एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूक्तानि । तत्र ' नासदासीत् ' इति सप्तचं प्रथमं सूक्तं त्रैष्टुभम्। परमेष्टी नाम प्रजापतिरृषिः । वियदादिभावानां सृष्टिस्थितिप्रलयादीनामत्र प्रति- पाद्यत्वात् तेषां१ कर्ता परमात्मा देवता । तथा चानुकान्तं—' 'नामत्सप्त प्रजापतिः परमेष्टी भाववृत्तं तु' इति । गतो विनियोगः ॥ नास॑दासी॒न्नो सदा॑सत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्नह॑नं गभी॒रम् ॥ १ ॥ न । अस॑त् । आ॒सी॒त् । नो॒ इति॑ । सत् । आस॒त् । त॒दानी॑म् । न । आ॒सी॒त् । रजः॑ । नो इति॑ । विऽओ॑म । प॒रः । यत् । किम् । आ । आ॒व॒री॒व॒रिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भः॑ । किम् । आ॒सी॒त् । गह॑नम् । ग॒भी॒रम् ॥ १ ॥ 'तपसस्तन्महिनाजायतैकम्' इत्यादिनाग्रे सृष्टिः प्रतिपादयिष्यते । अधुना ततः प्रागवस्था निरस्तसमस्तप्रपञ्चा या प्रलयावस्था सा निरूप्यते । Vतदानीं प्रलयदशायामवस्थितं यदस्य जगतो मूलकारणं तत् Vअसत् शशविषाणवन्निरुपाख्यं Vन Vआसीत् । न हि तादृशात् कारणादस्य सतो जगत उत्पत्तिः संभवति । तथा Vनो Vसत् नैव सदात्मवत् सत्त्वेन निर्वाच्यम् Vआसीत् । यद्यपि सदसदात्मकं प्रत्येकं विलक्षणं भवति तथापि भावाभावयोः सहावस्थानमपि२ संभवति । कुतस्तयोः तादात्म्यमिति उभयविलक्षणमनिर्वाच्यमेवासीदित्यर्थः । ननु नो सदिति पारमार्थिकसत्त्वस्य निषेधः। तर्ह्यात्मनोऽप्यनिर्वाच्यत्वप्रसङ्गः । अथोच्येत । न३ । आनीदवातमिति तस्य सत्त्वमग्रे वक्ष्यते परिशेषान्मायाया एवात्र सत्त्वं निषिध्यत इति । एवमपि तदानीमिति विशेषणानर्थक्यं व्यवहारदशायामपि १. त१.२.३.६.७.८ - भ - एषां । २. ग.त-भ२.५-सद्भावावस्थानमपि । ३. ग-त१.२.३.६.७. ८-भ- 'न' नास्ति । ७७८ ऋग्वेदः [ अ. ८. अ. ६. व. ६ " तस्याः पारमार्थिकसरवाभावात् । अथ व्यावहारिकसतां पृथिव्यादीनां भावानां विद्यमानत्वात् कथं नो सदिति निषेधः । तत्राह । नासीदज इत्यादि । लोका रजांस्युच्यन्ते' (निरु. ४. १९ ) इति यास्कः । अत्र च सामान्यापेक्ष मेकवचनम् । व्योम्नो वक्ष्य माणस्वात्तस्याघस्तनाः पातालादयः पृथिव्यन्ता नासन्नित्यर्थः । तथा Vव्योम अन्तरिक्षं तदपि नो नैवासीत् । पर इति सकारान्तं परस्तादित्यर्थे वर्तते । परशब्दाच्छान्दसोऽस्तातेरर्थेऽसिप्रत्ययः । परः व्योम्नः परस्तादुपरिदेशे धुलोकप्रभृतिसत्यलोकान्तं यत् अस्ति तदपि नासीदिस्यर्थ: । अनेन चतुर्दशभुवनगर्भ ब्रह्माण्ड स्वरूपेण निषिद्धं भवति । अथ तदावरकत्वेन पुराणेषु प्रसिद्धानि यानि वियदादिभूतानि तेपामव- स्थानप्रदेशं तदावरणनिमित्तं चाक्षेपमुखेन क्रमेण निषेधयति किमावरीवरिति । किम् आवरणीयं तस्त्रमावरकभूतजातम् आवरीव: । अध्यन्तमा वृणुयान् । आचार्याभावात् तदावरकमपि नासी- दित्यर्थः ॥ वृणोतेर्यङ्लुगन्ताच्छान्दसे लङि तिपि रूपमेतत् ॥ यद्वा । किमिति प्रथमैव । किं तत्व- मावरकमावृणुयात् । आब्रियमाणवत्तदपि स्वरूपेण नासीदित्यर्थः । आवृण्वत् तत्तश्वं कुह कुत्र देशेऽवस्थायावृणोति । आधारभूतस्तादृशो देशोऽपि नासीदित्यर्थः ॥ किंशब्दान् सप्तम्यर्थे हप्रत्ययः । 'कु तिहो: ' (पा. सू. ७.२.१०४ ) इति प्रकृतेः क्वादेशः ॥ कस्य Vशर्मन् कस्य वा भोक्र्जीवस्य शर्मणि' सुखदुःखसाक्षात्कारलक्षणे भोगे निमित्तभूते सनि तदावरकं तस्वमावृणुयात् । जीवा- नामुपभोगार्था हि सृष्टिः । तस्यां हि सत्यां ब्रह्माण्डस्य भूतैरावरणं प्रलयदशायां च भोकारो जीवा उपाधि विलयात् प्रलीना इति कस्य कश्चिदपि भोक्तान संभवतीत्यावरणस्य निमित्ताभावादपि तन्न घटत इत्यर्थः । एतेन भोग्यप्रपञ्चवत् भोक्तृप्रपञ्चोऽपि तदानीं नासीदिव्युतं भवति ॥ किंशब्दा- दुत्तरस्य सः 'सावेकाचः" इति प्राप्तस्योदात्तस्त्रस्य' 'न गोश्वन्साववर्ण" इति प्रतिषेधः । 'सुपां सुलुक्" इति शर्मणः सप्तम्या लुक् । यद्यपि सावरणस्य ब्रह्माण्डस्य निषेधेन तदन्तर्गतमप्सत्वमपि निराकृतं तथापि ' आपो वा इदमग्रे सलिलमासीत् ' ( तै. सं. ७. १. ५. १ ) इति श्रुत्या कश्चिदपां सद्भावमाशङ्केत । तं प्रत्याचष्टे अम्भः किमासीत् इति । गहनं दुष्प्रवेशं गभीरं दुरवस्थानमध्य- गाधम् ईडशम् Vअम्भः किमासीत् । तदपि नैवासीदित्यर्थः । श्रुतिस्ववान्तरप्रलयविषया ॥ 6 न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥ २ ॥ न । मृत्युः । आ॒स॒त् । अ॒मृत॑म् । न । तहि॑ । न । रा॒त्र्या॑ः । अह॑ । आ॒सी॒त् । प्र॒ऽके॒तः । आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । परः । किम् । च॒न । आ॒स॒ ॥ २ ॥ ननुक्तस्य प्रतिसंहारस्य संहर्त्रपेक्षत्वात् स एव संहर्ता मृत्युर्विद्यत इत्यत आह न मृत्युरासीत् इति । ननु यदि स नासीत् तर्हि तदभावकृतम् अमृतम् अमरणं प्राणिनामवस्थानं तदानीमपि १. त - • सत्त्वाभावात् इति तु न प्रलयदशाया एव वर्णनीयत्वेन तदुपादानौचित्यात् तदानीमपि तत्सत्वेन तदबाधात् । २. त१. ३ - भावानी तदामि; त७-भावानां तदपि । ३. ग-त१.२.३.६.७.८. भ-तदात्ररणत्वेन; त४.५ - तदावरत्वेन । ४. त२.७-भ२.४.८-तद्रक्षकमपि; त३.८ - भ५ - तत्रक्षकमपि; त६ - ततक्षकमपि । ५. त१.३.७-भ२.८-मु शर्मणि सुखे । ६. ग-त१.२.३.६.७.८-भ-मु- प्रविलीना । ७. ग- कस्यचिदपि भागो; त१.७-३२.४.७.८ कस्यचिदपि भोगो; त२.३.६.८ - कांस्यंचिदपि भोगो । ८. ग. त४. ५० भ२ प्राप्तस्योदात्तस्य; त१.२.३.६.७.८-भ-मु प्राप्तस्य । ९. त१.२.६.७-४२.८- मप्तत्वमपि; त४-°महस्वमपि त५- 'माप्राप्तत्वमपि; त८-भर- मतस्वमपि; भ४.७-मसत्वमपि । म. १०. अ. ११. सू. १२९ ] अष्टमोऽष्टकः ७७९ स्यात् तत्राह। अमृतं न तर्हि इति । तर्हि तस्मिन् प्रतिहारसमये । अयं भावः । सर्वेषां प्राणिनां परिपक्कं भोगहेतुभूतं सर्व कर्म यदोपभुक्तमासीत् तदा भोगाभावान्निष्प्रयोजनमिदं जगदिति परमेश्वरस्य मनसि संजिहीर्पा जायते । तथैव स मृत्युः सर्व जगत् संहरत इति किमनेन मृत्युना संहर्त्रा तदभाव- कृतं वा कथममरणं स्यादिति । एतदेवाभिप्रेत्य कठैराम्नायते - ' यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेवनं क इत्था वेद यत्र सः ' ( क. उ. २.२५ ) इति । नन्वेतस्य सर्वस्याधिकरणभूतः कालो विद्यत इत्यत आह न राज्या इति । राज्या: अह्नः च प्रकेतः प्रज्ञानं न आसीत् । तद्वेतु- भूतयोः सूर्याचन्द्रमसोरभावात् । एतेनाहोरात्रनिषेधेन तदात्मको मासर्तुसंवत्सरप्रभृतिकः सर्वः कालः प्रत्याख्यातः । कथं तर्हेि नो सदासत्तदानीमिति कालवाची प्रत्ययः । उपचारादिति ब्रूमः । यथेदा- नींतन निषेधस्य कालोऽवच्छेदकस्तथा मायापि तदवच्छेदहेतुरिस्यवच्छेदकत्वसाम्येनाकालेऽपि काल- वाची प्रत्ययः । यदवादिष्म ब्रह्मणः परमार्थसस्वमग्रे वक्ष्यत इति तदिदानीं दर्शयस्यानीदिति । तत् सकल वेदान्तप्रसिद्धं ब्रह्मतश्वम् आनीत् प्राणितवत् । नन्वेवं प्राणन कर्तुर्जीवभावाप नस्यैव ब्रह्मणः सत्वं स्यात् न विवक्षितस्य निरुपाधिकस्य ब्रह्मणः । 'अप्राणो ह्यमनाः शुद्ध: ' इति तस्य प्राण- संबन्धाभावात् तत्राह आनीदवातमिनि । अयमाशयः । आनीदिस्यत्र धास्वर्थक्रिया तस्कर्ता तस्य च भूतकालसंबन्ध इति त्रयोऽर्थाः प्रतीयन्ते । तत्र समुदायो न विधीयते यथान्नेयोऽष्टाकपाल इति येन ब्रह्मणः सवं न स्यात् । किं तर्ह्यनेन कर्तृश्वमनूद्य भूनकालसत्तालक्षणो गुणो विधीयते दनारे जुहोतीति वाक्यान्तरविहिताग्निहोत्रानुवादेन तत्र गुणविधानम् । तत्राप्यनेन कर्तृत्वविशिष्टस्य न पूर्वकालसत्ता विधीयते' तन्निषेधानुपपत्तिप्रसङ्गात् अतोऽनेन कर्तृत्वेन इदानीतनेनोपलक्षितं यन्निरुपाधिकं परं ब्रह्म तस्यैव भूतकालसत्ता विधीयत इति न कश्चिद्दोष इति । नन्वीदृशस्य ब्रह्मणो मायया सह संबन्धा- संभवात् सांख्याभिमता स्वतन्त्रा सद्रूपा सश्वरजस्तमोगुणात्मिका मूलप्रकृतिरेवाभिमतेति कथं नो सदिति निषेधः । तत्राह स्वधया इति । स्वस्मिन् धीयते भियत आश्रित्य वर्तत इति स्वधा माया । तया तद्ब्रह्मैकमविभागापनमासीत् । 'सहयुक्तेऽप्रधाने ' ( पा. सू. २.३.१९ ) इति तृतीया सहशब्द- योगाभावेऽपि सहार्थयोगे भवति ' वृद्धो यूना।" ( पा. सू. १. २. ६५ ) इति निपातनालिङ्गात् । अत्र प्रकृतिप्रत्ययाभ्यां तस्याः स्वातन्त्र्यं निवार्यते । यद्यपि असङ्गस्य ब्रह्मणस्तया सह संबन्धो न संभवति तथापि तस्मिन्नविद्यया तरस्वरूपमिव संबन्धोऽध्यध्यस्यते यथा शुक्तिकायां रजतस्य । एतेन सद्रूपत्वमपि तस्याः प्रत्याख्यातम् । ननु यदि माया ब्रह्मणा सहाविभागापना तर्हि तस्या अनिर्वाच्य स्वात् ब्रह्मणोऽपि तत्प्रसङ्ग इति कधं तस्य सध्वमुक्तम् आनीदवातमिति । ब्रह्मणो वा सध्वात्तस्या अपि सरवप्रसङ्ग इति कथं नो सदासीदिति सश्वप्रतिषेधः । मैवम् । अयुक्तिदृष्टयैक्यावभासेऽपि युक्त्या विविष्य मायांशस्यानिर्वाच्यत्वं ब्रह्मणः सवं च प्रतिपादितम् । ननु हरहश्याविति द्वावेव पदार्थों आनीदवातं स्वधयेत्ति तौ चेदङ्गीक्रियेते तस्किमपरमवशिष्यते यत् नासीद्वजः इत्यादिना प्रतिषिध्येत तत्राह तस्मादिति । तस्माद् तस्मात् खलु पूर्वोक्तान्मायासहितात् ब्रह्मणः अन्यत् किं चन किमपि वस्तु भूतभौतिकात्मकं जगत् न आस न बभूव ॥ ' छन्दस्युभयथा ' इति लिटः सार्वधातु- करवा दस्तेर्भूभावाभावः ॥ ननु तदानीमन्यस्य सत्वनिषेधो न शक्यः । असश्वे चाप्रसक्तस्वान' निषेधोपयोग इत्यत आह पर इति । परः परस्तात् सृष्टेरुवं वर्तमानमिदं जगत् तदानीं न बभू- वेत्यर्थ: । अन्यथा उक्तरीत्या- क्वचिदपि निषेधो न स्यादिति भावः ॥ V ५. त२.३.६.७.८-भ १. त१.२.३.४.५.६.८-२.८ - मृत्युत्वं; भ४ - मृत्यकं; भ७ - मृत्युदकं । २. १.२.३.६.७.८-भसंहियते; त४.५- संहृन । ३. भ२ - यथा दना । ४. त-भ- विधीयते वा । ४.५.७.८- किं । ६. त१७-भ२.५-मु-अनुभवदृष्ट्या ऐक्यावभासेपि त२.३.६.८-भ८- अनुभवदृष्टया ऐक्यावभावेपि; त४.५ - अयुक्तिवत् दृष्टया ऐक्यावभासेपि; भ७ - अनुभवदृष्टया ऐक्याभावेपि । ७. त४. ५- एव प्रेरकत्वान । ८. त-भ- उक्तनत्या । ऋग्वेदः तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्ने॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् । तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥ ३ ॥ तर्मः । आत् । तम॑सा । गूळ्हम् ७८० [ अ. ८ अ. ७. व. १७ । । अप्रै । अप्र॒ऽके॒तम् । स॒थि॒लम् । सर्व॑म् । आ॒ः । इ॒दम् तु॒च्छयेन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसीत् । तप॑सः । तत् । म॒हि॒ना । अ॒यत । एक॑म् ॥ ३ ॥ ननूकप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म । जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्य अवश्यंभावात् । अर्थतहोपपरिजिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते । कथं तस्य जन्म । अत आह तमसा गूळ्हम इति । अग्रे सृष्टेः प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत् तमसा गृहम् । यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् । आत्मतस्वस्थावरकत्वान्मायापरसंज्ञं भावरूपाज्ञानमत्र तम इत्युच्यते । तेन तमसा निगृढ़ संवृतं कारणभूतेन तेनाच्छादितं भवति । आच्छा- दकात् तस्मात्तमसो नामरूपाभ्यां यदाविभवनं तदेव तस्थ जन्मेत्युच्यते । एतेन कारणावस्थायाम. सदेव कार्यमुत्पद्यते इत्यसद्वादिनोऽसत्कार्यवादिनो ये मन्यन्ते ते प्रत्याख्याताः । ननु कारणे तममि तज्जगदात्मकं कार्यं विद्यने चेत् कथं नासीद्वज इत्यादि निषेधः । तत्राह Vतम आसीन इति । तमो भावरूपाज्ञानं मूलकारणम् । तद्रूपता तदात्मनाम् । यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत इत्यर्थः । नन्त्रावरकस्वादावरकं तमः कर्तृ आवार्यस्वाजगत्कर्म । कथं तयोः कर्मकस्तादात्म्यम् । तत्राह अप्रकेतमिति । अप्रतम् अप्रज्ञायमानम् । अयमर्थः । यद्यपि जगतस्तममश्च कर्मकर्तृभावो यौक्तिको विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्टं न ज्ञायत इति तादात्म्यवर्णनम् । अत एव मनुना स्मर्थते -' आसीदिदं तमोभूनमप्रज्ञातमलक्षणम् । अप्रतर्क्यम- निर्देश्यं प्रसुप्तमिव सर्वतः ' (मनु. १. ५ ) इति । कुतो वा न प्रज्ञायते तत्राह । सलिलम् । पल गताँ '। औणादिक इलच् । इदं दृश्यमानं सर्व जगत् सलिलं कारणेन संगतमविभागापन्नम् आः आसीत् । अस्तेर्लंङि तिपि ' बहुलं छन्दसि ' इतीडभावे 'हळूडल्याब्भ्यः' इति तिलोपे ' तिप्यनस्तेः' (पा. सू. ८. २. ७३ ) इति पर्युदासाहकाराभावः । यहा सलिलमिति लुप्तोपमम् । सलिलमिव । यथा क्षीरेणाविभागापनं नीरं दुर्विज्ञानं तथा तमसाविभागापनं जगन्न शक्यविज्ञानमित्यर्थः । ननु विविध विचित्ररूप भूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः । तथा तमोऽपि क्षीरवद्वलवदिस्येवोच्यते । तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवसंभव इत्यत आह तुच्छथेन इति । आ समन्ताद्भवतीति आभु तुच्छयेन । छान्दसो यकारोपजनः । तुच्छेन तुच्छकल्पनेन सदसद्विलक्षणेन भावरूपाज्ञानेन अपिहितं छादितम् आसीत् । दधातेः कर्मणि निष्ठा । दधातेहिं । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । Vएकम् एकीभूतं कारणेन तमसाविभागतां प्राप्तमपि तरकार्यजातं तपसः स्रष्टव्यपर्यालोचनरूपस्य महिना माहात्म्येन अजायत उत्पन्नम्। तपसः स्रष्टव्यपर्यालोचनरूपत्वं चाम्यवाम्नायते –' यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ( मु. उ. १. १. ९ ) इति ॥ " 9 ▾ १. त इत्युच्येत । २. त४.५. भ२ - इत्यादिना तन्निषेधः । ३. त-भ२.४.८ - विविधविचित्र भूयसः । ४. त१.२.६.७-भ५-यत्पर्यालोचनरूपत्वं परमेश्वस्य तपः तस्य महिना महिम्ना महत्वेन । छांदसो वर्णलोपः । अजायत तस्मात्तमोरूपात् कारणात् पुनः प्रादुरासीत् । परमेश्वरस्य तपसः स्रष्टव्यपर्यालोचनरूपवं; त३.४.५.८-भ२.४.८ - यत् पर्यालोचनरूपत्वं । म. १०. अ. ११. सू. १२९] अष्टमोऽष्टकः काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ ४ ॥ कार्म: : । तत् । अप्रै । सम् । अ॒वर्तत॒ । अधि॑ । मन॑सः । रेत॑ः । प्र॒थ॒मम् । यत् । आसीत् । स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृदि । प्र॒ति॒ऽइष्य॑ । क॒वय॑ । मनी॒त्रा ॥ ४ ॥ । । ७८१ ननूक्तरीत्या यदीश्वरस्य पर्यालोचनं जगतः पुनरुत्पत्तों कारणं तदेव किंनियन्धनमित्यत आह कामस्तदग्र इति । अग्रे अस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमेश्वरस्य मनसि कामः सम- वर्तत सभ्यगजायत । सिसृक्षा जातेत्यर्थः । ईश्वरस्य सिसृक्षा वा किंहेतुकेत्यत आह मनस इति । vमनसः अन्तःकरणस्थ संबन्धि वासनाशेषेण मायायां विलीनेऽन्तःकरणे समवेतम् । सामान्यापेक्ष- मेकवचनम् । सर्वप्राण्यन्तःकरणेषु समवेतमित्यर्थः । एतेनात्मनो गुणाधारत्वं प्रत्याख्यातम् । तादृशं रेतः भाविनः प्रपञ्चस्य बीजभूतं प्रथमम् अतीते कल्पे प्राणिभिः कृतं पुण्यात्मकं कर्म यत् यतः कारणात् सृष्टिसमये 'आसीत् अभवत् । भूष्णु वर्धिष्ण्वजायत परिपक्कं सत् फलोन्मुखमासीदित्यर्थः । तत्ततो हेतोः फलप्रदस्य सर्वसाक्षिणः कर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षा अजायतेत्यर्थः । तस्यां च जातायां स्रव्यं पर्यालोच्य ततः सर्वं जगत् सृजति । तथा चाम्नायते- 'सोऽकामयत बहुः स्यां प्रजायेयेति म तपोऽतयत स तपस्तस्वेदं सर्वमसृजत यदिदं किंच' ( तै. आ. ८. ६) इति श्रुतिः । आत्मनेत्थमवगभितेऽर्थं विद्वदनुभवमप्यनुग्राहकत्वेन प्रमाणयति सन इति । सतः सवेन इदानीमनुभूयमानस्य सर्वस्य जगतः Vबन्धुं धन्धकं हेतुभूतं कल्पान्तरे प्राण्यनुष्टितं कर्मसमूहं कवयः क्रान्तदर्शना अतीतानागतवर्तमानाभिज्ञा योगिनः हृदि हृदये निरुद्धया मनीपा मनीषया बुद्धया । 'सुपां सुलुक्" इति तृतीयाया लुकू । प्रतीय विचार्य । 'अन्येषामपि " इति मांहितिको दीर्घः । असति सद्विलक्षणेऽव्याकृते कारणे निरविन्दन् निष्कृप्यालभन्त । विविच्याजानन्नित्यर्थः ॥ ( V ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्विदा॒सी३दु॒परि॑ स्विदासी३त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥ ५ ॥ ति॒रश्चीन॑ः। विऽत॑तः। र॒श्मिः । एषाम् । अ॒नः । स्त्रि॒ित् । आ॒सी३त् । उ॒परि॑ ।स्त्रि॒त् । आ॒सी॑३ त् । रे॒त॒ऽधाः । आ॒मन् । म॒हमान॑ः । आम॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । पु॒रस्ता॑त् ॥५॥ एवमविद्या कामकर्माणि मृर्हेतुत्वेनानि । अधुना तेषां स्वकार्यंजनने शैध्यं प्रतिपाद्यते । येयं नासदासीदित्यविद्या प्रतिपादिता यश्च कामस्तदमे इति कामो मनसो रेतः प्रथमं यदासीदिति यत्कर्म Vएषाम् अविद्याकामकर्मणां वियदादिभूतजातानि सृजतां रश्मिः रश्मिसदृशो यथा सूर्यरश्मिः उदयानन्तरं निमेपमात्रेण युगपत् सर्वं जगत् व्याप्नोति तथा शीघ्रं सर्वत्र व्याप्नुवन् यः कार्यवर्ग: vविततः विस्तृतः आसीत् । स्त्रिदामीत् इति वक्ष्यमाणमत्रापि संबध्यते । 'विचार्यमाणानाम् ' (पा. सू. ८. २.९७ ) इति प्लुतः । तत्रोदात्त इत्यनुवृत्तेः स चोदात्त: । स्त्रित् इति वितर्के । स कार्यवर्ग: प्रथमतः किं तिरश्चीनः तिथंगवस्थितो मध्ये स्थित आसीत् किंवा अधः अधस्तात् आसीत् । आहोस्वित् Vउपरि उपरिष्टात् किमासीत् । 'उपरि स्त्रिढ़ासीदिति च ' (पा. सू. ८.२. १०२ ) इत्यनुदात्त: प्लुतः । आत्मन आकाशः संभूत आकाशाद्वायुर्वायोरभिः ' ( तै. आ. ८. १ ) इत्यादिकया पञ्चमीश्रुत्या तत उद्गातारं ततो होतारमितिवत् क्रमप्रतिपत्तौ सत्यामपि विद्युत्प्रकाशवत् 4 १. त भ - तदेव वा । २. भ२ - पुण्यापुण्यात्मकं । ७८२ ऋग्वेदः [ अ. ८. अ. ७. सर्गस्य शीघ्रग्यापनेन' तस्य क्रमस्य दुर्लक्षणस्वादेतेषु त्रिषु स्थानेषु प्राथम्यं कुत्रेति विचार्यते । एवं नाम शीघ्रं सर्वतो दिनु सर्गो निष्पन्न इत्यर्थः । एतदेव विभजते । सृष्टेषु कार्येषु मध्ये केचिद्भावाः रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवाः आसन् अन्ये भावाः महिमानः । स्वार्थिक इमनिच् । महान्तो वियदादयो भोग्याः आसन् । एवं मायासहितः परमेश्वरः सर्व जगत् सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यादिरूपेण विभागं कृतवानित्यर्थः । अयमेवार्थस्तैसि - रीयके 'तरसृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८. ६ ) इत्यारभ्य प्रतिपाद्यते । तत्र च भोक्तृभोग्ययो- मंध्ये स्वधा । अन्ननामैतत् । भोग्यप्रपञ्चः अवस्तात् अवरो निकृष्ट आसीत् । प्रयतिः प्रयतिता भोक्ता परस्तात् पर उत्कृष्ट आसीत् । भोग्यप्रपञ्चं भोक्तृप्रपञ्चस्य शेषभूतं कृतवा नित्यर्थः । ' विभाषा परावराभ्याम्' (पा. सू. ५. ३. २९ ) इति प्रथमार्थे अस्तातिः । 'अस्ताति च ' ( पा. सू. ५. ३० ४० ) इत्यवरशब्दस्यावादेशः । अवस्तादिति संहितायाम् ईपाअक्षादित्वात् प्रकृतिभावः ॥ को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥ ६ ॥ कः । अ॒द्धा । वेद॒ । कः । इ॒ह । प्र । वोच॒त् । कुत॑ः । आऽजा॑ता । कुत॑ः । इ॒यम् । विऽसृष्टिः । अ॒र्वा॑क् । दे॒वाः । अ॒स्य । वि॒ऽसनेन । अथ॑ । कः । वेद॒ । यत॑ः । आ॒ऽव॒भुव॑ ॥ ६ ॥ एवं भोक्तृभोग्यरूपेण सृष्टि: संग्रहेण प्रतिपादिता । 'एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान- मझिरनाद (श. बा. १ ४.२ १३) इतिवत् । अथेदानीं सा सृष्टिर्दुर्विज्ञानेति न विस्तरेणाभिहितेत्याह को अद्वेति । कः पुरुष: अद्धा पारमार्थेन वेद जानाति । कः वा Vइह अस्मिल्लोके प्र Vवोचत् प्रब्रूयात् । इयं दृश्यमाना विसृष्टिः विविधा भुतभौतिकभोक्तभोग्यादिरूपेण बहुप्रकारा सृष्टिः कुतः कस्मादुपादान कारणात् । कुतः कस्माञ्च निमित्तकारणात् आजाता समन्ताजाता प्रादुर्भूता । एतदुभयं सम्यक् को वेद को वा विस्तरेण वकुं शक्नुयादित्यर्थः । ननु देवाः अजानन्तः । सर्वज्ञास्ते ज्ञास्यन्ति वक्तुं च शक्नुवन्तीत्यत आह अर्वागिति । देवाः च अस्य जगतो विसर्जनेन वियदादिभूतोत्पश्य- नन्तरं विविधं यद्धांतिकं सर्जनं सृष्टिस्तेन अर्वाक् अर्वाचीनाः कृताः । भूतसृष्टेः पश्चाज्जाता इत्यर्थः । तथाविधास्ते कथं स्त्रोयत्तेः पूर्वकालीनां सृष्टि जानीयुः । अजानन्तो वा कथं प्रब्रूयुः । उक्तं दुर्वि- ज्ञात्वं निगमयति । अथ एवं सति देवा अपि न जानन्ति किल । तद्व्यतिरिक्तः कः नाम मनुष्यादिः Vवेद तज्जगत्कारणं जानाति ण्यतः कारणात् कृत्स्नं जगत् अबभूव अजायत ॥ इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ ७ ॥ इ॒यम् । विऽसृष्टिः । यत॑ । आ॒ऽव॒भुव॑ । यदि॑ । वा॒ । दे॒वे । यदि॑ । वा । न । यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । विऽजो॑मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ । न । वेद॑ ॥७॥ उक्त प्रकारेण यथेदं जगत्सर्जनं दुर्विज्ञानं एवं सृष्टं तज्जगत् दुर्धरमपीत्याह इयमिति । यतः ६ उपादानभूतात् परमात्मनः Vइयं विसृष्टिः विविधा गिरिनदीसमुद्रादिरूपेण विचित्रा सृष्टिः १. त४.५-३७- शीघ्रव्यापने । २. ग-भ- शक्ष्यंतीत्यत । ३. ग-त१.२.३.६.७.८भ-दुर्ज्ञानत्वं । ४. त१.२.३.६.७.८-भ-' किल' नास्ति । ५. ग-त२.३.६.७.८ - आजायत । ६. त-भ- 'यतः' नास्ति । म. १०. अ. ११. सू. १२०] अष्टमोऽष्टकः ७८३ एवं च Vआबभूव आजाता सोऽपि किल यदि Vवा दधे धारयति यदि Vवा न धारयति । को नाम अन्यो धर्तुं शक्नुयात् । यदि धारयेदीश्वर एव धारयेज्ञान्य इत्यर्थः । एतेन कार्य धारयितृत्वप्रतिपादनेन ब्रह्मण उपादानकारणस्वमुक्तं भवति । तथा च पारमार्ष सूत्रं -' प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ' ( वे. सू. १. ४.२३ ) इति । यद्वा । अनेनार्धर्चेन पूर्वोक्तं सृष्टेर्दुर्ज्ञानस्वमेव द्रढयति । को वेदेश्यनुवर्तते । इयं विविधा सृष्टिः यत आबभूव आ समन्तादजाययेति को वेद । न कोऽपि । नास्त्येव जगतो? जन्म न कदाचिदनीदृशं जगदिति बहवो भ्रान्ता भवन्स्यपि । यतः । ' जनिकर्तुः प्रकृतिः ' (पा. सू. १.४.३० ) इत्यपादानसंज्ञायां पञ्चम्यास्तसिलू । यस्मात् परमाश्मन उपादानभूतादाबभूत्र तं परमात्मानं को वेद । न कोऽपि । प्रकृतितः परमाणुभ्यो वा जगज्जन्मेति हि बहवो भ्रान्ताः । तथा स एवोपादानभूतः परमात्मा स्वयमेव निमित्तभूतोऽपि सन् यदि वा दधे विदधे इदं जगत् ससर्ज यदि वा न ससर्ज । असंदिग्धे संदिग्धवचन मे तच्छास्त्राणि चेप्रमाणं स्युरिति यथा । स एव विदधे । नं को वेद । अजानन्तोऽपि बहवो जडात् प्रधानाद कर्तृकमेवेदं जगत् स्वयमजायतेति विपरीतं प्रतिपन्न। विदधनो' विधानमजानन्तोऽपि । स एव उपादानभूत इत्यपि को वेद । न कोऽपि । उदानादन्यः तटस्थ एवेश्वरी विदधे इति हि बहवः प्रतिपन्नाः । देवा अपि यक्ष जानन्ति नदवीचीनानामेव तत्परिज्ञाने कैव कथेत्यर्थः । यद्येवं जगत्सृष्टिरत्यन्तदुरवबोधा न तर्हि सा प्रमाणपद्धनिमयास्त इत्याशक्य तत्सद्भाव ईश्वरमेव प्रमाणयति यो अस्येति । अस्य भूतभौतिका- त्मकम्य जगतः Vयः अध्यक्षः ईश्वरः परमे उत्कृष्टे सत्यभूते व्योमन् व्योमन्याकाशे आकाश- वन्निर्मले स्वप्रकाशे । यहा ॥ अवतेस्तर्पणार्थात् ' अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । 'नेड्वशि कृति ' इतीप्रतिषेधः ।' ज्वरस्वर" इत्यादिना वकारोपधयोः ऊट् । सप्तम्या लुक् न डिसंबुद्धयोः ' इति नलोपप्रतिषेधः ॥ व्योमनि विशेषेण तृप्तें । निरतिशयानन्दस्वरूपे इत्यर्थः । यद्वा । अवति- र्गस्यर्थः । व्योमनि विशेषेण गते व्याप्ते । देशकालवस्तुभिरपरिच्छिन्न इत्यर्थः । अथवा अवति- ज्ञांनाः । व्योमनि विशेषेण ज्ञातरि विशिष्टज्ञानात्मनि । ईदृशे स्वात्मनि प्रतिष्ठितः । श्रूयते हि सनतकुमारनारयोः संवादे – ' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' (छा. उ. ७.२४.१ ) इति । ईदृशो यः परमेश्वरः सो अङ्ग । अङ्गेति प्रसिद्ध । सांऽपि नाम "वेद जानाति । यदि Vवा न Vवेद न जानाति । को नाम अन्यो जानीयात् । सर्वज्ञ ईश्वर एव तां सृष्टिं जानीयात् नान्य इत्यर्थः ॥ 6 6 यो यज्ञः ' इति सतर्च द्वितीयं सूकं प्रजापतिपुत्रस्य यज्ञाव्यस्यार्पम् । आद्या जगती शिष्टा- स्त्रिष्टुभः । अत्रापि यज्ञादीनां के पांच्चिद्भावानां सृष्टिः प्रतिपाद्यते । अतः स्रष्टव्यत्वेन प्रधानभूतो योऽर्थः सैत्र देवता । तस्कर्ता प्रजापतिरेव देवता । तथा चानुकान्तं- 'यो यज्ञो यज्ञः प्राजापत्यो जगत्याचा' इति । गतो विनियोगः ॥ यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒मे॑भि॒राय॑तः । इमे व॑यन्ति पि॒तरो॒ य जा॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥ १ ॥ यः । य॒ज्ञः । वि॒श्वत॑ः । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । देव॒ऽक॒मे॑मि॑ः । आऽयंतः । इ॒मे । व॒यन्ति॒। पि॒तर॑ः। ये । आ॒ऽय॒युः । प्र । वय॒ । अप॑ । त्र॒य॒ । इति॑ । आ॒स॒ते । तते ॥ १॥ १. ग-त-भ - ' यतः ' नास्ति । २. त-भ- ' जगतो ' नास्ति । ३. त-भ- उपादानाद्वभूव । ४. त१. २.३.६.७.८-भ२॰४,८-विदधानोपि विदधानं तं जानतोपि; त४.५ - विदधतोपि दधानं जानंतोपि; भ७विदघेतं जातं जानंतोपि । ५. ग-भ२.४.८ - तृप्ते नित्यतृप्ते । ६. गत १.२.३.६.८-४२.४.८- तद्वत् कर्ता ।