टफलकत्वम् । अविगीतत्वं तु बलवद- निष्टाननुबन्धित्वम् । तच्च स्वजन्येष्टापेक्षयाधिका निष्ठजनकत्वं यद्यत् तद्भि- नत्वम् ( म० वा० पृ० १ ) । अथवा धर्मशास्त्रानिषिद्धत्वम् ( नील० १ मङ्ग० पृ० २ ) । शिष्टत्वं चेष्टसाधनत्वांशे अभ्रान्तत्वम्। आ- चारविषयत्वं तु साध्यत्वेन फलान्यत्वेन वा विधेयतया कृतिविषयत्वम् ( म० वा० पृ० १ ) ( दि० १ मङ्ग० पृ० ५ ) । अलौकिकत्वं विधिमन्तरा रागादिप्राप्तभिन्नत्वम् ( नील० १ पृ० २ ) । अत्र सांख्य- सूत्रम् मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति ( सां० सू० अ० ५ सू० १ ) इति । अत्रेदं बोध्यम् । मङ्गलं सफलमित्यनेनानु- मानेन सफलत्वं सिद्ध्यत्समात्यादिरूपमुपस्थितफलमादायैव पर्य ( म० प्र० १ ) ( म० वा० १) । तथा ह्यनुमानम् मङ्गलं समाप्ति- फलकम् समाप्यन्याफलकत्वे सति सफलत्वात् ( दि० १ मङ्गल० पू० ४ ) इति । अनेनानुमानेन समाप्तिफलकत्वं सिद्ध्य कर्तव्यत्वं साधयितुं क्षमते । तथाहि मङ्गलं कर्तव्यम् समाप्तिफलकत्वात् इति ( नील० १ मङ्ग० पृ० २ ) । मङ्गलं च त्रिविधम् । तदुक्तम् आशीर्वादनमस्कारवस्तु- निर्देशभेदतः । मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु ॥ (सि० च० ) इति । अत्र वस्तुनिर्देशश्च पुण्यजनक शब्द निबन्ध: पुण्यकृत्स्तुतिप्रतिपादक- शब्दो वा ( म० वा० पृ० १० ) । [ख ] नव्याः चिन्तामणि- कृतस्तु विघ्नोत्सारणासाधारणं कारणम् ( म० प्र० १ पृ०२ ) इत्याहुः । एतन्मते मङ्गलत्वं च तद्विघ्नोपशमहेतुत्वेन वेदविहितत्वम् ( चि० १ मङ्ग० पृ० १०१ ) । तथा चैतन्मते मङ्गलस्य फलं विघ्नध्वंस एव । समाप्तिस्तु बुद्धिप्रतिभादिविघ्नसंसर्गाभावरूपस्वकारणकलापाद्भवति इति विज्ञेयम् (नील० १ मङ्गल० पृ० २ ) ( मु० १ मङ्गल० ) ( दि० १ मङ्ग० ८-९ ) । विघ्नोत्सारणेत्यादिलक्षणं च शशधरीये न्यायसिद्धान्त- दीपे उक्तम् । तदर्थश्च समाप्तिप्रतिबन्धकदुरितविशेषो विघ्नस्तस्योत्सारणं नाशस्तदसाधारणं कारणं मङ्गलपदवाच्यम् ( म० प्र० १ पृ० २) इति । अत्र किरणावली । मङ्गलमाचरेत् इति न विधिः । किं तु नमस्कारादि- कमाचरेत् इति प्रत्येकमेव विधिकल्पनम् इत्यस्मद्गुरवः ( किर० पृ० ६ ) इति । तत्त्वचिन्तामणौ चोक्तम् । मङ्गलमाचरेत् इति न विधिः । किंतु निर्विघ्नसमाप्तिकाम: प्रारिप्सितविघ्नोपशमनकामो वा देवतास्तुतिमाचरेत् इत्यादिः प्रत्येकमेव विधिः । मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुहतां चैव विनिपातो न विद्यते ॥ इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वम् । न तु विघ्ननिवर्तकतया । तत्र नानार्थं तैव इति (चि० १ मङ्ग० पृ० १०१ - १०२ ) । [ग] अन्ये तु विशेषण- तादिसंबन्धावच्छिन्न प्रारिप्सित विघ्नध्वंसत्वावच्छिन्नकारणतावत् इत्याहुः ( म० वा० पृ० १० ) । [घ ] अगर्हिताभीष्टावाप्तिर्मङ्गलम् इति योग- शास्त्रज्ञा आहुः । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टम् ( सर्व ० पृ० ३४१ पात० ) । २ प्रशस्ताचरणं मङ्गलम् इति धर्मज्ञा वदन्ति । ३ हरिद्रा । ४ दूर्वा चेति काव्यज्ञा आहुः । पौराणिकमते मङ्गल- द्रव्याण्यष्टौ लोकेस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरा- दिव्य आपो राजा तथाष्टमः ॥ ( मत्स्यसूक्ते प०४२) ( वाच० ) इति । <मतानुज्ञा> ( निग्रहस्थानम्) [क] स्वपक्षदोषाभ्युपगमात् परपक्षदोष- प्रसङ्गो मतानुज्ञा ( गौ० ५/२/२१ ) । यः परेण चोदितं दोषं स्वपक्षे- भ्युपगम्यानुद्धृत्य वदति भवत्पक्षे समानो दोषः इति स स्वपक्षे दोषाभ्यु- पगमात्परपक्षे दोषं प्रसञ्जयन्परमतमनुजानातीति मतानुज्ञा नाम निग्रह- स्थानमापद्यते ( वात्स्या० ५/२१२१ ) इति । [ ख ] स्वपक्षे दोष- मनुद्धत्य परपक्षे दोषाभिधानम् ( दि० १) (नील० पृ० ४६ ) । यथा शब्दो नित्यः श्रावणत्वादित्युक्ते ध्वनावनैकान्तिकत्वेन हेत्वाभासो- यम् इत्युक्तौ शब्दः अनित्यः कृतकत्वादिति साधिते ध्वनेरपि पक्षत्वान्न दोषः इत्युक्तौ असिद्धत्वात् तवापि हेत्वाभासोयम् इत्युक्तौ सोयं मतानु- ज्ञया निगृहीतः स्यात् । अप्रतिषिद्धमनुमतं भवतीति स्वपक्षे दोषाभ्यु- पगमात् ( गौ० वृ० ५/२/२१ ) । [ग] स्वसिद्धान्ते परापादित - दोषमनुद्धृत्य परस्यानिष्टबुद्ध्येष्टप्रसञ्जनम् । यथा केनचिदात्मनः पुरुषत्वा- च्चोरस्त्वमसि इत्युक्ते तत एव हेतोः त्वमपि चोरः इति प्रसञ्जनम् । नित्यः शब्दः कार्यत्वादित्युक्ते तत एव हेतोस्तवाप्यनित्यः स्यात् इत्यादीन्युदाहर- णानि द्रष्टव्यानि । अत्र अनिष्टमेव परस्परं ब्रूयात् इति रहस्यम् (सार- सं० परि० ३ श्लो० १४८ टी० पृ० ११५) । [घ] पराभिमतस्यार्थस्य स्वप्रतिकूलस्य स्वयमेवाभ्यनुज्ञा ( स्वीकारः ) ( त० मा० ५० ५१ ) । <मतिः> १ बुद्धिः । यथा तच्छ्रन्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ( भा०प० श्लो० १२८) इत्यादौ मतिशब्दार्थो बुद्धिः । २ इच्छा । १३ मतिकरौषधम् (गरु० अ० १९८) इति भिषज आहुः (वाच० ) । ५४ मननविशेषः । ज्ञानावरणक्षयोपशमे सतीन्द्रियमनसी पुरस्कृत्य व्यापृतः सन्यथार्थे मनुते सा मतिः ( सर्व० सं० पृ० ६३ आई० ) । मत्सरः- ( दोषः ) [क] स्वप्रयोजनप्रतिसंधानं विना पराभित निवारणेच्छा । यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि । [ ख ] परगुणनिवारणेच्छा ( गौ० वृ० ४ । १ । ३ ) । अत्रापि स्वप्रयोजनप्रति- संघानं विना इति पूरणीयम् इति तु वयम् । [ग] अन्यशुभद्वेषः इति केचिदाहु: ( वाच० ) । [घ ] अन्ये तु निन्दन्ति मां सदा लोका धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥ इत्याहुः ( क्रियायोगसारे ) ( वाच० ) । <मदः> मद्यपानादिजन्यः अवस्थाविशेष: ( मिताक्षरा अ० २।२१४ ) । <मद्यम्> मदहेतुर्द्रवद्रव्यविशेषः । यथा सर्व मद्यमपेयम् ( आपस्तम्बसू० १।५।१७।२१ ) इत्यादौ । मुख्यतो मद्यानि द्वादशविधानि । माध्वीकं पानसं द्राक्षं खार्जूरं तालमैक्षवंम् । मैरेयं माक्षिकं टाकं माधूकं नारि- केलजम् ॥ मुख्यमन्नविकारोत्थं मद्यानि द्वादशैव तु इति । अत्र व्युत्पत्तिः माद्यत्यनेन ( करणे यत् ) इति मद्यम् । <मधुप्रतीकाः> यथा मधुन एकदेशोपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः वदन्त इति मधुप्रतीकाः । ताश्च मनोजवित्वं विकरणभावः प्रधान- जयश्चेति त्रिविधाः ( सर्व० सं० पृ० ३८५ पातञ्ज० ) । <मधुभूमिक:> ( योगी ) ऋतंभरप्रज्ञ: (सर्व० सं० पृ० ३८४ पातञ्ज० ) । <मधुमती> अभ्यासवैराग्यादिवशादपास्तरजस्त मोलेश सुखप्रकाशमयसत्त्वभा- वनयानवद्यवैशारद्यविद्योतन रूपऋतंभरप्रज्ञा ( सर्व० सं० पृ० ३८४ पातञ्ज ० ) । <मध्यमसाहसम्> चत्वारिंशंदधिकं पणपञ्चशतम् ( मिताक्षरा व्य० श्लो० १५३ ) । <मध्यवर्ती> <मध्यस्थः> १ [क] वादिप्रतिषायुभयप्रयुक्तन्यायवाक्यद्वयजन्यविरुद्ध- कोटिद्वयोपस्थितिजन्यसाध्यादिसंदेह प्रयोज्यैकतरसत्कोटिकानुमितिर्यस्य भ बति सः । यथा हि पर्वतादौ वयादिसाधने वादिना पर्वतो वहि- मान्धूमवत्वात् इत्यादिन्याये प्रयुक्ते प्रतिवादिना च पर्वतो न वह्रिमा- न्पाषाणमयत्वात् इत्यादिवाक्ये प्रयुक्ते च सति मध्यस्थपुरुषस्य पर्वतो वह्निमान्न वा इति संशयानन्तरं परामर्शादिद्वारा पर्वतो वह्निमान् इत्यनु- मितिर्भवतीति ।[ख] वादिप्रतिवादिनोरन्ययोर्वा पक्षप्रतिपक्षयोर्वाक्यादि- विषयविमर्शपूर्वकं तत्त्वनिर्णायकः । २ स्वार्थाविरोधेन परार्थसंपादकः । ३ पूर्वापरयोः पदार्थयोरन्तरालस्थ: । ४ उदासीनः । यथा माध्यस्थ्य- मिष्टेण्यवलम्बतेर्थे ( कुमार० स० १ श्लो० ५२ मल्लि० टी० ) इत्यादौ इति काव्यज्ञा आहुः । <मध्याह्नः> ( कालः ) १ त्रिधा विभक्तदिनस्य द्वितीयो भागः । २ पञ्चधा विभक्तदिनस्य तृतीयो भागः । तदुक्तं दक्षस्मृतौ प्रातःकालो मुहूर्तास्त्रीन् संगवस्तावदेव तु । मध्याहस्त्रमुहूर्त स्यात् इति ( वाच० ) । <मन्> ( धातुः ) १ पूजायाम् । यथा देवतां मनुते । २ गर्वात्मकवृत्तौ । यथा पण्डितमानी चैत्रः इति । ३ बोधे । यथा मनुते अमनिष्ट मेने इति । मन्यते अमंस्त मेने इति च । ४ धृतौ । यथा मनयति अममनत् इति । <मनः> ( द्रव्यम् ) १ [ क ] निस्पर्शमणु ( न्या० म० १।१४ ) ( वै० ७/११२३ ) ( गौ० वृ० १।१।१६ ) । अत्र व्युत्पत्तिः मन्यते अनेन मनः इति । करणार्थे असुन् प्रत्ययः । तच्च मनः सर्वेन्द्रियप्रवर्तकम् आन्तरेन्द्रियम् स्वसंयोगेन बाह्येन्द्रियानुग्राहकम् अत एव सर्वोपलब्धि- कारणम् ( त० भा० प्रमेयनि० पृ० ३२ ) । मनः सद्भावे प्रमाणमनु- मानम् । तच्चानुमानम् सुखादिसाक्षात्कारः करणसाध्यः जन्यसाक्षात्कार- त्वाचाक्षुषसाक्षात्कारवत् इति । आत्मेन्द्रियार्थसंनिकर्षे ज्ञानस्य भावो- भावश्च मनसो लिङ्गम् (वै० ३।२।१ ) । भावः अभावः इति पद- च्छेदः । यत्संयोगव्यतिरेकात्सुषुप्तिकाले कार्यानुत्पादः तदेव मनः इति ८१ न्या० को० (प० मा० ) । युगपज्ज्ञानानुत्पत्ति: मनसो लिङ्गम् (गौ० १।१।१६) । अत्र भाष्यम् । अनिन्द्रियजनिमित्ताः स्मृत्यादयः कारणान्तरनिमित्ता भवितुमर्हन्ति इति । युगपञ्च खलु घ्राणादीनां गन्धादीनां च संनिकर्षेषु सत्सु युगपद्भानानि नोत्पद्यन्ते । तेनानुमीयते अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरम् अव्यापि यस्यासंनिधेर्नोत्पद्यते ज्ञानम् संनिघे- श्चोत्पद्यते इति। मनःसंयोगानपेक्षस्य हीन्द्रियार्थसंनिकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानि ( वात्स्या० १ । १ । १६) इति । एतस्यार्थं वृत्तिकार आह । युगपत् एककाले । एकात्मनि इति पूरणीयम् । ज्ञानाना- मनुत्पत्तियतः स एव धर्मो ज्ञानकारणाणुत्वम् मनसो लिङ्गम् लक्षणम् ( गौ० वृ० १ । १ । १६) इति । अत्र विप्रतिपत्तिः । समयसौक्ष्म्याना- कलनात्तत्र दीर्घशष्कुलीभक्षणादौ नानावधानादौ च यौगपद्याभिमानो भ्रम इति नैयायिकाः संगिरन्ते ( न्या० दी० पृ० २१ ) । वेदान्तिनस्तु मनसः संकोच विकासशालित्वात् ज्ञानानां यौगपद्यमयौगपद्यं चोपपद्यते इत्याहुः ( म० प्र० १ पृ० १४ ) । मनसो लक्षणं च स्पर्शरहितत्वे सति क्रियावत्वम् (त० दी० ) । वेगवत्प्राणपवनसंयोगाञ्चलनक्रियो पपत्तिः इति केचिद्वदन्ति ( न्या० सि० दी० पृ० ४१ ) । अथवा ( पृ० ६ ) । यद्वा द्रव्यसमवायिकारणत्वरहिताणुसमवेतद्रव्यत्वापरजाति: मानसत्वावच्छिन्न कार्यतानिरूपितकारणत्वे सतीन्द्रियत्वम् ( वाक्य ० ( सर्व० सं० पृ० २१९ औलू ० ) । मीमांसकास्तु आत्मान्यत्वे ति ज्ञानासमवायिकारणसंयोगाश्रयत्वम् इत्याहुः (न्या० म० पृ० १४ ) । ख मनस्त्वाभिसंबन्धवत् ( त० भा० ) ( प्रशस्त० पृ० २३) ( न्या० म० ) । [ग] मयि सुखम् इति सुखप्रत्यक्षस्या साधारण कारणम् (त० कौ ० ) ( ता० २० श्लो० ३० ) । अत्र मनसः करणवे आत्ममनःसंयोगो व्यापारो बोध्यः ( त० कौ० ) । [ ध] सुखाद्युपलब्धिसाधनमिन्द्रियम् ( गौ० वृ० १११/१६ ) ( त० भा० ८० पू० ३१ ) (भा० प० ) ( त० सं० ) । यथा सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्ति इति सर्वविषयमन्तःकरणं मनः (वात्स्या० १/१/९) । मनस इन्द्रियत्वमाह नैयायिकस्य मन इन्द्रियम् । तच्च समानतत्रे वैशेषिके सिद्धम् । एवं प्रतितन्त्र सिद्धान्तोत्र द्रष्टव्यः ( त० भा० पृ० ४२ - ४३ ) । सुखादिप्रत्यक्षसाधनत्वेनापि मन इन्द्रियं सिद्ध्यति ( न्या० वा० पृ० ४१ ) । अत्रेदं बोध्यम् । मनः सर्वविषयकज्ञानजनक- मपि बहिर्विषयकज्ञानजनने परतन्त्रम् । स्वेतरबहिर्विषयकज्ञानजनकसामग्री- सापेक्षम् इत्यर्थः । अबाह्यविषयकज्ञाने तु मनः स्वतन्त्रम् । अबाह्यानि तु आत्मा तद्योग्यगुणाः तदभावः तद्वृत्तिजातिश्व इति ( न्या० म० १ पृ० ५ ) ( त० प्र० १ पृ० ३० ) । तच्च मनः प्रत्यात्मनियत- त्वादनन्तम् अणु नित्यम् अतीन्द्रियं चेति ( त० सं० ) ( त० भा० प्रमे० पृ० ३२ ) । अत्र समवेतभोगकारणत्वे सति असमवेतभोग- कारणत्वं नियतत्वशब्दार्थः । द्वितीयार्थो निरूपितत्वम् । तस्य च सम- वेतत्वद्वयेन्वयः । पञ्चम्यर्थः प्रयुक्तत्वम् । तस्य चानन्तत्वेन्वयः । तथा च तत्तदात्मसमवेतभोगजनकत्व वि शिष्टतत्तदात्मासमवेतभोगजनकत्वप्रयु- क्तानन्तत्ववन्मनः इति वाक्यार्थः ( वाक्य० पृ० ७ ) । तच्च प्रतिजीवं भिन्नम् ( त० कौ० ) प्रतिशरीरमेकैकमेव (वै० उ० ३१२१३ ) । अत्र प्रमाणम् प्रयत्नायौगपद्याज्ज्ञानायौगपद्याञ्चैकम् ( वै० ३।२।३) इति । सिद्धम् । अत एव पृथक्त्वम्प्र यत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वं ( प्रशस्त ० ) । मनसो विभुत्वाङ्गीकारे आत्मनो मनसा संयोगस्य ज्ञान - कारणत्वानुपपत्तिः इति दूषणं बोध्यम् । इदमत्राकूतम् । आत्मा विभुः इति सिद्धान्तः । तथा च मनसोपि विभुत्वाङ्गीकारे विभुद्वयस्यापि संयोगापत्तिः । न च विभुद्वयसंयोगोस्तु इति वाच्यम् । तादृशसंयोगस्य सर्वदा सर्वत्र सत्त्वप्राप्तौ सुषुप्तिरेवानुपपन्ना स्यात् । अतो मनोण्वेव इत्यङ्गीकर्तव्यम् इति । तथा सुखादीनां पादे मे सुखम् शिरसि मे वेदना इति प्रादेशिकत्वनियमार्थे प्रादेशिकासमवायिकारणम् आत्ममनः संयोग- रूपमङ्गीकर्तव्यम् । शब्दादौ विभुकार्ये तथैवावधारणात् इति । योग- शास्त्रबोधितप्रत्याहारान्यथानुपपत्त्या च मनोणुत्वसिद्धिः इति केचिदाहुः ( न्या० सि० दी० पृ० २१ ) । तथा मनो नित्यम् । तत्र प्रमाणं सूत्रम् तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते (३० ३।२१२ ) इति द्रष्टव्यम् । तथा मनोन प्रत्यक्षम् । अपि तु अनुमेयमेव । तथाहि । सुखदुःखोपलब्धयश्चक्षुरादिव्यतिरिक्तकरणसाध्याः असत्यपि चक्षुरादिषु जायमानत्वात् घटवत् इति । यच्च सुखाद्युपलब्धिकारणम् तन्मनः ( त० भा० प्रमेयनि० पृ० ३२ ) । अथवा सत्यप्यात्मेन्द्रियार्थसांनिध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् कारणान्तरमनुमीयते । श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैरगृहीतसुखादिग्राहकान्तराभावाचेति ( प्र - शस्त० मनोनि० पृ० २३ ) । आर्हतास्तु भौतिका एव परमाणवः अणवो वा मनांसि इत्याहुः । वायुरेव मनः इत्यपि केचिदाहुः ( गौ० वृ० ३।१४० ) । नव्यास्तु अनुद्भूतविशेषगुणवदसमवेतभूतमेव मन इत्याहुः ( राम० १ पृ० १९८) । मनो विभु इति मीमांसका आहुः । तन्मते मनसो विभुत्वे प्रमाणमनुमानम् । तच्च मनो विभु निस्पर्शद्रव्यत्वात् आकाशवत् इति । जातेर्नियतसंस्थान व्यङ्ग्यत्वात् मनसि च संस्थानाभावान्मनस्त्वं न जातिः । किंतु मनस्त्वं च आत्मान्यत्वे सति ज्ञानासमवायिकारणसंयोगाश्रयत्वम् ( न्या० म० १११४ ) । अथवा मनो विभु विशेषगुणशून्यद्रव्यत्वात्कालवत् इति । यद्वा मनो विभु ज्ञाना- समवायिका रणसंयोगाधारत्वात् आत्मवत् इति ( वै० उ० ३/२/१ ) । मनो नेन्द्रियम् इति मायावादिनो वेदान्तिनो वदन्ति । न्यायनये मन- गुणास्तिष्ठन्ति संख्या अणुपरिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् वेगश्चेति (वै० ३।२।२-३ ) ( प्रशस्त ० मनोनि० पृ० २३ ) ( त० मा० ) ( न्या० म० ) ( भा०प० ) ( सि० च० ) । तथा च मनसः क्रियावत्स्वान्मूर्तत्वम् गुणवत्त्वाद्रव्यत्वम् प्रयत्नादृष्टपरि- ग्रहवशादाशुसंचारित्वम् ( प्रशस्त० पृ० २३-२४ ) इति । माया- तन्मते सुखदुःखादीनामाधारः । अत्र श्रुतिं प्रमाणयन्ति मायावादिनः वादिनस्तु संकल्पविकल्पात्मक वृत्तिमदन्तःकरणं मन इत्याहुः । तच्च कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरभृतिभरित्येतत्सर्वे मन एव ( बृ० उ० ११५/३ ) इति । न्यायमते तु तदाधार इति भेदः । २ मनःशिलानामको धातुविशेषः इति भिषज आहुः । <मनः पर्यायः> ईर्ष्यान्तरायज्ञानावरणक्षयोपशमे सति परमनोगतस्यार्थस्य स्फुटं परिच्छेदकं ज्ञानं मनःपर्याय: ( सर्व० सं० पृ० ६४ आई० ) । <मननम्> [क] अनुमितिवदस्यार्थोनुसंधेयः ( कु० १ ) । [ ख ] युक्तिभिरनुचिन्तनम् ( त० प्र० १ पृ० ८ ) ( म० प्र० पृ० १ ) ( नील० पृ० ५० ) । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ( बृ० उ० २१४१५) इत्यादौ इतरभेदानुमितिः ( प० च० पृ० २० ) । अत्र मननं च आत्मा इतरेभ्यो भिद्यते इत्यात्मन इतर भिन्नत्वेनानुमानम् ( नील० पृ० ५० ) । [ग] समस्तचिन्ता- विषयं सिद्धिज्ञानं मननम् ( सर्व० सं० पृ० १६६ नकु० ) । <मनोग्राह्यगुणत्वम्> प्रत्यक्षात्मविशेषगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वम् (प० मा० ) । तादृशी जातिश्च बुद्धित्वसुखत्यादिः । अत्र मनोग्राह्यत्वं तु मनोजन्यप्रत्यक्षविषयत्वम् । तच्च बुद्धित्वसुखत्वादौ सामान्ये जीवात्मनि च संगच्छते इति ज्ञेयम् (मु० १) । मनोग्राह्यगुणाश्च बुद्धिसुख- दुःखेच्छाद्वेषयत्नाः (प० मा० ) ( भा०प० श्लो० ५८ ) । <मनोजवित्वम्> निरतिशयशीघ्रकारित्वम् (सर्व० सं० पृ० १६६ नकु०) । <मन्त्रः> १ (वेदः ) [क] अनुष्ठानकारकद्रव्यदेवतादिलिङ्गस्मारको वेद- भागः । यथा आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन इति अब्लिङ्गः ऋगादिमन्त्रः । अत्रापस्तम्बबौधायनसूत्रम् मन्त्रब्राह्मणयोर्वेदनामधेयम् इति । [ख] प्रयोगसमवेतार्थस्मारको मन्त्रः इति मीमांसका आहुः । ऋग्यजुः- सामभेदादेते मन्त्रास्त्रिविधाः । अत्रेदं बोध्यम् । मन्त्राणामुच्चारणस्य प्रयो- जनं च प्रयोगसमवेतार्थस्मरणमेव नत्वदृष्टम् (धर्माधर्मो ) । संभवति दृष्ट- फले अदृष्टफलकल्पनमन्याय्यम् इति न्यायात् । अत्र नियमः मन्त्रैरेवार्थोनु- स्मर्तव्यः नान्येन ( लौ० भा० पृ० ३९) इति । एतादृश नियमस्य फलं त्वदृष्टमेव । एवं च मन्त्राणां प्रयोगविधिना सहैकवाक्यतया प्रामाण्यम् इति ज्ञेयम् । अत्र जैमिनिना मन्त्रलक्षणमुक्तम् तच्चोदकेषु मन्त्राख्या । अस्यार्थः । तत् कर्मसमवेतार्थस्मरणं चोदकं फलं येषां तेषु मन्त्राख्या मन्त्रनाम ( जै० सू० वृ० अ० २ पा० १ सू० ३० ) । प्रायिकमिदम् । वसन्ताय कपिञ्जलानालभेत इत्यादिषु विध्यादिरूपेषु मन्त्रेष्वव्याप्तेः । किंतु याज्ञिक - ( समाख्यातं लक्षणं मन्त्राणां दूषणरहितं बोध्यमिति ( जै० सू० वृ० अ० २ पा० १ सू० ३० टि० ) । ते च मन्त्रा द्विविधाः वैदिका - स्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च । प्रगीताः सामानि । अग्रगीताश्च द्विविधाः छन्दोबद्धास्तद्विलक्षणाश्च ( सर्व० सं० पृ० ३६८ पात० ) । तान्त्रिकलक्षणं स्त्रीपुंनपुंसक भेदेन मन्त्रत्रैविध्यं मन्त्राणां दशविधः संस्कारः सर्वदर्शनसंग्रहे ( पृ० ३६८-३७० ) दृश्यः । [ग] क्वचित् प्रतिसूचितः शब्दः । यथा तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ( ऋ० ११ १२६ ) इति । २ रहसि कर्तव्यावधारणार्थ गुप्तभाषणं मन्त्रः इति नीतिशास्त्रज्ञा वदन्ति । <मत्रेश्वरः> तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः शतरुद्राः शतमित्यष्टादशाभ्यधिकम् ॥ ( सर्व० सं० पृ० १८६ शै० ) । <मन्थः> द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः ( जै० न्या० अ० १० पा० ३ अधि० १ ) । <मन्थनम्> उत्थानावच्छिन्नोन्मन्थनम् । यथा सुधां समुद्रं मनातीसत्र धात्वर्थः । उन्मन्थनमालोडनम् । अत्र सुधोत्थानानुकूलं यत्समुद्रस्यो- न्मन्थनं तत्कर्ता इत्यर्थः । अत्रत्यगौणकर्मत्वादिविषयविशेष विचारस्तु दोह- नादिशब्दव्याख्याने द्रष्टव्यः । <मन्दनम्> उपहृतपादेन्द्रियस्येव गमनम् ( सर्व० सं० पृ० १७० ) । <ममता> १ स्वकीयत्वाभिमानः । यथा ममत्वं मम राज्यस्य ( देवीभाग० ) इत्यादौ । २ केचिद्वेदान्तिनस्तु अहंकारः । यथा वल्लभमते अहंता - ममतात्मकः संसार: इत्यादौ इत्यमन्यन्त । अत्र व्याकरणं बोध्यम् । षष्ठ्यर्थवृत्तेरस्मच्छब्दस्यार्थे मम इत्यव्ययम् । तदुत्तरं तत्प्रत्ययः । एवं च ममता इति रूपं सिद्ध्यति । <मरणम्> [क] जीवनादृष्टनाशः । मरणं च धर्माधर्माधीनम् ( ३० उ० ६।२।१५ ) । तथा च सूत्रम् तत्संयोगो विभाग: इति (वै० ६।२।१५ ) । [ख] प्राणध्वंसः । [ग] चरमप्राणशरीर- संयोगध्वंस: ( गौ० वृ० १११११९) (नील० पृ० ४२) (दि० १ पृ० २० ) ( वै० वि० ६।२।१५ ) । प्राणशरीरसंयोगे चरमत्वं च स्वसजातीयशरीर वृत्तिप्राणसंयोगप्रागभावानधिकरणत्वम् ( राम० १ पृ० २० ) । [घ ] शरीरमनोविभागः (वै० उ० ६।२।१५ ) । यथा न जायते म्रियते वा कदाचित् ( गीता० २ । २० ) इत्यादौ । उपात्तानां जातिविशिष्टदेहेन्द्रिय मनोहंकारबुद्धिवेदनानां परित्यागो मरणम् इति सांख्या आहुः ( सांख्य० कौ० ) । स्कन्धनाशो मरणम् इति बौद्धा आहुः । केचित्तु देहात्मनोर्विच्छेदः प्राणवायोरुत्क्रमणरूपो व्यापार- विशेषो वा मरणम् इत्याहुः । <मर्यादा> १ [ क ] सीमा । सा द्विविधा कालरूपा देशरूपा च । तत्र कालरूपा यथा आरभ्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम् 4 इत्यादौ यावदर्थो मर्यादा । अत्र यावच्छब्देन पूजारूपक्रियायां शुक्र- दशमीनिष्ठतादृशसीमास्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थतः शुक्लदशम्यां मर्यादात्वं लभ्यते । अत्र च प्रागभाव एव यावत्पदार्थः । द्वितीयार्थः प्रतियोगित्वम् अनुयोगित्वं वा । तत्र तत्प्रकृत्यर्थदशम्या अन्वयः । तावता दशमीप्रतियोगिकप्रागभावलाभः । तस्य स्वप्रतियोग्यवृत्तित्व- विशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृतक्रियायामन्वयः ( ग० व्यु० का० २ ख० २ पृ० ७५ ) । देशरूपा मर्यादा यथा काशीतः कौशिकीं यावद्याति इत्यादौ यावदर्थो मर्यादा । अत्र यावत्पदेन च कौशिक्यनधिकरणकत्वे सति काशीपूर्वकौशिकी पश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोवधित्वम् अवधिमत्त्वं वा । तस्य च प्रतीची - त्वादावन्वयः । निष्कर्षः पूर्ववत्स्वयमूहनीयः (ग० व्यु० का० २ ख० २ पृ० ७६ ) । [ख ] वैयाकरणास्तु स्थित्यनतिक्रमः । मर्यादा द्विविधा कालरूपा देशरूपा च । तत्राद्या कालरूपा यथा आमुक्तेः संसारः इत्यादावाङोर्थः । अत्र मुक्तिपदं तत्कालपरम् । मर्यादामर्यादि- भावसंबन्ध आयोलः पञ्चम्यर्थः । एवं च मुक्तिमर्यादकः संसारः इति बोधः । संसारे मुक्तिकालप्रागभावाधिकरणनिरूपिततद्भिन्नकालावृत्तित्व- विशिष्टव्यापकताबोधस्त्वार्थः । कालगतमर्यादात्वं च स्वस्वोत्तरकालो- भयप्रागभावाधिकरणकालभवो यः समभिव्याहृतपदार्थः तदनधिकरणत्वम् (ल० म० सुबर्थ० पृ० ११३ ) । द्वितीया देशरूपा यथा प्रयोगा- त्प्रभृत्या काश्या वृष्टो देवः इत्यादौ देशे मर्यादा । अत्र प्रयागादिकाशी- मर्यादकवृष्टिकर्ता देवः इति बोधः । वृष्टौ प्रयागादिकाशीपश्चिमदेश- निरूपितस्वभिन्नावृत्तित्वसमानाधिकरणव्यापकताबोधस्त्वार्थः । अत्र देश- गतमर्यादात्वं तु स्वखोत्तरदेशयोः प्रयागतदाद्यन्तरालदेशवृत्तिसमभि- व्याहृतपदार्थवृष्ट्याद्यनधिकरणत्वम् इत्याहुः । २ न्यायपथस्थितिः इति नीतिशास्त्रज्ञा आहुः । ३ कूलम् इति काव्यज्ञा आहुः । <मलः> १ आत्माश्रितो दुष्टभावो मलः । स च मिथ्याज्ञानादिभेदात्पञ्च विधः । तदप्याह मिथ्याज्ञानमधर्मश्च सक्तिर्हेतु युतिस्तथा । पशुत्वमूलं पञ्चैते तन्त्रे हेया विविक्तितः ॥ ( सर्व० सं० पृ० १६३ नकु० ) । २ मलं वदन्ति कालस्य मासं कालविदोधिकम् (पु० चि० पृ० १२) । <मलमासः> चान्द्रमासो ह्यसंक्रान्तो मलमासः प्रकीर्तितः ( पु० चि० पृ० १२) । <मलिम्लुचः> शुक्लप्रतिपदादिदर्शान्तमासमतिक्रम्य सूर्यो राश्यन्तरं गच्छति तदा पूर्वो मलिम्लुच: द्वितीयः संक्रान्तियुक्तः प्राकृतः । इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृ- सोमकौ ॥ तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ (पु० चि० पृ० १२ ) । <महती> भरणी पितृपक्षे या महती परिकीर्तिता (पु० चि० पृ० ३८५ ) । <महत्तत्वम्> मूलप्रकृतेर्बुद्धिरूपः परिणामविशेषः ( सां० का० ) । <महत्त्वम्> १( परिमाणम्) इदं महत् इति प्रतीतिसाक्षिकः परिमाण- विशेषः । यथा महत्व षड़िधे हेतुः ( भा० प० श्लो० ५९) इत्यादौ । तल्लक्षणं च मानव्यवहारासाधारणकारणत्वम् । द्रव्यसाक्षात्कारकारण- विषयनिष्ठसामान्यगुणत्वं वा (वै० उ० ७१११८ ) । अपकर्षानाश्रय- परिमाणत्वं वा । महत्त्वं द्विविधम् अवान्तरमहत्त्वम् परममहत्त्वं च । तत्राद्यम् सरेणुमारभ्य महावयविपर्यन्तद्रव्येषु वर्तते । षड़िधे द्रव्यप्रत्यक्षे कारणम् अनित्यं च । इदं तु नातीन्द्रियम् । किं तु प्रत्यक्षविषयो भवति । तथा च सूत्रम् अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते (वै० ७१११८) इति । तस्य कारणत्वं चोक्तम् द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणम् । न हि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति (वै० उ० ७/११८) । द्वितीयं तु विभुचतुष्टये वर्तते । अतीन्द्रियम् नित्यं च । संयोगविशेष एव महत्त्वम् इति नव्यनास्तिका आहुः ( प० मा० ) । हिरण्यगर्भस्य लिङ्गशरीरधर्मः इति वेदान्तिन आहुः । <महाकालः> १ ( काल: ) [क] अनवच्छिन्नः कालः । [ख] उपाध्य- विशिष्टकालः । यथा कालो घटवान् कालपरिमाणादित्यादौ हेत्व- धिकरणस्य महाकालस्य जगदाधारतया घटाधारत्वेपि महाकाले महा- कालभेदाभावेन महाकालान्यत्वविशिष्टघटानाधारत्वान्महाकालान्यत्ववि- शिष्टघटाभावोपि प्रतियोगिव्यधिकरणो भवति (मु० २ पृ० १४५ व्याप्तिलक्षणे ) इत्यादौ महाकालः । [ग] अखण्डकालः । २ शिवः इति पौराणिका आहुः । ३ भैरव विशेषश्च इति तत्रज्ञा आहुः । <महाजया> शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः । महाजया तदा स्याद्धि सप्तमी भास्करप्रिया ॥ (पु० चि० पृ० १०५ ) । <महानन्दा> माघमासे तु या शुक्ला नवमी लोकपूजिता । महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥ (पु० चि० पृ० १४२ ) । vilg <महानवमी> अश्वयुक्छुकृपक्षस्य अष्टमी मूलसंयुता । सा महानवमी नाम त्रैलोक्येपि सुदुर्लभा ॥ ( पु० चि० पृ० ५९ ) । <महापुराणम्> व्यासकृतः पुराणविशेषः । यथा श्रीमद्भागवतम् । तल्लक्षणं च सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषां च पालनम् । कर्मणां वासना वार्ता मनूनां च क्रमेण च ॥ वर्णनं प्रलयानां च मोक्षस्य च निरूपणम्। ८२ न्या० को ० उत्कीर्तनं हरेरेव देवानां च पृथक् पृथक् ॥ महापुराणं विज्ञेयमेकादशक- लक्षणम् (ब्रह्मवै० ज० अ० १३२ ) इति । <महाप्रलय:> ( प्रलयः ) [ क ] चरमसंयोगनाशः ( ग० सिद्धा० ) । [ख] सर्वभावकार्यध्वंसः ( त० दी० १ पृ० १० ) । केचित्तु पौराणिकादयः जन्यभावानधिकरणकालः इत्याहुः । तस्योत्पत्तिनियमस्तु महान् प्रलयो ब्रह्मणः स्वमानेन शतवर्षावसाने जायते इति । अत्रेदं बोध्यम् । महाप्रलयानन्तरं न सृष्टि: । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्या- दृष्टस्यापायात् । सर्वभोक्त्रपवृक्तौ प्रयोजनाभावाच्च । न हि बीजप्रयो- । जनाभ्यां विना कार्योत्पत्तिः इति ( प० मा० ) । महाप्रलयो न प्रमाण- सिद्धः इति नव्यनैयायिका आहुः । अत्राधिकं तु प्रलयशब्दे द्रष्टव्यम् । <महामाघी> मेषराशौ यदा सौरिः सिंहे चन्द्रबृहस्पती । भास्करः श्रवणर्क्षे स्यान्महामाघी च सा स्मृता ॥ ( पु० चि० पृ० ३१४ ) । <महालयः> भाद्रपदापरपक्ष: ( पु० चि० पृ० २१ ) । <महावाक्यम्> १ [क] स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् । अत्र तादृशार्थबोधस्तु तत्तदर्थावच्छिन्नविषयताशाली इति बोध्यम् ( श० प्र० श्लो० ३० टी० पृ० ४४ ) । यथा महावाक्यार्थबुद्धिं प्रति खण्ड- वाक्यार्थज्ञानं कारणम् इति कार्यकारणभावे वक्तव्ये पञ्चावयवोपेतन्याय- वाक्यम् । अत्र प्रतिज्ञा दिघटितपञ्चावयवोपेतमहावाक्यजनितसमुदितार्थ- विषयकशाब्दबुद्धौ प्रतिज्ञादिरूपावान्तरवाक्यार्थज्ञानं कारणम् इति कार्य- कारणभावो द्रष्टव्यः । अत्रोच्यते भर्तृहरिणा स्वार्थबोधे समाप्तानामङ्गाङ्गि- त्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ ( वाक्यपदीये) इति । [ख ] परस्परसंबद्धार्थकं वाक्यसमुदायरूपमेकवाक्यम् । य मीमांसकानां नये दर्शपूर्णमासाभ्यां यजेत ज्योतिष्टोमेन वर्गकामो यजेत इत्यादि प्रधानवाक्यस्य गुणविधिना सह्रैकवाक्यत्वम् । २ अखण्डा बोधकम् । यथा मायावाद्यद्वैतमते तत्त्वमसि ब्रह्माहमस्मि इत्यादीनि द्वादश महावाक्यानि । साहित्यशास्त्रज्ञास्तु वाक्योच्चयो महावाक्यम् । यथा रामा- यणमहाभारतरघुवंशादि ( सा० द० उ० २ श्लो० ७) इत्याहुः । <महावारुणी> चैत्रकृष्णत्रयोदश्यां शनिवारयोगे सति शततारकानक्षत्रं चेन्महावारुणी । वारुणेन समायुक्ता मधौ कृष्णत्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥ शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्यग्र है: समा ॥ शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ ( पु० चि० पृ० २३१ ) । <महाषष्ठी> वृश्चिकार्के शुलषष्ठी भौमवारेप्युपस्थिते । महाषष्ठीति सा प्रोक्ता सर्वपापहरा तिथिः ॥ (पु० चि० पृ० १०२) । <माध्यमिकः> ( बौद्धः ) गुरूक्तस्याकरणादुत्तमाः पर्यनुयोगस्याकरणादध- माश्च । अतस्तेषां माध्यमिका इति प्रसिद्धिः ( सर्व० सं० पृ० ३० बौ० ) । <मानः> १ [ क ] ( दोषः ) आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीः ( गौ० वृ० ४।१।३) । यथा पराभवोप्युत्सव एव मानिनाम् ( किरा० स० १ श्लो० ४१ ) इत्यादौ मानः । [ ख ] अभिमानः इति केचन मन्यन्ते । २ परिमाणम् । यथा मानव्यवहारासाधारणकारणं परिमाणम् इत्यादौ हस्ततुलाप्रस्थादिरूपो द्रव्यपरिच्छेदो मानम् । ३ प्रमाणम् । यथा मानाधीना मेयसिद्धिः इत्यादौ मानम् । ४ गानाङ्गे तालक्रियायां तालविरामोपलक्षितः कालव्यापारो मानम् इति गायका आहुः । ५ आलंकारिकास्तु अनुरक्तदम्पत्योरवस्थाविशेषः शृङ्गाराङ्गभूतः कोपः । तथा चोक्तम् । मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः । द्वयोः प्रणय- मानः स्यात्प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना (सा० द० प० ३ श्लो० २१८) इति । स्वाभीष्टाश्लेषवीक्षादि- विरोधी मान उच्यते इति च । यथा मुञ्च मयि मानमनिदानम् (जयदेवः) इत्यादौ इत्याहुः । ६ संमानः (आदर: ) इति काव्यज्ञा आहुः । <मानसिक:> ( नमस्कारः ) । अत्र मानसिकत्वं च मानसत्वव्याप्यो जाति- विशेष: ( मू० म० १ पृ० १०५ ) । अयं मत्त उत्कृष्टः अहमस्माद- पकृष्टः इति ज्ञानविशेष: ( त० प्र० १ पृ० ३ - ४ ) । यथा प्रणम्य परमात्मानं जानकीनाथशर्मणा ( न्या० म० १ पृ० १ ) इत्यादौ भगवन्नत्यात्मकं मङ्गलम् । इदं च नमस्कारसामान्यस्वरूपम् इति तर्क प्रकाशकृतोभिप्रायः इति तथा प्रतिभाति । <माया> १ ( दोषः ) परवञ्चनेच्छा ( गौ० वृ० ४ । १ । ३ ) । यथा माया- बादतमोव्याप्तं जगत् इत्यादौ याख्यासिंहनादे सपदि ददृशिरे मायि- गोमायवस्ते (वायुस्तुतौ ) इत्यादौ च माया । २ भगवदिच्छा ( भाग ० टी० विज० ११ । २।३७ ) । यथा यन्माययातो बुध आभजेत्तम् (भाग० ११ । २ । ३७ ) ( ऋ० सू० मध्व० मा० ११४/२५ ) इत्यादौ । यथा वा मम माया दुरत्यया (गीता० ७ ११४) इत्यादौ । तदुक्तम् मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्टे हि मयाभिधा ( सर्व० सं० पृ० १४१ पूर्ण० ) इति मध्यमतानुयायिनः प्राहुः । ३ भगवच्छक्तिविशेषः इति वल्लभीया मन्यन्ते । ४ मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकप्रकृत्य- भिधायको नानिर्वचनीयाज्ञानवचनः इति रामानुजीयाः ( सर्व० सं० पृ० १०० रामा० ) । ५ मायावादिवेदान्तिनस्तु मिथ्याबुद्धिहेतुभूतम- ज्ञानं माया । तच्चाज्ञानमीश्वरोपाधिः । मात्यस्यां शक्त्या प्रलये सर्वे जगत् सृष्टौ व्यक्तिमायातीति माया ( सर्व० सं० पृ० १८९ शैव० ) इति वदन्ति । ६ आदिमाया आदिशक्ति चण्डी इत्याद्यपरनाम्नी कालिका इति शाक्ता आहुः । ७ कापट्यम् । ८ दम्भः इति काव्यज्ञा वदन्ति । <मायामात्रम्> माया भगवदिच्छा । सैव मानत्राणकर्त्री यस्य तन्माया- मात्रम् ( सर्व० सं० पृ० १४१ पूर्णप्र० ) । <मारुतम्> (नक्षत्रम्) स्वाती ( पु० चि० पृ० ३५७) । <मार्गः> क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोभिधीयते ॥ ( सर्व० सं० पृ० ४६ बौ० ) । <माजेनम्> लक्ष्णीकरणम् (जै० न्या० अ० १० पा० १ अधि० ११) । <मासः> प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते । नाक्षत्रस्तु तृतीय स्यात्सौरो मासश्चतुर्थकः ॥ ( पु० चि० पृ० ३) । चन्द्रमाः पौर्णमा- स्यन्ते भास्करादतिरिच्यते । राशिष्टुं तथा राम मासार्धेन न संशयः । भागद्वादशकेनैव तिथ्यां तिथ्यां क्रमेण तु । चन्द्रमा: कृष्णपक्षान्ते सूर्येण सह युज्यते ॥ संनिकर्षादथारभ्य संनिकर्षमथापरम् । चन्द्रार्कयोर्बुधै- र्मासश्चान्द्र इत्यभिधीयते ॥ सावने तु तथा मासि त्रिंशत्सूर्योदयाः स्मृताः । आदित्यराशिभागेन सौरो मासः प्रकीर्तितः ॥ सर्वर्क्षपरिवर्तेस्तु नाक्षत्रो मास उच्यते (पु० चि० पृ० ३ ) । अधिमासे तु षष्टिदि- वसात्मको मासः । तदुक्तम् षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः । पूर्वस्मिन्देवकार्याणि पितृकार्याणि चोभयोः ॥ ( पु० चि० पृ० २०) इति । <मासादिः> इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः (पु० चि० पृ० १२) । <माहिष्य:> ( रथकारशब्दे दृश्यम् ) । <मितिः> १ मानम् । २ ज्ञानम् । ३ अवच्छेदः । ४ विक्षेपः ( वाच० ) । <मित्रसप्तमी> यद्विष्णोर्दक्षिणं नेत्रं तदेवाकृतिमत्पुनः । अदितेः कश्यपा- ज्जातो मित्रो नाम दिवाकरः ॥ सप्तम्यां तेन सा ख्यातां लोकेस्मिन्मित्र- सप्तमी ( पु० चि० पृ० १०४ ) । <मिथ्याज्ञानम्> १ भ्रमः ( त० सं० ) । अनात्मनि देहादावात्मबुद्धिः ( सर्व० सं० पृ० २४४ अक्ष० ) । २ नास्तिकत्वम् ( अमरः ) । यथा मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ( अणुवे० ) इत्यादौ । <मिथ्यात्वम्> १ कालासंबन्धित्वम् । यथा शशविषाणकूर्मरोमवन्ध्यापुत्रा- दीनां मिथ्यात्वम् । २ तुच्छत्वम् इति माध्याः प्राहुः । ३ निरुपाख्यत्वं ( निःस्वरूपत्वम् ) इति बौद्धा आहुः । ४ बाधज्ञाननिवर्त्यत्वम् । यथा ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इत्यादौ इति मायावादिवेदा- न्तिनः शंकरभारतीप्रभृतयः मन्यन्ते । <मिश्रः> जीवस्य उभयात्मा भावः ( सर्व० सं० पृ० ६८ आई० ) । <मिषम्> १ पराभिभवेच्छा । २ छलम् । ३ स्पर्धनम् (बाच० ) । ४ प्रयो जनान्तरप्रवृत्तस्य प्रयोजनान्तरोद्भावनम् । एवं व्याजादिशब्दोपि व्याख्येयः । <मीमांसकः> १ [ क ] मीमांसाशास्त्रज्ञः तदध्येता वा । यथा कुमारिल- तुतातभट्टप्रभाकरादयो मीमांसकाः । अत्रार्थे व्युत्पत्तिः मीमांसां वेत्ति अधीते वा मीमांसकः इति । क्रमादिभ्यो वुन् (पा० ४/२/६१ ) इत्यनेन वुन् । [ ख ] कर्मैव वेदमुख्यतात्पर्यम् इति यो मन्यते सः । यथा महर्षिर्जेमिनिः । मीमांसकमते कर्मैवेश्वरः । तदन्यश्चेतनरूपो भगवान् नास्ति । स्वर्गादिकमेव पुरुषार्थः । मन्त्रमयी मन्त्रगतलिङ्गलिङ्गित अग्नीन्द्रादिर्वा देवता । अर्थवादो न प्रमाणम् इति । तत्र मीमांसकैक- देशिनस्तु यथा भूपाल: परिचारकृतकर्मणः फलदाता तथा वेदोक्तकृत- कर्मणः फलदातेश्वर एव इति समूचिरे ( सि० च० १ पृ० ११) । अत्रेदं ज्ञेयम् अर्वाचीना मीमांसकाश्च त्रयः (१) प्रभाकरापरनामा गुरुः (२) भट्टः तुतात: कुमारिलो वा (३) मुरारिमिश्रश्च इति । वेदे भागत्रयम् कर्मकाण्डः उपासनाकाण्ड: ज्ञानकाण्डश्चेति । तत्र कर्मकाण्डे द्वादशा- अध्यायात्मकं सूत्रग्रन्थं प्रणिनाय जैमिनि: । कर्मकाण्डोपयोगस्तु ज्ञानयो सांख्यानां कर्मयोगेण योगिनाम् इति भगवद्गीतया तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन तपसा अनाशकेन इति श्रुत्या च कर्मणां विविदिषा हेतुत्वोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मण उपयोग: इति केचिद्वदन्ति (वाच ० ) । वयं तु कर्मणा ज्ञानमातनोति इत्यादि- वचननिचयेन कर्मणोप्यपूर्वद्वारा भगवज्ज्ञानतत्प्राप् बाहुल्येन तदुपयोगः इति भगवदपरोक्षज्ञानानन्तरमपित मोक्षफले सौकर्यविशेषो भवति इति कर्मणो बहूपयोगः इति च मन्या- महे । २ सिद्धान्तकारकः । अत्रार्थे मीमांसकशब्दे व्याकरणम् मान- विचारे । स्वार्थे सन् । ण्वुलू इति ज्ञेयम् । <मीमांसा> १ लाघवज्ञानात्मकस्तर्कः ( दि० ४ पृ० १८९) । मीमांसा- शब्दे व्याकरणम् मानविचारे स्वार्थ सन् । अप्रत्ययात् (पा० ३।३।१०२ ) इत्यनेन स्त्रियामप्रत्ययः इति ज्ञेयम् । २ विचारपूर्वक तत्त्वनिर्णयः । यथा धर्ममीमांसा ब्रह्ममीमांसा इत्यादौ वेदार्थस्य मीमांसा । विचारः इत्यपि केचिद्वदन्ति । ३ तादृशतत्त्वनिर्णयप्रतिपादको ग्रन्थ- विशेष: ( शास्त्र विशेषः ) । स च कर्मब्रह्मविषयभेदेन द्विविधः । तत्रायः कर्मविषयक संशयनिवारको ग्रन्थो महर्षिजैमिनिना प्रणीतः । स च अथातो धर्मजिज्ञासा इत्यारभ्य अन्वाहार्ये च दर्शनात् एतत्पर्यन्तो द्वादशाध्याययुतः सूत्रोपनिबद्धः पूर्वमीमांसात्वेन प्रसिद्धोस्ति । द्वितीयस्तु ब्रह्मविषयकसंशयनिवारको ग्रन्थो विष्ण्ववतारेण सत्यवतीसुतश्रीवेदव्यासेन निर्मितः । स च ॐ अथातो ब्रह्मजिज्ञासा ॐ इत्यारभ्य ॐन पुनरा- वर्तते ॐ इत्यन्तः सूत्रोपनिबद्धोध्यायचतुष्कसमेतो वेदान्तत्वेनोत्तरमीमां- सावेन च प्रसिद्धोस्ति इति । <मुक्तः> भवान्तरप्राप्तिविधुरः ( सर्व० सं० पृ० ७१ आई० ) । अन्यत्र चोक्तम् विद्यादिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते ( सर्व० सं० पृ० १९९ प्रत्य० ) । <मुक्तत्वम्> जीवत्वं नाम संसारित्वम् । तद्विपरीतं मुक्तत्वम् ( सर्व० सं० पृ० २०६ रसे० ) । <मुक्तिः> १ संसारोपरमः । २ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ( सर्व० सं० पृ० ३८७ पात० ) । ३ नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः (सर्व० सं० पृ० २५० अक्ष० ) । ४ प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिः ( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ आवरणमुक्तिर्मुक्तिः ( सर्व० सं० पृ० २४८ अक्षपा० ) । ६ लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता ॥ ( सर्व० सं० पृ० ८८ आई० ) । ७ गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिः ( सर्व० सं० पृ० ८१ (0) ८ रागादिज्ञानसंतानवासनोच्छेदसंभवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ ( सर्व० सं० १० ४६ बौ० ) । ९ मोचनम् निःसरणं वा मुक्तिः इति काव्यज्ञा आहुः । <मुखम्> नाडिकापञ्चकम् । पञ्चनाडीपरिमितं मुखम् (पुच्छशब्दे दृश्यम् ) । <मुख्यः> १ प्रथमकल्पः । २ श्रेष्ठः । ३ प्रधानम् । अत्रायं विशेषो ज्ञेयः । कारण निष्ठं मुख्यत्वं च स्वेतरासाधारणकारणककार्यकभिन्नत्वम् । ( त० प्र० १ पृ० ७ ) । यथा मुक्ति प्रति तत्त्वज्ञानरूपकारणस्य मुख्यत्वम् । फलनिष्ठं मुख्यत्वं च प्रवृत्त्युद्देश्यत्वम् ( राम० ) । यथा सुखसंवेदनरूपफलस्य मुख्यत्वम् । विशेष्यतानिष्ठं मुख्यत्वं च प्रकार - तान्यत्वम् (त० प्र० २ ) इति विज्ञेयम् । यथा घटवद्भूतलम् इति ज्ञाने भूतलनिष्ठविशेष्यताया मुख्यत्वम् । एवम् अन्यनिष्ठान्यपि मुख्य- त्वानि स्वयमूह्यानि । <मुनिः> सप्तमी ( पु० चि० पृ० ३७ ) । <मूढम्> (चित्तम् ) तमःसमुद्रे मग्नं निद्रावृत्तिमच्चित्तं मूढमिति गीयते ( सर्व० सं० पृ० ३५४ पात० ) । <मूर्छनम्> १ समानजात्योः समानजवयोर्वा वाय्बोर्विरुद्धदिक्रिययोः संनि- पात: (संयोगविशेष: ) ( प्रशस्त० वायुनि० पृ० १८) । यथा वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् (वै० २।१।१४ ) इत्यादौ । संमूर्धनं तृणतूलादीना मूर्ध्वगमनानुकूलं तत्संपादकतयानुमीयमानं वायुनानात्वे लिङ्गम् इति सूत्रार्थ: (वै० वि० २।१।१४) । २ वेदान्तिनस्तु मोहः । सच जाग्रत्स्वमसुषुप्त्येतत्रयावस्थातिरिक्तो बाह्येन्द्रियव्यापारशून्यावस्थ विशेषः । यथा ॐ मुग्धेर्धसंपत्तिः परिशेषात् ॐ ( ऋ० सू० ३/२/१०) इत्यादौ मोहो मूर्छा इत्याहु: । मूर्छाभवने कारणमुच्यते भिषग्भः । बहुदोषस्य विरुद्धाहारसेविनः । वेगाघातादभिधाताद्धीनसत्त्वस्य वा पुनः ॥ करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्छन्ति मानवाः ॥ ( भावप्र० ) इति । अस्या अवस्थाया जाग्रदाद्यवस्थात्रया- तिरिक्तत्वेन तुरीयत्वे मानं तु दुःखानुसंधानमेव इति । मोहावस्थ "जीवस्य परमेश्वरेर्धप्राप्तिः इति च विज्ञेयम् ( मध्व० मा० ३/२/१०) । ३ गानाङ्गभूतः खरारोहावरोहक्रमविशेषः । यथा स्फुटीभवनामविशेषमूर्छ- नाम् ( माघ० स० १ श्लो० १०) इत्यादौ इति गायका वदन्ति । अत्र मूर्च्छनालक्षणमुच्यते । स्वरः संमूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छना- मिति तां प्राहुः कवयो ग्रामसंभवाम् ॥ इति ( वाच० ) । कमात्स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्च्छत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥ इति । ग्रामत्रयेपि प्रत्येकं सप्त सप्त मूर्छना इत्येकविंशतिर्मुर्छना भवन्ति ( माघ टी० स० १ श्लो० १० ) । अन्यच्च सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः । तालास्त्वेकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ इति (पञ्चतन्त्रे ) । ४ काव्यज्ञास्तु प्रसरणम् । यथा शिलोच्चये मूर्छति मारु- तस्य ( रघु० २।३४ ) इत्यादौ इत्याहुः । <मूर्छितः> ( पारदः ) नानावर्णो भवेत्सूतो विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥ (सर्व० सं० पृ० २०४ रसेश्व० ) । <मूर्तगुणत्वम्> [क] अमूर्तगुणवृत्तिः संस्कारत्वान्या गुणत्वव्याप्या च या जाति: संख्यात्वबुद्धित्वादिः तच्छ्रन्यगुणत्वम् । अत्र शून्यान्तेन संख्यादेः बुद्ध्यादेश्च व्युदासः । वेगस्थितिस्थापकोपसंग्रहाय संस्कारत्वान्य इति विशेषणं दत्तम् (दि० गु० पृ० १९२ ) । [ ख ] अमूर्तावृत्ति- गुणत्वम् । अमूर्तावृत्तिगुणास्तु रूपम् रसः गन्धः स्पर्शः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम् स्नेहः वेगः स्थितिस्थापकश्चेति ( भा०प० गु० १० ८७-८८) । अथवा [ग] मूर्तत्वव्याप्यतावच्छेदकगुणवृत्ति- जातिमत्त्वम् । अत्रावच्छेदकान्तेन संख्यात्वादेः वृत्तित्वान्तेन कर्मस्वादेः व्युदासः ( दि० गु० पृ० १९२ ) । [६] ] केचित्तु विभ्ववृत्ति- संख्यादिपञ्चकभिन्नगुणत्वम् इत्याहु: ( ल० व० ) । <मूर्तम्> ( द्रव्यम्) १ क्रियावद्रव्यम् । यथा वायुर्मूर्तः। मूर्तानि पञ्च पृथिवी आपः तेजः वायुः मनश्चेति ( न्या० बो० १ पृ० ३ ) ( वाक्य० १ पृ० ५) (भा०प० श्लो० २५ ) । लक्षणं तु मूर्तत्व- मेव । तच्च अपकृष्टपरिमाणवत्त्वम् ( मू० १ पृ० ५७ ) । अविभु- वृत्तिपरिमाणवत्त्वमित्यर्थः । तेन परमाणौ नाव्याप्तिः । अथवा परि- च्छिन्न परिमाणवत्त्वम् (त० दी० १) । वेगवस्त्वं क्रियाबस्त्वं वा ० १ पृ० ३ ) ( वाक्य० १ पृ० ५ ) । इयत्तावच्छिन्न- परिमाणयोगः इति प्राञ्च आहुः । मूर्तत्वं जातिः इति नव्या आहुः ( प० मा० ) । सा च क्रियाजनकतावच्छेदकतया सिद्ध्यति इति ज्ञेयम् (दि० १ ) । मूर्तद्रष्यमात्रवृत्तिगुणास्तु परत्वम् अपरत्वम् परम- महत्त्वमिन्नं परिमाणं चेति (भा०प० श्लो० २५ ) । अत्रेदं बोध्यम् । निबिडानामेव मूर्तानां समानदेशत्वं विरुद्धम् इति नियमः । तेन चक्षुरा- ८३ न्या० को० लोकयोर्मूर्तयोरेकदेशवृत्तिःवेपि न तादृशनियमभङ्गः । तयोरनिबिडत्वात् इति ( त० प्र० १ ) । २ कठिनम् । ३ मूढम् इति काव्यज्ञा आहुः । <मृर्तामृर्तगुणत्वम्> [ क ] कालवृत्तिवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तेन मूर्तमात्रवृत्तिसंख्यादौ नाव्याप्तिः ( दि० गु० पृ० १९२ ) । मूर्तामूर्त- गुणाश्च संख्या परिमाणम् पृथक्त्वम् संयोगः विभागश्चेति ( भा०प० गु० श्लो० ८९)। [ख । द्रव्यत्वसमव्यापकतावच्छेदकजातिमत्त्वम् ( दि० गु० पृ० १९२ ) । <मृति:> १ व्यक्तिवदस्यार्थोनुसंधेयः । परे तु संस्थान विशेष : तद्वान् । थ व्यक्तिर्गुणविशेषायो मूर्तिः (गौ० २।२।६६) इत्यादौ इत्याहुः । अन्ये तु काव्यस्य मूर्तिः इति काव्यशास्त्रज्ञान्ति ( प्रा० ) । ३ प्रतिमा अवच्छिन्न परिमाणस्याश्रयः इत्याहु: (गो० वृ० २/२/६६) । २ शब्दार्थों इति पौराणिकाः संगिरन्ते । ४ काठिन्यम् इति पदार्थविज्ञानिन आहुः । ५ देहः इति काव्यज्ञजना जगुः । <मूलप्रकृतिः> मूलं चासौ प्रकृतिश्च मूलप्रकृतिः । प्रधानपदेन वेदनीया केवला प्रकृतिर्मूलप्रकृतिः । नासावन्यस्य कस्यचिद्विकृतिः । प्रकरोतीति प्रकृतिरिति व्युत्पत्त्या सत्त्वरजस्तमोगुणानां साम्यावस्थाया अभिधानात् ( सर्व० सं० पृ० ३११ सांख्य० ) । <मृतः> ( पारदः ) आर्द्रत्वं च घनत्वं च तेजो गौरवचापलम् । यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकंम् ॥ ( सर्व० सं० पृ० २०४ रसेश्व० ) । <मृतान्तरः> योर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । कतद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः ॥ ( मिताक्षरा अ० २ श्लो० ६९) । <मृदुत्वम्> १ अवयवसंयोगविशेषः ( त० दी० १५० ६ ) । २ स्पर्श- विशेष: ( सि० च० ) । यथा शिरीषपङ्केः कुरुकामिनीनां शरीरवल्या सह मार्दवेन ( भार० च० ) इत्यादौ । कोमलत्वम् इति कांव्यज्ञा वदन्ति । २ चित्रानुराधामृगरेवती नक्षत्रवृत्तिधर्मः इति मौहूर्तिका आहुः । <मैत्रम्> अनुराधा नक्षत्रम् (पु० चि० पृ० ३५४ ) । <मोक्षः> १ निःश्रेयसम् । मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेभिनव- कर्माभावान्निर्जराहेतुसंनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्म- मोक्षणं मोक्षः ( सर्व० सं० पृ० ८० आई० ) इत्यार्हताः । आत्मो- च्छेदो मोक्षः ( सर्व० सं० पृ० २४७ अक्ष० ) इति स्वातन्त्र्यं मोक्षः ( सर्व० सं० पृ० २४९ अक्षपा० ) अविद्यास्तमयो मोक्षः ( सर्व० सं० पृ० ४०२ शां० ) २ मोचनम् । यथा नीविमोक्षो हि मोक्षः ( सा० द०) इत्यादौ इत्या- लंकारिका आहुः । ३ मरणम् ( हेम० ) । <मोचनम्> १ [ क ] द्रवद्रव्यविभागानुकूलक्रिया । यथा जलं मुञ्चति मेघ इत्यादौ । [ख] बहिःक्षरणावच्छिन्न व्यापारः (श० प्र० श्लो० ७३ टी० पृ० ९८ ) । शिष्टं तु दोहनशब्दव्याख्याने द्रष्टव्यम् । २ मुक्तिः ( त्यागः ) । यथा रोगात्पापाद्वा मुच्यते इत्यादौ । <मोहः> १ मिथ्याप्रतिपत्तिलक्षणः दोषः ( बात्स्या० ४।१।३) । यथा शरीरादावात्मभ्रमः ( त० दी० ) । तमोगुणप्रयोज्योन्तःकरणपरिणाम- विशेषः इति सांख्या आहुः । तत्स्वरूपं तु उपेक्षाविषयत्वम् । उपेक्षा- विषयत्वं नाम मोहः ( सर्व० सं० पृ० ३२६ सां० ) । संसारहेत्व- विद्याप्रयोज्यान्तःकरणवृत्तिविशेषः इति मायावादिन आहुः । भ्रान्ति- साधनमज्ञानम् इति मेदिनीकार आह । २ वेदान्तिनस्तु मूर्छा इत्याहुः । अत्राधिकं तु मूर्छनशब्दव्याख्याने द्रष्टव्यम् । ३ चित्तवैकल्यं मोहः ( मिता० अ० २ श्लो० २१४ ) । ४ दुःखम् ( शब्दर० ) । <मौनम्> बाग्व्यापारराहित्यम् । यथा मौनं सर्वार्थसाधनम् इत्यादौ । अत्रोच्यते । उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत् ॥ इति ( स्मृतिः ) । <म्लेच्छः> १ अपशब्दः । अत्र प्रमाणं श्रुतिः म्लेच्छो ह वा नाम यदपशब्दः इति । २ नीचजातिः । यथा अशपत्तान्मुनिः क्रुद्धो ग्लेच्छा भवत दुर्जनाः (भाग ० स्क० ९ अ० १६ श्लो० ३३) इत्यादौ किरातादिजातिः (अमरः) । तदुक्तम् गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥ इति ( बौधायनः) (वाच०) । ३ पापरत: ( मेदिनी० ) । <यकृत्> दक्षिणपार्श्वस्थितो मांसविशेष: ( संगीतर० पृ० १९ ) । <यङ्> (धात्वंशः प्रत्ययः ) १ [ क ] पौनःपुन्यम् । यथा पापच्यते इत्यादौ यडर्थः । अयं धातुप्रकृतिकः प्रत्ययो बोध्यः । पौनःपुन्यं च प्रकृत- धात्वर्थजातीयक्रियोत्तरतादृशक्रियानन्तर्यरूपं प्रकृत्यर्थे विशेषणत्वेनान्वेति । तेन पाकोत्तरपाकानन्तर्यवत्पाककर्ता इत्येवं तत्र वाक्यार्थः । द्विःपत्तरि पुनः पक्तृत्वेपि न निरुक्तं पुनः पुनः पक्तृत्वम् । अतो न तत्र पापच्यते इति प्रयोगः ( श० प्र० श्लो० १०८ टी० पृ० १९३ ) । [ख] इदानींतनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनवे - मानादिकृतिविषयत्वम् । यथा पापच्यते इत्यादौ । अत्र इदानींतनत्वं च स्थूलकालमादायान्वेति इति विज्ञेयम् ( तर्का ० ४ पृ० ११ ) । अत्रायं विवेकः । सत्यन्तदलमेव यडा प्रत्याय्यते । विशेष्यदलं त्वाख्यातेन बोध्यते । अतो यङो न विशिष्टवाचकत्वम् इति । २ कौटिल्यम् । यथा जङ्गम्यते चङ्क्रम्यते इत्यादौ यडोर्थः । अत्र गत्यर्थात् धातोः कौटिल्य एव यङ् विहितः । तेन कुटिलगतिमान् इत्येवं तत्र बोधः । शेषं पूर्ववत् । ३ निन्दितत्वम् । यथा लोलुप्यते चञ्चर्यते जलप्यते दन्दश्यते जेगिल्यते इत्यादौ निन्दितत्वं यङोर्थः । अत्र लुपसदचर ( पाणि० सू० ३ । १ । २४ ) इति सूत्रेण गर्हायां यङ् गर्हितं लुम्पति चरति इत्यादिकोर्थः । विहितः । <यज्> ( धातुः ) देवतोद्देश्यकद्रव्यत्यागरूपा क्रिया तदर्थः ( जै० सू० वृ० अ० १ पा० २ सू० २७ ) । <यजतिः> यागविशेषः । यथा यजतिषु येयजामहं करोति नानुयाजेषु ( श्रुतिः ) इत्यादौ । तल्लक्षणम् तिष्ठद्धोमा वषट्ठारप्रदाना यांज् पुरोनुवाक्यावन्तो यजतयः ( काव्या० श्रौ० सू० १/२/६) इति । अत्र कर्कभाष्यं दृश्यम् । <यजनम्> यागवदस्यार्थोनुसंधेयः । तत्स्वरूपमुक्तं देवलेन पशुक्षीराज्य- पुरोडाशसोमौषधिचरुप्रभृतिभिर्हविर्भिः खदिरपलाशाश्वत्थन्यग्रोधोबर प्रभृतिभिः समिद्भिः स्रुक्स्रुवोलुखलमुसलकुठारखनित्रयूपदा रुदर्भ चर्मग्राव - पवित्रभाजनादिभिर्द्रव्योपकरणैः उद्गातृहोत्रध्वर्युब्रह्मादिभिर्ऋत्विग्भिः का- म्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां समापनं यजनम् इति ( श्रा० वि० ) । <यजुः> [ क ] वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि ( जै० न्या० अ० २ पा० १ अधि० १२ ) । शेषे यजुः शब्दः ( जै० सू० २।१।३५) इति । यत्र वाक्ये अर्थवशेन छन्दोविशेषवशेन पाद- व्यवस्था सा ऋक् । तत्रैव गाने सति सामोच्यते । एतदन्यद्यजुः- शब्देनोच्यते । [ ख ] यजूंषि वा तद्रूपत्वात् (जै० सू० २१११३८ ) इति । अस्यार्थः । निगदा यजूंषि । तद्रूपत्वात् यजुर्लक्षणसत्त्वात् ( जै० सू० वृ० २१११३८ ) इति । <यज्ञः> १ यागशब्दवदस्यार्थोनुसंधेयः । २ ज्ञानविशेषः । ३ क्रियाविशेषो वा । स च यागः सात्त्विकराजसतामसभेदेन त्रिविधः । तदुक्तं गीतायाम् (१) अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ (२) अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ (३) विधिहीन- मसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ ( गीता अ० १७ श्लो० ११ १३ ) इति । यज्ञो नानाविधः द्रव्य- यज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशित- व्रताः ॥ ( गीता अ० ४ श्लो० २८) इति । गृहस्थकर्तव्याः पञ्च महायज्ञा यथा [क] अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोतिथिपूजनम् ॥ ( गारुड० अ० ११५ ) इति । [ख ] देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च । ब्रह्मयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः ॥ तत्र च होमो दैवो बलिर्भूतः पित्र्यः पिण्डक्रिया स्मृतः । स्वाभ्यायो ब्रह्मयज्ञश्च नृयज्ञोतिथिपूजनम् ॥ (शङ्खस्मृतिः) इति । <यज्ञसूत्रम्> उपनयनसंस्कारेण पवित्रीकृतः सूत्रविशेषः । स च द्विजैर्धार्यो धर्मार्थम् । अत्र व्युत्पत्तिः यज्ञार्थं योग्यं संस्कृतं वा सूत्रम् ( शाक० त० ) इति । यज्ञेन संस्कृतमुपवीतम् इति वा ( वाच० ) । तत्स्वरूपमुक्तं यथा ऊर्ध्वं तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः ॥ (कालिकापु० अ० ४ ) इति । उपवीतमाह गोभिलः यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्जुमेव इति । मनुरपि कार्पासमुपवीतं स्याद्विग्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या- विकसौत्रिकम् ॥ ( मनु० अ० २ श्लोक० ४४ ) इति । नवतन्तुत्वं व्यक्तमाह देवल: यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तबः । एकेन ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोथ वा ॥ (मनु० टी० कुल्लू० २।४४) इति । यज्ञोपवीतधारणार्थं मन्त्रस्तु यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ ( बौधायन: ) इति । <यज्ञायज्ञीयम्> यज्ञायज्ञ इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञा- यज्ञीयम् (जै० न्या० अ० ९ पा० १ अधि० ९८ ) । <यज्ञोपवीतम्> यज्ञसूत्रशब्दवदस्यार्थोनुसंधेयः । <यत्> १ बुद्धिविशेषविषयः । अत्रार्थे यच्छन्दश्च तच्छब्दार्थनित्यापेक्षी । उत्तरवाक्यस्थस्तु न तदपेक्षी इति सामान्यतो विवेकः ( काव्यप्र० उ०७) । अत्र विशेषः यत्तच्छब्दार्थयोरन्वये च न समानविभक्तेस्तन्त्रता इत्याकरे द्रष्टव्यः । बुद्धिविशेषविषयश्च क्वचित् तत्पदप्रतिपाद्यतया वक्तबुद्धिविषय- तावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । यथा यो यो धूमवान् स वह्निमान् इत्यादौ यच्छब्दार्थः । अत्र तत्पदार्थस्तु स्वप्रयोजकबुद्धिविषयतावच्छेदक- त्वोपलक्षितधर्मावच्छिन्नः ( ग० श० टी० पृ० ११३ ) । वस्तुतस्तु स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयतावच्छेदकधर्मावच्छिन्ने यत्पदस्य शक्तिः कल्प्यते । अतो न यत्पदशक्ति ग्रहस्तत्पदशक्तिग्रहाधीनः इत्यन्योन्याश्रयः । इयं च व्युत्पत्तिः प्रक्रम्य माणपरामर्शकयच्छन्दस्य द्रष्टव्या (ग० शक्ति० टी० पृ० ११३ ) । यच्छन्दस्य खोत्तरप्रयोक्तपदोपस्थापितवाचीत्यर्थः इत्यपि तत्रैवोक्तम् । शाब्दिकास्तु तच्छन्दप्रतिपाद्यतया वक्तृबुद्धि विषय उद्देश्यो यत्पदार्थ इत्याहुः । कचित् स्वप्रयोजकबुद्धिविषयताव- च्छेदक स्वोच्चारकपुरुषोच्चरितस्व पूर्वपदोपस्थाप्यतावच्छेदकधर्मावच्छिन्नः । यथा चैत्रः समागतो यस्तत्रावलोकितः इत्यादौ । अत्र चैत्रादिपदेनाप्यु- पस्थितोर्थो यच्छब्देन बोध्यते । यथा वा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहस- मनुष्ठितं पुनः ॥ इत्यादौ । अत्र तत्पदासत्त्वेपि न दोषः । पूर्वप्रक्रान्त- स्यैव कृतशब्दोपस्थापितव्यापारस्याभेदेन मीलनान्वयितया यच्छब्देन बोधनात् । एवम् यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षै । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ ( कुमार० स० १ श्लो० २) इत्यादावपि (ग० शक्ति० पृ० ११४ ) । २ यस्मात् इत्यर्थः । ३ शाब्दिकास्तु कृत्तद्वितसंज्ञकः प्रत्ययविशेषः । यथा देयम् दिश्यम् इत्यादौ इत्याहुः । ४ गर्दा । ५ अवधृतिश्च इति काव्यज्ञा आहुः ( मेदिनी ० ) । <यत्तः> १ प्रयत्नशब्दवदस्यार्थोनुसंधेयः । २ आयासः इति काव्यज्ञा आहुः । ३ उद्योगः इति व्यवहारज्ञा वदन्ति । <यथा> १ येन प्रकारेण इत्यर्थः । २ सादृश्यम् । ३ योग्यता । ४ आनु- रूप्यम् । ५ पदार्थानतिवृत्तिः ( सि० कौ० ) । <यथार्थबुद्धिः> तद्वति तत्प्रकारकं ज्ञानम् । यथा घटे अयं घटः इति ज्ञानम्। इदं च लक्षणं स्मृत्यनुभवोभयसाधारणमपि भवति इति विज्ञेयम् । अत्र यायायै च फलवत्प्रवृत्तिजननयोग्यत्वम् ( त० कौ० १ पृ० ७ ) । तद्वति तदवगाहित्वं वा । सर्वोशे याथार्थ्य तु स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्तदनिरूपकत्वम् ( ग० २ हेत्वा० सामा० ) । <यथार्थवक्ता> (आप्तः ) प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयकता- त्पर्यवान् (वाक्य० ४ पृ० १९ ) । यथा आप्तवाक्यं प्रमाणशब्दः इत्यादौ सत्यवतीसुतव्यासो गौतमकणादौ च यथार्थवक्तारः । शाब्दबोधे याथायै च तद्वति तत्प्रकारकनिश्चयत्वमेवेति ज्ञेयम् । <यथार्थानुभवः> प्रमाशब्दवदस्यार्थोनुसंधेयः (कु० ४/१ ) (चि० ) ( त० सं० ) । <यदा> १ यस्मिन्काले इत्यर्थः । यथा यदा मनः पुरीतति प्रविशति तदा सुषुप्तिः इत्यादौ । २ शाब्दिकास्तु यच्छब्देन इत्यर्थ इत्याहुः । <यदि> १ पक्षान्तरम् । यथा अथ ज्ञानमात्रे त्वङ्मनः संयोगस्य यदि कार- णत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् (मु० १ पृ० ११५ ) इत्यादौ । २ संभावना । यथा यदि स्यादुपलभ्येत्येवं यत्र प्रसज्यते ( भा० प० श्लो० ६३ ) इत्यादौ संभावनाद्योतको यदि शब्दः । ३ गर्छौ । ४ विकल्पः ( मेदिनी० ) । ५ असंदेहे संदेह- वचनम् (श्रीधरः ) । यथा यद्येषोपरता देवी ( भाग० १/३/३४) इत्यादौ यदिशब्दस्यार्थः । <यदृच्छा> १ स्वातन्त्र्यम् । २ स्वैरता । यथा यदृच्छालाभसंतुष्ट: ( गीता ० ४।२२ ) इत्यादौ । अत्रार्थे प्रमाणम् स्वेच्छा यदृच्छा स्वच्छन्दः । चेति ते समाः ( केशवः ) इति । ३ भगवदिच्छा । यथा यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ( गीता ० २।३२ ) इत्यादौ इति वेदा- न्तिन आहुः । <यदृच्छाशब्दः> जातिगुणक्रियाद्यवाचकः संज्ञाशब्दः । यथा डित्थ इत्यादि- शब्दः । तदुक्तं काव्यप्रकाशे डित्यादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृत स्वरूपं वा यदृच्छया डित्यादिष्वर्थेषूपाधित्वेन निवेश्यते इति संज्ञारूपो यदृच्छात्मकः इति । गौः शुक्कुश्चलो डिस्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः इति महाभाष्यकाराः ( काव्य० प्र० उ० २ पृ० १२ ) । अत्रोदाहरति असंपादयतः कंचिदर्थे जातिक्रियागुणैः । यदृच्छाशब्दव- पुंसः संज्ञायै जन्म केवलम् ॥ इति । जात्यादिप्रवृत्तिनिमित्तशून्य इच्छाप्रकल्पितः इत्यर्थ: ( माघ० टी० स० २ श्लो० ४७ ) । <यद्वा> १ बुद्धौ संक्षिप्तार्थविषयीकरणम् । २ पक्षान्तरम् । पूर्वकल्प- शैथिल्यप्रयुक्तारुच्या कल्पान्तरबोधनम् इति यावत् । यथा यद्वाभ्युदय योग्यता ( भर्तृहरिः ) इत्यादौ । <यमः> अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः इति ( सर्व० सं० पृ० १३८ पात० ) । <यमद्वितीया> कार्तिक शुक्लपक्षस्य द्वितीयायां तु नारद । यमो यमुनया पूर्व भोजितः स्वगृहेचिंतः ॥ अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ( पु० चि० पृ० ८३ ) । <यवनम्> पिष्टस्योदकमिश्रणम् (जै० न्या० अ० १० पा० १ अधि० ११) । <याग:> [क] प्रीत्यवच्छिन्न समन्त्रकद्रव्यत्यागः । यथा पुष्पेण विष्णुं यजते इत्यत्र यजेरर्थः । अत्र प्रीतौ विष्णोराधेयत्वेन द्रव्ये च पुष्पादेर- भेदेनान्वयः। तेन विष्णुनिष्ठप्रीतिहेतुर्यो मन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागः तद्वान् इत्याकारकस्तत्र बोधः । अथवा स्वत्वध्वंसजनकेच्छापर्यवसन्नस्य त्यागस्यैकदेशे स्वत्व एव पुष्पादेराधेयत्वेन तत्रान्वयः । तेन द्रव्येण विष्णुं यजते इत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दान्वयासंभवेपि न क्षतिः (श० प्र० श्लो० ७२ टी० पृ० १०८) । अथवा विष्णुं यजत इत्यादौ द्वितीयार्थ उद्देश्यत्त्रम् । तच्च तस्येदम् इत्यारोपज्ञान विषयत्वम् । देवतायाः स्वत्वोपगमे तु न दानत्वं यागत्वव्याप्यम् । होमत्वं यागत्व- व्याप्यम् इति सर्वजनसिद्धम् । देवपूजनमपि याग एव इति ( का० व्या० का० ४ पृ० ५ ) । [ख ] देवतोद्देशेन हविस्त्यागः ( म० प्र० ४ पृ० ५३ ) । [ग] देवतोद्देश्यकद्रव्यत्यागात्मकेच्छाविशेषः ( ग० व्यु० का० ३ पृ० ८१ ) । यथा दर्शपूर्णमासाभ्यां यजेत ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ च यज्धात्वर्थः । अत्रेदमधिकं ज्ञेयम् । दर्शपूर्णमासाङ्गानि प्रयाजादीनि । तंत्र प्रयाजाश्च पञ्च समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजति इत्येवंरूपाः श्रुत्युक्ताः (काव्या० श्रौ० ३।२।१२।१७ ) । अङ्गं द्विविधम् आरादुपकारकम् संनिपत्योपकारकं च । तत्राद्यम् प्रयाजः अनुयाजः सूक्तवाकः शंयुवाकः पत्नीसंयाजः इति । द्वितीयम् अन्यन्वाधानम् इध्माबर्हिषोः संभरणम् इत्यादि । [ घ ] देवतोद्देश्यक स्वस्वत्वध्वं सफलक- स्त्यागो यागः इति वाचस्पतिमिश्रा आहुः । अत्र यागत्वं च देवतोद्देश्यक- स्वस्वत्वध्वंसवद्द्रव्यविशेष्यकेच्छात्वम् इति संप्रदायः । अत्र देवतोद्देश्यकत्वं च देवतास्वत्ववद्विशेष्यकत्वम् । शब्दमयी देवता इति पक्षे तु तस्या ८४. न्या० को इदम् इत्यारोपज्ञान विषयत्वमुद्देश्यत्वम् इति बोध्यम् । यागत्वं मानसप्रत्यक्ष- गम्यो जातिविशेषः इत्यन्य आहुः । अपरे तु श्राद्धस्य पित्रपेक्षया याग- त्वेन ब्राह्मणापेक्षया तु दानत्वेन तत्र सांकर्यान्न यागत्वं जाति- विशेष इत्याहुः ( दि० गु० धर्मनि० पृ० २३४ ) ( का० व्या० का० ४ पृ० ५) । [ङ ] हविःप्रक्षेपात्मको व्यापारः । यथा याजका यजन्तीत्यादौ धात्वर्थः । अत्र च ऋजिमेव स्वातत्र्यम् न तु यज- मानस्य । एवं च यागपदस्यायं लक्ष्यार्थ एव इति ज्ञेयम् ( ग० व्यु० का० ३ पृ० ८१ ) । <यागकालः> पर्वणो यश्चतुर्थोश आद्याः प्रतिपदस्त्रयः । यागकाल: स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥ ( पु० चि० पृ० ३१९) । <याचनम्> कस्वोद्देश्यकदानेच्छा । यथा पौरवं गां याचते विप्र इत्यादौ याच्यात्वर्थः । अत्र प्रधानकर्मगवाद्यन्वितद्वितीयार्थो विषयत्वम् । तस्य धात्वर्थतावच्छेदकदाने निरूपकत्वसंबन्धेन अन्वयः । पौरवपदो- त्तरद्वितीयायास्तु वृत्तिरेवार्थः । तस्या दानेन्वयः । अत्रेदं विज्ञेयम् । सविषयकज्ञानादिरूपविषयोपहितेच्छाबोधक धातुस्थल इच्छाविषयविषय- त्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । पौरवस्य तु तादृशदानाश्रयत्व मेवा प्रधानकर्मत्वम् इति । भिक्ष्यर्थोप्येवमेव बोध्यः ( ग० व्यु० का० २ पृ० ४५) वैयाकरणाः समुत्तिष्ठन्ते । यत्तु स्वोदेश्यकानेच्छाम् तन्न । पुत्रार्थ कन्यां याचने इत्यनापत्तेः । स्वसंप्रदानकदा नेच्छावत फलालाभशङ्कया देहि इत्यवदत्यपि तथा प्रयोगापत्तेश्च इति ( ल० म० सुबर्थ० का० २ पृ० ९२ ) । [ ख ] शाब्दिकास्तु स्वामित्व निवृत्ति स्वस्वत्वोत्पत्ति एतदुभयानुकूल: दीयताम् इत्यभिलापरूपो दिदा पयिषाव्यञ्जको व्यापारः । यथा बलिं याचते वसुधामित्यादौ याचेरर्थः इत्याहुः । २ स्वीकारानुकूलो व्यापारः । यथा अविनीतं विनयं याचते इत्यादौ याचेरर्थः । स्वीकारश्च इदमवश्यं करिष्यामि इत्यभिलापादि ० का० २ १० ९२ ) । जनको ज्ञानविशेषः ( ल० म० सुबथे० का० २ ३ व्यापारजन्यत्व प्रकारकेच्छा । यथा याचमानः शिवं सुरानित्यादौ याच्या । अत्र धात्वर्थेच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः । व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयान्तार्थस्यान्वयः । तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रयः इत्यन्वयबोधः ( ग० व्यु० का० २ पृ० ४५ ) । शिष्टं तु प्रार्थनाशब्दव्याख्याने दृश्यम् ( श० प्र० श्लो० ७३ टी० पृ० ११२) । <याचितम्> विवाहायुत्सवेषु वस्त्रालंकारादि याचित्वा नीतम् ( मिताक्षरा अ० २ श्लो० ६७ )। <यातयामः> प्रतिपदंशास्त्रयो भूताः पादश्चैकश्च तिष्ठति । यातयामः स विज्ञेयो न हि भस्माने हूयते ॥ ( पु० चि० पृ० ३१९)। <याथार्थ्यम्> सत्यत्वम् वास्तविकत्वं वा । <यापनम्> १ नयनशब्दबदस्यार्थोनुसंधेयः । २ कालादेः क्षेपणम् । ३ निरसनम् । <याम्यम्> भरणी ( पु० चि० पृ० ३०६ ) । <यावत्> १ मर्यादा । सा च कालरूपा देशरूपा चेति द्विविधा । तत्र कालरूपा सीमा यथा आरभ्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वत - राजपुत्रीम् इत्यादौ यावदर्थो मर्यादा । देशरूपा सीमा यथा काशीतः कौशिकीं यावद्याति इत्यादौ यावदर्थो मर्यादा । २ अभिविधिः । यथा कार्तिकमारभ्य चैत्रं यावच्छीतं भवति इत्यादौ काशीतः पाटलिपुत्रं यावद्वृष्टो देवः इत्यादौ च यावदर्थोभिविधिः । आशब्दोपि यावत्- शब्दवदेव व्याख्येयः । किंतु तद्योगे पञ्चमी साधुः ( ग० व्यु० का० २ ख० २ पृ० ७४ - ७६ ) । अधिकं च मर्यादा अभिविधि एतच्छब्दव्याख्याने संपादितम् तत्तत्र द्रष्टव्यम् । <यावत्वम्> १ अपेक्षाबुद्धिविशेषविषयत्वम् ( त० प्र० २ ) । यथा यत्समानाधिकरणा यावन्तोभावाः ( दीधि० २ चतु० ) इत्यादौ यावत्त्वम् । २ व्यापकत्वम् ( ग० सिद्धा० ) । यथा यावन्तो घटा रूपवन्तः इत्यादौ । यथा वा यावन्तो मनुष्या मरणशीला इत्यादौ । अत्राद्ये घटत्वव्यापकरूपवन्तः इत्यन्वयबोधो जायते । अन्त्ये मनुष्यत्व- व्यापकत्वं मरणशीलत्वे बोध्यते इति विज्ञेयम् । ३ व्यासज्यवृत्तिर्धर्म- विशेषः । यथा सर्वे घटा रूपवन्त इत्यादौ सर्वशब्दप्रवृत्तिनिमित्तं घटनिष्ठं यावत्वम् । इदं च उद्देश्यतावच्छेदकघटत्वव्यापिका विधेयरूप- व्याप्या च या पर्याप्तिः तादृशपर्याप्तिकं भवति इति विज्ञेयम् ( ग० शक्ति० पृ० ९३ ) । ४ साकल्यम् ( अशेषत्वम् ) । ५ अवधित्वम् । ६ मानत्वम् (मर्यादात्वम् ) । ७ अवधारणत्वम् ( अमरः ) । <यावद्द्रव्यभावित्वम्> स्वाश्रयनाशजन्यनाशप्रतियोगित्वम् ( दि० ११२ आकाशनि० पृ० ८८) । यथा घटादिवृत्तिरूपादेर्याबद्दव्यभावित्वम् । अत्र घटस्य नाशे तद्गतरूपस्यापि नाशः इत्यनुभवो मन्तव्यः । स्वपदार्थो रूपम् । तथाच स्वम् घटस्य रूपम् । तस्याश्रयो घटः । तस्य नाशः । तादृशनाशजन्यो नाशः रूपनाशः । तस्य प्रतियोगित्वं रूपे इति लक्षणसमन्वयः । शब्दज्ञानादीनां तु न तादृशम् यावद्रव्यभावित्वम् इति अतो नातिव्याप्तिः । तथा चोक्तम् अयावद्रव्यभावित्वेनैव शब्दा- दीनां वायुविशेषगुणत्वं नास्ति (मु० १ आकाशनि० पृ०८८) इति । <युक्तः> १ यत्किंचित्प्रतियोगिकसंबन्धानुयोगी। यथा भूतलं घटेन युक्त मित्यादौ । २ उचितम् । यथा युक्तमुच्यते इत्यादौ । ३ योगशास्त्रज्ञास्तु १० ६७ ) । अथवा प्रथमप्रत्त्यासत्त्या निरन्तरमखिलपदार्थज्ञानवान् योगाभ्यासवशात्सर्वदा सकलविषयकज्ञानवान् योगी ( भा० प० इत्याहु: ( सि० च० १ पृ० २३ ) । अत्रेदं बोध्यम् । युक्तस्य योगजधर्मसहायेन मनसाकाशपरमाण्वादिनिखिलपदार्थगोचरं ज्ञानं सर्वदैव ध्यानाद्यभावेपि भवितुमर्हति ( मु० १ पृ० १३३ ) ( प्रशस्त ० बुद्धिनि० पृ० ४३ ) इति । <युक्तिः> १ साधकबाधकप्रमाणोपन्यासः ( त० प्र० १ ) ( म०प्र० पृ० ३ ) । २ अनुमानम् । तच्च साध्यसाधक लिङ्गज्ञानम् । न्यायः इति मीमांसका आहुः । अत्रोच्यते श्रुत्योर्विरोधे न्यायस्तु बलवानर्थनिर्णये । युक्तिहीन विचारे तु धर्महानिः प्रजायते ॥ इति । ३ लिङ्गोदेश: (लिङ्ग- निश्चयः ) इति व्यवहारशास्त्रज्ञा आहुः ( वीरमि० लेख्य० पृ० २२२ ) । व्यवहारे कानिचिलिङ्गानि नारदेनोक्तानि यथा उल्काहस्तोग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥ कुद्दाल- पाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्तितः ॥ प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥ ( वीरमित्रो० लेख्यनि० पृ० २२३ ) इति । ४ नाटकाङ्ग- विशेषः इत्यालंकारिका आहुः । तदुक्तम् संप्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः ( सा० द० परि० ६ श्लो० ३४३ पृ० १०५ ) इति । <युगम्> १ ( अनुवत्सरशब्दे दृश्यम् ) । २ चतुर्थी (पु० चि० पृ० ३०) । <युगादिः> द्वे शुक्ले द्वे तथा कृष्णे युगादी कत्रयो विदुः । नवमी कार्तिके शुक्ला तृतीया माधवे सिता । अमावास्या तपस्ये च नभस्ये च त्रयोदशी ॥ ( पु० चि० पृ० ८६) । <युग्मम्> द्वितीया ( पु० चि० पृ० ३७ ) । <युञ्जानः> १ [ क ] चिन्तासहकारेण सकलज्ञानवान् योगी ( भा०प० श्लो० ६७ ) । [ ख ] चिन्ताविशेषसनाथद्वितीय प्रत्यासत्त्या समय- विशेषे ज्ञानवान् ( सि० च० १ पृ० २३ ) । अत्र युक्तपदार्थघटक- प्रथमप्रत्यासत्तिमपेक्ष्य द्वितीय प्रत्त्यासत्तिः इत्यनुसंधेयम् । २ रथसारथिः । ३ विप्रः इति काव्यज्ञा आहुः ( वाच० ) । <युतसिद्धिः> [ क ] द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् युताश्रयाश्रयित्वं वा (वै० उ० ७।२।९ ) ( प्रशस्त० पृ० १७ ) । यथा मेषयोः घट- भूतलयोर्वा युतसिद्धिः । [ ख] असंबन्धयोर्विद्यमानत्वम् पृथगाश्रया- श्रितत्वं वा (वै० उ० ७१२ १३ ) । [ग] परस्परसंबन्धशून्ययोर- वस्थानम् (३० वि० ७।२।१३ ) । युतसिद्धिश्च संयोगं प्रति प्रयोजि- कास्ति (वै० उ० ७/२/९ - १३ ) ( प्रशस्त० पृ० १७) । अत्रेदं बोध्यम् । अण्वाकाशयोराश्रयान्तराभावेप्यन्यतरस्य पृथग्गतिमत्त्वात्संयोग- विभागौ सिद्धौ । तन्तुपटयोरनित्ययोः पृथगाश्रयान्तराभावात्परस्परतः संयोग विभागाभावः । दिगादीनां तु पृथग्गतिमत्त्वाभावात्परस्परेण संयोग- विभागाभाव इति । त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति । युतेष्वाश्रयेषु समवायो नास्तीति परस्परेण संयोगः सिद्धः ( प्रशस्त० गु० पृ० १९ ) । <युष्मद्> संबोध्यचेतनः । अधिकं तु त्वम्शब्दार्थे दृश्यम् । <युपः> शास्त्रीयच्छेदनतक्षणा दिक्रियाश्रयः ( जै० न्या० अ० ७ पा० ३ अधिo ० ११) । <योग:> १ संबन्धः । २ [ क ] समुदायशब्दस्य अवयवशक्तिः ( त० दी० ४ ) (नील० ४ पृ० ३१ ) ( सि० च० ४ । ३१ ) । यथा पाचकादिपदेषु योगः । अत्र च पाचकादिपदात् पचति इति व्युत्पत्त्या पाककर्ता बुद्ध्यते इति बोध्यम् । अत्र योगबलं समाख्या इति मीमांसका बदन्ति (वाच० ) । [ ख ] वैयाकरणास्तु शास्त्रकल्पितावयवार्थमात्र बोधप्रयोजको योगः ( शक्तिः ) । यथा पाचकादौ इत्याहुः ( ल० म० आकाङ्क्षादिवि० पृ० १२ ) । ३ [क ] चित्तवृत्तिनिरोधः इति योगिन आहुः ( पात० पा० १ सू० २ ) । [ ख ] क्लेशकर्मविपाकाशय- परिपन्थिचित्तवृत्तिनिरोधो योगः ( सर्व० सं० पृ० १३२ पात० ) । अत्रेदं बोध्यम् । विषयेष्वलंप्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो व्यावृत्तं मनो यदा आत्ममात्रनिष्ठं भवति तदा तस्कर्मानुगुणप्रयत्नाभावात्कर्म मनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः (वै० उ० ५ । २ । १६ )। अथ वा आत्मस्थे मनसि षडङ्गयोगेन इन्द्रियादिकं परित्यज्य मनो यदा आत्ममात्रे तिष्ठति तदा मनःकर्मणोनुत्पादः तदा मनो निश्चलं भवति । तदवस्थायां शरीरावच्छेदेन दुःखं न जायते । स आत्मना बाह्यव्यावृत्त- मनसः संयोगो योग उच्यते । षडङ्गानि स्कन्दपुराणे उक्तानि यथा आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ (वै० सू० ५/२/१६) (वै० वि० ) इति । यद्वा इन्द्रियाणि विषयेभ्यः प्रत्याहृत्येन्द्रियेभ्यो मनः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनःप्रणिधानं योगः ( नील० ) इति । स च योगो द्विविधः । राजयोगः हठयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हठयोगस्तु तन्त्रशास्त्रोक्तः । प्रकारान्तरेणापि योगो द्विविधः संप्रज्ञातः असंप्रज्ञातश्चेति । तथा योगस्त्रिविधः ज्ञानयोगः कर्मयोगः भक्तियोगश्च (भाग० स्क० ११. अ० २० श्लो० ६) इति । इदं च बोध्यम् । षष्ठभगवदवतारो दत्तात्रेयः । सच आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ( भाग ० १ । ३ । १२ ) । तेन च स्वसंहितायां योगोनुशिष्टः इति । ४ उपायः । ५ युक्तिः । ६ जीवात्मपरमात्मनोः संबन्धः इति केचिद्वेदान्तिन आहुः । तदुक्तम् योगं संयोगमित्या हुर्जीवात्मपरमात्मनोः इति ( वाच० ) । ७ देवतानु- संधानं योगः इति रामानुजीयाः नारदपञ्चरात्रविद: आहुः ( सर्व० पृ० ११७ रामा० ) । ८ अप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः । यथा योगाचारः इत्यादौ इति बौद्धा आहुः । ९ शब्दादीनां प्रयोगः इति वैयाकरणा आहुः । १० भेषजम् इति भिषज आहुः । ११ योगः कर्मसु कौशलम् इति कर्मकर्ता रोङ्गीचक्रुः । १२ छलम् ( उपधि: ) इति व्यवहारशास्त्रज्ञा आहुः । अत्र स्मृति: योगाधमनविक्रीतं योगदान- प्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्वे विनिवर्तयेत् ॥ ( याज्ञ० अ० २ श्लो० १८१ टी० मिता० पृ० ९४ ) इति । योगः कपटम् इति मनुः ( ८।१६५) । १३ रविचन्द्रयोगाधीना विष्कम्भादयः सप्तविंशतिः पदार्थाः इति ज्योतिषज्ञा आहुः । १४ तिथिवारनक्षत्राणां संबन्धविशेषः। यथा सिद्धियोगः अमृतसिद्धियोगः अर्धोदययोगः दग्धयोगः इत्यादिः इति मौहूर्तिका आहुः । १५ लग्नादिगृहविशेषे स्थितो ग्रहविशेषः । यथा राजयोगः नाभसयोगः इत्यादिः इति कार्तान्तिका आहुः । १६ यात्रा- याम् आलग्नात् केन्द्रत्रिकोणस्थितो बुधजीव शुक्राद्यन्यतमः इति ज्योति:- शास्त्रज्ञा आहुः । तदुक्तम् एको ज्ञेज्यसितेषु पञ्चमतपःकेन्द्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः । योगे क्षेममथाधि- योगगमने क्षेमं रिपूणां वधः (मु० चि० ) इति । १७ कामुककामिनी- संमेलनं योगः इत्यालंकारिका वदन्ति । १८ चित्तद्वारेणात्मेश्वरसंबन्धो योगः ( सर्व० सं० पृ० १६९ नकुली० ) । <योगक्षेमः> १ अनुभवमनुरुध्य वस्तुस्थितिसंगमनम् । यथा भूतले न घटः इत्यादौ घटांशे भूतलवृत्तिस्वाभावः संगम्यते इति । अत्र च भूतले घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतलवृत्तित्वावगा हिरवस्यानु- भवसिद्धतया भूतले न घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतल - वृत्तित्वाभावोवश्यमभ्युपगन्तव्यः इति । इदमत्राकूतम् । भूतले न घटः इति वाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घटः इत्यादि- वाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितया नञ्- पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहारा - द्भवति तादृशसमभिव्याहारस्थले नञ्सचे तत्र धर्मिणि तदभावः प्रतीयते इति नियमोङ्गीकर्तव्यः । अयमेव प्रतियोग्यभावान्वयौ तुल्यौ । इति न्यायस्यार्थः इति (गा० व्यु० का० १) । यथा वा प्रवृत्तिं प्रतीष्ट- साधनताज्ञानस्य हेतुतायां प्रविष्टा योगक्षेमसाधारणी साधनता । नैयापि- कमते संध्यावन्दनादिनित्यकर्मणामर्थवादोपस्थापितब्रह्मलोकावाप्तिप्रत्यवा यानुत्पत्तिरूपफलकल्पनेन तादृशफलस्य तु स्वतः पुरुषार्थत्वाभावेन तत्रेच्छानुत्पत्तौ कथं तादृशकर्मसु प्रवृत्तिः इत्याशङ्कायाः समाधानप्रसङ्गे नेत्थमुक्तम् । यथा हि नित्ये कृते प्रत्यवायप्रागभावस्तिष्ठति तदभावे तदभावः एवम् प्रत्यवायाभावसत्त्वे दुःखप्रागभावसत्त्वम् तदभावे तदभावः ( दुःखरूपः ) इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यप सुवचत्वात् इति । अत्र योगे अप्राप्तप्राप्तौ क्षेमः सिद्धस्य रक्षणम् इत्यर्थोनुसंधेय: ( दि० गु० विधिनि० पृ० २२८) । २ वेदान्ति- नस्तु अलभ्यलाभसहितं लब्धपरिरक्षणम् । यथा अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ( गीता० अ० ९ श्लो० २२) इत्यादी इत्याहुः । अत्रार्थे योगश्च च इति समाहारद्वन्द्वो ज्ञेयः । <योगजः> ( संनिकर्षः ) योगाभ्यासजनितो धर्मविशेषः । स चादृष्टविशेषः । अयं चालौकिके योगिप्रत्यक्षे कारणभूतः अलौकिकसंनिकर्षविशेषः । सच युक्तयुञ्जानेति द्विविधयोगिभेदतो द्विविध: ( भा०प० श्लो० ६६) ( सि० च० ) । तत्र युक्ताख्ययोगिनो योगजधर्मसंनिकर्षेण वस्तुमात्रस्य अन्यात्मनाम् अतीन्द्रियाणामपि आकाशदिक्कालपरमाणुवायुमन साम् तत्समवेतगुणकर्म सामान्यविशेषाणां समवायस्य च सर्वदा प्रत्यक्षं जन्यते । युञ्जानाख्ययोगिनस्तु चिन्तया प्रत्यक्षं जन्यते (मु० १) (त० कौ० ) इति । तथा च एकत्र ध्यानापेक्षा अन्यत्र तु ध्यानापेक्षा नास्ति ( त० व० ) ( प्रशस्त० गु० पृ० ४३ ) । <योगरूढम्> ( नाम शक्तपदं वा ) [ क ] यत्र पदे अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तत् (मु० ४ पृ० १७९ ) । अत्र व्युत्पत्तिः योगो रूढिश्चैते एकसजातीयार्थबोधकतया स्तोस्य (अच् ) इति । [ ख ] अवयव समुदाय एतदुभयशक्ति कमेकजातीयार्थप्रतिपादकं पदम् ( सि० च० ख० ४ पृ० ३१ ) । [ग] योगरूढिभ्यां परस्परसह- कारेणार्थप्रतिपादकं पदम् । यथा पङ्कजादिपदम् (नील० ४ पृ० ३१ ) । एवम् धेनुपदं च ( त० प्र० ४ पृ० ३२ ) । अत्र च पङ्काज्जायते इत्यवयवशक्त्या पङ्कजनिकर्तृत्वेन रूढिशक्त्या च कमलत्वेन कमलं बोधयतीति पङ्कजपदं योगरूढम् ( सिं० च० ४ पृ० ३१ ) । तथा च समुदायशक्त्या ( रूढिशक्तया) उपस्थिते पद्मे अवयवार्थपङ्कजनि- कर्तुरभेदेनान्वयो भवति इति मणिकृन्मतम् ( श० प्र० श्लो० २७ ) । तेन पङ्कजातेपि कुमुदादौ स्थलपद्मे च न पङ्कजपदप्रयोगप्रसङ्गः इति मणिकृन्मताभिप्रायः (त० प्र० ४ पृ० ३१ ) । अत्रायं विशेषो ज्ञेयः । यत्र रूट्यर्थस्य बाधः प्रतिसंधीयते कुमुदत्वेन बोधे च तात्पर्यम् तत्र लक्षणया कुमुदादेर्बोध: । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्य- ज्ञानम् पद्मत्वस्य च बाधः तत्रावयवशक्तिमात्रेण कुमुदबोधनिर्वाहः । यत्र तु स्थलपद्मादाववयवार्थबाधः तत्र समुदायशक्तया पद्मत्वेन रूपेण बोधः । यदि तु स्थळपद्मं विजातीयमेव तदा पङ्कजपदालक्षणयैव स्थल- पद्मबोध: (मु० ४ पृ० १८०) इति । [घ] यन्नाम स्वावयववृत्ति- लभ्यार्थेन समं स्वार्थस्यान्वयबोधकृत् तन्नाम योगरूढम् । यथा पङ्कज कृष्णसर्प अधर्म इत्यादिपदम् । तद्धि स्वान्तर्निविष्टानां पङ्कादिशब्दानां वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकम् । पङ्कजम् इत्यादितः पङ्कजनिकर्तृ पद्मम् इत्यनुभवस्य सर्वसिद्धत्वात् । रूढपदास्वयं विशेषः । यद्रढमपि मण्डपरथकारादिपदम् तत् योगार्थ- ८५ न्या० को० विनाकृतस्य रूट्यर्थस्येव रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं भवति । मण्डपे शेत इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजये - दित्यादौ समुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात् । योगरूढं तु पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या चावयवलभ्यार्थमेवानु- भावयति न त्वन्यम् ( श० प्र० लो० २५ टी० पृ० ३२) इति । योगरूढं द्विविधम् समासात्मकम् तद्धिताक्तं चेति । तत्र समासात्मकं कृष्णसर्पादि । तद्धिताक्तं तु वासुदेवादिपदम् । कृदन्तस्य पङ्कजादि- योगरूढस्य सामासिक एवान्तर्भावः इति नाधिक्यम् ( श० प्र० श्लो० २८ टी० पृ० ३७) । <योगरूढिः> (पदशक्तिः ) [क] शब्दस्य वृत्तिविशेषः । यथावृत्त्या पङ्कजनिकर्तृत्व विशिष्टपद्मस्य बोध: ( हेमचन्द्र ) । यथा पङ्कजब्राह्मणा दिपदे योगरूढिः । अत्र व्युत्पत्तिः योगेन सहिता रूढिः इति (नील० ४ पृ० ३१ ) । अत्र विप्रतिपत्तिः । पङ्कजादिपदानां योग एव इत्येके बदन्ति । रूढिः इत्यपरे वदन्ति । योगरूढिः इति गौतमीयाः आहुः । ( न्या० सि० दी० पृ० ४२ ) । अयं भावः । पङ्कजपदात् पद्मत्व- विशिष्ट प्रतीतये पद्मत्वविशिष्टे पङ्कजसमुदायस्य रूढिरावश्यकी । पदा- नियतोपस्थितेर्वृत्तिसाध्यत्वात् । पङ्कजपदाद्योगेन कुमुदस्यापि बोध ख० ४ ५० २९) । अत्रायं विशेषः । यत्र योगार्थान्वितरूढ्यर्थाव प्रसङ्गाच्च । मन्मते कदाचित्कुमुदबोधस्तु लक्षणयैव इति ( त० प्र० बोधः तत्र सर्वत्र योगरूढिः । यौगिकार्थबुद्धिरूपसहकारिलाभा- [ख] वैयाकरणास्तु यत्र शास्त्रकल्पितावयवार्थान्चितविशेष्यभूतार्थ- शिष्टावं रूढेर्योग रूढित्वम् (न्या० सि० दी० पृ० ४८ ) । निरूपितं समुदाये बोधकत्वम् सा योगरूढिः । यथा पङ्कजाि इत्याहुः । अत्र पङ्कजनिकर्तृ पद्मम् इति बोधात् पद्मस्यानुपपत्तिप्रति संधानं संबन्धप्रतिसंधानं च विना बोधान्न तत्र लक्षणाया अवसरः क्वचित् तात्पर्य ग्राहकवशात् केवलरूढ्यर्थस्य केवलयोगार्थस्य च यथा भूमौ पङ्कजमुत्पन्नं कल्हारकैरवमुखेष्वपि पङ्कजेषु इत्यादौ ( म० आकाङ्क्षादिवि० पृ० १२ ) । <योगशास्त्रम्> सांख्यप्रवचनापरनामधेयं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम् ( सर्व० सं० ३३१ पातञ्ज० ) । <योगाङ्गानि> यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गा- नि योगस्य ( सर्व० सं० पृ० ३४७ पात० ) । <योगाचारः> ( बौद्धः) क्षणिक विज्ञानवादी बौद्धविशेषः । गुरूक्तभावना- चतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति पर्यनुयोगस्य करणास्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ० ) । योगाचारमतं तु बौद्धशब्दव्याख्यानावसरे ( पृ० ६०९) संक्षेपतः संपादितम् । <योग्यता> कार्य विशेषजनने सामर्थ्यम् । तच्च १ [क] एकपदार्थे अपर पदार्थप्रकृतसंसर्गवत्त्वम् ( न्या० म० ४ पृ० २२ ) । इयं योग्यता च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवयिते । इयं योग्यता अयोग्यवाक्यनिरासिका च भवति । अत एव वह्निना सिञ्च- तीत्यादिवाक्यान्नान्वयबोधः प्रमात्मको भवति । योग्यताविरहात् ( त० कौ० ) ( त० सं० ) । [ ख ] इतरपदार्थसंसर्गे अपरपदार्थ- निष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । [ग] बाधकप्रमाणा- भावः । [ घ ] बाधकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरपदार्थ- निष्ठात्यन्ताभावप्रतियोगित्व प्रमाविशेष्यत्वाभावः ( चि० ४) । निष्कृ- टार्थस्तु तदीयान्वयितावच्छेदकसंबन्धे तन्निष्ठात्यन्ताभावप्रतियोगित्व- प्रकारकप्रमाविशेष्यत्वसामान्याभावः इति । तेन वहिना सिञ्चति इत्यादौ वह्निनिष्ठकरणताया निरूपक स्वरूपान्वयितावच्छेदकसंबन्धे सेकनिष्ठा- त्यन्ताभाव प्रतियोगित्वप्रकारकप्रमा विशेष्यत्वस्यैव सरखान्नातिव्याप्तिः ( मा० शब्द० ) । यथा प्रमेयं वाच्यमित्यादौ योग्यता (चि० ४) (तर्का० ४ पृ० १० ) । [ङ ] अबाधितार्थकत्वम् ( ग० अव० ) । [च ] अर्थाबाधः (त० सं० ४) । यथा जलेन स्थलं सिञ्चतत्यादौ योग्यता ( न्या० म० ४ पृ० २२ ) । अत्र जले सेकसंसर्गस्य कार्यकारण- भावलक्षणस्य सत्त्वाद्योग्यता ( प्र० प्र० ) ( त० कौ० ) । अथवा सेकनिरूपित कार्यकारणभावलक्षणसंसर्गस्य जले सत्त्वायोग्यता ( म० प्र० ४ पृ० ५६ ) । [ छ ] बाधनिश्चयाभावो योग्यता इति नव्या आहुः (नील० ख० ४ पृ० ३२ ) । [ ज ] परे तु असंसर्गग्रहः प्रतिबन्धकः । तदभावो योग्यता । सा च स्वरूपसती हेतुः न तु ज्ञाता इत्याहुः ( न्या० म० ४ पृ० २३ ) । तदर्थश्च पयसा सिञ्चतीत्यादौ पयः सेककरणतावन्न वा इत्यसंसर्गग्रहः शाब्दबोध प्रतिबन्धकः । तदभाव स्तत्र योग्यता इति ( म० प्र० ४ पृ० ५७ ) । झ ] अन्वयविरोधि रूपविरहो योग्यता इत्यन्य आहुः । [ञ ] अन्वयप्रयोजकरूपवत्वम् इति प्राभाकरा आहुः ( दीधि० प्रामा० ) । सेकान्वयप्रयोजकं द्रव- द्रव्यत्वं जलेस्तीति तद्योग्यम् । वह्नौ च नास्तीति तदयोग्यम् इति प्राभा- कराभिप्राय: ( न्या० म० पृ० २९ ) । ट] अपरे तु तद्धर्मावच्छित्रे तद्धर्मावच्छिन्न रूपवत्वम् इत्याहुः (मा० श० ) ( भा०प० श्लो० ८४) । अत्र नीलकण्ठ आह एकपदार्थे अपरपदार्थवत्त्वं योग्यता इति मते संशय- निश्चयसाधारणतज्ज्ञानत्वा वच्छिन्नशाब्दधीहेतुः । बाधनिश्चयाभावो योग्यता इति नवीनमते तु स्वरूपसत्येव योग्यता तद्धेतुः इति (नील० ख०४० ३२) । [ठ] केचित्तु तत्सजातीये तत्सजातीयस्य संसर्गनिश्चयः इत्याहुः । अस्ति च पयसा सिञ्चतीत्यादौ प्रकृतसेकसजातीयेतर करण कसेके सिञ्चतीत्यादौ तु सेकसजातीये कापि सेके वह्निकरण कत्व सजातीयस्य क प्रकृतपयःकरणकत्वसजातीयस्य पयःकरणकत्वस्य संसर्गनिश्चयः । वहिना स्यापि वह्निकरणकत्वस्य संसर्गनिश्चयो नास्ति । बाधितत्वात् (मा० श० ) । २ [ क ] प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भकसमवहितत्वम् ( मू० म० १) । न्यायमते योग्यानुपलब्धिरभावप्रत्यक्षे इन्द्रियस्य सहकारिणी । न तु भट्टमते इव प्रमाणान्तरम् । तथा च इयं योग्यता प्रतियोग्युपल- चिन्तामणिकृन्मतेन च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जित प्रतियोगिकत्वम् । म्भाभावात्मकानुपलब्धिनिष्ठा अनुपलब्धियोग्यता इति व्यवद्दियते । [ख] तदर्थश्च प्रतियोगिनः घटादेः सत्त्वस्य यत्प्रसञ्जनम् आपादनम् । यद्यत्र घटः स्यात् इत्याहार्यारोप इत्यर्थः । तेन प्रसञ्जितः आपादितः । तर्छु- पलभ्येत इति भूतलमिवाद्रक्ष्यदिति वा आपादित इत्यर्थः । एतादृशः उपलम्भरूपः प्रतियोगी यस्य उपलम्भाभावस्य सः तादृशप्रतियोगिकः उपलम्भाभावरूपः। तस्य तादृशप्रतियोगिकस्य भावः इति । तथा च उपलम्भाभावात् (घटदर्शनाभावात् ) नास्ति घटः इति प्रत्यक्षं भवति । एवं च तादृशघटोपलम्भाभावो भूतले घटो नास्ति इत्याकारके घटाभाव- प्रत्यक्षे हेतुः इन्द्रियस्य सहकारी भवति इति समुदायार्थ : ( त० दी० ) (नील० १पृ० १८) (मु० १ पृ० १२३ ) ( दि० ) । [ग] प्रति- योगिसत्त्वापादनापादितोपलम्भप्रतियोगिकत्वम् (नील० १ पृ० १८) । यथा यद्यत्र घटोभविष्यत्तदा भूतलमिवाद्रक्ष्यत् दर्शनाभावात् नास्ति इति ( त० दी० १ पृ० १८) । तथा हि यत्रालोकसंयोगादिकं वर्तते तत्र यद्यत्र घटः स्यात्तर्छुपलभ्येत इत्यापादयितुं शक्यते । तत्र घटा- भावादेः प्रत्यक्षं भवति । अन्धकारे तु नापादयितुं शक्यते । तेन घटा- भावा देरन्धकारे न चाक्षुषप्रत्यक्षम् । स्पार्शनप्रत्यक्षं तु भवत्येव । आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात् । गुरुत्व- पिशाचादिकं यदयोग्यम् तदभावस्तु न योग्यः ( प्रत्यक्षविषयः ) । तत्र गुरुत्वादिप्रत्यक्षस्यापादयितुमशक्यत्वात् । अतः गुरुत्वपिशाचाद्यभावानां जलपरमाणौ पृथिवीत्वाद्यभावस्य च न प्रत्यक्षम् इति ( मु० १ पृ० १२४-१२६) । अत्र योग्यानुपलब्धौ योग्यता च योग्यप्रति- योगिप्रकारकयोग्याधिकरणविशेष्यको पलम्भप्रतियोगिकत्वम् इति निर्व- चनमपि चिन्तामणिकृन्मते संभवति ( राम० १ पृ० १२३) । ३ योग्यमात्रप्रतियोगिकत्वे सति योग्यधर्ममात्रावच्छिन्नप्रतियोगिता कत्वम् । इयं योग्यता च संसर्गाभावनिष्ठा संसर्गाभावप्रत्यक्षे प्रयोजिका च प्रति- योगियोग्यता इति व्यवद्दियते । अत्र पदप्रयोजनम् । द्रव्यसामान्या- भाववारणाय मात्र इति पदम् । गुरुत्ववद्धटात्यन्ताभाववारणाय विशेष्य- दलम् । रूप गुरुत्व एतदन्यतरावच्छिन्नाभाववारणाय विशेष्यदले मात्र इति पदम् ( दि० १/३ पृ० १२७ ) । योग्यमात्रप्रतियोगिकत्वे सती- त्युक्तेः वायाबुद्भूतरूपाभावस्य प्रत्यक्षमुपपद्यते । वायौ गुरुत्वाभाव- प्रत्यक्षापत्तिवारणं च भवति । रूपाभावस्य योग्यमात्र प्रतियोगि कत्वात् । गुरुत्वाभावस्य च योग्यमात्राप्रतियोगिकत्वाच्च इति । ४ जात्यवच्छिन्नप्र- तियोगिताकत्व जात्यतिरिक्तयोग्यधर्मावच्छिन्न प्रतियोगिताकत्व एतदन्य- तरत् ( दि० १/३ पृ० १२६ - १२७ ) । अत्र जात्यवच्छिन्न प्रति- योगिताकत्वेत्युक्त्या स्तम्भे पिशाचान्योन्याभावप्रत्यक्षम् ( स्तम्भः पिशाचो न इति प्रत्यक्षम् ) उपपद्यते । जात्यतिरिक्तत्यायुक्त्या च घटवदन्योन्या भावादेः प्रत्यक्षमुपपद्यते इति ज्ञेयम् ( राम० १/३ पृ० १२८ ) । । इयं च योग्यता अन्योन्याभाववृत्तिरन्योन्याभावप्रत्यक्षे प्रयोजिका च अधिकरणयोग्यता इति व्यवह्नियते । तेन स्तम्भेपि पिशाचान्योन्या- भावपिशाचवदन्योन्याभावयोः प्रत्यक्षत्वाप्रत्यक्षत्वोपपत्तिः । अधिकरण- योग्यतेत्यस्य योग्याधिकरणवृत्तित्वमित्यर्थः । तेन स्तम्भ इव वाय्वादौ न पिशाचान्योन्याभावप्रत्यक्षम् इति भावः ( दि० ११३ पृ० १२७) । १५ अनुमित्सानन्तरं लिङ्गदर्शनादिक्रमेण यावता कालेनोत्सर्गतः परामर्शो जायते तावानेव कालः । अनुमित्सोत्पत्त्यधिकरणक्षणमारभ्य क्रमेण पक्षविषयक लिङ्गज्ञान व्याप्तिस्मरणयोरुत्पत्तौ सत्यामुत्सर्गतो यावता ले परामर्शोत्पत्तिः अनुमित्सोत्पत्तिक्षणमारभ्य तत्क्षणपर्यन्तं यावन्तः क्षणाः यो वा तावन्मात्रक्षणावस्थायी स्थूलकालस्तत्समुदाय एव वेत्यर्थः । एवं च क्षणचतुष्टयं तदधिककालानवस्थायी स्थूलसमयश्च योग्यता इति पर्यवसितम् (ग० २ पक्ष० पृ० २८) । इयं च योग्यता मिश्रमतानु- सारिण्यनुमितिप्रयोजिका च इति अनुमित्सायोग्यता इति व्यवयित बोध्यम् । अनुमित्सोत्पत्त्यनन्तरमनुमित्सानाशेपि सिद्धौ सत्यां यावत्काल मध्ये अनुमितिर्जायते तावानेव काल: ( दीधि० २ पक्ष० पृ० १३६) / योग्यता त्वनुमितौ प्रयोजिका पक्षतात्मकसंशययोग्यता इत्युच्यते । ६ साधकबाधकमानाभावः ( चि० २ पक्ष० पृ० ३३ ) । इयं <योग्यानुपलब्धि:> (अनुपलब्धि: ) [ क ] प्रतियोगितद्व्याप्येतरप्रति- [ख अभावप्रत्यक्षसामग्री विशिष्टप्रतियोग्यनुपलब्धिः (त० प्र० १) । योग्युपलम्भकयावत्सामग्री विशिष्टप्रतियोग्युपलम्भाभावः (कु० ३ टी० ) । अत्र अनुपलब्धौ योग्यत्व विशेषणदानेन अन्धकारे न घटाभावप्रत्यक्षा पत्तिः । तथा हि आलोकसंयोगाद्यसत्त्वदशायां अत्र घटः स्यात् तर्छुपल- भ्येत इत्यापादनासंभवेन योग्यानुपलब्ध्यभावात् न तत्र घटाभाव प्रत्यक्षम् ( नील० पृ० १८) इति । अत्र भट्टा आहुः अभावप्रत्यक्षे चेन्द्रियं न करणं किंतु योग्यानुपलब्धिरेव ( दि० १ ) इति । अत्रे म् यस्य सत्त्वं यत्रानुपलब्धिविरोधि तस्याभावस्तत्र गृह्यते (चि० ४ ) इति । शिष्टमुदाहरणप्रयोजनादिकं च अनुपलब्धिशब्दव्याख्यानावसरे योग्यता- शब्दव्याख्यानावसरे च संपादितम् तत्तत्र दृश्यम् । <योनिजम्> ( शरीरम् ) शुक्रशोणितयोः परस्परमेलनजन्यम् ( दि० २१ २ पृ० ७० ) (सि० च० १ पृ० ६ ) । यथा मनुष्यादिशरीरं योनिजम् । शिष्टं तु शरीरशब्दे दृश्यम् । <यौगपद्यम्> १ एककालवृत्तित्वम् (ग० सत्प्र० ) । अनेकेषामेकक्षण- संबन्धः इत्यर्थः । यथा घटपटयोर्योगपद्यम् । २ एककालोत्पत्तिकत्वम् ( मु० ) । यथा अयोगपद्याज्ज्ञानानां तस्याणुत्व मिहोच्यते (भा०प० श्लो० ८६ ) इत्यादौ यौगपद्यम् । <यौगिकम्> (नाम शक्तपदं वा ) [ क ] यत्रावयवार्थ एव बुध्यते तत्पदम् (मु० ४ पृ० १७९) ( त० प्र० ख० ४ पृ० ३० ) । [ ख ] अवयवशक्तिमात्रेणार्थप्रतिपादकम् । यथा पाचकादिपदम् (नील० ) (मु० ४ ) । अत्र पचति इति व्युत्पत्या प्रकृतिप्रत्ययादिना पाककर्ता बोध्यते इति विज्ञेयम् ।[ग] यन्नाम स्वान्तर्निविष्टशब्दानां योगलम्य- स्यैव यादृशार्थस्यान्वयबोधं प्रति हेतुः तन्नाम तादृशार्थे यौगिकम् । तच्च यौगिकं त्रिविधम् समासः तद्धिताक्तम् कृदन्तं चेति । अत्र विशेषो ज्ञेयः । द्वन्द्वोपि समासः स्वघटकशब्दानामाकाङ्क्षया लभ्यस्य धवख- दिराद्यर्थस्यान्वयबोधकतया यौगिक एव । ब्राह्मणी श्वश्रूः शूद्रेत्यादौ ङीबादेः स्त्रीत्ववाचित्वे तादृशं नाम यौगिकमेव । अन्यथा तु स्त्रीत्वादि- मति तत्तदर्थे रूढमेव । नातो विभागस्य व्याघातः इति ( श० प्र० श्लो० २९ टी० पृ० ३८) । <यौगिकरूढम्> (नाम शक्तपदम् ) [ क ] यत्रावयवार्थरूढ्यर्थयोः खात- त्र्येण बोध: तत् (मु० ४ पृ० १८० ) ( त० प्र० ४ पृ० ३०) । अत्र यौगिकं च तद्रूढं च इति व्युत्पत्तिरनुसंधेया (नील० ४ पृ० ३१) । अत्र शब्दशक्तिप्रकाशकृत आहुः । इदं यौगिकरूढं पदं रूढयौगिक इत्युच्यते (श० प्र० श्लो० १५ ) इति । एतस्योदाहरणं तु नाम- शब्दव्याख्याने संपादितम् इति तत्र दृश्यम् । वयमत्राधिकं ब्रूमः । योग रूढिरूपशक्तिवद्यौगिकरूढिरूपा शक्तिर्नातिरिक्ता । किंतु योग एतदुभयात्मिकैव । योगरूढिशक्तिस्तु योगविशिष्टरूढित्वेन रूपेण विशिष् कार्थबोधकतया अतिरिक्ता इति विशेषः इति । [ख ] यौगिकार्थ- रूढार्थयोः स्वातन्त्र्येण बोधकं पदम् । ग योगेन रूढ्या च परस्परा- सहकारेणार्थप्रतिपादकम् । यथा उद्भिदादिपदं यौगिकरूढम् / उद्भिदं योगेन तरुगुल्मादेः रूढ्या तु यागविशेषस्य वाचकम् । ( नील० ४ पृ० ३१) (मु० ४) । अत्र प्रमाणम् उद्भिदस्तरु- गुल्माद्याः ( अमर० का० ३ वर्ग० १ श्लो० ५१) इति । उद्भिदा यजेत पशुकामः ( श्रुतिः ) इत्यादावुद्भित्पदं तन्नामकयाग विशेषवाचकम् । अथ वा उद्भित्पदं यौगिकं खनित्रे रूढं यागविशेषे ( त० प्र० ख० ४ पृ० ३० ) । यथा वा अश्वगन्धादिपदं यौगिकरूढम् । तथा हि । अश्वगन्धादिपदात्कदाचिदोषविनिष्ठसमुदाय निरूपितशत्तयौषधिबोधः । कदाचित्तु अश्वस्य गन्धोस्याम् इति व्युत्पत्त्या वाजिशालादिबोधोवयव शक्तया इति (वै० सा० द०) । अथ वा अश्वगन्धादिपदमौषधि- विशेषबोधे रूढम् । अश्वसंबन्धवत्तया वाजिशालाबोधे यौगिकम् / यौगिकरूढम् इत्युच्यते । रूढिर्योगापहारिणी इति तु प्रकरणाच भावे बोध्यम् । यत्र मण्डपपदादिभ्यो मण्डपानकर्त्रादे रूट्यर्थमण्डपाि गुणवत्वेन बोधस्तत्र प्रथम प्रतीत रूढिविषय मुख्यार्थापरित्यागेन योगा- ढिपूर्वकलक्षणाया बलवत्वेन लक्षणयैव बोध: ( ल० म० आकाङ्क्षा दिवि० पृ० १२) । <रक्तः> १ ( गुणः ) रूपविशेषः । यथा रक्तो घट इत्यादौ । अत्र रक्त- पदस्य शक्तिबोध्योर्थो रक्तरूपमेव । तथापि रक्तघटयोः सामानाधिकरण्या- नुरोधेनात्र रक्तपदस्य रक्तरूपवति लक्षणा न्यायमते स्वीक्रियते । तेन रक्तरूपवदभिन्नो घटः इति शाब्दबोधः । शाब्दिकास्तु गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकेन लुप्तेन मतुपैव विशिष्टार्थो बोध्यते इति रक्तपदस्यात्र शक्त्यैव बोध्योर्थो गृह्यते । नात्र लक्षणा स्वीकार्या इत्याहुः । २ शरीरस्थो रसपाकजन्यो मांसहेतू. रुधिराख्यो धातुविशेषः। तस्वरू- पमुक्तं भावप्रकाशे यथा यदा रसो यकृद्याति तत्र रञ्जकपित्ततः । रागं पाकं च संप्राप्य स भवेद्रक्तसंज्ञकः ॥ इति । <रजः> [क] जगत्कारणे या दुःखात्मता तद्रजः ( सर्व० सं० पृ० ३२६ सां० ) । [ख] जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ( याज्ञ- वल्क्य० अ० १ श्लो० ३६२ ) । <रजनी> तत्परा रजनी ज्ञेया ( पुरु० पृ० ४६ ) तत्परा सायंकालात्परा । <रत्नत्रयम्> रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचन- संग्रहपरे परमागमसारे प्ररूपितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ( सर्व० सं० पृ० ६२ आई० ) इति । <रथकारः> वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूदायां वैश्यादुत्पन्ना करणी । तस्यां करण्यां माहिष्यादुत्पन्नो रथकारः ( जै० न्या० अ० ६ पा० १ अधि० १२) । तथा च याज्ञवल्क्यः माहिष्येण करण्यां तु रथकारः प्रजायते ( याज्ञ० ११९५ ) इति । <रथसप्तमी> यस्यां मन्वन्तरस्यादौ रथारूढो दिवाकरः । माघमासस्य सप्तम्यां सा तस्माद्रथसप्तमी ॥ (पु० चि० पृ० १०४ ) । <रन्ध्रम्> नवमी ( पु० चि० पृ० ३० ) । ८६ न्या० को० <रसः> १ (गुणः ) [ क ] रसनग्रहणो योर्थः सः (वै० उ० ३ । १ । १ प्रशस्त० पृ० १२ ) । अत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन रसत्वादौ रसाद्यभावे च नातिव्याप्तिः । स च बाह्यैकेन्द्रियप्रायः (बै० उ० ३।१।१ ) रसनसहकारी च ( प्रशस्त० पृ० १२ ) । लक्षणं तु रसत्वमेव । तच्च रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य ० १ पृ० ७) (वै० उ० ७ । १।६ ) । अत्र व्युत्पत्तिः रस्यते आस्वाद्यते इति रसः ( कर्मणि प्रत्ययः ) । ख रसनग्राह्यो गुणः ( त० भा० ) ( त० सं० ) । अत्र निष्कर्षस्तु रसनग्रहणवृत्तिगुणत्वावान्तरजाति- मत्त्वम् इति । तेन नातीन्द्रियरसाद्यसंग्रहः (वै० उ० ३/१/१९) । गरसनमात्रग्राह्यजातिमान् ( त० को० १ पृ० ४ ) । अत्र रसनग्राह्यां रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवार मात्र इति पदं दत्तम् । [घ ] रसवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमान (वै० उ० ७।१।६ ) । सा च जातिः रसत्वम् । रसः षड़िधः मधुरः अम्लः लवणः कटुः कषायः तिक्तश्च इति । द्रव्यगतमधुरादिषड़िधरसानां कारणादिकमुच्यते सुश्रुतग्रन्थे । स खल्वाप्यो रसः शेषभूतसंसर्गाद्वि- भक्तः षोढा विभज्यते । तद्यथा मधुरोम्लो लवणः कटुकस्तिक्तः कषायः इति । ते च भूयः परस्परसंसर्गात् त्रिषष्टिधा (६३) भिद्यन्ते । तत्र (१) भूम्यम्बुगुणबाहुल्यान्मधुरः । (२) भूम्यग्निगुणबाहुल्यादम्लः / (३) तोयाग्निगुणबाहुल्यालवणः । (४) वाय्वग्निगुणबाहुल्यात्कटुकः (५) वाय्वाकाशगुणबाहुल्यात्तिक्तः । (६) पृथिव्यनिलगुणबाहुल्या त्कषायः इति । तत्र मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः पित्तघ्नाः । कटुतिक्तकषायाः श्लेष्मघ्नाः । तत्र वायुरात्मनैवात्मा पित माग्नेयम् श्लेष्मा सौम्यः इति । त एव रसाः स्वयोनिवर्धनाः अन्ययोनि प्रशमनाश्च ( सुश्रुते० रसविशेष ० ) । केचिदाहुः । अग्नीषोमीयत्वाज्जगत रसा द्विविधाः सौम्याः आग्नेयाश्च । तत्र मधुरतिक्तकषायाः र कटुम्बुलवणा आग्नेयाः । मधुराम्ललवणाः स्निग्धाः गुरवश्च । कटुतित कषाया रूक्षा लघवश्च । सौम्याः शीता: आग्नेयाश्चोष्णा: (सुश्रु० ) स च रसः पृथिवीजलवृत्तिः । तत्र पृथिव्यां मधुरादिषट्प्रकार: पाकजः अनित्यश्च । अप्सु मधुरः अपाकजो नित्यानित्यात्मा । जलपरमाणुगतः नित्यः । यणुकादिजलगतः अनित्यः (त० भा० प्रमेयनि० पृ० ३२ ) ( प्रशस्त० पृ० १२) ( त० सं० ) । अत्रेदं बोध्यम् । जले मधुर एव रसोस्ति । जम्बीररसादावम्लत्वग्रहस्त्वौपाधिकः जम्बीरगतोम्लस्तद्गत- जले परंपरया प्रतीयते ( वाक्य० १ पृ० ७) (मु० १ पृ० ७६ ) इति । २ रसायनशास्त्रज्ञास्तु सारः । यथा ओषधीनां रसः ( ताण्ड्यब्राह्मणम् ) इत्यादौ गुडमधूकपुष्पबकुलत्वग्बदरीमूलादिभवः सारः इत्याहुः । सारोत्र मदिरा । अलंकारशास्त्रे तु धर्मदत्त आह रसे सारश्वमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ॥ ( सा० द० परि० ३ श्लो० ३३ टी० पृ० १७) इति । ३ देहस्थो भुक्तान्नादेः प्रथमपरिणाम इति भिषज आहुः । अत्रोच्यते भावप्रकाशे यत्पाथो रसधातुर्यस्ततोभवदपां रसः । सद्रवं सकलं देहं रसतीति रसः स्मृतः ॥ इति । अथ रसस्य स्वरूपमाह सम्यक्पकस्य मुक्तस्य सारो निगदितो रसः इति ( वाच० ) । ४ आलंकारिकास्तु विभावानुभाव- संचारिभावव्यय रत्यादिस्थायिभावकः शृङ्गारादिर्नवविधः रस इत्याहुः । तलक्षणं चोक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥ इत्यादि ( सा० द० परि० ३ लो० ३२ पृ० १६ ) । नवविधस्तु शृङ्गारहास्य करुण रौद्रवीरभयानकाः । बीभत्सोद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ ( सा० ८० परि० ३ श्लो० २०९) इति । वत्सलाढ्यं दशममपि रसं मुनीन्द्रादयोङ्गी- चक्रुः ( सा० द० परि० ३ श्लो० २४१ पृ० ६५ ) । ५ ब्रह्मण आनन्द: ज्ञानं वा रसः । यथा रसो वै सः रस ह्येवायं लब्ध्वानन्दी भवति ( तैत्ति० उप० २१७ ) इत्यादौ इति वेदान्तिन आहुः । अत्रालंकारिका आहुः । सत्त्वोद्रेका दखण्डखप्रकाशानन्दचिन्मयः । वेद्यान्तर स्पर्शशून्यो ब्रह्माखादसहोदरः ॥ ( सा० ८० परि० ३ श्लो० ३३ पृ० १६) इति । <रसकर्म> स्वेदनमर्दनमूर्छनस्थापनपातननिरोधनियमाश्च । दीपनगगनग्रास- प्रमाणमथ जारणा पिधानम् ॥ गर्भद्रुतिबाह्यद्रुतिक्षारणसंरागसारणा- चैव । क्रामणवेधौ भक्षणमष्टादशघेति रसकर्म ॥ ( सर्व० सं० पृ० २०५ रसेश्व० ) । <रसनम्> ( इन्द्रियम्) [ क ] गुडे मधुरो रसः इति रसप्रत्यक्षासाधारणं कारणम् (त० कौ० १ पृ० १० ) । यथा पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस (नैष० ३१९४) इत्यादौ । एतच्च रसनं जलीय- मिन्द्रियम् सर्वप्राणिनां रसोपलम्भकम् विजातीयावयवानभिभूतैर्जलावयवै- रारब्धम् जिह्वाग्रवर्ति च ( प्रशस्त० पृ० ४) (त० भा० प्रमे० पृ० २६) न्द्रियं जलीयम् रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वाल्लालोदकवत् (त० सं० ) । रसनस्य जलीयत्वे अनुमानं प्रमाणम् । तद्यथा रसने- सक्तुरसाभिव्यञ्जकोदकवद्वा इति ( सि० च० ) ( मुं० १ जलनि० पृ० ७७ ) ( त० मा० प्रमेयनि० पृ० २६) । [ख ] रसग्राहक महंदिन्द्रियम् ( न्या० म० १ पृ० १४ ) । <रसाभासः> दोषविशेषयुक्तो रसः । यथा उपनायका दिगतशृङ्गारादी रसः । अत्रोच्यते अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ( सा० द० । ३ श्लो० २४७ पृ० ६७ ) इति । <राका> ( पौर्णमासी ) राका संपूर्णचन्द्रा स्यात्कलोनानुमतिः स्मृता (५० चि० पृ० ३१७) । <राक्षसः> (विवाहः) राक्षसो युद्धहरणात् (याज्ञवल्क्य ० अ० १ श्लो० ६१) । <रागः> १ ( दोषः ) [ क ] आसक्तिलक्षणो दोषः । यथा तृष्णा (पृ० ३३) । रागलक्षणं चोज्वलमणिनोक्तम् । सुखमप्यधिकं (वात्स्या० ४।१।३) । [ख] पुनः पुनर्विषयानुरञ्जनेच्छा (प्रशस्त ० २ ( वाच० ) । [ग] सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाध 'सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात्स राग इति कथ्यते ॥ गर्धो रागः ( सर्व० सं० पृ० ३६२ पात० ) । २ महारजनादिवर्णविशेषः इति काव्यज्ञा आहुः । ३ गायकास्तु निषादादिस्वरयोनिकः स्वरविशेषः । यथा मालवभैरवादी राग इत्याहुः । तत्स्वरूपं च यैस्तु चेतांसि रज्यन्ते जगत्रितयवर्तिनाम् । ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥ (वाच० ) इति । तेषां मतभेदेन भेदा यथा आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च ततः पश्चा- द्वसन्तस्तदनन्तरम् ॥ हिन्दोलश्चाथ कर्णाट एते रागाः षडेव तु (संगीत- दामो०) इति । भरतमते तु भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च रागाः षडिति कीर्तिताः ॥ ( वाच० ) इति । अत्र एकैकरागे रागिण्यः स्त्रियः षट् । रागिण्यो गीत्यङ्गानि स्वरभेदाः । तास्तु रागपत्यः इत्युच्यन्ते ( संगीतदा० ) । एवं षट्सु रागेषु रागिणीभेदाश्च षट्त्रिंशत् (३६) । यथा षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया । धानसी १ मालसी २ चैव रामकीरी ३ च सिम्बुडा ४ । आशावरी ५ भैरवी ६ च मालवस्य प्रिया इमाः ॥ वेलावली १ पुरवी २ च कानडा ३ माधवी ४ तथा । कोडा ५ केदारिका ६ चापि मल्लारदयिता इमाः ॥ गान्धारी १ सुभगा २ चैव गौरी ३ कौमारिका ४ तथा । वेलोयारी ५ च वैरागी ६ श्रीरागस्य प्रिया इमाः ॥ तुडी १ च पञ्चमी २ चैव ललिता ३ पठमञ्जरी ४ । गुर्जरी ५ च विभाषा ६ च वसन्तस्य प्रिया इमाः ॥ मायूरी १ दीपिका २ चैव देशकारी ३ च पाहिडी ४ । वराडी ५ सोरहाटी ६ च हिन्दोलस्य प्रिया इमाः ॥ नाटिका १ चाथ भूपाली २ रामकेली ३ गडा ४ तथा । कामोदा ५ चाथ कल्याणी ६ कर्णाटस्य प्रिया इमाः ॥ ( संगीतदा० ) इति । एवम् तत्तद्गानकालभेदाः तत्तत्पुत्रादयश्च तत्रैव दृश्या: ( वाच० ) । <रात्रिः> १ [ क ] निरस्तैतद्द्वीपवर्तिरविरश्मिजालः कालविशेष: ( कि० व० १ ) । [ख] संपूर्णादित्यमण्डलदर्शनयोग्यो यः कालस्तद्भिन्नः काल: (वै० ) । [ग] अन्ये तु नृणां स्वस्वदेशापेक्षया सूर्यमण्डलस्या- दर्शनयोग्यः काल इत्याहुः । [घ ] धर्मज्ञास्तु अहर्विपरीता रात्रिः इत्याहुः । २ पौराणिकादयस्तु पितॄणां शुक्लपक्षरूपः कालः देवानां च दक्षिणायनरूपः काल इत्याद्दुः । तदुक्तम् मासेन च मनुष्याणां पितॄणां तदहर्निशम् । कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्तिता ॥ इति । देवविषयेप्युक्तम् उत्तरायणे दिनं प्रोक्तं रात्रिः स्यादक्षिणायने ( वाच० ) इति । ३ हरिद्रा इति काव्यज्ञा आहुः । <रामायणम्> दशरथपुत्ररामचरितप्रतिपादकम् आदिकविवाल्मीकिकृतं महा- काव्यम् । तच्च सप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकम् मनुष्य- लोके चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम् । सप्तकाण्डानि तु बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्ध- काण्डम् उत्तरकाण्डं च इति । तत्प्रतिपाद्यविषयाश्च संक्षिप्तकथाः गरुड- पुराणे (अ० १४८) पद्मपुराणे चोक्तास्तत्र दृश्याः । <रिक्थग्राह:> विभागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः । वारस इति प्र० ( मिताक्षरा अ० २ श्लो० ५१ ) । <रिक्थम्> अन्यदीयं द्रव्यमन्यस्य ऋयादिव्यतिरेकेण यत्स्वीयं भवति तद्रि- क्थम् ( मिताक्षरा अ० २ श्लो० ५१ ) । <रुक्मम्> कण्ठे धृतः सन्नुरसि लम्बमानः सौवर्ण आभरणविशेषः रुक्म शब्दार्थः (जै० न्या० अ० ५ पा० २ अधि० १२ ) । <रुचिः> १ [क] प्रीतिजनकता । यथा नारदाय रोचते कलह इत्यादौ रुच्यर्थ: ( ग० व्यु० का० ४ पृ० ९६ ) । अत्र रुच्यर्थानां प्रीयमाणः (पा० सू० १ । ४ । ३३ ) इत्यनुशासनेन प्रीतिजनकतारूपरुच्यर्थघटक- प्रीतिभागिनः संप्रदानसंज्ञा विहिता । तादृशक्रियाश्रयतया कलहादेः कर्तृता । तथा च आश्रितत्वं चतुर्थ्यर्थः । तस्य प्रीतावन्धयः । तादृश जनकत्वस्य कलहेन्वयः ( ग० व्यु० का० ४ पृ० ९६) । [ख] वैयाकरणास्तु विषयतासंबन्धावच्छिन्नप्रीत्यनुकूलस्तत्समानाधिकरणो व् पारः । यथा हरये रोचते भक्तिरित्यादौ रुचेरर्थः इत्याहुः । अत्र व्यापारफलभूतप्रीतेः समवायेनाश्रयो हरिः संप्रदानत्वशक्तिमान् । तथा च हरिसंप्रदानिका भक्तिकर्तृका रुचिः इति बोधः । हरिनिष्ठा या भक्ति- विषया प्रीतिः तदनुकूलो भक्तिनिष्ठो व्यापारः इति यावत् ( ल० म० का० ४ पृ० १०२) २ आसङ्गः । ३ अभिलाषः । ४ किरणः । ५ शोभा । ६ बुभुक्षा । ७ गोरोचना चेति काव्यज्ञा आहुः । ८ प्रजापतिविशेषः इति पौराणिका आहुः । ९ आलिङ्गन विशेषः इति कामशास्त्रज्ञा अङ्गीचक्रुः (वाच० ) । <रुद्रः> १ अष्टमी तिथि: । कामशब्दे दृश्यम् । २ एकादशी तिथि: ( पुरु० पृ० ३७ ) । ३ एकादशभेदभिन्न ईश्वरविशेषः । एकादशभेदाश्च यथा वीरभद्रश्च शंभुव गिरिशश्च महायशाः ॥ अजैकपादहिर्बुध्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशांपतिः । स्थाणुर्भवच भगवान् रुद्रास्त्वेकादश स्मृताः ॥ (याज्ञ० अ० २ श्लो० १०२ मिता० ) । <रूढम्> १ (नाम) [क] यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेणार्थो बुध्यते तत्पदम् । यथा गोमण्डलादिपदम् (मु० ख० ४ पृ० १७९ ) ( त० प्र० ख० ४ पृ० ३० ) । [ख] रूढिशक्तिमात्रेणार्थप्रति- पादकं पदम् । यथा गोपदघटादिपदम् (नील० ४ पृ० ३१ ) । [ग] यन्नाम यादृशार्थे संकेतितमेव न तु यौगिकमपि तद्रूढम् । यथा गोप्रभृत्यर्थे गवादिशब्दो रूढः ( श० प्र० श्लो० १५ पृ० १८) । अत्र गमेर्डो: ( उणा० सू० २/६७) इत्यौणादिक प्रत्ययस्य शक्तिविरहेण यौगिकत्वविरहात् गकारोत्तरौकारत्वाद्यानुपूर्वी कत्वेनैवार्थबोधकत्वम् । रूढं संज्ञा इति पदेनाभिलप्यते ( श० प्र० श्लो० १६ टी० पृ० १९ ) । अतः रूढ इति शब्दस्य विभाग: संज्ञाशब्दव्याख्याने दृश्यः । [घ ] प्रकृ- तिप्रत्ययार्थमनपेक्ष्य समुदायशक्त्यार्थबोधकम् । २ जातम् । ३ प्रसिद्धम् इति काव्यज्ञा आहुः । <रूढयौगिकम्> (नाम) यौगिकरूढशब्दवदस्यार्थोनुसंधेयः ( श० प्र० श्लो० १५ ) । <रूढलक्षणा> [क] निरूढलक्षणाशब्दवदस्यार्थोनुसंधेयः । [ख] शाब्दि- कास्तु असति प्रयोजने शक्यार्थवाधप्रतिसंधानपूर्वकतत्संबन्ध्यपरार्थबोधे निरूढलक्षणा इति व्यवहारः । अन्यथा बाधप्रयोजनाभावे रूढिशक्तिरेव । यथा कुशलपदे तैलपदे च इत्याहुः (ल० म० आकाङ्क्षावि० पृ० १४ ) । अत्र तैलपदस्य तिलविकारद्रव्ये शक्तस्य सार्षपादौ निरूढलक्षणा । शिष्टं तु निरूढलक्षणाशब्दे दृश्यम् । <रूढिः> १ (शब्दशक्तिः ) [ क ] समुदायशक्तिः ( त० दी० ४ )। यथा मण्डप इत्यादिपदे रूढिः शक्तिः । अत्र मकारादिवर्णानुपूर्वीकत्वेन शक्त्या जनाश्रयो बोध्यते इति विज्ञेयम् । [ ख ] शाब्दिकास्तु शास्त्रकृत्कल्पिता- वयवार्थाप्रतीतौ यदर्थनिरूपितं प्रकृतिप्रत्ययसमुदायमात्रे बोधकत्वम् तत्पदे सा तदर्थनिरूपिता रूढिः । यथा मणिनपुरादौ इत्याहुः ( ल० म० आकाङ्क्षादिवि० पृ० १२ ) । अत्र कुमारभट्ट आह लब्धात्मिका सती रूढिर्भवेद्योगापहारिणी । कल्पनीया तु लभते नात्मानं योगबाधतः ॥ इति । तदर्थस्तु लब्धात्मिका कप्ता शक्तिर्योगबाधिका । कल्पनीया तु योग- बाध्या ( वाच० ) इति । २ जन्म । ३ प्रसिद्धिः इति काव्यज्ञा आहुः । <रूढिलक्षणा> निरूढलक्षणाशब्दवदस्यार्थोनुसंधेयः । <रूप> ( धातुः ) प्रमाणोपन्यासेन स्वरूपादिकथनम् । यथा रूपयति अरु- रूपत् इत्यादौ धात्वर्थः । <रूपकम्> १ मूर्तम् । २ शुक्कादिवर्णविशेषः । ३ आकारः । ४ साहित्यशा स्त्रज्ञास्तु अभिनयप्रदर्शको दृश्यकाव्यविशेषः । यथा शाकुन्तला दि इत्याहुः । रूपकस्य दशविधा भेदाः । नाटकमथ प्रकरणं भाणव्यायोगसमवकार- डिमा: । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ इति / तत्य रूपकसंज्ञाहेतुमाह तद्रूपारोपातु रूपकम् इति । तद्दृश्यं काव्यम् इति । श्लो० २७३ - २७४) । ५ आलंकारिकास्तु अर्थालंकार विशेषः यथा नटे रामादिस्वरूपारोपात रूपकम् इत्युच्यते ( सा० द० परि०६ इत्याहुः । तल्लक्षणं तु रूपकं रूपितारोपाद्विषये निरपहवे ( सा० द० परि० १० श्लो० ६६९) इति । ६ गणकास्तु गुञ्जात्रयपरिमाणम् इत्याहुः । अत्रोच्यते संचाली प्रोच्यते गुजा तास्तिस्रो रूपकं भवेत् ( युक्तिक ० ) इति । ७ राजतो नाणकविशेष इत्याधुनिका व्यवहरन्ति । <रूपत्वम्> नीलसमवेतगुणत्वापरजाति: ( सर्व० सं० पृ० २२० औ० ) । <रूपम्> १ (गुणः ) [ क] चक्षुर्मात्रग्रहणो योर्थस्तत् । तच्च बाह्यैकेन्द्रिय- ग्राह्यम् (वै० उ० ३।१।१ ) द्रव्याद्युपलब्धिकारणम् नयनसहकारि च भवति ( भा०प० श्लो० १०१ ) ( प्रशस्त ० ) । परमाणुगतं तु रूपं न प्रत्यक्षम् । एवं रसगन्धादिकमपि बोध्यम् । अत्र प्राञ्चो नैयायिका आहुः । द्रव्यगुणकर्मसामान्यानां चाक्षुषं स्पा 'नं च प्रत्यक्षं प्रति रूपं कारणम् इति कार्यकारणभावः । तेन वायौ रूपाभावान स्पार्शनप्रत्यक्षम् इति । नव्यास्तु चाक्षुषे द्रव्यप्रत्यक्षे एव रूपं कारणम् इति कार्यकारण- भावः । तेन वायौ रूपाभावेपि स्पार्शनप्रत्यक्षमुपपद्यते इत्यङ्गीचक्रुः (भा० प० श्लो० ५७) (मु० १ पृ० ११३ ) । अत्रेदं बोध्यम् । रूपस्य चाक्षुषप्रत्यक्षे च मध्यमं महत्परिमाणम् उद्भूतत्वम् अनभि- भूतत्वम् रूपत्वं च प्रयोजकम् । तत्र महत्परिमाणं तु सामानाधिकरण्य- संबन्धेन इति ज्ञेयम् । तेन परमाणौ महत्परिमाणाभावेन तद्वृत्तिरूपस्य प्रत्यक्षनिवारणम् । चक्षुर्वृत्तिशुक्लरूपस्यानुद्भूतत्वेन तादृशरूपस्य प्रत्यक्ष- निवारणम् । वैश्वानरे मरकतकिरणादौ च विद्यमानस्य शुक्लरूपस्य वैश्वानरादिसंबद्ध पार्थिवरूपेणाभिभवात्प्रत्यक्ष निवारणम् । रसस्पर्शादौ रूपत्वविरहाच्चाक्षुषत्वाभावः (वै० उ० ४।११८ ) (मु० १ तेजोनि० पृ० ७८) इति । चक्षुर्मात्रग्रहणो योर्थ इत्यत्र अर्थशब्देन धर्मी भावभूत उच्यते। तेन गन्धत्वादौ गन्धाद्यभावे च नातिव्याप्तिः (वै० उ० ३।१।१ ) । द्रव्यादित्रयमेवार्थः इति काश्यप निर्णयः । अतो रूपादिसामान्यैर्नातिव्याप्तिर्भविष्यति ॥ (ता० र० श्लो० ४१-४२) इति । काश्यपः कणादः । [ख] चक्षुर्मात्रबहिरिन्द्रियग्राह्यजातिमत् ( वै० उ० ७७१।६) । तादृशी जातिश्च रूपत्वादिः । [ग] नीलसमवेतगुणवा- परजातिमत् ( सर्व० पृ० २२० औलू ० ) । [ध ] चक्षुर्मात्र- ग्राह्यो विशेषगुणः (त० कौ० ) (त० सं० ) ( प्रशस्त ० ) । तदर्थश्च इतरेन्द्रियाग्राह्यत्वं मात्रपदार्थः । चक्षुषश्चेतरत्वे ग्रहे चान्वयः । अथ वा 9. चित्रगुरित्यादौ गोपदस्थेव ग्राह्यपदस्यैव चक्षुरितरेन्द्रियाग्राह्यत्व विशिष्ट चक्षुर्माह्यत्वविशिष्टे लक्षणा । अवशिष्टपदे तात्पर्यग्राहके । उभयत्र ८५ न्या० को? ग्राह्यत्वं लौकिक विषयताश्रयत्वम् । तेन गुरुत्वादीनां चक्षुषा अलौकिक ग्रहेपि नातिव्याप्तिः । न वा रूपस्येतरेन्द्रियेणालौकिकग्रहेण्यसंभवः ( वाक्य० १ पृ० ६) इति । जन्यत्वं चेतरनिरूपितमसाधारणं ग्राह्यम् । तथा च चक्षुरितरेन्द्रियजन्यग्रहीयलौकिकविषयताशून्यत्वे सति चक्षुर्जन्य- ग्रहीय लौकिक विषयताशालित्वे च सति विशेषगुणत्ववत् । अत्र संयोगादि- वारणाय प्रथमं सत्यन्तं दत्तम् । गुरुत्वादिवारणाय द्वितीयं सत्यन्तं दत्तम् । रूपत्वादिवारणाय गुणत्वं दत्तम् । प्रभाभित्तिसंयोगादि- वारणाय विशेष इति पदं दत्तम् इति विज्ञेयम् ( वाक्य० १ पृ० ६ ) । वस्तुतः [ङ ] त्वगग्राह्यचक्षुर्ग्राह्यगुणविभाजकधर्मवत् । तेन न परमाणुरूपे अव्याप्तिः इति विज्ञेयम् (वाक्य ० १ पृ० ६ ) । अथ वा [च ] चक्षुर्ग्रहणवृत्तिगुणत्वावान्तरजातिमत् (बै० उ० ३११११ ) / [छ] चक्षुमत्रग्राह्यजातिमान् गुणः । अत्र गुणपदं प्रभावारणाय दत्तम् । ( त० कौ० १ पृ० ४ ) । स च गुणः सप्तविधः शुक्ल: नीलः पीतः रक्तः हरितः कपिशः चित्रः इति । केचिच्चित्ररूपं नाङ्गीकुर्वन्ति ( त० कौ० १ पृ० ४ ) । सिद्धान्तस्तु नीलपीतादिरूपकदम्बस्य चित्ररूपजनकत्वम ध्यक्षसिद्धम् ( न्या० ली० पृ० १२) इति चित्ररूपमङ्गीकर्तव्यम् । अयं भावः । पटादिप्रत्यक्षान्यथानुपपत्त्या चित्ररूपमवश्यमङ्गीकार्यम् । तथा हि द्रव्यविषयकलौकिकचाक्षुषप्रत्यक्षं प्रति रूपं कारणम् इत्यनुभव- सिद्धः कार्यकारणभावः स्वीकार्यः । तथा च चित्ररूपानङ्गीकारे रूपस्य दैशिकव्याप्यवृत्तित्वनियमादेकस्मिन्पटे नानारूपानङ्गीकारेण रूपसामान्या तच्च रूपम् पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् पाकजम् भावप्रसङ्गात्पट प्रत्यक्षस्यानुपपत्तिः ( त० दी० १ पृ० १२) इति । भयविधमपि पृथिव्यां तिष्ठति । तथा च पाकजन्यस्यापाकजन्यस्य अनित्यं च । अयं भावः । कचित् पाकजम् कचित्तु अपाकजम् एवमु अवयवगतरूपजन्यस्य चोभयविधस्याप्यनित्यत्वम् इति । जले तेजसि च शुद्ध मेव रूपं तिष्ठति । तच्चापाकजम् नित्यमनित्यं च । नित्यगतं नित्यम् । तेजसि । अभास्वरं शुकंजले ( त० मा० ) ( त० सं० ) । रूप- अनित्यगतम नित्यम् । भाखरामास्वरभेदेन द्विविधं च । शकं भास्वरं मुद्भूतानुद्भूतभेदेनापि द्विविधम् । तत्रोद्भूतरूपमेव चक्षुर्विषयः । तच्च घटपटादिचाक्षुषद्रव्ये तिष्ठति । अनुद्भुतं त्वप्रत्यक्षमेव । तच्च चक्षु- रादौ तप्तवारिस्थतेजसि च तिष्ठति । रूपं पृथिव्युदकज्वलनवृत्ति । तत्र सलिलादिपरमाणुषु नित्यम् । पार्थिवपरमाणुष्वग्निसंयोग विरोधि पाकज मनित्यम् । सर्वकार्यद्रव्येषु कारणगुणपूर्वकम् । आश्रयविनाशादेव 1 विनश्यति ( प्रशस्त० गुणनि० पृ० १२) इति । २ तत्तद्वृत्तिरुद्दिष्ट- धर्मः : । यथा अनुमितिविरोधितावच्छेदकं रूपम् इत्यादौ । ३ आकारः । यथा घटरूपं द्रव्यमित्यादौ । एतस्य परिमाणकृताश्चत्वारो भेदाः ह्रस्वः दीर्घः चतुरस्रः वृत्तश्च इति । स्पर्शकृतास्तु कठिनचिक्कणश्लक्ष्णपिङ्गल- मृदुदारुणभेदेनाकारस्य भेदाः षड़िधाः सन्ति ( वाच० ) । ४ स्वरूपम् स्वभावो वा । यथा परमाणुरूपा नित्यपृथिवी इत्यादौ । ५ सादृश्यम् । यथा पितृरूपस्तनयः मातृरूपा कन्या इत्यादौ । स च रूपशब्दः उत्तरपदस्थश्चेत्सदृशार्थको भवति इति ज्ञेयम् । ६ ज्योतिषज्ञास्तु एकत्व- संख्यान्वितं वस्तु । यथा रूपं भजेत्स्यात्परिपूर्तिकाल: ( लीलावती ) इत्यादौ इत्याहुः । ७ गणकास्तु अव्यक्तराशिसहचरित व्यक्तसंख्यान्वितं वस्तु इत्याहुः । तदुक्तं बीजगणिते एकाव्यक्तं शोधयेदन्यपक्षाद्रूपाण्यन्य- स्वेतरस्माच्च पक्षात् इति । ८ केचिद्वेदान्तिनस्तु वाच्यम् विकार्यम् ईश्वरस्याविद्यात्मको पाधिविशेषो वा । यथा नामरूपे व्याकरवाणि (छा० उ० ६।३।२ ) इत्यादौ इत्याहुः ( शारीर० २११११४ ) । ९ शुक्रशोणितम् इति बौद्धा आहुः । १० नाटकादिदृश्यकाव्यम् इति साहित्यशास्त्रज्ञा आहुः । ११ वैयाकरणास्तु शब्दधात्वादीनां विभक्त्यादि- योगेन निष्पन्नशब्दः । यथा रामः करोति इत्यादौ । यथा वा सुधी उपास्यः इति स्थितौ यण् इत्यादेशे जाते सुध्युपास्यः इति रूपं सिद्ध्यति इत्यादौ इत्याहुः । १२ शृङ्गारकाव्यज्ञास्तु सौन्दर्यम् इत्याहुः । तल्ल- क्षणमुज्ज्वलमणिनोक्तम् अङ्गान्यभूषितान्येव केनचिद्रूषणादिना । येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥ ( वाच० ) इति । <रूपस्कन्धः> रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सवि- षयाणीन्द्रियाणि रूपस्कन्धः ( सर्व० सं० पृ० ४० बौ० ) । <रूपहानिः> [ क ] निःसामान्यत्वगर्भस्य विशेषलक्षणस्य रूपस्य व्याघातः विशेषावृत्तित्वम् यत् सा रूपहानिः । सा च विशेषस्य जातिमत्त्वे बाधिका 1 इति जातिबाधषु संगृहीता द्रव्यकिरणावल्यामुदयनेन इति विज्ञेयम् ३ (दि० १ सामान्यनि० पृ० ३४) । विशेषलक्षणं स्वतो व्यावर्तकत्वं चैतद्वयं विशेषशब्दव्याख्यानावसरे संपादयिष्यते । अत्रायमाशयः विशेषे जात्य- न्तराङ्गीकारे सामान्यशून्यत्वघटितविशेषलक्षणासंभवः इति । [ख] स्वतो व्यावर्तकत्वस्य हानिः । यथा विशेषत्वस्य जातित्वस्वीकारे रूपहानिः । अत्र विशेषस्य विशेषत्वात्मकजातिमत्त्वस्वीकारे स्वतो व्यावर्तकत्वं न संभवति इत्याशयः । तथा हि । यदि विशेषाः द्रव्याश्रितवे ( मूर्तवृत्तित्वे) सति जातिमन्तः स्युः तदा गुणा: कर्माणि वा स्युः । विभुवृत्तित्वे सति यदि जातिमन्तः स्युः तदा गुणाः स्युः इति विशेषपदार्थस्वरूपहानिः (वै० उ० १ । २ । ३ ) । अथ वा यदि विशेषत्वं जातिः स्यात् तदा जातिमतः स्वतो व्यावृत्तत्वासंभवेन स्वतो व्यावृत्तत्वरूपस्या साधारण धर्मव व्याघातः स्यात् । अतो विशेषत्वं न जाति: (वै० वि० १ । २/३ ) / <रेचकः> कोष्ठ्यस्य वायोर्बहिर्नि:सारणम् ( सर्व० सं० पू० ३७६ पात ) । <रेतः> १ पुंसो रक्तादिपरिपाकजन्यो देहस्थो मज्जा हेतुश्चरमधातुः (वाच० ) । श्लो० २१ दुष्यन्त० ) इत्यादौ । रेतस उत्पत्तिस्थानं तु मस्तकादि इति भारतीयभिषजां मतम् । रेतस उत्पत्तिस्थानमण्डमेव इति पाश्चात्य भिषजो वदन्ति । वयं तु पुंस्त्वोद्दीपक मेवाण्डम् न तु रेतस उत्पत्त्या श्रयः इति प्रतीमः । अत्र प्रसङ्गत उदाहियते । पुमान्पुंसोधिके शुक्र स्त्री भवत्यधिके स्त्रियाः । समेपुमान् पुंस्त्रियौ वा क्षीणेल्पे च विपर्ययः॥ ( मनु० अ० ३ श्लो० ) ( याज्ञ० १ ) इति । अपुमानिति पदच्छेदः । १२ रसेश्वरदर्शनज्ञास्तु शिववीर्यस्वरूपः पारदरसः इत्याहुः । तदुक्तं रसार्णवे रोग:-१ धातुवैषम्यजातो व्याधिः । तल्लक्षणादिकं च रोगस्तु दोष मम देहरसो यस्माद्रसस्तेनायमुच्यते ( सर्व० पृ० २०२ रसे० ) इति । दोषसाम्यमरोगता । रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते ॥ इति । ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः । मानसाः केचिदा- ख्याताः कथिताः केपि कायिकाः ॥ कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे । कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ॥ इति च । साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते ॥ ( राजनि० ) इति च । २ कुष्ठौ- षधम् ( मेदिनी० ) ( वाच० ) । <रोदनम्> [क] इष्टवियोगेन अभिघातेन वा यद्वाष्पनिर्मोचनम् तत् । यथा सोरोदीत् इत्यादौ ( शाबरभा० १।२।१ पृ० ३९) । इदमत्रा- नायते । सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्वशीयत तद्रजत ५ हिरण्यम- भवत्तस्माद्रजत ९ हिरण्यमदक्षिण्यमभुज हि यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति तस्माद्बर्हिषि न देयम् (तैत्तिरीयसंहिता १॥५॥१-२ ) इति ।[ ख ] क्रन्दनम् । तच्च दुःखजन्यो ध्वनिविशेषः इति काव्यज्ञा आहुः। <रोधनम्> [क] देशान्तरसंचारविरोधिव्यापारः । यथा गां ब्रजं रुण- द्धीत्यादौ रुधधात्वर्थो रोधनम् । अत्र संचारविरोधित्वं च संचारानुत्पाद- प्रयोजकत्वम् । अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः । देशान्तरपदार्थैक- देशे देशविशेषणभेदे व्रजम् इति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः । रुध्यते गां ब्रजः इत्यादावन्वयबोधः स्वयमूहनीयः (ग० व्यु० का० २ ख० १ पृ० ४५ ) । अत्र व्रजस्याधिकरणत्वाविवक्षायाम् अकथितं च (पा० सू० ११४/५१) इत्यनेन गौणकर्मत्वम् । तत्र लकारः । कर्मणि दुह्यादेः इत्यनुशासनात् । अत्राधिकं च दोहनशब्दव्याख्याने ज्ञेयम् । रुध्यते गां व्रजः इत्यादौ व्यापारप्रयोज्यगोनिष्ठानुत्पादसंबन्धि- संचारावच्छेदकदेशनिष्ठभेदप्रतियोगी ब्रजः इति शाब्दबोधः इति । [ख] शाब्दिकास्तु निर्गमप्रतिबन्धद्वारा ब्रजायधिकरणकचिरस्थित्यनु- कूलव्यापारः । यथा व्रजमवरुणद्धि गामित्यादौ रुधेरर्थः इत्याहुः । अत्र व्रजे गौस्तिष्ठति तत्र तां निर्गमप्रतिबन्धेन चिरं स्थापयति इति संप्रत्यय: (ल० म० सुबर्थ० का० २ पृ० ९२ ) । <रोहिणी> कल्याणीशब्दे दृश्यम् । <लः> १ तिशब्दषदस्यार्थोनुसंधेयः । अत्र लकारस्य कर्मवाद्यर्थबोधने सूत्रम् लः कर्मणि च भावे चाकर्मकेभ्यः (पा० सू० ३।४।६९ ) इति । स च लकारो दशविधः लट् लिट् लुटू ऌट् लेट् लोट् लङ् लिङ् लुङ् ऌङ् इति । अयं व्याकरणशास्त्र प्रसिद्धः प्रत्ययो विज्ञेयः । संक्षेपत- तदर्थस्तु लर्तमानेडेदे भूते लङ्लुङ्लिटस्तथा । विध्याशिषोश्च लिङ्लोटौ ऌङ्लुटौ लुडविष्यति ॥ इति । अयमत्र संग्रहः । कालो द्विविधः अद्यतनः अनद्यतनश्च । अद्यतनत्रिविधः भूतः भविष्यन् मानश्च । अनद्यतनो द्विविधः भूतः भविष्यंश्चेति । तत्र वर्तमानत्वे लट् । 1. भूतत्वमात्रे लुङ् । भविष्यत्तामात्रे ऌट् । लिडर्थे लेट् । लिडर्थेषु आशिषि च लोट् । विध्यादौ लिङ् । हेतुहेतुमद्भावाद्यधिकार्थविवक्षाया मनयोऌङ् । अनद्यतने भूते तत्त्वेन विवक्षिते लङ् / तत्रैव परोक्षत्व विवक्षायां लिट् । अनद्यतने भविष्यति लुटू ( वै० सा० पृ० १४७ ) इति । अयं लकार आख्यातम् इत्युच्यते ( म० प्र० ४ पृ० ५५ ) । २ एकलघुको वर्णविशेषः ल इति वैयाकरणा आहुः । भूमिदेवताको मन्त्रविशेषः इति ३ इन्द्रः इति मेदिनीकार आह । ४ तान्त्रिका आहुः । <ला> ( धातुः ) आदानम् । यथा विठ्ठल इत्यादौ । अत्र विग्रहः विदा ज्ञानेन ठान् शून्यान् मुमुक्षून् लाति गृह्णाति स्वप्रसादपात्रतया इति विट्ठलः । <लक्षकम्> ( नाम ) यादृशार्थसंबन्धवति यन्नाम संकेतितं तदेव तादृशायें लक्षकम् यदि तादृशार्थे शक्तिशून्यं भवेत् । यथा गङ्गायां घोषः प्रवस तीत्यादौ गङ्गादयः शब्दाः तीरादावसंकेतितास्तत्संबन्धिनीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोधयन्ति इति तत्र लक्षका भवन्ति । अ मीमांसका वदन्ति । पदमिव वाक्यमपि लक्षकम् । यथा ग 1 घोषः इति पदकदम्बकं गभीरनदीतीरस्य लक्षकम् इति । अत्रायमाशयः । न हि तीरं गभीरम् । नापि गभीरपदं तीरलक्षकम् । नद्याम् इत्यस्या अत्र न केवलं नदीपदं तीरलक्षकम् । गभीरायाम् इत्यस्यानन्वयापत्तेः । योग्यतापत्तेः । न हि तीरं नदी । तस्माद्वाक्यमेव तत्र गभीरनदीतीरस्य लक्षकम् इति । अत्र सिद्धान्तविदः नैयायिकाः समुत्तिष्ठन्ते । मीमां- सकैर्यदुक्तं तन । नदीपदस्यैव गभीरनदीतीरात्मके विशिष्टे लक्षणा । गभीरपदं तु तात्पर्यग्राहकमेव इति वाक्ये लक्षणा नास्त्येव (मु० ४ पृ० १०१ ) ( न्या० म० ४ पृ० १२) इति । सैन्धवादयश्च शब्दा: लवणादाविव तुरगादावपि शक्ता एव इति न ते लक्षका भवन्ति । चटपटायनुकरणस्य हुंफडादिस्तोमस्य च स्वानुभावक- त्वमपभ्रंशानामिव शक्तिभ्रमादेव । अतो न तेषां लक्षकत्वम् इति विज्ञेयम् ( श० प्र० श्लो० २३ टी० पृ० ३२-३३)। लक्षकं च जहःस्वार्थादि विविधलक्षणावत्त्वेनानेकविधम् । तथा हि जहत्स्वार्थलक्षणया तीरत्यादिना तीरादिबोधकं गङ्गादिपदम् । अजहत्स्वार्थलक्षणया द्रव्यत्वा- दिना नीलघटत्वादिना च द्रव्यनीलघटादिबोधकं घटादिपदम् । निरूढ- लक्षणया आरुण्यादिप्रकारेण तदाश्रयद्रव्यबोधकमरुणादिपदम् । आधुनि कलक्षणया (खारसिकलक्षणया) घटत्वादिना घटादिबोधकं पटपदम् । गौण्या लक्षणया अग्निसदृशत्वादिना माणवकबोधकमयादिपदम् ( श० प्र० श्लो० २४ टी० पृ० ३५ ) इति । <लक्षणम्> १ [क] उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः (वात्स्या० ११ ११३) । यथा इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं... प्रत्यक्षम् ( वात्स्या० १११।४ ) । इति प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्तिः उद्देश: लक्षणम् परीक्षा चेति। तत्र उद्देशानन्तरं लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं च सर्वे हि लक्षणमितरपदार्थव्यवच्छेदकम् (न्या० वा० १११/१४ पृ० ८२ ) । पदार्थतत्त्वज्ञानं लक्षणस्य प्रयोजनम् इति तर्कभाषाया- मुक्तम् (त० भा० पृ० १) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयो- जनमिति दीपिकायाम् (त० दी० पृ० ५) (सि० च० ) । अत्रायं विशेषो ज्ञेयः । लक्षणस्य व्यावृत्तिप्रयोजनकत्वे सप्तपदार्थेतरत्वा प्रसिद्ध्या पदार्थसामान्यलक्षणस्य अभिधेयत्वस्य प्रयोजनं शब्दप्रयोग एव । व्यावृ 2त्तरत्रासंभवात् । अन्येषां लक्षणानां तुभयं व्यावृत्तिर्व्यवहारश्च प्रयोजनम् इत्यवधेयम् (ल० व० ) । व्यवहारः शब्दव्यवहारः शब्दशक्तिग्रहः । लक्षणज्ञानस्य प्रयोजनं यथा सास्नादिमान् गौः इति लक्षणज्ञाने सति 1. यं यं सास्नादिमन्तं पिण्डं पश्यति तं तं गोशब्दवाच्यं प्रत्येति ( प्र० प० पृ० २) इति । अत्रेदं बोध्यम् । सर्वे लक्षणं अभिधेयत्वादि- वर्जम् व्यतिरेकिहेतुर्भवति । यथा पृथिवीलक्षणं गन्धवत्वम् । तथा च विवादपदं पृथिवी गन्धवत्त्वात् यन्न पृथिवी तन्न गन्धवत् यथा आपः इत्यादि ( त० मा० अनु० पृ० १३) । लक्षणस्य केवलव्यतिरेकि हेतुत्वे प्रयोगः । लक्षणं केवलव्यतिरेकिहेतुः विशेषधर्मत्वात् यत् केवल- व्यतिरेकिहेतुने भवति तन्न विशेषधर्मो भवति यथा अभिधेयत्वम् । न चेदं तथा । तस्मान्न तथा इति । अन्यदप्युदाह्वियते । गोः सास्नादि- मत्त्वं लक्षणमित्युत्त्या गौः पक्षः महिष्याद्यात्मकेतरभेदः साध्यः । सास्नादिमत्त्वं हेतुः व्यतिरेकदृष्टान्तः । यथा गौरितरेभ्यो भिन्ना सास्नादि- मत्त्वाद्यन्नैवं तन्नैवं महिष्यादिवत् इत्यनुमाने गोर्लक्षणं व्यतिरेकिहेतुरेव भवति । नान्वयिहेतुः । गोरिरस्त् दृष्टान्ताभावात् इति । अत्रायं विशेषः । लक्षणलक्ष्यतावच्छेदकयोरैक् सिद्धसाधनं दोषः संपद्यते । यथा अनुमितेर्लक्षणमनुमितित्वम् इत्युक्त लक्षणेन लक्ष्ये अनुमितौ इतरभेदसाधने सिद्धसाधनम् । पक्षतावच्छेदक साध्यसामानाधिकरण्यस्यानुमिति विषयस्यानुमितेः पूर्वमेव हेतावव्यभि चरितसाध्यसामानाधिकरण्यात्मकव्याप्तिज्ञाने भातत्वात् ( म० प्र० २ पृ० १५ ) । व्यावृत्तेः प्रयोजनत्वे पृथिव्यामितरभेदे साध्ये गन्धवस्वरूपं लक्षणं हेतुर्भवति । लक्षणस्य लक्षणं तु लक्ष्यतावच्छेदकसमनियतत्वम् । यथा गोर्लक्षणस्य सास्त्रादिमत्त्वस्य लक्ष्यतावच्छेद की भूतगोत्वसनियतत्वं लक्षणं भवति इति विज्ञेयम् ( त० दी० ) ( ल० व० ) । [ ख] दूषणत्रयरहितो धर्मः ( त० भा० ) ( त० प्र० ) ( त० दी ० ) / यथा गोर्लक्षणं सास्नादिमत्त्वम् । यथा वा विशुद्धमातापितृजवं ब्राह्मणस्य लक्षणम् ( त० कौ० पृ० २१) । दूषणत्रयं च अव्याप्तिः दोषा लक्षणदोषाः इत्युच्यन्ते ( ल० व० ) । एतेषां दूषकताबीजं तु लक्षणेनेतरमेदसाधने अतिव्याप्तौ व्यभिचारः । अव्याप्तौ भागासिद्धिः । असंभवे स्वरूपासिद्धिश्चेति (नील० १ पृ० ४ ) । एतद्दूषणत्रयरहितो धर्म एव असाधारणधर्मः इत्युच्यते ( त० भा० ) ( त० प्र० ) ( त० दी० ) । [ग] वेदान्तिनस्तु यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्मः । यथा गोः सास्नादिमस्वम् । तद्धि गोषु सर्व- त्रास्ति नास्ति चागोषु इत्याहुः (प्र० प० पृ० १ ) । [घ ] सजातीय- विजातीयव्यावर्तको लक्ष्यगतः कश्चिलोकप्रसिद्धआकारो लक्षणम् ० न्या० अ० १ पा० १ अधि० १ ) । इदं लक्षणं द्विविधम् स्वरूपलक्षणम् तटस्थलक्षणं च इति । तदुक्तम् स्वरूपं तटस्थं द्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम् इति । तत्र स्वरूप- लक्षणं यथा आकाशो बिलम् इति । यथा वेदान्तमते सच्चिदानन्दो ब्रह्म इति स्वरूपलक्षणम् । यथा मीमांसकमते चोदनालक्षणोर्थो धर्मः इत्यादौ चोदनावाच्यविधिवाक्यमेव धर्मस्वरूपज्ञापकमस्ति इति । तटस्थलक्षणं तु काकवत् देवदत्तगृहम् इति । अत्रोदासीनोपि काक इदं देवदत्तगृह मिति ( बोधयति । यथा वा पृथिव्या गन्धो लक्षणम् । स हि तटस्थलक्षणमपि पृथिवीं परस्माद्भिन्नतयानुमापयति । तथा हि पृथिवी जलादिभ्यो भिद्यते गन्धवत्त्वात् यन्नैवं तनैवम् यथा जलम् इति । मायावादिमते तु जगज्जन्मा- दिकारणं ब्रह्म इति तटस्थलक्षणम् । लक्षणेन च पदार्थज्ञानं सुकरं भवति । तदुक्तम् ऋषयोपि पदार्थानां नान्तं यान्ति पृथक्त्वतः । लक्षणेन तु सिद्धा- नामन्तं यान्ति विपश्चितः ॥ इति । २ व्यावर्तकम् । तच्च द्विविधम् विशे- षणम् उपलक्षणं च। तत्रोपलक्षणं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरीणजटादिकं लक्षणम् ( ग० व्यु० का० ३ पृ० ९१ ) । अयं च इत्थंभूतलक्षणे ( पा० सू० २१३१२१) इति पाणिनि सूत्रघटक- लक्षणशब्दस्यार्थः । विशेषणं तु पताकावद्देवदत्तगृहमित्यादौ पताका । तथा हि सजातीयविजातीयव्यावर्तकतया लक्ष्यावधारणं लक्षणस्य प्रयोज- १ नम्। अस्मिन् ग्रामे देवदत्तगृहम् इति वार्ती श्रुतवतः पुरुषस्य तद्रामस्थेषु सर्वेषु गृहेष्वपि देवदत्तगृहबुद्धिप्रसक्तौ यत्र पताका वर्तते तदेवदत्त- ८८ न्या० को० गृहम् इति लक्षणज्ञाने सति इदमेव देवदत्तगृहम् नान्यत् इत्यवधारण• ज्ञानं जायते ( प्र०प० पृ० २ ) इति । ३ स्वरूपम् । यथा व्याप्ते - लेक्षणमाह यत्रेति ( त० दी० २ पृ० २० ) इत्यादौ । यथा वा जीव- लक्षणमाह (त० दी० ) इत्यादौ (नील० १ पृ० ११) । यथा वा पटलक्षणं वस्तु घटलक्षणं द्रव्यम् परमाणुलक्षणा नित्यपृथिवी इत्यादौ च लक्षणशब्दस्यार्थ: स्वरूपम् । ४ प्रतिपाद्यो विषयः । यथा जैमिनि- दशलक्षणीं प्रणिनाय इत्यादौ । ५ आलोचनम् । यथा विलक्षणमित्याद लक्षणशब्दस्यार्थः । तदर्थश्च हेतुशून्या स्थितिर्विलक्षणम् ( अमरटी ३।२।२ ) । ६ अन्यदीयधर्मराहित्यम् । यथा विलक्षणं वस्त्विदम् इत्यादी लक्षणशब्दस्यार्थः । यथा वा बौद्धमते स्वलक्षणं स्वलक्षणम् इति भावनाविषयो लक्षणपदार्थः । ७ शाब्दिकास्तु शब्दसाधुताप्रतिपाद प्रमाणम् । यथा व्याकरणादिसूत्रं लक्षणम् इत्याहुः । ८ व्यवहारज्ञास्तु व्यवहारोपयोगि नाम इत्याहुः । ९ चिह्नम् इति काव्यज्ञा वदन्ति । <लक्षणा> (वृत्तिः ) [क] न्यायमते स्वशक्यसंबन्धः (मा० प० श्लो० ८३) ( त० दी० ख० ४) (न्या० बो० ४) ( न्या० म० ४ पृ० १०) ( वाक्य ० ) । तदर्थस्तु स्वं लाक्षणिकं पदम् गङ्गापदम् । तस्य शक्यः प्रवाहः । तत्संबन्धः संयोगः इति ( त० प्र० ४ पृ० ३५) । स संयोगसमवायादिर्यथायथं ग्राह्यः । स्वशक्यसंबन्धश्च शब्दनिरूपितोर्थ- निष्ठः शाब्दबोधप्रयोजकः शब्दार्थयोः संबन्धः । मीमांसकादयस्तु प्रतिवसति इत्यादौ गङ्गापदस्य प्रवाहसमीपे तीरे लक्षणा (मु० वाच्यार्थसंबद्धार्थबोधकत्वरूपः शब्दनिष्ठः इत्याहुः । यथा गङ्गायां घोषः १ ४ ( वाक्य ० ४ ) । गङ्गापदशक्यप्रवाहजलौघस्य तीरे संयोगसंबन्धो गङ्गापदलक्षणा ( त० कौ० ४ ) । अस्ति हि गङ्गापदशक्यः प्रवाह विशेष: तत्संबन्धस्तीरे इति ( न्या० म० ख० ४ पृ० १०)। अत्र (भा० प० श्लो० ८३ ) । लक्षणाप्रयोजकं चालंकारिकाद अन्वयानुपपत्तिर्लक्षणाबीजम् इति प्राञ्च आहुः (मु० ४ ) । तात्पर्यानु- पपत्तिरेव (तात्पर्यनिर्वाहिका ) सर्वत्र लक्षणाबीजम् इति नव्याः प्राहुः मन्यन्त । मुख्यार्थबाधे तयुक्तो ययान्योर्थः प्रतीयते । रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ ( सा० द० परि० २ श्लो० ५) इति । काव्यप्रकाशे तु लक्षणारोपिता क्रिया इति चतुर्थचरण: ( उल्ला० २ ) । लक्षणा पुनर्द्विविधा प्रयोजननिरपेक्षा प्रयोजनसापेक्षा चेति । तत्राद्या यथा मार्गाश्चलन्ति इति । इयं प्रयोजनाभावेपि प्रवर्तमानत्वात् रूढलक्षणा इत्युच्यते । द्वितीया यथा गङ्गायां घोषः इति । इयं च पावित्र्यादि- प्रयोजनापेक्षया प्रवर्तमानत्वात् केवलं लक्षणा इत्युच्यते । मुख्यार्था- नुपपत्तिर्लक्षणाबीजम् (प्र० च० ४ पृ० ४० ) इति । लक्षणाशब्दश्च लक्षघातोर्युच्प्रत्यये स्त्रियां टापि सिद्ध्यति । [ ख ] प्राञ्चस्तु शक्याद- शक्योपस्थितिर्लक्षणा इत्याहुः । [ग] अन्ये तु अशक्ये तात्पर्यविषयत्वं लक्षणा इत्याहुः (न्या० म० ४ पृ० १० ) ( त० प्र० ४ पृ० ३५ )। [घ ] शाब्दिकास्तु शक्यतावच्छेदकारोपो लक्षणा इत्यङ्गीचक्रुः । समासस्थशब्दसमुदाये राजपुरुष इत्यादौ तु विशिष्टार्थे समासरूपविलक्षण- शक्तयैवोपपत्तौ लक्षणारूपातिरिक्तवृत्तिकल्पनमनुचितम् इति शाब्दिका वदन्ति ( न्या० म० ४ पृ० ११ ) ( त० प्र० ख० ४ पृ० ४३ ) । आरोपनिमित्तानि च गौतमेनोक्तानि यथा सहचरणस्थानतादर्थ्यवृत्तमान- धारणसामीप्ययोगसाधनाधिपत्यानि (गौ० २।२।६१) इति वैयाकरण- सिद्धान्तः । वस्तुतस्तु सहचरणादीनि शक्यसंबन्धग्राहकाण्येव नारोप- निमित्तानि इति तु वयं प्रतीमः । [ङ ] मीमांसकास्तु प्रतिपाद्यसंबन्धो लक्षणा । यथा छत्रिणो यान्तीत्यादावजहल्लक्षणा । अत्र छत्रिन् इत्यस्य मतुबर्थकेन्प्रत्ययान्ततया पदसमूहरूपत्वेन तच्छक्या प्रसिद्ध्या शक्यसंबन्ध- रूपा लक्षणा न संभवति । अतः प्रतिपाद्यसंबन्धो हि लक्षणा इत्येतत्प- र्यन्तानुधावनम् । अत्र केचिदाहुः । छत्रपदस्यैकसार्थे लक्षणा । तद्धितार्थः संबन्धी । तथा च एकसार्थसंबन्धिनो गच्छन्ति इत्यन्वयबोधः (नी० ४ पृ० ३० ) । एवं च शक्यसंबन्धरूपलक्षणयैवोपपत्तौ प्रतिपाद्यसंबन्ध- रूपलक्षणा नाङ्गीकर्तव्या इति। [च ] अन्ये च स्वबोध्यसंबन्धो लक्षणा । यथा चित्रगुरिति बहुव्रीहौ लक्षणा इत्याहुः । मीमांसकमते चित्रगुः इति बड़नीहौ वाक्यस्यापि विशिष्टं बोध्यमस्ति ( न्या० म० ४ पृ० १ ) । तथा हि एकदेशविकृतमनन्यवद्भवति इति न्यायेन चित्रगुरित्यत्र चित्रा गौः तत् तस्य च बोध्यम् चित्रा गौः तत्संबन्ध- श्चित्रगोः स्वामिन्यस्ति इति ( त० प्र० ख० ४ पृ० ४५-४६) । एतन्मते वाक्ये लक्षणाया आवश्यकत्वं तु लक्षकशब्दव्याख्याने समव लोकनीयम् । [छ ] आलंकारिकाश्च शक्यसंबन्धज्ञानं लक्षणा ( काव्य- प्रदी० ) । [ज ] शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गः । एतन्मते गायां घोष इत्यादौ गङ्गास्वेनैव लक्ष्यार्थप्रतीतिः । अत एव ततो वैयञ्जनिकी शैत्य- पावनत्वादिप्रतीतिः (वै० सा० द०) । [झ ] मुख्यार्थबाघतद्योगाभ्या मर्थान्तरप्रतिपादनं लक्षणा । सा च द्विविधा रूढिमूला प्रयोजनमूला च । तदुक्तं काव्यप्रकाशे मुख्यार्थबाधे तद्योगे रूढितोथ प्रयोजनात् । अन्योर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ( सर्व० सं० पृ० ३७३ पात० ) इति । तथा च लक्षणा द्विविधा निरूढलक्षणा स्वारसिक लक्षणा च इति । प्राचां मते लक्षणा चतुविधा जहत्स्वार्था अजह त्स्वार्था जहदजहत्स्वार्था लक्षितलक्षणा चेति (मु० ४ ) । नव्यनैया यिकानां मते तु लक्षणा त्रिविधा जहल्लक्षणा अजहलक्षणा जहदजह• लक्षणा च ( त० दी० ४ ) । यच्चोक्तं ग्रन्थान्तरे शक्येन सह संबन्धात् इति तस्य गौणी शुद्धा चेति भेदद्वय एव तारपर्थम् ( म०प्र० ख० 8 सादृश्यात् समवायतः । वैपरीत्यात् क्रियायोगालक्षणा पञ्चधा मता ॥ पृ० ४१ ) । शाब्दिकानामालंकारिकाणां च मते लक्षणा द्विधा शुद्धा च । तत्र गौण्यां सादृश्यात्मकः शक्यसंबन्धः । यथा इति ( न्या० म० ४ पृ० १० ) ( न्या० बी० ) । तदर्थश्च वाहीको वा हीकदेशोद्भवः । गौर्बलीवर्दः । वाहीके गवाभेदस्य बाधात् गोपदेन गोसदृशो लक्ष्यते । सादृश्यं च गोगतजाड्यमान्द्यादिकमेव । तथा च जडो मन्द वाहीकः इति शाब्दबोध: ( त० प्र० ख० ४ पृ० ३५-३६ ) । अत्र भट्टवार्तिकम् अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाण द्विविधा जहल्लक्षणा अजहल्लक्षणा चेति ( न्या० म० ४ पृ० १०, ( न्या० बो० ) । जगदीशमते तु प्रकारान्तरेण जहत्स्वार्था अजहत्स्वार्था निरूढा आधुनिकी गौणी चेति लक्षणा पञ्चविधा (श० प्र० श्लो० २४ पृ० ३५ ) । व्यञ्जना तु शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला । अर्थ- शक्तिमूला त्वनुमानादिना अन्यथासिद्धा ( त० दी० ४ पृ० ३० ) । अत्राधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । अत्र वैयाकरणा आहुः । लक्षणा द्विविधा गौणी शुद्धा च । तत्र स्वनिरूपितसादृश्याधिकरणत्व- संबन्धेन शक्यसंबन्ध्यर्थप्रतिपादिका गौणी । तदतिरिक्तसंबन्धेन तत्प्रति- पादिका शुद्धा । सापि शुद्धा द्विविधा अजहत्स्वार्था जहःस्वार्था च इति ( ल० म० आकाहावि० पृ० १३) । आलंकारिकास्तु गौण्याः शुद्धायाश्च प्रत्येकं सारोपा साध्यवसाना चेति द्वौ भेदौ । तत्र गौण्या भेदद्वयस्योदाहरणे गौर्वाहीकः गौरयम् इति । शुद्धायां भेदद्वयस्योदाहरणे तु आयुर्घृतम् आयुरेवेदम् इत्याहुः ( काव्यप्र० उ० २ ) । <लक्षणाभासः> दोषयुक्तं लक्षणम् । तच्च त्रिविधम् असंभवि अव्यापकम् अतिव्यापकं चेति। तत्राद्यं यथा गोरेकशफत्वं लक्षणम् इति । द्वितीयं यथा गो: शबलत्वं लक्षणम् इति । तृतीयं यथा गोर्विषाणित्वं लक्षणम् इति ( प्र०प० पृ० २ ) । <लक्षितः> १ [ क ] लक्षणया बोधितोर्थः । यथा गङ्गायां घोषः इत्यत्र तीरं लक्षितोर्थः । [ ख ] ज्ञातः । [ग] अनुमितः । २ लक्षकः शब्द: ( वाच० ) । <लक्षितलक्षणा> (लक्षणा) [क] प्राचां मते स्वलक्षितपदशक्यसंबन्धः । यथा द्विरेफपदे लक्षितलक्षणा । अत्रार्थे लक्षितस्य पदस्य लक्षणा इति विग्रहो द्रष्टव्यः ( त० प्र० ख० ४ पृ० ३९ ) । अत्र द्विरेफपदेन द्वौ रेफौ यत्र इति बहुव्रीहिलक्षणया भ्रमरपदं लक्ष्यते । भ्रमरपदेन च स्वशक्यसंबन्धी भ्रमररूपोर्थो लक्ष्यते इति द्विरेफपदस्य भ्रमरे लक्षित- लक्षणोपपद्यते इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राश्च आहुः ( त० प्र० ख० ४ पृ० ३८ ) । [ ख ] यत्र लक्षितपदेन लक्ष्यार्थो- वगम्यते ( न तु शक्यार्थः दि० ) तत्र लक्षितलक्षणा । यथा द्विरेफोस्ती- त्यत्र द्विरेफपदे ( म० प्र० ४ पृ० ४१) । [ग] नव्यनैयायिकानां मते तु यत्र शक्यार्थस्य परंपरासंबन्धरूपा लक्षणा सा । यथा द्विरेफमानयेल्यांदौ द्विरेफादिपदे लक्षितलक्षणा । द्विरेफमान येत्यादौ परंपरासंबन्धस्तु स्ववाच्यरेफद्वयघटितपदवाच्यत्वादिरूपः ( दि० ४ पृ० १८१ ) । अत्र स्वं द्विरेफपदम् । तस्य वाच्यं रेफद्वयम् । तद्घटितं पदं भ्रमर इति पदम् । तस्य वाच्यो भ्रमरः । तस्य भावस्तत्त्वं भ्रमर रूपार्थेस्ति इति द्विरेफपदशक्यार्थस्य रेफद्वयस्य परंपरासंबन्धरूपा लक्षण भ्रमरे संगच्छते । अत्र द्विरेफादिपदे रेफद्वयसंबन्धो भ्रमरपदे ज्ञायते । भ्रमरपदस्य च संबन्धो भ्रमरे ज्ञायते इति तत्र लक्षितलक्षणा जहल्लक्ष- णैव इति नव्यनैयायिकाः प्राहुः (मु० ४ पृ० १८१ ) । लक्षित- लक्षणापि गौण्यामेवान्तर्भवति । यथा द्विरेफोस्तीत्यत्र द्विरेफपदवाच्यरेफ- द्वयसंबन्धिभ्रमरपदेन भ्रमरस्योपस्थापनात् द्विरेफपदशक्यरेफद्वयसंबन्धि ( म० प्र० ४ पृ० ४१ ) । अत्रेत्थं विप्रतिपत्तिः । लक्षितलक्षणापि भ्रमरपदवाच्यत्वरूपपरंपरासंबन्धस्यैव शक्यसंबन्धत्वात् इति बोध्यम् वृत्त्यन्तरम् इति प्राञ्चो मन्यन्ते । तन्न । परंपरासंबन्धस्यापि ( न तु साक्षाच्छक्यसंबन्धस्यैव ) शक्यसंबन्धात्मकलक्षणात्वेन द्विरेफपदस्य स्वलक्ष्यभ्रमरपदघटितपरंपरासंबन्धेन भ्रमररूपार्थोपस्थापकत्व द्विरेफपदलक्षणयैवोपपत्तेर्नातिरिक्तवृत्तिकल्पनम् इति नव्यनैयायिका आहुः ( त० प्र० ख० ४ पृ० ३९ ) । आलंकारिकास्तु यत्र लक्षिता च्छब्दादर्थाभिधानम् तत्रैव लक्षितलक्षणा परिभाषिता । यथा द्विरे रूढिप्रयोजनाभावेपि लक्षितलक्षणा इत्याहु: ( सा० द० टी० ) । अत्र वैयाकरणास्तु द्विरेफपदं रूढिशत्तया भ्रमरबोधकम् । अवयवार्थप्रतीतिस्तु नास्त्येव रथन्तरादिवत् । यद्वा पदनिष्ठरेफद्वयस्यार्थ आरोपात्संबन्धित्वेनैव भ्रमरबोधः । अत एव भ्रमरपर्यायेषु द्विरेफपदस्य कोशेषु पाठः / बाघ- प्रतिसंधानं विनैव द्विरेफपदाद्भमरबोधेन लक्षणा इत्ययुक्तम् इत्या २ ( ल० म० आकाहावि० पृ० १७ ) । <लक्ष्मी:> १ [क ] श्रीविष्णोः पत्नी । अत्र प्रसङ्गतो विषयान्तरमुच्यते । पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् ( स्कन्दपु० ) इति । दीपान्वितामावास्यायां लक्ष्मीपूजा सर्वैस्तत्कामिभिः कार्या । कोजागर- लक्ष्मीपूजापि तरकाले कार्या। [ख] आदिमाया शक्तिः इति वाम- मार्गीयाः शक्ता आहुः । [ग] भगवदिच्छा इत्यन्ये संगिरन्ते । [घ ] चित्प्रकृतिरपि इति माध्वाः संवदन्ते । एतन्मते लक्ष्मीरीशकोटि- प्रविष्टा न तु जीवकोटिप्रविष्टा भगवदधीना च । तथा च श्रुतौ लक्ष्म्या यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इत्युक्त्वा मम योनिरप्खन्तः समुद्रे ( ऋ० सं० ८/७/११११-१२) इत्युक्तम् । [ङ ] भगवदंश विशेषः इति वल्लभीया मन्यन्ते । २ शोभा । ३ कान्तिः । ४ संपत्तिः । ५ स्थलपद्मम् । ६ हरिद्रा । ७ शमी । ८ वारयोषित् इति काव्यज्ञा आहुः । ९ पीडा । १० औषधम् इति भिषजो वदन्ति । <लक्ष्यम्> १ लक्षणया बोध्योर्थः । तलक्षणं च लक्षणानिर्वाहकतात्पर्य - विषयत्वम् (कृष्ण० ) । यथा गङ्गायां घोष इत्यादौ गङ्गापदस्य लक्षणया बोध्यस्तीररूपोर्थो लक्ष्यो भवति । २ [क] यदुद्दिश्य लक्षणमुच्यते तत् । यथा गन्धवत्त्वं पृथिव्या लक्षणम् इत्युक्ते पृथिवी लक्ष्या । यथा वा लक्ष्यतावच्छेदकमात्रेण लक्ष्यसंकीर्तनमुद्देशः ( त० कौ० ) इत्यादौ च लक्ष्यशब्दार्थः । [ख] वेदान्तिनस्तु यावदन्यतो व्यावर्तनीयम् यावति चैकः शब्दो व्युत्पादनीयः तलक्ष्यम् इत्याहुः (प्र०प० पृ० २) । १३ ज्ञेयम् । ४ अनुमेयम् ( त्रि० ) । ५ वेधार्थमुद्दिश्यमानं शरव्यम् । इति काव्यज्ञा आहुः । <लग्नः> १ संबन्धविशेषानुयोगी । संबद्धः इति यावत् । यथा कार्यविशेष- १ . लग्नः इत्यादौ । २ मेषादिराशीनामुदयः इति ज्योतिषज्ञा आहुः । ३ प्रतिभूः (जामीन) इति व्यवहारशास्त्रज्ञा वदन्ति ( अमरका० २ शूद्र० श्लो० ४४) । अत्रोदाह्रियते प्रसङ्गतः खादको वित्तहीनः स्यालनको वित्तवान् यदि (स्मृति ० ) (वाच० ) इति । ४ लजितः । ५ स्तुतिपाठकः इति काव्यज्ञा आहुः । विवाहेपि लग्नशब्दं प्रयुञ्जन्ति प्राकृतजनाः । <लघुत्वम्> १ गुरुत्वाभावः ( सि० च० १ पृ० ३ ) (प० च० पृ० १९ ) ( त० दी० १ पृ० ६) । यथा मृदु लघु चेदं द्रव्यम् इत्यादौ लघुत्वम् । २ स्पर्शविशेष इति केचिदाहुः (सि० च० ) । ३ शीघ्राल्पोपस्थिति- कत्वम् । यथा लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम् इत्यादौ लघुत्वम् । इदं लघुत्वं त्रिविधम् शरीरकृतम् उपस्थितिकृतम् 1 संबन्धकृतं चेति ( दि० १ ) ( सि० च० ) । तत्र प्रथमम् द्रव्यप्रत्यक्षो- त्पत्तिं प्रति महत्त्वस्य कारणत्वे अनेकद्रव्यत्वापेक्षया महत्त्वस्य लघुत्वम् । द्वितीयम् गन्धोत्पत्तिं प्रति गन्धप्रागभावस्य कारणले रूपप्रागभावा- । पेक्षया गन्धप्रागभावस्य लघुत्वम् । गन्धात्मकप्रतियोगिज्ञानस्य सत्त्वेन शीघ्रं तदुपस्थितेः । तृतीयम् घटं प्रति दण्डस्य कारणत्वे दण्डत्वदण्ड रूपाद्यपेक्षया दण्डस्य लघुत्वम् इति । दण्डत्वादेः कारणत्वे तु स्वाश्रय- दण्डसंयोगादिरूपपरंपराया गुरुत्वम् इति भावः ( दि० १५० ५४) ( नील० १ पृ० १७ ) । ४ दोषविशेष: ( प० च० ) । ५ विशेषः । यथा लघुत्वकल्पनं तर्कविशेषः इत्यादौ इति प्राञ्चो नैयायिका आहुः ( सर्वे० पृ० २३९ अक्ष० ) ( गौ० वृ० १/१/३९) । ६ शाब्दिकास्तु हस्वसंज्ञकवर्णवृत्तिर्धर्मविशेष इत्याहुः । ७ पुष्याश्विहस्ता भिजित्संज्ञकेषु नक्षत्रेषु वर्तमानो धर्मविशेषः इति मौहूर्तिका आहुः । <लङ्> ( तिङ् ) स्मशब्दस्य योगं विना शबन्तस्य धातोरर्थे अतीतत्वस्या- न्वयधीहेतुर्यादृशी तिङ् तादृशी तिङ् लङ् इत्युच्यते । यथा अपचदित्यादौ लड्। यथा वा अस्य पुत्रः अभवदित्यादौ लङ् (वै० सा० ल० पृ० १३१)/ तिबादिश्च स्मशब्दोपसंधानं विना धातोरर्थे नातीतत्वं बोधयति पपा । । चेत्यादौ लिडादिर्बोधयन्नपि न शबन्तस्य इति तिबादेर्लिंडादेव व्युदासः // अपचदित्यादौ तु विनापि स्मशब्दयोगं लङस्तथा त्वम् इति लक्षणसम न्वयः । प्रकृत्यर्थे अनुमतत्वाद्यतनत्वाद्यनाकाङ्क्षतत्वम् इति विशेषणाच पचतां पचेतां पचन्ताम् इत्यादी अपाक्ताम् अपक्षाताम् इत्यादौ अप- क्ष्यतां अपक्ष्येताम् इत्यादौ च लोटो लुङो लङस्तामाताम्प्रभृतो न ( लडू (पा० सू० ३१२/१११ ) इति सूत्रे अनद्यतनशब्दमहिमा प्रसङ्गः । अत्र लङोतीतः काल इव तन्निष्ठं ह्यस्तनत्वमप्यर्थः । अनद्यतने ह्यस्तनत्वं बोध्यत इति भावः । तच पूर्वदिनवृत्तित्वम् इति कौमारा वदन्ति । ह्यस्तनत्वं लङो नार्थः । किं तु अद्यतनभिन्नत्वम् इत्यपरे दर्पण- कृदादयः वदन्ति (वै० सा० द० पृ० १२९-१३० ) । अनद्यतने लड् ( पा० सू० ३।२।१११) इति पाणिनिना अनुशिष्टत्वात् इति भावः । तथा च अपचदित्यादौ वर्तमानध्वंसप्रतियोगि पूर्वदिनवृत्तिपाक- कृतिमान् इति तादृश प्रतियोग्यनद्यतनकालवृत्तिपाककृतिमान् इति वा मतद्वये यथाक्रमं बोधः ( श० प्र० श्लो० १०१ टी० पृ० १६० ) । अथ वा अनद्यतनातीतत्वं विशिष्टमेव लडर्थः । तच्च शब्दप्रयोगाधिकरण- दिनाद्यक्षणवृत्तिध्वंसप्रतियोगित्वम् ( ग० व्यु० लका० पृ० १३८ ) । यद्वा अनद्यतनत्वम् अतीतत्वं च पृथगेव लडर्थः (तर्का० ४ पृ० ११ ) ( सि० च० ) । शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोग- कालीनध्वंस प्रतियोगिध्वम् इति कश्चिद्वक्ति । अस्य पुत्रोभवत् इत्यत्र शाब्दि- कमते शाब्दबोधस्तु वर्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्संबन्धि- पुत्रकर्तृकोत्पत्त्यनुकूलो व्यापारः इति (वै० सा० द० ल० पृ० १३० ) । <लट्> (तिङ् ) यादृशतिङ: स्मशब्दोपसंधांनाभावप्रयुक्तः स्वार्थातीतत्व- बोधकत्वाभावः तादृशी तिङ् लड्डुच्यते । यथा जानाति जानीते पचति पचते चैत्रः इत्यादौ तिबाख्यातम् । अत्र द्विरुक्तधात्वनाकाङ्क्षवेन प्रकृत्यर्थपरोक्षत्वनिराकाङ्क्षत्वेन वा विशेषणीयम् । नातो बुभुजे बुभुजाते इत्यादिस्थलीयलिट्यतिप्रसङ्गः । जानाति जानीते पचति पचते इत्यादौ तिबादीनामष्टादशानामपि स्मशब्दोपसंधानाभावप्रयुक्तो ज्ञानादिधर्मिका- तीतत्वबोधस्योपधायकत्वाभावः । स्मशब्दोपसंधाने तु जानाति स्म इत्यादितोतीतत्वबोधानुभवात् इति लक्षणसमन्वयः (श० प्र० श्लो० ९७ टी० पृ० १४२ ) । उट् द्विविधा परस्मैपदम् आत्मनेपदं चेति । एवम् अन्या लोडाद्या अपि तिङ: परस्मैपदात्मनेपदभेदेन द्विविधा भवन्ति म् । वर्तमानकालः वर्तमानसामीप्यं चेति द्विविधोर्थः ( श० प्र० श्लो० ९७ टी० पृ० १४३-१४४ ) । अत्र सूत्रम् वर्तमाने लट् (पा० सू० ३।२।१२३ ) इति । तदर्थस्तु वर्तमानार्थवृत्तेर्धातो- लेट्प्रत्ययो भवति (काशिका० ) । वर्तमानकालस्तु तत्तच्छब्दप्रयोगा- ८९ न्या० को ० धिकरणकालः । यथा पचतीत्यादौ लडर्थः (ग० व्यु० ल० ) । अत्र लडर्थवर्तमानत्वं चाख्यातार्थकृत्याद्यन्वयि तत्तत्कालवृत्तित्वमेव ( श० प्र० श्लो० ९७ टी० पृ० १४२) । शाब्दिकास्तु प्रारब्धापरिसमाप्तो भूत- भविष्यद्भिन्नो वा कालो वर्तमानकालः इति वदन्ति (वै० सा० ल० पृ० १२० ) ( काशिका ७ ३ । २ । १२३ ) । तदर्थश्च विनष्टावयवप्राग- 'भावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वम् । अथ वा शब्दप्रयोगाधिकरण वृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्नत्वम् ( वै० सा० द० ल० पृ० १२० ) । वर्तमानसामीप्यं तु वर्तमानक्षणोत्तरकाला- वच्छेद्यत्वम् । तेन चैत्रः कदा गमिष्यति इति जिज्ञासायाम् एष‍ इत्युत्तरस्य वर्तमानक्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः इति न प्रश्नोत्तरभावासंगतिः । अथवा वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यत्वम् । तेन चैत्रः कदा समागतः इति जिज्ञासायाम् एष आगच्छति इत्युत्तरस्य वर्तमानक्षणाव्यवहित प्राक्कालावच्छेद्यागमनवान् इत्यर्थ इति न प्रश्नोत्तर- भावासंगतिः ( श० प्र० श्लो० ९७ टी० पृ० १४४ ) । <लता> दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः ( मिताक्षरा अ० २/२२९) // <लयः> १ विनाशः । कार्यस्य कारणे सूक्ष्मीभावेनावस्थानम् इति सांख्या आहुः । तदुदाहृतम् आसीज्ज्ञानमथोप्यर्थ एकमेवा विकल्पितम् (सांख्य भाष्य० ११६२) इति । २ प्रलयकालः इति पौराणिका आहुः । ३ गायकास्तु नृत्यगीतवाद्यानामेकतानतारूपं साम्यं लयः इत्याहुः । ते लयभेदाश्च द्विपदी वलतिका झल्लिका छिन्नखण्डिका इत्यादयश्चत्वारिंश संख्याकाः संगीतदामोदरादौ द्रष्टव्याः ( वाच० ) । ४ संश्लेषः इति । काव्यज्ञा वदन्ति । ५ ईश्वरः इति वेदान्तिनः संगिरन्ते । <लवः> त्रुटिद्वयं लवः प्रोक्तः ( पुरु० पृ० ३१८ ) । <लवणः> १ ( गुणः ) रसविशेषः । अत्रोच्यते लवणः शोधनो रुच्या पाचनः कफपित्तदः । पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः ॥ (भावप्र०) / इति । २ सिन्धुदेश । ३ समुद्रः । ४ लावण्ययुतः । <लाक्षणिकः> १ लक्षणया अर्थबोधकः शब्दः । यथा गङ्गायां घोषः प्रवस- तीत्यादौ गङ्गाशब्दः । अत्राधिकं तु लक्षकशब्दव्याख्याने द्रष्टव्यम् । २ लक्षणयुक्तः । <लाघवज्ञानसहकृतानुमितिः> (अनुमितिः ) सामान्यधर्मावच्छिन्नस्य सा- ध्यत्वे सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शाद्विशेषधर्मे लाघवज्ञानसह- कृताज्जायमाना विशेषधर्मावच्छिन्नविधेयकानुमितिः । यथा पर्वते धूमेन शुद्धवह्निसाधनेपि पर्वतो महानसीयवह्निमान् इत्यनुमितिः । अत्रेदं बोध्यम् । वहिव्याप्यघूमवान् पर्वतः इति परामर्शादपि महानसीयवहौ लाघवम् इति लाघवज्ञानबलान्महानसीयवह्नित्वादिना वह्नयनुमिति: पर्वतो महान- सीयवह्निमान् इति जायते ( त० प्र० ख० ४ पृ० १३० ) इति । अस्मद्गुरुचरणास्तु वहेर्महानसीयत्वे लाघवम् इति लाघवज्ञानसत्त्वे वह्नि- व्याप्यधूमवान्पर्वतः इति परामर्शात् पर्वतो महानसीयवह्निमान् इत्यनु- मितिर्जायते इति प्राहुः । एवम् इतरबाधग्रहसहकारसत्त्वेप्यनुमितिर्भवति । सा च इतरबाधग्रहसहकृतानुमितिशब्दे दृश्या । <लाघवम्> १ लघुत्वशब्दवदस्यार्थोनुसंधैयः । २ तर्कविशेषविषयः इति प्राञ्च आहुः ( सर्व० सं० पृ० २३९ अक्ष० ) । ३ आरोग्यम् इति भिषज आहुः ( राजनि० ) । <लाभः> १ स्वत्वावच्छिन्नो व्यापारः । यथा धनं लभते प्राप्नोति इत्यादौ धात्वर्थः । अत्र धात्वर्थनिविष्टे स्वत्वे धनादेराधेयत्वेनान्वयः ( श० प्र० श्लो० ७२ टी० पृ० ९७ ) । २ विधीयमानमुपायफलं लाभः ( सर्व० सं० पृ० १६२ नकु० ) । <लिङ्> (तिङ् ) विध्याद्यन्यतमस्यान्वयबोधं प्रति समर्था लटो लोटश्च भिन्ना तिङ् लिङुच्यते । पटमानय इत्यादौ सप्तमं पदं गृह्णाति इत्यादौ च विधिं बोधयन्त्यावपि लोट्लटौ न ताभ्यां भिन्ने इति यष्टव्यम् देयम् इत्यादौ तु तव्यादिकं कार्यत्वादिकं बोधयदपि न तिङ इति न लोट्लटोस्तव्यादौ चातिप्रसङ्गः । भावित्वाद्यप्रत्यायकत्वेन विशेषणाच्च पच्यात् इत्यादावाशी- र्लिङि न प्रसङ्गः (श० प्र० श्लो० १०० टी० पृ० १४६-१४७) । लिङ् द्विविधा विधिलिङ् आशीर्लिङ् चेति ( तर्का० ) (सि० च० ) । तत्र विध्याद्यर्थबोधिका लिङ् विधिलिङ । आशीर्मात्रबोधिका लिङ् आशी- र्लिङ् । विध्यादयो लिङर्थास्तु विधिः निमन्त्रितत्वम् आमन्त्रितत्वम् प्रार्थना आश्रयत्वम् जन्यत्वम् अधीष्टः संप्रश्नः इत्यादयो ज्ञेयाः । अत्र सूत्राणि विधिनिमन्त्रणामन्त्रणावीष्टसंप्रश्न प्रार्थनेषु लिङ् ( पा० सू० ३/३/१९६१) हेतुहेतुमतोर्लिंङ् (पा० सू० ३/३/१५६) आशिषि लिङ्लोट (पा० सू० ३ । ३ । १९७३) इत्यादीनि विध्याद्यर्थपरत्वेन योज्यानि । अ वैयाकरणा आहुः । विधिनिमन्त्रणामन्त्रणाधीष्टानां चतुर्णामनुगतप्रवर्तना- त्वेन वाच्यता । उक्त च भर्तृहरिणा अस्ति प्रवर्तनारूपमनुस्यूतं चतु र्ध्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ (वै० सा० ल० पृ० १३२ ) इति । अत्रेदं बोध्यम् । प्रवर्तनात्वं च प्रवृत्तिजनक ज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः ( वै० सा० पृ० १३३ ) इति । अत्र यथाक्रममुदाहरणानि प्रदर्यन्ते । तत्र (१) विधावर्थे लिङ् यथा यजेत पचेत भवान् ग्रामं गच्छेत् इत्यादि । १०० ) इति । अत्रेष्टत्वं च समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् अत्र नव्यनैयायिकमते इष्टसाधनत्यादिकं विध्यर्थ: ( श० प्र० श्लो० (ग० व्यु० ल० ) ( वॅ० सा० द० ल० पृ० १३३) । अत्राधिक षयतावच्छेदकत्वोपलक्षित नरकत्वाद्यवच्छिन्नसाधन तात्वावच्छिन्न प्रतियोगि तु विधिशब्दव्याख्यानावसरे संपादयिष्यते । तत्तत्र द्रष्टव्यम् / द्वेषवि- ताकाभावो विध्यर्थः इति प्राचीननैयायिका आहुः । आचार्यास्तु भिप्रायो विध्यर्थः । पाकं कुर्या: पाकं कुर्याम् इति मध्यमोत्तमपुरुष योर्लिंङ् इच्छाविशेषात्मकाज्ञाध्येषणानुज्ञाप्रश्नप्रार्थनार्थकतया प्र (२) निमन्त्रितत्वे लिङ् यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम् च्छाया मेकशक्तेरुचितत्वात् इत्याहु: (वै० सा० ६० ल० पृ० १४५ ) / इत्यादि । (३) आमन्त्रितत्वे ( कामचारकरणे ) लिङ् यथा भवानि- हासीत पुत्रोत्सवे भवान् भुञ्जीत इत्यादि । ( ४ ) प्रार्थनायां लिङ्ग यथा भोजनं लभेय धेनुं दद्यास्त्वमस्मभ्यम् भवति मे प्रार्थना व्याकरणमधी यीय इत्यादि । ( ५ ) आश्रयत्वे लिङ् यथा हृदो यदि धूमवान् इत्यादि । अत्र धातोः यदि इत्यस्य वा निरूढलक्षणया भेदोर्थः । तेन धूमवद्भेदाश्रयतावान् हृदः इत्यर्थः । एवम् गुणत्वं यदि घटे स्याद्रव्ये स्यात् इत्यादौ तु धातोरत्यन्ताभाव एवार्थः । तदुत्तरलिङस्तु पूर्ववत् आश्रयत्वम् अर्थः । तथा च घटवृत्तित्वाभाववद्गुणत्वं घटवृत्तित्वव्यापकी- भूतस्य द्रव्यवृत्तित्वस्याभाववत् इत्येवं तत्र बोध: ( श० प्र० श्लो० १०० टी० पृ० १५५ ) । (६) जन्यत्वेर्थे लिङ् यथा यो ब्राह्मणायावगुरेतं शतेनं यातयात् इत्यादि । अत्र हेतुहेतुमतोर्लिङ् (पा० सू० ३/३/१५६) इत्यनुशासनात् यः शतयातना हेतुब्राह्मणावगोरणवान् तदीयशतयातनं ब्राह्मणावगोरणजन्यम् इत्याकारको बोधः । अवगोरणं हन्तुमुद्यमः । अत्र शाब्दिकमते तु शाब्दबोधः यत्कर्तृको ब्राह्मणोद्देश्यको वधोयमः तत्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातना इत्याकारको द्रष्टव्यः ० सा० ६० पृ० १४६ ) । प्राभाकरास्तु अत्र जन्यजनकभावो न लिडर्थः । अपितु पौर्वापर्यमात्रं लिङर्थः । पश्चात्तस्य कल्पनात् । अन्यथा दुरितापूर्वस्य वाच्यत्वापत्तेः इत्याहुः ( श० प्र० श्लो० १०० टी० पृ० १५८) । (७) अधीष्टार्थे लिङ् यथा माणवकमध्यापये- द्भवान् इत्यादि । अधीष्टश्च सत्कारपूर्वको व्यापारः । तथा च माणवक- मध्यापयेद्भवानित्यादौ अध्यापन/दिव्यापारे संमानपूर्वकप्रवृत्यनुकूलो व्यापारः इत्यर्थः । अयमेव अभ्यर्थना इत्युच्यते । अत्र संमानपूर्वम- ध्यापनादिव्यापार इष्टसाधनम् इति बोध: ( वै० सा० द० पृ० १३१ - १३२ ) । (८) संप्रश्न (संप्रधारणे ) लिङ् यथा किं भो वेदमधीयीय उत तर्कमधीयीय इत्यादि (काशिका ० पा० सू० ३/३/१६१ पृ० १८१ ) । आशिषि लिङ् यथा चिरं जीव्याद्भवान् । यथा वा अव्यादजोडिमणिमांस्तव जान्वथोरू यज्ञोच्युतः कटितटं जठरं हयास्यः ( भाग० स्क० १० अ० ६ श्लो० २२ ) इत्यादि । <लिङ्गपरामर्शः> परामर्शशब्दवदस्यार्थोनुसंधेयः । अत्रेदं बोध्यम् । लिङ्ग- परामर्शोनुमानम् इति वार्तिककारसिद्धान्तः । एके ताबद्वर्णयन्ति लिङ्ग- लिङ्गिसंबन्धस्मृतिरनुमानम् इति (न्या० वा० ११ १/५ पृ० ४७ ) । इदमेव तृतीयं लिङ्गज्ञानम् । तथा हि लिङ्गज्ञानं त्रिविधम् । तद्यथा पर्वते घूमेन वह्निसाधने धूमाझ्योर्व्याप्तौ गृह्यमाणायां महानसादौ यद्धूमज्ञानं तदादिमम् । पक्षे यद्धूमज्ञानं तद्वितीयम् । ततः पूर्वगृहीतां धूमाग्यो- यिोप्तिं स्मृत्वा तत्रैव पर्वते वह्निव्याप्यत्वेन यद्भूमज्ञानं तत्तृतीयम् । इदमेव लिङ्गपरामर्शः इत्युच्यते ( सि० च० ) ( त० भा० ) । अथ वा महान सादौ दृष्टान्ते वह्निधूमयोर्भूयः सहचारदर्शनात् प्रथमम् । ततः पर्वतादौ धूमं दृष्ट्वा व्याप्यत्वेन तत्स्मरणं द्वितीयम् । ततः तत्रैव व्याप्यत्वेन धूमस्य परामर्शो वह्निव्याप्यधूमवान् इत्येवंरूपस्तृतीयः ( त० कौ० २ ) । यद्वा प्रथमं दृष्टान्ते धूमदर्शनम् । ततः व्याप्ति- ज्ञानम् । ततः तद्विशिष्टपक्षधर्मताज्ञानम् ( न्या० म० २ पृ० १८) । <लिङ्गम्> १ ( हेतुः ) [क] व्याप्तिबलेन यद्यस्य गमकम् तत् तस्य लिङ्गम् । यथा पर्वतो वह्निमान्धूमादित्यादौ धूमो बहेलिङ्गम् ( प्र० प्र० ) ( त० मा० पृ० ९ ) । इदं लिङ्गं द्विविधम् सल्लिङ्गम् असल्लिङ्गं च । तत्र व्याप्तिपक्षधर्मतावल्लिङ्गं सलिङ्गम् । तच्च व्यापकेन साध्येन व्याप्यं नियमः । अत्र उभयविधमपि लिङ्गं प्रत्येकं त्रिविधम् अन्वयव्यतिरेक भवति । असल्लिङ्गं तु व्याप्तिपक्षवर्मतान्यतरशून्यम् । तस्य व्याप्यत्वे न केवलान्वयि केवलव्यतिरेकि चेति ( न्या० म० २ पृ० १८) ( गौ० वृ० ) ( त० सं० ) । अत्रापि विभागः संपद्यते । अन्वयव्यतिरेकि द्विविधम् सपक्षवृत्ति तदेकदेशवृत्ति चेति । तत्राद्यम् शब्दः अनित्यः कृतकत्वाद्धटवत् इति सपक्षव्यापकम् । सर्वस्मिन्ननित्ये कृतकृत्वस्य वृत्ते: । द्वितीयं यथा पर्वतोनिमान् धूमवत्त्वात् इति सपक्षैकदेशवृत्ति / अग्निमत्यपि कचिदवृत्तेः ( प्र० प० पृ० १८) इति । अत्र । अनुमानशब्दव्याख्याने दृश्यम् । लिङ्गं ( अनुमानम् ) द्विविधम् दृष्टम सामान्यतो दृष्टं च । तत्र दृष्टं प्रसिद्धसाध्ययोरत्यन्तजायभेदे अनुमानम् । यथा गव्येव सास्त्रामात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनात् गवि प्रति वृत्तितोनुमानं सामान्यतो दृष्टम् । यथा कर्षकवणिग्राजपुरुषाणां प्रवृत्ते पत्तिर्भवति । प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्म सामान्यानु फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानम् इति । अत्रेदं बोध्यम् । यत्र धूमस्तत्राग्निः इति अग्नयभावे धूमो न भवति इत्येवं प्रसिद्धसमयस्यासंदिग्धधूमदर्शनात् साहचर्यानु- स्मरणादनन्तरमध्यध्यवसायो भवति इति तत्र लिङ्गदर्शनं प्रमाणम् । प्रमितिरग्निज्ञानम् । अथ वा अग्निज्ञानमेव प्रमाणम् । प्रमितिरन्नौ गुणदोष- माध्यस्थप्रदर्शनम् । तत्वनिश्चितार्थमनुमानम् (प्रशस्त० पृ० ४४-४५ ) । लिङ्गशब्दे व्युत्पत्तिस्तु व्याप्तिबलेन लीनमर्थं गमयति इति लिङ्गम् ( सि० च० २ पृ० २५ ) ( गौ० वृ० ) । अथवा लिङ्ग्यते गम्यते अनेनार्थः इति लिङ्गम् ( न्या० बिन्दु०प० २ पृ० २१ ) । [ख] यदनुमेयेन सहचरितं तःसमानजातीये च सर्वत्रासर्वत्र वा सामान्येन प्रसिद्धम् तद्विपरीते च सर्वस्मिन्नसदेव तत् लिङ्गम् । अत्रोक्तम् अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ॥ इति । काश्यपः कणादः । तदर्थश्च यदनुमेयेनार्थेन देशविशेषे कालविशेषे च सहचरितम् अनुमेयधर्मान्विते चान्यत्र सर्व- स्मिन्नेकदेशे वा प्रसिद्धम् अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोसदेव तदप्रसिद्धस्यार्थस्यानुमापकं लिङ्गं भवति इति । यत्तु यथोक्तान्त्रिरूपा- लिङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीतम् तदनुमेयस्याधिगमे लिङ्गं न भवति इति आई सूत्रकारः अप्रसिद्धोनपदेशोसन् संदिग्धश्चानपदेशः (वै० ३११११५ ) ( प्रशस्त ० २ पृ० २७,४४,४६ ) इति । २ सांख्यमते महत्तत्त्वादिकार्यजातं लिङ्गमुच्यते । अस्मिन्नर्थे व्युत्पत्तिस्तु लियं लयं गच्छति प्रधाने इति लिङ्गम् । पृषोदरादित्वात्साधुत्वम् । ३ लक्षणम् । यथा युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् (गौ० १/१/१६) इत्यादौ ज्ञाकारणावं मनसो लिङ्गम् ( गौ० दृ० १११११६ ) इत्यादौ । ४ वैयाकरणास्तु शब्दसाधुताप्रयोजको धर्मः । स च प्राकृतगुणगतावस्थात्मको धर्मः । तद्विशेषश्च पुंनपुंसकत्वादिः इत्याहुः ( शब्दार्थर० ) । तथा हि । सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छन्देषु लिङ्गविशेषः इति कल्प्यते । स च विशेषः शास्त्रे इत्थमभ्यधायि । विकृतसत्त्वादीनां तुल्यरूपेणावस्थाना- न्नपुंसकत्वम् । सत्त्वस्याधिक्ये पुंस्त्वम् । रजस आधिक्ये स्त्रीत्वम् इति । एवं च लिङ्गस्य शब्दधर्मत्वेपि शब्देन सहार्थाभेदारोपात् असति बाधके अर्थेपि साक्षात् तत्पारतध्येण वा सर्वत्र तस्य विशेषणत्वम् (वाच० ) । अथवा सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छन्दनिष्ठं तत्तच्छन्दवाच्यं च । तमेव विरुद्धधर्ममादाय तटादिशब्दा मिद्यन्ते (वै० सा० पृ० २२४ ) इति । अत्रेदं बोध्यम् । पुंलिङ्गः शब्दः इति व्यवहारात स्वमोर्नपुंसकात् ( पा० सू० ७ ११२३ ) इत्यत्र शब्दस्यैव नपुंसकत्व- व्यपदेशात् दारान् इत्यादौ पुंस्त्वान्वयबाधाञ्च लिङ्गस्य शब्दधर्मत्वम् इति । तटादिशब्दाना मनेक लिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनैव शब्दानाम- भेदारोपात् । वस्तुतः तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति । अत्र महा- भाष्यम् एकार्थ शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वम् इति दिक् (वाच० ) । इदं शाब्दिकमतम् । पुंस्त्वादयस्तिस्रो जातयः इति वैशेषिका आहुः । पुंस्त्वादि शब्दनिष्ठम् इति प्राञ्च आहुः । पुंस्त्वादिलिङ्गमर्थनिष्ठमेवेति नव्यवैयाकरणा आहुः । पुंस्त्वादिलिङ्गस्यार्थनिष्ठत्रे प्रमाणं च इयं व्यक्तिः इदं वस्तु अयं पदार्थः इति व्यवहारा अप्रतिबद्धप्रसराः इति । अत्रेद- माकूतम् पुष्यः तारका नक्षत्रम् इति शब्दनानात्वदर्शनात्स्त न केशाद्यति • रिक्तमेव लिङ्गमर्थनिष्ठम् इति ( ल० म० ) ( वै० सा० द० नामार्थ ० पृ० २२५ ) । अत्रोक्तम् स्त्रीलिङ्गमपि पुलिङ्ग क्लीबलिङ्गमिति त्रिधा शब्दसंस्कारसिद्ध्यर्थे भाषया नाम भिद्यते ॥ (श० प्र० श्लो० ५३ ) इति । अधिकं तु स्त्रीलिङ्गम् इत्यादितत्तच्छब्दे द्रष्टव्यम् । ५ मीमांसकाच अर्थप्रकाशनसामर्थ्य लिङ्गम् इत्याहुः । सामर्थ्य द्विविधम् शब्दगतं साम अर्ध्यम् अर्थगतं सामर्थ्य च । तत्राद्यम् बर्हिर्देवसदनं दामि इति । द्वितीयं तु स्रुवेणाबद्यति इति । एवम् ऐन्द्या गार्हपत्यमुपतिष्ठते स्योनं ते सद सर्वशब्दानां लिङ्गमित्यभिधीयते इति । क्षमता च लिङ्गम् इति च (वाच०) / कृणोमि इत्यादिकानि लिङ्गस्योदाहरणानि ज्ञेयानि । अत्रोक्तम् सामर्थ्य अत्र पुरोडाशसदनभूतं बर्हिः खण्डयामि इति श्रुतपदसामर्थ्यात् बर्हि- र्देवसदनं दामि इति मन्त्रस्य कुशकाशादिरूपाणां मुख्यबर्हिषां लवना- ङ्गत्वम् । न तु समाख्यातो दर्भसदृशानामुलपादिरूपतृणविशेषाणां गौण- बर्हिषां लवनाङ्गत्वम् इत्यर्थः (लौ० भा० टी० पृ० २१ ) । अथ वा दामि इति पदस्य दा लवने इत्यस्माद्धातोः सिद्धस्य छेदनप्रकाशन- सामर्थ्यात् बर्हिः इत्यस्य चास्तृतदर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने समुदायमन्त्रस्य विनियोगोवगम्यते ( तत्वबोध ० ) ( वाच० ) । स्रवेणा- बद्यतीत्यत्र अवदानसामान्यशेषत्वावगमेपि स्रुवस्य लिङ्गात्सामर्थ्यरूपात् आज्यसांनाय्यादिद्रवद्रव्यावदान विशेषाङ्गत्वम् । स्रुवेण मांसादिद्रव्यावदा- नस्य कर्तुमशक्यत्वात् इति । ऐन्द्या गार्हपत्यमित्यत्र मन्त्रस्य प्राप्तार्थत्वेना- नुवादकत्व संभवात् मन्त्रस्थेन्द्रपदस्यैव इदि परमैश्वर्ये इति धास्वनुसारादै- श्वर्यगुणयोगादग्नौ लक्षणा इति गार्हपत्यप्रकाशने समर्थमेव मन्त्रं ऐन्द्या इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुते (लौ० भा० टी० पृ० २१ ) इति । मीमांसकाभिमतमिदं च लिङ्गं विनियोगविधेः सहकारि भवति इति विज्ञेयम् (लौ० भा० पृ० १६) । ६ स्वरूपम् । यथा सप्तदशावयव लिङ्गदेहः इत्यादौ सप्तदश सूक्ष्मदेहस्य लिङ्गम् इत्याहुः । अत्र सूत्रम् सप्तदशैकं लिङ्गम् (सांख्य० सू० अ० ३ सू० ९) इति । तदर्थश्च सूक्ष्मशरीरमप्याघाराधेयभावेन द्विविधं भवति । तत्र सप्तदश मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्च इति सप्तदश । अहंकारस्य बुद्धावेवान्तर्भावः (सांख्य० भा० ३।१ ) इति । अत्रोक्तम् वासना भूतसूक्ष्मं (तन्मात्रा) च कर्मविद्ये तथैव च । दशेन्द्रियं मनो बुद्धिरेत- लिङ्गं विदुर्बुधाः ॥ (वाशिष्ठे० ) इति । कर्मात्मा पुरुषो योसौ बन्ध- मोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः ॥ (भार० मोक्षध) (सांख्य० मा० ३।९) इति । अत्रेदं बोध्यम् । सांख्य लिङ्गशरीरस्यैव सुखदुःखकार्यकत्वम् । कुतः । एकस्य लिङ्गदेहस्यैव सुख- दुःखाख्यभोगात् । न तु स्थूलशरीरस्य । मृतशरीरे सुखदुःखाद्यभावस्य सर्वसंमतत्वात् (सांख्य० भा० अ० ३ सू० ८) इति । ७ धर्म- ९० न्या० को० शास्त्रज्ञादयस्तु पुंसः असाधारणमिन्द्रियम् ( उपस्थ: ) इत्यादुः । १८ चिह्नम् शिवलिङ्गं चेति काव्यज्ञाः पौराणिकाश्चाहुः । ९ उपक्रमोप- संहारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ( वेदान्तसार: ) ( सर्व० सं० पृ० ४०५ शां० ) । इदमेव लिङ्ग मित्युच्यते । <लिङ्गाभासत्वम्> १ अङ्गवैकल्यम् । २ दुष्टलिङ्गत्वम् । <लिङ्गि> १ साध्यम् ( दीधि० २) । यथा लिङ्गाविषयकलिङ्गिविषयक ज्ञानजनकन्यायावयवत्वम् प्रतिज्ञालक्षणम् ( चि० २ अव० पृ० इत्यादौ लिङ्गिशब्दार्थः साध्यम् । यथा वा तलिङ्गलिङ्गपूर्वकम् (सांख्यका० ५) इत्यादौ । अत्र लिङ्गि इत्यस्य लिङ्गज्ञानज्ञेयम् इत्यर्थो ज्ञेयः । २ पक्षः । ३ पक्षधर्मताज्ञानम् । अत्रार्थे लिङ्गमस्यास्ति इति । विग्रहोपि ज्ञेयः ( सांख्य० कौ० श्लो० ५ पृ० १० ) । <लिङ्गोपधानम्> लिङ्गोपहिते पक्षे लैङ्गिकस्य साध्यस्य भानम् । "विग्रहः । लिङ्गस्य हेतोः उपधानम् पक्षे वैशिष्ट्यम् इति । लिङ्गोपहिते इत्यस्य लिङ्गेन व्याप्तिपक्षधर्मता विशिष्टेन हेतुना उपहितः विशिष्ट तस्मिन् इति विग्रहः । तथा च साध्यानुमानाङ्गहेतुयुक्ते पक्ष इत्यर्थः । यथा शुद्धपर्वतपक्षकेपि वह्निसाध्य के धूमहेतुके स्थले पर्वतो वह्निमा धूमादित्यादौ वहिव्यायधूमविशिष्टे पर्वते वर्भानम् वहिव्याप्यमा न्पर्वतो वह्निमान् इति । तथा हि वह्निव्याप्यो हि धूमो वहेर्लिङ्गम् । पक्षे वह्नेर्भानम् । वह्निव्याप्यधूमवान्पर्वतः इति परामर्शोत्तरं नुमितो ज्ञानलक्षणया तादृशपक्षभानस्यावश्यकत्वात् । तथा <लिङ्गोपधानमतम्> लिङ्गोपहित लैङ्गिकभानम् इत्यभिमतम् । अत्र व्युत्पत्ति व्याप्यधूमवान् पर्वतो वह्निमान् इत्येव तत्रानुमितेराकारः इति विज्ञेयम् / लिङ्गस्य व्याप्तिपक्षधर्मता विशिष्टहेतोः उपधानम् भानम् अर्थात् पक्षे भवति इति मतम् । लिङ्गोपहितेत्यस्यार्थश्च लिङ्गोपहित लिङ्गविशिष्टे पक्षे लैङ्गिकस्य साध्यस्य भानं भवति इति । यथा सु पर्वतत्वावच्छिन्नपक्षकवह्विसाध्यकस्थले पर्वतो वह्निमान्धूमादित्यादावा वह्निव्याप्यधूमवान्पर्वतो वह्निमान् इत्यनुमितिर्भवति न तु केवल: पर्वतो वह्निमान् इति । इदं चोदयनाचार्याणां मतम् । तन्मते सर्वत्र तादृश- हेतुविशिष्टः पक्षः साध्यवान् इत्याकारैवानुमितिर्भवति इति विज्ञेयम् । अयं भावः । आचार्याणां मते हेतोः सर्वत्रैव धर्मितावच्छेदकतया भानात् पर्वतत्वाद्यवच्छेदेन हेतुमत्ताज्ञानस्थलेपि ( वह्निव्याप्यधूमवान्पर्वतः इति परामर्शेपि ) वह्निव्याप्यधूमविशिष्टपर्वतो वह्निमान् इत्याकारिकैवानु- मितिर्भवति इति ( ग० २ सामान्यनि० पृ० ४ )। <लिट्> (तिङ् ) [ क ] द्विरुक्तभिन्नधात्वर्थे स्वार्थस्यान्वयबोधने या न योग्या तादृशी तिङ् लिट्पदेनाभिधीयते ॥ यथा जघान जन्नतुरित्यादौ लिट् । अत्र द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयं प्रत्यया बोधयन्ति इति तत्र लक्षणसमन्चयो बोध्यः। अशिश्रियत् अदुद्रुवत् इत्यादौ द्विरुक्तस्येव अपाक्षीत् इत्यादौ द्विरुक्तान्यस्यापि धातोरर्थे स्वार्थान्वयं लुङादयो बोधयन्ति । अतो न लुङादावतिप्रसङ्गः । पिपक्षति पापच्यते इत्यादौ च सनादयस्तादृशा द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयबोधका अपि न तिङः इति न तत्रातिप्रसङ्गः । अत्र प्रकृत्यर्थे वर्तमानत्वाद्यनाकाङ्क्षत्व इति विशेषणं देयम् । तेन पचे पचावहे पचावः इत्यादौ न लडाद्यतिप्रसङ्गः। [ख] द्विरुक्तस्य यजेरर्थे चकास्तेरामयुतस्य वा । या स्वार्थस्यान्वये हेतुः सा वा लिट् कथ्यते बुधैः ॥ जुहोतीत्यादौ द्विरुक्तस्य धातोरर्थे स्वार्थबोधकोपि लडादिः न यजेरर्थे इति न तत्र लडादावतिप्रसङ्गः । यथा काशांचक्रे लोलूयामास ईक्षांबभूवेत्यादौ मनश्चचाल सुरभिभाग आजगाम इत्यादौ च लिट् । अत्र अतीतः काल इव धात्वर्थनिष्ठं परोक्षत्वमपि लिटोर्थः । तच्च परोक्षवम् अतीन्द्रियत्वम् । तेन अतीत- कालवृत्त्यतीन्द्रियचलनवन्मनः इत्या कारकस्तत्र बोधः ( श० प्र० लो० १०५ टी० पृ० १६२) । अत्र चैत्रश्चारु पपाच व्याने किरणावलीमुदयनः इत्यादौ लिटि लक्षणसमन्वयश्चिन्त्यः । चिन्ताबीजं तुष्टिहिं कलिङ्गान् जगाम इत्यत्रेव पूर्वोक्तस्थलयोरपि लिट्साधुस्खोपपादकं सूत्रान्तरमेव इति (ग० व्यु० ल० पृ० १३९) । अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिडर्थः ( तर्का० ४ पृ० ११ ) । यथा जुगोप गोरूपधरामिवोर्वीम् (रघु० २१३ ) इत्यादौ लिडर्थः । अत्र सूत्रम् परोक्षे लिटू (पा० सू० ३।२।११५ ) इति । तदर्थस्तु अनद्यतने भूते परोक्षेर्थे लिट् भवति इति । तेन अद्यतने भूते अनद्यतने भविष्यति भूतेप्यपरोक्षे च न लिट्प्रयोगः स्यात् । अत्र परोक्षत्वं च साक्षात्करोमि इत्येतत्प्रतीतिसाक्षिकलौकिक विषयत्वाभाववत्त्वम् । उपनीतक्रियायां यथाश्रुतप्रत्यक्षा विषयत्वरूपस्य परोक्षत्वस्याभावेपि पपाच इत्यादिप्रयोगानुपपत्तिः (वै० सा० ६० ल० पृ० १२४ ) । अत्र परोक्षत्वातीतत्वयोर्लिंडर्थयोरन्वयस्तु लुङर्थवदुत्पत्तौ ज्ञेयः ( तर्का० ४ पृ० ११ ) । <लिपिः> शब्दस्मारकः शब्दानुमापको वा रेखाविशेषः ( म० प्र० ४ पृ० ६६ ) । यथा क इति रेखा प्रजापति इति शब्दस्य स्मारिका । केचित्तु लिपि प्रमाणान्तरं मन्यन्ते । लिपिभेदास्तु तत्तद्देशभेदेन देव- नगरी ग्रन्थाक्षरलिप्यादयो बहवः । अत्र सिद्धान्त विदस्तु लिपिस्तु शब्द- स्मारकतया शब्दानुमापकतया वा प्रमायामुपयोगिनी न तु प्रमाणान्तरम् । इत्याहुः । अनुमानं च अयं पुरुषः घटमानय इति शब्द विषयकाभि- प्रायवान् घटमानय इति शब्दव्यञ्जकलिपिकर्तृत्वात् यथा अहम् इति ॥ अस्मादनुमानात् घटमानय इति शब्दस्यानुमितिर्भवति । ततोर्थप्रत्ययः इति ज्ञेयम् ( म० प्र० ४ पृ० ६६ ) । <लुङ्> (तिङ् ) कृतवधादेशस्य हन्तेरर्थे अथ वा सिजन्तस्य धातोरयें या । अतीतत्वस्य बोधिका तादृशी तिङ् लुङ्शब्देनोच्यते । अवधिष्टाम् अवधिषुरित्यादौ अपाक्षीदित्यादौ च लुङ् ( श० प्र० श्लो० १०३ पृ० १६१ ) । यथा वा घटोभूदित्यादौ (वै० सा ल० पृ० १४७) । जघान हन्ति स्म इत्यादौ लिडलडादिको हन्तेरयें अतीतत्वस्य बोधकोपि न कृतवधादेशस्य न वा सिजन्तस्य इति तत्रातिप्रसङ्गः । वध्यात् वध्यास्ताम् वध्यासुः इत्यादौ कृतवधादेशस्य तस्यार्थे स्वार्थानुभाविकापि आशी: नातीतत्वस्य बोधिका इति न तत्राति प्रसङ्गः । अत्र अनुमतत्व ह्यस्त नत्वाद्यनाकाम् इति विशेषणं देयम् । तेन पच्यताम् अपचत् अपचताम् इत्यादौ लोडादौ नातिप्रसङ्गः । अत्र अतीतः काल इव तन्निष्ठमद्यतनत्वमपि लुडोर्थः । तेन वर्तमानध्वंस- प्रतियोग्यद्यतनपाककृतिमान् इत्येवं बोध: ( श० प्र० श्लो० १०३ टी० पृ० १६१ ) ( ग० व्यु० ल० पृ० १३८ ) । किंच उत्पत्तिः भूतत्वं च लुङर्थः (तर्का० ४ पृ० ११ ) । अथ वा अतीतत्वं लुङर्थः । तस्याश्रयतासंबन्धेनाख्यातार्थकृत्यादावन्वयः । वस्तुतः वर्तमानध्वंस एव लुङर्थः । तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः ( ग० व्यु० लका ० पृ० १३८) । अत्र सूत्रम् लुङ् ( पा० सू० ३।२।११० ) इति । तदर्थस्तु भूतसामान्ये लुङ् इति (वै० सा० ल० पृ० १४६ ) ( काशिका० ) । अत्र भूतत्वं चातीतत्वम् । तच्चोत्पत्तावन्वेति । तथा च विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् (तर्का० ४ पृ० ११ ) । वैयाकरणास्तु अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तच्च घटोभूत् इत्यत्र क्रियायां निर्वाधम् इति विद्यमानेपि घटे घटोभूत् इति प्रयोगः । विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापारः इति बोधः इत्याहुः (वै० सा० ल० पृ० १४७ ) । <लुटू> ( तिङ् ) धात्वर्थे श्वस्तनत्वस्य भावित्वस्य च बोधिका तिङ् पक्तारौ लुडुच्यते । यथा भविता भवितारौ भवितारः इत्यादौ पक्ता पक्तारः इत्यादौ च ( तर्का० ४ ) । ऌडादयस्तु धात्वर्थे भावित्वमेव बोधयन्ति न श्वस्तनत्वमपि इति तत्र नातिप्रसङ्गः । श्वः पक्ष्यति इत्यादौ धात्वर्थे श्वस्तनत्वस्य बोधकमपि श्वः इति पदं न तिङ् इति न श्वः इति पदेतिप्रसङ्गः (श० प्र० श्लो० १०५ पृ० १६२) । अत्र लुडर्थो- नद्यतनभविष्यत्वम् । तच्च शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्द- प्रयोगकालीनप्रागभावप्रतियोगित्वम् । शब्दप्रयोगाधिकरणदिवसध्वंसो- त्पत्तिकत्वं वा । केचित्तु भविष्यत्त्वमेव लुडर्थः इत्याहुः ( ग० व्यु० ल० पृ० १३६ ) । तण्डुलं चेत्पचेदोदनमपि भुञ्जीतेत्यादौ तु क्रियाति- पतनस्य वर्तमानत्वमेव लिङा प्रत्याय्यते न त्वतीतत्वम् इति तद्वयुदासः ( श० प्र० श्लो० १०६ पृ० १६४ ) । अत्र सूत्रम् अनद्यतने लुट् (पा० सू० ३।३।१५) इति । तदर्थस्तु अनद्यतने भाविनि लुट् (बै० सा० ल० पृ० १२७ ) इति । अत्र अनद्यतन इति बहु- व्रीहिः । ते न व्यामिश्रे न भवति अद्य श्वो वा भविष्यति इति (काशिका० ) । <ऌङ्> (तिङ् ) या तिङ् क्रियायाः (धात्वर्थस्य ) अतिपाते ( विगमे) अतीतकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् ऌङुच्यते । यथा एध- श्वेत् प्राप्स्यत् ओदनमप्यपक्ष्यत् इत्यादौ ऌङ् । अत्र स्यतिप्रभृतयश्चैत्रा- देरतीत कालावच्छेद्यमिन्धनप्रात्यभाववत्त्वमनुभावयन्ति । तथा च अतीत- काल इव क्रियाप्रतियोगिकोभावोपि लुङोर्थः । वस्तुतः अतीतकाला- वच्छेदेनेन्धनप्रात्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लङा दावनुभाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपात- शब्दार्थत्वात् ( श० प्र० श्लो० १०६ टी० पृ० १६४ ) / ऌङर्थस्तु व्याप्यक्रियया व्यापकक्रियाया आपादनम् (तको० ४ पृ० ११)/ यथा भूतले घटश्चेदभविष्यद्भूतलमिवाद्रक्ष्यत् इत्यादौ ऌडर्थः । अत्रो- दाहरणान्तरं यथा परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् / अस्मिन्द्रये रूपविधानयत्नः पत्युः प्रजानां वितथोभविष्यत् ॥ ( रघु० स० ७ श्लो० १४ ) इति । शाब्दिकमते क्रियाया अनिष्पत्तौ गम्य- मानायां भूते भाविनि वा हेतुहेतुमद्भावे सति ऌङ् । अत्र जगदीश क्वचित् भूतत्वम् कचित्त भविष्यत्वं लुङर्थः इति ( तर्का० ४ पृ० ११) ( सि० च० ४ पृ० ३२) । अत्र सूत्रम् लिङिमित्त ऌङ् कियातिपत्तौ (पा० सू० ३ । ३ । १९३९) इति । तदर्थस्तु लिङो निमित्तं हेतुहेतु द्भावादि (वै० सा० ल० पृ० १४८) । भविष्यतीत्यनुवर्तते । हेतुहेतुमतोर्लिंङ् इत्येवमादिकं लिङो निमित्तम् । तत्र लिनिमित्ते भवि ष्यति काले ऌङ प्रत्ययो भवति क्रियातिपत्तौ सत्याम् (काशिका ० ) इति । तत्र भाविनि हेतुहेतुमद्भावे ऌङ् यथा सुवृष्टिश्चेदभविष्यत् तदा सुि क्षमभविष्यत् वह्निश्चेत्प्राज्वलिष्यत् ओदनमपक्ष्यत् इत्यादौ इत्याहुः । अत्र बह्वयभिन्नाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयोज्य ओदनाभिन्ना- श्रय कविक्लित्यनुकूलव्यापाराभावः इति वैयाकरणमते शाब्दबोधः ( वै० सा० ल० पृ० १४८ ) । वह्नयभिन्नाश्रयकभाविप्रज्वलनजन्यौदना- श्रयक विक्वित्त्यनुकूलव्यापारः इति शाब्दबोधस्तूचितः ( वै० सा० द० पृ० १४८) । <लट्> (तिङ् ) या तिङ् क्रियायाः (धात्वर्थस्य ) अतिपाते ( विगमे ) भाविकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् ऌडुच्यते । यथा तण्डुलं चेप्राप्स्यत्योदनमपि पक्ष्यति चैत्र इत्यादौ ऌट । अत्र स्पतिश्चैत्रादेर्भावि- कालावच्छेदेन तण्डुलप्रात्यभाववत्त्वमनुभावयति । तथा च भाविकाल इव क्रियाप्रतियोगिकोभावोपि ऌडर्थः । वस्तुतः भाविकालावच्छेदेन तण्डुलप्रायभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लुटा चैत्रादावनु- भाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपातशब्दार्थ- ऌडर्थः । यथा पक्ष्यतीत्यादौ ( ग० व्यु० ल० ) । यथा वा घटो भविष्यतीत्यादौ । अत्र सूत्रम् ऌट् शेषे च (पा० सू० ३।३।१३) इति । तदर्थस्तु शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे प्रत्ययो भवति ( काशिका ० ) इति । अत्र भवि- क्रियार्थायां धातोर्लट् ष्यत्त्वं च विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । तेन आगमिष्यतीत्या दौ विद्यमानप्रागभावप्रतियोग्युत्पत्तिकागमनानुकूलक्कृतिमान् इत्यर्थः ( तर्का० ४ पृ० ११ ) । वैयाकरणाश्च भविष्यत्त्वं वर्तमानप्रागभावप्रतियोगि- त्वात् ( श० प्र० श्लो० १०६ टी० । भविष्यत्त्वं समयोत्पत्तिमत्त्वम् इत्याहुः ( वै० :८० पृ० १६३ ) । भउ० पृ० १२८ ) । लेख्यम् – देशाचाराविरुद्धं यद्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥ ( मिताक्षरा अ० २ श्लो० ८९ ) । लेट्-(तिङ् ) लिङर्थवदस्यार्थोनुसंधेयः ( वै० सा० ल० पृ० १२९ ) । अत्र सूत्रम् लिडर्ये लेट् (पा० सू० ३।४।७) इति । तदर्थस्तु लिङो येर्थास्तेष्वर्थेषु वेदे लेडा स्यात् इति । यथा जोषिषत् तारिषत् मन्दिषत् नेता नेषत् कवयस्तक्षिषत् इत्यादौ ( काशिका ० ) । <लैङ्गिकम्> १ लिङ्गदर्शनाज्जायमानं ज्ञानम् ( अनुमितिः ) ( प्रशस्त० गु० पृ० २६ ) । यथा पर्वते घूमेन वहिसाधने वह्विव्याप्यधूमवान् पर्वतः इति लिङ्गदर्शनात् पर्वतो वह्निमान् इत्यनुमितिः । अत्रोदाह्वियते पक्षी- कृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च । इच्छन्त्यधिगन्तुम धनंजयं लिङ्गदर्शनेनैव ॥ (विश्वगुणादर्शे ) इति । अर्थान्तरे धनं जयं च । २ [ क ] लिङ्गादिना अनुमितं साध्यम् । यथा आचार्यमते लिङ्गो पहितलैङ्गिकभानम् इत्यादौ लैङ्गिकं साध्यम् । [ख ] लिङ्गादिभिः कल्पितम् । यथा मीमांसकमते अर्थप्रकाशनसामर्थ्य रूप लिङ्गेन मन्त्रादीनां तत्तत्कर्मादौ विनियोगः कल्प्यत इति । <लोकः> १ वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा अलौकिकत्वम् / इत्यादौ लोकः ( मू० म० १ पृ० १६) । २ स्वर्गादिर्लोकः इति पौराणिका आहुः । ३ मनुष्यच लोकः इति काव्यज्ञा वदन्ति । <लोट्> ( तिङ् ) स्ववक्रनुमतत्वस्य धात्वर्थेन्वयबोधने । अनुकूला यादृशी तिङ् सैव लोट् परिभाष्यते ॥ लोडर्थास्त्वनुमतत्वादयो बहवः सन्ति ॥ १ अनुमतत्वम् । यथा करोतु कुरुताम् कुर्वन्तु इत्यादौ लोटोर्थः । अत्र तुप्ताम् प्रभृतयश्चैत्रायुक्तत्वधीसहकृताः कृत्यादौ प्रकृत्यर्थे चैत्रा- धनुमतत्वं बोधयन्ति न तु तिबाद्याः इति लक्षणसमन्वयः तिबादौ । नातिप्रसङ्गश्च ( श० प्र० श्लो० ९९ टी० पृ० १४५) इति । सूत्रम् लोट् च ( पा० सू० ३/३/१६२ ) इति । तदर्थस्तु प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु ( काशिका० ) इति । यथा पत्नी पचतु इत्यादौ लोटोर्थः । अनुज्ञा च कर्तुरिष्टत्वे सति बक्र नुमतत्वम् । चैत्रवक्तृकतादृशवाक्यात् चैत्रानुमतस्खेष्टस्य पाकस्य कर्त्री पत्नी इत्येवं बोध: ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) । ३ यथा शूलं विश विषं भुङ्क्ष्व इत्यादिराजवाक्यस्थलीयलोडर्थः । च वक्रनुमतत्वे सति कर्तुरनिष्टहेतुत्वम् । अत्र राजानुमत स्वानिष्टहेतुशूल प्रवेशकर्तृतावांस्त्वम् इत्याकारो बोधः (श० प्र० श्लो० ९९ टी० पृ० १४५ ) । ४ समर्थना । यथा पर्वतमप्युत्पाटयानि समुद्र शोषयाणि इत्यादौ लोडर्थ: । समर्थना च पराशक्यधर्मिक स्वशक्यत्वा- ध्यवसायः । अत्र स्वेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वा- ध्यवसायवान् इत्यन्वयबोध: ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) । ५ विधिः । यथा पटमानय इत्यादौ लोडर्थः ( श० प्र० श्लो० ९९-१०० टी० पृ० १४५ - १४८) । विधिश्चात्र वक्रिच्छाविषय- त्वम् । अत्र पटकर्मकमदिच्छा विषयानयनानुकूलकृतिमांस्त्वम् इत्यन्वयः (तर्का० ४ पृ० ११) (सि० च० ४ पृ० ३२ ) । यथा वा कटं तावद्भवान् करोतु ग्रामं भवानागच्छतु इत्यादौ (काशिका० ) । ६ निमन्त्रणम् । यथा अमुत्र भवानास्ताम् अमुत्र भवान् भुङ्काम् इत्यादौ । ७ आमन्त्रणम् । यथा इह भवान् भुताम् इत्यादौ । ८ अधीष्टः । यथा अधीच्छामो भवन्तं माणवकं भवानध्यापयतु इत्यादौ । ९ संप्रश्नः । यथा किं नु खलु भो व्याकरणमध्ययै इत्यादौ (काशिका ० ३।३।१६२) । १० प्रार्थना । यथा भिक्षां देहि त्वमर्थिभ्यः इत्यादौ लोडर्थ: ( श० प्र० ) ( ग० व्यु० ल० पृ० १३९) । यथा वा भवति मे प्रार्थना व्याकरण- मध्ययै छन्दोध्ययै इत्यादौ ( काशिका० ) । ११ आशंसनम् । यथा चिरं जीवतु भवानित्यादौ लोडर्थः । यथा वा भवतु ते शिवप्रसादः इत्यादौ लोडर्थ: । आशंसनं च वक्राशंसनम् । अथ वा अप्राप्तस्येष्ट- स्यार्थस्य प्राप्तुमिच्छा । अत्रार्थे सूत्रम् आशिषि लिङ्लोटौ ( पा० सू० ३।३।१७३) इति । तदर्थस्तु आशीर्विशिष्टेर्थे वर्तमानाद्धातो- लिंङ्लोटौ प्रत्ययौ भवतः (काशिका० ) इति । अत्राधिकं तु आशीः इति शब्दव्याख्याने दृश्यम् । चैत्रोक्तात् जीवतु भवान् इति वाक्यात् चैत्राशंसाविषयवर्तमानजी वनवांस्त्वम् इत्येवं बोधः । घटो नीलो भवतु भवान् सुखी भवतु इत्यादौ तु धातुनैव लक्षणयोपस्थापितायां नीला- युत्पत्तौ तिङाशंसनीयत्वं प्रतीयते । एवं च आशंसाविषयवर्तमाननीलो- संपत्तिमान्नीलो घटः इत्यादिकस्तत्र बोध: ( श० प्र० श्लो० ९९ टी० पृ० १४६ ) । <लोभः> (दोषः) [क] धर्मविरोधेन परद्रव्येच्छा (गौ० वृ० ४ । १ । ३) । तदुक्तम् परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो ९१ न्या० को० द्विजश्रेष्ठ सलोभः परिकीर्तितः ॥ ( पद्मपु० ) ( वाच० ) इति । यथा लोभश्वेदगुणेन किम् इत्यादौ । [ख ] लिप्सातिशयः ( मिताक्षरा अ० २ श्लो० १ ) । <लौकिक:> ( पुरुषः ) लोकसाम्यमनतीतो नैसर्गिकं वैनयिकं बुद्ध्यति शयमप्राप्तः ( वात्स्या० १।१।२५) । यथा लौकिकपरीक्षकाणां यस्मिन्नथें बुद्धिसाम्यं स दृष्टान्तः (गौ० १ । १२ । २५) इत्यादौ कश्चन आभ्यो। जनो लौकिकः । अत्र लौकिकत्वं च अप्राप्तशास्त्रपरिशीलनजन्यबुद्धि प्रकर्षत्वम् ( गौ० वृ० १।१।२५ ) । <लौकिक प्रत्यक्षम्> ( प्रत्यक्षम् ) [ क ] लौकिकसंनिकर्षजन्यं ज्ञानं प्रस- । क्षम् (ल० व० ) । यथा घटचक्षुःसंयोगे सति भूतले घटवत्ताज्ञानम् । (मु० २ पृ० १६० ) । [ख ] षडिधसंनिकर्षजन्यं प्रत्यक्षम् ( ० १ पृ० ८ ) । अत्र प्रत्यक्षे लौकिकत्वं च साक्षात्कारत्वव्यञ्जक विषयताविशेषः । एवम् दोषविशेषजन्यज्ञानेपि लौकिकत्वं विज्ञेयम् । ( ग० सत्प्र० पृ० १६-१७ ) । गन्धादेविषयस्य लौकिकत्वं मानसेतरलौकिक साक्षात्कारविषयत्वम् विषयताविशेषो वा । षण्णामिन्द्रियाणां लौकिकत्वं तु लौकिक प्रत्यक्षजनकत्वमेव इति चिन्त्यन् अत्रेदं बोध्यम् । घटाभावव्याप्यवद्भुतलम् इति विशेषदर्शनदशायामनि । घटचक्षुः संयोगे सति लौकिक संनिकर्षजन्यस्य भूतलं घटवत् इत्यादि। प्रत्यक्षस्योदयात् तदुपनीतभानशाब्दबोधादेश्वानुदयाच्च लौकिकसंनिकर्षा । जन्यदोषविशेषाजन्यतद्विशिष्टबुद्धित्वावच्छिन्नं प्रति तदभावव्याप्यवत्ता- निश्चयस्य प्रतिबन्धकत्वकल्पनमुचितम् इति । <लौकिकवाक्यम्> मानुपादिप्रणीतम्वाक्यम् । अत्र लौकिकत्वं च वैदिकभिन्नत्वम् (वाक्य० ४ पृ० <लौकिकसंनिकर्षः> प्रत्यक्षविशेषजनकः संयोगाद्यन्यतमः । लौकिकत्वं चालौकिकसंनिकर्षभिन्नत्वम् संयोगाद्यन्यतमत्वं वा । षट् संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः ते च समवेत समवायः विशेषणविशेष्यभावश्च इति । प्रयोजनादिकं च सविस्तरं इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसर उक्तमेवेत्यत्रैव विरम्यते । <लौकिकाचारः> लोकमात्र प्रसिद्धाचारः । यथा अलौकिकाविगीतशिष्टा- चारविषयत्वम् इत्यादौ भोजनाद्याचारः । अत्र लौकिकत्वं च विधि- मन्तरा रागादिप्राप्तत्वम् ( नील० मङ्ग० पृ० २ ) । <व> <वंशः> दशहस्तपरिमितो वंशः । <वचनम्> १ [ क ] ज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्मे ब्रूते इत्यादौ ब्रूञोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः ( ग० व्यु० का० २ ख० १ पृ० ४६ ) । अयमन्वय प्रकारो ब्रुवणशब्दव्याख्याने प्रदर्शितोप्यध्येतृसौकर्यार्थमिह पुनः प्रदर्शितः इति विज्ञेयम् । [ख ] शाब्दिकास्तु विषयतया ज्ञानानु- कूलशब्दप्रयोगरूपो व्यापारः । यथा माणवकं धर्मे ब्रूते इत्यादौ ब्रूजोर्थः इत्याहु: ( ल० म० कार० २ पृ० ९२ ) । २ उपदेशशब्दवदस्यार्थी- नुसंधेयः । एवम् वदधात्वर्थोपि ज्ञेयः ( श० प्र० श्लो० ७३ टी० पृ० ९८ ) । ३ वाक्यम् इति काव्यज्ञा आहुः । ४ व्याकरणशास्त्र - प्रसिद्धः संख्यार्थकः सुप्तिङ्वरूपः प्रत्ययः । यथा बहुषु बहुवचनम् (पा० सू० ११४ । २१) द्व्येकयोर्द्विवचनैकवचने (पा० सू० १।४।२२ ) इत्यादौ । ५ झुण्ठी इति भिषज आहुः । <वधः> प्राणवियोगफलकव्यापारः । यथा नाततायिवघे दोषोन्यत्र गो- ब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यात् ( वीरमित्रो० सुमन्तुस्मृतिः पृ० २२ - २८) इत्यादौ । वधनिष्पादकत्वं च साक्षात्परंपरया वा बोध्यम् । वधनिष्पादकः पञ्चविधः कर्ता प्रयोजकः अनुमन्ता अनुग्राहकः निमित्ती । यथाहापस्तम्बः प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु आरभते तस्मिन्फलविशेष: ( आपस्त० धर्मसु ० यो भूय भगिनः २।११।२९/१-२) इति । इषुकारस्तु न वधनिष्पादकः । अन्यत्र चोक्तम् । बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातक स्तत्र सर्वे ते घातकाः स्मृताः ॥ इति । अन्यच्च अनुमन्ता विशसिता निहन्ता क्रय विक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ (मनु० अ० ५ श्लो० ५१ ) इति । वधविषये अधिकप्रपञ्चस्तु हिंसा- शब्दव्याख्यानावसरे प्रदर्शयिष्यत इति तत्र द्रष्टव्यः । <वनम्> १ वृक्षसमुदायः । यथा सुवनी संप्रवदत्पिकापि का (नैष० ) इत्यादौ । यथा वा श्यामायमानानि वनानि पश्यन् ( रघु० स० २ श्लो० १७) इत्यादौ । अत्र वनत्वं च तत्तद्वृक्षादि विषयकज्ञान विषयत्वम् ( त० प्र० ख० ४ पृ० ५० ) । २ जलम् । ३ निवासः । ४ प्रस्तरणं चेति काव्यज्ञा आहुः ( हेमच० ) । <वरणम्> सत्कारपुरःसरम् अग्निर्होता इत्यादिप्रार्थना वरणम् (जै० न्या० अ० १० पा० २ अधि० ११ ) । <वराङ्गः> चतुर्विंशत्यधिकशतत्रयम् ( अतलशब्दे दृश्यम् ) । <वर्ण:> १ ( गुणः ) शुक्लादिरूपम् । यथा वर्णः शुक्को रसस्पर्शी जले मधुर / शीतलौ ( भा०प० श्लो० ४०) इत्यादौ । २ ब्राह्मणादिजातिः ॥ यथा चातुर्वण्ये मया सृष्टम् ( गीता० अ० ४ श्लो० १३) इत्यादौ । ब्राह्मणक्षत्रिय वैश्यशूद्रभेदेन चतुर्विधा इति पौराणिका आहुः । अत्र श्रुतिः । ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पन्चा शूद्रो अजायत इति ( यजु: - ३१।११ ) । तेषां पूर्वः पूर्वी जन्मतः । श्रेयान् ( आपस्तम्ब धर्मसू० ११ १/४ ) । ब्राह्मणस्य श्रेष्ठ्ये कारण- जन्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ उत्तमाङ्गोद्भवाज्यैष्ठ्याद्राह्मण व मुक्तं मनुना यथा ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मा- / श्लो० ९२ - ९३ ) ( १०।३ ) इति । वर्णधर्मश्च नित्यं मद्यं धारणात् । सर्वस्यै वास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ( मनु० वर्जयेत् इत्यादिः ( मिता० १११ पृ० १ ) । ब्राह्मणादिवर्णानां कर्माणि तु शमदमतपोज्ञानादि ब्राह्मणस्य शौर्य प्रजापालनज्ञानादि क्षत्रिय कृषिगोरक्षवाणिज्यं वैश्यस्य परिचर्या शूद्रस्य ( गीता० अ० १८ श्लो० ४२-४४ ) इति । गौतमेनाप्युक्तम् ब्राह्मणस्याधिकं लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० २ पृ० ६१ ) ( मनु० ११८८-९१) इति । ३ वैयाकरणास्तु अकाराद्यक्षरम् इत्याहुः । एतेषां वर्णानामुत्पत्तिकमः शिक्षायां कथितः पाणिनिना आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति सप्रेरयति मारुतम् ॥ सोदीर्णो मूर्ध्यमिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा मतः ॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः इति । तथा प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति । स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा ॥ बैखरी वाक् प्रयोक्तॄणां प्राणवृत्ति- निबन्धिनी । केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ॥ प्राणवृत्तिमनु- क्रम्य मध्यमा वाक्प्रवर्तते । अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ॥ स्वरूपज्योतिरेवातः परा वागनपायिनी ( महाभार० ) ( वाच० ) इति । वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षायामभि हिता वेदितव्याः । गायकास्तु ४ गीतक्रमः ५ तालविशेषश्च इत्याहुः । काव्यज्ञास्तु ६ कुङ्कुमम् ७ स्वर्णम् ८ यश: ९ गुणः १० स्तुतिश्च इत्याहुः । ११ कार्तान्तिकाश्च विवाहप्रयोजकनक्षत्र विशेषकृतं वर्ण- कूटम् इत्याहुः (वाच० ()} <वर्ण्यसमः> (जातिः ) [ क ] स्थापनीयो वर्ण्यो विपर्ण्ययादवर्ण्यस्तावेतौ साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यवर्ण्यसमौ भवतः (वात्स्या ० ५।१।४ ) । अत्र वर्ण्यत्वं वर्णनीयत्वम् । तच्च संदिग्धसाध्यकत्वादि । अयं वर्ण्यसमस्तु असाधारणदेशनाभासः साधन विकलदृष्टान्त देशनाभासो वा इति ज्ञेयम् ( गौ० १० वृ० ५/१।४ ) । [ ख ] दृष्टान्ते वर्ण्यत्वस्यापादनम् । अत्रायं भावः । साध्यदृष्टान्तयोर्धर्मविकल्पात् इति । साध्यः साध्यसिद्व्यभाववान् संदिग्धसाध्यकादिर्वा । तस्य धर्मः संदिग्धसाध्यकादिवृत्तिर्हेतुः । तस्य विकल्पात्सत्त्वादृष्टान्ते वर्ण्यत्वस्य संदिग्धसाध्यकत्वस्यापादनम् वर्ण्यसमा । तदयमर्थः । पक्षवृत्तिहेतुर्हि गमकः । पक्षश्च संदिग्धसाध्यकः । तथा च संदिग्धसाध्यकवृत्तिर्हेतुस्त्वया दृष्टान्तेपि स्वीकार्यः । तथा च दृष्टान्तस्यापि संदिग्धसाध्यकत्वात्सपक्षवृत्तित्वानिश्चयादसाधारणो हेतुः । हेतुः संदिग्ध- साध्यकवृत्तिर्यदि न दृष्टान्ते तदा गमकहेत्वभावात्साधन विकलो दृष्टान्तः स्यात् ( गौ० वृ० ५/११४ ) इति । सपक्षवर्तिनो हेतोर्यादृग्रूपं विव- क्षितम् । पक्षोपि तादृग्घेतुः स्यादन्यथासिद्धिहेतुता ॥ सपक्षत्वात्तदा साध्य इति वर्ण्यसमा क्षतिः ( ता० र० २ श्लो० १०६-१०७) इति । ग] वर्ण्यस्य स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवदित्यादौ क्रियाजनकनोदनाख्यसंयोग- "वत्त्वाल्लोष्टादेर्भवतु क्रियावत्त्वम् । आत्मनस्तु क्रियावत्वे तज्जनकनोद- नाख्यसंयोगवत्त्वमपि स्यादिति (नील० पृ० ४३ ) । कालो <वर्तमानः> १ ( काल: ) [ क ] येन हि वस्तुना यः कालोवच्छिद्यते स तस्य वर्तमानः (वै० उ० २१२१८) । यथा इदानीं घटोस्ति । इत्यादौ घटावच्छेदकः धात्वर्थसत्तावच्छेदको वा इदं शब्दवाच्यः वर्तमानः । अत्र तव्यक्तिध्वंसप्रागभावानवच्छिन्नः कालस्तद्व्यक्तेर्वर्तमान- स्थितिः । तच्च प्राक्संबन्धस्वभावरहित स्वरूपत्वम् स्वकार्यप्रग कालः इति ज्ञेयम् ( त० कौ० कालनि० पृ० ३) । वर्तमानत्वं च वा । [ख] प्राञ्चस्तु वर्तमानध्वंसप्रागभावाप्रतियोग्यवच्छिन्नः क इत्याहुः । कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति विशेषणं न (प० मा० कालनि० पृ० ९२ ) इति । ध्वंसे वर्तमानत्वं तु तत्त- च्छब्दप्रयोगाधिकरणकालवृत्तित्वमेव इति निर्वाच्यम् । अतो नात्माश्रयः इति बोध्यम् (नील० १ कालनि० पृ० १० ) । [ग] नव्यास्तु (ग० व्यु० उ० पृ० १३४ ) (वाक्य● काल० नि० ) (३० मा तत्तच्छब्दप्रयोगाधिकरणकालः । यथा पचतीत्यत्र लडर्थः इत्याहुः द० पृ० १२० ) । लडर्थवर्तमानकालश्चतुर्विधः प्रवृत्तोपरतश्चैव वृत्ता विरत एव च । नित्यप्रवृत्तः सामीप्यो वर्तमानश्चतुर्विधः ॥ इति । तत्राद्यः प्रवृत्तोपरतः यथा मांस न खादतीत्यादौ । अत्र आदौ प्रवृत्तं मांस- भोजनं निवर्तयति इत्यर्थः (वाच० ) । द्वितीयो वृत्ताविरतः यथा ह कुमाराः क्रीडन्तीत्यादौ । अत्र तदानींतनक्रीडनाभावेपि पूर्व क्रीडान बुद्धौ वर्तमानत्वात् तथा प्रयोगः इति भावः । तृतीयो नित्यप्रवृत्तः यथा पर्वतास्तिष्ठन्तीत्यादौ । अत्र पर्वतानां स्थितिर्नित्यप्रवृत्ता इति तथा प्रयोगः । एवम् पर्वतानां स्थितत्वेन वर्तमानत्वेपि भूतभविष्यत्कालाभ्यां संबन्धविवक्षया पर्वतास्तस्थुः स्थास्यन्ति इत्यपि प्रयोगः स्यात् इत्यवधेयम् ( वाच० ) । सामीप्यरूपः चतुर्थो द्विविधः भूतसामीप्यः भविष्यत्सामीप्य- श्चेति । तत्राद्यो भूतसामीप्यः यथा एषोहमागच्छामीत्यादौ । अत्र कदा आगतोसि इति प्रश्ने आगतोपि अध्वस्वेदादेर्वर्तमानत्वात् एषोहमाग- च्छामि इति वदति इति ज्ञेयम् । द्वितीयो भविष्यत्सामीप्यः यथा एषोहं गच्छामीत्यादौ । अत्र कदा गमिष्यसि इति प्रश्न गमने क्रियमाणोद्यमोपि एषोहं गच्छामि इति वदति इति विज्ञेयम् ( दुर्गादासः ) ( वाच० ) । जगदीशोप्याह । लडर्थवर्तमान सामीप्यमपि द्विविधम् वर्तमानक्षणोत्तर- कालावच्छेद्यत्वम् वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यत्वं चेति । तेन चैत्रः कदा गमिष्यति इति जिज्ञासायां एष गच्छति इत्युत्तरस्य वर्तमान- क्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः । चैत्रः कदा समागतः इति जिज्ञासायां एष आगच्छति इत्युत्तरस्य तु वर्तमानक्षणाव्यवहितप्रा काला- वच्छेद्यागमनवान् इत्यर्थः इति न प्रश्नोत्तरभावासङ्गतिः इति (श० प्र० श्लो० ९७ टी० पृ० १४३ ) । अत्र प्राञ्चो वैयाकरणा आहुः । वर्त- मानत्वं च प्रारब्धापरिसमाप्तत्वम् भूतभविष्यद्भिन्नत्वं वा । यथा पचती- त्यादौ अधिश्रयणाद्यधःश्रयणान्ते मध्ये पूर्वापरीभूतक्रियासमुदाये वर्तमान- स्वमस्ति इति भवति प्रयोगः (बै० सा० ल० १२० ) ( ल० म० ) इति । २ शब्दप्रयोगाधिकरणकालवृत्तिः । यथा वर्तमान- ध्वंस प्रतियोगित्वमतीतत्वम् इत्यादौ (नील० १ कालनि० पृ० १० ) । वशा-धेनुः ( पुरु० पृ० ६ ) । <वषट्> (अव्ययम् ) १ स्वाहाशब्दवदस्यार्थीनुसंधेयः । यथा वषडिन्द्रा- येत्यादौ ( श० प्र० श्लो० ९३ पृ० १२६ ) । २ वषट् इति करणे । यथा वषट्कारं गृणन् द्विजः (भाग० स्क० ९) इत्यादौ । एवम् वषट्कार वौषट् इति शब्दो व्याख्येयौ । <वसन्तः> मीनमेषयोर्मेषवृषभयोर्वा वसन्त इति बौधायनोक्तेमना दिसौरमास- द्वयात्मको मेषादिसौरमासद्वयात्मको वा बसन्तः (पु० चि० पृ० ८ ) । <वसु> १ अष्टमी तिथि: ( पुरु० पृ० ३७) । २ धरो ध्रुवस्तथा सोम आपश्चैवानिलोनलः । प्रत्यूषश्च प्रभातश्च वसवोष्टौ प्रकीर्तिताः ॥ ( मिताक्षरा अ० २ श्लो० १०२ ) । <वस्तु> संकेत विषयः । यथा घटगगनादि । वस्तुत्वं च प्रमेयत्वम् स्वरूप. संबन्धविशेषो वा ( म० प्र० ख० २ पृ० २३ ) ( त० प्र० २ पृ० ३९) । वस्तु द्विविधम् बाह्यम् अबाह्यं च । तत्र आत्मा तद्योग्य- गुणास्तद्वृत्तिजातिः स्वर्गापूर्वादि चैतान्यबाह्यवस्तूनि मनसा श्रुत्यनुमाना- दिना च वेद्यानि च । एतदन्यानि तु बाह्यवस्तूनि । <वह> ( धातुः ) नयनशब्दवदस्यार्थोनुसंधेयः (ग० व्यु० का० २ पृ० ४६) । यथा वहति अवाक्षीत् इत्यादी । अस्य प्रधानकर्मण्येव लका- रादयो भवन्ति । गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् / बुद्धि भक्षार्थयोः शब्दकर्मणां च निजेच्छया ॥ इत्यनुशासनात् । अत्राधिकं च नयनदोहनशब्दव्याख्याने द्रष्टव्यम् । <वहनम्> नयनम् । <वह्निः> १ ( तेजः ) अग्निः । यथा पर्वतो वह्निमान् धूमादित्यादौ साध्य भूतो वह्निः । अयं वह्निस्तु भौतिकः पार्थिवमात्रेन्धनं भौमं तेजः इति । विज्ञेयम् । अत्रेदं ज्ञेयम् । वह्नित्वेन धूमत्वेन च सर्वेषां वह्निधूमानां साष्य- साधनभावः । न तु तत्तद्धूमतत्तद्वय दिव्यक्तीनाम् इति । प्रत्यासत्या तु सकलवहिधूमानां ज्ञेयता चेति । अग्निभेदादिकमक्तं यथा जृम्भको दीपकश्चैव विभ्रमभ्रमशोभनाः । आवसथ्याहवनीयौ दक्षिणाभि स्तथैव च ॥ अन्वाहार्यो गार्हपत्य इत्येते दश वह्नयः इति । अन्यच्च 3 रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारको बन्धकश्चैव द्वावकारख्य सप्तमः ॥ व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः इति । कर्मणि मुख्याग्नयो यथा गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः ॥ ( वहि- पु० ) इति । शरीर- स्थवर्नामानि यथा बहयो दोषदृष्येषु संलीना दश देहिनः इति । दोषदूष्याश्च यथा वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ( शा० ति० ) इति । २ तान्त्रिकास्तु रकारः । यथा वर्गाद्यं वह्निसंस्थम् ( श्यामास्तोत्रम् ) इत्यादौ इत्याहुः । ३ भल्लातकः ४ निम्बूकश्च इति भिषज आहुः (राजनि० ) । ५ वह्निदेवताकं कृत्तिकानक्षत्रम् इति ज्योतिषज्ञा आहुः । ६ आधिदैविकः शाण्डिल्यगोत्रो मेषवाहनो हुताशनः इति कर्मवादिमीमांसका आहुः । ७ वैश्वानराद्यपरनामा परमात्मा इति वेदान्तिन आहुः । <वा> (अव्ययम्) १ विकल्पः । यथा यवैर्वा व्रीहिभिर्वा यजेत इत्यादौ । १८८२ सादृश्यम् । यथा सिन्धौ वाधोमण्डलं गोर्वा रसः इत्यादौ । यथा वा मणी वोष्टस्य लम्बेते प्रियौ वत्सतरौ मम ( सि० कौ० ) इत्यादौ । यथा वा आशीविषो वा संक्रुद्धः इत्यादौ । ३ अवधारणम् । यथा सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम इत्यादौ । न तृतीया इत्यर्थः । ४ समुच्चयः । यथा वायुर्वा दहनो वा ( गणरत्न० ) इत्यादौ । ५ वितर्कः । यथा ज्वरितेन भवता पीतं वा दुग्धम् कृतं वा अपथ्यं भवेत् इत्यादौ । ६ प्रश्नः । यथा तत्र भवता गम्यते वा इत्यादौ । ७ कचित् वाक्यालंकारार्थः । ८ चेत् इत्यर्थः । यथा सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता (अमरः ) इत्यादौ इति नागेशभट्ट आह शब्देन्दुशेखरे । <चाक्छलम्> ( छलम् ) [क] अविशेषाभिहितेर्थे वक्तुरभिप्रायादर्थान्तर- कल्पना वाक्छलम् (गो० ११२/१२ ) । नवकम्बलोयं माणवक इति प्रयोगः । अत्र नवः कम्बलोस्य इति वक्तुरभिप्रायः । विग्रहे तु विशेषो न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यमर्थम् नव कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा चासंभवेन प्रतिषेधति एकोस्य कम्बलः कुतो नव कम्बलाः इति । तदिदं सामान्यशब्दे वाचि च्छलं वाक्छलमिति ( वात्स्या० १/२/१२) । यत्र ९२ न्या० को० शक्यार्थद्वये संभवति एकार्थनिर्णयैकविशेषाभावादनभिप्रेतशक्यार्थकल्पनेन दूषणाभिधानम् तद्वाक्छलम् ( गौ० वृ० १ । २ । १२ ) इति । [ख] शक्तयैकार्थशाब्दबोधतात्पर्यकशब्दस्य शक्तया अर्थानतरतात्पर्यकत्वकल्पना दूषणाभिधानम् । अत्रोच्यते अभिधावैपरीत्येन कल्पितार्थस्य बाधनम् ( ता० २० १ श्लो० ९५) इति । यथा नेपालादागतोयं नवकम्बलव त्त्वादित्युक्ते कुतोस्य नवसंख्याकाः कम्बलाः इति । एवम् गौर्विषाणीत्युक्ते कुतो गजस्य शृङ्गम् श्वेतो धावति इति श्वेतरूपवदभिप्रायेणोक्ते श्वेतो (श्वा इतः) न धावति इत्यभिधानम् इत्यादिकमूह्यम् ( गौ० वृ० १/२/१२ ) । । <वाक्पारुष्यम्> देशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः १ कूलार्थ वाक्पारुष्यं तदुच्यते ॥ ( मिताक्षरा अ० २/२०४ ) । <वाक्यम्> [क पदसमूहः । वाक्यत्वं च विशिष्टार्थपरशब्दत्वम् (चि० ४ ) । । वाक्यं द्विविधम् प्रमाणवाक्यम् अप्रमाणवाक्यं चेति । तत्र प्रमाणवाक्यम् । आकाङ्क्षायोग्यतासंनिधिमतां पदानां समूहः । यथा गामानय इत्यादि । (त० भा० ४ ) (त० सं०) (सा० ५० ) । अथवा यादृशशब्दाना याशार्थ विषयताकबोधं प्रति अनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तीम एव तथाविधार्थे वाक्यम् ( श० प्र० लो० १२ टी० पृ० १४/// वैयाकरणास्तु एकतिङ् इत्याहुः ( महाभा० ) । एकतिङन्तार्थमुक्त विशेष्यकबोधजनकपदसमूहः इत्यर्थः । तेन पचति भवति पश्य मृगो धावति ब्रूहि ब्रूहि देवदत्त इत्यादौ च क्रियापदस्यानेकत्वेपि नैकवाक्यता व्याघातः इति । सुप्तिङन्तचयो वाक्यम् इत्यमरसिंह आह । केचितु स्वार्थबोधसमाप्तः पदसमुदाय: इत्याहुः । समभिव्याहारो वाक्यम् इति मीमांसका आहुः । तदर्थश्च साध्यत्वादिवाचकद्वितीयाद्यभावेपि वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम् । यथा यस्य पर्णमयी जुहूर्भवति न पाप श्लोक शृणोति ( तैत्ति ० संहिता ० ३१५/७ ) इति । लिडाविषय घटितं वाक्यं द्विविधम् विधिः निषेधश्च । तत्र विधिः स्वर्गकामो जे वाक्यम् ( लौ० भा० ) । अप्रमाणवाक्यं तु आकाङ्क्षादिरहितं वाक्यम्/ इत्यादि वाक्यम् । निषेधस्तु न कलखं भक्षयेत् न सुरां पिबेत् इत्याि यथा वह्निना सिञ्चति हृदो वह्निमान् इत्यादि वाक्यम् । अत्र वाक्य- दोषाश्चत्वारः भ्रमः प्रमाद: विप्रलिप्सा कर्णापाटवं चेति । तत्र एक- पदार्थे अपरपदार्थसंसर्गारोपो भ्रमः । अवाच्ये वाच्यत्वारोपः प्रमादः । अन्यथा ज्ञातस्यार्थस्यान्यथा बोधयितुमिच्छा विप्रलिप्सा । शब्दोच्चारणा- नुकूलताल्या दिव्यापारशून्यत्वं कर्णापाटबम् इति । आकाङ्क्षायोग्यता- सत्तिसत्त्वे भ्रमादिदोषाणामसंभवः इति च बोध्यम् ( म०प्र० ) । नैयायिकमते वाक्यं त्रिविधम् सुबन्तसमूहः तिङन्तसमूहः सुप्तिङन्त- समूहश्चेति । तत्राद्यः त्रयः काला इति । द्वितीयः पचति भवति इति । तृतीयस्तु चैत्रः पचतीत्यादि । त्रयः काला इत्यत्र वर्तमानत्वासंभवेन सन्ति इत्येतस्य दुर्ज्ञानत्वेन च ज्ञायन्ते इत्येतस्य नाध्याहारसंभवः । प्रकारान्तरेण वाक्यं द्विविधम् वैदिकं लौकिकं च । तत्र वैदिकमीश्वरो - क्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यत् (अना- तोक्तम् ) अप्रमाणम् (त० सं० ) । तत्र वेदघटकं वाक्यं वैदिकम् ( वाक्य० ४ पृ० २० ) । तस्येश्वरोक्तत्वे प्रमाणमनुमानम् । तच्च वेदः पौरुषेयो वाक्यत्वाद्भारतादिवत् इति ( त० दी० ४ पृ० ३२ ) ( सि० च० ४ पृ० ३२ ) । अत्राधिकं तु वेदशब्दव्याख्याने दृश्यम् । वैदिकं सर्वमेव प्रमाणमित्यत्र सर्वमेयस्य अबाध्यं वाक्यं सर्वमेवेत्यर्थः । तेन आत्मा वै जायते पुत्रः इति वेदस्याप्रामाण्येपि न क्षतिः । स्मृति- पुराणेतिहाससदाचाराणां वेदमूलकत्वेन प्रामाण्यम् । तन्मूलवेदानामिदानी - मनुपलभ्यत्वेन शाखाः काश्चिदुच्छिन्ना एव इति कल्प्यते ( सि० च० ४ पृ० ३२ ) ( त० दी० ४ पृ० ३३ ) । लौकिकं वाक्यं तु यद्धर्म- बुद्ध्या आप्तेनोक्तं तदेव प्रमाणमित्यर्थः । तेन बृहस्पतिप्रणीत नास्तिक- सूत्रव्युदासः ( सि० च० ४ पृ० ३२ ) । प्रकारान्तरेणापि वाक्यं द्विविधम् महावाक्यम् अवान्तरवाक्यं ( खण्डवाक्यम् ) चेति । तत्र महावाक्यं च स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् ( श० प्र० श्लो० ३० टी० पृ० ३८ ) । <वाक्यार्थः> [क] एकपदार्थवदपरपदार्थ: ( श० प्र० श्लो० ४ टी० पृ० ५) । [ख] पदोपस्थितानां अर्थानाम् मिथः संसर्गः (त० कौ ० ख० ४ पृ० १६ ) । अत्रेदमवधेयम् । वाक्यार्थरूपान्वय विशिष्टे पदानां शक्तिः इति भाट्टा आहुः । तन्त्र सहन्ते नैयायिकाः । तथा हि । अनन्यलभ्यः शब्दार्थः इति नियमेनान्वयविषयकशाब्दबोधे तत्तदानु पूर्वीज्ञानत्वेन हेतुतया तहलादेवान्वयभानोपपत्तावन्वयविशिष्टे शक्ति कल्पनं व्यर्थमेव । शक्यस्यैव शाब्दविषयत्वम् इति नियमस्वीकारे लक्षणो च्छेदापत्तिः ( त० प्र० ख० ४ पृ० २७) इति । [ग] वाक्यघटक प्रत्येक पदोपस्थितानां पदार्थानामाकाङ्क्षादिज्ञानवशात्परस्परावा- नोर्थः । यथा गामानय इत्यत्र गोकर्मत्वानयनकृतीनां प्रत्येकं तत्तत्पदोप- स्थापिता नामाकाङ्क्षाबलात्परस्परमन्वयी गोनिष्ठकर्मत्व निरूपका कूलकृतिमान् इति वाक्यार्थः । [घ ] शाब्दिकास्तु पदार्थानां मिथोन्वय रूप उद्देश्यविधेयभावसंबन्ध इत्याहुः । <वाक्यार्थज्ञानम्> शाब्दबोधः । स च एकपदार्थे अपरपदार्थसंसर्गविषयक ज्ञानम् (वाक्य० ४ पृ० २० ) । यथा घटमानय इत्यादौ धात्वर्थ नयनरूपक्रियायां घटम् इति द्वितीयान्तार्थघटकर्मत्वनिरूपकत्वरूपसंस विषयकं ज्ञानम् ( त० सं० ) । <वाचकम्> १ ( पदम् ) [क] ईश्वरसंकेतेन (शत्तया) अर्थबो पदम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदम् (ग० शक्ति० पृ० इदं मुख्यं पदम् इत्युच्यते । इदं च प्राचीनमताभिप्रायेण । तथा प्राचीनमते संकेतो द्विविधः । शक्तिः परिभाषा च । तंत्रेश्वरसंकेत शक्तिः इत्युच्यते । तेनैवार्थबोधकं पदं वाचकम् इत्युच्यते । अर्थबोधकं तु पदं पारिभाषिकम् इत्युच्यते । नव्यमते तु इच्छा संकेतरूपत्वेन शक्तिपरिभाषयोरैक्यात् परिभाषयाप्यर्थबोधकं पदं वा इति व्यवयिते इति विशेषो ज्ञेयः । [ख ] शक्त्यार्थबोधक यथा प्रवाहवाचकं गङ्गापदम् । यथा वा गोघटादिव्यत्त्युप गोघटादिपदम् ( त० कौ० ४ पृ० १६) । तदुक्तम् साक्षात् योर्थमभिधत्ते स वाचकः ( काव्यप्र० उडा० २ गौणं तु लाक्षणिकं पदम् (त० कौ० ४ १० १६) । २६ यथा पुराणादिपाठको वाचको भवति । अत्रोच्यते वाचकः पूजितो येन प्रसन्नास्तस्य देवताः ( पुरा० ) इति । अन्यच्च ब्राह्मणं वाचकं विद्यान्ना- न्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥ 1 (ति० त० ) ( वाच० ) इति । <वाचनिक:> <वाचिकः> १ (नमस्कारः ) उत्कृष्टत्वादिबुद्ध्या प्रयुक्तो नमःपदादि- घटितः शब्दः । यथा वन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः ( मणिमञ्ज ० ) इति । यथा वा हरये नम इत्यादौ नोत्तरमकारविशेषादि- र्वाचनिकः ( मू० म० मङ्ग० १ पृ० १०५ ) । लक्षणं च वाचनिक- नमस्कारत्वम् । तच्च नत्वमत्वादिव्याप्या नाना जातयः । नव्यास्तु शाब्दबोधवृत्तिशाब्दत्वव्याप्यजातिविशेषः इत्याहु: ( मू० म० १ पृ० १०५) । २ धर्मज्ञास्तु वचननिष्पादितं पापादि इत्याहुः । ३ वाक्यारम्भः इति काव्यज्ञा आहुः (वाच० ) । <वाच्यः> १ [क] वाचकबोध्योर्थः । शक्त्या बोध्यः इत्यर्थः । स एव मुख्यार्थः इत्युच्यते । यथा गवादिर्गोपदवाच्यः ( ग० श० पृ० ३ ) । अत्रोच्यते न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । बाच्यवाचक- भावोयमक्षपादादिशब्दवत् ॥ बिभीतकेप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥ ( म० त० भट्टवा० ) (वाच० ) इति । [ ख ] मीमांसकास्तु यद्यस्माच्छब्दान्नियमतः प्रतीयते तत्तस्य वाच्यम् । यथा गामानय इत्यस्मिन्वाक्ये गोशब्दस्य गोत्वं वाच्यम् इत्याहुः ( लौ० भा० पृ० ६ ) । २ धर्मज्ञास्तु दूष्यः । यथा परस्पर- स्पर्धिंपरार्ध्यरूपाः पौरनियो यत्र विधाय वेधाः । श्रीनिर्मितिप्राप्तधुण- क्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ( माघ० स० ३ श्लो० ५८ ) इत्यादौ इत्याहुः । <वाजपेयम्> वाजमन्नम् । तच पेयं सुराद्रव्यम् (जै० न्या० अ० १ पा० ४ अधि० ३) । <वाटपरिक्षेपः> शालासमुदायरक्षणाय सर्वतो मार्गप्रतिरोधकं यत्परितः क्षिप्यते तदुच्यते (भाष्यप्रदीपोद्योते १।१।७ ) । <वात्स्यायनः> १ न्यायसूत्रभाष्यकारः पक्षिलाख्यो मुनिविशेषः । २ काम शास्त्रप्रतिपादकसूत्रकर्ता। ३ वत्सगोत्रापत्यं युवा इति वैयाकरणा वदन्ति । <वाद:> १ ( कथा ) [ क ] प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ( गौ० १।२।१ ) । तदर्थ तेन जल्पविशेषे नातिव्याप्तिः । निग्रहस्थानविशेषनियमार्थे सिद्धान्तेत्यादि प्रमाणाभासत्व प्रकारकज्ञान विषयकरणकसाधनोपालम्भयोग्यान्यः इति । विशेषणद्वयम् ( गौ० वृ० १ । २।१) । एकाधिकरणस्थौ विरुद्धौ धर्मों पक्षप्रतिपक्षौ प्रत्यनीकभावादस्त्यात्मा नास्त्यात्मेति । नानाधिकरणौ विरुद्धौ न पक्षप्रतिपक्षौ । यथा नित्य आत्मा अनित्या बुद्धिरिति । परि प्रमाणतर्कसाधनोपालम्भः । प्रमाणैस्तर्केण च साधनमुपालम्भश्वास्मि ग्रहोभ्युपगमव्यवस्था । सोयं पक्षप्रतिपक्षपरिग्रहो वादः । तस्य विशेषणं क्रियत इति । साधनं स्थापना। उपालम्भः प्रतिषेधः (वात्स्या ० १/२/१// सूत्रतात्पर्य तार्किकरक्षायामुक्तम् तत्र प्रमाणतर्काभ्यां साधनाक्षेपसंयुता । वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ॥ ( ता० र० लो० ७७) इति । वादश्च अष्टनिग्रहाणामधिकरणम् । ते च न्यूनाधिकाप सिद्धान्ताः हेत्वाभासपञ्चकं चेत्यष्टौ निग्रहाः (त० मा० पृ० ४४ ) / [ख] प्रमाणाभासत्वप्रकारकज्ञान विषयकरणकसाधनोपालम्भयोग्यान्यत्वे सति पक्षप्रतिपक्षसाधनोद्देश्यकोक्तिप्रत्युक्तिरूपवचनसंदर्भ : (गौ० वृ० ११२।१ ) । [ग] नानाप्रवक्तृकः प्रत्यधिकरणसाधनोन्यतराधिकरण निर्णयावसानो वाक्यसमूहः (वात्स्या० १/१/१ पृ० ८) । [६]त निर्णयफल: कथाविशेष: ( सर्व० पृ० २३९ अक्ष० ) । यथा वाद प्रवदतामहम् ( गीता० १०।३२) इत्यादौ । [ङ ] तत्त्वबुभुत्सोः व ( त० मा० पृ० ४४ ) । २ स्वाभिमतार्थकथनम् । अयं वादो द्विविध सत्कार्यवादः असत्कार्यवादश्च । तत्र सत्कार्यवादोपि द्विविधः परिणा वादः विवर्तवादश्च । तत्र परिणामवादः सांख्यानाम् रामानुजीयानां तन्मते कारणमेव कार्यरूपेण परिणमते इति कार्यकारणयोरनन्यत्वम् सत्यत्वं च । यथा दुग्धं सदेव दधिरूपेण परिणमते इति दधि कार्या- न्तरं दुग्धाद्भिन्नं च न भवति इति । विवर्तवादो मायावादिवेदान्तिनाम् । तन्मते कारणमेव कार्यस्वरूपेण भासते इति कारणस्यैव सत्यत्वम् न तु कार्यस्य सत्यत्वम् । यथा शंकरभारतीमते शुक्तौ इदं रजतम् इति ज्ञाना- नन्तरमधिष्ठानभूतशुक्तिज्ञाने जाते बाधज्ञानेन पूर्व ज्ञातं रजतं यथा निवर्तते तद्वत् ब्रह्मज्ञाने जाते सति जगदादिभेदप्रपञ्चो निवर्तते इति । असत्कार्यवादस्तु आरम्भवादः इत्युच्यते । स च नैयायिकानाम् माध्व- वेदान्तिनां च । तन्मते असदेव कार्यमुत्पद्यते । यथा पूर्वमसदेव तत्त- Gटादिकार्य दण्डचऋचीवरादिसामग्रीसमवहितान्मृदादिकारणाद्भिन्नं सदु- त्पद्यते इति । अत्रायं भावः । खोत्पत्तेः पूर्वं तत् कार्ये नासीदेव । पश्चात्कारणसामग्रीवशादुत्पद्यते इति कार्यकारणयोरन्यत्वम् परमार्थतः सत्यत्वं च इति । एवम् विज्ञानवादो योगाचारबौद्धानाम् शून्यवादो माध्यमिकबौद्धानाम् स्याद्वाद आईतानाम् इत्यादिकं च तत्तच्छास्त्राज्ज्ञेय- मित्यत्रैव विरम्यते । <वादनम्> अभिघाताख्यसंयोगावच्छिन्नक्रिया । यथा भेरीमृदङ्गं वादयेत्यादौ णिजन्तवदधात्वर्थः ( दि० ४ पृ० १८३ ) । वाद्यभेदा उच्यन्ते । तालेन राजते गीतं तालो वादित्रसंभवः । गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥ ततं सुषिरमानद्धं घनमित्थं चतुर्विधम् । ततं तन्त्रीगतं वायं वंशायं सुषिरं तथा ॥ चर्माबनद्धमानद्धं घनं तालादिकं मतम् इति । तत्र अलावनीप्रभृति ततम् इत्युच्यते । वंश पारि मधुरी तित्तिरी इत्यादिकं सुषिरम् इत्युच्यते । मर्दल मुरज पटह ढक्का पणव करटक मठ भेरी इत्यादिकम् आनद्धम् इत्युच्यते । घनं तु अनुरक्तविरक्तभेदेन द्विविधम् । करतालकांस्यतालभेदेन द्वादशविधं चेति । अत्राधिकं लक्षणविभागादिकं तु संगीतदा मोदरादौ द्रष्टव्यम् (वाच० ) । <वादी> १ [क] प्रकृतसाध्यसाधनाय न्यायप्रयोगकर्ता । यथा पर्वते साधने विपरीतोद्भावकस्य प्रतिवादिनो निवृत्त्यर्थं वादी प्रतिज्ञादि- घटितपञ्चावयवोपेतं न्यायवाक्यं प्रयुङ्क्ते इति । [ख] प्रथमपक्षप्रति- पादकोर्थी इति व्यवहारशास्त्रज्ञा आहुः । २ वादकथाकर्ता । ३ विचार- 1 स्थलम् (वाच० ) । <वापः> उदक मिश्रणाय पिष्टस्य पात्रे प्रक्षेपः ( जै० न्या० अ० १० पा० १ अधि० ११) । <वायवी> ( दिक् ) सुमेरुसंनिहिता उदयगिरिव्यवहिता च उत्तरपश्चिमा दिक् (वै० वि० २/२/१० पृ० ११६) । यथा झळकीग्रामतो वायव्यां मुम्बापुरी । <वायुः> १ (द्रव्यम् ) [क] वायुत्वसामान्यवान् (त० कौ०) (प्रशस्त ० ) । वायुश्च पञ्चमहाभूतान्तर्गतः । [ख ] रूपरहितः स्पर्शवान् / अ सूत्रम् स्पर्शवान् वायुः (वै० २।१।४ ) इति । तल्लक्षणं च स्पर्धेतर विशेषगुणासमानाधिकरण विशेषगुणसमानाधिकरणजातिमत्त्वम् (३० उ० २।१।४ ) । अथ वा रूपाभावे सति स्पर्शवत्वम् (वाक्य० १/४ ) । समवायेन रूपवदवृत्तिस्पर्शवत्वमित्यर्थः ( ल० व० ) । अथ वा पाक- स्पर्शवदवृत्त्यनुष्णाशीत स्पर्श व द्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् (दि० १ पृ० ८३ ) । अत्र पृथिवीत्ववारणायावृत्त्यन्तम् । जलत्ववारणाय वृत्य न्तम् ( राम० १ वायुनि० पृ० ८३) । अथ वा त्वगिन्द्रिय समवेत द्रव्यत्वसाक्षायाप्यजातिमत्त्वम् ( सर्व० पृ० २१८ औलू० ) । तादृशी जातिश्च वायुत्वम् । वायोरस्तित्वे प्रमाणमाह यद्यपि वायुरतीन्द्रियस्तथापि विलक्षणशब्दात्मक कार्यान्यथानुपपत्त्या स स्वीकरणीयः इति (प्र० प्र०) वायोरप्रत्यक्षत्ववादिमते वायुसिद्धिर्यथा ग्राह्यजातीय विशेषगुणवत्त्वेन स्पर्श योयं वायौ चाति सति अनुष्णाशीतः स्पर्श: प्रतीयते स स्पर्शः कचिद वत्त्वाद्द्रव्यान्तरप्रसक्तित्वेन वायुसिद्धि: ( न्या० ली० पृ० ९ ) ३ श्रितः गुणत्वाद्रूपवत् इत्यनुमानेन किंचिदाश्रितत्वे साधिते यत् किंचि पदग्राह्यं तदेव वायुः इत्युच्यते ( त० दी० ) च० वायुनि पृ० ८ ) । स चायं वायुर्द्विविधः नित्यः अनित्यश्च । तत्र नित्यः [S माणुलक्षणः । अनित्यः कार्यलक्षणः नाना च । तस्य वायोः अप्रत्य स्यापि नानात्वं संमूर्छनेनानुमीयते । अत्र सूत्रम् वायोर्वायुसंमूर्छनं नानात्व- लिङ्गम् (वै० २११।१४) इति । संमूर्छनं पुनः समानजवयोर्वाय्वोर्विरुद्ध- दिक्रिययोः संनिपातः । सोपि संनिपातः सावयविनोर्वाय्वोरूर्ध्वगम- नेनानुमीयते। तच्च वाय्वोरूर्ध्वगमनम् प्रत्यक्षेण तृणादिगमनेन अनु- मीयते ( प्रशस्त० वायुनि० पृ० ५) (वै० उ० २११।१४ ) इति । अत्र भाष्यकारा आहुः । कार्यलक्षणः अनित्यो वायु: चतुर्विधः शरीरम् इन्द्रियम् विषयः प्राणः इति । तत्र (१) अयोनिजमेव शरीरं मरुतां लोके । पार्थिवावयवोपष्टम्भाञ्चोपभोगसमर्थम् । (२) इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वक् । (३) विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गः तिर्यग्गमनस्वभावकः मेघादिप्रेरणधारणादिसमर्थः । (४) प्राणोन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुः एकः सन् क्रियाभेदादिभिरपाना दिसंज्ञां लभते (प्रशस्त० पृ० ५ ) (प० मा० ) इति । नव्यास्त्वित्थं वदन्ति । अनित्यस्त्रिविधः शरीरम् इन्द्रियन् विषयश्च । तत्र शरीरम् वायुलोके प्रसिद्धम् । पिशाचादीनामपि वायुशरीरम् अयोनिजं च (मु० १ वायुनि० पृ० ८४ ) ( त० कौ० ) । अत्रेदमवधेयम् । एतच्छरीरस्य पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् । तेन वायोस्ताल्यादिव्यापाराभावात् करचरणाद्यभावेन चाहरणविहरणाद्यभावात् कथं तादृशशरीरस्य भोगा- यतनत्वम् इत्याशङ्कानवकाश: ( दि० १ पृ० ८४ ) ( प० मा० ) इति । इन्द्रियं स्पर्शग्राहकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं त्वक् सर्वशरीर- वृत्ति । विषयो वृक्षादिकम्पनहेतुः उपलभ्यमानस्पर्शाश्रयो महावाय्वादिः ( भा० प० श्लो० ४५ ) ( त० सं० ) । प्राणोपि विषयो वायुः । सोन्तः शरीरे रसमलधातुपित्तकफादीनां प्रेरणधारणादिहेतुः । स चैकोपि दारूपोपाधिभेदात् मुखनिर्गमादिक्रियाभेदाच्च पञ्च संज्ञा लभते । तत्र स्थानभेदाद्यथा प्राणोपानो व्यान उदानः समानः इति । तदुक्तम् हृदि प्राणो गुदेपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ ( अमर० १/६७ टी० ) इति । तथा मुखनासिकाभ्यां निष्क्रमणप्रवेशनाप्राणः । मलादीनामधो नयनादपानः । ९३ न्या० को० आहारेषु पाकार्ये बहेः समुन्नयनात्समानः । ऊर्ध्वं नयनादुदानः । नाडीमुखेषु वितननाद्यान: (प० मा० ) ( दि० ११२ पृ० ८५) इति । क्रियाभेदाच्चान्या अपि पञ्च संज्ञा यथा नागः कूर्मः कुकल: देवदत्तः धनंजयः इति ( सि० च० ) ( मु० १ पृ० ८५ ) । तदुक्तम् उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे ॥ न जहाति मृतं चापि सर्वव्यापी धनंजयः इति । अत्र पुस्तकान्तरे पोषणस्य हेतुर्धनंजयः इत्युक्तम् ( सि० च० ) । कृकरः इत्यत्र च कृकल इत्यपि पाठान्तरम् । वायौ नव गुणास्तिष्ठन्ति । स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोग: विभागः परत्वम् अपरत्वम् संस्कारश्चेति ( प्रशस्त ० ) ( भा०प० ) ( त० मा० ) । स्पर्शस्त्वत्रा पाकजोनुष्णाशीत स्पर्शोभिप्रेतः (मु० ) ( प्रशस्त० पृ० ५ ) । परिमाण परममहत्त्वातिरिक्तम् । संस्कारस्तु वेगः स्थितिस्थापकोपि इति केचिदाहु ( त० कौ ) । वायुर्न प्रत्यक्षः किं तु स्पर्शादिना अनुमेयः इति प्राथ आहुः । तत्र युक्तिः । वायुयेदि प्रत्यक्षः स्यात्तदा घटादिवत् तदीय संख्या दिसामान्यगुणोपलम्भोपि तत्र स्यात् । न चैवम् । तस्मान्न प्रत्यक्षः इति ( त० व० १ ।३।४५) । वायोरप्रत्यक्षत्वं सूत्रकारैरुक्तम् / ता च सूत्रम् स्पर्शश्च वायोः (३० २११/९ ) इति । तदर्थश्च लिङ्गम् ३ शेषः । चकाराच्छब्दधृतिकम्पाः समुच्चीयन्ते । तथा च अनुभूयते स कचिदाश्रितः स्पर्शत्वात् पृथिव्यादिस्पर्शवत् इति सामान्य दृष्टेन स्पर्शाश्रयसिद्धी स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूप नाकाशादिपञ्चात्मकः स्पर्शवत्त्वात् इति इतरबाधग्रहसहकृतेन अनुमान अष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । एवम् शब्दधृतिकम्पा अपि वायौ लिङ्ग अज्ञेयानि (वै० उ० २/१/९-१० पृ० ८१-८४ ) ( त० (मु० १ ) । प्राचां मते च विषयतासंबन्धेन बहिर्द्रव्यप्रत्यक्षं समवायेन महत्त्वविशिष्टोद्धृतरूपमुद्भुतस्पर्शश्च कारणम् इति का योयं रणभावो ज्ञेयः (सि ० च० १ पृ० ८) (त० प्र० ) । एवं णाभावान प्रत्यक्षम् इति बोध्यम् ( मुं० १ पृ० ११३ ) / न वायुः प्रत्यक्षः इत्यङ्गचक्रुः (त० प्र० ) । एतन्मते तु बहिर्द्रव्य प्रति महत्त्वविशिष्टविभुव्यावृत्तविशेषगुणः महत्त्वविशिष्टोद्भूतरूपोद्भूतस्प- र्शान्यतरद्वा कारणम् इति कार्यकारणभावो ज्ञेयः (सि० च० पृ० ८)। बहिर्द्रव्य प्रत्यक्षं प्रति आत्मावृत्तिशब्द भिन्नविशेषगुणवत्त्वं प्रयोजकम् इति वा कार्यकारणभावः । तेन वायोः प्रत्यक्षत्वमुपपद्यते । वायुं स्पृशामि इत्यनुभवाच्च । अत्रेदमधिकं ज्ञेयम् यथा प्रभागतमेकत्वं गृह्यते तथा वायु- गतमेकत्वमपि गृह्यत एव । क्वचित् सजातीयसंवलनाभावे द्वित्वपरिमाणा- दीनि गृह्यन्ते । तद्ब्रहश्च भूयोवयवावच्छेदेन त्वगिन्द्रियसंनिकर्षस्थले बोध्यः । क्वचित् संख्यापरिमाणाद्यग्रहः सजातीयसंवलनादिरूपदोषात् इति । सजातीयसंवलनदशायाम् भूयोवयवावच्छेदेन त्वगिन्द्रियसंनि- कर्षाभावे च इत्यर्थः (दि० १ वायुनि० पृ० ११४ ) । फूत्कारादिरूपे वायौ संख्याद्युपलभ्यत इत्यप्यत्र बोध्यम् (वै० उ० २।१२।९ पृ० ८३ ) ( त० व० ३।४६ ) । मीमांसका अपि वायुर्बाह्येन्द्रियप्रत्यक्ष इत्यङ्गी- चक्रुः (प० मा० ) । तन्मते महदुद्भुतस्पर्शवद्रव्यमेव त्वचो योग्यम् न तु केवलमुद्भूतरूपवद्रव्यम् इति कार्यकारणभावे निवेश्यमिति भावः ( म० प्र० १० ) । एतन्मते प्रभाया अप्रत्यक्षत्व इष्टापत्तिरेव शरणम् इति मन्तव्यम् । तन्न योग्यम् । इह पक्षी नेह पक्षी इति प्रतीतेः प्रभा- मण्डलरूपदेशविषयिण्याः सर्वानुभवसिद्धायाः संभवात् ( म० प्र० १ पृ० ११ ) इति । पाश्चात्यास्तु प्राणाख्यं वायुं जलस्य समवायिकारण- मङ्गीचक्रुः । २ उत्तरपश्चिमवि दिगधिपतिर्देवता विशेषः इति पौराणिका आहुः । ३ देहस्थधातुविशेषः इति भिषज आहुः । ४ परमात्मैव इत वेदान्तिनः प्राहुः । वायुत्वं च त्वगिन्द्रिय समवेतत्वे सति द्रव्यत्वसाक्षा- याप्यजाति: ( सर्व० सं० पृ० २१८ औ ० ) । <वारणम्> [क] क्रियाधर्मिक निवृत्त्यनुकूलव्यापारः । यथा कूपादन्धं वारयति विषाद्वालं निवारयतीत्यादौ धात्वर्थो वारणम् । क्रियां च पतन- ( भोजनादिर्विशेषतो ग्राह्या । अत्र धात्वर्थघटकनिवृत्तौ पञ्चम्या कूपादि- प्रकारकत्वम् द्वितीयया चान्धादिनिष्ठत्वं प्रत्याय्यते । तथा च अन्ध- निष्ठायाः पतनधर्मिककूपप्रकारकनिवृत्तेः बालनिष्ठायाश्च भोजनधर्मिक- विषप्रकारकनिवृत्तेः अनुकूलव्यापारवान् इत्याकारकस्तत्र बोधः । अत्र तथाविधनिवृत्त्यनुकूलव्यापारश्च स्वार्थधीद्वारा कूपे मा पत विषं मा भुङ्क्ष्व इत्याद्यभिलापरूपः स्फुट एव ( श० प्र० श्लो० ६८ टी० पृ० ८३ ) । अथ वा अभावानुकूलव्यापारो धात्वर्थः । पञ्चम्या वृत्तित्व- मर्थः । तस्यान्धेन्वयः । द्वितीयाया अनुयोगित्वं प्रतियोगित्वं वार्थः । तस्य च धात्वर्थतावच्छेदकी भूताभावेन्वयः । अभावश्च कूपादिसममि व्याहारात् पतनादिजन्याधःसंयोगादिसंबन्धेन । तथा च कूपवृत्त्यन्ध- एतस्माद्विषान्नादमुं मित्रं वारयति इत्यादावप्यूहाः (का० व्या० पृ० १०) । प्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवान् इति वाक्यार्थः । एवम् ख क्रियाप्रतिषेधः । यथा यवेभ्यो गां वारयति कूपादन्धं वारय क्रिया च भक्षणगमनादिरूपा । तस्याः प्रतिषेधस्तु कर्तृत्वाभावानुकूल तीत्यादौ धात्वर्थो वारणम् ( ग० व्यु० का० ५ पृ० १०७) । अत्र व्यापारः । कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादे कर्मता संपद्यते । अत्र वारणार्थानामीप्सितः ( पा० सू० १/४/२७) इत्यनेनापादानत्वम् । तदर्थश्च वारणं क्रियाप्रतिषेधः । तदर्थकधातुयोगे यद्वा यवादिपदोत्तरपञ्चम्यर्थः यवादिगतत्वेनेच्छा विषयफलकत्वम् । तत्तत्क्रियाजन्यफलभागितया तत्तत्क्रियाकर्तुरभिप्रेतः अपादानम् इति । तस्य भक्षणादावन्वयः । इच्छा च क्रियाकर्तृनिष्ठा । एवं च गवान्धादीच्छाविषयो यो गलाधः संयोगोत्तरदेशसंयोगादिः गवादिनिष्ठ तत्तत्फलकव्यापार विशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमान् इस कारको बोध: ( ग० व्यु० का० ५ पृ० १०७) । मञ्जूषायां मुक्तम् । अभावप्रतियोगिव्यापारजन्यफलाश्रयोत्रापादानम् । नाम् इति सूत्रात् । वारणार्थधात्वर्थफलाश्रयत्वमत्रेप्सितत्वम् । संयोगाद्याश्रयत्वाद्यवादीनामपादानत्वम् । [ग] शाब्दिकाश्च प्रवृि यथा यवेभ्यो गां वारयति अग्नर्माणवकं वारयति कूपादन्धं वार इत्याहु: ( उ० म० सुबर्ध० पृ० १०९) । कचित् आनयना इत्यादौ भक्षणसंयोगादिजनक व्यापाराभावानुकूलो व्यापारो वार निवृत्त्यनुकूलव्यापारो वारणम् । यथा परस्खेभ्यः पाणि निवारयतीत्यत्र निवारणम् । अत्र धात्वर्थघटकनिवृत्तौ पाण्यादेरवच्छेदकत्वेन परस्खादेश्व प्रकारत्वेनान्वयः । तादृशव्यापारः कराकुञ्चनादिरेव (श० प्र० श्लो० ६८ पृ० ८३ ) । कचिच संयोगाभावनिष्ठस्य प्रयोजकव्यापारः । यथा स्वाङ्गाद्वाणं वारयतीत्यादौ वारयत्यर्थो वारणम् । अत्र धात्वर्थघटके संयोगे द्वितीयान्तलभ्यस्य बाणप्रतियोगिकत्वस्य संयोगाभावनिष्ठे च पञ्चम्यन्तलभ्यस्य स्वाङ्गवृत्तित्वस्यान्वयः । कार्याभाव इव तन्निष्ठेधिकरण - विशेषवृत्तित्वेपि प्रतिबन्धकस्य प्रयोजकत्वात् । अत एव मणिः काष्ठे दाहाभावस्य प्रयोजकः न तु पाथसि इत्यादिकः सार्वलौकिकव्यवहारः इति । तथा च बाणसंयोगाभावनिष्ठायाः स्वाङ्गवृत्तितायाः प्रयोजक- बाणापसरणादिरूपव्यापारानुकूलकृतिमान् इत्याकारकस्तत्र बोधः ( श० प्र० श्लो० ६८ टी० पृ० ८३-८४ ) । <वारुणम्> शततारका नक्षत्रम् (पु० चि० पृ० ३५४ ) । <वारुणी> चैत्र कृष्णत्रयोदश्यां शततारका नक्षत्रं चेत्सा वारुणीत्युच्यते । महावारुणीशब्दे दृश्यम् । <वार्तिकम्> उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं प्राड- वर्तिकज्ञा मनीषिणः ॥ इति ( वाचस्पत्ये पराशरपु० अ० १८) । वार्षिकम् – वर्षाकाले भवं वार्षिकम् । वर्षाकालश्च श्रावणभाद्रपदमासौ ( पुरु० चि० पृ० २९६ ) । <वासना> १ ( गुणः ) स्मृतिहेतुः संस्कार विशेष: ( जटा० ) । २ शक्ति- विशिष्टचित्तोत्पादः (न्या० वा० ११ ११० पृ०६९) । ३ मिथ्या- ज्ञानजन्यो गौरोहम् इत्यादिमानसज्ञानजनको दोषविशेषः । यथा आत्मा देहाद्यभिन्नः इति ( ग० २ हेत्वाभा० सामान्य० ) । ४ एकसंतान- वर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः इति विज्ञानवादिनो बौद्ध आहुः ( सर्व० पृ० ३७ बौद्ध० ) । ५ ग्रहस्पष्टीकरणाद्युपयोगी संस्कार- विशेषः इति ज्योतिः शास्त्रज्ञा गणका आहुः । ६ ज्ञानम् । ७ प्रत्याशा इति पौराणिका आहुः । ८ सुरभीकरणम् इत्यालंकारिका आहुः । ९ भगवदिच्छा । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः प्रकृष्टकरणाद्वासना वासयेद्यतः ॥ ( सर्व० सं० पृ० १४१ पूर्ण० ) । <वासवम्> धनिष्ठानक्षत्रम् ( पुरु० चि० पृ० ३५४ ) । <वि> ( अव्ययम् ) १ विरोध: ( गौ० वृ० १ । १ । २३ ) । यथा विमर्श: संशयः ( गौ० १ । १९२३) इत्यादौ । यथा वा वैधर्म्यमित्यादौ विरुद्धो । धर्मः (मु० १) इति । २ नाना । यथा विचित्रमित्यादौ । ३ वियोगः । यथा वियुक्तमित्यादौ । ४ अतिशयः । यथा विकीर्ण इत्यादौ । ५ भृशम् । यथा वितटा नदीत्यादौ । ६ मोहः । यथा विमनस्क इत्यादौ । ७ ईशः । यथा विभुरित्यादौ । ८ वाम् । यथा विवदतीत्यादौ । ९ पैशून्यम्/ यथा विगायतीत्यादौ । १० अस्मरणम् । यथा विस्मृत इत्यादौ । ११ भूषा । यथा विभूषित इत्यादौ । १२ ईषदर्थः । यथा विलोपित इत्यादौ । १३ अनाभिमुख्यम् । यथा विमुख इत्यादौ । १४ अनवस्था । यथा विभ्रान्त इत्यादौ । १५ आमुख्यम् । यथा विवृष्ट इत्यादी । १६ स्यैर्यम् । यथा विश्रान्त इत्यादौ । १७ दर्शनम् । यथा तीत्यादौ ( गणरत्न० ) । १८ नियोगः । १९ विशेषः । २० । २१ असहनम् । २२ निग्रहः । २३ हेतुः । २४ अव्याप्तिः । २५ परिभवः । २६ आलम्बनम् । २७ ज्ञानम् । २८ आलस्यम्/ २९ पालनम् ( शब्दच ० ) ( मेदि० ) । ३० पक्षी । ३१ परमात्मा चेति ( अमरः ) । अत्र उपसर्गाणामर्थविशेषद्योतकत्वमेव न तु वाचक त्वमित्यवधेयम् । <विकरण धर्मित्रम्> ( क्रियाशक्तिः) उपसंहृतकरणस्यापि निरतिशयैश्वर्य संबन्धित्वम् ( सर्व० सं० पृ० १६७ नकुली० ) । <विकरणलाभः> कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्ष त्तिलाभः ( सर्व० सं० पृ० ३८४-३८५ पात० ) । <विकल्पः> १ प्रकारता । यथा सविकल्पकं ज्ञानम् इत्यादौ । २ वैचित्र्यम् तच कचित्सत्त्वम् कचिदसत्वम् ( गौ० वृ० ५/१/४ ) । यथा साध्या न्तयोर्धर्मविकल्पात् (गौ० ५/११४) इत्यादौ । ३ द्वैविध्यम् । यथा विकल्पसमा जातिः इत्यादौ (गौ० वृ० ५ । १ । ४ ) । ४ विभिन्नः कल्पः । ५ विविधः कल्पः । ६ पक्षान्तरबोधकः शब्दः । यथा व्रीहिभिर्वा यवैर्वा यजेत इत्यादिः । विकल्पो द्विविधः व्यवस्थितः ऐच्छिकश्च । सोप्या- काङ्क्षाविरहे युक्तः । तथा च भविष्ये स्मृतिशास्त्रे विकल्पस्तु आकाङ्का- पूरणे सति इति । इच्छाविकल्पेष्टौ दोषा यथा प्रमाणत्वाप्रमाणत्वपरित्याग- प्रकल्पने । प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥ इति । व्रीहिभिर्यजेत यवैर्यजेत इति श्रुतिः । तत्र व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः अप्रतीतयवाप्रामाण्यपरिकल्पनम् । प्रयोगान्तरे यव उपादीयमाने परित्यक्त- यवप्रामाण्योज्जीवनम् स्वीकृतयवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं श्रीहावपि चत्वारः इत्यष्टौ दोषा इच्छा विकल्पे । व्यवस्थितविकल्पस्तु उपोष्य द्वे तिथी इति । अत्र अष्टदोषभिया नेच्छाविकल्पः । किंतु व्यवस्थितविकल्प एव इति विज्ञेयम् (वाच० ) । ७ योगशास्त्रज्ञास्तु चित्तवृत्तिविशेषः । यथा शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ( पात ० सू० पा० १ सू० ९) इत्यादौ इत्याहुः । ८ भ्रान्तिः । ९ पक्षतः प्राप्तिश्च । १० कल्पनम् (मेदि० ) ( वाच० ) । विकल्पसमः– ( जातिः ) [ क ] साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पा- त्साध्यधर्मविकल्पं प्रसजतो विकल्पसमः । यथा आत्मा सक्रियः क्रिया- हेतुगुणवत्त्वाल्लोष्टवत् इत्यादौ । क्रियाहेतुगुणयुक्तं किंचिद्गुरु । यथा लोष्टः । किंचिलघु । यथा वायुः । एवं क्रियाहेतुगुणयुक्तं किंचित्क्रिया- वत्स्याद्यथा लोष्टः । किंचिदक्रियं यथा आत्मा । विशेषो वा वाच्य इति ( बात्स्या० ५1१18 ) । क्रियाहेतुगुणश्चात्र क्रियाजनक- वायुसंयोगादिरेव (नील० पृ० ४३ ) । विशेषो वाच्य इत्यस्या- यमर्थः पूर्वविकल्पो भवति अयं तु न भवति इत्यत्र किं नियामकं स्यात् (नील० पृ० ४३) इति । अत्र सूत्रभागः साध्यदृष्टान्तयोर्धर्मविकल्पा- दुभयसाध्यत्वाच्च विकल्पसमः ( गौ० ५/१।४) इति । तदर्थस्तु पक्षे दृष्टान्ते च यो धर्मस्तस्य विकल्पो विरुद्धः कल्पो व्यभिचारित्वम् । उपलक्षणं चैतत् अन्य वृत्तिधर्मस्यापि बोध्यम् । व्यभिचारोपि हेतोर्धर्मा- अन्तरं प्रति धर्मान्तरस्य साध्यं प्रति धर्मान्तरस्य धर्मान्तरं प्रति वा (गौ० वृ० ५१११४ ) । [ख] कस्यचिद्धर्मस्य क्वचिद्यभिचार दर्शनेन धर्मत्वाविशेषात्प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापाद- नम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यमि चारदर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् नित्यत्वस्य मूर्तत्वव्यभि- चारदर्शनात् धर्मत्वाविशेषात्कृतकत्वमप्यनित्यत्वं व्यभिचरेदिति (गौ० वृ० ५२११४) । तथा चोक्तम् धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः । श्लो० १०९ ) इति । [ग ] दृष्टान्तविकल्पं प्रदर्य दान्तिकविकल्प- हेतोः साध्याभिचारोक्तौ विकल्पसमजातिता ॥ ( ता० १० परि० २ कथनम् (नील० पृ० ४३ ) । अत्र शिष्टमुदाहरणादिकं त भाष्य तुल्यमेव नीलकण्ठ्यां प्रतिपादितम् इति तन्नात्र संगृहीतम् इति विज्ञेयन् अनैकान्तिकदेशनाभासोयम् ( गौ० वृ० ५/१/४ ) । <विकारः> १ [क स्वरूपस्य विनाशे अविनाशे वा द्रव्यान्तरारम्भकत्वम् / यथा दुग्धादेर्दव्यारम्भकत्वम् बीजादेवृक्षाद्यारम्भकत्वं च । सुवर्णादेरपि लोहाघातजन्यावयवसंयोगनाशादवयविनो नाशे सत्येव कुण्डलारम्भः । कपालादेश्च स्वरूपाविनाशेन घटाद्यारम्भकत्वम् (गौ० वृ० २/२/४० // सांख्यैश्च पञ्चविंशतितत्त्वमध्ये षोडशपदार्था विकारशब्देनोक्ताः । तदुक्तम् षोडशकस्तु विकार इति । अस्यार्थः षोडशसंख्यावच्छिन्नो गण षोडशको विकारः एवेति ( सर्व० सं० पृ० ३१८ साङ्ख्य० ) ख प्रकृतेरन्यरूपः परिणामः ( वाच० ) । अयं विकारधर्मो द्रव्य र्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते (वात्स्या० २/२/४५/ सामान्ये । यदात्मकं द्रव्यं मृद्वा सुवर्ण वा तस्यात्मनोन्वये पूर्वो व्यूहो निय अत्राधिकं च कर्मशब्दव्याख्याने दृश्यम् । [ग] अन्ये तुर परित्यागेन रूपान्तरापत्तिः ( गौ० वृ० २/२/५२ ) इत्याहुः । २ विकारस्तु गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्य: ० ( गौ० २/२/५६ इति सूत्रे उक्तः । अत्र केचिदाहुः इको यणचि (पाणि० अ०६ पा सू० ७७ ) इत्यादिना इकारादेर्विकारो यकारादिः इति । परे तु इकारे प्रयोक्तव्ये यकारः प्रयोक्तव्यः इत्यादेशमादिशन्ति (गौ० वृ० २।२।४० ) । ३ यास्कोक्ता भावविकाराः षट् । जायते अस्ति विपरिणमते वर्धते अप- क्षीयते विनश्यति इति षड् भावविकारा भवन्तीति वार्ष्यायणिः । विकार्यम् – ( विकृतिरूपं कर्म ) [ क ] क्रियानिष्पाद्यं यत्तत् । यथा तण्डु- लानोदनं पचति कुसुमानि स्रजं करोति काशान्कटं करोतीत्यादौ प्रकृति- भूततण्डुलकुसुमकाशादिपदसमभिव्याहारे ओदनस्रगादि विकार्यरूपं कर्म भवति । अत्र विकार्यपदेन एकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेपि उभय- साधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम् । अत्रेदं बोध्यम् । ओदनस्रगादेर्यदा कर्मत्वम् तदा तत्प्रकृतिभूततण्डुलकुसुमादीनामपि कर्मत्वं बोध्यते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते । अतः काष्ठानि भस्मराशिः क्रियन्ते इति प्रयोग उपपद्यते । अत्र भस्म दिनिर्वर्त्यकर्मताया लकारेणानभिधानेपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता । प्रातिपदि- कार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुत्वात् ( ग० व्यु० का० २ पृ० ६७ ) इति । [ख ] यल्ल॒क्ष्यं तन्नाशकमेवा- बस्थान्तरमापद्यते तत् । यथा काष्ठं भस्म करोति सुवर्णे कुण्डलं करो- तीत्यादौ काष्ठादि । अत्र काष्ठादिपलक्ष्यस्य काष्ठावयवादेः स्वनाशक- भस्मादिरूपावस्थान्तरप्राप्तेर्लक्षणसमन्वयः । ओदनं पचतीत्यादौ ओदन- पदलक्ष्य ओदनावयवः । पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नस्तेजःसंयोगः । तथा च धात्वर्थजन्यफलशालित्वात् सतोषस्थान्तरप्राप्तेश्चोभयविधकर्मत्व- मोदनावयवस्येष्टम् ( का० व्या० पृ० ६) । [ग] शाब्दिकास्तु प्रकृति- विवक्षायां निष्पाद्यम् । काष्ठं भस्म करोतीत्यादौ असत्या एव काष्ठादि- रूपप्रकृतेः परिणामित्वेन विवक्षास्ति इत्याहुः । तदुक्तमविकायें तु द्वेधा कर्म व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचित्काष्ठादिभस्मवत् । किंचिगुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । तलक्षणं तु प्रतीयमान प्रकृति- विकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्व उत्पत्ति एतदन्यतरफलव- ९४ न्या० को० त्वम् । घटं करोतीत्यादिनिर्वर्से क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतिविकृति- भावाभानान्नातिप्रसङ्गः । किंच प्रकृतिकर्मणः काष्ठादे: तादृशविशिष्टा- सत्त्ववत्त्वात् विकृतिकर्मणश्च भस्मादेः तादृशोत्पत्त्याश्रयत्वालक्षणसंगतिः । सुवर्णे कुण्डलं करोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफल कुण्डलस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्यत्वम् । तदुक्तं भर्तृहरिणायद सज्जायते सद्वा जन्मना यत्प्रकाश्यते । प्रकृतेस्तु विवक्षायां विकायें। कैश्चिदन्यथा ॥ इति । प्रकृतिकर्मत्वं च धात्वर्थव्यापारनिर्वाह्याभावप्रति- योगितावच्छेदकधर्मवश्वम् । काशान् कटं करोति कुसुमानि स्रजं करोति सुवर्ण कुण्डलं करोति मृदं घटं करोति काष्ठं भस्म करोति तण्डुलानोदनं । पचतीत्यादौ धात्वर्थव्यापारनिर्वाह्यो यः पूर्वभाव विशिष्टकाष्ठकाशादिप्रति- योगिकः अभावो विशिष्टासत्त्वरूपः तत्प्रतियोगितावच्छेदकवैशिष्ट्यवत्वं काशकाष्ठाः इति तत्प्रकृतौ लक्षणसंगतिः । अत्रेदं बोध्यम् । भस्मेत्यत्र करोतेर्नाश उत्पत्तिश्च फलद्वयम् तदनुकूलव्यापारश्चार्थः । प्रतियोगितया काष्ठस्य उत्पत्तौ भस्मन आधेयतयान्वयः । काष्ठप्रतियोगिक नाशानुकूलो भस्मोत्पादको वर्तमानो व्यापारः इति वैयाकरणमते बोधः। द्वितीयाया नाशकत्वमर्थः । विकृतिकर्मबोधकौदनपदोत्तरद्वितीयायाश्चोत्या. नैयायिकमते तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मबोधकतण्डलपदोत्त दकत्वमर्थः । तण्डुलाद्यन्वितं नाशकत्वं च पाकेन्वेति । ओदनाद्यन्वितो त्पादकत्वस्य नाशकत्वविशिष्टे पाकेन्वयः । तथा तण्डुलनाशक ओदनोत्पादको यो व्यापारः तदनुकूलकृतिमान् इति बोधः । एवम् क बोध्यम् । भस्म करोतीत्यादौ यदा भस्मप्रकृतिभूतकाष्ठादिसमवधान भस्म करोतीत्यादावप्यूह्यम् (वै० सा० ६० सुब० कार० २) । इदं च मवधानमस्ति तदा तदेव विकृतिरूपं कर्म विकार्यम् इत्युच्यते इति । नास्ति तदा भस्मादिरूपं विकृतिकर्म निर्वत्यम् इत्युच्यते । यदा च तत्स <विकृतिः> १ विकारः । २ विकार्यम् । ३ मीमांसकास्तु पदेशः सा विकृतिः । यथा सौर्यादिः इष्टि: । तत्र कतिपयाङ्गानाम देशेन प्राप्तत्वात् इत्याहुः । अतिदेशेनेत्यस्यार्थस्तु प्रकृतिवद्विकृतिः कर्त इति चोदकशब्दितातिदेशवाक्येन इति ( लौ० भा० पृ० २३ ) । ४ स्वरविशेषः । यथा श्रीरागे गान्धारो विकृतिस्वरः इति गायका आहुः । <विक्रयः> [ क ] मूल्यग्रहणपूर्वकं दानम् । यथा तुरगमस्मै विक्रीणीत इत्यादौ धात्वर्थः । अत्र तुरगश्च न मूल्यम् । पणपुराणादेरेव शास्त्रे तथात्वोपदेशात् ( श० प्र० श्लो० ६९ टी० पृ० ८६ ) । अथ क्रय- विक्रयविचारे विवादचिन्तामणौ कात्यायनः पण्यं गृहीत्वा यो मूल्यमद- त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमानुयात् ॥ इति । मनुः विक्रयाद्यो धनं किंचिह्णीयात् कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ( मनु० अ० ८ श्लो० २०१) । क्रीत्वा विक्रीय वा किंचिद्योस्येहानुशयो भवेत् । सोन्तर्दशाहात्तद्रव्यं दद्या- चैवाददीत च ॥ ( मनु० अ० ८ श्लो० २२२) इति । याज्ञवल्क्य- नारदौ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विकेतुरेवासौ याचित- स्याप्रयच्छतः ॥ ( याज्ञ० अ० २ श्लो० २६१ ) इति । स्वं लभेतान्य- विक्रीतं क्रेतुर्दोषोप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ ( याज्ञ० अ० २ श्लो० १७३) । विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृहति । हानिश्चेत्केतृदोषेण क्रेतुरेव हिसा भवेत् ॥ (याज्ञ० अ० २ श्लो० २६०) इति । [ख] मूल्यग्रहणजन्यस्य परस्वत्वस्यानुकूलत्यागः । ग्रामं विक्रीणा- तीत्यादौ ग्रामनिष्ठस्य मूल्यग्रहणजन्यपरस्वत्वस्यानुकूलो यो ग्रामस्य त्यागः तान् इति बोध: ( श० प्र० श्लो० ७२ पृ० ९६ ) । [ग] परस्वत्वजन कमूल्यग्रहणं वा । यथा ग्रामं विक्रीणातीत्यत्र धात्वर्थो विक्रयः । अत्र पक्षे ग्रामं विक्रीणातीत्यादौ ग्रामनिष्ठं यत्परस्वत्वम् तदनुकूलमूल्य- ग्रहणवान् इति बोधः । मूल्यं च पणपुराणादिकमेव राजनिर्दिष्टम् न तु द्रव्यमात्रम् । तेन तिलादीन् दत्वा माषादीनां विनिमये विप्राणां तिल- विक्रयादिदोषस्यानवकाशः ( श० प्र० श्लो० ७२ टी० ९७ ) । [व] मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वजनकल्यागः । यथा गां विक्रीणा- तीत्यादौ इति प्राञ्च आहुः । अत्र गोवृत्तिमूल्य ग्रहण प्रयुक्तस्वस्वत्वध्वंस- परस्वत्वानुकूलत्यागव्यापारानुकूलकृतिमान् इत्येवं बोध: ( का० व्या का० ४५० ५) । <विक्रीयासंप्रदानम्> विक्रीय पण्यं मूल्येन केतुर्यन्न प्रदीयते । विक्रीया - संप्रदानं तद्विवादपदमुच्यते ॥ ( मिताक्षरा अ० २१ २५४ ) । <विक्लित्तिः> तेजःसंयोगादिना जायमानोवयवविभागविशेषः । यथा तण्डु पचतीत्यादौ फलीभूतो धात्वर्थस्तण्डुलाद्यवयव विभागप्रभेदः ( श० प्र० । श्लो० ७१ टी० पृ० ८९) । शाब्दिकास्तु जलतेजःसंयोगाम्यां जायमानमवयवशैथिल्यम् । तच्च पूर्वारम्भकसंयोगनाशानन्तरशिथिल संयोगापत्तिः इत्याहुः (वाच० ) । <विक्षिप्तम्> ( चित्तम् ) क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते (सर्व० सं० पृ० ३५४-३५५ पात० ) । <विक्षेपः> १ ( निग्रहस्थानम् ) [क] कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः। ( गौ० ५।२।१९ ) । यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति । विक्षेपो नाम ( वात्स्या० ५/२/१९) इति । एतत्सूत्रं विवर्तयामास । कार्यव्याङ्गा स्थानम् । एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं द्य कार्यव्यासङ्गमुद्भाव्येत्यर्थः । ल्यब्लोपे पञ्चमी । कार्यव्यासङ्गश्वासंभव अन्तरकत्वेनारोपितः । तेन तादृशकथाविच्छेदो विक्षेपः । तेन राजपुरुषा दिभिराकारणे गृहजनादिभिर्वा आवश्यक कार्यार्थमाकारणे स्वगृहदाहादि पश्यतो गमने वा शिरोरोगादिना प्रतिबन्धे वा न विक्षेपः । व व्यासङ्गोद्भावनं चोत्तरावसराभावात् । वस्तुतस्तु उत्तरस्फूर्तावपि तदूषण संभावनया विक्षेपसंभवः । यथा क्षितिः सकर्तृका कार्यत्वात् इत्युक्तम् मे किमुत्तरम् । अतोत्र महार्णवलिखितं मया च विचारितं किंचित्का अत्राङ्करे व्यभिचारस्तावन्मयोद्भाव्यः । तत्र चेदयं पक्षसमत्वं ब्रूयात् त मुद्भाव्य गृहे गत्वा दृश्यते इत्येवं विक्षेपसंभवात् (गौ० वृ० ५/२/१९ [ख] असंभवत्कालान्तरकत्वेनारोपितं कार्यव्यासङ्गमुद्भाव्य ( गौ० वृ० ५/२/१९ ) ( नील० पृ० ४६ ) ( दि० १ ) / / कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राहु निग्रहग्रहम् ॥ ( ता० २० परि० ३ लो० १४७) । तदर्थव मुपक्रम्य परिषदि श्रोतुमेकाग्रमनसि प्रतियोगिनि च दत्तावधाने संप्रति मे महत्प्रयोजनमस्ति श्वः परश्वो वा कथयिष्यामि इति कस्यचियाजस्य वचने तस्य विक्षेपलक्षणं नाम निग्रहस्थानमाहुराचार्याः ( सा० सं० पृ० ११५ ) । २ चित्तस्य नवविधो भ्रंशो विक्षेपः इति पातञ्जलयोग- शास्त्रज्ञा आहुः । अत्र सूत्रम् व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्ति- दर्शनालब्ध भूमिकत्वानव स्थितत्वानि चित्तविक्षेपाः तेन्तरायाः (पात● सू० पाद० १ सू० ३०) इति । ३ मायावादिनस्तु अविद्याशक्ति- विशेषः । यथा रज्वज्ञानं स्वावृतरज्जौ स्वशक्तया सर्पादिकमुद्भावयति इत्यादौ इत्याहु: ( वेदा० सा० ) । ४ विमण्डले यग्रहस्थानम् तस्य क्रान्ति- वृत्ताद्यत् तिर्यगन्तरम् स विक्षेपः इति ज्योतिर्विद आहुः (सि० शि० ) । अयमेव शरः इत्युच्यते । ५ स्त्रीणां सत्त्वजोलंकारविशेषः इत्यालंकारिका आहुः । तदुक्तम् भूषाणामर्धरचना वृथा विश्वगवेक्षणम् । रहस्याख्यान- मीषच्च विक्षेपो दयितान्तिके ॥ ( सा० द० परि० ३ श्लो० १०८ पृ० १३१ ) इति । अयं च स्त्रीणां सत्त्वजानामष्टाविंशतिसंख्यकानाम- लंकाराणामन्यतमः स्वभावजो विक्षेपो नाम विच्छित्तिविशेषं पुष्णाति ( सा० द० परि० ३ श्लो० ९२ पृ० १२१) । <विगीतत्वम्> १ वेदनिषिद्धत्वम् (चि० १) । यथा सुरापानादेर्विगीतत्वम् । अत्र निषेधकश्रुतिः न सुरां पिबेत् इत्यादिः । सर्वे मद्यमपेयम् ( आप० स्मृ० ) इति स्मृतिश्च । अत्र वेदपदं स्मृत्यायुपलक्षणम् । न कुर्यान्निष्फलं कर्म इत्यादिना निष्फलजलताडनादेरपि निषिद्धत्वात् । २ लौकिक- विषयकत्वम् । ३ वेदनिषिद्धविषयकत्वम् । यथा मङ्गलं कर्तव्यम् अलौकिका/विगीतशिष्टाचारविषयत्वात् दर्शादिवत् इत्यादौ विगीतत्वम् । ४ पापजनकत्वम् । ५ बलवद निष्टानुबन्धित्वम् (मू० म० १) ( दि० १) ( म० वा० १ ) । <विग्रहः> १ निर्देशे यथावचनम् (वात्स्या० १११११) (न्या० वा० १ पृ० ११) । यथा प्रमाणप्रमेयसंशय प्रयोजन इत्यादिसूत्रे प्रमाणानि च प्रमेयं च संशयश्च प्रयोजनं च इत्यादिविग्रहं वर्णयन्ति ( गौ० वृ० १।१।१ ) । अत्रेदमधिकं ज्ञेयम् । विग्रह एव समासलभ्यार्थस्य बोधकत्वं तन्त्रम् न तु समासे विग्रहार्थस्य । विग्रहलभ्ययोर्लिङ्गसंख्ययोर्व्यञ्जकवैधुर्येणप्रायशः समासाबोध्यत्वात् ( श० प्र० श्लो० ३२ पृ० ४० ) इति । केचिच्छा ब्दिकाः वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति वदन्ति ( म० प्र० ४ पृ० ४३ ) । अन्ये वैयाकरणास्तु समासादिवृत्तिसमानार्थक वाक्यविशेषः इत्याहुः । २ विशेषज्ञानम् । यथा अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः ( हरिवं ० ) इत्यादौ इति पौराणिका आहुः । ३ विस्तारः इत्यमरसिंह आह । ४ युद्धम् इति नीतिशास्त्रज्ञा आहुः । ५ देहः इति काव्यज्ञा वदन्ति । <विघातः> १ ध्वंस: ( दि० १ ) । यथा विघ्नविधाताय मङ्गलम् (मु० १ ) इत्यादौ । २ आघातः । <विघ्नः> समीहितक्रियास्वरूपप्रतिबन्धकम् । तच कचित् दुरितम् ( कि० व० ४ ) । यथा सर्वे विघ्नाः शमं यान्ति विघ्नेशस्तवपाठतः इत्यादौ / लक्षणं तु विनत्वम् । तच्च मङ्गलनाश्यतावच्छेदकः अदृष्टनिष्ठो जाति विशेषः / विघ्नकारणं च मङ्गलाभावेतर विघ्नप्रागभावनाशक कारण कलापः ( मू० म० १) । <विचार:> १ विपरीतोद्भावकपर विजिगीषया न्यायप्रयोगः इत्यस्मद्गुरुचरणा: प्राहुः । यथा परार्थानुमानस्थले पर्वतो वह्निमान् धूमवत्त्वात् इत्यादि । अत्र च पर्वते वहौ साधनीये प्रतिवादिना पर्वतो न वह्निमान् इत्यादि विपरीतवाक्ये प्रयुक्ते मध्यस्थस्य संशयो जन्यते । तन्निवृत्तिद्वारा प्रतिवादि पराभवार्थ वादिना पर्वतो वह्निमान् इत्यादिप्रतिज्ञाघटितवाक्यप्रयोगलप विचारः क्रियते इति विज्ञेयम् । २ तत्त्वनिर्णयः । ३ संदिग्धे बस्तु प्रमाणेन तत्त्वपरीक्षायां तदनुगुणो वाक्यसमूहो विचारः । <विचिकित्सा> ( दोष: ) संशयशब्दवदस्यार्थोनुसंधेयः ( अमरः <विच्छिन्नत्वम्> बलवता क्लेशेनाभिभवः ( सर्व० सं० पृ० ३५९ पात ० <विजयः> ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम काल सर्वकार्यार्थसाधकः ॥ (पु० चि० १० १४८)। <विजया> (सप्तमी ) शुक्लपक्षस्य सप्तम्यां रविवारो भवेद्यदि । सप्तमी विजया ज्ञेया तत्र दत्तं महाफलम् ॥ ( पु० चि० पृ० १०५ ) । <विजातीयम्> १ लक्ष्यतावच्छेद कसाक्षाव्या पक जात्य नवच्छिन्नम् । यथा गोविजातीयो घटः । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य विजातीय- व्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य साक्षा- व्यापकं पशुत्वम् । तदनवच्छिन्नो घटो भवति इति विज्ञेयम् ( प्र० च० पृ० ३ ) । २ तद्वृत्त्यसाधारण विशेषधर्मशून्यस्त द्विजातीयः' इति तु वयं ब्रूमः । <विज्ञानम्> १ बुद्धिशब्दवदस्यार्थोनुसंधेयः । २ पौराणिकाश्च चतुर्दशविद्या- धारणम् इत्याहुः । तदुक्तम् चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरद्विद्याद्येन धर्मो विवर्धते ॥ ( कूर्मपु० अ० १४ ) ( वाच० ) इति । ३ मायावादिनस्तु अविद्यावृत्तिविशेषः आत्मैक्यज्ञानं च विज्ञानम् इत्यङ्गीचक्रुः । ४ काव्यज्ञास्तु शिल्पादिज्ञानम् इत्याहुः । ५ विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् प्रवृत्तिविज्ञानम् आलय- विज्ञानं च। तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि इत्याकारकम् । तदेव आत्मा इत्युच्यते इति वदन्ति । ६ निरवशेषशास्त्र- विषयं ग्रन्थतोर्थतश्च सिद्धिज्ञानं विज्ञानम् (सर्व० सं० पृ० १६६ नकुली० ) । <विज्ञानस्कन्धः> आलयविज्ञान प्रवृत्ति विज्ञानप्रवाहः ( सर्व० सं० पृ० ४० बौ०) । <विज्ञानाकलः> विज्ञानयोगसंन्यासैर्भोगेन वा क कलादिभोगबन्धस्याभावात्केवलमलमात्रयुक्तो विज्ञानाकल: (सर्व० सं० पृ० १८२ शै० ) । <वितण्डा> ( कथा ) [क] स प्रतिपक्षस्थापनाहीनो वितण्डा ( गौ० १/२/३ ) । स जल्पो वितण्डा भवति । किंविशेषणः । प्रतिपक्ष- स्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मों पक्षप्रतिपक्षा- वित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रयर्तत इति । अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा । यद्वै खलु तत्परप्रतिषेध - वाक्यं स वैतण्डिकस्य पक्षः । न त्वसौ साध्यं कंचिदर्थं प्रतिज्ञाय स्थाप- यतीति । तस्माद्यथान्यासमेवास्त्विति (वात्स्या० ११२१३ ) । अभ्युपेत्य पक्ष योन स्थापयति वैतण्डिकः इत्युच्यते ( न्या० वा० १ पृ० १६ ) । इयं वितण्डारूपा कथा च परपक्षखण्डनेन जयमुद्दिश्यैव प्रवर्तते । [ख ] प्रतिपक्षस्थापनाहीना विजिगीषुकथा ( गौ० दृ १।२।३) । [ग] स्वपक्षस्थापनाहीना कथा परपक्षदूषणमात्रावसाना ( वात्स्या० १ । १ । १ ) ( त० भा० ) ( त० दी० ) ( सर्वे० पृ० २३९ अक्ष० ) । तदेवोच्यते जल्प एव वितण्डा स्यात् प्रतिपक्षत्वसाधनैः इति ( ता० २० श्लो० ७९ ) । [व] प्रतिपक्षस्थापनाहीनं च वाक्य ( न्या० वा० १ पृ० १६) । <वितकः> १ प्रयोक्त: संभावनात्मकं ज्ञानम् । यथा किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखम् इत्यादौ किंपदार्थः । अत्र अव्ययकिमर्थस्य संभावनात्मकज्ञानस्य विशेष्यतासंबन्धेन प्रथमान्तपदोपस्थाप्य विशेष अन्वयः । प्रकारितासंबन्धेन तत्र च विशेषणस्य चन्द्रादेरन्वयः (ग <विद्या> ( बुद्धिः ) १ ज्ञानम् । तच्च कणादनये यथा विशेषणवद्विशेष्य शक्ति० पृ० १०८ ) । २ आलंकारिकास्तु अर्थालंकारविशेषः इत्याहुः । यथार्थज्ञानमिति भावः । विद्याया विभागादिकं तु बुद्धिशब्दव्याख्याने दृश्यम् । २ विजातीयज्ञानहेतुः शास्त्रम् । यथा आन्वीक्षिकी न्यायविद्या सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैर्विभज्यमाना प्रदीपः सर्वविद्याना ( वात्स्या० १।१।१ ) इति । न्यायनये विद्याश्चतस्रः आन्वीक्षिकी मुपाय: सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता त्रयीवार्तादण्डनीतिरूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः (गौ दृ० १।१।१ ) । तदर्थश्च आन्वीक्षिकी न्यायविद्या । त्रयी वेदविद्या वार्ता नीतिशास्त्रम् । दण्डनीतिस्त्वर्थशास्त्रम् इति । मनुना चोत त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिक चात्मनि वार्तारम्भांश्च लोकतः ॥ ( मनु० अ० ७ श्लो० ४३ ) इति । वार्तिके चोक्तम् चतत्र इमा विद्या भवन्ति । ताश्च पृथकूप्रस्थानाः अग्निहोत्र- हवनादिप्रस्थाना त्रयी । हलशकटादिप्रस्थाना वार्ता । स्वाम्यमात्यभेदानु- विधायिनी दण्डनीतिः । संशयादिभेदानुविधायिन्यान्वीक्षिकी ( न्या० वा० पृ० १३) । ३ पौराणिकनये विद्याश्चतुर्दश अष्टादश चापि । ता उच्यन्ते । विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति । षडङ्गमिश्रिता वेदा धर्मशास्त्रं पुराणकम् ॥ मीमांसा तर्कमपि च एता विद्याश्चतुर्दश (नन्दिपु० ) इति । पुराणन्यायमीमांसाधर्मशास्त्राङ्ग मिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ( याज्ञ० १।३) इति च । अष्टादश चान्यत्रोक्ताः । ता उच्यन्ते । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थ च विद्या ह्यष्टादशैव ता: ( विष्णुपु० ) ( वाच० ) । श्रुतौ तु विद्या द्विविधोक्ता परा अपरा च । तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा इति श्रुतेः । ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा ( वाच० ) । विद्याभेदेन देवताभेदाः ( हेमा० ब्र० ) विष्णुधर्मोत्तरे उक्ताः तास्तत्रैव दृश्याः । ४ पशुगुणो विद्या ( सर्व० सं० पृ १६७ नकुली ० ) <विद्येश्वरः> अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः । एकनेत्रस्तथैवैकरुद्र- श्चापि त्रिमूर्तिकः ॥ श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे ( सर्व० सं० पृ० १८३ शै० ) । <विधवा> मृतभर्तृका स्त्री। विधवाधर्माश्च (शु० त० ) विष्णुना उक्ता यथा मृते भर्तरि ब्रह्मचर्यम् तदन्वारोहणं वा । तत्र ब्रह्मचर्य मैथुनवर्जनं ताम्बूलादिवर्जनं च । यथाह प्रचेताः ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ अनुयाि न भर्तारं यदि दैवात्कदाचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥ विधवाकबरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात् व कार्य ९५ न्या० को० विधवया सदा ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ मासोपवासं कुर्याद्वा चान्द्रायणमथापि वा । नाधिरोहेदनड्राहं प्राणैः कण्ठगतैरपि ॥ कञ्चुकं न परीदध्याद्वासो न विकृतं वसेत् ( काशीख० अ० ४ ) इति च । मनुरप्याह कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गे गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ न द्वितीयश्च साध्वीनां कचिद्भर्तोपदिश्यते ( मनु० अ० ५ श्लो० १५७ - १६२ ) इति । अत्र धर्मप्रवृत्तिनिबन्धशिरो- मणिशास्त्रप्रदीपादौ बाभ्रव्य आह अज्ञानात्तु द्विजो यस्तु विधवामुद्वहे- द्यदि । परित्यज्य विदित्वैनां प्रायश्चित्तं समाचरेत् ॥ अब्दमेकं विधाया- दाववकीर्णिव्रतं चरेत् । पुत्रश्चेज्जायते तस्यां रण्डगोलक उच्यते ॥ इति । कृते सप्तपदे भर्तुर्वियोगो यदि जायते । न देया पुनरन्यस्मै कलौ कन्या मनीषिभिः ॥ इति च । शिष्टं तु नियोगशब्दव्याख्याने दृश्यम् । शूद्रादि- विषये तु न कुयोत्केश संस्कारं गात्रसंस्कारमेव च । केशावली जटारूपा न क्षौरं तीर्थकं विना ॥ तैलाभ्यङ्गं न कुर्वीत न हि पश्यति दर्पणम ( ब्रह्मवै० पु० ज० ख० अ० ८३ ) इत्यादि । अन्वारोहणं सहगमनम् । अत्रोक्तमङ्गिरसा हारीतेन च साध्वीनामेव नारीणामग्निप्रपतनाइते । नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित् ॥ इत्यादि । साध्वीलक्षण साध्वी ज्ञेया पतिव्रता ॥ इति । बृहन्नारदीये तु बालापत्याश्च आर्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ ह्यदृष्टऋतवस्तथा । रजस्वला राजसुते नारोहन्ति चितां शुभे वाच० ) इति । <विधा> १ स्वप्रययणदस्यार्थोनुसंपेयः । स च प्रकारीभूलो धूमवान्पर्वतो वह्निमानित्यनुमितौ पक्षतावच्छेदकविधया धूमस्य भानाम इत्यादौ विधाशब्दार्थ: ( दि० १ काल० पृ० ८९) । अत्र धूम पक्षतावच्छेदकत्वेन भानमस्ति इत्यर्थो बोध्यः । २ प्रभेदः । यथा द्विवि त्रिविधः इत्यादौ । ३ प्रकारः । यथा धर्मार्थी यत्र न स्यातां शुश्रूषा तद्विधा ( मनु० २१११२ ) इत्यादौ । ४ काव्यज्ञास्तु सादृश्यम् । यथा तथाविधः स्वार्थः ( श० प्र० श्लो० ७ टी० पृ० ८) इत्यादौ । यथा वा किमप्यहिंस्यस्तव चेन्मतोहं यशःशरीरे भव मे दयालुः । एकान्त विध्वंसिषु मंद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ (रघु० २।५७) इत्यादौ इत्याहुः । <विधानम्> अप्रवृत्तप्रवर्तनम् । तच्च पुरुषविषयः शब्दव्यापारः (जै० न्या० अ० २ पा० ३ अधि० १३ ) । <विधिः> १ ( प्रमाणशब्दः ) [क] विधिविधायकः (गौ० २११/६३ ) । अयं विधिर्ब्राह्मणभागः (वात्स्या० २१११६२ ) । अत्राभिषैव लिङर्थः । सैव च प्रवृत्तिहेतुः इति विज्ञेयम् ( त० प्र० ख० ४ पृ० ९४ ) । अत्र विधिशब्दस्य विधिरूपशब्दे इष्टसाधनस्वादिरूपे विध्यर्थे च प्रयोगो दृश्यते । तत्र विधायक इति आद्योर्थः । यद्वाक्यं विधायकं चोदकं स विधिः। विधिस्तु नियोगोनुज्ञा वा । यथा अग्निहोत्रं जुहुयात्स्वर्गकामः (शतपथ० २) इत्यादि ( वात्स्या० २।१।६३ ) । [ ख ] इष्टसाध- नताबोधकप्रत्ययसमभिव्याहृतवाक्यम् ( गौ० वृ० २११/६३ ) । [ ग ] विष्यभिधायकप्रत्ययः तद्घटितवाक्यं वा ( न्या० म० ४ ) । तदर्थश्च विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः । तस्या- भिधायकोवाचकः इति । अथ वा अर्थविशेषाभिधायकः प्रत्ययः । स च प्रत्ययो लिङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति ( सि० च० ) ( म० प्र० ४ पृ० ५८ ) ( त० प्र० ख० ४ पृ० ९३ ) । तद्घटितवाक्य- मिति द्वितीयं लक्षणं तु तान्त्रिकमते यजेत इत्यादिवाक्यमेव विधिः न तु केवलप्रत्ययः इत्यभिप्रायेण । [ घ] प्रवृत्तिपरं वाक्यम् । यथा ज्योति- ष्टोमेन स्वर्गकामो यजेत ( शतपथ ० ) ओदनकामस्तण्डुलं पचेत इत्यादि । अत्र ज्योतिष्टोमनामको यागः स्वर्गरूपेष्टसाधनम् तण्डुलकर्मकः पाक ओदनरूपेष्टसाधनम् इत्युभयवाक्यार्थः । यजेत पचेतेत्यादिविधिप्रत्यये- नेष्टसाधनत्वोपस्थापनात् ( त० कौ० ) । [ङ] मीमांसकास्तु अज्ञा- तार्थज्ञापको वेदभागः (अपूर्वविधिः ) । स च तादृशप्रयोजनवदर्थ- विधानार्थवान् । तादृशं चार्थे प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि इत्याहुः । अयं विधिर्मानान्तरेणा- प्राप्तं खर्गप्रयोजनवद्धोमं विधत्ते । अग्निहोत्रहोमेन स्वर्गे भावयेत् इति वाक्यार्थबोध: ( लौ० भा० पृ० १३) । यत्र कर्म मानान्तरेण प्राप्तम् तत्र तदुद्देशेन गुणमात्रं विधत्ते । यथा दना जुहोति (तै० ब्रा० २१११५ ) (शतप०) इति । अत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमो- द्देशेन दधिमात्रविधानम् ! दना होमं भावयेत् इति वाक्यार्थः । यत्र तूभ- यमप्राप्तम् तत्र विशिष्टं विधत्ते । यथा सोमेन यजेत (शतपथ ) इत्य सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे त्व सोमवता यागेनेष्टं भावयेत् इति वाक्यार्थबोध: ( लौ० भा० पृ० १३ ) । [च] धर्मार्थसाधकव्यापारो विधि: ( सर्व० सं० पृ० १६९ नकुली ० ) । [छ ] अज्ञातस्यानुष्ठेयत्वकथनं विधिः (जै० न्या० अ० १ पा० ४ अधि० ६ ) । सामान्यतोयं विधिर्द्विविधः लौकिक: वैदिकश्च । तत्र लौकिक: ओदनका मस्तण्डुलं पचेत् इत्यादिः । वैदिक विधिस्तु स्वर्गकामो यजेत ( शतपथ ० ) इत्यादिः । विधिः प्रकारान्तरेण त्रिविधः अपूर्वविधिः नियमविधिः परिसंख्याविधिश्च ( न्या० म० ४ ) ( सि० च० ) । तदुक्तं भट्टपादैः विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्य च प्राप्तौ परिसंख्येति कीर्यते ॥ ( न्या० म० ४ ) इति । तत्रापूर्व- विधिश्चतुर्विधः उत्पत्तिविधिः विनियोगविधिः प्रयोगविधिः अधिकार- विधिश्चेति (लौ० भा० पृ० १६ ) । तत्र प्राथमिक प्रतीतिविषयप्रवृत्ति साधनेष्टसाधनताबोधकं कर्मस्वरूपज्ञापकं विधिवाक्यम् उत्पत्तिविधिः । यथा स्वर्गकामोश्वमेधेन यजेत (शतपथ ० ) इत्यादिवाक्यम् (वाच ० ) । अत्र शिष्टं तु उत्पत्तिविधिशब्दव्याख्याने दृश्यम् । अधिकार विधिश्व कर्मणः फलसंबन्धबोधको विधिः । यथा ज्योतिष्टोमेन यजेत स्वर्गकामः इत्यादिः ( म० प्र० पृ० ६३ ) । अथ वा कर्मजन्यफलस्खाम्यबोधको विधिः । कर्मजन्यफलखाम्यं च कर्मजन्यफलभोक्तृत्वम्। यथा स्वर्गकामः इत्यादिरूपोधिकारविधिः । अत्र स्वर्गमुद्दिश्य यागं विदधताने स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते ( लौ० भा० पृ० ३८) । यथा वा यस्याहिताग्नेरग्निगृहान् दहेत्सोग्नये क्षामवतेष्टाकपालं निर्वपेत् (शतपथ ० ) (तैं० सं० २ २) इति । अत्र अग्निदाहादौ निमित्ते कर्म विदधता अनेन वाक्येन निमित्तवतः कर्मजन्यपापक्षयरूपफलखाम्यं प्रतिपाद्यते ( लौ० भा० पृ० ३८) । एवम् अहरह: संध्यामुपासीत (बौधायनसू०) इत्यादीन्यधिकार विधेरुदाहरणानि विज्ञेयानि । अत्र शुचिविहितकालजीविनः संध्योपासनजन्यप्रत्यवायपरिहाररूपफलखाम्यं चोद्यते (लौ० भा० पृ० ३८ ) । कुसुमाञ्जलिटीकायामित्थमुक्तम् । [ज] विधिर्नाम विधिप्रत्ययार्थः । अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः ( म०प्र० ४ पृ० ५८ ) इति । सच प्रवर्तकज्ञान विषयो धर्मः । अयं च धर्मो जरन्नैयायिकानां नये कृतिसाध्यत्वे सति बलवद निष्टाजनकत्वसहित मिष्टसाधनत्वम् । अत्र कृति- साध्ये तृप्तिरूपसुखात्मकेष्टसाधने च मधुविषसंपृक्तान्नभोजने प्रवृत्तिवार- णाय बलवदनिष्टाजनकत्वं विशेषणमावश्यकम् । अत्र बलवदनिष्टं तु मरणम् । यदा च तादृशभोजनं बलवदनिष्टाननुबन्धित्वेन ज्ञायते तदा स पुरुषः प्रवर्तत एव इति विज्ञेयम् ( न्या० म० ख० ४ पृ० २६-२७ ) । अत्रेदं बोध्यम् । न कल भक्षयेत् इत्यादौ नना बोध्यमानो विशिष्टा- भावः ( कृतिसाध्यत्व विशिष्टस्य बलवदनिष्टाजनकत्व विशिष्टस्येष्टसाधनत्व- स्याभावः ) विशेष्यवति विशेषणाभावे विश्राम्यतीति (मु० गु० पृ० (२२८ ) । एतन्मते श्येनस्य हिंसारूपत्वं नास्ति इति श्येनेनाभिचरन् यजेत (अथर्वब्राह्म० ) इत्यादौ बलवदनिष्टाननुबन्धित्वरूपो विध्यर्थो बोध्यते इति हृदयम् । यथा ओदनकामः पचेत स्वर्गकामो यजेतेत्यादौ ओदनस्वर्गादिरूपं यत् फलम् तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते ( कु० टी० ५) ( त० प्र० ४ पृ० १०५ ) (तको ० ) (ग० व्यु० ल० पृ० १३८ ) ( त० दी० ) ( मु० गु० ) ( दि० पृ० २२६) । नव्यनैयायिकमते तु प्रवर्तकचिकीर्षायां यत्प्रकारकज्ञानस्य हेतुत्वं स विधिः । कृतिसाध्यत्वादिज्ञानेन चिकीर्षा तया च प्रवृत्तिरुत्पद्यते इति समुदितार्थ: ( न्या० म० ४ पृ० २७ ) । तादृशं च कृतिसाध्यत्वम् इष्टसाधनत्वम् बलवदनिष्टाननुबन्धित्वं च प्रत्येकमेव । यथा यजेत पचेतेयादौ लिङर्थ: ( त० प्र० ४ पृ० १०२) । कृतिसाध्यत्वादि- पदानां प्रयोजनं कथ्यते । पङ्गुः समुद्रं न तरेत् इत्यादौ नञादिना समुद्रतरणादेः पङ्गुप्रभृतिकृतिसाध्यत्व निषेधबोधानुरोधादवश्यं कृति - साध्यत्वं लिङर्थः स्वीकार्यः । तृप्तिकामो जलं न ताडयेत् इत्यादौ जल- ताडनादेस्तृप्तिकामेष्टसाधनध्वस्य निषेधान्वयानुपपत्त्येष्टसाधनत्वं लिङ वश्यं स्वीकर्तव्यः । अपरे तु चैत्यं न वन्देत इति वाक्यप्रामाण्यानुरोध- नेष्टसाधनत्वस्य विध्यर्थत्वमाबश्यकम् इति वदन्ति ( ग० व्यु० ल० ) । न कल भुञ्जीत इत्यादौ कलञ्जभक्षणादेर्बलवदनिष्टाजनकत्वस्य निषेधा- नुपपच्या बलवदनिष्टाननुबन्धित्वं लिङर्थोवश्यं स्वीकर्तव्यः ( श० प्र० १० १०० टी० पृ० १४६ ) । कलञ्जो मांसविशेषः । तथा चोक्तं माघ- वाचार्यैर्न्यायमालायाम् विषाक्तशराग्रेण विद्धा ये पशुपक्ष्या तदेव कलञ्जम् इति । रक्तलशुनं कलञ्जम् इति हरदत्त आह । बलवद- निष्टाननुबन्धित्वं चात्र नरकाजनकत्वम् पापाजनकत्वं वा (श० प्र० १०० टी० पृ० १५१) । एतेषां बलवदनिष्टाननुबन्धित्वादिषु त्रिषु पृथगेव लिङ: शक्तित्रयं वदतां नव्यनैयायिकानां मते श्येनः स्वरूपत एव निषिद्धः इति श्येनेनाभिचरन् यजेत इत्यादौ विधिप्रत्ययेन बलवद निष्ठावं कलअं भक्षयेत् इत्यादौ बलवदनिष्टाजनकत्वं विध्यर्थः । तदभावो नजात्र न बोध्यते । अधिकं तु अभिचारशब्दव्याख्याने द्रष्टव्यम् । तथा च न बोध्यते इति विज्ञेयम् (मु० ) ( दि० गु० पृ० २२५-२२९ ) / अत्र वदन्ति । द्वेषविषयतावच्छेदकत्वोपलक्षित नरकत्वाद्याश्रयसाधनता त्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशभावत्वेनानुगत एकैव विधि- प्रत्ययस्य शक्तिः इति ( ग० व्यु० ले० पृ० १४८) । यजेतेत्यादौ यागादिधर्मिकादिष्टसाधनत्वादिनिश्चयादेव यागादिधर्मिक चिकीर्षोत्पत्त्या तत्र प्रवृत्तिः । एवं च यागादिः कृतिसाध्यः इष्टसाधनम् बलवद निष्ठा- ननुबन्धी च इत्याकारको बोधः (श० प्र० श्लो० १०० टी० पृ० १४६)/ उदयनाचार्यास्तु आप्ताभिप्रायो विध्यर्थ इत्याहुः (कु० ५ ) ( न्या० सि० दी० पृ० ६० ) ( म० प्र० ४ पृ० ५९ ) । तदर्थश्च आप्तस्य परमेश्वरस्य अभिप्राय इच्छा लिङादिना बोध्यते । अत्रोक्तमुदयनाचार्यैः यस्तु वेदे ईश्वरप्रणीतत्वम् नाभ्युपैति तं प्रति विधिरेव तावद्गर्भः श्रुति- कुमार्याः पुंयोगे मानम् इति ( कि० व० ) (मु० ) ( म०प्र० ४ ) ( त० कौ० ) । अथ वा वच्छिाविषयत्वम् । यथा घटमानय इत्यादौ लोडर्थो विधि: ( तर्का० ४ पृ० ११) ( श० प्र० श्लो० १०१ टी० पृ० १४६ ) । अत्र घटकर्मकमदिच्छा विषयानयनानुकूलकृति- मांस्त्वम् इत्यन्वयबोधः । अत्रेदं बोध्यम् । यजेत स्वर्गकामः न कलजं भक्षयेत् इत्यादौ यागः स्वर्गकाम कर्तव्यत्वेनाप्ताभिप्रायविषयः कलञ्ज- भक्षणं कर्तव्यत्वेनाप्ताभिप्रायविषयो न इति वाक्यद्वयार्थबोध: । यागादौ चाप्ताभिप्रायविषयत्वेनेष्टसाधनत्वादिकमनुमाय प्रवृत्तिः । कलञ्जभक्षणादौ तद्विषयत्वाभावेनानिष्टसाधनत्वमनुमाय निवृत्तिः इति ( म० प्र० ४ पृ० ५९ ) । भट्टमीमांसकास्तु विधिप्रेरणाप्रवर्तनादिशब्दाभिधेयः प्रवृत्य- नुकूलव्यापार इत्याहुः । तन्मते त्वित्थम् । गामानय इत्याचार्यवाक्यश्रवणा- नन्तरं शिष्यप्रवृत्तिदर्शनात् शब्दप्रवृत्तौ प्रवर्तनाज्ञानं हेतुः । सा च प्रवर्तना पचेत इत्यादिलौकिकवाक्ये पुरुषनिष्ठोभिप्राय विशेषः । यजेत स्वर्गकामः इत्यादिवैदिकवाक्ये तु पुरुषाभावाच्छन्दनिष्ठैव । न चेश्वर- कर्तृकत्वं वेदस्य । ईश्वरस्यैवानभ्युपगमात् । शब्दनिष्ठत्वादेव च शब्द- भावना इत्युच्यते । सैव विध्यर्थः । स च लिड्वेनाभिधीयते । अर्थ - भावना तु प्रवृत्त्यादिव्यापाररूपा । सा चाख्यातत्वेनोपस्थाप्यते इति । तत्रोक्तम् अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातस्य गोचरः ॥ ( म० प्र० ४ पृ० ५८) इति । अयमाशयः । खर्गकामो यजेत इत्यादौ लिङादिप्रत्यये अंशद्वयमस्ति लिङ्वम् आख्या- तत्वं च । तत्र लिङ्वांशेन प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो बोध्यते । ईश्वरानभ्युपगमात् । अयं शब्दभावना इत्युच्यते । तेन व्यापारेण च प्रवृत्त्याख्यो यागकर्तृपुरुषनिष्ठो व्यापार आख्यतत्वांन उपस्थाप्यते । अयमेव अर्थभावना इत्युच्यते । एवं च पुरुषनिष्ठायाः प्रवृत्तेरनुकूलः प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो विध्यर्थः इति ( लौ० मा० ५० ५-१०)। प्राभाकरास्तु विध्यर्थः कार्यत्वमात्रम् । तच्च कृतिसाध्यत्वम् । तथा हि । यद्विषयिणी बुद्धिः प्रवृत्तिजननीमिच्छां प्रसूते स विधिप्रत्ययप्रतिपाद्यः । प्रवृत्तिजनकेच्छाजनकज्ञानप्रकारः इत्यर्थः । प्रवृत्तिजननी च कृतिसाध्यत्वप्रकारकेच्छा । तज्जननी च कृतिसाध्यत्व- प्रकारिका बुद्धिः इति यावत् ( न्या० म० ४ पृ० २५ ) । अत्रेदमव- घेयम् । प्राभाकरमत इष्टसाधनत्वमपि विध्यर्थो भवत्येव । अत एव तैयापूर्वी निषेधापूर्वरूपं पण्डापूर्वमपि संध्यामुपासीत न कल भक्षयेत् ( स्मृतिः ) इत्यादिविधिनिषेधयोः कल्प्यते ( त० प्र० ४ पृ० ८९ ) । अत्रेदमधिकं बोध्यम् । प्राभाकरमते अन्यथाख्यातिर्नास्ति इति । एवं 1... तन्मते कार्यत्वमेव विध्यर्थः । अयमाशय: । प्राभाकरमते कार्यत्वविशिष्टा पूर्व विध्यर्थत्वाद्विशेषणांशः कार्यत्वमपि तदर्थः इति ( म०प्र० ४ पृ० ५९ ) । अत्रेदं बोध्यम् । प्राभाकरमते यागस्याविश स्वर्गोत्पत्तिकाले तस्याभावात्तदुत्पत्त्यर्थं यागजन्यमपूर्वी कल्प्यते । तथा च वेदे कार्यत्वविशिष्टापूर्वसंभवेन तत्र शक्तिरेव । परंतु लोके प इत्यादावपूर्वी तात्पर्यासंभवात् कार्यत्वे लक्षणैव । अथ वा लौकिकलिङः ( त० प्र० ख० ४ पृ० १९९) । भट्टास्तु स्थाय्यपूर्वकल्पनापेक्षया कार्यत्वे शक्तिः । वेदे तु स्वर्गकामान्वयानुपपत्त्या क्रियातिरिक्तकार्ये शक्तिः यागस्यैव स्थायित्वं कल्पनीयम् इत्याहुः । चिकीर्षाजन्यकृतिसाध्य कार्यत्वम् ( न्या० सि० दी० पृ० ६५ ) । कार्यत्वं च कृतिसाध्यत्वम् । तज्ज्ञानमेव प्रवर्तकम् । तच्च ज्ञानम् कृतिसाध्यत्वप्रकारकमित्यर्थः । ज्ञानेन कृतिसाध्यत्वप्रकारिकेच्छा जन्ते । तया च प्रवृत्तिर्जन्यते । ( म० प्र० पृ० ५९ ) । तत्र प्राभाकरमतान्तर्वर्तिन एवमाहुः । कृति- च पार्क यागं वा कुर्याम् इत्याकारिका चिकीत्यर्थः ( न्या० म० ) साध्यत्वप्रकारकज्ञानं चेष्टसाधनतालिङ्गककृतिसाध्यतानुमितिः इष्टसाधनता- ज्ञानकालीन कृतिसाध्यताज्ञानं वा काम्यस्थले प्रवर्तकम् । अहरह: संध्यामुपासीत इत्यादौ अहमिदानींतनकृतिसाध्यसंध्यावन्दनकः प्रतिसंधानजन्यं कृतिसाध्यताज्ञानं प्रवर्तकम् इति ( म० प्र० ख० ब्राह्मणले सति विहितसंध्याकालीनशौचादिमत्त्वात् इति शौचादिमत्त्व- पृ० ५९ ) ( सि० च० ) । तथा च अहरहः संध्यामुपासीत इत्यादौ नित्यतया निष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवा नेष्टसाधनत्वमपि लिङर्थोप्पूर्वविधिः । नैयायिकास्तु नित्यकर्मस्थलेपि अर्थ- वादानुपस्थापितब्रह्मलोकावाप्तेर्नरकात्यन्ताभावस्यैव वा प्रायश्चित्तसंध्या- वन्दनादिफलत्वसंभवादिष्टसाधनत्वमेव लिङर्थः इति प्राहुः । तत्र स्मर्यते । संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥ इत्यादि ( त० प्र० ४ पृ० १०२ ) । तथोक्तं याज्ञ- वल्क्येनापि निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्य- संध्याकरणात्तत्सर्वे विप्रणश्यति ॥ ( याज्ञ० अ० ३ श्लो० ३०८ ) इति । मिताक्षरायां यमेनाप्युक्तम् यदहात्कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां संध्यां प्राणायामैर्निहन्ति तत् ॥ इति । शाता- तपेनाप्युक्तम् अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं च संध्या बहिरूपासिता ॥ ( मिताक्ष० अ० ३ श्लो० ३०८ टी० पृ० १४४ ) इति । २ प्रयोगः । ३ निदर्शनम् । यथा यत्र धूम- स्तत्राग्निरिति अन्यभावे धूमो न भवति इति च ( प्रश० पृ० ४४ ) । ४ दैवम् । यथा अनुकूलतामुपगते हि विधौ सकलेष्टसाधनमथो भवति इत्यादौ । ५ ब्रह्मदेवः । ६ अर्थालंकारविशेषः । <विधिशेषः> अर्थवादवाक्यम् । एतल्लक्ष्यप्राशस्त्यज्ञानं शाब्दभावनायामिति कर्तव्यतात्वेन संबध्यते । <विधेयः> १ उद्देश्ये प्रकारतया ज्ञायमानो विलक्षणविषयतावान् पदार्थः । यथा पर्वतो वह्निमान् धूमात् इत्यादौ पर्वते वह्निर्विधेयः । यथा वा पचति इत्यादौ पुरुषे पाककृतिर्विधेया। सा च विलक्षणविषयता विधेयतारूपा। विधेयता च यथा वह्निमनुमिनोमि इत्याद्यनुव्यवसायनियामकः पक्ष- तावच्छेदकव्यावृत्तो विषयताविशेष: (ग० पक्ष० पृ० १९ ) । केचितु प्रत्यक्षादिसाधारणी विशेष्यतावच्छेदकताभिन्ना मुख्य विशेष्यतानिरूपित- प्रकारतैव विधेयता इत्याहुः (ग० पक्ष० पृ० २४ ) ( श० प्र० ) । शाब्दिकास्तु तदादिशब्दप्रतिपाद्यत्वे सत्युद्देश्यसंबन्धिना पूर्वबोधविष अनुवाद्यभिन्ननिष्ठा विलक्षणविषयता वा विधेयता इत्याहुः । अत्रोक्तम् अनुवाद्यमनुक्त्वा च न विधेयमुदीरयेत् इति । २ मीमांसकास्तु विधि- बोध्यार्थः । यथा दना जुहोति इति गुणविधौ होममनूद्य दधिरूपो गुणो ९६ न्या० को० विधेयः । अत्र विधेयत्वं च अज्ञातस्यानुष्ठेयत्वेन प्रतिपाद्यमानत्वम् ( लॉ० भा० टी० पृ० १५ ) । ३ अधीन इति काव्यज्ञा आहुः । <विनयः> दण्डः । <विनश्यदवस्थत्वम्> स्वप्रतियोगित्व स्वाव्यवहितपूर्ववृत्तित्व त नाशविशिष्टत्वम् । यथा भावकार्यस्य विनश्यदवस्थत्वम् । <विनष्टः> १ भूतकालोत्पत्तिकनाशप्रतियोगी । यथा विनष्टो घटः इत्यादौ । २ पतितः । यथा विनष्टे वाप्यशरणे पितर्युपरतस्पृहे इति नारदस्मृतौ । ३ स्वदेशादन्यत्र गतः इति च धर्मशास्त्रज्ञा आहुः ( दायभागे ) । <विना> १ अभावः । यथा दण्डं विना न घटः इत्यादौ । एवम् द्वितीयार्थः । तस्य च विनायें अभावेन्वयः । विनान्तार्थस्याभावस्य अन्तरेण इति निपातयोरप्यर्थ ऊह्यः । अत्र प्रतियोगित्वमनुयोगित्वं वा नञर्ये घटाद्यभावे प्रयोज्यतासंबन्धेनैवान्वयः । अत एव रासभं विना न घटः इत्यादयो न प्रयोगा: ( ग० व्यु० का० २ ख० २ पृ० ७३ ) । २ वर्जनम् इति काव्यज्ञा आहुः । <विनाडिका> विनाडिका तु षट् प्राणाः । अहोरात्रशब्दे दृश्यम् । <विनाडी> ( प्राणशब्दे दृश्यम् ) । <विनायकः> चतुर्थी ( पु० चि० ८६ ) । <विनाशित्वम्> ध्वंसप्रतियोगित्वम् । यथा घटस्य विनाशित्वम् । अत्रेदम- वधेयम् । आशुविनाशित्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । यागस्याशुविनाशित्वम् (त० प्र० ख० ४ पृ० १०९ ) । पदार्थमात्रस्य स्खोत्पत्तिद्वितीयक्षण एव नाशाभ्युपगमात् ध्वंसप्रतियोगित्वमेव सर्वत्र विनाशित्वम् इत्याहुः । <विनिगमना> अन्यतरपक्षपातिनी युक्तिः ( सि० च० प्र० ख० ४ पृ० ४७-४८) । यथा अयमेव पक्षो ग्राह्यः तु न ग्राह्यम् अत्र का विनिगमना इत्यत्र । यथा वा उदिते जुहोति अनुदिते जुहोति इत्यादि विकल्पस्थले उदित एव हवनं कार्यम् अनुदिते (भवा यथा बौद्धास्तु द्वितीयक्षणवृत्ति- पक्षान्तरं ) तु हवनं न कार्यम् इत्यत्र विनिगमनाया अभावः इत्यादौ । स्मृतिं प्रत्यनु- भवस्यानुभवत्वेन कारणत्वं ज्ञानत्वेन वा इति विप्रतिपत्तौ ज्ञानत्वेन कारणत्वाङ्गीकारे तस्य सामान्यधर्मत्वेनान्यथासिद्धत्वं स्यात् इति विनि- गमनया लाघवेन च ज्ञानवेनैव कारणत्वं नव्यैः साधितम् (मु० स्मृतिनि० पृ० १९० ) इत्यादौ च । <विनिमयः> १ [ क ] तुल्यद्रव्यदानेन द्रव्यान्तरग्रहणम् ( शब्दच० ) । यथा कांस्यपात्रद्वयं दत्वा तस्मात्ताम्रपात्रग्रहणं विनिमयः । [ ख ] मूल्या- तिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वानुकूलस्त्यागः इत्यन्य आहुः ( का० व्या० का० ४ पृ० ६ ) । २ बन्धकम् इति व्यवहारशास्त्रज्ञा आहुः । तच्च ऋणशोधनार्थ विश्वासहेतुतया आधीकृतः पदार्थ: ( गहाण इति प्र० ) । मध्वमतानुयायिवेदान्तिनः ३ कार्यम् । यथा तेजोवारिमृदां यथा विनिमयः ( भाग० १।१।१ ) इत्यादौ इत्याहुः । ४ अन्यस्मिन्न- न्यावभासो विनिमयः इति मायावादिवेदान्तिन आहुः । <विनियोगः> १ क्रियासु प्रवर्तनम् । तदुक्तम् अनेनेदं तु कर्तव्यं विनि- योगः प्रकीर्तितः (वाच० ) इति । यथा इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ( ऋ० ११२ । १९ ) इति मन्त्रस्य संस्काराङ्ग- होमे विनियोगः । यथा वा अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः इत्यस्य समस्तभूतोच्चाटने विनियोगः । २ अनुष्ठानक्रमविधानम् । यथा आर्षे छन्दश्च दैवयं विनियोगस्तथैव च ( योगयाइ० ) इत्यादौ । विनियोग विधिः – (विधिः ) [ क] प्रधाने अङ्गसंबन्धबोधको विधिः । यथा दना जुहोति (शतपथ ० ) इति । अत्र अग्निहोत्रहोमे दधिसंबन्धो- नेन बोध्यते ( म० प्र० ४ पृ० ६२ ) [ख ] अङ्गानां प्रधानैः सह संबन्धस्य बोधको विधिः । यथा दना जुहोति इति । स हि तृतीयया प्रतिपन्नाङ्गभावस्य दध्नो होमसंबन्धं विधत्ते दना होमं भावयेत् इति । गुण विधौ च धात्वर्थस्य साध्यत्वेनैवान्वयः । तथा च धात्वर्थस्य साध्य- त्वेनान्वयविवक्षायामयं गुणविधिरपि भवति इति ज्ञेयम् । कचिदाश्रय- त्वेनापि । यथा दध्नेन्द्रियकामस्य जुहुयात् इति । अत्र होमाश्रयदधि- करणत्वेनेन्द्रियं भावयेत् इति वाक्यार्थः । तच्च दधिकरणत्वम् किंनिष्ठम् इत्याकाङ्क्षायां संनिधिप्राप्तहोम आश्रयत्वेनान्वेति (लौ० भा० पृ० १६) । [ग] अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधिः ( मी० न्या० (पृ० १२ ) । विनियोगविधेः सहकारिभूतानि षट् प्रमाणानि सन्ति श्रुतिः लिङ्गम् वाक्यम् प्रकरणम् स्थानम् समाख्या इति ( लौ० भा० पृ० १६-२९ ) । एतत्सहकतेनानेन विधिना अङ्गत्वं परोद्देशप्रवृत्तकृति- साध्यत्वरूपपारार्थ्यापरपर्यायं ज्ञाप्यते । <विपक्षः> १ [ क ] निश्चितसाध्याभाववान् । यथा पर्वते वह्निसाधने हृदो विपक्षः (त० सं० २) । विपक्षत्वं च साध्याभावप्रकारक निश्चय विशेष्यत्वम् ( न्या० बो० २) अथ वा विशेष्यतासंबन्धेन साध्याभावप्रकारकनिश्चयवत्वम् ( वाक्य० २) इति ज्ञेयम् । [ख] वेदान्तिनस्तु साध्यतत्समानधर्मरहितो धर्मी इत्याहुः (प्र० च० पृ० २४ ) । २ प्रतिकूलपक्षः इति व्यवहारज्ञा आहुः । ३ शत्रुः इति काव्यज्ञा आहुः (अमरः ) । <विपरीतज्ञानम्> १ संशयः (नील० ) । २ भ्रमः । <विपर्ययः> १ ( अप्रमा ) [ क ] मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः ( गौ० वृ० ४।१।३ ) । अत्र अयथार्थज्ञानमेव नास्ति इति प्राभाकरा- दय आहुः ( प्र० प० पृ० ४ ) । [ख वेदान्तिनस्तु विपरीत निश्चयः ( प्र० प० पृ० ४ ) । अत्र विपरीतत्वं च पुरोवर्तिन्यविद्यमानप्रकारक त्वम् ( प्र० प० टी० वेदेशतीर्थी० पृ० १० ) । विपरीतनिश्चयव इदं रजतम् इत्यादि । अनुमानाभासजो यथा धूलीपटले धूमभ्रमाद्वय प्रत्यक्षानुमानागमाभासेभ्यो जायते । तत्र प्रत्यक्षाभासजो यथा शुक्तिका भाववति वह्नयनुमिति: । आगमाभासजो यथा नदीतीरे पञ्च फलानि सन्ति इति प्रतारकवाक्यजन्यज्ञानम् इत्याहुः ( प्र० च० पू० सदेव इति वैशेषिकादय आहुः । (२) ज्ञानस्वरूपमेव इति विज्ञान- अत्र प्रत्यक्षाभासविषये विप्रतिपत्तिः । (१) प्रतीतं रजतं देशान्तरे वादिन आहुः । (३) तत्रैव तात्कालिकमुत्पन्नं सत् इति भास्कर आह ( ४ ) न सत् नासत् न सदसत् किं तु अनिर्वचनीयमेव इति माया- वादिनो मन्यन्ते । (५) श्रीमदानन्दतीर्थाचार्यास्तु असदेव रजतं प्रत्य- भात् इत्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना द्रष्टुर्दोषवशात् प्रतिभाति इति प्राडुः (प्र०प० पृ० ४ ) । [ग] पातञ्जलास्तु पञ्च- विधवृत्त्यन्तर्गतो वृत्तिविशेष इत्याहुः (पात० सू० पा० १ सू० ६, ८) । २ संशयः । ३ विपरीतम् । यथा विपर्ययोभूत्सकलं जलौकसः ( भाग ० स्क० ८ अ० २ श्लो० २९ ) इत्यादौ । <विपाकः> १ अन्यथाभूतस्यान्यरूपेण परिणामः (बाच ० ) । २ विपाकाः कर्मफलानि जात्यायुर्भोंगाः ( सर्व० सं० पृ० ३६५ पात० ) । <विप्रः> १ विद्वान् ब्राह्मणः । अत्रोक्तम् जन्मना ब्राह्मणो ज्ञेयः संस्कारै- द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ ( प्रा० वि० ) ( वाच० ) इति । यथा विप्राय वेदविदुषे श्रोत्रियाय कुटुम्बिने । नरकोत्तारणार्थाय अच्युतः प्रीयतामिति ॥ ( वायनमन्त्रः ) इत्यादौ विप्रः । २ अश्वत्थवृक्षः ( राजनि० ) । <विप्रकर्ष:> [क] संयुक्तसंयोगभूयस्त्वम् ( दूरत्वम् ) (वै० उ० ७।२।२१)। [ख] बहुतरसंयोगान्तरितत्वम् ( दि० गु० पृ० २०८ ) । यथा मुम्बापुर्याः पुण्यग्राममपेक्ष्य झळकीग्रामस्य विप्रकर्षः । अयं दिकृतो विप्रकर्षः इति विज्ञेयम् । विप्रकर्षो द्विविधः दिकृतः कालकृतश्च । विप्रकर्षज्ञानं परत्वे निमित्तकारणं भवति । कालकृतविप्रकर्षश्च तद - पेक्षया बहुतरतपन परिस्पन्दान्तरितजन्मत्वम् (३० उ० ७७२।२१) । तदर्थश्च तज्जन्मक्षणवृत्तिध्वंसप्रतियोगिस्पन्दवृत्तित्वे सति जन्मवत्वम् इति ( प० मा० ) । यथा गौतमर्पेरुदयनाचार्यमपेक्ष्य गङ्गेशोपाध्यायगदाधर- भट्टाचार्ययोर्विप्रकर्षः । शिष्टं च परत्वशब्दव्याख्याने दृश्यम् । <विप्रकृष्टत्वम्> [क] विप्रकर्षः । [ख] दूरस्थत्वम् इत्येकदेशिन आहुः । <विप्रतिपत्तिः> १ [क] व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । इदं च संशयप्रयोजकम् । तथा हि अत्र व्याघातो विरोधोसहभाव इति । अस्त्यात्मा इत्येकं दर्शनम् । नास्त्यात्मा इत्यपरम् । न च सद्भावासद्भावौ सबैकत्र संभवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तत्त्वानवधारणं संशयः (वात्स्या० १ । १ । २३ ) इति । [ख वेदान्तिनस्तु विरुद्धार्थक वाक्यद्वयजन्यप्रतीतिद्वयम् इत्याहुः ( प्र०प० टी० वेदेशतीर्थी० पृ० ८ ) । [ग] विरुद्धकोटिद्वयोपस्थापकः शब्दः ( गौ० वृ० ११ १/२३ ) ( दि० गु० ) । स च विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वहि- मान् न वा इति संशयापादकः । [घ ] विरुद्धार्थप्रतिपादकवाक्यद्वयम् ( नील० ४ पृ० ३४ ) । यथा पर्वतो वह्निमान् न वा इति वाक्य- द्वयम् । तथा हि । वादिना पर्वतो वह्निमान् इति प्रतिवादिना च पर्वतो बह्वथभाववान् इति प्रतिज्ञाते मध्यस्थस्य पर्वतो वह्निमान् न वा संशय उत्पद्यते । अतस्तस्य संशयाधायकत्वात्तथात्वम् । २ [क] विपरीता वा कुत्सिता वा प्रतिपत्तिः विप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः (वात्स्या० १२/२/१९) / [ख] विरुद्धा प्रतिपत्तिः ( गौ० वृ० १ २११९ ) ( दि० गु० ) । अत्रोदाहियते परस्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु ( स्मृतिः ) इति । इयं तु निग्रहस्थानोन्नेया इति विज्ञेयम् । ३ विरोधः । ४ ऊह: याज्ञिका आहुः ( काव्या० श्रौ० ) । <विप्रतिषेधः> १ तुल्यबलविरोधः । यथा प्रतिषेधविप्रतिषेधे प्रतिषेधवदोषः ( गौ० ५ । १ । ४१ ) इत्यादौ । अत्र भाष्यम् । योयं प्रतिषेधेपि समानो दोषो- नैकान्तिकत्वमापद्यते सोयं प्रतिषेधस्य प्रतिषेधेपि समानः । तत्र अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् इति साधनवादिनः स्थापना प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात्कार्यसमः इति दूषणवादिनः प्रतिषेधा पक्षः । स च प्रतिषेध इत्युच्यते । तस्यास्य प्रतिषेधस्य प्रतिषेधेपि समानो दोषः इति तृतीयः पक्षः विप्रतिषेध इत्युच्यते । तस्मिन् प्रतिषेधविप्रति षेधेपि समानो दोषोनैकान्तिकत्वम् चतुर्थः पक्षः (वात्स्या० ५/१/४१)/ अत्र वृत्तिः । शब्दः अनित्यः प्रयत्नानन्तरीयकत्वात् इति स्थापनावादिनः प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात्कार्यसमः इति प्रतिवादिनो द्वितीयः पक्षः । प्रतिषेधप्रतिषेधेष्यनैकान्तिकत्वं तुल्यम् इति वादिनस्तृतीयः पक्षो विप्रतिषेधः । तत्रापि तथैवानैकान्तिकत्वम् तत्समानदोषोद्भावनं वा चतुर्थ: पक्षः ( गौ० वृ० ५ । १ । ४१ ) इति । २ शाब्दिकास्तु द्वयोः शास्त्रयोः क्वचिल्लुब्धावकाशयोरेकत्र प्रयोगे युगपदसंभविस्वकार्य समर्पणम् । यथा विप्रतिषेधे परं कार्यम् ( पा० सू० १ । ४ । २ ) इत्यादौ इति वदन्ति । तथा हि । वृक्षेभ्य इत्यत्र सुपि च ( पा० सू० ७ । ३ । १०२ ) इत्यनेन दीर्घः प्राप्तः । बहुवचने झल्येत् ( पा० सू० ७ । ३ । १०३ ) इत्यनेन च एत्वमपि प्राप्तम् । उभयप्राप्तौ परत्वाद्विप्रतिषेधेनैत्वमेव भवति (काशिका १ । ४ । २) इति । <विभक्तिः> १ विभागः । अत्रोदाह्रियते अविभक्तं स्थावरं यत्सर्वेषामेव तद्भवेत् । विभक्तं स्थावरं ग्राह्यं नान्योदर्यैः कथंचन ॥ ( यम० ) इति । २ पदवृत्तिः ( गौ० वृ० २ । २ । ५७ ) । यथा ते विभत्तयन्ताः पदम् (गौ० २१२१५७ ) इत्यादौ विभक्तिशब्दार्थः । ३ (प्रत्ययः ) [ क ] संख्यात्वा वान्तरजात्य वच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । यथा घटोस्तीत्यत्र घटपदोत्तरवर्तिनी सु इति विभक्तिः । एकत्वत्वाद्य वच्छिन्न- शक्तिमानपि तदादिर्न प्रत्ययः इति प्रत्ययश्च तृजादिर्न संख्याशक्तः इति च तदादे: तृजादेव व्युदासः ( श० प्र० श्लो० ६० टी० पृ० ७२ ) । [ ख ] यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेयकान्वयबोधं प्रति समर्थः सवा विभक्तिरित्युच्यते । यथा घटम् घट इत्यादौ । इयं विभक्ति- र्द्विविधा सुप् तिङ् चेति । अत्र सुपा ( अमा) कर्मत्वं घटीयम् इत्यादि- रिव पचतीत्यादौ तिङापि कृतिः पाकीया इत्यादिरुद्देश्यविधेयभावेन स्वार्थे प्रकृत्यर्थस्य धीरुत्पाद्यते इति लक्षणसमन्वयो बोध्यः । घट इत्यत्र प्रथमा- प्यभेदादौ स्वार्थे प्रकृत्यर्थस्य विधेयभावेन धियं जनयत्येव इति लक्षण- समन्वयो बोध्य: । लक्षणान्तरग्रहणे आवश्यकत्वमाह यद्याख्यातमात्रस्य तदेकवचनस्य वा न संख्याशक्तत्वे प्रमाणम् तदेदं लक्षणान्तरम् इत्यव धेयम् ( श० प्र० श्लो० ६१ टी० पृ० ७३) । विभक्तिर्द्वयी नामिकी आख्यातिकी च । तत्र नामिकी सुप् । आख्यातिकी तिङ् । ब्राह्मणः पचतीत्युदाहरणम् । उपसर्गनिपातास्तर्हि न पदसंज्ञाः । लक्षणान्तरं वाच्यमिति । शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपः तयोः पद- संज्ञार्थमिति ( वात्स्या० २।२।५७ ) । <विभजनम्> [ क ] सामान्यधर्मावान्तरधर्मपुरस्कारेण धर्मिंप्रतिपादनम् ( ग० २ सव्य० ) । [ख ] सामान्यधर्मस्य साक्षान्यूनवृत्तियावद्धर्म- प्रकारकज्ञानानुकूलो व्यापार ( वाक्य० १ पृ० २) । स्वसमभिव्या हृतपदार्थतावच्छेदकसाक्षाद्व्याप्यपरस्परविरुद्धधर्मप्रकारकज्ञानानुकूलशब्द प्रयोगः इत्यर्थः । यथा द्रव्यं विभजते इति प्रतिज्ञाय कृतं पृथिव्यापस्तेजो वायुराकाशम् इत्यादिविभजनम् । [ग] सामान्यधर्मयुतानां बहूनां पर- स्परविरुद्धतद्व्याप्यधर्मप्रकारेण प्रतिपादनम् ( श्रीकृष्णः ) ( वाच० ) । विभवः– ९ विभुत्वम् (वै० उ० ७११।२२) । यथा विभवान्महाना- काशस्तथा चात्मा ( वै० ७ । १ । २२ ) इत्यादौ । २ रामाद्यवतारो विभवः इति रामानुजीया वदन्ति ( सर्वे० पृ० ११५ रामा० ) । ३ संवत्सर- विशेष: इति मौहूर्तिका वदन्ति । ४ मोक्षः इति वेदान्तिन आहुः । ५ ऐश्वर्यम् इति काव्यज्ञा आहुः । <विभाग:> १ ( गुणः ) [ ] संयोगनाशको गुणः । स च सर्वद्रव्य- वृत्तिः अव्याप्यवृत्तिश्च ( नील० ) ( त० सं० ) । प्रतियोगितासंबन्धान वच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकतावान् इत्यर्थः इति केचिदाहुः । तेन संयोगस्यापि स्वनाशं प्रति प्रतियोगिविधया कारणत्वेपि संयोगे नातिव्याप्तिः इति विज्ञेयम् । परे तु संयोगनाशत्वावच्छिन्ननिरूपित समवायावच्छिन्नकारणतावान् इत्यर्थः इत्याहु: ( नील० १ पृ० १४) । अयमस्माद्विभजते इति प्रत्यक्षसिद्धोयं विभागगुणः । अतः संयोगनाश नान्यथासिद्धः इति ज्ञेयम् (वै० वि० ७ । २ । १० पृ० ३३२) । अत्राधिक च एतेन विभागो व्याख्यातः (वै० ७।२।१०) इति सूत्रोपस्कारे दृश्यम् । ख विभक्तव्यवहारासाधारणकारणम् ( मु० गु० पृ० ( प्र० प्र० ) । [ग] विभक्तप्रत्ययनिमित्तम् । स च प्राप्तिपूर्व अप्राप्ति: ( प्रशस्त • गु० पृ० ३२ ) । [घ ] विभागत्वसामान्यवान् ( त० कौ० ) । स द्विविधः कर्मजः विभागजश्च ( त० दी० ) । तत्र कर्मजो द्विविधः अन्यतरकर्मजः द्विकर्मजश्च । तत्राद्यः श्येनशैलयोर्विभागः । द्वितीयो मेषयोर्विभागः । विभागजोपि द्विधा कारणमात्र विभागजन्यः कारणाकारणविभागजन्यश्च । तत्रादिमो यथा कपालद्वयविभागात्कपाल- पूर्वदेशविभागः । द्वितीयस्तु यथा हस्तपुस्तक विभागात्कायपुस्तकविभागः ( भा० प० गु० श्लो० १२० - १२१) इति । अत्र द्वितीय विभागे कायकारणस्य हस्तस्य तदकारणस्य पुस्तकस्य च विभागेन हस्तकार्यस्य कायस्य तदकार्यस्य पुस्तकस्य च विभागः इति ज्ञेयम् ( त० व० ) । अत्रेदमाकूतम् । यदा हस्ते कर्मोत्पन्नमवयवान्तराद्विभागमकुर्वदाकाशा- दिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणा- कारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्या- कार्यविभागानारभन्ते । तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्य- संयोगान् आरभन्ते यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः कार- णसंयोगानन्तरं कार्यसंयोगोत्पत्तिः ( सर्व० पृ० २२८ औलू० ) ( प्रशस्त० गु० पृ० ३३ ) इति । अन्यत्र चैवमुक्तम् । यत्र हस्तक्रियया हस्ततरुविभागः तेन शरीरतरुविभागो जायते । तत्र च शरीरतरुविभागे हस्तक्रिया न कारणम् । व्यधिकरणत्वात् । शरीरे तु तदा क्रिया नास्ति । अवयव क्रियाया यावदवयवक्रियानियतत्वात् । अतस्तत्र कारणाकारण- विभागेन कार्याकार्यविभागो जन्यते इति । अत एवं विभागो गुणान्तरम् । अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् ( वै० वि० ७१२।१०) (मु० गु० पृ० २०८) इति । अत्रेदं बोध्यम् । कार्याविष्टे ( कार्यव्याप्ते ) कारणे कर्मोत्पन्नं यदा तस्यावयवान्तराद्विभागं करोति न तदा आका- शादिदेशात् । यदा त्वाकाशादिदेशाद्विभागं करोति न तदा अवयवान्त- रात् इति स्थितिः (सर्व० पृ० २२६ औलू०) (त० व० पृ० २२४ ) ( प्रशस्त ० गु० पृ० ३२ ) । तथा च प्रथमं यत्रैककपाले कर्म ततः कपालद्वयविभागः ततो घटारम्भकसंयोगनाशः ततो घटनाशः ततस्तेनैव कपालद्वयविभागेन सकर्मणः कपालस्याकाशादिना विभागो जायते ततः कपालाकाशादिसंयोगनाशः तत उत्तरदेशसंयोगः ततः कर्मनाशः ( मु० गु० पृ० २०७) (३० वि० ७।२।१०) इति । अत्र भाष्यम् ९७ न्या० को० विभागः शब्दस्य विभागस्य च हेतुर्भवति ( प्रशस्त० गु० पृ० ३२ इति । तत्र विभागः शब्दस्य हेतुर्यथा वंशे पाठ्यमाने यः चटचटाशब्दः स विभागजन्यः । तत्र वंशदलद्वयाकाशविभाग: असमवायिकारणम् वंशदलद्वयविभागो निमित्तकारणम् इति विज्ञेयम् ( त० कौ० गु० पृ० १९) । विभागस्य विभागहेतुत्वं तु समनन्तरमेवोक्तम् । अ विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात् उत्तरसंयोगावधिसद्भावात् । तथा हि यदा द्वितन्तुककारणावयवेंशौ कर्मोत्पन्नमंश्वन्तराद्विभागमारभते कचित् आश्रयविनाशादेव विनश्यति ( प्रशस्त० गु० पृ० ३४ ) / तदैव तन्त्वन्तरेपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसंयोग विनाशः तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ततो यस्मिन्नेव काले विभागात्तन्तुसंयोगविनाशः तस्मिन्नेव काले संयोगविनाशात्तन्तु विनाशः । तस्मिन्विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः ( प्रशस्त० गु० पृ० १९) इति । अन्यत्र चैवमुक्तम् । विभागश्च क्षणत्र- यावस्थायी भवति । स च कचित् उत्तरदेशसंयोगात् कचिदाश्रयनाशात् कचिदुभाभ्यां च नश्यति ( त० व० २०७) ( त० दी० ) (सि० च० ) ( प्रशस्त० पृ० १८) इति । २ विभजनम् (वाक्य० पृ० २ ) । ३ [ क ] व्यवहारशास्त्रज्ञास्तु द्रव्यसमुदायविषयाणामनेक टी० पृ० ६१ ) । यथा विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । खाम्यानां तत्तदेकदेशे व्यवस्थापनम् ( मिताक्षरा अ० २ श्लो० ११६ ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ( याज्ञ० अ० २ श्लो० ११७) इत्यादौ ( वीरमित्रो० अ० २ पृ० ५२२) इत्याहुः । ततोधे मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥ ( मनु० अ० ९ श्लो० ११२) श्रेष्ठादिविभागश्च मनुनोक्तः ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ( आपस्त-सू० २१६ । १४ ।७) इति । [ख अन्ये व्यवहारशास्त्रज्ञास्तु विशेष इत्याहुः ( वाच० ) । ४ कार्यकारणयोगविधिदुःखान्तानां य पूर्वस्वामिस्वत्वनाशोत्तरं तत्संबन्धाधीनत्वेन जातस्वत्वस्य व्यञ्जको व्यापार- संभव लक्षणतः असंकरेणाभिधानं विभागः ( सर्व० सं० पृ० १७१ नकुली० ) । <विभाजकोपाधिः> सामान्यधर्मसाक्षाद्व्याप्यो धर्मः (मू० म० ) । यथा प्रमात्वं च । यथा वा द्रव्यविभाजकोपाधिः। अत्र साक्षाद्व्याप्यत्वं च तच्याप्याव्याप्यत्वे ज्ञान विभाजकोपाधिर्भ्रमत्वं पृथिवीत्वजलत्वतेजस्स्वादिः सति तद्व्याप्यत्वम् । <विभु> अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्या- मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८९ शै० ) । <विभुत्वम्> १ [क] सर्वंगतत्वम् ( गौ० दृ० ४/२/२ ० ) । [ख] परममहत्परिमाणवत्त्वम् ( ० १ ) । [ग] मूर्तेतरद्रव्यत्वम् ( त० प्र० १ ) । [घ ] सर्वमूर्तद्रव्यसंयोगित्वम् । यथा आकाशस्य विभुत्वम् ( त० दी० १ पृ० १०) (वाक्य० १ पृ० ५ ) ( न्या० बो० १ पृ० ३ ) । विभवश्चत्वारः आकाशः कालः दिक् आत्मा चेति ( भा० प० श्लो० २६) । अत्रेदं बोध्यम् विभुकार्ये स्वासमवायिकारणा- वच्छिन्नदेशे उत्पद्यते (३० उ० ३।२।१ ) इति । विभुद्वयसंयोगश्च सिद्धान्ते नाङ्गीक्रियते । अन्यथा सुषुप्तिर्न प्राप्नुयात् । २ ईशत्वादिगुण- विशिष्टत्वम् इति वेदान्तिप्रभृतय आहुः । <विभुविशेषगुणत्वम्> अकारणगुणोत्पन्नगुणत्वम् ( भा० प० गु० श्लो० १० ९५ ) ( प० मा० ) । <विमतम्> १ वादिप्रतिवादिनोर्विवादविषयीभूतम् । यथा विमतम् जगत् मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरजतवत् इत्यादौ । अत्र मायावादिमतसिद्धानुमाने जगतः सत्यत्वमिथ्यात्वाभ्यां विवादः ( विप्रति- पत्तिः ) । २ विरुद्धमतियुक्तम् । यथा विमतम् (मायावादिमतम् ) अनारम्भणीयम् अन्यथाप्रतिपादकत्वात् बौद्धादिशास्त्रवत् इत्यादौ (माया.. वादख० ) । ३ संदिग्धम् । <विमर्श:> १ विरोधविषयकं ज्ञानम् । यथा विमर्श: संशयः (गौ० १ । १ । २३) इत्यादौ । २ विचार इति काव्यज्ञा वदन्ति । ३ वितर्कः ( हेमच ० ) । ४ नाटकाङ्गसंधिविशेषः इति नाटकलक्षणज्ञा आहुः । तदुक्तम् यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोधिकः । शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः ॥ (सा० द० परि० ६ श्लो० ७९ ) इति । ५ तस्य चिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुखःखमानन्दैकघनत्वं माहेश्वर्यमिति पयोयः । स एव ह्ययं भावात्मा विमर्श: ( सर्व० सं० पृ० १९६ प्रत्यभि० ) । <विमलः> चतुष्पञ्चाशदधिकशतत्रयम् ( अतलशब्दे दृश्यम् ) । <विमलीकरणम्> संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् । मन्ने मल त्र्यं मन्त्री विमलीकरणं हि तत् ॥ ( सर्व० सं० पृ० ३७० पात ० ) । <विमोकः> कामान भिष्वङ्गः ( सर्व० सं० पृ० १२४ रामानु० ) । <विमोक्षः> १ निःश्रेयसशब्दवदस्यार्थोनुसंधेयः । यथा निखिललोकविमोक्ष मुख्योपायम् (न्या० म० १ ) इत्यादौ (त० प्र० १ ) । २ मोचनम् । <विरहः> १ अत्यन्ताभावः । यथा अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना / साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ( भा० प० २ श्लो० ७०) इत्यादौ । यथा वा अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ( कु० ३/१) इत्यादौ । २ शृङ्गाररसस्य विप्रलम्भाख्योवस्थाविशेषः इति रसिकजना वदन्ति । <विरामः> १ [क] प्रागभावसाधारणकृत्यभावस्यानुकूलो व्यापारः । धर्माद्विरमतीत्यादौ विरमतेरर्थः । स च व्यापारोत्र धर्मविषयोपेक्षा विशेष एव । ख जीवनकालावच्छिन्नः कृत्यसमानाधिकरणकृतिध्वंसः केचिदाहुः (ल० म० सुबर्थ० कार० ५ पृ० १०८) । २ भावः इति शाब्दिका आहुः । अत्र सूत्रम् विरामोवसानम् (पाणि० <विरुद्धः> ( हेत्वाभासः ) [ ] सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः १।४।११० ) इति । ३ विरतिः । ४ निवृत्तिश्च इति काव्यज्ञा आहुः । । ( गौ० १।२।६ ) । यत्र वक्ष्यमाणो विरोधः वक्ष्यमाणं विरुद्धत्वं चाति स विरुद्धः इति परमार्थः (त० भा० ) ( वाक्य० ) । ता० तार्किकरक्षायां तु विरुद्धः स्याद्वर्तमानो हेतु: पक्षविपक्षयोः ( लो० ८२) इत्युक्तम् । अत्र भाष्यम् । तं विरुणद्धीति तद्विरोधी । अभ्युपेतं सिद्धान्त व्याहन्तीति । यथा सोयं विकारो व्यक्तेरपैति नित्यत्वविरोधादपेतोप्यस्ति विनाशप्रतिषेधान्न नित्यो विकार उपपद्यते । इत्येवं हेतुर्व्यक्तेरपेतोपि विकारोस्तीत्यनेन खसिद्धान्तेन विरुद्ध्यते । कथम् । व्यक्तिरात्मलाभः । अपायः प्रच्युतिः । यद्यात्मलाभावप्रच्युतो विकारोस्ति नित्यत्वप्रतिषेधो नोपपद्यते । व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत्खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेरुपपत्ति: । यदात्मलाभा- प्रच्यवते तदनित्यं दृष्टम् । यदस्ति न तदात्मलाभात्प्रच्यवते । अस्तित्वं चात्मलाभात्प्रच्युतिरिति च विरुद्धावेतौ न सह संभवत इति । सोयं हेतु- र्यत्सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति (वात्स्या० ११२१६ ) । वृत्तिकार इदं सूत्रमित्थं व्यवृत । अत्र च सिद्धान्तं साध्यम् । प्रतिज्ञाय हि पक्षस्य सिद्धस्यान्ते साध्यमभिधीयते । तथा च साध्यमभ्युपेत्योद्दिश्य प्रयुक्तस्तद्विरोधी साध्याभावव्याप्त इति फलितार्थः । यथा वह्निमान् हृदस्वादिति । एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमितिप्रतिबन्धो दूषकताबीजम् । न च सत्प्रतिपक्षाविशेषः । यतः तत्र हेत्वन्तरं साध्या- भावसाधकम् । इह तु हेतुरेक एव इति विशेषः । साध्याभावसाधक एव हेतुः साध्यसाधकत्वेन त्वयोपन्यस्तः इत्यशक्तिविशेषोन्नायकत्वेन विशे- षश्च (गौ० वृ० १/२/६ ) (मु० २ हेत्वा० पृ० १६० ) इति । अत्रायमाशयः । वस्तुगत्या साध्याभावसाधके हेतावेव तव साध्यसाधकत्व- भ्रमः इति स्थापनावादिनं प्रति भ्रमरूपाशक्तिसूचकत्वं विरुद्धस्य । न त्वेषं सत्प्रतिपक्षस्य इति विरुद्ध प्रतिपक्षयोदः (दि० २ पृ० १६० ) इति । [ख] यो ह्यनुमेये विद्यमानेपि तत्सजातीये सर्वस्मिन्नास्ति तद्विपरीते चास्ति स विपरीतसाधनाविरुद्धः । यथा यस्माद्विषाणी तस्मादश्वः इति ( प्रशस्त ० २ पृ० २९ ) । [ग] विपरीतव्याप्तिकश्च विरुद्धः (वै० उ० ३।१।१५ ) । [घ ] साध्याभावव्याप्तो हेतुः । यथा अयं गौरश्वत्वात् इति (त० को ० ) ( त० सं० ) । अत्र च यत्र यत्राश्ववं तत्र तत्र गोत्वाभावः इति साध्याभावव्याप्तेः सत्त्वादश्वत्वं हेतुर्विरुद्धः । विरुद्धत्वज्ञानं च साक्षादनुमितिप्रतिबन्धकम् । गोत्वाभावव्याप्ताश्वत्ववत्ता- ज्ञाने सति गोत्बनिश्चयासंभवात् ( त० कौ० २ ) । तेन हेस्वाभास न्यायकोशः । लक्षणं संपद्यते । [ङ] साध्यासमानाधिकरणसाध्या भावव्याप्यः । साध्यवदन्योन्याभावव्याप्तो वा ( चि० २ हेत्वाभा० पृ० ९० ) ( न्या० म० २ पृ० २० - २१ ) । यथा शब्दो नित्यः कार्यत्वादित्यादौ कार्य- वादिर्हेतुर्विरुद्धः ( त० भा० ) ( भा० प० ) (मु० ) (३० वि० ३।१।१५) ( त० सं० ) ( वाक्य० ) । यथा वा गौरश्वत्वा- दित्यादावश्वत्वं विरुद्धम् ( न्या० म० २ पृ० २१ ) । अत्र साध्या- भावत्वं साध्यविरोधित्वमात्रं भावाभावसाधारणम् । तेन अभावे साध्ये अभावाभावस्य भावत्वेपि नाव्याप्तिः ( चि० २ हेत्वा० पृ० ९० ) / वदवृत्तिमत्त्वम् इति प्राञ्चः मणिकारादयः आहुः । इदमेव साध्यासमाना- साध्याभावव्याप्तिश्च साध्याभावस्य पूर्वपक्षीयान्वयव्याप्तिः । सा तु साध्य- धिकरण्यरूपं विरुद्धत्वम् । दीधितिकारादयो नव्यास्तु साध्याभावस्य व्यतिरेक व्याप्तिः । सा तु प्रकृतहेतुनिष्ठं साध्यव्यापकाभावप्रतियोगित्वम् इति वदन्ति । इदं च प्राचीनमते असाधारण्यमेव इति ज्ञेयम् । तथा च प्राचीनमणिकृन्मते साध्यवदवृत्तित्वस्य विरुद्धत्वरूपत्वेपि असाधारण्य निश्चितसाध्यवदवृत्तित्वरूपतया तयोर्नाभेदः । नवीनदीधितिकारमते तु साध्याभावनिरूपिताया व्यतिरेकव्याप्तेः ( साध्यव्यापकीभूताभाव प्रतियोगि त्वस्य ) विरुद्धत्वरूपत्वेपि साध्यवदवृत्तित्वस्यासाधारण्यतया नासाधारण्य- विरुद्धत्वयोरभेदः इति विवेको द्रष्टव्यः ( नील० २ पृ० २५ )/ सत्प्रतिपक्षस्तु साध्याभावव्याप्यं हेत्वन्तरमेव इति तु सर्वेषां नैयायिक सिद्धान्तः इति सूक्ष्मतरमेतत् । स चायं विरुद्धः विधिसाधने त्रिविधः (१) साक्षात्साध्याभावव्याप्यत्वात् (२) साध्यव्यापकाभावव्याप्यत्वात् (३) साध्यव्यापकविरुद्धोपलम्भाच्च । यथा (१) अधूमवानयं योग्य धूमवत्तया अनुपलभ्यमानत्वात् ( २ ) निरनिकत्वात् ( ३ ) जलाशयत्वात् इति । निषेधसाधनेपि त्रिविधः (१) प्रतियोग्युपलम्भात् (२) साध्य व्यापकाभावोपलम्भात् (३) साध्यव्यापकविरुद्धोपलम्भाच / यथा ( १ ) निरग्निकोयमग्निमत्त्वात् (२) धूमाभावशून्यत्वात् (३) धूमववाद ( चि० २ पृ० ९४ ) इति । <विरुद्धत्रिकद्वयम्> उपादेयत्वम् विधेयत्वम् गुणत्वं चेत्येकं त्रिकम् । उद्दे- इयत्वम् अनुवाद्यत्वम् मुख्यत्वं चेत्यपरं त्रिकम् ( जै० न्या० अ० १ पा० ४ अधि० ६ ) । <विरुद्धत्वम्> १ ( हेतुदोषः) विपक्षमात्रस्पर्शित्वम् । साध्याभावव्याप्ति- विरुद्धत्वम् इति परमार्थ: (त० भा० ) ( वाक्य० ) । व्याप्तिश्चात्र अन्वयव्याप्तिः पूर्वपक्षीया साध्यवदवृत्तित्वरूपा ( साध्यासामानाधिकर- (ण्यम् ) इति प्राञ्चो मणिकारादय आहुः । नव्या दीधितिकारादयस्तु साध्याभावस्य व्याप्तिस्तु व्यतिरेकव्याप्तिः साध्यव्यापकाभावप्रतियोगित्व- रूपा इत्याहु: ( नील० २ पृ० २५ ) ( दीघि० २ हेत्वाभा० पृ० १९७ ) । अथ वा साध्यासामानाधिकरण्यादि । अत्रायमर्थः । साध्या- समानाधिकरणत्वं च साध्यानधिकरणे हेतोर्वर्तमानत्वम् न तु साध्या- धिकरणे हेतोरवर्तमानत्वम् । अतः न वह्निमानाकाशादित्यत्र स्वरूपा- सिद्धेतिव्याप्तिः ( म० प्र० २ पृ० २६) इति । इदं विरुद्धत्वं च मणिकृन्मताभिप्रायेणास्ति अन्वयव्याप्तिग्रहविरोधि च भवति इति विज्ञेयम् ( दीधि० २ पृ० १९७ ) ( न्या० म० २ पृ० २० ) । साध्यव्यापका- भावप्रतियोगित्वम् । वृत्तिमतः साध्यवदवृत्तित्वम् । साध्यवद्वृत्तित्वानधिकर- णत्वम् । साध्यासमानाधिकरणधर्मत्वम् । साध्यवद्वृत्तित्वानधिकरणधर्मत्वं वा (चि० पृ० ९२-९३ ) । यथा गौरश्वत्वादित्यादौ ( न्या० म० ) । यथा वा हृदो वह्निमाञ्जलादित्यत्र जलस्य विरुद्धत्वम् । २ विरोधित्व- शब्दवदस्यार्थो नुसंधेयः ( न्या० सि० दी० पृ० ५६ ) । विरोधः-१ इष्टार्थभङ्गः ( निग्रहस्थानम् ) ( त० मा० पृ० ५१ ) । २ कचित् तद्वत्ताग्रहप्रतिबन्धकज्ञान विषयत्वम् ( ग० सत्प्र० ) । यथा हृदे वह्निमत्ताग्रहप्रतिबन्धकनिश्चयविषयस्य वहयभाववद्धदस्य हृदो वह्नि - मान् इत्यनेन सह विरोधः । ३ विरुद्धवम् ( त० भा० ) ( वाक्य ० ) । ४ विरोधित्वम् ( दीधि० २) (ग० बाघ० ) । ५ परस्पराभाव- व्याप्यत्वाविशेषितयोः परस्परज्ञान प्रतिबन्धकी भूतज्ञानविषयत्वम् । अयं च स्वरूपतो विरोधः इत्युच्यते ( ग० सव्य० ) । यथा घटघटाभावयो- विरोधः । ६ विपरीतार्थकत्वम् । यथा विरोधे त्वनपेक्ष स्यात् असति ह्यनुमानम् (जै० १ । ३ । ३ ) इत्यादौ औदुम्बर्याः सर्ववेष्टनं औदुम्बरीं स्पृष्ट्वोद्गायेत् इति श्रुत्या विरुद्धम् ( शाब० भा० ) । ७ अर्थालंकार विशेष: इत्यालंकारिका आहुः । ८ संवत्सरविशेषः इति ज्योतिषज्ञा 1. ॥ वदन्ति । ९ वैरम् इति काव्यज्ञा आहुः । [क] सहानवस्थायित्वम् ( दीधि० २ ) । यद्येन सह न प्रतीयते तत्तेन सह विरुद्धं यत् तत्त्वम् ( न्या० सि० दी० पृ० ५६ ) / घटाभावयोर्विरोधित्वम् । [ग] सहासंभवः । यथा तत्त्वज्ञान मिथ्याज्ञानयो [ख] एकसमयावच्छेदेनैकत्रावर्तमानत्वम् ( ग० बाघ ० ) । यथा घट विरोध: ( न्या० वा० १ पृ० २७ ) । [घ सहानवस्थाननियमः (त० व० पृ० १००) । <विरोधिपरामर्श:> (परामर्श:) तद्विपरीतव्याप्यवत्ता निर्णयः (ग० सत्प्र०) । यथा हृदो वह्निमान्धूमादित्यादौ वह्नयभावव्याप्यजलवान् हृदः इति परा- मर्शो विरोधिपरामर्शो भवति । <विरोधिविषयता> [क] पक्षे साध्यवैशिष्ट्यावगाहित्वसाध्यव्याप्यहेतु वैशि- ष्ट्याबगाहित्वोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नांशे वच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टम् तद्रूपावच्छिन्नविषयतानिरूपिततद्रूपा वच्छिन्नाभावतच्याप्यान्यतरविषयता । [ख ] साध्यवत्पक्षविषयताबदि भूतविषयता । यथा हृदो वह्निमानित्यादौ वह्नयभाववद्धदविषयता भवति विरोधिविषयता साध्यवरपक्षविषयताया निरासश्च भवति (ग० २ हेत्वाभा- संसामा० नि० पृ० २४ ) । इयं विषयता च गादाधरीये अत्र वदन्ति " इत्येवमुक्तो यः कल्पस्ता दृशकल्पोक्तहेत्वाभासलक्षणघटिका इति विज्ञेयम् । <विलक्षणम्> १ [क] विजातीयम् । [ख ] विभिन्नम् । २ स्वच्छन्द- ताया निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवे- निष्प्रयोजनम् ( अमर० टी० ३।२।२ ) इति । ३ दानार्थं कल्पित काञ्चनपुरुषमूर्तियुतशय्या विशेष : ( शु० त० ) ( मत्स्यपु० ) । <विवरणम्> १ [ क ] तत्समानार्थबोधकपदान्तरेण तदर्थकथनम् । यथा पचति इत्यस्य पाकं करोति इति विवरणम् (मु० ४ ) । विवरणस्य शक्ति - ग्राहकत्वे प्रमाणमनुमानम् । तच्च यथा आख्यातपदं यत्नत्वावच्छिन्ने शक्तम् यत्नत्वावच्छिन्नशक्तकरोतिधातुप्रतिपादितार्थकत्वात् यद्यद्धर्मावच्छिन्नशक्त- प्रतिपादितार्थकं भवति तत्तद्धर्मावच्छिन्ने शक्तं भवति पाकत्वविशिष्टशक्त- पाकपदप्रतिपादितार्थकपचधातुवत् इति सामान्यतो दृष्टानुमानम् ( त० प्र० ख० ४ पृ० ७३ )। [ ख ] पूर्वोच्चरितवाक्यस्योत्तरवाक्येनार्थ- कथनम् ( त० प्र० ख० ४ पृ० ७३ ) । २ ग्रन्थविशेषः । यथा नागेशकृतं कैयटोपरि विवरणम् । <विवर्तः> १ [ क ] अतात्त्विकोन्यथाभावः । स च अपरित्यक्तपूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वम् ( बै० सा० ८० पृ० २) । यथा मायावादिमते परब्रह्मणि सर्वस्य जगतो विवर्तः । [ख] पूर्वरूपापरि- त्यागेनासत्यनानाकारप्रतिभासः । यथा शुक्तिकायां रजतस्य राज्यां वा सर्पस्य प्रतीतिः (अथर्वभाष्ये सायणः ) । शिष्टं तु बादशब्दव्याख्याने दृश्यम् । [ग] स्वरूपापरित्यागेन रूपान्तरापत्तिर्विवर्तः ( सर्व० सं० पृ० ४२० शं० ) । २ नृत्यम् इति नर्तका आहुः । ३ समुदायः इति काव्यज्ञा आहुः (वाच ० ) । <विवसन:> (दिगम्बरः नास्तिकः ) अर्हन्नामको जिनः । तन्मते सप्त पदार्था: जीव: अजीव: आस्रवः संवर: निर्जरः बन्धः मोक्षश्च इति । संक्षेपतस्तु जीवाजीवाख्यौ द्वावेच पदार्थों । तयोरिममपरं प्रपञ्चमाचक्षते । पञ्चास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायः धर्मास्तिकाय: अधर्मा- स्तिकाय: आकाशास्तिकायश्चेति । सर्वेषामध्येतेषामवान्तरभेदा बहुविधाः सन्ति विस्तरभयान्नोक्ताः इति । अत्र अस्तिकायशब्दः संकेतितः पदार्थ- बाची ( शारी० भा० टी० २।२।३३) । अस्तीति कायते शब्धते इत्यस्तिकायः पदार्थः । एतन्मते जीवः शरीरपरिमाणः । मोक्षस्तु सप्तभङ्गीनयस्तु स्याद्वादशब्दव्याख्यानावसरे संपादयिष्यते । अत्र जीवस्योर्ध्वगमनमेव ( शारीरकभाष्ये अ० २ पा० २ सू० ३३-३४ ) । तु नास्तिक इत्यादितत्तच्छन्दव्याख्याने दृश्यम् । ९८ न्या० को० <विवादः> १ विरुद्धो वादः । २ कलहः । अत्रोदाह्रियते ऋणादिदायकलहे द्वयोर्बहुतरस्य वा । विवादो व्यवहारश्च इति स्मृतिः । ३ विप्रतिपत्तिः । <विवाह:> १ भार्यात्वसंपादकं कर्म । यथा अविद्रुतब्रह्मचर्यो लक्षण्यां स्त्रिय- मुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृ- मतीमसमानार्षगोत्रजाम् ॥ ( याज्ञ० अ० १ श्लो० ५२-५३ ) इत्यादौ वहधात्वर्थः । अत्रानन्यपूर्विका मित्यनेन स्त्रीपुनर्विवाहो निषिद्धः इति गम्यते । तथा च श्रुतिरपि तस्मान्नैका द्वौ पती विन्दते इति । तस्मा- देकस्य बहुचो जाया भवन्ति नैकस्यै बहवः सह पतयः इति च / शिष्टं तु नियोगशब्दव्याख्याने विधवाशब्दव्याख्याने च संपादितम् । दृश्यम् । चरमसंस्कारः विजातीयसंस्कारो वा विवाहः इत्यन्ये नव्य नैयायिका आहुः । अत्र चरमत्वं च शास्त्रविहितसंस्कारान्तिमत्वम् । संस्कार प्रागभावासहचरितत्वम् इति केचिदाहु: । द्वितीय विवाहस्य । संस्कारत्वाभावात् तत्प्रागभावसत्त्वेप्याद्यविवाहे चरमत्वाक्षतिः (वाच० ) । सप्तपदीसमापनमेव इति तु वयं ब्रूमः । अष्टौ विवाहाः ब्राह्मः दैवः अर्थः श्लो० ५८ - ६१ ) । तथा चोक्तं मनुना ब्राह्मो दैवस्तथैवार्षः प्राजापत्य- प्राजापत्यः आसुरः गान्धर्वः राक्षसः पैशाचश्चेति ( याज्ञ० अ० १ स्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोधमः ॥ ( मनु० ३/२१) / इति । अत्र विवाहप्राशस्त्यं तत्तद्विवाहफलादिकं च मनुयाज्ञवल्क्य / स्मृत्यादौ दृश्यम् । २ येन ज्ञानेन ममेयं भार्या ममायं पतिः इति व्यवहारो / भवति तादृशं ज्ञानम् इति वा विवाहशब्दार्थः । तादृशं ज्ञानं तु संस्कारादिनोत्पद्यते । तच्च संबन्धविशेषेणोभयनिष्ठम् । भार्यात्वसंपादकं ज्ञानम् इत्यत्र भार्यात्वस्योपलक्षणतया निवेश: | नान्योन्याश्रयः इति । <विवीतः> प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगतो भूप्रदेशः ( मिताक्षरा व्य श्लो० १६० ) । <विवृतिः> १ विवरणम् । २ विस्तार : ( मेदिनी ० ) । <विवेकः> १ [ क ] पृथक्त्वेन ज्ञानम् । यथा नीरक्षीरविवेकः । [ख] विशेषरूपेण ज्ञानम् इति केचिदाहुः । [ग] अन्योन्यधर्मव्यावर्तनेन यथार्थ्येन तुरूपावधारणम् । यथा सांख्यमते प्रकृतिपुरुषयोर्भेद- ज्ञानम् । २ विचारः । ३ विवेको नामादुष्टशदनात्सत्वशुद्धिः ( सर्व० सं० पृ० १२४ रामानु० ) । <विशिष्टद्वयाघटितत्वम्> यादृश विशिष्टविषयक निश्चयविशिष्टयादृश विशिष्ट- विषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति भवति तादृश- विशिष्टद्वयाघटितत्वम् । यथा हृदो वह्निमान्धूमादित्यादौ वयभाववद्ध- दात्मकबाधस्य जलावच्छिन्नवभाव जलवद्धद एतद्विशिष्टद्वयाघटितत्वम् ( ग० २ हेत्वा० सामा० पृ० ११) । विशिष्टद्वयाघटितस्वरूपस्य विशेषणस्य प्रयोजनं च गादाधरीय द्वितीय हेत्वाभाससामान्यलक्षणे हृदो बह्निमानित्यादौ वह्नयभाववज्जलादिमद्वृत्तिजलवद्धदरूपविशिष्टे अलक्ष्येति- व्याप्तिवारणम् इति विज्ञेयम् । यद्रूपावच्छिन्नविषयक निश्चय विशिष्टयद्रूपा- वच्छिन्नाविषयकयट्र्पावच्छिन्नविषयक निश्चयत्वं स्वव्यापकत्व स्वाभावबट्ट- त्तित्व एतदुभयसंबन्धेन स्वावच्छिन्नविषयताव्यापकप्रतिबन्धकता विशिष्टा- न्यज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकतानतिरिक्तवृत्ति भवति तत्तद्रूपावच्छि- नाविषयकप्रतीतिविषयत्वं फलितोर्थः । तेन नातिव्यायव्यायादयो दोषाः इत्यस्मद्गुरुचरणाः प्राहुः । <विशिष्टम्> १ विशेषणवद्विशेष्यम् ( चि० १) । यथा द्रव्यं गुणव- दित्यादौ द्रव्यं गुणविशिष्टम् । अत्रायं विशेषः । विशिष्टज्ञानं प्रति विशेषण- ज्ञानं कारणम् इति कार्यकारणभावो नैयायिकसिद्धान्तसिद्धो ज्ञातव्यः । अत्रेदमधिकं ज्ञेयम् । विशिष्टाभावस्त्रिविधः विशेषणाभावप्रयुक्तः विशे- व्याभावप्रयुक्त: उभयाभावप्रयुक्तश्चेति । तत्राद्यो यथा वायौ रूपवि- शिष्टस्पस्याभावः । द्वितीयो यथा वायौ स्पर्शविशिष्टरूपस्याभावः । तृतरूपविशिष्टघटत्वस्याभावः इति । अत्र वैशिष्ट्यं च साहित्यं सामानाधिकरण्यं वा ज्ञेयम् । तत्राद्ये स्पर्शे रूपं विशेषणम् । तस्य वायावभावात् स्पर्शसखेपि रूपविशिष्टस्पर्शस्याप्यभावो मन्तव्यः । द्वितीये रूपे स्पर्शो विशेषणम् । तथा च स्पर्शात्मक विशेषणस्य वायौ सत्त्वेपि विशेष्यभूतस्य रूपस्याभावात् स्पर्शविशिष्टरूपस्याप्यभावो मन्तव्यः । तृतीये घटवे रूपं विशेषणम् । तथा च विशेषणस्य रूपस्य विशेष्यस्य घटत्वस्य च वायावभावेन रूपविशिष्टघटत्वस्याप्यभावो मन्तव्यः । २ विशेषयुक्तः । यथा संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् (वै० २११/१८) इत्यादावस्मद्विशिष्टा ईश्वरमहर्षयः । <विशिष्ट विशेषणकज्ञानम्> १ विशेषणवद्विशेष्य धर्म दण्डवान् पुरुषः इति ज्ञानम् । अत्र ज्ञाने पुरुषांशे विषयक ज्ञानम् । यथा दण्डवान् पुरुषः इति ज्ञानम् । तद्विविधम् विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहि विशेषणविशिष्ट प्रतियोगिक- वैशिष्ट्यावगाहि चेति । तत्राद्ये विशेषणज्ञानासंसर्गाग्रहयोरेवापेक्षा न तु विशेषतावच्छेदकप्रकारकधियोप्यपेक्षा ( ग० बाघ ० ) । द्वितीये तु शेषणम् तत्रापि विशेषणान्तरम् इति रीत्या जायमानं ज्ञानं भवति । यथा विशेषणतावच्छेदकप्रकारकधियोपेक्षा । २ क्वचित् विशेष्ये यदि दण्डत्वम् विशेषणतया भासते न तु दण्डत्वं पुरुषांशे विशेषणतावच्छे क्वचित् एकत्र द्वयम् इति रीत्या जायमानं ज्ञानं भवति । यथा दण्डवान दकतया भासते । अत्र विशृङ्खलोपस्थितिः प्रयोजिका इति विज्ञेयम् । ३ पुरुषः इति ज्ञानम् । अत्र ज्ञाने च एकस्यां व्यक्तौ ( पुरुषे ) पुरुषों दण्डश्च एतदुभयं विशेषणतयैव भासते । न तु विशेषणविशेष्यतावच्छे- दकभावेन इति । अत्र विशेषणत्वेनोभयोपस्थितिः प्रयोजिका इति बोध्यम् । ४ कचित् विशिष्टवैशिष्ट्यावगाहि ज्ञानं भवति । अत्र ज्ञाने च षणतावच्छेदकप्रकारकं ज्ञानं कारणं भवति इति ध्येयम् । यथा दण्डवान् पुरुषः इति ज्ञानम् । अत्र च दण्डत्वात्मक विशेषणावच्छिन्न प्रतियोगिक वैशिष्ट्याख्यः संबन्धः संसर्गतया पुरुषांशे भासते । इदमेव ज्ञानं विशिष्ट विशेषणकज्ञानप्रभेद: विशेषण विशिष्टप्रतियोगिक वैशिष्ट्यावाहि भवति विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्या वगाहिज्ञानाद्भिद्यते च इति बोध्यम् । अत्रेदं बोध्यम् । विशिष्टवैशिष्ट्या वगाहिशब्दबोधे त्वयं भेदः / व्युत्पत्ति- वैचित्र्येण उद्देश्यतावच्छेदक विधेययोर्धर्मिपारतंत्र्येण परस्परं प्रयोज्यप्रयो- जकभावेनान्वयः । यथा धनवान् सुखी इत्यत्र धनप्रयोज्यत्वस्य सुखे- ग्वयः । सुरापः पतति इत्यत्र च सुरापानस्य पतने प्रयोज्यत्वेनान्वयः ( ग० सव्य० ) इति । ५ कचित् विशिष्टज्ञानम् । विशेषणवद्विशेष्य- विषयकं ज्ञानम् इत्यर्थः ( चि० १ पृ० ८२१ ) । यथा अयं दण्डी इति ज्ञानम् । अत्र ज्ञाने च इदंपदार्थविशेष्यांशे दण्डात्मक विशेषणप्रतियोगिक- संबन्धः संसर्गतया भासते विशेषणज्ञानं कारणं च भवति इति विज्ञेयम् । <विशिष्टाद्वैतम्> सूक्ष्म चिदचिदात्मकशरीरविशिष्टस्य कारणस्य परमात्मनः स्थूलचिदचिदात्मकशरीरविशिष्टस्य कार्यस्य परमात्मनश्चैक्यम् । यथा रामानुजमते विशिष्टाद्वैतम् । अत्र विशिष्टयोरद्वैतम् इति षष्ठीतत्पुरुषो ज्ञेयः । द्वैतविशिष्टमद्वैतम् इत्यन्य आहुः । अत्र नियम्य नियामकभावेन शरीरशरीरिभावो विज्ञेयः । तत्र चिदचिदात्मकं शरीरं नियम्यम् । तदन्तर्यामी परमात्मा तन्नियामकः । अत्र श्रुतिः यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृतः ( शतप० बृह० १४/६/७/७ ) इत्यादिः । अत्रेदं विज्ञेयम् । रामानुजाचार्यस्य जन्म द्रविडदेशे भूतपुरीत्य- परनाम्यां प्रेमधुलाख्यायां (पेरंबुदूर ) पुरि एकोनपञ्चाशदधिके सहस्रे (शाके १०४९) वर्षे समजनि । तस्य पिता केशवभट्टः । माता कान्ति- मती । मातुलो यादवप्रकाशः । स एव विद्यागुरुश्च इति । अत्र श्रूयते । शापवशाच्छूद्रजन्म प्राप्तेन शठकोपनाम्ना (नम्मालबार) द्रविडेन द्रविड- भाषया वेदान्तप्रबन्धा विरचिताः । ततस्तान् प्रबन्धाननुरुध्य बोधाय- नाख्यद्रविडब्राह्मणकृतां ब्रह्मसूत्रवृत्तिं च सहकृत्य गीर्वाणभाषया ब्रह्मसूत्रस्य श्रीभाष्यमकार रामानुजाचार्येण । रामानुजमते चित् जीव: १ अचित् जड: २ ईश्वरः नियन्ता परमात्मा ३ इति त्रयः पदार्थाः । ईश्वरो जगत उपादानं निमित्तं च । सत्कार्यवादः । परिणामवादः । मोक्षदशायामपि जीवब्रह्मणोर्भेदः पारमार्थिकः । तथापि परमभगवत्साम्यरूपमोक्षदशायां जीवब्रह्मणोरानन्दतारतम्यं यथा मध्वमतेस्ति तथा नास्ति इति । तथापि तदा जीवस्य जगत्कर्तृत्वं नास्ति इत्यादि ज्ञेयम् । मोक्षे भगवत्साम्यमित्यत्र निरञ्जनः परमं साम्यमुपैति (मु० ३ । १ । ३ ) इति श्रुतिः प्रमाणम् । मध्वमते तु अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आद- नास उपकक्षास उत्वे हदा इव स्नात्वा उत्वे दहश्रे ( ऋगू० मण्ड० १०/७१।७ ) इति श्रुतिः प्रमाणम् । केचित्तु प्रकृतिविशिष्टस्य ब्रह्मणः अद्वयत्वम् शरीरशरीरिणोर्भेदविशिष्टाभेदो वा विशिष्टाद्वैतशग्दार्थ । इति मन्यन्ते । <विशिष्टान्तराघटितत्वम्> [क] अनुमितिप्रतिबन्धकतायां यारूपा च्छिन्ना विषयक प्रतीतिविषयतावच्छेदकम् तदवच्छिन्नाविषयकप्रतीतिविप वच्छिन्नविषयकत्वमवच्छेदकम् (अनतिरिक्तवृत्ति) तादृशं यत् स्वाब- यतावच्छेदकं यत् स्वम् तदवच्छिन्नत्वम् । यथा हृदो घूमवान्चहेरित्यादौ व्यभिचारस्य बाधादिरूप विशिष्टान्तराघटितत्वम् । विशिष्टान्तराघटितत्व रूपविशेषणप्रयोजनं च गादाघरीय द्वितीय हेत्वाभाससामान्यलक्षणस्य धूम वान्वः इत्यादिस्थले प्रमेयत्वविशिष्टव्यभिचारादौ ( प्रमेयत्व विशिष्टधूम- भाववद्वृत्तिवहौ ) अतिव्याप्तिवारणरूपं बोध्यम् । स्वावच्छिन्नेत्यत्र यद्रपा वच्छिन्ने लक्षणं संगमनीयम् तदेव स्वपदार्थः । हृदो धूमवान्वहेरित्या धूमाभाववद्वृत्तिवह्नित्वं व्यभिचारः । बाधस्तु धूमाभाववद्रदः । चात्र व्यभिचारत्वावच्छिन्नाविषयकत्वं बाधविषयकप्रतीतौ बाधत्वावच्छि नाविषयकत्वं च व्यभिचारविषयकप्रतीतावस्ति इति बाधत्वं व्यभिचार त्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकम् हृदो धूमवान् इत्यनुमिति निरूपित प्रतिबन्धकताया मनतिरिक्तवृत्तित्वरूपावच्छेदकतावच्च भवति ता- भवति । व्यभिचारत्वावच्छिन्नत्वं तु व्यभिचारे वर्तत इति लक्षणसमन्वय दृशबाधत्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं स्वं ( व्यभिचारत्वम्) बोध्यः । प्रमेयत्वविशिष्टव्यभिचारादौ तु शुद्धव्यभिचाररूपविशिष्टान्तर घटितत्वेन तादृशलक्षणाभावान्नातिव्याप्तिश्च (ग० २ हेवा० सामा पृ० १३ ) । [ख] केचित्तु स्वसमानाधिकरण हेत्वाभासविभाजकरूप- समानाधिकरणं यत् स्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं त रूपम् तदवच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं यत् स्वम् तदवच्छिन्न- त्वम् इत्याहु: ( न्या० २० सामा० ) । अत्र तादृशं रूपं च विपरीत- व्यभिचारत्वादिकमेव इति बोध्यम् । तथा हि । स्वं धूमाभाववद्वृत्तिवह्नित्व- त्वम् । तत्समानाधिकरणं हेत्वाभासविभजकं रूपं तु व्यभिचारत्वं भवति । तत्समानाधिकरणं यद्धूमाभाववद्वृत्तिवह्नित्वत्वावच्छिन्नाविषयक प्रतीतिविष- यतावच्छेदकं तादृशं रूपं तु वह्निनिष्ठधूमाभाववद्वृत्तित्वत्वमेव भवति । तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तु धूमाभाववद्वृत्तित्व- विशिष्टवह्नित्वत्वं भवति तदवच्छिन्नत्वं धूमाभाववद्वृत्तिवह्नित्वेस्ति इति लक्षणसमन्वयो बोध्यः । इदं च गदाधर्यो स्वसजातीय विशिष्टान्तराघटि- तत्वम् इत्युच्यते अयोगोलकं धूमबहे इत्यादौ बाधविशिष्टव्यभिचारा- दावतिव्याप्तिसंपादकं च भवति इति ज्ञेयम् ( ग० हेत्वा० सामा० पृ० १५ - १६)। अयं च केचित्तु इत्यादिनोक्तो यः कल्पस्तद्विषये एवं श्रूयतेस्मद्गुरुमुखात् । अयं कल्पस्तु समासतो गदाधरेण विरचितः व्यासतः परिष्कृतवद्भ्यो गाडगीळ इत्युपाहेभ्यो वाराणसीग्रामनिवासि- जगन्नाथशास्त्रिभ्यः संगृह्य पुण्यग्रामनिवासिभिः गोडबोले इत्युपनामक- मेरुशास्त्रिभिः सम्यक् विरचय्य प्रकटीकृतः इति । [ग] विशिष्टान्तर- विषयित्वाप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकर- णताकत्वम् । तादृशोभयाभावश्च प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व साध्यव्याप्य हेतुवैशिष्ट्यावगाहित्य एतदुभयाभावः । इदं च सिद्धान्त सिद्धम् विशिष्टान्तराघटितत्वम् इत्युच्यते । यथा घूमव्यभिचारिवह्निमा न्धूमबान्वहेरित्यादावपि व्यभिचारघटितबाघस्य व्यभिचाररूप विशिष्टान्तरा घटितत्वम् । तथा हि । विशिष्टान्तर (केवलव्यभिचार) विषयित्वाप्रयोज्या स्व(व्यमिचारघटितबाध) विषयिताप्रयोज्या या तादृशोभयाभावप्रयोजिका अभावाधिकरणता ( पक्षे साध्यवैशिष्ट्या वगाहित्वाभावाधिकरणता ) तत्कत्वं धूमाभाषवद्धूमव्यभिचारिवह्निमति व्यभिचारघटिते बाधे वर्तते इति तत्र लक्षणसमन्वयो बोध्यः (ग० हेत्वा० सामा० पृ० २०-२५ ) । <विशुद्धि:> १ [ क ] उद्दिष्टपदार्थसंबन्धराहित्यम् । यथा मायावादिनां वल्लभानां च मते परब्रह्मणो विशुद्धिर्मायासंबन्धराहित्यम् । [ख] ज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः ( सर्व० सं० पृ० १६४ नकु० ) । [ग] धर्मज्ञास्तु दोषराहित्यं विशुद्धिरित्याहुः । २ शोधनम् (प्रायश्चित्तम्) ( कुल्लू ० ) । यथा इयं विशुद्धिरुदिता ( मनु० अ० ११ श्लो० ८९) इत्यादौ इत्याहुः । अधिकं तु शुद्धिशब्दे दृश्यम् । <विशृङ्खलत्वम्> पार्थक्यम् । यथा घटबद्भुतलमित्यादौ घटः इति भूतलम्, इति चोपस्थित्योः परस्परं निरूप्यनिरूपकभावानापन्न विषयतावत्वेन तत्तदर्थविषयकत्वाद्विशृङ्खलत्वम् । <विशेषः> १ ( पदार्थः ) [ क ] अन्योन्याभावविरोधिसामान्यतः वेतः पदार्थविशेषः ( सर्व० पृ० २१७ औलू० ) । [ख ] जाति- रहितत्वे सति नित्यद्रव्यमात्रवृत्तिः । तथा चोक्तम् अजातिरेकवृत्तिश्च विशेष इति शिष्यते ( ता० २० श्लो० ५३) इति । एकद्रव्यः स्वभाव- सन् ( न्या० ली० पृ० ५) इति न्यायलीलावतीकाराः । स च अन्यो नित्यद्रव्यसमवेतः । अन्ते अवसाने वर्तत इत्यन्त्यः । तदपेक्षया नास्तीत्यर्थ: । एकमात्रवृत्तिरिति फलितोर्थः (मु० १/१ पृ० ३७) । किंच स विशेष: अत्यन्तव्यावृत्तिहेतुः ( भा० प० ) ( त० सं० ) । तथा हि । घटादीनां व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं व्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्ति इति भावः (मु० १ ) / सिद्ध्यति । परमाणूनां परस्परं भेदको विशेष एव । स तु स्वत एवं अत्र प्रयोगः एतद्विशेषस्तद्विशेषाद्भिद्यते तादात्म्येनैतद्विशेषात् इति / एवम् स्वतोव्यावर्तकत्वानुमानप्रयोगोपि विज्ञेयः ( सि० च० पृ० ३) / सूत्रे चोक्तम् अन्यत्रान्त्येभ्यो विशेषेभ्यः (वै० १/२/६ ) इति । ण्वाकाशकाल दिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्त भवा अन्त्याः । स्वाश्रयविशेषत्वाद्विशेषाः । विनाशारम्भर हितेषु नित्सेब- बुद्धिहेतवः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रिया ककुमान् महाघट इति तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति- वयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । यथा गौः शुक्लः शीघ्रगतिः गुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवात् येभ्यो निमि त्तेभ्य: प्रत्याधारम् अयमस्माद्विलक्षणः इति व्यावृत्तिप्रत्ययः देशकाल - विशिष्टे च परमाणौ स एवायम् इति प्रत्यभिज्ञानं च भवति यतः तेन्त्या विशेषा इति । एते च विशेषाः नित्यद्रव्याणां परस्परभेदसाधका: (नील० पृ० ९४ ) । अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः एव व्यावृ- त्तिप्रत्ययः प्रत्यभिज्ञानं वा कल्प्यते इति चेत् न । तादात्म्यात् । इह ता- दात्म्यकल्पनानिमित्तप्रत्ययो भवति । यथा श्वमांसादीनां स्वत एवाशुचि- त्वम् तद्योगादन्येषाम् । तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव व्या- वृत्तिप्रत्ययः । तद्योगात् परमाण्वादिष्विति ( प्रशस्त ० पृ० ६४-६५ ) । अत्यन्तव्यावृत्तिहेतुरित्यस्य अयमस्माद्ध्यावृत्तः इति व्यावृत्तिबुद्धिमात्रहेतुरि- सर्थः इति कौमुदीकाराः (त० कौ० ) । ते खल्त्रयन्तव्यावृत्तिहेतुत्वाद्वि- शेषा एव (प्रशस्त० पृ० २) इति भाष्यम् । अत्र कन्दलीकार आह । खळुशब्दो निश्चये । नित्यद्रव्यवृत्तयो ये विशेषास्ते विशेषा एव निश्चिताः । न तु सामान्यान्यपि भवन्तीत्यर्थः । अत्यन्तं सर्वदा व्यावृत्तेरेव स्वाश्रय- स्येतरस्माद्व्यवच्छेदस्यैव हेतुत्वात् कारणत्वात् (न्या० क० पृ० १४ ) इति । [ग] विशेषो नामान्योन्याभाव विरोधिसामान्यरहितः समवेतः ( सर्व० सं० पृ० २१७ औ०) । विशेषपदार्थस्वीकारस्यावश्यकत्वमिदानीं प्रदर्श्यते । घटादीनां सावयवपदार्थानां कपालसमवेतत्वादिकं पटादि- भेदकमस्ति । परमाणूनां तु निरवयवत्वात्परस्परभेदकं न किंचिदस्ति । अतोनायत्या विशेष आश्रयितव्यः । अथ वा विशेषानभ्युपगमे समान- जातिगुणकर्मवतां परमाणूनां मिथो व्यावृत्तिबुद्धिः न स्यात् । तादृशी बुद्धिस्तु समानजातिगुणकर्मकाः परमाणवः अन्योन्यव्यावर्तकधर्मसंबन्धिनः व्यावृत्तज्ञान विषयत्वात् द्रव्यत्वाद्वा गवादिवत् इत्यानुमानिकी ज्ञेया ( न्या० ली० पृ० ५३) । व्यावृत्तिबुद्ध्यभावस्येष्टापत्तौ योगिनोपि तादृशपरमाणूनां ज्ञानसंकरः स्यात् इत्यतस्तव्यावृत्तिबुद्ध्यर्थ विशेषोङ्गी- कर्तव्यः (त० कौ० पृ० २८ ) ( प्र० प्र० ) इति । स च विशेष: तथा ह्यनुमानम् शब्दसमवायिकारणता किंचिद्धर्मावच्छिन्ना कारणता- शब्दसमवायिकारणतावच्छेदकतयापि सिध्यति ( सि० च० ) । त्वात् दण्डनिष्ठघटकारणतावत् इति । स च धर्मो विशेष एव । विशेष- ९९ न्या० को० लक्षणं तु सामान्यशून्यत्वे सति सामान्यभिन्नत्वे च सति समवेतत्वम् । यद्वा नित्यसमवेतवृत्तिजन्यसमवेतावृत्तिपदार्थविभाजकोपाधिमत्त्वम् एकमात्र समवेतत्वे सति सामान्यशून्यत्वं वा (प० मा० ) । स्वतो व्यावृत्तत्वं वा (वाक्य० ) ( त० प्र० १) । स्वतो व्यावर्तकत्वं वा । अत्र व्यावर्तकत्वं नाम व्यावृत्तिजनकत्वम् । व्यावृत्तिश्चेतरभेदः तज्ज्ञानं वा ( सि० च० १ पृ० ३ ) । स्वतो व्यावर्तकत्वं च स्वभिन्नलिङ्ग- जन्यस्व विशेष्यकस्वसमानजातीयेतर भेदानुमित्य विषयत्वम् ( दि० १/१ पृ० ३७) । अथ वा स्वेन रूपेण भेदानुमापकत्वम् । यथा एकपरमाणौ परमाण्वन्तर मेदसाधने विशेषस्य तत्तद्व्यक्तित्वेनैव हेतुत्वेन स्वतो व्यावर्तक त्वम् । अत्र तु तत्तद्व्यक्तित्वं च तादात्म्यसंबन्धेन सैव व्यक्तिः ( राम० ) । नव्यनैयायिकाः भट्टकुमारिल : प्राभाकरा: मध्वमतानुयायिवेदान्तिन एतादृश विशेषपदार्थ नाङ्गीचक्रुः । यथैव विशेषाणां स्ववृत्तिधर्मे विना व्यावृत्तत्वं तथैव नित्यद्रव्याणामपि इति ( दि० १ पृ० ३७ ) (प्र० प० पृ० ११ ) ( ता० २० श्लो० ५५) । २ विशेषकशब्दस्य अर्थ- बदस्यार्थोनुसंधेयः । यथा पुरुषत्वव्याप्यकरा दिमान् इत्यादौ पुरुषत्वादे- विशेषः करादिधर्मः । ३ प्रमेदशब्दवदस्यार्थोनुसंधेयः । ४ व्याप्यधर्मः (वै० १।२।५ ) । यथा सत्तामपेक्ष्य द्रव्यत्वम् । द्रव्यत्वमपेक्ष्य " पृथिवीत्वं विशेष: ( व्याप्यधर्मः ) । ५ तद्वृत्तिधर्मः । यथा पदार्थविशेष: ( मू० म० १ ) इत्यादौ । अत्र पदार्थविशेषः इत्यस्य पदार्थवृत्तिधर्मः इत्यर्थो ज्ञेयः । स च पदार्थत्वव्याप्यः । ६ निश्चायकोसाधारणधर्मः । यथा विशेषादर्शनं कोटिद्वयस्मरणं च संशयमात्रहेतुः इत्यादौ स्थाणुत्व- निश्चायकं वऋकोटरादिमत्त्वम् पुरुषत्वनिश्चायकं करादिमत्त्वं च विशेषः ( सि० च० पृ० ३४ ) । ७ आधेयोनिर्वचनीयश्च कश्चिद्धर्मविशेषः व्यवस्थापका आहुः । अत्रेदं विज्ञेयम् । कुसूलस्थबीजादिभिर्नाङ्करो ( अतिशयः ) । यथा अङ्करजननयोग्यबीजादौ विशेषः इति केचित्तत्व- त्पत्तिः । अतः कृष्टक्षेत्रादावुप्तबीजादौ सलिलपवनादियोगेन कश्चिद्विशेषो वश्यमाधेयः इति । <विशेषकः> १ इतरव्यावर्तकधर्मः ( गौ० वृ० ३ । २ । ३८) । यथा गवादेः सास्ना दिमत्त्वं विशेषकः । २ एकवाक्यतापनं श्लोकत्रयं विशेषकम् इति कवय आहुः । ३ ललाटे अलंकारभूतस्तिलकः भूषणं च इति काव्यज्ञा वदन्ति ( माघ ० ३।६३ ) । <विशेषगुणत्वम्> [क] द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिगुण- वृत्तिजातिमत्त्वम् (त० दी० ४ पृ० ३९ ) । तदर्थश्च पृथिवीत्वजलत्वा- द्यात्मकं यद्रव्यविभाजकोपाधिद्वयम् प्रत्येकं तत्समानाधिकरणाः द्वित्व- द्विपृथक्त्वसंयोगादयः तदवृत्तिजातिमद्दुत्वम् इति । तथा च विशेष- गुणेषु लक्षणसमन्वयः क्रियते । रूपादिषु चतुर्षु तादृशलक्षणघटक - जातिम् रूपत्वादिकामादाय सांसिद्धिकद्रवस्त्रे च द्रवत्वत्वावान्तरजातिम् स्नेहादिषु दशसु स्नेहत्वादिकाम् भावनायां संस्कारत्वावान्तरजातिं चादाय लक्षणसमन्वयः । अत्र प्रवदन्त्यभिज्ञा निष्कृष्टार्थम् । यद्रूपावच्छिन्न- समानाधिकरणं यत्किंचिद्द्रव्यविभाजकोपाधिद्वयम् तद्भिन्ना स्थितिस्थापक- वृत्तिभिन्ना च या जातिः तद्वत्त्वे सति गुणत्वम् इति । तेन एकत्वादि- संख्यायाम् परिमाणादौ च नातिव्याप्तिः (नील० गु० पृ० ३९ ) इति । " विशेषगुणाश्च षोडश रूपम् रसः गन्धः स्पर्श: सांसिद्धिकद्रवत्वम् स्नेहः शब्द: बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्म: भावना चेति ( भा०प० गु० श्लो० ९१-९२) । [ख ] भावनान्यो यो वायुवृत्तिवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्य- गुणत्वम् । अत्रत्यपदानां प्रयोजनानि कथ्यन्ते । जात्यादावतिव्याप्ति- वारणाय गुरुत्वाजलेत्यादि विशेष्यदलम् । गुरुत्व नैमित्तिकद्रवत्वयोर्वारणाय गुरुत्व इत्यादि । सांसिद्धिकद्रवत्वसंग्रहाय अजल इति । संयोगादि- वारणाय सत्यन्तं दलम् । भावनायामव्याप्तिवारणायाद्यम् अन्यान्तं सत्य- न्तघटक समवायिविशेषणम् । सत्तादिकमादायासंभववारणाय स्पर्शसंग्रहाय च स्पर्शावृत्ति इति ( दि० गु० पृ० १९३) । <विशेषणम्> १ विशेषणतावत् । विशेषणता च द्विविधा । तत्र प्रथमा यथा घटाभाववद्भुतलमित्यत्र घटाभावे विशेषणता । इयं विशेषणता च स्वरूप- संबन्धरूपः संनिकर्षविशेषः ( नील० १ पृ० १९ ) ( मू० म० १ ) । इयमभावप्रत्यक्षे हेतुर्भवति इति ध्येयम् । यथा घटाभाववद्भुतलम् इति चाक्षुषप्रत्यक्षे हेतुभूतो भूतलांशे घटाभावस्य विशेषणतारूपः संनि कर्षः । अत्र अभावस्य स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपम् तदेव विशेषण- त्वम् इति ज्ञेयम् (त० मा० पृ० २० ) । सा च विशेषणता पुनः द्विविधा इन्द्रियाविशेषणता इन्द्रियसंनिकृष्टविशेषणता च । आद्यया शब्दा भावो गृह्यते । अन्त्यया भूतलादौ घटाभावो गृह्यते ( न्या० म० १) । स्व. रूपसंबन्धावच्छिन्नाधेयतारूपा वेयं विशेषणता ( नील० १पृ० १८) । यथा नैयायिकमते विशेषणतया समवायस्य प्रत्यक्षम् इत्यादौ विशेषणता । वैशेषिकमते तु समवायो न प्रत्यक्ष इत्यन्यत् । द्वितीया विशेषणता यथा नीलो घट इत्यादौ नीलत्वे विशेषणता । इयं विशेषणता तु त्वम् ( दि० ४ ) । यथा दण्डवान् पुरुषोस्तीत्यादौ दण्डस्य विशेषणता। ताख्यो विषयताविशेषः । अथ वा तत्पदजन्यबोधविषयत्वेन शक्तिविषय- अत्रेदमधिकं विज्ञेयम् । विशेषणतावच्छेदकं तु विशेषणे यद्विशेषणम् त ( मु० ) । यथा दण्डवान्पुरुष इत्यत्र दण्डत्वं विशेषणतावच्छेदकम् ३ व्यावर्तकम् प्रकारो वा विशेषणं भवति । तत्र प्रत्याय्यव्यावृत्त्यधिकरणता । अत्र व्युत्पत्तिः विशिष्यते भिद्यते अनेन ( ल्युट् ) इति विशेषणम् भेदकम् // वच्छेदकं व्यावर्तकम् । समुदायार्थस्तु यव्यावृत्यधिकरणतावच्छेदकं तदेव / तत्र विशेषणम् इति । व्यावृत्तिरन्योन्याभावः (मु० म० १ पृ० दण्डी पुरुषः इति ज्ञानानन्तरं दण्डवत्यदण्डव्यावृत्तिरवगम्यते इति (चि० १ पृ०८३४) इति । अथ वा विवक्षितान्वयप्रतियोगितावच्छेदकम् // प्रत्याय्यव्यावृत्त्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते इति दण्डो विशे षणम् । तदादुराचायो: सदसद्वा समानाधिकरणं व्यवच्छेदकं विशेषणम् यथा दण्डिनमानयेत्यादौ दण्डो विशेषणम् । यदन्विततया ज्ञात एव यस्यावश्यमन्वयः तदवच्छेदकम् । यद्ध्यावर्तकं विशेष्यान्वयिनान्दीयते तत् । तात्पर्यविषयान्वयप्रतियोगी धर्मः । उद्देश्यान्वयप्रतियोगी धर्मों का (चि० १ पृ० ८३४-८३८) । अत्रेदं बोध्यम् । विद्यमानं सा विशेष्ये तात्पर्यविषयेतरान्वयधीः तद्व्यवच्छेदकम् । वर्तकम् विशेषणम् । यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिर्विशेषणम् (ग० व्यु० का० ३ पृ० ९२ ) । यथा वा यदा देवदत्तगृहे काकवत्ता तदा काको विशेषणम् (बै० उ० ७७२१८ ) । अयं भावः । यत्राश्रये यत्कालीना वृत्तिः प्रत्याय्या तत्कालीनतदधिकरण- वृत्तिर्विशेषणम् । अन्यदुपलक्षणम् । एवं च काककालीनगृहव्यावृत्तिपरे प्रयोगे काको विशेषणमेव । सामान्यतो गृहविशेषव्यावृत्ति परे प्रयोगे तु उपलक्षणमेव सः इति निष्कर्षः (प० च० पृ० ५० ) । विशेषणं त्रिविधम् व्यावर्तकम् विधेयम् हेतुगर्भ चेति । तत्राद्यम् नीलो घट इत्यादौ नीलः । द्वितीयं यथा पर्वतो वह्निमानस्ति इत्यादौ वह्निर्विधेयः । यथा वा न्यक्कारो ह्ययमेव मे यदरयः ( हनुमन्नाट ० ) इत्यादौ न्यक्कारो विधेयः । तृतीयं च स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् (रघु० २११२) इत्यादौ मारुतपूर्णरन्ध्रत्वं हेतुगर्भे विशेषणम् । यथा वा सुरापः पतति इत्यादौ सुरापानं हेतुगर्भ विशेषणम् । <विशेषणविशेष्यभावः> १ (इन्द्रियार्थसंनिकर्षः) स्वरूपसंबन्धावच्छिन्ना- धाराधेयभावः ( नील० १ पृ० १८) । यथा घटाभाववद्भुतलम् इत्याद्यभावप्रत्यक्षे कारणभूतो विशेषण विशेष्यभावः संनिकर्षः । अत्रा- धिकं तु इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसरे संपादितम् तत्र दृश्यम् । २ विषयताविशेषः । यथा दण्डी पुरुषः इति शाब्दबोधे दण्डपुरुषयो- विशेषणविशेष्यभावः । अत्र विग्रहः विशेषणं च विशेष्यं च विशेषण- विशेष्ये । तयोर्भावः इति । निरूप्यनिरूपकभावापन्नं विशेषणत्वं विशे- ष्यत्वं चेत्यर्थः । <विशेषणासिद्धः> ( हेत्वाभासः ) यो हेतुः स्वघटक विशेषणविशिष्टः सन्पक्षे न तिष्ठति न सिद्ध्यति च सः । यथा शब्दो नित्यः द्रव्यत्वे सत्यस्पर्श- त्वात् इत्यत्र हेतुर्विशेषणासिद्धः । अत्र द्रव्यत्वविशिष्ट स्पर्शत्वं हेतुः । स च शब्दे नास्त्येव । अस्पर्शत्वरूप विशेष्यस्य शब्दे सत्वेपि द्रव्यत्व- रूपविशेषणस्य बाधात् इति बोध्यम् । अत्र विशेषणेनासिद्धः इति विग्रहः । स च विशेषणासिद्धः स्वरूपासिद्धप्रभेदः (त० मा० पृ० ४६) । <विशेषविधिः. सामान्यविशेषयोर्मध्ये विशेषे विधानम् । यथा ब्राह्मणेभ्यो दधि दीयताम् कौण्डिन्याय तक्रम् इत्यत्र कौण्डिन्यस्य ब्राह्मण विशेषत्वेन तद्विषये दधिदानापवादेन तऋदान विधिर्विशेष विधिर्भवति। अत्रोच्यते अल्प: स्याद्विषयो यस्य स विशेष विधिर्मतः ( व्या० का० ) इति । विशेषसमः- ( जाति: ) धर्मेणैकेन केषांचिदविशेष प्रसञ्जनम् । साधन- प्रतिबन्धाय स विशेषसमो मतः ॥ ( ता० २० परि० २ श्लो० १२१)। अत्रापेक्षणीयोदाहरणादिकं तु अविशेषसमः इति शब्दव्याख्याने ( पृ० (९५) यत् प्रदर्शितम् तदेवात्र ग्राह्यम् । अत्र धर्मेणैकेनेत्युक्तश्लोके अविशेषसमः इत्यपि पाठः । <विशेषितम्> १ विशिष्टम् । यथा याप्यते ग्राममजा इत्यादौ स्वनिर्वा कर्तृतानिरूपकत्व संबन्धेन व्यापारविशेषितधात्वर्थः कर्तृत्वेन्वेति (ग 1. व्यु० का० २ पृ० ४८) इत्यादौ विशेषितशब्दस्यार्थो विशिष्टं भवति । २ भेदितम् । ३ विशेषयुक्तम् । <विशेष्यः> विशेष्यतावान् । यथा भूतले घटो नास्ति इति प्रत्यक्षे भावो विशेष्यः । अत्र विशेष्यता च स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः संनिकर्षविशेषः ( नील० १ पृ० १८ ) । स्वरूप संबन्धावच्छिन्नाघेयता- संसर्गावच्छिन्नप्रकारता निरूपित विशेष्यता इति तु वयं ब्रूमः । यथा वा नीलो घटः इत्याकारकशाब्दबोधे घटो विशेष्यः । अत्र इयं विशेष्यता तत्तज्ज्ञानीयो यत्किंचित्प्रकारतानिरूपितः संसर्गताभिन्नो विषयताविशेषः केनचिदपि संबन्धेनावच्छिन्ना न भवति इति वदन्ति । विशेष्यता च इति केचित् । भासमानवैशिष्ट्यानुयोगित्वमिति संप्रदाय: (कु० ४) । अत्र वैशिष्ट्यं च संबन्ध विशेषः । अत्रेदमवधेयम् । मध्यवर्तिविषयतयों रैक्यमेव इति जगदीशचक्रवर्तिनः पक्षः । मध्यवर्तिविषयतयोर्भेद एवेति गदाधरभट्टाचार्याणां पक्षः । यथा हि दण्डवान् पुरुष इत्यत्र पुरुष दण्ड: प्रकार: दण्डे च दण्डत्वं प्रकारः इति स्थितिः । एवं च दण्डव निष्ठप्रकारतानिरूपिता विशेष्यता पुरुषनिष्ठविशेष्यतानिरूपिता प्रकारता च एतद्वयं दण्डे तिष्ठति । तथा च मध्यवर्तिनोस्तयोद्वयोर्विषयतयोस्क्यम् इति जगदीश आह । गदाधरमते तु तयोर्भेद इत्यवच्छेद्यावच्छेदकभावः स्वीकर्तव्यः । स चेत्थम् । दण्डत्वनिष्टप्रकारतानिरूपित विशेष्यत्वावच्छिन्ना या पुरुषनिष्ठविशेष्यतानिरूपिता दण्डनिष्ठा प्रकारता तद्वान् दण्डो भवतीति । एवं वैपरीत्येनापि पुरुषनिष्ठविशेष्यतानिरूपित दण्ड निष्ठप्रकार- त्वावच्छिन्ना या दण्डत्वनिष्ठप्रकारतानिरूपिता दण्ड निष्ठविशेष्यता तद्वान् दण्डो भवतीति । <विशेष्यता> व्यावर्साभाववत्तैव भाविकी हि विशेष्यता ( सर्व० सं० पृ० ४४२ शां० ) । <विशेष्यासिद्धः> ( हेत्वाभासः ) यो हेतुः स्वघटक विशेष्य विशिष्टः सन्पक्षे न तिष्ठति न सिध्यति च सः । यथा शब्दो नित्यः अस्पर्शत्वे सति द्रव्यत्वादित्यादौ हेतुर्विशेष्यासिद्धः । अत्र अस्पर्शत्वविशिष्टं द्रव्यत्वं हेतुः । सच शब्दे नास्त्येव । शब्दे अस्पर्शत्वरूपविशेषणस्य सत्त्वेपि द्रव्यत्वात्म- कस्य विशेष्यस्याभावात् इति । अत्र विग्रहः विशेष्येणासिद्धः इति । स च "विशेष्यासिद्धः स्वरूपासिद्धप्रभेदः (त० मा० पृ० ४६ )। <विशोका> ( सिद्धि ) सर्वभावाधिष्ठातृत्वादिरूपा ( सर्व० सं० पू० ३८५ पात० ) । <विश्वासः> १ वञ्चकत्वाभावसंभावना । यथा न विश्वसेदविश्वस्तम् (पञ्च- त० ) इत्यादौ । २ इदमित्थम् इत्याकारश्चित्तवृत्तिविशेषः इत्येके बदन्ति । <विषय:> १ विषयतावान् । यथा अयं घटः इति ज्ञाने घटत्वम् विषयः । जगत् प्रमेयम् इति ज्ञाने प्रमेयत्वेन जगद्विषयः । विषयता चात्र विषयः इत्या कारकप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः ( न्या० म० ख० १ पृ० ४ ) । घटो ज्ञानविषयः पटो ज्ञानविषयः इत्यनुगतप्रतीतिसाक्षिको ज्ञान विषयस्वरूपसंबन्धविशेषः इत्यर्थः ( त० प्र० ) । अत्र ज्ञानविषयत्वं च ज्ञानसंबन्ध एव इति । इयं विषयता त्रिविधा विशेष्यता प्रकारता संसर्गता चेति । यथा अयं घटः इति प्रत्यक्षे घटत्वे प्रकारता इदम विशेष्यता समवायादौ संबन्धे च संसर्गता (कु० ४ ) ( त० प्र० ) इति । विषयता च पदार्थान्तरमेव । तथा च विषयता विषयिता च न स्वरूप- संबन्धविशेषः किंतु सप्तपदार्थातिरिक्तैव इत्येकदेशिन आहुः । भट्टास्तु ज्ञातो घटः इति प्रतीतिसिद्धा ज्ञानजन्या विषयनिष्ठा प्राकट्यापरनाम्नी पदार्थ ज्ञातता सैव च विषयता ज्ञानविषययोः संबन्धरूपा इत्याहुः (प० मा० ) ( न्या० म० १ ४ ) । विषयता ज्ञानादिवत् सविषयका प्रसिद्ध विषयतातोन्या इत्यतिरिक्तविषयतावाद्याह ( दीधि० हेत्वाभा बाघ० पृ० २१८ ) । विषयो हि द्विविधः अपरोक्षः परोक्षश्चेति । तत्राद्यः प्रत्यक्षस्य विषयः । द्वितीयस्त्वनुमानस्य विषयः शब्दस्य विषयश्च ( प्र० च० पृ० ४१ ) इति । २ प्रतीयमानभोगसाधनम् । यथा अनित्य- पृथिवीजलतेजोवायुभागो द्व्यणुकादिर्विषयः । विषयता चात्र साक्षात्कार विषयकार्यद्रव्यत्वम् । वस्तुतस्तु लौकिकसाक्षात्कार विषयत्वमेव द्रव्यगुणकर्म सामान्याभावसाधारणं विषयत्वम् ( वै० उ० ४/२/१ पृ० २०९ ) । अथ वा साक्षात्परंपरया वोपभोगसाधनत्वे सति ज द्रव्यत्वम् (वै० वि० ४।२।१ ) । अत्रायं नियमः यच्च कार्यं यददृष्टा- धीनम् तत् तदुपभोगं साक्षात्परंपरया वा जनयत्येवेति (मु० यद्वा शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वम् (वाक्य ० १ पृ० लौकिक- जात् । स एव कल्पते मुक्त्यै नान्यः ज्ञायमानवे सति आत्मनो भोगसाधनत्वम् ( त० कौ० ) इति वा । ३ ग्रन्थस्य प्रतिपाद्योर्थो विषय: ( म० प्र० ४ ) । ४ पौराणिकास्तु इन्द्रियजन्यज्ञानविषयः । यथा शब्दस्पर्शरूपरसगन्धा विषयाः इत्यागः / अत्रार्थे विग्रहः विषण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबनन्ति वा विषयाः इति । अत्रोच्यते विषयाशामहापाशाद्यो विमुक्तः सुदुस्य- षट्शास्त्रवेद्यपि ॥ (विवेकचूडा-/ मणौ ) इति । ५ नियामकः इति भट्ट आह । अत्रार्थे व्युत्पत्ति ? विषयोतो नियामकः ॥ ( भट्टका० ) इति । ६ आलंकारिकास्तु यति विशब्दो हि विशेषार्थ: सिनोतिर्बन्धनार्थकः । विशेषेण सिनोतीति पाश्रयः । यथा गौर्वाहीक इत्यादौ वाहीको विषयः इत्याहुः ( काव्यप्र०) उ० २ ) । ७ मीमांसकाश्च [क] अधिकरणावयवविशेषो विचाराई- वाक्यम् । ख आपाततः प्रतीतः संदिग्धोर्थो विषयः (जै० न्या० अ० १ पा० १ अधि० १) इत्याहुः । अत्रोच्यते विषयो विशयमेव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति शास्त्रेस्मिन् पञ्चाधिकरणं स्मृतम् ॥ ( मीमांसा० ) इति । निर्णयः सिद्धान्तः । ८ देशः इति काव्यज्ञा आहुः । <विषय> १ विषयितावत् । यथा विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ( भा० प० श्लो० ६६ ) इत्यादौ ज्ञानं विषयि भवति । अत्रार्थे व्युत्पत्तिः विषयोस्त्यस्य स्वनिष्ठविषयता निरूपितविषयितावत्वसंबन्धेन इति विषय । इयं विषयितापि ज्ञानेच्छाकृतिभावनान्यतमनिष्ठा विषयतावत्व- रूपसंबन्धविशेषः । विषयिता च नियमेन विषयतानिरूपिता भवति इति वस्तुस्थितिः । अत्रेदं बोध्यम् । विषयितापि त्रिविधा विशेषणतानिरूपिता प्रकारिता संसर्गतानिरूपिता संसर्गिता विशेष्यता निरूपिता विशेषियता चेति। यथा घटबद्भूतलम् इति ज्ञाने घटनिष्ठप्रकारता निरूपिता प्रकारिता संयोगनिष्ठसंसर्गतानिरूपिता संसर्गिता भूतलनिष्ठविशेष्यतानिरूपिता विशेष्यिता एताः प्रकारितासंसर्गिताविशेषियताः सन्ति इति । सर्वत्रैव- मेवोह्यम् । अत्रेदमधिकं विज्ञेयम् । गदाधरादीनां मते विषयितात्रैविध्याङ्गी- कारेण विषयितैव अनुमित्यादि प्रतिबन्धकतावच्छेदिका हेत्वाभासलक्षणादौ भवति । जगदीशचक्रवर्तिमते तु त्रिविध विषयता निरूपिताया अप्येकस्या एव विषयिताया अभ्युपगमेन विषयतैव निरूपकतासंबन्धेन तादृश- प्रतिबन्धकतावच्छेदिका भवति इति मतभेदो द्रष्टव्यः । ययोर्विषयतयो- र्निरूप्यनिरूपकभावः तन्निरूपितविषयितयोरेवावच्छेद्यावच्छेदकभावः इति सिद्धान्तोप्यङ्गीकर्तव्यः । तेन तद्वद्विशेष्यकतःप्रकारकत्वरूपस्य तद्व- द्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वपर्यवसन्नस्य यथार्थज्ञानलक्षणस्य रङ्गत्वेन रजतावगाहिनि रजतत्वेन च रङ्गावगाहिनि इमे रङ्गरजते इत्याकारक- समूहालम्बनभ्रमे यथाश्रुतस्य तद्वद्विशेष्यकतत्प्रकारकत्वस्य (रङ्गविशेष्यक- त्वरङ्गत्वप्रकारकत्वयोः रजतविशेष्यकत्वरजतत्वप्रकारकत्वयोश्च ) सत् रङ्गत्वप्रकारतायां रङ्गविशेष्यता निरूपितत्वस्य रजतत्वप्रकारतायां च रजत- विशेष्यतानिरूपितत्वस्य चासत्वेन रङ्गविशेष्यकत्वावच्छिन्नरङ्गत्वप्रकारक- वरजतविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वयोरभावात् तादृशभ्रमे नाति- व्याप्तिः (नील० १ पृ० १५) । २ इन्द्रियम् । अत्रार्थे स्वविषयक- १०० न्या० को० ज्ञानजनकत्वसंबन्धेन विषयोस्त्यस्य इति विषयि इत्यनुसंधेयम् । ३ विषया- सक्तः इत्यालंकारिका आहुः । ४ राजा विषयी इति काव्यज्ञा वदन्ति । <विषवेगः. धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः ( याज्ञ० स्मृ० टी० मिता० २।१११ ) । <विषादः> [ क ] इष्टनाशकृतो मनोभङ्गः ( रघु० टी० मल्लि० ) । विषादलुप्त प्रतिपत्ति विस्मितम् ( रघु० ३।४० ) इत्यादौ । तदुक्तम् विषादचेतसो भङ्ग उपायाभावनाशयोः ( रघु० स० ३ श्लो० ४० टी० ) इति । [ ख ] वेदान्तिनस्तु मोहनिमित्ताच्छोकाद्यन्मनोदौर्बल्यम् यस्मिन् सति सर्वव्यापारोपरमो भवति स विषाद इत्याहुः ( गीता अ० १ श्लो० २८ भाष्ये राघवेन्द्र ) । <विष्टम्भः> १ [ क ] प्रतिबन्धः । [ ख ] कचित् उत्तरदेशगति प्रतिबन्ध ( गौ० वृ० ४।२।२० ) । यथा अव्यूहाविष्टम्भविभुत्वानि चाकाश- धर्माः (गौ० ४।२।२० ) इत्यादौ विष्टम्भः । २ रोगविशेषः इति भिषज आहुः । <विष्टुतिः> तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया । तिसृभ्यो हिंकरोति स उत्तमया इति सूक्तत्रयपठितानां नवानासूचां गानं त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वाद्यास्तित्र ऋचः / द्वितीये पर्याय मध्यमाः । तृतीये पर्याये चोत्तमाः । सेयं यथोक्त प्रकारो पेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकार विशेष: ( जै० न्या० अ० १ <विष्णु:> द्वादशी ( कामशब्दे दृश्यम् ) । <विष्णुशृङ्खलः> द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदा । स एव पा० ४ अधि० ३)। योगो विष्णुशृङ्खलसंज्ञितः ॥ (पु० चि० पृ० २१६) । <विसंवादः> १ समयविरुद्धवादः । २ अन्यथास्थित वस्तुनोन्यथा- ४ विप्रलम्भः ( वञ्चनम् ) इति काव्यज्ञा वदन्ति । कथनम् । ३ प्रमाणानुसरणाभावः इति केचिदाहुः (वाच० ) / <विसर्गः. १ त्यागः । २ शाब्दिकास्तु विसर्जनीयाख्यो वर्णविशेष इत्याहुः । ३ सूर्यस्यायनविशेषः इति ज्योतिर्विद आहुः । ४ प्रलयः । ५ विशेष- सृष्टिश्चेति पौराणिका आहुः । <विस्तर:> पञ्चानां पदार्थानां प्रमाणतः पञ्चाभिधानम् ( सर्व० सं० पृ० १७१ नकु० ) । <विहितत्वम्> [क] इष्टसाधनत्वेन वेदबोधितत्वम् ( वाक्य० गु० पृ० २१ ) । यथा स्वर्गकामो यजेत इत्यादौ यज्ञादि कर्मणो विहितत्वम् । यथा वा नैयायिकानां मते अहरहः संध्यामुपासीत इत्यादौ संध्योपास- नाया विहितत्वम् । एतन्मते संध्योपासनाया दुरितनिवृत्त्यादि फलमङ्गी- कृतम् इति विहितत्वं संगच्छते । अत्र वेद इत्युपलक्षणम् । तेन वेदमूलक- स्मृत्याद्यपि संगृह्यते । [ख ] बलवदनिष्टाननुबन्धित्वेन वेदबोधितस्त्वम् इति मीमांसका आहुः ( मू० म० १ ) । एतन्मते नित्यकर्मणां फला- भावेनेष्टासंभवेपि बलवदनिष्टाजनकत्वरूपलक्षणदलस्य समन्वयो भवति । शिष्टं तु विधिशब्दव्याख्याने द्रष्टव्यम् । [ग] धर्मापादकत्वम् इति केचिदाडुः । <वीतम्> १ अनुमानविशेषः । अन्वयमुखेन प्रवर्तमानमनुमानम् इत्यर्थः ( सांख्य० कौ० कारि० ५ पृ० १० ) । २ युद्धासमर्थ सैन्यम् इति नीतिशास्त्रज्ञा आहुः । ३ शान्तम् । ४ गतं चेति काव्यज्ञा आहुः । <वीप्सा> [क] सकलधर्मिप्रत्यायनेच्छा । यथा – कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यो लक्ष्मीमथ मयि भृशं घेहि देव प्रसीद । यद्यपापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ ( मालतीमाघ ० ११३ ) इत्यादौ यत्पदे वीप्सा ( ग० २ अवय० हेतु० पृ० ७४ ) ( चि० २ अव० पृ० ८१ ) । यथा वा- यां यां प्रियः प्रैक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव ( माघ ० स० ३ श्लो० १६) इत्यादौ यत्तत्पदयोर्वीप्सा । [ख ] व्याप्तेर्व्यापक- त्वस्य वा बोधनेच्छा । यथा यो यो धूमवान्स वह्निमान् इत्यत्र यत्पदे वीप्सा । अत्रेदं बोध्यम् । नित्यवीप्सयोः (पाणि० ८।१।४) इत्यनेन विहिताया द्विरुक्तेर्नित्यतया यत्पदे द्विरुक्तिसत्त्वेपि तथा तत्पदे द्विरुक्तेः साधुत्वेपि च न्याये प्रयुज्यमानेधिकस्यानपेक्षितत्वेन तत्पदे द्विरुक्ते• नावश्यकत्वम् ( ग० २ हेतु० पृ० ७४) इति । अत्र च वीप्सया महानसं घूमवद्वह्निमञ्च महानसान्यद्धमवद्वह्निमञ्च इति वाक्यार्थचतुष्टय विषयकबोधः धूमवान्धूमव्यापकवह्निमान् इति विशिष्टैकार्थबोधो वा जायते इति बोध्यम् (ग० २ अव० न्यायलक्ष० पृ० ६) । अत्र वीप्साप्रयो- जनं च क्वचिद्व्यभिचारधीवारणमिति प्राञ्च आहुः । उद्देश्यमानसव्याप्ति- ज्ञानविरोधिव्यभिचारधीवारणम् इत्यर्थः । तथा चायं भावः । यावद्धेत्व- धिकरणे साध्यवस्त्वनिश्चये तेन व्यभिचारशङ्कानिवर्तनेन साधनाधिकरणे साध्याभाववत्त्वरूपव्यभिचारग्रहप्रतिबन्धो भवति । [ग] द्रव्याणामभिधानमेव वीप्सार्थः इति महाभाष्यकार: पतञ्जलिराह । <वीरुत्> छिन्ना अपि या विविधं प्ररोहन्ति ता लता: गुडूचीप्रभृतयः । <वृत्तिः> १ [ क ] शाब्दबोधहेतुपदार्थोप स्थित्यनुकूल: पदपदार्थयोः संबन्धः । ( चि० ४ ) (मु० ४ पृ० १७४ ) । सा च पदवृत्तिः इत्युच्यते इति विज्ञेयम् (ग० शक्ति० पृ० २) । अत्र वृत्तित्वं च शक्तिलक्षणान्यतर त्वम् ( त० प्र० ख० ४ पृ० ३४ ) । परे तु शाब्दबोधजनकपद- पदार्थसंबन्धत्वम् इत्याहु: ( ल० म० स्फोट० पृ० १३) / अत्रेदं बोध्यम् । वृत्तिस्तात्पर्यनिर्वाहिका भवति । तात्पर्य चात्र त्रिविधम् औत्स र्गिकम् आपवादिकम् नियतं चेति । तत्राद्यम् शक्तिं कल्पयति । द्वितीयम् लक्षणां कल्पयति । यथा गङ्गापदस्य मुख्यार्थान्वयबाधे तीरादौ घटादिपदप्रयोक्तरुत्सर्गतो घटादावेव तात्पर्यमस्ति इति तस्य तत्र शक्तिः ॥ तात्पर्यग्रहो भवति इति तस्य तत्र लक्षणा । तृतीयम् निरूढिलक्षण। नियमात्तत्र निरूढिलक्षणा । यथा कटं करोतीत्यादौ कटशब्दस्य कटा- कल्पयति । निरूढलाक्षणिकस्यानुपपत्तिज्ञानमन्तरापि लक्ष्ये तात्पर्यग्रह अनुपपत्तिज्ञानविरहेपि कटावयवान् कटवत्तया करोति इति ततो बोधात्॥ वयवे । कटस्य सिद्धत्वे करणं न संभवति असिद्धे च कर्मत्वं न इति । अथ वा वह्निमान्धूमादित्यादौ हेतुपदे तज्ज्ञाने निरूढिलक्षणा ( म०प्र० ख० ४ पृ० ४०-४१ ) । शाब्दिकमते वृत्त्या संस्कारो जन्यते । संस्कारकल्पिका च वृत्तिस्मृति: शाब्दबुद्धिरेव वा इति ज्ञेयम् ( ल० म० स्फोट० पृ० २ ) । [ख ] शक्तिलक्षणान्यतरात्मकः संबन्धः (मु० ४ ) ( दि० ४ पृ० १७४ ) ( न्या० बो० ) । यथा घटपदस्य कम्बुग्रीवादिमत्यर्थे वृत्तिः ( शक्तिः ) । [ग] शाब्दिकास्तु शाब्दबोध- प्रयोजकस्तत्तदर्थनिरूपितः शब्दधर्मः इत्याहुः ( ल० म० स्फोट० पृ० २ ) । न्यायमते वृत्तिर्द्विविधा संकेतः लक्षणा चेति ( ग० शक्ति ० ) ( तर्का ० ४ पृ० १० ) । प्रकारान्तरेण वृत्तिद्विविधा मुख्या गौणी च । तत्राद्या शब्दशक्तिः । सैव संकेत इत्युच्यते । द्वितीया तु लक्षणा इति । प्राचीनशाब्दिकमते योगादिभेदात् षड़िधा शब्दवृत्तिः । वृत्तिभेदाच शब्दभेदः। तदुक्तम् यौगिको योगरूढश्च शब्दः स्यादौपचारिकः । मुख्यो लाक्षणिको गौणः शब्दः षोढा निगद्यते ॥ ( म० प्र० ४ पृ० ४१-४२) इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राञ्चो नैया- यिका आहुः । सा च लक्षितलक्षणा जहल्लक्षणैव नातिरिक्ता वृत्तिः इति नव्या आहुः । व्यञ्जनाख्यं तृतीयमपि वृत्त्यन्तरमैच्छन्नालंकारिकाः शाब्दिकाश्च । तदुक्तम् वाच्योर्थोभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य वृत्तयः ॥ ( सा० द० परि० २ श्लो० ११) इति । तत्र व्ययोर्थो यथा-गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शुभाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यादौ व्यञ्जनया वृत्त्या प्रियाया मरणम् । अत्र हे प्रिय तव गमनोत्तरं मे प्राणवि- योगो भविष्यति अतो न गन्तव्यम् इत्यर्थो व्यज्यते । नैयायिकास्तु गच्छसि इत्युक्तेः मागाः इति तात्पर्यमुन्नीयते संभाव्यते वा न तु मा गाः इति निर्णीयते इति कृतं वृत्त्यन्तरेण इत्याहुः (न्या० म० ४ पृ० १७) । अत्र अधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । गौणीं वृत्त्यन्तरमैच्छ- न्मीमांसकाः । यथा अग्निर्माणवकः इत्यादौ माणवकेमिसादृश्यबोधा- द्रौणी वृत्त्यन्तरमेव (सि० ० ४ पृ० ३१ ) । यथा वा यज- मान: प्रस्तरः इत्यादौ यजमानशब्दः स्वार्थनिष्ठयागसाधकत्वरूपगुण- योगात् प्रस्तरे प्रयुक्तो यजमानकार्यकारणत्वेन प्रस्तरमुपस्थापयति । यथा वा सिंहो माणवकः इत्यादौ सिंहशब्द: स्वार्थनिष्ठचापल्यादिगुणयोगा- न्माणवकं तेन रूपेणोपस्थापयति । तथा च तन्मते शक्तिलक्षणाभ्यामति रिक्तैव गौणी वृत्तिः ( म० प्र० ४ पृ० ४१ ) । शक्यस्य साक्षात्संबन्ध एव लक्षणा न तु परंपरासंबन्धरूपा । तेन गङ्गायां घोषः इत्यत्र शक्यस्य प्रवाहस्येव अग्निर्माणवकः इत्यादौ माणवके शक्यस्याग्नेः साक्षा संबन्धो न संभवति इति सादृश्यात्मकस्य परंपरासंबन्धस्यातिरिक्तवृत्ति- त्वमङ्गीकर्तव्यम् इति मीमांसकानामभिप्रायः । नैयायिकास्तु तन्न सहन्ते । शक्यस्य साक्षात्संबन्धस्येव परंपरासंबन्धस्यापि लक्षणात्वस्वीकारे क्षति- विरहागौण्या न वृत्त्यन्तरत्वम् । तथा च अग्निर्माणवकः इत्यादौ लक्ष्य- माणगुणसंबन्धरूपा लक्षणैव ( वेदा० प० ) । तदर्थश्च लक्ष्यम यो गुणः शुचित्वादिः तत्संबन्धरूपा इति । तथा च अग्निर्माणवकः इत्यादौ शक्यस्याग्नेः स्वनिष्ठशुचित्ववत्त्वसंबन्ध एव लक्षणा ( नील दिनः तार्किकाः । तेषामयमाशयः । अभिधाया एकैकपदार्थबोधेन पृ० ३० ) । वाक्यार्थबोधने तात्पर्याख्यां वृत्तिमङ्गीचकुरभिहितान्वयवा- विरमात् वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पर्याख्या वृत्तिरी कर्तव्या । तदुक्तम् तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ( सा० ५० उ०२ श्लो०२०) इति । २ संनिकर्षः । ३ ज्ञानम् (वात्स्या० १/१/३) ४ आधेयत्वम् । यथा भूतलवृत्तिर्घटः इत्यादौ घटे भूतलाधेयत्वम् / यथा वा सिद्धान्तसिद्धव्याप्तिस्वरूपे निरूपणीये हेतुमति निष्ठा वृत्तिर्यस्य स तथा विरहः अभावः इत्यादौ वृत्तिशब्दस्यार्थ आधेयत्वम् (मु० पृ० १४० ) । ५ आधेयतावान् । यथा तत्र वृत्तिर्यः अभावः इत्यादौ । यथा वा सपक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् (भा०प० २ श्लो०७१) इत्यादौ वृत्तिशब्दस्यार्थ आधेयतावान् । ६ वैयाकरणास्तु विग्रहवाक्यार्थी- भिधानम् परार्थाभिधानं वा वृत्तिः ( महाभा० ) । यथा राज्ञः पुरुष इत्यत्र राजपुरुषः इति समासो वृत्तिः । ताश्च वृत्तयः कृत्तद्वितसमासेक शेषसनाद्यन्तधातवः पञ्च इत्याहुः । परार्थाभिधानमित्यस्यार्थस्तु पर शब्दस्योपसर्जनार्थकस्य यत्र शब्दान्तरेण प्रधानार्थक विशेषणत्वेन ग्रहणम् सा वृत्तिः । अथ वा परार्थस्य प्रधानार्थस्याप्रधान - पदैर्यत्र स्वार्थविशेष्यत्वेन ग्रहणं सा वृत्तिः । राजपुरुष इत्यत्र पुरुषपदेन वाक्यावस्थायामनास्कन्नो राजार्थो राजपदेन वा पुरुषार्थ आस्कन्द्यते । तत्संवलितः स्वार्थ उपस्थाप्यत इति यावत् ( ल० म० वृत्तिनि० पृ० ८ ) । अत्रेदं विज्ञेयम् । वृत्तिविषयं समर्थः पदविधिः (पाणि० २११।१ ) इति सूत्रम् । सामर्थ्य चात्रैकार्थीभावः । पृथगर्थानामेकार्थीभावः साम- र्थ्यम्। राज्ञः पुरुषः इति वाक्ये पृथगर्थानि पदानि राजपुरुषः इति समासे एकार्थानि इति भाष्यात् । एवं च यत्किंचित्पदजन्यपृथगुपस्थितिविषयार्थ- कत्वेन लोकदृष्टानां विशिष्ट विषयैकशक्त्यैकोपस्थितिजनकत्वमे कार्थीभावः इति फलितम् ( ल० म० वृत्तिविचा० पृ० १ ) ( काशिका २।१।१ ) । ७ सांख्यास्तु महदादीनामिन्द्रियाणां च व्यापारो वृत्तिः । यथा अध्य- वसायो ( बुद्धेर्वृत्तिः ) बुद्धिः ( सां० सू० २ । १३ ) इत्यादौ इत्याहुः । तत्रोक्तम् रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादान- विहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ (सांख्य० का० श्लो० २८ ) इत्यादि । अत्र योगशास्त्र प्रवर्तकः पतञ्जलि: सूत्रयामास वृत्तयः पञ्चतय्य: किष्टा अक्लिष्टाः। प्रमाणविपर्यय विकल्पनिद्रास्मृतयः ( योगसू ० १ । ६-७ ) इति । ८ अन्तःकरणपरिणामो वृत्तिः इति मायावादिनो वेदान्तिन आहुः । अन्तःकरणवृत्तेः स्वरूपप्रयोजनादिकं यथा । यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणायाकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटांदिविषयदेशं गत्वा घटादिविषया- कारेण परिणमते । स एव परिणामो वृत्तिः इत्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्यादिदेशगमनम् । वह्यादेश्वक्षुराद्यसंनिकर्षात् । इन्द्रियजन्यवृत्तिश्चावरणभङ्गार्था संबन्धार्था इति मतद्वैधम् ( वेदा०प० परि० ७ )। ९ साहित्यशास्त्रज्ञास्तु नाटकादौ रचनाविशेषो वृत्तिः । सा च ' कैशिकी सात्वती भारती आरभटी इत्येवं चतुर्विधा इत्याहुः । तदुक्तम् शृङ्गारे कैशिकी वीरे सावत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ चतस्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृका: ( सा० द० परि० ६ श्लो० १२२, १२३ ) ( प्रतापरुद्रे० प्रक० २ जीविका वृत्तिः इत्याहुः । ब्रह्मवृत्तिं हरेत्तु यः । स पृ० ८-९) इति । १० व्यवहारशास्त्रज्ञास्तु वृत्तिहरणे निन्दा दृश्यते खदत्तां परदत्तां वा कृतघ्न इति ज्ञेयः फलं तच्छृणु भूमिप ॥ यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः । तावद्वर्षसहस्रं च वृतपाके स तिष्ठति ॥ ( ब्रह्मवै० म० अ० ४९ ) इत्यादि । ११ स्थितिः । १२ विवरणं चेति काव्यज्ञा आहुः । १३ पञ्चमललघुकरणार्थं मानामानविरोधिनोन्नार्जनोपाया वृत्तयो भैक्ष्यो- सृष्टयथा लब्धाभिधाः ( सर्व० सं० पृ० १६४ नकु० ) इति । <वृत्तिनियामकसंबन्धः> ( संबन्धः ) अविशिष्टव्यावृत्त विशिष्टधीनियामक संबन्ध: ( चि० खण्ड० १ समवायवादः पृ० ६५२ ) । आधारत्वा- भूतलयोः संयोगो वृत्तिनियामकः । यथा वा गुणक्रिया जातिविशिष्टबुद्धौ धेयत्वान्यतरावच्छेदकः इति यावत् । यथा घटवद्भूतलम् इत्यादौ घट- विषयीभूतः समवायो वृत्तिनियामकः ( चि० १ पृ० ६५१ ) । नियामक संबन्धाश्च संयोगसमवायस्वरूपकालिक दैशिक विशेषणतादयः । एतद्ध्यतिरिक्तास्तु वृत्त्यनियामका बोध्याः । ते च गगनादिसंयोगाङ्गुलि यसंयोग कुण्डबदर संयोग विषयत्व विषयित्वानुयोगित्व प्रतियोगित्वरू नियामक संबन्धस्याप्यभावप्रतियोगितावच्छेदकत्वं स्वीकुर्वन्ति । तथा निरूप्यत्वतादात्म्यादयोनन्ता एव । अत्रेदं बोध्यम् । प्राचीनाः वृत्य- धनेन कुलमित्यादौ कुले धनस्य हेतुत्वम् । विप्राय गां ददातीत्यादौ गव द्विजस्य संप्रदानत्वम् । वृक्षात्पर्ण पततीत्यादौ पतने वृक्षस्यापादानत्वम् / वह्निमान् धूमादित्यादौ घूमेन वहिरित्यादौ वा वही धूमस्य ज्ञापकत्वम् । चैत्रस्य धनमित्यादौ धने चैत्रस्य स्वामित्वम् । भूतले घट इत्यादौ द्वृत्तिनियामकत्वमावश्यकम् । न हि कुलादिनिरूपितं हेतुत्वादिकमेव भूतलस्याधिकरणत्वम् । इत्यादिप्रतीत्या निरूपकत्वस्यापि संबन्धस्य कवि धनादिनिष्ठत्वेन तासु भासते । धनादिनिष्ठहेतुत्वादेः संबन्धविशेषेण निरूपकत्वादिना कुलादिवृत्तिताया अप्यनुभावकत्वात् ( श० /० श्लो० ९३ पृ० १२१ ) । तथा च सति नन्समभिव्याहारस्थले न धनेन कुलमित्यादौ प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायेन निरू पकत्वसंबन्धावच्छिन्नप्रतियोगिताकधननिष्ठहेतुत्वाद्यभावः कुलादौ प्रती- यते । विप्राय गां न ददाति इत्यादौ निरूपकत्वसंबन्धावच्छिन्न प्रति- योगिताकद्विजनिष्ठसंप्रदानत्वाभावो गवि प्रतीयते इति । एवमग्रेप्यूहाम् । नव्यास्तु तन्न स्वीकुर्वन्ति । पूर्वोक्तस्थलेषु जन्यत्वसंप्रदेयत्वादिकमेव तृतीयार्थः । तथा च स्वरूपसंबन्धावच्छिन्न प्रतियोगिको धनजन्यत्वाद्य- भाव एव तत्र प्रतीयते ( ग० व्यु० का० १ ) इति । SPRA <वृथाचेष्टा> स्वकर्तव्यताप्रयोजकेच्छाविषये स्वरूपायोग्यकर्म (मू० म० १ ) । यथा वृथाचेष्टां न कुर्वीत इत्यादौ स्वर्गोद्देशेन कृतं चैत्यवन्दनं वृथाचेष्टा । <वृद्धिः> १ [ क ] कारणवतो द्रव्यस्यावयवोपचयः । अवर्धत गौरिति ( वात्स्या० २।२।५९ ) । [ ख ] अवयवोपचयः ( दि० १ ) । २ आकार ऐकार औकार एते त्रयो वर्णा वृद्धिः इति शाब्दिका वदन्ति । ३ व्यवहारज्ञास्तु उत्तमर्णस्य स्वदत्तद्रव्यमपेक्ष्याधमर्णाकारितोधिकलाभो ( व्याज बड्डि सुद ) वृद्धिः इत्याहुः । अत्रोक्तं नारदेन वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता । षड्डिधान्यैः समाख्याता तत्त्वतस्तां निबो- धत ॥ कायिका कालिका चैव चक्रवृद्धिरतोपरा । कारिता सशिखा वृद्धिर्भोगलाभस्तथैव च ॥ (वीरमित्रो० अ० २ ऋणादान० पृ० २९४ ) इति । वार्धुषिके अशीतिभागो वृद्धिः स्यात् इति पुरुषार्थचिन्तामणिः ( पृ० २८ ) । ४ जननाशौचम् । वृद्धिर्नाम पुत्रजन्मादिनिमित्तोपल- क्षितः कालः (पु० चि० पृ० ३७७) । ५ मिषजस्तु औषधिविशेषः । ६ रोगविशेषश्च इत्याहु: ( भावप्र० ) । <वृश्चिकी> (विष्टि:) असिते सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी। सर्पि- ण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च ॥ ( पुरु० पृ० ३१२ ) । <वेगः> १ (गुणः संस्कारः ) [ क ] वेगवजातिमान् (त० दी० गु० ) ( त० कौ० ) । लक्षणं च क्रियाजन्यत्वे सति क्रियाजनकध्वम् । अत्र गुरुत्वा दिवारणाय सत्यन्तं दलं दत्तम् । विभागादिवारणाय विशेष्यदलं दत्तम् इति ज्ञेयम् । अथ वा मूर्तमात्रवृत्तितावच्छेदकसंस्कार विभाजको- पाधिमत्त्वम् (वाक्य० गु० पृ० २१-२२) (भा० प० ) (त० भा० ) । १०१ न्या० को तीक्ष्णगतिजनकगुणत्वम् इति कश्चिदाह ( ल० व० ) । [ख द्वितीय- पतनासमवायिकारणम् ( सि० च० गु० पृ० ३५ ) । अत्र प्रथम- पतनस्यासमवायिकारणं तु गुरुत्वमेव इति तद्व्युदासाय द्वितीयपदम् । [ग] द्वितीयादिक्रियाहेतुः (प्र० प्र० ) ( त० दी० ) । [घ ] कर्मजः संस्कारः । यथा यक्षग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ( विक्रमोर्व० ११४ ) इत्यादौ वेगः । स च वेगो मूर्तमात्रवृत्तिः ( प्र० प्र० ) ( भा० प० ) ( त० सं० ) ( त० कौ० ) । अत्र भाष्यम् वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात्कर्मणो जायते । नियतदिक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी । चित् पूर्वप्रक्रमेणोत्पद्यते ( प्रशस्त ० २ गुण० पृ० ५३) इति । वेगो द्विविधः कर्मजः वेगजश्च । तत्राद्यः शरादौ नोदनजनितेन कर्मणा जायमानो वेगः प्रसिद्धः । तेन च पूर्वकर्मनाशः । तत उत्तरकर्म । एवमपि । वेगं विना कर्मणः कर्मप्रतिबन्धकत्वात् पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न स्यात् ( मु० गु० पृ० २३२ ) इति । वेगजो वेगस्तु वेगवत्कपाल जन्यघटे प्रसिद्धः ( भा०प० श्लो० १५९ ) (मु० ) ( सि० गु० पृ० ३५ ) ( त० व० पृ० २३०) । मीमांसकास्त निरन्तरो गतिसंतान एव वेग इत्याहुः (प० मा० ) । तन्न सहन्ते नैयायिकाः / वेगोपि गुणान्तरम् न क्रियासंततिमात्रम् । मन्दगतौ वेगप्रतीत्यभावात् । क्रियाक्षणानामाशूत्पादनिमित्तो वेगव्यवहार इति चेन्न । अलातचक्रादिष्ठ क्रियाक्षणानां निरन्तरोत्पादव्ययवतां प्रत्येक मन्तराग्रहणेनाशूल्पा वेगयोर्भेदावगतिः । वेगेन गच्छति इति प्रतीते: ( न्या० क० साधर्म्य० प्रत्यक्षेणाप्रतीतेः । वेगप्रत्ययस्य च भावात् । व्यक्ता च लोके क्रिया- पृ० २२ ) ( दि० गु० पृ० २३३ ) । २ शारीरकशास्त्रज्ञा भिषजस्तु मूत्रविष्ठादिनिःसारणयतः इत्याहुः । अत्र प्रसङ्गत उदाहियते स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगं धारयेद्वीरः कामादीनां च धारयेत् ॥ ( राजनि० ) इति । ३ समूहः इति काव्यज्ञा आहुः / <वेदः> १ ( शब्दः ) [क] लौकिकवाक्यभिन्नवाक्यम् ( कु० टी० ५ // तच्च ज्ञानसाधनं धर्मब्रह्मप्रतिपादकं शास्त्रम्, मन्त्रब्रह्माणभेदेन द्विविधं च तच्च स्वतः प्रमाणम् । अत्र सूत्रम् त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा ( आपस्त० सू० २१९/३१९ ) इति । मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् (गौ०२/१/६८ ) इति च । स्वतःप्रामाण्यं च प्रमाणान्तरानधीनप्रमितिजनकत्वम् । वेदस्य स्वतःप्रामाण्यव्यवस्थापनं तु धर्मब्रह्ममीमांसादौ तत्र तत्राचार्यैः कृतम् विस्तरभयात्तन्नात्र संगृहीतम् । किं च तद्वेदवाक्यम् अनेकविद्याधर्मस्थानम् देवतिर्यमनुष्यवर्णाश्रमादिप्र- विभागहेतुभूतं च । यथा अग्निमीळे पुरोहितम् (ऋग्वे०) इषे त्वोर्जे त्वा (यजुर्वे०) अग्न आयाहि वीतये (सामवे०) शं नो देवीरभिष्टय आपो भवन्तु पीतये (अथर्ववे०) इत्यादि । वेदत्वं च विजातीयधर्मजन काध्ययन प्रतियोगि- त्वम् ( कु० टी० ५ ) । अथ वा शब्दतदुपजीविप्रमाणातिरिक्त प्रमाण- जन्य प्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् ( कु० टी० ५) (चि० ४ ) (व० उ० ६ । १११ ) ( वै० वि० ६।१।१ ) । अत्र लक्षणदोषं वारयति ईश्वरप्रमाया अजन्यत्वात् वेदार्थ- स्यानुमानविषयत्वेप्यनुमानादेर्वेदोषजीवकतया स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेपि शब्दजन्यधीजन्यत्वात् वेदादर्थं प्रतीत्यैव तत्प्रण- यनात् (चि० ४ ) । अथ वा ऋग्यजुः सामाथर्वान्यतमत्वम् (वै० वि० ६।१।१ ) । अपूर्वार्थप्रतिपादकत्वे सति नित्यसर्वज्ञप्रणीतवाक्यत्वं वा । वेदत्वं च अखण्डोपाधिः इति प्राञ्च आहुः ( म०प्र० ४ पृ० ६६ )। [ख] अपौरुषेयं वाक्यं वेदः इति मीमांसकाः प्रतिपेदिरे (लौ० भा० पृ० १३ ) ( सर्व० पृ० २७० जैमि० ) । वेदस्य नित्यत्वेनापौरुषेय- त्वम् । तत्र प्रमाणं तु वाचा विरूपनित्यया इति श्रुतिः । यो ब्रह्माणं विदधाति पूर्वम् यो वै वेदाश्च प्रहिणोति तस्मै (श्वे० ६।१८) इति च श्रुतिः । नाचिकेतमुपाख्यानं मृत्युप्रोक्त सनातनम् । अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा इति स्मृतिः ( प्र० च० परि० १ पृ० ४१ ) ( माघ ० भाष्य ० ) ( शाब० मा० ११ १२३) । अपौरुषेयत्रं तु प्रमाणान्तरेणार्थमुपलभ्य विरचितं यत् तद्भिन्नत्वम् इति चिन्त्यम् । अत्र शङ्कते जैमिनिराचार्य: वेदांश्चैके संनिकर्ष पुरुषाख्याः ( जैमि० अ० १ पा० १ सू० २७) इति । तदर्थस्तु पुरुषेण हि समाख्या- यन्ते वेदाः । काठकं कालापकम् पैप्पलादकं मौहुलकम् (शाब० भा० १११।२७) इति । अथ वा तत्तच्छाखाकर्तृत्वेन पुरुषा आख्या- यन्ते काठकम् कौथुमम् तैत्तिरीयम् इति । अत्र समाधत्ते उक्तं तु शब्दपूर्वत्वम् । आख्या प्रवचनात् ( जैमि० १ । १ । २९-३०) इति । तदर्थस्तु वेदानां प्राचीनत्वम् उपाध्यायप्रवचनरूपसंप्रदाय प्रवर्त कत्वेन समाख्या इति । पुनः शङ्कते अनित्यदर्शनाच ( जैमि० १ । १ । २८ ) इति । तदर्थस्तु जननमरणवन्तश्च वेदार्थाः श्रूयन्ते बबर: प्रावाहणिरकामयत कुसुरुविन्द औद्दालकिरकामयत इत्येवमादयः । उद्दालकस्यापत्यं गम्यत औद्दालकिः इति ( शाब० मा० ११ १/२८ ) । अत्र समाधत्ते परं तु श्रुतिसामान्यमात्रम् ( जैमि० १/१/३१ ) इति । तदर्थस्तु बबरध्वनियुक्तप्रवहणस्वभावो वायुरेव । न तु प्रवहणनामकः पुरुषः । असिद्धत्वात् ( शाब० भा० १।१।३१ ) इति । नैयायिकास्तु वेदस्येश्वरकर्तृकत्वं मन्यन्ते । तत्कर्तृत्वे प्रमाणमनुमानम् । तच्च षेयो वाक्यत्वाद्भारतादिवत् इति (चि० ४) (सर्व० पृ० २७० मीमांसकादयः । तन्न सहन्ते नैयायिकाः । अत्रत्यविषयस्तर्कशास्त्रादौ अस्मिन्ननुमाने श्रूयमाणकर्तृकत्वं स्मर्यमाणकर्तृकत्वं चोपाधिमुद्भावयन्ति द्रष्टव्यः इत्यलमतिप्रसङ्गेन । अत्र पौरुषेयत्वं च पुरुषाधीनोत्पत्तिकत्वम् ( वेदान्तप० आगमपरि० पृ० ५४ ) । वर्णानामनित्यत्वादेव वेदस्या- प्यनित्यत्वम् (गौ० वृ० २।२।१३) । वेदस्येश्वरकर्तृकत्वे मानं च रेव तावदर्भ इव श्रुतिकुमार्याः पुंयोगे मानम् इत्याचार्याः प्राहुः ( व० १।१ पृ० ३९ ) ( मु० गु० ) (त० कौ० ४) । अन्ये त्वाः / वेदवाक्यानां बुद्धिमत्कर्तृकत्वे इतरबाधात् ईश्वरकर्तृकत्वं सेत्स्यति ( तु व० ) इति । अत्र सूत्राणि बुद्धिपूर्वा वाक्यकृतिर्वेदे (वै० ६/१/१) बुद्धि / ददाति: (वै० ६ । १॥३) इत्यादीनि । अत्रायं भावः । वेदवाक्यरचना वक्तृ यथार्थवाक्यार्थज्ञानपूवो वाक्यरचनात्वात् नदीतीरे पञ्च फलानि सन्ति नान्यथासिद्धिः । स्वर्गकामो यजेत इत्यादाविष्टसाधनतायाः कार्यता इत्यस्मदादिवाक्यरचनावत् इत्यनुमानम् । न च फलानि पौरु वेदः जैमि०)। वास्मदादिबुद्ध्यगोचरत्वात् । तेन स्वतन्त्र पुरुषपूर्वकत्वं वेदे सिद्ध्यति (वै० उ० ६।१।१ ) ( वात्स्या० २१११६८) इति । किं च वेदस्याप्रामाण्य - शङ्कानिवारणमपि कृतम् न कर्मकर्तृसाधनवैगुण्यात् (गौ० २१११५८) इति । एवं च परमाप्तसर्वज्ञेश्वरप्रणीतत्वेन वेदस्य प्रामाण्यं सिद्ध्यति इति । [ग] केचिद्वेदान्तिनस्तु अपौरुषेयत्वे सति समयबलेन परोक्षानुभव- साधनं वेदः इत्याहुः (माघ ० भाष्य ० ) । अत्र पौरुषेयत्वं च सजाती- योच्चारणानपेक्षोच्चारणविषयत्वम् । तादृशोच्चारणजातीयत्वं वा । तथा च सर्गाद्यकाले परमेश्वरः प्राणिनां भोगभूतये लीलाविग्रहं परिगृह्य पूर्वस- र्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान् न तु तद्विजातीयं वेदम् इति न पौरुषेयत्वं वेदस्य । भारतादीनां तु सजातीयोच्चारणमनपे- क्ष्यैवोच्चारणम् इति तेषां पौरुषेयत्वम् (वेदान्तप० आगमपरि० पृ० ५५) ( मथुराना० ) इति । वेदस्येश्वरकर्तृकत्वे प्रमाणम् अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः (बृ० २।४।१०) तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत इति च । इदं सर्वमसृजत ऋचो यजूंषि सामानि इति तेपानात्रयो वेदा अजायन्त इति च । परं तु ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात् इत्यादिश्रुतेः ईश्वरस्याग्नयादिप्रेरकत्वेन निर्मातृत्वं गम्यते । अत्र प्रति- मन्वन्तरं चैषा श्रुतिरन्याभिधीयते इत्यागमोपि द्रष्टव्यः (चि० ४ ) । अत्रान्येत्यस्य तद्भिन्ना तत्सदृशी इत्यर्थः । तेन पूर्वमन्वन्तरस्थत्वं निषि- ध्यते । प्रत्येकं मन्त्रब्राह्मणवन्तो वेदाश्चस्वारः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदश्चेति । तत्र ऋग्वेदस्य शाकलादयो दश भेदाः ( शाखाः) भवन्ति । यजुर्वेदस्य चरकादयः षडशीतिर्भेदा भवन्ति । तत्र वाजसने- यानां जाबालादयः सप्तदश भेदा भवन्ति । तैत्तिरीयाणां द्विभेदा भवन्ति औक्ष्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति । आपस्तम्बी बौधायनी सत्याषाढी (हिरण्यकेशी) भारद्वाजी वाधूली चेति । सामवेदस्य किल सहस्रं भेदा आसन् राणायनीयाः कौथुमाः इत्या- दयः ( १००० ) । अत्रोक्तम् अनध्यायेष्वधीयानास्ते शतक्रतुवज्रेणा- भिहताः प्रनष्टाः ( वाच० ) इति । अथर्ववेदस्य पैप्पलादयो नव भेदा भवन्ति इति । वेदाङ्गानि षट् शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः ९ ज्योतिषं चेति (आपस्त० सू०२१४१८११) । उपाङ्गानि तु चत्वारि पुराणन्यायमीमांसाधर्मशास्त्राणि इति । यूपलक्षणछागलक्षणादिभेदेना- ष्टादश परिशिष्टानि यजुषः । सर्वेषां वेदानामुपवेदा भवन्ति । तत्र ऋग्वे- -दस्यायुर्वेद उपवेदः यजुर्वेदस्य धनुर्वेदः सामवेदस्य गान्धर्ववेदः अथर्व- वेदस्य शस्त्रशास्त्राणि भवन्ति इति । अथर्ववेदस्य स्थापत्यम् ( अर्थशास्त्रम्) उपवेदः इत्यपि पाठो ग्रन्थान्तरे दृश्यते । ऋग्वेदस्यात्रेयं गोत्रं वासुदेव विदुर्बुधाः । काश्यपं च यजुर्वेदं रुद्रदेवं तु तं विदुः । गोत्रेण भारद्वाजः पुरंदरम् । अधिदेवं विजानीयात् वैतानं तु अथर्वणः ॥ इति । शिष्टं तु विष्णुपुराणे ( अंश ० ३ अ० ५ - ६ ) द्रष्टव्यम् । सामवेदोपि। अत्रेद विज्ञेयम् । वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेपि अविगीतशिष्टाचारादेव तदनुमानम् । प्रलये पूर्वस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यज्ञेश्वर- प्रणीतवेदमूलत्वं स्मृत्याचारयोः (चि० ४ ) इति । अत्र पुनरपि श्रुतीनां नित्यत्वस्वतःप्रामाण्येश्वरोच्चरितत्वादौ प्रमाणयन्ति स पर्यगच्छुकमकायम धाति पूर्वम् यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाश ई० ८) । यथेमां वाचं कल्याणीम् (यजुः ) । यो ब्रह्माणंद- मुमुक्षुर्वे शरणमहं प्रपद्ये (श्वे०६।१८) । अत एव च नित्यत्वम् (१० सू० १।३।२९ ) । उक्तं तु शब्दपूर्वत्वम् ( जै० सू० १/१/२९ ) // निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यम् (सांख्यसू० ५/५१) । युगान्तेन्त- हितान् वेदान् सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ( स्मृतिः ) । तद्वचनादाम्नायस्य प्रामाण्यम् (३० १/१/३ ) (१०/२/९) इत्यादीनि । चत्वारोप वेदाः प्रत्येकं द्विधा मन्त्रः ब्राह्मणं चेति । तत्र प्रमाणम् मन्त्रब्राह्मणयोर्वेदनामधेयम् ( बौधा० सू० ) ( आप- स्तम्ब० ) इति । तत्र ऋग्वेदस्यैतरेय ब्राह्मणम् यजुर्वेदस्य तैत्तिरीय शतप इति । ब्राह्मणं त्रिधा विधिवचनम् अर्थवादवचनम् अनुवादवचनं बेति (गौ० ) ( वात्स्या० २११/६२ ) (गौ० वृ० २११/६२) । मीमांसकास्तु विधिमन्त्रनामधेयनिषेधार्थवादभेदात्पञ्चविधो वेदः इत्याहुः ( लौ० भा० पृ० १२ ) । सांख्यास्त्वित्थं वदन्ति । न नित्यत्वं वेदानाम् । कार्यत्वश्रुतेः (सांख्य० सू० ५/४५ ) । स तपोतप्यत ( तै० २।६।१ ) तस्मात्तपस्तेपा- नात्रयो वेदा अजायन्त इति श्रुतेश्च । वेदनित्यतावाक्यानि च सजातीया- नुपूर्वीप्रवाहानुच्छेदपराणि इति ( सां० भा० ५/४५ पृ० १८२ ) । अत्रायं विशेषो ज्ञेयः । आर्ष छन्दो दैवतं च विनियोगस्तथैव च । वेदि- तव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥ अविदित्वा तु यः कुर्याद्यजनाध्ययनं जपम् । होममन्तर्जले दानं तस्य चाल्पफलं भवेत् ॥ ( याज्ञव० ) ( वाच० ) इत्यादिः । २ विष्णुः (विष्णुसं० ) । ३ ज्ञानम् । शास्त्री- यज्ञानं वा । ४ शास्त्रोक्तं चरित्रम् ( मेदि० ) । ५ दर्भमुष्टिकृतः पदा- र्थविशेषः । यथा वेदं कृत्वा वेदिं कुर्यात् (श्रुतिः ) इत्यादौ । ६ ज्ञाप- कम् । अत्रार्थे व्याकरणम् वेदयति विद् णिच् अच् वेदः इति । ७ ज्ञाता । यथा वेदोसि येन त्वं देवेभ्यो वेदोभवस्तेन मह्यं वेदो भूया: इत्यादौ ( यजु: ० २१ २१ ) । अत्र कर्कभाष्यम् पत्नी वेदं प्रमुञ्चति वेदोसि इति । हे कुशमुष्टिनिर्मितपदार्थ त्वं वेदोसि ऋगाद्यात्म- कोसि । यद्वा वेत्तीति वेदः । ज्ञातासि । देवेभ्यो देवानां वेदोभवो ज्ञाप कोभू: इति ( वाच० ) । <वेदनास्कन्धः> प्रागुक्तस्कन्धद्वयसंबन्धजन्यः ( सर्व० सं० पृ० ४० बौ० ) । <वेदवाक्यम्> प्रमाणान्तरागोचरार्थप्रतिपादकं वाक्यम् ( सर्व० सं० पृ० २७३-२७४ जै० ) । <वेदान्तः> वेदशिरोभागो ब्रह्मप्रतिपादक उपनिषद्रपो ग्रन्थविशेषः । यथा ऐतरेय ब्रह्मवल्ली नारायण इंश बृहदारण्यक छान्दोग्य प्रश्न माण्डूक्य इत्या- दय उपनिषदः । वेदान्त उत्तरमीमांसा इति व्यवयिते । कर्मकाण्डानन्त- रविचार्यत्वात् इति ज्ञेयम् । अत्र व्युत्पत्तिः वेदानां ऋगादीनाम् अन्तश्चर मभागः इति वेदानामन्तो निर्णयो यत्र सः इति वा वेदान्तः । अत्र उपनिषद निर्णायकत्वेन ब्रह्मसूत्राणामपि वेदान्तत्वमुपचर्यते इति विशे- यम् । अत्रेदं बोध्यम् । श्रीपूर्णप्रज्ञाचार्यैः (मध्वाचार्यैः ) विरचिताद्भाष्या- व्याक् ब्रह्मसूत्राणां व्याख्यातार एकविंशतिसंख्यका आसन् । ते च भारतीविजयः १ संविदानन्दः २ ब्रह्मघोषः ३ शतानन्दः ४ उद्धतः । (५ विजयः ६ रुद्रभट्टः ७ वामनः ८ यादवप्रकाश: ९ रामानुजः । भर्तृप्रपञ्चः १९ द्रविड ( शठकोपः ) १२ ब्रह्मदत्त: १३ भास्करः । १४ पिशाचः १५ वृत्तिकारः ( बौधायनः ) १६ विजयभट्टः १ विष्णुकान्तः १८ वादीन्द्रः १९ माधवदासः २० शंकरभारती २१ ( मध्वविज०) इति । ततः पूर्णप्रज्ञाचार्यः २२ राघवेन्द्रस्वामी २३ व भाचार्य २४ श्चेति । तत्र शंकरभारती रुद्रस्य मणिमतो वावतारः / तत्व / जन्म विक्रमशाके ८४५ वर्षे केरलदेशे कालपी ( कालडी ) ग्रामे माता- पितृभ्यामार्याम्बाशिवभट्टाख्याभ्यामभूत् । तस्य दैशिकाचार्यो न्दभट्टः । परमगुरुर्गौडपादः । गौडपादस्य तु वक्कनामा बौद्धो गुरुः / शंक रभारत्या अध्यापको ब्रह्मदत्तः । मतं तु मायावादः इति । रामानुजस्य धुलाख्यायां (पेरंबुदूर इति ग्रामे ) मातापितृभ्यां कान्तिमतीकेशवा / शेषावतारत्वाभिमतस्य जन्म शाके १०४९ वर्षे चोलदेशे भूतपूर्वी प्रेम ख्याभ्यां समजनि । एतस्याध्यापकस्तु मातुलो यादवप्रकाश एव / म वायोरवतारस्य मध्वाख्यपूर्णप्रज्ञाचार्यस्य च जन्म शाके ११००० विशिष्टाद्वैतम् । विशिष्टाद्वैत मतप्रवर्तकः कूटस्थस्तु शठकोपाचार्यः इति । कर्णाटदेशे रजतपीठाख्ये ( उडपी ) ग्रामे मातापितृभ्यां वेदवेदीमध्यगे हाख्याभ्यां समजनि । एतस्याध्यापकोच्युतप्रेक्ष्याचार्यः । मतं तु द्वैतवाद वर्षे आन्ध्रदेशे काङ्करवाख्ये ग्रामे मातापितृभ्यां यल्लम्मालक्ष्मणा इति । वल्लभाचार्यस्य कृष्णस्वरूपत्वाभिमतस्य तु जन्म संवत् १५३५/ समभवत् । एतस्याध्यापको नारायणभट्टः । मतं तु शुद्धाद्वैतम् इति । <वेदिः> आहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः (जै० न्या अ० १ पा० ३ अधि० ४ ) <वेधः> पक्षद्वयेपि तिथयस्तिथिं पूर्वी तथोत्तराम् । त्रिभिर्मुहूर्तैर्विष्यन्ति सामान्योयं विधिः स्मृतः ॥ ( पु० चि० पृ० ३८ ) । <वेश्या> वेश्याख्या काचिज्जातिरनादिः । वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुषादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्या ( मिताक्षरा अ० २।२९० ) । <वैतण्डिकः> वितण्डया प्रवर्तमानः पुरुषः । <वैद्यः> १ पण्डितः । यथा नाविद्यानां तु वैद्येन देयं विद्याधनात्कचित् ( दायभा० ) इत्यादौ । २ भिषग्विशेषः । वैद्योत्पत्तिश्च वैद्योश्विनीकुमा- रेण जातश्च विप्रयोषिति । वैद्यवीर्येण शूद्रायां बभूवुर्बहवो जनाः ॥ ते च ग्रामगुणज्ञाश्च मन्त्रौषधिपरायणाः । तेभ्यश्च जातः शूद्रायां ते व्याल - ग्राहिणो भुवि ॥ ( ब्रह्मवै० पु० अ० १० ) इति । <वैद्यकम्> आयुर्वेदः । यथा सुश्रुतचरकादि वैद्यकम् । तदुत्पत्त्यादिकं यथा ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः । विचिन्त्य तेषामर्थं चैवायुर्वेदं चकार सः ॥ कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः । स्वतन्त्रां संहितां तस्माद्भास्करश्च चकार सः ॥ भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ तेषां नामानि विदुषा॑ तन्त्राणि तस्कृतानि च । व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ॥ धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ । नकुलः सहदेवार्कों च्यवनो जनको बुधः ॥ जाबालो जाजलि: पैलः कवथो- गस्त्य एव च । एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ ( ब्रह्मवै० पु० अ० १६ ) ( वाच० ) इति । <वैधम्> विधिबोधितम् । यथा अहरहः संध्यामुपासीत इत्यनेन बोधि संध्योपासनं वैधं भवति । <वैधर्म्यदृष्टान्तः> ( दृष्टान्तः ) व्यतिरेकव्याप्तिग्रहणस्थलम् । यथा पर्वते धूमेन वह्न्थनुमाने महाहदः। यत्र वहिर्नास्ति तत्र धूमोपि नास्ति यथा महाहदः इति ( प्र० च० परि० १ पृ० २८) । वैधर्म्यनिदर्शनम-[क] व्यतिरेक्युदाहरणम् । [ख] अनुमेयविपर्यये १०२ न्या० को लिङ्गस्याभावदर्शनम् । तद्यथा यदद्रव्यम् तत् क्रियावन्न भवति यथा सत्ता इति ( प्रशस्त ० २ पृ० ३० ) । <वैधर्म्यनिदर्शनाभासाः> लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरी-" तव्यावृत्ताः । तद्यथा नित्यः शब्दः अमूर्तत्वात् यदमूर्त तन्नित्यं दृष्टं यथा परमाणुः यथा कर्म यथा स्थाली यथा तमोम्बरवत् । यद्रव्यं तत्क्रिया- वद्दृष्टमिति च ( प्रशस्त० २ पृ० ४८ ) । <वैधर्म्यम्> १ [ क ] व्यावृत्तो धर्मः ( वै० उ० १/१/४ पृ० १६ ) / विरुद्धो धर्मः इति फलितोर्थ : (मु० १ ) । [ख ] अवर्तमानो धर्मः । यथा यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् ( प्रशस्त ० ११११० ३९) ( भा०प० लो० २९) इत्यादौ अभावस्य समवायिकारण वैधर्म्यम् । यदुक्तमित्यस्यार्थश्च ज्ञेयत्वादिकं विहाय यस्य पदार्थ यत्साधर्म्यमुक्तम् तदितरस्य तद्वैधर्म्यम् इति । ज्ञेयत्वादिकं तु न वैधर्म्यम् । केवलान्वयित्वात् इति भावः (मु० १ ) । अत्र निरूपणं तु साधर्म्यशब्दव्याख्यानावसरे संपादयिष्यते । [ग] रोधिधर्मवत्त्वम् । यथा पाकस्थले श्यामघटवैधर्म्ये रक्तघटे (वै०७ ७/२/२ पृ० ३१२ ) । २ व्यतिरेकः ( गौ० वृ० १/१/३५) । तथा वैधर्म्यात् (गौ० १ । १ । ३५ ) इत्यादौ । <वैधर्म्यसमः> ( जाति: ) [ क ] वैधर्म्येणोपसंहारे तद्धर्मविपर्ययोपपत्ते समः ( गौ० ५/११२) । तदर्थश्च उपसंहारे साध्यस्योपसंहरणे वादिना कृते तद्धर्मस्य साध्य रूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य व र्येण केवलेन व्यायनपेक्षेण यदुपपादनं ततो हेतोवैधर्म्यसम अत्र वैधर्म्यत्वमात्रं गमकतौपयिकम् इत्यभिमानात् सत्प्रतिपक्षदेशना अनैकान्तिकपदं सत्प्रतिपक्षपरम् ( गौ०वृ० ५/१/२) । [ख] व न्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनो वैधर्म्यमात्रप्रवृत्तहेतुना काशवद्वा इति स्थापनायाम् अनित्यघटवैधर्म्यादमूर्तत्वान्नित्यः स्यात् तदभावापादनम् । यथा शब्दः अनित्यः कृतकत्वाद्वटवत व्यतिरेकेणा- ( वा वक्तव्यः (गौ० वृ० ५ । १।२) इति । यथा वा क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथा आत्मा तस्मान्न लोष्टवत्क्रियावानिति । न चारित विशेषहेतुः क्रियावत्साधर्म्याक्रियावता भवितव्यम् न पुनः क्रिया- 1. वद्वैधर्म्यादक्रियेण इति विशेषहेत्वभावाद्वैधर्म्यसमः (वात्स्या० ५११/२ ) (नील० ) । [ग] वैधर्म्येण स्थापनाहेतुदूषकमुत्तरम् । यथा आत्मा सक्रियः क्रिया हेतुगुणवत्त्वाल्लोष्टवत् । क्रियाहेतुगुणश्चात्र क्रियाजनकवा- युसंयोगादिरेवेति स्थापनायाम् उत्तरम् क्रियावतो लोष्टस्य साधर्म्यायदि क्रियावानात्मा तदा विभुत्वरूपतद्वैधर्म्यानिष्क्रिय एव किं न स्यात् । न हि तत्साधर्म्याक्रियावता भवितव्यम् तद्वैधर्म्यान्निष्क्रियेण न भवितव्यम् इत्यत्र किंचिन्नियामक मस्ति ( नील० पृ० ४३ ) इति । <वैधयो॑दाहरणम्> व्यतिरेक्युदाहरणम् । <वैधर्म्यापनयः> व्यतिरेक्युपनयः । <वैनाशिक:> १ क्षणिकः पदार्थः । २ सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धा- गमः । ३ बौद्धागमाभिज्ञः । केचित्तु मायावादिनः तार्किकस्यार्धवैनाशि- त्वं मेनिरे । ४ ज्योतिषशास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशं नक्षत्रम् । ५ <वैभाषिकः> १ बौद्धविशेषः । अत्राधिकं च बौद्धः इति शब्दव्याख्याने परतन्त्रः । ६ ऊर्णनाभि: ( मेदि० ) ( वाच० ) । दृश्यम् । २ शाब्दिकास्तु विभाषा निषेधविकल्पौ । तया प्रवृत्तो वैभाषिकः । यथा गिरति गिलति इत्यादौ लत्वं वैभाषिकम् । यथा वा शुशाव शिवाय शुशुवतुः शिश्वियतुः इत्यादौ संप्रसारणं वैभाषिकम् इत्याहुः (काशिका) । अत्रार्थे प्रमाणं सूत्रम् न वेति विभाषा ( पा० सू० ११ १/४४ ) इति । <वैयधिकरण्यम्> व्यधिकरणत्वम् । <चैयर्थ्यम्> व्यर्थत्वम् । <वैरम> विरोधः । अत्रायं विशेषः । वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्तितम् । स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम् ॥ इति । तत्र स्त्रीकृतं कृष्णचे- दिपयोः । वास्तुजं कुरुपाण्डवयोः । वाग्जं द्रोणद्रुपदयोः । सापत्नं नैसर्गि- कमहिनकुलयोः । अपराधजं पूजनीब्रह्मदत्तयोः इति (भार० ) ( वाच ० ) । <वैराग्यम्> [ क ] दोषदर्शनाद्विषयत्यागेच्छा ( प्रशस्त ० २ पृ० ३३)। [ ख ] भोगानभिषङ्गः ( न्या० वा ० १ पृ० २७ ) । [ ग ] योगशास्त्र• ज्ञास्तु दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ( पात ० सू० १।१५) । ऐहिकपारत्रिक विषयादौ दोषदर्शनान्निर भिलाषस्य ममै विषया वश्याः नामेतेषां वश्यः इति विमर्श: इत्याहुः ( सर्व० सं० पृ० ३६६ पात० ) । वैराग्यं च तत्त्वज्ञानाद्विषयदोषदर्शनाद्भवति ( न्या० वा० १ पृ० २७ ) । तच्च वैराग्यम् शमदमानन्तरं ज्ञानद्वारा मोक्षहे तुश्च भवति ( विवेकचूडामणौ ) । <वैलक्षण्यम्> मेदकधर्मः । शिष्टं तु विलक्षणशब्दे द्रष्टव्यम् । वैशिष्ट्यम् - १ [क] संबन्धः । यथा भूतलं घटविशिष्टम् इत्यादौ घट- भूतलयोः संयोगनामा संबन्धो वैशिष्यम् । ख ] यस्य यत्र यः संबन्धः स एव तत्र तस्य वैशिष्ट्यम् । यथा दण्डी पुरुषः इति ज्ञाने दण्डसंबन्धः पुरुषेवगम्यते ( चि० १ निर्विक० पृ० ८१२) । २ वैलक्षण्यम् ३ भेदो वा । ४ आधेयोतिशयविशेषः इति केचिद्वादिनः स्वीकुर्वन्ति । <वैशेषिकम्> १ कणादप्रणीतं शास्त्रम् । अत्रेदं विज्ञेयम् । कश्यपगोत्रोत्पन्नः । कणादमुनिः अथातो धर्म व्याख्यास्यामः इत्यारभ्य तद्वचनादानायल प्रामाण्यमिति इत्येतत्पर्यन्तं दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्श तर्कशास्त्रं प्रणिनाय इति । अत्र कणादशब्दस्य व्युत्पत्तिः । तस्य कापोती मित्ता कणादसंज्ञा । अत एव निरवकाशः कणान्वा भक्षयतु इत्युपाळ- म्भस्तत्रभवताम् ( न्या० क० पृ० २) । शास्त्ररूपायें वैशेषिक शब्दल व्युत्पत्तिः विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः इति । २ तच्छाबा- वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहारनि । भिज्ञः । यथा प्रशस्तपादोद्योतकराचार्यादिर्वैशेषिकः । च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वैशेषिकं विदुः ॥ ( सर्व० सं० पृ० २२० औलू० ) इति । ३/ षसंज्ञक: गुणः । यथा आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः (भा० प० १ श्लो० ४५) इत्यत्र शब्दो वैशेषिकोस्ति । ४ व्यवच्छेदकः । यथा भूतात्मनां वैशेषिकगुणवत्त्वं साधर्म्यम् (प्रशस्त ० ) इत्यादौ । अत्र व्युत्पत्तिः । विशेषो व्यवच्छेदः । विशेषाय स्वाश्रयस्येतरेभ्यो व्यवच्छेदाय प्रभवति इति वैशेषिक: ( न्या० क० पृ० २४ )। <वैश्वदेवः> ( कर्मनामधेयम्) चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवः वरुणप्रघासः साकमेधः शुनासीरीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा विहिता: आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम् सावित्रं द्वादशकपालम् सारस्वतं चरुम् पौष्णं चरुम् मारुतं सप्तकपालम् वैश्वदेवीमामिक्षाम् द्यावापृथिवीमेककपालम् इति । एतेषामष्टानां संनिधौ वैश्वदेवेन यजेत इत पठित्वात्पूर्वोक्तानामष्टानां यागानां वैश्वदेव इति संज्ञा बोया ( जै० न्या० अ० १ पा० ४ अधि० ११ ) । <वैष्णवः> १ [क ] विष्णूपासकवाद्विष्णुसेवकः सात्त्विकचेतनः । यथा निम्नगानां यथा गङ्गा देवानामच्युतो यथा । वैष्णवानां यथा शंभुः पुरा- णानामिदं तथा ॥ ( भाग ० स्क० १२ अ० १३ श्लो० १६) इत्यादौ । यथा वा श्रीमध्वाचार्यो वैष्णवः । वैष्णवमार्गप्रवर्तका विष्णुस्वामिनिम्बा- केरामानुजमध्वाख्याश्चत्वार आचार्याः इति बल्लुमीयाः मन्यन्ते । अत्र व्युत्पत्तिः विष्णुर्देवतास्य इति विष्णोरयमिति वा वैष्णवः । अत्र विष्णुस्तु परब्रह्मैव । तत्र प्रमाणानि यमन्तः समुद्रे कवयोवयन्ति यदक्षरे परमे प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान्विससर्ज भूम्याम् । तदेवतं तद् सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ( म० ना० १ १ - २ ) । तन्नो विष्णुः प्रचोदयात् । अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वा भुव नानि तस्थुः (मध्व० भाष्योदाहृतश्रुतयः) इति । विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि रजांसि विममे इत्यादिना तस्य महिमा । [ख] परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं जेस्तु स् वैष्णवी ॥ समात्मा सर्वजीवेषु निजाचारादविलुतः । विष्ण्वर्पिता खिला- चारः स हि वैष्णव उच्यते ॥ (पु० चि० पृ० १५३ ) । २ श्रवण- नक्षत्रं विष्णुदेवताकत्वात् वैष्णवशब्देनोच्यते इति पुरुषार्थचिन्तामणिः ३ ( पृ० ३५४ ) । <वौषट्> देवोद्देश्यक हविस्त्यागः । अत्र शिष्टं तु वषट्शब्दे दृश्यम् । <व्यक्तिः> ९ पदार्थमात्रम् । यथा जात्यादिरपि व्यक्तिः । तलक्षणं च व्यक्ति त्वम् । तच्च प्रमेयत्वमेव ( गौ० वृ० २१२/६६ ) । एवं च सिद्धान्ते सर्वेषां पदार्थानां व्यक्तिः इति संज्ञा इत्याशयः । २ [क ] व्यक्तिगुण विशेषाश्रयो मूर्तिः (गौ० २१२/६६) । इदं लक्षणं च जात्याकृतिशक्तिविष- "यव्यक्तेरेव इति विज्ञेयम् (गौ० वृ० २/२/६६) । व्यज्यत इति व्यक्तिरि न्द्रियग्राह्येति न सर्वद्रव्यं व्यक्तिः । यो विशेषगुणानां स्पर्शान्तानां गुरु त्वघनत्वद्रवत्व संस्काराणामव्यापिनः परिमाणस्याश्रयो यथासंभवं तद्रव्यम् । व्यक्तिः । परे तु जात्याश्रयो द्रव्यम् व्यक्तिः इत्याहुः । अन्ये तु परि- कृतिसमानाधिकरणः संख्यादिभिन्नो यो गुणस्तदाश्रयः । यथा गवादि- च्छिन्नपरिमाणस्याश्रयो मूर्तिः सैव व्यक्तेलक्षणम् इत्याहु: (गौ० । २/२/६६ ) । संख्यादिविशिष्टा व्यक्तिः इति मञ्जूषाकृद्वक्ति / ३ / गात्मतारूप एकै कविशेष इत्यमरसिंह आह । ४ प्रकाश: (प्रकटीभावः /// ५ जनः इति काव्यज्ञा आहुः । <व्यक्त्यभेदः> [क] स्वाश्रयव्यक्तेरैक्यम् । इदं चाकाशत्वादेर्जातित्वे बाघ/ कम् इति बोध्यम् ( नील० १ पृ० ६ ) ( दि० १ ) । तदुक्तमुदय- 1 नाचार्यैः व्यक्तेरभेदस्तुल्यत्वं संकरोथानवस्थितिः । रूपहानिरसंबन्धी कत्वम् ( दि० १) । एकाश्रयकत्वमित्यर्थः । स्वाश्रयनिष्ठभेदाप्रतियोग्याश्र जातिबाधकसंग्रहः ॥ ( कि०व० द्रव्यनि० ) इति । [ख] एक व्यक्ति यकत्वम् इति फलितोर्थ: ( राम० १ सामान्यनि० पृ० ३५ ) / अनुग मस्तु स्वप्रतियोगिवृत्तित्व स्वसामानाधिकरण्य एतदुभयसंबन्धेन मेदाविशि जाति: । अयं भावः बहुवृत्त्येकधर्मस्य सामान्यतया सर्वसिद्धत्वात् ९ ष्टान्यत्वम् इति । यथा आकाशत्वस्य व्यत्तयभेदः इति आकाशवं न व्यक्तौ जातिरनभ्युपेया ( दि० १ सामान्यनि० पृ० ३४ ) इति । <व्यज्यः> १ बोध्यः । २ प्रकाश्य: । ३ आलंकारिकास्तु व्यञ्जनाख्यया वृत्या बोध्योर्थः । यथा गङ्गायां घोषः इत्यादौ शैत्यपावनस्वादिरूपोर्थो गङ्गा- पदव्यङ्ग्य: इत्याहुः । अत्र शिष्टं च व्यञ्जनशब्दे दृश्यम् ॥ <व्यञ्जकम्> १ ज्ञानजनकम् । यथा चक्षुस्तैजसम् परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् (मु० १ तेजोनि० पृ० ७९ ) इत्यादौ चक्षू रूपव्यञ्जकम् । २ नर्तकास्तु प्रकाशकम् । यथा हृद्भुतभा- वादेर्व्यञ्जकः (प्रकाशकः ) हस्तचेष्टादिरूपोमिनयः इत्याहुः । ३ आलं- कारिकाश्च व्यञ्जनया वृत्त्या अर्थबोधकः शब्दः । यथा गङ्गायां घोषः इत्यादौ गङ्गाशब्दः शैत्यपावनत्वादेरर्थस्य व्यञ्जकः इत्याहुः । शिष्टं तु व्यञ्जनशब्दव्याख्याने दृश्यम् । <व्यञ्जनम्> १ ज्ञानम् । यथा चक्षुषा रूपव्यञ्जनम् इत्यादौ । २ पाकशा- स्त्रज्ञास्तु ओदनभोजनोपकरणम् । यथा सूपशाकादि व्यञ्जनम् इत्याहुः । अत्रार्थे विशेषेणाज्यते ( वि अञ्ज ल्युट् ) इति व्यञ्जनशब्दस्य व्युत्प- त्तिर्दृष्टव्या । ३ वैयाकरणाश्च अर्धमात्राकालेनोच्चार्यो हळूवर्णः । यथा व्यञ्जनं चार्धमात्रकम् ( शिक्षा० ) इत्यादौ क् ख इत्यादि इत्याहुः । ४ काव्यज्ञास्तु चिह्नम् । ५ अवयवश्च इत्याहुः । ६ [क] आलंकारिकास्तु इत्थं वदन्ति । शब्दस्य वृत्तिविशेषो व्यञ्जना । तदुक्तम् विरतास्वभिधा- द्यासु ययार्थो बोध्यतेपरः । सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥ ( सा० द० परि० २ श्लो० १२) इति । यथा भद्रात्मनो दुर-. धरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः पर- वारणस्य दानाम्बुसेकसुभगः सततं करोभूत् ॥ ( काव्यप्रका० उ० २ (० १२ वृत्तौ ) इत्यादौ । आलंकारिकाणां मते व्यञ्जना च व्यञ्जन- ध्वनन द्योतनगमन प्रत्यायनादिशब्दैर्व्यपदिश्यते । आलंकारिकैश्च व्य- नाया इत्थं भेदाः प्रकल्पिताः । व्यञ्जना द्वेधा शब्दनिष्ठा अर्थनिष्ठा च । आद्या तु द्वेधा अभिधामूला लक्षणामूला च । अभिधामूला यथा भद्रात्मनः इत्यादी लक्षणामूला यथा गङ्गायां घोषः इत्यादौ ( काव्यप्र० उ० २ श्लो० १८ वृ० ) । अर्थनिष्ठा व्यञ्जना तु गतोस्त. मर्कः इत्यादौ । माए घरोवअरणम् ( का० प्र० २१६ ) इत्यादौ च विज्ञेया आलंकारिकैर्हि अभिधालक्षणयोरिव व्यञ्जनाया अपि वृत्यन्तरत्वमगत्या स्वीक्रियते । तथा हि । गङ्गातीरे घोषः इति प्रयोगे स्वायत्ते सत्यपि कर्तव्यम् । न च सा प्रतीतिर्लक्षणयाप्युपपद्यते । केवलतीरलक्षणयैवानुप- गङ्गायां घोषः इत्यनन्विताभिधानं शैत्यपावनत्वादिप्रतिपत्त्यर्थम् इत्यङ्गी- त्तिपरिहारे शैत्यपावनत्वादिविशिष्टलक्षणायां मानाभावात् । मुख्यार्थबाधा • दित्रयाभावात् । तस्मात् शैत्यपावनत्वादिप्रतिपत्त्यर्थं व्यञ्जना आवश्यकी । एवम् गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यत्रापि तव गमने मम मरणं भविता इत्यतः त्वं मागाः इति व्यज्यते इति व्यञ्जनाख्यातिरिक्ता वृत्तिरवश्यमङ्गी- कर्तव्या इति ( काव्यप्रकाश उल्ला० २ श्लो० १४ - २० ) ( त० प्र० ४ पृ० ६९) (नील० ख० ४ पृ०३०)। नैयायिकास्तु तन्न सहन्ते/ तथा हि । व्यञ्जना शक्तौ लक्षणायां चान्तर्भवति । अत्रायं भावः / सा क्तिमूला यथा नानार्थकस्थले दूरस्था भूधरा रम्या इत्यादौ भूधरशब्देन व्यञ्जना शब्दशक्तिमूला अर्थशक्तिमूला चेति द्विविधा । तत्र शब्दश पर्वतानामिव राज्ञामपि शक्त्यैव प्रतीतिः संभवति इत्यत्रत्या आलंकारि त्मनः इत्यादावपि ज्ञेयम् । गङ्गायां घोषः इत्यादौ तु शैत्यपावनत्वादिवि कमतप्रसिद्धा अभिधामूला शाब्दी व्यञ्जना शक्तावन्तर्भवति । एवम् भद्रा- यास्तात्पर्यानुपपत्तेरेव सद्भावात् किमतिरिक्तव्यञ्जनया इत्यत्रत्या शिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव संभवति । तत्र लक्षणाकल्पिका- रिकमतप्रसिद्धा लक्षणामूला शाब्दी लाक्षणिकपर्यायपरिवृत्त्यसहत्वलक्षणा व्यञ्जना लक्षणायामन्तर्भवति । अर्थशक्तिमूला लक्षणा यथा गच्छ / गच्छसि इत्यादौ । अत्र हे प्रिय तव गमनोत्तरं मे प्राणवियोगो भविष्यति अतस्त्वया न गन्तव्यम् इत्याद्यर्थोनुमानादिना गम्यते इत्यत्रत्या कारिकमतप्रसिद्धा आर्थी व्यञ्जना अनुमानेन्तर्भवति (नील० ख० ४ पृ० ३० ) इति । तत्रानुमानप्रकारस्तु इयं मदीयगमनोत्तरकालिक प्राणवियोगवती विलक्षणशब्द प्रयोक्तृत्वात् इत्यादिरूपः ( नील० ४ पृ० ३० ) । अत्रेदं बोध्यम् । तात्पर्यानुपपत्तिरेव लक्षणाबीजम् । तथा च गच्छ गच्छसि इत्यत्रापि मा गाः इत्यर्थे गमनाभावप्रतीतीच्छयोच्चरितत्व- रूपतात्पर्य मात्रमुन्नीयते संभाव्यते वा । तेन लक्षणया तत्र शाब्दबोधोप-. पत्तौ व्यञ्जनाया वृत्त्यन्तरत्वं नास्त्येव ( त० प्र० ख० ४ पृ० ६९ ) इति । एवम् वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ( काव्य- प्रका० उ०२ श्लो० ४ टी०) इत्यादावप्यूयम् । [ख] वैया - करणास्तु मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धासंबद्धसाधा- रणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्यज्ञान प्रतिभायुहुद्धः संस्कार- विशेषः इत्याहुः ( ल० म० आकादिवि० १० १७–१८ ) । <व्यतिरेकः> १ अभावः । [क] अयन्ताभाषः (न्या० बो० २ १० १५ ) ( वाक्य० २ पृ० १५ ) । यथा पदस्य पदान्तरव्यतिरेकप्रयु - क्तान्वयाननुभावकत्वमाकाङ्क्षा इत्यादौ । यथा वा अन्वयेन व्यतिरेकेण च व्याप्तिमत् (त० सं० ) इत्यादौ व्यतिरेकः अभावः । यथा वा स्वव्य- तिरेकेण धूमव्यतिरेकानुमानात् इत्यादौ व्यतिरेकः अभावः ( म० प्र० २ पृ० ३० - ३१ ) (वै० ५/११३ ) । [ ख ] भिन्नत्वम् । यथा यत- स्तव्यतिरेकेण नान्यत्किचिदिहाप्यते इत्यादौ । २ साध्याभाव हेत्वभावयोः साहचर्यम् । यथा व्यतिरेकव्याप्तिः इत्यादौ व्यतिरेकः ( सि० च० २ पृ० २६ ) । ३ कचित् व्यतिरेकव्याप्तिः । यथा अन्वयव्यतिरेकि लिङ्गम् इत्यादौ व्यतिरेकः ( वाक्य० २ पृ० १५) । ४ [क] कारणाभावकार्याभावयोः साहचर्यम् । [ ख ] कारणाभावाधिकरणे कार्यासत्त्वम् ( राम० १ पृ० ५२) । यथा यदभावे यदभावः इति । स यथा चक्रचीवरादिघटितस्य दण्डस्यासत्त्वे घटस्यासत्त्वम् इति व्यति- रेकः । अयं व्यतिरेक कारणत्वग्रहजनकः इति ज्ञेयम् ( त० प्र० मङ्ग- ल० पृ० १ ) । ५ अत्यन्ताभावप्रतियोगित्वम् । तदर्थस्तु यस्यात्यन्ता- भाव: प्रसिद्ध्यति तत्त्वम् इति । यथा व्यतिरे किसाध्यकस्थले वहिमानि- त्यादौ वर्व्यतिरेकः । ६ कचित् निश्चितकोटिद्वयव व्या वृत्तत्वज्ञानम् (ग०. १०३ न्या० को० सत्प्र० पृ० २१) । तच्च ज्ञानम् प्राचीनमते असाधारणधर्मवत्ताज्ञान, विधया कोटियोपस्थापकतया फलीभूतसंशयं प्रति प्रयोजकम् इति विज्ञेयम् । यथा अनैकान्तिके अन्वयाद्व्यतिरेकाद्वा कोट्युपस्थापकतया संशयः फलम् ( चि० २ सत्प्र० ) इत्यादिग्रन्थे धूमवान्वः इत्यादौ धूमधूमाभाववद्ध्यावृत्तवह्निमान् इति ज्ञानं व्यतिरेकः । ७ सजातीयाधि क्यम् । यथा वैश्येभ्यः क्षत्रियाः शूराः शूद्रेभ्यो धनिनो विशः इत्यत्र पञ्चम्यर्थो व्यतिरेकः । अत्र वैश्यशौर्यादधिकशौर्यवन्तः क्षत्रियाः शुद्रष नादधिकधनवन्तो वैश्याः इत्यर्थो बोध्यते ( श० प्र० श्लो० ९३१० १२८ ) । ८ विना इत्यस्यार्थः । ९ अर्थालंकार विशेषः इत्यालंकारिक आहुः । १० विशेषेणातिक्रमः इति काव्यज्ञा आहुः । <व्यतिरेकदृष्टान्तः> वैधर्म्यदृष्टान्तः । <व्यतिरेक व्यभिचारः> (कार्यकारणभावभङ्गलक्षणो व्यभिचारः ) सत्त्वे कारणाभावः ( ग० ) । तदर्थश्च कार्याव्यवहितपूर्वक्षणावच्छेदन कार्यतावच्छेदकावच्छिन्नयत्किंचिद्व्यत्तयधिकरणयावयक्तिषु कारणाभाव- प्रदेश कारणाभावः ( त० प्र० ख० ४ पृ० १२९) । यथा कार्य वत्त्वम् ( दि० गु० ) । अथ वा कार्याव्यवहितपूर्वक्षणावच्छेदेन पिकायाम् समाप्ति प्रति मङ्गलस्य कारणत्व उक्ते किरणावल्यादावारा कितो व्यभिचारो व्यतिरेक व्यभिचारो भवति । तथा हि किरणावल्या. <व्यतिरेकव्याप्तिः? (व्याप्तिः ) [ क ] साध्याभावव्यापकी भूताभावप्रति ख्यनास्तिक ग्रन्थविशेषे समाप्तिरूपकार्यसत्त्वेपि मङ्गलस्याभावः इति । योगित्वम् (मु० २) ( नील० २ पृ० २३ ) ( न्या० बो०२० १५ ) । व्यतिरेकः साध्याभावहेस्वभावयोः साहचर्यम् । व्याप्तिर्व्यतिरेकव्याप्तिः इति व्यतिरेक व्याप्तिशब्दः संगमनीयः (सि० च० २ पृ० २६) । यद्वा व्यतिरेकेण व्याप्तिः इति विग्रहः / व्यक्ति- रेकनिरूपिता व्याप्तिरित्यर्थः ( कु० ३ ) । आचार्यास्तु व्यतिरेकसह- चारेणान्वयव्याप्तिरेव गृह्यते । न च व्यतिरेकव्याप्तिज्ञानमपि अनुमितो कारणम् इति वदन्ति । मध्वाचार्यानुयायिनोप्याहुः । व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्धावनुपयोगान्न स्वीकर्तव्या । जीवच्छरीरं सात्मकं प्राणादि- मत्त्वादित्यादौ केवलव्यतिरेकित्वेन प्रसिद्धे हेतावप्यन्वयव्याप्तिरेव । यद्य- प्यन्वयव्याप्तिर्दृष्टान्तानुपलम्भान्न युक्ता तथाप्यनुमानेन तां साधयितुं व्यतिरेकव्याप्तिरुपन्यस्यते । तथा हि । प्राणादिमत्त्वं सात्मकत्वेन व्या- तम् । तदभावव्यापकाभावप्रतियोगित्वात् । यद्यदभावव्यापकाभावप्रति- योगि तत्तेन व्याप्तम् यथा धूमवत्त्वमग्निमत्त्वेन इति ( प्र० प० पृ० १८) ( ग० सामा० ) ( कु० ३) । पर्वतो वह्निमान् धूमा- दित्यादौ वयभावव्यापकीभूताभावप्रतियोगित्वरूपा यत्र वह्निर्नास्ति तत्र घूमो नास्ति यथा महादः इति घूमे बहेर्व्यतिरेकव्याप्तिः । पृथिवी इतरेभ्यो जलादिम्यः भियते गन्धवत्त्वादित्यादौ केवलव्यतिरे- किणि इतरत्वव्यापीभूतभावप्रतियोगित्वरूपा यदितरभिन्नं न भवति न तद्गन्धवत् यथा जलादि इति व्यतिरेकव्याप्तिः ( त० सं० ) । अत्र जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां कूटं पृथिव्यां साध्यते । तत्र त्रयोदशत्वावच्छिन्नभेदस्यैकाधिकरणवृत्तित्वाभा- वान्नान्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिद्ध्या साध्य विशिष्टानुमितिः व्यतिरेक व्याप्ति निरूपणं च इति सर्वे सुस्थम् ( त ० दी ० ख० २५०२४ ) । अयं भावः । अनुमितेः पूर्वं निश्चितसाध्यतावच्छेदका वच्छिन्नवन्तो धर्मिण एवाप्रसिद्धाः न तत्र हेतोः सत्स्वासत्चनिबन्धने अन्वयित्वासांधा- रण्ये । तथा प्रत्येकं प्रसिद्धौ अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्व- विशिष्टज्ञानं संभवति । तथा च विशेषणतावच्छेदकप्रकारक निर्णय सद्भावात् साध्यतावच्छेदक विशिष्टवैशिष्ट्या वगाह्यनुमितिः व्यतिरेक- व्याप्तिज्ञानं च संभवति ( नील० पृ० २३-२४ ) इति । अत्र इत- रमेदाभावात्मकस्य साध्याभावस्य अन्योन्याभावाभावस्य स्वप्रतियोगिभेद- प्रतियोगितावच्छेदक स्वरूपत्वम् इति नियमादितरत्वस्वरूपत्वम् इति बोध्यम् । जीवच्छरीरं सात्मकम् प्राणादिमत्त्वात् इत्यादावप्रसिद्ध- साध्य क केवलव्यतिरेकिणि हेतौ सात्मकत्वाभावव्यापका भावप्रतियोगित्व- रूपा यत्र यत्र सात्मकत्वाभावस्तत्र तत्र प्राणादिमत्त्वाभावः यथा घटादौ इतकप्तवास्ति (त० कौ० २ पृ० १२ ) । [ख] केचित्तु हेत्वभावसाध्याभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । सा च साध्या- भावनिरूपिता हेत्वभावनिष्ठा व्यापकत्वरूपा । व्यापकत्ववत्वं च हेतोः स्वाश्रय प्रतियोगित्वसंबन्धेन । तेन व्याप्तेर्हेतुनिष्ठत्वमुपपद्यते । अन्यत्र चैव- मुक्तम् । ननु अन्यनिष्ठव्या त्या कथं साधनादनुमितिः इति चेदत्राहुः । साध्याभावव्यापकीभूताभावप्रतियोगित्वेन साधनस्य पक्षवृत्तित्वज्ञानं अर्थात्साध्यस्य । तथा च साध्याभावनिरूपिता व्याप्तिर्व्यतिरेकव्याप्तिः कारि ( सि० च० २ पृ० २६) इति । अत्रार्थे व्यतिरेकः अभावः । इति व्यतिरेकव्यातिशब्द: संगमनीयः ( वाक्य० २ पृ० १५ ) । यथा पर्वतो वह्निमान्धूमादित्यादौ यो यो वयभाववान् स धूमाभाव- वान् इति ( वाक्य० २ पृ० १५ ) । अत्रोक्तम् । व्याप्यव्यापक भावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥ अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ ( सि० च० २ पृ० २६ ) ( प्र० प्र० ) । व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्ति स्फुटीभवति तत्त्वतः ॥ ( त० कौ० २ ) इति । <व्यतिरेकि> १ अत्यन्ताभावप्रतियोगि । यथा व्यतिरेकिसाध्यकस्थले व्यक्ति रेकिहेतुकस्थले च इत्युक्ते पर्वतो वह्निमान्धूमादित्यादौ वर्धमस्य च तिविशिष्टहेतुकमनुमानम् । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवस्वात् । इत्याद्यनुमानम् । अत्राधिकं तु केवलव्यतिरेकिशब्दे दृश्यम् । व्यतिरेकित्वम् । २ पूर्वोक्तेन व्यतिरेकेण विशिष्टम् । <व्यतिरेकिहेतुः> उदाहरणवैधर्म्याच साध्यसाधनं हेतुः । कथम् अनित्यः शब्द उत्पत्ति- १।१।३५ ) इति । [ख ] ज्ञातव्यतिरेकव्याप्तिकहेतुबोधको हेत्ववयवः । धर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् यथा आत्मादि द्रव्यम् (वात्स्या अप्रतीतान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ० १० १।१२।३५ ) । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ गन्ध- वत्त्वात् इति शब्दो व्यतिरेकिहेतुः । <व्यतिरेक्युदाहरणम्> ( अवयवः) [क] तद्विपर्ययाद्वा विपरीतम् ( गौ० ११ १२ १३७ ) । तदर्थश्च साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात् (गौ० वृ० १ । १ । ३७ ) इति । व्यतिरेक्युदाहरणत्वं च साध्यसाधना- भावसंबन्धबोधकत्वम् ( चि० अव० २ पृ० ८० ) । अथ वा व्यति- रेक व्याप्तिबोधकत्वम् ( दीधि० २ पृ० १७७) । अत्र भाष्यम् । साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्प त्तिधर्मकत्वात् अनुत्पत्तिधर्मर्क नित्यमात्मादि । सोयमात्मादिर्दृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावी । योसौ साध्यस्य धर्मः अनि- त्यत्वम् स तस्मिन्न भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्या- भावाद नित्यत्वं न भवति इत्युपलभमानः शब्दे विपर्ययमनुमिनोति उत्प- त्तिधर्मकःवस्य भावादनित्यः शब्दः इति ( वात्स्या० ११११३७) । [ख] साध्यसाधनव्यतिरेकव्याप्त्युपदर्शकोदाहरणम् । यथा जीवच्छ- रीरं सात्मकं प्राणादिमत्त्वात् यन्नैवं तन्नैवं यथा घटः इति ( गौ० दृ० १।१।३७ ) । यन्नैवमित्यस्यार्थस्तु यन्न सात्मकं तन्न प्राणादिमत् इति । <व्यतिरेक्युपनयः> (अवयवः ) उदाहरणापेक्षो न तथेति साध्यस्यो- पसंहार: (गौ० ११११३८ ) । साध्यवैधर्म्ययुक्ते उदाहरणे आ त्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम् न च तथा शब्दः इत्यनुत्पत्ति- धर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्वमुपसंह्रियते । उपसंह्वियतेनेनेति चोपसंहारो वेदितव्यः (वात्स्या० १११३८ ) इति । साध्यस्य पक्षस्य उदाहरणापेक्ष उदाहरणानुसारी य उपसंहार उपन्यासः । प्रकृ- दाहरणोपदर्शितव्यतिरेक व्याप्ति विशिष्ट हेतु विशिष्टपक्षबोधनको वयवः इति तात्पर्यम् । व्यतिरेक्युपनयत्वं च साध्याभावव्यापकीभूतभा- पर्वतो वह्निमान्धूमादित्यादौ वह्नयभावव्यापकीभूताभावप्रतियोगिधूम- वप्रतियोगिमत्पक्षबोधकावयवत्वम् (चि० अवय० २ पृ० ८१) । यथा वायम् इति न तथायम् इति वा वाक्यमुपनयः (गौ० वृ० ११ १२ १३८ ) । <व्यतिहारः> १ [क] परस्परकरणम् ( ल० म० ) । [ख] परस्परै- कजातीयक्रियाकरणम् । यथा केशाकेशि दण्डादण्डि इत्यादौ । अ परस्परं केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तते इति दण्डैश्च दण्डैश्च गृही- त्वेदं युद्धं प्रवर्तते इति चार्थो बोध्यते । यथा वा अन्योन्यं ताडयत इत्यादौ व्यतिहारः । २ परिवर्तनम् (विनिमयः ) ( हेमच० ) । <व्यतीपातः> श्रवणाश्विधनिष्ठानागदैवतमस्तकैः । अमा चेद्रविवारेण व्यतीपातः स उच्यते ॥ ( पु० चि० पृ० ३१७ ) । <व्यधिकरणत्वम्> १ [क] तदनधिकरणवृत्तित्वम् ( त० प्र० २) ( मु० २ ) ( ग० २ चतु० चक्र० ) । यथा कपिसंयोगाभावस्य स्वप्रति योगिकपिसंयोगव्यधिकरणत्वम् ।[ख] तदधिकरणावृत्तित्वम् ( मू० म १) । यथा घटत्वाभावस्य स्वप्रतियोगिघटत्वव्यधिकरणत्वम् । २ कचित् साध्यतावच्छेदक संबन्धसामान्ये स्वप्रतियोगिप्रतियोगित्वत्- २ व्याप्ति० सिद्धा० ) । अत्र स्वपदेनाभावो ग्राह्यः । इदं व्यधिकरण तु सिद्धान्तसिद्धव्याप्तिघटकाभावनिष्ठम् प्रतियोगिवैयधिकरज्यशब्देन भूतयत्किंचिद्यत्त्यनुयोगिकत्वसामान्य एतदुभयाभावः तत्कत्वम् (दीषि० व्यवयिते इति विज्ञेयम् । <व्यधिकरणधर्मावच्छिन्नाभाववादी> प्रतियोग्यवृत्तिधर्मावच्छिन्न प्रतियो गिताकाभाववादी । यथा सौन्दडोपाध्यायः ( ग० २ व्याप्ति० त्वपटत्वोभाभ्यां प्रमेयसामान्याभावं च एवमादीन् व्यधिकरणधर्मावच्छि अवतरणे० ) । स च घटत्वेन पटाभावम् घटत्वेन वाच्यत्वाभावम् घट नाभावानङ्गीकरोति । गङ्गेशोपाध्यायादयस्तु तादृशाभावान्नाशीचक्रुः इति विज्ञेयम् । व्यधिकरणधर्मावच्छिन्नाभावनिराकर्तुः प्रतिज्ञावाक्यं च प्रति- नि० ) इति विज्ञेयम् ( ग० चतु० खण्ड० पृ० ६७ ) । योग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदको भवति (चि० २ व्याि <व्यपदेशः> १ शब्दप्रयोगः ( दि० १/३ पृ० १०८) / चतु अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० १1१18 ) । ॐ इत्यादौ व्यपदेशः । २ शाब्दिकास्तु मुख्यव्यवहारः । यथा व्यप- देशिवदेकस्मिन् ( व्या० परि०) इत्यादौ इति वदन्ति । अत्र व्यपदे- शिना तुल्यं वर्तते ( वतिः) इति विग्रहः । समुदितार्थस्तु एकस्मिन् असहायेपि व्यपदेशिवत् मुख्यवत् कार्य कर्तव्यम् इति । यथा अस्या- पत्यम् इः इत्यत्र अत इञ् (पाणि० ४।११९५) इति सूत्रेण विधी- यमानोदन्तप्रकृतिकोपि इञ् केवलात् अशब्दादपि भवति । ३ संज्ञा ( त्रिका० ) । ४ कापव्यम् (हेमच० ) (वाच०) । ५ व्यपदेशो विरुद्धानुष्ठानम् (जै० सू० वृ० अ० २ पा० ४ सू० २४ ) । व्यपवर्गः - समाप्ति: ( जै० सू० वृ० अ० २ पा० ४ स०४ <व्यपेक्षा> १ अपेक्षा । २ वैयाकरणास्तु सामर्थ्यविशेषः । स च स्वार्थप- र्यवसायिपदानामाका या दिवशाद्यः परस्परं संबन्धः सा व्यपेक्षा इत्याहुः । अन्येतु अवयवार्थापेक्षणम् इत्याहुः । अत्रेदं विज्ञेयम् । व्यपेक्षायां समासो न भवति । किंतु एकार्थीभाव एव समासो भवति इति । सत्प्रप- श्वस्तु समासशब्दव्याख्याने दृश्यः । <व्यभिचरितत्वम्> व्यभिचारः । <व्यभिचार:.> १ ( अनैकान्तिकत्वरूपो हेतुदोषः ) एकत्राव्यवस्था । यथा नित्यः शब्दः अस्पर्शत्वात् (वात्स्या० १।२।५ ) इति । यथा वा धूमवा- न्वहेरिल्यादौ वधूमव्यभिचारः । शिष्टं च सव्यभिचारत्वशब्दव्या- ख्याने दृश्यम् । व्यभिचारलक्षणं च साध्यसाधनग्रहाविरोधिनो ज्ञानस्य विषयतया व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( दीधि०. २० २०३ ) ( ग० २ हेत्वाभा० सामा० ) । अत्रेदं बोध्यम् । व्यभिचार- त्वस्य साधारणत्वासाधारणत्वानुपसंहारित्वात्मकेषु त्रिषु हेतुदोषेषु वर्तमा- नत्वेपि साधारणत्व एवार्थे व्यभिचारशब्दं प्रायशः प्रयुञ्जत इदानींतना नैयायिकाः इति । अत्रेदं प्रसङ्गतोधिकं बोध्यम् । व्यभिचारज्ञान विरहसह- कृत सहचारज्ञानं व्याप्तिग्राहकम् । तत्र व्यभिचारज्ञानं द्विविधम् यथार्थम् अयथार्थं च । अयथार्थमपि द्विविधम् निश्चयः शङ्का च । व्यभिचार- पृ० २४ ) (त० दी० २ पृ० २१) । तत्र तर्कादित्यस्य तर्काभावेतरनिखि- शङ्काविरहः कचित् तर्कात् कचित् स्वतःसिद्ध एव इति ( सि० च० २ लकारणसमवधानस्थले इत्यर्थः । स्वतःसिद्ध एवेत्यस्य इतर कारण विरहस् तादृशकारण विरहप्रयुक्त एवेत्यर्थः ( नी० २ पृ० २१ ) । २ कारणभावभङ्गः । अयं व्यभिचारो द्विविधः अन्वयव्यभिचारः व्यतिरे- कव्यभिचारश्च । तत्राद्यः कारणसत्वे कार्याभावात् । द्वितीयः कार्यसवे कारणाभावात् ( ग० ) । ३ धर्मज्ञास्तु निन्दिताचारः । यथा पत्नी पत्यु- र्धनहारिणी या स्यादव्यभिचारिणी इत्यादौ जारकर्म व्यभिचारः इत्या ( मिताक्ष० कात्याय० पृ० ७५ ) । अत्र विशेष उच्यते हृताधिकारी मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेयभिचार- णीम् ॥ ( याज्ञ० अ० १ श्लो० ७० ) इति । <व्यभिचारी> १ व्यभिचारवान् । २ आलंकारिकास्तु रसप्रादुर्भावान भूतनिर्वेदादिः संचारिभावः इत्याहुः । तदुक्तम् विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच तद्भिदाः ॥ ( सा० ८० परि० ३ श्लो० १४० ) इति । तदर्थश्च स्थिरतया व यभिचारिणः कथ्यते इति । ते के इत्याह निर्वेदावेग दैन्यश्रममदजडता माने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणा- औग्यमोहौ विबोधः स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः । औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयावि/ पादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ ( सा० ५० १०३/ श्लो० १४१ ) इति । एवम् रत्यादयोप्युपलक्षणतया प्रायाः (सा० द० १०३ श्लो० १७२) । <व्यर्थत्वम्> १ स्वसमानाधिकरणावश्यकृप्तधर्मान्तरघटितत्वम् / यथा प्रमे यत्वविशिष्टसास्नादिमत्त्वस्य गोर्लक्षणत्वे वाच्ये व्यर्थत्वम् / अत्र के-/ सानादिमत्त्वेनैव गोर्लक्षणम्वनिर्वाहे अप्रयोजनकप्रमेयत्व पदार्थघटित प्रमेयत्व विशिष्टसास्त्रादिमत्त्वस्य वैयर्थ्यम् इति विज्ञेयम् । २ निष्फळ इति काव्यज्ञा आहुः । <व्यर्थविशेषणत्वम्> विशेषणं विनापि यत्र व्याप्तिग्रहः तत्र व्यर्थविशेषण- त्वम् । यथा वह्निमान् नीलधूमात् कालो नित्यः शरीराजन्यत्वादित्यादौ व्यर्थविशेषणत्वम् (चि० १ निर्वि० पृ० ८२१) । इदं च व्याप्यत्वा- सिद्धिरूपे हे सिद्धौ वा हेत्वाभासेन्तर्भवति इति विज्ञेयम् । <व्यवधानम्> १ यत्किंचिद्वस्तूत्तरत्व विशिष्टं वस्त्वन्तरपूर्वत्वम् । तच्च द्विविधम् दैशिकम् कालिकं चेति । अन्ये तु २ द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम् इत्याहु: ( हेमच० ) । <व्यवसाय:> १ ज्ञानविषयीभूतं ज्ञानम् । पूर्वज्ञानम् इति यावत् । यथा व्यवसायात्मकं प्रत्यक्षम् ( गौ० ११११४ ) इत्यादौ । अत्र घटचाक्षुष- प्रत्यक्षानन्तरं जायमानेन घटं साक्षात्करोमि इत्यनुव्यवसायेन गम्यो घटसाक्षात्कारः सविकल्पकज्ञानरूपः व्यवसायः । अत्र भाष्यम् । सर्वत्र प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसाय: । पश्चात् मनसा अनुव्यवसायः । उपहतेन्द्रियाणामनुव्यवसायाभावात् (वात्स्या० ११११४ ) इति । एव- मनुमानादिविषयेपि स्वयमूह्यम् । २ काव्यज्ञास्तु उद्यमः (रघु० ८/६५) । यथा किं दूरं व्यवसायिनाम् इत्यादौ इत्याहुः । <व्यवस्था> मर्यादा । सा च कचित् शास्त्रविहितस्य विषयान्तरपरिहारेण विषय विशेषे स्थापनम् । वैयाकरणास्तु स्वाभिधेयापेक्षावधिनियम इत्याहुः ( सि० कौ० ) । तदर्थश्च दिग्देशकालैरवधिनियमरूपा व्यवस्था इति । व्यवस्थायां च सर्वनामता भवति । <व्यवस्थितत्वम्> [ क् ] अयोगान्ययोगाभ्यां परिच्छेदः । यथा व्यव- स्थितः पृथिव्यां गन्धः (वै० २१२१२) इत्यादौ पृथिव्यां गन्धस्य व्यव स्थितत्वम् । भवति हि पृथिवी गन्धवत्येव पृथिव्येव गन्धवती इति (वै० (उ० २१ २ । २ ) । यथा वा व्यवस्थितविकल्पः इत्यादौ । ख बाघ- काभावादवधारणम् (वै० वि० २१ २२ २ ) । <व्यवहारः> १ [क] शब्दप्रयोगः ( न्या० बो० १ पृ० ६) । यथा व्यवहरन्ति जना इत्यादौ । [ख ] बुबोधयिषापूर्वकवाक्यप्रयोगः । १०४ न्या० को० यथा सर्वव्यवहार हेतुर्ज्ञानं बुद्धिः इत्यादौ व्यवहारः ( वाक्य ० १ पृ०९) (त० प्र० ४ पृ० १३३ ) । ग तद्रूपावच्छिन्नबोधकशब्दः । यथा अयं गौः इति शब्दः । अत्रायं कार्यकारणभावो बोध्यः व्यवहारे व्यव हर्तव्यज्ञानं हेतुः इति ( नील० १५० ५ ) ( त० प्र० ) । प्राभाकरास्तु व्यवहारे व्यवहर्तव्यतावच्छेदकासंसर्गाग्रह एव कारणम न तु व्यवहर्तव्यतावच्छेदकप्रकारकं ज्ञानं कारणम् इत्याहुः (त० प्र० ख० ४ पृ० १३३ ) । तेन शुक्तौ इदं रजतम् इति व्यवहार उप पद्यते इति ज्ञेयम् । २ प्राञ्चो व्यवहारशास्त्रज्ञाः अन्यविरोधेन स्वसंब न्धितया कथनं व्यवहारः । वादिप्रतिवादिनोर्विवादः इत्यर्थः ( वीर० २ पृ० ४ ) । यथा कश्चित् इदं क्षेत्रादि मदीयम् इति कथयति । तद्विरोधेन मदीयम् इति इत्याहुः ( मिताक्ष० अ० २ श्लो० १// मित्रो० अ० २ पृ० ३) । अयं व्यवहारश्चतुष्पादः भाषापादः उच- नव्यास्तु ऋणादानादिलौकिकार्थविषया कथा व्यवहारः इत्याहुः (वीर- रपादः क्रियापादः साध्यसिद्धिपादश्चेति ( मिता० ) । कात्यायनहारी "ताभ्यां व्यवहारस्वरूपमुक्तम् । प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे/ साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ इति । अत्र निरुतिः। कात्यायनेन कृता । वि नानार्थेऽव संदेहे हरणं हार उच्यते । नानात देहहरणाद्व्यवहार इति स्मृतः ॥ ( वीर० २ पृ० ६) इति । हारलक्षणं तु परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्यावा. व्यवस्थानं व्यवहार उदाहृतः ॥ ( मिताक्षरा० अ० २ श्लो० ८) / ३ धर्मज्ञास्तु सहासनभोजनादिर्व्यवहारः । यथा न पतितैः संव्यवहारो विद्यते ( आपस्त० धर्मसू० ७/२१/५) इत्यादौ इत्याहुः । ४ लोक व्यवहारपदम्-व्यवहारविषयः । यथा व्यवहारशास्त्रे ऋणादानादीन्या- दश व्यवहारपदानि । तलक्षणमुक्तं याज्ञवल्क्येन स्मृत्याचारव्यपेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ( याज्ञ० स्मृ० अ० २ लो० ५) इति । तथा च प्रतिज्ञोत्तरसंशय- यात्रा इति लौकिकजना आहुः । हेतुपरामर्शप्रमाण निर्णयप्रयोजनात्मको व्यवहारः तस्य पदं विषयः इति तदर्थः । स च द्विविधः शङ्काभियोगः तत्त्वाभियोगश्चेति ( मिता० अ० २ श्लो० ५ पृ० ३) । व्यवहारपदानि चाष्टादश मनुनोक्तानि तेषामाद्यमृणादानं ( १ ) निक्षेपो ( २ ) ऽस्वामिविक्रयः ( ३ ) । संभूय च समुत्थानं ( ४ ) दत्तस्यानपकर्म (५) च ॥ वेतनस्यैव चादानं ( ६ ) संविदश्च व्यतिक्रमः ( ७ ) । ऋयविक्रयानुशयो (८) विवादः स्वामिपालयोः (९) ॥ सीमाविवादधर्मश्च (१०) पारुष्ये दण्डवाचिके ( ११ ) । स्तेयं ( १२ ) च साहसं ( १३ ) चैव स्त्रीसंग्रहण ( १४ ) मेव च ॥ स्त्रीपुंधर्मो ( १५) विभागश्च (१६) द्यूत (१७) माझ्य (१८) एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ ( मनु अ० ८ श्लो० ४ - ७ ) इति । <व्यसनी> व्यसनमिष्टवियोगोनिष्टप्राप्तिः । तज्जनितं दुःखमपि व्यसनम् । तद्वान्व्यसनी ( मिताक्षरा० अ० २ श्लो० ३२ ) । <व्याकरणम्> १ [क] पूर्वपूर्वव्याकरणतः शब्दगुणदोषविद्भिरभियुक्तैः प्रकृतिप्रत्ययादिपरिकल्पनया कृतं शब्दसाधुत्वाख्यायकम् शास्त्रम् (चि० ४ ) । यथा अग्नक (पाणि० ४ । २ । ३३ ) इत्यादि । अनेन शास्त्रेण अग्निर्देवतास्य हविषः इत्यर्थे अग्निशब्दाड्ढक्प्रत्ययकल्पनया आग्नेयम् इति शब्दस्य साधुत्वमाख्यायते । अत्रार्थे व्युत्पत्तिः व्याक्रि- यन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपाद्यन्ते शब्दा येन इति व्याकरणम् । करणे ल्युट् प्रत्ययः । [ ख ] शाब्दिकास्तु निःश्रेयसमुख्यफलकं शब्दा- नुशासनम् । यथा पाणिनिशाकटायनादिप्रणीतं व्याकरणम् इत्याहुः । [ग] आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्ग- माहुर्व्याकरणं बुधाः ॥ ( सर्व० सं० पृ० २९५ पाणि० ) । व्याक- रणस्य मुख्यफलं च एकः शब्दः सुष्ठु प्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति इति । अत्रावान्तरफलं तु रक्षोहागमलध्वसंदेहाः प्रयो- जनम् इति महाभाष्योक्तं ज्ञेयम् । अत्रोक्तम् अथ व्याकरणं वक्ष्ये कात्या- यन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे । इत्यादि । अधिकं तु गारुडे ( अ० २०९) द्रष्टव्यम् । २ मायावादिनस्तु स्थूला सृष्टि: (रत्नप्रभा ) । यथा नामरूपे व्याकरवाणि ( श्रुतिः) इत्यादौ व्याकरणम् इत्याहुः । <व्याख्यानम्> [क] विवरणम् ( हलायु ० ) । [ ख ] अप्रतिपत्त्यादि- निवारण प्रयोजनकं तत्समानार्थकपदान्तरेण विस्तरेण तदर्थकथनम् । यथा न्याये तत्त्वचिन्तामणेर्दीधितिर्मथुरानाथी च व्याख्यानम् । वेदान्ते तु ब्रह्मसूत्रार्थप्रतिपादकानुव्याख्यानस्य न्यायसुधा व्याख्यानम् । [ग] पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपेषु समाधानं व्याख्यानं पञ्चलक्षणम् ॥ (पराशरपु० अ० १८) । आक्षेपोथ समाधानं व्या- ख्यानं षड़िधं मतम् इत्यन्यत्र पाठान्तरम् । सर्वत्र व्याख्याने बीजं तु अप्रतिपत्तिः विप्रतिपत्तिः अन्यथाप्रतिपत्तिश्च इत्यनुसंधेयम् । <व्याघात> १ असंबद्धार्थक वाक्यम् । तद्यथा यावज्जीवमहं मौनी ब्रह्म- चारी च मे पिता । माता तु मम वन्ध्यासीदपुत्रश्च पितामहः // इति । वाक्यम् । २ प्रतिबन्धः । यथा व्याघातावधिराशङ्का ( कुसु० ) इत्यादौ । तर्कविशेषः इति प्राञ्चो नैयायिका आहुः । अलंकारिकार अर्थालंकारविशेष इत्याहुः । ५ मौहूर्तिकाश्च विष्कम्भादिसप्तविंशतियो । गमध्ये त्रयोदशो ( १३) योगविशेष इत्याहुः । ६ अन्तरायः ७ प्रा- रश्च इति काव्यज्ञा आहुः । <व्याधिः> दोषत्रयवैषम्यनिमित्तो ज्वरादिः (सर्व० सं० पृ० ३५५ पात० ) । । <व्यानः> ( प्राणवायुः ) [क] नाडीमुखेषु वितननाद्यानः ( दि० १ । २ ) ( सि० च ० ) । [ख ] सर्वशरीरव्यापकः प्राणान्तर्गतो वायु- विशेषः । यथा व्यान: सर्वशरीरगः इत्यादौ । [ग] विष्वगमनवाद / वायुर्व्यान इत्यभिधीयते । अत्रोक्तम् व्यानो हि व्यानयत्यन्नं स चाक्षि- कर्णयोर्मध्ये कट्यां वै गुल्फयोरपि । घ्राणे गले स्फिरादेशे मित्र/ व्याधिप्रकोपनः । महारजतसुप्रख्यो हानोपादानकारणम् // स निरन्तरम् ॥ स्कन्दयत्यधरं वक्रं गात्रनेत्रे प्रकोपनः (पदार्थादरों । ( वाच० ) इति । <व्यापकत्वम्> १ [ क ] तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छे- दकधर्मवत्त्वम् (न्या० बो० ) । अत्र व्युत्पत्तिः विशेषेणाप्नोति ( वि आपू ण्वुलू ) इति व्यापकः । तस्य भावो व्यापकत्वम् । अनया व्युत्पत्त्या व्याप्तिकर्तृत्वं लभ्यते । तच्च व्याप्तिनिरूपकत्वम् । यथा पर्वते धूमेन बह्रिसाधने वह्नेर्धूमनिष्ठव्य।प्तिनिरूपकत्वरूपं व्यापकत्वम् ( प्र० च० २ पृ० १९ ) । [ ख ] तद्वन्निष्ठभेद प्रतियोगितानवच्छेदकत्वम् । तदर्थः यत् यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं न भवति तत् तद्व्यापकम् इति ( न्या०सि० दी० पृ० ५६ ) । यथा वहेर्धूमव्यापक- त्वम् । तथा हि घूमसमानाधिकरणो योन्योन्याभावः न वह्निमद्भेदः अपि तु जलवद्भेद एव । तत्प्रतियोगितानवच्छेदको वह्निर्भवति इति वह्निर्धूमव्यापको भवति । [ग] तत्समानाधिकरणा यावन्तो धर्मा यत्समानाधिकरणाः तत्त्वम् ( न्या० म० २ पृ० १६ ) । यथा मनु- ष्यत्वसमानाधिकरणयावद्धर्माणां प्राणित्वसामानाधिकरण्यात्प्राणित्व मनुष्यत्वव्यापकत्वम् । घ स्वप्रतिबद्धबुद्धिजनकत्वं यत्स्वरूपम् तदेव व्यापकत्वम् इति प्राञ्च आहुः ( त० भा० ) । ङ निरुक्तप्रतियो- ग्यनधिकरणहेतुमन्निष्ठाभावप्रतियोगितासामान्ये यत्संबन्धावच्छिन्नत्व यद्ध- मोवच्छिन्नत्व एतदुभयाभावः तेन संबन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्या- पकत्वम् ( दीधि० २ व्याप्तिनि० ) (मु० २ व्याप्तिनि० ) । निरुक्त- प्रतियोगीत्यस्य प्रतियोगितावच्छेदक संबन्धावच्छिन्न प्रतियोगिताको यादृशः अभावो लक्षणघटकत्वेनाभिमतः तस्य प्रतियोगीत्यर्थः । इदं च साध्यस्य हेतुव्यापकत्वम् इति बोध्यम् । यथा पर्वतः संयोगेन वह्निमान् धूमादित्यादौ वर्धूमव्यापकत्वम् । अत्रायं नियमः व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥ अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परी- क्षिता व्याप्तिः स्फुटीभवति तत्त्वतः ॥ ( त० मा० २ ) ( त० कौ० २ ) इति । [च ] यन्निरूपितसाध्यतावच्छेदकता घट कसंबन्धसामान्ये प्रतियोगित्वाधिकरणयत्किंचिञ्यत्त्यनुयोगिकत्वाभावः तदन्यत्वम् (ग० व्याप्तिनि० कूट० ) । अत्र यत्पदं साध्यतावच्छेदकपरम् । इदं व्यापकत्वं तु प्रतियोगिताव्यापकत्वम् इति व्यवयिते । अत्र च वहि धूमोभयवान्धूमादित्यादौ यदा पर्याप्तिसंबन्धेनोभयत्वस्य साध्यतावच्छेद- कता विवक्षिता तदाप्यनेन परिष्कारेण व्यापकत्वं निर्वहति इति विज्ञेयम् । छ । अधिकदेशवृत्तित्वम् । यथा द्रव्यत्वस्य पृथिवीत्वाद्य- पेक्षया व्यापकत्वम् (परत्वम् ) ( मु० १ पृ ३७) । २ स्वरूपतः सर्वदेशसंबद्धत्वम् । यथा सामान्यस्य व्यापकत्वम् ( वै० उ० १/२/३ पृ० ५३ ) । ३ क्वचित् परममहत्परिमाणयोगः । यथा आकाशा र्व्यापकत्वम् (वै० उ० ७११।२२) । ४ आधेयत्वम् (वृत्तित्वम्) / यथा शरीव्यापकं स्पर्शग्राहकं त्वगिन्द्रियम् इत्यादौ । ५ तान्त्रिकस्तु सर्वाङ्गसंबन्धित्वम् । यथा अङ्गुलिव्यापकन्यासौ (तन्त्रसा० न्यासविशेषे व्यापकत्वम् इत्याहुः ( वाच० ) । ६ आच्छादकत्वम् इति काव्यज्ञा आहुः । इत्यादौ व्यापार: ( २ ) । यथा लौकिक प्रत्यक्षे इन्द्रियस्येन्द्रियार्थसंनिकर्षष व्यापारः / १ यं जनयित्वैव यस्य यज्जनकत्वम् स तच्यापारः ( त० प्र० तथा हि संनिकर्ष जनयित्वैवेन्द्रियस्य प्रत्यक्षजनकत्वम् इति प्रत्यक्षे संनि कर्ष इन्द्रियस्य व्यापारः । व्यापारत्वं च द्रव्यान्यत्वे सति भावत्वे सति दी० ) ( सि० च० ) ( त० को० ) । करणजन्यत्वे सति करणज- तज्जन्यत्वे च सति तज्जन्यजनकत्वम् ( न्या० म० १ पृ० २ ) ( त०, न्यफलजनकत्वम् इत्यर्थः ( म० प्र० १ पृ० ५ ) । शिवादित्य मिश्राल व्यापारत्व मखण्डोपाधिः इत्याहुः ( न्या० म० १ पृ० २ ) । संनिकर्ष / षटुं च इन्द्रियेण जन्यते इन्द्रियजन्यं प्रत्यक्षं जनयति च इति व्यापारक/ मर्शादिर्व्यापारः । यथा वा कुठारेण दारु छिनत्ति इत्यादौ छिदाकरण क्षणांक्रान्तं भवति इति विज्ञेयम् । अनुमित्यादौ तु व्याप्तिज्ञानस्य परा परशोरुसंयोगो व्यापारः ( प्र० प्र० ) । तथा हि परश्वात्मकेन करणेन जन्यः तेनैव जन्यायाः फलीभूतायाश्छ्दात्मकक्रियाया जन- कश्च भवति इति परशुदारुसंयोगो व्यापारो भवति इति । एवम् यागादे- र्व्यापारः अदृष्टमित्याद्यूह्यम् । शिष्टं तु करणशब्दे दृश्यम् । २ [क] प्रवृत्तिविषयः । यथा देवदत्तो ग्रामं गच्छतीत्यादौ गमधातुनोत्तरदेश- संयोगानुकूला या क्रिया बोध्यते स व्यापारः । एवम् सर्वत्र शाब्दबोधे धात्वर्थव्यापार ऊह्यः । [ख] शाब्दिकास्तु पदान्तरसमभिव्याहाराप्र- योज्यसाध्यत्व प्रकारकाभिधानविषयो व्यापारः इति वदन्ति । स च व्यापारः भावयितुरुत्पादनक्रिया । तदुक्तं भर्तृहरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया ( वाक्यपदीये ) इति । ३ आधुनिकवैश्यास्तु अर्थजनक उद्यमो व्यापार इत्याहुः । <व्यापारित्वम्> व्यापार विशिष्टत्वम् । तच्च क्वचित् जनकतासंबन्धेन व्यापा- रविशिष्टत्वम् । यथा न हि व्यापारेण व्यापारिणोन्यथासिद्धि: ( त० प्र० १ ) इत्यादौ इन्द्रियाद्यात्मकस्य करणस्य व्यापारित्वम् । <व्यापित्वम्> व्यापकत्वम् । <व्याप्तत्वम्> १ व्याप्ति विशिष्टत्वम् । यथा धूमो वहिना व्याप्तः इत्यादौ । यथा वा साध्याभावव्याप्तो हेतुर्विरुद्धः (त० सं०) समेन यदि नोव्याप्तः ( उदयनः ) इत्यादौ व्याप्तत्वम् । २ पूर्णत्वम् । ३ समाक्रान्तस्त्रं चेति वेदान्तिन आहुः । ४ ख्यातत्वम् । ५ स्थापितत्त्वं चेति काव्यज्ञा आहुः । व्याप्तिः - संबन्धविशेषः । अत्र केचिदाहु: । केवलान्वयिनि केवलान्वयि- धर्मसंबन्धः । व्यतिरेकिणि साध्यवदन्यावृत्तित्वं व्याप्तिः । एतयोरनुमिति- विशेषजनकत्वम् । अनुमितिमात्रे तु पक्षधर्मतैव प्रयोजिका । न चाति- प्रसङ्गः । विशेषसामग्रीसहिताया एत्र सामान्यसामग्र्याः कार्यजनकत्वम् इति नियमात् इति ( चि० २ पृ०५) । स च साध्यसाधनस्थले [क ] अनौपाधिकः संबन्धः । स चानुमित्यौपयिकः साधननिष्ठः सा- ध्यस्य संबन्धः इति विज्ञेयम् । अत्र अनौपाधिकत्वं तु यावत् स्वव्यभि- चारव्यभिचारिसाध्यसामानाधिकरण्यम् । अथ वा यावत्स्वसमानाधिकर- णात्यन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावासमानाधिकरण साध्यसामा- नाधिकरण्यम् (वै० उ० ३ । १ । १४ पृ० १५२ ) । अत्र गङ्गेशो- पाध्याया आहुः एतादृशात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदे- वानौपाधिकत्वम् इति ( चि० २ पृ० ८) । [ख ] स्वाभाविकः साध्य हेत्वोः संबन्ध: ( त० भा० ) । [ग] उपाधिविधुरः संबन्धः ( सर्व० सं० पृ० ७ चार्वा०) (ता० र० श्लो० १४) [घ ] यद्विशिष्टसमाना- धिकरणा यावन्तः साध्यसमानाधिकरणास्तद्वत्त्वम् ( न्या० म० २१० १६) । यथा इदं वाच्यं ज्ञेयत्वात् पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् पर्वतो वह्निमान् घूमात् इत्यादिषु केवलान्वयिकेवलव्यतिरेक्यन्वयव्यति, रेकिषु त्रिष्वपि हेतुषु तादृशाः संबन्धाः सन्तीति व्याप्तिसामान्य स्वरूपाण संगच्छन्ते । भवति च धूमत्वविशिष्टसमानाधिकरणा यावन्तो धर्माः वहसमानाधिकरणा इति धूमे वह्निव्याप्तिः । न तु वह्नौ धूमस्य । न हि वह्नित्वविशिष्टसमानाधिकरणा यावन्तो धूमसमानाधिकरणा भवन्ति । अयः पिण्डत्वस्य वह्नित्व विशिष्ट समानाधिकरणस्य धूमासमानाधिकरण त्वात् । अस्ति चेदं केवलान्वयिनि । अभिधेयत्वविशिष्टसमानाधिकर णानां यावतां ज्ञेयत्वसमानाधिकरणत्वात् ( न्या० म० २ पृ० अन्वयव्यतिरेक व्याप्तिसाधारणं व्याप्तित्वं तु हेतुतावच्छेदकनिष्ठ प्रका रताभिन्ना यानुमितिजनकतावच्छेदकतावच्छेदकीभूता प्रकारतात इति । तथा हि केवलान्वयिस्थले इदं वाच्यं ज्ञेयत्वादित्यादौ उक्तलक्षणघटक/ तादृशप्रकारता च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठा निरूप्यनिरूप भावापन्ना प्रकारता भवति । अन्वयव्यतिरेकिस्थले वह्निमान् धूमादित्यादौ । तादृशी प्रकारता तु हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता / व्यतिरेकिस्थले पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ जीवच्छ सात्मकं प्राणादिमत्त्वादित्यादौ चाप्रसिद्धसाध्यकस्थलेपि तादृशी प्रकारता च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता भवति। व्याप्तौ लक्षणसमन्चयो बोध्यः । अत्र हृदयम् / साध्या प्रसिद्धावपि अनुमितेः पूर्व पक्षातिरिक्त यत्किंचिदधिकरणे साध्यनिश्चयाभावेपि सात्मकत्वादिस साध्याभावव्यापकी भूताभावप्रतियोगित्वनिष्ठप्रकारता च भवति / केवल / पसाध्यस्य खपुष्पशशराङ्गादिवत्तुच्छत्वाभावेन हेतुव्यापकसाध्यसामाना- धिकरण्यग्रहोत्पत्तौ बाघकाभावः इति । सा व्याप्तिः द्विविधा अन्वय- व्याप्तिः व्यतिरेकव्याप्तिश्च । तत्रान्वयव्याप्तिरपि द्विविधा पूर्वपक्षव्याप्तिः सिद्धान्तसिद्धव्याप्तिश्चेति । उभयविधान्वयव्याप्तिज्ञाने व्यभिचारज्ञानाभावः सहचारज्ञानं च कारणम् । व्यतिरेकव्याप्तिज्ञाने तु साध्याभावे हेत्वभा- वस्य साहचर्यज्ञानं व्यभिचारज्ञानाभावश्च कारणम् इति विवेकः ( भा०प० श्लो० १३८) । व्याप्तिग्रहस्तु नानाव्यक्तिसाध्यहेतुकस्थले वह्निमान् धूमादित्यादौ सामान्यलक्षणप्रत्यासत्या सकलवह्निधूमादिवि - षयको जन्यते ( चि० २ पृ० १७ ) । अत्राहुः । व्याप्तिग्राहकं तु उपाध्यभावग्रहणजनितसंस्कारसहकृतेन भूयोदर्शनज नितसंस्कारसहक- तेन साहचर्यग्राहिणा प्रत्यक्षेणैव व्याप्तिरवधार्यते (त० भा० पृ० १० ) । अथ वा व्यभिचारज्ञान विरहसहकृतं हेतुसाध्यसहचारदर्शनं व्याप्तिग्राहकं भवति । व्यभिचारज्ञानं च निश्चयः शङ्का वा । सा च कचिदुपाधिसंदेहात् क्वचिद्विशेषादर्श नसहितसाधारणधर्म दर्शनादुत्पद्यते । तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात् कचित् स्वतःसिद्ध एव ( चि० २ पृ० १३-१४ ) ( त० कौ० २) ( त० दी० २ ) । यद्वा व्यभि चाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्ति- ग्रहे प्रतिबन्धकत्वात्तदभावः कारणम् । एवम्अन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणम् । व्यभिचारा- स्फूर्ती सकद्दर्शनेपि क्वचिद्व्याप्तिग्रहात् । क्वचित् व्यभिचारशङ्काविधूनन- द्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र विपक्षबाधकत कोपेक्षितः । तथा हि वह्निविरहिण्यपि धूमः स्यात् इति यद्याशङ्का भवति तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसंधाना- निवर्तते । यद्ययं वह्निमान्न स्यात्तदा धूमवान्न स्यात् कारणं विना कार्या- तथा च साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्श नव्यभिचारादर्शनोपाध्यभा- नुस्पत्तः (मु० ) इति । वेदान्तिनस्त्वत्राहुः । प्रत्यक्षं व्याप्तिग्राहकम् । वनिश्चया: सहकारिणः । एवमनुमानागमावपि व्याप्तिग्राहकौ । तत्राग- १०५ न्या० को० मेन व्याप्तिग्रहस्तु ब्राह्मणो न हन्तव्यः गोने पदा स्प्रष्टव्या इति । अत्र दृष्टान्तापेक्षा नास्ति । अत्रेदं बोध्यम् । कार्यं कारणमात्रमनुमापयति । कारणं तु समग्रमेव कार्यम् ( प्र० प० पृ० १४-१६) इति । तत्र पूर्वपक्षीयान्वयव्याप्तिश्च ( १ ) साध्याभाववदवृत्तित्वम् । (२) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् । (३) साध्यवत्प्रतियोगि कान्योन्याभावासामानाधिकरण्यम् । ( ४ ) सकलसाध्याभाववनिष्ठा- २ ) । यथा पर्वतो वह्निमान् धूमादित्यादौ वह्नेरत्यन्ताभाववति वह्निम-/ भावप्रतियोगित्वम् । (५) साध्यवदन्यावृत्तित्वं वा ( चि० २१० द्भिन्ने वा जलादौ धूमो नास्ति इति धूमादौ वह्नेर्व्याप्तिः । अत्र प्रथम लक्षणस्य साध्यतावच्छेदक संबन्धावच्छिन्नसाध्यतावच्छेदका वच्छिन्नप्रति- योगिताकप्रतियोगिव्यधिकरणसाध्याभावाधिकरणनिरूपित हेतुतावच्छेदक संबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः इति समुदितार्थः । अत्र प्रतियोगिवैयधिकरण्यं च प्रतियोगितावच्छेदकसंबन्धावच्छिनप्रति- योगितावच्छेदकावच्छिन्नवैयधिकरण्यं विज्ञेयम् ( न्या० बो० २५० १४) । एतानि च पञ्च अव्यभिचरितत्वपदप्रतिपाद्यानि व्याव्यलक्षणाि व्याप्तिस्वरूपाणि च पञ्चलक्षणी इति नैयायिकैर्व्यवह्नियन्ते । तीन/ विग्रहो ज्ञेयः । अत्र लक्षणे कर्मादौ संयोगाद्यभावस्य भिन्नत्रे मानाभा- लक्षणे साध्यवद्भिने वर्तमानः यः साध्याभावः तद्वद्वृत्तित्वम् इति । साध्यवत् इति । अत्र तृतीये लक्षणेपि हेतोः साध्यवत्पक्षभित्रदृष्टान्त वात् अव्याप्तिः । अतो द्वितीयलक्षणे अस्वारस्य मास्थाय तृतीयलक्षणमुक्तं विशेषणं बोध्यम् । साध्याभावो वा साध्यतावच्छेदकावच्छिन्नप्रतियोगि वृत्तित्वेनाव्याप्तेश्चतुर्थमुक्तं सकलेति । साकल्यं साध्याभाववति साध्ये च ताको ग्राह्यः । तेन विपक्षैकदेशनिष्ठाभावप्रतियोगिनि व्यभिचारिण नातिव्याप्तिः । न वा नानाव्यक्तिसाध्यकसद्धेतावव्याप्तिः ॥ नास्थायां कारणं तु यत्रैकव्यक्तिकं साध्यं विपक्षो वा तत्र निर्धूमत्वादि व्याप्ये तत्त्वेन साध्ये निर्वह्नित्वादौ चाव्याप्तिः । तत्र हेत्वभावस्य २ पृ० ११ - १२) । साध्यतावच्छेदकसंबन्धावच्छिन्नं यत्साध्यवश्वं तदवच्छिन्न प्रतियोगिताकस्यान्योन्याभावस्य स्वप्रतियोगितावच्छेदकवत्त्व- बुद्धिविरोघिता घटकसंबन्धेन यदधिकरणम् तन्निरूपित हेतुतावच्छेदक- संबन्धावच्छिन्नवृत्तितानवच्छेदकहेतुतावच्छेदकधर्मवत्त्वम् इति समुदि- तार्थ : (वै० वि० ३ । १२।१४ ) (मु० २) । ( ६ ) साध्यासामाना- धिकरण्यानधिकरणत्वम् । तस्य निष्कृष्टार्थस्तु साध्यनिष्ठाघेयत्वानिरूप- काधिकरणत्वव्यापकाभावप्रतियोग्यधिकरणतासामान्यकत्वम् इति । तेन सत्तावान् द्रव्यत्वादित्यादौ न दोषः ( दीधि ० २ पृ० १३) । इदं लक्षणं सिंहलक्षणम् इत्युच्यते । (७) साध्यवैयधिकरण्यानधिकरण- त्वम् ( चि० २ पृ० २) । इदं लक्षणं व्याघ्रलक्षणम् इत्युच्यते । एतावन्ति सप्त लक्षणान्यन्वयव्यतिरेकिकेवलव्यतिरेकिणोर्हेत्वोर्लक्षणानि । न तु केवलान्वयिनो हेतोः । तत्र साध्याभावाद्यप्रसिद्धेः । अग्रिमलक्ष- णानि तु केवलान्वयिसाधारणान्यपि इति बोध्यम् । (८) यत्समाना- धिकरणा: साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदक प्रतियोगिताका यावन्तः अभावाः प्रतियोगिसमानाधिकरणाः तत्त्वम् । साध्यतावच्छेद- कावच्छिन्नव्यापकतावच्छेदिका या या प्रतियोगिता तत्तदाश्रयसामानाधि- करण्यं यत्र कचिद्यावदधिकरणान्तर्भावेन तत्त्वम् इति समुदितार्थ: ( ग० चतु० ) । अत्र यावन्तः अभावाः इत्यनेन केवलान्वयिनि वाच्य- त्वादौ साध्ये समवायितया वाच्यत्वाभावम् वह्निमान् घूमादित्यादौ तु घटत्वेन वहयभावादिकं व्यधिकरणधर्मावच्छिन्नाभावमादाय लक्षणसम- अन्वयः कर्तव्यः इति विज्ञेयम् । इदं लक्षणं च दीधितिकृता स्वयं लक्षणानि सौन्दडोपाध्यायाभिमतव्यधिकरणवर्मावच्छिन्नाभावाभिप्राय- कृतम् इति प्रथमं स्वलक्षणम् इत्युच्यते । एतल्लक्षणमारभ्य चतुर्दश- काणि चतुर्दशलक्षणीसंज्ञकानि च भवन्ति इति बोध्यम् । ( ९ ) यत्समा- नाधिकरणानां साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्न- प्रतियोगिताकानां यावदभावानां प्रतियोगितावच्छेदकावच्छिन्नसामानाधि- करण्यम् तत्त्वं वा । अत्र केवलान्वयिसाध्यकस्थले ज्ञेयत्वत्वादिना वाच्य- त्वादीनामभावः सुलभः ( दीधि ० २ ) । वह्निमान् धूमादित्यादौ तु वह्निः त्वेन घटाभाव: सुलभः इति विज्ञेयम् । इदमपि च लक्षणं दीधितिकृता स्वयं कृतम् इति द्वितीयं स्वलक्षणम् इत्युच्यते इति बोध्यम् । चक्रवर्तिकृतं लक्षणत्रयं चेत्थम् । ( १० ) व्याप्यवृत्तेर्हेतुसमानाधिक रणस्य साध्याभावस्य प्रतियोगिताया अनवच्छेदकं यत् साध्यतावच्छेद- कम् तदवच्छिन्नसामानाधिकरण्यम् । यादृशप्रतियोगितासंबन्धावच्छिन प्रकारतावच्छेदक यत्किंचिद्धर्मावच्छिन्नानधिकरणत्वं हेतुमतः तदनवच्छे- दकावच्छिन्नसामानाधिकरण्यम् इति पर्यवसितोर्थः ( ग० चतु० चक्र० ) । ( ११ ) हेतुसमानाधिकरणस्य व्याप्यवृत्तेरभावस्य प्रतियो गितायाः सामानाधिकरण्येनानवच्छेदकं यत् साध्यतावच्छेदकम् तद गिव्यधिकरणस्याभावस्य प्रतियोगितायाः सामानाधिकरण्येनानवच्छेद वच्छिन्नसामानाधिकरण्यम् । (१२) हेतुसमानाधिकरणस्य प्रतियो । यत् साध्यतावच्छेदकम् तदवच्छिन्नसामानाधिकरण्यं वा । एतानि श्रीनि साध्यतावच्छेद कविशिष्टसाध्यसामानाधिकरण्यावच्छेदकस्व समानाधिकरण लक्षणानि चक्रवर्तिलक्षणानि इत्युच्यन्ते ( ग० चतु० ) / (१३) साध्याभावत्वकत्वम् । साध्यतावच्छेदक विशिष्टसाध्यसामानाधिकरण्यान तिरिक्तवृत्ति यद्धर्म विशिष्टसमानाधिकरणसाध्याभावत्वम् तद्धर्मवलम् इति समुदितोर्थः (ग० चतु० पृ० ३०) । (१४) यत्समानाधि करण साध्याभावप्रमायां साध्यवत्ताज्ञान प्रतिबन्धकत्वं नास्ति तत्वम् ॥ एते च द्वे प्रगल्भलक्षणे इत्युच्येते ( ग० चतु० ) । ( १५ ) भाववद्वृत्तित्वत्व विशिष्टनिरूपित विषयितासामान्ये प्रकृतानुमितिप्रतिबन्ध भाववति यद्वृत्तौ प्रकृतानुमितिविरोधित्वं नास्ति तत्त्वम् / यनिष्ठाण्या कतावच्छेदकत्वाभावः तत्त्वम् इति समुदितार्थ: (ग० चतु०१०/ ३१ ) । इदं च विशारदलक्षणम् इत्युच्यते । अथ मिश्रकृतं लक्षणत्रयं प्रदर्श्यते । (१६) यावन्तः साध्याभावाः यनिष्ठभेदप्रतियोगितावच्छेदकतावच्छेदकसाध्यतावच्छेद कावच्छिन्नव्यापक तावच्छेदकरूपावच्छिन्ना यावन्त्यः प्रतियोगिताः प्रत्येकं तत्तदवच्छेदका- वच्छिन्नतदाश्रयनिष्ठप्रतियोगितावच्छेदकताकमेदाधिकरण वृत्तित्वत्वव्याप- कप्रतियोगिताकतत्प्रतियोगिता निरूपकाभावसजातीयाभाववत्त्वम् इति स- मुदितार्थ: (ग० चतु० पृ० ४२) । अत्र साजायं च समानासमा नाधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वान्यतररूपेण ग्राह्यम् ( दीधि ० २ पृ० १७) । (१७) यावन्तस्तादृशाः साध्याभावाः प्रत्येकं तेषां सजा- तीयस्य व्यापकी भूतस्य व्याप्यवृत्तेरभावस्य प्रतियोगितावच्छेदकेन धर्मेण यद्रूपावच्छिन्नं प्रति व्यापकत्वमवच्छिद्यते तद्रूपवस्वम् । (१८) यावन्तस्ता- दृशाः साध्याभावाः प्रत्येकं तप्रतियोगितावच्छेदकेन धर्मेण यद्रपावच्छिन्नं प्रति व्यापकत्वमवच्छिद्यते तद्रूपवस्वं वा । (१९) परे तु वृत्तिमद्वृत्तयो यावन्तः साध्याभाववद्वृत्तित्वाभावाः तद्वत्त्वम् इत्याहुः । इदं लक्षणं च कूटाघटितलक्षणम् इत्युच्यते ( ग० चतु० पृ० ४७ ) । (२०) अन्ये तु वृत्तिमद्वृत्तयो यावन्तः साध्याभाव समुदायाधिकरणवृत्तित्वाभावाः तद्वत्वम् इत्याहुः । इदं लक्षणं तु कूटघटितलक्षणम् इत्युच्यते ( ग० चतु० पृ० ५२ ) । (२१ ) साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपा- वच्छिन्न प्रतियोगिताकव्याप्यवृत्तिस्वसमानाधिकरणयावदभावाधिकरणवृत्ति- त्वाभावा वृत्तिमद्वृत्तयो यावन्तः तद्वत्त्वम् ( दीधि ० २ चतुर्दशल० पृ० १४ - २१ ) । इदं लक्षणं तु पुच्छलक्षणम् इत्युच्यते इति विज्ञेयम् । यथा अन्वयव्यतिरेकिणि पर्वतो वह्निमान्धूमादित्यादौ केवलान्वयिसाध्य- कस्थले इदं वाच्यं ज्ञेयत्वादित्यादौ केवलव्यतिरेकिणि पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ च सद्धेतौ धूमादिहेतुनिष्ठा वह्नया दिसाध्यनि- रूपिता व्याप्तिः । पर्वतो वह्निमानित्यत्र घटत्वावच्छिन्न प्रतियोगिताकव- हृयभाववह्नित्वावच्छिन्न प्रतियोगिताकघटाभावघटत्वाद्यवच्छिन्न प्रतियोगिता- कवृत्तित्वाभावाद्यात्मकान् व्यधिकरणधर्मावच्छिन्नाभावान् यथायथमादाय पूर्वोक्तानां सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । इदं वाच्य- मित्यत्र च समवायित्थावच्छिन्नप्रतियोगिताक वाच्यत्वाभावज्ञेयत्वत्वावच्छि- नप्रतियोगिताकवाच्यत्वाभाव घटत्वाद्यवच्छिन्न प्रतियोगिता कवृत्तित्वाभावा- द्यात्मकान् व्यधिकरणधर्मावच्छिन्नाभावान् यथायथमादाय पूर्वोक्तानां सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । अत्राधिकं तु गदाधर र्यादौ चतुर्दशलक्षण्यां दृश्यम् । विस्तरभयान्नात्र दर्शितम् इति विरम्यते । अथ सिद्धान्तव्याप्तयः प्रदश्यन्ते । तत्र सिद्धान्तसिद्धान्वयव्याप्तिस् ८ (१) व्यापकस्य व्यायाधिकरण उपाध्यभाव विशिष्टः संबन्धः । इयं सिद्धान्तसिद्धा व्याप्तिश्च हेतुनिष्ठा साध्यनिरूपिता च अन्वयव्याप्तिः इत्युच्यते इति विज्ञेयम् ( न्या० बो० २ पृ० १४ ) । ( २ ) अव्यभि चरितसाध्यसामानाधिकरण्यम् । अस्ति चेदं पर्वतो वह्निमान् धूमवत्त्वात् इत्यादिसद्धेतौ । यत्र यत्र धूमस्तत्र वह्निः इति नियमस्य सत्त्वात् । चेदं पर्वतो धूमवान् वह्निमत्त्वात् इत्याद्यसद्धेतौ । यत्र यत्र वह्निस्तत्र तत्र धूमः इति नियमस्यासत्त्वात् । तप्तायः पिण्डे वह्निसत्त्वेपि धूमासत्वात् नास्ति( त०] कौ० २ पृ० ११ ) । ( ३ ) साधनत्वाभिमतसमानाधिकरणा- दी० पृ० न्योन्याभावप्रतियोगितानवच्छेदकसाध्यकत्वम् ( न्या०सि० (५५) । यथा वह्निमान् धूमात् इदं वाच्यं ज्ञेयत्वादित्यादौ व्याप्तिः । अस्य समन्वयः क्रियते । वह्निमान्धूमादित्यादौ साधनत्वाभिमतः धूमः । तस्य समानाधिकरणः तस्याधिकरणे पर्वते वर्तमानः अन्यो न्याभावः । न हि वह्निमद्भेदो भवति किं तु घटादिमद्भेद एव । । प्रतियोगिताया अवच्छेदको घटादिरेव । अनवच्छेदकस्तु साध्यात्मको " वह्निः । तत्कवं तत्सामानाधिकरण्यम् धूमेस्ति इति । इदं सद्धेतौ तत्य इदं वाय तत्र वर्त ज्ञेयत्वात् इत्यादिकेवलान्वयिसद्धेतुस्थले तु ज्ञेयत्वाधिकरणं घटः / तत्र मानोन्योन्याभावः । न हि वाच्यत्ववद्भेदः किं तु पटत्ववद्भेदः । तस्य प्रति तत्कवं ज्ञेयत्वेस्ति इति । ( ४ ) प्रतियोग्यसमानाधिकरणयत्समाना- योगिताया अवच्छेदकं पटत्वम् । अनवच्छेदकं तु साध्यात्मकं वाच्यत्वद // धिकरणान्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन " तस्य सामानाधिकरण्यम् । अत्र भावत्वं च इदमिह नास्ति इदमिदं भवति इति प्रतीतिनियामको भावाभावसाधारणः स्वरूपसंबन्धविशेषः / अतः न अभावसाध्यकव्यभिचारिण्यतिप्रसङ्गः ( दीवि० २१०४१// तथा अवच्छेदकत्वमिह पारिभाषिकमेव प्रतियोगितावच्छेदकानतिरिक्त- वृत्तित्वरूपं ग्राह्यम् । तच्च तदवच्छिन्न प्रतियोगिताकाभाववदसंबद्धस्वविशि- ष्टसामान्यकत्वम् । अथ वा स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छे- दकतत्कत्वम् । यद्वा स्वविशिष्ट संबन्धिनिष्ठाभावप्रतियोगितानवच्छेदका- २ वच्छेद्यत्वम् (दीधि ० २ अवच्छेदकनिरु० पृ० ४२) । अत्र यन्न भवति इत्येतत्पर्यन्तेन ग्रन्थेन यत्पदार्थस्य व्यापकत्वं बोध्यते । तेन व्यापकसामानाधिकरण्यं व्याप्तिः इति फलितम् । एवम् उत्तरत्रापि ज्ञेयम् । इयमेव सर्वोपसंहारप्रवृत्तव्याप्तिः इत्युच्यते । तदर्थस्तु सकल- हेत्वधिकरणान्तर्भावेन साध्यसत्त्व निर्वाह्यव्याप्तिः इति ( ग० बाघ ० ) । (५) प्रतियोग्यसमानाधिकरणयद्रप विशिष्टसमानाधिकरणात्यन्ताभाव- प्रतियोगितानवच्छेदको यो धर्मः तद्धर्मावच्छिन्नेन येन केनापि समं सामानाधिकरण्यं तद्रूपविशिष्टस्य तद्धर्मावच्छिन्नयावन्निरूपिता व्याप्तिः । स्वावच्छिन्नत्व साध्यतावच्छेदक संबन्धावच्छिन्नत्व एतदुभयाभाववत्तादृशप्र- तियोगितासामान्यको यो धर्मः तदवच्छिन्नसामानाधिकरण्यम् इति फलि- तोर्थः : ( ग० सिद्धा० ) । दण्ड्यादौ साध्ये परंपरासंबद्धं दण्डत्वादिक- मेव साध्यतावच्छेदकम् । अतः तत्तद्दण्ड्यभावमादाय नाव्याप्तिः ( दीवि० २ पृ० ३२) । (६) विशेषणताविशेषावच्छिन्नयद्धर्मवि शिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वं तत्संबन्धावच्छि- नसाधन समानाधिकरणायन्ताभावप्रतियोगितासामान्ये नास्ति साधने तद्धर्मविशिष्ट सामानाधिकरण्यं व्याप्तिः ( दीधि ० २ पृ० ३२-४३ ) । (७) यादृशप्रतियोगितावच्छेदकावच्छिन्नसाध्यतावच्छेदकसंबन्धावच्छिन्ननि- रूपकताकाधिकरणतावदन्यत्वं हेतुतावच्छेद कसंबन्धावच्छिन्नहेतुतावच्छेद- कावच्छिन्न निरूपकताकाधिकरणतावतः तन्निरूपितसाध्यतावच्छेदकताघ- टकसंबन्धावच्छिन्नावच्छेदकताशून्यं यत् साध्यतावच्छेदकम् तदवच्छिन्न- निरूपकताकाधिकरण तावद्वृत्तिवृत्ति यत् हेतुतावच्छेदकं तद्वत्वम् (वै० वि० ३।१।१४ पृ० १५२) (मु० २) । (८) यद्धर्मविशिष्टानधिकर- णत्वं हेत्वधिकरणस्य तद्धर्मभिन्नसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यम् ( दि० २ व्याप्तिनि० ) । ( ९ ) प्रतियोगिव्यधिकरणस्वसमानाधिक रणात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । (१०) यत्समाना- धिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधि- करण्यं वा । अन्यवृत्तिवह्नितद्वतोरन्यवृत्तिधूमवन्निष्ठात्यन्ताभावान्योन्या- भावप्रतियोगित्वाद्यधिकरणवहिधूमयोर्न व्याप्तिः । किं तु तत्तद्धूय समानाधिकरणतत्तद्व हिना ( चि० २१० ६-७) । (११) स्वसमानाधिकरणान्योन्याभावाप्रतियोगि यद्वत् तत्कत्वं वा । (१२) यावत्स्वसमानाधिकरणात्यन्ताभाव प्रतियोगितावच्छेदकावच्छिन्नं यत् त तियोगिकात्यन्ताभावसमानाधिकरणं यत् तेन समं सामानाधिकरण्यम् । समुदायार्थस्तु साधनसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेद यावन्तो धर्मा यद्धर्मावच्छिन्न समानाधिकरणात्यन्ताभावप्रतियोगितावच्छे- दकाः तद्धर्मावलीढसामानाधिकरण्यम् इति । एतदेव यावत्स्वव्यभिचार व्यभिचारिसाध्यसामानाधिकरण्यम् अनौपाधिकत्वम् गीयते (चि० २ पृ० ८ ) । (१३) यद्वा यावद्यत्समानाधिकरणात्यन्ताभावाप्रतियोगि प्रतिक व्याप्तिः (चि० २५० ६ - ८) । समुदितार्थश्च साध्यव्यापकतावच्छेद योगिकात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदेवानौपाधिकत्वरूपा कावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वव्यापकस्वसामानाधिकरण्यसामान्या भावकत्वम् इति ( दीधि० २८०५७ ) । ( १४ ) यद्वा यत्संबन्धिताक वहिसाध्यकघूमहेतुकस्थले वह्निमान् धूमादित्यादौ यत्र धूमस्तत्राभिः च्छेदकरूपवरवं यस्य तस्य सा व्याप्ति: ( चि० २ पृ० ८) । यथा इति साहचर्यनियमो व्याप्तिः ( त० भा० ) ( मू० म० १ ) (भा० प० ) (मु० २) ( त० सं० ) । तथा हि धूमस्य वह्निसंबन्धि घूमत्वमवच्छेदकम् । धूममात्रस्य वह्निसंबन्धित्वात् लक्षणसमन्वयः / वस्तु धूमसंबन्धे न वह्नित्वमवच्छेदकम् । वह्नेर्धूमासंबन्धिनि तप्तायः पिण्डे वृत्तिसाध्यम् तत्त्वम् स्वव्यापकसाध्यसंबन्धित्वपर्यवसन्नम् इति लघुभूतः गतत्वात् । अतस्तत्र नातिव्याप्तिः (चि २ पृ० ८) । अत्र यदन्यून- परिष्कारो विज्ञेयः ( दीधि० २ पृ० ६१) । अत्र नियमः व्यवसाय वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वतः ॥ इति । यत्र धूमस्तत्राग्निः इति साहचर्यनियमो व्याप्तिः । एतद्वाक्ययोजना विस्थम् । यत्र धूमस्तत्राग्निः इतीत्यत्र इतिपदं तादृ- शवाक्यपरम् । तत्तात्पर्यग्राहकं यत्रेत्यादि वाक्यम् । इतिपदार्थस्य च बोध्यतासंबन्धेन साहचर्यनियमेन्वयः (वाक्य ० २ पृ० १३) इति । साहचर्यनियम इत्यस्यार्थश्च साहचर्य सामानाधिकरण्यम् । तस्य नियमः । हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् इत्यर्थः ( त० दी० २ पृ० २० ) । तथा च हेतौ नियतसामानाधिकरण्यम् । तच्च साधनव्यापकसामानाधिकरण्यम् ( दीधि० २) (प्र० प्र०) । एवं च हेतोर्व्यापकं यत्साध्यं तरसामानाधिकरण्यं हेतौ व्याप्तिः इति सुगमः पर्यवसितोर्थः । यथा पर्वतो वह्निमान् घूमादित्यादौ सद्धेतौ धूमस्य व्यापको वह्निः तत्सामानाधिकरण्यं धूमे वर्तते इति लक्षणसम- न्वयो बोध्यः । अत्र घूमसमानाधिकरणो योत्यन्ताभावः घटात्यन्ताभावः न तु वह्नयत्यन्ताभावः । तथा च तदप्रतियोगी वह्निः तःसामानाधिकरण्यं धूमे वर्तते । धूमवांन्वहेरित्यादौ असद्धेतौ तु धूमसामान्याभाव- स्यापि हेतुसमानाधिकरणतया तत्प्रतियोग्येव धूमः इति नातिव्याप्तिः ( नील० २ पृ० २० ) । अथ वा नियतसाहचर्ये व्याप्तिः । नियतत्वं व्यापकत्वम् । साहचर्य सामानाधिकरण्यम् । तथा च धूमनियतवहिसा- मानाधिकरण्यम् (न्या० बो० २ पृ० १४ ) इति । यद्वा साहचर्य साध्यनिष्ठहेतुसामानाधिकरण्यम् । तन्नियमस्तन्मात्रसत्त्वम् । तद्विरोभ्य- सत्त्वम् इति यावत् । तथा च साध्यनिष्ठहेतुव्यापकत्वं स्वाश्रयसामानाधि- 1: करण्यसंबन्धेन हेतुसंबद्धम् । व्यापकताश्रयसामानाधिकरण्यम् इति पर्यव सितोर्थः (वाक्य० २ पृ० १३) । वेदान्तिनस्तु साहचर्य हेतोः साध्येन संबन्धमात्रम् । तस्य नियमो नियतत्वम् । अव्यभिचरितसंबन्ध इत्यर्थः इत्याहुः ( प्र० च० पृ० २९) । टीकाकृतो वेदेशतीर्थचरणास्तु साहचर्ये स्वदेशकालविशेषगतस्य हेतोः स्वदेशकालविशेषगतेन साध्येन अघोदेशनदी पूरादाव- संबन्धमात्रम् । न तु सामानाधिकरण्यम् । १०६ न्या० को● व्याप्तेः । नियमः अव्यभिचारः । तथा च अव्यभिचरितसाध्यसंबन्धो व्याप्तिः इत्युक्तं भवति इत्याहुः ( प्र० प० टी० वेदेश० पृ० ३० ) / व्याप्यव्यापकयोर्वैयधिकरण्येपि क्वचिद्व्याप्तिः । सा च उपरि सविता भूमे- ' रालोकवत्त्वादित्यादावनुपपत्त्या स्वीक्रियते ( म० प्र० ४ पृ० ६९) / अत्रेदं बोध्यम् । ( १ ) कयोश्चित् हेतुसाध्ययोः समानदेशकालयो र्व्याप्तिः । यथा रसस्य रूपेण । (२) कयोश्चित्समानदेशत्वेपि भिन्न- कालयोः । यथा धूमस्याग्निना । ( ३ ) कयोश्चित्समानकालत्वेपि भिन्न- देशयोः । यथा कृत्तिकोदयस्य रोहिण्युदय आसत्या । ( ४ ) कयो- श्चिद्भिन्नदेशकालयोः । यथा अधोदेशे नदीपूरस्य ऊर्ध्वदेशे वृष्या॥ ( ५ ) कस्यचित्कादाचित्कस्य समानदेशत्वेपि सार्वकालीनेन । पतनस्य गुरुत्वेन । ( ६ ) कस्यचित्समानदेशत्वेपि सार्वकालिक वर्तिनो व्याप्यवर्तिना । यथा संयोगस्य द्रव्यत्वेन । (८) कस्यचिद्या. कादाचित्केन । यथा शरीरत्वस्य विनाशित्वेन । ( ७ ) कस्य चिप्रदेश. प्यवर्तिनः प्रदेशवर्तिना । यथा रूपस्य संयोगेन । ( ९ ) कावर्तिनोर्व्याप्यवर्तिनोरप्यवयवभेदेन । यथा तुलोन्नमनाव नमनयो । कयोश्विदे इत्यादि (प्र०प० पृ० १३ - १४) । तथा च व्याप्तिस्मरणसह / लिङ्गस्य सम्यग्ज्ञानम् सम्यग्ज्ञातं वा लिङ्गम् व्याप्तिप्रकारानुसारेण । चितदेशादौ लिङ्गप्रमां जनयत् अनुमानम् इत्युक्तं भवति । अनुमानय द्विविधं सामर्थ्यम् व्याप्तिः समुचितदेशादौ सिद्धिश्च । न तु पक्षधर्मतानि । यमः ( प्र०प० पृ० १४ ) । व्याप्यस्य पक्षधर्मत्वं नाम समुचितदे शादिवृत्तित्वम् ( प्र० च० पृ० १९ ) । यथा <व्याप्यत्वम्> १ क व्यायाश्रयत्वम् (मु० २) । अत्रार्थे विग्रहः // व्याप्यते इति व्याप्यम् (वि आप् ण्यत्) । तस्य भावो व्याप्यत्वम् व्याति धूमः इत्याद धूम तूपाधिना । अत एव साधनतावच्छेदकभिन्नेन येन साधनताभिम [ख ] यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यस्य स्वरूपं तबस व्याप्यम् । यथा वह्निसामानाधिकरण्यं धूमे धूमत्वेनावच्छिद्यते । सोम व्याप्यत्वम् । साध्यसंबन्धोवच्छिद्यते स एव तत्र साधने विशेषणमुपाघिः इति वदन्ति । अत एव च साधनाव्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकत्वं लक्षणं ध्रुवम् ( चि० २ पृ० ८ ) । अत्रेदं बोध्यम् । उपपत्तिः युक्तिः । लिङ्गम् व्याप्यम् व्याप्तम् इति पर्याय: ( प्र० प० पृ० ११ टी० पृ० २९ ) (प्र० च० पृ० १९ ) इति । [ग] यत्समाना- धिकरणान्योन्याभावप्रतियोगिता येनावच्छिद्यते तत् तस्य व्याप्यम् ( न्या० सि० दी० पृ० ५६ ) । यथा अयोगोलकाद्यन्तर्भावेन वह्नि- समानाधिकरणान्योन्याभावप्रतियोगिता धूमेनावच्छिद्यत इति धूमो वहे- र्व्याप्यः । [ घ ] व्यभिचारित्वाभावः । यथा सोपाधिको व्याप्यत्वासिद्धः इत्यादौ व्याप्यत्वशब्दस्यार्थ: ( न्या० बो० ) । २ [क] न्यूनवृत्ति- त्वम् । यथा द्रव्यत्वव्याप्या जातिः इत्यादौ व्याप्यत्वशब्दस्यार्थः । [ख] अल्पदेशवृत्तित्वम् । यथा द्रव्यत्वस्य सत्तापेक्षया व्याप्यत्वम् ( अपरत्वम्) (मु० १ पृ० ३७ ) । <व्याप्यत्वासिद्धः> ( हेत्वाभासः ) [ क ] यत्र व्याप्तिर्नावगम्यते सः ( त०] भा० पृ० ४७ ) । स चासिद्धप्रभेदः इति बोध्यम् । लक्षणं तु वक्ष्यमाणा व्याप्यत्वासिद्धिरेव । व्याप्तेरग्रहो द्विधा संभवति । तदुच्यते । सत्या एव कचिद्व्याप्तेरग्रहात्कुत्रचित्पुनः । व्याप्तेरभावा दित्यस्य द्वैविध्यं तद्विदो विदुः ॥ ( त० व० २/३ । ४४ ) इति । ख साध्य - व्याप्यतावच्छेदकरहितो हेतुः । यथा पर्वतो वह्निमान् काञ्चनमयधू- मादित्यादौ हेतुर्व्याप्यत्वासिद्धः ( प्र० प्र० ) ( त० कौ० २ १० १५ ) । अत्र च व्याप्यतावच्छेदकत्वेनाभिमतं काञ्चनमयत्वम् तद्भूमे नास्ति इति धूमो हेतुर्व्याप्यत्वासिद्धः । एतज्ज्ञानं च परामर्शप्रतिबन्ध- कम् । धूमे काञ्चनमयत्वं नास्ति इति ज्ञाने सति वह्निव्याप्यकाञ्चनमय- धूमवान् पर्वतः इति परामर्शासंभवात् । एतस्य परामर्शस्य धूमे काञ्च- नमयत्व संबन्धावगाहित्वात् ( त० कौ० २ पृ० १५) इति । तथा च इति भावः । अत्र प्रसङ्गत इदं विज्ञेयम् । स्वसमानाधिकरण व्याप्यता- अनुमिति प्रतिबन्धकताघटितं हेत्वाभाससामान्यलक्षणमसिद्धहेतौ संपद्यते बच्छेदकधर्मान्तराघटितधर्मस्यैव व्याप्यतावच्छेदकत्वम् इति नियमः । अत एव केषांचिन्मते वह्निमान्नीलधूमादित्यादौ धूमत्वस्य व्याप्यतावच्छेद- "कत्व संभवेन तद्घटितनीलधूमत्वं गुरुतया न व्याप्यतावच्छेदकम् (मु० २ पृ० १६२) । अत्र नियमे धर्मे तदघटितत्वं च तदविष- यकप्रतीतिविषयत्वम् ( दीवि० २ पृ० ५९ ) । व्याप्यत्वासिद्धो द्विविधः एको व्याप्तिग्राहकप्रमाणाभावमात्रात् अपरस्तूपाधिसद्भावात् । त प्रथमो यथा यत्सत्तत्क्षणिकं यथा प्रदीपादि । द्वितीयो यथा ऋत्वन्तर्व तिनी हिंसा अधर्मः हिंसात्वात्तुबाह्यहिंसावत् इति ( त० भा० ) ( प्र० प० ) ( प्र० च० पृ० १९) । अत्र निषिद्धत्वमुपाधिः । अन्यत्र चोक्तम् । व्याप्यत्वासिद्धो द्विविधः साध्येनासहचरितः सोपा " व्याप्यत्वस्यासिद्धिर्यस्मात् इति व्युत्पत्त्योपाधिरेव व्याप्यत्वासिद्धिस्तद्वान् विकसाध्यसंबद्धश्च । सोपाधिके व्याप्यत्वासिद्धशब्दस्य समन्वयः क्रियते । इति । सोपाधिकसाध्यसंबद्धो हेतुश्च अनैकान्तिकोपि इति मतान्तरम् / ( प्र० प्र० ) । प्रथमो यथा यत्सत्तक्षणिकं यथा घनः संश्च स्पदीभूतः शब्दादिः इति । अत्र हि शब्दादिः पक्षः । तत्र साध्यम् । सत्त्वं हेतुः । न च अस्य हेतोः क्षणिकत्वेन सह प्रमाणमस्ति इति विज्ञेयम् ( त० भा० हेत्वा० पृ० ४७) ॥ यथा स श्यामो मैत्रीतनयत्वात् परिदृश्यमानमैत्रीतनयस्तोमवत् मैत्रीतनयत्वात् इति हेतुर्व्याप्यत्वासिद्धः । अत्र मैत्रीतनयत्वेन स्थाम साध्यम् । तेन मैत्रीतनयत्वं श्यामत्वे न प्रयोजकम् । किंतु शाकाद्याहा रपरिणाम एव । प्रयोजकश्च उपाधिः इत्युच्यते । अतः त्रीतनयत्व श्यामत्वेन संबन्धे शाकाद्याहारपरिणाम उपाधिः । यथा अग्नेर्धूमसंबन्ध पृ० ४७ ) । यथा वा पर्वतो धूमवान् वह्निमत्वा ७/// आर्द्रेन्धनसंयोगः । अत्रोपाधिसंबन्धाद्व्याप्तिर्नास्ति ( त०मा० हेला० दिव्यत्र वहि•मत्त्वं व्याप्यत्वासिद्धम् ( त० सं० ) ( त० मा० २ पृ० कम् साधनस्य वः अव्यापकं च इति ( प्र० प्र० ) (त० सं० ) । व्यभिचारितासंबन्धेन तादृशोपाधिविशिष्टं वह्निमत्त्वं व्याप्यत्वासिद्धम् इति भावः । उपाधित्वज्ञानेन व्यभिचारानुमित्या व्याप्तिग्रहप्रतिबन्धः फलम् ( वाक्य ० २ पृ० १८) । अत्रानुमानप्रकारच वह्निर्धूमव्यभि- चारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वाद्धटत्वादिवत् । यो यद्ध्याप- कव्यभिचारी सोभिचारी भवतीति ( न्या० बो० २-१८) । अत्र च पक्षस्यैव विपक्षत्वप्राध्या तत्र विद्यमानो हेतुरनै कान्तिकोपि भवति इति मतान्तरम् ( प्र० च० पृ० ३२ ) ( प्र० प्र० ) । अत्रायमर्थः । धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेत् धूम आर्मेन्धनसंयोगव्याप्यत्वं तुल्यवित्तिवेद्यतया गृह्यते । एवम् बहेरव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेत् वह्नौ तदव्याप्यत्वं गृह्यते । तदेव व्यभिचरितत्वम् । अर्थात् उपा- धिव्यभिचरितत्वं साधने गृहीतं चेत् उपाधिभूतार्द्रेन्धनसंयोगव्याप्यधू- मव्यभिचरितत्वं गृह्यत एव इति । एवं च प्रकृतानुमानहेतुभूतपक्षे वहौ साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम् । तथा च धूमाभा- ववदवृत्तित्वाभावरूपे धूमव्यभिचारे गृहीते वहौ धूमाभाववदवृत्तित्वरू- पव्याप्तिज्ञानप्रतिबन्धः फलम् । न च व्याप्यत्वासिद्धेर्व्यभिचाराभेद इति वाच्यम् । धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धित्वम् घूमाभावव द्वृत्तित्वत्वेन व्यभिचारत्वम् इति मेदात् (न्या० बो०२ पृ०१८–१९) । शिष्टं तु उपाधिशब्दव्याख्याने दृश्यम् । वेदान्तिनस्तूदाजहुः । व्याप्य- त्वासिद्धो द्विविधः साध्यसंबन्धरहितः सोपाधिकसंबन्धश्च । तत्रायो यथा सर्वं क्षणिकं सत्त्वात् इति । अत्र सर्वस्य पक्षत्वेन पक्षातिरिक्तसपक्षा- भावात् साध्यसंबन्धाभावो ज्ञेयः। द्वितीयो यथा वैधी हिंसा पापसाधनं [हिंसात्वा हिंसावत् इति । अत्र हिंसात्वपापसाधनत्वयोः संबन्धे निषिद्धत्वमुपाधि: ( प्र० च० पृ० ३१ ) । <व्याप्यत्वासिद्धिः> ( हेत्वाभासः हेतुदोषः ) [ क ] आश्रयासिद्धि स्वरूपासिद्धि एतदुभयमेदद्वयविशिष्ट सिद्धिः ( म० प्र० २ पृ० (२७) । यथा वह्निसाध्य कधूलिपटले धूमनिष्ठव्याप्त्यभावो व्याप्यत्वासिद्धिः ( न्या० म० २ पृ० २१ ) । [ख] सविषयवृत्तिप्रकृतसाध्यसाधन ग्रहविरोधितानवच्छेदकप्रकृतपक्षप्रकृतसाधन वैशिष्ट्यग्रहविरोधितावच्छेद- करूपशून्यस्य ज्ञानस्य विषयः असिद्धि: ( दीधि० २ पृ० २१७) / यथा पर्वतो वहिमान् काञ्चनमयधूमात् इत्यादौ धूमनिष्ठः काञ्चनमय- त्वाभावो व्याप्यत्वासिद्धिः । प्राचीनास्तु [ग] व्यर्थविशेषण हेतुतावच्छेदकम् (वै० वि० ३११/१५ पृ० १५७) / स्वसमा नाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितमित्यर्थः ( दीधि ० २ ० ५९ ) । इदं च हेत्वसिद्धिः इत्युच्यते । हेत्वसिद्धिस्तु साधनाप्रसिद्धि रेव इति विज्ञेयम् । यथा पर्वतो वह्निमान् प्रमेयधूमादित्यादौ प्रमेयधूम- त्वादिकं प्रमेयत्वरूपव्यर्थविशेषणघटिततया व्याप्यत्वासिद्धम् । [६] तल्लक्षणं तु साध्यसंबन्धितावच्छेदकत्व प्रकारकहेतुतावच्छेद कविशेष्यक हेतुतावच्छेदके व्याप्यतानवच्छेदकत्वमपि भवति व्याप्यत्वासिद्धिः । ( ल० व० ) । यथा पर्वतो वह्निमान्नीलधूमात् इत्यादौ नीलधूमावत्य ग्रहत्वावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबन्धकताश/ लियथार्थज्ञानविषयत्वम् प्राचामभिप्रायः । नीलधूमत्वं हि समानाधिकरणलघुघूमत्वघटित गुरुतया व्याप्यतानवच्छेदकत्वं व्याप्यत्वासिद्धिः इति वदन्ति । अयत्र इति धूमत्वमेव व्याप्यतावच्छेदकम् न तु नीलधूमत्वम् । अतस्तदव च्छिन्नव्याप्तेरसिद्धिः ( म० प्र० २ पृ० २७-२८) इति । वा नीलधूमत्वादेर्न व्याप्यतावच्छेदकत्वम् समानाधिकरणसंभवदन च्छेदकान्तरमपेक्ष्य गुरुत्वात् ( दीधि ० २ पृ० २१८) इति । व्याप्तिर्हि साध्यसंबन्धितावच्छेदकरूपा । गुरुधर्मश्च साध्यसंबन्धित च्छेदकः । अतो नीलधूमत्वादेः साध्यसंबन्धितानवच्छेदकत्वान्न व्याप्तिस रूपत्वम् ( गौ० वृ० ११२१८ ) इति । अत्रायमभिप्रायः । गुरुधर्मव्य हेतुतावच्छेदकत्वस्थले सर्वत्र पशुमान् सास्नादिमतः इत्यादावपि प्राची नैर्व्याप्यत्वासिद्धिर्नाङ्गीक्रियते । अपि तु स्वसमानाधिकरणव्याप्यता नव्यास्त्वेतनाङ्गीकुर्वन्ति । तथा हि व्यर्थविशेषणस्थळे न व्याप्यत्वासिबि च्छेदकधर्मान्तरघटितस्थल एव ( राम० २ पृ० १६२) इति / मंत्र हेत्वाभासः । पुरुषस्त्वधिकेन निगृह्यते इति ( दीधि ० ) (दि० २ पृ० १६२ ) । व्याप्यत्वासिद्धिश्व साध्याप्रसिद्धि साधनाप्रसिद्धि अव्यभि- चरितसामानाधिकरण्याभाव इत्यादिभेदेनानेकविधा ( दीधि० २ पृ० २१८ ) ( गौ० वृ० ११२१८) (मु० ) ( दि० २ पृ० १६२ ) (वै० वि० ३ । १ । १५ ) । तथा च साध्याप्रसिद्धिहेत्वप्रसिद्धिसाधना- प्रसिद्धिव्य।प्तिविशिष्टपक्षधर्मतादिविरहादयश्च व्याप्यत्वासिद्धिप्रमेदा एव नातिरिक्ताः ( दीधि ० २ पृ० २१७-२१८) ( न्या० म० २ पृ० २१ ) । व्याप्यत्वासिद्धिव्याप्योपि व्याप्यत्वासिद्धिरेव न पृथग्भूतः इति । शिष्टं तु हेत्वाभासशब्दव्याख्याने दृश्यम् । <व्याप्यवृत्तित्वम्> [ क ] प्राचीनमते स्वसमानाधिकरणात्यन्ताभावाप्रति- यत्वम् ( ० ) । यथा घटत्वद्रव्यत्वादीनां व्याप्यवृत्तित्वम् । [ख] नवीनमते तु अनवच्छिन्नाधारतावत्वम् ( ग० पक्ष० ) [ग] निरवच्छिन्नवृत्तिकत्वम् (ग० २ चक्र० ) । यथा रूपस्य व्याप्यवृत्ति- त्वम् । <व्यावर्तकम्> १ आश्रयाणां परस्परमेदानुमितिजनकम् । यथा विशेषस्त- तत्परमाणूनां व्यावर्तकः । तथा हि । अयं पृथिवीपरमाणुरितरपरमा- भ्यो भिद्यते एतद्विशेषात् इत्यनुमाने विशेषस्य हेतुत्वं बोध्यम् ( वाक्य० पृ० २२ ) । यथा वा सास्नादिमत्त्वं महिष्यादेर्व्यावर्तकम् । इतरमेद विधेयकानुमितिजनकतावच्छेदक विषयता विशेषाश्रयः इति तदर्थः ( नील० १ पृ० ४ ) । २ कचित् विशेष्यतावच्छेदकसमानाधिकर- णाभावप्रतियोगि । एतच्च व्यावर्तकं द्विविधम् विशेषणम् उपलक्षणं । तत्राद्यं यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादि: । द्वितीयं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरी- णजटादिकं व्यावर्तकम् ( ग० व्यु० का० ३५०९१) । शिष्टं तु तृतीया विशेषण उपलक्षण एतच्छन्दव्याख्यानेषु दृश्यम् । <व्यावहारिकम्> ( सत्त्वम् ) व्योमादेर्व्यावहारिकम् ( सर्व० सं० पृ० ४४६ शां० ) । <व्यावृत्तत्वम्> १ अवृत्तित्वम् । यथा यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः (भा० प० श्लो० ७४ ) इत्यादौ सपक्षविपक्षव्यावृत्तो हेतुरसा धारणः इत्यादौ च व्यावृत्तत्वमवृत्तित्वम् । २ विरोधः । यथा अनु- वृत्तत्वव्या वृत्तत्वाभ्यां वह्नितदभावोपस्थापकस्य धूमस्य ( दीधि ० ) इत्यादौ व्यावृत्तत्वशब्दस्यार्थो विरोध: ( ग० सव्य० पृ० ९) । ३ कचित् अन्योन्याभावप्रतियोगित्वम् । यथा नराणां क्षत्रियः शूरः वा इत्यत्र निर्धारण विभत्त्यर्थो व्यावृत्तत्वम् । इदं च अभेदान्वयिविधेय- समभिव्याहारस्थले विज्ञेयम् ( ग० व्यु० का० ६ पृ० ११४) । मन्त्र विशेषस्तु निर्धारणशब्दव्याख्याने दृश्यः । ४ अत्यन्ताभावप्रति रणविभक्त्यर्थो व्यावृत्तत्वम् । इदं तु मेदान्वयिविधेयसमभिव्याहा योगित्वम् । यथा नराणां क्षत्रिये शौर्यम् नरेषु वा इत्यत्र निर्धा- रस्थले विज्ञेयम् (ग० व्यु० का० ६ पृ० ११४) । ५ इतरमेदा- यथा वा स तु विशेष: स्वत एव व्यावृत्तः (मु० १ पृ० ३६-३७/ नुमितिविशेष्यत्वम् । यथा गौरितरेभ्यो व्यावृत्ता इत्यादौ गोर्व्यावृत्तत्वम् / टी० ) । यथा व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ( कुमार० इत्यादौ विशेषपदार्थस्य व्यावृत्तत्वम् । ६ काव्यज्ञास्तु निवृत्तत्वम् ( कुमा० २ श्लो० ३५ ) इत्यादौ इत्याहुः । ७ कृतवरणत्वम् इति यात्रिका । आहुः ( अमरः ३।१।९२ ) । <व्यावृत्तिः> १ [क] तत्तद्धर्मावच्छिन्नेतरभेदः (नील० पृ०५ ) ॥ यथा व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिः (त०) दी० ) इत्यादौ व्यावृत्तिशब्दस्यार्थः । [ ख ] इतरमेदानुमितिः । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् इत्यत्र व्यावृत्ति शब्दस्वार्थः पृथिवीतरेभ्यो भिद्यते इत्यनुमितिः । तथा हि गन्धाभाव इतरत्वव्यापकत्व- ग्रहे सति गन्धवती पृथिवी इति पक्षधर्मताग्रहे पृथिवीतरेभ्यो भि (चि० २ पृ० २८) इत्यादौ व्यावृत्तिशब्दस्यार्थोत्यन्ताभावः इत्यनुमितिरुत्पद्यते सैव व्यावृत्तिः (वाक्य० पृ० २) । २ अत्यन्ताभावः । यथा यद्ध्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतानुपाि। ३ प्रयोजनम् । यथा एतद्विशेषणदानस्य व्यावृत्तिः कथ्यते इत्यादौ व्यावृत्तिशब्दस्यार्थः प्रयोजनम् । <व्यासः> १ विस्तारः ( अमरः ३ । २ । २२ ) । यथा समासव्यासयोगतः इत्यादौ ( प्र० च० परि० २ पृ० ५४ ) । २ वैयाकरणास्तु [क] समासादिसमानार्थकं विग्रहवाक्यम् । यथा राजपुरुष इत्यत्र राज्ञः पुरुषः इति व्यासवाक्यम् इत्यादौ व्यासशब्दस्यार्थः । [ख] पदानां समासा - भावः इत्यप्याहुः । ३ सत्यवत्यां पराशराज्जातः श्रीनारायणस्य सप्तदशो- बतारविशेषः ( ब्रह्मवै० पु० अ० ४) । यथा व्यासो नारायणः साक्षात् इत्यादौ व्यासशब्दस्यार्थः । स च उत्सन्नशाखं प्रनष्टं च वेदं संकलितवान् अष्टादश पुराणानां ब्रह्मसूत्राणां च कर्ता इति विज्ञेयम् । तदुक्तम् अष्टादशपुराणानां कर्ता सत्यवतीसुतः इति । भागवते चोक्तम् ततः सप्तदशे जातः सत्यवत्या पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोल्पमेधसः ॥ ( भाग० १।३।२१) इति । ४ ततोन्यो मुनिविशेषः । तत्रोक्तम् प्रह्लादनारदपराशरपुण्डरीक व्यासाम्बरीषशुकशौनक भीष्मदा- ल्भ्यान् । रुक्माङ्गदार्जुनवशिष्ठ विभीषणादीन् पुण्यानिमान्परमभागवतान् स्मरामि ॥ इति । ५ मानविशेष: (परिमाणम्) ( शब्द० २० ) । ६ लीलावतीकारस्तु वृत्तक्षेत्रस्य मध्यस्थरेखा । यथा व्यासे भनन्दाग्निहते इत्यादौ इत्याह । ७ पौराणिकास्तु पुराणपाठको विप्र इत्यागः । तदुक्तम् य एवं वाचयेद्विप्रः स ब्रह्मन् व्यास उच्यते इति । <व्यासङ्गः> [क] कार्यान्तरत्यागेनैकपरत्वम् । [ख ] मनसो विषयान्त- रानासक्तिः । [ग] इन्द्रियाणां स्वस्वविषयसंबन्धे सति यत्किंचिदि- न्द्रियजन्यज्ञाने सत्यपीन्द्रियान्तरजन्यज्ञानाभाव इति केचिद्वदन्ति । <व्यासज्यवृत्तित्वम्> स्वसमानाधिकरण भेद प्रतियोगितावच्छेदकत्वम् ( ग० २ चतु० मिश्र० ) । समानाधिकरणभेद प्रतियोगितावच्छेदकत्व तादात्म्य एतदुभयसंबन्धेन यत्किंचित्पदार्थविशिष्टत्वम् इत्यर्थः । यथा उभयत्वस्य व्यासज्यवृत्तित्वम् । २ अपेक्षाबुद्धिविशेषविषयत्वम् १०७ न्या० को० अपेक्षाबुद्धिजन्यत्वं वा । यथा द्वित्वत्रित्वादीनां व्यासज्यवृत्तित्वम् ( ग० व्यु० का० १ ) । <व्युत्पत्ति:> १ विशेषेणोत्पत्तिः । २ शास्त्रजन्यः शब्दार्थज्ञाना दिसंपाद्यः संस्कार विशेषः । ३ शब्दानामर्थबोधकशक्तिः । ४ यां बुद्धिमा क्तिग्रह: ( नील० ४ पृ० २९ ) । यथा व्युत्पित्सुर्बालो गोपदस्य गोव साद्य पदार्थविशेषबोधः सा ( चि० २ पृ० १६) । ५ शब्दश- विशिष्टे शक्ति: अश्वपदस्याश्वत्वविशिष्टे शक्तिः इति व्युत्पद्यते (त० दी० ४ ) इत्यादौ व्युत्पत्तिः । ६ विग्रहवाक्यम् । यथा पदस्यार्थ पदार्थः इति व्युत्पत्तिः ( त० दी० १ ) इत्यादौ व्युत्पत्तिशब्दस्यार्थः । ७ व्यवहारः । यथा लोकव्युत्पत्तिरित्यत्र व्युत्पत्तिशब्दस्यार्थः (नील ० ) । ८ नियमः । यथा पदार्थः पदार्थेनैवान्वेति न तु पदार्थतावच्छेदकेन । इति व्युत्पत्तिः इत्यादौ व्युत्पत्तिशब्दस्यार्थः । यथा वा नव्यमते यत्र समभिव्याहृतपदार्थतावच्छेद कफलाश्रयत्वबोधः तत्र द्वितीया इति व्युत्पतिः । इत्यादौ व्युत्पत्तिशब्दस्यार्थ: ( त० प्र० ४ पृ० ८४ ) । <व्युद्धृत्यसादनम्> कपालेभ्यः पुरोडाशं पृथक्कृत्यान्तर्वेद्यवस्थापनम् (० / न्या० अ० १० पा० १ अधि० ११ ) । <व्यूहः> १ निःश्वासादिः ( गौ० वृ० ३।१।३१) । यथा मतान्तरे मानुषा-/ ३।१।३१ ) इत्यत्र व्यूहशब्दस्यार्थः । २ प्रतिहतस्य परावर्तनम् (गौ० शरीरपरीक्षणे गन्धक्केदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् । वृ० ४ । २ । २० ) । यथा अव्यूहाविष्टम्भविभुत्वान्याकाशधर्माः (गौ०/ ४।२।२०) इत्यत्र व्यूहशब्दस्यार्थ: । ३ वासुदेवसंकर्षण प्रद्युम्नानि ज्ञकश्चतुर्विधो व्यूहः इति रामानुजीया वदन्ति ( सर्व० पृ० ) रामा० ) । ४ समूहः इति काव्यज्ञा आहुः । ५ निर्माणम् / ६ सम्यक तर्कः । ७ देहः । ८ सैन्यम् । ९ नीतिशास्त्रज्ञास्तु : विशेष इत्याहुः । अत्रोक्तम् । व्यूहभेदाश्च चत्वारो दण्डो भोगस्तु म लम् । असंहतश्च निर्णीता नीतिसारादिसंमताः ॥ अन्येपि प्रकृतिज्यू क्रौञ्चचक्रादयः क्वचित् । तिर्यग्वृत्तिश्च दण्डः स्यात् भोगोन्यावृत्तिरेव च ॥ मण्डलं सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः ( शब्दर० ) इति । तद्भे- दादिकं तु शुक्रनीतिसारादौ ज्ञेयम् । <व्रतम्> १ भक्षणविशेषनियमः । पुण्यसाधनीभूत उपवासादिनियमविशेषः । तथा हि । व्रतं च सम्यक्संकल्पजनितानुष्ठेयक्रिया विशेषरूपम् । तच्च प्रवृत्तिनिवृत्त्युभयरूपम् । तत्र द्रव्यविशेषभोजनपूजादिकं प्रवृत्तिरूपम् । उपवासादिकं च निवृत्तिरूपम् । तच्च निवृत्तिरूपम् नित्यम् नैमित्तिकम् काम्यं चेति त्रिविधम् । तत्र नित्यमेकादश्यादि व्रतम् । नैमित्तिकं चान्द्रा- यणादि व्रतम् । काम्यं तत्तत्तिथ्युपवासादिरूपम् । अत्रोक्तं भविष्यपुराणे सम्यक्संसाधनं कर्म कर्तव्यमधिकारिणा । निष्कामेन महावीर काम्यं कामान्वितेन च ॥ इति । अत्र विविधपुराणोक्ता व्रतभेदास्तु हेमाद्रौ । व्रतखण्डे तार्कादौ च दृश्याः । २ मानसव्यापारो व्रतशब्दार्थः (जै० सू० वृ० अ० ६ पा० २ सू० २२) । ३ चर्या । भस्मस्तानशय्यो- पहारजपप्रदक्षिणानि व्रतम् (सर्व० सं० पृ० १६९ नकु० ) । आहुः । <शक्तम्> शक्तिमत् । तच्च निरूपकतासंबन्धेन शक्तिमत् । यथा घटपटा- दिपदं कम्बुग्रीवादिमदर्थविशेषे शक्तम् (न्या० बो० ४ पृ० शक्तिश्चात्र वक्ष्यमाणा पदशक्तिया । समर्थम् इति काव्यज्ञा <शक्तिः> १[ क ] कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः । स च धर्मः प्रतिबन्धकाभावादिरूपकारणत्वात्मकः ( त० दी० ४५०४६ ) । यथा वह्नौ दाहानुकूला शक्तिः । अयं भावः । प्रतिबन्धकाभावस्य कार्यमात्रं प्रति कारणत्वेन दाहं प्रति तदुत्तेजकाभावविशिष्टमणिः प्रतिबन्धकः तदभावः कारणम् इति कार्यकारणभावोवश्यं स्वीकार्यः । तथा च तादृशकारण- वरूपैव शक्तिः इति ( चि० २ परिशिष्ट० पृ० ३४ ) ( नील० पृ० ४६ ) । [ख कारणत्वम् । तच्च स्वस्वव्याप्येतरसकलसंपत्तौ कार्याभावव्यापकाभावप्रतियोगित्वम् ( चि० २) । [ग] मीमांसक- विशेषाः प्राभाकरास्तु शक्तिः पदार्थान्तरमेव न तु कारणत्वरूपा इत्याहुः (नील० पृ० ४६) (दि० १ पृ० २२) । अत्रैवं शक्तिं साधयन्ति प्राभाकराः । ईश्वरवत्कार्येणैव शक्तिरप्यनुमीयते । तथा चानुमानम् वर्दािहानुकूलाद्विष्टातीन्द्रियधर्मसमवायी दाहरूपकार्यजनकत्वादात्मवत् इति ( प० मा०) । अयं भावः । यादृशादेव करानलसंयोगाद्दाहो जाते तादृशादेव सति प्रतिबन्धके न जायते । अतः यदभावात्कार्याभावः तद्ब्रह्म्यादावभ्युपेयम् । तेन विना तदभावात् । तथाच व्यतिरेक मुखेन शक्तिसिद्धिः इति ( चि० २ परिशि० पृ० २४ ) । अत्र वदन्ति । इयं शक्तिर्न द्रव्यात्मिका । गुणादिवृत्तित्वात् । अत एव न गुणात्मिका कर्मात्मिका वा । न च सामान्याद्यन्यतमरूपा । उत्पत्तिमत्वे सति विना- शित्वात् इति शक्तिपक्ष: (दि० १११ पृ० २३ ) । अत्र संग्रह लोकः भावान्तरं हि सा ॥ इति । एवम् ज्ञातता वैशिष्ट्यं सादृश्यं च न द्रव्यं गुणवृत्तित्वाद्गुणकर्मबहिष्कृता । सामान्यादिषु सत्त्वेन सिद्धा न्तरमूह्यम् ( न्या० ली० पृ० २) । नैयायिकास्तन्न सहन्ते । तथा दि तृणारणिमणिफूत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तरा। तिखीकारे गौरवम् । तावदनन्तव्यक्तिजन्यावान्तरवह्निव्यक्तिषु । निरासः । एवम् मीमांसकाभिमता व्रीह्यादिषु प्रोक्षणादिसंस्कारजन्या जातिकल्पने लाघवम् इति तदेव कल्प्यते ( चि० २ परिशिष्ट ई. बाद: पृ० ३३-३४ ) ( नी० ल० पृ० ४६) इति सहजशक्ति धेयशक्तिरपि निरस्ता वेदितव्या । पादाहतो युवतिभिर्विक सत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबको विकल जत्रमालोकित स्तिलक उत्कलिको विभाति ॥ इत्युक्तरीत्या कामिनीवर विशेषावच्छिन्नचरणदोहदादिसंयोगध्वंसस्यैव कर पदार्था-विशेष णाभिघातदोहदादिभिः अशोकपुष्पोत्कर्षदर्शनादपि नाधेयशक्तिः / सम चरणाभिघाताकृष्टभागान्तजनितवृक्षादेव तदुपपत्तिः । कालान्तरे पुष्पा युत्कर्षात् । दुःखावयवोपचयावश्यंभावेन वृक्षभेदावश्यकत्वात् / ताम्रकांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः । गध्वंसस्य संयोगसमानकालीनास्पृश्यस्पर्शादिप्रतियोगिकयावदना दिसंस- र्गाभावसहितस्य शुद्धिपदार्थत्वात् । अभिमन्त्रितपयःपल्लवादावपि समय विशेषावच्छिन्नाभिमन्त्रणध्वंस एव व्यथाद्यपनायकः । तत्तन्मन्त्रदेव- तासंनिधिरेव वा । कलमबीजादीनामापरमाण्वन्तभने तत्र चावान्तरजा- त्यभावे नियतकलमजातीयादिसिद्धिरपि परमाणुपाकज विशेषादेव। कार्य- वृत्तिरूपादिसजातीयस्य पूर्वरूपादिविजातीयस्य परमाणौ पाकजरूपादेरु- भयसिद्धत्वात् । यथा हि कलमबीजं यवादिजात्या व्यावर्त्यते तथा तत्परमाणवोपि पाकजैरेव इत्याद्यूहनीयमित्यलं विस्तरेण ( चि० २ परिशि० शक्ति० पृ० ३८ ) । २ पौराणिकास्तु स्त्रीदेवता शक्तिः । यथा वैष्णवी ब्राह्मी गौरी च इत्याहुः । अत्रोक्तम् इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योति- रोमिति ॥ (गोरक्षसं० ) (वराहपु० ) इति । ३ तान्त्रिकास्तु पीठाधि- ष्ठातृदेवताविशेषः इत्याहुः । ४ नीतिशास्त्रज्ञास्तु राज्ञः प्रभावोत्साह- मन्त्रजातं सामर्थ्यरूपं शक्तित्रयम् इत्याहुः । ५ वृत्तिविशेषः । अर्थस्मृ- अनुकूल: पदपदार्थसंबन्धः । स च पदशक्तिसमयसंगतिसंकेतवाचक- त्वादिभिर्व्यवह्वियते (प्र० प० पृ० ३९ ) । अत्र वैयाकरणा आलं- कारिकाश्चाढः । सैषा शक्तिः संयोगादिभिर्नानार्थक शब्देषु नियम्यते इति । तदुक्तं हरिणा संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । तदर्थश्च एते संयोगादयः शब्दार्थस्यानवच्छेदे संदेहे तदपाकरणद्वारेण विशेषस्मृतिहेतवो निर्णयहेतवः इति । उपस्थिताना मनेकेषामे कतरमात्रा- तात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनकाः इति : ( ल० म० पृ० १२) । नैयायिकास्तु प्रकरणादीनामिव संयोगादीना- मपि तात्पर्य ग्राहकत्वमेव । यथा सशङ्खचको हरिः इत्यादौ शङ्खशका- दिविशेषणम् इत्याहुः । अत्रेदं विज्ञेयम् । शक्तिप्रह: शाब्दबोधे जननीये पदजन्य पदार्थोपस्थितौ (स्मृतौ ) उपयुज्यते । अयं भावः । शक्तिर्हि एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति रीत्या पदार्थस्मारिका । तथा चायमर्थः । येन रूपेण चोपस्थितयोः पदपदार्थयोः संबन्धज्ञानम् तद्रः पावच्छिन्नज्ञानात्संबन्धांश उद्बुद्धसंस्कारसहकृतात्तद्रूपावच्छिन्न स्मरणम् । यथा हस्तिहस्तिपकयोः पाल्यपालकभावसंबन्धज्ञानेन हस्तिज्ञानाद्धस्तिप कस्मरणम् ( त० प्र० ख० ४ पृ० ३३ ) । तथा च शक्तिग्रहः शाब्द- बोधजनिकायां पदजन्यपदार्थोपस्थितौ सहकारी भवति ( न्या० म० ४ ) इति । पदपदार्थयोः संबन्धश्च [क] इदं पदममुमर्थ बोधयतु ( त० सं० ) । तदर्थश्व एतत्पदजन्यबोधविषयोयमर्थः इत्याकार इत्याकारक ईश्वरसंकेतः (मु० ४ ) ( न्या० म० ४ पृ०३) केश्वरेच्छा शक्तिः ( नील० ) इति । एतत्पदजन्यत्व प्रकारतानिरूपि तैतदर्थबोधविशेष्यताशालीच्छा इति वा ( त० प्र० ख० ४१० १४ ) ( ग० शक्ति ० ) । अत्र ईश्वरसंकेतो नामेश्वरेच्छा ( न्या० बो० ४ पृ० १९ ) । ईश्वरसंकेत इत्यस्यायं भावः । द्वादशेहनि पिता न कुर्यात् इति श्रुतिः । तथा च द्वादशाहः कालीन पित्राद्यच्चारितनामत्वादिया। नामवाच्यः शिशुः इत्याकारकेच्छयेश्वरेण तादृशश्रुतिप्रणयनादाधुनिक संकेतित चैत्रादिशब्देषु ईश्वरसंकेतोस्त्येव (त० प्र० ४ पृ० १५) इति । [ख] अस्माच्छब्दादयमर्थो बोद्धव्यः इत्यनादिसंकेतः ( त० कौ० // यथा घटाद्यर्थविशेष्यक घटा दिपदजन्य बोधविषयत्वप्रकारक ईश्वरसंकेत ( न्या० बी० ४ पृ० १९ ) । ग इच्छामात्रं शक्तिः इति नव्या आहुः (मु० ४) ( वात्स्या० २११/५४ ) । तथा च ईश्वरसंकेत एव न शक्तिः । किं त्वभियुक्तसंकेतमात्रं शक्तिः इति ( म०प्र० 840 ३८ ) । आधुनिकेतु संकेतिते न शक्तिः इति संप्रदायः / ईश्वरेच्छैव न शक्तिः । किं तु इच्छैव । तेन आधुनिकसंकेतितेपि सास्ति इति वदन्ति (मु० ४ ) । [घ मीमांसकास्तु अभिधा ;नाम पदा र्थान्तरं संकेतग्राह्यम् शक्तिः इत्याहुः ( न्या० म० ३ ) ( त० ५ ( ग० शक्ति ० ) । संकेतग्रहजन्यग्रहविषयः इत्यर्थः । नव्यास्तु शब्दसहकारिग्रह विषयः इति ज्ञेयम् (त० प्र० ४ पृ० १४)। [ङ] पदपदार्थयोर्वाच्यवाचकभावनियामकं संबन्धान्तरं शक्तिः इति शाब्दिका वदन्ति (वै० सा० द० ) ( ल० म० ) । [ च ] अवि- नाभाव एव शक्तिः इति प्राञ्चः अङ्गीचक्रुः ( त० प्र० ख० ४ पृ० ३७ ) । न्यायमते शक्तिस्विविधा योगः रूढिः योगरूढिश्चेति । तत्राद्या पाचकादिपदेषु । द्वितीया घटादिपदेषु । तृतीया पङ्कजादिपदेषु ( त० दी० ) । अत्र यौगिकरूढिस्तुरीयापि शक्तिरस्ति इति केचिद्व- दन्ति । माध्ववेदान्तिनस्तु महायोगाख्यामपि वृत्तिमङ्गीचक्रुः (प्र० च० पृ० ३९ ) । प्राभाकरास्त्वेवं पदशक्तिं विभजन्ते । पदशक्तिर्द्विविधा आनुभाविका स्मारिका च । आनुभाविका शाब्दानुभवजनिकेत्यर्थः । स्मारिका पदार्थस्मृतिज निकेत्यर्थ: ( त० प्र० ४ पृ० २८) । तत्राद्या कार्यान्विते । पदात्कार्यान्वितस्यैवानुभवात् । द्वितीया तु जातौ ( न्या० म० ४ पृ० ७-८) ( दि० ४ ) ( प्र० च० ३९ ) । पदाज्जात्युपस्थितेरेवानुभूयमानत्वात् इति भावः ( म० प्र० ४ पृ० ४० ) । अथ तत्तन्मते तत्तदर्थेषु पदानां शक्तेर्दिगिदानीं प्रदर्श्यते । गवा- दिपदानां जात्याकृतिविशिष्टव्यक्तौ शक्तिः इति संप्रदायविदो नैयायिकाः प्राहुः । जातौ व्यक्तौ वैशिष्ट्ये च एका शक्तिः इत्यर्थः (त० प्र० ख० ४ पृ० २५) । आकाशपदे तु निरवच्छिन्नैव शक्तिः । व्यक्तीनामा- नन्त्याभावेनानुगमकधर्मानपेक्षणात् ( त० प्र० ४ पृ० ३२ ) इति । व्यक्तावेब शक्तिः न तु गोत्वादिजातावपि इति नव्या आहुः । जातिवि- शिष्टव्यक्तौ शक्तिः इत्यपरे अङ्गीचक्रुः । अत्र जातिशब्दः शब्दप्रवृत्तिनि- मित्तपरः । तथा च आकाशादयः सर्वेपि शब्दाः प्रवृत्तिनिमित्तविशि- ष्टवस्तुवाचिनो भवन्ति इत्याशयः । घटशब्दो घटघटत्वयोः शक्तः । शुक्ल- शब्दो गुणगुणिनोः शक्तः । गतशब्दः क्रियातदाश्रययोः शक्तः । दण्डि- शब्दो दण्डदेवदत्तयोः शक्तः इयन्ये आहुः । वेदान्तिनस्तु गवादि- पदानां विशेष्यतया व्यक्तय एव वाच्याः । आनयनादिकं तु विशेषण. स्वादिना वाच्यम् इत्याहुः । एक तु गवादिशब्देषु जाति: देवदत्तादिसं- ज्ञाशब्देषु व्यक्तिः सास्नादिमच्छब्देषु आकृतिः इत्येवं त्रितयमपि वाच्यम् इत्याहुः ( प्र० च० ४ पृ० ३८) । जात्याकृतिव्यक्तिषु तिसृषु शक्तित्रयम् इति शाब्दिका मन्यन्ते । आकृतावेव शक्तिः इति पतञ्जलिप्रभृतय आहुः । जातावेव शक्तिर्व्यक्तिलाभस्त्वाक्षेपात् इति तौतातिता ( तुतातभट्टानुयायिनः ) प्राभाकराः कुमारिलभट्टादयश्चातुः । अयं भावः । गोत्वं हि स्वाश्रयं विना अनुपपन्नम् इति स्वाश्रयम् आक्षि पति इति । अत्र अर्थापत्तिराक्षेपः इति भट्टमतम् । समानवित्तिवेद्यत्व- माक्षेपः इति प्राभाकरमतम् इति विज्ञेयम् ( न्या० म० ४५० ६ ) / अत्र व्यक्तेः प्राधान्यानुभवाल्लक्षणा व्यक्तौ । आक्षेपे तूपसर्जनता स्यात् इति भट्टैकदेशिन आहुः । अत्रोक्तं भट्टपादैः आनन्त्यव्यभिचाराभ्यां शक्त्यनेकत्वदोषतः । न व्यक्तावाकृतौ तु स्यात्सर्वमेतत्समञ्जसम् ॥ अन्व यव्यतिरेकाभ्यामेकरूपप्रतीतितः । आकृतेः प्रथमं ज्ञाने तस्या एवा. । भिधेयता ॥ व्यत्तयाकृत्योरभेदाच्च व्यवहारोपयोगिता । लिङ्गसंख्याि संबन्ध: सामानाधिकरण्यधीः ॥ सर्वोपपन्ना च यतस्तस्मात्तत्रैव कल्पयेत् नै० सू० वृ० अ० १ पा० ३ सू० ३५) इति । पदानामन्वयवि- शिष्टे शक्तिः इत्यप्याहुः । अयं भावः । जातौ अन्विते (अन्वय विशिष्ट वाक्यार्थे ) चाभिधारूपा शक्तिः इति । तत्र प्राभाकरास्तु सिद्धार्थस्या. नुभावकत्वं नास्ति इति कार्यत्वान्वितव्यक्तौ ( इतरान्विते ) इत्याहुः ( त० दी० पृ० ३२) । अत्रोपहसितं श्रीहर्षमिश्रैः गुरुषि यमभावस्य स्थाने स्थानेभिषिक्तवान् । प्रसिद्ध एव लोकेस्मिन् बुद्धबन्ध प्रभाकरः ॥ इति । न्यायसिद्धान्तमञ्जरीकारः स्वयमप्युपजहास प्रता- युक्तमुत्पश्यामः इति ( न्या० म० ४ पृ० ९) । अत्रायमर्थः प्रतारका -रको वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकरः इति गृहीतो लोकैः इति इत्यत्र रेफककारयोर्व्यत्यासः । तकारलिप्यां भकारसादृश्यम् । वाक्यानां कार्यतावाचकलिङाद्यघटितत्वेन कार्यत्वाद्यबोधकत्वाच्छान्दा करः इति लोके प्रसिद्धः ( म० प्र० ४ पृ० ४० ) इति । अर्थवाद भवजनकत्वाभावेनाप्रामाण्यमेव इति तन्मतम् (न्या० म०४ ) (70 प्र० ४ पृ० २९) (चि० ४ ) । विध्येकवाक्यतया अर्थववाद प्रामाण्यम् इति मीमांसकसिद्धान्तः । जातौ व्यक्तौ चोभयत्र शक्तिः । किं तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसंती प्रत्यायिका इत्यन्ये मीमांसका आहुः । अत्राडुः गुरुमततत्त्ववेदिनः । विशिष्टगोचरा एकैव शक्तिः । किं तु जातिनिष्ठतया सा शक्तिः ज्ञातोपयुज्यते । व्यक्तौ सा स्वरूपसती । समानवित्तिवेद्यतया च व्यक्तेरपि भानम् इति ( न्या०सि० दी० पृ० १२ ) । अत्र व्यक्तेरन्वयप्रकारतया भानम् इति गुरुमतैकदेशिन आहुः । समासस्य विशिष्टार्थे शक्तिः इति शाब्दिका आहुः । तन्न । तंत्रावयवलक्षणयैवोपपत्तौ समुदायशक्तौ मानाभावः इति नैयायिकाः प्राहुः । मीमांसकास्तु समुदाये ( वाक्ये ) लक्षणा । स्वबोध्यसंबन्धस्यैव लक्षणापदार्थत्वादित्याहुः ( न्या० म० ख० ४ पृ० ११-१२ ) । गोपदस्य गोत्वे शक्तिः व्यक्तौ लक्षणा इति मण्डनमिश्राः स्वीचक्रुः । धातोश्च फलावच्छिन्नव्यापारे शक्तिः इति नव्यनैयायिकाः प्राहुः । फले व्यापारे च पृथक् शक्तिः इति शाब्दिका आहुः । तदुक्तम् व्यापारो भा- वना सैवोत्पादना सैव च क्रिया । कृञोकर्मकतापत्तेर्न हि यत्नोर्थ इष्यते ॥ (बै० सा० कारि० ५ पृ० २५) इति । फल एव शक्तिः इति मीमांस- कविशेषाः मण्डनादयः आहुः । व्यापारे शक्तिः इति रनकोशकृतः प्राची - नतार्किका: आहुः । तथा च क्रियामात्रं ( न तु फलावच्छिन्नम् ) धात्वर्थः इति प्राचां नैयायिकानामाशयः (ग० व्यु० का० २ ) । आख्यातस्य तु कृतौ शक्तिः इति नैयायिकाः प्रादुः । लः कर्मणि च (पाणि० सू० ३।४।६९) इति सूत्रात् कर्तरि कर्मणि भावे च शक्तिः इति शाब्दिका आहुः । व्यापारमात्रे शक्तिरिति मीमांसका आहुः । उत्पा- दकतायां शक्तिरिति रनकोशकृत आहुः । आलंकारिकास्तु जाति- गुणक्रिया संज्ञार्थेषु चतुर्विधा शक्तिरित्याहुः । आलंकारिकमतं दर्शितं यथा जातिद्रव्यगुणस्पन्दैर्धमैः संकेतवत्तया । जातिशब्दादिभेदेन चातु- विध्यं परे जगुः ॥ ( श० प्र० श्लो० १८) इति । तदर्थश्च गोगव- यादीनां गोत्वादिजात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशुना- दीनां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा अवच्छि- १०८ न्या० को० नशक्तिमत्त्वाचातुर्विध्यमेव रूढानाम् इति । यदुक्तं दण्ड्याचार्यैः । शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । च उक्तश्चतुर्विधः ॥ इति । तदेतच्छब्दशक्तिप्रकाशे खण्डितम् जड मूक मूर्खादी नामन्यशून्यादीनां च शब्दानामपरिग्रहापत्त्या परित्यक्तम- स्माभिः ( श० प्र० लो० १८ टी० पृ० १७) इति । अपोहायें शक्तिरिति बौद्धा मन्यन्ते । अत्रेदं बोध्यम् । प्रथमतः शक्तिब्रहो व्यव हारात् घटानयनादिरूपात् भवति । तथा हि घटमानय इति केनचिद प्रयोजकवृद्धेन नियुक्तः कश्चन प्रयोज्यवृद्धः तद्वाक्यतोर्ये प्रतीत्य घटमा मिनोति । तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानं घटानयनगोचरम् नयति । तच्चोपलभमानो बालस्तया क्रियया तस्य प्रयोज्यत्य प्रयत्नभनु- अनुमिनोति । स्वप्रयत्ने तेन तथा निश्चयात् । ततस्तद्धेत्वाकाङ्क्षायाद उपस्थितत्वाच्छब्दमेव कल्पयति । तदनन्तरम् घटादिपदानां प्रत्येक माबापोद्वापाभ्यां घटपदं घटवीजनकम् इति कल्पयति । कुते च तस्मिन् अतिप्रसङ्गभङ्गाय तज्जननानुकूलसंकेतरूपं संबन्धं कल्पयति ॥ अत्रातिप्रसङ्गस्तु घटपदं घटघीजनकमिव पटधीजनकमपि स्यात् इति अगृहीतशक्तिकानामपि घटबोध: स्यात् इति वा बोध्यः शक्तिग्रहानन्तरम् उपमानादिभिः शक्तिहो भवति (न्या० माग पृ० ५ ) । अत्रोक्तमभियुक्तैः । शक्तिग्रहं व्याकरणोपमानकोशातवाक्य द्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥ ( मुं० ४ ) ( त० प्र० ४ पृ० ७३ ) इति । तत्र (१) व्याकरणाच्छक्तिग्रहो यथा कर्मणि द्वितीया कर्तरि परस्मैपदम् इयतु/ शासनात्कर्मत्वाद द्वितीयादे: शक्तिग्रहः । धातुप्रकृतिप्रत्ययादीनां गवादिपदशक्ति वीसाचिव्येन गोसादृश्यातिदेश वाक्याद्द्ववयपदवा शक्तिग्रहो व्याकरणाद्भवति इति । ( २ ) उपमानाच्छक्तिग्रहो इत्याकार: । गोसदृशो गवयपदवाच्यः इति सादृश्यज्ञानाद्रपद धोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्यः गवये शक्तिग्रहो भवति इति वा । कचित्तु ( ३ ) कोशादपि शक्ति ग्रहो यथा स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः इत्यादिना नाकादि- पदस्य स्वर्गे शक्तिग्रहः । गुणे झुक्कादयः पुंसि गुणिलिङ्गास्तु तद्वति सुषीमः शिशिरो जड: चूर्णे क्षोदः इत्यादितश्च कोशाच्छक्तिग्रहः इति । ( ४ ) आप्तवाक्यादपि शक्ति ग्रहो यथा कोकिल: पिकपदवाच्यः इत्या- द्याप्तवाक्यात् पिकादिपदानां कोकिले शक्तिग्रहः इति । ( ५ ) व्यवहा- रादपि शक्तिग्रहो यथा घटं नय गामानय इत्याद्यावापोद्वापाभ्यां पार्श्व- स्थबालस्य घटादिपदस्य घटमात्रे शक्तिग्रहो भवति इति व त । ( ६ ) वाक्य- शेषादपि शक्तिग्रहो यथा यवमयश्चरुर्भवति इत्यत्र यवपदस्य दीर्घशूक विशेषे कङ्गौ वा शक्तिः इति संदेहे वाक्यशेषाद्दीर्घशूक विशेषे शक्तिर्निर्णीयते । वा- क्यशेषस्तु यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति इति । वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥ (मु० ४ पृ० १७७) इति च । यथा वा खाराज्यकामो- ग्निष्टोमेन यजेत इत्यादिविधिशेषीभूतेभ्यः यन्न दुःखेन संभिन्नं न च ग्रस्त- मनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्यादिवा- क्येभ्यः स्वरादिपदस्य स्वर्गसुखादौ शक्तिग्रह: ( श० प्र० टी० पृ० २४) । (७) कचित् विवरणादपि शक्तिग्रहो यथा घटोस्ति इत्यस्य कल- शोस्ति इत्यनेन विवरणाद्धटपदस्य कलशे शक्तिग्रहः । यथा वा पचति इत्यस्य पाकं करोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं कल्प्यत इति । कल्पनं तु ख्यातं यत्नत्वविशिष्टे शक्तम् यत्नःवविशिष्टशक्त करोति- प्रतिपादितार्थप्रतिपादकत्वात् इति ( दि० ४ पृ० १७७) । (८) प्रसिद्धपदस्य सांनिध्यादपि शक्तिग्रहो यथा इह सहकारतरौ मधुरं पिको रौति इत्यादौ पिकपदस्य मधुरादिप्रसिद्धपदसांनिध्यात्कोकिले शक्तिग्रहः । यथा वा नीरूपः स्पर्शवान् वायुः निःस्पर्शे मूर्तिमन्मनः इत्यादौ कृतां कन्यां ददानः ककुदः स्मृतः इत्यादावुक्तरीत्या कन्यादानादिषु रूपशून्य स्पर्शवदादिषु वाय्वादिपदस्य शक्तिग्रहः ॥ यथा वा सत्कृत्यालं- ककुदादिपदस्य शक्तिग्रह (मु० ४ पृ० १७७ ) ( श० प्र० लो० १२० टी० पृ० २३-२४) इति । (१०) वेदान्तिनस्तु अङ्गुली- प्रसारणादिपूर्वकं निर्देशेन शक्तिग्रहो भवति । यथा बाल तवेयं माता तवायं पिता अयं ते भ्राता कन्दलीफलमभ्यवहरति इति निर्देशन बालस्य मात्रादौ शक्तिग्रह: इत्याहुः ( प्र० च० परि० १ पृ० ३८ ) । शिष्टं च समयशब्दव्याख्यानावसरे संपादनीयमित्यत्रैव विरम्यते । शक्य त्वम्-१ विषयतासंबन्धेन शक्त्याश्रयत्वम् ( न्या० बो० ४ पृ० १९ ) । यथा गवादेरर्थस्य गोपदशक्यत्वम् । २ समर्थनीयत्वम् इति काव्यज्ञा आहुः । <शक्यप्राप्तिः> पदवाक्यप्रमाणानां ज्ञानजननप्रयोजकत्वम् । इयं शक्य- प्राप्तिश्च अतिप्राचीननैयायिकानां मते दशानां न्यायावयवानामन्तर्गता । ( वात्स्या० १११।३२ ) ( गौ० वृ० ११ १/३२ ) ( म०प्र० १ / पृ० ३३ ) । पचन् इत्यादौ शतृप्रत्ययार्थः । <शतकृष्णलम्> सुवर्णशकलशतम् ( जै० सू० वृ० अ० ८ पा० २ । <शत्रु> ( प्रत्ययः ) प्रकृतधात्वर्थकर्ता ( तो० ४ पृ० १२) । यथा । <शपथः> [क] स्वाभिप्रायबोधानुकूलशपथकरणम् । यथा गोपी कृष्णाय शपते इत्यादौ शपेरर्थः । अत्र कृष्णसंप्रदानकबोधानुकूलं शपथकरणम् इति बोध: ( ल० म० ) । [ख सत्यताकरणाय दिव्य विशेषकरणम् । यथा एतद्यदि मिथ्या स्यात्तदा म एतदनिष्टं स्यात् इत्यादि । <शब्द:> (गुणः ) [क] श्रोत्रग्रहणो योर्थः स शब्दः / शब्दलक्षणं च श्रोत्रप्राह्य गुणविभाजकधर्मवत्वम् ( वाक्य ० ४ ) । अथ वा अवणे-/ जातिश्च शब्दत्वरूपा । गुणत्वव्याप्यजातिघटितलक्षणकरणेन अद्भुत न्द्रियजन्यलौकिक प्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । ( वै० वि० २।२।२१ ) । शब्दस्त्वाकाशमात्रवृत्तिः बाह्यैकेन्द्रियप्रामः शब्दे नाव्याप्तिः । न वा सत्त्वगुणत्वादिकमादाय गुणान्तरेष्वतिव्यास द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एवानित्यः इति नैयायि कद्धान्तः । पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति इति सांख्या वेदान्ति- नश्चाहुः । स्वतन्त्रास्तु भेर्यां शब्द: मृदङ्गे शब्दः इति व्यवहारात्पृथिव्यामेव शब्दमिच्छन्ति ( सि० च० १ पृ० १८) । शब्दो न स्पर्शवद्विशेष- गुणः । प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् । अयावद्द्रव्यभाविश्वात् । आश्रयादन्यत्र श्रोत्रदेशे उपलब्धेश्च । शब्दो गुणो भूत्वाकाशस्याधिगमे लिङ्गम् ( प्रशस्त० पृ० ७) (मु० ख० १) इति । शब्दोम्बरगुणः श्रोत्रप्रायः क्षणिकः कार्यकारणोभयविरोधी संयोग विभागशब्दजः प्रदे- शवृत्तिः समानासमानजातीयकारणकः ( प्रशस्त ० गुणनि० पृ० ५५ ) इति । कार्यकारणविरोधीत्यस्यार्थश्च कार्यमुत्तरशब्दः । कारणं संयोगवि- भागशब्दाः । एतदुभयेनाप्ययं विरुद्ध्यते इति । [ ख ] श्रोत्रप्राह्यो गुणः । [ग] येनोच्चारितेन सास्नालाङ्गलककुदखुरविषाणिनां संप्र- त्ययो भवति स शब्दः । स च शब्दो द्विविधः बुद्धिहेतुकः अबुद्धिहेतु- कश्च । तत्र अबुद्धिहेतुको मेघादिशब्दः । बुद्धिहेतुकश्च द्विविधः स्वाभा- विकः काल्पनिकश्च । उभयत्रापि ध्वनेरुपकारकत्वावन्यात्मकता । तत्र स्वाभाविको वर्णविशेषान भिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधा- रणः । काल्पनिकोपि त्रिविधः वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च । तत्र भेरीशब्दादिर्वाद्यादिशब्दः । माधवादिरागाभिव्यञ्जकनिषादादिस्वरशब्दो गीतिरूपः । ध्वनिविशेषसहकृत कण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः ( शब्दार्थरने०) (वाच०) । अन्यत्र चेत्थं विभाग उक्तः । शब्दो द्विविधः ध्वन्यात्मकः वर्णात्मकश्च । तत्रायो भेरीमृदङ्गादौ प्रसिद्धः । द्वितीयः संस्कृतभाषादिरूपः शब्दः । अत्र भाष्यम् स च द्विविधः वर्णलक्षणः अवर्णलक्षणश्च । तत्र अकारादिर्वर्णलक्षणः । ध्वनि- क्षणश्चावर्णलक्षणः । अत्र पाठान्तरम् संख्या दिनिमित्तः अवर्ण- लक्षणः इति ( प्रशस्त ० गुण० पृ० ५५ ) । तत्र वर्णलक्षणस्योत्पत्तिः । आत्ममनसोः संयोगात्स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा । तदनन्तरम् प्रयत्नः । तमपेक्षमाणादात्मवायुसंयोगाद्वायौ कर्म जायते । स च वायुरू गच्छन् कण्ठादी नभिहन्ति । ततः स्थानवायुयोगापेक्षात्स्थानाकाश- संयोगाद्वर्णोत्पत्तिः । अथ ध्वनिलक्षणोपि ( १ ) मेरीदण्डसंयोगाद्वेगा- पेक्षार्याकाशसंयोगात्पद्यते । ( २ ) वेणुपर्वविभागापेक्षाद्वेण्वाकाश- विभागाच्च । ( ३ ) शब्दाच शब्द निष्पत्तिः । शब्दात्संयोगविभागनिष्प- नाद्वीचीसंतानवच्छब्दसंतानः इत्येवं संतानेन श्रोत्रप्रदेशमागतस्यान्य शब्दस्य ग्रहणम् । श्रोत्रशब्दयोर्गमनागमनाभावात् (संयोगग- मनाभावात् ) अप्राप्तस्य चानुपलब्धेः परिशेषात्संतानसिद्धिः (म शस्त० गुणनि० पृ० ५५-५६ ) (वै० २/२/३१) । अत्र शा ब्दिका आहुः । वर्णात्मकश्च शब्दो वस्तुत एकोपि तत्तद्वर्णसंस्कारः प्रतिविम्बिततत्तद्रूपोनन्तपदरूपतामिवापत्र इति सर्वपदरूपः सर्वार्थाभि धानशक्तिः । सा शक्तिर्योगिप्रत्यक्षगम्या नास्मज्ज्ञानगम्या । यत्रैवं 'व्यवहारादिना तज्ज्ञानं तस्यैवास्माकं बोधः इति मर्यादा ( उ०म० आका० पृ० ४९) । अत्रेयं व्युत्पत्तिः । शब्दयतेनेनार्थ इत्यभिधीयते ज्ञाप्यते इति ( वात्स्या० १।१।३) । अत्र वैयाकरणा आहुः । परा पश्यन्ती मध्यमा वैखरी इति चत्वारि वाचः पदानि । एकैच नादात्मिका वाङ्मूलाधारादुदिता सती परा इत्युच्यते । सैव हृदयाभिगा दिदी, पश्यन्ती इत्युच्यते । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमा इत्युच्यते । अथ यदा सैव वक्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति वैखरी इत्युच्यते । अत्र श्रुतिः गुहा त्रीणि निहिता नेङ्गयन्ति तुरी बाचो मनुष्या वदन्ति ( ऋ० १/१६४/४५) इति । ध्वन्यात्म कवर्णा मकौ द्विविधावपि प्रत्येकं त्रिविधौ संयोगजौ विभागजौ शब्दजौ चेति । तत्राद्यौ मेर्यामभिहन्यमानायां मेरीदण्डसंयोगान्यात्मकः । वायुक ताल्वादिसंयोगाद्वर्णात्मकश्च । द्वितीयौ वंशे पाठ्यमाने दलद्वयविभागाद द्वितीय शब्दादि चरमशब्दान्तौ ( वै० २/२/३१ ) । तत्र संयोगजे चटचटात्मको ध्वन्यात्मकः ओष्ठद्वयविभागाद्वर्णात्मकश्च / तृतीयौ च ध्वन्यात्मके भेर्याकाशसंयोगोसमवायिकारणम् । भेरीदण्डसंयोगो निमि- ध्वन्यात्मके तु वंशदलद्वयाकाश विभागोसमवायिकारणम् / वंशदलयी- भागो निमित्तकारणम् (त० कौ० ) (बै० उ० २/२/३१ ) । शब्द- जशब्दविषये तु वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा ये द्वितीयादयः शब्दाः ते शब्दजाः । तत्रोत्तरोत्तरशब्दे पूर्वपूर्वशब्दोसमवायिकारणम् । अनुकूलवातादिकं निमित्तकारणम् (त० कौ०) इति । वर्णात्मकः शब्दो द्रव्यम् इति मध्वमतानुयायिन आहुः (प्र० प्र० पृ० ११) । वर्णात्मकः पुनर्द्विविधः सार्थकः निरर्थकश्च । तत्र सार्थकः शब्दस्त्रिविधः प्रकृतिः प्रत्ययः निपातश्चेति (श० प्र० श्लो० ६ ) । निरर्थकस्तु कचटतप इत्यादिः । पुनरपि वर्णात्मको द्विविधः प्रमाणशब्दः अप्रमाणशब्दश्च । प्रमाणशब्द इत्यस्यार्थश्च शाब्दप्रमितिकरणज्ञानविषयः शब्द इति ( त० प्र० प० ४ पृ० ६ ) ( त० कौ० ) (प्र० प्र० ) । अयमर्थश्च शाब्दबोधं प्रति पदज्ञानस्य करणतामते संगच्छते । मणिकृतस्तु प्रयो- गहेतुभूतार्थतत्त्वज्ञानजन्यः शब्द इत्याहुः (त० प्र० प० ४ पृ० ५ ) । यथाश्रुतार्थस्य शाब्दप्रमितिकरणरूपस्याङ्गीकारे स चार्थः शाब्दबोधं प्रति ज्ञायमानं पदं करणम् इति मते संगच्छते इति विज्ञेयम् । प्रमाणशब्दत्वं च शाब्दप्रमितिकरणत्वम् (न्या० म० ४ ) । इदं लक्षणं च ज्ञायमानं पदं करणम् इति मताभिप्रायेणास्ति ( म० प्र० ४ ) । अथ वा प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयक तात्पर्यजन्यवाक्यत्वम् ( वाक्य० ४ ) । परे तु प्रमोपधायकशब्दत्वम् इति वदन्ति ( मू० (म० १ ) । तत्र प्रमाणशब्द आप्तोपदेशः । तदर्थश्च दृष्टयार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । तस्य २०५ १।१।७ ) । अथ वा प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः ( चि० ४ ) । सोपि द्विविधः लौकिक: वैदिकश्च । तत्राद्यो लौकिकः विधिनिषेधार्थवादभेदेन त्रिविधः । तत्र विधिर्यथा पार्क कुर्यात् इत्यादिः । निषेधश्च इदमनिष्टं न कुर्यात् इत्यादिः । अर्थवादस्तु अयं ब्राह्मणः स्वमहिम्ना सर्व जगत्पवित्रं करोति इत्यादिः स्वयमूह्यः स्तीरे पञ्च फलानि सन्ति इत्यादिरूपो वा (प्र० प्र० ) । द्वितीयस्तु वैदिकः पञ्चविधः विधिः मन्त्रः नामधेयम् निषेधः अर्थवादश्चेति । तत्र लौकिक: शब्द आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एव प्रमाण- भूतः । परमातेन भगवता प्रणीतत्वात् । प्रकारान्तरेणापि प्रमाण- शब्दो द्विविधः दृष्टार्थः अदृष्टार्थश्च । तत्राद्यो घटोस्ति इत्यादिरूपः । द्वितीयः स्वर्गनरकापूर्वादिशब्दः इति । अप्रमाणशब्दस्तु वहिना सिञ्चेत् गौरश्वः पुरुषो हस्ती इत्यादिरूपः इति । अत्र शब्दो न प्रमाणम् । शाब्दज्ञानं तु लैङ्गिकमेव । तथा च शब्दोनुमान एवान्तर्भवति इति वैशेषिकमतम् (वै० ९।२।३ ) । वैशेषिकादीनामाशयस्तु प्रमाण- शब्दव्याख्यानावसरे ( पृ० ५५४ ) प्रकटीकृतः । नैयायिकास्तु पृथ गेव शब्दो मानम् । तत्र प्रमाणं सूत्रम् आप्तोपदेशसामर्थ्याच्छन्दादर्थसं स्यार्थाव्याप्यत्वात् । न हि यत्र शब्दस्तत्र घटानयनादिरूपोर्थः इति प्रत्ययः ( गौ० २।१।५२ ) इति । न त्वनुमानविधया मानम् / शब्द- व्याप्तिः । शब्दस्याकाशवृत्तित्वात् । घटादेश्च तदवृत्तित्वात् (न्या० म० ४ ) । तथा च शब्दो ह्यतिरिक्तं प्रमाणम् । तच्च शब्दात्प्रत्येमि इत्यनुष्य- वसायगम्यज्ञानस्य प्रत्यक्षानुमित्यादिप्रतीतितो विलक्षणत्वेन तादृशज्ञा- वे ( त० दी० ) । अत्र शब्दस्य च शक्तत्वमेव । अपभ्रंशादितः ( गाव्यगगर्यादिशब्दतः ) भ्रमाच्छाब्दबोधः इति नैयायिकमीमांसकादय आहुः । नामपि शक्तत्व मस्त्येव इत्याहुः ( वै० सा० शक्तिविचा० । यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुः । अपभ्रंशा अत्र शब्दस्यार्थविशेषान्वयबोधने साधुत्वं च व्याकरणैकव्यक्जिका पुण्य जनकतावच्छेदकजाति: (वै० सा० द० पृ० १०३) / शब्दो साधुत्व शक्ति वैयाकरणा पृ० १५१/ णम शब्दो द्रव्यम् इति भट्टमीमांसका आहुः । अत्रानुमानं प्रमाणम् निरवयवेन्द्रियत्वात् मनोवत् इति च । गुणवस्खाच शब्दो द्रव्यम् । द्रव्यम् साक्षादिन्द्रिय संबन्धवेद्यत्वात् घटवत् इति । श्रोत्रं द्रव्यग्राहक / संख्यादयोपि हि शब्दधर्मा अनुभूयन्ते ( न्या० ली० गु०१० ४९) । शाब्दिकास्तु शब्दमुभयस्वरूपमिच्छन्ति । तारत्वादयो गुणाः शब्द निष्ठास्तदाश्रयत्वाच्छब्दस्य द्रव्यत्वम् आकाशरूपद्रव्याश्रयत्वा च इति ( ल० म० ) । तन्न सहन्ते वैशेषिकाः । एकद्रव्यत्वान्न द्रव्यम् (वै० १० २/२/२३) इति । तदर्थस्तु शब्दो नद्रव्यम् । एकद्रव्यत्वा देकमा- त्राश्रितत्वात् । न ह्येकमात्राश्रितं किमपि द्रव्यं प्रसिद्धम् इति ( वै० वि० २।२।२३) । शब्दो नित्यः इति प्राभाकरा भट्टाश्चाद्दुः । एतन्मते शब्दस्य नित्यत्वे प्रमाणमनुमानम् । तच्च शब्दो नित्यो व्योममात्रगुणत्वायोमपरि- माणवत् इति । अथ वा शब्दो नित्यः । अद्रव्यद्रव्यत्वात् । प्रत्यभिज्ञानाच इति च (न्या० म० ४ पृ० ३१) (त० प्र० ४ पृ० १२४) (न्या ० १० गु० पृ० ४९ ) । अथ वा शब्दो नित्यः निःस्पर्श द्रव्यत्वादात्मव- दिति । अत्रायमाशयः । सोयं गकारः इति प्रत्यभिज्ञाबलात् शब्दस्य, नित्य- स्वम् । अस्यां प्रत्यभिज्ञायाम् एतत्कालीनगकारे पूर्वकालीनग काराभेदो भासते । अतो नित्य इति भावः ( त० प्र० ख०ः ४ पृ० १२४) । गकार उत्पन्न: विनष्टश्च इति प्रत्ययस्तु शब्दव्यञ्जकवायूत्पत्तिविषयक एव इति ( न्या० म० ४ पृ० ३१ ) (३० २१ २ ३४-३५ ) । अत्र शब्दव्यञ्जकवायुरेवोत्पद्यते न तु शब्द उत्पद्यते इति भावः ( त० प्र० ख० ४ पृ० १२४ ) । प्रयत्नेन शब्दमुच्चारयतः पुंसो वायुभे रुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहय परावृत्तो विचरन्नानाविधाञ्छब्दानभिव्यनक्ति इति मीमांसकसिद्धान्तः । नानावि- धाञ्छब्दान् निष्पादयति इति तार्किकपाठ: ( म० प्र० : ४ पृ० ६४ ) । नैयायिकास्तु शब्दः अनित्यः इत्याहु: (वै० २१२/२८ ) । अयमा- शयः । सोयं गकारः इति प्रत्यभिज्ञायां पूर्वकालीनग कारसा दृश्यमेवैतद्ग- कारे भासते। यदि प्राभाकरमतानुरोध्यभेदो भासेत तदा सोमं घटः इति प्रत्यभिज्ञायामध्यभेदस्यैव तुल्यन्यायेन भासनस्यावश्यकतया घट स्यापि नित्यत्वापत्तिः । अतः शब्दस्यानित्यत्वमेव । शब्दस्या नित्यत्वे प्रमाणमनुमानम् । तच्च शब्दः अनित्यः सामान्यवत्वे सति बहिरिन्द्रिय- जन्यलौकिक प्रत्यक्ष विषयस्वाल किक प्रत्यक्ष विशेष्यत्वाद्वा घटवत् इति (गौ० वृ० २।२।१३ ) । तथा च सूत्रम् आदिमत्त्वादेन्द्रियकत्वात्कृत- कवदुपंचाराच ( गौ० २१२/१३) इति । शब्दोत्पत्तिविर्द्विधा केषां- १०९ न्या० को० चिन्नैयायिकानां मते वीचीतरङ्गन्यायेन तदुत्पत्तिः । केषांचिन्मते तु कदम्बको रकन्यायेन तदुत्पत्तिः ( भा०प० श्लो० १६७) । तत्राचा तदुत्पत्तिर्यथा आद्यया वीच्यान्यो महानेकस्तरङ्गो जन्यते । तेन तरङ्गेण च महत्तरं तरङ्गान्तरम् । तद्वत् आद्यशब्देन बहिर्दश दिगवच्छिन्नोन्यशब्द- स्तेनैव शब्देन जन्यते तेन चापरस्तव्यापकः शब्दः इत्येवं क्रमेण श्रोत्रो- [पत्तिः । अनन्तरम् तद्बहिर्दशदिगवच्छेदेन प्रथमशब्दात्तद्व्यापको द्वितीयः त्पन्नः शब्दो गृह्यते । भेरीदण्डाद्यभिघातात्तद्देशावच्छेदेना द्यशब्दसो- शब्दः । ततस्तद्वहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्द इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या । द्वितीया तदुत्पत्तिर्यथा । कदम्बपुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः तद्वत् आद्यशब्दाइ- / शसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते इत्येवं सर्वासु दिक्षूपर्युपरि शब्दानामुत्पत्तिः ( मु० गु० पृ० २३६ ) इति ॥ द्वितीयादिशब्दो नैकः न वा दशदिगवच्छिन्नः । किं तु दशसु दिक्षु । द्वितीयाद्याः शब्दा दश उत्पद्यन्ते इत्येतन्मते विशेषः (३०० / २।२।३७ ) । वायुगतेः समानत्वे प्रथमः पक्षः । असमानत्वं द्वितीय इति । बोध्यम् । वैयाकरणास्तु वर्ण: अकारादिः नित्यः इत्याहुः (न्या० म०४ / पृ० ३१) (चि० ४ ) ( त० सं० ) ( सि० च० ) (त० ०/ (नील० ) । तन्मते वर्णानां नित्यत्वे प्रमाणमनुमानम् / तच वयो॑ । नित्यो ध्वन्यन्यशब्दत्वात् स्फोटवत् ( न्या० म० ४ पृ० ३१) इति // तत्र अर्थबोधकशब्दं स्फोटात्मकमिच्छन्ति वैयाकरणाः । तथा च पचा-/ शद्वर्णा: अष्टाक्षरो मन्त्रः त्र्यक्षरो मन्त्रः अष्टाक्षरानुष्टुप् इत्यादिसंख्यामा पपद्यते इति । तन्न सहन्ते वैशेषिकाः । पञ्चाशदादिसंख्यायाः सद्भावः / कत्वगत्वादिजातित एवोपपद्यते इति न वर्णानां नित्यत्वम् इति (वै०) २।२।३७ ) । शब्दो न प्रमाणम् इति सौगता आहुः (प्र० प्र० प्र० ४ ) । अत्र मध्वमतानुयायिवेदान्तिनस्तु वेदान्तोपयोगित्वेनैवं शब्द विभजन्ते । शब्दो द्विविधः प्रमाणशब्दः अप्रमाणशब्दव । तत्र प्रमाण शब्दो निर्दोषशब्दत्वात् आगमः इत्युच्यते । आगमो द्विविधः अपौरुषेयः पौरुषेयश्चेति । तत्रापौरुषेय ऋगादिः सदागमः । पौरुषेयो महाभार- तादिः सदागमः इति । तदुक्तम् आगमो द्विविधो ज्ञेयो नित्योनित्यस्त- थैव च । ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ॥ मूलरामायणं चैव पुराणं चैतदात्मकम् । ये चानुयायिनस्तेषां सर्वे ते च सदागमाः ॥ दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ( प्र० च० परि० १५० ४१ ) इति । अत्र अपौरुषेयत्वादिविचारणं तु वेदशब्दव्याख्यानावसरे कृतम् इति तत्तत्र दृश्यम् । अप्रमाणशब्दस्तु दोषवत्त्वात् आगमाभासः इत्युच्यते । शब्ददोषास्तु अबोधकत्वम् विपरीतबोधकत्वम् ज्ञातज्ञापक- त्वम् अप्रयोजनवत्त्वम् अनभिमतप्रयोजनवत्त्वम् अशक्यसाधनप्रतिपाद- नम् लघुपाये सति गुरूपायोपदेशनम् इत्यायाः । तत्र अबोधकत्वं द्वेषा निरभिधेयत्वेन अन्वयाभावेन चेति । तत्राद्यस्योदाहरणम् कचटतपानां । जिनं दश दाडिमानि षडपूपाः इत्यादि । विपरीतबोधकत्वस्योदाहरणम् जबगडदत्वात् इति । द्वितीयस्योदाहरणम् गौरश्वः पुरुषो हस्ती कुण्डमजा- चिमतं मिथ्या शूद्राणां वेदविद्याधिकारोस्ति ब्राह्मणानां नास्ति इत्यादि । गुड: तिक्तं निम्बफलम् इत्यादि । अप्रयोजनवत्वस्योदाहरणम् काकस्य ज्ञातज्ञापकत्वस्योदाहरणम् पुरस्तादादिव्य उदेति पश्चादस्तमेति मधुरो कति वा दन्ता मेषस्याण्डं कियत्पलम् । कम्बले कति रोमाणि का वार्ता चोलमण्डले ॥ इत्यादि । अनभिमतप्रयोजनवत्त्वस्योदाहरणम् विरक्तं प्रति वाणिज्योपदेशः इत्यादि । अशक्यसाधनप्रतिपादनस्योदाहरणम् मृतमु द्दिश्य मृतिहरहिममहीधरोत्तरसानुसिद्धमृत संजीवनी कथनादि । लघुपाये इति तृषितं प्रति गीर्वाणतरङ्गिणीतीरे कूपखननोपदेशः इत्याद्रि ( प्र० सति गुरूपायोपदेशनस्योदाहरणम् नखेन जायमानं कार्य कुठारेण च० परि० १ पृ० ३६) । <शब्द पुनरुक्तम्> (पुनरुक्तम् निग्रहस्थानम् ) [ क ] शब्दार्थयोः पुनर्व- चनं पुनरुक्तमन्यत्रानुवादात् (गौ० ५/२/१४) । [ख] समानार्थक यथा वा नित्यः शब्दो नित्यः शब्दः इति ( वात्स्या० ५/२/१४ ) । अन्ये तुं शब्दपुनरुक्तं द्विविधम् तस्यैव शब्दस्य पुनरभिधानम् तस्यैव शब्दस्य पर्यायेणाभिधानं च इत्याहुः ( गौ० वृ० ५/२/१५ ) । <शब्दाध्याहारः> (अध्याहारः ) आकाशब्दानुसंधानम् ( नील० ४ पृ० ३१ ) । यथा पिधेहि इत्युक्ते द्वारम् इति द्वितीयान्तपदाध्याहारः । अत्राप्यथोध्याहार एव न तु पदाध्याहारः कर्तव्यः इति प्राभाकरा आहुः । नैयायिकास्तन्न सहन्ते । घटमानय इति वाक्यादिव घटः कर्मत्वम आप नम् कृतिः इति वाक्यादपि घटनिष्ठकर्मतानिरूपकानयनानुकूलकृतिमान् इति विशिष्टार्थविषयकशाब्दबोधोत्पत्त्यापत्तिवारणाय वृत्त्या पदविशेषज न्याया एव पदार्थोपस्थितेः शाब्दबोधं प्रति हेतुत्वस्य कल्पनीयतया शब्दा- <शब्दानुशासनम्> व्याकरणम् । अनेन द्वि वैदिकाः शब्दाः शं नो ध्याहार एवावश्यकः नार्थाध्याहारः ( त० दी० ४ पृ० ३१) इति । मिष्टय इत्यादयः तदुपकारिणो लौकिकाः शब्दा गौरश्वः पुरुषो हस्ती शकुनिरित्यादयश्चानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभाग- वत्तया बोध्यन्ते (सर्व० सं० पृ० २८८-२८९ पाणि ७) । <शब्दार्थः> अर्थशब्दव्याख्यानावसरे अस्य प्रपञ्चः संपादितः (चि०), ( ग० शक्ति० पृ० ३ ) । <शब्दोपजीवि> ( प्रमाणम् ) शब्दसहकृतेन येन प्रमितिर्जन्यते तत् (कु० / ५) । यथा स्मृतिपुराणादि । तत्तु वेदोपजीवि प्रमाणं भवति इति बोच्चम् // <शम्या> १ मुसलाकारकाष्ठम् ( जै० न्या० अ० ३ पा० १ अधि० ६)॥ २ रूक्षा इत्यर्थोपि (अ० ४ पा० १ अधि० १२ ) । <शरीरम्> [क] चेष्टेन्द्रियार्थाश्रयः शरीरम् (गौ० १/१/११ ) (त भा० प्रमेय० पृ० २५) । अत्र व्युत्पत्तिः शीर्यते इति ( शूईरन ) // प्रतिक्षणं क्षीयमाणं देहं शरीरम् । शरीरत्वं तु न जातिः । दिना संकरात् ( वै० वि० ४।२।१ ) (मु० पृथिवीत्वा परि० २) शरीरत्वं च प्रयत्नवदात्मसंयोगासमवायिकारणवत्क्रियावदन्त्यावयत्रित्वम (बै० उ० ४।२।१ ) । अथ वा अन्त्यावयविमात्रवृत्तिचेष्टावट्ट- प्तिजातिमत्त्वम् (वै० वि० ४ । २ । १ ) ( प० मा० ) । अत्रत्यपद- प्रयोजनमुच्यते । हस्तत्वपृथिवीत्वद्रव्यत्वसस्त्रादिवारणाय अन्त्यावय- विमात्रवृत्ति इति पदं दत्तम् । घटस्वादिवारणाय चेष्टावद्वृत्ति इति पदम् । घटशरीरसंयोगादिवारणाय जाति इति पदम् । एवं च मनुष्यत्व- चैत्रत्वादिजातिमादाय मानुषादिशरीरे लक्षणसमन्वयः । कल्पभेदेन नृसिंहशरीरस्य नानात्वान्नृसिंहत्व जातिमादाय तत्र लक्षणसमन्वयः । अथ वा अवच्छेदकतासंबन्धेन भोगाश्रयत्वम् ( वाक्य० ) । यद्वा चेष्टावदन्त्यावयवीतरावृत्तिजातिमत्त्वम् । भोगायतनवृत्त्यन्त्यावय- विमात्रवृत्तिजातिमत्त्रं वा ( प० मा० ) । जीवशरीरमात्रलक्षणं तु आत्मविशेषगुणजनकमनःसंयोगावच्छेदकत्वम् ( त० भा० ) । अथ चेष्टेन्द्रियार्थाश्रय इत्यस्यार्थ उच्यते । अत्र आश्रयपदस्य प्रत्येकम- न्वयाच्चेष्टाश्रयत्वादि लक्षणत्रयम् । इन्द्रियाश्रयत्वं चावच्छेदकताख्यस्वरू पसंबन्धविशेषेण । चक्षुष्मान् देवदत्तोयम् इत्यादिप्रतीतेः । अर्थाश्रयत्वम् इत्यत्रार्थशब्दः सुखदुःखान्यतरपरः ( गो० वृ० ११ १/११ ) । यद्वा शरीरानुविधानमिन्द्रियाश्रयत्वम्। शरीरस्योपघातानुविधानमित्यर्थः ( न्या० वा० ११ १/११ पृ० ७१ ) । [ख ] आत्मनो भोगायतनम् ( वात्स्या० १।१९ ) ( त० भा० पृ० २५ ) ( वाक्य० ) । यद- वच्छिन्नात्मनि भोगो जायते तद्भोगायतनमित्यर्थः ( त० दी० ) । हस्ताद्यवयवानां शरीरत्वानङ्गीकारे त्वन्त्यावयवित्वं देयम् । तथा चोक्तं भोगायतनमन्त्यावयवि शरीरम् ( त० को० ) इति । शरी- रमन्त्यावयवि चेष्टाभोगेन्द्रियाश्रयः ( ता० २० परि० १ श्लो० २८) इति च । यथा अस्मदादीनां पार्थिवशरीरम् ( त० सं० ) । तच शरीरं न पाञ्चभौतिकम् ( जलादिपरमाणुद्वयसंयोगासमवायिकारणकम् ) । पृथिवीत्वजलत्यादिजातीनां परस्परसांकर्यप्रसङ्गात् । किं तु पार्थिवमेव । स्वाभाविकगन्धवत्वात् । अत्र सूत्रम् पार्थिवं गुणान्तरोपलब्धेः ( गौ० ३।१।२८ ) इति । श्रुतिरपि सूर्य ते चक्षुर्गच्छतात् इत्यत्र मन्त्रे पृथिवीं ते शरीरम् इति श्रूयते ( वात्स्या० ३।१।३२) । मानुषादिशरीरेषु वेद- पाकादीनां जलादिविकाराणामुपलब्धिस्तु पञ्चानां भूतानां परस्परमुपष्ट- म्भकसंयोगादेव (वै० ४/२/२-४ ) ( गौ० ३११/३१ ) इति । एवं जलीयतैजसवायवीयशरीरेष्वपि विज्ञेयम् । शरीरं द्विविधम् योनिजम् अयोनिजं च ( वै० ४।२।५ ) । शुक्रशोणितसंनिपातजन्यं योनिजम् पृ० ४ ) । अयोनिजं च शुक्रशोणितसंनिपातानपेक्षम् । (व० उ० ४/२५ ) ( प्रशस्त० पृ० ४ ) । योनिजमयोनिजं च पार्थिवशरीरम् । तदुक्तं योगार्णवे देहश्चतुर्विधो जन्तोर्ज्ञेय उत्पत्तिभेदतः । उद्भिज्ज : स्वेदजोण्डोत्थश्चतुर्थश्च जरायुजः ॥ उद्भिद्य भूमिं निर्गच्छतु द्भिज्जः स्थावरश्च यः । उद्भिज्जा: स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः ॥ ( वाच० ) इति । आप्यं तैजसं वायवीयं चायोनिजमेव वरुणादित्यवायु- लोकेषु प्रसिद्धं च ( वै० उ० ४।२।११) । तत्र प्रमाणमनुमानम् / तथ जलत्वाद्यपि सामान्यं शरीरसमवायिगम् । द्रव्यारम्भक नित्यस्थजातिवा- पार्थिवशरीरम् द्विविधम् जरायुजम् अण्डजं च । जरायुजं मानुषपशु- पृथिवीत्ववत् ॥ (त० व० प्रमाणपरि० पृ० ११६) इति । तत्र योनिं गाणाम् । अण्डजं पक्षिसरीसृपाणाम् ( प्रशस्त० पृ० ४)19 मत्स्यादयोपि सरीसृपवदेव (वै० उ० ४१२१५ ) । वशरीरं च त्रिविधम् स्वेदजम् उद्भिज्जम् अदृष्टविशेषजन्यं च । स्वीक्रियते ( दि० १ ) ( त० कौ० ) । अहंकारेभ्यः समभवदङ्गिराः । बोध्यम् । अयोनिजपार्थिवशरीराणामुत्पत्तिर्धर्मविशेषसहितेभ्योणुम्प एवं स्वेदजं शरीरं यूकालिक्षादीनाम् । उद्भिज्जं वृक्षतृणगुल्मादीनाम् / अड इन्वर्थसंज्ञाया आगमेपि दर्शनात् ( त० व० पृ० ११७) इति । तत्र दीनां शरीरत्वमस्त्येव । तथापि चेष्टावत्त्वमिन्द्रियवत्वं च नोद्भिदां फुटत शेषजन्यं मन्वादीनां देवर्षिनारदादीनां च ( त० कौ० ) । यद्यपि वृक्षा- रम् । अतो न शरीरव्यवहारः (वै० उ० ४/२/५ ) । अतः वृक्षादीनां शरीरत्वं नेच्छन्ति (त० व० पृ० ११६) । अथ वृक्षादीनां शरीरत्वे प्रमाणमनुमानं प्रदर्श्यते । वृक्षादावपि चेष्टास्त्येव / आध्यात्मि कवायुसंबन्धात् । अन्यथा तादृशवायुसंबन्धानङ्गीकारे भग्नक्षतसंरोहणा- दिकं न स्यात् । किं च वृक्षादयोपि शरीरभेदा एव । भोगाधिष्ठान- त्वात् । न खलु भोगाधिष्ठानत्वमन्तरेण जीवन स्मरण स्वप्नजागरणभेष- जप्रयोगबीजसजातीय नुबन्धानुकूलोपगमप्रतिकूलापगमादयः संभवन्ति । भोगोपपादकः प्राणवायुः । तदुपपादकं तु वृद्धिक्षतभग्नसंरोहणादिकम् इति । आगमोप्यस्ति प्रमाणम् नर्मदातीरसंभूताः सरलार्जुनपादपाः । नर्मदातोयसंस्पर्शान्ति परमां गतिम् ॥ गुरुं हुंकृत्य तुंकृत्य विप्रं ४/२/५ ) (दि० ११२) इत्यादि । तथा शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ( याज्ञ० ) ( त० व० पृ० ११६) इत्यादि । मन्वा- दिविषये तु श्रूयते ब्रह्मणो मानसा मन्वादयः पुत्राः इति निर्जित्य वादतः । श्मशाने जायते वृक्षः कङ्कजापतिः प्रजा अनेका असृजत् । स तपोतप्यत । प्रजाः सृजेयमिति । समुखतो ब्राह्मणमसृजत् । बाहुभ्यां राजन्यम् । ऊरुभ्यां वैश्यम् । पद्भ्यां शूद्रम् (वै० उ० ४२११) इति । दुर्वासःप्रभृतयो मानसाः (वै० ४१२१८ ) ( प० ( त० व० ) । अत्रेदं इति । ब्राह्मणमपि अहंकारेभ्यः समभवदङ्गिराः इति । केचित्तु देवादीनां शरीरं तैजसमाहुः बोध्यम् । क्षुद्रजन्तूनामूष्मजानां मशकादीनां तु यातनाशरीरमध्ययो- निजमेव ( वै० उ० ४/२/५ ) (मु० १ ) ( सि० च० ) इति । एतच्छरीरं त्वधर्मविशेषसहितेभ्योणुभ्य एव जायते इति ज्ञेयम् (वै० ४/२/७ ) (प० मा०) । सुश्रुते विशेष उक्तः । द्रव्याणि पुनरोषधयः । ता द्विविधाः स्थावराः जङ्गमाश्च । तासां स्थावराश्चतुर्विधाः वनस्प- तयः वृक्षाः वीरुधः ओषधयश्च इति । जङ्गमा अपि चतुर्विधाः जरायु- जाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगस- पेसरीसृपप्रभृतयोण्डजाः । क्रिमिकीटपिपीलिकाप्रभृतयः खेदजाः । इन्द्र- गोपमण्डूकप्रभृतय उद्भिज्जाः इति । <शरीरी> जीवात्मा । यथा अथाकाशशरीरिणाम् ( मा०प० लो० २७) यादौ शरीरशब्दयार्थः । तत्स्वरूपं भावप्रकाशे सुश्रुतादौ चोतं यथा गर्भाशयगतं शुक्रमार्तवं जीवसंज्ञकः । प्रकृतिः सविकाराच तत्सर्वे गर्भसंज्ञकम् ॥ कालेन वर्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । तदा स मुनिभिः शरीरीति निगद्यते ॥ इति । तल्लक्षणादिकं तु जीव- शब्दव्याख्याने दृश्यम् । <शकेराः> मृत्तिकामिश्रा: क्षुद्रपाषाणाः शर्करा: ( जै० न्या० अ० १ पा० ४ अधि० १९) । <शस्त्रम्> अप्रगीतमन्त्रसाध्या स्तुतिः ( जै० न्या० अ० २ पा० १ अधि० ५ ) । <शांकरम्> आर्द्रा ( पु० चि० पृ० ३५३ ) । <शांभवी> ( कल्याणीशब्दे दृश्यम् ) । <शाक्य:> बुद्धः । शाक्यशब्द निरुक्तिरन्यथोक्ता । यथा शाकवृक्षप्रतिच्छतं वासं यस्मात्प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः ॥ इति भरतधृतवचनम् । इयमन्त्राख्यायिका । पितृशप्ताः केचिदिक्षा कुवंश्या गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे कृतवाला: <शाक्यायनम्> ( यागः ) षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यावनद शाक्य इति ख्यातिमापन्नाः इति ( वाच० ) । शिष्टं तु बुद्धशब्दे दृश्यम / ( जै० न्या० अ० ३ पा० ८ अधि० २३ ) । <शाठीसमः> ( जाति: ) त्वपक्षे किंचिद्दूषणं भविष्यति इति शङ्का (गौ० वृ० ५।१।३७ ) । अयं शाठीसमश्च सूत्रानुक्तोपि कार्यसमप्रभेदः वृत्तिकृता प्रतिपाद्यते इति विज्ञेयम् । इति <शानच्> ( प्रत्ययः ) १ प्रकृतधात्वर्थकर्ता कर्तृशानचोर्थः (तर्का० पृ० १२ ) । यथा पचमानः इत्यादौ । २ धात्वर्थजन्यफलवान् कृतां ल्युट्घञादीनां तु प्रयोगसाधुत्वमात्रं प्रयोजनम् इति विज्ञेयम्/ शानचोर्थः । यथा पच्यमान इत्यादौ । एवं कृतामप्यर्था ऊद्याः / भाव <शान्ति:> १ उपद्रवनिवारणम् । यथा शान्ता पृथिवी शान्तं पापर इत्यादौ । २ वेदान्तिनस्तु कामक्रोधादिजयः विषयेभ्यो मनसो निवारण च इत्याहुः । ३ दुर्गादेवी इति शाक्ता आहुः । ४ दैवज्ञास्तु पूजाहोमजप- दानादिद्वारा गोचरविलग्नादिस्थग्रहदौस्थ्यदुःस्वप्नादिसूचितैहिका निष्टहेतु- पापनिवृत्तिः । तदुक्तम् यथा शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥ ( मलमासधृतवाक्यम्) । यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः । आलं- कारिकास्तु शमस्थायिभावक निर्वेदव्यभिचारिभावकशान्ताख्यर सविशेष- निष्ठो धर्मविशेषः इत्याहुः । तदुक्तम् शान्तः शमस्थायिभाव उत्तम- प्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ ( सा० ५० परि० ३ श्लो० २४५ पृ० १८४ ) इत्यादि । <शाब्दज्ञानम्> शाब्दबोधशब्दवदस्यार्थोनुसंधेयः । <शाब्दबोधः> ( अनुभवः ) पदज्ञानकरणकं ज्ञानम् (मु० १) । तच्च वाक्यार्थज्ञानम् ( त० सं० ४ ) । अत्र व्युत्पत्तिः शब्दाज्जायमानो बोध: शाब्दबोधः इति । तत्र बोधे शाब्दत्वं च शब्दात्प्रत्येमि इत्यनुभव- सिद्धो जातिविशेषः । अथ वा जन्यपदधीजन्यत्वव्यभिचार्यनुभवत्वाव्या- पकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यघीत्वम् । विप्र- ह्श्व जन्यपदघीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका च या जाति: प्रत्यक्षत्वादिः तच्छ्रन्यत्वे सति पदविषयकत्वाव्यभिचारिणी या जातिः उपमितित्वम् तच्छ्रन्यधीत्वम् ( त० प्र० परि० ४ पृ० ३) इति । अत्र पदप्रयोजनम् सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय । उपमि- तावतिव्याप्तिवारणाय शून्यान्तम् (न्या० म० परि० ४१ पृ० १-२ ) । शाब्दबोधलक्षणं तु शक्तिलक्षणान्यतरसंबन्धेन पदजन्य पदार्थस्मृतित्वाव- च्छिन्नकारणतानिरूपितकार्यत्वम् ( वाक्य ० ४ ) । शाब्दबोधे च पद- ज्ञानं करणम् । पदार्थोपस्थितिर्व्यापारः । शाब्दबोधः फलम् । पदज्ञा- मस्य च शक्तिज्ञानम् आकाङ्क्षयोग्यतासंनिधीनां ज्ञानं च सहकारि इति वृत्तिज्ञानं सहकारि न तु शक्तित्वेन लक्षणात्वेन वा प्रातिस्विकरूपेण नव्यनैयायिकानां मतम् । अत्र विज्ञेयम् । तस्यां पदार्थोपस्थितौ वृत्तित्वेन ज्ञानं सहकारि इति । प्राञ्चां मतं तु तत्र शाब्दबोधे ज्ञायमानं पदमेव ११० न्या० को० करणम् । न तु पदज्ञानं करणम् ( त० प्र० ख० ४ पृ० १ ) (मु० ४ पृ० १७४ ) (भा०प० ) ( त० को० ) इति । अत्र नव्या आहुः । दिना च शाब्दबोध उत्पद्यते स न स्यात् । अतस्तत्र शाब्दबोधोपपत्तये ज्ञायमानपदस्य करणत्वाङ्गीकारे पदाभावेपि मौनिश्लोकादिना हस्तचेष्टा- पदज्ञानमेव करणम् न तु ज्ञायमानं पदं करणम् इत्यवश्यमङ्गीकर्त- व्यम् (मु० ४ पृ० १७४) इति । वाक्यार्थज्ञानमित्यस्य एकप- गामानय इति वाक्यजन्यः गोकर्मकानयनानुकूलकृतिमांस्त्वम् इति दार्थेपरपदार्थसंसर्गविषयकं ज्ञानम् इत्यर्थः ( वाक्य० ४ ) । यथा शाब्दबोधः । अत्रेयं शाब्दबोधप्रक्रिया । प्रथमं गवादिपदानां गवादौ गवा- दिर्गवादिपदशक्यो लक्ष्यो वा इति संबन्धज्ञानम् । ततः कालान्तरे केनचित् गामानय त्वम् इत्युक्ते गवादिपदेभ्यो गवादीनर्थान्स्मरति / आकाङ्क्षादीजानतस्तदनन्तरं गोकर्मकानयनानुकूलकृतिमांस्त्वम् इति शाब्दबुद्धिजोयते ( वाक्य० ४ ) इति । अत्र पदस्य पदार्थस्मारक च एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति न्यायेन बोध्यम् (त० प्र ४ पृ० ९२ ) । यथा वा चैत्रस्तण्डुलं पचति देवदत्तो ग्राम त्यादौ पाकानुकूलकृतिमांश्चैत्रः इति शाब्दबोधः । गच्छति इत्यादितश्च शाब्दबोधः । नैयायिकमते कर्त्राख्यातस्थले चैत्रः चैत्रेण पच्यते तण्डुल इत्यादौ तृतीयाया आधेयत्वमर्थः । फलावचिन व्यापारो धात्वर्थः । आख्यातबलाच कृतेर्लाभः । तथा च चैत्रनिष्ठक तिजन्यपाकजन्यफलशाली तण्डुलः इत्यन्वयबोधः ( त० प्र० ख०४/ पृ० ८५ ) । देवदत्तो ग्रामं गच्छतीत्यत्र द्वितीयाया अर्थः कर्मवर // धातोरथ गमनम् । जनकत्वं संसर्गमर्यादया लभ्यम् / लटो वर्तमानत्व मर्थः । आख्यातस्य कृतिरर्थः । तत्संबन्धः संसर्गमर्यादालभ्यः / एकवच-/ नाद्युपस्थापित मेकत्वादि सर्वत्र प्रथमान्तपदोपस्थापितेन्वेति । एवं बोधः । यत्र कर्तरि कृतेर्बाधस्तत्राख्यातस्य व्यापारादौ लक्षणा । रथो गच्छतीत्यत्र गमनजनक वर्तमान व्यापारवान् इत्ययः । गम्यते ग्रामः इत्यस्य देवदत्तवृत्तिकृतिजन्यगमनजन्यफलशाली ग्रामः इत्यर्थः । तथा हि वृत्तित्वं संसर्गमर्यादया लभ्यम् । तृतीयायाश्च कृतिरर्थः । जन्यत्वं संसर्गः । गमनं धात्वर्थः । जन्यत्वं संसर्गः । फलं कर्मात्मने- पदार्थः । शालित्वं संसर्गः इति । भावप्रत्यये तु देवदत्तेन सुप्यते इत्यस्य देवदत्तवृत्तिकृतिजन्यः स्वापः इत्यर्थः । भावप्रत्ययस्थले फलाभावादात्म- नेपदार्थो न स ( ० ४ पृ० ११) । शाब्दबोधो द्विविधः यथार्थः अयथार्थश्च । तत्राद्यः शाब्दप्रमा । सा च यथा नद्यास्तीरे पञ्च फलानि सन्ति इत्यादिवाक्यार्थगोचरयथार्थज्ञानम् । अत्र फलवप्रवृत्तिज- योग्यत्वं यथार्थत्वम् इति विज्ञेयम् ( त० कौ० १ पृ० ७ ) । द्वितीयः अग्निना सिञ्चति इत्याद्ययोग्यवाक्यजन्यः शाब्दबोधः । द्विवि- धोपि शाब्दबोधः प्रत्येकं द्विविधः भेदान्वयविषयकः अभेदान्वयविषय- कश्च । तत्राद्यो राज्ञः पुरुषः इत्यादिवाक्यजन्यः । द्वितीयो नीलो घटः इत्यादिवाक्यजन्यः । अत्र अभेदान्वयबोधं प्रति समानविभक्ति- लिङ्गवचनकत्वं प्रयोजकम् इति सामान्यनियमो विज्ञेयः । तत्र समा- नविभक्तिकत्वं च स्वप्रकृतिक विभक्तिसजातीय विभक्तिकत्वम् विरुद्धविभ- क्तिराहित्यं वा ( ग० व्यु० १ ) । शिष्टं तु समान विभक्तिकत्वशब्दे दृश्यम् । अत्र विप्रतिपत्तिः । सामान्यतः शाब्दबोधश्च धात्वर्यमुख्यविशे- ष्यकः प्रथमान्तार्थमुख्यविशेष्यको वा इति । तत्र धात्वर्थ मुख्य विशेष्यक एव भवति इति वैयाकरणा आहुः । तत्र प्रमाणं तु भावप्रधानमा- ख्यातम् इति यास्कमुनिवचनम् । नैयायिकास्तु शाब्दबोधः प्रथमान्ता- मुख्य विशेषयक एवं ज्यायान् इति प्राहुः । नैयायिकानां मते तु भाव- प्रधानमाख्यातम् इति निरुक्तस्य भावः धात्वर्थः प्रधानं विशेष्यः यस्य आख्यातार्थस्य इति शाब्दिकादिसंमतं बहुव्रीहिमनादृत्य भावस्य प्रधानम् इति षष्ठीतत्पुरुष आश्रीयते । लाघवात् । तत्र धात्वर्थमुख्य विशेष्यक- शाब्दबोधाङ्गीकर्तृवैयाकरणमते तादृशबोधोपपादकमुख्योदाहरणान दीनि । अत्र चैत्रेण सुप्यते इत्यादौ चैत्रकर्तृकः स्वापः इति क्रियामुख्य- चैत्रेण सुप्यते पश्य मृगो धावति पचति भवति शृणु मेघो गर्जति इत्या- विशेष्यकः सर्वतत्रसिद्धो बोधः । पश्य मृगो धावति इत्यादौ मृगामिन- कर्तृकं घावनं पश्य इति क्रियामुख्यविशेष्यको बोधः । अत्र वैयाकर- णानामयमाशयः । घावनक्रियाया एव दृशिक्रियायां कर्मतयान्वयो विव क्षितः । तस्याश्च प्रातिपदिकार्थत्वाभावान्न धावतिपदोत्तरं द्वितीया / नैया- यिकमते तु मृगपदार्थस्य दृशिक्रियायामन्वयेन तस्य प्रातिपदिकार्थत्वेन च मृगपदोत्तरं द्वितीयापत्तिः इति । पचति भवति इत्यादौ पाकामिनकर्तृक भवनम् इति क्रियामुख्य विशेष्यको बोधः । शृणु मेघो गर्जति इत्याद तु मेघाभिन्नकर्तृकं गर्जनं शृणु इति गर्जनरूपधात्वर्थमुख्य विशेष्यकः शाब्दबोधो वैयाकरणानां संमतः । अत्रायं भावः । श्रुधात्वर्थश्रवणि यायां शब्दरूपस्य गर्जनस्यैव योग्यतयान्वयः । न तु नैयायिकमत इव गर्जनकर्तृमेघस्य कर्मतासंबन्धेनान्वयः । अयोग्यत्वात् इति । प्रथमान्ता- दाहरणानि तु घटो न भवति पटः त्रयः कालाः पश्य लक्ष्मण पम्पायां । मुख्य विशेष्यकशाब्दबोधानीकर्तृनैयायिकमते तादृशबोधोपपादकमुख्यो- / बकः परमधार्मिकः । अश्वो गच्छत्यानय इत्यादीनि द्रष्टव्यानि ।' न भवति पटः इति वाक्यात् घटमेदवान् पटः इति प्रथमान्तार्थमुख्य / विशेष्यको बोधः । त्रयः कालाः इत्यत्र त्रित्वविशिष्टाः कालाः इति मुख्यविशेष्यक एव बोधः । अत्र नैयायिकानामयमाशयः । त्रयः इत्यत्र क्रियासमभिव्याहाराभावान्न क्रियामुख्यविशेष्यको बोधः / काळ यस्य जीवेन ज्ञातुमशक्यत्वेन जीवेन ज्ञायन्ते इत्यध्याहारासंभवः । ईश्वरेण ज्ञायन्ते इत्यध्याहारे क्रियमाणे तु मानाभावः / अस्तिर्भवन्तीपरः / सन्ति इत्यस्य तु नाध्याहारः संभवति । इदानीं त्रयाणां कालानामविध-/ ष्टबकं पश्य इति बोधः । अत्रायं भावः । परमधार्मिकत्व विशिष्टकस्य/ मानत्वात् इति । परमधार्मिको बकः पश्य इत्यादौ परमधार्मिकत्वविशि दोत्तरं द्वितीयापत्तिः । एवमेव पश्य मृगो धावति इत्यादावप्युपपत्ति वाक्यार्थत्वेन पदार्थत्वाभावात्प्रातिपदिकार्थत्वमेव नास्ति इति ष्टव्या । पचति भवति इत्यादौ तु तथा भाष्यप्रयोगादेव न बकप । शेष्यकबोधः स्वीक्रियते । न तु आधुनिक प्रयोगात्तथा बोधोस्माभिः स्वीक्रि- यते । अश्वो गच्छयानय इत्यादौ च गमनकर्त्रश्वमानय इति प्रथ- मान्तार्थमुख्य विशेष्यक एव शाब्दबोधो नैयायिकानामभिमतः । अत्रायं भावः । शृणु मेघो गर्जति इत्यादौ वैयाकरणमते मेघ कर्तृक गर्जनस्य श्रवणक्रियायामन्वयोपपत्तावपि अश्वो गच्छत्यानय इत्यादौ तन्मते अश्व- कर्तृकगमनस्यानयन क्रियायामन्वयायोग्यतया बाधादन्वयानुपपत्तिः । अतः गमनकर्त्रश्वस्यैवानयनक्रियायामन्वयः स्वीकार्यः इति लब्धोयं प्रथ- मान्तार्थमुख्य विशेष्यकशाब्दबोधो नैयायिकानाम् । किं च शृणु मेघो गर्जति नटो गायति शृणु घटो नश्यति पश्य इत्यादौ श्रवणादिक्रियायां मेघाद्यन्वयासंभवेपि सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाघे विशे- षणमनुभवतः इति न्यायेन विशेषणेषु गर्जनगाननाशेषु श्रवणदर्शनान्व- यसंभवः । अत एव शङ्खाः श्रूयन्ते भेर्यः श्रूयन्ते इति महाभा- ष्यम् अश्रूयत पाञ्चजन्यः इति माघप्रयोगश्च ( स० ३ श्लो० २१ ) संगच्छते इति । वैयाकरणास्त्वेवमत्रोपपत्तिं चक्रुः अश्रूयत पाञ्चजन्यः वीणा श्रूयते पुष्पाण्याघ्रायन्ते इत्यादौ धर्मधर्मिणोरभेदोपचाराच्छ्रव- न्वय उपपद्यते ( माघ० टी० ३।२१ ) इत्यलं विस्तरेण । मीमां- सकास्तु सर्वत्राख्यातार्थव्यापारमुख्य विशेष्यक एव शाब्दबोधो भवति इत्यङ्गीचक्रुः । <शाब्दिकः> व्याकरणशास्त्राभिज्ञः । यथा पाणिनिः शाब्दिकः । अत्र व्यु- शब्दसाधुताज्ञापकं शास्त्रं वेश्यधीते वा (ठक् ) इति । अष्टौ शा- ब्दिका: इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥ ( कविकल्पद्रुमे ) इति । <शाब्दी भावना> पुरुषप्रवृत्यनुकूलभावकव्यापारविशेषः ( मी० न्या० पृ० १ ) । <शारदः> अपराह्नः ( पु० चि० पृ० ३५३ ) । <शालग्राम:> १ पर्वत विशेषः । २ तत्रत्यो विष्णुमूर्तिविशेषः । ३ गण्ड- क्या नद्या एकदेशस्थलविशेषजातो विष्ण्वादिदेवचऋयुत्त शिलाविशेषः । यथा ब्राह्मणगृहे नित्यं पूजनीयाः श्रीवासुदेवहयग्रीव श्री लक्ष्मीनृसिंहसीता- रामाख्या: शालग्रामाः । शालग्रामोत्पत्तिप्रकारस्तु कीटयोनिं प्रपद्येथाः इति गण्डक्या: सुरान् प्रति शापे तेन कर्मविपाकेन जडा कृष्णा नदी भव इति देवानां गण्डकीं प्रति शापे च जाते विष्णुना तत्समाधाना- योक्तं यथा शृणु ब्रह्मन् महादेव शृणु देव गजानन । मद्रणौ ब्राह्मणो ग्राहमातङ्गौ शापतोत्र वै ॥ भविष्यतस्तयोर्मोक्षं वदिष्यामि कलेवरम् । शीर्ण भविष्यति यदा तन्मेदोमज्जसंभवाः ॥ पाषाणान्तर्गताः वज्राख्याः प्रभविष्यथ ( ब्रह्मवै० अ० १९) इत्यादि । वासुदेवा दिना मफलमेदास्तु वराहपुराणे ज्ञेयाः । अत्र प्रशंसा शालग्रामशिला स्पर्श कुर्वन्ति दिने दिने । वाञ्छन्ति करसंस्पर्श तेषां देवाः सवासवाः ॥ इति । <शासनम्> १ [क प्रवर्तकव्यापारः । स च धर्म कुरु इत्यादिविधिध टितोपदेशरूपः । यथा माणवकं धर्म शास्ति इत्यादौ शास्तेरथ : (० म० ) । [ख ] निकृष्टस्य हितसाधनं प्रवर्तनम् । २ राजदत्तभूमिः । ३ राजलेख्य विशेषः । ४ शिक्षा ( दण्ड : ) इति व्यवहारज्ञा शास्त्रम् - [क ] प्रमाणादिवाचकपदसमूहः व्यूहविशिष्टः । यथा ध्यायी न्यायदर्शनम् शास्त्रम् (न्या० वा० पृ० १-२)/ विशेषाधायकग्रन्थः । यथा वैशेषिकदर्शनम् । [ग] ऋग्यजुः सामा व्युत्पत्तिः शिष्यतेनेन ( शास-ष्ट्रन्) इति शास्त्रम् । [ख]ज्ञान / थर्वा च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥ ( सर्व० सं० पृ० १५७ पूर्णप्र० ) । [ घ शास्ति च त्रायते चेति । केशरपूनशेषान् संत्रायते दुर्गतितो भवाय /शास्त्रम् । यच्छास्ति वः तच्छासनात्राणगुणाच शास्त्रमेतद्वयं चान्यमतेषु नास्ति ॥ ( नागार्जुन कृतकारिका ५ बौद्धदशेने) । शास्त्रं द्विविधम् सच्छास्त्रम् भसच्छा स्कान्दे ऋग्यजुःसामाथर्वा च भारतं पञ्चरात्रकम् / मूलरामायणं च । तत्र सच्छास्त्रं हितानुशासनग्रन्थः । यथा ऋगादिशास्त्रम् / दु शास्त्रमित्यभिधीयते॥ यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ (मध्यभाष्य ० १ १/३ पृ०१५ ) इति । असच्छास्त्रं तु बौद्धचार्वाकादिप्रणीतशास्त्रम् । सांख्ययो- गादिकं पाशुपतादिशास्त्रं च स्वबुद्धिरचितत्वेनासदेवेति विभावनीयम् । तद्यथोक्तम् अतो वेदविरुद्धार्थशास्त्रोक्तं कर्म संत्यजेत् । खबुद्धिर- चितैः शास्त्रैः प्रतायेंह च बालिशान् ॥ विघ्नन्ति श्रेयसो मार्ग लोक- नाशाय केवलम् । निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्विजान् ॥ 1 तेन ते निरयं यान्ति ह्यसच्छास्त्र निषेवणात् । श्रुतिस्मृतिसदाचार विहितं कर्म शाश्वतम् ॥ स्वं स्वं धर्म प्रयत्नेन श्रेयोर्थीह समाचरेत् । खबुद्धिर- चितैः शास्त्रैर्मोहयित्वा जनं नराः ॥ तेन ते निरयं यान्ति युगानां सप्त- विंशतिम् (पद्मपु० अ० १७ ) ( वाच० ) इति । तामसशास्त्राणि च पद्मपुराणे पार्वर्ती प्रतीश्वरेणोक्तानि यथा श्रृणु देवि प्रवक्ष्यामि ताम- सानि यथाक्रमम् । येषां श्रवणमात्रेण पातिव्यं ज्ञानिनामपि ॥ प्रथमं हि मयैवोक्तं शैवं पाशुपताभिधम् । मच्छत्तयावेशितैर्विनैः संप्रोक्तानि ततः परम् ॥ कणादेन तु संप्रोक्तं शास्त्रं वैशेषिक न्यायं सांख्यं तु कपिलेन वै ॥ द्विजन्मना जैमिनिना पूर्व वेदमपार्थतः । निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ विषणेन च संप्रोक्तं चार्वाक- मतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥ बौद्धशास्त्र- मसत्प्रोक्तं नग्ननीलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च ॥ मयैव कथितं देवि कलौ ब्राह्मणरूपिणा । अपार्थं श्रुतिवाक्यानां दर्शयलोकगर्हितम् ॥ कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते । सर्वकर्म- परिभ्रंशन्नैष्कर्म्य तत्र चोच्यते ॥ परात्मजीक्योरैक्यं मयात्र प्रतिपाद्यते । ब्रह्मणोस्य परं रूपं निर्गुणं दर्शितं मया ॥ सर्वस्य जगतोप्यस्य नाशनायें कलौ युगे । वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ॥ जगतां नाशकारणात् (सांख्यप्रवचनभाष्यप्रस्तावनायां धृतानि पद्मपु राणवचनानि पृ० ६-७ ) ( वाच० ) । महत् । गौतमेन तथा शिक्षा-१ [क] कर्तव्यत्वेन ज्ञानम् ( राम० ) । यथा ग्रन्थारम्भे शिष्या अपि मङ्गलं कुर्युः इति शिष्य शिक्षायै निबन्धं कुर्वन् ( दि० १ पृ० १ ) इत्यादौ शिक्षाशब्दस्यार्थः । [ख] प्रवृत्ति प्रयोजकेष्टसाधन- ताज्ञानम् । यथा शिष्य शिक्षार्थ मङ्गलं निबध्नाति इत्यादौ शिक्षाशब्द- स्यार्थः । २ [क] स्वस्य विद्याप्राप्त्यनुकूलव्यापारः (विद्योपादानम्) । यथा अशिक्षतास्त्रं पितुरेव मन्त्रवत् (रघु० ३।३१ ) इत्यादौ । [ख] अध्यापनम् । यथा शिक्षक इत्यादौ । ३ वैदिकास्तु वर्णस्वराधुच्चारण प्रकारो यत्रोपदिश्यते सा शिक्षा ( वेदाङ्गम् ) । छान्दसत्वादिकार दीर्घोपि भवति । यथा शीक्षां व्याख्यास्यामः । वणेः स्वरः । मात्रा बलम् । साम संतानः । इत्युक्तः शीक्षाध्यायः ( तैत्ति० उप० ) इति । अस्याः <शिथिल:> ( गुणः ) अदृढः संयोगविशेषः । स च तूलकादौ परिमाणं, शिक्षायाश्च पाणिनिशिक्षानारद शिक्षाव्यास शिक्षादयो ग्रन्थाः सन्ति । जनयति ( भा० प० गु० श्लो० ११३ ) । अत्र शिष्टं तु. शब्दव्याख्याने दृश्यम् । <शिरा> स्थूलनाची ( संगीतरत्नाकरे ) । <शिवः> शिवशब्देन शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानी / सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदाच संग्रह: ( सर्व० सं० पृ० १८० शै० ) । शिवत्वं च पाशा <शिष्टः> १ [क ] फलसाधनत्वांशे भ्रान्तिरहितः ( दि० १ पृ० अत्र शिष्टत्वं च क्षीणदोषपुरुषत्वम् । यथा मन्वादीनां शिष्टत्वम्, प्राञ्च आहुः ( न्या० सि० दी० पृ० २ ) । ख 1 त्वांश अभ्रान्तः ( मू० म० १ ) । यथा मन्वादिः नित्यनिरतिशयदृक्कियारूपचैतन्यात्मकत्वम् (सर्व० सं० पृ० १८२ रौ० ) / / वा० १) । [ग] धर्मज्ञास्तु स्वीकृतवेदप्रमाणभावः / सर्वे वेदश स्वस्वतात्पर्यविषयार्थे प्रमाणम् इत्याकारकानाहार्यनिश्चयवान् इत्यर्थः । अत्र बालकपतितान्त्यजाद्यतिरिक्तः इति विशेषणमस्ति (मू०.) पृ० १०६ - १०८) । [घ ] वेदप्रामाण्याभ्युपगन्तृत्वे सति यो दा वेदनिषिद्धाकर्ता स इत्याहुः (चि० मङ्ग० ११९०६ - १०८ ) । यथा शुकोद्दालकादिः शिष्टः । अत्राभिधीयते । न पाणिपादचपलो न नेत्र- चपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥ (भार० (आश्व० ) इति । धर्मो नातिगतो यैस्तु वेदः सपरिबृंहितः । ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ ( कूर्म० उप० १ अ० ४) इति । विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकीर्त्यते । मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ मनः सप्तर्षयश्चैव लोकसंतानकारणात् । तिष्ठन्तीह च धर्मार्थ तान्शिष्टान् परिचक्षते ॥ तैः शिटैः स्थापितो धर्मः स्थाप्यते वै युगे युगे ॥ ( मत्स्यपु० अ० १२० ) इति । [] कर्मज्ञाश्च वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारी ( नील० पृ० २) ( सि० च० ) । यथा जनकश्वेतकेत्वादिः शिष्ट इत्याहुः । २ कृत- शासन: । ३ अवशिष्ट पदार्थः । <शिष्टाचारः> सद्व्यवहारः । यथा मङ्गलं वेदबोधितकर्तव्यताकम् अलौ- किका विगीतशिष्टाचारविषयत्वात् दर्शादिवत् ( त० दी० १ ) इत्यादौ शिष्टाचारशब्दस्यार्थः । अत्राहुः । शिष्टाचारत्वं च शिष्टेन परलोकानु- कूलतया क्रियमाणत्वम् । प्रतिबन्धकदुरितवारणमुद्दिश्य क्रियमाणत्वं या। अश्वमेधकारीर्यादौ व्याप्तिः सुप्रसिद्धा इति । अथ वा यत्कार्य प्रति यस्य कारणत्वमन्वयव्यतिरेकोपजीवनेन न गृह्यते तत्कार्यमुद्दिश्य शिष्टेन तस्य क्रियमाणत्वम् ( म्या० सि० दी० पृ० २) इति । अत्रेदं बोध्यम् । साधूनाम् (२।६) इति मनुना आचारस्य धर्मे प्रामाण्यमु- आचारश्चैव क्तम् । स च वेदाविरुद्ध एव प्रमाणम् । श्रुतिस्मृत्योर्भिन्नविषयत्वे सदाचारेण सत्र धर्मो निर्णेयः । श्रुतिविरोधे स्मृतेरप्रामाण्यवत् स्मृतिविरोध - चारस्य न धर्मनिर्णायकत्वम् । तेन दाक्षिणात्यानां मातुलकन्यापरिणयस् शिष्टेराचर्यमाणस्वेपि न प्रामाण्यम् । तदेतत् विरोधे वनपेक्षं स्यात् असति ह्यनुमानम् ( जैमिनि० अ० १ पा० ३ सू० ३) इत्यनेन निर्णीतम् । वसिष्ठेनापि तदभावे शिष्टाचारः प्रमाणम् इत्युक्तम् । ततश्च शिष्टाचारेण मूलस्मृतिरनुमीयते । यथा होलिकाद्याचारात् । ततः स्मृव्या १११ न्या० को● मूलश्रुतिरनुमातव्या ( अधिकरणमाला १/३ अधि० ४ ) इति । अत्रा- भिधीयते । ततः स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागशः । एवं वै विविधो धर्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्ता दण्डनीतिः प्रजावर्णाश्रमेज्यया । शिराचर्यते यस्माच्छिष्टाचारः स शाश्वतः ॥ दानं सत्यं तपोलोभो विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्वेषु शिष्टाचार स्ततः स्मृतः ॥ श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः / शिक्ष- चारविवृद्धस्तु स धर्मः साधुसंमतः ॥ (मत्स्यपु० अ० १२५) इति । तपोलोभ इत्यत्र तपः अलोभः इति पदच्छेदः । <शिष्यः> शिक्षणीयः ( उपदेश्यश्छात्रः ) । यथा श्रीसत्यवतीसुतबादरायण / व्यासस्य शिष्यः श्रीपूर्ण प्रज्ञाचार्यः (मध्वाचार्यः ) / शिष्यलक्षणं च / शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणे क्षमः । समर्थक्ष कुलीन । प्राज्ञः सच्चरितो धनी ॥ एवमादिगुणैर्युक्तः शिष्यो भवति ( तन्त्रसा० ) इति । अत्रोच्यते गुरुता शिष्यता वापि तयोर्वत्सरवासतः / इति । तथा चोक्तं सारसंग्रहे सद्गुरुः स्वातिं शिष्यं वर्षमात्रं प्रतीक्षवेद / वर्षेकेन भवेद्योग्यो विप्रो गुणसमन्वितः ॥ इत्यादि । घस्तु स आचार्य उदाहृतः । य आचार्यपराधीनस्तद्वाक्यं धार्यते ॥ शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः (पद्मपु० उ० अ० <शीत:> (गुणः) स्पर्शविशेषः । यथा शीत सं० ) इत्यादौ । अत्र शीतत्वं च स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिवा इति ज्ञेयम् । २ शीतस्पर्शयुक्त पदार्थः । यथा शीतं शिलत (मु० १) इत्यादौ शीतशब्दस्यार्थः । ३ वृक्षविशेषः । <शुक्रम्> १ मज्जातश्चरमधातुः । अत्रोक्तम् रसाद्रक्तं ततो मांस मसान्मेवा इति । ततः स्थूलो भागो रसो मासेन पुंसां शुक्रम् स्त्रीणां चार्तव शुक्र प्रजायते । मेदसोस्थि ततो मज्जा मज्जाच्छुक संभवः ॥ (भावाद्र ० ) एवं च रस एव केदारकुल्यान्यायेन सर्वान् धातून पूरयन् मासेन न च भवति । उक्तं च सुश्रुते एवं मासेन रसः शुक्रो भवति स्त्रीणां चेति । दण्डोत्तरेण शुक्रमार्तवं च भवति इति सिद्धान्तः ( वाच० ) । अथ शुक्रस्य स्थानमाह । यथा पयसि सर्पिस्तु गूढश्वेक्षौ रसो यथा । एवं हि सकले काये शुक्रं तिष्ठति देहिनाम् ॥ इति । कण्डराणां प्ररोहः स्यात् स्थानं तद्वीर्यमूत्रयोः । स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः ॥ वृषणौ भवतः सात् कफासृग्भ्यां च मेदसाम् । वीर्यवाहिसिराधारौ तौ तौ पौरुषावहौ ॥ ( भावप्र० ) । अथ शुक्रस्य क्षरणमार्गमाह । द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः । मूत्रस्रोतःपथे शुक्रं पुरुषस्य प्रवर्तते ॥ ( भावप्र० ) ( वृद्धवाग्भट० ) इति । २ दैत्यगुरुः । अस्य शुक्र इति नाम्नि कारणमाह नन्दिनापहृते शुक्रे गिलिते च विषादिना इत्युपक्रम्य तेन शब्देन महता शुक्रः शंभूदरे स्थितः इत्यभिधाय शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । चस्कन्द च स नामापि ततो देवेन भाषितः ॥ ( काशीखण्ड ० ) इत्याद्युक्तम् । अयं ग्रहविशेषः । ३ अग्निः । ४ ज्येष्ठमासः । ५ विष्कम्भादिषु (२७) योगेषु चतु- विंशो योगविशेषः । <शुक्लपक्षः> चन्द्रकलावृद्ध्यधिकरणकाल: ( पु० चि० पृ० ३१ ) । <शुचि:> १ शुक्लवर्णः । २ स्नानादिजन्यपुण्य विशेषवान् । अत्र शुचि- स्तत्कालजीवी कर्म कुर्यात् इत्यनया श्रुत्या शौचस्य कर्माङ्गत्वमुक्तम् । ३ शौचापरपर्यायशुद्धिमान् । अत्रोच्यते । रूपगन्धरसस्परौंः शास्त्रोक्तै- युक्तमुत्तमम् । प्रोक्षिताभ्युक्षितं द्रव्यं शुच्यन्यदशुचि स्मृतम् ॥ स्वतः शुच्यपि वाग्दुष्टं भावदुष्टमथापि वा । अशुचि स्यात् ( त ० ० पृ० २३२) इति । अत्राधिकं च शुद्धिशन्दव्याख्याने दृश्यम् । ४ सूर्यः । ५ अग्निः । ६ अर्कवृक्षः । ७ आषाढमासः । <शुद्धत्वम्> १ तदितरधर्मानाक्रान्तत्वम् । यथा शुद्धपर्वतत्वावच्छिन्नो- देश्यता निरूपित शुद्धसंयोगसंबन्धावच्छिन्न शुद्धवह्नित्वावच्छिन्नविधेयताका- नुमितिं प्रति ( ग० २ संश० पक्ष० ) इत्यादौ पर्वतत्वादेः शुद्धत्वम् । अयमाशयः । पर्वतो वह्निमान् धूमात् इत्यादौ सामानाधिकरण्यसंबन्धेन सौन्दर्य विशिष्टं पर्वतत्वमपेक्ष्य केवलपर्वतत्वस्य शुद्धत्वम् । सौन्दर्य- विशिष्टपर्वतत्वं तु न शुद्धम् । तस्य पर्वतत्वातिरिक्त सौन्दर्य रूपधर्मा- क्रान्तत्वात् इति । २ शुद्धियुतम् । <शुद्धा> ( लक्षणा) [क स्वशक्येन साक्षात्संबन्धः । यथा आयुर्घृतम् ॥ इत्यादौ । अत्रायं भावः । आयुर्घृतयोः सामानाधिकरण्यानुपपत्त्या आयुः- पदमायुःसाधनं लक्षयति । तत्र आयुः पदे शक्यजीवनकालसाघनत्व- रूपसाक्षात्संबन्धस्य सत्त्वात् ( म० प्र० ४ पृ० ४१ ) इति । इ ज्ञेयम् ( न्या० म० ४ पृ० १० ) । [ख ] सादृश्यादिनः शक्य लक्षणा हल्लक्षणायामजहल्लक्षणार्या चान्तर्भवति इति नातिरिक्ता इति संबन्धः । यथा आयुर्वृतम् इत्यादौ आयुः पदे लक्षणा । अत्र साध्या- दन्यः शक्यसंबन्धश्च जन्यजनकभावः । तथा चात्र आयुः पदस्यायु- जनके लक्षणा । तत्र आयुःपदशक्यसंबन्धो जनकत्वरूपो बोध्यः । तेन आयुर्जनकाभिन्नं घृतम् इत्यन्वयबोध: ( त० प्र० ख० पृ० ३६) । यथा वा गङ्गायां घोषः इत्यादौ गङ्गापदे लक्षणा / अत्र सादृश्यादन्यः शक्यसंबन्धस्तु संयोग एव । स च प्रवाहप्रतियोगिक स्तीरानुयोगिकः इति विज्ञेयम् । सा च शुद्धा लक्षणा द्विविधा जह लक्षणा अजहलक्षणा चेति ( न्या० म० ४ पृ० १०) । एते उपादानलक्षणा चेत्यालंकारिकैर्व्यवि लक्षणे लक्षणलक्षणा ( काव्यप्र० उ० २ श्लो० १० ) । <शुद्धाद्वैतम्> वेदान्तमतविशेषः । यथा वडभाचार्यमतं शुद्धाद्वैतम् । व्युत्पत्तिः शुद्धयोः कार्यकारणयोर्जीवब्रह्मणोः अद्वैतम् ऐक् तत् इति । अत्र शुद्धत्वं च मायासंबन्धराहित्यम् । तच्च इतरसंबन्धान वच्छिन्न कार्यकारणादिरूप द्वित्व प्रकारकज्ञान प्रतियोगिकाभाववत्वम् इति । भक्तिमार्ग: जीवब्रह्मणोरंशांशिभावः सत्कार्यवादः अहिकुण्डलवत्परिणाम केचित्त शुद्धं च तत् अद्वैतं च इति कर्मधारय समासमङ्गीचक्रुः / एतन्म वादः जगतः सत्यत्वम् आविर्भावतिरोभावौ च एतानि स्वीक्रियते इति ज्ञेयम् । अत्र स यथोर्णनाभिस्तन्तुनोचरेद्यथाग्नेः विस्फ़ लिखा क्षुद्रा व्युच्चरन्त्येवमेवा स्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाधि भूतानि व्युचरन्ति (बृह० उप० २।१।२० ) इति श्रुतिरंशांशिभावे प्रमाणम् । तथा प्रपञ्चः संसारश्चेति द्विविधा सृष्टि: । तत्र प्रपञ्चस्य भगवत्कार्यत्वेन सत्यत्वं नित्यत्वं च । संसारस्य तु मायाकार्यत्वेन मिथ्या- त्वमेव इति । एतन्मते अभावमात्रं न स्वीक्रियते इति हृदयम् । अत्र संग्रह: शुद्धाद्वैतप्रचारेण मायावादनिवर्तकान् । श्रीमदाचार्यचरणान् प्रणमामि पुनः पुनः ॥ इति । वल्लभाचार्यैः षोडश ग्रन्थाः कृताः इति ज्ञेयम् । <शुद्धिः> १ मार्जनम् नैर्मल्यसंपादनं वा । तञ्च [क] भस्मादिसंयोग- समानकालीन।स्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्धंसः । यथा भस्मना कांस्यादिपात्रादिशुद्धिः (त० दी० ) । अत्र कालीनान्तं यावत्त्वं चाभावविशेषणम् । तादृशाभावसाहित्यं च ध्वंसविशेषणम् इति बोध्यम् । यावदभावसहितेत्यत्र साहित्यं च संबन्ध विशेष नियन्त्रितं सामाना- घिकरण्यम् (नील० पृ० ४६-४७) । अत्रान्ये आहुः । भोजनादि रूपकार्याहतारूपा कांस्यादावाधेयशक्तिः पदार्थान्तरमेव शुद्धिजनकत्वाभिमतेनाम्लादियोगेन ताम्रादौ तत्तद्रव्ये देवतावि शुद्धिः । एवम् प्रतिमादौ प्रतिष्ठादिना देवतासंनिधिरेव शुद्धिः । तथा घटादावपि शुद्धप्रतिज्ञादिकमपेक्ष्य प्रतिष्ठाविधिना जयप्रयोजकीभूतो धर्मो जन्यते । अशुद्धप्रतिज्ञामपेक्ष्य भङ्गप्रयोजकः अधर्मो जन्यते इत्याद्यूह्यम् इति । एवम् परमाणुगतपाकजविशेषगुणात्पार्थिवकार्य विशेष द्रष्टव्यः । जलादावदृष्टादि निमित्त भेदात्कार्यवैजात्यमूहनीयम् ( चि० ) । एवम् शुद्ध्यन्तरमपि स्वयमूझन् । [ख ] तत्तत्समयावच्छेदेन भस्मादि- संयोगप्रतियोगिकाना दिसंसर्गाभावः । स च तत्तत्समानकालीनचाण्डा - सि० दी० पृ० २०) । २ धर्मज्ञास्तु वैदिककर्मयोग्यत्वसंपादकसंस्कारवि- दिप्रतियोगियावदना दिसंसर्गाभावसमानाधिकरणः ( न्या० इति । तदर्थस्तु भस्मादिसंयोगजनितः कांस्यायुपभोक्तृनिष्ठः संस्कार: शेष इत्याहुः । अत्र केचिदाहुः स च संस्कारो भस्मादिप्रयोक्तूनिष्ठ एव इति । अत्रेदमधिकं बोध्यम् । शुद्धद्धशुद्धी शास्त्रज्ञाप्ये संस्काररूपे । यथोक्तम् । शुद्ध्यशुद्ध्योः संस्कार रूपत्त्रेनैक पुरुषस्यै कदोभय स्थितिर्घटते । शुद्धेर्भावरूपस्त्रे अशुद्धेस्तदभावरूपत्वे नैतत् घटते । विरोधात् । अत एवं शङ्खः ततः श्राद्धमशुद्धौ तु कुर्यादेकादशे तथा । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥ इति । अशुद्धौ चतुर्थाहादौ इत्यर्थः । तात्कालिकी श्राद्ध विधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिः कल्प्यते इत्यर्थः । कर्मान्तरे त्वशुद्ध एव सः । एवम् शुद्धेर्भावरूपत्वे अशौचस्य तदभाव- रूपत्वे विरोधः । तथात्वे अशौचसंकरोपि न स्यात् । एकस्मि भावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषीयशुद्धिरूपप्रतियो- ग्यन्तराभावादनुपपत्तेः । तस्माच्छुद्ध्यशुद्ध्योर्भावरूपत्वम् ( श्रा०वि० ) ( शुद्धितत्व० ) ( वाच० ) । अत्राधिकं तु पद्मपुराणे (उ उत्त० ख० अ० १९ ) दृश्यम् । ३ दुर्गा देवी इति शाक्ता आहुः ( देवीपु० ) / ४ विशुद्धिशब्दवदस्यार्थोनुसंधेयः । <शून्यम्> १ अत्यन्ताभाववत् । यथा ज्ञानशून्यः पुरुषः इत्यादौ । २ निजेनस्थानम् । ३ आकाशः ( शब्दच० ) । ४ बिन्दुमात्राम ( हेमच० ) । ५ असंपूर्णम् । ६ ऊनम् । ७ तुच्छं च (त्रि० अमरः // <शृङ्गार :> १ रसविशेषः । स च स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छा विशेषः । द्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ अत्र व्युत्पत्तिः शृङ्गमृच्छति इति शृङ्गारः । अत्रार्थे शृङ्गं हि मन्मथो । ( सा० ६० परि० ३ श्लो० १८३ ) इति । अयं शृङ्गारो द्विविधः । विप्रलम्भः संभोगश्चेति ( सा० द० परि० ३ श्लो० १८६ ) / अत्रो । क्तम् पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा / सा इति ख्याता रतिक्रीडादिकारणम् ॥ इति । २ भूषणम् / ३ लवङ्ग/ ४ सिन्दूरम् ( वाच० ) । <शृङ्गारणम्> रूपयौवनसंपन्नां कामिनीमवलोक्यात्मानं कामुकमिव लासैः प्रदर्शयति तच्छृङ्गारणम् ( सर्व० सं० पृ० १७० नकु० ) / <शेष:> १ अवशेषः । स च कचित् कार्यम् व्यतिरेकोचैर्वि यथा पूर्व वच्छेषवत्सामान्यतो दृष्टं च ( गौ० १/१/५ ) इत्यादौ शेषशब्दार्थः । २ परिशेषः । यथा सदनित्यमित्येवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये न द्रव्यमेकद्रव्यत्वात् न कर्म शब्दान्तरहेतुध्वात् यस्तु शिष्यते सोयम् इति शब्दस्य गुणत्वप्रतिपत्तिः (वात्स्या० ११११५ ) । ३ शाब्दिकास्तु उक्तादन्यः शेषः । तदर्थश्च उक्तात् कर्मत्वकरणत्वसंप्रदानत्वापादानस्वा- धिकरणत्वादिभ्यः अन्यः संबन्धादिः शेषः इति । कारकाणामविवक्षेति भावः । यत्र न कारकं कारकार्यो वा विवक्ष्यते स शेषः । तद्यथा ब्राह्मणस्य कमण्डलु: ( न्या० वा० १ पृ० ११ ) इति । यथा वा प्रमाणादीनां तत्त्वम् राज्ञः पुरुषः इत्यादौ । अत्र षष्ठी शेषे । २ १३ १५० ) इति सूत्रेण शैषिकी षष्ठी। तदर्थश्च भ्योन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेषः तत्र षष्ठी स्यात् । यथा राज्ञः पुरुषः पशोर्मुखम् पितुः पुत्रः (काशिका० ) । यथा वा चैत्रस्य वासः इत्यादौ षष्ठी ( ग० व्यु० का० ६ ) । ४ धर्मशास्त्रज्ञास्तु कंचित् उपयुक्तेतरपदार्थः अवशिष्टः (अजपाल: ) । यथा श्राद्धशेषः भुक्तशेषः इत्यादौ इत्याहुः । अत्र प्रसङ्गतः शेषरक्षण- निषेधः संगृह्यते । ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ (गरुडपु० ) इति । ५ व्यवहार- शास्त्रज्ञास्तु तदितर: ( मनु० टी० सर्वज्ञनारा० ९/१०५) । यथा ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ ( मनु० अ० ९ श्लो० १०५) इत्यादी इत्याहुः । ६ मीमांसकास्तु [क] परोद्देशेन प्रवर्तमानो गुणीभूतः पदार्थः शेषः (अङ्गम् ) । यथा बादरिमते द्रव्यगुणसंस्काराः शेषभूताः । जैमि- निमते तु कर्माण्यपि शेषभूतानीत्याहुः ( शाबरभा० ३/११४ ) । अत्र शेषत्वं च सदुद्देश्य केच्छाविषयत्वम् । शेषित्वं तूश्त्वमेव बोध्यम् (वै० सा० कारके० ४ पृ० १९५ ) । अत्र सूत्रम् शेषः वर्तते स शेषः ( शाबरभा० ३११/२ ) इति । तथा द्रव्यगुणसंस्का- परार्थत्वात् (जैमि० ३ १/२ ) इति । तत्र भाष्यम् यः परस्योपकारे रेषु बादरिः ( जै० ३ । १ । ३ ) इति कर्माण्यपि जैमिनि: फलार्थत्वात् ( जैमि० ३।१।४ ) इति च । [ख यः परार्थः स शेषः ( जै० सू० वृ० ३। १ । २ ) । पारार्थ्य च परोदेशप्रवृत्तकृतिव्याप्यत्वम् । ७ पौराणिकास्तु भगवतो मूर्तिविशेष इत्याहुः । तदुक्तम् मूर्तिर्ज्ञानरूपा शिवाऽमला । वासुदेवाभिधाना सा गुणातीता ष्कला ॥ द्वितीया कालसंज्ञा च तामसी शेषसंज्ञिता । निहन्ति सकल- श्वान्ते वैष्णवी परमा तनुः ॥ ( कूर्मपु० अ० ४८) इति । ८ तात्रिकास्तु प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता इत्याहुः । भगवतो ९ काव्यज्ञास्तु सर्पराज इत्याहुः । <शेषवत्> ( अनुमानम् ) १ यत्र कार्येण कारणमनुमीयते तत् / यथा पूर्वोदक विपरीतमुदकम् नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते भूता वृष्टिः इति (वात्स्या० १११ (५) । अत्र वृत्तिकार इत्थं व्यवृत / शेष: कार्यम् तलिङ्गकं शेषवत् । यथा नदीवृद्ध्या वृष्यनुमानम् । अथ वा शेषो व्यतिरेकः । तद्वत्केवलव्यतिरेकीत्यर्थः । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यादि (गौ० वृ० ११ १/५) । २ शेषवन्नाम परिशेष:/स च प्रसक्त प्रतिषेधेन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः । यथा सदनित्यमित्येव मादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्मक्त शब्दान्तरहेतुत्वात् यस्तु शिष्यते सोयम् इति शब्दस्य गुणत्वप्रतिपत्तिः शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये न द्रव्यम् एकद्रव्यत्वात् न ( वात्स्या० ११११५ ) । <शोकः> ( दोषः ) [ क ] इष्टवियोगे तल्लाभार्हताज्ञानम् (गौ० १०/ ४ । १ । ३ ) । यथा अशोच्यानन्वशोचस्त्वम् ( गीता २/४५ ) इत्यादौ । इत्यादौ च शोकशब्दस्यार्थः । [ख ] केचित्तु इष्टवियोगजातो दुःखा यथा वा निवसति तरुणी ते कोक शोकं विमुञ्च ( मुकु० भाण० / नुगुणश्चित्तवृत्तिविशेष इत्याहुः ( वाच० ) । [ग] ] सति तत्प्राध्यशक्यप्रार्थना शोकः ( न्या० वा० ) । <शोषणम्> १ वातादिना रसाद्यपहारेण काठिन्यापादनम् । इष्टविषय यथा पृथिवी शोषयति इत्यादौ । २ चोषणेन रसाकर्षणम् ( हेमच० ) / ३ काम बापाविशेष इत्यालंकारिका आहुः । तदुक्तम् उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा । सारणश्चेति विज्ञेयाः पञ्च कामस्य सायकाः ॥ ( जटा० ) ( वाच० ) इति । ४ शोणाकवृक्ष: ( भावप्र ० ) । ५ शुण्ठी इति भिषज आहुः । <शौचम्> १ शुद्धिशब्दवदस्यार्थोनुसंधेयः । शौचं मानुषं द्विविधमुक्तं व्याघ्र पादेन । शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ॥ ( वाच ० ) इति । पञ्चविधं चोक्तं गृह- स्पतिना । मलशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं तु पञ्चमम् ॥ इति । अन्यञ्च अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥ ( मनु० अ० ५ लो० १०९) इति । तत्र विधिमाहतुर्मनुदक्षौ । एका लिङ्गे गुदे तिस्रस्तथैकत्र करे (वामे ) दश । उभयोः (करयोः ) सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ ( मनु० अ० ५ श्लो० १३६ ) ( वि- ष्णुपु० ) ( यम ० ) (पैठीनसि० ) ( हारीत० ) ( शंखस्मृ० ) इति । २ धर्मविशेषः । तत्रोक्तम् अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यवस्थानं शौचमित्यभिधीयते ॥ (बाच ० ) इति । <शौर्यम्> बलवतोप परस्य पराजयाय प्रत्यत्साहः । स च प्रयत्नविशेष एव न तु गुणान्तरम् (न्या० कन्द० पृ० १० ) । <श्रद्धा> १ [क फलावश्यंभावनिश्चयः ( त० प्र० २ पृ० ६ ) ( सि० ० ) । यथा केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ( अग्निपु० ) इत्यादौ श्रद्धाशब्दस्यार्थः । [ख] विश्वास्यत्वेन ज्ञानम् यिष्यति इत्यादौ श्रद्धाशब्दस्यार्थः । [ग] वेदादिबोधितफलावश्यंभाव- ( म० प्र० पृ० १६ ) । यथा कः श्रद्धास्यति भूतार्थं सर्वो मां तुल- निश्चयः ( कि० व० पृ० ४ ) । अत्रोक्तम् । प्रत्ययो धर्मकृत्येषु तथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्मकृत्ये प्रयोजनम् ॥ (स्मृतिः) (वाच०) इति । सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्तिता ( देवलस्मृ० ) इति च । श्रद्धाफलमाह याज्ञवल्क्यः । श्रद्धाविधिसमा- ११२ न्या० को० युक्तं कर्म [ क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्पते ॥ इति । अश्रद्धाप्रयोजनं च भगवद्गीतायाम् अश्रद्धया हृतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत् प्रेस नो इह ॥ ( गीता अ० १७ श्लो० २८) इति । अज्ञश्चाश्रद्दधानश्च संशयाला विनश्यति ( गीता ४।४० ) इति च । इयं श्रद्धा त्रिविधा । त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेदि तां शृणु ॥ ( गीता अ० १७ श्लो० २) इति । [4] आस्तिक्यबुद्धिः श्रद्धा इति पौराणिका वदन्ति । २ आदरः । ३ शुद्धिः । ४ स्पृहा । ५ चित्तप्रसादः । <श्रपणम्> रूपादिपरावृत्त्युपलक्षिताधःसंतापनम् । यथा कृष्णलं अपयेत् इत्यादौ श्रपयत्यर्थः । कृष्णलो यवत्रयमितं सुवर्णम् ( म० ० 8 पृ० ५६ ) । <श्रवणम्> १ श्रोत्रेन्द्रियजन्यं शब्द विषयकं ज्ञानम् । यथा श्रूयते सुपुरुष-/ ज्ञानम् । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितम्ब चरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ । २ श्रुतिवाक्यो । ( बृ० २।४।५ ) इत्यादौ ( म० प्र० १ ) । यथा वा श्रोतव्यः । श्रुतिवाक्येभ्यो मन्तव्य चोपपत्तिभिः इत्यादौ । अत्र श्रवणं च श्रुतिप पक्षिका संसर्गज्ञानानुमिति: ( प० च० १० २० ) । ३ अशेषशब्द / विषयं सिद्धिज्ञानं श्रवणम् ( सर्व० सं० पृ० १६६ नकु० // अश्विन्यादिषु ॐ ४ शब्द ग्राहक मिन्द्रियम् श्रोत्रम् । ५ मौहूर्तिकास्तु द्वाविंशो (२२) नक्षत्र विशेष इत्याहुः । ६ मुण्डरिकावृक्षः (वाच० /// <श्राद्धपक्ष:> अर्को नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ( देवङः ) ( पु० चि० पृ० २१ ) । श्रद्धया <श्राद्धम्> [क अदनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्र त्यागः । अत्र व्युत्पत्तिः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते इति / श्राद्धं द्विविधम् पार्वणम् एकोद्दिष्टं चेति । तत्र त्रिपुरुषोदेशेन क्रियते तपार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् / पुनश्च त्रिविधम् नित्यम् नैमित्तिकम् काम्यं चेति । तत्र नित्यम् नियतनिमित्तो- पाधौ चोदतम् । थाहरहरमावास्याष्टकादिषु विहितं श्राद्धम् । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकम् । यथा पुत्रजन्मादिषु विहितं श्राद्धम् । फलकामनोपाधौ विहितं काम्यम् । यथा स्वर्गादिकामनायां कृत्तिका दिनक्षत्रेषु विहितं श्राद्धम् । पुनश्च पञ्चविधम् अहरहः श्राद्धम् पार्वणम् वृद्धिश्राद्धम् एकोद्दिष्टम् सपिण्डीकरणं चेति ( मिता० अ० १ श्लो(० २१६ ) । [ख ] पित्राद्देश्यको यागः ( का ० व्या० पृ० ५ ) । संबोधनपदोपनीतान् पित्रादीन्च तुर्थ्यन्तपदेनोद्दिश्य पुत्रादिभिर्मन्त्रद्वारा श्रद्धयान्नादेर्दानं श्राद्धम् इत्यर्थः । अत्र विभक्तिनियमश्च संकल्पासनयोः षष्ठी द्वितीयावाने तथा । अन्नदाने चतुर्थी स्याच्छेषाः संबोधने स्मृताः ॥ इति । श्राद्धस्य यागत्वं विज्ञाय श्राद्धकाले ब्राह्मणा इमां स्मृति पठन्ति चतुर्मिंश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ इति । तदर्थस्तु चतुर्भिः (आश्रा- वय इत्यध्वर्युप्रयोज्यैश्चतुरक्षरैः) चतुर्भिः (अस्तु श्रौषट् इत्याग्नीध्रप्रयो- ज्यैश्चतुरक्षरैः ) द्वाभ्याम् ( यज इत्यध्वर्युप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम् ) पञ्चभिः ( ये यजामहेत होतृप्रयोज्यैः पञ्चभिरक्षरैः ) द्वाभ्याम् ( वौषट् इति होतृप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम् ) एभिः सप्तदशभि- रक्षरैर्यो हूयते हवनकर्मीक्रियते स विष्णुः मे मम प्रसीदतु प्रसन्नो । भवतु इति । अत्र यजुःश्रुतिः प्रमाणम् आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं व्यक्षरो वषद्वार एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तो य एवं वेद प्रति यज्ञेन तिष्ठति (तैत्तिरीयसंहि० काण्ड० १ अ० ६ अनु० ११ ) इति । श्राद्धे ब्राह्मणसंख्यानियमो याज्ञवल्क्येनोक्तः । यथा द्वौ दैवे प्राकू त्रयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ॥ ( याज्ञ० अ० १ श्लो० २२८) इत्यादि । श्राद्धदेवाश्च दशविधा गणदेवताभेदाः । यथोक्तम् वसुसत्या ऋतुदक्षौ कालकामौ धुरिः कुरुः । पुरुरवा मार्दवाश्च विश्वेदेवाः प्रकीर्तिताः ॥ (वाच० पृ०४९२५ ) इति । अन्यच्च ऋतुर्दक्षो वसुः सत्यः कामः कालस्तथा धुरिः । रोचनो माद्र- बाश्चैव तथा चान्यः पुरूरवाः ॥ विश्वेदेवाः भवन्त्येते दशः श्राद्धेषु पूजिताः इति । [ग] श्रद्धाहेतुकदानरूपकर्मविशेषः । तदाहापस्तम्बः अथैत- न्मनुः: श्राद्धशब्दं कर्म प्रोवाच ( आपस्त• धर्मसू० २१७/१६/१ पृ० ७६ ) । तदर्थश्च श्राद्धम् इति शब्दो वाचको यस्य तत्क (श्राद्धविवेकः) इति । पुलस्त्योप्याह संस्कृतं व्यञ्जनाद्यं च पयोदधिता न्वितम् । श्रद्धया दीयते यस्मात् तेन श्राद्धं निगद्यते ॥ (श्राद्धतख०) इति । अस्मिंश्च कर्मणि यागादाविन्द्रादीनामिव पित्रादेर्देवतात्वम् । तदुद्देशेन मन्त्रद्वारा द्रव्यत्यागात् । तथा च यागादौ मन्त्राहूता इन्द्रादयः शक्तिमात्रेण तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेन तृप्यन्तस्तेषाम- भीष्टफलं यथा साधयन्ति तथा श्राद्धेपि मन्त्राहूताः पित्रादयः समागताः पुत्रादित्यक्तद्रव्यभोगेन तृप्यन्तो विशिष्टफलप्रदाः भवन्ति इत्येवं कल्प- नीयम् इति । अत्रेदं बोध्यम् । देवदत्तादिशब्दस्य यथा न केवलं ह मात्रम् न वा जीवमात्रमर्थः । किंतु तत्तद्देहाभिमानी जीव एवार्थः । तथा पित्रादिशब्दस्य उत्पादक देहाभिमानी केवलं जीवोपि नार्थः । पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः । प्रपितामहाश्चादित्या किं तु वसुरुद्रादित्यदेवाधिष्ठिततादृशजीव एवार्थः । तथा चोक्तम् वसवः सनातनी ॥ प्रेतानुद्दिश्य यत्कर्म क्रियते मानुषैरिह / तृप्यन्ति देश स्तेन न: प्रेताः पितरः स्मृताः ॥ (श्राद्धकल्पे देवल०) इति । तथा च यथा काचिद्गर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तप्यन्ती स्वात गर्भं च तर्पयन्ती दोहददातारमभ्युपकरोति तथा वस्वादयोपि दर्शनमात्रतृप्ताः खाधिष्ठितपित्रादीन् तर्पयन्तः श्राद्धकर्तुरपीठदातारो भवन्ति इति ज्ञेयम् (वाच० ) । अत्र छान्दोग्यश्रुतिः तद्यत्प्रथमनसुतं । मृतं दृष्ट्वा तृप्यन्ति ( छा० उ० ३।६।१) इति ॥ ब्राह्मणा दिसंप्रदानक/ तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अनन्ति न पिबन्त्येतदेवा- क्रियाया इव श्राद्धकर्मण एव स्वजन्यपुण्यद्वारा विशिष्टफलजनकता / तत्र कालान्तरभावितत्तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव त श्रद्धान तस्य तस्याचलां, श्रद्धां तामेव विदधाम्यहम् ॥ ( मीता 1 श्लो० २१ ) इति गीतायामुक्तम् । श्राद्धमेदाश्च विश्वामित्रायुक्ताः नित्यादयोवगन्तव्याः । यथा नित्यं नैमित्तिकः काम्यं वृद्धिश्राद्धं सपिण्डनम् ( एकोद्दिष्टम् ) । पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थ- मष्टमम् । कर्माङ्ग नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्राखेकादशं ( वृतश्राद्धं ) प्रोक्तं पुष्यर्थी द्वादशं ( औपचारिकम् ) स्मृतम् ॥ इति । बृहस्पतिना तु नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च । पार्वणं चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥ इति उक्तम् । एवं कूर्मपुराणेपि । मत्स्यपुराणे च नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते इति । अत्र द्वादश विधानां पञ्चविधानां च श्राद्धानां त्रिष्त्रैवान्तर्भावः इत्यभिप्रायः । श्राद्धदेशा यथा - शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । दक्षि- णाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ अवकाशेषु चोक्षेषु नदीतीरेषु चैव हिं। विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ (मनु० ३।२०६-२०७ इति । चोक्षाः स्वभावशुचयोरण्यादिप्रदेशाः । श्राद्धनिन्दितदेशानाह विष्णुः । न म्लेच्छविषये श्राद्धं कुर्याद्गच्छेच तत्र न । चातुर्वर्ण्यव्यव- स्थानं यस्मिन् न विद्यते ॥ तं म्लेच्छदेशं जानीयादार्यावर्तमतः परम् " इति । वायुपुराणे च त्रिशङ्कोर्वर्जयेदेशं सर्वे द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन तु. कीकटात् ॥ देशस्त्रैशङ्को नाम श्राद्धकर्मणि गर्हितः । पारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च ॥ प्रनष्टाश्रमधर्माच 'देशा वर्ज्याः प्रयत्नतः इत्यादि । एवं ब्रह्मपुराणेपि विशेषो ज्ञेयः । पारस्करा देशविशेषाः । कीकटो मगधः । सिन्धुर्नदीविशेषः ( वाच ० ) । <श्रावणम्> १ श्रोत्रेन्द्रियजन्यं प्रत्यक्षम् । यथा शब्दस्य प्रत्यक्षम् । २ मासविशेषः । ३ बार्हस्पत्यो वर्षविशेषः । ४ वृक्षविशेषः । श्रीः- १ लक्ष्मीः । २ लवङ्गम् ॥ ३ शोभा । ४ वाणी । ५ वेषरचना । ६ सरलवृक्षः । ७ धर्मार्थकामाः । ८ संपत्तिः । ९ प्रकारः । १० उपकरणम् । ११ बुद्धिः । १२ विभूतिः । १३ अधिकारः । १४ प्रभा । १५ कीर्तिः । १६ वृद्धिः । १७ सिद्धिः । १८ कमलम् । १९ बिल्ववृक्षः । २० औषधि विशेषः । २१ देवादीनां नामोचारणाय उपाधि विशेषः । तत्रोक्तम् देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राघिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व समुदीरयेत् ॥ इति । २२ रागविशेषः इति गायका आहुः । अत्रोच्यते श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते- पराहे गेयः । तस्य पञ्च रागिण्य मानश्रीः भारवी धनश्रीः वसन्त- रागिणी आशाचरी चेति ( संगीतदा० ) ( वाच० ) / रागशब्द- व्याख्याने याः संगृहीतास्तदन्या एता रागिण्यः इति विज्ञायते । <श्रुतम्> ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानम् (सर्व० सं० पृ० ६३ आर्ह० ) । <श्रुतिः> १ श्रोत्रशब्दवदस्यार्थीनुसंधेयः । २ श्रोत्रेन्द्रियजन्यं ज्ञानम् । ३ मीमांसकास्तु निरपेक्षो रवः श्रुतिः । सा च त्रिविधा धात्री विनियोकी चेति । तत्र विधात्री लिङाद्यात्मिका / ब्रीह्यादिश्रुतिः। यस्य च शब्दस्य श्रवणादेव संबन्धः विधात्री अभि अभियात्री प्रतीयते सा विनियोकी इत्याहुः । स च संबन्धः विनियोज्य विनियोजकभावः शेष। शेषिणो: संबन्धो वा ( लो० भा० टी० पृ० १७) । श्रुतिरपि पुनः त्रिविधा विभक्तिरूपा एकाभिधानरूपा एकपदरूपा तत्र विभक्तिश्रुत्या अङ्गत्वं ज्ञाप्यते । यथा नीहिभिर्यजेत इति वही / श्रीहीणां यागाङ्गत्वं ज्ञाप्यते । समानाभिधाना यथा पशुना 4 यजेत इत्याख्याताभिहितसंख्याया आर्थीभावनाङ्गत्वं समानाभिधान श्रुतेः । एकपदश्रुत्या च यागाङ्गत्वं ज्ञाप्यते ( लौ० धर्मशाखंतु २ श्लो० स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ ( मनु० ० १० ) इति । वेदस्तु विधिमन्त्रनामधेयनिषेधार्थवादभेदात्प विधः । शिष्टं तु वेदशब्दव्याख्याने दृश्यम् / ४ क्रमपरवचनं श्रुतिः । • तच्च द्विविधम् केवलक्रमपरं क्रमविशिष्टपदार्थपरं चेति / तत्र वेदें कुला वेदिं करोतीति केवलक्रमपरम् । वषट्कर्तुः प्रथमभक्ष इति तु क्रम विशिष्टपदार्थपरम् ( मी० न्या० पृ० ३७) । ५.गणकास्तु अडून शास्त्रोक्तस्त्रिभुजक्षेत्रादिः भुजकोट्योः संयुज्यमानो रेखाविशेष इत्याहुः ( लीला० ) । ६ मौहूर्तिकास्तु श्रवणनक्षत्रम् इत्याहुः । ७ संगीत- शास्त्रज्ञा गायकास्तु षड्डुरागाद्यारम्भकावयवशब्द विशेषः श्रुतिः इत्याहुः । तत्रोक्तम् प्रथमश्रवणाच्छब्दः श्रूयते स्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥ ( मल्लिना० ) इति । संगीतदामोदरे श्रुतिसंख्या- नियमश्च दर्शितो यथा चतुश्चतुश्चतुश्चैव षडुमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रिस्त्रिरृषभधैवतौ ॥ इति । श्रुतिभेदास्तु (२२) नान्दी चालनिका रसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसीऽमृता मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला विशाला जया मात्रेत श्रुतयः पुराणक विभिर्द्वाविंशतिः कीर्तिताः ॥ इति । संगीतरत्नाकरे तु तीव्रा कुमुद्रती मन्दा छन्दोवत्यस्तु षडुगाः । दयावती रञ्जनी च रतिका ऋषमे स्थिता ॥ रौद्री क्रोधा च गान्धारे वत्रिका च प्रसारिणी। प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ क्षितिरक्ता च सांदी पिन्यालापी चैव पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥ उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती इति । <श्रेणि:> नानाजातीना मेकजातीनामप्येकजातीयकर्मोपजीविनां संघातः ( मिताक्षरा अ० २ श्लो० ३० ) । <श्रोत्रम्> (इन्द्रियम्) [क] शब्दोपलब्धिसाधन मिन्द्रियम् ( त० मा० पृ० २६) ( न्या० म० पृ० १४ ) । तच्च विशिष्टादृष्टोपगृहीतकर्ण- शष्कुल्यवच्छिन्नो नभोदेश: (वै० उ० ८/२/६ ) ( त० मा० प्रमे० पृ० २६) ( त० सं० ) । अत्रावच्छिन्नत्वं च संयोगविशेषः (प० मा० ) । अत्रेदं बोध्यम् । श्रोत्रं शब्दवत् शब्दप्राहकत्वात् । यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत्। यथा गन्धग्राहकं घ्राणं गन्धवत् इति व्याप्तिरत्र द्रष्टव्या (प्र० प्र०) (त० भा० प्रमे० पृ०२६) । अथ वा श्रोत्रस्य शब्दवत्त्वं च बहिरिन्द्रियाणां ग्राह्यजातीयविशेषगुणवत्त्वम् इति नियमात्सिद्ध्यति (वै० उ० ८/२/६) । शब्दश्च नभोवृत्तिरेव । न च वायोरेव कारणगुणपूर्व कशब्दवत्वमङ्गीकार्यम् इति वाच्यम् । शब्दस्या- यावद्रव्यमावित्वेन वायुविशेषगुणत्वाभावात् ( मु० १ आकाशनि ० पृ० ८८) इति । [ख बने सिंहनादः इति शब्दप्रत्यक्षासाधारण- कारणम् । तच्च कर्णशष्कुल्यवच्छिन्नं नभः (प्र० प्र० ) ( न्या० स० १ पृ० १४ ) ( त० कौ० ) । अत्र भाष्यम् । श्रोत्रं पुनः श्रवणविवर संज्ञको नभोदेशः । शब्द निमित्तोपभोगप्रापकर्माधर्मोद्धः । च नित्यत्वे सत्युपनिबन्धकवैकल्याद्वाधियम् ( प्रशस्त पृ०७ ) इति । नव्यास्तु ईश्वर एवं श्रोत्रेन्द्रियम् नेश्वरादतिरिक्तम् इत्याहुः ( राम० १ पृ० ११८ ) । सांख्या वेदान्तिनश्च सात्विकांशसूक्ष्मांशः श्रोत्रम् इत्याहुः । तन्मते शब्दस्य पञ्चभूतगुणतया शब्दाधारवायुना इति । तन्मते श्रवणेन्द्रियस्य प्राप्यकारित्वम् इत्युक्तिरप्येतति / कर्णदेशे यथावेगं धावमानेन कर्णप्रापणसंभवः । तेन शब्दोपलम्भः । बोध्यम् ( वाच ० ) । काव्यज्ञास्तु श्रोत्रेन्द्रियाधारो गोलकं वर्णः । श्रोत्रम् इत्याहुः । <श्लाघनम्> बोध विषया स्तुतिः । यथा गोपी स्मरात्कृष्णाय लाघते इलाय श्लाघतेरर्थः । अत्र धात्वर्थघटकबोधाश्रयस्य श्लाघहुड्स्थाशपां ज्ञीस्वसनः । (प्राणि ० १ । ४ ।३४) इति सूत्रेण संप्रदानत्वम् । ज्ञीप्स्यमा देव फलतावच्छेदकः संबन्धो वृत्तिता । स्तुतिस्तु गुणवत्त्वप्रतिपादक/ प्रधानभूतण्यर्थकर्मणो ग्रहणम् । अत्र श्लाघधात्वर्यैकदेशस्य. प्रयोगादिः । स्मरात् इति हेतौ पञ्चमी । एवं च गोपीकर्तृका सारख कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोधविषया स्तुतिः इति ब ( उ० म० कारक० ४ पृ० १०२) । <श्वासः> १ वायुव्यापार विशेषः । यथा मनुष्यस्य पृथगेकैमिति एकविंशतिः सहस्राणि षट् शतानि च (२१६००) श्वासात इति । श्वासो नाम बाह्यस्य वायोरन्तर नयनम् (सर्व० सं० पात: ० ) । २ रोगविशेषः इति भिषज आहुः । श्वासहेतुरुक्त गृह्यते ॥ इति पौराणिककथामध्ये यस्तु वाचान्यथा सं०५०३७५ य महाधासेत। सऊ तं स प्रदेव श्वासमासाद्य दुनोत्यहरहर्निशम् ॥ ( भृगु - भार० ) ( वाच ० ) इति च । ३ शाब्दिकास्तु शिक्षोक्तो वर्णोच्चारणार्थो बाह्यप्रयत्न विशेष इत्याहुः । <ष> <पडहः> - अहोरात्रसाध्य एकः सोमयागो वेदे अहः शब्देनोच्यते । तादृशानां षण्णामहर्विशेषाणां गणः षडहः । पञ्चभिः षडहैर्मासो भवति । तत्र चत्वारः षडहा अभिप्लवसंज्ञाः । पञ्चमः पृष्ठ्यसंज्ञः ( पुरु० पृ० १० ) । <षष्ठी> १ (विभक्तिः ) [ क ] यत्किंचिद्धात्वर्थे स्वार्थान्वयाबोधिका सुप् । यथा चैत्रस्येदम् इत्यादौ षष्ठी । अत्र संबन्धविवक्षायां कारक विभक्तय- प्रसक्तेः षष्ठी शेषे (पाणि० २१३/५० ) इत्यनेन सूत्रेण चैत्रस्येदम् इत्यादौ षष्ठी। चैत्रस्य द्रव्यम् इत्यादौ स्वत्वस्य चैत्रस्य स्खम् घटस्य कारणम् चैत्रस्य हस्तः इत्यादौ निरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठ्यर्थता न तु विशिष्य निरूपितत्वत्वावयवत्वत्वादिना । शक्त्यानन्त्य- प्रसङ्गात् । संयोगादिसंबन्धसत्त्वेपि चैत्रस्य नेदं वासः इत्यादौ स्वत्वादि- लक्षणैव । इत्थमेव च संबन्धत्वेन कर्मत्वादिविवक्षया मातुः स्मृतम् संबन्धविशेषबोधतात्पर्येण यत्र नञ् प्रयुज्यते तत्र विशेषरूपेण षष्ठ्याः इत्यादौ अधीशां कर्मणि (पाणि० २/३/५२ ) इत्यनुशासन नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते । एवमेवाग्निप् काष्ठानां न पुंसां वामलोचनाः इत्यादौ करणत्वादेः संबन्धत्वेन विवक्षायां इत्यत्र पक्कम् इत्यत्रानुषज्यमानायाः षष्ठ्याः संबन्धत्वेन कर्तृत्वमर्थः न तु षष्ठ्युपपत्तिः । अत एव च आमं शूदस्य पकानं पकमुच्छिष्टमुच्यते स्वत्वम् । शूदकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेः इति नवीनस्मार्तानां मतमप्युपपद्यते (ग० व्यु० का० ६ पृ० ११२) । [ख ] शाब्दिका- दयस्तु संबन्धसामान्ये स्वत्वादौ वा शक्ता सुप् । यथा राज्ञः पुरुषः इत्यादौ च धात्वर्थतावच्छेदकीभूते संयोगस्वत्वादौ द्वितीययाधेयत्वमेव चैत्रस्य धनम् इत्यादौ षष्ठी इति वदन्ति । ग्रामं गच्छति पदं ददाति न तु संबन्धसामान्यं बोध्यते इति न तत्रातिप्रसङ्गः (श० प्र० ११३ न्या० को● श्लो० ६६ पृ० ७६ ) इति । अत्रेदं शाब्दिकमतं विज्ञेयम् । षष्ठयर्थः संबन्धत्वेन तत्तद्रूपेण च स्वस्वामिभावादिः संबन्ध: संबन्धत्वेन क्रिया- कारकभावश्च । अत एवानेक संबन्धसत्त्वेपि स्वत्वादिसंबन्ध विशेषतात्पर्येण चैत्रस्य नेदं वासः इति प्रयुज्यते । अत एव एकशतं षष्ठवर्थाः इति षष्ठी स्थानेयोगा (पाणि० ११११४९ ) इति सूत्रस्थं भाष्यं संगच्छते । द्वितीयादितश्चं क्रियाकारकभावस्य तत्तद्रूपेणैव बोधः । तथैवानुभवात् । ( मातुः स्मरति इत्यादौ च तत्तद्रूपेण बोधे द्वितीयादीनां बाधिकानां प्राञ्चस्तु अत्रापि क्रियाकारकभावमूलकं विशेषणत्वरूपं विषयत्वमेव सत्त्वात्संबन्धत्वेनैव बोध: मातृसंबन्धि स्मरणम् इति नव्या आद्भुः । निमित्तत्वमेव वा तत्त्वेन संबन्धत्वेन वा विवक्षितम् । क्रियाकारकभाव, संबन्ध: कारणम् । शेषसंबन्धस्तु फलभूतः । यथा राज्ञः पुरुष इत्यत्र राजपुरुषौ कर्तृसंप्रदानरूपावभूताम् राजा पुरुषाय ददाति इते । तन्मूल कस्व स्वामिभावप्रतीतौ कर्त्रादिविशेषरूपतानवगमः इत्याहुः (० प्रकार तथा धात्वर्थे धात्वर्थात अत्रेदमवधेयम् । म० कार० ६ पृ० ११३ ) । अत्रायं विवेकः । षष्ठी द्विविधा शेषषष्ठी चेति । शब्दशक्ति प्रकाशिकाकृन्मते यया कर्तृत्वकर्मत्वादि बोध्यते सा कारकषष्ठी । यया तु स्वार्थशेषः संबन्धः बोध्यते सा शेषषष्ठी । गदाधरादीनां यया धात्वर्थे स्वार्थ कर्तृत्वकर्मत्वादि संबन्धत्वेनैव बोध्यते न तु प्रकार तथा सा कारकषष्ठी । यया तु धात्वर्थातिरिक्ते स्वार्थः त्वेनैव बोध्यते सा शेषषष्ठी इति चिन्तनीयः । क्रियाप्रकारीभूतोर्थः कारकम् । तत्रार्थे षष्ठी कारकषष्ठी इत्युच्यते । यथा सा लक्ष्मीरुपकुरुते यया परेषाम् । पद्मस्यानुकरोत्येष कुमारीपुत वपि मातुः स्मरति चौरस्य हिनस्ति जलस्योपस्कुरुते इत्यादाविव क्रियानि मण्डल: । गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादा शेषयोगे कारकार्येव षष्ठी । तण्डुलस्य पाचकः मैत्रस्य भोक्तव्यम् इत्यादा वपि षष्ठी कारकषष्ठचेव ( श० प्र० पृ० ७८) । सा लक्ष्मीरित्यत्र प्रयोग दृष्टया प्रत्यनूपेभ्यः करोतेः कर्मण्यपि वैकल्पिकः षष्ठीविधिर्वक्तव्यः ३ विज्ञेयम् ( श० प्र० श्लो० ६७ टी० पृ० ७८ ) । गुरुविप्रतपखि- दुर्गतानामित्यत्र शाब्दिकास्तु विपत्तौ इति अध्याहृतनामार्थे षष्ठ्यर्थान्वयः इतिष्ठाः (का० व्या ० ) । तण्डुलस्य पाचक इत्यत्र धात्वर्थे पचनादौ कृद्योगे कर्तृकर्मणोः षष्ठ्यनुशिष्टेः कर्मत्व कर्तृत्वादिकं कारकमेव इति कारकार्यैव षष्ठी इति ज्ञेयम् ( श० प्र० पृ० ७८ ) । यद्वा अत्र कर्मणि द्वितीया (पाणि० २१३१२) कर्तृकरणयोस्तृतीया (पाणि० २।३।१८) इत्याभ्यां सूत्राभ्यां विहिताभ्यां द्वितीया तृतीयाभ्यां शक्तया बोधिते कर्तृत्वकर्मध्वे कर्तृकर्मणोः कृति (पाणि० २/३/६५ ) इति सूत्रेण विहिता षष्ठी लक्षणया बोधयति इति ज्ञेयम् । लक्षणाबीजं तु तादृशयोः कर्तृत्वकर्मत्वयोः संबन्धत्वेन बोधने तात्पर्यानुपपत्तिरेव । प्रकार- तथा बोधन एव तात्पर्यादिति हृदयम् । अत्रायं विशेषोनुसंधेयः । कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वयः इति नियमो नास्ति । तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूपधात्वर्थे हेतु- विभत्तयर्थस्यान्वयः । तस्मात्स्थीयते इत्यादौ च सर्वमत एव धात्वर्थ- हेतुविभक्त्यर्थस्यान्वयः । गुरुवि प्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादौ तु षष्ठ्यर्थसंबन्धस्यापि धात्वर्थेन्वयदृष्टः इति तादृशनियमो नास्ति ( ग० व्यु० का ० २ ख० २ पृ० ५६) इति । गुरु विप्रेत्यत्र शाब्दिकानुयायिनस्तु रोगे इति नामाध्याहृत्य तदर्थे षष्ठ्य- र्थस्य संबन्धस्यान्वयः कर्तव्यः । तथा च संबन्धस्य कारकत्वाभावेन क्रियायोगाभावान्नेयं कारकषष्टी इत्याहुः ( का० व्या० पृ० १) । शेषषष्ठी त्यस्यायमर्थः । शेष: कारकादवशिष्टः स्वस्वामिभावावयवावय- विभावादिः संबन्धः कारकादन्यो वा । तत्रार्थे षष्ठी शेषषष्ठी इत्यु- । यथा राज्ञः पुरुषः रजकस्य वस्त्रं ददाति इत्यादौ षष्ठी । राज्ञ इत्यत्र षष्ठ्या स्वत्वरूपः संबन्धो बोध्यते । स च न कारकम् । नवा तदर्थिका षष्ठ्यादिः कारकविभक्तिः इति ज्ञेयम् । रजकस्येत्यत्र च परिष्कार्यस्वादिलक्षणः संबन्धो वस्त्रादावेव षष्ठयानुभाव्यते इति शेषषष्ठी इति विज्ञेयम् (श० प्र० श्लो० ६७ टी० पृ० ७७) । २ मोहूर्तिकास्तु चन्द्रमसः षष्ठकलाया हासवृद्धिरूपक्रियात्मकस्थितिविशेषः इत्याहुः । ३ पौराणिकास्तु ब्रह्मकन्या देवसेनाख्यः स्कन्दभार्यात्मको मातृकाविशेष: इत्याहुः । तदुक्तम् मातृकासु पूज्यतमा सा च षष्टी प्रकीर्तिता । शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी ॥ ( ब्रह्म० वै० प्र० अ० १) (स्कन्दपु० ) ( वाच० ) इत्यादि । ताश्च षोडश मातृकाः गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोक- मातरः ॥ शान्तिः पुष्टिधृतिस्तुष्टिः कुलदेवात्मदेवताः इति । अपि सप्त ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा / वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥ इति । <घाट्पोरुषम्> ( श्राद्धम् ) महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च । । नवदैवतमत्रेष्टं शेषं षापौरुषं विदुः ॥ (पु० चि० पृ० ३८४ ) / स - १ विष्णुः । २ सर्पः । ३ ईश्वरः । ४ विहगः । ५ समासे पूर्व / इत्यादौ । ७ छन्दःशास्त्रज्ञास्तु अन्तगुरुक आदिलघुद्वयको यो वर्णरण:/ पदस्थ: सहार्थः । यथा सपितृकः इत्यादौ । ६ समानार्थः । यथा सहसः । तस्य स इति नाम इत्याहुः । तदुक्तम् आदिमध्यावसानेषु यरता लाघवम् । भजसा गौरवं यान्ति मन तु गुरुलाघवम् ॥ (श्रुतबो०/ १ [क] परस्परात्यन्ताभाव समानाधिकरणयोर्धर्मयोरेकत्र वेश: ( दि० १ ) ( वै० वि० १ १ २ ३ ) । एतत्संकरलक्षणं स्परात्यन्ताभावसमानाधिकरणपदार्थद्वयसामानाधिकरण्यत्वम् इति ( ० व० ) । खसामानाधिकरण्य स्वाभावसामानाधिकरण्य स्वसमानाधिकरणा भावप्रतियोगित्व एतत्रितयसंबन्धेन यत्किंचिज्जातिविशिष्टत्वं समुदिता इति गुरुचरणा: ( भिकुशास्त्री गोडबोले ) प्राहुः । अयं संकरथ बाधकः इति विज्ञेयम् (नील० ) । श्रीहर्षकृतखण्डने त्वेवं प्रतिपादित भूतत्वमूर्तत्वे पृथिवीत्वशरीरत्वे च जातिरूपे एव / कियासमनायिकारण न सांकर्यस्य सर्वथा जात्यभावकल्पकत्वम् / मानाभावात् / सं तावच्छेदकतया मूर्तत्वादेरिव भूतादिपदशक्यतावच्छेदकतया मुलाय रपि जातिवात् ( ल० म० ) इति । [ख] परस्परात्यन्ताभावसामाना- धिकरण्ये सति जात्यन्तरेण सामानाधिकरण्यम् । यथा भूतत्वस्य मूर्तत्वादिना संकरः ( दि० १ ) (वै० उ० १ १ २ ३ ) । तथा हि मनोन्तर्भावेनाकाशान्तर्भावेन च परस्परं स्वस्खात्यन्ताभावसमानाधिकरण- योर्भूतत्वमूर्तस्वयोः पृथिव्यादिचतुष्टये समावेशः इति भूतत्वं न जातिः इति विज्ञेयम् । भूतत्वाभाववति मनसि मूर्तत्वं तिष्ठति । तथा मूर्तस्वाभाववति चाकाशे भूतत्वं तिष्ठति । पृथिव्यादिभूतचतुष्टये तु भूतत्वं मूर्तत्वं चोभे तिष्ठतः इति संकरो ज्ञेयः । २ धर्मान्तरस्य समावेशः । विभिन्नधर्मव- तोपि धम्र्यैक्यं वा । यथा उपधेयसंकरेप्युपाघेरसंकरः इत्यायभियुक्तोक्तौ (चि० १) (ग० सामा० ) (भवा० ) काञ्चनमयहदो वह्निमान् घुमात् इत्यादौ घूमरूपैकहेतौ बाधातिरिक्तस्याश्रयासिद्ध्यादेरपि समावेशः संकरः । ३ अभेदः ( मू० म० प्रामाण्य० पृ० ४२० ) । यथा अतिरिक्तविषयतापक्षे प्रकारमेदेनैकत्र विषयताभेद इति लक्षणद्वयसमा वेशात्प्रमाभ्रमसंकरः ( चि० १ प्रामा० पृ० ४१८) इत्यादिप्रन्थे संकरशब्दस्यार्थः अभेदः । ४ स्मृतिशास्त्रकृतस्तु एकवर्णपुरुषाद्विवाहित- वर्णान्तरस्त्रियां जातो जातिविशेषः । यथा मूर्धावसिक्तसूतादिः इत्याहुः । विज्ञेयम् अनुमजानामुपनयनादिसंस्कारार्हत्वम् प्रतिलोमजानां तु तदनर्हत्वम् इति । वर्णसंकरजातिश्च अनुलोमजा प्रतिलोमजापि नानाविधा । यथा विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । जातोम्बष्ठस्तु शुद्रायां निषादः पार्षदोपि च ॥ (गरुडपु० अ० ९६ ) इत्यादि । ब्राह्मणाद्वैश्यकन्यायामम्बष्ठ नाम जायते । निषादः शुद्ध- कन्यायां यः पारशव उच्यते ॥ ( मनु० अ० १० श्लो० ८-४१) ( याज्ञ० अ० १ श्लो० ९१-९२ ) इत्यादि । अत्रेदमधिकं ज्ञेयम् । व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥ ( मनु० अ० १० श्लो० २४ ) इति । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ( गीता अ० १ श्लो० ४१ ) इति च । ५ आलंकारिकास्तु अलंकार विशेष इत्यादुः । तदुक्तम् अङ्गाङ्गित्वे- लंकृतीनां तद्वदेकाश्रयस्थिता । संदिग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥ सा० ५० परि० १० श्लो० ९९) इति । ६ धर्मज्ञास्तु अस्पृ श्यस्पर्शादिरूपः संसर्गः । यथा चाण्डालादिसंकर इत्याहुः । अथ दहनं पूरणं सर्वभाण्डभेदनं दारवाणां तक्षणं शङ्खशुक्तिरजतचेलानामद्भिः चाण्डालसंकरप्रायश्चित्तम् । तत्र च्यवनः चाण्डालसंकरेषु भवन- प्रक्षालनं कांस्यताम्राणामाकरशुद्धिः सौवीरपयोदधितक्राणां परित्यागः प्रायश्चित्तम् इति । तथा आपस्तम्बोपि अन्त्यजातिरविज्ञातो निवसेव शेषरसयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत् बालवृद्धस्त्रीणाम वेश्मनि । स वै ज्ञात्वा तु काले तु कुर्यात्तत्र विशोधनम् ॥ चान्द्रायणं पराकं वा द्विजातीनां विशोधनम् । प्राजापत्यं तु शूद्राणां तथा संसर्ग दूषणे ॥ इत्यादि । स्वल्पकालविषये सुमन्तुः अगम्यागमनस्त्रीव चाण्डालसंपर्कषु कृच्छ्रत्रयम् इति । परंपरासंसर्गे तु वृद्धशातातपः सर्वद्रव्येष्वयं विधिः ॥ इति । देवलोपि संस्पृश्याशुचिसंस्पृष्टं तृतीयं अशुचि संस्पृशेद्यस्तु एक एव स दुष्यति । तत्स्पृष्टोन्यो न दुष्येत वापि मानवः । हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्य शुद्धयति ॥ इत्यादि । ७ संमार्जन्यादिभिः क्षिप्तं रज इति काव्यज्ञा आहुः । <संकल्पः> १ अनासन्नक्रियेच्छा । यथा अनागतेषु सर्पव्याघ्रादिषु संकल्प दुःखम् ( प्रशस्त ० २ पृ० ५१ ) इत्यादौ । २ धर्मज्ञास्तु नायाभिलापवाक्यम् । यथा मनसा संकल्पयति वाचाभिलपति कर्मणा चोपपादयति ( ति० त० रघु० ) ( वाच० ) इत्यादौ इत्याहुः । धर्माश्च सर्वे संकल्पजाः स्मृताः ॥ ( एका० त० ) / संकल्पेन विना अत्रोक्तम् संकल्पमूल: कामो वै यज्ञाः संकल्पसंभवाः । व्रतानि यम- भवेत् ॥ ( ब्रह्मपु० ) इति । ३ कर्मज्ञाश्च अभीष्टसिद्धये इदमित्यमेव राजन् यत्किंचित्कुरुते नरः । फलं स्यादल्पकं तस्य धर्मस्यार्धक्षो कार्यम् इत्येवंरूपो मानसो व्यापारविशेष इत्याहुः । तत्रोक्तम् आशाप च शुभं कार्यमुद्दिश्य च मनोगतम् इति । संकल्पश्च द्विविधः भाष- विषयः अभावविषयश्च । तत्राद्यः मयैतत्कर्तव्यम् इत्येवंरूपः । यथा पूजादिसंकल्पः । द्वितीयस्तु मयैतन्न कर्तव्यम् इत्येवंरूपः । यथा उप वासादिसंकल्पः इति । <संकीर्णत्वम्> १ संकरवत्त्वम् । यथा संकीर्णजातिः इत्यादौ । २ एकत्र विजातीयमेलनम् । यथा असंकीर्णबाघः इत्यादौ । ३ अशुद्धत्वप्रयोजको धर्मः इति धर्मज्ञा वदन्ति । <संकेतः> १ ( पदवृत्तिः ) [ क ] इदं पदममुमर्थं बोधयतु इति अस्मा- त्पदादयमर्थो बोद्धव्यः इति वेच्छा ( चि० ४ ) ( ग० शक्ति०पृ ० ३ ) ( त० प्र० ४ ) ( न्या० बो० ४ ) । यथा घटपदस्य कम्बुग्रीवादिमत्यर्थे संकेतः । इदं पदमित्यादेरर्थश्च इदं पदमेतदर्थविषयकबोधजनकं भवतु इति । अस्मादित्यादेरर्थस्तु अयमर्थ एतत्पदजन्यबोधविषयतावान् भवतु ( ग० शक्ति० टी० पृ० ३ ) इति । संकेतग्रहस्तु व्याकरणवृद्धव्यवहारा- दितो भवति (मु० ख० ४ ) ( श० प्र० श्लो० २० पृ० २२) (३० वि० ७२२० ) । तत्प्रपञ्चस्तु शक्तिशब्दव्याख्याने दृश्यः । [ख] पतञ्जलिस्तु पदपदार्थयोरितरेतराध्यासरूपः ( स्मृत्यात्मकः ) । यथा योयं शब्दः सोर्थः योर्थः स शब्दः इति संकेतः इत्याह । संकेतस्य च लोके दर्शनेन तादृशेश्वरसंकेतस्याप्यनुमानम् । अत एव न्यायवाचस्पत्ये उक्तम् सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः संकेतस्त- द्व्यवहाराच्चास्मदादीनामपि सुग्रहस्तत्संकेतः इति ( ल० म० ) । [ग] अन्ये शाब्दिकास्तु अर्थबोधजनकः शब्दव्यापार इत्याहुः । अत्र मत- मेदाः । संकेतश्च जात्यादिचतुष्के इति वैयाकरणा आलंकारिकाश्चादुः । तदुक्तम् संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च (भर्तृहरिः ) इति । शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः ॥ ( काव्यादर्शे ) इति । जातिद्रव्यगुणसन्दैर्धमैः संकेत- वत्तया । जातिशब्दादिभेदेन चातुर्विध्यं परे ( शाब्दिकाः ) जगुः ॥ (श० प्र० श्लो० १८ पृ० १७) इति । जात्याकृतिविशिष्ठव्यक्तौ इति नैयायिका आहुः । अत्राधिकं च शक्तिशब्दव्याख्याने दृश्यम् । संकेतो द्विविधः आधुनिक संकेतः ईश्वरसंकेतश्च । तत्राद्यः परिभाषा इत्युच्यते । द्वितीयः शक्तिः इत्युच्यते ( ग० शक्ति० पृ० ३) (वै० वि० ७७२।२०) । तदुक्तं भर्तृहरिणा आजानिक श्चाधुनिकः संकेतो द्विविधो मतः । नित्य आजानिकस्तत्र या शक्तिरिति गीयते ॥ कादा चित्कस्त्वाधुनिकः शात्र- कारादिभिः कृतः ( श० प्र० श्लो० २३ टी० पृ० २६ ) । इदं च प्राचीनमताभिप्रायेण । नव्यमते च परिभाषापि शक्तिः इत्युच्यत इति बोध्यम् । २ नर्तकास्तु मनोगतभावव्यञ्जनाय कृतो हस्तादिचेष्टा- विशेष इत्याहुः । ३ साहित्यशास्त्रज्ञाश्च प्रियसंगमार्थ व्यवस्थापित गुप्तस्थानम् इत्याहुः । <संकोचः> १ अवयवाकर्षणम् । यथा मतविशेषे मनसः संकोचविकाशशा- लिवात् ( भा०प० श्लो० ८५ मुक्ता० ) इत्यादौ संकोचशब्द सार्थ आकुञ्चनम् । २ शाब्दिकास्तु बहुविषयकवाक्यस्याल्पविषयकता व्यवस्थापनम् इत्याहुः । ३ मीमांसकाश्च सामान्यशब्दस्य विशेषर संकोचः । यथा न हिंस्यात् इत्यस्य काम्यहिंसातिरिक्तहिंसापरवर, इत्यङ्गीचक्रुः । काव्यज्ञास्तु ४ जडीभावः । ५ बोधः । ६ बन्धः / / ७ मत्स्यविशेषः । ८ कुङ्कुमम् इत्याहुः ( वाच० ) । <संक्षेपः> १ एकस्मिन्ननेकेषां शब्दानामर्थानां वा संग्रहः । संक्षेपो द्विविधः, शब्दसंक्षेपः अर्थसंक्षेपश्चेति ( राम० ) । तत्र शब्दसंक्षेपश्च भूयसोर्थ/ शब्दस्यार्थवदनुसंधेयः । २ लघुत्वम् । <संख्या> १ ( गुणः ) [ क ] एकत्वादिव्यवहारहेतुर्गुण विशेषः (प्रशस्त स्याल्पवाक्यादिना प्रकाशनम् । अर्थसंक्षेपश्चानुगमः । स च अनुराध / व्यवहारयोः ( ता० र० ) इति । सा च संख्या एकत्वादिपरापर्य पृ० १३ ) ( त० सं० ) । तथा चोक्तम् गुणत्वे सति हेतत्वं तत्व नवद्रव्यवृत्तिः चक्षुरिन्द्रियेण त्वगिन्द्रियेण च गृह्यते । संख्या प्रप उपस्कारे (वै० उ० ७१२१८ ) द्रष्टव्यः । मीमांसकास्तु संख्या गुणा दावपि प्रतीतेः पदार्थान्तरमेव इत्याहुः । अत्रेदमनुसंधेयम् संख्या ज व्यञ्जकाभावाद व्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जकं किं चित्तत्र संख्या प्रकाशते ॥ इति । [ख ] संख्यात्वसामान्यवती । [ग]] व्यवहारासाधारणकारणम् । सा चैकत्वद्वित्व बहुत्व भेदात्रिविधा / वादिपरार्धपर्यन्ता च ( त ० सं ) ( प्र० प्र० ) ( त० कौ० ) /० बोष्यम् । यत्रानियतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसंख्योत्पद्यते । यथा सेनावनादौइतन्दलीकार आह । आचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुस्वत्वजातिर्नातिरिच्यते । सेनादौ चोत्पन्नेपि त्रित्वादौ त्रित्वत्वायग्रहो दोषात् (मु० गु० ) इति । शिष्टं च बहुत्वशब्दव्याख्याने संपादितम् । तत्तत्र दृश्यम् । ब्रह्माण्डपुराणे चेत्थमुक्तम् एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियु चैव कोटिरर्बुदमेव च ॥ वृन्दः खर्वो निखर्वश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्धे च दशवृद्ध्या यथोत्तरम् ॥ ( सि० च० ) इति । तत्र एका दिसंख्यावाचकस्य संख्यासंख्येयोभयपरता । श्रीक घटाः पञ्चेति प्रयोगद्वयं साधु । तत्र दशान्तसंख्यायाः प्रायः संख्येये प्रयोगो दृश्यते । किं तु संख्यात्वजातिविशिष्टायामेव शक्तिः । संख्यायुक्ते निरूढलक्षणा इति विवेकः । तेषां विशेषसंज्ञा लीलावत्या- मपि दर्शिता यथा एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमन्जः (शङ्खः ) खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधि चान्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्याव्यवहारार्थं कृताः पूर्वे: ( वाच० ) इति । तत्रैका दिदशान्ताः शब्दाखिलिङ्गाः । विंशत्या- द्यास्तु नियतस्त्रीलिङ्गादिकाः । तत्रापि विंशत्यादिशब्दानां बहुत्वसंख्या- षाचकत्वेपि एकवचनान्ततैव। एकशेषेण तु बहुवचनान्ता अपि पञ्च विंश- षट् शतानि इत्यादयः प्रयोगाः साधवः । सा च संख्या प्रकारा- अन्तरेण द्विविधा एकवृत्तिः अनेकवृत्तिश्च । तत्रैकत्वमेकवृत्ति । तच्च नित्यगतं नित्यम् । अनित्यगतमनित्यमेव । द्विस्वादिकं परार्धान्तमनेक- वृत्ति । तच्चापेक्षाबुद्धिजन्यं तन्नाशनाश्यं च । परमाणुद्व्यणुकादावती- न्द्रिये तु द्वित्वादिकं भगवदपेक्षाबुद्धिजन्यम् अदृष्टनाशनाश्यं च ( प्रशस्त ० पृ० १३ ) ( त० को० १) (मु० ) । अत्र भाष्यम् सा संख्या पुनरेकद्रव्या अनेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणु- रूपादीनामिव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । अत्रेदं विज्ञेयम् द्वित्वादिर्व्यासज्यवृत्तिसंख्या च पर्याप्ति- [][संबन्धेनाने काश्रिता समवायेन तु प्रत्येकाश्रिता (भा० प० श्लो० १०९) १ (मु० गु० ) इति । द्वित्वादिसंख्यायाः खल्त्रेकत्वेभ्योनेकविषयबुद्धि- सहितेभ्यो निष्पत्तिः । अपेक्षाबुद्धिविनाशाद्विनाशः इति । कचिच्चाय- विनाशाद्वित्वविनाशः ( प्रशस्त० पृ० २५-२६) इति । [६] शाब्दिकास्तु नियत विषयपरिच्छेदहेतुः संख्या इति वदन्ति । २ ज्ञान- विशेषः ( सम्यग्बुद्धिः ) । यथा सांख्यः इत्यादौ संख्याशब्दार्थः । ३ विचार: ( राजनि० ) । <संगतिः> १ [क] एकवाक्यतापन्नत्वे सति अनन्तराभिधानप्रयोजक जिज्ञासाजनकज्ञान विषयोर्थः । प्रत्यक्षनिरूपणकार्यत्वमनुमान- निरूपणे संगतिः ( दीधि० २ पृ० २ ) ( म० प्र० पृ० १५) ( राम० २ पृ० १३४ ) । यथा वा सद्धेतुनिरूपणा निरूपणे व्याप्तिपक्षधर्मत्व विरहरूप प्रसङ्ग संगतिः ( ग० २ हेवा सामा० पृ० १ ) । संगतिश्च कस्यचिद्वस्तुनो निरूपणे छुपयुज्यते । ( राम० २ पृ० १३४ ) इति । असंगतत्वज्ञानेन हि ग्रन्थादेरुन्मत्त अत्र व्याप्तिरनुसंधेया यद्यदनन्तरं निरूप्यं भवति तत्तत्संगतं भवति प्रलपितत्वशङ्का उत्पद्यते । संगतत्वज्ञानेन तु तन्निवृत्तिः । तत एक प्रमाणमपि नासंगतं प्रयुञ्जीत इत्यभियुक्तोक्ति: ( राम० २ पृ० १३४)/ वाक्यताप्रतिपत्तिः । तदेव संगतेः प्रयोजनम् ( भवा० ) / अत एवं पूर्वापरग्रन्थैकवाक्यताप्रतिपत्तिः एकप्रयोजनवत्ताज्ञानफलिका प्रयोजन ( दीधि० २ पृ० १ ) ( वै० सा० द० ) । संगतिलक्षणं तु प्रसा धन्यतमत्वम् ( भवा० ) । जायते च कार्ये कारणे वा ज्ञाते कारण कार्यत्वस्य वा ज्ञानात् किमस्य कारणं कार्य वा इति जिज्ञासा / स्तयोद्वयोरपि संगतित्वम् ( दीधि ० २ पृ० १-२ ) / तथा हि । प्रत्य- प्रत्यक्षकार्यज्ञानं भवतु इत्याकारा । तज्जनकज्ञानं प्रत्यक्ष कार्यज्ञान मिड- क्षाभिधानानन्तरमनुमानाभिधानं निरूपणात्मकम् । तत्प्रयोजकजिज्ञासा साधनम् इत्याकारकम् । तद्विषयः प्रत्यक्षकार्यत्वम् । इति कार्यरवेल पृ० १५ ) । जिज्ञासाया: प्रयोजकत्वं चेत्थम् । प्रथमं ज्ञानेष्टसाधना- समन्वयः । एवं कारणत्वादावपि संगतित्वमूह्यम् ( न्या० म० ज्ञानाज्जिज्ञासा । ततो ज्ञानसाधनीभूतवाक्येच्छा । ततो वाक्यसाधनीभूत- कण्ठाद्यभिघातेच्छा । ततस्तत्र प्रवृत्तिः । ततः कण्ठायभिघातः । ततो- 1 नन्तराभिधानं निरूपणीयस्य ( म० प्र० २ १० १५ ) इति । [ख] अनन्तराभिधानप्रयोजक जिज्ञासाजनकं यत्संगति निरूपकज्ञानप्रयोज्यं ज्ञानं ( तद्विषयस्मरणानुकूलसंबन्धः । संगतिः षड्डिधा प्रसङ्गः १ उपोद्धातः २ हेतुत्वम् ३ अवसरः ४ निर्वाहकैक्यम् निर्वाहकत्वं वा ५ कार्यैक्यम् एककार्थत्वं वा ६ इति । तदुक्तम् सप्रसङ्ग उपोद्धातो हेतुतावसरस्तथा । निर्वाह कैसंगतिरिष्यते ॥ ( राम० २ पृ० १३४ ) ० सा० द० ) इति । वेदान्तिनस्तु शास्त्रेध्याये तथा पादे न्याय- संगतयस्त्रिधा इति । अवान्तरसंगतयस्तु आक्षेपसंगतिः दृष्टान्तसंगतिः प्रासङ्गिकसंगतिः मीमांसासंगतिः एवमादिभेदेना नेकविधा इत्याहुः ( वाच० ) । २ संगमः । ३ संमेलनम् इति काव्यज्ञा आहुः । <संगीतम्> १ दर्शनार्थं नाट्यगीतवाद्यत्रिकम् ( हेमच० ) । यथा संगीत- रसमाधुर्यम् इत्यादौ संगीतशब्दस्यार्थः । अत्र प्रशंसा पशुर्वेत्ति शिशु- वेत्ति वेत्ति गानरसं फणी। संगीतरसमाधुर्य शंकरो वेत्ति वा न वा ॥ इति । अत्र धूर्तबका: प्रलपन्ति वानवा इत्येकं पदम् । तथा च वानवा विदुरः प्रोक्तः इति कल्पितप्रमाणात् शंकरो वेत्ति विदुरोपि वेत्ति इति वाक्यार्थो भवति इति । २ तादृशत्रिकप्रतिपादको ग्रन्थः । संगीत- शास्त्राणि च नानाविधानि । तत्र मूलग्रन्थकर्तारश्चत्वारः भरतः हनुमान् सोमेश्वरः कलानाथ श्चेति । तत्र हनुमद्रन्थस्यैव लोकेधुना बहुलप्रचारः । तद्रन्थस्य च सप्ताध्यायाः स्वराध्यायः रागाध्यायः तालाध्यायः नृत्या ध्यायः भावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति । अत्रत्यः संगीत- १ सारादौ विस्तारो दृश्यः । <संग्रह:> १ [ क ] स्नेहद्रवत्वकारितः संयोगविशेषः पिण्डीभावरूपः । यथा सक्तकादिसंयोगविशेषः । स च जलेनापि सक्तुसिकतादौ दृश्य- मानः स्नेहं जले द्रढयति (वै० उ० २११/२ पृ० ७२ ) । द्रवत्व- सहितः स्नेहस्तु संग्रहे निमित्तं कारणम् ( भा० प० गु० श्लो० १५७ ) इत्यन्यत्रोक्तम् । [ख ] द्रवत्वसहितस्नेहकारितः संयोगविशेषः (३० वि० २१११२ पृ० ७२-७३ ) ( १० मा० ) । तथा हि । सहि संग्रहः न द्रवत्वमात्रकारितः । काचकाञ्चनद्रवत्वेन संग्रहानुपपत्तेः । नापि स्नेहमात्रकारितः । स्त्यानैर्घृतादिभिः संग्रहानुपपत्तेः । तस्मात् अन्वयव्यतिरेकाम्यां स्नेहद्रवत्वकारितः (वै० उ० २११/२ पृ०७२ ) / तेन द्रुतसुवर्णादीनां न संग्रह: ( भाषाप० लो० १५६ मु० ) इति । २ संक्षेपेण स्वरूपकथनम् । लक्षणस्वरूप विभाग प्रकार कज्ञानानुकूल: (संक्षिप्तो व्यापार इत्यर्थः ( वाक्य० ) । यथा तर्कसंग्रहः इत्यादी संग्रहशब्दस्यार्थः (त० दी० ) । ३ अनेकेषामेकत्र स्थापनं संग्रह इति काव्यज्ञा वदन्ति । ४ बर्थकवाक्यानामेकत्र संकलनम् । अत्रोक्तम् विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन ७ महोद्योगः । तं विदुर्बुधाः ॥ इति । ५ ग्रहणम् । ६ संक्षेपः । ८ व्याडिप्रणीतो व्याकरणग्रन्थविशेषः । <संग्रहणम्> क ] सहासनं विविक्तेषु परस्परमुपाश्रयः । केशाकेशिग्रहं चैन !! सम्यक् संग्रहणं स्मृतम् ॥ स्त्रीपुंसयोर्मिथुनीभावः संग्रहणम् ( मिताक्षरा अ० २१२८२ ) । [ख ] साहसशब्दवाच्यानां रहसि क्रियमाणाना / संग्रहणशब्दवाच्यत्वम् ( मिताक्षरा अ० २ श्लो० ७२ ) । <संघः> १ प्रव्रजितविशेषोपग्रहेण वर्तमानपरिषत् ( न्या० वा० १1१1१ पृ० ७९ ) । २ सजातीयप्राणिसमूहः । यथा संघे शक्तिः कलौ नृणाम् इत्यादौ संघशब्दस्यार्थः । ३ जन्तुविशेषः । पदार्थसमुदायसंयोगः । यथा दिव्येन तेजसा संयुक्ता <संघात:> वही परमाणूनां परस्परसंयोगो द्रव्यारम्भकः संघाताख्यः । सहिमकरकादिपरमाणुद्रवत्व प्रतिबन्धकः ( प्रशस्त० द्रवत्वनि० पृ० ५२ // एवमन्येषामपि संघात ऊह्यः । <संज्ञ:> १ संहतजानुकः । २ गन्धद्रव्यविशेषः । (७५ गायत्री । ६ सूयेपत्नी । ७ संकेतवत्प्रातिपदिकम् (विशिष्ठनाम) संज्ञा–१ बुद्धिः । २ आख्या । ३ चेतना । ४ हस्तैरर्थसूचनम् । ( प० मा०) । यथा संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् (वै० २११११८ ) इत्यादौ यव वराह वेतस स्वर्ग वायु इत्यादिशब्दः (वै० उ० २११।१८ ) ३५१ (वै० वि० २/१/१८ पृ० ९३ ) । यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ गवयादिशब्दः संज्ञा (नील० ३) । एवम् घटादिशब्दोपि । रूढं संकेतवन्नाम सैव संज्ञेति कीर्त्यते ( श्लो० १७) इति शब्दशक्ति- प्रकाशिकायामुक्तम् । संज्ञा त्रिविधा नैमित्तिकी पारिभाषिकी औपाधिकी चेति । केचिद्दण्ड्याचार्यप्रभृतयस्तु रूढनाम्नो जातिद्रव्यगुण क्रियात्म कार्थ- चतुष्टयभेदेन चातुर्विध्यमङ्गीचक्रुः । तथा हि । गोगवयादीनां शब्दानां गोत्वादिजात्या पश्चाढ्यादीनां शब्दानां लाङ्गलधना दिद्रव्येण धन्यपिशुना- दीनां शब्दानां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा अवच्छिन्ने शक्तिमत्त्वाचातुर्विध्यमेव शब्दानाम् इति । तच्च शब्दशक्ति- प्रकाशिकाकृद्भिः परित्यक्तम् । तत्र कारणं तु जडमूकमूर्खादीनां शब्दा- नाम् अन्यशून्यादीनां शब्दानां चासंग्रहः (श० प्र० श्लो० १८ टी० पृ० १७ ) इति । अन्ये तु पूर्व विभक्तायास्त्रिविधसंज्ञाया अन्यथोदा- जहुः । संज्ञा त्रिविधा पारिभाषिकी नैमित्तिकी औपाधिकी चेति । तत्र आधुनिक संकेतशालिनी अनुगतप्रवृत्तिनिमित्तशून्या च संज्ञा पारिभाषिकी। यथा चैत्रमैत्रादि: आकाशादिश्च । तत्तच्छरीरनिष्ठ चैत्रत्वा देश काशत्वादे- वाननुगतस्यैवात्र प्रवृत्तिनिमित्तत्वात् इति भावः ( म०प्र० ११० ४६ ) । अनादिसंकेतशालिनी अनुगतप्रवृत्तिनिमित्तिका च संज्ञा नैमित्तिकी । यथा पृथिवीजलादिः पशुभूतादिश्च । पशुत्वादेरुपाधिस्वेपि रोमव- लाङ्गूलवत्वं पशुत्वम् बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं भूतत्वम् इत्याद्यनु- गतत्वात् इति भावः । यौगिकी संज्ञा औपाधिकी । यथा पाचक- पाठकादिः ( म० प्र० पृ० ४ ४६ ) इति । पङ्कजादियोगरूढानां तु नैमित्तिकत्वेप्यौपाधिकत्वमविरुद्धम् । रूढ्या पद्मस्वादिमतो योगेन च पङ्कजनिकर्तुरुपस्थितौ पद्मं पङ्कजनिकर्तृ इत्येव शाब्दबोधात् इति । अत्रायं विशेषः । करणाधिकरणशब्दाश्च संकेतिता एव । पाचकपाठ- निमित्तशून्य संकेतवती पारिभाषिकी संकेतशून्यत्वे सति यौगिकी औपा- कादयस्तु संकेतशून्यत्वान्न संज्ञाः । तेषामपि संज्ञात्वे तु अनुगतप्रवृत्ति- घिकी अनुगतप्रवृत्तिनिमित्तसंकेतवती नैमित्तिकी इति निर्वाच्याः इति । अन्यत्र चैवमुक्तम् । संज्ञा त्रिविधा पारिभाषिकी औपाधिकी नैमित्ति चेति । तत्राद्या आधुनिकसंकेतशालिनी । यथा चैत्रादिः । द्वितीया उपाधिप्रवृत्ति निमित्तिका । यथा पशुभूताकाशादिः । तृतीया जाति- प्रवृत्तिनिमित्तिका । यथा पृथिवीजलादिः । भाष्यकृतस्तु आकाशादि- संज्ञाः पारिभाषिक्य एव इत्याहुः (प० मा० ) । शिष्टं तु रूढशब्द- व्याख्याने संपादितमेव इति नात्र कथितम् । <संज्ञास्कन्धः> गौरित्या दिशब्दोल्लेखिसंवित्प्रवाहः ( सर्व० सं० go ४० बौ० ) । <संज्ञी> संज्ञाशब्दप्रतिपाद्यर्थः । यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ गवयादिरूपोर्थः संज्ञी ( नील० ) । <संततिः. १ अविच्छिन्नधारा । इयं संततिर्द्विविधा दैशिकी कालिकी / चेति । तत्र दैशिकी मूर्तोनामेव । यथा तैलादीनाम् / कालिकी संत- । तिस्तु ज्ञानत्वसुखत्वादीनाम् । अत्र दैशिकसंततित्वं च स्वाधिकरण / देशीयनानावच्छेदकवृत्तिधर्मत्वम् । तथा कालिकसंततित्वं च कालीन कार्यमात्रवृत्तिधर्मत्वम् ( चि० २ परिशि० मुक्तिवादः पृ० ३ पुत्रः दुहिता च / ४ विस्तारः । १५ काव्यज्ञास्तु २ गोत्रम् । १५ पङ्किश्च इत्याहुः । <संतर्दनम्> परस्परं संयोगः (जै० सू० वृ० अ० ३ पा० ३ ० <संतान:> १ एकधर्मावच्छिन्नत्वेन ज्ञानम् ( गौ० वृ० २/२/१७)। क्या बौद्धमते आलयविज्ञानसंतानः । २ वंशः इति काव्यज्ञा वदन्ति । <संदेश:> एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम् / भिक्रमणम् ( मी० न्या० पृ० २९ ) । <संदर्भ:> १ कथनम् । अत्रोक्तम् गूढार्थस्य प्रकाशच सारोक्तिः तात्पर्यविशेषः । ३ रचना । ४ ग्रथनम् / ५ प्रबन्धः / गिरा । नानार्थवत्त्वं वेद्यत्वं संदर्भः कथ्यते बुधैः ॥ इति । २१ <संदिग्धः> १ ( हेत्वाभासः ) [ क ] अनैकान्तिकशब्दवदस्यार्थोनुसंधैयः श्रा । (वै० To २/२/३६, ३/१२/१५ ) ( त० व० २ १३ १४८ ) । तदुक्तम् विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ( वै० उ० २१ २ ३६ ) ( प्रशस्त गुणनि० ) इति । [ ख ] यस्तु सन्ननुमेये तत्समाना- समानजातीययोः साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः । यथा यस्माद्विषाणी तस्माद्गौः इति । [ग] एकस्मिंश्च द्वयोर्हेत्वोर्ययोक्तलक्षण- योर्विरुद्धयोः संनिपाते संशयदर्शनादयमन्यः संदिग्धः इति केचिदाहुः । यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्स्वास्पर्शत्वयोः ( प्रशस्त० २ पू० ४७ ) (३० ३११११५ ) इति । २ संदेहविषयः । यथा संदिग्धा- सिद्ध: ( न्या० बिन्दु० टी० ) इत्यादौ संदिग्धशब्दार्थः । ३ संलिप्तः इति काव्यज्ञा आहुः । <संदिग्धानैकान्तिकत्वम्> १ ( हेत्वाभासः ) साध्यतदभावसंशयकत्वम् । २ पक्षांशे साध्याभावसंशयात्मकं पक्षवृत्तित्वावगाहि व्यभिचारज्ञानम् । अथवा हेतौ व्यभिचारसंशयः (ग० बाघ ० ) । यथा धूमो बढ्यभाव- बत्तिर्न वा इत्यादिसंशयः । यथा वा बौद्धमते सर्वज्ञः कश्चिद्वकृत्वात् ( न्या० बिन्दु ० टी० ) इत्यादौ । <संदिग्धैकादशी> उदयात्प्रात्रिघटिका व्यापिन्ये कादशी यदा । संदिग्धैका- दशी नाम वर्जयेद्धर्मवृद्धये ॥ (पु० चि० पृ० १५२ ) । <संदेह:> १ संशयशब्दवदस्यार्थोनुसंधेयः । २ आलंकारिकाच अर्थालंकार- विशेष इत्याहुः । तदुक्तं काव्यप्रकाशे ससंदेहस्तु भेदोक्तौ तदनुक्तौं च संशयः ( का० प्र० उ० १० श्लो० ६ ) इति । <संधिः> १ संयोगः ( अमरः ३ । २ । ११ ) । २ नृपाणां षड्गुणान्तर्गतो मैत्रीकरणरूपव्यापार इति नीतिशास्त्रज्ञा आहुः । अत्रोक्तम् संधिविग्रह- यानानि संस्थाप्यासनमेव च । द्वैधमाश्रयणं चैव षङ्गणा नीतिवर्णने ॥ । संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः (अमरः २/८/१८ ) इति च । अत्राधिकं तु शुक्रनीतियुक्तिकल्पतरुहितोपदेशादौ द्रष्टव्यम् । १३ वैयाकरणास्तु वर्णद्वयजातो वर्णविकारः । यथा अचूसंधिः हल्संधिः स्थिते तल्लय इति हलूसंधिः । ४ नाटकाङ्गविशेषः इत्यालंकारिका इत्याहुः । श्री ईश इति स्थिते श्रीश इत्यच्संधिः । तत् लय इति आहुः । अत्रोक्तम् अन्तरैकार्थसंबन्धः संधिरेकान्वये सति ( सा० ८० परि० ६ श्लो० ७५) इति । ५ अस्थिद्वयसंयोगस्थानम् इति शारी- रज्ञा आहुः । ६ धर्मशास्त्रज्ञास्तु यस्मिन् काल आदित्यस्य खण्डमण्डल- स्योपलब्धिः सः । यथा अहोरात्रयोः संधिः इत्यादा वित्याहुः (मिता० १)। इत्यादौ । ८ भगः । ९ संघट्टनम् । १० सत्यादियुगादीनामाद्यन्तौ वाडौ ७ चौरादिकृतसुरुङ्गा । यथा संधि कृत्वा तु मे चौर्यम् (स्मृतिः) इति पौराणिका आहुः । अत्रोक्तम् ससंधयस्ते मनवः कल्पे ज्ञेयातु देश । कृतप्रमाणः कल्पादौ संधिः पञ्चदशः स्मृतः ॥ इति । सत्ययुगस्य चत्वारि वर्षशतानि संध्या संध्यांशश्च । त्रेतायास्त्रीणि वर्ष. शतानि संध्या संध्यांशश्च । द्वापरस्य द्वे वर्षशते संध्या संध्यांशश्च । कलेक वर्षशतं संध्या संध्यांशच ( मनु० अ० १ श्लो० ६९-७०) / <संध्या> १ एकरूपकालोत्तरभाविपररूपकालयोरवकाश विशेषः दिवारात्रस्य मध्यवर्तिकालः संध्या भवति । स च कालः दिवाशेषदण्ड- सहितरात्रिप्रथमदण्डात्मकः कालः । तयोश्चतुर्दण्डात्मककालश्च / दिवसाद्यन्तसंज्ञिते ॥ इति । युगस्य तु पूर्वा संध्या उत्तरश्व संध्यरा च त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टये । नाडीनां तदुमे संध्ये ( मनु० टी० कुल्लू० १/६९ ) । तं चान्यरीत्याप्याडः पूर्वदिवसीय शेषण्डादर दिन सूर्योदयपर्यन्तः सूर्यास्तात्पूर्वोत्तरदण्डात्मकः इति । संध्याद्वयकालस्तु अहोरात्रसंबन्धिमुहूर्तात्मकः । आह अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः । सा च संध्या सभा- ख्याता मुनिभिस्तत्त्ववादिभिः ॥ ( पुरु० चि० पृ० ४५८) इति । तथा नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् । तत्परा रजनी ज्ञेय प्रमाणम् तत्र यथा । तथा काल: ३ संध्याकालः उपास्य देवताविशेषः । ये तु नियतं शंसितव्रताः इति स्मृतिः । ४ संध्योपासना / यथा अन कर्मणां विप्रः संध्याहीनो यतः स्मृतः (स्मृतिः) इत्यादौ संध्याशब्द- स्यार्थः । अत्र व्यास आह उपास्ते संधिवेलायां निशाया दिवसस्य च । तामेव संध्यां तस्मात्तु प्रवदन्ति मनीषिणः ॥ इति । संध्यात्रयसाधारण- लक्षणमाह योगियाज्ञवल्क्यः त्रयाणां चैव देवानां ब्रह्मादीनां समागमः । संधिः सर्वसुराणां च तेन संध्या प्रकीर्तिताः ॥ इति । एतत्संध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्यादरस्तत्र नः स ब्राह्मण उच्यते ॥ (छन्दोगप० ) ( वाच० ) इति । संध्याफलं पापव्यपोहः ( मनु० २११०२) । ५ वेदान्तिनस्तु प्रबोधगाढनिद्रावस्थयोः संधि- भवः स्वप्नः । यथा संध्ये सृष्टिराह हि ( ब्रह्मसू० ३।२।१ ) इत्यादौ संध्यशब्दस्यार्थ इत्याहुः । अत्रार्थे व्युत्पत्तिः जाग्रत्सुषुप्तिसंधौ भवति इति संध्यः स्वप्नः (तत्त्वप्रकाशिका ३१२ । १ ) । <संनिकषः> १ प्रत्यक्षजनकः संबन्धः । यथा चाक्षुषप्रत्यक्षे चक्षुर्विषययोः संसर्गः । संनिकर्षो द्विविध: लौकिक: अलौकिकश्चेति । वार्तिककारै- मुक्तम् । योयं संनिकर्षशब्दः संयोगसमवाय विशेषणविशेष्यभाव- व्यापकत्वादुपात्त इति सोयं संनिकर्षः प्रत्यक्षस्य कारणं भवति (न्या० वा० १ पृ० ३३ ) । विशेषण विशेष्यभावोत्र न विषयतारूपः । अपि तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः (नील० १ पृ० १८) । "मध्वमतानुयायिभिरयं षड़िधसंनिकर्षो नाङ्गीक्रियते । किं तु सर्वेन्द्रियाणां स्वस्वविषये साक्षादेव रश्मिद्वारा संनिकर्षः (प्र० प० पृ० ११ ) । तु इन्द्रियार्थसनिकर्षशब्दव्याख्याने दृश्यम् प्रशस्त शिष्टं पृ० ४२-३ ) । २ संनिकृष्टत्वशब्दवदस्यार्थोनुसंधेयः ( वै० उ० ७।२।२१) । सैनिकृष्टत्वम सांनिध्यम् । अत्रायं कार्यकारणभाव संनिकृष्टत्वबुद्धिर- परत्वे निमित्तकारणम् इति (वै० उ० ७१२/२१ पृ० ३४२) । एतेन वैशेषिकमते संनिकृष्टत्व विप्रकृष्टत्वे ( दूरत्वसमीपत्वे) परत्वा- परत्वाभ्यामतिरिक्त एव । नव्यमते तु ते ताभ्यामनतिरिक्त एव इत्युक्तम् इति विज्ञेयम् । सांनिध्यं च १ संयुक्तसंयोगाल्पत्वम् । तच दिकृतं ११५ न्या० को० संनिकृष्टत्वम् इति विज्ञेयम् । अथ वा अल्पसंयोगान्तरितत्वम् (३० उ० ७१२१२१ पृ० ३४२ ) ( दि० गु० पृ० २०८) । यथा कर्षो हि क्षणार्धमपि शस्यते (पुराणम्) इत्यादौ संनिकर्षशब्दस्यार्थः । पञ्चवव्याख्यम्बकेश्वरमपेक्ष्य जनस्थानसंनिकृष्टत्वम् । यथा वा सद्वृत्तसंनि- पृ० ३४३ ) । तदर्थस्तु तदधिकरणकालध्वंसाधिकरणक्षणवृत्तिजन्म २ तदपेक्षयाल्पतरतपन परिस्पन्दान्तरित जन्मत्वम् (वै० उ० ७/२/२१ वत्त्वम् (प० मा० ) इति । एतच्च कालकृतं संनिकृष्टत्वम् इति विज्ञेयम् । यथा युधिष्ठिरमपेक्ष्यार्जुनस्य भीमसंनिकृष्टत्वम् । शिष्टं च अपरत्वशब्द व्याख्यानावसरे संपादितम् इत्यत्र विरम्यते । ३ निकटसंबन्धः । <संनिधानम्> <संनिधिः> १ अव्यवधानम् (मु० ४ ) । यथा संनिधानं तु पद- स्यासत्तिरुच्यते ( भा०प० ४ श्लो० ८४ ) इत्यादौ संनिधानशब्दार्थः । ७२ सामीप्यम् (संनिकृष्टत्वम् ) । ३ अविनाभाववृत्तिः संनिधिः ( २।२।५८) । यथा तदर्थे व्यक्त्याकृतिजातिसंनिधावुपचारात्संशयः ( गौ० २१२९५८) इत्यादौ संनिधिशब्दस्यार्थः । अत्रवृत्तिका सामीप्यम् मेलनम् संनिधिः इत्याह (गौ० वृ० २/२/५८) / ४ इन्द्रियविषयता इति केचिदाहुः ( मेदि० ) । <संनिपत्योपकारकम्> कर्मङ्कद्रव्यायुदेशेन विधीयमानं कर्म । यथावधाएँ प्रोक्षणादि ( मी० न्या० पृ० ३४ ) । १३. भिषजस्तु <संनिपातः> १ पतनम् । यथा दृष्टिसंनिपात इत्यत्र । २ शाब्दिकाच "संश्लेषः ( संबन्धः ) । यथा संनिपातलक्षणो विधिरनिमित्तं तद्विघात (व्याक० परिभा० ) इत्यादौ संनिपातशब्दस्यार्थ इत्याहुः । ३ । कफादिधातुत्रयस्य वैषम्यरूपत्रिदोषजनितो ज्वरविशेष इत्याहुः / स पातज्वरावस्थं प्रकृत्याह तदवस्थं तु तं दृष्ट्वा मूढो व्याहरते धर्षितो राक्षसैनूनमवेलायां चरन्ति ये ॥ अम्बया ब्रुवते केचिद्यक्षिण्या ब्रह्मराक्षसैः । पिशाचैर्गुह्यंकैश्चैव तथान्यैर्मस्तके हृतम् । कुलदेवा चेता हीनं घर्षितं कुलदैवतैः । नक्षत्रपीडामपरे गरकर्मेति चापरे । संवि पातमिमं प्राडुर्भिषजः कूटपालकम् इति । कारणपूर्विकां संनिपात - ज्वरसंप्राप्तिमाह त्रिदोषजनकैर्वातपित्तश्लेष्म्णामगेहगाः । बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः ॥ ( भावप्र० ) इति । ४ गायकास्तु तालविशेष इत्याहुः । अत्रोक्तम् एक एव गुरुर्यत्र संनिपातः स चेष्यते ( संगीतदा० ) इति । <संनिवापः> सर्वेषामग्नीनां मेलनम् ( जै० सू० वृ० अ० ६ पा० ६ सू० ३२) । <संनिहितत्वम्> १ संनिकृष्टत्वम् । २ संनिधिः ३ सम्यक्प्रस्थापनम् । <संन्यासः> १ [क] काम्यकर्मत्यागः ( कि० व० पृ० १३ ) । तदुक्तं गीतायाम् काम्यानां कर्मणां न्यासं ( व्यागम् ) संन्यासं कवयो विदुः ( गीता० अ० १८ श्लो० २) इति । ख वेदान्तिनस्तु सर्व- समर्पणम् विहितकर्मणां विधानेन फलानिच्छया काम्यकर्मत्यागो वा ॐ श्रमिणां धर्मभेदेन नामभेदा दश यथा तीर्थाश्रमवनारण्यगिरिपर्वतसागराः । संन्यास इत्याहुः । २ काम्यकर्मव्यागोपयोगिचतुर्थाश्रमः । चतुर्था- सरस्वती भारती च पुरीति दश कीर्तिताः ॥ ( बृहच्छंकरविजये विद्यारण्यघृतं वाक्यम् ) इति । ३ पौराणिकाश्च चैत्रे मासि क्षत्रियादि- कर्तव्यः शिवव्रत विशेष इत्याहुः । ४ जटामांसी ( दम्भवर्तनम् ) ( शब्दच ० ) । <संपत्तिः> १ ज्ञानम् । मायावादिनस्तु भ्रमात्मकं ज्ञानम् । यथा संपदात्मा इत्यादौ इत्याहुः । २ प्राप्तिः । ३ ऐश्वर्य च इति काव्यज्ञा वदन्ति । अत्र संपत्तिस्तु अनुरूपात्मभावे यस्य यद्रूपतोचिता तस्य तथाभवनम् ( सि० च० ) । <संपूणो> ( तिथि: ) आदित्योदयवेलाया आरम्य षष्टिनाडिका । या तिथि: सा तु संपूर्णा कथिता पूर्वसूरिभिः ॥ (पु० चि० हे० वा० पृ० १४८) । संप्रज्ञातसमाधिः- एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः ( सर्व० सं० पृ० ३५६ पात० ) । <संप्रतिपत्तिः> १ निश्चयः (गौ० वृ० २।१।३) । यथा विप्रतिपत्तौ च संप्रतिपत्तेः (गौ० २।१।३) इत्यादौ संप्रतिपत्तिशब्दस्यार्थो निश्चयः । २ प्रत्यभिज्ञा ( ३० उ० २१२३५) । यथा संप्रतिपत्तिभावाच (वै० २१२।३५ ) इत्यादौ संप्रतिपत्तिशब्दस्यार्थः प्रत्यभिज्ञा । ३ उत्पत्तिः ( गौ० वृ० ३ । १ । १९ ) । यथा पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभय शोकसंप्रतिपत्तेः (गौ० ३।१।१९) इत्यादौ संप्रतिपत्तिशब्दस्यार्थ उत्पत्तिः । ४ तदनुभवः संप्रतिपत्तिः (न्या० वा० ) । ५ व्यवहारशास्त वायुक्तार्थविषयस्वीकारः सत्योत्तररूप उत्तरविशेष इत्याहुः । तदुलम् श्रुत्वाभियोग प्रत्यर्थी यदि तं प्रतिपद्यते । सा तु संप्रतिपत्तिः त्यात इति स्मृतिः । तथा मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा / माइ न्यायश्चोत्तराः प्रोक्तांश्चत्वारः शास्त्रवेदिभिः ॥ इति च कात्यायनस्मृतिः ( मिताक्षरा अ० २ श्लो० ७) । <संप्रदानत्वम्> (कारकम् ) [क गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशायें विग्रहस्थचतुर्थ्यो यः स्वार्थो बोधयितुं शक्यते स तद्धातूपस्थाप्यतादृश क्रियायां संप्रदानत्वमुच्यते । यथा ब्राह्मणाय दानं धनस्य इत्यादी ब्राह्मणस्य संप्रदानत्वम् । ग्रामाय गतः इत्यादौ विग्रहस्थचतुर्थ्या धालये बोध्यमपि कर्मव्वं न गत्यादिभिन्ने चतुर्थ्या बोधयितुं शक्यते । वृक्षाव मर्थो न विग्रहस्थया इति न तत्र प्रसङ्गः / संप्रदानशब्दस्तु सेचकः इत्यादौ गत्यादिभिन्ने चतुर्ध्या बोधनीयोपि संवर्धयितुं इत्यादित गोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्तः इति स्वत्वप्रतियोगि संप्रदानत्वम् इत्यादिको न प्रयोगः । ब्राह्मणाय दानमित्यत्र ददातेः स्वत्व- तत्वं वा चतुर्थ्या बोध्यते इति तदेव तत्र संप्रदानत्वम् । जनकस्त्यागोर्थः । तन्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपि " तत्र प्रत्ययात् । धात्वर्थतावच्छेद की भूत स्वत्वा ख्यफलवत्तया धनादेर्दान- योगिकं ब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वप्वम् तज्जनकस्योगः इ कर्मत्वात् ( श० प्र० श्लो० ७० टी० पृ० ८४-८५) 1/- धात्वर्थतावच्छेदकफलभागित्वेनोद्देश्यत्वम् । यथा विप्राय गां ददाति इत्याद विप्रस्य संप्रदानत्वम् । अत्र संबन्धित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः । स च धात्वर्थतावच्छेदकफलेन्वेति । वृत्तित्वं द्वितीयार्थः । तथा च विप्रसं- बन्धिपरेच्छा विषयगोवृत्ति स्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकूलकृतिमान् । इत्यन्वयधीः । अत्र चैत्राय यच्छति इत्यादिप्रयोगवारणाय पर इति पदं दत्तम् ( का० व्या० कार० ४ पृ० ८) । कर्मणा यमभिप्रैति स संप्रदानम् ( पाणि० १।४।३२ ) इति सूत्रेण विप्रस्य संप्रदानसंज्ञा । तदर्थश्च तक्रियाकरणीभूतेन तत्क्रियाकर्मणा यमभिप्रैति बन्धुच्छ सः फलभागित्वेनोद्देश्यः संप्रदानसंज्ञकः इति । अत्र गौणमुख्यसाधार संप्रदाने चतुर्थी भवति ( वाच० ) । पितृस्वर्गोद्देशेन कृतगोदानादिस्थले दानजन्यस्वर्गात्मक फलभागित्वेन पितुरुद्देश्यत्वेपि पितृस्वर्गादिकस्य धात्व- र्थतावच्छेदकत्वाभावेन न पित्रादेः संप्रदानत्वम् इति पित्रे गां ददाति इति न प्रयोगः (का० व्या० कार० ४ पृ० ८) । [ग.] किया- जन्यफलभागितया कर्तुरिच्छा विषयत्वम् (ग० व्यु० का० २ पृ०४३) । ब्राह्मणाय गां ददाति इत्यादौ क्रिया च दानम् । तज्जन्यं फलं तु स्वत्वम् । तथा च दानस्य स्वत्वहेतुत्वे प्रमाणम् सप्त वित्तागमा धर्म्या दायो लाभः "कयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० अ० १० लो० ११५) इत्यादि । प्रदानं स्वाम्यकरणम् इति च । अत्राय- माशयः । ब्राह्मणाय व्यक्तायां गवि गौरियं ब्राह्मणस्य न तु मम इत्यादिः सार्वजनीनप्रतीतिरेव तत्र प्रमाणम् ( श० प्र० श्लो० ७० टी० पृ० ८५ ) इति ।[घ ] घात्वर्थताबच्छेदकफलाश्रयत्वभिन्नफलसंबन्ध- विशिष्टयेष्टत्वम् । यथा ब्राह्मणाय गां ददाति इत्यादौ ब्राह्मणस्य संप्रदानस्वम् । तथा चात्र निरूपितरवेन कर्तुरिच्छाविषयत्वं चतुर्ध्यर्थः । वस्य च धात्वर्यतावच्छेदकस्वत्वेन्वयः । एवं च ब्राह्मणनिरूपितत्वे- स्वावजनकत्यागो ददात्यर्थः । निरुक्तचतुर्थ्यर्थस्य द्वितीयान्तार्थगोवृत्ति- नेच्छा विकल्यागकर्ता इति बोधः । धात्वर्थतावच्छेदके- यत्र संबन्धस्तादृशाश्रयत्वभिन्नोवश्यं ग्राह्यः । तेन विप्राय गां ददाति गोर्धात्वर्थतावच्छेद की भूत परस्वत्वात्मक फलाश्रयत्वेनेष्टत्वेपि नातिव्याप्तिः । साद स्वध्वंसविशिष्टायाः परस्वत्वजनकेच्छाया दाधात्वर्थत्वे तत्राश्रयत्वभिन्नो यो धात्वर्थतावच्छेदकफलसंबन्धः स निरूपकत्वम् । का० ४ ) । [ङ शाब्दिकास्तु प्रकृतधात्वर्ये यत्कर्म तत्संबन्धित्वे- तादृशंसंबन्धवत्वेष्टत्वं च ब्राह्मणस्यैव न तु गोः इति ( ग० व्यु० नेच्छोद्देश्यत्वम् इति वदन्ति । संप्रदानं त्रिविधम् प्रेरकम् अनुमन्तु अनिराकर्तृ ( उदासीनं ) चेति । तदुक्तं वाक्यपदीये अनिराकरणाकर्तु- । स्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ इति । अत्र प्रेरकत्वं च प्रकृतधात्वर्थक्रियाजन्यफलभागितयेच्छाविषयत्वे सति कर्तृसंबन्धित्यागादि विषय केष्टसाधनताबोधौ पथिकव्यापारवत्वम् । अनुमन्तृत्वं च जातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तु- शशङ्का विधूननक्षमप्रमाणोपन्यासेन प्रवर्तनम् / कर्मनिष्ठस्वत्वादि- / फलाभ्युपगममात्रानुकूलव्यापारवत्त्वं वा । अनिराकर्तृत्वं च प्रकृत- धात्वर्थक्रियाजन्यफलभागितयेच्छाविषयत्वे सति कर्तृप्रवृत्तिनिवृत्यन्यत- । ( याचकाय ) गां ददाति इत्यादी विप्रः । द्वितीयम् उपाध्यायाय रानुकूलव्यापाराभाववत्त्वम् ( वै० सा० ८० ) । तत्राद्यम् विप्राय । ददाति इत्यादावुपाध्यायः । तृतीयं च देवता । यथा सूर्यापायं ददाति "यते नानुमन्यते न निराकरोति इति सूर्यस्योदासीनता विज्ञेया ( इत्यादी सूर्यः ( ल० म० का० ४ पृ० १०१ ) । नात्र सूर्यः प्रार्थ चैत्राय कुप्यति क्रुध्यति इत्यादौ चतुर्थ्यर्थः संप्रदानत्वम् । एवम् पु सा० द० पृ० २००) । कचित् विषयित्वम् चतुर्थ्यर्थः । या । अत्रेदं बोध्यम् मित्रं द्रुह्यति शिष्यमीर्ष्यति पुत्रमसूयति इत्यपि, यतते इत्यादौ उद्देश्यत्वरूपं संप्रदानत्वं चतुर्थ्यर्थो धात्वर्थकृती बोच्यते । द्रोहादिकर्मणः संप्रदानत्वं वैकल्पिकमुन्नीयते इति । कोपपूर्वकस्य दोहादे। दुहादिधातुवाच्यत्वे तत्कर्मणः संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तू कर्मत्वमेव इति पुनः कौमारा आहुः । अत्रेदं बोध्यम् । क्रवद्रहोः कर्मणः कर्मतैव न तु संप्रदानता । अत एव शिष्यस्वामि "क्रोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि षष्ठ्येव प्रमाणम् ( प्र० श्लो० ७० टी० पृ० ८७ ) । <संप्रदायः> गुरुपरंपरागतः सदुपदेशः । यथा वैष्णवसंप्रदायान्तर्गत मध्वसंप्रदायः । ईश्वर एव सर्वसंप्रदायप्रद्योतकः । तथा हि ईश्वरो भूतावेश- न्यायेन निर्माणकायमधिष्ठाय सर्वसंप्रदायप्रद्योतकः ( कु० ) इति पातञ्जला आहुः । नन्वशरीरात्कथं वेदघटादिशब्दव्यवहारसंप्रदायः । उच्यते । सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगा- ददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानाद्विवक्षासहिता- न्मीन कलेवरकण्ठताल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः । एवम् कुलालादि- शरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात् तद्बुद्धीच्छासहितचेष्टो- पत्तौ सकलघटानुकूलव्यापाराद्धटोत्पत्तिः । एवम् प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमत शरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छा प्रयत्नादेव वा- व्यवहारः । ततस्तत्सुशीलो बालो व्युत्पद्यते सोयं भूतावेशन्यायः (( चि० २ परिशिष्टे ईश्वरवाद : पृ० २३) इति । संप्रदायप्रवर्तकभेदास्तु पद्मपुराणे श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वः पद्म- नामो नृहरिर्माधवस्तथा ॥ अक्षोभो जयतीर्थश्च ज्ञानसिंघुर्महानिधिः । विद्यानिधिश्व राजेन्द्रो जयधर्ममुनिस्तथा ॥ पुरुषोत्तमो ब्रह्मण्यो व्यास- तीर्थमुनिस्तथा । श्रीमद्धक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरी तथा ॥ संप्रदाय - विहीना ये मन्त्रास्ते निष्फला मताः ॥ अतः कलौ भविष्यन्ति चत्वारः संप्रदायिनः ॥ श्रीमध्वरुद्रसनका वैष्णवाः क्षितिपावनाः (पद्मपु० ) (वाच० ) इति । तन्त्रोक्ता वैष्णवादिसंप्रदाया यथा श्रीशिव उवाच । वैखानसः सामवेदी श्रीराधावल्लभी तथा । गोकुलेशो महेशानि तथा वृन्दावनी भवेत् ॥ पञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः । ( रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि ॥ ततो भागवतो देवि दश भेदाः प्रकीर्तिताः । शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च ॥ एकदण्डी महेशानि वीरशैवस्तथैव च । सप्त पाशुपताः प्रोक्ता दशधा वैष्णवा मताः ॥ (शक्तिसंग० त० ) ( वाच ० ) इत्यादि । <संप्रधारणा> १ संप्रश्नः । २ समर्थनम् (वै० सा० द० उ० पृ० १३१) (अमर० २/८/२५)। ३ स्पर्धा ॥ <संप्रश्न:> (लिडर्थ: ) संप्रधारणम् (पाणि० सू० ३/३/१६१ काशिका ) । तच उपस्थितक्रिययोर्मध्य एकतरक्रियाधर्मिकेष्टसाधनत्व निर्णयेच्छा । यथा कत्वसंबन्धेन संबोध्य विशिष्टा मन्निष्ठा च वेदाध्ययनतर्काध्ययान्तर- किंभो वेदमधीयीय उत तर्कम् इत्यादौ लिडर्थः । अत्र स्वोदेश्य भावना इष्टसाधनत्व प्रकार कनिर्णयेच्छा विषयः इति बोधः (वै० स० द० लका० पृ० १३१) । <संप्रसादः> १ सम्यक् प्रसन्नता । २ योगशास्त्रज्ञास्तु चित्तस्य नर्मल्य- संपादको यत्नविशेष इत्याहुः । ३ वेदान्तिनस्तु सुषुप्तिस्थानम् प्राणः ( शारी० भा० ) । ४ पूर्णसुखम् (मध्वमा० ) । अत्रायं विवेकः । ॐ भूमा संप्रसादादध्युपदेशात् ॐ ( ब्रह्मसू० १/३/८ ) इत्यधिकरणे स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्व पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति इति बृहदारण्यके ( ४/३/१५-१७) स्वप्नजागरितस्थानाभ्यां सह प्रयोगात् संप्रसाद: सुषुप्तिस्थानमुच्यते इति शंकरभारतीमतम् ( शारी० भा० टी०. रत्नप्र० १/३/८ ) । मध्वाचार्य मते तु तत्र यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति भूमैव सुखम् इति छान्दोग्यश्रुतौ (७१२३) भूम्नः पूर्णसुखरूपत्वाभिधानात् संप्रसादः पूर्णसुखम् ( मध्वभा० टी०. तत्त्वप्र० ११३८ ) इति । ५ जीक / यथा य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य इत्यादौ इत्याहुः (ब्रह्मसू० मा० १/३/१८)। रूपेणाभिनिष्पद्यत एष आत्मेति होवाच ( छान्दो० उप० <संबन्धः> १ [क] संबन्धिमिन्नत्वे सति संबन्ध्याश्रितः । [a] स्वभिन्न संबन्ध्याश्रितः स्वभिन्न प्रतियोगिकः पदार्थः (सि० च पृ० ३ ) । यथा घटभूतलयोः संयोगः । यथा वा प्रत्यक्षस्थल इन्द्रि यार्थसनिकर्षः । [ग] संबद्धव्यवहारहेतुः ( सि० च० ) । घटवद्भुतलम् इति शाब्दबोधस्थले संयोगः / संबन्धत्वं च यत्किंचि सांसर्गिक विषयताश्रयत्वम् ( राम० १ पृ० ४०)। संबन्धो द्विविध पदार्थानुयोगिकत्व विशेष: (ग० २ व्याप्ति० सिद्धा० ) । अथ वृत्तिनियामकः वृत्त्यनियामकश्चेति । तत्र वृत्तिनियामकश्च संयोगसमवाय- स्वरूपकालिकादिभेदेनानेकविधः । वृत्त्यनियामकस्तु विषयविषयिभावप्रति- योग्यनुयोगिभावाधाराधेयभावस्वस्वामिभावतादात्म्यादिभेदेनानेकविधः । तत्र संयोगसमवायावेव मुख्यौ । तद्भिन्ना गौणाः । वृत्तिनियामकस्तु कदाचिद्विरोधितानियामको भवति । तथा हि । साध्यतावच्छेदकसंबन्धेन साध्यवत्ताबुद्धिं प्रति येन संबन्धेन साध्याभावप्रकारकनिश्चयः प्रतिबन्धकः सः । यथा पर्वते संयोगेन वहिसाधने दैशिकविशेषणतासंबन्धः । अयं साध्यवत्ताग्रहविरोधितानियामकसंबन्धः इति जेगीयते । अथ वा स्वीय- यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रकारताशालिज्ञानं प्रति येन संबन्धेन स्वप्रकारकं ज्ञानं विरोधि सः । यथा संयोगेन घटवत्ताबुद्धिविरोधिता- नियामको दैशिक विशेषणतासंबन्धः इत्यादिरूह्यः । स्वप्रकारकमित्यत्र स्वशब्देनाभावो ग्राह्यः । अयं च स्वप्रतियोगिमत्ताग्रह विरोधिता नियामक संबन्धः इत्युच्यते । २ धर्मशास्त्रज्ञास्तु गोत्रजत्वादिः । यथा योनिसंबन्धः इत्यादौ संबन्धशब्दस्यार्थ इत्याहुः । ३ नीतिशास्त्रज्ञास्तु नृणां संसर्गः । स च त्रिविध: विद्याजन्यः योनिजन्यः प्रीतिजन्यश्च इत्याहुः । अत्रोक्तम् सेबन्धत्रिविधः पुंसां विप्रेन्द्र जगतीतले । विद्याजो योनिजश्चैव प्रीतिजश्व प्रकीर्तितः ॥ मैत्रं तु प्रीतिजं प्रोक्तं स संबन्ध: सुदुर्लभः ( ब्रह्मवै ब्रह्मख० अ० १० ) ( वाच० ) इति । ४ समृद्धिः । ५ हितम् इत्यजय आह । ६ सम्यग्बन्धः संबन्धः इति काव्यज्ञा आहुः । <संबन्धि> संबन्धस्य प्रतियोग्यनुयोगि च । यथा घटवद्भूतलम् इत्यादौ संयोगस्य घटः प्रतियोगी भूतलं त्वनुयोगि भवति (राम० १ पृ० ३९ ) । अत्र संबन्धिता च आधारानाधारसंबन्धिमात्र साधारणः स्वरूपसंबन्ध- विशेष इति विज्ञेयम् ( मू० म० १ ) । <संबोधनम्> [क] वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । यथा त्वया भुज्यताम् इत्यादौ चैत्रपदोत्तरवर्तिप्रथमाविभक्तेरर्थः । अत्र संबो- धनेच (पाणि० २।३।४७ ) इत्यनेन सूत्रेण प्रथमा संबोधनमेवाह । तथा च प्रथमार्थतादृशेच्छायाः प्रकृत्यर्थविशेष्यतया भानम् । ११६ न्या० को० ज्ञेयम् संबोधनविभक्तयन्तप्रकृत्यर्थोन्यत्र विशेषणतया नान्वेति (ग० व्यु० संबु० पृ० ११७ - ११८) इति । शाब्दिकास्तु [ख] क्रिया- विनियोगफलकाभिमुखीकरणम् ( ल० म० ) । [ग] अनभिमुखत्या भिमुखीकरणं संबोधनम् ( काशिका ० ) इत्याहुः । संबोधनपदा क्रियायामेवान्वय उक्तो हरिणा संबोधनपदं यच तत्क्रियाया विशेषणम् ( वाक्यप ० ) इति । स्थितस्याभिमुखीभावमात्रं संबोधनं विदुः । मुख्यः पुरुषः क्रियासु विनियुज्यते ॥ ( वाक्यप० ) इति च प्राप्ताभि- अन्यत्रासक्तस्याभिमुखीकरणलक्षणोऽभीष्टक्रियासु विनियोगाय ज्ञापनादि- रूपव्यापारविशेषः ( वाच० ) इति । <संबोध्यत्वम्> १ [क] क्रियाकरणाय वक्र भिप्रेतत्वम् । वक्तनिष्ठविलक्षण- बोधविशेष्यत्वं वा । यथा चैत्र व्रज इत्यादौ प्रथमार्थः । अत्रोक्तं हरिणा प्राप्ताभिमुख्यः संबोध्यः क्रियासु विनियुज्यते ( वाक्यप० ) इति । यथा सुमित्रामात नैतत्ते विचित्रं चित्रयोधिनः इत्यादौ संबुद्धिसुबर्षः । शाब्दिकास्तु संबोधनविषयत्वम् इत्याहुः ( ल० म० ) । २ प्रशंस्यत्वम् । अत्र मातृशब्दस्य ऋकारादेरकारादेशः । <संभवः> १ ( अनुमानम् ) [क] अविनाभाववृत्त्या च संबद्धयोः समु दायसमुदायिनोः समुदायेनेतरस्य ग्रहणम् । तदप्यनुमानमेव (गौ० "वोप्यनुमानमेव न तु प्रमाणान्तरम् इति वैशेषिका नैयायिकाश्च प्र वा० २।२।२ ) । अत्र संभवः प्रमाणान्तरम् इति पौराणिका आहुः / संभ- । (त० व० पृ० १००) (नील० पृ० ३४) । अत्र भाष्यम् र विनाभावित्वात् ( व्याप्तिमूलकत्वात् ) अनुमानमेव ( प्रशस्त पृ० २८) इति । [ख] भूयः सहचाराधीनज्ञानम् । दी० ) ( त० व० पृ० ९९ ) इति । [ग ] अविनाभाविनोर्थ ब्राह्मणे विद्या संभवति सहस्रे शतम् (गौ० वृ० २/२/१) (त० सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादाढक सत्ताग्रहणम् । आढकस्य सत्ताग्रहणात् प्रस्थस्य (वात्स्या० २/२/१ ) इति खार्यो द्रोणाढकप्रस्थाद्यवगमः । स चानुमानमेव । खारीत्वं हि द्रोणाय- विनाभूतं प्रतीतं खार्या द्रोणादिसत्त्वमवगमयति इत्यनुमानान्तर्गततया प्रमाणान्तरत्वं दूषितम् । तथा हि खारीत्वं खारीपरिमाणम् । महापरिमाणे स्वावान्तरपरिमाणसमावेशोनुभवसिद्धः । तथा च खारीपरिमाणं द्रोणादि- परिमाणव्यापकम् इति व्यापकस्थित्या व्याप्यस्थितेरावश्यकत्वादनुमानेनैव गतार्थता ( तत्त्वकौमुदी ० ) ( वाच० ) इति । [घ ] वेदान्तिनस्तु अल्पप्रमासाधनं बहुलज्ञानम् । यथा शतमस्यास्ति इति ज्ञाने पञ्चा शज्ज्ञानम् इत्याहुः ( प्र० च० परि० १ पृ० ४४) । द्विधा संभावनात्मकः निर्णयात्मकश्चेति । तत्रादिमो न प्रमाणम् । अनिश्चायकत्वात् । यथा ब्राह्मणेषु चतुर्दशविद्याभिज्ञत्वं संभवति इति । द्वितीयस्तु शते पञ्चाशत् इति ( सि० च० ) । अत्र शतवान् इत्युक्ते पञ्चाशद्वान् इति ज्ञानं संभवति । तस्यानुमानेनैव निर्वाहात् । शतस्य पञ्चाशयाप्यत्वात् इति भावः ( नील० पृ० ३४ ) । अत्रायं प्रयोगः शतं पञ्चाशद्वत् तद्घटितत्वात् (त० व० पृ० १०० ) इति । देवदत्तः पञ्चाशद्वान् शतवत्त्वात् यथाहम् इति च । २ उत्पत्तिः । ३ आधेय स्याधारे समावेशनयोग्यत्वरूपो व्यापारः । ४ उत्कटकोटिकसंदेहः (गदा० ) । ५ संकेतः । ६ अपाय: इत्यजय आह । ७ हेतुः (वाच ० ) । संभावना -१ [क] उत्कटैकतरकोटिकसंशयः (त० प्र० ४ पृ० ६९) ( नील० ४ पृ० ३१ ) ( त० व० ) । यथा गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यादौ मरणसंभावना ( नील० ४ पृ० ३०) । अत्र औरक व्यं च विषयताविशेषः (नील० ४ पृ० ३१) (ग० प्र०) । [ख] वैयाकरणास्तु क्रियासु योग्यताध्यवसाय: ( लिडर्थविशेषः ) । यथा सर्पिषोपि स्यात् इत्यादौ लिङाद्यर्थ इत्याहुः । [ग] माध्ववेदा- न्तिनोप्याः बाह्यालीप्रदेशेषु पुरुषेणानेन भवितव्यम् इत्यूहापरनामक- संभावनाज्ञानम्अ न्यतरकोटिप्रापकप्राचुर्यनिमित्तोन्यतरकोटिप्रधानकः संशय एव ( प्र० प० पृ० ५) इति । २ आलंकारिकाश्च अर्था- लंकार विशेष इत्याहुः । <संमुखी> ( तिथि: ) संमुखी नाम सायाहव्यापिनी दृश्यते यदा । प्रतिप- त्संमुखी कार्या या भवेदापराह्निकी ॥ ( पु० चि० पृ० ५४ ) । <संमछेनम> मोहः । तस्वरूपं च प्राक् (पृ० ६५६ पं० १३) प्रदर्शितम्। <संयमः> एकवस्तु विषयकं धारणाव्यानसमाधिरूपं त्रयम् । यथा अस्मान् साधु विचिन्त्य संयमधनान् ( शाकुन्त० ४/१६) इत्यादौ संयमशब्दस्यार्थः । अत्र सूत्रम् त्रयमेकत्र संयमः ( पात० पाद० ३ सू० ४) इति । तत्र भाष्यम् एकविषयाणि त्रीणि साधनानि संयमः इत्युच्यते इति । <संयोगः> १ ( गुणः ) [ क संयुक्तप्रत्ययनिमित्तम् ( प्रशस्त ० गुण पृ० ३० ) । विभागजनककर्मजगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वं योग- लक्षणम् ( ल० व० ) । संयोगं प्रति युतसिद्धिः प्रयोजिका ७।२।१३ ) (वै० उ० ७/२/९ ) । संयोगः अव्याप्यवृत्तिरनित्यः स द्रव्यवृत्तिश्च ( वाक्य० ) । विभुनोर्नित्यत्वात्तत्संयोगः स्वीक्रियते चेत्स नित्यः स्यात् । परं त्वकिंचित्करः स इत्यतो न विभुद्वयसंयोगः । अतः सर्वः संयोगः अनित्यः इति भावः । विभुनोस्तु न संयोगः । कर्मयुत सिद्धा दिरूपकारणाभावात् ( वै० उ० ७/२/९) इति । संयोगो द्रव्यगुण । कर्महेतुः । तत्र द्रव्यारम्भे निरपेक्षः गुणकर्मारम्भे तु सापेक्षः / संयुक्त समवायादग्ने वैशेषिकम् (वै० १०/२/७) । अग्नेर्वैशेषिकं विशेषगुण औष्ण्यं संयुक्त समवायात्पाकजेषु निमित्तकारणम् ( वै० उ०७/२/९) ( प्रशस्त ० पृ० ३० ) । संयोगस्य गुणहेतुत्वमुच्यते । बुद्धिसुखदुः च्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्द तूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वप- रत्वापरत्वपाकजाश्च एते संयोगासमवायिकारणकगुणाः । तत्र वनान्तेषु गुणेषु आत्ममनोयोगो हेतुः भेर्याकाशसंयोगः असमवायिकारणं भवति । स च अभिघातः इसु- तत्र भा शब्द विभागाजपे चयः उत्तरसंयोग परत्वा शब्दे संयोगजसंयोगे अवयवसंयोगः नैमित्तिकद्रवे तेज परत्वयोर्दिक्कालसंयोगः पाकजे रूपादौ तेजः संयोगः असमवायिकार भवति ( प० मा० ) । कर्मणि हेतुभूतः संयोगस्तु नोदनादिः (वे (वै० उ० विरोधी या ति [ख] संयुक्तव्यवहारहेतुः उ० ५१२ । १ ) ( प्रशस्त० गु० पृ० ३१) । संयोगप्रपञ्चश्चान्यत्र ७२१९ ) द्रष्टव्यः । अत्रेदं बोध्यम् । संयोगस्तु कर्मण: ( ता० र० श्लो० ४३ ) इति । (त० सं० ) । यथा घटभूतलसंयोगः । संयुक्त व्यवहारासाधारणकारणम् इत्यर्थः ( त० कौ० ) । असाधारणत्व- विशेषणेन साधारणकारणकालादिव्यावृत्तिः (त० दी० ) । [ग] अप्राप्तयोः प्राप्तिः ( भा०प० गु० ) ( प्रशस्त० गु० पृ० ३१) । [घ ] अप्राप्तिपूर्विका प्राप्तिः (बै० उ० ७१२१९) । संयोगो द्विविधः कर्मजः संयोगजश्चेति । तत्र कर्मजोपि द्विविधः अन्यतरकर्मजः उभय- कर्मजश्च । तत्राद्यः अन्यतरकर्मजः श्येनशैलादिसंयोगः । द्वितीय उभयकर्मजः मेषयोर्मल्लयोर्वा मेघयोर्वा संनिपातः । अत्राद्यः क्रियावता निष्क्रियस्य । यथा स्थाणोः श्येनेन विभूनां च मूर्तेः सह संयोगः । द्वितीयस्तु विरुद्धदियियोः संनिपातः (प्रशस्त० पृ० ३१) । संयो- गजस्तु अवयवसंयोगजन्यः । स च उत्पन्नमात्रस्यैव चिरोत्पन्नस्य वा निष्क्रिय कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः - कार्यगतः संयोगः । स च एकस्मात् द्वाभ्याम् बहुभ्यश्च भवति । काशसंयोगाम्यां द्वितन्तुकाकाशसंयोगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकस्मात्तावत् तन्तुवीरणसंयोगाद्वितन्तु कवी रणसंयोगः । द्वाभ्यां तन्त्वा- कः संयोगः । बोम् । उपत्य निष्क्रियस्य द्वितन्तुकस्य पटस्य कारणसंयोगिना ( कारणस्य तन्तोः संयोगिना) अकारणेन वीरणेन तृणविशेषेण यः संयोगः स एकस्मात् कारणस्य तन्तोरकारणेन वीरणेन संयोगात् कार्ये द्वितन्तुकपटे अकार्ये वीरणे जायते । एवमग्रेपि । चिरोत्पन्नस्य यथा अङ्गुलीतरुसंयोगात्कायतरु- संयोगादिः । कपालतरुसंयोगात्तरुकुम्भयोः संयोगः । इदं च बोध्यम् । नास्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मज एव संयोगः । विभूनां तु परस्परं संयोगो नास्ति । युतसिद्ध्यभावात् । विनाशस्त सर्वस्य संयोगस्यैकार्थसमत्रेताद्विभागात् । कचिच आश्रय- विनाशादपि । तथा हि । तन्त्वोः संयोगे सति अन्यतरतन्त्वा- रम्भकेंशौ (तन्त्ववयवे ) कर्मोत्पद्यते । तेनांश्वन्तराद्विभागः क्रियते ॥ विभागाच्च तन्त्वारम्भकसंयोगविनाशः । संयोगविनाशात्तन्तुविनाशे । तदाश्रितस्य तन्त्वन्तरसंयोगस्य विनाशः ( प्रशस्त० पृ० ३२) इते । । संयोगजश्च चतुर्विधः । कचित् एकसंयोगजन्य एकसंयोगः संयोगद्वय- जन्य एकसंयोगः बहुसंयोगजन्य एकसंयोगः एकसंयोगजन्यं संयोगद्वयं चेति । तत्राद्यः तन्तुवीरणसंयोगात्पटवीरणसंयोगः । तन्तुभ्यामाकाशस्य यौ द्वौ संयोगौ ताभ्यां जायमानो द्वितन्तुकपटाकाश संयोगः । तृतीयः दशभिस्तन्तुभिराकाशस्य ये दश संयोगास्तैर्जायमान विति । अयमाशयः । यत्र द्रव्यानारम्भकः दशतन्तुकपटस्यैक आकाशसंयोगः । चतुर्थस्तु द्रव्यानारम्भको पार्थिवजलपरमाण्वोः संयोगस्तेन जायमानौ यणुकारम्भकौ द्वौ सं स्ततो घणुकारम्भकौ द्वौ संयोगौ । ततो युगपद्व्यणुकद्वयं (पार्थिक जलच्यणुकद्वयम् ) उत्पद्यते । तत्र पार्थिवद्व्यणुकस्यजलपरमाणुनेका संयोगः जलद्व्यणुकस्य पार्थिवपरमाणुना अपरः संयोग क्षेत पूर्वोक्तानारम्भकसंयोगेनैकेनैवोत्पद्यते । कारणाकारणसंयोगेन कार्या संयोगजननावश्यंभावादिति ( प्रशस्त ० गु० पृ० ३१ ) (70 परि० ११ पृ० २००) । संयोगस्तु विभागादाश्रयनाशाद्वा (वै० ७७२१९ ) ( भा०प० गु० श्लो० ( न्या० म० १ ) ( त० दी० ) । आश्रयनाशात्संयोगनाश स्यैकतन्त्ववयवे कर्म । ततो विभागः / तत आरम्भकसंयोगना तन्तुद्वयं चिरसंयुक्तमनुत्पन्नक्रियं च वर्तते तत्र तावत् संयुक्तत ततस्तन्तुनाशः । ततः संयोगनाशः इति बोध्यम् ( त० व० पृ० २०१ ) । २ धर्मशास्त्रज्ञास्तु उदयात्प्राग्दशम्याः रिष्टा प्रवेशस्तु तस्मात्तं परिवर्जयेत् ॥ (ति० त० ) ( इत्याहुः । तदुक्तम् उदयात्माग्दशम्यास्तु शेषः संयोग उच्यते <संवत्सरः> द्वादशमासात्मकः कालविशेषः । द्वादश मासाः च परि शेषः 'वाच०) संवत त्रिविध सावनसौराख्यभेदात् । तत्र चान्द्रः चैत्रशुक्ल प्रतिपदादिफाल्गुनदर्शान्तः । सावनः षष्ट्युत्तरशतत्रयाहोरात्रात्मकः । सौरस्तु मेषादिमीनान्त: ( पु० चि० पृ० ९ ) । <संवरः> आस्रवनिरोधः । येनात्मनि प्रविशत्कर्म प्रतिषिष्यते स गुप्तिस- मित्यादिः ( सर्व० सं० पृ० ७८ आई० ) । <संवाद:> १ समयवादः ( वात्स्या० ४१२२४५) । यथा ज्ञानग्रहणा- भ्यासस्तद्विद्यैः सह संवादः ( गौ० ४।२।४५ ) इत्यादौ संवादशब्द- स्यार्थः । २ संमतिः । ३ अविरुद्धार्थज्ञानम् । <संवादकः> पूर्वोक्तसंवादकर्ता । पूर्वमुपदर्शितमर्थ प्रापयन्संवादक उच्यते इति बौद्धा आहुः ( न्या० बि० टी० पृ० ३) । <संवाह:> प्राकार परिखायुक्तः श्रेणीधर्मान्वितो देश: (कैयटः ७/३ । १४) । <संवित्> अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा स्पष्टविष तन्मात्रविषया परा ॥ तन्मात्र विषया वापि द्वयी साथ निगद्यते । प्रति योगिनि दृश्ये च घटादिप्रतियोगिनः ॥ (सर्व० सं० १० ४३० शां० ) । <संवृतिः> असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः ( सर्व० सं० पृ० ४३९ शां० ) । <संशय:> १ [क] एकस्मिन्धर्मिणि विरुद्धनान/कोटिकं ज्ञानम् (त० सं० ) । इदं तु बोध्यम् । संशयश्च प्रत्यक्षरूपः संनिकर्षजन्यत्वात् इति । अत एवोक्तम् परोक्षज्ञानमनाहार्य निश्चयश्चेति सिद्धान्तात् इति । संशयो न्याय- स्याङ्गं भवति । यस्मान्नानुपलब्धे न निर्णीते न्यायः प्रवर्तते अपि तु दिग्धे (न्या० वा० १पृ० १४) । अत्र विशेषादर्शनम् कोटिद्वयस्मरणम् पृ० १३१ ) । संशयलक्षणं तु स्वीयैककोटिप्रकारतावच्छिन्न प्रतिबध्यता- धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम् ( सि० च० ) ( त० प्र० ४ निरूपित प्रतिबन्धकतावच्छेद की भूता पर कोटिप्रकारताशालिज्ञानत्वम् ( दि० गु० ) । अत्र संशयीयविषयतायाः प्रतिबन्धकतावच्छेदकत्वकथनं च संशये विशेष्यताद्वयम् इति पक्षाभिप्रायेणेति विज्ञेयम् । संशये च उभय- प्रकारतानिरूपिता विशेष्यता एकैव । समुच्चये तु विशेष्यताद्वयम् इति संशयसमुच्चययोर्भेद इति च विज्ञेयम् । यद्वा अवच्छेद्यावच्छेदकभावा- पन्नविषयतावत्त्वम् ( ग० सत्प्र० ) । संशयीय विशेष्यतयोरवच्छेद्या. भिर्विज्ञेयम् । अत्र संशयलक्षणं च सूत्रकारैरुक्तम् समानानेकधर्मोपपत्ते- वच्छेदकभावस्तु समुच्चयज्ञानव्यावर्तनायावश्यं स्वीकर्तव्य इति सूक्ष्मदर्शि- विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः (गौ० १।१।२३) (ता० २० श्लो० ५६) । तत्र ( १ ) समानधर्मोपपते- विशेषापेक्षो विमर्श: संशयः इति । स्थाणुपुरुषयोः समानं धर्ममारोह परिणाहौ पश्यन् पूर्वदृष्टं च तयोर्विशेषं बुभुत्समानः किंस्वित् इत्यन्यतर- नावधारयति । तदनवधारणं ज्ञानं ( विमर्शः ) संशयः । वस्तुखरूप मनयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभे इत्येषा बुद्धिरपेक्षा स प्रवर्तिका वर्तते । तेन विशेषापेक्षो विमर्शः संशय: । ( २ ) पपत्तेरिति । समानजातीयमसमानजातीयं चानेकम् । तस्यानेकस्य म पपत्तेर्विशेषस्योभयथा दृष्टत्वात् । समानजातीयेभ्योसमानजातीयेभ्यक्षार्था/ संशयस्य अनेकधर्मो गुणकर्मभ्यश्च । विशिष्यन्ते । गन्धवत्त्वात्पृथिव्यबादिभ्यो विशिष्यते अस्ति च शब्दे विभागजत्वं विशेषः । तस्मिन् द्रव्यं गुणः कर्म वा इति संदेहः । विशेषस्योभयथा दृष्टत्वात् किं द्रव्यस्य सतो गुणकर्मन्यो विशेष: आहोखिद्गुणस्य सत इति अथ कर्मणः सत इति विशेषापेक्षा पत्तेरिति । व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । व्याघातो विरोधोसहभाव अन्यतमस्य व्यवस्थापकं धर्म नोपलभे इति बुद्धिरिति । ( ३ ) / इति । अस्त्यात्मेत्येकं दर्शनम् । नास्त्यात्मेत्यपरम् । न च सद्भावा सद्भाव सकत्र संभवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तत्त्वानव- लभ्यते तडागादिषु । मरीचिषु चाविद्यमानमुदकमिति । ततः कचिदुप लम्यमाने सञ्चोटकमप- तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपच अथासत् इति संशयो भवति । (५) अनुपलब्ध्यव्यवस्थातः नोपलभ्यते मूलकीलकोदकादि । असच्चानुत्पन्नं निरुद्धं वा / ततः क्वचिदनुपलभ्यमाने संशयः । किं सन्नोपलभ्यत उतासत् इति संशयो भवति । विशेषापेक्षा पूर्ववत् । पूर्वः समानोनेकश्च धर्मो ज्ञेयस्थः । उपलब्भ्यनुपलब्धी पुनर्ज्ञातृस्थे । एतावता विशेषेण पुनर्वचनम् । समान- धर्माधिगमात् समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति । स्थानवतां लक्षणवचन मिति समानम् ( वात्स्या० ११ ११२३) । वार्तिककृतस्तु समानो हि धर्मः यो विवक्षिततज्जातीयवृत्तित्वे सति अन्यजातीयवृत्तिः सः । अयं साधारणो धर्म उपलभ्यमानः संशयहेतुः (न्या० वा० १ । २३ पृ० ९३ ) इत्याहुः । अत्रायं विशेषः । समानधर्मवत्तया धर्मिंज्ञान- स्यान्वयव्यतिरेकाभ्यां संशयहेतुत्वमवधार्यते ( न्या० म० ४ पृ० ३४ ) । तदर्थश्च तत्कोटिसाधारणधर्मवत्तया धर्मिज्ञानस्य तत्कोटिसंशयहेतुत्वम- वार्यते । अन्वयव्यतिरेकेति तुरगादौ वेगेन गच्छतोनेकवृक्षेन्द्रिय- संनिकर्षेपि यस्यैव धर्मिणो ज्ञानं तत्रैव पनसत्वादिसंशयः नान्यत्र इति धर्मिनियमार्थम् । धर्मिज्ञानस्योत्कटकोटिकसंशयहेतुत्वमिति भावः ( त० प्र० ख० ४ पृ० १३० - १३१ ) । अनेकप्रत्ययहेतुधर्मानेकधर्मः । यत एव प्रत्ययो भवति इदमेकमनेकम् इति। तत्रैक प्रत्ययहेतुरभेदः । अनेक प्रत्ययहेतुधर्मो विशेषः । यथा शब्दस्य विभागजस्वम् । सामान्य विशेष- समवायेभ्यः शब्दस्य सदादिना विशेषेण निर्भक्तस्य तस्मिंस्तु द्रव्यं गुणः कर्म वा इति विभागजत्वात्संशय इत्याहुः (न्या० वा० १ । २३ पृ० ९५ ) । विप्रतिपत्तिजन्य संशयस्योदाहरणान्तरं यथा एको ब्रूते शब्दो नित्यः इति । अपरः अनित्यः इति । तयोर्विप्रतिपस्या मध्यस्थस्य पुंसो विशेषमपश्यतो भवति संशयः किमयं शब्दः अनित्य उत नित्यः इति ( त० मा० पृ० ४२ ) । संशयस्य निर्णायकाभावसहकृताः साधारणधर्मासाधारण- धर्मविप्रति सद्यथा ( १) स्थाणुपुरुषयोः साधारणधर्ममूर्ध्वतादिलक्षणं पुरोवर्तिन्यु- कृतो वात्स्यायनाः पक्षिलखामिनः आहुः (त० १० परि० १०) । पलभ्य स्थाणुपुरुषौ स्मृत्वा विशेष जिज्ञासायां स्थाणुत्वनिधायकं वक्र- कोटरादिकं पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य दोलाय- मानं संशयज्ञानमुत्पद्यते किमयं स्थाणुर्वा पुरुषो वा इति । (२) शन्दे ११७ न्या० को० निर्णायकमजानतः चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य संशयो भवति किं शब्दो नित्यो न वा इति । ( ३ ) इन्द्रियेषु वैशेषिक- सांख्ययोर्भौतिकत्वाभौतिकस्वरूपां विप्रतिपतिं पश्यतो निश्चायकं चापश्यतः संशयो भवति किमिन्द्रियाणि भौतिकानि उताभौतिकानि इति । (8) कूपखननानन्तरं जलोपलब्धौ सत्यां निर्णायकाभावे संशयो भवति किं प्राक् सदेवोदकं कूपखननेनाभिव्यक्तमुपलभ्यते उतासदेवोत्पन्नम् इति । ( ५ ) अस्मिन् वटे पिशाचोस्ति इति वार्ता पुरुषस्य पिशाचानुपलब्धौ निर्णायकाभावे संशयो भवति किं विद्यमान पलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावः । तथा च त्रीण्येव कारणानि । एव पिशाचोन्तर्धानशक्त्या नोपलभ्यते उताविद्यमान एव इति । अत्र उ इति न्यायवार्तिककृत आहुः । असाधारणविप्रतिपत्त्योरपि साधारणधर्म / ( प्र० प० पृ० ३-४ ) ( त० व० परि० १२ पृ० २१४-२१५)/ एवान्तभोवः । अतः साधारणधर्मेणैव सर्वत्र संशयः इति वैशेषिका भादुः [ख] धर्मितावच्छेदकावच्छेदेनान्यतरकोट्यवगाहि ज्ञानम् ( त० प्र०) । । [ग] विरुद्धोभयारोपसामग्रीद्वयसमाजादुभयारोप एक एव भवति सः । (चि० १ ) । धर्मिज्ञानसहित विरुद्धोभयविशिष्टबुद्धिसामग्रीसमाजादेवी. ( मू० म० १ ) । [घ ] एकधर्मिकविरुद्धभावाभावप्रकार क भयविषयकारोप एको भवति स एव संशयः इति समुदितार्थ (गौ० वृ० १।१।२३ ) (मु० गु० ) 1 [ङ ] एकस्मिन्धर्मिणि कज्ञानम् ( न्या० वा० ) । अथ वा यत्किंचिद्धर्मिनिष्ठविशेष्यतानि विरुद्ध नानाधर्मवैशिष्ट्यज्ञानम् । यथा पर्वतो वह्निमान् न वा इति ज्ञानं संशय: । समुदितार्थश्च एकधर्मावच्छिन्न विशेष्यकभावाभावप्रकार- रूपितविरुद्ध नानाधर्मनिष्ठप्रकारतानिरूपितप्रकारिताशालिज्ञानम् (वा क्य० ) ( ल० व० ) इति । [च प्रसिद्धानेक विशेषयोः ( स्थाणु- पुरुषयोः ) सादृश्यमात्रदर्शनात् उभयविशेषानुस्मरणात् अधर्माच्च किंस्वित इत्युभयाषलम्बी विमर्श: संशयः ( प्रशस्त० गुणनि० प्रति दूरवर्तिनि उच्चैस्तरे अयं स्थाणुर्वा पुरुषो व यथा. (त० सं० ) (वै० उ० २१२/१७ ) ( त० कौ० ) । अयं संशया कारस्तु विरुद्धभावद्वयकोटिकसंशयाङ्गीकारेणोपपद्यते । परे तु स्थाणुत्व- तदभावपुरुषत्वतदभावकोटिक इति तद्वाक्यार्थ इत्याहुः ( नील० ) । [छ ] अनवधारणात्मकं ज्ञानं संशयः ( सर्व० सं० पृ० २३७ अक्षपा० ) । [ज ] विरुद्धकोटिद्वयावगाहिज्ञानं संशयः ( सर्व० सं० पृ० ३५५ पात० ) । न्यायवार्तिककृन्नये संशयस्त्रिविधः असति विशेष- दर्शने साधारणधर्मज्ञानजन्यः विशेषादर्शने सति असाधारणधर्मज्ञान- जन्यः विशेषादर्शने सति विप्रतिपत्तिजन्यश्चेति । आद्यो यथा उच्चै- स्तरत्वं स्थाणुस्वसाधारणं ज्ञात्वा अयं स्थाणुर्न वा इति संदिग्धे । स्थाणुः पुरुषो वा इति वा ज्ञानम् । द्वितीयो यथा शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्यो न वा इति संदिग्धे । यथा वा नियाद- नित्याच व्यावृत्तेन भूमात्रासाधारणेन गन्धवत्वेन विशेषमपश्यतो भ भुवि नित्यत्वानित्यत्वसंशयः । अत्र वैशेषिका आहुः । असाधारणधर्मः संशायको भवन् व्यावृत्त्यैव भवति । यथा शब्दत्वव्यावृत्तिर्नित्ये अनि चास्तीति शब्दो नित्यो न वा इति संशयः । व्यावृत्तिश्व साधारणधर्म एव इति नाधिक्यम् । तथा च सिद्धान्तः साधारणधर्मादेकस्मादेव सर्वत्र संशयः इति ( त० व० परि० १२ पृ० २१४-२१५ ) । तृतीयो यथा यत्र शब्देन कोटिद्वयोपस्थितिद्वारा प्रामाण्यं खतो ग्रा परतो ग्राह्यं वा इति मानसः संशय उत्पद्यते ( न्या० वा० ) ( त० (मु० ) ( सि० च० ) । कणादनये द्विविधः संशय: बहिर्विषयकः भा० पृ० ४१-४२ ) ( त० प्र० ) ( गौ० वृ० १/१/२३ ) अन्तर्विषयकश्च । एतन्मते द्विविधोपि संशयः साधारणधर्मवत्ताज्ञानादेव भवति नान्यस्मात् इति विज्ञेयम् । तत्र बहिर्विषयकोपि द्विविधः दृश्य- मानधर्मिकः अदृश्यमानधर्मिकश्च । तत्र दृश्यमानधर्मिको यथा ऊर्ध्वत्व- प्रत्यक्षविषयेपि स्थाणुपुरुषयोरूर्ध्वतामात्रदर्शनात् वककोटरादिविशेषा- विशिष्टस्य धर्मिणो दर्शनात् अयं स्थाणुः पुरुषो वा इति । अत्र भाष्यम् पलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणा- दुभयत आकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किं नु खल्त्रयं स्थाणुः स्यात् पुरुषो वा ( प्रशस्त ० गु० पृ० २४) इति । अदृश्यमानधर्मिको यथा अरण्ये झाटाद्यन्तरिते गोगवयादिपिण्डे विषाणमात्रदर्शनात् विषये तावत् साधारणलिङ्गदर्शनात् उभयविशेषानुस्मरणात् अधर्माच गौगेवयो वा इति (वै० उ० २।२।१८) । अत्र भाष्यम् अप्रत्यक्ष- संशयो भवति । यथा अटव्यां विषाणमात्रदर्शनात गौर्गवयो वा ( प्रशस्त • गुणनि० पृ० ४९) इति । वस्तुतः तत्रापि विषाणधर्मिक एव संदेहः विषाणमिदं गोसंबन्धि गवयसंबन्धि वा इति । विवक्षामात्रातु वि[१]द्याभ्यां भवति । यथा मौहूर्तिकः सम्यगादिशति चन्द्रोपरामाद द्वैविध्याभिधानम् (वै० उ० २१ २११८) । आन्तरसंशयो हि विद्या- असम्यगपि । तत्र स्वज्ञाने सम्यगादिष्टमुपरागादि असम्यग्वा इति संशयो जायते (वै० २।२।२० ) ( त० व० परि० १२ पृ० अत्र भाष्यम् अन्तस्तावत् आदेशिकस्य सम्यक् मिथ्या चादिश्य पुनरादिशतस्त्रिषु कालेषु संशयो भवति किं नु सम्यक् मिथ्या वा ( प्रशस्त ० गुणनि० पृ० ३९ ) इति । २ ( पक्षता ) [ क बा बध्यतावच्छेद की भूत स्वनिष्ठ विषयिताघटितधर्मावच्छिन्न प्रतिबन्धक पिता या साध्यवत्ता निश्चयत्व व्यापक प्रतिबन्धकता निरूपित प्रतिबध्यताव बाघप्रति च्छेदकावच्छिन्ना प्रतिबन्यता तच्छालिज्ञानम् । यथा पर्वते घूमेन वहि साधने पर्वतो वह्निमान्न वा इति संशयः पक्षता । बाधप्रतिबध्यतेत्या सुगमार्थस्तु बाधस्य प्रतिबध्या या संशयीयैका कोटिः तस्याः प्रतिबध्याया वह्निमान् घूमादित्यादौ बाधस्य वह्नयभावस्य प्रतिबध्या कोटि बहिः साध्यस्य प्रतिबध्या च संशयीया अपरकोटि: तद्विषयकं ज्ञानम् इति । तस्य प्रतिबध्या साध्यस्य वः प्रतिबध्या चापरकोटिः वहयभावः षयकं पर्वतो वह्निमान वा इति ज्ञानम् इति लक्षणसमन्वयः । बोध्यम् । स्वनिष्ठविषयितायां च बाधप्रतिबध्यतावच्छेदकत्व मावश्यकम् । तेन वह्निव्याप्यसाव्यकस्थले पर्वतो वह्निव्याप्यवान् इत्यादौ वह्निमान् न वा पक्षः इत्येतादृशसंशयव्युदासः । तत्र वह्निव्याप्याभावाभावत्वेन तदि अत्रेद वहि वहिव्याप्याभावनिश्चयप्रतिबध्यतावच्छेदकत्व विरहात् इति । विषयिता [^१ अविद्येति पदच्छेदः ।] स्वनिष्ठत्वनिवेशनेन अवच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकसामाना- धिकरण्यमात्रेण कोटिद्वयावगाहिनिश्चयस्य अवच्छेदकावच्छेदेन साध्या- दिमत्तानिश्चयप्रतिबध्यत्वेपि पक्षतात्ववारणम् इति । शुद्धवह्नित्वावच्छिन्न- साध्यकस्थले पर्वतो वह्निमान् इत्यादौ वहयभाववान् पर्वतः इत्येतादृश- बाधप्रतिबध्यस्य महानसीयवहिमान्न वा पक्षः इत्येतादृशस्य संशयस्य पक्षतावरणाय साध्यवत्तानिश्चयप्रतिबध्यतावच्छेदकावच्छिन्नत्वं प्रति- बध्यतायां निवेशनीयम् (ग० पक्ष० पृ० ४ ) । पक्षता चेयं पूर्व- पक्षीया आचार्यमतसिद्धा च इति बोध्यम् (वाच ० ) । [ख] अथवा स्वघटितधर्मावच्छिन्न प्रतिबन्धकता निरूपित प्रतिबध्यतावच्छेदकीभूता या स्वनिरूपकतावच्छेदकधर्मावच्छिन्न निरूपित विरोध विषयतानिरूपित विष- यतानिरूपिता प्रकारिता सामानाधिकरण्यसंबन्धेन तविशिष्टप्रकारि तावज्ज्ञानम् । एतल्लक्षणस्यावतरणिका चेत्थमुक्ता । व्याप्यवृत्तित्वविशिष्ट- कोटियावाहिज्ञानं संशयः इति मते संशये समुचयव्यावृत्तविषयितां प्रदर्श्य एकधर्मिक नानाविरुद्धकोट्यवगाहिज्ञानं संशयः इति मते संशयत्वं निर्वक्ति अथ वा इत्यादिना ग्रन्थेन इति । अत्र स्वपदेन संशयविषयैकको- टिनिरूपिता प्रकारिता ग्राह्या । [ग] केचित्त साध्यनिश्चयसाध्याभाव- निश्चयप्रतिबध्यतावच्छेदकविशेष्यताशालिज्ञानं संशयः इत्याहुः । अयं भावः । संशये च धर्मिणि उभयप्रकारता निरूपितैक विलक्षण विषयता समुच्चयवैलक्षण्यायोपगम्यते इति तादृशविषयताया विभिन्नरूपेणोभय- एतच्चिन्त्यम् । चिन्ताबीजं तु वह्नित्ववह्रथभावत्वोभयपुरस्कारेण वय- निश्चय प्रतिबध्यतावच्छेदकतया नासंभवः (ग० पक्ष० पृ० ४ ) इति । इति । शिष्टं तु पक्षताशब्दव्याख्याने दृश्यम् । भावावगाहिनि पर्वतो वयात्मकवयभाववान् इति समुञ्चयेतिव्याप्तिः <संशयसमः> ( जाति: ) [ क ] सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्य साधर्म्यात्संशयसमः ( गौ० ५/१९१४) । अनित्यः शब्दः नन्तरीयकत्वेस्त्येवास्य नित्येन सामान्येन साधर्म्यमैन्द्रियकत्वम् अस्ति च प्रयत्नानन्तरीयकत्वाद्धटवदित्युक्ते हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्ना- न्यायकोशः । घटेनानियेन । अतो नित्यानित्यसाधर्म्यादनिवृत्तः संशयः (वात्स्या ५।१।१४ ) इति । अत्र नित्यानित्यसाधर्म्यात् इति पदं संशय- कारणोपलक्षणम् । हेतुज्ञाने अप्रामाण्यशङ्काधानद्वारा साध्यसंशयात् सत्प्रतिपक्षदेशनाभासोयम् ( गौ० वृ० ५/१/१४ ) । [ख] य समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव ( वात्स्या० १९।२।७ ) । [ग] समानधर्मदर्शनादियत्किंचित्संशय- कारणबलात्संशयेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः कार्यत्वाइट- कार्यत्वा निर्णायकाद नित्यत्वं निर्णीयते तथैन्द्रियकत्वात्संशयकारणाद- वदित्युक्ते सामान्ये गोत्वादौ दृष्टान्ते घटे चैन्द्रियकत्वं तुल्यम् । यथा नित्यत्वं संदिह्यताम् ( गौ० वृ० ५/१/१४ ) । तथा चोक्तम् संदेह हेतुसद्भावात्सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसभो मतः ॥ ( ता० र० प० २ श्लो० ११६ ) इति । घ । साधारण धर्म प्रदर्थ संशयोद्भावनम् । यथा शब्दः अनित्यः कार्यत्वादित्याद शब्दस्यानित्येन घटेन सह कार्यत्वरूपं साधर्म्यं यथा अस्ति तथा शब्दत्वेन सह श्रावणप्रत्यक्षविषयत्वं साधर्म्यमस्ति इत्युभयसाधर्म्यदर्शना संशय: स्यात् । एकपरिशेषे नियामकाभावात् (नील० पृ०४४) इति । <संसर्गः> १ [क संबन्धः । यथा पक्षे साध्य संसृष्टत्वज्ञान मनुमितिकारण र (मु० २ ) इत्यादौ । [ख] संसर्गताख्यविषयतावान् । यथा शाब्दबोचे नित्येन (4 इत्यादौ घटवद्भुतलम् इति शाब्दबोधीयः संयोगाख्यः संसर्गः । २३ चैकपदार्थे अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते (ग० व्यु० १ ) हारशास्त्रज्ञास्तु विभागानन्तरं यत्तव मम च धनं तदावयोः इति कृतसमये नैकत्रावस्थानरूपो धनसंबन्ध: (संसृष्टि: ) संसर्ग: इत्याहुः । ३ धर्मज्ञा हत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गाप पातकि संबन्ध इत्याहुः । पातकिसंसर्गस्य पापहेतुत्वमाह मनुः ब्रह्म- तैः सह ॥ ( मनु० अ० ११ श्लो० ५४ ) यो येन पतितेनेषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्तसंसर्गविशुद्धये ॥ ( मनु अ० ११ श्लो० १८९) । प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन में न संसर्ग व्रजेत्सद्धिः प्रायश्चित्तेऽकृते द्विजः ॥ ( मनु० अ० ११ १० ४७ ) इति । विष्णुः यश्च येन पापात्मना सह संसृज्येत स तस्यैव प्रायश्चित्तं कुर्यात् इति । एवं गौतमोपि । के संसर्गप्रकारा इत्याहतुर्मनुबृहस्पती एकशय्यासनं पङ्क्तिर्भाण्डपक्कान्नमिश्रणम् । ध्यापनं योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्यो- धमैः सह (मनु० अ० ११ श्लो० १८० ) इति । कूर्मपुराणे व्यासः महापातकिनस्त्वेते यश्च तैः सह संबसेत् । संवत्सरं तु पतितैः संसर्ग कुरुते तु यः ॥ यानशय्यासनैर्नित्यं जानन्वै पतितो भवेत् इति । अत्रेदं बोध्यम् । महापात किसंसर्गस्यैव कलौ पापहेतुत्वम् नान्यपापिसंसर्गस्य । यथोक्तं पराशरेण कृते संभाषणापापं त्रेतायां चैव स्पर्शनात् । द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥ इति । अत्र सर्वस्मृतिशास्त्राकलना- द्वयं ब्रूमः । कलावपि महापातकिसंसर्गस्येवान्यपापिसंसर्गस्यापि पाप- हेतुत्वमस्त्येव । परंतु तत्पापं त्वल्पमेव । तन्निर्णेजनाय तदनुगुणं प्राय- श्चित्तं कार्यमेव इति । <संसर्गमर्यादा> [क] समभिव्याहारज्ञानकार्यतावच्छेदककोटि प्रविष्टसंब- न्धता ( कृष्णं ० ) । यथा शाब्दबोधे चैकपदार्थे अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते (ग० व्यु० का० १) इत्यादौ संसर्गमर्यादा- शब्दस्यार्थः । [ ख ] आकाङ्क्षादिसहकारिसहकृता पदशक्तिः इति वैयाकरणादयः माहुः (काव्यप्र० कमला० उल्ला० २) । <संसर्गाभाव:> ( अभावः ) [ क ] तादात्म्यातिरिक्तसंसर्गारोपजन्य प्रतीति विषयाभावः ( त० प्र० ख० ४ पृ० ५६ ) । अत्रार्थे संसर्गाभाव- दस्य व्युत्पत्तिः संसर्गेण तादात्म्यातिरिक्तेन संबन्धेन अवच्छिन्न प्रतियो गिताक: अभावः इति । मध्यमपदलोपी समासः शाकपार्थिववज्ज्ञातव्यः । अयं भावः । ध्वंसप्रागभावयोरपि किंचित्संबन्धावच्छिन्न प्रतियोगिताकत्व- मस्ति इत्यभिप्रायेणेयं व्युत्पत्तिः । संसर्गाभावस्य लक्षणं च तादात्म्य- संबन्धानवच्छिन्न प्रतियोगिताकाभावत्वम् ( ग० २ सिद्धान्त० ) । अथ वा अन्योन्याभावभिन्नाभावत्वम् (मु० १ पृ० ४२ ) । अन्ये तु संसर्गाभावत्वं च संसर्गारोपजन्यप्रतीतिविषयाभावत्वमेव अखण्डोपाधि वेत्याहुः ( त० प्र० ४ पृ० ५७ ) । संसर्गाभावग्रहे प्रतियोगि योग्यतैव तन्त्रम् । यत्त संसर्गाभावग्रहे प्रतियोग्यधिकरणोभययोग्यत्वं तन्त्रम् इति कैश्चिदुक्तम् । तन्न समीचीनम् । आकाशे रूपात्यन्ताभाव प्रत्यक्षस्य निवृत्तः कोलाहलः इति ध्वंसप्रत्यक्षस्य चानुपपरया अधिकरणयोग्यतापेक्षा नास्ति ( सर्वे० पृ० २३१ औलू० ) ( वै० उ० ९/११८) (३० वि० ९/११८ पृ० ३८१ ) ॥ वक्संयुक्त काल विशेषणतया वायुस्पर्शनाशप्रत्यक्षं पक्षधर मिश्रैः स्वीकृतम् / [ख] अन्योन्याभावभिन्नः अभावः ( त० प्र० ) (मु० ११० ४२)। यथा नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः (३० ९।१।१० ) इति सूत्रे प्रतिपाद्यः अभावः । ध्वंसप्रागभावयोः किंचि विज्ञेयम् । लक्षणस्यायमर्थः । गेहे घटस्य यः संसर्गः स संबन्धावच्छिन्नप्रतियोगिताकत्वानङ्गीकारे तु इदं लक्षणान्तरम् इति संयोगस्तस्य वडव गह वि० प्रतिषेधः । स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव भविष्यतः प्रागभावः भूतस्य प्रध्वंसाभावः इति वैशेषिका आहुः (वै०३० ९।१।१० ) । अथ वा सतः पूर्व तत्र वर्तमानस्य घटस्यैव गेहसंसर्ग- प्रतिषेधः गेहे संसर्गाभावः । तद्विशेषोत्यन्ताभावः नास्ति गेहे घटः इति प्रत्यक्षविषयः इति समुदितसूत्रार्थः इति नैयायिका आहुः ( निपातेन धातुना च बोध्यते । तत्र निपातेन प्रातिपदिकार्थाभाव ९/१/१० पृ० ३८४ ) । अत्रेदं बोध्यम् । संसर्गाभावश्च नादिन बोधने अनुयोगिनि सप्तम्यपेक्षा । यथा गेहे घटो नास्ति इत्यादौ । विभक्त्यर्थ संसर्गाभावस्य धात्वर्थादौ बोधने तु नायं नियमः / क्या गगनं न पश्यति न कलअं भक्षयेत् इत्यादौ । तत्र दर्शने गगनक त्वस्य कलशभक्षणे च बलवदनिष्टासाधनत्वस्य नजा संसर्गाभावल्य बोधनात् न तत्र सप्तम्यपेक्षा इति । प्रातिपदिकार्थस्यात्यन्ताभावबोध- (वैक्रियाविशेष्यतावच्छेदकतयाभानम् । यथा नास्ति गेहे घटः इत्यादी घटस्य गृहवृत्तित्वाभावो बोध्यते इत्याहुः (वै० वि० ९/१/१ पृ० ३८५ ) । [ग] अधिकरणे प्रतियोग्यारोपहेतुकनिषेधधीविषयः "अभाव:" । संसर्गाभावस्त्रिविधः प्रागभावः ध्वंस: अत्यन्ताभावश्चेति ( भा० प० श्लो० १२ - १३ ) । केचित्तु उत्पादविनाशशाली सामयिक - १.नामा चतुर्थोयमभाव इत्याहु: (मु० १ पृ० ४३) (वै० वि० ९/११५) । अयं भावः । यत्र भूतले पूर्वमपसारितं घटादिकं पुनरानीतं च तत्राम- भावे: इति । नैयायिकास्तु तत्र घटकालस्याभावसंबन्धाघटकत्वात् घट- १६ यते । काल विशेष विशिष्टस्वरूपस्य ( घटानधिकरणकालीनस्वरूपस्य ) सत्त्वकाले न घटात्यन्ताभावबुद्धिः । तथा च तत्रात्यन्ताभाव एव प्रती- संसर्गत्वोपगंमादेव घटवति घटो नास्ति इति प्रतीत्यभाबोपपत्तौ चतुर्थ- संसर्गाभावे मानाभाव: ( दि० पृ० ४३ ) इति वदन्ति । <संसर्पः> अंहस्पतिशब्दे दृश्यम् । <संसार:> १ [क] दुःखादीनां कार्यकारणभावः । स चानादिः । पूर्वापरकालानियमात् । दुःखादयो मिथ्याज्ञानपर्यवसाना अच्छे 'वर्तमानाः संसार: ( न्या० वा० १५० २६) इति । मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन वर्तमानाः संसारशब्दार्थ: ( सर्व० पृ० २४६ अक्ष० ) । अयं भावः । धाता यथापूर्वमकल्पयत् इति वेदे खण्ड- प्रलयस्य प्रसिद्धवेन संसारस्य प्रवाहानादित्वं प्रकल्पनीयम् ( त० प्र० ४ पृ० १८) इति । [ख ] जन्ममरणप्रबन्धः प्रेत्यभावापर- नामा (वै० उ० ६।२।१५) । यथा संसारसागर निमग्नमनन्तदीन- मुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि इत्यादौ संसारशब्दस्यार्थः । जन्ममरण- प्रवाह: प्रेत्यभावः । स एव पुसा बन्धलक्षणः । तस्य च अजरंजरी- भावः इति नामान्तरमागमे (३० वि० ६/२/१५) / संसारित्वं च क्रमेण दुःखोत्पादः ( न्या० ली० गु० मोक्षनि० पृ० ४२) । यथा शरीराभिमानिनो जीवस्य संसारित्वम् । सांसारिक सुखं तु धर्मरन्ध देहावच्छेद्यं सुखम् (प० च० ) । [ग] वल्लभीया मायावादिनों वेदान्तिनश्चे मिथ्याज्ञानजन्यसंस्काररूपवासना देहारम्भकादृष्टविशेषो वा स्वादृष्टोपनिबद्धदेहपरिग्रहो वा संसार इत्याहुः । अत्र संसारगतिप्रकारस्तु ११८ न्या० को० ॐ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् (ब्रह्मसू० ३।१।१ ) इत्यादिनोक्तो द्रष्टव्यः । [घ ] मध्वाचार्यास्तु भूतबन्धः संसार इत्याहुः । तदुक्तं वाराहे भूतबन्धस्तु संसारो मुक्तिस्तेम्यो मोचनम् ( मध्यभा० ३।१।१ ) इति । [ङ सांख्यास्तु सूक्ष्म (लिङ्ग-)) शरीरं पूर्वपूर्वस्थूलशरीरत्यागपूर्वकमभिनवस्थूलशरीरं यदुपादत्ते स संसार । इत्याहुः । तदुक्तम् संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् (सांख्य का० ४० ) इति । [च ] आत्मानं देहेनैकी कृत्य स्वर्गनरकमार्गयो: सरति येन पुरुषः स संसारः ( सर्व० सं० पृ० ४०२ शां० // समित्येकीकरणे । छ संसारो नामाज्ञानम् / २ विश्वम् / संसारी–[क] भवाद्भवान्तरप्राप्तिमन्तः संसारिणः ( सर्व० सं० १०७ आहे ० ) । ख एष प्रमाता मायान्धः संसारी कर्मबन्धनः (सर्व० ३ संगति: ( वाच० ) । सं० पृ० १९९ प्रत्य० ) । <संसृष्टि:> १९ संसर्गः ( संबन्धः ) ( राम० २ पृ० १६४) / पक्षे साध्यसंसृष्टत्वज्ञानम् ( मुक्ता ० २ पृ० १६) इत्यादौ संतुष्टि शब्दस्यार्थः । २ अलंकारविशेषः । एकार्थसमवायस्वभावा इत्यालंकारिका आहुः । तदुक्तं काव्यप्रकाशे सेष्टा संसृष्टिरेतेषां संदे यदिह स्थितिः ( काव्यप्र० १०/१३९) इति । ३ व्यवहारशासवाल विभागानन्तरं मैत्र्यात् पुनः स्वस्वधनेषु भ्रात्रादीनां कृतः संसर्गः / विभक्तधनस्य मिश्रीकरणमिति यावत् । यथा संसृष्टिनस्तु संसृष्टी सोदरस तु सोदरः ( याज्ञव० २११४३ ) इत्यादौ संसृष्टिशब्दस्यार्थ इत्याङः । अत्रोक्तं बृहस्पतिना विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाथ वै प्रीत्या स तु संसृष्ट उच्यते ॥ ( याज्ञ० मिताक्षरा ) इति । ४ वमनादिना संशुद्धिः इति भिषज आहुः ( क ] संस्कारत्वजातिमान् ( ० ५ 17( गुणः ) <संस्कारः> १ ( प्र० प्र० ) ( त० को० ) / संस्कारः अनित्यः ( वाक्य० पृ० २२ ) । स च त्रिविधः वेगः भावना स्थितिस्थापक श्चेति । सामान्यगुणात्म विशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् (सि० च० पृ० ३५ ) । तस्यायमर्थः । सामान्यगुणो वेगः स्थितिस्थापको वा । आत्मविशेषगुणस्तु भावना । एतदुभयवृत्तिः गुणत्वव्याप्या च या जातिः तद्वान् संस्कार इति । सा च जाति: संस्कारत्वात्मिका भवति इति विज्ञेयम् ( त० दी० पृ० ३८) । संस्कारत्वं न जातिः इति व्यवस्था- अपने प्रायतन्त चषकादौ ( वाच० ) । [ग] यज्जातीयात्समुत्पाद्य- भवेत् ॥ ( ता० र० श्लो० ४८) । अनुबन्धो भावना स्मृतिहेतुः स्तज्जातीयस्य कारणम् । स्वयं यस्तद्विजातीयः संस्कारः स गुणो ( संस्कार इति न्यायवार्तिके उक्तम् । त्रिविधसंस्कारमध्ये भावना विशेष- गुणः । वेगः स्थितिस्थापकश्च सामान्यगुण इति विज्ञेयम् । २ धर्म- ज्ञास्तु सतो गुणान्तराधानात्मकः प्रतियत्तः । यथा अलंकारा देरुद्दीपनम् अन्नादेर्निशातनम् वस्त्रादेर्मार्जनम् दर्पणादेर्निर्मलीकरणम् ब्रीह्यादेव यज्ञाङ्गतासंपादनाय वैदिकमार्गेण प्रोक्षणादि संस्कार इत्याहुः । अत्र मतभेदाः । प्रोक्षणाभ्युक्षणादिषु संस्कारः पुरुषस्यैव धर्म इति नैयायिका आहु: ( कु० ) । प्रोक्षिता एव त्रीहयः पुरोडाशाय कल्पन्ते नाप्रोक्षिताः इति प्रोक्षणादिजन्यसंस्कारो यज्ञाङ्गब्रीहिषु इति स द्रव्यधर्म एव इति मीमांसका मन्यन्ते । एवम् स्नानाचमनादिजन्याः संस्कारा देह उत्पद्य- माना अपि तदभिमानिजीवे कल्प्यन्ते इति वेदान्तिन आहुः (वाच ० ) । ३ काव्यप्रकाशकृन्मम्मटभट्टस्तु शास्त्राभ्यासजन्यव्युत्पत्तिः इत्याह । ४ वैयाकरणास्तु व्याकरणोक्तदिशा शब्दानां साधनप्रकार इत्याहुः । ५ कर्मज्ञास्तु विप्रादीनां वैदिककर्मार्हत्वप्रयोजको गर्भाधानादिक्रिया- विशिष्यन्ते । गर्भाधानम् पुंसवनम् सीमन्तोन्नयनम् जातकर्म नामकरणम् कलापः संस्कार इत्याहुः । ते चेदानींतनानां संस्कारा दशविधा एव निष्क्रमणम् अन्नप्राशनम् चूडाकर्म उपनयनम् विवाहश्च इति । अन्ते स्खौवं दैहिकसंस्कारोप्येकादशो विज्ञेयः । एवम् विप्रादीनां देहसंस्कारा- श्चाष्टाचत्वारिंशद्रन्थान्तरेषु ज्ञेयाः । एवम् मन्त्राणां सिद्धिदानाय दश- विधा: संस्कारास्तन्नादौ द्रष्टव्याः ( सर्व० सं० पृ० ३६९ पात) । <संस्कारशेषः> सर्ववृत्तिप्रत्यस्तमये परं वैराग्यमाश्रितस्य केशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञात पदवेदनीयः संस्कारशेषता- व्यपदेश्यश्चित्तस्यावस्थाविशेषः । तदुक्तम् विरामप्रत्ययाभ्यासपूर्वः संस्कार- शेषोन्यः (पात० सू० ११ १८) ( सर्व० सं० पृ० ३८६ पात० ) इति । <संस्कारस्कन्धः> वेदना स्कन्धनिबन्धना रागद्वेषादयः क्लेशा उपक्केशा मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः ( सर्व० सं० पृ० ४० ब <संस्त्यायः> निवासः (कैय० ७।३।१४ ) । बौ० ) । <संस्थानम्> १ [क] अवयवसमुच्चयः । यथा सहजसंस्थानशून्यचरणवान् खञ्जः इत्यादौ संस्थानशब्दस्यार्थ: (श० प्र० श्लो० ९४ टी० पृ० ११८)। "[ख] केचित्तु अवयवारम्भकसंयोगविशेष इत्याहुः । [ग] रचना विशेषः । घ ] प्रचयाख्यः संयोगः ( न्या० वा० १/१४ पृ० ८१ ) । २ सम्यक् स्थितिः । ३ आकारः । ४ चिह्नम् इत्यजय 'आह । ५ मृत्युः । ६ चतुष्पथश्च इति काव्यज्ञा आहुः । <संहतम्> १ मिलितम् । सांख्यास्तु आरम्भकसंयोगयुक्तम् इत्याङः ( सांख्यभा० १९६६ ) । २ संघातः । <संहारः> १ [क] प्रलयः ( हेमच० ) । यथा चतुर्णी महाभूतानां सृष्टिसंहारविधिरुच्यते ( प्रशस्त ० ) इत्यादौ संहारशब्दस्यार्थः । [स] ध्वंसशब्दवदस्यार्थीनुसंधेयः । २ संक्षेपः । ३ नरकविशेषः । ४ विस- र्जनम् । ५ कालिकाभैरवविशेषः इति तान्त्रिका आहुः । ते चाथै संहारश्चाष्टभैरवाः ॥ (तन्त्रसा० ) ( वाच० ) इति । असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च । कपाली भीषण क्षेत्र <संहिता> १ मन्वादिप्रणीतं धर्मशास्त्रम् पुराणम् इतिहासादि ब / '२ वेदभागः । यथा ऋक्संहिता यजुःसंहिता सामसंहिता चेति / स क्वचिन्मन्त्ररूपः कचिच्च कर्मप्रतिपादकः कचित्तु गानरूपः ३ शाब्दिकास्तु खारसिकार्धमात्राकालव्यवायेनैवोच्चारणम् / यथा सुधु पास्यः दध्यत्र इति संहिता इत्याहुः । तथा च सूत्रम् परः संहिता (पाणि० १।४।१०९) इति । अत्र व्याकरण नियमः संहितैय पदे नित्यानित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विव- १ क्षामपेक्षते ॥ इति । <सकर्मकः> ( धातुः ) [क ] आश्रयानवच्छिन्न फलावच्छिन्नव्यापार- " बोधकः । यथा चैत्रो ग्रामं गच्छतीत्यादौ संयोगानुकूलव्यापारबोधको 'गम्धातुः सकर्मकः (ग० व्यु० का० २) (बै० सा० पृ० ६०-६१ ) । अत्र अग्नौ जुहोति इत्यादौ अभ्यादिनिष्ठफलं गृहीत्वा धातोः सकर्मकत्व- वारणाय आश्रयानवच्छिन्न इति फलविशेषणम् । परे तु धातोः फलं व्यापारश्च द्वयमर्थ इति धातोः स्वार्थफलावच्छिन्न स्वार्थक्रियान्वयबोधकत्वं सकर्मकत्वम् । जानाति इत्यादौ सकर्मकत्वव्यवहारो भाक्तः इत्याहुः । जानात्यादीनां घातूनां तु नामार्थान्वितोदेश्यत्वातिरिक्तविषयत्वरूप- विभत्तयर्थान्वय्यर्थकत्वात्मकं गौणं सकर्मकत्वम् इति ज्ञेयम् ( का० व्या० पृ० ३ ) । प्राञ्चस्तु सर्वत्र क्रियामात्रं धात्वर्थः । द्वितीया- साकाङ्क्षतुमन्तधातुत्वप्रयुक्त एव च धातूनां सकर्मकस्वव्यपदेशः । न तु फलावच्छिन्न क्रियावाचित्वप्रयुक्तः । ज्ञाप्रभृतावव्याप्तत्वात् इत्याहुः (श० प्र० श्लो० ७३ पृ० ९३ ) ( त० प्र० ख० ४ पृ० ८३ ) । अत्रायं विशेषः । वृक्षात्पर्ण पततीत्यादावपि अधःसंयोगावच्छिन्नस्पन्दस्य पतधात्वर्थत्वेन धात्वर्थतावच्छेदक संयोगात्मक फलशालिनो भूतलादेरपि कर्मत्व विवक्षायां वृक्षात्पर्ण भूमितलं पतति इति प्रयोग इष्ट एव । अत एवं द्वितीया श्रितातीतपतित ० ( पाणि० २।१।२४) इत्यादिसूत्रे पतित- शब्दप्रयोगे द्वितीयासमासविधानम् तदुदाहरणं च नरकं पतितः नरक- पतितः इति साधु संगच्छते । परे तु यदि च तत्र सकर्मकत्व व्यवहारो नेष्ट: तदा कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधकस्यैव धातोः सकर्म- कत्वम् । यथा गम्यादेः । न तु पतेः । अधःसंयोगरूपफलस्य पर्णे कर्तरि एवान्वितत्वात् । अधः इत्यस्य संबन्धिसाकाङ्क्षता संघन्धिस्वेन का० २)। [ख ] फलान्वितव्यापारबोधकः इति प्राञ्चो नैयायिका, पर्णस्यैवान्वयात् इत्याहु: ( का० व्या० पृ० ४ ) (ग० व्यु० आहुः । [ग] शाब्दिकास्तु व्यापारानधिकरणवृत्तिफलबोधको धातुः सकर्मकः । अथ वा स्वार्थफलव्यधिकरणव्यापारवाची स्वार्थ व्यापार- व्यधिकरणफलवाची वा धातुः सकर्मकः इत्याहुः (वै० सा० ) । स्वार्थफलेल्यत्र स्वशब्देन धातुर्ग्राह्यः । व्यधिकरणत्वं च कर्तृभिन्नतद धिकरणावृत्तित्वम् । तथा च ग्रामं गच्छति इत्यादौ संयोगरूपं फलं ग्रामे तदनुकूलव्यापारस्तु कर्तरि चैत्रे तिष्ठति इति फलव्यापारयोय- धिकरण्यं संगच्छते इति । अत्रोक्तम् फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ इति । स्वार्थव्यापारेत्यत्र व्या करणत्वं च तदधिकरणावृत्तित्वम् (वै० सा० द० ) ।झ्व्यापाराधिकरण मात्रावृत्तिफलवाचकत्वम् इति परमार्थः । तथा हि पच्या देव्यपारा- धिकरणावृत्तिविक्कित्तिरूपफलस्य बोधकतया सकर्मकत्वम् / कर्तृकमों- सकर्मकत्वम् । भूप्रभृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधक भयनिष्ठफलबोधकस्यापि गम्यादेर्व्यापाराधिकरणमात्रावृत्तिफल न सकमेकत्वम् । फलस्य सत्तायाः तत्संबन्धरूपव्यापारस्य चै कस्मिन्नेव धर्मिणि घटोस्तीत्यत्र घटादौ सच्चात् ( वाच० ) । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना विनदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनासो कर्मणा न सकर्मकः ॥ इति वाक्यपदीये । आत्मानं जानाति इच्छ तीत्यादौ चेत्थं सकर्मकत्वव्यवस्था । द्वावात्मानौ शरीरात्मा अन्तरालय चेति । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभव- तीति कर्मवत्कर्मणा तुल्यक्रिय: ( पाणि० ३/१/८७) इति सूत्रीय भाष्योक्तरीत्या भिन्नाधिकरण निष्ठतामादाय सकर्मकत्वमवधेयम् (३० सा० पृ० ४३ ) । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादित तत्तत्र दृश्यम् । [घ प्राञ्चो वैयाकरणास्तु व्याकरणशास्त्रीय कर्म संज्ञकार्थान्वय्यर्थको धातुः सकर्मकः इत्याहुः । तेन अध्यासिता भूमयः इत्यादिप्रयोगः सिद्ध्यति इति विज्ञेयम् ( ल० म० धा० पू० [ङ ] मीमांसकास्तु प्रत्ययार्थव्यापारव्यधिकरणफलवाचको धातुः <सकलः> मलमायाकर्मात्मक बन्धत्रयसहितः सकल: ( सर्व० सं० पृ० १८३ शै० ) । <सकलम्> १ सर्वशब्दवदस्यार्थोनुसंधेयः । । शब्दव्युत्पत्तिज्ञा आहुः । <सकला> यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथि: सकला ज्ञेया स्नानदानजपादिषु ॥ यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः । सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु (पु० चि० पृ० ४१ ) । <सखण्डोपाधिः> ( उपाधिः सामान्यम्) बहुपदार्थघटितो धर्मः । यथा शिष्टत्वेन्द्रित्व विषयत्वादिरूपः प्रमेयत्वकुण्डलित्वादिरूपश्च धर्मः स- खण्डोपाधि: ( सि० च० १ पृ० ३ ) ( ल० व० ) ( त० कौ ० पृ० २० ) । एतच्चोपलक्षणम् भावत्वा भावत्व शरीरत्व कारणत्वाकाशत्व- कालत्व दिक्त्वादेः । सखण्डोपाधिश्चायं क्लृप्तपदार्थेन्तर्भवति । न स्वखण्डो- पाधिवत् सप्तपदार्थातिरिक्त पदार्थ इति विज्ञेयम् ( सि० च० १ पृ० ३) । १ कर्तृत्वाभिमानः । यथा सङ्गं त्यक्त्वा फलानि च इत्यादौ सङ्ग- शब्दस्यार्थ: ( ल० म० ) । २ अनुरागः । ३ संबन्धः । ४ परस्पर- प्राप्तिमात्रं सङ्गः ( सर्व० सं० पृ० ८१ आहे० ) । <सजातीयम्> १ तद्वृत्तियत्किंचिद्धर्मवत् । यथा घटत्वेन वृत्तित्वाभावो व्याप्तिनिरू० ) । विस्तरश्च सादृश्यशब्दव्याख्यानावसरे व्यक्तीभविष्यति । व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वेन साजासं बोध्यम् ( दीधि ० २ घटत्वावच्छिन्नवयभावसजातीयः ( ग० चतु० मिश्र० ) । अत्र च २ कचित् लक्ष्यतावच्छेदकसाक्षाय्यापकजात्यवच्छिन्नम् । यथा गो- सजातीयोश्वः । अत्र साक्षाद्व्यापकत्वं च तद्व्यापकाव्यापकत्वे सति तथ्यापकत्वम् ( म० च० ) । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य सजातीयव्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य च० पृ० ३) इति । साक्षाध्यापकं पशुत्वम् । तदवच्छिन्नोवो भवति (प्र० सत्-१ सत्यं वस्तु । यथा नैयायिकमते घटपटादि सबै जगत्सत् । अत्र सत्ताविशिष्टं सत् इत्यर्थो बोध्यः । न्यायमते घटादीनामुत्पत्तिनाशवत्वेपि मिथ्यात्याभावेन कालसंबन्धित्वरूपं सत्यत्वं संगच्छते इति विज्ञेयम् । मायावादिमते तु परं ब्रह्मैव सत् / तन्मते तत्र सत्यत्वं च त्रिकाला- बाध्यत्वमेव । २ साधु । ३ प्रशस्तम् । यथा सत्स्वभाव इत्यादौ । ४ विद्यमानम् । यथा सच्चिदानन्दः इत्यादौ इति माध्वा आइः / ५ उत्पादव्ययध्रौव्ययुक्तं सत् ( सर्व० सं० पृ० ५१ आई० ) । <सत्कार्यवादः> ( बादः ) कार्यस्य सत्त्व निर्णायकः कथाविशेषः। तद्र- पञ्चस्तु वादशब्दे दृश्यः । <सत्ता> १ ( सामान्यम् ) द्रव्यगुणकर्मसमवेता ( सर्व० २२० औलू० ) । इयं च वैशेषिकमते परसत्ता परसामान्यं वा इत्युच्यते द्रव्यगुणकर्म वृत्तिश्चेति बोध्यम् ( भा०प० ) । तत्र प्रमाणम् भावोनुवृत्तेरेव हेतु त्वात्सामान्यमेव ( बै० १।२।४ ) इति । इयं सत्ता द्रव्यं सत् गुणाः सन् इत्याद्यनुगतप्रतीत्यैव सिद्ध्यति । अत्र सूत्रम् सदिति यतो द्रव्य. 'गुणकर्मसु सा सत्ता (वै० ११२।७ ) इति । तथा चानुमानम् सवा वि० ७।२।२७ ) (वै० ११२/८-१७) इति । इयं सत्ता वैशेषिकमत न द्रव्याद्यात्मिका विलक्षणबुद्धिवेद्यत्वात् ( वै० उ०७/२/२७ ) (३० एव प्रसिद्धा । नव्यास्तु इमां सत्तां न स्वीचक्रः । अयमाशयः / सत् इति प्रतीतिविषयो भावत्वमेव । अत एव सामान्यादिष्वपि सद् इति व्यवहारः । न त्वतिरिक्ता द्रव्यादित्रिकवर्तिनी सत्ताख्या जातिः इति । 'तेन परमपरं सामान्यम् परं सत्ता इति वैशेषिकविभागो नियुक्तिका दनादेयः ( दि० १ पृ० ३६ ) इति । २ विद्यमानत्वम् / तच व संबन्धः । यथा घटो भवति इत्यादौ भूधात्वर्थः । यथा वा त्रिविधा पारमार्थिकी व्यावहारिकी प्रातीतिकी ( प्रातिभासिकी) घटसत्तादशायाम् इत्यादौ सत्ताशब्दस्यार्थः । मायावादिमते संचा ( वेदा० सा० ) । तत्र पारमार्थिकी ब्रह्मणः सत्ता / त्रिकालाबाध्यत्वात् । व्यावहारिकी च घटादीनां सत्ता । व्यवहारकाले अबाध्यत्वात् / साउ तत्त्वज्ञाननाश्या । प्रातिभासिकी त शक्तौ रजतादेः / अधिष्ठानज्ञान बाध्यत्वात् । प्रतिभासकालमात्रसत्त्वाच्च इति । सा चाधिष्ठानसाक्षात्कार प० ) इति । ३ आत्मधारणानुकूलव्यापारः सत्ता इति शाब्दि नाश्या । ब्रह्मसत्तयैव सर्वेषां सत्ताव्यवहारः / सदुत्पन्नत्वात् (वेदा वदन्ति । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः ॥ ( वाक्यप ० ) इति । ४ अर्थक्रियाकारित्वम् । यथा यत्सत् तत्क्षणिकम् इत्यादौ इति बौद्धा आहुः । ५ प्रामाणिकत्वम् इत्यन्य आहुः । <सत्यकार> सत्यस्य कारः ( विसार इति प्र० ) ( मिताक्षरा अ० २ श्लो० ६१ ) । <सत्त्यत्वम्> यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य सत्यत्व माहुस्त्रय्यन्तवे दिनः ॥ ( सर्व० सं० पृ० ३०९ पाणि० ) । <सत्यम्> १ प्रमितिविषयः । यथा घटपटादि सर्वे जगत् सत्यम् । यथा वा वेदान्तिमते भूतपञ्चकम् । अत्रार्थे व्युत्पत्तिः सन्ति पृथिव्यप्तेजांसि व त्यौ बाय्वाकाशौ च इति । तथा च श्रुतिः सञ्च व्यञ्च भूतपञ्चकम् तं च सत्त्यमित्याचक्षते ( बृह० उ० २१३/१-३) ( तैत्ति० उ० २१६ । १ ) इति । २ यथार्थकथनम् । यथा सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्त्यमप्रियम् ( मनु० ४।१३८) इत्यादौ सत्यशब्दस्यार्थ: । तदुक्तं ब्रह्मपुराणे यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्यमिति विज्ञेयमसत्त्यं तद्विपर्ययः ॥ इति । ३ नान्दीमुखश्राद्धयो देवताविशेषः । अत्रोक्तम् इष्टिश्राद्धे ऋतुर्दक्षः सत्त्यो नान्दीमुखे वसुः ( श्राद्धत० ) इति । ४ कृतयुगम् । अत्रेदमधिकं ज्ञेयम् संधिसंध्यंशाम्यां सहितं वर्षाः इति । ५ शपथः । शपथरूपसत्त्यस्यापालने दोषो यथा कृत्व सत्ययुगमानं तु दैवमानेन ४८०० वर्षाः मनुष्यमानेन १७२८००० शपथरूपं यः सत्यं हन्ति न पालयन् । स कृतन्नः कालसूत्रे वसेदेव चतुयुगम् ॥ ( ब्रह्मवै० पु० प्र० अ० ३८) इति । ६ यथार्थज्ञानम् । यथा सत्यरजते इदं रजतम् इति ज्ञानम् । अत्र याथार्थ्यं च तदभाषवति बाध्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्म ( तै० उप० २।१ ) इत्यादी सध्प्रकारकत्वाभावः । तदेव ज्ञाने सत्यत्वम् इति ज्ञेयम् । ७ त्रिकाला- परमात्मा सत्त्यः इति वेदान्तिन आहुः । ८ तपोलोकादूर्ध्वस्थो लोकवि- शेषः इति पौराणिका आहुः । भत्रोच्यते षड्गुणेन तपोलोकात्सत्त्यलोको ११९ न्या० को ० विराजते । अपुनमारका यत्र ब्रह्मलोकाभिधः स्मृतः ॥ (विष्णुपु अंश० २ अ० ७) इति । ९ स्वीकारः । अत्रार्थे सत्यमित्यव्ययम् इति विज्ञेयम् । <सत्त्वम्> १ सत्ताशब्दवदस्यार्थीनुसंधेयः । २ सांख्यास्तु प्रकाशादिसाधनं । प्रकृत्यवयवः ( प्रकृतेः सत्त्वगुणः ) पदार्थः । यथा सत्वात्सनायते मिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवचायतो ज्ञानम् इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तम् सवं लघु प्रकाशक वृत्तिः ॥ (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्वत्य सत्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्वाक्रियाजश्व सोहख लक्षणम् (सांख्यचन्द्रि० १३) इति । ३ वैयाकरणाश्च द्रव्यम् । क्या प्रकृतिगुणः ॥ ( व्या० का० ) सत्त्वप्रधानानि नामानि (निरुळ०) इत्यादौ सत्वशब्दस्यार्थ इत्याहुः । सत्त्रे निविशत इत्यस्यार्थच बोतो स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । ४ योगशास्त्रज्ञास्तु चित्तम् । यथा गुणवचनात् (पाणि० सू०४/१/४४) इति सूत्रे तस्त्रबोधि तम्यमाने तत्संक्रान्तः पुरुषोपि तप्यते ( पात० मा० ) इत्यादौ साल शब्दस्यार्थ इत्याहुः । ५ प्राणाः इत्यौपनिषदा आहुः । ६ इति मात्रिका आहुः । ७ आयुः इति भिषज आहुः । इत्यन्ये वदन्ति ( शब्दच ० ) । १३ जगत्कारणे येयं सुखात्मकता तस ९ बलं चेति काव्यज्ञा आहुः । १० स्वभावः । ११ आत्मा / १२ जन्तुध त्वम् ( स० सं० पृ० ३२६ सां० ) । १४ अर्थक्रियाकारित्वं स सं० पृ० ५० आई० ) । १५ त्रिविधं सत्वम् परमार्थसत्वं म अर्थक्रिया सामर्थ्य सत्त्वं मायोपाधिकमाकाशादेः । रजतादे: ( सर्व० सं० पृ० ४४६ शां० ) । <सरप्रतिपक्षः> १ ( हेत्वाभासः दुष्टहेतुः ) अयं च प्रकरणसमः ( म० प्र० २ पृ० २७ ) ( त० भा० पृ० ४९) । अत्र तुल्य सर्कादिबलसत्त्वे तस्यैवेतरबाधकता इति बोध्यम् / [क] योरेव सत्प्रतिपक्षध्वम् नातुल्यबलयोः इति नियमः । तेन एक सत्ये पिशाचवि व्यवसाय सज्वम् (सर्व ब्रह्मणः अविद्योपाधिकं स स्थितिसमर्थपरामर्शकालीनसाध्यसिद्धिसमर्थपरामर्शविषयः (दीधि० २) । यथा पर्वतो वह्निमान्धूमान्महानसवत् पर्वतो वहयभाववान् पाषाणमय- वात् कुड्यवत् ( त० कौ० २ पृ० १४ ) इति । अयं च प्राचीन- मतानुसारी व्यावहारिकः सम्प्रतिपक्ष इत्युच्यते । अत एव सन् विद्यमानः प्रतिपक्षो विरोधिव्यायादिमत्तया परामृश्यमानो हेतुः विरोधिप।मर्शो वा यस्य परामृश्यमानस्य हेतोरसौ सत्प्रतिपक्षः इति विग्रहमपि वर्णयन्ति । अतस्तदनुसारेणैव व्यवहारौपयिकं लक्षणमाह मणिकार: ( दीधि० २ पृ० २०८) । अत एव इत्यस्यार्थस्तु प्रकृतपरामर्शस्य विरोधिपरामर्श- साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गध्वम् । स्यासत्त्वदशायां सत्प्रतिपक्षव्यवहारविरहादेव इति । सत्प्रतिपक्षत्वं च बलं च व्याप्तिपक्षधर्मते । अथ वा विरोधिबोधकान्यगमकतौपयिकरूपसंप त्तिमत्तया ज्ञायमानेन प्रतिरुद्धकार्यकत्वम् (चि० २ पृ० ९४-९५) । अत्र उपस्थित समानबलत्वं चानाप्तोक्तत्वेनानिश्चितत्वम् प्रकृतसाध्यानुमापक- बलशालिवे सति प्रकृतसाध्याभावानुमापकबलशालिहेत्वन्तरकत्वं वा इति विज्ञेयम् । साध्यविरोधीत्यादेरर्थस्तु साध्यस्य साध्यसिद्धेः विरोधिन्याः पक्षो न साध्यवान् इत्याधुपस्थितेः यद्वा साध्यविरोधी साध्यवत्ताज्ञान प्रतिबन्धक ज्ञानविषयः बाध: साध्याभावादिमत्पक्षादिः तदुपस्थितेर्वा जननयोग्यया समानया बलोपस्थित्या तथाविधव्या त्यादिबुद्ध्या प्रतिरुद्धं कार्य यस्य तादृश- लिङ्गत्वम् इति । अत्र समानबलत्वं चागृहीताप्रामाण्यकसाध्यसिद्ध्यौप- यिकपरामर्शकालीनत्वम् ( दीधि ० २ हेत्वा० पृ० २०८-२०९ ) । निष्कृष्टास्तु प्रकृतानुमितिविरोध्यनुमितियोग्यपरामर्शप्रयुक्ताग्रिमक्षणा- वच्छिन्नानुत्पादप्रतियोगिप्रकृतानुमितिजनकतावच्छेदकीभूत परामर्शी- यता विशेष विशिष्टत्वम् (ग० व्यावहारि० सत्प्र० निर० पृ० ७) इति । अत्रेदमवधेयम् । पर्वतो वह्निमान् धूमात् इत्यादिसद्धेतुस्थलेपि वहिव्याप्य- घूमवान् वह्नयभावव्याप्यपाषाणमयत्ववांश्च पर्वतः इति परामर्शद्वय- संवलनदशायां प्रकृतोयं धूमो हेतुः सत्प्रतिपक्षितः इति व्यवद्दियत इत्यनुभवमनुरुद्ध्येदमुक्तम् । एतस्य दूषकताबीजं च समानबलविरोधि- सामग्री प्रतिबन्धेन निर्णयाजनकत्वम् । एकत्र व्यातिभङ्गज्ञानद्वारा वास्य दूषकध्वम् ( चि० २ पृ० ९५ ) । एतज्ज्ञानं च साक्षादनुमितिप्रतिब- न्धकम् । वह्निव्याप्यधूमवान् वह्नयभावव्याप्यपाषाणमयत्ववांश्च पर्वतः इति द्विविधपरामर्शे सति एकस्मादप्यनुमितेरसंभवात् परस्परं प्रतिबन्धात् ( त० कौ० २ पृ० १४ ) इति । अत्र च परस्परानुमितिप्रतिबन्ध एवं फलम् तदेव दूषकताबीजम् इति बोध्यम् ( म० प्र० २ १० २७ ) । परस्पराभावव्याप्यवत्ताज्ञानात्परस्परानुमितिप्रतिबन्धः फलम् (मु०१ पृ० १६० ) । अत्र च द्वयोरपि हेत्वोः परस्परसाध्याभावसाय- कत्वात् मिथः सम्प्रतिपक्षत्वम् । रत्नकोषकारास्तु सत्प्रतिपक्षाम्यो विरोधिपरामर्शद्वयेन प्रत्येकं स्वसाध्यानुमितिः संशयरूपा जन्यते । इत्याहुः ( चि० २ पृ० ९६ ) । एतन्मते तद्वत्ताबुद्धौ तदभावव्याय- विरुद्धोभयज्ञानसामग्र्याः संशयजनकत्वात् । संशयद्वारास्य दूषकव वत्ताज्ञानस्य प्रतिबन्धकत्वं नास्तीत्यवधेयम् । [ख] अगृहीता- प्रामाण्यक साध्यव्याप्यवत्त्वेनोपस्थितिकालीन गृहीताप्रामाण्य कतदभावव्या प्यवत्त्वेनोपस्थितिविषयः (मु० २ पृ० १६० ) । अत्रत्यपदप्रयोजन मुच्यते । नित्यत्वव्याप्यशब्दत्ववत्ताज्ञानशून्यकालीना नित्यत्वव्याप्यकृत कत्वपरामर्शसत्त्वेपि सत्प्रतिपक्षव्यवहाराभावात् कालीनान्तं तदुपस्थिति विशेषणम् । गृहीताप्रामाण्य कनित्यत्वव्याप्यवत्ताज्ञान कालीना नित्यत्वव्याप्य मोपस्थितिविशेषणम् । तादृशकालीनानित्यत्वव्याप्यवत्ता परामर्शसवपि कृतकत्वपरामर्शसत्त्वेपि तद्व्यवहाराभावात् अगृहीताप्रामाण्यक इति प्रथक तत्राप्रामाण्यग्रहकाले तथा व्यवहाराभावात् अगृहीताप्रामाण्यक द्वितीयोपस्थिति विशेषणम् ( दि० २ हेत्वा० पृ० १६० ) । (ग) श्रावणत्वाच्छब्दत्ववत् शब्दः अनित्यः कार्यत्वात्पटवत् (त० यस्य साध्याभावसाधकं हेत्वन्तरम् स सत्प्रतिपक्षः । यथा शब्दो निला इति । अत्रानुमानद्वये श्रावणत्वं हेतुः सत्प्रतिपक्ष इति विज्ञेयम् एतलक्षणार्थे प्राञ्च आहुः । यत्संबन्धि यत्साध्यं तदभावव्याप्यहेत्वन्ता 'ज्ञानं पक्षेस्ति स सत्प्रतिपक्षः इति । प्राचामयमाशयः । प्रकृतसा व्याप्यत्वेन ज्ञायमानो यः प्रकृतहेतुः ततोन्यस्मिन्हेतौ साध्याभावव्या त्वज्ञानदशायामेव तस्य सत्प्रतिपक्षता इति । एतत्सूचनाय हेत्वन्तर नवीनाः पुनरेवं वर्णयन्ति । यत्संबन्धिसाध्याभावव्याप्य हेत्वन्तरस्य सत्त्वं पक्षेस सत्प्रतिपक्ष इत्यर्थः (नील० २ पृ० २६ ) इति । सत्प्रतिपक्ष- शब्दस्य व्युत्पत्त्यादिकं प्रदर्शयन्ति साध्याभाव साधकहेत्वन्तरं प्रतिपक्षः तद्वान् सत्प्रतिपक्षः ( त० कौ० ) इति । २ ( हेतुदोषः ) [क] पक्षे साध्यधीप्रतिबन्धकपरामर्शः । यथा जलमुष्णं स्पर्शत्वादित्यादौ श्लो० ७८) । ख साध्याभावव्याप्यवत्पक्षः साध्यवदन्यत्वव्याप्यव- नेदमुष्णमतेजस्त्वादित्यादिः ( न्या० म० २ पृ० २१ ) ( मा० प० त्पक्षः पक्षनिष्ठः साध्याभावव्याप्यः पक्षनिष्ठः साध्यवद्भेदव्याप्यः (दीधि० ) ( दि० २ पृ० १६०) । साध्यवदवृत्तिव्याप्यवत्पक्षः पक्षनिष्ठः साध्यवदवृत्तिव्याप्यः पक्षवृत्त्यभावप्रतियोगित्व व्याप्यवसाध्यम् साध्यनिष्ठ: पक्षवृत्त्यभावप्रतियोगित्वव्याप्यश्च । यथा हृदो वह्निमान् धूमात् इत्यादौ वह्नयभावव्याप्यवद्धदादिः सत्प्रतिपक्ष: (ग० २ ) । एतेषामष्टानां सत्प्रतिपक्षस्वरूपाणामन्यतमत्वादिनानुगमकरणान्न सत्प्रति- पक्षविभागव्याघातः ( दि० २ हेत्वा० पृ० १६० ) इति । <सत्यम्> सत्यशब्दो द्रष्टव्यः । <सदाचार> [क] मन्वायुक्तदेशप्रचलिताचारः । अत्र व्युत्पत्तिविग्रहौ साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदा- चारः स उच्यते ॥ इति । मनुना चेत्थमुक्तम् सरस्वती दृषद् त्योर्देवनद्योर्यद- अन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ तस्मिन् देशे य आचार: पारंपर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ ( मनु० अ० २ श्लो० १७-१८ ) इति । यथा वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १ ( मनु० २११२) इत्यादौ सदाचारशब्दस्यार्थः । स्वधर्मत्यागे हानिरुक्ता तस्मात्स्वधर्मं न हि संत्यजेच न हापयेच्चापि तथात्मवंशम् । यः संत्यजे- इति । [ख] शिष्टाचारः । यथा आधुनिकशिष्टानामाचारः । तथा च चापि निजं हि धर्म तस्मै प्रकुप्येत दिवाकरश्च ॥ (वामनपु० अ० १४ ) तत्त्वचिन्तामणौ स्मृति: यस्मिन्देशे य आचार: पारंपर्यक्रमागतः । श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते ॥ (चि० १ मङ्गलवा पृ० ११२) इति । <सद्धेतुः> ( हेतुः ) [क] पञ्चरूपोपपन्नो हेतुः । पञ्च रूपाणि तु पक्षसत्त्वम् संपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्प्रतिपक्षत्वं चेति । अत्रेदं बोध्यम् पञ्चरूपोपपन्न एव हेतुः स्वसाध्यं साधयितुं क्षमते न लेके- नापि रूपेण हीन: ( त० मा० प्रमाणनि० पृ० १३ ) इति ।[ख] व्यायादिविशिष्टहेतुः ( नील० २ पृ० २४) । [ग] प्रमितव्याति- पक्षधर्मताको हेतुः । स्वसाध्या नुमित्यौपथिकप्रमात्मक परामर्शवान् इति यावत् ( ग० सत्प्र०) । यथा पर्वतो वह्निमान् घूमात् इत्यादौ धूमः सद्धेतुः । अत्रायमर्थः । पर्वतत्वसामानाधिकरण्येन वहेः साध्यत्वविवक्षापा मेव धूमः सद्धेतुर्भवति न तु पर्वतत्वावच्छेदेन वह्नेः साध्यत्व विवक्षा धूमः सद्धेतुः । तत्र पर्वतत्वावच्छेदेन वहेरभावात् इति । अयं भावः । अवच्छेदकावच्छेदेन वहे साध्यत्वे सामानाधिकरण्येन वह्नयभाव प्रसिद्धत्वेन तस्य च बाधरूपत्वात्तत्रत्यो हेतुर्हेत्वाभास एव भवति । अतः सामानाधिकरण्येनैव वः साध्यत्वं विवक्षणीयम् । तथा च सति साध्यवत्ताबुद्धिं प्रत्यप्रतिबन्धकत्वेन हेत्वाभासलक्षणानाक्रान्तत्वान त सामानाधिकरण्येन वह्नयभावस्य सत्त्वेपि तद्विषयकनिश्चयस्य तत्रव्य- बाधत्वम् । अवच्छेदकावच्छेदेन वयभावविषयक निश्चयस्य प्रतिबन्धक त्वेपि तादृशवह्नयभावस्य चाप्रसिद्धत्वेन तत्र न कोपि हेत्वाभासदः सूक्ष्मदर्शिभिः सुधीभिर्विभावनीयम् ( ग० २ हेत्वा० सामान्यनि० ) । इति सामानाधिकरण्येन वह्निसाध्यकस्थलीयधूमः सद्धेतुर्भवति इति अत्रेदं बोध्यम् । उक्तानि पञ्चरूपाणि धूमवत्वादावन्वयव्यतिरेकिण्येव हेतौ विद्यन्ते । तथा हि (१) धूमवत्वं पक्षस्य पर्वतस्य धर्मः / त विद्यमानत्वात् । (३) एवम् विपक्षात् महाहदात् व्यावृत्तिः । पर्वते विद्यमानत्वात् । (२) एवं सपक्षे सत्त्वम् / सपक्षे महान घूमो नास्ति इति । ( ४ ) एवम् अबाधितविषयं धूमवत्वम् / तथा । धूमवत्वस्य हेतोर्विषयः साध्यो धर्मः । तच्चाग्निमत्त्वम् / तल्केना प्रमाणेन न बाधितम् न खण्डितम् इत्यर्थः । (५) एवम् स् प्रतिपक्षो यस्य इत्यसप्रतिपक्षं घूमवत्वम् / तथा हि साध्यविपरी साधकं हेत्वन्तरं प्रतिपक्षः इत्युच्यते । स च धूमवत्रे हेतौ नास्त्येव । अनुपलम्भात् (त० मा० प्रमाणनि० पृ० १४ ) इति । <सद्य:> (अव्ययम् ) १ तत्क्षणम् । यथा सद्यः शौचं विधीयते इत्यादौ । २ कचित् एकं दिनम् । <सन्> (धात्वंश: प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययः । [क] कर्तु- परिच्छा ( तर्का ० ४ पृ० ११ ) । स्वसामानाधिकरण्यस्वनिष्ठ विषयता- निरूपितविषयित्वोभयसंबन्धेन प्रकृतधात्वर्थप्रधानीभूतव्यापार विशिष्टेच्छा इत्यर्थः । यथा घटं चिकीर्षति इत्यादौ सन्प्रत्ययार्थः । यथा वा पिपठिषति इत्यादौ सम्प्रत्ययार्थः (ल० म० ) । अत्रेदं बोध्यम् । सनुत्त- राख्यातस्याश्रयत्वे लक्षणा । सविषयकार्थकप्रकृतिकाख्यातस्य आश्रयत्वे लक्षणाया घटं जानाति इत्यादी कृप्तत्वात् (तको ० ४ पृ० ११) इति । अत्र सन्नर्थेच्छायां धात्वर्थस्य कर्मत्व समानकर्तृकत्व एतदुभयसंबन्धेन वि शेषणता बोध्या (ल० म० ) । [ख इच्छा । यथा पार्क चिकीर्षति भोदनं बुभुक्षते इत्यादौ सन्प्रत्ययार्थः । अत्र सन्प्रत्ययार्थेच्छायां द्विती- यान्तेन लभ्यस्य पाकादिविशेष्यताकत्वस्य स्वरूपसंबन्धेन धात्वर्थस् तु कृत्यादेः स्वसाध्यत्वादिप्रकारिनिष्ठस्व समान कर्तृत्वसंबन्धेन अन्वयात् पाकधार्मिका निरुक्तसंबन्धेन कृतिमती या इच्छा तद्वान् इत्यादिरर्थः । अत्र समानकर्तृकत्वस्य निवेशात् अन्य दीयकृति विषयपाकादाविच्छावति अयं चिकीर्षति पिपक्षति इत्यादिको न प्रयोगः इति चिन्तामणिकृत आहुः । सौन्दडस्तु प्राह । पाकं चिकीर्षतीत्यादौ द्वितीयार्थस्य विषयत्वस्य मूलधात्वर्थ एवान्वयः । तदर्थस्य तु समानकर्तृकत्व विषयत्वाभ्य सन्नर्थेच्छायाम् । तथा च पाकविषयताककृतिसमान कर्तृकत गोचरेच्छा- वान् इत्यादिरेवार्थः । कारकविभक्तेः क्रियायामेव स्वार्थबोधकत्वात् । अत एव गृहं तिष्ठासति इत्यादिको न प्रयोगः । स्थितेगृहकर्मकत्व- बाधात् । अन्यथा गृहधर्मिकां स्थितिप्रकारकेच्छां बोधयन्नयमेव प्रमाणं स्यात् । न तु गृहे तिष्ठासति इत्यादिः (श० प्र० श्लो० १०९ टी० पृ० १९७०-१७१) इति । [ग] धात्वर्थविशेष्यकेच्छा । यथा पार्क चिकीर्षति इत्यादौ कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाक- कृतिर्भवतु इतीच्छैव (ग० व्यु० का० २ पृ० ५९ ) । <सपक्षः> १ [क निश्चितसाध्यधर्मा धर्मी ( त० भा० प्रमाणनि पृ० १५ ) ( चि० २ पक्ष० ) । [ख ] निश्चितसाध्यवान् । यथा पर्वते घूमेन वह्निसाधने महानसः सपक्षः ( त० सं० ) ( त०-भाव पृ० १५) । तल्लक्षणं च साध्यप्रकारकनिश्चयविशेष्यत्वम् (न्या० बो० २ पृ० १७ ) । अथ वा विशेष्यतासंबन्धेन साध्यप्रकारकनिश्चय वचम् ( वाक्य० २ पृ० १६ ) । [ग] वेदान्तिनस्तु साध्यसमा धर्मवान् धर्मी सपक्ष इत्याहुः ( प्र० च० पृ० २३ ) । काव्यज्ञाल २ समानपक्ष: ३ पक्षसहितश्चेत्याहुः । <सपिण्डता> [क]दायाशौचादिग्रहणप्रयोजको ज्ञातिधर्मविशेषः / व्युत्पत्तिः । समान एकः पिण्डः पिण्डदानक्रिया मूलपुरुषशरीरं वा यत् पृ० ५० ) इति । तथा हि पुत्रस्य पितृशरीरावयवान्वयेन पित्रासह स सपिण्डः । तस्य भावः सपिण्डता (धर्मसि० परि० ३ पूर्व० सापिण्ड्यम् । एवम् पितामहादिभिरपि पितृद्वारेण तच्छरीरान् भिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरपि । एकशरीरावय सापिण्ड्यम् । एवम् मातृशरीरावयवान्वयेन मात्रा / तथा मातामहादि न्वयात् । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्या सह पा एकशरीरारम्भकतया । एवम् भ्रातृभार्याणामपि परस्परमेकशरीराख्यैः 1 [ख ] साक्षात्परंपरया वैकदेहारभ्यदेहत्व श्राद्धदेयैकपिण्डान्वययोग्यव सकशरीरारम्भकत्वेन ( मिताक्ष० अ० १ श्लो० ५२ ) इति । एतदन्यतरवत्त्वम् । यथा पुत्रादीनां मातुलादीनां च सपिण्डता / तथ च सापिण्ड्यं द्विविधम् । तत्रैकम् एकशरीरावयवान्वयेन सापिण्ड्य इदं च पुत्रादिमातृसंतानभ्रातृपितृव्यादिपुत्रान्तेषु संभवति । निर्वाच पिण्डान्वयेन सापिण्ड्यं च द्वितीयम् । निर्वाप्यपिण्डान्वयः श्राद्धीया पिण्डसंबन्धः इत्यर्थः । इदं तु पुत्रादिभ्रातृभार्यापर्यन्तेष्वेव संभवति न तु मातृसंतानभ्रातृपितृव्यादिपुत्रादिषु ( मिता० १/५२)/ तत्रोत लेभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां सापिण्ड्यं साप्तपौरुषम् ॥ ( मत्स्यपु० ) इति । तत्र शरीरावयवान्वय- सापिण्ड्यम् आशौच विवाह दायग्रहण एतेषु त्रिष्वप्युपयुज्यते इति हेमाद्रि- माधवविज्ञानेश्वरस्मृति चन्द्रिकाकार मित्र मिश्रकमलाकरादीनां मतम् । अत्रो- क्तम् वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्ड्यं निवर्तते ॥ इति धर्मसिन्धौ धृतं वाक्यम् । पञ्चमात्सप्तमा- दूर्ध्वं मातृतः पितृतस्तथा (याज्ञव० ११५३ ) इति । तथा च पित्रा- दयः षट् सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः ( मिता० ११५३ ) इति । कामधेनुहारलताकल्पतरुपारिजातकारादीनां तन्मतानुसारिजीमूत षाहनस्य च मतं तु सपिण्डता हि विषयभेदेन त्रिविधा आशौचोप- योगिनी विवाहोपयोगिनी दायग्रहणोपयोगिनी च । तथा च शरीरा- न्वयसापिण्ड्यमाशौचे विवाहे चोपयुज्यते । निर्वाप्यपिण्डान्वयसापिण्ड्यं तुदायग्रहणे उपयुज्यते इति । यथोदाहृतं ( शु० त० ) रघुनन्दनेन लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां सपिण्ड्यं साप्तपौरुषम् ॥ ( मत्स्यपु० ) इति । हारलतायां कूर्मपुराणं च सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मना- भोरवेदने ॥ पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम् ॥ इति । भ्रात्रादीनामपि सापिण्डयमुक्तं बौधाय नेन प्रपितामहः पितामहः पिता स्वयम् सोदर्यभ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डानाचक्षते । विभक्त- दायादान् सकुल्यानाचक्षते असत्स्वङ्गजेषु तद्गामी ह्यर्थो भवति इति । किंच स्त्रीणामपि भर्तृसापिण्ड्येन सापिण्ड्यम् । अनूढायाः कन्यायास्तु त्रिपौरुषं सापिण्यम् । तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्व- देहसंबन्धवत्वं विवाहसापिण्ड्यम् । त्रिपुरुषपर्यन्तं देयपिण्डदातृस्वभोक्त- मोक्तृत्वान्तवमाशौचसापिण्ड्यम् । साक्षात्परंपरया वा सप्तमपर्यन्त स्वान्यतरवस्वं दायग्रहणे सापिण्ड्यम् इति वनदेशीयानां जीमूतवाहना- दीनां मतं बोध्यम् ( वाच ० ) । अधिकं तु तत्तद्धर्मशास्त्र प्रन्थेष्वम्वेषणी- पम् इत्यलं विस्तरेण । १२० न्या० को० <सप्तदशस्तोमः> एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्त विधान सप्तदशधाभ्यासः ( जै० न्या० अ० ७ पा० ३ अधि० ३ ) । <सप्तभङ्गिनयः> स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्यः इति न्यायः ( सर्व० सं० पृ० ८२ आई० ) । <सप्तमी> (विभक्तिः ) अधिकरणतायामाधेयत्वे वा शक्ता सुप् ( श० प्र० श्ली० ६६ टी० पृ० ७६) । यथा गेहे पचति इत्यादौ गेहपदोत्तर- वर्तिनी सप्तमी । अत्र आधेयत्वं सप्तम्यर्थः । तस्य च क्रियायामन्वयः । भुवि गच्छति इत्यादौ तु कर्तृघटितपरंपरासंबन्धावच्छिन्नारत्वमेव सप्तम्यर्थ: ( ग० व्यु० का० ७ पृ० ११६ ) । गेहे पचतीत्यत्र सप्तमीत्वं च पचधात्वर्थतावच्छेद करूपावच्छिन्नधर्मिकस्वार्थाधेयत्वबोधा नुकूलप्सजातीयत्वम् । चैत्रधर्मिकस्वार्थाधिकरणत्वान्वयबोधक समानानुपूर्वीकत्वं वा इत्यपि वदन्ति । ग्राममध्यास्ते इत्यादौ अधिकरण बोधयन्त्यपि द्वितीयादिः न तत्र शक्ता । ग्रामाय गच्छति कर्मत्वादिष्वेव चतुर्थ्यादिः शक्ता इति द्वितीयाचतुर्थ्यादीनां निरास 1 ( श० प्र० श्लो० ६६ टी० पृ० ७६ ) । अथ सप्तम्यर्थ उन्मते । ११ न्यायमते आधारत्वम् आधेयत्वं वा सप्तम्यर्थः । तचाखण्डोपाभिः इति प्राञ्च आहुः वै० सा० द० पृ० ८६ ) । नव्यास्तु स्वरूप. संबन्ध विशेष एव तत् इत्याहुः । अत्र विप्रतिपत्तिः सप्तम्यर्थ आधारवं वा आधेयत्वं वा इति । तत्र अधिकरणत्वमात्रं सप्तम्यर्थः । तथा भूतलनिष्ठाधिकरणतानिरूपको घटः इत्याकारको बोधः । तत्र निष्ठावम् नव्यनैयायिकास्तु प्राग्भिरुक्तं युक्तं न । तथाङ्गीकारे तु निरूपकत्व निरूपकत्वं च संसर्गमर्यादया भासते इति प्राञ्चो नैयायिका आहुः / संबन्धस्य वृत्त्यनियामकत्वेन प्रतियोगितानवच्छेदकत्वात् भूतले न घंट भूतलनिरूपिताधेयत्वाश्रयो घटः इत्यन्वयबोधः स्वीकार्यः । तत्र निरूि इत्यादौ नञर्थान्वयासंभवः । अतः तत्राधेयत्वमात्रं सप्तम्यर्थः । तथा तत्वम् आश्रयत्वं च संसर्गः । इत्थं च भूतले न घटः इत्यादौ आश्रयत संबन्धावच्छिन्नाधेयताप्रतियोगिकः अभावः नञा बोध्यते इति सर्वे सुस्थम् इति प्राहुः ( का० व्या० पृ० ११ ) । आधारत्वं च कर्तृकर्मद्वारा बोध्यम् । तत्र कारकत्व निर्वाहार्थ परंपरासंबन्धस्यापि क्रियान्वयित्वरूप- कारकत्वघटकतावश्यकी । यथा भूतले घटोस्ति इत्यादौ भूतलपदोत्तरस- तम्यर्थः । अत्र भूतलवृत्तिघटो वर्तमानसत्ताश्रयः इति बोधः । नञ्समभि- व्याहारे तु तादृशसप्तम्यर्थाभावो घटांशे भासते इति नैयायिकानां मतम् ( वै० सा० द० सुबर्थ ० पृ० ८७ ) । वैयाकरणमते तु आश्रयः (अधि- करणम् ) सप्तम्यर्थः । कर्तृकर्मद्वारा धात्वर्थाश्रयः इत्यर्थः । यथा भूतले घटोस्ति गेहे तण्डुलं पचति इत्यादौ भूतलादिपदोत्तरसप्तम्यर्थः । अ सप्तम्यधिकरणे च ( पाणि० २/३/३६) इति सूत्रम् । तदर्थश्च गेहे चैत्र ओदनं पचति स्थाल्यामोदनं पचति इत्यादौ गेहस्य कर्तृद्वारा शाब्दिकमते कर्तृकर्मान्यतरद्वारा क्रियाश्रयोधिकरणम् तत्र सप्तमी इति । 'स्थाल्याश्च कर्मद्वारा क्रियाश्रयत्वादधिकरणत्वम् । तथा च क्रियारहितं वाक्यमप्रमाणम् इति परंपरया क्रियाश्रयात्मकाधिकरणस्यैव सप्तम्यर्थत्वम् । इत्थं च यत्र न क्रियाश्रवणम् गेहे घट इत्यादौ तत्र कारकत्व निर्वाहाय क्रियाध्याहार आवश्यकः । एवं च गेहे घटः इत्यादी क्रियापदाध्याहा- रेणैवाधिकरणत्वबोधः इति । तार्किकमते तु यत्राधिकरणत्वमांधेयत्वादि वा सप्तम्या बोध्यते तद्वाचकपदात्सप्तमी इति सूत्रार्थः । तथा च अधि- तंत्र कारकत्वव्यवहारः । भूतले घटः इत्यक्रियवाक्यादपि शाब्दबोधस्या- करणत्वमात्रम् आधेयत्वमात्रं वा सप्तम्यर्थः । स च यत्र क्रियायामन्वेति नुभवसिद्धत्वात् । तद्वदेव गेहे घटः इत्यादावपि क्रियापदं विनापि गेहाधेयत्ववान् घटः घटः इति बोधो नानुपपन्न इति अत्रया सप्तमी न कारक विभक्तिः अपि त कारकार्थान्यैव (का० व्या० पृ० ११) इति । अत्र प्रमाणम् सप्तम्यधिकरणे च ( पाणि० २/३/३६) इत्यत्र च- । बद्भिन्ने यः साध्याभावः ( दीधि० व्याप्तिनि० ) इति सप्तमीतत्पुरुषेण कारेणाकारकाधारवाचिनोपि सप्तमी विधीयत इति । अत एव साध्य- त्रिविधम् औपश्लेषिकम् वैषयिकम् अभिव्यापकं चेति । तत्राद्यस्योदाहरणं व्याख्यानं संगच्छते ( ग० व्यु० का ७ पृ० ११६ ) । अधिकरणं च कटे शेते गुरौ वसति इत्यादि । द्वितीयस्योदाहरणं मोक्षे इच्छास्तीति । तृतीयस्योदाहरणं तु तिलेषु तैलम् इति । अत्राद्यं सामीप्यसंबन्धनिबन्ध- विषयता संबन्ध निरूपकम् । तृतीयमाधेयव्याप्यतावच्छेदकयावदवयव- नम् । आधेयव्याप्यतावच्छेदक यत्किंचिदवयवकम् इति यावत् / द्वितीयं कम् । कटे शेते इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनानुकूलो व्यापार: इति बोधः । एवमन्यत्राप्यूह्यम् (वै० सा० द० सुबर्थ ० पृ० २ कचित् निरूपकत्वम् निरूप्यत्वं वा सप्तम्यर्थः । यथा भूतले ( काव्यप्र० १) इत्यादौ हेतुतायाम् उद्भवपदार्थोत्पत्तिनिरूपितत्वं सप्तम्या, घटः इत्यादौ भूतलपदोत्तरवर्तिसप्तम्या अर्थः । यथा वा इति हेतुस्तदु बोध्यते । ३ कचित् अवच्छेद्यताविशेषः । यथा वीणायां शब्दः क ११६) । ४ निमित्तत्वम् । यथा चर्मणि द्वीपिनं हन्ति मशकनिवृत्त शब्द: वृक्षाप्रे कपिसंयोगः इत्यादौ सप्तम्यर्थः (ग० व्यु० का० ७१० करोति इत्यादौ सप्तम्यर्थः ( का० व्या० पृ० ११ ) । अ कद्वीपिकर्मकहननकर्ता इति बोधः । अधिकं तु निमित्तत्वशब्दव्याख्या दृश्यम् । ५ उत्पत्तिः । यथा शरदि पुष्यन्ति सप्तच्छदाः इत्याद सप्तम्यर्थः । अत्र शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदाः इति वाक्य चर्मोद्देश्य- तच्च विविधम् ( का० व्या० पृ० १२ ) । ६ समानाधिकरणत्वम् । तच्च कचित् कालिकम् कचित्तु दैशिकम् । तत्राद्यं समानकालीनस्वादिक । यथा वा घने वर्षति चौर आगतः इत्यादौ सप्तम्यर्थ: ( क यथा गोषु दुह्यमानासु गतः इत्यादौ ( का० व्या० पृ० १२ // पृ० ६-७ ) । अत्र वृष्टिसमानकालीनागमनाश्रयश्चौरः । ( म० प्र० पृ० ७) । अत्रार्थे यस्य च भावेन भावलक्षणम् ( २।३।३७ ) इत्यनेन सूत्रेण सप्तम्यनुशिष्यते। सूत्रार्थस्तु इति बो धर्मान्तरं निरुक्तस्वसामानाधिकरण्येन प्रतिपाद्यते तत्र सप्तमी इति (क व्या० पृ० १२ ) । यद्विशेषणकृदन्तार्थविशेषणता पन्नक्रियया कि अन्तरस्य लक्षणं व्यावर्तनं तद्वाचकपदात्सप्तमी इति वा । विज्ञेयम् । वर्तमानार्थककृत्समभिव्याहारस्थले गोषु दुधमानासु गत समानकालीनत्वम् । गोषु दोग्धव्यासु गत इत्यादिभविष्यदर्थक प्राक्कालीनत्वम् । गोषु दुग्धासु गत इत्यादावतीतार्थ ककुत्स्थल उत्तर- कालीनत्वं संबन्धतया भासत इति । एवम् पाथसि पीते तृषा शाम्यति इत्यादावतीतार्थककृत्सम भिव्याहारात्कार्यकारणभावोपि संबन्धतया भासत इत्यादिकमूहनीयम् । अत्र सप्तम्यर्थे समानकालीनत्वे गोविशेषणकर्मता- विशेषणस्य गोदोहनस्यान्वयः । इत्थं च तादृशगोदोहनसमानकालीना- तीतगमनानुकूलकृतिमान् इत्यर्थः ( का० व्या० पृ० १२) । अथ वा समभिव्याहृतदोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं कियान्तरे संबन्धः इति (ग० व्यु० का० ७ पृ० ११७) । द्वितीयं तु दैशिकसामानाधिकरण्यम् । यथा इदं द्रव्यं गुणकर्मान्यत्वे सति सत्त्वात् (ग० अवयवे) इत्यादौ सतिसप्तम्यर्थः । अत्र सति इत्यनन्तरं सतः इत्यध्याहार्यम् । अन्यथा लक्षणीयक्रियाया अभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः । तथा च तत्र अस्धातोरथ आधारता । गुणा- न्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वन्निष्ठत्वं संबन्धतया भासत इति चिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाह: (ग० व्यु० का० ७ पृ० ११७ ) । तथा चात्र गुणकर्मान्यत्वसमानाधिकरणसत्त्वात् इति शाब्दबोध: । एवं द्रव्यकर्मान्यत्वे सति सामान्यवान् गुणः इत्यादावपि बोध्यम् ( म०प्र० पृ० ६-७ ) । <सम्> ( अव्ययम् ) १ सम्यगर्थः । २ प्रकर्षः । ३ संगतिः । ४ शोभनम् ( शब्दच० ) । ५ समुच्चयः ( हेमच० ) । <समनियतत्वम> - व्याप्यत्वे सति व्यापकत्वम् (ग० अव० ) । यथा लक्ष्यतावच्छेदकसमनियतो धर्मः असाधारणधर्मः इत्यादौ गोर्लक्षणस्य सास्नादिमत्वस्य लक्ष्यतावच्छेद की भूत गोत्वस मनियतत्वम् यथा वा अभिधेयत्वस्य पदार्थत्वसमनियतत्वम् ( त० दी० १) । <समभिव्याहारः> १ [क] सहोच्चारणम् ( म० प्र० ४ पृ० ५६) । यथा यत्पदं यत्पदेन सह यादृशानुभवजनकं तत्पदस्य तत्पदसमभि- १० ( न्या० म० ४ पृ० २१) । [ख] पदानां पूर्वापरीभावः । यथा व्याहारस्तादृशान्वयबोध आकाङ्क्षा इत्यादौ समभिव्याहारशब्दस्यार्थः घटमानय इत्यादौ क्रियापदस्य द्वितीयान्तघटपदसमभिव्याहारः । [ग] साक्षात्परंपरया वा तत्पदप्रयोज्यविषयतानिरूपित विषयताप्रयोजकत्वमिति केचिदाहुः । २ शेषशेषिवाचकपदयोः सहोच्चारणम् इति मीमांसका आहुः । ३ साहित्यम् इति काव्यज्ञा आहुः । <समभिव्याहृतत्वम्> १ एकवाक्यतापनत्वम् । यथा पदानां समभिव्याहृत- त्वमाकाङ्क्षा इत्यादौ समभिव्याहृतत्वशब्दस्यार्थः । २ साहित्यम् । ३ सहो- चरितत्वम्। ४ अव्यवहितत्वं च इत्यन्ये आहुः । <समभिहारः> १ पौनःपुन्यम् । यथा क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ( माघ ० २ ४३ ) इत्यादौ समभिहारशब्दस्यार्थः । २ सातत्यम् इति शाब्दिका आहुः । ३ भृशम् इति काव्यज्ञा आहुः । <समम्> (अव्ययम् ) १ साहित्यम् । यथा समं रामेण लक्ष्मणः इत्यादौ । २ एकदा ( युगपत् ) इत्यर्थः । यथा सममेव समाकान्तं द्वयं द्विरद- गामिना ( रघु० ४।४ ) इत्यादौ । <समयः> १ [क] अस्य शब्दस्येदमर्थजातमभिधेयम् इत्यभिधाना मिषेय- नियमनियोगः ( शक्तिः ) । तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति ( वात्स्या० २।१९।५५ ) । [ख ] ईश्वरसंकेतः । अस्माच्छन्दादयमर्थो बोद्धव्यः इत्याकारः । यथा सामयिकः शब्दादर्थप्रत्ययः (वै० ७/२/२०) इत्यादौ समयशब्दस्यार्थः । यः शब्दो यस्मिन्नर्थे भगवता संकेतितः सं तमर्थं प्रतिपादयति । तथा च शब्दार्थयोरीश्वरेच्छेव संबन्धः । स एव समयः । तदधीनः शब्दादर्थप्रत्ययः (वै० उ० ७/२/२०) / मम्मट भट्टस्तु नाभिधा समयाभावात् ( काव्यप्र० २१ २२ ) इत्यादिग्रन्थेनाभिधा- समययोर्भेदमुरीचकार । अत्र नैयायिकैः साध्यसमो दोष उद्भाव्यते । नायं दोषः । अभिधासमययोस्तैर्भेदाङ्गीकारात् इति विज्ञेयम् । समयश्च जातिमात्रे । व्यक्तेराक्षेपत एवोपस्थितेः । इतितौतातिका आहुः । जातौ व्यक्तौ चोभयत्र शक्तिः । किं तु जात्यंशे ज्ञाता व्यत्तयंशे व्यक्त्याकृतिजातयः पदार्था: इति वृद्धा आहुः (वै० ३० ७/२/२० पृ० ३४१ ) (बै० वि० ) ( भवा० ) । अन्यत्सर्वे शक्ति संकेत इत्येत- च्छब्दव्याख्याने द्रष्टव्यम् । २ नियमबन्धः । ३ शास्त्रम् । ४ कालः । ५ सिद्धान्तः । ६ शपथः । ७ आचारः । ८ अङ्गीकारः । ९ क्रिया- कारकः । १० निर्देशः । ११ भाषा ( मेदि० ) । १२ संपत् । १३ कालविज्ञानम् ( शब्दच० ) । <समर्थक़ः> १ यत्किंचिदर्थंकारी । यत्किंचित्कार्यप्रयोजकः इति यावत् । २ शाब्दिकास्तु संगतार्थः । स च अन्वयान्वयिभावापन्नोर्थः इत्याहुः । ३ शक्तः । ४ हितश्च इति काव्यज्ञा आहुः (अमरः ३।३।८६ ) । समर्थत्वं च सामर्थ्यम् । तच्च सामर्थ्यशब्दे दृश्यम् । <समर्थनम्> <समर्थना> १ ( लोडर्थ: ) पराशक्यधर्मिक स्वशक्यत्वाध्यवसायः । यथा पर्वतमप्युत्पाटयानि समुद्रमपि शोषयाणि इत्यादौ लोडर्थः । तथा च खेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वाध्यवसायवान् इत्येवं तत्रान्वयबोधः । अथ वा पर्वतमप्युत्पाटयानि समुद्रमपि शोषयाणि इत्यादौ निपातस्यैवार्धात्वर्थान्वितं पराशक्यत्वमर्थः । तिङस्तु स्वशक्यता- घ्यवसायमात्रम् । अध्यवसायोवधारणम् ( श० प्र० श्लो० १०० टी० पृ० १४५ १४६ ) । २ इदमित्यमेव इति निश्चयहेतूपन्यासेन निश्वायकव्यापारविशेषः इति केचिदाहुः । ३ युक्तायुक्तत्वेन परीक्षणम् ( अमर: २ क्षत्रियव० श्लो० २५ टी० ) । <समवाहितत्वम्> १ एककालीनत्वम् ( मू० म० १) । यथा घटसमवहितः पटः इत्यादौ समवहितत्वशब्दार्थः । २ सहवृत्तित्वम् । यथा मण्यादि- समवहितेन वहिना दाहो न जन्यते ( त० दी० ) इत्यादौ समवहित- स्वशब्दस्यार्थः । ३ सम्यगवधानयुक्तत्वम् इति साहित्यशास्त्रज्ञा आहुः । <समवायः> १ ( पदार्थ: ) इहेदमिति यतः कार्यकारणयोः स समवायः (वै०७२/२६) । तदर्थश्च कार्यकारणयोरवयवावयविनोर्यतः सबन्धात् इहेदम् इति प्रत्ययः स समवायः (३० वि० ७/२/२६ ) । अयुत सिद्धानामाधार्याधारभूतानां यः संबन्धः इहप्रत्ययहेतुः स समवायः ( प्रशस्त ० १ पृ० २५) इति । स च अयुतसिद्धयोः संबन्धः ( त० भा० १ ) । स च यथा अवयवावयविनोः गुणगुणिनोः क्रिया- क्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोश्च संबन्ध: ( त० सं० ) ( प० मा० पृ० ३८) । यथा घटकपालयोः संबन्धः समवायः । एवमन्यत्रा प्यूह्यम् । तदुक्तम् घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः ॥ ( भा०प० श्लो० ११) इति । अत्र भाष्यम् । अयुतसिद्धानामाघार्याधारभूतानां यः संबन्धः इहप्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारण भूतानाम् अकार्यकारणभूतानां वा अयुतसिद्धानामाधार्याधारभवेनाव- स्थितानाम् इदम् इति बुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्य- त्वानामविष्वग्भावेनावस्थितानाम् स समवायाख्यः संबन्धः । कथम् । यथा इह कुण्डे दधि इति प्रत्ययः संबन्धे सति दृष्टः । तथा इह तन्तुषु पटः इह वीरणेषु कटः इह द्रव्ये च द्रव्यगुणकर्माणि इह द्रव्यगुणकर्मल सत्ता इह द्रव्यं द्रव्यत्वम् इह गुणे गुणत्वम् इह कर्मणि कर्मत्वम् इह नित्यद्रव्येष्वन्त्या विशेषाः इति इहप्रत्ययदर्शनात् अस्त्येषां संबन्धः इति विज्ञायते । न चासौ संयोगः । संबन्धिनामयुतसिद्धत्वात् । अन्यतरकर्मा- दिनिमित्तस्याभावात् । विभागान्तत्वादर्शनात् । अधिकरणाधिकर्तव्य सच द्रव्यादिभ्यः पदार्थान्तरम् । स च प्रमाणतः कारणानुपले. योरेव च भावादिति । भाववल्लक्षणभेदात् भाववत्सर्वत्रैकः समवायः / नित्यः । तस्मात्स्वात्मवृत्तिः । अत एव चातीन्द्रियः । सत्तादीनामिव प्रत्य- क्षेषु वृत्त्यभावात् । स्वात्मगतसंवेदनाभावाच । तस्मात् इहबुद्ध्य समवायः ( प्रश० पृ० ६७ ) । समवायसत्त्वे प्रमाणं तु अनुमानम् । तच्च जात्यादिगोचरो विशिष्टव्यवहारः संबन्धनियतः । भावमात्र विषया बाधित विशिष्टव्यवहारत्वात् । सघटं भूतलम् इति व्यवहारवत् (न्या० ली० पृ० ५४ ) इति । घटे घटत्वं रूपं च समवेतम् तन्तुषु पठः समवेतः इह कर्म समवेतम् इत्यनुगतसमवाया कारप्रतीत्या तत्सिद्धिः ( न्या० म० १ पृ० ९ ) । वस्तुतस्तु स्वाश्रय समवेतत्व संबन्धेनावयव नीलादेवय विनीलादौ हेतुत्वाकारणतावच्छेदकसंबन्धघटका वायसिद्धिः । अन्यथा स्वाश्रयवृत्तित्वसंबन्धेन हेतुत्वे नीलकंपालसंयुक्त- शुक्ककपालादावपि नीलोत्पत्स्यापत्तेः ( म० प्र० १ पृ० १२ ) । अत्र समवायसंबन्धेन पटत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तन्तुत्वेन हेतुत्वा- कार्यतावच्छेदक संबन्ध विधया समवायसिद्धिः ( दि० १ पृ० ३९ ) । युतसिद्धयोः संयोग इवायुतसिद्धयोः समवाय आवश्यकः इत्यपि बोध्यम् । (त० कौ० ) । समवायत्वं च नित्यसंबन्धत्वम् ( त० सं० ) ( मु० ) । अत्र संयोगादिवारणाय नित्यत्वम् । गगनादिवारणाय संबन्धः इति । संबन्धत्वं चात्र स्वरूपत्वान वच्छिन्नसांसर्गिक विषयताश्रयत्वम् । तेन गगनादीनां स्वरूपत्वेन संबन्धत्वेपि न क्षतिः । संयोगसमवायान्यतरत्वं वा संबन्धत्वम् (प० मा० पृ० ३८ ) । अथ वा समवायत्वं संबन्ध - प्रतियोग्यनुयोगिभिन्नत्वे सति संबन्धध्वम् । तेन प्रतियोग्यनुयोगित्वात्मक- खरूपसंबन्धे नातिव्याप्तिः (राम० १ पृ० ३९) (ता० र० श्लो० ५४ ) । इह गवि गोत्वम् इत्यादिप्रत्ययविषयसंबन्धत्वम् समवायत्वम् (प० मा० पृ० ३८ ) । समवायस्तु समवायरहितः संबन्ध: ( सर्व० सं० पृ० २१७ औ० ) । सर्वत्र समवायस्त्वेक एव नित्यश्च इति न्यायवैशेषिक सिद्धान्तः । अत्र एकत्वं च स्वाश्रयान्योन्याभावासमानाधिकरणपदार्थ- विभाजकोपाधिमत्त्वम् ( प्र० च० ) । अत्रैकत्वसाधने प्रमाणभूतं सूत्रं च तत्त्वं भावेन (वै० ७ १२१२८ ) इति । नित्यत्वे इत्थमनुमानम् । स चायं समवायः नित्यः । अकारणकत्वात् । भावानां हि समवायिकारणा- दुत्पत्तिनियमः । तदनुरुद्धे च निमित्तासमवायिनी इति । तथा च सम वायस्य समवायिकारणकल्पने अनवस्थादिदोषप्रसङ्गः इति समवायस् नित्यत्वम् (वै० उ०७/२/२६ पृ० ३५० ) / अत्रेदं बोध्यम् । नैयायिकानां मते समवायत्वं न जातिः । तद्बाधकस्यासंबन्धस्य सत्त्वात् । यद्यपि समवायत्वजातिबाधको व्यत्तयभेद एव तथापि प्राभाकरा दिमते इति ज्ञेयम् ( वै० उं० ११ १/३ ) । समवायो नाना अनित्यश्च इति उत्पादविनाशशीला बहवः समवायाः । तन्मते असंबन्ध एव जातिबाधकः प्राभाकरा नव्याश्चाहुः । प्रत्यक्षः समवायः इति नैयायिका आहुः । समवायस्य प्रत्यक्षत्वसाधकानुमानं च समवायो लौकिकप्रत्यक्षविषयः १२१ न्या० को० योग्य प्रतियोगिकत्वे सति विशेषणतया योग्यवृत्तित्वात् भूतळादिवृत्ति- घटायन्ताभावादिवत् इत्यादि ( वै० वि० ७ १२१२८ ) । एतन्मते च समवाय प्रत्यक्षं प्रति इन्द्रियसंबद्ध विशेषणतासंनिकर्षो हेतुः इति - कारणभावो ज्ञेयः (मु० ) (वै० वि० ७१२/२८ ) । इह् कपा घटसमवायः इति प्रत्यक्षं विशेषणतासंनिकर्षेणैव भवति ( प्र० प्र०) ( त० कौ० ) इति । समवायोतीन्द्रियः अनुमेय एव इति वैशेषिका आहुः । वैशेषिकमते समवायस्यातीन्द्रियत्वे प्रमाणमनुमानम् / समवायोतीन्द्रियः । चेतनान्यत्वे सति असमवेतभावत्वान्मनोवत् आका- शादिवद्वा (वै० वि० ७१२१२८) (वै० उ० ७१२/२८) इति । समवायो न प्रत्यक्षः । संबन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् । कथा घटकासंयोगोन आश्रयाः प्रत्यक्षाः । परमाण्वादेरयोग्यत्वात् ( न्या० म० ११० ७) इति । अनुमानं तु गुणक्रियादिविशिष्टबुद्धिर्विशेष्यविशेष विशिष्टबुद्धित्वात् दण्डी पुरुषः इति विशिष्टबुद्धिवत् (मु० ११०.३९) इति । इदमनुमानं समवायसद्भावे प्रमाणं भवति (वै० वि० ७/२/२६) (मु० १ पृ० ३९ ) । सर्वत्र स्वरूपस्यैव संबन्धत्वोपपत्तौ समवायो न पदार्थान्तरम् इति भट्टा वेदान्तिनः सांख्याश्च मन्यन्ते ( ता० २० को० ५४ ) (३० उ०७/२/२८) (वै० वि० ४/२/११) (दि० १) (सि० च० ) ( राम० १ पृ० १२२) । तत्र माध्या- भावात् । आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात् । वर्णात्मक शब्दाव्यत्वेनाकाश विशेष गुणत्वाभावात् (प्र इति । गुणकर्मसामान्यादिभिर्द्रव्यस्य भेदाभेदौ । तत्र यावद्रव्यभाविना गुणकर्म सामान्यादिना द्रव्यस्यात्यन्ताभेद एव । अयावद्रव्यभाविना तु भेदः ( प्र० च० परि० २ पृ० ५२) इति । २ समवाया समूहः । ३ मेलनं च यथा सेनायां समवेताः (अमरः २/८/६१ / इत्यादौ इति काव्यज्ञा आहुः । प्र०प० पृ० ११) <समवायिकारणम्> (कारणम् ) [ क ] यत्समवेतं कार्यमुत्पयते तत् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः समवायिकारणम् (त० सं० ) । यत्समवेतमित्यस्यार्थश्च यस्मिन्समवायेन संबद्धं सत् कार्यमुत्पद्यते तत् ( न्या० बो० ) । यद्वा यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवायेंनोत्पद्यते तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणम् (नील० १ पृ० १७ ) इति । तथा हि तन्तुषु समवायेन संबद्धं सत् पटात्मक कार्य - मुत्पद्यते । अतः तन्तुः पटस्य समवायिकारणं भवति ( न्या० बो० १ पृ० ९) इति । समवायिकारणत्वं च समवायसंबन्धेन कार्याधिकरण- त्वम् (ल० व० ) ( वाक्य० १ पृ० १० ) । अर्थ वा समवायसंबन्धा- बच्छिन्न कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणत्वम् । तथा हि । समवायसंबन्धेन घटाधिकरणे कपालादौ कपालादेस्तादात्म्यसंबन्धेनैव सत्त्वात् समवायेन घटं प्रति तादात्म्येन कपालं कारणम् इति कार्यकारण- भावः इति । समवायसंबन्धावच्छिन्न घटत्वावच्छिन्न कार्यता निरूपिततादा- यसंबन्धावच्छिन्न कारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः ( न्या० १ पृ० ९) । अत्र नियमः समवायिकारणत्वं द्रव्यमात्रवृत्ति इति (भा०प० श्लो० २३ ) ( वै० १०/२/१ ) । अत्राहुरपरे तन्तूनां समवायिकारणत्वेपि तुरीतन्तुसंयोगद्वारा निमित्तकारणत्वमपि द्रव्यस्य समवायिकारणत्वेपि निमित्तकारणत्वमप्यस्ति । तथा हि पटं प्रति तेषां विद्यते तुरीवत् ( त० व० २ । ३३ ) ( वे० उ० १०/२/२ ) इति । [ख ] स्वसमवेतकार्योत्पादकम् । तच द्रव्यमेव भवति । ग उपादानकारणम् इति सांख्यमायावादिवेदान्तिप्रभृतय आहुः । अस्मिन्मते उपादानत्वं च परिणामित्वम् इति ज्ञेयम् । उपादानं निमित्तं च इति द्विविधमेव कारणम् इति च ज्ञेयम् ( प्र० च० पृ० १३) । <समवायित्वम> १ समवायानुयोगित्वम् । यथा कपाले घटसमवायित्वम् गुणक्रिययोश्च समवायित्वं द्रव्ये । २ विद्यमानत्वम् इति काव्यज्ञा वदन्ति । <समवेतम्> १ कस्मिंश्चित् द्रव्यगुणकर्मात्मके वस्तुनि समवायसंबन्धेन विद्यमानम् । यथा मृदा समवायेनोत्पाद्यं घटात्मकं कार्य कपाले समवेतं भवति । २ मिलितम् । ३ समूहान्वितं संगतं च । यथा सेनाय समवेताः सैनिकाः ( अमर: २१८/६१ ) इत्यादौ इति काव्यज्ञा आहुः । <समव्यातत्वम्> समनियतत्वम् । <समष्टिः> ९ सम्यग्व्याप्तिः । २ वेदान्तिनस्तु संघीभूतः समस्तः पदार्थः । रीश: सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तुज्ञायन्तेष्ट- यथा मायावादिमते हिरण्यगर्भः ( वेदान्तसा० ) । अत्रोदाहियते समष्टि- संज्ञया ॥ ( पञ्चद० १।२५ ) । यथा वा अन्येषां वेदान्तिनां मते गरुडानन्त विष्वक्सेनादयः समष्टिजीवाः इत्याहुः ( तत्त्वसंख्या ० ) । ३ समस्तत्वम् इति काव्यज्ञा आहुः । <समाख्या> १ अन्वर्था संज्ञा । यथा अयोनिजेषु शरीरेषु मनुमरीचिदुर्वासः- संज्ञा (वै० उ०४/२/८ ) ( वै० वि० ४/२/८ ) । २ मीमांसकास्तु यौगिकः शब्दः । अत्रोक्तम् स्थानं क्रमो योगबलं समाख्या ( शाख- दीपिका ) इति । सा च समाख्या द्विविधा वैदिकी लौकिकी चेति । तत्राद्या यथा होतृचमस: हारियोजनः इत्यादिः । अत्र होतृचमस इत्यनया वैदिकसमाख्यया होतुश्चमसभक्षणाङ्गत्वं बोध्यते (लौ० ने० पृ० २८) । अत्र चमसस्थसोमभक्षणे श्रुतिः हविधान चर्मन्नधि ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति ( तैत्तिरीयसंहिता ६।२।११) इति । हारियोजनशब्दार्थस्त हरिरसि हारियोजनः इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः (लौ० भा० विधिनि० टी० पृ० २८ ) । लौकिकी समाख्या तु याज्ञिकैः परि ( लौ० भा० टी० पृ० २८) । सा यथा आध्वर्यवम् इत्यादिः । आध्वर्यवं काण्डम् इत्यर्थः । अनया लौकिकसमाख्यया पुरोध्वर्युि इत्यादिना यजुर्वेदेन विहितानां पदार्थानामङ्गत्वमध्वयबध्यते (० भा० टी० पृ० २८) इत्याहुः । ३ कीर्तिः इति काव्यज्ञा आहुः / <समाधानम्> १ [ क ] उद्भावितदूषणनिवर्तकवाक्यप्रयोगः । यथा " चक्षुर्मात्र ग्राह्यत्वविशिष्टगुणत्वात्मके रूपलक्षणे परमाणुरूपप्रभाभित्ति- संयोगाद्यव्याप्त्यतिव्याध्युद्भावनेन परेण दूषिते त्वगग्राह्यचक्षुर्ग्राह्यगुण- विभाजकधर्मवत्त्वम् इति नीलकण्ठ्यां समाधानम् । [ख] केचित्तु विवादभञ्जनम् । पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना सम्यगर्थावधारणम् इत्याहुः । २ ध्येयवस्तुनि चित्तस्य निरन्तर स्थापनम् इति योगशास्त्रज्ञा आहुः । <समाधिः> १ समाधानम् । २ योगशास्त्रज्ञास्तु चित्तस्याभिमत विषय- निष्ठत्वम् ( गौ० वृ० ४ । २ । ३६ ) । एकाग्रतया मनसः स्थापनरूपो ध्येयमात्रस्फुरणरूपः ध्यानविशेष: इत्याहुः । अत्र सूत्रम् तदेवार्थमात्र- निर्भासं स्वरूपशून्यमिव समाधिः ( पात० पा० ३ सू० ३ ) इति । तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोभिधीयते ॥ ( वाच० ) इति पुराणमपि । समाधिर्नाम भावना । सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् ( सर्व० सं० पृ० ३५६ पात० ) । समाधिः समतावस्था जीवात्म- परमात्मनोः । ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः ॥ ( सर्व० सं० पृ० ३४७ पात ० ) । आलंकारिकास्तु ३ अर्थालंकारविशेषः । तत्रोक्तम् समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ( सा० द० परि० १० श्लो० ८६ ) इति । ४ काव्यगुणविशेषः समाधिः । तत्रोक्तम् श्लेषः प्रसाद: समता माधुये सुकुमारता । अर्थव्यक्तिरुदारव- मोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ( काव्याद ० ) इति । तस्यौजस्यन्तर्भावो यथा श्लेष: समाधिरौदार्थ प्रसाद इति वै पुनः । गुणाश्चिरंतनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥ ( सा० द २० ८ श्लो० ९) इति । अत्रेदं ज्ञेयम् । समाधिरारोहावरोह- क्रमरूपः । आरोह उत्कर्षः । अवरोहोपकर्षः । तयोः क्रमो वैरस्या- नावहो विन्यासः । यथा चञ्चद्भुज ( वेणीसं० ) इत्यादि । अत्र पाद- त्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च दी० ) इति । ५ समाधिः मानसी व्यथा इति काव्यज्ञा आहुः । तीव्रप्रयत्नोच्चार्यत यौजस्विता ( सा० द० परि० ८ श्लो० ९-१० <समानः> १ ( वायुः ) [ क ] आहारेषु पाकार्थं वहेः समानयना समानः ( दि० ११२ ) । ख भुक्तपरिणामाय जठरानलस्य समुन्नयना- समानः । स च प्राणान्तर्गतो व ायुः ( सि० च० ) [ २ एकः । यथा समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्र सिद्धान्तः (गौ० ११ १/२९) इत्यादौ । यथा वा यत्समानाधिकरण ( चि० २ व्याप्ति ० समानशब्दस्यार्थः । ३ तुल्यः । यथा सिंहसमानगुणयोगान्माणवक सिंह: इत्यादौ समानशब्दस्तुल्यार्थकः । ४ साधुः इत्यन्ये वदन्ति । <समानधर्मः> [क] विरुद्धकोटिद्वयसाधारणधर्मः (गौ० वृ० १/१/२३)। यथा स्थाणुपुरुषयोः समानो धर्म आरोहपरिणाही (वात्स्या० १/१/२३ ) । तादृशधर्मज्ञानं च स्थाणुर्वा पुरुषो वा इत्याकारकसंशये प्रयोजकम् इति विज्ञेयम् । [ख] कोटिद्वयसहचरितधर्मः ( दि० गु० ) । यथा रङ्गं रजतं न वा इति संशये हेतुभूतः रङ्गरजतयोः सामान्यधर्मश्चाकचिक्य शुभ्रष्वादिः । [ ग ] साधर्म्यम् (मु० १ ) । <समानपदत्वम्> एकपदत्वम् । <समानप्रकारकत्वम्> १ स्वस्मिन् ( यत्किंचिज्ज्ञानादौ ) यद्धर्मावच्छित. विशेष्यता निरूपितयद्धर्मावच्छिन्नप्रकारताकत्वम् ततोन्यत्र ( ज्ञानादी ) तादृशविशेष्यता निरूपितता दृशप्रकारताकत्वम् । यथा संशयनिश्चययोः । २ प्रतिबध्यप्रतिबन्धकभावस्थले प्रतिबध्यज्ञाने यद्धर्मावच्छिन्नविशेष्यतानि रूपितयद्धर्मावच्छिन्न प्रकारताकत्वम् प्रतिबन्धकज्ञाने च तद्धर्मावच्छिन्नवि शेष्यता निरूपिततद्धर्मातिरिक्तधर्मानवच्छिन्न प्रतियोगिताका भावत्वावच्छि- नप्रकारता निरूपकत्वम् । यथा नव्यमते पर्वतो वह्नयभाववान् इति अत्रेदमवधेयम् । तदभाववत्तानिश्चयनिष्ठायां तद्वत्ताबुद्धिप्रतिबन्धक निश्चयस्यापि पर्वतो महानसीयवह्निमान् इति बुद्धिसमान प्रकारकत्वम् । तत्र समान विषयकत्वमेव तन्त्रम् इति । अत्रेदं तत्त्वम् / विशेषतद्वत्तांबुद्धिं समानप्रकारकत्वं तन्त्रम् इति नव्यानां सिद्धान्तः । प्राचां सिद्धान्तख प्रति सामान्यतदभाववत्तानिश्चयस्यापि प्रतिबन्धकत्वम् इति सर्वानुभव मनुरुध्येदमुक्तम् इति । <समानवित्तिवेद्यत्वम्> तुल्यवित्तिवेद्यत्वम् (त० प्र० ख० ४ पृ० २१ ) । <समानविभक्तिकत्वम्> [क] खप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । यथा नीलो घटः इत्यादौ नीलपदघटपदयोः समान विभक्तिकत्वम् । इदं च अभेदान्वय विषयकशाब्दबोधे प्रयोजकं भवति । अत्रेदमधिकं बोध्यम् । स- मानविभक्तिकत्ववत् समानवचन कत्वमप्यभेदान्वयबोधे तन्त्रम् इति नियमः । तत्र व्यवस्था । यत्र विशेष्यवाचकपदोत्तर विभक्तितात्पर्यविषयसंख्याविरुद्ध- संख्याया अविवक्षितत्वम् तत्र विशेष्यविशेषणपदयोः समान लिङ्गवचन- कत्वनियमः इति । तेन पुरूरवोमार्द्रवसौ विश्वेदेवाः त्रयः समुदिता हेतुः पितरो देवताः जात्याकृतिव्यक्तयः पदार्थाः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इत्यादिषु विभिन्नलिङ्गवचनकस्थलेष्व भेदान्वयबोध उपपद्यते ( व्यु० का ० १ पृ० १ - ३ ) इति । अत्र विभक्तौ तादृशविभक्ति- साजात्यं च विभक्तिविभाजकप्रथमात्वादिनावगन्तव्यम् । तेन वेदाः प्रमाणम् शतं ब्राह्मणाः इत्यादौ समान विभक्तिकत्वं संपद्यते (ग० न्यु० का० १ पृ० १) । [ ख ] केचित्तु विरुद्धविभक्तयनवरुद्धत्वम् । यथा नीलमुत्पलम् नीलोत्पलम् इत्यादौ समानविभक्तिकत्वम् ( म० प्र० ४ ०४८ ) । विरुद्ध विभक्तिराहित्यम् । त विभक्तिशून्यभागेप्यस्ति इति ज्ञेयम् ( त० प्र० ४ पृ० ४६-४७ ) । घ] विशेषणपदस्य विशेष्यपदा प्रकृतिकविभक्तयप्रकृतित्वम् । यथा नील- घटमानय नीलं घटमानय इत्यादौ समानविभक्तिकत्वम् इत्या व्यु० १५० ३ ) । इदं च विरुद्धविभक्तिराहित्यरूपा समासव्यास- साधारणकाङ्क्षा इत्युच्यते । तत्तु वैयाकरणखसूचिमानय इत्यादौ न प्रामोति इति चिन्त्यम् । <समानविषयकत्वम्> तुल्यरूपविशेष्य विशेषणताशालित्वम् तद्विषयविषय- कत्वं वा । यथा पर्वतो वह्निमान् पर्वतो महानसीयवह्निमांश्च इति निश्चययोः समान विषयकत्वम् । कचित् अभावप्रतियोगिताबच्छेदकतया प्राह्मवृत्ति धर्मावगाहित्वम् (ग० बाघ ० ) । यथा पर्वतो महानसीयवह्नयभाववान् इति निश्चयस्यापि पर्वतो वह्निमान् इति बुद्धिसमानविषयत्वम् । अत्रेद- मवधेयम् । तदभाववत्तानिश्चयस्य तद्वत्ताबुद्धिप्रतिबन्धकतायां समान विषय- कत्वं तन्त्रम् इति प्राचीनानां सिद्धान्तः इति । इदं च बोध्यम् । सामान्यतद्वत्ताबुद्धिं प्रति विशेषतदभाववत्तानिश्चयस्यापि समान विषय- कत्वेन प्रतिबन्धकत्वं प्राचीनानामभिमतम् । अतः पर्वतो महानसीय- वयभाववान् इति निश्चयस्य पर्वतो वह्निमान् इति बुद्धिं प्रति प्रति बन्धकत्वं संगच्छते इति । <समानाकारकत्वम्> [क] स्वस्मिन्यादृशी तद्वद्विशेष्यकत्वावच्छिन्न तत्प्र- कारिता तादृशतद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारिताशालित्वम् ( कु० यथा पर्वतो वह्निमान् इति निश्चयस्य पर्वतो वह्निमान् न वा संशयसमानाकारकत्वम् ( ग० हेत्वा० ल० २ पृ० ११) । इदं च विद्वद्भिः । [ख ] स्वस्मिन्यादृश निरूप्यनिरूपकभावापन्न विषयताकत्वम् संशये विषयताद्वयम् इति पक्षाभिप्रायकम् इति तु सूक्ष्मतरं विभावनीय <समानाधिकरणत्वम्> १ एकाधिकरणवृत्तिकत्वम् । यथा हेतुसमानाधिकर तादृशनिरूप्यनिरूपकभावापन्न विषयताकत्वम् इत्यस्मद्गुरुचरणाः प्राहुः । निरुक्तौ पर्वतो वह्निमान् घूमात् इत्यादौ लक्षणघट की भूतधूमघटायन्ता णात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः इति व्याप्तिस्वरूप भावयोः समानाधिकरणत्वम् । अत्र समानम् एकम् अधिकरणम् ययोः तयोर्भावः इति व्युत्पत्तिद्रष्टव्या । २ कोटिद्वयसहचरितत्वम् । यथा धूमधूमाभावसमानाधिकरणो वह्निः ( ग० सव्यभि० ) इत्याद समानाधिकरणत्वशब्दार्थ: । ३ शाब्दिकास्तु अभेदेनैकार्थबोधजनकत्वम् ( वृत्ति ० ) । यथा नीलो घटः परमराज्य धिकरणत्वम् इत्याहुः । अत्रोदाहरन्ति लट: शतृशानचावप्रथमासमाना महानवमी इत्यादौ नीलपदादिघटपदाद्योरेकधर्मिबोधक पदत्वरूपं समाना- देवदत्तं पश्य इति । तत्पुरुषः समानाधिकरणः कर्मधारयः (पाणि धिकरणे ( पाणि० ३।२।१२४ ) इत्यत्र पचन्तं देवदत्तं पश्य १।२।४२ ) इत्यत्र परमराज्यम् महानवमी इति च ( काशिका० ) / विभिन्न विभक्तिराहित्ये शिष्टं तु सामानाधिकरण्यशब्दव्याख्याने दृश्यम् । <समाप्तपुनरात्तत्वम्> [ क ] क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचक- पदस्य विशेषणान्तरान्वयार्थ पुनरनुसंधानम् । नियताकाङ्क्षारहितान्वय- बोधोत्तरं विशेष्यवाचकपदस्य पुनरनुसंधानम् इति समुदितार्थ: ( राम० १ पृ० २ ) । अत्र व्युत्पत्तिः समाप्ते वाक्यसमाप्तौ पुनरात्तता ग्रहणम् इति । तच्च समाप्तपुनरात्तत्वम् विशेष्यवाचकपदनिष्ठः काव्यदोषः उत्थाप्याकाङ्क्षास्थल एव प्रवर्तते न तूत्थिताकाङ्क्षस्थल इति बोध्यम् ( दि० मङ्गल० ) । यथा उदयति चन्द्रः कुमुदबन्धुः इत्यादौ समाप्त- पुनरात्तत्वं दोषः । तदुदाहृतं चन्द्रालोके समाप्त पुनरात्तं स्यादेष पीयूष- भाजनम् । नेत्रानन्दी तुषारांशुरुदेयम्बुधिबान्धवः ॥ इति । [ख] केचित्तु निराकाङ्क्षबोधजनकवाक्योत्तरत्वविशिष्टतद्वाक्यघट की भूत पदार्था न्वित विशेषण बोधक पदवत्त्वम् इति वदन्ति । <समाप्तिः> १ अवसानम् । तच्च तत्तद्वस्तुकालचरमसंबन्धः । यथा समाप्ते यज्ञकर्मणि इत्यादौ । समाप्तिस्तु यस्मिन्ननुष्ठिते संपूर्णमिदं कर्म इति प्रमा । सा च ग्रन्थादौ चरमवाक्यलिखने यागादौ चरमाहुतौ पटादावन्त्यतन्तु- संयोगे ग्रामगमनादौ ग्रामचरणचरमसंयोगे प्रमा । एवं तत्र तत्रोहनीया १० उ० ११ १/१ पृ० ५) । २ चरमवर्णः (त० प्र० १ ) । वर्णान्तरम् । केचित्तु यत्र ग्रन्थसमाप्तिः । ३ चरमवर्णजन्यं तद्वितीयक्षणोत्पन्नं तत्सजातीयं ४ आरब्धकर्मजन्यश्चरमवर्णपर्यन्तवर्णसमूहरूप- पृ० २३ ) । चरमकृतिध्वंसः । यथा ग्रन्थसमाप्तिः स्वोत्पत्तिक्षणध्वंसः ग्रन्थादि इत्याहुः । ५ चरमवर्णध्वंसः (त० प्र० १ ) (मू० म० १ स्वस्य समाप्तिः ( म० प्र० ) । आद्या प्रवृत्तिरारम्भः इति जैमिनीयारम्भ- लक्षणानुसारादिदं लक्षणम् । तस्य चरमकृतिध्वंसस्य च स्वप्रतियोगि विषयत्वेन ग्रन्थनिष्ठत्वं बोध्यम् ( म०प्र० ) । ६ चरमवर्णजन्यम् आरब्ध- कर्मचरमवर्णाशे लौकिक प्रत्यक्षात्मकम् आनुपूर्वी विशेष विशिष्टतावद्वर्ण- विषयक समूहालम्बनानुसंधानं समाप्तिः इत्यन्य आहुः ( मू० म० १. पृ० २४ ) । ७ ज्ञानविशेष एवं समाप्ति इत्यपर आहुः ( म० वा० पृ० ५ ) । ८ परिच्छेदः । ९ वधः । १० समाधानम् ( विश्वः ) । ११ समर्थनम् ( मेदि० ) । १२ प्राप्तिः ( शब्दच ० ) ( वाच० ) ।) १२२ न्या० को <समासः> १ संक्षेपः । यथा विष्णुनास्य समस्तस्य समासव्यासयोगतः (तत्त्वसं ० ८/५) इत्यादौ समासशब्दस्यार्थः संक्षेपः ( प्र० च० पृ० ५४ ) । २ समर्थनम् ( मेदि० ) । ३ समाहारः । ४ समासो नाम धर्मिमात्राभिधानम् ( सर्व० सं० पृ० १७१ नकु० ) । ५[क] अनेकेषां पदानामेकपदीभवनम् । समासपदं द्विविधम् योगरूढम् यौगिकं चेति । तत्राद्यम् पङ्कजकृष्णसर्पाधर्मादिपदम् । द्वितीयं तु व धारयादिः सप्तविधः समासः । अत्र समासत्वं चाखण्डोपाधिः संकेत- विशेषेण समासपदवत्वं वा ( म०प्र० ४ पृ० ४३ ) । [ख] यादृश- महावाक्योत्तरः त्वतलादि: स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालिबो हेतुः तादृशं तद्वाक्यं तथाविधार्थे समासः । इदं च यौगिकसमासस्य लक्षणम् न तु योगरूढसमासस्य इति विज्ञेयम् । अत्र वाक्यस्य महत्त्वं च प्रकृत्यर्थमात्रावच्छिन्न प्रत्ययार्थस्यान्वयबोधं प्रत्ययोग्यत्वं वाच्यम् । त उपकुम्भादौ नाव्याप्तिः । न वा नीलघटत्वत्वम् इत्यादौ नीलघटत्वादि- भागेतिप्रसङ्गः ( श० प्र० श्लो० ३१ टी० पृ० ३८ ) / सचार्य समासः सप्तविधः कर्मधारयः द्विगुः तत्पुरुषः अव्ययीभावः बहुव्रीहिः द्वन्द्वः उपपदसंज्ञकश्चेति ( श० प्र० श्लो० ३२ टी० पृ० ३९// केवलसमासः इत्यपि केचिदाहुः । समासश्चतुर्विधः अव्ययीभावः तत्पुरुषः द्वन्द्वः बहुव्रीहिश्च इति केचिच्छाब्दिका आहुः । तत्र पूर्वपदार्थ प्रधानो व्ययीभावः उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानो द्वन्द्वः अन्य- इत्यादिबहुव्रीहौ कुशपलाशम् इत्यादिद्वन्द्वे च परस्परव्यभिचारातू १ सूपप्रति इत्याद्यव्ययीभावे अर्धपिप्पली पूर्वकायः इत्यादितत्पुरुषे द्वित्रा: स्परमव्यायतिव्याप्योः सत्त्वात् इत्यलम् / प्राचीन वैयाकरणोक्त विभाग दिप्राधान्यविषयः स च ॥ भौतपूर्व्यात् सोपि रेखागवयादिवदास्थितः प्रायिकत्वमाह । समासस्तु चतुर्धेति प्रायोवादस्तथापरः । योयं पूर्वपदार्था इति । अत्रोच्यते कविना सोपहासम् द्वन्द्वो द्विगुरपि चाहं मद्रे (उद्भट ) इति । अत्र प्राचीना वाग्भटादयः पञ्चविधान् भेदानादाय सततमव्ययीभावः । तत्पुरुष कर्म धारय येन सदा स्यां बहुव्रीहिः ॥ पदार्थप्रधानो बहुव्रीहिः इत्यादिलक्षणमपि प्रायिकम् । समासानां पञ्चविधत्वं वदन्ति ते च समासा अपि पूर्वोक्तसप्तविधान्तर्गता एव भवन्ति । तथा हि । ( १ ) कश्चित्समासः पूर्वपदार्थधर्मिकान्वय- बोधजनकतया पूर्वपदप्रधान उच्यते । यथा प्राप्तजाया अर्धपिप्पली पूर्वकायः इत्यादिकस्तत्पुरुषः । यथा वा उपकुम्भाद्यव्ययीभावः पुरुष- सिंहादिकर्मधारयश्च । (२) कश्चिन्मध्यमपदार्थधर्मिकधी जन कतयैव मध्यमपदप्रधानः । यथा पटानधिकरण-प्रतियोगितानवच्छेदक-इत्यादिक- स्तत्पुरुषः । पटस्य नाधिकरणम् इत्यादिविग्रहे मध्यम पदार्थस्यैव विशेष्य- वात् । (३) कश्चिदन्त्यपदार्थधर्मिकधीहेतुत्वादन्त्यपदप्रधानः । यथा राजपुरुषादिकस्तत्पुरुषः । नीलोत्पलादिकः कर्मधारयः द्विगार्ग्यायव्ययी- भावश्च । (४) कश्चित्सर्व पदार्थधर्मिकबुद्धिहेतुत्वात् सर्वपदप्रधानः । यथा इतरेतरद्वन्द्वः द्वन्द्वमात्रं वा । (५) कश्चिस्व घटकान्यपदार्थ - धर्मिंकज्ञानजनकत्वादन्यपदार्थप्रधानः । यथा बहुव्रीहिः खलेयवाद्य- व्ययीभावश्च इति । नित्यानित्यभेदेनापि समासस्य द्वैविध्यं जयादित्यादि- भिरुक्तम् ( श० प्र० श्लो० ३३ टी० पृ० ३९-४० ) । तत्राविग्रहः अस्वपदविग्रहो वा नित्यसमासः ( त० प्र० ख० ४ पृ० ४२ ) । [ग] वैयाकरणास्तु यादिपदानामेकपदतासंपादकः पदसाधुतार्थकः संस्कार विशेषः । यथा राजपुरुष इत्यादौ । अत्र सूत्रम् समर्थः पदविधिः (पाणि० २११११ ) इति । अत्र सामर्थ्य द्विविधम् व्यपेक्षावत्त्वम् एकार्थीभावश्च । तत्र ( १ ) स्वार्थपर्यवसायिपदानामाकाङ्क्षा दिवशाद्यः परस्परं संबन्धः सा व्यपेक्षा । परस्परनिरूप्य निरूपकभावापन्नविषयता- प्रयोजकत्वे सति एकार्थोपस्थित्यजनकत्वम् । राज्ञः पुरुषः इत्यादौ वाक्ये सत्यामाकाङ्क्षायाम् यो यो यस्मिन् संनिहितो योग्यश्च स तेन तेन संबध्यते । यथा राज्ञः पुरुषोश्वश्व राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य राज्ञोश्वो धनं च इत्यादि । वृत्तौ तु नैवम् । वृत्तीनामेकार्थीभावात् । तथा च राजादिशब्देन विशिष्टैकार्थबोधकतया न तदेकदेशे ऋद्धादेर- (२) एकार्थीभावस्तु विशेष्यविशेषणभावावगाह्ये कोपस्थितिजनकत्वम् । न्वयः । पुरुषांशे विशेषणतयोपस्थितस्य नाश्वादिसंबन्धिता राजादीनाम् । जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेः स्वामितया पुरुषादावन्वयः इति द्रष्टव्यम् । देवदत्तस्य गुरुकुलम् इत्यादौ देवदत्तादेस्तु प्रधानीभूत- कुलादिनैवान्वयः। संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः । अथ वा संबन्धिशब्दार्थस्य पदार्थैकदेशत्वेपि भवत्येव तत्र संबन्धप्रतियोगिनो- न्वयः । तदुक्तं भर्तृहरिणा संबन्धिशब्द: सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षापि वृत्तावपि न हीयते ॥ ( वाक्यप० ) इति । सापेक्षे प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्त- वार्तिककारमतमपि भर्तृहरिमततुल्यमेव । प्राचीनानां तु विरुद्धा गाथा विशेषणम् ॥ इति । स च समासः षड़िधः सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षड़िधो बुधैः ॥ ( वै० सा० समा० कारि० २८) इति । तत्र सुपां सुपा समासो यथा राजपुरुषः इत्यादिः । सुपां तिङा यथा पर्यभूषत् इत्यादिः । अयं समासः सह सुपा (पाणि० २११४) इत्यत्र योग विभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ । सुपां नाम्ना यथा कुम्भकारः इत्यादिः । सुपां धातुना यथा कटप्रूः आयतस्तूः इत्यादिः । तिडां तिङा यथा पिबतखादता पचतभृज्जता इत्यादिः । तिङां सुबन्तेन 4 जहिस्तम्बः इत्यादिः इत्याहुः । <समाहारः> १ साहित्यम् । तच्च [क तुल्यवदेकक्रियान्वयित्ववपस् ( न्या ०म० ) । यथा मार्दङ्गिकवैणविकं वादय इत्यादौ समाहारः / तुल्य- वत् समभावेनेत्यर्थः । इदं च पत्नीयजमानयोरेकया गान्वयिनोरतिव्यामि वारणाय । तथा च पत्त्या अनुमतिद्वारा यजमानस्य च साक्षादेव गा तथा च क्रियायाः विधेयभूतायाः एकरूपस्तुल्यः संबन्धः समाहारः इति समुदितार्थः । यथा केषांचिन्मते पाणिपादं वादय इत्यत्र वादन तुल्यवदेव पाणिपादयोरन्वयः ( त० प्र० ख० ४ पृ० ५०/1/ख/ बुद्धि विशेष विशेष्यत्वम् । यथा पाणिपादम् इत्यादौ समाहारद्वन्द्वे समाहारः अपेक्षाबुद्धि विशेष विषयत्वम् ( न्या० म० ४ पृ० १३ ) / [ग] ( श० प्र० श्लो० ४८.टी० पृ० ६१ ) । २ समुच्चयः । अनुद्भुता- वयवविशेषः समूहः इति वैयाकरणा आहुः (वाच० ) । <समाहारद्वन्द्वः. ( द्वन्द्वसमासः ) [ क ] एकवचनान्यसुबाकाङ्क्षा विहीनः समासः। यथा पाणिपादम् हस्त्यश्वम् इति समाहारद्वन्द्वः । अत्र एके प्राञ्चो नैयायिकाः आहुः । पाणिपदं पाणिप्रतियोगिकमित्यर्थं पादपदं च पाद- समाहारं लक्षयति । न पाणिपादसमाहारे शक्तिः इति । शाब्दिकास्तु समाहारे शक्तिः इत्याहुः । तथा च समाहारे द्वन्द्वे द्वित्वत्रित्वादिनैव समूहस्य बोधात्समूहत्वमेव प्रवृत्तिनिमित्तम् इति विज्ञेयम् । अन्ये प्राञ्चो नैयायि- कास्तु उत्तरपदे पाणिपादसाहित्ये लक्षणा । पाणि इति पदान्तरं तु तादृशलक्षणाया निरूढत्वसंपादकम् । तथाविधसाहित्यस्य च स्वाश्रय- निष्ठत्वादिसंबन्धेनैव द्वितीयाद्यर्थकर्मवादौ साकाङ्क्षत्वात् पाणिपादं वादय इत्यादेर्नायोग्यत्वम् इत्याहुः ( श० प्र० श्लो० ४८ टी० पृ० ६१) ( न्या० म० ४ पृ० १३) । नव्यास्तु चूडामणिभट्टाचार्यादयः पाणिपादं वादय इत्यत्र पाणिपादमात्रप्रतीतेः (समाहाराप्रतीतेः ) न समाहारे लक्षणा न वा शक्तिः । इतरेतरसमाहारसंज्ञा च नदी वृद्धि इत्यादिव- पारिभाषिकैव । तथा च समाहार एकवद्भावेन न द्विवचनापत्तिः इति प्राहु: ( न्या० म० ४ पृ० १३ ) ( म० प्र० ४ पृ० ४६) । पाणि- पादम् हस्त्यश्वम् इत्यादितो हि करचरणादीनां बहूनामप्यवगतावेक- वचनमेव प्रमाणम् ( श० प्र० श्लो० ४९ टी० पृ० ६६) । द्वन्द्वश्च माणितूर्यसेनाङ्गानाम् (पाणि० २।४।२) इति सूत्रं प्रमाणमत्र द्रष्टव्यम् । [ख] समूहार्थको द्वन्द्वसंज्ञकः समासः इति शाब्दिका आहुः । समाहारद्विगु: - (द्विगुसमासः ) [ क ] खोपस्थाप्यार्थस्य समाहार- लक्षको यदीयान्त्यशब्दः स द्विगु: समाहारद्विगुः । यथा पञ्चपूली इत्यादिः । अत्र हि योगलभ्यानां पञ्चामिन्नपूलानां समाहारः परस्थपूल- शब्देन लक्ष्यते । न तु तत्र द्विगोः शक्तिः । अन्यलभ्ये शक्तययोगात् । अत एव न लक्षणापि । शक्यसंबन्धस्यैव लक्षणात्वेन वाक्ये तदसंभवात् ( श० प्र० श्लो० ३८ टी० पृ० ४७ ) इति । [ख ] तद्धितार्थो त्तरपद द्विगुभ्यां भिन्नो द्विगुः । यथा पञ्चपूर्ली छिनत्ति । पञ्चपाचकी इत्यादिरपि । एवं च द्विगो: कर्मधारयान्तर्गतत्वेपि न क्षतिः इति तु विभावनीयम् (श० प्र० श्लो० ३८ टी० पृ० ४७) । <समाह्वयः> प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ( मिताक्षरा अ० २।११९ ) । <समितिः> प्राणिपीडापरिहारेण सम्यगयनम् ( सर्व० सं० पृ० ७८- ७९ आर्ह० ) । <समीपत्वम्. संनिकृष्टत्वम् । <समुच्चयः> १ [ क ] विरोधानवगाही कोटिद्वयसामानाधिकरण्यावगाही च निश्चयः । यथा पर्वतो वह्निमान् वह्नयभाववांश्च इति ज्ञानम् । अव्याप्य- वृत्तित्वज्ञानकाले कोटिद्वयोपस्थितौ सत्यामिदं ज्ञानमुत्पद्यत इति विज्ञेयम्। गादाघरीयबाधग्रन्थफक्किकाया अयमेवाभिप्रायः इति प्रतिभाति । [ख] धर्मितावच्छेदकसामानाधिकरण्ये नोभयकोट्यवगाहिज्ञानम् (त० प्र० २) । यथा वृक्षः कपिसंयोगतदभाववान् इति ज्ञानम् । २ निरपेक्षाणामेकत्रा- न्वयः । स च यत्र असंबद्धे एकैकश: क्रियान्वयः । यथा धवं छिन्धि खदिरं च छिन्धि इति समुच्चये तुल्यवदसंबद्धयोः क्रियान्वयधीः । अत्रायं विशेष प्राधान्येन यत्र क्रियान्वये तात्पर्यम् स समुच्चय इति ( त० प्र० ख०४ पृ० ५२ ) । शाब्दिकास्तु यत्र परस्परनिरपेक्षाणाम नेकेषा मेकस्मिन्क्रिया- दावन्वयः सः । यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः परस्परसापेक्षत्वाभावेपि एकस्मिन् गमनेन्वय इति । तद्वाचकश्च चकारः । कचित् तथा इत्यादिशब्दोपि वाचको भवति इत्यादुः । अन्वयश्च विशेष्यतया विशेषणतया वा । तत्राद्यम् चैत्रो गच्छति पति च इत्यादौ क्रियासमुच्चये । द्वितीयम् ईश्वरं गुरुं च भजस्व इत्याद द्रव्यसमुच्चये ( वाच० ) । शिष्टं तु चशब्दे द्वन्द्वशब्दे च दृश्यम् । <समुत्थानम्> व्रणरोपणम् ( मिताक्षरा अ० २।२२२ ) । <समुदयः> रागादीनां गणोयं स्यात्समुदेति नृणां हृदि । स्वभावाख्यः स स्यात्समुदयः पुनः ॥ ( सर्व० सं० पृ० ४६ बा <समुदाय:> दुःखकारणम् । तद्द्विविधम् । प्रत्ययोपनिबन्धनो हेतूपनिबन्ध नश्च ( सर्व० सं० पृ० ४० बौ० ) । <समुदायत्वम्> [क] अनेकपर्याप्तो धर्म: ( ग० अवय० ) । यथा जलादित्रयोदशभेदसमुदायः पृथिव्यां साध्यते इत्यादौ समुदायत्वशब्दार्थः ( त० दी० २ पृ० २३ ) । [ ख ] अपेक्षाबुद्धिविशेषविषयत्वम् । यथा घटपटस्तम्भकुम्भैतत्समुदायत्वम् । त्रित्वादिपर्याप्त संख्या विशेष इत्येक आहुः । एवम् समूहत्वशब्दोपि व्याख्येयः । अत्र स्मर्यते समुदाय: प्रत्येकानतिरिक्तः इति नैयायिकानां सिद्धान्त इति । <समूहः> १ समूहालम्बनशब्दवदस्यार्थोनुसंधेयः (वै० सा० द०) । २ समुदाय इति काव्यज्ञा आहुः । <समूहालम्बनम्> [ क ] नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि ज्ञानम् ( ग० व्यु० १ ) । यथा अयं घटः अयं पटः अयं स्तम्भः अयं कुम्भश्च इत्येकं ज्ञानम् । अत्र ज्ञाने विशेषणद्वयदानेन धवखदिरौ द्वौ इति खङ्गी चैत्रः कुण्डली इति च वाक्यजन्यबोधयोः समूहांलम्बना त्मकत्वं निराकृतम् इति बोध्यम् ( ग० व्यु० १ ) । संशये तु नाना- प्रकारता निरूपिताया एकविशेष्यतायाः सत्त्वान्न समूहालम्ब नवम् । [ख] यत्र विशेष्यतामेदेन प्रकारताभेदः तज्ज्ञानम् । नानाविशेष्यता- निरूपितनानाप्रकारताशालि ज्ञानम् इत्यर्थ: ( कृष्णं० ) । <सम्यक्चारित्र्यम्झ्> संसरणकर्मोच्छित्ता बुद्यतस्य श्रद्दधानस्य ज्ञानवतः पाप- गमनकारणक्रिया निर्वृत्तिः ( सर्व० सं० पृ० ६५ आहे० ) । <सम्यग्ज्ञानम्> [क] यथार्थज्ञानम् । यथा सत्यरजते इदं रजतम् इति ज्ञानम् । [ख ] अविसंवादकं ज्ञानम् । [ग] यतश्चार्थसिद्धिस्तत् इति बौद्ध आहुः ( न्या० बि० टी० पृ० ३-६ ) । एतन्मते सम्यग्ज्ञानं द्विविधम् प्रत्यक्षम् लैङ्गिकं चेति । [ घ ] येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः इत्यार्हता आहुः । तन्मते सम्यग्ज्ञानं पञ्चविधम् मतिः श्रुतम् अवधिः मनःपर्यायः केवलं च ( सर्व० पृ० ६३ आई० ) । <सम्यग्दर्शनम्> येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रति- पादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानम् ( सर्व० पृ० ६२ आई० ) । <सर्गः> १ सृष्टिः । २ काव्यादेः परिच्छेदः । यथा रघुवंशस्य प्रथमः सगे: इत्यादयः ( १९) सर्गाः । यथा वा सर्गोयमादिर्गतः (नैषध ० ) इत्यादौ सर्गशब्दस्यार्थः । ३ अभिमतिः ( हेमच० ) । यथा यदि सर्ग ते ( रघु० ३।५१ ) इत्यादौ सर्गशब्दस्यार्थोभिमतिरूपो निश्चयः (मल्लिनाथः) । ४ स्वभावः । ५ उत्साहः । ६ निर्मोक्षः । ७ निर्मोहः ( मेदि० ) । <सर्पिणी> (विष्टिः ) वृश्चिकीशब्दे दृश्यम् (पृ० ८०१) । <सर्वगतत्वम्> १ विभुत्वम् । २ सर्वत्र वर्तमानत्वम् इति पौराणिका वदन्ति । <सर्वज्ञत्वम्> [ क ] उक्तानुक्ताशेषार्थेषु समासविस्तर विभाग विशेष तत्त्वव्याप्त सदोदित सिद्धिज्ञानं सर्वज्ञत्वम् ( सर्व० सं० पृ० १६६ नकु० ) । ख सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम- रूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तो- दिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् ( सर्व० सं० <सर्वतत्रसिद्धान्तः> ( सिद्धान्तः ) [ क ] सर्वतन्त्राविरुद्धस्तब्रेधिकृतोर्थः पृ० ३८५-३८६ पात ० ) । सर्वतन्त्र सिद्धान्तः ( गौ० ११ १/२८ ) । तदर्थस्तु सर्वतन्त्रावि स्वतन्त्रेधिकृतश्च यः । स सर्वतन्त्र सिद्धान्तो यथा मानेन मेयधीः ॥ ( ता० र० श्लो० ५९ ) इति । तत्रे अधिकृत इति विशेषणं च मनस इन्द्रिय- त्वस्य सर्वतन्त्र सिद्धान्तत्ववारणाय इति ज्ञेयम् ( गौ० वृ० १ । १।२८) । यथा घ्राणादी नीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूत प्रमाणैरर्थस्य ग्रहणम् (वात्स्या० १/१/२८) इति । यथा वा जात्या- नव्यास्तु वादिप्रतिवाद्युभयाभ्युपगतः कथानुकूलोर्थोपि सर्वतब्रसिद्धान्तः देरसदुत्तरत्वमपि सर्वतन्त्र सिद्धान्तः ( गौ० वृ० १/१/२८ ) । [ख] इति वदन्ति ( गौ० वृ० १११ १२८ ) । <सर्वनाम> [क] स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टम् / अत्र स्वं तदादि- पदम् । अत्र त्यदादिसर्वनाम्नः शक्तिस्तु स्वोच्चारणानुकूलबुद्धिप्रकारा वच्छिन्नविषयकत्व - स्वजन्यत्व - एतदुभयसंबन्धेन तदादिसर्वनामप्रकारक बोधविषयकः संकेतः (ग० शक्ति० पृ० ७३ ) । यद् तद् यद् एतद् इदम् अदस् इत्यादयः त्यदादयः । अत्र च सर्वनामपदेन सर्वनाम - संज्ञायुताः त्यत्तदादयः शब्दा गृह्यन्ते । अतो न काप्यनुपपत्तिः । सर्वनाम- संज्ञा विधायकसूत्रं च सर्वादीनि सर्वनामानि (पाणि० १११।२७) इति । [ख] वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नम् (ग० शक्ति० पृ० ६५ ) । यथा सोयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ( हनु० नाट० श्लो० १) इत्यादौ तच्छन्दार्थः । <सर्वपापहरा> एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिभिर्मि तिथिः प्रोक्ता सर्वपापहरा स्मृता ॥ (पु० चि० पृ० १८२ ) । <सर्वपृष्ठः> षट्सु अहःसु क्रमेण रथंतरम् बृहद्वैरूपम् इत्यादिभिः षद्भिः सामभिः पृष्ठस्तोत्रं निष्पादितम् । तानि सर्वाणि पृष्ठसामानि यस्मिन्विश्व- जिति सोयं सर्वपृष्ठ: ( जै० न्या० अ० १० पा० ६ अधि० ५ ) । <सर्वभावाधिष्ठातृत्वम्> सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम- रूपाणां भावानां स्वामिवदाक्रमणम् ( सर्व० सं० पृ० ३४५ पात० ) । <सर्वम्> १ [क] स्वार्थान्वयितावच्छेदकधर्मव्यापकता दृशधर्मावच्छिन्नान्व- यितावच्छेदकावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नम् । यथा सर्वे घट रूपवन्तः इत्यादौ सर्वपदार्थ : ( ग० शक्ति० पृ० ९६ ) । सर्वपद- प्रवृत्तिनिमित्तं च उद्देश्यतावच्छेदक व्यापक विधेयव्याप्यपर्याप्तिको धर्मः । तथाविधश्च धर्मः सर्वे घटा रूपवन्तः इत्यादौ घटनिष्ठयावत्वमेव । तस्य व्यासज्यवृत्तितया तत्पर्याप्तेर्घटत्वव्यापकत्वात् रूपादिव्याप्यत्वात् । शब्दा- द्धटत्वादिव्यापके रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावो- लभ्यत इति । कचित् अशेषत्वादि कचित् यावत्त्ववदनेकत्वं च प्रवृत्ति- निमित्तम् ( ग० शक्ति० पृ० ९३ ) । अत्र च सर्वशब्दः स्वसमभि- व्याहृतपदार्थतावच्छेदकव्यापकत्वं तादृशपदार्थान्तरे बोधयति इति नियमः । एवं च सर्वे घटा रूपवन्तः इति वाक्यात् घटत्वव्यापकं रूपवत्वम् इति शाब्दबोधो जन्यत इति बोध्यम् (दि० ४ पृ० १७९) । अत्र अन्वयित्वं चोद्देश्यविधेयभाव विशेष्यविशेषणभावसाधारणम् ( ग० १२३ न्या० को० व्यु० पृ० ९६) । [ ख ] प्राञ्चस्तु व्यापकत्वावच्छिन्नमित्याहुः (दि० १ पृ० १७९ ) । अत्रेदमवधेयम् । योगसिद्ध्यधिकरणे हि यः पुत्रकामो यः पशुकाम: (श्रुतिः ) इत्यादिना यज्ञऋतूनुपक्रम्य एकस्मै वा कामायान्ये यज्ञऋतव आहियन्ते सर्वेभ्यो दर्शपूर्णमासौ इत्याम्ना तम् । तत्र सर्वेभ्यो दर्शपूर्णमासौ ( कर्तव्यौ) इत्यादौ सर्वान्तर्गत घटोशेन दर्शपूर्णमासाद्यसंभवेन सर्वशब्दस्य संकोच: प्रकृतनिरपे- क्षपुत्रादितत्तत्फलपरत्वरूपः कार्यः इति । [ग] बुद्धिविषयो यावत्वा- वच्छिन्नः समूहः सर्वपदार्थ : इति शाब्दिका वदन्ति । [घ ] संपूर्णम् सकलं च इति काव्यज्ञा आहुः । २ वेदान्तिनस्तु विष्णुः इत्याहुः । तत्रोक्तम् असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ । सर्वस्य सर्वदा ज्ञाना- त्सर्वमेतं प्रचक्षते ॥ ( विष्णुपु० ) इति । <सविकल्पकम्> ( प्रत्यक्षम् ) [ क ] विशिष्टग्रहणम् । [ ख ] वैशिष्ट्या वगाहि सप्रकारकं वा ज्ञानम् ( न्या० म० पृ० ४ ) ( त० सं० ) / ( त० सं० ) । अत्र वैशिष्ट्यावगाहि इत्यस्य नामजात्यादिविशेषण विशेष्य यथा डित्थोयम् ब्राह्मणोयम् श्यामोयम् पाचकोयम् इति प्रत्यक्षज्ञानम् संबन्धावगांहि ज्ञानमित्यर्थः ( त० दी० १ पृ० १८) ( त० कौ० )/ सप्रकारकमित्यस्य किंचिन्निष्ठप्रकारताशालि ज्ञानम् इत्यर्थः (त० प्र० १ ) । सविकल्पकमित्यत्र विकल्पः प्रकारता । तथा च तल्लक्षणं प्रकारतानिरूपकज्ञानत्वम् इति । अयं भावः / विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य च विषयतानिरूपकत्वेन प्रकारता निरूपक ज्ञानत्वं तल्लक्षणम् । एवम् विशेष्यतानिरूपकज्ञानत्वम् संसर्गता निरूपक ज्ञानत्वम् इत्यपि लक्षणानि संभवन्तिनिर्विकल्प के त अतिरिक्ता तुरीया विषयता स्वीक्रियते । त्रिविधविषयतामध्य एकापि तत्र न ( न्या० बो० १ पृ० ११ ) ( वाक्य० १ पृ० १२ ) ( नील० पृ० १८ ) । [ग माध्ववेदान्तिनस्तु विशिष्टाकारगोचरं प्रत्यक्षम् / विकल्पको यथा शुक्ल: इति । (३) क्रियाविकल्पको यथा गच्छति तदष्टविधम् तत्र ( १ ) द्रव्यविकल्पको यथा दण्डी इति । (२) गुण इति । (४) जातिविकल्पको यथा गौः इति । (५) विशेषविकल्पको यथा विशिष्टः परमाणुः इति । (६) समवायविकल्पको यथा पट समवायिनस्तन्तवः इति । (७) नामविकल्पको यथा देवदत्तः इति । (८) अभावविकल्पको यथा घटाभाववद्भुतलम् इति इत्याहुः (प्र० प० पृ० ११ ) । [घ ] मायावादिवेदान्तिनस्तु ज्ञातृज्ञेयभेदादिसहितं ज्ञानं सविकल्पकम् इत्याहुः । [ङ ] योगशास्त्रज्ञास्तु संप्रज्ञाताख्यः समाधिविशेष इत्याहुः । अत्र सौगताः कीर्तिदिङ्गागादयो नास्तिकास्तु सविकल्पकं न प्रत्यक्षम् न च प्रमाणम् । तस्य घटत्वादिरूपालीको- परक्तत्वाद्वन्ध्या पुत्रज्ञानवत् । निर्विकल्पकं तु स्वलक्षणवस्तूपरक्तत्वात्स्या- प्रत्यक्षम् प्रमाणं च इत्याहुः (वै० उ० ८/१/२ ) ( सि० च० १ पृ० २२) । तेषां सौगतानामयमाशयः । सविकल्पकं हि न प्रमाणम् । तथा हि । अभिलापसंसर्गयोग्यप्रतिभासं हि तत् । न ह्यभिलापेन नाम्ना संभवत्यर्थस्य संबन्धः । येन घटः इति पटः इति वा नामानुरक्षितः प्रत्यय: स्यात् । न च जात्यादि परमार्थसत् । येन तद्वैशिष्यं विषयेषु इन्द्रियेण गृह्येत । न च सतः स्वलक्षणस्यासता संबन्धः संभवति । न महिम्ना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्तयत् प्रत्यक्षम् इति चासदिन्द्रियगोचरः । तस्मात् इन्द्रियेणालोचनं जन्यते । आलोचन- <सविचारः> ( समाधिः ) यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषय- प्रमाणम् इति चोच्यते ( वै० उ० ८।१/२ पृ० ५८३ ) इति । मालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः ( सर्व० सं० पृ० ३५७ पात० ) । <सवितर्क:> (समाधिः ) यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरानुसंधानेन शब्दार्थोल्लेख्य संभेदेन च भावना प्रवर्तते स समाधिः सवितर्कः ( सर्व० सं० पृ० ३५६ पात ० ) । <सव्यभिचारः> ( हेत्वाभास: दुष्टहेतुः ) अनैकान्तिकः सव्यभिचारः (गौ० १।२।५ ) । अत्र व्युत्पत्तिः व्यभिचारेण सहितः सव्यभिचारः इति । साधारणस्थले व्यभिचारश्च हेतुनिष्ठसाध्या भाववद्वृत्तित्वादिरूपः (वाक्य० २ पृ० १६) । साव्यतावच्छेद कनिष्ठ हेतुसमानाधिकरणा- प्रतियोगितावच्छेदकत्वादिरूपो वा (ग० २ हेत्वा० सा० ) । असाधा- रणस्थले साध्यव्यापकी भूताभावप्रतियोगित्वम् । अनुपसंहारिस्थले तु अत्य- न्ताभावाप्रतियोगिसाध्यकत्वादि व्यभिचारः इति । सव्यभिचारत्वं च सा ( नील० २ पृ० २५ ) ( न्या० बी० २ पृ० १७) । व्यभिचार धारण असाधारण अनुपसंहारि एतदन्यतमत्वम् (मु० २ पृ० १५९) एकत्राव्यवस्था । सह व्यभिचारेण वर्तत इति सव्यभिचारः । निदर्शनम् नित्यः शब्दः अस्पशवात् । स्पशवान् कुम्भः अनित्यो दृष्टः । न च तथा स्पर्शवान् शब्दः । तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मो न साव्यसाधनभूतौ दृश्येते । स्पर्शवांश्वाणु नित्यश्चेति । आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इति । अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति अस्पर्शा बुद्धिरनित्या चेति । एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणा- भावादहेतुरिति ( गौ० वात्स्या० ११२/५ ) । सव्यभिचारपदं साधारणमा प्रयुञ्जतीदानींतनाः ( दीधि ० सव्य० ) । शिष्टं विभागादिकं तु न्तिकशब्दव्याख्यानावसरे संपादितम् इति विरम्यते । सव्यभिचारवं अत्रायमर्थः । उभयकोटी साध्यतदभावौ । तदुपस्थापकतावच्छेदकं रूपं साधारणत्वादित्रितयम् । तज्ज्ञाने सति पक्षः साध्यवान वा इति संशय उदेति इति । अथ वा यथाकथंचित् कोटिद्वयोपस्थितिः (साय- तु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् । अत एवतन्निरूपितावच्छेदकतापर्याय तदभाव एतद्दूयोपस्थितिः) स्मृत्यनुभवसाधारणी संदेहजननी । नियामक मते धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूपविशिष्ट (धर्मवत्ता) ज्ञानं साध्य संदेहजनकम् तद्रूपवस्वम् । पर्यवसितार्थस्तु तद्धर्मपर्याप्तधर्मितावच्छेदक ताकयत्किंचित्संशय निरूपितायां जनकतायामवच्छेदकीभूता या त इति धारावाही संदेहः तद्धर्म निष्ठधर्मितावच्छेदकतानिरूपकप्रकारता चर्यावच्छिन्नकारणतामतमङ्गीकृत्योक्तम् इति विज्ञेयम् । यद्वा यद्रूप धिकरणधर्मवत्त्वम् ( ग० सव्य० ) इति । इदं च साध्यतदभावसाह विशिष्टत्वेन गृहीतस्य धर्मस्य धर्मिवृत्तिताज्ञानं साध्यसंदेहजनकम् तद्वत्त्वम् चित्संशयजनकतावच्छेदक वैशिष्ट्य घटक- विशेष्यतानिरूपितप्रकारत।पर्याध्यधिकरणधर्मवत्वम् ( ग० सव्य० ) इति । इदं च कोटिद्वयसहचरितत्वादिना ज्ञातस्योर्ध्व वरूत्वव धर्मिणि ज्ञानमेव संदेहजनकम् न तु तदानीं साहचर्यादिज्ञानमपेक्ष्यते इति मतमभिप्रेत्योक्तम् इति विज्ञेयम् ( दीधि ० २ सव्य० पृ० १९० ) । तच्च सव्यभिचारित्वं साधारणत्वादित्रितयम् ( म० प्र० २ पृ० २५ ) ( चि० २ सव्य० पृ० ८५) । अत्र त्रितयं तु साधारणत्वम् असा- धारणत्वम् अनुपसंहारित्वं चेति ज्ञेयम् । अथ वा विरुद्धान्यपक्षवृत्तित्त्रे सत्यनुमिति विरोधिसंबन्धाव्यावृत्तिः सव्यभिचारत्वम् ( चि० २ सय ० पृ० ८५ ) । यथा शब्दो नित्यः शब्दत्वात् इत्यादौ साध्यव्यापकी- भूताभावप्रतियोगित्वरूपासाधारण्यादि । विरुद्धान्येत्यादिदलद्वयस्य निष्क- स्तु यद्धर्मिवृत्तित्वं हेतोर्ज्ञायते तत्रैवानुमितिविरोधि यद्रूपं तद्वत्त्वम् इति ( दीघि ० २ सव्य० पृ० १९२ ) । यद्वा साध्यवन्मात्रवृत्त्यन्यत्वे के चित्तु साध्यसंदेहजनक कोटिद्वयोपस्थापक पक्षधर्मताज्ञानविषयत्वे सति सति साध्याभाववन्मात्रवृत्त्यन्यत्वम् ( चि० २ सव्य० पृ० ८६ ) । हेत्वभिमतत्वं सव्यभिचारत्वम् इत्याशशङ्किरे । तदर्थस्तु साध्यसंदेह- वच्छिन्नवत्ताज्ञानं साध्यसंदेहजनकम् तद्रूपावच्छिन्नत्वम् । तच्च रूपं जनककोटिद्वयोपस्थितिजनकपक्षधर्मताज्ञान विषयत्वम् । धर्मिणि यद्रूपा- अन्वयेन असाधारणः व्यतिरेकेण अनुपसंहारी पक्ष एवोभयसाहचर्येण विशिष्टसाध्यसाधनहाविरोधिनो ज्ञानस्य विषयतया व्याप्तिग्रहविरोधि- तावच्छेदकं रूपम् । तच्च रूपं साधारणत्वम् असाधारणत्वम् अनुप- संहारित्वं च इति प्रादुः व्याप्तिश्चान्वयतो व्यतिरेकतश्च नानारूपा । प्रातिस्विकरूपेणोपादाय तावदवगाही ग्रहो वाच्यः / साध्यसाधनयोर- प्रसिद्धेरसिद्धिभेदस्य वारणाय अविरोधिनः इत्यन्तम् । व्याप्तिग्रहप्रति बन्धलक्षणैक प्रयोजनकत्वेन साधारणादीनामे कहेत्वाभासत्वम् । साधार- णेन व्यापकत्वस्याव्यभिचारितत्वस्य वा असाधारणेन सामानाधिकरण्यस्य अनुपसंहारिणा च व्यतिरेकव्याप्तेर्ग्रहस्य प्रतिबन्धात् साधारणादौ लक्षण- समन्वयः (दीधि० २ पृ० २०३ ) । <सव्यम्> १ वामभागः ( अमरः ) । यथा यत्सव्यं पाणि पादौ प्रोक्षति शिरश्चक्षुषी श्रोत्रे हृदयमालभ्य ( श्रुतिः ) इत्यादौ वामशब्दस्यार्थः । २ प्रतिकूलम् । ३ विष्णु: ( शब्दमा ० ) । <सशुकः> आस्तिकः ( मिताक्षरा अ० २ श्लो० ११२) । <सह> ( अव्ययम् ) १ [क] साहित्यम् । तच्च स्वान्वयितत्तत्कर्तृत्वादि- कारकावच्छिन्नायाः समानकर्तृकायाः समभिव्याहृतक्रियायाः समान- कालीनत्वम् । यथा पुत्रेण सहागतः सूपेन सार्धं भुक्तः चक्रेण सकिं दण्डेन जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्यर्थः साहित्यम् । पुत्रेणेत्यत्र सहार्यैकदेशे कर्तृत्वादिकार के स्वप्रकृत्यर्थस्या- धेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिकर्तृताकगतिकाली नगतिकर्तृता- वान् इत्याकारो बोधः । सूपेनेत्यत्र सूपनिष्ठ कर्मताकभोजनाल भोजनकर्मतावान् ओदनः इति बोधः । चक्रेणेत्यत्र चक्रनिष्ठ करणा कोत्पत्तिकालीनदण्डनिष्ठकरणताकोत्पत्तिमान् घटः इति बोधः । पुत्रेण सममित्यत्र पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्या कारो बोधः । अत्रेदं विज्ञेयम् । पटः पटत्वेन सह भासते इत्यादौ पटत्वनिष्ठविषयतायाः समानकालीनत्वमिव समानप्रतियोगिकत्वमा सहशब्दार्थोङ्गीकर्तव्यः । विभिन्नज्ञानीय विषयतायां तादृशाप्रयोगात् (१० वदेकक्रियान्वयिध्वं साहित्यम् इति प्रवादस्यापि एककारकान्वयित्वेन प्र० श्लो० ९४ टी० पृ० १२० ) इति । इदं च बोध्यम् / तुल्य. तुल्ययोकजातीयक्रिययोरन्वयित्वं समानकालीनत्वम् इ ( श० प्र० श्लो० ९४ टी० पृ० ११९) । भारमनुद्वहन्तं पुत्रमनू दशमिः पुत्रैर्भारं वहति गर्दभी ॥ इत्यादौ सह वर्तमाना इत्यध्याहारात् द्वहन्त्यामपि गर्दभ्यां एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । वर्तमानत्वक्रियामादायैव साहित्यबोधः इति वदन्ति (ग० व्यु० का० ३ पू० ९१) (ल० म०) । अथ वा साहित्यं सहभावः । स च सामाना- धिकरण्यम् । यथा पत्त्या सहाग्निमादध्यात् घटेन सह पटवद्गृहम् इत्यादौ सहशब्दार्थः । अत्र पत्नीकर्तृकस्याग्याधानस्यालौकिकत्वेन तत्समान- कालीनत्वस्य प्रापयितुमशक्यत्वात् सामानाधिकरण्यरूपसहभावमात्रं सहशब्दार्थः स्वीकृत: ( श० प्र० लो० ९४ टी० पृ० १२१) । [ख] समभिव्याहृतपदोपस्थाप्यक्रिया । नामार्थ एवान्वयः । तादृशकालविशिष्टे नामार्थे क्रियान्वये च क्रियाया- मपि तादृशकालावच्छिन्नत्वं भासते । उद्देश्यतावच्छेदकावच्छेदेन विधेया- न्वयस्य व्युत्पत्तिसिद्धत्वात् । अतः क्रियाद्वयसमानकालीनत्वलाभः (ग० व्यु० कार० ३१०९०) इति । एवम् आलापाद्वात्रसंस्पर्शान्निश्वा- सात्सहभोजनात् (स्मृतिः) इत्यत्र एकपङ्कि: सहशब्दार्थ: । कचिञ्च याजनं योनिसंबन्धं स्वाध्यायसहभोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशयः ॥ ( स्मृतिः ) इत्यादौ एकदैकपात्रभोजनाद्यपि सहार्थो ज्ञेयः । अत्रेयं व्यवस्था । सहशब्दार्थस्तत्क्रियाकाल: । स च कचित् तत्क्रिया- न्वयिप्रथमान्तपदार्थेन्वेति । कचिच्च समभिव्याहृतक्रियायाम् । यथा सपुत्र आगच्छति इत्यस्य पुत्रेण सहागच्छति यः इति विग्रहात् प्रथमान्तान्य- पदार्थ एव पुत्रागमनकालान्वयः न तु क्रियायाम् । पुत्रेण सह ना- गच्छति इत्यादौ च क्रियायामेव तादृशसहार्थान्वयः इति पुत्रागमन- कालीनागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति । भारमनुद्वहन्तं सह वर्तमाना इत्यध्याहाराद्वर्तमानत्वक्रियामादायैव साहित्यबोध इति पुत्रमनूद्वहन्त्यामपि गर्दभ्यां सहैव दशभिः पुत्रैर्भारं वहति गर्दभी इत्यादौ वदन्ति ( ग० व्यु० कार० ३ पृ० ९१ ) । [ग] कचिच क्रिया- समानकालीनक्रिया । यथा पुत्रैः सहागतः पिता इत्यादौ सहशब्दार्थः । अत्र क्रियायाः कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः । तादृशसंबन्धेन तद्विशिष्टे च आगतः आगच्छति इत्यादिपदोपस्थाप्यागमन कर्तृत्वादीनाम- न्वये न व्युत्पत्तिविरोधः । विधेयस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात् इति । अत्र गौणक्रियान्वयिनि तृतीया सहार्थयोगे सहयुक्तेप्रधाने (पाणि० २।३।१९) इत्यनेन । साहित्यप्रतियोगिवाचकपदात् तृतीया इति फलितोथे: ( ग० व्यु० का० ३ पृ० ८९ ) । अयमर्थः । पुत्रेण सहागतः पिता इत्यादौ पितुः क्रियासंबन्धः साक्षाच्छब्देनोच्यते पुत्रस्य तु प्रतीयमानः इति पुत्रस्याप्राधान्यम् इति वैयाकरणा आहुः ( काशिका २।३।१९ ) । [घ ] तत्क्रियाकालीनत्वम् । यथा शिष्येण सहागतो गुरुः इत्यादौ । अत्र कर्तृत्वं तृतीयार्थः । तस्य सहशब्दार्थैकदेश क्रियाया- मन्वयः । सहशब्दार्थस्य तादृशकालीनत्वस्य च धात्वर्थेन्वयः । इत्थं च शिष्यकर्तृकागमनकालीनागमनकर्ता गुरुः इति बोधः ( म० प्र० पृ० ६ ) । [ङ ] समभिव्याहृतपदोपस्थाप्यो यत्किंचिद्धर्मः । यथा शिष्येण सह गुरुर्ब्राह्मणः पुत्रेण सह पिता सुन्दरः इत्यादौ सहशब्द- स्वार्थ: । अत्र सहशब्दार्थो ब्राह्मण्यसौन्दर्यादि । तस्य समानकालीनत्व- संबन्धेन ब्राह्मणसुन्दरादिपदार्थैकदेशेन्वयः । परे तु सहार्थः साहित्यम एकधर्मान्वयित्वरूपम् । तृतीयार्थो वृत्तित्वम् संख्यामात्रं वा । तथा च शिष्यसाहित्यवान् गुरुर्ब्राह्मणः इत्यादिबोधः इत्याहुः ( काव्या० पृ०८ ) । २ शाब्दिकास्तु सह विद्यमानत्वम् । यथा सहैव दशभिः पुत्रै वहति गर्दभी इत्यादौ सहशब्दार्थ इत्याहु: ( ल० म० व्यम् । ४ सादृश्यम् । ५ योगपद्यम् । ( मेदि० ) । ८ सामर्थ्यम् ( शब्दमा० ) । ६ समृद्धिः । ७ संबन्धः <सहकारः> १ सहकर्मकरणम् ( सहकारित्वम् ) । २ सुगन्धिराम्रः इति काव्यज्ञा आहुः (अमरः २।४ । ३३ ) । <सहकारित्वम्> स्वभिन्नत्वे सति स्वकार्यकारित्वम् । यथा दण्डस्य मृत्तिका कार्यघटकारित्वम् । <सहचार:> सामानाधिकरण्यम् ( दीधि० २ ) । <सहचरितत्वम्> १ सामानाधिकरण्यम् । २ कचित् व्याप्तिमत्त्वम् / यथा साध्येनासहचरितो व्याप्यत्वासिद्धः इत्यादौ सहचरितत्व शब्दार्थो व्याप्तिः । <सहायता> अन्यकर्तृक क्रियायामप्राधान्येनान्वयित्वम् / यथा देवदत्तो य दत्तेन सह तण्डुलं पचति इत्यादौ यज्ञदत्तस्य पचनक्रियायां सहायता । <सहावस्थायित्वम्> एकदेशैकक्षणावच्छिन्नसामानाधिकरण्यम् । यथा घट- पटयोर्ज्ञानेच्छयोश्च सहावस्थायित्वम् । <सहितत्वम्> साहित्यम् । <सहृदय:> १ प्रशस्तचित्तः । यथा व्यासगौतमकणादादयः सहृदयाः । २ आलंकारिकास्तु काव्यार्थभावनाधीनपरिपक्कबुद्धिः । यथा काव्यं यथायोगं कवेः सहृदयस्य च यश आनन्दादि करोति ( काव्यप्र० (११२) इत्यादौ परिष्कुर्वन्त्यर्थान् सहृदयधुरीणाः कतिपये (रसगङ्गाधरः) इत्यादौ च सहृदयशब्दस्यार्थ इत्याहुः । <सांकर्यम्> १ (दोष: ) संकरः । र एकत्र मेलनम् इति पदार्थविज्ञानवन्त आहुः । <साख्यम्> १ सम्यग्दर्शनम् यथा एषा तेभिहिता सांख्ये बुद्धियोंगे त्विमां शृणु ( गीता० २।३९ ) इत्यादौ सांख्यशब्दस्यार्थः । तदुक्तम् शुद्धात्मतत्त्व विज्ञानं सांख्यमित्यभिधीयते ( व्यासस्मृतिः) (गीता मध्यभा अ० २ श्लो० ३९ ) इति । २ [क] सम्यग्दर्शन प्रतिपादकं शास्त्रम् । यथा देवहूतीं प्रति भगवतोपदिष्टं सांख्यदर्शनम् (भक्तियोगः) (भाग ० स्क० ३ अ० २६ २७) । अत्रार्थे व्युत्पत्तिः संख्यायते इति संख्या सम्यग्ज्ञानम् । तत्संबन्धि सांख्यम् ( अण् ) इति । एतत्सांख्यस्य प्रवर्तको देवहूतीपुत्रः श्रीभगवदवतारः कपिलः श्रीमद्भागवतादौ प्रसिद्धः । तदु- क्तम् कपिलस्तत्त्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षा- दात्मप्रज्ञप्तये श्लो० १) इति । नृणाम् ॥ ( भाग० स्क० ३ अ० अत्रोक्तम् पञ्चमः कपिलो नाम सिद्धेशः कालविलुतम् । प्रोवाचासुर सांख्य संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ( मात्स्यपु० अ० ३) इति । [ख] सांख्योक्तो योगः । भगवदुक्तो योगस्तु योग आध्यात्मिकः पुंसामतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य वे ॥ ( भाग० ३।२५/१३) इत्यादिना ग्रन्थेनोक्त इति विज्ञेयम् । एवम् पतञ्जलि प्रणीतस्य योगशास्त्रस्यै काध्यायात्मकपादचतुष्टयस्यापि सांख्य- १२४ न्या० को० प्रवचनसंज्ञा ज्ञेया (सांख्य० भा० १११ प्रस्ता० पृ० ७) । [ग] नास्तिककपिलप्रणीतो दर्शनविशेषः । अत्रेदं बोध्यम् । नास्तिककपिलेन स्वयं पूर्वप्रणीतस्य सांख्य प्रवचनसंज्ञकस्य तत्त्वसमासाख्यस्य द्वाविंशति- (२२) संख्यकस्य संक्षिप्तसूत्रस्य विस्तररूपेण षडध्यायात्मकः अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः इत्यारभ्य यद्वा तद्वा तदुच्छित्तिः विरचितः इति । नास्तिककपिलप्रणीतसांख्यस्य पतञ्जलिप्रणीतयोग- पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः इत्येतत्पर्यन्तः सूत्रोपनिबद्ध शास्त्रस्य चानुपादेयत्वमुक्तं भारते मोक्षधर्मेषु सांख्यं योगः पाशुपत वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥ ( गीता० मध्यभा० अ० २ लो० ३९) इति । सांख्यमतप्रवर्तकच आस्तिकनास्तिकभेदेन द्विविधः । तत्रास्तिको द्वौ देवहूतीपुत्रः सेश्वरसांख्यो योगशास्त्रप्रवर्तकः पतञ्जलिनामा ब्राह्मणश्च । कस्तु निरीश्वरसख्यिो देवहूतीपुत्रादन्यः कपिलनामा कश्चिद्राह्मणः । देवहूतीपुस्तु सांख्य प्रवर्तकः श्रीवासुदेवावतार आस्तिक एव । प्रसूतं कपिलं यस्तम ज्ञानैर्बिभर्ति जायमानं च पश्येत् ( ० राजयोगा ख्यमे काव्यायं पादचतुष्टयात्मकं अथ योगानुशासनम् इत्यारम् ५१२ ) इति श्रुतेः । सिद्धानां कपिलो मुनिः इति स्मृतेश्च । स पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिच्छक्ति रिति इत्येतत्पर्यन्तं सूत्रोपनिबद्धं योगशास्त्रं प्रणिनाय इति । अथ कपिल- मतं संक्षेपेणोच्यते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । सा चैकैव / पुरुषास्तु परं भिद्यन्ते । ते च कूटस्था नित्या अपरिणामिनों नित्य- चैतन्यस्वभावाः । ते च पङ्गवः । अपरिणामित्वात् । प्रकृतिस्त्वन्धा । जडत्वात् । यदा विषयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा तदा सा पुरुषोपरागवशात् परिणमते । तस्याश्चाद्यः परिणामो बुद्धि- रन्तःकरणविशेषः । बुद्धिरेव महत्तत्त्वम् । सा च बुद्धिर्दर्पणवन्निर्मला । तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घटः इति कपिल: नास्ति ऋर्षि च प्रकृतेर्भवति पटः इति तत् ज्ञानम् वृत्तिः इति चाख्याते। वर्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाप्रहात् अहं जानामि इति योभिमान विशेषः सैवोपलब्धि: । त्रक्चन्दनादि विषयसंनिकर्षादिन्द्रिय- अत एव ज्ञानसुखदुःखेच्छा द्वेषप्रयत्नसंस्कारधर्माधर्माः सर्व एव बुद्धेः प्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणाम विशेषः स प्रत्ययः । परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावेव वर्तमाना अवस्थाभेदादावि भवन्ति तिरोभवन्ति च । पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिबिम्बते परं बुद्धौ (वै० उ० ८ । १ । १ पृ० ३५६) इति । तन्मते तत्त्वानि पञ्चविं- शतिः मूलप्रकृतिः १ महत्तत्वम् २ अहंकार: ३ पञ्चतन्मात्राणि शब्द- स्पर्शरूपरसगन्धाः ४-८ पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाः ९-१३ पञ्च ज्ञानेन्द्रियाणि चक्षुस्त्वग्रसनघ्राणश्रोत्राणि १४-१८ पञ्च कर्मे- न्द्रियाणि पायूपस्थपाणिपादवाचः १९-२३ मनः २४ पुरुष २५ श्चेति (सांख्यसू० अ० १ सू० ६१) । तत्र चतुर्धा विभागः केवला प्रकृतिः केवला विकृतिः प्रकृतिविकृत्युभयम् अनुभयं चेति । तद्यथोक्तम् मूलप्र- कृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ( सांख्यकारिका ३) इति । एतन्मते पर णामवादः । निरीश्वरसांख्यमते परमात्मा न स्वीक्रियते । अत्र शिष्टं तु मत्कृते षड्दर्शनसार निरुक्तिनाम के प्राकृतभाषाबद्धे चोपन्यासे दृश्यम् । ३ सांख्यशब्देन ज्ञानवानप्युच्यते । अत्रार्थे संख्या ज्ञानम् तद्वान् संख्यः (अच् ) स एव सांख्यः इति व्युत्पत्तिज्ञेया । तदुक्तं महाभारते संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीर्तिताः ॥ ( सांख्यभा० पृ० ८ ) इति । <सांवादिकः> संवाददाता । स च नैयायिकः ( जटा० ) ( वाच० ) । <सांसिद्धिकम्> (द्रवत्वम् ) स्वभावनिर्वृत्तम् । निमित्तान्तराजन्यमित्यर्थः । यथा जलनिष्ठं द्रवत्वं सांसिद्धिकम् । हिमादीनां घनीभावः कारण- विशेषेण । द्रवीभावस्त सांसिद्धिकः । घृतादीनां तु घनीभावः सांसि- द्धिकः । द्रवीभावस्तु नैमित्तिकः इति तयोर्विशेषः । शिष्टं तु द्रवत्व- शब्दव्याख्यानादौ दृश्यम् । <साकाङ्क्षत्वम्> १ अन्योन्यविषयाकाङ्क्षाजनकत्वम् (त० मा० ४ पृ० १८) । यथा गामानय इत्यादौ गवानयनयोः साकाङ्क्षत्वम् । नियत- साकाङ्कोदाहरणं तु चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्या ( महाभाष्ये २।१।१ ) इत्यादि । इदं च शाब्दप्रमितौ प्रयोजकम् । अत एव गौरश्वः पुरुषो हस्ती इति घटो घटः इति च निराकाङ्क्षवाक्यान शाब्दप्रमितिः इति विज्ञेयम् । अत्र पदानि साकाङ्काणि अर्थाः साकाङ्क्षा वा इति प्रश्ने उत्तरमाह । अर्थास्तावत् स्वपदश्रोतरि अन्योन्यविषयाकाङ्क्षा जनकत्वेन साकाङ्क्षाः इत्युच्यन्ते । तद्वारेण तत्प्रतिपादकानि पदान्यपि साकाङ्क्षाणि इत्युच्यन्ते । यद्वा पदान्येव स्वार्थ प्रतिपाद्यार्थान्तर विषयाकाङ्कनका इत्युपचारात् साकाङ्क्षाणि (त० मा० पृ० १८) इति । २ सामिलापत्वं साकाङ्क्षत्वम् इति काव्यज्ञा आहुः । <साकारत्वम्> १ धर्माश्रयत्वम् ( मू० म० १ ) । यथा अयं घटः इति ज्ञानस्य घटत्वाश्रयत्वम् । स्वनिष्ठ प्रकारता निरूपित प्रकारिता यत्किंचिद्धर्म विशिष्टत्वम् इत्यर्थः । २ माध्वाः पौराणिकाश्च मूर्तिविशिष्टत्वम्। यथा परमात्मनः साकारत्वम् इत्याहुः । अयं भावः । मध्यमते परमा त्मनोप्राकृतज्ञानानन्दादिगुणरूपशरीरस्वीकारेण साकारत्वं संगच्छते। पौराणिकमते तु अपाञ्चभौतिकेच्छा स्वीकृतलीला विग्रहवत्त्वेन तस्य साका- रत्वमुपपद्यते इति । <साक्षात्> १ प्रत्यक्षम् । यथा साक्षादृष्टो मया हरिः इत्यादौ । केचितु लौकिक प्रत्यक्षम् इत्याहुः । २ [ क ] मायावादिवेदान्तिनस्तु हितम् (बृह० उप० शांकरभा० ३।४।१ ) । तच्च सद्रूपं चैतन्यं इत्याहुः । यथा यत्साक्षादपरोक्षाद्रह्म ( बृह० उप० ३/४/१ ) इति श्रुतौ साक्षात् इत्यस्यार्थः ।ख ] परंपरासंबन्धराहित्यम् । यथा द्रव्यत्वसाक्षाया जातिः पृथिवीत्वम् इत्यादौ साक्षात्शब्दार्थः । अत्र साक्षाद्व्याप्यत्वं च तड्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं बोध्यम् । यथा च साक्षान्माता साक्षाद्भगिनी इत्यादौ साक्षात्शब्दार्थः । ३ तुल्यम् । यथा साक्षा- लक्ष्मीरियं वधूः इत्यादौ साक्षात्शब्दार्थः इति काव्यज्ञा भाईः ५ (अमरः ३।३।२४२ ) । <साक्षात्कारः> [क प्रत्यक्षात्मकं ज्ञानम् ( न्या० म० १ १० ३) । यथा साक्षात्कारे सुखादीनां करणं मन उच्यते (भा०प० श्लो० ८६) इत्यादौ साक्षात्कारशब्दस्यार्थः । अत्र साक्षात्कारत्वं च साक्षात्क इत्यनुगत प्रतीतिसाक्षिको जातिविशेषः ( न्या० म० १ ) । [ख ] लौकिक संनिकर्षजन्यं प्रत्यक्षं साक्षात्कार इति केचिदाहुः । <साक्षात्कारि> प्रत्यक्षात्मकं ज्ञानम् । यथा साक्षात्कारिप्रमाकरणं प्रत्यक्षम् । साक्षात्कारिणी प्रमा सैवोच्यते येन्द्रियजा ( त० भा० पृ० ५ ) इत्यादौ साक्षात्कारिशब्दस्यार्थः । <साक्षात्संबन्धः> पारम्पर्यरहितः संबन्धः । यथा भट्टमते शब्दो द्रव्यम् साक्षात्संबन्धेनेन्द्रियग्राह्यत्वात् घटवत् ( न्या० म० ४ पृ० ३१ ) इत्यत्र साक्षात्संबन्धशब्दस्यार्थः । अत्र साक्षात्वं च इतरपदार्थाप्रति सत्युद्दिष्टपदार्थ प्रतियोगिकत्वम् इति । साक्षात्संबन्धश्च संयोग 'समवाय एतदन्यतरः ( त० प्र० ख० ४ पृ० १२६) । एव- योगिकत्वे मन्योपि चिन्त्यः । <साक्षी> १ बोद्धवे सति अकर्ता । यथा कलहे प्रवृत्ते कश्चनान्यः पुरुषः साक्षी । मायावादिवेदान्तिमते उपाध्युपहितं केवलं चैतन्यं साक्षि । यथा साक्षी चेताः केवलो निर्गुणश्च (श्रुतिः ) इत्यादौ जीवेश्वरौ साक्षिण इति । तन्मते जीवसाक्षीश्वरसाक्षिद्वैविध्येन प्रत्यक्षज्ञान द्वैविध्यम् । तत्र जीवसाक्षि चान्तःकरणोपहितं चैतन्यम् । तच जीवभेदेन नाना । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूत- मायाया एकत्वात् इति । जीवेश्वरयोरन्तःकरणमायारूपतदुपाध्यो- तत्तदुपाधिवृत्तिचैतन्यस्यैव अवभासकत्वात्साक्षित्वमुपपद्यते (वेदा० परि० १ पृ० १८) । माध्वमते तु स्वरूपेन्द्रियं साक्षि न तु मनः । अत्र साक्षिलक्षणं तु आत्मस्वरूपज्ञानादिव्यञ्जकत्व- इति स्पष्टम् । अत्रोक्तम् प्रत्यक्षं सप्तविधम् साक्षिषडिन्द्रियभेदात् । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपतद्धर्मज्ञान- सुखादयः भावरूपाविद्या मनस्तमश्च ज्ञानसुखाद्याः कालो व्याकृताकाश- याद्याः । स च स्वरूपज्ञानादिकं व्यनक्ति ( प्र० च० पृ० १५ ) इतिः । सांख्यमते तु बुद्धेः साक्षी पुरुषः । अत्र सूत्रम् साक्षात्संबन्धात् साक्षित्वम् (सांख्य० अ० १ सू० १६१) । अत्रार्थे पाणिनिसूत्रम् सा- द्रष्टर संज्ञायाम् (पाणि० ५/२/९१) इति । अत्रायं विवेकः । सुषुत्या- द्यवस्थात्रयसाक्षित्वं तु सांख्यमते बुद्धिनिष्ठसुषुत्या दियद्रष्टृत्वमा पुरु (सांख्य ० अ० १ सू० १४८) (सांख्य० मा० १/१६१) । मायावादिमते तु तादृशबुद्धिवृत्तीनां प्रकाशनम् ( वेदा०प० ) इति । तदुक्तम् जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः ॥ ( सांख्य० भा० अ० १ सू० १४८) । मध्वमतानुयायिनस्तु स्वप्रकाशात्मस्वरूपोनुभवः साक्षी इत्याहुः । वली पृ० २२) । व्यवहारशास्त्रज्ञास्तु विवादविषयप्रमाता साक्षी । तत्स्वरूपमुक्तं मनुना समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिद्ध्यति ( मनु ७४ ) इति । साक्षिप्रयोजनमुक्तं नारदेन संदिग्धेषु तु ( वीरमित्रो० अ० २ पृ० १४२) । गौतमेनाप्युक्तम् विप्रतिपत्तौ साक्षि कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् ॥ निमित्ता व्यवस्था इति । स च साक्षी द्विविधः कृतः अकृतथ । तत्राद्यः साक्षित्वेनार्थिप्रत्यर्थिभ्यां निरूपितः । द्वितीयस्तु ताम्याम निरूपितः । पुनश्च कृतस्य लिखितस्मारितयदृच्छाभिज्ञगूढोत्तर सा भेदेन पञ्चविधत्वम् । अकृतस्य च ग्रामादिभेदेन षडिधत्वम् । एवं चैकादशविधाः साक्षिणः इत्याहुः । तथा चोक्तं नारदेन ग्रामश्व प्र विवाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्शिना मित्रो० अ० २ पृ० १४४ ) इति । अत्राधिकं त नारदो वीरमित्रो. प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेपि साक्षिणः (वीर- दयादौ द्रष्टव्यम् । <सादृश्यम्> [क] असाधारणान्यतद्गतबहुधर्मवत्त्वम् (चि० ३१०३-४) यथा चन्द्रवन्मुखम् घटसदृशः पटः इत्यादी मुखादावाह्लादकत्वादिन चन्द्रादिसादृश्यम् (मु० १ ) ( चि० ३ पृ० ४ ) । तदुक्तम् साम "न्यान्येव भूयांसि गुणा- (तुल्या) - वयवकर्मणाम् । भिन्नप्रधानसामान् व्यक्तं सादृश्य मिष्यते ॥ (चि० ख० ३ पृ० २) इति । अत्र विप्रति- पत्तिः सादृश्यं च सप्तपदार्थातिरिक्तं वा न वा इति । तत्र सादृश्यं सप्त- पदार्थातिरिक्तम् इति मीमांसकादय आहुः । तत् तदतिरिक्तः पदार्थों न ॥ भवति इति नैयायिकाः प्राहु: ( चि० ख० ३) । तत्र मीमांसकमते सादृश्यस्यातिरिक्तत्वे प्रमाणं च सादृश्यं न षड़ावेष्यन्तर्भवति । व्यति- रेकित्वे सति सामान्येतरवृत्तित्वे च सति सामान्य वृत्तित्वात् अभाववत् इति । सादृश्यमभावेपि नान्तर्भवति भावत्वेन प्रतीयमानत्वात् इत्यनु- मानम् । तेन सादृश्यं कृप्तसप्तपदार्थातिरिक्तं सिद्ध्यति इति । अत्र पद- प्रयोजनम् । सामान्यत्वे व्यभिचारवारणाय सामान्येतरवृत्तित्व इति पदम् । प्रमेयत्वे व्यभिचारवारणाय व्यतिरेकित्व इति पदम् । भावत्वे च द्रव्यादि- पढान्यतमत्व रूपे हेतुमति साध्यस्य सच्चान्न व्यभिचारः इति । सादृश्यस्य सामान्यवृत्तिवे प्रमाणं तु यथा गोत्वं नित्यम् तथाश्वत्वमपि नित्यम् इति सादृश्यप्रतीतिः । तथा च सादृश्यस्य द्रव्याद्यन्तभूतत्वे बाधकमपि यदि सादृश्यं द्रव्यादावन्तर्भूतं तदा द्रव्यादेः सामान्यावृत्तित्वेन यथा गोवं नित्यम् तथाश्वत्वम् इत्यबाधितप्रतीतिर्न स्यात् (दि० १ पृ० २४) इति । नव्या अपि सादृश्यमतिरिक्तमेव । न च अतिरिक्त पदार्थविभाग- व्याघातः इति वाच्यम् । तस्य पदार्थविभागस्य साक्षात्परंपरया वा तत्त्वज्ञानोपयोगिपदार्थमात्र निरूपणपरत्वात् । एवम् अधिकरणत्वम् विषय- त्वम् प्रतियोगित्वम् इत्यादिकमप्यतिरिक्त पदार्थः इत्याहुः ( दि० १ पृ० २४ - २८ ) । [ख ] तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वम् । तच्च भाव: । तद्भिन्नत्वे सतीत्यस्यार्थस्तु तद्गतभूयोधर्मसदृशधर्मवत्त्वम् । तेन भेदेन भिन्नतया चन्द्रगताह्लादजनकत्वस्य चन्द्रमात्रवृत्तितया मुखे तद- चन्द्रवन्मुखम् इत्यादौ आह्वादजनकत्वरूप सादृश्यघटकजनकताया जनक- भावेपि न क्षतिः । अत्र चन्द्रवन्मुखम् इत्यादी धर्म धर्मसादृश्यं च जनकतात्वादिना विज्ञेयम् । स च धर्मोनुगत एव इति । अवशिष्टं तु तुल्यत्वशब्दार्थे संपादितं तत्र द्रष्टव्यम् । अथ वा तत्र साधारण्येन विद्य- माना ये भूयांसो धर्माः तद्वत्त्वम् इति । अत्र सादृश्यनिरूपकेतिव्याप्ति- वारणाय तद्भिन्नत्वे सति इति विशेषणं दत्तम् । अनुयोगितासंबन्ध- विवक्षणे तद्विशेषणं न देयमेव ( दि० १ पृ० २७) इति । अत्रायं भावः । अनुयोगितासंबन्धेन तद्गतभूयोधर्मवत्त्वम् इत्येव तत्सादृश्यम् । तद्गत धर्मरूपसंबन्धे तदनुयोगिकत्वानभ्युपगमेनैव सादृश्यप्रतियोगिन्यति- व्याप्तिवारणसंभवात् तद्भिन्नत्वे सति इति विशेषणमनर्थकमेव ( राम० १ पृ० २७ ) इति । अत्रेदं बोध्यम् । सादृश्यवाचकास्तु इवादिनिपाताः सदृशादिनामानि च सन्ति । तत्र इवादिभिर्निपातैः सादृश्यस्याि प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वमपेक्षितम् गौरिव गवयः चन्द्रमिव मुखं पश्यति इत्यादि । तुल्यसादृश्याख्यसंब चैकस्य प्रतियोगिता अन्यस्यानुयोगिता । तत्र प्रतियोगिन उपमान अनुयोगिन उपमेयत्वम् इति । उपमानोपमेयभावस्य द्वयोः संभवेपि दिनाम्ना तुलोपमातिरिक्तेन सादृश्यस्याभिधाने तु प्रतियोगिपदे तृतीय प्रसिद्धस्यैवोपमानता । तन्निर्णयादिकं तु कविकल्पलतायां दृश्यम् । सहशा- षष्ठी च स्यात् । यथा पित्रा पितुर्वा सदृशः पुत्रः इति । तुलोपमाभ्यां योगे तु षष्ठी शेषे इति सूत्रेण षष्ठ्येव स्यात् । यथा तुला देवदत्तस्य नास्ति उपमा कृष्णस्य नास्ति इति । पित्रा पितुर्वेत्यत्र षष्ठीविकल्पविधायकं सूत्र तु तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् (पाणि० २/३/७२ ) ३ साधारणासाधारण विरुद्धधर्मभेदेन सादृश्यं त्रिविधम् ( ल० म० ) । <साधकम्> १ ( हेतुः ) साध्यज्ञापकम् । यथा पर्वतो वह्निमान् धूमा करणम् ( पाणि० १।४।४२ ) इत्यादौ कारकविशेषः / ३ सिद्धि- ज्ञास्तु जन्मतारावधिकानि षष्ठपञ्चदशचतुर्विंशनक्षत्राणि इत्याहुः । अत्रोक्तम् जन्मसंपद्विपत्क्षेमं प्रत्यरिः साधको वधः । मित्रं परममित्रं च <साधकमानम्> १ सिद्धिः साध्यवत्तानिश्चयः ( दीधि० २ पक्ष० पू १३३ ) । यथा नापि साधकबाधकमानाभाव: पक्षत्वम् ( चि० पक्ष पृ० ३२ ) इत्यादौ साधकमानशब्दस्यार्थः । २ साधकं प्रमाणम् / जन्मर्क्षाद्गणयेत्तिधा ॥ ( ज्यो० त० ) इति । <साधनम्> १ ( हेतुः ) सिद्धिजनकम् ( दि० गु० ) । अत्र जनकत्वं च जनकज्ञान विषयत्वम् इति वक्तव्यम् । तेन घूमज्ञानस्यैव सिद्धिजनकत्वेन घूमे सिद्धिजनकत्वाभावेपि न क्षतिः । यथा पर्वतो वह्निमान् धूमात् इत्यादौ धूमः साधनम् । २ क कारणम् ( मथुरा० ) । घटस्य साधनं दण्ड: पटस्य साधनं तन्तुः इत्यादौ साधनशब्दार्थः । साक्षात्साघनत्वं च अव्यवहितपूर्वत्वसंबन्धेन कार्याधिकरणीभूतक्षणनिष्ठा- अत्र साधनत्वं द्विविधम् साक्षात्साघनत्वं परंपरासाधनत्वं चेति । तत्र स्वर्गोत्पत्ति प्रत्यपूर्वस्य साधनत्वम् । परंपरासाधनत्वं च अव्यवहित- त्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वम् । यथा पूर्व वसंबन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छे- दकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सति कार्यनियतपूर्ववर्ति- तावच्छेदकान्यथासिद्ध्यनिरूपक धर्मवत्वम् ( मथुरा० ) । यथा स्मृतिं प्रत्यनुभवस्य साधनत्वम् । [ख] इतरकारणकलापे यदतिशयितं कारणम् तत्साधनम् इति मध्वमतानुयायिन आहुः (प्र० च० पृ० १४ ) । अनुमितिः । यथा पर्वते धूमेन वहिसाधने इत्यादौ साधनपदार्थः । ग कारकत्वेनान्वयि साधनम् इति शाब्दिका वदन्ति । ३ सिद्धिः यथा वा द्रव्यत्वादेरपि धूमेन साधनात् (गौ० वृ० ५/१/२७) इत्यादौ साधनशब्दस्यार्थः । <साधनवैकल्यम> दृष्टान्ते साधनस्यावर्तमानत्वम् । अत्रेदं बोध्यम् । दृष्टान्ते साधनवैकल्यादयो निग्रहस्थानेन्तर्भवन्ति ( दि० १) इति । <साधनाप्रसिद्धिः> ( हेतुदोषः असिद्धिः ) हेतौ हेतुतावच्छेदकस्याभावः । यथा पर्वतो वह्निमान् काञ्चनमधूमात् इत्यादौ धूमनिष्ठः काञ्चनमयत्वा- भाषः साधनाप्रसिद्धि: ( म० प्र० २ पृ० २७) । इयं च साधना- प्रसिद्धिः व्याप्यत्वासिद्धिप्रभेद इति विज्ञेयम् ( नील० २१० २६) (मु० २ पृ० १६१) । तलक्षणं च साधने साधनतावच्छेदक- वैशिष्ट्यावाहिग्रहविरोधिग्रहविषयत्वम् ( ल० व० ) । अत्र काञ्चनमय- घूमादिहेतुकस्थले हेतुतावच्छे द कवि शिष्टहे तोर्ज्ञानाभावात् तद्धेतुकव्याप्ति- १२५ न्या. को० ज्ञानादेरभावः फलम् (मु० २ पृ० १६२) । अथ वा साधना प्रसिद्धि- ( नील० २ पृ० २६) । शिष्टं तु व्याप्यत्वासिद्धिशब्दव्याख्यानावसरे ग्रहदशायाम् हेतुतावच्छेदक विशिष्टे साध्यव्याप्तिग्रहप्रतिबन्धः फलम् संपादितं तत्तत्र दृश्यम् । <साधनासिद्धिः> साधनाप्रसिद्धिः । <साधर्म्यदृष्टान्तः> अन्वयव्याप्तिग्रहणस्थलम् । यथा धूमेन बहनुमाने महानसः । यत्र यत्र धूमस्तत्राग्नियेथा महानसः इति (प्र० च० पृ० २८)। अत्राधिकं तु दृष्टान्तशब्दे अन्वयदृष्टान्तशब्दे च दृश्यम् । साधर्म्यनिदर्शनम् -[क] अम्बयदृष्टान्तः । [ख] अनुमेयेन न्येन लिङ्गसामान्यस्यानुविधानदर्शनम् । तद्यथा यत् क्रियावत् तद्रव्यं दृष्टं यथा शरः इति ( प्रशस्त ० २ पृ० ४८) । [ग] अन्वय्य दाहरणम् । <साधर्म्यनिदर्शनाभासः> (निदर्शनाभासः ) लिङ्गानुमेयोभयाश्रया सिद्धय ननुगत विपरीतानुगतः । यथा यदनित्यं तन्मूर्त दृष्टं यथा परमाणु कर्म यथाकाशम् यथा तमो घटवत् यन्निष्क्रियं तदद्रव्यं दृष्टम् इ ( प्रशस्त० २ पृ० ४८) । एवमन्वयदृष्टान्ताभासशब्दोपि व्याख्येयः । <साधर्म्यम्> [ क ] समानधर्मः । यथा कमल सुन्दरं सुखम साधर्म सौन्दर्य मुखकमलयोः साधर्म्यम् । यथा वा षण्णां पदार्थानां वैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० ) इत्यादौ साधर्म्य शब्दार्थ ( न्या० कन्द० पृ० ६ ) । [ख ] अनुगतो धर्मः (० १।१।४ ) । समानो धर्मः इति फलितोर्थ: (मु० १ १० यथा अस्तित्वम् ज्ञेयत्वम् प्रमेयत्वम् अभिधेयत्वं च द्रव्यादीनां सप्तानों पदार्थानां साधर्म्यं भवति । अत्र ज्ञेयत्वाभिधेयत्वा दिशब्दानामीश्वरीयज्ञान- विषयत्वाभिधाविषयत्वादिरूपोर्थः केवलान्वयित्वोपपत्त्यर्थं स्वीकर्तव्यः । विषयत्वमेव सप्तपदार्थानां लक्षणम् । तेन ईश्वरानङ्गीकर्तृमतेपि जीव ज्ञानविषयतादिकमादाय लक्षणसमन्वयः इत्यवधेयम् । यथा वा कारण परिमाण्डल्यभिन्नानां पदार्थानां साधर्म्यं भवति । कार्यत्वानित्यत्वे कारणवतामेव साधर्म्ये भवतः । आश्रितत्वं नित्यद्रव्यभिन्नानां पदार्थानां साधर्म्यं भवति । अत्र आश्रितवं च सर्वाधारतानियामक संबन्धान्य- संबन्धेन वृत्तिमत्त्वम् । तेन काले नातिव्याप्तिः (ल० व०) । निर्गुणवं क्रियाशून्यत्वं च गुणादिषस्य । निर्गुणत्वमित्यस्य गुणवदवृत्तिधर्मवत्त्वम् इत्यर्थः । अत्रेदमधिकं बोध्यम् । गुणादिषट्स्य संख्यां विनापि धीविशेष- विषयत्वमादायैकत्वादि प्रतीतेस्तद्व्यवहारस्य चोपपत्तिः कर्तव्या इति कर्मप्रभृतीनां ( त० व० ) । गुणाधिकरणावृत्तिगुणावृत्तिधर्मवस्वं पञ्चानाम् । सामान्यशून्यत्वं सामान्यादीनां चतुर्णाम् । तदर्थश्च समवाय- संबन्धावच्छिन्नप्रतियोगिताकजातिसामान्याभाववत्त्वम् । सत्त्वाश्रयावृत्ति- जात्यवृत्तिधर्मवत्त्वं विशेषादित्रयाणाम् । प्रतियोगित्वानुयोगित्वान्यतर- संबन्धावच्छिन्नसमवायनिष्ठावच्छेदकताकभेदवत्वं समवायाभावयोः । भावत्वं द्रव्यादिषट्स्य । अत्र भावस्वं च समवाय सामानाधिकरण्य एत दन्यतरसंबन्धेन सत्तावत्त्वम् ( दि० १११ अभावनि० पृ० ४१ ) ( ल० व० ) । अनेकत्वे सति भावत्वम् समवायित्वं च द्रव्यादिपञ्च- कस्य । अनेकत्वे सतीत्यस्य अनेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वम् इति फलितोर्थ: (मु० १ पृ० ४६ ) । समवायित्वमित्यस्यार्थश्च सम- वायसंबन्धेन संबन्धित्वम् । तेन सामान्यादौ नाव्याप्तिः (मु० १ १० ४६ ) । अथ वा समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वम् ( ल० व० पृ० ३ ) । समवेतसमवेतत्वं द्रव्यादिचतुष्टयस्य । तच्च समवेत- समवेतवृत्तिपदार्थ विभाजकोपाधिमत्त्वम् ( ल० व० ) ( दि० गु० १ पृ० ४६ ) । समवायेन सत्तावत्वम् कारणत्वं च द्रव्यादित्रयस्य । अत्र भाष्यम् । द्रव्यादीनां त्रयाणामपि सत्तासंबन्धः सामान्य विशेष- वत्त्वम् स्वसमवायः अर्थशब्दाभिषेयत्वम् धर्माधर्मकतृत्वं च ( प्रशस्त (पृ० ३) इति । नित्यानित्योभयवृत्तिसत्ताभिन्नजातिमत्त्वम् कर्मावृत्तिजाति- मत्त्वं द्रव्यगुणयोः । असमवायिकारणस्वं गुणकर्मणोः । समवाय- कारणत्वं द्रव्यस्य । तत्र द्रव्यत्वम् गुणवत्वं च पृथिव्यादीनां नवानां द्रव्याणाम् । गुणाश्रयवृत्तिसत्ताभिन्नजातिमत्त्वम् इत्यर्थः (ल० व० ) ( त० दी० १ पृ० ५ ) । गुणसमानाधिकरणमनोवृ[१]त्तिधर्मवत्खं क्षित्या- द्यष्टद्रव्याणाम् । आत्ममनःसंयोगाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं क्षिया दिसप्तानाम् । जगदाधारत्व भूतत्वान्यतरवत्त्वं क्षित्यादीनां षण्णाम् । पृथिव्यादीनां पञ्चानां भूतत्वम् इन्द्रियप्रकृतित्वं च । पृथिव्यादिचतुर्णां द्रव्यारम्भकत्वम् स्पर्शवत्वं च । द्रव्यारम्भकत्वं च द्रव्यसमवायिकारण- वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् । तेन न द्रव्यानारम्भकघटादावव्याप्तिः (मु० १ पृ० ५९) । रूपवत्त्वम् द्रवत्ववत्वम् प्रत्यक्षविषयत्वं च पृथिव्यादित्रयस्य । गुरुत्ववत्त्वम् रसवत्वं च पृथिवीजलयोः । नैमित्तिक द्रवत्ववत्वं पृथिवीतेजसोः । गन्धाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं जला- द्यष्टद्रव्याणाम् । रसासमानाधिकरणद्रव्यविभाजकधर्मवत्त्वं तेजःप्रभृति- सप्तद्रव्याणाम् । रूपासमानाधिकरणद्रव्यविभाजकधर्मवत्त्वं वाय्वादीनां षण्णाम् । स्पर्शवद वृत्तिद्रव्य विभाजकधर्मवत्त्वमाकाशादीनां पञ्चानाम् । भूतावृत्तिद्रव्यविभाजकधर्मवत्त्वं कालादीनां चतुर्णाम् । कालोपाध्यसमाना• धिकरणशब्दवदवृत्तिद्रव्यविभाजकोपाधिमत्त्वं दिगात्ममनसाम् / स्वसम वायिकारणत्वस्वकरणेन्द्रियत्वान्यतरसंबन्धेन सुखप्रत्यक्षवत्वमात्ममनसोः / पृथिव्युदकज्वलनपवनजीवात्ममन सामनेकत्वापरजातिमत्त्वे ।" कालदिगात्मनां सर्वगतत्वम् ( विभुत्वम् ) परममहत्वम् सर्वसंयोगि समानदेशत्वं च । पृथिव्युदकजीवात्मनां चतुर्दशगुणवत्त्वम् / दिकालयोः पञ्चगुणवत्त्वम् । सर्वोत्पत्तिमतां निमित्तकारणत्वम् । विशेष आकाश च पृथिव्यादिचतुष्टयस्य मनसश्च । अव्याप्यवृत्तिविशेषगुणवत्त्वम् क्षणिक विशेषगुणवत्त्वं च आकाशजीवपरमात्मनाम् साधर्म्य भवति ( प्रशस्त क्षणिक विशेषगुणवत्त्वं च चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्तम् ( मु० १ पृ० ६१ ) । तथा हि । चतुःक्षणवृत्तीनि यानि जन्यानि घटा [^१ अवृत्तीति पदच्छेदः ।] दीनि तदवृत्तिर्या जातिः ज्ञानत्वादिः तद्वान् विशेषगुण: ज्ञानादिः तद्वत्त्व- स्यात्मादौ सत्त्वालक्षणसमन्वयः ( दि० १११ पृ० ६१) । अत्रेदं बोध्यम् । यद्याकाशजीवात्मनोरेव साधर्म्यमुच्यते तदास्मिन्परिष्कारे जन्य इति पदं न देयम् । द्वेषत्वादिकं धर्ममादाय तत्र लक्षणसमन्वयः कर्तव्यः (मु० १/१ पृ० ६१ ) । एवमन्येषामपि तत्तःसाधर्म्ये खयमूह्यम् । ( किर० १/१ पृ० ३९ ) । तथा हि । रूपादीनां गुणानां सर्वेषां गुणत्वाभिसंबन्धः गुणादीनां द्रव्याश्रितत्वम् समवायिकारणत्वानाश्रयत्वं च साधर्म्यम् इत्यादि ( प्रशस्त० पृ० ११ ) । <साधर्म्यसमः> ( जातिः ) [ क ] साधर्म्येणोपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यसम: (गौ० ५/१/२) । तदर्थश्च उपसंहारे साध्यस्योपसंहरणे बादिना कृते तद्धर्मस्य साध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य साधर्म्येण केवलेन व्यायनपेक्षेण यदुपपादनम् ततो हेतोः साधर्म्यसम उच्यते ( गौ० वृ० ५/११२) इति । साधर्म्यमात्रं गमकतौपयिकम् इत्यभिमानात् सत्प्रतिपक्षदेशनाभासोयम् । वार्तिककृतस्तु अयमनैका- न्तिकदेशनाभासः इत्यङ्गीचक्रुः (गौ० दृ० ५/११२ ) । अत्र भाष्यम्। साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम विशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनम् क्रिया- वानात्मा । द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान् । तथा चात्मा । तस्मान् इति । एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा । विभुनो द्रव्यस्य निष्क्रियत्वात् । विभु चाकाशं निष्क्रिय च । तथा चात्मा । तस्मान्निष्क्रियः इति । न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यंम् न पुनर- निष्क्रियेण इति । विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति (वात्स्या० ५।१।२) । [ख वादिनान्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतुना तदभावापादनम् । संहृते नैतदेवम् यद्यनित्य घटसाधम्योन्नित्याकाशवैधर्म्याद्वा अनित्यः स्यात् यथा शब्दः अनित्यः कृतकत्वाद्धटवत् व्यतिरेकेण वा व्योमवत् इत्युप- नित्याकाश साधर्म्यादमूर्तत्वान्नित्यः स्यात् । विशेषो वा वक्तव्यः ( गौ० दृ० ५।१।२ ) इति । [ग] साधर्म्येण स्थापना हेतु दूषकमुत्तरम् । य आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवत् इति स्थापनायामुत्तरम् । यदि सक्रियसाधर्म्यात्सक्रियस्तदा विभुत्वरूपान्निष्क्रियसाधर्म्यान्निष्क्रिय एव किं न स्यात् । न चात्र किंचिद्विनिगमकमस्ति इति । क्रियाहेतुगुणश्चात्र क्रियाजनकवायुसंयोगादिरेव इति बोध्यम् ( नील० १५० ४३ ) / <साधर्म्येदाहरणम्> अन्वय्युदाहरणम् । <साधर्म्यापनयः> अन्वय्युपनयः । <साधारण:> १ ( हेत्वाभासः दुष्टहेतुः ) । [क सपक्षविपक्षवृत्तिहेतुः ( भा०प० २ लो० ७४ ) । यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ प्रमेयत्वं हेतुः साधारणः । अत्र प्रमेयत्वं हेतुर्हि सपक्षे महानसे विपक्षे महाहदादौ च वर्तते । अतः साधारणः ( त० सं० ) । एवम् पर्वतो धूमवान् वः इत्यादावपि । वह्निर्हि सपक्षे महानसे विपक्षे पिण्डादौ च वर्तते । अतः साधारणः ( त० कौ० २ पृ० १३ ) / इदं लक्षणं च प्राचीनमतमनुरुध्योक्तम् । अत्र प्राचीनमते साधारणहेतु ज्ञानेन साध्य संदेहाद्व्याप्तिग्रहो न भवति इत्याशयः (गौ० वृ० अयं चानैकान्तिकप्रभेदः । तल्लक्षणं च वक्ष्यमाणं साधारणत्वमेव इति बोध्यम् । अर्वाञ्चो नैयायिकास्तु साधारणमेव हेतुं सव्यभिचारपदेन व्यव हरन्ति इति दीधितिकृदाह ( दीधि ० २ सव्य० पू० १८३) । [ख] साध्यात्यन्ताभाववति साध्यवदन्यस्मिन्वा वर्तमानो हेतुः । यथा २ नित्यो निःस्पर्शत्वात् इत्यादौ निःस्पर्शत्वं साधारण: ( गौ० वृ० हेतुर्हि अनित्ये रूपादौ वर्तत इति साधारणो भवति इति ज्ञेयम् । २ (जाति: ) नित्यसमविशेषः । स च स्वव्याघातकमुत्तरं ( सर्वे० पृ० १५३ पूर्ण० ) । ३ व्यवहारशास्त्रज्ञास्तु कमेकं धनं साधारणम् । यथा अलंकारोपि यो येन धृतः । अधृतः साधारणो विभाज्य एव ( याज्ञ० अ० २ छो० १२ मिता० पृ० १६७ ) इत्यादौ साधारणशब्दस्यार्थ इत्याहुः ( अमरः ३।१।८२ ) । अन्यदप्युदाहियते साधारणं समाश्रित्य यत्किंचिद्वाहनादि- कम् ( स्मृतिः ) इति । ४ सदृशम् इति साहित्यशास्त्रज्ञा आहुः ( अमरः २।१०।३७)। ५ वेश्यादिनायिका साधारणी इत्यालंकारिका आहुः । ६ कुञ्चिका इति काव्यज्ञा आहुः । <साधारणकारणत्वम्> ( कारणत्वम् ) [क] कार्यत्वावच्छिन्नकार्यता- निरूपितकारणस्वम् । यथा ईश्वरतज्ज्ञानादेः कार्यमात्रे (कार्यत्वावच्छिन्नं प्रत्येव ) कारणत्वात् साधारणकारणत्वम् (वाक्य ० १ पृ० १० ) ( न्या० बो० १ पृ० ८) । अत्र ईश्वरज्ञानस्य च ज्ञानत्वेन कार्यत्वेन कार्यकारणभावात् सामान्यधर्मावच्छिन्न कार्यतानिरूपितकारणताश्रयत्वेन घढं प्रत्यपि साधारणकारणत्वम् ( म० प्र० १ पृ० ५ ) । [ख] सामान्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् ( म०प्र० १५० ५ ) । अत्रायमाशयः । कार्यमात्रं प्रतीश्वरज्ञानादिकं कारणम् इति कार्यकारण- भाषः । न तु घटं प्रति दण्डः पटं प्रति तन्तुः कारणम् इति विशिष्य कार्यकारणभाववत् घटादिकं प्रतीश्वरादिकं कारणम् इति कार्यकारण- भावः इति । अत्रेदं ज्ञेयम् । अष्टौ साधारणकारणानि ईश्वरः तज्ज्ञा- नेच्छाकृतयः प्रागभावः कालः दिक् अदृष्टम् (धर्माधर्मों ) च ( वाक्य० १पृ० १०) इति । केचित प्रतिबन्धकसामान्याभावोपि नवमं साधारणकारणमङ्गीचक्रुः (मु० १/१) । <साधारणत्वम्> ( हेत्वाभास : हेतुदोषः ) [ क ] पक्षादित्रयवृत्तित्वम् । अत्र पक्षादित्रयं च पक्षः सपक्षः विपक्षश्च । तेषु वर्तमानत्वम् इति विशिष्टयार्थः । यथा पर्वतो वह्निमान् प्रमेयत्वात् इत्यादौ प्रमेयत्वस् साधारणत्वम् । अत्र प्रमेयत्वात्मकहेतोः पक्षे पर्वते सपक्षे महानसे विपक्षे महाहदादौ च वर्तमानत्वात्साधारणत्वम् इति बोध्यम् । [ख] विपक्ष- वृत्तित्वम् ( चि० २ सव्य० पृ० ८७ ) । अत्र विपक्षः साध्याभाववान् इति नव्यमतम् । विपक्षः निश्चितसाध्याभाववान् इति प्राचीनमतम् इति विज्ञेयम् ( दीधि० २ सव्य० पृ० १९३) । ग साध्यात्यन्ताभाव- वगामित्वम् ( चि० बाघ ० ) ( न्या० बो० ) । [घ ] साध्यवदन्य- वृत्तित्वम् इत्यादि । यथा धूमवान्वः इत्यत्र धूमवदन्यस्मिन् तप्तायः पिण्डे वहेः सत्त्वाद्वः साधारणत्वम् ( न्या० म० २ पृ० २० ) । एत- लक्षणद्वयेन प्रदर्शितं साधारणत्वं पूर्वपक्षीयम् । तच्च व्यभिचार इति व्यवद्दियते ( दीधि ० २ बाध० पृ० २२४) । [ङ ] साध्या समाना- धिकरणस्वसमानाधिकरणत्वम् । यथा धूमवान्वः इत्यत्र वः साधारण- त्वम् । भवति हि धूमासमानाधिकरणं यत् धूमवदन्यत्वम् तत्समानाधिक रणो वह्निः (न्या० म० २ पृ० २०) इति । साध्यतावच्छेदके हेतु सा नाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वम् ( ग० सामा० ) ( नील० ) इति तत्तात्पर्यम् । यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ प्रमेयत्व साधारणत्वम् । इदं च सिद्धान्तसिद्धं साधारणत्वम् इति बोध्यम् । अभि धेयत्वं प्रमेयत्वस्य व्यभिचारि इत्या कारक भ्रमात्मक व्यभिचारग्रहस्य व्यापक- सामानाधिकरण्यग्रह विरोधितया तद्विरोधित्वान्यथानुपपत्त्येदं लक्षणं स्वी कार्यम् । तेन तत्र प्रमेयत्वाभावाप्रसिद्ध्या पूर्वपक्षीय व्यभिचारग्रह न क्षतिः ( ग० २ सामा० ल० १ पृ० ५-६ ) । <साधारणधर्म:> १ [क ] तदितरवृत्तित्वे सति तद्वृत्तिर्धर्मः । यथा प्र यत्वं गोः साधारणधर्मः । यथा वा मुखं पद्ममिव सुन्दरम् इत्याद सौन्दर्यादिः । [ख ] समानधर्मः । २ स्वाभाविकधर्मः । यथा प्रजा सर्जनादिरूपो जन्तुमात्रधर्म: । तदुक्तम् प्रजनार्थं स्त्रियः सृष्टाः संताना च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पत्या सहोदितः ॥ अ० ९ श्लो० ९६ ) इति । अत्र अन्याधानादिरपि स्त्रीपुंसयोः रणो धर्मः ( मनु० टी० कुल्लूक० अ० ९ श्लो० ९६) । ३ धर्म ज्ञास्तु ब्राह्मणादिचातुर्वर्ण्यविहितो धर्मः । यथा अहिंसादिः इत्याहुः । मनु० साधा-धर्म न हिंस्यात्सर्वा भूतानि ( श्रुतिः ) इत्याचाण्डा ( मिता० १।१ पृ० १ ) । तदुक्तम्अ हिंसा सत्यमस्तेयं शौच मिन्द्रिय निग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ (माझ अ० १ श्लो० १२१ ) ( मनु० अ० १० श्लू ६३) इति । <साधारण्यम्> साधारणवृत्तिर्धर्मः । स च साधारणत्वादिः । <साधुः> १ प्रियकारी । यथा मातरं प्रति साधुः इत्यादौ साधुशब्दस्यार्थः संकेतः ग० व्यु० का० २ ख० २ पृ० ७६ ) । २ यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः ( संज्ञा विशिष्टः ) । यथा या काचिदोषधिर्न- कुलदंष्ट्राग्रस्पृष्टा सा सर्वापि सर्पविषं हन्ति इत्येतादृशी संज्ञा ( ईश्वर- (: ) ( वै० उ० २११/१९ पृ० ९४ ) इति । ३ शाब्दि- कास्तु यः शब्दो यस्मिन्नर्थे व्याकरणेन व्युत्पादितः स तत्र साधुः प्रयोगार्हः (चि० ४ ) । स च व्याकरणव्यङ्ग्यसाधुताजात्याश्रयः शब्दः । यथा कर्मणि द्वितीया (पाणि० २।३।२ ) इत्यादौ द्वितीया कर्मार्थे साधुः इत्याहुः । अत्र साधुत्वं च अर्थविशेषे व्याकरणानुशिष्ट- जातीयत्वम् । अत्र जातीयत्वोपादानानाधुनिकचैत्रादिशब्देष्वव्याप्तिः ( म० प्र० ४ ) । अत्रोक्तम् अनपभ्रंशतानादिर्यद्वाभ्युदययोग्यता । व्याक्रियाव्यञ्जनीया वा जाति: कापीह साधुता ॥ ( भर्तृ० ) इति । तदर्थस्तु अनपभ्रंशत्वम् अनादित्वम् अभ्युदय साधन प्रयोग विषयत्वम् व्याकरणव्यङ्ग्या जातिर्वा साधुता इति ( वाच० ) । ४ पौराणिकास्तु साधुलक्षणयुक्तो जन इत्याहुः । तल्लक्षणं तु न प्रहृष्यति संमाने नाप- माने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेत साधुलक्षणम् ॥ (गरुडपु० ) इति । यथालब्धेपि संतुष्टः समचित्तो जितेन्द्रियः । हरि- पादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ निर्वैरः सदयः शान्तो दम्भा- हंकारवर्जितः । निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥ ( पद्मोत्त० ख० अ० ९९ ) इति च । साध्वीलक्षणं तु पतिं या नाभिचरति मनोवाक्कायसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥ ( मनु० अ० ९ श्लो० २९ ) इति । ५ काव्यज्ञाश्च उत्तमकुलजातः । ६ सुन्दरः । ७ उचितः । ८ मुनिः इत्याहुः । ९ जिनः इति जैना आहुः ( हेमच० ) । <साध्यता> १ विषयताविशेषः । तच [क पञ्चावयवसाधनीयत्वम् (गौ० वृ० ५/११४ ) । स च साधयामि साध्यविशेषं वह्वयादिकम् १२६ न्या. को० इति प्रतीत्या गम्यत इति विज्ञेयम् । ख अनुमितिविधेयत्वम् । यथा पर्वतो वह्निमान् धूमात् इत्यादौ वः साध्यत्वम् । [ग] सिद्धिकर्मत्वम् ( त० प्र० ) ( दि० गु० ) । यथा पर्वतो वह्निमान् इति निश्चय- विषयत्वं वः । सिद्धिकर्मत्वमित्यत्र कर्मत्वं च विषयत्वम् ( दि० गु० ) । [घ ] वेदान्तिनस्तु यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म इत्याहुः ( प्र० च० पृ० २३) । २ इच्छाविषयताविशेषः । यथा घटो जायताम् इत्यत्र घटीया साध्यताख्या विषयता । यथा वा पाकः साध्यताम् यथा यागस्य कृतिसाध्यत्वम् । यथा वा घटादेर्दण्डचक्रादिघटितसामग्री- इतीच्छाविषयत्वम् । ३ अनन्तरभविष्यत्वम् ( त० प्र० ४ पृ० १०२) । साध्यत्वम् । अत्रेदं बोध्यम् । साध्यत्वं चासिद्धधर्मः । भाविकालवृत्ति इत्यर्थः । साधनत्वं तु सिद्धो धर्मः । पूर्वकालवृत्तिधर्मः इत्यर्थः (त० प्र० ख० ४ पृ० १०२) । <साध्यताघटकसंवन्धः> येन संबन्धेन साध्यता विवक्ष्यते स संबन्धः । यथा पर्वतादौ संयोगेन वयादिसाधने संयोगसंबन्धः साध्यताघटक संबन्धः । यथा वा तमः समवायेन गगनवत् इत्यादौ समवायसंबन्धः ( दीधि ० ) ( ग० संश० पक्ष० पृ० ५) । एवम् प्रतियोगितावच्छेद- कसंबन्धानुयोगितावच्छेदकसंबन्धादयः स्वयमूह्याः । साध्यतावच्छेद–धर्मेण संबन्धेन वा साध्यतावच्छतेस यथा पर्वते संयोगसंबन्धेन वः साधने पर्वतः संयोगेन वह्निमान् इत्याद साध्यतां वह्नित्वं संयोगश्चावच्छिनत्ति इति ज्ञेयम् । एवम् कारणताव- वहित्वं संयोगश्च साध्यतावच्छेदकः । अत्र वह्निः साध्यः । तनिष्ठां च्छेदककार्यतावच्छेदके लक्ष्यतावच्छेदकलक्षणतावच्छेदके उद्देश्यताव- च्छेदक विधेयतावच्छेदके प्रतियोगितावच्छेदकानुयोगितावच्छेदके इत्या "दयः शब्दा यथायोग्यं व्याख्येयाः इति । अत्र व्युत्पत्तिः साध्यताम वच्छिनत्ति विशेषयति ( ण्वुलू ) इति । अत्र साध्यतावच्छेदकत्वं च स्वरूपसंबन्धविशेषः विषयताविशेषो वा । <साध्यतावच्छेदकसंबन्धः> साध्यताघटकसंबन्धः । <साध्यत्वम्> साध्यता । <साध्यप्रसिद्धिः> [ क ] सिद्धिः । [ ख ] साध्यस्य ज्ञानम् । <साध्यम्> १ साधनीयम् । तच्च साध्यत्ववत् । यथा पर्वतो वहिमान् घूमात् इत्यादौ वह्निः साध्यम् (मु० २ ) । साध्यं च द्विविधम् धर्मिविशिष्ट वा धर्मः । यथा शब्दस्यानित्यत्वम् इति । धर्मविशिष्टो वा धर्मी । यथा अनित्यः शब्दः इति ( वात्स्या० ११११३६ ) । २ [क] व्यवहार- शास्त्रज्ञास्तु अष्टादश विवादेषु प्रमाणादिनोद्भाव्यः पदार्थः । साक्षिलेख्या- नुमानरूपक्रियादिना साधनीयं यत् तत् ( रकम इति प्र० ) । यथा ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाभ्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ ( काव्या० वीरमित्रो० पृ० १२४) इत्यादौ साध्यशब्दस्यार्थः । [ ख ] साध्यार्हः प्रतिज्ञेयः पक्षः । तदुक्तं बृहस्पतिना प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ इति । अत्र साध्यं साध्याम् । प्रत्यर्थिधर्मविशिष्टं धर्मिवचनम् इति यावत् ( वीरमित्रो० लेख्य० पृ० ६९ ) । ३ पक्षः (गौ० (० वृ० ११ १२ १ ३८ ) । यथा उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ( गौ० ११ ११३८ ) इत्यादौ साध्यशब्दस्यार्थः पक्षः । ४ शाब्दिकास्तु लिङ्गसंख्यानन्वयिनी क्रिया । यथा पचति करोति इत्यादिक्रिया इत्याहुः । अत्रोक्तं हरिणा साध्यरूपा क्रिया तत्र धातुरूप निबन्धना ( वाक्यप० ) इति । शिष्टं तु क्रियाशब्दव्याख्याने दृश्यम् । अत्र साध्यत्वं च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वम् इति बोध्यम् । ५ पौराणिकास्तु द्वादशसंख्यको गणदेवताविशेष इत्याहुः । तदुक्तम् मनोमन्ता तथा प्राणो भरोपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो नारायणो वृषः ॥ प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः इति । १६ मौहूर्तिकाश्च स्वशास्त्रीययत्किंचित्संकेत विषयः । यथा विष्कम्भादिषु (२७) योगेषु द्वाविंशो योगविशेषः इत्याहुः । ७ मान्त्रिकादयस्तु खानुकूलताग्राहकः पदार्थः मन्त्रविशेषादिः इत्यङ्गीचक्रुः । अत्रोक्तम् सिद्धः साध्यः सुसिद्धोरिः क्रमाज्ज्ञेया मनीषिभिः ( वाच० ) इति । <साध्यसंसृष्टत्वज्ञानम्> १ सिद्धिः । अयमर्थो गदाधर्यो पक्षतायां सिद्धि- ग्रन्थे तत्रत्यशब्दार्थसंकलनवेलायामुपयुज्यते । २ साध्यसंबन्ध विषयकं ज्ञानम् (मु० २ पृ० १६४ ) । <साध्यसमः> १ ( हेत्वाभासः असिद्धः ) साध्याविशिष्टः साध्यत्वात्साध्य समः ( गौ० १९१ । २१८ ) । तदर्थश्च साध्येन वह्वयादिना अविशिष्टः । कुत इत्यत आह साध्यत्वादिति । साधनीयत्वादित्यर्थः । यथा हि साध्यं साधनीयम् तथापि चेत् साध्यसमः इत्युच्यते । योगात् असिद्धः इति व्यवद्दियते ( गौ० वृ० १२१२१८ ) । अत्रोच्यते असिद्धः साध्यतुल्यत्वाद्धेतुः साध्यसमो भवेत् ( ता० र० श्लो० ८४ ) इति । अत्र व्याप्तस्य पक्षवर्मताप्रतीतिः सिद्धिशब्दार्थः । द्रव्यं छायेति साध्यम् । गतिमत्त्वादिति हेतुः । साध्येनाविशिष्टः साधनीयत्वात्साध्यसमः । कथम् । वच्छायापि गच्छति आहोस्खिदावरकद्रव्ये संसर्पल्यावरण संता-(संनिधा)- अयमप्यसिद्धत्वात् साध्यवत्प्रज्ञापयितव्यः । साध्यं तावदेतत् किं पुरुष- नादसंनिधिसंतानोयं तेजसो गृह्यत इति । सर्पता खलु द्रव्येण यो यस्तेजोभाग आवियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यत इति । आवरणं तु प्राप्तिप्रतिषेधः ( वात्स्या० ११२१८) / २ ( जातिः) [ क ] साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वात्साध्यसमः हेत्वादिः । तत्साध्यत्वं तदधीनानुमितिविषयत्वम् । साध्यस्येव पक्ष पीति तुल्यतापादन मिति । लिङ्गोपहितभानमते लिङ्गस्यानुमितिविषयत्वात् ५॥१॥४) । सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ । तदमों साध्यसमत्वम् । हेतोश्च साध्यत्वे हेतुमान्दृष्टान्तोपि साध्यः इत्याशयः । आश्रयासिद्ध्यादिदेशनाभासोयम् इति ज्ञेयम् ( गौ० वृ० ५/१/४) । हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः । तं दृष्टान्ते प्रसजतः साध्यसमः स्तथात्मा प्राप्तस्तहिं यथात्मा तथा लोष्ट इति । साध्यश्चायमात्मा क्रिय स्तथात्मा ( वात्स्या० ५/११४ ) । ख पक्षदृष्टान्तादेः प्रकृतमा तुल्यतापादनम् ( गौ० वृ० ५११४ ) । [ग] दृष्टान्तस्य पक्षतुल्यता- कथनं साध्यसमः । साध्यशब्दोत्र पक्षवाची ( नील० पृ० ४३ ) । तथा चोक्तम् दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साध्यत्वा- पादनं तस्मालिङ्गात्साध्यसमो भवेत् ॥ ( ता० र० २ श्लो० ११० ) इति । यथा वा नाभिधा समयाभावात् ( काव्यप्र० २१ २२ ) इत्यत्र नैयायिकमते साध्यसमः । मीमांसकमते नायं दोषः । अभिधासमययो- र्भेदात् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वात् इत्यादौ यदि यथा लोष्टस्तथात्मेति त्वयोच्यते तदा यथात्मा तथा लोष्ट इत्यप्यायातम् । तथा च यद्यात्मनि क्रियावत्वं साध्यते तर्हि लोष्टेपि तत्साधनीयम् । नेति चेत्तर्हि यथा लोष्टस्तथात्मेति न वाच्यम् । लोष्टसदृश आत्मा नात्म- सदृशो लोष्टः इत्यत्र नियामकाभावादिति ( नील० १ पृ० ४३ ) । <साध्याप्रसिद्धिः> ( हेतुदोषः असिद्धिः ) साध्ये साध्यतावच्छेदकस्या- भावः । यथा पर्वतः काञ्चनमयवह्निमान् धूमात् इत्यादौ वह्निनिष्ठः काञ्चनमयत्वाभावः साध्याप्रसिद्धिः । अयं च व्याप्यत्वासिद्धिप्रभेदः ( गौ० वृ० ११२१८ ) (मु० २ पृ० १६१ ) ( नील० ) ( न्या० म० २ पृ० २१ ) ( म० प्र० २ पृ० २७ ) (वै० वि० ३।१।१५ ) । तल्लक्षणं च साध्ये साध्यतावच्छेदकवैशिष्ट्यावगाहिग्रहविरोधिग्रहविषयत्वम् । एतज्ज्ञाने जाते साध्यतावच्छेदकविशिष्टसाध्यपरामर्शप्रतिबन्धः फलम् । तथा च प्रतिबन्धकताघटित हेत्वाभाससामान्यलक्षणाक्रान्तत्वं प्रसिद्धेः संगच्छते इति । <सानन्दः> ( समाधिः ) यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुख- प्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः ( सर्व० सं० पृ० ३५७ पात० )। <सापिण्ड्यम्> सपिण्डता । <सापेक्षत्वम्> १ असामर्थ्यम् । २ अभिलाष विशिष्टत्वम् इति काव्यज्ञा आहुः । <साम> १ वेदविशेषः । गीतिरूपा मन्त्राः सामानि (जै० न्या० अ० २ पा० १ अधि० १२) । यथा अग्न आयाहि वीतये इत्यादिः । १२ सामवेदोक्तामृचमधिकृत्य गेयो गानविशेषः । यथा अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि इत्यस्या ऋचो गानं च ओग्ना इ आयाही ३ वीइतोया २ इ तोया २ इ गृणानो ह व्यदातो २ इ तोया २ इ ना इहोतासा २३ त्सा २ इ वा २३४ औहोवा ही २३४ षी इति ( छन्द आर्चिकः १११/१/१ ) / अत्र प्रमाणम् ऋच्यध्यूढ५ साम गीयते ( छान्दो० उ० १/६/२ ) । तस्मात्ति- सृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितम् ( ऐतरे० ब्रा० ३।२३ ) इत्यादि । ३ नीतिशास्त्रज्ञास्तु राज्ञ उपायविशेष इत्याहुः । इदं साम द्विविधम् तथ्यम् अतथ्यं च । तत्र तथ्येन साम्ना साधुजनः साध्यः । अतथ्यं तु सामासाधुषु प्रयोक्तव्यम् (मत्स्यपु० अ० २२१) इति । अधिकं तु शुक्रनीतिपरिशिष्टादौ विज्ञेयम् । ४ पायः इति मान्त्रिका आहुः । ५ पशुबन्धनरज्जुः । ६ प्रियवाक्यादिना शत्रुवशीकरण - सान्त्वनं च इति काव्यज्ञा आहुः (वाच० ) । <सामग्री> कार्यायोगव्यवच्छिन्नः कारणसमुदायः । यथा प्रत्यक्षस्य सामग्री इन्द्रियसंनिकर्षादिः । अनुमितेः सामग्री व्याप्तिज्ञानपरामर्शादिः । यथा वा घटादिकार्यस्य सामग्री कुलालदण्डचक्रादिः । पटादिकार्यस्य च कुवि सामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला । भिन्नविषये तु अनुमितिसम भिन्नविषये तु शाब्दसामग्री प्रबला । समानविषये अनुमितिशाब्द- प्रबला । समानविषये प्रत्यक्षशाब्दसामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला / सामग्र्योर्मध्ये शाब्दसामग्री प्रबला । भिन्नविषये तु अनुमितिसाम प्रबला । मानसलौकिक प्रत्यक्षसामग्र्योर्मध्ये लौकिकप्रत्यक्षसामग्री प्रबला मानससामग्री तु सर्वापेक्षया दुर्बला । परं तु यदा फलविषयिणी- च्छास्ति । तदा तत्रत्या दुर्बलापि सामग्री प्रबला भवति इति विज्ञेयम् (त० प्र० ४ ) । समाने विषये प्रत्यक्षानुमितिसामग्र्योर्मध्ये प्रत्यक्ष- सामग्री प्रबला यथा यत्र पर्वतादौ वहया दिप्रत्यक्षजनिकायाश्चक्षुःसंनि कर्षादिघटितसामग्र्याः तत्रैव वह्नयनुमितिजनिकायाः परामर्शादिघटित सामग्र्याश्च युगपत्सत्त्वे प्रबलेन दुर्बलस्य बाधः इति न्यायेन पूर्वोक्त प्रत्यक्ष सामग्र्या पर्वतादौ वह्नि प्रत्यक्षमेवोत्पद्यते न त्वनुमितिः इत्यनुभवसिद्धः सिद्धान्तः । भिन्ने विषये तु प्रत्यक्षानुमितिसामग्र्योर्मध्येनु मितिसामग्री प्रबला यथा भूतलादौ घटादिप्रत्यक्षजनिकायाः घटचक्षुःसंयोगादि- रूपायाः पर्वतादौ तु वह्याद्यनुमितिजनिकाया व्याप्तिज्ञानादिघटितायाश्च सामग्र्या युगपत्सत्वेनुमितिसामग्र्याः प्राबल्येन तया पर्वतादौ वह्याद्यनु - मितिरेवोत्पद्यते न तु घटवद्भुतलादिप्रत्यक्षम् इति । एवमग्रेप्यूह्यम् । <सामयिकः> समयः कालः नियमो वा । तत्र भवः उचितो वा (ठञ् ) सामयिकः । तथा च निजधर्माविरोधेन यस्तु सामयिको भवेत् इति स्मृत्या नियमबद्धः इत्यर्थः । <सामयिकाभावः> अत्यन्ताभावः (त० दी० ४ ) । तदर्थश्च सामयिकः समयविशेषे प्रतियोगिविरहसमये प्रतीयमानः अभावोत्यन्ताभावः साम- यिकाभावः ( नील० पृ० ४१ ) इति । केचित्तु उत्पाद विनाशशाली अत्यन्ताभावादतिरिक्तोयमभावः इत्याहुः ( वै० वि० ९/११५) । अत्रेदमाकूतम् । यत्र भूतले पूर्व घटादिकं स्थितमथापसारितं तत्रायं चतुर्थः संसर्गाभावः प्रतीयते नात्यन्ताभावः (वै० वि० ९/११५ ) इति । अयमभिप्रायः। सामयिकाभावस्यात्यन्ताभावस्वरूपत्वाङ्गीकारेयन्ता- भावस्य नित्यत्वेन भूतलादौ घटसस्त्रेपि तदपसारणदशायामिव तद - सन्ताभावबुद्ध्यापत्तिः । तथाविधात्यन्ताभावस्या प्रतीयमानत्वात्तु तद- तिरिक्तोयमभावोङ्गीकार्यः । भूतलादौ घटसत्त्वदशायां न तदभाव- वत्ताबुद्धिः । अन्यदा तु जायते । अतः सामयिकाभावोतिरिक्त एवाङ्गीकर्तव्यः (नील० पृ० ४१ ) इति । तन्न सहन्ते नैयायिकाः । तथा हि । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटा- नयनानन्तरमपि अत्यन्ताभावस्य नित्यत्वेपि च घटकालस्य संबन्धा- घटकत्वात् संबन्धाभावात् घटकाले न घटात्यन्ताभावबुद्धिः ( दि० १ पृ० ४३ ) । तथा च कालविशेष विशिष्टस्वरूपस्य संसर्गत्वोपगमादेव घटवति घटो नास्ति इति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे माना- भावः ( दि० १ पृ० ४३ ) इति । घटाघनधिकरणकालावच्छिन्न- भूतलादेरेव घटाभावादे: संसर्गतया घटकाले च तच्छून्यकाल विशिष्ट- इति । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावेप्यप्रतीतेः भूतलादिरूपसंसर्गस्याभावेन तदा न तदत्यन्ताभावबुद्धि: ( नील० ) घटापसरणे सति तु प्रतीतेश्च भूतले घटसंयोगप्रागभावध्वंसयोर्घटाभाव- प्रतीतेर्नियामकत्वं कल्प्यते । घटवति तत्संयोग प्रागभावध्वंसयोरखा- त्यन्ताभावस्याप्रतीतिः घटापसरणे च संयोगध्वंससत्त्वात् ( त० दी० पृ० ४१ ) इति । <सामर्थ्यम्> १ यत्किंचित्कार्यजननयोग्यत्वम् ( दीधि ० २ पृ० २०९ ) । लिङ्गत्वम् ( चि० २ पृ० ९४ ) इत्यादौ ग्रन्थे समर्थशब्दार्थघटकम् तच्च यथा साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्ध कार्यक- विरोधिपरामर्शस्य विरोध्यनुमितिजननयोग्यत्वरूपं सामर्थ्यम् । २ आकाङ्क्षायोग्यतादिमत्त्वम् ( गौ० वृ० २/१/५२ ) । यथा आप्तोपदेश- सामध्योत्० ( वात्स्या० २११/५२) इति । ३ समासाघटकपद- निराकात्वे सति परस्परसमासघटकपदसाकाङ्क्षत्वम् (कृष्णं ० ) । यथा द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति । अयं च शाब्दिकविभाग राजपुरुषः इत्यादौ राजपदपुरुषपदयोः सामर्थ्यम् । एतच्च सामर्थ्य इति बोध्यम् । तत्र व्यपेक्षा च स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादि वशात्परस्परं संबन्धवत्त्वे सत्येकोपस्थित्यजनकत्वम् इति । एकार्थी. भावश्च विशेषण विशेष्यभावावगाहोकोपस्थितिजनकत्वम् इति ॥ समासशब्दव्याख्याने दृश्यम् । <सामानाधिकरण्यम्> १ [क] तदधिकरणवृत्तित्वम् । यथा वह्निधूमयोः सामानाधिकरण्यम् । इदं सामानाधिकरण्यं द्विविधम् दैशिकम् कालिक चेति । तत्र दैशिकं सामानाधिकरण्यं यथा वह्निधूमयोः धिकरण्यम् । कालिकं सामानाधिकरण्यं यथा एककालावच्छेदे वर्तमानयोः विभिन्नदेशाधिकरणकयोरपि घटपटयोः सामानाधिकरण्य इति विज्ञेयम् । अत्रेदं प्रसङ्गतो विज्ञेयम् । अनुमितेः सामानाधिकर मात्रावगाहित्वं च पक्षतावच्छेदकावच्छिन्नोद्देश्यता निरूपितशुद्धस तावच्छेदक संबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नविधेयताकत्वम् । यथा पर्वतो वह्निमान् इत्याकारकानुमितेः वहिपर्वतत्वयोः सामानाधिकरण्य- मात्र विवक्षायाम् तयोरवच्छेद्यावच्छेदकभावाविवक्षायाम् सामानाधिकरण्य- मात्रावगाहित्वम् । प्राञ्चस्तु पक्षतावच्छेदकाकान्तयत्किंचिद्व्यक्तिविषयकत्वं सामानाधिकरण्यमात्रावगाहित्वम् इत्याहुः ( ग० २ पक्ष० पृ० २० ) । [ख] तद्वदनुयोगिकप्रतियोगित्वम् । प्रतियोगितासंबन्धेन तद्वदनु - योगिकवत्वम् इत्यर्थः ( ग० २ व्याप्ति० सिद्धा० ) । यथा द्रव्यत्व- पृथिवीत्वयोः सामानाधिकरण्यम् । तथा हि द्रव्यत्ववान् घटः । तदनु- योगिकः घटे पृथिवीत्वस्य समवायाख्यः संबन्धः । तत्प्रतियोगित्वं पृथिवीत्वेस्ति इति । [ ग ] स्वावच्छेदकीभूतो यः कालस्तदवच्छिन्ना या स्वविशिष्ट निरूपिता यत्किंचिद्यक्तिनिष्ठाधेयता सा । यथा यदा साधयिषा नासीत् सिद्धिश्वासीत्तदा सिद्धिसिषाधयिषाविरहयोः सामानाधिकरण्यम् । इदं च एकक्षणावच्छिन्नसामानाधिकरण्यम् इत्यु- च्यते। २ [क] अभेदान्वयबोधकत्वम् । यथा नीलो घटः इत्यादौ नीलपदघटपदयोः सामानाधिकरण्यम् । [ख] शाब्दिकास्तु पदयोरेका र्थाभिधायित्वम् [ग] समानविभक्तिकत्वं वा । यथा नीलो घटः इत्यादौ नीलपदघटपदयोः सामानाधिकरण्यम् इत्याहुः (बै० सा० द० ) । [ष] प्रकारद्वयविशिष्टैकवस्तुबोधकत्वम् । प्रकारद्वयविशिष्टैकवस्तु- परत्वात्सामानाधिकरण्यस्य ( सर्व० सं० पृ० १०१ रामानु० ) । <सामान्यम्> १ ( पदार्थ:) [क] या समानां बुद्धि प्रसूते भिन्नेष्व- धिकरणेषु यया बहूनतरेतरतो न व्यावर्तन्ते योर्थोनेकत्र प्रत्ययानुवृत्ति- निमित्तम् तत्सामान्यम् (वात्स्या० २/२/६८ ) ( प्रशस्त ० १ पृ० २ ) (त० भा० ) । अत्र व्युत्पत्तिः समानानां भावोनागन्तुको नित्यो धर्मः सामान्यम् ( प० मा० ) इति । तच्च द्रव्यगुणकर्मवृत्ति नित्यं चेति बोध्यम् । [ख] नित्यत्वे सति स्वाश्रयान्योन्याभावसमानाधिकरणम् । [ग] नित्यत्वे सत्यनेकसमवेतम् । [ घ ] सामान्यं नित्यमेकं स्याद- नेकसमवायि च ( ता० २० लो० ५३) इति । [ङ ] अनुगतो धर्मः । १२७ न्या० को० [च ] सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेक समवेतम् (सर्व० सं० पृ० २१६ औं० ) । सामान्यं द्विविधम् परम् अपरं चेति । अत्र सूत्रम् सामान्यं विशेष इति बुद्ध्यपेक्षम् (वै० १/२/३ ) इति । तदर्थश्च सामान्यं परसामान्यम् विशेषोपरसामान्यम् इति द्वयं बुद्ध्यपेक्षम् । बुद्धिरपेक्षा लक्षणं यस्य तत् । तथा च सामान्यं द्विविधम् परम् अपरं च । तत्र परसामान्यं सत्ता । द्रव्यत्वादिकमपरसामान्यम् । तत्र सामान्य- विशेषयोः परापरयोर्लक्षणं बुद्धिरेव । अनुवृत्तत्वबुद्धिः सामान्यस्य व्यावृत्तत्वबुद्धिर्विशेषस्य लक्षणम् । अनुवृत्तत्वमधिकदेशवृत्तित्वम् । व्यावृत्तत्व मल्पदेशवृत्तित्वम् (वै० वि० १/२/३ पृ० ५१-५२) । तथा च भाष्यम् द्विविधं सामान्यं परम् अपरं च । स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्तिप्रत्ययकारणम् । स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानम् अनुवृत्तिबुद्धि कारणमित्यर्थः । कथम् । प्रतिपिण्डं सामान्यापेक्षप्रबन्धज्ञानोत्पत्तावभ्यासप्रत्ययजनिता तत्र सत्ता परं सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर विशिष्टेषु संस्कारादतीतज्ञानप्रबन्धप्रत्ययावेक्षणाद्यत्समनुगतमस्ति तत्सामान्यम् इति । चर्मवस्त्रकम्बलादिष्वेकस्मान्नीलीद्रव्याभिसंबन्धात्इति नीलम् इति प्रत्ययानुवृत्तिः । सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्व विशिष्टा सत् सद सत्ता इति सिद्धा सत्ता । सत्तासंबन्धात् सत् इति प्रत्ययानुवृत्तिः । तस्मात्सत्ता सामान्यमेव । अपरं द्रव्यत्वगुणत्व कर्मत्वादि । तच्चानुवृत्ति विशिष्टेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम् गुणकर्मम व्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्पर व्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः । तथा गुणत्वं परस्पर विशिष्टेषु रूपादिष्व वृत्तिप्रत्यय हेतुत्वात् सामान्यम् द्रव्यकर्मभ्यो व्यावृत्तिप्रत्ययहेतत्वाद्विशेषः तथा कर्मव्वं परस्पर विशिष्टेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्य द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः । एवम् पृथिवीत्वरूपत्वोत्क्षेपण गोत्वपटत्वादीनां प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् स न्यविशेषभावः सिद्धः । तानि द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधा सामान्यानि स्वाश्रय विशेषकत्वाद्भक्त्या विशेषाख्यानि इति लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं च सिद्धम् ( प्रशस्त • सामान्यनि ● पृ० ६३-६४ ) । तत्र परं सत्ता । महाविषयत्वात् । अपरं द्रव्यत्व- गुणत्व कर्मत्वादि । अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सत् विशेषाख्यामपि लभते (मु० १) (त० सं० ) इति बोध्यम् । परत्वं चात्र व्यापकत्वम् । तच्च अधिकदेशवृत्तित्वम् । तच्च स्वसमाना- धिकरणात्यन्ताभावाप्रतियोगित्वम् ( ल० व० पृ० ३८) । अथ वा स्वरूपतः सर्वदेशसंबद्धत्वम् (वै० उ० १।२।३ ) । अत्रेदं बोध्यम् । सत्ताया द्रव्यादित्रितयवृत्तित्वेनेतरसामान्यापेक्षयाधिक देशवृत्तित्वात् परत्वं ज्ञेयम् ( त० कौ० ) । सा चानुवृत्तेरेव हेतुत्वात्सामान्यमेव ( प्रशस्त ० पृ० २) । अत्रेदमधिकं विज्ञेयम् सत्तागुणत्वे च सर्वेन्द्रियग्राह्ये समवायोभावश्च ( न्या० वा० ११ १२ १३ १० ७६ ) इति । नव्याः पुनरिमां सत्तां नाङ्गीकुर्वन्ति । अपरत्वं चात्र न्यूनदेशवृत्तित्वम् । तच्च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् (ल० व० ) । द्रव्यत्वा- दीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वं बोध्यम् । अत्र सूत्रम् द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च (वै० ११२/५ ) इति । तथा च द्रव्यत्वादीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वम् पृथिवीत्वाद्यपेक्षया- धिक देशवृत्तित्वात्परत्वम् । एवं च परत्वमपरत्वं च तेषां विज्ञेयम् (मु० १११ ) । २ यत्किंचिदधिकरणवृत्तिपदार्थमात्रम् । यथा सामान्य- लक्षणः संनिकर्षः इत्यादौ सामान्यशब्दार्थः । अत्रार्थे व्युत्पत्तिः समानानां भाव: सामान्यम् (मु० १ पृ० १२९) इति । इदं सामान्यं द्विविधम् अखण्डम् सखण्डं चेति । तत्र अखण्डम् साक्षात्संबद्ध सामान्यम् जाति: इत्युच्यते । यथा सत्ताद्रव्यत्वकर्मत्वादि । सखण्डं तु परंपरया संबद्धं सामान्यम् उपाधिः इत्युच्यते । यथा प्रमेयत्वज्ञेयत्वादि दण्डित्वकुण्डलि त्वादि च । अयं च उपाधिः पदार्थमात्रवृत्तिः ( प्र० प्र० ) ( दीधि० २ पृ० ८१ ) । इदमत्राकूतम् / प्रमात्वमेव हि परंपरासंबन्धेन ( स्वाश्रय- विषयत्वसंबन्धेन) घटादिनिष्ठं प्रमेयत्वरूपम् इति प्रमात्वान्नातिरिक्तं प्रमेय - त्वम् । एवम् दण्डत्वमेव परंपरासंबन्धेन ( खाश्रयदण्डसंयोगसंबन्धेन ) पुरुषादिनिष्ठं दण्डित्वरूपम् इति दण्डित्वादि दण्डत्वान्नातिरिक्तम् ( त० कौ० पृ० २० ) इति । इदं सामान्यं क्वचिन्नित्यं धूमत्वादि कचिच्चा- नित्यं घटादि ( मु० १ पृ० १२९ ) इति । ३ साधारणो व्यापको वा धर्मः । यथा द्रव्यसामान्यलक्षणम् हेत्वाभाससामान्य निरुक्तिः इत्यादौ सामान्यशब्दार्थः । ४ सर्वशब्दवदस्यार्थोनुसंधेयः । यथा प्रतियोगितासा- मान्ये यत्संबन्धावच्छिन्नत्व यद्धर्मावच्छिन्नत्व एतदुभयाभावः ( दीधि ० ) (मु० २ व्यातिनि० ) इत्यादौ सामान्यशब्दस्यार्थः । तथा च प्रति- योगितासामान्ये इत्यस्य सर्वासु प्रतियोगितासु इत्यर्थः । ५ साहित्य- शास्त्रज्ञास्तु सादृश्यप्रयोजको धर्मः । यथा मुखं पद्ममिव सुन्दरम् इत्याद सौन्दर्यादिः साधारणधर्मः सामान्यम् इत्याहुः । ६ मीमांसकाच अधिक विषयकम् । यथा ब्राह्मणाय दधि दीयताम् कौण्डिन्याय तक्रम् इ दधिदानमधिकब्राह्मणविषयकत्वेन सामान्यम् इत्याहुः । विज्ञेयम् । सामान्यशास्त्रं च विशेषशास्त्रेण बाध्यते । यथा मा हिंस्या- त्सर्वा भूतानि इति हिंसानिषेधः सर्वविषयः । वायव्य श्वेतमालभेत इ हिंसाशास्त्रं विशेषः । तेन सामान्यशास्त्रं वैधेतरविषय एव प्रसरति इति । अत्र बाध्यबाधकभावस्तु समान एव विषये न तु भिन्ने विषये प्रवर्तते इति नियमो द्रष्टव्यः । ७ आलंकारिकास्तु अलंकारविशेष इत्याहुः । तदुक्तम् सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ( सा० द० परि० १० श्लो० ९० ) इति । <सामान्यगुणत्वम्> [क ] रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधि व्याप्यतावच्छेदकसंयोग विभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् (दि गु० पृ० १९३ ) ( ल० व० ) । यथा संख्यादीनां गुणानां साम न्यगुणत्वम् । द्रव्यविभाजकतावच्छेदकं पृथिवीत्वादि । तया तावच्छेदकं च गन्धत्वादि । तच्छून्यत्वस्य संख्यादौ सत्त्वालक्ष समन्वयः । अत्रत्यपदप्रयोजनं कथ्यते । जलीयशुक्लरूपे वायोरनुष्णाश स्पर्शे च पृथिव्यादिशुक्लरूपस्पर्शव्यावृत्तजातिविशेषे मानाभावात् : रूपानुष्णाशीत स्पर्शयोरतिव्याप्तिवारणाय सत्यन्तं दलं दत्तम् । विशेषजनकतावच्छेदकजात्यवच्छिन्नकठिनावयवद्वयविभागे तेजोवेगाति- शयेत्यन्ताग्निसंयोगनाश्यतावच्छेदकवैजात्यावच्छिन्नघृतादिवृत्तिद्रवत्वे चा- व्याप्तिवारणाय अवृत्ति इत्यन्तं जातिविशेषणम् । कर्मादावतिव्याप्ति- वारणाय विशेष्यदलं दत्तम् । पृथिवीत्वा दिव्याप्यतावच्छेदकतत्तत्संख्या- स्वादिशून्यत्वस्य तत्तत्संख्यायामभावाद व्याप्तिः । तद्वारणाय जातिपदं दत्तम् ( दि० गु० पृ० १९३ ) इति । [ ख ] यद्रूपावच्छिन्नसमाना- धिकरणं यत्किंचिद्रव्यविभाजकोपाधिद्वयं भवति तद्भिन्ना स्थितिस्थापक- वृत्तिभिन्ना च या जातिस्तादृशजातिमद्भिन्नगुणत्वम् (नील० गु० पृ० ३९) । तथा हि । यद्रूपम् संख्यात्वसंयोगत्व विभागत्वादि । तद- वच्छिन्नः संख्यासंयोगविभागादिः । तत्समानाधिकरणं यत्किंचिद् द्रव्यविभाजकोपाधिद्वयम् पृथिवीत्वजलत्वादि भवति तद्भिन्ना ( संख्यात्व- संयोगत्वादिभिन्ना ) या जाति: रूपत्वादिः ज्ञानस्वादिश्च तद्वद्भिन्नगुणत्वं संख्यादौ वर्तते इति लक्षणसमन्वयो बोध्यः । सामान्यगुणा चैक संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम् नैमित्तिकद्रवत्वम् वेगः स्थितिस्थापकश्चेति (मु० गु० पृ० १९२-१९३) । अत्र केषांचिन्मते स्थितिस्थापकस्य पृथिव्यादिद्रव्यचतुष्टयवृत्तित्वाङ्गीकारात् तन्मताभिप्रायेण स्थितिस्थापकस्य सामान्यगुणेष्वन्तर्भावः कृतः । तस्य पृथिवीमात्रवृत्तित्वाङ्गीकारे तु विशेषगुणत्वमेव इति विज्ञेयम् । <सामान्यच्छलम्> (छलम्) [क] संभवतोर्थस्यातिसामान्ययोगादसंभूता- र्थकल्पना सामान्यच्छलम् (गौ० सू० १२ १२ १३) । अत्र व्युत्पत्तिः सामान्य निमित्तं छलं सामान्यच्छलम् इति । यद्विवक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसंपदं कचिदानोति कचिदत्येति । अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्नः इत्युक्ते कश्चिदाह । संभवति हि ब्राह्मणे विद्याचरणसंपत् इति। अस्य वचनस्य विधातोर्थवि कल्पोपपत्त्या असंभूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसंपत्सं- भवति व्रात्येपि संभवेत् व्रात्योपि ब्राह्मणः सोप्यस्तु विद्याचरणसंपन्नः (वात्स्या० १।२।१३) इति । [ख] सामान्यविशिष्टसंभवदर्थाभिप्रायेणो- क्तस्यातिसामान्ययोगादसंभवदर्थकत्वंकल्पनया दूषणाभिधानम् । ब्राह्मणोयं विद्याचरणसंपन्नः इत्युक्ते ब्राह्मणत्वेन विद्याचरणसंपदं साधयति इति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरण संपत् बाल्ये व्यभिचारात् ( गौ० वृ० १/२/१३ ) इति । तदु- क्तम् सामान्यच्छलमेतत्स्यादतिसामान्ययोगतः । तात्पर्यवैपरीत्येन कल्पि- तार्थस्य बाधनम् ॥ ( ता० २० १ श्लो० ९६ ) इति । अत्र सामान्य- विशिष्ट: संभवदर्थश्च एतद्ब्राह्मणः । अतिसामान्यं तु ब्राह्मणत्वसामान्यम् इति ज्ञेयम् । <सामान्यतो दृष्टम्> ( अनुमानम् ) [ क ] व्रज्यापूर्वकम् अन्यत्र दर्शनम् इति । यथा चादित्यस्य । तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य ज्येति । यत्राप्रत्यक्ष लिङ्गलिङ्गिनोः संबन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते । यथा इच्छादिभिरात्मा । इच्छादयो गुणाः । गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या १।१।५ ) । [ ख ] कार्यकारणभिन्नलिङ्गकमनुमानम् । यथा पृथिवी त्वेन द्रव्यत्वानुमानम् । [ग] अन्वयव्यतिरेक्यनुमानम् / यथा वह्निमान् धूमात् इत्यादि ( गौ० वृ० ११११५ ) । <सामान्यप्रत्यासत्तिः> सामान्यलक्षणशब्दवदस्यार्थोनुसंधेयः । <सामान्यलक्षण:> (अलौकिकः संनिकर्षः ) अलौकिक प्रत्यक्षविशेष कार संनिकर्षविशेषः । स च १ क ] इन्द्रियसंबद्ध विशेष्यकज्ञान प्रकारी- भूतं सामान्यम् । यथा घटत्वधूमत्वादि । अत्रार्थे सामान्यं लक्षणं स्वरूपं यस्य इति व्युत्पत्त्या सामान्यमेव प्रत्यासत्तिः ( दीघि० २ पृ० ८० ) (मु० १ पृ० १२७) । अत्रेदं विज्ञेयम् । सामान्य ज्ञायमानमेव स्वाश्रयाणां संनिकर्षः । ज्ञायमानघटत्वसंनिकर्षण घटा इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते (त० कौ० ) इति । यत्रेन्द्रियसंयुक्तो धूमादिः तद्विशेष्यकं धूमः इति ज्ञानं जातम् / ज्ञाने घूमत्वं प्रकारः । तत्र धूमत्वेन संनिकर्षण धूमाः इत्येवंरूपं सक घूमविषयकं ज्ञानं जायते (मु० १ पृ० १२७) (दीषि० पृ० ८१ ) इति । अयं संनिकर्षश्च अतीतानागतानामिन्द्रियासंनिकृष्टानां सामान्याश्रयाणां सर्वेषां व्यक्तीनामलौकिकं प्रत्यक्षं जनयति इति बोध्यम् । सामान्यलक्षणायाः प्रत्यासत्त्याः सामान्य प्रकारकज्ञानजनकत्व नियमात् ( दीधि० २) । मीमांसका मायावादिवेदान्तिनश्च सामान्यलक्षणं संनि- कर्ष नाङ्गीचक्रुः ( म० प्र० ४ पृ० ३९)। तन्न सहन्ते नैयायिकाः। यदि सामान्य लक्षणा प्रत्यासत्तिर्नास्ति तदा अनुकूलतर्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे वह्निसंबन्धावगमात् कालान्तरीय देशान्तरीयधूमस्य मानाभावेनाज्ञानात् । सामान्येन तु सकल- धूमोपस्थितौ धूमान्तरे विशेषादर्शनेन संशयो युज्यते (०२ पृ० १८-१९ ) । अतः सामान्यलक्षणावश्यकी इति । अत्र सामान्यं च सखण्डाखण्डभेदेन द्वेधा । सखण्डे चाखण्डमेव परंपर संबद्धं प्रत्यासत्तिः । येन संबन्धेन चेन्द्रियसंबद्धे सामान्यं ज्ञायते तेन संबन्धेनाधिकरणानां प्रत्यासत्तिः (दीधि ० २ पृ० ८१ ) । अत्र इन्द्रियसंबद्ध इत्युक्त्या इन्द्रियसंबन्धस्य संयोगादेरिन्द्रिय प्रतियोगिकत्वात् तद्धति स्येन्द्रिय संयुक्त विशेष्यकज्ञानप्रकारीभूतधूमत्वादेः प्रत्यासत्तित्वं ज 'न्यत्वघटितव्यापारवं च निर्वहति इति विज्ञेयम् ( दि० १ पृ० १२७ ) । अत्र बहिरिन्द्रियस्य संबन्धश्च लौकिको प्राह्यः । तेन एतादृशसंबन्ध- घटितं सामान्यं बहिरिन्द्रिय प्रत्यक्षस्थले छुपयुज्यते (मु० १ पृ० १२९) ( सि० च० ) । ज्ञानस्य तदिन्द्रियजन्यत्वं च नियामकम् । एवं च अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणुगोचरो मानसो बोधः इति वदन्ति । दीधितिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वं निराकृतम् इति विज्ञेयम् । [ख] ज्ञानप्रकारीभूतं सामान्यम् । यथा घटत्वपरमाणुस्वादि । अत्र अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणु- गोचरो मानसो बोधो भवति इति भावः । इदं मानसप्रत्यक्षस्थले ह्युपयुज्यते (मु० ) ( सि० च० ) । २ सामान्यविषयकं ज्ञानम् । अयं घटः इति घटत्वविषयकलौकिक प्रत्यक्षेण सर्वे घटाः इति सकल- यथा घटत्वज्ञानम् (मु० १ पृ० १३०) (सि० च०, घटविषयकालौकिक प्रत्यक्षं जायते ( सि० च० ) इति । सामान्यविषयकं ज्ञानमित्यस्यार्थश्च इन्द्रियसंबद्ध विशेष्यकं सामान्यप्रकारकं ज्ञानम् इति । अत्रार्थे व्युत्पत्ति: सामान्यं लक्षणं निरूपकं विषयः यस्य तत् (मु० १ पृ० १३०) ( दीधि० २ पृ० ८० ) इति । इदानीं सामान्य लक्षणज्ञानलक्षणयोः संनिकर्षयोर्भेद उच्यते । तत्र सामान्यलक्षण- संनिकर्षः सामान्याश्रय सकलव्यक्तिविषयकं ज्ञानं जनयति । ज्ञानलक्षण- संनिकर्षस्तु यस्य सामान्यस्य ज्ञानं संनिकर्षः अस्ति तस्यैव ज्ञानं जनयति ( भा०प० ) (मु० ) इति । अथ कारणतावच्छेदकभेदेन कार्य- तावच्छेदकमेदेन च तयोर्भेद उच्यते । तत्र सामान्यलक्षणायाः कार्य- कारणभावश्च तत्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन स्वरू पतस्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्संबन्धावच्छिन्नघटत्वाद्या तावच्छेदकं तु सामान्यतः संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वम् । श्रयताशालिमुख्य विशेष्यकप्रत्यक्षत्वेन इति । ज्ञानलक्षणायाः कारण- घटत्वादिप्रकारकज्ञानादिव घटत्वादिविषयक (घटत्वादिविशेष्यक) ज्ञानादपि घटत्वादिप्रकारकोपनीतभानोदयात् । केचित्तु ज्ञानलक्षणायाः सप्रकारक घटत्वादिज्ञानत्वं कारणतावच्छेदकम् इत्याहुः । भाषापरिच्छेदकारादयस् संसर्गावच्छिन्नतद्विषयताशालिज्ञानत्वेन कारणता योगजधर्माजन्यसामान्य- लक्षणाप्रत्यासत्त्यजन्यतद्विषयकप्रत्यक्षत्वेन कार्यता इत्याहुः । अत्र तद्विषयिता चालौकिकी ग्राह्या । तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः ( म० म० २ पृ० २७१ ) । <सामान्यलक्षणा> ( प्रत्यासत्तिः ) सामान्यलक्षण शब्दवद स्यार्थो नुसंधेयः । <सामान्य विधिः> ( विधि: ) १ विशेषापवाद्यो विधिः । यथा का कौण्डि- न्याय तक्रम् इति विशेषापवाद्यः सर्वेभ्यो दधि दीयताम् इति सामान्य- विधिः । यथा वा मतविशेषे अग्नीषोमीयं पशुमालभत इति विशेषाप वाद्यो न हिंस्यात्सर्वा भूतानि इति हिंसासामान्यनिषेधविधिः सामान्य विधिः । शिष्टं सामान्यशब्दे दृश्यम् । २ मीमांसकास्तु अनारम्य विधिः यथा सामिधेन्यूचा साप्तदश्यस्यानारभ्याधीतत्वेन सामान्यविधिः । य वा यस्य पर्णमयी जुहूर्भवति न स पापड श्लोक शृणोति (तैत्ति सं० ३१५/७ ) इत्यादौ पर्णताया अनारभ्याधीताया दर्शपूर्णमासरूप- प्रकृतियागेन्वय इत्याहुः । तथा हि सामान्यविधेरस्पष्टत्वात्तस्य विशेषे- णोपसंहारो भवति । तथा चोक्तम् सामान्यविधिरस्पष्टः संह्रियेत विशेषतः ( लौ० भा० टी० पृ० २३ ) इति । <सामासिकम्> ( योगरूढं नाम ) समासात्मकं नाम । यथा कृष्णसर्पादि। कृदन्तस्य पङ्कज इत्यादियोगरूढस्य सामासिक एवान्तर्भाव: ( श० प्र० श्लो० २९ पृ० ३७) । <सायम्> संध्याशब्दे दृश्यम् । <सार्थक:> १ (शब्दः ) यादृशः शब्दः शब्दान्तरं सहकृत्यैव स्वस्य स्व- घटकस्य वा वृत्युपस्थाव्ययादृशार्थावगाहिबोधं प्रत्यनुकूलः स तथाविधेर्थे सार्थकः । यथा पटपाचकाद्याः प्रकृतयः सुप्तिङाद्याः प्रत्ययाः चादयो निपाताश्च स्वोपस्थाप्यार्थस्य बोधं नियमतः शब्दान्तरं सहकृत्य जनयन्ति । सार्थकः शब्दस्त्रिविधः प्रकृतिः प्रत्ययः निपातश्चेति । शशविषाणादिकः शब्दोपि शशीयत्वादिना विषाणादेरन्वयबोधमादधानस्तादृशविषयताक- बोधने सार्थक एव । परं योग्यः । वाक्यानि पुनः शब्दान्तरमसह- कृत्यापि खोपस्थाप्यार्थस्य बोधं जनयन्ति इति न तत्रातिव्याप्तिः ( श० प्र० श्लो० ६ पृ० ७ ) । २ समूहः सार्थः इति काव्यज्ञा आहुः । 7 <सास्मितः> (समाधिः) यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्व मालम्बनीकृत्य या प्रवर्तते भावना तदा तस्यां सत्त्वस्य न्यग्भावाञ्चितिशक्तेरुद्रेकाच्च सत्त्वमात्रावशेषत्वेन सास्मितः समाधिः (सर्व० सं० पृ० ३५७ पात ० ) । <साहचर्यम्> १ साहित्यम् । २ सामानाधिकरण्यम् (त० दी० ) ( न्या० बो० ) । ३ समभिव्याहारः । <साहसम्> सहसा क्रियते कर्म यत्किंचिदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥ ( मिताक्षरा अ० २ श्लो० २३०) । यथा विष- शस्त्रादिनिमित्तं प्राणव्यापादनादि ( मिताक्षरा अ० २ श्लो० १२) । तदुक्तम् मनुष्यमारणं चौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं स्याच्चतुर्विधम् ॥ ( मिताक्षरा अ० २ श्लो० ७२ ) । १२८ न्या० को० <साहाय्यम्> सहायता । <साहित्यम्> १ तत्तत्क्रियाकालवृत्तित्वम् सहवर्तमानत्वं वा । यथा एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दी ॥ इत्यादौ सहशब्दस्यार्थः । अत्र वर्तमान इत्यव्याहारात् वर्तमानत्वक्रिया- मादायैव साहित्यबोधः इति वदन्ति ( ग० व्यु० का० ३१० ९१) । अथ वा विद्यमान इत्यध्याहारात् विद्यमानत्वमपि सहशब्दार्थः । अत एव विद्यमानसहार्थे तृतीयेयम् इति शाब्दिकमतमपि वरीवर्ति । अत्र पुत्रे ( का० व्या० पृ० ८ ) । २ [क] तुल्यवदेक क्रियान्वयित्वम् ( भारवहनकर्तृत्वाभावेपि सहशब्दप्रयोगादध्याहार आवश्यकः इति ज्ञेयम् म० ४ ) ( दि० ४ ) । तदर्थश्च एककारकान्वयित्वेन तुल्ययोरेक- जातीय क्रिययोरन्वयित्वम् (समानकालीनत्वम् ) ( श० प्र० पृ० ११९ ) इति । [ख अन्ये तु परस्परसापेक्षाणां तुल्यरूपाण मेक क्रियान्वयित्वम् इत्याहु: ( श्राद्ध० ) ( वाच० ) । शाब्दिकास्तु समभिव्याहृतत्वं सहितत्वम् इत्याहुः ( सि० कौ० ) । ३ बुद्धिविशेष- विषयत्वम् । ५ काव्यज्ञास्तु पद्यात्मकं काव्यं साहित्यम् इत्याहुः । शिक्षं तु सहशब्दव्याख्याने दृश्यम् । <सिंहासनम> विजयो जयदो नाम रिपुघ्नोतिप्रियंकरः / दुःसहो धर्मदा शान्तः सर्वारिष्टविनाशनः ॥ एतेष्टौ संनिधौ प्रोक्तास्तव सिंहा महाबलाः । तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे । ( पु० चि० पृ० ७२ ) । सिद्धम् - १ इदमित्थंभूतं च इत्यभ्यनुज्ञायमानमर्थजातम् । यथा सिद्धान्त इत्यादौ सिद्धशब्दस्यार्थ: ( वात्स्या० १२/१२/२६ ) । २ सिद्धिविषयः शब्दार्थ इति मायावादिवेदान्तिनो वदन्ति । ५ देवयोनिविशेषः ३ निश्चितम् । ४ परिनिष्ठितम् । यथा परब्रह्म सिद्धम् इत्यादौ सि पौराणिका आहुः । ६ मौहूर्तिकास्तु विष्कम्भादिषु मध्ये (२१) ए विंशो योगः इत्याहुः । ७ कृष्णधत्तरम् इति भिषज आहुः । ८ म विशेषः सिद्धियुक्त मन्त्रश्च इति मात्रिका आहुः । ९ शाब्दिकास्तु कि विशेषः इत्याहुः । १० निष्पन्नम् इति काव्यज्ञा आहुः । <सिद्धसाधनम्> ( दोषः ) १ प्रमाणान्तरेणावगतार्थसाधनम् अनुमानम् । यथा पर्वते वहिनिश्चयानन्तरमपि पुनस्तत्साधनाय विहितं पर्वतो वह्निमान् घूमात् इत्यनुमानम् । अत्र न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेनु- मातारः इत्यनुभवो द्रष्टव्यः ( तत्त्वचिन्तामणौ वाचस्पतिमिश्रः ) । अत्र सिषाधयिषाया असत्त्वे इति ग्रन्थ आदौ पूरणीयः । सिषाधयिषायाः सत्त्वे तु अनुमितेरुदयेन तदा सिद्धसाधनस्य न दोषत्वम् (पक्षता- विघटकत्वम् ) इत्यवधेयम् । अत्र प्रत्यक्षकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः इत्यनुभवो द्रष्टव्यः (चिन्तामणौ बाचस्पतिमिश्रः) । २ सा- ध्यपक्षतावच्छेदकयोरैक्ये सिद्धसाधनम् । यथा पर्वतः पर्वतत्ववान् घूमात् इत्यादौ सिद्धसाधनम् । अत्र पूर्व पक्षतावच्छेदकपर्वतत्व विशिष्टपक्षा- नेनैव साध्यसिद्ध्युपपत्तौ पुनस्तसाधनं सिद्धसाधनम् इति भावः । केचित्तु पक्षतावच्छेदकभेदे न सिद्धसाधनं दोषः । यथा नित्ये वाङ्मनसे इत्यत्र । यथा वा घटत्वावच्छेदेनेतरभेदस्य सिद्धत्वेपि द्रव्यत्वावच्छेदेने- तरभेदसाधने न सिद्धसाधनम् इत्याहुः । सिद्धसाधनं च हेत्वाभासो निग्रहस्थानं वेति मतभेदः । तत्र सिद्धसाधनं पक्षताविघटकत्वेनाश्रया- सिद्धेन्तर्भवति इति प्राञ्चः जरन्नैयायिका: आहुः । तन्मते पक्षतायाः साध्यसंशयरूपतया तद्विघटकत्वं साध्यनिश्चयस्याक्षतम् । तथा च संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धिः इति भावः (नील० २) ( प्र० च० पृ० ३१ ) । नव्यास्तु सिषाधयिषितपक्षविघटनद्वारा सिद्ध- साधनं दूषणम् न स्वतः । सत्यपि सिद्धसाधने (साध्यनिश्चये) सिषाध- यिषयानुमित्युदयान्न सिद्धसाधनं हेत्वाभासान्तरम् । किंतु निग्रहस्थाना न्तरम् इत्याहुः ( चि० २) ( न्या० म० २ पृ० २१) ( म० प्र० २ पृ० २८) ( त० दी० २ पृ० २७) (सि० च० ) । नव्यानामय- माशयः । सिषाधयिषाविरहविशिष्टसिद्व्यभावस्यैव सिद्धान्तसिद्धपक्षतात्व- स्वीकारात् सत्यामपि सिद्धौ ( साध्यनिश्चये ) सिषाधयिषादशायां चानु- मित्युदयेन सिद्धेरनुमितिप्रतिबन्धकत्वाभावान्न व्यापकत्वघटितहेत्वाभास- क्षणाक्रान्तत्वं सिद्धिविषयस्य साध्यवत्पक्षस्य इति न सिद्धसाधनस्य हेत्वाभासत्वं (दुष्टहेतुत्वम्) संभवति (नील० २ पृ० २७) इति । <सिद्धान्तः> १[ क ] तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ( गौ० १ । १ । २६ ) । समुदितार्थश्च तन्त्रार्थसंस्थितिस्तन्त्रसंस्थितिः। अधिकरणा- नुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगमसंस्थितिरनवधारितार्थ- परिग्रहः । तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः (वात्स्या० १/१/२६) । अथ वा तत्रं शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य तादृशस्य योभ्युपग- मस्तस्य समीचीनतया असंशयरूपतया स्थितिः इति । अत्र अभ्युपगम्य- मानोर्थः सिद्धान्तः इति भाष्यम् । अभ्युपगमव्यवस्था सिद्धान्तः । अभ्यु- पगमः इदमित्थंभूतं वा इति न्यायवार्तिकटीका (गौ० वृ० १/१२/२६) ( न्या० वा० १ पृ० १७) । अत्रेयं व्युत्पत्तिः सिद्धस्य संस्थितिः सिद्धान्तः इति । संस्थितिरित्थंभावव्यवस्था धर्मनियमः (वात्स्या० १९९१ । २६ अवतर० पृ० ४७ ) । [ख ] शास्त्रितार्थनिश्चयः (गौ० वृ० १ । १ । २६ ) । शास्त्रप्रतिपादितार्थनिश्चय इत्यर्थः । [ग] णिकत्वेनाभ्युपगतोर्थ: ( त० दी० पृ० ४३ ) ( त० मा० पृ० ४२) ( सर्वे० पृ० २३८ अक्ष० ) । तथा चोक्तं तार्किकरक्षायाम् अभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः । सिद्धान्तः सर्वतन्त्रादिभेदात्स च चतुर्विधः ॥ ( ता० २० श्लो० ५८) इति । [घ ] तत्तच्छास्त्र सिद्धार्थः (दि० १) । तन्त्रभेदात्तु खलु स चतुर्विधः सर्वतन्त्रसंस्थितिः प्रति- तन्त्रसंस्थितिः अधिकरणसंस्थितिः अभ्युपगमसंस्थितिश्च इति (गौ० पृ० ३) । यथा न्यायसिद्धान्तमञ्जरी इत्यादौ सिद्धान्तशब्दस्यार्थः १ । १ । २७ ) ( त० मा० पृ० ४२ ) । २ अबाधितार्थः ( म०प्र० ( न्या० म० पृ० १ ) । ३ मीमांसकास्तु पञ्चावयवयुक्ताधिकरणस्य चरमोङ्गविशेषः सिद्धान्त इत्याहुः । ४ ज्योतिषज्ञास्तु ज्योतिः शास्त्रमन्य विशेषः । यथा सूर्यसिद्धान्तसोमसिद्धान्तादिः इत्याहुः । तल्लक्षणमुक त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमाचारश्च द्युसदां द्विधा गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्यग्रहसंस्थितेश्च कथनं यथार शि० ) इति । ५ वादिजनास्तु प्रमाणाद्युपन्यासेन पूर्वपक्षनिरास यत्रोच्यते सिद्धान्तः स उदाहृतोत्र गणितस्कन्धप्रबन्धे बुधैः ॥ (सि सिद्धपक्षस्य स्थापनरूपो वाक्यस्तोम इत्याहुः । <सिद्धिः> १ निश्चयः । स च साध्यवत्तानिश्चयः (दीधि ० २) (ग० सत्प्र० ) । पक्षतावच्छेदक विशिष्टे साध्यतावच्छेदक विशिष्टसाध्य वैशिष्या- बगाहिनिश्चयः इत्यर्थः ( नील० २ ) । यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् इति निश्चयः । इयं सिद्धिर्द्विविधा पक्षतावच्छेदक- सामानाधिकरण्यमात्रावगाहिनी पक्षतावच्छेदकव्यापकत्वावगाहिनी चेति । इयं सिद्धिरसत्यामनुमित्सायां कामिनीजिज्ञासा कार्यमात्रस्येव अनुमितेः पृथक् प्रतिबन्धिका भवति । अनुमित्सा तु तत्रोत्तेजिका भवति इति ज्ञेयम् ( ग० पक्ष० ) । अनुमित्सा सिषाधयिषा । अत्रानुभवमनुरुष्य प्रतिबध्यप्रतिबन्धकभावः कल्प्यते । पक्षतावच्छेदकावच्छेदेनानुमितिं प्रति पक्षतावच्छेदकावच्छेदेनैव सिद्धिर्विरोधिनी न तु पक्षतावच्छेदक- सामानाधिकरण्येनापि सिद्धिर्विरोधिनी । पक्षतावच्छेदकसामानाधिकरण्य- मात्रेणानुमितिं प्रति तूभयविधापि सिद्धिर्विरोधिनी (मु० २ पक्ष० ) ( दीधि० २) इति । २ व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिरुच्यते । यथा असिद्धो हेत्वाभासः इत्यादौ सिद्धिशब्दस्यार्थः ( ता० र० श्लो० ८४ ) । ३ सांख्यास्तु आध्यात्मिकादिदुःखत्रयविघातास्त्रयो मुख्यसिद्धय इत्याहुः । अत्र सूत्रम् ऊहादिभिः सिद्धिः ( सांख्य० सू० अ० ३ सू० ४४ ) इति । तदर्थश्च ऊहादिभेदैः सिद्धिरष्टधा भवति इति । इदं सूत्रं कारिकयापि व्याख्यातम् । यथा ऊहः शब्दोध्ययनं दुःखविधातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोष्टौ सिद्धेः पूर्वोङ्कशस्त्रिविधः ॥ (सांख्य ० मा० ३।४४ ) इति । ४ योगशास्त्रज्ञास्तु ऐश्वर्यम् । अत्र सूत्राणि समाधावुपसर्गा व्युत्थाने सिद्धयः ( पात० पा० ३ सू० ३७ ) जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ( पात० पा० ४ इत्यादीनि । तदर्थश्च ते प्रतिभादयः सिद्धयः माना उपसर्गाः विघ्नाः । तत्त्वदर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्यो- त्पद्यमानाः सिद्धयः प्रियाः (भाष्य ० ) इति । तत्र जन्मना सिद्धिर्यथा यक्षगन्धर्बादीनामाकाशगमनादिसिद्धिः । देवहूतीपुत्रकपिलादीनां तु स्वाभाविकी सिद्धिः । ओषधिभिः असुरभवने माण्डव्यादिमुनीनां रसायनेन इत्येवमादिः । मन्त्रैरणिमादिलाभः केषांचित् । तपसा विश्वा मित्रादीनां॑ सिद्धिः । संकल्प सिद्धिः कामरूपी यंत्र तत्र कामगः इत्येव- मादिः । समाधिजाः सिद्धयस्तु परमाण्वादिमूलप्रकृत्यन्तवस्तूनां साक्षा कार: ऋतंभराख्याध्यात्मप्रसादच इत्यादयः (पात० ११४७-४८)। अष्टौ सिद्धयस्तु अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम् वशित्वम् ईशित्वं चेति । तत्र भूतजयेनाणिमाद्यष्टसिद्धयः प्राप्नुवन्ति । तत्र अणिमा परमाणुवत्सूक्ष्मस्वरूपेणावस्थानम् । महिमा विभुत्वप्राप्तिः । लघिमा कार्पासवल्लघुत्वभवनम् । गरिमा मेरु पर्वतवद्गुरुत्वभवनम् । प्राप्तिः अङ्गुल्या चन्द्रमण्डलस्पर्शनम् । प्राकाम्यं सत्यसंकल्पत्वम् । वशित्वं सर्वप्राणिनियन्तृत्वम् । ईशित्वं च सर्वभूतोत्पादनशक्तिमत्वम् (पात० ३।४५) इति । ५ तान्त्रिकास्तु मन्त्रसिद्धिरित्याहुः । इयं सिद्धिरुत्तममध्यमाधमभेदेन त्रिविधा । तत्रोत्तमा मनोरथानामक्लेशपरकाय- प्रवेशादिः । मध्यमा ख्यातिवाहनभूषादिलाभ: । अधमा तु धनित्व पुत्रदारादिलाभः (तन्त्रसा० ) इति । <सिनीवाली> दृष्टचन्द्राममावास्यां सिनीवालीं प्रचक्षते ( पु० चि० पृ० ३१८ ) । <सिषाधयिषा> [क] तत्साध्य विशिष्टतत्पक्षविषय कत्व प्रकारिकानुमिति वि षयिणीच्छा ( दीधि० २ पक्ष० पृ० १२४ ) । [ख ] अनुमितित्व- प्रकारकेच्छा ( ग० सार्व० पक्ष० ) । यथा पर्वते वह्नयनुमितिर्मे जाय- ताम् इत्याकारिकेच्छा । अत्रेदं चिन्त्यम् । सिद्धौ सत्यामपि सिषाध यिषासत्त्वेनुमितिदर्शनात्सिषाधयिषाया अनुमितावुत्तेजकत्वमुक्तम् । त्तेजकत्वम् तत्साध्यविशिष्टतत्पक्षविषयकत्वानुमितित्व प्रत्यक्षातिरिक्तत्वैत- षयिताकत्वरूपेणानुगतेन वाच्यम् ( ग० पक्ष० ) इति । परे तु पर्वते तिरिक्तं ज्ञानं जायताम् इत्याद्यननुगतेच्छानां तु तत्तव्यक्तित्वेनैवोत्तेजक वह्निमनुमिनुयाम् इत्याद्यनुगतेच्छानामनुगतरूपेणैवोत्तेजकत्वम् । प्रत्यक्षा- त्क्षणानन्तरक्षणानुमितित्वैतन्निष्ठावच्छेदकताभिन्नावच्छेदकत्वा निरूपक वि वाच्यम् इत्याहुः (दि० २ पक्षता० पृ० १४९ ) । <सीमा> १ मर्यादा ( ग० व्यु० कार० २ ख० २ पृ० ७५)। २ अवधिः । ३ स्थितिः । ४ अण्डकोशः ( मेदि० ) । यथा सीम्नि पुष्कलको हतः इत्यादौ सीमन् शब्दस्यार्थः ( सि० कौ० सुब० ) । <सु> ( अव्ययम् ) १ प्रशंसा । यथा सुरूपः इत्यादौ सुशब्दस्यार्थः । २ अनुमतिः । यथा सुकृतम् इत्यादौ सुशब्दार्थः । ३ पूजा । यथा सुसाधुः इत्यादौ सुसंस्तुतम् इत्यादौ च सुशब्दार्थः । ४ भृशम् ( अतिशयः ) । यथा सुतप्तः इत्यादौ सुशब्दस्यार्थः । ५ कृच्छ्रम् । यथा सुदुष्करम् इत्यादौ सुशब्दार्थः । ६ शुभम् । यथा सुगन्धः इत्यादौ सुशब्दस्यार्थ: ( गण० ) । ७ अनायासः ( मेदि० ) । यथा सुलभः इत्यादौ सुशब्दार्थः । ८ समृद्धिः । यथा सुभिक्षम् इत्यादौ सुशब्दार्थः । <सुखम्> १ ( गुणः ) [क] धर्ममात्रासाधारणकारणकगुणः ( सि० च० गणनि० पृ० ३५ ) ( त० कौ० ) । सुखं तु जगतामेव काम्यं धर्मेण जन्यते । तथा च धर्मत्वेन सुखत्वेन कार्यकारणभाव: (भा०प० T० १४६ ) । अयं च धर्मसुखयोः सामान्य कार्यकारणभावः प्राचां मतेनोक्तः । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्म इति श्रुत्या भगवति नित्यसुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वम् सुखत्वावान्तर- जातिर्वा इति बोध्यम् ( दि० गु० पृ० २२० ) । सुखस्य लक्षणं तु सुख्यहम् इत्याद्यनुव्यवसायगम्यसुखत्वं जातिविशेष: ( त० दी० ) । यद्वा काम्यभावत्वम् । अथ वा इतरेच्छानधीनेच्छाविषयत्वे सति भावत्वम् ( न्या० बो० ) । दुःखाभावस्य काम्यस्वेपि स्वतः पुरुषार्थत्वेपि च तस्य भावत्वाभावान्नातिव्याप्तिः । [ख ] इतरेच्छानधीनेच्छाविषयी भूतो गुणः । सुखेच्छ सुखत्वप्रकारकज्ञानेनैव जन्यते । नेष्टसाधनत्वज्ञा- । तथा च उपायेच्छाया इष्टसाधनत्व विषयकज्ञानेनापि जन्य- त्वेन तादृशज्ञानजन्योपायेच्छाविषयत्वेपि इतरेच्छानधीनेच्छाविषयत्वा- भावेन नोपायेतिव्याप्तिः । अत एव सुखानन्तरमिष्टान्तरस्याभावात् सुखस्य स्वतः पुरुषार्थत्वमुपपद्यते ( मु० गु० पृ० २२१ ) इति । अत्र मतभेदः । सुखं चात्मधर्मः इति नैयायिका आहुः । तच्च चित्त- धर्मः इति सांख्या आहुः । अत्र सांख्यानां मायावादिनां चायमा- शयः सुखं चित्तधर्मोप्यभ्यस्ततया प्रतिबिम्बरूपेण वात्मनि वर्तत इति । अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदु:खयोः इष्टानिष्टका- रणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः (वै० १० ११ ११) इत्यनेन कारणभेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः । दुःखाभिन्नं सुखं न भवति । तथा च सुखं दुःखमिश्रितत्वेन दुःखाभिन्न- मस्ति इति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि सुखस्य दुःखा- द्भेदमाहुः । अनुग्रहाभिष्वङ्गनयनप्रसादादि प्रशस्तपादाचार्यादयः (वै० उ० १०/१/१ पृ० ४१७) । अत्र भाष्यम् । अनुग्रहलक्षणं सुखम् । स्वर्गाद्यभिप्रेतविषयसांनिध्ये सति इष्टो- पलब्धीन्द्रियार्थसंनिकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभि- ष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम् । तदिदमतीतेषु विषयेषु स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । यत्तु विदुष विषयानुस्मरणेच्छासंकल्पेष्याविर्भवति तत् विद्याशमसंतोषधर्मविशेष- निमित्तम् ( प्रशस्त ० २ पृ० ३२) इति । [ग अनित्येच्छानधीने- च्छा विषयः ( प्र० प्र० ) । घ सुखत्वसामान्यवत् । इदं च जीवे- श्वरसुखसाधारणलक्षणम् इति विज्ञेयम् । [ ङ ] निरुपाध्यनुकूलवेद्यम् । अत्र अनुकूलमिच्छाविषयः उपाधि प्रयोजकः इत्यर्थः (५० च० पृ० ३० ) । [च ] सर्वात्मनामनुकूलवेदनीयम् ( त० भा० ) ( त० सं० ) । अत्रानुकूलत्वं चेष्टत्वम् ( सि० च० ) । तथा च इच्छाविषयत्वेन ज्ञानविषयः इति तु वयं ब्रूमः । २ कचित् दुःखाभावः । यदनुभवाय चित्तमनुकूलं भवति तत् इत्यर्थः इति कश्चिदाह । तन्न । यथा भारवाहकस्य भारापगमे दुःखाभावः । अयमाशयः । भारवाहकस्य भारापगमे सुखी संवृत्तोहम् इति प्रत्ययस्य दुःखाभावविषयकत्वेनोपग- प्रयोगो बहुधा लोके । यथा ज्वराद्यपगमे लौकिका व्याचक्षाणा भवन्ति मात् दुःखाभावे सुखत्वमुपचर्यते इति । दृष्टश्च दुःखाभावेपि सुखशब्द- सुखिनः संवृत्ताः स्मः इति ( न्या० वा० ११ १/२२ १० ९० ) (मु० १ आत्मनि० पृ० १०३) । अधिकं शिष्टं तु दुःखशब्द- व्याख्यानावसरे संपादितमेव इति । ३ बुद्धिसत्त्वस्य परिणाम विशेषः इति सांख्या आहुः । ४ निद्रा इति केचिदाहुः । ५ स्वर्गः इति मीमांसका आहुः । ६ सुखकरम् ७ सुखी च इति काव्यज्ञा आहुः । ८. वृद्धिना- मौषधि विशेषः इति भिषज आहुः । ९ वरुणपुरी इति पौराणिका आहुः । न्यायमते सुखं चतुर्विधम् वैषयिकम् आभिमानिकम् मानोरथिकम् आ- भ्यासिकं चेति । तत्र आद्यं विषयसाक्षात्कारजन्यम् । द्वितीयं राज्याधिप- व्यपाण्डित्यगर्वादिजन्यम् । तृतीयं विषयध्यानजन्यम् । तुरीयं च सूर्यनम- स्कारायासादिजन्यं लाघवरूपम् ( सि० च० ) इति । मीमांसकमते च सुखं द्विविधम् सांसारिकम् पारमार्थिकं च । तत्राद्यम् प्रयत्नोत्पाद्यं साधना- धीनं सुखम् । द्वितीयं तु स्वर्गः इति । वेदान्तिमते च सुखं द्विविधम् नि - त्यम् जन्यं च । तत्र विषयसंपर्काद्वैषयिकं सुखं जन्यम् । ब्रह्मस्वरूपं सुखं तु नित्यम् इति । तदेतद्वेदान्तिमायावादिमतम् मुक्तिवादे मणिकता निरा- कृतम् । तत्र न च नित्यसुखाभिव्यक्तिर्मुक्तिः इत्युपक्रम्योक्तम् स्वप्रकाश- सुखात्मकब्रह्मणो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गः । पुरुषप्रयत्नं विना तस्य सत्त्वात् । अपुरुषार्थत्वाच्च । अविद्यानिवृत्तिः प्रयत्नसाध्या इति चेत् । अविद्या यदि मिथ्याज्ञानम् अर्थान्तरं वा उभयथापि सुख- दुःखाभावसाघनेतरत्वेन तन्निवृत्तेरपुरुषार्थत्वम् ( चि० २ परिशिष्ट ० मुक्ति० पृ० ४६-४७ ) इति । दुःखध्वंसस्यैव परमप्रयोजनत्वम् स एव मोक्षः (चि० २ परिशि० मुक्ति० पृ० ४० ) इति च । पात- अलास्तु वैषयिकसुखानां परिणामदुःखादिभिः दुःखत्वमेव वैराग्यार्थ मन्यन्ते । अत्र सूत्रम् परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःख- मेव सर्व विवेकिन: ( पात० पा० २ सू० १५ ) इति । <सुगतः> ९ बुद्धः । २ सुष्ठु गतियुक्तः ( अमरः ३ । ४ । २ ) । <सुतराम्> ( अव्ययम् ) अवधारितार्थस्यातिशयौचित्यम् । यथा धेन्वा तद- ध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः (रघु० स० २ १० ५२ ) इत्यादौ सुतराम् इत्यस्यार्थः । अत्र कातराक्ष्या धेन्वा दृश्यमानत्वेन दयालुत्वस्यातिशयौचित्यम् इति विज्ञेयम् । अत्र व्याकरणम् १२९ न्या० को० सु अतिशयेर्थे द्विवचनविभज्योपपदे तरवीयसुनौ ( पाणि० ५/३/५७ ) इत्यादिना तरप् आम् इति । <सुप्> ( विभक्तिः ) [क] प्रकृत्यर्थधर्मिक स्वार्थसंख्यान्वयबोधिका विभक्तयः सुप उच्यन्ते । यथा घटोस्ति इत्यादौ घटपदोत्तरं सुविभक्तिः । तिङस्तु स्वार्थभावनाद्यन्वयिन्येव स्वार्थसंख्यामवबोधयन्ति न तु स्वप्रकृत्यर्थे इति तासां व्युदासः ( श० प्र० श्लो० ६३ टी० पृ० ७३ ) । ताः सुपः प्रथमाद्वितीयादिभेदेन सप्तविधाः । सुप् प्रकारान्तरेण द्विधा कारका कारकार्थान्या चेति । कारकार्था कारकविभक्तिः । तत्र वृत्या कारकस्य बोधिका कारकार्था । तदन्यस्य बोधिका कारकार्थान्या (श० म० श्लो० ६७ टी० पृ० ७७ ) । ख ] वैयाकरणास्तु व्याकरण- परिभाषिताः सुप्रभृतिसुपूपर्यन्ताः सुप्प्रत्याहारान्तर्गताः एकविंशति- संख्याकाः प्रत्ययविशेषाः । यथा रामः इत्यादौ रामपदोत्तरं सुविभक्तिः इत्याहुः । ते च प्रत्ययाः सु आ जसू अम् औट् शस् टा भ्यां भिस् डे भ्याम् भ्यस् ङसि भ्याम् भ्यसू डस् ओस् आम् ङि ओस् सुप (पाणि० ४।१।२) इति । शिष्टं तु विभक्तिशब्दव्याख्याने दृश्यम् । <सुप्तः> निद्रितः । यथा निर्विकल्पकासत्त्वे सुप्तोत्थितस्य अयं घटः विशिष्टज्ञानं न स्यात् ( त० कौ० १ पृ० ८) इत्यादौ ग्रन्थे सुप्त शब्दार्थः । अत्रोच्यते प्रसङ्गतो व्यवहारोपयोगि। क्षुधितस्तृषितः विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान प्रबोध येत् ॥ इति । अन्यच मक्षिका भ्रमरः सर्पों राजा वै बालकस्तथा । परश्चापि च मूर्खश्च सप्त सुप्तान्न बोधयेत् ॥ ( नीतिसारे ) इति । <सुभद्रा> ( कल्याणीशब्दे दृश्यम् ) <सुरा> पैट्याख्यो मद्यविशेषः । यथा न सुरां पिबेत् ( मनु० अ० ११ लो० ९३ ) इत्यादौ सुराशब्दस्यार्थः । अत्रेदं बोध्यम् । यद्यपि सुरा शब्दवाच्याः गौडी माध्वी पैष्टी इति तिस्रः तथापि सुराशब्दो पैष्टी- मात्रे मुख्यः । गौडीमाध्व्योर्गौणः । तथोक्तं भविष्यपुराणे सुरा च इति पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे ( मनु० टी० कुल्लू० अ० ११ श्लो० ९० ) इति । पैष्टी तण्डुल पिष्टसाध्या अन्नविकारः ( मिता० ) । तदन्यन्मद्यम् । अत्र त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधोप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य तु न सुराप्रतिषेधः । नापि मद्यमात्र- प्रतिषेधः ( मिताक्ष० अ० ३ श्लो० २५३ पृ० ८१ ) ( मनु० अ० ११ श्लो० ९३ कुल्लूक० ) । कामतः सकृत्सुरापानेपि प्रायश्चित्तं तु सुरां पीत्वा द्विजो मोहात् ( रागमूढतया ) अग्निवर्णी सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ( मनु० अ० ११ ० ९० ) इति । अकामतः जलादिबुद्ध्या सुरापाने तु द्वादश- वार्षिकं ब्रह्महत्याव्रताचरणम् । छर्दनानन्तरं तु त्रैवर्षिकं पिण्याकादि- भक्षणं प्रायश्चित्तम् । केवलतालुमात्रसुरासंयोगे तु वर्षपर्यन्तं सकृत्पिण्या- कादिभक्षणं प्रायश्चित्तं बोध्यम् इति । मत्या मद्यपाने गौडीमाध्व्योर- ज्ञानतः पाने च कृच्छ्रातिकृच्छ्रसहितः पुनः संस्कारः । अकामतोमुख्य- सुरापाने तु वर्षपर्यन्तं प्रतिरात्रं सकृत् पिण्याकादिभक्षणम् तप्तकृच्छ्र- पूर्वकं पुनरुपनयनादि च ज्ञेयम् ( याज्ञ० अ० ३श्लो० २५३-२५५ ) ( मनु० अ० ११ श्लो० ९२ ) । <सुवर्णम्> १ (आकरजं तेजः) पार्थिवभागसंयुक्तो द्रवद्रव्यविशेषः । यथा सुवर्णाङ्गुलीयकम् इत्यादौ सुवर्णशब्दार्थः । सुवर्णस्य तैजसवं यथा पीतिमगुरुत्वाश्रयस्यात्यन्ताग्निसंयोगेपि पूर्वरूपापरावृत्तिदर्शनात् पूर्वरूप - परावृत्तिप्रतिबन्धकं विजातीयं द्रवद्रव्यं कल्प्यते । तथा ह्यनुमानम् अग्नि- संयोगिपीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रबद्रव्यसंयुक्तः अत्य- न्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात् जलम- मध्यस्थपीतपटवत् (मु० १ तेजो० पृ० ८१) इति । अत्रोक्तम् पीतिमा च गुरुत्वं च दाहे यस्य च रक्तता । तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन वार्यते ॥ अनुच्छिन्नद्रवत्वं तु वस्तु यत्त्विह भासते । सुवर्णव्यवहारो तन्त्रशास्त्रे प्रवर्तते ॥ वस्तुभेदे प्रसिद्धेपि शब्दसाम्यं प्रवर्तते । रसः स्वभावमधुरो ध्वनिश्च मधुरो यथा ॥ भूसंसर्गवशाच्चास्य रूपं नैव प्रतीयते । (स्फटिकस्य जपायोगाद्यथा रूपं न भासते ॥ ( न्या० ली० तेजोनि० पृ० ९ ) इति । अथ सुवर्णस्य तैजसत्वे प्रकारान्तरेणानुमानमुच्यते । सुवर्ण तैजसम् असति प्रतिबन्धकेत्यन्तानलसंयोगेपि अनुच्छिद्यमान- द्रवत्वात् यन्नैवं तन्नैवं यथा पृथिवी (मु० तेजोनि० पृ० ८१ ) इति । अग्नौ सुवर्णमक्षीणम् ( याज्ञ० २१९७८) इति स्मृतेरग्निसंयोगेपि तस्य नोच्छेदः । अत्रेदं विज्ञेयम् । अत्यन्तानलसंयोगे सति पार्थिवे घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थवृतादौ द्रवत्वनाशादर्शनेन असति प्रति- बन्धके पार्थिवद्रवत्वनाशात्यन्ताग्निसंयोगयोः कार्यकारणभावावधारणात् सुवर्णस्यात्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन - त्वानुपपत्तिः । तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तर- सिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वा दिष्वनन्तर्भावात् तैजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्भक- पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्ण तैजसम् इति सिद्धम् ( त० दी० १ पृ० ८-९) । आगमोपि अग्नेरपत्यं प्रथमं हिरण्यम् ( दि० १ पृ० ८१ ) इति । ब्राह्मण स्वामिकसुवर्णचौर्ये महा- पातकम् । तत्संग्रहस्तु पातकशब्दव्याख्याने (पृ०४९८ ) दृश्यः । एवम् हिरण्य रौप्य इत्यादयः शब्दा व्याख्येयाः । २ कर्ष परिमाणम् । यथा प्रायश्चित्तप्रत्याम्नायादौ सुवर्णशब्दार्थः कर्षपरिमाणम् । ३ धनम् । <सुषुप्तिः> [क] प्रदेश विशेषावस्थितमनः संयोगः ( नील० गु० go ३८ ) । स च प्रदेश: पुरीतदात्मकः । [ख ] निद्रानाड्यवच्छिन्ना- ४ धत्तूरम् इत्यादि । पुरुषः सुप्तः स्वप्नया चरति । तो ह सुप्तं पुरुषमाजग्मतुः ( कौषीत● रुत्पत्तिमाहुर्नव्याः । प्रथमम् सुषुत्यनुकूलमनः क्रियया पुरीतद्व्यतिरिक्तात्म- ४।१५ - १९ ) इत्यादी स्वप्धात्वर्थः स्वापः । स एव सुषुप्तिः / सुषुते- प्रदेशान्मनसो विभागः । ततस्तत्संयोगनाशः । ततः पुरीतदात्मकोत्तर देशेन मनसः संयोग उत्पद्यते । सैव सुषुप्ति : (दि० १/३ पृ० ११५) इति । अत्रेदं बोध्यम् । सुषुप्तौ न किंचिदपि ज्ञानमुत्पद्यते । सुषुप्तिकाले पुरीतति त्वगिन्द्रियाभावेन तत्र स्थित मनसत्वक् संयोगासंभवात् । पुरीत- द्भिन्नदेशावच्छिन्नमनःसंयोगस्य (त्वमनः संयोगस्य ) ज्ञानसामान्यं प्रति कारणत्वात् ( राम० १ पृ० ११४-११५ ) इति । पुरीतत् अन्न इत्याख्यो नाडीविशेषः इति ज्ञेयम् ( अमरः २२६/६६ ) । अत्र श्रुतिः । अथ यदा सुप्तो भवति तदा न कस्यचन ( न कंचन ) वेद । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृष्य पुरीतति शेते (शतपथब्रा० १४ बृह० २११११९ ) । यत्रैतत्पुरुषः सुप्तः स्वप्नं ( स्वप्नसृष्टं फलम् ) न कंचन पश्यति ( कौषीत० उप० ३ । ३ ) । तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति ( छान्दो० उ० ८ । ६ । ३ ) इत्यादिः । मायावादिवेदान्तिनस्तु [घ ] ज्ञानशून्यो जीवस्यावस्थाविशेष इत्याहुः । अत्र श्रुतिः यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत् सुप्तमिति (बृह० उ० ४ । ३ । १९) इति । अत्रेदं विज्ञेयम् । सांख्यमते सुषुभ्यवस्था च द्विविधा । अर्धलयसमप्रलयभेदात् । तत्रार्धलये विषयाकारा वृत्तिर्न भवति । किं तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति । समग्रलये तु बुद्धेर्वृत्ति- सामान्याभावो मरणादाविव भवति ( सांख्य० मा० अ० १ सू० १४८ ) । किं च मायावादिमते समग्रलये जीवः परमात्मनैक्यमाप्नोति ( शारी० मा० ११ १२ १९ ) । तत्र श्रुतिः यत्रैतत्पुरुषः स्वपिति नाम सता सौम्य तदा संपन्नो भवति । स्वमपीतो भवति । तस्मादेन स्वपितीत्या - चक्षते (छान्दो० ६।८।१ ) इति । मध्यमते तु तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् (बृह० उप० ६ । ३ । २१ ) इति श्रुत्या जीव: सुषुयवस्थायां परमात्मन आलिङ्गनमात्रं प्राप्नोति इति प्रतिपाद्यते इत्यलं विस्तरेण। [ङ ] प्रबोधसहकार्यभावेन क्लेशस्यानभि- व्यक्तिः इति योगिन आहुः ( सर्व० पृ० ३५९ पातञ्जल० ) । [च ] निद्रा इति काव्यज्ञा आहुः (अमरः १।७।३६) । <सूक्तवाकः> इदं द्यावापृथिवी भद्रमभूत् इत्यादिको मन्त्रः । यथा सूक्त - वाकेन प्रस्तरं प्रहरति इति । प्रस्तरो दर्भमुष्टिः (जै० न्या० अ० ३ पा० २ अधि० ५) । <सूक्ष्मम्> १ अत्यल्पः पदार्थः । यथा अणुपरिमाणयुतः परमाण्वादिः । यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषांचिद्वेदान्तिनां मते अपञ्चीकृतानि पृथिव्यादीनि पञ्च महाभूतानि सूक्ष्माणि तन्निर्मितं शरीरं सूक्ष्मशरीरम् । तदुक्तम् पञ्चप्राणमनोबुद्धिदशेन्द्रिय समन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ इति । इदं च लोकान्तर- गामि भोगोपभोगसमर्थ लिङ्गशरीरम् इत्युच्यते । सांख्यास्तु महद- हंकारैकादशेन्द्रिय पञ्चतन्मात्राणां समुदायः सूक्ष्यशरीरम् । शान्तघोर- मूढैरिन्द्रियैरन्वितत्वात् विशेषः इति प्रतिपेदिरे ( सांख्य० कौ० कारि० ४० ) । अत्रोक्तम् सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते (सांख्य ३९ ) इति । सूक्ष्मा: सूक्ष्मदेहाः । ते च अनुमिताः । परलोके कर्मफलभोगः सूक्ष्मदेहं विना अनुपपन्नो भोगत्वात् स्थूल- हारब्धकृष्यादिजनितस्य सस्यस्य स्वदेहेनैव भोगवत् इति । स्वदे रब्धकर्मादिफलं यत् तत् स्वदेहेनैव भोग्यम् नेतरेण । कृतहाना कृताभ्यागमप्रसङ्गः इत्यादिस्तर्कस्तत्रानुसंधेयः । लंकारविशेषः । तदुक्तम् संलक्षितस्तु सूक्ष्मोर्थ आकारेणेङ्गितेन वा । कयापि सूच्यते भझ्या यत्र सूक्ष्मं तदुच्यते ॥ ( साहि० परि० १० लो० ९१ ) । ३ कतकवृक्षः इति भिषज आहुः । ४ कैतवम् इति काव्यज्ञा आहुः । ५ सूक्ष्मं संपूर्णषणं वासुदेवाख्यं परं ब्रह्म ( सर्व० पृ० ११६ रामा० ) । <सूत्रम्> १ शास्त्रीयवह्वर्थप्रतिपादकसंक्षिप्तवाक्यविशेषः । शास्त्रीयसूत्राणि षड़िधानि ब्रह्ममीमांसासूत्रम् धर्ममीमांसासूत्रम् न्यायसूत्रम् सूत्रम् सांख्यसूत्रम् योगसूत्रं चेति । अत्र वेदान्तिनः सूत्रलक्षणमाहुः । अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्र सूत्रविदो विदुः ॥ ( मध्वमा० १११ प्रस्ताव० पृ० ३) इति । शाब्दि- कास्तु सूत्रलक्षणमाहुः संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोधिकारश्च षड़िधं सूत्रलक्षणम् ॥ इति । पाणिन्यादिप्रणीतानि व्याकरणसूत्राणि तु वेदाङ्गान्येव । न तु शास्त्रीय सूत्रषटान्तर्भूतानि । एवम् आश्वलायनापस्तम्बादिमहर्षिप्रणीतानि धर्मगृह्य श्रौतसूत्राणि बहूनि सन्ति । २ नाटकज्ञास्तु नाटकोपकरणं प्रस्तावः । यथा सूत्रधारः इत्यादौ सूत्रशब्दस्यार्थ इत्याहुः । ३ तन्तुः इति काव्यज्ञा आहुः । <सूनृतव्रतम्> प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते ( सर्व० सं० पृ० ६५ आर्ह० ) । <सृङ्का> शब्दवती रत्नमाला (कठोपनिषत् रङ्गरामानुज पृ० ३७५० १७) । <सृष्टि:> १ उत्पत्त्यनुकूलव्यापारविशेषः । यथा ससर्ज भगवानादौ त्रीन् गुणान् प्रकृतेः परः । महत्तत्त्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ॥ महत्तत्त्वादहंकारं ससर्ज शिवविग्रहम् । दैवान् देहान् मनः खानि खं च स त्रिविधात्ततः ॥ आकाशादसृजद्वायुं वायोस्तेजो व्यजीजनत् । तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ततः कूटस्थमसृजद्विधिं ब्रह्माण्डविग्रहम् । तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश ॥ ( मणि- मञ्जरी स० १ श्लो० २ - ५ ) इत्यादौ सृज्धात्वर्थः सृष्टिः । स च व्यापारो जगदुत्पत्तावीश्वरेच्छारूपः । घटायुत्पत्तौ तु कुलालादीनां कर्मादिः । अत्र तदैक्षत बहु स्यां प्रजायेय ( छान्दो० उ० ६।२।३ ) तत्सृष्ट्वा तदेवानुप्राविशत् ( तैत्ति ० उ० २१६ । १ ) इत्यादिश्रुतयोनु- संधेयाः । मनुराह ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृतौजाः प्रादुरासीत्तमोनुदः ॥ सोभिव्याय शरीरात्वात्सिसृक्षुर्विविधाः प्रजा: । अप एव ससर्जादौ तासु बीजमवासृजत् ॥ ( मनु० अ० १ श्लो० ६ - ८) इत्यादि । पौराणिका नवविधं सर्गे जगुः सर्गो नव- विधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥ ( भाग० स्क० ३ अ० १०) इत्यादि । मत्स्यपुराणे च मत्स्य उवाच तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्ग- पदक्रमाः ॥ पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिःसृताः । मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः ॥ इत्यादिसृष्टिप्रकारः सविस्तरो द्रष्टव्यः । इदानीं सृष्टिक्रमः कथ्यते । प्राणिनां भोगभूतये परमेश्वरस्य सिसृक्षा जायते । सर्गादौ भगवानीश्वरः प्रयोज्य प्रयोजकवृद्धशरीरद्वयं परिगृह्य तथा व्यवहरति । ततस्तद्व्यवहाराद्वाल: पूर्ववत्संकेतं गृह्णाति ( न्या० म० ४ पृ० ५ ) । ततो लब्धवृत्तिकादृष्टविशिष्टात्मसंयोगात् दोधूयमानेषु पवनपरमाणुषु प्रथमतः कर्मोत्पत्तिः । ततो द्वयोः पवन- परमाण्वोः संयोगः । ततो द्व्यणुकोत्पत्तिः । ततस्त्रिषु द्व्यणुकेषु कर्मों- त्पत्तिः । ततस्तेषां संयोगः । ततत्र्यणुकोत्पत्तिः । एवं चतुरणुकाद्युत्पत्ति- क्रमेण महावायुरुत्पद्य विहायसि दोधूयमानस्तिष्ठति । ततस्तस्मिन्वायौ जलपरमाणुभ्यो द्यणुकादिक्रमेण महाजलराशिरुत्पन्नः पोलूयमानः तिष्ठति । ततस्तस्मिन्महोदधौ पृथिवीपरमाणुतो द्यणुकादिक्रमेण महा- पृथिव्युत्पद्य संहतावतिष्ठते । ततः तस्मिन्नेव जले तैजसेभ्य उत्पन्नो महातेजोराशिर्देदीप्यमानस्तिष्ठति इति । तत्र तेजः परमाणुसहित पृथिवी- परमाणुभिरीश्वराभिध्यानादण्डमुत्पद्यते तस्मिन्ब्रह्मोत्पद्यते ( त० वo पवनपर१२५ - १२७) ( सि० च० ) इति । अथ प्रकारान्तरेण सृष्टि- विधिरुच्यते । खण्डप्रलयानन्तरम् प्राणिनां भोगभूतये परमेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः माणुषु कर्मोत्पत्तौ तेषां परस्पर संयोगेभ्यो द्यणुकादिक्रमेण महावायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव वायावा- व्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोठ्य- मानस्तिष्ठति । तदनन्तरं तस्मिन्नेव सलिलनिधौ पार्थिवेभ्यः परमाणुभ्यो व्यणुकादिक्रमेण समुत्पन्ना महापृथिवी संहता घनीभूतावतिष्ठते । तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्यः परमाणुभ्यो ह्यणुकादिक्रमेण समुत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु महाभूतेषु परमेश्वरस्याभिध्यानमात्रात् ( इच्छामात्रात् न तु व्यापारा- न्तरात्) तैजसेभ्योणुभ्यः पार्थिवादिपरमाणुसहितेभ्यो महदण्डमारभ्यते । तस्मिंश्चतुर्वदनं सकललोकपितामहं ब्रह्माणं सकलभुवनसहित प्रजास नियुङ्क्ते । स च महेश्वरेण नियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्य- संपन्नः सर्वप्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानवैराग्यभोगायुषः सुतान् प्रजापतीन्मानसान्मनून् देवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि सृङ्घा आशया ( वासना ) नुरूपैर्धर्म- ज्ञानवैराग्यैश्वर्यैः संयोजयति ( प्रशस्त ० १ पृ० ६) (प० मा० कालनि० पृ० ९३ ) ( त० व० परि० ५ पृ० १२६ - १२७) । अत्र श्रुतिः ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत (ऋग्वे० पु० सू०) इति । अत्रेदं बोध्यम् । एषा ह्यादिसृष्टिरयोनिजैव । तत्रोच्चा धर्मविशेषसहकृतेभ्योणुभ्योवचा चा- धर्मविशेषसहकृतेभ्यो जायते । ब्रह्मा अयोनिजोतिशयितधर्मविशेषसहकृते- भ्योणुभ्यो जायते ईश्वराभिध्यानमात्रात् ( प्रशस्त ० टिप्प० पृ० १९) इति । महाप्रलयानन्तरं तु न तादृशी सृष्टि: स्यात् । सर्वमुक्तौ सर्वोत्पत्तिनिमित्त - स्यादृष्टस्यापायात् । सर्वभोपवृत्तौ (मुक्तौ ) प्रयोजनाभावाच्च । न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः (प० मा० कालनिरू० पृ० ९३ ) ( त० व० परि० ५ पृ० १२५ - १२७) इति । अत्रेदं चिन्त्यम् । केचित् वेदान्तिनः जलोत्पत्तेः पूर्वंमेव तेज उत्पद्यते इत्याचक्षते ( त० व० ) । अत्र वयं ब्रूमः । यदाचक्षते तत्तु युक्तमेव । ज्वलने सति जलस्य नाशः इति भाष्यादौ प्रलयप्रक्रमे प्रतिपादनात् । अतः तेजःसृष्यनन्तर- मेव जलसृष्टियुक्ता । अन्यथा तेजोनाशानन्तरमेव जलनाश: इति प्रतिपाद्येत। परंतु तथा न प्रतिपाद्यते इति जलसृष्टेः पूर्वमेव तेजःसृष्टि- युक्ता इति । तथा च श्रुतिः तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अनेरापः । अञ्यः पृथिवी । पृथिव्या ओ- षधयः । ओषधीभ्योन्नम् । अन्नापुरुषः ( तैत्तिरीय उप० २।१ ) इति । अदं विज्ञेयम् । प्रथमतो जगदुत्पत्तौ परमाण्वादयोवयवाः समवायिकार- णम् । परमाणुद्वयसंयोगादिकमसमवायिकारणम् । ईश्वरतज्ज्ञानेच्छाकृति- कालकर्मादृष्टादि निमित्तकारणम् इति वैशेषिकमतम् (सि० च ० ) इति । एवमन्यत्रापि भावकार्योत्पत्तौ कारणत्रयम्झम् । २ नामरूप विभाग विभक्त- स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणस्तथाविधस्थूलभावश्च १३० न्या० को० सृष्टिरित्यभिधीयते (सर्व० सं० पृ० १०९ रामानु० ) । ३ सृष्टिशब्दो- पेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते । यथा सृष्टीरुपदधाति (जै० न्या० अ० १ पा० ४ अधि० १७) । <सेक:>? [क द्रवद्रव्यक्रियानुकूलव्यापारः । यथा वृक्षायोदकमा सिञ्चति इत्यादौ सिच्धात्वर्थः ( ग० व्यु० का० ४।९४ ) । [ख] क्षरणम् इति कश्चिदाह ( वाच ० ) । <सेना> तत्तद्गजाश्वादिसमुदायः । यथा सेनानिवेशान् पृथिवीक्षितोपि जग्मुः (रघु० ७१२) इत्यादौ सेनाशब्दस्यार्थः । अत्र सेनात्वं च अनियतदि- संबन्धिषु गजतुरस्यन्दनेषु परप्रत्यासत्युपगृहीतेषु अवधारितान- वधारितेयत्तेषु वर्तमाना बहुत्वसंख्या ( न्या० वा० ११ १२/१४५० २९ ) । अथ वा तत्तदश्वादिविषयकज्ञानविषयत्वम् ( त० प्र० ख० ४ पृ० ५० ) । <सेवनम् > १ भजनम् । आराधनम् । अत्रेदं विज्ञेयम् । वैष्णवमते जीवस्य मोक्षदशायामपि जीवपरमात्मनोः सेव्यसेवकभावो वर्तत एव । तदानीमपि तयोर्भेदस्य सत्वात् इति । सेवाशब्दस्याप्ययमेवार्थः । सा च सेवा अङ्कननामकरणभजनभेदान्त्रिविधा ( सर्व० सं० पृ० १३७ पूर्णप्र० ) । २ आश्रयणम् । ३ उपभोगः । <सोपपदा> सिता ज्येष्ठे द्वितीया तु आश्विने दशमी सिता चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः ॥ (पु० चि० पृ० ४४२) । <सौत्रान्तिकः> (बौद्धः ) तदर्थतन्मते च बौद्धशब्दव्याख्याने ( पृ० ६०९ - ६१० ) दृश्ये । <स्कन्धः> ह्यणुकादयः स्कन्धाः ( सर्व० सं० पृ० ७२ आई० ) । <स्तब्धीभावः> अहमा कारवृत्त्यन्यवृत्तिसामान्याभावः (न्या० र० पृ० २०२ ) । <स्तुतिः> १ [क] गुणवत्तया ख्यापनम् (चि० १ पृ० १०२) । यथा निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेत् इत्यादौ ग्रन्थे स्तुतिशब्दार्थ : ( चि० मङ्ग० १ पृ० १०० ) ( वै० सा० द० पृ० १) । उत्कर्ष- वत्तया ज्ञानानुकूल: शब्द: इत्यर्थः । तेन व्यापारान्तरे तादृशि नाति- प्रसङ्गः । अत्र ज्ञानपदेन आरोपितज्ञानं गृह्यते । तेन तादृशि स्वरूपा- ख्याने नातिव्याप्तिः। भगवत्स्तुत्यादिषु तत्प्रयोगो भाक्तः ( मू० म० मङ्ग० १ पृ० १०३ - १०४ ) । [ ख ] सर्वोत्कृष्टगुणवत्ता प्रतिपादकशब्दः ( म० वा० पृ० १० ) । [ग] आरोप्यमाणगुणकथनम् इति प्रामा- णिका आहुः । [ घ] ज्ञानविशेषोपधायकः शब्दः इति नव्या आहुः ( मू० म० मङ्ग० १ (१९०४ ) । २ [क] विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः। संप्रत्ययार्थं स्तूयमानं श्रदधीत इति । प्रवर्तिका च । फलश्रवणात्प्रवर्तते ( वात्स्या० २१११६४ ) । [ ख ] साक्षाद्विष्यर्थस्य प्रशंसार्थकं वाक्यम् । यथा सर्वजिता वै देवाः सर्वमजयन् इति विधेः सर्वस्यायै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वे जयति इत्येवमादि वाक्यं स्तुतिः ( गौ० वृ० २१११६४ ) । यथा वा अहरह: संध्यामुपासीत इति विधेः संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादवाक्यं स्तुतिः । [ग] विधेयस्तावकं वाक्यम् । यथा वायव्य५ श्वेतमालभेत भूतिकामः इति विधेः वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (तैत्तिरीयसंहिता २११११ ) ( म० प्र० ४ पृ० ६४ ) इति । इदं वाक्यं हि वायूद्देश्यकः श्वेतपशुकरणको यागः प्रशस्तः इति प्राशस्त्यबोधनेन विध्यर्थं स्तौति । तथा च विध्युद्देशे- नैकवाक्यत्वादर्थवादः प्रमाणम् (शाब० मा० ११२/७ ) । [घ ] गु- णकथनपरमेकं वाक्यम् (जै० न्या० अ० ९ पा० २ अधि० ३ ) । ३ स्तोत्रम् । तच्च गुणकर्मादिभिः प्रशंसनम् । यथा यो देवदत्तश्चतुर्वेदा- भिज्ञः इत्युक्ते सर्वे जनाः स्तुतिमवगच्छन्ति । गुणिनमुपसर्जनीकृत्य तन्निष्ठानां गुणानां प्राधान्येन कथनम् इत्यर्थः (ऋग्वेदभाष्ये सायणः)। स्तोत्रं चतुर्विधम् द्रव्यस्तोत्रं कर्मस्तोत्रं विधिस्तोत्रं तथैव च । तथैवा- भिजनस्तोत्रं स्तोत्रमेतच्चतुर्विधम् ॥ (मत्स्यपु० अ० १२३ ) इति । <स्तोत्रम्> [क] स्तुतिः । [ ख ] प्रगीतमन्त्रसाध्या स्तुतिः (जै० न्या० अ० २ पा० १ अधि० ५) । अत्रेदमवधेयम् । प्रगीतमन्त्रसाध्यं स्तोत्रम् । अप्रगीतमन्त्रसाध्यं शस्त्रम् इति स्तोत्रशस्त्रयोर्भेदः इति । <स्तोभः> १ [ क ] अर्थशून्यो गानादिवरपरिपूरणार्थः शब्दविशेषः । यथा सामवेदे इडा होई इत्यादिः । इदं च वर्णमात्रस्तोभस्य लक्षणम् । वाक्यस्तोभस्य तु नव विधा भवन्ति आशास्तिः स्तुतिसंख्याने प्रणवः परिदेवनम् । प्रैषमन्वेषणं चैव सृष्टिरास्थानमेव च ॥ ( साम्नो गान- ग्रन्थ० ) इति । [ ख ] अधिकत्वे सत्यग्विलक्षणवर्णः स्तोभः । [ग] सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं का शब्दराशिं स्तोभ इत्याचक्षते (जै० न्या० अ० ९ पा० २ अधि० ११)/ [घ ] वेदान्तिनस्तु व्यर्थाक्षरवत्त्वम् । यथा अस्तोभमनवद्यं च इत्यादि- सूत्रलक्षणे स्तोभशब्दस्यार्थः इत्याहु: ( तत्त्वप्रका० १/१/१ पृ० ३ ) । २ हेलनम् । ३ स्तम्भनम् (हेमच० ) । <स्तोमः> १ आत्मगुणाविष्करणम् । यथा स्तोमयति इत्यादौ सामस्तोमम स्तौषन् ( श्रुतिः ) इति पुराकल्पे च स्तोमशब्दस्यार्थः । २ समूहः । ३ यज्ञः । ४ स्तवः । ५ धनम् । ६ मस्तकम् । ७ शस्यम् । ८ लोहाग्रदण्ड: ( वाच० ) । <स्त्यानम्> चित्तस्याकर्मण्यत्वम् ( सर्व० सं० पृ० ३५५ पात० ) । <स्त्रीत्वम्> १ योनिमत्वम् । यथा अजा अवा शूद्रा श्यामा चपला ब्राह्मणी गौरी सुकेशी गर्भिणी इत्यादौ । अत्र प्रातिपदिकप्रकृतिकाः स्त्रियाम् (पाणि० ४।१।३) इत्यधिकारे विहिताष्टाबादयः स्त्रीत्वं प्रकृत्यर्थ विशेषणतया बोधयन्ति ( ग० व्यु० स्त्रीप्र० पृ० १९८) /२ भार्या- त्वम् । यथा आचार्यानी मनावी अर्थी शूद्री इत्यादौ । अत्र स्त्रीप्रत्यय- प्रतिपाद्यम् भार्यात्वं च संबन्ध विशेषः । तत्रैव निरूपकत्वेन प्रकृत्यर्था न्वयः ( ग० व्यु० स्त्री० पृ० ११९ ) । तथा च आचार्यनिरूपक- भार्यात्ववती इति शाब्दबोध: । एवमुत्तरत्रापि बोध ऊद्यः । अत्र स्त्रीपुं- धर्मश्च अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति । चैनां व्यये चैव नियोजयेत् । शौचे धर्मेन्नपत्त्यां च पारिणाद्यस्य चेक्षणे ॥ ( मनु० अ० ९ श्लो० २, ३, ११) इति । अन्यत्राप्युक्तम् । (अ० ५ श्लो० १४७–१६६) । अधिवेत्तारं प्रत्याह आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादि- नीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ ( याज्ञ० अ० १ श्लो० ० ७६ ) इति । व्यभिचारे स्त्रिया मौण्ड्यमधः शयनमेव च । कदन्नं च कुवासश्च कर्म चावस्करोज्झनम् ॥ ( याज्ञ० अ० १ श्लो० ७० मिताक्षरायां नारदः ) । अविभाज्यं स्त्रीधनं च अध्यग्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड़िधं स्त्रीधनं स्मृतम् ॥ ( मनु० अ० ९ श्लो० १९४ ) । पितृमातृपतिभ्रातृदत्तमध्यग्युपागतम् । आधि- वेदनिकाद्यं च स्त्रीधनं तत्प्रकीर्तितम् ॥ ( याज्ञ० अ० १ श्लो० १४८) । स्त्री पुरुषभेदस्तु रतिमञ्जर्याम् पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । शशो मृगो वृषोश्वश्च स्त्रीपुंसोर्जातिलक्षणम् ॥ इति । ३ लिङ्ग- रूपसंज्ञा विशेषः । यथा अटवी इत्यादिशब्देषु । अत्रेदं विज्ञेयम् । खट्टाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्त्व - रूपस्त्रीत्वस्यायोग्यतयानन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मा - न्तरमेव तत्र परंपरासंबन्धेनार्थंगततया भासते इति श्रीपतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात् (ग० व्यु० स्त्री० पृ० ११९) इति । स्त्रीलिङ्गम् – (नाम ) [ क ] स्त्रीलिङ्गत्वेन परिभाषितं पदम् । यथा तटी इत्यादिपदम् । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । स च तटी इत्यादौ स्त्रीत्वेन ङीबादिप्रत्ययः । [ख ] कचित् योन्यादिमत्त्वलक्षणस्त्रीत्व - वाचकं पदम् । यथा न विप्रा वेदमुच्चरेत् इत्यादौ विप्रापदम् । अत्र टाबा- दिना प्रत्ययेनैव ( न तु प्रकृत्या ) स्वार्थस्य योन्यादिमत्त्वलक्षणस्त्रीत्वं प्रकृत्यर्थेनुभूयत इति ज्ञेयम् ( श० प्र० श्लो० ५४ टी० पृ० ६९ ) । स्थलम् – १ [ क ] तत्तत्पक्षसाध्यादिवाचकप्रयोगः । यथा पर्वतपक्षकवह्नि- महेतु कस्थले इत्यादौ ग्रन्थे स्थलशब्दस्यार्थः । [ ख ] तत्त- साध्यकध व्यवहारजन्यशाब्दबोधविषयः । यथा पर्वते वह्निसाध्यकस्थलं हि पर्वतो वह्निमान् इति शब्दबोधविषयो वहिमपर्वतादि । २. उदाहरणवाक्यम् इति केचिद्वदन्ति । ३ जलशून्योकृत्रिमो भूभागः । यथा ऊषरं स्थलम् इति काव्यज्ञा आहुः ( अमरः २१११५) । ४ गजपृष्ठगतं काष्ठासनम् । <स्थानम्> १ ज्ञापकम् (गौ० वृ० ११२ । १९) । यथा निग्रहस्थानम् इत्यादौ वेदाः स्थानानि विद्यानाम् ( याज्ञ० १ । ३ ) इत्यादौ च स्थानशब्दस्यार्थः । २ स्थितिः । सा च क्वचित् स्वाभिप्रायबोधानुकूला स्थितिः । यथा गोपी कृष्णाय तिष्ठते इत्यादौ तिष्ठतेरर्थः । अत्र कृष्णसंप्रदानक- बोधानुकूला स्थितिः इति शाब्दिकमते बोध: ( ल० म० का० ४ पृ० १०३ ) । ३ प्रसङ्गः । यथा स्थानेन्तरतमः (पाणि० १/१/५० ) इत्यादौ आदिश्यमानस्य यणादेः कारणीभूतेगादेः प्रसङ्ग स्थानम् इति शाब्दिका वदन्ति । ४ आश्रयः इति काव्यज्ञाः संगिरन्ते । ५ मीमांस- कास्तु देशसामान्यम् । लक्षणं च संनिधिविशेषत्वम् ( लौ ० भा० टी० पृ० २६ ) । स्थानं क्रमश्चेत्यनर्थान्तरम् । अत्रोक्तम् स्थानं क्रमो योग- बलं समाख्या ( पार्थसारथिः ) इति । यथा ऐन्द्राग्न मेकादशकपालं निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेत् इत्येवंक्रमविहितेष्टिषु इन्द्रा रोचनादिवः वैश्वानरोजीजनत् इत्यादीनां याज्यानुवाक्यामन्त्राणां यथा- संख्यं प्रथमस्य प्रथमम् द्वितीयस्य द्वितीयम् इत्येवंरूपो विनियोगः यथा- संख्यपाठात् इत्याहुः । तच्च स्थानं द्विविधम् पाठसमानदेशत्वम् अनुष्ठान- श्वेति । तत्र यथासंख्यपाठत्वेन समानदेशत्वं एन्द्राग्नम् इत्यादिषूदाहरणेषु समानदेशत्वं च । तत्राद्यमपि द्विविधम् यथासंख्यपाठः यथासंनिधिपाठ- बोध्यम् (लो० मा० पृ० २६ ) । ६ सादृश्यम् । ७ अवकाशः । ८ संनिवेशः । ९ वसतिः । सा च लोकविशेषः इति पौराणिका आहुः । लोकश्च सम्यग्वर्तिनां स्वस्वधर्मानुष्ठायिनां जनानामुपभोगस्थानम् । अत्रोक्तमग्निपुराणे प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । परिचर्यानुकारिणाम् इत्यादि । १० नीतिवेदिनस्तु उपचयापचयहीनं क्षत्रियाणां तथा चैन्द्र संग्रामेष्वनिवर्तिनाम् ॥ गान्धर्व शूद्रजातीनां साम्यावस्थानम् इत्याहुः । <स्थाने> ( अव्ययम् ) १ योग्यम् । यथा स्थाने तच्चलमर्त्य गण्डनृपतेः भूपतिभिः परोक्षः ( रघु० ७/१३) इत्यादौ स्थाने इत्यस्यार्थः । ( प्रतापरु०) स्थाने भवानेकनराधिपः सन् (रघु० ५/१६) स्थाने वृता २ सत्यम् । ३ सादृश्यम् । ४ करणार्थ: ( शब्दर ० )। <स्थावरः> पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः (सर्व० सं० पृ० ७०आई० ) । <स्थितिः> १ स्वोत्पत्त्यवस्था । यथा स्थितिस्थापकः इत्यादौ स्थितिशब्दस्यार्थः । २ स्वभावः इत्यन्य आहुः । ३ वसतिः इति काव्यज्ञा आहुः । ४ गति- निवृत्तिः । यथा तिष्ठति इत्यादौ इति शाब्दिका आहुः । ५ वृत्ति- रहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः स्थितिः ( सर्व० सं० पृ० ३६६ पात० ) । <स्थितिबन्धः> यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्य - स्वभावादप्रच्युतिस्थितिः । तथा ज्ञानावरणादीनां मूलप्रकृतीनाम् आदि- तस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिः इत्याधु- क्तकाला दुर्धानवत्स्वीयस्वभावादप्रच्युतिस्थितिः ( सर्व० सं० पृ० ७७-७८ आर्ह० ) । <स्थितिस्थापकः> (गुणः ) [ क ] क्रियाविशेषजनकः क्रियाविशेषजन्यः स्वजन्यक्रियानाश्यो गुणविशेष: ( दि० गु० पृ० २३३)। ऋजुत्वा- द्यापादकः संस्कारप्रभेदोयम् कार्मुककटादिपृथिवीमात्रवृत्तिः अतीन्द्रियः अनित्यश्चेति ( त० सं० ) । तस्यातीन्द्रियत्वे मानं च आकृष्टतरुशाखा- दीनां परित्यागे पुनर्गमनं स्थितिस्थापकसाध्यम् इति ( मु० गु० पृ० २३३ ) । तथा च शरादीनां नमनोत्तरं त्यागे यथास्थाननियतसंयोग- जनककर्मजनकतया सिद्ध्यति सः ( प० मा० ) । स च आकृष्टतरुशा- खादौ स्पन्दं प्रति कारणमपि भवति । केचित्तु अयं स्पर्शवद्विशेषवृत्तिः । तेन पृथिव्यादिचतुष्टये वर्तते इत्याहुः ( प्र० प्र० ) ( भा०प० श्लो० १६० ) ( त० कौ० ) ( दि० गु० पू० १९३ ) । तल्लक्षणं च पृथिवीमात्रसमवेतसमवेतसंस्कारस्वव्याप्यजातिमत्त्वम् ( सि० च० गु० पृ० ३५ ) । अत्र भाष्यम् । स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो घनावयवसंनिवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथा- वस्थितं स्थापयति । स्थावरजङ्गमेषु विकारेषु धनुःशाखादन्तशृङ्गादिषु सूत्रचर्म वस्त्र कम्बलादिषु भुग्नसंवर्तितेषु तस्य कार्ये संलक्ष्यते । नित्या- नित्यत्वनिष्पत्तयोस्यापि गुरुत्ववद्रष्टव्याः (प्रशस्त० गु० पृ० ५३ ) इति । [ ख ] अन्यथाकृतस्य पुनस्तदवस्थापादकः संस्कारः ( त० सं० ) । पूर्वसंयोगविजातीयसंयोगनाशकत्वे सति पूर्वसंयोग सजातीयसंयोगजनकः इति समुदितार्थः । अत्र क्रियावारणाय सत्यन्तं दलं दत्तम् । विभाग- वारणाय विशेष्यदलम् ( वाक्य० गु० पृ० २२ ) । [ग] आश्रये पूर्वावस्थापादकः संस्कारः । स यथा आकृष्टतरुशाखादेः पूर्वावस्थां जनयति (प्र० प्र० ) । [ घ ] स्वोत्पत्त्यवस्थापादको गुणः । <स्नायुः> सूक्ष्मनाडी । <स्नेहः> १ (गुणः ) [ क ] स्नेहत्वजातिमान् ( प्र० प्र० ) । स्नेहश्चिकणता जलमात्रवृत्तिः चणकचूर्णादिव्यङ्ग्यश्च । पयोघृततैलादौ स्नेहोपलम्भस्तु पयआद्यन्तर्गतजलोपाधिक: जलगत एवोपलभ्यते । स्नेहो जलपरमाणु- गतो नित्यः जलड्यणुकादिरूपकार्यगतः अनित्यः ( त० कौ० ) ( प्र० प्र० ) ( प्रशस्त० २ पृ० ३३ ) ( त० सं० ) ( भा०प० ) ( वाक्य० ) । अत्र भाष्यम् स्नेहोपां विशेषगुण: संग्रहमृजादिहेतुः । अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ( प्रशस्त ० २ गु० पृ० ३३) इति । मृजा शुद्धिः । अत्र विचार्यते । न च सांसिद्धिकद्रवत्वादेव संग्रह - संभवे किं स्नेहेन इति वाच्यम् । चणकचूर्णादिना जलद्रवत्वयोरुत्कर्ष- स्यानाधानादन्यस्य च संग्रहहेतोरभावे तदुत्कर्षस्या कस्मिकत्व प्रसङ्गात् । हेतुर्गुण: ( त० सं० ) । यथा प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया अतः स्नेह आवश्यकः ( प० च० ) इति । ख ] चूर्णादिपिण्डीभाव- इत्यादौ तैलसंयुक्तजलगतः स्नेहः । जले स्नेहो द्विविधः प्रकृष्टस्नेहः अपकृष्टस्नेहश्च । तत्र तैलादौ प्रतीयमानः प्रकृष्टस्नेहो दीपादिज्वालादे- रनुकूल: । पानीयगतस्तु अप्रकृष्टस्नेहो वह्निं नाशयति (मु० गु० पृ० २३२ ) । [ग] स्निग्धधीर्यद्विशिष्टार्थे स्नेहश्चिकणता च सः ( ता० र० श्लो० ४८) । अत्रेदं बोध्यम् । सत्यपि द्रवत्वे द्रुतसुवर्णा दिभिः सत्यपि च स्नेहे हिमकरकादिभिः पिण्डीभावाजननात् सहितमेव द्रवत्वं पिण्डीभावकारणम् (त० व० पृ० २३० ) इति । यद्वा पिण्डीभावे स्नेहस्यैवासाधारणकारणत्वम् । न तु जलादिगत- द्रवत्वस्य । तथा सति द्रुतसुवर्णादिसंयोगे चूर्णादेः पिण्डीभावापत्तेः। हिमकरकादिभिः पिण्डीभावापत्तेश्च । अतः स्नेहस्यैवासाधारणकारणत्वम् । वस्तुतस्तु द्रुतजलसंयोगस्यैव पिण्डीभावहेतुत्वम् । स्नेहस्य पिण्डी- भावहेतुवे मानाभावात् । जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः ( न्या० बो० १ पृ० ६ ) । अत्र प्रसङ्गतः स्नेहनविधिरुच्यते । स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च तां पिबेन्मर्त्यः किंचिदम्युदिते रवौ ॥ स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते । तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ॥ द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकस्त्रि- वृतो महान् ॥ ( भावप्र० ) इति । अत्रोद्भटः अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । परोपकारनिरता मणिदीपा इवोत्तमाः ॥ इति । २ प्रेम इत्यालंकारिका वदन्ति । प्रेमरूपस्नेहश्च वत्सलरसस्य स्थायि- भावः । स च रसो भरतसंमतः । तदुक्तम् स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलता स्नेहः पुत्राद्यालम्बनं मतम् ॥ ( सा० द० परि० ३ श्लो० २५१ ) इति । <स्पन्दनम्> वाय्वभिभूतस्येव शरीरावयवानां कम्पनम् ( सर्व० सं० पृ० १७० नकु० ) । <स्पर्धा> पराभिभवेच्छा । यथा स्पर्धते इत्यादौ । <स्पर्श:> १ ( गुणः ) [ क ] त्वगिन्द्रियमात्रग्रहणो योर्थः स स्पर्शः १० उ० ३।१।१ ) ( प्रश० पृ० १२) । स तु बाह्यैकेन्द्रिय- ग्राह्यः पृथिवीजलतेजोवायुवृत्तिः । अत्र विवेकः कठिनसुकुमारस्पर्शो पृथिव्या एव (भा०प० ) इति । तत्र वायुगतस्पर्शस्तु बहुविधः । तथा चोक्तम् वायव्यश्च गुणः स्पर्श: स्पर्शश्च बहुधा स्मृतः । उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ तथा खरो मृदू रूक्षो लघुर्गुरुतरोपि च ॥ ( भार० शा० अ० १८१ ) इति । कठिनस्या- प्युपलक्षणमिदम् । यथोक्तम् वायोश्चापि गुणः स्पर्श: स्पर्शश्च बहुधा स्मृतः । रूक्षः शीतस्तथैवोष्णः स्निग्धश्च विशदः खरः ॥ कठिन- श्चिक्कणः श्लक्ष्णः पिच्छलो दारुणो मृदुः । एवं द्वादशविस्तारो वायव्यो १३१ न्या० को० गुण एव च ॥ (भार० आश्व० अ० ५० ) इति । त्वगिन्द्रियमात्रग्रहणो योर्थ इत्यत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन स्पर्शत्वादौ स्पर्शाद्यभावे च नातिव्याप्तिः । तथा च त्वगिन्द्रियग्राह्यगुणवृत्तिगुणत्वा- वान्तरजातिमत्त्वम् इति पर्यवसितोर्थः । तेन नातीन्द्रियस्पर्शाद्यनुपग्रहः (वै० उ० ३ । १ । १९ ) । अत्रेदं बोध्यम् । स्पर्शः द्रव्यप्रत्यक्षे त्वक्सह- कारी रूपानुविधायी च (वै० उ० ३ । १ । १ ) ( त० सं० ) ( प्रशस्त ० पृ० १२ ) । तदर्थस्तु रूपसमानाधिकरणात्यन्ताभावाप्रतियोगी इति । रूपवति स्पर्शो नियमेन वर्तते इति सुगमोर्थः । [ख] त्वगिन्द्रिय- मात्रग्राह्यो गुणः ( त० सं० १ ) । अत्र स्पर्शत्वेतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ( त० दी० १ पृ० १३ ) इति । [ग त्वङ्मात्रग्राह्यजातिमान् ( त० कौ० १) । सा च जातिः स्पर्शत्वम् । यथा त्वचा घटं स्पृशति इत्यादी स्पृश् धात्वर्थ: स्पर्शः । न्यायवैशेषिकमते स्पर्शस्त्रिविधः शीत: उष्णः अनुष्णा- शीतश्चेति । तत्र शीतो जले वर्तते । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोर्वर्तते । तत्र नित्यायामनित्यायां चेति द्विविधाया पृथिव्यां स्पर्श: अनित्यः पाकजश्च । जलतेजोवायुषु च द्रव्येष्वाजः नित्यगतो नित्यः अनित्यगतः अनित्यश्चेति ( प्रशस्त० पृ० १४ ) ( वै० उ० ७।१।६ ) ( त० सं० ) । चित्रस्पर्शस्तु रूपस्थलीय त्या ( पृ० ६९० ) स्वीकरणीय एव (वै० वि० ७/१/६ पृ० २९२) इति । केचित्त कठिनादिः स्पर्श: संयोग विशेष एव नातिरिक्तः इति मन्यन्ते । द्धास्तु नामरूपेन्द्रियाणां मिथः संयोग: स्पर्श: इत्याहुः । २ वेदान्तिनस्तु संबन्धः ( संनिकर्षः ) ( गीता मध्वमा० ) । यथा मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ( गीता० २।१४ ) इत्यादौ स्पर्श शब्दस्यार्थ इत्यङ्गीचक्रुः । ३ वैयाकरणास्तु कादयो मावसानाः (२५) वर्ग्यवर्णाः इत्याहुः । ४ काव्यज्ञास्तु ग्रहणम् ५ दानम् ६ युद्धं च <स्पशेतन्मात्रम्> १ स्पशे: । २ सांख्यास्तु वायूपादानकारणं स्पर्शमात्र- इत्याहुः । ७ रोगः इति भिषज आहुः । गुणक: सूक्ष्मभूतविशेषः इत्याहुः । <स्पार्शनम्> त्वगिन्द्रियजन्यं प्रत्यक्षम् । यथा द्रव्यस्पार्शनप्रत्यक्षं प्रति स्पर्शः कारणम् इत्यादौ ग्रन्थे स्पार्शनशब्दस्यार्थः । स्पार्शनं च द्विविधम् स्पर्शविषयकम् स्पर्शवद्द्रव्यविषयकं चेति । <स्पृहा> ( दोषः ) धर्माविरोधेन प्राप्तीच्छा ( गौ० वृ० ४ । १ । ३ ) । यथा पुष्पेभ्यः स्पृहयति इत्यादौ स्पृहधात्वर्थः । यथा वा स्पृहावती वस्तुषु केषु मागधी ( रघु० ३१५ ) मिथुने स्पृहावती ( कुमार ० ) इत्यादौ च स्पृहाशब्दार्थः । <स्फुटत्वम्> १ तद्विषयक जिज्ञासानधीनप्रतिपत्तिविषयत्वम् । यथा दोष- लक्षणे कृते दुष्टहेतुलक्षणस्य स्फुटत्वेन लाभः इत्यादौ स्फुटत्वशब्दस्यार्थः ( ग० हेत्वा० सामा० लक्ष० १ ) । २ ज्योतिषज्ञास्तु सूर्यादिग्रहाणां मेषादिराशिष्वंशविशेषस्थितिः तत्तदंशकलादिगतिश्च इत्याहुः । ३ विका- शनम् ४ विदलनं च इति काव्यज्ञा आहुः । <स्फोट:> वर्णातिरिक्तो वर्णाभिव्यङ्ग्योर्थप्रत्यायको नित्यः शब्दः (सर्व० सं० पृ० ३०० पाणि०) (तर्कप्र० ख० पृ० १२६) । अत्र व्युत्पत्तिः स्फुट्यते व्यज्यते वर्णैः इति स्फोटः इति स्फुटत्यर्थोस्मात् इति स्फोटः इति च यौगिकशब्दाभिधेयत्वं शब्दब्रह्मणः सूचयति (वै० सा० पृ० २१२ ) । स्फोटत्वं च स्फुटव्यभिव्यक्तीभवत्यर्थोस्मात् अनेन वा इति व्युत्पत्या अर्थ- प्रकाशकत्वम् । प्रकाशश्च ज्ञानम् । तथा च अर्थनिष्ठविषयताप्रयोजकश- क्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोटः पदादीनां तत्त्वा- भ्युपगमे तु पदादिस्फोटः इति व्यवहारः ( वै० सा० ८० पृ० २९२ ) । स्फोटस्यावश्यकत्वमाह । पदानां वर्णसमूहरूपाणामाशुविना शितयैकक्ष- णावस्थायित्वाभावादप्रत्यक्षत्वं तावन्निरूढम् । तथा च पदाप्रत्यक्षे पदार्थस्मृतेः शाब्दबोधहेतोः असंभवः स्यात् । अतः स्फोटः कश्चनाङ्गी- कर्तव्यः यतोर्थप्रत्ययः इति । अथ वा वर्णानां प्रत्युच्चारणमन्यथा प्रतीय- मानतया अनित्यत्वेन आशुविनाशिनां च तेषां मेलनासंभवेन तत्समुदा- यस्यापि संबन्धित्वाभावेन प्रत्येकं वर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्व- बर्णानुभवजन्यसंस्कारबीजवत्यन्त्यवर्णजनितपरिपाकशालिनि हृदये झटत समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसंबन्धस्य योग्यतया वृत्तिमत्त्वमुचितम् इति । तथा च योगसूत्रभाष्यकृयास आह तदेतेषा- मर्थसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते तदेकं पदमेकबुद्धिविषय एकप्रयत्ना क्षिप्तमभागमक्रमवर्ण बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते इति । स्फोटश्च पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्यः । अत्र स्फोट- स्याभिव्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृ- तध्वनिजातवैकृतध्वनिः कारणम् इति विवेको ज्ञेयः ( ल० म० १ ) । स च शाब्दिकमतप्रसिद्धः । अत्र महाभाष्यम् अथ गौरित्यत्र कः शब्दः । येनोच्चारितेन सास्नाळामूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्द उच्यते इति । तथा च भागवते (१२/६/४० ) स्फोटश्रवणस्यात्मलिङ्गत्व- मुक्तम् शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ ( मञ्जूषायाम् ) इति । नैयायिकमते तु स्फोटो नाङ्गीक्रियत एव । यद्यङ्गीक्रियेत तदापि वर्णवत्सोनित्य एव इति मन्तव्यम् । अयं भावः । पूर्वपूर्ववर्णगोचरसंस्कारसहितश्चरमवर्णोपलम्भ एव स्फोटव्यञ्जकः इति शाब्दिकैः स्वीकरणीयम् । तथा च नैयायिकमतेपिता- दृशचरमवर्णोपलम्भेनैवार्थप्रत्ययोपपत्तावलं स्फोटाङ्गीकारेण (न्या० म० ४ पृ० ३२) (त० प्र० ४ पृ० १२७) इति । अथ स्फोटभेदा उच्यन्ते । अष्टौ स्फोटा भवन्ति (१) वर्णस्फोट: (२) पदस्फोटः (३) वाक्यस्फोटः (४) अखण्डपदस्फोटः (५) अखण्डवाक्यस्फोट: (६) वर्णजातिस्फोट: 1(७) पदजातिस्फोट: (८) वाक्यजातिस्फोटश्च इति । तत्र वाक्यस्फोट एव वास्तवः अन्येषां त्ववास्तवत्वम् इति वैयाकरणानां सिद्धान्तः ( वै० सा० पृ० ५९ ) । अत्र वर्णस्फोटमारभ्याखण्डवाक्यस्फोटपर्यन्तं पञ्च व्यक्ति- स्फोटा भवन्ति । शिष्टास्तु त्रयो जातिस्फोटा भवन्ति इति बोध्यम् । अत्र मीमांसका वेदान्तिनश्च प्रत्येकपदशक्तिसाचिव्येनाकाङ्कादिवशात्पदाद्वाक्या- र्थबोधस्तदा पदस्फोटः । यदा तु तन्निरपेक्षैव सा बोधं जनयति तदा वाक्यस्फोटः इत्याहुः (वै० सा० द० पृ० ४२५) । पुनश्च स्फोटो द्विविधः सखण्ड: अखण्डश्च । तत्र पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम् । <स्फ्यः> खजाकारं काष्ठम् (जै० न्या० अ० ३ पा० १ अधि० ६ ) । <स्मयः> १ ( दोषः ) गुणवति निर्गुणत्वधीः ( गौ० वृ० ४ । १ । ३ ) । २ अद्भुतरसस्थायिभावः इत्यालंकारिका आहुः । ३ गर्वः इति काव्यज्ञा आहुः । ४ कातर्यम् इति नाटकज्ञा आहुः । गायकः इति गान- शास्त्रज्ञा आहुः । <स्मरणम्> १ स्मृतिः । २ अर्थालंकार विशेष: इत्यालंकारिका आहुः । तदुक्तम् सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ( सा० ६० परि० १० श्लो० २७ ) इति । ३ चिन्तनम् इति काव्यज्ञा वदन्ति । <स्मार्तः> १ स्मृतिशास्त्राभिज्ञः । २ स्मृतिविहितं कर्म । यथा स्मार्ते वैदिकवच्चरेत् अन्योपि स्मार्तमाचरेत् इत्यादौ गृह्याभ्युपासनवैश्वदेव- दानादि स्मार्तं भवति । <स्मृतिः> १ ( बुद्धिः ) संस्कारमात्रजन्यं ज्ञानम् ( त० सं० ) । प्रत्यक्षबुद्धि- निरोधे तदनुसंधानविषय: स्मृति: ( न्या० वा० ) इति वार्तिके उक्तम् । यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः । संस्कारमात्रजन्यम् इत्यस्य चक्षुराद्यजन्यत्वे सति संस्कारजन्यम् इत्यर्थः । मात्रपदोपादानेन प्रत्य- भिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् ( नील० १ पृ० १४ ) इति । अत्र प्राञ्चो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् । न च सोयं देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र संस्कारजनिततत्तास्मृतिरेव हेतुः । न तु संस्कारोपि इत्यतिव्याप्तिविरहात् इत्याहु: ( त० कौ० १ पृ० ६) । मध्वाचार्यानुयायिनस्तु स्मृतिः मनोजन्या न तु संस्कारजन्या । संस्कारस्तु मनसस्तदर्थसंनिकर्षरूप एव । यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः ( प्र०प० पृ० ९ ) । स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गत विद्याप्रभेदः ( प्रशस्त० पृ० २५ ) । लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्टभ्यासादर- प्रत्ययजनिताच संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छा- द्वेषहेतुः तदतीतविषया स्मृतिः ( प्रशस्त ० २ पृ० ३२) इति । अत्र पाठान्तरम् विशेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुः ( प्रशस्त ० २ पृ० ४९-५० ) इति । अत्र सूत्रम् आत्ममनसोः संयोग विशेषात् ( प्रणि- धानादिसंनिधानादसमवायिकारणात् ) संस्काराच्च स्मृति: (वै० ९/२/६) इति । अत्र स्मृतौ संयोगविशेषोसमवायिकारणम् । संस्कारो निमित्त- कारणम् । आत्मा समवायिकारणम् इति विज्ञेयम् ( वै० उ० ९ । १।६ ) । अत्रेदं बोध्यम् ॥ भावनाख्यः संस्कारोनुभवेन जन्यते स्मृतिं जन- यति च इति । संस्कारस्तूद्ध एव स्मृतिं जनयति । उद्बोधकाच संस्कारस्य सदृशदर्शनादयः (त० भा० पृ० ३७ ) । तथा चोक्तम् सदृशा- दृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः इति । गौतमसूत्रे ( ३ । २ । ४२ ) च ते प्रदर्शिताः । अत्र कश्चिदाह स्मृतिजननाय संस्कारोद्दीपन- मुद्बोध: ( वाच० ) इति । अत्र मतभेदः । स्मृति संस्कारं च प्रति अनुभवस्यानुभवत्वेनैव जनकत्वम् इति प्राचां मतम् । नवीनानां तु अनुभवस्य ज्ञानत्वेन जनकत्वम् ( नील० गु० पृ० ३८ ) इति । प्राचामयमभिप्रायः तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्त- द्विषयकानुभवत्वेनैव हेतुता । न तु तत्तद्विषयकज्ञानत्वेन । अनुभवत्व- स्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवाभावात् । न च विनिगमना- विरहः इति शक्यम् । व्याप्यधर्मपुरस्कारेण कारणत्वसंभवे व्यापक- धर्मस्यान्यथासिद्धिनिरूपकत्वात् इति । नव्यानां पुनरयमाशयः । तत्त- द्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता । न त्वनुभवत्वेन । संस्कारस्य फलनाश्यतया प्रथमस्मरणेनैवानुभवजन्य- संस्कारस्य नाशेन सकृदनुभूतस्य स्मरणोत्तरमस्मरणप्रसङ्गात् ( नील० मु० पृ० ३८-३९ ) इति । स्मृतिर्द्विविधा यथार्था अयथार्था चेति । तत्र आद्या प्रमाजन्या । द्वितीया अप्रमाजन्या ( त० सं० ) । जागरे तदुभयं संभवति । खप्ने तु सर्वमेव ज्ञानं स्मरणम् अयथार्थ च ( त० भा० ) इति । द्वयोर्लक्षणे च संस्कारसंबन्धावच्छिन्नानुभवप्रमाभ्रम- निष्ठजनकतानिरूपितजन्यते बोध्ये ( वाक्य० गु० पृ० २१ ) । अत्र वेदान्तिन आहुः स्मृतिरपि ( प्रमाजन्यापि ) प्रमाणमेव ( प्रमा ) ( प्र० प० पृ० ४ ) इति । अयं भावः स्मृतेः प्रमारूपत्वेन प्रमाकरणत्व- रूपप्रमाणलक्षणाक्रान्तत्वादनुभवस्यापि प्रत्यक्षादिचतुष्टयस्येव प्रमाणा- न्तरत्वमिष्टमेव इति। २ योगशास्त्रज्ञास्तु अनुभवप्राप्तिपूर्वा वृत्तिः इत्याहुः । अत्र सूत्रम् अनुभूतविषयासंप्रमोषः स्मृतिः (पात ० पा० १ सू० ११)। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति (भोजवृत्ति० ) ( भा० ) । २ धर्मज्ञास्तु धर्मशास्त्रम् । अत्रार्थे स्मृति- शब्दस्य व्युत्पत्तिः स्मर्यते वेदधर्मोनेन ( करणे तिन्) इति । तच्च वेदार्थानुभवजन्यं वेदार्थानुवादकं धर्मे च प्रमाणं मुनिप्रणीतं वाक्यरूपम् । यथा मनुस्मृतियाज्ञवल्क्यस्मृत्यादिरित्याहुः । तदुक्तं मनुना वेदोखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ( मनु० अ० २ श्लो० ६) (गौ० १ । १ ) इति । अत्रोक्तम् श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ( मनु० अ० २ श्लो० १० ) इति । इयं स्मृतिरपि सात्त्विकराजस- तामसभेदेन त्रिविधा । तत्र सात्त्विक्यो यथा वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपं च सात्त्विक्यो मुक्तिदाः शुभाः ॥ ( पद्मपु० उत्त० अ० ४३) इति । राजस्यस्तामस्यस्तु तत्रैवान्वेषणीयाः । विस्तरभयादत्र न संगृहीताः । <स्यन्दनम्> १ प्रस्रवणम् । तच्च संनिकृष्टदेशस्य द्रवद्रव्यस्य च संयोगानु- कूलव्यापारः ( वाक्य ० १ पृ० ९ ) । यथा स्यन्दनासमवायिकारणं द्रवत्वम् इत्यादौ ग्रन्थे स्यन्दनशब्दस्यार्थः । अत्र सूत्रम् द्रवत्वात् स्यन्दनम् (३० ५२४) इति । तदर्थश्च स्यन्दनं द्रवत्वादसमवायिकार- णादुत्पद्यते । तथा हि क्षितौ पतितानामपां बिन्दूनां परस्परसंयोगेन मह- ज्जलमवयवि स्रोतोरूपं यजायते तस्य यत् स्यन्दनं दूरसंसरणं तद्द्रवत्वा- दसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणात् अप्सु समवायिकारणेषु (वै० उ० ५/२/४ ) । २ गमनत्वव्याप्यजातिमत् । यथा भ्रमणं रेचनं स्यन्दनोर्ध्वज्वलनमेव च ( भा०प० श्लो० ७ ) इत्यादौ स्यन्दन- शब्दस्यार्थ: । ३ जलम् ४ रथश्च इति काव्यज्ञा आहुः । ५ तिनिश- वृक्षः ( तिवस ) इति भिषज आहुः ( अमरः २।४।२६) । <स्याद्वादः> ( वादः ) यत्र वादे दिगम्बरा: जैनाः सर्वत्र सप्तभङ्गीन- याख्यं न्यायमवतारयन्ति सः । स्याद्वादः सर्वथैकान्तत्यागात्किवृत्तचि द्विधेः । सप्तभङ्गिनयापेक्षो हेयादेय विशेषकृत् ॥ ( सर्व० सं० पृ० ८४ आई० ० ) । सप्तभङ्गीनयस्तु ( १ ) स्यादस्ति ( २ ) स्यान्नास्ति ( ३ ) स्यादस्ति च नास्ति च ( ४ ) स्यादवक्तव्यः (५) स्यादस्ति चावक्तव्यः (६) स्यान्नास्ति चावक्तव्यः (७) स्यादस्ति च नास्ति चावक्तव्यः 1- इति । अत्र स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोनेकान्तद्योतकः ( सर्व० सं० पृ० ८४ आई० ) । स्यात् इत्यव्ययम् तिङन्तप्रति - रूपकम् कथंचिदर्थकम् । स्यादस्ति कथंचिदस्ति इत्यर्थः । एवमग्रेपि ( शारी० मा० टी० २१ २ । ३३ पृ० ३४ ) । यथा घटः स्वस्वरूपे- णास्ति पटस्वरूपेण नास्ति इत्यादि । एवम् एकत्व नित्यत्वादिष्वपीममेव • सप्तभङ्गीनयं योजयन्ति ( शारीर० भा० २ २ । ३३ ) । अयं भावः । घटादेहि सर्वात्मना सदेकरूपत्वे प्राध्यात्मनाप्यस्त्येव सः इति तत्प्राप्तये यत्नो न स्यात् । अतो घटस्वादिरूपेण कथंचिदस्ति प्राप्तत्वादिरूपेण कथंचिन्नास्ति इत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयम् ( शा० मा० टी० र० प्र० २ । २ । ३३ ) इति । एवम् एकत्वमनेकत्वं चेति द्वयमादाय (१) स्यादेकः (२) स्यादनेकः ( ३ ) स्यादेकोनेकश्च ( ४ ) स्याद- वक्तव्यः (५) स्यादेकोवक्तव्यः (६) स्यादनेकोवक्तव्यः (७) स्यादे- कोनेकश्चावक्तव्यश्च इति । तथा स्यान्नित्यः स्यादनित्यः इत्याद्यूह्यम् ( शारी० मा० टी० रत्नप्र० २।२।३३ ) । <स्वगतम्> १ स्वस्मिन्विद्यमानम् । यथा पटश्च स्वगतरूपादेः समवायि कारणम् ( त० सं० ) इत्यादौ ग्रन्थे स्वगतशब्दस्यार्थः । यथा वा वेदान्तिमते एकमेवाद्वितीयम् ब्रह्म ( छा० उ० ६ । २ । १ ) इत्यादिश्रुतौ एकमेव इतिशब्दार्थस्वगतभेदाभेद निवृत्तिघटकस्वगतशब्दार्थः । २ नाटक- शास्त्रज्ञास्तु अश्राव्यं वाक्यं स्वगतम् इत्याहुः । <स्वतः प्रामाण्यम्> विज्ञानसामग्रीजन्यस्त्रे सति तदतिरिक्त हेत्वजन्यत्वं प्रमायाः तस्त्वम् ( सर्व० सं० पृ० २८३ जैमि० ) । <स्वतन्त्रः> स्वतन्त्रो भगवान्विष्णुर्निर्दोषोशेषसद्गुणः ( सर्व० सं० पृ० १२८ पूर्णप्र० ) । <स्वतन्त्रत्वम्> १ इतरसत्तानधीनसत्ताकत्वम् । यथा परमेश्वरस्य राज्ञश्च वा स्वातन्त्र्यम् । इतरसत्तेत्यस्यार्थस्तु इतरव्यापारानधीनव्यापारवत्त्वम् । स्वरूप प्रमितिप्रवृत्तिलक्षणे सत्तात्रैविध्ये परानपेक्षत्वम् इति मध्वमतानुयायि वेदान्तिन आहुः ( प्र० च० परि० २ पृ० ४७ ) । २ समभिव्याहृत- क्रियाकार कान्तरानधीनत्वे सति कारकत्वम् ( ग० व्यु० कार० ३) । यथा चैत्रस्तण्डुलं पचति इत्यादौ चैत्रस्य स्वातध्यम् । इदं च स्वतन्त्रः कर्ता (पाणि० १९९४/५४ ) इति सूत्रे कर्तुः स्वातन्त्र्यम् । तच्च समभि- व्याहृत क्रियाकारकान्तरानधीन व्यापारवत्त्वम् इति । ३ कचित् शब्दा- प्रयोज्यत्वं स्वतन्त्रत्वम् इति केचिदाहुः ( मू० म० १ ) । <स्वतो ग्राह्यत्वम्> स्वग्राहकसामग्र्या ग्राह्यत्वम् । यथा मीमांसकमते ज्ञान- प्रामाण्यं स्वतोग्राह्यं भवति । ज्ञानग्राहकसामग्र्या ग्राह्यं भवति । तन्न इति नैयायिकमतम् । अत्राधिकं तु प्रमात्वशब्दव्याख्याने सविस्तरं संपादितम् इत्यत्रैव विरम्यते । स्वतो व्यावृत्तत्वम् ऽ स्वतो व्यावर्तकत्वम् ( - विशेषशब्दे अनयोः प्रपञ्चः संपादितः स तत्र ( पृ० ७८६ ) दृश्यः । <स्वत्वम्> [क] यथेष्टविनियोगयोग्यत्वम् इति प्राञ्च आहुः ( का० व्या० पृ० ६ ) ( त० दी० ) । यथा चैत्रस्य धनम् इत्यादौ धने चैत्रनिरूपितं स्वत्वम् । तत्रायमर्थः । यथेष्टविनियोगयोग्यत्वं शास्त्रा- निषिद्धविनियोगोपायः क्रयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिन्द्रिय- वेद्यम् । प्रतिग्रहादेर्मानसज्ञान विशेषरूपस्य बहिरिन्द्रियायोग्यत्वात् ( का ० व्या० पृ० ६ ) इति । अत्र विप्रतिपत्तिः स्वत्वं लौकिकम् अलौकिकं वा इति । तत्र स्वत्वमलौकिकम् शास्त्रैकसमधिगम्यम् इति पूर्वपक्षः जीमूतवाहनादीनाम् । तच्च लौकिकमेव लोकप्रसिद्धमेव इति सिद्धान्तः विज्ञानेश्वर मित्रमिश्रादीनाम् इति मिताक्षरावीरमित्रोदयादौ सिद्धान्तितम् । तच्च स्वत्वं जन्मनैवोत्पद्यत इति मिताक्षराकारादयः विज्ञानेश्वरप्रभृतयः आहुः । तच्च विभागेन पित्रादिमरणादिनैव वोत्पद्यत इति वङ्गदेशीयाः १३२ न्या० को० जीमूतवाहनप्रभृतयः आहुः । तत्रापि समुदायद्रव्ये स्वत्वम् इति मिता- क्षराकृदादय आहुः । प्रदेशभेदे इति वङ्गदेशीया आहुः ( वीर- मित्रो० अ० २ पृ० ५२१-५५० ) । अत्राधिकं च वीरमित्रो- दयजीमूतवाहनादौ दृश्यम् । [ ख ] द्रव्याणां यथेष्टक्रयविक्रयादि- क्रियासु विनियोजको धर्मविशेषः । स चातिरिक्त पदार्थः न तु यथेष्ट- विनियोगयोग्यत्वरूपः इति नव्याः दीधितिकारादयः आहुः ( का० व्या० पृ० ६ ) । तदर्थश्च दानादिनाश्यः प्रतिग्रहजन्यः सप्तपदार्था- तिरिक्तः कश्चनानिर्वाच्य पदार्थ: ( ल० म० ) इति । तत्रायमाशयः । प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारात् दानादितः स्वत्वं नश्यति प्रति- ग्रहादितश्च स्वत्वमुत्पद्यते । अत एव निबन्धादौ भाविन्यपि स्वत्वम् । अन्यथा प्रतिमासं प्रतिवर्षे वा देयत्वेन प्रतिश्रुतस्य धान्यादिरूपस्य भावित्वेन तत्र स्वत्थोत्पत्यनुपपत्तेः ( लीलावतीरहस्ये चूडामणिः ) ( श्रीकृष्णतर्कालिंकारः ) । अतस्तादृशप्रत्ययव्यवहारप्रामाण्यानुरोधेन स्वत्वमतिरिक्तः पदार्थः । तच्च स्वत्वं दानादितो नश्यति प्रतिग्रहा- दितश्च जायते । तच्च बहिरिन्द्रिययोग्यम् । स्वं पश्यामि इति प्रतीतेः । वस्तुतः स्वत्वस्यानुमितिरेव न तु साक्षात्कारः ( का० व्या० पृ० ६ ) (नील ० ) इति । अत्रेदं बोध्यम् । सप्त वित्तागमा धर्म्या दायो लाभः ऋयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० १० ११५) इति । स्वत्वोत्पत्तौ साधारणोपायास्तु गौतमेनोक्ता: खामी रिक्थक्रय- संविभागपरिग्रहाधिगमेषु इति । असाधारणोपायास्तु ब्राह्मणस्याधिकं लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० अ० २ दायभा० ) इति । केचित्तु जीमूतवाहनादयः प्रतिग्रहो न स्वत्वजनकः । अपि तु यथेष्टविनियोगार्हताप्रयोजकः । तथा च उत्पन्नमपि स्वत्वं संप्रदानव्यापारेण ममेदम् इति ज्ञानेन ( स्वीकारेण ) यथेष्टव्यवहारा है क्रियते इत्याहुः (वीरमित्रो० अ० २ पृ० ५४२ ) । <स्वधर्मः> १ यत्किंचिद्व्यक्तिवृत्तिपदार्थमात्रम् । यथा घटवृत्तिर्धर्मो घटत्वादिः २ धर्मज्ञास्तु खानुरूपो वेदायुक्तः अविगीतः आचारादिधर्मः । यथा श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ( गीता अ० ३ श्लो० ३५) इत्यादौ स्वधर्म- शब्दस्यार्थ इत्याहुः । तदुक्तम् यो यस्य विहितो धर्मः स तज्ज़ातेः प्रकीर्तितः । तस्मात्स्वधर्म कुर्याच्च द्विजो नित्यमनापदि ॥ ( वाचस्पत्ये नरसिंहपुराणम् ) इति । <स्वधा> १ [क] पित्रुद्देश्यकत्यागः । यथा पितृभ्यः स्वधेत्यादौ स्वधा- शब्दस्यार्थः । वेदादेशितोच्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागः इति फलितोर्थ: ( ग० व्यु० का० ४ पृ० १०० ) । अत्र निपात- स्वधायोगे त्यागोद्देश्यवाचकपदात् नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पाणि० २/३ । १६ ) इत्यनेन सूत्रेण चतुर्थी । [ख] पितृदेवोदेशेन हविषस्त्यागः । यथा इदमन्नं पित्रे स्वधा इत्यादौ स्वधाशब्दार्थः । अत्र खधाशब्दार्थत्यागस्य विषयतयान्नादावन्वयः । तस्य स्वधा शब्दस्य निपातत्वेन तदर्थस्य भेदेनान्वयस्य व्युत्पत्तिसिद्धत्वात् । तथा च पित्रुद्देश्यकत्यागविषय इदमन्नम् इति बोधः । [ग] स्वस्वकरणको हविस्त्यागः । यथा इदं पित्रे स्वधा इत्यादौ स्वधाशब्दस्यार्थः । अत्र पित्रुद्देश्यकस्य स्वधापदकरणकस्य हविस्त्यागस्य कर्मेदम् इत्याकारको बोध: ( श० प्र० श्लो०.९४ टी० पृ० १२६ ) । २ पौराणिकाः कर्मज्ञाश्च मातृकाविशेषः । यथा नमः स्वधायै स्वाहायै (पितृगाथा ) इत्यादौ स्वधाशब्दस्यार्थ इत्याहुः । इयं च दक्षकन्या । ब्रह्मणो मानसी कन्या च पितृपत्नी । अत्राधिकं तु ब्रह्मवैवर्ते द्रष्टव्यम् । <स्वप्नः> प्रदेश विशेषावस्थितमनः संयोगः ( नील० गु० पृ० ३८ ) मेध्यामनः संयोगो वा । यथा न कंचन स्वप्नं पश्यति ( बृह० उ० ४ । ३ । १९ ) इत्यादौ स्वप्नशब्दार्थः । यथा वा स्वप्नज्ञानं मानसविपर्ययः इत्यादौ ग्रन्थे स्वमशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरीतद्व हिर्देशयोः संधिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः । <स्वप्नज्ञानम्> ( बुद्धिप्रभेदः अविद्या ) [ क ] जाग्रदवस्थायां बाह्यवस्त्वनु - भवजन्यमयथार्थ स्मरणम् । तच्च निराकारमेव ( त० मा० प्रमेय नि पृ० ४० )। खप्ने च सर्वमेव ज्ञानं सरणम् अयथार्थम् । दोषवशेन तत् इति स्थाने इदम् इत्युदयात् । सर्वं ज्ञानं निराकारमेव न तु ज्ञानं तत्तद्विषयाकारम् । साकारज्ञानवादनिराकरणात् ( त० भा० प्रमेय - नि० पृ० ४० ) । तथा स्वप्नः (वै० ९ । २।७ ) इति सूत्रे चेत्यमुक्तम् । स्मृतौ यथा संस्कारः कारणं तथा स्वप्नसंज्ञकमानसज्ञानेपि इत्याह तथा इति । तथा आत्ममनःसंयोगविशेषात् पूर्वानुभवजनित संस्काराच्च स्वप्नो मान- सज्ञानविशेषो भवतीति । अत्र संयोगे विशेषो मेध्यामनः संयोगात्मकदोष- विशिष्टत्वम् । अत एव तदानीं भ्रम एव भवति । पूर्वानुभवश्चैहिको जन्मान्तरीयो वा (वै० वि० ९२ । २/७५० ४०९ ) । अत्रेदं बोध्यम् । स्वप्नज्ञानं पुरीतद्वहिर्देशयोः संधौ मनसि स्थिते अदृष्टविशेषेण चिन्ता- विशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेन्तर्भवति (सि० च० गु० पृ० ३४ ) ( त० दी० गु० पृ० २८ ) । स्वप्नज्ञानमनुभूत- पदार्थस्मरणसंस्कारकफपित्तादिधातुशुभाशुभादृष्टैर्जन्यते । तच्च बाधि- तार्थविषयकम् ( नील० गु० पृ० ३८) इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा सम वायिकारणम् इति ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव इति । उक्तं च वृत्तिकारैः । अनुभूत- वस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वभज्ञानम् ( वै० उ० ९१२१८ पृ० ४११ ) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्न- ज्ञानस्य खण्डितम् तद्भाष्यादितात्पर्यानाकलना देव इति मम भाति । [ख] निद्रादुष्टान्तःकरणजं ज्ञानम् । [ग] मानसविपर्यय: ( त० दी० गु० पृ० ३८ ) ( सि० च० ) । [घ ] मिथ्याप्रत्ययप्रवाहः ( म्या० ली० गु० पृ० ३१ ) । [ङ ] सिद्धाभिभूतज्ञानम् ( न्या० ली० गु० पृ० ५९ ) । [च ] उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण यदनुभवनं मानसं तत् । स्वप्नज्ञानमित्थमुत्पद्यते । यदा बुद्धिपूर्वादात्मन:- शरीरारब्धव्यापारादहनि खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहार- परिणामार्थ वा अदृष्टकारितप्रयत्नापेक्षात्मान्तःकरणसंबन्धजन्यक्रिया- प्रबन्धादतीतमन्तर्हृदये निरिन्द्रियात्मप्रदेशे निश्चलं मनस्तिष्ठति तदा प्रलीनमनस्क इत्याख्यायते । प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति । तस्यामवस्थायां प्रबन्धेन प्राणापानसंतानप्रवृत्तावात्ममनः त्स्वापाख्यात् संस्काराञ्चेन्द्रियद्वारेणेवा सत्स्वपि विषयेषु ज्ञानमुत्पद्यते ( प्रशस्त० गु० पृ० २५ ) । अत्र च मानसं ज्ञानं ज्ञानलक्षणरूपालौकिकसंनिकर्षाद्भवति स्मरणं च संस्कारात् इति विशेषः (वै० वि० ९।२।७ ) । तच्च स्वप्नज्ञानं त्रिविधम् ( १ ) किंचित् संस्कारपाटवात् (२) किंचित् धातूनां वातपित्तश्लेष्मणां दोषात् ( ३ ) किंचित् धर्माधर्मरूपादृष्टविशेषाच्चोत्पद्यते । तत्राद्यं ( १) यथा कामी क्रुद्धो वा यदा यमर्थमादृतश्चिन्तयन्स्वपिति तदा सैव चिन्तासंततिः प्रत्यक्षाकारा संजायते ( प्रशस्त ० २ पृ० २५ ) । यथा वा पुराणादिश्रवणजनित संस्कारवशाज्जायते कर्णार्जुनीयं युद्धमिदम् इत्याकारम् । द्वितीयं ( २ ) यथा वातदोषादाकाशगमनवसुन्धरा- पर्यटनव्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वहि- प्रवेशवह्निज्वालालिङ्गनकनकपर्वत विद्युल्लता विस्फुरणदिग्दाहादिकं पश्यति । श्लेष्मदोषप्राबल्यात्तु समुद्रसंतरणनदीमज्जनधारासारवर्षणरजतपर्वतादि पश्यति । तृतीयं ( ३ ) यथा तज्जन्मानुभूतेषु जन्मान्तरानुभूतेषु वा सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारो- हणपर्वतारोहणच्छत्रलाभपाय सभक्षणराजसंदर्शनादिविषयकम् । अध- र्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहणपङ्कमज्जनस्व विवाहदर्शनादि स्वप्नज्ञानमुत्पद्यते ( बै० उ० ९ । २।७ ) इति । सांख्या मायावादिवेदा- न्तिनश्च संस्कारमात्रजन्यः स्वप्नावस्थाशब्दवाच्यो बुद्धेर्विषयाकारः परि- णामः स्वप्नः इत्याहुः । स्वप्नस्थपदार्थविषये सत्यत्वमिथ्यात्वाभ्यां विप्रति- पत्तिः । तत्र स्वप्नदृष्टपदार्थस्य मिथ्यात्वम् इति मायावादिवेदान्तिनोङ्गीचक्रुः । श्रुतिश्च स यत्र प्रस्वपिति इत्युपक्रम्य न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान्रथयोगान् पथः सृजते ( बृह० उप० ६/३/९ - १० ) इति । सूत्रं च मायामात्रं तु कार्येनानभिव्यक्तस्वरूपत्वात् (ब्रह्मसू० अ० ३ पा० २ सू० ३ ) इति । तथा सूचकच हि श्रुतेराचक्षते च तद्विदः ( ब्रह्मसू० अ० ३ पा० २ सू० ४ ) इति । सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते यदा कर्मसु काम्येषु स्त्रिय ९ स्वप्नेभिपश्यति । समृद्धिं तत्र जानीयात्तस्मि- न्स्वप्ननिदर्शने ( छान्दो० ५।२।९ ) इति । तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इति । आचक्षते च स्वप्नाध्यायविदः कुञ्जरा- रोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि ( शारी० मा० ३।२।४ ) इति । अत्र शुभाशुभसूचकत्वं स्वप्नमेदस्य मत्स्यपुराणादौ (अ० २४२) सविस्तरमुक्तम् तत्तत्र द्रष्टव्यम् । द्वैतवादिनः श्रीपूर्ण प्रज्ञाचार्यास्तु स्वप्न - सृष्टपदार्थानां सत्यत्वमेव । तथा हि स्वप्नेपि गजादिदर्शनं यथार्थमेव । मानसवासनाजन्यत्वाद्गजादीनाम् । तेषु यद्वाह्यत्वज्ञानं तद्विपर्यय एव इति प्राहुः (प्र० प० पृ० ५ ) । अयं भावः । ईश्वरोनादिमनोगतांश्च संस्कारानुपादानीकृत्य स्वेच्छामात्रेण प्रदर्शयति पदार्थान् । अत्र श्रुतिः य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति विज्ञेया । न तत्र रथा न रथयोगाः ( बृह० उ० ६।३।१० ) इत्यादौ तु ईश्वरं विना इति पूरयित्वा अन्चयो योज्य: ( मध्यभाष्य ० ३ । २।१ - ३ ) इति । पुराणे चोक्तम् मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥ यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ ( मध्वभाष्ये ब्रह्माण्डपु० ३।२। ३ ) इति । अत्र गजादिरूपकार्यस्योपादानं वासना ईश्वरः कर्ता अदृष्टादिकं निमित्तम् इति द्रष्टव्यम् ( प्र०प० टी० वेदेश० पृ० १४ ) । <स्वप्नान्तिकम्> ( बुद्धिप्रभेदः अविद्या ) १ तत्कालोत्पन्नानुभवजनित- संस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भवम् । स्वप्ना- नुभवजसंस्कारजम् इति यावत् । इदं ज्ञानं स्वप्नावस्थाजातानुभवजनित- संस्कारेण जायते । किंतु स्मृत्यात्मकम् न मानसम् इति विशेष : (वै० वि० ९ २१८) । तथा च स्वभान्तिकस्वप्नज्ञानयोरेतावान् विशेषः । स्वप्नज्ञानं पूर्वानुभवजनितात्संस्कारादुत्पद्यते । स्वप्नान्तिकं तु तत्कालो- त्पन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञान- प्रत्यवेक्षणात् स्मृतिरेव (वै० उ० ९१२१८) इति । अत्र सूत्रम् स्वप्नान्तिकम् (वै० ९ २१८ ) इति । तदर्थश्च स्वप्नज्ञानं यथात्ममन:- संयोगविशेषसंस्कारोभयजन्यम् तथा स्वप्नान्तिकाख्यं ज्ञानमपि ( वै वि० ९।२।८ ) इति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथा- व्यतीतज्ञानप्रबन्धस्य प्रत्यवेक्षणात्स्मृतिरेवेति ( प्रशस्त ० गु० पृ० २५ ) । २ केचित्तु स्वप्नमध्ये प्रमाभूतं यज्ज्ञानम् तत् स्वप्नान्तिकम् । यथा शय्यायां शयानोस्मि इत्यादि इत्याहुः ( वै० उ० ९२२१८ ) । <स्वभावः> हेत्वन्तरानपेक्षो वस्तुधर्मविशेषः । यथा स्वभावो दुरतिक्रम: अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मा- स्वभावात्तद्व्यवस्थितिः ॥ ( सर्व० पृ० १३ चार्वा० ) इत्यादौ स्वभाव- शब्दस्यार्थः । तत्र प्राणिस्वभावस्तु द्विविधः निसर्गः स्वरूपं चेति । तदुक्तम् बहिर्हेत्वनपेक्षी तु स्वभावोथ प्रकीर्तितः । निसर्गश्च स्वभावश्च इत्येष भवति द्विधा ॥ निसर्ग: सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतःसिद्धः स्वरूपो भाव उच्यते ॥ ( उज्ज्वलदत्त०) इति । <स्वम्> १ [ क ] समभिव्याहृतपदोपस्थाप्यः पदार्थः ( ग० शक्ति० पृ० ११६–११७)। निष्कृष्टार्थस्तु साक्षात्परंपरया वा यः स्वार्थस्य विशेष्यः यश्च स्वसमभिव्याहृतक्रियाकारकपदार्थः तदुभयम् । यथा चैत्रः स्वपुत्रं पश्यति इत्यादौ स्वपदार्थ : ( ग० शक्ति० पृ० १२२ ) । [ख] तद्घटितवाक्यघटकक्रियान्वितः समभिव्याहृतपदोपस्थाप्यः । यथा चैत्रः स्वपुत्रं पश्यति इत्यादौ स्वपदार्थश्चैत्रः । तद्घटितेयत्र तच्छन्देन स्वपदं ग्राह्यम् । क्रियान्वित इत्यन्तेन चैत्रस्य भ्राता स्वपुत्रं पश्यति इत्यादौ स्वशब्देन न चैत्रप्रतीतिः । २ व्यवहारज्ञास्तु स्वकीयम् धनादि इत्याहुः । ३ आत्मा । ४ ज्ञातिः । <स्वयमुक्तिः> स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥ ( मिताक्षरा अ० २ श्लो० ६९ ) । <स्वरः> १ उदात्तानुदात्तस्वरितरूपो वर्णोच्चारणयत विशेषः । २ व्यञ्जन - वर्णभिन्ना अकारादयो वर्णाः इति शाब्दिका आहुः । एषामचामु- दात्तादिस्वरवत्त्वात् स्वरपदाभिषेयता । अत्र शिक्षा उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । हस्खो दीर्घः द्रुत इति काळतो नियमा अचि ॥ इति । ३ तान्त्रिकिास्तु प्राणादिवायोर्व्यापार विशेष इत्याहुः । ४ भिषजस्तु प्रकुपितवायोर्व्यापारविशेष इत्याहुः ( सुश्रुते ) । ५ गायकास्तु निषादा- दयस्तन्त्रीकण्ठोत्था गानजध्वनय इत्याहुः । ते च स्वराः सप्त षड्डु ऋषभ- गान्धारौ मध्यमः पञ्चमस्तथा । वैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ॥ ( भरतः ) ( अमरः १ । ७ । १ ) इति । तत्र निषादादिस्वराणां प्राणि- विशेषस्वरतुल्यता नारदोक्ता यथा षडुं रौति मयूरो हि वृषो नति चर्षभम् । अजा विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम् ॥ पुष्प- साधारणे काले कोकिलो रौति पञ्चमम् । अश्वश्च धैवतं रौति निषादं रौतिकुञ्जरः ॥ इति (अमर० टी० ) । स्वराणामुत्पत्तिस्थानादिकं च भरतशास्त्रादौ विज्ञेयम् । ६ केचिच्छकुनज्ञास्तु इष्टानिष्टफलसूचको नासिकानिर्गतो वायोर्व्यापारविशेष इत्याहुः । ७ मध्वाचार्यास्तु स्वरतेस्तु स्वरः विष्णुः इत्याहुः ( तैत्ति ० शिक्षा ० मध्यभा० पृ० १ ) । <स्वरसः> १ विवादशून्यत्वम् । यथा घटत्वेन घटो नास्ति इति प्रत्ययस्य विवादशून्यत्वम् (ग० चतुर्द० खण्डन० पृ० ७२ ) । अत्र च विवाद- विषयस्तु घटत्वेन पटो नास्ति इत्याकारको व्यधिकरणधर्मावच्छिन्न प्रतियो गिताकाभावविषयकः प्रत्ययः इति बोध्यम् (व्यवि० अभा० खण्डन ० ) । २ स्वाभिप्रायः । यथा वाक्यादौ रचनाभङ्गी विशेषरूपः । ३ भिषजस्तु काथः इत्याहुः । अत्रोक्तं वैद्यके सद्यः क्षुण्णादाईद्रव्याद्वस्त्रयन्त्रादिपीड- नातू । यो रसस्त्वभिनिर्याति स्वरसः स प्रकीर्तितः ॥ ( वाच० ) इति । ४ अन्ये तु शिलापिष्टकल्क विशेष इत्याहुः ( शब्दर० ) ( वाच० ) । <स्वरुः> १ [क] छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः ( जै० न्या० अ० ४ पा० २ अधि० १ ) । [ ख ] स्वरुः काष्ठ- शकलम् (जै० सू० वृ० अ० ४ पा० २ सू० १ ) । २ पश्चङ्गम् ( जै० न्या० अ० ४ पा० ४ अधि० १०) । <स्वरूपम्> १ स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यम् इत्यादौ स्वरूप- शब्दस्यार्थः । काव्यज्ञास्तु २ स्वभावविशेष: ( अमरः १ नाट्य० ३८ ) ३ पण्डितः ४ सुन्दरश्च इत्याहुः ( अमरः २।३।१३१ ) । <स्वरूपयोग्यत्वम्> ( जनकवादिकम् ) तदवच्छेदकधर्मवत्त्वम् । यथा अर ण्यस्थस्यापि दण्डस्य घटं प्रति जनकत्वं स्वरूपयोग्यत्वम् ( सि० च० १ पृ० २० ) । अत्र च अरण्यस्थदण्डस्यापि घटकारणतायामवच्छेदकी- भूतदण्डत्ववत्त्वात्स्वरूपयोग्यत्वरूपं जनकत्वं युज्यत इति बोध्यम् । यथा वा परमाणुवृत्तिरूपादेश्चक्षुरविषयत्वेपि चक्षुर्विषयत्वस्वरूपयोग्यत्वम् । दर्जन्यज्ञान विषयत्वावच्छेद की भूतधर्मवत्त्वम् इति । स च धर्मोत्र रूपत्वम् । तच्च परमाणुवृत्तावपि रूपादौ वर्तत इति सर्वे सुस्थम् । <स्वरूपलक्षणम्> स्वरूपान्तर्गतत्वे सति व्यावर्तकम् ( सर्व० सं० yo ४६६ शां० ) । <स्वरूपसंबन्धः> संबन्धान्तरेण विशिष्टप्रतीतिजननायोग्यत्यम् (चि० १) । यथा भूतले घटो नास्ति इत्यादौ घटाभावादेर्भूतलेन संबन्धः । स द्विविधः केवलस्वरूपः विशेषणता चेति । तत्रायो भावाभावान्यतर- प्रतियोगिकः । यथा आधेयत्वप्रतियोगित्वादीनां संबन्ध: । द्वितीय- स्त्रिविधः दैशिकविशेषणता दिक्कृत विशेषणता कालिक विशेषणता चेति । तत्राद्यश्चाभावमात्रप्रतियोगिकः । यथा भूतलादिना घटाभावादीनां संबन्धः । द्वितीयतृतीयौ तु दिक्कालानुयोगिकौ जन्यमात्रप्रतियोगिकौ च । यथा गन्धघटादीनां संबन्धौ दिक्कालाभ्याम् इति । इमावेव सर्वाधारता - प्रयोजकसंबन्धौ इति जेगीयेते ( त० दी० १ कालनि० १० १० ) । अत्राहुः । स्वरूपसंबन्ध इत्यस्य अनुयोगिप्रतियोग्यन्यतरस्वरूपः संबन्ध- विशेषः इत्यर्थः । यद्वा स्वरूपसंबन्धो धर्मिद्वयात्मकः । अथ वा ष- पदार्थातिरिक्तः भावरूपः पदार्थविशेषः वरूपसंबन्धः इति । <स्वरूपासिद्धः> ( हेत्वाभासः ) [ क ] यो हेतुराश्रये नावगम्यते सः । यथा सामान्यमनित्यं कृतकत्वात् इत्यादौ कृतकत्वं स्वरूपासिद्धम् । अत्र कृतकवं हेतुराश्रये सामान्ये नास्ति ( त० भा० ३० पृ० ४५) । यथा वा शब्दो गुणश्चाक्षुषत्वात् इत्यादौ चाक्षुषत्वं स्वरूपासिद्धम् । अत्र चाक्षुषत्वं शब्दे पक्षे नास्ति शब्दस्य श्रावणत्वात् इति चाक्षुषत्व स्वरूपा- सिद्धं भवति इति ज्ञेयम् ( त० सं० ) । अयमेव हेतुः शुद्धासिद्धः १३३ न्या० को० इत्युच्यते ( सि० च० २ पृ० २८ ) । स्वरूपासिद्धश्च शुद्धासिद्धभागा- सिद्धविशेषणासिद्धविशेष्यासिद्धासमर्थविशेषणासमर्थविशेष्यभेदेन बहु-विध: ( त० भा० पृ० ४५ ) ( त० सं० २ ) ( सि० च० २ ) । स्वरूपासिद्धश्चायमसिद्धप्रभेदः । लक्षणं तु वक्ष्यमाणा स्वरूपासिद्धिरेव । सा च हेतुनिष्ठपक्षावृत्तित्वादिः स्वरूपासिद्धिशब्दे दृश्या ( सि० च ० ) । स्वरूपासिद्धश्चायं कचित् संदेहसिषाधयिषयोरभावात् सिद्धसाधने अन्तर्भवति (वै० उ० ३।१।१५ पृ० १५६) । [ख] यो हेतुः पक्षे न वर्तते स स्वरूपासिद्धः । यथा तप्तायः पिण्डो वह्निमान् धूमात् इत्यादौ धूमो हेतुः स्वरूपासिद्धः । यथा वा शशादिरवो विषाणित्वात् इत्यादौ विषाणित्वं हेतुः स्वरूपासिद्धः ( प्र० प्र० ) । अत्र सूत्रम् यस्माद्विषाणी तस्मादश्वः (३० ३।१।१६ ) इति । [ग] पक्षनिष्ठाभावप्रतियोगी हेतुः । यथा हृदो द्रव्यं धूमात् इत्यादौ धूमः <स्वरूपासिद्धः> (त० कौ० २ ) । अत्र पक्षे हृदे वर्तमानः धूमस्याभावः तस्य प्रतियोगी धूमो भवति इति हृदो द्रव्यं धूमात् इत्यादौ धूमो हेतुः स्वरूपासिद्धः । स्वरूपासिद्धत्वज्ञानं परामर्शप्रतिबन्धकम् । हृदे धूमो नास्ति इति ज्ञाने सति द्रव्यत्वव्याप्यधूमवान् हदः इति परामर्शासंभवात् । एतस्य परामर्शस्य हृदे धूमसंबन्धावगाहित्वात् (त० कौ० २) इति । स्वरूपासिद्धिः – ( हेतुदोषः ) पक्षे व्याप्यत्वाभिमतस्याभावः। यथा घटः पृथिवी पटत्वात् इत्यत्र घटरूपपक्षे हेत्वभावः ( न्या० म० २ ) । यथा वा हृदो द्रव्यं धूमात् इत्यादौ हृदनिष्ठो धूमाभावः स्वरूपासिद्धिः ( मु० २ ) ( गौ० वृ० ११२१८ ) (वै० वि० ३११११५ ) ( न्या० बो० ) ( न्या० म० २ पृ० २१ ) । स्वरूपासिद्धिश्चेयमसिद्धि- प्रभेदः । भागासिद्धिरत्रैवान्तर्भवति ( त ० भा० ) । अत्र च हेत्वभावव- त्पक्षः हेतुमदन्यः पक्ष: पक्षावृत्तिर्हेतुः पक्षे हेत्वभावः पक्षनिष्ठं हेत्वभाव- घत्त्वम् पक्षनिष्ठं हेतुमदन्यत्वम् हेतुनिष्ठं पक्षावृत्तित्वम् हेतुनिष्ठं पक्ष- वृत्तित्ववदन्यत्वम् हेतुमन्निष्ठं पक्षान्यत्वादिकम् हेतुनिष्ठं पक्षनिष्ठाभाव- प्रतियोगित्वम् विशिष्टहेतौ पक्षादेर्विशेष्याभाववत्त्वादिकम् पक्षादेर्हेत्व- समानाधिकरणधर्मवत्त्वम् इत्यादयः स्वरूपासिद्धिव्यक्तयो बाधवदूह्याः । एतासां विभाजकं तु प्रकृतपक्षप्रकृतसाधनग्रहाविरोधिनो ज्ञानस्य विषय- तया तदुभयवैशिष्ट्यग्रहविरोधितावच्छेदकं रूपम् ( दीधि ० २ पृ० २१७ ) इति । अत्रेदं विज्ञेयम् स्वरूपासिद्धेर्हेतवः पञ्च तर्काः । ते च आत्माश्रयः अन्योन्याश्रयः संशयः चक्रकाश्रयः अनवस्था चेति ( ता० २० श्लो० ९०)। <स्वर्गः> [क] सुखविशेषः (मु० गु० ) । यथा यागात्स्वर्गो भवति इत्यादौ स्वर्गशब्दस्यार्थः । यथा वा यज्ञैरिष्वा स्वर्गति प्रार्थयन्ते इत्यादौ स्वरूशब्दस्यार्थः । इदं च इच्छामात्रसाधनसाध्यं सुखम् इति वदन्ति । अत्राम्नायते यन्त्र दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ (श्रुतिः ) इति । अत्र दुःखासंभिन्नत्वं च स्वावच्छेदकशरीरानवच्छिन्नत्वम् । तेन दुःखसमानकालीने सुखे नाति- व्याप्तिः । [ख] अधर्मानारब्धदेहावच्छेद्यसुखम् ( प० च० ) । २ पौराणिकास्तु देवानामावासस्थानं लोकविशेषः । तदुक्तं महाभारते उपरिष्टाच्च स्वर्लोको योयं स्वरिति संज्ञितः । ऊर्ध्वगः सत्पथः शश्वदेव- यानचरो मुने ॥ नातप्ततपसः पुंसो नामहायज्ञयांजिनः । नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुगल ॥ धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः । दानधर्मरता लोकाः शूराचाहवलक्षणाः ॥ तत्र गच्छन्ति इत्यादि । तत्र गुणप्रशंसा न शोको न जरा तत्र नायास- परिदेवने । ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ॥ न वर्तयन्त्या- हुतिभिस्तेनाप्यमृतभोजनाः । तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥ इत्यादिः । तत्र दोषास्तु कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि । न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ सोत्र दोषो मम मतस्तस्यान्ते पतनं च यत् ( भार० व० अ० २६० ) इत्यादयः । अयं च लोकः भूक: भुवर्लोकः स्वर्लोक: महर्लोकः जनलोकः तपोलोकः सत्य- लोकश्च इत्येतेषु भूरादिषु सप्तसु लोकेषूर्ध्वस्थस्तृतीय इत्याहुः । <स्वस्ति> १ आशीः । यथा स्वस्ति भवते इत्यादौ स्वस्त्यर्थः । अत्र चतु- र्ध्यर्थः संबन्धः । तस्य स्वस्त्यर्थहितेन्वयः । एवं च भवदीय हितविषयिणी मदीयेच्छा इति बोधः ( ग० व्यु० का० ४ ) । अत्र आशीश्च परहित- विषयकेच्छा न तु स्वहितविषयकेच्छा विज्ञेया । अत्र व्याकरणम् अस्ति ( सु असू क्तिचू ) इति विभक्तिप्रतिरूपकमव्ययम् । स्वस्तिशब्दयोगे क्षेमादिसंबन्धिनि चतुर्थी भवति । २ कल्याणम् ( कुशलम् ) । यथा स्वस्त्यस्तु मह्यम् इत्यादौ स्वस्तिशब्दस्यार्थः ( ग० न्यु० का० ४ ) । यथा वा स्वस्त्यस्तु प्रजाभ्यः इत्यादौ स्वस्तिशब्दस्यार्थः । अत्राद्ये चतुर्थ्यर्थः संबन्धः । तस्य च कल्याणेन्वयः ( ग० व्यु० का० ४ ) । शाब्दबोधस्तु पूर्ववज्ज्ञेयः । स्वस्त्यस्तु प्रजाभ्य इत्यत्र प्रजानिष्ठं कुशलम् इत्यर्थः । स्वस्ति- शब्दस्य कुशलवाचित्वात् । कुशलस्याशंसास्थले तु स्वस्त्यस्तु प्रजाभ्यः । इतिवत् स्वस्त्यस्तु प्रजानाम् इत्यपि प्रमाणम् । आशा स्यैर्धनकुशलायुष्या - योगे चतुर्थी वा इति भागुरिस्मृतेः इत्यपि वदन्ति ( श० प्र० श्लो० ९४ टी० पृ० १२६ ) । ३ पुण्यम् । ४ स्वीकारसूचनम् । <स्वहस्तितत्वम्> स्वीकृतत्वम् ( राम० ) । यथा अनुभवस्य त्वया स्वहस्ति- तत्वात् (दि०) इत्यादौ ग्रन्थे स्वहस्तितत्वशब्दस्यार्थः । <स्वागतम्> १ शोभनमागमनम् ( कुमा० टी० २११८ ) । यथा स्वागतं स्वानधीकारान् ( कुमार० स० २ श्लो० १८) इत्यादौ स्वागतशब्द- स्यार्थः । २ कुशलम् । ३ कुशलप्रश्नः ( हारा ० ) । यथा स्वागतं वो महाभागाः वयं किं करवाम ते ( भाग० ९ ) इत्यादौ स्वागतशब्द- स्यार्थः । ४ देवतापूजकास्तु षोडशोपचारमध्ये द्वितीयोपचारः । यथा आसनं स्वागतं पाद्यम् इत्यादौ स्वागतशब्दस्यार्थः इत्याहुः । <स्वातन्त्र्यम्> स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता । कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षता ( सर्व० सं० पृ० १७७ शै०)। <स्वादः> १ प्रीतिः । २ प्रीणनम् । ३ रसिकास्तु रसानुभवः । यथा रसास्वादेन तरला ये माद्यन्ति विपश्चितः ( प्रतापरु० ) इत्यादौ स्वाद - शब्दस्यार्थः इत्याहुः । ४ लेहनम् इति काव्यज्ञा आहुः । <स्वाध्यायः> १ अध्ययनम् ( अमरः २।७।४७ ) । यथा स्वाध्यायो जप इत्युक्तो वेदाध्ययनकर्मणि ( स्मृतिः ) इत्यादौ स्वाध्यायशब्दस्यार्थः। अध्ययनकर्म आम्नायादि । यथा स्वाध्यायोध्येतव्यः (श्रुतिः) इत्यादौ स्वाध्यायशब्दस्यार्थः । ३ अर्थानुसंधानपूर्वकमन्त्रजपादिः इति नारद- पञ्चरात्रविद आहुः । तदुक्तम् स्वाध्यायो नाम अर्थानुसंधानपूर्वको मन्त्रजपो वैष्णवसूक्तस्तोत्रपाठो नामसंकीर्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च ( सर्व० सं० पृ० ११७ रामानु० ) इति । ४ प्रणवगायत्री प्रभृतीनाम- ध्ययनं स्वाध्यायः ( सर्व० सं० पृ० ३६७ पात० ) । <स्वापः> १ [ क ] स्वप्नः । [ ख ] निद्रा इति काव्यज्ञा आहुः । [ ग ] सुषुप्तिः । २ अज्ञानम् इति वेदान्तिन आहुः । स्पर्शाज्ञता इति मेदिनी- कार आह । ३ स्वप्नज्ञानम् ( कृष्णं ० )। <स्वाभाविकम्> यस्मिन्सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौ न भवति तस्य तत्स्वाभाविकम् । यथा न ह्यग्नेः स्वाभाविकादौष्ण्यान्मोक्षः संभवति । स्वाभाविकस्य यावद्रव्यभावित्वात् । जलस्य शीतस्पर्शः स्वाभाविकः । इत्यादौ ग्रन्थे स्वाभाविकशब्दस्यार्थः । <खारसिकः> सकलजनसाधारणः ( कृष्णं० ) । सकलजनाभिप्रेतः । यथा कश्चन सुष्टु शब्दप्रयोगः स्वारसिकः । <स्वारसिकलक्षणा> (लक्षणा) अधुनातनतात्पर्यविषयीभूतार्थनिष्ठा लक्षणा । यथा वटे गाव: शेरते इत्यादौ वटपदस्य वटसमीपे लक्षणा । गङ्गायां घोषः इत्यादौ घोषपदस्य मत्स्यादौ या लक्षणा सा स्वारसिकी । अत्र व्युत्पत्तिः स्वस्य वक्तुः रसः इच्छा तदधीना लक्षणा इति । <स्वार्थम्> १ (अनुमानम् ) [क] न्यायाप्रयोज्यानुमानम् ( न्या० बो० २ पृ० १५) । अत्रार्थे स्वार्थशब्दस्य व्युत्पत्तिरर्थश्च स्वस्यार्थः प्रयोजनं साध्य - संशयनिवृत्तिरूपम् यस्मात् इति व्युत्पत्त्या स्वीयसंशयनिवृत्तिप्रयोजनकमनु- मानम् (नील० २ पृ० २०) इति । तच्च ज्ञानात्मकम् ( न्या० बि० परि० २ टी० पृ० २१ ) । व्याप्तिपक्षधर्मतासंवेदनम् (न्या० ली० पृ० ५९ ) इत्यन्यत्रोक्तम् । [ ख ] यत्तु स्वयमेव महानसादौ विशिष्टेन प्रत्यक्षेण धूमायोर्व्याप्ति गृहीत्वा पर्वते धूमं पश्यन्वह्निमनुमिनोति तत्स्वार्थानुमानम् ) ( त० भा० पू० ११) । तच्चार्थज्ञानरूपम् न तु परार्थानुमानवच्छन्द- रूपम् । अत्र भाष्यम् । अनुमानम् द्विविधम् दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टम् प्रसिद्धसाव्ययोरत्यन्तजात्यभेदेनुमानम् । यथा गव्येव सास्ना - मात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनादौरिति प्रतिपत्तिर्भवति । प्रसिद्ध- साध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोनुमानं सामान्य- तोदृष्टम् । यथा कर्षकवणिग्राजपुत्राणां प्रवृत्तेः साफल्यमुपलभ्य वर्णा- श्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानमिति । तत्र लिङ्गदर्शनं प्रमाणम् । प्रमितिरग्निज्ञानम् । अथ वाग्निज्ञानमेव प्रमा- णम् । प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम् । तत्स्वनिश्चितार्थमनुमानम् ( प्रशस्त ० २ गु० पृ० ४५ ) इति । स्वार्थानुमानस्य प्रयोजनं तु खस्यै- वानुमिति: ( त० सं० ) । तथा हि कश्चित्पुरुषः स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निः इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ संदिहानः पर्वते वर्तिनी मविच्छिन्नमूलामलिहां धूमलेखां पश्यन् धूमदर्शनादुद्रुद्धसंस्कारो व्याप्तिं स्मरति यत्र धूमस्तत्राग्निः इति । तदन- न्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्ग- परामर्श: इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति स्वस्य ज्ञानमनुमिति - रुत्पद्यते । तदेतत्स्वार्थानुमानम् ( त० सं० ) ( त० भा० पृ० ११ ) । २ स्वप्रयोजनम् । यथा मनीषिणः स्वार्थमुद्दिश्य प्रयतन्ते इत्यादौ स्वार्थ - शब्दस्यार्थः । ३ स्वामिधेयः । यथा स्वार्थकः स्वार्थबोधकृत् इत्यादौ स्वार्थशब्दस्यार्थः ( शब्द० च० ) । ४ व्यवहारशास्त्रज्ञास्तु स्वस्वत्व कं धनं स्वार्थम् इत्याहुः । <स्वाहा> १ [ क ] अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागः । यथा इन्द्राय स्वाहा इत्यादौ स्वाहाशब्दस्यार्थ: ( ग० व्यु० का० ४ पृ० १०० ) (अमरः ३।४।८) । वेदादेशितोच्चारण कर्तृत्वोपलक्षितपुरुषीयत्यागः इति फलितोर्थः । तेन तान्त्रिकपूजायामर्थ्याचमनीयादिदाने स्वाहास्वधा - शब्दप्रयोग उपपद्यते ( ग० व्यु० का० ४ पृ० १०१ ) । [ख] स्वत्वकरणको हविस्त्यागः । यथा इदमग्नये स्वाहा इत्यादौ स्वाहा- शब्दस्यार्थः । अत्र देवोद्देश्यकस्य स्वाहापदकरणकस्य हविस्त्यागस्य कर्मेदम् इत्याकारको बोध: ( श० प्र० श्लो० ९४ टी० पृ० १२६ ) । २ पौराणिकास्तु अग्निभार्या ( अमरः २ ब्रह्मवै० २१) । यथा स्वाहयेव हविर्भुजाम् (रघु० १९५६ ) इत्यादौ स्वाहां तु दक्षिणे पार्श्वे ( वै- श्वदे० ) इत्यादौ च स्वाहाशब्दस्यार्थ इत्याहुः । अत्रोक्तम् प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी । बभूव दाहिका शक्तिरग्नेः स्वाहा स्वकामिनी ॥ ग्रीष्ममध्याह्नमार्तण्डप्रभाच्छादनकारिणी । त्वमग्नेर्दाहिका शक्तिर्भव पत्नी च सुन्दरी ॥ ( ब्रह्मवै० प्र० अ० ३७ ) इत्यादि । ३ कर्मज्ञास्तु मातृका- विशेषः । यथा नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ( पितृगाथा) इत्यादौ स्वाहाशब्दस्यार्थ इत्याहुः । ४ तान्त्रिकास्तु दुर्गाशक्तिविशेषः । यथा दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ( दुर्गापूजामन्त्रः ) इत्यादौ खाहाशब्दस्यार्थ इत्याहुः । <स्वित्> ( अव्ययम् ) १ प्रश्नः । २ वितर्कः । यथा तस्मिन् द्रव्यं गुणः कर्म वा इति संदेहः विशेषस्योभयथा दृष्टत्वात् । किं द्रव्यस्य सतो गुणकर्मभ्यो विशेष: आहोखिद्गुणस्य सतः इति ( वात्स्या ० १।१।२३ ) इत्यादौ ग्रन्थे स्विशब्दस्यार्थः । ३ पादपूरणार्थम् । <स्वीकारः> ममेदम् इति ज्ञानात्मकः संप्रदानव्यापारः ( वीरमित्रो० दाय० पृ० ५४३) । शिष्टं तु प्रतिग्रहशब्दव्याख्याने ( पृ० ५२२ ) दृश्यम् । <स्वेदः> १ पाकविशेष: (सेको दाहः ) । २ गात्रादितो जलादेर्निष्यन्द- नम् ( धर्मः ) । यथा अयोनिजपार्थिवशरीरेषु यूकालिक्षादीनां शरीरं स्वेदजम् इत्यादौ ग्रन्थे स्वेदशब्दस्यार्थः । स च स्वेदः एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च इति द्विविधः । स चाग्निगुणजन्यस्त्रयोदश विधः व्यायामोष्णसदनादिजन्यो दशविधश्च इत्यादि सुश्रुतम्रन्थे सविस्तरं प्रतिपादितम् तत् तत्र दृश्यम् । खेदजन्यजन्तूनाह । संवेदजविकारांच यथा येभ्यो भवन्ति च । मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥ नवमेघप्रसिक्तायां पिपीलिकगदादयः । संस्खेंदजास्तु विज्ञेया वृक्षगोपशु- जन्तवः ॥ समिझ्यो माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः । जायन्ते कृमयो विप्राः काष्ठेभ्यो घुणकादयः ॥ तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति। च । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ गोभ्यो हि महिषेभ्यश्च मानुषेभ्यश्च जन्तवः । मत्स्यादिभ्यश्च विविधा अन्तः कुक्षौ विशेषतः ॥ अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च । गोम्योश्वेभ्यस्तथा चैव अष्टापद किनीनकाः ॥ मक्षिकाणां विकाराच उत्सृष्टोदककर्दमैः । शरावति विकाराश्च करीषेभ्यो भवन्ति हि ॥ एवमादिरसंख्यातो गणः संस्वेदजो मया । सर्वासां निहितो ह्येष प्राक्कर्म - वशजः स्मृतः ॥ ( वाचस्पत्ये वहिपु० ) इति । <ह.> <ह> १ पादपूरणम् । २ संवोधनम् । ३ नियोगः । ४ क्षेपः । ५ निग्रहः । ६ निन्दा । ७ प्रसिद्धिः । ८ शिवः । ९ जलम् । १० शून्यम् । ११ आकाशः । १२ रक्तम् । १३ स्वर्गः । १४ धारणम् । १५ पाप- हरणम् । १६ चन्द्रः । १७ सकोपवारणम् । १८ शुष्कम् ( मेदि० ) ( शब्दर० ) ( अमरः ) ( एकाक्षरको० ) । <हठयोगः> प्राणायामादिक्रियाभ्यासजन्यः राजयोगं विनैव परमात्म- साक्षात्काररूपश्चित्तवृत्तिनिरोधः । स च तन्त्रप्रसिद्धः । तत्प्रकारस्तु हठदीपिकादावुक्तो द्रष्टव्यः । अत्र विग्रहः हठेन बलात्कारेण योगः चित्तवृत्तिनिरोधः इति । <हननम्> १ स्यात्प्राणवियोगफलव्यापारो हननं स्मृतम् । यथा आतता- यिनमायान्तं हन्यादेवाविचारयन् ( स्मृतिः ) इत्यादौ हन्धात्वर्थः । वीरमित्रोदये आततायिवधे सिद्धान्त सिद्धनिर्णयस्तु हत्वा तु महरन्तं वै ब्राह्मणं वेदपारगम् । कामतोपि चरेद्वीर द्वादशाब्दा ख्यमुत्तमम् ॥ इति शिखावानपि गोविप्रं न हन्याद्वै कदाचन ( भविष्यपु० ) इति च स्मृतेः । आततायिन्यदोषोन्यत्र । अतः गोब्राह्मणं यदा हन्यात्तदा प्रायश्चित्तं कुर्यात् (संवर्तः) । नाततायिवधे दोषोन्यत्र गोब्राह्मणात् स्नातः प्राय - श्चित्तं कुर्यात् ( सुमन्तुः ) । अत्र अधिकं तु हिंसाशब्दव्याख्याने वध- शब्दव्याख्याने च दृश्यम् । २ आलंकारिकास्तु गतिः । यथा कुअं हन्ति कृशोदरि इत्यादौ हन्तेरर्थः इत्याहुः । ३ गुणकास्तु गुणनम् । यथा त्रिभिर्हतम् सप्तभिर्हतम् इत्यादौ हनधात्वर्थः इत्याहुः । <हन्त> ( अव्ययम् ) १ हर्षः । २ अनुकम्पा । ३ विषादः । ४ वाक्या- रम्भः । ५ आर्तिः । ६ वादः । ७ संभ्रमः । ८ खेदः ( शब्दच ० ) ( मेदि० ) । ९ अन्तःकल्पनम् ( अजयपाल : ) ( वाच० ) । हरिवासरः - द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ( पु० चि० पृ० २१२ ) । <हर्षः> १ [ क ] चित्तोत्साहः । स च कचित् मिथ्याकारणं भवति । यथा हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ( आपस्त० ६० सू० ) इत्यादौ हृषधात्वर्थः । [ख] इष्टाधिगमजन्य आनन्दः । [ग] अभिप्रेतविषयक प्रार्थना प्राप्तौ सुखानुभवो हर्षः (न्या० वा० ) । २ पौराणिकास्तु कन्दर्पपिता इत्याहुः (वामनपु० अ० ५ ) । ३ आधुनिकास्तु कलियुगीयो राजविशेषः । यथा हर्षचरितम् इत्यादौ हर्षशब्दार्थः इत्याहुः । <हवनम्> [क] प्राचीनमते अग्निसंयोगावच्छिन्नक्रियानुकूलैव्यापारः। यथा संस्कृते नौ घृतं जुहोति इत्यत्र जुहोत्यर्थः (ग० व्यु० का ० २ पृ० ४२ ) । [ख] अग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः ( दि० गु० धर्मनि० पृ० २३४ ) । यथा घृतं जुहोति इत्यादौ हुधा- त्वर्थः । अत्र घृतवृत्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृति- । मान् इत्यन्वयबोध: ( का० व्या० का० ४ पृ० ५ ) । [ग] ] वयधिकरणकपतनावच्छिन्न मन्त्रकरणकक्रिया । यथा घृतं जुहोति इत्यादौ दुधातोरर्थः । वहौ जुहोति इत्यत्र सप्तम्यन्तस्यार्थो न धात्वर्थनिविष्टे पतनेम्वेति । वह्निवृत्तित्वविशिष्टपतने तद्वृत्तित्वस्यान्वये निराकाङ्क्षतापत्तेः । परंतु तदवच्छिन्नक्रियायामेवान्वेति । प्रतिमादौ घृतादिस्नपनं मन्त्र- करणकमपि नाभ्यधिकरणकम् । वहौ घृतस्य प्रक्षेपमात्रमध्यधिकरणक- तस्पतमानुकूलमपि न मन्त्रकरणकम् । अतस्तदुभयं न होमः । प्राजापत्येपि होमे मानस एव मन्त्रः करणम् इति स होमः । तादृशी क्रिया चात्र १३४ न्या० को० सघृतस्य करादेः प्रसारणन्युज्जीकरणादिरेव । अत एव घृतादेः परि- त्यागित्व विरहादृत्विज।देर्न यष्टृत्वम् । किंतु होतृत्वमेव इति विज्ञेयम् । अत्र धात्वर्थघटकपतने घृतस्याधेयत्वेनान्वयः । तथा च अन्यधिकरण- कस्य वृतवृत्तिपतनस्यानुकूलमन्त्रकरणकक्रियावान् इत्येवं तत्र बोधो भवति इति विज्ञेयम् ( श० प्र० श्लो० ७३ टी० पृ० ९५ ) । [घ ] वहिसंयोगावच्छिन्न पतनानुकूलमन्त्रकरणकक्रिया । यथा घृतं जुहोति इत्यत्र दुधात्वर्थः । अत्र वह्निसंयोगजनकं यद्धृतस्य पतनम् तदनुकूलमन्त्रकरणकक्रियाविशेषवान् इत्याकारको बोध: ( श० प्र० श्लो० ७३ टी० पृ० ९५) । [ङ ] वैध आधारे हविषः प्रक्षेपः इति शा- ब्दिका वदन्ति ।[ च ] देवतोद्देश्यकोग्नौ मन्त्रपूर्वकं हविःप्रक्षेपः । यथा ऋत्विजो जुहृति इत्यादावपि ऋत्विजां होतृत्वम् । अत्र प्रक्षेपश्च अग्निसं- योगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः (का० व्या० का० ४ पृ० ५) । [ छ ] नवीनमते तु विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागो हवनम् ( दायभाग ० ) ( का० व्या० का० ४ पृ० ५ ) इति ज्ञेयम् । <हविष्वम्> व्यागकर्मध्वम् । यथा मन्त्रकरणकहविस्त्यागः इत्यादौ ग्रन्थे हविःशब्दस्यार्थः ( त० प्र० ख० ४ पृ० १२३ ) । हविर्द्रव्यं तु आज्यपशुपुरोडाशादि यथाविधि विज्ञेयम् । <हानम्> १ [ क ] निवृत्तिप्रयोजकमनिष्टसाधनताज्ञानम् । खानिष्टसाधन- ताप्रकारकं ज्ञानम् इत्यर्थः (प० च० ) । [ ख ] दुःखसाधनवज्ञानम् । यथा सर्पो मे दुःखसाधनम् इति ज्ञानम् ( सि० च० १ पृ० २१ ) । २ केचित्तु ज्ञानम् । तच्च क्वचित् तत्त्वज्ञानम् इत्याहु: ( न्या० वा० पृ० ४ ) । ३ काव्यज्ञास्तु परित्यागः ( इच्छाविशेषः ) । यथा हिमहान- । कृता न कृता वचन (भट्टि: १०।५) इत्यादौ हानशब्दार्थ इत्याहुः । <हांसः> १ [ क ] प्रीत्या मुखकमलादेर्विकासः । यथा हसति इत्यादौ हस्- धात्वर्थः।[ख] कण्ठोष्ठपुटविस्फूर्जनपुरःसरं अहहह इत्यगृहासः ( सर्व ० पृ० १६९ मकु० ) इति पाशुपता आहुः । [ग] दोषदर्शनपूर्वको हासः । यथा ततो जहासातिरुषा भीमं भैरवनादिनी (सप्तश० ७ १९ ) इत्यादौ । २ आलंकारिकास्तु हास्यस्थायिभावको रसविशेष इत्याहुः । तदुक्तम् विकृताकारवाग्वेषचेष्टा देः कुहकाद्भवेत् । हासो हास्यस्थायिभावः श्वेतः प्रमथदैवतः ॥ (सा० द० परि० ३ श्लो० २१४ इति । <हि> (अव्ययम् ) १ हेतुः । २ अवधारणम् । ३ विशेषः । ४ प्रश्नः । ५ संभ्रमः । ६ हेतूपदेशः । ७ असूया । ८ पादपूरणम् । ९ शोकः । १० वर्धनम् । ११ गतिः । <हिंसा> १ [क] नवीनमते अनुनिष्पादितमरणफलकव्यापारः (चि० ४ ) । स च कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणां वधः । तदर्थस्तु कार्य सुखदुःखसंवेदनम् । तस्यायतनमधिष्ठानमाश्रयः शरी- रम् इति । वधोत्र उपघात: पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो या प्रमापणलक्षणो वा (वात्स्या० ३।१।६) । प्राचीनमते तु हिंसा [ख ] साक्षान्मरणानुकूलव्यापारः ( दि० गु० पृ० २२९ ) । [ग] दृष्टमरणोद्देशेनानुष्ठीयमानत्वे सति अदृष्टाद्वारकमरणानुकूल- पारः ( म० प्र० ४ पृ० ६१ ) । यथा मां हिंस्यात्सर्वा भूतानि इत्यादौ न हिंस्यात्सर्वाणि भूतानि इत्यादौ च हिंसा । यथा वा अहिंस- न्सर्वभूतान्यन्यत्र तीर्थेभ्यः ( श्रुतिः ) इत्यादौ च हिंसाशब्दस्यार्थः । अत्र दृष्टमरणेत्यनेन विशेषणेन कूपादौ गवि विनष्टे सति तत्कूपकर्तु- र्गोवध कर्तृत्वप्रसङ्गः निवारित इति बोध्यम् । अदृष्टाद्वारकेत्यनेन विशेषणेन गङ्गामरणमुद्दिश्य कृतत्रिसंध्यस्तव पाठादेहिंसात्वं निवारितम् । अत एव श्येनेनाभिचरन् यजेत इत्यत्र श्येनस्य न हिंसारूपत्वम् । श्येनेनादृष्ट- द्वारैव शत्रुमरणजननात् ( म० प्र० ४ पृ० ६१ ) । तथा हि श्येनो हि वधसाधनम् । न तु नरकसाधनम् । श्येनाच्च वधो वधाच्च नरकः इत्येतस्मादेव हेतुमात्रादास्तिकानां न श्येनादौ प्रवृत्तिः ( न्या० म० ४ पृ० २७ ) इति । प्राचीनमते इयेनो न स्वरूपतो निषिद्धः । किंतु फलतो निषिद्धः । नव्यनैयायिकानां मते तु श्येनः स्वरूपत एव निषिद्धः । अतस्तत्र हिंसात्वमस्त्येवेति ज्ञेयम् ( न्या० म० ४ पृ० २७) । अत्र श्येन इति कर्मनामधेयम् । यथा वै श्येनो निपात्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपात्यादत्ते ( श्रुतिः ) इत्यर्थवादे श्वेनसाम्येन प्रकृतयागस्तवनात् । अभिचरन् शत्रुवधं कामयमानः । तथा च श्येननामको यागः शत्रुवध - रूपेष्टसाधनवे सति कृतिसाव्यः इत्यन्वयबोध: ( म० प्र० ख० ४ पृ० ६१) । अत्रत्यविषयस्तु अभिचारशब्दव्याख्यानावसरे संपादितो दृश्यः । हिंसा च द्रोहेण जन्यते ( गौ० वृ० ४ । १ । ३ ) । अत्रेदमधिकं विज्ञेयम् । भोक्तानुमन्ता संस्कर्ता क्रयिविक्रयिहिंसकाः । उपहर्ता घातयिता हिंसकाश्चाष्टधा मताः ॥ ( काशीख ० ) ( मनु० ५/५१) इति । १ तस्माद्यज्ञे वधोव[१]धः ( मनु० अ० ५ श्लो० ३९) इति या वेद- विहिता हिंसा नियतास्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ( मनु० अ० ५ श्लो० ४४ ) इति च मनुनोक्तत्वाद्या- गीया हिंसा अहिंसैव । अत्रायं भावः । वैधपशुहिंसा राजसत्वेन न ब्राह्मणविषया । अपि तु काम्यविषयकत्वेन क्षत्रियादिविषयैव । (तत्रापि तस्या नरकसाधनत्वमस्त्येव । घृतपिष्टादिरूपपशूनां तु न काम्य- विषयत्वम् । अपि तु मोक्षफलकतत्त्वज्ञानसाधनयागाङ्गत्वमेव । तथा च मनुः कुर्याद्धृतपशुं संगे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ( मनु० अ० ५ श्लो० ३७) इति । अत्र संगे इत्यस्य सम् सम्यक् गम् गतिः इति व्युत्पत्या सम्यग्ज्ञानम् इत्यर्थः । तत्त्वज्ञानम् इति यावत् । संगे इत्यस्य आसक्तौ पशुबलि स्मार्तकर्मणि वा इत्यादिकं तु कुल्लूकभट्टराघवानन्दादी नामपव्याख्यानमेव । ननु पश्चिष्ट्यादौ हिंसाया वैधत्वेन मनुवचनादहिंसात्वमेवेति न तद्धिंसाया नरक प्रयोजकत्वम् इति चेन्न । मा हिंस्यात्सर्वा भूतानि इति शास्त्रेण तद्धिंसाया अपि निषेधात् । न च मा हिंस्यात्सर्वा भूतानि इति सामान्य- शास्त्रं विशेषशास्त्रेण अग्नीषोमीयं पशुमालभेत इत्यनेन बाध्यते इति वाच्यम् । विरोधाभावात् । विरोधे हि बलीयसा दुर्बलं बाध्यते । न चास्ति विरोधः । भिन्नविषयत्वात् । तथा हि मा हिंस्यात् इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि । अग्नीषोमीयं पशुमालभेत इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते । न त्वनर्थ- [^१ वधः अवधः इति पदच्छेदः ।] हेतुत्वाभावः । तथा सति वाक्यभेदप्रसङ्गात् । न च अनर्थहेतुत्वक्रतू- पकारकत्वयोः कश्चिदस्ति विरोधः । तस्मात् समाने विषये एव बाध्य - बाधकभावः इति नियमात्प्रकृते भिन्नविषयत्वाद्वाध्यबाधकभावासंभवात् निषिद्धत्वाच्च पशुहिंसायाः श्येनवदनर्थप्रापकत्वमेव इत्यलं विस्तरेण ( वाच० ) । २ द्रोहः इति परे मन्यन्ते ( गौ० वृ० ४ । १ । ३ ) । ३ चौर्य वृत्तिनाश इत्यादिकर्म इति काव्यज्ञा आहुः ( अमरः ३।३।२२८ ) । हितम् – १ इष्टसाधनम् । यथा यजनं विप्राय हितम् इत्यादौ हितशब्द - स्यार्थः । अत्र संबन्धश्चतुर्थ्यर्थः । विप्रसंबन्धि हितम् इति बोधः । एवम् सुखयोगेपि विप्राय सुखम् इत्यादौ शाब्दबोधो विज्ञेयः ( ल० म० सुबर्थ० कार० ४ पृ० १०४-१०५) । २ गतम् । ३ मङ्गलं च इति काव्यज्ञा आहुः । <हिन्दुः> [ क ] जातिविशेषः । अत्र व्युत्पत्तिः हीनं दूषयति ( दुष् डु पृषो० ) इति । अत्रोक्तम् पश्चिमाम्नायमन्त्रास्तु प्रोक्ताः पारस्यभाषया । अष्टोत्तरशताशीतिर्येषां संसाधनात्कलौ ॥ पञ्च खानाः सप्त मीरा नव शाहा महाबलाः । हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्तिनः ॥ हीनं च दूषयत्येव हिन्दुरित्युच्यते प्रिये । पूर्वाम्नाये नव शतं षडशीतिः प्रकी- र्तिताः ॥ फिरिङ्गभाषया मन्त्रास्तेषां संसाधनात्कलौ । अघिपा मण्डलानां च संग्रामेष्वपराजिताः ॥ इंरेजा नवषट् पञ्च लण्डूजाश्चापि भाविनः ( मेरुतन्त्रे० प्र० २३) इति । इदं मेरुतन्त्रमप्रमाणम् इति वाचस्पत्ये तारानाथतर्कवाचस्पतिराह । [ ख ] अर्वाचीनास्तु भरतखण्डस्थजनानां हिन्दु इति संज्ञा । यथा भरतखण्डस्य हिन्दुस्थानम् इति नाम इत्यादौ कल्पितवाक्ये हिन्दुशब्दस्यार्थ इति प्रलपन्ति । अत्रार्थे तुष्यतु दुर्जन इति न्यायेन व्युत्पत्तिः । सिन्धुशब्दः अपभ्रंशात् सकारस्थाने हकारो- च्चारणात् हिन्दुः इति । तथा च वेदप्रतिपाद्यधर्मस्य सिन्धुनदी पर्यन्त- त्वात् तद्धर्मवन्तोपि सिन्धुनामानः इति विज्ञेयम् । अत एव अर्वाचीनाः सिन्धुपरिसरं भरतखण्डं हिन्दुस्थानम् इति व्यवहरन्ति । यथा दश दस इति स्थाने दाहा इति सार सारु इति स्थाने हारु इति च । <हिमम्> १ ( जलम् ) कारण विशेषेण घनीभूतं जलम् । यथा गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ( देवीपु० अ० २ ) इत्यादौ हिमशब्दस्यार्थः । एवम् करकापि ज्ञेया । तत्प्रपञ्चस्तु आपः इति शब्दव्याख्याने ( पृ० १२४) दृश्यः । २ शीतस्पर्शवत् (अमरः १।३।१९) । यथा हिमांशुश्चन्द्रः इत्यादौ हिमशब्दस्यार्थः । ३ ऋतुविशेषः । ४ चणिका ( वाचस्पत्ये राजनि० ) । <हीनवादी. पूर्वपादं परित्यज्य योन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥ ( मिताक्षरा अ० २ श्लो० ९)। <हु. ( धातुः ) देवताद्रव्यसंबन्ध विशिष्टद्रव्यप्रतियोगिक संयोगरूपो व्यापारो जुहोत्यर्थ: ( जै० सू० वृ० अ० ४ पा० २ सू० २८ ) । <हुडुकार:> जिह्वातालुसंयोग।न्निष्पाद्यमानः पुण्यो वृषनादसदृशो नादः ( सर्व० सं० पृ० १६९ नकु० ) । <हे> ( अव्य० हाडे ) १ संबोधनम् । २ आह्वानम् । ३ असूया (मेदि० ) । एवम् है हो इत्यादयः शब्दा व्याख्येयाः (वाच० ) । <हेतु:> १ ज्ञापकः । यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् घूमात् इत्यादौ धूमः । अयमेव लिङ्गशब्देन अनुमानशब्देनापि च व्यवद्दियत इति बोध्यम् । अत्र सूत्रम् हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् ० सू० ९/२४) । अत्र ज्ञापकज्ञान विषयत्वरूपं प्रयोजकत्व- मेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमत्त्वं वा तृतीयार्थ: ( ग० व्यु० का ० ३ पृ० ८७) । केचितु परामर्शीयप्रकारत्वं हेतुत्वम् इत्यङ्गीचक्रुः । स चायं हेतुर्द्विविधः सद्धेतुः असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकबड्या- दिसाध्यकस्थले धूमादिः । द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् । पक्षसत्त्व सपक्षसत्व विपक्षासत्व अबाधित विषयत्व असत्प्रतिपक्षितत्व एतत्पञ्च रूपोपपन्न एव हेतुः सद्धेतुर्भवति । कश्चित् चतूरूपोपपन्नोपि हेतुः सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयत्वं सद्धेतुः । कश्चित् त्रिरूपोपपन्नोपि हेतुः सद्धेतुर्भवति । यथा सर्व प्रमेयमभिधेयत्वात् इत्यादौ अभिषेयत्वं सद्धेतुर्भवति ( ल० व० २ पृ० २७ ) इति । २ [ क ] कारणम् ( उत्पादकम् ) । यथा मृत् घटस्य हेतुः इत्यादौ मृत् उत्पादिका । अत्रेदं ज्ञेयम् हेतुत्वात्मिका संगतिरपि कारणत्वरूपा उपजी- व्यत्वरूपा वा भवति नातिरिक्ता (भवा० ) ( जागदी ० ) इति । [ ख ] कारकम् । यथा यज्ञमनु प्रावर्षत् इत्यादौ अनुशब्दस्यार्थः । ३ स्वतन्त्रं प्रेरयन् ( ल० म० ) । ४ शाब्दिकास्तु फलसाधनयोग्यः पदार्थः । यथा धनेन कुशलम् विद्यया यशः इत्यादौ तृतीयार्थो हेतुः इत्याहुः ( व्या० वृत्ति० ) । अत्र हेतौ (पाणि ० २ ।३।२३ ) इत्यनेन सूत्रेणानु- शिष्यते तृतीया । ५ फलम् । यथा अध्ययनेन वसति इत्यादौ तृतीयार्थः फलम् अध्ययनम् । ६ आलंकारिकास्तु अर्थालंकारविशेष इत्याहुः । ७ ( न्यायावयवः ) [ क ] पञ्चम्यन्तं तृतीयान्तं वा लिङ्गप्रतिपादकं वचनम् । यथा पर्वते धूमेन वह्निसाधने धूमवत्त्वात् इति वाक्यम् (तर्कभा० ) ( तर्कदी ० ) । अत्रेदं बोध्यम् । पञ्चावयवप्रयोगे कर्तव्ये पर्वतो वह्निमानिति साध्यनिर्देशानन्तरं कुतः इत्याकाङ्क्षायां साधनता- व्यञ्जकविभक्तिमल्लिङ्गवचन मेवोचितम् । अन्यथानाकाङ्क्षाभिधाने निग्रहा- पत्तेः । लोके तथैवाकाङ्क्षानिवृत्तिरिति व्युत्पत्तेः । अतः प्रतिज्ञानन्तरं हेतूपन्यासः ( चि० २ पृ० ७८) । लिङ्गज्ञानं हेतुप्रयोजनम् ( त ० दी० २ पृ० २२ ) । हेतुत्वं च अनुमितिकारणीभूतलिङ्ग परामर्शप्रयोजक- शाब्दज्ञानजनकसाध्या विषयकशाब्दधीजनक हेतुविभक्तिमच्छब्दत्वम् । हेतु- त्वप्रतिपादकविभक्तिमन्यायावयवत्वं वा । उदाहरण प्रयोजक जिज्ञासाजनक- शाब्दज्ञानजनकन्यायावयवत्वं वा । अत्रायं भावः । क्वचिज्जिज्ञासानुत्पा- देपि तद्योग्यतासत्त्वान्नाव्याप्तिः । अनुक्तोदाहरणस्थलेपि तादृशयोग्यता- सत्त्वात् न्यायावयव इति पदम् ( दीधि ० २ अवय० पृ० १७४) । साध्या विषयकज्ञानजनक हेतुपञ्चम्यन्तानुमितिपरशब्दत्वं वा । अयं न दण्डात् दण्डसंयोगाजन्यद्रव्यत्वात् इत्यादौ प्रतिज्ञानिगमन- योर्वारणाय साध्याविषय इत्यादि । उपनयविशेषवारणाय हेतुपञ्चम्यन्त इति पदम् ( दीधि ० २ अवय० पृ० १७४) । यद्वा प्रतिज्ञावाक्यधी- जन्यकारणाकाङ्क्षा निवर्तकज्ञानजनक हेतु विभक्तिमद्वाक्यत्वम् पञ्चम्यन्तलाक्ष- णिकपदवदनुमितिपरवाक्यत्वं वा । तदर्थश्च प्रकृतपक्षान्वितस्वार्थबोधक- । पदोपस्थापितप्रकृतसाध्यान्वितस्वार्थबोधक पञ्चम्यन्तलाक्षणिकपदवदवयव - त्वम् ( दीधि० २ अवय० पृ० १७६ ) इति । अन्ये तु अनुमितिहेतु- ज्ञानकरणघूमवत्त्वात् इति शब्दजन्यज्ञानवृत्तिप्रतिज्ञादिजन्यज्ञानावृत्ति- जातियोगिज्ञानजनकवाक्यत्वम् इत्याहुः (चि० अव० २ पृ० ७८-७९)। तथान्यत्रान्यदप्युक्तम् । प्रकृतपक्षान्वितस्वार्थबोधक पदोपस्थापितार्थान्वित- स्वार्थबोध कन्यायावयवत्वम् । अत्र निगमनवारणाय उपस्थापित इत्यन्तं दत्तम् ( दीघि ० २ अवय० पृ० १७७ ) । स्वार्थविशिष्ट वैशिष्ट्यबोध - जनकन्यायावयवत्वं वा । तथा हि एकवाक्यतया हेत्वर्थविशिष्टसाध्यस्य वैशिष्ट्यं भासते न पुनरवयवान्तरार्थविशिष्टस्य कस्यचित् ( दीधि० २ अवय० पृ० १७७) इति । विशिष्टवैशिष्ट्यबोधजन कस्वार्थोपस्थितिजनक- न्यायावयवत्वं वा । विशिष्टबोधजनकस्वार्थ विशिष्टबोध जनकन्यायावयवत्वं ( दीधि ० २ अवय० पृ० १७७) । प्रकृतपक्षतावच्छेदका- वच्छिन्नान्वित स्वार्थबोधजनक हेतु विभक्तिवदितत्वे सति प्रकृतहेतुतावच्छे- दकावच्छिन्नहेतुविशिष्टहेतुत्वविषयिताबहिर्भूतविषयिताशून्यबोधजनकवा- क्यत्वं वा । अत्र विषयितायां तादृशविषयिताबहिर्भूतत्वं च तादृश-- विषयिताशा लिनिश्चयत्व समनियत प्रतिबन्धकतानवच्छेदकत्वम् अव० प्रतिज्ञाप्र० पृ० ४२ ) ( हेतुग्रन्थे० पृ० ५० ) । तद्यथा एतद्भूमात् इति शब्दवृत्त्यवयव विभाजकोपाधिमत्त्वम् ( न्या० म० २ पृ० २३ ) । अत्र एष चासौ धूमात् इति शब्दच इति विग्रहः । एतत् अयं शब्दो वह्निधूमन्यायघटकपरः । एवमुदाहरणादिलक्षणेपीयमेव रीतिर्बोध्या ( म० प्र० २ पृ० ३३ ) । [ ख ] साध्यसाधनम् ( गौ० १ । १ । ३४ ) । साध्यतावच्छेदकावच्छिन्नसाध्यान्वितज्ञापकत्वबोधकः साध्यान्चित स्वार्थबोधको वावयवः इति फलितार्थः (गौ० वृ० १ । १ । ३४ ) । [ग] प्राचीनास्तु पञ्चम्यन्तलाक्षणिक पदवन्यायप्रविष्टवाक्यं हेस्ववयवः इत्याहुः ( म० प्र० २ पृ० ३३ ) । सोयं हेतुर्द्विविधः अन्वयिहेतुः व्यतिरेकिहेतुश्चेति । उदाहरणसाधर्म्या साध्यसाधनं हेतुः । तथा वैधर्म्यात् ( गौ० १।१।३४ - ३५) इति सूत्रद्वयमत्रानुसंधेयम् । परे तु तृतीयोन्वयव्यतिरेकी इत्यपि वदन्ति ( गौ० वृ० १ । १ । ३४ ) । हेतुमत् - कार्यम् । यथा हेतुहेतुमतोः इत्यादौ हेतुमत् इति शब्दस्यार्थः । <हेतुसम> ( जातिः ) हेतोर्वैकल्यसाध्यार्थी पूर्वापरसहोदयम् । त्रेधापि तस्य हेतुत्वभङ्गो हेतुसमो भवेत् ॥ ( ता० २० २ श्लो० १९८) । एतत्कारिकाव्याख्यानं तु अहेतुसमशब्दव्याख्यानरीत्या दृश्यम् । <हेत्वन्तरम्> ( निग्रहस्थानम् ) [ क ] अविशेषोक्ते हेतौ प्रतिषिद्धे विशेष- मिच्छतो हेत्वन्तरम् (गौ० ५१२१६ ) । सूत्रार्थश्चेत्थम् । अत्र हेतौ इत्यनेन हेत्ववयवांशो न विवक्षितः । अपि तु साधकांश: । स च हेत्ववयवस्थ उदाहरणादिस्थो वा । अविशेषोक्ते इति पूर्वोक्त इत्यर्थः । विशेषमिच्छतः इति साभिप्रायम् । तेन परोक्तदूषणोद्दिधीर्षया तत्रैव हेतौ विशेषणान्तरप्रक्षेपोन्यहेतुकरणं वा द्वयमपि हेत्वन्तरम् ( गौ ० वृ० ५/२/६ ) इति । अत्र भाष्यम् । निदर्शनम् एकप्रकृतीदं व्यक्त मिति प्रतिज्ञा । कस्माद्धेतोः । एकप्रकृतीनां विकाराणां परिमाणात् । मृत्पूर्व- काणां शरावादीनां दृष्टं परिमाणम् । यावान्प्रकृतेर्व्यूहो भवति तावा- विकार इति । दृष्टं च प्रतिविकारं परिमाणम् । अस्ति चेदं परिमाणं प्रतिव्यक्तम् । तदेकप्रकृतीनां विकाराणां परिमाणात्पश्यामो व्यक्तमिद- मेकप्रकृति इति । अस्य व्यभिचारेण प्रत्यवस्थानम् नानाप्रकृतीना मेक- प्रकृतीनां च विकाराणां दृष्टं परिमाणमिति । एवं प्रत्यवस्थिते आह । एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् सुखदुःख- मोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते । तत्र प्रकृत्यन्तररूपसमन्वया- भावे सत्येकप्रकृतित्वमिति । तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेष ब्रुवतो हेत्वन्तरं भवति । सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वा- निग्रहस्थानम् । हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपा दीयते नेदं व्यक्तमेकप्रकृति भवति । प्रकृत्यन्तरोपादानात् । अथ नोपा- दीयते । दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेरानर्थक्याद्धेतोर- निवृत्तं निग्रहस्थानमिति ( वात्स्या० ५/२/६ ) । [ख ] परोक्तदूषणो- दिधीर्षया तत्रैव हेतौ पूर्वोक्तहेतुतावच्छेदकातिरिक्त हेतुतावच्छेदक विशिष्ट- वचनम् । [ग] प्राञ्चस्तु हेतौ विशेषणदान एव हेत्वन्तरम् इत्याहुः । यथा शब्दः अनित्यो बाह्येन्द्रिय प्रत्यक्षत्वात् इत्युक्ते सामान्येनैकान्तिक त्वेन च प्रत्युक्ते सामान्यवत्त्वे सति इति विशेषणम् । एवं विशिष्टहेतुमुक्त्वा यद्वाह्येन्द्रिय प्रत्यक्षं तदनित्यम् इत्युदाहरणे न्यूनत्वेन विशिष्टोक्तौ । एवमुप- नयविशेषणेपि ( गौ० वृ० ५/२/६ ) ( दि० १ ) । [घ ] परोक्तदूषणो- दिवीर्षया पूर्वोक्तहेतुकोटौ विशेषणान्तरोपादानम् ( नील० पृ० ४५ ) । <हेत्वप्रसिद्धिः> साधनाप्रसिद्धिः । <हेत्वसिद्धिः. (व्याप्यवासिद्धिः) साधनाप्रसिद्धिः । अपरे तु व्यर्थविशेषण- घटितं हेतुतावच्छेदकमेव हेत्वसिद्धिः इत्याहुः । <हेत्वाभासः> १ ( हेतोर्दोषः ) [ क ] यस्य हि ज्ञानमनुमितिप्रतिबन्धकम् सः ( चि० २ बाध० पृ० ११६) । अत्र हेतोः हेतौ वा आभासः इति व्युत्पत्त्या हेत्वाभासपदस्य हेतुदोषः इत्यर्थः । हेत्वाभासवं च अनुमितिकारणीभूताभावप्रतियोगि( अनुमिति प्रतिबन्धक ) यथार्थज्ञान- विषयत्वम् । अनुमितिप्रतिबन्ध की भूतयथार्थज्ञानविषयत्वम् इति समु- दितार्थ : ( त० दी ० २ ) । यद्विषयकत्वेन (लिङ्ग) ज्ञानस्य अनुमिति- विरोधित्वं तत्त्वमिति वा । अत्रेदमधिकं विज्ञेयम् । गदाधर्यं द्वितीय- हेत्वाभासलक्षणे हृदो वह्निमान् धूमात् इत्यादौ प्रमेयत्वविशिष्टबाधस्य ( प्रमेयत्व विशिष्टवह्नयभाववद्धदस्य ) दोषत्वानङ्गीकारादलक्ष्यतया तत्राति- व्यातिवारणाय लक्षणघटक यत्पदार्थे विशिष्टान्तराघटितत्व विशेषणम् । तत्रैव वह्नयभाववज्जलादिमद्वृत्तिजलवद्धदादावतिव्याप्तिवारणाय यत्पदार्थे विशिष्टद्वयाघटितत्व विशेषणं च दत्तम् । तत्रैव जातिध्वेन हृदत्वावगाहि- जातिमान्वयभाववान् इत्य प्रतिबन्धकज्ञानमादायासंभववारणाय लक्षण- घटकज्ञानपदार्थे अव्यापक विषयिताशून्यत्वविशेषणमपि दत्तं गदाधरभट्टा- : इति । इदं च बोध्यम् । अत्रानुमितिपदमजहत्स्वार्थलक्षणया अनुमितितत्करणान्यतरपरम् । साध्यव्याप्यहेतुमान् पक्षः साध्यवान् इत्याकारानुमितिपरं वा । तेन एकत्र हेतौ व्यभिचारादिग्रहेप्यन्यस्य परामर्शादनुमित्यनुत्पादेन व्यभिचारात् व्याध्यादिज्ञानेनान्यथासिद्धत्वाच्च व्यभिचारादिग्रहाभावस्यानुमित्यजनकत्वेपि न क्षतिः ( व्यभिचारादौ नाव्याप्तिः ) ( दीधि ० २ हेत्वा० पृ० १७८ ) । अथ वा ज्ञायमानं सद्यदनुमितिप्रतिबन्धकम् तत्त्वम् ( चि० २ सामा० पृ० ८३ ) (मु० २) । अत्र वदन्ति । यद्विषयकनिश्चयस्य विरोधिविषयिता- <साध्यतावच्छेदक विशि> प्रयुक्तस्तदुत्तरमनुमितावनाहार्यमानसज्ञाने वा पक्षतावच्छेदक विशिष्टपक्षे साध्यतावच्छेदक विशिष्टसाध्य वैशिष्ट्यावगाहित्वस्य ष्टसाध्यनिरूपितव्याप्ति विशिष्ट हेतुतावच्छेदक विशिष्ट हेतु मत्त्वावगाहित्वस्य च द्वयोर्व्यतिरेकः ( अभावः ) तत्त्वम् इति । इदं च सिद्धान्तसिद्धं हेतु- दोषलक्षणम् इति मन्यन्ते नैयायिकाः । तथा च लक्षणसमन्वयः । हृदो वह्निमान् घूमात् इत्यादौ वयभावविशिष्टहदत्वावच्छिन्नविषयक निश्चयान- न्तरम् हृदो बह्निमान् बहिव्याप्यधूमवांश्च इत्या कारकानुमितेः कदाचिद - प्यनुदयेन घटाद्यनुमितय एव तादृशनिश्चयाव्यवहितोत्तरानुमितिसामान्या- न्तर्गता भवन्ति । तासु च हृदत्वादिविशिष्टे यद्वह्नित्वाद्यवच्छिन्नवह्नि- वैशिष्ट्यावगाहित्वम् वह्नित्वाद्यवच्छिन्नवह्निव्याप्ति विशिष्टधूमत्वाद्यवच्छिन्न- वैशिष्ट्यावगाहित्वं च तदुभयाभाववत्त्वमक्षतमेव इति । तत्र तादृशो- भयाभावे तादृशनिश्चयीय विरोधिविषयिता ( वयभाववद्धदादिविषयिता ) - प्रयुक्तत्वमप्यक्षतम् । खनिष्ठप्रतिबन्धकतावच्छेदकधर्मस्य स्वानन्तरोत्पन्न- ज्ञाननिष्ठप्रतिबध्यतावच्छेदकधर्माभावं प्रति प्रयोजकत्वम् इति नियमात् ( ग० २ हेत्वा० सामा० पृ० २० ) । केचित्तु यादृशपक्षकयादृश- साध्य कयादृशहेतौ यावन्तो दोषाः संभवन्ति तावदन्यान्यत्वम् इति प्राहुः ( दीधि ० २ सामा० पृ० १८० ) ( म० प्र० २ पृ० २५) (मु० २ ) । तत्तद्विषयितान्यतमविषयिता निरूपकतावच्छेदकधर्मवत्त्वम् इत्यर्थ: ( ग० २ हेत्वा० सामा० पृ० ३१ ) । [ ख ] अनुमिति- तत्करणान्यतरप्रतिबन्धकज्ञानविषयो धर्मः ( हेत्वाभासत्वोपाधिः ) 1 (त० कौ० २) ( म०प्र० २ पृ० २५ ) । यथा हृदो वह्निमान् घूमात् इत्यादौ वह्नयभाववद्धदादिरूपो दोषो बाधः हेत्वाभासः । अत्र तद्वत्ताबुद्धौ तदभाववत्तानिश्चयः प्रतिबन्धकः इति नियमात् वह्नयभाव- विशिष्टस्य हृदस्य निश्चयः वयभाववान् हृदः इत्याकारकः हदो वह्निमान् इत्यनुमितौ प्रतिबन्धको भवति सः वयभावविशिष्टो हृदः दोषः इति विज्ञेयम् । अन्यतरेत्युक्त्या व्यभिचारविरोधसाधनाप्रसिद्धि स्वरूपा सिद्धिष्वनुमित्य प्रतिबन्धकत्वेपि तत्करणव्याप्तिपक्षधर्मताज्ञान प्रतिबन्धकत्व- सत्त्वान्नाव्याप्तिः ( म० प्र० २ पृ० २५ ) ( ग० २ हेत्वा० सामा० ल० १ पृ० ३ ) । तत्र गौतमवृत्तिकारादीनां नैयायिकानां नये स हेत्वा- भासः पञ्चविधः व्यभिचारः विरोधः सम्प्रतिपक्षः असिद्धिः बाधश्चेति । अत्र नैयायिक सिद्धान्तस्तु बावसत्प्रतिपक्षभिन्ना ये हेत्वाभासास्तव्याप्या अपि तत्रैवान्तर्भवन्ति । बाधव्याप्यस्यापि तु सत्प्रतिपक्षस्य स्वतन्त्रेच्छेन मुनिना गौतमेन पृथगुपदेशात्र बाधेन्तर्भाव: । सम्प्रतिपक्षव्याप्यस्तु नानुमितिप्रतिबन्धकः । तद्वत्ताज्ञाने तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धक- स्वेपि तदभावव्याप्यव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वे मानाभावान्न हेत्वा - भासलक्षणाक्रान्तत्वं तस्येति पञ्चैव हेत्वाभासा: ( म०प्र० २ पृ० २८) इति । अत्रायं भावः । सव्यभिचारत्वादयो ये दोषाः तयाण्या अपि त एव भवन्ति । तथा च सव्यभिचारत्वव्याप्यं सव्यभिचारत्वमेव विरुद्धत्वव्याप्यं विरुद्धत्वमेव इत्यांद्यूयम् । परं तु बाधव्याप्यो भिन्न एव । स च सत्प्रतिपक्षो भवति । सत्प्रतिपक्षव्याप्यस्तु न सत्प्रतिपक्षः । तस्यानु - मितिविरोधित्वाभावेन हेत्वाभाससामान्यलक्षणानाक्रान्तत्वात् इति । अन्यत्र चैवमुक्तम् । यत्र धर्मिणि यो धर्मो यादृशो हेत्वाभासस्तत्र तयाप्यधर्मोपि स एव हेत्वाभासो भवति विना सत्प्रतिपक्षम् । बाधव्याप्यस्तु सत्प्रतिपक्षनामा हेत्वाभासो भिन्न एव । महर्षिणा गौतमेन पृथगुपदेशात् अविरोधाच्च (दीधि ० २ हेत्वा० पृ० २०४ ) ( मुक्ता ० २ पृ० १६७) इति । कणादप्रशस्तपादादीनां वैशेषिकाणां नये हेत्वाभासस्त्रिविधः असिद्धिः विरोधः संदिग्धत्वं चेति । संदिग्धत्वमनैकान्तिकत्वम् । अत्रेदं तात्पर्यम् । बाधसत्प्रतिपक्षौ तु काश्यपीये ( काणादे ) मते न स्वतन्त्रौ । तत्र बाघ आश्रयासिड्यादौ अनैकान्तिके वा पर्यवस्यति । अत्रेदमाकूतम् । पक्षस्य साध्यशून्यत्वे हि बाधत्वमाहुः । तच्च साध्य- शून्यत्वमत्र नातिरिच्यते । यत्र हि अश्वपिण्डं पक्षयित्वा अयं गौर्विषाणित्वात् इति साध्यते तत्र साध्यस्य गोत्वस्य पक्षे वृत्तिर्नास्तीति बाधत्वं वाच्यम् । तच्च कणाद मतेनैकान्तिकत्वमेव । अत्रासिद्धिरण्यस्ति । पक्षेश्वपिण्डे विषाणित्वविरहात् । अत एवाहुः बाधोयमपक्षधर्मो हेतुर- नैकान्तिको वा ( त० व० ३१२ श्लो० ५२-५२ पृ० ८३ ) (वै० उ० ३।१।१७ पृ० १६१ ) इति । सत्प्रतिपक्षोप्यन्यतरत्र व्याप्त्यादि- संशयमापादयन्ननै कान्तिकादावेव पर्यवस्यति (वै० उ० ३ । १ । १७ पृ० १६०-१६१ ) इति । अत्रायमाशयः । यत्र वायुर्न प्रत्यक्षः नीरूप- बहिर्द्रव्यत्वाद्गगनवत् इति साधिते वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् घटवत् इति प्रत्यवतिष्ठते । तत्र हि सत्प्रतिपक्ष इत्युच्यते नैयायिकैः । न चात्र द्वयोर्यथार्थत्वं संभवति । न ह्येकमेव वस्तु प्रत्यक्षमप्रत्यक्षं च भवितुमर्हति इति सुतरामेवान्यतरस्य भ्रान्तत्वमुपेयम् । तथा च अस्यापि व्याप्यादिसंशयाधायकतयानैकान्तिकादावेवान्तर्भावः ( त० व० पृ० ८५ ) इति । केषांचिन्मते अनध्यवसितत्वनामा चतुर्थोपि हेत्वाभासः ( प्रशस्त ० ) ( वै० उ० ) ( मु० ) इति । [ग] वेदान्तिनस्त्वाहुः । हेत्वाभासः ( हेतुदोषः ) उपपत्तिदोषः इत्युच्यते । उपपत्तिदोषो द्विविधः (१) विरोध: (२) असंगतिश्चेति । तत्र आद्यः जातिनिग्रहस्थान- हेत्वाभासेभ्यः संगृहीतः ( प्र० च० ) । स च विरोधस्त्रिविधः प्रतिज्ञा- विरोधः हेतुविरोधः दृष्टान्त विरोधश्च । तत्र प्रतिज्ञाविरोधो द्विविधः प्रमाणविरोधः स्ववचनविरोधश्च । तत्र प्रमाणविरोधोपि द्विविधः प्रबल- प्रमाणविरोधः समबलप्रमाणविरोधश्च । तत्र प्रबलप्रमाण विरोधस्योदाहरणं प्रपञ्चो मिथ्या दृश्यत्वात् यद्दृश्यं तन्मिथ्या यथा शुक्तिरजतम् इति । अत्र सन् घटः इत्यादिप्रत्यक्षेण विमतं सत्यम् अर्थक्रियाकारित्वात् संप्रतिपन्नवत् इत्याद्यनुमानेन विश्वं सत्यम् इत्यागमेन च जगतः सत्यत्वा- वधारणात् प्रबलप्रमाणविरोधो द्रष्टव्यः ( प्र० च० पृ० २९) । अयं हेतुर्नैयायिकैः बाधितः इत्युच्यते । समबलप्रमाणविरोधस्योदाहरणं तु विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यम् प्रामाणिकत्वात् आत्मवत् इति । अत्रानुमानद्वये व्याप्तिपक्षधर्मतयोः साम्यात् समबल- प्रमाणविरोधो ज्ञातव्यः ( प्र० च० पृ० २९ ) । अयं च हेतुर्नैयायिकैः सत्प्रतिपक्षितः इत्युच्यते । स्ववचनविरोधोपि द्विविधः अपसिद्धान्तः जातिश्चेति । तत्र पूर्वाचार्यैर्यत् प्रामाणिकतयाभ्युपगतं तद्विरुद्वाङ्गीकारो- पसिद्धान्तः । यथा निरीश्वरसांख्यमत ईश्वराङ्गीकारः । अयं भावः पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वादपसिद्धान्तः स्ववचन- विरोधो भवति ( प्र० च० पृ० २९) इति । स्ववचन एव स्वव्याहति- जतिः । यथा मे माता वन्ध्या इत्यादि । हेतुविरोधोपि द्विविध स्वरूपा- सिद्धिः अव्याप्तिश्चेति । तत्र स्वरूपासिद्धेरुदाहरणं शब्दो नित्यश्चाक्षुष- त्वात् इति । अत्र चाक्षुपत्वं शब्दे नास्ति । तस्य श्रावणत्वात् इति ज्ञेयम् ( प्र० च० पृ० २९ ) । अव्याप्तिस्त्रिविधः लिङ्गस्य साध्येन तदभावेन च संबन्धः साव्यसंबन्धाभावे सति तदभावेनैव संबन्धः उभयसंबन्धा- भावश्चेति । तत्र आद्या यथा शब्दो नित्यः प्रमेयत्वात् इति । अयं हेतुः साधारणानैकान्तिकः इत्युच्यते नैयायिकैः इति ज्ञेयम् । द्वितीया यथा शब्दो नित्यः कृतकत्वात् इति । अयं हेतुः विरुद्धः इत्युच्यते नैयायिकैः इति विज्ञेयम् । तृतीया यथा सर्वमनित्यं सत्त्वात् इति । अत्र सर्वस्यापि पक्षत्वेनोभयसंबन्धो नास्ति ( प्र० च० पृ० ३० ) इति । अयं हेतुः अनुपसंहारी इति नैयायिकैरुच्यते इति विज्ञेयम् । दृष्टान्तविरोधोपि द्विविधः साध्यवैकल्यम् साधनवैकल्यं चेति । तत्राद्यो यथा मनः अनित्यम् मूर्तत्वात् परमाणुवत् इति । द्वितीयो यथा मनः अनित्यम् मूर्तस्वात् कर्मवत् इति । अत्रेदं विज्ञेयम् । दृष्टान्ते साध्यवैकल्यसाधन- वैकल्यादयः उदाहरणाभासाद्याश्च यथायथं निग्रहस्थानादावन्तर्भवन्ति इति न हेत्वाभासाधिक्यम् इति नैयायिकानां सिद्धान्तः (दि० १) इति । आकाङ्क्षाविरहः असंगतिः । असंगतेरुदाहरणं तु ईश्वरवादिनं प्रति क्षित्यादिकं सकर्तृकम् कार्यत्वात् घटवत् इति । अत्र अनाकाङ्क्षित- साधनप्रयुक्तत्वादसंगतिर्भवति इति विज्ञेयम् ( प्र० च० पृ० ३० ) । एवम् उदाहरणाभासा अपि दोषाः उदाहरणलक्षणरहिता उदाहरण- वदवभासमानाः । ते चानेकप्रकाराः । तत्र साधर्म्यादाहरणे तावत् साध्यवैकल्यम् यथा मनः अनित्यम् मूर्तत्वात् इति । साधनवैकल्यं :. यथा मनः अनित्यम् मूर्तत्वात् कर्मवत् इति । अत्राद्ये यन्मूर्ते तदनित्यम् यथा परमाणुः इति साध्यवैकल्यम् । द्वितीये कर्मणः अनित्यत्वेपि मूर्तत्वाभावात् साधनवैकल्यम् इति विज्ञेयम् ( प्र० च० पृ० ३४ ) । उभयवैकल्यं यथा मनः अनित्यम् मूर्तत्वात् आकाशवत् इति । वैधय- दाहरणे साध्याभाववैकल्यम् । यथा मनः अनित्यम् मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्त न भुवति यथा कर्म इति । साधनाभाव- वैकल्यं यथा मनः अनित्यं मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्ते न भवति यथा परमाणुः इति । उभयाभाववैकल्यं यथा मनः अनित्यं मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्त न भवति यथा घटः ( प्र० च० पृ० २८-३५ ) इत्यलं विस्तरेण । २ दुष्टो हेतु: [ क ] हेतु- लक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः ( वात्स्या० १ । २ । ४ ) । अत्र हेतुवदाभासते इति व्युत्पत्त्या हेत्वाभासपदस्य दुष्टहेतुः इत्यर्थः ( ग० २ हेत्वा० सामा० प्रस्ताव० पृ० २) । यद्वा हेतोराभासः सदृश: ( न्या० बिन्दु० टी० परि० ३ पृ० ६६ ) । अत्र श्रुतमस्म- गुरुमुखात् । अत्र सादृश्यं च पञ्चम्यन्तपदप्रतिपाद्यत्वेन इति सातारा- ग्रामस्थास्त्रिपथगाकर्तारो गजेन्द्रगडकर इत्युपाहा राघवेन्द्राचार्याः प्राहुः इति । दुष्टहेतोर्लक्षणं च सव्यभिचाराद्यन्यतमत्वम् ( न्या० म० ) । निरुक्तदोषवत्वं वा ( नील० २ हेत्वा० पृ० २४ ) । अत्र निरुक्त- दोषस्तु हेत्वाभासशब्दस्य प्रदर्शिते प्रथमेर्थे दृश्यः । अत्रेदं विज्ञेयम् । हेतौ तादृशदोषविशिष्टत्वं च स्वविषयकज्ञान विषयत्व विशिष्ट प्रकृतहेतु- तावच्छेदकवत्त्वसंबन्धेन बोध्यम् । तेन हेतुषु दोषसंबन्धः ( दोषाणां हेतुनिष्ठत्वम् ) संगच्छते ( दी६ि० २ हेत्वा० पृ० १७९) ( ग० हे० सामा० ) इति । हेत्वाभासप्रयोजनं तु इत्थम् । द्वयं छुद्देश्यम् परानुमितिप्रतिबन्धः स्थापनाया असाधकतासाधकत्वं च । अत्रासाधकत्वं च स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वम् । तत्राद्यं दूषणमात्रज्ञानादेव । द्वितीयं तु अलिङ्गत्वज्ञापनात् प्रतिबन्धकत्ववदनेनापि रूपेण दूषकत्व- संभवः इत्यभिप्रायेण वा असाधकतासाधनत्वम् ( चि० २ हेत्वा ० पृ० १११ ) इति । किंच विपरीतकोटिसाधकस्य हेतोः हेत्वाभासत्व- ज्ञानेन स्वस्य तत्त्वनिर्णयः (प्रमितकोटिनिश्चयः साध्यवत्ताज्ञाने प्रमात्व- निश्चयो वा ) भवति । स्वस्य परोक्तहेतौ हेत्वाभासत्वज्ञाने सति तत्र दोषोद्भावनेन व्याप्त्यादिविशिष्टहेतोः संन्यायप्रयोगकरणेन च विजयोपि भवति (ग० २ हेत्वा - सामा प्रस्ताव० पृ० १ - २) इति । अत्रेदं बोध्यम् । हेत्वाभासो निग्रहस्थानमेव । तथा च सूत्रम् हेत्वाभासाश्व यथोक्ताः ( गौ० ५ /२ । २४ ) इति । अत्र चकारः साध्यविकलत्वादि- दृष्टान्तदोषम् अनुपदर्शितान्वयत्वादियुक्तिदोषम् आत्माश्रयत्वादिव्याघा- तम् अनुक्तं त्रयमपि समुच्चिनोति ( सा० सं० पृ० १२० ) । अत्र चकारस्य दृष्टान्ते साधनवैकल्यादिसमुच्चायकत्वम् इति केचिदाहुः । तन्न । यथोक्ताः इत्यस्यानन्वयापत्तेः ( गौ० वृ० ५/२/२४ ) इति । अत्र भाष्यम् हेत्वाभासाश्च निग्रहस्थानानि हेत्वाभासलक्षणेनैव निग्रह- स्थानभावः (वात्स्या० ५।२।२४ ) इति । हेत्वाभासा: पुनर्यथा येन रूपेण पूर्वम् (गौ० सूत्रे १ । २।७४ - ९ ) उक्ताः तेनैव रूपेण तेषां निग्रहस्थानत्वम् इति न लक्षणान्तरमपेक्षितम् ( गौ० वृ० ५/२/२४ ) ( ता० २० परि० ३ श्लो० १५४ ) । ते च हेत्वाभासा: निग्रहस्थानम् । निग्रहस्थानत्वं प्राप्तानां पुनरेषां पृथगुपदेशो वादे देशनीयत्वात् । तथा च भाष्यम् निग्रहस्थानेभ्यः पृथगुपदिष्टाः हेत्वाभासा वादे चोदनीया भविष्यन्तीति (वात्स्या० १२।१९।१ पृ० ६ ) । वार्तिक- कारैरप्युक्तम् यस्मात्किलेते वादे देश्यन्ते अतः पृथगुपदिश्यन्ते न्याय- सूत्रेण (१।१।१९ ) (न्या० वा० १ पृ० २० ) इति । [ ख ] पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेण भासमान : ( गौ० वृ० १ १ २ ४ ) । पञ्च रूपाणि तु पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधितत्वम् असत्प्रतिपक्षितत्वं चेति ( गौ० वृ० ११२।४ ) (बै० उ० ३।१।१७) । [ग] पक्षधर्मत्वादीनां पञ्चानां रूपाणां मध्य एकेनापि रूपेण हीनो यो हेतुः सोपि कतिपयहेतुरूपयोगाद्धेतुवदवभासमानः (त० भा० पू० ४४ ) (वै० उ० ३११ । १७ ) (त० व० ) । तथा चोक्तं तार्किकरक्षायाम् हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः । हेत्वाभासा: पञ्चधा ते गौतमेन प्रपञ्चिताः ॥ (ता० २० श्लो० ८०) (वै० उ० ३।१।१७) । अत्र न्यायवार्तिकमपि अन्यतमलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः सन्तो हेतुवदवभासन्त इति हेत्वाभासा : ( न्या० वा० १५० २० ) इति । [घ ] यस्य हेतोर्यावन्ति रूपाणि गमकतौपयिकानि तदन्यतर- रूपहीनः स हेतुराभासः (वै० उ० ३ । १ । १७ १० १५९ ) । एवं च गमकतौ पयिकान्यतररूपशून्यत्वं हेत्वाभासत्वम् । तेन अन्यतररूपशून्य- त्वस्य निश्चयवत् संदेहोप्यनुमितिप्रतिबन्धकः वादिहेतोरसाधकतासाधकः । न च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोरन्यतररूपशून्यतया हेत्वाभासत्वा- पत्तिः । केवलान्वयिनि विपक्षासत्त्वस्य केवलव्यतिरेकिणि सपक्षसत्त्वस्य गमकत्वौपयिकत्वाभावात् । एवं च आश्रयासिद्धस्वरूपासिद्धभागासिद्धानां पक्षसत्त्वरूपविरहादाभासत्वम्। व्याप्यत्वासिद्धविरुद्धसाधारणा नैकान्तिकानां विपक्षासत्त्वरूपवैकल्यात् । असाधारणानैकान्तिकानुपसंहारिणोः सपक्ष- सत्त्ववैकल्यात् । बाधित सत्प्रतिपक्षितयोरबाधितत्वासत्प्रतिपक्षितत्वविरहात्। एवम् सोपाधिकाप्रयोजकयोरपि विपक्षासत्त्वनिश्चयाभावादगमकत्वम् । अनुकूलतर्काभावप्रतिकूलतर्कयोरपि विपक्षासत्त्वनिश्चय विरहात् । एवम् साध्यविकलसाधन विकलोभयविकलदृष्टान्ताभासानां यदि हेत्वाभासविधया दोषत्वम् तदा सपक्षसत्त्वानिश्चयात् । यदि स्वातन्र्येण दृष्टान्ताभासतया तथापि द्वारं हेतोः सपक्षसत्त्वानिश्चय एव । अनुपदर्शितान्वयानुपदर्शित- व्यतिरेकास्तु न्यूनाप्राप्तकालनिग्रहस्थान पर्यवसन्ना एव । आत्माश्रया- न्योन्याश्रयचक्रकानवस्थास्तु व्याप्तिनिश्चयं विघटयन्तः सपक्षसत्त्वविपक्षा- सत्त्वान्यतररूपविकला एव हेत्वाभासतामापादयन्ति (वै० उ० ३।१। १७ पृ० १५९ - १६० ) इति । [ङ ] असाधको हेतुत्वेनाभिमतः ( सर्व० पृ० २३९ अक्ष० ) । यथा हदो वहिमान् धूमात् इत्यादौ धूमो. हेत्वाभासः । अत्र वयभाववद्धदो बाधः वयभावव्याप्यवद्भदः सत्प्रतिपक्षः घूमाभाववज्रदः स्वरूपासिद्धिश्च एतद्दोषत्रयवान् धूमो भवति इति धूमो हेत्वाभासः । यथा वा वायुर्गन्धवान्स्नेहात् इत्यादौ स्नेहः ( दि० २ ) । यथा वा घटः पटोस्ति कुड्यत्वात् इत्यादौ कुड्यत्वं हेत्वाभासः । हेत्वाभासस्य पञ्चविधत्वकथनमप्येतादृश स्थलाभिप्रायेणैव । तथा चात्र पञ्चानामपि दोषाणां संभवः । तथा हि गन्धाभाववद्वृत्तिः स्नेहः साधारणानैकान्तिकः । गन्धव्यापकीभूताभावप्रतियोगी स्नेहो- साधारणानैकान्तिकः । गन्धवदवृत्तिः स्नेहो विरुद्धः । स्नेहाभाववान्वा- युरसिद्धिः तद्वान्स्नेहः असिद्धः स्वरूपासिद्धः । गन्धाभावव्याप्यवायुत्व- वान् वायुः सत्प्रतिपक्षः तान्नेहः सम्प्रतिपक्षितः । गन्धाभाववान्वायु- बधः तद्वान्स्लेहो बाधितश्च इति । एवम् घटः पटोस्ति कुड्यत्वात् इत्यादावपि हेतौ पञ्चदोषवस्वमुन्नेयम् । अत्रेदं बोध्यम् । एकस्यैव १३६ न्या० को० स्नेहस्य अनैकान्तिकः विरुद्धः इत्यादिपञ्चस्वव्यवहारः कथम् इत्याशङ्काया- मुत्तरम् । उपधेयसंकरेप्युपाव्यसंकरः इति न्यायाद्दोषगतसंख्यामादाय दुष्टहेतौ पञ्चत्वादिसंख्याव्यवहारः (दीधि ० २ हेत्वा० पृ० १७८) इति । तेन यत्र क्वचिद्धेतावेकविध एव दोषः क्वचिद्वौ कचित्तु त्रयः पञ्चविधा वा संभवेयुः तत्रापि तत्तद्व्यवहारः संगमनीयः इति । गौतमे मते हेवा- भासः पञ्चधा सव्यभिचारः विरुद्धः प्रकरणसम: साव्यसमः कालातीत- श्चेति (गौ० ११२।४ ) । वृत्तिकारोपि अप्रसिद्धोनपदेशोसन् संदिग्ध- चानपदेशः (बै० ३।१२।१५) इति सूत्रस्थचकारस्य बाधस प्रतिपक्ष समुच्चयार्थकतामुक्त्वा गौतमीयमेव मतमनुधावति (वै० उ० ३ । १ । १७ पृ० १६१) । पर्यायान्तरेण हेत्वाभासः पञ्चधा असिद्धः विरुद्धः अनैकान्तिकः प्रकरणसमः कालात्ययापदिष्टश्चेति ( त० भा० ) । पर्यायान्तरेणापि हेत्वाभासः पञ्चधा सव्यभिचारः विरुद्धः असिद्धः सत्प्रतिपक्षितः बाधितश्चेति ( न्या० म० २ पृ० २० ) ( त० सं० ) । एवं च अनुकूलतर्काभावादयः असिद्धभेदा एव । विशेषणासिद्ध विशेष्या- सिद्ध असमर्थविशेषण असमर्थविशेष्य असमर्थोभय संदिग्धासमर्थविशेषण संदिग्धासमर्थविशेष्य संदिग्धासमर्थोभय इत्यादयः सहस्रधाभेदभिन्नासिद्ध- प्रभेदाः स्वरूपासिद्धे अन्तर्भवन्ति (वै० उ० ३ । १ । १७५० १५८-१५९) ( त० मा० हेत्वा० पृ० ४५ ) । व्यर्थविशेषणस्तु व्याप्यत्वासिद्धे अन्तर्भवति इति न हेत्वाभासाधिक्यम् इति विज्ञेयम् । काश्यपमते ( कणादमते) तु हेत्वाभासस्त्रिधा असिद्धः विरुद्धः संदिग्धश्चेति । अत्र भाष्यम् अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धा- सिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ॥ ( प्रशस्त ० २ पृ० ४४ ) इति । तथा हि काश्यपसूत्रम् अप्रसिद्धोनपदेशोसन् संदिग्धश्चानपदेश: (वै० ३।१।१५) इति । अनव्यवसितो नामातिरिक्तश्चतुर्थो हेत्वाभासः इति केचिदाहु: ( प्रशस्त ० ) ( त० व० ३ । २ श्लो० ५६ पृ० ८४ ) । साध्यासाधकः पक्ष एव वर्तमानो हेतुः अनध्यवसितः इत्युच्यते । तथा च भाष्यम् यश्चानुमेये विद्यमानः तत्समानासमानजातीययोरसन्नेव सोन्यतरासिद्धोनध्यवसायहेतुत्वादनध्यवसितः । यथा सत् कार्यमुत्पत्तेः इति । अयमप्रसिद्धोनपदेशः (वै० ३ । १ । १५ ) इति वचनादविरुद्धः ( प्रशस्त ० २ पृ० ४७ ) इति । सोपि कणादमते संदिग्धादावन्तर्भवति इति न त्रैविध्यविभागविरोध: ( त० व० ३ । २ श्लो० ५६ पृ० ८४ ) । अत्र भाष्यम् एतेन अप्रसिद्धविरुद्धसंदिग्धानध्यवसितवचनानामनपदेशत्व- मुक्तं भवति ( प्रशस्त ० २ पृ० ४६ ) इति । लीलावतीकारा अप्याहुः हेत्वाभासाश्चत्वारः विरुद्धासिद्धसव्यभिचारानध्यवसिताः । बाधप्रतिरोधा- वपि स्तः इति चेन्न । तयोः व्याप्तिपक्षधर्मतापहारेणैवानुमानदूषकत्वात् सिद्धसाधनवत् ( न्या० ली० पृ० ४३ ) इति । अत्रेदं चिन्त्यम् । उत्पत्तिकालीनो घटो गन्धवान्पृथिवीत्वात् इत्यादौ मूलावच्छिन्नो वृक्षः कपिसंयोगी इत्यादौ चासंकीर्णदोषस्थले बाधस्यैवातिरिक्त दोषत्वमवश्य- मङ्गीकर्तव्यम् ( भा० प० श्लो० ७९) (चि० २ ) इति । मञ्जरी- प्रकाशकारस्तु आद्यक्षणावच्छिन्नो घटो गन्धवान् स्नेहात् इत्यादौ व्यभिचारादिदोषपञ्चकमपि संभवति इत्याह ( म० प्र० २ पृ० २५ )। <होत्रकः> मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रका: ( जै० न्या० अ० ३ पा० २ अधि० १२ ) । <होम:> [क ] याग एव विशिष्टदेशप्रक्षेपोपहितो होम इत्युच्यते ( का० व्या० कार० ४ पृ० ५) । यथा नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु मध्ये देवयज्ञः । यथा वा आपस्तम्बीयैः क्रियमाणं श्राद्धीयविप्रपाणौ श्राद्धीयान्नभागस्य मन्त्रेण दानम् ( पाणिहोमः ) ( श्रा० त० ) । [ ख ] व्यक्तस्य वह्नौ प्रक्षेपः होमः ( जै० न्या० अ० ४ पा० २ आ. (३) । अत्र होमत्वं च मानसप्रत्यक्षगम्यो जातिविशेषः इत्यन्ये आहुः ( दि० गु० धर्मनि० पृ० २३४ ) । <होलाका> वसन्तोत्सवः ( जै० न्या० अ० १ पा० ३ अधि० ८)। <होलिका> सर्वदुष्टापहो होमः सर्वरोगोपशान्तिदः । क्रियतेस्यां द्विजैः पार्थ तेन सा होलिका स्मृता ॥ (पु० चि० पृ० ३०९ ) । अत्र विशेषः सार्धयामत्रयं वा स्याद्वितीये दिवसे यदा । प्रतिपद्वर्धमांना तु तदा सा होलिका स्मृता ॥ (पु० चि० पृ० ३१२) इति । <हवः> (चौर्यम् ) वोधविषयमितरादर्शनयोग्यदेशस्थापनम् । यथा गोपी. कृष्णायात्मानं हुते इत्यत्र हुधात्वर्थः । अत्र सपत्नीभियात्मादेस्तथा स्थापन बोध्यम् । एवं च गोपीकर्तृका कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोध- विषयात्मकर्मकतथावस्थानानुकूला क्रिया इति बोध: ( उ० म० कार० ४ पृ० १०३ ) वैयाकरणमते भवतीति बोध्यम् । <ह्यः> (अव्ययम् ) अव्यवहितातीतदिवसः (वै० सा० ५० ) । यथा ह्यस्तने अहमागतः इत्यादौ । <हृद्ः> अगाधजलाशयः ( अमरः १ । १० । २५ ) । यथा दो मान् धूमात् इत्यत्र वह्नयभाववदो बाधः इत्यादौ ग्रन्थे ह्रदशब्दस्यार्थः । तज्जलगुणाश्च हदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ( वाच - स्पत्ये राजनि० ) इति । २ किरणः (रामाश्रमः ) । <हस्वत्वम्> १ (गुणः) इदं हस्वम् इति व्यवहारसिद्धः परिमाणविशेषः ( वै० वि० ७।१।१७) । २ एकमात्राकालोञ्चार्याच्चम् इति शाब्दिका आहुः । ३ भूमिजम्बूवृक्षस्य धर्मविशेषो हस्वत्वम् इति वनस्पतिशास्त्रज्ञा आहुः । <ह्लादः> १ आनन्दविशेषः । यथा यथा प्रह्लादनाच्चन्द्रः (रघु०४।१२) इत्यादौ हृादनशब्दार्थः । २ आलंकारिकास्तु चमत्कृतिः। यथा चन्द्र इव मुखं लोका- न्हादयति इत्यादौ ह्रादधात्वर्थश्चमत्कृतिः इत्याहुः इति संक्षेपः इति शम् ॥ इति श्रीमत्सकलसद्विद्वद्वृन्दसंसेव्य वैष्णवमतावतंसश्रीमध्वसिद्धान्तानुयायिनः कर्णाटदेशीय झळकीग्रामनिवासिश्रीयुतरामभट्टात्मजस्य श्रीयुतसरस्वतीतनूद्भवस्य श्रीयुतभिकु- शास्त्रिभ्योधीतन्यायशास्त्रस्य मुंबईस्थैल्फिन्स्टनपाठशालायां न्यायाद्यनेक- दर्शनाध्यापकस्य आभूपालप्रदत्त महामहोपाध्यायपदाङ्कितस्य चट्टाचार्यस्य कृतौ न्यायकोशः समाप्तः ॥ न्यायकोशस्य द्वितीयावृत्तौ शब्दानां संख्या १८९४ आसीत् । अस्यां तृतीयावृत्ताव- धिकाः शब्दाः ६६८ संगृहीताः । संकलनया चात्र शब्दानां संख्या २५६२ वरिवर्ति ॥ अब्धीन्द्विभेन्दुमानेन ( १८१४ ) मिते शाके च नन्दने । वत्सरे (ख्रिस्त्यब्दाः १८९२ ) भट्टभीमेन न्यायकोशः समापितः ॥ १ ॥ अनेन पुष्पकोशेन कालान्तरविकासिना । समर्पितेनाञ्जलिना प्रीयतां पुरुषोत्तमः ॥ २ ॥ ॥ श्रीशः शंकरो भवतु ॥ Bhandarkar Oriental Research Institute POONA (No. 4) PRICE-LIST OF THE 790 66 (I) Bombay Sanskrit and Prakrit Series (II) Government Oriental Series 220 221 (III) Miscellaneous Publications 300 -STURTE 1933 walled (IV) Annals of the Institute (V) Reports of the All-India Oriental Conferences (IV) Critical Edition of the Mahabharata Printed by Tatva-Vivechaka Press, Victoria Gardens Road, Byculla, Bombay No. 8 and published by S. K. Belvalkar, M. A., Ph. D., Secretary, at the Bhandarkar Oriental Research Institute, Poona No. 4. Bhandarkar Oriental Research Institute Rates of Discount :- (N. B.-No discount is given on fraction of a rupee) Class of Purchasers 1. Members of the Institute Older Government Publica- tions in the B. S. S. 3.-do- 1. New B.S.S. 1. Reports and Proceedings of the All-India Oriental Con- ferences 2. Miscellaneous Publications 2. Revisions & Reprints 3. Govt. Or. Series 4. Mbh. ed. 25 per cent. 20 per cent. 2. Recognis- ed Book- 20 per cent. 20 per cent. sellers* 124 per cent. 12 per cent. 4. Other purchasers 6 per cent. 6 per cent. 12 per cent. 12 per cent. 10 per cent. 6 per cent. Remarks For one copy of each publi- only. cation More copies at booksellers' rates. On orders of Rs. 25 or more. On orders of less than Rs.25. Only on ord- ers of Rs. 10 or more. arre. Credit is given to recognised firms agreeing to clear up all on demand, or within one month (in India ), and three months (outsi India), of the date of purchase. All prices are exclusive of postage. I BOMBAY SANSKRIT AND PRAKRIT SERIES Edited under the Supervision of the Publication Department Bhandarkar Oriental Research Institute, Poona (4) (i) Works already published No. I Pancatantra, Books IV and V, edited with Notes by Dr. G. Bühler No. II Nâgojibhatta's Paribhâsendusekhara, Part I, Sanskrit Text and Various Readings, edited by Dr. F. Kielhorn (out of stock) •Da 200 No. III Pancatantra, Books II, and III, edited with Notes, by Dr. G. Bühler No. IV Paňcatantra, Book I, edited with Notes, by Dr. F. Kielhorn No. V Raghuvamsa of Kâlidâsa, with the commentary of Mallinâtha, Part I (Cantos I-VI), edited with Notes, by S. P. Pandit, (out of stock) ... ... ... ... ... ... No. VI Mâlavikâgnimitra of Kâlidâsa, edited with Notes, by S. P. Pandit, 2nd edition (out of stock) *** Rs. as. ... No. VII Nâgojibhaṭṭa's Paribhâșendusekhara, Part IIA (Paribhâşâs 1-37) Translation and Notes, by Dr. F. Kielhorn (out of stock) No. VIII Raghuvamśa of Kâlidâsa, with the commen- tary of Mallinâtha, Part II (Cantos VII-XIII), edited with Notes, by S. P. Pandit, (out of stock) No. IX Nâgojibhaṭṭa's Paribhâṣenduśekhara, Part IIB, (Paribhâşâs 38-69), Translation and Notes, by Dr. F. Kielhorn (out of stock) 06 06 06 are ... 4 Bhandarkar Oriental Research Institute No. X Daśakumâracarita of Dandin, Part I, by Dr. G. Bühler and Part II, by Dr. P. Peterson, re-edited with Notes in one Volume, by G. J. Agashe ... 4 6 No. XI Nîtiśataka and Vairâgyaśataka of Bhartṛhari, edited with Notes, by Justice K. T. Telang, (copy-right restored to the editor) ... No. XII Nâgojibhatta's Paribhâșendusekhara, Part IIC, (Paribhâşâs 70–122); Translation and Notes, by Dr. F. Kielhorn (out of stock) ... ... No. XIII Raghuvamsa of Kalidâsa, with the Commen- tary of Mallinâtha, Part III (Cantos XIV-XIX) edited with Notes, by S. P. Pandit, (out of stock) ... ... ** ... No. XIV Vikramânkadevacarita of Bilhana, by Dr. G. Bühler, (copy-right restored to the editor) ... OD No. XV Mâlatî-Mâdhava, with the Commentary of Jagaddhara, edited with the Critical Notes, etc. by Dr. R. G. Bhandarkar, Second edition ... No. XVI Vikramorvasiya of Kalidâsa, with Notes, by S. P. Pandit, Third edition ... ... No. XVII Hemacandra's Deśî-nâmamâlâ, Part I, by Prof. Pischel and Dr. G. Bühler (in Press) ... No. XVIII* Vyâkaraṇa-Mahâbhâsya of Patanjali, Vol. I, Part I, by Dr. F. Kielhorn, (out of stock) No. XIX* Vyâkaraṇa-Mahâbhâsya of Patañjali, Vol. I, Part II, by Dr. F. Kielhorn, (out of stock) No. XX* Vyâkaraṇa-Mahâbhâsya of Patanjali, Vol. I, Part III, by Dr. F. Kielhorn, (out of stock) ... Rs. as. ... ... : 4 4 20 ... ... Nos. 18, 19 and 20 are bound together in one volume, the whole volume being priced Rs. 4-8. I-Bombay Sanskrit and Prakrit Series No. XXI* Vyâkaraṇa-Mahâbhâṣya of Patañjali, Vol. II, Part I, by Dr. F. Kielhorn, Second edition... 3 0 No. XXII Vyâkaraṇa-Mahâbhâşya of Patañjali, Vol. II, Part II, by Dr. F. Kielhorn, Second edition... 3 0 No. XXIII Vâsiṣṭha-Dharmaśâstra, edited with Notes, by Dr. A. A. Führer, Second edition No. XXIV Kâdambarî by Bâna and his Son, Vol. I, Text Vol. II, Notes and Introduction, by Dr. P. Peterson, (out of stock) ... No. XXV Kirtikaumudî, edited with Notes, by Prof- essor A. V. Kathawate (out of stock) No. XXVI* Vyâkaraṇa-Mahâbhâşya of Patañjali Vol. ... ... No. XXVII Mudrârâkşasa of Viśâkhadatta, with the Commentary of Dhundirâja, edited with Notes, by Justice K. T. Telang, (copy-right restored to the editor).. ... II, Part III, by Dr. F. Kielhorn, Second edition. 3 0 ... ... No. XXXII Tarkakaumudî of Laugâkşi Bhâskara, edited by M. N. Dvivedi (copy-right restored to the editor)... ... Rs. as. ... 1 0 ... No. XXVIIIŤ Vyâkaraṇa-Mahâbhâsya of Patañjali, Vol. III, Part I, by Dr. F. Kielhorn, Second edition... No. XXIX Vyâkaraṇa-Mahâbhâsya of Patañjali, Vol. III, Part II, by Dr. F. Kielhorn, Second edition. 30 No. XXX† Vyâkaraṇa-Mahâbhâsya of Patanjali, Vol. III, Part III, by Dr. F. Kielhorn, Second edition. 30 No. XXXI Subhâşitâ vali of Vallabhadeva, edited by Dr. P. Peterson and Pandit Durgaprasad 5 ... ... 3 0 5 0 Nos. 21, 22 and 26 are bound together in one volume, the whole volume being priced Rs. 9. † Nos. 28, 29 and 30 are bound volume being priced Rs. 2. together in one volume, the whole Bhandarkar Oriental Research Institute No. XXXIII Hitopadeśa of Nârâyaṇa, edited by Dr. P. Peterson No. XXXIV Gauḍavaho of Vâkpati, edited by S. P. Pandit, Second edition, re-edited by N. B. Utgikar ... ..0 200 .00 No. XXXVIII Naiskarmyasiddhi, by Col. G. A. Jacob, Second edition, revised with the addition of an introduction and explanatory Notes by Professor M. Hiriyanna, M. A. up No. XXXV Mahânârâyaṇa Upanişad, edited by Col. G. A. Jacob No. XXXVI Selections of Hymns from the Rgveda (First Series) by Dr. P. Peterson, Fourth edition. 20 No. XXXVII Śârngadharapaddhati, Vol. I, edited by ... Dr. P. Peterson (out of stock) ... No. XXXIX Concordance to the Principal Upanişads and the Bhagavadgitâ, by Col. G. A. Jacob (out of stock) ... € 20 ... See above, No. X. No. XL Eleven Atharvana Upanişads, with Dipikâs, by Col. G. A. Jacob, Second edition ... No. XLI Handbook to the study of Rgveda, Part I, comprising Sayana's Introduction to his Rgveda- bhâsya, with English Translation, by Dr. P. Peterson (under revision) ... 0.0 No. XLII* Daśakumâracarita of Dandin, Part II, by Dr. P. Peterson ... No. XLIII Handbook to the study of Rgveda, Part II, comprising the Seventh Mandala of Rgveda with the Bhâsya of Sâyann (under revision) Rs. as. BLO i 10 5 8 0 11 3 0 1 S I-Bombay Sanskrit and Prakrit Series No. XLIV Âpastamba-Dharmasútra, with the commen tary of Hiraṇyakesi, Parts I and II, by Dr. G. Bühler re-edited by Prof. M. G. Shastri, M.A. No. XLV Râjataranginî of Kalhana, Part I, (Cantos I to VII) by Pandit Durgaprasad (under revision) No. XLVI Patañjali's Yogasutra, with the Scholia of Vyâsa, and the Commentary of Vâcaspati, and, the Vrtti of Nâgojibhatta, by Rajaram Shastri Bodas and Vasudeo Shastri Abhyankar, Second edition No. XLVII Parâsara's Dharma-Samhitâ, with the Commentary of Sâyana-Mâdhavâcârya, Vol. I, Part I, by Vaman Shastri Islampurkar (out of stock) ... ... No. LI Râjataranginî of Kalhana, Vol. II, (Canto VIII) by Pandit Durgaprasad, (under revision)... Text with two C Readings, by N. B. Text Com- No. LII Mrechakatika, Vol. I, mentaries and various Godbole (out of stock)... No. XLVIII Parâsara's Dharma-Samhitâ, with the Commentary of Sâyana-Mâdhavâcârya, Vol.I, Part II, by Vaman Shastri Islampurkar (out of stock) No. XLIX Nyâyakośa, by Mahâmahopâdhyâya Bhima- and considerably charya Zalkikar, revised enhanced third edition by M. M. Vasudeo ... 15 0 Shastri Abhyankar No. L* Âpastamba-Dharmasûtra with the Commentary of Hiranyakesi Part II, by Dr. G. Bühler, re- edited by Prof. M. G. Shastri, M. A. ANDAO ... ... Rs. as. No. LIII Navasâhasâñkacarita, Part I, by Vaman Shastri Islampurkar (out of stock)... * See above No. XLIV. 30 3 8 ... Bhandarkar Oriental Research Institute No. LIV Râjatarangini of Kalhana, Vol. III, contain- ing the supplements to the work by Dr. P. Peterson, (under revision) 300 No. LV Tarkasaṁgraha of Annambhatta with Dîpika, and Nyâyabodhinî, edited with Notes, etc. by Y. V. Athalye and an Introduction by M. R. Bodas, M. A., LL. B. (Third edition) No. LVI Bhaṭṭikâvya, edited with the Commentary of Mallinâtha, Vol. I, by Rao Bahadur K. P. Trivedi (out of stock). ... ... ... No. LVII Bhattikâvya, edited with the Commentary of Mallinâtha, Vol. II, by Rao Bahadur K. P. Trivedi 6 0 No. LVIII Selections of Hymns from the Rgveda (Second Series), by Dr. P. Peterson; Second edition, revised and enlarged by Dr. R. Zimmermann No. LIX Parâsara's Dharma-Samhitâ, with the Com- mentary of Sâyaṇa-Mâdhavâcârya, Vol. II, Part I, by Vaman Shastri Islampurkar No. LX Kumârapâlacarita of Hemacandra, (in Prakrit) by S. P. Pandit, (out of stock) No. LXI Rekhâganita, Vol. I, by H. H. Dhurva and K. P. Trivedi ACY ... ORD ... No. LXII Rekhâganita, Vol. II, by H. H. Dhurva and K. P. Trivedi No. LXIII Ekâvali of Vidyâdhara, with Mallinâtha's Commentary, edited by Rao Bahadur K. P. Trivedi (out of stock) ... 0 12 0 No. LXIV Parâśara's Dharma-Samhitâ, with the Com- mentary of Sâyana-Mâdhavâcârya, Vol. II, Part II, by Vaman Shastri Islampurkar Rs. as. ... 28 No. LXV Pratâparudrayasobhûṣaṇa of Vidyânâtha, with Commentary Ratnâpapa of Kumârasvâmin, edited by Rao Bahadur K, P. Trivedi 5 8 4 0 90 BOO 50 11 0 I-Bombay Sanskrit and Prakrit Series ARAL Ber No. LXVII Parâsara's Dharma-Samhitâ, with the Commentary of Sâyapa-Mâdhavâcârya, Part I, by Vaman Shastri Islampurkar Vol. III, No. LXVI Harşacarita of Bâņa, Part I, Text with Commentary Sanketa, edited by Dr. A. A. Führer 20 No. LXVIII Śrîbhâsya of Râmânuja, Vol. I, Text, edited by M. M. Vasudeo Shastri Abhyankar with No. LXIX Dvyâśraya-kâvya of Hemacandra, the Commentary of Abhayatilakagani, Vol. I, (Cantos I-X) by Prof. A. V. Kathawate ... . No. LXX Vaiyâkaraṇabhûṣaṇa of Kondabhatta, with the Vaiyâkaraṇabhûşaṇasâra and the Commentary Kâsikâ of Harirâma edited with Notes, by Rao Bahadur K. P. Trivedi DOP 00 ... No. LXXI Şadbhâşâcandrikâ of Lakşmidhara, with In- troduction, Notes etc., by Rao Bahadur K. P. Trivedi ORG De OOD No. LXXII S'ribhâsya of Râmânuja, Vol. II, Notes by M. M. Vasudeo Shastri Abhyankar JEX Rs. as. No. LXXIII Nirukta of Yâska, with the Commentary of Durgâcârya, Vol. I, by Professor H. M. Bhadkamkar, M. A. 9 11 0 No. LXXIV Parâśara's Dharma-Samhitâ, with the Commentary of Sâyapa-Mâdhavâcârya Vol. III, Part II, by Vaman Shastri Islampurkar 40 No. LXXV Kâvyâdarśa of Daṇḍin with a new Com- mentary, edited with Notes by Dr. S. K. Belval- kar, M. A., Ph. D. and Rangacarya Raddi Shastri, Parts I and II published; Part III in Press. Part II Second Half only available 90 10 0 78 ... 98 60 5 8 1 4 10 Bhandarkar Oriental Research Institute No. LXXVI Dvyâsraya-kavya of Hemacandra with the Commentary of Abhayatilakagani, Vol. II, (Cantos XI-XX) by Prof. A. V. Kathawate... 9 0 No. LXXVII Anubhâsya of Vallabhâcârya, edited with an original Sanskrit Commentary by Mahâmaho- pâdhyâya Shridhar Shastri Pathak, Part I, Text 3 4 No. LXXVIII Prakriyâkaumudî of Râmacandra edited with Vitthala's Prasâda, and an Introduction by Rao Bahadur K. P. Trivedi, Part I No. LXXIX Kâvyâlamkârasârasamgraha of Udbhata edited with Introduction, Notes, Appendixes by N. D. Banhatti, B. A. No. LXXX Vyavaharamayûkha of Bhaṭṭa Nîlakaṇṭha edited with Introduction and Notes by P. V. Kane, M. A., LL. M. ... ... Rs. as. ... ... No. LXXXI Aṇubhâsya of Vallabhâcârya edited with an original Sanskrit Commentary by Mahâmaho- pâdhyâya Shridhar Shastri Pathak Part II, Commentary 000 ..1 No. LXXXII Prakriyâkaumudî of Râmacandra edited with Vitthala's Prasâda, and an Introduction by Rao Bahadur K. P. Trivedi, Part II ... No. LXXXIII Syâdvâdamañjarî of Mallisena with Introduction, Notes, Appendixes etc. by Prof. A. B. Dhruva, M. A., LL. B. Works Out of Series No. 1 Aitareya Brâhmaṇa, Word-Index to, compiled by Pandit Vishwanath Balkrishna Joshi 10 0 No. 2 Amarkośa with the Commentary of Maheśvara, edited, with an Index, by Ramchandra Shastri Talekar (out of stock) .. 28 10 0 30 . 11 0 10 0 4 0 800 No. 3-6 Atharvaveda Samhitâ, with the Commentary of Sâyanâcârya, edited by S. P. Pandit, Four volumes, (not sold separately) BENUT No. 7 Kâvyaprakâśa, edited by Vamanacharya Zalki- kar, with his own Commentary, Ullâsas I and II, Price annas ten only; (Fifth edition in Press). Ullâsas I, II, III, and X together... (i) Works in Press 3 4 I-Bombay Sanskrit and Prakrit Series ... 1 11 1 Desi-nâmamâla of Hemacandra, Second edition, with an Index by Prof. P. V. Ramanujasvami, M. A. (No. 17). 2 Tarkabhâşâ of Keśavamiśra, with Notes, by Prof. D. R. Bhandarkar, M. A., Ph. D., and Pandit Kedarnath. Nirukta, Vol. II, by Professor R. G. Bhadkamkar, M. A. Kâvyaprakâśa, No. 7, (out of series) Ullâsas I-X, edited by Vamanacharya Zalkikar, with his own Commentary (Fifth edition) 2 Rs. as. 40 0 30 (iii) Works under Revision 1 Handbook to the study of Rgveda, Parts I and II, by P. Peterson, Second edition (Nos. 41 and 43). 2. Râjataranginî of Kalhana, Parts I, II, and III, by P. Peterson and Pandit Durgaprasada, Second edition, (Nos. 45, 51 and 54). (iv) Works in Preparation Mṛcchakatika, Vol. II, Notes, etc. by Sardar K. C. Mehendale, B. A. Kavyâdarśa of Dandin with Commentary, Notes etc. by Dr. S. K. Belvalkar, M. A., Ph. D. and Raddi Shastri, Second edition (No. 75). 1 1 Sarvadarśana-samgraha of Sâyana-Mâdhava, with an original commentary in Sanskrit and exhaustive indices, by Mahâmahopâihyâya Vasudeo Shastri Abhyankar, pp. 160-643 2 Siddhântabindu of Madhusudana-Sarasvati with an 2 3 4 II GOVERNMENT ORIENTAL SERIES (i) Works Already Published CLASS A: TEXTS Pp. 232 original and lucid commentary in Sanskrit, by Mahâmahopâdhyâya Vasudeo Shastri Abhyankar, GOD ... CLASS B: ORIGINAL WORKS The Collected Works of Sir R. G. Bhandarkar, Vol. I, No. 1, containing Peep into the Early History of India, contributions to Oriental Con- gresses, Reviews and Addresses, and Essays in Literary Chronology' edited by N. B. Utgikar, M. A. and Dr. V. G. Paranjpe, M. A., LL. B., D. Litt. with exhaustive Indexes The Collected Works of Sir R. G. Bhandarkar, Vol. II, No. 2, "Literary, Religious and Social Essays", edited by N. B. Utgikar, with exhaustive indexes, pp. 724 DOO ... ... ... The Collected Works of Sir R. G. Bhandarkar, Vol. III, No. 3, edited by N. B. Utgikar, with exhaustive indexes, comprising "Early History of the Deccan" and Miscellaneous Historical Essays, pp. 518 The Collected Works of Sir R. G. Bhandarkar, Vol. IV, No. 4 "Vaisnavism, S'aivism etc." and Rs. as. 10 0 28 6.0 5 8 4 8 II-Government Oriental Series 7 "Wilson Philological Lectures" edited by N. B. Utgikar, with Indexs, pp. 640 000 The Collected Works of Sir R. G. Bhandarkar, Vol. IV, No. 4 "Vaişpa vism, S'aivism etc." issued separately for use in India, pp. 240 6 The Vedânta by Dr. V. S. Ghate, No. 5, A study of the Brahma-sûtras with the Bhâsyas of S'amkara, Râmânuja, Nimbârka, Madhva and Vallabha.- The present work, in its original French, was offered by the late Dr. Ghate as a thesis for the Doctorate of the Paris University in 1918,- Pp. 184 ... DGU ... ... - ... History of Dharmaśâstra by P. V. Kane, M. A., LL. M. Vol. I, No. 6, with an Index and Lists of Works and Authors on Dharmaśâstra CLASS C: MISCELLANEOUS 1 Vyâkaraṇa-Mahâbhâṣya-Word-Index, No.1, compiled by Mahâmahopâdhyâya Shridharshastri Pathak and Siddheshwar Shastri Chitrao, pp. 1150. No Oriental monument of patient industry. Library can afford to be without it" "A 2 Taittirîya-Samhitâ, Word-Index to, No. 3, Part I, by Parashuramshastri ... Works Out of Series 1 Budhabhûṣaṇa, an anthology by King S'ambhu, edited with an Introduction by Prof. H. D. Velankar, M. A. (ii) Works in press CLASS A 1 Nighantu and Nirukta, No. 4, by Prof. V. K. Rajvade, M. A. 13 Rs. as. 6 0 3 8 20 15 0 15 0 20 . 1 8 14 Bhandarkar Oriental Research Institute CLASS C shuramshastri. Rs. as. 1 Vyâkaraṇa-Mahâbhâsya-Word-Index, No. 2, Part II, by Mahamahopadhyâya Shridhar Shastri Pathak and Siddheshwar Shastri Chitrao. 2 Taittirîya-Samhitâ-Word-Index, Part II, No. 3, by Para- (iii) Works Undertaken CLASS A 1 Âpadevi with a new Commentary, No. 3, by M. M. Vasudeo Shastri Abhyankar. CLASS B 1 Vyâkaraṇa-Mahâbhâsya, English Translation, No. 8, by Prof. K. V. Abhyankar, M. A., and M. M. Vasudeo Shastri Abhyankar. 2 Die Sâmkhya Philosophie, English Translation, No. 7, by Prof. R. D. Vadekar, M. A. CLASS C 1 Catalogus Catalogorum for Jaina Literature, No. 4, edited by Prof. H. D. Velankar, M. A. 16.1 2 1 Prospectus to a New and Critical Edition of the Mahâbhârata, also containing an up-to-date History and Review of work done hitherto on the Mahâbhârata 3 4 5 6 III MISCELLANEOUS WORKS (i) Works already published 1 2 ... Summaries of Papers read at the First Oriental Conference, Poona ... Descriptive Catalogue of Mss. in the Government Mss. Library at the Institute, Vol. I, Part I, Samhitâ and Brâhmaṇas ... History of the Search for Sanskrit Manuscripts in the Bombay Presidency from 1868 to 1900 Virâțaparvan of the Mahâbhârata ... ... ... List of New Mss. added to the Manuscripts Library (1895-1924) Rs. as. 08 20 4 0 08 15 0 Catalogue of the Institute's Library of Printed Books. Catalogue Raisonné of the Mahâbhârata Mss. ... 1 8 (ii) Works in Press 1 Catalogue of the R. G. B. Library. 2 Descriptive Catalogue of Mss. in the Government Mss. Library at the Institute, Vol. III, Grammar, and Vols. XVII and XVIII, Jaina Literature. (iii) Works Undertaken IV ANNALS OF THE INSTITUTE The Annals of the Bhandarkar Oriental Research Institute issued six-monthly: issued quarterly since Vol. VIII. Annual Subscription Rs. 10. Vol. I Do. Vol. II Do. Vol. III Do. Vol. IV Do. Vol. V Do. Vol. VI Do. Vol. VII Vol. VIII Do. Do. Do. Vol. IX Do. Vol. X Do. Vol. XI Do. Do. Do. Vol. XII Do. Part I Part II Part I Part II Part I Part II Part I Part II Part I Part II Part I Part II Parts I-II Part I Part II Part III Part IV Part I Da ODD .00 ... ROD ... DOO ... ..D 090 ... BDO Parts II-IV Parts I-II Parts III-IV Part I Part II Part III Part IV Part I Prrt II ODO ... 40 A'D ODQ ... 000 ... ... DBO 800 090 ... ... ... : ... ... DOD .00 40D July 1919. January 1920. July 1920. January 1921. July 1921. January 1922. July 1922. January 1923. July 1923. January 1924. July 1924. March 1925. January 1926. April 1926. September 1926. January 1927. July 1927. May 1928. December 1928. August 1929. July 1929. October 1929. January 1930. April 1930. July 1930. October 1930. January 1931. 6 7 co Reports of the All-India Oriental Conferences Vol. XII Do. Vol. XIII 8 Do. Do. Vol. XIV Part III Part IV Part I Part II Parts III-IV Parts III - ... ... Fifth -do- ... V ... CONFERENCES By a special resolution at the Fifth Oriental Conference held at Lahore in November 1928, the Bhandarkar Oriental Research Institute has been appointed the sole agent for the sale of the Transactions and Proceedings of the Oriental Conferences. The following publications are on sale :— 1 Proceedings of the First Oriental Conference Vol. I Rs. 5* -do- 2 -do- Vol. II Rs. 8* 3 Rs.10 Second -do- -do- Vol. -do- Third -do- Vol. Rs.10 -do- Fourth -do- Vol. I Rs. 5* -do- -do--do- Vol. II Rs. 8* -do- Vol. I Rs. 8* -do- Vol. II Rs. 7* REPORTS OF THE ALL-INDIA ORIENTAL -do- -do- April 1931. July 1931. October 1931. - January 1932. ... April-July 1932. ... October-January 1933. 17 N. B. 124% discount is given to Members of the Bhandar- kar Institute on single copies, and to recognised book-sellers on orders of Rs. 25 or more; (2) of 10 per cent. on trade orders of less than Rs. 25; and (3) of 6 per cent. to other purchasers. * Reports published in more than one volume will have to be purchased entire. Volumes will not be sold singly. 18 Bhandarkar Oriental Research Institute CRITICAL EDITION OF THE MAHÂBHÂRATA Rates of Subscription CLASS A (PAYMENT IN ADVANCE) (i) Paper cover fascicules (ii) Cloth bound volumes CLASS B (DEFERRED PAYMENT) (2) Paper cover fascicules (ii) Cloth bound volumes Price of fascicule 6 Price of fascicules 1-5 ... ... ... Rs. 175 165 ... "9 Subscribers of class B are required to deposit Rs. 10 per set out of the price for registration of the order; the balance will be recovered by V. P. P. as the fascicules or the volumes are published. Rs. 200 215 99 Rs. 7 20 2 Permanent members of the Institute are given a con- cession of 20% on these prices. Thus in their case the rates for class A (i) and (ii) are Rs. 132 and 120 respectively. Fascicules are not sold singly. All the above prices are exclusive of postage.