<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<pb n="3" />
<pb n="4" />
<pb n="5" />
<p>श्रीः ॥</p>
<p>श्रीनीलकण्ठकृता</p>
<p>मातङ्गलीला ।</p>
<p>प्रथमः पटलः ।</p>
<lg>
  <l>नृसिंहयादवौ दैत्यसमूहोग्राटवीदवौ ।</l>
  <l>राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥</l>
</lg>
<lg>
  <l>मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।</l>
  <l>मातङ्गलीलाच[‍^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥</l>
</lg>
<lg>
  <l>उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं</l>
  <l>मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।</l>
  <l>वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं</l>
  <l>नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥</l>
</lg>
<lg>
  <l>आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो</l>
  <l>गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।</l>
  <l>आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं</l>
  <l>कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्यं मयेति ॥ ४ ॥</l>
</lg>
<lg>
  <l>कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिभेदाः</l>
  <l>काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।</l>
</lg>
<note>'चरिता' ख. पाठः</note>
<pb n="6" />
<lg>
  <l>चम्पां प्राप्ता नृपेणासनकुसुमजलाद्यैः समाराधितास्ते</l>
  <l>वन्यान् नागान् ग्रहीतुं प्रददुरथ वरं चादरादङ्गपाय ॥ ५ ॥</l>
</lg>
<lg>
  <l>राज्ञा तेन गजग्रहाय सचिवा नुन्नाश्चरन्तो वने</l>
  <l>तेऽपश्यन् पथि सामगायनमृषिं तिष्ठन्तमप्याश्रमे ।</l>
  <l>आराद्वारणयूथमत्र विहरन्तं पालकाप्यं मुनिं</l>
  <l>श्रीमन्तं गजयूथगं विरहितं तेनापि सन्ध्यासु तत् ॥ ६ ॥</l>
</lg>
<lg>
  <l>अङ्गेशाय निवेदितं तदखिलं भृत्यैः स गत्वा गजा-</l>
  <l>नस्मिन्नाश्रमगे मुनावथ गृहीत्वागत्य चम्पां क्षणात् ।</l>
  <l>एतान् गौतमनारदादिमुनिवर्येभ्यो ददौ ते पुनः</l>
  <l>स्तम्भे तान् सुदृढं नियम्य सुखमत्रोपुस्तथान्ये जनाः ॥ ७ ॥</l>
</lg>
<lg>
  <l>शुश्रूषाद्यं च कृत्वा मुनिरथ जनकस्याश्रमात् पालकाप्य-</l>
  <l>स्तं देशं प्राप्य यत्र स्थितमथ गजयूथं तदस्मिन्नदृष्ट्वा ।</l>
  <l>सर्वत्रान्विष्य चम्पां मुनिरथ गतवान् स्नेहतो व्याकुलात्मा</l>
  <l>नागानां दुःखितानां व्रणशमनचिकित्सादिरक्षां चकार ॥ ८ ॥</l>
</lg>
<lg>
  <l>तत्रस्था गौतमाद्या ददृशुरथ मुनिं मौनसम्पन्नमेनं</l>
  <l>श्रीमन्तं हस्तियूथस्थितमपि मुनयस्तत्र पप्रच्छुरेनम् ।</l>
  <l>कस्मात् तेषां व्रणाँल्लिम्पसि गजनिवहे ते दया केन जाते-</l>
  <l>त्येतैः संपृच्छ्यमानो मुनिभिरपि स किञ्चिन्न च प्रत्युवाच ॥ ९ ॥</l>
</lg>
<lg>
  <l>तद्वृत्तान्तं मुनीन्द्रैर्गदितमथ निशम्याङ्गराजोऽत्र गत्वा</l>
  <l>पाद्यार्घ्याद्यैः समाराध्य च मुनिमनु तज्जन्मनामादि सर्वम् ।</l>
  <l>पप्रच्छ श्रोतुकामः क्षितिपतिरमुना तापसेनाथ किञ्चि-</l>
  <l>न्नोक्तो भूयोऽप्यपृच्छन्मुनिममुमनघं भक्तिनम्रो नरेन्द्रः ॥ १० ॥</l>
</lg>
<lg>
  <l>अङ्गेशं पालकाप्यो मुनिरथ परितुष्टोऽब्रवीत् कामचारा</l>
  <l>मातङ्गाः कामरूपा दिवि भुवि च यथेष्टं पुरा सञ्चरन्तः ।</l>
</lg>
<pb n="7" />
<lg>
  <l>प्रालेयाद्रेरुदीच्यां दिशि वटविटपी द्वे शते योजनानां</l>
  <l>विस्तारायामयुक्तो भवति गजवरास्ते तु तस्मिन् निपेतुः ॥ ११ ॥</l>
</lg>
<lg>
  <l>शाखा तैः परिपाटिताश्रमपदे तत्र स्थितस्तापसो</l>
  <l>नाम्ना दीर्घतपास्ततः कुपितवान् नागान् शशापाञ्जसा ।</l>
  <l>तस्मात् ते खलु कामचाररहिता नागा बभूवुर्गता</l>
  <l>मर्त्यानामपि वाहनत्वमथ नो शप्तास्तु दिक्कुञ्जराः ॥ १२ ॥</l>
</lg>
<lg>
  <l>दिङ्नागाः सह सर्वकुञ्जरकुलैर्गत्वाब्रुवन् पद्मजं</l>
  <l>देवास्मत्कुलजन्मनां विधिवशाद् भूमिं गतानामथ ।</l>
  <l>रोगाः स्युर्विषमातिभोजनविरुद्धाजीर्णभुक्तादिभिः</l>
  <l>प्रोक्तस्तैरतिदुःखितैरिति पुनस्तान् प्रोक्तवान् पद्मभूः ॥ १३ ॥</l>
</lg>
<lg>
  <l>कश्चिन्नातिचिराद् भविष्यति परं मातङ्गबन्धुर्मुनि-</l>
  <l>स्त्वायुर्वेदपरायणोऽतिनिपुणो व्याधीन् हरिप्यत्यसौ ।</l>
  <l>इत्युक्ता दिगनेकपाश्च विधिना याता यथास्वं दिशं</l>
  <l>दिङ्मातङ्गकुलोद्भवाश्च पृथिवीं याताः परे शापतः ॥ १४ ॥</l>
</lg>
<lg>
  <l>धात्रा यक्षनरासुरामग्रुचः संगृह्य वाणीव या</l>
  <l>सृष्टा सा रुचिरा कदापि विधिना शप्ताथ दुर्गर्वतः ।</l>
  <l>तस्मात् सा[‍^१] वसुकन्यका गुणवती नाम्नाभवद् भार्गवात्</l>
  <l>सैषाथाश्रममागता  वत मतङ्गस्यातिकौतूहलात् ॥ १५ ॥</l>
</lg>
<lg>
  <l>शक्रेण प्रहिता त्वियं मम तपोविघ्नाय वेनेति सा</l>
  <l>शप्ता प्राप करेणुतां मुनिरथ ज्ञात्वानघां तां क्षणात् ।</l>
  <l>भद्रे ! हस्तिनि ! सामगायनमुनेः शुक्लप्रपानाद् यदा</l>
  <l>पुत्रस्ते भविता तदा तव भवेच्छापान्त इत्यब्रवीत् ॥ १६ ॥</l>
</lg>
<lg>
  <l>यक्षी काचन सामगायनमुनिं स्वप्ने समापैकदा</l>
  <l>गत्वाथाश्रमतो बहिर्मुनिवरो मूत्रं चकाराञ्जसा ।</l>
</lg>
<note>'वासुकिक' ग. पाठः</note>
<pb n="8" />
<lg>
  <l>मूत्रेणेन्द्रियमस्रवत् तदपिबद् गेहं प्रविष्टे मुनौ</l>
  <l>शीघ्रं गर्भमधत्त सा च करिणी सूते स्म पुत्रं मुखात् ॥ १७ ॥</l>
</lg>
<lg>
  <l>दत्वा तं मुनये मुदा निजसुतं सन्त्यज्य सा हस्तिनी-</l>
  <l>भावं चाथ दिवं जगाम सहसा शापाद् विमुक्ता सुखम् ।</l>
  <l>प्रीतोऽसावथ सामगायनमुनिस्तज्जातकर्मादिकं</l>
  <l>कृत्वाख्यामपि पालकाप्य इति दिव्योक्त्या चकारास्य च ॥ १८ ॥</l>
</lg>
<lg>
  <l>सोऽक्रीडच्च गजैः करेणुकलभैः साकं नदीनिर्झर-</l>
  <l>प्रस्थेष्वप्सु च रम्यभूमिषु चरन् पर्णाम्बुभोजी मुनिः ।</l>
  <l>अब्दानत्र तु षट्सहस्रयुगलीसङ्ख्यानमीषामसौ</l>
  <l>भक्ष्याभक्ष्यसुखासुखेङ्गितहितानिष्टादि सर्वं विदन् ॥ १९ ॥</l>
</lg>
<lg>
  <l>मामङ्गाधिप ! सामगायनसुतं तं पालकाप्यं मुनिं</l>
  <l>विद्धीत्यङ्गनृपोऽमुना मुनिवरेणोक्तः परं विस्मितः ।</l>
  <l>सम्पृष्टोऽथ मुनिर्गजार्थममुना राज्ञा पुनस्तं नृपं</l>
  <l>नागोत्पत्तिशुभादिलक्षणचिकित्साद्यं क्रमादब्रवीत् ॥ २० ॥</l>
</lg>
<lg>
  <l>धर्मात्मिका सृष्टिरनेकपानां हिताय यज्ञस्य च दैवतानाम् ।</l>
  <l>विशेषतो राजहिताय तस्माद् यत्नेन नागाः खलु रक्षणीयाः ॥ २१ ॥</l>
</lg>
<lg>
  <l>मार्ताण्डस्य यतोऽण्डतो जनिरभूद् ब्रह्मर्षिभिर्दर्शितं</l>
  <l>सन्दीप्तं किल तत्कपालयुगलं पाणिद्वयेनादरात् ।</l>
  <l>सप्तागायदजः प्रगृह्य युगपत् सा[^१]मान्यथैरावतो</l>
  <l>नागोऽभूदथ सप्त वारणवरा जाताः पृथग् गानतः ॥ २२ ॥</l>
</lg>
<lg>
  <l>जाता दक्षिणहस्तसंस्थितकपालादेवमष्टौ गजा</l>
  <l>वामस्थाच्च वशाः क्रमेण जनिता जायाश्च तेषामथ ।</l>
</lg>
<note>सामगानजन्यत्वादेव गजानां सामजत्वम् ।</note>
<pb n="9" />
<lg>
  <l>पुत्राः सत्त्वबलान्विताश्च बहवः पौत्रादयोऽपि क्रमात्</l>
  <l>स्वैरं चेरुरशेषलोकवनधुन्यद्रिष्वमी वारणाः ॥ २३ ॥</l>
</lg>
<lg>
  <l>इन्द्राग्न्यादिदिगीशवाहनतया देवासुरायोधने</l>
  <l>याता नागवराश्च दुद्रुवुरथो भीता विरिञ्चान्तिके ।</l>
  <l>तद् ज्ञात्वा मदपूरुषोऽथ विधिना सृष्टस्तदावेशिता</l>
  <l>मत्ता दैत्यचमूं निहत्य ययुरिन्द्राद्यैर्यथास्वं दिशम् ॥ २४ ॥</l>
</lg>
<lg>
  <l>दुर्वासाः प्रददावमर्त्यपतये दिव्यस्रजं सादरं</l>
  <l>तामैरावतमर्दितामपदयं दृष्ट्वा मुनिः शप्तवान्।</l>
  <l>तच्छापेन विनष्टमाप्तुमखिलं चैश्वर्यमुन्मथ्यमा-</l>
  <l>नेऽब्धावभ्रमुवल्लभोऽजनि ततः क्षीराब्धिजोऽसौ श्रुतः ॥ २५ ॥</l>
</lg>
<lg>
  <l>जाता भद्रद्विपेन्द्राः कृतयुगसमये लक्षणेनाभियुक्ता-</l>
  <l>स्त्रेतायां मन्दजात्याः खलु गजपतयो द्वापराख्ये युगे च ।</l>
  <l>नागाश्चैते मृगाख्यास्तदनु कलियुगेऽत्रैव सङ्कीर्णजात्या</l>
  <l>नागानां जातिभेदाज्जनिरिह कथिता कालयोगानुरूपा ॥ २६ ॥</l>
</lg>
<lg>
  <l>नातिस्थूलाखिलाङ्गः प्रथमयुगवसन्तोद्भवः पाटलाभो</l>
  <l>नाहायामी सहिष्णुर्धरणिधरचरः सार्थिकोऽन्वर्थवेदी ।</l>
  <l>धीरस्तेजव्युदग्रो जलधरनिनदः काङ्क्षितो धेनुकाभिः</l>
  <l>शुरः पिङ्गाक्षिदन्तो भवति च समदोषः शुभो भद्रनामा ॥ २७॥</l>
</lg>
<lg>
  <l>त्रेतायां शीतकालोद्भव उभयचरो दुर्मना ह्रस्वकर्णो</l>
  <l>नायामी मन्दगामी हरिरुचिनयनस्तामसः कृष्णशोभः ।</l>
  <l>नागः श्लेष्मप्रधानो नतविपुलरदः स्थूलवृत्ताङ्गशोभी</l>
  <l>कामी गम्भीरवेदी कथित इति बुधैर्मन्दनामा गजेन्द्रः ॥ २८ ॥</l>
</lg>
<lg>
  <l>नाहायामप्रहीणः कृशनिखिलतनुर्धूसरच्छायकायो</l>
  <l>बह्वाश्युत्तानवेदी चपलमतिरतिक्रोधनः सिन्धुचारी ।</l>
</lg>
<pb n="10" />
<lg>
  <l>स्थूलाक्षो ह्रस्ववालश्चरमयुगपयोवाहकालप्रजात-</l>
  <l>श्चण्डः पित्तप्रधानो मृग इति कथितो वारणोऽसौ कनीयान् ॥<fix> २९ ॥</fix></l>
</lg>
<lg>
  <l>प्रत्येकं मन्दजात्यादिप्रोक्तलक्षणसङ्करात् ।</l>
  <l>सङ्कीर्णजात्या मातङ्गाः कलौ ते बहुला युगे ॥ ३० ॥</l>
</lg>
<lg>
  <l>नागाः सर्वत्र गत्या गज इति विजयाद् गर्जनाच्चैव हस्ती</l>
  <l>वेधोहस्तप्रसूत्या परनृपतिचमूवारणाद् वारणोऽपि ।</l>
  <l>मातङ्गो वर्त्ममृत्त्वादतिजरयति कुं कुञ्जरः पादतोदात्</l>
  <l>पद्मी पद्मप्रसक्त्या द्विप इति मुखतो हस्ततोऽपि प्रपानात् ॥ ३१ ॥</l>
</lg>
<lg>
  <l>शुण्डावालधिदन्तैश्च चतुर्भिश्च पदैरपि ।</l>
  <l>प्रहरन्ति यतस्तस्मादष्टप्रहरणा द्विपाः ॥ ३२ ॥</l>
</lg>
<lg>
  <l>इमे बिभ्यति सर्वेभ्यः सर्वेभ्योऽभ्यधिकं वपुः ।</l>
  <l>कान्तत्वाच्च तथा प्राहुरिभानेतान् महर्षयः ॥ ३३ ॥</l>
</lg>
<lg>
  <l>प्रशस्तकरसंयोगात् करिणो दन्तिनस्तथा ।</l>
  <l>सिन्धुराः सिन्धुरमणादेवं निर्वचनक्रमः ॥ ३४ ॥</l>
</lg>
<lg>
  <l>जिह्वायाः परिवृत्तिरन्तरधिकं दाहोऽनलाद् ब्रह्मणो</l>
  <l>मुष्काभावरजोम्बुपङ्कविहृती स्वस्थेमसम्मोहनम् ।</l>
  <l>मर्त्यानां वहनं च दीर्घतपसो देवत्वहानिर्भृगो-</l>
  <l>र्विण्मूत्रेऽभिरतिः स्वके वरुणतोऽन्तस्स्वेदता शापतः ॥ ३५ ॥</l>
</lg>
<lg>
  <l>स्वांशो दत्तो न देवैर्हविष इति हुताशः कदाचित् तिरोभृत्</l>
  <l>क्रुद्धोऽन्वेष्टुं प्रणुन्ना दिगधिपकरिणो ब्रह्मणा वह्निमेनम् ।</l>
  <l>गत्वा ते त्वाश्रयाशाश्रममथ महिषीं धर्षयामासुरग्नेः</l>
  <l>सोऽयं तत्क्रन्दनात् तानशपदलमिमांस्तत्प्रभावान्न दग्धुम् ॥ ३६ ॥</l>
</lg>
<lg>
  <l>पूर्वं यूयं विधातुर्वचननिशमनात् सर्वमेवं प्रकुर्मः</l>
  <l>कर्मेयस्याग्रतो द्रागवदत यदतीवोद्धता हन्त तस्मात् ।</l>
</lg>
<pb n="11" />
<p>जिह्वाया वोऽस्तु नित्यं परिगतिरपि दाहोऽन्तरित्यग्निशापं
प्राप्तानां पद्मजन्मा सदयमथ ददौ पांसुपङ्काम्बुसौख्यम् ॥ ३७॥</p>
<lg>
  <l>गत्वा नागा भृगोराश्रममवनिरुहोत्पाटनं चाग्निहोत्रे</l>
  <l>विण्मूत्राण्यत्र चक्रुस्तदनु मुनिवरेणात्तरोषेण तूर्णम् ।</l>
  <l>आघ्रायात्मीयमूत्रं शकृदपि च निजं तालुसङ्घर्षणं चा-</l>
  <l>प्यातन्वन्तो भवन्त्वित्युरुतरतपसा तेन शप्ताः कदाचित् ॥ ३८ ॥</l>
</lg>
<lg>
  <l>युद्धे दैवासुरे प्राग् रणशिरसि गजस्वेदपीडासहिष्णुं</l>
  <l>देवौघं प्रेक्ष्य पाशी द्रुतमथ करिणां स्वेदमन्तर्व्यतानीत् ।</l>
  <l>तस्मादन्तः प्रवृत्तान् विजहति करतः स्वेदबिन्दून् करीन्द्रा</l>
  <l>मुष्काभावस्त्वजोक्त्या द्रुततरगतये स्वैरमायोधनादौ ॥ ३९॥</l>
</lg>
<lg>
  <l>सर्वेषां मदकृद् वसन्तसमयः प्रोक्तो विशेषादसौ</l>
  <l>नागानां तु ततो वसन्तजनिता ये ते तु गन्धद्विपाः ।</l>
  <l>तेषां स्वेदपुरीषमूत्रमदतोयाघ्राणनादञ्जसा</l>
  <l>माद्यन्त्यन्यगजाश्च ते जयकरा गन्धद्विपा भूभुजाम् ॥ ४० ॥</l>
</lg>
<p>इति मातङ्गलीलायां
नागोत्पत्त्यधिकारः प्रथमः पटलः ।</p>
<p>अथ द्वितीयः पटलः ।</p>
<lg>
  <l>मस्तकद्वितयं दन्तावासनं वंश एव च ।</l>
  <l>षडेते प्रोन्नता यस्य स गजो राजवाहनः ॥ १ ॥</l>
</lg>
<lg>
  <l>पुष्करद्वितयं कोशो जिह्वोष्ठगुदतालु च ।</l>
  <l>सप्तैते रक्ततनवो यस्य स द्विरदोत्तमः ॥ २ ॥</l>
</lg>
<pb n="12" />
<lg>
  <l>विंशत्या नखसङ्ख्ययाञ्चितपदः स्फारोन्नतिः कुम्भयो-</l>
  <l>रच्छिद्राञ्चलरक्तकर्णयुगलः सुश्लक्ष्णकक्षः करी ।</l>
  <l>सव्याभ्युन्नतमाक्षिकद्युतिरदः सम्पूर्णकुक्षिः क्रम-</l>
  <l>स्थूलर्ज्वायतचारुवालधिकरः पूगीफलश्यामलः ॥ ३ ॥</l>
</lg>
<lg>
  <l>स्निग्धश्यामतनुश्च खड्गसदृशच्छायोऽथवा स्वस्तिक-</l>
  <l>श्रीवत्सारिदराब्जलाञ्छनलसद्बिन्दुप्रकाशारुणः ।</l>
  <l>क्रोडोद्यज्जघनस्थलोऽथ दृढकुक्षिस्रस्तसत्पिण्डिको</l>
  <l>विस्तीर्णाधिकमांसलोन्नतक[^१]लाभागो नृपार्हो गजः ॥ ४ ॥</l>
</lg>
<lg>
  <l>बृहदायतवृत्तकन्धराः सजलाम्भोदुनिनादबृंहिताः।</l>
  <l>कलविङ्कमधुप्रभेक्षणास्त्रिवलिस्कन्धकरा गजाः शुभाः ॥ ५ ॥</l>
</lg>
<lg>
  <l>सुस्निग्धतारनयनारुणपुष्कराश्च</l>
  <l>चूतप्रवालरुचिकोमलकोशदण्डाः ।</l>
  <l>रक्तारविन्दरुचिराः कलकण्ठनादा-</l>
  <l>स्त्वेते गजाः शुभकराः खलु पार्थिवानाम् ॥ ६ ॥</l>
</lg>
<lg>
  <l>तुङ्गदक्षिणविषाणकोटयो विन्दुचित्रितमहाकराननाः ।</l>
  <l>गूढसन्धिदृढगात्रपश्चिमाः पार्थिवेन्द्र ! तव वाहनोचिताः ॥ ७ ॥</l>
</lg>
<lg>
  <l>चापोन्नतायतनिगूढसुवंशपृष्ठाः</l>
  <l>कान्ताघनस्तनसमानसरोमकुम्भाः ।</l>
  <l>विस्तीर्णकर्णहनुनाभिललाटगुह्या-</l>
  <l>स्ताम्रोष्ठतालुरदनाः करिणो नृपार्हाः ॥ ८ ॥</l>
</lg>
<note>"स्नायुभिश्च प्रतिच्छन्नान् सन्तताश्च जरायुणा । श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ॥ धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति । देहोष्मणाभिपकश्च सा कलेल्यभिधीयते" ॥ इति भावप्रकाशः ।</note>
<pb n="13" />
<lg>
  <l>सिन्दूरसान्द्रसमबिन्दुविचित्रिताङ्गः</l>
  <l>कुर्मोन्नतैर्द्विनवविंशतिभिर्नखैर्वा ।</l>
  <l>चन्द्रप्रभैश्च सहितो बलसत्त्वधैर्ये-</l>
  <l>रुद्गारसौरभयुतोऽपि करी नृपार्हः ॥ ९ ॥</l>
</lg>
<lg>
  <l>भग्नव्यालजलातुरांश्च कलभान् हित्वा प्रतापान्वितः</l>
  <l>कर्मण्योऽष्टविधप्रहारकुशलः शूरो दृढो वेगवान् ।</l>
  <l>सर्वप्राणिवधे समुद्यतमनाः सद्भिर्युतो लक्षणै-</l>
  <l>र्यो दन्तावलपुङ्गवः स नृपतेः संग्रामयोग्यो भवेत् ॥ १० ॥</l>
</lg>
<lg>
  <l>युध्यन्ति केवलं योधा वहन्त्येव हया रथान् ।</l>
  <l>वारणास्तु नरेन्द्रार्हा युध्यन्ति च वहन्ति च ॥ ११ ॥</l>
</lg>
<lg>
  <l>सारङ्गिसिंहशुकवानरमल्लहंस-</l>
  <l>कादम्बकैरपि गतिः सदृशी शुभा स्यात् ।</l>
  <l>गन्धर्वकिन्नरसुपर्णकसूकरैश्च</l>
  <l>शार्दूलराजशरभोरगचक्रवाकैः ॥ १२ ॥</l>
</lg>
<lg>
  <l>जिह्वामूलसमुद्भवं निगदितं फेनायितं स्याद् रुतं</l>
  <l>तत् पोतायितमोष्ठतालुजनितं तत् कण्ठजं गर्जितम् ।</l>
  <l>तत् प्रोक्तं हसितं कपोलकरजं सर्वं तदेतच्छुभं</l>
  <l>क्षुत्तृट्छोकभयोद्भवं निगदितं निन्द्यं भृशं दन्तिनाम् ॥ १३ ॥</l>
</lg>
<lg>
  <l>गम्भीरसौम्यहृष्टाः स्वस्थाः शृङ्गारिणस्तथा स्निग्धाः ।</l>
  <l>नादाः शुभा नराधिप ! षडेव कथिता गजेन्द्राणाम् ॥ १४ ॥</l>
</lg>
<lg>
  <l>हस्तेन मृदङ्गरवं कर्णाभ्यां दुन्दुभिस्वनं चैव ।</l>
  <l>दर्दुररवं मुखेन च करोति यः पूजितः स गजराजः ॥ १५ ॥</l>
</lg>
<lg>
  <l>हंससारसमयूरकोकिलव्याघ्रसिंहवृषसन्निभस्वराः ।</l>
  <l>पूजिताः करभकाकजम्बुकक्रोडवानरसमा न शोभनाः ॥ १६ ॥</l>
</lg>
<pb n="14" />
<lg>
  <l>गुणग्रामसमग्राश्चेद्धीनाधिकनखा गजाः ।</l>
  <l>दोषानेव प्रकुर्वन्ति विपरीताश्च [‍^१]शोभनम् ॥ १७ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
शुभलक्षणाधिकारो द्वितीयः पटलः ।</p>
<p>अथ तृतीयः पटलः ।</p>
<lg>
  <l>हीनाधिक्यनखाङ्गदृश्यवृषणो ह्रस्वाङ्गुलिर्वामनो</l>
  <l>मण्डूकोदरकुब्जनीलशबलश्यावाभतालुस्तथा ।</l>
  <l>स्थूलश्चातितनुर्जलूकसदृशश्चातुल्यपार्श्वद्वयो</l>
  <l>रूक्षो निर्मदनीचपुष्करकरः पूज्यो न चायं गजः ॥ १ ॥</l>
</lg>
<lg>
  <l>राजिग्रन्थियुतातिरूक्षशबलस्थूले विषाणे किला-</l>
  <l>स्यस्निग्धासमशुभ्रबिन्दुमदतिह्रस्वः सिराभिस्ततः ।</l>
  <l>मेढ्रो यस्य कृशोऽतिवक्रविपुलव्याविद्धसग्रन्थिक-</l>
  <l>ह्रस्वो वालधिरल्पपेचककलापृष्ठः स निन्द्यो गजः ॥ २ ॥</l>
</lg>
<lg>
  <l>लक्ष्यमुष्कस्तु मातङ्गो यत्र तिष्ठति पार्थिव !।</l>
  <l>हन्यते तत्र नृपतिः सुतेन सुहृदाथ[‍^२] वा ॥ ३ ॥</l>
</lg>
<lg>
  <l>कर्णहीनो दक्षिणतश्चातुर्वर्ण्यविनाशनः ।</l>
  <l>वामतः शिल्पिनो हन्याद् रोगार्तोऽपि भवेन्नृपः ॥ ४ ॥</l>
</lg>
<lg>
  <l>त्वग्दन्ततालुनखरादिषु पुष्पितो य-</l>
  <l>स्त्याज्योऽत्र तद्दहनलेखनकर्म यद्वा ।</l>
  <l>तच्छान्तिकर्म सकलं प्रतिसारणं च</l>
  <l>तच्छेदनं च मतिमान् विधिवत् प्रकुर्यात् ॥ ५ ॥</l>
</lg>
<note>'नाः' ग-पाठः ।</note>
<note>'सह' ग-पाठः ।</note>
<pb n="15" />
<lg>
  <l>हृष्टोऽत्यर्थं रजन्यां भ्रमति खलु दिवा प्राक् प्रहृष्टः शकुन्तैः</l>
  <l>कूजन् वाञ्छन् वियत्युत्पतितुमपि सदा वालदण्डेन वीजन् ।</l>
  <l>गात्रोत्कर्षी च बाढं मुहुरपि न वशे वर्तते यश्च यन्तु -</l>
  <l>स्तं विद्याद् व्यालहस्तीत्यखिलगुणगणाढ्योऽपि न ग्राह्य एषः ॥ ६॥</l>
</lg>
<lg>
  <l>पोतान्विता वा करिणी सगर्भा</l>
  <l>लब्धा भवेद् वाहनकोशनाशः ।</l>
  <l>तपोवने वा स्ववनेऽथ वापि</l>
  <l>नीत्वार्पयेद् दिग्गजदेवपूजाम् ॥ ७ ॥</l>
</lg>
<p>इति मातङ्गलीलायाम्
अशुभलक्षणाधिकारस्तृतीयः पटलः ।</p>
<p>अथ चतुर्थः पटलः ।</p>
<lg>
  <l>स्निग्धदन्तनखरोमचक्षुषो दीर्घकर्णकरवालवंशिनः ।</l>
  <l>प्राक्प्रदेशपरिपूर्णलक्षणास्तुल्यमस्तकतलाश्चिरायुषः ॥ १॥</l>
</lg>
<lg>
  <l>सप्तरक्ततनवः षडुन्नताः सुप्रभावमनसः सुगन्धयः ।</l>
  <l>नीलनीरदनिभा विराविणो द्वित्ररोमनिलयाश्चिरायुषः ॥ २ ॥</l>
</lg>
<lg>
  <l>गात्रोत्तमाङ्गनयनाननकर्णकण्ठ-</l>
  <l>वक्षोविषाणकरसत्त्वरूचोऽपराणि ।</l>
  <l>अङ्गानि चेति सदृशानि वयोदशाभिः</l>
  <l>क्षेत्राण्यमूनि करिणां दश च द्वयं च ॥ ३ ॥</l>
</lg>
<lg>
  <l>क्षेत्राणां यावतां पूर्णं लक्षणं यस्य दृश्यते ।</l>
  <l>दशास्तावत्य एवायुस्तस्येत्याह बृहस्पतिः ॥ ४ ॥</l>
</lg>
<pb n="16" />
<lg>
  <l>त्रीणि पञ्च च सप्ताष्टौ लिङ्गान्येतानि यस्य वै ।</l>
  <l>आयुः स लभते तावद्दीर्घमित्यस्य मे मतिः ॥ ५ ॥</l>
</lg>
<lg>
  <l>चतुर्थी मृगजात्यस्य मन्दजात्यस्य चाष्टमी ।</l>
  <l>द्वादशी भद्रजात्यस्य परमायुरिहोच्यते ॥ ६ ॥</l>
</lg>
<p>इति मातङ्गलीलायाम्
आयुर्लक्षणाधिकारश्चतुर्थः पटलः ।</p>
<p>अथ पञ्चमः पटलः ।</p>
<lg>
  <l>आ द्वादशाब्दाद् वयसा जघन्यो</l>
  <l>मध्यश्चतुर्विंशतिवत्सरात् प्राक् ।</l>
  <l>आ षष्टिसंवत्सरतः पुरायं</l>
  <l>मातङ्गवर्यो वयसोत्तमाख्यः ॥ १ ॥</l>
</lg>
<lg>
  <l>श्लक्ष्णः सुताम्रो मृदुगात्ररोमा</l>
  <l>निद्रालुरङ्कुरितहस्तलक्ष्यः ।</l>
  <l>अव्यक्तरूपाङ्गयुतः स्तनार्थी</l>
  <l>बालाह्वयोऽयं प्रथमे तु वर्षे ॥ २ ॥</l>
</lg>
<lg>
  <l>किञ्चित्सान्द्रनखोऽतिरागरसनोष्ठादिः पयोऽल्पं पिबन्</l>
  <l>किञ्चिद्वल्लितृणा<ref>१</ref>दि खादितुमना गात्रान्तरे लोहितः ।</l>
  <l>द्राग् धावत्यनिमित्तमेव मुदितः प्रायः सितामीलितो</l>
  <l>नम्राक्षो नयनप्रमोदकृदयं वर्षद्वये पुच्चुकः ॥ ३ ॥</l>
</lg>
<note>'णानि खा' ख. पाठः ।</note>
<pb n="17" />
<lg>
  <l>स्फुटनखविदुसन्धिश्रोत्रदन्तप्रवेष्ट</l>
  <l>च्छविरुरसि सबिन्दुः कर्ण<ref>*</ref>पिञ्छूषयोश्च ।</l>
  <l>श्रवसि शिरसि केश्युन्नम्रशीर्षस्तृणादी</l>
  <l>दृढतररदपङ्क्तिश्चोपसर्पस्तृतीये ॥ ४ ॥</l>
</lg>
<lg>
  <l><ref>‡</ref>विलागनिष्कोशविलोहितः पयो-</l>
  <l>द्विट् प्रोहसन्दानघनस्तृणप्रियः ।</l>
  <l>कृष्णान्ततालुः पृथुलश्चतुष्टये</l>
  <l>मनाक् प्ररोहद्दशनो हि बर्बरः ॥ ५ ॥</l>
</lg>
<lg>
  <l>काष्ठत्वक्तनुसेवनस्तनुकचः पङ्काम्बुपांसुप्रियः</l>
  <l>स्वल्पं हृष्यति कोपमेति च सुखं दुःखं यतं बुध्यते ।</l>
  <l>शब्दादीनपि वेत्ति यन्तृवशगो ह्युत्तानवित् प्रोल्लस-</l>
  <l>द्धाटावग्रहदन्त एष कलभः प्राप्तः समां पञ्चमीम् ॥ ६ ॥</l>
</lg>
<lg>
  <l>पिञ्छूषकर्णकटसृक्कविलागनेत्र-</l>
  <l>कूटाग्रकर्णयुगलप्रतिमानदेशे ।</l>
  <l>यः सान्द्रबिन्दुसुभगो वलिहीनवर्ष्मा</l>
  <l>नैकारिकं तमिह षट्सममामनन्ति ॥ ७ ॥</l>
</lg>
<lg>
  <l>घननखतलसन्धिप्रोहसन्दानचिक्का-</l>
  <l>पलिकरनखशीर्षो दन्तखादी सकण्डूः ।</l>
  <l>स्फुटचरणजवावस्कारवान् सप्तवर्षः</l>
  <l>शिशुरिति कथितोऽसौ स्निग्धदोःपुष्कराग्रः ॥ ८ ॥</l>
</lg>
<note>'पिन्छूषा कर्णपाली स्याद्' इति षष्ठे पटले वक्ष्यते ।</note>
<note>विलागादिपदानामर्थः षष्ठे पटले स्पष्टः । 'मध्येमुखं तु वाहित्थं पिलाटौ तस्य पार्श्वयोः' इति विलागशब्दार्थे पिलाटशब्द एव वैजयन्त्यां पठ्यते ।</note>
<pb n="18" />
<lg>
  <l>घननखतलसन्धिः क्षिप्ररोहित्रणौघो</l>
  <l>मृदुमृदुयवसाशी सञ्चलद्दन्तपङ्क्तिः ।</l>
  <l>चपलगतिरजस्रं वर्षघर्षी प्रहर्षी</l>
  <l>प्रहरणमृदुकोऽसावष्टमे मज्जनाख्यः ॥ ९ ॥</l>
</lg>
<lg>
  <l>शुक्लेक्षणः प्लवति धेनुममुक्तशुक्लः</l>
  <l>स्निग्धच्छविः प्रततदन्तचयः पृथूराः ।</l>
  <l>यो रन्ध्रसन्धिषु घनः सुदृढप्रहारी</l>
  <l>दन्तारुणं नवसमाप्रभवं वदन्ति ॥ १० ॥</l>
</lg>
<lg>
  <l>सञ्जातशुक्लः प्लवने स्थिराङ्गः प्रहृष्टमेढ्रः स्थिरजातदन्तः ।</l>
  <l>तेजोबलाढ्यो दशमे सुखादी यूथप्रहर्षी च स एव विक्कः ॥ ११ ॥</l>
</lg>
<lg>
  <l>उत्साही स्फुटगात्रसन्धिसुभगो गर्भप्रदो दुःखभाक्</l>
  <l>सप्रोहादिवलिर्घनप्रहरणः पीताभदन्तच्छविः ।</l>
  <l>दुर्गस्थानरतः सुवृत्तजघनावस्कारकर्णाञ्चलः</l>
  <l>पोताख्यः स्मरवेगविक्रमबली यातो द्वितीयां दशाम् ॥ १२ ॥</l>
</lg>
<lg>
  <l>तत्तन्मानविभक्तकर्णरसनोत्सङ्गादिरुद्यन्मद-</l>
  <l>घ्राणः सर्वगुणान्वितो दृढरणः सुस्निग्धरोमच्छविः।</l>
  <l>क्षीबाक्षः प्रियदर्शनोऽक्ष<ref>१</ref>विलसद्वृद्धिः सुधीः कोपनो</l>
  <l>हन्ता धातुसमः स एव जवनो यातस्तृतीयां दशाम् ॥ १३ ॥</l>
</lg>
<lg>
  <l>सन्दानादिषु जातसुस्थिरवलिर्गृह्णाति युक्तं मदं</l>
  <l>निद्राद्विट् प्रतिदन्तिवैरिमनसा भीतोऽनले धूपनात् ।</l>
  <l>गर्जन्नुद्धतगात्ररोमनिचयो युद्धप्रयोगप्रियः</l>
  <l>कल्याणो ह्ययमेव वारणयुवा प्राप्तचतुर्थीं दशाम् ॥ १४ ॥</l>
</lg>
<note>'तिवि' ख. पाठः ।</note>
<pb n="19" />
<lg>
  <l>सन्दानप्रभृतिप्रदेशविलसद्दानाविलोद्यद्वली-</l>
  <l>सान्द्रः कर्णकट[‍^१]क्षयेषु सहजामायाति च श्रेष्ठताम् ।</l>
  <l>द्राङ् माद्यत्यनिमित्तमेव मुदितः शूरोऽतिसर्वंसहो</l>
  <l>यौधो नाम सदा मदाविलकटः प्राप्तो दशां पञ्चमीम् ॥ १५ ॥</l>
</lg>
<lg>
  <l>ऊर्ध्वं विनिर्भिण्णवलिप्रदेशः किञ्चिद्विहीनेन्द्रियधातुतेजाः ।</l>
  <l>वेष्टोष्ठकर्णादिषु जातरोमा षष्ठीं गतो निस्सृतदन्तमूलः ॥ १६ ॥</l>
</lg>
<lg>
  <l>अल्पाग्निपित्तो बहुमातरिश्वा</l>
  <l>स्तब्धाङ्गयुक्तः परुषच्छविश्च ।</l>
  <l>अल्पाङ्गचेष्टोऽतिकफो विवर्णः</l>
  <l>प्राप्तो दशां सोऽप्यथ सप्तमीं वै ॥ १७ ॥</l>
</lg>
<lg>
  <l>नित्याश्रुः सततं कटस्रुतकफो दुर्वर्णरूक्षच्छवि-</l>
  <l>र्भीत्या यूथबहिश्चरः स्मरधिया दन्ताभिवृद्ध्योज्झितः ।</l>
  <l>निर्वीर्यः सततं पिनद्धनयनो न क्षिप्ररोहिव्रणो</l>
  <l>ह्यष्टम्यां छविरप्यपोहति भृशं सम्भिन्नरोमावलिः ॥ १८ ॥</l>
</lg>
<lg>
  <l>स्रस्तग्रीवः प्रचलदशनो मन्दसर्वाङ्गचेष्टो</l>
  <l>दन्तस्रावी मृदुयवसभुग् निर्मदो निस्सपत्नः ।</l>
  <l>रूक्षच्छायो वलितततनुर्यूथपृष्ठानुगामी</l>
  <l>विश्लिष्टाङ्गः स्वपिति ([‍^२] च तरां ?) यो नवम्यां पुराणः ॥ १९॥</l>
</lg>
<lg>
  <l>विस्रस्तश्रवणांसवालधिकरः शीर्णाङ्गरोमा चल-</l>
  <l>द्दन्तो मांसबलक्षयी चलतलः प्रस्रस्तपादोऽल्पभुक् ।</l>
  <l>रूक्षाङ्गः पटली सिराचिततनुः कृच्छ्राच्छकृन्मूत्रमुक्</l>
  <l>तृष्णालुः कृमिजालभक्षितनखो वृद्धो दशम्याश्रितः ॥ २० ॥</l>
</lg>
<p>[‍^१] क्षयो गजजानुभागविशेषः ।
[‍^२] 'नितराम्' इति स्यात् ।</p>
<pb n="20" />
<lg>
  <l>शेते द्रुमे नाप्सु कफाक्त[‍^१]लण्डः संकोचमेही मृदुखादनश्च ।</l>
  <l>अवाग्विषाणः स्थिरगात्ररोगी दशान्विते वर्षशतेऽपि नागः ॥ २१ ॥</l>
</lg>
<lg>
  <l>नीचैश्च मन्दं प्रमृशेच्च यायाच्चलत्करोऽधश्चलकर्णवालः ।</l>
  <l>प्रस्तब्धगात्रापरवानजस्रं स द्वादशीं प्राप्य दशां स्वपेच्च ॥ २२ ॥</l>
</lg>
<lg>
  <l>एवं वर्षशतं विंशमवस्थाय महीपते ! ।</l>
  <l>कृत्वा बहुविधं कर्म स्वर्गं गच्छति वारणः ॥ २३ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
वयोलक्षणाधिकारः पञ्चमः पटलः ।
अथ षष्ठः पटलः ।</p>
<lg>
  <l>नेत्रादापेचकं दैर्ध्यं नखादास्कन्धमुच्छ्रयः ।</l>
  <l>परीणाहः प्रमातव्यः कक्ष्यास्थानेषु दन्तिनाम् ॥ १॥</l>
</lg>
<lg>
  <l>सञ्जातमात्रमृगजात्यगजस्य दैर्ध्यं</l>
  <l>सार्धैकहस्तमिह चैककरोच्छ्रयः स्यात् ।</l>
  <l>नाहो द्विहस्त इति च प्रतिवर्षमेषां</l>
  <l>पञ्चाङ्गुलर्धिरुदिता दशवत्सरान्तम् ॥ २ ॥</l>
</lg>
<lg>
  <l>पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यं नाहप्रमाणं तु वितस्तयोऽष्टौ ।</l>
  <l>एतद्विवृद्धावथ मन्दभद्रौ प्राप्ते तु वर्षे दशमे त्रियुक्ते ॥ ३ ॥</l>
</lg>
<lg>
  <l>षट्पञ्चचतुरुच्छ्राया अष्टसप्तषडायताः ।</l>
  <l>नवाष्टसप्तनाहाश्च मुख्यमध्याधमा वशाः ॥ ४ ॥</l>
</lg>
<p>[‍^१] लण्डो विष्ठा ।</p>
<pb n="21" />
<lg>
  <l>अतिस्थूलाः कृशाश्चैव हीनाङ्गाश्चैव ये गजाः ।</l>
  <l>तेषामङ्गान्यमेयानि प्रत्यङ्गानि च पार्थिव ! ॥ ५ ॥</l>
</lg>
<lg>
  <l>समसर्वाङ्गदेहस्य वारणस्य महीपते ! ।</l>
  <l>प्रमाणमिष्टं सर्वत्र कल्याणस्य विशेषतः ॥ ६ ॥</l>
</lg>
<lg>
  <l>शिरसः पिण्डौ कुम्भौ भवतो विदुसंज्ञ एतयोर्मध्यः ।</l>
  <l>तस्याधोऽवग्रह इति वाहित्थं कुम्भयोरधोभागः ॥ ७ ॥</l>
</lg>
<lg>
  <l>तस्याधः प्रतिमानं तन्मध्यो वायुकुम्भसंज्ञः स्यात् ।</l>
  <l>वाहित्थपार्श्वयुगलं विलागसंज्ञं भवेद् गजानां तु ॥ ८ ॥</l>
</lg>
<lg>
  <l>पुष्करोपरि गण्डूष ईषिका त्वक्षिकूटकम् ।</l>
  <l>अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ९ ॥</l>
</lg>
<lg>
  <l>पिञ्छूषा कर्णपाली स्यात् प्रोहाख्योऽन्तरमंसयोः ।</l>
  <l>हस्तोपरि त्ववस्कारस्तदूर्ध्वं पलिसंज्ञकम् ॥ १० ॥</l>
</lg>
<lg>
  <l>देहमध्यं तु निगलस्थानं चिक्का तदूर्ध्वतः ।</l>
  <l>सन्दानं जघनादूर्ध्वं कालभागस्त्वधोऽस्य च ॥ ११ ॥</l>
</lg>
<lg>
  <l>पक्षाधोऽप्यपरौ ज्ञेयौ निष्कोशः पक्षपृष्ठयोः ।</l>
  <l>कुक्षिः पश्चात् तयोस्ताभ्याम् (?)उत्कृष्टाविति संज्ञितौ ॥ १२ ॥</l>
</lg>
<lg>
  <l>पुच्छमूलसमीपं स्यात् पेचकं तु गलादधः ।</l>
  <l>उरस्यन्तर्मणिं विद्याद् ग्रीवासन्धिसमाश्रितम् ॥ १३ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
माननिर्णयाधिकारः षष्ठः पटलः ।</p>
<pb n="22" />
<p>अथ सप्तमः पटलः ।</p>
<lg>
  <l>एतावन्मूल्यमेषामलमिति गदितुं नो समर्था मनुष्याः</l>
  <l>क्रेतुर्विक्रेतुरेकं यदिह बहुमतं तद्विदुर्मुख्यमूल्यम् ।</l>
  <l>एकस्यासम्मतं मध्यममनभिमतं चोभयोर्निन्द्यमस्मात्</l>
  <l>तद्ज्ञैः सर्वं विदित्वा बहुभिरवहितैर्मूल्यमूह्यं गजानाम् ॥ १॥</l>
</lg>
<lg>
  <l>गृह्णीयात् पूर्णमूल्येन तु निखिलगुणैरन्वितं वारणेन्द्रं</l>
  <l>भग्नैकाक्ष्यङ्घ्रिदन्तं बधिरमपि रुजावन्तमप्यर्धमूल्यात् ।</l>
  <l>छिन्नार्धश्रोत्रवालादिकमपि मतिमांस्तत्र मूल्यत्रिभागाद्</l>
  <l>दन्तद्वन्द्वप्रहीणादिकभिभवरमप्यङ्घ्रिमूल्येन गृह्यात् ॥ २ ॥</l>
</lg>
<lg>
  <l>वामदन्तोन्नतं विद्याद[^१]पाकीलं तु मूल्यतः ।</l>
  <l>अष्टांशहीनतो विद्याद्वशा मूल्यत्रिभागतः ॥ ३ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
मूल्यविशेषाधिकारः सप्तमः पटलः ।
अथाष्टमः पटलः ।</p>
<lg>
  <l>देवदानवगन्धर्वयक्षराक्षसमानुषान् ।</l>
  <l>पिशाचोरगसत्त्वांश्च लक्षयेत् स्वस्वलक्षणैः ॥ १ ॥</l>
</lg>
<lg>
  <l>यः कान्तिमान् कुमुदचन्दनसप्तपर्ण-</l>
  <l>नारङ्गपद्म[^२]चतुरङ्गुलतुल्यगन्धः ।</l>
  <l>फुल्लाननः कळभकौतुकवानजस्रं</l>
  <l>मान्योऽन्यपुष्टनिनदः स तु देवसत्त्वः ॥ २ ॥</l>
</lg>
<p>[^१] 'द् द्विपं हीनं' ग-पाठः ।
[^२] चतुरङ्गुलः शम्याकः ।</p>
<pb n="23" />
<lg>
  <l>निन्द्योद्यतो युद्धरतोऽतिमात्रं क्षुद्रस्वभावो न मनाग् दयालुः ।</l>
  <l>स सिन्दुवारागुरुमत्स्यगन्धी हन्ता करी दानवसत्त्व एषः ॥ ३ ॥</l>
</lg>
<lg>
  <l>गन्धर्वमाहुरतिमुक्तकयूथिकाब्ज-</l>
  <l>पुन्नागनागहरिचन्दनतुल्यगन्धम् ।</l>
  <l>[^१]गानप्रियं शुभगतिं शुभदन्तनेत्र-</l>
  <l>कुम्भोत्तमाङ्गकरपुष्करमल्पबिन्दुम् ॥ ४ ॥</l>
</lg>
<lg>
  <l>शुचिरक्षान्तशीलश्च सुभगः प्रियदर्शनः ।</l>
  <l>तेजस्वी हृष्टकर्णश्च यक्षसत्त्वो मतङ्गजः ॥ ५ ॥</l>
</lg>
<lg>
  <l>यः काकवानरखरोष्ट्रबिलाळमूत्र-</l>
  <l>विट्पूतिगन्धिरिभहा निशि दारुणश्च ।</l>
  <l>इष्टाम्लमांसरुधिरोऽविनयी कृतग्घ्नः</l>
  <l>सत्त्वेन राक्षस इति प्रतिकूलकारी ॥ ६ ॥</l>
</lg>
<lg>
  <l>शून्यप्रियः कुणपलोहसमानगन्धो</l>
  <l>भ्रान्तो निशासु विचरन् घननिस्वनश्च ।</l>
  <l>पर्वस्वतीव परिकुप्यति यश्च मूढ-</l>
  <l>स्तं सूरयो गजमुशन्ति पिशाचसत्त्वम् ॥ ७ ॥</l>
</lg>
<lg>
  <l>यो मत्स्यशैवल[^२]फणिर्जककर्दमानां</l>
  <l>गन्धैः सुरापिशितयोरपि तुल्यगन्धः ।</l>
  <l>त्रस्तो भवेज्जलदशब्दमपि प्रशृण्वन्</l>
  <l>क्रुद्धो निशासु जलपांसुरतो भुजङ्गः ॥ ८ ॥</l>
</lg>
<p>[^१] 'नागप्रि' क.पाठः ।
[^२] फणिर्जकस्तुलसीभेदः ।</p>
<pb n="24" />
<lg>
  <l>विप्रः शुचिर्मधुपयःपरमान्नसार्पि-</l>
  <l>श्चूतप्रसूनसमगन्धसुगन्धिताङ्गः ।</l>
  <l>सामप्रियः सकलनागहितश्च शान्तः</l>
  <l>स्नानप्रियः शुभमतिर्गदितो मुनीन्द्रैः ॥ ९ ॥</l>
</lg>
<lg>
  <l>यश्चन्दनाज्यहरितालमनःशिलानां</l>
  <l>गन्धेन तुल्य इह गुग्गुलुकस्य चापि ।</l>
  <l>सन्नाह्यकर्मकुशलो युधि निर्भयश्च</l>
  <l>स क्षत्रियो विविधशस्त्रनिपातशूरः ॥ १० ॥</l>
</lg>
<lg>
  <l>बन्धूकशालितिलकैतकमालतीनां</l>
  <l>गन्धेन यश्च समलङ्कृततालुजिह्वः ।</l>
  <l>क्लेशक्षमः पिशितभुक् प्रियसान्त्वनश्च</l>
  <l>क्रुद्धोऽपि तूर्णमुपशाम्यति वैश्यजातिः ॥ ११ ॥</l>
</lg>
<lg>
  <l>उच्छिष्टहृष्टः सहसैव भीरुः</l>
  <l>शुक्ताम्लबस्तास्थिकुळीरगन्धः ।</l>
  <l>क्रोधी च भेद्यः कृपणः कृतघ्नः</l>
  <l>सत्त्वेन शूद्रः स गजाधमश्च ॥ १२ ॥</l>
</lg>
<lg>
  <l>विश्वासघातकः क्रूरो गमने कुटिलक्रमः ।</l>
  <l>न भुङ्क्ते समदोऽत्यर्थं सर्पसत्त्वः करी मतः ॥ १३ ॥</l>
</lg>
<lg>
  <l>देवक्षत्रियगन्धर्वविप्रसत्त्वास्तु सात्त्विकाः ।</l>
  <l>राजसौ वैश्यशूद्रौ तु तामसाश्च तथापरे ॥ १४ ॥</l>
</lg>
<lg>
  <l>नागानां हरिपीतकालधवला वर्णाश्चतुर्धा क्रमाद्</l>
  <l>रक्तात् पित्तयुताद् [^१]बलाससहिताद्रक्ताच्च पित्तात् कफात् ।</l>
  <l>सञ्जाताः खलु बर्हहेमजलदज्योत्स्नासमास्तेष्वसौ</l>
  <l>कालस्त्वेक इहावनौ भवति ते शेषास्त्रयः स्वःस्थले ॥ १५ ॥</l>
</lg>
<p>[^१] बलांसः कफधातुः ।</p>
<pb n="25" />
<lg>
  <l>छाया पञ्चविधा यथा दिनमणिं कादम्बिनी छादयेद्</l>
  <l>देहस्थं द्विरदस्य लक्ष्म च तथा सा भूतभेदाद् भवेत् ।</l>
  <l>आद्या नीरधराकृतिर्धरणिजा नैका सुवर्णाग्निजा</l>
  <l>तिस्रः पूज्यतमा इमारतदितरे रूक्षे परं निन्दिते ॥ १६ ॥</l>
</lg>
<lg>
  <l>गन्धर्वोरगयक्षसत्त्वकरिणः [^१]सान्नाहिकाः क्षत्रियः</l>
  <l>सान्नाह्ये तु विशेषतो द्विजसुरा यागादिकर्मादिषु ।</l>
  <l>योज्याः कर्मसु वैश्यजातिरखिलेष्वन्ये च युद्धे वधे</l>
  <l>भाण्डादेर्वहने च चौरहनने व्याघ्रादिविध्वंसने ॥ १७ ॥</l>
</lg>
<lg>
  <l>अत्यर्थोत्तानगम्भीरान्वर्थप्रत्यर्थकर्कशैः ।</l>
  <l>सिद्धेनापि च नागानां वेदनं सप्तधा विदुः ॥ १८ ॥</l>
</lg>
<lg>
  <l>प्राजनाङ्कुशदण्डेभ्यो दूरादुद्विजते हि यः ।</l>
  <l>स्पृष्टो वा व्यथतेऽत्यर्थं स गजोऽत्यर्थवेदनः ॥ १९ ॥</l>
</lg>
<lg>
  <l>त्वचः संसर्गमात्रेण रोम्णां स्पर्शेन वा पुनः ।</l>
  <l>तीक्ष्णतोत्राङ्कुशन्यासं वेत्ति सोत्तानवेदनः ॥ २० ॥</l>
</lg>
<lg>
  <l>त्वग्भेदाच्छोणितस्रावादामांसव्यथनादपि ।</l>
  <l>यो न वेत्त्यङ्कुशाघातं स वै गम्भीरवेदनः ॥ २१ ॥</l>
</lg>
<lg>
  <l>यतयाते वेदयते न बिभेति न मुह्यति ।</l>
  <l>यो गजस्तं विजानीयात् प्राज्ञस्त्वन्वर्थवेदनम् ॥ २२ ॥</l>
</lg>
<lg>
  <l>प्रत्येति यश्चोद्यमानो गृहीतश्च न गच्छति ।</l>
  <l>प्रतिलोमयते संज्ञां यः स प्रत्यर्थवेदनः ॥ २३ ॥</l>
</lg>
<p>असङ्कल्पमसंवेदं प्रतिलोमयते च यः ।
[^१] 'सन्नाहिनां' ग-पाठः ।</p>
<pb n="26" />
<p>यो दोषं भजतेऽत्यर्थं स स्यात् कर्कशवेदनः ॥ २४ ॥</p>
<lg>
  <l>यः श्लक्ष्णः सर्वभावेषु विशुद्धश्चोत्तमोत्तमः ।</l>
  <l>तं सिद्धवेदनं प्राहुर्मातङ्गं मुनिपुङ्गवाः ॥ २५ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
सत्त्वलक्षणाधिकारोऽष्टमः पटलः ॥
अथ नवमः पटलः ।</p>
<lg>
  <l>अतिमधुररसानां सेवया पत्रभङ्गैः</l>
  <l>कबळकुबळशष्पैरन्नपानैर्यथोक्तैः ।</l>
  <l>श्रुतिसुभगवचोभिः पांसुपङ्काम्बुदानै-</l>
  <l>र्भवति मुदितचेताः कामचारेण नागः ॥ १ ॥</l>
</lg>
<lg>
  <l>यथा यथा हर्षमुपैति नागस्तथा तथा धातुरुपैति वृद्धिम् ।</l>
  <l>अतः करिण्या सहचार इष्टो ह्यनर्गळं चाम्भसि संविहारः ॥ २ ॥</l>
</lg>
<lg>
  <l>गण्डूषाद्भिः परिमलभरोद्गारिणा वारिणा यत्</l>
  <l>फुल्लाम्भोजे सरसि रमते सेवमानो बिसानि ।</l>
  <l>यद्रोचिष्णुः श्रयति यवसं स्वेच्छया संप्रचारो</l>
  <l>हर्षादस्मात् स्फुरति करिणो धातुसाम्यं नरेन्द्र ! ॥ ३ ॥</l>
</lg>
<lg>
  <l>हर्षाधिकत्वान्नागानां मदो भवति पार्थिव ! ।</l>
  <l>वियुक्तस्य तु हर्षेण मदो नागस्य हीयते ॥ ४ ॥</l>
</lg>
<lg>
  <l>अक्षितालुकटश्रोत्रनाभिकोशकरस्तनैः ।</l>
  <l>स्रवेत् तनूरुहैरेवं बहुधैव मदो नृप ! ॥ ५ ॥</l>
</lg>
<p>प्रहर्षः शीघ्रता गन्धो गतिर्देहस्य गन्धता ।</p>
<pb n="27" />
<p>क्रोधो वीर्यमभीरुत्वमष्टौ मदगुणाः स्मृताः ॥ ६ ॥</p>
<lg>
  <l>सृष्ट्वा पुरा मदमजोऽथ तदर्धभागं</l>
  <l>क्षिप्त्वा चराचरजगत्सु गजेषु चार्धम् ।</l>
  <l>निक्षिप्तवानपरमप्यथ तेन मत्ता</l>
  <l>युध्यन्ति कोपमुपयान्ति च तेऽभिभूताः ॥ ७ ॥</l>
</lg>
<lg>
  <l>प्राप्नुवन्त्यार्त्तवीं वृद्धिं मददृष्ट्या महीरुहाः ।</l>
  <l>स्मर्यमाणमदेनान्ये प्राणिनोऽपि मुदान्विताः ॥ ८ ॥</l>
</lg>
<lg>
  <l>राष्ट्रे वा नगरे प्रमाद्यति यदि क्षोणी सुभिक्षा भवेत्</l>
  <l>पूर्वं दक्षिणतः कटे यदि जयो राज्ञो नियन्तुर्भवेत् ।</l>
  <l>वामे चेत् पृथिवी सुवृष्टिरुचिरा कोशे यदि स्फूर्जते</l>
  <l>कोशेनापि कटद्वयेन च समं मुञ्चेद्यशस्वी नृपः ॥ ९ ॥</l>
</lg>
<lg>
  <l>वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टि-</l>
  <l>र्यायाद् यत्रानुलोमस्त्वरितपदगतिर्वक्रमुन्नाम्य चोच्चैः ।</l>
  <l>कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा</l>
  <l>तत्कालं वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च ॥ १० ॥</l>
</lg>
<lg>
  <l>[^१]स्खलितगतिरकस्मात् स्रस्तकण्ठोऽतिदीनः</l>
  <l>श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।</l>
  <l>द्रुतमुकुलितदृष्टिः स्वप्नशीलोऽलसाङ्गो</l>
  <l>भयकृदमितभक्षी नैकशो मूत्रकृच्च ॥ ११ ॥</l>
</lg>
<lg>
  <l>मधुरुचिनखदन्तप्रेक्षणो नीलमेघच्छवि-</l>
  <l>ररुणदृगन्तः पद्मकिञ्जल्कबिन्दुः ।</l>
  <l>अपरगजविरोधी पांसुपाथोविहारै-</l>
  <l>र्भवति च कटपूर्णः सुन्दरो वारणेन्द्रः ॥ १२ ॥</l>
</lg>
<p>[^१] 'त्वरित' ग-पाठः ।</p>
<pb n="28" />
<lg>
  <l>धाराळदानजलधौतकपोलभागः</l>
  <l>संवर्त्तमेघसदृशस्तनिताभिपूर्णः ।</l>
  <l>दूरस्थितानपि निहन्तुमनाः प्रधाव-</l>
  <l>न्नुक्तो गजाधिपतिरार्द्रकपोलितो यः ॥ १३ ॥</l>
</lg>
<lg>
  <l>तिर्यक्तिर्यङ् नयनमसकृत् पक्षयोर्वीक्षमाणो</l>
  <l>बिन्दुं बिन्दुं विसृजति मदं कोशदण्डेन नागः ।</l>
  <l>पश्चाद् गन्तुं व्यवसितमना बृंहते भूरिदानः</l>
  <l>स्तम्भद्वेषी चतुरगमनो लक्ष्यते योऽनिबन्धात् ॥ १४ ॥</l>
</lg>
<lg>
  <l>सप्तच्छदाम्भोजसमानगन्धः क्रुद्धः सदा कुङ्कुमवर्णदानः ।</l>
  <l>आचोदितो हस्तिरथाश्वसङ्घान्नासादितो गन्धचरामवस्थाम् ॥ १५ ॥</l>
</lg>
<lg>
  <l>अभिलषति नगर्यामन्नपानं च चाटून्</l>
  <l>निशि च तमसि तिष्ठेदप्रगृह्यो नियन्तुः ।</l>
  <l>करितुरगपदातीन् प्राप्य किञ्चिन्न मुञ्चेद्</l>
  <l>गुणितरुषमुपेतः क्रोध[^१]धीः कुञ्जरेन्द्रः ॥ १६ ॥</l>
</lg>
<lg>
  <l>अतिक्रान्तावस्थो गजपतिरिदं स्थावरचरं</l>
  <l>जगत् सर्वं हन्तुं समभिलषति क्रोधकलुषः ।</l>
  <l>न चैकत्र स्थायी परकरटिघण्टां न सहते</l>
  <l>निजच्छायाद्वेषी भवति सततं धावनपरः ॥ १७ ॥</l>
</lg>
<lg>
  <l>निवृत्तमदसञ्चयो विगतवेगकोपोद्धृतिः</l>
  <l>प्रवृत्तमृदुगात्रसञ्चरणकेळिभास्वद्वपुः ।</l>
  <l>विमुक्तगजमत्सरो मदनिवर्त्तने ह्रासने</l>
  <l>पयोद इव राजते परिविमुक्ततोयागमः ॥ १८ ॥</l>
</lg>
<p>[^१] 'धनीं' क-ख-पाठः ।</p>
<pb n="29" />
<lg>
  <l>क्षीयन्ते मदवारणस्य नितरां दानस्रुतेर्धातवो</l>
  <l>जायन्ते प्रबलानि रोगनिकराण्याश्वेव धातुक्षयात् ।</l>
  <l>अन्याब्देषु मदोद्गमं न [^१]भजते तेषां क्षयात् पूर्वतः</l>
  <l>शान्तिं तस्य मदस्य धातुपरतो मासत्रयात् कारयेत् ॥ १९ ॥</l>
</lg>
<lg>
  <l>सहामृताशिग्रुबलाद्विमूर्वाकापित्थसतच्छदचन्दनानाम् ।</l>
  <l>कदम्बगुञ्जामधुकाश्वगन्धाजीवन्तिकाशाल्मलिसूरणानाम् ॥ २० ॥</l>
</lg>
<lg>
  <l>वृश्चीरसेव्येक्षुरकुक्कुटाण्ड-</l>
  <l>गुञ्जाश्वगन्धागुरुगोक्षुराणाम् ।</l>
  <l>केरीपयःक्षौद्रयुतो गजानां</l>
  <l>पिण्डः प्रदेयो मदसम्भवेऽयम् ॥ २१ ॥</l>
</lg>
<lg>
  <l>कोरण्डमल्लिकानिम्बतिल्वमूलैः ससैन्धवैः ।</l>
  <l>सेङ्गुदैर्मधुना पिण्डो देयो रोषविवर्धनः ॥ २२ ॥</l>
</lg>
<lg>
  <l>मातुलुङ्गसुवहासहाकणासप्तपर्णविजयेङ्गुदीमधु ।</l>
  <l>दुग्धपिष्टमिदमङ्गलेपितं मत्तवारणवरं वशं नयेत् ॥ २३ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
मदभेदाधिकारो नवमः पटलः ।
अथ दशमः पटलः ।</p>
<lg>
  <l>वारीकर्मवशाविलोभनविधिभ्यां चानुगत्या तथै-</l>
  <l>वापातेन ततोऽवपातत इतीहेभग्रहः पञ्चधा ।</l>
  <l>निन्द्यास्ते तु यथोत्तरं किल गजा नश्यन्ति यस्मात्ततो</l>
  <l>वर्ज्यावन्त्यभवावुभावपि विशेषादेतयोश्चान्तिमः ॥ १॥</l>
</lg>
<p>[^१] 'सहते' ग-पाठः ।</p>
<pb n="30" />
<lg>
  <l>क्रोशप्रायवितानदीर्घमहिता वारी निखातैर्दृढै-</l>
  <l>र्वृक्षाद्यैः परितो वृतिं च परिखां कृत्वा बहिर्दुस्तराम् ।</l>
  <l>द्वारस्योभयतः प्रकल्पितवृतिद्वन्द्वान्तरस्थां क्रमाद्</l>
  <l>विस्तीर्णां च बहिर्मुखां वितनुयाद्वीथीं च वेण्वादिभिः ॥ २ ॥</l>
</lg>
<lg>
  <l>उद्धृत्योपरि सन्निबध्य च कवाटं द्वारि वार्यन्तरे</l>
  <l>दारुस्तम्भमितस्ततश्च सुदृढं कृत्वा सधारं बहुम् ।</l>
  <l>इक्ष्वाद्यत्र विनिक्षिपेदथ गजान् संवार्य भेर्यादित-</l>
  <l>स्त्रस्तानत्र निवेश्य चार्गलशिखापाशांश्च भिन्द्याद् द्रुतम् ॥ ३ ॥</l>
</lg>
<lg>
  <l>कक्ष्याबन्धककुन्तवेणुसृणिपाशाद्यैर्युता हस्तिपा-</l>
  <l>स्तस्मिन् द्वित्रदिनं प्रतीक्ष्य पुनरभ्येत्याशु वार्यन्तरम् ।</l>
  <l>स्तम्भोपान्तगता गजानपि गृहीत्वोपायवन्तो दृढं</l>
  <l>सम्बध्यात्र गुणान्वितानथ बहिर्यूथं च विद्रावयेत् ॥ ४ ॥</l>
</lg>
<lg>
  <l>कक्ष्याभागे च कण्ठे मृदुतरदृढपाशैर्गजं चारु तूर्णं</l>
  <l>बध्नीयाच्चापराङ्के निगळनमपि तत्पादयोरप्यमीषु ।</l>
  <l>बध्वा पाशानथात्यायतसुदृढतरानग्रतो हस्तिपेन्द्रै-</l>
  <l>राकृष्याकृष्य मन्दं गमयतु शिथिलीकृत्य पाश्चात्यपाशम् ॥ ५ ॥</l>
</lg>
<lg>
  <l>स्तम्भात् स्तम्भान्तरं त्वेवं यापयित्वा शनैर्गजान् ।</l>
  <l>शालां प्रवेशयेदन्यैराप्तैर्दन्तिवरैः सह ॥ ६ ॥</l>
</lg>
<lg>
  <l>आप्ताश्चर्मपटैर्निबद्धजठराः कृत्वा वशाः पञ्चषा-</l>
  <l>स्तच्चर्मान्तरशायिनो गजभटाः पाशादिभिः संयुताः ।</l>
  <l>आराद्यूथमथाङ्गुलिप्रहरणैः प्रापय्य ताः पञ्चषान्</l>
  <l>बध्नीयुश्च गजान् जवादिति वशालोभो वशालोभनात् ॥ ७ ॥</l>
</lg>
<pb n="31" />
<lg>
  <l>वरागुरुक्षीरमहीरुहत्वङ्-</l>
  <l>मालेयकालेयकसेव्यलोध्रैः ।</l>
  <l>स्नाता सुशीतैः कलशस्थिताद्भि-</l>
  <l>र्वशा गजानां तु विलोभनी सा ॥ ८ ॥</l>
</lg>
<lg>
  <l>क्षौद्रोशीरनतैश्च मद्यसहितैर्हस्तीन्द्रमूत्रेण वा</l>
  <l>लेपोऽयं तु वशावराङ्गनिहितो वश्यो गजानां वरः ।</l>
  <l>तद्वद् [^१]बिल्वककुक्कुटाण्डककरञ्जोद्भूतबीजैस्तथा</l>
  <l>लेपोऽयं च वशं नयेद्गजवरान् सम्मिश्रितैर्धन्वनैः ॥ ९॥</l>
</lg>
<lg>
  <l>पथ्यावायसचाष[^२]पत्रनखमञ्जिष्ठासहाशारिबा-</l>
  <l>गोशृङ्गाल[^३]सितेषुपुङ्खसुवहाक्षोणीकदम्बाम्बुजैः ।</l>
  <l>पुत्रञ्चारिनताजरोमखुरमूत्राद्यैर्मयूरीशिखा-</l>
  <l>मालेयाञ्जननागपुष्पमधुभिर्वश्याञ्जनं योजयेत् ॥ १० ॥</l>
</lg>
<lg>
  <l>भेरीतूर्यककाहलादिनिनदैर्विद्राव्य नागान् भृशं</l>
  <l>भीतानाशु सदा ससैन्यमनुधावन्तो भटा निर्भयाः ।</l>
  <l>यावत् पादपरिश्रमेण कळभाः स्तब्धाः स्युरेतांस्तदा</l>
  <l>बध्नीयुश्चतुरा जवादनुगताख्योऽयं गजानां ग्रहः ॥ ११ ॥</l>
</lg>
<lg>
  <l>बह्वग्रास्त्वथ वर्त्तुळीकृतनिबद्धाग्राः पृथग् रज्जवः</l>
  <l>केरीवल्कशलाकिकादिरचिताः पूगद्रुनाहोन्मिताः ।</l>
  <l>प्रायः षष्टिकरायताः सुनिहिताश्चेतस्ततः पांसुभिः</l>
  <l>संच्छन्नाः करमात्रनिम्नधरणीगर्तेऽतिविस्तारिते ॥ १२ ॥</l>
</lg>
<p>निक्षिप्यात्र मृणाळवेणुकदलीपुण्ड्रेक्षुकाण्डादिकं
तान् पाशानपि सन्निबध्य सुदृढे वृक्षेऽत्र दक्षा भटाः ।
[^१] 'तिल्व' ग-पाठः ।
[^२] 'मूत्र' ग-पाठः ।
[^३] लसकेति स्यात् ।</p>
<pb n="32" />
<p>संछन्नाः प्रतिपाल्य भक्षणपरान् बध्नीयुराशु द्विपान्
पाशाकर्षणतो निपात्य दृढमित्यापातसंज्ञो ग्रहः ॥ १३ ॥</p>
<lg>
  <l>गर्तं हस्तचतुष्कनिम्नकरयुग्मव्यासदोःपञ्चका-</l>
  <l>यामं वेणुदलैः कटैश्च पिहितं कृत्वा मृदाच्छाद्य तम् ।</l>
  <l>तस्मिन् भक्ष्यपरि[^१]स्तृते तु कलभाना पातयित्वा भटा</l>
  <l>बध्नीयुः सुदृढं गजग्रह इति प्रोक्तोऽवपाताह्वयः ॥ १४ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
गजग्रहाधिकारो दशमः पटलः ।
अथ एकादशः पटलः ।</p>
<lg>
  <l>वन्यास्तत्र सुखोषिता विधिवशाद् ग्रामावतीर्णा गजा</l>
  <l>बद्धास्तीक्ष्णकटूग्रवाग्भिरतिशुग्भीमोहबन्धादिभिः ।</l>
  <l>उद्विग्नाश्च मनःशरीरजनितैर्दुःखैरतीवाक्षमाः</l>
  <l>प्राणान् धारयितुं चिरं नरवशं प्राप्ताः स्वयूथादथ ॥ १ ॥</l>
</lg>
<lg>
  <l>शैलानां कटकेषु निर्झरजले पद्माकरे सिन्धुषु</l>
  <l>स्वच्छन्देन करेणुकाभिरटवीमध्येषु विक्रीडितम् ।</l>
  <l>स्मारंस्मारमनेकधा[^२]ग्रनिहितं पुण्ड्रेक्षुकाण्डादिकं</l>
  <l>नो काङ्क्षत्यतिदुर्मना बहुविधैर्दुःखैरुपेतः करी ॥ २ ॥</l>
</lg>
<lg>
  <l>पूर्वानुभूतमटवीषु सुखं विचिन्त्य</l>
  <l>ध्यायन् मुहुः स्तिमितवालधिकर्णताळः ।</l>
  <l>ग्रामव्यथाभिरधिकं कृशतामुपेत्य</l>
  <l>कैश्चिद्दिनैर्मृतिमुपैति करी नवीनः ॥ ३ ॥</l>
</lg>
<p>[^१] 'रिष्कृते' ग-पाठः ।
[^२] 'धास्यनि' ग-पाठः ।</p>
<pb n="33" />
<lg>
  <l>निष्ठ्यूतनेत्रयुगलश्च गुदे च नाभौ</l>
  <l>गात्रा[^१]परे श्वयथुमान् भवति द्विपोऽयम् ।</l>
  <l>नाश्नाति नैव रमते न च वेत्ति संज्ञां</l>
  <l>राज्यच्युतो नृप इवाधिमुपैति कामम् ॥ ४ ॥</l>
</lg>
<lg>
  <l>अण्डं तैजसमण्डजाश्च करिणो जन्मप्रभृत्यौष्ण्यतः</l>
  <l>सन्तप्ताः शिशिराम्बुसेचनरजःपङ्कादिभिर्हर्षिताः ।</l>
  <l>तस्मादङ्गप ! तोयमेव करिणां प्राणास्ततः कामत-</l>
  <l>स्तोयेनोपचरेद् गजान् भवति तद्धातुप्रसादो ह्यतः ॥ ५ ॥</l>
</lg>
<lg>
  <l>आनीतान् वनतो गजान् हिमजलैः सिञ्चेत् तथा पायये-</l>
  <l>दाकर्णं त्ववगाहयेदुषसि तद्ग्लान्यादिशान्त्यै जले ।</l>
  <l>एवं चाथ दिनावसानसमये स्वैरं तथाळानयेत्</l>
  <l>पश्चात् [^२]सेचनलेपनादि शतधौताज्येन कुर्यादपि ॥ ६ ॥</l>
</lg>
<lg>
  <l>कृतावगाहस्य मतङ्गजस्य</l>
  <l>शाल्योदनं मुद्गरसाज्यमिश्रम् ।</l>
  <l>पानं च दद्यात् सहशर्करं च</l>
  <l>पुण्ड्रेक्षुकाण्डानि मनोहराणि ॥ ७ ॥</l>
</lg>
<lg>
  <l>शय्या तोयावलोकश्चलनमनुगुणं भेषजं धूलिमृष्टिः</l>
  <l>शालास्तम्भप्रवेशो घृतगुळसहितं भोजनं पूलदानम् ।</l>
  <l>निर्वाणं तोयपानं तिलजपदयुतं भोजनं चापराह्णे</l>
  <l>भैषज्यं चाथ संवेशनमिति दिनचर्या गजानां क्रमेण ॥ ८ ॥</l>
</lg>
<p>पद्माद्युत्पलनालकन्दकदलीशालूकशृङ्गाटकान्
दूर्वोदुम्बरसल्लकीक्षुनळदन्यग्रोधवेण्वादिकान् ।
[^१] 'त्रान्तरे' ग-पाठः ।
[^२] 'क्षालन' ग-पाठः ।</p>
<pb n="34" />
<p>प्लक्षाश्वत्थकपित्थपल्लवफलान्यार्तिप्रशान्त्यै सदा
देयान्यङ्गप ! दन्तिनां तु मधुराण्यन्यान्यभीष्टानि च ॥ ९ ॥</p>
<lg>
  <l>ये पर्यश्रुदृशः कृशाश्च शिशवो भारार्दिताः पित्तळा-</l>
  <l>स्तन्वङ्गाः सतताध्वकर्माविहता वृद्धा वशानि[^१]स्स्पृहाः ।</l>
  <l>सासृङ्मांसमदक्षयाश्च विवशा ये स्तब्धगात्राः परे</l>
  <l>तेषां साध्यतमं [^२]हितं घृतमिति ब्रूते कलिङ्गेश्वरः ॥ १० ॥</l>
</lg>
<lg>
  <l>नागानामिह तण्डुलस्य कुडुबं देयं तृणान्तर्गतं</l>
  <l>चैकैकं परिवर्धयेच्च कुडुबं यावद्भवेदाढकम् ।</l>
  <l>एवञ्चौदनपिण्डमप्यनुदिनं संवर्धयेत् तद्वदे-</l>
  <l>वान्यद्भक्षणसाधनं च विहितं सन्दापयेद् युक्तितः ॥ ११ ॥</l>
</lg>
<lg>
  <l>गोधूमं च यवं गुळाज्यसहितं स्विन्नं सदा दापयेत्</l>
  <l>तद्वत् केवलतण्डुलेन सहितं गोमूत्रसृष्टं तु वा ।</l>
  <l>प्राग्वत् तत् प्रतिवासरं कुडुबसंवृद्ध्याढकान्तं क्रमे-</l>
  <l>णैलात्र्यूषणहिङ्गुजीरकयुगाजाजीविलङ्गान्वितम् ॥ १२॥</l>
</lg>
<lg>
  <l>उषसि यवसतैलं मात्रयार्धाढकं स्यात्</l>
  <l>प्रवरवयसि मध्ये तच्चतुर्भागहीनम् ।</l>
  <l>अधमवयसि तद्वत् तत्त्रिभागोनमुक्तं</l>
  <l>बलमदजवकारि व्याधिविध्वंसनं च ॥ १३ ॥</l>
</lg>
<lg>
  <l>मानं तु मध्यवयसः पलविंशतिः स्याद्</l>
  <l>व्याध्यौषधं प्रतिदिनं परिकल्प्य मेयम् ।</l>
  <l>प्रस्थद्वयं प्रतिदिनं तु घृतस्य मात्रा</l>
  <l>तद्वृद्धिहानिकरणं च यथाबलं स्यात् ॥ १४ ॥</l>
</lg>
<p>[^१] 'निस्सृताः' क-ख-पाठः ।
[^२] 'परं घृतमिदं' ग-पाठः ।</p>
<pb n="35" />
<lg>
  <l>कृसरो दधिपिण्याकयुक्तो गुळसमन्वितः ।</l>
  <l>प्रदेयो बृंहणायाथ प्रतिपानं च दन्तिने ॥ १५ ॥</l>
</lg>
<lg>
  <l>प्रत्यरत्नि यवसस्य च भारं तण्डुलस्य चतुराढकमुक्तम् ।</l>
  <l>स्नेहमष्टकुडुबं लवणस्य स्युः पलानि दश चापि गुळस्य ॥ १६ ॥</l>
</lg>
<lg>
  <l>[^*]विळङ्गाक्षीबकुल्माषमाषगोधूमसंस्कृ(ताः ? तम्) ।</l>
  <l>मोदकार्थं महीपाल ! पिष्टमाढकमिष्यते ॥ १७ ॥</l>
</lg>
<lg>
  <l>न भेदमायान्ति नखास्तलं च</l>
  <l>न क्षीयते नाध्वनि पाददाहः ।</l>
  <l>भवन्ति केशाश्च न चापि दृष्टि-</l>
  <l>र्निहन्यते सन्ततपादसेकात् ॥ १८ ॥</l>
</lg>
<lg>
  <l>त्वग्दोषबन्धवध[^१]भिद्व्रणशोषगात्र-</l>
  <l>स्तम्भादिजित् क्षपितशीतसमीरकोपः ।</l>
  <l>सक्थ्यङ्गमार्दवकरो लघुबृंहणश्च</l>
  <l>स्निग्धत्वसत्त्वबलसौख्यकृदङ्गसेकः ॥ १९ ॥</l>
</lg>
<lg>
  <l>अभीक्ष्णं साधु [^२]पश्यन्ति घृताभ्यङ्गेन नित्यशः ।</l>
  <l>अक्षिरोगा न जायन्ते स्थिरा दृष्टिश्च दन्तिनाम् ॥ २० ॥</l>
</lg>
<lg>
  <l>स्थिरवेष्टौ दृढौ दन्तौ स्निग्धौ व्यधविवर्जितौ ।</l>
  <l>दन्तघातसमर्थौ च दन्ताभ्यङ्गेन नित्यशः ॥ २१ ॥</l>
</lg>
<lg>
  <l>जयति च बहु भुक्तं शोधनं मूत्रवस्तेः</l>
  <l>कृमिहृदनिलहारि व्याधिविध्वंसनं च ।</l>
  <l>अरुचिशमनमाशु क्लेदनं वारणानां</l>
  <l>लवणममृततुल्यं पक्तिधर्मावतारे ॥ २२ ॥</l>
</lg>
<p>[^१] 'धजव्रण' ग-पाठः ।
[^२] 'भक्ष्यन्ति' (?) क-ख-पाठः ।
[^*] विडङ्गमेव डलयोरभेदादेवम् ।</p>
<pb n="36" />
<lg>
  <l>पूर्वाह्णभक्ते लवणं वर्जयेद्दोषवर्धनम् ।</l>
  <l>अपराह्णे तु लवणं दीपनं दोषनाशनम् ॥ २३ ॥</l>
</lg>
<lg>
  <l>हितमिह ससितं घृतं पयोभि-</l>
  <l>र्निहितमनुष्णतरेषु भोजनेषु ।</l>
  <l>कथयति परिपूजितं च दुग्धं</l>
  <l>करटिषु पानविधौ मुनिः सुशीतम् ॥ २४ ॥</l>
</lg>
<lg>
  <l>बालातपः शशिकला रुचिरश्च शालि-</l>
  <l>र्गोधूमधान्यमपि यत् क्रिमिभिर्न दुष्टम् ।</l>
  <l>स्विन्नैरमीभिरुपक्लृप्तमनल्पमांसं</l>
  <l>भोज्यं गजस्य विनियोज्यमिभागमज्ञैः ॥ २५ ॥</l>
</lg>
<lg>
  <l>कल्याणानां तु दद्यात् त्रिकटुकरजनीद्वन्द्वकुष्ठाजमोद-</l>
  <l>प्रत्यक्पुष्पाकरञ्जद्वयलशुनवचास्थापनीरामठानाम् ।</l>
  <l>सिद्धार्थारिष्टबीजज्वलनपटुवरालोहरेणुक्रिमिघ्न-</l>
  <l>न्यग्रोधीनां च चूर्णं तिलरससहितं शस्तमेतत्प्रबोधे ॥ २६ ॥</l>
</lg>
<lg>
  <l>एलावचालशुनसैन्धवनागरैश्च</l>
  <l>सिद्धार्थहिंगुमरिचक्रिमिशत्रुभिश्च ।</l>
  <l>क्लृप्तं तु तैललुळितं कबलं गजाय</l>
  <l>सुप्तोत्थिताय वितरेत् कफवातशान्त्यै ॥ २७ ॥</l>
</lg>
<lg>
  <l>प्रातः साज्यगुळं शरत्सु विहितं ग्रीष्मे च शाल्योदनं</l>
  <l>सायं तल्लवणेन तैलसहितं त्वन्येषु तद्व्यत्ययात् ।</l>
  <l>कुल्माषं गुळयुक्तमोदन[^१]युतं चादापयेद् दन्तिनां</l>
  <l>तत्तेजोबलवह्निकृद्गुलयुतानन्यान् परागानपि ॥ २८ ॥</l>
</lg>
<p>[^१] 'नमिदं सदा' ग-पाठः ।</p>
<pb n="37" />
<lg>
  <l>सञ्जातवीर्यरसगुल्मलताप्रतान-</l>
  <l>भोजी तुषारशिशिरार्ककरे हिमर्तौ ।</l>
  <l>जम्बालपांसुजलकेलिकुतूहलेन</l>
  <l>प्रायः कफोपचयमेव गजो बिभर्ति ॥ २९ ॥</l>
</lg>
<lg>
  <l>या जाङ्गलस्थलभुवो विलसन्ति[^१] देशे</l>
  <l>तत्सम्भवेन यवसेन शरीरवृत्तिः ।</l>
  <l>पादेषु मूर्धनि गजस्य हितश्च सेक-</l>
  <l>स्तैलान्वितेन च मषीपटलेन लेपः ॥ ३० ॥</l>
</lg>
<lg>
  <l>चुचुन्दरीचित्रकवाजिगन्धाकार्पासदन्तीरजनीवराणाम् ।</l>
  <l>मषिप्रलेपस्तिलतैलयुक्तः स्तम्बेरमाणां शिरसि प्रशस्तः ॥३१॥</l>
</lg>
<lg>
  <l>शाला छन्ना सवह्निस्त्रिकटुपटुयुता वारुणी वा प्रसन्ना</l>
  <l>मन्दोष्णा सायमन्नं दधिरससहितं कम्बलैरावृतिश्च ।</l>
  <l>इक्षोः सेवा समात्रा कबल[^२]कुवलयोः शीलनं नित्यचारः</l>
  <l>पाथःक्रीडाविमुक्तिर्यवसपरिहृतिः शैशिरोऽयं विधिः स्यात् ॥</l>
</lg>
<lg>
  <l>उद्यानेषु सुगन्धिषु प्रतिदिनं वासः सगोधूमकं</l>
  <l>शाल्यन्नं दधितैलयुक्तमशनं भाराध्वकर्माल्पता ।</l>
  <l>नागानामवगाहनं हिततरं नद्यादिषु स्वेच्छया</l>
  <l>खाद्यास्तत्र बलाकलायचणका वासन्तिकोऽयं विधिः ॥ ३३ ॥</l>
</lg>
<lg>
  <l>अध्वाशीलनमम्बुपूरितदृतिस्यन्दक्रिया मस्तके</l>
  <l>लेपो मूर्धनि सर्पिषा च शतधौताख्येन कालत्रये ।</l>
  <l>शीतांशोः करसङ्गतिश्च सगुळाज्यं सक्तुसंसेवनं</l>
  <l>स्थानं शीतलमम्बुपङ्कविहृतिः सोऽयं विधिर्ग्रैष्मिकः ॥ ३४ ॥</l>
</lg>
<p>[^१] 'न्ति तेषां' ग-पाठः ।
[^२] 'लक' ग-गाठः ।</p>
<pb n="38" />
<lg>
  <l>कूपोत्थं सलिलं तृणं स्थलभवं पङ्कोज्झितं चास्पदं</l>
  <l>शालायामपि मक्षिकामशकयोर्नाशाय धूमोद्गमः ।</l>
  <l>वस्त्यास्थापनकर्म जाङ्गलरसस्नेहान्वितं चौदनं</l>
  <l>यूषो जाठरवह्निवर्द्धनकरश्चायं विधिर्वार्षिकः ॥ ३५ ॥</l>
</lg>
<lg>
  <l>[^१]आकण्ठं भृशमञ्जरीस्फुटरसः शालिः सुशीतास्पदं</l>
  <l>देयाः सप्रसवाश्च माषसहिता मुद्गा मकुष्टादयः ।</l>
  <l>गोधूमः सलिलाप्लतिः प्रतिदिनं सायं स एवाशनं</l>
  <l>स्विन्नक्षीरयुतं तथा घृतरसाढ्यं शारदोऽयं विधिः ॥ ३६॥</l>
</lg>
<lg>
  <l>सेवा बालातपस्य प्रसभजलचरानूपजो वेशवार-</l>
  <l>स्तद्ज्ञैः पाथस्यगाधे सकृदपि करिणां शस्यते चावगाहः ।</l>
  <l>स्नेहस्तैलेन कार्यः शिरसि च सततं हैमनोऽयं विधिः स्या-</l>
  <l>देवं सर्वर्तुचर्या क्रमश इति बुधैर्देर्शिता वारणानाम् ॥ ३७॥</l>
</lg>
<lg>
  <l>भीरुभिन्ननखोऽनवस्थितमनाः प्रत्यर्थवेदी चलत्-</l>
  <l>स्थूलाङ्घ्रिः परुषच्छविर्न सहनः स्तब्धाल्परोमोत्सुकः ।</l>
  <l>लक्ष्यस्नायुसिराविरूक्षरदनः शीघ्रो विरूपेक्षणो</l>
  <l>दुर्मेधा विषमश्च कर्मसु गजो यः स स्मृतो वातिकः ॥ ३८ ॥</l>
</lg>
<lg>
  <l>चण्डो नि[^२]र्भुण्डिताक्षस्तनुकररदनत्वङ्नखश्रोत्ररोम-</l>
  <l>ग्रीवागात्रापराङ्घ्रिर्बहुभुगरुणदृग् दुर्बलो बह्वलीकः ।</l>
  <l>छायेच्छुर्द्वेष्टि घर्मं विसृजति न चिराद् दानमुत्तानवेदी</l>
  <l>हीयेतोच्चैः प्रहीणं श्रयति पुनरिभः पैत्तिको नातिशोभः ॥ ३९ ॥</l>
</lg>
<p>हर्यक्षः सुमहाङ्गुलीकरशिरःकुम्भादिरीषत्प्रियो
[^३]नातिक्रुद्ध्यति मन्दवह्निरभयो गम्भीरवेदी स्थिरः ।
[^१] 'आकुष्ठम् भृत' ग-पाठः ।
[^२] 'र्भ' ग-पाठः ।
[^३] 'नागः कुप्यति' ख-पाठः ।</p>
<pb n="39" />
<p>अक्षोभ्यः सुहरो विलीनतरलो वीणादिगीतप्रियः
पीनस्निग्धरदोऽतिमन्दगमनः कामी गजः श्लैष्मिकः[^१] ॥ ४० ॥</p>
<lg>
  <l>मध्वक्षिदन्तः समसुस्थिता[^२]ङ्गः</l>
  <l>शूरोऽकृशो भूरिमदः समाग्निः ।</l>
  <l>अन्वर्थवेदी च सुचापवंशः</l>
  <l>समः प्रकृत्या भवति द्विपोऽयम् ॥ ४१ ॥</l>
</lg>
<lg>
  <l>विकृतिं दोषदूष्याणां लक्षणानां फलाफलम् ।</l>
  <l>तत्त्वतो नैव जानन्ति मुनयः किन्नु मानवाः ॥ ४२ ॥</l>
</lg>
<lg>
  <l>नागानां वनवास एव विहितस्तस्याप्यलाभादसा-</l>
  <l>त्म्याकामाशनपानतश्च विषमाजीर्णादिभिर्भोजनैः ।</l>
  <l>दुःस्थानेष्वटनादिभिश्च शयनाद् दोषाः समीरादिकाः</l>
  <l>कुप्यन्त्याशु शरीरमानसभवान् रोगांश्च कुर्वन्ति च ॥ ४३ ॥</l>
</lg>
<lg>
  <l>मूत्रक्षरणतो नित्यं कोशो मत्तस्य पच्यते ।</l>
  <l>गैरिकस्य पलेनास्य सदा साज्येन सेचनम् ॥ १४ ॥</l>
</lg>
<lg>
  <l>आचूषणं चाक्षिनिमीलनं च</l>
  <l>घ्राणं तथा भूद्रुमखानिलानाम् ।</l>
  <l>आलस्यमास्यान्तरशोषणं च</l>
  <l>कर्णाग्रयोः स्पन्दनमप्य[^३]रागः ॥ ४५ ॥</l>
</lg>
<lg>
  <l>मुहुर्मुहुश्चैव विजृम्भणं च</l>
  <l>ध्यानं च पांसोः परिमर्षणं च ।</l>
  <l>मूत्रारुणत्वं नयनारुणत्वं</l>
  <l>तृष्णाभिभूतस्य गजस्य चिह्नम् ॥ ४६ ॥</l>
</lg>
<p>[^१] 'ष्मलः' ग-पाठः ।
[^२] 'राङ्गः' ग-पाठः ।
[^३] 'प्यरोगम्' ग-पाठः ।</p>
<pb n="40" />
<lg>
  <l>व्रणाः सर्वे जलेनैव प्रायो रोहन्ति दन्तिनाम् ।</l>
  <l>नश्यन्ति क्षुत्पिपासाद्याः पद्मयोनेरनुग्रहात् ॥ ४७ ॥</l>
</lg>
<lg>
  <l>प्रायशः कृमिजा रोगा भवन्त्यङ्गप ! दन्तिनाम् ।</l>
  <l>तस्मात् कृमिहराण्येव नित्यं देयानि दन्तिनाम् ॥ ४८ ॥</l>
</lg>
<lg>
  <l>हिङ्ग्वष्टकं चूर्णराजं सप्तविंशतिगुग्गुलुम् ।</l>
  <l>इत्यादीनि च चूर्णाणि दद्यात् तैलघृतानि च ॥ ४९ ॥</l>
</lg>
<lg>
  <l>पाकलाख्यज्वरं मर्त्त्यज्वरोक्तैरेव लक्षणैः ।</l>
  <l>लक्षयेन्मतिमांस्तस्मात् तदेव च चिकित्सितम् ॥ ५० ॥</l>
</lg>
<lg>
  <l>ये ये भेदा मानुषेभ्यो गजानां</l>
  <l>ते ते प्रोक्ता दोषदूष्यादिकेषु ।</l>
  <l>तस्मात् तज्ज्ञैर्व्याधिभेदं विदित्वा</l>
  <l>मर्त्यानामेवात्र कार्या चिकित्सा ॥ ५१ ॥</l>
</lg>
<p>इति मातङ्गलीलायां
गजरक्षणदिनर्तुचर्याधिकार एकादशः पटलः ।
अथ द्वादशः पटलः ।</p>
<lg>
  <l>नागाध्यक्षोऽस्तु धीमान् नरपतिसदृशो धार्मिकः स्वामिभक्तः</l>
  <l>शुद्धः सत्यप्रतिज्ञो व्यसनविरहितः संयताक्षो विनीतः ।</l>
  <l>उत्साही दृष्टकर्मा प्रियवचनरतः सद्गुरोरात्तशास्त्रो</l>
  <l>दक्षो धीरः शरण्यो गदहरणचणो निर्भयः सर्ववेत्ता ॥ १ ॥</l>
</lg>
<p>शिक्षाप्रक्रमदक्षमङ्कुशगदासञ्चारणप्रक्रिया-
भेदज्ञं बलदेशकालनिपुणं दानक्रियादक्षिणम् ।</p>
<pb n="41" />
<p>आरोहेष्ववरोहणेषु कुशलं शान्तं वयोमर्मणां
ज्ञातारं मुनयो वदन्ति नृपतेराधोरणं दन्तिनाम् ॥ २ ॥</p>
<lg>
  <l>रेखावानपि युक्तिमांश्च बलवान् यन्ता त्रिधेत्यग्रिमो</l>
  <l>नागस्यैव तु वर्ततेऽनुगुणमत्रात्मेभयोर्मध्यमः ।</l>
  <l>पाश्चात्यो निजबुद्धिशक्तिविभवेनैवेति ते हस्तिपाः</l>
  <l>कल्प्याश्चोत्तममध्यमाधमतया वर्ज्योऽत्र तेष्वन्तिमः ॥ ३ ॥</l>
</lg>
<lg>
  <l>आरोहेष्ववरोहणेषु करिणां स्कन्धासनेष्वासनैः</l>
  <l>पाश्चात्येऽपि च चोदनासु वचसा पादाङ्कुशाभ्यामपि ।</l>
  <l>वीथीमण्डलयानधावनविधौ व्यावर्तने धारणे</l>
  <l>प्रत्यर्थिद्विपयोधनेऽपि कुशलो यन्ता द्विषां दुर्जयः ॥ ४ ॥</l>
</lg>
<lg>
  <l>वशे कुर्वन् व्यालानकलितमदानाशु मदयन्</l>
  <l>वितन्वन् मातङ्गान् जवनरहितानात्तरभसान् ।</l>
  <l>निरीहानाहन्तुं विदधदधिकं घातनिपुणान्</l>
  <l>गजारोहे दक्षः क्षितिपतिजनानामभिमतः ॥ ५ ॥</l>
</lg>
<lg>
  <l>मातङ्गास्त्रिविधास्त्रयः प्रणिधयस्तिस्रो गतिप्रक्रिया-</l>
  <l>स्त्रीणि प्रस्फुटमासनानि पुरतः पञ्चैव पश्चादपि ।</l>
  <l>षड्भेदाङ्कुशचारणा गतिगता भेदाः पुनः पञ्चधा</l>
  <l>स्यादारोहणमष्टधा दशविधः प्रोक्तोऽवतारक्रमः ॥ ६ ॥</l>
</lg>
<lg>
  <l>भद्रमन्दमृगभेदतस्त्रिधा जातिरत्र करिणां पुरोदिता ।</l>
  <l>वक्ष्यते प्रणिधिपूर्वकं गतिप्रक्रियादिरधुना यथाक्रमम् ॥ ७ ॥</l>
</lg>
<p>वाक्पादाङ्कुशचोदना प्रणिधिरित्युक्ता यतश्चाह तं
त्रेधा तत्र तु वाक्प्रचोदनविधिस्तेषां तु यश्चा[^१]न्तिमः ।
[^१] 'आदिमः' इति स्यात् ।</p>
<pb n="42" />
<p>तं विद्यादुपलालनं हि भयकोपादेरसिद्ध्यै तथा
स्यात् प्रज्ञापनमन्यदत्र तु तृतीयं विद्धि सन्तर्जनम् ॥ ८ ॥</p>
<lg>
  <l>कर्मोपक्रमिकैश्च संस्कृतपदैः संशिक्षयेत् प्राकृतै-</l>
  <l>स्तत्तद्देशजभाषया च कलभं ज्ञातुं च कर्माणि तु ।</l>
  <l>हुङ्कारद्वयमासितुं ग्रहणकर्मण्याशु तं गृह्ण गृ-</l>
  <l>ह्णेत्येवं प्रवदेदुपर्युपरि चैवं तत्करोत्क्षेपणे ॥ ९ ॥</l>
</lg>
<lg>
  <l>तिष्ठ तिष्ठेति च स्थातुमेह्येह्यागमने तथा ।</l>
  <l>गच्छ गच्छेति गमने बोधयेदेवमादिभिः ॥ १० ॥</l>
</lg>
<lg>
  <l>पादौ ग्रैवेयके प्रोत्य च दृढनिहिताङ्गुष्ठपार्ष्णिप्रहारै-</l>
  <l>रूरुभ्यां गाढमाबध्य च सुदृढमतिः स्थाणुवत् संस्थितः सन् ।</l>
  <l>हस्तेनादाय यन्ता सृणिमथ सुदृढं दक्षिणेनान्यहस्ते-</l>
  <l>नैवं तोत्रं च वेत्रादिकमवहितधीः प्रेरयेच्चारु नागम् ॥ ११ ॥</l>
</lg>
<lg>
  <l>अङ्गुष्ठाभ्यां पुरः प्रेरितुमथ सुदृढं पीडयेदुन्नतास्यं</l>
  <l>कर्तुं तावुन्नतौ तावपि वदनमधो नेतुमप्यानतौ च ।</l>
  <l>वामाङ्गुष्ठेन विध्येत् करिणमथ नयन् दक्षिणं पार्श्वमन्ये -</l>
  <l>नान्यं चाकर्षणार्थं गजमथ मतिमान् पार्ष्णियुग्मेन गाढम् ॥</l>
</lg>
<lg>
  <l>गतयस्तु त्रिधा मन्दशीघ्रधावनभेदतः ।</l>
  <l>प्राक्पश्चाद्वृत्ततिर्यग्व्यावर्त्तनैः [^१]पञ्चधा तथा ॥ १३ ॥</l>
</lg>
<lg>
  <l>वंशकन्धरयोर्मध्यं ककुदं स्यात् तदग्रतः ।</l>
  <l>क्रमात् त्रीण्यासनानि स्युर्मुख्यमध्याधमानि हि ॥ १४ ॥</l>
</lg>
<lg>
  <l>एकः प्रसारितः पादस्तदन्यो नतजानुकः ।</l>
  <l>पाश्चात्यमासनं ज्ञेयमेकं जानुगतं बुधैः ॥ १५ ॥</l>
</lg>
<p>[^१] अस्य पञ्चविधत्वस्योद्देशक्रममुपेक्ष्यासनात् प्राङ् निरूपणं धर्मिप्रसङ्गानुरोधादिति भाति ।</p>
<pb n="43" />
<lg>
  <l>वंशस्योभयतः प्रसारितपदं जानुद्वयाकुञ्चितं</l>
  <l>विद्यादानतजानुकासनमिदं तत्तूत्कटेनोत्कटम् ।</l>
  <l>एकं तत्कटजानुकं तदपरं नम्रं हि कूर्मासनं</l>
  <l>विद्यात् संहतनम्रजानुयुगलं मण्डूकसज्ञं हि तत् ॥ १६ ॥</l>
</lg>
<lg>
  <l>नागैरुद्धतकायसत्त्वविभवैस्तीक्ष्णप्रतापैर्जगद्</l>
  <l>व्यापन्नं नितरां समीक्ष्य कृपया स्कन्दार्थनाद्ब्रह्मणा ।</l>
  <l>सृष्टः कश्चन पूरुषः स तु रुषा रक्तान्तदृग् [^१]दंष्ट्रया</l>
  <l>भात्युद्यन्मुकुटः कुशाङ्कितकरस्तेनाङ्कुशाख्योऽह्ययम् ॥ १७ ॥</l>
</lg>
<lg>
  <l>वज्रार्धचन्द्रनखकैतककण्टकाभा-</l>
  <l>श्चत्वार एव सृणयो विहिता मुनीन्द्रैः ।</l>
  <l>आविश्य तासु पुरुषः स्थितवानयं हि</l>
  <l>मत्तातिदुष्टगजसंयमनाय नित्यम् ॥ १८ ॥</l>
</lg>
<lg>
  <l>विताने च विदुर्ग्रीवानिर्याणे मस्तकेऽपि च ।</l>
  <l>अवग्रहे च जानीयात् षड्विधाङ्कुशचारणा ॥ १९ ॥</l>
</lg>
<lg>
  <l>अत्र प्राग्गमने पुरो मुखमृजस्तोदो विधेयोऽनया</l>
  <l>पश्चान्नेतुमिहावकर्षणमथोर्ध्वं नेतुमुत्कर्षणम् ।</l>
  <l>नेतुं चेभमधोऽवपीडनममुं सव्यं तु सव्येतरे</l>
  <l>भागे तोद इती[^२]तरापि च यथायोगं सृणेश्चारणा ॥ २० ॥</l>
</lg>
<lg>
  <l>ईषत्स्पर्शनपीडनातिहननान्युत्क्षिप्य संपीडनं</l>
  <l>चोत्क्षिप्य प्रतिकर्षणं च पुनरुत्क्षिप्याधिकं भ्रामणम् ।</l>
  <l>तत्रार्धाङ्गुल[^३]मात्रमग्नमुदितं पूर्वं क्रमात् पीडना-</l>
  <l>द्यर्धार्धाङ्गुलवर्धितं त्विति सृणेस्तोदक्रमो दर्शितः ॥ २१ ॥</l>
</lg>
<p>[^१] 'ष्ट्रवान्' क-पाठः ।
[^२] 'रितोऽपि' ग-पाठः ।
[^३] 'मानम' ख-पाठः । 'त्रमानमु' ग-पाठः ।</p>
<pb n="44" />
<lg>
  <l>माधूकपुष्पमधुकालवचाश्वगन्धा-</l>
  <l>बिल्वं पलाण्डुमरिचं च समं सुपिष्ट्वा[^*] ।</l>
  <l>गोमूत्रकेण परिलेपितमङ्कुशाग्रे</l>
  <l>यस्तेन चोदित इभः स वशं प्रयाति ॥ २२ ॥</l>
</lg>
<lg>
  <l>कोशातकीक्षा[^१]रकटुत्रया[^२]लसिद्धार्थका[^१]रुष्करचूर्णमेतत् ।</l>
  <l>तिक्ताह्वसिन्धूत्थविलङ्गयुक्तं सृणिप्रलिप्तं गजवश्यमाहुः ॥ २३ ॥</l>
</lg>
<lg>
  <l>शतपदीकृकलासशिरःशिलातुरगपित्तमृगाङ्गरुहैः कृतम् ।</l>
  <l>भुजगकञ्चुकवृश्चिकसंयुतैः सृणिषु लेपमनेकपदर्पहृत् ॥ २४ ॥</l>
</lg>
<lg>
  <l>पार्श्वयोरुभयोश्चैव निष्कोशद्वितयेऽपि च ।</l>
  <l>पुच्छमूले गदाघातमिति पञ्चविधं विदुः ॥ २५ ॥</l>
</lg>
<lg>
  <l>कर्णद्व्यङ्घ्रिचतुष्कास्यैः संप्लुत्या चैवमष्टधा ।</l>
  <l>गजारोहोऽनुधावद्भिः पृष्ठतः सा तु संप्लुतिः ॥ २६ ॥</l>
</lg>
<lg>
  <l>पुच्छपादचतुष्कास्यपार्श्वकर्णद्वयैर्गजात् ।</l>
  <l>अवरोहणमित्येवं दशधा कीर्त्तितं बुधैः ॥ २७ ॥</l>
</lg>
<lg>
  <l>इत्येवं पालकाप्यो मुनिरिभचरितं व्याकरोद्रोमपादा-</l>
  <l>यानन्दान्दोलितात्मा नृपतिरथ मुनिं पूजयन्नर्घ्यपाद्यैः ।</l>
  <l>अध्यासामास पृथ्वीं चिरतरमभिरक्षोद्यतोऽलं दयावा-</l>
  <l>नस्तप्रत्यर्थिपृथ्वीपतिरखिलजगद्रक्षणे जागरूकः ॥ २८ ॥</l>
</lg>
<lg>
  <l>रोमेति नाम पद्मस्य विख्यातं पूर्वसूरिभिः ।</l>
  <l>तेनैवाङ्कितपादत्वाद् रोमपाद इति स्मृतः ॥ २९ ॥</l>
</lg>
<p>[^१] 'क्षीर' ग-पाठः ।
[^२] 'याश्व' ग-पाठः ।
[^३] 'कारस्क' ग-पाठः ।
[^*] 'सुपिष्य' इति स्यात् ।</p>
<pb n="45" />
<lg>
  <l>पालनाद् गजयूथस्य काप्यो गोत्रेण[^१] चेत्यतः ।</l>
  <l>पालकाप्यस्त्वसावेवं दिव्योक्त्याभूत् तदाह्वयः ॥ ३० ॥</l>
</lg>
<lg>
  <l>मुनीन्द्रोदितमातङ्गशास्त्रागाधार्णवान्मया ।</l>
  <l>अल्पा मातङ्गलीलेति [^२]लब्धेयं शोध्यतां बुधैः ॥</l>
</lg>
<p>इति नीलकण्ठकृतायां मातङ्गलीलायाम्
आधोरणगुणाद्यधिकारो
द्वादशः पटलः ।
मातङ्गलीला समाप्ता ।</p>
<pb n="46" />
<pb n="47" />
<pb n="48" />
<pb n="49" />
<pb n="50" />
<pb n="51" />
</body>
</text>
</TEI>