श्रीः ॥
श्रीनीलकण्ठकृता
मातङ्गलीला ।
प्रथमः पटलः ।
नृसिंहयादवौ दैत्यसमूहोग्राटवीदवौ ।
राजमानौ भजे राजराजमङ्गलवासिनौ ॥ १ ॥
मातङ्गवक्त्रं प्रणिपत्य दृष्ट्वा मातङ्गशास्त्रं मुनिपुङ्गवोक्तम् ।
मातङ्गलीलाच[^१]लितान्तरात्मा मातङ्गलीलां रचयामि तावत् ॥ २ ॥
उत्पत्तिः शुभलक्षणान्यशुभलक्ष्मायुर्वयोलक्षणं
मानं मूल्यविशेषसत्त्वमदभेदाश्च क्रमाद् दन्तिनाम् ।
वन्यानां ग्रहणं च रक्षणदिनर्त्वाचारभेदादिकं
नागाध्यक्षगुणादिकं च सकलं सङ्क्षेपतो वक्ष्यते ॥ ३ ॥
आसीदङ्गाधिराजः सुरपतिसदृशो विश्रुतो रोमपादो
गङ्गातीरे कदाचित् परिजनसहितः सोऽथ चम्पानगर्याम् ।
आसीनो रत्नपीठे विपिनगजकृतं सर्वसस्यादिनाशं
कैश्चिद्विज्ञापितोऽचिन्तयदवनिपतिः किं नु कार्यं मयेति ॥ ४ ॥
कालेऽस्मिन् गौतमो नारदभृगुमृगचर्माग्निवेश्यारिभेदाः
काप्यो मातङ्गचार्यादय ऋषिवृषभा दैवतानां नियोगात् ।
'चरिता' ख. पाठः
चम्पां प्राप्ता नृपेणासनकुसुमजलाद्यैः समाराधितास्ते
वन्यान् नागान् ग्रहीतुं प्रददुरथ वरं चादरादङ्गपाय ॥ ५ ॥
राज्ञा तेन गजग्रहाय सचिवा नुन्नाश्चरन्तो वने
तेऽपश्यन् पथि सामगायनमृषिं तिष्ठन्तमप्याश्रमे ।
आराद्वारणयूथमत्र विहरन्तं पालकाप्यं मुनिं
श्रीमन्तं गजयूथगं विरहितं तेनापि सन्ध्यासु तत् ॥ ६ ॥
अङ्गेशाय निवेदितं तदखिलं भृत्यैः स गत्वा गजा-
नस्मिन्नाश्रमगे मुनावथ गृहीत्वागत्य चम्पां क्षणात् ।
एतान् गौतमनारदादिमुनिवर्येभ्यो ददौ ते पुनः
स्तम्भे तान् सुदृढं नियम्य सुखमत्रोपुस्तथान्ये जनाः ॥ ७ ॥
शुश्रूषाद्यं च कृत्वा मुनिरथ जनकस्याश्रमात् पालकाप्य-
स्तं देशं प्राप्य यत्र स्थितमथ गजयूथं तदस्मिन्नदृष्ट्वा ।
सर्वत्रान्विष्य चम्पां मुनिरथ गतवान् स्नेहतो व्याकुलात्मा
नागानां दुःखितानां व्रणशमनचिकित्सादिरक्षां चकार ॥ ८ ॥
तत्रस्था गौतमाद्या ददृशुरथ मुनिं मौनसम्पन्नमेनं
श्रीमन्तं हस्तियूथस्थितमपि मुनयस्तत्र पप्रच्छुरेनम् ।
कस्मात् तेषां व्रणाँल्लिम्पसि गजनिवहे ते दया केन जाते-
त्येतैः संपृच्छ्यमानो मुनिभिरपि स किञ्चिन्न च प्रत्युवाच ॥ ९ ॥
तद्वृत्तान्तं मुनीन्द्रैर्गदितमथ निशम्याङ्गराजोऽत्र गत्वा
पाद्यार्घ्याद्यैः समाराध्य च मुनिमनु तज्जन्मनामादि सर्वम् ।
पप्रच्छ श्रोतुकामः क्षितिपतिरमुना तापसेनाथ किञ्चि-
न्नोक्तो भूयोऽप्यपृच्छन्मुनिममुमनघं भक्तिनम्रो नरेन्द्रः ॥ १० ॥
अङ्गेशं पालकाप्यो मुनिरथ परितुष्टोऽब्रवीत् कामचारा
मातङ्गाः कामरूपा दिवि भुवि च यथेष्टं पुरा सञ्चरन्तः ।
प्रालेयाद्रेरुदीच्यां दिशि वटविटपी द्वे शते योजनानां
विस्तारायामयुक्तो भवति गजवरास्ते तु तस्मिन् निपेतुः ॥ ११ ॥
शाखा तैः परिपाटिताश्रमपदे तत्र स्थितस्तापसो
नाम्ना दीर्घतपास्ततः कुपितवान् नागान् शशापाञ्जसा ।
तस्मात् ते खलु कामचाररहिता नागा बभूवुर्गता
मर्त्यानामपि वाहनत्वमथ नो शप्तास्तु दिक्कुञ्जराः ॥ १२ ॥
दिङ्नागाः सह सर्वकुञ्जरकुलैर्गत्वाब्रुवन् पद्मजं
देवास्मत्कुलजन्मनां विधिवशाद् भूमिं गतानामथ ।
रोगाः स्युर्विषमातिभोजनविरुद्धाजीर्णभुक्तादिभिः
प्रोक्तस्तैरतिदुःखितैरिति पुनस्तान् प्रोक्तवान् पद्मभूः ॥ १३ ॥
कश्चिन्नातिचिराद् भविष्यति परं मातङ्गबन्धुर्मुनि-
स्त्वायुर्वेदपरायणोऽतिनिपुणो व्याधीन् हरिप्यत्यसौ ।
इत्युक्ता दिगनेकपाश्च विधिना याता यथास्वं दिशं
दिङ्मातङ्गकुलोद्भवाश्च पृथिवीं याताः परे शापतः ॥ १४ ॥
धात्रा यक्षनरासुरामग्रुचः संगृह्य वाणीव या
सृष्टा सा रुचिरा कदापि विधिना शप्ताथ दुर्गर्वतः ।
तस्मात् सा[^१] वसुकन्यका गुणवती नाम्नाभवद् भार्गवात्
सैषाथाश्रममागता वत मतङ्गस्यातिकौतूहलात् ॥ १५ ॥
शक्रेण प्रहिता त्वियं मम तपोविघ्नाय वेनेति सा
शप्ता प्राप करेणुतां मुनिरथ ज्ञात्वानघां तां क्षणात् ।
भद्रे ! हस्तिनि ! सामगायनमुनेः शुक्लप्रपानाद् यदा
पुत्रस्ते भविता तदा तव भवेच्छापान्त इत्यब्रवीत् ॥ १६ ॥
यक्षी काचन सामगायनमुनिं स्वप्ने समापैकदा
गत्वाथाश्रमतो बहिर्मुनिवरो मूत्रं चकाराञ्जसा ।
'वासुकिक' ग. पाठः
मूत्रेणेन्द्रियमस्रवत् तदपिबद् गेहं प्रविष्टे मुनौ
शीघ्रं गर्भमधत्त सा च करिणी सूते स्म पुत्रं मुखात् ॥ १७ ॥
दत्वा तं मुनये मुदा निजसुतं सन्त्यज्य सा हस्तिनी-
भावं चाथ दिवं जगाम सहसा शापाद् विमुक्ता सुखम् ।
प्रीतोऽसावथ सामगायनमुनिस्तज्जातकर्मादिकं
कृत्वाख्यामपि पालकाप्य इति दिव्योक्त्या चकारास्य च ॥ १८ ॥
सोऽक्रीडच्च गजैः करेणुकलभैः साकं नदीनिर्झर-
प्रस्थेष्वप्सु च रम्यभूमिषु चरन् पर्णाम्बुभोजी मुनिः ।
अब्दानत्र तु षट्सहस्रयुगलीसङ्ख्यानमीषामसौ
भक्ष्याभक्ष्यसुखासुखेङ्गितहितानिष्टादि सर्वं विदन् ॥ १९ ॥
मामङ्गाधिप ! सामगायनसुतं तं पालकाप्यं मुनिं
विद्धीत्यङ्गनृपोऽमुना मुनिवरेणोक्तः परं विस्मितः ।
सम्पृष्टोऽथ मुनिर्गजार्थममुना राज्ञा पुनस्तं नृपं
नागोत्पत्तिशुभादिलक्षणचिकित्साद्यं क्रमादब्रवीत् ॥ २० ॥
धर्मात्मिका सृष्टिरनेकपानां हिताय यज्ञस्य च दैवतानाम् ।
विशेषतो राजहिताय तस्माद् यत्नेन नागाः खलु रक्षणीयाः ॥ २१ ॥
मार्ताण्डस्य यतोऽण्डतो जनिरभूद् ब्रह्मर्षिभिर्दर्शितं
सन्दीप्तं किल तत्कपालयुगलं पाणिद्वयेनादरात् ।
सप्तागायदजः प्रगृह्य युगपत् सा[^१]मान्यथैरावतो
नागोऽभूदथ सप्त वारणवरा जाताः पृथग् गानतः ॥ २२ ॥
जाता दक्षिणहस्तसंस्थितकपालादेवमष्टौ गजा
वामस्थाच्च वशाः क्रमेण जनिता जायाश्च तेषामथ ।
सामगानजन्यत्वादेव गजानां सामजत्वम् ।
प्रथमः पटलः ।
पुत्राः सत्त्वबलान्विताश्च बहवः पौत्रादयोऽपि क्रमात्
स्वैरं चेरुरशेषलोकवनधुन्यद्रिष्वमी वारणाः ॥ २३ ॥
इन्द्राग्न्यादिदिगीशवाहनतया देवासुरायोधने
याता नागवराश्च दुद्रुवुरथो भीता विरिञ्चान्तिके ।
तद् ज्ञात्वा मदपूरुषोऽथ विधिना सृष्टस्तदावेशिता
मत्ता दैत्यचमूं निहत्य ययुरिन्द्राद्यैर्यथास्वं दिशम् ॥ २४ ॥
दुर्वासाः प्रददावमर्त्यपतये दिव्यस्रजं सादरं
तामैरावतमर्दितामपदयं दृष्ट्वा मुनिः शप्तवान्।
तच्छापेन विनष्टमाप्तुमखिलं चैश्वर्यमुन्मथ्यमा-
नेऽब्धावभ्रमुवल्लभोऽजनि ततः क्षीराब्धिजोऽसौ श्रुतः ॥ २५ ॥
जाता भद्रद्विपेन्द्राः कृतयुगसमये लक्षणेनाभियुक्ता-
स्त्रेतायां मन्दजात्याः खलु गजपतयो द्वापराख्ये युगे च ।
नागाश्चैते मृगाख्यास्तदनु कलियुगेऽत्रैव सङ्कीर्णजात्या
नागानां जातिभेदाज्जनिरिह कथिता कालयोगानुरूपा ॥ २६ ॥
नातिस्थूलाखिलाङ्गः प्रथमयुगवसन्तोद्भवः पाटलाभो
नाहायामी सहिष्णुर्धरणिधरचरः सार्थिकोऽन्वर्थवेदी ।
धीरस्तेजव्युदग्रो जलधरनिनदः काङ्क्षितो धेनुकाभिः
शुरः पिङ्गाक्षिदन्तो भवति च समदोषः शुभो भद्रनामा ॥ २७॥
त्रेतायां शीतकालोद्भव उभयचरो दुर्मना ह्रस्वकर्णो
नायामी मन्दगामी हरिरुचिनयनस्तामसः कृष्णशोभः ।
नागः श्लेष्मप्रधानो नतविपुलरदः स्थूलवृत्ताङ्गशोभी
कामी गम्भीरवेदी कथित इति बुधैर्मन्दनामा गजेन्द्रः ॥ २८ ॥
नाहायामप्रहीणः कृशनिखिलतनुर्धूसरच्छायकायो
बह्वाश्युत्तानवेदी चपलमतिरतिक्रोधनः सिन्धुचारी ।
स्थूलाक्षो ह्रस्ववालश्चरमयुगपयोवाहकालप्रजात-
श्चण्डः पित्तप्रधानो मृग इति कथितो वारणोऽसौ कनीयान् ॥ २९ ॥
प्रत्येकं मन्दजात्यादिप्रोक्तलक्षणसङ्करात् ।
सङ्कीर्णजात्या मातङ्गाः कलौ ते बहुला युगे ॥ ३० ॥
नागाः सर्वत्र गत्या गज इति विजयाद् गर्जनाच्चैव हस्ती
वेधोहस्तप्रसूत्या परनृपतिचमूवारणाद् वारणोऽपि ।
मातङ्गो वर्त्ममृत्त्वादतिजरयति कुं कुञ्जरः पादतोदात्
पद्मी पद्मप्रसक्त्या द्विप इति मुखतो हस्ततोऽपि प्रपानात् ॥ ३१ ॥
शुण्डावालधिदन्तैश्च चतुर्भिश्च पदैरपि ।
प्रहरन्ति यतस्तस्मादष्टप्रहरणा द्विपाः ॥ ३२ ॥
इमे बिभ्यति सर्वेभ्यः सर्वेभ्योऽभ्यधिकं वपुः ।
कान्तत्वाच्च तथा प्राहुरिभानेतान् महर्षयः ॥ ३३ ॥
प्रशस्तकरसंयोगात् करिणो दन्तिनस्तथा ।
सिन्धुराः सिन्धुरमणादेवं निर्वचनक्रमः ॥ ३४ ॥
जिह्वायाः परिवृत्तिरन्तरधिकं दाहोऽनलाद् ब्रह्मणो
मुष्काभावरजोम्बुपङ्कविहृती स्वस्थेमसम्मोहनम् ।
मर्त्यानां वहनं च दीर्घतपसो देवत्वहानिर्भृगो-
र्विण्मूत्रेऽभिरतिः स्वके वरुणतोऽन्तस्स्वेदता शापतः ॥ ३५ ॥
स्वांशो दत्तो न देवैर्हविष इति हुताशः कदाचित् तिरोभृत्
क्रुद्धोऽन्वेष्टुं प्रणुन्ना दिगधिपकरिणो ब्रह्मणा वह्निमेनम् ।
गत्वा ते त्वाश्रयाशाश्रममथ महिषीं धर्षयामासुरग्नेः
सोऽयं तत्क्रन्दनात् तानशपदलमिमांस्तत्प्रभावान्न दग्धुम् ॥ ३६ ॥
पूर्वं यूयं विधातुर्वचननिशमनात् सर्वमेवं प्रकुर्मः
कर्मेयस्याग्रतो द्रागवदत यदतीवोद्धता हन्त तस्मात् ।
जिह्वाया वोऽस्तु नित्यं परिगतिरपि दाहोऽन्तरित्यग्निशापं
प्राप्तानां पद्मजन्मा सदयमथ ददौ पांसुपङ्काम्बुसौख्यम् ॥ ३७॥
गत्वा नागा भृगोराश्रममवनिरुहोत्पाटनं चाग्निहोत्रे
विण्मूत्राण्यत्र चक्रुस्तदनु मुनिवरेणात्तरोषेण तूर्णम् ।
आघ्रायात्मीयमूत्रं शकृदपि च निजं तालुसङ्घर्षणं चा-
प्यातन्वन्तो भवन्त्वित्युरुतरतपसा तेन शप्ताः कदाचित् ॥ ३८ ॥
युद्धे दैवासुरे प्राग् रणशिरसि गजस्वेदपीडासहिष्णुं
देवौघं प्रेक्ष्य पाशी द्रुतमथ करिणां स्वेदमन्तर्व्यतानीत् ।
तस्मादन्तः प्रवृत्तान् विजहति करतः स्वेदबिन्दून् करीन्द्रा
मुष्काभावस्त्वजोक्त्या द्रुततरगतये स्वैरमायोधनादौ ॥ ३९॥
सर्वेषां मदकृद् वसन्तसमयः प्रोक्तो विशेषादसौ
नागानां तु ततो वसन्तजनिता ये ते तु गन्धद्विपाः ।
तेषां स्वेदपुरीषमूत्रमदतोयाघ्राणनादञ्जसा
माद्यन्त्यन्यगजाश्च ते जयकरा गन्धद्विपा भूभुजाम् ॥ ४० ॥
इति मातङ्गलीलायां
नागोत्पत्त्यधिकारः प्रथमः पटलः ।
अथ द्वितीयः पटलः ।
मस्तकद्वितयं दन्तावासनं वंश एव च ।
षडेते प्रोन्नता यस्य स गजो राजवाहनः ॥ १ ॥
पुष्करद्वितयं कोशो जिह्वोष्ठगुदतालु च ।
सप्तैते रक्ततनवो यस्य स द्विरदोत्तमः ॥ २ ॥
विंशत्या नखसङ्ख्ययाञ्चितपदः स्फारोन्नतिः कुम्भयो-
रच्छिद्राञ्चलरक्तकर्णयुगलः सुश्लक्ष्णकक्षः करी ।
सव्याभ्युन्नतमाक्षिकद्युतिरदः सम्पूर्णकुक्षिः क्रम-
स्थूलर्ज्वायतचारुवालधिकरः पूगीफलश्यामलः ॥ ३ ॥
स्निग्धश्यामतनुश्च खड्गसदृशच्छायोऽथवा स्वस्तिक-
श्रीवत्सारिदराब्जलाञ्छनलसद्बिन्दुप्रकाशारुणः ।
क्रोडोद्यज्जघनस्थलोऽथ दृढकुक्षिस्रस्तसत्पिण्डिको
विस्तीर्णाधिकमांसलोन्नतक[^१]लाभागो नृपार्हो गजः ॥ ४ ॥
बृहदायतवृत्तकन्धराः सजलाम्भोदुनिनादबृंहिताः।
कलविङ्कमधुप्रभेक्षणास्त्रिवलिस्कन्धकरा गजाः शुभाः ॥ ५ ॥
सुस्निग्धतारनयनारुणपुष्कराश्च
चूतप्रवालरुचिकोमलकोशदण्डाः ।
रक्तारविन्दरुचिराः कलकण्ठनादा-
स्त्वेते गजाः शुभकराः खलु पार्थिवानाम् ॥ ६ ॥
तुङ्गदक्षिणविषाणकोटयो विन्दुचित्रितमहाकराननाः ।
गूढसन्धिदृढगात्रपश्चिमाः पार्थिवेन्द्र ! तव वाहनोचिताः ॥ ७ ॥
चापोन्नतायतनिगूढसुवंशपृष्ठाः
कान्ताघनस्तनसमानसरोमकुम्भाः ।
विस्तीर्णकर्णहनुनाभिललाटगुह्या-
स्ताम्रोष्ठतालुरदनाः करिणो नृपार्हाः ॥ ८ ॥
"स्नायुभिश्च प्रतिच्छन्नान् सन्तताश्च जरायुणा । श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ॥ धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति । देहोष्मणाभिपकश्च सा कलेल्यभिधीयते" ॥ इति भावप्रकाशः ।
सिन्दूरसान्द्रसमबिन्दुविचित्रिताङ्गः
कुर्मोन्नतैर्द्विनवविंशतिभिर्नखैर्वा ।
चन्द्रप्रभैश्च सहितो बलसत्त्वधैर्ये-
रुद्गारसौरभयुतोऽपि करी नृपार्हः ॥ ९ ॥
भग्नव्यालजलातुरांश्च कलभान् हित्वा प्रतापान्वितः
कर्मण्योऽष्टविधप्रहारकुशलः शूरो दृढो वेगवान् ।
सर्वप्राणिवधे समुद्यतमनाः सद्भिर्युतो लक्षणै-
र्यो दन्तावलपुङ्गवः स नृपतेः संग्रामयोग्यो भवेत् ॥ १० ॥
युध्यन्ति केवलं योधा वहन्त्येव हया रथान् ।
वारणास्तु नरेन्द्रार्हा युध्यन्ति च वहन्ति च ॥ ११ ॥
सारङ्गिसिंहशुकवानरमल्लहंस-
कादम्बकैरपि गतिः सदृशी शुभा स्यात् ।
गन्धर्वकिन्नरसुपर्णकसूकरैश्च
शार्दूलराजशरभोरगचक्रवाकैः ॥ १२ ॥
जिह्वामूलसमुद्भवं निगदितं फेनायितं स्याद् रुतं
तत् पोतायितमोष्ठतालुजनितं तत् कण्ठजं गर्जितम् ।
तत् प्रोक्तं हसितं कपोलकरजं सर्वं तदेतच्छुभं
क्षुत्तृट्छोकभयोद्भवं निगदितं निन्द्यं भृशं दन्तिनाम् ॥ १३ ॥
गम्भीरसौम्यहृष्टाः स्वस्थाः शृङ्गारिणस्तथा स्निग्धाः ।
नादाः शुभा नराधिप ! षडेव कथिता गजेन्द्राणाम् ॥ १४ ॥
हस्तेन मृदङ्गरवं कर्णाभ्यां दुन्दुभिस्वनं चैव ।
दर्दुररवं मुखेन च करोति यः पूजितः स गजराजः ॥ १५ ॥
हंससारसमयूरकोकिलव्याघ्रसिंहवृषसन्निभस्वराः ।
पूजिताः करभकाकजम्बुकक्रोडवानरसमा न शोभनाः ॥ १६ ॥
गुणग्रामसमग्राश्चेद्धीनाधिकनखा गजाः ।
दोषानेव प्रकुर्वन्ति विपरीताश्च [^१]शोभनम् ॥ १७ ॥
इति मातङ्गलीलायां
शुभलक्षणाधिकारो द्वितीयः पटलः ।
अथ तृतीयः पटलः ।
हीनाधिक्यनखाङ्गदृश्यवृषणो ह्रस्वाङ्गुलिर्वामनो
मण्डूकोदरकुब्जनीलशबलश्यावाभतालुस्तथा ।
स्थूलश्चातितनुर्जलूकसदृशश्चातुल्यपार्श्वद्वयो
रूक्षो निर्मदनीचपुष्करकरः पूज्यो न चायं गजः ॥ १ ॥
राजिग्रन्थियुतातिरूक्षशबलस्थूले विषाणे किला-
स्यस्निग्धासमशुभ्रबिन्दुमदतिह्रस्वः सिराभिस्ततः ।
मेढ्रो यस्य कृशोऽतिवक्रविपुलव्याविद्धसग्रन्थिक-
ह्रस्वो वालधिरल्पपेचककलापृष्ठः स निन्द्यो गजः ॥ २ ॥
लक्ष्यमुष्कस्तु मातङ्गो यत्र तिष्ठति पार्थिव !।
हन्यते तत्र नृपतिः सुतेन सुहृदाथ[^२] वा ॥ ३ ॥
कर्णहीनो दक्षिणतश्चातुर्वर्ण्यविनाशनः ।
वामतः शिल्पिनो हन्याद् रोगार्तोऽपि भवेन्नृपः ॥ ४ ॥
त्वग्दन्ततालुनखरादिषु पुष्पितो य-
स्त्याज्योऽत्र तद्दहनलेखनकर्म यद्वा ।
तच्छान्तिकर्म सकलं प्रतिसारणं च
तच्छेदनं च मतिमान् विधिवत् प्रकुर्यात् ॥ ५ ॥
'नाः' ग-पाठः ।
'सह' ग-पाठः ।
हृष्टोऽत्यर्थं रजन्यां भ्रमति खलु दिवा प्राक् प्रहृष्टः शकुन्तैः
कूजन् वाञ्छन् वियत्युत्पतितुमपि सदा वालदण्डेन वीजन् ।
गात्रोत्कर्षी च बाढं मुहुरपि न वशे वर्तते यश्च यन्तु -
स्तं विद्याद् व्यालहस्तीत्यखिलगुणगणाढ्योऽपि न ग्राह्य एषः ॥ ६॥
पोतान्विता वा करिणी सगर्भा
लब्धा भवेद् वाहनकोशनाशः ।
तपोवने वा स्ववनेऽथ वापि
नीत्वार्पयेद् दिग्गजदेवपूजाम् ॥ ७ ॥
इति मातङ्गलीलायाम्
अशुभलक्षणाधिकारस्तृतीयः पटलः ।
अथ चतुर्थः पटलः ।
स्निग्धदन्तनखरोमचक्षुषो दीर्घकर्णकरवालवंशिनः ।
प्राक्प्रदेशपरिपूर्णलक्षणास्तुल्यमस्तकतलाश्चिरायुषः ॥ १॥
सप्तरक्ततनवः षडुन्नताः सुप्रभावमनसः सुगन्धयः ।
नीलनीरदनिभा विराविणो द्वित्ररोमनिलयाश्चिरायुषः ॥ २ ॥
गात्रोत्तमाङ्गनयनाननकर्णकण्ठ-
वक्षोविषाणकरसत्त्वरूचोऽपराणि ।
अङ्गानि चेति सदृशानि वयोदशाभिः
क्षेत्राण्यमूनि करिणां दश च द्वयं च ॥ ३ ॥
क्षेत्राणां यावतां पूर्णं लक्षणं यस्य दृश्यते ।
दशास्तावत्य एवायुस्तस्येत्याह बृहस्पतिः ॥ ४ ॥
त्रीणि पञ्च च सप्ताष्टौ लिङ्गान्येतानि यस्य वै ।
आयुः स लभते तावद्दीर्घमित्यस्य मे मतिः ॥ ५ ॥
चतुर्थी मृगजात्यस्य मन्दजात्यस्य चाष्टमी ।
द्वादशी भद्रजात्यस्य परमायुरिहोच्यते ॥ ६ ॥
इति मातङ्गलीलायाम्
आयुर्लक्षणाधिकारश्चतुर्थः पटलः ।
अथ पञ्चमः पटलः ।
आ द्वादशाब्दाद् वयसा जघन्यो
मध्यश्चतुर्विंशतिवत्सरात् प्राक् ।
आ षष्टिसंवत्सरतः पुरायं
मातङ्गवर्यो वयसोत्तमाख्यः ॥ १ ॥
श्लक्ष्णः सुताम्रो मृदुगात्ररोमा
निद्रालुरङ्कुरितहस्तलक्ष्यः ।
अव्यक्तरूपाङ्गयुतः स्तनार्थी
बालाह्वयोऽयं प्रथमे तु वर्षे ॥ २ ॥
किञ्चित्सान्द्रनखोऽतिरागरसनोष्ठादिः पयोऽल्पं पिबन्
किञ्चिद्वल्लितृणा[१]दि खादितुमना गात्रान्तरे लोहितः ।
द्राग् धावत्यनिमित्तमेव मुदितः प्रायः सितामीलितो
नम्राक्षो नयनप्रमोदकृदयं वर्षद्वये पुच्चुकः ॥ ३ ॥
'णानि खा' ख. पाठः ।
स्फुटनखविदुसन्धिश्रोत्रदन्तप्रवेष्ट
च्छविरुरसि सबिन्दुः कर्ण[*]पिञ्छूषयोश्च ।
श्रवसि शिरसि केश्युन्नम्रशीर्षस्तृणादी
दृढतररदपङ्क्तिश्चोपसर्पस्तृतीये ॥ ४ ॥
[‡]विलागनिष्कोशविलोहितः पयो-
द्विट् प्रोहसन्दानघनस्तृणप्रियः ।
कृष्णान्ततालुः पृथुलश्चतुष्टये
मनाक् प्ररोहद्दशनो हि बर्बरः ॥ ५ ॥
काष्ठत्वक्तनुसेवनस्तनुकचः पङ्काम्बुपांसुप्रियः
स्वल्पं हृष्यति कोपमेति च सुखं दुःखं यतं बुध्यते ।
शब्दादीनपि वेत्ति यन्तृवशगो ह्युत्तानवित् प्रोल्लस-
द्धाटावग्रहदन्त एष कलभः प्राप्तः समां पञ्चमीम् ॥ ६ ॥
पिञ्छूषकर्णकटसृक्कविलागनेत्र-
कूटाग्रकर्णयुगलप्रतिमानदेशे ।
यः सान्द्रबिन्दुसुभगो वलिहीनवर्ष्मा
नैकारिकं तमिह षट्सममामनन्ति ॥ ७ ॥
घननखतलसन्धिप्रोहसन्दानचिक्का-
पलिकरनखशीर्षो दन्तखादी सकण्डूः ।
स्फुटचरणजवावस्कारवान् सप्तवर्षः
शिशुरिति कथितोऽसौ स्निग्धदोःपुष्कराग्रः ॥ ८ ॥
'पिन्छूषा कर्णपाली स्याद्' इति षष्ठे पटले वक्ष्यते ।
विलागादिपदानामर्थः षष्ठे पटले स्पष्टः । 'मध्येमुखं तु वाहित्थं पिलाटौ तस्य पार्श्वयोः' इति विलागशब्दार्थे पिलाटशब्द एव वैजयन्त्यां पठ्यते ।
घननखतलसन्धिः क्षिप्ररोहित्रणौघो
मृदुमृदुयवसाशी सञ्चलद्दन्तपङ्क्तिः ।
चपलगतिरजस्रं वर्षघर्षी प्रहर्षी
प्रहरणमृदुकोऽसावष्टमे मज्जनाख्यः ॥ ९ ॥
शुक्लेक्षणः प्लवति धेनुममुक्तशुक्लः
स्निग्धच्छविः प्रततदन्तचयः पृथूराः ।
यो रन्ध्रसन्धिषु घनः सुदृढप्रहारी
दन्तारुणं नवसमाप्रभवं वदन्ति ॥ १० ॥
सञ्जातशुक्लः प्लवने स्थिराङ्गः प्रहृष्टमेढ्रः स्थिरजातदन्तः ।
तेजोबलाढ्यो दशमे सुखादी यूथप्रहर्षी च स एव विक्कः ॥ ११ ॥
उत्साही स्फुटगात्रसन्धिसुभगो गर्भप्रदो दुःखभाक्
सप्रोहादिवलिर्घनप्रहरणः पीताभदन्तच्छविः ।
दुर्गस्थानरतः सुवृत्तजघनावस्कारकर्णाञ्चलः
पोताख्यः स्मरवेगविक्रमबली यातो द्वितीयां दशाम् ॥ १२ ॥
तत्तन्मानविभक्तकर्णरसनोत्सङ्गादिरुद्यन्मद-
घ्राणः सर्वगुणान्वितो दृढरणः सुस्निग्धरोमच्छविः।
क्षीबाक्षः प्रियदर्शनोऽक्ष[१]विलसद्वृद्धिः सुधीः कोपनो
हन्ता धातुसमः स एव जवनो यातस्तृतीयां दशाम् ॥ १३ ॥
सन्दानादिषु जातसुस्थिरवलिर्गृह्णाति युक्तं मदं
निद्राद्विट् प्रतिदन्तिवैरिमनसा भीतोऽनले धूपनात् ।
गर्जन्नुद्धतगात्ररोमनिचयो युद्धप्रयोगप्रियः
कल्याणो ह्ययमेव वारणयुवा प्राप्तचतुर्थीं दशाम् ॥ १४ ॥
'तिवि' ख. पाठः ।
सन्दानप्रभृतिप्रदेशविलसद्दानाविलोद्यद्वली-
सान्द्रः कर्णकट[^१]क्षयेषु सहजामायाति च श्रेष्ठताम् ।
द्राङ् माद्यत्यनिमित्तमेव मुदितः शूरोऽतिसर्वंसहो
यौधो नाम सदा मदाविलकटः प्राप्तो दशां पञ्चमीम् ॥ १५ ॥
ऊर्ध्वं विनिर्भिण्णवलिप्रदेशः किञ्चिद्विहीनेन्द्रियधातुतेजाः ।
वेष्टोष्ठकर्णादिषु जातरोमा षष्ठीं गतो निस्सृतदन्तमूलः ॥ १६ ॥
अल्पाग्निपित्तो बहुमातरिश्वा
स्तब्धाङ्गयुक्तः परुषच्छविश्च ।
अल्पाङ्गचेष्टोऽतिकफो विवर्णः
प्राप्तो दशां सोऽप्यथ सप्तमीं वै ॥ १७ ॥
नित्याश्रुः सततं कटस्रुतकफो दुर्वर्णरूक्षच्छवि-
र्भीत्या यूथबहिश्चरः स्मरधिया दन्ताभिवृद्ध्योज्झितः ।
निर्वीर्यः सततं पिनद्धनयनो न क्षिप्ररोहिव्रणो
ह्यष्टम्यां छविरप्यपोहति भृशं सम्भिन्नरोमावलिः ॥ १८ ॥
स्रस्तग्रीवः प्रचलदशनो मन्दसर्वाङ्गचेष्टो
दन्तस्रावी मृदुयवसभुग् निर्मदो निस्सपत्नः ।
रूक्षच्छायो वलितततनुर्यूथपृष्ठानुगामी
विश्लिष्टाङ्गः स्वपिति ([^२] च तरां ?) यो नवम्यां पुराणः ॥ १९॥
विस्रस्तश्रवणांसवालधिकरः शीर्णाङ्गरोमा चल-
द्दन्तो मांसबलक्षयी चलतलः प्रस्रस्तपादोऽल्पभुक् ।
रूक्षाङ्गः पटली सिराचिततनुः कृच्छ्राच्छकृन्मूत्रमुक्
तृष्णालुः कृमिजालभक्षितनखो वृद्धो दशम्याश्रितः ॥ २० ॥
[^१] क्षयो गजजानुभागविशेषः ।
[^२] 'नितराम्' इति स्यात् ।
शेते द्रुमे नाप्सु कफाक्त[^१]लण्डः संकोचमेही मृदुखादनश्च ।
अवाग्विषाणः स्थिरगात्ररोगी दशान्विते वर्षशतेऽपि नागः ॥ २१ ॥
नीचैश्च मन्दं प्रमृशेच्च यायाच्चलत्करोऽधश्चलकर्णवालः ।
प्रस्तब्धगात्रापरवानजस्रं स द्वादशीं प्राप्य दशां स्वपेच्च ॥ २२ ॥
एवं वर्षशतं विंशमवस्थाय महीपते ! ।
कृत्वा बहुविधं कर्म स्वर्गं गच्छति वारणः ॥ २३ ॥
इति मातङ्गलीलायां
वयोलक्षणाधिकारः पञ्चमः पटलः ।
अथ षष्ठः पटलः ।
नेत्रादापेचकं दैर्ध्यं नखादास्कन्धमुच्छ्रयः ।
परीणाहः प्रमातव्यः कक्ष्यास्थानेषु दन्तिनाम् ॥ १॥
सञ्जातमात्रमृगजात्यगजस्य दैर्ध्यं
सार्धैकहस्तमिह चैककरोच्छ्रयः स्यात् ।
नाहो द्विहस्त इति च प्रतिवर्षमेषां
पञ्चाङ्गुलर्धिरुदिता दशवत्सरान्तम् ॥ २ ॥
पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यं नाहप्रमाणं तु वितस्तयोऽष्टौ ।
एतद्विवृद्धावथ मन्दभद्रौ प्राप्ते तु वर्षे दशमे त्रियुक्ते ॥ ३ ॥
षट्पञ्चचतुरुच्छ्राया अष्टसप्तषडायताः ।
नवाष्टसप्तनाहाश्च मुख्यमध्याधमा वशाः ॥ ४ ॥
[^१] लण्डो विष्ठा ।
अतिस्थूलाः कृशाश्चैव हीनाङ्गाश्चैव ये गजाः ।
तेषामङ्गान्यमेयानि प्रत्यङ्गानि च पार्थिव ! ॥ ५ ॥
समसर्वाङ्गदेहस्य वारणस्य महीपते ! ।
प्रमाणमिष्टं सर्वत्र कल्याणस्य विशेषतः ॥ ६ ॥
शिरसः पिण्डौ कुम्भौ भवतो विदुसंज्ञ एतयोर्मध्यः ।
तस्याधोऽवग्रह इति वाहित्थं कुम्भयोरधोभागः ॥ ७ ॥
तस्याधः प्रतिमानं तन्मध्यो वायुकुम्भसंज्ञः स्यात् ।
वाहित्थपार्श्वयुगलं विलागसंज्ञं भवेद् गजानां तु ॥ ८ ॥
पुष्करोपरि गण्डूष ईषिका त्वक्षिकूटकम् ।
अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ९ ॥
पिञ्छूषा कर्णपाली स्यात् प्रोहाख्योऽन्तरमंसयोः ।
हस्तोपरि त्ववस्कारस्तदूर्ध्वं पलिसंज्ञकम् ॥ १० ॥
देहमध्यं तु निगलस्थानं चिक्का तदूर्ध्वतः ।
सन्दानं जघनादूर्ध्वं कालभागस्त्वधोऽस्य च ॥ ११ ॥
पक्षाधोऽप्यपरौ ज्ञेयौ निष्कोशः पक्षपृष्ठयोः ।
कुक्षिः पश्चात् तयोस्ताभ्याम् (?)उत्कृष्टाविति संज्ञितौ ॥ १२ ॥
पुच्छमूलसमीपं स्यात् पेचकं तु गलादधः ।
उरस्यन्तर्मणिं विद्याद् ग्रीवासन्धिसमाश्रितम् ॥ १३ ॥
इति मातङ्गलीलायां
माननिर्णयाधिकारः षष्ठः पटलः । अथ सप्तमः पटलः ।
एतावन्मूल्यमेषामलमिति गदितुं नो समर्था मनुष्याः
क्रेतुर्विक्रेतुरेकं यदिह बहुमतं तद्विदुर्मुख्यमूल्यम् ।
एकस्यासम्मतं मध्यममनभिमतं चोभयोर्निन्द्यमस्मात्
तद्ज्ञैः सर्वं विदित्वा बहुभिरवहितैर्मूल्यमूह्यं गजानाम् ॥ १॥
गृह्णीयात् पूर्णमूल्येन तु निखिलगुणैरन्वितं वारणेन्द्रं
भग्नैकाक्ष्यङ्घ्रिदन्तं बधिरमपि रुजावन्तमप्यर्धमूल्यात् ।
छिन्नार्धश्रोत्रवालादिकमपि मतिमांस्तत्र मूल्यत्रिभागाद्
दन्तद्वन्द्वप्रहीणादिकभिभवरमप्यङ्घ्रिमूल्येन गृह्यात् ॥ २ ॥
वामदन्तोन्नतं विद्याद[^१]पाकीलं तु मूल्यतः ।
अष्टांशहीनतो विद्याद्वशा मूल्यत्रिभागतः ॥ ३ ॥
इति मातङ्गलीलायां
मूल्यविशेषाधिकारः सप्तमः पटलः ।
अथाष्टमः पटलः ।
देवदानवगन्धर्वयक्षराक्षसमानुषान् ।
पिशाचोरगसत्त्वांश्च लक्षयेत् स्वस्वलक्षणैः ॥ १ ॥
यः कान्तिमान् कुमुदचन्दनसप्तपर्ण-
नारङ्गपद्म[^२]चतुरङ्गुलतुल्यगन्धः ।
फुल्लाननः कळभकौतुकवानजस्रं
मान्योऽन्यपुष्टनिनदः स तु देवसत्त्वः ॥ २ ॥
[^१] 'द् द्विपं हीनं' ग-पाठः ।
[^२] चतुरङ्गुलः शम्याकः ।
निन्द्योद्यतो युद्धरतोऽतिमात्रं क्षुद्रस्वभावो न मनाग् दयालुः ।
स सिन्दुवारागुरुमत्स्यगन्धी हन्ता करी दानवसत्त्व एषः ॥ ३ ॥
गन्धर्वमाहुरतिमुक्तकयूथिकाब्ज-
पुन्नागनागहरिचन्दनतुल्यगन्धम् ।
[^१]गानप्रियं शुभगतिं शुभदन्तनेत्र-
कुम्भोत्तमाङ्गकरपुष्करमल्पबिन्दुम् ॥ ४ ॥
शुचिरक्षान्तशीलश्च सुभगः प्रियदर्शनः ।
तेजस्वी हृष्टकर्णश्च यक्षसत्त्वो मतङ्गजः ॥ ५ ॥
यः काकवानरखरोष्ट्रबिलाळमूत्र-
विट्पूतिगन्धिरिभहा निशि दारुणश्च ।
इष्टाम्लमांसरुधिरोऽविनयी कृतग्घ्नः
सत्त्वेन राक्षस इति प्रतिकूलकारी ॥ ६ ॥
शून्यप्रियः कुणपलोहसमानगन्धो
भ्रान्तो निशासु विचरन् घननिस्वनश्च ।
पर्वस्वतीव परिकुप्यति यश्च मूढ-
स्तं सूरयो गजमुशन्ति पिशाचसत्त्वम् ॥ ७ ॥
यो मत्स्यशैवल[^२]फणिर्जककर्दमानां
गन्धैः सुरापिशितयोरपि तुल्यगन्धः ।
त्रस्तो भवेज्जलदशब्दमपि प्रशृण्वन्
क्रुद्धो निशासु जलपांसुरतो भुजङ्गः ॥ ८ ॥
[^१] 'नागप्रि' क.पाठः ।
[^२] फणिर्जकस्तुलसीभेदः ।
विप्रः शुचिर्मधुपयःपरमान्नसार्पि-
श्चूतप्रसूनसमगन्धसुगन्धिताङ्गः ।
सामप्रियः सकलनागहितश्च शान्तः
स्नानप्रियः शुभमतिर्गदितो मुनीन्द्रैः ॥ ९ ॥
यश्चन्दनाज्यहरितालमनःशिलानां
गन्धेन तुल्य इह गुग्गुलुकस्य चापि ।
सन्नाह्यकर्मकुशलो युधि निर्भयश्च
स क्षत्रियो विविधशस्त्रनिपातशूरः ॥ १० ॥
बन्धूकशालितिलकैतकमालतीनां
गन्धेन यश्च समलङ्कृततालुजिह्वः ।
क्लेशक्षमः पिशितभुक् प्रियसान्त्वनश्च
क्रुद्धोऽपि तूर्णमुपशाम्यति वैश्यजातिः ॥ ११ ॥
उच्छिष्टहृष्टः सहसैव भीरुः
शुक्ताम्लबस्तास्थिकुळीरगन्धः ।
क्रोधी च भेद्यः कृपणः कृतघ्नः
सत्त्वेन शूद्रः स गजाधमश्च ॥ १२ ॥
विश्वासघातकः क्रूरो गमने कुटिलक्रमः ।
न भुङ्क्ते समदोऽत्यर्थं सर्पसत्त्वः करी मतः ॥ १३ ॥
देवक्षत्रियगन्धर्वविप्रसत्त्वास्तु सात्त्विकाः ।
राजसौ वैश्यशूद्रौ तु तामसाश्च तथापरे ॥ १४ ॥
नागानां हरिपीतकालधवला वर्णाश्चतुर्धा क्रमाद्
रक्तात् पित्तयुताद् [^१]बलाससहिताद्रक्ताच्च पित्तात् कफात् ।
सञ्जाताः खलु बर्हहेमजलदज्योत्स्नासमास्तेष्वसौ
कालस्त्वेक इहावनौ भवति ते शेषास्त्रयः स्वःस्थले ॥ १५ ॥
[^१] बलांसः कफधातुः ।
छाया पञ्चविधा यथा दिनमणिं कादम्बिनी छादयेद्
देहस्थं द्विरदस्य लक्ष्म च तथा सा भूतभेदाद् भवेत् ।
आद्या नीरधराकृतिर्धरणिजा नैका सुवर्णाग्निजा
तिस्रः पूज्यतमा इमारतदितरे रूक्षे परं निन्दिते ॥ १६ ॥
गन्धर्वोरगयक्षसत्त्वकरिणः [^१]सान्नाहिकाः क्षत्रियः
सान्नाह्ये तु विशेषतो द्विजसुरा यागादिकर्मादिषु ।
योज्याः कर्मसु वैश्यजातिरखिलेष्वन्ये च युद्धे वधे
भाण्डादेर्वहने च चौरहनने व्याघ्रादिविध्वंसने ॥ १७ ॥
अत्यर्थोत्तानगम्भीरान्वर्थप्रत्यर्थकर्कशैः ।
सिद्धेनापि च नागानां वेदनं सप्तधा विदुः ॥ १८ ॥
प्राजनाङ्कुशदण्डेभ्यो दूरादुद्विजते हि यः ।
स्पृष्टो वा व्यथतेऽत्यर्थं स गजोऽत्यर्थवेदनः ॥ १९ ॥
त्वचः संसर्गमात्रेण रोम्णां स्पर्शेन वा पुनः ।
तीक्ष्णतोत्राङ्कुशन्यासं वेत्ति सोत्तानवेदनः ॥ २० ॥
त्वग्भेदाच्छोणितस्रावादामांसव्यथनादपि ।
यो न वेत्त्यङ्कुशाघातं स वै गम्भीरवेदनः ॥ २१ ॥
यतयाते वेदयते न बिभेति न मुह्यति ।
यो गजस्तं विजानीयात् प्राज्ञस्त्वन्वर्थवेदनम् ॥ २२ ॥
प्रत्येति यश्चोद्यमानो गृहीतश्च न गच्छति ।
प्रतिलोमयते संज्ञां यः स प्रत्यर्थवेदनः ॥ २३ ॥
असङ्कल्पमसंवेदं प्रतिलोमयते च यः ।
[^१] 'सन्नाहिनां' ग-पाठः ।
यो दोषं भजतेऽत्यर्थं स स्यात् कर्कशवेदनः ॥ २४ ॥
यः श्लक्ष्णः सर्वभावेषु विशुद्धश्चोत्तमोत्तमः ।
तं सिद्धवेदनं प्राहुर्मातङ्गं मुनिपुङ्गवाः ॥ २५ ॥
इति मातङ्गलीलायां
सत्त्वलक्षणाधिकारोऽष्टमः पटलः ॥
अथ नवमः पटलः ।
अतिमधुररसानां सेवया पत्रभङ्गैः
कबळकुबळशष्पैरन्नपानैर्यथोक्तैः ।
श्रुतिसुभगवचोभिः पांसुपङ्काम्बुदानै-
र्भवति मुदितचेताः कामचारेण नागः ॥ १ ॥
यथा यथा हर्षमुपैति नागस्तथा तथा धातुरुपैति वृद्धिम् ।
अतः करिण्या सहचार इष्टो ह्यनर्गळं चाम्भसि संविहारः ॥ २ ॥
गण्डूषाद्भिः परिमलभरोद्गारिणा वारिणा यत्
फुल्लाम्भोजे सरसि रमते सेवमानो बिसानि ।
यद्रोचिष्णुः श्रयति यवसं स्वेच्छया संप्रचारो
हर्षादस्मात् स्फुरति करिणो धातुसाम्यं नरेन्द्र ! ॥ ३ ॥
हर्षाधिकत्वान्नागानां मदो भवति पार्थिव ! ।
वियुक्तस्य तु हर्षेण मदो नागस्य हीयते ॥ ४ ॥
अक्षितालुकटश्रोत्रनाभिकोशकरस्तनैः ।
स्रवेत् तनूरुहैरेवं बहुधैव मदो नृप ! ॥ ५ ॥
प्रहर्षः शीघ्रता गन्धो गतिर्देहस्य गन्धता ।
क्रोधो वीर्यमभीरुत्वमष्टौ मदगुणाः स्मृताः ॥ ६ ॥
सृष्ट्वा पुरा मदमजोऽथ तदर्धभागं
क्षिप्त्वा चराचरजगत्सु गजेषु चार्धम् ।
निक्षिप्तवानपरमप्यथ तेन मत्ता
युध्यन्ति कोपमुपयान्ति च तेऽभिभूताः ॥ ७ ॥
प्राप्नुवन्त्यार्त्तवीं वृद्धिं मददृष्ट्या महीरुहाः ।
स्मर्यमाणमदेनान्ये प्राणिनोऽपि मुदान्विताः ॥ ८ ॥
राष्ट्रे वा नगरे प्रमाद्यति यदि क्षोणी सुभिक्षा भवेत्
पूर्वं दक्षिणतः कटे यदि जयो राज्ञो नियन्तुर्भवेत् ।
वामे चेत् पृथिवी सुवृष्टिरुचिरा कोशे यदि स्फूर्जते
कोशेनापि कटद्वयेन च समं मुञ्चेद्यशस्वी नृपः ॥ ९ ॥
वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टि-
र्यायाद् यत्रानुलोमस्त्वरितपदगतिर्वक्रमुन्नाम्य चोच्चैः ।
कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा
तत्कालं वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च ॥ १० ॥
[^१]स्खलितगतिरकस्मात् स्रस्तकण्ठोऽतिदीनः
श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।
द्रुतमुकुलितदृष्टिः स्वप्नशीलोऽलसाङ्गो
भयकृदमितभक्षी नैकशो मूत्रकृच्च ॥ ११ ॥
मधुरुचिनखदन्तप्रेक्षणो नीलमेघच्छवि-
ररुणदृगन्तः पद्मकिञ्जल्कबिन्दुः ।
अपरगजविरोधी पांसुपाथोविहारै-
र्भवति च कटपूर्णः सुन्दरो वारणेन्द्रः ॥ १२ ॥
[^१] 'त्वरित' ग-पाठः ।
धाराळदानजलधौतकपोलभागः
संवर्त्तमेघसदृशस्तनिताभिपूर्णः ।
दूरस्थितानपि निहन्तुमनाः प्रधाव-
न्नुक्तो गजाधिपतिरार्द्रकपोलितो यः ॥ १३ ॥
तिर्यक्तिर्यङ् नयनमसकृत् पक्षयोर्वीक्षमाणो
बिन्दुं बिन्दुं विसृजति मदं कोशदण्डेन नागः ।
पश्चाद् गन्तुं व्यवसितमना बृंहते भूरिदानः
स्तम्भद्वेषी चतुरगमनो लक्ष्यते योऽनिबन्धात् ॥ १४ ॥
सप्तच्छदाम्भोजसमानगन्धः क्रुद्धः सदा कुङ्कुमवर्णदानः ।
आचोदितो हस्तिरथाश्वसङ्घान्नासादितो गन्धचरामवस्थाम् ॥ १५ ॥
अभिलषति नगर्यामन्नपानं च चाटून्
निशि च तमसि तिष्ठेदप्रगृह्यो नियन्तुः ।
करितुरगपदातीन् प्राप्य किञ्चिन्न मुञ्चेद्
गुणितरुषमुपेतः क्रोध[^१]धीः कुञ्जरेन्द्रः ॥ १६ ॥
अतिक्रान्तावस्थो गजपतिरिदं स्थावरचरं
जगत् सर्वं हन्तुं समभिलषति क्रोधकलुषः ।
न चैकत्र स्थायी परकरटिघण्टां न सहते
निजच्छायाद्वेषी भवति सततं धावनपरः ॥ १७ ॥
निवृत्तमदसञ्चयो विगतवेगकोपोद्धृतिः
प्रवृत्तमृदुगात्रसञ्चरणकेळिभास्वद्वपुः ।
विमुक्तगजमत्सरो मदनिवर्त्तने ह्रासने
पयोद इव राजते परिविमुक्ततोयागमः ॥ १८ ॥
[^१] 'धनीं' क-ख-पाठः ।
क्षीयन्ते मदवारणस्य नितरां दानस्रुतेर्धातवो
जायन्ते प्रबलानि रोगनिकराण्याश्वेव धातुक्षयात् ।
अन्याब्देषु मदोद्गमं न [^१]भजते तेषां क्षयात् पूर्वतः
शान्तिं तस्य मदस्य धातुपरतो मासत्रयात् कारयेत् ॥ १९ ॥
सहामृताशिग्रुबलाद्विमूर्वाकापित्थसतच्छदचन्दनानाम् ।
कदम्बगुञ्जामधुकाश्वगन्धाजीवन्तिकाशाल्मलिसूरणानाम् ॥ २० ॥
वृश्चीरसेव्येक्षुरकुक्कुटाण्ड-
गुञ्जाश्वगन्धागुरुगोक्षुराणाम् ।
केरीपयःक्षौद्रयुतो गजानां
पिण्डः प्रदेयो मदसम्भवेऽयम् ॥ २१ ॥
कोरण्डमल्लिकानिम्बतिल्वमूलैः ससैन्धवैः ।
सेङ्गुदैर्मधुना पिण्डो देयो रोषविवर्धनः ॥ २२ ॥
मातुलुङ्गसुवहासहाकणासप्तपर्णविजयेङ्गुदीमधु ।
दुग्धपिष्टमिदमङ्गलेपितं मत्तवारणवरं वशं नयेत् ॥ २३ ॥
इति मातङ्गलीलायां
मदभेदाधिकारो नवमः पटलः ।
अथ दशमः पटलः ।
वारीकर्मवशाविलोभनविधिभ्यां चानुगत्या तथै-
वापातेन ततोऽवपातत इतीहेभग्रहः पञ्चधा ।
निन्द्यास्ते तु यथोत्तरं किल गजा नश्यन्ति यस्मात्ततो
वर्ज्यावन्त्यभवावुभावपि विशेषादेतयोश्चान्तिमः ॥ १॥
[^१] 'सहते' ग-पाठः ।
क्रोशप्रायवितानदीर्घमहिता वारी निखातैर्दृढै-
र्वृक्षाद्यैः परितो वृतिं च परिखां कृत्वा बहिर्दुस्तराम् ।
द्वारस्योभयतः प्रकल्पितवृतिद्वन्द्वान्तरस्थां क्रमाद्
विस्तीर्णां च बहिर्मुखां वितनुयाद्वीथीं च वेण्वादिभिः ॥ २ ॥
उद्धृत्योपरि सन्निबध्य च कवाटं द्वारि वार्यन्तरे
दारुस्तम्भमितस्ततश्च सुदृढं कृत्वा सधारं बहुम् ।
इक्ष्वाद्यत्र विनिक्षिपेदथ गजान् संवार्य भेर्यादित-
स्त्रस्तानत्र निवेश्य चार्गलशिखापाशांश्च भिन्द्याद् द्रुतम् ॥ ३ ॥
कक्ष्याबन्धककुन्तवेणुसृणिपाशाद्यैर्युता हस्तिपा-
स्तस्मिन् द्वित्रदिनं प्रतीक्ष्य पुनरभ्येत्याशु वार्यन्तरम् ।
स्तम्भोपान्तगता गजानपि गृहीत्वोपायवन्तो दृढं
सम्बध्यात्र गुणान्वितानथ बहिर्यूथं च विद्रावयेत् ॥ ४ ॥
कक्ष्याभागे च कण्ठे मृदुतरदृढपाशैर्गजं चारु तूर्णं
बध्नीयाच्चापराङ्के निगळनमपि तत्पादयोरप्यमीषु ।
बध्वा पाशानथात्यायतसुदृढतरानग्रतो हस्तिपेन्द्रै-
राकृष्याकृष्य मन्दं गमयतु शिथिलीकृत्य पाश्चात्यपाशम् ॥ ५ ॥
स्तम्भात् स्तम्भान्तरं त्वेवं यापयित्वा शनैर्गजान् ।
शालां प्रवेशयेदन्यैराप्तैर्दन्तिवरैः सह ॥ ६ ॥
आप्ताश्चर्मपटैर्निबद्धजठराः कृत्वा वशाः पञ्चषा-
स्तच्चर्मान्तरशायिनो गजभटाः पाशादिभिः संयुताः ।
आराद्यूथमथाङ्गुलिप्रहरणैः प्रापय्य ताः पञ्चषान्
बध्नीयुश्च गजान् जवादिति वशालोभो वशालोभनात् ॥ ७ ॥
वरागुरुक्षीरमहीरुहत्वङ्-
मालेयकालेयकसेव्यलोध्रैः ।
स्नाता सुशीतैः कलशस्थिताद्भि-
र्वशा गजानां तु विलोभनी सा ॥ ८ ॥
क्षौद्रोशीरनतैश्च मद्यसहितैर्हस्तीन्द्रमूत्रेण वा
लेपोऽयं तु वशावराङ्गनिहितो वश्यो गजानां वरः ।
तद्वद् [^१]बिल्वककुक्कुटाण्डककरञ्जोद्भूतबीजैस्तथा
लेपोऽयं च वशं नयेद्गजवरान् सम्मिश्रितैर्धन्वनैः ॥ ९॥
पथ्यावायसचाष[^२]पत्रनखमञ्जिष्ठासहाशारिबा-
गोशृङ्गाल[^३]सितेषुपुङ्खसुवहाक्षोणीकदम्बाम्बुजैः ।
पुत्रञ्चारिनताजरोमखुरमूत्राद्यैर्मयूरीशिखा-
मालेयाञ्जननागपुष्पमधुभिर्वश्याञ्जनं योजयेत् ॥ १० ॥
भेरीतूर्यककाहलादिनिनदैर्विद्राव्य नागान् भृशं
भीतानाशु सदा ससैन्यमनुधावन्तो भटा निर्भयाः ।
यावत् पादपरिश्रमेण कळभाः स्तब्धाः स्युरेतांस्तदा
बध्नीयुश्चतुरा जवादनुगताख्योऽयं गजानां ग्रहः ॥ ११ ॥
बह्वग्रास्त्वथ वर्त्तुळीकृतनिबद्धाग्राः पृथग् रज्जवः
केरीवल्कशलाकिकादिरचिताः पूगद्रुनाहोन्मिताः ।
प्रायः षष्टिकरायताः सुनिहिताश्चेतस्ततः पांसुभिः
संच्छन्नाः करमात्रनिम्नधरणीगर्तेऽतिविस्तारिते ॥ १२ ॥
निक्षिप्यात्र मृणाळवेणुकदलीपुण्ड्रेक्षुकाण्डादिकं तान् पाशानपि सन्निबध्य सुदृढे वृक्षेऽत्र दक्षा भटाः ।
[^१] 'तिल्व' ग-पाठः ।
[^२] 'मूत्र' ग-पाठः ।
[^३] लसकेति स्यात् ।
संछन्नाः प्रतिपाल्य भक्षणपरान् बध्नीयुराशु द्विपान्
पाशाकर्षणतो निपात्य दृढमित्यापातसंज्ञो ग्रहः ॥ १३ ॥
गर्तं हस्तचतुष्कनिम्नकरयुग्मव्यासदोःपञ्चका-
यामं वेणुदलैः कटैश्च पिहितं कृत्वा मृदाच्छाद्य तम् ।
तस्मिन् भक्ष्यपरि[^१]स्तृते तु कलभाना पातयित्वा भटा
बध्नीयुः सुदृढं गजग्रह इति प्रोक्तोऽवपाताह्वयः ॥ १४ ॥
इति मातङ्गलीलायां
गजग्रहाधिकारो दशमः पटलः ।
अथ एकादशः पटलः ।
वन्यास्तत्र सुखोषिता विधिवशाद् ग्रामावतीर्णा गजा
बद्धास्तीक्ष्णकटूग्रवाग्भिरतिशुग्भीमोहबन्धादिभिः ।
उद्विग्नाश्च मनःशरीरजनितैर्दुःखैरतीवाक्षमाः
प्राणान् धारयितुं चिरं नरवशं प्राप्ताः स्वयूथादथ ॥ १ ॥
शैलानां कटकेषु निर्झरजले पद्माकरे सिन्धुषु
स्वच्छन्देन करेणुकाभिरटवीमध्येषु विक्रीडितम् ।
स्मारंस्मारमनेकधा[^२]ग्रनिहितं पुण्ड्रेक्षुकाण्डादिकं
नो काङ्क्षत्यतिदुर्मना बहुविधैर्दुःखैरुपेतः करी ॥ २ ॥
पूर्वानुभूतमटवीषु सुखं विचिन्त्य
ध्यायन् मुहुः स्तिमितवालधिकर्णताळः ।
ग्रामव्यथाभिरधिकं कृशतामुपेत्य
कैश्चिद्दिनैर्मृतिमुपैति करी नवीनः ॥ ३ ॥
[^१] 'रिष्कृते' ग-पाठः ।
[^२] 'धास्यनि' ग-पाठः ।
निष्ठ्यूतनेत्रयुगलश्च गुदे च नाभौ
गात्रा[^१]परे श्वयथुमान् भवति द्विपोऽयम् ।
नाश्नाति नैव रमते न च वेत्ति संज्ञां
राज्यच्युतो नृप इवाधिमुपैति कामम् ॥ ४ ॥
अण्डं तैजसमण्डजाश्च करिणो जन्मप्रभृत्यौष्ण्यतः
सन्तप्ताः शिशिराम्बुसेचनरजःपङ्कादिभिर्हर्षिताः ।
तस्मादङ्गप ! तोयमेव करिणां प्राणास्ततः कामत-
स्तोयेनोपचरेद् गजान् भवति तद्धातुप्रसादो ह्यतः ॥ ५ ॥
आनीतान् वनतो गजान् हिमजलैः सिञ्चेत् तथा पायये-
दाकर्णं त्ववगाहयेदुषसि तद्ग्लान्यादिशान्त्यै जले ।
एवं चाथ दिनावसानसमये स्वैरं तथाळानयेत्
पश्चात् [^२]सेचनलेपनादि शतधौताज्येन कुर्यादपि ॥ ६ ॥
कृतावगाहस्य मतङ्गजस्य
शाल्योदनं मुद्गरसाज्यमिश्रम् ।
पानं च दद्यात् सहशर्करं च
पुण्ड्रेक्षुकाण्डानि मनोहराणि ॥ ७ ॥
शय्या तोयावलोकश्चलनमनुगुणं भेषजं धूलिमृष्टिः
शालास्तम्भप्रवेशो घृतगुळसहितं भोजनं पूलदानम् ।
निर्वाणं तोयपानं तिलजपदयुतं भोजनं चापराह्णे
भैषज्यं चाथ संवेशनमिति दिनचर्या गजानां क्रमेण ॥ ८ ॥
पद्माद्युत्पलनालकन्दकदलीशालूकशृङ्गाटकान् दूर्वोदुम्बरसल्लकीक्षुनळदन्यग्रोधवेण्वादिकान् ।
[^१] 'त्रान्तरे' ग-पाठः ।
[^२] 'क्षालन' ग-पाठः ।
प्लक्षाश्वत्थकपित्थपल्लवफलान्यार्तिप्रशान्त्यै सदा
देयान्यङ्गप ! दन्तिनां तु मधुराण्यन्यान्यभीष्टानि च ॥ ९ ॥
ये पर्यश्रुदृशः कृशाश्च शिशवो भारार्दिताः पित्तळा-
स्तन्वङ्गाः सतताध्वकर्माविहता वृद्धा वशानि[^१]स्स्पृहाः ।
सासृङ्मांसमदक्षयाश्च विवशा ये स्तब्धगात्राः परे
तेषां साध्यतमं [^२]हितं घृतमिति ब्रूते कलिङ्गेश्वरः ॥ १० ॥
नागानामिह तण्डुलस्य कुडुबं देयं तृणान्तर्गतं
चैकैकं परिवर्धयेच्च कुडुबं यावद्भवेदाढकम् ।
एवञ्चौदनपिण्डमप्यनुदिनं संवर्धयेत् तद्वदे-
वान्यद्भक्षणसाधनं च विहितं सन्दापयेद् युक्तितः ॥ ११ ॥
गोधूमं च यवं गुळाज्यसहितं स्विन्नं सदा दापयेत्
तद्वत् केवलतण्डुलेन सहितं गोमूत्रसृष्टं तु वा ।
प्राग्वत् तत् प्रतिवासरं कुडुबसंवृद्ध्याढकान्तं क्रमे-
णैलात्र्यूषणहिङ्गुजीरकयुगाजाजीविलङ्गान्वितम् ॥ १२॥
उषसि यवसतैलं मात्रयार्धाढकं स्यात्
प्रवरवयसि मध्ये तच्चतुर्भागहीनम् ।
अधमवयसि तद्वत् तत्त्रिभागोनमुक्तं
बलमदजवकारि व्याधिविध्वंसनं च ॥ १३ ॥
मानं तु मध्यवयसः पलविंशतिः स्याद्
व्याध्यौषधं प्रतिदिनं परिकल्प्य मेयम् ।
प्रस्थद्वयं प्रतिदिनं तु घृतस्य मात्रा
तद्वृद्धिहानिकरणं च यथाबलं स्यात् ॥ १४ ॥
[^१] 'निस्सृताः' क-ख-पाठः ।
[^२] 'परं घृतमिदं' ग-पाठः ।
कृसरो दधिपिण्याकयुक्तो गुळसमन्वितः ।
प्रदेयो बृंहणायाथ प्रतिपानं च दन्तिने ॥ १५ ॥
प्रत्यरत्नि यवसस्य च भारं तण्डुलस्य चतुराढकमुक्तम् ।
स्नेहमष्टकुडुबं लवणस्य स्युः पलानि दश चापि गुळस्य ॥ १६ ॥
[^*]विळङ्गाक्षीबकुल्माषमाषगोधूमसंस्कृ(ताः ? तम्) ।
मोदकार्थं महीपाल ! पिष्टमाढकमिष्यते ॥ १७ ॥
न भेदमायान्ति नखास्तलं च
न क्षीयते नाध्वनि पाददाहः ।
भवन्ति केशाश्च न चापि दृष्टि-
र्निहन्यते सन्ततपादसेकात् ॥ १८ ॥
त्वग्दोषबन्धवध[^१]भिद्व्रणशोषगात्र-
स्तम्भादिजित् क्षपितशीतसमीरकोपः ।
सक्थ्यङ्गमार्दवकरो लघुबृंहणश्च
स्निग्धत्वसत्त्वबलसौख्यकृदङ्गसेकः ॥ १९ ॥
अभीक्ष्णं साधु [^२]पश्यन्ति घृताभ्यङ्गेन नित्यशः ।
अक्षिरोगा न जायन्ते स्थिरा दृष्टिश्च दन्तिनाम् ॥ २० ॥
स्थिरवेष्टौ दृढौ दन्तौ स्निग्धौ व्यधविवर्जितौ ।
दन्तघातसमर्थौ च दन्ताभ्यङ्गेन नित्यशः ॥ २१ ॥
जयति च बहु भुक्तं शोधनं मूत्रवस्तेः
कृमिहृदनिलहारि व्याधिविध्वंसनं च ।
अरुचिशमनमाशु क्लेदनं वारणानां
लवणममृततुल्यं पक्तिधर्मावतारे ॥ २२ ॥
[^१] 'धजव्रण' ग-पाठः ।
[^२] 'भक्ष्यन्ति' (?) क-ख-पाठः ।
[^*] विडङ्गमेव डलयोरभेदादेवम् ।
पूर्वाह्णभक्ते लवणं वर्जयेद्दोषवर्धनम् ।
अपराह्णे तु लवणं दीपनं दोषनाशनम् ॥ २३ ॥
हितमिह ससितं घृतं पयोभि-
र्निहितमनुष्णतरेषु भोजनेषु ।
कथयति परिपूजितं च दुग्धं
करटिषु पानविधौ मुनिः सुशीतम् ॥ २४ ॥
बालातपः शशिकला रुचिरश्च शालि-
र्गोधूमधान्यमपि यत् क्रिमिभिर्न दुष्टम् ।
स्विन्नैरमीभिरुपक्लृप्तमनल्पमांसं
भोज्यं गजस्य विनियोज्यमिभागमज्ञैः ॥ २५ ॥
कल्याणानां तु दद्यात् त्रिकटुकरजनीद्वन्द्वकुष्ठाजमोद-
प्रत्यक्पुष्पाकरञ्जद्वयलशुनवचास्थापनीरामठानाम् ।
सिद्धार्थारिष्टबीजज्वलनपटुवरालोहरेणुक्रिमिघ्न-
न्यग्रोधीनां च चूर्णं तिलरससहितं शस्तमेतत्प्रबोधे ॥ २६ ॥
एलावचालशुनसैन्धवनागरैश्च
सिद्धार्थहिंगुमरिचक्रिमिशत्रुभिश्च ।
क्लृप्तं तु तैललुळितं कबलं गजाय
सुप्तोत्थिताय वितरेत् कफवातशान्त्यै ॥ २७ ॥
प्रातः साज्यगुळं शरत्सु विहितं ग्रीष्मे च शाल्योदनं
सायं तल्लवणेन तैलसहितं त्वन्येषु तद्व्यत्ययात् ।
कुल्माषं गुळयुक्तमोदन[^१]युतं चादापयेद् दन्तिनां
तत्तेजोबलवह्निकृद्गुलयुतानन्यान् परागानपि ॥ २८ ॥
[^१] 'नमिदं सदा' ग-पाठः ।
सञ्जातवीर्यरसगुल्मलताप्रतान-
भोजी तुषारशिशिरार्ककरे हिमर्तौ ।
जम्बालपांसुजलकेलिकुतूहलेन
प्रायः कफोपचयमेव गजो बिभर्ति ॥ २९ ॥
या जाङ्गलस्थलभुवो विलसन्ति[^१] देशे
तत्सम्भवेन यवसेन शरीरवृत्तिः ।
पादेषु मूर्धनि गजस्य हितश्च सेक-
स्तैलान्वितेन च मषीपटलेन लेपः ॥ ३० ॥
चुचुन्दरीचित्रकवाजिगन्धाकार्पासदन्तीरजनीवराणाम् ।
मषिप्रलेपस्तिलतैलयुक्तः स्तम्बेरमाणां शिरसि प्रशस्तः ॥३१॥
शाला छन्ना सवह्निस्त्रिकटुपटुयुता वारुणी वा प्रसन्ना
मन्दोष्णा सायमन्नं दधिरससहितं कम्बलैरावृतिश्च ।
इक्षोः सेवा समात्रा कबल[^२]कुवलयोः शीलनं नित्यचारः
पाथःक्रीडाविमुक्तिर्यवसपरिहृतिः शैशिरोऽयं विधिः स्यात् ॥
उद्यानेषु सुगन्धिषु प्रतिदिनं वासः सगोधूमकं
शाल्यन्नं दधितैलयुक्तमशनं भाराध्वकर्माल्पता ।
नागानामवगाहनं हिततरं नद्यादिषु स्वेच्छया
खाद्यास्तत्र बलाकलायचणका वासन्तिकोऽयं विधिः ॥ ३३ ॥
अध्वाशीलनमम्बुपूरितदृतिस्यन्दक्रिया मस्तके
लेपो मूर्धनि सर्पिषा च शतधौताख्येन कालत्रये ।
शीतांशोः करसङ्गतिश्च सगुळाज्यं सक्तुसंसेवनं
स्थानं शीतलमम्बुपङ्कविहृतिः सोऽयं विधिर्ग्रैष्मिकः ॥ ३४ ॥
[^१] 'न्ति तेषां' ग-पाठः ।
[^२] 'लक' ग-गाठः ।
कूपोत्थं सलिलं तृणं स्थलभवं पङ्कोज्झितं चास्पदं
शालायामपि मक्षिकामशकयोर्नाशाय धूमोद्गमः ।
वस्त्यास्थापनकर्म जाङ्गलरसस्नेहान्वितं चौदनं
यूषो जाठरवह्निवर्द्धनकरश्चायं विधिर्वार्षिकः ॥ ३५ ॥
[^१]आकण्ठं भृशमञ्जरीस्फुटरसः शालिः सुशीतास्पदं
देयाः सप्रसवाश्च माषसहिता मुद्गा मकुष्टादयः ।
गोधूमः सलिलाप्लतिः प्रतिदिनं सायं स एवाशनं
स्विन्नक्षीरयुतं तथा घृतरसाढ्यं शारदोऽयं विधिः ॥ ३६॥
सेवा बालातपस्य प्रसभजलचरानूपजो वेशवार-
स्तद्ज्ञैः पाथस्यगाधे सकृदपि करिणां शस्यते चावगाहः ।
स्नेहस्तैलेन कार्यः शिरसि च सततं हैमनोऽयं विधिः स्या-
देवं सर्वर्तुचर्या क्रमश इति बुधैर्देर्शिता वारणानाम् ॥ ३७॥
भीरुभिन्ननखोऽनवस्थितमनाः प्रत्यर्थवेदी चलत्-
स्थूलाङ्घ्रिः परुषच्छविर्न सहनः स्तब्धाल्परोमोत्सुकः ।
लक्ष्यस्नायुसिराविरूक्षरदनः शीघ्रो विरूपेक्षणो
दुर्मेधा विषमश्च कर्मसु गजो यः स स्मृतो वातिकः ॥ ३८ ॥
चण्डो नि[^२]र्भुण्डिताक्षस्तनुकररदनत्वङ्नखश्रोत्ररोम-
ग्रीवागात्रापराङ्घ्रिर्बहुभुगरुणदृग् दुर्बलो बह्वलीकः ।
छायेच्छुर्द्वेष्टि घर्मं विसृजति न चिराद् दानमुत्तानवेदी
हीयेतोच्चैः प्रहीणं श्रयति पुनरिभः पैत्तिको नातिशोभः ॥ ३९ ॥
हर्यक्षः सुमहाङ्गुलीकरशिरःकुम्भादिरीषत्प्रियो [^३]नातिक्रुद्ध्यति मन्दवह्निरभयो गम्भीरवेदी स्थिरः ।
[^१] 'आकुष्ठम् भृत' ग-पाठः ।
[^२] 'र्भ' ग-पाठः ।
[^३] 'नागः कुप्यति' ख-पाठः ।
अक्षोभ्यः सुहरो विलीनतरलो वीणादिगीतप्रियः
पीनस्निग्धरदोऽतिमन्दगमनः कामी गजः श्लैष्मिकः[^१] ॥ ४० ॥
मध्वक्षिदन्तः समसुस्थिता[^२]ङ्गः
शूरोऽकृशो भूरिमदः समाग्निः ।
अन्वर्थवेदी च सुचापवंशः
समः प्रकृत्या भवति द्विपोऽयम् ॥ ४१ ॥
विकृतिं दोषदूष्याणां लक्षणानां फलाफलम् ।
तत्त्वतो नैव जानन्ति मुनयः किन्नु मानवाः ॥ ४२ ॥
नागानां वनवास एव विहितस्तस्याप्यलाभादसा-
त्म्याकामाशनपानतश्च विषमाजीर्णादिभिर्भोजनैः ।
दुःस्थानेष्वटनादिभिश्च शयनाद् दोषाः समीरादिकाः
कुप्यन्त्याशु शरीरमानसभवान् रोगांश्च कुर्वन्ति च ॥ ४३ ॥
मूत्रक्षरणतो नित्यं कोशो मत्तस्य पच्यते ।
गैरिकस्य पलेनास्य सदा साज्येन सेचनम् ॥ १४ ॥
आचूषणं चाक्षिनिमीलनं च
घ्राणं तथा भूद्रुमखानिलानाम् ।
आलस्यमास्यान्तरशोषणं च
कर्णाग्रयोः स्पन्दनमप्य[^३]रागः ॥ ४५ ॥
मुहुर्मुहुश्चैव विजृम्भणं च
ध्यानं च पांसोः परिमर्षणं च ।
मूत्रारुणत्वं नयनारुणत्वं
तृष्णाभिभूतस्य गजस्य चिह्नम् ॥ ४६ ॥
[^१] 'ष्मलः' ग-पाठः ।
[^२] 'राङ्गः' ग-पाठः ।
[^३] 'प्यरोगम्' ग-पाठः ।
व्रणाः सर्वे जलेनैव प्रायो रोहन्ति दन्तिनाम् ।
नश्यन्ति क्षुत्पिपासाद्याः पद्मयोनेरनुग्रहात् ॥ ४७ ॥
प्रायशः कृमिजा रोगा भवन्त्यङ्गप ! दन्तिनाम् ।
तस्मात् कृमिहराण्येव नित्यं देयानि दन्तिनाम् ॥ ४८ ॥
हिङ्ग्वष्टकं चूर्णराजं सप्तविंशतिगुग्गुलुम् ।
इत्यादीनि च चूर्णाणि दद्यात् तैलघृतानि च ॥ ४९ ॥
पाकलाख्यज्वरं मर्त्त्यज्वरोक्तैरेव लक्षणैः ।
लक्षयेन्मतिमांस्तस्मात् तदेव च चिकित्सितम् ॥ ५० ॥
ये ये भेदा मानुषेभ्यो गजानां
ते ते प्रोक्ता दोषदूष्यादिकेषु ।
तस्मात् तज्ज्ञैर्व्याधिभेदं विदित्वा
मर्त्यानामेवात्र कार्या चिकित्सा ॥ ५१ ॥
इति मातङ्गलीलायां
गजरक्षणदिनर्तुचर्याधिकार एकादशः पटलः ।
अथ द्वादशः पटलः ।
नागाध्यक्षोऽस्तु धीमान् नरपतिसदृशो धार्मिकः स्वामिभक्तः
शुद्धः सत्यप्रतिज्ञो व्यसनविरहितः संयताक्षो विनीतः ।
उत्साही दृष्टकर्मा प्रियवचनरतः सद्गुरोरात्तशास्त्रो
दक्षो धीरः शरण्यो गदहरणचणो निर्भयः सर्ववेत्ता ॥ १ ॥
शिक्षाप्रक्रमदक्षमङ्कुशगदासञ्चारणप्रक्रिया-
भेदज्ञं बलदेशकालनिपुणं दानक्रियादक्षिणम् ।
आरोहेष्ववरोहणेषु कुशलं शान्तं वयोमर्मणां
ज्ञातारं मुनयो वदन्ति नृपतेराधोरणं दन्तिनाम् ॥ २ ॥
रेखावानपि युक्तिमांश्च बलवान् यन्ता त्रिधेत्यग्रिमो
नागस्यैव तु वर्ततेऽनुगुणमत्रात्मेभयोर्मध्यमः ।
पाश्चात्यो निजबुद्धिशक्तिविभवेनैवेति ते हस्तिपाः
कल्प्याश्चोत्तममध्यमाधमतया वर्ज्योऽत्र तेष्वन्तिमः ॥ ३ ॥
आरोहेष्ववरोहणेषु करिणां स्कन्धासनेष्वासनैः
पाश्चात्येऽपि च चोदनासु वचसा पादाङ्कुशाभ्यामपि ।
वीथीमण्डलयानधावनविधौ व्यावर्तने धारणे
प्रत्यर्थिद्विपयोधनेऽपि कुशलो यन्ता द्विषां दुर्जयः ॥ ४ ॥
वशे कुर्वन् व्यालानकलितमदानाशु मदयन्
वितन्वन् मातङ्गान् जवनरहितानात्तरभसान् ।
निरीहानाहन्तुं विदधदधिकं घातनिपुणान्
गजारोहे दक्षः क्षितिपतिजनानामभिमतः ॥ ५ ॥
मातङ्गास्त्रिविधास्त्रयः प्रणिधयस्तिस्रो गतिप्रक्रिया-
स्त्रीणि प्रस्फुटमासनानि पुरतः पञ्चैव पश्चादपि ।
षड्भेदाङ्कुशचारणा गतिगता भेदाः पुनः पञ्चधा
स्यादारोहणमष्टधा दशविधः प्रोक्तोऽवतारक्रमः ॥ ६ ॥
भद्रमन्दमृगभेदतस्त्रिधा जातिरत्र करिणां पुरोदिता ।
वक्ष्यते प्रणिधिपूर्वकं गतिप्रक्रियादिरधुना यथाक्रमम् ॥ ७ ॥
वाक्पादाङ्कुशचोदना प्रणिधिरित्युक्ता यतश्चाह तं त्रेधा तत्र तु वाक्प्रचोदनविधिस्तेषां तु यश्चा[^१]न्तिमः ।
[^१] 'आदिमः' इति स्यात् ।
तं विद्यादुपलालनं हि भयकोपादेरसिद्ध्यै तथा
स्यात् प्रज्ञापनमन्यदत्र तु तृतीयं विद्धि सन्तर्जनम् ॥ ८ ॥
कर्मोपक्रमिकैश्च संस्कृतपदैः संशिक्षयेत् प्राकृतै-
स्तत्तद्देशजभाषया च कलभं ज्ञातुं च कर्माणि तु ।
हुङ्कारद्वयमासितुं ग्रहणकर्मण्याशु तं गृह्ण गृ-
ह्णेत्येवं प्रवदेदुपर्युपरि चैवं तत्करोत्क्षेपणे ॥ ९ ॥
तिष्ठ तिष्ठेति च स्थातुमेह्येह्यागमने तथा ।
गच्छ गच्छेति गमने बोधयेदेवमादिभिः ॥ १० ॥
पादौ ग्रैवेयके प्रोत्य च दृढनिहिताङ्गुष्ठपार्ष्णिप्रहारै-
रूरुभ्यां गाढमाबध्य च सुदृढमतिः स्थाणुवत् संस्थितः सन् ।
हस्तेनादाय यन्ता सृणिमथ सुदृढं दक्षिणेनान्यहस्ते-
नैवं तोत्रं च वेत्रादिकमवहितधीः प्रेरयेच्चारु नागम् ॥ ११ ॥
अङ्गुष्ठाभ्यां पुरः प्रेरितुमथ सुदृढं पीडयेदुन्नतास्यं
कर्तुं तावुन्नतौ तावपि वदनमधो नेतुमप्यानतौ च ।
वामाङ्गुष्ठेन विध्येत् करिणमथ नयन् दक्षिणं पार्श्वमन्ये -
नान्यं चाकर्षणार्थं गजमथ मतिमान् पार्ष्णियुग्मेन गाढम् ॥
गतयस्तु त्रिधा मन्दशीघ्रधावनभेदतः ।
प्राक्पश्चाद्वृत्ततिर्यग्व्यावर्त्तनैः [^१]पञ्चधा तथा ॥ १३ ॥
वंशकन्धरयोर्मध्यं ककुदं स्यात् तदग्रतः ।
क्रमात् त्रीण्यासनानि स्युर्मुख्यमध्याधमानि हि ॥ १४ ॥
एकः प्रसारितः पादस्तदन्यो नतजानुकः ।
पाश्चात्यमासनं ज्ञेयमेकं जानुगतं बुधैः ॥ १५ ॥
[^१] अस्य पञ्चविधत्वस्योद्देशक्रममुपेक्ष्यासनात् प्राङ् निरूपणं धर्मिप्रसङ्गानुरोधादिति भाति ।
वंशस्योभयतः प्रसारितपदं जानुद्वयाकुञ्चितं
विद्यादानतजानुकासनमिदं तत्तूत्कटेनोत्कटम् ।
एकं तत्कटजानुकं तदपरं नम्रं हि कूर्मासनं
विद्यात् संहतनम्रजानुयुगलं मण्डूकसज्ञं हि तत् ॥ १६ ॥
नागैरुद्धतकायसत्त्वविभवैस्तीक्ष्णप्रतापैर्जगद्
व्यापन्नं नितरां समीक्ष्य कृपया स्कन्दार्थनाद्ब्रह्मणा ।
सृष्टः कश्चन पूरुषः स तु रुषा रक्तान्तदृग् [^१]दंष्ट्रया
भात्युद्यन्मुकुटः कुशाङ्कितकरस्तेनाङ्कुशाख्योऽह्ययम् ॥ १७ ॥
वज्रार्धचन्द्रनखकैतककण्टकाभा-
श्चत्वार एव सृणयो विहिता मुनीन्द्रैः ।
आविश्य तासु पुरुषः स्थितवानयं हि
मत्तातिदुष्टगजसंयमनाय नित्यम् ॥ १८ ॥
विताने च विदुर्ग्रीवानिर्याणे मस्तकेऽपि च ।
अवग्रहे च जानीयात् षड्विधाङ्कुशचारणा ॥ १९ ॥
अत्र प्राग्गमने पुरो मुखमृजस्तोदो विधेयोऽनया
पश्चान्नेतुमिहावकर्षणमथोर्ध्वं नेतुमुत्कर्षणम् ।
नेतुं चेभमधोऽवपीडनममुं सव्यं तु सव्येतरे
भागे तोद इती[^२]तरापि च यथायोगं सृणेश्चारणा ॥ २० ॥
ईषत्स्पर्शनपीडनातिहननान्युत्क्षिप्य संपीडनं
चोत्क्षिप्य प्रतिकर्षणं च पुनरुत्क्षिप्याधिकं भ्रामणम् ।
तत्रार्धाङ्गुल[^३]मात्रमग्नमुदितं पूर्वं क्रमात् पीडना-
द्यर्धार्धाङ्गुलवर्धितं त्विति सृणेस्तोदक्रमो दर्शितः ॥ २१ ॥
[^१] 'ष्ट्रवान्' क-पाठः ।
[^२] 'रितोऽपि' ग-पाठः ।
[^३] 'मानम' ख-पाठः । 'त्रमानमु' ग-पाठः ।
माधूकपुष्पमधुकालवचाश्वगन्धा-
बिल्वं पलाण्डुमरिचं च समं सुपिष्ट्वा[^*] ।
गोमूत्रकेण परिलेपितमङ्कुशाग्रे
यस्तेन चोदित इभः स वशं प्रयाति ॥ २२ ॥
कोशातकीक्षा[^१]रकटुत्रया[^२]लसिद्धार्थका[^१]रुष्करचूर्णमेतत् ।
तिक्ताह्वसिन्धूत्थविलङ्गयुक्तं सृणिप्रलिप्तं गजवश्यमाहुः ॥ २३ ॥
शतपदीकृकलासशिरःशिलातुरगपित्तमृगाङ्गरुहैः कृतम् ।
भुजगकञ्चुकवृश्चिकसंयुतैः सृणिषु लेपमनेकपदर्पहृत् ॥ २४ ॥
पार्श्वयोरुभयोश्चैव निष्कोशद्वितयेऽपि च ।
पुच्छमूले गदाघातमिति पञ्चविधं विदुः ॥ २५ ॥
कर्णद्व्यङ्घ्रिचतुष्कास्यैः संप्लुत्या चैवमष्टधा ।
गजारोहोऽनुधावद्भिः पृष्ठतः सा तु संप्लुतिः ॥ २६ ॥
पुच्छपादचतुष्कास्यपार्श्वकर्णद्वयैर्गजात् ।
अवरोहणमित्येवं दशधा कीर्त्तितं बुधैः ॥ २७ ॥
इत्येवं पालकाप्यो मुनिरिभचरितं व्याकरोद्रोमपादा-
यानन्दान्दोलितात्मा नृपतिरथ मुनिं पूजयन्नर्घ्यपाद्यैः ।
अध्यासामास पृथ्वीं चिरतरमभिरक्षोद्यतोऽलं दयावा-
नस्तप्रत्यर्थिपृथ्वीपतिरखिलजगद्रक्षणे जागरूकः ॥ २८ ॥
रोमेति नाम पद्मस्य विख्यातं पूर्वसूरिभिः ।
तेनैवाङ्कितपादत्वाद् रोमपाद इति स्मृतः ॥ २९ ॥
[^१] 'क्षीर' ग-पाठः ।
[^२] 'याश्व' ग-पाठः ।
[^३] 'कारस्क' ग-पाठः ।
[^*] 'सुपिष्य' इति स्यात् ।
पालनाद् गजयूथस्य काप्यो गोत्रेण[^१] चेत्यतः ।
पालकाप्यस्त्वसावेवं दिव्योक्त्याभूत् तदाह्वयः ॥ ३० ॥
मुनीन्द्रोदितमातङ्गशास्त्रागाधार्णवान्मया ।
अल्पा मातङ्गलीलेति [^२]लब्धेयं शोध्यतां बुधैः ॥
इति नीलकण्ठकृतायां मातङ्गलीलायाम्
आधोरणगुणाद्यधिकारो
द्वादशः पटलः ।
मातङ्गलीला समाप्ता ।