AUTE POONA FOUNDED 1917 तेजस्वि नायधीतमस्तु ॥ Bhandarkar Oriental Research Institute NSTITUTE POONA FOUNDED 1917 ॥ ॥ Bhandarkar Oriental Research Institute INSTITUT POONA FOUNDED 1917 ॥ तेजस्वि नावधीतमस्तु॥ Bhandarkar Oriental Research Institute Purchased CHANDA ORIENTAL ASKAR RESEACH LIBRARY No... 1759 Date23-8-50 POONA CITY. **** INSTITUTE IX INSTITUT POONA FOUNDED 1917 ॥ तेजस्विनावधीतमस्तु॥ Bhandarkar Oriental Research Institute LIBCAT Call Number IX. Subject Name Darshanas SubSubject Name Naya Yoga Tantra Vedanta, Language_Name Size_Type Desc Number_of_Pages Binding Type Book Type Acquisition Method Acquisition Type Copy Type Donated By Sanskrit B 17+192+26 Paperback Hardbound Study Text Ref Local Vender Presented Review Printed None. Purchased Exchange Photo Copy INSTITUTE POONA FOUNDED 1917 ॥ तेजस्विमस्तु ॥ Bhandarkar Oriental Research Institute TX KASHI-SANSKRIT SERIES THE 25 (Mimâmsâ Section, MANCHE THE Second edition. ] ORIENTAL KAR OR 10 * PORNO MIMÂMSA NYAYAPRAKASA LIBRARY No...11759 Date23-8-52 20/2 RESEACH PUBLISHED BY JAYA KRISHNA DAS HARIDAS GUPTA NSTITUT POONA CITY. OF ÂPADEVA WITH AN ORIGINAL SANSKRIT COMMENTARY by MAHAMAHOPADHYAYA. SASTRARATNAKARA, FORMER PRINCIPAL, COLLEGE OF THEOLOGY B. H U., LECTURER IN SANSKRIT, CALCUTTA UNIVERSITY, PANDIT. A, CHINNASWAMI SASTRI (Alias Venkatasubrahmanya Sastri) Edited by PANDIT A. M. RAMANATHA DIKSHITA SAHITYACHARYA, VEDACHARYA, MIMAMSASASTRI, VEDANTASASTRI, SANSKRIT MAHAVIDYALAYA, BANARAS HINDU UNIVERSITY. FOUNDED The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, Gopal Mandir Lane, Banaras City. विमा Bhandarkar Oriental Research Institute INSTITUTE [1949 2013 Tankara 19AY W 121 AVGUATA Avico THE KA2) PRINTED BY JAYA KRISHNA DAS GUPTA VIDYA VILAS PRESS, BANARAS. 1949. G CUSTREAPTAMAYMA HIGH Awie trein CARACAL LAYANANGYAN BETE 22 027218US FH TUAH PAR AVHƏM 4900 5602 Ma JanI is M Coll STITU POONA FOUNDED 1917 Patry Bhandarkar Oriental Research Institute काशी-संस्कृत-सीरिज-पुस्तकमालायाः २५ संवत् २००६ ] LIBRARY No. 11759 Di मीमांसाविभागे (१) प्रथमं पुष्पम् 1-23-8-30 IX ORIENTAL NYASEVGN श्रीमदापदेवकृतः मीमांसान्यायप्रकाशः POONA श्री काशीहिन्दू विश्वविद्यालयधर्मविज्ञानविभागभूतपूर्वाध्यक्षेण महामहोपाध्यायेन शास्त्ररत्नाकरेण श्रीवेङ्कट सुब्रह्मण्यापरनामधेयेन पं. अ. चिन्नस्वामिशास्त्रिणा कृतया व्याख्यया PR सार विवेचिन्याख्यया संवलितः प्रकाशकः जयकृष्णदास-हरिदास गुप्तः, चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, बनारस सिटी। द्वितीयावृत्तिः वेदसाहित्याचार्येण, मीमांसावेदान्तशास्त्रिणा काशीहिन्दूविश्वविद्यालयीयसंस्कृतमहाविद्यालये वेदसाहित्याध्यापकेन पं. अ. मु. रामनाथदीक्षितेन यथामति संशोधितः । CITY. 73 ANSTITUTA POONA FOUNDED 1917 RESEACH ॥ तेजस्विनावधीतमस्तु ॥ Bhandarkar Oriental Research Institute * [ सन् १६४९ २३ NO (गर शाशी #fox 1gentura प्राप्तिस्थानम् - जयकृष्णदास-हरिदास गुप्त, चौखम्बा संस्कृत सीरिज आफिस विद्याविलास प्रेस, बनारस -wat की शिक 1300 807221 (i) s NSTITUFA POONA FOUNDED 1917 ॥ ननस्थावधीतमस्तु Bhandarkar Oriental Research Institute धर्मो रक्षति रक्षितः ४समर्पणपत्रम् । कालेऽधुनाऽतिलघिमानमुपेयुषीयं यान् प्राप्य पूरुषवरान् पितरं सुतेव । तं तं प्रकारमुपलभ्य निलिम्पवाणी संमोदते निजपदप्रतिलिप्सयाऽद्य ॥ १ ॥ यैरन्यमानवमनोवचसोरगम्यो विद्यालयो विबुधमण्डलमण्डितोऽयम् । विश्वाधिकः पुरवरे वृषकेतनस्य निर्मापितो निजमहत्तरवैभवेन ॥ २ ॥ तेभ्यः परामकृतकां महनीयशक्तिं विद्यास्वजस्रमनुरक्तिमिहाऽऽवहद्भ्यः । सप्रश्रयं मदनमोहनमालवीय- विद्वद्वरेभ्य इमकां कृतिमर्पयामि ॥ ३ ॥ INSTITUTE POONA FOUNDED 1917 ॥ तेजस्वि नावधीतमस्तु॥ Bhandarkar Oriental Research Institute अ. चिन्नस्वामिशास्त्री, baalauna policodenniall to tronige श्रीः द्वितीयसंस्करणभूमिका भगवतः परमेष्ठिनः परमकृपया द्वितीयसंस्करणाय प्राप्तावसरोऽयं मीमांसान्यायप्रकाशः सारविवेचिनीसंवलित इति महदिदं प्रमोदस्थानम् । सरस्वपि व्याख्यान्तरेषु बहुषु सारविवेचिन्याः पुनर्मुद्रणावश्यकता जातेत्यनेनानुमीयते- विद्वद्वणश्छात्राश्च तस्यै स्पृहयन्ति विशेषत इति । प्रायः पञ्चषेभ्यो वासरेभ्यः प्रभृत्येव बिपण्यां सारविवेचिन्या दुष्प्रा. पतां पुनश्च तन्मुद्रणाय छात्राणामभ्यर्थना श्वेतस्ततश्श्शृण्वन्तोऽपि वयं सामग्रीबिरहेण भृशं क्लिश्यतो मुद्रणालयाध्यक्षानवलोकयन्तो जोषमास्महि । परमिदानीं परमेशकृपया किञ्चिदिव लब्धसाधनचौखम्बामुद्रणालयाध्यक्षः अस्याः पुनर्मुद्रणाय कृतसन्नाहः तरसं• शोधनकार्याय श्रीमतः ( व्याख्या न्) शास्त्रिपादानभ्यर्थयत् । शास्त्रिपादाभ बहुषु कार्यान्तरेषु भृशं व्यावृततयाऽलब्घसमया अपि कथं कथमपि समयं संपाद्य व्याख्यामिमां पुनस्संस्कृत्य परिवर्ध्य च क्वचित्कचिदावश्यकस्थलेषु, संशोधनकार्ये मां न्ययूयुजन् । A तु तत्परमं भागधेयं मन्वानः प्रावतिषि संशोधनकार्ये । तत्र मूलपाठसंशोधनायाद्य यावन्मुद्रिताः कोशा उपयोजिताः । तदतिरिक्तश्च कश्चन तालपत्रेषु प्रन्थाक्षरलिखितो न्यायप्रकाशो यः शास्त्रिपार्वर्षेभ्य उपदशेभ्यः पूर्वं दक्षिणदेशेऽस्मद्ग्रामे करमाच्चित्पण्डितगृहादुपलब्ध आसीत्सोऽप्युपयोजितः, यन्त्रस्था: पाठभेदाः सङ्गततमा आसन् । बहुत्र तान् युक्ततमान्मन्वानेन मया ते तत्र तत्र मूले समावेशिताः । टिप्पण्यपि क्वचि. स्क्वचित् पूर्वसंस्करणापेक्षयाऽधिका संयोजिताऽऽवश्यकतां मत्वा । मूलव्याख्ययोरुद्घृतानां विषयवाक्यानां सूच्यप्यन्ते निबद्धा । मन्ये साप्युपकाराय भवेन्मनीषिणामधीतिनां चेति । मीमांसा शब्दार्थी ob Jadi od Beored el इह तावत्सुखस्पृहयालूनां जनानां तदौपयिकसावनसंपिपादयिषा दुःखत्रात जिहासूनां तदारम्भकसामग्री विमुखीभावश्च नितरामावश्यक इति निर्विवाद सिद्धमिदम् । तदर्थं चं तदवबोधकप्रमाणान्वेषणे कृतयत्नाः, श्रन्यदेकान्तिकं किञ्चनापश्यन्तः प्रमाणम्, अलौकिकं पुरुषबुद्धिदोषलेशासंस्पृष्ट मतिगभीरम नेकार्थंगर्भ कञ्चन शब्दराशिमेव प्रामाण्याय शरणीकुर्वन्ति यो वेदश्रुत्याम्नाया दिशब्दरभिधीयते । तत्र च निगूढतत्वाव. बोधक विचारमन्तरा श्रगतप्रतीतेऽर्थेऽविश्वसन्तः चारुतरं विचारं कञ्चन कामयन्ते तदर्थनिर्णयाय । सैव च विचारचातुरी मीमांसापदेनाऽभिधीयते । मीमांसाशब्दो हि "मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य" इति सूत्रेण सन्प्रत्यये अभ्यासे कारस्य दीर्घे च कृते ततः श्रप्रत्यये टापि च कृते निष्पन्नः । तस्य च "मानेर्जिज्ञासायाम्" इति वार्तिकबलाज्जिज्ञासार्थकत्वे सिद्धेऽपि विचारलक्षकत्वं शास्त्रकृद्भिरङ्गीक्रियते । न केवलं साधारणो विचारः, किन्तु पूजितविचारः । तथा हि भामस्यां वाचतिमिश्रा: "पूजित विचारवचनो मीमांसाशब्दः । परमपुरुषार्थ हेतुभूतसूक्ष्मतमार्थनिर्णयफलता विचारस्य पूजितता" इति । एवं च क्वचिदपि कार्येऽविचार्याप्रवृत्ति प्रेक्षावर्ता प्रपश्यन्ती तेषाम1917 ch inst [ ७ ] भ्युदयफले कर्मणि प्रवृत्तिं सतीहमाना भगवती श्रुतिरेव स्वयं मीमांसामारभत प्रेक्षाव न्मनस्समाहितये । अत एवं तत्र तत्र ब्राह्मण ग्रन्थेषु ब्रह्मवादिभिः क्रियमाणा मीमांसा संशयपूर्वोत्तरपक्षरूपतयैव दरीदृश्यते । तथा हि चातुर्मास्यान्तर्गत त्र्यम्ब कह विविधिप्रकरणे - ( १ ) अभिघार्या३ न्नाभिघार्या३ मिति मीमांसन्ते । यदभिघारयेत् । रुद्रा. यास्य पशूनपि दथ्यात् । तन्न सूर्यम् । अभिषार्या एव । इति श्रूयते । तत्र तदीयं हवि. र्होमात्पूर्वमभिषायें न वेति संशयः । संशयावद्योतक उभयत्र 'लुतः । श्रभिघारणं न कर्तव्यमिति पूर्वपक्षः । यदभिधारयेदित्यादि पूर्वपक्षे युक्तिः । तन्न सूर्यमिति पूर्वपक्षखण्डनम् । अभिघार्या एवेति सिद्धान्तः । न ह्यनभिघृतमित्यादिः सिद्धान्तयुक्तिः । एवम्(२) उत्सृज्यां३ नोत्सृज्या३मिति मीमांसन्ते ब्रह्मवादिनः । तद्वा हुरुत्सृज्यमेव । श्रमावास्यायां च पौर्णमास्यां चोत्सृज्यमित्याहुः । या प्रथमा व्यष्टका तस्यामुत्सृज्यमित्याहुः । (३) संस्थाप्यां३ न संस्थाप्या३मिति मीमांसन्तेऽग्निहोत्रम् । (४) होतव्यं दीक्षि तस्याग्निहोत्रा३ न्न होतव्या३मिति मीमांसन्ते । (५) वासिष्ठो रौहिणो मीमांसां चक्रे" इत्यादिषूदाहरणेष्वपि द्रष्टव्यम् । मीमांसेयं न केवलं पूर्वकाण्डगतेषु तत्तद्वेदीय ब्राह्मणभागेषूपलभ्यते, उत्तरकाण्डे उपनिषत्स्वपि समुपलभ्यते बहुत्र । अनेन स्पष्टमिदं प्रतीयते ब्राह्मणमागेन वेदैकदेशेन सवैषापि विचारसरणिमीमांसापदाभिघेयाऽऽविर्भूता । तामेव च परिपाटीमनन्तरकालिका महर्षयः क्रमनियमबद्धां कृत्वा यथावद्वयवृण्वन् वैदि कानि वाक्यानि विषयतामापादयन्तः । अत वेदार्थ तदनुयायिस्मृत्यर्थ वा यथायथमवगन्तुकामस्य पुंसो नान्तरीयकं मीमांसाशास्त्रज्ञानम् । न ह्यमीमांसको वेदार्थ स्मृत्यर्थ वा यथावदवगन्तुमीष्ठे । धर्मोपदेशं च वेदशास्त्राविरोधिना । " यस्तकेंणाऽनुसन्धत्ते स धर्म वेद नेतरः" ॥ इति हि मानवं वचनम् । वेदशास्त्राविरोधी तर्कः, मीमांसेति यावत् । 200 "विषयो वेदवाक्यानां पदार्थैः प्रतिपाद्यते । परीक्ष कार्पितै श्शक्यास्तैर्वि वेक्तुं न तु स्वतः" (तं. वा. १.३.१ ) इति ( परीक्षका श्रन्त्र मीमांसाशास्त्रनिकषघर्षणावघृतवेदार्थतत्त्वविमलस्वान्ताः ) "मीमांसाशास्त्रतेजोभिर्विशेषेणोज्ज्वलीकृते । वेदार्थज्ञानरत्ने मे तृष्णाऽतीव विजृम्भते ॥" इति च कुमारिलपादाः । वेदतदर्थरत्नैरेव च संप्रथितत्वात्स्मृतीनां तदर्थनिर्णयाया. ऽपि मीमांसांज्ञानमनिवार्यम् । अत एव प्रायेण निबन्धकारास्सवेंऽपि मीमांसान्यायसार्थसन्हब्वानेव स्वान् निबन्धान् न्यबध्नन् । ते ह्यजानन्-मीमांसान्यायानुग्रह विधुरो निर्णीतो वेदार्थः स्मृत्यर्थो वा अपार्थो विपरीतार्थ एव वेति । NSTITUTION DONA स्व. ( मीमांसाया अज्ञानेन संभावितानर्थपरम्परा ) मीमांसापरिशोधितन्यायज्ञानवैधुर्गादेव चाद्यतनेषु न्यायालयेषु कपोल कल्पिताभिरेव नीतिभिरर्थान् निर्णयन्तस्तदनुकूल मेव च चेष्टयन्तः प्रवर्तयन्तश्च अनान् मोहान्धकारपूरे निमज्जयन्ति । पारलौकिकं फलं तु दूरे । इहैव लोके न्यायतोऽ जमिस्त dar [ e ] प्राप्तदण्डानां दण्डनम्, निर्दोषाणां दोषोद्भावनम्, अतदर्शणां तदर्हतापादनम्, श्र. स्थाने च फलप्रापणम्, प्राप्तव्यस्य चाऽप्रापणमिति कियतौयमनर्थपरम्परा । उक्तं हि भट्टकुमारिलेन"मीमांसायां त्विहाज्ञाते दुर्शाते वाऽविवेकतः । न्यायमार्गे महान्दोष इति यत्नोपचर्यता" ॥ इति । "मीमांसा हि सर्वशास्त्रगताज्ञानसन्देहविपय यव्युदासक्षमन्याय निवन्धनात्मिका । तदस्यामज्ञातायां न किञ्चिदपि ज्ञातं भवति । श्रतो महान्तमनर्थ प्राप्नोति ।" इत्यदसीयव्याख्यायां काशिकायां सुचरितमिश्रः । न्यायाभियोगशून्यो हि पुरुषः, किमिदमुत्सृष्टम् ! उतापोदितम् ? श्रत्र हेतुवन्निगदाधिकरणन्यायेनार्थंवादता ? उत 'न ह्यत्र' न्यायॆन हेतुविधित्वम् ? अत्र पर्णमयीन्यायेन केवलस्तुतिपरता १ श्राहोस्विद्रात्रिसन्नन्यायेन फलपरत्वमपि ? किमयमनुवादः परम् ! उतोपरिधारणन्यायेन विधिकल्पकता ? किमत्र ग्रहैकत्वन्यायः प्रवर्तते ? उताहो पश्वे रुत्वन्यायः प्रसरं लभते ? किमत्राऽऽत्यन्तिको निषेधः ? किं वा 'न तो पशौ करोती'ति न्यायेन विकल्पे पर्यवसानम् ? किमत्र बाघः ! उताभ्युचयः ! इत्यादीनत्यन्तगभीरानतिदुर्वि. गाहान् विषयान्कथं निर्धारयितुं प्रभवेत् ? न च वाच्यम्, भाषान्तरीयेषु प्रन्येषु नैतेषामावश्यकतेति । न्यायस्य विषयैकगोचरत्वात् । श्रस्माकीनव्यवहार निर्णय स्यास्माकीनग्रन्थेम्य एव कर्तव्यतौचित्याच्च । श्रतो न्यायालयाधिकृतैरन्यैश्च भारतशासनभारं स्व. स्कन्धे कुर्वद्भिरपन्यायभीतैः उच्छृङ्खलताया श्रात्मानं गोसुकामैः विना मीमांसा पदमेकमपि न चलितुं शक्यत इति तेषामत्र दृष्टिमा कष्टुम भिलषामि । मीमांसायाः प्रसारक्रमः एवं वेदलोकोमयोपकारि शास्त्रमिदं सर्वत्र प्रसारयितुकामा महर्षिजैमिन्या चार्यशबरस्वामिप्रभृतयो महाभागाः सूत्रभाष्यादिप्रन्थानरीरचन् । ते चातिगहना दुर्विगाहाः । इतस्ततः परीशीलनयाऽवगम्यते शाबरादपि भाग्यात्पूर्वतनानि कानिचन भाष्याणि मीमांसासूत्राणामासन्नित्यभ्यूहितमस्त्यवकाशः । परं तानि न कुत्राप्युपलभ्यन्ते नामतो रूपतो वा । शाबरं भाग्यं व्याख्यातं श्रीकुमारिल मट्टपादैः प्रभाकर मिश्रैश । उभयैषा• ममीषां परस्पर विभिन्नैव रीतिरासीद्भाष्यविवरण विधौ । उभयेऽपि स्वतन्त्रप्रज्ञा विचार. चतुरा विवेचननिपुणा आसन् । श्रतो मतद्वयमतः प्रवृत्तं भाहं प्राभाकरं चेति । तत्र शाबरभाष्यस्य भट्टमते भट्टवार्तिकम्, न्यायसुधा, शास्त्रदीपिका, मयूखमालिका, मयू. खावलिः, प्रकाशः, भाट्टदीपिका; प्रभावलिः, चन्द्रोदयः, इत्यादयो नैके नैकविधा प्रन्थाः, व्याख्या, तद्वयाख्या, तद्व्याख्या इत्येवंरूपेण प्रसृताः । एवं बृहती, ऋजुविमला, नयविवेकः, नयविवेकदीपिका, इत्यादयोऽपि प्राभाकरमते व्याख्यातद्वपाख्यारूपेण प्रसृताः । परमद्यत्वे न तावान्प्रसरो लोके प्राभाकरमतस्य यावान्भाइमतस्य । प्रभाकर मिश्रनिर्मिता भाग्यटीकापि श्रद्य यावन्न समप्रा मुद्रिता । प्रभाकरमिश्रैः बृहती लध्वी चेति व्याख्या. द्वयं रचितं शावरभाष्यस्य । तत्र प्रथमात्यल्पशो मुद्रिता, द्वितीया नाम्ना परं श्रयते न तु स्वरूपत उभलभ्यते । न जाने प्रन्थरत्नानाममीष शास्त्र जीवातूनां मुद्रणप्रकाशनप्रचारादौ कदा भूतभावनो भगवाननुमहीण्यतीति । POONA DED Research Institute [ ] C एवं साधारणतः प्रसरमुपेयुषामपि भाट्टमतीयानां ग्रन्थानां वातिकादीनां यथावदवगतिरति कठिनाल्पमतीनामिति मत्वा महामहोपाध्यायपार्थसारथिमिश्रः भाट्टमतमवलम्ब्य विषयसंशयादिकमेकत्र संगृह्याधिकरणरूपेण समग्रमपि शास्त्रं समगृहात्, सैव शास्त्रदीपिका। अयमेव चैवंरूपेण प्रवृत्त एतच्छास्त्रे प्राथमिको ग्रन्थः । एतदनन्तरकालिका एव जैमिनीयन्यायमाला-न्याय बिन्दुः - भाट्टदीपिकादयोऽधिकरण सङ्ग्रहात्मिका प्रन्थाः प्रादुरभूवंस्तद्वथाख्यानानि च । तदनन्तरमेव च मीमांसापदार्थसंग्रहात्मकाः न्यायरत. माला वेदप्रकाश – न्यायप्रकाश - भाट्टभास्कर - अर्थसङ्ग्रह-मीमांसापरिभाषाप्रभृतयः प्रकरणप्रन्थाः, येण्वन्यतमोऽयं मीमांसान्यायप्रकाशो नाम । अत्र चाधिकतरं लोकवेदयोरुपयुक्तानां न्यायानां स्वरूपं निपुणतरमुपपादितम् । प्रन्थकर्तुरस्य विचारचातुरी हृदयङ्गमा गभीरा च । ग्रन्थकारोऽयं पार्थसारथीयमतमेव स्वग्रन्थे पर्यपुष्णादिति सम्यगेवोपपादितं व्याख्या तृभिराचार्यचरणैः प्रथम संस्करणोपोद्धाते । पार्थसारथिमिश्रा हि तन्त्रवार्तिकं, टुप्टीकां च मूलीकृत्यैव स्वीयान्प्रन्थान्स्चयामासुः । यथोक्तं तैरेव"न्यायाभासत मश्छन्न शास्त्रतत्त्वार्थदर्शिनीम् । कुमारिलमतेनाहं करिष्ये शास्त्रदीपिकाम्" ॥ इति शास्त्रदीपिकायाम् । op "मीमांसार्णवसंभूतैः कुमारस्वामिना कृतैः । न्यायरत्नैरहं मालां सप्रश्नामि मनोरमाम्" ॥ इति च न्यायरत्नमालायाम् । तथापि तत्र विध्यर्थे, आख्यातायें तत्प्रख्यन्याये अर्थवादलक्षणविषये पर्युदासोपसंहारयोः अन्येषु चैवमादिविषयेषु केषुचित्स्वमनीषितं मतं किंचिदन्वारस्य तदेव प्रमाणैरुपष्टम्भयति । एवं तन्त्रवार्तिकं व्याचक्षारोनापि, भट्टसोमेश्वरेण स्वेषितं ग्रन्थारूढीक्रियते । तयोर्मध्ये पार्थसारथिमिश्रमेवानुसरत्ययं न्यायप्रकाशकारः । तच्च तत्र तत्र व्याख्यान एव स्पष्टीकृतम् । ग्रन्थकारोऽयं प्राभाकरमतं क्वचिदपि मनागपि न स्पृशति । तन्मतावलम्बी नैको. ऽपि प्रन्थस्समप्रो द्वादशाध्यायव्यापी मुद्रितः । तौतातितमतंतिलको योऽध्यायत्रयात्मकः स तावति प्रन्थे तन्मतमुपापादयत् । उपरि त्वन्धकार एव । प्रकरणपञ्चिकापि यावदुपलभ्यमेव मुद्रितेति तत्रापि समग्रतायां सन्दिग्धमेव मनः । सेयं दुरवस्था प्राभाकरमतस्य । सावश्यं परिमार्जनमर्हति । न्यायरत्नमाज्ञां पार्थसारथिमिश्रीयामनुरुन्धानोऽप्ययं प्रन्थकारो नोत्तरत्रट की येषु तथा प्रक्रमते यथा पूर्वषटकीयेषु विषयेषु । एनमेवानुसरति पदे पदेऽर्थसङ्ग्रहकारः । अतः स्सर्व विषयव्यापिनः सुललितपदगुम्फितस्य सुखेनाध्ये तृहृदयावगाहिनः भाट्टमते कस्यचन ग्रन्थस्याद्ययावदनुपलम्भेन क्लिश्यतामधीतिनां क्लेशं दूरीक तन्त्रसिद्धान्तरत्नावरूपाख्यो प्रन्थो निरमाथि सारविवेचिनीका रै रस्मच्छ्रवशुरचरणैः, साधु सम्पादितच श्रीमद्भिः पण्डि तप्रवरैः पट्टाभिरामशास्त्रिमहोदयैः। स सुदूरमाकर्षति सुमनसां मनांसीति न तिरोहितम् । TO अत्र मूले व्याख्यायां च पूर्वोत्तरभागरूपेण द्विघा विभागः कृतो व्याख्यातृभि श्शास्त्रिपादैः" "स च विभागोन ग्रन्थाकाराभिमतः, किन्तु स्वकपोलकल्पितश्शास्त्रि (क) मी० न्या० [ १० ] वर्यैः" इति एड्गटन् ( Edgerton ) महाशयो वदति (१) । तन्न यथातथम् । मूल कतणां पुत्रैरनन्तदेवैरेव खलु विभज्य व्याख्या कृता भाट्टालङ्कारका रैः । तदनुरोधेनैव च आचार्यपादैरपि विभागः कृतः । तमनालोक्यैव (२) एड्गर्टन महोदयैर्यत्किञ्चिदुच्यते । श्रतस्सर्वथा तदुपेक्षाहं प्रेक्षावताम् । मन्थकर्तुंर्देश काल कुलादिविषये प्रथम संस्करणभूमिकायां यदुक्तं गुरुवर्यैः न ततोऽधिकं किञ्चिद्वक्तव्यमवशिष्यते । इदमनेन प्रतीयते काश्यां षोडशसप्तदशशताब्योर्दा. क्षिणात्येषु विद्वत्कुलेषु मीमांसाद्वयपारदृश्वनां कुलद्वयं सुप्रसिद्धमासीत् एकं भट्टकुलम्, अन्यच्च देवकुलम् । तत्र भट्टकुलमलड्डर्वाणा श्रासन् नारायणभट्टप्रभृतयः, यैर्बहवोअनुत्तमा मीमांसाग्रन्था धर्मशास्त्रप्रन्थाश्च रचिता प्रभावलीपर्यन्ताः । देवकुलमलङ्कुर्वाणा रुद्रदेवखण्डदेवादयः, यैर्भाट्टदीपिकाप्रभृतयः सर्वातिशायिनो ग्रन्था विरचिताः । तदुभयकुलीनातिरिक्कोऽयं न्यायप्रकाशकारः यापदेव इति । एतस्कुलीना अपि पूर्वोत्तरमीमांसयोर्धर्मशास्त्रेष्वपि नैकशो ग्रन्थान् जग्रन्थुरिति प्रमाणतोऽवगम्यते । ग्रन्थस्थास्य संशोधनकायें सज्जतो मम मध्ये मध्ये श्रादर्शान्वेषणे पुस्तकान्तराव लोकने च साह्यमाचरितवते श्रीमते कृष्णमूर्तिशर्मणे गुरुचरणानां सुपुत्राय मदन्तेवसत्ते च स्वाशिषः प्रयुञ्जानः, सावधानेनाऽपि कृतेऽस्मिञ्बोधनकार्ये पुरुषबुद्धिसाधारणाः तत्र तत्र सम्भावितास्त्रुटीरशुद्धीभ कृपया परिमाटुं विबुधगणानभ्यर्थयन् अन्ततः सर्वतः श्रेयो वहां गुरुचरणकृपामेव परमां मन्वानो मदीयं कार्यमिदं परमेश्वरस्य चरणकमलयोस्समर्पयन् विरमामि । संस्कृत महाविद्यालयः काशी हिन्दू विश्वविद्यालयः वाराणसी २४-३-४९ ( Pariy 3. Electon इति विद्वज्जनवशंवदःPre अ० मु० रामनाथदीक्षितः You muito de franz. be (1) Even the division into two parts, is found in neither of the other editions and was probably made by Chinnaswami himself. P. 4. L. 20 in the Introduction of Mimansa Nyaya Prakasa, Printed in the Oxford University Press, NSTITUTE 1917 (2) He says this Anantadeva worte a commentary on this father's Mimansa Nyaya Prakasa, called Bhattalankara, which according to Chinnaswami (P5) has been edited and printed by Mahamahopadhyaya Pandit, Lakshmeana Sastri; I regret to say that I have not had access to it ( P. 18. ) Intro, I WD-D T ental व्याख्यातुर्निवेदनम् । अथेदानीमयमापदेवकृतो न्यायप्रकाशाख्यो मीमांसा प्रकरणप्रन्थो मुद्राप्य प्रकाश्यते सव्याख्यो मीमांसाशास्त्र प्रविविक्षणामुपकृतये । सुदृढमिदमभिधातुं शक्यते शास्त्रे • स्मिन् नैतादृशः प्रकरणग्रन्थोऽथ यावत् प्रकाशं नीतः । किं बहुना नाद्याप्येतादृशो ग्रन्थो विरचित इत्यपि वक्तुं शक्यते । सन्ति च कानिचन प्रकरणानि भाट्टभास्करमुखान्यय यावदमुद्रितानि, तानि तु नानेन सह समं सोपानमारोढुं प्रभवन्ति । योऽयमिदानीमुपलभ्यतेऽस्माभिरर्थसंग्रहाख्यो प्रन्थः स प्रायेणास्य प्रतिकृतिरेवेति करबदरसमानमेतत् । ग्रन्थकृदय मतिकठिनानामपि विषयाणामनतिविस्तृतया हृदयज्ञमयैव शैल्योपपादने विषयस्यैकस्योपपादनावसरे विषयान्तराणामपि प्रसङ्गादानयने चानितरसाधारणीं नैपुणीमावइति । यद्यप्यनेनान तिबृहत्यस्मिन् ग्रन्थे बहवो विषया विचारिताः ये सर्वत्रास्मिन् शास्त्रे शास्त्रान्तरे चात्यन्तमुपयुक्ताः स्थानान्तरं प्रत्यतिदेशार्हाः तथापि ते प्रायशः पूर्वषट्कान्तगंता एव । उत्तरषट्कान्तर्गता अतिदेशोहबाधादयोऽत्यल्पमिह निरूपिताः, तेऽपि प्रसजादेव । पूर्वषट्केऽपि च प्रथमतृतीयपञ्चमाध्यायीया एव प्राधान्येन निरूपिताः । एवञ्चात्र ग्रन्थे कियन्ति कानि चाधिकरणान्युपात्तानि केषां चाधिकरणानां निरूपिता विषया इत्यनन्तर प्रदर्शितया सूच्या व्यक्तीभविष्यति । ग्रन्थस्यास्य मूलभूताः ग्रन्थाः प्रन्थोऽयं तन्त्रवार्तिकादिकान् स्वप्राचीनान् भाट्टमतानुयायिनो ग्रन्थानवलम्ब्य प्रवृ तोऽपि प्राघान्येन शास्त्रदीपिकां न्यायरत्नमालां न्यायसुर्धाच राजकापरनामचेयामवलम्ब्यैव प्रवृत्तः । तेषामेव च सिद्धान्ताः प्रायेणात्र निरूपिताः । तत्रापि मिश्रपार्थसारथिसिद्धान्तेषु प्रत्यकृतः प्रेमातिशय इत्यवगम्यते । अत एव तत्तद्विषयनिरूपणावसरे प्रथमतो न्यायसुधाकृन्मतमुपपादयति, अनन्तरं च सिद्धान्तरूपतया शास्त्रदीपिकाकारमतम् । अपि च "अन्ये त्वाचार्या आहुः" (न्या. प्र. पृ. १३४ ) "अन्ये त्वाचार्या आहुः" (न्या. प्र. पृ. १५०) इति पार्थसारथिमिश्रानेवाधिकमाचार्यपदेन व्यपदिशन् तत्रैव स्वस्य गौरवातिशयमाविष्करोति । न्यायरत्नमालायाः श्रीपार्थसारथिमिश्रकृतायाः न केवलं सिद्धान्तोऽनुसृतोऽनेन, क्वचिच मिश्रपार्थसारथेः पक्तयोऽपि तथैवोद्धृत्य किञ्चिद्विपरिणतिपूर्वकं ग्रन्थेऽत्र निवेशिताः । यथा( न्यायरत्नमाला ) तत्र विधात्री लिङाद्या । अभिघात्रौ व्रीह्यादिश्रुतिः। विनियोक्त्री त्रिधाएकाभिधानं, एकं पदं, विभक्तिरिति । यस्य हि शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोगश्रुतिः" ( न्या. र. पृ. १२३ ) ( न्यायप्रकाशः ) S तत्र विधात्री लिङाद्यात्मिका । श्र भिधानी व्रीह्यादिश्रुतिः। यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा 1917 Bhandarkar Oriental विनियोक्त्री । सा च त्रिघा-विभक्तिरूपा, समानाभिधानरूपा, चेति । ( न्या. प्र. पृ. २६) [ १२ ] तदेवं प्रकरणं प्रयाजादीनां विनि. योजकम् । तच्च द्विविधं महाप्रकरणम वान्तरप्रकरणं चेति । तत्र फलभावनायाः प्रकरणं महाप्रकरणम् । तदन्तराले यदङ्गभावनायाः प्रक रणं तदवान्तरप्रकरणम् तच्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम् । ( न्या. र. पृ. १३३ ) यस्तु सह प्रयुज्यमानेषु सन्निपातिनामावृत्त्यानुष्ठाने प्रथमक्रम एव द्विती यादिष्वपि प्रयोगवचनाङ्गसाहित्याबाघा. याऽऽश्रीयते स प्रवृत्तिक्रमः । (न्या. र.१५५) यस्तु प्रकृतौ नानादेशगतानां पदार्थानां विकृतावेकस्य देशे सर्वेषामनुष्ठाने वचनात् कर्तव्ये सति यस्य देशेऽनुष्ठीयन्ते तस्य प्रकृत्यवगतस्थानाबाघेनागन्तुभिः क्रमस्समाश्रीयते स काण्डक्रमः । ( न्या. र. १५५ ) 9 तच्च प्रकरणं द्विविधं महाप्रकरणमवान्तरप्रकरणं चेति । तत्र फलभावनायाः प्रकरणं महाप्रकरणम् । तच्चप्रयाजादीनां ग्राहकम् ( न्या. प्र. ५२ ) फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवान्तरप्रकरणम् । तच्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम् ( न्या. प्र. ६५ ) सह प्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्यानुष्ठाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थ क्रमात् यः क्रमः स प्रवृत्तिक्रमः (न्या. प्र. १००) प्रकृतौ नानादेशानां पदार्थानां वि. कृतावेकस्मिन् देशेऽनुष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठानमितरयोश्च पश्चात्, श्रयं यः क्रमः स स्थानक्रमः । ( न्या. प्र. ४६ ) ग्रन्थकृत्समयः ग्रन्थकृदयं दाक्षिणात्यो महाराष्ट्रो देवोपनामके कुले समुत्पन्नः सप्तशत्याः शतब्द्या श्रादिमे भागे ( Seventeenth century A. D.) भूमिमिमामलंचकारेत्य. भ्यूहितुं शक्यते । पूर्वोत्तरमीमांसयोः परं पारमधिगतवन्तः श्रीमन्तः खण्डदेवाः त्रयो- विंशत्युत्तरसप्तशताधिक सहस्रे ( १७२३ ) बैकमेऽब्दे ( 1665 A.D.) वाराणस्यां स्वीयं भौतिकं देहं तत्यजुरिति प्रमाणैरवगम्यते । तैश्च स्वीये भाट्टदीपिकाप्रन्थे न्याय- प्रकाशोक्तानां एतद्ग्रन्थ कर्तृपुत्रकृतभाट्टालङ्कारोक्तानां च विषयाणां खण्डनं कृतम् । एतच्च स्पष्टीकृतं तच्छिष्यैः श्रीशम्भुभट्टः स्वकृतायां तद्व्याख्यायां प्रभावल्यां- "यस्तु न्यायप्रकाशे सप्तमीबहुव्रीहिरप्याश्रितः तस्य दूषणं कौस्तुभे द्रष्टव्यम्" – "यत्तु भाट्टाल- ङ्कारकृता...... तदुपेक्षितं पूज्यपादैः" इत्यादिना प्रन्थेन । श्रत भाट्टदीपिकाकारेभ्यः श्रीखण्डदेवेभ्यः किञ्चिदिव पूर्वस्मिन् काले ग्रन्थकर्ताऽयमासीदित्यवगम्यते । एतत्कुलपर म्पराप्रतिपादकाः श्लोका एतत्तनुजकृतस्मृतिकौस्तुभे उपलभ्यन्ते । ते यथा आसीद् गोदावरीतीरे वेदवेदिसमन्वितः । श्रीकृष्ण भक्तिमानेक एकनाथाभिधो द्विजः । तरसुतस्तद्गुणैर्युक्तः सर्वशास्त्रार्थतत्त्ववित् श्राप देवोऽभवद्देवात् प्राप यक्सकलान् मनून् ॥२॥ NSTITUTE POONA Bhandarkar Oriental Research Institute मोमांसानयकोविदो मधुरिपोरसेवासु नित्योद्यतः विद्यादानविभावितोत्तमयशा आसीत् तदीयात्मजः । [ १३ ] यस्थानन्तगुणैरनन्त इति सन्नामार्थवत्तां गतं येनाऽवादि च वादिनां श्रुतिशिरस्सिद्धान्ततत्वं मुदे ॥ ३ ॥ न्यायप्रकाशकर्ता निरवधिविद्यामृतप्रदस्सततम् । मीमांसाद्वयनयवित् तनयस्तस्याऽपदेवोऽभूत् ॥ ४ ॥ इति ॥ अयं पूर्वोत्तरमीमांसयोः धर्मशास्त्रे च परिनिष्ठित आसीत् । अस्य गुरुः श्रयं च स्वपितुरनन्त देवादेव विद्यामनवद्यामधिगतवान् । नान्यस्मात् अयमभिप्रायो प्रन्थकत्रैव प्रन्थादौ गुरु नमस्कारप्रतिपादके द्वितीयश्लोके ध्वनितः विवृतश्च तत्पुत्रेण "अनन्तरूपिणमिति अनन्तसंज्ञकमित्यर्थः" इति तत्पद्यं व्याचक्षाणेन । सति चैवं कीत्महाशयेन ( A. Berriedale Keith ) पाश्चात्यविदुषा "श्रापदेवः अनन्तदेवस्य पुत्रो गोविन्दस्य शिष्यः" ( Apadeva, son of Anantadeva, and pupil of Govinda [Karma Mimamsa P. 13.]) इति यदुक्तं तत् निर्मूलं "गोवि न्दगुरुपादयोः" इति न्याय प्रकाशोपान्तिम श्लोकस्थ पददर्शनजनितभ्रममूलं वेति पश्यामि । अनेन कृताः ग्रन्थाः अनेन पूर्वमीमांसायामयमेको प्रन्थः उत्तरमीमांसायां दीपिकाख्यो प्रन्थः श्रीसदानन्दयतिकृतस्य वेदान्तसारस्य व्याख्यारूपश्चैको व्यरचि । सोऽपि काश्यां श्रीरङ्गे च मुद्रित इदानीमुपलभ्यते । श्रापस्तम्बश्रौतसूत्रव्याख्यैकाप्यनेनारचितेति मद्रप्रान्तीयराजकीय पुस्तकालयसूचीपत्रतोऽवगम्यते । परन्तु साऽनेनैव कृता एतत्तनयेन वेति तत्र सन्दिग्धमुक्तम् । एतावन्त इदानीमुपलभ्यन्ते । त्रिष्वपि तदीयेषु ग्रन्थेष्वयमेव न्यायप्रकाशः प्रथमगणना मर्हति । Des व्याख्यानावश्यकता एवमत्युत्तमोऽयं प्रन्थो यद्यपि महान्तमुपकारमावहत्येतच्छास्त्रं प्रविविक्षताम्, मुद्रित श्चापि बहुत्र बहुवारं, तथापि प्रतिगम्भीरत्वात् अनतिसरलैर्वाक्यैरारचितत्वात् अनति विस्तृतत्वाच्चान्त रेणै तदाशयाविष्कारिणीं समुचितां काञ्चन व्याख्यां नाकाक्षामध्ये तणां यथावदभिपूरयतीतिजानात्यैवेदंशास्त्रपरिशीलनचतुरा पण्डित मण्डकी । तेन च क्लिश्यमाना छात्रसंहतिरतितरामुपकृता श्रीमतां पण्डितप्रवराणां महामहोपाध्यायश्री कृष्णनाथन्यायपञ्चाननमहाशयानां व्याख्ययार्थदर्शिन्याख्यया, तदर्थ मघमणं छात्रकुलं तेभ्य इति नात्र विवादः, तथापि कालेऽस्मिन् भारतीयनिखिल शास्त्रकला कौशल भक्षण कुक्षिम्भरौ, अनुभवत्सु स्वाप्निकीमेव दशामिदंशास्त्रीयेष्वपि पदार्थेषु क्षीणे च पारम्परिकेऽध्ययनाध्यापनरूपे स्नेहे तत्क्षयाच्चासन्न निर्वाणे ज्ञानप्रदीपे न यथायथमवभासन्ते पदार्था एतच्छास्त्रीया श्रपि, किन्तु सुशिक्षितमतीनामप्यन्यथान्यथा प्रतिभान्ति प्रतिभावतां मतौ, त एव च प्रन्थारूढा भवन्तीत्ययं दोषो ब्याख्यामपि तामर्थदर्शिनीं (१) बहुत्र स्पृशति । तद्व्याख्यासम्बन्ध्यय FOUNDED CEO Bhandarkar ( १ ) तत्रत्या दोषा इमे — अक्लप्तोपकारकत्वेनेति । प्रधानस्योपकार विषयका काढ नाविरहेणोपकारस्य न क्ऌप्तस्वं, सान्निध्यादुपकारकं कल्प्यमिति भावः । ( ८७ - ११) क्लसोपकारत्वेन = उपकारा काङ्क्षाया उत्थितरवेन। (८७-१४) क्लृप्तोपकारत्वादिति । उपकारस्योपकारपृष्ठभावेन शब्दप्रतिपा● [ १४ ] मेवाशयो भाट्टालङ्कारभूमिकायां मनागुपदर्शितो विद्वद्वरैः महामहोपाध्यायैः श्रीमद्भिर्लक्ष्मणशास्त्रिभिरपि । तेन च दोषेणाध्येतणां बहु विप्लवते पदार्थज्ञानमिति नेदमपि तिरोहि तम् । दोषमिमं दूरीकर्तुकामेन व्याख्येयमारब्धा मया । यद्यपि प्राचीनं व्याख्यानं भाहालङ्काराख्यं ग्रन्थकर्तुः पुत्रैरनन्तदेवै रचितं श्रीमद्भिः म. म. पं. लक्ष्मणशास्त्रिभिः संशोध्य मुद्रापितं चकास्ति, तथापि गभीरेणापि सम्प्रदायमनुसरतापि शास्त्रानुगतेनापि च कचिदतिविस्तृतेन क्वचिच्चातिसङ्कुचितेन प्रायशो मूलासंस्पर्शिना पण्डितमात्रौपयिकेन तेन नोपकारं सावीयाँसमुपलब्धुमीष्ठे छात्रगण इति मत्वैवात्र प्रयत्नवानहमभवम् । अध्यापनाद्यवशिष्टेऽल्पी यस्यैवाऽवकाशे किश्चित् किञ्चिदिवालिखितेयं सारविवेचिनी गते भवसुनन्देन्दुमिते (१९८१) वैकमेऽब्दे ज्येष्ठमासि परमपावन्या भगवत्या भागीरथ्या. स्तटे विराजमाने कनखलक्षेत्रे भगवतो भवानीभागधेयस्य विश्वेशस्याऽनुकम्पया पूर्णतां गता । मस्या उद्देश्यानिj ding व्याख्यया चानया छात्रोपकारमेव विशेषतस्समीहमानेन मया सरलैरेव वाक्यैरियं ग्रथिता । बहुत्र ग्रन्थसन्दर्भों विवृतस्स्वीयैर्वाक्यैः । यत्र यत्रान्यथयितं मूलं व्याख्यातं च शास्त्रसम्प्रदायाद्यननुगतमन्यैः, तत्र सर्वत्रापि यथावन्मूलनिवेशनेन सम्प्रदायाद्यनुगतव्याख्याकरणेन च दोषास्ते दूरीकृताः । श्रौतपदार्थां श्रपि विवृता यथामति तत्र तत्र । मूलस्थानां विषयवाक्यानां तत्तत्स्थल निदर्शकमङ्कनं तत्तत्पृष्ठ एवाऽधोभागे कृतम् । व्याख्यानपरिगृहीतानां तु तेषां तदङ्कनं तत्तन्निकट एवारचितम् । सौमिक्या वेदेरापस्तम्ब श्रौतसूत्रानुसारिण्याः, दार्शिक्यास्तस्याः, दार्शिकानां पात्राणांच प्रतिकृतयस्संनिवेशिताः। गुरुवरैरधिगत निखिलतन्त्र मर्मभिरतिवेल करुणापूरपुरितान्तःकरौर्यदुपदिष्टं, यच्चाघिगतमितस्ततो ग्रन्थान्तरेभ्यः, तत् यथोचितमत्र व्याख्यायां निवेशितम् । अतो > नामूलं लिखितं किञ्चित्, न चोकमनपेक्षितम् । एवं छात्राणामुपकारातिशयमा धातुकामेन मया व्याख्येयमारचिता सङ्गृहीताः पदार्थाश्चैतावन्तः । परन्तु न जाने-तावन्त मुपकारमादग्यादियं छात्रेभ्यो, न वा, कथयेच्चैतावन्तं परिश्रमं मदीयं, न वेति । श्रथ वा कथयतु मा वा कथयतु तदुपरि न्यस्तस्समस्तो भरः । एवं एवं विनिद्रेण नितान्तमवहितमनसापि च कृते परिश्रमे पुरुषमात्रसाधारणा भ्रमदितत्वादित्यर्थः। ( ८७–२३ ) यथा दक्षिणीयेष्टावभिहितस्सत्यवदनादिरूपो वानियमः । (१०१२१ ) प्रोक्षणीपात्रे यदुत्पवनादिकं तत्प्रोक्षणीपात्रापूर्वार्थम् । ( १०१-२३) तत्र "प्रयाजे प्रयाजे कृष्णलं जुहोती" ति श्रुत्या परिप्राप्तप्रयाजानुवादेन प्राकृतहोमातिरिक्तत्वेन कृष्णलहोमा विहिताः । (१०४-१३) १०५ पृष्ठे "मत्रायमाशय" इत्यारभ्य १०६ पृष्ठे १८ पंक्तिपर्यन्तं यस्सन्दर्भस्स सर्वोऽपि । विद्वदिति । वेदबिदित्यर्थः । वाक्यद्वयम् = अमावास्यायाममावास्यया यजेत, पौर्णमास्यां पौणमास्या यजेतेति श्रुतिद्व यम् । ( ११६-२७ ) १२४ पृष्ठे २५ पंको 'क्रयस्य दृष्टार्थंतयेत्यारभ्य नियम इति भावः, इत्यन्तो भागः। १५४ पृष्ठे १९ पंक्तौ पशुपुरोडाशयागादीति। अत्र यागपदं होमपरम् इत्यारभ्य १३५-२२ पर्यन्तो भागः । एवमन्येऽपि दोषास्सन्ति । दोष इमे तत्र तत्र मूलस्य यथावत् व्याख्यानेन निराकृताः । Bhandarkar Oriental Res इदमत्रावधेयम् । न मया पुरोभागितामाश्रित्य दोषा इमे उद्घाटिताः । परन्तु दोषैरेतैः पदार्थज्ञानबै परीत्यमिया तदपनेतु कामे नैवेति सुधीभिराकलनीयम् । [ १५ ] प्रमादादिदोषा श्रत्राप्यवश्यं भवेयुरेष, तथापि येऽत्र गुणलवास्ते गुरूणाम, ये च दोषास्ते मदीयमतिमान्द्यविलसिता इति गुणैकपक्षपातिनो विपश्चितः क्षाभ्यन्तु मदीयमपराधम्, अनुगृह्णन्तु मामाशीः प्रदानेन, निवेदयन्तु च मह्यमत्रत्यान् दोषविशेषान् येनाहमुद्यतस्स्यां द्वितीया वृत्तौ तन्निराकरणायेति भूयो भूयः प्रार्थये पण्डितप्रवरान् । यत्र (१) वयं छात्रावस्थायामवस्थिताः तैस्तैरुपकारैरूपकृत्य सुतनिर्विशेषमथवा ततोऽप्यधिकं पोषिता श्रध्यापिताब, तादृशमद्रपुरीय संस्कृत महाविद्यालय प्रतिष्ठापयितणामिदानीममरनगरम घितिष्ठतामप्यस्मादृशां मनांस्यद्याप्यधिवसतां श्रीमती महनीयचरितानां वी. कृष्णस्वाभ्यार्याणां अतिगभीरां अतिमहता ब्राह्मण तेजसा समुज्वलन्तीं श्रमानु. घ्या शक्त्या परिष्वक्तां तत्तादृशीं मूर्ति कदापि विस्मर्तुमनीशोऽहमनवरतं तामेव स्मरामि । यैश्च सदयमिदं शास्त्रमध्यापितोऽहं, यैश्च सहार्दमेतच्छास्त्रीयाणि मर्माण्यवबोधितः तेभ्यः श्री १०८ मद्गुरुचरणेभ्यः, विदितवेदितव्येभ्यः महामहोपाध्याय -मीमांसाकएठीरव-शास्त्ररत्नाकरादिभिरुपाधिभिविभूषितेभ्यः श्रीवेङ्कट सुब्रह्मण्यशास्त्रिपादेभ्यः, अखिलेष्वपि तन्त्रेषु क्वचिदप्य कुण्ठितम तिशक्तिभ्योऽतिवेलप्रसरत्प्रतिभापरीवाहेभ्यः S. श्रीकुप्पुस्वामिशास्त्रपादेभ्यश्चान्यत् तदुचितं किञ्चिदुपहर्तुमचमोऽहं केवलं हृदम्बु जमेव तेषां पदाम्बुजेषु सप्रश्रयमुपहरामि । मूलशोधनार्थं सादरमने का दर्शपुस्तकदानेन मयि प्रेमातिशयमाविष्कृतवन्द्वथो वाराण सीस्थराजकीय संस्कृत विद्यालयाध्यक्षेभ्यः दार्शनिक ग्रन्थोद्वारे नितान्तं बद्धश्रद्धेभ्यो विद्वद्वरिलेभ्यः श्रीगोपीनाथकविराज (M. A..) महाशयेभ्यः सादरं कार्तज्ञमाविष्करोमि । घर्मकालेऽतिकठोरतिग्मरश्मि किरण सन्तापितायामस्यां विश्वेशनगर्यामवस्थाय ग्रन्थमिमं परिसमापयितुमक्षमाय कनखलं गतवते तत्र मह्यमपेक्षितमखिलमपि सौकर्यमव्याजं सम्पादितवद्भ्यः श्रीमद्भ्यः श्रीभागवतानन्दस्वामिपादेभ्यो मण्डलेश्वरेभ्यः कृतज्ञतामतितरां प्रकटयामि । शोधनादिषु कार्येषु महदुपकृतवद्भ्यां मस्प्रियशिष्याभ्यां मौमांसाचार्याय - श्रीकृष्णमूर्तिशर्मणे श्रीरामचन्द्र शर्मंणे ( B.Sc. ) च महतीमाशिषं प्रयुब्जे । प्रार्थये च भगबन्त मुमा रमणं - तावुत्तरोत्तर श्रेयःप्रदानेनानुगृह्णात्विति । एतादृशानां दर्शनग्रन्थानां मुद्रणे प्रकाशने चांतितरां कृतोत्साहस्य चौखम्बा संस्कृत. पुस्तकावल्यधिपतेः श्रेष्ठिकुलभूषण श्री हरिदासगुप्त महोदयात्मजस्य जयकृष्णदासगुप्तश्रेष्ठिवर्यस्य तदनुजानां च परिश्रमं नितरामनुमोदेऽहम् । प्रार्थयामि च सुषीजनान्-माशीःप्रदानेन प्रोत्साहयन्त्वेनान् दार्शनिकप्रन्थाना मतिविरल प्रचाराणामितोऽप्यधिक माविष्करण इति । वाराणसी ज्येष्ठशुक्लद्वादशी १९८२ सं० (१) वयं = अहं मत्सब्रह्मचारिणश्च IP विद्वजनानुचरःश्रीचिन्नस्वामिशास्त्र्य परनामा श्रीवेङ्कट सुब्रह्मण्यशर्मा श्री काशी हिन्दू विश्वविद्यालये पूर्वमीमांसा प्रधानाध्यापकः । Bhandarkar Oriental Research Institute विषयाः मङ्गलाचरणम् गुरुवन्दनम् धर्मलक्षणम् भावनाद्वैविध्यम् शाउद्दी भावना वेदापौरुषेयत्वम् भावनांशत्रयनिरूपणम् }; रेवश्यधिकरणम् प्रतिपदाधिकरणम् भावार्थाधिकरणम् वेदविभागः विधिनिरूपणम् गुण विधिनिरूपणम् विशिष्टविधिनिरूपणम् मत्वर्थ लक्षणा निरूपणम् ६ सोमस्य सामानाधिकरण्येनान्वयनि० ७ वैयधिकरण्येनान्वयनि ० सम्बन्धमाननिरूपणम् O इतिकर्तव्य ताश्वेनान्वयनि सोमेनयजेतेत्यन्त्र गुणविधिपूर्वपक्षः ॐ षष्ठाघन्याय: वाजपेयाधिकरणम् गुणकामाधिकरणम् ग्रहैकरवाधिकरणम् विषयसूची पृष्ठ: १ { 2 M6099 ६ € ८ १३ १३ १४ 99 19 १८ 19 सोमेनय जेतेत्यन्त्रगुणविधित्वखण्डनम् १९ लक्षणावाक्यभेदयोर्लाघवगौरवप्रदर्शनम् २१ सोमेनयजेतेश्यस्योत्पत्तिविधिध्वनि० २२ मग्निहोत्रंजुहोतीथ्यस्यै वोस्पत्ति विधिश्वनिपणम् विधिभेदः उत्पत्तिविधि निरूपणम् उत्पत्ति विधौधास्वर्थान्वयविचार: विनियोगविधिनिरूपणम् अङ्गश्ववोधक प्रमाणानि श्रुतिलक्षणम् श्रुतिविभागः ०३ * 99 २६ २८ विषयाः विनियोक्त्रीश्रुतिविभागः व्रीह्यादीनांपुरोडाशादि (प्रकृतित पाङ्गत्वनि आख्यातार्थः कर्तेति पूर्वपक्षनिरूपणम् ३१ आख्यातार्थो भावनेतिसिद्धान्तनिरू० ३४ श्रुतेलिंङ्गादितः प्राबल्यनिरूपणम् ३७ लिङ्गनिरूपणम् ३८ लिङ्ग है बिध्यम् 19 लिङ्गस्य वाक्यादिभ्यः प्राबल्यनि० ४३ वाक्यनिरूपणम् ? अनारम्याधीतानां प्रकृतिगामित्वनि० ४५ प्रकृतिलक्षणम् ४५ साप्तदश्वस्य विकृतिगामित्वमेव उपसंहारलक्षणम् ४७ वाक्यस्य प्रकरणादितःप्राबल्यनि० ४७ प्रकरणनिरूपणम् ४८ विश्वजिदधिकरणम् ४८ रात्रिसत्राधिकरणम् ४१ प्रकरणस्य क्रियेक विषयत्व निरूपणम् ५० १३ प्रकरणद्वैविध्यम् विकृतिलक्षणम् पृष्ठः २८ UNDA 1917 दलीय स्वनिरूपणम् प्रकरणप्राबल्य निरूपणम् स्थान निरूपणम् तद्द्वैविध्यं च यथासंख्यपाठस्योदाहरणम् सनिधिपाठनिरूपणम् पाठसादेश्यनिरूपणम् विकृतिषु प्रकरणाभावनिरूपणम् तदपवादः ५८. ५९ वाक्यद्वैविध्यम् प्राप्तबाघस्य विध्यम् पृषदाज्ये नेस्यन्त्र न्याय सुधाकृन्मतनिरू० ६१ तत्रैव स्वमतनिरूपणम् अवान्तर प्रकरण निरूपणम् संदंश लक्षणम् ६२ ६६ अवान्तरप्रकरणस्य महाप्रकरणाINSTITUTE POONA चम्वि Bhandarkar Oriental Research Institute लावधीतमस्तु ॥ B 99 99 21 ६८ ६८ ७३ ७४ 91 विषयाः स्थान प्राबल्य निरूपणम् समाख्या निरूपणम् सविपस्योपकारक लक्षणम् उपयुक्तसंस्कारापेक्षयोपयोचय माणस्य प्राबल्य निरूपणम् आरादुपकारकात्सक्रिपस्योपकारकस्य प्राबल्यनिरूपणम भारादुपकारकल चणम् प्रयोगविधिनिरूपणम् [ १७ ] पृष्ठ: क्रमलक्षणम् श्रुतिलक्षणम् श्रुतिप्राबल्यनिरूपणम् अर्थक्रमनिरूपणम् अर्थक्रमप्राबल्यम् पाठक्रमनिरूपणम् ब्राह्मणपाठान्मन्त्रपाठस्य प्राबल्यनि० ब्राह्मणपाठक्रमनि० स्थानक्रमनिरूपणम् मुख्यक्रम॑निरूपणम् । ८३ ८४ rsscccxxs ८८ ९० ९० 89 ९१ ९२ 39 ९३ ९७ पाठक्रमस्य मुख्यक्रमात्प्राबल्यनि० ९८ ९९ मुख्य क्रमप्राबल्यनिरूपणम् प्रवृत्तिक्रमनिरूपणम् अधिकार विधिनिरूपणम् शूद्रस्यानधिकारः १०२ स्वातन्त्र्येण स्त्रिया अप्य नधिकारः १०३ मन्त्र निरूपणम् अपूर्वविधिलक्षणम् ११० ११२ 39 १०० विषयाः निरमविधिमि० परिसंख्या विधिनि० परिसंख्याभेदौ परिसंख्यायाः त्रिदोषत्वम् नामधेयनिरूपणम् । न्यायसुधा करमत खण्डनम् तद्यपदेशानामधेयत्वम् न्यायसुधाकरमतेन वैश्वदेवशब्दस्य नामधेयत्वम् तत्र पार्थसारथिमिश्रमतम् न्यासुधा करमत खण्डनम् निषेधनिरूपणम् विधिनिषेधयोर्भिज्ञार्थत्वम् पयुंदासप्रतिषेधयो लक्षणम् पर्युदासोदाहरणम् पर्युदासोपसंहारयोव लसण्यम् प्रतिषेधोदाहरणम् अर्थवादनिरूपणम् शाब्दीभावनानिरूपणम् लिडर्थविचार: आर्थोभावनानिरूपणम् धर्मस्य मोचहेतुस्वनिरूपणम् ASTHUTE POONA १२५ मत्वर्थ लक्षणाभियानामधेयत्वम् वाक्यभेदभयांत्रामधेयत्वम् तस्प्रख्यशास्त्रान्नामधेयश्वम् अग्निहोत्रे न्यायसुधाकर मते नतस्प्रख्य- १३२ १३१ पार्थसारथिमतेन तत्प्रख्यशास्त्रता १३३ १४५ FOUNDED 1917 पृष्ठः ॥ तेजस्वि नावधीतमस्तु ॥ Bhandarkar Oriental Research Institute ११४ ११६ ११७ १२० १४६ १५० १५१ १५६ १५७ १६२. १५२ १७४ १७७ १७८ १८५ १८६ 3858 100 1013) odpino 1 523 407199 1 1o to four unafia a inchi TEMPHISIERRingsta. 11 - D 411 40 16 500 (% 1001 interire wapenend trebaterersei STRUCTIO0010 DYPFRIE KEY Fpiet poing dipisan prosent Masinice. 150 propust-hapeterie pola 199ina unvy Martia praphy ipfiom LANCERE per dond fe poho GELS 17 3468586 5222ESS missal office 982 BOLEHELLOdari operit pung zealde d LIST 1 53 top seldisin OF 101 WEUSITE preaply SE 5412-str 64 bitesinde DGN SYPOID pise PORODICATED periciaorsys Planery 103-31 Sinopp 115 pussy TH ppy vislige STITUTE POONA FOUNDED 1917 ॥ ॥ vra Bhandarkar Oriental Research Institute श्रीगणेशाय नमः । आपदेवकृतः मीमांसान्यायप्रकाशः । महामहोपाध्याय-श्रीचिन्नस्वामिशास्त्रिकृतया सारविवेचिन्याख्यया व्याख्यया संवलितः । यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥ १ ॥ अनन्तगुणसम्पन्नमनन्तभजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २ ॥ इह खलु परमकारुणिकेन भगवता[^१] जैमिन्यूषिणा "अथातो धर्मजिज्ञासा" [^२] इत्यादिना द्वादशस्वध्यायेषु धर्मो विचारितः । तत्र वेदेन प्रयोजनमुद्दिश्य [commentary] श्रीशिवाभ्यां नमः ॥ मीमांसान्यायप्रकाशटीका सारविवेचिन्याख्या । कलत्रीकृतवामार्धमर्द्धेन्दुकृतशेखरम् । भूषणीभूतभोगीन्द्रमस्तु स्वस्तिकरं महः ॥ नत्वा गुरून् महाभागान् बालानां हितकाम्यया । व्याख्यां न्यायप्रकाशस्य कुर्वे सारविवेचिनीम् ॥ तत्रादौ ग्रन्थकर्त्ता श्रीमदनन्तदेवसूनुः श्रीमदापदेवो मीमांसान्यायप्रकाशाख्यं पूर्वमीमांसाप्रकरणग्रन्थं चिकीर्षुः स्वीयग्रन्थस्य निर्विघ्नपरिसमाप्तिमभिलषन्नीश्वरं स्तौति-यत्कृपेति । प्राप्यत इति । जनैरिति शेषः । गुरुं प्रणमति--अनन्तेति द्वितीयेन । अनन्तगुणेति । दयादाक्षिण्यविनयाद्यनेकगुणविशिष्टमित्यर्थः । श्रनन्तभजनप्रियमिति । अनन्तो भगवान् विष्णुः, तद्भजने प्रीतिमन्तमित्यर्थः । अनन्तरूपिणमिति । रूप्यते बोध्यतेऽनेनेति व्युत्पत्या रूपशब्दो नामपरः । अनन्तनामानमित्यर्थः 1 गुरुपरमात्मनोरैक्यं स्मरति-आनन्देति । अथातो धर्मजिज्ञासेत्यादिनेति । "अन्वाहार्ये च दर्शनात्" इत्यन्तेनेति शेषः । अथ गुरुकुलावस्थितिपूर्वकसाङ्गवेदाध्ययनानन्तरं, अतः वृत्तस्याऽध्ययनस्य दृष्टफलकत्वाद्धेतोः, धर्मजिज्ञासा धर्मविषयकविचारः कर्त्तव्य इति सूत्रार्थः । धर्मो विचारित इति ।प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्यविशेषातिदेशोहबाधतन्त्रप्रसङ्गाख्यैः द्वादशस्वध्यायेषु क्रमशो निरूपितैः परिकरैः सहितो धर्मो विचारित इत्यर्थः । धर्मलक्षणमाह–वेदेनेति । स्वातन्त्र्येणेति शेषः । अतः स्मृत्याचारयोः वेदमूलकत्वेन [^१] जैमिनिमुनिना । [^२ ] इत्यारभ्य। विधोयमानोऽर्थो धर्मः । यथा यागादिः । स हि 'यजेत स्वर्गकाम' इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथा हि-यजेतेत्यत्राऽस्त्यंशद्वयम्, यजिधातुः प्रत्ययश्च । [^१] तत्र प्रत्ययेऽप्यस्त्यंशद्वयम्, आख्यातत्वं लिङ्त्वं च । आख्यातत्वं च दशसु लकारेषु विद्यते । लिङ्त्वं पुनः केवलं लिङयेव । तत्राऽऽख्यातत्वलिङत्वाभ्यां भावनैवोच्यते । भावना नाम-- भवितुर्भवनानुकूलो भावक व्यापारविशेषः । [^२] सा च द्विविधा [^३] शाब्दी भावना आर्थी भावना चेति । तत्र पुरुषप्रवृत्त्यनुकू[^४]लभावकव्यापारविशेषः शाब्दी भावना । सा च [commentary] धर्मप्रामाण्येऽपि न क्षतिः । ननु 'चोदनालक्षणोऽर्थो धर्मः' इति पारमर्षं धर्मलक्षणसूत्रम्, चोदनाशब्दश्च "चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुः" इति भाष्यात् "चोदना चोपदेशश्र विधिश्चैकार्थवाचिनः" (श्लोक वा० पृ० २११) इति वार्त्तिकाच्च विधिवाक्यमेव बोधयतीति विधिबोधितत्वमेव धर्मलक्षणे वक्तव्यं, तत्त्यक्त्वा कथं वेदबोधितत्वमुच्यते इति चेत्, न चोदनामात्रगम्यत्वं धर्मस्य, किन्तु चोदनादिप्रमाणाष्टकगम्यत्वमेव, अत एव भगवता भाष्यकारेण प्रथमाध्यायार्थप्रतिज्ञावसरे "को धर्मः, कथंलक्षणकः," इति सामान्यत एव प्रतिज्ञा कृता । अत एव च प्रमाणाध्याये प्रथमे स्मृत्याचारादीनां विचार: संगच्छते । सूत्रं तु प्रथमपादार्थप्रतिज्ञापरमिति ॥ 'न हिंस्यात्' इत्यादि निषेधविषयाणां हिंसादीनामपि निषेधवाक्यरूपचोदनाविषयत्वात् तेषां धर्मत्वव्युदासार्थमर्थपदम् । अत्र च सूत्रस्थचोदनापदेन प्रवर्तकवाक्यवत् निवर्तकवाक्यस्यापि ग्रहणम्, अत एव "प्रवृत्तौ वा निवृत्तौ वा या शब्दश्रवणेन धीः । सा चोदना" इति वार्त्तिकमपि सङ्गच्छते । एवं च चोदनेति क्रियायाः प्रवर्तकं वचनमित्यत्र प्रवर्तकशब्दो निवर्तकस्याऽप्युपलक्षकः, एवं वार्तिकस्थविधिशब्दो निषेधस्याऽप्युपलक्षक इति ध्येयम् ॥ यथा यागादिरिति । एतेन गौतमीयानामिव नाऽस्माकमपि विहितकर्मजन्यापूर्वमेव धर्मः; किन्तु विहितो यागादिरेव मुख्यो धर्मः, अपूर्वे तु तज्जन्यत्वेन भाक्तः प्रयोगः इति सूचितम् । आदिपदेन दानहोमादयो द्रव्यगुणादयश्च गृह्यन्ते । तत्र लक्षणं सङ्गमयति—स हीति । ननु कथं यागादेः विधेयत्वम्, ? कश्च वा विधिः ? अत आह--तथाहीति । अंशद्वयं शक्तशब्दद्वयं । तत्र धातुप्रत्यययोर्मध्ये । अंशद्वयं शक्ततावच्छेदकद्वयम् । दशस्विति । यजेतेत्यत्र यदाख्यातत्वं तद्दशलकारसाधारणमित्यर्थः । आख्यातेति । प्रत्ययवृत्तिभ्यामित्यर्थः । भावनैवेति । भावनाद्वयमपीत्यर्थः । भावनास्वरूपं प्रतिपादयति-भावना नामेति । भवितुः उत्पद्यमानस्य, भावनानुकूलः उत्पत्यनुकूलः, भावकव्यापारविशेषः प्रयोजकनिष्ठव्यापारविशेषः । शाब्दीति । शब्दनिष्ठत्वाच्छाब्दीति ग्रन्थकृदेव वक्ष्यति । लौकिकानां प्रवर्तनाविशेषाणां पुरुषधर्मत्वेन शब्दनिष्ठत्वायोगात् न तेषां शब्दभावनात्वम् । केचित्तु प्रवर्त्तनारूपपुरुषाशयविशेषस्याऽपि लौकिकस्य शब्दाभिधेयत्वात् शाब्दीभावनात्वमिच्छन्ति । आर्थीति । अर्थ्यते प्रार्थ्यते पुरुषैरिति अर्थः फलम्, तत्प्रयोजकत्वाद्भावनार्थी या फलं येनेत्यर्थः पुरुषः, तद्गतत्वादार्थी । तत्र तयोर्मध्ये । पुरुषेति । प्रयोज्यस्य पुरुषस्य या प्रवृत्तिः गवानयनाद्यनुकूला [^१] तत्र इति नास्ति । [^२] सा द्विविधा [^३] शाब्दी आर्थी चेति । [^४] लो भावकव्यापारविशेषः । FOUNDED जस्विनावधाता २ लिङत्वांशेनोच्यते। [^१] लिङ्ः श्रवणे 'अयं मां प्रवर्तयति' 'मत्प्रवृत्त्यनुकूलव्यापारवानयम्' इति [^२] नियमेन प्रतीयमानत्वात् । यश्च यस्मात्प्रतीयते तत्तस्य वाच्यम्, यथा गोशब्दस्य गोत्वम् । स [^३] च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठोऽभिप्रायविशेषः, वेदे तु [^४ ] पुरुषाभावाल्लिङादिशब्दनिष्ठ एव । नहि वेदः पुरुषनिर्मितः । [^५] "वेदस्याऽध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥" इत्यादिना वेदापौरुषेयत्वस्य [^६] साधितत्वात् । 'यः कल्पः स कल्पपूर्व:' इति न्यायेन संसारस्याऽनादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गतकल्पीयं वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतैवोपपत्तौ प्रमाणान्तरेणार्थमुपलभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठैव सा । अत एव शाब्दीभावनेति व्यपदिशन्ति । [commentary] यागाद्यनुकूला वा, तदनुकूलो यो व्यापारविशेषः प्राचार्यादिनिष्ठ: शब्दनिष्ठो वा सा शाब्दीभावनेत्यर्थः । लिङ्त्वांशेनेति । लिङ्रू त्वरूपशक्ततावच्छेदका वच्छिन्नत्वेन रूपेणे- त्यर्थः । कुत एतत् ? श्रत ग्राह-लिङश्रवण इति । नियमेन अव्यभिचारेण । गोत्वमिति । एतेन प्राकृतिशक्तिवादिनो मीमांसका इति सूचितम् । प्रवृत्यनुकूलः गवानयनादिविषयकप्रवृत्त्यनुकूलः । पुरुषनिष्ठः श्राचार्यादिप्रेरक पुरुषनिष्ठः । पुरुषा- भावात् निर्मातृपुरुषशून्यत्वात् । लिङादीत्यादिपदेन लेट्लोट्तव्यप्रत्ययानां ग्रहणम् । स इत्यनुषज्यते । निर्मातृपुरुषाभावमनुमानेन साधयति – वेदस्येति । अत्र सर्व- शब्देन निखिलशाखासम्बन्धिवेदाध्ययनं गृह्यते, न तु निखिलकालवृत्ति, अतश्च अतीत कालवृत्तिनिखिलशाखाध्ययनस्य पक्षत्वं बोध्यम् । एवं गुर्वध्ययनपूर्वकत्वं साध्यम्, वेदाध्ययनत्वं हेतुः, आधुनिकाध्ययनस्य दृष्टान्ततेति विवेकः । इत्यादिनेत्यादिपदेन 'भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते । वेदेऽपि तत्स्मृतिर्या तु सार्थवाद- निबन्धना' इत्यादयो गृह्यन्ते । साधितत्वादिति । वार्तिके वाक्याधिकरण इति शेषः । ननु वेदस्येश्वरकर्तृकत्वमेवाऽस्तु, तस्य सर्वज्ञत्वेनाऽतीन्द्रियधर्मादिविषयकज्ञानसम्भवेन वेदकर्तृत्वसम्भवात् । अतश्च सिद्धं पौरुषेयत्वमित्यत - यः कल्प इति । अयं भावः- ईश्वरः किं यस्मिन् कस्मिंश्चित् कल्पे रचयति वेदम् ? उत प्रतिकल्पम् ? नाद्यः, तदभाव- वति कल्पे वेदैकगग्यधर्माधर्मज्ञानाभावेन धर्माधर्मानुष्ठानाभावात् कल्पान्तरोत्पन्न प्राणिनां सुखदुःखोत्पत्तिस्तदनुभवो वा न स्यात् । अनादौ संसारे क्व कल्पे रचनम् ? क्व कल्पे त- स्यैवोपदेशः इति नियन्तुमशक्यत्वाच्च । न द्वितीयः, एकस्मिन् कल्पे स्थितं वेदं सर्वेष्वपि कल्पान्तरेषु सर्वज्ञत्वादुपदिशतीत्येवं कल्पनालाघवे सति प्रतिकल्पं रचना- कल्पनागौरवाङ्गीकरणस्यान्याय्यत्वात् । "धाता यथापूर्वमकल्पयत्" इत्यादि श्रुतिर प्यत्राऽनुकूला । पक्षद्वयेऽपि वाक्यरचनाया जन्यज्ञानपूर्वकत्वदर्शनेन ईश्वरस्याऽपि जन्यज्ञा- स्वावधीततस्तु ॥ १ लिङश्रवणे । २ इति हि नियमेन प्रतीयते । ३ सच व्यापरविशेषः । ५ लो. वा. वाक्याधिकरणे १. १. ६. पृ० ९४५. ६ समर्थितत्वात् Bhandarkar Oriental ४ लिङा दिनिष्ठ एव । मीमांसान्यायप्रकाशः [ भावनांशत्रय(१) सा च शाब्दीभावनांशत्रयमपेक्षते, साध्यं, साधनमितिकर्तव्यतां, चेति । तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयोपेताऽऽर्थीभावना साध्यत्वेन सम्बध्यते, एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । यद्यपि संख्यादीनामध्येकप्रत्ययगम्यत्वं समानं तथाऽप्य योग्यत्वान्न तेषां भाव्यत्वेनाऽन्वयः । करणाकाङ्क्षायां लिङादिज्ञानं करणत्वेन सम्बध्यते । तस्य च करणत्वं न भावनोत्पादकत्वेन सन्निकर्षस्येव रूपादिशाने, सन्निकर्षात्प्राक् रूपज्ञानस्येव लिङादिज्ञानात्प्राकू शब्दधर्मंभावनाया अभावप्रसङ्गात्, किं तु भावनाभाव्यनिर्वर्तकत्वेनैव । लिङादिशानं हि शब्दभावनाभाव्यार्थीभावनां निर्वर्तयति, कुठार इव च्छेदनम् । अतो लिङादिज्ञानस्य करणत्वेनान्वयः । इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन सम्बध्यते । तच्च प्राशस्त्यज्ञानं 'वायुर्वै क्षेपिष्ठा देवता' इत्याद्यर्थवादैर्जन्यते । ते ह्यर्थवादाः नकल्पनाप्रसङ्गात् । नित्यज्ञानस्य च वेदप्रामाण्याधीनसिद्धिकत्वेनान्योन्याश्रयत्वात् । सति वेदस्यापौरुषेयत्वेन प्रामाण्ये तद्बोधितस्य नित्यज्ञानवतः परमेश्वरस्य वेदकर्तृत्वम् । तत्कर्तृकत्वेन च वेदप्रामाण्यमिति । 'तस्यैतस्य महतो भूतस्य निश्वसितमेतत्" इत्यादिश्रुतिरपि निश्वासवदप्रयत्नसिद्धत्वमवबोधयन्ती ईश्वरस्य कर्तृत्वं निवारयति । साध्यमिति । सर्वत्र व्यापारेऽभिहिते किंप्रयोजनकोऽयमिति प्रथमतः साध्याकांक्षायाः फला• कांक्षापरपर्यायायास्समुदयात् प्रथमं तस्य निर्देशः । एकप्रत्ययेति । एकेन 'त' इति प्रत्ययेन अंशद्वयविशिष्टेन उभयोर्भावनयोबध्यत्वात् इत्यर्थः । ननु 'यजेत' इति तप्रत्ययेन भावनाया इवैकत्वस्याऽपि बोधनात् तस्या भाव्यत्वं! कुतो न स्यात् ? एवं कालादेरपीत्त – यद्यपीति । अयोग्यत्वादिति । तेषां कृतिसाध्यत्वाभावेन कृतिसाध्यत्वापरपर्यायभाव्यत्वान्वयो न युज्यत इत्यर्थः । ननु न भावनां प्रति लिङादिज्ञानस्य करणत्वं संभवति, करणत्वं हि उत्पादकत्वरूपं लोके दृष्टम्, नात्र भावनोत्पादकत्वं लिब्ज्ञानस्य संभवति, तदनन्तरभावित्वात्तस्य, अत ह-तस्य चेति । विषयेन्द्रिय सन्निकर्षस्य रूपादिज्ञाने यथा करणत्वमुत्पादकत्वरूपं, तथाऽत्र न संभवतीत्यर्थः । अभावप्रसङ्गादिति । एवं च तस्य नित्यत्वमौत्पत्तिकसूत्रोक्तं व्याहन्येतेति भावः । कुठार इव छेदनमिति । यथा कुठारः पुरुषसाध्यछेदनव्यापारं निर्वर्तयत् पुरुषस्य करणमित्युच्यते, एवं लिङादिज्ञानमपि शब्दभावनाभाव्यार्थभावनां निर्वर्त्तयन् शब्दभावनाकरणमित्युच्यत इत्यर्थः । एवं च न स्वोत्पादकत्वमत्र करणत्वं, किन्तु स्वभाव्यनिर्वर्तकत्वमेव पारिभाषिकं स्वकरणत्वमङ्गीक्रियत इति फलितम् । STITU प्राशस्त्यज्ञानमिति । कर्मेंदं शीघ्रफलदत्वादतिप्रशस्तमिति कर्मगतप्राशस्त्यज्ञानमित्यर्थः । इतिकर्त्तव्यतात्वेनेति । यथा च फलसाधनीभूतयागादिरूपकरणापेक्षित मुपकारं जनयन्तः प्रयाजादयः फलभावनायामितिकर्तव्यता त्वेनाऽन्वयं लभन्ते, एवं प्रवृत्तिसाधनीभूतलिङादिज्ञानरूपकरणापेक्षितं प्रवृत्तिप्रतिबन्धकालस्यादिविघटनरूपमुपकारं जनयत्प्राशस्त्यज्ञानमपि शब्दभावनायामितिकर्त्तव्यतात्वेनाऽन्वयं प्राप्नोतीति भावः । १ सा चांशत्रयम् । ५ निरूपणम् ] सारविवेचिनो व्याख्यासंवलितः स्वार्थप्रतिपादने प्रयोजनम (१) लभमाना लक्षणया क्रतोः प्राशस्त्यं प्रतिपादयन्ति । स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्युपात्तत्वेनाऽऽनर्थ क्यानुपपत्तेः । तथा हि -"स्वाध्यायोऽध्ये तव्यः" इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनकर्तव्यतां बोधयन् सर्वो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति, निरर्थकस्याऽध्ययनानुपपत्तेः । स च वेदो विधिमन्त्रनामधेय निषेधार्थवादात्मकः । तत्र विधिः प्रयोजनवदर्थविधानेनाऽर्थवान् । स चाऽप्राप्तमर्थं विधत्ते । यथा 'अग्निहोत्रं स्वार्थप्रतिपादन इति । स्वघटकपदशक्त्या यादृशोऽर्थोऽवगम्यते तत्प्रतिपादन इत्यर्थः । प्रयोजनमलभमाना इति । तदा तेषां भूतार्थमात्रकथनेन प्रवृत्तिविशेषाज न कत्वेन प्रयोजनानवाप्तेरित्यर्थः । क्रतोः प्राशस्त्यमिति । स्वसन्निहितविधिविहितकर्मगतं प्राशस्त्वमित्यर्थः। इदमुपलक्षणम् । 'बर्हिषि रजतं न देय'मित्यादौ निषेधस्थले 'सोऽरोदीत्' इत्याद्यर्थवादतो रजतदाननिन्दाया अपि प्रतीयमानत्वात् । ननु नाध्ययनविध्युपादानमात्रेणाऽर्थवादानां प्राशस्त्यलक्षकत्वं संभवति, अध्ययनविधिना हि नाऽर्थज्ञानोद्देशेनाध्ययनं विधीयते, तस्य लोकसिद्धत्वात् ; नाऽप्यवघातादिवत् नियमार्थत्वेन, अनारभ्याधीतत्वादस्य ऋतूपस्थित्यभावात्, अव्यभिचरितक्रतुसम्बन्धाभावाच्च न जुह्वादिवत्क्रतूपस्थितिः; अतो विश्वजिन्न्यायेन स्वर्गफलार्थ तैवाऽस्य वक्तव्या । एवं च अक्षरराशिग्रहणेनैव विध्युपपत्तावर्थज्ञानार्थत्वमेवास्य दूरापास्तमिति कुतः प्राशस्त्यलक्षणा, इत्यता - तथा हीति । अयं भावः "स्वाध्यायोऽध्येतव्य" इत्यत्र कर्मणि तव्यप्रत्ययो विहितः स्वाध्यायस्याऽध्ययनकर्मत्वं ब्रूते । तच्चतुर्विधम्-उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । प्रकृते चाऽन्यस्याऽसम्भवात्संस्कारख्यं तदिति पर्यवस्यति । एवञ्च स्वाध्यायस्याऽध्ययनसंस्कारोऽत्र विधीयतॆ । संस्कृतस्य स्वाध्यायस्योपयोगापेक्षायां न तावत् स्वर्गार्थत्वं कल्पयितुं युक्तम्; दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात्, नाऽपि केवलार्थज्ञानार्थत्वम्; तस्य भारतादाविव लोकत एव सिद्धत्वात् गृहीतपदपदार्थसंगतिकस्याऽऽपाततोऽर्थप्रतीतेर्जायमानत्वाच्च; अतः प्रमाणान्तराप्रमितप्रयोजनवदर्थज्ञानोद्देशेन स्वाध्यायो विनियुज्यत इत्यङ्गीकर्त्तव्यम्; एवं चाऽर्थवादस्याऽपि स्वध्यायत्वाविशेषात्तदध्ययनस्याऽपि फलवदर्थज्ञानार्थत्वमावश्यकमिति स्वशक्यार्थप्रतिपादने प्रयोजनाभावात् फलवत्प्राशस्त्यप्रतिपादकत्वं बलादायातमिति । निरर्थकस्येति । "प्रयोजनमनुद्दिश्यन मन्दोऽपि प्रवर्त्तते" इति न्यायेन सर्वस्याऽपि प्रेक्षावतः फलवत्येव प्रवृत्त्युदयादिति भावः । एवं वेदस्य सामान्यतः प्रयोजन वत्त्वमुपपाद्य तद्गतस्य एकैकस्यापि भागस्य विशेषतः प्रयोजनवत्त्वमुपपादयिष्यन् प्रथमतो वेदं पञ्चधा विभजते-स इति । यः स्वाध्यायविध्यन्यथानुपपत्तिकल्पितेन विधिना फलवदर्थशानोद्देशेन विनियुक्तः, स इत्यर्थः । एवं पञ्चधा वेदं विभज्य तत्र एकैकस्याऽपि भागस्य प्रयोजनवत्त्वं निरूप्य तावता ग्रन्थं परिसमापयिष्यन् प्रथमं प्रथमोद्दिष्टस्य विधिभागस्य प्रयोजनवत्त्वं निरूपयति-तत्र विधिरिति । प्रयोजनवदर्थेति । प्रयोजनं स्वर्गादिरूपं फलं, तद्वान् यागादिः, तद्विधानेनेत्यर्थः । FOUNDED १ अनुपलभमाना । मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणा जुहुयात्स्वर्गकामः' इति विधिरप्राप्तं प्रयोजनवद्धोमं विधत्ते-अग्निहोत्रहोमेन स्वर्गं भावयेदिति । यत्र तु कर्म प्रकारान्तरेण प्राप्तं, तत्र तदुद्देशेन गुणमात्र (१) विधानम् । यथा 'दध्ना जुहुयात्' इत्यत्र होमस्य 'अग्निहोत्रं जुहुयात' इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम् - दध्ना होमं भावयेदिति । ६ विशिष्टविधिनिरूपणम् ) यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तम्–(२) 'न चेदन्येन शिष्टाः इति । शिष्टा उपदिष्ट। इत्यर्थः । यथा 'सोमेन यजेत' इत्यत्र सोमयागयोरप्रातत्वात्सोमविशिष्टयागविधानम् 'सोमवता यागेनेष्टं भावयेत्' इति । न चोभयविधाने वाक्यभेदः, विशिष्टस्यैकत्वात् । (मत्वर्थलक्षणानिरूपणम् ) * विशिष्टविधौ च मत्वर्थलक्षणा। सोमपदेन मत्वर्थो लक्ष्यते-सोमवतेति । अप्राप्तं प्रमाणान्तरेणाऽज्ञातम् । अग्निहोत्रं जुहुयात्स्वर्गकाम इति । यद्यपि नेदं उत्पत्तिवाक्यमग्निहोत्रहोमस्य, "अग्निहोत्रं जुहेति" इति वाक्यान्तरस्यैव तत्त्वाङ्गीकारात् तथाऽपि फलाविधेयत्वस्य चतुर्थे साधयिष्यमाणत्वात् अधिकारवाक्येऽपि फलोद्देशेन कर्मण एव विधानात् स्पष्टतया फलवत्त्वज्ञापनार्थमिदमुक्तम् । 515 नचेदन्येनेति । प्रथमाध्यायचतुर्थपादीय सूत्रैकदेशोऽयम् । "तदुगुणास्तु विधोये रन् अविभागाद्विधानार्थे न चेदन्येन शिष्टाः" इति समग्रसूत्रम् । इष्टं भावयेदिति । नन्वत्र सोम-याग-भावनावाचिनामेव शब्दानां श्रवणात् इष्टवाचकपदाश्रवणादिष्टं भावयेदिति-कथं बोधः इति चेत् - विधिश्रवणा देवेति ब्रमः । विधिर्हि प्रवर्त्तनात्मकः स्वस्य प्रवर्त्तकत्वसिद्धयर्थे स्वविषयस्य यागादेरिष्टसाधनत्वमाक्षिपति, तद्यदि उत्पत्तिवाक्य एव फलविशेषः श्रूयेत तत्राऽऽक्षेपतः पूर्वमेव फलसम्बन्धोऽवगत इति न तत्राऽऽक्षेपकत्वम्, यत्र तु स न श्रूयते तत्र सामान्यत इष्टसाधनत्वमाक्षिप्यते । आक्षितं च तस्मिन् फलविशेष अधिकारवाक्येन समर्प्यते । तो युक्त एवोत्पत्तिवाक्ये इष्टं भावयेदिति बोधः । ननु यदि सोमस्य यागस्य चोभयोर्विधानं, तदा उभयत्र विधिव्यापारः कल्पनीयः, स च विध्यावृत्तिमन्तरा न संभवति, तो "यागेन भावयेत्, सोमेन भावयेत्" इति वाक्यद्वयं कल्पनीयम्, ततश्च वाक्यभेदः स्फुट इत्याशङ्कयाऽऽह-न चेति । विशिष्टस्यैकत्वादिति । सोमविशिष्टो यागो विधीयत इत्युक्तौ विशेष्य एव विधिप्रवृत्तेः तस्य चैकत्वान्नानेकविधानकृतो वाक्यभेद इत्यर्थः । न च विधेर्विशेष्यभूतयागमात्रपर्यवसायित्वे ''सोमेन'" इति व्यर्थमिति वाच्यम् । तस्याऽर्थिक विशेषणविधिकल्पकत्वात् । ननु सोम-यागयोरुभयोरपि कारकत्वेन परस्परान्वयासंभवेन कथं वैशिष्ट्यमत आहविशिष्टविधाविति । सोमवतेति । सोमशब्देन सोमविशिष्टो लक्षणयोच्यते । तस्य पार्ष्टिको यागेन सहाऽभेदसम्बन्धः । सच यागः फलभावनायां करणम् । तदेतदाह-सोमवतेति । नन्वत्र लक्षणामन्तरा उपपत्तौ सत्यां किमर्थं गुरुभूता लक्षणाऽऽश्रीयते, अत २ जै. सू. १. ४. ९. १ त्रं विधत्ते । 11 SOOND See Br निरूपणम् ] सारविवेचिनोव्याख्या संवलितः न हि मत्वर्थलक्षणां विना सोमस्याऽन्वयः सम्भवति । यदि तावत्सोमयागयोरैकरूप्येण भावनायां करणत्वेनैवाऽन्वयः- 'सोमेन यागेनेटं भावयेत्' इति, तत उभयविधाने वाक्यभेदः, सोमस्य याग वत्फलभाव नाकर णत्त्वेन प्राधान्यापातश्च, यागार्थत्वानुपपत्तिश्च, (१) यागे द्रव्यानुपपत्तिश्च, प्रत्ययवाच्यफलभावनायाः समानपदोपात्तेन यागेन करणाकाङ्घानिवृत्तत्वेन भिन्नपदोपात्तस्य सोमस्य करणत्वेनाऽन्वयानुपपत्तिश्च स्यात् । यदि च वैयधिकरण्येनान्वयः; तत्र न तावत् 'यागेन सोमम्' इत्यन्वयः, समानपदोपात्तत्वात्प्र (२)त्ययवाच्यफलभावनायां करणत्वेनाऽन्वितस्य यागस्य सोमकर्मकभावनान्वयानुपपत्तेः, यागस्य सोमार्थत्वा (३) पाताच्च । न चेष्टापfor cadd ग्रह-न होति । सोमयागयोरुभयोरपि सामानाधिकरण्येनाऽन्वयोङ्गीक्रियते ?, वैयधिकरण्येन वा ?, नाऽऽद्य इत्याहयदि तावदिति । ऐकरूप्येण इत्यस्य विवरणं करणत्वेनेति । उभयविधाने सोमस्य यागस्य चोभयोः पृथक्पृथविधाने । ननु अप्रातत्वाद्भावनाया अनेकविशिष्टभावनाविधानं सम्भवत्येव । उक्तं हि वार्तिककृता-"अप्राप्ते तु विधोयन्ते बहवोऽप्येकयनत" इति, ताह- सोमस्येति । फलभावनाकरणत्वेन फलभाव्यकभावनायां करणत्वेन । प्राधान्यापात इति । यथा यागस्य साक्षात्फलं प्रति करणत्वं, तद्वत् सोमस्याऽप्यापत्त्या उभयोः प्राधान्यापात इत्यर्थः । ततश्च सोमस्य साक्षात्कलजनकत्वेनादृष्टार्थ वाऽपत्त्या प्रतिनिधिर्न स्यादिति भावः । यागार्थत्वानुपपत्तिरिति । यागाङ्गत्वानुपपत्तिरित्यर्थः । ननु यागाङ्गत्वाभावेऽपि सोमयागयोः एकवाक्योपादानात् श्रारुण्यवत् परस्परसम्बन्धोऽस्तु, तह-यागे द्रव्येति । "गोदोहनेन पशुकामस्य प्रणये"दित्यादौ फलार्थे विहितस्य गोदोहनस्य प्रसङ्गात्प्रणयनोपकारकत्वेऽपि यथा नित्यप्रयोगे न गोदोहनस्य प्राप्तिः, तद्वदत्र फलार्थ विहितस्य सोमस्य प्रसंगाद्यागोपकारकत्वेऽपि न तस्य नित्यप्रयोगे प्राप्तिः स्यादिति यागे द्रव्याभावः स्यादेवेति भावः । ननु नैतत्सम्भवति, यागविधिबलादेव द्रव्यप्राप्तेः, देवतोद्देश्यकद्रव्यत्यागो हि यगः । स च द्रव्यमन्तरा न सम्भवतीति यत्किंचित् द्रव्यमाक्षेपप्राप्तमेव; अत एव "सर्वे द्रव्यविधयो नियमविधय"इत्यभियुक्तोक्तिस्संगच्छते। तो नयागे द्रव्याभाव इत्यस्वरसादाह-प्रत्ययेति । यागस्य समानपदोपात्तत्वनिर्वाहाय भावनायाः प्रत्ययवाच्यत्वख्यापनम् । एतावता सामानाधिकरण्येनाऽन्वयाभावमुपपाद्य वैयधिकरण्येनाऽपि अन्वयाभावमु पपादयति-यदि चेति। वैयधिकरण्येनाऽन्वये प्रकारद्वयमस्ति । यागस्य करणत्वं सोमस्योद्देश्यत्वमित्येकः । सोमस्य करणत्वं, यागस्योद्देश्यत्वमित्यपरः । तत्राऽऽद्यं दूषयति-तत्रेति । समानपदोपात्तत्वात् एकपदोपात्तत्वात् 'यजेत' इत्येकेन पदेन प्रकृत्यंशेन यागस्य प्रत्ययांशेनच भावनाया बोधनादिति भावः । ननु'भूतं भव्यायोपदिश्यते' इति न्यायेन सिद्धस्य सोमादेः फलभावनाकरणत्वेनाऽन्वये सति 'इतरत्तदर्थ' मितिन्यायेन यागस्य सोमार्थBhandarkar Oriental Research Institute १ यागीयद्रव्यत्वानुपपत्तिश्च । २ प्रत्ययवाच्यभावनाकरणत्वेन । ३ पत्तेश्च मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणात्तिः, अदृष्टद्वयापत्तेः । न हि यागस्य सोमार्थत्वं दृष्टद्वारेण सम्भवति, व्रीहिष्ववधातेनेव यागेन सोमे कस्यचिद् दृष्टस्याऽजननात् । अतस्तेन तावत्सोमे किञ्चिददृष्टं जननीयम्, प्रोक्षणेनेव व्रीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनाऽन्वयो वक्तव्यः। भावनाकरणत्वं च भावनाभाव्य निर्वर्तकत्वेनेत्युक्तम् । न च सोमोऽदृष्टमन्तरेण फलं जनयितुं समर्थः, 'ग्रहैर्जुहोति' इति वाक्यविहितहोमेन तस्य भस्मीभा वात् । अतोऽदृष्टद्वयापातान्न यागस्य सोमार्थत्वमिति न 'यागेन सोमं भावयेत्' इत्यन्वयः सम्भवति । करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तश्च । 'सोमेन यागं भावयेत्' इत्यन्वयः ; तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वाद्यागनिर्वृत्तिर्दृष्टमेव प्रयोजनं लभ्यते इति नाऽदृष्टद्वयापत्तिः; नाऽपि करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्वयानुपपत्तिः; करणत्वेनैवान्वयात्, तथाऽष्यप्राप्तत्वाद्भावनाकरणत्वेनाऽन्वितस्य यागस्य साध्यत्वेनाऽन्वयानुपपत्तिस्तदवस्थैव । त्वेऽपि न क्षतिरित्याशङ्कयाह-न चेशपत्तिरिति । अष्टद्वयापत्तेरिति । यागादेकमदृष्टं, सोमादेकमदृष्टमित्य दृष्टद्वयाङ्गीकरणमापतेदित्यर्थः । श्रदृष्टद्वयापत्तिं विशदयति-नहीति । भन्वग्निहोत्रहोमस्य दृष्टविधया दधिनिष्टकरणतासम्पादकत्ववत् अत्रापि यागस्य दृष्टविधयैव सोमनिष्ठकरण तासम्पादकत्वमिति कथमदृष्टद्वयापात: ? ग्राह- श्रीहिष्वति । यथा व्रीहिष्ववघातेन दृष्टं वितुषीभावरूपं प्रयोजनं सम्पाद्यते, तद्वत् न किंचिदपि दृष्टमत्र प्रयोजनमित्यर्थः । अत्र च सोमनिष्ठकरणता सम्पादकत्वं यागस्य सोमावान्तरव्यापारत्वेन वा तज्जन्यत्वेन वा १, आद्ये यागस्यापि फलजनकत्वावश्यम्भवात् तस्य चाऽपूर्वमन्तरेणानुपपत्तेः अपूर्व कल्पनापत्तिः । द्वितीये यागानुष्ठानस्य निष्फलत्वापत्त्या तत्परिहारार्थं फलवत्वे कल्पनीये अदृष्टकल्पनाप्रसक्तिः, दृष्टान्ते तु अन्यार्थे विहितस्यैव होमस्याऽत्र जन्यत्वमात्रं कल्प्यत इति नाऽदृष्टकल्पनापत्तिरिति वैषम्यमिति भावः । अत इति । दृष्टफलाजननाददृष्टस्याऽप्यकल्पने संस्कार्यत्वस्यैवाऽसिद्धेरित्यर्थः । अदृष्टान्तरापातं दर्शयति तथेति । यागेन सोमं भावयेदित्यन्वये सोमस्य संस्कार्यत्वावगमात् संस्कृतस्य च उपयोगावश्याम्भावेन फल एव उपयोगो वाच्यः, स च भावनाकरणत्वापरपर्याय इति भावः । ग्रहैर्जुहोतीति । अत्र ग्रहशब्दः गृह्यतेऽस्मिन्निति व्युत्पत्या सोमरसाधारभूत उलूखलाकारः पात्रविशेषः इति मिश्राः । राणके तु कर्मव्युत्पत्त्या ग्रहपदेन तादृशोलूखलाकारेषु पात्रेषु गृहीतो रस एवाऽभिधीयत इत्युक्तम् । तस्य सोमस्य । भस्मीभावादिति। "यदाहवनीये जुह्वति" इत्यनारभ्याधीतवाक्येन होंमसामान्यस्याहवनीयाधिकरणत्वविधानेनाग्नौ पतितस्य भस्मीभावावश्यम्भावादिति भावः ॥ करणत्वेनेति । तृतीयान्तपदबोध्यत्वेन करणत्वमेव प्रतीयते, न साध्यत्वबोधकद्वितीयादिकमस्ति, लक्षणया तु कर्मत्वं वाच्यम्, तच्च न युक्तमित्याशयः । वैयधिकरण्येनान्वये पक्षान्तरमाशंकते- अथेति । अस्मिन् पक्षे ऽदृष्टद्वयाभावं दर्शयति-तत्र यद्यपीति । यद्यपि दोषद्वयं न संभवति, तथापि सोमेन यजेतेत्यत्र श्रयमाणाया भावनाया निरवच्छिन्नाया विधेयत्वासंमवात् धात्वर्थविशिष्टत्वेनैव विधेयत्वमङ्गीकर्तव्यBhandarkar Oriota नावा निरुपणम् ] सारविवेचिनीव्याख्यांसंवलितः न शाक्न ( भावनायां यागस्य सन्बन्धमात्र निरूपणं, तत्खण्डञ्च) ननु यजेतेत्यत्र यागस्य न करणत्वेन नाऽपि साध्यत्वेनोपस्थितिः, तद्वाचकतृतीयाद्यभावात्, किन्तु भावनायां यागसम्बन्धमात्रं प्रतीयते । यागस्य च भावनासम्बन्धः करणत्वेन साध्यत्वेन च सम्भवति । तत्र करणत्वांशमादाय फलसम्बन्धः साध्यत्वांशमादाय गुणसम्बन्धश्च स्यात्, इति चेत्-मैवम् । यद्यपि (१) भावनायां यागस्य सम्बन्धमात्रं प्रतीयते तथाऽपि करणत्वेनो. पस्थितिदशायां न साध्यत्वेनोपस्थितिः (२) सम्भवति, विरोधात् (३) (विरुद्धत्रिकद्वयापत्तेश्च ।) तदवश्यं 'यागेन स्वर्गं भावयेत्' इति करणत्वेनान्वये सति पश्चात् 'सोमेन यागं भावयेत्' इति साध्यत्वेनान्वयो वक्तव्यः । ततश्च वाक्यभेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्वेतीति वक्तुं युक्तम्, कारकाणामेव क्रियान्वयात् । तत्सिद्धं सोमस्य न सामानाधिकरण्येन वैयधिकरण्येन वाऽन्वयः सम्भवतीति । cl (सोमस्येतिकर्तव्यतात्वेनाऽन्वयनिरूपणम्, तत्खण्डनञ्च ) ननु-यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाङ्क्षायां यथा यागः करणत्वेनान्वेति तथेतिकर्तव्यताकाङ्क्षायां सोमस्येतिकर्तव्यतात्वेन भावनायामेमिति तत्र करणत्वेनान्वितस्य पुनः सोमकर्मकभावनायां अन्वयानुपपत्तिस्तदवस्थैवे त्याह-तथापीति । इदानीं धात्वर्थस्य भावनायां तन्त्रसम्बन्धमङ्गीकृत्य पूर्वपक्षी स्वाभीष्टं साधयितुमुपक्रमते - नन्वित्यादिना । दिपदेन द्वितीया ग्राह्या । यागसम्बन्धमात्रमिति । पदश्रुत्येति शेषः । विरोधादिति । साध्यस्य फलादेः प्रयोजनरूपत्वात् प्राधान्यम् । प्राधान्यस्य कृत्युद्देश्यत्वं विनाऽनुपपत्तेः उद्देश्यत्वापादकत्वम् । अप्राप्तस्य चोदेष्टुमशक्यत्वात् प्राप्तकथनरूपानुवादापादकता । साधनस्य तु साध्यार्थत्वेन परार्थत्वात् शेषत्वापरपर्यायं गुणत्वम् । गुणत्वस्य शेषिपारतन्त्र्यलक्षणोपादेयत्वापादकत्वम् । उपादेयत्वस्य च विध्यधीनत्वात् विधेयतापादकतेति प्राधान्यादित्रिकं गुणत्वादित्रिकेण विरुद्धम् । तदेकत्र न समावेशमर्हतीति भावः । साध्यत्वस्य प्रमाणान्तरज्ञातत्वव्याप्यत्वेन विधेयत्वस्य च प्रमाणान्तराज्ञातत्वव्याप्यत्वेन एकस्मिन् युगपत् ज्ञातत्वमज्ञातत्वं च न संभवतीत्यर्थः । विरुद्धत्रिकद्वयापत्तेश्चेति । उद्देश्यत्वं, अनुवाद्यत्वं, प्रधानत्वं चेति त्रिकं साध्यनिष्ठम्; उपादेयत्वं, विधेयत्वम्, गुणत्वं चेति त्रिकं साधननिष्ठम् ; यदि यागस्य युगपत् करणत्वं साध्यत्वं चोच्यते, तदा परस्परविरुद्धमिदं त्रिकद्वयमेकस्मिन् यागे आपद्येतेत्यर्थः । वाक्यमेद इति । यागेनेष्टं भावयेत्, सोमेन यागं भावयेदित्येवं विध्यावृत्तिलक्षण इत्यर्थः । स्वरूपान्वयोऽपि न सम्भवतीत्याह-न चेति । INSTITUT ननु माऽस्तु भावनायां साध्यत्वेन साधनत्वेन वाऽन्वयः सोमस्यः इतिकर्त्तव्यता- त्वेन तु भवत्वन्वयः, तदानीं नैवोक्तदोषापत्तिः इत्याशंकते–नन्विति । निराकरोति- ॥ तस्विस्तु ॥ Bhandarkar Oriental Research Institute १ भावनाया । २ सम्बन्धद्वयविरोधात् । ३ एतच्चिह्नान्तर्गतो भागः ग- पुस्तके नास्ति । २ मी० न्या० १० मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणवान्वयोऽस्तु, (१)कृतं मत्वर्थलक्षणया इति चेत्-न, सोमेनेति तृतीयया करणत्ववाचिन्या सोमस्येतिकर्तव्यतात्वानभिधानात् । तत्र यदीतिकर्तव्यतात्वं लक्षणयोच्येत, ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा। '(२)गुणे त्वन्याय्यकल्पने'ति न्यायात् । अथ (३) 'वेदो वा प्रायदर्शनात्' इत्यधिकरणोक्ता संजात विरोधित्वन्यायेनेति । करणत्ववाचिन्येति । 'कर्तृकरणयोस्तृतीया' इति सूत्रेण तथैवानुशासनात् व्यवहाराच्चेति भावः । मास्तु शक्तिः, लक्षणा स्वीक्रियते, तह-तत्रेति । तृतीयायामित्यर्थः । गुणे त्वन्याय्येति । सूत्रस्यैकदेशोऽयं नवमतृतीयपञ्चमस्थस्य "विप्रतिपत्तो विकल्पः स्यात् गुणे त्वन्याय्यकल्पनैकदेशत्वात्" इति सूत्रम् । तत्र हि पशावग्नीषोमीये श्रुतयोः पशुकण्ठगतपाशविमोचनार्थयोः 'अदितिः पाशं प्रमुमोक्तु "अदितिः पाशान् प्रमुमोक्तु" इत्येकवचनबहुवचनान्तमन्त्रयोः मध्ये बहुवचनान्तमन्त्रस्य प्रकरण एव निवेश: ? उत यत्राऽनेकपशुकरणकयागस्थले पाशानेकत्वं तत्र मन्त्रोऽयमुत्कृष्यतामिति सन्दिय प्रकृते पाशबहुत्वाभावात् बहुवचनान्तमन्त्रस्य एकस्मिन्नसमवायादुत्कर्षं पूर्वपक्षयित्वा – "सत्वप्रधानानि नामोनी"ति निरुक्तस्मृत्या लिंङ्गसंख्याद्यपेक्षया प्रातिपदिकार्थस्य प्राधान्यावगतेः न गुणभूतसंख्यानुरोधेन प्रधानस्योत्कर्षो युक्तः; किन्तु बहुवचनस्यैवैकत्वे लक्षणामङ्गीकृत्य प्रकृत एव निवेश इति सिद्धान्तितम् । तथा च सूत्रस्याऽयमर्थः-विमोचनीयपाशस्यैकत्वात् मन्त्रस्य पाशबहुत्वाभिधायित्वाच्च विप्रतिपत्तौ विरोधे सति न मन्त्र उत्क्रष्टव्यः; किन्तु एकवचनान्तमन्त्रेणाऽस्य विकल्पः स्यात् उभयोरपि पाशविशिष्ट कर्मप्रतिपादकत्वेन समत्वात्, गुणे तु बहुवचने तु अन्याय्यकल्पना एकत्वे लक्षणाकल्पना एकदेशत्वात् बहुवचनस्यैकदेशत्वात् ततश्च एकदेशबहुवचनानुरोधेन नोत्कर्ष इति । एवं च तन्न्यायेनाऽत्र "प्रकृतिप्रत्यया" विति स्मृत्या प्रातिपदिकार्थापेक्षया विभक्त्यर्थस्य प्राधान्यावगमात् न विभक्तौ प्रधानभूतायामितिकर्त्तव्यतावलक्षणा; किन्तु गुणभूतप्रातिपदिक एव मत्वर्थलक्षणा युक्तेत्याशयः । उभयोः प्रत्ययार्थत्वाविशेषेऽपि दृष्टान्ते संख्यायाः प्रातिपदिकार्थापेक्षया गुणत्वं, दान्तिके कारकस्य प्रातिपदिकार्थापेक्षया प्राधान्यमिति विवेक्तव्यम् । > पुनः न्यायान्तरावलम्बेन पूर्वपक्षी प्रत्यवतिष्ठते- अथेति । 'वेदो वा प्रायदशना' दिति तृतीयाध्यायतृतीयपादीयप्रथमाधिकरणस्थसिद्धान्तसूत्रमिदम् । "प्रजापति रकामयत प्रजायेयेति स तपोऽतप्यत । तस्मात्तेपानात्रयो देवा श्रजायन्तअग्निर्वायुरादित्यः । ते तपोऽतप्यन्त । तेभ्यस्तेपानेभ्यस्त्रयो वेदा अजायन्तअग्नेॠग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेदः । तस्माद्यत्किञ्चिडचा क्रियते तदुच्चैः, यद्यजुषा, तदुपांशु, यत्साम्ना तदुच्चैः", इति श्रुतम् । तत्रोपक्रमे ऋग्वेदादय उपसंहारे ऋगादयश्च श्रूयन्ते । तदत्र विधीयमान उच्चैस्त्वादिः ऋगादिधर्मः, उत तत्तद्वेदधर्म इति सन्दिह्य, विध्युद्देशे ऋगादिपदानामेव श्रवणात् तदनुरोधेनैवाऽर्थवादस्थो वेदशब्दो नेय इति अर्थवादस्थे वेदपदे ऋमात्रलक्षणामङ्गीकृत्य २९-३-५ ३३-३-१ राजवि नाय श्रीम १ किंम० 4 निरूपणम् ] सारविवेचिनीव्याख्या संवलितः नाऽन्त्ये प्रत्यय एव लक्षणेति चेत् (१), तथाऽपि सोमस्येतिकर्तव्यतात्वेनाऽन्वयानुपपत्तिः । सिद्धस्य वस्तुन इतिकर्तव्यतात्वाभावात्, क्रियाया एवेतिकर्त व्यतात्वात्, द्रव्यस्य केवलमङ्गत्वात् । अत एवेतिकर्तव्यतात्वाभावात् द्रव्यस्य प्रकरणा (२) दग्रहणम् । यथाऽऽहु:नाऽवान्तरक्रियायोगादृते वाक्योपकल्पितात् । गुणद्रव्ये कथंभावैगृह्णन्ति प्रकृताः क्रियाः ॥ इति । ११ 11 तदेतद्ग्रे वक्ष्यामः । किंच 'सोमेन यजेते ति हि यागस्योत्पत्तिवाक्यं, नाऽधिकारवाक्यम्। 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यस्याऽधिकारवाक्यत्वात् । उत्पत्तिवाक्ये च नैतिकर्तव्यताकाङ्क्षा, इष्टविशेषाकाङ्क्षा कलुषितत्वेने तिकर्तव्यताकाङ्क्षाया विस्पष्टमनुत्थानात् । तत्सिद्धं सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः । तस्माद्विशिष्ट विधावन्वयानुपपत्त्याऽवश्यं मत्वर्थलक्षणा वाच्येति । नन्वेवमपि 'सोमेन यजेते त्यत्र न विशिष्टविधानम्, गौरवात्, मत्वर्थलक्षणा (३)पाताच; किं तु "दध्ना जुहोती"तिवद्गुणमात्रविधानमस्तु, विधिशऋगाद्देशेनैव उच्चैस्त्वादयो विधीयन्त इति पूर्वपक्षयित्वा-र्थवादस्थस्याऽपि उपक्रमस्थत्वेन असञ्जातविरोधित्वेन च वेदशब्दस्यैव प्राबल्यं; विध्युद्देशगता अपि जघन्यत्वेन सञ्जातविरोधित्वेन च ऋगादिशब्दा दुर्बला इति उपक्रमानुरोधेनैवोपसंहारस्यान्यथा नयनमङ्गीकृत्य ऋग्वेदाद्दुद्देशेन धर्मा विधीयन्ते इति सिद्धान्तितम् । तन्न्यायमत्राऽतिदिशति – असञ्जातविरोधित्वन्यायेनेति । असञ्जतः विरोधी यस्य सोऽस• आतविरोधी, तत्त्व मसञ्जातविरोधित्वम्, तन्न्यायेनेत्यर्थः । लक्षणेति । इतिकर्तव्यतात्व इति शेषः । क्रियाया एवेतिकर्तव्यतात्वादिति । कर्तव्यनिष्ठ प्रकारविशेषस्यैवेतिकर्तव्यतापदार्थत्वेन कर्तव्यत्वस्य च क्रियानिष्ठत्वेन तस्या एव तत्त्वौचित्यादिति भावः । नावेति । द्रव्य क्रिययोरेकवाक्योपादानरूपसमभिव्याहारान्यथानुपपत्या कल्पितात् वान्तरव्यापाराद्विना गुणद्रव्ययोः प्रकृताभिः क्रियाभिः इतिकर्त्तव्यतात्वेन ग्रहणं न सम्भवतीत्यर्थः । अग्रे प्रकरणनिरूपणावसरे । ननु सिद्धस्य सोमस्य साक्षादितिकर्तव्यतात्वाभावेऽपि तत्साध्यव्यापारद्वाराऽस्तु तत्, अत एव द्रव्यस्याऽपि क्वचिदितिकर्तव्यतात्वाभिधानं सङ्गच्छते, ता ञ्चेति । उत्पत्यधिकारवाक्ययोः स्वरूपं विवेचयिष्यति ग्रन्थकृदेव । यद्यपि विधेः प्रवर्त्तकत्वान्यथानुपपत्या प्रवृत्तिविषयीभूतयागादेरिष्टसाधनत्वमाक्षिप्तमेवेति सामान्यतो ज्ञातमेव यत्किञ्चिदिष्टम्, तथाऽप्याकांक्षायाः स्वर्गादिरूपेष्टविशेषान्वयं यावदनुवृत्तेः सत्यां च तस्यामाकांक्षान्तरानुदयान्न सोमादेरितिकर्तव्यतात्वेनाऽन्वय इत्यभिसन्धिमानाह–इष्टविशेषेति । अयमेवाऽर्थः विस्पष्टपदेनाऽपि स्फोरितः । उपसंहरति - तत्सिद्ध मिति । श्रीम इदानीं सोमेन यजेतेत्यस्य गुणविधित्वमाशंकते - नन्विति । गोरवादिति । १ चेत् न, २ श्रग्रहः ३ लक्षणदोषाच्च Reser - कि मीमांसान्यायप्रकाशः १२ क्तेर्गुणे संक्रमात् । यथाऽऽहुः167 [ मत्वर्थलक्षणसर्वत्राऽऽख्यात संबद्ध श्रूयमाणे पदान्तरे । विधिशक्त्युपसंक्रान्तेः स्याद्धातोरनुवादता ॥ इति । न च यागस्याऽप्राप्तत्वान्न तदुद्देशेन सोमविधानमिति वाच्यम् । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यनेन यागस्य प्राप्तत्वात् । न चास्याऽधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । 'उद्भिदा यजेत पशुकामः' इतिवदेकस्यैवोभयविधित्वोपपत्तेः । एवं च 'सोमेन यजेते'त्यत्र न मत्वर्थलक्षगा। यदि ह्यत्र विशिष्टविधानं स्यात् तदाऽन्वयानु पपत्त्या मत्वर्थलक्षणा स्यात् । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र तु यागविधाने क्वचिन्न मत्वर्थलक्षणा । न तावदेतस्मिन् वाक्ये । ज्योतिष्टोमेन यागेन स्वर्गं भावयेदिति, सामानाधिकरण्येनैव (१) नामपदस्यान्वयात् । नापि 'सोमेन यजेते'त्यत्र, यागोद्देशेन सोमविधानात्-सोमेन यागं भावयेदिति । S ननु अनुवादेऽप्यस्ति मत्वर्थलक्षणा । अतएवोक्तम्विधाने वानुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति ॥ इति । ॐ अतश्च विशिष्टविधाविव गुणविधावण्यस्त्येव मत्वर्थलक्षणेति (२) चेत्(गुणविधौ मत्वर्थलक्षणाभावनिरूपणम् ) मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽङ्गीकियते । यदा तु भावनायां धात्वर्थस्य करणत्वेनाऽन्वयः तदाऽन्वयानुपपत्त्या सङ्गोकर्तव्या । गुणविधौ च न धात्वर्थस्य करणत्वेनाऽन्वयः, मानाभावात् । न हि "दध्ना जुहोती"त्यत्र केवल गुणमात्रविधानापेक्षया विशिष्टविधाने विशिष्टे विधिव्यापारकल्पनरूपं गौरवं वैशिष्टयस्याऽव्युत्पन्नत्वेन तदर्थे मत्वर्थलक्षणा च श्रपद्येत्यर्थः । सर्वत्रेति । श्राख्यातपदेनाऽत्राऽऽख्यातान्तं गृह्यते । तेन संबद्ध तेन सह एकवाक्योपात्ते पदान्तरे दध्यादिरूपे विधिशक्तेः विधायकत्वरूपायाः संक्रान्तत्वात् धातोरनुवादकत्वमेवेत्यर्थः । यागस्याऽप्राप्तत्वेन गुणविधानासंभवमाशंकते - न चेति । गुणमात्रविधाने पूर्वोक्तदोषद्वयाभावं प्रतिपादयति - एवञ्चेति । श्रन्वयानुपपत्तिरिति । सोमस्येति शेषः । एतस्मिन् वाक्ये ज्योतिष्टोमवाक्ये । ननु 'सोमेन यजेते' त्यस्य गुणविधित्त्वाङ्गीकारेऽपि न मत्वर्थलक्षणा दोषान्मुच्यामह इति यदा भक्षितेऽपि लशुने न रोगशान्तिः, तदा विशिष्टविध्यङ्गीकरणमेव वरमित्याशयवानाशङ्कते-नन्विति । उक्तमिति । उद्भिदधिकरणवार्त्तिक इति शेवः । कारिका गतार्था । लक्षणायां तात्पर्यानुपपत्तिरन्वयानुपपत्तिर्वा बीजम् । नाऽत्र तात्पर्य्यग्राहकं प्रमाणमस्ति । नाऽप्यन्वयानुपपत्तिः । गुणस्य करणत्वेनैवान्वयसंभवादित्याह-गुणान्वये ति । प्रमाणाभावमुपपादयति-नहोति । ननु तवाऽप्युत्पत्तिवाक्यादौ धात्वर्थस्य करणFOUNDED १ ज्योतिष्टोमपदस्य २ चेद्, न, निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः होमस्य करणत्वं श्रयते, तद्वाचकतृतीयाद्यभावात् । कल्प्यत इतिचेन्न; गुणस्य (१) तत्र विधित्सितत्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचितत्वात् दध्ना होमं भावयेदिति । न चाऽयमस्ति नियमो भावनायां धात्वर्थस्य करणत्वेनैवाऽन्वयो न प्रकारान्तरेणेति; षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । षष्ठाद्ये हि "यजेत स्वर्गकाम" इत्यादौ (२) प्रत्ययवाच्यायां वक्ष्यभाणार्थभावनायां समानपदश्रुत्या यागस्य भाव्यत्वमाशङ्कयाऽपुरुषार्थत्वेन परिहृतम् । यदि च धात्वर्थस्य करणत्वेनैव भावनायामन्वयः तदा भाव्यत्वशङ्कव नोदेतीति व्यर्थं षष्ठाद्यमधिकरणमापद्येत । किं च(३) वाजपेयाधिकरणे तन्त्रसम्बन्ध शङ्कय परिहृतः । धात्वर्थस्य करणत्वेनैवाऽन्वये तन्त्रसंबन्धशव न स्यात् । तन्त्रसंबन्धशङ्कापरिहारौ च तत्र व्याख्यातौ । त्वेनाऽन्वये किं मानम् ? नहि तत्रापि तृतीया श्रूयते, अथ तृतीया श्रवणाभावेऽपि अर्था पत्या "प्रकृतिप्रत्ययौ प्रत्ययार्थ" मिति स्मृत्या च धातुनैव लक्ष्यत इति कल्प्यत इत्युच्येत, तथैव ममापीऽत्याशङ्कते-कल्यत इतीति । उचितत्वादिति । अन्यथा ना कांक्षितकल्पनारूपो दोष पद्येति भावः । कल्पितमर्थतो ऽनुवदति- दध्नेति । नन्वेवं भावार्थाधिकरणविरोधः, तत्र धात्वर्थस्य भावनायां करणत्वेनान्वयस्यैव सिद्धान्तितत्वात् इत्यत ग्राह-नचाऽयमिति । षष्ठेति । षष्ठाध्यायस्य प्रथमाधिकरणीयपूर्वपक्षेत्यर्थः । षष्ठ इति । अधिकरण इति शेषः । वक्ष्यमाणेत्यतः पूर्व भावनानिरूपणावसरे इति शेषपूरणम् । अपुरुषार्थत्वेनेति । साक्षादिष्टे इष्टसाधन एव वा पुरुषस्य प्रवृत्युदयात् यागादेः द्रव्यव्ययायाससाध्यत्वेन स्वयमनिष्टत्वात् पुत्रपश्वादिवद्वा इष्टसाधनत्वेन प्रमाणान्तरेणाऽज्ञातत्वाच्च । यद्यपि यत्नात्मिकायां भावनायां भाव्यो याग एव, न तु स्वर्गादिः, यत्नेन हि याग एव साध्यते, यागानुकूलत्वात् यत्नस्य । साधिते च यागे स्वर्गों भवति । न तत्सिध्यर्थे यत्नान्तरमस्ति । तथापि नासौ यत्नं प्रत्युद्देश्यः पुरुषार्थत्वात् । अतश्च यागानुकूलयत्नात्मिकायामपि भावनायां उद्देश्यतारूपभाव्यत्वं स्वर्गस्यैव । यथा वेतनकामः पचेत् इत्यत्र पाकानुकूलयत्नात्मिकायां भावनायां वेतनस्यैवोद्देश्यत्वं PPPF तद्वत् इति भावः । TR IDhe ननु षष्ठाद्याधिकरणस्य न धात्वर्थगत करणत्वनिराकरणे तात्पर्यम् तात्पर्यम् । किन्तु स्वर्गादेः पुरुषार्थस्य भाव्यत्वबोधन एव, अत एव "स्वर्गकामस्य यागकर्मोपदेशः स्यात् ; अतः स्वर्गः प्रधानतः, कर्म गुणतः" इति भाष्यम् "पुरुषार्थस्यैव भा. व्यत्वम् विधिश्रुतिबलाध्यवसोयते" इति शास्त्रदीपिका च संगच्छते । एवञ्च तावन्मात्रेण चरितार्थस्य न तस्य वैयर्थ्यम्, तह-किञ्चेति । वाजपेयाधिकरण इति । "वाजपेयेन स्वाराज्यकामो यजेतेति वाक्यमुदाहृत्य यत्र विचारितं, तदधिकरणे प्रथमचतुर्थषष्ठ इत्यर्थः । तन्त्रसम्बन्धः । धात्वर्थस्थ तन्त्रेण फलेन गुणेन च संबन्धः । तत्र वाजपेयाधिकरणे । ननु मन्दविषन्यायेनोत्थिताया श्राशङ्कायाः स्वल्पाया १ स्यात्र २ प्रत्ययवाच्यवक्ष्यमाणार्थभावनायां । ३१.४.६. rien Research Institute मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणाकिंच धात्वर्थस्य न करणत्वेनैवाऽन्वयः (१)गुणकामाधिकरणे आश्रयत्वेन धात्वर्थान्वयस्योक्तत्वात् । तथाहि-'नोन्द्रियकामस्य जुहुयादित्यत्र न तावद्धोमो विधीयते, तस्य वचनान्तरेण विहित्वात् । नापि होमस्य फलसम्बन्धः, गुणपदानर्थक्यापत्तेः । नापि (२) गुणसम्बन्धः फलपदानर्थक्यापत्तेः । (३) नाऽप्युभयसम्बन्धं विधत्ते । प्राप्ते कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यदाहुः प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । प्राप्ते तु विधीयन्ते बहवोऽध्येकयत्नतः ॥ इति । अत्र च कर्मपदवत् गुणेत्युपलक्षणम् । एकोद्देशेनानेकविधाने वाक्यभेदात् । अतएव (४) ग्रहैकत्वाधिकरणे "ग्रहं संमाष्ट"त्यत्र ग्रहोद्देशेन (५) एकत्वसंमार्गयोर्विधाने वाक्यभेदात् ग्रहैकत्वमविवक्षितमित्युक्तम् । (६) रेवत्यधिकरणेच 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत', इत्यत्र वारवन्तीयस्य रेवतीसंबन्धे अग्निष्टोमसामसम्बन्धे फलसम्बन्धे च विधोयमाने वाक्यभेदाद्भावनोपसर्जनं भावना। अपि निराकरणेन तदप्यधिकरणं प्रयोजनवत् भविष्यति, इत्यत आह–किञ्चेति । वचनान्तरेण अग्निहोत्रं जुहुयादित्यनेन । प्राप्ते कर्मणीति । अयमत्र वार्त्तिकाशयः - भावनैव सर्वत्र प्रधानभूता, तत्रैव च सर्वकारकाणामन्वयः इत्युक्तम्"भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया । अनेकगुणजात्यादिकार कार्थानुरञ्जिता" ॥ ● इत्यादिना । सा यत्राऽप्राप्ता तत्र तस्या एव विधेयत्वेन तत्र च सर्वेषां कार कारणां वैशिष्ट्यसंभवेन अनेककारकविशिष्टा एका भावना विनैव वाक्यभेदादिकमेकेन विधिव्यापारेण विधातुं शक्यते । यत्र च सा प्राप्ता तत्र पुनः तस्या विधेयत्वासंभवात्कारकाणामेव च विधेयत्वात्तेषां परस्परं वैशिष्ट्याभावात् पृथक् पृथक् विधिव्यापारस्याऽभ्युपगमनीयत्वेन विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत इति नाऽनेकगुण विधानं संभवतीति । एकयत्नतः एकेन विधिव्यापारेण । कर्मपदवदिति । यथा कर्मपदं प्राप्तमात्रोपलक्षकं एवं गुणपदमपि विधेयमात्रोपलक्षकमित्यर्थः । फलितमाह - एकेति । अत एव कर्मपदस्योपलक्षणत्वादेव । ग्रहं सम्माष्टृति । सोमावसिक्कं पात्रं दशापवित्राख्येन वासःखण्डेन शोधयतीत्यर्थो मिश्रमते । राणकमते तु-धारातः पात्रे सोमरसस्य ग्रहणकाले पात्रस्य बहिलग्नानां विप्रषां प्रोञ्छनं कुर्यादित्यर्थः । पात्रवाचकत्वमेव युक्ततरं मन्यामहे । ग्रहोद्देशेन ग्रहैर्जुहोतीतिवाक्यप्राप्तग्रहोद्देशेन । ग्रहैकत्वं ग्रहगत मेकत्वम् । गुणपदस्योपलक्षणत्वे फलमाह-एतस्यैवेति । इयमत्र स्थितिः। "त्रिवृग्निष्टुदग्निष्टोमः' इत्यनेन प्रथमं त्रिवृत्स्तोमयुक्तः अग्निष्टोमसंस्थाकः अग्निष्टुन्नामको यागो विहितः । तस्य "तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो Bhandarkar Oriental Research Institute ३ नाऽप्युभयसम्बन्धः, ६२.२.१२. RIP १ २.२.११. ४३.१.७ २ गुणसम्बन्धं विधत्ते । ५ एकत्वसम्मार्गविधौ.. रूपणम् ] सारविवेचिनोव्याख्या संवलितः , न्तरं विधोयते इत्युक्तम् । तस्मात्प्राप्ते होमे नोभयविधानं संभवति । नाऽपि होमान्तरं विधीयते, (१)गौरवात्, प्रकृतहानाप्र कृतकल्पनाप्रसङ्गात्, मत्वर्थलक्षणाप्रसङ्गाच्च । नाऽपि दध्येव केवलं करणत्वेन विधीयते इति युक्तम् । केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः, कर्तृव्यापारव्याप्यत्व नियमा- त्करणत्वस्य । किं तर्हि विधीयते इति चेत्, दध्नेति तृतोययोपात्तं दधिक- यजेत्' इत्यनेन वायुदेवताकर्गधिकरणकै कविंशस्तोम विशिष्टाग्निष्टोमसामसाध्यस्तोत्रवि- शिष्टः प्रयोगः फलोद्देशेन विधीयते तस्य पूर्वोत्काग्निष्टुन्नामकस्य यागस्य वायव्यासु वायु- देवताकासु ऋतु एकविंशस्तोमविशिष्टं अग्निष्टोमाख्यं साम पठित्वा पशुरुपफलार्थ तेन अग्निष्टन्नाम केन यजेत इत्यक्षरार्थः । "उपत्वा जामयो गिरः" इत्याद्या वाय- व्याः । एतस्यैवेत्यादिना यजेतेत्यन्तेन प्रकृतवाक्येन रेवत्यधिकरणकवारवन्तीय नामक. सामसाध्याग्निष्टोमस्तोत्रवि शिष्टं यागान्तरं पशुरूपफलोद्देशेन विधीयत इति । अत्र त्रिवृ दग्निष्टुत् इत्यनेन प्रथमवाक्येन कर्मणो विधानात् न तत्पुनर्विधानमर्हति । द्वितीयवा- क्येन गुणविशिष्टप्रयोगविधानान्न तस्याऽपि पुनर्विधानं युक्तम् । अतस्तृतीयवाक्येऽने- कगुणोपादानात् तेषां च पूर्वत्राऽनिवेशात् तद्विशिष्टं कर्मान्तरमेव विधातुं युक्तम् । तच्च कृत्वाशब्दोक्तभावनाविशेषणकं पूर्वभावनातो भिन्नं विजातीयभावनारूपमिति भावः । रेवत्यः रेशब्दघटिताः "रेवतोनंः" इत्याद्या ऋचः; वारवन्तीयं "अश्वं न त्वा वारवन्तं" इस्यस्यामृच्युत्पन्नं साम । अग्निष्टोमसाम यज्ञायज्ञा वो इत्यत्र गेयं साम । न च यागान्तरविधान एतच्छब्दविरोध इति वाच्यम् । एतच्छन्दस्य "अथैष ज्योति" रित्यादाविव प्रस्तोष्यमाणकर्मपरतयापि नेयत्वात् । अत्र च गुणफल संबन्ध- विधिः पूर्वपक्षे, सिद्धन्ते च कर्मान्तरविधानम् । यदि गुणफलसंबन्धविधिः तदा प्राप्तो- द्दशेनाऽनेकविधाने वाक्यभेदात् भावनान्तरं विधीयते इत्युक्तम् । यदि वार्त्तिक- स्याऽस्य यथाश्रुतोऽर्थो गृह्यते, तदा रेवत्यादीनां गुणत्वाभावात् वाक्यभेदापादनमसङ्गत- मेव स्यादिति भावः ॥ ननु माऽस्तु प्रकृते कर्मणि गुणविघानं, किन्तु कर्मान्तरं विधीयताम्, तहनापीति । गौरवादिति । अनेकत्र विशिष्टे वा विधिव्यापारकल्पनारूपगौरवादित्यर्थः । मत्वर्थेति । कर्मान्तरविधाने भावनायां धात्वर्थस्य करणत्वेनाऽन्विंतत्वेन गुणाऽस्यान्वयानुपपत्या लक्षणाऽऽवश्यकीति भावः । केवलं व्यापारासंबद्धं, न हि कुत्राऽपि दृष्टं सिद्धं ब्यापारानाविष्टं कार्ये साधयत् साधनमित्याशयः । तृतीययोपात्तमिति । तृतीयया लक्षितमित्यर्थः ! फलभावनायां फलभाव्यकभावनायाम् । भावनायां निरूपकतासम्बन्धेनाऽन्वययोग्यकरणत्व एव तृतीयायाः शक्तत्वेन करणत्वेनाऽन्वययोग्यकरणत्वस्य तयाऽ नभिधानादिति भावः । गुणविधिस्थले करणत्वस्य निरूपकतासम्बन्धेनाऽन्वयः । क्रियाया गुणजन्यत्वात्। गुणफलसम्बन्धविधिस्थलेषु तु करणत्वेनैव करणत्वस्याऽन्वयः सम्बन्धतया भासमानं करणत्वं फलनिरूपितम् । प्रकारतया भासमानं तु धात्वर्थनिरूपितम् । एवं च धात्वर्थे निष्पादयन्नेव गुणः फलं जनयेदिति । एतच्चाग्रे स्फुटीभविष्यति । Research Institute १ गौरवप्रसङ्गात्, । unts. १६ मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणारणत्वं फलभावनायां करणत्वेन विधीयते, प्रत्ययार्थत्वेन दध्नोऽपि तस्य प्राधान्यात् । एवं च दधिकरणत्वेनेन्द्रियं भावयेदिति वाक्यार्थः । करणत्वं च किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन संबध्यते । ततश्च सिद्धो धात्वर्थस्याऽऽश्रयत्वेनान्वयः । प्रकृतमनुसरामः । तत्सिद्धं धात्वर्थस्य न करणत्वेनैवान्वय इति । किं तर्हि क्वचित्करणत्वेन क्वचित्साध्यत्वेन क्वचिदाश्रयत्वेनेति । गुणविधौं साध्यत्वेनेवान्वयः संभवतोति न मत्वर्थलक्षणायाः प्रयोजनम् । किंच गुणविधौ मत्वथंलक्षणायां गुणस्य धात्वर्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावच्छुतिः । मत्वर्थलक्षणायां तृतीयाश्रुतिर्मत्वर्थस्यैवाङ्गत्वे दध्न इति पंचमी । तस्य करणत्वस्य । तत्र हेतुमाह-प्रत्ययार्थत्वेनेति । प्रत्ययः प्राधान्येने ति स्मृतेरिति भावः । दधिकरणत्वेन दधिनिष्ठकरणत्वेन । किम्प्रतियो गिकं किन्निरूपितम् । त्वेन गुणनिष्ठरणतानिरूपकत्वेन । इदमत्राऽवधेयम्- यत्र हि गुणः फलाय विधीयमानः कारकतामापद्यते सः इति श्राश्रयलक्षण माहुः पार्थसारथिमिश्राः । इदं च लक्षणम् उक्त्थ्यादिसंस्थानां फलाय विधीयमानानामाश्रय- भूते ज्योतिष्टोमे ऽव्याप्तम्, तत्र ज्योष्टोमे उक्थ्यादीनां स्तोत्रविशेषाणां कारकत्वासंभ- वात् । "दाक्षायणयज्ञेन स्वर्गकामो यजेते" त्यत्र दाक्षायणपदाभिधेयाया प्रवृत्तेः दर्शपूर्णमासयोः कारकत्वासंभवाच्च । अतः फलाय विधीयमानो गुणो यां क्रिया- मपेक्षते स आश्रयः इति शंकरभट्टैः परिष्कृतमाश्रयलक्षणम् । तदपि न सुन्दरम् । 'एत- स्यैव रेवतीषु वारवन्तोयमग्निष्टोमसाम कृत्वा पशुकामी होतेन यजेत' इत्यत्र वारवन्तीयस्य क्रियापेक्षिणः यागरूपाश्रयलाभात् गुणफल संबन्धविधानोपपत्तौ आश्र- याला भकृतगुणफल सम्बन्ध विध्यभावप्रतिपादनस्याऽसांगत्यापत्तेः । न च साम्नः क्रियात्म- कत्वेन नाश्रयापेक्षेति वाच्यम् । तस्य स्वरसमाहाररूपत्वेन क्रियानात्मकत्वात् । अतः अदृष्टाद्वारकसंबन्धेन गुणविशेषविशिष्टत्वमाश्रयत्वम् । प्रकृते चाऽदृष्टरूपं द्वारमन्तरा या- गस्य वारवन्तीयस्य च सम्बन्धाभावात् नोकदोष इति नवीनाः । एतद्दोषपरिजिहीर्षयैव च सोमनाथसर्वतोमुखयाजिभिरपि "यत्र हीत्यादि" शास्त्र दीपिकावाक्यं "इदं च यत्र फलाय विधीयमानस्य गुणस्य जातिद्रव्यशुक्लादिगुणरूपत्वं तदभिप्रायम्" तेन दाक्षायणयशेन स्वर्गकामो यजेत, पशुकाम उक्थ्यं गृह्णीयात्, षोडशिना वीर्यकामः, शुक्राग्रान् ग्रहान् गतश्रीः प्रतिष्ठाकामः, इत्यादिषु श्रावृत्तिसंस्थाग्रतादीनां गुणानां दर्श- पूर्णमासादिषु करणत्वाभावेऽपि तेषामाश्रयत्वमुपपद्यते, इति व्याख्यातम् । एवञ्च द्रव्य- क्रियागुणादिरुपत्वे नाऽऽग्रहः । किन्तु अदृष्टाद्वारकत्वं मुख्यतयाऽऽश्रयलक्षणे योजनीय- मिति फलितम् ॥ INSTITUTE POONA नियमाभावमुपसंहरति - तत्सिद्धमिति । फलितमाह - क्वचिदिति । उत्पत्तिविधौ करणत्वेन, गुणविधौ साध्यत्वेन, गुणफल सम्बन्धविधावाश्रयत्वेनेत्यर्थः । किं मानमिति वक्तव्यमिति । प्रमाणं किंचित् वक्तव्यमित्यर्थः । मत्वर्थलक्षणायामिति । अङ्गीकृतायामिति शेषः । तृतीयाश्रुतिः । दध्नेतितृतीयाविभवित्तरूपा श्रुतिः । श्रस्तु Research निरूपणम् ] सारविवेचिनोव्याख्यांसंवलितः १७ मानं स्यात् न तु गुणस्याऽङ्गत्वे । समभिव्याहारात्मकं वाक्यमिति चेत्, तत्कि स्वतन्त्रमेव मानम् ? उत लिङ्गश्रुती कल्पयित्वा ? । नाऽऽद्यः, (१) बलाबलाधिकरणविरोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वाऽङ्गत्वे मानमित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्पने तस्या एव वा श्रावृत्तिकल्पने (२) व्यर्थः प्रयासः समाश्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् । ॐ किंच भवतु श्रुत्यन्तरकल्पनम् । तथापि तत्सहकृतः प्रत्यक्ष एव विधिर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, ? उत कल्पितं विध्यन्तरम् ? कल्पितमिति चेन्न, श्रुतविधे(३)वर्व्यर्थतापत्तेः । नहि तेन तदा गुणो विधोयते, कल्पितविध्यन्तराङ्गीकारात् ; नापि धात्वर्थः, तस्य वचनान्तरेण विहितत्वात् । अथ - श्रूयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन गुणं विधत्ते- इति चेत्, तर्हि तत्र कथं धात्वर्थस्यान्वयः ? । करणत्वेनेति चन्न, अन्वयानुपपत्तेः । नहि संभवति दध्ना होमेनेति चान्वयः । साध्यत्वेनैवान्वयः दध्ना होमं भावयेदिति चेत्, न, तथा सत्यानुवादेऽपि धात्वर्थः करणत्वेनैवान्वेतीत्येतदुपेक्षितं स्यात्, विवक्षितवाक्यार्थश्च विनैव मवथलक्षणयाङ्गीकृतः स्यात् । तस्मान्न गुणविधौ मत्वर्थलक्षणा । B । तर्हि वाक्यमित्याह-समभोति । बलाबलेति । श्रुतिलिङ्गादीनां प्राबल्यदौर्बल्यविचाराधिकरण इत्यर्थः। एतच्चोपरिष्टाद्ग्रन्थकृदेव निरूपयिष्यति । अत्र श्रुत्यन्तरकल्पनं दध्नेति तृतीयाविभक्त्यन्तपदान्तरकल्पनमेव बोध्यम् । द्वितीये लिङ्गश्रुतिकल्पनपूर्वकमङ्गत्वे मानमिति पक्षे । कल्पनागौरवमभिसन्धायाह-तस्या एवेति । ननु 'अरुणया पिङ्गाच्या' इत्यादौ प्राण्यादिवि शिष्टक्रयभावनाया एव विधेयत्वाङ्गीकारात् तदन्यथानुपपत्तिकल्पितविशेषणविध्यर्थं यथा श्रुत्यावृत्तिराश्रीयते तद्वदनापीत्यत ग्राह-विशिष्टविधाविति । तथा च यत्रोत्पत्तिविध्यन्तरं नास्ति, तत्राऽगत्या विशिष्ट विधिमङ्गीकृत्य तदन्यथानुपपत्त्या अर्थात् विशेषणविधिकल्पनादशायां श्रुत्यन्तकल्पनादिप्रयासाश्रयणेऽपि सत्यां गतौ गुणविधिस्थलेऽपि किमर्थं स ाश्रीयत इति भावः । कल्पितेऽपि श्रुत्यन्तरे न भवदिष्टं सेत्स्यतीत्याह-किंचेति । अयमभिसन्धिः-"दध्ना जुहोती" त्यत्र पदद्वयं श्रूयते, यद्यत्रान्यापि श्रुतिः कल्प्येत केवलाया विभक्तेः कल्पनासंभवात् दध्नेति तृतीयान्तमन्यत्कल्पनीयम्, कल्पितस्य दध्नेतिपदस्याऽन्वयार्थी जुहोतीति विधिपदान्तरस्वीकारे तेनैव गुणस्य विहितत्वेन 'अग्निहोत्रं जुहोती' त्यनेन धात्वर्थस्य प्राप्तत्वेनान्यस्य च कस्यचिदपि विधातुमशक्यत्वेन प्रत्यक्षदृष्टस्य वैयर्थ्यम् । श्रुत्यन्तरमकल्पयित्वा प्रत्यक्षतः श्रुतस्यैव कल्पितश्रुतिसहकृतस्य गुणविधायकत्वाङ्गीकारे गुणस्यैव तत्र करणत्वेनाऽन्वयात् धात्वर्थस्य साध्यत्वेनैवाऽन्वयोऽङ्गीकर्त्तव्यः । अङ्गीकृते च तस्मिन् प्रतिज्ञाव्याकोपोऽस्मदिष्टसिद्धिश्चेति । श्रुतविधेः 'दघ्ना जुहोति' इत्यत्र श्रुतस्य जुहोतीति विधिभागस्य । ॥ तंजस्मितमस्तु ॥ २. वृथा. ३. वैयर्थ्यापत्तेः १. पू. मी. ३. ३. ७. ३ मो० न्या० Bhandarkar Oriental १८ मोमांसान्यायप्रकाशः [ मत्वर्थलक्षणायत्तु 'विधाने वानुवादे वा' इति वार्तिकं, तत्प्रतीतिमवलम्ब्य, न वस्तुगतिम् । तथाहि-यावद्धि 'अग्निहोत्रं जुहुयादिति वाक्यं नाऽऽलोच्यते, केवलं 'दघ्ना जुहोती'ति वाक्यमालोच्यते, तदा षष्टाद्यन्यायेन होमस्या (१) भाव्यतां जानतां (२) प्रतिपदाधिकरण (३) भावार्थाधिकरणवासनावासितानां (४) भवत्येव (५) तादृशी मतिः- यद्दधिमता होमेनेष्टं भावयेदिति । तपदाधिकरणे हि 'सोमेन यजेते' त्यादिषु किं गुणधात्वर्थयोः फलभावनाकरणत्वेनान्वयः, उत एकस्यैवेति संदिह्य प्रधानसंबन्धलाभात् विनिगमनाविरहाच सर्वेषां फलभावना करणत्वेनान्वयमाशङ्कय लाघवादेकस्यैव फलभावनाकरणत्वमित्युक्तम् । भावनाकरणत्वंहि भावनाभाव्यनिर्वर्तकतया । भाव्यं च स्वर्गादि नादृष्टमन्तरेणेति अनेकेषां करणत्वेऽनेकादृष्टकल्पनाप्रसङ्गात् । तस्मादेकस्यैव करणत्वम् । 250130 यदाग्येकस्य, तदापि किं द्रव्यगुणयोः फलभावनाकरणत्वम् ? उत धात्वर्थस्य इति भावार्थाधिकरणे संदिह्य द्रव्यगुणयोरेव भावनाकरणत्वम्, 'भूतं भव्यायोपदिश्यते इति न्यायादित्याशङ्कय धात्वर्थस्यैव भावनाकरणत्वम्, पदश्रुतेर्बलोयस्त्वादित्युक्तम् । अतश्च सिद्धमेतद्वाक्यान्तरानालोचनदशायां गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थलक्षणेति । 4 तर्हि विधानेवेति वार्त्तिकस्य का गतिः ? अत आह-तत्प्रतीतिमवलम्ब्येति । आपाततः प्रतीतिमवलम्ब्येत्यर्थः । अज्ञाननिवृत्तिमात्रेण संशयविपर्ययसहं ज्ञानमापतप्रतीतिः । वस्तुगतिं वस्तुतत्त्वम् । तदेवोपपादयति–तथाहोति । अभाव्यतां भाव्यत्वाभावं । क्रियारूपत्वेन कष्टात्मकस्य यागस्य पुरुषार्थत्वेन भाव्यत्वात् प्रच्यावितत्वादिति भावः । वाक्योपात्तं प्रतिपदं भावनया सम्बध्यते न वेति विचारो यत्र क्रियते तत् प्रतिपदाधिकरणम् । घात्वर्थस्य भावार्थस्य यत्र करणत्वेनान्वयो विचार्य निर्णीयते तद्भावार्थाधिकरणम् । 172 DIWFETIMDB DI TERD सोमेन यजेतेत्यादिष्वित्यादिपदेन विशिष्टविधयो गृह्यन्ते । लाघवात् एकादृष्टकल्पनाप्रयुक्तलाघवात् । एकस्यैव गुणधात्वर्थान्यतरस्यैव 1. भावार्थाधिकरणमुपक्षिपति- यदाप्येकस्येति । द्रव्य गुणयोरिति । द्रव्यरूपस्य गुणरूपस्य वोपपदार्थस्येत्यर्थः । भूतं भव्यायोपदिश्यत इति । सिद्धं वस्तु साध्यसम्पादकत्वेन विधीयत इत्यर्थः । पदश्रुतेर्बलीयस्त्वादिति । यद्यपि मीमांसकमते सर्वेषामेव पदार्थानां प्राथमिकशाब्दबोधे भावनान्वयात् न तत्र पदश्रुत्यादीनामुपयोगः, तथापि प्राथमिकभावनान्वये यस्य यत् प्रमाणं, तद्गतप्राबल्यस्य तदानीमकिञ्चित्करत्वेऽपि पाष्र्ष्टिके फलादिसम्बन्धे तदेव निश्चायक मङ्गीक्रियत इत्याशयेनेदम् । विचारशीलस्य नैवं प्रतीतिः संभवतीत्याहयदा त्विति । प्रवर्तनात्मकस्य विधेः प्रवृत्यतिरिक्तविषयत्वासम्भवेन गुणविधिस्थलेऽपि धात्वर्थावच्छिन्नप्रवृत्तिविषयकविधिरेव युक्त इत्याशङ्कथ पार्थसारथिमिश्रैरुक्तम्-यद्यपि न क्रियां २. पू. मी. २.१.१. ३. पू. १. अभाव्यत्वम् भा• यत्वमजानतां ४. वासितान्तःकरणानां ५. भवत्येतादृशी ANSTITUTA POONA Bhandarkar Oriental titute ores of e निरूपणम् ] सारववेचिनीव्याख्या संवलितः १६ यदा तु "अग्निहोत्रं जुहोती"ति होमविधायकं वाक्यान्तरमालोच्यते तदा होमस्य वाक्यान्तरेणैव विहितत्वात्तदुद्देशेन गुणमात्रं विधीयते इत्यालोचनान्न मत्वर्थलक्षणेति । अतएवोक्तं पार्थसारथिमिश्रै (१) राधाराग्निहोत्राधिकरणेफलतो गुणविधिरयं न प्रतीतितः-इति । यद्वा एतद्वार्तिकमधिकारविध्यभिप्रायम्। 'उद्भिदा यजेते' त्यादीनामधिकारविधित्वात् । तत्र हि यागो विधोयताम्, उत्पत्तिवाक्यसिद्धो वानूद्यताम्, उभ्यथापि धात्वर्थस्य करणत्वेनान्वयात् तृतोयान्तस्य तद्वाचित्वम्, अन्यथान्वयानुपपत्तेरिति । तस्माद् गुणविधौ विनापि लक्षणामन्वयोपपत्तेनं मत्वर्थलक्षणेति । अतश्च 'सोमेन यजेते' त्यत्र न विशिष्टविधानम्, किंतु गुणमात्रविधानम्, यागस्तु 'ज्योतिष्टोमेन स्वर्गकामो यजेते' त्यस्मिन्वाक्ये विधीयते इत्येव युक्तम् । अन्यथा मत्वर्थलक्षणापतेरिति । अत्रोच्यते-यद्यपि यागोद्देशेन सोमविधौ न मत्वर्थलक्षणा, तथापि यागस्याप्राप्तत्वात् 'सोमेन यजेते' त्यत्र न यागोद्देशेन सोमविधानं संभवति । न च 'ज्योतिष्टोमेने' त्यादिना यागस्य प्राप्तत्वात्तदुद्देशेन गुणमात्रं विधीयत इति वाच्यम् । तस्याधिकारविधित्वेनोत्पत्तिविधित्वानुपपत्तेः । कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । तेन च विहितस्य कर्मणः फलविशेष संबन्धमात्रमधिकार विधिना क्रियते । फलविशेषसंबन्धबोधकस्याधिकारविधित्वात् । विहाय द्रव्ये विधिः प्रतीयते । तस्यामेव विशिष्टायां प्रतीयमानो विधिः स्वरूपेण तस्याः प्राप्तत्वात् श्रप्राप्तगुणमात्रपरतामवलम्बमानः फलतो गुणविधिरित्युच्यते न प्रतीतित" इति । एवं चानुवादस्थले विशिष्टविध्यङ्गीकारेऽपि विधिर्विशेषणमात्रे पर्यवस्यन् फलतो गुणविधिरेवायमिति वक्तव्यमिति । ननु नेदं युक्तमापातप्रतीतिमवलम्ब्य वार्तिकं प्रवृत्तमिति; यद्येवं सर्वाणि वाक्यानि विप्लवेरन् । नाप्ययमर्थो मिश्रवाक्यस्य वस्तुगत्या गुणविधिरापातप्रतीत्या तु धात्वर्थविधिरिति भ्रम इति; किन्तु चेतनप्रवर्तनात्मकस्य विधेः स्वव्यापारादन्यत्र प्रवृत्त्यनुपपत्तेः गुणविधिस्थलेऽपि गुणविशिष्टस्य व्यापारस्यैव विधाबङ्गीकृते पश्चात्प्राप्ताप्राप्त विवेकन्यायेन विधिर्गुणमात्रे पर्यवस्यतीति फलतो गुणविधिरित्युच्यते इत्येवार्थः । अतो नेयं गतिर्वार्तिकस्ये त्यस्वरसादाह-यद्वेति । अधिकारविध्यभिप्रायमिति । यत्र धात्वर्थस्य फलसम्बन्धो बोध्यते तद्विषयकमित्यर्थः । एवं च उद्भिदधिकरणस्थस्याऽस्य वार्तिकस्य तद्वाक्यमधिकृत्यैव प्रवृत्तत्वेन तस्य चाधिकारविधित्वात् तत्सदृशेष्वेवाऽस्य प्रवृत्तिर्युक्ता नाऽन्यत्रेति भावः । करणत्वेनेति । फलस्याऽनुपादेयत्वेनाऽविधेयत्वस्य स्थापितत्वात् अधिकारविधिस्थलेऽपि फलविशेषोद्दशेन घात्वर्थस्यैव विधेयत्वात् करणत्वेनैवाऽन्वयो वक्तव्य इति भावः । उक्तार्थंमुपसंहरति - तस्मादिति । पूर्वपक्षमुपसंहरति - श्रुतश्चेति । TATOP 1917 नाव एवं 'सोमेन यजेत' इत्यत्र गुणमात्रविधानेन विशिष्टविधेरभावान्न मत्वर्थलक्षणाया अवकाशलेशोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तमुपक्रमतेअत्रोच्यत इति । स्यादेवं यदि गुणमात्रं 'सोमेन यजेते' त्यनेन विधियेत, नैतत्संभवतीत्याह – यद्यपोत्यादिना । १. पू. मी. २.२.५. २० मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणयथा 'यदाग्नेयोऽष्टाकपालो भवती' त्येतद्विहितस्य कर्मणः फलविशेषसंवन्धमात्रं 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यं विधत्त इति तस्याऽधिकारविधित्वं, नोत्पत्तिविधित्वम् । स्यादेतत् 'दर्शपूर्णमासाभ्या' मित्येतस्य नोत्पत्तिविधित्वं संभवति, "यदाग्नेयोऽष्टाकपाल' इत्यादिवाक्यानर्थक्यापत्तेः । न हि तदा तेन कर्म. विधोयते, तस्य 'दर्शपूर्णमासाभ्या' मित्यनेन विहितत्वात् ; नापि गुणविधानं संभवति, प्राप्ते कर्मणि अनेकविधाने वाक्यभेदापत्तेः । अतः 'आग्नेयोऽटाकपाल' इत्यस्योत्पत्तिविधित्वं दर्शपूर्णमासाभ्यामित्यस्य चाधिकारविधित्वं युक्तम् । 'ज्योतिष्टोमेने' त्यस्य तु अधिकारविधे 'रुद्भिदा यजेत पशुकाम' इत्यादिवदुत्पतिविधित्वेऽपि स्वीक्रियमाणे न कस्यचिदानर्थक्यम् । 'सोमेन यजेते' त्यस्य गुणविधित्वाद्यागोद्देशेन सोममात्रविधानाश्च न वाक्यभेद इति चेत् मैवम् । यद्यपि 'सोमेन यजेते' त्यत्र न वाक्यभेदः, तथापि 'ज्योतिष्टोमेने' त्यस्मिन्वाक्ये कर्मस्वरूपे तस्य च फलसंबन्धे विधीयमाने गौरवलक्षणो वाक्यमेदोऽस्त्येव । 'सोमेन यजेते' त्येतद्वाक्यविहितकर्मणः फलसंबन्धमात्रविधाने (१) तदभावात् । 'उद्भिदा यजेते त्यत्र तु वचनान्तराभ वेनागत्या तदाश्रयणम् । नच 'सोमेन यजेते' त्यत्रापि कर्मणः स्वरूपे गुणे च विधोयमाने वाक्यभेदः स्यादिति वाच्यम् । श्रयमाणेन विधिना गुण (२) स्याविधेयत्वात्, यथेति । यदाग्नेयादिवाक्यविहितकर्मणां दर्शपूर्णमासवाक्येन फलसम्बन्धो बोध्यत इति दर्शपूर्णमासवाक्यस्याधिकारविधित्वमेव नोत्पत्तिविधित्वं यथा, तथा ज्योतिष्टोमवाक्यस्यापि अधिकारविधित्वमेव नोत्पत्तिविधित्वमित्याशयः । उत्पत्तिरत्रज्ञापनम् । कर्मस्वरूपविषयकाज्ञातज्ञापनं येन विधिना क्रियते स कर्मोत्पत्तिविधिरित्यर्थः । दृष्टान्तदाष्र्ष्टान्तिकयोः वैषम्यं प्रतिपादयितुमारभते - स्यादेतदिति । 'यदाग्नेयोऽटाकपालोऽमावास्यायां च पौर्णमास्यां चाऽच्युतो भवति' इति समग्रं वाक्यम् । तदा दर्शपूर्णमासवाक्यस्योत्पत्तिविधित्वाङ्गीकारे । अनेकेति । अग्निरूपदेवता, कपालगतसंख्या, पुरोडाशः, अमावास्यादिकालः, इत्यनेकार्थेत्यर्थः । एवं च दान्तिके ग्राग्नेयवाक्यानर्थक्यभिया दर्शपूर्णमासवाक्ये उत्पत्तिविधित्वानङ्गीकरणं युक्तम् दृष्टान्ते तु न तथेत्याह – ज्योतिष्टोमेत्यादि । ज्योतिष्टोमवाक्यस्योत्पत्तिविधित्वाङ्गीकारे तत्र सकलगुणविशिष्टभावनाविधिसंभवात् न विध्यावृत्तिलक्षणो वाक्यभेदः, नापि सोमेन यजेतेत्यत्र लक्षणा; तथापि गौरवलक्षणो वाक्यभेदः समस्त्येवेत्याह- गौरवलक्षण इति । श्रप्रवृत्तप्रवर्तनरूपस्य विधिव्यापारस्याऽनेक विषयत्वाभावेऽपि ज्ञातज्ञापनरूपस्य तस्य तथात्वान्न तद्दोषान्मुक्तिरित्याशयः । सोमेन यजेतेत्यत्र वाक्यभेदमाशंकते – नचेति । विशिष्टविधिस्थले सर्वत्र विशिष्ट एव विधिः प्रवर्त्तते; विशिष्टं विधाय विश्रान्ते विधौ तदन्यथानुपपत्त्या विशेषणानामपि पृथFOUNDED १. लाघवात्. २. स्याविहितत्वात्. 8 ♦ निरूपणम् ] 17 सारववेचिनो व्याख्या संवलितः २१ विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषणविधिरार्थिकः । 'ज्योतिष्टोमेने' त्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसंबन्धश्चेत्युभयं श्रूयमाणेनैव विधिना विधातव्यमिति दृढो गौरवलक्षणो वाक्यभेदः । यदाहुः श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति । न च 'सोमेन यजेते' त्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः, तथापि मत्वर्थलक्षणा स्यादेवेति वाच्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो वाक्यमेदस्य जघन्यत्वात् । लक्षणा हि पददोषः, वाक्यभेदस्तु वाक्यदोषः, पदवाक्ययोर्मध्ये पदे एव दोषकल्पनाया उचितत्वात् । (१) 'गुणे त्वन्याय्यकल्पना' इति न्यायात् । श्रत एव 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्राधानानुवादेन जातपुत्रत्वकृष्ण केशत्व विधाने वाक्यभेदात् पदद्वयेनावस्थाविशेषो लक्ष्यत इत्युक्तम् । तस्माद्वाक्यभेदप्रसक्तौ लक्षणैव स्वीकार्या । तस्मात् 'सोमेन यजेते' त्ययमेवोग्विधिः कल्प्यते, विशिष्टस्य चैकत्वेन तत्रैव विधिव्यापाराङ्गीकरणात् नानेकविधानकृतो वाक्यभेद इति भावः । ज्योतिष्टोमवाक्ये तु श्रूयमाणो विधिः उभयमपि संस्पृशतीति अस्त्येव वाक्यभेदः इत्याह - ज्योतिष्टोमेनेति । अत्र वार्त्तिकं प्रमाणयति- यदाहुरिति । श्रौतेति । श्रुत्यैवानेकार्थविधायकत्वे शब्दानां विधिशब्दानां, एकमुक्त्वा एकं विधाय तावता निवृत्तव्यापाराणां अर्थाक्षेपः विशिष्टविध्यन्यथानुपपत्त्या विशेषणविधिकल्पनमित्यर्थः । अतश्च सोमेन यजेतेत्यत्र विशिष्टस्यैकत्वेन तन्मात्रविधानेन विधिव्यापारे उपरते अर्थात् विशेषणविधिकल्पनेऽपि न दोष इति भावः । सकृच्छ्रतस्य अतएवैकमेवार्थ विधातुं स्वरसतः प्रवृत्तस्य बलादने कविषयकत्वकल्पनं न युक्तम् । अतो विशिष्टमेकं विधाय तावतैव चरितार्थे तस्मिन् वैशिष्टयनिर्वाहाय पश्चादनेकविशेषणकल्पनेऽपि न दोष इति हृदयम् । VIE जघन्यत्वात् निकृष्टत्वात् । जघन्यतामुपपादयति-लक्षणा हीति । उचितत्वादिति । पदसमूहात्मकत्वात् वाक्यस्याने कपदात्मके वाक्ये लक्षणा कल्पनापेक्षया एकस्मिन् पदे तत्कल्पनमेव न्याय्यमिति भावः । गुणेति व्याख्यातपूर्वम् । अतएव लक्षणातो वाक्यभेदस्य जघन्यत्वादेव । आधानानुवादेन 'वसन्ते ब्राह्मणोऽग्नीनादधोत' इति वाक्यप्राप्तेत्यादि । पदद्वयेनेति । जातपुत्रः, कृष्णकेशः इति पदद्वयेनेत्यर्थः । यद्यप्यत्र पदद्वयाभ्यामवस्थाविशेषो लक्ष्यते इति क्वचिदुपलभ्यते पाठः । व्याख्यातं च भाट्टालं. कारकारैरमुमेव पाठमङ्गीकृत्य "द्वयाभ्यामिति जातपुत्रकृष्ण केशपदयोः प्रत्येकमनेकपदात्मकताशय" मिति । तथापि पदद्वयेनेति पाठस्य बहुत्रोपलम्भात् तत्रैव स्वरसतां मन्वानैरस्माभिरयमेव पाठः स्वीकृतः । अवस्थाविशेषः वयोविशेषः । यदा जातपुत्रत्वं कृष्णकेशत्वं च सम्भाव्यते तादृशे वयसीत्यर्थः । अतः सोमेन यजेतेत्यत्रैव उत्पत्तिविधित्वमङ्गीकार्ये इत्यमुमर्थमुपसंहरति — तस्मादिति । १. जे. सू. ९. ३. १५ DEFTH AFFI.F नावर Bhandarkar Oriental Research Institute FRIG HIS DISAVE २२ मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणत्पत्तिविधिर्न 'ज्योतिष्टोमेने' त्ययम् ; गौरवलक्षणवाक्यभेदापत्तेः । किंच 'सोमेन यजेते' त्यत्र यागविधाने श्रुत्यर्थविधानं (१) स्यात्, गुणविधाने तु वाक्यार्थविधानम्, तच्च श्रुत्यर्थवि (२) धानसंभवेऽयुक्तम् । यथाहु:वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे । इति । वाक्यार्थः पदान्तरार्थ इत्यर्थः । 'ज्योतिष्टोमेने' त्यत्रापि फलोद्देशेन यागस्यैव विधानान्न वाक्यार्थविधानम्, तदुत्पत्तिविधित्ववादिनापि तदङ्गीकाराच । तस्मात् 'ज्योतिष्टोमेने' त्ययमधिकारविधिरेव । अपि च कर्मस्वरूप विधिस्तत्र स्वीकार्यो यत्र कर्मणो रूपमुपलभ्यते । यागस्य हि द्वे रूपे, द्रव्यं देवता चेति । 'सोमेन यजेते'त्यत्र यद्यपि देवता नोपलभ्यते सोमयागस्या व्यक्तत्वात् ; अव्यक्तत्वं च स्वार्थचोदितदेवताराहित्यम्, न तु देवताराहित्यमात्रम् ; 'ऐन्द्रवायवं गृह्णाती' त्यादिवाक्यवि हित (३) ग्रहणदेवतानां सत्त्वात्, ग्रहणार्थाभिरपि देवताभिः प्रसङ्गतो यागोपनन्विदमनुपपन्नम् । कर्मस्वरूपमात्रबोधक उत्पत्तिविधावपि फलसम्बन्धबोधनस्याऽवर्जनीयत्वात् । अन्यथा पुरुषप्रवृत्तेरेवानुदयात् । उत्पत्तिवाक्ये विधेरिष्टसामान्यविषयता । अधिकारविधौ तु तद्विशेषविषयतेत्येतावानेव विशेषः । नैतावता फलसम्बन्धस्य विध्यविषयता, येन तज्जन्यं गौरवं परिह्रियेत । अतश्चोभयत्र दोषसाम्यान्मत्वर्थलक्षणापरिहाराय ज्योतिष्टोमवाक्यस्यैवोत्पत्तिविधित्वाङ्गीकरणं युक्तमित्यत ग्राह– किञ्चेति । श्रुत्यर्थेति । अत्र श्रुतिपदेन समानपदश्रुतिर्गृह्यते । वाक्यपदेन च पदद्वयसमभिव्याहारः । अन्याय्य इति । भावनायाः करणाकांक्षायां समानपदोपात्तघात्वर्थस्यैव शीघ्रोपस्थितत्वेन तत्त्वेनान्वयो युक्तः, न तु पदान्तरोपात्तस्य विलम्बोपस्थितस्य गुणस्येति भावः । यागस्यैव विधानादिति । फलस्याविधेयत्वेनोत्पत्तिवाक्यविहितस्यापि यागस्याधिकारवाक्ये पुनर्विधानादिति भावः । उभयवादिसम्मतोऽयं पक्ष इत्याह -तदुत्पत्तोति । सोमेन यजेतेत्यत्रैवोत्पत्तिविधित्वमङ्गीकार्यमित्याह - अपिचेति । कर्मस्वरूपविधिः कर्मस्वरूपबोधको विधिः । यागस्य देवतोद्देश्यकद्रव्यत्यागरूपत्वेन तत्स्वरूपनिष्पादकत्वात् यागरूपत्वं द्रव्यदेवतयोः । ननु सोमेन यजेतेत्यत्र द्रव्यश्रवणेऽपि देवताया अभावात् कथं तस्योत्पत्तिविधित्वमङ्गीकर्तुं शक्यते ? - सोमेनेति । उपलब्ध्यभावे हेतुमाह — अव्यक्तत्वादिति । ननु व्यक्तत्वं यागस्य द्रव्यदेवताभ्यां भवति । श्रव्यतत्वं द्रव्यदेवताभावरूपं वाच्यं, न च तत्सोमयागे संभवति, द्रव्यस्य सोमरूपस्य देवतानामिन्द्रवाय्वादीनां सत्त्वात् । नचोत्पत्तिवाक्ये देवताभाव एवाव्यक्तत्वं तच्च सोमयागे ऽप्यस्तीति वाच्यं, उपांशुयाजे उत्पत्तिवाक्ये देवताभावेन तस्याऽप्य व्यक्तत्वापत्ते रित्यत ह-श्रव्यक्तत्वं चेति । यागोद्देशेन विहितदेवताभाववत्त्वम्, न तु सर्वथा देवता. भावः, नाप्युत्पत्तिवाक्ये देवताभावमात्रमित्यर्थः । कुतो न सर्वथा देवताभावः ? अत ह-ऐन्द्रवायवमिति । गृह्णातीत्यादिपदेन "मैत्रावरुणं गृह्णाति" "आश्विनं गृह्वाति", इत्यादयो गृह्यन्ते । ग्रहणदेवतासत्त्वे यागस्य किमायातम् ? इत्यत ग्राह-ग्रहपार्थाभिरिति । प्रसङ्गत इति । अन्यार्थमुपात्तस्याङ्गस्यान्येनोपजीवनं प्रसङ्गः । उपांशु1917 १. स्यात् इति नास्ति क. पु. २. विधाने सम्भवति ३. ग्रह. निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः २३ कारस्य क्रियमाणत्वात्, तथापि द्रव्यमुपलभ्यत एव, तेनापि यागस्वरूपं ज्ञातुं शक्यमेव । 'ज्योतिष्टोमेन स्वर्गकामो यजेते त्यत्र न द्रव्यं देवता वा श्रूयते । अतस्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं यागसामान्यस्याविधेयत्वात् विशेषस्यैव विधेयत्वादित्यादिक्लेशेन स्यात् । अतो नायं कर्मोत्पत्तिविधिः । नन्वेवमपि 'अग्निहोत्रं जुहोती' त्ययमपि होमोत्पत्तिविधिनें स्यात् रूपाश्रवणात् । तच्छ्रवणाञ्च 'दध्ना जुहोतो' त्ययमेवोत्पत्तिविधिः स्यात् । तथा चाऽऽघाराग्निहोत्राधिकरणविरोधः । तत्र हि 'अग्निहोत्रं जुहोती' त्यस्योत्पत्तिविधित्वं 'दध्ना जुहोती' त्यादीनां च गुणविधित्वमुक्तमिति चेत् सत्यम्, 'अग्निहोत्रं जुहोती' त्यत्र यद्यपि रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वात्, तदेतदने वक्ष्यामः; तथापि तस्योत्पत्तिविधित्वं स्वोक्रियते, अन्यथाऽऽनर्थक्यापत्तेः । दना जुहोती'त्यस्य च नाऽऽनर्थक्यं, गुणविधित्वात् । श्रतः 'अग्निहोत्रं जुहोतो' त्ययं कर्मोत्पत्तिविधिरिति युक्तम् । 'ज्यो. यांजे उत्पत्तिवाक्ये देवताभावेऽपि मन्त्रवर्णकल्पितविधिना यागोद्देशेनैव देवताविधानात् नाऽव्यक्तत्वं ; ततश्च नाऽसंभवो नाऽप्यतिव्याप्तिरिति भावः । केचित्तु न यागोद्देशेनाविहितदेवताकत्वं श्रव्यक्तत्वं, ग्रहणार्थमुपात्तानां देवतानां यागसम्बन्धं विनाऽऽकांक्षानुपरमात्, न हि ग्रहणनिरूपितं देवतात्वं संभवति, त्यज्यमानद्रव्योद्देश्यत्वरूपत्वात् देवतात्वस्य; न हि ग्रहणकाले द्रव्यं त्यज्यते, अत एव च न प्रसादुपकारसिद्धिः । अन्यार्थमुपात्तस्य तत्र संभवदुपयोगस्य हि अन्येनोपजीवनं प्रसङ्गः । यथा पशुपुरोडाशे प्रयाजादेः, न च ग्रहणमात्रे उपयोगस्सम्भवतीत्युक्तं; किञ्च यदि प्रसङ्गादुपकारकत्वं देवतानां तदा त्वाभावात् गुणकामवत् विकृतावतिदेशो न स्यात् तो नेदमव्यक्त लक्षणम्, किन्तु यत्र तद्धितचतुर्थीमन्त्रवर्णैः प्रथमं यागार्थतयैव देवता विनियुक्ता तत् व्यक्तम् तद्भिन्नमव्यक्तम्, तत्त्वमव्यक्तत्वम् । न 'ह्येन्द्रवायव' मित्यादिभिः प्रथमं यागोद्देशेन देवता विधीयते, तत्र पश्चात् आर्थिकत्वाद्देवतासंबन्धस्य, अत एव तृतीये भक्षपेटिकायां "स्वाङ्गतयाऽविहितदेवताकत्वमेवाव्यक्तत्व" मित्युक्तं कौस्तुभे । अतो न दोष इत्याहुः । शक्यमेवेति । एकतरसत्त्वेऽपि एकदेशस्य ज्ञातत्वेन तेन समुदायज्ञानं सुकरमेवेत्यर्थः । विशेषज्ञानं क्लेशेन स्यादित्यन्वयः । क्लेशप्रकारमाह-यागसामान्यस्येति । विशेषज्ञानमन्तरा सामान्ये कस्यापि प्रवृत्त्यनुदयादिति भावः । सत्यां गतौ तादृशक्लेशसहनं न युक्तमिति हृदयम् । यत्र रूपोपलब्धिः तत्रैव कर्मविधिरिति स्वीकारे दोषमाशङ्कते- नन्वेवमिति । तच्छवणात् रूपश्रवणात् । अस्तु नाम 'दघ्ना जुहोती'त्यस्योत्पत्तिविधित्वं कोदोषः ? अत ग्रह-तथाचेति । 'आघाराग्निहोत्रमरूपत्वा'दित्यधिकरणे इत्यर्थः । आदिपदेन पयसा जुहोति, इत्यादिपरिग्रहः । ननु-कथं न रूपोपलब्धिः १ अग्निहोत्रपदस्यैव रूपोपलम्भकत्वात्, तह-अग्निहोत्रशब्दस्येति । अग्रे नामधेयनिरूपणावसरे । तथापि रूपोपलम्भाभावेऽपि । श्रानर्थक्यापत्तेरिति । धात्वर्थस्य वाक्यान्तरेण विहितत्वात् नामधेयस्य च वैश्वदेवादिशब्दवत् अनुवादप्रयोजनस्यापि कस्यचिदभावात् नर्थक्यापते २४ मीमांसान्यायप्रकाशः [ मत्वर्थलक्षणातिष्टोमेने' त्यस्य च नाऽऽनर्थक्यम् । अधिकारविधित्वोपपत्तेः । अतः किमर्थं संभवति रूपवति वाक्ये कर्मविधाने तद्रहिते तत्स्वीकार्यम् ? किं च 'दध्ना जुहोती'त्यस्य कर्मोत्पत्तिविधित्वे 'पयसा जुहोती'त्यनेनैतत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टद्ध्यवरोधात् । उत्पतिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते, आकाङ्क्षाया उत्पत्तिशिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं विधेयम् । तथाचानेकादृष्टकल्पनागौरवम् । 'अग्निहोत्रं जुहोती'त्यस्य तु उत्पत्ति विधित्वे एतद्वाक्यविहितस्य कर्मणो द्रव्याकाङ्क्षायां युगपदेव खलेकपोतन्यायेन 'दध्ना जुहोति', 'पयसा जुहोति' इत्यादिवाक्यैर्गुणा विधीयन्त इति नानेकादृष्टकल्पनागौरवम् । अतोऽग्निहोत्रं जुहोती त्ययमुत्पत्तिविधिः, 'पयसा जुहोती'त्यादयस्तु गुणविधय इति युक्तम् । 'सोमेन यजेते'त्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे न किंचिदूषणं, पक्षद्वयेऽप्येक स्यादृष्टस्य तुल्यत्वात् । तस्माद्युक्तं सोमेन यजे तेत्यय मेवोत्पत्तिविधिरित्यलमनया विधिनिरूपणानुगत प्रसङ्गचिन्तया । प्रकृतमनुसरामः । तत्सिद्धं विधिः प्रयोजनवन्तमप्राप्तमर्थं विधत्त इति । रिति भावः । रूपवति द्रव्यदेवताऽन्यतरबोधके वाक्ये कर्मविधाने संभवति सतरूपाभाववति ज्योतिष्टोमवाक्ये किमर्थं कर्मविधानं स्वीक्रियत इत्यर्थः । कि एतत्कर्मानुवादेन । दधिवाक्यविहितहोममनूद्य । उत्पत्तिशिष्टेति । उत्पत्तिवाक्यविहितेत्यर्थः ।विध्यभावे हेतुमाह-आकांक्षाया इति । द्रव्याकांक्षाया इत्यर्थः । तेनापि पयसा जुहोती'त्यनेनापि। विशिष्टंपयोरूपगुणविशिष्टम् । अस्तु नाम तत्रापि विशिष्टकर्मविधानं, का हानिः ? अति । फलोद्देशेन कर्मणो विधेयत्वेन तस्य च कालान्तरभाविनः अदृष्टमन्तरेणासंभवात् एकैकस्यापि कर्मण एकैकमदृष्टमिति अनेकादृष्टकल्पनाप्रसङ्ग इत्यर्थः । पक्षान्तरे दोषाभावं दर्शयति — अग्निहोत्रमिति । द्रव्याननुरक्तस्य शुद्धस्यैव कर्मणोऽग्निहोत्रवाक्येन विहितत्वात् तस्य च द्रव्याकांक्षायां तत्सन्निहितैः दध्यादिवाक्यैस्सर्वैरपि अविशेषाद्युगपदेव द्रव्ये समर्पिते 'एकार्थास्तु विकल्पेरन्' इति न्यायेन कर्मणा द्रव्याणां विकल्पेन ग्रहणादेकदा एकस्यैव यागसाधनत्वा देकमेवादृष्टं कल्पनीयमिति नानेकादृष्टकल्पनाप्रयुक्तं गौरवम् । युगपदन्वयाच्च नोत्पत्तिशिष्टत्वादि। कमपीति भावः । सर्वेषामुत्पन्नशिष्टत्वात् युगपदन्वयो युक्त इत्याशयः । खलेकपोतन्यायेनेति । कणिशानां मर्दनेन धान्यनिष्पादनस्थानं खलम् । तत्र धान्ये प्रसारिते तद्भक्षणार्थ बाला युवानो वृद्धाश्च कृपोता (अन्ये वा पक्षिणः ) युगपदेव पतन्ति । न क्रमशः । सोऽयं खले कपोतन्यायः । पक्षद्वयेऽपोति-गुणविधिपक्षे विशिष्टविधिपक्षे चेत्यर्थः । गुणस्य दृष्टविधयैव यागस्वरूपनिष्पादकत्वेन नात्रादृष्टकल्पनम् । यागस्य स्वर्गजनकत्वे परं एकमदृष्टं कल्पनीयम् । तच्चोभयोस्तुल्यमिति भावः । विधिनिरूपणानुगतप्रसङ्गचिन्तयेति । विधिनिरूपणमनुसृत्य तत्प्रसङ्गागता या चिन्ता तयाऽलमित्यर्थः । विधेः प्रयोजनवदर्थबोधकत्व-नि रूपणमुपसंहरति--तत्सिद्धमिति । PRAPTSTREEPPAM निरूपणम् JL सारविवेचिनोव्याख्या संवलितः स च विधिश्चतुर्विधः - उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः, अधिकारविधिश्चेति । (उत्पत्तिविधिनिरूपणम् ) तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः, यथा- अग्निहोत्रं जुहोतोति । उत्पत्तिविधौ च कर्मणः करणत्वेनैवान्वयः-होमेनेष्टं भावयेदिति । न तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगेनाधिकारवाक्यावगत फलसंबन्धो न स्यात् । करणत्वेन त्वन्वये होमेनेष्टं भावयेत्' किं तदिष्टमित्याकांक्षायां फलविशेषसंबन्धो घटते । न च उत्पत्तिविधाविष्टवाचकपदाभावेन कर्मणा इष्टं भावयेदिति कथं वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टबोधकत्वात् । सा हि(१) पुरुषार्थे पुरुषं प्रवर्तयन्ती कर्मणः फलसंबन्धमात्रं बोधयति । तस्माद्युक्तमुत्पत्तिविधौ कर्म करणत्वेनान्वेतीति । KATO अत एवोद्भिदा यजेते त्यादौ तृतीयान्त उद्भिच्छब्द उपपद्यते - उद्भिदा एवं विधेः प्रयोजनवत्वं निरूप्य इदानीं तं चतुर्धा विभजते-स चेति । प्रथमं कर्मस्वरूपज्ञानमन्तरा तदनुष्ठानासंभवात् गुणादिविधेरसंभवाच्च सर्वोपजीव्यत्वेन प्रथममुत्पत्तिविधिः, अनन्तरमुत्पन्नस्य प्रयोजनाकांक्षायां विनियोगविधिः, विनियुक्तस्य चानुष्ठानापेक्षायां अनुष्ठानविशेषबोधकः प्रयोगविधिः, एतावत्यनुष्ठेयपदार्थकलापे कोऽधिकरोतीत्यधिकारिविशेषापेक्षायां 'भारो यो येन वोढव्यः स प्रागातोलितो यदि । तदा कस्तस्य वोढेति युक्तं कर्तृनिरूपणम्" इति न्यायेनाधिकारप्रतिपादकोऽधिकारविधिश्च निरूपणीयः । अत एव सूत्रकारेणापि प्रथमद्वितीययोरध्याययोः प्रमाणभेदनिरूपणद्वारा उत्पत्तिविधिनिरूपणं, तृतीये ऽङ्गत्वनिरूपणद्वारा विनियोगविधिनिरूपणं, चतुर्थपञ्चमयोः प्रयोगविधिनिरूपणं, षष्ठेऽधिकारविधिनिरूपणञ्च कृतं इत्यभिसन्धाय तेनैव क्रमेण विधिं विभजते – उत्पत्तोति । तत्र विधिचतुष्टयमध्ये। कर्मस्वरूपमात्रेति । मात्रपदेन गुणफलादयो व्यावर्त्यन्ते । एवं च यत्रोत्पत्तिवाक्य एव गुणफलादयः श्रूयन्ते तत्रैकस्यैव वाक्यस्य कर्मस्वरूपांशमादायोत्पत्तिविधित्वं, गुणाद्यंशमादाय विनियोगवि• धित्वं, अधिकारविधित्वमित्यादि बोध्यम् । कर्मणः धात्वर्थस्य । करणत्वेनेति । भावनायामिति शेषः । भावनायां धात्वर्थस्य साध्यत्वेनान्वयवादिनो बादरेस्तदनुयायिनां च मतं खण्डयति-न त्विति । तथान्वये दोषमाह -तथा सतीति । इष्टं भावयेदित्यनन्तरं इति बोधे जाते इति पूरणीयम् । विधिश्रुतेरिति । एतच पूर्वमेवास्माभिरुपपादितम् । अत एव कर्मणः करणत्वेनान्वयाभ्युपगमादेव । उपपद्यत इति । धात्वर्थस्य भावनायां करणत्वेनान्वयाभ्युपगमादेवोद्भिदादिपदानां तन्नामत्वस्य वक्ष्यमाणत्वेन तत्सामानाधिकरण्यात् तन्निष्ठकरणत्वानुवादकस्सन् उपपद्यत इत्यर्थः । तदेवाभिलपति - उद्भिदा यागेनेति । केचित्तु मण्डनमिश्रप्रभृतयो मीमांसका वैयाकरणाश्च इष्टसाधनत्वमेव लिडर्थमभ्युपगच्छन्ति । १ पुरुषार्थ प्रति ४ मी० म्या० २५ Bhandadar Oriental Research Institute THEON VIENE FIRE २६ मीमांसान्यायप्रकाशः [ विनियोगविधियागेन इष्टं भावयेत् इत्यन्वयोपपत्तेः । येषामपोष्टसाधनत्वं लिङर्थः, तेषामपि तृतीयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्न एव । न हि संभवति याग इष्टसाधनमुद्भिदेति, तृतीयोपात्तस्य कारकस्य लिङ्गसंख्यान्वयायोग्यस्य क्रिययैवान्वयात् । ननु-तवाप्य'ग्निहोत्रं जुहोती' त्यादिषु कर्मोत्पत्तिविधिषु द्वितोयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्नः, न हि संभवति होमेन भावयेदग्निहोत्रमिति । सत्यम् ; श्रूयमाणा तावद्वितीयाऽर्थाक्षिप्तसाध्यत्वानुवादः, होमस्य हि करणत्वेनान्वयात् प्रसाधितस्य च करणत्वानुपपत्तेः तस्याश्चानन्वयोपस्थिती सा 'सक्तून् जुहोती' तिवत् तृतीयार्थ लक्षयति-अग्निहोत्रेण हो मेनेष्टं भावयेदितीत्युक्तं पार्थसारथिमिश्रैः । श्रुतश्च द्वितीयान्तानां कर्मनामधेयाना मन्वयो नानुपपन्नः । तत्सिद्धमुत्पत्तिविधी कर्म करणत्वेनान्वेतोति । ( विनियोगविधिनिरूपणम् ) अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । यथा-दध्ना जुहोतो. तेषां मते तृतीयान्तानामन्वयानुपपत्तिं दर्शयति- येषामिति । इष्टसाधनत्वस्य लिङर्थत्वे यजेतेत्यस्य याग इष्टसाधनमित्यर्थः पर्यवसितः, तेन सह तृतीयान्तस्यान्वयो न सम्भवतीत्यर्थः । तत्र हेतुमाह- तृतीयेति । क्रिययैवान्वयादिति । संख्यानन्वयिपदोपस्थाप्यार्थप्रकारकशाब्दबोधं प्रति आख्यातपदजन्योपस्थितेः कारणत्वात् क्रियान्वयाभावे क्रियान्वयित्वरूपकारकत्वभङ्गापत्ते रिति भावः । ननु – भवन्मतेऽपि केषाञ्चित् द्वितीयान्तानां नामधेयानामन्वयो ऽनुपपन्न एव । सत्येवमुभयोर्दोषसाम्ये कथमहमेव पर्यनुयोगार्हः, "यश्चोभयोस्समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यः तादृगर्थविचारणे" इति ह्यभियुक्ताः कथयन्ति इत्याशयेन शङ्कते– नन्विति । इत्यादिष्वित्यादिपदेन 'आधारमाघारयति' 'समिधो यजति' 'श्राज्यभागी यजती' त्यादिपरिग्रहः । सत्यमन्वयानुपपत्तिरूपो दोष उभयोरपि समानः, तदर्थं च लक्षणायामाश्रीयमाणायां यथा द्वितीयान्ते तथैव तृतीयान्त इत्येतदपि तुल्यमेव; तथापि मन्मते द्वितीयया करणत्वे लक्षणीये असाधितस्य धात्वर्थस्य करणत्वानुपपत्या अर्थाक्षिप्तस्य स्वशक्यार्थस्य साध्यत्वस्य "सौर्य चरुं निर्वपेदि" त्यादौ निर्वापादिवत् यथानुवादः, नैवं सम्भवति भवत्पक्षे तृतीयया साध्यत्वलक्षणायामित्यस्मन्मत एव लाघवमित्याशयवान् परिहरति - सत्यमिति । असाधितस्येति । नासाधितं करणमिति न्यायादिति भावः । तस्याः द्वितीयायाः । अनन्वयोपस्थितौ अन्वयानुपस्थितौ । अन्वयानुपपत्त्येति यावत् । सक्तून् जुहो तीतिवदिति । यथा 'सक्तून् जुहोतो'त्यत्र सक्तूनां भूतभाव्युपयोगाभावेन संस्कार्यत्वानुपपत्तेः श्रयमाणापि द्वितीया करणत्वलक्षिकेत्युक्तं तद्वदित्यर्थः । उक्तमिति । तत्प्रख्याधिकरण इति शेषः । उत्पत्तिविधिनिरूपणमुपसंहरति 1917 नाव धार तत्सिद्ध मिति । क्रमप्राप्तं विनियोगविधिं निरूपयति — श्रृङ्गप्रधानेति । अस्य प्रधानस्य च निरूपणम् ] सारविवेचनी व्याख्यासंवलितः तिति । सहि तृतीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते-दध्ना होमं भावयेदिति । एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत्सहकृतेन विधिना अङ्गत्वं परोद्देशप्रवृत्तकृतिव्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते । (श्रुतिनिरूपणम्) 77 तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा-विधात्री, अभिधात्री, विनि२७ यः सम्बन्धः साध्यसाधनभावः तद्द्बोधक इत्यर्थः । तृतीयाप्रतिपन्नेति । तृतीयया ज्ञातेत्यर्थः । एवञ्च दध्नेति तृतीया करणत्वापरपर्यायं साधनत्वं बोधयति, तच्च जुहोतीति विधिप्रत्ययो विदधातीत्यर्थः । तत्र च भावनायां होमस्य भाव्यत्वेनान्वयः, तदेवाभिलपति-दना होममिति । एवं विनियोगविधिस्स्वरूपं निरूप्य तदुपकारकारिण श्रुत्यादीनि षट् प्रमाणानि निरूपयितुमुपक्रमते-एतस्येति । षडित्यधिकसंख्याव्यवच्छेदार्थम् । एतेन उपादानाख्यं सप्तमं प्रमाणं विनियोगकारणमभ्युपगम्य तेन प्रोक्षणादेः क्रत्वर्थत्वं बोध्यते । अत एव तस्य चतुर्थाध्यायनिरूपणीयत्वमिति चतुर्थाध्याये उपादानाख्यं प्रमाणमेव निरूप्यते इति वदन्तः प्राभाकरा निरस्ताः । नह्युपादानाख्यप्रमाणाभ्युपगमे प्रमाणमस्ति । प्रोक्षणादीनां क्रत्वर्थत्वस्यापूर्वार्थत्वस्य वा श्रुत्यैवावगमात् । प्रोक्षणादीनां श्रुत्या बोधितमङ्गत्वं वीह्यादिस्वरूपे अनर्थकं सत् अपूर्वसाधनत्व एव पर्यवस्थतीति तावत्पर्यन्तं श्रुतिव्यापाराभ्युपगमावश्यंभावात् । विस्तरेणायमर्थो न्यायरत्नमालायामङ्गनिर्णये निरूपित इति तत एवावगन्तव्यम् इत्यभिसन्धिमान् प्रमाणानि परिगणयति – श्रुतीति । एतत्सहकृतेन प्रमाणषट्कसहकृतेन । ननु किं नामाङ्गत्वम्, नोपकारकत्वमङ्गत्वम् गोदोहनादेरपि प्रणयनाद्युपकारकत्वेन तदङ्गतापत्तेः; जामात्रर्थे कृतस्य दीपस्य शिष्योपकारकत्वेऽपि तदनङ्गत्वाच्च; नाप्यविनाभावः, आग्नेयादीनां परस्परात्वापत्तेः; नापि प्रयोज्यत्वं तत्, 'पुरोडाशकपालेन तुषानुपत्रपती' त्यत्र पुरोडाशकपालस्य तुषोपवापप्रयोज्यत्वाभावेऽपि अङ्गत्वसत्वात्, अत - परोद्देशेति । अन्योद्देशेन प्रवृत्तस्य पुरुषस्य या कृतिः तद्व्याप्यत्वं कारकत्वेन तत्सम्बन्धित्वमित्यर्थः । अतः कालादेः कृतिसाध्यत्वाभावेऽपि नाङ्गत्वव्याघातः, फलस्यापि कारकत्वेन तत्सम्बन्धित्वात् स्वस्यैव स्वाङ्गत्ववारणाय – परेति । किमिदं जैमिनीयात् पारार्थ्यरूपादनत्वात् भिन्नम् ? नेत्याह- पारार्थ्येति । पारार्थ्यमित्यपरः पर्यायो वाचकशब्दो यस्य तदित्यर्थः । एवंच विधिरेवाङ्गत्वं विदधाति । विधेयसमर्पक श्रुत्यादिकं तत्सहकारि भवतीति भावः । तत्र प्रमाणषट्कमध्ये । निरपेक्ष इति । अङ्गत्वबोधने लिङ्गादिवत् प्रमाणान्तरमनपेक्षमाण इत्यर्थः । श्रुतिं विभजते-सा चेति । यद्यप्यत्र विनियोगप्रस्तावे विधात्र्यभिधात्र्योः निरूपणं नातीव सङ्गतम्, तथापि श्रुतिप्रसङ्गात् तयोः विधिसहकारित्वात् ग्रन्थकर्तृभिरुक्तत्वाच्च तन्निरूपणमिति बोध्यम् । उक्तं हि न्यायरत्नमालायां पार्थसारथिमिश्रैः-तत्र श्रुतित्रिधा भिन्ना विध्युक्तिविनियोगकृत् । विनियोक्त्रोIn २८ मोमांसान्यायप्रकाशः [ श्रुतियोकत्री चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्रो व्रीह्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोकी । सा च त्रिधा-विभक्तिरूपा, समानाभिधानरूपा, एकपदरूपाचेति । तत्र विभक्तिश्रुत्याङ्गत्वं यथा-'व्रीहिभिर्यजेते'ति तृतीयाश्रुत्या वोहोणां यागाङ्गत्वम् । न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं व्रोहीणामङ्गत्वमिति वाच्यम् । पुरोडाशप्रकृतितयोपपत्तेः, पशोरिख हृदयादिरूपहविष्प्रकृतितया यागाङ्गत्वम् । न च साक्षात्पशोरेवाङ्गत्वं किं न स्यादिति वाच्यम्, तस्य विशसनात्, श्रवदीयमानत्वाच्च हृदयादीनाम् । श्रवदोयमानं हि हविः, यथा पुरोत्रिधा भिन्ना तुल्यशब्दादिभेदतः ॥ इति । तत्र श्रुतित्रयमध्ये । लिङाद्यात्मिकेति । यः प्रत्ययो विधायको लिङादिः स एव विधात्री श्रुतिरित्यभिधीयते इत्यर्थः । श्रवणादेवेति । शब्दान्तरापेक्षां विनैवेत्यर्थः । सा विनियोक्त्री । एवं श्रुतिं विभज्य विधात्र्याः अभिधात्र्याश्च साक्षाद्विनियो जकत्वस्याभावेन ते उपेक्ष्य विनियोक्त्र्याः विनियोजकत्वमुपपादयति — तत्रेति । विनियोक्त्रीत्रयमध्य इत्यर्थः । ननु -'यदाग्नेयोऽष्टाकपालीऽमावास्यायां च पौर्णमास्याञ्चाच्युतो भवति, ताभ्यामेतमग्नोषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्' इत्यादिभिः द्रव्यविशिष्टस्यैव यागस्य विधानादुत्पत्तिशिष्टद्रव्यावरोधे वाजिनन्यायेन द्रब्यान्तरनिवेशस्यासम्भवात् कथं ब्रीहीणां यागाङ्गत्वेन विधानं इति शङ्कते - न चेति । पुरोडाशप्रकृतितयेति । पुरोडाशस्य पिष्टपिण्डरूपत्वेन पिष्टानां प्रकृतिद्रव्यापेक्षायां तत्वेन त्रीहीणां विधानमित्यर्थः । दृष्टान्तमाह - पशोरिवेति । "अग्नोषोमोयं पशुमालभेत" इत्यनेन वाक्येन यथा हृदयादिहविःप्रकृतित्वेनैव पशोर्विधानं तद्वदत्रापीत्यर्थः । ननु उत्पत्तिवाक्ये पुरोडाशस्य साक्षाद्देवतासम्बन्धबोधनेन यागसाधनत्वावगमात् न तेन विकल्पः समुच्चयो वा सम्भवतीति युक्तं तत्प्रकृतित्वेन ब्रीहीणां विधानं, पशोस्तु साक्षादेवोत्पत्तिवाक्ये देवतासम्बन्धोऽवगम्यत इति साक्षादेव यागसाधनत्वमस्तु, किमर्थं हविःप्रकृतित्वेन विधानमङ्गीक्रियत इति शङ्कते - न चेति । विशसनादिति । 'पशुं विशास्ति' इत्यनेन विशसनस्य विहितत्वात् साक्षादेवाज्ञत्वे तथैव त्यागस्यापि कर्तव्यतया तदाम्नानं व्यर्थ स्यादिति भावः । विशसनं छेदनम् । ननु न केवलं विशसनाम्नानमात्रेण प्रकृतित्वं वक्तुं शक्यते, विशस्यावदायापि पुरोडाशवत् त्यागहोमयोः कर्तुं शक्यत्वादित्यत आह - अवदीयमानत्वाच्च हृदयादोनामिति । एकादशानामिति शेषः । एवञ्च पशोः यागसाधनत्वान्यथानुपपत्या यद्यपि प्रत्येकं द्व्यवदानं प्राकृतं निखिलाङ्गेषु प्रा. प्नोति, तथापि तस्यैवातिदेशेनोपस्थापितस्यावदानान्तरस्य वा तत्स्थानापन्नस्य हृदयादिवाक्यैः हृदयादिसंस्कारकत्वेन विधानात् तेन च हृदयादीनां एकादशानामेवाङ्गानां हविष्ट्वसिद्धेः इतरेषां हविष्ट्रपरिसंख्यानाच्च सिद्धं पशोः प्रकृतिद्रव्यत्वमिति भावः । हृदयादोनामित्यादिपदेन जिह्वा, वक्षः, यकृत्, वृक्यौ, सव्यं दोः, उभे पावें, दक्षिणा श्रोणिः, गुदतृतीयं, इत्येतानि गृह्यन्ते । अवदीयमानं हि हविरिति । द्विई1917 Rese titute निरूपणम् ] सारविवेचिनोव्याख्या संवलितः २६ डाशादिः, "मध्यात्पूर्वार्धाच्चावद्यती"ति वाक्यात् । हृदयादीनि चावदोयमानानि, न पशुः, 'हृदयस्याग्रेऽवद्यतीति वाक्यात् । अतो हृदयादीन्येव हवींषि, पशुस्तु प्रकृतिद्रव्यम् । तु पात्नीवतयागे तु साक्षात्पशुरेवाङ्गम् । तस्य जोवत एव 'पर्यग्निकृतं पात्नीवतमुत्सृजति" इत्युत्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रकृति- द्रव्यमित्येव सिद्धम् । एवं ब्रोहयोऽपि प्रकृतिद्रव्यतया यागाङ्गं तृतोयाश्रुत्येति । श्रारुण्यस्यापि क्रयाङ्गत्वं तृतोयाश्रुत्या । न चामूर्तस्य तस्य कथं क्रयाङ्ग- त्वमिति वाच्यम् । एक हायनीरूपद्रव्यपरिच्छेदद्वारा तदुपपत्तेः ॥ 'वीहीन् प्रोक्षतो'त्यत्र प्रोक्षणस्य वोह्यङ्गत्वं द्वितोयाश्रुत्या । तच्च प्रोक्षणं न वोहिस्वरूपार्थम्, स्वरूपे श्रानर्थक्यात्, वोहिस्वरूपस्य प्रोक्षणं विविषोऽवद्यती"ति हविष एवावदानश्रवणादिति भावः । मध्यादिति । मध्यात्प्रथममवद्यति, पूर्वार्धाद्वितीयमवद्यतीत्यर्थः । यद्यपीदं अवदान प्रदेशमात्र विधायकं नावदानविधायकं, तथापि हविस्सम्बन्धिमध्यादिदेशविधायकत्वेनास्यापि हविस्सम्बन्धोऽस्तीत्याशयेनोदाहृतम् । हृदयस्याग्रेऽवद्यतीति वाक्यादिति । अनेन न प्राकृतमवदानमतिदेशतस्तथैव प्राप्नोति हृदयादिषु । किन्तु अनेनैव वाक्येन प्राकृतमेवावदानं अवदानान्तरं वा प्राकृतकार्यापन्नं हृदयादिसंस्कारत्वेन विधीयत इति सूचितम् । हृदयादीनामेव हविष्वमिति सिद्धे अर्थसिद्धं प्रकृतिद्रव्यत्वं पशोरित्याशयेनाह - पशुस्त्विति । एवञ्च यत्र विशसनाद्याग्नातं तत्रैव पशोः प्रकृतिद्रव्यत्वं, यत्र तु तन्नास्ति तत्र सा- क्षादेवाङ्गतेत्याह-पात्नीवतेति । 'त्वाष्ट्रं पात्नोवतमालभेते' त्यनेन विहित इत्यर्थः । साक्षादेवेत्यन्वयः । उत्सर्गविधानादिति । पर्यग्निकृतमिति वाक्येन क्लृप्तोपकारप्रा- कृतपर्यग्निकरणान्ताङ्गरीतिविधानेन भावनाया नैराकाङ्क्षयात् उत्तराङ्गानामर्थादेव नि. वृत्तत्वेन जीवत एव पशोः देवतोद्देशेन (यागस्यावश्यम्भावादिति भावः ॥ एवं द्रव्यस्य श्रुत्याङ्गत्वमुपपाद्य गुणस्येदानीं तथा तदुपपादयति-आरुण्यस्येति । 'अरुणया पिङ्गायैकहायन्या सोमं क्रोणाति' इति वाक्यविहितक्रयाङ्गत्वमित्वर्थः । द्रव्यपरिच्छेद इति । प्राथमिकबोधे क्रयभावनायां साक्षात्करणत्वेन आरुण्यस्यान्वयेऽपि अनन्तरं योग्यतागवेषणादशायां स्ववाक्योपात्तद्रव्यद्वारकं तदित्यध्यवसी यत इति भावः । द्वितीया श्रुतेरुदाहरणमाह —व्रीहोन् प्रोक्षतींति । अत्र द्वितीया वीहीणामुद्देश्यत्वं बोधयन्ती प्रोक्षणादेरङ्गत्वे हेतुरिति ध्येयम् । ननु प्रोक्षणस्य व्रीह्यङ्गत्वे आरुण्येन क्रय इव प्रोक्षणेनापि व्रीहयो जननीयाः । तच्च न सम्भवति । प्रोक्षणात् पूर्वमेव व्रीहिस्वरूपस्य सिद्धत्वात् । अतः कथं प्रोक्षणस्य श्रीह्यङ्गत्वमित्यत ग्राह-तच्चेति । ननु श्राधानस्याहवनीयादिस्वरूपार्यत्वेऽपि यथा नानर्थक्यं तद्वदत्राप्यस्तु, त आह—ब्रोहिस्वरूपस्येति — ग्राहवनीयादेरपूर्वरूपत्वेन तत्स्वरूपस्यान्यथोपपत्तौ प्रमाFOL ३० मीमांसान्यायप्रकाशः [ श्रुतिनाऽनुपपत्त्य भावात्, किं त्वपूर्वसाधनत्वप्रयुक्तम् । यदि व्रीहिषु प्रोक्षणं क्रियते तदा तैर्यागेऽनुष्ठितेऽपूर्वं भवति नान्यथेति । अतः प्रकरणसहकृतया द्वितीयाश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं तदङ्गत्वं प्रोक्षणस्योच्यत इति । एवं सर्वेष्वप्यङ्गेषु अपूर्वप्रयुक्तत्वं वेदितव्यम् । एवं 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त' इत्यत्रापि द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम् । यत्तु वाक्योयीऽयं विनियोग इति, तन्न, तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभिधान्यङ्गं (१) भवति तावल्लिङ्गाद्रशनामात्राङ्गत्वमेव स्यात्, 'स्योनं ते सदनं कृणोमो' त्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपत्ते तु यावल्लिङ्गादशनामात्राङ्गत्वं (२) सम्भवति तावत् श्रुत्या 'ऐन्द्या गार्हपत्यमुपतिष्ठते' इत्यत्र तृतीयाश्रुत्या ऐन्द्रया ऋचो गार्हपत्योपस्थानाङ्गत्ववदश्वामिधान्यां विनियोगः क्रियते इति युक्तं मन्त्रस्याश्वाभिधान्यङ्गत्वम् । तस्माच्छ्रौत एवायं विनियोगः । णाभावादित्याशयः । अपूर्वसाधनत्वप्रयुक्तमिति । व्रीहिनिष्ठं यत्प्रकृतापूर्वसाधनत्वं तन्निष्ठप्रयोजकतानिरूपितप्रयोज्यताशालीत्यर्थः । अत्र प्रयोज्यत्वं न परम्पराजन्यत्वरूपम् । प्रोक्षणादेरपूर्वजन्यत्वाभावात्, किन्तु अनुष्ठाप्यत्वरूपम्, अपूर्व हि स्वसिद्धयर्थं व्रीहिषु प्रो क्षण मनुष्ठापयतीत्याशयेनाह - यदीति । प्रकरणसहकृतयेति । अपूर्वसम्बन्धित्वबोधकप्रकरणमन्तरा श्रुत्यादेः स्वतो विनियोजकत्वासम्भवादिदमुक्तम् । तराडुलनिवृत्तिप्रणाडयेति । श्राज्यादेरप्यपूर्वसाधनत्वाविशेषात् तत्र प्रोक्षणप्राप्तौ तद्व्यावृत्त्यर्थमिदं विशेषणम् । यदपूर्वसाधनमिति । एवं च पूर्वसाधनत्वस्यैवोद्देश्यतावच्छेदकत्वात् त्रीहित्वा दे रुद्देश्यतावच्छेदककोटावप्रवेशात् सिद्ध्यति यवेष्वपि प्रोक्षणम् । तण्डुलनिष्पत्तिप्रणाड्येतिविशेषणाच्च नाज्यादिषु प्रोक्षणप्रसक्तिरित्याशयः । सर्वेष्व. पीति । यत्र दृष्टार्थता न सम्भवति, तादृशाङ्गेषु केवलापूर्वप्रयुक्तत्वम्, यत्र तु दृष्टार्थता, तत्र नियमापूर्वप्रयुक्तत्वमित्यर्थः । अश्वाद्वितीयाश्रुतेरुदाहरणान्तरमाह-एवमिति । इमामगृभ्णन्निति । अस्ति महाग्निचयकप्रकरणे उख्याग्निर्मुञ्जमये शिक्येऽवधाय संवत्सरं यावत् यजमानेन भरणीयः । तादृशाग्न्याधारपात्रमुखा। सा च मृदा निर्मातव्या तत्र मृदाहरणार्थमरण्यं गच्छन्नध्वर्युरश्वमेकं गर्दभमेकं च नयेत् । आक्रमणादिना मृत्संस्कारार्थः । गर्दभस्तु मृदाहरणार्थः । तत्राश्वगले वद्धा रज्जुरश्वाभिधानी । तद्ग्रहणे मन्त्रोऽयं विनियुज्यते । भिधानीं अश्वरशनाम् । अनेन मन्त्रेणाश्वरशनां गृह्णीयादिति वाक्यार्थः । द्वितीयाश्रुत्येति मध्यमपदलोपिसमासः । अत्र मन्त्रस्य इतिकरण विनियुक्तत्वेन वाक्यादेवाश्वाभिधान्यङ्गत्वं इति वदतां पार्थसारथिमिश्राणां मतमनूद्य दूषयति - यत्चिति । बलीयस्त्वेनेति । एतच्चोपरिष्टान्निरूपयिष्यते । रशनामात्रेति । रशनाद्वयेत्यर्थः । स्योनं त इति । एतदद्युपरिष्टान्निरूपयिष्यते । यावल्लिङ्गादिति । लिङ्गस्य स्वतो विनियोजकत्वाभावेन श्रुतिं कल्पयित्वैव विनियोजकत्वं वाच्यम् । अतश्च यदा लिङ्गेन Bhan Rese titut १. ङ्गत्वं सम्भ. २. भवति निरूपणम् ] सारविवेचिनोव्याख्या संवलितः ३१ 'यदाहवनीये जुहोती'त्याहवनीयस्य होमाङ्गत्वं सप्तमोत्या । एवमन्योऽपि विभक्तिश्रुत्या विनियोगो ज्ञेयः । पशुना यजेतेत्यत्रै कत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम् । यजेतेत्याख्याताभिहितसङ्ख्याया भावनाङ्गत्वं समानाभिधानश्रुतेः । एकपदश्रुत्या च यागाङ्गत्वम् । न चामूर्तायास्तस्याः कथं यागाङ्गत्वमिति वाच्यम् ; कर्तृपरिच्छेदद्वारा तदुपपत्तेः । कर्ता चाक्षेपलभ्यः । आख्यातेन हि भावनोच्यते । श्रुतिं कल्पयित्वा रशनामात्रे विनियोगः क्रियते, ततः पूर्वमेव प्रत्यक्षा श्रुतिरश्वाभिधान्यां मन्त्रं विनियुङ्क्त इति लिङ्गस्य श्रुत्या बाधितत्वात् युज्यतेऽश्वाभिधान्यङ्गत्वं मन्त्रस्येति भावः । सप्तमीश्रुतेरुदाहरणमाह - यदिति । अन्योऽपोति । सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ, मैत्रावरुणाय दण्डं प्रयच्छति, अग्नेः तृणान्यपचिनोति, गोदोहनेन पशुकामस्य प्रणयेत्, यजमानस्य याज्या इत्यादौ चतुर्थीपञ्चमीषष्ठीविभक्तिभिः विनियोगो बोध्य इत्यर्थः । एवं विनियोक्त्रीं विभक्तिरूपां श्रुतिं निरूप्येदानीं समानाभिधानरूपां तां निरूपयति–पशुनेति । 'यो दीक्षितो यदग्नीषोमीयं पशुमालभते' इतीदमेव वाक्यं तृतीयान्तत्वेन विपरिणतपशुपदं त्यक्ताम्नीषोमीयपदं 'पशुनायजेते' त्यर्थतः सर्वत्रोदाहियते नान्यदतोऽस्ति पशुना यजतेति वाक्यम् । प्रत एव चतुर्थे पश्वेकवाधिकरणे इदमेव वाक्यमुदाहृतं भाष्यकारैरिति ध्येयम् । वस्तुतस्तु पौर्णमास्यधिकरणशास्त्रदीपिकापर्यालोचनया तदधिकरणस्थ 'चोदना वा गुणाना' मिति सूत्रकौस्तुभपर्यालोचनया च पशुना यजेतेति अग्नीषोमीयवाक्यतो भिन्नं वाक्यान्तरप्राप्तकर्मोद्देशेन जातिसंख्या विशिष्टकारक विधायकं शाखान्तरीयं वाक्यमित्येव युक्तं प्रतीयते । समानाभिधानश्रुत्येति । त्रयाणा मेकेनैव प्रत्ययेनभिहितत्वात् एकाभिधानरूपया श्रुत्येत्यर्थः । कारकाङ्गत्वं करणत्वसम्बन्धः । यद्यपि लिङ्गसंख्ययोः प्रातिपदिकार्थनिष्ठत्वेन तदङ्गत्वमेव वक्तुं युक्तम्, तथापि करणत्वस्य एकप्रत्ययगम्यत्वेन शीघ्रमुपस्थितत्वात् प्रत्ययार्थत्वेन प्राधान्याच्च पूर्व तत्रैवाऽन्वयः । तत्रैव चान्वितेन प्रातिपदिकार्थेन पाष्र्ष्टिकस्सम्बन्ध इति भावः । एवं च पुमानेक एव पशुरालब्धव्य इति सिद्धम् । तिङन्तस्थलमप्युदाहरति - यजेतेति । एकपदश्रुत्येति । 'सुप्तिङन्तं पद' मिति व्याकरणस्मृत्यनुरोधेन तिङन्तस्यैव पदत्वाभ्युपगमात् तिङन्तस्यैव पदत्वादिति भावः। श्राख्याताभिहित संख्याया इत्यनुषज्यते । ननु मूर्त्तस्यैव द्रव्यस्य क्रियासाधनत्वं सम्भवति, न स्वमूर्त्तस्य गुणसंख्यादेः, अतः कथमस्य यागाङ्गत्वमिति शङ्कते—न चेति । कर्त्रीिति । सत्यं अमूर्त्ताया न साक्षात् क्रियाजनकत्वं, तथापि प्रथमतो भावनान्वये पश्चायोग्यताजिज्ञासायां श्राख्यातोपात्तकर्तृरूपद्रव्यसम्बन्धद्वारा प्रारुण्यवत् तदध्यवसीयत इति भावः । नात्र कर्त्तोपलभ्यते, । तेजस्विनावधीतमस्तु ॥ Research स्यात् । ग्राह-कर्त्ता चेति । श्राक्षेपलभ्य इति । अन्यथानुपपत्तिप्रमाणगम्यkar Ori ३२ सा च कर्तारं विनाऽनुपपन्ना तमाक्षिपति । मीमांसान्यायप्रकाशः 1119 [ आख्यतार्थप्रतिशत प्रतिश (ख्यातार्थनिरूपणम् ) ननु-किमित्येवं वर्ण्यते-आक्षेपलभ्यः कर्तेति । श्राख्यातवाच्य एव किं न स्यात् । आख्यातश्रवणे भावनाया इव कर्तुरपि प्रतिपत्तेः । न च भावनयेवाक्षेपसंभवे किमिति तद्वाचकत्वं कल्पनीयमिति साम्प्रतम् । तथा सति आख्यातवाच्यकत्रैव भावनाक्षेपसंभवे तद्वाचकत्वमपि न स्यात् । किं च भावनाया न केवलं कत्रैव सम्बन्धः, कारकन्तरेणापि सम्बन्धात् । अतः सा न झटिति कर्तारमेवाक्षिपेत्, विशेषाभावात् । कर्ता तु भावनयैव संबद्धो न कारकान्तरेण, 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायात् । अतः स झटिति तामाक्षिपेदिति स एवाख्यातवाच्यः । भावना तु आक्षेपलभ्यैव किं न स्यात् । किंचैवं तृतीयादिविभक्तीनामपि करणादिवाचकत्वं न स्यात्, तेषामपि कर्तृवदाक्षेपलाभसंभवात् । किंच यदि कर्ता न वाच्यः स्यात् कथमेकत्वं तेनान्वियात् ? न हि शाब्दमशाब्दे (१) नान्वेतीति युक्तम् । अन्यथा ऊहादिलोपप्रसङ्गः । किंच देवदत्तः इत्यर्थः । ग्राक्षेपलभ्यत्वमुपपादयति – आख्यातेन होति । अनुपपन्नेति । तस्याः चेतनव्यापाररूपत्वेन।ऽऽश्रयमन्तराऽवस्थानासम्भवादिति भावः । इदानीं कर्तुराख्यातवाच्यत्ववादी वैयाकरणः प्रत्यवतिष्ठते–नन्विति । आाख्यातवाच्यत्वमुपयादयति-आख्यातश्रवण इति । यद्यस्मान्नियमेन प्रतीयते तत्तस्य वा. च्यमिति पूर्वमप्युक्तत्वादिति भावः । तद्वाचकत्वं कर्ताऽऽचकत्वम् । न स्यादित्यनन्तरं इत्यपि वक्तुं शक्यत्वादिति पूरणीयम्, तथा च कर्तुराख्यातवाच्यः तेन भावनाक्षिप्यते, भावनाया ग्राख्यातवाच्यत्वं, तथा वा कर्तुराक्षेप इत्यत्र विनिगमनाविरह इत्याशयः । नन्वस्तु विनिगमनाविरहः, न तावता भवदिष्टसिद्धिः, अत ग्रह-किञ्चेति । यदि कत्रैव परमसाधारणः सम्बन्धः स्यात् तर्ह्याक्षिपेत् भावना कर्त्तारं, नैतदस्तीति भावः । झटिति इतरकारकाक्षेपतः पूर्वम् । स्वमत एतद्वैषम्यमाह - कर्त्ता विति । कर्तुः कारकत्वेन क्रियान्वयस्यैवोचितत्वादिति भावः । गुणानामिति । गुणानां प्रवानार्थत्वेन समत्वात् परस्परं सम्बन्धो न भवतीति सूत्रार्थः । ननु भावनायाः सर्वकारकसम्बन्धेऽपि प्रथमतः कत्रैव सा सम्बध्यते तदधीनत्वा दितरकारकसमवधानस्य, कर्तृव्यापारसामान्यरूपा हि सा तमेव विशेषतः पर्युपस्था पयति, कारकान्तराणि तु धात्वर्थसम्बन्धित्वाद्बहिरङ्गाणि भवन्ति । अतः प्रथमोपस्थितत्वात्प्रथमातिक्रमणे कारणाभावाच्च कर्त्ताऽऽक्षिप्यत इत्यस्वरसादाह-किञ्चेति । आक्षेपलामसम्भवादिति । आक्षेपलाभमात्रेण वाच्यत्वाङ्गीकारे तथा कर्तृवदितरेषामप्याक्षेपसम्भवाद्वाच्यत्वं न स्यादित्यर्थः । लावधीतमस्तु ननु यथा नियमेन कर्त्ताऽऽक्षिप्यते, न तथा कारकान्तराणि । अतस्तेषां व्यभि१. न्वेति. ३३ निरूपणम् ] सारविवेचिनीव्याख्या संवलितः पचतीति सामानाधिकरण्यं न स्यात् । न हि केवलं भावनावाचकस्याख्यातस्य देवदन्तपदेन सामानाधिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृवाचकत्वे तूपपद्यत एव । 'लः कर्तरी'ति व्याकरणस्मृतिविरोधस्तु कर्तुरनभिधेयत्वे स्पष्ट एव । किं च कर्तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः । तृतीया हि अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन कर्ता (१) नाभिहित इति कर्तृवाचिनी तृतीया स्यादेव । कर्तुरभिधाने तु अभिहितत्वादेव तृतीया न प्राप्नोति, तस्या अनभिहिताधिकारस्थत्वात् । देवदत्तः पचतीति प्रथमा तु प्राप्नोत्येव, प्रथमाया अभिहितकारकविभक्तित्वात्, प्रातिपदिकार्थमात्रवाचि. चारदर्शनाद व्यभिचाराच कर्त्तुराचेप इत्यरुचेराह - किञ्चेति । ऊहादिलोपप्रसङ्गादिति । प्राकृतस्य मन्त्रस्य विकृतौ कार्यमुखेनागतस्य विकृतिसम्बन्धिपदार्थप्रकाशनार्थं प्राकृतपदत्यागेन पदान्तरप्रक्षेपोऽत्र ऊहः । तत्र यद्यशाब्दस्यापि शाब्देनान्वयोऽङ्गीक्रियेत तदा सौर्यादौ सूर्यपदप्रक्षेपमन्तराऽपि स्मृतया सूर्यदेवतया सह शाब्दस्य निर्वापादेरन्वयसम्भवादूहलोपः प्रसज्येतेत्यर्थः । श्रादिपदेन अतिदेशानुषङ्गाध्याहाराणां परिग्रहः विकृतिभावनाया इतिकर्त्तव्यताकाङ्क्षायामुपमितिप्रमाणेनोपस्थितप्राकृतपदार्थान्वयमात्रेणाकाङ्क्षाशान्तेः प्रकृतिवच्छन्दकल्पनं न स्यात्; इषे त्वेत्यादौ "छिनझि" इत्यध्याहारो न स्यात् ; "या ते अग्ने रजाशये" त्यादौ तनूरित्यादेरनुषङ्गश्च न स्यात् इति भावः । सामानाधिकरण्यं एकार्थविषयकबुद्धिजनकत्वम् । केवलं भावनावाचकस्येति । एतेन नाख्यातस्य कर्तृलक्षकत्वमपि सम्भवति; गोत्वारुण्यादीनि साक्षात् व्यक्त्याश्रितत्वेन स्वानुरक्तां व्यक्तिविषयिणीं बुद्धिमुत्पादयन्तीति युक्तं गवादिशब्दानामा कृत्यधिकरणन्यायेन जातिगुणवाचित्वे सिद्धे अभेदोपचारात् व्यक्तिलक्षकत्वम्, भावनायास्तु व्यापाररूपत्वेन देहसमवायात् देहदेहिनोरमेदोपचारेण देह्यात्मसमवेतत्वव्यपदेशेऽपि साक्षादात्मसमवेतत्वाभावात्. देहस्य चाचेतनत्वेनास्वातन्त्र्यात् कर्तृत्वानुपपत्तेः चेतनस्यैव कर्तृत्वस्य न्याय्यत्वात् तस्य च विशेष्यस्य कर्तृत्वेनाभिमतस्याधिश्रयणाद्यनुरक्तत्वावगतेः अभेदोपचारासम्भवात्, यथा "दण्डो देवदत्तः" इति न सामानाधिकरण्यं, न वा दण्डशब्दस्य पुरुषलक्षकत्वं, एवमाख्यातस्यापि न पुरुषलक्षकत्वमिति ध्वनितम् । लः कर्तरीति । 'लः कर्मणो'त्यस्यानुषक्तकर्तृपदस्यार्थतोऽनुवादोऽयम् । तेन सूत्रेण सकर्मकेभ्यो धातुभ्यो लकाराः कर्मवाचकाः कर्तृवाचकाश्च; अकर्मकेभ्यस्ते भाववाचकाः कर्तृवाचकाश्चेत्यर्थकेन लकारस्य कर्त्रादिवाचकत्वानुशासनादिति भावः । स्पष्ट एवेति । 'कर्तरि कृ'दितिसूत्रस्थस्य कर्तुः कृदभिधेयत्वबोधकस्यात्रानुषक्तस्य कर्तरीति पदस्यात्रापि कर्तुः तिङभिधेयत्वबोधकत्वमेव युक्तम्, अन्यथा स्मृतिविरोधस्स्पष्ट एवेत्यर्थः । bipip अनभिहिताधिकारस्थत्वादिति । 'अनभिहिते' इत्यधिकृत्य 'कर्तृकरणयोतृतीया' इति कर्तरि करणे च तृतीयाया विहितत्वादित्यर्थः । अभिहितकारकेति । 1 १. तनमि. 11FANSFIRRISHT Bhandarkar Oriental TO ३४ मीमांसान्यायप्रकाशः ग [ आख्यातार्थ त्वाद्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात् प्रथमावैयर्थ्यम् । लिङ्गसङ्ख्याप्रतिपत्त्यर्थं तस्या आवश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च । ततश्च यदि कर्ता न वाच्यस्स्यात् देवदत्तेन पचतीति प्रयोगस्स्यात् । तस्मादाख्यातवाच्यः कर्तेति सिद्धमिति पूर्वपक्षसङ्क्षेपः । अत्राहुः - स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, 'अनन्यलभ्यश्शब्दार्थ' इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयेव प्रतिपत्तिसम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनानुपपन्ना तमाक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तद्वाचकत्वमाख्यातस्य कल्पनीयम् । अभिहितं यत्कर्तृकारकं कर्मकारकं वा तद्द्बोधकविभक्तित्वादित्यर्थः । ननु - न प्रथमायाः अभिहितकारकवाचित्वं सम्भवति 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' इति प्रातिपदिकाद्यर्थमात्रे प्रथमाविधानात् ता - प्रातिपदिकेति । > ननु न सर्वत्र विभक्त्या लिङ्गसङ्घयाप्रत्तिपतिस्सम्भवति । अलिङ्गनियतलिङ्गेषु प्रातिपदिकार्थमात्रप्रतीतेः इत्यस्वरसादाह–केवलेति । 'न केवला प्रकृतिः प्रयोकव्या' इति न्यायादिति भावः । आख्यातस्य कर्तृवाचकत्वमुपसंहरति-तस्मादिति । सिद्धान्तयति - अत्राहुरिति । अयं भावः – सर्वत्रैव तावत् उच्चरितात् शब्दात् अनेकेऽर्थाः प्रतीयन्ते । न चैतावता सर्वेषां शब्दाभिधेयत्वं सम्भवति । 'अन्याय्यं चानेकार्थत्व'मिति न्यायात् । अतः क्वचिदेव शक्तिः ; इतरेषां तु लक्षणादिना प्रतीतिरित्येवाभ्युपगन्तव्यम् । तद्यत्र शक्तिकल्पनामन्तरा प्रतीतिप्रयोगौ नावकल्पेते तत्रैव शक्तिः, यत्र त्वन्यविषयिण्यैव शक्त्या प्रतीतिप्रयोगौ अन्येषामुपपद्येते तत्र न कल्प्यते शक्तिः । यथा गङ्गापदस्य न तीरे शक्तिः, यथा वा सिंहपदस्य न माणवके शक्तिः । तदिह प्रख्यात श्रवणात् भावनाकर्तृतत्संख्या पुरुषोपग्रहका लविशेषाः प्रतीयन्ते । नैतेष्वेकेनापि भावना क्षिप्यते । तथाहि - न तावत् कालसङ्ख्यादीनां तदाक्षेपकत्वम् । विनापि भावनां काल. संख्यादीनां सत्वात् । न च सङ्ख्यादीनां व्यभिचारेऽपि कर्तुरव्यभिचारात् तेन तदाक्षेपोऽस्त्विति वाच्यम्, कर्तुरप्रयतमानस्य पाकादौ कर्तृत्वस्यैवाऽसिद्धेः । तत्सिद्धयर्थं गम्यमानायाः प्रयत्नरूपाया भावनायाः तदपेक्षया प्राधान्यायोगात् । न चेष्टापत्तिः । 'भावप्रधानमाख्यातम्' इति स्मृतिविरोधापत्तेः, विशिष्टे शक्तिकल्पनारूपगौरवप्रसङ्गाच्च । अतो लाघवात् भावनायामेव कृत्यपरपर्यायायां शक्ताववघारितायां तथा कर्तुराक्षेप इत्यन्यलभ्यत्वान्नाख्यातस्य कर्तृवाचकत्वमिति । न च कर्तुरिव कालादीनामपि तयैवाक्षेपसम्भवात् तेषामप्याख्यातवाच्यत्वानापत्तिरिति वाच्यम् । भावनया नियमेन कालसंख्या दिविशेषाणामनाक्षेपात् । दृश्यते हि भावना कालान्तरपुरुषान्तरोपग्रहान्तरेष्वपीति । तीरमर्थ इति । गङ्गायां घोषः इत्यत्रेत्यर्थः । प्रतिपत्तिः ज्ञानम् । अत एव अनन्यलभ्यस्यैव शब्दार्थत्वादेव । प्रत्येकं पदैः पदार्थोपस्थितौ समभिव्याहारादेव परस्परसम्बन्धरूपस्य वाक्यार्थस्य प्रतिपत्तिसम्भवेन न वाक्यस्य वाक्यार्थे शक्तिकल्पनमावश्यकमिति भावः । एतेन वाक्यस्य वानिरूपणम् ] ] सारविवेचिनोव्याख्या संवलितः न च विनिगमनाविरहः । कृतिमान् हि कर्ता, एवं च कृतेरेव भावनापरपर्यायाया आकृत्यधिकरणन्याये नाख्यातवाच्यत्वसम्भवे न तद्वतः कर्तुर्वाच्यत्वं कल्पनीयम्, गौरवप्रसङ्गात् । न च भावना कारकान्त रेणापि सम्बद्धा तदुज्झित्वा न झटिति कर्तारमाक्षिपतीति वाच्यम् । सा हि यथा नियमेन कर्त्रा संबद्धान तथा करणादिकारकान्तरेण, तिष्ठतीत्यादिषु तया तदनाक्षेपात् । श्रतः प्रथमं सा कर्तारमेवाक्षिपति, न कारकान्तरम् । अत एव चाख्याताभिहितो सङ्ख्या न कारकान्तरेण सम्बध्यते, तस्य प्रथममनुपस्थितेः । अत एव तृतीयादिविभक्तीनां करणादिवाचित्वम्, भावनायास्तैस्सह नियत सम्बन्धाभावेन तथा तेषां नियमेनानाक्षेपात् । आख्यातश्रवणात्प्रागपि तृतीयादिविभकिश्रवणे करणादिप्रतीतेर्जायमानत्वाच्च । न च शाब्दी सङ्ख्या कथमशाब्देन कर्त्रान्वेतीति वाच्यम् । कर्तुर्लक्षणाङ्गीकारात् । यथा च लक्षितं तीरं शाब्देन घोषेणान्वेति, एवं लक्षितः कर्ता एकत्वेनान्वेष्यति । अत एव देवदत्तः पत्रतोति सामानाधिकरण्यमुपपद्यते, कर्तुर्लक्षणात् । न च मुख्ये सम्भवति किमि ति लाक्षणि (१) कत्वं स्वीकार्यमिति वाच्यम् । अनन्यलभ्यशब्दार्थत्वस्य व्यवस्थापितत्वात् । अन्यथा सिंहो देवदत्त इत्यपि सामानाधिकरण्यं मुख्यं स्यात् । किं च श्राख्यातवाच्यः कर्तेति वादिनोऽपि मते देवदत्तः पचतीति सा. क्यार्थेऽखण्डशक्तिमङ्गीकुर्वतां वैयाकरणानां मतमपि निरस्तं वेदितव्यम् । श्राकृत्य. धिकरणन्यायेनेति । प्राकृतिः पदार्थों वा व्यक्तिर्वा पदार्थ इति विचार्य यत्र निणतं प्रथमतृतीयान्तिमाधिकरणे तदधिकरणसिद्धेन "नागृहीतविशेगा बुद्धिः विशे ध्यमुपसङ्क्रामति" इति न्यायेनेत्यर्थः । गौरवप्रसङ्गादिति । विशिष्टे शक्तिकल्पने विशेष्येऽपि पदव्यापारप्रवृत्त्यावश्यकतया तत्कृतगौरवस्यावश्यापातादित्यर्थः । तिष्ठतीत्यादिष्विति । तिष्ठतीत्यत्र करणानाक्षेपात्, चलतीत्यादावकर्मकेषु कर्माभावात् आसनस्नानशयनादिषु अपादान सम्प्रदानाभावात् न नियमेन तेषां भावनया आक्षेप इत्यर्थः । त एव कारकान्तरस्यानाक्षेपादेव । तैः करणादिकारकान्त रैः । नियमेनानाक्षेपादिति । एवं च भावनया यन्नियमेनाक्षिप्यते, तस्यैव वाच्यत्वानङ्गीकारेण करणादीनामतथात्वेन तेषां तृतीयादिवाच्यत्वमक्षतमेवेति भावः । न च दह्यमानगृहान्तर्गततण्डुलपूर्णकाष्ठमय कुसूलासन्नायां सोदकायां पात्र्यां कथञ्चित्पतितानां तण्डुलादीनामपि विनैव कर्तारं पाक• सम्भवात् न नियमेन भावनया कर्तुराक्षेप इति वाच्यम्, तत्र पाकस्य धात्वर्थस्यकर्तारं विना कथञ्चिदुपपत्तावपि तस्य भावनात्वाभावात् भावनायाः प्रयत्नरूपायाः तत्राभावात् । अत एव कारकान्तरस्य प्रथममनाक्षेपादेव । INSTIT ननु सिंहो देवदत्त इत्यत्र देवदत्ते सिंहत्वस्य प्रत्यक्षबाधितत्वेन मुख्यसामानाधिकरण्यासम्भवात् सिंहनिष्ठक्रौर्य सजातीयक्रौर्यवत्वरूपं गौणं सामानाधिकरण्यमञ्जीकृ तम् । अत्र तु मुख्यसामानाधिकरण्याङ्गीकरणे न किञ्चित् बाधकं इत्यत ग्राह-किचे१. कंस्वी. anda Research Institute मीमांसान्यायप्रकाशः [ आख्यातार्थ मानाधिकरण्यं न मुख्यम्; तन्मते आख्यातेन तृतीयावन्निष्कृष्टशक्तिमात्ररूपकतृकारकाभिधानात्, शक्तिम द्रव्यस्याकृत्यधिकरणन्यायेनानभिधानात्, देवदतशब्देन च द्रव्यमात्राभिधानात्, अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम्, किंतु लाक्षणिकमेवेति न कश्चिद्विशेषः । DIRE न च 'लः कर्तरीति व्याकरणस्मृति बलादाख्यातवाच्यः कर्तेति वाच्यम् । न हि वाच्यवाचकभावो व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यः, तथापि नेयं स्मृतिः कर्तुराख्यातवाच्यत्वे प्रमाणम् ; किन्तु कर्तुरेकत्वे एकवचनात्मको लकारः, द्वित्वे द्विवचनात्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्नर्थे प्रमाणम्, 'द्येक योद्विवचनैकवचने, बहुषु बहुवचनमित्यनेनास्याः स्मृतेरेकवाक्यत्वात् । ति । तृतीयावदिति । कारकाणामेव क्रियान्वयात् तृतीयायाः कर्तृत्ववाचित्व एव क्रिया. न्वयो घटते, न तु तदाश्रयवाचित्व इत्यर्थः । शक्तिमात्रेति । मात्रपदेन तदाश्रयव्यावृत्तिः । आकृत्यधिकरण न्यायेनेति । अयं भावः- द्रव्यकारकवादिनो वैय्याकरणस्य पक्षेऽपि निश्शक्तिकस्य कारकत्वायोगात्, शक्तिविशिष्टस्य कारकत्वमभ्युपगन्तव्यम् । तथा च 'नागृहीत विशेषणा' न्यायेन शक्तः पूर्व ज्ञानावश्यम्भावेन तत्रैव शब्दव्यापारोपरमात् विशिष्टे शक्तिकल्पनायां गौरवापत्तेः न शक्तिमद्रव्यस्याभिधानमिति । भिन्नार्थनिष्ठ त्वादिति । देवदत्तशब्दस्य द्रव्यमात्रपरत्वस्योभयवादिसिद्धत्वात् आख्यातस्य शक्तिमात्रपरत्वस्य भवताप्यवश्याभ्युपगमनीयत्वाच्चेति भावः । एवं च भवन्मतेऽपि मुख्यसामा नाधिकरण्यासम्भवेऽपि गौणसामानाधिकरण्यमङ्गीकृत्यैव यथा निर्वाहः कथंचित् कार्यः, एवं ममापि भविष्यतीति नात्र पर्यनुयोगावसर इत्याशयेनाह – न कश्चिद्विशेष इति । इदानीं न्यायसिद्धविषये स्मृतिविरोधमुक्तमनूद्य परिहरति-नचेति । तत्रैव स्मृतिन्याययोः विरोध उद्भावनीयो यत्र स्मृतिन्यायौ समानविषयौ । अत्र तु न्यायस्यान्य एव विषयः - किं वाच्यं किं वाचकमिति । व्याकरणस्य तु अन्य एव विषयः -कः साधुशब्दः को वाऽपभ्रंश इति । एवं च साध्वसाधुशब्द मात्र विषयकस्य व्याकरणस्य शब्दार्थनिर्णायकेन न्यायेन सह विरोध एव नास्तीत्याशयेनाह - न होति । तर्हि किमधीनः ? तह–तस्येति । न्यायेति । "अनन्यलभ्योऽर्थो वाच्यः, अन्यलभ्योऽर्थो गम्यः" इति न्यायेत्यर्थः । अत एवोक्तं वार्तिक कृता — "वाच्यवाचकसम्बन्धो नाचार्यैरुपदिश्यते । अन्यथानुपपत्त्या हि व्यवहारात्स गम्यते" इति । अभ्युपेतेऽपि स्मृतिगम्यत्वे न भवदिष्ट सिद्धिरित्याहभवतु वेति । स्मृतिगम्य इति । वाच्यवाचकभाव इति शेषः । एकवाक्यत्वादिति । श्रयमाशयः - "सर्वाण्येव हि शास्त्रा णि स्वप्रदेशान्तरैस्सह । एकवाक्यतया युक्तमुपदेशं वितन्वते" इति न्यायेन "लः कर्मणि" इत्यस्य "इथेकबोरि" त्याद्येकवाक्यतावश्यमङ्गीकार्या, अन्यथा एकदेशभूतस्याऽस्य अर्थप्रतीतिजनकत्वमेव न स्यात् । न च वाच्यमिदमेकवाक्यताङ्गीकरणं व्याकरणे ऽदृष्टचरमिति । व्याकरणे प्रायेण संज्ञापरिभाषादिसूत्रेषु एकवाक्यताया एवाज्ञीकारात् । नच्चैवं एकवाक्यतामङ्गीकृत्य लकाराणां कर्त्रादिगतसङ्ख्यावा चित्वाङ्गीनिरूपणम् ] सारविवेचनी व्याख्यासंवलितः ३७ यत्तूक्तम् – कर्तुरनभिधाने देवदत्तेन पचतोति तृतीयाप्रसङ्गः-इति, तन्न; तृतीया हि कर्तुः प्रतिपत्त्यर्थं तद्गतसङ्ख्या प्रतिपत्त्यर्थं वा । तत्र कर्ता तु भावनाक्षेपादेव लभ्यत इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आख्याते नैव प्रतीयत इति न तत्राप्यपेक्षा । यथाहुः- 16: सङ्ख्यायां कारके वा धीविंभक्त्या हि प्रवर्त्त्यते । उभयं चात्र तत्सिद्धं भावनातिविभक्तितः ॥ इति । यत्र तु नाख्यातेन तद्गता सहयोच्यते तत्र भवत्येव तृतीया, यथा-देव- दत्तेन श्रोदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने किञ्चिदूषणमित्यलम- तिविस्तरेण । प्रकृतमनुसरामः । तत्सिद्धस्त्रिविधः श्रुतिविनियोगः ॥ (श्रुतेलिंङ्गादितः प्राबल्यनिरूपणम् ) सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकश्शब्दोऽस्ति, किं तु कल्प्यः । यावच्च तैर्विनियोजकश्शब्दः कल्प्यते करणं मुनित्रयोक्तिविरुद्धमिति शङ्कनीयम् । "एकत्वादयो विभक्त्यर्थाः, कर्मादयोपि विशेषणत्वेन" इति "बहुषु बहुवचनम्" इति सूत्रव्याख्यानावसरे वाक्यभाष्यकाराभ्यामुतत्वात् । न च कर्मादिगतसङ्ख्यावाचित्वेऽपि विशेषणीभूत कर्मादिवाचित्वमपि सिध्यतीति वाच्यम्, भावनया श्राक्षितस्यानभिधेयस्यापि कर्तुः संख्योपलक्षणमात्रत्वात् । पूर्वोक्तवाक्यस्यापि तत्रैव तात्पर्यात् । एवं च आाख्यातस्य कर्तृवाचित्वस्यैवासिद्धेः न तदादाय स्मृतिविरोधोद्भावनं युक्तमिति भावः । तृतीयेति । देवदत्तेनेति याऽऽपाद्यते तृतीया सेत्यर्थः । भावनाक्षेपात् भावनया श्राक्षेपात् । सङ्ख्यायामिति । कर्त्रधिकरणस्थवार्तिकमिदम् । भावनातिविभक्तित इति । तृतीया हि संख्याविषयकं करणत्वविषयकं च ज्ञानं सम्पादयेत् । उभयमप्यत्र प्रमाणान्तरेण सिध्यति । भावनया कर्तुः तिविभक्त्या संख्यायाश्च सिद्धवादित्यर्थः । अलमतिविस्तरेणेति । अधिकमवजिगमिषुभिः वार्तिकन्यायसुधादितोऽवगन्तव्यम् विस्तरभयात्तु नेह प्रपञ्च्यत इति भावः । प्रसज्ञागतत्वमाख्यातस्य कर्तृवाचकत्वाभावनिरूपणस्य ध्वनयति - प्रकृतमिति । (श्रुतेः लिङ्गादितः प्राबल्यनिरूपणम् ) एवं श्रुतिं निरूप्य तद्गतं लिवाद्यपेक्षया-प्राबल्यं निरूपयति- सेयमिति । यद्यपि मूले श्रुत्यादिप्रमाणषट्क निरूपणं परिसमाप्यैव तद्गतप्राबल्यदौर्बल्यनिरूपणं कृतं, तथा प्यत्र श्रुतौ निरूपितायां तद्गतप्राबल्यदौर्बल्यशङ्काया उत्थितत्वात्तस्याश्चोपेक्षा नर्हत्वादत्रैव तन्निरूपणमिति ध्येयम् । प्राबल्ये हेतुमाह - लिङ्गादिष्विति । श्रुतिव्यतिरिक्त लिङ्गादिप्रमाणपञ्चके इत्यर्थः । श्रयमाशयः - न केवलं सामर्थ्य समभिव्याहारादिकं वा दृष्ट्वा श्रङ्गताबुद्धिरुत्पद्यते, किं तु या द्वितीयातृतीयादिः साध्यत्वकरणत्वादिबोधिका तयैव सेति अवश्यं लिङ्गादिभिः स्वान्यथानुपपत्या श्रुतिः कल्पनीया, तदपि पूर्वपूर्वप्रमाण कल्पनद्वारैवेति तत्तन्निरूपणावसरे वक्ष्यते । तद्यत्र लिङ्गादिविरुद्धा श्रुतिः तत्र यावत् लिङ्गेन श्रुतिं, वाक्येन लिङ्गश्रुती, प्रकरणादिभिश्च स्वस्वपूर्वप्रमाणानि कल्पयित्वा विनियोगः क्रियते, ततः पूर्वमेव प्रत्यक्षया श्रुत्या प्रमाणान्तरनिरपेक्षया अन्यत्र विनियोगः कृत इति तावतैव FOU । ३८ मीमांसान्यायप्रकाशः [ लिङ्गतावत्प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वात्तेषां कल्पकत्वशक्तिर्विहन्यत इति श्रुतेः प्राबल्यम् ॥19) अत एव "ऐन्या गार्हपत्यमुपतिष्ठत" इत्यत्र यावहिङ्गादेन्द्रया इन्द्रोपस्थाना(१)ङ्गत्वं कल्प्यते तावत् प्रत्यक्षया श्रुत्या गार्हपत्योपस्थाना(२)ङ्गत्वं क्रियत इति (३) ऐन्द्री गार्हपत्योपस्थानाङ्ग (४) म् । (लिङ्गनिरूपणम्) सामथ्यं लिङ्गम् । यदाहुः'सामथ्र्यं सर्वभावानां लिङ्गमित्यभिधीयते' इति । तेनाङ्गत्वं, यथा – (५) बर्हिदेवसदनं दामि' इत्यस्य लवनाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः । तच लिङ्गं द्विविधम् - सामान्यसम्बन्धबोधकप्रमाणान्तरानपेक्षं तदपेक्षं च । तत्र यदन्तरेण यन्न सम्भवत्येव तस्य तदङ्गत्वं तदनपेक्षं केवललिङ्गादेव । यथा - अर्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न हार्थज्ञानमन्त रेणानुष्ठानं सम्भवति । तदाकारक्षायाश्शान्तत्वेन कल्पनामूलच्छेदात् न तेषां प्रवृत्तिरिति श्रुतेः प्राबल्यमिति । अत एव लिङ्गापेक्षया श्रुतेः प्राबल्यादेव । ऐन्द्रया गार्हपत्यमुपतिष्ठत इति । (६) 'कदा चन स्तरीरसी' त्यनया इन्द्रप्रकाशिकया ऋचा गार्हपत्यसंज्ञकं अग्निमुपतिष्ठे तेत्यर्थः । उपस्थानं मन्त्रकरणकाभिधानम् । अङ्गत्वं कल्प्यत इति । अनया 'इन्द्रमुपतिष्ठेत' इत्यङ्गत्वबोधकश्रुतिः कल्प्यत इत्यर्थः । मन्त्रस्य प्रकरणपाठं इन्द्रप्रकाशनरूपसामर्थ्य च पर्यालोच्य यावता - अनेन मन्त्रेणेन्द्रोपस्थानं भावयेत् - इति श्रुतिः कल्प्यते, ततः पूर्वमेव प्रत्यक्षया क्लृप्तया गार्हपत्यमिति द्वितीयाश्रुत्या गार्हपत्याङ्गत्वमवगतमिति मन्त्राकाङ्क्षायास्तावतैव शान्तत्वेन निवृत्तव्यापारं लिङ्गं न पुनः प्रवर्तत इति गार्हपत्योपस्थानाङ्गत्वमेव मन्त्रस्य, नेन्द्रोपस्थानाङ्गत्वमिति भावः । क्रियत इति बोध्यत इत्यर्थः । ( लिङ्गनिरूपणम् ) C लिङ्गं निरूपयति - सामर्थ्यमिति । शक्तिरित्यर्थः । तत्र वृद्धसम्मतिमाह - साम र्ध्यमिति । सर्वभावानां सर्वपदार्थानाम् । एवं लिङ्गद्वयसाधारण्येन लक्षणमुक्त्वा श ब्दगतस्य लिङ्गस्यैव विशेषविचारसम्भवात् तदर्थं तस्यैव विनियोजकत्वमुपपादयति- तेनेति । लिङ्गद्वयान्तर्गतेन शब्दगतेन लिङ्गेनेत्यर्थः । बर्हिरिति । देवोपसदनयोग्यं बर्हिः खण्डयामीत्यर्थः । श्रस्य लवनाङ्गत्वमिति । बर्हिलवनप्रकाशनरूपमन्त्रसामर्थ्य कल्पि- तया - अनेन मन्त्रेण बर्हिर्लवनं सम्पादयेत् इति श्रुत्या अङ्गत्वं बोध्यत इत्यर्थः । तच्चेति । यदुभयात्मकं तदित्यर्थः । सामान्येति । यत प्रमाणं सामान्यतो यागादिसम्बन्धमात्रं बोधयति न विशेषं, तत् सामान्यसम्बन्धबोधकप्रमाणमित्युच्यते । श्राद्यमुदाहरति-तत्र यदिति । अर्थज्ञानस्येति । वैदिकवाक्यार्थज्ञानस्येत्यर्थः । न हीति । विधिवाक्यार्थं- ज्ञानमन्तरा कर्मस्वरूपस्यैवाज्ञानात्, मन्त्रार्थज्ञानमन्तरा अनुष्ठेयार्थविषयकनियतस्मरणा. ४. ङ्गत्वं. ५. बहिर्देवसदनमारमे' इति तैत्तिरीयो मन्त्रः ॥ 6 १. २. नार्थ ३. द्रया. ६ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन् भूय इन्तु ते दानं देवस्य पृच्यते । निरूपणम् ] सारविवेचिनीव्याख्या संवलितः ३६ यदन्तरेण यत्सम्भवति तस्य तदर्थत्वं तदपेक्षम्, यथा- उक्तस्य मन्त्रस्य लवनाङ्गवम्; लवनं हि मन्त्रं विनाप्युपायान्तरेण स्मृत्वा कर्तुं शक्यम्, श्रतो न मन्त्रो लवनस्वरूपार्थस्सभ्भवति, किन्त्वपूर्वसाधनीभूतलवनप्रकाशनार्थः । तत्वं च न सामर्थ्यमात्रादवगम्यते, लवनप्रकाशनमात्रे सामर्थ्यात् । अतोऽवश्यं प्रकरणादि सामान्यसम्बन्धबोधकं स्वीकार्यम् । दर्शपूर्णमासप्रकरणे हि मन्त्रस्य पाठादेवमवगम्यते - अनेन मन्त्रेण दर्शपूर्णमासापूर्वसम्बन्धि किञ्चित् प्र. काश्यते-इति । अन्यथा प्रकरणपाठवैयर्थ्यप्रसङ्गात् । कि तदपुर्वसम्बन्धि प्रका श्यमित्यपेक्षायां सामर्थ्याद्वर्हिर्लव नमित्यवगम्यते । तद्धि बर्हिस्संस्कारद्वाराडपूर्वसंबन्धीति मन्त्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्मात् 'बहिर्देवसदनं दामी' त्यस्य प्रकरणादर्शपूर्णमाससम्बन्धितयावगतस्य सामर्थ्याल्लवनाङ्गत्वमिति सिद्धम् । पूषानुमन्त्रणमन्त्राणां तु यागानुमन्त्रणसमाख्यया यागसामान्यसम्बन्धेवगते सामर्थ्यात्पूषयागसम्बन्धोऽवगम्यते । ननु तेषां यावत्समाख्यया पूषयागेन सामान्य संबन्धोऽवगम्यते, तावत् प्रकरणादर्शपूर्णमासाभ्यामेव सामान्यसम्बन्धोऽवगतः, समाख्यातस्तस्य बलीयस्त्वात् । अत एव पौरोडाशिकमिति समाख्याते ब्राह्मणे आम्नातानामपि सम्भवाच्चेति भावः । 17 TAFT PATETT RESPED द्वितीयमुदाहरति — यदन्तरेणेति । तदपेक्षं प्रमाणान्तरसापेक्षम् । तदेवोपपादयति-लवनं होति । उपायान्तरेण ध्यानेन, सन्निहितपुरुषवचनेन वेत्यर्थः । स्मृत्वा कर्तुमिति । एतेन स्मरणपूर्वक मेवानुष्ठानमिति सूचितम् । उक्तं ह्यापस्तबेन-"आचतुर्थात् कर्मणोऽभिसमीक्षे तेदं करिष्यामीदं करिष्यामोति" इति । तत्वञ्च अपूर्वसाधनत्वं च । सामर्थ्य मात्रात् लिङ्गमात्रात् । दामीत्यस्य लुनामीत्येतावन्मात्रार्थत्वात् पूर्व साधनस्वकस्य ततोऽप्रतीतेरित्यर्थः । प्रकरणादीत्यादिपदेन स्थानसमाख्ये गृह्मेते । यद्यप्यत्र लवनमन्त्रे प्रकरणमेव सामान्य सम्बन्धबोधकं प्रमाणं, तथापि स्थानसमाख्ययोरपि क्वचित् सामान्य सम्बन्धबोधकत्वं सम्भवतीत्येतत् स्फोरयितुमादिपदम् । एवं सामान्यतः सम्बन्धेऽवगते अनन्तरं विशेषजिज्ञासायां लिङ्गं प्रवर्तते, तेन च बर्हिलवनार्थत्वं बोध्यत इति सामान्यसम्बन्धबोधकप्रमाणान्तर सहकृतस्यैव लिङ्गस्य विनियोजकस्वमित्याह - किं तदित्यादिना । प्रकरणादिति । सामान्यसम्बन्धबोधकादिति शेषः । एवं प्रकरणरूपसामान्य सम्बन्धबोधकप्रमाणसापेक्षं लिङ्गं निरूप्येदानीं समाख्यारूपसामान्यसम्बन्धबोधक प्रमाणविशिष्टं लिङ्गं निरूपयति- पूषेति । पूष्णोऽहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इत्यादीनां शाखान्तराम्नातानामित्यर्थः । अत्र यद्यपि एक एव मन्त्रः पूषदेवताकः पठितः, तथापि देवतान्तरयुक्तानां मन्त्रान्तराणां प्रकृतासम्बद्धानां सत्वात् तानादाय बहुवचनमिति न दोषः । अत्र पूषाद्यनुमन्त्रणमन्त्राणा' मिति क्वाचित्कः पाठः समीचीनः । FOUNDED 1917 यागानुमन्त्रणसमाख्ययेति । यागमनु त्यागानन्तरं उच्चार्यमाणत्वात् यागानुमन्त्रणम् तन्नाम्नेत्यर्थः । तस्य प्रकरणस्य । पौराडाशिकमिति पौरोडाशिकं मोमांसान्यायप्रकाशः [ लिङ्गप्रयाजानां प्रकरणात् सान्नाय्योपांशुयाजाङ्गत्वमपीत्युक्तम् । किं च यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्य संबन्धोऽवगम्यते, किं तु यागमात्रेण; प्रकरणेन तु दर्शपूर्णमासाभ्यामेव विशेषसंबन्धोऽवगम्यते । अतः प्रकरणाज्झटिति तत्सम्बन्धस्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम्, पूषेतिशब्दस्य पुष्णातीति व्युत्पत्त्या कथञ्चिदग्न्याद्यभिधायित्वात् । मैवम् । पूषानु मन्त्रण मन्त्रे हिश्रयमाण एवमवगम्यते-पूषाभिधानसमर्थत्वादयं मन्त्रस्तत्प्रकाशनार्थः-इति, लवनमन्त्रइव लवनप्रकाशनार्थः । न तत्र प्रकरणाद्यपेक्षा, येन तेषामु पजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणातु दर्शपूर्णमासार्थत्वे काण्डमिति याज्ञिकैर्व्यवहृते वेदभागे इत्यर्थः । तैत्तिरीयसंहितायां द्वितीयकाण्डे पञ्चमषष्ठौ प्रपाठकौ पौरोडाशिकं काण्डमिति व्यवहियेते । तत्र षष्ठे प्रपाठके प्रयाजा आम्नाताः । तेषां न समाख्यया पुरोडाशयागरूपाग्नेयाग्नीषोमीयमात्रार्थत्वम् । किन्तु समाख्यापेक्षया प्रकरणस्य प्राबल्यात्तदनुरोधेन यागषट्काङ्गत्वमिति । श्रयमाशयः सन्ति दर्शपूर्णमासयोः षट् यागाः-श्राग्नेयद्वयं, अग्नीषोमीयः, उपांशुयाजः, सान्नाय्यं चेति । श्राग्नेयद्वयमग्नीषोमीययागश्च पुरोडाशयागाः, पौरोडाशिकसमाख्याते ब्राह्मणे विहितानां धर्माणां पुरोडाशयागाङ्गत्वं समाख्यया । तत्रैव पठिताः प्रयाजानूयाजादयः । अतस्तदन्तर्गतानां तेषां तया तन्मात्राङ्गत्वप्राप्तौ तत् बाधित्वा प्रकरणात् षडयागाङ्गत्वमिति । उक्तमिति । बलाबलाधिकरणे वार्तिककौ रैरिति शेषः । 80 एतावता समाख्यया बोघितस्यापि प्रकरणेन बाघ इत्यभिधाय इदानीं समाख्यया पूषयागसम्बन्धोऽपि न बोधयितुं शक्यत इत्याह-किञ्चेति । यागमात्रेणेति । यागानुमन्त्रणसमाख्या तावत् सामान्यतो यागसम्बन्धमेव बोधयेत्, न यागविशेषसम्बधम्; विशेषबोधकपदाभावादिति भावः । विशेषेति । प्रकरणस्य यागविशेष सम्बद्धत्वादिति भावः । तत्सम्बन्धस्यैव यागविशेषरूपदर्शपूर्णमाससम्बन्धस्यैव । ननु सर्वमिदं तदोपपयेत, यदि स्यात् पूषदेवताकं कर्म दर्शपूर्णमासप्रकरणे, तदेव तु नास्ति, अतः कथं प्रकरणे निवेश इत्यत आाह — पूर्वति । पोषकत्वस्य सर्वत्र विद्यमानत्वेन योगरूढयङ्गीकरणे गौण्या वृत्या अग्न्याद्यभिधायित्वाङ्गीकरणे वा क्लेशं स्फोरयति - कथञ्चिदि ति । उत्कर्षापेक्षया तत्कल्पनमपि नातीव दोषमावहतीत्याशयः । POONA एवं पूर्वपक्षयित्वा भवेदेवं यदि समाख्यया परं विनियोगः, न चेह तथा; किन्तु प्रथमतो मन्त्रश्रवणे तस्य पुषदेवताप्रकाशकत्वेन तत्सम्बन्धित्वेऽवगते तावन्मात्रप्रकाशने प्रयोजनाभावात् पूषादेः लोकेऽपि सत्वेन व्यभिचाराच्चानर्थक्यप्रसक्तौ अपूर्वसम्बन्धित्वे बोधनीये तद्ग्राहकप्रमाणान्तरगवेषणायां समाख्ययाऽपूर्वसम्बन्धित्व मात्र समर्पणं क्रियत इति समाख्याया लिङ्गोपष्टब्धत्वेन न प्रकरणबाध्यत्वं सम्भवतीति सिद्धान्तमाह मैवमिति । लवनमन्त्रः बर्हिर्लवनमन्त्रः । तत्र स्वार्थप्रकाशने । तेषां प्रकरणस्थानसमाख्यानाम् । किन्तु प्रकरणमेव स्वस्य विनियोजकत्वसिद्धयर्थं लिङ्गादिकमपेक्षत इत्याहप्रकरणाविति । दर्शपूर्णमासार्थत्व इति । पूषाद्यनुमन्त्रण मन्त्राणामिति शेषः । निरूपणम् ] सारविवेचिनीव्याख्या संवलितः तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वात् लिङ्गस्योपजीव्यत्वेन प्राबल्यम् । अतो लिङ्गात्पूषप्रकाशनार्थत्वे ऽवगते तन्मात्रप्रकाशनमनर्थकमित्य पूर्वसाधनपूषप्रकाशनार्थत्वं वक्तव्यम् । किं तदपूर्वमित्यपेक्षायां यागानुमन्त्रण समाख्यानुगृहीतालिङ्गात् पूषयागापूर्वसम्बन्धिदेवता प्रकाशनार्थोऽयमित्यवगम्यते । मतो यद्यपि समाख्यातः प्रकरणं बलीयः तथाऽपि तस्य लिङ्गेन बाधितत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रितत्वेन प्राबल्यात् सैव सामान्यसम्बन्धे प्रमाणं सम्भवति, दुर्बलस्यापि प्रबलाश्रितस्य प्राबल्यात् कवित 3 अत एव श्रुत्यपेक्षया दुर्बलाया श्रपि स्मृतेराचमनरूप प्रबलपदार्थाश्रितत्वेन प्राबल्यात्पदार्थधर्मगुणभूतश्रौतक्रमत्यागेन वेदकरणानन्तरं क्षुते आचमनमेव कार्यमित्युक्तम् । IP तस्य प्रकरणस्य । वाक्यलिङ्गश्रुतिकल्पनेन । बलाबलाधिकरणे उत्तरोत्तर प्रमाणानां पूर्वपूर्वप्रमाणकल्पनेनैव विनियोजकत्वस्योक्तत्वादिति भावः । तन्मात्रप्रकाशनं पूर्वसाधनस्वमन्तरा पूषस्वरूपमात्र प्रकाशनम् । अपूर्वसाधनपूषप्रकाशनार्थत्वमिति । अपूर्वस्यादृष्टरूपत्वेनैतदन्तरा तदुत्पत्तौ प्रमाणाभावेन तदर्थत्व अनर्थक्याभावादिति भावः । तस्य प्रकरणस्य अत एव दुर्बलस्यापि प्रबलाश्रितस्य प्राबल्यादेव । दुर्बलाया इति । श्रुतेः प्रत्यक्षत्वेन स्वतः प्रामाण्यात् स्मृतेः पौरुषेयत्वेन स्वतः प्रामाण्यायोगेन मूलभूतश्रुतिकल्पनेनैव प्रामाण्यस्य वक्तव्यत्वात् श्रुत्यपेक्षया स्मृतेर्दोर्बल्यमिति भावः । स्मृतेरिति । 'क्षुतजृम्भणादिनिमित्ते आचान्तेन कर्म कर्तव्यम्' इति स्मृतेरित्यर्थः । श्रोतकमेति । 'वेदंं' कृत्वा वेदिं करोती'ति श्रुतिविहितवेदिकरणनिष्ठवेदकरणानन्तर्यरूपक्रमेत्यर्थः । श्रयमत्र विषयः-दर्शपूर्णमासप्रकरणे श्रुतेन 'वेदं कृत्वा वेदिं करोती ति वाक्येन वेदकरणानन्तर्ये वेदिकरणे विधीयते । अथ च स्मरन्ति 'क्षुतजृम्भणादिनिमित्ते आचान्तेन कर्म कर्तव्यम्' इति । वेदो नाम शयानवत्सभुग्नजान्वाद्याकृतिविशिष्टो दर्भमुष्टिविशेषः। सम्मार्जन खननोद्धननादिभिः संस्कार विशेषैः। संस्कृता भूमिः वेदिः । तद्यदि वेदकरणानन्तरं क्षुयात् तदा प्राप्तमाचमनं बाधित्वा क्रमानुग्रहार्थे वेदिकरणमेवानुष्ठेयम्, उत क्रमं बाधित्वा आचमनमिति संशयः । तत्र क्रमस्य प्रबलश्रुतिबोधितत्वेन प्राबल्यात् स्मार्तमाचमनं बाधित्वा वेदिकरणमेवानुष्ठेयमिति पूर्वः पक्षः । यद्यपि स्मृत्यपेक्षया श्रुतिः प्रबला तथापि श्रुतिबोधितस्य क्रमस्यानुष्ठेयपदार्थंगतत्वेन पदार्थगुणत्वात् दौर्बल्यम्; स्मृतेः दुर्बलत्वेऽपि तद्बोधितस्याच मनस्य स्वतः पदार्थत्वेन प्रावल्यम् । न ह्यहिनकुलवत् स्वरूपेण श्रुतिस्मृत्योर्विरोधः, विरुद्धप्रमेय प्रतिपादक तयैव सः । तद्यदि प्रमेयपर्यालोचनापुरस्सरं तद्गतो विरोध आलोच्यते, तदैव तद्गतप्राव. व्यमध्यवगतं भवतीति। प्रथमोपस्थितत्वात् प्रमाणबलाबलापेक्षया प्रमेयबलाबलस्यैव ज्यायस्त्वेन क्रमं बाधित्वापि प्रबलस्याचमनस्यैवानुष्ठानमिति राद्धान्तः । इत्युक्तमिति । NDED Bhandarkar Oriental ६ मी० न्या० मीमांसान्यायप्रकाशः अत्यन्त बलवन्तोऽपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः ॥ इति । यत्तु - पूषेति शब्दः कथञ्चिदग्न्याद्यभिधायीति-तन्नः तस्य "अदन्तको हि (स)" इत्यादिवाक्यशेषेण वैदिकप्रसिद्ध्या चाऽर्थविशेषे रूढत्वात्, रूढे'श्रावयवार्थालोचन सापेक्षाद्योगात् बलोयस्त्वात् ; अत एव "वर्षासु रथकारोऽग्नोनादधोते" त्यत्र रथकारशब्देन सौधन्वनापर पर्यायो वर्णविशेष उच्यते, रूढेः प्राबल्यात्। न तु रथं करोतोति व्युत्पत्त्या द्विजातयः, योगस्य दौर्बल्यादित्युक्तं षष्ठे Egg तस्माद्युक्तं समाख्यया सामान्य सम्बन्धेऽवगते सामर्थ्यात्पूषयागसम्बन्धः पूषानुमन्त्रणमन्त्राणामिति । IPZSMISH FRE यथाहुः ४२ यदाहुःयागानुमन्त्रणानोति समाख्या (१) ऋतुयोजिका । तस्माच्छुक्त्यनुरोधेन प्राप्तिस्तदैवते ऋतो ॥ इति । 51 स्ला UTEPHEY प्रथमतृतीयचतुर्थे शिष्टाकोपाधिकरणं इति शेषः । दुर्बलस्यापि प्रबलाश्रितस्य प्रबलबाघकत्वे वार्तिकं प्रमाणयति – अत्यन्तेति । स्पष्टोऽर्थः । [ लिङ्गण वाक्यशेषेणेति । 'पूषा प्रपिष्टभाग'इति वाक्यस्य प्रविष्टद्रव्यविधायकस्य शेषभूतेनेत्यर्थः । वीहियवादिचूर्ण प्रपिष्टम् । स भागः प्रदेयं हविः, यस्य स प्रपिष्टभागः । अग्न्यादीनां क्वचिदप्यदन्तकत्वाश्रवणात् । अग्न्यादिभिन्न देवताविशेषवाचक एवायं पूषशब्द इत्यर्थः । वैदिक प्रसिध्येति । वैदिकानां अग्न्यपेक्षया भिन्न एव देवता विशेषे पूषशब्दप्रयोगादित्यर्थः । योगस्य दौर्बल्ये बीजमुक्तमवयवार्थेति । सौधन्वनेति । अनेन "माहिष्योग्रौ प्रजायेते विशुद्राङ्गनयोर्नृपात् । शूद्रायां करणो वैश्यात्' । "माहिष्येण करण्यान्तु रथकारः प्रजायते" १. क्रतुबोधिका क्रतुयोजिनी इति च मुद्रित पुस्तके । इत्युक्तो यो रथकारः स नात्र ग्रहणमर्हति, तस्य सौधन्वनशब्दवाच्यत्वाभावात् । किन्तु "ब्रात्यात्तु जायते वैश्यात् सुधन्वाचार्य एव च । मारूषश्च विजङ्गश्च मैत्रस्सात्वत एव च ॥" इति प्रतिपादितस्यैव त्रैवर्णिकात् किञ्चित् न्यूनस्य जातिविशेषस्य ग्रहणमिति ध्वनितम् । षष्ठ इति । प्रथमपादे रथकाराधिकरण इति शेषः । सामार्थ्यात् लिङ्गात् । G उक्तमुपसंहरति - तस्मादिति । तत्र वार्तिकं प्रमाणयति - यथा हुरिति । ऋतु. योजिकेति । क्रतुना सह सामान्यसम्बन्धं बोधयतीत्यर्थः । मन्त्राणाममीषां यागानुमन्त्रणानीति समाख्या वर्तते । सा च यागसम्बन्धमन्तराऽनुपपद्यमाना यागसम्बन्धमात्रमवगमयति-- यागेन केनचित्सम्बद्धा मी मन्त्रा- इतीति भावः । तस्मात् एवं सामान्यसम्बन्धेऽवगमिते तदनन्तरम् । शक्त्यनुरोधेन लिङ्गानुरोधेन । तद्दैवते । 71 MISHR D निरूपणम् ] सारविवेचनी व्याख्यासंवलितः तत्सिद्धं प्रमाणान्तरसिद्ध सामान्य सम्बन्धस्य पदार्थस्य विनियोजक लिङ्गमिति hypip । (9) g तत्र मन्त्रविनियोजकं लिङ्गं मुख्य एवार्थे विनियोजकं, न गौणे। मुख्यार्थस्य प्रथममुपस्थितत्वेन तत्रैव (१) विनियोगबुद्धौ पर्यवसन्नायां पुनर्गौणेऽर्थे विनियोगकल्पनायां गौरवप्रसङ्गात् । श्रत एव "बहिर्देवसदनं दामो"ति मन्त्रः सामर्थ्यात्कुशलवनाङ्गम् तेषां मुख्यत्वात्, नोलपराजिलव नाङ्गमित्युक्तम् । लिङ्गस्य वाक्यादितः प्राबल्यनिरूपणम्) तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षाद्विनियोजकत्वम्, किं तु लिङ्गं श्रुतिं च कल्पयित्वा । न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोगकल्पना सम्भवतीति सामर्थ्यस्यापि कल्प्यत्वेनोपजोव्यत्वात् । अतस्तैर्यावत्सामथ्र्यं कल्पयित्वा श्रुतिः कल्प्यते तावदेवं क्लृप्तेन सामर्थ्येन श्रुतिः कल्पयित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अत एव 'स्योनं ते सदनं मन्त्रप्रतिपाद्यपूषदेवतादिविशिष्टे । प्राप्तिरिति । मन्त्राणामिति शेषः । अङ्गत्वेन सम्बन्ध इत्यर्थः । Miles 302-16 एवं सामान्यसम्बन्धबोधक प्रमाणान्तरसापेक्षं लिङ्गमुपवर्यानन्तरं लिङ्गस्य मुख्येऽर्थे विनियोजकत्वं वक्तुमारभते--तत्रेति । लिङ्गद्वयमध्य इत्यर्थः । मन्त्रविनियोजकमिति । अर्थगतस्य लिङ्गस्य विशेषविचारासहत्वादिति भावः । शक्त्या प्रतिपादितोऽर्थो मुख्यः । गौण्यादिना प्रतिपादितो गौणः । गौणार्थे विनियोजकत्वाभावे हेतुमाह-मुख्यार्थस्येति । गौरवप्रसङ्गादिति । श्रयमाशयः - सर्वत्र प्रकरणपठितमन्त्रगता काङ्क्षान्यथानुपपत्या विनियोगः कल्प्यते । तद्यत्र गौणेऽर्थे विनियोगः कल्पयितुमारभ्यते तत्र मुख्यार्थप्रतिसन्धानमन्तरा गौणार्थस्य बुद्धावनारोहात् प्रथमं मुख्यार्थप्रतिपत्त्यावश्यकतायां प्रथमोपस्थिते मुख्यार्थ एव मन्त्रस्य विनियोगोपपत्तौ तावतैव मन्त्राकाङ्क्षायाश्शान्तस्वेन कल्पनामूलोच्छेदात् पुनरपि गौणेऽर्थे विनियोग कल्पनेऽना काङ्क्षितविधानरूपं गौरवं प्रसज्येतेति । न च गौणार्थस्थापि स्मर्तव्यतया स्मारकापेक्षासद्भावात् तदनुरोधेन तत्रापि विनियोगः कल्प्यतामिति वाच्यम् । गौणार्थस्य ध्यानाद्युपायान्तरेणापि स्मृतिसम्भवेन नियमेन मन्त्रानपेक्षणात् । तेषां कुशानाम् उलपः शुष्कं बर्हिः, उशीरतृणं वा । इत्युक्तमिति । तृतीयद्वितीयप्रथमे लिङ्गाधिकरण इति शेषः । ( लिङ्गस्य वाक्यादितः प्राबल्यनिरूपणम् ) एवं लिङ्गं निरूप्य तद्गतं वाक्यादिभ्यः प्राबल्यं निरूपयति--तदिमिति । तत्र हेतुमाह--तेषां होति । न साक्षादिति । एतच्चास्माभिः पूर्वमेव निरूपितम् । नच साक्षात् श्रुतिकल्पनमपि सम्भवतीत्याह-न चेति । तस्य लिङ्गस्य । स्योनं त इति । दर्शपूर्णमासप्रकरणे श्रुतोऽयं मन्त्रः । हे पुरोडाश स्योनं सुखकरं ते तव स्थानं करोमि । ASTITUD १. विनियोजकतायां HERIB S नावधीत T-PF & E FR Research Institute ४४ मोमांसान्यायप्रकाशः । [ [ वाक्यकरोमि घृतस्य धारया सुशेवं कल्पयामि' (१) इत्यस्य सदनाङ्गत्वं लिङ्गात्, न तु वाक्यात् पुरोडाशप्रतिष्ठापना(२)ङ्गत्वम्, तस्य दौर्बल्यादिति ॥ (वाक्यनिरूपणम् ) frie 10 समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्वादिवाचकद्वितीयाद्यभावे वस्तुतः शेषशेषिणोस्सहोच्चारणम् । यथा यस्य पर्णमयी जुहूर्भवति न(ख) पापश् श्लोक ५ शृणोति' इति । अत्र हि न द्वितीया दिविभक्तिः श्रूयते, केवलं पर्णताजुहोस्समभिव्याहारमात्रम् । तस्मादेव च पर्णताया जुह्वङ्गत्वम् । न चानर्थक्यम्, जुहूशब्देनापूर्वलक्षणात् । तदयं वाक्यार्थःपणतया प्रवत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेत् - इति । एवं च पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्वं भवति नान्यथेति गम्यते इति घृतस्य धारया सुशेवं सुखसेवनीयं तत् कल्पयामि, तस्मिन् सदने उपविश हे व्री- होणां मेघ सारभूत शोभनमनास्सन् अमृते मरणरहिते स्थाने प्रतिष्ठितो भवेति मन्त्रार्थः । सदनाङ्गत्वमिति । सदनकरणाङ्गत्वमित्यर्थः । अयमभिसन्धिः- पूर्वार्धे सदनं प्रकाशयति । उत्तरार्धे तु सादनम् । तद्यदि तस्मिन्निति उत्तरार्धस्थतच्छब्दस्य पूर्वार्धसा- पेक्षत्वात् एकवाक्यत्वं परिकल्प्यते तदा उभयोरेकवाक्यत्वात् उभयोरप्यर्धयोस्सदने, सादने, उभयत्र वा विनियोगः स्यात्, तद्बाधित्वा लिङ्गेन पर्वार्धस्य सदनकरणाङ्गत्व मेवेति । पुरोडाशप्रतिष्ठापनाङ्गत्वमिति । इदमुपलक्षणं उभयाङ्गत्वस्यापि ॥ ( वाक्यनिरूपणम् ) वाक्यं निरूपयति- समभोति । श्रुत्यादावपि समभिव्याहारसत्वात् तत्रातिप्रसनवारणार्थं समभिव्याहार पदार्थमाह - समभिव्याहारो नामेति । साध्यत्वादित्यादिपदेन प्रथमेन साधनत्वादेः द्वितीयेन च तृतीयादेः परिग्रहः । शेषशेषिणोः श्रङ्गाङ्गिनोः । तद्वाचकपदयोरिति यावत् । एवं च यत्र शेषशेषिणोस्सहोच्चारणमात्रेणाङ्गाङ्गिभावोऽवगम्यते तत्र वाक्यीयो विनियोगः । यत्र द्वितीयादिकमप्यस्ति तत्र सत्यपि समभि व्याहारे 'प्रधानेन व्यपदेशा भवन्ती'ति न्यायेन श्रौतो विनियोग इति ध्येयम् । पर्णमयो पलाशवृक्षनिर्मिता । पलाशवृक्षस्य च पर्णशब्दवाच्यत्वं- 'तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत् पर्योऽभवत् । तत् पर्णस्य पर्णत्वम्' इत्यर्थवादतोऽवगन्तव्यम् । तस्मादेव वाक्यादेव । पर्णताया जुह्वर्थत्वे जुहूस्वरूपस्य पर्णतां विनापि येन केनापि वृक्षेण सम्पादयितुं शक्यत्वादानर्थक्यं शङ्कते-नचेति । अपूर्वलक्षणादिति । अपूर्वसाघनत्वलक्षणादित्यर्थः । केवलमपूर्वसाघनत्वे लक्षिते ध्रुवादीनामप्यपू र्वसाधनत्वाविशेषात् तत्रापि पर्णता प्राप्नुयात् तद्व्यावृत्यर्थ निष्कृष्टार्थमाहपर्णतयेति । श्रवत्तं व्यवदानेन संस्कृतं यद्धविः, तद्धारणद्वारेत्यर्थः । पूर्ववे लक्षिते वैयर्थ्य परिहृतमित्याह — एवञ्चेति । विशेषणप्रयोजनं कथयति — अवत्तेति । 1917 १. स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्ययामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः ॥ इति समग्रो मन्त्रः । २. सादनाङ्गत्वम् andarkar Oriental Institute निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः ४५ न पर्णताया वैयर्थ्यम् । श्रवत्तहविर्द्धारणद्वारेति चावश्यं वक्तव्यम्, अन्यथा नुवादिष्वपि पर्णतापत्तेः सा चेयं पर्णताऽनारभ्याधीता न सर्वऋतुषु गच्छति, वितिकृषु चोदकेनापि प्राप्तिसम्भवेन द्विरुक्तत्वापत्तेः, किन्तु प्रकृतिषु । तदुक्तम्'प्रकृतौ वाऽद्विरुक्तत्वात्' इति । अत्र विकृतिर्यतोऽङ्गानि गृह्णाति सा प्रकृतिरिति न प्रकृतिशब्देन विव- क्षितम्, गृहमेघीये पर्णताया अप्राप्तिप्रसङ्गात्, न हि गृहमेधीयात्काचन विकृतिरङ्गानि गृह्णाति, मानाभावात् ; किंतु चोदका (१)द्यत्र नाङ्गप्राप्तिस्तत्कर्म प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमासौ । तत्र हि न चोदकादङ्गप्राप्तिः । प्रकरणपठितैरेवा नैराकाङ्क्षयात् । गृहमेधीयादिष्वपि न चोदकादङ्गप्राप्तिः । क्लृप्तोपकारै रेवाज्यभागादिभिनैराकाङ्क्षयात् । अतो यत्र चोदका (२) प्रवृत्तिस्त- अन्यथा श्रवत्तहविर्धारणद्वारेत्यनिवेशने । स्रुवस्यावदानसम्पादकत्वेन ध्रुवादेः चतुर्गृ- हीताद्याज्यधारकत्वेन च तेषामवत्तहविर्धारणाभावात् न तत्रातिप्रसक्तिरिति भावः । पर्ण- तापत्ते रिति । स्रुवे खादिरत्वस्य उपभृति श्राश्वत्थत्वस्य ध्रुवायां वैकङ्कत तायाश्च विहितत्वेन तत्र पर्णताया श्रपि विधाने विकल्पाद्यापत्तेरिति भावः ॥ प्रसङ्गात् पर्णतागतं विशेषं वकुमारभते- सा चेति । अनारभ्येति । यं कञ्चित् याग विशेषमनुपक्रम्येत्यर्थः । सर्वक्रतुष्विति । प्रकृतिविकृत्युभयसाधारण्येनेत्यर्थः । विकृ तिष्वपि गमने दोषमाह - विकृतिष्विति । चोदकेन अतिदेशेन । द्विरुक्कत्वापत्तेरिति । विकृतेरङ्गाकाङ्क्षायां स्वसन्निधौ स्वापेक्षितनिखिलाङ्गोपदेशाभावेन प्रकृतितो धर्मातिदेशस्यावश्यकतया तत एव पर्खताया अपि प्राप्तिसम्भवेन पुनरपि तत्र विधाने द्वि विधानमापद्येतेत्यर्थः । अस्मिन्नर्थे तार्तीयं सूत्रं प्रमाणयति-प्रकृतौ वेति । वाशब्दः पूर्वपक्षव्यावर्तकः । प्रकृतावेवानारम्याधीतं पर्णतादिकं गच्छति, अन्यथा विकृतावपि गमने द्विरुक्तत्वापत्ते रित्यर्थः । श्रद्विरुक्तत्वादिति छेदे प्रकृतिमात्रगमने अद्विरुक्तत्वलाभादित्यर्थः । अत्राष्टमिक द्वितीयाधिकरणसिद्धं प्रकृतित्वं नाङ्गीकर्तुमुचितमित्याइ-अत्रेति । अङ्गीकरणे दोषमाह - गृहमेथोय इति । चातुर्मास्येषु तृतीये साकमेघे पर्वणि "मरुद्भ्यो गृह मेघिभ्यस्सर्वासां दुग्धे साथ मोदन' मिति विहितेष्टिः गृहमेधोयेष्टिः । अप्राप्तिप्रसङ्गादिति । जुह्वङ्गत्वेनेति शेषः । कस्तर्हि प्रकृतिपदार्थः १ ताह-चोदकादिति । अतिदेशादित्यर्थः । लक्ष्ये लक्षणं सङ्गमयति-तत्र होति । नैराकाङ्क्षयादिति । भावनायाः कथंभावाकाङ्क्षायां प्रयाजादीनाञ्चोपकार्याकाङ्क्षायां परस्परं सम्बन्धे तेनैवाकाङ्क्षायाश्शान्तत्वादित्यर्थः । अस्मिन् लक्षणेऽव्याप्त्यभावमुपपादयति-गृहमेधीयादिष्विति । अत्रादिपदेनोपसदवभृथादयो गृह्यन्ते । नैराकाङ्क्षयादिति । गृहमेधीयभावनायाकाङ्क्षायां यावत् प्राकृतानि क्लृप्तोपकारकाण्यज्ञान्यतिदिश्यन्ते ततः पूर्वमेव क्लृप्तोपकारस्याऽऽज्यभागादेविधानात् तावतैव भावनाकाङ्क्षायाश्शान्ते रितराज्ञानामर्थादेव निवृत्तिरिति भावः । श्राज्यभागादिभिरित्यादिपदेन "श्रग्नये स्विष्टकृते सम१. श्रङ्गाप्राप्तिः २. चोदकान्नाङ्गप्रवृत्तिः । POONA Research Institute ४६ मीमांसान्यायप्रकाशः 191) [ वाक्यत्रानारभ्याधीतानां सन्निवेशः । openepalkhab साप्तदश्यं त्वनारभ्याधोतमपि न प्रकृतौ गच्छति, प्रकृतेः पाञ्चदश्यावरोधात् । किं तु विकृतिषु गच्छति । तत्रापि न सर्वासु गच्छति, चोदकप्राप्तपाञ्चदश्यबाधप्रसङ्गात् ; किन्तु प्रत्यक्षश्रुतसाप्तदश्यासु मित्रविन्दादिषु गच्छति । यथाहुःर एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् । विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः ॥ इति । न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्तदश्यस्य मित्रविन्दादिवद्यति' 'इडामुपह्वयते' इति वाक्यविहितस्विष्टकृदिडे गृह्येते । एवमनारभ्यविहितस्य प्रकृतिगामित्वं निरूप्य तदपवादं वक्तुमारभते - साप्तद्श्यन्त्विति । 'सप्तदश सामिधेनोरनुब्रूया'दित्यनारभ्य वाक्यविहितं सामिधेन्यङ्गभूतं साप्तदश्यमित्यर्थः । अभिसमिन्धनार्था: "प्रवो वाजा अभिद्यवः" इत्याद्या ऋचस्सामिधेन्यः । पाञ्चदश्यावरोधादिति। तस्य प्रकरण एव पठितत्वेन शीघ्रोपस्थितत्वात् तस्यैव प्रथमं सम्बन्धे तेनैव नैराकाङ्क्षयात् न पुनः साप्तदश्यं गृह्णातीति भावः । बाधप्रसङ्गादिति । साप्तदश्यस्य सामिघेनी विषयेऽतिदेशसापेक्षत्वेन तत्प्रापितपाञ्चदश्यबाधे उपजीव्यविरोधापत्तेरिति भावः । अत्रेदमवधेयम्-न विकृतौ पाञ्चदश्यविरोधस्सम्भवति । आतिदेशिकस्य तस्यौपदेशिकेन साप्तदश्येन शरवत् बाधोपपत्तेः । नचानारम्यावीतत्वेन साप्तदश्यस्य दौर्बल्यम् । तस्य निरवकाशत्वेन प्राबल्यात् । नाप्युपजीव्यविरोधः, सामिधेन्यंश एवातिदेशोपजीवनात् । अन्यथा औदुम्बरवादेः यूपविषये तदुपजीवनेन यूपपृष्ठभावेन खादिरत्वस्याप्यतिदेशे श्रौदुम्बरत्वस्य तद्बाघकत्वस्याप्यनापत्तेः । अत एव मित्रविन्दादिप्रकरणस्थस्य वाक्यस्योपसंहारकत्वं सङ्गच्छते । सामान्यतः प्राप्तस्य विशेषविषये सङ्कोचनं ह्यपसंहारः । यदि सर्वत्र विकृतिषु न साप्तदश्यं प्राप्नोति, किन्तु प्रथमत एव पाञ्चदश्यरहितास्वेव, तर्हि सामान्यतः प्राप्तेरेवाभावात् कथं तस्योपसंहारकत्वं भवेत् । अत एतद्वाक्याभावे सर्वत्रैव विकृतिषु प्राप्नुयात् । तत्तूपसंह्रियतेऽनेन वाक्येन इत्येवाभ्युपगन्तव्यम् । एतदभिप्रायेणैव भाष्यकारोऽपि 'तत् प्रकृतौ विशेषविहितेन पाञ्चदश्येन बाधितं सर्वविकृतीरनुप्राप्तम्' इत्यादि वदति । यद्यपि वार्तिकमेतद्विरुद्धमिव भाति, तथापि तदप्यस्मिन्नेवार्थे सुधीभिर्योजनीयमिति । मित्रविन्दादीत्यादिपदेन पशुवैमृधाध्वरकल्पादयो गृह्यन्ते । एवश्चेति । प्रकृती, यत्र च विकृतौ साप्तदश्यं न पुनः श्रूयते तत्रैव पाञ्चादमयं निविशत इति कारिकार्थः । एकेन वाक्येनाभिमतसिद्धौ किमर्थं वाक्यद्वयमिति शङ्कते—न चेति । उपसंहारादिति । सातदश्यश्य सामिधेनीस्वरूपार्थत्व न र्थक्यात् ऋतुसम्बन्धो वक्तव्यः; अनारम्यवाक्ये च न क्रतुस्सन्निहितः, किन्तु सामिधेन्या व्यभिचारितऋतुसम्बन्धात् तद्वारा कथश्चित् क्रतो रुपस्थितिस्सम्पादनीया, ततश्चयावदना. रम्यवाक्यं सामिघेनीद्वारा ऋतुसम्बन्धं बोधयितुं प्रवर्तते ततः पूर्वमेव प्राकरणिकेन वानावात राजवि निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः प्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्यप्राप्तस्य विशेषे नियमनम् । यथाहुः सामान्यविधिर स्पष्टस्संहियेत विशेषतः । इति ॥ तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादिप्रकरणस्थस्तु विशेषवि धिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्यादङ्गत्वम् ॥ वाक्यस्य प्रकरणादितः प्राबल्यनिरूपणम् ) 89 तदिदं वाक्यं प्रकरणाद्वलीयः, प्रकरणं हि न साक्षाद्विनियोजकम्, तद्धि कारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं, किन्तु साकाङ्क्षं वाक्यं प्रकरणस्वरूपं (१)दृष्ट्वा भवत्येतादृशी मतिः-नूनमिदं वाक्यं केनचिद्वाक्येनैकवाक्यभूतमिति । ततश्चाकाङ्क्षारूपं प्रकरणं वाक्यस्य वाक्यान्तरेकवाक्यत्वे प्रमाणम् । एवं च यावत्प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति तावद्वाक्यं लिङ्गश्रुती कल्पयित्वा विनियोजकं भवतीति प्रकरणाद्वाक्यं बलीयः । अत एव "इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽकाता" क्येन क्रतुसम्बन्धो बोध्यते । अतश्च प्राकरणिकं वाक्यं झाटति क्रतुसम्बन्धबोधकं सत् अनारभ्यवाक्येऽविशेषेण सर्वविकृतिसम्बन्धकल्पनां निरुन्धदुपसंहारकमिति भावः । नचैकेनैव प्राकरणिकेन वाक्येनोभयोपपत्तौ अनारभ्यवाक्यं व्यर्थमिति वाच्यम् । ज्योतिष्टोमादिवाक्यवदभ्युदयशिरस्कत्वेनोपपत्तेः । को नामोपसंहारः १ अत ग्राह-उपसंहारो नामेति । तत्र वार्तिकं प्रमाणयति – सामान्येति । अस्पष्टः, उद्देश्यविशेष सम्बन्धितया न स्पष्टः । संह्रियेत उपसंह्रियेत । विशेषे पर्यवस्थाप्यतेति यावत् । कस्सामान्यविधिः ? को वा विशेषविधिः ? तत्राऽऽह — तत्रेति । ऋतुविशेषमनारभ्य सामान्यत एव पाठात् सामान्यविधित्वम्, क्रतुविशेषेषु पाठाच्च विशेष विधित्वमिति भावः ॥ ( वाक्यस्य प्रकरणादितः प्राबल्यनिरूपणम् ) * एवं वाक्यं निरूप्य तद्गतं प्राबल्यमिदानीं निरूपयितुमारभते-तदिदमिति । आ- काङ्क्षारूपमिति । उभयाकाङ्क्षा प्रकरणमिति वक्ष्यमाणत्वादिति भावः । स्वयं वाक्या- दिकल्पनामन्तरा । अङ्गत्वस्य प्रवर्तनात्मक विध्ये कबोध्यत्वादाकाङ्क्षाया अशब्दरूपाया प्रत थात्वादिति भावः । एकवाक्यभूतमिति । अन्यथा आकाङ्क्षा प्रशान्तेरिति भावः । एवञ्चाकाङ्क्षाया एकवाक्यतायामेव प्रमाणत्वात् सैव प्रथमं कल्पयितव्या । ततश्च लिङ्गा- दिकल्पनम् । एवं च यावत् प्रकरणेनैकवाक्यतां लिङ्गं श्रुतिं च कल्पयित्वा विनियोगः क्रियते ततः पूर्वमेव वाक्येन लिनश्रुतिकल्पनेन विनियोगः क्रियत इति प्रकरणात् वाक्य- स्य बलीयस्त्वमित्याह - ततश्चेति ॥ क अत एव वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्यादेव। इन्द्राग्नी इदं हविरिति । अत्रायमाशयः - दर्शपूर्णमासप्रकरणे 'इदं द्यावापृथिवी भद्रमभूत्' इत्यादिः 'नमो देवेभ्यः" इत्यन्तः सूक्तवाकपदाभिधेयः कश्चिदनुवाकः श्रूयते । तत्र चेष्टदेवतास्मारकेषु 'अग्निरिदं हविरजुषत' इत्यादिषुश्रुतो मन्त्रः इन्द्राग्नी इदं हविरजुषेतां अवीवृधेतां महो ज्यायोऽकाताम्' इति । तत्र सोमयाजिनः सान्नाय्याभावात् तत्स्थाने विहित AnER NPLFIES FLEETIME १. पश्यताम् । मीमांसान्यायप्रकाशः [ प्रकरण- मित्यत्रेन्द्राग्नीपदस्य लिङ्गाइर्शाङ्गत्वे सिद्धे 'इदं हवि' रित्यादेरपि तदेकवाक्य- त्वाद्दर्शाङ्गत्वम्, न तु प्रकरणादर्शपूर्णमासाङ्गत्वम्, प्रकरणाद्वाक्यस्य बली- यस्त्वादिति ॥ ( प्रकरणनिरूपणम् ) उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु "समिधो यजती"ति । अत्र हि इष्टविशेषस्यानिर्देशात्समि॑िद्यागेन भावयेत् किमित्यस्त्युपकार्याकाङ्क्षा । दर्शपूर्णमासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वगं भावयेत् कथमित्यस्त्युपकारकाकाङ्क्षा । श्रत उभयाकाङ्क्षया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति । ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजिन्न्यायेन स्वर्गः फलं कल्प्यताम् । विश्वजिद्धिकरणे हि "विश्वजिता यजेते" त्यत्र फलस्याश्रवणात् फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वर्गः फलमित्युक्तम् । तदुक्तम्- 'स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्' इति । ऐन्द्राग्नयागे समवेतमिन्द्रग्नीपदमिति लिङ्गादेव तदङ्गत्वं तस्य सिद्धम् । तत्समभिव्याह- तानामिदं इविरित्यादीनां प्रकरणे पाठात् प्रकरणस्य चाविशेषात् दर्शपूर्णमासोभयार्थत्वे प्राप्ते तद्बाधित्वा प्रबलेन इन्द्राग्नीपदसमभिव्याहाररूपेण वाक्येन दर्शमात्राङ्गत्वमिति । चाधिकाराख्यं प्रकरणं बोध्यम् । उभयाकाङ्क्षालक्षणस्य प्रकरणस्य सिद्धमन्त्रविनि- योजकत्वाभावात् ॥ (प्रकरण निरूपणम्) PUTE प्रकरणमिदानों निरूपयति – उभयेति । DIME 107 काम प्रधानोभयगतपरस्पराकाङक्षेत्यर्थः । 'प्रयाजादिषु' इत्यादि पदेनाघाराज्यभागादिविधयो गृह्यन्ते । परस्पराकाङ्क्षा मेवोपपादयतिअत्र होति । इष्टविशेषानिर्देशादिति । विधिश्रवणान्यथानुपपत्या भावनाया इष्ट. सामान्यभाव्यकत्वावगमेऽपि फल विशेषस्याश्रवणात् तत्कल्पनं यावदाकाङ्क्षाया अशान्ते. रित्यर्थः । अन्यत्राप्याकमुपपादयति- दर्शेति । एवं च प्रयाजादीनामुपकार्याकाङ्क्षा सत्वात् प्रधानस्य चोपकारकाकाङ्क्षावत्वात् नष्टाश्वदग्धरथन्यायेन परस्परसम्बन्धेन सिध्यति दर्शपूर्णमासाङ्गत्वं प्रयाजादीनामित्याह - प्रत इति । WIT ननु प्रयाजादीनां फलाकाङ्क्षायां साक्षात् स्वर्गार्थत्वमेव कल्प्यताम्, किमर्थं दर्शपूर्णमासोपकारकत्वं कल्प्यते । स्वतन्त्रफलार्थत्वे सम्भवति अन्याङ्गत्वकल्पनस्यान्याय्य त्वादिति शङ्कते–नन्विति। विश्वजितेति । अयं चैकाइकाण्डपठितो विश्वजिद्बोध्यः । 'सर्वेभ्यो वा एष देवेभ्यस्सर्वेभ्यश्छन्दोभ्यस्सर्वेभ्यः पृष्ठेभ्य आत्मनमागुरते यस्सत्रायागुरते स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेद १ सदक्षिणेन यजेत"इति वाक्यविहितो विश्वजित् भाभ्योदाहृतोऽपि नात्रोदाहरणम्। तस्य वाक्येनैव सत्रफलार्थतावगमात् । स स्वर्ग इति । सः कल्पनीयः फलविशेषः स्वर्गः स्यात् सर्वपुरुषान् प्रत्यविशेषात् । सर्वाभिलषितत्वादिति यावत्, इति सूत्रार्थः । स्वर्गस्य दुःखासंभिन्नसुखरूपत्वेन तत्राविशेषात् सर्वेषामेवोत्कटरागोदयादिति भावः । तस्य देश1917 Bhandarkar Oriental निरूपणम् ] सारविवेचिनीव्याख्या संवलितः रात्रिसत्रन्यायेन वार्थवादिकं फलं कल्प्यताम् । रात्रिसत्राधिकरणे हि "प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ती" त्यत्र विध्युद्देशे फलाश्रवणात्फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये श्रार्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य प्रकृतसम्बन्धकल्पने गौरवात्, अर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने लाघवात् । तदुक्तम्'फलमात्रेयो निर्देशादश्रुतौ धनुमानं स्यात्' इति । तस्मा(१)द्विश्वजिन्न्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्रफलार्थत्वे सम्भवति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति चेत्मैवम् । स्वतन्त्रफलार्थत्वेऽन्यतराकाङ्क्षया सम्बन्धः स्यात् । न ह्यत्र फलस्य साधनोकाङ्क्षाऽस्ति । श्रयमाणं हि फलं साधनमाकाङ्क्षति, न चात्र तत् श्रूयते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याकाइयैव स्वतन्त्रफलार्थत्वं स्यात् । दर्शपूर्णमासार्थत्वे तूभयाकाङ्क्षा प्रमाणम् । प्रयाजानां भाव्याकाङ्क्षाया इतरत्र च कथंभावाकाङ्क्षायाः सत्त्वात् । अन्यतराकाङ्क्षातश्चोभयाकाङ्क्षा बलोयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थत्वमेव युक्तं विशेषरूपत्वेऽपि पुत्रपश्वाद्यपेक्षयाऽभ्यहिंतत्वेन तत्रैव सर्वेषामभिलाषोदयात् तस्य सर्वाभि लषितत्वम् । यत्रार्थवादेऽपि नास्ति फलश्रवणं तत्रैव विश्वजिदधिकरणप्रवृत्तेः, अत्र च "वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजानुयाजा इज्यन्ते वर्म यजमानाय भ्रातृ व्याभिभूत्या" इत्यर्थवादसत्वात् तत्र च भ्रातृव्याभिभूतिरूप फलश्रवणात् विश्वजिन्याया नवतारं मन्वानः न्यायान्तरेण स्वतन्त्रफलार्थतामाह - रात्रीति । आर्थवादिकमिति । अर्थवादप्रतिपादितं भ्रातृव्याभिभूतिरूपमित्यर्थः । भ्रातृव्यः शत्रुः । तस्याभिभूतिः नाशः । प्रतीति । ये एतान् रात्रिसंशकान् क्रतूननुतिष्ठन्ति ते प्रतिष्ठां प्राप्नुवन्तीत्यर्थः । इत्यत्र विध्युद्देश इति । इत्यर्थवादसन्निहिते "ज्योतिर्गौरायुरिति त्र्यहा भवन्ति" इति विधिवाक्य इत्यर्थः । नन्वत्रापि विश्वजिन्न्यायेन स्वर्गः कल्प्यताम् । किमर्थे वर्तमाननिर्दिष्टस्यान्यार्थस्य फलपरत्वमङ्गीक्रियत इत्यत आह-विश्वजिदिति । लाघवादिति । अध्याहारापेक्षया वर्तमाननिर्देशस्य सन्नन्ततया विपरिणामोऽपि लघुभूत इति भावः । तदधिकरणसूत्रं प्रमाणयति – फलमिति । अर्थवादप्रतिपादितं प्रतिष्ठाख्यं फलं मन्यते आत्रेयः ग्राचार्यः, तस्यैव निर्दिष्टत्वात् तस्य अश्रुतौ अश्रवणे हि स्वर्गादेः फलान्तरस्य अनुमानं कल्पनं इति सूत्रार्थः । स्वीक्रियत इति । प्रयाजादीनामिति शेषः । एवं च प्रयाजादिषु स्वसमीपे फळबोधकपद श्रवणे तद्बोधितस्यैवफलत्वमस्तु । तदभावे स्वर्गः फलमस्तु । सर्वथा न दर्शपूर्णमासाङ्गत्वं तेषामिति भावः । 1 एवं स्वतन्त्रफलार्थत्वं पूर्वपक्षयित्वा तन्निराकरोति - मैवमिति । अन्यतराकाङ्क्षयेति । स्थानरूपपञ्चमप्रमाणविनियोज्यत्वं स्यादित्यर्थः । तदुपपादयति नहीति । तत् श्रूयत इति । 'समिधो यजति, तनूनगतं यजति, श्राघारमाघारयति, श्राज्यभागौ यजति' इति फलपदरहितानामेव वाक्यानां श्रवणात् इति भावः । ॥जस्थमस्तु । 1 NDIRPERFE PHPPS १. विश्वजिदधिकरणन्यायेन । ७ मो० न्या० मीमांसान्यायप्रकाशः [प्रकर ५० न स्वतन्त्र फलार्थत्वमिति । तदुक्तम्'द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्' इति । अत्र द्रव्ये फलश्रुतिः (१) "यस्य पर्णमयो जुहूर्भवति न स पापश्श्लोकर शृणोति" इत्येवमाद्या । संस्कारे फलश्रुतिः "यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्ते' इत्येवमाद्या । कर्मणि फलश्रुतिः 'वर्म वा एतद्यज्ञस्य क्रियते यत्प्रया- जानूयाजा इज्यन्ते' इत्याद्या । कर्मपदं चारादुपकारककर्मपरं द्रष्टव्यम्, संस्का- रकर्मणः पृथक्संकीर्तनादित्यास्तां तावत् ॥ ( प्रकरणस्य क्रियैकबिषयत्वनिरूपणम् ) तदिदं प्रकरणं क्रियाया एव विनियोजकम्, न द्रव्यगुणयोः । तयोस्तु क्रियायोगाद्विनियोजकम् । कुत इति चेत् ? शृणु-'यजेत स्वर्गकाम' इत्यत्राख्यातांशेनार्थी भावनाभिधीयते - भावयेदिति । सा चांशत्रयमपेक्षते-किं भावयेत्, केन भावयेत् ; कथं भावयेदिति । तत्र भाव्याकाङ्क्षायां षष्ठाद्यन्यायेन स्वर्गो भाव्यतयान्वेति-स्वगं भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो प्रकरणप्राबल्यनिरूपणावसरे इति शेषः । प्रयाजादीनां स्वतन्त्रफलार्थत्वाभावे चातुर्थिकं सूत्रं प्रमाणयति — द्रव्य संस्कारेति । यस्य पर्णमयीत्यादौ द्रव्ये, यदाक्त इत्यादौ संस्कारे, यत्प्रयाजानूयाजाः इत्यादावर्थ कर्मणि च फलश्रवणं अर्थवादस्स्यात् । तेषां क्रत्वर्थत्वादिति सूत्रार्थः । प्रत्येकमुदाहरति-द्रव्येति । अनारभ्यवादोऽयं यस्येति । यस्य यजमानस्य यज्ञे दर्शपूर्णमासादौ जूहूः पलाशवृक्षीयकाष्ठनिर्मिता (जुहूः होमसाधनद्रव्यधारणार्थः पात्रविशेषः ) भवेत् स यजमानः पापं श्लोकं अपकीर्ति कदापि न शृणुयात्, इति, यजमानः स्वे चक्षुषी अञ्जनेनाऽऽब्ते यस्मात्, तेन शत्रोनेंत्रमावृणोति (शत्रुरन्धो भवेत् इति यावत् ) इति, दर्शपूर्णमासयोः प्रयाजा अनूयाजाश्चाऽनुष्ठीयन्त इति यत् तेन यज्ञस्य यजमानस्य च कवचेनाऽऽवरणं कृतं भवति इति च वाक्यत्रयस्य क्रमशोऽर्थाः । ज्योतिष्टोमे दीक्षामध्ये श्रुतं यदाङक्त इति । दर्शपूर्णमासप्रकरणे प्रयाजसन्निधौ वर्मेत्यादि । अत्र सर्वत्राप्याद्यपदेन क्रमात् 'यस्य वैकङ्कती ध्रुवा भवति प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रैव जायते' । 'यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति' । 'यदाज्यभागौ यजति चक्षुषी एव तद्यज्ञस्य प्रतिद्धाति इत्यादयो ग्राह्याः । सूत्रस्थकर्मपदस्यार्थमाह- कर्मपदमिति । पृथगिति । संस्कारप देन ग्रहणादित्यर्थः ॥ विजण निग VALE ( प्रकरणस्य क्रियैकविषयत्वनिरूपणम्) FOUNDED एवं प्रकरणं निरूप्य तस्य इतरप्रमाणेभ्यो व्यावृत्तं विशेषमाह - तदिदमिति । किं सर्वथा द्रव्यगुणाविनियोजकत्वम् ! नेत्याह—तयोरिति । प्रथमतः प्रेक्षावतः पुरु षस्य फल विषयिण्येवाकाङ्क्षा, अनन्तरं तत्साधने, अनन्तरं च तत्प्रकारविशेष इति तेनैव क्रमेण आकांक्षामुपपादयति - किमिति । षष्ठाद्यन्यायेनेति । उपपादितमेतद 10वी १. यस्य पर्णमयी जुहूर्भवतीत्येवमाया ख. पु. निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः यागो भावार्थाधिकरणन्यायेन करणतयान्वेति-यागेन स्वर्गं भावयेदिति । तत्र कथमिति (१) कथंभावाकाङ्क्षा जायते । तस्यां चाकाङ्क्षायां यत्संनिधौ पठितमध्यमाणफलकं च क्रियाजातं तदेवोपकार्याकाङ्क्षा (२) यामितिकर्तव्यतात्वेनान्वयमनुभवितुं योग्यं, क्रियाया एव लोके कथंभावाकाङ्क्षा या मन्वयदर्शनात् । न हि कुठारेण छिन्द्यात्कथमित्याकाङ्क्षायां हस्त इति केवलमुब्बार्यमाणोऽपि हस्तोऽन्वयं प्राप्नोति । किं तहिं ? हस्तेनोद्यम्य निपात्येत्युच्चार्यमाणे उद्यमननिपातने एव । (३) हस्तोऽपि तद्वारेणैवान्वयं प्राप्नीतीति सार्वजनीनमेतत् । किं च कथंभावाकाङ्क्षा नाम करणगतप्रकाराकाङ्क्षा । (४) थमोः प्रकारवा चित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामान्यं च क्रियारूपमेवाख्यातेनोच्यते । 'यजेत स्वर्गकाम' इत्यस्य ह्ययमर्थ:- यागेन तथा कर्तव्यं यथा स्वर्गो भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति। न हि ब्राह्मणविशेषः परिव्राजकादिरब्राह्मणो भवति । एवं च करणगतक्रियाविशेषाकाङ्क्षा परनामधेयकथंभावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । स च करणगतः क्रियाविशेषोऽन्वाधानादिब्राह्मणतर्पणान्तः क्रियारूप एवेति युक्तं तस्य प्रकरणेन ग्रहणम् । (५) तस्य च करणगतत्वं तदुपकारकत्वमेव, तेन विना यागेनापूर्वाजौ ननात् । न ह्युद्यमननिपातन(६)व्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत्सिद्धं कथंभावाकाङ्क्षायां क्रियैवान्वेतीति । अत एव द्रव्यदेवतयोर्यागसंपादनद्वारान्वयः साम्प्रदायिकैरुक्तः । विकृतौ घस्तात् । समानपदोपात्त इति हेतुगर्भविशेषणम् । सिद्धस्य वस्तुनः साक्षादितिकर्तव्यतात्वेनान्वयाभावं दर्शयति-न होति । केवलमिति । क्रियापदोच्चारणं विनेत्यर्थः । सार्वजनीनमिति। सर्वजनप्रसिद्धोऽयं व्यवहारो नात्रविशेषतो वक्तव्य मस्तीत्यर्थः । किञ्च कथम्भावाकाङ्क्षा स्वरूप विवेचनेनाप्यय मेवार्थस्सिध्यतीत्याह- किञ्चेति । प्र कारवाचित्वादिति । 'प्रकारवचने थाल' इति सूत्रात् प्रकारवचन इत्यनुवृत्य 'किमश्वेति सूत्रेण किंशब्दात् थमो विधानादिति भावः । श्रख्यातेनोच्यत इति । "दर्शपूर्णमासाभ्यां स्वर्गकामी यजेत" इति वाक्येन तत्तद्वयापाराणामेव सामान्यतो भावनात्वेनोकत्वादिति भावः । श्राख्यातस्य तत्तदुत्पत्यनुकूलव्यापारसामान्य वाचित्वमेवोपपादयितुमारभते – यजेतेत्यादिना । अन्वाधानादीति । श्रन्वाधानं दर्शपूर्णमास योरादौ "ममाग्नेवचः" इत्यादिभिर्मन्त्रैराहवनीयादिष्वग्निषु काष्ठाधानम् । ब्राह्मणतर्पणं भोजनादिना ऋत्विजां प्रीतिसंपादनम् । करणगतः यागादिरूपधात्वर्थगतः ननु धात्वर्थस्यैव भावनाकरणत्वात् तस्य च क्रियारूपत्वेन कथं तद्गतत्वमन्वाधानादीनाम् ! श्रत ग्राह- तस्य चेति । करणापेक्षितोपकारजनकत्वमेव करणगतत्वं, न तु तन्निष्ठत्वम् । अतो न दोष इति भावः । । अत एव क्रियाया एव कथंभावाकांक्षायामन्वयादेव। यागसंपादनद्वारेति । यागस्वरूपनिष्पादनस्य क्रियात्वेन तद्वाराऽन्वयो द्रव्यदेवतयोंः सिद्धयोरपि सम्भवतीति ५. ततश्च. Bhandarkar Oriental Research १. कथम्भावाकाङ्क्षायां इति. क. पु. २. कांक्षया, ३. इस्ताद्यपि, ४. थमुनः, ६. व्यतिरेके उद्यमननिपातने एव हस्तादिद्वारेणा न्वयं प्राप्नुतःnsteine मीमांसान्यायप्रकाशः [ प्रकरणच कथम्भावाकाङ्क्षायामुपकारसम्पादनमतिदिश्यत इत्युक्तम् । यदि च कथम्भावाकाङ्क्षायां सिद्धं वस्त्वन्वययोग्यं स्यात् तदा (१) सम्पादन पर्यन्तं धावनं (२) प्र. म्यकृतामनर्थकं स्यात् । अतश्च क्रियाया एव इतिकर्तव्यतात्वम्, कथम्भावाकाडागृहीतस्येतिकर्तव्यतात्वात्, इतिशब्दस्य च प्रकारवाचित्वात् । कर्तव्यस्य 'इति' प्रकार: 'इतिकर्तव्यता' । प्रकारश्च सामान्यस्य भेदको विशेष इत्युक्तम् । कर्तव्यस्य च विशेषः कर्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्तव्यतात्वम्, किन्तु क्रियाया एव, सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वम् । तदपि श्रुत्यादिना, न तु प्रकरणात् । यथाहुःनावान्तरक्रियायोगाद्वते वाक्योपकल्पितात् । गुणद्रव्ये कथंभावैर्गृहन्ति प्रकृताः क्रियाः ॥ इति । अत एव 'बहिर्देवसदनं दामी' त्यादिमन्त्राणां(३)लिङ्गादङ्गत्वम्, न तु प्रकरणादित्युक्तमर्थवादाधिकरण पूर्वपक्षसमाप्तौ (४) राणके। क्वचिदुद्रव्यस्येतिकव्यतात्वाभिधानमङ्गत्वाभिप्रायं द्रष्टव्यम् । बहुग्रन्थस्वरसादुक्तयुक्तेश्चेति । 17115 भावः । उपकारसम्पादनमिति । विकृतिभावनायाः कथंभावाकांक्षायां प्रथमतः प्राकृतस्योपकारस्यातिदेशः तत्पृष्ठभावेन च पदार्थानामतिदेश इत्युक्तमित्यर्थः । इतिकर्तव्यताशब्दार्थपर्यालोचनयापि तदेवाऽवगम्यत इत्याह—इतीति । इत्युक्तमिति । पूर्वमस्माभिरिति शेषः । श्रादिपदेन संख्यादीनां सङ्ग्रहः । श्रङ्गत्वेऽपि प्रकरण विनियोज्यत्वे सिद्धं नस्समीहितं इत्यत - तद्पीति । नावान्तरेति । उक्तार्थमिदम् । अत एव सिद्धस्य प्रकरणग्राह्यत्वाभावादेव । राणक इति । अयं हि तत्रत्यो प्रन्थः- "व्यापारग्राहिणा प्रकरणेन साक्षा दुग्रहणायोगात् उच्चारणद्वारा तद्ग्रहणं तद्ग्रहरणाच्चोच्चारणार्थता इत्यन्योन्याश्रयापत्तेः न प्रकरणपाठमात्रेण विनियोगो युक्तः । सामर्थ्यात्तु अभिधान क्रियावगमेतद्वारा प्रकरणग्रहणोपपत्तेः अनुच्चरितस्याभिधानाशकः कर्मकालोच्चारणसिद्धरिति भावः" इति । ननु - "विधिर्हि समानपदोपात्तात् धात्वर्थात् भावनायाः सन्निकृष्टः प्रथममेव तामवरुध्य पुरुषार्थाय गमयति, प्रवर्तनात्मकत्वात् ; अपुरुषार्थफले च व्यापारे पुरु षस्य प्रवर्तयितुमशक्यत्वात् । तेन प्रवर्तनात्मकविध्यन्वयादेव समीहित रूपे भाव्येऽपेक्षिते तद्विशेषमात्रं वाक्यादवगम्यते । तस्मिंश्चावगते समानपदोपात्तो धात्वर्थः करणतया स्वीक्रियते । द्रव्यादि तु इतिकर्तव्यतया" इति न्यायरत्नमालापर्यालोचनया द्रव्यस्यापीतिकर्तव्यतात्वेनान्वयोऽस्त्येवेति प्रतीतेः कथं तन्निषेधः शक्यते कर्तुमित्यत ग्राह-क्वचिदिति । बहुग्रन्थस्वरसादिति । "न द्रव्यं तेन आकांक्ष्यते। इतिकर्तव्यतां हि स श्राकांक्षति । होमश्चेतिकर्तव्यता न द्रव्यम्" । "द्रव्याणां वाक्यसंयुक्तक्रियानिर्वर्तनाद्विना । क न प्रयोजनमस्त्यन्यत् कथंभावाद्यसङ्गतेः । यथा होमः क्रियात्मकत्वात् किमित्यपेक्षमाणः प्रधानकथंभावेन इत्थमनु१. उपकारसम्वादनपर्यन्तानुभाव नं. ख. पु. २. ग्रन्थकाराणां ३ मन्त्रस्य ख. ४. राणाकेन. ख. पु. Research Institute FOUNDED 1917 निरूपणम् ] सारविवेचिनोव्याख्यांसंवलितः तत्सिद्धं प्रकरणं क्रियाया एव विनियोजकमिति । स्था तच्च प्रकरणं द्विविधम्-महाप्रकरणमवान्तरप्रकरणं चेति । तत्र फलभावनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा- दर्शपूर्णमासादिः । तत्र चोभयाकाङ्क्षारूपं प्रकरणं संभवति, श्राकाङ्क्षानुपरमात् ५३ विकृतौ तु न प्रकरणं सम्भवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः, यथा सौर्यादिः । तत्र च यान्यपूर्वाण्यङ्गानि पठ्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किंभावयेदित्यस्त्याकाङ्क्षा, तथापि प्रधानस्य न कथंभावाकाङ्क्षास्ति, प्राकृतैरेवाङ्गैनिराकाङ्क्षत्वात् । न च प्राकृतानामङ्गानामन्त्रापठितत्वेनाप्रत्यक्षत्वाद्वैकृतानां तु पठितत्वन प्रत्यक्षत्वात्तैरेवाकाझोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्ल झोपकारत्वेन झटित्याकाहोपशमनेऽसामार्थ्यात्, प्राकृतानां तु क्लृप्तोपकारत्वेन तच्छुमने सामर्थ्यात् । 9 ग्राहकत्वेन गृह्यते । नैवं द्रव्यम" 'द्रव्यस्य अक्रियात्मकत्वात् प्रकरणाग्रह- गाभिधानार्थम्' इत्यादिभाष्यवार्तिकन्यायसुधादिस्वरसादित्यर्थः । भूयोनुग्रह स्यैव न्याय्यत्वादिति भावः ॥ घा प्रकरणमिदानीं विभजते- तच्चेति । तत्र महाप्रकरणावान्तरप्रकरणयोर्मध्ये । आकाङ्क्षानुपरमादिति । प्रधानकथम्भावाकाङ्क्षायाः प्रयाजाद्यन्वयमन्तरा प्रशान्तेः प्रयाजीयोपकार्याकाङ्क्षायाश्च प्रधानसम्बन्धमन्तश प्रशान्तत्वाञ्चेत्यर्थः । 4 यत्रेति । सौर्यादिरिति। "सौयं चरुं निर्वपेद्ब्रह्मवर्चसकाम" इति विहितेष्टिस्सौर्येष्टिः। यत्र च भावनापेक्षिताङ्ग पौष्कल्यं विधायकवाक्याम्नानं सा विकृतिरित्यर्थः । पूर्वाणि अप्राकृतानि । विकृतिसन्निवावेवापूर्वतया विहितानीति यावत् । अत्र - प्रकृतिपदार्थमाह - यत्रेति । समग्राङ्गोपदेश इति । अपेक्षितयावदशवाक्याम्नानमित्यर्थः । ननु विकृतावपि प्रधानस्योपकारकाकाङ्क्षासत्वात् श्रृङ्गानां चोपकार्याकाङ्क्षासत्वात् श्रस्तु परस्पराकाङ्क्षया ऽङ्गत्वं इत्यत आह - तत्र यद्यपोति । तेषां वैकृताङ्गानाम् । न कथम्भावाकांक्षास्तीति। वैकृताकाङ्क्षान्वयदशायामिति शेषः। तर्ह्यत्पन्ना वैकृती आकाङ्क्षा केन शाम्यति ? तदाह - प्राकृतैरेवेति । एवं च प्रथमतः प्राकृताङ्गविषयिण्या एवाकाङ्क्षाया उत्थानात् तदन्वये च त्राकाङ्क्षायाः शान्तत्वात् अपूर्वाङ्गान्वयदशायां कुतः प्रधानाकाङ्क्षति भावः । ननु वैकृतानां सन्निहितत्वेन प्रत्यक्ष श्रुतत्वेन च प्रथमं तेषामेवान्वयोऽस्तु, तावतैव चाकाङ्क्षाऽपि शाम्यतु, किमर्थमप्रत्यक्षाणामनुपस्थितानां च प्राकृ· तानामज्ञानां नैराकाड् क्ष्यसंपादकत्वं इत्याशङ्कयाह – न चेति । अक्लृप्तोपकारकत्वेनेति । अद्ययावदेतेषामनुष्ठानाभावेन एतावताप्येतदीयोपकारस्य कुत्राप्यसिद्धेरित्य. र्थः । एवं च न पाठमात्रमा काङ्क्षाशामकत्वप्रयोजकम्; किन्तु येषामुपकारजनन सामर्थ्य पूर्वमेव क्लृप्तं तेषामेवाकाङ्क्षाशामकंता । तच्च प्राकृतानामेवेति न वैकृतैराकाङ्क्षाशान्तिC रिति भावः । [ प्रकरणन चात्र तेषामुपस्थापकाभावः, उपमितिलक्षणप्रमाणेन तेषामुपस्थितत्वात् । सौर्यवाक्ये हि दृष्टे श्रौषधद्रव्यकत्वेन एकदैवत्यकत्वेन च सादृश्येन आग्नेयवाक्यमुपमीयते, गवयदर्शनाद्गोरुपमानवत् । तस्मिञ्चोपमिते तेन तद्र्थो ज्ञायते । सा त्र्यंशा भावना । तत्र सौर्यवाक्ये भावनायाः भाव्यकरणयोः सत्त्वात् इतिकर्तव्यताकाङ्क्षा यामुपकारपृष्ठभावेनाग्नेयेतिकर्तव्यताऽतिदिश्यतेसौर्ययागेन ब्रह्मवचंसं भावयेदा (१)ग्नेयवदुपकृत्येति । तथा च तथैवाकाङ्क्षोपशमान्न विकृतेः प्रकरणमस्ति । अन्यतराकाङ्क्षारूपस्थानादेव चापूर्वाङ्गग्रहणम् । न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात् कि न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाऽऽकाङ्गोपशमात् । मीमांसान्यायप्रकाशः प्राकृतानामत्रोपस्थापकप्रमाणाभावमाशङ्कय परिहरति—न चेति । तेषां प्राकृताङ्गानाम् । उपमितीति । उपमानेत्यर्थः । इदं हि मीमांसकानामुपमिति स्वरूपम्-नागरिकः पुरुषो नगरे दृष्टगुः कदाचिदरण्यं गतस्तत्र गवयाख्यं मृगं पश्यति । ततस्तद्गतं गोसादृश्यं प्रत्यक्षेणावगच्छति । अनन्तरंच समानसम्वित्संवेद्यतया गवयसादृश्यं गोनिष्ठं स्मरति एतत्सदृशी मदीया गौरिति । सैव चोपमितिरित्युच्यते । तत्करणं च गवयपिण्डदर्शनमुपमानमिति । सौर्यवाक्ये । "सौर्य चरुं निर्वपेदि'ति वाक्ये । औषधद्रव्यकत्वेन स्वविधेयकर्मण ओषधिप्रभववीह्यादिसम्पाद्यद्रव्यकत्वेन । एकदैवत्यत्वेन एकत्वसंख्याविशिष्ठदेवतावत्वेन । आग्नेयवाक्यमिति । 'यदाग्नेय' इति वाक्यमित्यर्थः । यथा गवयदर्शनात् तत्सदृश्या गोः स्मरणं, तथा सौर्यवाक्यदर्शनात् तत्सदृशस्याग्नेयवाक्यस्य स्मरणमित्यर्थः । श्राग्नेयस्यापि औषधद्रव्यकत्वात् एकदेवताकत्वाच्चेति भावः । तेन वाक्येन। भावनाया इतिकर्तव्यताकाङ्क्षायामिति संबन्धः । भाव्य करणयोस्सत्वादिति । ब्रह्मवर्चसरूपस्य भाव्यस्य धात्वर्थरूपस्य करणस्य च सत्वादित्यर्थः । यद्यप्यत्र न श्रुतस्य निर्वापस्य करणत्वेनाऽन्वयस्सम्भवति तथापि द्रव्यदेवतासम्बन्धान्वयानुपपत्तिकल्पितस्य यागस्य करणत्वेनान्वय इति बोध्यम् । उपकारपृष्ठभावेनेति । प्रथमतो विकृतिभावनया प्राकृतोपकारस्यैवापेक्षणात् तस्यैव प्रथममतिदेशे तत्संपादकत्वेन तत्पश्चाद्भावितये त्यर्थः । श्राग्नेयवदिति । यथा श्राग्नेयेन प्रयाजाद्युपकृतेन स्वर्गो भावितः तद्वदित्यर्थः । एवञ्च प्राकृतैरेवाङ्गैः विकृत्याकाङ्क्षायाश्शान्तत्वात्, नोभयाकाङ्क्षालक्षणं प्रकरणं विकृतौ सम्भवतीत्याह-तथा चेति । कथं तर्ह्यपूर्वाज्ञानामन्वयः ? तह अन्यतरेति । अङ्गनिष्ठप्रधानविषयकाकाङ्क्षावशादेवेत्यर्थः । ननु वैकृताङ्गानां प्रकरणग्राह्यत्वाभावेऽपि प्राकृतानामेव विकृतिसम्बन्धः प्रकरणात् स्यात् । तदन्वयदशायां विकृतेराकांक्षासत्वात् इत्याशङ्कयाह - न चेति । तेषामपीति । यद्यपि विकृतेराकांक्षाऽस्ति, तथापि प्राकृतानां प्रकृतिसन्निधौ पठितत्वेन तदुपकार संपादने नैव तेषामाकाङ्क्षाशान्तेः न विकृत्यन्वयदशायामाकाङ्क्षाऽस्तीत्यर्थः ॥ ननु प्राकृताज्ञानामाकाङ्क्षाभावे तेषां विकृतिसम्बन्धस्य अन्यतराकाङ्क्षारूपस्थानग म्यत्वेन वैकृताङ्गानां चोभयाकाङ्क्षालक्षणप्रकरणग्रहण संभवात् पूर्वे तैरेव विकृतेः सम्बन्धे १. आग्नेयवदिति. ख. पु. NSTRUM RODNA Research Institute निरूपणम् ] सारविवेचनी व्याख्यासंवलितः ५५ ननु प्राकृताना मङ्गानामाकाङ्क्षाभावे तेषां विकृतौ संबन्धः केवलं स्थानात् स्यात्: अपूर्वाणां त्वाकाङ्क्षासत्त्वाद्विकृतेरण्याकाङ्क्षावत्त्वात् तेषां तत्सम्वन्धः प्रकरणात्स्यात्, प्रकरणं च स्थानात झटिति विनियोजकमित्यपूर्वा गामेव प्रथमसम्बन्धः स्थात्, न प्राकृतानामिति । (१) अत्रोच्यते — सत्यं प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणब- लावलात्प्रमेयबलाबलस्य ज्यायस्त्वादुक्तविधयोपस्थितानां प्राकृतानामेव सम्ब- न्धो युक्तर(२) स्यात्, कऌप्तोपकारत्वात्, न वैकृतानां, कल्प्योपकारत्वात् । विकृतेश्चोपकारक पदार्थाकाङ्क्षा, न पदार्थमात्राणामिति युक्तः प्रथमं प्राकृता- ङ्गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् ॥ यत्त विकृतौ प्राकृताङ्गानुवादेन विधोयते-यथा 'मौदुम्बरो यूपो भवति' इति यूपानुवादेन ओदुम्बरत्वम्, तत्प्रकरणाद्गृह्यते । ननु न तत्प्रकरणाद्गृह्यते अक्रियात्वात् । क्रियाया एव प्रकरणग्राह्यत्वा- दिति चेत्-सत्यम् । तथापि तु तावद्विधीयमानस्यौदुम्बरत्वस्यास्त्येवाकाङ्क्षा तेनैवाकाङ्क्षोपरमात् प्राकृताङ्गग्रहणमेव न स्यादिति शङ्कते–नन्विति ॥ आशङ्कां निराकरोति — अत्रोच्यत इति । प्रमाणबलाबलादिति । निरूपितमेतदघस्ताल्लिङ्ग निरूपणावसरे । एवं च प्रमाणस्वरूपपर्यालोचनायां यद्यपि स्थानापेक्षया प्रकरणं प्रबलं, तथापि प्रमेयस्वरूपपर्यालोचनायां प्राकृतानामङ्गानां क्लृप्तोपकारकत्वेन स्वतः प्राबल्यात् तेषामेव प्रथमं सम्बन्धो युक्त इति भावः । ननु नात्र क्लृप्तोपकारकत्वेन कल्प्योपकारकत्वेन वा प्रयोजनम् ; किन्तु विकृतिः पदार्थान् परमाकाङ्क्षति । श्राकाङ्क्षा च सन्निहितैरेव शाम्यतीति कथं प्राकृताङ्गसम्बन्धः ? इत्यत ग्राह-विकृतेरिति । न पदार्थमात्राणमिति । स्यादेवं यदि पदार्थत्वरूपेण पदार्थानामाकाङ्क्षा, न त्वेतदस्ति; किन्तु उपकारजनकरवेन, तच्च प्राकृतानामेव पूर्व प्रकृतौ कृतकार्यतया क्लृप्त मिति तेषामेव प्रथमं सम्बन्ध इत्यर्थः । विकृतौ प्रकरणस्याविनियोजकत्वमुपसंहरति--ततश्चेति ॥ RMSAbhine न सर्वथा विकृतौ न प्रकरणं विनियोजकं, किन्तु विकृतावपि यत् प्राकृताङ्गानुवादेन विधीयते तदपि प्रकरणेन गृह्यत इत्याह -- यस्विति । एवञ्च प्रकृतौ, प्राकृताङ्गानुवादेन विहिताङ्गविषये विकृतौ च प्रकरणं विनियोजकं भवतीति सिद्धम् । श्रौदुम्बरो यूपो भवतीति । श्रौदुम्बर उदुम्बरवृक्षीयकाष्ठनिर्मितः । "सोमापौष्णं त्रैतमालभेत पशुकामः" इति वाक्यविहितकाम्यपशुयागसन्निधौ श्रुतमिदम् । पूर्वोक्तं द्रव्यादेः प्रकरणग्राह्यत्वाभावं मनसि निधाय शङ्कते- नन्विति । अस्त्येवाकाङ्क्षेति। प्रकरणग्रहणं तूझ्याकाङ्क्षानिबन्धनम्। तच्चात्रास्ति । श्रौदुम्ब्ररत्वस्याकृताथंत्वात् । तच्च नापलपितुं शक्यम् । यदितु तस्य द्रव्यरूपत्वं, तर्हि क्रियाद्वारं प्रहणं भविब्यतीत्यर्थः ।ननु यत्र धर्माणां स्वरूपार्थतायामानर्थक्यं तत्रैव प्रधानापूर्वपर्यन्तानुधावनं, यत्र तु स्वरूपे नानर्थक्यं तत्र तदर्थत्वेनोपपत्तौ तावतैव च नैराकांदयात् प्रधानापूर्व पर्य १. उच्यते । ख. पु. २. स्यात् इति नास्ति ख. पुस्तके। kar Oriental Research Institute ह ५६ मीमांसान्यायप्रकाशः किं भावयेदिति। न च यूपानुवादेन तस्य विधीयमानत्वाद्यपस्य त्वात्तेनैवौदुम्बरत्वस्य नैराकाङ्क्षयम् श्राहवनोयेनेवाधानस्येति [ प्रकरणचादृष्टरूपवाच्यम् । १ यूपस्य केवलादृष्टरूपत्वाभावात् तस्य हि तद्पत्वे खादिरत्वादिकं केवलाहष्टार्थ स्यात् । न च तत्संभवति । तथा सति खदिराभावे प्रतिनिधित्वेन कदरोपादानं न स्यात्, श्रदृष्टार्थस्य प्रतिनिध्यभावात्, न हि खदिरजन्यमद्दृष्टं कदरेण क्रियत इत्यत्र प्रमाणमस्ति । अत एव नादृष्टार्थानां प्रतिनिधिः । तदुक्तम् विवार मिशा'न देवताग्निशब्द क्रियमन्यार्थत्वात्' इति । अन्यार्थत्वात् मदृष्टार्थत्वात् । प्रतिनिधित्वेन चोपादानं कदरादेरुक्तं प्रन्थेषु । तस्मान्न यूपस्य केवलाद्वष्टरूपत्वम्, अपि तु दृष्टादृष्टसंस्कारगणो यूप इति सांप्रदायिकाः । एवं चौदुम्बरत्वस्य न यूपमात्रेण नैराकाइयम्, दृष्टसंस्कारस्य प्रकारा. न्तरेणापि सम्भवात् । अतश्चास्त्यौदुम्बरत्वस्याकाङ्क्षा । विकृतेरष्यस्ति न्तानुधावनं न युक्तमित्याशङ्कयाह - न चेति । आहवनीयेनेवेति । हवनीयस्याह- ष्टरूपत्वेन तदर्थत्वेऽप्याघानस्य तेनैव यथा नैराकाङ्दयं, तथेत्यर्थः । तस्य यूपस्य । तद्रूपत्वे केवलादृष्टरूपत्वे । खादित्वादिकमित्यादिपदेन बैल्वत्वपालाशत्वादिकं गृह्य- ते । अभावे अपचारे । कदरः श्वेतखदिरः । उपादानाभावे हेतुमाह - श्रदृष्टेति । कुतो न ? तह – नेति । अत एव अन्येन जननीयस्यादृष्टस्य अन्यस्मादुत्पत्तौ प्रमाणाभावादेव । अदृष्टार्थानां प्रतिनिध्यभावे षाष्ठं सूत्रं प्रमाणयति-तदुक्तमिति । नेति । देवता इन्द्रादि । अग्निः हवनीयादिः । शब्दो मन्त्रः । क्रिया प्रयाजप्रो- क्षणादिः । देवताश्च अग्नयश्च शब्दाश्च क्रियाश्च, तेषां समाहारः देवताग्निशब्दक्रियम् । एते न प्रतिनिधेयाः, अदृष्टार्थत्वादिति सूत्रार्थः । सूत्रमिदं "अन्यार्थसंयोगा" दिति संयोग- पदघटित मेवोपलभ्यतेऽन्यत्र । व्याख्यातं च ब्याख्यातृभिरेवमेव । अपरं न्यार्थत्वा दिति दृश्यते । कदरस्य खदिरप्रतिनिधित्वाभावे इष्टापत्तौ ग्रन्थविरोधमाह — प्रतिनिधी- ति । ग्रन्थेष्विति । कदरस्य प्रतिनिधित्वाभावे तद्विरुध्येतेति भावः । तस्मात् उक्त- युक्तेः । दृष्टादृष्टेति । दृष्टानां छेदनतक्षणादीनां, श्रदृष्टानां प्रोक्षणाजनादीनां संस्काराणां समुदाय इत्यर्थः । सांप्रदायिका इति । पार्थसारथिमिश्रप्रभृतय इत्यर्थः । उक्तं हि पार्थसारथिमिक्षैः–"न तु यूपाख्यमेकं किञ्चिदस्ति । यदुत्पत्युपयोगिनः परि- व्याणादयः परिधौ लुप्तार्थाः स्युः । छेदनादिविधयो हि सर्वे परस्परानपेक्षाः काष्ठगतं दृष्टमदृष्टं वा यथायथं कायं गमयन्ति" इति । छेदनप्रोक्षणादिजन्यह ष्टादृष्टरूपाः संस्काराः काष्ठे वर्तमाना यूपशब्दाभिधेयाः" इति च ॥ यूपमात्रेण यूपस्वरूपमात्रसंपादनेन । नैराकांक्ष्याभावे हेतुमाह- दृष्टेति । एवञ्च स्वरूपे आनर्थक्यात् अपूर्व पर्यन्तानुधावन स्यावश्यकत्वेन प्रस्त्येवापूर्वविषयिणी औदुम्ब रत्वस्याकांक्षेत्याह-अतश्चेति । ननु अस्खौदुम्बरत्वस्याकांक्षा, विकृतेस्तु शान्ताकां क्षत्वादुभयाकारक्षाभावेन कथं प्रकरणमाह्यत्वम् ? अत आह - विकृतेरिति । ननु Bhandarkar Oriental stitu निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः ५७ कथंभावाकाङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्ठभावेन च पदार्था अन्वीयन्ते । (१)न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रियभावनायाः करणाकाङ्क्षा दघ्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपत्या होमस्याश्रयत्वेनान्वयं यावदनुवर्तते, न तु ध्यन्वयमात्रेण निवर्तते; श्राश्रयत्वेन च गृह्यमाणो होमः करणाका क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकांक्षा नाम चतुर्थ्यस्ति, एवं विकृतेः कथंभावाकाङ्क्षा नोपकारान्वयमात्रेण निवर्तते; उपकारपृष्टभावेन यावत्पदार्थान्वयमनुवर्तते । अतश्चोपकारपृष्ठभावेन गृह्यमाणाः पदार्थाः कथंभावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथंभावाकाङ्ङ्क्षया गृह्यमाणा अपि न प्रकरणग्राह्याः, प्रकृत्युपकारकतया तेषामाकाइङ्क्षाभावात् । श्रौदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशुनिविकृत्याकांक्षायाः प्राकृताजैरेव शान्तत्वादुमयाकाङ्क्षाभावेन कथमौदुम्बरत्वान्वयदशायां विकृतेराकाङ्क्षावत्वं इत्यताह-सा च तदेति । उपकाराः प्राकृतोपकाराः। पदार्थाः प्राकृ ताः पदार्थाः। दृष्टान्तमाह-यथेति । इन्द्रियभावनाया: 'दध्नेन्द्रियकामस्य जुहुया" दिति वाक्यविहितायाः इन्द्रियभाव्यकभावनायाः । करणाकांक्षेति ! अनुवर्तत इत्यत्रान्वेति । सिद्धस्येति । शिक्यस्थदध्नः व्यापारसंबन्धमन्तरा फलसाघनत्वासंभवेनेत्यर्थः । होमस्येति । प्रकरण प्राप्तस्येति शेषः । श्राश्रयत्वेनेति । अन्वयं यावदिति । अन्वयपर्यन्तमित्यर्थः । अयमाशयः - न तावत् दध्नस्सिद्धस्य करणत्वं संभवति । तथात्वे व्यापारसम्बन्धं विना शिक्यस्थेनापि दघ्ना फलोत्पत्तिप्रसक्तौ विधिवैयर्थ्यापातात् । अतस्तपरिहारार्थ दृष्टविधया स्वसाध्यव्यापारमपेक्षमाणो दधिरूपो गुणः स्वसाध्यभोजनहोमाद्यनेकव्यापारसम्बन्धस्यानियमेन प्राप्तौ तवाधित्वा प्रकरणेन होमस्यैव समर्पणात् तस्यैव चाश्रयत्वेन सम्बन्धात् तावतैव च शान्ताकाञ्चो भवतीति । ननु सत्यामाश्रयाकाङक्षायां श्राश्रयत्वेन होमस्यान्वयो युज्येत । न तादृशी काचिदाकाङ्क्षाऽस्ति । भावनाया अंशत्रयमात्रताकांक्षत्वात् । अतः कथमाश्रयत्वेनान्वय इत्यत आह - आश्रयत्वेनेति । नविति। "शक्यतेत्वत्र न चतुर्थ्यपेक्षाऽस्तीति वक्तुम् । करणापेक्षैव होषा प्रविततरा जाता" इति वार्तिकोत्तरिति भावः । दान्तिके प्रकारमिममतिदिशति-एवमिति । उपकारान्वयमात्रेणेति । उपकारस्य पदार्थजन्यत्वात् पदार्थानतिदेशे उप कारातिदेशस्यापि वैफल्यात् तत्सार्थक्याय तज्जनकपदार्थान्वयपर्यन्तमनुवर्तते एवाकांक्षेति भावः । कथंभावाकाक्षया पदार्थानां ग्रहणेऽपि प्राकृतानां प्रकरणग्राह्यखशङ्कां निवारयति — तत्रेति । हेतुमाह - तेषामिति । प्राकृताङ्गान/मित्यर्थः । श्रीकांक्षाभावादिति । सकृदनुष्ठानेनैव शास्त्रचारितार्थ्यादिति भावः । श्रदुम्बरत्वादीनां परं कथं प्रकरणग्राह्यता ? अता- श्रौदुम्बरत्वादय स्त्विति । अन्यानुपकारका इति । तेषां विकृतिसन्निधावपूर्वतयैव पाठदद्य यावत्तैः कुत्राप्युपकाराजननादिति भावः । ननु विकृतिसन्निधौ पठितानामुपहोमादीनामन्यानुपकारकतया साकाङ्ङ्क्षत्वेन तेषामपि प्रकरणविषयत्वं स्यादित्यत ग्राह-पशुनियोजनेति । अयमभिसन्धिः-विकृतिभावना तावत् १ FOUNDED तस्बिर १. न तूपकारमात्रेय. ख. पु. 137IRS IIMSR छ मो० न्या० मीमांसान्यायप्रकाशः [ प्रकरणयोजनयूपपृष्ठभावेन यावत्खादिरत्वमायाति तावद्विधीयन्ते इति युक्तं तेषां प्रकरणाग्रहणम्, उभयाकाङ्क्षासत्त्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं विहितं स्यात्, ततो विकृतेरा का ङ्क्षाभावा दौदुम्बरत्वं न प्रकरणग्राह्यं स्यात् । न चैतदस्ति । चोदकस्य खादिरत्वाविषयत्वात् । ननु- यदि यावत्खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते, तदा तेन खादिरत्वबाधोऽप्राप्तबाधः स्यात्, तार्तीयबाधवत् । तथाहि-बाधो द्विविधः- अप्राप्तबाधः प्राप्तबाधश्चेति । तत्र तार्तीयो बाधोऽप्राप्तबाधः । तत्र हि यावत् दुर्बलेन (१) प्रमाणेन विनियोगः कर्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनि- योगः क्रियते इति तद्बोधितेनेतरबाघोऽप्राप्तबाघः, दुर्बलप्रमाणस्या प्रवृत्तत्वात् । स्वस्याः फलजनकत्वनिर्वाहार्थं प्राकृतानुपकारान् तत्पृष्ठभावेन च क्लृप्तोपकारान् प्राकृतान् पदार्थाना का क्षति, श्राकांक्षा च पदार्थान्वयं यावदनुवर्तत इत्युक्तम् । एवं च प्रथमतः पशुनियोजनं, तत्पृष्ठभावेन च यूपोऽतिदिश्यते; तरपृष्ठभावेन च प्राकृतं खादिरत्वं याव. दायाति, ततः पूर्वमेवौदुम्बरत्वस्य विधानात् भवति तस्य प्रकरणग्राह्यता । उपहोमादीनां तु निवृत्ताकांक्षायामेव विकृतिभावनायां विधानात् न तत्रोभयाकांक्षाऽस्तीति न तेषां प्रकरणग्राह्यत्वमिति । ननु प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशशास्त्रेण पशुनियोजनादीना- मिव खादिरत्वस्यापि विकृतौ प्रापितत्वेन तेनैवाकांक्षायाः शान्तत्वात् कथमौदुम्बरत्वस्य प्रकरणग्राह्यत्वम् ? इत्याशङ्कां निराकरोति-यदि हीति । खादिरत्वाविषयत्वादिति । एवं च खादिरत्वस्यातिदेशवाक्येनासंस्पर्शात् विकृतौ विध्यभावेन युक्तमौदुम्बरत्वस्य प्रकरणग्राह्यत्वमिति भावः ॥ ५८ निवृत् क खादिरत्वस्य चोदकाविषयत्वे तद्वाघस्याप्राप्तबाधत्वं शङ्कते-नन्विति । तार्तीयबाधवदिति । तृतीयाध्य यगोचरो बाघो यथा अप्राप्तबाधः तद्वदित्यर्थः । तत्र तयोर्मध्ये । कथं तार्तीयबावस्याप्राप्तबावत्वम् ? ता-तत्र हीति । विनियोग इति । पूर्वपूर्वप्रमाण कल्पनद्वारेति शेषः । तद्बोधितेन प्रबलप्रमाणबोधितेन पदार्थेन । इतरबाधः दुर्बलप्रमाणबोधितस्य पदार्थस्य बाघः । श्रप्राप्तबाध इति । दुर्बलप्रमाणबोधितस्य विनियोगदशामप्राप्तस्यैव बाघात् श्रप्राप्तबाघ इति व्यवहार इति भावः । कथमप्राप्तता ! अत श्राह-दुर्बलेति । EPED TORRE I BIC PHUEENSE FIRis "निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च । एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥ एकस्सोपानपङ्क्तिस्थो भूमि स्थश्चापरस्तयोः ॥ उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥167 विरोधिनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः ।! प्रथमेन गृहीतेऽस्मिन् पश्चिमोऽवतरेन्मुधा ॥" इत्यनेन प्रकारेण स्वरूपतः सत एवोत्तरोत्तरस्य स्वस्वविषयविनियोगे आकांक्षारूपकल्पनामूलोच्छेदात् श्रुतिकल्पना प्रतिबन्धेन अलब्धप्रमाणभावस्यैव बाघनादिति भावः ॥ १. प्रमाणेन इति नास्ति क. पु. FOUNDED o A POONA ores of निरूपणम् ] सारविवेचनी व्याख्यासंवलितः ५६ प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य (१) प्रत्याम्नानादर्थलोपात् प्रतिषेधाद्वा यो बाधः स प्राप्तबाधः । यथा-प्राकृतानां कुशानां प्रतिकूलशराम्नानात्, यथा वाऽवघातस्य कृष्णलेषु वैतुष्यरूपप्रयोजनलोपात्, यथा वा पि त्र्येष्टौ होतृवरणस्य (१)'न होतारं वृणीत' इति प्रतिषेधात् । श्रौदुम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः, शरकुशन्यायेन । चोदकस्य च खादिरत्वाविषयत्वे प्राप्त्यभावात्तद्नुपपत्तिः स्यादिति । उच्यते-तार्तीय प्रमाणविनियुक्तेनेतरस्य बाधनं तावदप्राप्तबाधनम् । प्रकरणं च तार्तीयम् । तेन तद्विनियुक्तौ दुम्बरत्वेनेतरस्य बाधनमप्राप्तबाध एव । नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः । वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदका विषयत्वेन एवमप्राप्तबाधं निरूप्य प्राप्तबाधस्वरूपं निरूपयितुमारभते - प्राकृतस्येति । प्रत्याम्नानात् विरुद्धपदार्थाम्नानात् । अर्थलोपात् अर्थस्य प्राकृतस्य प्रयोजनस्य लोपात् । प्रतिषेधात् न कुर्यादिति शब्दतो वारणात् । प्राकृतानां कुशानामिति । प्रकृतौ दर्शपूर्णमासयोः 'कौशं बर्हि' रित्यनेन विहितानामित्यर्थः । प्रतिकूलेति । "रौद्रीं रोहिणीमाल भेताभिचरन्" इति वाक्यविहिताभिचारेष्टौ "शरमयं बर्हिः" इत्यनेन बहिःकार्ये शराणां विधानादित्यर्थः । कृष्णलेब्विति। "प्राजापत्यं घृते चरुं निर्वपेत् शतकृष्णलमायुष्कामः" इति विहितायुष्कामेष्टयङ्गभूतेष्वित्यर्थः । प्रयोजनलोपादिति । कृष्णलानां स्वर्णखण्डरूपतया तत्र वैतुष्यस्यासम्भवादिति भावः । पित्र्येष्टाविति । महापितृयज्ञ इत्यर्थः । होतृवरणस्येति । अस्याश्च दर्शपूर्णमासविकृतिस्वेन ततो ऽतिदेशतः प्राप्तस्य होतृवरणस्येत्यर्थः । शरकुशन्यायेनेति । प्राकृतानां कुशानां वैकृतैश्शरैर्बाधो यथा प्राप्तबाधः, एवं प्राकृतस्य खादिरत्वस्य बाधः प्राप्तबाघ एव वक्तव्यः । एवं च यदि न चोदकः खादिरत्वं विषयीकरोति तदा खादिरत्वस्याप्राप्त त्वादेव कथं तत्र प्राप्तबाघव्यवहारः सङ्गच्छेतेत्याह-चोदकस्येति । अनुपपत्तिस्स्या. दिति । एवञ्च "श्रौदुम्बरो यूपो भवति" इत्यस्य प्राप्तबाधत्व सिद्धये चोदकस्य खादिरत्व. विषयकत्वमवश्यं वक्तयं भवतीति भावः । तद्विनियुक्तेति । प्रकरण विनियुक्तेत्यर्थः । इतरस्य खादिरत्वस्य स्थानप्रमाणविनियुक्तस्य । ननु वैकृतेन प्राकृतबाधस्य प्राप्तबाघवाङ्गीकरणात् कथं सोऽप्राप्तबाघो भवेत् ? अत आह— नहीति । नन्वेवं सति यत्र प्रत्याम्नानात् प्रतिषेधाद्वा बाघः तत्रावश्यं प्रकरण विनियोज्यत्व सम्भवेन प्राप्तबाघत्वापत्तौ तस्य तृतीये निरूपणीयत्वेन दशमे निरूपणानुपरत्तिः । नवास्य प्राधान्येन अध्यायार्थत्वा भावेऽपि हवनीयादिबाघस्येव प्रसङ्गान्निरूपणमिति वा च्यम् । तथात्वे प्राप्तबावस्य त्रैविध्यकथनानुपपत्तेः, इत्यत । ग्राह-वस्तुतस्त्विति । ननु खादिरत्वस्य चोदकविषयत्वमङ्गीक्रियते ! न वा ? अन्त्ये तस्य प्राप्त्यभावेन कथं तस्य बाघः प्राप्तबाधो भवेत् ? करणे वा तेनैव यूपस्य नैराकांदयात् कथमोदुम्बर त्वरय प्रकरणग्राह्यत्वम् ? इत्याशङ्कयाह-नचेति । तद्विषयत्वे चोदकविषयत्वे । तेनैव २. प्रतिकूलाम्नानात्, इति, ख ६० मीमांसान्यायप्रकाशः [प्रकरणPo प्राप्त्यभावात् कथं तद्वाधः प्राप्तबाधः ? तद्विषयत्वे वा तेनैव नैराकाङ्क्षयान्नौदुम्बरत्वे प्रकरणं विनियोजकं स्यादिति वाच्यम् । नहि प्राप्तबाध्यस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न स्यात् । किं तर्हि तानेव पदार्थान्वस्तुतः प्रापयति ये विकृतौ न वाध्यन्ते । ते च पदार्थाः प्रकृतिवच्छन्देन प्राध्यन्ते इति भवति पुरुषस्य भ्रान्तिः यथा प्रकृ तौ कृतं तथा विकृतौ कर्तव्यमितिः सर्वे पदार्थाः प्राकृताः कर्तव्याः - इति । अ तश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नेरौ दुम्ब रत्वादिभिर्बाध्यन्ते इति भवति तद्वाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधो श्राकाङ्क्षा निवर्तयितुं शक्यते । तस्माद्यकमुक्तमु भयाकाङ्क्षा रूपप्रकरणसम्भवाद्विकृतौ प्राकृताङ्गानु: वादेन विधीयमानानामोदुम्बरत्वादीनां प्रकरणं विनियोजकमिति । खादिरत्वेनैव । शास्त्र प्राप्तत्वेनेति । विकृत्याकांक्षान्यथानुपपत्या कल्पितेन प्रकृतिवद्विकृतिः कर्तव्येत्यनेन शास्त्रेण प्राप्तेरित्यर्थः । बाधो न स्यादिति । प्रमाणपरिगृहीततया अत्यन्त बाघो न स्यादित्यर्थः । तथाच विकल्पः प्रसज्येतेति भावः । न बाध्यन्त इति । तथा च विकृतौ अबाधितपदार्थविषयकत्वमेवातिदेशस्येति भावः । कथं तर्हि प्राप्तबाधत्वम् ? तह -- ते चेति । विकृतौ बाध्यमाना अपीत्यर्थः । प्रकृतिवच्छब्देन प्रकृतिवद्विकृतिः कर्तव्येतिवाक्यघटकप्रकृतिवदिति शब्देन । भ्रान्तेः प्रकारमाहयथेति । एवं च भ्रान्तिप्राप्तस्यैव बाघः प्राप्तबाध इत्युच्यते न वस्तुतः प्राप्तस्येत्यत अतश्चेति । एवं च वस्तुतोऽप्राप्तानेव पदार्थान् स्वभ्रान्त्या प्राप्तान्मन्यते पुरुषः । तादृश्या भ्रान्तेरेव निवारक मौदुम्बरत्वादिशास्त्रमिति तदादायैव प्राप्तबाधत्वव्यवहार इति फलितम् । एतेन प्राप्तबाधस्थले पदार्थानां भ्रान्त्यापि प्राप्तिर्नास्तीति सूचितम् । ननु खादिरत्वादीनां प्राप्तबाघसिद्धयर्थं भ्रान्त्यापि प्राप्तिरवश्यमङ्गीकरणीया । एवं च तैरेवाकाङ्क्षाशान्तेः कथमौदुम्बरत्वादीनां प्रकरणग्राह्यत्वमित्याशङ्कय न भ्रान्तिप्राप्तानां वैधाकांक्षा निवर्तकत्वं सम्भवतीत्याहन चेति । श्रौदुम्बरत्वादीनां प्राकृताज्ञानुवादेन विधीयमानानां प्रकरण ग्राह्यत्वमुपसंहरति - तस्मादिति । की केचित्तु-नेत्थम्भावेन गृहोत क्रियारूपविवर्जनात् । इतिकर्तव्यतांशस्थां येनोद्दिश्योपसत्क्रियाम् ॥ इति बलाबलाधिकरणस्थवार्तिके क्रियामुद्दिश्येत्युत्तत्वात् विकृतौ द्रव्योद्देशेन जात्या- दिविधिस्थले "श्रौदुम्बरो यूपो भवति" इत्यादौ न प्रकरणग्राह्यत्वम् । न च यूपल- क्षितनियोजनसम्बन्ध एव वाक्यीय इति वाच्यम् । नर्थक्यपरिहारस्य सन्निधिनैव सिद्धेः । यूपपरिच्छेदिकायाश्चौ दुम्बरत्व जातेरर्थापत्तिकल्पितनियोजन एवान्वयात् । यत्र तु प्रमाणान्तरात् क्रियान्वयस्यालाभः तत्रैव परं लक्षितक्रियान्वयं यावत् विधिरायास्येत यथा-यस्य पर्णमयी जुहुर्भवतीत्यादौ । एवं च क्रियोद्देशेनैव विहितस्य प्रकरण- ग्राह्यत्व सम्भवात् यत्प्राकृताज्ञानुवादेन विधीयत इत्यादी पदं क्रियापरमेवेत्याहुः । एतेषां मते दृष्टादृष्टसंस्कार विशिष्टं काष्ठमेव यूपशब्दार्थ इति बोध्यम् ॥ POONA वजमिस्तु ॥ एवं पशुचातुर्मास्यादौ प्रकृतिप्राप्तानूयाजोद्देशेन विहितस्य पृषदाज्यस्यापि प्रकरणBhandarkar Oriental Research Institute निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः ६१ एवं 'पृषदाज्येनानूयाजान् यजतीति प्राकृतानुयाजानुवादेन विधीत्यमानं पृषदाज्यमपि प्रकरणाद्विकृत्यङ्गमिति केचिदाचार्या: । (१) अस्मतातचरणास्त्वेवमाहुः- पृषदाज्यं हि अनुयाजानुवादेन विधीयते । तत्स्वरूपे चानर्थक्यप्राप्तो तैर्न विकृत्यपूर्व लक्षयितुं युक्तं, विप्रकर्षात् ; किन्तु दीक्षणीयावानियमन्यायेन स्वापूर्वमेव लक्षयितुं (२) युक्तं, सन्निकर्षात् । श्रत एवोत्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्तं नवमे । मतश्च विधीयमानस्य पृषदाज्यस्य वाक्यप्रतिपन्नेनानुयाजापूर्वेणैव नैराकाङ्क्षयान्न प्रकरणाद्विकृत्यपूर्वार्थत्वमिति । Em ग्राह्यत्वं वदतां न्यायसुधाकृतां मतमनुवदति - एवमिति । उक्तं हि तैस्सन्तर्दनाधिक- रणे – "पृषदाज्येनानूयाजान् यजतो" ति प्राकृतानुयाजानुवादेन पृषदाज्यविधा- नात् प्राकृताङ्गग्रहणवेलायामेव पृषदाज्यग्रहणप्रतीतेः। तदानीं च नैराकाङ्दयाभावात् प्रकरणेन पृषदाज्यं यथा गृहीतम्" इति । एवमिति । यथा प्राकृताज्ञानुवादेन विहित- स्यौदुम्बरत्वस्य प्रकरणग्राह्यत्वं तथेत्यर्थः । अस्मत्तातचरणास्त्विति । अनन्तदेवसं शका इति शेत्रः । तत्स्वरूपे याजस्वरूपे । नर्थक्यप्राप्ताविति । विनापि पृष दाज्यं येन केनापि द्रव्यान्तरेण अनुयाजानुष्ठानसम्भवादिति भावः । तैः अनूयाजैः । विकृत्यपूर्व स्वसम्बन्धिपशुयागादिजन्यप्रधानापूर्वम् । विप्रकर्षादिति । अनूयाजज- न्यापूर्वापेक्षया विप्रकर्षादित्यर्थः । दोक्षणोयावानिय मन्यायेनेति । "भग्नावैष्ण- वमेकादशकपालं निर्वपेद्दीक्षिष्यमाण " इति दीक्षार्थत्वेन विहितेष्टिींक्षणीया । 'यावत्या वाचा कामय ते तावत्या दोक्षणीयायामनुब्रूयात्' इति वाक्येन ज्योति- ष्टोमाङ्ग भूत दी क्षणीयोद्देशेन कामस्वरो विधीयते, तस्य च दीक्षणीयास्वरूपे नर्थक्यप्र सक्तौ दीक्षणीयापदेन दीक्षणीयाजन्यमपूर्वमेव लक्षयित्वा तदुद्देशेनैव कामस्वरविधानं, तस्यैव सन्निकर्षात् ; न तु ज्योतिष्टोमीयपरमापूर्वी देशेन, तस्य विप्रकर्षात्, दीक्षणी- यापूर्वार्थत्वेऽप्यानर्थक्य परिहारादित्युक्तं नवमे, तन्न्यायेनेत्यर्थः । स्वापूर्वमेव अनूया- जजन्यापूर्वमेव । अत एव स्वरूपे नर्थक्यप्रसक्तौ तस्य सन्निहितस्वजन्यापूर्वलक्ष- कत्वादेव । उत्पवनादोनामिति । 'उद्गग्राभ्यां पवित्राभ्यां प्रोक्षणोरुत्पुनाति' इति वाक्यविहितस्योत्पवनस्य "शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्षति" इति विहितपात्रप्रोक्षणस्वरूपे नर्थक्यप्रसक्ती तेषां सन्निहित प्रोक्षणजन्या पूर्वप्रयुक्तत्वमेव, न तु विप्रकृष्टदर्शपूर्णमासापूर्वप्रयुक्तत्वमित्युक्तमित्यर्थः । नवम इति । नवमाध्यायस्थ प्रथमे पादे द्वितीयाधिकरणे द्वितीयवर्णक इत्यर्थः । एवं च अनूयाजाथै विधीयमानस्य पृषदाज्यस्य अनूयाजस्वरूपे नर्थक्यप्रसक्तौ अनूयाजपदेन श्रन्याजापूर्व लक्षयित्वा तदर्थत्वमेवाङ्गीक्रियते । तेनैव च तस्य नैराकाङ्क्षयात्, न तु विकृतिप्रधानभावनया प्रहणमिति न प्रकरणग्राह्यत्वं तस्येत्युपसंहरति — अतश्चेति । एवञ्च प्रबलेने वाक्येन स्वविषयापहारात् दुर्बलस्य प्रकरणस्य तत्र प्रवृत्तिरेव नास्तीति न पृषदाज्यानामिति भावः ॥ प्रकरर्णावनियोज्यत्वं १ अन्ये स्वे १२ तमविप्रक. ॥ तेजस्विनी Bhandarkar Oriental Research T ६२ मीमांसान्यायप्रकाशः [ प्रकरण(१) वयं त्वङ्गीकृत्य ब्रूमः - भवतु वा विकृत्य पूर्वार्थत्वम् । तथापि पृषदाज्यस्य न प्रकरणं विनियोजकं भवति । यूपपृष्ठभावेन हि यावत्खादिरत्वमायाति, तावदौदुम्बरत्वविधानादुभयाकाङ्क्षासम्भवाद्युक्तः प्रकर/विनियोगः । एवं या. वदनुयाजपृष्ठभावेनाज्यमायाति तावदेव यदि पृषदाज्यं(२) विधीयेत तदोभयाकाङ्क्षा सम्भवात्प्रकरण विनियोगो भवेत् । न खेतदस्ति । नहि पृषदाज्यं नाम द्रव्यान्तरं किंचिदस्ति, यदाज्यस्थानापनं विधीयेत, औदुम्बरत्वमिव खादिरत्वस्थानापन्नम्; पृषच्छब्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात्, पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अत एव निगमेषु आज्य (३) पानित्येव वक्तव्यं न तु पृषदाज्यपा(४) नित्युक्तम् । न च यावत्प्राकृतमाज्यमायाति तावदेव चित्राज्य विधानात् प्रकरणविनि योगः सम्भवतीति वाच्यम् । नहि पृषदाज्यशब्देन चित्रतागुणविशिष्टमाज्यं विधीयते। विशिष्टविधाने गौरवापत्तेः, किं तु प्राकृताज्यानुवादेन चित्रतागुणमात्रं विधीयते, 'लोहितोष्णीषा ऋत्विजः प्रचरन्ती' तिवत् । तदुक्तं दशमBILL एतावता स्वपितृचरणानामाशयमुपवर्ण्य इदानीं स्वीयं मतमुद्घाटयितुमारभतेवयन्त्विति । विकृत्यर्थत्वमिति अङ्गीकृत्यापीत्यत्र सम्बध्यते । ब्रूम इति । वक्ष्यमाणरीत्या प्रकरणाग्राह्यत्वमिति शेषः । तदेवोपपादयति- भवतुवेति । अनूयाजपृष्ठभा वेनेति । प्रथमतो विकृतेरुपकारापेक्षायां उपकारः, तत्पृष्ठभावेन च अनूयाजाः, तत्पृष्ठभावेन च तत्साधनीभूतमाज्यमायातीत्यर्थः । ननु - पृषदाज्यस्याज्यभिन्नत्वेन श्राज्यस्थानापन्नत्वेन विधिसम्भवात् कथं नौदुम्बरत्वसाम्यमित्यत ग्राह- पृषदिति । मणिरित्यादिपदेन पृषद्रज्जुः पृषन्मृग इत्यादेः परिग्रहः । निगमेषु आवाहनसूक्तवा का दिमन्त्रेषु । श्रयं भावः - सन्ति प्रकृतौ यक्ष्यमाणदेवतावाहनार्था इष्टदेवतासंस्कारार्थाश्च मन्त्रा: 'देवानाज्यपानावह, देवा आज्यपा ॠाज्यमजुषन्त' इत्यादयः, ते चाज्यदेवता प्रकाशका विकृतावुपकारपृष्ठभावेनातिदिष्टाः । यदि पृषदाज्यस्य द्रव्यान्तरत्वं तर्हि तदीयदेवताप्रकाशकत्वेन पृषदाज्यपदमाज्यपदस्थाने ऊहनीयं भवेत् । न चोहितत्र्यं, किन्तु प्राकृतमेव पदं प्रयोज्यमित्युक्तं तदधिकरणे; अतो ज्ञायते न पृषदाज्यं द्रव्यान्तरमिति । ननु-श्राज्यस्थाने चित्राज्यविधानेनापि प्रकरणग्राह्यत्वं सम्भवत्येवेत्याशङ्कुय नात्र गुण विशिष्टस्याज्यस्य विधानमित्याह --न चेति । गौरवापत्तेरिति । विशिष्टे विधिव्यापारकल्पनारूपगौरवापत्ते रित्यर्थः । ननु - पृषदाज्यपदे एकांशस्योद्देश्यत्वमेकांशस्य विधेयत्वमित्येकप्रसरताभङ्गापत्तेः कथमाज्योद्देशेन चित्रतामात्र विधानमित्यत आह -लोहितोष्णीषा इति । यथा लोहितोष्णीषा इत्यत्र एकप्रसरताभङ्गभिया लौहित्यविPOONA १. वयन्त्वङ्गीकृत्यापि विकृत्यर्थत्वं ब्रमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य । तथापि न प्रकरणं इत्येव मुद्रितपुस्तकेषु पाठस्समुपलभ्यते । तथैव व्याख्यातं च गुरुचरणैः । तथाप्युपरितनस्य पाठस्य प्रा. चीनहस्तलिखितकोशेषूपलम्भात् तत्रैव स्वरसतां पश्यता मया स एव पाठस्स्वीकृतः । २. विधीयते. क. ख. ३-४ पानामि' Bhandarkar Oriental Research Institute निरूपणम् ] सारविवेचिनीव्याख्या संवलितः चतुर्थचरणान्ते-'न वा गुणशास्त्रत्वात्' इति "प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधानमिति च शास्त्रदीपिका । एवं च विकृतेः प्राकृतेनाज्येन क्लृप्तोपकारैश्वानुयाजैर्नैराकाइये पश्चाद्विधीयमानस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवन्न प्रकरणं विनियोजकं सम्भवति । यदि हि प्राकृतस्य कस्यचिद्गुणस्य स्थाने चित्रता गुणो विधोयेत तदा स गुणो यावदायाति तावद्विकृतेर्नैकाङ्ख्याभावात् चित्रतागुणस्य च तावदेव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्राकृतो गुणोऽस्ति । श्राज्यस्यानुयाजानां च चित्रतागुणात्प्रागेव विधानात्, तस्य तत्स्थानापन्नत्वाभावात् । ६३ न च श्राज्यपृष्ठभावेन यावत्प्राकृतं निर्गुणत्वमायाति तावदेवास्य विधा- नात्प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिकराड्यनवद- शिष्टोष्णीष विघानेऽपि प्राप्ताप्राप्त विवेचने उष्णीषस्य प्रकृतितः प्राप्तत्वेन लौहित्यमात्रे विधेः पर्यवसानात् नैकप्रसरताभङ्गः, एवमत्रापि विशिष्टविधौ सत्यपि विशेषणमात्रे विधेस्ता- त्पर्यात् नैकप्रसरताभङ्ग इति भावः । न वा गुणशास्त्रत्वादिति । नावाहनादिनिगमेषु पृषदाज्यपानिति वक्तव्यम्, पृषदाज्यशब्दस्य गुणमात्रविधायकत्वादिति सूत्रार्थः । शास्त्र- दीपिकाप्यस्मदनुक्लेत्याशयेनाह-प्राकृतेति । चित्रतागुणमात्रमिति । 'द्वयं वा इदं सर्पिश्च दधि च' इति वाक्यशेषात् श्राज्ये दधिमिश्रणरूपं चित्रत्वमात्रं विधीयत इत्यर्थः । नैराकाङ्क्षय इति । विकृतेरिति शेषः । विकृतौ निराकाङ्क्षीकृतायामेव पृष- ताया विधानात् नोभयाकाङ्क्षालक्षणं प्रकरणं सम्भवतीति भावः । उपहोमाद्यपूर्वा. ङ्गवदिति । यथा "अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपलन्निर्वपेत्, प्रजापतये रोहिण्यै चरुं निर्वपेत्" इति विहितनक्षत्रेष्टिसन्निधौ विहितानां 'अग्नये स्वाहा कृ त्तिकाभ्यः स्वाहा' "प्रजापतये स्वाहा रोहिण्यै स्वाहा" इत्यादयुपहोमानां प्राकृतैः क्लृप्तोपका रैरेवाः निराकाक्षीकृतत्वाद्विकृतिभावनायाः न प्रकरण विनियोज्य- त्वमेवं पृषत्ताया अपीत्यर्थः ॥ ननु – यावदाज्यपृष्ठभावेन प्राकृतो गुण आयाति तावत् पृषत्ताविधानात् कथं न प्रकरणग्राह्यत्वमित्यत आह - यदि होति । नैराकाङ्क्षयाभावादिति । विकृत्याका- बृक्षायाः प्राकृतचरमाङ्गान्वयं यावदनुवर्तनादिति भावः । तावदेव ततः पूर्वमेव । गु णोऽस्तीति । प्रकृतौ कस्यापि गुणस्याज्योद्देशेनाविधानादिति भावः । ननु-प्राकृता अनूयाजास्तत्पृष्ठभावेनाज्यं वा यावदायान्ति ततः पूर्वमेव पृषदाज्यविधिरस्तु । ततश्च प्राकृतस्थानापन्नत्वेन सम्भवति प्रकरणग्राह्यत्वमिति मन्दाशङ्कां मन्दविषन्यायेन परिहर- ति - श्राज्यस्येति । पृषत्तायाः प्राकृतानूयाजोद्देशेनैव विधेयत्वेन ततः पूर्व तत्प्राप्त्य वश्यंभावेन तत्स्थानापन्नता न कदापि सम्भवतीति भावः ॥ POONA W ननु तथापि प्राकृतस्य निर्गुणस्य स्थाने विहितत्वात् पृषत्ताया अस्तु प्रकरणग्राह्यतेत्याशङ्कयाह-न चेति । अस्य पृषत्तारूपगुणस्य । अनङ्गत्वादिति । न ह्यविहितम भवतीति न्यायादिति भावः। पाणिकण्डूयनवदिति पाणिना कण्डूयनं पाणिकण्डूयनं मोमांसान्यायप्रकाशः [ प्रकरणनङ्गत्वाद्विकृतेस्तदाकाङ्क्षाभावात् । तथा हि-ज्योतिष्टोमे दक्षिणादानसमये विहितकृष्ण विषाणत्यागस्य द्विरात्रादिषु चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् । उत्तरेऽह्नि दक्षिणादानपूर्वकालीनैः पदाथैः कृष्णविषाण कराड्यनस्य शास्त्रविहितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दक्षिणादानोत्तरकालं पाणिकराड्यनं दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदाथैर्नापेक्ष्यते, तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन विकृतेस्तदपेक्षा नास्तीति । तस्मादुभयाका ङ्गाया असम्भवात्व षदाज्यस्य न प्रकरण विनियोगः सम्भवतोत्यलमतिविस्तरेण । तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियोजकम्। विकृतौ तु यत्प्राकृतदृष्टार्थाङ्गानुवादेन विधीयते तस्य विनियोजकं, न तु केवलं विधीयमानस्या पूर्वाङ्गस्येति तद्वदित्यर्थः । तमेव दृष्टान्तं विशदयति-तथा होति । अत्राय माशयः- ज्योतिष्टो मे सुत्यादिवसे माध्यन्दिने सवने ऋत्विग्भ्यो दक्षिणादानं विहितम्, अनन्तरञ्च (१) नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यतो'ति कण्डूयनायें दीक्षामध्ये यजमानेन स्वीकृ तस्य कृष्णविषाणस्य त्यागो विहितः । स च द्विरात्रादिष्वहर्गणेष्वतिदिष्टः प्रथमेऽह्नि सुत्यायां नं क्रियते । तद्यदि प्रथमेऽह्नि त्यज्यते तत उत्तरेष्वहस्सु दक्षिणादानपूर्वकालिकानां पदार्थानां विषाणकण्डूयनं विहितं बाध्येत । न हि त्यक्तस्य पुनरुपादानं भवति, न च पुनरुपादित्यमानस्य त्यागबुद्धिर्भवति । अतश्च ज्योतिष्टोमे दक्षिणादानोत्तरं दृष्टमपि पाणिकण्डूयनं न द्विरात्रादावतिदिश्यते । नापि वैकृतैः पदार्थैस्तदपेक्ष्यते, प्रकृतौ दक्षि- णादानोत्तरं विषाणाभावेन पाणिकण्डूयनस्यार्थिकत्वात्, न ह्यार्थिकं चोदकः प्रतिदिश- तीति न्यायात् । किन्तु कृष्णविषाणसत्वात् तेनैव कण्डूयनमिति । अर्थसिद्धत्वा- दिति । विषाणस्य व्यक्तत्वेन कण्डूतिसम्भवे पाणेरेव सन्निहितत्वेन तेनैव कण्डूयनं प्राप्नुयादिति भावः । अशास्त्रीयत्वादिति । शास्त्राविषयत्वादित्यर्थः ॥ दृष्टान्तोक्तन्यायं प्रकृतेऽतिदिशति - एवमिति । तदपेक्षा निर्गुणत्वापेक्षा । पृषदाज्यस्य प्रकरणग्राह्यत्वाभावनिरूपणमुपसंहरति - तस्मादिति । ननु प्रकृतावनूयाजानां केवलाज्यविशिष्टानां कार्यजनकत्वश्रवणेऽपि विकृतौ तेषां पृषदाज्यविशिष्टानामेव कार्यजनकत्वश्रवणात् विशेषणसम्पत्यर्थ वैकृताकाङ्क्षायाः पृषत्तान्वयं यावदनुवर्तनात् कथं न प्रकरण विषयतेत्यत आह-इत्यलमिति । एवं हि प्राकृतानां वैकृतोपहोमादिक्रमसापेक्षत्वेनैव प्राकृतोपकारसाघनत्वात् उपहोमादीनामपि प्रकरणग्राह्यत्वं प्रसज्येतेति भावः । प्राकृतदृष्टार्थाङ्गेति। श्रदृष्टार्थाज्ञानुवा देन विहितस्याङ्गस्य उद्देश्यस्वरूपे आनर्थक्याभावात् तेनैवाकाङ्क्षाशान्तौ विकृत्यपूर्वपर्यन्तानुधावने प्रयोजनाभावात् उभयाकांक्षाभावेन प्रकरणमाह्यता सम्भवतीति भावः । केवलं प्राकृतरष्टार्थाङ्गाननुवादेन ॥ वाले १. गवादिरूपदक्षिणाद्रव्येषु अध्वर्थ्यादिभिर्ऋत्विग्भिः स्वस्वस्थानं प्रापितेषु सत्सु कृष्णमृगस्य विषाणं चात्वालारव्ये गर्तविशेषे निरस्येदिति वाक्यार्थः । Bhandarkar Oriental Research Institute PHIM 16, JIFF FOUNDED 1917 • निरूपणम् ] सारविबेचिनोव्याख्यासंवलितः यतु विकृतावपि प्राकृतधर्मानुवादेन विधोयमानयोधर्मयोरन्तरातेऽपूर्व मध्यङ्गं केवलं पठ्यते तदपि प्रकरणेन विनियुज्यते । यद्यपि विकृतेः कथं• भावाकाङ्क्षा प्राकृतैरेवाः शाम्यति, तथापि यत्र प्राकृताङ्गानुवादेन धर्मवि धानं तत्र तद्विधानं याव (१) द्भवति तावत्कथंभावाकाङ्क्षा न निवर्तते । अतो विकृतेराकाङ्क्षावस्वादन्तराले विहितस्याप्य पूर्वाङ्गस्य भाव्याकाङ्क्षासत्वादयुक्तं तस्य प्रकरणाद्विकृत्यर्थत्वम्, यथा श्रामनहोमेषु । ते हि प्राकृताङ्कानुवादेन प्राकृताज्ञानुवादेन विधानाभावेऽपि प्राकृताङ्ग्रानुवादेन विहितधर्ममध्ये पठित(याप्यपूर्वाशस्य प्रकरणग्राह्यता सम्भवतीत्याह--यत्त्विति । ननु विकृतिभावनाकथंभावा. काङ्क्षा प्राकृतैर्धस्तदनुवादेन विहितैर्वा शाम्यतीति कथमुभयभिन्नस्यास्या पूर्वाङ्गस्य प्रकरण विषयतेस्याशङ्कते-- यद्यपोति । उत्पन्ना ह्याकारक्षा प्राकृतसर्वाङ्गसम्बन्धानन्तरमेव शाम्यति, अतो मध्ये पठितस्यापि साकाङ्क्षायामेव विकृतिभावनाया मन्वयात् सम्भवति प्रकरणग्राह्यतेति परिहरति तथापोति । यत्र प्राकृतेति । अनेन विकृतिप्रधानप्राकृताङ्गधर्मयोर्मध्ये पठितस्याप्यपूर्वाशस्य सन्दंशेन प्रकरणमाह्यता सूचिता । आमनहोमेन्विति । 'वैश्वदेवीं साङ्ग्रहणीं निर्वपेत् ग्रामकामः" इति साङ्ग्रहणेष्टिं विधाय तदनन्तरं "श्रामनमस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति" इति बिहितेषु होमेष्वित्यर्थः। प्राकृताङ्गानुवादेन विधीयमानयोरिति । इदन्तु चिन्त्यम् । मैत्रायणीयसंहितायां "यत् प्रयाजानां पुरस्तात् जुहुयात् बहिरात्मानं सजातानां दध्यात्, 'यदनूयाजानां परस्तात् जुहुयात् स्वर्गे लोकमपक्रामेत्, मध्ये जुहोति" इति वाक्येन प्राकृतप्रयाजानुयाजमध्य एवामनहोमानी विधानात् । अत एव मिश्रैरपि न्यायरत्नमालायां 'विकृतिष्वपि यत्प्राकृताङ्गमध्ये पठितं, यथा-आमनहोमः" इति प्राकृताङ्गमध्यपाठ एवोक्तः शास्त्रदीपिकायामपि "आमनहरे मानाश्च प्राकृताङ्गमध्यविहितत्वेने"त्युक्तम् । तन्त्ररत्नेऽपि च "प्राकृतास्तावदाकाइयैव गृह्यन्ते । तयोर्द्वयोः प्राकृतयोः परामृश्यमानयोर्मध्ये पतितम पूर्वमध्यङ्गमाकाङ्क्षायामव्यावृत्तायां विधीयमान श्राकाङ्क्षापरनामधेयप्रकरणेन गृह्यते, यथा"यत्प्रयाजानां पुरस्तात् जुहुयात् बहिरात्मानं सजातानां दध्यात्, यदनूयाजानां परस्तात्, स्वर्ग लोकमपकामेत्, मध्ये जुहोति, मध्येत एव सजातानामात्मम्यत्ते" इत्येवं परामृश्यमाना आमनहोमाः सम्बन्धिपद व्यवायेनाकाङ्क्षा प्राह्यप्रयाजानूयाजमध्यवर्तित्वेन ग्रहीष्यन्ते इत्यनेन श्रामनोमानी प्रयाजानूयाजमध्यव तित्वस्यैवोकत्वात् प्राकृता ज्ञानुवादेन विधीयमानघर्ममध्यपाठस्य कुत्राप्यनुपलम्भात् । ननु तन्त्ररत्ने प्रकरण ग्राह्यत्वोक्तावपि शास्त्रदीपिकायु सन्निधिप्राह्यत्वमुक्त्वा "प्रकरणमाझ. त्वस्यापि सम्भवात्" इत्यपिना प्रकरणाग्राह्यत्वेऽस्वरसः सूचितः । अत एव च न्यायसुधायां बलाबलाधिकरणे आमनोमानां सन्निधिविषयतैवोक्तंति कथं तेषां प्रकरणमाह्यत्वम् ? इत्यत श्राह इत्यास्तां तावदिति । यद्यप्यामनहोमानी सन्निधिप्रायतैव POONA १. यावन निवर्तते । ६ मी० म्या० C क ६५ विज्ञि श्रीदप्रस्तु Bhandarkar Oriental Research Institute मीमांसान्यायप्रकाशः [ प्रकरणविधीयमानयोर्द्धर्मयोरन्तराले विधीयन्त इत्युक्तं तन्त्ररत्नादावित्यास्तां तावत् ॥ (अवान्तरप्रकरणनिरूपणम् ) फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवान्तरप्रकरणम् । तच्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम् । तच्च सन्दंशेन शायते । तद्भावेऽविशेषात्सर्वेषां फलभावनाकथम्भावेन ग्रहणात् । संदंशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितखम्, यथा- अभिक्रमणम्, तद्धि 'समानयत उपभृतः' इत्यादिना प्रयाजानुवादेन किंश्चिद विधाय विधीयते, पश्चादपि प्रयाजानुवादेन 'यो वै प्रयाजानां मिथुनं वेदे'त्यादिना किञ्चिदङ्गं विधीयते । अतः प्रयाङ्गमध्ये पठितमभिक्रमणं तदनं भवति, तत्कथम्भावाकाङ्क्षाया अशान्तेः । यथाहु:परप्रकरणस्थानाम श्रुत्यादिभिस्त्रिभिः । ज्ञाते पुनश्च तैरेव सन्दशेन तदिष्यते ॥ इति । ६६ समुचिता, अभिमतं चास्माकमपि तदेव, तथापि तन्त्ररत्नायुक्तिमात्रमवलम्ब्य प्रकृतो- दाहरणार्थमन्त्रोक्तमिति भावः ॥ (श्रवान्तरप्रकरण निरूपणम् ) 1 एवं महाप्रकरणं निरूप्य इदानीमवान्तरप्रकरणं निरूपयति-फलभावनाया इति । तब श्रवान्तरप्रकरणं च । तदभावे सन्दशाभावे । श्रथ को नाम सन्दशः १ श्रत श्राह- सन्दशो नामेति । एकाङ्कानुवादेनेति । एकं यत्प्रधाननिरूपितम तदनुवादेनेत्यर्थः । इदमुपलक्षणं सन्दंशान्तरयोरपि । प्राकृ ताङ्गानुवादेन विहिताभ्यां सन्दष्टं यदसंयुक्तमपि विकृतौ श्रुतं तदपि प्रकरणेन गृह्यते । विकृतेः पूर्वमसंयुक्तं किंचिद्विहितं ततः पूर्व तु प्राकृताङ्गानुवादेन यद्विहितं ततोऽसंयुक्तं यत् तत् तद्विकृतिग्रहणेन गृह्यते । तथा विकृतेरनन्तरमसंयुक्तं किंचिद्विधाय प्राकृताङ्क्षानुवादेन कस्मिंश्चिद्विहिते तरपूर्वमसंयुक्तं प्रकरणेन गृह्यते । इति मेदत्रयस्य प्रन्थान्तरेषु दर्शनात् । लोहकण्ट विद्धकोहशलाकाद्वयरूपः पात्रादिग्रहणसाधनभूतः कश्चन पदार्थों लोके सन्दंशपुदवाच्यः । हिन्दी भाषायां सडसी इति द्राविडभाषायां इडिक्की इति च प्रसिद्धः । अभिक्रमणं प्रतिप्रया जं किञ्चिदन्तरं श्राइवनीयसमीर देशं प्रति पद्रनिक्षेपणम् । •• ताडशाङ्गमध्यपाठमुपपादयति -तद्धीति । समानयत इति । जौहवेनाज्येन प्रथमतः श्रीन् प्रयाजा निष्ठा बर्हिःप्रया जार्थमुपभृत्स्थमाज्यं जुह्वां समानयेदित्यर्थः । यद्यप्यस्मिन् वाक्यै प्रयाजशब्दो नास्ति, तथापि श्रौपभृताज्यस्य "यदुपभृति प्रयाजानृयाजेभ्यस्तत्" इत्यनेन प्रयाजानूया जार्थत्वावगमात् श्रौपभृतार्घस्य प्रयाजद्वयार्थमेव जुह्वां समानेयत्वात् प्रयाजाङ्गत्व सङ्कीर्तनाविरोधः । एवं प्रयाजोद्देशेन विहितं पूर्वमङ्गमभिवाय पाश्चात्यमप्यनं कथयति-यो वै इति । मिथुमं वे देत्यादिनेति। "प्रया जानिष्ठ (हवींप्य भिधारयति" इत्यन्तेनेति शेषः । तत्रैव प्रयाजोग्युक्ताज्योद्देशेन इविरमिषारण रूपसंस्कारविधानात् यो वै प्रयाजानामित्यस्यार्थवादत्वेन तत्र कस्याप्यविधेयस्वात् । एवं च श्राकाङ्क्षायाः चरमाज्ञान्वयं यावदनुवर्तनावश्यंभावेन अस्त्येव तदानीमाका क्षेत्याह-तस्कथंभाषेति । य 0:04 निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः न चाङ्गभानायाः कथं भावाकाङ्क्षाभावात् कथं प्रयाजभावनाकथंभावेनामिक्रमणं गृह्यते इति वाच्यम् । भावनासाम्येन सर्वत्र कथंभावाकाङ्क्षायाः सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भावयेदित्युक्ते यो नाम न जानाति प्रयाजेरवं कर्तुं तस्यास्त्येव कथंभावाकाङ्क्षा-कथमेभिरपूर्वं कर्तव्यमिति । सा च सन्दंशपतितेत्रांच निकैः स्मातश्चाचमनादिभिः शाम्यति । तद्भावे च स्वरू पनिष्पादनेन दविहोमन्यायेन निवर्तते । दर्विहोमेषु हि स्वरूपनिष्पादनातिरिक्तस्तथा व्यापारो न श्रयते । नाष्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां तावन्नातिदेशः, यागत्वेन होमत्वेन वैलक्षण्यात् । नापि होमीयानाम्, कस्य प्रयाजकथम्भावेत्यर्थः । वार्तिकं प्रमाणयति- परेति । परप्रकरणस्थानां दर्शपूर्णमासप्रकरणस्थानां प्रयाजादीनां श्रङ्गे श्रौपभृताज्यसमानयनादिके श्रुत्यादिभित्रिभिः श्रुतिलिङ्गवाक्यैः ज्ञाते पूर्व विहितत्वेनावगते पश्चादपि तैः श्रुत्यादिभिः कस्मिंश्चिदशे विहिते सति तत्सन्दष्टं तत् तन्मण्यविहितं किंचिदङ्गं तादृशपूर्वोत्तरराङ्ग सन्दंशेन प्रथा जाद्य भवतीति श्लोकार्थः । यद्यपि पूर्वमिति नैवास्ति श्लोके तथापि पुनश्चेति चशब्दबलात् तल्लभ्यत इति न दोषः । अत्र प्रधानभावनानामेवेतिकर्तव्यताकाङ्क्षा, तासामेव फल साघनत्वेन कथमित्याकाङ्क्षोदयात्, नाजभावनानां, तासामफलत्वात् इति वदतां प्राभाकराणां मतमनुवदति - न चेति । श्रङ्गभावनानामपि कार्यतया विधिना बोधितत्वात् कार्यस्य चालौकिकत्वात् अनितप्रकारत्वेन कर्तव्यता विशेष रूपे ति कर्तव्यताकाङ्क्षा सम्भवत्येव तासामपीति परिहरति भावनासाम्येनेति । अङ्गभावनाया श्रपि भावनात्वाविशेषात् प्रधानभावनांतुल्यस्वेनेत्यर्थः । सर्वत्र सर्वास्वपि भावनासु सन्दशपतितैरिति । अभिक्रमणादिभिरिति शेषः । सन्दंशामावस्थले। कथमाकाङ्क्षाशान्तिः ? "अत ह-वाचनिकैरिति । "इन्द्र ऊर्ध्वो अध्वर इत्याघारमाघारयति वचनविहितैर जैरित्यर्थः। तेषामध्यभावे कथम् ? इस्या आह - स्मार्तेरा चमनादिभिरिति । "श्राचारतेन कर्म कर्तव्यम्" "दक्षिणाचारेण कर्तव्यं" इति सर्वकर्म साधारण्येन स्मृतिविहितैः आचमनदक्षिणपाण्याचरणादिभिरित्यर्थः इत्यादि ६७ स्वरूपनिष्पाइनेनेति । यथाश्रुन कर्मस्वरूपमात्रानुठानेनेत्यर्थः । दर्विहोमन्यायेन नेति । यथा दर्वीहोमा पूर्वाः श्रुतेतिकर्तव्यताश्चेति तत्रोत्पन्नापि कथंभावाकाङ्क्षा स्वरूपनिष्पादनेनैव शाम्यति तद्वदित्यर्थः । तदेवोपपादयति — दविहोमेष्विति । जुहोव्युत्पत्तिकाः एकमन्त्रकाः स्वाहाकार प्रदाना दवहोमाः । ननु सन्निधौ व्यापाराश्रवणेऽपि अतिरेशेन तत्प्रातिरस्तु, तह-नापोति । अतिदेशो यागीयधर्माणां ? होमीयत्रर्माणां वा ! नाद्य इत्याह --यागीयानामिति । तत्र हेतुमाह-य। गत्वेनेति । दर्शपूर्णमासज्योतिष्टोमादेरित्यर्थः । होमस्वेनेति । दर्विहोमानामिति शेषः । वैलक्षण्यादिति । प्रक्षेपाङ्गकोद्देशत्यागरूपक्रियाद्वयवृत्तिजातेः यागस्वात् उद्देश-त्याग-प्रक्षेपात्म'कक्रियात्रयवृत्ति जातेः होमत्वाच्च तयोरत्यन्तं भेदादित्यर्थः । चोदनालिङ्गातिदेशस्य साहश्यमूलकस्वेन तदभावे तस्यैवासंभवादिति भावः। द्वितीयं निराकरोति-नापोति । श्रमिहोत्रस्य न दवहोमप्रकृतित्वं, विशेषनियामकाभावान, नापि नारिष्ठहोमानाम्, Research Institute ६६३ मोमांसोन्यायप्रकाशः [ प्रकरणहोमस्य धर्मः कस्मिन् होमे प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् । अतो धर्मप्राप्त्यभावात् दर्विद्दोमैरिष्टं भावयेत्कथमित्युत्पन्नाध्याकाङ्क्षा स्वरूपनिप्पादनेनैव शाम्यति । एवं येषङ्गेषु सग्दशाद्य मावस्तत्रोत्पन्नाण्याकाङ्क्षा तेनैव निवर्ततें, न तु सर्वथा तदभावः । तस्माद्युक्तमु कमभिक्रमणं प्रयाजाङ्गमिति । तच्चेदमवान्तर प्रकरणं महाप्रकरणाद्वलीयः, सन्दंशपतितानां धर्माण कैमर्थ्याकाङ्क्षायां प्रधानापूर्वात्प्रयाजाद्यपूर्वस्य झटित्युपस्थितेरिति । प्रकृतमनुसरामः । तत्सिद्धमुभयविधस्य प्रकरणस्य विनियोजकत्वम् । तदिदं स्थान/दिप्रमाणाद्वलवत् । यत्र हि स्थानादङ्गत्वं तत्रान्यतरस्य प्रकारान्तरेण निराकाङ्कत्वम् । न च साकाइ निराकाङ्क्षेण संबधुं योग्यं विनाकाकोत्थापनेन । श्रुतश्चान्यतराकाङ्क्षया. यावदुभयाकाङ्क्षारूपप्रकरण कल्पनद्वारा वाक्यादि कल्पयितुमारभ्यते, झटिति तावत्प्रकरणेन कल्पयित्वा विनियोगः क्रियत इति स्थानात्प्रकरणस्य बलोयस्त्वम् । मत एव विदेवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि चनीयस्याङ्गम् । तेषां तद्वत्वं भवत् स्थानाद्भवेत्, न तु प्रकरणात् । अभिवाक्यादिकं नाभिषेMAR BSF की DIPIDPREID "अप्रतिष्ठिता वे त्र्यंबका इत्याहु: । नेमाबाई सन्नह्यति" इति दविहोमानां प्रतिष्ठितत्वे इश्माबहिरभावस्या हेतुत्वेन निर्देशात्, नारिष्ठहोमेषु चामप्रधान साधार• गानामिध्माबर्हिषां सखात् तेषां च चोकतस्तत्रापि प्राप्तिसम्भवात् । न चायं चोदकप्राप्तस्यैव प्रतिषेधोऽस्त्विति वाच्यम् । अस्य च "आदित्यं चरुं निर्वपेत् पुनरेत्य गृहेषु" इत्यादित्यचरुविधायकवाक्यशेषत्वेन प्रतिषेधविधित्वासंभवात् । नापि पिष्टलेपफ लौकरणहोमयोः; तयोः प्रतिपत्तिकर्मत्वेन धर्मप्रयोजकत्वाभावेन प्रकृतित्वासंभवात् इत्येतत्सर्व मनसि निघायाह-कस्य होम येत्यादि । दर्विहोमविषयविचारमुपसंहरतिश्रतः इति । तन्न्यायमङ्गभावना या मतिदिशति — एवमिति संदशादीत्या दिपदेन वाचनिकाजस्मार्ता चमनादीनि परिगृह्यन्ते । न किञ्चिन्मध्ये पठितम् । न वा वाचनिकं किञ्चित् । नापि स्माते किञ्चित् । एतादृशानि सन्ति बहून्यज्ञानि प्रोक्षणादीनि । तत्र लोकत एव तत्स्वरूपं ज्ञात्वाऽऽकाङ्क्षा निवर्तनीयेत्यर्थः । एवमवान्तरप्रकरणं निरूप्य तस्य महाप्रकरणापेक्षया प्राबल्यं प्रतिपादयितुमारभतेतच्चेति । प्रधानापूर्वादिति । प्रधानापूर्वापेक्षयेत्यर्थः । झटित्युपस्थितेरिति । तस्यैव सन्निहितत्वेन बुद्धौ विपरिवर्तमानत्वादिति भावः । स्थानाद्यपेक्षया प्रकरणस्य प्राबल्यं निरूपयितुमारभते - तदिदमिति । श्रादिपदेन समाख्यापरिप्रहः । स्थानात् स्थानरूपप्रमाणात् । अङ्गत्वमिति । बोग्यत इति शेषः । प्रकारान्तरेणेति । क्लृप्तोपकारप्राकृतपदार्थान्वयेन प्रकृतौ कृतकार्यत्वेन वेत्यर्थः । विदेवनादय इति । अस्ति राजसूयः "राजा राजसूयेन स्वाराज्यकामो यजेत'" इत्यनेन स्वाराज्यरूपफको देशेन विहितः । तत्र अनुमस्यादय इष्टयः, पञ्चवातीयादयो दवहोमाः, "मादित्यां मल्हां गर्भिणीमालभते" इत्यादयः पशुयागाः, पवित्रा, Bha निरूपणम् ] सारविवेचिनोन्याख्या संवलितः ६६ षेचनोयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमविकारत्वात्प्राकृतैरेव धर्मेनिंराकाङ्क्षत्वात् । किन्तु प्रकरणाद्राजसूयाङ्गम् । ननु 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यत्र राजसूयशब्दस्तावन्नामधेयत्वा दाख्यातपरतन्त्रो यत्राख्यातं तत्रैव प्रवर्तते । न च 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते त्यत्र यथा दर्शपूर्णमासपदं नामधेयमपि नाख्यातपरतन्त्रम्, तत्र हि यजेतेत्याख्यातमविशेषात्सर्वानेव प्रकृतानाग्ने. यादीन् प्रयाजादींश्चाभिधातुं समर्थम्, दर्शपूर्णमासपदं त्वाग्नेयादीनेव वदति, न सर्वान्, अतश्च न तदाख्यातपरतन्त्रम् । तथो राजसूयपदमपि किं न स्यादिति वाच्यम् । प्रसिद्धेन हि पदेनाप्रसिद्धं नि (१)र्णीयते । यथाहुःपदमशातसंदिग्धं प्रसिद्धैरपृथकश्रुति । निर्गीयते निरूढं तु न स्वार्थादपनीयते ॥ इति । भिषेचनीय, दशपेय, केशवपनीय, व्युष्टिद्विरात्र, क्षत्रधृति, संशकाः (२) षट् सोमयागाम विहिताः । तत्र अभिषेचनीयाख्यसोमयागसन्निधौ "श्रव्यति, राजन्य जिनाति, शौनश्शेपमाख्यापयत" इत्यादिभिः अदेवनराजन्यजयादयः श्रूयन्ते त इत्यर्थः । धर्माः जानि । तेषां विदेवनादीनाम् । तदङ्गत्वम् अभिषेचनीयाङ्गत्वम् । ननु अभि षेचनीयस्य निर्धर्मकरवेन कथंभावाकाङ्क्षासवात् विदेवनादीनामप्याकाचावत्वात् तेषाम.. भिषेचनीयाङ्गत्वं प्रकरणा देव कुतो न स्यात् ? इत्यतः माह- अभिषेचनीयस्येति । ज्योतिष्टोमविकारत्वादिति । श्रव्यक्तचोदितानां ज्योतिष्ठोमविकारत्वस्याष्टमे "म व्यक्तासु तु सोमस्य" इत्यनेनोक्तत्वादिति भावः । श्रव्यक्तत्वस्वरूपं पूर्वमेव निरूपि- तम् । प्राकृतः श्रग्निष्टोमसंस्थाकज्योतिष्टोमाज्ञैः ॥ ननु' 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति" इत्यादिवाक्यविहितानामेवे. टिपशुसोमानां "राजसूयेन स्वाराज्यकामो यजेत" इत्यनेन फलसंबन्धबोधनातू तेषामेव राजसूयपदवाच्यत्वमशीकरणीयम् । ते च प्रत्येकं स्वैः स्वैः प्राकृतैरङ्गैर्निराकाङ्क्षा इति उभयाकाङ्क्षाभावात् कथं विदेवनादयः प्रकरणग्रायाः ? इत्याशङ्कते-नन्विति । तत्र वर्तत इति । आख्यातं यादृशार्थबोधकं तादृशार्थबोधकमित्यर्थः । ननु नामघेयत्वेऽपि दर्शपूर्णमासपदवत् स्वतन्त्रतैवाऽस्तु इत्याशङ्कते–न चेति । दर्शपूर्ण मासंपदस्य स्वतन्त्रतां विवृणोति — तत्र हीति । आग्नेयादीन् इत्यादिपदेन पञ्चप्रधानयागा गृह्यन्ते । प्रयोजादोन इत्यादिपदेन अनूया जाज्य भागादीनामङ्गयागानां ग्रहणम् । ततश्च यजति चोदनाचोदितान् प्रकृतान् सर्वानेव वदतीत्यर्थः। आग्नेयादीनेवेति । येषां कर्मणां स्वोत्पत्तिवाक्ये श्रमावास्यापौर्णमासीरूपकालश्रवणमस्ति तेषामेव दर्शपूर्णमासपदवाच्यस्वस्य पौर्णमास्यधिकरणे स्थापितत्वात् आग्नेयादीनां षण्णामेव तथात्वादिति भावः । इदश्वाग्रे मूलेऽपि व्यक्तीभविष्यति । परिहरति- प्रसिद्धेनेति । पदमिति । अर्थविशेषवाचित्वेन अज्ञातं अत एव च सन्दिग्धं पदं अर्थविशेषवाचित्वेन प्रसिद्धः पदैः अपृथक्श्रुति सामानाधिकरणय निर्दिष्टं सत् अर्थविशेषबोधकत्वेन निर्णीयते । यन्त १ नियम्यते, २ यत्त्वत्र शतपथभाष्ये सप्त सोमयागा इत्युक्तं तत् व्युष्टिद्विरा त्रस्य द्वित्वमभिप्रेत्य तस्य द्वय हानुष्ठेयस्वात् । न तु वस्तुतो याग सप्तकाभित्रायेण । तथास्वे बच्चीनां श्रुतीना कल्पसूत्राणां च विरोधात्। ७२ मीमांसाश्यायप्रकाश [ प्रकरण। नैराकाइघेऽपि न राजसूयत्वेन रूपेण नैराकाइयमिति वाच्यम् । आकाङ्क्षाद्वये प्रमाणाभावात् । wwwind कि च प्रातिस्विकरूपैर्या कथंभावाकाङ्क्षा सापि फलसम्बन्धोत्तरकालम् । स व राजसूयत्वेन, न तु प्रातिस्विकरूपैः, राजस्यत्वेन च फलसंबन्धे उत्प नायाः कथंभावाकाङ्क्षायाः विदेवनादिभिः शान्तेर तिदेशकल्पनमेव न स्यात् । यदि हि सामान्य रूपेण प्रातिस्विकरूपेण च फलसंबन्धविधायि वाक्यद्वयं भवेत्तदा युज्येताप्यकाङ्क्षाद्वयानुसारेण विदेवनादीनामातिदेशिकानां चाङ्गानां संबन्धः । न (१) तु तदस्ति । तस्मात् प्राकृतैर्धमै नैराकाङ्क्षयान्न विदेवनादीनां प्रकरणं विनियोजकमिति चेत् सांप्रदायिकैवि देवनादीनां सन्दशो दर्शितः । राजसूयत्व पुरस्कारेण ये धर्मा विधीयन्ते 'राजसूयाय होना उत्पुनाति' इत्येवमादयस्तम्मध्ये विदेवनादयः पट्यन्ते । अतस्ते सर्वे राजसूयाङ्गं प्रयाजानुवादेन विधीयमानधर्ममध्ये पठितप्रयाजाङ्गाभिक्रमणवत् । तस्मात् युक्तमुक्तं विदेवनादीनां प्रकरणाद्वाजसूयाङ्गत्वमिति । तत्सिद्धं प्रकरणस्य स्थानाद्वतीय स्त्वमिति । सत्यम्, अत एव राजसूयभावनाया अतिरिक्तत्वेन तासां च स्वस्वेतिकर्तव्यताविषयिण्या एकस्या एवा. काक्षाया अङ्गीकर्तुमुचितत्वादिति भावः । कर ननु प्रातिस्विकरूपेणोपन्नायामेव कथंभावाका क्षायां प्राकृतपदार्थान्वयात् पूर्व मेव विदेवनादीनां विधानात् कुतो न प्रकरणग्राह्यतेत्यत ग्राह-किञ्चेति । फलसम्चन्धोत्तरकाल मिति । निरूपितमेतदद्धस्तात् । स च फलसम्बन्धश्च । श्रुतिदेशकल्पनमेव न स्यादिति । प्रातिस्विकरूपेण या आकाक्षा तस्या एव राजसूयवाक्ये राज सूयत्वधर्मावच्छिन्नत्वेन प्रतीयमानत्वात् तस्याश्च विदेवनादिभिश्शान्तत्वादाकाङ्क्षाभावेन प्राकृतानां घर्माणामतिदेशो न स्यादित्यर्थः । ननु स्यादेतदेवं यद्येकैवा का इक्षा, आकाङ्क्षाद्वयाङ्गीकारे को दोषः ? अत आह- यदि हीति । तस्मादिति। विदेवनादिभ्यः पूर्व प्राकृतपदार्थान्वयस्यैवावश्याभ्युपगन्तव्यत्वादित्यर्थः । न प्रकरणं विनि योजकमिति । उभयाकाङ्क्षाभावादिति भावः । समाधत्ते – सत्यमिति । राजसूयाय होना उत्पुनातीति । एनाः राजाभिषेका र्थमाहता अपः राजसूयाय हि राजसूयार्थमेव खलूत्पवनं करोत्यध्वर्युरित्यक्षरार्थः । सर्व इति । विदेवनाद्यभिषेकान्ता इत्यर्थः । राजसूयाङ्गत्वे दृष्टान्तमाह - प्रयाजेति । प्रकरणमुपसंहरति – तस्मादिति। यत्वत्र मयूखमालिकायां – तैत्तिरीय शाखायाम भिषेचनीयप्रयोगमध्ये 'दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान् प्रयच्छति' इत्येवमादिभिविंदेवनादीन् विघाय तदनन्तरं मारुतस्य चैकविंशतिकपालस्य वैश्वदेव्य चामिक्षाया अग्नये स्विष्टकृते समवद्यति' इत्यभिषेचनीया ङ्गेष्टिविशेषमाम्नाय 'अपां नत्रे स्वादोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति तिस्र आहुतीर्जहोति' Research Institute निरूपणम् ] सारविवेचनी व्याख्यासंवलितः ( स्थानप्रामाण्यनिरूपणम् ) देशसामान्य स्थानम् । तच्च द्विविधम्-पाठसादेश्य मनुष्ठानसा देश्यं चेति । यदाहुः- Spipes opresto तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठान सादेश्याद्विनियोगस्य कारणम् ॥ इति । f ७३ इत्यभिषेचनीयानहोम विशेष श्राम्नायते । तेन विदेवनादीनामभिषेचनीयाजसन्हब्धतयाऽऽ. म्नातानां तदवान्तरप्रकरणेनाभिषेचनीयमात्रार्थत्वात् तेषां क्रमप्रकरणविरोधोदाहरणत्वं कृत्वा चिन्तयेत्युक्तम् । तत्रेदं वक्तव्यम्-नाभिषेचनीयस्यावान्तरप्रकरणं सम्भवति । "स हि ज्योतिष्टोमविकृतिभूतः क्लृप्तोकारैः प्राकृतैरेव धर्मेंनिराकावृक्षः । न च मारुतस्येति वाक्येनाभिषेचनीयाज्ञभूता इष्टिरप्याम्नायते । तस्य पूर्वविहितमारुतामिक्षायागाङ्गभूतयोः स्विष्टकृद्यागयोः कालमात्र विधायकत्वात् । तैत्तिरीयब्राह्मणे हि प्रथमाष्टके सप्तमप्रपाठ के सप्तमानुवाके 'मारुत एष भवति, 'एकविंशतिकपालो भवति' इति वाक्यद्वयेन मारुतयागः तद्गुणश्च विहितौ । तत्रैव दशमानुवाके 'वैश्वदेव्यामिक्षा' इत्यनेनामिक्षायागो विहितः । तत्सम्बन्धिनोश्च स्विष्टकृद्यागयोरतन्त्रेणानुष्ठानमनेन वाक्येन विधीयते । एवं सत्यपि यद्येतदनन्तरं विहितस्य होमविशेषस्य प्राकृत कार्यापत्नत्वेन विधानं स्यात् तदानीं तादृशपदार्थान्वयं यावदाफाक्षाया अनुवृत्तेः तत्सन्दष्टानां विदेवनादीनां भवेदवान्तरप्रकरणादभिषेचनीयात्वम् । न त्वेतदस्ति । केवलमसंयुक्ततयैव तस्य विधानात् । प्राकृताङ्गानुवादेन विहितधर्ममध्यपतितस्यैवासंयुक्ताशस्य विकृतौ प्रकरणमात्यत्व सिद्धा न्तात् । श्रत एवोक्तं भाट्टदीपिकायां- यस्य हि प्रधान कार्यापन्नतया वैकृताङ्गस्य विधानं, यथा- श्रौदुम्बरत्वशरत्वादेः, तस्यैवानिवृत्ताकाङ्क्षतया विधानम्, तत्सन्दष्टस्यैव च तत्पूर्वभाविनो वा प्रधानोत्तराङ्गस्य विकृतिप्रकरणेन ग्रहणम्" इति । एवश्च होम विशेषस्य विकृतिभावनायां निवृत्ताकाक्षायामेवोपहोमादिवत् विधानात् नात्रावसरोऽवान्त प्रकरणस्य । एतदेवाभिप्रेश्य वातिककारैरप्युक्तम्-"यद्य. निराकाङ्क्षीकृ ते ऽभिषेचनीये तेषां पाठः स्यात् ततोऽवान्तरकरणमवगभ्येत । स तु प्रागेव विदेवनादिश्यः प्राकृतैर्धमैं निराकाङ्क्षीकृतः' इति । 'योग्योपकारप्रदानेन पूरिते कथंभावे निवृत्तं प्रकरणम्, समीपाग्नात धर्मानर्थक्यापत्तिभयादेव पुनरुत्पाद्येत' इति च । एवश्व स्थान विनियोज्यत्व यैस्व सम्भवात् युक्ता क्रमप्रकरण विरोधोदाहरणतेति । MISTREJER । ( स्थाननिरूपणम्) क्रमप्राप्तं स्थाननिरूपणमवतारयति – देशसामान्यमिति । समानदेशवत्वमित्यर्थः। एकस्थल सम्बद्धत्वमिति यावत् । पाठसादेश्यमिति । पाठतः सादेश्यमनुष्ठानतस्सा देश्यमित्यर्थः । अत्र वार्तिकं प्रमाणयति-तत्रेति । देशसामान्यलक्षणः सादेश्यरूपः । पाठानुष्ठानसादेश्यादिति । सादेश्यशब्दः 'द्वन्द्वान्त' इति न्यायेन प्रत्येकं सम्बध्यते । पाठसा देश्यात् अनुष्ठानसादेश्यादित्यर्थः । ननु श्रलौकिकार्थस्य शब्दातिरिक्त प्रमाणा१० मी० म्या० FOUNDED वधीतमस् • मोमांसान्यायप्रकाशः [ स्थानस्थानं क्रमश्चेत्यनर्थान्तरम् । पाठलादेश्यमपि द्विविधम्-यथासङ्ख्य पाठः सन्निधिपाठश्चेति । तत्र 'ऐन्द्र । झमेकादशकपालं निर्वपेत्, 'वैश्वानरं द्वादशकपालं निर्वपे'दित्येवंक्रमविहितेष्टिषु 'इन्द्राग्नी रोचना दिव' इत्यादोनां याज्यानुवाक्यामन्त्राणां यथासङ्ख्यं प्रथमस्य प्रथमं द्वितीयस्य द्वितो. यमित्येव (१) यो विनियोगः स यथासङ्ख्यपाशत् । प्रथमपठितमन्त्रस्य हि कैमर्थ्याकाङ्क्षायां (२)प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते, समानदेशत्वात् । यानि तु वैकृताभ्यङ्गानि (३) प्राकृताङ्गाननुवादेन विहितानि संदेशापति७४ गभ्यत्वात् सादेश्यादेश्च शब्दत्वाभावात् न विनियोजकत्वम्, अतश्च तेषां प्रयोजनाका• ज्ञायां विश्वजिन्न्यायेन स्वर्गार्थत्वमेव युक्तमित्यत ग्राह-विनियोगस्य कारणमिति ।- यद्यपि सादेश्यस्य न शब्दरूपत्वं, तथापि सन्निधिपठितानामजानां प्रधानोपकारसम्पाद- कत्वे सम्भवति न कल्पनागौरवापादकस्वर्गफलकर युक्तम् । अतश्च प्रधानार्थत्वे वर्णनीये पाठसादेश्यादेर्युक्चैव नियामकतेति भावः । श्लोकस्थक्रमशब्दस्यार्थान्तरपरत्वभ्रमं वार- यितुमाह- स्थानमिति । अनर्थान्तरमिति । पर्याय इत्यर्थः । ऐन्द्राग्न मे कादशक पालमिति । अस्ति काम्येष्टिकाण्डसमाख्यातः फलार्थमिष्टीनां विधायको ब्राह्मणभागः । अस्ति च काम्येष्टियाज्यानुवा क्या काण्डसमाख्यातो मन्त्रभागः । तत्र काम्येष्टिकाण्डे येष्टिः प्रथमं पठिता तस्याः काम्येष्टियाज्यानुवाक्याकाण्डगतं प्रथमं याज्यानुवाक्यायुगल. मङ्गम्, द्वितीयस्या इष्टेः द्वितीयं युगलमङ्गमित्येवंरूपेण यः क्रमः स यथासंख्यपाठादि. त्यर्थः । किमत्र नियामकम् ? अत श्राह - प्रथमेति । कैमर्थ्याकाङ्क्षायां प्रयोजना काङ्क्षायाम् । समानदेशवत्वादिति । उभयोः प्रथमपठितत्वेन प्राथम्य रूपैक देशस्थत्वा- दित्यर्थः । इदमुदाहरणं मैत्रायणीयशाखानुरोधेन, तत्रैव द्वितीयकाण्डे प्रथमप्रपाठ के प्रथमेऽनुवाके "ऐन्द्राग्न मेकादशकपालं निर्वपेत् यस्य सजाता वीयायुः" इत्यै- न्द्राग्नेष्टिं विधाय द्वितीयेऽनुवा के वैश्वानरेष्टविंधानात् । एवं चतुर्थकाण्डे एकादशप्रपा- ठके ऐन्द्राग्नमन्त्रानाम्नाय वैश्वानरमन्त्राणामाम्नानात् ॥ एवं यथाक्रमपाठं निरूप्येदानीं सन्निधिपाठं निरूपयति- यानि त्विति । वैकृतानि विकृतिर्सान्निधौ पठितानि न वैकृता त्वमात्रेण सन्निधिग्राह्यत्वं भवति । श्रौदुम्बरत्व शरादेवेंकृताङ्गत्वेऽपि प्रकरणमाह्यत्वानपायात् । अत आह - प्राकृताङ्गाननुवादेनेति । ते हि प्राकृतखादिरत्वबर्हिः कार्यानुवादेन विहिता इति न तत्रातिप्रसङ्ग इति भावः । ननु प्राकृताज्ञाननुवादेन विहितानां विदेवनादीनां प्रकरणग्राह्यत्वमस्त्येव, तह- सन्दशापतितानीति । विदेवनादयो हि सन्दंशपतिता इति पूर्वमेवोक्तम् । श्रुतो न तत्रातिप्रसङ्गः । ननु नाज्ञानां विकृत्यर्थत्वं भवितुमर्हति । तेषां फलाकासासवेन फलेनैवान्व १. यत्तच्छग्दौ न स्तः । २. प्रथमविहितं ३. यश्वत्र कचित् पुस्तकेषु प्राकृताङ्गानुवादेना विहितानि इति पाठो दृश्यते । व्याख्यातं च कैश्चित् तमेव पाठमवलम्व्य, तन्न युक्तम् । न ह्यत्राविहितस्याङ्गत्वं वक्तुं प्रवृत्तिर्ग्रन्थकारस्य । अतो यथोक्त एव पाठस्साधीयान् । श FOUNDED 1917 निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः ७१ तानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैमर्थ्याकाङ्क्षायां फलवद्विकृत्यपूर्वमेव भाव्यत्वेन संबध्यते, उपस्थितत्वात् । अत एव तेषु न विश्वजि नन्यायावतारः । स्वतन्त्र फलार्थ वे विकृतिसन्निधिपाठानर्थ क्यापत्तेश्च । पशुधर्माणामग्नोषीमीयार्थत्वमनुष्ठानसादेश्यात् । श्रोपवसथ्येऽह्नि श्रग्नीषोमोयः पशुरनुष्टोयते, तस्मिन्नेव दिने ते धर्माः पठ्यन्ते । अतस्तेषां कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्चपूर्वमेव भाव्यत्वेन संवध्यते । अतो युक्तमनुष्ठान सादेश्यात्तदर्थत्वं तेषाम् । न च पाठसादेश्यादेव तत्किं न स्यादिति वाच्यम् । अग्नीषोमीयस्य पशोः क्रयसन्निधौ पाठात् । न च क्रयसन्निधौ तस्य पाठे तदनुष्ठानमपि तत्र स्यादिति वाच्यम् । 'स एष द्विदैवत्यः पशुरोपवखध्ये ऽहन्यालब्धव्यः' इति चचनात्तदनुपपत्तेः । न च स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योति यौचित्यात् । विकृतेश्च स्वतः फलत्वाभावादिस्याशङ्कयाह - फलवद्विकृतीति । विकृ· त्यपूर्वस्य स्त्रतः फलरूपत्वाभावेऽपि फलवत्वात् तदन्वयेऽपि परम्परयाऽङ्गानां फलवत्वं लभ्यत एवेति भावः । श्रानर्थक्यापत्तेश्चेति चकारेणोपस्थितपरित्यागे प्रमाणाभा- वोऽपि पूर्वोक्तरसमुच्चितः ॥ एवं द्विविधमपि पाठसा देश्यं निरूप्याधुनाऽनुष्ठानसादेश्यं निरूपयति- पशुधर्माणामिति । उपाकरण, नियोजन, पर्यग्निकरण, संज्ञपनादीनां पशुयागाज्ञानामित्यर्थः । यो दीक्षितो यदग्नीषोमोयं पशुमालभते" इति विहितो योऽग्नीषोमदेवताकः पशुयागः तदर्थत्वमित्यर्थः । अनुष्ठानसादश्यमेव निरूपयति - श्रौपवलथ्य इति । औपवसथ्यमहः दीक्षादिनतः चतुर्थमहः । दिन इति । तस्मिन् दिनेऽनुष्ठेयत्वेन पठि• तानां धर्माणां मध्ये उपाकरणादयोऽपि पठिता इत्यर्थः । ननु अग्नीषोमीयस्यौपवसथ्येऽह्नि अनुष्ठाने तथाठेनापि तत्रैव भाव्यम् । एवञ्च प्रबलेन पाठसादेश्येनैव धर्माणां पश्‍वपूर्वार्थत्वे सम्भवति किमर्थ दुर्बलप्रमाणाश्रयण मिति शङ्कते-न चेति । तत् अग्नीषोमीयार्थत्वम् । अथवा ननु 'श्राग्नेयमग्निष्टोम आलभत' इत्यस्य सवनीय विधायकस्यौपव सध्ये ऽहन्येव पाठात् प्रबलेन पाठसादेश्येन धर्माणां सवनीयपश्वपूर्वार्थत्वे सम्भवति किमर्थ दुर्बतेनानुष्ठानसादेश्येनाग्नीषोमीयार्थस्वमङ्गीक्रियते इति शङ्कतेन चेति । अस्मिन् पक्षे तदिस्यनेन सामान्यतः पश्वपूर्वस्य ग्रहणम् । अथवा अग्नेय एवाग्नीषोमीयभ्रान्त्या पृच्छति –नचेति । य श्रौपवसथ्येऽ. इनि पठितः स नाग्नीषोमीयः, स तु क्रसन्निधौ पठितः, अतः पाठसा देश्याभावात् न तेनाङ्गत्वमित्यर्थः । क्रय सन्निधाविति । 'अरुणया पिकाचयेत्यादिवाक्यैः दीक्षणीयोत्तरदिनेऽनुष्ठेयत्वेन विहिता ये सोमक्रयाः तत्सन्निधावित्यर्थः । ननु यस्य यत्र पाठ स्तत्रैव तस्यानुष्ठानमुचितमिति अग्नीषोमीयस्य क्रय सन्निधौ पाठे तत्रैव तस्यानुष्ठानापत्या पशुधर्मेस्सहानुष्ठान सा देश्यस्याप्यभावात् कथं तद्ग्राहकत्वमिति शङ्कते-नचेति । ननु एषां ज्योतिष्ठोममद्दाप्रकरणे पाठात् प्रकरणात् तदर्थत्वमेव कुतो न स्यात् इत्याशङ्कतेBhandarker Oriental Research मीमांसान्यायप्रकाशः [ स्थान७६ ष्टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रहरोऽयोग्यत्वात् । अतः 'श्रानर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति न्या. यात् स्थानात्पशुयागार्थत्वमेव धर्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । अग्नीषोमी. यकथंभावाकाङ्क्षायाः कलुप्तोपकारैः प्राकृतध मैं रेवोपशान्तत्वात् । स हि सान्नाव्ययागप्रकृतिकः, उभयोः पशुप्रभवत्व (१)सामान्यात् । तदुक्तम्न चेति । पशुधर्मप्रहण इति । उपाकरण नियोजनादीनां पशुसंबन्धित्वेन श्रुतानां सोमलताद्रव्य के यागे साक्षादुपयोगाभावादिति भावः । नच "आनर्थक्यात्तदङ्गेष्वि" ति न्यायेन ज्योतिष्टोमाङ्गभूतेषु अग्नीषोमीयसवनीयानुषन्ध्यरूपेषु पशुयागेषु त्रिष्वप्यवतारोऽस्त्विति वाच्यम् । प्रकरणं हि प्रथमतो धर्मग्रहणाय प्रवृत्तं साक्षात् ग्रहणायोगात् परावर्तते । यदि तावत् न कश्चिदपि पशुधर्मान् प्रहीतुं शक्नुयात् तदा गत्यभावात् परावृत्तमपि प्रकरणं पुनरभिमुखीभूय धर्मान् गृह्णातीति वक्तव्यम् । नचैतदस्ति । स्थानादग्नीषोमीयार्थत्व सम्भवादिति । अत इति । सोमयागस्य पशुधर्मग्रहणे अयोग्यत्वादिस्यर्थः । ननु सोमयागस्य स्वयमयोग्यत्वेऽपि तदङ्गभूतपशुष्ववतारसम्भवेन कुतो न प्रकरणग्राह्यतेत्यत श्राइ-आनर्थक्य प्रतिहतानामिति । यदि प्रकरणात् ज्योतिष्टोमार्थत्वं तर्ह्यनन्यथासिद्धस्य स्थानस्यानर्थक्यं भवतीति स्वतो दुर्बलमपि स्थानमानर्थंक्यप्रतिइतस्त्वात् प्रचलं सत् अन्यत्र चरितार्थत्वात् दुर्बलं प्रकरणं बाघत एवेत्यर्थः । न्याया दिव्यनन्तरं चकारोऽध्याहर्तव्यः । ननु पशुयागस्य धर्माकाङ्क्षत्वात् धर्माणाञ्च प्रयोजनाकाङ्क्षत्वादुमयाकाङ्क्षयैव पर परं सम्बन्धोऽस्तु किमन्यतराकाङ्क्षयेति शङ्कते-न चेति । क्लृप्तोपकारैरिति । अयं भावः - भावना न स्वरूपतः पदार्थानाकाङ्क्षति । किन्तूपकारजनकत्वेन । निरूपितमेतदघस्तात् । एवञ्चाग्नीषोमीयभावनायाः कथंभावाकाङ्क्षायां प्रकृतावुपकारजनकत्वेन क्लूतानां धर्माणामेव दूरस्थानामप्यति देशोपस्थितानां प्रथममन्वयो वाच्यः । अन्वितेषु च तेषु तैरेवाकाङ्क्षाशान्तेर्नोमयाकाङ्क्षा सम्भवति । अङ्गानां विकृतिसन्निधिपाठवैयर्थ्य भिया तु तदाकाङ्क्षाबलादेव विकृतेराकाङ्क्षा मुत्याप्य तरसम्बन्धो वाच्यः । अतश्च सिद्धमन्यतराकाबृक्षारूपस्थानविनियोज्यस्वमिति । ननु स्यादेतदेवं यदि विकृतिश्वमग्नीषोमीयस्य स्यात्, स एव खलु सर्वेषां पशुयागानां प्रकृतिभूतः, श्रत श्राह-स होति । यद्यप्यमी. षौंमीययागः सर्वपशुयागप्रकृतिभूतः तथापि तत्र कंतिपयानामेवाज्ञानां पाठात् देवतावाह. नादिसन्निपत्योपकारकविषयेऽस्त्येव तस्याकाङ्क्षा । किञ्च यत्रायं (२) पशुरुत्पन्नः क्रयसन्निधौ न तत्र धर्मा श्राग्नताः । ते त्वौपवसध्येऽहन्याम्नाताः । तत्रोत्पन्नेतिकर्तव्यताकाङ्क्षा न प्रदेशान्तरस्थैर्धमैश्शाम्यतीति तस्यान्यतो धर्मग्राहकत्वावश्यंभावे साह श्यात् दर्शपूर्णमासान्तर्गतसान्नाय्यतो धर्मातिदेश इति भावः । किं तत् सादृश्यम् ! श्रत श्राह-पशुप्रभवत्वसामान्यादिति । सान्नाय्यविकृतित्वे आष्टमिकं सूत्रं प्रमाणBhandarkar Oriental Research Institute १. पशुप्रभवद्रव्यश्म २. अपूर्वतया विहित इत्यर्थः । Sutent निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः 10 'सान्नाय्यं वा तत्प्रभवत्वात्' इति । सान्नाय्यं दधिपयसी । तत्र पशुयागः पयोयागप्रकृतिकः साक्षात्पशुप्रभ वत्वात् । अतश्चोदकप्राप्तैस्तद्ध मैंनिंराकाङ्क्षवान्न पशुयागे धर्माणां प्रकरणं विनियोजकम्; किं तुस्थानमेव । तदेवं निरूपितः रूं क्षेपतः स्थानविनियोगः। तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोदेशसामान्यल क्षणः संबन्धः प्रत्यक्षः । समाख्याविनियोगे तु संबन्धो न प्रत्यक्षः । पदार्थयोर्भिन्नदेशत्वात् । न च सा संबन्धवाचिका । यौगिकानां शब्दानां द्रव्यवा चकत्वेन संवन्धावाचकत्वात् । तथा हि- समाख्या संबन्धसामान्य वाचिका ७७ यति-सान्नाय्य मिति । वाशब्दः पक्षव्यावर्तकः । पशुस्सान्नाय्यमेव प्रकृतित्वेन गृह्णीयात्, कुतः ! तत्प्रभवत्वात् पशुप्रभवत्वात्, पशुरपि पशुजन्यः, सान्नाय्यमपि पशुजन्यमिति सूत्रार्थः । सान्नाय्ययागस्य दधिपयोयागोभयरूपत्वेन दधियागप्रकृतिकत्वम् ? उत पयोयागप्रकृतिकत्वम् ! श्रथ वा सौयें श्राग्नेयवदुभयधर्मप्रवृत्तिः ? श्रुत आह तत्रेति । पयोयागप्रकृतिक इति । दग्नस्तु पयसा व्यवहितत्वादिति भावः । ननु पाठसा देश्यादेरप्यु भया काङ्क्षान्यतराकाङ्क्षारूपभेद सस्वात् तस्स्वरूपं तदुदाहरणादिकं च कुतो नोक्तम् १ श्रत ग्राह-सङ्क्षेपत इति । यत् प्रसिद्धमवश्यनिरूपणीयं तद स्माभिरत्र निरूपितम् । अधिकमन्यतोऽवगन्तव्यमिति भावः । अत्र च पशुधर्माणां 'पशुमुपाकरोति, यूपे पशुं नियुञ्जीत, पशुं पर्यग्नि करोति, इत्यादिभिर्वाक्यैः श्रुत्यैव पश्वर्थत्वेन विनियोगात् न पुनः स्थानविनियोज्यत्वसम्भवः, तथाप्यपूर्वसाघनत्व लक्षणातात्पर्यप्राइकत्व एव भाक्तो विनियोजकत्वव्यवहार इति द्रष्टव्यम् ॥ एवं स्थानं निरूप्य तद्गतं समाख्यातः प्राबल्यं निरूपयति – तच्चेति । देशसामाम्यलक्षण इति । पाठतोऽनुष्ठानतो वा पदार्थयोरेक देशस्थत्वस्यैव स्थानपदार्थत्वेन निरूपितत्वादिति भावः । एवञ्च (स्वाध्यायपाठादनुष्ठानाद्वा उभयोः सम्बन्धोऽवगम्यत एवेति न समाख्यावदत्र सम्बन्धस्य कल्पनीयतेति मनसि निघायाह-प्रत्यक्ष इति । भिन्नदेशत्वादिति । एकस्य मन्त्रकाण्डादौ सरवादपरस्य च ब्राह्मणगतत्वादित्यर्थः । ननु कृत्तद्धितसमासेषु भावप्रत्ययेन सन्बन्धाभिधानात् भावप्रत्ययवाच्यस्य प्रकृतिवाच्य त्वनियमात् समाख्याया एव सम्बन्धवाचित्वं सिध्यतीति तत्रापि प्रत्यक्ष एव सम्बन्ध इत्यताह-नचेति । यथा च कृत्तद्धितसमासेषु न सम्बन्धवाचित्वं तथाऽरुणाधिक रणे वार्तिकका रैर्निपुणतरमुपपादितम् । ननु यौगिकशब्देषु सर्वत्र सम्बन्धस्य प्रतीय मानत्वात् सम्बन्धवाचित्वं तेषामवश्यमभ्युपेयमित्यत श्राह - यौगिकानामिति । सम्बन्धावाचकत्वमेवोपपादयति — तथा हीति । श्रयं भावः-समाख्या सम्बन्धत्वेन रूपेण सम्बन्धं बोधयति । उत संयोगसमवायादिविशेषरूपत्वेन ? यदि तावत् सम्बन्धत्वेन रूपेण, ततः सामान्यस्य प्रवृत्त्यजनकत्वेन तन्मात्रोकौ फलविशेषो न स्यात् । किञ्च सामान्योकौ सर्वेषां सम्बन्धानां सम्बन्धत्वाविशेषात् तद्वाचकानां सर्वेषामपि यौगिकशब्दानां पर्या यत्वं स्यात् । श्रथ सम्बन्धविशेषोऽभिधीयेत, ततस्तस्य स्वतो विशेषाभावात् सम्बन्धिकृत एव मेदोऽभ्युपगन्तव्यः । सम्बन्ध्यपि चानभिघीयमानो न शक्नोत्यभिधीयमानं सम्ब STITUTE 6 मीमांसान्यायप्रकाशः [ स्थानस्यात्, ? तद्विशेषवाचिका वा ? । नाद्यः । तदुक्तौ प्रयोजनाभावात् । सर्वयौगिकशब्दानां पर्यायतापत्तेश्च । द्वितीयेऽवश्यं संबन्धिनो वाच्यौ । तदन्तरेण संबन्धे विशेषाभावात् । तत्प्रतिपत्तिमन्तरेण तदप्रतिपत्तेश्च । मतश्चावश्यं संबन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथा च न संबन्धवाचकत्वं, संबन्धिप्रतिपत्यैव वाक्यार्थप्रतिपत्ति न्यायेन तत्प्रतिपत्तिसंभवे तत्र शक्तिकल्पने गौरवात् । यथाद्दुःसर्वत्र यौगिकैः शब्दैर्द्रव्य मेवाभिधीयते । 15500 नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ इति । 08तथाCONCENTR पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽध्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ॥ इति । तथाच समाख्या न संबन्धवाचिका । 'होतृचमस' इत्यादिका तु वैदिकी न्धं व्यवच्छेत्तमित्यवश्यं सोऽप्यभिवातव्यः । न चैकस्मिन् सम्वन्धिनि सम्बन्धी व्यवतिष्ठते । न च तन्मात्राभिषाने नोभयनिष्ठस्सम्बन्धोऽवगन्तुं शक्यत इत्यपरोऽपि सम्बन्ध्यभिधेयः । तत्र गोमानित्यादौ गोशब्देनैको गोरूपस्सम्बन्ध्यमिधीयते, द्वितीयस्य तु न कश्चि• दभिधाता दृश्यते । अतश्च सम्बन्धविशेषमभिदधता मतुपा तद्वन्तमेकमनुक्त्वा सम्बन्धविशेषमभिधातुमशक्नुवता अवश्यं द्वितीयोऽपि सम्बन्ध्यभिधातव्यः । ततश्च तमभिः घाय पुनस्सम्बन्धाभिघानेऽत्यन्तं गौरवमिति । तदुक्तौ सम्बन्धसामान्योक्तौ । तदन्तरेण सन्बन्धिनावन्तरेण । विशेषाभावादिति । भूतले घटः, आकाशे शब्दः, इत्यादौ संयोगसमवायादिसम्बन्धानां तत्तत्सम्वन्ध्येकनिरूप्यत्वादिति भावः । तत्प्रतिप्रत्तिमन्तरेण सम्वन्धिप्रतिपत्तिमन्तरेण । वाक्यार्थप्रतिपत्तिन्यायेनेति । यथा वाक्ये पदार्थानां परस्परसम्बन्धी वाचकशब्दं विनैव समभिव्याहारादेव भासते तद्वदत्रापि प्रकृतिप्रत्यययोः समभिव्याहारबलादेव सम्बन्धप्रतीतिभविष्यतीत्यर्थः । अत्र वार्तिकं प्रमाणयतिसर्वश्रेति । स्पष्टोऽर्थः । पाकन्विति । पाचक इत्यत्र पचिधातुः पाकं ब्रूते, तदुत्तरं श्रयमाणः कर्त्रर्थकरावल्प्रत्यया देशभूतोऽक इत्यंशः कर्तारं ब्रूते । तयोस्सम्बन्धस्तु न केनाप्युच्यत इत्यर्थः । प्रकृतिप्रत्यययोः सम्बन्धबलादेव तस्य प्रतिपत्तिसम्भवादिति भावः । समाख्यायास्सम्बन्धावाचकत्वमुपसंहरति-तथा चेति । एवं सामान्यतस्समाख्यायाः सम्बन्धावाचकत्वमुपवर्ण्य तद्विशेषभूतयोलौंकिक वैदिकयोस्समाख्ययोः तत् सङ्गमयितुकामः प्रथमं वैदिकसमाख्यायां तत् सङ्गमयति-होतृचमस इति । तुशब्दो ह्यथें । निषादेति । "एतया निषादस्थपति याजयेत्" इत्यत्र निषादानां स्थपतिः इति षष्ठीतत्पुरुषो वा निषादश्बासौ स्थपतिश्चेति कर्मधारयो वेति सन्दिह्य षष्ठीतत्पुरुषाङ्गी कारे पूर्वपदे सम्बन्धिलक्षणाशीकरणापत्तिरूपं दोषमुद्भाव्य तदपनुत्तये कर्मधारयसमासाभ्युपगभ एव श्रेयानिति सिद्धान्तितं षाष्ठप्रथमे । तेन निश्चीयते-निषादस्थपतिशब्दो न षष्ठ्यर्थसम्बन्धवाचीति । एवञ्च यथा निषादस्थपतिशब्दः लक्षणाकल्पनादिरूपगौरव भिया नः षष्ठ पर्थसम्बन्धवाचकः एवं होतृचमसशब्दोऽपि न षष्ठ्यर्थभूतसम्बन्धवाचक इत्यर्थ: । Bhandarkar Oriental निरूपणम् ] सारविवेचिमोव्याख्या संवलितः समाख्या निषादस्थपतिशब्दवन षष्ठयर्थ संबन्धवाचिका । नापि वाक्यवत्तद्रोधिका, तस्याः पदत्वेनाप्रमाणत्वात् । पौरोडाशिक मित्यादिस माख्यास्त्वतिदुर्बलाः, लौकिकत्वेन पुरुषप्रत्ययसापेक्षत्वात्; काण्ड गोचरत्वेन तत्तत्पदार्थागोचरत्वाञ्च । काण्डवाचकत्वमपि न काण्डत्वेन, किंतु पौरोडाशिकत्वादिनैव । न ह्येकहायनोशब्दो द्रव्यवाचकोऽपि गोत्वेन (१) तद्वदति, किं तर्हि ? एकहायनीत्वेनैव । स्थानविनियोगे तु पदार्थयोर्विशेषपुरस्कारेणैव संबन्धः प्रत्यक्षप्रमाण- प्रतिपन्नः । मतश्च समाख्यामुपलभ्य नूनमनयोः पदार्थयोः संबन्धोऽस्तीति यावत्कल्प्यते तावत्प्रत्यक्ष प्रतिपन संबन्धेत परस्परमाकाडा, तदभावे च संबन्धानुपपत्तेः; कल्पितसंबन्धेन च यावदितरत्राकाङ्क्षादि (२) कल्पना तावद- न्यत्राकाङ्क्षया वाक्यादिकल्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य समाख्यातः प्राबल्यम् । श्रत एव शुन्धनमन्त्रः सान्नाय्यपात्राङ्गं, पाठसादे श्यात्; न तु पौरोडाशिक समाख्यया पुरोडाशपात्राङ्गमिति ॥ ननु वाचकत्वाभावेऽपिवाक्यार्थस्य वाक्यावाच्यस्य यथा वाक्यतः प्रतीतिरभ्युपगम्यते, एव पदावाच्यस्यापि पदबोध्यत्वमस्तु, नापीति । तद्बोधिका सम्बन्धबो. घिका । तस्याः समाख्यायाः। पदत्वेनेति । प्रमाणाधीनत्वात् बस्तुसिद्धेः केवल स्य पदस्य शाब्दबोधरूपत्रमित्यजनकत्वेन प्रामाण्यासम्भवादिति भावः । एवं वैदिक्यां समाख्यायां सम्बन्धावाचकत्वं सज्ञमय्येदानीं लौकिक्यां तत्सङ्गमयति-पौरोडाशिकमिति । पौरोडाशिकम्, हौस्त्रम्, श्रध्वर्यवम्, इत्यादिकास्समाख्या याज्ञिकैरेव पुरुषैः कल्पि ताः । श्रतस्तदर्थनिश्चयायं तत्कल्पकपुरुषीयज्ञानयाथार्थ्यनिश्चयोऽपेक्षणीयः । अतः प्रमाणान्तरसा पेक्षत्वान्न झटिति निश्चयमादण्यादिति भावः । काण्डगोचरत्वेनेति । काण्डविशेषस्यैव तादृशसमाख्या विशिष्टत्वादिति भावः । ननु पौरोडाशिकत्वेनापि काण्ड एव गोचरीभवतीति को विशेषः ? तह-नहीति । द्रव्यवाचकोऽपीति । एकहायनी शब्दस्य बहुव्रीहित्वात् तस्य चान्यपदायें शक्त्यङ्गीकारादिति भावः । एकहायनीत्वेनैवेति । एतादृशस्थले वाथ्यस्य द्रव्यस्वरूपस्य मैदाभावेऽपि प्रवृत्ति निमित्त भे दमादायैव सहप्रयोग उपपादनीयः । अन्यथा पर्यायत्वापत्तेरे कहायन्या गवा सोमं क्रीणातीति सहप्रयोगो न स्यादिति भावः । इतरत्र समाख्यास्थले । अन्यत्र स्थानविनियोगे । शुन्धनमन्त्रः 'शुन्धध्वं दैव्याय कर्मणे देवयज्यायै' इति मन्त्रः । पौरो. डाशिकमिति समाख्याते मन्त्रकाण्डे सान्नाय्ययागाङ्गसन्निधौ शुन्धध्वमिति मन्त्र श्राम्ना तः । स पाठसा देयरूपात् स्थानात् सान्नाग्यसम्बन्धिपात्रप्रोक्षणाङ्गमित्यर्थः । पात्राङ्गं पात्रश्रोक्षणाम् । कुम्भी, शांखापवित्रम्, अभिधानी, दोहनपात्रमित्यादीनि खान्नाय्यपात्राशि। उलूखलम्, मुसलम्, कृष्णजिनम्, हृषदुपले, इत्यादीनि पुरोडाशपात्रणि । ( समाख्या निरूपणम् ) जिस्विन Bhandarkar Oriental rch Insti एवं स्थानगतं समाख्यातः प्राबल्यं निरूप्येदानीं समाख्यां निरूपयति समाख्ये. १. द्वदिता २. कल्प्यते मीमांसान्यायप्रकाशः [ समाख्या(समाख्यानिरूपणम् ) समाख्या यौगिकः शब्दः । सा च द्विविधा-वैदिकी लौकिकी चेति । तंत्र होतुः चमसभक्षणाङ्गत्वं 'होतृचमस' इति वैदिक्या समाख्यया । श्रध्व यस्तत्तत्पदार्थाङ्गत्वं लौकिक्या 'आध्वर्यव'मितिस माख्ययेति संक्षेपः । तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि । ति। वैदिकी। वेदे श्रुता । लौकिकी याशिकसम्प्रदायसिद्धा । श्रुत्यादिनिरूपणमुपसंहरति - तदेवमिति ॥ एवं श्रुत्योर्विरोधे-ऐन्द्रीमन्त्रस्यैव तद्धितश्रुत्या प्राप्तमिन्द्राङ्गत्वं बाधित्वा तृतीयाश्रुत्या प्रबलया गाईपत्याङ्गत्वम् । लिङ्गयोर्विरोधे– मुख्यसामर्थ्येन गौणसामर्थ्यस्य बाघः, यथा- 'बर्हिर्देवसदनं दामी' त्यत्रैव गौणसामर्थ्यप्रासमुल पराजिलवनानत्वं बाधित्वा मुख्यसामथ्र्येंन बर्हिलवनाङ्गत्वम् । वाक्ययोर्विरोधे- ''सरा वा एषा यशस्य । 'तस्मात् यत्किञ्चित्प्राचीनम ग्नोषोमीयात् तेनोपांशु चरन्ति' इत्यत्रोपांशुत्वस्य व्यवहितयज्ञपदसम्बन्धरूपं वाक्यं बाधित्वा सन्निहितयत्किञ्चिरपद सम्बन्धरूपात् वाक्यात् भागधर्मत्वम् । क्रमयोर्विरोधे-काम्येष्टिकाण्डपठितयोर्द्वयोर्याज्ययोरिन्द्राग्नि देवतयोरसन्निधानाविशेषादैन्द्राग्नद्वयाङ्गत्वमनियमेन प्राप्स्यमानं बाधित्वा यथासंख्यपाठात् प्रथमस्य प्रथ माङ्गत्वम्, द्वितीयस्य द्वितीयाङ्गत्वम् । समाख्ययोर्विरोधे- श्राध्वर्यवमिति सामान्यसमाख्यां बाधित्वा याजमान मिति विशेष समाख्यया याजमानेषु पदार्थेषु यजमानकर्तृत्वम् । एवं श्रुतिवाक्ययोर्विरोधे- श्रारुण्यस्य वाक्यादेकहायन्यङ्गत्वं प्राप्स्यमानं बाधित्वा तृतीयाश्रुत्या क्रयाङ्गत्वम् । 50 1135 श्रुतिप्रकरणयोर्विरोधे- 'एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्य' इत्यादीनां स[मिधेन्यनुवचनानां प्रकरणाद्दर्शपूर्णमासाङ्गत्वं बाधित्वा षष्ठीश्रुत्या प्रतिष्ठादिरूपफलार्थत्वम्॥ श्रुतिक्रम योर्विरोधे-रशनाधर्माणां त्रिवृत्त्वदर्भमयीत्वादीनां क्रमादग्नीषोमीया- सत्वं बाधित्वा श्रुत्या यूपाजत्वम् ॥ IPRE TH श्रुतिसमाख्ययोर्विरोधे- पौरोडा शिकमिति समाख्याते दर्शपूर्णमासकाण्डे पठि तानां 'इषे त्वे'त्यादीनां समाख्यया पुरोडाशाङ्गत्वं बाधित्वा 'इषे त्वेति शाखां छिन- त्ति' इतीतिकरणरूपया श्रुत्या शाखाछेदनाङ्गत्वम् ॥ एवं लिङ्गप्रकरणयोर्विरोधे- पूषानुमन्त्रणमन्त्रणां प्रकरणात् दर्शपूर्णमासयागा- जत्वं बाघित्वा लिङ्गात् पूषयागाङ्गत्वम् ॥ NSTITUR POONA 1917 लिङ्गस्थान योर्विरोधे- ज्योतिष्टोंमप्रकरणे भक्षावांन्तरप्रकरणे भुतयोः भक्षणा- र्थानुज्ञापनानुज्ञार्थयोर्मन्त्रयोः 'उपहूत उपयस्वे' स्यनयोः क्रमात प्रथमस्यानुशापना. र्थत्वे द्वितीयस्य चानुज्ञार्थत्वे प्राप्ते तद्बाधित्वा लिशात् द्वितीयस्यानुज्ञापने प्रथमस्य चानुज्ञायां विनियोगः ॥ kar rch निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः दर्शपूर्णमासापतत्सहकृतेन विनियोगविधिना-समिदादिभिरुपकृत्य भ्यां यजेते-त्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि सिद्धरूपाणि क्रियारूपाणि चेति । तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्थान्येव । क्रियारूपाणि च द्विविधानि-गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव सन्निप लिङ्गसमाख्ययोर्विरोधे-भक्षानुवाकान्तर्गंतानां 'अश्विनोस्त्वा बाहुभ्या सध्यास' मित्यादीनां समाख्यया प्राप्तंभक्षाङ्गत्वं बाधित्वा लिनेभ ग्रहणावेक्षणादौ विनियोगः । ८१ एवं वाक्यक्रमयोर्विरोधे-'युवा सुवासाः परिवीत श्रागात् स उ श्रेयान् भवति जायमानः' इति ग्रूपपरिव्याणाङ्गभूतस्य मन्त्रस्य स्थानादग्नीषोमीयाङ्गत्वे प्राप्ते तद्बाधित्वा परिवीतपदैकवाक्यत्वात् सवनीयपश्वङ्गत्वम् । वाक्यसमाख्ययोर्विरोधे- ज्योतिष्टोमादिप्रधानानामाध्वर्यवसमाख्यया अध्वर्युक तृकत्वे प्राप्ते तद्बाधित्वा स्वर्गकामादिपदैकवाक्यत्वादर्थिमात्र विषयत्वम् ॥ एवं प्रकरणसमाख्ययोर्विरोधे- पौरोडाशिककाण्डपठितानां प्रयाजादीनां समाख्यया पुरोडाशमात्राङ्गत्वे प्राप्ते तद्बाधित्वा प्रकरणात् सर्वदर्शपूर्णमासार्थत्वम् । एवमनेकस्य शेषस्यैकशेषिणं प्रति विनियुज्यमानस्यापि प्रमाणान्युदाहरणीयानि, एतत्सर्वे वार्तिकादौ सभ्यनिरूपितं तत एवावगन्तव्यम्, विस्तरभयात्तु नेह प्रतन्यत इत्याशये. नाइ - सङ्क्षेपत इति । एतत्सहकृतेन । श्रुत्यादिप्रमाणषट्कविशिष्टेन । समिदादिभिः । 'समिधो यजतो त्यादिवाक्यविहितैः प्रयाजानूयाजादिभिः । एवंरूपेणेति । यद्यपीदं न प्रयोगवि घिस्वरूपम् श्रज्ञविध्येकवाक्यतामापन्नः प्रधानविधिरिति प्रयोगविधिस्वरूपमभिघास्यति ग्रन्थकारोऽप्यनुपदमेव । तथापि तैस्तैः प्रातिस्विकविधिभिः श्रुत्यादिसहकृतैः तत्र तत्र विनियुक्तस्याजकलापस्य प्रयोगविघिरनुष्ठापकोभवतीत्याशयेनेदम् । जातिद्रव्य संख्यादीनीति । जातिः ब्राह्मणत्वादिः । द्रव्यं व्रीत्यादि, संख्या एकत्वादिः, आदिपदेन अरुणादिगुणस्य पुंस्त्वादेलिंजस्य च परिग्रहः । दृष्टार्थाभ्येवेति । तैः क्रियानिर्वृत्तिरूपदृष्टप्रयोजनस्यैव जननादिति भावः । क्रियारूपाणि विभजतेक्रियारूपाणि चेति । गुणकर्माणोति । गुणभूतानि कर्माणि गुणकर्माणि इति मध्यमपदलोपिसमासः । एवं प्रधानकर्माणीत्यत्रापि । गुणकर्मणि द्रव्यस्य प्राधान्यं कर्मणो गुणत्वम्, यथा 'व्रोहीनवहन्ती'त्यत्र बीहीणां प्राधान्यं अवहननस्य तदङ्गता । प्रधानकर्मणि कर्मणः प्राधान्यं द्रव्यस्य गुणत्वम्, यथा-प्रयाजादौ कर्मणः प्राधान्यं आज्यादेस्तदङ्गता । यथाह सूत्रकार:-"तानि द्वैधं गुणप्रधानभूतानि यैद्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि । द्रव्यस्य गुणभूतत्वात् । यैस्तु द्रव्यं चिकीयेते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात्" इति । एतान्येवेति । यानि क्रियारूपाणि गुणकर्मप्रधानकर्माणि तान्येवेत्यर्थः । सन्निपस्येति । सन्निपत्य द्रव्यादिषु ११मो० न्या० ८२ मोमांसान्यायप्रकाशः [ श्रज्ञस्योपकार काण्यारा दुपकारकाणीति चोच्यन्ते । तत्र कर्माङ्गद्रव्याधुद्देशेन विधोयमानं कर्म सन्निपत्योपकारकम् । यथा-श्रवघातप्रोक्षणादि । तच्च दृष्टार्थमदृष्टार्थ दृष्टादृष्टार्थं च । दृष्टार्थमवघातादि । अदृष्टाथं प्रोक्षणादि । द्वष्टादृष्टार्थ पशुपुरोडाशयागादि । तद्धि द्रव्यस्यागांशेनादृष्टं देवतोद्देशेन च देवतास्मरणं द्वष्टं करोति । इदमेव चाश्रयिकर्मेत्युच्यते । तश्च सन्निपत्योपकारकं द्विविधम्-उपयोक्ष्यमाणार्थमुपयुक्तार्थ चेति । तत्रावघातप्रोक्षणादि उपयोक्ष्यमाणार्थम्, व्रोहोणां यागे उपयोक्ष्यमाणत्वात् । प्रतिपत्तिकर्म इडाभक्षणदि उपयुक्तपुरोडाशादिसंस्कारकम् । उपयुतस्या (१) कीर्णकरतानिवर्तकं कर्म प्रतिपत्तिकर्म । संबध्य उपकुर्वन्तीति सन्निपत्योपकारकाणि । आरादुपकारकाणीति । श्रारातू साक्षात् द्रव्यादिसंबन्धमन्तरा उपकुर्वन्तीत्यारादुपकारकाणि । तत्र सन्निपत्योपकारकारादुपकारकयोर्मध्ये । प्रोक्षणादीत्यादिपदेन स्विष्टकृत्पशु- पुरोडाशयागेडाभक्षणादयो गृह्यन्ते । सन्निपस्योपकारकं विभजते- तश्चेति । दृष्टः प्रत्यक्षावगतः अर्थः प्रयोजनं यस्येति विग्रहः । अदृष्टार्थमिति । अदृष्टं अपूर्व अर्थः प्रयोजनं यस्येति विग्रहः । अवघातादीत्यादिपदेन पेषणसंयवनादयो गृह्यन्ते । प्रोक्ष- गादीत्यादिपदेन पात्राग्निपरिधि सम्मार्गपर्य ग्निकरणादयो गृह्यन्ते । सम्मार्गादयो हि पूर्व- शोधितेष्वेव पात्रेषु पुनः क्रियते । अतस्तत्र केवलमदृष्टमन्तरा न किञ्चित् दृष्टं प्रयोजन- मस्तीति भावः । पशुपुरोडाशेति । पशुयागाङ्गभूतः यस्तद्देवताकः पुरोडाशयागस्स इत्यर्थः । पशुपुरोडाशयागादीत्यादिपदेन स्विष्टकृद्वाजिनयागादयो गृह्यन्ते । कथमे- षामुभयार्थता ? तदुपपादयति-तद्धीति । श्रस्ति यागादौ अंशत्रयं-उद्देशांशः, त्यागां- शः, प्रक्षेपांशश्चेति । उद्दिश्य हि काञ्चन देवतां हविस्त्यज्यते । त्यक्तस्य द्रव्यस्य विहित- देशे अग्न्यादौ प्रक्षेपश्च क्रियते । तब पशुपुरोडाशयागादौ त्यागांशेनादृष्टं परमुत्या- द्यते न किश्चित् दृष्टं प्रयोजनम् । उद्देशांशेन पूर्व वपायागे उपयुक्तायाः हृदयाद्यङ्गयागे चोपयोपमाणायाः देवतायाः स्मरणरूपं दृष्टं प्रयोजनमुत्पाद्यते । पुरोडाशयाग काले स्मृताया देवतायाः हृदयाद्यज्ञयागकाले शीघ्रोपस्थितिसम्भवादिति पुरोडाशयाग: दृष्टाह- ष्टरूपोभयप्रयोजनकत्वात् दृष्टादृष्टार्थ इत्यर्थः । उभयार्थसन्निपत्योपकारकस्य नामान्तरं ज्ञापयति- इदमेव चेति । यत् दृष्टादृष्टार्थ कर्मानुपदमुक्तं तदेवेत्यर्थः । यथाहुः पार्थ- सारथिमिश्रा:- दृष्टादृष्टं च किचित् कर्म, यदाश्रयिशब्दाभिधानायकं भजते, यथा पशुपुरोडाशयाग इति । एवञ्च 'इदमेव च सन्निपत्योपकारकमेव च न त्वारादुपकारकमित्यर्थः' इति सन्निपत्योपकारकस्य निखिलस्यापि आश्रयिकर्मत्वं वदन् अर्थसङ्ग्रहव्याख्याता निरस्तो वेदितव्यः ॥ NSTITUT सन्निपस्योपकारकमङ्गं बिभजते- तश्चेति । उपयोक्ष्यमाणार्थमिति । उत्तर यागे उपयोक्ष्यमाणं यत् ब्रीह्यादि तदर्थमित्यर्थः । तदेवोपपादयति - श्रीहीणामिति । आकीर्ण करतानिवर्त्तकमिति । श्राकीर्णं संकीर्ण व्याप्तं करोतीत्या कीर्णम्, तत्ता १ कीर्णतानिव. 1917 Bhandai Research Institute निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः ६३ उपयुक्तसंस्कारार्थं च (१) कर्म उपयोदयमाणसंस्कारार्थात् दुर्बलम्, उपयुक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात् । अत एव 'प्रायणीयनिष्कास उदयनीयमभिनिर्वपतो' त्यत्र निष्कासस्य निर्वापार्थत्वम्, न तु तस्य तदर्थत्वम्, निष्कासस्योपयुक्तत्वादित्युक्तमेकादशे । तच्च सन्निपत्योपकारकमारादुपकारकाद्वतीयः । नन्ववघातादि भवतु आकरता, तन्निवर्त्तकमित्यर्थः । पुरोडाशादिर्हि प्रधानयागाद्यर्थमुत्पादितो निर्वृत्ते यागे निर्वृत्तप्रयोजनः श्रवशिष्टांशे कार्यान्तरमपेक्षमाणः उपरितन कार्योपयुक्तं स्थानं व्याप्नुवन् किमस्यावशिष्टस्थ कार्यमिति मनो वा विक्षिप्तं कुर्वन् तिष्ठति, तस्य हि कार्यान्तरे इडाभक्षणादौ विहिते स विक्षेपो निवर्त्तते इति । उपयुक्तसंस्कारार्थं च कर्मेति । यदुपयुक्तं पुरोडाशादिकं संस्करोति तत्कर्मेत्यर्थः। उपयोदय माणसंस्कारार्थादिति । कर्मण इति शेषः । क्वचित् पुस्तकेषु कर्मपदं नास्ति । तदा एवं व्याख्यातव्यं दृष्टान्तानुरोधेन च । उपयुक्तसंस्कारार्थं चेति । उपयुक्तसं स्कारार्थत्वमित्यर्थः । एव मुत्तरत्रापि संस्कारार्थादिस्यस्य संस्कारार्थत्वादित्यर्थः । एवं च सन्निपश्योपकारकनिष्ठं यदुपयुक्त संस्कारार्थत्वं तस्य तन्निष्ठोपयोक्ष्यमाण संस्कारार्थत्वापेक्षया दौर्बल्यमिति फलितम् । भावप्रधान निर्देशमाश्रित्यार्थान्तपदयोरेवमेवार्थो वर्णनीयः, अन्यथा दृष्टान्तासङ्गतेः । अत एव उपयोक्ष्यमाणसंस्कारार्थत्वापेक्षया उपयुक्तसंस्कारार्थत्वस्य दौर्बल्यादेव । प्रायणोयनिष्कास इति । स्तो ज्योतिष्टोमे प्रायणीयोदयनीयसंज्ञकाविष्टिविशेषौ । तत्र द्वितीय दिनानुष्ठेयप्रायणीयार्थश्चरुः यस्मिन् पक्कः तत्पात्रीप्रक्षा• लनजल सावशेषलेपं तथैव स्थापयित्वा तस्मिन्नेव जले अवभृथानन्तरं कर्त्तव्याया उदयनीयेष्टेः चरुनिर्वापणं कार्यमिति विषयवाक्यार्थः । अत्र यः प्रायणीय निष्कासाधिकरएक उदयनीयचरु निर्वापः स प्रायणीयहविस्संस्कारकः ? उतोदयनीयह विस्संस्कारकः १ इति संदिह्य प्रायणीयनिष्कासस्य कृतार्थस्य प्रतिपत्तिसाकाङ्क्षस्येयं प्रतिपत्तिरुपदिश्यत इति पूर्वपक्षयित्वा उपयुक्तसंस्कारस्वापेक्षया उपयोक्ष्यमाणसंस्कारत्वस्य प्राबल्यात् निर्वापार्थत्वमेव निष्कासस्य इति राद्धान्तः कृतः । (२) तस्य निर्वापस्य । तदर्थत्वं निष्कासार्थत्वम् । तत्र कारणमाह- उपयुक्तत्वादिति । एकादश इति । द्वितीय चरणान्स्य इति शेषः । CA तश्चेति । त्रिविधमपीत्यर्थः । ननु नसन्निपत्योपकारकस्य तत्त्वेन प्राबल्यम्, आरा दुपकारकस्य वान स्वरूपतो दौर्बल्यम्, किन्तु तयोः दृष्टफलजनकत्वतदजनकत्व कृते प्राबल्यदौर्बल्ये वक्तव्ये। तथा च दृष्टार्थानां सन्निपत्योपकारका णामदृष्टार्थारादुपकारका. पेक्षया प्राबल्ये सिद्धेऽपि नादृष्टार्थ सन्निपत्योपकारकाणामारादुपकारकापेक्षया प्राबल्यं १. क्वचिद् कर्मेति नास्ति । JEZ २. यत्वत्र महामहोपाध्यायश्री वासुदेवाभ्यकरशास्त्रिमहोदयैः प्रभाख्य एतव्याख्याने चातुर्मा. स्ये वरुणप्रधासे कर्मणि प्रायणीयनाम के दिवसे आमिक्षापात्र यवपिष्टमय मेषमवदाय हुत्वा भाण्डलिप्तो य श्रामिक्षावशेषः तन्त्रोदयनीयनिर्वापः श्रतः । उदयनीयश्चान्तिमो दिवसः इत्याचक्तम्, तत् सर्वमभि त्तिचित्रायितम् । न हि वरुणप्रघासे प्रायणीयोदयनीयौ स्तः । न वा तत्रामिक्षावशेष उदयनीय निर्वापअतः । प्रायणीयोदयनीययोज्योतिष्टोम एव विधानात्' अतोनिर्मूलमेवेदं कथनम् । Research Institute rka ६४ भीमांसान्यायप्रकाशः [ श्रमस्वरूपबलोयः, तस्य द्वष्टार्थत्वात्; मारादुपकारकस्य चादृष्टार्थत्वात्, दृष्टे संभवत्यदृष्ट कल्पनस्यान्याय्यत्वात् । प्रोक्षणादि सन्निपत्योपकारकं तु कथं बलोयः; उभयोरदृष्टार्थत्वाविशेषात् । , किञ्च भारादुपकारकं साक्षात्प्रधानाङ्गम् तस्यान्योद्देशेनाविधानात् । सन्निपत्योपकारकं तु श्रृङ्गाङ्गम् । कर्माङ्गमी ह्या घुद्देशेन विधानात् । श्रङ्गाङ्गा पेक्षया च साक्षादङ्गं बलीयः । 'अङ्गगुणविरोधे च तादर्थ्यात्' इति न्यायात् । अत एव 'य इष्टया पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेत' इत्यविशेषविधानेऽपि पर्वानुग्रहः सोमयागस्यैव क्रियते, न तु दीक्षणीयादेः । अतः कथं सन्निपत्योपकारकस्य बलीयस्त्वम् । उच्यते - सत्यप्यदृष्टार्थत्वाविशेषे सन्निपत्योपकारकमारा दुपकारकाद्व. लोयः । सन्निपत्योपकारके हि कर्मणि उपकार्योपकारक योवहिप्रोक्षणयोः संबन्धो वाक्यक्लृप्तः । उपकारमात्रं तु कल्प्यम् । श्रारादुपकारकस्थले तु सम्भवतीति कथं सन्निपत्योपकारकत्वावच्छेदेन प्राबल्यमुक्तमिति शङ्कते–नन्विति । श्रवघातादीत्यादिपदेन दृष्टार्थसन्निपत्योपकारकाण पेषणश्रपणादीनां ग्रहणम् । उभयोः प्रोक्षणादिसन्निपत्योपकारकारादुपकारकयोः । ननु उभयोरदृष्टार्थस्वाविशेषेऽपि द्वितीयाश्रवणात् द्रव्यप्राधान्यावगतेः तंद्वलेन भवतु सन्निपस्योपकारकस्य प्रावल्यम्, अस्तु वा अदृष्टार्थत्वाविशेषादुभयोः समबलत्वमित्याशङ्कय तदपि न सम्भवतीत्याह- किञ्चेति । अङ्गगुणेन प्रधानगुणस्य विरोधे सति प्रधानगुणानुग्रह एव न्याय्यः, तस्य प्रधानार्थत्वात् इति सूत्रार्थः । य इष्टयेति । अत्र इष्ट्यादीन् यजिनानूद्य वैकल्पिकं कालद्वयं विधीयते । वाशब्दश्रवणाच न वाक्यभेदः, श्रात्मने वा यजमानाय वा यं कामं कामयते तमुद्गायेदितिवत् । श्रविशेषविधानेऽपीति । इष्टेः पशोरङ्गभूतयोः, सोमयागस्य च प्रधानभूतस्य अविशेषेण पर्वरूपकालविधान इत्यर्थः । न तु दीक्षणीयादेरिति । श्रयमन्त्र विषयः-सोमयागे प्रथमदिने कर्त्तव्या दीक्षणीयेष्टिः, चतुर्थदिने कर्तव्योऽग्नीषोमीयः पशुयागः । 'य इष्टयेति' बाक्येन च विकृतीष्टिपश्वादांवेव सद्यस्कालता विधीयते, न तु प्रकृतौ । तस्याः द्वयहकालाबरुद्धत्वादिति निर्णीतं पञ्चमे । एवञ्च दीक्षणीयेष्टिपश्वादेः पर्वकालेऽनुष्ठाने कृते प्रधानस्य सोमयागस्य पञ्चभ्यां प्रतिपदिं वा अनुष्ठानापत्तेः पर्वकालबाधः स्यात् । यदि प्रधानस्य पर्वकालानुग्रहः क्रियेत, तदा दीक्षणीयायास्ततः पूर्वमेकादश्यामनुष्ठानापत्तेः, पशोध चतुर्दश्यामनुष्ठानप्रसक्तेस्तयोः कालो बाभ्येत । किमत्र युक्तमिति संदिह्य, प्रधा नस्यैव कालानुग्रहो न्याय्यः, न स्वङ्गानाम् । अतश्चैकादश्यादौ दीक्षणीयादिक मनुष्ठाय पर्वणि सोमयागोऽनुष्ठेय इति सिद्धान्तितम् । एवं च प्रधानाङ्गभूतस्यारादुपकारकस्यैव प्राबल्ये वक्तव्ये तत्परित्यज्य अङ्गासन्निपत्योपकारकस्य कथं प्राबल्यमुच्यत इत्याक्षेपमुपसंहरति - अत इति । POONA FOUNDED 1917 सम्बन्धः श्रृङ्गाङ्गिभावः । वाक्यक्लृप्स इति । ब्रीहिप्रोक्षण योरेकवाक्योपादानरूपात्सममिव्याहारास्सिद्ध इत्यर्थः । कल्भ्यमिति + परस्परमुपफार्योपकारकत्वाभावे एकBhandarkar Oriental निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः (१) दर्शपूर्णमासप्रयाजयोः संबन्धः कल्प्यः, उपकारोऽपि । किं च आरादुपकारकस्थले हि प्रकरणं विनियोजकम्, इतरत्र तु 'श्रीहीनू प्रोक्षती' ति वाक्यमेव । ब्रोहिपदेनापूर्वसाधनलक्षणां कृत्वा कृतौ विनि योजकमिति बलीयस्त्वम् । (२) यदुक्तम्-अङ्गगुराविरोधे च तादर्थ्यात्' इति न्यायेन दुर्बलत्वमिति, तदसत्; नहि ब्रोह्याद्युद्देशेन विधोयमानं प्रोक्षणादि तदर्थं भवति, तत्स्वरूपे आनर्थक्यात्, किन्तु तत्संस्कारद्वारा क्रत्वर्थमेव, सन्निपत्योपकारकाणामु त्पत्यपूर्वप्रयुक्तत्वस्य वक्ष्यमाणत्वात् । अत उभयविधमध्यङ्गजातं क्रत्वर्थमेवेति नाङ्गगुणबिरोधन्यायावतारः । दीक्षणीयादे: पर्वानुग्रहस्तु दोक्षणीया द्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात्प्रधानाङ्गेन प्रधानपर्वा नुग्रहेण स बाध्यत इति । तत्सिद्धं सन्निपत्योपकारकस्थारादुपकारकाद्वलीयस्त्वम् । मतपवे "स्थागौ स्थाण्वाहुतिं जुहोती" ति विहिता स्थाण्वाहुतिः यूप. वाक्योपादानमनुपपन्नं स्यादित्येकवा क्योपादा नान्यथानुपपत्या कल्प्यमित्यर्थः । दर्शपूमासप्रयाजादेरिति । दर्शपूर्णमासयोः प्रयाजादीनाञ्चेत्यर्थः । कल्प्य इति । तयोः मिन्नस्थले पाठात् समभिव्याहाराभावेन प्रकरणपाठान्यथानुपपत्या परं सम्बन्धः कल्प्य इत्यर्थः । उपकारोऽपीत्यनन्तरं कल्प्य इत्यनुषज्यते । एवं च उभयकल्पनापेक्षया एककल्पनाया लघीयस्त्वेन सन्निपत्योपकारकस्यैव प्राबल्यमायातमिति भावः । ननु आरादुपकारकस्थलेऽपि उपकार्योपकारकयो रेकप्रकरणपाठरूपादधिकाराख्य प्रकरणात् सम्बन्धः क्लृप्त एव । अन्यथा आग्नेयीन्यायोच्छेदापत्तेः; तत्र हि माग्नेय्या श्राग्नीध्रमुपतिष्ठत' इत्यत्र प्रकृतामकृतसाघारण्येन सर्वासामग्निदेवताकानामृचां ग्रहणं उत प्रकरणपठिताना माग्नेयीनामेवेति संदिह्य प्रकृतापूर्वसाघनत्वस्य प्रकृतासु क्लृप्त • त्वेनोपकारस्य क्लतत्वात् द्वारमात्रस्य कल्पनीयत्वात् प्राबल्यम् । श्रप्रकृतानां तु उपकारद्वारयोरुभयोरपि कल्प्यत्वात् दौर्बल्यमिति प्रकृतानामेव ग्रहणमित्युक्तम् । श्रतः कालात्ययापदिष्टोऽयं हेतुरित्यस्वरखादाह - किञ्चेति । इतरत्र सन्निपत्योपकारकस्थले । वाक्यमेवेति । अत्र समभिव्याहारमात्रेणाप्यङ्गत्वबोधने प्रकृतकार्यसिद्ध्या सत्या अपि द्वितीयाश्रुतेरप्रयोजकत्वमभिप्रेत्येदमुक्तमिति ध्येयम् । बलीयस्त्वमिति । सन्निपत्योपकारक स्येति शेषः । दृष्टान्ते प्रकृतवैषम्यं निरूपयति- यदिति । तदर्थमिति । तन्मात्रार्थमित्यर्थः । व्रोद्दिस्वरूपम।त्रोद्देशेन विहितमिति यावत् । ऋत्त्वर्थमेवेति । यद्यप्यस्ति सन्निपत्योपका रकारादुपकारकयोः उत्पत्यपूर्व प्रयुक्तत्व परमापूर्वप्रयुक्तत्वकृतो मेदः, तथापि क्रत्वर्थत्वमु भयोरविशिष्टमित्यर्थः। दीक्षणीयाद्यर्थ एवेति । दीक्षणीयास्वरूपे आनर्थक्यप्रसक्ती तज्जन्योत्पत्यपूर्वार्थत्वस्य स्थापितत्वादिति भावः । 1917 प्रधानपर्वानुग्रहेण । प्रधानभूतसोमयागसम्बन्धिनः पर्वरूपस्य कालस्य योऽनुमः तेन । स दीक्षणीयापर्वानुग्रहः । स्थाणाविति । यूपत्रश्चनापादानभूतः काष्ठविशेषः १. दर्शपूर्णमासयोः प्रयाजानुयाजयोः २. यच्चीक्क. NSTITUTE POONA Karay Bhandarkar Oriental Research Institute ६६ मीमांसान्यायप्रकाशः [ श्रस्वरूप- वश्चनस्थाणुद्वारा यूपसंस्कारार्था, देवदत्तधारितायाः स्रजः शुचिदेशनिधान- मिव देवदत्तसंस्कारार्थम् । न तु स्थाण्वाहुतिरारादुपकारिकेत्युक्तं दशमे इति दिक् ॥ द्रव्योधनुद्दिश्य केवलं विधोयमानं कर्म श्रारादुपकारकम् । यथा(अङ्गानामपूर्वार्थम्वनिरूपणम् ) प्रयाजादि । तदेवं निरूपितं द्विबिधमप्यङ्गजातम् । तच्च न यागादिस्वरूपप्रयुक्तम्, स्वरूपे श्रानर्थक्यात्, तदन्तरेणापि तत्सिद्धेः; किं स्खपूर्वप्रयुक्तमेव । नहि तदन्तरेणापूर्व भवतीत्यत्र किचित्प्रमा गमस्ति, तस्यादृष्टत्वात् । न चैवं प्राधान्याददृष्टत्वाच्च फलप्रयुक्तत्वमेव किं न स्यादिति वाच्यम् । स्थागुशब्देनाभिधीयते । यूपस्य ब्रश्चनं छेदनं यस्मात् वृक्षात् कृतं, स च्छेदनाघोभागा. वस्थितः काष्ठशेषस्स्थाणुः। तद्वारेत्यर्थः । ननु यूपछेदनानन्तरमेव स्थाएवाहुते विहितत्वेन तदानीं यूपसम्बन्धस्यैवाभावात् कथं असम्बद्धे यूपे स्थाण्वाहुतिः संस्कारं जनयेदित्याशङ्कयाह – देवदत्तेति । यथा लोके देवदत्तेन घृतायाः कृतकार्यायाः मालायाः परिशुद्धदेशे निक्षेपादिना सत्कारे कृते देवदत्तोऽभिमनुते-प्रने नाहं सम्यगुपचरित इति । एवं यूपवियुक्ते कृतकार्येऽपि स्थाणौ होमे कृते यूपस्य तत्सम्बन्धित्वमात्रेण तत्र कब्धिसंस्कार उत्सद्यत इत्यर्थः । दशम इति । प्रथमषष्ठ इति शेषः । (श्रज्ञानामपूर्वार्थत्वनिरूपणंम् ) श्रादुपकारकं निरूपयति-द्रव्यादीति । अङ्गनिरूपणार्थ यदारब्धं तानीत्यादिना तदुपसंहरति - तदेवमिति । द्विविधं सिद्धरूपं क्रियारूपं च । ● तथ्य द्विविघमङ्गजातं च । तदन्तरेणापि तादृशमङ्गज (तमन्तरापि तत्सिद्धेः यागादिस्वरूपसिद्धेः । दृष्टार्थसन्निपत्योपकारकस्थले यद्यपि तेनैव तत्स्वरूपनिष्पत्तिः क्रियते, यथा-श्रवघातपेषणादौ, तथापि तस्य फलस्य प्रकारान्तरेणापि सम्भवात् नियमवैयर्थ्यम् । श्रदृष्टार्थसन्निपत्योपकारकस्थले आरादुपकारकस्थले न्य स्वरूपजनकत्वस्याप्यभावाद्विधिवैयर्थ्यमित्याशयः । अपूर्वप्रयुक्तमिति । अपूर्वनिष्ठानुष्ठापकतानिरूपितानुठाप्यतावदित्यर्थः । एवं चात्र प्रयुक्तत्व मनुष्ठाप्यत्वरूपमिति ध्येयम् । तस्य पूर्वस्य । अदृष्टत्वादिति । लौकिक प्रमाणागम्यत्वादित्यर्थः । एवं च श्रङ्गानुष्ठानमन्तरा पूर्वस्योत्पत्तौ प्रमाणाभावेन तदर्थमनुष्ठानावश्यम्भावेन नानर्थ क्यापत्तिरिति भावः । सर्वेषां प्रधानान्वयस्याभ्यहिंतत्वात् प्रधानभूतेन फलेन साकमन्वयमाशङ्कते-नचै वमिति । फलप्रयुक्तत्वमेवेति । अत्र च फलशब्देन प्रधानफल मेवाभिधीयते । एवञ्चयथा दर्शपूर्णमासपदाभिघेयानां षण्णां यागानां स्वर्गफलसम्बन्धः सिद्धान्ते, एवमङ्गानामपि स्वर्गार्थत्वमेव भवतु, न यागीयापूर्वार्थत्वमिति शङ्कितुराशयः । भावनायाः करणाकाङ्क्षायां भावार्थाधिकरणन्यायेन समानपदश्रुत्या घास्वर्थंस्यैष करणत्वेनान्वये जाते तन्मात्रस्य करणत्वं न सम्भवतीति तस्य स्वोपकारजनकपदार्थापेक्षाय सत्यामेव तत्राज्ञानामन्वयश्याभ्युपगमनीयतया तरस्वरूपार्थत्वे पुनरानर्थक्यप्रसक्तौ तदुपस्थापिततजन्याResearch निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः फलभावनायां यागस्यैष करणत्वादङ्गानां च करणानुग्राहकत्वात्तदर्थत्वे (१) बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन (१) स्वापूर्वमेवोपस्थाप्यते, सन्निकर्षात् । दोक्षणीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्यते, विप्रकर्षात् । मतो न तत्प्रयुक्तत्वमङ्गानाम् । मत एव (२) श्रगन्म सुवः सुवरगन्म' इति मन्त्रो विकृतावूहितव्य इत्युक्तं नवमे (३) 'फलदेवतयोश्चे' त्यत्र । फलप्रयुक्तत्वं तु सौर्यादिविकृतिषु स्वर्गरूपफलाभावात् मन्त्रो न प्रवर्तत' नतरां चोहितव्यः स्यादिति । तत्सिद्धमङ्गानामन्य प्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्तत्वम् । तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसंस्कारद्वारा यागस्वरूपे उपयोगा दुत्पत्स्यपूर्वार्थस्वम् । अत एवौषधधर्माणामवघातादीनामाज्ये न प्रवू. त्तिः, तेषामाग्नेयापूर्वप्रयुक्तत्वात्, माज्यस्य च तदर्थत्वाभावादित्युक्तं पूर्वार्थस्वमेव भवितुमर्हति, न साक्षात् फलार्थत्वमिति समाधत्ते - फलभावनायामिति । करणानुग्राहकत्वादिति । करण निष्ठफलजनना नुकूल योग्यता घायकत्वादित्यर्थः । तद् थंत्वे करणीभूतयागार्थध्वे । तत्र यागस्वरूपे । अनर्थकाप्रसक्ताविति । देवतोद्देश्य कद्रव्यत्यागमात्रस्य यागस्यैतादृशाङ्गकलापमन्तरेणाप्युत्पद्यमानत्वेन तत्राङ्गानामुपयोगाभावादिति भावः । स्वापूर्वमिति । साक्षात्परम्परासाधारण्येन स्वजन्यमुस्पत्यपूर्व परमापूर्व चेत्यर्थः । एवश्च स्वजन्यापूर्वत्वेन रूपेणापूर्वस्योपस्थितिरभ्युपगम्यते । तच्चापूर्वं सन्निपत्योपकारकस्थले उत्पत्यपूर्वम्, श्रारादुपकारकस्थले च परमापूर्वमिति विवे तव्यम् । तत्प्रयुक्तत्वं फलप्रयुक्तत्वम् । अतएव फलप्रयुक्तत्वामावादेव । श्रगन्मेति । मन्त्रोऽयं दर्शपूर्णमासप्रकरणे यजमानकाण्डे श्राग्नातो यजमानेन पठनीयः । वयं स्वर्ग प्राप्तवन्त इति तदर्थः । आदराथ द्विर्वचनम् । अस्य च फलप्रयुक्तत्वमुतापूर्वप्रयुक्तत्वमिति संदिह्य फलस्वरूपप्रयुक्तत्वे ताह. शस्वर्गरूपफलस्य सौर्ययागेऽभावात् स्वर्गप्रकाशनरूपद्वाराभावेन श्रुतिदेश एव न स्यात् । कः प्रसङ्ग ऊहस्य; तस्य प्रतिदिष्टपदार्थविषयकत्वात् । श्रुतश्चापूर्वप्रयुक्तत्वमेव वक्तव्यम् । तदानों च श्रपूर्वस्य तत्रापि सत्वात् सिद्धयत्यूह इत्युक्तं नवमप्रथमतृतीये । तदेतदाहअगन्मेत्यादिना । ऊहितव्य इति । अगन्मसुव इत्यत्र सुवः इति स्थाने ब्रह्मवर्चसादिपदप्रक्षेपेण मन्त्रः पठनीयः इत्यर्थः । तदधिकरणपूर्वपक्षसूत्रमिदं फलदेवतयोश्चेति । फलस्य स्वर्गादेः देवताया अग्न्यादेश्य प्रयोजकत्वं स्यादिति तदर्थः । एवमङ्गजातं द्विविधमपि निरूप्य सिद्धरूपाणामुत्पत्यपूर्वार्थत्वस्य सिद्धतया तत्र चक्तव्यविशेषं कश्चिदपश्यन् क्रियारूपेषु नेष्वेकैकस्याप्यङ्गजातस्य प्रयोजनं कथयति-तत्रापीति । सन्निपत्योपकारकारादुपकारकाङ्गजातयोर्मध्य इत्यर्थ: । द्रव्यसंस्कारकत्वं अनघातप्रोक्षणादीनाम् । देवतासंस्कारकत्वं देवतावाहनपशुपुरोडाशयागीयोद्देशांशादीना. मिति विवेकः। श्रौषधधर्मेति । ओषधिप्रभवत्रीह्यादिधर्मेत्यर्थः । श्राग्नेयापूर्वेति । यजन्योत्पत्यपूर्वेत्यर्थः । तेवघातादीनाम् । श्राग्नेयेत्युपलक्षणं प्रकृतपुरो२. तेन चे यागन. ३. तै. सं. १-५-६-१. १. सिद्धे. Bhandarkar Oriental Research Institute ४. जे. सू. २-१-४. मीमांसान्यायप्रकाशः [ प्रयोगविधितृतीये। भारादुपकारकाणां तु स्वरूपेऽनुपयोगात् परमापूर्वार्थत्वम् । तत्रोत्पत्य- पूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सन्निपत्योपकारकाणां पूर्वा- ङ्गानां तदुत्पत्तावुपयोगः, उत्तराङ्गानां तु तेषां तत्स्थितावुपयोगः । परमापू- वस्य तु साङ्गप्रधाना (१) नुष्ठानानन्तरमेवोत्पद्यमानत्वात् सर्वेषामारादुपकार- कारणां तदुत्पत्तौ । प्रयोगबहिर्भूतस्य तु तस्य तत्स्थितावुपयोगः । यथा-बृह- स्पतिसवस्य 'वाजपेयेनेष्टा बृहस्पतिसवेन यजेते' ति वाजपेयोचरकालमङ्ग- त्वेन विहितस्य वाजपेयापूर्वस्थित बुपयोगः । तस्य प्रागेवोत्पन्नत्वादित्युक्तं चतुर्थे । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः-तदेवं निरू- पितः संक्षेपतो विनियोगविधिः ॥ ( प्रयोगविधिनिरूपणम् ) प्रयोगप्राशुभावबोधको विधिः प्रयोगबिधिः । स चाङ्गवाक्यैकवा. डाशयागमात्रस्य । तदर्थत्वाभावात् पुरोडाशार्थत्वाभावात् । न च वाच्यमाज्यस्यापि पुरोडाशोपस्तरणाभिघारणार्थत्वात्तदर्थत्वमस्त्येवेति तत्राप्यवघातप्राप्तिर्भवेदेवेति । प्रत्रावघातादीनां प्रदेयतत्प्रकृतिद्रव्यसंस्कारकत्वेन विधानात् श्राज्यस्य प्रदेयसंस्कारोपयुक्तत्वेऽपि प्रदेयत्वस्य प्रदेयप्रकृतित्वस्य वा प्रभावात्, विशेषतचायमय निरूपितस्तृतीये तेषामर्थाधिकरण इत्याह - तृतीये इति । स्वरूपे यागस्वरूपे । द्रव्यदेवतादिसम्बन्धमद्वारीकृत्य साक्षादेव तेषां विधानादिति भावः । पूर्वाङ्गानामिति । प्रधानयागानुष्ठानतः पूर्वमनुष्ठीयमानानामवघातप्रोक्षणादीनामज्ञानामित्यर्थः । तदुत्पत्तौ उत्पत्यपूर्वोत्तौ । उत्तराङ्गानां प्रधानयागानन्तरमनुष्ठीयमानानां स्विष्टकृढिडाभक्षणादीनाम् । तत्स्थिताविति । उत्पत्यपूर्वस्य पूर्वमेवोत्पन्नत्वेन तदुत्पत्तौ उपयोगासम्भवादिति भावः । सर्वेषामिति । पूर्वाङ्गानामुत्तराङ्गानाञ्चेत्यर्थः । तदुपत्तौ परमापूर्वोत्पत्तौ । सर्वेषामेवारादुपकारकाणां तदुपत्तावेवोपयोगः १ नेत्याहप्रयोगबहिर्भूतस्येति । श्रारादुपकारकस्येति शेषः । तत्स्थिताविति । साङ्गप्रयोगपरिसमाप्तिसमनन्तरमेव तदीयपरमापूर्वस्योत्पत्यवश्यम्भावादिति भावः । एवं चोत्सत्यपूमुत्पन्नमप्युत्तराङ्गाननुष्ठाने, परमापूर्वमुत्सन्नमपि प्रयोगबहिर्भूताज्ञाननुष्ठाने च विपद्यते इत्यङ्गविधानबलात् कल्पत इति हृदयम् । वाजपेयोत्तरकालमिति । इष्वति क्त्वाप्रत्य येन साज्ञवाजपेयप्रयोगपरिसमाप्त्युत्तरकालिकत्वस्यैव बृहस्पतिसवे बोधनादिति भावः । चतुर्थ इति । तृतीयत्रयोदश इति शेषः । विनियोगविधिनिरूपणमुपसंहरति-तदेवमिति । (प्रयोगविधिनिरूपणम् ) एवं विनियोगविधिं निरूप्य क्रमप्राप्तं प्रयोग विधिनिरूपणमारभते-प्रयोगेति । अत्र विनियोगप्रयोगविधिनिरूपणयोः पौर्वापर्यकारणं पूर्वमेवोपपादितम् । प्रयोगेति । प्र. ॥ तेजस्विनावधीनमस्तु । १. प्रयोगानुष्ठान POONA Bhandarkar Oriental Research Institute निरूपणम् ] सारविवेचिनोव्याख्या संवलितः क्यतामापनः प्रधान विधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्बापरपर्यागं प्रयोग प्राशुभावं विधत्ते । न च विलम्बवद विलम्बे • पि प्रमाणाभाव इति वाच्यम् । विलम्बे हि श्रृङ्गप्रधान विध्येकवाक्यता वग तत त्साहित्यानुपपत्तिः प्रसज्येत । न हि विलस्बेन क्रियमाणयोः पदार्थयोः 'सहकृत' मिति साहित्यं व्यवहरन्ति । नचैवं साहित्यानुपपस्या समानकालत्वमेव स्यात्, न त्वविलम्बः, भव्यवधानेन पूर्वोत्तर कालक्रियमाणपदार्थयोः 'अबिलम्बेन कृत' मिति व्यवहारा दिति वाच्यम् । मनेकपदार्थाना मेकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च तावकर्तृसंपादनेनानुष्ठानं किं न स्यादिति वाच्यम् । "तस्यैतस्य यशक्रतोश्चत्वार ऋत्विज" इत्यादिना कर्तृणां नियतत्वात् । तस्मादङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिः एकवाक्यतावगततत्साहित्यं विदधत् उक्तविधया एककालानुष्ठानानुपपत्तेरविलम्बं विधत्ते इति सिद्धं प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति । योगः अनुष्ठानं तस्य प्रांशुभावः शैव्यं असम्बन्धिपदार्थाव्यवधानरूपं तद्बोधको विधिरित्यर्थः । कोऽसौ प्रयोगविधिः १ श्रत ग्राह-स चेति । प्रधानविधिरेवेति । फलसम्बन्धबोधकः यः प्रधानविधिः अधिकारविष्य परपर्यायः स एवेत्यर्थः । अनेन प्रधानोत्पत्तिविधीनां श्रृङ्गोत्पत्तिविधीनां वा नानुष्ठापकत्वमिति सूचितम् । विधेः प्राशुभावबोधकत्वमुप. पादयति-स हीति । अानां प्रधानानां च एकेनैव प्रयोगविधिना विधानस्य, एकवि घिविहितानामसति बाधके युगपदनुष्ठेयत्वरूप साहित्यविवक्षायाच एकादशे वक्ष्यमाणत्वात् तस्यानुपपत्तिः प्रसज्येतेति भावः । विलम्बे हीति । स्वीक्रियमाण इति शेषः । यद्यपि विलम्बनिषेधकं प्रातिस्विकं प्रमाणं नास्ति, तथापि प्रयोगविध्यवगतसाहित्यबलादेव तद्वाघनमिति भावः । ननु प्रधानविधिना साहित्यस्यैव बोधनात् तस्य च एकक्षणवत्तित्वरूपस्वात् अज्ञप्र घानयोरेकक्षणानुष्ठेयत्वमेवावगम्यत इति कथं विलम्बप्रातिरिति शङ्कते- न चैवमिति । समानकालत्वं एकक्षणानुष्ठानम्, स्यात् सिध्येत् । अनेकपदार्थेति । सर्वेषां पदार्यानां एकक्षणानुष्ठानासम्भवात् बाधितं सत् साहित्यमविलम्बानुष्ठाने पर्यवस्यतीति भावः । तावत्कर्तृसंपादनेनेति। कर्तृपदं क्रयक्रीतस्विंग्परम् । इदश्च सम्भवदज्ञाभिप्रायम् । अवघातपेषणादीनां पूर्वापरकालभाविनां तावत्कर्तृसम्पादनेनापि युगपदनुष्ठानासम्भवात् । यशक्रतोरिति । क्रतुशब्दो मानसोपासनेऽपि वर्तते । स क्रतुं कुर्वीत, मनोमयः प्राणशरीरः इत्यत्र क्रतुशब्देन ध्यान विधानात् । तद्वयावृत्तये यज्ञक्रतोरिति इति माधवः । कणां ऋत्विग्रूपाणाम् । POONA तस्मात् उक्तप्रमाणेनोक्तयुक्त्या च । अङ्गवाक्यैकवाक्यतामापन इति । समिधो यजति, बाज्यभागौ यजति, इत्यादिभिरङ्गविधायकवाक्यैः या दिभिरूपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्ग भावयेत् इत्याकारिका तामापन्न इत्यर्थः । १२ मो० न्या० जवनावधीतमस्तु ॥ समिदाienta मीमांसान्यायप्रकाशः ) [ श्रुति- स चायमविलम्बो नियते क्रमे श्राश्रीयमाणे भवति । अन्यथा हि किमे तदन (१) न्तरं कर्तव्यं तदनन्तरं घेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरे- व स्वविधेयप्रयोगप्रीशुभावसिध्द्यर्थं नियतं क्रममपि पदार्थविशेषणतया वि धन्ते ॥ १० ( क्रमलक्षणम्) endri तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा । तत्र च षट् प्रमाणानिश्रुत्यर्थपाठस्थान मुख्य प्रवृत्त्याख्यानि । (श्रुतिनिरूपणम्) तत्र क्रमपरवचनं श्रुतिः । तश्च द्विविधं-केवलक्रमपरं, तद्विशिष्टपदार्थपरं चेति । तत्र 'वेदं कृत्वा वेदिं करोती'ति केवलक्रमपरम्; वेदिकरणादेवचनास्तरेण विहितत्वात् । 'वषट्कर्तुः प्रथमभक्ष' इति तु क्रमविशिष्टपदार्थपरम् । भवति सिध्यति । प्रयोगविक्षेपापत्ते रिति । स्वकपोलकल्पितया कयाचिद्रीत्याऽनु ष्ठाने कृते केषांचित् द्विग्नुष्ठानं केषांचिदनुष्ठानाभाव इति वैकल्यापत्ते रित्यर्थः । ननु सत्यामपि क्रमापेक्षायां तद्बोधकशास्त्राभावात् कथं तस्य प्राप्तिः १ श्रत श्राह- प्रयोगविधिरेवेति । ननु क्रमस्य पदार्थत्वाभावात् कथं विधेयत्वम् १ श्रत श्राह-पदार्थविशेषणतयेति । यद्यपि स्वातन्त्र्येण न विधातुं शक्यते, तथापि कालादिवत्पदार्थ विशेषणतया तस्य सम्भवत्येव विधिरिति भावः । विततिविशेष इति । तत्तत्पदार्थानन्तरं तत्तत्पदार्थाः कर्त्तव्या इत्यनेकपदार्थवृ त्तिपौर्वापर्यसमुदाय इत्यर्थः । यत्किश्चित्पदार्थप्रतियोगि कय हिकश्चित्पदार्थानुयोगिकाव्यवहि तोत्तरत्वरूपानन्तर्यस्य क्त्वादिशब्दाभिधेयस्य लघुभूतस्य उत्तरपदार्थोपस्थापकत्वेन दृष्टा. र्थस्य क्रमत्वे सम्भवति गुरुभूतस्य तावापदार्थनिष्ठस्याशाब्दस्य विततिविशेषस्य क्रमत्वा जीकरणं न युक्तिसहमित्याशयवानाह- पौर्वापर्यरूपो घेति । क्त्वाततः शब्दबलात् पूर्वापरत्वेन प्रतीयमानयोः पदार्थयोः नैरन्तर्यमित्यर्थः । यथाश्रुते मध्ये केषांचित् पदार्था नामनुष्ठानेऽपि पौर्वापर्याबाघात् प्राशुभावभङ्गापत्तेः । वस्तुतस्तु एकपदार्थप्रतियोगिका परपदार्थानुयोगिक श्रानन्तर्यविशेष एव क्रमपदार्थः। तस्यैव च उत्तरपदार्थाजस्वम् । तस्य च उत्तरपदार्थस्मारकत्वेन दृष्टार्थताऽपि । एवञ्च वषट्कर्तुः प्रथमभक्ष इत्यत्र प्राथम्यस्य क्रमत्वं भाक्तमिति ध्येयम् । तत्र षण्णां प्रमाणानां मध्ये । क्रमबोधिकायाः श्रुतेः लक्षणमाह - क्रमपरवचनमिति । क्रमपरत्वं च वृत्त्या क्रमबोधकत्वं द्रष्टव्यम् । तेन क्वाप्रत्ययादीनामपि क्रमलतकाणां सङ्ग्रहः । तथ्य क्रमपरवचनं च । आद्यमुदाहरति-वेदमिति । कथं तस्य केवल क्रमपरत्वम् ? श्रत ग्राह-वेदिकरणादेरिति । श्रादिपदेन श्राख्यातोपात्तकर्तृसंख्ययोः परिग्रहः । द्वितीयमुदाहरति - वषट्कर्तुरिति । 'याज्याया अधि वषट्करोति' इत्यादिना याज्योत्तरं पठनीयत्वेन यो विहितो वषटकारस्तत्पठितुहर्होत्रादेरित्यर्थः । नन्वत्र Bhandarkar Oriental १. एतदनन्तरमेतस्कर्तव्यमेतदनन्तरं वा renginstiep नरूपणम् ] सारविवेविनोव्याख्यासंवलितः १ एकप्रसरताभङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यत्वात् । (श्रुतिप्राबल्यनिरूपणम् ) सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । तेषां वचनकल्पनद्वारा क्रमप्रमा. णस्वात् । मत एवाश्विनस्य पाठक्रमातृतीयस्थाने ग्रहणप्रसको 'श्राश्विनो दशमो गृह्यते' इति वचनादशमस्थाने ग्रहणमित्युक्तम् ॥ ( अर्थक्रम निरूपणम्) यत्र प्रयोजनवशेनार्थनिर्णयः स मार्थः क्रमः । यथाऽग्निहोत्र होमयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्वमनुष्ठीयते । भक्षानुवादेन क्रममात्रविधानमस्तु किं विशिष्टविधिनेत्यत श्राह-एकप्रसरतेति । एक. प्रसरता सम्भूय विशिष्टार्थप्रतिपादकत्वं, तस्या भङ्ग इत्यर्थः । पदस्य ह्येकदा एक एव व्यापारः उद्देश्यत्वेन विधेयत्वेन वा विशिष्टस्य शुद्धस्य वा स्वार्थस्य समर्पणम् । न द्वय मध्येकदकस्य । तदिदानीं भज्येत । किञ्च अत्र भक्षानुवादेन प्राथम्यविधौ भक्षस्योद्देश्यत्वेन तस्य विधेयप्राथम्यान्वयात् पूर्व उद्देश्यत्त्वेन क्रियान्वयोऽभ्युपगन्तव्यः श्रतश्च क्रियान्वयात् पूर्व भक्षप्राथम्ययोः विशेषणविशेष्यभावानवगमात् एकार्थीभावलक्षणसामर्थ्याभावात् समासो न स्यात्, अस्ति तु सः । अतश्च समासबलादुभयो सम्भूयैकार्थप्रतिपादकत्वं वक्तव्यम् । ततश्च विशिष्ठविधान एव पर्यवस्यतीति भावः । मि ( श्रुतिप्राबल्यनिरूपणम्) । एवं श्रुतिं निरूप्य तद्गतं क्रमबोधकेतरप्रमाणापेक्षया प्राबल्यं निरूपयतिसेयमिति । इतरप्रमाणापेक्षयेति । क्रमबोषकार्थादिप्रमाणापेक्षयेत्यर्थः । तत्र कारणमाह – वचनकल्पनद्वारेति । पाठादिस्थलेषु न प्रत्यक्षवचनमस्ति, येन क्रमो विधीयेत । पौर्वापर्यरूपेण पाठान्यथानुपपत्या' तु 'एतदनन्तरमेतस्कर्त्तव्य' मिति कल्पनीयं क्रमबोधकं वचनम् । यावश्च तैः कल्पयितुमारभ्यते ततः पूर्वमेव प्रत्यक्षेण क्लृतेन वचनेन क्रमे बोधिते न तेषां प्रवृत्तिरिति दौर्बल्यं तेषामिति भावः । अत एव इतरापेक्षया प्राबल्यादेव । श्राश्विनस्येति । अश्विदेवताकस्य ग्रहस्येत्यर्थः । पाठक्रमादिति । 'ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाति' इति धारामदेषु तृतीयस्थाने आश्विनमहविधायकवाक्यस्य पाठादिति भावः । यद्यप्यत्र प्रथमतः श्रुत्यर्थयोः प्राबल्यदौर्बल्यनिरूपणमेव कर्तुमुचितं तथापि यथाअत्येव प्रयोजनस्य कल्पनीयत्वेन तयोविरोधस्यैवासम्भवात् तत्सरित्यज्य श्रुतिपाठयोः प्राबल्यदौर्बल्योदाहरणमुक्त मिति वेदितव्यम् । यथा ह्युक्तम्ASTITUTE श्रुत्यर्थयोर्विरोधस्तु नैवं वचनसम्भवे । यथाश्रुत्येव हि न्याय्यमर्थस्य परिकल्पनम् ॥ इति । इत्युक्तमिति पञ्चमचतुर्थप्रथम इति शेषः । FOUNDED 1917 ॥ तेजस्वि नावधीतमस्तु ॥ (अर्थक्रमनिरूपणम् ) Bhandarkar Oriental Research Institute श्रर्थक्रमं लक्ष्यति-यत्र स्विति । होमार्थत्वेनेति । यवाग्वाग्निहोत्रं जुद्दो६२ मीमांसान्यायप्रकाशः [पाठक्रमस चायं पाठकमाइलवान् । यथापाठं ह्यनुष्ठाने क्लृप्तप्रयोजनबाघोऽदृष्टार्थत्वं च स्यात् । न हि होमानन्तरं क्रियमाणस्य किंचित दृष्टं प्रयोजनमस्ति ॥ (पाठकमनिरूपणम्) पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदार्थानां क्रम श्रीयते । येन हि क्रमेण वाक्यानि पठितानि तनैव क्रमेणाधीतान्यर्थप्रत्य यं जनयन्ति । यथार्थप्रत्ययं च पदार्थानामनुष्ठानोत् । सच पाठो द्विविधः-मन्त्रपाठो ब्राह्मणपाठश्चेति । तत्राग्नेयाग्नीषोमीय. योस्तत्तद्याज्यानुवाक्याक्रमात् यः क्रम मश्रीयते स मन्त्रपाठात् । स चायं मन्त्रपाठो ब्राह्मणपाठाइलवान् अनुष्ठाने ब्राह्मणवाक्यापेक्षया तीति वाक्येन अग्निहोत्रहोमोद्देशेन यवाग्वा विधानादिति भावः । प्रयोजनवशेन होमनिष्पत्तिप्रयोजन सिध्यर्थम् । यद्यपि पाकस्य यवागूत्पत्तिरूपं दृष्टं प्रयोजनं सम्भवति, यते च 'यवागूं पचती'ति द्वितीयया पाकस्य यवाग्वर्थत्वमेव, तथापि अनुपयुक्ताया यवाग्वाः पाकप्रयोजनस्यैवानुपपत्तेः होमापूर्वीययवागूप्रयोजनकत्वमेव पाकस्य वक्तव्य मिति तदर्थत्वाभावे प्रयोजनबाघोऽस्त्येवेति हृदयम् ! 7 (पाठक्रमनिरूपणम्) पाठक्रमं निरूपयति-पदार्थेति । पदार्थाः (अनुष्ठेयानि ) तत्सम्बन्धीनि वा शानि तद्विघायकानां ज्ञापकानां वा वाक्यानां यः मानुपूर्वीरूपेण यत् पठनं, स इत्यर्थः । तस्मात् पाठक्रमात् । वाक्यपाठक्रमानुरोधेन पदार्थानां क्रमाश्रयणे हेतुमाह—येन होति । यादृशानुपूर्वीको ग्रन्थस्तादृशानुपूर्वी विशिष्टस्यैवाध्ययनम् । यथाध्ययनं चार्थज्ञानम् । यथार्थज्ञानमनुष्ठानमिति अनुष्ठाने पाठक्रमो नियामक इति । अर्थप्रत्ययं जनयन्तीति । अर्थप्रत्ययं अर्थविषयकनिश्चयम् । लोके स्नायात्, भुञ्जीत, ब्रजेत् इत्यादौ पाठानुसारेणैव अनुष्ठानप्रतिपत्तेः इहापि तथैव भवितुमुचितमिति भावः । पाठं विभजते – ख चेति । श्राधमुदाहरति-तत्रेति । अत्रायं विषयः- दर्शपू. र्णमासप्रकरणे मन्त्रकाण्डे प्रयाजाज्यभागदिमन्त्रपाठानन्तरं (१) 'मग्निर्मूर्द्धा' 'भुवो यज्ञस्य' इत्याग्नेययाज्यानुवाक्याद्वयमाम्नातम् । ततः उपांशुयाजमन्त्राम्नानानन्तरं (२) अग्नीषोमा सवेदसा, 'युवमेतानि' इत्यग्नीषोमीयया ज्यानुवाक्याद्वयमानातम् । तत्र ब्राह्मणवाक्ययोरन्याहशत्वेऽपि मन्त्रपाठमनुसृत्यैव प्रथममाझेबानुष्ठानम्, ततः अग्नीषोमीयानुष्ठानमिति । मन्त्रपाठस्येतरापेक्षया प्राबल्यमाह - स चेति । न व्याप्रियत इति । तावतैव १. अग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति । इति पुरोनुवाक्या ॥ (तै. ब्रा. ३. ५.१०.१.) भुवो यज्ञस्य रजसश्च नेता यत्रा नियुँद्भिस्सचसे शिवाभिः । दिवि मूर्धानं दघिषे सुवर्षी जिह्वामग्ने चकृषे हव्यवाहम् इति याज्या । इति । Research २. अग्नीषोमा सवेदसा सहूती वनतंगिरः । सं देवत्रा बभूषथुः । इति पुरोनुवाक्या । युवमेतानि दिबि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवँसिन्धू रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् । इति याम्या ॥ FOUNDED 1917 निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः ४२ मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद्वहिरेव 'इदमेवं कर्तव्य' मित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्याप्रियते । मन्त्राः पुनरन- न्यप्रयोजनाः प्रयोगसमवेतार्थस्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्म- रणकमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधोनत्वादन्तरङ्गो मन्त्रपाठ इतरस्मा- दिति बलवान् । अत एवाग्नेयाग्नीषोमीययोर्ब्राह्मण पाठादादावग्नीषोमीयानु- ष्ठानं, पञ्चांदाग्नेयानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावाग्नेयानुष्ठानं, पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् ॥ प्रयाजानां ( १) "समिधो यजति' तनूनपातं यजति' इत्येव' विधायकवा क्यक्रमात् यः क्रमः स ब्राह्मणपाठकमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थ विधाय कृतार्थानि तथापि प्रयाजानां स्मारकान्तरस्याभावात् तान्येव स्मारकत्वेन स्वीक्रियन्ते । तथा च येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं तस्य शान्ताकांक्षत्वादिति भावः । मन्त्राणामस्तु प्रयोगसमवेतार्थस्मारकत्वम् । तावता प्रकृते किमायातम् ? श्रत - तेनेति । स्मरणक्रमाधीनत्वादिति । श्रज्ञातस्यास्मृतस्य वा अनुष्ठानासम्भवादिति भावः । तत्क्रमस्य स्मरणक्रमस्य । मन्त्रक्रमाधीनत्वादिति । एवञ्च मन्त्रपाठक्रमानुरोधेन स्मरणम्, स्मरणानुरोधेनानुष्ठानमिति मन्त्रपाठस्यानुष्ठानौपयिकस्वात् तदनौपयिकात् ब्राह्मणपाठात् तस्य प्राबल्यमनुष्ठानविषये इत्याशयवा. नाह – अन्तरङ्गो मन्त्रपाठ इत्यादि । तत्रोदाहरणमाह -आग्नेयेति । तैत्तिरीयसंहितायां द्वितीयकाण्डे पञ्चमप्रपाठके द्वितीयेऽनुवाके "ताभ्यामेतमग्नीषोमोयमेकादशकपालं पूर्णमासे प्रायच्छत्" इत्यनेनाग्नीषोमीययागो विहितः । तत्रैव षष्ठप्रपाठके तृतीयानुवाके "यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति" इत्याग्नेययागो विहितः । एवञ्च ब्राह्मणपाठक्रमादादावग्नीषोमीयानुष्ठानं पश्चादाग्नेयानुष्ठानञ्च प्राप्तम्, तद्बाधित्वा मन्त्रपाठक्रमेणैव क्रम आश्रीयत इति । ब्राह्मण पाठक्रममुदाहरति - प्रयाजानामिति । समिधो यजतीति । अत्र समित्यदं तत्प्रख्यन्यायेन कर्मनामधेयम् । समिन्नामकेन यागेन ऋतूपकारं भावयेदिति वाक्यार्थः । अनेन वाक्येनैकमेव कर्म विधीयते । बहुवचनं तु 'समिधो अग्न आाज्यस्य व्यन्तु' इति मन्त्रवर्णे समिद्देवतागतत्वेन बहुत्वस्य प्राप्तत्वात् बहुत्वसंख्या विशिष्टयागविधौ च गौरवापत्तेः स्वाश्रयदेवत्ययागवृत्तित्वसम्बन्धेन एकत्वलक्षणार्थमिति ध्येयम् । एवं तनूनपातादिवाक्येष्वपि द्रष्टव्यम् । ननु ब्राह्मणवाक्यानां प्रयोगाद्वहिरेव अर्थविधायकत्वेन चारितार्थ्यस्य पूर्वमुकत्वात् तेषां प्रयोगकालसम्बन्धस्यैवाभावात् कथं तेषां तत्सम्बन्धिक्रमबोघकत्वमित्याशङ्कय परिहरति — अत्र च यद्यपीति । स्मारकान्तरस्याभावादिति । एवञ्च यत्र कर्माजभूतो मन्त्रः समस्ति तत्र मन्त्रपाठक्रमादेव क्रमः, यत्र व नास्ति, तत्र ब्राह्मणपाठस्याप्यगत्या क्रमबोधकत्वमङ्गीकरणीयमिति भावः । ॥ ननु तैत्तिरीयशाखायां "समिधो अग्न आज्यस्य व्यन्तु" "तनूनपादन श्राज्यस्य वेतु" इत्यादीनां प्रयाजयाज्यामन्त्राणां पाठात तेषां च प्रयोगकाले व्याप१. तै. स. २. १. १.१. C FOUNDED 1917 मीमांसान्यायप्रकाशः एक [ पाठक्रमजनयन्तीति युक्तं तेनैव क्रमेण तेषामनुष्ठानमिति । तत्सिद्धं प्रयाजानां ब्राह्मणपाठक्रमात् क्रम इति । ननु - प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं विधायकत्वेन कृतार्थानां ब्राह्मणवाक्यानां किमिति स्वोक्रियते, प्रयोगसमवेतार्थस्मारकाणां याज्यामन्त्रायामाग्नेयादिग्विवात्रापि सत्त्वात् । न च तेषां देवतास्मारकत्वात् कर्मस्मार कत्वेन ब्राह्मणवाक्यं स्वीक्रियते इति वाच्यम् । आग्नेयादिष्वषि, कर्मस्मारकत्वेन तत्स्वीकारापत्तेः । न चेष्टापत्तिः । तथा सति ब्राह्मणपाठान्मन्त्रपाठस्य बलोयस्त्वं न स्यात् । तद्वलीयस्त्वे हि मन्त्राणां प्रयोगसमवेतार्थस्मारकत्व मितरस्य तदस्मारकत्वं हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मणवाक्यस्य स्वीक्रियते तदा प्रधान. कम स्मारकत्वेन ब्राह्मणवाक्यस्यान्तरङ्गत्वात् अङ्गभूतदेवतास्मारकत्वेन च म न्त्राणां बहिरङ्गत्वात् मन्त्रपाठा ब्राह्मणपाठस्यैव बलीयस्त्वं । स्यात् । तथा च (१) 'मन्त्रतस्तु विरोधे स्यात्' इति पाञ्चमिकाधिकरणविरोधः । तत्र हि ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्येत्युक्तम् । श्रथ - आग्नेयादिषु याज्यामन्त्रा एव देवताप्रकाशनद्वारा कर्मप्रकाशकाः त्यज्यमान द्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्येति--चेत्, तुल्यं प्रयाजेषु, तत्रापि हि याज्यामन्त्रा देवताप्रकाशकाः । प्रयाजेषु देवताया मान्त्रवर्णिकत्वात् । तिसम्भवेनान्तरङ्गत्वात् तेषामेव क्रमबोधकत्वौचित्यात् कथं तान् परित्यज्य ब्राह्मणवाक्यानां क्रमबोधकत्वमङ्गीक्रियते इत्याशङ्कामिष्टापत्या परिहरिष्यन्, भाध्यादौ प्रयाजोदाहरणस्य च कृत्वाचिन्तात्वमाविर्भावयिष्यन् प्रथमतः शङ्कामारचयति-नन्वित्यादिना । तेषां प्रयाजीययाज्या मन्त्राणाम् । तत्स्वीकारापत्तेः ब्राह्मणवाक्यस्वीकारापत्तेः । इतरस्य ब्राह्मणवाक्यस्य । ननु - ब्राह्मणवाक्यानो कर्मस्मारकत्वेऽपि मन्त्राणां कर्मसम्बन्धिदेव. तास्मारकत्वेन प्रयोगसमवेतार्थस्मारकत्वानपायादुभयोरपि प्रयोगसमवेतत्वा विशेषात् कथं मन्त्रपाठापेक्षया ब्राह्मणपाठस्य प्राबल्यं भवितुमर्हति इत्यत ग्राह- यदि चेति । श्रङ्गभूतदेवतेति । प्रधानभूतयागायुद्देशेनैव द्रव्यदेवतयोविंधानात् कर्मणः प्राधान्यम् द्रव्यदेवतयोरङ्गत्वम् । तत्रापि द्रव्यापेक्षया देवताया अत्वमित्याद्यष्टमे विस्तरः । एवञ्च प्रयोगसमवेतार्थस्मारकत्वाविशेषेऽपि प्रधानस्मारकत्वेनान्तरङ्गत्वात प्राबल्यम्, श्रङ्गस्मारकत्वेन बहिरङ्गत्वाद्दौर्बल्यमिति युक्तमेवेति भावः । मन्त्रपाठापेक्षया ब्राह्मणपाठस्य बलीयस्त्वे दोषमाह -तथा चेति । "मन्त्रतस्तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्मादुत्पत्तिदेशः सः" इति सूत्रम् । अस्यार्थः-विरोधे मन्त्रब्राह्मणबमयोर्विरोधे मन्त्रपाठक्रमादेव पदार्थानुष्ठानक्रमः स्यात्, प्रयोगरूपसामर्थ्यात् मन्त्रस्य प्रयोज्य पदार्थस्मारणे सामर्थ्यात् तस्मात् सः ब्राह्मणपाठः उत्पत्तिदेशः कर्मोत्पत्तिमात्रबोधकः, न प्रयोगकाले व्याप्नोतीति । पश्चादग्नीषोमीयस्येति । एतञ्च निरूपितमधस्तात् । अन्याशत्वात् विपरीतक्रमत्वात् । तस्यैव मन्त्रपाठबोधितस्यैव । 2 नजरियतस्तु ॥ १. जै.सू. ५. १. १६. Bhandarkar Oriental Research Institute निकपयाम् ] सारविवेचिनोव्याख्यासंवलितः ६५ तथा च प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात् त. स्क्रमो मन्त्रपाठादेव स्यात्, न तु ब्राह्मणपाठक्रमात् । न च मन्त्रपाठस्यान्याहशत्वात् प्रयाजक्रमो ब्राह्मणपाठक्रमादेवेति वाच्यम् । अन्याहशत्वे तस्यैव कमस्यानुष्ठानं स्यात्, मन्त्रकूमस्य बलीयस्त्वात् । (१) अभ्यासाधिकरणे च वार्तिककृता 'क्रमविनियुक्तैवलिङ्ग कमन्त्रवर्णे' त्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमविनियोग उक्तः । (२) नवमेऽपि तन्त्ररत्ने 'समिधः समिधोऽग्न आाज्यस्य व्यन्त्वि' त्यादिभिः क्रमप्रकरणप्राप्तैर्मन्त्रैर्देव ताः गुणत्वेन समर्थन्त इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदनुपपत्तिः स्या त् । तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमात् क्रम इति चेत् उच्यते - सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रा न सन्त्येव, यथा तूष्णीं विहितेषु कर्मसु-तेषां क्रमो ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोगसमवेतार्थस्मारकत्वा (३)त् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्मणवाक्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाहुरर्थवादचरणे दार्तिककाराः (४) 'प्रयाजादिवाक्यान्यर्थ समर्थ्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते' इति । तस्मारसमन्त्रककर्मणां मन्त्रपाठकमात् क्रमः । अमन्त्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेवेति दिक । Madinains अभ्यासाधिकरण इति । समिधो यजति, तनूनपातं यजतीत्यादीनां अभ्यासात् अनन्यपरविधिपुनःश्रवणरूपात् यन्न कर्ममेदो निरूप्यते द्वितीयद्वितीय द्वितीये तत्रेत्यर्थः । क्रमविनियुक्तेत्यादि । यथासंख्यपाठरूपस्थान प्रमाणेन विनियुक्ता ये एवंलिङ्गकाः समिदादिलिङ्गका मन्त्रवर्णाः तैर्देवतायाः समर्पयात् समिदादिपदानां तत्प्रख्यन्यायेन नामधेयत्वमिति प्रघट्टकार्थः । एवं च प्रयाजेषु मन्त्राभावकथनं न मनो रजयतीति भावः । गमकान्तरमप्याह-नवमेऽपीति । तद्नुपपत्तिरिति । अन्यादृशकमत्वे तदनुसारेणैव श्र. नुष्ठानप्रसक्त्या तथैव देवताप्राप्तिसम्भवेन तद्विपरीतक्रमक ब्राह्मण पाठानुसारेण देवताप्राप्स्यूसम्भावात्तामादाय तत्प्रख्यन्यायेन नामधेयत्वकथनं वार्त्तिककारीयं क्रभेण देवतासमपकथनं च तन्त्ररत्नकारीयमनुपपन्नं भवेदिस्यर्थः । एवमाक्षिप्य समाधत्ते-सत्यमिति । तेषामेवेति । स्मरणपूर्वकानुष्ठानस्यैव विहि तत्वेन स्मृतेरवश्यप्राप्तत्वात् । ध्यानायुपायान्तरापेक्षया ब्राह्मणवाक्यानामन्तरङ्गत्वादिति भावः । तर्हि किमर्थं प्रयाजोदाहरणम् ? अत श्राह- कृत्वा चिन्तयेति । प्रयाजेषु मन्त्राभावं कृत्वा चिन्तयेदमुदाहरणमित्यर्थः । प्रयाजेषु ब्राह्मणवाक्यानां प्रयोगसमवेतार्थस्मारकत्वाभावे वार्तिकं प्रमाणयति - यथाङ्कुरित्यादिना । अर्थवाइचरण इति । मन्त्राधिकरणपूर्वपक्ष इति शेषः । प्रयाजादिवाक्यानीति । अस्यार्थः- प्रयाजानूयाजादिविघिवाक्यानि प्रयाजादीननुष्ठेयपदार्थान् विधाय तावतैव कृतार्थानि ऋतुप्रकरणाभ्यां तत्स्वरूपस्य संस्पर्शे सत्यपि प्रयोगकालोच्चार्यमाणत्वरूपमनुष्ठेयत्वं न लभन्त इति darker Oriental eard Instit १, पू. मी. २. २.२.तं.वा. पू. ४५७. २ नवमे तन्त्र ० ३० करवम् ४.तं. वा. पू. ५१, 4 एवञ्च प्र. मोमांसान्यायप्रकाशः । [ स्थानक्रम १)(स्थानक्रम निरूपणम्) प्रकृतौ नानादे (१) शानां पदार्थानां विकृतौ वचनादेकस्मिन् देशेऽनु ष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठान मितरयोस्तु पश्चात् - (२) श्रयं यः क्रमः स स्थानक्रमः । स्थानं नामोपस्थितिः । यस्य हि देशेऽनुष्ठोयते तत्पूर्वतने पदार्थों कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यरक्रे अग्नीषोमोयसवनीयानुबन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदौ सवनीयपशोरनुष्ठानम्; तस्मिन्देशे आश्विनग्रहणानन्तरं सवनीयस्यैव प्रथममुप स्थितेः ; इतरयोस्तु पश्चात् । तथा हि-ज्योतिष्टोमे त्रयः पशुयागाः-- अग्नीषोमीयः, सवनीयः, श्रानुबन्ध्यश्चेति । ते च भिन्नदेशाः । अग्नीषोमीय औपवसथ्येऽह्नि, सवनीयः सु. त्याकाले, श्रानुबन्ध्यरत्वन्ते । साद्यस्को नाम सोमयागविशेषः । स चाव्य. तत्वात् ज्योतिष्टोमविकारः । अतस्ते त्रयोऽपि पशुयागाः साद्यस्त्रे चोंदकप्राप्ताः । तेषां च (३) तत्र साहित्यं श्रुतं- 'सह पशूनालभेत' इति । तच्च साहित्यं सवनीयदेशे; तस्य प्रधानप्रत्यासत्तेः, स्थानातिक मसाम्याच्च । सवनीयदेशे धनुष्ठाने क्रियमाणे अग्नीषोमीयानुबन्ध्ययोः स्वस्व स्थानितिक्रममात्रं भवति, अग्नीषोमीयदेशे ह्यनुष्ठाने क्रियमाणे सवनीयस्य स्वस्थानातिकममात्रम्, आनुबन्धस्य तु स्वस्थानातिक्रमः सवनी. यस्थानातिक्रमश्च स्यात् । एवमानुबन्ध्यदेशेऽग्नीषोमीयस्य द्रष्टव्यः । योगकालोचरणाभावेन तत्कालिकस्मरणजनकत्वं तेषां दूरापेतमिति भावः । ( स्थानक्रमनिरूपणम्) क्रमप्राप्तं स्थानक्रममुदाहरति-प्रकृताविति । नानादेशानामिति । बहुव्रीहिरयम् । अनताबोधकस्थानव्यावृत्तमत्र स्थानपदार्थमाह- स्थानं नामेति । युक्तमिति । उपस्थित्य धीनस्वादनुष्ठानस्येति भावः । उक्तमर्थ क्वचित सङ्गमयति- साद्यस्क इति । साद्यस्कः एकदिनानुष्ठेयः सद्यःसोमक्रय विशिष्टः सोमयाग विशेषः । मानुबन्ध्यानामिति । पशुयागानामिति शेषः । सवनरूपसोमयाग सम्बन्धिरवात्सवनीयः । ते पशुयागाः । भिन्नदेशा इति । भिन्नकालानुष्ठेया इत्यर्थः । तदेवोपपादयति- अग्नोषोमीय इति । अन्ते अवभृथानन्तरम् । ज्योतिष्टोमविकार इति । अग्निष्टोमसंस्थाकज्योतिष्टोम विकृतिभूत इत्यर्थः । साहित्यमत्र एककालिकतन्त्रानुष्ठानरूपम् । प्रधान प्रत्यासत्तेरिति । प्रधानस्य सोमयागस्य "समनन्तरानुष्ठेयत्वेन सन्निहितत्वादित्यर्थः । स्थानातिक्रमलाम्यादिति । अग्नीषोमीयस्य स्वस्थानं परित्यज्य सवनीयदेशे उत्कर्षः । श्रानुबन्ध्यस्यापि स्वस्थानं परित्यज्य सवनीयदेशे अपकर्ष इत्युभयोरेकैकं स्वं स्वं स्थानं परित्यज्य स्थानान्तरप्राप्तिरूपं साभ्यं भवतीत्यर्थः । तदेवोपपादयति - सवनीयदेश इति । D १. देशस्थानां. २. एवं ३. तत्र साहित्यं सह पशुनालभत इति विहितम् । व Bhandarkar Oriental Research Institute निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः तथा च सवनीयदेशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम्। आश्विनग्रहणानन्तरं हि सवनीयदेशः । प्रकृतौ 'माश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोती' त्याश्विनग्रहणानन्तरं तस्य विहि- तत्वात् । तथा च साद्यस्क्रेऽप्याशिवनग्रहणे कृते सवनीय एवोपस्थितो भव- तीति युक्तं तस्य स्थानात्प्रथम मनुष्ठानमितरयोश्च पश्चादित्युक्तम् ॥ (मुख्यक्रम निरूपणम्) प्रधानक्रमेण योऽङ्गानां क्रम माश्रीयते स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषामङ्गानां स्वैः प्रधानैस्तुल्यं व्यवधानं भवति, व्युत्क्रमेण वनुष्ठाने केषांचि दङ्गानां स्वैः प्रधानैरत्यन्त मव्यवधानमन्येषामत्यन्तं व्यवधानं स्यात्, तच्चायुक्तम्, प्रयोगविध्यवगतसाहित्यबाघापत्तेः, अतः प्रधान मोऽप्यङ्गक्रमे हेतुः श्रत एव प्रयाजशेषेणादावाग्नेयह विषोऽभिधारणं, पश्चादैन्द्रस्य दध्नः, ६७ एवं स्थानातिक्रमवैषम्यपरिहारार्थ सवनीयदेश एवानुष्ठानस्य कर्तव्यताप्राप्तौ तत्र च प्रथमं सवनीयस्यैवोपस्थितत्वेन तस्यैव प्रथममनुष्ठानमित्याह-तथा चेति । सर्वेषा- मिति । त्रयाणां पशूनामित्यर्थः । कोऽसौ सवनीयदेशः ? श्रत आह - आश्विनेति । त्रिवृता त्रिगुणया रज्वा । परिवीय परितः संवेष्टय । इतरयोश्च पश्चादिति । तयो- रपि मध्ये कस्य प्रथममनुष्ठानमिति चिन्तायां तत्र प्रकृतिदृष्टक्रमस्य परित्यागे प्रमाणाभा- वेन प्रथमतोऽग्नीषोमीयस्य, अनन्तरमानुबन्ध्यस्येत्येवं क्रमो बोद्धव्यः । इदं सर्वं पञ्चमे निरूपितमित्याह इत्युक्तमिति ॥ 150 । There ( मुख्यक्रम निरूपणम् ) एवं स्थानक्रमं निरूप्यानन्तर प्राप्तं मुख्यक्रमं निरूपयितुमारभते- प्रधानेनेति । यत्रानेकप्रधानानि एकप्रयोग विधिपरिगृहीतान्येकदानुष्ठीयन्ते तदा तदङ्गानां तैरेव सहानुष्ठाने कर्तव्ये कस्य प्रधानस्याज्ञानि प्रथमतोऽनुष्ठेयानि कस्य वा तदनन्तरमिति क्रमविशेषापेक्षायां तत्र यस्य प्रधानस्य प्रथमनुष्ठानं तदशानि प्रथममनुष्ठेयानीत्येवं रूपो यः क्रमः स मुख्यक्रम इत्यर्थः । एवं क्रमाश्रयणस्य प्रयोजनमाह - येन हीति । विपर्यये दोषमाइब्युत्क्रमेणेति । प्रथमप्रधानस्याङ्गानां पश्चादनुष्ठाने द्वितीयप्रधानाज्ञानां च प्रथममनुष्ठाने कृत इत्यर्थः । कथमयुक्तत्वमत ग्राह- प्रयोगेति । प्रयोगविधिना हि अङ्गानां प्रघानानां च युगपदनुष्ठेयत्वरूपसाहित्यबोधनात् तस्याशक्यानुष्ठानत्वेन ततः अविलम्बापरपर्यायासम्बन्धिपदार्थान्तराव्यवधानरूपप्राशुभाव पर्यवसानात् अनेक प्रधानस्थले च त स्थापि संपादयितुमशक्यत्वेन तत्र 'येन नाव्यवधान' मिति न्यायॆन यावद्भिः पदार्थैरवश्यं सोढव्यं व्यवधानं तावत एव व्यवधानस्य प्रयोगविधिनाभ्यनुज्ञातत्वात् व्युत्क्रमे पानुष्ठाने क्वचिदधिकव्यवधानापच्या प्रयोगविधेस्तदंशे बाघापत्तिरित्यर्थः । श्रङ्गक्रमे हेतुरिति । अनेन मुख्यानां क्रम इव क्रमो मुख्यक्रम इति व्युत्पत्तिरपि सूचिता । ma उदाहरण माह- प्रयाजशेषेरोति । श्रयमन्त्र विषयसंग्रहः- दर्शपूर्णमास प्रकरणे १३ मी० म्या० तिजस्त्रि Research Institute ● SIRUS POONA मीमांसान्यायप्रकाशः [मुख्यक्रम आग्नेययागेन्द्रयागयोः पौर्वापर्यात् । अत्र हि द्वयोरभिघरणयोः स्वेन स्वेन प्रधानेन तुल्यमेकान्तरितव्यवधानं भवति, आग्नेय हविरभिघारणाग्नेययागयोः ऐन्द्रयागहविर भिधारणेन व्यवधानात् । ऐन्द्रयागहविरभिघारणैन्द्रयागयोश्चाग्नेय यागेन व्यवधानात् । अतश्चादावाग्नेयह विरभिघारणम्, तत ऐन्द्रस्य हविषः, तत आग्नेययागः, ततश्चेन्द्रो यागः, इत्येवंक्रमों मुख्यक्रमात् सिद्धो भवति । यदि तु मादावेन्द्रहविषोऽभिधारणं, तत आग्नेयस्य क्रियते, तदा याज्यानुवाक्याक्रमवशादादावाग्नेयस्यानुष्ठानादाग्नेययागतदङ्गह विरभिघारणयोरत्यन्तमव्यवधानम्, ऐन्द्रयागतदङ्गहविरभिघारणयोरत्यन्तं व्यवधानं स्यात्, तच्च न युक्तम् । श्रतो युक्तः प्रयाजशेषाभिघारणस्य मुख्यक्रमात् क्रम इति ॥ स चासौ मुख्यक्रमः पाठकमात् दुर्बलः । मुख्यक्रमो हि प्रमाणान्तर. सापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बित (१) प्रतिपत्तिकः, पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् । 11 अत एव आग्नेयोपशुयाजाग्नीषोमीयाणां क्रमेणानुष्ठीयमानानामप्युOPPD D ६८ प्रयाजद्दोमानन्तरं श्रुतम् - प्रयाजशेषेण हवींष्यभिधारयतीति । तेन प्रयाजानिष्ट्वा तच्छेषेण वेद्यामासादितानां प्रधानहविषामभिवारणं कर्तव्यतया प्राप्तम् । तत्र दर्शे तावत् श्रीणि हवींषि – श्राग्नेयः पुरोडाशः, ऐन्द्रं दधि, ऐन्द्रं पयश्चेति । तत्र त्रयाणां मध्ये प्रथमं कस्य इविषोऽभिधारणमनन्तरं च कस्येत्या का ढक्षायामाग्नेयस्यैव प्रथममनुष्ठेयत्वेन तदन. हविरभिघारणस्यैव प्रथममनुष्ठानम्, अनन्तरमेव दध्नः, दधियागस्य पश्चादनुष्ठीयमानत्वात् । एवं च प्रयोग विध्यवगतस्य साहित्यस्यानुग्रहो भवतीति । प्रयोगविध्यवगतसाहित्यानुग्रह मेवोपपादयति - अत्र होति । वैपरीत्येनानुष्ठाने बाघमाह- यदि विति। ननु आग्नेययागैन्द्रयागयोः पौर्वापयें कि बीजम् ! अत आह-याज्यानुवाक्याक्रमवशादिति । तैत्तिरीयब्राह्मणे तृतीयाष्टके पञ्चमप्रपाठ के सप्तमानुवाके "श्रग्निर्मूर्धा दिवः" "भुवो यज्ञस्य" इत्याग्ने यौ याज्यानुवाक्ये ग्राम्नाय ततः प्राजापत्याग्नीषोमीयैन्द्राग्नयाज्यानुवाक्याः पठित्वा अनन्तरं एन्द्र सानसि रयि" "प्र ससाहिषे" इत्यैन्द्रयौ याज्यानुवाक्ये नाते । एवं च प्रथमतः श्राग्नेययाज्यानुवाक्ययोः अनन्तरमैन्द्रयाज्यानुवाक्ययोश्च पाठात्तत्क्रमानुसा. रेणेत्यर्थः। एवं मुख्यक्रमं निरूप्य तस्य पाठक्रमापेक्षया दौर्बल्यं निरूपयति - स चेति । प्रमाणान्तरेति । क्वचिद्द्ब्राह्मणपाठक्रमात् क्वचिच याज्यानुवाक्याक्रमादित्यर्थः । प्रमा णान्तरसापेक्षेति । याज्यानुवाक्यापाठ। दिरूपप्रमाणान्तरसापेक्षः प्रधानक्रमः, तत्प्रतिपत्तिमपेक्षते चाज्ञानां क्रम इति विलम्बेन प्रतिपत्तियोग्य इत्यर्थः । अत एव मुख्यक्रमस्य पाठकमापेक्षया दौर्बल्यादेव। पौर्णमास्यां हि माग्नेयः १. प्रवृत्तिकः । FOUNDED 1917 सांवाल bhandarihar Oriental Research Institute निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः पांशुयाजाज्यनिर्वापो मुख्यक्रमान्न पूर्वमनुष्टीयते, तस्य दुर्बलत्वात्. । पाठक्रमात्तु पश्चाद्नुष्ठोयते, तस्य प्रबलखादिति । स चायं मुख्यक्रमः प्रवृत्तिक्रमाइलवान् । प्रवृत्तिक्रमे ह्याश्रीयमाणे बहूनामङ्गानां प्रधानविप्रकर्षो भवति, अस्मिंस्तु माश्रीयमाणे सन्निकर्षः। तद्यथादर्शपूर्णमासयोरादावाग्नेयानुष्ठानं, ततः सान्नाय्यस्य । तद्धर्माश्च केचित् पूर्वमनुष्ठीयन्ते । तत्र यदि प्रवृत्तिकममाश्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन, तत आग्नेयधर्माः, तत आग्नेयानुष्ठानं, ततः सान्नाय्यानुष्ठानम्, तदा तद्धर्माणां स्वप्रधानेन सह द्वाभ्यामाग्नेयधर्म तदनुष्टानाभ्यां विप्रकर्षः स्यात् । यदा तु सान्नाय्यधर्माणां केषाश्चित् पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्यक्रममाश्रित्याग्नेयधर्मानुष्ठानानन्तरमनुष्ठोयन्ते तदा सर्वेषा नाग्नेयधर्मसानाय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवतिः - श्राग्नेयधर्माणां स्व. प्रधानेन सह सान्नाथ्यधर्मेर्व्यवधानात्, सान्नय्यधर्माणां च स्वप्रधानेन सहाग्नेयानुष्ठानेन व्यवधानात् इति न विप्रकर्षः । तस्मात् मुख्यक्रमः प्रवृत्तिक्रमाद्बलवान् ॥ (प्रवृत्तिक्रमनिरूपणाम् ) सह प्रयुज्यमानेषु प्रथानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्ठाने कर्तव्ये 'द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात् यः क्रमः स प्रवृित्तिक्रमः । पुरोडाश:, उपांशुयाजः श्राज्यहविष्कः, अग्नीषोमीयः पुरोडाशः, इति श्रीणि प्रधा. नानि । तत्र आग्नेयाग्नीषोमीययोः पौर्वापर्य तु तदीययाज्यानुवाक्याक्रमादित्युक्तं पूर्वम् । उपांशुयाजध 'उपांशुयाज मन्तरा यजती'ति वाक्येन आग्नेयाभोषोमीययोर्मध्ये कर्तव्यतया विहित इति तेनैव क्रमेण तेऽनुष्ठीयन्ते । तत्र च तदङ्गभूतइ विर्निर्वााः, अग्नये जुष्टं निर्वपाम्यग्नीषोमाभ्याम्' इत्यादिना विहिताः । एवं च अत्र मुख्यक्रमानुरोधेन आग्नेयानन्तरमनीषोमीयात्पूर्व कर्तव्य आाज्यनिर्वापः, श्रथ वा पाठक्रमानुसारेण अन्त एवेति सन्देहे मुख्यक्रमापेक्षया पाठक्रमस्य प्राबल्यात्तदनुसारेणान्त एवानुष्ठानमिति । F एवं मुख्यक्रमस्य पाठक्रमापेक्षया दौर्बल्यं निरूप्य इदानीं तस्य प्रवृत्तिकमापेक्षया प्राबल्यं निरूपयति - स चेति । प्रवृत्तिक्रमस्य दौर्बल्ये कारणमाह - प्रवृत्तीति । त द्धर्माः सान्नाय्यधर्माः । केचिदिति । शाखाच्छेदनवरसापाकरणादय इत्यर्थः । पूर्वमि ति। तेषां पूर्व पठितत्वेन पाठक्रमानुसारेण पूर्व मेवानुष्ठानस्य प्राप्तत्वादिति भावः । तद्धर्माणां सान्नाय्यधर्माणाम् । (प्रवृत्तिक्रमनिरूपणम् ) एवं मुख्यक्रमं निरूप्य प्रवृत्तिक्रमं निरूपयति - सहेति । युगपदनुष्ठीयमानेष्विस्यर्थः । सन्निपातिनामिति । सन्निपरोपकारकाणामित्यर्थः । यत्र बहूनां प्रधानाना मेकका. लकर्तव्यता प्राप्ता तत्र तदङ्गानामपि सन्निपत्योपकारकाणां युगपदनुष्ठानं प्राप्तम् तच्चाशक्यमित्येकैकस्मिन् प्रधानेऽङ्गावृत्त्यामवश्यं भाविन्यां तत्र यत्मघानमारभ्य येन क्रमेण प्रा. थमिका ज्ञानुष्ठानं कृतं तेनैव क्रमेण तदेव प्रधानमारभ्य द्वितीयाज्ञानुष्ठानमिति यः क्रमः १ १०० मोमांसान्यायप्रकाशः [ प्रवृत्तिक्रमयथा- प्राजापत्याङ्गेषु । प्राजापत्या हि 'वैश्वदेवीं कृत्वा प्रांजापत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः, भत. स्तेषां तदङ्गानां चोपाकरणनियोजनप्रभृतीनां साहित्यं संपादनीयम् । तत्र प्राजापत्यानां संप्रतिपन्नदेवताकत्वे नै कस्मिन् कालेऽनुष्ठानादुप पद्यते साहित्यम् । तदङ्गानां चैकस्मिन् कालेऽनुष्ठानमशक्यम् । न ह्यनेकेषां पशनामुपाकरण मेकस्मिन् काले कतु शक्यम् । अतस्तेषां साहित्यमव्यव धानेनानुष्टानात् संपाद्यम्-एकस्योपाकरणं कृत्वाऽपरस्योपाकरणमिति । अतः प्राजापत्येषु एकं पदार्थ सर्वत्रानुष्ठाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्ठानं कस्माश्चित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थों येन क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्ठेयः प्रयोगविध्यवगतस्य मिथोऽङ्गसाहित्यस्योपपत्तये । प्रयोगविधिना हि दैते तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्यमानन्तर्यापरपर्यायं विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम्, स प्रवृत्तिक्रम इत्यर्थः । उदाहरति - प्राजापत्येष्विति । वाजपेये हि 'सप्तदश प्राजा. पत्यान् पशूनालभते' इति वाक्येन प्रजापतिदेवताकाः सप्तदश पशव आग्नातास्ते. ब्वित्यर्थः । तदेवोपपादयति-प्राजापत्या होति । सेतिकर्तव्यताका इति । भयमाशयः -- यत्र हि तृतीयांनिर्देशः तत्र तृतीयाप्रकृत्यर्थस्य करणस्वमवगम्यते, तच्च करणत्वं फलजमकत्वरूपम्, तच्च न प्रधानमात्रस्य सम्भवतीत्यङ्गविशिष्टस्यैव तद्वाच्यम् । एवश्च तत्र साङ्गस्य प्रधानस्य भावनाकरणत्वं, न तु प्रधानमात्रस्य, यथा - 'स्ववभृथेन चरन्ति" "उच्चैः प्रवर्येणे" त्या दौ, तत्र साङ्ग एव अवभृथे श्रवपदेशविधानम्, साङ्ग एव च प्रवर्ग्यं स्वरविधानम्, न तु यत्र द्वितीया निर्देशस्तत्र, । तत्र करणत्वस्याप्रतीयमानत्वेन प्रधान मात्रस्यैवोद्देश्यत्वात्, यथा- "यज्ञाथर्वणं वै काम्या दृष्टयस्ता उपांशु कर्तव्या" इत्यादौ, प्रकृतेऽपि तृतीयानिर्देशात् साङ्गेष्वेव पशुष द्वन्द्वोपात्तसाहित्यस्यान्वयो वक्तव्यः । एवञ्च प्रधानेष्विव श्रङ्गेष्वपि एककालानुष्ठेयत्वरूपं साहित्यं प्राप्तमिति तद्यद्यपि प्रधानानामेकदेवताकत्वात् युगपदनुष्ठानं सम्भवति, श्रङ्गामां तु विभिन्नदेवताकत्वा देककालानुष्ठानासम्भवेन अविलम्बापरपर्यायप्राशुभावे पर्यवस्यति । अतः तत्सिंध्यर्थं प्रथममङ्गमुपा करणरूपं यस्मिन् कस्मिंश्चित् पशावारभ्य केनचित् क्रमेणानुष्ठेयम् । द्वितीयं त्वङ्गं नियोजनं यस्मिन् पशावुपाकरणमारभ्य येन क्रमेण कृतं तस्मिन्नेव पशो आरभ्य तेनैव क्रमेण कर्तव्यमित्याह—तत्रेत्यादिना । सम्प्रतिपन्नदेवताकत्वेनेति । एकदेवताकत्वेनेत्यर्थः । एकस्मिन् काले अनुष्ठानादिति । प्रयोगविधिना साङ्गानां प्रधानानां यौग पञ्चबोधनात् यत्र विभिन्न देवताकस्थले तदसम्भवः तत्र क्रमापेक्षायां पाठादीनां क्रमनियाम• करवेऽपि यत्रैक देवता कस्थले यौगपद्यसम्भवस्तत्र तन्त्रानुष्ठानस्यैव उचितत्वादिति भावः । 'प्रजापतेर्जायमानाः' 'इमं पशुं पशुपते' इति मन्त्रद्वयेन बर्हिम्याँ लक्षशाखया च पशोरुपस्पर्शनपूर्वकं देवतार्थस्वेन संकल्पनमुपाकरणम् । यूपे पशोर्बन्धनं नियोजनम् । 1. प्राजापत्येषु उपाकरणादिप्राप्तिमुपपादयति-प्रयोगविधिनेति । तच्चेति । दक्षे STITUT निरूपणम् ] सारविवेचनी व्याख्यासंवलितः १०१ तस्य प्राणिद्रव्य करवेन वैक्षविकृतित्वात् । सवनीयाच्चैकादशिनेषु प्राप्तम्, सुत्याकालत्वसामान्यात् । तेभ्यश्च प्राजापत्येषु प्राप्तम्, गणत्वसामान्यात् । प्राजापत्येषु च प्रतिपशु यागभेदाचोदका भिद्यन्ते । मतश्चोदकात्तत्तत्पश्वङ्गभूतानामुपाकरणनियोजनादीनां साहित्यमानन्तर्यापरपर्यायं प्राप्तम् । श्रत एकस्य पशोरुपाकरणानन्तरमेव नियोजनं चोदकबलात् कर्तव्यत्वेन प्राप्तम् । तत्तु न क्रियते, प्रत्यक्षवचनावगत सर्वपश्वङ्गसाहित्यानुपपत्तेः । श्रत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्तव्यत्वेन प्राप्त मपिनियोजनंन क्रियते । प्रत्यक्षवचनबलात्तु पश्वन्तरेषु षोडशसु उपाकरणमेव क्रियते । कृते तु तेषूपाकरणे प्रथमपशोर्नियोजनस्य तदीयोपाकररोन ब्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजन कार्यम् । अतश्च येन क्रमेणोपाकरणं कृतं तेनैव क्रमेण नियोजनं कार्यम् । यद्विहितं तदित्यर्थः । चोदकेन प्रतिदेशेन । तत्र कारणमाह - तस्येति ! सवनीयस्येत्यर्थः । प्राणिद्रव्यकत्वेनेति । सवनीयस्यापि पशुद्रव्य कत्वात् अग्नीषोमीयस्यापि तथात्वात् उभयोः सादृश्यसत्वादिस्यर्थः । ऐकादशिनेष्विति । "श्राग्नेयः कृष्णप्रीवः, सारस्वती मेषो, बभ्रुः सौभ्यः, पौष्णः श्यामः, शितिपृष्ठो बार्हस्पत्यः, शिल्पो वैश्वदेवः, ऐन्द्रोऽरुणः, मारुतः कल्माषः, ऐन्द्राग्न सस हितोऽघोरामः सावित्रः, वारुणः पेत्वः" इति विहितेषु पशुवित्यर्थः । सुत्या कालत्वसामान्यादिति । प्राणिद्रव्यकत्वरूपसादृश्येन अस्याप्यधिक सादृश्यस्य सत्वादित्यर्थः । तेभ्यः ऐकादशिनेभ्यः । गणत्वसामान्यादिति । प्राजापत्यानां पशुसमुदायरूपगणस्वादै कादशिनानामपि गणत्वात् सादृश्यसद्भावादित्यर्थः । अत्रापि पूर्ववत् सादृश्याधिक्यादित्येव व्याख्येयम् । सर्वमेतन्निरूपितमष्टमे । ननु प्राजापत्यगणस्य एकत्वात् स्त्रप्रकृतितः एक एव अतिदेश इति तावत्स्वपि प. शुषु सकृदेवोपाकरणादीनामनुष्ठेयतया अनेकेषां तेषामप्रसतत्वात् कथं साहित्यप्राप्तिः १ अत आह–प्राजापत्येष्विति । यागभेदादिति । एवञ्च गणत्वे सत्यपि तत्तद्रव्यदेवतासम्बन्धभेदादिना यागभेदस्य द्वितीये निरूपितत्वात् तेषां च पृथक् पृथग्धर्मापेक्षत्वेन प्रत्येक मतिदेशतो धर्माणां प्राप्तिः स्यादेवेति भावः । उपाकरणमेव क्रियत इति । एतेन प्राजापत्यपशुषूपाकरणादीनां पदार्थानुसमय एव, न काण्डानुसमय इति पाश्चमिकः सिद्धान्तः सूचितः । न च एकस्मिन् पशौ सर्वमुपाकरणाद्यङ्गजातमनुष्ठाय अपरस्मिन् पशौ तस्यानुष्ठानेऽपि तावत एव व्यवधानस्य सम्भवेन अङ्गप्रधानयोस्तुल्यव्यवधानसम्भबात् किमर्थं प्रकृति प्राप्तमेकस्मिन् पशौ तदीयोपाकरण नियोजनयोरानन्तर्ये बाधित्वा पदा. र्थानुसमय श्राश्रीयत इति वाच्यम्। "वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ती"ति प्रत्यक्षवचनेन प्रधानानामिव अज्ञप्रधानयोरपि साहित्यबोधनात् एकस्मिन् क्षणे तेषामपि युगपदुपकर्तव्यतायाः प्राप्तत्वात् । अतश्च यस्मिन् क्षणे एकस्मिन पशावुपाकरणं प्राप्तं तस्मिन्नेव क्षणे पश्वन्तरेऽपि तत्प्राप्तम् । तत्तु अशक्यानुष्ठानत्वान्न क्रियते प्रथमक्षणे । द्वितीयक्षणे१०२ कामीमांसान्यायप्रकाशः [ अधिकार विधिएवञ्च तत्तत्पशुपाकरणानां स्वस्वनियोजनैस्तुल्यं षोडशक्षणैर्व्यवधानं भवति । अन्यथा केषांचित्यन्तव्यवधानं केषांचिश्याव्यवधानं स्यात् । तच्च न युक्तम् । तस्मात् येन क्रमेण प्रथमपदार्थोऽनुष्ठितस्तेनैव द्वितीयो. अनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठित पदार्थक्रमात् यो द्वितीय पदार्थक्रमः स प्रवृत्तिकम इति । तदेवं निरूपितः संक्षेपतः षड्विधक्रमनिरूपणेन प्रयोगविधिव्यापारः ॥ ( अधिकार विधिनिरूपणम् ) फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्वास्यं च कर्मजन्यफ लभोक्तृत्वम् । स च 'यजेत स्वर्गकाम' इत्येवंरूपः । श्रनेन हि स्वर्गमुद्दिश्य यागं विदधता स्वर्गकामस्य यागजन्य फलभोक्तृत्वं प्रतिपाद्यते । 'यस्याहिताग्नेरग्निगृहान् दहेत् सोऽग्नये क्षामवते पुरोडाशमष्टाऽपि तस्याकरणे प्रयोगविध्यवगतसाहित्यं बाध्येतेति श्रानुमानिकं नैरन्तयें बाधित्वाऽपि पदार्थानुसमयस्यैवाश्रयणीयत्वात् । तदेतत्सर्वं मनसि निधायाह - श्रत इत्यादिना । षोडशक्ष खै रित्युपल क्षणमसम्बन्धिपदार्थान्तरीय क्षणानाम् । केषांचिश्चेति । चकारादल्पव्यवधानस्य ग्रहणम् । प्रवृत्तिक्रमनिरूपणमुपसंहरति-तदिति । पञ्चमाध्या यार्थभू तप्रयोगविधिनिरूपणमुपसंहरति-तदेवमिति । (अधरविधिनिरूपणम् ) क्रमप्राप्तमधिकारविधि निरूपयति – फलस्वाम्येति । कीदृशमत्र फल स्वाभ्यमित्यत -फलस्वाम्यं चेति । एवञ्च यो यत्फलममिलषति स तत्साधने यागादौ अधिक रोतीति अधिकारबोधकत्वादस्य अधिकारविधित्वमित्यर्थः । स च अधिकारविधिश्च । स्वर्गमुद्दिश्येति । यद्यप्यत्र पुरुषविशेषणं स्वर्गकामशब्दः तमेवाभिधातुं शक्नोतीति न स्वर्गस्योद्देश्यता प्रतीयते तथापि अस्वार्थे पुरुषस्य प्रवृत्त्यनुदयात् विधिबलेन भाव. नायाः पुरुषार्थमाव्यकत्वे अवश्याभ्युपगते तद्विशेषाकाङ्क्षायां स्वर्गकामपदेन विशिष्टपला. पेक्षिणः पुरुषस्य शेषित्वबोधनात् विशेष्यस्य आख्यातादेव प्राप्तत्वेन विशेषणभूतस्वर्गादिमात्रपरं स्वर्गकामादिपदम्, प्रथमा च कर्मत्वपरेत्यभिसन्धायैवमभिहितम् । यागं विद्यतेति । षष्ठाद्यन्यायेन स्वर्गे भाग्यत्वेनान्विते भावार्थाधिकरणन्यानेन धात्वर्थस्य करणत्वेनान्वयस्य युक्तत्वादिति भावः । 9 नन्वेवं सति नित्ये नैमित्तिके च पुंसः अधिकारी न स्यात् तत्र कर्मजन्य फलस्यैवाभावेन तद्भोक्तृत्वस्य दूरागस्तत्वात् । न च विश्वजिन्न्यायेन स्वर्गः, रात्रिसत्रन्यायेन 'धर्मेण पापमपनुदती' ति वाक्यशेषभत्रणात् पापक्षयो वा फळत्वेन कल्प्यतामिति वाच्यम् । निमित्तफलयोः उभयोः एकस्मिन् वाक्ये उद्देश्यस्वाङ्गीकारे वाक्यभेदापत्तेः । उक्तं च - "निमित्तफल सम्बन्ध एकवाक्ये न युज्यते । NSTITU उद्देश्यद्वय सम्बन्धे वाक्षभेदः प्रसज्यते" ॥ इति । Bhandarkar Oriental श्रत माह- यस्याहिताग्नेरिति । अयं भावः - भावनाय ॥ इष्टभाव्यकत्वस्वाभाFOUNDED 1917 ॥ ॥ निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः कपालं निर्वपै'दित्यादिभिस्तु गृहदाहादौ निमित्ते कर्म विधद्भिनिमित्तवतः कर्मजन्य पापक्षयरूपफलस्वाग्यं प्रतिपाद्यते । तय फलस्वाम्यं तस्यैव योऽधिकारिविशेषण विशिष्टः । अधिकारिविशेषणं च तदेव यरपुरुषविशेषणत्वेन श्रुतम् । अत एव 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यनेन स्वाराज्यमुद्दिश्य राजसूयं विद्धतापि न स्वाराज्यकाममात्रस्य तरफलभोक्तृत्वं प्रतिपाद्यते, किं तु राज्ञः सतस्तत्कामस्य । किंचित्तु पुरुषविशेषणत्वेना श्रुतमप्यधिकारिविशेषणं भवति । यथा-अध्य. यनविधिसिद्धा विद्या, अग्नि साध्येषु च कर्मसु आघानसिद्धानिमत्ता, सामर्थ्य च। एतेषां पुरुषविशेषणत्वेनाश्रवणेऽप्यधिकारिविशेषणत्वमस्त्येव । उत्तरक्रतु. विधींनां ज्ञानाक्षेपशक्तेरभावेनाध्ययनविधिसिद्धज्ञान वन्तं प्रत्येव प्रवृत्तेः । अग्नि साध्य कर्मणां चाग्यपेक्षखेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः । व्येन नैमित्तिकस्थलेऽपि अवश्यं किञ्चित्फलं कल्पनीयम् । तच्च न स्वर्गादिरूपम्, अनुपस्थितस्वर्गकल्पने गौरवात्। मुमुक्षोः स्वर्गादीनामनिष्टत्वेन तदुत्पत्तौ शास्त्रस्यानिष्टसाधना. नुष्ठापकत्वापत्तेश्च । नापि करणनिमित्तप्रत्यवायप्रागमावपरिपालनरूपं तत् । तस्याजन्य त्वेन फलत्वायोगात् । किन्तु पापक्षय एव आर्थवादिकः कल्प्यते । न च उद्देश्यानेकत्वकृतो वाक्यभेदः। उद्देश्यद्वयेन सह विधेयसम्बन्ध एव वाक्यभेदात् । अत्र च कर्मणः फलेन सह सम्बन्धः । तत्कर्तव्यतायाश्च निमित्तेन इति न वाक्यभेदः । उक्त हि— "द्वाभ्यां विधेयसम्बन्धे वाक्यभेदः प्रसज्यते । उद्देश्येन निमित्तेन विधेयस्य न सङ्गतिः ॥" इति । दाहादावित्यादिपदेन "एतामेव निर्वपेद्यस्य हिरण्यं नश्येत्" इति विहिता हिरण्यनाशेष्टिः परिगृह्यते । कर्मजन्येति । कर्मजन्यं यस्पापक्षयरूपं फलं तत्स्वाग्यमिस्यर्थः। नन्वेवं बृहस्पतिसवे क्षत्रियवैश्ययोः, राजसूये ब्राह्मणवैश्ययोः, वैश्यस्तोमे च ब्राह्मणक्षत्रिययोरधिकारापत्तिः । तेषामपि कर्मजन्यफल भोक्तृत्व सम्भवात् । तहतश्चेति । नन्वेवमपि स्वर्गकामत्वादेरष्यधिकारिविशेषणत्वसम्भवात्तद्दोषतादवस्थ्यम्, श्रत आह-अधिकारीति । स्वर्गकामादिपदानां स्वर्गादिमात्रबोधकत्वेन पुरुषविशेषणत्वं न सम्भवतीति भावः । अत एव पुरुष विशेषणत्वेन श्रुतस्य अधिकारिविशेषणत्वादेव । राज्ञः सत इति । अत्र राजपदं क्षत्रिय जातिमात्रवाचकम् । एवञ्च नेतरयोरत्र प्राप्तिः । एवं वैश्यस्तोमादावपि द्रष्टव्यमित्याशयः । POONA नभ्वेवं शूद्रस्याप्यधिकारः स्यात् । तस्यापि स्वर्गकामस्वाविशेषात् । अत श्राहकिञ्चित्रिति । विद्या निष्कृष्टवेदवाक्यार्थज्ञानम् । ब्राह्मणवाक्यार्थज्ञानं विना कर्मस्वरू पस्यैव ज्ञातुमशक्तेः, मन्त्रार्थज्ञानं विना प्रयोगसमवेतार्थस्मरणासम्भवाच्च । उत्तरऋतुविधीनाम् । श्राघानानन्तरमनुष्ठीयमान दर्शपूर्णमासज्योतिष्टोमादिक्रतुविधीनाम् । ज्ञाना. क्षेपशक्तेरभावेनेति । उत्तरऋतुविधयः स्वविषयानुष्ठानार्थं तद्विषयकं ज्ञानम पेक्षमाणाः प्रमाणान्तरसिद्धार्थज्ञानवन्तं पुरुषमादाय तेनैव कृतार्था इति न तेषु स्वातन्त्र्येण ज्ञानाचे पकत्वशक्तिः कल्प्यते, गौरवादिति भावः। अत एव उत्तरकतुविधीनामग्निमद्विद्यावद्विResearch Institu १०४ मीमांसान्यायप्रकाशः [ अधिकारविधिअत एव च शुद्रस्य न यागादावधिकारः । तस्याध्ययनविधिसिद्धज्ञानाभावात्, माधानसिद्धाग्न्यभावाञ्च, अध्ययनस्योपनीताधिकारत्वादुपनयनस्य चा 'टवर्षं ब्राह्मणमुपनयीते' त्यादिना त्रैवर्णिकाधिकारत्वात् । आधानस्यापि 'वसन्ते ब्राह्मणोऽग्नीनादधीत' इत्यादिना त्रैवर्णिकाधिकारत्वात् । यद्यपि च 'वर्षासु रथकारोऽग्नीनादधीते' त्यनेन रथकारस्य सौधन्वनापरपर्यायस्याघानं विहितम्, योगाद्र ढेर्बलीयस्त्वात्, तथापि नास्योत्तरकर्मस्वधिकारः, अध्ययनविधिसिद्धज्ञानाभावात् । न च तदभावे श्राधानेऽपि कथमधिकारः, तदनुष्ठानस्य तत्साध्यत्वादिति वाच्यम्; तस्याध्ययन विधिसिद्धज्ञानाभावेऽपि 'वर्षासु रथकारोऽग्नीनादधीत' इत्यनेनैव विधिनाऽऽधानमात्रौपयिकज्ञानाक्षेपणात् । अन्यथा एतस्यैव विधेरनुपपत्तेः । अतश्च रथकारस्याधानमात्रेऽधिकारेऽपि नोत्तरकर्मस्वधिकारः, विद्याभावात् । एवञ्च तदाधानं नाग्निसंस्कारार्थम् । संस्कृताना मग्नी नामुत्तरत्रोपयोगाभावात्, किं तु तदाधानं लौकिकाग्निगुणकं विश्वजिन्न्यायेन स्वर्गफल षयकत्वादेव । उपनीताधिकारत्वादिति । 'अष्टवर्ष ब्राह्मणमुपनयति' तमध्यापयीत' इति तच्छब्देन उपनौतस्यैव परामर्शात्, उपनयनस्य च 'अष्टवर्षे ब्राह्मणमुपनयीत एकादशवष रजिन्यं, द्वादशवर्षे वैश्यम्' इति त्रैवणिकमात्रं प्रति विहितत्वादिस्यर्थः । उपनयीतेत्यादिना एकादशवर्षे राजन्यमुपनयीत, 'द्वादशवर्ष वैश्य' मित्यनयोः परि प्रहः। एवमुत्तरत्राप्यादिपदेन 'ग्रीष्मे राजन्यः, शरदि वैश्य' इत्यनयोः परिप्रहः । ननु शूद्रस्याप्यस्त्येव यागादावधिकारः, रथकारस्याघानश्रवणात् । न च त्रैवर्णिक एव यदि कचिद्रथं करोति तस्यैष कालविधिः इति कथमनेन त्रैवर्णिकातिरिक्तस्य जातिविशेषस्याघानं सिध्यति । अत एव आपस्तम्बेनापि "ये त्रयाणां वर्णानामेतत्कर्म कुर्वन्ति तेषामेष कालः" इति त्रैवर्णिकाधिकारिकत्वमेवोतमिति वाच्यम् । योगापेक्षया रूढेर्बलीयस्त्वात्। न च प्रोक्षण्यधिकरणविरोधः । क्लृप्तस्यैव योगस्य कल्प्यरूढिबाधकरवस्य तदधिकरण विषयत्वात् । आपस्तम्बवचनस्य श्रवयवव्युत्पत्तिरूपहेतु मूलकरवेन सन्न्यायविरोधे तस्यैव बाध्यत्वात् । श्रतः कथं त्रैवर्णिकमात्राधिकारिकत्वमित्याशङ्कय निराकरोति यद्यपीति । अस्य रथकारस्य । उत्तरकर्मसु श्राधानोत्तर. कालिकेषु अग्निहोत्रदर्शपूर्णमासादिकर्मसु । ज्ञानाभावादिति । रथकारस्य वर्णत्रयबहिर्भूतत्वेन तस्योपनयनाभावादनुपनीत स्याध्ययनाभावात् तज्जन्यज्ञानस्य दुरापास्तत्वादि. स्यर्थः । अनुपपत्तेरिति । एवञ्च श्राधानविधेः स्वान्यथानुपपत्त्या स्वमात्रौपयिकज्ञानमाक्षिप्य रथकारविषये प्रवृत्तावपि नोत्तरक्रतुविधयस्तद्विषये प्रवर्त्तन्त इति भावः तंज नन्वेवं उत्तरक्रतुष्वधिकाराभावे श्राधान संस्कृतानामग्नीनां प्रयोजनाभावात् आघा. नस्यैव वैयर्थ्य स्यादित्यत ग्राह-एवश्चेति । नाग्निसंस्कारकमिति । यथा नेवणककर्तृकमाघानं उत्तरक्कतूपयोगि गाईपस्यादितत्तदग्निसंस्कारकं नैवं रथकारकर्तृकमाधानमित्यर्थः । उपयोगाभावादिति । यस्य बोत्तरत्र उपयोगः क्लृप्तः यथा-'व्रीहिभिर्यSTITUT POONA निरूपणम् ] सारविवेचिनीव्याख्या संवलत्तः १०५ कञ्च स्वतन्त्रमेव प्रधानकर्म विधोयते । अग्नीनिति च द्वितीया 'सफ्तून जुहोती' तिवत्तृतीयार्था इति । प्रकृतमनुसरामः । तत्सिद्धं-शद्रस्याध्ययनविधिसिद्धज्ञानाभावादाधान- सिद्धाग्म्यभावाश्च नोत्तरकर्मस्वधिकार इति ॥ नन्वेवं स्त्रिया अधिकारो न स्यात् । तस्या मध्ययनप्रतिषेधेन तद्वि घिसिद्धज्ञानाभावात् । न च नास्त्येवेति वाच्यम् । 'बजेत स्वर्गकाम' इत्यादौ स्वर्गकामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेषणत्वाद् ग्रहैकत्ववद्विवक्षितत्वेन स्त्रिया अधिकारस्य साधितत्वादिति चेत् स जेते' त्यादौ, यत्र वा अक्लृप्तोऽपि कल्पयितुं शक्यः यथा- 'अध्वर्यु वृणोते' इत्या. दौ । पत्र हि अध्वर्योरुत्तरत्र उपयोगाश्रवणेऽपि संस्कारविध्यन्यथानुपपत्त्या उपयोगः कल्पयितुं शक्यते-वृतेनाध्वर्युणा कर्म कर्तव्यमिति, तत्रैव संस्कार्यत्वाभ्युपगमः । यत्र तु तदुभयमपि न सम्भवति न तत्र संस्कार्यत्वकल्पना। किन्तु लक्षणादिना विनियोगभङ्ग एवेत्याशयः । कथं तर्हि द्वितीयाया उपपत्तिः ? अत श्राह-सक्तूनिति । अयं भावः'कर्मणि द्वितीये'ति सूत्रात् द्वितीयायाः कर्मत्वमेवार्थः । कर्मस्वं चेप्सितानीप्सितसाधार• ण्येन क्रियाव्याप्यत्वरूपमेव । अन्यस्य गुरुभूतत्वात् तद्यत्र कर्मत्वाश्रयस्येप्सिततमत्वं प्रमा गान्तरप्रमितं तत्र तद्भाव्यत्वरूपेप्सिततमत्वे पर्यवस्यति, यत्र तु न तथा, तत्रान्यस्य घात्वर्थादेः स्वर्गादेव भाव्यत्वावगमात् तदर्थत्वावधारणाच्चोपपदार्थस्य तत्र श्रयमाणा द्वितीया विषयतासम्बन्धि करणत्वलक्षिका भवति, यथा सक्तुषु । तत्र हि सक्तूनां भूतोपयोगस्य भाव्युपयोगस्य वा प्रमाणान्तराप्रमितत्वेन भाव्यत्वानवगमात् सन्निहितधात्वर्थस्यैव च तदवगमात् तद्पेक्षित करण समर्पणेन तत्रत्या द्वितीया करणत्वलक्षिका । एवं प्रकृतेऽनीनां क्वचिदुपयोगाभावात् विधिश्रुत्या च स्वर्गादेव भाव्यत्वावगतेः तत्र च घात्वर्थस्याधानकरणत्वात्तदपेक्षिताविकरणरूपत्वमेवाग्नीनाम् । अधिकरणस्यापि करणाकांक्य क्षयैव प्रहणात् करणत्व एवान्तर्भाव इति अग्नीमिति द्वितींया करणत्वळ क्षिकेति । एतेन 'स्वाध्यायोऽध्येतव्य' इत्यध्ययन विधिना स्वकुलपरम्परागताया एव शाखाया अध्ययन विधानेन शाखान्तराध्ययनस्याप्राप्तत्वेन तद्गत मन्त्राद्यपसंहारार्थं तद्विषये उत्तरक्रतुविधीनां ज्ञानाक्षेपकत्वशक्ति कल्पनावश्यंभावेन तद्वदेव शूद्रविषयेऽपि आक्षेपकत्वकल्पनाया निवारयितुमशक्यत्वात् न ज्ञानाभावहेतुना अधिकारः साधयितुं शक्यते, किन्तु अग्न्यभावादेवेति केषाश्चिदुतिरपास्ता । त्रैवर्णिकानां स्वशाखाधीतवाक्यैषु ज्ञानाक्षेपकत्वशक्तेरकल्पनेन शाखान्तराधीतवाक्येषु परं तत्कल्पनेन माघवात। शूद्रस्य तु कात्स्येंन तदाक्षेपकल्पनमिति गौरवात् । विद्याभावस्याधिकाराभावप्रयोजकत्वे स्त्रिया श्रपि विद्याभावादघिकाराभावमापादयति-नन्वेवमिति । अध्ययन प्रतिषेधेनेति । 'न स्त्रीशद्रो वेदमधीयाताम्', स्त्रोशद्र द्विजबन्धूनां त्रयी न श्रुतिगोचरा' इत्यादिश्रुतिस्मृतिभिरिति शेषः । इष्टापत्ती दोषमाह-यजेतेति । उद्देश्यसमर्पकत्वेनेति । स्वर्गकामनावरपुरुषं प्रत्येव यागादेविं. घानादिति भावः । साधितत्वादिति । षष्ठ इति शेषः । १४ मो० न्या० १०६ मीमांसान्यायप्रकाशः [ अधिकार विधित्यम् । अधिकारः साधितो, न तु स्वातन्त्र्येण, 'न स्त्री स्वातन्त्र्य महंती' त्यादिना तस्य निषिद्धत्वात्, स्वातन्त्र्येण कर्तृत्वे प्रयोगद्वयस्यापि वैगुरायापत्तेश्च । (१) यजमान कर्तृकप्रयोगे पत्नीकर्तृका ज्यावेक्षणादिलोपात्, पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहा. best "न स्त्री स्वातन्त्र्यमर्हती" त्यस्य पूर्वोशः पिता रक्षति कौमारे भर्ता रक्ष. ति यौवने । पुत्रस्तु स्थाविरे भावे" इति मानवो बोध्यः । "रक्षेत्कन्यां पिता विनां पतिः पुत्राश्च वार्धके । भावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः" "बालया वा युवत्या वा वृद्धया वापि योषिता । न स्वातन्त्र्येण कर्तव्यं कार्य किञ्चिद्गृहेष्वपि ॥ 19 बाल्ये पितृवशे तिष्ठेत् पाणिग्राह्यश्च यौवने । पुत्राणां भर्त्तरि प्रेते न भजेत स्वतन्त्रताम्" इत्यादीनां परिग्रहः । तस्य स्वातन्त्र्यस्य । ननु नैतत्स्त्रीणां कर्मण्यधिकारनिषेधकम्, तद्वाचकपदाभावात् ; न च सामान्यतः स्वातन्त्र्यनिषेधेन कर्मण्यपि तत्प्रवृत्तिः सम्भवत्येवेति वाच्यम् । पूर्वोदाहृतवाक्यस्य विषयादौ स्वातन्त्र्यनिषेधपरत्वात् । मस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या मात्मनो वशे ॥ S इति पूर्वस्मिन् श्लोके विषयादौ स्वातन्त्र्येण प्रवृत्ताया एव तस्या निरोधस्योक्त त्वेन तद्विषयत्वस्यैवास्यापि वक्तव्यत्वात्, प्रकरणस्यास्य स्त्रीरक्षणमात्रबोधनपरत्वाच्चेत्यत श्राह-स्वातन्त्र्येणेति । स्वातन्त्र्येण कतृत्बे उभाभ्यामपि परस्पर सम्बन्धमन्तरेण पृथक् पृथक् प्रयोगकर्तव्यतापत्या यजमानकर्तृके प्रयोगे पत्न्यभावेन पत्नीकर्तृकाणाम. जानां लोपः, एवं पत्नीकर्तृके प्रयोगे यजमानाभावेन तत्कर्तव्यपदार्थानां लोप इति कर्मणोऽङ्गाभावप्रयुक्तं वैगुण्यमापद्येतेत्यर्थः । तदेवोपपादयति – यजमानेत्यादिना । पत्नीकर्तृकेति। 'पत्न्यवेक्षितमाज्यं भवति' इत्यादिना ये विहिताः पत्नीकर्तृकाज्यावे. क्षणादयः तेषां लपादित्यर्थः । आदिपदेन न्वारम्भणादयो गृह्यन्ते । एवमुत्तरत्रापि । न च क्रयेण पत्नीं यजमानं वा सम्पाद्याज्यावेक्षणादिकमनुष्ठीयतामिति वाच्यम् । क्रयक्रीतयोः पत्नीत्वस्य वा यजमानत्वस्य वा असम्भवात् । "पत्युनों यज्ञसंयोगे" इति सूत्रेण पत्नीशब्दस्य यजधातूत्तरशान-प्रत्ययान्तस्य च यजमानशब्दस्य फलभोक्तृत्वरूपस्वामित्ववाचकत्वात् परिक्रीतस्य च स्वामित्वाभावस्य षष्ठे निरूपितत्वात् । "क्रयक्रोता तु या नारी न सा पत्न्यभिधीयते । न सा देवे न सा पित्र्ये दासीं तां कवयो विदुः" NSTITUTA POONA इत्यादिना क्रीतायाः पत्नीत्वस्य निषिद्धत्वाच्च । श्रत स्वातन्त्र्येण नास्ति कर्मण्यधिकारः स्त्रियाः, तथापि स्वपतिना सहास्त्येवाधिकार इत्याह - अत इति । ननु तस्या १ यजमानप्रयोगे PUR1 X DIPEN Ciprofita निरूपणम् ]सोर विवेविनीव्याख्यासंवलित? १०७ धिकारः । सहाधिकारत्वे च यजमानविद्ययैव परन्या अपि कार्यसिद्धेर्न ज्ञानं विना तस्या अधिकारानुपपत्तिः । 'पाणिग्रहणात्त सहत्वं कर्मसु, तथा पुण्यफलेषु' इति वचनेन स्त्रिया अधिकार निर्णयाच निषादस्थपतेरिवाध्ययनविधिसिद्धज्ञानविरहिणोऽपि 'एतया निषादस्थपति याजयेत्' इति वचनान्निषादेष्ट्याम् । निषादस्थपतिशब्दे हि निषादं स्थपति चेति कर्मधारयो न तु निषादानां स्थपतिरिति षष्ठीतत्पुरुषः, षष्ठ्यर्थे लक्षणापत्तेः । एतावांस्तु विशेषः - निषादस्याध्ययनसिद्धशानाभावेन एतस्यैव विधेस्तत्कर्मोपयिकज्ञानाक्षेपकत्वम् । पत्न्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात्तस्य च तादृशज्ञानवत्त्वात्तेनैव च तस्याः कार्यसिद्धेनोंत्तरक्रतुविधीनां ज्ञानाक्षेपकत्वम् । अध्ययन निषेधेन तत्सिद्धविद्याभावात् "न ह्यविद्वान् विहितोऽस्ति" इति न्यायेन विदुष्यास्तस्याः अधिकारनिषेधात् अधिकाराभावस्तदवस्थ एवेत्यत श्राह-यजमानविद्ययैवेति । ननु श्राज्यावेक्षणादीनां श्रन्यथानुपपत्या तावत्स्वेवाजेषु अधिकारकल्पनेऽपि न सर्वत्राधिकारकल्पने प्रमाणमस्तीत्यत - पाणिग्रहणादिति । कर्म स्वित्यविशेषेण कर्मपदश्रवणेन सर्वे॰वेवाङ्गप्रघानेषु साहित्यमवगम्यते, नाज्यावेक्षणादिमाने । किञ्च पुण्यफलेष्वपि साहित्यं गम्यते । तच्च फलभोक्तृत्वं कर्मस्वधिकारमन्तरान सम्भवतीति सर्वेध्वपि कर्मस्वधिकारस्सिद्ध एवेति । एवञ्च वैतानिके कर्मणि स्त्रीणां सहाधिकारः तद्धर्मवत्सु च केषुचित् एकाग्निसाध्येषु कर्मसु सहाधिकारः, न तु सन्ध्यावन्दनजपादौ स्वतत्राधिकारिके स्त्रिया अधिकारः नापि सावित्रीव्रतादौ पुंसोऽधिकारः, पूर्तादौ तु स्वातन्त्र्येण द्वयोरधिकार इति सिद्धम् । तत्र दृष्टान्तमाह - निषादेति । एवञ्च यथा निषा. दस्थपतेः वचनबलात् निषादेष्ट्यामधिकारोऽङ्गीक्रियते, एवमत्रापि वचनबलादेवाधिकाराङ्गीकरणमिति भावः । तदेव । अयं भावः- "(१) रौद्रं वास्तुमयं चरुं निर्वपे"दितीष्टिं काञ्चन विधाय श्रूयते"एतया निषादस्थपतिं याजये" दिति। वास्तुमयं वास्तुशाकप्रकृतिकमित्यर्थः । केचित्तु वास्तुमध्य इति पठन्ति । तदा वास्तुमध्ये गृहमध्य इत्यर्थः । तत्र निषादस्थपतिशब्दस्य निषादानां स्थपतिरिति तरपुरुषसमासमाश्रित्य त्रैव र्णिकेष्वेव यो निषादानामधिपतिः तदधिकारिकेयमिष्टिः ? उत निषादभासौ स्थपतिखेति कर्मधारयमङ्गीकृत्य निषाद एव सन् यः स्थपतिः, तदधिकारिका ? इति सन्दिय षष्ठीतत्पुरुषाशीकरणे पूर्वपदे लक्षणा भवति । अतो लक्षणानापादक कर्मधारयाङ्गीकरणमेव वरम् । यद्यप्यस्मिन् पक्षे विधेः ज्ञानाक्षेपकशक्तिकल्पनारूपं गौरवं भवति तथापि फलमुखत्वात् न तत् दोषायेति । निषादः ब्राह्मणात् शूद्र/यामुत्पन्नः शूद्रकर्माधिकृतो POONA 1917 नावधीत १. मैत्रायणीयसँहितायां "वास्त्वमयं रौद्रं चरुं निर्वपेत् यत्र रुद्रः प्रजाः शामयेत, वास्खोव वास्त्वं जातं वास्त्वमयं खलु वै रुद्रस्य, स्वेनैवेनं भागधेयेन शमयति । तया निषादस्थपति याजयेत् इति श्रुतम् । भाष्ये तु वास्तुमध्ये रौद्रं चरु निर्वपेदिस्येष पाठोऽङ्गीकृतः ॥ rient १०६ 'भीमांसान्यायप्रकाशः[ अधिकारिविधि-) ये तु पत्नीमात्रकर्तृकाः पदार्थाः आज्यावेक्षणादयस्ते ज्ञानं विनाशक्यानुष्ठाना इति तद्विधीनां तदाक्षेपकत्वं स्वीक्रियते । तत्सिद्धमध्ययन विधिसिद्धज्ञानस्याथानसिद्धाग्निमत्ता याश्चोत्तरकर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । असमर्थ प्रति विध्यप्रवृत्तेः । 'आख्यातानामथं ब्रुवतां शक्तिः सहकारिणी' ति न्यायात् । तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न ह्यङ्गासमर्थः प्र. धानमात्र समर्थच काम्ये कर्मण्यधिकारी । प्रधानविधेरङ्गविध्येकवाक्यतापन्नस्य साङ्गकर्मसमर्थं प्रत्येव प्रवृत्तेः । यथा विनियोगमधिकारात् । यदि हि समर्थ प्रत्येव प्रवृत्तौ कयाचित् श्रुत्या विरोधः स्यात् तदाऽसमर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति । स्वर्गकामश्रुतेः समर्थ प्र त्येव प्रवृत्तौ विरोधाभावात् । प्रत्युतासमर्थ प्रति प्रवृत्ता प्रधानविधेरङ्गवाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधापत्तेः। नित्यवत् श्रुतानामङ्गानां पाक्षिकत्व प्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः। जातिविशेषः । नन्वेवं यथात्र विधिना ज्ञानाचेपात् तदौपयिकज्ञानसम्पादनेन निषादस्या. धिकारोऽङ्गीक्रियते, एवमेव स्त्रिया अपि विधिना ज्ञानाक्षेपात् तदर्थमध्ययनं कुतो न स्यात् ? इत्यत आह-एतावांस्त्विति । एवञ्च सत्यां गतौ नोत्तरकतुविधीनां ज्ञानाक्षेपकत्वशक्तिकल्पनं युक्तिसहमिति भावः । एवश्व ये यजमानकर्तृकाः पदार्थाः, तत्र यजमानज्ञानेनैव कार्यसिद्धावपि ये तावत् यजमानेनासम्भवदनुष्ठानाः पत्नीमात्रकर्तृकाः तत्रागत्या तद्विघेर्ज्ञानाक्षेपकत्वशक्तिरङ्गी. क्रियत एवेत्याह-ये विति। नैतावता सर्वेषामुत्तरक्रतुविधीनां ज्ञानाक्षेपकत्वशक्तिकल्पन मुचितमिति भावः । अग्निविद्ययोरधिकारिविशेषणत्वनिरूपणमुपसंहरति-तत्सिद्धमिति । एवमग्निविद्ययोरधिका रिविशेषणत्वमुपवर्ण्य इदानीं सामर्थ्यस्यापि तदुपपादयति- एवमिति । विध्यप्रवृत्तेरिति । अत एवासमर्थत्वात् तिरश्चामनधिकारः, देवादीनां विप्रहाद्यमावादेव नाधिकारः इत्यादि बोध्यम् । अङ्गप्रधानविषयमिति । सकलाङ्गानुष्ठधनसमर्थः प्रधानामुष्ठानसमर्थश्च यः स एव काम्ये कर्मण्यधिकरोतीत्यर्थः । तदेवाहन त्विति । कुत एतत् ? ऋत ग्राह-प्रधानेति । अयमाशयः - अङ्गविध्येकवाक्यतापन्नः प्रधानविधिः प्रयोगविधिरित्युक्तम् । स च यथा प्रधानमनुष्ठापयति एवमङ्गविषयेऽप्यनुष्ठापको भवतीति यत्किञ्चिदङ्गालो पेऽपि प्रधानस्य सर्वाङ्गसाहित्याभावेन वैगुण्यापत्त्या फलानुत्पत्तिप्रसङ्ग इति । यथाविनियोगमिति । साङ्गस्यैव प्रधानस्य फले विनियोगात् तत्रैव चाधिकारोऽपि बक्तव्य इत्यर्थः । ननु यथा नित्यनैमित्तिकयोः यथाशक्त्युपबन्धानुसारेण सङ्कोचोऽङ्गीक्रियते, तद्वत् काम्ये ऽपि कुतो न स्यात् ? अत आह- यदि होति । ननु मास्तु कस्यापि प्रमाणस्य बाघः, तथापि सर्वाङ्गोपसंहाराभावे कस्यापि प्रसाणस्य बाधी विधेः आनर्थक्यं वा यावत् न स्यात् तावत् दुःखात्म के कर्मणि कथं प्रवृत्तिः स्यात् प्रेक्षावताम् ? ऋत बाह- प्रत्युतेति । ननु विकल्पाजीकारे कथमास्यक्तिको बाघः ? अत ग्राह-नित्यवदिति । 1 नलम्बिधानमन्त निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १०४ नित्यकर्मणां तु श्रङ्गेषु यथाशक्तिन्यायः । तानि हि यावजीवश्रुत्या यावज्जीवं कर्तव्यत्वेन चोदितानि । न च यावज्जीवं केनापि साङ्गः प्रयोगः कर्तुं शक्यते । अतो नित्यकर्मसु प्रधानमात्र समर्थोऽधिकारी । अङ्गानि तु यावन्ति कर्तुं शक्यन्ते तावन्ति कार्याणीत्यास्तां (१) बहूक्त्या, सूरिभिः पराक्रान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुविधभेद निरूपणेन विधेः प्रयोजनवदर्थपर्यवसानम् ॥ इत्यापदेवकृतौ मामांसान्यायप्रकाशे पूर्वभागः काम्य कर्मवैलक्षण्यं नित्यकर्मणां दर्शयति-नित्यकर्मणामिति । अङ्गेष्विति । श्रयमाशयः - अङ्गानां हि विधिविहितत्वादुपादानम्, निमित्तानुरोधाद्वा त्यागः, उभ यानुग्रहार्थं वा शक्तं प्रत्युपादानमशक्तं प्रति त्यागः, इति प्रथ्येव गतिर्भवितुमर्हति । तत्र उभयानुग्रहो यदि सम्भवति तर्हि स एव न्याय्यः । सम्भवश्च यथाशक्ति श्रीहीन् सम्पादयेत् यथाशक्ति श्रवन्यादित्यादि । तत्रापि न सर्वेषामङ्गानां यथाशक्तिन्यायविषयत्वं सम्भवति, किन्तु यानि शक्तौ सत्यां प्रयोगविधिरनुष्ठापयति तेषामेव, न तु कालादीनाम्, तेषामनुपादेयत्वात् । नचैवं एकस्यैव विधेःशक्तं प्रत्यनुष्ठापकत्वम् अशक्तं प्रति न इति वै रूप्यापत्तिरिति वाच्यम् । यथाशक्ति कुर्यादित्येकेनैव वचनेनो भयो पसङ्ग्र हादिति । तानि श्रृङ्गानि । यावज्जीवश्रुत्येति "यावज्जीवमग्निहोत्रं जुहोति" "यावजोवं दर्शपूर्णमासाभ्यां यजेत" इत्यादि श्रुत्येत्यर्थः । यावज्जीवं कर्तव्यत्वेनेति । श्रुतिघटकं यावज्जीवपदं 'धातुसम्बन्धे प्रत्ययाः" इत्यधिकारे "बावति विन्दजोवो" रित्यनेन विहितणमुलूप्रत्ययान्तम् । तेन च जीवनस्य प्राणधारणरूपस्य स्ववाक्यसमभिव्याहृतघात्वर्थे प्रति निमित्तता गम्यते । निमित्तस्य चायं स्वभावः यत् स्वाव्यवहितोत्तरकालानुष्ठापकत्वम् । अतश्च निमित्तवशात् साङ्गस्यैव यागादेः कर्तव्य. तोच्यते तदा सर्वाङ्गोपसंहारासमर्थ पुरुषं प्रति विधेरप्रवृत्तेः निमित्तसङ्कोचापत्तिः । न चेष्टापत्तिः, निमित्तस्य उद्देश्यरूपत्वेन प्राधान्यात् गुणभूत नैमित्तिकानुसारेण प्रधानको चस्यान्याय्यत्वात् । अतः प्रधानानुरोधेनाङ्गसङ्कोच एव युक्त इति । तदेतदाह-यावज्जीवं केनापोत्यादिना । यद्यप्यत्र जीवनरूपनिमित्तसम्बन्धात् नैमित्तिकत्वमेव प्रतीयते । तथापि अस्मिन् शास्त्रे नियतनिमिचकानां नित्यत्वव्यवहारः, अनियतनिमित्तकानां नैमित्तिकत्वव्यवहारः इति तदनुसारेणैवेदमुक्तमिति ध्येयम् । सूरिभिः पराक्रान्तत्वादिति । तन्त्ररत्नन्यायरत्नमालादौ पार्थसारथिमिश्रप्रभृतिभिः, निपुणतरमुपपादितत्वादित्यर्थः । अधिकारिविधिनिरूपणमुपसंहरति- तत्सिद्धमिति । प्रथमोपक्रान्तं विधेः प्रयोजनवत्वमुपसंहरति-तदेवमिति ॥ ASTITULA इति वेद्विशारदेन महामहोपाध्यायेन चिन्नस्वाम्यपरनाम्ना बेङ्कटसु- 198 ब्रह्मरायशर्मणा विरचितायां सारविवेचिन्याख्यायां मीमांसा. न्यायप्रकाशव्याख्यायां पूर्वभागः ॥ १, तावत् ! MENI ॥जस्विनावधी Bhandarkar Oriental Research Institute Finyjowing ॥ श्रीः ॥ अथोचरभागः शार one vie () न तु तदुच्चारण. ( मन्त्रप्रयोजननिरूपणम् ) मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयाऽर्थवत्त्वम् । मदृष्टार्थम्, दृष्टे संभवति श्रदृष्टस्याऽन्याय्यत्वात् । न च दृष्टस्य प्रकारा. न्तरेणापि संभवान्मन्त्रास्नानमनर्थकम् । मन्त्रैरेव स्मर्तव्यमिति नियमवि 8 ध्याश्रयणात् । pyaap (नियम विधिनिरूपणम् ) साधनद्वयस्य पक्षप्राप्तौ अन्यतरस्य साधनस्याप्राप्ततादशायां यो विधिः स नियमविधिः । यदाड:- ॥ श्रीविश्वेशश्शरणं मम ॥ वामाङ्गविलसद्वामा वक्त्रनिक्षिप्त चक्षुषम् । श्राश्रयं सर्वजगतामनाश्रयमुपास्महे ॥ एवं विधेः प्रयोजनवदर्थविधायकत्वेन प्रयोजनवत्वं निरूप्येदानीं क्रमप्राप्तं मन्त्राणां प्रयोजनवत्वनिरूपणमारभते-मन्त्राणामिति । प्रयोगोऽनुष्ठानं तत्समवेतः तद्विषयीभूतो योऽर्थः, तत्स्मारकत्वेनेत्यर्थः । कर्मणां स्मरणपूर्वकानुष्ठानस्यैव सर्वत्र विहितत्वात् तादृशस्मारकपदार्थापेक्षायां मन्त्राणामेव तादृशस्मृतिजनकत्वेनोपयोगस्य समुचितत्वा- दिति भावः । ननु न मन्त्राणां प्रयोगसमवेतार्थस्मारकत्वं सम्भवति । तत्तत्प्रकरण- पठितानामपि प्रयोगासमवेतार्थाभिधायिनां मन्त्राणां बहूनां सत्वात्, हुंफडादिस्तोभमन्त्राणां अर्थस्यैवाभावाच्च, जपादिमन्त्राणां केवलादृष्टार्थस्वस्य द्वादशे वक्ष्यमाणत्वाच्च । अश्व तेषामदृष्टार्थत्वेऽवश्याभ्युपगन्तव्ये श्रवैरूप्याय सर्वेषामदृष्टार्थत्वमेव युक्तम्, न तु केषाश्चित् दृष्टार्थत्वं, केषाश्चिददृष्टार्थतेति वैरूप्याङ्गीकरणमुपपत्ति मदित्याशङ्कयाह – न त्त्विति । तत्र हेतुमाह - द्वष्ट इति । एवञ्च यत्र दृष्टप्रयोजनमर्थप्रकाशनरूपं न सम्भवति तत्रादृष्टा- थंत्वं हुंफडादिष्वङ्गीक्रियताम् । नैतावता सर्वत्रादृष्टार्थता युक्ता । द्वादशाधिकरणं तु न जपमन्त्राणामदृष्टार्थतापरम्; किन्तु तेषामपि अर्थप्रकाशनरूपदृष्टार्थतैव, प्रकाशनं परमदृष्टार्थमित्यैवं परमिति भावः । ननु यद्यर्थस्मरणमेव प्रयोजनं मन्त्राणाम्, तर्हि तत् ध्यानेन उपद्रष्टवचनादिना वा सिध्यत्येवेति मन्त्राम्नानं व्यर्थमेव भवेदित्याशङ्कयाह न चेति । नियमविध्याश्रयणादिति । एवञ्च नियमविधिबलात् नियमादृष्टं किञ्चिदुत्पद्यत इत्यङ्गीक्रियते, नैतावता मन्त्रोच्चारणस्यादृष्टार्थतेति भावः ॥ ASTITUFAN POONA (नियमविधि निरूपणम् ) FOUNDED 1917 Oriental श्रथ प्रसङ्गात् विधित्रयमपि निरूपयिष्यन् अत्र उपस्थित नियम विधिनिरूपणाय नियमविंधिं प्रथमतो लक्षयति-साधनद्वयस्येति । अत्र द्वयशब्दोऽनेकमात्र परः । द्वयोर्बनां वा साघनानां विकल्पेनैकस्मिन् कार्ये प्राप्तौ सत्यां तत्र एकस्य साधनस्य प्रासिदशायां निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसइयेति गीयते ॥ इति । या इतरस्याप्राप्तिः, तत्प्रापको विधिर्नियम विधिरित्यर्थः । अत्र विधियलक्षकं वार्तिकं प्रमाणयति-विधिरिति । एतद्विध्यप्रवृत्तिदशायां प्रमाणान्तरेणास्यन्तमप्रासमर्थ यः प्रापयति सोऽप्राप्तप्रापकत्वात् विधिरित्युच्यते । यत्र प्रागेतद्वचनात् पाक्षिकी प्राप्तिः सम्भाव्यते तत्राप्राप्तिपक्षं यो नियमयति स विधिः नियामकत्वात् नियम इत्युच्यते । अत्रोभय• त्रोदाहरणं मूल एवस्पष्टीकृतम् । तत्र चाम्यत्र चेति सप्तमीद्वयैन साकं प्राप्ते इत्यस्य वैयधिकरण्येन सामानाधिकरण्येन च द्वेधा अन्वयस्सम्भवति । तत्र वैयधिकरण्येनान्वये तस्मिन् अन्यस्मिंश्च शेषिणि एकः शेषः यदि प्राप्नुयात्, तत्रान्यतरशेषिणः परिसंख्येति शेषिपरिसंख्या । सामानाधिकरण्येनान्वये तु स चान्यच शेषः एकस्मिन् शेषिणि प्राप्नुयाच्चेत् अन्यतरस्य शेषस्य परिसंख्या शेषपरिसंख्येति । एवञ्च एकस्मिन् श्रङ्गे प्रधानद्वयसम्बन्धे नियतप्राप्ते, एकरिंमच प्रधाने श्रद्वयसम्बन्धे नियतप्राप्ते सति अन्यतरप्राप्त निवृत्तिफलको विधिः परिसंख्याविधिरिति फलितम् । श्राद्यस्योदाहरणम् –"इमामगृभ्णब्रशनामृतस्येत्यभ्वाभिधानीमादत्ते" इति । श्रश्र इमामगृभ्णन् रशनामिति लिङ्गादेव रशनाप्रकाशनरूपात् मन्त्रस्य सन्निहितायामश्वरशनायामिव गर्दभरशनायामपि प्राप्तौ सत्यां विधिरत्यन्ताप्राप्तमर्थ प्रापयति । किन्तु गर्दभरशनातो मन्त्रस्य निवृत्तिं बोधयति । द्वितीयस्य तूदाहरणम्-गृहमेघीयाधिकरणे पञ्च मे पक्षे "श्राज्यभागौ यजती" ति श्राज्यभागयोः तदितराज्ञानां च युगपदेकस्मिन् गृहमेघीये प्राप्तौ श्राज्यभागातिरिका ज्ञानां परिसंख्या । तथा हि चातुर्मास्येषु साकमेधाख्यं तृतीयं पर्व । तच्च दिनद्वयानुष्ठेयम् । तत्र प्रथमदिनानुष्ठेयतया गृहमेघीयेष्टिं विधाय श्रुतं "श्राज्यभाग। यजति यज्ञतायै" इति वाक्यमुदाहृत्य विचारितं दशमससमे । तत्राऽष्टौ पक्षा उक्ताः । तत्र दर्शपूर्णमासतोऽतिदेश प्राप्तयोराज्यभागयोः अनुवादमात्रमिद मिति- प्रथमः पक्षः [[अनुवादमा त्रत्वे वैयर्थ्यापत्तेः तत्परिहारार्थे तत्र विहितयोरेवाज्यभागयोः इहाभ्युदय कारित्वकल्पनया पुनर्विघानं ग्राज्यभागवत्वसादृश्येन प्रकृतिनियमार्थमिति-द्वितीयः । उभाभ्यामपि विधानेऽदृष्टार्थत्वापत्तेः "यज्ञताया" इति स्तुतिदर्शनात् प्रकृत गृह मे• घीयस्तुत्यर्थं सार्थवादकं वचन मिति तृतीयः । ESTA सम्बन्धिवाचनिक गुणव्यवहितेन गृहमेघीयवाक्येन एकवाक्यत्वाभावेन तत्स्तावकत्वानुपपत्तेः अभ्यासात् श्राज्य भागधर्मक कर्मान्त रविधानार्थमिति चतुर्थः । NSHTUPA POONA 1917 श्राज्यभागशब्दस्य घर्मलक्षणार्थत्वापत्तेः कर्मान्तर विध्ययोगात् अतिदेशेनाज्यभागयोः तदितरेषु च प्रयाजादिषु प्राप्तेषु श्राज्यभागपुनःभवणं तदितरप्रयाजादिपरिसंख्यार्थमिति पश्चमः Bhandarkar Oriental Research Institute अस्य च चोदकात् पूर्व प्रवृत्यभावात् फलतः परिसंख्यात्वानुपपत्तेः प्राप्त परिसंख्या. मोमांसान्यायप्रकाशः 1( श्रपूर्वविधिनिरूपणम्) अस्थायमर्थः यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोऽपूर्वविधिः। यथा- 'यजेत स्वर्गकामः' इत्यादिः। यागस्य हि स्वर्गा [ अपूर्वविषि या एव वक्तव्यत्वात् तस्याश्च त्रिदोषप्रस्तत्वात् उपदिष्टाज्यभागवर्ज प्रयाजादीनामतिदेश: इति षष्ठः । विकृतिभावनायाः उपकारापेक्षायां लाघवात् एकस्यैवातिदेशस्य कल्पनीयतया तस्य च प्रयाजादीतराङ्गविषयकत्ववत् आज्यभागविषयकत्वस्याप्युपपत्तौ तद्वर्जने प्रमाणाभावात् प्राकृत सर्वाङ्गविषयकस्यातिदेशस्यानेन विशेषविषयकेणोपसंहारः सातदश्यवत् इति सप्तमः । उपसंहारस्य क्रत्वङ्गभूतविशेषपदार्थगोचरत्वेन प्रतिदेशागोचरत्वात् क्लृप्तोपका रै: प्राकृतैरराज्य मागादिभिः गृहमेघीयस्य नैराकांक्ष्यात् तस्यापूर्वस्वज्ञापनार्थमिदं वचनम् । प्राप्तपरिसंख्यात्वाच्च न त्रैदोषयमपीति - सिद्धान्तः । एवञ्चाज्यभागयोस्तदितराङ्गाणां च युगपत् प्राप्तौ सत्यां इतराजपरिसंख्येति । पञ्चमपक्षे प्राप्त परिसंख्यात्वात् स्वार्थत्यागादिरूपं त्रैदोग्यम् । श्रष्टमपक्षे चाऽप्राप्त परिसंख्यात्वान्न तदिति ध्येयम् । तत्र चान्यत्र च प्राप्ते इत्यमुमेव च पाठं मनसि निधायोदाहृतं वार्तिककारैः, व्याख्यातञ्च न्यायसुधायाम् । अत एव दीक्षितेन्द्रः मीमांसकमूर्धन्यैः "प्राप्ति श्शेषिद्वये चेदि"ति विधिरसायनमूलव्याख्यानावसरे — "तत्र चान्यत्र चेति सप्तम्योः प्राप्त इति सप्तम्याश्च सामानाधिकरण्यविवक्षायां गर्दभरशनाग्रह. णादिपरिसङ्ख्यायामेव लक्षणं न स्यात् । वैयधिकरण्येनान्वयविवक्षायां शं विडोत्तगङ्गकलापादिपरिसंख्यायामेव न स्यात् । अत एव न्यायसुधायां 'तत्र चान्यत्र च प्राप्ते' इत्यस्य शेषान्तरपरिसंख्यायां सामानाधिकरण्येन शेष्यन्तरपरिसंख्यायां वैयधिकरण्येन च योजना दर्शिता" इत्यादि सुखोप योजिन्यामुक्तम् । इमामेव च योजनां मनसि निषाय सिद्धान्तलेशसङ्ग्रहे तैरेव विधिविचारावसरे "द्वयोःशेषिणोरेकस्य शेषस्य वा, एकस्मिन् शेषिणि द्वयो. श्शेषर्योर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधि स्तृतीयः" इत्येव परिसङख्या लक्षणमुक्तम् । एवञ्च सति तत्र चान्यत्र च प्राप्तौ इति बहुत्र पाठ उपलभ्यते स लेखकप्रमादकृत इति भाति । स्वयमेव वार्तिकार्थ विवृणोतिअस्येति । प्रथमपादं व्याचष्टे-यस्येति । प्रमाणान्तरेखेति । एतद्वाक्यातिरिक्तेन वैदिकवाक्यान्तरेण प्रत्यक्षादिना वेदातिरिक्तेन प्रमाणेन चेत्यर्थः । तदर्थत्वेनेति । श्रप्राप्तार्थप्रापकत्वेनेत्यर्थः । अत्र च एतद्विध्यप्रवृत्तिदशायामिति विध्यन्त प्रवृत्ति सहकृतैतद्विध्य प्रवृत्तिदशायामिति चाप्राप्तिविशेषणं बोध्यम् । एवमेव नियमपरिसंख्या विध्योः पाक्षिकाप्राप्तौ समुच्चित्य प्राप्तौ च विशेषणं योजनीयम् । एवञ्च विध्यन्तराप्रवृत्तिसहितायां केवलायां वा तत्तद्विध्यप्रवृत्तौ यस्य प्राप्तिरात्यन्तिकी तत्प्रापको यो विधिः सोऽपूर्वविधिः, तन्मात्र विध्यप्रवृत्तदशायां विध्यन्तराप्रवृत्ति सहकृतैत द्विध्यप्रवृत्तिदशायां वा या अवहनलावधीत rkar Or र्थत्वं न प्रमाणान्तरेण [^१]प्राप्तम्, किन्त्वनेनैव विधिनेति भवत्ययमपूर्वविधिः । (नियमविधिनिरूपणम्) पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा 'व्रीहोनवहन्ति' इत्यादिः । अनेन हि विधिना अवघातस्य न वैतुष्यार्थत्वं बोध्यते, अन्वय- व्यतिरेकसिद्धस्वात् । किन्तु नियमः, स चाप्राप्तांशपूरणम्; वैतुष्यस्य हि नानोपायसाध्यत्वात् यस्यां दशायामवघातं परिहृत्योपायान्तरं ग्रहीतु- मारभते तस्यां दशायामवघातस्या[^२]प्राप्तत्वेन तद्विधानात्मकमप्राप्तांश- पूरणमेवानेन विधिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षेऽप्राप्ततादशायामवघातविधानमिति यावत् । न त्वपूर्वविधाविवात्यन्ताप्राप्ततया विधानमिति ॥ नादेः पाक्षिकी अप्राप्तिः, तादृशाप्राप्तांशपूरको यो विधिः स नियमविधिः, तन्मात्रविध्यप्रवृत्तिदशायां विध्यन्तराप्रवृत्तिसहकृतैतद्विध्यप्रवृत्तिदशायां वा या उभयोः समुच्चित्य प्राप्तिः तत्रान्यतरव्यावर्तको यो विधिः स परिसंख्याविधिः इति फलितम् । एतेषामपि लक्षणानां क्वचिदव्याप्त्यादिदोषदूषितत्वात्--यद्धर्मावच्छिन्नप्रतियोगिताकाभावाभावत्वं यस्य शास्त्रस्य तात्पर्य विषयतावच्छेदकता पर्याप्त्यधिकरणं तस्य तद्धर्भवन्नियम विधियद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वं यस्य शास्त्रस्य तात्पर्यविषयतावच्छेदकतापर्याप्स्यधिकरणं तस्य शास्त्रस्य तद्धर्मवत्परिसंख्याविधित्वम्, नियमपरिसंख्यातिरिक्तफल कविधित्वमपूर्वविधित्वमिति विधित्रयलक्षणं परिष्कृतं मीमांसा कौस्तुभे मन्त्रा धिकरणे । तत्पदप्रयोजनानि च तत्रैवोक्तानि तत एवावगन्तव्यानि विस्तरभयान्नात्र विलिखितानि । (नियमविधिनिरूपणम्) पक्षेऽप्राप्तस्येति । कदाचित् प्राप्तस्य कदाचिदप्राप्तस्येत्यर्थः । वितुषीभावरूपं प्रयोजनं हि अवहननेन नखविदलनेन अश्मकुट्टनादिना वेत्यनेकैरुपायैः साधयितुं शक्यते । तत्र नखविदलनादिभिः वितृषीभावं यदा सम्पादयितुमारभते, तदा श्रवहननस्य प्राप्त्यभावात् अस्ति तस्य कादाचित्की प्राप्तिः, तस्याञ्च दशायां या श्रप्राप्तिः तदंशेऽप्यबघातप्रापको यो विधिः स नियम विधिरित्यर्थः । तदुपपादयति-अनेन हीति । अन्वयेति। साघनान्तराभाव सहकृतावघातसत्त्वे वैतुष्यसत्वम् ; तादृशावघाताभावे वैतुष्याभावः, इत्यन्वयव्यतिरेकेत्यर्थः। अप्राप्तांशपूरणमिति । नखविदलनादिदशायां योऽवघातां शोऽप्रातः तत्प्राप्तिसम्पादनमित्यर्थः । एवञ्च नापूर्व विधाविव सर्वथा अत्यन्ताप्राप्तप्रापकत्वं विधेः, किन्तु यः पक्षे प्राप्तोऽशः तन्मात्रपूरकत्वमिति । एतेन सर्वांशे प्राप्तप्रापकापूर्वविध्यपेक्षया किश्चिदंशेऽप्राप्तप्रापक नियमविधौ लाघवमपि सूचितं भवति । २. स्यांशेऽप्रा eNebupyin १. ज्ञायते १५ मी० न्या० FOUNDED 1917 2 Bhandarkar Oriental Research Institute मीमांसान्यायप्रकाशः [ परिसंख्याविधि( परिसंख्याविधिनिरूपणम् ) उभयस्य युगपत् प्राप्तौ इतरव्यावृत्तिपरो विधिः परिसङ्ख्याविधिः । यथा 'पञ्च पञ्चनखा भक्ष्याः' इति । इदं हि वाक्यं न भक्षणविधिपरम्, तस्य रागतः प्राप्तत्वात् । नापि नियमपरम्, पञ्चनखापञ्चन खभक्षणस्य युगपत्प्राप्तेः पक्षेऽप्राप्त्यभावात् । अत इदं (१) पञ्चातिरिक्तपञ्चनख भक्षणनिवृत्तिपरमिति भवति परिसङ्घयाविधिः । ( परिसंख्याविधिनिरूपणम् ) उत्तरार्ध व्याचष्टे-उभयस्येति । अत्र च युगपत् प्राप्तिरौत्सर्गिकी, न नियता, अतब "नानृतं वदे" दिव्यादौ, सत्यानृतयोः एकस्मिन् वदनव्यापारे युगपदप्राप्तावपि न विरोधः । इतरव्यावृत्तिपर इति । एवञ्च नियमविधौ प्राप्तांशपूरणरूपस्य नियमस्य विधेयगतत्वेन सन्निहितत्वात् स एव वाक्यार्थः फलं वा, नान्यनिवृत्तिः, तस्याः च रमोपस्थितत्वात्, अविधेयगतत्वेन विपकृष्ठत्वाच्च । परिसंख्यायां तु द्वयोरपि नित्यप्रा. सत्वेन स्वरूप प्राप्तेनियमस्य वा फलस्वायोगात् इतरनिवृत्तिरेव वाक्यार्थः फलं वा । श्रय मेव भेदो नियमविधिपरिसंख्याविध्योरिति सूचितम् । परिसंख्याविधिरिति । परिसं• ख्या वर्जनबुद्धिः, तज्जनको विधिः परिसंख्या विधिरित्यर्थः । उदाहरति- यथेति । पश्च पञ्चनखा इति । नखपञ्चक विशिष्टा शल्यकगोधाश्वाविट्कुर्मशशाः पञ्चैवेत्यर्थः । इदं हि वाक्यं श्रीमद्वाल्मीकिरामायणे-भगवन्तं श्रीरामचन्द्रं प्रति वालिनोक्तम् । "ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः" इति श्लोकावशिष्टांशः । कुतोऽयमपूर्वविधिर्न भवति ? श्रत ग्राह- इदं होति । शास्त्रप्रवृत्तेः पूर्वमेव भक्षणस्य रागतः प्रवृत्तत्वात् रागतः पूर्व शास्त्रप्रवृत्त्या विधिविषयत्वाङ्गीकारे पूर्वप्रवृत्तेः फलकल्प. नापत्तिरूपगौरवापत्तेरिति भावः । अस्तु तर्हि नियम विधित्वम्, परिसंख्यापेक्षया तत्र लाघवात् श्रुत आह - नापीति । पक्षेऽप्राप्त्यभावादिति । पाक्षिके सतीत्यनेन वस्तुनः कदाचित् प्राप्तौ कदाचिच्चाप्राप्तौ सत्यामेवाप्राप्तांशपूरकत्वस्य नियम विधिव्यापा रत्वादिति विवक्षितम् । यद्यप्यत्र शशादीनां भक्षणे कदाचित् पक्षेऽपि प्राप्तिः सम्भवतीति नियमविधित्वमपि सम्भाव्यते तथापि नियमविधित्वे शशाद्यभक्षणे दोषप्रसक्तेः भक्षणस्य च फलकसनारूपगौरवापत्त्या पूर्वोत्तरपर्यालोचनया चास्य प्रकरण स्याभक्ष्य निरूपणरूपत्वावगमेन तद्वाघापत्तेश्च नियमविधित्वं परित्यज्य परिसंख्या विधित्व मेवाङ्गौ कृतमिति ध्येयम् । अत्रापञ्चनखेत्यस्य पञ्चातिरिक्तपञ्चनम्वेत्यर्थो बोध्यः । अन्यथा यथाश्रुतार्थ स्वीकारे वाक्यस्यास्य पपञ्चनखव्यावृत्तावेव तात्पर्यस्याङ्गीकार्यतया पञ्चपदवैयर्थ्यापत्तिः श्वादि• पञ्चनखभक्षणे दोषाप्रसक्त्या तत्र प्रायश्चित्तविधानानुपपत्तिश्च प्रसज्येयाताम् । अत एव च विधिरसायने "पूर्वाक्षेपप्रकारः प्रभवति" इति श्लोकव्याख्यानाव FOUNDED 1917 > Bitandarkar Oriental १. अत्र । पञ्चनख भक्षण निवृत्ति परमित्येव पाठः उपलभ्यते मुद्रितपुस्तकेषु प्रायशः तथापि अपञ्चनखेत्यस्य पञ्चांतिरिक्तपञ्चनखेत्येव व्याख्यातव्यतया किष्टकल्पनापत्तेः पञ्चातिरिक्तपञ्चनखेत्येव पाठ मैसूरपुरे तैलङ्गाक्षरेषु मुद्रितपुस्तके लिखित पुस्तकेषु चोपलब्धवद्भिरस्माभिः स एव पाठो मूले निवेशितः । निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः की ( परिसंख्याभेदाः ) साच परिसङ्ख्या द्विविधा-श्रौती लाक्षणिकी चेति । तत्र 'अत्र होवावपन्ति' इत्यत्र श्रौती परिसङ्ख्या । एवकारेण (१) पवमानातिरिक्तस्तोत्र्यावृत्तेरभिधानात् । ११५ सरे "तत्फलभूतायाः शशादिपञ्चकव्यतिरिक्तपञ्चन स्वभक्षण निवृत्तेः" इत्येवोक्तम् । किञ्चास्य वचनस्यापञ्चनखभक्षणमात्र निवर्तकत्वे वालिनोऽपि पञ्चनखत्वेन तद्भक्षणेऽपि दोषानापत्त्या तेन स्वस्याभक्षणीयत्वकथनं एव च कारणात् स्वस्याहन्तव्यत्वबोधकं "सोऽयं पञ्चनखो हतः" इत्यादिकं च सर्वथा विरुद्धमापद्येत । अतः पूर्वोक्तविधयैव व्याख्येयम् ॥ ( परिसंख्याभेदाः ) परिसंख्यां विभजते-सा चेति । यत्र वाचकः शब्दः श्रूयते नञ् एवकारो वा सा श्रौतीपरिसंख्येत्यर्थः । लाक्षणिकीति । यत्र शक्तशब्दो नास्ति, निवृत्तिबोधनं तु लक्षगया, सा लाक्षणिकीत्यर्थः । मुदाहरति-अत्र ह्येवावपन्तीति । श्रत्रायं विषयःः- ज्योतिष्टोमनाम के सोमयागे सर्वसोमयाग प्रकृतिभूते सन्ति चरवारः स्तोमाःत्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, इति । प्रगीतमन्त्रसाध्यमुणि निष्ठगुणाभिधानं स्तोत्रम् । तद्गता संख्या स्तोमशब्देनोच्यते । ज्योतिष्टोमविकृतिभूतेषु सोमयागेषु मध्ये केचन प्रकृतितो विवृद्धस्तो मकाः,-'एकविंशेनातिरात्रेण प्रजाकामं याजयेत्' 'त्रिणवेनौजस्कामम्' इत्यादयः । केचनाविवृद्धस्तोमकाः 'त्रिद निष्टुदग्निष्टोम' इत्यादयः । तत्र यत्र क्रतौ स्तोमविवृद्धिराम्नाता, तत्र संख्यासम्पत्त्यर्थं स्थानान्तरादानीतानां साम्रां (२)पवमानस्तोत्रेषु तदितरस्तोत्रेषु च समुच्चयेनावापः प्राप्तः, एवं यत्राविवृद्धस्तोमकेषु प्राकृ-प्र तसम संख्या कस्तोमकता, तन्यूनस्तोमकता वा, तत्र विशेषविहितानां साम्नां निवेशार्थं यतः कुतश्चिदनियमेन सामोद्वापः प्राप्तः । तत्रेदमुच्यते - "त्रोणि ह वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप, अत्र ह्येवावपन्ति, अत एवोद्वपन्ति" इति । अस्यार्थःयज्ञस्य त्रीणि गायत्रीबृहत्यनुष्टुब्रूपाणि छन्दांसि उदरस्थानीयानि । अतः एतत्रितयातिरि तेषु पवमानस्तोत्रसम्बन्धिषु छन्दस्सु पवमानातिरिक्तेषु स्तोत्रेषु वा न सामावापः कार्यः । एवमुद्वापोऽपि एतेभ्य एव कार्य इति । एवञ्च - "अत्र ह्येवावपति" इति वाक्यं विबृदस्तोम केषु पवमानातिरिकस्तोत्रेषु सामावापपरिसंख्यापकम् । "अत एवोद्वपन्ती" ति तु] अविवृद्धस्तोमकेषु गायत्र्याद्यधिकरण नियमपरमिति । वस्तुतस्तु श्रावापविधिरेव विवृद्धस्तोमकेषु परिसंख्यापरः श्रविवृद्धस्तोमकेषु नियमपरः । उद्वापस्त्वर्थसिद्धोऽनुवाद एवेत्यन्यत्र विस्तरः । आवापः प्रक्षेपः । उद्वापः उद्धारः निष्कासनमिति यावत् । अतश्चात्र एवकारेण श्रुत्यैवान्यनिवृत्तेरभिधानादियं श्रौती परिसंख्यैति । अत्र यद्यपि पवमानशब्दो न श्रूयते तथापि गायत्र्यादीनां तत्रैव सत्वात् FOUNDED १. गायत्रीबृइत्यनुष्टुबितरव्यावृत्तेः इति कस्मिंश्चित् लिखितपुस्तके पाठः। २ ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि-बहिष्पवमानमेकं स्तोत्रम्, चत्वार्याज्यानि, चत्वारि पृष्ठानि, माध्यन्दिनपवमानमेकम्, यज्ञायज्ञियमे कमिति । तेषां तथैव विकृतावतिदेशेन प्राप्तौ तत्र श्रुताधिकसंrkaf Research Institute ख्यासम्पत्स्यर्थं सर्वेष्वपि स्तोत्रेष्वविशेषात् आवापः प्राप्तः इति । ११६ मीमांसान्यायप्रकाशः [ मन्त्र"पञ्च पञ्चनखा भक्ष्या" इत्यत्र तु लाक्षणिको । इतरनिवृत्तिवाच कस्य पदस्याभावात् । अत एवैषा त्रिदोषग्रस्ता । दोषत्रयं च श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य । पञ्चनखभक्षणस्य हानादश्रुतपञ्चातिरिक्तपञ्चनखभक्षणनिवृत्ति कल्पनात् प्राप्तस्य च पञ्चातिरिक्तपञ्चन खभक्ष. रास्य बाधादिति । अस्मिश्च दोषत्रये दोषद्वयं शब्दनिष्ठम्, प्राप्तबाधस्तु दोषोऽर्थनिष्ठ इति दिक । तत्सिद्धं मन्त्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणान्न मन्त्राम्नानमनर्थकम् । मतश्च युक्तं मन्त्राणां प्रयोगसमवेतार्थस्मारकतयार्थवत्वम् । तत्र ये मन्त्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजनं सम्भवति तदा तत्रैव विनियोगः । येषां तु न सम्भवति तेषां यत्र सम्भवति तत्रोत्कर्षः, यथा-पूषाद्यनु मन्त्रण मन्त्राणामित्युक्तम् । येषां क्वापि न सम्भवति तदुच्चारणस्य त्वगत्याऽदृष्टार्थत्वम् । सर्वथापि तु तेषां नानर्थक्यमिति ॥ तद्वयतिरिक्तविषयिण्येवेयं परिसंख्येति विज्ञायते । तत्रापि न बहिष्पवमानस्तोत्रेऽयं सामा. वापस्सम्भवति, तत्र सामैकस्वस्थ प्रत्यक्षतो विहितत्वात् । अतः परिशेषात् माध्यन्दिनपवमानार्भवपवमानविषय एव । तत्रापि साम्नामेवावापः, नर्चाम् । तासां तु प्रकृतितोइतिदिष्टानामेव अभ्यासेन संख्या सम्पत्तिरित्यायूह्यम् । एवं च सति यदत्रार्थसंग्रहव्याख्यातृभिः शिवयोगिभिक्षुभिः "अत्र ह्येवावयन्ति" इति स्वकपोलकल्पितं पाठमवलम्ब्य अवयन्तीति अवजानन्तीत्यर्थः । गायन्तीति यावत्, इति व्याख्यातम् यदपि कैश्चित् एतग्रन्थव्याख्याने-पवमानसंज्ञकनानास्तोमलक्षणानि सामानि, स्तोमाख्यमन्त्राणाम् इत्यादिकमुक्तं तत्सर्वे सम्प्रदायागतशास्त्रीय पदार्थाज्ञानमूल कमित्युपेक्षितव्यम् । लाक्षणिकीमुदाहरति-पञ्चेति । अत एव लाक्षणिकत्वादेव । प्राप्तस्येति । रागत इति शेषः । प्रसागतं विधित्रयनिरूपणं परिसमाप्य प्रकृतमुपसंहरति-तत्सिद्धमिति । तत्र मन्त्राणां प्रयोजनवत्वप्रकारं विविय दर्शयति-तत्रेति । अर्थवतां मन्त्राणां मध्ये इत्यर्थः । यत्र यस्य कर्मणः प्रकरणे । तत्रैव तस्मिन्नेव कर्मणि । इत्युक्तमिति । लिङ्गनिरूपणावसर इति शेषः । क्वापि न संभवतोति । प्रकरणे मुख्यार्थाभावेऽपि गौणायें विनियोगसम्भवे तत्र विनियोगः, यथा-"त्वं ह्यग्ने प्रथमो मनोता" इत्यादौ । • हि अग्नीषोमीयपशुप्रकरणे पाठाव तत्र च केवलाग्निदेवताकस्य यागस्या. भावात् सामान्यसम्बन्धबोधकप्रमाणाभावेन चोत्कर्षस्याप्यसम्भवात् प्रकृत एव कर्मणि अग्निपदस्याग्नीषोमलक्षणया निवेशः । लक्षणाया अपि च यत्रासम्भवः, नास्त्युत्कर्षे- ऽपि सामान्यसम्बन्धबोधकं प्रमाणं, प्रकरणे च न मुख्यो न वा लाक्षणिकोऽर्थः, तेषामेव परमदृष्टार्थत्वमङ्गीक्रियते, यथा - जपादिमन्त्राः इत्यर्थः । अगत्या इत्यनेन एवमगतिक - स्थले क्वचिदष्टार्थवाङ्गीकारेऽपि सत्यां गतौ न युक्तमदृष्टार्थत्वाश्रयणमिति सूचितम् । मन्त्रनिरूपणमुपसंहरति - सर्वथापीति । स्वाध्याय विधिपरिगृहीतत्वेनाल्पशोऽप्यानर्थक्यो- फेरयुक्तत्वादिति भावः ॥ 1917 सारविवेचनी व्याख्यासंवलितः (नामधेय निरूपणम्) नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथा हि- 'उद्भि दा यजेत पशुकामः' इत्यत्र उद्भिच्छब्दो यागनामधेयम् । तेन च विधेयार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन यागो विधीयते । यागसामान्यस्य चाविधेयत्वाद्यागविशेष एव विधीयते । तत्र कोऽसौ विशेषः ? इत्यपेक्षायां उद्भिच्छन्दादुद्भिद्रूपो याग इति ज्ञायते । उद्भिदा यागेनेति सामानाधिकरण्येन नामधेयान्वयात् । DY तस्य च यजिना सामानाधिकरण्यं न नीलोत्पलादिशब्दवत् । तत्र दि उत्पलशब्दस्यार्थादुत्पलादन्यो नोलशब्दस्य वाच्योर्थोऽस्ति नीलगुणः । (नामधेयनिरूपणम्) एतावता मन्त्राणां प्रयोजनवत्वमुपवर्ण्य इदानीमवसर प्राप्तं कर्मनामधेयानां प्रयोजन वत्वमुपपादयितुमारभते-नामधेयानामिति । ननु नामधेयानां न धर्मे प्रामाण्यं सम्भवति, तेषां त्र्यंशानन्तःपातित्वात, तथा हि-न तावदेतेषां फलबोधकत्वम्, कामशब्दाद्यभावेन तृतीयान्तत्वेन च फलप्रतिपादकत्वासम्भवात् । नापि साधनबोधकत्वम्, समानपदोपात्तेन धात्वर्थेनावरूद्धायां भावनायां पदान्तरोपात्तानां तथात्वासम्भवात् । नापि गुण विधायकत्वेनार्थभावनेतिकर्तव्यतान्तर्भावः, उद्भिदादिपदवाच्यस्य कस्यचित् गुणस्या. प्रसिद्धेः । नापि विधेयार्थस्तावकत्वेन प्रामाण्यम्, उद्भिदादिपदमात्रेण कस्या अपि स्तुतिबुद्धेरनुयात् । नापि मन्त्रान्तर्भावः, उद्भिदादिपदेषु मन्त्रप्रसिद्धेरभावात् । अतो. ऽन्यस्य कस्यापि धर्मंप्रामाण्य प्रकारस्याभावात् न नामधेयानां धर्मप्रामाण्य सम्भव इत्यत श्राह-विधेयार्थ परिच्छेदकतयेति । विधेयो यो घात्वर्थो यागादिः क्रियारूपः तस्परिच्छेदकतया इतरेभ्यो व्यवच्छेदकतयेत्यर्थः । विधिविषयीभूतघात्वर्थनिष्ठ वैजात्यबोध• कत्वेनेति यावत् । तेन व्रीह्यादिपदेषु नातिव्याप्तिः । उदाहरति तथा होति । परिच्छेदनस्वरूप मेवाह - अनेन हीति । यागसामान्यस्य चाविधेयत्वादिति । विधेयत्वं चाप्रवृत्तप्रवृत्तिविषयत्वरूपम्, तत्र च यावन्न विशेषोऽवगम्यते, तावत् क्वचिदपि पुरुषस्य प्रवृत्यनुदयात् विधेः प्रवर्त्तकत्वरूपं विधायकत्वमेव भन्येवेति भावः । श्रुतम्भ यजेतेत्यनेन यागविशेषस्य विहितत्वात् विशेषस्वरूपजिज्ञासायां उद्भित्पदं तादृश विशेषस्वरूपबोधकमित्याह- कोऽसाविति । ननु अत्रोद्भिस्पदं यागवाचकमेवेत्यत्र किं प्रमाणम् ? अत श्राइ- सामानाधिकरण्येनेति । एवञ्च उद्भिद्यजिपदयोः सामानाधिकरण्येनै कार्थवाचित्वावगमात् तदन्यथानुपपत्त्या उद्भित्पदस्य यागवाचित्वमङ्गीकर्तव्यमेवेति भावः । निरूपणम् ] ११७ UND 1917 नम्वत्र सामानाधिकरण्याङ्गीकारे उभयत्रापि भिन्नेन प्रवृत्तिनिमित्तेन भाव्यम् । भिन्नप्रवृत्तिनिमित्तयोरेकार्थबोधकत्वस्यैव सामानाधिकरण्यात्, प्रकृते च उद्भच्छन्द वाथ्यस्यार्थान्तरस्य कस्यचित् प्रसिद्धस्याभावात् प्रवृत्ति निमित्तस्यैवाभावेन तद्भेदस्य दूरा पास्तत्वात् । अतः कथमन्त्र सामानाधिकरण्यम् ? इत्यत आह-तस्य चेात । उद्भिच्छब्दस्येत्यर्थः । नीलगुण इति । । Bhandarkar Oriental मोमांसान्यायप्रकाशः [ नामधेय११८ लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम् । उद्भिच्छब्दस्य तु यज्यवगतयागविशेषान्नान्यो वाच्योऽर्थोऽस्ति, विशेषवाचित्वात्तस्य । श्रतवार्थान्तरवावित्वाभावेन न नामधेयस्य नीलशब्दवत् सामानाधिकरण्यम्, कि तर्हि १ 'वैश्वदेव्यामिक्षे'त्यत्रामिक्षाशब्दवत् । वैश्वदेवीशब्दस्य हि देवतातद्धितान्तत्वात्तद्धितस्य च 'सास्य देवता' इति सर्वनामार्थे स्मरसर्वनाम्नां चोपस्थित विशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवीशब्दोपात्तो विशेषः ? इत्यपेक्षायां श्रामिक्षापदलान्निध्यादामिक्षारूपो विशेष इत्यवगम्यते । यथाहुः गाव, नामिक्षां देवतायुक्तां वदत्येवैष तद्धितः । "अन्वयव्यतिरेकाभ्यां यो यमर्थं न मुञ्चति । स एव तस्य वाच्योऽर्थो गुणं चैष न मुञ्चति" ॥ इत्यरुणाधिकरणवार्त्तिकोत्तरीत्या नीलशब्दस्य गुण एव शक्ति: । न तु तद्विशिष्टद्रव्ये, विशिष्टे शक्तिकल्पनायां गौरवादिति भावः । यद्येवमुभयोर्भिन्नार्थकत्वात् कथं सामानाधिकरण्यमित्यत आह-लक्षणया स्विति । यत्र द्रव्यप्रतीतिरप्यावश्यिकी तत्र सा लक्षणयापि भवितुमर्हतीति न तदर्थ शक्तिकल्पनमिति भावः । प्रकृते तद्वैपरीत्यमाह - उद्भिदिति । वैश्वदेव्यामिक्षेति । तप्ते पयसि दधन्यासिक्ते सति तत्पयो द्विधा परिणमति-घनीभूतत्वेन द्रवीभूतत्वेन च । तत्र यत् घनीभूतं तदामिक्षापदवाच्यम् । यत् द्रवीभूतं तत् वाजिनम् । अत्र प्रथमा तृतीयान्ततया विपरिणम्यते, यजेतेत्यध्याहि. यते, विश्वदेवदेवताकेनामिक्षाद्रव्य केण यागेनेष्टं भावयेदिति वाक्यार्थः । श्रामिक्षाशब्दवदिति । यथा वैश्वदेवी शब्दोपात्त विशेष समर्पकत्वेनामिक्षाशब्दस्य तेन सह सामानाधिकरण्यं तद्वदित्यर्थः । वैश्वदेवीशब्दस्य च कथं विशेषवाचित्वम् ? अत आह-देवतातद्धितान्तत्वादिति । सामान्यस्य त्यागविषयत्वासम्भवेन प्रवृत्तिविशेषाजनकत्वेनाकिञ्चित्करत्वात् । । TECHAPE (casth Mbisnogy "नैव हि द्रव्यमात्रस्य तद्धितैर्देवतोच्यते । मस्य शब्दाभिधेयस्य विशेषस्यैव देवता" ॥ 33PM10 इति वार्तिकोकरीत्या तद्धितघटक सर्वनाम्ना द्रव्यविशेषस्यैवोक्तत्वात् युक्तं वैश्वदेवीशब्दस्य विशेष परत्व मिति भावः । ननु तद्धितान्तपदेनैव द्रव्यविशेषस्याप्युक्तस्वात् मामिक्षा पदवैयर्थ्यापत्तिरियत ग्राह-तत्रेति । एवञ्च तद्धितान्तपदेन देवतोपसर्जन. कद्रव्यविशेषप्रत्यये सजाते कः पुनरसौ द्रव्यविशेष इत्याकाङ्क्षोपजायते । उत्पन्नायां चाकाङ्तायां स्ववाक्योपात्तमा मिक्षा पदमामिक्षारूप विशेषसमर्पकम् । अतश्च नात्र सामा• न्य विशेषभूतयोरर्थयो विशेषण विशेष्यभावः, किन्तु शब्दयोरेव स इत्याद्याशयः । 1917 ch तत्र वार्तिकं प्रमाणयति – आमिक्षामिति । अत्रैवकारो भिन्नक्रमः । एषः "सातेजस्विनावधीतमस्तु । स्य देवता" इत्यधिकारे विहितः अणु प्रत्ययरूपः तद्धित एव देवतायुक्तमामिक्षारूपं निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः श्रामिक्षा पदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । श्रुत्यैवोपपदस्यार्थः सर्वनाम्ना(१) भिधीयते । तदर्थस्तद्धितेनैवं त्रयाणामेकवाच्य (२)ता ॥ इति । तस्मात् यथा वैश्वदेवोशग्दोपात्त विशेष समर्पकत्वेनामिक्षापदस्य वैश्वदेवोशब्देन सामानाधिकरण्यम्, एवं सामान्यस्याविधेयत्वाद्यज्यवगतया. गविशेषसमर्पकत्वेन नामधेयस्य यजिना सामानाधिकरण्यम् । तत्सिद्धं नामधेयानां विधेयार्थपरिच्छेद कतयाऽर्थवत्वम् । यथाहुःतथा H ११६ 'तदधीनत्वाद्यागविशेषसिद्धेः' इति । नामधेयत्वं च निमित्तचतुष्टयात्-मत्वर्थलक्षणाभयात्, वाक्यभेदभयात् तत्प्रख्यशास्त्रात्, तद्व्यपदेशाच्चेति । द्रव्यविशेषमभिधत्त इत्यर्थः । नन्वेवं तद्धितेनैवामिक्षोकौ श्रामिक्षा पदवैयर्थ्यमित्याशङ्कयाह -श्रामिक्षापदेति । सन्निहितार्थविशेषवाचित्वेन विहितस्य तद्धितस्य तत्समर्प. कपदापेक्षायां श्रामिक्षापदेन तत्समर्पणं क्रियत इत्यर्थः । तस्य तद्धितस्य विषयार्पणमेवेत्यन्वयः । तद्धितोपपदसर्वनाम्ना मेकार्थत्वे वार्तिकोदाहृतां वृद्धसम्मतिं स्वयमुदाहरतिश्रुत्यैवेति । उपपदस्य श्रामिक्षारूपस्य योऽर्थः सः वृत्तिघटकेन 'अस्ये' ति सर्वनाम्ना श्रुत्यैवाभिघीयते, तदर्थ एव च तद्धितेनेति त्रयाणां तद्धितोपपदसर्वनाम्नामेकमेव वाव्यमित्यर्थः । Orental दृष्टान्तं प्रकृते सङ्गमयति - तस्मादिति । सामानाधिकरण्यमिति । एवञ्च यत्रार्थद्वारको विशेषणविशेष्यभावः तत्रैव प्रवृत्ति निमित्तैकार्थवृत्तित्वरूपसामानाधिकरण्यापेक्षा; संज्ञायास्तु संज्ञान्तरविशेषात् स्वविषयव्यावर्तकस्वमिति नैवंविधसामानाधिकरण्यापेक्षा, किन्तु तुल्यविभक्तिकनिर्देशमात्रमत्र सामानाधिकरण्यमिति भावः । इदानीं नामधेयानी प्रयोजनवत्वनिरूपणमुपसंहरति-तत्सिद्धमिति । अर्थव त्वम् प्रयोजनवत्वम् । अर्थवत्वे वार्तिकं प्रमाणयति - तदधोनेति । वार्तिके नामधे. यस्य सार्थक्यप्रतिपादनप्रकरणस्थमिदं वाक्यम् । ननु विहितविधानासम्भवेन एतद्विधिविहितस्य यागस्य विध्यन्तरविहितेभ्यो यागेभ्यो भेदस्य प्रतीतत्वात् धातुत एव चानुष्ठानयोग्ययागविशेषसिद्धेः नामधेयवैयर्थ्यमित्याशङ्कायामाह-तदधीनत्वादिति । नामधे. याधीनत्वादिस्यर्थः । अयमाशयः - यद्यपि श्रप्रवृत्तप्रवर्तनात्मक विधिविषयत्वान्यथानुपपत्तिपर्यालोचनया यागविशेषसिद्धिः, तथापि कोऽसौ विशेषः इति जिज्ञासायां तन्निर्धारणस्य नामधेयाधीनसिद्धित्वात् तादृशार्थनिर्धारकत्वेन नामधेयानामर्थवत्वमिति । एवं नामधेयानामर्थवत्वं निरूप्येदानों नामधेयत्वापादकं हेतुं निरूपयति-नामधे. यत्वं चेति । निमित्तचतुष्टयादिति । अनेन यत् कैश्चित् पञ्चमं नामधेयत्वे निमित्तमुक्तमुत्पत्तिशिष्ट गुण बलीयस्त्वरूपं तत् न सङ्गत मिति वक्ष्यमाणमिह जस्विनावधीतमस्तु १. सर्वनाम्नः प्रतीयते, २ वाक्यता. १२० मीमांसान्यायप्रकाशः [ नामधेयO । (मत्वर्थलक्षणाभयात् कर्मनामधेयत्वनिरूपणम्) तत्र "उद्भिदा यजेत पशुकाम" इत्यत्र उद्भिच्छन्दस्य यागनामधेवत्वं मत्वर्थलक्षणाभयात् । तथा हिउद्भिच्छन्दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न (१)गुणविधानं युज्यते, फलपदानर्थक्यापत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं (२) तस्मिंश्च गुणविधानं युज्यते, वाक्यभेदापत्तेः । नापि गुणफलसम्बन्धविधानं सम्भवति, परपदार्थविधानेन विप्रकृष्टा( मस्वर्थलक्षणाभयात् कर्मनामधेयत्व निरूपणम् ) तत्र तावत् प्रथमं निमित्तमुदाहरति - उद्भिदेति । उद्भित्संज्ञकेन यागेन पशुरूपं फलं भावयेदिति वाक्यार्थः । नन्वत्र उद्भिच्छब्दस्य गुणसमर्पकत्वे सम्भवति किमर्थमप्रवृत्तिविशेष करना मधेयत्वाङ्गीकरणमित्यत श्राह-मत्वर्थलक्षणाभयादिति । गुणविधित्वस्वीकारे मत्वर्थलक्षणाजीकरणरूपो यो दोषः तद्भयादित्यर्थः । गुणसमर्पकत्वे मत्वर्थ. लक्षणारूपदोषापत्तिमेवोपपादयति-तथा हीति । उद्भिद्यते उर्ध्वं विदार्यते भूमिरनेनेति व्युत्पत्त्या भूमेरुवंविदारणसाधनं खनि त्रादिः पूर्वपक्षेऽर्थो वेदितव्यः । यागानुवादेनेति । सोमेन यजेतेत्यनेन यों विंहितो ज्योतिष्टोमः तदुद्देशेनेत्यर्थः । यद्यपि ताण्डके षष्ठेऽध्याये श्रग्निष्टोमविधानात् एकोनविंशे चोद्भिद्वलभिदादीनां द्वन्द्वानां ऋतूनां विधानात् मध्ये च साद्यस्क्रादीनां बहूनां क्रतूनां विधानेन तैः व्यवधानात् अत्र प्रकरणशवनोदेतीत्यप्रकृतस्य यागस्योद्देश्यत्वकथनं न युक्तम्, तथापि षष्ठे विहितस्याप्यग्निष्टोमस्य दक्षिणादिविधानार्थं षोडशेऽध्याये पुनरुपादानात् तदुत्तरपठिताना मे का हादीनामप्युदाहरणत्वादुपस्थितिरस्ती त्यभिन्धायेदमुक्तं वात्तिकादौ; तदेवात्रापि ग्रन्थकृतानूदितमिति वेदितव्यम् । फलपदानर्थक्यापत्ते रिति । यागानुवादेन गुणविधाने यागस्यैवोद्देश्यत्वेन फलस्य तदनापत्या तस्याप्युद्देश्यत्वानी कारे वा अनेकोद्देश्यत्व निबन्धनवाक्यमेदापत्त्या परिशेषात् फलपदस्यानर्थक्य मेवापाद्येतेति भावः । नन्वेवं तर्हि वाक्यस्यास्य गुणसमर्पकत्वं फलसमर्पकत्वं चेत्युभयमङ्गीक्रियते, फलोद्देशेन यागविधानात् न फलपदानर्थक्यम्, यागोद्देशेन गुण विधानाच न गुणपदानर्थक्यमपीत्याशङ्कायामाह-न चेति । वाक्यभेदापत्तेरिति । तथात्वे यागस्य तन्त्रेण युगपदुभयत्र सम्बन्धोऽङ्गीकर्तव्यः, स च न सम्भवतीत्युपपादितमधस्तात् । अतो विधेरावृत्ति मङ्गीकृत्य यागेन फलं भावयेत्, सोमेन यागं भावयेत् इत्येव वाक्यार्थोऽङ्गीकार्यः, ततश्च विध्यावृत्तिलक्षणो वाक्यभेद इत्यर्थः । 125 FOUNDED ननु "दध्नेन्द्रियकामस्य जुहुया"दित्यादौ यथा प्रकृतं अग्निहोत्रहो ममाश्रित्य इन्द्रिय प्राप्ति रूपफलोद्देशेन दधिरूपगुण विधानमजी क्रियते तद्वदत्रापि प्रकृतं ज्योतिष्टोम• माश्रित्य पशुरूपफलोद्देशे नोद्भिद्रपगुण विधिरङ्गीक्रियताम्, न भविष्यति वाक्य भेदः इत्यत श्राह-नापीति । परेति । धास्वर्थादतिरिक्तः यः उद्भिद्गुणरूपः पदार्थः तद्विधानेने १. गुणणे विधीयते. क. २. तस्मिंश्च गुणविधानमिति नास्ति. क. निरूपणम् । सारविवेचिनोव्याख्यासंवलितः र्थविधानापत्तेः धात्वर्थस्य स्वरूपेणाविधानात्तदुद्देशेन वान्यस्य कस्यचि दविधानाद्धातोरत्यन्तपारार्थ्यापत्तेश्च यज्यानर्थक्यापत्तेश्च; न हि तदानेन करणं समप्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम्, पशोंर्भाव्यत्वेनान्वयात् । क अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेन सम्बन्ध इति चेत्-नः यजेतेत्यत्र माश्रयत्ववाचक पदाभावात् । श्रथ सिद्धान्ते करणत्वमिवाश्रयस्वमपि लक्ष्यमिति चेत्-न, श्राश्रयत्वापेक्षया करणध्वस्य लघुत्वेन तलक्षणाया एव युक्तत्वात्। फलाय विधीयमानो गुणों यत्र (१) कारकतामात्यर्थः । ननु "दघ्ना जुहोति" इत्यादी होमोहेशेन गुणविधानात् विप्रकृष्टार्थविधानमेवानीक्रियत इति तद्वदत्रापि भवतु, तह-धात्वर्थस्येति । अयं भावः - सर्वत्र हि तावत् यद्यपि विधिर्भावनामेव विषयीकरोति तथापि निरवच्छिन्नायास्तस्याः विधिविषयत्वासम्भवात् धात्वर्थमपि तादृशभावनाविशेषणतया स विधत्ते । यत्र तु स प्रमाणान्तरेण प्राप्तः तत्र तदुद्देशेनान्यत् विघत्ते । एवञ्च धात्वर्थस्य विधौ विधेयत्वेन सम्बन्धो मुख्यः कल्पः, उद्देश्यत्वेन सम्बन्धस्ततो जघन्यः कल्पः, उभयथाप्य सम्बन्धोऽत्यन्तजघन्यः; प्रकृते च विधेयत्वस्य गुणसंक्रान्तत्वात् उद्देश्यत्वस्य च फलनिष्ठत्वात् धात्वर्थस्योभयथापि सम्बन्धाभावेनात्यन्तजघन्यता पत। अत्यन्तपारार्थ्यापत्तेरिति । धातोः स्वार्थमुच्चारणाभावात् पशुद्भित्सम्बन्धविधानार्थं विधिप्रत्ययस्यावश्यकत्वेन केवलक्ष्य तस्य प्रयोगान र्हत्वात् तदर्थमेव धातोरच्चारणमित्यत्यन्तपारार्थ्यमित्यर्थः । पारार्थ्या. पत्तेः फलमाह-यजीति । आनर्थक्यापत्तिमेवोपपादयति-न हीति । तदा गुणफलसम्बन्धविध्यङ्गीकारे । अनेन यजिघाना । फल मिति । समर्प्यत इति शेषः । अत्र फलशब्द उद्देश्यत्वापरपर्यायः । एवंच धात्वर्थस्य भावनाया मुद्देश्यत्वेनाप्यन्वयो न भवतीत्यर्थः । पशोरिति । भाव्यस्योद्देश्यानन्यत्वादिति भावः । M ननु गुणफलसम्बन्धविधिस्थले गुणनिष्ठ करणत्वस्यैव फलोद्देशेन विधानात् तस्य निरूपकापेक्षायां धास्वर्थस्यैव तन्निरूपकत्वरूपाश्रयत्वेनान्वयाङ्गीकारात् कथं यज्यानर्थक्यमित्याशङ्कते- प्रथेति । यागाश्रितेनोद्भिन्निष्ठ करणत्वेन पशून् भावयेदिति वाक्यार्थोऽभिप्रेतः । तथा च घातोरत्यन्तपारार्थ्यांदिको दोषः परिहियेतेति भावः । समाधत्ते-नेति । यजेतेत्यत्रेति । 'उद्भिदा यजेते'त्यत्र यजिषातोः प्रत्ययस्य च श्रवणात घातोः याग. मात्रवाचिस्वात् प्रत्ययेन च विधिभावनयोरभिधानात् तदतिरिक्तस्य च कस्यचिदाश्रयस्ववाचकस्य पदस्य।श्रवणादित्यर्थः । यद्येवं तर्हि उत्पत्तिविधिमीकुर्वतो भवतो मते धात्वर्थस्य कथमन्वयः ? करणत्वेनेति चेत् कथमेतत् १ तद्वाचकतृतीयाभावात् । यदि च "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह व्रतः" इत्यनुशासनबलात् घातोरेव करणत्वलक्षकत्वमित्युच्येत, तर्हि ममाप्याश्रयत्वमेव धातुना लक्ष्यतामित्याशङ्कते-अथेति । तल्लक्षणायाः करणश्वलक्षणायाः । कथं करणत्वस्य लघुभूतत्वम् ? प्रत आह-फलायेति । asute Bhandarkar Oriental MOUSS १. प्रकारताम्, क १६ मो० न्या० १२२ मीमांसान्यायप्रकाशः [ कर्मनामधेयपद्यते स आश्रयः, तत्त्वं चाश्रयत्वम् । करणत्वं च निष्कृष्टा शक्तिरिति लाघवम् । किञ्च गुणफलसम्बन्धविधाने करणीभूतो गुणः तन्निष्ठंवा करणत्वं फलोद्देशेन विधेयम् । तत्राद्ये पक्षे करणत्वस्य गुणोपसर्जनत्वेन प्रतीतिर्लक्षणयैव वाच्या । तस्य तृतीयाप्रत्ययार्थत्वात् प्राधान्येनोपस्थितेः । यदापि गुणनिष्ठं करणत्वं फलोद्देशेन विधेयं तदापि फलभावनायां करणत्वेनान्वययोग्य गुणनिष्ठ करणत्वोपस्थितिर्लक्षणयेव वाच्या । तृतीनिरूपितपूर्वमिदम् । निष्कृष्टेति । "विभक्तयो हि कारकशक्तिं निष्कृष्याभिधाय क्रियां विशिषन्ति'" "कारकं चाभिद्धत् प्रत्ययः शक्तिमात्ररूपेणाभिदध्यात्, न द्रव्यरूपेण; तस्याकारकत्वात् । यस्यापि द्रव्यं कारकं तेनापि शक्तिविशेषणत्वेनावश्यमभ्युपगन्तव्या । तद्रहितद्रव्यव्यापारासम्भवात् । ततश्चाकृत्यधिकरणात् शक्तेरेवाभिधानम्" इति "तस्मात् शक्तिमद्रव्यकारकपक्षेऽपि अवश्यं निष्कृष्य शक्तिमात्रं सुप्तिभ्यामभिधेयम्" इति च वार्तिकोक्त्या तृतीयादिविभकत्यभिहितानां करणत्वादिरूपकारकाणां निष्कृष्टाखण्डशक्तिरूपत्वावगमात् तस्याभ फलोद्देश्य कगुणनिष्ठकरण तानिरूप कत्वरूप निर्वचन सापेक्षाश्रयत्वा पेक्षा अत्यन्तलघुभूतस्वादित्यर्थः । करणीभूत इति । दध्नेति तृतीयान्तं दघिपदमत्र श्रूयते । तत्र प्रकृत्यर्थो दधिरूपो गुणः, प्रत्ययार्थः करणत्वम्, तत्र प्रत्ययार्थस्य प्रकृत्यर्थगुणोपसर्जनत्वेनान्वय मङ्गीकृत्य करणत्वविशिष्टस्य दग्नः फलभावनाकरणत्वेनान्वयः, अथ वा प्रकृत्यर्थस्य दग्नः प्रत्यया थंकरण त्वेऽन्वय मङ्गीकृत्य दधिंनिष्ठकरणत्वस्य फलभावनाकरणत्वेनान्वय इति द्वेघाप्य • न्वयो भवताशीकर्तुं शक्यः इत्यर्थः । तन्निष्टं गुणनिष्ठम् । तत्र द्वयोरन्वययोर्मध्ये । आद्यं पक्षं दूषयति माद्य इति । गुणोपसर्जनत्वेन प्रकृत्यर्थरूपद्रव्यादिविशेषणस्वेन । तस्य करात्वस्य । प्राधान्येनेति । "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः तयोस्तु प्रत्ययः प्राधान्येन" इति स्मृत्या प्रत्ययार्थस्य प्राधान्यस्मरणादिति भावः । एवञ्च प्राधान्येनोपस्थितियोग्यस्य करणत्वस्यान्योपसर्जनत्वेनोपस्थितिर्लक्षणामन्तरा न सम्भवतीत्यवश्यमङ्गीकार्या लक्षणेति भावः । यद्येवं तर्ह्यस्तु द्वितीयः पक्षः, तत्र करणत्वस्य गुणोपसर्जनत्वाभावेन प्राधान्येनैवो पस्थितेः लक्षणाया अभावात् इत्यत श्राह- यदापीति । सत्यं करणत्वस्य गुणोपसर्ज• नत्वं नास्ति, तथापि तृतीयाभिहितकरणत्वस्य कारकत्वात् कारकस्य च साक्षात् क्रिययैवान्वयस्य व्युत्पन्नत्वेन करणत्वेनान्वययोग्य करणत्वस्य तृतीयातः उपस्थितिलक्षणाम. न्तरा न सम्भवतीत्यस्मिन्नपि पते लक्षणा दुर्वारेत्याह- तदापीत्यादि । ननु तृती• यया शक्त्याभिहितस्यैव करणत्वस्थ करणत्वेनान्वयो भवतु, किमर्थ लक्षणेत्यत आहतृतीयेति । "कारके" इत्यधिकृत्य "साधकतमं करणम्" इति करण संज्ञा विधानाव, तत्र च "कर्तृकरणयोस्तृतीया" इति तृतीया विधानात् तादृशतृतीयाभिहितस्य 64 निरूपणम् ] सारविवेचिनोव्याख्या संवलितः याभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्य त्वात् । करणशब्देनाभिहितं हि करणकारकं तत्त्वेनान्वययोग्यं न तृतीयाभिहितम् । करणशब्दादिव तृतीयातस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्वययोग्य गुणनिष्ठकरणत्वोपस्थितिलक्षणयैव वाच्या । लक्षणया चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य फलभावनायां यत्करणत्वं तदपि लक्षणयैव वाच्यम्, श्रयमाणया तृतीयया गुणमात्रस्य यागं प्रति करणत्वाभिधानात् । अत एव (१) तन्त्ररत्ने चतुर्थे करणीभूतगोदोहनादेः पश्वर्थत्वं समभिव्याहाकरणत्वस्य कारकत्वावश्यंभावात् कारकस्य च तस्य क्रियाभिन्नेन करणत्वेनान्थ्यो न सम्भवतीति भावः । करणकारकस्येति । करणत्वरूपं यत् कारकं तस्येत्यर्थः । ननु नायं नियमस्सम्भवति, बाणेन करणेन हृतः, दना करणेन होमः सम्पाद्यते, इत्यादौ करणकारकस्यापि क्रियाभिन्नेन करणत्वेनान्वयस्य शतशस्स्वीकारात्, श्रत ग्राह-कर. गशब्देनेति । सत्यमङ्गीक्रियते, परन्तु तन्न तृतीयाभिहितम्, किन्तु करणशब्दाभिहितम् । करणशब्देन द्दि कृदन्तेन द्रव्योपसर्जनीभूतस्यैव करणकारकस्याभिघानात् युक्तः तस्य पदार्थान्तरेणाप्यन्वयः । तृतीयया तु श्रंन्यानुपसर्जनीभूतस्यैव तस्याभिघानात् न तस्य क्रियातिरिक्तेनान्वयस्सम्भवतीत्यर्थः । तथात्वे अनिष्टमापादयति- करणशब्दादिति । अतोऽपरिहार्या लक्षणेत्युपसंहरति -प्रतश्चेति । एवं गुणनिष्ठ करणत्वस्य प्रतीतिर्लक्षणयैव भवितुमर्हतीति निरूप्य तादृशकरणत्वस्थान्वययोग्यं यत् करणटवं तस्याप्युपस्थितिलक्षणयैव वक्तव्येस्याह – लक्षणयेति । ननु गुणफल सम्बन्धविधिस्थले तृतीयावगतकरणत्वस्य धात्वर्थनिरूपितत्वे गुणस्य तत्करणत्वस्य वा यत्फलभावनाकरणत्वं तद्द्बोधकस्य शब्दस्याभावात् तत्प्रतीतिरेव न स्यात्, न हि तृतीया तल्लक्षिका, तथा गुणनिष्ठ करणत्वस्य लक्षितत्वेन लक्षणाद्वयासम्भवात्, इत्यत आह - अत एवेति । एतादृशदोषभियैवेत्यर्थः । गोदोहनादेरिति । "गोदोहनेन पशुकामस्य प्रणयेत्" इत्यादिना विहितानां गोदोहनादीनां गुणानामित्यर्थः । दर्शपूर्णमा सप्रकरणे-'चमसेनापः प्रणयेत्' इति अप्प्रणयनाङ्गत्वेन चमसाख्यः पात्रविशेषो दारूनिर्मितो विहितः । यदि पशुरूपफलेच्छा, तदा तदेव प्रणयनं गोंदोइनेन कर्तव्यमिति, यस्मिन् पात्रे गौह्यते तत्पात्रं गोदोहनशब्दार्थः । पश्वर्थत्वं पशुरूपफलार्थवम् । समभिव्याहारादिति । अयं हि तत्रव्यो प्रन्थः- "यद्यपि पशुकामपदसमभिब्याहारात् पुरुषार्थत्वं तस्य, तथापि क्रत्वर्थप्रणयनाश्रयणात् तम्मुखेन ऋतूपकारकत्वं तावदवश्यानो कर्तव्यम्" इति । एवञ्च लक्षणातो बिभ्यद्भिरेव तन्त्ररत्न का रैः गुणफल सम्बन्धविधिस्थले गुणस्य फलाङ्गता समभिव्याहारेणेत्युक्तमिति भावः । अतश्रोद्धिच्छब्दस्य गुणसमर्पकत्वे तद्वाक्यस्य गुणफलसम्बन्धविधायकत्वाङ्गीकारापातात् तत्र च धातुपारार्थ्यादिदोषबहुत्वात् तदपेक्षया वरं गुणविशिष्टघात्वर्थविधिस्वी करण मि १. *तन्त्ररत्नम् श्रीपार्थसारथिमिश्रकृतो व्याख्यानविशेषः श्रीकुमारिलस्वामिकतायाः टुपटीकायाः । १२४ मोमांसान्यायप्रकाशः 3 रादित्युकम् । ततश्च गुणफलसम्बन्धविधाने दिबहुदोषवत्त्वादुद्भिच्छन्दस्य [ कर्मनामधेयअथातोरत्यन्तपारार्थ्यागुणविशिष्ट कर्मविधानमेव गुणसमर्पकत्वे स्वीकार्यम् । तथा सति हि यजिना लघुभूतं करणत्वमात्रं लक्ष्यम् । उद्भिच्छब्देन च प्रकृत्यंशेन मत्वर्थमात्रं लक्ष्यमिति गुणफल सम्बन्धविधानाल्लाघवं भवति । धातोरत्यन्तपारार्थ्यादिकं तु न भवत्येव । धात्वर्थस्यैव फलोद्देशेन विधानात् । अतश्चोद्भिच्छब्दस्य गुणसमर्पकत्वे तेन मत्वथं लक्षयित्वा गुणविशिष्टकर्मविधानं स्वीकार्यम्-उद्भिद्धता यागेन पशुन् भावयेदिति । कर्मनामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा। मुख्ययैव वृत्त्या यजिसामानाधिकरण्येन तस्यान्वयसम्भवात्-उद्भिदा यागेन पशून् भावये. दिति । संभवति च मुख्येऽर्थे न लक्षणा आश्रयितुं युक्ता । सन्निकृष्टविधानं तु समानमेव । कल न चैवं 'सोमेन यजेत' इत्यत्रापि सोमपदस्य यागनामधेयत्वा. पातः, गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य त्या-ततश्चेति । अस्मिन् पक्षे लाघवमुपपादयति-तथा सतीति । गुण. विशिष्टकर्मविधिस्वीकार इत्यर्थः । यजिना यजिधातुना । लघुभूतमिति । आश्रयत्वा. पेक्षयेति शेषः । एवञ्च गुणफल सम्बन्धविधिपक्षे यजिधातुना गुरुभूतमाश्रयत्वं, उद्भिदेति तृतीयया करणत्वेनान्वययोग्यं करणत्वं धातुना च तदन्त्रययोग्यं करणत्वं च लक्षणीयम्, "धातुपारार्थ्यांदिरूपाश्च दोषाः इत्यत्यन्तगौरवम् गुणविशिष्ट कर्मविधिपक्षे यजिधातुना लघुभूतं करणत्वं उद्भिच्छन्देन च मत्वर्थः इत्युभयमेव लक्षणीयम् । धातुपा रार्थ्यादिकं तु नास्तीत्यादि बोध्यम् । FIFing Piples E तर्हि गुणविशिष्ट कर्मविधिरेवाङ्गीक्रियताम्, किमप्रवृत्तिविशेषकरन। मधेयत्वाङ्गी कारेण, तहकर्मेति । सत्यमनेकदोषापादकगुणफलसम्बन्धविधानापेक्षया लक्षणाद्वयापादकविशिष्टविष्यङ्गीकरणमेव युक्तम्, तथापि कर्मनामधेयत्वाङ्गीकारे तदपि लक्षणाद्वयं न भवतीत्यस्ति ततोऽपि लाघवमित्याशयः । उद्भिच्छब्दस्येति । अनेनाप्राप्तिस्थले धात्वर्थस्य करणत्वेनैवान्वयात् तादृश करणत्वस्य धातुनैव लक्षणीयत्वात् सा लक्षणा परसमवर्जनीयेति सूचितम् । मुख्ययैवेति । शक्त्येवेत्यर्थः । तस्य उद्भित्पदार्थस्य । उद्भिदा यागेनेति । उद्भिदभिन्नयागेनेत्यर्थः । यद्यपि मीमांसकमते प्राथमिकबोधवे. लायां नामार्थयोः परस्परान्वयो न व्युत्पन्नः, तथापि उद्भित्पदार्थस्य साक्षादेव प्रथमतो भावनान्वये पश्चात् नामधेयस्य परिच्छेद्यापेक्षायां घात्वर्थ स्यापरिच्छिन्नस्यानुष्ठानायोगात् परिच्छेदकापेक्षायां पश्चादरुणैकहायनीन्यायेन पाण्ठिकोऽभेदेन परस्परं सम्बन्धः इति ध्येयम् । समानमेवेति । विशिष्टविधिनामधेयत्वपढ्योरिति शेषः । एवञ्च विशिष्टविधिपक्षे लक्षणादोष एक आपद्यते, नामधेयत्वपक्षे तु सोऽपि नास्तीति सूचितम् । नन्वेवं गुणविधौ सम्भवत्यपि मत्वर्थलक्षणाभयादेव यदि कर्मनामधेयत्वाशी करणं, तहिं "सोमेन यजेते" त्यस्यापि गुणविधित्वे मत्वर्थलक्षणापत्या तदनापादकं सोमपUNDE 1917 निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः १२५ लतायां रूढत्वेन यागना मधेयत्वानुपपत्ते रगत्या लक्षणाश्रयणात् । उद्भिच्छब्दस्य तु नैवं वाच्योऽर्थः कश्चित्प्रसिद्धः । उद्भिद्यते ऽनेनेति योगस्य तु गुण इव यागेऽपि फलोद्भेदनकारिरायुपपत्तेः । तत्सिद्धमुद्भिच्छन्दस्य मत्वर्थलम क्षणाभयाद्यागनामधेयत्वम् ॥ ( वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् ) R 'चित्रया यजेत पशुकामः' इत्यत्र चित्राशब्दस्य वाक्यभेद्भयात् कर्मनामधेयत्वम् । तथा हिन दस्य कर्मनामधेयत्व मेवाङ्गीक्रियतामित्याशङ्कते-न चैवमिति । लतायां रूढत्वेनेति । उक्तं हि भाग्यकृता-'सोमशब्दः क्षोरिएयां लतायां प्रसिद्धः' इति, "श्यामलाऽम्ला च निष्पत्रा क्षीरिणी त्ववि मांसला श्लेष्मला वमनी वल्लो सोमाख्या ब्रागभोजनम्॥ इति चान्यत्र । अयं भावः - प्रसिद्धस्यैव पदस्य प्रसिद्धपदसमभिव्याहारेणार्थनि र्णयः क्रियते । न तु प्रसिद्धमपि पदं समभिव्याहारमात्रेण लाघवादिना वा स्वार्थादपकृष्यते । "पदमशातसन्दिग्धं प्रसिद्धैरपृथकश्रुति निर्णीयते निरूढं तु न स्वार्थादपनीयते"क इति न्यायात् । अतश्च दघिसोमादीनामर्थविशेषेऽत्यन्तरूढत्वेन यजिसामानाधिकरण्यस्यैवाभावेन नामधेयश्वाङ्गीकरणं सुदुष्करमिति गत्यन्तराभावात् लक्षणैवाश्रितेति । अगत्येति । नामधेयत्वाङ्गी करणरूपगतेरभावादित्यर्थः । नन्वेवं उद्भिच्छब्दस्याप्यवयवशक्त्या खनित्रादौ रूढत्वात् यजिसामानाधिकरण्याभावेन यागनामधेयत्वं न स्यात् इत्यत आह-उद्भिद्यत इति । 'भिदिर् विदारणे' इत्यनेन उत्पूर्व कभिद्धातोः ऊर्ध्वविदाररूपार्थकत्वा वग मेऽपि घातूनामनेकार्थत्वात् "वैडूर्यभूमेर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव" इति प्रयोगात् उत्पादनार्थकत्वस्याप्यवगतेः येनैव रूपेण फलोत्पादकस्वरूपेण गुणे वृत्तित्वं, तेनैव योगेन कर्मण्यपि प्रवृत्तिसम्भवात् दग्यादिपदवत् अर्थवि शेषे रूढयभाव।त् श्रप्रसिद्धार्थकस्य तस्य यजिसामानाधिकरण्येन लाघवानुगृहीतेन कर्म. नांमधेयत्वाङ्गीकरणमेव युक्तमिति भावः । यथोक्तम् । विशिष्टविधिपक्षे तु भवेन्मर्थस्खलक्षणा सोमादौ गत्यभावात् सा न त्वत्र गतिसम्भवात् ॥ इति । एवञ्च विशिष्टविध्यङ्गीकारे मत्वर्थलक्षणारूपदोषापत्या तत्परिहारार्थमेवोद्भित्पदस्य कर्मनामधेयत्वाङ्गीकरणमित्युपसंहरति - तत्सिद्धमिति ॥ (वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् ) FOUNDED इदानीं यत्र वाक्यमेदभयात् कर्मनामस्वं तदुपपादयति-चित्रयेति । विचित्रद्रव्यकत्वात् चित्रासंज्ञकयेष्टया पशुरूपं फलं भावयेत् इत्ति वाक्यार्थः । ननु चित्राशब्दस्य चित्रगुणवाचकत्वेन लोके प्रसिद्धत्वात् तादृशगुण विशिष्टकर्मान्तरमेव विधीयताम् । श्रथ वा यत्र कर्मणि द्रव्यमपि प्राप्तं तत्र तदनुवादेन चित्रत्वरूपो गुणो विघीयताम् । प्राप्त कर्मानुवादेन गुणमात्रविधाने वाक्यमेदोऽपि न भवतीति किमर्थं प्रवृत्तिविशेषानापादकनायधीस १२६ मोमांसान्यायप्रकाशः [ कर्मनामधेयन तावत्र गुणविशिष्टयागविधानं संभवति, 'दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यनेन विहितत्वाद्यागस्य विशिष्टवि धानानुपपत्तेः । (१) प्राप्तस्य च यागस्य फलसम्बन्धे गुणसंबन्धे च विधीयमाने वाक्यभेदः । Jaime अथ चित्राशब्दात् चित्रत्वस्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्वस्य च स्वभावतः प्राणिधर्मत्वात् प्रकृते दध्यादिद्रव्यके कर्मणि निवेशायोगान्नानेन वाक्येन नामधेयत्वाङ्गो कर णमित्याशङ्कां अनूद्य परिहर्तुमारभते-न तावदित्यादिना । चित्रावाकये। गुणविशिष्टयाग विधानमिति । चित्रश्वस्त्रीत्वावच्छिन्नद्रव्य विशि टस्य यागस्य विधानमित्यर्थः । ननु गुणविशिष्टयाग विधानाङ्गीकारेऽपि चित्र पढ़े मस्वर्थलक्षणाङ्गीकारापत्त्या ततो नामधेयत्वाङ्गीकरणस्यैव युतत्वात् पूर्वोक्त विषयत्व. मेवास्यापतितमिति कथं ततः पृथगुतिरिति चेत् - न; ये शब्दाः कचिदप्यर्थ विशेषे न रूढाः उभयत्र तुल्यववृत्तिकाः त एव पूर्वोदाहरण विषयाः, न स्वर्थविशेषे रूढाश्चित्रादिशब्दाः, श्रत एव सोमादिशब्दानामर्थविशेषे रूढत्वादेवागत्या मत्वर्थलक्षणामप्यङ्गीकृत्य विशिष्टविधिरेवाश्रितः, अतश्च युक्तैव पृथगुक्तिः । मधु माक्षिकम्, धानाः भ्रष्टाः यवतण्डुलाः । तदिति दध्यादिद्रव्य सप्तकपरांमर्शि, मिश्रितदध्यादिसमुदायः प्रजापतिदेवताक इत्यर्थः । विहितत्वात् यागस्यत्येकवचनं प्रयुक्तचतः प्रन्थकारस्यात्र न्यायसुधाकृभिमतः दध्याद्यनेकद्रव्य कैकयागपक्ष एवाभिप्रेत इत्यवगम्यते । नवीनास्तु-"सप्तदश प्राजापत्या" नित्यादिवत् अत्राप्यनेकयागपक्ष. मेवाङ्गीकुर्वन्ति । अत्र चैकयागपक्षनिराकरण पूर्व कमने कयागपक्षस्थिरीकरणं कौस्तुभे चित्राधिकरणे द्रष्टव्यम् । विस्तरभयाग्नेह प्रपञ्च्यते । ननु अनुमत्यादिवाक्यैः पृथक् पृथक स्वरूपतः प्राप्तानामपि कर्मणां "राजा राजसूयेन स्वाराज्यकामो यजेत" इत्यनेन राजकर्तृविशिष्टत्वेन यथा फले विधानम् तद्वदैत्रापि प्राप्तस्यापि कर्मणः पुनर्गुणविशिष्टत्वेन फलोद्देशेन विधानमस्वित्यत -प्राप्तस्येति । वाक्यभेद इति । अयं भावः - एकादशे हि द्रव्यदेवतादीनां उत्पत्तिविध्यन्वयित्वम् देशकाल कर्त्रादीनां च प्रयोगान्वयित्वम् । तद्यत्रोत्पत्त्यन्वयिगुणः श्रूयते तत्र कर्मणामुत्पत्तिविधिः, यत्र च प्रयोगान्वयिगुणः श्रूयते तत्र प्रयोगविधिश्चाङ्गीक्रियते । अत एव च यत्र वाक्यद्वये प्रयोगान्वयिगुणश्रवणं तत्र विनिगमनाविरहादुभयत्र प्रयोगविधिः, तत्राविरोधे समुच्चयः, विरोधे विकल्प इत्यादि स्पष्टमुपपादितम् । अत एव च राज्ञः प्रयोगान्वयिगुणत्वात् युज्यते तत्रोत्पन्नस्यापि कर्मणः पुनः प्रयोगविधिः, प्रकृते तु चित्रत्वस्य प्रयोगान्वयित्वासम्भवात् न तद्विशिष्टप्रयोगविधिस्सम्भवतीत्युभयोविंधाने वाक्यमेदो दुष्परिहर इति । पूर्वपक्षी प्रकारान्तरेण गुणविधित्वं साषयितुमुपक्रमते- अथेति । चित्रत्व स्त्रीत्व योरिति । प्रकृत्यंशेन चित्रत्वस्य टाबंशेन स्त्रीत्वस्य च प्रतिपत्ते रित्यर्थः । अत्र च नीला. दिव्यक्तेरे कत्वं नित्यत्वं च, श्रयं शुक्नोऽयमपि शुक्नः इत्यादिभेदप्रतीतिस्तु विभिन्नगुणाधयमैदाधीनः, एवमेवातिनीलः ईषन्नीलः इत्यादिप्रतीतिरप्याश्रयमेदकृत एव । एवञ्च nipajaglue handa १. 'प्राप्तस्य' नास्ति. क. निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १२७ प्रकृते कर्मणि गुणविधानम्, किन्तु प्राणिद्रव्य के कर्मणि; तत्रास्य वाक्यस्यानारभ्याधीतत्वात्, मनारभ्याधीतानां च 'प्रकृतौ वाऽद्विरुक्तत्वात्' इति न्या. येन प्रकृतिगामित्वात् प्राणिद्रव्यकाणां च (१) यागानां 'दक्षस्य चेतरेषु' इति न्यायेनानीषोमीयप्रकृतिकत्वात्तदनुवादेना नेन वाक्येन गुणो विधीयते । दैक्षस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाङ्क्षाया अभावात् पशुकामपदं न फलसमर्पकम; किंतु अग्नीषोमोयपश्वर्जनाङ्गतया प्राप्तकामनानुवादः । तथाच न वाक्यभेद इति चेत् तथापि वैज्ञानुवादेन चित्रत्वस्त्रीत्वविधाने वाक्यभेदः । विशिष्टकारकविघानेऽपि गौरवलक्षणों वाक्यभेद एव । कारकस्यापि प्राप्तत्वेन विशिष्टविधानानीलादेरेवानुगतप्रतीति विषयत्वसम्भवात् न रूपत्वातिरिका नीलस्वादिजातिरङ्गीकर्तव्या इत्येकं मतम् । अत एव वार्तिककृता शब्दनित्यत्वाधिकरणे "एतयैव दिशा वाच्या शुक्लादेरपि नित्यता । क संसर्गमात्रभेदेन स्यात् तत्रापि हि भेदधीः स्वरूपं तु तदेवेति को जातिं कल्पयिष्यति" ॥p feeg इत्युक्तम् । अस्मिन् पक्षे चित्रस्वमित्यस्य चित्रगुण विशिष्टत्वमित्यर्थः । तच्च चित्रगुण एव पर्यवस्यति । यदि तु नीलादिगुणानां भिन्नत्वमनिस्यत्वं चेति नैयायिकमत एवाग्रहः तर्हि चित्रत्वेत्यस्य रूपत्वव्याप्यचित्रत्वजातिरेवार्थः इति बोध्यम् । अस्य वाक्यस्य चित्रावाक्यस्य । ननु प्राणिद्रव्यकस्यापि प्रकृतिविकृत्युभयात्मकस्य कर्मणो बहुत्वात् कुत्रास्य निवेश इत्याशङ्कायामाह-अनारभ्याधीतत्वादिति । अनारम्याघीतानां प्रकृतिगामित्वं दैक्षस्य सर्वपशुयागप्रकृतित्वं च पूर्वमेव निरूपितम् । ननु अभीषोमीय पश्वनुवादेन चित्रगुणसम्बन्धः पशुरूपफल सम्बन्धश्च विधेय इति पूर्वोक्तदोषतादवस्थ्यमित्यत ग्राह- दैक्षस्येति । 'इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्या' दिति प्रपूर्व सुत्रात प्रवृत्तिरित्यनुषज्यते । इतरेषु सवनीयादिषु पशुयागेषु, दैक्षस्थानीषोमीयस्य पशोः अज्ञानां प्रवृत्तिः स्यादिति सूत्रार्थः । स्वतन्त्रफलाकाङ्क्षाया अभावादिति । प्रधानफलेनैवास्यापि फलवत्वलाभादिति भावः । एवं तर्हि पशुकामपदस्य वैयर्थ्यापत्तिरित्यत ग्राह-प्राप्तकामनेति । अर्जनाङ्गतयेति । नात्र 'उद्भिदा यजेत पशुकामः' इत्यादिवत् पशुकामपदं फलत्वेन साध्यतापन्नपशुबोधकम् किन्तु, यागाङ्गत्वेन विहित पशुसम्पादनाय या पशुविषयिणीच्छातद्बोधकम् । तस्याश्च पूर्वमेव प्राप्तत्त्वात् तदनुवादः परमत्र क्रियत इति नानेकविधानकृतदोष इति भावः । RAMPE यद्यप्यस्मिन् पक्षे न वाक्यभेदः, तथापि प्रकारान्तरेणापतन् वाक्यमैदो दुरुद्धर एवेस्याह -तथापीति । ननु नास्मामिः पृथक् पृथक् चित्रत्वस्त्रीस्वयोर्विघिरञ्जीक्रियते, यतो वाक्यभेद श्राशङ्कयेत, किन्तु "धेनुर्दक्षिणे" तिवत् प्राप्तकर्मानुवादेन चित्रत्वविशिष्टैककरणकारकस्यैव तृतीयोपात्तस्य विधानमनीक्रियते, तदा न भविष्यति वाक्यमैदः इत्याशङ्कयाह-विशिष्टकारकविधानेऽपीति । अस्तु गौरवलक्षणो वाक्यभेदः, १. 'यागाना' नास्ति. क. kar C Research Institute १२५ मीमांसान्यायप्रकाशः [ कर्मनामधेयनुपपत्तिध । (१) पशुकामपदस्थापि स्वरसतः फलपरस्य कामनानुवादत्वे आनर्थक्यापत्तेश्च । नच नियमतः पश्वर्जनकामना भवति, कामनातः प्रागेव केनचित् दत्ते पशौ तदभावात् । तथा च पशुकामपदस्य नित्यवच्छ्रवणबाधः। दैक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च; श्रामिक्षायागानुवादेन वाजिनविधानवत् । 'कृष्णसारङ्गोऽग्नीषोमीयः' इति विशेषवि हितेन स्वसन्निधिपठितेन च कृष्णसारङ्गवर्णेनावरुद्धे चित्रत्वस्यानारभ्या. स चाने कविधानकृतवाक्यभेदापेक्षया लघुभूत एव, विध्यावृत्तिरूपस्य दोषस्यात्राभावा. दित्यत ग्राहकारकस्यापोति। "धेनुर्दक्षिणे" त्यादौ हि करणकारकस्याप्राप्तत्वात् युक्तं तत्रानेक गुणविशिष्टैककारक विधानम् । प्रकृते तूत्पत्तिवाक्यादेव करणकारकस्यापि प्राप्तत्वात् विहितस्य पुनर्विधानं न सम्भवतीति भावः । पशुकामपदमप्यस्मिन् पक्षेऽनर्थ, प्रायमेवेत्याह – पशुकामेति । यत्र यत्र कामशब्दः तत्र सर्वत्रापि फलपरत्वमेव तस्य दृष्टं स्वर्गकामः, स्वाराज्यकाम इत्यादौ, प्रकृते च तत् बाधित्वा अर्जनकामनानुवादकत्वे स एवैको दोषः, कामनायाः प्राप्तत्वेन चाप्रवृत्ति विशेष करोऽनुवादोऽप्यपरो दोष इत्यर्थः । सापि च कामना न नियमेन सम्भवति, यतस्सान्द्येत, किन्तु कदाचित् भवति कदाचि न्नेति कथमनुवादोऽपि घटत इत्याह-नचेति । तदभावात् कामनाया अभावात् । स्तु पक्षप्राप्साया एवानुवादः ? तत्राह - नित्यवदिति । नित्येन तुल्यं नित्यवत् तथा श्रवणम् । तस्य बाधः अपाक्षिकस्थले यथा श्रवणं तद्वदेवात्रापि श्रूयते, तद्वाभ्येतेत्यर्थः । ननु 'ब्रोहिभिर्यजेते'त्यादौ ब्रीहीणां इतरनैरपेक्ष्येण श्रुतस्यापि यागकरणत्वस्य "यवैर्यजेते" ति वाक्यान्तरपर्यालोचनया यथा पाक्षिकत्वमशीक्रियते एवमत्रापि पाक्षि क्या एव कामनाया भवत्वनुवादः इत्यत आह दैक्षस्येति । आमिक्षेति । "वैश्वदेव्यामिक्षा" इत्यत्रोत्पत्तिवाक्य विहिते नामिक्षाद्रव्येणावरूद्धे यागे यथा नोसन्नशिष्टस्य वाजिनस्य निवेशो घटते, तथोत्पत्तिवाक्यविहित पुंस्त्वावरुद्धे यागे स्त्रीत्व विधानं न घटत इत्यर्थः । ननु उत्पत्तिवाक्ये पशुपदस्यैव श्रवणात् तस्य च स्त्रियामपि प्रयोगसम्भवात् 'छागस्य वपाया मेदसः' इति मन्त्रवर्णे छागपदोत्तरं श्रयमाणस्यापि पुंस्त्वस्यानारभ्याधीतेनापि प्रत्यक्षेण विधिना विहितस्त्रीत्वबाघकत्वासम्भवात् भवत्येव स्त्रीत्व विधान मित्यत आह-कृष्णसारङ्ग इति । एवं च स्त्रीत्वमान्त्रविधिसम्भवेऽपि प्रातिपदिकार्थस्य चित्रत्वस्याप्रातत्वात् नानुवादो घटते, प्राकरणिक गुणावरुद्धत्वाच न विधिस्सम्भवति । वस्तुतस्तु उत्पत्तिवाक्यगतपशुशब्दस्य स्त्रीपुमुभयसाधारण्येऽपि 'अजोऽग्नीषोमीय' इति प्राकरणिकवाक्येन पुंस्त्वस्य विहितत्वात् नानेन स्त्रीत्वविधानं सम्भवति । न च तस्या जत्वरूपगुण विधायकत्वमेव कुतो न स्यादिति वाच्यम् तस्य मन्त्रवर्णादेव प्राप्त त्वात् । 'अप्राप्ते शास्त्रमर्थव दिति न्यायात् । अतश्चानर्थक्यमेवापयेतेति भावः । सामान्यशास्त्रेणेति । सामान्यशास्त्रस्य विशेषव्यतिरिक्त विषयत्वस्य दशमाष्टमे निर्णी9 + १ कामप. Bhandarkar Oriental Research Institute DUE FINE. निरूपणम् ] सारविवेचिनो व्याख्यासंवलितः १२६ धीसेन सामान्यशास्त्रेण विधानानुपपत्तेश्च, पाञ्चदश्यावरुद्ध इव साप्तदश्यविधानम् । अथ मा भूदग्नीषोमीय पश्वनुवादेन चित्रत्वस्त्रोत्वविधानम् । 'सारस्वती मेषी' इति वाक्यविहितयागाङ्गमेध्यनुवादेन तु गुणविधानं स्यात्, चित्रयेत स्त्रीकार कानुवादेन चित्रत्वमात्रविधानात् । न च प्राकृतेन कृष्णसारङ्गवर्णेन नैराकाङ्क्षयान्न चित्रत्वविधानं युक्तमिति वाच्यम्। उपदिष्टेन चित्रत्वेनातिदिटस्य वर्णान्तरस्य बाघोपपत्तेरिति चेत् मैवम् ; न हि चित्रयेत्येकेन (१) पदेन स्त्रोकारकस्योद्देशः चित्रत्वस्य च विधानं संभवति, एकप्रसरताभङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्यविधेयभावस्यानेकपदसाध्यत्वात् । अत एव 'वषट्कर्तुः प्रथमभक्ष' इत्यत्र विशिष्टभक्षतत्वादिति भावः । एतच्चोपरिष्टात् निरूपयिष्यते । तत्र दृष्टान्तमाइ- साप्तदश्येति । यथा पाञ्चदश्यावरुद्धायां दर्शपूर्णमासरूपप्रकृतौ नानारभ्याधीतस्य सातदश्यस्य निवेशइसम्भवति, तद्वदित्यर्थः । इदश्च साप्तदश्यं पाञ्चदश्यं च इष्टपङ्गभूत सामिघेन्याख्याझिसमिन्धनार्थऋग्ग तसंख्याविशेष इति पूर्वमेव सष्टम् । एवं सर्वपशुयागप्रकृतिभूतेऽग्रीषोमीये पशौ चित्रत्वस्त्रीत्वयोरुभयोर्विघाने वाक्यमैदापत्या तत्र निवेशाभावे उपपादिते इदानीं यत्र स्त्रीत्वं प्राप्तं चित्रत्वं चाप्राप्तं तादृशे विकृतिविशेषे मेषीद्रव्य के यागे निवेशमाशङ्कते- अथेति । स्मिथ पक्षे वाक्यमेदाभावमुपपादयति-चित्रयेति । न चास्मिन् पक्षे टाबंशस्यैवोद्देश्य समर्पकत्वावश्यकत्वात् एकस्मिन् पदे एकांशस्योद्देश्यत्वमपरांशस्य विधेयत्व मित्येक प्रसरताभङ्गापत्तिरिति वाच्यम् । टाबंशस्य तत्र तात्पर्यग्राहकत्वमात्रमङ्गीकृत्य यजिघातोरेव स्त्रीस्वविशिष्टपशुद्रव्य कयामरूपो. द्देश्यसमर्पकत्वाङ्गीकारे बाघकाभावात् । अन्यथा मेव्युद्देशेन चित्रत्वविघाने विहितस्य तस्य मेषीमात्राङ्गत्वापत्या यागाङ्गत्वाभावैन पश्वेकत्वाधिकरण पूर्वपक्षन्यायेन तस्या विवक्षा श्रा. पयेतेति भावः । उपदिष्टेनेति । न च साप्तदश्यवदस्याप्यनारम्याधीतत्वात् कथमतिदेशप्राप्तप्राकृतवर्णबाघकत्वम् । यदि चैवमिष्यते तर्हि तत्रापि विकृतिमात्रे उपदिष्टेन सातदश्येनातिदिष्टस्य पाञ्चदश्यस्य बाघः कुतो न स्यात् इति वाच्यम् । सातदश्यस्य विकृतिसामान्योद्देशेन विहितस्य पाञ्चदश्यप्रवृत्तिरहितासु मित्रविन्दादिष्वपि प्राप्तिसम्भवेन अन्यत्र चरितार्थस्य तस्यातिदिष्टपाञ्चदश्यबाघकत्वायोगात् । प्रकृते तु अनारभ्याधीतस्यापि स्त्रीत्वस्य एतथागोद्देशेनैव विधानात् प्रश्न निवेशाभावे वैयर्थ्यापत्त्या निरवकाशेन तेन प्राकृतवर्णबाघो युक्त एवेति भावः । तु अनेक पदसाध्यत्वादिति । प्रमाणान्तरप्राप्तपदार्थनिष्ठत्वादुद्देश्यत्वस्य विधेयत्वस्य च तद्विपरीतत्वात् उभयोरपि तयोः युगपदेकेन पदेन बोधयितुमशक्यत्वादिति भावः । न च यजघातोरेव लक्षणया स्त्रीद्रव्य कयागवाचकत्वमङ्गोक्रियताम् । तस्यैवोद्देश्य समर्प कत्वमस्तु । तत्र च स्त्रीप्रत्ययस्य तात्पर्यप्राहकत्वमात्राङ्गीकारान्न दोष इति पूर्वमेवोक्तमिति nda Research Institute १. येत्यनेन चित्रत्वकारकोद्देशः इति क. Lik १७ मो० न्या० 1 मोमांसान्यायप्रकाशः [ नामधेयउभयविधाने विधिः, न तु भज्ञानुवादेन प्राथम्यविधिरित्युक्तं तृतीये । मेष्यनुवादेन चित्रत्व विधाने फलपदानर्थक्यापत्तेश्च । (१)वाक्यभेदः स्यात् । प्रकृतस्य च यागस्य फलाकाङ्क्षाया अनिवृत्तेः । विश्वजिन्न्यायेन फलकल्पने गौरवम् । 'दधिमध्वि' त्याद्युत्पत्तिवाक्येनै तस्या. धिकारवाक्यस्य (२) प्रतिपम्नैकवाक्यताबाधेन वाक्यभेदप्रसङ्गाच्च । चित्राशब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाङ्क्षस्य फलसंबन्धमात्र. करणान्न वाक्यभेदः । प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोप, पत्तेः । तत्सिद्धं वाक्य मेदभयाचित्राशब्दः कर्मनामधेयमिति ॥ 2 बाच्यम् । तात्पर्यग्राहकत्वाङ्गीकारेऽपि उद्देश्यबोधक सामभ्यन्तर्गंतत्वेन एकप्रसरताभङ्ग दोषस्य दुर्वारत्वात्। भक्षानुवादेनेति । "प्रैतु होतुश्चमसः" ''ग्रावभिरभिषुत्याहचनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति" "यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त" इत्यादिभिर्यो विहितस्सोमभक्षः तदनुवादेनेत्यर्थः । तृतीय इति । तृतीयाध्याय इत्यर्थः । पञ्चमपाद इति शेषः । वषट्कर्ता होता । येन याज्याया अन्ते 'वौषट्' इति वषटकार उच्चार्यते । कथञ्चित तदङ्गीकारेऽपि वा फलपदानर्थक्यं तदवस्थमेवेत्याह-मेषोति । ननु मेषीयाँगे फलस्याप्राप्तत्वात् तस्य चित्रत्वस्य चेत्युभयोर्विधानमस्तु, अत श्राह-उभयेति । 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः' इति पूर्वमेवोकत्वादिति भावः । प्रकृतस्येति । दधि मध्विति वाक्यविहितस्येत्यर्थः । फलाकाङ्क्षाया अनिवृत्तरिति । उ त्पत्तिवाक्ये फलाश्रवणात् यस्य कस्यचित् यागस्य च प्रकरणे पाठाभावाच्च उत्पन्नाया आकाङ्क्षायाश्शान्ती कारणाभावादिति भावः । ननु एतादृशस्थलेषु सति विश्व जिन्न्याये जाग्रति किमर्थं परिश्राम्यते ? तह-विश्वजिदिति । न्यायोऽयं पूर्व मूलकृतैव निरूपितः । नन्वेतादृशं गौरवं नामधेयरवाज्ञीकरणापेक्षया नातीव दोषमावहतीत्यत श्राहदधोति । एवञ्च वाक्यभेदपरिहारार्थमेव नामधेयत्वाङ्गीकरणमिति भावः । नामधेयप्र. "योजनञ्च निरूपितमधस्तात् । नामधेयत्वाङ्गीकरणे कथं वाक्यभेदपरिहार: ? श्रत ग्राहचित्राशब्दस्येति । तर्हि चित्रत्वस्त्रीत्वयोः कथमुपपत्तिः ? तह-प्रकृताया इति । 'इण्टेरित्यनेन इष्टिशब्दस्य स्त्रीप्रत्ययान्तत्वात् तदादायैव चित्राशब्दगत स्त्री प्रत्ययस्या*प्युपपत्तिरिति ध्वनितम् । द्वितीयं नामधेयत्वकारणं यन्निरूपितं दुपसंहरति-तत्सिद्ध'मिति । अनेनैव 'न्यायेन "त्रिवृत् यहिष्पवमानम्" "पञ्चदशान्याज्यानि" "सप्तदशानि पृष्ठानि" इत्यादौ आज्यपृष्ठवहिष्पवमानशब्दाः कर्मनामधेयानि । तत्र बहिष्पबमानशब्दः सोमयागे प्रातस्सवने क्रियमाणस्तोत्र विशेषवाची । श्राज्यपृष्ठशब्दौ तु क्रमेण प्रातर्माध्यन्दिनसवनयोः क्रियमाणयोः स्तोत्रविशेषयोर्वाचकाविति ध्येयम् । स्तोत्राणाममीषा मेतत्पदवाच्यत्वे प्रवृत्तिनिमित्तं मीमांसाकौस्तुभे विस्तरेणोपपादितं तत एवावगन्तव्यम् । FOUNDED जय जावधीत १. वाक्यभेदात् इति ख, ग, घ । २. प्रतीयमाने । Bhandarkar Oriental Research Institute निरूपणम् ] सार विवेचिनीव्याख्यासंवलितः (तत्प्रख्यशास्त्रात्कर्मनामधेयत्व निरूपणम्) "मग्निहोत्रं जुहोती" त्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्य शास्त्रात । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्नि होत्रशब्दः कर्मनामधेयमिति यावत् । तथा हि-विधिना तावत्तदेव विधेयं यत्प्र कारान्तरेणाप्राप्तम् । "अप्राप्ते शास्त्रमर्थवदि" ति न्यायात्। अग्निहोत्रशब्दस्यच गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथमिति चेत् शृणु- यदि तावदनौ होत्रमस्मिन्निति (१) सप्तमीसमासमाश्रित्य होमा(२) धारत्वेनाग्निर्विधेय इस्युच्येत तदा "यदाहवनीये जुहोती" त्यनेनैव प्राप्तत्वाद्विध्यानर्थक्यम् । अथ अग्नये होत्रम स्मिन्निति (३) चतुर्थी समासमाश्रित्याग्निरूपा देवता विन धीयते (४) इति चेत्-नःशास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत्(तत्प्रख्यशास्त्रात्कर्मनामधेयत्वनिरूपणम्) तृतीयं नामधेयत्वहेतुं निरूपयितुमारभते - अग्निहोत्रमिति । गुणस्येति । अग्निहोत्रशब्देन यो गुणो विधिस्सितः पूर्वपक्षे तस्येत्यर्थः । अप्राप्ते प्रमाणान्तरेणाज्ञाते विषये शास्त्रम् अर्थवत् प्रयोजनवदित्यर्थः । ननु अग्निहोत्रपदे गुणविधिमङ्गीकुर्वता भवता सप्तमीबहुव्रीहिमाश्रित्य होमोद्देशेना धिकरणभूतोऽग्निविधीयत इत्युच्यते ? उत चतुर्थी बहु ब्रीहिमाश्रित्य देवतारूपोऽग्निर्विघीयत इत्युच्यते ! न तावदाद्यः पक्षः इत्याह- यदि तावदिति । सप्तमीसमासमिति। "सप्तमो विशेषणे बहुव्रीहौ" इति ज्ञापक बलेन कण्ठेकाल इतिवत् कथञ्चित् सप्तमीबहुव्रीहिमाश्रित्यापि "यदाहवनोये जुहोति" इति वाक्येन होमत्वावच्छिन्नोद्देशेना हवनीय रूपाधिकरणस्य विहितत्वेन तेनैव प्राप्तत्वा दित्यर्थः। होमाधारत्वेनेति । देवतोद्देश्य कद्रव्यप्रक्षेपोऽत्र होमपदार्थः । तदाघारत्वेनेत्यर्थः त्यागीयद्रव्यपतन प्रतिबन्धकत्वेनेति यावत् । द्वितीयं पक्षं निरस्यति- अथेति । यद्यपि सप्तमीबहुव्रीहिवत् नात्र शास्त्रानुगतस्वं सम्भवति, तथापि "दृष्टानुविधिश्च्छन्दसी" ति स श्राश्रीयत इति भावः । चतुर्थ्या देवतात्वबोधकत्वमनुपदमेव वक्ष्यति ग्रन्थकारः । १. अत्र।ग्निहोत्रपदे सप्तमीबहुबीहिं चतुर्थी बहुब्रीहि वाऽऽश्रित्य होत्रशब्दस्य च कर्मव्युत्पत्या द्रव्यवाचकत्वमङ्गीकृत्य च अधिकरणभूतस्य दैवताया अग्नेः प्राप्तिः प्राचीनैरुपपादिता । तदनुसृत्य व्याख्या तोऽत्रत्यो ग्रन्थः पूज्यपादैः। वस्तुतस्तु होत्रशब्दस्य भावव्युत्पत्त्या क्रियापरत्वम्, तत्पुरुष समास एव चेष्टस्तेषाम् । अत एव तैः तन्त्रसिद्धान्तरस्नावल्यां तत्प्रख्यन्यायनिरूपणावसरे अग्निहोत्रपदस्य तत्पुरुषसमासो व्युदपादि । उपपादि च स्वाशयः - अत्र यद्यपि प्राचीनैः कर्मव्युत्पत्तिमाश्रित्य दध्यादिद्रव्यपरस्व मङ्गीकृत्य, अग्नये होत्रम् अग्न्युद्देश्यक होमसाधनद्रव्यं यस्मिन्निति बहुव्रीया श्रयणेनाग्निहोत्र शब्दः प्रसाधितः, तथापि भाबसाधनत्वाङ्गीकारेणैव निर्वाई कर्मसाधनत्वाङ्गीकरणे फलाभावाद्वेदे प्रायशः सर्वत्र "अग्निहोत्रं जुहोति" "अग्निहोन्नं यज्ञानां" "तस्मादग्निहोत्रमुच्यते" इत्यादा वग्निहोत्र शब्दस्या न्तोदात्तत्वस्यैव श्रवणात्तस्य च स्वरस्य तत्पुरुषसमास एव सँगतेस्तत्पुरुषस्वीकारे च मात्वर्थसामानाधिकरण्यसिध्यर्थं भावसाघनत्वस्यैवाऽङ्गीकर्तव्यस्वादष्वर मीमांसाकुतूहलवृत्तिमीमांसा कौस्तुभाष करीत्या अस्माभिर्भावसाघनत्वमेवाऽङ्गीकृतम् इति । २. होमार्थवेन इति क Bhandarkar Oriental Research Institute ३. 'प्रस्मिन्' इति नास्ति, क. ४. अनेन समर्प्यते इति ख मोमांखान्यायप्रकाशः [नांमधेयऋत्र केचित् - 'यदनये च प्रजापतये च सायं जुहोति' इति शास्त्रान्तरेण होमानु वा देनाग्निप्रजापत्योर्विधानान्नाग्निहोत्रपदं देवतासमर्पकम् । न चोभयविधाने वाक्यभेदः । परस्पर निरपेक्ष विधाने हि वाक्यभेदः स्यात् 'अग्नये जुहोति' 'प्रजापतये जुहोती'ति प्रत्येकं विधिव्यापारात् । चशब्दश्रवणाचु परस्परसापेक्षस्यैव पदवयस्याख्यातान्वयान्न वाक्यभेदः । अत एव "ऋत्विग्भ्यो दक्षिणां ददाती"ति वाक्यविहितदक्षिणानुवादेन "मौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च वीयश्च यवाश्च तिलाञ्च माषाश्च 10 अस्मिन्नपि पक्षे विधित्सितस्याग्निदेवतारूपस्य गुणस्य प्रमाणान्तरेण प्राप्तिमुपपादयिष्यन् तत्र प्रापकप्रमाणविषये न्यायसुधाकृतः तदनुयायिनाञ्च मतमुपपादयति-अत्र केचिदिति । न्यायसुधाकृत्प्रभृतय इत्यर्थः । शास्त्रान्तरेऐति । 'अग्निहोत्रं जुहोति इति वाक्यापेक्षया भिन्नेनेत्यर्थः । ननु अत्र यच्छन्दश्रवणात् यच्छन्दस्य च विधिशक्तिप्रति बन्धकत्वस्य द्वितीये साघितत्वात् कथमस्य वाक्यस्य देवता विधायकत्वमिति चेत्-एवम् ; यच्छब्दादेः मण्यादेर्दाहादिप्रतिबन्धकत्वमिव न स्वरूपसमवधानमात्रेण विधिशक्तिप्रतिबन्धकत्वम्, किन्तु प्रमाणान्तरतः प्राप्तिद्योतनद्वारा । यच्छन्दादयो हि स्वस म भिव्याहृ तपदार्थस्य पूर्वप्रसिद्धिं द्योतयन्तः प्राप्तिमवगमयन्ति, तद्यत्र विधित्सितस्य प्रमाणान्तरेण प्राप्तिः तत्र प्राप्तस्य पुनर्विधानायोगात् विधिशक्तिप्रतिबन्धकत्वेऽपि यत्राप्राप्तिः न तत्र विधिशक्तिः प्रतिबध्यते । अत एव "यो दीक्षितो यदग्नोषोमीयं" "योऽदाभ्यं गृहीत्वा सोमाय जुहोति" इत्यादी सत्यपि यच्छन्दसमभिव्याहारे विधिरङ्गीक्रियत एव । एवं प्रकृतेऽप्यप्राप्तत्वात् विधिरङ्गीकर्तव्य एवेति । प्राप्तकर्मोद्देशेनाग्निप्रजापतिरूपदेवताद्वयविघाने वाक्यभेदमाशङ्कते-न चेति । समाधत्ते-परस्परेति । अयं भावः - समासादिस्थले यत्र सुबन्तयोः परस्परान्वयो व्युस्पन्नः तत्र भवत्येव विशिष्ट विधानम्, यथा- 'श्रश्वाभिधानीम्', 'यत्किञ्चित् सोमलिप्त'मित्यादौ । यत्र तु असमस्तस्थले तयोरुस न व्युत्पन्नः तत्र परस्परं वैशिष्टयासम्भवेन पृथक् पृथगेव क्रियान्वयात् प्रत्येकं विधिव्यापाराङ्गीकारापच्या विध्यावृत्तिलक्षणो वाक्यमेदः स्यात्, प्रकृते च चशब्दश्रवणात् तस्य च निपातत्वात् सुबन्तार्थस्य निपाताथन्वयव्युत्पत्तेः वाक्य भेदाभावात् नानेकविधानं दोषायेति । दोषाभावमेव स्थलान्तरदृष्टान्तेन द्रढयति – अत एवेति । वाक्यभेदाभावादेवे. त्यर्थः । ऋत्विग्भ्य इति । अत्र च ददात्यन्तेन प्रथमवाक्येन कर्मकररूपवि गुद्देशेन दक्षिणादानं विधीयते । द्वितीयेन च पूर्ववाक्यविहितदक्षिणोद्देशेन गवादिद्रव्य विधानमिति स्थितिः । द्वादशशतम् । द्वादशोत्तरं शतम् । दक्षिणा श्रानतिसाघनीभूतं द्रव्यम् । तत्र गवादीनामनेकेषां प्राप्तदक्षिणानुवादेन पृथक विधानाजीकारे वाक्यभेदापत्या च शब्दसमभिव्याहारबलेन परस्परसहितानामेव गवादीनां विधानमङ्गीक्रियते । चादीनां हि निपातोपसर्गाणां पृथक् पदत्वेऽपि केवलानां तेषां प्रयोगाभावेन स्वातन्त्र्येण तदर्थस्य भावनायामन्वयासम्भवात् नित्यं समभिव्याहृतपदार्थ विशेषणःवप्रतीतेः चशब्दस मभिव्याResearch Institute POONA 4 निरूपणम् 1 सारविवेचिनीव्याख्यासंवलितः तस्य द्वादशशतं दक्षिण।' इति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते। परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणा नुवादेनाने केषां गवादीनां विधानं नैव सङ्गच्छेतेति । अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयः, न तु समुश्चितयोंदेवता: त्वम् ; पृथक्कारकविभक्तिश्रवणात् । चकारार्थस्य (१) विभक्त्यर्थेनान्वयात्तस्याप्राधान्यात् । अतश्च (२) नाग्नीषोमादिवदग्निप्रजापत्योर्देवतात्वमिति । अन्ये त्वाचार्या आहुः- "यदग्नये च प्रजापतये च सायं जुहोती' ति वाक्यं नाझे: (३) प्रापकम्, होमानुवादेन प्रजापतिविधानात् । न च विनिगमनाविरहादुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव विधीयते यत् प्रकारान्तरेणाप्राप्तम् । तत्र यथानेन वाक्येन सायंकालो न विधीयते हारात् गवादिपदार्थान्तरस्यापि च चकारार्थान्वयं विना पदान्तरोपात्त भावनान्वयायोगात् परस्परसहितानामेव तेषां भावनान्वयप्रतीतेः न वाक्यभेदः इत्युक्तं दशमाध्यायतृती. यपादे त्रयोदशाधिकरणे, तदेतत् सर्वे मनसि निषायाह-दशमोक्तमिति । अन्यथा पर स्परसहितानामेव गवादीनां विधानमित्यनङ्गीकारे । ♥ नन्वेवं परस्परसहितयोरेवाग्निप्रजापत्योर्भावनान्वयानीकारे अग्नीषोमादिवत् तयोर्व्या. सज्यवृत्तिदेवतात्वापत्तिः । इष्टापत्तौ वा अनेः पृथक देवतात्वस्यैवाभावेन तत्प्राप्तिफलकस्याग्निहोत्रपदस्य गुणविधायकत्वापत्तौ तत्प्रख्यन्यायेन नामधेयत्वकथनस्थासाङ्गत्यापत्तिरित्यत आह - अग्निप्रजापत्योरिति । देवतयोस्सतोरिति । अयमभिसन्धिःतद्धित चतुर्थ्यादीनां देवतात्वबोधकत्वं वक्ष्यति ग्रन्थकारः । तयत्र पृथक् तद्धितश्रवणं चतु., थींश्रवणं वा तत्रेतरनिरपेक्ष एव प्रत्ययार्थे देवतात्वे प्रकृत्यर्थस्याघेयतासम्बन्धेनान्व. यात् इतरनिरपेक्षस्यैव पृथक पृथक् देवतात्वम्, यथा-"त्वाष्ट्रं पात्नोवतम्" "अग्नये कृतिकाभ्य'' इत्यादौ । यत्र तु एक एव प्रत्ययः श्रूयते तत्र प्रकृत्यर्थयोः समुच्चितयोरेव प्रत्ययार्थेऽन्वयात् समुच्चितयोरेव देवतात्वम् यथा - 'मग्नीषोमीयम्' 'इन्द्राग्नि भ्याम्' इत्यादौ । एवं पृथक् विभक्तिश्रवणेऽपि यत्र प्रकृत्यर्थयोः प्रमाणान्तरेण विशेषण.. विशेष्यभावप्रतीतिः, यथा- 'अग्नये पावकाये'त्यादौ न तत्र देवताद्वयप्रतीतिः, यत्र तु तत् नास्ति तत्र पृथगेव देवतात्वम्, तयोरेव च पदार्थान्तरेणान्वयः, एवञ्च प्रकृते पृथक् विभक्तिश्रवणात् विशेषण विशेष्यभावे प्रमाणाभावाच्च पृथगेवाग्निप्रजापत्यो दें वता त्वम्, तयोरेव च चशब्दार्थे समुच्चयेऽन्वयः इति पृथगेवाग्ने: देवतास्वसिद्धेः तदादाय तत्प्रख्यन्या येनाग्निहोत्रपदस्य कर्मनामधेयत्वे न काचित् क्षतिरिति । एवं न्यायसुधाकृदादिमतेन देवताप्राप्ति निरूप्य इदानीं पार्थसारथिमिश्रप्रभृतीनां मतेन तत्प्राप्तिं निरूपयति-अन्ये विति । अग्नेः प्रापकम्, अग्निविषयकाज्ञातशानजनकम् । प्रकारान्तरेणाप्राप्तमिति । अप्राप्ते शास्त्रमर्थवदिति न्यायस्य पूर्वमेवोक्त FOUNDED ११. कारकार्थेनान्वयात् तस्य प्राधान्यात् इति क ३. नाग्निप्रापकम् इति क २. क पुस्तके नन नास्ति । Bhandarkar Oriental Research Institute १२४ 29 मीमांसान्यायप्रकाशः [ नामधेय 3 "सायं जुहोती"ति वचनान्तरेण प्राप्तत्वात्, तथा श्रग्निरपि न विधीयते, "मग्निज्योतिज्योतिरग्निः स्वाहे"ति मत्रवर्णादेव प्राप्तत्वात् । मन्त्रवर्णस्यापि देवतासमर्पकत्व (१) मस्त्येव । अत एवोपांशुयाजे विष्ण्वादीनां मान्नवर्णिकं देवतात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नर्बाध: स्यात् । चतुर्थ्या हि प्रजापतेर्देवतात्व मवगम्यते, अग्नेस्तु मान्त्रवर्णिकम् । (२) तत्र 'साऽस्य देवता' इति देवतात्वे तद्धितस्मरणवत् यद्यपि देवतात्वे चतुर्थीस्मरणं नास्ति, (३) "संप्रदाने चतुर्थी' ति संप्रदाने तस्याः स्मरणात्, तथापि त्यज्यमानद्रव्योहेश्यत्वं स्वादिति भावः । मन्त्रवर्णादेवेति । केवललिङ्गक मन्त्रवर्णादेवेत्यर्थः । प्रधानक्रमे पठि• तस्य 'अग्निज्योतिज्योतिरग्निः स्वाहेति सायं जुहोती'ति सायंकालीनहों मे विनियुक्तस्य मन्त्रस्य प्रधानाङ्गत्वेऽवगते तत्प्रतिपाद्याया अपि देवतायाः तदङ्गत्वस्य तादृ शमन्त्रलिङ्गादेव सिद्धत्वादिति भावः । ननु तद्वितस्य देवतात्वे स्मरणात् चतुर्थ्याच तत्र स्मरणाभावेऽपि सम्प्रदानध्वे स्मरणात् देवतात्वस्य च सम्प्रदानैकदेशस्वादस्तु तयोदेंवतासमर्पकत्वम् मन्त्रवर्णस्य तु तथा स्मरणस्य कुत्राप्य दृष्टचरत्वात् कथं तस्य देवतासमर्पकत्वमित्यत आह - मन्त्रवर्णस्यापीति । यद्यपि मन्त्रवर्णस्य न देवतात्वबोधकत्वं स्मृतम्, तथापि सिद्धेन मन्त्रवर्णकल्प्येन वा मन्त्रविनियोग विधिना मन्त्राणां प्रधानाङ्गस्वेऽवगते तदन्यथानुपपत्त्या तत्प्रतिपाद्यस्याप्यग्न्यादेः देवतात्वं कल्प्यते इति युक्तमेव मन्त्रवर्णस्यापि देवतासमर्पकत्वमिति भावः । अत एव मन्त्रवर्णस्य देवता समर्पकत्वसत्वादेव । विष्णवादीनाम् विष्णुप्रजापत्यग्नीषोमाणाम् । तैत्तिरीयब्राह्मणे तृतीयाष्टके पञ्चमप्रपाठके दशमानुवाके आग्नेयाग्नीषोमीययाज्यानुवाक्यायुगलयोर्मध्ये "प्रजापते न त्वदेतानि"स वेद पुत्रः पितर' मिति प्रजापतिदेवताकं याज्यानुवाक्याद्वयमाम्नातम् । ऐतरेय के च आग्नेयैन्द्राग्नयाज्यानुवाक्यायुगलयोर्मध्ये "इदं विष्णुर्विचक्रमे" "प्र तद्विष्णुस्तवते" इति वैष्णव्यौ याज्यानुवाक्ये आम्नाते । तथैवैतरेयके तन्मध्य एव "श्राम्यं दिवो मातरिश्वा" "अग्नीषोमा यो अद्य वाम्" इत्यग्नीषोमीय याज्या नुवाक्ये नाते । एवं शाखामेदेनाम्नातैः वैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्या. युगलैः विष्ण्वादयो देवतात्वेन समर्प्यन्त इत्युक्तं द्वितीये उपांशुयाजाधिकरणे, तदेतदाहविष्यवादी नामित्यादिना । नन्वेवं मन्त्रवर्णस्याग्निप्रापकत्वामीकारे 'यदग्नये चेति वाक्यगत चतुथ्यैव प्रजापतिविधानात् प्रबलप्रमाणबोधितेन तेन दुर्बलप्रमाणबोधितस्याग्नेः बाघः स्यादित्याशङ्कतेनन्विति । एवम् अग्नेमंन्त्रवर्णात् प्राप्तिस्वीकारे । अग्नेरिति । देवताभूतस्येति यावत् । है १. कत्वात् । जस्विनी २. यद्यपि 'सास्य देवता' इति देवताले तद्धिवस्मरणवत् तत्र चतुर्थीस्मरणं नास्तिइति क । ३. यद्यपीदं सूत्रं "चतुर्थी सम्प्रदाने" इत्येवोपलभ्यतेऽष्टाध्याय्याम् । तथाप्यत्र सर्वेष्वप्यादर्शपुस्तकेषु "सम्प्रदाने चतुर्थी" इत्येव पाठस्योपलम्भात् तदन्यथाकरणभीतेन मया स एव पाठो मूले निवेशितः । www FOUNDED 1917 निरूपणम् ] सारविवेचिनोव्याख्यासँवलितः तावदेवतास्त्वम् । तच्च संप्रदानस्वरूपान्तर्गतम्, त्यज्यमानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वस्य संप्रदानत्वात् । अतश्चतुर्थीतः संप्रदानैकदेशतया । देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णात न देवतात्वं प्रतीयते, किंत्वधिष्ठानमात्रम् । अतश्च मन्त्रवर्णश्चतुर्थीतो दुर्वलः । यथाद्दुःतद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्बलं तु परं परम् ॥ इति ॥ श्रतश्च प्रबलप्रमाणबोधितप्रजापतिदेवतया दुर्बलप्रमाणबोधिताग्नेर्बाधः स्यादिति चेत् सत्यम्; स्याद्वाधो यदि "प्रजापतये जुहोती"ति केवलप्रजापतिविधानं 'स्यात् । विधीयमानस्तु प्रजापतिर्मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुब्बितो होमोद्देशेन विधीयते । समुच्चितोभयविधानापेक्षया अन्यतः प्राप्तमझिमनूध तत्समुश्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्वम्, निरपेक्षविधानाभावात् । यथा च त्वन्मतेऽग्निप्रजापत्योरेकहोमोद्देशेन विधानातुल्यार्थत्वेन विकल्पे प्रसक्ते प्रजापतेर्न पाक्षिकमग्निबाधकत्वम्, समुच्चयमान्त्रवर्णिकमिति । देवतात्वमित्यनुषङ्गः । सास्येति । अस्य हविषः चरुपुरोडाशादेः, सूतस्य वा मन्त्रसमुदायरूपस्य सा इन्द्रादिः देवता इत्यस्मिन्नर्थे प्रत्यया श्रणादयो भवन्तीति सुत्रार्थः । सम्प्रदानैक देशतयेति । सम्प्रदाने शक्ताया अपि चतुर्थीविभक्तेः तदेकदेशभूतदेवतात्वे एक देशलक्षणया प्रवृत्तिसम्भवादिति भावः । तद्धितेनेति । कारि का गतार्था । देवताया विधिः विधेयदेवतासमर्पणमित्यर्थः । । १३५ सत्यं मन्त्रवर्णापेक्षया चतुर्थी प्रबला, तथापि नात्रामे: प्रजापतिना बाघ इति समा घत्ते - सत्यमित्यादिना । यद्यस्मिन्नपि पक्षे विधेयप्रजापतिविशेषणतया अग्निसमुच्चयस्यापि विधेयत्वावश्यंभावः तदा को विशेषः पूर्वस्मात् पक्षात् ? इत्यत ग्राह-समुचि. तोभयेति । एवञ्च न समुच्चयमात्रविधाने गौरवमापाद्यतेऽस्माभिः, किन्तु तद्विशेषणत याग्नेरपि विधाने उभयविधानकृतो वाक्यभेद अपादितः स च नास्माकं मते, इत्याशयवानाह- लाघवादिति । अतंश्च मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितप्रजापते विधाने श्रग्न्यंशे विधिव्यापाराभावात् लाघवम्, तत्समुच्चितप्रजापते विधानाच नाग्नेर्बाध इत्याहअतश्चेति । निरपेक्ष विधानाभावादिति । इतरनैरपेक्ष्येण विधाने हि प्रबलेन दुर्ब लक्ष्य बाधः स्यात् तुल्यबलवे वा पाक्षिको बाघः, न चैतदस्ति, अभिसापेक्षस्यैव प्रज्ञा. पतेर्विधानात्, यथैव ह्यन्यतः प्राप्तहोमाभिषव समान कर्तृकस्वविधिना "प्रावभिरभिषु. त्याहवनीये हुत्वा प्रत्यञ्चः परेत्य ससि भक्षयन्ति" इत्यनेन होमा भिषवयोर्भक्षणाङ्गत्वं बोध्यते, तद्वत् अत्रापि मन्त्रवर्णतोऽङ्गत्वेनावघृताभिसमुचिचतत्र जापति विधाने बाघकाभावात् । भवतामपीदमवश्यमभ्युपगन्तव्यमेव, अन्यथा > अभिप्रजापत्योर्विकल्पः नाव प्रतिभन्तु भाई • स्यात्, तदेतदाह - यथा चेत्यादिना । ननु यद्यमेमन्त्र वर्णिकत्वमङ्गीक्रियेत तर्हि केवललिज कमन्त्रवर्णवत मिश्रलिङ्ग, Bhandarkar Oriental Institute मोमांसान्यायप्रकाशः 31 [नामधेयविधानात्। एवं मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुश्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम् । यत्तु-अग्नेर्मान्त्रवर्णिकत्वे "अग्निर्ज्योतिर्ज्योतिस्सूर्यस्स्वाहे" ति मिश्रलिङ्गमन्त्रवर्णबलात् सायं होमस्य द्विदेव(१)त्यत्वापत्तिरिति तन्न; श्रग्निसमुच्चितप्रजापतिविधानवत् सूर्यसमुच्चितस्याविधानात् ; प्रबल प्रमाणबाधितेन प्रजापतिना मन्त्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् । यत- अग्नेर्मान्त्र वर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेः 'यदग्नये च प्रजापतये च सायं जुहोति, "यसूर्याय च प्रजापतये च प्रातः" इति वाक्यद्वयं व्यर्थमिति G तन, भवेद्यर्थं यदि प्रजापतिमात्रविधानं विवक्षितं स्यात्, सायंहोमेsग्निसमुच्चितप्रजापतिविधानम्, प्रातहों मे 'सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति मन्त्रवर्णप्राप्तसूर्य समुच्चितप्रजापतिविधानं च विवक्षितम् । न चैतदेकन कमन्त्रवर्णस्यापि देवताप्रापकत्वाजीकारापत्या तद्बोधितस्यानेरिव सूर्यस्यापि सायंकाले प्राप्त्यापस्या सायंहोमस्य द्विदैवत्यत्वापत्तिरित्याशङ्कामनुवदति- यस्विति । तां निराकरोति - तन्नेति । अग्निसमुच्चितेति । 'यदग्नये चे' ति वाक्येन सायंदोमोद्देशेनाग्निसमुच्चितप्रजापतिरेव विघीयते, न तु सूर्यसमुच्चितप्रजापतिः । अतश्च मन्त्रवर्णप्राप्तखेऽपि सूर्यस्य ब्राह्मणवाक्येन तत्समुच्चितप्रजापते रविधानात् प्रबलप्रमाणबोधितेन प्रजापतिना सुर्यस्य बाघावश्यम्भावात् न सायंहोमस्य द्विदैवव्यत्वापत्तिरिति भावः । एवं प्रातहोंमे ऽप्यनेर्बाधो वेदितव्यः । नचैवं सति प्रातर्हो मेऽग्नेः प्राप्त्यभावेनाग्निहोत्रपदस्य कथं तत्प्रख्यन्यायेन नामधेयत्वमिति वाच्यम् । सायंहोमे प्राप्तिमादायैव तदुपपत्तेः; इष्यत एव होकदेशप्रवृत्तिनिमित्तमादायापि नामधेयत्वं वैश्वदेवादिपदेषु, यथोक्तं वासुदेवदीक्षितैः कुतूहलवृत्तौ - श्रतः 'श्रग्निहोत्रं जुहोति' इत्यग्निहोत्रपदं पूर्वाहुतेरेव नामधेयम्, एकस्यैवाग्निहोत्रस्य 'सायं जुहोति' 'प्रातर्जुहोति' इत्यभ्यासविधिः, अतः प्रातहोमस्य सूर्यदेवत्यत्वेऽपि सायं होमस्याग्निदेवत्यत्वमात्रेणाग्निहोत्रशब्दस्योपपत्तिः कदाचिदग्निदेवत्यत्वयोगेन समाख्यानोपपत्तेरिति । तो न दोषः । - C ननु होमोद्देशेन प्रजापतिमात्र विधाने तस्य कालद्वयेऽप्यावृत्त्या प्रजापतेरपि दध्यादिवदावृत्तिसिद्धेः व्यर्थं वाक्यद्वयमिति पूर्वपदयुक्तं दूषण मनुवदति - यरिवति । यदि 'यदग्नये चेति' प्रजापतिमात्रविधानं भवतोऽभिप्रेतं तहिं प्रजापतये जुहोतीत्येतावतैवालम्, तस्यावृत्त्यैवोभयत्र सम्बन्धसिद्धेः । अतस्तद्वाक्यस्थं 'अग्नये' 'साय' मिति पदद्वयं वाक्यान्तरञ्च व्यर्थमित्यर्थः । NSTITUTE POONA समाधत्ते-तन्नेति । सायंहो मेऽग्निसमुच्चितप्रजापतेरेव विधातुमिष्टत्वेन तस्य चाग्निपदमन्तरा असम्भवेनाग्निपदस्यावश्यकत्वात् सायंहोम एव च तत्प्राप्तरिष्टतया तदर्थं सायंशब्दस्याप्यावश्यकत्वेन, प्रातःकालीनहोमे सूर्यसमुच्चितप्रजापतेर प्राप्ततया तत्र तद्वि१. द्विदेवतत्वापान्तिः इति क । Institute > D निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः वाक्येन सिध्यति; अतोऽर्थवद्वाक्यद्वयम्ही यत्तु-नग्नेर्मान्त्रवणिकत्वे मन्त्रवर्णस्य "अग्निज्र्ज्योतिज्र्ज्योतिरग्निः स्वाहेति सायं जुहोतो" ति वाक्येन सायंहोमे विनियुक्तत्वात् तत्प्रकाश्यस्याग्नेरपि प्रजापतिसमुच्चितस्य तत्रैव देवतात्वावगतेः 'यदग्नये चे' ति वाक्ये सायंशब्दो व्यर्थ इति, एवं 'यत्सूर्याय चे'ति वाक्ये प्रातःशब्दों व्यर्थ इति । किञ्च मन्त्रवर्णेन (१) ज्योतिष्टगुणविशिष्टस्याग्नेः प्रकाशनात् विशिष्टिस्यैव देवताखापात इति । तदपि न ; होमानुवादेन देवताद्वयविधानेऽपि मन्त्रवर्णयोर्लिङ्गादेव प्राप्तिसंभवात्तद्विध्यानर्थकयात्। मिश्रलिङ्गमन्त्र विधिपर्युद(२) स्तयोः प्रतिप्रस घनार्थं वाक्यान्तरस्याप्यावश्यकत्वादित्यर्थः । 380 इतोऽन्यदपि दोषद्वयमापादितमनुवदति यस्विति । न च पूर्वोत्तरीस्या समाधानम्, तस्य मन्त्रविनियोगविधिनैव प्राप्तत्वात् । तत्प्रकाश्यस्य मन्त्रवप्रकाश्यस्य । तत्रैव सायंहोम एव । देवतात्वावगते रिति । यागीगद्रव्यदेवतादिप्रकाशनस्यैव मन्त्र कार्यस्वेन स यस्मिन् कर्मणि विनियुक्तः तत्र स्वप्रतिपाद्याया देवताया अत्यावश्यम्भावादिति भावः। व्यर्थ इति । प्राप्तस्य पुनर्विघाने प्रयोजनाभावादिति भावः । प्रातश्शब्द इति । तत्रापि सूर्यस्य मान्त्रवर्णिकस्य प्रातःकाले देवतात्वेन प्राप्तत्वादित्यर्थः । ज्योतिष्वगुणविशिष्टस्येति । मन्त्रे 'अग्निज्योति' रिति ज्योतिः पदसामानाधिकरण्यात् 'विष्णवे शिपिविटाय' इत्यादौ शिपिविष्टगुणस्य विष्णुविशेषणस्वमिव ज्योतिष्वरूपगुणस्याग्निविशेषणवप्रतीतेरिति भावः । विशिष्टस्य ज्योतिष्वगुणविशिष्टस्य । अस्मन्मते तु केवलाग्नेरेव समुच्चय विशेषणतया विधानात् न तदापत्तिरिति भावः । प्रतिबन्द्या उत्तरयति- होमानुवादेनेति । 'यदग्नये चे'ति वाक्येन होमोद्देशेना. ग्निप्रजापस्योरुभयोरपि विधानमनीकुर्वतो भवतः पक्षेऽपि होमीय देवता प्रकाशकयोः मन्त्रयोः लिङ्गादेव व्यवस्थया तत्तद्बोमाङ्गत्वावगमे पुनस्तद्विनियोजकयोः "अग्निज्र्ज्योतिज्योतिः रग्निः स्वाहेति सायं जुहोति" "सूर्यो ज्योतिज्र्ज्योतिः सूर्यः स्वाहेति प्रातः" इति वाक्ययोर्वैयर्थ्यमापद्यत इत्यर्थः । अस्मन्मते केवलं सायंप्रातश्शब्दयोरेव वैयर्थ्यमा• पाद्यते भवता, भवन्मते तु वाक्यद्वयस्यापि वैयर्थ्यमापद्यत इति किमिदं वृश्चिकदंशाद् भौतस्य सर्पमुखे पतनमिति भावः । तद्विध्यानर्थक्यात् मन्त्रविध्यानर्थंक्यात् । यदि तु एतद्विध्यभावे "श्रग्निज्योतिज्योतिस्सूर्यस्स्वहेति सायं जुहोति" "सूर्यो ज्योतिज्योतिरग्निस्स्वाहेति प्रातः" इति वाक्याभ्यां मिश्रलिङ्गक मन्त्रवर्णयोः विनियोगात् विनियुक्ताभ्यां ताभ्यां पाठमात्रेण प्रकरणादिना वा सम्भवत्प्राप्तिकयोः शुद्धलिङ्गकमन्त्रयोः बाघे प्रसक्के पुनः तत्प्रतिप्रसवार्थे विधिरित्याशङ्कयेत तदापि लिङ्कादेव व्य. वस्थासिद्धेः तद्वाक्यगतसायंप्रातःपदयोः वैयर्थ्यो नैवापवदितुं शक्यमिस्याह-मिश्रलिङ्गेस्यादिना । प्रतिप्रसवार्थमिति । प्रसक्तप्राप्तिकस्य कारणान्तरेण निवृत्तिप्रसक्तो तत्प्राप्त्यर्थं 1917 Bhandarkar Oriental १. ज्योतिर्गुण इति क २, दस्ययोः। ॥ १८ मो० न्या० Research Institute BET PADRI 452 १३८, [ नामधेयवार्थ विधानेऽपि तद्विधिगतयोः सायंप्रातःशब्दयोरानर्थक्यम्, विधोयमानयोमंस्त्रयोर्व्यवस्थयैव प्राप्ति संभवात्तत्प्रकाश्ययोदेंवत्तयोर्व्यवस्थितत्वात् । मनुवादत्वोक्तिस्तूभयत्र तुल्येति । मान्त्रवर्णिकत्वेऽपि अग्नेः केवलस्यैव देवतात्वं न गुणविशिष्टस्य । "यदनये चे"ति वाक्ये "अग्नेः पूर्वाहुति"रित्यत्र च केवलस्यैवाग्नेः संकीतनात् केवलस्यैव देवतात्वावगतेः । यथा ह्यपांशुयाजे विष्वादेर्मान्त्रवणिकत्वेऽपि न गुणविशिष्टस्य देवतात्वं "विष्णुरुपांशु यष्टव्य" इत्यर्थवादे केवलस्यैव संकीर्तनात्तद्वदिति । प्र अता मान्त्रवर्णिकत्वे दोषाभावाद्देवताद्वयविधाने व गौरवापत्तेरन्यतः मोमांसान्यायप्रकाशः पुनर्विधिः प्रतिप्रसवविधिः । एवश्च केवललिङ्ग कमन्त्रवर्णयोः पाठतः प्रसतप्राप्तिकयोः मिश्रलिङ्ग कमन्त्रविधिबलात् निवृत्तौ अनेन विधिना तत्प्राप्तिः प्रतिप्रसूयत इत्यङ्गीकारेऽपीत्यर्थः । व्यवस्थयैवेति । 'अग्निज्योति' रिति सायं होम एव, 'सूर्यो ज्योति' रिति प्रातहोंम एवेति व्यवस्था करणेनेत्यर्थः । यदि तु अनुवादत्वमेव तयोरङ्गीक्रियेत तर्हि मस्पक्षेऽपि तत् तुल्यमेवेति कुतोऽहमेव पर्यनुयोज्य: इत्याह - अनुवादत्वोक्तिरिति । 'यदग्नये' 'यत्सूर्याय' इति वाक्ययोर्देवताद्वयविधिपक्षे तद्वाक्यगतसायंप्रातः पदे व्यवस्थां प्राप्तकालानुवादके एव इति ययुच्येत तदस्मस्पक्षेऽपि तुल्यमित्यर्थः । 1 द्वितीयं दूषण मुद्धरति— मान्त्रवणिकत्वेऽपोति । केवलस्यैवेति । न हि मन्त्रप्रतिपाद्यगुणानां द्रव्यत्याग कालीनोच्चारण कर्मत्वरूपदेवतात्वान्तर्भावः, विधिगतशब्दस्यैव तत्वावश्यम्भावस्य दशमे साधितत्वात् । विधिश्च केवलस्यैवाग्नेर्देवतात्वमनुवदति, न तु गुण विशिष्टस्य । एवं क्रमबोधक वाक्येऽपि संकीर्तनात् तस्यैव देवतात्वमिति । विष्ण्वादेः इत्यादिपदेन प्रजापत्यग्नीषोमाः परिगृह्यन्ते । एवञ्चाग्नेर्मान्त्रवणिकत्वाशी कारे ऽपि भवदुक्तानां दोषाणामप्रसक्तेः भवन्मत एव चोभ यविधानकृत गौरवप्रसङ्गात् मस्पक्ष एव भैयानित्याह-अतश्चेति । देवताद्वयविधाने अग्नेः प्रजापतेश्च विधौ । ननु निपातोपसर्गाणां द्योतकस्वपक्षस्यैवाश्रयणात् तदा च तत्स मभिव्याहृतस्यैकस्यैव पदस्य विशिष्टार्थवाचकत्वं इतरेषाञ्च तत्समभिव्याहृतानां तापर्यं ग्राहकत्वमित्यङ्गीकारात् प्रकृते चैकस्यैव प्रजापतिपदस्य श्रग्निसमुच्चितप्रजापतिविधायक. स्वमी कृत्येतरयोस्तारपर्यग्राहकत्वाङ्गीकारे न तयोर्वैयर्थ्य न वानेकविधानकृतो वाक्यमेद इत्यत आह - गौरवापतेरिति । यद्यप्यस्मिन् पक्षे नानेकविधानकृतो वाक्यमेदः, तथापि श्रुतस्य प्रजापतिपदस्य विशिष्टार्थबोधकत्वकल्पने इतरयोश्च तत्तात्पर्य ग्राहक स्वरूप. नेऽस्स्यैव गौरवमिति भावः । तदेव द्योतयति-अन्यतः प्राप्तेत्यादिना । एतावता द्योतकत्वपक्षाज्ञीकारेऽपि दोषोऽपरिहार्यं इत्युक्तम् । वस्तुतस्तु तत्तन्निपातोपसर्गसम भिव्याहारे तत्तत्पदेषु विशिष्टार्थबोधकत्वरूपशक्ति कल्पनं निपातादीनां च द्योतकत्वशक्तिकल्पनमित्यने कशक्ति कल्पनाप्रयुक्तगौरवापस्या वाचकत्वपक्ष एव श्रेयानभ्युपगन्तव्यः, प्रताभिसूर्ययोः मिन्नपदोपात्तत्वात् कारकत्वाच्च परस्सरवैशिष्टयानुपपत्त्या पृथक् पृथगेव 1917 निरूपणम् ] सारविवेचिनोव्याख्यासँवलितः प्राप्तमग्निमनूध तत्समुच्चितः प्रजापतिरेधात्र विधीयते । होमानुवादेनोभयविधाने वाक्यभेदप्रसङ्गच्च । न च चकारश्रवणान्न वाक्यभेद इति वाच्यम् । चकारार्थो हि समुच्चयः । तं च समुच्चयं यदि चकार : प्राधान्येन ब्रूयात् तदा प्रधानस्याने कविशेषणसंग्राहकत्वादारुण्यादिविशिष्टक्रयविधान इव कारकद्वय समुदयविधाने वाक्यभेदो न भवेत् । न च चकारः समुच्चयं प्राधान्येन व्रते, परोपसर्जनत्वेनैवाभिधानात् । अत एव दशमे भाध्यकारैश्चकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रतिपादितम्-समुच्चयशब्दो हि तं प्राधान्येन व्रते, न चकारः । यदि हि प्राधान्येन विध्यन्वयावश्यम्भावेनाने कविधानकृतो वाक्यभेदो दुष्परिहर एवेत्याह- उभयेति । स्यादयं दोषो यद्यग्निप्रजापत्योरुभयोरपि स्वातन्त्र्येण विधावन्वयः स्वीक्रियेत नवेतदस्ति, किन्तु चकारार्थे समुच्चय एव, तस्य च निपातार्थत्वेन परस्परान्वयस्य व्युत्प नत्वात् कुतो-वाक्यभेद इति पूर्वोकं पक्षमनुवदति-नचेति । चकारश्रवणात् 'श्रमये च' 'प्रजापतये च' इति चकारद्वयश्रवणात् । आरुण्यादिविशिष्टेति । यथा "अरुया पिङ्गाच्या एकहायन्या सोमं क्रोणाति" इत्यत्र श्रारुण्यपिङ्गाक्ष्येकहायनीनां गुण भुतानां प्रधानया क्रयभावनया वशीकारात् तद्विशिष्टाया एव च तस्या विधानात् न वाक्यमेदः, तद्वदत्रापि यदि चकारार्थस्य समुच्चयस्य प्राधान्यं स्यात् तदा तेन कारकयोः वशीकारसम्भवात् तद्विशिष्टसमुच्चय विधानं युक्तं स्यात्, न त्वेतदस्तीत्यर्थः । तन हेतुमाह- परोपसर्जनत्वेनेति । निपातोपसर्गाणां नित्यमन्योपसर्जनीभूतार्थ प्रतिपादकत्वस्यैवस्वभावसिद्धत्वादिति भावः । चकारस्यान्योपसर्जनीभूतसमुच्चयप्रतिपादकत्वे भाष्यकारोक्तिं प्रमाणयति - मत एवेति । दशमे हि "तस्य धेनुरिति गवां प्रकृतौ" इस्यधिकरणे "अथैष भूवै श्वदेवः" इति वाक्यविहिते भूसंज्ञके एकाहे "धेनुदक्षिणा' इति विहितायाः धेनुरू. पायाः दक्षिणायाः प्रकृतिप्राप्त गवादिसर्वद्रव्य बाघकत्वम् ? उत गोमात्रबाघकत्वम् ? इति सन्दिय प्रकृतौ ज्योतिष्टोमे "गौश्चाश्वश्चाश्वतरश्च गदंभश्चाजाश्चावयश्च ब्रोहयश्च यवाश्च तिलाध माषाश्च तस्य द्वादशशतं दक्षिणा" इति वाक्यगतो दक्षिणाशब्दः गवादिभिः प्रत्येकं सम्बध्यते । न च चशब्दभवणात् तेषां समुदायः प्रतीयत इति वाच्य म्। चशब्दस्य प्राधान्येन समुच्चयावाचकत्वात् । अत प्रत्येकमेव दक्षिणात्वात् घेनुः सादृश्यात गवामेव निवर्तिकेति पूर्वपक्षप्रस्तावे भाष्यकारेणोक्तम्- चशब्दः समुच्चयार्थो भवति न तु समुच्चयस्य निर्देशकः, परपद विशेषणार्थ तु समुच्चयमुपादत्ते, यदि हि निर्दिशेत् क्रियागुणैः समुच्चयः सम्बध्येत, समुच्चयः शोभन: समुच्चयो द्रष्टव्यः इति यथा भवति तथा च शोभनः च द्रष्टव्यः इति वा भविष्यति यथेह समुच्चेययोः षष्ठी भवति धवखदिरयोस्समुच्चय इति, एवं धवः खदिरश्चेत्यत्राभविष्यत्, न तु भवति, तस्मात् न चशब्दः समुच्चयं निविंशतिः' इति । इदं च माध्यवाक्यमर्थतोऽनुवदति- समुच्चयशब्द riental १४० मीमांसान्यायप्रकाशः [ नामधेय व्याज तदा तत्प्रतिपन्नः समुच्चयः क्रियागुणैः सम्बध्येत । समुच्चयः शोभनः समुदयो द्रष्टव्य इतिवत् चशोभनः च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चयशब्दव वकारस्य प्राधन्येन समुच्चयवाचित्वे घवखदियोः समुच्चय इतिवत् धवखदिरयोश्चेत्यपि प्रयोगः स्यात् । अतश्चकारः समुच्चयं प्राधान्येन न ब्रूते, येन प्रधानस्यैकस्य विधानान वाक्य भेदो भवेत् । किंतु कारकद्वयोपसर्जनत्वेनैव स तं ब्रूते-समुच्चितौ अग्निप्रजापती-इति । प्रधानद्वयविधाने च वाक्यभेदः स्यादेव, यथा ग्रहोद्देशेन संमार्गैकत्व विधाने । • यद्यपि चकारः समुच्चयं प्राधान्येन ब्रूयात्, तथापि तस्य कारकद्वयं प्रति प्राधान्यमनुपपन्नम्, विभक्तयभिहितस्य कारकद्वयस्य क्रियोपसर्जन. त्वेन समुच्चयोपसर्जनत्वाभावात् । कृदन्तादिशब्दरुपस्थितं हि कारकं क्रि इति । यथा घवखदिरयोस्समुच्चयः इत्यादी घवखदिराद्यपेक्षया प्रधानतया समुच्चयं ब्रूने समुच्चयशब्दः तद्वदित्यर्थः । तत्प्रतिपन्नः चकारावबोधितः । क्रियागुणैरिति । कि याभिः पुणैध सम्बन्धं प्राप्नुयात्, न तु तदस्तीत्यर्थः । तथास्वे दोषमाह-समुच्चय इति । समुच्चयशब्दात् प्राधान्येन प्रतीतस्य यथा समुच्चयस्य शोभन रूपगुणयोगात् समुच्चयः शोभनः इति प्रयोगो भवति, एवं चशब्दादवि समुच्चयस्य प्राधान्येन प्रतीतौ च शोभनः इति प्रयोगः स्यादित्यर्थः । एवं गुणसम्बन्धे उदाहृत्य क्रियासम्बन्धे उदाहरति-समुच्चयो द्रष्टव्य इति । एवं चशब्दार्थसमुच्चयस्य प्राधान्ये तत्र विशेषणतयान्वययोग्यप्रदोत्तरं यथा षष्ठी भवति तद्वदत्रापि भवेदित्याह - समुच्चयशध्दवदिति । S एतावता किमायातम् ? श्रत आह-श्रुतं इति । ग्रहोद्देशेनेति । यथा "ग्रहं सम्माष्टिं" इत्यत्र प्राप्तग्रहोद्देशेन सम्मागंस्य प्रहगतैकत्वस्य च विधाने वाक्यभेदः तद्वदिस्यर्थः । अयमन्त्र विषयः - ज्योतिष्टोमप्रकरणे "दशापवित्रेण ग्रहं सम्मार्ष्टि" इति श्रुतम् । श्रभिषुतानी सोमानां पवित्रीकरणाय गृहीतो वस्त्रखण्डो दशाविशिष्टो दशापवित्रम् । तेन प्रहं प्रोम्छेदिति वाक्यार्थः । ग्रहशब्देन सोमरसाघारभूतः पात्रविशेषः पात्रगतो वा रस उच्यत इति पूर्वमुक्तम् । तत्र च सन्ति दश प्रहाः । तेषां सर्वेषां प्रोञ्छनं, उतैकस्यैव ? इति संशयः । 'अर्जुहोति' इत्यनेन प्राप्ताः ग्रहाः, तदुहेशेन 'ग्रहं' इति विभक्त्युपात्तस्यैकत्वस्य धातूपात्तस्य च सम्मार्गस्य विधाने ग्रहं सम्मृज्यात्, यं सम्मृज्यात स एकः इति तदा प्राप्तप्रदोद्देशेन सम्मार्गस्य, एकत्वस्य च विधानं भवति, तदा च वाक्यमैदः प्रसज्यते । स चायुक्तः । 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः इत्युक्तेः । अतस्तस्परिहाराय तत्र प्रहगत मेकत्वमविवक्षितम् एवं च सर्वेषां प्राणां सम्मार्गः फलति इति । तद्वदत्रापि वाक्यभेदः प्रसज्येतेति । STITUT UTE POONA चकारस्य प्राधान्येन समुच्चयबोधकत्वेऽङ्गीकृतेऽपि न भवदिष्टं सेत्स्यतीत्याह-यद्यपीति । कारकद्वयं प्रतीति । अभये प्रजापतय इति चतुर्थीकारकद्वयापेक्षयेत्यर्थः । कृत प्रतत् । अत ग्राह-विभक्तीति । क्रियान्वयित्वस्यैव कारकत्वादित्यर्थः । ननु क्रि यातोऽन्येनापि कचित् कारकं सम्बनातीति कथमत्रापि न तथा ? इत्यत आह -कृदन्ताResearch Institute निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः यातोऽम्येन संबध्यते-कारकस मुच्चयः करणसमुच्चय इति । विभक्तयभिहितं तु क्रिययैव, कारकाणां तयैवान्त्रयात् । अंतश्चकारेणोच्यमानः स कारकोपसर्जनत्वेनैवोच्यते । कारकद्वयं च प्रधानम् । एकोद्देशेन च प्रधानद्वयविधाने वाक्यभेद एव । ययाहुः अनेकपदसंबद्धं यद्येकमपि कारकम् । तथापि तद्नावृत्तैः प्रत्ययैर्न विधीयते ॥ इति ॥ यच्च-यथा दक्षिणानुवादेन गवादोनामनेकेषां विधाने न वाक्भेदः तथा कारकद्वय विधानेऽपीति । तन्न; नहि 'गौश्चाश्वश्वे' त्यस्मिन् वाक्ये दक्षिणादिति । कारकादिशब्दैरभिहितस्यापि कारकस्य नामार्थत्वेन तस्य च समस्तस्थले स्वोत्तरपदार्थान्वमस्यैवौचित्येन तत्र तथाङ्गीकारेऽपि विभक्त्य भिहितस्य तस्य क्रियातोऽन्येनान्वयस्थाव्युत्पन्नत्वादिति भावः । कुत्र क्रियातोऽन्येनापि सम्बन्धः कारकस्याङ्गीक्रियते १ तदुदाहरति-कारकसमुच्चय इति । उक्तमर्थं प्रकृते सङ्गमयति-अत इति । एवञ्च गुण भूतेन चकारार्थसमुच्चयेन प्रधानभूतयोरभिप्रजापत्योः वशीकांरासम्भवात् परस्परनि• रपेक्षयोरेव तयोः विध्यन्वयेन तदर्थं विध्यावृत्तेरवश्यंभावे वाक्यभेदो दुष्परिहर एवेत्याहएकोद्देशेनेति । न च विभिन्न विभक्तिभवणेऽपि कारकस्य सम्प्रदानरूपस्यैकत्वात् कथमनेकविधानमिति वाच्यम् । यत्र विभक्तिद्वयश्रवणं तत्र द्वयोरपि कारकयोः परस्परनैरपेक्ष्थे• णैव प्रथमतो भावनान्वये जाते अनन्तरं विशेषण विशेष्यभावादिना परस्परसम्बन्धयोग्यत्वे सतिरुणैकहायनीन्यायेन तथा सम्बन्धः । यत्र तु न तादृशी योग्यता तत्र प्रत्येकमेव विधिव्यापार इति तत्र विध्यावृत्तेरवश्यंभावात् । अत्राघारामिहोत्राधिकरण वार्तिकं प्रमाणयति- अनेकेति । विभिन्नार्थबोधक विभिन्नप्रातिपदिकसम्बद्धं यद्यप्येकं कारकं भवेत् तथापि अनावृत्तैरावृत्तिरहितैः प्रत्ययैः तत् कारकं न विधातुं शक्यते । वस्तुतस्तुत्र कारकमप्येने कमे वेति विधायकप्रत्ययावृत्तिरवश्यंभावि• न्येवेत्यर्थः । अयं भावः - यद्यपि प्रजापतिशब्दस्य प्रजानां पतिरिति व्युत्पस्या अग्निविशेषणत्वाङ्गीकारेण प्रजापतित्वगुण विशिष्ठस्याग्नेः 'अग्नये दात्रे' इत्यादिवत् एकमेव देवतात्वमुच्येत तथापि क्रियान्वयात् पूर्व विशेषणविशेष्यभावाप्रतीतेः प्रत्येकं विधिव्यापारात् विधिप्रत्ययावृत्तिरवश्यंभाविनी किमुत यदा प्रजापतिशब्दस्यान्यत्र रूढत्वेनाग्निविशेषणत्वासम्भवेन प्रत्येकं विभक्तिश्रवणाच्च पृथगेव कारकत्वमिति । यदुक्तं]पूर्वं गवादीनामनेकेषां विधानवत् वाक्यभेदो न भविष्यतीति तदनूद्य खण्डयति- यच्चेति । भवेदेवं यदि दक्षिणानुवादेन गवादयो विधीयेरन्, न त्वेतदस्ति, तथात्वे वाक्यभेदस्य पूर्वमेवोकत्वात् । किंन्तु द्रव्य संख्योभयविशिष्टा दक्षिणैव विधीयत इत्याह नहीति । ननु चशब्दबलात् साहित्यप्रतीतेः परस्परसहितानामेव गवादीनां विधेयत्वमभ्युपगन्तव्यम् । अत एव भूनाग्न्येकाहे दक्षिणा त्वेन विधीयमानायाः धेन्वाः प्राकृतगवादिसर्वद्रव्य निवर्तकत्वं दशमोक्तं सङ्गच्छते । अन्यथा पृथक् पृथक् गवादीनां विधेयत्वे पृथगेवानतिसाघनत्वापस्या धेन्वा गोमात्र निवृत्तिः स्यादिति दाशमिकाधिकरणविरोध आपद्येत । अतश्च चशब्दबलात् इतरेतरसहितानामेव विधेयत्वप्रतीतेः कथं वाक्य STITUT Oriental २ मीमांसान्यायप्रकाशः [ नामघैय नुवादेन गवादयो विधीयन्ते, उक्तरोत्या वाक्यभेदापत्तेः । चकारश्रवणेन (१) कथश्चित्परिहारेऽपि गवादीनामनेकेषां द्वादशशतसङ्ख्यायाश्च विधाने वाक्यभेद एव ! आध्वर्यवशाखायां 'गौश्चे' त्यादेः 'तस्य द्वादशशत' मित्य. मेद इत्यत आह - चकारणेति । यद्यपि चकारश्रवणेऽपि कारकाणणं क्रियान्वयस्यैव युक्तत्वेन चकारार्थसमुच्चयान्वयो न युक्तः, तथापि अत्र गवादीनां प्रथमान्तपदोपात्तत्वेन कारक विभक्त्यन्त पदोपात्तस्वाभावात् कियान्वयात् पूर्वमपि चशब्दार्थान्वये नातीव किञ्चित् बाघ कमित्यभिप्रायेण कथश्चदित्युक्तम् । चकारः गवादिद्रव्याणां परं समुच्चयं ब्रयात् । न द्रव्यसंख्योभयगतं समुच्चयम् । अतश्च दक्षिणोद्देशेन गवादीनां विषाने संख्याया श्रव्यप्राप्तायाः विधेयत्वापत्या प्राप्तो द्दशेना ने कविधानरूपो वाक्यभेदो दुष्परिहर एवेत्याह- गवादीनाम नेकेषामित्यादिना । ननु ताण्ड्यके (२) "तस्य नवतिशतं स्तोत्रीयाः" इति ज्योतिष्ठोमगतस्तोत्रीया संङ्ख्यामभिधाय तदनन्तरं "तासां या श्रशोतिशतं ताषट् त्रिंशिन्यो विराजः, षडृतवः, ऋतुब्वेव विराजा प्रतितिष्ठति" इति विराटसम्पत्तिरूपेण तां स्तुत्वा, अनन्तरं "श्रथ या दश, एषा वा श्रात्मन्या विराट्, एतस्यां वा इदं पुरुषः प्रतिष्ठित" इति पुरुषस्य विराट्प्रतिष्ठायामुपक्रमात् अन्ते च "एतस्यामेव विराजि प्रतितिष्ठती" ति तत्रैवोपसंहाशत् उपक्रमोपसंहाराभ्यामे कवाक्यत्वावगमात् तन्मध्यपतितस्य 'गौश्चाश्वश्चेति वाक्यस्य तदर्थवादत्वस्यैवावगमेन पृथक् द्रव्यविधित्वासम्भवात् "तस्य द्वादशशतं दक्षिणा" इत्यस्य च वाक्यान्तरस्वात् तत्र च गवादीनामश्रवणात् गवादिवाक्ये द्रव्यविधानस्यैव दूरापेतत्वेन कथमनेकविधानं, कथं वा वाक्यमेददोषः ? इत्यत आह१. चकारेण इति ख । २. ताण्ड्य के "तस्य नगतिशतं स्तोत्रीयाः, तासां या मशीतिशतं ताः षट्त्रिंशिम्यो बिराजः, षडृतवः ऋतुष्वेव विराजा प्रतितिष्ठति । अथ याः दश, एषा वा आत्मन्या विराट्, एतस्यां वा इदं पुरुषः प्रतिष्ठितः । गौश्वाश्वश्वाश्वतरश्च गर्दभश्चाजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्चतस्थामेव विराजि प्रतितिष्ठति । तस्य द्वादशशतं दक्षिणाः" इति श्रूयते । अस्यार्थ:- तस्य ज्योतिष्टोमस्य पूर्व विहितस्तोमानुसारेण नवत्युत्तरशतसङ्घयाकाः (१९०) स्तोत्रीयास्सम्पद्यन्ते । संख्यासम्पत्तिश्चेत्थम् प्रातस्सवने तावत् बहिष्पवमानस्तोत्रे नव (९) ऋचः । चर्तुवज्यस्तोत्रेषु प्रत्येकं पञ्चदशस्तोमकेषु मिलित्वा षष्टिः (६०) आइत्य नवषष्टिः (६९) स्तोत्रीयाः । माध्यन्दिनसवने— चतुर्षु पृष्ठ स्तोत्रेषु प्रत्येकं सप्तदशस्तोमकेषु मिलित्वा भष्टषष्ठिः (६८) माध्यन्दिपवमाने पञ्चदशस्तोम के पञ्चदश (१५) आय व्युत्तराशीतिः (८३) स्तोत्रीयाः । तृतीय सवने- मार्भवपवमानस्तोत्रस्य सप्तदशस्तोमकस्य सप्तदश (१७) अग्निष्टोमस्तोत्रस्य एकविंशतिस्तोमकस्य एकविंशतिः (२१) मिलित्वाष्टत्रिंशत् । एवं रीत्या सवनत्रयेऽपि स्तोत्रीयाणामृच संख्या नवत्युत्तरशतम् (१९०) तासां स्तोत्रीयाणां मध्ये याः मशीत्युत्तरशत संख्याकाः स्तोश्रीयाः ताः त्रिंशत्संख्यया विभज्यमानाः षट विराजो भवन्ति "त्रिंशदक्षरा विराडि" त्युक्तत्वात् । तस्मादेकेकया विराजा ऋतुष्वेव यजमानः प्रतिष्ठितों भवति । अथाशीतिशतानन्तरं अवशिष्टाः याः दश स्तोत्रीयाः, एषैवात्मसम्बन्धिनी विराट्, तस्यां विराजि इदं वक्ष्यमाणगवादिद्रव्वदशकं तदात्मकः पुरुषः तत्रैव प्रतिष्ठितः । एतासु दशसु स्तोत्रीयासु विराडात्मिकासु गवादिदशद्रध्यात्मकः पुरुषः प्रतिष्ठितो मवतीत्यर्थः । इदं पुरुष इति द्रव्यपुरुषयोरमेदात् सामानाधिकरण्यम् । तस्य द्वादशशतमिति भिन्नं वाक्यम् । ANSTITUT Re निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः ग्तस्य सहश्रुतत्वेन चास्यैकवाक्यत्वमित्युक्तं दशमे । अतोऽनेन वाक्येनो भयविशिष्टा दक्षिणैव विधीयते विशिष्टविधानाच्च न वाक्यमेदः । श्रत एव पार्थसारथिमिश्रैर्दशमे तत्र तत्र- 'सोभयविशिष्टा विधीयते' इति, 'अनेकगवाद्यात्मिकैका दक्षिणा विधीयत'-इति चोक्तम् । , न चैवं "ऋत्विग्भ्यो दक्षिणां ददाती" त्यस्यानर्थक्यम्, तस्यानुवाद. श्वात्, ऋत्विक्संबन्धपरत्वाद्वा । दक्षिण । शब्दसामर्थ्याद्धि ऋखिजां चमसाश्राध्वर्यवशाखयामिति । नात्र ताण्ड्यश्रुतिगतस्य वाक्यस्योदाहरणता । तस्य भवदुक्तदोषप्रस्तत्वात् । किन्तु श्राध्वर्यवशाखायां गौश्चेत्यादिकं "तस्य द्वादशशत" मित्यन्तमेकं वाक्यमस्तीति भाष्योदाहरणादवगतेः तदादायैवैवमुक्तमिति भावः । यद्यपी दानी मुपलभ्यमानास्वाध्वर्यवशखासु कुत्रापि नोपलभ्यते वाक्यमिदम्, तथाऽपि भाष्यकारवचनप्रामाण्यात् क्वचित् प्रलीनशाखायां भवेदिति सन्तोष्टव्यम् । किमायातमेतावता ? अत श्राह-अत इति । प्राप्तदक्षिणानुवादेन द्रव्यसख्योभयविधाने वाक्य. भेदापत्या द्रव्य संख्योभयविशिष्टा दक्षिणैवात्र विधीयते इत्यर्थः । एवञ्च "ऋत्विग्थ्यो दक्षिणां ददाती" ति वाक्यस्य न दक्षिणाविधायकत्वम्, किन्तु "गौश्चे" त्यस्यैव, श्रप्राप्तायाथ तस्याः द्रव्यादिविशिष्टत्वेन विधानाच्च न वाक्यभेदः इत्याहविशिष्टेति । विशिष्टविधिरक्ष पार्थसारथिमिश्रसम्मतिमावहतीत्याह-अत एवेति । तत्र तत्रेति । शास्त्रदीपिकायां दशमतृतीयै दक्षिणाधिकरणे तत्रैव घेन्वधिकरणे चेत्यर्थः । तत्र प्रथमवाक्यं दक्षिणाधिकरणस्थं द्वितीयवाक्यं धेन्वधिकरण स्थमिति विवेक्तव्यम् । सा दक्षिणा गवादिद्रव्यसंख्योभयविशिष्ट । विधीयते श्रस्मिन्नेव वाक्ये प्राप्ततया विधिविषयी क्रियते इति, अनेकं यत् गवादिद्रव्यं तदात्मिका दक्षिणा एकैवा: प्राप्ततया विधीयते इति च तदर्थः । एवञ्चात्र विशिष्ट विधेरवश्याभ्युपगन्तव्यतया गवादीनां परस्पर वैशिष्टयमन्तरा साक्षात् दक्षिणान्वयेऽपि वाक्यमेदाप्रसक्तेः न तद्द्दष्टान्तेनात्र वाक्यमैदोद्धारः कर्तुं शक्य इति भावः । एव गगनन्वेवं अनेनैव वाक्येन दक्षिणायाः प्राप्तत्वात् तस्याः श्रदृष्टार्थत्वपरिहारार्थ कर्मकरवि गर्थत्वस्यापि वक्तव्यतया तेनैवविक्सम्बन्धस्यापि प्राप्तत्वेन 'ऋत्विग्भ्यो दक्षिणां ददाती" ति वाक्ये विधेयस्य कस्याप्यभावात् तस्य वैयर्थ्यमेवापद्येतेति शङ्कते-नचैवमिति । अनुवादत्वादिति । गौश्चेतिवाक्ये अनेक गुण श्रवणान्यथानुपपत्या विशिष्टविधा: वशीकृते 'ऋत्विग्भ्य' इति वाक्यस्य वर्तमानापदिष्टस्यानुवादत्वेऽपि नातीव काचित् क्षति रिति भावः । सम्भवति योजनान्तरेऽनुवादत्वकल्पनमनुचितमिति प्रयोजनान्तरं कथयति ऋत्विगिति । सम्बन्धपरत्वादिति। ऋत्विक सम्बन्धबोधनद्वारा तद्भिन्नच मसाध्व. र्युव्यावृत्तिफलकत्त्रादित्यर्थः । यथाश्रुते उत्तरग्रन्थासङ्गतेः । व्यावृत्तिमेवोपपादयति-दक्षि रोति । अत्र च 'एतद्विध्यभावे' इति पूरणीयम् । दक्षतेरुत्साहकर्मणः निष्पन्नो दक्षि णाशब्दः उत्साहसम्पादकभृत्यर्थंकः, भृतिश्च कर्मकरेभ्य एव दीयते, कर्मकराय यथा अध्वर्वादयः एवं (१) चमसाध्वर्यवोऽपीति एतद्वाक्याभावे तेषामपि दक्षिणासम्बन्धः Research Institute १. ज्योतिष्टोमे-ब्रह्म, होतृ, यजमानोद्गाद, सदस्या मध्यतः कारिण उच्यन्ते । मैत्रावरुण, ब्राह्म 198 मीमांसाम्यायप्रकाशः is [ नामधेयध्वर्थ्यादीनां च तत्संबन्धः स्यात्। एतद्वाक्यसत्वे च न भवति, ऋत्विक शब्दस्य ब्रह्मादिगतऋतुयजननिमित्तत्वेन चमसाध्वर्यूणामृत्विक्त्वाभावस्य तृतीये उक्तत्वात् । अतश्च 'गौश्रावधे' त्यस्मिन् वाक्ये विशिष्टविधानान्न वाक्यभेदः । 'यदग्नये च प्रजापतये च सायं जुहोति' इति तु न विशिष्टविधानम्, होमस्या 'ग्निहोत्रं जुहोती'त्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चि तोभयविधाने वाक्यभेदात् गौरवापत्तेश्च नानेन वाक्येन देवताद्वयं विधीयते । किंतु मन्त्रवर्णप्राप्तमनिमनूद्य तत्समुश्चितः प्रजापतिहमोद्देशेन विधोयते । श्रतश्च नेदमनेः प्रापकम्, किंतु मन्त्रवर्ण एव । अतश्च तेनाग्नः प्राप्तत्वान्नाश्निहोत्रपदं देवतासमर्पकम् । किं तर्हि ? नामधेयमेव । तत्सिद्धमेतत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति । एवं प्रयाजादिषु समिदादिदेवतानां "समिधः समिधोऽन श्राज्यस्य प्राप्नुयादित्यर्थः । एतद्वाक्यसत्वे वा कथं तेषां व्यावृत्तिः ? अत श्रा-ऋत्विगिति । "ऋत्विग्दधूक" इति सूत्रेण ऋताचुपपदे यजेः किन्नन्तत्वेन निपातितस्य ऋत्विक शब्दस्य ऋतुयजन विशेषरूपं निमित्तमादायैव ब्रह्मादिषु प्रवर्तमानत्वात् सप्तदशसंख्याश्रवणाच्च यजमानसहितानां ब्रह्मादीनां सप्तदशानामेव ऋत्विक्त्वस्य, चमसाध्वर्युषु तदभावस्य, अतएव तेषां ऋत्विक्पदव्यपदेशाभावस्य च तृतीये साधितत्वेन "ऋत्विग्थ्यो दक्षिणां ददाती" ति वाक्येन त्विकमात्रे नियम्यमाना दक्षिणा न तदितरेषु चमसाध्वर्युषु कर्मकरत्वाविशेषेऽपि निवेशमहंतीति भावः । होतृब्रह्मोद्भातृयजमानसदस्यानां, मैत्रावरुणब्राह्मणाच्छंसि, पोतृ, नेष्टाग्नीध्राणां दशानां सम्बन्धिनः तत्तन्नाम्ना व्यवहृताः दश च मसाः सोमरसाधारभूताः पात्रविशेषा ज्योतिष्टोमे सन्ति । तत्रस्यस्य होमार्थं ये विद्यन्ते ते चमसाध्वर्यव इत्युच्यन्ते । तृतीय इति । सप्तमपादे षोडशाधिकरण इति शेषः । एवम्च गौश्चेति वाक्ये विशिष्ट विधिसम्भवेऽपि यदग्नयेचेति वाक्ये तदनुपपत्या प्राप्तहोमोद्देशेन चोभयविधाने वाक्यभेदापत्त्या अन्यतः प्राप्ताग्निसमुच्चितप्रजापतेरेव विधिरभ्युपगन्तव्य इत्याह - श्रुतश्चेत्यादिना । प्राप्तत्वादिति । श्रनन्यगति • कस्य तस्यैवोत्पत्तिविधित्वस्य पूर्वमुखत्वादिति भावः । समुच्चितोभयविधाने समुच्चय विशिष्टयोरग्निप्रजापत्योविंधाने । मन्त्रवर्ण एवेति । अग्निप्रारक इति शेषः । तेन मन्त्रवर्णेन । तथाग्निरूपदेवतायाः प्रकारान्तरेण प्राप्तत्वात् एतद्विधेयस्य चान्यस्य कस्यचिदभावात् परिशेषादग्निहोत्रपदं नामधेयत्वे पर्यवस्यतीत्याहनामधेयमेवेति । एवमग्निहोत्रपदस्य कर्मनामत्वमुपवर्ण्य तत्तुल्यकक्ष्याणां समिदादिपदानामपि तेनैव याच्छंसि, नेष्टुच्छावा काग्नीघ्राख्याहोत्रकाः । तेषां दशानामृत्विजां सम्बन्धिनस्सन्ति दश चमसाः । चमसो नाम सोमरसाधारभूतः पात्र विशेषः । तेषां चमसानां होमोऽध्वंयुंया कर्तव्यः । यद्यव्यत्र व्याप्तः स्यादध्वर्युः तदा केवलं तद्धोमार्थं ये नियन्ते पुरुषाः तेषां चमसाध्वर्यंव इति समाख्या।ndedge orientals नधि नावधीतमस्तु ॥ Research Institute निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः १४५ व्यास्त्व" त्यादि मन्त्रवर्णेभ्यः प्राप्तत्वात् 'समिघों यजती'त्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रात् कर्मनामधेयानि । यथाहु:s विधित्सितगुणप्रापि शास्त्रमन्यद्यतस्त्विह । तस्मात्तत्प्रापणं व्यर्थमिति नामत्वमिष्यते ॥ इति दिक् ॥ ॐ (तद्व्यपदेशात् नामधेयत्वनिरूपणम् ) "इयेनेनाभिचरन् यजेते" त्यत्र श्येनशब्दस्य कर्मनामधेयत्वं तद्व्यपदेशात्; तेन व्यपदेशः उपमानम्, तदन्यथानुपपत्त्येति यावत् । तथा हि-यद्विधेयं तस्य स्तुतिर्भवति । तत् यद्यत्र श्येनो विधेयः स्यात् तदार्थवादस्तस्यैव स्तुतिः कार्या । न च "यथा वै श्येनों निपत्यादत्ते एवमयं द्विषन्तं भ्रातृष्यं निपत्यादत्ते" इत्यनेना त्रत्येनार्थवादेन श्येनः स्तोतुं शक्यः । श्येनोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन स एव स्तोतुं शक्यते । न्यायेन नामधेयत्वमुपपादयति- एवमिति । समिदादीत्यादिपदेन तनूनपादिडादयो गृह्यन्ते । एवमुत्तरत्रापि "तनूनपादग्न आज्यस्य वेतु" "इडो अग्न श्राज्यस्य व्यन्तु" इत्यादीनां मन्त्रवर्णानां परिप्रहः । FWFFICIFE IFIPPETRIS अग्निहोत्रादिपदानां कर्मनामधेयत्वे सूत्रोक्तहेतु संग्राहकं वार्तिकं प्रमाणयति-विधि- त्सितेति । अग्निहोत्रादिपदानां गुणविधायकत्वे यो गुणः तैर्विवित्सितः तादृशगुण- प्रापकस्य शास्त्रस्यात्र विद्यमानत्वात् तस्त्रापितस्य पुनरनेनापि प्रापणे प्राप्तप्रापणस्य वैयर्थ्यापत्या तेषामग्निहोत्रादिपदानां कर्मनामधेयत्वमङ्गीक्रियत इति वार्तिकार्थः ॥ ( तद्व पप देशान्नामधेय निरूपणम्) 1 चतुर्थं नामधेयत्वनिमित्तं निरूपयितुमारभते - श्येनेति । अभिपूर्वकचरघातोः वैरिमरणानुकूलो व्यापारोऽर्थः, तदुत्तरं श्रयमाणः "लक्षणहेत्वोः क्रियायाः" इति सुत्रेण विहितः शतृप्रत्ययो हेत्वर्थंकः, हेतुरत्र फलरूपो विवक्षितः, एवञ्च- श्येन संज्ञकेन यागेन अभिचाररूपं फलं भावयेत् इति विषयवाक्यार्थः । तद्वन्यपदेशपदार्थमाह -तेनेति । तेन विधित्सितगुणेन सह । व्यपदेश इति । विशब्दो भिन्नार्थकः, अपदेशः कथनं, विभि नार्थतया कथनमित्यर्थः । फलितार्थमाह-उपमानमिति। शेषपूरणं करोति-तद्न्यथानुपपत्येति । उपमानत्वेन कथनान्यथानुपपत्येत्यर्थः । श्रर्थवादे विधित्सितगुणेन सह उपमानत्वेन कथनान्यथानुपपत्त्या श्येनशब्दस्य कर्मनामधेयत्वमिति फलितम् । तदेवोपपादयति तथा होति । यत् विधेयं तस्येति । यदि अन्यस्य विधिः अन्यस्य च स्तुतिः स्यात् तदा विभिन्न विषयकत्वेनार्थवादविथ्योरे कार्थवाभावादेक वाक्यता न स्यादिति भावः । श्येनः श्येनपक्षिरूपो गुणः। तस्यैव गुणस्यैव । यथेति । श्यैनरूपः पक्षी आकाशे डयमानः भूमिष्ठं किश्चन खाद्यं वस्तु अवलोक्य यथा सहसा निपत्य गृह्णाति एवमेवायमपि यागः शश्रं सहसा निपत्य गृह्णातीति वाक्यार्थः । अत्र चेदंशब्दार्थो विधेयः, तस्यैव श्येनेन साकमुपमेयभाव उच्यते । स च सादृश्यघटितः भेदमन्तरा न सम्भवतीति श्येनापेक्षया अर्थान्तरमेव किञ्चित् स्तूयत इत्यवश्यं वक्तव्यमित्याशयेनाह–अर्थान्तरस्तुते१६ मो० न्या० FOUNDED तेजस्थि नाय मोमांसान्यायप्रकाशः [नामधेयउपमानोपमेयभावस्थ भिन्ननिष्ठत्वात् । यदा तु श्येनसँशको यागो विधीयते तदा मर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यत इति श्येनशब्दस्य तयपदेशाद्यागनामधेयत्वम् । तत्सिद्धं निमित्तचतुष्टयात्(१) कर्मनामधेयध्वम् । Gurbe ( नामधेयत्वे पञ्चमप्रकार निरूपणम् ) उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं के चिन्नामधेयत्वे निमित्तमाहुः । "वैश्वदेवेन यजेते" त्यत्र वैश्वदेवशब्दस्य कर्मनामधेयत्वमुत्पत्तिशिष्ट गुणव लोयस्त्वात् । उक्तमत्वर्थलक्षणादिप्रकारचतुष्टयासम्भवात् । तथा हि-न तावन्मत्वर्थलक्षणाभयान्नामधेयत्वं (२) वक्तुं युक्तम्, र्शित । भिन्ननिष्ठत्वादिति । प्रसिद्धस्यैव पदार्थस्योपमानत्वयोग्यतया अप्रसिद्धस्योप मेयतया, प्रसिद्धत्वाप्रसिद्धयोः परस्परविरुद्धयोरेक निष्ठत्वाभावेन भिन्ननिष्ठत्वावश्यम्भा• वादिस्यर्थः । नात्रानन्वयालङ्कारः रामरावणयोर्युद्धमित्यादाविव शङ्कयः, तत्रोपमानान्तराभावलक्षणया अनन्याचरितत्वख्यापनार्थत्वात्, प्रकृतेऽपि तथात्वे अनेकेषामर्थवादपदानामुपमानान्तराभावलक्षकत्वाङ्गीकारे गौरवापत्तेः । न च व्यञ्जनयैव तदुपस्थितिरस्विति वाच्यम् । तस्याः वृत्यन्तरत्वानङ्गीकारात् । एवञ्च श्येनपदेन यागोतावेवार्थवादिकी स्तुतिराजस्येनोपपद्यत इत्याह-यदा त्विति । ननु अस्य उद्भिदादिन्यायविषयत्वं कुतो न स्यात् येन न्यायान्तरमाधीयत इत्यत श्राह-तद्व्यपदेशादिति । नात्रोद्भिन्त्यायोऽवतरति, तस्य यौगिकशब्दमात्रप्रवृत्तिकतया रूढेष्वप्रवृत्तेः । नापि चित्रान्यायः, वाक्यभेदाभावात् । न चापि तत्प्रख्यन्यायः, तत्प्रापकशास्त्राभावात् । अतः तद्व्यपदेशादेवात्र नामत्वं वक्तव्यमिति भावः । एवमुद्भिदादिपदानां नामत्वे निमित्तचतुष्टयमुपवर्ण्य उत्पत्तिशिष्टगुणत्रलीयस्त्वस्यापि नामधेयत्वे निमित्तत्वं ब्रुवतां न्यायसुधाकाराणां मतम निरूपयिष्यमाणं स्वान भिमतं सुचयन् उपसंहरति-तत्सिद्ध मिति । (नामधेयत्वे पश्चमप्रकारः ) एवं स्वाभिमतं निमित्तचतुष्टयमुपवर्ण्य पञ्चमं न्यायसुधाकृदभिप्रेतं प्रकारमुपवर्णयतिउत्पत्तोति । उत्पत्तिपदेनोत्पत्तिवाक्यं लक्ष्यते । कर्मोत्पत्तिवाक्य एव कर्मणा सह शिष्टः विहितो यो गुणः तस्य बलीयस्त्वमित्यर्थः । तदुदाहरति-वैश्वदेवेनेति । चातुर्मास्य संज्ञके कर्मणि चरवारि पर्वाणि - वैश्वदेवः, वरुणप्रघासः, साकमेधः, शनासीरीयश्चेति । तत्र वैश्वदेवाख्ये प्रथमे पर्वणि "आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरु साविश्रंद्वादशकपाल, सारस्वत चरुं, पौष्णं चरुं, मारुत सप्तकपालं, वैश्वदेवीमामिक्षां, द्यावापृथिव्य मे ककपालम्" इत्यष्टौ यागान् विषाय तत्सन्निधौ श्रुतं-वैश्यवेदेन यजेतेति । तत्र वैश्वदेवशब्दोऽष्टानामपि पूर्वोत्तानां कर्मणां नामधेय मित्येतत् उत्पत्ति शिष्ट गुण बलीयस्त्वरूपात् पञ्चमप्रमाणादित्यर्थः । FOUNDED 191 कथं पूर्वोक्तनिमित्तचतुष्टयान्यतमेन नात्र नामत्वसिद्धिः ? चत आह-तथा होति । १. नामधेयत्वम् २. युक्तमिति वक्तुं शक्यम् । Bhandarkar Oriental Research Institute 1412 निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः १४७ 'वैश्वदेवेने'ति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । 'सास्य देवते'त्यस्मि न्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धितान्तर्गतस्य यद्यपि 'सूक्तहविषोरिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतम्, तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूतहविषोश्चात्रानुपस्थितत्वात् 'यजेतेत्युपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न यागे मत्वर्थलक्षणा। विश्वदेवरूपैकदेवताविधानाच्च न वाक्यभेदः । नापि तत्प्रख्यशास्त्रान्नामत्वम् । यत्र हि विधित्सितो गुणोऽन्यतः प्राप्तः, तत्र तत्प्रख्यशास्त्रान्नामधेयत्वम्, यथा- अग्निहोत्रशब्दे । अत्र चाऽऽग्नेयादयोऽष्टौ यागाः प्रकृताः । तत्राऽऽमिक्षायागे यद्यपि विश्वेदेवाः प्राप्ताः- वैश्वदेवयामिक्षेति, तथापि सप्तसु तेषाम प्राप्तत्वात् 'वैश्वदेवेन यजेते'त्यनेन तत्र तद्विधाने न तत्प्रख्यशास्त्रमन्यत् येन तद्वशान्नामत्वं स्यात् । न चाऽऽमिक्षायागस्यैवै तन्नामेति वाच्यम् । "वैश्वदेवेन यजेते"ति वाक्य. ननु देवतातद्धितस्य '" सास्य देवता" इति विहितस्य "सूकहविषो" रिति वार्तिकेन सुक्तहविषोरेव नियमितत्वात् कथं तद्भिन्नयागवाचकत्वमित्याशङ्कामनूद्य परिहरति-तत्रेति । अस्य शब्दस्य 'साऽस्य देवता' इति सूत्रघटकस्य 'अस्य' इति शब्दस्य । स्मृतेरिति स्मृतिरत्र व्याकरणमुच्यते। सूक्तम् ऋचां समूहः । हविः देवतोद्देश्येन स्यज्यमानः चरुपुरोडाशादिः । सर्वनामार्थे विहितस्य तद्धितस्य सर्वनामवदुपस्थितपरामर्शकत्वस्यापि सम्भवात् स्ववाक्योपात्तयजिनैव यागस्योपस्थितत्वेन उपस्थिततसरामर्शस्यैव युक्तत्वात् "आग्नेयो वै ब्राह्मणो देवतया" "बुधन्वानाग्नेयः कार्यः पावकवान् सौम्यः" इत्यादौ यागादावपि सूक्तहविर्भिन्नेऽयें देवतातद्धितदर्शनात्, तत्र सम्बन्धसामान्ये तद्धितः मङ्गीकृत्य तस्य विशेषापेक्षायां देवतात्वादिरूपो विशेषलाभः इत्यङ्गीकारे वा प्रकृतेऽपि तस्य समानत्वात् वैश्वदेवशब्देन यागप्रती तेर्जायमानत्वात् न तदर्थं मत्वर्थलक्षणेत्यर्थः । नापि चित्रान्यायात् नामत्वमित्याह - विश्वदेवेति । विश्वेषां देवानामनेकव्यक्तित्वेऽपि तद्गतदेवतात्वस्यैव विधेयत्वात् तस्य चैकत्वान्नानेकविधानमिति मनसि निदधान आइएकदेवतेति । अत्र वैश्यदेवे पर्वणि । तत्र अष्टानां यागानां मध्ये । प्राप्ता इति । "वैश्वदेव्या मिक्षे"ति वाक्येन द्रव्यदेवता विशिष्टयागविधानादिति भावः । सप्तसु आमिक्षाया गव्यतिरिक्तेषु श्राग्नेयादिषु सप्तसु । तेषां विश्वेषां देवानाम् । अन्यतः प्राप्त्यभावेऽपि अने नैव विधिरङ्गीक्रियताम्; को दोषः ? इत्याशङ्कय यद्येवं तर्हि तत्प्रख्यशास्त्राभावात् न नामस्वं सिभ्येत् इत्याह – वैश्वदेवेनेति । मनु मास्तु क्वचिदप्यनेन देवताविधानम्, आमिक्षायागस्यैव वैश्वदेवीवाक्यविहितस्येदं नामधेयमस्तु, तत्र च तेनैव विश्वेषां देवानां प्राप्तत्वात् तत्प्रख्यन्यायसम्भवात् इत्याशङ्कते-न चेति । कथं वैयर्थ्यम् । "प्राचीनप्रवणे वैश्वदेवेनय जेत "वसन्ते वैश्वदेवेत यजेत" इत्यादि विधौ वैश्वदेवशब्देन श्रामिक्षायागग्रहणात् सार्थBhandarkar Oriental मोमांसान्यायप्रकाशः [ नामघैयवैयर्थ्यापत्तेः । वैश्वदेवेशब्दस्थामिक्षायागमात्रनामत्वे स एव यागोऽनेनानूद्यते इति वाच्यम् । न च तदनुवादेनाऽस्ति किंचित् कृत्यम् । "प्राचीनप्रवणे वैश्वदेवेन यजेते"ति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्यमामिक्षायाग एव संबन्धोपपत्तः, विश्वदेवसम्बन्धात्तस्य । आग्नेयाद्यशेषप्रकृतयागनामत्वे तु न 'वैश्वदेवेन यजेते ति वाक्यानर्थक्यम् । तदा ह्यनेनाष्टौ यागा मनूद्यन्ते । अनुवादेन चैकप्रतीत्यारूढत्वात् समु दितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति । एवं च 'प्राचीनप्रवणे वैश्वदेवेन यजेते' त्यत्र वैश्वदेवशब्देनाष्टौ यागाननूद्य प्राचीनप्रवणविधानं तत्र सिद्धं भवति । तद्वाक्यस्याऽसत्त्वे तु अनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसंबन्धः स्यात् । मतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसंबन्ध एव तद्वाक्य प्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नामधेयम् । न च तत्र तत्प्रख्यशास्त्रं निमित्तं संभवति । सप्तसु विश्वदेवाप्राप्तेः । अतो न वैश्वदेवशब्दस्य तरप्रख्यशास्त्रान्नामधेयत्वमिति । नापि (१) तद्व्यपदेशात् ।तादृशस्य व्यपदेशस्यानुपलम्भात् । क्यसम्भवात्, अत ग्राह-वैश्वदेवशब्दस्येति । अनेन वैश्वदेवेन यजेते'ति वाक्येन प्राचीनप्रवण इति । यत्र भूमौ प्राचीनो देशः प्रतीचीनापेक्षया निम्नो वर्तते तन वैश्वदेवपर्वणा यजेतेत्यर्थः । विश्वदेवसम्बन्धादिति । उत्पत्तिवाक्य एवामिक्षायागस्य विश्वदेवसम्बन्धावगतेः तमादायापि तत्र कालादिविध्युपपत्तेः नास्य विधेः किञ्चित् प्रयोजनमस्तीति भावः । • सर्वेषां नामत्वे वा कथमानर्थंक्यपरिहारः १ तदाह - तदा होति । अनेन वैश्वदेवेन यजेत इति वाक्येन । सिद्धं भवतीति । यथा विद्वद्वाक्याभ्यामनन्यप्रयोजनाभ्यां दर्श• पूर्णमाससमुदायद्वयानुवादात् फलवाक्यगतेन दर्शपूर्णमासपदेन षण्णां यागानां ग्रहणं तद्वत् श्रष्टानामप्यनन्यप्रयोजनेना नेनानुवादात् तेषां सर्वेषामेव देशविधौ ग्रहणं कालविधौ च। तद्वारा "अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवती"ति वाक्येन सर्वे षामाग्नेयादीनां फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्यैव फलसम्बन्धापच्या आग्ने. यादीनां तदङ्गता स्यात् । तदा च "अष्टौ हवींषी" त्यष्टानामपि प्रधानत्वेन सङ्कीर्तनमनुपनं स्थादिति भावः । अत्र च देशसम्बन्ध इत्युपलक्षणं वसन्तादिकाल सम्बन्धस्यापि । अतथ्य वैयर्थ्यपरिहारार्थ प्रकृतसंर्वयागना मत्वमेव युक्तं वैश्वदेवशब्दस्येत्याह-एव श्चेति । सर्वयागना मत्वे च श्रामिक्षायागातिरिक्तेषु प्रापकप्रमाणाभावात् न तत्प्रख्यन्यायस्सम्भवतीत्युपसंहरति-श्रत इति । प्राचीनप्रवण इति । यस्य देशस्य प्राग्भागः निम्नतरः पश्चिमभागापेक्षया स देशः प्राचीनप्रवणः इति पूर्वमुक्तम् । श्रष्टानां आग्नेयादिद्यावा. पृथिव्यान्तानाम् । तत्र यागाष्टकनामत्वे । । INSTITUT POONA चतुर्थप्रकारस्याप्यसम्भवमाह-नापीति । तादृशस्य विश्वदेवगतोपमानबोधकस्य । एवञ्च पूर्वोकप्रकार चतुष्टयस्यात्र निमित्तत्वानुपपत्तेः अगत्या पञ्चमप्रकार एवं कश्चिदशी१. श्ये नवन्नामत्वम् । 1917 Research Institute निरूपणम् ] सार विवेचिनी व्याख्यासंवलितः श्रतश्च वैश्वदेवशब्दस्य नामधेयत्वे उक्तप्रकारचतुष्टय स्याऽनिमित्तत्वादुत्पत्तिशिष्टगुणबलीयस्त्वमेव निमित्तम् । तथा हि"वैश्वदेवेन यजेते"त्यत्र न तावदप्रकृतकर्मानुवादेन देवताविधानं संभवति, तेषामशनुपस्थितेः । १४६ नापि देवताविशिष्टकर्मान्तर विधानं संभवति, गौरवापत्तेः । 'अष्टौ । हवींषी'त्यनन्य गति कलिङ्गविरोधाच्च । मतोऽनेन प्रकृतकर्मानुवादेन देवता विधीयत इति वक्तव्यम् । तत्रामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेष्वनेन वाक्येन विश्वे देवा विधोयन्त इति वक्तव्यम् । न च तत्संभवति । तेषामुत्पत्तिशिष्टाग्भ्याद्यवरोधात् । आकाङ्क्षया हि संबन्धो भवति । आग्नेयादिया. करणीयः, स चोत्पत्तिशिष्टगुण बलीयस्त्वरूप एवेत्याह- प्रतश्चेति । ननु वैश्वदेवशब्देन प्रकृतकर्मानुवादेन गुण विध्यसम्भवेऽपि यत्र कर्मणि देवता नोत्पत्तिशिष्टा तत्र देवताविधिरस्तु, अथवा देवताविशिष्टकर्मान्तरविधिरेवास्तु । न च तदान हविर्नव का पत्त्या"श्रष्टौ हवींषी"ति लिङ्गविरोधः, अनेन वाक्येन देवताविशिष्टकर्मणि विहिते तदनुवा. देन "वैश्वदेव्यामिक्षे"ति वाक्येन द्रव्यमात्र विधिसम्भवात्, अतः किमर्थं नामघेथत्वाश्रयणमित्याशङ्कच प्रथमं पक्षं निराकरोति-न तावदित । अनुपस्थितेरिति । उपस्था पकप्रमाणानां प्रकरणादीनामभावात श्रुतस्य यजिपदस्य यागमात्र साधारण्येन यागविशे षानुपस्थापकत्वाच्चेति भावः । अस्तु तर्हि द्वितीयः पक्षः, सोऽपि नेत्याइ-नापीति । गौरवापत्तेरिति । समु दायानुवादमात्रेण लाघवे सम्भवति अतिदेशापादकस्य विशिष्टे विधिव्यापाराङ्गीकरणरू. पगौरवस्य सहनं नोपपत्तिमदित्याशयः । नाप्यामिक्षावाक्येन गुणमात्रविधानं सम्भवति । तत्र हि यज्यश्रवणेन "आग्नेय मष्टाकपाल निर्वपति'' इत्यतो निर्वपतीत्यस्यैवानुषजनीयतया तत्र विशिष्टकर्मविधायकस्य तस्यात्र गुणमात्रविधायकत्वे वैरूप्यप्रसङ्गात् । अतश्च तत्परिहारार्थ मामिक्षावाक्येऽपि विशिष्टविध्यवश्यंभावेन वैश्वदेववाक्येऽपि विशिष्टविधिस्वीकारे हविर्नवकापत्या "अष्टौ हवींषी"ति लिङ्गविरोधस्तदवस्थ एवेत्याह-श्रष्टाविति । वैश्वदेवपर्वप्रकरणे "नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवींषि । द्वावाघारौ । द्वावाज्यभागौ । त्रिशत् सम्पद्यन्ते" इत्युक्तम् । तत्र त्रिंशत्स म्पत्तिबोधकेऽर्थवादे प्रधानहविषामष्टत्वं परिगणितम् । यदि वैश्वदेववाक्ये ऽपि प्रधानस्य विधिः स्यात् तर्हि प्रधानविषां नवकापच्या 'अष्टौ हवींषी' स्यष्टत्वकथनं विरुध्येतेत्यर्थः । ननु तस्यार्थवादत्वादन्यथापि गतिर्भवितुमर्हतोत्यत श्रा- अनन्यगति केति । श्रतश्च वैश्वदेववाक्ये विशिष्ट कर्मविधानं, श्रामिक्षवाक्ये च गुणमात्र विधान मेत्यस्य पक्षस्यासम्भवेन प्रकृतकर्मस्वामिक्षायागातिरिक्तेषु वैश्वदेववाक्येन देवताविध्यङ्गीकारे च तत्राग्न्यादीनां विधानात् तत्रापि निवेशासम्भवेन च परिशेषात् नामस्वाङ्गीकरणमेव शरणमित्युपसंहरति—श्रत इत्यादिना । उत्पत्तिशिष्टदेवताकेऽपि कर्मणि पुनरानेनापि देवताविधानमस्तु । तस्याश्च देवतायाः अग्न्यादिभिस्सह विकल्पः समुच्चयो वा भगोरिवत्याशङ्कायामाह-माकांक्षयेति । सर्वत्र हि विहितस्य कर्मण देवताकांक्षायामेव वाक्यान्तरेण 1917 Resea १५० मीमांसान्यायप्रकाशः [ नामधेयगानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभिरेव निवृत्तेति न तत्र विश्वदेवविधानं युक्तम् । मतश्चोत्पत्तिशिष्ट गुणबलीयस्त्वाद्वैश्वदेवशब्दस्य कर्मनामधेयत्वम् । यथाहुः—' गुणान्तरावरुद्धत्वान्नाऽवकाश्यो गुणोऽपरः । विकल्पोऽपि न वैषम्यात्तस्मान्न । मैव युज्यते ॥ इति ॥ (पञ्चमप्रकारखण्डनम् ) अन्ये त्वाचार्या आहुः - यः शब्दो यत्र कर्मणि यद्गुण संबन्धं बोधयति स देवता विधातुं शक्यते । यदा तु स्ववाक्य एव स्वेनैव सह देवता विधीयते तदा कर्मणः उत्पत्तिदशायामेव आकांक्षायाश्शान्तत्वात् निराकांक्षितविधानस्यासम्भवात् पुनस्तत्र देवताविधानस्यैवासम्भवे समुच्चयविकल्पयोर्दूरापास्तत्वादिति भावः । तत्र तेषु यागेषु । ननु "तस्मादेकदेशस्थैरपि विश्वदेवैरुपलक्षितानां छत्रिन्यायेन तत्प्रख्यन्यायतयैव नामधेयत्व" मिति वार्तिकपर्यालोचनया तत्प्रख्यशास्त्रस्यैवात्र निमितत्वावगमात् कथं तत् परित्यज्य निमित्तान्तरमाश्रितमित्याशङ्कां, नेदं बार्तिकमत्र तत्प्रख्यन्यायस्य निमित्तत्वकथनाभिप्रायकम्, किन्तु अस्मिन्नधिकरणे उत्पत्तिशिष्टगुणबलीयस्त्वस्य गुणविष्यसम्भवात् नामधेयत्वं प्रति निमित्तत्वे साघिते तत्र प्रवृत्तिनिमित्तमात्रप्रदर्शनपरम्, अत एव वातिंककारैः एतदधिकरणसिद्धान्तारम्भे उत्पत्तिशिष्टगुणबलीयस्त्वस्यैवं नामधेये निमित्तत्वं श्लोकेनोक्तमिति समाधानं च मनसि निधाय तदभिव्यञ्जकं तदयविमेव श्लोकं पठति-गुणेति । आग्नेयादीनां कर्मणां स्वस्वोत्पत्तिवाक्यविहितैः अग्न्या दिभिर्व्याप्तत्वात् तत्र विश्वदेवदेवतारूपो गुणो नावकाशमर्हतीत्यर्थ: । नन्वत्राग्न्यादीनामिव विश्वेषां देवानामपि वाक्येन प्रतिपञ्चत्वेनोभयोर्देवतयोस्तुल्यबलत्वात् कथं न विकल्पः ? इत्याशङ्कयामाह - विकल्पोऽपीति । तत्र कारणमाह – वैषम्यादिति । विषमशिष्टत्वादित्यर्थः । श्रग्न्यादीनां तद्धितश्रुतिबोधितत्वात् विश्वेषां देवानां तु वाक्यगम्यत्वादिति यावत् । इदमाकूतम्-'आग्नेयमष्टाकपाल 'मित्यादौ आग्नेयादिपदानां ष्टकपाल पदरूपद्रव्यवाचकपदसामानाधिकरण्यदर्शनात् तद्धटकतद्धितस्य "सास्य देवता" इत्यधिकारे विहितस्य अग्न्यादिनिष्ठदेवतात्वप्रतिपादकत्वावगतेः ससम्बन्धिनः प्रति सम्बन्धिममपेक्ष्यैव प्रवृत्तेः यागस्य च सम्बन्धापादकत्वेन प्रतिसम्बन्धित्वाभावात् द्रव्यस्यैव प्रतिसम्बन्धित्वावगतेः तस्य च द्रव्यविशेषस्य तद्धितोपात्तत्वेनैकपदरूपश्रुतिगम्यत्वात् प्रावल्यम् । "वैश्वदेवेन यजेते"त्यत्र तु द्रव्यवाचकपदाश्रवणात् यजिसामानाधिकरण्य दर्शनाच्च तद्धटकतद्धितेन यागस्यैवोक्तत्वात् तेन च स्वसम्बन्धिद्रव्यलक्षणात् स्वलक्षितद्रव्यद्वारैव यागे देवतासम्बन्धस्य वक्तव्यतया वाक्यप्रमाणगस्यत्वात् ततो दौर्बल्यम्। श्रतो न तुल्यबलत्वात् विकल्प इति । यद्येवं तर्हि किमत्र युक्तम् ? तदाह -तस्मादिति । देवतारूपगुणस्य पूर्वकर्मसु विकल्पेन समुच्चयेन वा निवेशासम्भवेन, वैयर्थ्यापादनस्यानुचितत्वाच्चेत्यर्थः । नामैंव आग्नेयादियागाष्टकना मत्वमेव । NSTITUTE ( पञ्चमप्रकारखण्डनम् ) एवं न्यायसुषाकृदादिमतमुपपाद्य तत्प्रख्यन्यायेनैवात्रापि नामधेयत्वमभिप्रयतां पार्थसारथिमिश्राणां मतमुपपादयति — अन्ये त्विति । यशशब्द इत्यनेन नामधेयत्वेनाभि Research Institute निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः चेत् संबन्धः शास्त्रान्तरप्रतिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्यशास्त्रात् । तच्च शास्त्रान्तरं विधिर्वा अर्थवादो वेत्यत्राऽनादरः । तत्राग्निहोत्र शब्देऽग्निसंबन्धबोधक शास्त्रान्तरं विधिरेव । वैश्वदेवशब्दश्च विश्वदेवसंबन्धं कर्मणि बोधयति । विश्वदेवसंबन्धश्चाऽष्टसु यागेषु "यद्विश्वेदेवाइसमयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्" इत्यर्थवादावगतः । न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किञ्चित् प्रमाणमस्ति । अत एव "ज्योतिष्टोमेन स्वर्गकामो यजेते" त्यत्र ज्योतिष्टोमशब्दः "एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः" इत्यर्थवादावगतं ज्योतिस्सम्बन्धं निमित्तीकृत्य सोमयागे प्रवर्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं प्रेतश्शब्दो विवक्षितः । यद्गुणेति कर्मधारयः । तन्नामधेयत्वं तादृशकर्मनामधेयत्वम् । अनादर इति । एवञ्च प्रापकेण विधिनैव भाव्यमित्यभिमन्वानेन भवता तदर्थं प्रमाणासिद्धपञ्चमत्रकाराङ्गीकरणं व्यर्थमेवेति भावः । विधिरेवेति । यद्यप्येतन्मते मन्त्रवर्णस्य तत्र देवतासमर्पकत्वं तथापि तन्मतानुसारेणेदमुक्तम् । यद्विश्वेदेवा इति । यस्मात् विश्वे देवा यागाष्टकमिदमन्वतिष्ठन् तस्मात् विश्वदेवकृतत्वात् श्राग्नेयादियागाष्टकस्य वैश्त्रदेवशब्दवाच्यत्वमिति वाक्यार्थः । अत एव अर्थवादस्य तत्प्रख्यशास्त्रत्वाभावे प्रमाणाभावादेव । ज्योतिष्टोमशब्द इति नामधेयं भवतीत्यनेन सम्बध्यते । एतानीति । तैत्तिरीयब्राह्मणे पञ्चमप्रपाठके ज्योतिष्टोमनामनिर्वचनावसरे-"यदाहुः । कतमानि तानि ज्योतीvषि । य एतस्य स्तोमा इति" इति प्रश्नमुपक्षिप्य अनन्तरं "त्रिवृत् पञ्चदशस्वप्तदश एकविंशः । एतानि वाव तानि ज्योंतोषि । य एतस्य स्तोमाः" इति समाहितम् । ब्रह्मवादिनः एवं पृच्छन्ति - ये प्रकृतस्य यज्ञस्य स्तोमा भवन्ति कानि तानि ज्योतिः पदवाच्या नीति प्रश्नार्थः । ये त्रिवृदादयः स्तोत्रसंख्या विशेषाः ज्योतिः पदवाच्याः त एवास्य स्तोमा इत्युतरवाक्यार्थः । स्तोत्रसाघनीभूतस्तोत्रीयानवकं (१) त्रिच्छब्देनाभिधीयते । एवं पञ्चदशा१. त्रिवृदादिपदानामर्थनिर्णयश्चेत्थम् – ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि — बहिष्पवमानमेकम्, चत्वार्याज्चस्तोत्राणि, माध्यन्दिनपवमानमेकम्, चत्वारि पृष्ठानि, भार्भवपवमान मेकम्, यज्ञायज्ञीय मेकमितिं । स्तोत्रं नाम प्रगीत मन्त्र साध्य गुणिनिष्ठगुणाभिधानम् । तदिदं स्तोत्रं सदोनाममण्डपे औदुम्ब र्याख्यस्थूणासमीपे उपविष्टैरुद्गातृप्रस्तोतृप्रतिहर्त्राख्यैस्त्रिभिः ऋत्विग्भिः कर्तव्यत्वेन विहितम् । तत्रैकैकस्य स्तोत्रस्य "एक साम तृचे क्रियते स्तोत्रीय" मिति विधिबलात्तिसृषु ऋतु एकं साम गातव्यं भवति । तत्र च त्रिवृत्,पञ्चदशः, सप्तदशः, एक विंशः, त्रिणवः, त्रयस्त्रिंशः, चतुर्विंशः, चतुश्चत्वारिंशः, श्रष्टाचत्वारिश इति नव प्रकारास्सँख्या विशेषा उक्ताः । इम एव संख्याविशेषाः स्तोमशब्देनाऽभिधीयन्ते । तत्र बहिष्पवमानाख्यं स्तोत्रं पर "बहिष्पवमानं सर्पन्ती" ति विधिना सदसो बहिः चास्वालदेशं प्रति प्रसर्पणानन्तरं कर्तव्यत्वेन विहितम् । अतरवास्य स्तोत्रस्य बहिस्सँबन्धात् पवमानक्रियाकर्तृप्रकाश कमन्त्रघटितत्वाचव बहिष्पवमानमिति संज्ञा । तथा च बहिष्पवमानाख्यं स्तोत्रं त्रिवृत्स्तोमकं कर्तव्यमिति वाक्यार्थः पर्यव -सन्नः ॥ त्रिवृत् नवसंख्योच्यते । तत्राम्नातानां नवानामृचां यथाम्नानं सकृद्वायेत् । स त्रिवृत् सोमः । उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारिसूक्तान्याम्नातानि-अन्न आयाहि वीतय इत्याचं सूक्तम्, श्र। नो मित्रावरुणेति द्वितीयम्, श्रया हि सुषुमाहिते इति तृतीयम्, इन्द्रामी भागतं नाव Bha १५२ भोमसान्यायप्रकाशः [ नामधेयप्रकृतेऽपि द्रष्टव्यम् । पञ्चमप्रकारकल्पने प्रमाणाभावात् । अत एव वैश्वदेवा. धिकरणे वार्तिककारैरेवमुपसंहृतम्-'तत्प्रख्यतयैव सर्वेषां नामधेयत्वम्' इति । यच्चोत्पत्तिशिष्टगुण बलीयस्त्वमुक्तं तत् गुणविध्यसंभवे युक्त्यभ्युच्चयमात्रम् । तत्सिद्धं तत्प्रख्यशास्त्रादेव (१) वैश्वदेवशब्दस्य कर्मनामधेयत्वमिति । दयोऽपि शब्दा द्रष्टव्याः। एवञ्च नेनार्थवा देनावगतं ज्योतिस्सम्बन्धमादायैव यथा ज्योतिअष्टोमशब्दस्य कर्मनामधेयत्वमुररीकृतं एवं प्रकृते ऽप्यर्थवादावगतं विश्वदेवसम्बन्धमादा. यैव तत्प्रख्यन्यायेन नामत्वोपपत्तौ प्रकारान्तरकल्पनं नोपपत्तिमदित्याइ- एवमिति । अत्र वार्तिककारसम्मतिमाह-अत एवेति । तत्प्रख्यतयेति । तत्प्रख्यन्यायेनैव वैश्वदेवशब्दस्याग्नेयादि सर्वयागनामधेयत्वमित्यर्थः । तत्प्रख्यतयैवेत्येवकारः प्रकारान्तर. व्यावर्तकः । एवञ्च यत्र यत्र नामधेयत्वं वक्तव्यं तत्र सर्वत्र एतच्चतुष्टयान्यतमेनैव केन चित् प्रकारेण तत् वक्तव्यम्, न स्वतिरिक्त प्रकाराश्रयणं युक्तमिति वार्तिकाशय इति भावः। यद्येवं तर्हि किमर्थमेतदधिकरणसिद्धान्तारम्भे वार्तिकका रैः "श्रग्त्यादयो ही"त्यादिना उत्पत्तिशिष्टगुणस्य बलीयस्त्वमुपपादितम् ? तत्राह-तदिति । ननु 'वैश्वदेवेन यजेते' त्यत्र देवताविशिष्टकर्मविधानमङ्गीकृत्य तादृशकमद्दे शेन "वैश्वदेव्यामिक्षा" इति वाक्यॆन गुणविधिरङ्गीक्रियते । तदा च न कस्याप्यान थंक्यम् । इविष्षु च संख्यावृद्धेरभावात् ना"ष्टी हवींषो"ति लिङ्गविरोधः । श्रुतश्च किमर्थ वैश्वदेवशब्दस्य कर्मनामधेयत्वमङ्गीक्रियत इतीमामाशङ्कां पूर्वस्मिन् पचे गूढाभिसन्धितो निराकृतामपि गृहीताशयो यथाश्रुतग्राही पशुसोमाधिकरणदृष्टान्तेन पुनस्ता; सुतमिति चतुर्थम् । तान्येतानि प्रातस्सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते । तन्निवंचनं च श्रयये – "यदाजिमीयुस्तदाज्यानामाज्यस्वमि"ति । तेष्वाज्यस्तोत्रेषु पञ्चदशनामक. स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते-"पञ्चभ्यो हिंकरोंति स तिसृभिः स एकया स एकया, पञ्चभ्यो ड्रिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो दिकरोति स एकया स एकया स तिसृभि"रिति । एकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमावृत्तौ प्रथमाया ऋचलिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्त वुत्तमाया: । सोऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तरा. ग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वं च चत्वारि सुक्तान्याम्नातानि । तेषु "अभि त्वा शूर नोनुम" इत्याद्यम्, "कयानश्चित्र आभुवदि" ति द्वितीयम्। "तँ वो दस्म मृतीषहमि" ति तृतीयम् । "तरोभिवों विदद्वसुमिति चतुर्थम् । एतानि क्रमेण रथन्तरवामदॆव्यनौध सकालेय साम मिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते । "स्पर्शनात्पृष्ठानि" इत्येवं निरुक्तिर्दृष्टव्या । तेषु स्तोत्रेषु सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टतिरेवमाम्नायते-"पञ्चभ्यो हिकरोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स विसृभिरि"ति । अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ मध्यमोत्तमयोः । सोऽयं सप्तदशस्तोमः ॥ अग्निष्टोमे चैकविंशतिस्स्तोमः । एकविंशस्तोमस्य विष्टतिरेकमाग्नाता - "सप्तभ्यो हिंकरोति स तिसृभिस्स तिसृमिस्स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स्त तिसृभिः, सप्तभ्यो हिंकरोति स तिसृभिस्स एकया स तिसृभिः" इति । अत्र प्रथमावृत्तौ प्रथमायास्तृचः द्वितीयायाश्च । वारत्रयमावृत्तिः, तृतीयायास्सकृत् । द्वितीया वृत्तौ प्रथमायास्सकृत् द्वितीय तृतीययो स्त्रिस्त्रिः । तृतीयावृत्तौ प्रथमातृतीययोनिस्त्रिरावृत्तिः मध्यमायाश्च सकृत् ॥ एत एव त्रिवृदादयस्तोमा उच्यन्ते । १. तत्प्रख्यतयैव इति. क. " CES 21 TO STITUPR POONA Bhandarkar Oriental Research Institute . निरूपणम् 1 सार विवेचिनोव्याख्यासंवलितः १५३ ननु पशुसोमाधिकरणे "ऐन्द्रवायवं गृह्णाती" त्यादौ न यजिकल्पनम्, 'सोमेन यजेतेति प्रत्यक्षयजिश्रुतेरित्युक्तम् । तेन न्यायेन 'वैश्वदेव्यामिक्षे' त्यत्रापि यजिकल्पनं मास्तु, 'वैश्वदेवेन यजेते'त्यत्र प्रत्यक्षयजिश्रुतेः । एवं चानेनैव वाक्येन देवताविशिष्टकर्मविधानमस्तु । तस्य च द्रव्याकाङ्क्षायां 'वैश्वदेव्यामिक्षे'ति द्रव्यविधानमस्तु । एवं च न वाक्यद्वयस्थाऽप्यनुवादत्वम् । ना'प्यष्टौ हवींषो' त्यनन्यगतिकलिङ्गविरोधो भवेदिति चेत्मैवम्; "वैश्वदेव्यामिक्षे"त्यत्र यज्य कल्पने आमिक्षा किमनुवादेन विधीयत इति वक्तव्यम् । विश्वदेवानुवादेन द्रव्यविधाने द्रव्यस्य देवताङ्गत्वमेव स्यात्, न यागाङ्गत्वम् । मेवाशङ्कां करोति नन्विति । न यजिकल्पनं न यागकल्पनम् । 'गृह्णाति' इत्यस्य न यागलक्षकत्व कल्पनमिति यावत् । "अग्नीषोमीयं पशुमालभेत' इति पशुयाग विधायकं "सोमेन यजेत" इति सोमयागविधायकं वाक्यचोदाहृत्य "द्रव्यसंयोगाच्चोदना पशुसोमयोंः" इत्यादिभिः सूत्रैयंत्र विचारः कृतः तदधिकरणं पशुसोमाधिकरणम् । तत्र हि "हृदयस्याग्रे ऽवद्यत्यथ जिह्वाया अथ वक्षसः" इति श्रुतेषु वाक्येषु यागवाचकपदाश्रवणेऽपि तरकल्पयित्वा यागविधानमङ्गीकृत्य तद्वाक्यविहितानां च यागानां "अग्नीषोमीयं पशुमालभेत" इत्यनेनानुवादः १ उत अग्नीषोमीयवाक्य एव यागविधानम् १ हृदयादिवाक्यैश्च तद्यागीयहवरूपहृदयाद्यद्देशेन अवदानसंस्कारमात्रविधानम् । एवं सोमयागप्रकरणे श्रुतानां "ऐन्द्रवायवं गृह्णाति" "मैत्रावरुणं गृह्णाति" "आश्विनं गृह्णाती"त्यादिवाक्येषु यज्यश्रवणेऽपि यागवाचकंपदं कल्पयित्वा तत्रैव यागा विघीयन्ते तेषामेव च "सोमेन यजेते"त्यनुवादः, अथ वा 'सोमेन यजेते'त्यत्रैव यागविधानम्, ऐन्द्रवायवादिवाक्येषु तु यागीयद्रव्य रूपसोमरसस्य ग्रहणाख्यसंस्कार विधानमिति सन्दिय हृदयादिवाक्ये ऐन्द्रवायवादिवाक्ये च यजेरश्रवणात् सोमेन यजेतेत्यादौ च प्रत्यक्षतस्तच्छ्रवणात् पशुसोमवाक्ययोरेव यागविधानम् । हृदयादिवाक्येषु तु संस्कारमात्र• विधानमिति सिद्धान्तितम्, तन्न्यायमत्रातिदिशति-तेन न्यायेनेति । द्रव्यविधानमिति । वैश्वदेवीशब्देन यागमनूद्यामिक्षाशब्देन द्रव्यविधानमित्याशयः । एवञ्च वैश्वदेववाक्ये विशिष्टकमविधानात् न तस्यानर्थक्यम् । गुणविधानाञ्च नामिक्षावाक्यस्यापीत्युभयोपपत्तिरित्यर्थः । वाक्यद्वयस्य वैश्वदेववाक्यस्य, श्रमिक्षावाक्यस्य च । एवमाशङ्किते पशुसोमाधिकरणवैषम्यं प्रदर्शयन् अत्र गुण विध्य सम्भवं प्रदर्शयतिवैश्वदेवीति । किमनुवादेनेति । किमुद्दिश्येत्यर्थः । "वैश्वदेव्यामिक्षा" इत्यत्र पदद्वयसत्वेन वैश्वदेवीशब्देन देवतामुद्दिश्यामिक्षापदेन द्रव्यविधिरिति ययुच्येत तदानीं दोषमाह - द्रव्यस्येति । न यागाङ्गत्वमिति । सर्वत्र विधिप्रत्ययमन्तरा नोद्देश्यविधेयवाचकपदद्वयश्रवणमात्रेण विधेयत्वमुद्देश्यत्वं वा सम्भवताति प्रकृताप तस्यावश्यंभावे केवलस्य प्रत्ययस्य प्रयोगानई वेन कस्यचित घातोरपि प्रयोगो यद्यप्यावश्यकः तथापि प्रत्ययार्थाविरोधी यः कश्चित् घातुः प्रयुज्यताम्, नैतावता यजिकल्पनं सिध्यतीत्याशयः । यथा पश्वेकत्वाधिकरणपूर्वपचे एकस्वस्य पश्वङ्गत्वेन यागावस्वासम्भव उक्तः तद्वदत्रा२० मो० न्या० 1917 Oriental Ins मोमांसान्यायप्रकाशः [ नामधेयकिञ्च वैश्वदेवीशब्दों देवतातद्धितत्वादामिक्षां(१) तत्वेन ब्रत इत्युक्तम् । तत्र विश्वदेवानुवादेन द्रव्यविधानं वैश्वदेवीशब्देनैव कर्तव्यं, पदश्रुतेः । यथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः, न तूपपदेनेत्युक्तं भावार्था. धिकरणे तद्वत् । तत्र च "वषट्कर्तुः प्रथमभक्ष" इतिवदेकप्रसरताविरोधः । अतो यागानुवादेनापि (२) द्रव्यविधानार्थं 'वैश्वदेव्यामिक्षे'त्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् । (३) अतश्च पशुसमाधिकरणन्यायवैषम्यम्। 'ऐन्द्रवायवं गृह्णाती'त्यत्र देवताविशिष्टग्रहणविधानेन यज्य कल्पनात् । यजिकल्पने च 'वैश्वदेव्यामिक्षेत्यत्रैव द्रव्यदेवता विशिष्टकर्मविधानं युक्तम्, रूपद्वयश्रवणात् । एवञ्च "आाग्ने प्यापतेत् । अतश्च यथैव तत्र द्वाभ्यां बहुभिर्वा पशुभिः यागकरणापत्तिः तद्वदत्रापि येन केनापि द्रव्येण यागानुष्ठानापत्तिरित्यपि हृदयम् । ननु देवतोद्देशेन द्रव्यविधानेपि एतद्वाक्यबोधितस्य सम्बन्धस्य 'न क्रियागर्भसम्बन्धादृते सम्बन्धनं क्वचित्' ● इति न्यायेन क्रियाघटितत्वात् तादृश्याश्च देवतासम्बन्धनघटनसमर्थायाः यागादृतेऽ.. सम्भवात् यागापेक्षायां वैश्वदेववाक्यविहितस्योपस्थितस्यान्वयात् तत्रैव द्रव्यविधानस्य पर्यवसानात् सिध्यस्येव यागसम्बन्ध इत्यत श्राह-किञ्चेति । तत्वेनेति । देवताविशिष्टद्रव्यत्वेनेत्यर्थः । 0 1973 "नैव हि द्रव्यमात्रस्य तद्धितैर्देवतोच्यते । अस्य शब्दाभिधेयस्य विशेषस्यैव सा स्मृता" इति न्यायेन द्रव्यविशेषस्यैव तद्धितेनोकत्वात् । अत एव च "श्रामिक्षां देवतायुक्तां वदत्येवैष तद्धितः" इति, पूर्वमुक्तमिति भावः । अस्तु, तावता किमायातम् १ त श्राह-तत्रेति । वैश्वदेवीति । प्रकृत्यंशेन देवतामनूद्य प्रत्ययांशेन द्रव्यं विधेयमिति भावः । अस्त्वेवं, को दोषः ? श्रत ग्राह-तंत्रेति । न हि यजेतेत्यादौ प्रत्ययार्थभावनोद्देशेन प्रकृत्यर्थयागविधानम्, येन सत्राप्येक प्रसरताभङ्ग श्राशङ्क्येत, किन्तु प्राप्तभावनाविशिष्टयागविधानमेव । प्रकृते तु देवतायाः प्राप्तत्वेन विधनासम्भवात् तदनुवादेनैव द्रव्यविध्यवश्यंभावेन न एकप्रसरताविरोधदोषात् विमुक्तिरिति भावः । प्रतश्च वैयर्थ्यपरिहारार्थं यागोद्देशेनैव द्रव्यविधेरवश्याङ्गीकरणीयत्वेन तदर्थे यजिकल्पनमावश्यक मेवेत्याह-अत इति । यागा. नुवादेनापीत्य पिशब्दः एवकारार्थकः । यागानुवादेनैव द्रव्यं विधातव्यम् । तदर्थं च यजि कल्पनमावश्यकमेवेत्यर्थः । अथवा अपिशब्दो भिन्नक्रमः । द्रव्यविधानार्थमित्यत्रान्वेति । कल्पिते च यजिपदे तत्रैव यागविधिरङ्गीक्रियताम् । किमर्थं वैश्वदेववाक्ये विशिष्ट विध्यङ्गीकरणरूपं गौरवमाश्रीयते इत्याह - यजिकल्पने चेति । रूपद्वयश्रवणादिति । द्रव्यस्य देवतायाश्च श्रवणादित्यर्थः । ननु "यस्य पर्णमयी जुहूर्भवती" त्यादौ तद्धितस्य द्रव्यविशेषवाचित्वेऽपि एकप्रसरताभङ्गपरिहारार्थ विशेषसमर्पकस्य समभिव्याहृतजु१. 'आमिक्षान्तर्गतत्वेन बू०; अमिक्षान्तर्गतार्थः । २. क़पुस्तके अपिर्नास्ति 1917 । ततः । ३ Bhandarkar Oriental, Research 6 निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः १५५ योऽष्टाकपालः सौम्यश्चर" रित्यादिवाक्यैन्वैश्वदे' यामिक्षे' (१)ति वाक्यस्य प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धक लिपतयागविधानमन्त्र च द्रव्यमात्रविधानमिति वैरूप्यं प्रसज्येत । किञ्च 'वैश्वदेवेन यजेते'त्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे 'यद्विश्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्' इत्येतस्यार्थवादस्यात्यन्तमेव निरालम्बन (२) त्वं स्यात् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वदेवकर्तृकत्वेन कर्मणि प्रवृत्त इति ज्ञायते । (३) तत् देवतासमर्पकत्वे विरुध्यते । किञ्च 'वैश्वदेवेन यजेते'त्यस्य यागविधित्वे श्रामिक्षाया नोत्पत्तिशिष्टत्वम् । तथा च तया न वाजिनं बाधितुं शक्यत इति उभ योरपि श्रमिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथा च विकल्पः । ह्वादिपदान्तरस्यैवोद्देश्यसमर्पकत्वस्य शतशोऽङ्गीकरणवत् प्रकृतेपि श्रामिक्षापदस्यैव तद. जीक्रियताम् । सति चैवं नैकप्रसरताविरोधः, नापि यजिकल्पना गौरवमित्यत श्राह- एव ञ्चेति । 'आग्नेयोऽष्टाकपाल' इत्यादीनि हि वाक्यानि यागविघायकानि । तेषां मध्ये वैश्वदेव्यामिक्षेति पठितम् । यदि स्यापि वाक्यस्य कर्मविधायकत्वमङ्गी क्रियेत तदानीमेव तन्मध्यपाठस्सङ्गतो भवतीत्यर्थः । प्रायपाठः सहचरितपाठः । यागविधायकवाक्यमध्ये पठितस्य वाक्यस्य यागविधायकत्वस्यैवोचितत्वात् । तदभावे दोषमाह अन्यथेति । अत्र सर्वत्रापि प्रथमान्तपदश्रवणात् यागवाचकपदाश्रवणाच्च द्रव्यदेवतासम्बन्धान्यथानुपपत्त्यैव यागस्य कल्पनीयत्वात् तद्शापनार्थ द्रव्यदेवतासम्बन्धेत्याद्यतम् । इँदं च मैत्रायणीयशाखामनुसृत्योक्तम् । तत्रैव प्रथमान्तपाठस्य श्रवणात् । यदा तु तैत्तिरीयशाखास्थः पाठ आद्रियते तत्र द्वितीयान्तपाठस्यैव श्रवणात् तदा पूर्वोत्तमास्मकीनं समाधानं बोध्यम् । नन्वयं प्रायपाठोऽकिञ्चित्करः । श्रारादुपकारक प्रयाजचतुष्टयप्राये पठितस्यापि पञ्चमप्रयाजस्य सन्निपत्योपकारकत्वाङ्गीकरणात आहवनीया द्यग्निसम्पादकगुण कर्मभूत ब्राह्मदि त्रैवर्णिक कर्तृकाघानप्राये पठितस्यापि रथकाराधान स्वार्थ कर्मत्वाङ्गीकरणात् । अतो यजिकल्पनापरिहारार्थ एकप्रसरताभङ्गपरिहारार्थं च गुणविधित्वमेवाङ्गीक्रियता मित्यत आह - किञ्चेति । निरालम्बनत्वमिति । निर्विषयत्वमित्यर्थः । P ननु देवतानां (४) विश्रादिपञ्चकस्य नवमे निराकृतत्वात् षष्ठे तिर्यगधिकरणे च तासौ कर्मण्यधिकाराभावस्य साधितत्वात् अर्थवादस्यास्य यथाकथञ्चित् स्तुतिमात्रपरत्वेनाप्युपपत्तौ न देवताविधिप्रतिबन्धकत्वं भवितुमर्हतीत्यत श्राह - किश्चेति । उत्पत्तिशिष्टत्वाभावे दोषमाह -तथा चेति । तया श्रमिक्षया । शक्यत इति । तुल्यबलयोः परस्परं श्रात्यन्तिकबाघासम्भवादिति भावः । यागाङ्गत्वमिति । वैश्वदेववाक्यविहितयागाङ्गत्वमित्यर्थः । अस्तु तथैव, का हानिरिति चेत् ? यथेवं तर्हि "एकार्थास्तुFOUNDED 1917 १. इत्यस्य इति क. २. निरालम्बः स्यात् इति क. ३. 'तद्देवता समर्पकत्वेन ४. विग्रहो इविषां भोग ऐश्वर्यच प्रसन्नता । फलप्रदान मिस्येतत् पञ्चकं विग्रहादिकम् ॥ लावधीतमस्तु kar Oriental Institute १५६ मीमांसान्यायप्रकाशः [ निषेधस चाष्टदोष (१) दुष्ट इति । तस्मा"द्वैश्वदेव्यामिक्षे"त्यत्रैव यागविधानम् । इतरस्थ त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथोक्तमित्यास्तां तावत् । तत्सिद्धम् वैश्वदेवशब्दस्य कर्मनामधेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षणादिप्रकार चतुष्टय निरूपणेन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्वम् । ( निषेधानां पुरुषार्थानुबन्धित्वनिरूपणम्) अनर्थहेतोः कर्मणः सकाशात् पुरुषस्य निवृत्ति करत्वेन निषेधानां पुरुषार्था- विकल्पेरन्" इति द्वादशिकन्यायेन द्वयोर्द्रव्ययोः विकल्पः पर्यवस्येत् इत्याह - तथा चेति । अस्तु विकल्पः, यजिकल्पनापेक्षया तस्य लघुत्वात् । नैवमित्याह - स चेति । विकल्पश्चेत्यर्थः । अष्टदोष इति बहुव्रीहिः । अष्टौ दोषाश्च – 'व्रीहिभिर्यजेत? 'यवैर्यजेत' इति शास्त्रद्वयेन वीहीणां यवानां च विकल्पोऽवगम्यते । अविशेषाच द्वयो• रपि शास्त्रयोः प्रामाण्यं प्रमितम् । तत्र प्रथमं व्रीह्यनुष्ठाने यवशास्त्रे प्रतीतप्रामाण्यपरि त्यागः अप्रतीताप्रामाण्यपरिकल्पनं चेति द्वौ दोषौ । पुनश्च यवानुष्ठाने तत्रैव पूर्वोत्यस्य प्रामाण्यस्य पुनरुज्जीवनम्, स्वीकृतस्याप्रामाण्यस्य परित्यागः, इति द्वौ दोषौ । तदेवं प्रथमं व्रीयनुष्ठाने यवशास्त्रे चत्वारो दोषाः । एवं प्रथमं यवानुष्ठाने ब्रहिशास्त्रे चत्वारः । आहत्याष्टौ दोषाः । एवञ्च उत्पत्तिशिष्टगुणबकीयस्त्वरूपपञ्चमप्रकारेण वा तत्प्रख्यन्या- येन वा वैश्वदेवशब्दस्य कर्मनामधेयत्वं तावत् सिद्धमेवेत्युपसंहरति - तत्सिद्धमिति । वस्तुतस्तु यद्यप्यत्र तत्प्रख्यन्यायेनैव नामधेयत्वं तथापि केवलस्य तस्य न सर्वत्र प्रवृत्तिनिमित्तसम्पादकत्वम्, तेनामिक्षायाग एव तत्सम्पादनात् । नापि विश्वदेव कर्तृकत्वं प्रवृत्तिनिमित्तम् । तस्यालीकत्वात् । अतश्चाग्नेयादिषु गुणविध्यसम्भव सम्पादनार्थ उत्पत्ति- शिष्टगुण बलीयस्त्वस्यापि सहकारित्वस्यावश्याभ्युपगन्तव्यतया उत्पत्तिशिष्टगुण बलीय- स्वसहकृततस्प्रख्यन्यायस्यैवात्र नामत्वे निमित्तत्वं वक्तव्यम् । एतदभिप्रायेणैव च वार्तिके उभयमप्युपात्तमिति ध्येयम् ॥ O नामधेयनिरूपण प्रकरणमुपसंहरति-तदेवमिति ॥ FA ( निषेधानां पुरुषार्थानुबन्धित्वनिरूपणम्) एवं नामधेयत्व निमित्तानि निरूप्य क्रमप्राप्तं निषेधानामर्थवश्वप्रकारं निरूप यितुमारभते – अनर्थेति । अनर्थो नरकादिः, तद्धेतुभुतं यत् कर्म कलजभक्ष. णादिकं तादृशात् कर्मण इत्यर्थः । निवृत्ति करत्वेन निवृत्तिजनकत्वेन । पुरु षार्थानुबन्धित्वमिति । यथा हि विधयः इष्टसाघनीभूते कर्मणि पुरुषं प्रवर्तयन्तः पुरुषार्थपर्यवसायिनः, एवं निषेधा अपि अनिष्ठसाघनीभूतात् कर्मणः पुरुषस्य निवृत्ति जनयन्तः पुरुषार्थानुवन्धिन इत्यर्थः । पुरुषस्य हि यथा सुखप्राप्ति. रभिलषिता एवं दुःखनिवृत्तिरपि । अत यथैव सुखं जानन्नपि भावात् न तत्र प्रवर्तते पुरुषः, तथैव दुःखाभावं जानन्नपि कलञ्जभक्षणादौ दुःखजनकत्वमजानानः न ततो निवर्तते । तस्याञ्चावस्थायां यथा विधिः यागादौ सुखसाधन . १. 'अष्टदोष इति' इति क. 1002711 तत्साधनज्ञानाSTITUT POONA ॥ तजस्विनावधीतमस्तु ॥ Bhandarkar Oriental Research Institute निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः नुबन्धित्वम् । तथा हि-यथा विधयः प्रवर्तनामभिद्धतः स्वप्रवर्तकत्वनिर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनत्वमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति, एवं 'न कलक्षं भक्षयेत्' इत्यादयो निषेधा अपि निवर्तनामभिद्धतः स्वनिवर्तकत्वनिर्वाहाथ निषेध्यस्य कलञ्जभक्षणादेर नथं हेतुत्व माक्षिपन्तः पुरुषं ततो निवर्तयन्ति । प्रमाणान्तरानवगत मेवावबोध्य तत्र प्रवर्तयति पुरुषम्, एवं कलजभक्षणादौ दुःखजनकत्वं प्रमाणान्तरेणानवगतमवबोध्य पुरुषं ततो निवर्तयति निषेध इति पुरुषाभिलषितफलसम्पादकत्वाविशेषात् विधीनामिव निषेधानामपि पुरुषार्थानुबन्धित्वमिति भावः । तदेवोपपादयति — तथा होति । विधयः इति । " विधिनिमन्त्रणामन्त्रणाधीष्टसस्प्रश्नप्रार्थनेषु लिङ्" इति सूत्रे लिङादीनां प्रवर्तनायां शक्तिरित्यवधार्यते । प्रवर्तनात्वं च प्रवृत्त्यनुकूळव्यापारत्वम् । अनुकूलत्वम् चात्र प्रवृत्तिजनकीभूतेष्टसाघनताज्ञानजनकत्वम् । यथा हि लोके 'चैत्रः पचेत्' 'गामानये' त्यादिवाक्यश्रवणोत्तरं शाब्दबोचे जाते लिङाद्यर्थस्य प्रवृत्त्यनुकूलव्यापारस्येच्छारूपत्वेऽवगते वचनेङ्गितादिना च प्रयोक्तृपुरुषस्यातत्वेऽवगते श्रयमत्र प्रवर्ततामित्याकारका सेच्छाविषयी भूत कृतिविषयत्वरूपं हेतुज्ञानं मानसं जायते, तेन च हेतुना पाकादाविष्टसाधनत्वानुमितिर्जायते, एवं वेदेऽपि लिङादिश्रवगोत्तरं प्रवर्तनाविषयकशाब्दबोधे जाते तत्र च पुरुषसम्बन्धाभावात् लिङा दिनिष्ठत्वेऽवगते भ्रमाद्यसम्बन्धाच्चानाप्तभिन्नत्वेऽवगते यागादिविषयक कृतिसम्बन्धाच्च 'यागेऽयं प्रवर्तता'मित्याकारकत्वेऽवगते यागादौ 'अयमत्र प्रवर्तता'मित्याकारकव्यापारविषयीभूतकृतिविषयत्वज्ञानं मानसं जायते । ततश्च यागादाविष्टसावनत्वमनुमीयते । अनुमानप्रकारश्चेस्थम्-यागो मदिष्टसाधनम्, यमन प्रवर्ततामित्याकारकव्यापारविषयीभूतकृतिविषयध्वात्, यथा गवानयम्, इति । एवं निषेधवाक्येष्वपि निवर्तनाभिधीयते । निवर्तनाच निवृत्त्यनुकूलो व्यापारः, अनुकूलत्वं चात्र न पूर्ववत् निवृत्तिजनकीभूतानिष्ठसाधनताज्ञानजनकत्वरूपम्, प्रवृत्तिप्रागभावरूपायाः तस्याः जन्यत्वासम्भवात् । किन्तु प्रवृत्ति सामग्री विघटकत्वमेव । निषेधवाक्यभवणोत्तरं हि निवर्तनाविषयकशाब्दबोधे जाते तस्याः श्रयमस्मान्निवर्ततामित्याकार• कत्वे लिंबादिनिष्ठत्वादौ च पूर्ववदेवावगते कलञ्जभक्षणं मदनिष्टसाधनं, श्रयमस्मान्निवर्तता मित्याकारकव्यापारविषयाभावप्रतियोगिकृतिविषयत्वात् इत्यनुमितिर्जायते । तया चानुमित्या कलजभक्षणादौ पूर्वोत्पन्ना बलवदनिष्ठाननुबन्धित्वरूपा प्रवृत्तिसामग्री विधटथते । तद्विघटनाच्च प्रवृत्तिकारणाभावात् पुरुषो न प्रवर्तत इति । तदेतत् सर्व मनसि निघायाह – प्रवर्तनामधिद्धत इत्यादिना । आक्षिपन्तः अनुमापयन्तः । अनर्थहेतुत्वं बलवदनिष्टाननुबन्धित्वम् । ततः अनिष्टजनकात् कर्मणः । > सर्वत्र हि लिङघटितवाक्यस्यैव नज्युक्तत्वे निषेधपदेन व्यवहारः। लिङध प्रवर्तनायामेव शक्तिरनुशासनसिद्धा, न निवर्तनायामपि । नञश्चाभावे शक्तिः । तस्य च येन सह सम्बन्धः तदभावबोधकत्वं प्रसिद्धम् । अतश्च यदि स घात्वथन सम्बंधनीयात् तदा तदभावं बोधयेत्, तस्य च धात्वर्थस्य लिङर्थेनान्वये घात्वर्थवर्जन कर्तव्यतैव प्रतौयेत । Irkar Research Institute मीमांसान्यायप्रकाशः गठ [निषेधननु कथं निषेधानां निवर्तनाप्रतिपादकत्वम् ? यावता 'न'भक्षयेत्' 'न हन्तव्य' इत्येवमादावव्यवधानेन नअर्थस्याभावस्य धात्वर्थेनान्वये धात्वर्थवर्जनकर्तव्यतैव सर्वत्र (१) वाक्यार्थः प्रतीयते । ततश्च यथा 'यजेते त्यादौ यागकर्तव्यता वाक्यार्थः, एवं(२) निषेधेषु तत्तद्धा (३) त्वर्थवर्जन कर्तव्यता वा क्यार्थः, न निवर्तनेति चेत् 1 मैवम्-अव्यवधानेऽपि घात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नञ: र्थेनान्वयायोगात् । नान्योपसर्जनमन्येनान्वेति । यतः मा भूद्राजपुरुषमानयेत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपि नञर्थस्य न धात्वर्थेनान्वयः; आरुण्यस्येवैकहायन्या । नापि कलञ्जादिपदार्थैरन्वयः । तेषामपि कारकोपसर्जनतयो पस्थितत्वेन भिन्नपदस्य नञोऽर्थेनान्वयायोगात्, एकहायन्या इवारुण्येन । अतश्चान्येनान्वयायोगान्नञर्थः प्रत्ययार्थेन सम्बध्यते, तस्य प्राधान्यात्, क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थभावनया, तस्या अपि यदि च लिङ्र्थेन, तदापि प्रवर्तनाभाव एव बोध्येत, न निवर्तनेति तद्बोषकपदाभावेन कथं निषेधवाक्यतो निवर्तनाप्रतीतिरित्याशङ्कया पूर्वपक्षी प्रत्यवतिष्ठते-नन्विति । तदेव विवृणोति-यावतेति । अव्यवधानेनेति । शाब्दबोधं प्रति आसत्तेरपि कारणत्वादिति भावः । यजेतेत्यादाविति नञभावस्थलोदाहरणम् । नाव्यवधानमात्रमन्वय प्रयोजकम्, किन्तु अन्वयप्रतियोगिना अन्याविशेषणीभूतेनापि भाव्यम्, अन्यविशेषणीभूते पदार्थों अन्यान्वयस्यासाम्प्रदायिकत्वात् । अतथ धात्वर्थ स्याव्यवहितत्वेऽप्यन्य विशेषणत्वात् न तत्र नञर्थस्यान्वयो भवितुमर्हतीति समाधानमाहमैवमिति । अन्वयायोगादिति । प्रतियोगितयेति शेषः । श्रन्योपसर्जनस्यान्यत्रान्वया भावे दृष्टान्त माह-माभूदिति । माभूदिति नहीत्यर्थे । यस्मात् राज्ञः पुरुषपदार्थों उपसर्जनतयान्वितस्थानयनपदार्थेऽन्वयो न भवितुमर्हतीत्यर्थः । भारुण्यस्येति । सन्निहिताया प्येकायन्याः कारकोपसजर्नत्वात् यथा न तत्रारुण्यान्वयः तद्वदित्यर्थः । ननु मास्तु धा. त्वर्थेनान्वयः । कलञ्जादिपदार्थैस्सह भवत्वन्वयः, तेषां तदभावात् इत्यत आह-नापीति । भिन्नपदस्येति । प्रकृत्यर्थस्य कारकान्वयस्यैव व्युत्पन्नत्वात् 'तयोस्तु प्रत्ययः प्राधान्येन' इति स्मरणात् 'परिपूर्ण पदं पदान्तरेणान्वेती' ति न्यायाच्च प्रथमतः स्वप दोक्तकारकान्वयमुज्झित्वा नञर्थेनान्वयासम्भवादिति भावः । तत्र दृष्टान्तमाह -एकहायन्या इति । एकहायन्याः करणत्वोपसर्जनीभूताया यथा न भिन्नपदोपात्तेनारुण्येनान्वयः एवं प्रत्ययार्थोपसर्जनीभूतानां कलञ्जादीनां नञर्थेनान्वयो न सम्भवतीत्यर्थः । तर्हि कुत्रान्वयः ! तमाह-अतश्चेति । प्रत्ययार्थेन लिब्र्थेन । तत्र कारणमाह तस्येति । "प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतस्तयोस्तु प्रत्ययः प्राधान्येन" इति स्मृत्या प्रत्ययार्थस्यैव प्रधान्यावगमादित्यर्थः । ननु – प्रस्तुतर्हि प्रार्थी भावना यामेवा॥ तेजस्विनीतमस्तु १. कपुस्तके 'सर्वत्र' इति नास्ति । २. निषेधेऽपि. ३. 'द्वाक्यान' Bhandarkar Oriental Research Institute निरूपणम् ] १५६ लिङ्त्वांशवाच्यप्रवर्तनोपसर्जनस्वेनोपस्थितत्वात् । अतो लिङ्त्वांशेन नञ् सम्बध्यते, तस्य सर्वापेक्षयां प्राधान्यात् । नञश्चैष स्वभावो यत्स्वसम्बन्धि प्रतिपक्षबोधकत्वम् । 'नास्ती'त्यत्र ह्यस्तीति सस्वशब्देन संबध्यमानो नञ् सत्त्वप्रतिपक्षमसत्त्वं गमयति । तदिह लिङर्थस्तावत्प्रवर्तना । अतस्तेन सम्बध्यमानो नञ् प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणे त्र्यं मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणे अयं मां निव यतीति निवृत्त्यनुकूल व्यापाररूपनिवर्तनायाः प्रतीतेः (१) । अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः । एवं च विधिनिषेधयोभिन्नार्थत्वं (२) सिद्धं भवति । हननादि (३) वर्जनकर्तव्यतावाक्याथँपक्षे तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न युक्तम् । यदाहुःअन्तरं यादृशं लोके ब्रह्महत्या ऽश्वमेधयोः । दृश्यते ताहगे(४) वेदं विधानप्रतिषेधयोः ॥ इति । तथासारविवेचिनीव्याख्यासंवलितः फलबुद्धिप्रमेयाधिकारिबाँधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः ॥ इति । M न्वयः, तस्याः कारकापेक्षया प्राधान्यात् प्रत्ययार्थत्वा विशेष चेत्यत आह-तत्रापीति । यद्यपि तस्याः कारकापेक्षया प्राधान्यम्, तथापि शाब्दभावनापेक्षयोपसर्जनत्वात् श्रन्योपसर्जनीभ्रूतेऽन्यान्वयासम्भवस्यानुपद मेवोत्तत्वात् सर्वप्रधानभूतार्थी शाब्दीभावनायामेव नञर्थस्य सम्बन्ध इत्याह - इति । अस्तु एतावता निवर्तनाबोधकत्वं कथमायातम् ? नञो विध्यर्थेन सम्बन्धे प्रवर्तनाभावस्यैव बोधनात् इति पूर्वमेव निगूढतयोक्तामाशङ्कामिदानों परिहरति-नञश्चैष इति । नञो न केवलमभावमात्रबोधक त्वम्, किन्तु येन सह सम्बध्यते तद्विरुद्धार्थबोधकत्वमित्यर्थः । तत्र दृष्टान्तमाह - नास्तीति । नञिति । एवञ्च नञ एव निवर्तनाबोधकत्वम्, तत्र च लिङ्तासर्यप्राहक इति भावः । किं तत्र प्रमामित्यत श्राह - विधिवाक्येति । उभयत्र विधिस्थले प्रतिषेधस्थले च । तयोः विधिप्रतिषेधयोः । Des विधिप्रतिषेधयोरत्यन्त विरोघे बृहट्टीकोक्तां न्यायसुधाकृदुदाहृतां कारिकामनुवदति अन्तरमिति । ब्रह्महरयायाः अत्यन्तोत्कटपापरूपत्वेन; श्रश्वमेधस्य च 'सर्व पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेघेन यजते" इत्यादिना तादृशपापनाशक स्वश्रवणाच्च तयोर्यावान् विरोधः परस्परमस्ति तावानेव विधिनिषेधयोर्विरोधः परस्परमस्तीति कारिकार्थः । FOUN WOR एवं फलादिना परस्परं भिन्नत्वादपि विधिनिषेधयोर्भेदोऽवश्यमङ्गीकर्तव्य इत्यत्र न्या यसुधोक्तं पद्यमपि स्वयमनुवदति-फलेति । स्वर्गादिरूपमिष्टं फलं विधेः, अनिष्टनिव १. प्रतिपत्तेः इति क. । २. सम्भवति । तजस्ति नमस्तु ॥ ३. निवर्तन । ४. वेह । 1917 Research Institute १६० मीमांसान्यायप्रकाशः 77 [ निषेधयन्मते इष्टसाधनत्वं लिङर्थस्तन्मतेऽपि लिङ्संसृष्टो नञ् इष्टसा. धनत्वप्रतिपक्ष मनिष्टसाधनत्वं गमयति । सर्वथापि तु नञः प्राधान्यात् प्रत्ययेनान्वयः । (पर्युदासनिरूपणम्) यदा तु तदन्वये किंचित् बाधकं तदाऽगत्या धात्वर्थेनान्वयः । तच्च बाधकं द्विविधम्-'तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्चेति । (१) अनेन च त्तिर्निषेधफलम्। विधिश्रवणे 'हमनेनास्मिन् कर्मणि प्रवर्तितः' इति बुद्धिरुत्पद्यते, निरेधश्रवणे च 'अहमस्मात् कर्मणो निवर्तितः' इति धीरुदेति । यागादिगतेष्टसाघनत्वं विधेः प्रमेयम्, कलजभक्षणा दिगतानिष्टसाधनत्वं निषेधस्य प्रमेयम् । यथोक्तविशेषणविशिष्टः स्वर्गादिकामनावान् निमित्तवान् वा पुरुषः स्वयमप्रवृत्तः प्रमाणान्तरेणाप्रवर्त्तितो विधेयेध्वधिकारी, रागादिना प्रवृत्तमात्रः पुरुषो निषेधेष्वधिकरोति । नञहितो लिङादिविंधेबोंधकः, लिङाद्यनुगृहीतो नञ् निषेधस्य बोधकः । एवं प्रकारेण पञ्चधा भिन्नत्वात् विधिनिषेधयोरत्यन्तभेद इत्यर्थः । एतदपि तत्रैव श्लोकैर्विवृतम् "विधिरिष्टफलोऽनिष्टपरिहारफलोऽपरः । प्रेरितोऽस्मीति पूर्वे धीः वारितोऽस्मीति चापरे ॥ भाग विषयस्येष्टहेतुत्वं विधिना च प्रमीयते । निषेधेन निषेध्यस्य प्रत्यवाय निमित्तता ॥ विधिश्चाधिकरोत्यन्य कारणेनाप्रवर्तितम् । रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ pho नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् । लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ इति । 59 ननु प्रवर्तनालिङर्थवादिनां मते एवमुपपत्तावपि इष्टसाघनत्वलिङर्थवादिनां मते कथं निवर्तनायाः प्रतीतिरित्यत आह-यन्मंत इति । एवञ्च ये इष्टसाधनत्वमेव लिधंमभ्युपगम्य तस्यैव प्रवर्तनास्वमभ्युपगच्छन्ति ते मण्डनमिश्रप्रभृतयः तत्प्रतिपक्षभूतमनिष्टसाघनत्वमेव लिडर्थे ब्रूयुः । तेन तेषामपि न कापि हानि: । पुरुषस्तु यथा इष्टसाधनताज्ञानात् प्रवर्तते, एवमनिष्टसाघनताज्ञानात् निवर्तते एवेति तत्रापि निवर्तनासिद्धिरविहतैवेति भावः। तस्मिन्नपि मते नञर्थस्य प्रत्ययार्थेनैव साकमन्वय इत्याह सर्वथापीति । प्रधान्यादिति । प्रत्ययार्थस्येति शेषः । नञ इति अन्वय इत्यनेन सम्बध्यते । (पर्युदास निरूपणम्) एवं सर्वत्र नञः प्रत्ययान्वयप्रसक्तौ क्वचित् तदपवादमाह-यदा विति । तद्न्वये प्रत्ययान्वये । बाघकमेवोपपादयति-तच्चेति । तस्येति । तस्य स्नातकस्य व्रतं अनुष्ठेयपदार्थः श्रमे निरूप्यते इति शेषः । यत्रोपक्रमेऽनुष्ठेयपदार्थवाचको व्रतशब्दो दृश्यसे, यत्र वा प्रत्ययार्थान्वयाङ्गीकारेऽष्टदोषदुष्टो विकल्पः प्रसज्यते, तदुभवमपि नञर्थस्य Bhan Research Institute १. तेन । 136 निरूपणम् ] सारविवेचिनोव्याख्या संवलितः बाधकद्वयेन नत्र्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । तदभावे निषेध एव । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । इति, प्रत्ययार्थान्वये बाघकमित्यर्थः । व्रतमित्युपलक्षणं धर्मादिपदस्थापि । उपक्रम इत्युपलक्षकमुपसंहारस्यापि । श्रत एव 'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वनस्थयतिधर्मोऽयम्' इत्यत्राभोजनसङ्कल्पलक्षणा स्मर्तृभिरङ्गीकृता सङ्गच्छते । श्रत एव च तन्त्रवार्तिके कधिकरणे पर्युदासनिमित्तकथनावसरे-'न हि दार्शपौर्णमा. सिके कश्चित् पर्युदास हेतुरस्ति व्रतशब्दप्रयोगो विकल्पमसक्तिर्वा' इत्युपक्रम शब्दमनुपादाय प्रयोगपदमेव प्रयुक्तम् । परन्तु तत्रत्यं व्रतपदमपि धर्मादिपदोपलक्षकमित्यव. गन्तव्यम् । तदभावे तादृशबाघकद्वयाभावे । विकल्पप्रसक्तौ पर्युदासाश्रयणमित्युक्त्या विकल्पदोषात् मुक्त्यर्थमेव पर्युदासाश्रयणमित्यवगमात् यत्र पर्युदासाश्रयणेऽपि विकल्पात् न मुच्यामहे तत्र पर्युदासे प्रयो• जनाभावात् नञः प्रधानसम्बन्धलाभार्थ च प्रतिषेध एवाश्रीयते, यथा-"न तौ पशौ करोती" त्यत्र । अनेन हि वाक्येन पशुयागे आज्यभागसंज्ञकेन कुर्यादित्याज्यभाग कर्तव्यता प्रतिषिष्यते । यद्यत्र पर्युदास आश्रीयते तदा पशुयागे श्राज्यभागभिन्नमङ्गजातमनुतिष्ठेत् इत्यर्थः स्यात् । अनेन नाज्यभागयोरात्यन्तिकी निवृत्तिर्भवितुमर्हति । पशौ "अग्नय श्राज्यस्यानुब्रूहि, सोमायाज्यस्यानुब्रूहि" इत्याज्यभागाङ्गभूतमन्त्रपाठबलात् तयोरपि तत्र कर्तव्यतावगमात्, किन्तु विकल्प एवेति पर्युदासाश्रयणे प्रयोजनाभावात् प्रतिषेध एवाश्रीयते । एतेन 'न तौ पशौ करोती' त्यत्र विकल्पभयात् पर्युदासाश्रयणमिति प्राभाकरोक्तिः प्रत्युक्ता । विकल्पानङ्गीकारे पशुप्रकरणे श्राज्यभागाङ्गमन्त्रपाठवैयर्थ्यापत्तेः । एतरसर्व निषेध एवेत्येवकारेणापि सूचितं ग्रन्थकृता । P ननु कोऽसौ पर्युदासः प्रतिषेधो वा ? इत्याशङ्कायां तत्परिचयार्थं तयोर्लक्षणं प्राची नोकमनुवदति - पर्युदास इति । अत्रोत्तरपदं क्रियावाचक प्रत्ययातिरिकपरम्, न तु वैयाकरणमतवत् समासचरमावयवे रूढम् । श्रुतश्च यत्र नम् क्रिया भिन्नवाचकपदेन सम्बध्यते तत्र पर्युदासः । क्रिया चाख्यातार्थः । एवञ्चाख्यातार्थभिन्न प्रतियोगिता काभावबोध कवाक्यत्वं पर्युदासस्वमिति फलितम् । उत्तरार्धं सष्टार्थम् । लक्षणवाक्यद्वयमपीदं हरिकारिकायां श्लोकद्वयस्यार्थार्धात्मकम् । तत्र च "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् ॥ प्रधानत्वं विधेयंत्र प्रतिषेधेऽप्रधानता । पर्युदासस्स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ " ASTITUTE POONA FOUNDED 1917 Bhandarkar Oriental Research Institute इति श्लोकद्वयं श्रूयते । प्रन्थकारस्स्वयं प्रकृतोपयुक्तमे कैकश्लोका देकै कमर्धमुशदाय प्रतिषेधलक्षणे किञ्चिदन्यथयित्वा व्यत्लिखदित्यवगम्यते । २१ मी० न्या० मीमांसान्यायप्रकाशः [ पर्युदास(१) प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नअ !! इति च तयोर्लक्षणम् । तत्र "नेक्षेतोद्यन्तमादित्य" मित्यादौ पर्युदासाश्रयणम्, 'तस्य व्रत' मित्युपक्रमात् । १६२ ( उपक्रमबलात्पर्युदासाङ्गीकारः ) तथा हि-व्रतशब्देन कर्तव्योऽर्थ उच्यते । अतश्च स्नातकस्य कर्तव्या र्थानां वक्तव्यत्वेनोपक्रमात् किं तत् कर्तव्यमित्यपेक्षायां अग्रे 'नेक्षेतोद्यन्त' मित्यादौ कर्तव्य एवार्थो वक्तव्यः, श्राकाङङ्क्षिताभिधानात् । अर्थान्तरोकौ च पूर्ववाक्यस्य साकाङ्क्षत्वेनाप्रामाण्यं (२) स्यात् । न हि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाङ्क्षत्वं सम्भवति । न च साकाङ्क्षस्य प्रामाण्यम्, गोरश्वः पुरुषः इत्यादावपि तत्प्रसङ्गात् । एवं तयोर्लक्षणमुक्त्वा पर्युदासाश्रयणस्य प्राथमिकं स्थलमुदाहरति-तत्रेति । नेते. तेति । मनौ चतुर्थाध्यायेASS अतोऽन्यतमया वृत्या जीवंस्तु स्नातको द्विजः। स्वर्गायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ इत्यत्र स्नातकोहेशेनाग्रे वक्ष्यमाणाः तदनुष्ठेयपदार्था व्रतशब्दोक्ताः । श्रच 'नेक्षे तोद्यन्तमादित्य' मित्यादयोऽभिहिताः । तत्र सर्वत्रापि पर्युदासाश्रयणमेव । प्रतिषेधाश्रयणे तस्य कर्तव्यत्वाभावात् कर्तव्यवाचकव्रतशब्दोपक्रमो विरुध्येतेति भावः । अत्र चादिपदेन "नास्तं यन्तं कदाचन, । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् । "न लगयेत् वत्सतन्त्रीम्" इत्यादीनि तत्प्रकरणे पठितानि नञ्घटितवाक्यानि सर्वाण्यपि गृह्यन्ते । उपसृष्टं राहुप्रस्तम् । वारिस्थं जलमध्ये प्रतिबिम्बतया दृश्यमानम् । अत्र चोदयादिविशिष्टमादित्यं न पश्येदिति यथाश्रुतोऽर्थः । तत्सरिग्रहे चोपक्रमभङ्गापच्या निषेधमकल्पयित्वा नञो धात्वर्थेन सम्बन्धमङ्गीकृत्य ईक्षणाभावसङ्कल्पोऽनेन विधीयत इत्यङ्गीकार्यमिति तात्पर्यम् । एवञ्च तत्प्रकरणे यावन्ति नञ्घटितवाक्यानि तत्र सर्वत्रापि पर्युदासमझी कृत्य तद्वर्जनसङ्कल्प एव कार्य इति सिध्यति । स च सङ्कल्पः-उद्यन्तमादित्यं नेक्षिष्ये-इत्येवमादिरूपो द्रष्टव्यः । यद्यप्यत्र मूलपर्यालोचनया मानवं वाक्यमेवोदाहरणमिति भाति, तथापि तत्र 'तस्य व्रत'मित्युपक्रमादर्शनात् "एतावता हैनसा विमुक्तो भवती" त्यग्रे वक्ष्यमाणस्य वावयशेषस्याभावाच्च न मानवं वाक्यमुदाहरणं भवितुमर्हति परन्तु तत्समानजातीयं तादृशवाक्यशेष विशिष्टं स्मृत्यन्तरं श्रुत्यन्तरं वोदाह रणमित्यवगन्तव्यम् । ( उपक्रमबलात् पर्युदासस्वीकारः ) पर्युदासाश्रयणावश्यकतामुपपादयति-तथा हीति। आकाङ्गताभिधानादिति । ANSTINUS FOONAM 1917 Bhandarkar Oriental १. अयमेब पाठस्साधीयान् शास्त्रानुगतस्सम्प्रदायागतश्च । सति चैवं अत्र निर्णयसागर मुद्रितपु स्तके कलिकत्तामुद्रित पुस्तके च शोषयित्रा व्याख्यात्रा च स्वस्वमनीषानुसारेण पाठभेदं प्रकल्प्य तदनुसारेण चाथ यो वर्णितः स सर्वोऽप्य भित्तिचित्रायित इत्युपेक्षणीयं प्रेक्षावद्भिः । २. ण्यप्रसङ्गात् । निरूपणम् ] सारविवेचिनी व्याख्या संवलितः किञ्च 'नेक्षेते' त्यस्योपक्रमेण प्रतीयमाना एकवाक्यता च न स्यात्, अर्थान्तरोक्तः । श्रतश्चास्मिन् वाक्ये कश्चित् कर्तव्य एवार्थो वक्तव्यः । तदुक्तौ च न नंञः प्रत्ययेन सम्बन्धो घटते । तत्सम्बन्धे कर्तव्यार्थोक्तरनुपपत्तेः । प्रत्ययाश्च उत्सारितो(१) नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिः षेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेधकत्वस्य विधायकत्व प्रतिपक्षत्वात् । नामधातु (२) योगे तु न नञः प्रतिषेधकत्वम् । तयोरविधायकत्वात्। यदाह (३) नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति । अतश्च 'नेते' त्यत्र नञो धातुयोगात् नञोक्षतिभ्यामीक्षणविरोधी कध नार्थः प्रतिपाद्यते । तदानीमेवापेक्षितविधानं भवतीत्यर्थ: । अन्यथा अनपेक्षित विधानरूपो दोष श्रावतेदितिं भावः । तदनभिधाने कर्तव्यार्थानभिधाने । तत्प्रसङ्गात् प्रामाण्यप्रसङ्गात् । मनुं यत्र व्रतशब्दः श्रूयते तस्मिन्नेव वाक्ये कर्तव्यताविधिरङ्गीक्रियताम् । किमर्थमुसुपरितनेषु सर्वेष्वपि वाक्येषु लक्षणापादकः पर्युदास श्रीयते इत्यत श्राह-किश्चेति । अयमाशयः - स्नातकानुष्ठेयपदार्थनिरूपण प्रकरणे 'तस्य व्रत' मित्यादि सामान्यतः एव व्रतशब्दः यते । तस्य च विशेषापेक्षायां अग्रिमवाक्यै सवै रेवा विशेषात् विशेषस्समर्प्यत इति वक्तव्यम् । अयमर्थः स्मृत्यन्तरेषु एतत्प्रकरणगतै तत्समानार्थंकवाक्यैः स्पष्टमवगम्यते । तेषु हि 'व्रतानीमानि धारयेत्' 'इमानि व्रतान्यनुकर्षत्' इत्यादिना उपरिष्ठात् प्रतिपाद्यमाना एव पदार्थाः व्रतशब्देनाभिघीयन्ते । कर्तव्यविशेषश्च कर्तव्य एव भवती. स्यगत्या उत्तरवाक्यानां पूर्ववाक्यापेक्षितविशेषसमर्पकत्वावश्यम्भावेन तदेकवाक्यताया अव्यवश्याभ्युपगमनीयत्वात् । यदि तु 'तस्य व्रत' मित्यत्रैवानुष्ठेयपदार्थविधानमा श्री येत, तदा स्वरसतः प्रतीयमाना एकवाक्यता भज्येतेति । अत्र च न पदैकवाक्यता । वाक्यानां स्वार्थबोधे समाप्तत्वात् । तो दर्शपूर्णमासवाक्यप्रयाजादिवाक्यानामिव वाक्यैकवाक्यता वेदितव्या । अतश्चेति । श्राकातिभिषानसिध्यर्थं प्रतीयमानैकवाक्यता निर्वाहार्थं चेत्य. र्थः । अस्मिन् वाक्ये नेक्षेतेति वाक्ये । तदुक्तो कर्तव्यार्थीको । तत्सम्बन्धे विधि. प्रत्ययेन सह सम्बन्धे । अनुपपत्तेरिति । नञः स्वसम्बन्धिप्रतिपक्षबोधकत्वस्य पूर्वमेव निरूपितत्वादिति भावः । तत्सम्बन्धे धातुसम्बन्धे । विधायकसम्बन्धेनैवेति । 'विधायकैरसंयुक्तो नैव न प्रतिषेधकः" इति वार्तिकोत्तत्वादिति भावः । किमिदं प्रतिज्ञामात्रसाध्यम् ! उत युक्तिसहम् ! तदर्थमाह-प्रतिषेधकत्वस्येति । तयोः नाम्नः घातोश्च । श्रविधायकत्वादिति । विधायक संयुक्तस्यैव नञः तत्प्रतिपक्षबोधकत्वादिति भावः । नामेति । नाम्ना नामार्थेन घात्वर्थेन च संयुज्यमानो नव् न प्रतिषेधमभिधते । यतः ब्राह्मणपदेन संयुक्तः तदन्यमात्रमब्राह्मणं धर्मपदेन च संयुक्तस्तद्विरोधिनमधर्म च वदतीत्यर्थः । एतावता प्रकृते किमायातम् ? अत आह-अतश्चेति । अ मধ॥॥ १. अवतारितो इति क. । २. धात्वर्थयो। ३. नामधात्वर्थयोयोंगे । 1917 BHO Research Institute १६४ मोमांसान्यायप्रकाशः [ पर्युदासननु -'तदन्यतद्विरुद्धतदभावेषु नञि' ति सत्यपि स्मरणे नञः स्वसंसृष्टाभाव एव शक्तिः, लाघवात् । न तु तदन्यतद्विरुद्धयोः । तयोरभावघटितत्वेन गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नओ धातुयोगे धात्वर्था. भावबोधकत्वमेव, न तु तदन्यतद्विरुद्धार्थबोधकत्वमिति चेत् सत्यम्, नञोऽभाव एव शक्तिः, स्मरणं तु प्रतीत्यभिप्रायम्, न शक्त्य भिप्रायम्, नामधात्वर्थयोगीत्यपि प्रतीत्यभिप्रायम्, तथापि 'नेक्षेते' त्यत्र प्रत्ययस्य नआऽसम्बन्धात् तेन तावत् कश्चिदर्थो विधेयः । तत्र न तावद्धात्वर्थो विधातुं शक्यते, नञा तदभावबोधनात् । नापि तदभावो विधातुं शक्यते, अभावस्थाविधेयत्वात् । अतश्च नञीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते । स चेक्षणविरोधो लक्ष्यमाणः पदार्थो ननु "श्रमानोनाः प्रतिषेधे" इति स्मृतिबलात् लाघवाच नञोऽभाव एव शक्तिरेङ्गीकार्या । श्रत एव नसूत्रे महाभाष्ये "निवृत्तपदार्थक" इस्यभाषार्थकत्वमेव नञ उक्तम् । निवृत्तमिति भावे तः । निवृत्तिरित्यर्थः । निवृत्तिरभावः स पदार्थो यस्येति बहुव्रीहिः । अभावार्थक इति यावत् । न च 'तदन्यतद्विरुद्धतदभावेषु नञ्' इति स्मृत्या नञोऽन्योन्यामावादावपि शक्तिरस्तीति वाच्यम् । तस्याः स्मृतेः लक्षणायां ताल. र्यग्राहकत्वेनाप्युपपत्तौ अनेकशक्तिकल्पने मानाभावात् । कप्रियतत्सादृश्यमभावश्च तद्न्यत्वं तदल्पता । FLE 62 USPER अप्राशस्त्यं विरोधश्च नञर्थाषट् प्रकीर्तिताः ॥ प्रा इतीदमपि वचनं एष्वर्थेषु नञो लक्षणायां तात्पर्यप्राहकमेव । स्पष्टं चैतत् भूषणादौ । अतभ नञो धातुना योगे तदभावस्यैव बोधनात् तद्विरुद्धार्थस्यैवाप्रतीतो कुतरसङ्कल्पलचरोत्याशङ्कते-नन्विति । संसृष्टाभाव इति । संसर्गाभाव इत्यर्थः । अनेकार्थस्य चेति । चकारोऽनुक्तसमुच्चयार्थ: । भेदस्य नष्वाच्यस्वाङ्गीकारेऽपि घटो न पट इत्यादौ नञर्थभेदस्याभेदातिरिक्तसम्बन्धेन पटेऽन्वय(सम्भवात् तद्भेदवति लक्षणाया आवश्यकत्वात् । प्रतश्च संसर्गाभाव एव शक्तिरङ्गीकार्येति भावः । नञोऽभावशक्ततां स्वीकरोति-सत्यमिति । स्मरणमप्यन्यथोपपादयति-स्मरण. विति । तदन्येति व्याकरणस्मृतिरित्यर्थः । प्रतीत्यभिप्रायमिति । नञः श्रवणादेतावन्तोऽर्थाः प्रतीयन्त इति ननमीषामर्थानां प्रतिपादकः इत्येतावत्यंशे स्मृतेस्तात्पर्यम् । प्रतिपादनञ्च शक्त्या लक्षणया वेति तु लाववादिसह कृतन्यायैकवेद्यमित्यभिप्रायः । प्रतीत्यभिप्रायमिति । अत एव न्यायरत्नाकरे एतच्छूलोकव्याख्यानावसरे सम्भवति चाभाववचनस्यापि ( ननः ) अन्यमात्रे विरुद्धे च प्रवृत्तिरिति प्रभाव एव नञः शक्तिः, इतरत्र च लक्षणयापि प्रवृत्तिरित्याशयोऽवबोधित इति भावः । कथं तर्हि 'नेक्षेते' त्यत्र सङ्कल्पबोधकत्वम् ? तदाह-तथापीति । तेन प्रत्ययेन । अविधेयत्वादिति । उपादेयस्वरूपकृति साध्यस्वस्य तत्राभावादिति भावः । नञीक्षतिभ्यामिति । नगपदेन ईक्षतिषावना चेत्युभाभ्यां मिलिताभ्यामित्यर्थः । ननु लक्ष्यतामीक्षणविरोधी कश्चित् पदा थंः, तथापीक्षणविरोधिनां बहूनां पदार्थानां सत्वात् कथं सङ्कल्पस्यैव लक्ष्यमाणतेत्याश1917 Oriental निरूपणम् ] सारविवेचिनो व्याख्यांसंवलितः (१)'नेते' इत्यनीक्षणसंकल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन संकल्पस्यैव (२) लक्षणात् स एव 'नेक्षेते' त्यत्र कर्तव्यतया विधीयते-अनीक्षणसंकल्पेन भावयेदिति । भाव्याकाङ्क्षायां च "एतावता हैनसा विमुक्तो भवती" ति वाक्यशेषावगतः पापक्षयो भाव्यतया सम्बध्यते । एवञ्चात्र पापक्षयाथ सङ्कल्पस्य कर्तव्यतया विधानात् 'तस्य व्रत'मित्यनेनैकवाक्यता सिद्धा भवति । तत्सिद्धं 'नेक्षेते' त्यत्र 'तस्य व्रत' मित्युपक्रमात् पर्युदासाश्रय- णमिति ॥ ( विकरूपभयात् पर्युदासाजीकरणम् ) 'नानूयाजेषु येयजामहं करोती' त्यत्र विकल्पप्रसक्त्या तदाश्रयणम् । ङ्कायामाह - सत्यपीति । सत्यं सन्तीक्षणविरोधिनो बहबः पदार्थाः । तथापि न ते ईक्षणाविनाभूताः, मानससङ्कल्पस्तु सर्वप्रवृत्तिनिवृत्त्यविनाभूत इति स एव लक्षणीय इत्याशयवानाह-सर्वक्रियेति । भाव्याकाङ्क्षायामिति । अनीक्षणसङ्कल्पेन भावयेत् इत्युक्तौ तस्य विहितत्वप्रतीतेः विह्नितेऽपि तस्मिन्नफले प्रेक्षावतः प्रवृत्त्यनुदयात् तस्सि. ध्यर्थे भाव्यस्य कस्यचिदपेक्षायां सत्यामित्यर्थः । एतावतेति । एतावतानीक्षणसङ्कल्प. मात्रेण पापान्मुक्तो भवतीत्यर्थः । वाक्यशेषावगत इति । स्तुत्यर्थं प्रवृत्तस्यापि वाक्यशेषस्य फलसमर्पकवं रात्रिसत्रवदङ्गीक्रियत इति भावः । पापक्षय इति । अक्रत्वर्थस्य तस्य ऋतूपकाररूपफलजननायोगात् पुरुषार्थत्वाच पुरुषाभिलषितफलस्यैव भाव्यत्वौचित्याच्चेति भावः । न च 'उद्यन्तमादित्य' मिश्यत्र उद्यदादित्यस्य पदार्थैकदेशे इंक्षणे अन्वयाङ्गीकरणापच्या एकदेशान्वयनिबन्धनो दोष इति वाच्यम् । मीमांसकमते कारकाणां प्रथमतो भावनान्वयस्यैव स्वीकारात् तदनापत्तेः, पाष्ठिकान्वयवेलायां च समस्तपदघटितस्य वाक्यस्यैव कल्पनात् न दोषः । प्रकृतमुपसंहरति-तत्सिद्धमिति । ( विकल्पभयात् पर्युदासाङ्गीकरणम् ) द्वितीयं बाधकमुपपादयति - नानूयाजेष्विति । मयमत्र विषयः - 'आश्राव येति चतुरक्षरं, अस्तु श्रौषडिति चतुरक्षरं, यजेति द्वयक्षरं, ये यजामह इति पश्चाक्षरं, द्वयक्षरो वषट्कारः, एष वै सतदशः प्रजापतिर्यज्ञमन्वायत्तः, इत्यनारभ्य श्रूयते। अस्यायमर्थः- यदाध्वर्युः यजतिचोदना चोदितेषु कर्मसु हविर्देवेभ्यो दातुमुद्युक्ते तदा हविःपूर्णां जुहूं हस्ते गृहीत्वा माग्नीघ्रनामानमृत्विग्विशेषं प्रति प्रैषं ददातिश्राश्रावयेति । एवं प्रेषितः स श्राग्नीषः "अस्तु श्रौषट्" इति प्रतिब्रूयात्। तच्छुत्वाध्वर्युः तदानीं त्यज्यमानद्रव्योद्देश्यभूतदेवतावाचिपदं द्वितीयान्तमुच्चार्य तदन्ते 'यजे' ति पदं ब्रूयात्, यथा – श्रग्निं यज, विश्वान् देवान् यज, इत्यादि । तच्छ्रुत्वा च होता तद्देवताकयाज्यातः पूर्व "ये यजामहे" इति पदद्वयं ततो याज्यां च पठित्वा तदन्ते १. कलिकत्तामुद्रितपुस्तके तु नास्तीयं पक्तिः । २. लक्षणा । मीमांसान्यायप्रकाशः [ पर्युदोसतथा हि-यद्यत्र प्रधान सम्बन्धलोभान्नञः प्रत्ययसम्बन्धः स्वीक्रियते तथा सत्यनेन वाक्येनानूयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्यम्-अनूया जेषु येयजामहं न कुयादिति । न च तत्र तस्य प्रतिषेधः प्राप्ति विना सम्भवति, प्राप्तिसापेक्षत्वात् प्रतिषेधस्य । "वौषडि" ति वषट्कारमुच्चारयेत् । अत्र च 'श्राश्रावये' त्यक्षरचतुष्टयंयुक्तम् । 'श्रस्तु श्रौषट्' इत्यपि तथैव । 'यजे' ति 'वौषट्' इति च द्वयक्षरम् । 'ये यजामहे' इत्यक्षरपश्चकम् । इमानि च सप्तदशाक्षराणि सर्वेष्वपि यजतिचोदनाचोदितेषु पठनीयानि । यज. तिचोदनाचोदितस्वं च यंजधातुघटितपदघटक प्रत्यय विहितत्वम् । श्राश्रावयेत्यादीना. मर्थो विवृतो वेदार्थप्रकाशे सायणाचार्यैः- श्राश्रावयेति । हे भाग्नीघ्र यक्ष्यमाणदेवतां प्रति 'तुभ्यमिदं दीयत' इत्याभिमुख्येन श्रावयेत्यर्थः । अस्तु श्रौषडिति । एवमध्वर्यु णोक्ते स अग्नीध्र: 'अस्तु' इत्यङ्गीकृत्य "श्रौषट्" इति शब्देन श्रावयति । हे देवाः युष्मद्विषयमिदं हविर्दानं शृणुतेत्यर्थः । यजेति । हे होतः यज याज्यां पठेत्यर्थः । ये यजामह इति । ये वयं होतारोऽध्वयुंगा यजेति प्रेषिताः ते वयं यजामहे याज्यां पठाम इत्यर्थः । वषटकारशब्देन 'वौषडि'त्येवंरूपो मन्त्रो, विवक्षितः । हविर्दीयत इति तस्य शब्दस्यार्थ इति । अतश्चानारभ्याधीतवाक्ये यागसामान्योद्देशेन येयजामहो विधीयते । 'नानूयाजेवि 'ति वाक्येन अनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यतया बोध्यते । एवश्वानारम्यवाक्यमानूयाजवाक्ययोरेकवाक्यतामजीकृत्य अनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्य इति विधिरित्यर्थः । नन्वत्र कथं विकल्पप्रसक्तिः ? येन प्रतिषेध आश्रीयते, तदुपपादयति-तथा होति । ये यजामहं न कुर्यादिति । 'ये यजामहे' इति पदद्वयं नोच्चारयेदित्यर्थः । एवञ्चानूयाजेषु 'देवं बर्हिर्वसुवने वसुधेयस्य वेतू ३ वौषट्' इत्येव ब्रूयादिति फलितम् । प्राप्तिसापेक्षत्वादिति । प्रतिषेधो हि यत्किञ्चित्प्रतियोगिकाभावबोधनम् । तच्चाभाव• ज्ञानमन्तरा न सम्भवति, सर्वत्राभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् । तच्च प्रतियोगिज्ञानं यदधिकरणे निषेधः तदधिकरणेऽपेक्ष्यते । अन्यथा यत्र कुत्रापि प्रसिद्धस्यात्र निषेधे निषेधानां प्रसक्तपुरुषनिवृत्तिप्रयोजनकत्वाभावेन वैयर्थ्यापतेः । न च हृदे वह्नि प्रसिध्यभावेऽपि अन्यत्र प्रसिद्धिमादायैव हृदे वह्निर्नास्तीति प्रयोगवत् अन्यत्र यागेषु प्रसिद्धयेय नामहमादायैव तदभावोऽत्र बोभ्यतामिति वाच्यम् । सर्वत्र निखिलकार कविशिष्टाख्यातार्थ एव प्रतियोगितासम्बन्धेन नञर्थान्वयस्यौत्सर्गिकत्वेन तदभावस्यैव तत्र प्रतीते: अनुयाजाधिकरण कयेयजामहानुकूलकृतेरेव तत्र प्रतियोगितया तत्प्रसिद्धि विना तदभाव विषयकशाब्दबोधस्यैवाजननात् तत्सिध्यर्थं अनूयाजेषु येयजामहप्रसिद्धेरावश्यकस्वात् । हृदे वह्निर्नास्तीत्यत्र तु बाधात् अगत्या वन्ह्यादेरेव प्रतियोगित्वमङ्गीकृत्य तत्प्रतियोगिका भावस्यैवानुयोगिनि हृदादी बोधनम् । अतश्च प्रतिषेधस्थलेऽनुयोगिवृत्तिप्राप्ति • रवश्यमङ्गीकार्येवेति भावः । Oriental निरूपणम् ] सारविबेचिनोव्याख्यासंचलितः १६७ अत एव "नान्तरिक्षे न दिवी" त्यस्य न प्रतिषेधत्वम्, भन्तरिक्षे चयनाप्राप्तेः । अत एव "ब्राह्मणो न हन्तव्य" इत्यस्य नित्यवद्धनन निवर्तकत्वमुपपद्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते; कदाचिच्च (१)रागाद्यभावे न प्रवर्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात् तदा (२) रागादि तिरोघाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् । प्राप्तिसापेक्षत्वे तु स्वयेमप्रवृत्तं प्रति प्रसत्याभावेन निषेधशास्त्राप्रवृत्तेः रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः । एवञ्च यत्र तादृशी प्राप्तिर्नास्ति तत्र श्रुतस्यापि न नञः प्रतिषेधकत्व मित्याहश्रत पवेति । प्रतिषेधस्य प्राप्तिसापेक्षत्वा देवेत्यर्थः । नान्तरिक्ष इति । अन्तरिक्षऽग्निचयनं न कुर्यात्, धुलोके चाग्निचयनं न कुर्यादिति तदर्थः । चयनं नामाहवनीयस्याग्नेः स्थापनार्थमिष्टकाभिः स्थण्डिल विशेषसम्पादनम् । अत्र च 'नान्तरिक्षे' इत्यादि न चयन निषेधार्थम् । किन्तु 'हिरण्यं निधाय चेतव्य' मित्यस्य विधेश्शेषभुतम् । यथान्तरिते दिवि वा चयनं न प्रसिद्धं, एवं हिरण्यरहितायां केवलायामपि पृथिव्याम् । प्रती हिरण्यं भूमौ निघाय तदुपर्येव चयनं कर्तव्यमित्यौचित्येन हिरण्य निधानम्तुतिः । कुतो न चयननिषेधः १ अत श्राह-चयनाप्राप्तेरिति । तस्य भूमावेव कर्तुं शक्यतया अन्तरिक्षयुलोकयोः कर्तुमशक्यत्वेन तत्र प्राप्तेरेवाभावादित्यर्थः । अत एव निषेधस्य प्राप्तविषये प्रवृत्तिस्वाभाव्यादेव । नित्यवदिति । नित्यतयेत्यर्थः । तदेवोपपादयतिसर्वो हीति । हननादावित्यादिपदेन निषिद्धकर्माणि गृह्यन्ते । तिरोधाय प्रतिरुध्य । शास्त्रेतिनिषेधवाक्याभिप्रायम् । नेति । प्रवृत्यभावस्थलमादाय चरितार्थस्य शास्त्रस्य रागप्राप्तप्रवृत्तिबाधे प्रमाणाभावात् । प्रतश्च नित्यवद्धनननिवर्तकत्वं नोपपद्येतेति भावः । भवरपक्षे वा कथं नित्यतया हनननिवृत्तिः ? प्रत आह-प्राप्तीति । स्वयमिति । शास्त्रं विनेत्यर्थः । श्रप्रवृत्तं ( पुरुषं ) प्रति निषेधशास्त्राप्रवृत्तरित्यन्वयः । तत्र हेतुः प्रसक्त्यभावेनेति । ननु अस्तु रागादिना प्रवृत्तपुरुषविषय एव निषेधशास्त्राणां प्रवृत्तिः, तथापि कथं तस्य नित्यतया हननादिनिवर्तकत्वम् । तादृशस्थले रागादिकमुपजीव्यैव खलु निषेधशास्त्रं प्रवर्तत इति वक्तव्यम् । ततश्च स्वतो दुर्बलस्याप्युपजी व्यस्वेन प्राबल्यमश्नुवतो रागादेः निषेधशास्त्रतो निवृत्तिरात्यन्तिकी न सम्भवत्येवेति विकल्प एव युक्त इत्यत आह भ्रान्तीति । हननादिविषयक बलवद निष्ठा ननुबन्धित्व विशिष्टेष्टसाधनस्वभ्रमादित्यर्थः । प्रवृत्तौ हि तद्विषयीभूते व्यापारे बलवद निष्टाननुबन्धित्व विशिष्टेष्टसाधनताज्ञानं कारणम् । तच्च निषेधशास्त्रानालोचनदशायां कलजभक्षणादी भ्रमादुदेति । तदानीं च शास्त्रप्रवृत्तौ तेन पूर्वोत्पन्नज्ञाने भ्रमत्वमापायते । अतश्चोपजीव्यस्थापि भ्रमात्मकस्योत्तरोत्पन्नेन प्रमाणज्ञानेन युक्त प्रात्यन्तिको बाघ इति भावः । यद्यपि इष्टसाधनत्वांशेन भ्रान्तिः, तात्कालिक तृतिरूपेष्टसाधनत्वस्य कलञ्जभक्षणादौ सत्वात्, १. रागायभावेन निवर्त्तते । २. 'रागाविरोधाय' इति तु पाठो न साधीयान् । 1917 itute SE १६८ मोमांसान्यायप्रकाशः [ पर्युदासमतश्च 'ब्राह्मणों न हन्तव्य' इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम्, 'व्रीहीनवहन्या' दित्यस्येवावघात नियमबोधकत्वम् । यथा खलु 'व्रीहीनवहन्या' दिति शास्त्रं वैतुष्यार्थमवघाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्त्तते, वैयर्थ्यात्, किन्तु दलनादौ प्रवृत्तं प्रति, एवं 'न हन्या' दिति शास्त्रं हननात् स्वयं निवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थ्यात् ; किंतु हनने प्रवृत्तं पुरु प्रति कर्तव्यत्वेन प्रसक्तस्य प्रतिषेधात्-यत् कर्तव्यं तन्नेति । तथापि विशेषणांशे बलवदनिष्टा ननुबन्धित्वे भ्रमसत्वात् निषेधेन तन्निवारणात् विशिष्टामा. वसम्पादकतया तस्य प्रवृत्तिविघटकत्वं बोध्यम् । ततः निषेध्यहननादितः । निवृत्तिनियमबोधकत्वमिति । निवृत्तेर्यो नियमः श्रप्राप्तांशपूरणं तद्बोधक स्वमित्यर्थः । श्रयमाशयः -यथा विधेः श्रपूर्वविधित्व नियम विधित्व परिसंख्या विधिश्वरूपं त्रैविध्यमस्ति, एवं निषेधेष्वपि श्रपूर्वनिषेधः, नियम निषेधः, परिसंख्या निषेधश्चेति त्रैवि ध्यमस्ति, तत्र अवहनननियमविधिः स्वत एवावहनने प्रवृत्तपुरुषविषये न प्रवेतते । किन्तु वहननमुज्झित्वा य उपायान्तरेण वैतुष्यं सम्पादयितुमारभते तदानीमवहननस्य योऽप्राप्सोंऽशः तत्पूरक एव यथा भवति तथैव नियमनिषेधोऽपि स्वत एव निवृत्त पुरुषविषये न प्रवर्तते, तत्र प्रयोजनाभावात् । न च निषेधधवणं विना पुरुषस्य स्वतो. निवृत्तिर्नारस्येवेति वाच्यम् । हिंसादिनेव तद्वर्जनेनापि पुरुषस्य कदाचिदीप्सितसम्भवात् । किन्तु यो रागादिना निषेध्यकर्मसु हननादिषु प्रवर्तते तदानीं निवृत्तेर्योऽप्राप्तऽशः सोऽनेन पूर्यत इति । अतश्च नियमविधिस्थलेऽप्रासांशपूरकत्वात् प्रवृत्तिनियमवत् नियमनिषेषस्थलेऽप्यप्राप्तांशपूरकत्वात् निवृत्तिनियम इत्युच्यत इति । एवञ्च रागप्राप्तविषय कनिषेधत्वावच्छिन्नस्य नियमनिषेधत्वमित्युक्तं भवति । अपूर्वनिषेधाः "नातिरात्रे षोडशिनं गृह्णाति" "दीक्षितो न ददाति" "न तो पशौ करोति" इत्यादयो बोध्याः । • वस्तुतस्तु - परिसङ्ख्यासूत्रे "सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा न श्रुत्या परिसंख्या नियमो वा बोध्यत" इति वार्तिकस्वारस्यात् सर्वे निषेधाः परिसंख्यापदेनैवाभिधीयन्ते । न तु विधाविव तत्राप्यपूर्वविधित्वादिकृतो मेदस्समस्तीत्यवग भ्यते । अत एव विधिरसायने (१)द्विचत्वारिंशच्छलोकव्याख्यानावसरे-"अर्थाद्वा स्वविषयप्रच्युतात् लाक्षणिकशब्दाद्वा एवकाराद्वा नञपदाद्वा लभ्यो यस्य कस्यापि भावस्थाभावस्य वा यो बाधः स सर्वोऽपि परिसंख्येति मर्यादां कुर्महे' इत्यभिधाय तत्रैवावसाने "तस्मादार्थो लक्ष्य एवकारप्रतिपाद्यो नञर्थभूतश्च सर्वोऽपि निषेधः परिसंख्येति युक्तम् । उक्तञ्च न्यायसुधायांपरिसंख्यावर्जनबुद्धिः, तदर्थो नञादिः परिसंख्याशब्दः तद्योगात् 'ब्राह्मणो न हन्तव्यः' 'नेतेतोद्यन्तमादित्य' मित्यादीनामेव श्रुत्या परिसंख्यात्वमिति" इत्युपसंहरन्ती दीक्षितोक्तिरपि साधु सङ्गच्छते । इममेव चाशयं "तेन प्रवर्तकयोफुगव १. यद्यपि विधिरसायनस्थश्लोक परिगणनायां श्लोकोऽयं त्रिचत्वारिंशत्तमः, तथापि ग्रन्थकृता द्विती यश्लोकमारग्यैव श्लोकानां संख्यातस्त्वात् तदनुरोधेनेदम् ।. निरूपणम् ] सार विवेचिनोव्याख्यासंवलितः १६० अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेथानाम नूयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या । साच नतावर्द्धननादाविव रागतः सम्भवति । मतो 'यजतिषु येयजामहं करोती' ति शास्त्रात् सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे विकल्पः स्यात्, शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । न च पदशास्त्रेणाहवनीयशास्त्रस्येव 'नानूयाजेष्वि'ति विशेषशास्त्रेण 'यजतिषु येयजामहं करोती' ति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि तत्र बाध्यबाथकभावो यत्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य विंध्योरेवा पूर्वविधित्व नियमविधित्वे सम्मते इति न निषेधस्यापूर्वविध्यादिवत् मेदत्रयम्" इति ग्रन्थेनोपोद्वलयन्ति प्रकाशकारा अपौति ध्येयम् । एवं प्रतिषेधस्य प्राप्तिसापेक्षत्वे साधिंते प्रकृतेऽप्यनूयाजाधिकरण कयेयजामहस्य नि षेधार्थं तत्र तत्प्राप्तिरवश्यं वक्तव्येत्याह-श्रुतश्चेति । अस्तु प्राप्तिसापेक्षत्वम्, तथापि रागादेव सा भवतु, तथा च हननादाविव नित्यवन्निषेधस्सिभ्यतीत्याशङ्कयाह-सा चेति । रागत इति । क्रियायां दुःखात्मिकायां विना वचनं प्रेक्षावतां प्रवृत्यनुदयादिति भावः । अत्यन्तबाधायोगादिति। रागप्राप्तस्थले हि रागस्य भ्रान्तिनिमित्तकस्य सम्भवात्तत्प्रापितस्य पदार्थस्य भ्रान्त्याद्यनिमित्तकशास्त्रप्रापितेन तेन युक्तो बाघः । शास्त्रीय. प्राप्तिस्थले तु उभयोरपि शास्त्रीयत्वा विशेषात् भ्रमप्रमादाद्यसम्भवस्य चाप्युभयत्र तुल्यत्वात् तादृशेनैकेन तादृशस्यैवापरस्यात्यन्तिको बाधो न भवितुमर्हतीति पाक्षिक एव बाघोऽजी कर्तव्यस्स्यात्, तथा च विकस इति । ननु - शास्त्रप्रातस्यापि शास्त्रान्तरेणात्यन्तिको बाबो दृष्टः पदाहवनीयाद, तद्वदेवात्रापि कुतो न स्यात् इत्याशङ्कामनूद्य परिहरति-न चेति । पदशास्त्रेणेति । ज्योतिशेमप्रकरणे यागार्थसोमलतायाः क्रयणमाम्नातम्- "अरुणया पिङ्गाक्ष्यैकहायन्या (गवा ) सोमं क्रीणाती" ति । तत्र यजमानगोष्ठस्था गौः क्रयस्थानं प्रत्यानीयते । आनीयमाना च सा यन्त्र सप्तमं पदं निक्षिपति तत्र होमः कर्तव्यतया विहितः-"सप्तमे पदे जुहोति" इति । एवं अश्वमेधे यागीयाश्वस्य पदप्रक्षेपस्थाने होमो विहितः"मश्वस्य पदे पदे जुहोति" इति, एतादृशानि होमविशेषोद्देशेन पदरूपाधिकरण वि घायकानि वाक्यानि पदशास्त्राणि । "यदाहवनीये जुहोती" ति होमखावच्छिन्नो द्देशेनाइवनीयसंज्ञकाग्निविधायकं शास्त्रमाहवनीयशास्त्रम् । तत्र विजातीय होमवं पदशास्त्रस्योद्देश्यतावच्छेदकम् । श्राहवनीयशास्त्रं तु होमत्वावच्छिन्नोद्देश्यकम्। एवञ्च सामान्य विषयकस्याहवनीयशास्त्रस्य विशेषविषयकेण पदशास्त्रेणात्यन्तिको बाधो यथा. जीक्रियते एवमनूया जगतयेयजामहमात्रविषयकेण 'नानूयाजेन्वि''ति शास्त्रेण यागसा• मान्यगतयेयजामहविषय कस्य 'यजतिषु येयजामहं करोती'ति शास्त्रस्य बाधो भवत्वित्याशङ्कार्थः । समाधत्ते - शास्त्रयोरिति । न च सामान्ये श्राधारान्वयायोगात् तद्वारा व्यक्तिविशेषेष्वेव प्रवर्तमानस्य सामान्यशास्त्रस्या विशेषांत् पदहोमव्यक्तावपि प्रवृत्तः २२ मो० न्या० 1917 Bhandarkar Oriental मोमांसान्यायप्रकाशः [ पर्युदासस्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यथ 'यजतिषु येयजामहं करोती' ति विधेरस्त्यपेक्षा । एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधिशास्त्रस्याप्युप जीव्यत्वेन प्रावल्यमस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वाद्विकल्पः स्यात् । स ब न युक्तः । विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति। न ह्यनूयाजेषु येयजामहकरणे 'नानूयाजेष्वि' त्यस्य प्रामाण्यं सम्भवति, वींह्यनुष्ठानसमय इव यवशास्त्रस्य । द्विरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यदनूयाजेषु येयजामहकरणे कश्चनोपकारी भवतीति । निषेधाच्च तदकरणादिति ज्ञायते, श्रनृत. १७० प्रवृत्तस्य चात्यन्तबाघायोगात् विकल्पो दुर्वार इति वाच्यम् । सामान्य शास्त्रस्थजुहोतेः होमत्वसामान्य वाचित्वात् तेन च व्यक्तिलक्षणया तदवच्छिन्न व्यक्तिमात्रे श्राहवनीयं विदधता शक्य सम्बन्धमालोच्य तेन च निर्ज्ञातसम्बन्धस कलव्यक्तिलक्षणापूर्वकं पदहोमव्यक्तिर्यावता लक्ष्यते ततः पूर्वमेव प्राकरणिवेन पदवाक्येन विजातीयपदहोमव्यक्किं लक्षयित्वा झटिति तत्र पदविधानात् तेनैव च पदहोमस्य नैराकांक्ष्येण पदहोमे श्राइवनीय शास्त्रप्रवृत्तेरेवाभावात् । अतबाहवनीयशास्त्रं वस्तुतः पदहोमातिरिक्तविषयमेव । एतदाक्यादर्शनजनिता भ्रान्तिः परमनेन वाक्यैनापोद्यते इति वेदितव्यम् । प्रकृते तु न तथा भवितुमर्हतीत्याह-निषेधशः त्रस्येति । नानूयाजेध्विति शास्त्रस्यैत्यर्थः । नच अत्रापि निषेधसिद्धयर्थं प्राप्त्या प्रमारूपयैव भाव्यमिति न नियमः । निषेधशास्त्रानालोचने सामान्यशास्त्रजनितभ्रमात्मकप्र सिमादायापि तत्सम्भवादिति-वाच्यम् । सामान्यशास्त्रस्य प्रथममालोचने तत्सम्भवेऽपि विशेषशास्त्रस्य प्रथमालोचने प्रथममेव विशेषद र्शनसत्वात् सामान्यशास्त्रेण भ्रमानुपपत्तेः । अतोऽवश्यं निषेधसिध्यर्थे प्रमारूपाया एव प्राप्तेरावश्यकत्वेन तत्प्रापितपदार्थस्य निषेधे विकल्प एव पर्यवस्येदिति । ननु एवमपि कथं विकल्पः ? तुल्यबलयोरेव खलु विकल्पो दृष्टः, नात्र तदस्ति । निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यात्, मत ग्राह- एवञ्चेति । "दुर्बलोऽपि विधिस्तदधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवति" इति न्यायेनोभयोस्तुल्यबलत्वमिति भावः । अस्तु विकल्पः को दोषः ? प्रत आह - विकल्प इति । शास्त्रस्येति । यदा यत्किञ्चित् शास्त्रमुपादातुमारभते तदानीं तत्समान विषयक शास्त्रान्तरस्य परित्यागः कर्त्तव्यो भवति । स चोपादेयशास्त्रापेक्षया परित्याज्यशास्त्रेऽप्रामाण्य बुद्धिमन्तरा न सम्भवति । उभयत्रापि प्रामाण्यमीहमानो हि तयोर्बलाबलमनवधारयन्न कुत्रापि प्रवर्तेतेति भावः । ब्रोहीति । व्रीहिभिः पुरोडाशद्वारा यागानुष्ठानसमय इत्यर्थः । एतच्च निरूपितं विकल्पस्य।ष्टदोषदुष्टत्व निरूपणावसरे । ननु शास्त्रस्य पाक्षिको बाघो नात्यन्तदोषावहः, पक्षे प्रामाण्य सम्भवादित्यत ग्राहद्विरिति । तामेवोपपादयति - विधेरिति । पञ्चमीविभक्तिरियम् । उपकारो भिवतीति । अनारभ्याधीतस्यापि येयजामहस्य यागसामान्योद्देशेन विहितत्वात् विहितस्य FOUNDED निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः वदनाकर (१) गादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्टकल्पनाप्रसङ्गः। श्रुतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदापत्तेर्न ताश्रयणम् । किन्तु नञः अनूयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते, नञनूयाजशब्दाभ्यामनूयाजव्यतिरिक्तलक्षणात्-श्रनूयाजव्यतिरिक्तेषु येयजामहं करोतीति । अत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते, 'यजतिषु येयजामहं करोती' स्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेयजामहानुवादन तस्यानूयाजव्यतिरिक्तविषयता विधीयते यत् यजतिषु येयजामहं करोति तद्नूय/जव्यतिरिक्तेष्विति । एषञ्च सामान्यशास्त्रस्य विशेषशा खा(२)पेक्षिणः 'नानूयाजे' ध्वित्यनेनानूयाजव्यतिरिक्त विषय समर्पणादनूयाज. चोपकारजनकत्व नियमादिति भावः । तदकरणादित्यनन्तरं कश्चनोपकारी भवतीति शेषः । तत्र दृष्टान्तमाह - अनृतेति । यथा दर्शपूर्णमासप्रकरणगतेन 'नानृतं वदेत्' इति वाक्येन दर्शपूर्णमासापूर्वीद्देशे नानृ तवदन वर्जनविधानात् तादृशवर्जनेन दर्शपूर्णमासयोरुपकारस्सम्पाद्यत इत्यवगम्यते, एवमनूयाजोद्देशेन येयजामहाकरण विधानात् तेन तत्रोपकारस्सम्पाद्यत इत्यवगम्यत इत्यर्थः । एवञ्च क्रतुवैगुण्यपरिहारद्वारा क्रत्वपूर्व जनकत्वं कत्वर्थनिषेधानामित्युक्तं भवति । उक्तं हि वार्तिककृता-"प्रकरणसामर्थ्याद्धि पुरुषगतमपूर्वसाधनत्वं लक्षयित्वा अनृतं प्रतिषिद्धम् । अतस्तदतिक्रमे दर्श पूर्णमासापूर्वमेव वैगुण्यान्न स्यात्" इति । अदृष्टकल्पनाप्रसङ्ग इति । अनुयाजकरणात् तदकरणाद्वा दृष्टस्य फलस्य कस्याप्यसम्भवात् उभयत्राप्यदृष्टस्यैव कल्पनावश्यंभावेनादृष्टय कल्पना प्रसङ्ग इत्यर्थः । अतश्चेति । शास्त्रस्य पक्षेऽप्रामाण्यापच्या श्रदृष्टद्वय कल्पनापच्या चेत्यर्थः । तदापत्तेः विकल्पापत्तेः । तदाश्रयणं प्रतिषेधाश्रयणम् । तर्हि किमत्राश्रीयते ? श्रुत आह - किन्विति । नञोऽनूयाजसम्बन्धे कथं पर्युदासः १ अत आह - नञिति । पर्युदास प्रकारमेवाह-मनूयाजेति । ननु अत्रापि येयजामहकर्तव्यताया एव बोधनात् को विशेषस्सा मान्यवाक्यादित्यत आह - अत्रेति । नञ्घटितवाक्य इत्यर्थः। कतर्व्यताबोधक विधिप्रत्ययअवणात् कुतो न कर्तव्यताबोधनम् १ श्रत ग्राह- यजतिष्विति । सत्यपि विधिप्रत्ययश्रवणे विहितस्य पुनर्विधानायोगात् सोऽन्यपरतया नेय इति भावः । तर्हि किमनेन क्रियते ? तदाह — किन्विति । व्यति रिक्तविषयतेति । एवञ्चास्य वाक्यस्य येयजामहप्रवृत्तौ विषयसमर्पण मात्रं व्यापार इति भावः । तदेव स्पष्टयति - यदिति । कथमेतावता विकल्पपरिहारः १ तं निरूपयतिएवञ्चेति । विशेषशास्त्रापेक्षिण इति । सामान्यविशेषशास्त्रयोरेकवाक्यतया विशेषशास्त्रगृहीतविषय व्यतिरिक्तविषय एव सामान्यशास्त्रप्रवृत्तेः तदर्थं तस्य विशेषशास्त्रसापेक्षस्वादित्यर्थः । नानूयाजेष्विति। विशेषशास्त्रेणेतिशेषः । विशेषापेक्षिण इति क्वचि त् पाठः । स यदा स्वीक्रियते तदाऽयमर्थः-सामान्यस्य विशेषेऽपर्यवसन्नस्य प्रवृत्यजनक१. दिवत् । • २. विशेषापेक्षिणः ? 1917 Research Institute १७२ मोमांसान्यायप्रकाशः [ पर्युदासव्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनूयाजेषु तु स न कर्तव्यतया प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । लक्षणया चानूयाजव्यतिरिक्तविषयसमर्पणा' नानूयाजेष्वि' ति वाक्यस्य नाप्रामाण्यम् । श्रुतश्च पर्युदासाश्रयणे न किंश्चिद्बाधकम् । तत्सिद्धं नानूयाजेष्विति वाक्ये विकल्पभयात् पर्युदासाश्रयणमिति । ननु-पर्युदासाश्रयणे 'यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य "नानूयाजेष्वि" त्यनेनानूयाजव्यतिरिक्ते सङ्को: चकल्पनात् पर्युदासस्योपसंहारादभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्तस्य विशेषे सङ्कोचो भवति । यथा "पुरोडाशं चतुर्धा करोती"ति पुरोडाशसामान्ये प्राप्तं चतुर्धाकरणं "आग्नेयं चतुर्धा करोती'त्याग्नेये सङ्कोच्यत इति चेत् (पर्युदासोपसंहारयोर्भेदनिरूपणम् ) न, तम्मात्रसङ्कोचार्थत्वादुपसंहारस्य, तदन्य मात्र सङ्कोचार्थत्वात् पर्युदासस्येति- केचित् । त्वात् प्रवृत्तिसम्पादनार्थ सामान्यशास्त्रमेव विशेषमपेक्षते । तं च विशेषमनूयाजव्यतिरिकयागरूपं नानूयाजेष्विति समर्पयति । तावतैव च शास्त्रद्वयमपि चरितार्थम् । अनूयाजेषु च प्रापकनिषेधकयोरुभयोरप्यभावात् विकल्पप्रसक्तिरेव नास्तीत्यर्थः । एवञ्चानूया. जव्यतिरिक्तेषु विधिप्राप्तत्वात् येयजामहस्य नित्यं करणम्, अनूयाजेषु तु प्रापक प्रमाणाभावादेव नित्यमकरणमिति सिद्धम् । 'नचैवमपि पर्युदसनीयप्राप्तिसापेक्षत्वेन विकल्पो दुर्वार इति वाच्यम् । तत्र प्राप्तेस्तार्किकी भ्रान्तिमाद या प्युपपत्तौ शास्त्रीय प्राप्त्यनपेक्षणात् । प्रतिषेधपक्षैतु शाब्दबोधसिध्यर्थं तात्विकी प्राप्तिरवश्यं वक्तव्येति बैषम्यम् । ननु सामान्यवाक्येनैव येयजामहविध्युपपत्ते: नास्य किश्चित् प्रयोजनमित्यप्रामाण्यापत्तिरित्यत आह - लक्षणयेति । एतदमावे हि अविशेषात् सर्वेष्वपि यागेषु येयजामहः प्रवर्तेत, सति स्वस्मिन् अनूयाजव्यतिरिकरूप विषय समर्पणात् अनूयाजेषु न प्रवृत्तिः । अतोऽनूयाजव्यावृत्तिरेव फलमिति नास्याप्रयोजनवत्वमिति भावः । उक्तमर्थ निगमयति-तत्सिद्धमिति । यद्यपि पर्युदासाश्रयणेऽपि लक्षणारूपो दोषो जागर्ति तथाप्यष्टदोष दुष्टविकल्पापेक्षया सोऽत्यन्तं लघुभूत एवेत्याशयः। 59 ननु सामान्यविधिना अनूयाजाननूयाजसाधारण्येन प्राप्तस्य येयजामहस्य पर्यु दासेनानूयाजव्यतिरिक्तार्थत्वबोधने सामान्ये प्राप्तस्य विशेषे सङ्कोचनरूपोपसंहाररूपत्वं पर्युदासस्यापद्येतेति शङ्कते- नन्विति । पुरोडाशमिति । स्विष्ठकृद्यागानन्तर मिडा. भक्षणे कृते योऽवशिष्टः पुरोडाशः तं चतुर्षा विभजेदित्यर्थः । कर्मकरेभ्य ऋत्विग्भ्यचतुर्भ्यो दातुमयं विभागः । पुरोडाशसामान्य इति । दर्शपूर्णमासप्रकरणे हि आशेयः, अग्नीषोमीयः, असोमयाजिनस्सान्नाय्याभावादैन्द्राग्नः, इति पुरोडाशत्रयम् । तज्ञ त्रिष्वपि पुरोडाशेषु चतुर्धाकरणं प्राप्तमित्यर्थः । aphy ( पर्युदासोपसंहारयोर्भेदनिरूपणम् ) । तिजस्थतिमेस्तु ॥ P Bhandarkar Oriental Research Institute एवमाशङ्किते पर्युदासोपसंहारयोर्भेदं न्यायसुधाकृन्मतेन विवृणोति-तन्मात्रेति । निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १७३ श्रन्ये तु-उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो व्यापारविशेषो विधेः । पर्युदासस्तु पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । इत्यभियुक्तोक्त्या प्रत्ययातिरिक्तेन धातुना नाम्ना वा नञः सम्बन्धः । अतश्चानयोस्तावत् स्वरूपतः स्पष्ट एव मेदः । 32 एवं सत्यप्यभेद आशाङ्कघेत, यदि यत्र पर्युदासस्तत्रावश्यमुपसंहारः स्यात् । न चैतदस्ति । 'नेक्षेतोद्यन्त'मित्यादौ सत्यपि तस्मिन्नुपसंहाराभावात् । नहिं तत्राग्नेयचतुर्द्धाकरणमिव सामान्ये प्राप्तं किञ्चिद्विशेषे सङ्को. च्यते । पापक्षयोद्देशेनानीक्षणसंकल्पमात्र विधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्यानूयाजव्यतिरिक्तेषु सङ्कोचनात् यदि विधेरुपसंहारविधित्वं संभवति, नैतावता किञ्चिद्विरुध्यते । विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति विरोधः । न चात्र विधिर्नास्ति, नञोऽनूयाजपदसम्बन्धेन विधेर्विधायकत्वस्याव्याघातात् । मन्त्र हि पर्युदासोऽनूयाजव्यतिरिक्तविषयसमर्पकः माग्नेयपदवत् । उपसंहारकस्तु विधिरेव । न च अन्न तन्मात्रसङ्कोचा भावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच इति को ऽर्थः ? आग्नेयमात्रे सङ्कोचो वा ? सामान्य प्राप्तस्य विशेषमात्रे सङ्कोचो स्वस्मिन् स्वेतरस्मिंश्च प्राप्तं विषयं स्वेतरस्मात् व्यावर्त्य स्वमात्रेऽवस्थापनमुपसंहारः । तथैव प्राप्तं विषयं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनं पर्युदास इत्यर्थः । एवञ्च प्रकृते 'नानूयाजेष्वि'त्यनेन येयजामहं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनात् पर्युदास एव नोपसंहार इति भावः । केचिदिति । न्यायसुधाकृत इत्यर्थः । अत्रैव पार्थसारथिमिश्रमतमाह - अन्ये त्विति । प्रत्ययातिरिकेनेति । विधायकप्रत्ययो यो लिङादिस्तद्भिन्नेनेत्यर्थः । स च क्वचित् धातुः, यथा 'नेक्षेते' त्यादी । क्वचित् नामापि, यथा प्रकृते, तेन यः सम्बन्धः अन्वयः प्रतियोगिता सम्बन्धावच्छिन्न इस इत्यर्थः । एवञ्च विधिव्यापार उपसंहारः, धात्वादिसम्बद्धनञव्यापारः पर्युदास इति तयोः स्पष्ट एव मेदः इत्याह-अतश्चेति । ननु सत्यपि बोधकमेदे फले विशेषाभावात् किमर्थं तयोर्भेद श्राश्रीयते इत्यत - एवमिति । यदि उपसंहारः पर्युदाससमनियतः स्यात् तदानीं तयोरपृथक्भावेनामेद आशङ्कक्येतापीत्यर्थः । तस्मिन् पर्युदासे । सङ्कल्पमात्रेति । मात्रपदेनोपसंहारव्यावृत्तिः । यद्येवं तर्हि प्रकृते कथमुभयोस्सामानाधिकरण्यम् ? अत आह-प्रकृतेति । विरुध्यत इति । विधिकार्यस्योपसंहारस्य तेनैव करणात् नामसमभिव्याहृतनञ् कार्यस्य च पर्युदासेन करणात् न फलैक्यादिरूपो विरोध इति भावः । विरोधाभाव मेवोपपादयतिविध्यभाव इति । श्राग्नेय पद्वदिति । यथा चाग्नेयपदं स्वार्थरूपं विशेषं समर्पयति, एवं 'नानूयाजेष्वि'तिपदं स्वातिरिक्तरूपं विशेषं समर्पयतीत्यर्थः । FOUNDED 1917 तन्मात्रसङ्कोचनमेवोपसंहारं मन्वानश्शङ्कते- न चेति । अत्र नानूयाजेध्वित्यत्र । तमिमं पक्षं विकल्प्य दूषयति - तन्मात्रेति । तन्मात्रेत्यत्र तच्छन्दः प्रकृतोदाहरणस्था[पर्युदास२७४ वा १ माघे अनारभ्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन' वाक्येनोपसंहारो न स्यात्, भाग्नेये सङ्कोचाभावात् । द्वितोये चतुर्धाकरणस्य पुरो डाशमात्रे प्राप्तस्याग्नेये सङ्कोचवदनूयाजाननूयाजसाधारण्येन प्राप्तस्याननूयाजेषु सङ्कोचादुपसंहारः स्यादेव । एतावांस्तु विशेष:-श्राग्नेयादिवाक्येषु श्राग्नेयादयो विशेषाः स्वपदोपस्थापिताः प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्ववि शिष्ट एव । यच्च तदन्यमात्रसङ्कोच नार्थत्वात्पर्युदासस्येति । तन्न, 'नेक्षेते'त्यत्र सत्यपि पर्युदासे सङ्कोचाभावात् । नात्र सामान्ये प्राप्तं तदन्यमात्रे सङ्को च्यते, संकल्पमात्रविधानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं 'नानूयाजेष्वि'. त्यत्र विकल्पप्रसक्त्या पयुंदासाश्रयणमिति । मीमांसान्यायप्रकाशः यत्र तु स माश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्रीयते, यथा-' नातिरात्रे षोडशिनं गृह्णाती" त्यत्र । (१) नत्र हि "अतिरात्रे षोडशिनं ग्नेयमात्र परामर्शकः ? उत सर्वोदाहरणगतान् सर्वानपि विशेषान् परामृशति ? इति संशयपदार्थः । श्राद्य इति । तन्मात्र इति तच्छुब्देनाग्नेय व्यक्तिमात्रमादाय तत्र लक्षणसमन्वय. करणपक्ष इत्यर्थः। साप्तदश्यस्येतिदर्शपूर्णमासीयसामिधेनीगतसंख्या विशेषस्य पूर्वविचा. रितस्य परामर्शः । मित्रविन्दापदार्थोऽपि पूर्वमुक्तः । द्वितीय इति । सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपे द्वितीयस्मिन् पक्ष इत्यर्थः । स्यादेवेति । सामान्यप्राप्तस्य विशेषे सङ्को. चनरूपस्योपसंहारलक्षणस्य तत्र सत्वादिति भावः । यद्येव 'आग्नेयं चतुर्धा करोती'ति 'नानूयाजे' ग्वित्यनेन तुल्यमेव, तत्राहएतावानिति । एवं 'नानूयाजेष्वि'त्यत्रोपसंहारास्तितां प्रसाध्य परोक्तं पर्युदासलक्षणं खण्डयति — यच्चेति । प्रकृतमुपसंहरति - तत्सिद्धमिति । ननु एतावता लक्षणापादकतया निषेधापेक्षया गुरुभूतोऽपि पर्युदासः विकल्पप्रसक्त्यैवाश्रित इत्युक्तं भवति । यत्र तु निषेधाश्रमणे विकल्पः प्रसज्यते, ।पर्युदासस्तु नाश्रयितुं शक्यते, तत्र का गतिरित्याशङ्कायामाह - यन्त्र त्विति । सः पर्युदासः । तत्प्रसक्ता वपि विकलप्रसक्तावपि । नातिरात्र इति ॥ अतिरात्रसंस्था के ज्योतिष्टोमे षोडशिसंज्ञकं ग्रहं गृह्णीयादित्यर्थः । अत्रेयं परिस्थितिः—ज्योतिष्टोमो नाम सोमयागः । तस्य चत स्रस्संस्थाः – श्रग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । संस्था नाम ऋतुप्रयोगवृ त्तिस्तोत्रोपरमः । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानमुद्गातृगणेन क्रियमाणमित्युक्तम् । एवञ्च येन स्तोत्रेण ऋतुप्रयोगस्समाप्यते तेनैव स्तोत्रेण सा संस्था व्यपदिश्यते । ज्योतिष्टोमे चाग्निष्टोमसंस्था केऽग्निष्टोमस्तोत्रमन्त्यम् । तदुपरि न स्तोत्रमस्ति । उक्थ्ये चाग्निष्टोमस्तोत्रानन्तरमुक्थ्यस्तोत्रम् । तदेव च तत्रान्त्यम् । षोडशिनि चोक्थ्यानन्तरं षोडशिस्तोत्रम् । तदेव च तत्रान्त्यम् । अतिरात्रे च षोडशिस्तोत्रानन्तरं त्रयो रात्रि पर्यायाः स्तोत्रविशेषाः, आश्विनस्तोत्रं च । रात्रिमतीत्य समाप्यत इति तस्य नाथ १. नातिरात्रे । Research Institute 2 EXPOR 1917 निरूपणम् ] सारविवेचिनीव्याख्या संवलितः १७५ गृह्णाती"ति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहितप्रतिषिद्धत्वाद्विकल्पप्रसक्तावपि पर्युदासो (१) नाश्रीयते, अशक्यत्वात् । यदि ह्यत्र नञः षोडशिपदेन सम्बन्धः स्वीकियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति वाक्यार्थः स्यात्, तत्र चातिरात्रे षोडशिनं गृह्णाती'ति प्रत्यक्षविधिविरोधः । श्रत एवातिरात्रपदेन न नञः सम्बन्धः, मतिरात्रे षोडशिनं गृह्णाती'ति प्रत्यक्ष विधिविरोधात् । श्रतश्चात्र पर्युदासस्यानुपपत्तेर्निषेध एव स्वीक्रियते, विकल्पोऽपि स्वीक्रियते । अनन्यगतेः । अतश्चैतत्सिद्धम्-यत्र 'तस्य व्रत'मित्याद्युपक्रमः विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलक्षं भक्षयेदिति, यत्र वा विकल्पप्रसक्तावपि पर्युदास श्राश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नाति रात्रे षोडशिनं गृह्णातीति । एतावांस्तु विशेषः-यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रतिषिध्यमानस्य व्युत्पत्तिः । याश्चान्यास्तिस्रस्संस्थाः अत्यग्निष्टोमवाजपेयासोर्यामरूपाः ता अध्यत्रैवान्तर्भूताः । यत्राग्निटोमोत्तरं उक्थ्यस्तोत्राण्यकृत्वा षोडशिस्तोत्रं क्रियते साग्निष्टोमसंस्थैवात्यग्निष्टोमपदवाच्या । यथावस्थितषोडश्युत्तरं यत्र वाजपेयाख्यं स्तों क्रियते सा वाजपेयसंस्था । यत्रातिरात्रे चतुर्थो रात्रि पर्यायो वर्धते साऽप्तोर्यामसंस्था । तत्र चाग्निशेमसंस्थाया नित्यत्वं काम्यत्त्वं च संयोगपृथक्त्वन्यायात् । अन्यास्तूक्थ्यादयः केवलं काम्याः । अत्राभिटोमादिशब्दानां प्रचुर प्रयोगात् तत्तसंस्थास्वेव शक्तिः, तादृशसंस्थावति ज्योतिष्टोमे निरू ढलक्षणा, तद्वति क्रत्वन्तरे च साम्प्रतिकी, प्रहणे स्तोत्रे च गौणीति । एवञ्च प्रकृते अतिराशब्देन तत्संस्थाको ज्योतिष्टोमोऽभिधीयते । षोडशिपदेन च षोडशिग्रह इति बोध्यम् । पर्युदासाश्रयणाशक्यतामेव विवृणोति-नत्र हीति । नातिरात्र इति वाक्य इत्यर्थः। नन्वत्र षोडशिपदेन नञत्सम्बन्धमङ्गीकृत्य नानूयाजेध्वितिवत् पर्युदासाजीकरणे को दोषः ? अत श्राह-यदीति । श्रत इति । उपपादितरीत्येत्यर्थः । अत्र नातिरात्र इति वाक्ये । एवञ्च पूर्वोक्तयोः पर्युदास हेत्वोरभावे, विकल्पप्रसक्तावपि पर्युदासाश्रयणाशक्यत्वे च, निषेध एवेति सिद्धं निगमयति-श्रतश्चेति । न कलञ्जमिति । कलअं रक्तलशुनम्, तन्न भक्षयेदित्यर्थः । यत्त्वत्र 'विषदिग्धबाणहतमृगमांसं कलञ्जमित्युच्यते' इति कैश्चित् कलञ्जपदं व्याख्यातं प्रमाणीकृतञ्च निघण्टुवाक्यमपि, तच्चिन्त्यमेव; आपस्तम्बधर्मसूत्रे "कलञ्जपलाण्डुपारीरकाः" इति सूत्रस्थकलजपदस्य कलजं, रक्तलशुनं, इत्येव हरदत्तेन व्याख्यातस्वात् । वीरमित्रोदये चाहिकप्रकाशे अभक्ष्यनिरूपणप्रकरणे पूर्वोकमे• वारस्तम्बसूत्रमुदाहृत्य कलसं रक्तलशुनं इत्येवोत्तत्वात्, विषदिग्धबाण इतमृगमांसस्य विषसंसृष्टत्वेन विषसंपृक्तान्नवत् पुरुषस्य स्वत एव तत्रानिष्टसाघनताज्ञानात् प्रवृत्तेरेवानु दयेन निषेधवैयर्थ्यात् । FOUNDED यद्येवं कलञ्जभक्षणनिषेधषोड शिग्रहण निषेधयोस्साग्यं तर्हि अतिरात्राधिकरण कषोड. शिघ्रहणस्याप्य नर्थ हे तुतापत्तौ कदाचिदपि तत्र पुरुषप्रवृत्तेरनुदयात् तद्विधिवैयर्थ्यापत्ति रित्यत ग्राह-एतावानिति । विकल्पापादक इति । यत्र विधिनिषेधयोरेकार्थत्वं १. दास श्रा। POONA १७६ मीमांसान्यायप्रकाशः [ प्रतिषेधनानर्थहेतुत्वम्, उभयोरपि विधिप्रतिषेधयोंः क्रत्वर्थत्वात् । यत्र तु न विकल्पः, प्राप्तिश्च रागतः, प्रतिषेधश्च पुरुषार्थः, तत्र निषिध्यमानस्यानर्थहेतुत्वम्, यथा-कलञ्जभक्षणस्य । 'दीक्षितो न ददाति, न जुहोती त्यादिषु तु दानहोमादीनां शास्त्रप्राप्ता. वपि पुरुषार्थत्वेन प्राप्तत्वात् ऋश्वर्थत्वेन च प्रतिषेधात् तुल्यार्थत्वाभावेन विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम्, रागतः प्राप्त्यभावात् । रागतः प्राप्तस्यापि ऋत्वर्थत्वेन प्रतिषेधे तदनुष्ठानात् ऋतोर्वैगुण्यम्, नानर्थोत्पत्तिः, यथा-इवस्त्र्युपगमनादिप्रतिषेधे । रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे तत्रेत्यर्थः । अन्यथा निषेधस्य सामान्य विषयत्वे विधेश्य विशेषविषयत्वे तत्र विकल्पो न स्यात्, यथा 'न हिंस्यात् सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेते त्यत्र न विकल्प इति भावः । विधेसामान्य विषयस्वे निषेधस्य विशेषविषयत्वे तु विशेषस्थलेऽपि निषेघसिध्यर्थ प्राप्तेरावश्यकतया विको भवत्येव, यथा "न तो पशो करोति' इत्यपि हृदयम् । यत्र तु तुल्यार्थतायामपि तुल्यबलत्वं नास्ति तत्र निषेण्यस्यानिष्टजनकतास्त्येवेस्याह - यत्र विति । पुरुषार्थ इति । पुरुषनिष्ठप्रत्यवायपरिहारोद्देश्यकप्रवृत्तिमत्वं निषेधानां पुरुषार्थत्वम् । अनर्थहेतुत्वमिति । नरकादिरूपानिष्टजनकत्वमित्यर्थः । एवं प्रतिषेधस्वीकारेऽपि यत्र विकल्पाप्रसक्तिः तत्रापि प्रतिषेधाश्रयणम्, यथोक्तं पार्थसारथिः मिश्रैः-यदा च प्रतिषेधपक्षेऽप्यविकल्पः, तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृ क्षया च प्रतिषेधत्वमेव न्याय्यमिति । एवं रागतः प्राप्तानां पुरुषार्थतया निषेधे तेषामनर्थ हेतुतामुक्त्वा इदानीं पुरुषार्थ तया प्राप्तानां क्रत्वर्थतया निषेधे न तत्रानर्थहेतुतेत्याह-दोक्षित इति । सौमिकीं दीक्षां प्राप्तो यजमानः यावद्दीक्षाविमोकं पुरुषार्थदानानि (१) क्रतुमध्यपतितानि न कुर्यात्, एवं पुरुषार्थहो मान मिहोत्रादीन् न कुर्यादिश्यर्थः । पुरुषार्थत्वेनेति । स्वयंप्रार्थितवृत्यु द्देश्यतानिरूपित विधेयताकत्वं पुरुषार्थत्वम्, स्वयंप्राथितभिन्नवृत्त्युद्देश्यतानिरूपितविधेय. ताकत्वं च क्रत्वर्थमिति तयोर्लक्षणम् । अत्र चोद्देश्यताविधेयते स्वरूपसम्बन्धरूपविषयताविशेषरूपे । न तु साध्यात्वानुष्ठेयत्वरूपे । एवञ्चेदं लक्षणं विधिनिषेधस्थल योरुभयत्रापि सङ्घतं भवतीति बोध्यम् । तुल्यार्थत्वाभावेन एकार्थस्वाभावेन । तेषां दानहोमादीनाम् । कुतो नानर्थ हेतुत्वम् ? श्रत श्राह-रागेति । अनिष्टजनकीभूते व्यापारे रागेण तदभाववत्ताभ्रमसम्पादनद्वारा प्रवृत्तिजननेऽपि शास्त्रेण तथा कर्तुमशक्यत्वादिति भावः । स्वस्त्रीति । स्वत्र्युपगमनं च पुरुषमात्रस्य रागतः प्राप्तम् । दर्शपूर्णमासप्रकरणे च 'न स्त्रियमुपेयात्' इति तस्य निषेधः क्रियते । एवञ्च रागतः प्राप्तस्य तस्य क्रत्वर्थतया निषेधात् ऋतुमध्ये तदनुष्ठाने क्रतोवँ गुण्यं, न तु पुरुषः प्रत्यवेयादिति भावः । एवं रागतः प्राप्तस्य पुरुषार्थतया निषेधे क्रतुमध्ये तादृशनिषेध्यानुष्ठानेऽपि न क्रतोस्तेन वैगुण्यम्, । १. यत्वत्र महामहोपाध्यायाभ्यङ्करवासुदेवशास्त्रिमहोदयैः न्यायप्रकाशव्याख्यायां प्रभाख्याय प्रसङ्गात् यज्ञाङ्गं दक्षिणादानं तु दीक्षासमाप्त्यनन्तरं क्रियते इस्युक्तम् । तदनवधानात् । सुत्यादिने माध्यन्दिनसवन एव दक्षिणादानविधानात् अवभृथान्तरमेव च दीक्षासमाप्तेः ग्रन्थेष तत्वाच्च । नमस्तु निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः निषिद्धयमानस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुब. न्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम् । अकृतमनुसरामः । तदेवं यथा विध्यादीनामध्ययन विध्युपात्तानां नानर्थक्यम्, एवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थप्रतिपादने च प्रयोजनाभावा लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम् । ( श्रर्थवाद निरूपणम्) ते चार्थवादा द्विविधाः- विधिशेषा निषेधशेषाश्च । तत्र "वायव्यं श्वेतमालमे ते"त्यादिविधिशेषाणां "वायुवँ क्षेपिष्टा देवेते" त्यादीनामर्थवादानां विधेयार्थस्तावक तयार्थतत्त्वम् । "बर्हिषि रजतं न देयं"मित्यादिनिषेधशेषाणां तस्य यथाचोदनं सिद्धत्वात्, पुरुषस्तु परं प्रत्यवेतीत्याह-रागत इति । उक्तं हि वार्तिके-"यो नाम ऋतुमध्यस्थः कलखादीनि भक्षयेत् । न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः" ॥ इति, "यदा दर्शपूर्णमासस्थोऽपि ततिक्रमं करोति तदा बाह्यातिक्रमव दस्य स्वयं प्रत्यवायमात्रं स्यात् न कर्मफलासम्बन्धः । न हि शुद्धपुरुषधमैः ऋतवः प्रत्यवयन्ति" इति च । अत्र च मूले निषिध्यमानस्यानर्थहेतुत्वमित्यनन्तरं न तु क्रतोवेंगुण्यमिति पूरणीयम् । उपक्रान्तां निषेधविषयिणीं कथामुपसंहरति-तदिति । एवमिति । विधीनामंशत्रयविशिष्टभावनाविधायकत्वेन, अर्थवादानां विधेयप्राशस्त्यसमर्पकत्वेन मन्त्राणां प्रयोगसम वेतार्थस्मारकत्वेन, नामधेयानां विधेयार्थपरिच्छेदकतया, निषेधानां श्रनिष्ठजन की भूतात् कर्मणो निवर्तकस्वेनेत्येवंप्रकारेणेत्यर्थः । पुरुषार्थानुबन्धित्वमिति । पुरुषार्थः फलं स्वर्गादि, अनिष्टपरिहारो वा, तत्सम्बन्धित्वमित्यर्थः । प्रकृतमिति । एतावता विधिमन्त्रनामधेयनिषेधानां प्रयोजनवदर्थपर्यंवसायित्वं निरु पितम् । अर्थवादानां तु तदवशिष्टम्, तन्निरूपणमेव प्रकृतम्, तदेव निरूपयाम इत्यर्थः । तदेव स्पष्टयति —तदेवमिति । विध्यादीनां विधिमन्त्रनामधेयनिषेधानाम् । तदुः पात्तत्वेन श्रध्ययन विध्युपात्तत्वेन । मास्त्वानर्थक्यम्, बावता लक्षणायां किं प्रमाणम् १ स्वार्थप्रतिपादनेनैव तेषां कृतार्थत्वात, अत आह- स्वार्थेति । श्वशक्यार्थप्रतिपादन इत्यर्थः । प्रयोजनाभावादिति । ततः प्रवृत्तिनिवृत्योरनुदयादिति भावः । । D (अर्थवादनिरूपणम्) अर्थवादान् विभजते - ते चेति । के विधिशेषाः ? के वा निषेधशेषाः ? तानुपपादयति-तत्रेति । वायव्यमिति । अत्रालभतिघातुर्लक्षणया यागपरः, द्वितीयां च तृतीयार्थे । वायुदेवताकेन श्वेतगुणकपशुद्रव्येण यागेन भूतिमैश्वर्य भावयेदिति वाक्यार्थः । वायुर्वा इति । वैशब्दः प्रसिद्धौ, वायुः क्षेपिष्ठा क्षिप्रगामिनी देवता खछु। यजमानः स्वेन हविषा वायुसमीपं गच्छति चेत् वायुमाराघयति चेदिति यावत् । स वायुः एनं यजमानं भूर्ति प्रापयत्येवेत्यर्थः । अर्थवत्वमिति । प्रयोजनवत्वमित्यर्थः । निषेधशेषार्थवादमुदाहरतिबर्हिषोति । बर्द्दिश्शब्देन तद्विशिष्टो यागो लक्ष्यते । बर्हिषि यागे रजतं दक्षिणात्वेन न २३ मो० न्या० Research १७८ मीमांसान्यायप्रकाशः [ शाब्दीभावना'सोऽरोदी दित्यादी नामर्थवादानां तु निषेध्यनिन्दकतयेति । (१) अतश्च लक्षणया प्राशस्त्यमर्थवादबध्यते, तच्च प्राशस्त्यज्ञानं शब्दभावनायामिति कर्तव्यतात्वेन संबध्यते । (२) परमप्रकृतम्-तत्सिद्धं वक्ष्यमाणार्थभावनाभाव्यिका लिङार्दिज्ञानकरणिका प्राशस्त्यज्ञ (नेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति । (शाब्दीभावनानिरूपणम् ) ननु-केयं शाब्दी भावना ? उच्यते - पुरुषप्रवृत्यनुकूलो व्यापारविशेषः । स एव (३) विध्यर्थः । लिङादिश्रवणे श्रयं मां प्रवर्तयतीति नियमेन प्रतीतेः । देयमित्यर्थः । ऋचत्र बर्हिषों'ति निषेधवाक्यम्, 'सोऽरोदी' दिव्यर्थवादवाक्यमिति विवेक्तव्यम् । सः श्रग्निः श्ररोदीत् रुदितवानित्यर्थः । सन्दर्भशुद्व्यथ कथेयमत्र लिख्यते तैत्तिरीयसंहितोक्ता-पुरा कदाचित् देवासुराणां युद्धं प्रावर्तत । तत्र युद्धार्थं गच्छन्तो देवाः स्वीयमनघं रमणीयं च वस्तुजातमग्निसमीपेऽस्थापयन् यदि कदाचिदस्मानसुराः पराजयेयुः तदिदमस्माकं लोकयात्रार्थं भविष्यतीति । दृष्ट्वा च तदतिसुन्दरममूल्यं च वस्तुजातं लोभाकृष्टचित्तोऽग्निः तत् गृहीत्वा पलायत । ते च देवासुरान् जित्वा प्रतिनिवृत्ताः यदा पलायितमग्निमवागच्छन् तदा तमन्विष्य तत् सर्वमपि धनं बलादाच्छि. न्दन् । तादृशधन वियोगजं दुःखमसहमानोऽग्निररुदत् । रुदतस्तस्य नेत्राभ्यामपतन्नश्रुबि• न्दवः । त एव घनीभूता रजतत्वमापन्नाः । निषेध्यनिन्दकत येत्यनन्तरम् अर्थवश्वमित्यनुषञ्जनीयम् । एतादृशे स्वार्थे कस्यापि प्रयोजनस्याभावात् निषेध्यस्य रजतदानस्य निन्दायामेव तात्पर्यमस्यार्थवादस्य वक्तव्यम्-यत् रजतदानं तदस्यन्तं निन्दितमिति । तेन च प्रयोजनवर सिध्यतीत्यर्थः । अतश्चेति चकारेण अप्राशस्त्यं, तश्चेति चकारेण श्रप्रा. शस्त्यज्ञानं च परिगृहोते । एवं च प्रशंसार्थवादः प्राशस्त्यम् निन्दार्थवादर प्राशस्त्यं चावबोध्येते इति फलितम् । सम्बध्यत इति । श्रन्त्र प्राशस्त्याप्राशस्त्ययोः शब्दप्रतिपाद्यत्वेऽपि तद्ज्ञानस्य तत्त्वाभावेनाशाब्दत्वात् न शाब्दबोघेऽन्वयः । किन्तु वस्तुत एवेति. कर्तव्यतास्वमिति नव्याः । प्रन्थारम्भे कृतं परमप्रकृतं शाब्दीभावनाया अंशत्रय निरूपणमुपसंहर्तुं तत् ज्ञापयतिपरमेति । तदेवोपसंहरति - तत्सिद्धमिति । ( शाब्दीभावनानिरूपणम् ) एवं प्रतिज्ञातं परिसमाप्य तावतैव प्रन्थमिमं समापयितुकामोऽपि भावनास्वरूप निरूपणमवशिष्टं मन्वानः तदनिरूपणे च ग्रन्थस्य न्यूनतामाशङ्कमानः तन्निरूपणमारभमाणः पूर्वोपस्थितां प्रधानभूतांच शाब्दीभावनां प्रथमतो निरूपयितुं शब्दभावनास्वरूपं पृच्छतिनन्विति । एवं पृष्टे न्यायसुधाकृन्मतेन समाधत्ते - उच्यत इति । विध्यर्थः विधि1917 १. "अतश्च लक्षणया प्राशस्त्यमप्राशस्त्यं च स्वसन्निधिपठित विधिनिषेधापेक्षितत्वात् स्वार्थप्रतिपा. दने प्रयोजनमलभमा नैरर्थवादबध्यते" इति कचिरपाठः । परं सन ग्रन्थकूदभिमत इति भाति । २. एतच्च क्वचित् मुद्रितपुस्तके नास्ति । ३. विविधं लिङथंभूतं विधिस्वरूपं शास्त्रकारैरेवं निरूपितम् (१) वैयाकरखेषु-विधिनिमन्त्रणामन्त्रणाषीष्ट संप्रश्नप्रार्थनारूपाः षडर्था लिङः इति भगवान्पाणिनिः । (२) विध्यादिषु चतुर्ष्वनुगतं प्रवर्तनात्वम्, संप्रश्नप्रार्थने च लिबर्थ इति वाक्यपदीयकाराः। निरूपणम् ] सारविवेचिनी व्याख्या संवलितः यत्त इष्टसाधनत्वं (१) विध्यर्थं इति, तन्न । तथा सति इष्टसाधनमितिशब्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसाधनम्, तस्मात्तत् त्वं कुर्विति सह प्रयोगात्, पर्यायाणां च सह प्रयोगाभावात् । मतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वेदे तु पुरुषाभावाच्छन्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । PIS बोधकळिखाद्यर्थः । अयं लिङच्चारयिता । इष्टसाघनत्वस्य लिङर्थत्वं प्रसङ्गात् पूर्व निरस्तमपि प्रकरणशुद्धयर्थं पुनस्तदन्द्य निरस्यति — यत्त्विति । विधिशब्दः विधिबोधको लिङादिः । इष्टापत्तौ दोषमाह - सन्ध्योपासनमिति । सहप्रयोगादिति । सहप्रयोगदर्शनादित्यर्थः । इष्टसाधन मिति पदेन सह "कुरु" इति लोटः प्रयोगो दृश्यते । पर्यायत्वे च स न घटत इति भावः । अत नेष्टसाधनत्वस्य लिङर्थत्वं युज्यते । प्रवर्तनाप्रेर• गाविध्यादिपर्यायस्यैव व्यापार विशेषस्य तदित्यभ्युपगन्तव्यमित्याह - अतश्चेति । स च व्यापारविशेषश्च । सर्वत्र लोके प्रवर्तयितुराचार्यादे' 'हमेनं प्रवर्तयामि' इत्यनुभवात् 'आचार्य प्रेरितोऽहंगामानयामि' इति व्यवहारबलाच प्रवर्तनायाः प्रवर्तयितृपुरुषनिष्ठत्वम्, गवानयनादौ कृते 'मदाज्ञामयं कृतवान्' इत्याज्ञप्तुर्व्यवहाराच्च तस्याभिप्राय विशेषत्वं चाव. गम्यत इति भावः । शब्दनिष्ठ एवेति । लिब्ादिरूपो यो विधायकश्शब्दः तद्वृत्तिरित्यर्थः । इत्युक्तमिति । ग्रन्थारम्भ इति शेषः । SPIR ( ३ ) इष्टसाधनत्वमेव लिङथं इति ततोऽर्वाचीना वैयाकरणाः । ( ४ ) नैयायिकेषु – इष्टसाधनत्वं बलवदनिष्टा जनकत्वं कृतिसाध्यत्वं चेति 'त्रितयमपि लिधं P इति नैयायिकाः । तत्र विशेषणविशेष्यभावापन्नेषु त्रिष्वप्येकैव शक्तिरिति प्राचीनाः । तत्र पृथक्-पृथगेव शक्तित्रयमिति नवीनाः। ( ५ ) कृतिसाध्यस्वमेव लिडर्थ इति रतकोशकृतः । (६) लिङघटितवाक्योच्चारयितुरहमेनं प्रवर्तयामीत्यभिप्रायविशेषो लोके वेदे च लिडधं । इत्युदयनाचार्याः । (७) वेदान्तिषु – वेदे भगवदाज्ञैव लिङथं इति श्रीभाष्यकाराः, तदनुयायिनस्सेश्वरमीमांसा कदादयश्च । (८) इष्टसाधनत्वमेव लिङर्थ इति सुरेश्वराचार्याः, तदनुसारिणश्चित्सुखाचार्यादयश्च । ( ९ ) इष्टसाधनत्वं कृतिसाध्यत्वमित्युभयं लिङर्थ इति भामत्यां वाचस्पतिमिश्राः । ( १० ) मीमांसकेषु –इष्टसाधनत्वमेव तत्त्वेन रूपेण लिङर्थ इति मण्डनमिश्राः । ( ११ ) भाट्टेषु-तत्तद्धात्वर्थगतं कार्यस्वं लिडर्थ इति भाट्टेष्वप्येक मतम् । (१२) लिङादिशब्दगतस्यार्थप्रकाशनसामर्थ्यस्याऽभिधाख्यव्यापारस्य लिङर्थत्व मिस्यध्ये कदेशि६७६ मतम् । ( १३) इष्टसाधनस्वमेव प्रवर्तनात्वेन रूपेण लिङथं इति पार्थसारथिमिश्रप्रभृतयः । (१४) इष्टसाधनत्वाद्यतिरिक्तः प्रवर्तनाख्योऽलौकिकः कश्चिद्धर्मविशेषो लिङादिवाच्य इति भट्टसोमेश्वरः खण्डदेवप्रभृतयश्च । प्राभाकरेषु –अपूर्वापरपर्यायः कार्यात्मा नियोगो लिङथं इति प्राभाकराः । तत्र लोके कार्यस्वेन क्रियायाः, वेदे च नियोगस्य लिङर्थत्वमिति विवेकः ॥ FOUNDED 1917 एतेषां स्फुटतया विवरणं पूज्यपादैः श्रीगुरुवर्यैरेव स्वकृते विधितत्त्वसङ्ग्रहाख्ये लघु बा कृतम् । तत् तत एवावगन्तव्यम् ॥ १. लिङथंः । Bhandarkar Oriental Research Institute मीमांसान्यायप्रकाशः [ शाब्दीभावनाननु-लोके वा शब्दनिष्ठे प्रेरणापरपर्याये व्यापारे शब्दप्रयोगाभावेन शक्तिप्रहाभावात् कथं तस्य विधिशब्दात् (१) प्रतिपत्तिरिति चेत् सत्यमेतत् । तथापि बालस्तावत् स्तन्यदानादौ स्वकृतरोदनादिजनितमातृप्रवृत्तेः स्वाभिप्रायरूपप्रवर्तनाज्ञ(नजन्यत्वावधारणात् सविधिकप्रयोजकवाक्यश्रवणसमनन्तरभाविनीं प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्तनाज्ञानमनुमिमीते । ननु – शक्तिग्रहस्य व्यवहारसाध्यत्वेन लौकिक लिङादेः पुरुषनिष्ठव्यापारवाचकत्वेनैव लोके प्रयोगात् तत्रैव शक्तिग्रहेण शब्दनिष्ठव्यापारवाचकतया श्रप्रयुक्तस्य तस्य तत्र शक्तिग्रहासम्भवात् उपायान्तरस्य च शक्तिप्राहकस्याभावात् कथं वैदिकलिङादितः प्रेर. णापरपर्यायस्य शब्दनिष्ठव्यापारस्य प्रतीतिरिति शङ्कते-नन्विति । १८० सत्यमिति । सत्यमित्यर्धाङ्गीकारे । लोके पुरुषनिष्ठव्यापार एव लिङ्गादीनां प्रयोग इति यदुक्तं तदङ्गीक्रियत इत्यर्थः । नैतात्रता लौकिके व्यापारे शक्तिग्रहो न सम्भवतौति युक्तमित्याह तथापीति । तत्र शक्तिप्रदप्रकारं कथयिष्यन् तस्य लौकिक शक्ति महपूर्वकत्वात् प्रथमं तावत् लोके शक्तिप्रहप्रकारमुपपादयति- बालस्तावदिति । यदा स्तनन्धयस्य बुभुक्षा सञ्जायते तदा स रोदिति । तच्छ्रुत्वा समनन्तरमेव च तन्माता तदभिप्रायरूपां प्रवर्तनां स्तन्यदानादिविषयिणीं ततो ज्ञात्वा स्तन्यदानादौ प्रवर्तते । एवं स्वरोदनसमनन्तरभाविनीं स्वमातृप्रवृत्ति बहुशः पश्यन् बालः तत्र कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या अन्वयव्यतिरेकाभ्याञ्च स्वरोदनश्रवणानन्तरभाविस्वाभिप्रायरूपप्रवर्तनाज्ञानमेव तत्र कारणं कल्पयति । यदा च किञ्चिदिव प्रबुद्धो भवति, तदा गामानयेत्या दिस विधिकवाक्यमाचार्यादिरूपप्रयोजक वृद्धप्रयुक्तं श्रुत्वा तत्समनन्तरभाविनीं शि. घ्यादिरूप प्रयोज्यवृद्धप्रवृत्ति गवानयनादिविषयिणीञ्चोपलभ्य तत्र च कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या लिङादिघटितवाक्यश्रवणजनितं प्रयोक्तृपुरुषाशयज्ञानमेव स्वमातृप्रवृत्तिदृष्टान्तेन कारणमध्यवस्यति । तत्रापि प्रयोक्त्रा बहूनां शब्दानां प्रयोगात् कस्य तेषु प्रवर्तनाबोधकत्वमिति जिज्ञासमानः लिङादिशब्दश्रवणानन्तरमेव प्रवृत्तेर्जायमानस्वात् श्रन्वयव्यतिरेकाभ्यां लिङादिविधिशब्द एव तादृशप्रवर्तनाया वाचक इत्यवधारयति । तादृश्याश्च प्रवर्तनाया इच्छारूपायाः पुरुषाशयासंस्पृष्टे वेदे असम्भवात् तद्विलक्षणं प्रेरणा विध्याञ्चपरपर्यायं कञ्चन धर्मविशेषं लिनिष्ठत्वेन कल्पयति । अनेनैव पथा वैदिकलिङादिष्वपि शक्तिग्रहसम्भवात् न शक्तिग्रहाभावरूपो दोषः इति प्रकरणार्थः । तत्कारणत्वेन प्रयोज्यवृद्धप्रवृत्तिकारणत्वेन । तस्य प्रयोज्यवृद्धस्य । प्रवर्तनाज्ञानं प्रयोजकवृद्धनिष्ठस्य अयमत्र प्रवर्ततामित्याद्याकारकाशयविशेषस्य ज्ञानम् । अनुमिमीत इति । इयं प्रयोज्यवृद्धप्रवृत्तिः प्रवर्तनाज्ञानजन्या, लिङादिश्रवणानन्तरभाविश्वात्, मदीयरोदनानन्तरमाविमन्मातृप्रवृत्तिवत् इत्यनुमितेराकारो बोध्यः । > FOUNDED ननु प्रवृत्तित्वावच्छिन्नं न प्रेरणा ज्ञानजन्यम् । भोजनादौ स्वत एवेष्टमाघनत्वादि बुद्ध्वा प्रवृत्तिदर्शनात् तत्र प्रेरणाशानजन्यत्वाभावात्, प्रेरणोत्तरप्रवृत्तिस्थलेऽपि च इष्टenta १. प्रतीतिरि० । निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः यद्यपि भोजनादौ स्वप्रतः समीहितसाधनताज्ञानपूर्वकत्वावधारणात् प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम्, तथाप्यन्यप्रेरितप्रवृत्तौ प्रवर्तनाचान जन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेरष्यन्यप्रेरित प्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञानास्यैवाध्यवसानम् । तच्च प्रवर्तनाज्ञानम न्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमित्यवधारयति । तत्र चावापोद्वापाभ्यां प्रवर्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना। सच प्रैषादिरूपो विविध इति प्रत्येकं व्यभिचारित्वाद्विधिशब्दवाच्यत्वानुपपत्तेः प्रवर्तना (१) सामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधिश्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्तनात्वेन एकरूपेण प्रतीतिर्न विशेष. रूपेण, तथैव शक्तिग्रहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव । एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र कोऽसौ व्यापारः ? इत्यपेक्षायां ग्रैषादिरूपस्य वक्त्रभिप्रायस्थापौरुषेये वेदेअनुपपत्तेः शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्व्यापार इति कल्प्यते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना । सैव च प्रवर्तनात्वेन रूपेण विध्यर्थ इति । अयमेव चार्थ:१८१ साघनताज्ञानाभावे प्रवृत्त्यदर्शनात् । अतश्च स्वतस्सिद्धप्रवृत्तिस्थले प्रेरणाजन्यत्वव्यभिचारात् समीहितसाधनताज्ञानजन्यत्वस्य चोभयत्राव्यभिचारात् प्रवृत्तिस्वावच्छिन्नस्य समीहितसाधनताज्ञानजन्यत्वमेव समुचितमङ्गीकर्तुम् न तु कस्याश्चित् प्रवृत्तेः समीहित. साधनताशांनजन्यत्वं, कस्याश्चिच प्रर्वतनाज्ञानजन्यस्वमिति वैरूप्याङ्गीकारो युक्त इत्याशङ्कां निराकरिष्यन् प्रथमतस्तामनुवदति- यद्यपीत्यादिना युक्तमित्यन्तेन । सत्यं द्विविघास्ति लोके प्रवृत्तिः, सत्यं च समीहितसाधनतादि बुद्ध्वा पुरुषः प्रवर्तते तथापि यत्रा. न्यप्रेरणया प्रवृत्तिः तत्र आचार्य प्रेरितोऽहं गामानयामि, न स्वेच्छयेति व्यवहारदर्शनात् , उक्तमातृप्रवृत्तौ प्रेरणोत्तरप्रवृत्तित्वावच्छिन्नस्य प्रेरणाज्ञानजन्यत्वमेव वक्तुमुचितम् तथैव दर्शनात् इति समाधत्ते-तथापीति । एवं प्रवृत्तिकारणत्वेन प्रवर्तनाज्ञानेऽध्यवसिते तत्कारणजिज्ञासायां तत्कारणाध्यवसानप्रकारमुपपादयति-तच्चेत्यादिना अवधा. रयतोत्यन्तेन । तत्रापि प्रवर्तना विशेषेषु प्रैषसम्प्रश्नादिषु न शक्तिः, प्रैषस्थले सम्प्रश्नाद्यभावात् सम्प्रश्नस्थले प्रैषायभावाच्च तेषां परस्परं व्यभिचारेण सर्वानुगतप्रवर्तनास्वमेव शक्यतावच्छेद कमित्यवघारयतीत्याह-स चेति । लक्षण वेति । सामाग्यवाचकस्य शब्दस्य विशेषबोधकत्वरूपाजहत्स्वार्थलक्षण येत्यर्थः । एवंप्रकारेण लोके लिबादेश्शक्ताववघारितायां तेनैव न्यायेन वेदेऽपि शक्तिग्रहस्स्व ध्यवसान इत्याह-एवञ्चेति । प्रवर्तनासामान्य मेवेति । यथा लोके लिङादिश्रवणे प्रवर्तनासामान्यस्य प्रतीतिः तथैव वेदेऽपीति नैतावत्पर्यन्तं लोकवेदयोर्भेद इति भावः । अनन्तरञ्च यथैव विशेषजिज्ञासायां तत्तत्प्रकरणाद्यनुगृहीतस्य लिङादेविशेषल चकत्वमध्य वसीयते लोके, एवमेव वेदेऽपि विशेषजिज्ञासायां प्रैषादीनां तत्राभावात् शब्दनिष्ठधर्मविशेषलक्षकत्वमध्यवसीयते इत्याइ-तत्रेति । प्रवर्तनात्वेनेति । प्रवृत्त्यनुकूलव्यापार१. प्रवर्तनायास्सा । मीमांसान्यायप्रकाशः [ शाब्दीभावना'अभिधाभावनामाहुरन्यामेव लिङादयः' अन्ये तु इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्या अभिधाशब्देन वि विशब्द उच्यते । तद्यापारात्मिका भावना लिङादिवाच्येति – (१) केचिदाहुः । सत्यं प्रवर्तनासामान्यं विध्यर्थः, तथैव शक्तिप्रहात् । प्रवृत्यनुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रषादेरसंभवात् कश्चित् पुरुषप्र वृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः। विधिशब्दाभिधेय प्रवर्तना सामान्यस्य विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापार विशेषः ? इत्यपेक्षायां घात्वर्थगतं समीहितसाघनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् । १६२ त्वेनेत्यर्थः । अत्र च न प्रवृत्यनुकूलत्वं शक्यतावच्छेदक कोटिप्रविष्टम्, गौरवात्, अन्य. लभ्यत्वाच, प्रवृत्तेहि श्राख्यातेनैव लाभात्, अनुकूलत्वस्य च प्रयोजकत्वापर पर्यायस्य संसर्गबलेन लाभात् । अतो लाघवात् लोकवेदसाधारणं व्यापारत्वमेव शक्यतावच्छेदकम् । विशेषलाभस्तु तत्र तत्र समभिव्याहारा दिनेत्यवगन्तव्यम् । नन्निदं 'अभिधाभावनामाहु' रित्यनेन वार्तिकेन विसंवदति, तेनाभिवासम्बन्धिन्या एव भावनायाः लिङ्वाच्यत्वप्रतिपादनात्, अतः कथं वार्तिकविरोधी पक्षोऽयमाद्रियतामित्यत आह-अयमेवेति । अविरोधितामेवोपपादयति-श्रभिधीयत इति । अनेनेति ब्रवता कर्तृव्युत्पत्ति: करणव्युत्पत्तिर्वा प्रदर्शिता । एवञ्च अभिधायकत्वात् अभिधा विध्यादिशब्दः । तन्निष्ठा तद्वयापारात्मिका भावना अभिवाभावना तां लिङादयः बोधयन्तीत्यर्थः फलितः । श्रस्मिन् मते अभिधाया भावना इति षष्ठीतत्पुरुषो विवक्षितः । केचिदिति । न्यायसुधाकृत्प्रभृ तय इत्यर्थः । तत्रैव पार्थसारथिमिश्रिमतमुपवर्णयितुमारभते-अन्ये त्विति । आहुरित्यस्य प्रव दन्ति प्रवर्तनामित्यनन्तरं श्रुतेनेतिना सम्बन्धः । सत्यमिति । प्रवर्तनासामान्यस्य विध्यर्थत्वमस्माकमपीष्टमेवेति भावः । तथैवेति । एवञ्चानेकार्थत्वं कल्पितं न भवति । अन्यथा प्रेषणमध्येषणमभ्यनुज्ञान मिष्टसा घनत्वं चेति बहवोऽर्थाः लिडादेः कल्पयितव्याः । तथात्वे तेषां परस्परं व्यभिचारस्याने कशक्ति कल्पनाप्रयुक्तगौरवस्य चास्माकमपि तुल्यत्वादिति भावः । अपर्यवसानादिति । 'निर्विशेषं न सामान्य' मिति न्यायेन सामान्यस्य विशेषे पर्यवसानमन्तरा अनिवृत्ताकाङ्क्षत्वात्, सामान्यस्य प्रवृत्तिविशेष जनकत्वाच्चेति भावः । एतावदुभयोरपि पक्षे तुल्यम्, तत्र विशेष जिज्ञासायां तस्याः प्रेरणारूपत्वे तस्या अपि वैदिकवाक्यप्रतिपाद्यत्वा सम्भवरूपदोषतादवस्थ्यात् तां परिहाय घात्वर्थगतं यदिष्टसाधनत्वं तस्यैव परं व्यापारविशेषत्वं कल्प्यते इत्याह - तत्रेत्यादिना । ननु कथं तस्य प्रवर्तनात्वम् १ अत आह-तस्यापोति । प्रवर्तनास्वं च प्रवृत्त्यनुकूलत्वम्, तच्चात्रापि समीहितसाघनत्वेऽस्तीति भावः । ननु आचार्यादिरनिच्छन्तमपि शिष्यादिकं बलात् प्रवर्तयतीत्यनुभवसिद्धत्वात् तत्र समीहितसाधनताज्ञानमन्तरापि शिष्यादेः प्रवृत्तिदर्शनात् कथं प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनतायाः कारणत्वमित्याशङ्कायामाह- सर्वो १. केचिदाचार्याः । ISPIERE निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १८३ सर्वोऽपि हि समीहितसाधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितोऽपि यदीष्टसाथनतां न जानाति तदा नैव प्रवर्तते । । स्वतन्त्र प्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वीक्रियत एव । अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात् समीहितसाधन. 3पि होति । स्वतन्त्रप्रवृत्तिस्थले समीहितसाघनताज्ञानादेव प्रवर्तते इति निर्विवादम् । श्रन्यदीय प्रेरणानन्तरप्रवृत्तिस्थलेऽपि समीहितसाधनतो ज्ञात्वैव प्रवर्तते । यद्यपि तत्र स्वारसिकेच्छा न स्यात् तथापि आचार्यादिः स्वप्रवर्तनाबलात् तस्य समीहितसाघनताज्ञानमुत्पाद्यैव प्रवर्तयतीत्यनुभवसिद्धम् । एवञ्च तत्रापोष्टसाधन ताज्ञानादेव प्रवर्तत इति प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनताज्ञानस्य कारणत्वमुचितमेवेति भावः । उक्तं च मण्डन मिश्रैः– "प्रवृत्तिसमर्थो हि कश्चित् भावातिशयो व्यापाराभिधानः प्रवर्तना। सा च क्रियाणां अपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र प्रवर्तते कश्चित् । याण्याज्ञादिभ्यः प्रवृत्तिः सापि कथञ्चित् श्रपेक्षितनिबन्धनस्वमुपाश्रित्यैव" इति । "कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः" इति च । प्रवृत्ति समर्थः प्रवत्तिजननसमर्थः । अपेक्षितोपायता इष्टसाधनता ।एगा मनु सर्वत्र लिगदिशब्दश्रवणानन्तरमेव प्रवृत्तिदर्शनात् तस्याश्च कर्तव्यताप्रतिपत्तिपूर्वकत्वावगमात् प्रेरणाख्यस्यैव कस्यचित् व्यापारस्य समीहितसाधनतातिरिक्तस्य कर्तब्यताबुद्ध्युत्पादनद्वारा प्रवृत्तिहेतुत्वाभ्युपगमात् न तस्यास्स मोहितसाघनतारूपस्वाभ्युपगमे प्रमाणमस्ति इत्यत आह - स्वन्त्रप्रेरणावादेऽपीति । पूर्वमुक्तो यः पक्षः प्रेरणायाः लिङर्थस्वाभ्युपगमरूपः तत्रापीत्यर्थः । तदाक्षिप्तेति । प्रेरणाख्यव्यापारस्य लिबर्थत्वमभ्युपगम्य तस्यैव प्रवृत्तिजनकत्वमभ्युपगच्छता भवतापि तन्त्र समीहितसाघनताज्ञानं स्वी. क्रियत एव, परन्तु सा स्वस्याः प्रवर्तकस्वसिद्धयर्थे स्वविषययागादेहसमीहितसाधनत्वमा. क्षिपतीत्युच्यते भवता । सर्वथा तु इष्टसाघनताज्ञानमावश्यकमेव भवतोऽपीत्याशयः । मम्मते इष्टसाधनतानाक्षेपे को दोषः ? इत्याक्षिपन्तं पूर्वपक्षिणं प्रत्याह- अन्यथेति । उक्कं च "हेतुमति च" इति सूत्रे महाभाष्ये "सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते" इति । "कः प्रयोज्यस्य प्रेरणयार्थो यदभिप्रायेषु सजते" इति तत्सूत्रस्थमाष्येण गिज. थंप्रेरणाया अपि स्वातन्त्र्येणाप्रवर्तकत्वबोधानाच्च । एवञ्च मतद्वयेऽपि तस्या आवश्यकत्वात् तस्या एव विध्यर्थत्वकल्पनं युक्तमित्याइ-अतश्चेति । नन्वेवं समीहितसाघनत्वस्यैव लिङर्थत्वमभ्युपगम्य तज्ज्ञानस्यैव सर्वत्र प्रवृत्तिहेतु. त्वाभ्युपगमे 'अचार्य प्रेरितोऽहं गामानयामि, न स्वतः' इति व्यवहारोच्छेदापत्तिः, न च तत्र प्रवृत्तिकारणीभूतेष्टसाधन ताज्ञान जन कलि बुच्चारयितृत्वेनैवाचार्यादेः प्रवर्तकत्वथ्यवहार इति वाच्यम् । तथात्वे राजप्रेरितपदाते: तादृशलिङच्चारयितृत्वेन प्रवर्तकत्वापत्तेः । न चेष्टापत्तिः । तथात्वे 'राजप्रेरितोऽहं गामानयामि, न पदतिप्रेरितः' इति पदातेः प्रवर्तकत्वाभावव्यवहारानुपपत्तेः । अत्तः पूर्वोक्तव्यवहारसाधुत्वार्थं तत्र प्रेरणादेरेव विध्यर्थत्वमवश्यमभ्युपगन्तव्यमिति चेत्-न; तत्रापि तत्सम्पादनपरितोषितः श्राचार्यादिः मत्समीहितं साधयेत्, श्रहितं वा न विदध्यात् इति बुद्ध्यैव शिष्यादेः प्रवृत्तिदर्शनात्, अन्यथा अस्वभाव १८४ मोमांसान्यायप्रकाशः [ विध्यर्थतैव प्रवर्तनात्वेन रूपेण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारबोधकत्वं लोकसिद्धं सिद्धं भवति । किञ्च शब्दे एको व्यापार: स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्व. प्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनावलृप्तस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य प्रवृत्यंनुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लृप्तस्य स्वनिष्ठव्यापारबोधकत्वम्, विधेश्च प्रवर्तकत्व निर्वाहाथं धात्वर्थस्य समीहित साघनत्वमिति (१) कल्पनाद्वरमावश्यकस्यैव समीहितसाघनत्वस्य स्त्रप्रवृत्तिहेतुत्वेन क्लु. तस्य प्रवर्तनास्वेन रूपेण विध्यर्थत्वकल्पनं लाघवात्, अन्यनिष्ठत्वाच्च । लिब्शतभवणेऽपि प्रवृत्तेरदर्शनात् । विधिशब्दस्येति । लोके तावत् शब्दानामन्य. निष्ठव्यापारबोधकत्वमेव व्यवहारसिद्धम् । 'देवदत्तः पचेत्' इत्यादौ लिङादिना प्रवर्तकपुरु• षनिष्ठव्यापारस्यैव बोधनदर्शनात् लोकसिद्धमेव च परीक्षकैरनुसरणीयम् । अतब यदि समौहितसाघनतायाः लिङर्थत्वमङ्गीक्रियते तदानीं तस्याः यागादिनिष्ठत्वात् अन्यनिष्ठव्यापारबोधकता लिङस्सिध्येत् । प्रेरणाख्यव्यापारवाचित्वाभ्युपगमे तु तस्याः स्वनिष्ठत्वेन शब्दस्य स्वनिष्ठव्यापारवाचकत्वं लोकविरुद्धमभ्युपगतं स्यादिति भावः । नम्वेवमपि प्रसिद्ध व्यापारकल्पनातो वरं क्लृप्तस्यैवाभिघाख्यस्य व्यापारस्य प्रव र्तनात्वकसनमित्यत आह - किञ्चेति । स्पन्दाद्यतिरिक्त इति । मीमांसकमते शब्दस्य विभुत्वेन तत्र स्पन्दादेर्निवेशासम्भवादिति भावः । उक्तं हि पार्थसारथि. मिश्रैः-स्पन्दसमवायस्तु न सम्भवति । नच सावस्मामिश्शब्दस्येष्यते"इति । "न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ती" ति च । म्यान यसुधायामप्युक्तम्-"न शब्दे स्पन्दयत्नौ हि विभुत्वाचेतनत्वतः-इति । तस्य शब्दनिष्ठत्वेन कल्पितस्य स्पन्दाद्यतिरिक्तस्य व्यापारस्य । स्वप्रवृत्तौ श्रन्यानधी नवतन्त्रप्रवृत्ती । पुरुषान्तरेण प्रवर्तितस्सन् स्वयमेवेष्टसाधनतादि ज्ञात्वा यत्र प्रवर्तते, तत्रेति यावत् । पराधोनप्रवृत्तौ परकीय प्रेरणानन्तरभाविप्रवृत्तौ । भनेन उभयत्रापि प्रवृत्तिकारणत्वेन क्लृप्तत्वं समीहितसाघनतायास्सूचितम् । लाघवादिति । भवन्मते कल्पितस्यापि धर्मस्य प्रवृत्यनुकूलत्वं, शब्दस्य स्वनिष्ठव्यापारबोधकत्वं, धात्वर्थस्य च समोहितसाधनस्त्वमिति त्रितयं कल्पनीयम् । श्रस्मन्मते तु समीहितसाधनतायाः प्रवृत्तिकारणत्वं शब्दस्यान्यनिष्ठव्यापारबोधकत्वमित्युभयं सिद्धम् तस्या विध्यर्थत्वं परमेकं कल्पनीय मिति लाघवमित्यर्थः । क्लृप्तस्येत्यनेन भवन्मत एव क्लृप्तपरित्यागः अक्लृप्त कल्पनञ्च, नास्मन्मत इति सूचितम् । आवश्यकस्येति । भवतापीदमङ्गीक्रियत एव प्रवृत्तिसम्पादनार्थमितीदमुभयोरप्यावश्यकमिति भावः । ननु यागादेः समीहितसाधनता न स्वरूपतस्सिद्धा । किन्तर्हि ? विधिविषयत्वान्यथानुपपत्त्या कल्पिता । विधिर्हि प्रवर्तनात्मकः स्वस्य प्रवर्तकत्व सिद्धयर्थं स्वविषयीभूतया गादेरिष्टसाघनत्वमाक्षिपति । अत एव च भावनाया इभाव्यकत्वनियमष्पष्ठे स्वर्गकामाविकरणोक्तस्सङ्गच्छते । अत एव च धात्वर्थस्समानपदोपात्तोऽपि इष्टरूपत्वाभावात् १. कल्पनागौरवाद्व० । Oriental निरूपणम् ] J सारविवेचिनीव्याख्या संवलितः १८५ मच विधेः प्रवर्तकत्वनिर्वाहार्थ समीहितसाधनत्वकल्पनात् प्रेरणानभिधाने च विधेः प्रवर्तकस्वाभावाद्धात्वर्थस्य व समोहितसाधनत्वकल्पकमेव नास्तीति वाच्यम्; प्रवर्तनाभिधानेनै (१)व तन्मतेऽपि विधेः प्रवर्तकस्वात् विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात्समीहितसाधनस्वाक्षेपकत्वात् । न चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपसनं ते इष्ट साधनं तत् त्वं कुर्विति सहप्रयोगानुपपत्तिरिति वाच्यम् इष्टसाधनत्वस्य विशेषरूपेण विधिनानभिधानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन दृष्टः सहप्रयोगः– पाञ्चालराजो द्रुपद -इत्यादौ । तस्मात् समीहितसाधनतव प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना । उक्तवार्तिकस्याप्ययमेवाभिप्रायः । अभिधीयते या साऽभिधा समीहितसाधनता सैव प्रवर्तनात्वेनाभिहिता पुरुषप्रवृत्ति भावयतीति भावना तां लिङादय आहुरिति । यथाद्दुःपुसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः । भाग्यत्वांशं परित्यज्य करणत्वांशे निपततीति प्रतिपादितं भावार्थाधिकरणे । यदि प्रेरणा विष्यर्थो न स्यात् तदा अन्यथानुपपद्यमानस्य कस्याप्यभावात् घात्वर्थगतेष्टसाधनताचे. पप्रमाणस्यैवाभावेन सर्वमिदं दत्तजलाजलि स्यादित्याशङ्कामनूथ परिहरति-न चेति । प्रेरणाविध्यर्थत्ववादिमतेऽपि न प्रेरणा त्वेन विधिगम्यत्वमङ्गीक्रियते, किन्तु प्रवर्तनासामान्येनैव । सामान्यस्य विशेषमन्तरा पर्यवसानाभावात् विशेषजिज्ञासायां परं प्रेरणारूपो विशेषोऽवधार्यते । अतथ प्रथमतः प्रेरणानभिघानेऽपि यथा तन्मते इष्ट साघनत्वाक्षेपकत्वं तथैवास्मन्मतेऽपीति न विरोध इत्यर्थः । पूर्वोक्तां सहप्रयोगानुपपत्तिं वारयति-न चेति। विशेषरूपेणेति । इष्टसाघनत्वस्य विध्यर्थत्वेऽपि न समीहितसाधनत्वरूपेण तदववोध्यते । किन्तु प्रवर्तनास्वेनैव, इष्टसाधनपदेन तु विशेषरूपेणेति सामान्यविशेषवाचकपदयोरुपपन्नस्सहप्रयोग इति भावः । तदेव संदृष्टान्तमभिघत्ते-सामान्यशब्दस्येत्यादि । उक्त मर्थमुपसंहरति-तस्मादिति। सैव समीहितसाधन तैव । तेन रूपेण प्रवर्तनात्वेन रूपेण । अस्मिन्नेवायें वार्तिकमपि योजयति-उक्तेति । अभिधीयत इत्यनेन कर्मव्युत्पत्तिः प्रदर्शिता । अस्मिन् पचे अभिघा च सा भावना चेति कर्मधारय समासो बोध्यः । तत्र भावनात्वं निरूपयति-पुरुषेति । प्रत्र मण्डन मिश्रस्यापि सम्मतिमाहयथाहुरिति । पुंसामिति । इष्टाभ्युपायत्वात् इष्टसाधनत्वात् ल्यब्लोपे पञ्चमी । इष्टसाघनत्वं विहायेत्यर्थः । क्रियासु यागादिषु प्रव र्तको नैवास्ति । इष्टसाधनतैव प्रवर्तिकेति यावत् । प्रेक्षावतां हि यावत् स्वाभिलषितफलसाघनता न ज्ञायते तावत् दुःखात्मके कर्मणि प्रवृत्तिनो॑देतीति भावः तु नामेBhandarkar Oriental Research Institute १. नैतन्म० । TOP IN IPIN 1S S २४ मी० न्या० B [ आर्थीभावनामौमांसान्यायप्रकाशः प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति । तत्सिद्धं यजेतेत्यत्र लिङ्खांशेन शाब्दी भावनोंच्यत इति ॥ श्राख्यातत्वांशेनार्थी भावनोच्यते । M ( अर्थीभावनानिरूपणम् ) ननु-केयमार्थी भावना ? । कर्तृव्यापार इति चेत-न; यागादेरपि तद्या. पारत्वेन भावनात्वापत्तेः । नचेष्टापत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभा. वादिति चेत् अत्राहु:- (१) सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग. ष्टसाघनता लिप्रतिपाद्या, प्रवर्तनात्वं तु कथं तस्याः ? इत्यत श्राह-प्रवृत्तिहेतुमिति । यः प्रवृत्तिहेतुर्धर्मः तमेव प्रवर्तनामाचक्षते प्रवर्तनाविदः इत्यर्थः । शाब्दीभावनानिरू पण मुपसंहरति — तत्सिद्धमिति । एवं शब्दभावनां निरूप्य तत्प्रसङ्गात् तद्भाव्यभूतामार्थीभावनां निरूपयितुमारभतेश्रख्यातत्वेति । ( आर्थीभावनानिरूपणम् ) ननु भावनाया यदि घात्वर्थात् भेदस्सिध्येत्, युज्येत तदा तस्याः प्रत्ययवाच्यत्वम्, तत्रैव न प्रमाणं पश्यामः पचतीत्यादौ यावन्तो व्यापाराः प्रतीयन्ते स्थाल्यधि. यणोदका सेचन तण्डुलावा पफूत्कारावसावणादयः ते सर्वेऽपि धातुत एव प्रतीयन्त इति तेषां धातुवाच्यतैव युक्ता, न प्रत्ययवाच्यता, तदतिरिक्तस्य कस्यचिदप्रतीयमानत्वात् कस्याख्यातांशप्रतिपाद्यता अर्थभावनात्वं वोच्यते ? इति वैयाकरणश्शङ्कते-नन्विति । कर्तृव्यापार इति । सर्वत्र हि पचति, पार्कं करोति, यजति, यागं करोति, इति विवरणं दृश्यते । तत्र घञन्तपाकादिपदैः प्रकृत्यर्थस्य कृञधातुना च प्रत्ययार्थस्य विवरणमित्यवगम्यते । तेन च करोतिसमानार्थकत्वमाख्यातस्येत्यवगम्यते । करोति सकर्मक इत्याख्यातेनापि तथैव भाव्यम् । तच्च कर्मोत्सायमेव भवति । एवञ्च उत्पद्यमानस्य वस्तुन उत्प त्यनुकूल उत्पादककर्तृव्यापारः श्राख्यातार्थ इति फलितम् । भावनाशब्दोऽपि तमेवाभि• धत्ते । भूषातोर्ण्यन्तात् करणार्थकल्युटूप्रत्यये कृते भावनाशब्दनिष्पत्तेः । पाकशब्दार्थभ विक्लित्तिः । यागपदार्थश्च द्रव्य देवतयोस्सम्बन्धः । अतश्च तण्डुल रूप कर्मगत विक्लित्तिरूपव्यापार: पंचिधात्वर्थः, तत्प्रयोजको देवदत्तादिरूपकर्तृव्यापारः प्रत्ययवाच्यः इति स एव विक्लित्यनुकूल कर्तृव्यापारत्वात् भावना भवत्वित्याशयः । न विक्लित्यादिः केवलो धात्वर्थी भवितुमईंति । तथात्वे कृष्णलेषु विक्लित्यसम्भवेन तत्र तत्सम्पादकश्रपण विधानानुपपत्तेः । किन्तु पचेरधिश्रयणाद्यवस्रावणान्तो व्यापारोऽर्थः, यजेश्च मानसस्त्यागः, सङ्कल्पो वा, तस्यैव यागादिपदार्थत्वात् ; तस्य च कर्तृव्यापारस्वात् तस्यैव भावनात्वमापद्येतेत्याह-याग देरिति । तस्य यागस्य । प्रकृत्यर्थत्वेनेति । एवञ्च प्रत्ययार्थस्य भावनात्वं वक्तुमुपक्रान्तो भवान् इदानीं प्रकृत्यर्थस्यैव भावनात्वमभ्युपगच्छन् अस्मत्पते पतितः, स्वोक्तविरोधी च सञ्जात इत्याशयः । एवमापादितां शङ्कां प्रथमतो न्यायसुधाकृन्मतमनुसृत्य समाघत्ते- अत्राहुरिति । आहुरित्यनन्तरं न्यायसुधाकृत इति शेषः । न यागो भावनेति । नास्माभिर्मानस. १. इदं च न्यायसुधाकृतो भट्टसोमेश्वरस्य मतम् । अग्रे च 'अन्ये त्वाहु' रित्या दिना निरूप्यमाणं Bhandarkar Oriental. or off 85 निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १६७ विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्याख्यातश्रवणे (१) यागे यतेतेति प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं करोतीति करोतिप्रयोगदर्शनात्, वातादिना (२) स्पन्दने तु नायं करोति, किन्तुं वातादिनास्य स्पन्दो जायत इति प्रयोगात् करोत्यर्थस्तावत् प्रयत्नः । करोतिसामानाधिकरण्यं चाख्याते दृश्यते-यजेत, यागेन कुर्यात्, पचति, पाकं करोति, गच्छति, गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात् प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोति प्रयोगानुपपत्तिः, रथे सङ्कल्परूपस्य यागस्य भावनात्वमुच्यते । तस्य भवदुक्तरीत्यैव धातुवाच्यत्वात् । किन्तु तस्यापि जनको यः प्रयत्नः पुरुषनिष्ठः स एवाख्यातवाच्यः, तस्यैव च भावनात्वमुच्यते । स एव च सर्वत्र कृञधातुना विव्रियते । उक्कं ह्याचार्यैः-"सर्वधात्वर्थसम्बद्धः करो. त्यर्थो हि भावना" इति । तस्य च धात्वर्थात् पृथक् विब्रियमाणत्वा देव न घात्व र्थता । किन्तु श्राख्यातांशवाच्य एव स इत्याशयः । यागविषय इति बहुव्रीहिः । स्तु नाम धात्वर्थातिरिक्तः कश्चित् व्यापारः स च यत्न एवेत्यन किं प्रमाणम् ? अत श्राह- यजेतेति । 'यतेते'ति यतधातुप्रयोगेण यत्न एवाख्यातार्थो भवितुमईतीति सूचितम् । यत्र यत्नप्रतीतिरपेक्षिता तत्रैव कृञधातुप्रयोगदर्शनात कृञ्षातोश्रख्यात सामानाधि. करण्यस्य बहुशो दर्शनादपि कृतिरूपयत्नवाचित्वमाख्यातस्येत्युपपादयति - यश्चेति । करोत्यर्थस्तावत् प्रयत्न इति । एतेन-घटं करोतीत्यर्थे घटं भावयतीति प्रयोगदर्शनात् करोतिभावयत्योस्समानार्थकत्वं प्रतीयते । भावयतेश्चान्योत्पत्त्यनुकूलव्यापारोऽर्थः इति करोतेरपिस एवार्थो भवितुमर्हति । करोतिसामान्याधि करण्याच्चाख्यातस्यापि स एवार्थं इति अम्रे निरूपयिष्यमाणं मिश्रमतं प्रत्युक्तम् । यद्यन्योत्पादानुकूलव्यापारविशेष एवाख्यातार्थस्स्यात् वातरोगादिना स्पन्दमाने चैत्र शरीरे तादृशव्यापारस्य सत्त्वात् 'नायं स्पन्दं करोतीति निषेषोऽनुपपन्नस्स्यात् । आख्यातस्य करोतिसामानाधिकरण्यम भिलपति-यजेतेति । यजेतेत्यस्य 'यागेन कुर्यात्' इति विवरणं तस्य विधिप्रत्यय घटितत्वात् तत्र घात्वर्थातिरिक्तफलस्य सत्वेन तस्यैव भाग्यत्वौचित्यं धात्वर्थस्य करणत्वेनान्वयं च मनसि निघाय कृतम् । पचतीत्यत्र तु लडन्तत्वात् धात्वर्थस्यैव सचिहितस्य भान्यवौचित्यधिया पाकं करोतीति विवरणम् । यदि तु तत्राप्योदन मिति द्वितीयान्त.. पदणमभिव्याहारः तदा पाकेत श्रोदनं करोतीत्येव विवरणमिति ध्येयम् । श्राख्यात वाच्यत्वमिति । एतेन श्राख्यातस्य यत्नवाचकत्वे वाच्यतावच्छेदकं यत्नत्वं कल्पितं भवेत् । व्यापारवाचकत्वे तु तत्तत्फल मेदेन तत्तद्वयापाराणां मेदात् अनुगतैकशक्यतावच्छेदकसम्पादनं दुर्लभं स्यात् इति सूचितम् । FOUNDED श्राख्यातस्य यत्नार्थकत्वे तस्य चेतनमात्रवृत्तिस्वाभाव्येनाचेतने पार्थसारथिमिश्रमतम् । एतच्चातिरोहितमेव मीमांसापरिशीलनवताम् । सति चैवं यदन 'आहुरिति पार्थसारथिमिश्रादय इति शेषः' इति व्याख्यातम् । न तत्र किञ्चिदपि प्रमाणं पश्यामः १. यागेन । ॥ तेजस्विनामधनमस्तु २. स्पन्दमाने । STATUTE POONA श्राख्यातप्रमोगा. Research Institute १६८ मीमांसान्यायप्रकाशः [ श्रार्थीभावनायत्नाभावादिति वाच्यम् । वोढश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपपतेः । यन्मतेऽष्यन्योत्पादनानुकूलं व्यापारसामान्यं भावना तन्मतेऽपि रथे गमनातिरिक्तव्यापारानुपलब्धेः रथो गच्छुतीति प्रयोगस्यौपचारिकत्वमेवेति । अतश्च प्रयत्न एवार्थीभावना । यथाहुः प्रयत्नव्यतिरिक्तार्थी (१) भावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति ॥ श्रन्ये त्वाहुः - भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना । यस्मिन् व्यापारे कृते करणं फलोत्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् । स एव चाख्यातार्थः । कुठारेण छिनत्तोत्याख्यातश्रवणे हि भवत्येताद्वशी मति: - कुठारेण तथा व्याप्रियेत यस्मिन् व्यापारे कृते कुठारेण छेदनं भवतीति । एवं 'यजेत स्वर्गकाम' इत्यस्यायमर्थः-यागेन तथा व्याप्रियेत नुपपत्तिमाशङ्कय परिहरति-न चेति । वोढश्वेति । रथवाहकाः रथे नियुक्ता येऽश्वाः तद्गतमित्यर्थः । रोप्येति । शक्यतावच्छेदकलाघवानुसारेण तादृशा रोपाङ्गीकरणमपि नातीव दोषायेति भावः । उक्तं हि न्यायसुधायाम्"स्त्रीत्वाभावेऽपि खट्वादौ टाबादिप्रत्ययो यथा । प्रयुज्यते तथाख्यातं यत्नाभावेऽप्य चेतने । वोढूश्वादिगतं यत्नं रथादावुपचर्य वा । उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्तितः" इति । परमतेऽप्ययं दोषस्तुन्य एवेत्याह- यन्मत इति । तन्मते हि धात्वर्थानुकूलो व्यापारः श्राख्यातार्थः कचित् वक्तव्यः । न च 'रथो गच्छति' इत्यत्रोत्तरदेश संयोगानुकू लव्यापारातिरिक्तः कश्चित् व्यापारः प्रसिद्धोऽस्ति रथे, यत्राख्यातं प्रयुज्येत । अतः तम्मतेऽप्यौपचारिकत्वं तुल्यमेवेति भावः । अस्मिन्नर्थे न्यायसुधोकामेव कारिकां प्रमाणयति-प्रयत्नेति । स्पष्टोऽर्थः । एवं न्यायसुधाकृन्मतमुपवर्ण्य पार्थसारथिमिश्रमतमुपवर्णयति - अन्ये त्विति । भवितुः भवनकर्तुः उत्पत्तुः श्रोदनादेः स्वर्गादेर्वा भवनानुकूलः उत्पत्यनुकूलः, भावकस्य प्रयोजंकस्य देवदत्तादेः यो व्यापारः स एव भावनापदवाच्य इत्यर्थः । स्पष्टप्रतिपत्यर्थमाह - यस्मिन्निति । स एवेति । धात्वर्थादिरूपकरणस्य फलोत्पादने यस्सहकारी भवति स एवाख्यातार्थ इति फलितम् । कथमिदं प्रतीयते तादृश एव व्यापारः आख्यातार्थ इति ? अतः तदुपपादयितुं प्रथ तावत् लोके तस्प्रतीतिमुपपादयति-कुठारेणेति । व्याप्रियेतेति । एवञ्च तादृशस्य व्यापारस्य सामान्यरूपेणैवाख्यातात् प्रतीतिः । न तु विशेषरूपैण । तत्तु प्रमाणान्तरसंवेद्यमेवेत्याशयः । यथा लोके तथैव वेदेऽपीत्याहएवमिति । यागादेः करणत्वं श्रुतम् । न केवलेन तेनान्यामुपकृतेन फलं सम्पादयितुं शक्यमिति बागादिरेव स्वस्य फलजनने सहकारिणमपेक्षते । स एव चाख्यातात् सामा• १. 'मा' । FOUNDED Bhandarkar Oriental Research Institute निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः यस्मिन् व्यापारे कृते यागात् स्वर्गों भवतीति । स च व्यापारः क्वचिदुधमननिपातनादिः, कविञ्चाभ्यन्वाघानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाण्यातादेव । रथो ग्रामं गच्छतीत्यत्रापि माख्यातेन ग्राम प्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन व्याप्रियते यस्मिन् व्यापारे कृते गमनाग्राम प्राप्तिर्भवतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः तस्य धातुनोकत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा. यां पूर्वोसरावान्तरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन विभज्योत्तरेण संयुज्य रथो प्रामं गच्छुतीति प्रयोगात्। उद्यभ्य निपात्य कुठारेण च्छिनीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्याता. न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य श्राख्यातात् प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगम्यत' इत्यनेनान्वेति । क्वचित् लोके कुठारेण च्छिनत्तीत्यादौ । कचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ । अग्न्यन्वाधान ब्राह्मण तर्पणपदार्थों पूर्व प्रकरण निरूपणावसरे व्याख्यातौ । पश्चादिति । 'अग्नीनन्वादधाति 'ब्राह्मणांस्तर्पयितवै' इत्यादिभिस्तत्तत्प्रातिस्वि कैविधिभिरित्यर्थः (१) अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत् वदन्ति । तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तजन्यस्वात् फलजनकीभूतयागादिजनकत्वमन्योत्पादानुकूलत्वम् । अस्मिथ मते फलजनकीभूतयागाचुपकारकत्वं तदिति विवेकः । अत्र चशब्द एवकारश्च भिन्नक्रमौ । श्राख्यातात्तु सामान्यत एवेत्यर्थः । एवं व्यापारसामान्यस्याख्यातार्थत्वेऽम्युपगते 'रथो गच्छती'त्याद्यचेतन कर्तृक स्थलेऽप्यौपचारिकत्वं विनैव निर्वाहो भवतीत्याह-रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापारो गमनाख्यो धात्वर्थः । तादृशप्रामप्रातिरूपफलोत्पत्तौ व्यापृतस्य यः प्रकारविशेषः पूर्वदेश विभागादिरूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीस्यचेतन कर्तृकस्थलेऽपीस्याह-रथस्त. थेति । पञ्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् ? अत ग्राह-पूर्वऐति । एवञ्चास्मन्मते प्रयत्नवा चियतधातूत्तराख्यातस्यापि स एवार्थ इति लाघवम् । भवन्मते तु धारवर्यानुकूलयत्नस्य तत्राप्रसिद्धे; तत्प्रयोगस्यौपचारिकत्व मेवाङ्गीकरणीय मिति गौरव मित्याशयैनाह— एवमिति । प्रयत्नो भवतीत्यनेनात्र घात्वर्थस्यैव प्रयत्नरूपस्य भाव्यत्वमिति सूचितम् । १. भत्रेदं वक्तव्यम् – यजेत, इत्यादौ देवतोद्देश्यद्रव्यत्यागरूपो व्यापारो चास्वर्थः, तदनुकूलः भन्वा धानादिब्राह्मणतपंणान्तो व्यापारकलाप भाख्यातार्थः, स चाख्यातेनानुकूल व्यापारत्वेन सामान्येनोच्यते, विशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरुच्यत इति पार्थसारथिमिश्रमतं इति सुविदित मीमांसकानाम् । सति चैवं महामहोपाध्यायश्रीमदभ्यङ्करशास्त्रिमहोदयैः "भन्वाषानादिव्यपारो देवतोहेश्य. कहविःप्रक्षेपानुकूलत्वेन विशेषरूपेण चातुवाण्यः" इति यदुक्तम्, न तत्र तेषामाशयमवगन्तुमीश्महे । Bhandarkar नाका मीमांसान्यायप्रकाशः शा [ यार्थी भावनाथो न तु प्रयत्नः । तस्य धातुनोकत्वात् व्यापारविशेषापेक्षायां चेच्छादिः पश्चादवगम्यते, उद्यमननिपातनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापार सामान्य मेवाख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति, देवदत्तः प्रयतत इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तुं युक्तम्, मुख्ये संभवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव न प्रयत्नमात्रम् करोतेश्चेतनाचेतन कर्तृकाख्यातसामानाधिकरण्यादिति । तत्सिद्धमन्योत्पादानुकूलो व्यापा रविशेष आर्थी भावनेति । ए सैव चाख्यातांशेनोच्यते-भावयेदिति । तस्याश्च भाग्याकाङ्क्षायां स्व. गदि भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते । इतिकर्तव्यताकाङ्क्षायां प्रयाजादय इतिकर्तव्यतात्वेन संबध्यन्ते । एवञ्च यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेविधानात् सिद्धं यागादेर्धर्मत्वं प्रयोजन. मुद्दिश्य वेदेन विहितत्वात् । रिंगरोग Pay ( उपसंहारः ) क । सोऽयं धर्मो यदुद्देशेन विहितः तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगो(1) ननु – कोऽत्र विशेषः पूर्वस्मात् पक्षात् ? अता-तथा चेति । सर्वत्रेति । श्रचेतन कर्तृकस्थले चेतन कर्तृकस्थले चेत्यर्थः । अनुगतत्वादिति । अन्योत्पादानुकूलत्व. स्येति शेषः । तदभावात् प्रयत्नाभावात् । नन्वेवमप्यन्योत्पादानुकूलव्यापारस्याख्यातार्थत्वे पचति, पाकं करोतीति यत्नार्थककृञवातुना विवरणानुपपत्तिरित्यत आह-करोत्यर्थोऽपीति । कुत एतत् ? अत आह-करोतेरिति । चेतनकर्तृका ख्यातस्थले देवदत्तः पचतीत्यादौ देवदत्तः पाकं करोतीति विवरणवत् स्थाली पचतीत्यादावचेतन. कर्तृका ख्यातस्थलेऽपि स्थाली पाकं करोतीति विवरणस्य दृष्टत्वादित्यर्थः । अतश्चोभयानुगतव्यापारस्यैवार्थी भावनात्वं भवितुमर्हति, न तु चेतनमात्रनिष्ठस्य प्रयत्नस्येत्युपसंहरतितत्सिद्धमिति । णिजन्तभूषातुना विवरणादपि तस्या अन्योत्पादानुकूलत्वमेव युक्तमित्यभिप्रायः । एवं मतद्वयेनापि भावनां निरूप्य तत्सम्बन्धित्वात् पूर्व प्रकरणनिरूपणावसरे निरूपि. तमपि पुनरत्रांशत्रयं तस्यास्संक्षेपतः कथयति-तस्याश्चेति । प्रयाजादय इत्यादिप यस्य प्रधानस्य प्रकरणे यान्यङ्गानि पठितानि तानि प्रायाणि । प्रन्यारम्भे प्रतिज्ञातं या. गादेर्धर्मस्वमेतावता प्रबन्धेन निरूप्य दर्शितमित्याशयेन पुनस्तत् स्मारयन् ग्रन्थमुपसंहरति - एवश्चेति । Darpa ( उपसंहारः ) STITU ननु यागादेः स्वर्गादिरूपतत्तत्फलोद्देशेन विहितत्वे तत्तत्फलेषु वीतरागाणी मु. मुक्षूणां प्रवृत्तिनं स्यात् । इष्टापत्तौ केवलं कामिजनमात्रमुद्दिश्य प्रवृत्तं शास्त्रमतिसङ्कुचितं स्यादिति तस्य महाविषयत्वहानिरित्यत ग्राह- सोऽयमिति । तद्धेतुः तत्फलहेतुः । निःश्रेयसहेतुरिति । निःश्रेयसं मोक्षः तद्धेतुः चित्तशुद्धिसम्पादनद्वारा परम्परया निरूपणम् सारविवेचिनोव्याख्या संवलितः १६१ विन्दार्पणबुध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पणबुद्धया तदनुष्ठाने 20 fe hain यत्करोषि यदश्वासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ प्रमाणाभावः । इति स्मृतेः । अस्याश्चातिष्टकादिस्मृतिवत् प्रामाण्यादित्यन्यन्त्र विस्तरः ॥ क्वाहं मन्दमतिः क्वेयं प्रक्रिया भाट्टसंम्मता । तस्माद्भक्तेर्विलासोऽयं गोविन्दगुरुपादयोः तरकारण मित्यर्थः । ननु सर्वत्र फलवाक्येषु "ज्योतिष्टोमेन स्वर्गकामो यजेत" "अग्निहोत्रं जुहुयात् स्वर्गकामः" "वाजपेयेन स्वाराज्यकामो यजेत' इत्या. दिषु स्वर्गादिरूपफलोद्देशेनैव कर्मणां विनियोगदर्शनात् ईश्वरार्पणबुभ्यानुष्ठाने प्रमाणाभावः इत्याशङ्कय परिहरति-न चेति । यत्करोषीति । यथा च तत्तद्वाक्येषु तत्तत्फलार्थं विहितानामपि कर्मणां "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इति श्रुत्या संयोगपृथक्त्वन्यायेन विविदिषोद्देशेन सर्वयज्ञानां विधानं तद्वदनयापि स्मृत्या श्रीभगवदुक्तया तेनैव न्यायेन ईश्वरार्पण बुध्यानुष्ठान विधानमिति भावः । यद्यपीयं स्मृतिरीश्वरार्पणबुध्याऽनुष्ठान एव प्रमाणम्, न तु तथानुष्ठितस्य निश्श्रेयस फलकत्वेऽपि । यावच्च तत्र प्रमाणं न प्रदर्श्यते तावत् अनुष्ठाने प्रवृत्तिरेव नोदे? तीति तदेव प्रथमतः प्रदर्शनीयम्, तथापि तत्रैव गीतायामेतच्छलोकानन्तर पठितेन "शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥" इति श्लोकेन पूर्वोक्त कर्मण: भगवद्रूपतावासिफलकत्वमुपवणितं सिद्धं कृत्वैवमुक्कं प्रन्थकृतेत्यवगन्तव्यम् । भगवद्गीतावचनस्थास्येतिहास रूपभारतान्तर्गतस्य कुतः तादृशं स्वार्थे प्रामाण्यमित्यत - इति । गौताया या भारतान्तर्गतत्वेऽपि तदन्तगंताख्यानानामेवार्थवादत्वस्य तद्गतविधिभागानां तु धर्मे प्रामाण्यस्य वार्तिक का रैरेवार्थवादपादे स्थापितत्वात् विशेषतो भगवतो वासुदेवस्य मुखादेवास्या निर्गतत्वात् विधिरूपत्वाच्चास्याः प्रामाण्यै न कोऽपि संशय इत्याशयेनाह-इत्यन्यत्र विस्तर इति । इति शब्दः प्रकरणवाची । कर्मणां तत्तत्फलार्थं विहितानामपि ईश्वरार्पणबुध्याप्यनुष्ठानमित्यादिकं प्रकृते सद्प्रहेण यदुक्तं तत्सर्वं मया वेदान्तसारव्याख्याने नित्यादीनां कर्मणां प्रयोजनकथनावसरे विस्तरेण प्रतिपादितं तत एवावगन्तव्यम् । विस्तरभयात्तु नेह प्रपञ्चितमित्यर्थः । एवं प्रन्थं परिसमाप्य तदन्ते नम्रतां प्रदर्शयति-क्वाहमिति । भाट्टसम्मतेति । कौमारिलं मतमाश्रित्य प्रवृत्ता ये पार्थसारथिमिश्रप्रभृतयः तेषामभिमतेत्यर्थः । विशेषणमेतदुपाददता स्वप्रन्थोऽपि तदेव मतमवलम्ब्य प्रवृत्तो न प्राभाकरं मतमवलम्ब्येति सुचितम् । तर्हि किमर्थंमेतादृश्यामत्यन्तदुरवगाहायां प्रक्रियायां प्रवृत्तिः ? अत आईभक्तेरिति । गोविन्दो भगवान् वासुदेवः स च गुरुश्च तो तयोः पादयोरित्यर्थः । स्वीय. नावा Bhandarkar Oriental मोमांसान्यायप्रकाशः ग्रन्थरूपों मदीयोऽयं वाग्व्यापारः सुशोभनः । अनेन प्रोषत्तां देवो गोविन्दो भक्तवत्सलः ॥ J các इति ( महामहोपाध्यायेन# ) श्रीमदनन्तदेवसूनुना श्रापदेवेन कृतं मीमांसान्यायप्रकाशसंशकं पूर्वमीमांसाप्रकरणं समाप्तम् ॥ ०००००ESH ch एक TOPMED ग्रन्थं स्वेष्टदेवतायै श्रीभगवते वासुदेवाय समर्पयन् "तत्कुरुष्व मदर्पणम्" इति भगवदुक्ति स्वयमेवानुतिष्ठति । ग्रन्थरूप इति । वसुधावसुनन्देन्द्र ( १९८१ ) मिते वैक्रमवत्सरे । ज्येष्ठे मासि सिताष्टम्यां निशीथे कुजवासरे ॥ भागीरथ्यास्तटे रम्यै क्षेत्रे कनखले शुभे । पूर्णतामाप विश्वेशकृपयेयं कृतिर्मम ॥ यत्कारुण्यविलासेन प्रपेदे पूर्णतामियम् । व्याख्यैनामर्पये तस्य विश्वभर्तुः पदाम्बुजे ॥ इति श्रीवेदवेदाङ्गपारगवैदिक सार्वभौमश्रीरघुनाथतनूजेन श्रीमदग्नपूर्णागर्भसम्भूतेन महामहोपाध्यायेन श्रीचिन्नस्वामिशास्त्र्यपरनाम्ना श्रीवेङ्कटसुब्रह्मण्यशर्मणा विरचिता मीमांसान्याय. प्रकाशव्याख्या सारविवेचिन्याख्या समाप्तिमगमत् । विश्वेशश्शरणं मम । ॥ शुभमस्तु ॥ SHIMDAL S * ( ) एतचिह्नान्तर्गतमधिकमुपलभ्यते कस्मिंश्चित् लिखित पुस्तके । 10 ANSTITU POONA FOUNDED 1917 ॥जस्विनीतमस्तु Bhandarkar Oriental Research Institute ि प्राग्वंशवेदिकारिकाः ॥ पूर्वाप श्रापस्तम्बमतादर्शलक्षणं त्वियमिष्यते । तत्राग्न्यायतनान्याहुः शम्या- मात्राणि याशिकाः ॥ मध्येऽष्टप्रक्रमा ह्यन्तरालदेशं विहाय तु । राग्ज्योस्तत्स्थानं तत्र पूर्वानलस्य तु ॥ षटूत्रिंशदङ्गुलायामविस्तारच- तुरस्रकम् । श्रङ्गुल्यो विंशतिरपि तिलाः स्युस्सार्धषोडश ॥ तन्मात्ररज्वा भ्रमयेदा पराग्निकमण्डलम् । क्षेत्रतस्तद्विगुणितं दक्षिणाग्नेस्तु मण्डलम् ॥ तद्विष्कम्भार्ध मे कोन त्रिंशदङ्गुलिकं मतम् । साथै कतिलहीनं तल्लभ्यते शुल्व- सूत्रतः ॥ तन्मात्ररज्ज्वा भ्रमणं मण्डले तु कृते सति । उत्तरार्धे परित्यक्ते शिष्टमर्धेन्दुवद्भवेत् ॥ एवं प्राग्वंशवेदिः स्यादर्थलक्षणसंमता ॥ अन्यः प्रकार: ॥ 0 सार्धविंशत्यङ्गुलेन विलिखेद्गार्हपत्यकम् । सप्तविंशत्यङ्गुलेन दक्षिणाग्नि. स्तथा भवेत् ॥ गताष्टप्रक्रमे प्राध्याः शम्यामात्र प्रमाणतः । लिखेदाहवनयन्तु चैषा प्राग्वंशवेदिका ॥ गार्हपत्यस्य पुरतः प्रक्रमद्वितयं त्यजेत् । श्रोण्यं सौ दर्शवेदीवत्ततो गृहपतेः पुरः ॥ श्रोणीभ्यां विलिखेत् पश्चात् प्रवर्ग्याणां तु सादनम् ॥ । प्राग्वंशस्थप्रवर्ग्यादिस्थानानां पदार्थानां च प्रमापकानि ॥४-१-१सूत्राणि । BEF WHindise अ (१) (१) ऋत्विजामुपवेशनप्रकारः प्रवर्म्यसमये॥ पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीध्रश्च । १५-५-३॥ (२) मेथ्याःen brak nerwy for this दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति । १५-६-१३ ॥ी (1) (३) वत्सशङ्को:का एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वस्साय शङ्कुम् । १५-६-१४ ॥ (४) अजाशङ्को:74/ity एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् । १५-६-१५ ॥ (५) वर्करशङ्को:-S उत्तरतो बर्कराय । १५-६-१६ ॥ MPIFIR (६) ततः खरानुपवपति। उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीय- मेकम् । १५-६-२०, २१ ॥ 1 TFEEIR तस्विनावधातु ॥ (७) उत्तरपूर्वद्वारं प्रत्युच्छिष्टखरं करोति ॥ १५-६-२२॥ २५ मी० म्या० amoned ब्रह्मा यजमानः (२) INSTITUT POON Bhandarkar Oriental Research Institute मीमांसान्यायप्रकाशः [ पर्युदास(१) प्रतिषेधः स विज्ञेयः क्रियया सह यत्र ना !! इति च तयोर्लक्षणम् । तत्र "नेक्षेतोद्यन्तमादित्य" मित्यादौ पर्युदासाश्रयणम्, 'तस्य व्रत' मित्युपक्रमात् । १६२ ( उपक्रमबलात्पर्युदासाङ्गीकारः ) तथा हि-व्रतशब्देन कर्तव्योऽर्थ उच्यते । श्रतश्च स्नातकस्य कर्तव्या र्थानां वक्तव्यत्वेनोपक्रमात् किं तत् कर्तव्यमित्यपेक्षायां भये 'नेक्षेतोद्यन्त' मित्यादौ कर्तव्य एवार्थो वक्तव्यः, आकाङङ्क्षिताभिधानात् । अर्थान्तरोकौ च पूर्ववाक्यस्य साकाङ्क्षत्वेनाप्रामाण्यं (२) स्यात् । न हि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाङ्क्षत्वं सम्भवति । न च साकाङ्क्षस्य प्रामाण्यम्, गौरश्वः पुरुषः इत्यादावपि तत्प्रसङ्गात् । एवं तयोर्लक्षणमुक्त्वा पर्युदासाश्रयणस्य प्राथमिक स्थलमुदाहरति-तत्रेति । नेते. तेति । मनौ चतुर्थाध्यायेAMSTE अतोऽन्यतमया वृत्या जोवस्तु स्नातको द्विजः। स्वर्गायुध्ययशस्यानि व्रतानीमानि धारयेत् ॥ इत्यत्र स्नातकोद्देशेनाग्रे वक्ष्यमाणाः तदनुष्ठेयपदार्था व्रतशब्दोक्ताः । श्रच 'नेते. तोद्यन्तमादित्य' मित्यादयोऽभिहिताः । तत्र सर्वत्रापि पर्युदासाश्रयणमेव । प्रतिषेधाश्रयणे तस्य कर्तव्यत्वाभावात् कर्तव्यवाचकव्रतशब्दोपक्रमो विरुध्येतेति भावः । अत्र चादिपदेन "नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् । "न लङ्घयेत् वत्सतन्त्रीम्" इत्यादीनि तत्प्रकरणे पठितानि नञ्घटितवाक्यानि सर्वाण्यपि गृह्यन्ते । उपसृष्टं राहुप्रस्तम् । वारिस्थं जलमध्ये प्रतिबिम्बत्तया दृश्यमानम् । अत्र चोदयादिविशिष्टमादित्यं न पश्येदिति यथाश्रुतोऽर्थः । तत्सरिग्रहे चोपक्रमभङ्गापच्या निषेधमकल्पयित्वा नञो धात्वर्थेन सम्बन्धमङ्गीकृत्य ईचणाभावसङ्कल्पोऽनेन विधीयत इत्यङ्गीकार्यमिति तात्पर्यम् । एवञ्च तत्प्रकरणे यावन्ति नञ्घटितवाक्यानि तत्र सर्वत्रापि पर्युदास मङ्गीकृत्य तद्वर्जनसङ्कल्प एव कार्य इति सिध्यति । स च सङ्कल्पः-उद्यन्तमादित्यं नेक्षिण्यै-इत्येवमादिरूपो द्रष्टव्यः । यद्यप्यत्र मूलपर्यालोचनया मानवं वाक्यमेवोदाहरणमिति भाति, तथापि तत्र 'तस्य व्रत' मित्युपक्रमादर्शनात् "एतावता हैनसा विमुक्तो भवती" त्यग्रे वक्ष्यमाणस्य वाक्यशेषस्याभावाच्च न मानवं वाक्यमुदाहरणं भवितुमर्हति परन्तु तत्समानजातीयं तादृशवाक्यशेष विशिष्टं स्मृत्यन्तरं श्रुत्यन्तरं वोदाहरणमित्यवगन्तव्यम् । ( उपक्रमबलात् पर्युदासस्वीकारः ) पर्युदासाश्रयणावश्यकतामुपपादयति-तथा होति । श्राकाङ्गिताभिधानादिति । Astru POORA 1917 १. अयमेब पाठस्साषीयान् शास्त्रानुगतस्सम्प्रदायागतश्च । सति चैवं अत्र निर्णयसागरमुद्रितपुस्तके कलिकत्तामुद्रित पुस्तके च शोषयित्रा व्याख्यात्रा च स्वस्वमनीषानुसारेण पाठभेदं प्रकल्प्य तदनुसारेण चार्थो यो वर्णितः स सर्वोऽप्यभित्तिचित्रायित इत्युपेक्षणीयं प्रेक्षावद्भिः । २. ण्यप्रसङ्गात् । निरूपणम् ] सारविवेचिनोव्याख्या संवलितः किश्च 'नेक्षेते' त्यस्योपक्रमेण प्रतोयमाना एकवाक्यता च न स्यात्, अर्थान्तरोक्तः । श्रतश्चास्मिन् वाक्ये कश्चित् कर्तव्य एवार्थो वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते । तत्सम्बन्धे कर्तव्यार्थोक्तरनुपपत्तेः । प्रत्ययाच उत्सारितो(१) नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिः षेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेधकत्वस्य विधायकत्व प्रतिपक्षत्वात् । नामधातु (२) योगे तु न नञः प्रतिषेध करवम् । तयोर विधायकत्वात् । यदाह (३) नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति । अतश्च 'नेते' त्यत्र नञो धातुयोगात् नञोक्षतिभ्यामीक्षणविरोधी कश्चनार्थः प्रतिपाद्यते । तदानीमेवापेक्षितविधानं भवतीत्यर्थ: । अन्यथा अनपेक्षितविधानरूपो दोष श्राग्तेदिति भावः । तद्नभिधाने कर्तव्यार्थानभिधाने । तत्प्रसङ्गात् प्रामाण्यप्रसङ्गात् । मनु यत्र व्रतशब्दः श्रूयते तस्मिन्नेव वाक्ये कर्तव्यताविधिरङ्गीक्रियताम् । किमर्थमुपरितनेषु सर्वेष्वपि वाक्येषु लक्षणापादकः पर्युदास श्राश्रीयते इत्यत श्राह-किश्चेति । मयमाशयः स्नातकानुष्ठेयपदार्थनिरूपण प्रकरणे 'तस्य व्रत' मित्यादि सामान्यतः एव व्रतशब्दः यते । तस्य च विशेषापेक्षायां अग्रिमवाक्यै सवै रेवा विशेषात् विशेषस्समर्प्यत इति वक्तव्यम् । अयमर्थ: स्मृत्यन्तरेषु एतत्प्रकरणगतै तत्समानार्थकवाक्यैः स्पष्टमवगम्यते । तेषु हि 'व्रतानीमानि धारयेत्' 'इमानि व्रताग्यनुकर्षत्' इत्यादिना उपरिष्टात् प्रतिपाद्यमाना एव पदार्थाः व्रतशब्देनाभिघीयन्ते । कर्तव्य विशेषश्च कर्तव्य एव भवतीत्यगत्या उत्तरवाक्यानां पूर्ववाक्यापेक्षितविशेषसमर्पकत्वावश्यम्भावेन तदेकवाक्यताया अप्यवश्याभ्युपगमनीयत्वात् । यदि तु 'तस्य व्रत' मित्यत्रैवानुष्ठेयपदार्थविधानमा श्री येत, तदा स्वरसतः प्रतीयमाना एकवाक्यता भज्येतेति । अत्र च न पदैकवाक्यता । वाक्यानां स्वार्थबोधे समासत्वात् । श्रतो दर्शपूर्णमास वाक्यप्रयाजादिवाक्यानामिव वाक्यैकवाक्यता वेदितव्या । अतश्चेति । भानसिध्यर्थं प्रतीयमानैकवाक्यता निर्वाहार्थं चेत्य र्थः । अस्मिन् वाक्ये नेक्षेतेति वाक्ये । तदुक्तो कर्तव्यार्थीको । तत्सम्बन्धे विधिप्रत्ययेन सह सम्बन्धे । अनुपपत्तेरिति । नञः स्वसम्बन्धिप्रतिपक्षबोधकत्वस्य पूर्वमेव निरूपितत्वादिति भावः । तत्सम्बन्धे धातुसम्बन्धे । विधायकसम्बन्धेनैवेति । 'विधायकैरसंयुक्तो नैव न प्रतिषेधकः" इति वार्तिकोत्तत्वादिति भावः । किमिदं प्रतिज्ञामात्रसाध्यम् ! उत युक्तिसहम् ? तदर्थमाह-प्रतिषेधकत्वस्येति । तयोः नाम्नः घातोश्च । श्रविधायकत्वादिति । विधायकसंयुक्तस्यैव नञः तत्प्रतिपक्षबोधकत्वादिति भावः । नामेति । नाम्ना नामार्थेन घात्वर्थेन च संयुज्यमानो नव् न प्रतिषेधमभिवते । यतः ब्राह्मणपदेन संयुक्तः तदन्यमात्रमब्राह्मणं धर्मपदेन च संयुक्तस्तद्विरोधिनमधर्म च वदतीत्यर्थः । एतावता प्रकृते किमायातम् ? अत श्राह-अतश्चेति ।er femal नाव Research Institute १. अवतारितो इति क. । २. धात्वर्थयो । ३. नामधात्वर्थयोयोंगे । ---१६४ मोर्मासान्यायप्रकाशः [ पर्युदासननु -'तदन्यतद्विरुद्धतदभावेषु नञि' ति सत्यपि स्मरणे नञः स्वसंसृष्टाभाव एव शक्तिः, लाघवात् । न तु तद्न्यतद्विरुद्धयोः । तयोरभावघटितत्वेन गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नओ धातुयोगे धात्वर्था भावबोधकत्वमेव, न तु तदन्यतद्विरुद्धार्थबोधकत्वमिति चेत् सत्यम्, नञोऽभाव एव शक्तिः, स्मरणं तु प्रतीत्यभिप्रायम्, न शक्त्यभिप्रायम्, नामधात्वर्थयोगीत्यपि प्रतीत्यभिप्रायम्, तथापि 'नेक्षेते' त्यत्र प्रत्ययस्य नञऽसम्बन्धात् तेन तावत् कश्चिदर्थो विधेयः । तत्र न तावद्धात्वर्थो विधातुं शक्यते, नञा तदभावबोधनात् । नापि तद्भावो विधातुं शक्यते, श्रभावस्याविधेयत्वात् । अतश्च नञीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते । स चेक्षणविरोधो लक्ष्यमाणः पदार्थो मनु "श्रमानोनाः प्रतिषेधे" इति स्मृतिबलात् लाघवाच नञोऽभाव एव शक्ति रेङ्गीकार्या । श्रत एव नसूत्रे महाभाष्ये "निवृत्तपदार्थक" इत्यभाषार्थकत्वमेव नञ उक्तम् । निवृत्तमिति भावे तः । निवृत्तिरित्यर्थः । निवृत्तिरभावः स पदार्थो यस्येति बहुव्रीहिः । अभावार्थक इति यावत् । न च 'तदन्यतविरुद्धतदभावेषु नञ्' इति स्मृत्या नञोऽन्योन्याभावादावपि शक्तिरस्तीति वाच्यम् । तस्याः स्मृतेः लक्षणायां ताप. यंग्राहकत्वेनाप्युपपत्तो भनेकशक्तिकल्पने मानाभावात् । तत्सादृश्यमभावश्च तद्न्यत्वं तदल्पता श्रप्राशस्त्यं विरोधश्च नञर्थाषट् प्रकीर्तिताः ॥ है, इतीदमपि वचनं एष्वर्थेषु नञो लक्षणायां तात्पर्यप्राहकमेव । स्पष्टं चैतत् भूषणादौ । अतभ नशो धातुना योगे तदभावस्यैव बोधनात् तद्विरुद्धार्थस्यैवाप्रतीतौ कुतरसङ्कल्पलचणेत्याशङ्कते-नम्विति । संसृष्टाभाव इति । संसर्गाभाव इत्यर्थः । अनेकार्थस्य चेति । चकारोऽनुक्तसमुच्चयार्थः । भेदस्य नष्वाच्यत्वाङ्गीकारेऽपि घटो न पट इत्यादौ नञर्थभेदस्यामेदातिरिक्तसम्बन्धेन पटेऽन्वय(सम्भवात् तद्भेदवति लक्षणाया आवश्यक. त्वात् । प्रतश्च संसर्गाभाव एव शक्तिरङ्गीकार्येति भावः । नञोऽभावशकतां स्वीकरोति-सत्यमिति । स्मरणमप्यन्यथोपपादयति-स्मरण. मित्वति । तदन्येति व्याकरणस्मृतिरित्यर्थः । प्रतीत्यभिप्रायमिति । नञः श्रवणादेता. वन्तोऽर्थाः प्रतीयन्त इति नबमोषामर्थानां प्रतिपादकः इत्येतावत्यंशे स्मृतेस्तात्पर्यम् । प्रतिपादनश्च शक्त्या लक्षणया वेति तु लाववादिस ह कृतन्या यै कवेद्यमित्यभिप्रायः । प्रतीत्यभिप्रायमिति । अत एव न्यायरत्नाकरे एतच्छलोकव्याख्यानावसरे सम्भवति चाभाववचनस्यापि (नञः ) अन्यमात्रे विरुद्धे च प्रवृत्तिरिति अभाव एव नमः शक्तिः, इतरत्र च लक्षणयापि प्रवृत्तिरित्याशयोऽवबोधित इति भावः । कथं तर्हि 'नेते' त्यत्र सङ्कल्पबोधकत्वम् ? तदाह -तथापीति । तेन प्रत्ययेन । अविधेयत्वादिति । उपादेयस्वरूपकृतिसाण्यस्वस्य तत्राभावादिति भावः । नञीक्षतिभ्यामिति । नष्पदेन ईक्षतिषावना चेत्युभाभ्यां मिलिताभ्यामित्यर्थः । ननु लक्ष्यतामीक्षणविरोधी कश्चित् पदा थं, तथापीक्षणविरोधिन बहूनां पदार्थानां सत्वात् कथं सङ्कल्पस्यैव लक्ष्यमाणतेत्याशFOUNDED वधीत निरूपणम् ] सारविवेचिनो व्याख्यांसंवलितः (१)'नेते' इत्यनीक्षणसंकल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन संकल्पस्यैव (२) लक्षणात् स एव 'नेक्षेते' त्यत्र कर्तव्यतया विधीयते-अनीक्षणसंकल्पेन भावयेदिति । भाव्याकाङ्क्षायां च "एतावता हैनसा विमुक्तो भवती" ति वाक्यशेषावगतः पापक्षयो भाव्यतया सम्बध्यते । एवञ्चात्र पापक्षयार्थ सङ्कल्पस्य कर्तव्यतया विधानात् 'तस्य व्रत'मित्यनेनैकवाक्यता सिद्धा भवति । तत्सिद्धं 'नेक्षेते' त्यत्र 'तस्य व्रत' मित्युपक्रमात् पर्युदासाश्रय- रामिति ॥ ( विकल्पभयात् पर्युदासाजीकरणम् ) 'नानूयाजेषु येयजामहं करोती' त्यत्र विकल्पप्रसक्त्या तदाश्रयणम् । ङ्कायामाह - सत्यपीति । सत्यं सन्तीक्षणविरोधिनो बहबः पदार्थाः । तथापि न ते ईंचणाविनाभूताः, मानससङ्कल्पस्तु सर्वप्रवृत्तिनिवृत्त्यविनाभूत इति स एव लक्षणीय इत्याशयवानाइ - सर्वक्रियेति । भाव्याकाङ्क्षायामिति । श्रीक्षणसङ्कल्पेन भावयेत् इत्युक्तौ तस्य विहितत्वप्रतीतेः विह्नितेऽपि तस्मिन्नफले प्रेक्षावतः प्रवृत्त्यनुदयात् तस्सि. ध्यर्थ भाव्यस्य कस्यचिदपेक्षायां सत्यामित्यर्थः । एतावतेति । एतावतानीक्षण सङ्कल्प. मात्रेण पापान्मुक्तो भवतीत्यर्थः । वाक्यशेषावगत इति । स्तुत्यर्थं प्रवृत्तस्यापि वाक्यशेषस्य फलसमर्पकत्वं रात्रिसत्रवदङ्गीक्रियत इति भावः । पापक्षय इति । अक्रत्वर्थस्य तस्य ऋतूपकाररूपफलजननायोगात् पुरुषार्थत्वाच पुरुषाभिलषितफलस्यैव भाव्यत्वौचि. त्याच्चेति भावः । न च 'उद्यन्तमादित्य' मिश्यन्त्र उद्यदादित्यस्य पदार्थैकदेशे इंक्षणे अन्वयाङ्गीकरणापत्या एकदेशान्वयनिबन्धनो दोष इति वाच्यम् । मीमांसकमते कार. काणां प्रथमतो भावनान्वयस्यैव स्वीकारात् तदनापत्तेः, पाष्ठिकान्वयवेलायां च समस्तपदघटितस्य वाक्यस्यैव कल्पनात् न दोषः । प्रकृतमुपसंहरति-तत्सिद्धमिति । ( विकल्पभयात् पर्युदासाङ्गीकरणम्) A द्वितीयं बाधकमुपपादयति - नानूयाजेध्विति । मयमत्र विषयः- 'आश्राव येति चतुरक्षरं, अस्तु श्रौषडिति चतुरक्षरं, यजेति द्वयक्षरं, ये यजामह इति पञ्चाक्षरं, द्वथक्षरो वषट्कारः, एष वै सतदशः प्रजापतिर्यशमन्वायत्तः, इत्यनारम्य श्रूयते । श्रस्यायमर्थः- यदाध्वर्युः यजतिचोदनाचोदितेषु कर्मसु हविर्देवेभ्यो दातुमुद्युङ्ते तदा हविःपूर्णां जुहूं हस्ते गृहीत्वा माग्नीघ्रनामानमृत्विग्विशेषं प्रति प्रैषं ददातिश्राश्रावयेति । एवं प्रेषितः स श्राग्नीत्रः "अस्तु श्रौषट्" इति प्रतिब्रूयात्। तच्छुत्वाध्वर्युः तदानीं त्यज्यमानद्रव्योद्देश्यभूतदेवतावाचिपदं द्वितीयान्तमुच्चार्य तदन्ते 'यजे' ति पदं ब्रूयात्, यथा – श्रमिं यज, विश्वान् देवान् यज, इत्यादि । तच्छ्रुत्वा च होता तद्देवताकयाज्यातः पूर्व "ये यजामहे" इति पदद्वयं ततो याज्यां च पठित्वा तदन्ते 1917 Res १. कलिकत्तामुद्रितपुस्तके तु नास्तीयं पक्तिः । २. लक्षणा । मीमांसान्यायप्रकाशः [पर्युदोसतथा हि-यद्यत्र प्रधान सम्बन्धलोभान्नञः प्रत्ययसम्बन्धः स्वीक्रियते तथा सत्यनेन वाक्येनानूयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्यम्-अनूया जेषु येयजामहं न कुयादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति, प्राप्तिसापेक्षत्वात् प्रतिषेधस्य । "वौषडि" ति वषट्कारमुच्चारयेत् । अत्र च 'श्राश्रावये' त्यक्षरचतुष्टयंयुक्तम् । 'प्रस्तु श्रौषट्' इत्यपि तथैव । 'यजे' ति 'वौषट्' इति च द्वयक्षरम् । 'ये यजामहे' इत्यक्षरपश्चकम् । इमानि च सप्तदशाक्षराणि सर्वेष्वपि यजति चोदनाचोदितेषु पठनीयानि । यज. तिचोदनाचोदितत्वं च यजधातुघटितपदघटक प्रत्यय विहितत्वम् । श्रश्रावयेत्यादीनामर्थो विश्वतो वेदार्थप्रकाशे सायणाचार्यः- श्राश्रावयेति । हे आग्नीध्र यक्ष्यमाणदेवतां प्रति 'तुभ्यमिदं दीयत' इत्याभिमुख्येन श्रावयेत्यर्थः । अस्तु श्रौषडिति । एवमध्वर्युणोक्ते साग्नीध्र: 'अस्तु' इत्यङ्गीकृत्य "श्रौषट्" इति शब्देन श्रावयति । हे देवाः युष्मद्विषयमिदं हविर्दानं शृणुतेत्यर्थः । यजेति। हे होतः यज याज्यां पठेत्यर्थः । ये यजामह इति । ये वयं होतारोऽध्वर्युणा यजेति प्रेषिताः ते वयं यजामहे याज्यां पठाम इत्यर्थः । वषट्कारशब्देन 'वौषडि'त्येवंरूपो मन्त्रो, विवक्षितः । हविर्दीयत इति तस्य शब्दस्यार्थ इति । अतश्चानारभ्याधीतवाक्ये यागसामान्योद्देशेन येयजामहो विधीयते । 'नानूयाजेन्वि'ति वाक्येन अनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यतया बोध्यते । एवञ्चानारम्यवाक्यमानूयाजवाक्ययोरेकवाक्यतामङ्गीकृत्य अनुयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्य इति विधिरित्यर्थः । । नन्वत्र कथं विकल्पप्रसक्तिः ? येन प्रतिषेध आश्रीयते, तदुपपादयति-तथा होति । ये यजामहं न कुर्यादिति । 'ये यजामहे' इति पदद्वयं नोच्चारयेदित्यर्थः । एवञ्चानूयाजेषु 'देवं बर्हिर्वसुवने वसुधेयस्य वेतू ३ वौषट्' इत्येव ब्रूयादिति फलितम् । प्राप्तिसापेक्षत्वादिति । प्रतिषेधो हि यत्किञ्चित्प्रतियोगिका भावबोधनम् । तच्चाभाव. ज्ञानमन्तरा न सम्भवति, सर्वत्रामावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् । तच्च प्रतियोगिज्ञानं यदधिकरणे निषेधः तदधिकरणेऽपेक्ष्यते । अन्यथा यत्र कुत्रापि प्रसिद्धस्यात्र निषेधे निषेधानां प्रसक्तपुरुषनिवृत्ति प्रयोजनकत्वाभावेन वैयर्थ्यात्तेः । न च हृदे वह्निः प्रसिध्यभावेऽपि अन्यत्र प्रसिद्धिमादायैव हदे वह्निर्नास्तीति प्रयोगवत् अन्यत्र यागेषु प्रसिद्धयेय नामइमादायैव तदभावोऽत्र बोध्यतामिति वाच्यम् । सर्वत्र निखिलकारक वि शिष्टाख्यातार्थ एव प्रतियोगितासम्बन्धेन नञर्थान्वयस्यौत्सर्गिकत्वेन तदभावस्यैव तत्र प्रतीतेः अनूयाजाधिकरण कयेयजामहानुकूलकृतेरेव तत्र प्रतियोगितया तत्प्रसिद्धि विना तदभाव विषयकशाब्दबोधस्यैवाजननात् तत्सिध्यर्थं अनुयाजेषु येयजामह प्रसिद्धेरावश्यकत्वात् । हृदे वह्निर्नास्तीत्यत्र तु बाधात् अगत्या वन्ह्यादेरेव प्रतियोगित्वमङ्गीकृत्य तत्प्रतियोगिका भावस्यैवानुयोगिनि हृदादौ बोधनम् । अतश्च प्रतिषेधस्थलेऽनुयोगिवृत्ति प्राप्तिरवश्यमङ्गीकार्यैवेति भावः । STU निरूपणम् ] सारविबेचिनोव्याख्यासंवलितः १६७ 6 अत एव "नान्तरिक्षे न दिवी" त्यस्य न प्रतिषेधत्वम्, अन्तरिक्षे चयनाप्राप्तेः । अत एव "ब्राह्मणो न हन्तव्य" इत्यस्य नित्यवद्धनन निवर्तकत्वमुपपद्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते; कदाचिच्च (१) रागाद्यभावे न प्रवर्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात् तदा (२) रागादि तिरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् । प्राप्तिसापेक्षत्वे तु स्वयमप्रवृत्तं प्रति प्रसत्याभावेन निषेधशास्त्राप्रवृत्तेः रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः । एवञ्च यत्र तादृशी प्राप्तिर्नास्ति तत्र श्रुतस्यापि न नञः प्रतिषेधकत्वमित्याहश्रत पवेति । प्रतिषेधस्य प्राप्तिसापेक्षत्वा देवेत्यर्थः । नान्तरिक्ष इति । अन्तरिक्ष ऽग्निचयनं न कुर्यात्, धुलोके चाग्निचयनं न कुर्यादिति तदर्थः । चयनं नामाहवनीयस्याग्नेः स्थापनार्थमिष्टकाभिः स्थण्डिल विशेषसम्पादनम् । अत्र च 'नान्तरिक्षे' इत्यादि न चयन निषेधार्थम् । किन्तु 'हिरण्यं निधाय चेतव्य' मित्यस्य विधेश्शेषभुतम् । यथान्तरिते दिवि वा चयनं न प्रसिद्धं, एवं हिरण्यरहितायां केवलायामपि पृथिव्याम् । ती हिरण्यं भूमौ निघाय तदुपर्येव चयनं कर्तव्यमित्यौचित्येन हिरण्यनिधानस्तुतिः । कुतो न चयननिषेधः १ अत श्राह-चयनाप्राप्तेरिति । तस्य भूमावेव कर्तुं शक्यतया अन्तरिक्षयुलोकयोः कर्तुमशक्यत्वेन तत्र प्राप्तेरेवाभावादित्यर्थः । अत एव निषेधस्य प्राप्तविषये प्रवृत्तिस्वाभाव्यादेव । नित्यवदिति । नित्यतयेत्यर्थः । तदेवोपपादयतिसर्वो हीति । इननादावित्यादिपदेन निषिद्धकर्माणि गृह्यन्ते । तिरोधाय प्रतिरुध्य । शास्त्रे तिनिषेधवाक्याभिप्रायम् । नेति । प्रवृत्त्यभावस्थलमादाय चरितार्थस्य शास्त्रस्य रागप्राप्त प्रवृत्तिबाधे प्रमाणभावात् । अतश्च नित्यवद्धनननिवर्तकत्वं नोपपद्येतेति भावः । भवत्पक्षे वा कथं नित्यतया हनननिवृत्तिः ? अत आह-प्राप्तीति । स्वयमिति । शास्त्रं विनेत्यर्थः । श्रप्रवृत्तं ( पुरुषं ) प्रति निषेधशास्त्राप्रवृत्तरित्यन्वयः । तत्र हेतुः प्रसक्त्यभावेनेति । ननु अस्तु रागादिना प्रवृत्तपुरुषविषय एव निषेधशास्त्राणां प्रवृत्तिः, तथापिं कथं तस्य नित्यतया हननादिनिवर्तकत्वम् । तादृशस्थले रागादिकमुप जीव्यैव खलु निषेधशास्त्रं प्रवर्तत इति वक्तव्यम् । ततश्च स्वतो दुर्बलस्याप्युपजी व्यत्वेन प्राबल्यमश्नुवतो रागादेः निषेधशास्त्रतो निवृत्तिरात्यन्तिकी न सम्भवस्येवेति विकल्प एव युक्त इत्यत आह - भ्रान्तोति । हननादिविषयक बलव द निष्ठाननुबन्धिखविशिष्टेष्टसाधनस्वभ्रमादित्यर्थः। प्रवृत्तौ हि तद्विषयीभूते व्यापारे बलवदनिधननुबन्धित्व विशिष्टेष्टसाधनताज्ञानं कारणम् । तच्च निषेधशास्त्रानालोचनदशायां कलजभक्षणादौ भ्रमादुदेति । तदानीं च शास्त्रप्रवृत्तौ तेन पूर्वोत्पन्नज्ञाने भ्रमत्वमापायते । अतश्चोपजीव्यस्थापि भ्रमात्मकस्योत्तरोत्पन्नेन प्रमाणज्ञानेन युक्त प्रात्यन्तिको बाघ इति भावः । यद्यपि इष्टसाधनत्वांशे न भ्रान्तिः, तात्कालिक तृतिरूपेष्टसाधनस्वस्य कलञ्जभक्षणादी सत्वात्, १. रागाद्यभावेन निवर्त्तते । 1917 २. 'रागाविरोधाय' इति तु पाठो न साधीयान् । Orienta stit ARSE १६५ मोमसान्यायप्रकाशः [ पर्युदासअतश्च 'ब्राह्मणों न हन्तव्य' इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम्, 'व्रीहीनवहन्या' दित्यस्येवावघात नियमबोधकत्वम् । यथा खलु 'व्रोहीनवहन्या' दिति शास्त्रं वैतुष्यार्थमवघाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्त्तते, वैयर्थ्यात्, किन्तु दलनादौ प्रवृत्तं प्रति, एवं 'न हन्या' दिति शास्त्रं हननात् स्वयं निवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थ्यात् ; किंतु हनने प्रवृत्तं पुरु प्रति कर्तव्यत्वेन प्रसक्तस्य प्रतिषेधात्-यत् कर्तव्यं तम्नेति । तथापि विशेषणांशे बलवदनिष्टाननुबन्धित्वे भ्रमसत्वात् निषेधेन तन्निवारणात् विशिष्टामा. वसम्पादकतया तस्य प्रवृत्तिविघटकत्वं बोध्यम् । ततः निषेध्यहननादितः । निवृत्तिनियमबोधकत्वमिति । निवृत्तेर्यो नियमः श्रप्राप्तांशपूरणं तद्बोधकत्वमि त्यर्थः । श्रयमाशयः - यथा विधेः श्रपूर्वविधित्व नियम विधित्व परिसंख्या विधिश्वरूपं त्रैविध्यमस्ति, एवं निषेधेष्वपि अपूर्वनिषेधः, नियम निषेधः, परिसंख्या निषेधश्चेति त्रैवि च्यमस्ति, तत्र अवहनननियमविधिः स्वत एवावहनने प्रवृत्तपुरुषविषये न प्रर्वतते । किन्तु वहननमुज्झित्वा य उपायान्तरेण वैतुष्यं सम्पादयितुमारभते तदानीमवहननस्य योऽप्राप्तऽशः तत्पूरक एव यथा भवति तथैव नियमनिषेधोऽपि स्वत एव निवृत्त पुरुषविषये न प्रवर्तते, तत्र प्रयोजनाभावात् । न च निषेधश्रवणं विना पुरुषस्य स्वतो. निवृत्तिर्नारस्येवेति वाच्यम् । हिंसादिनेव तद्वर्जनेनापि पुरुषस्य कदाचिदीप्सितसम्भवात् । किन्तु यो रागादिना निषेध्यकर्मसु हननादिषु प्रवर्तते तदानीं निवृत्तेर्योऽप्राप्तऽशः सोऽनेन पूर्यत इति । अतश्च नियमविधिस्थलेऽप्राप्तांशपूरकत्वात् प्रवृत्तिनियमवत् नियमनिषेघस्थ लेऽप्यप्राप्तांशपूरकत्वात् निवृत्तिनियम इत्युच्यत इति । एवञ्च रागप्राप्तविषय कनिषेधस्वावच्छिन्नस्य नियमनिषेधत्वमित्युक्तं भवति । अपूर्वनिषेधाः "नातिरात्रे षोडशिनं गृह्णाति" "दीक्षितो न ददाति" "न तो पशौ करोति" इत्यादयो बोध्याः । । वस्तुतस्तु-परिसरुयासूत्रे "सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा न श्रुत्या परिसंख्या नियमो वा बोध्यत" इति वार्तिकस्वारस्यात् सर्वे निषेधाः परिसंख्या पदेनैवाभिधीयन्ते । न तु विधाविव तत्राप्यपूर्वविधित्वादिकृतो मेदस्समस्तीत्यवगम्यते । अत एव विधिरसायने (१)द्विचत्वारिंशच्छूलोकव्याख्यानावसरे-"अर्थाद्वा स्वविषयप्रच्युतात् लाक्षणिकशब्दाद्वा एवकाराद्वा नञपदाद्वा लभ्यो यस्य कस्यापि भावस्याभावस्य वा यो बाधः स सर्वोऽपि परिसंख्येति मर्यादां कुर्महे' इत्यभिधाय तत्रैवावसाने "तस्मादार्थो लक्ष्य एवकारप्रतिपाद्यो नञर्थभूतश्च सर्वोऽपि निषेधः परिसंख्येति युक्तम् । उक्तञ्च न्यायसुधायांपरिसंख्यावर्जनबुद्धिः, तदर्थो नञादिः परिसंख्याशब्दः तद्योगात् 'ब्राह्मणो न हन्तव्यः' 'नेक्षेतोद्यन्तमादित्य' मित्यादीनामेव श्रुत्या परिसंख्यात्वमिति" इत्युपसंहरन्ती दीक्षितोक्तिरपि साधु सङ्गच्छते । इममेव चाशयं "तेन प्रवर्तकयोkar Oriental १. यद्यपि विधिरसायनस्थइलोकपरिगणनायां श्लोकोऽयं त्रिचत्वारिंशत्तमः, तथापि ग्रन्थकृता द्वितीयश्लोकमारभ्यैव श्लोकानां संख्यातत्वात् तदनुरोधेनेदम् । निरूपणम् ] सार विवेचिनीव्याख्यासंवलितः १६० श्रतश्च प्राप्तिसापेक्षत्वात् प्रतिषेधानामनूयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या । साच नतावर्द्धननादाविव रागतः सम्भवति । मतो 'यजतिषु येयजामहं करोती' ति शास्त्रात् सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे विकल्पः स्यात्, शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । न च पदशास्त्रेणाहवनीयशास्त्रस्येव 'नानूयाजेष्वि'ति विशेषशास्त्रेण 'यजतिषु येयजामहं करोती' ति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि तत्र बाध्यबाधकभावो यत्र परस्परनिरपेक्षता। न हि पदशास्त्रस्य विंध्योरेवा पूर्वविधित्व नियमविधित्वे सम्मते इति न निषेधस्यापूर्वविध्यादिवत् भेदत्रयम्" इति ग्रन्थेनोपोद्वलयन्ति प्रकाशकारा श्रपीति ध्येयम् । एवं प्रतिषेधस्य प्राप्तिसापेक्षत्वे साघिते प्रकृतेऽप्यनूयाजाधिकरण कयेय जामहस्य नि षेधार्थ तत्र तत्प्राप्तिरवश्यं वक्तव्येत्याह-प्रतश्चेति । अस्तु प्राप्तिसापेक्षत्वम्, तथापि चेति । रागादेव सा भवतु, तथा च हननादाविव नित्य वन्निषेधस्सिभ्यतीत्याशङ्कयाह-सा रागत इति । क्रियायां दुःखात्मिकायां विना वचनं प्रेक्षावतां प्रवृस्यनुदयादिति भावः । अत्यन्तबाधायोगादिति। रागप्राप्तस्थले हि रागस्य भ्रान्तिनिमित्तकस्य सम्भवात्तत्प्रापितस्य पदार्थस्य भ्रान्त्याद्यनिमित्तकशास्त्रप्रापितेन तेन युक्तो बाघः । शास्त्रीय प्राप्तिस्थले तु उभयोरपि शास्त्रीयत्वाविशेषात् भ्रमप्रमादाद्यसम्भवस्य चाप्युभयत्र तुल्यत्वात् तादृशेनैकेन तादृशस्यैवापरस्यात्यन्तिको बाधो न भवितुमर्हतीति पाक्षिक एव बाघोऽङ्गीकर्तव्यस्स्यात्, तथा च विकस इति । ननु - शास्त्रप्रातस्यापि शास्त्रान्तरेणात्यन्तिको बाबो दृष्टः पदाहवनीयाद, तद्वदेवात्रापि कुतो न स्यात् इत्याशङ्कामनूय परिहरति-न चेति । पदशास्त्रेणेति । ज्योतिष्टोमप्रकरणे यागार्थसोमलतायाः क्रयणमाम्नातम्- "अरुणया पिङ्गाक्ष्यै कहायन्या (गवा ) सोमं क्रीणाती" ति । तत्र यजमानगोष्ठस्था गौः क्रयस्थानं प्रत्यानीयते । आनीयमाना च सा यत्र सप्तमं पदं निक्षिपति तत्र होमः कर्तव्यतया विहितः- "सप्तमे पदे जुहोति" इति। एवं अश्वमेधे यागीयाश्वस्य पदप्रक्षेपस्थाने होमो विहितः"मश्वस्य पदे पदे जुहोति" इति, एतादृशानि होमविशेषोद्देशेन पदरूपाधिकरण वि घायकानि वाक्यानि पदशास्त्राणि । "यदाहवनीये जुहोती" ति होमवावच्छिन्नो द्देशेनाइवनीय संज्ञकाग्निविधायकं शास्त्रमाहवनीयशास्त्रम् । तत्र विजातीयहोमत्वं पदशास्त्रस्योद्देश्यतावच्छेदकम् । आहवनीयशास्त्रं तु होमस्वावच्छिन्नोद्देश्यकम् । एवञ्च सामान्य विषयकस्याहवनीयशास्त्रस्य विशेषविषयकेण पदशास्त्रेणात्यन्तिको बाधो यथा. जीक्रियते एवमनूया जगतयेयजामहमात्रविषयकेण 'नानूयाजेग्वि'ति शास्त्रेण यागसा• मान्यगतयेयजामहविषय कस्य 'यजतिषु येयजामहं करोती'ति शास्त्रस्य बाधो भवत्वित्याशङ्कार्थः । समाधत्ते - शास्त्रयोरिति । न च सामान्ये श्राधारान्वयायोगात् तद्वारा व्यक्तिविशेषेष्वेव प्रवर्तमानस्य सामान्यशास्त्रस्या विशेषांत् पदहोमव्यक्तावपि प्रवृत्तः २२ मो० न्या० Bhandarkar Oriental मोमांसान्यायप्रकाशः [ पर्युदासस्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यथ 'यजतिषु येयजामहं करोती' ति विधेरस्त्यपेक्षा । एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधिशास्त्रस्याप्युप जीव्यत्वेन प्राबल्य मस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वाद्विकल्पः स्यात् । स ब न युक्तः । विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति । न ह्यनूयाजेषु येयजामहकरणे 'नानूयाजेष्वि' त्यस्य प्रामाण्यं सम्भवति, व्रीह्यनुष्ठानसमय इव यवशास्त्रस्य । द्विरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यदनूयाजेषु येयजामहकरणे कश्चनोपकारी भवतीति । निषेधाच्च तदकरणादिति ज्ञायते, अनृत. १७० प्रवृत्तस्य चात्यन्तबाघायोगात् विकल्पो दुर्वार इति वाच्यम् । सामान्य शास्त्रस्यजुहोतेः होमत्वसामान्यवाचित्वात् तेन च व्यक्तिलक्षणया तदवच्छिन्न व्यक्तिमात्रे श्राहवनीयं विदधता शक्यसम्बन्धमालोच्य तेन च निर्ज्ञातसम्बन्धस कलव्यक्तिलक्षणापूर्वक पदहोमव्यक्तिर्यावता लक्ष्यते ततः पूर्वमेव प्राकरणिकेन पदवाक्येन विजातीयपदहोमव्यक्ति लक्षयित्वा झटिति तत्र पदविधानात् तेनैव च पदहोमस्य नैराकांक्ष्येण पदहोमे ग्राहकनीयशास्त्र प्रवृत्तेरेवाभावात् । अतबाहवनीयशास्त्रं वस्तुतः पदहोमातिरिक्तविषयमेव । एतद्वाक्यादर्शनजनिता भ्रान्तिः परमनेन वाक्येनापोद्यते इति वेदितव्यम् । प्रकृते तु न तथा भवितुमर्हतीत्याह - निषेधशास्त्रस्येति । नानूयांजेध्विति शास्त्रस्यैत्यर्थः । नच अत्रापि निषेधसिद्धयर्थं प्राप्त्या प्रमारूपयैव भाव्यमिति न नियमः । निषेधशास्त्रानालोचने सामान्यशास्त्रजनितभ्रमात्मकप्र तिमादायापि तत्सम्भवादिति-वाच्यम् । सामान्यशास्त्रस्य प्रथममालोचने तत्सम्भवेऽपि विशेषशास्त्रस्य प्रथमालोचने प्रथममेव विशेषदर्शनसत्वात् सामान्यशास्त्रेण भ्रमानुपपत्तेः । अतोऽवश्यं निषेधसिध्यर्थं प्रमारूपाया एव प्राप्तेरावश्यकत्वेन तत्प्रापितपदार्थस्य निषेधे विकल्प एव पर्यवस्येदिति । ननु एवमपि कथं विकल्पः ? तुल्यबलयोरेव खलु विकल्प दृष्टः, नात्र तदस्ति । निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यात्, मत ग्राह- एवञ्चेति । "दुर्बलोऽपि विधिस्तदधीनात्मला भेन प्रतिषेधेन तुल्यबलो भवति" इति न्यायेनोभयोस्तुल्यबलत्वमिति भावः । अस्तु विकल्पः को दोषः ? अत आह - विकल्प इति । शास्त्रस्येति । यदा यत्किञ्चित् शास्त्रमुपादातुमारभते तदानीं तत्समान विषयक शास्त्रान्तरस्य परित्यागः कर्त्तव्यो भवति । स चोपादेयशास्त्रापेक्षया परित्याज्यशास्त्रेऽप्रामाण्य बुद्धिमन्तरा न सम्भवति । उभयत्रापि प्रामाण्यमीहमानो हि तयोर्बलाबलमनवधारयन्न कुत्रापि प्रवर्तेतेति भावः । ब्रोहीति । व्रीहिभिः पुरोडाशद्वारा यागानुष्ठानसमय इत्यर्थः । एतच्च निरूपितं विकल्पस्य।ष्टदोषदुष्टत्वनिरूपणावसरे । FOUNDED 1917 ननु शास्त्रस्य पाक्षिको बाघो नात्यन्तदोषावहः, पक्षे प्रामाण्य सम्भवादित्यत श्राइद्विरिति । तामेवोपपादयति - विधेरिति । पञ्चमीविभक्तिरियम् । उपकारो [भवतीति । अनारभ्याघीतस्यापि येयजामहस्य यागसामान्योद्देशेन विहितत्वात् विहितस्य निरूपणम् ] सारविवेचिनी व्याख्या संवलितः १७१ वदनाकर (१) णादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्टकल्पनाप्रसङ्गः । श्रुतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदापतेर्न तदाश्रयणम् । किन्तु नञः अनूयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते, नञनूयाजशब्दाभ्यामनूयाजव्यतिरिक्तलक्षणात्-श्रनूयाजव्यतिरिक्तेषु येयजामहं करोतोति । श्रत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते, 'यजतिषु .येयजामहं करोती'त्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेयजामहानुवादेन तस्यानूयाजव्यतिरिक्तविषयता विधीयते यत् यजतिषु येयजामहं करोति तद्नूय/जव्यतिरिक्तेष्विति । एषञ्च सामान्यशास्त्रस्य विशेषशास्खा (२) पेक्षिणः 'नानूयाजे' ध्वित्यनेनानूयाजव्यतिरिक्तविषय समर्पणादनूयाजचोपकारजनकत्वनियमादिति भावः । तदकरणादित्यनन्तरं कश्चनोपकारी भवतीति शेषः । तत्र दृष्टान्तमाह - मनृतेति । यथा दर्शपूर्णमासप्रकरणगतेन 'नानृतं वदेत्' इति वाक्येन दर्शपूर्णमासापूर्वी देशेनानृतवदन वर्जन विधानात् तादृशवर्जनेन दर्शपूर्णमासयोरुपकारस्सम्पाद्यत इत्यवगम्यते, एवमनूयाजोद्देशेन येयजामहाकरण विधानात् तेन तत्रोपकारस्सम्पाद्यत इत्यवगम्यत इत्यर्थः । एवञ्च ऋतुवैगुण्यपरिहारद्वारा क्रत्व पूर्व जनकत्वं ऋत्वर्थनिषेधानामित्युक्तं भवति । उक्तं हि वार्तिक कृता- "प्रकरणसामर्थ्याद्धि पुरुषगतमपूर्वसाधनत्वं लक्षयित्वा अनृतं प्रतिषिद्धम् । अतस्तदतिक्रमे दर्श पूर्णमासापूर्वमेव वैगुण्यान्न स्यात्" इति । अदृष्टकल्पनाप्रसङ्ग इति । अनुयाजकरणात् तदकरणाद्वा दृष्टस्य फलस्य कस्याप्यसम्भवात् उभयत्राप्यदृष्टस्यैव कल्पनावश्यंभावेनादृष्टद्वय कल्पना प्रसङ्ग इत्यर्थः । अतश्चेति । शास्त्रस्य पक्षेऽप्रामाण्यापच्या श्रदृष्टद्वय कल्पनापच्यां चेत्यर्थः । तदापत्तेः विकल्पापत्तेः । तदाश्रयणं प्रतिषेधाश्रयणम् । CO तर्हि किमत्राश्रीयते ? त आह - किन्विति । नञोऽनूयाजसम्बन्धे कथं पर्यु दासः ? अत श्रह – नञिति । पर्युदास प्रकारमेवाह-मनूयाजेति । ननु अत्रापि येय. जामहकर्तव्यताया एव बोधनात् को विशेषस्सा मान्यवाक्यादित्यत आह - अत्रेति । नञघटितवाक्य इत्यर्थः । कतर्व्यताबोधक विधिप्रत्ययश्रवणात् कुतो न कर्तव्यताबोधनम् १ श्रत - यजतिष्विति । सत्यपि विधिप्रत्ययश्रवणे विहितस्य पुनर्विधानायोगात् सोऽन्यपरतया नेय इति भावः । तर्हि किमनेन क्रियते ? तदाह - किन्विति । व्यति रिक्तविषयतेति । एवञ्चास्य वाक्यस्य येयजामहप्रवृत्तौ विषयसमर्पणमात्रं व्यापार इति भावः । तदेव स्पष्टयति – यदिति । कथमेतावता विकल्पपरिहारः ? तं निरूपयतिएवञ्चेति । विशेषशास्त्रापेक्षिण इति । सामान्यविशेषशास्त्रयोरेकवाक्यतया विशेषशास्त्रगृहीत विषय व्यतिरिक्तविषय एव सामान्यशास्त्रप्रवृत्तेः तदर्थं तस्य विशेषशास्त्रसापेक्षत्वादित्यर्थः । नानूयाजेष्विति । विशेषशास्त्रेणेतिशेषः । विशेषापेक्षिण इति क्वचि त् पाठः । स यदा स्वीक्रियते तदाऽयमर्थः-सामान्यस्य विशेषेऽपर्यवसन्नस्य प्रवृश्यजनक१. दिवत् । - २. विशेषापेक्षिणः Bhandarkar Oriental Research Institute १७२ मोमांसान्यायप्रकाशः [ पर्युदासव्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनूयाजेषु तु स न कर्तव्यतया प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । लक्षणया चानूयाजव्यतिरिक्तविषयसमर्पणा' नानूयाजेष्वि'ति वाक्यस्य नाप्रामाण्यम् । श्रुतश्च पर्युदासाश्रयणे न किंश्चिद्वाधकम् । तत्सिद्धं नानूयाजेध्विति वाक्ये विकल्पभयात् पर्युदासाश्रयणमिति । ननु-पर्युदासाश्रयणे 'यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य "नानूयाजेष्वि" त्यनेनानूयाजव्यतिरिक्ते सङ्को: चकल्पनात् पर्युदासस्योपसंहारादभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्तस्य विशेषे सङ्कोचो भवति । यथा "पुरोडाशं चतुर्धा करोती"ति पुरोडाशसामान्ये प्राप्तं चतुर्धाकरणं "आग्नेयं चतुर्धा करोती"त्याग्नेये सङ्कोच्यत इति चेत् ( पर्युदासोपसंहारयोर्भेद निरूपणम् ) न, तम्मात्रसङ्कोचार्थत्वादुपसंहारस्य, तदन्यमात्रसङ्कोचार्थत्वात् पर्युदासस्येति- केचित् । 46150 त्वात् प्रवृत्तिसम्पादनार्थं सामान्यशास्त्रमेव विशेषमपेक्षते । तं च विशेषम नूयाजव्यतिरितयागरूपं नानूयाजेष्विति समर्पयति । तावतैव च शास्त्रद्वयमपि चरितार्थम् । अनूयाजेषु च प्रापकनिषेधकयोरुभयोरप्यभावात् विकल्पप्रसक्तिरेव नास्तीत्यर्थः । एवञ्चानूया. जव्यतिरिक्तेषु विधिप्राप्तत्वात् येयजामहस्य नित्यं करणम्, अनूयाजेषु तु प्रापकप्रमाणाभावादेव नित्यमकरणमिति सिद्धम् । 'नचैवमपि पर्युदसनीयप्राप्तिसापेक्षत्वेन विकल्पो दुर्वार इति वाच्यम् । तत्र प्राप्तेस्तार्किकी भ्रान्तिमाद(याप्युपपत्तौ शास्त्रीयप्राप्त्यनपेक्षणात् । प्रतिषेधपक्षे तु शाब्दबोघसिध्यर्थं तात्विकी प्राप्तिरवश्यं वक्तव्येति बैषम्यम् । ननु सामान्यवाक्येनैव येयजामहविध्युपपत्ते: नास्य किश्चित् प्रयोजनमित्यप्रामाण्यापत्तिरित्यत आह - लक्षणयेति । एतदभावे हि अविशेषात् सर्वेष्वपि यागेषु येयजामहः प्रवतेंत, "सति स्वस्मिन् अनूयाजव्यतिरिक्तरूपविषयसमर्पणात् अनूयाजेषु न प्रवृत्तिः । अतोऽनूयाजव्यावृत्तिरेव फलमिति नास्याप्रयोजनवत्वमिति भावः । उक्तमर्थ निगमयति-तत्सिद्ध. मिति । यद्यपि पर्युदासाश्रयणेऽपि लक्षणारूपो दोषो जागर्ति तथाप्यष्टदोष दुष्टविकल्पापेक्षया सोऽत्यन्तं लघुभूत एवेत्याशयः । ननु सामान्यविधिना अनूयाजाननूयाजसाधारण्येन प्राप्तस्य येयजामहस्य पर्युदासेनानूयाजव्यतिरिक्तार्थत्वबोधने सामान्ये प्राप्तस्य विशेषे सङ्कोचनरूपोपसंहाररूपत्वं पर्युदासस्यापद्येतेति शङ्कते- नन्विति । पुरोडाशमिति । स्विष्ठकृद्यागानन्तर मिडा. भक्षणे कृते योऽवशिष्टः पुरोडाशः तं चतुर्था विभजेदित्यर्थः । कर्मकरेभ्य ऋत्विग्भ्यचतुर्भ्यो दातुमयं विभागः । पुरोडाशसामान्य इति । दर्शपूर्णमासप्रकरणे हि आशेयः, अग्नीषोमीयः, सोमयाजिनस्सान्नाय्याभावादैन्द्राग्नः, इति पुरोडाशत्रयम् । तत्र त्रिष्वपि पुरोडाशेषु चतुर्धाकरणं प्राप्तमित्यर्थः । FOUNDED तस्विभावधीतमा 05 Bhandarkar Oriental Research Institute ( पर्युदासोपसंहारयोर्भेदनिरूपणम् ) । एवमाशते पर्युदासोपसंहारयोर्भेदं न्यायसुधाकृन्मतेन विवृणोति-तन्मात्रेति । निरूपणम् ] सारविवेचिनीव्याख्या संचलितः १७३ श्रन्ये तु-उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो व्यापारविशेषो विधेः । पर्युदासस्तु पर्युदासः स विज्ञयो यत्रोत्तरपदेन नञ् । इत्यभियुक्तोक्त्या प्रत्ययातिरिक्तेन धातुना नाम्ना वा नञः सम्बन्धः । अतश्चानयोस्तावत् स्वरूपतः स्पष्ट एव भेदः । एवं सत्यप्यभेद भाशाङ्कघेत, यदि यत्र पर्युदासस्तत्रावश्यमुपसंहारः स्यात् । न चैतदस्ति । 'नेक्षेतोद्यन्त'मित्यादौ सत्यपि तस्मिन्नुपसंहारा भावात् । नहिं तत्राग्नेयचतुर्द्धाकरणमिव सामान्ये प्राप्तं किञ्चिद्विशेषे सङ्को. च्यते । पापक्षयोद्देशेनानीक्षण संकल्पमात्र विधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्यानूयाजव्यतिरिक्तेषु संकोचनात् यदि विधेरुपसंहारविधित्वं संभवति, नैतावता किश्चिद्विरुध्यते । विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति विरोधः । न चात्र विधिर्नास्ति, नञोऽनूयाजपदसम्बन्धेन विधेर्विधायकत्वस्याव्याघातात् । मन्त्र हि पर्युदासोऽनूयाजव्यतिरिक्तविषयसमर्पकः माग्नेयपदवत् । उपसंहारकस्तु विधिरेव । न च अत्र तन्मात्रसङ्कोचाभावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच इति को ऽर्थः ? आग्नेयमात्रे सङ्कोचो वा ? सामान्य प्राप्तस्य विशेषमात्रे सङ्कोचो स्वस्मिन् स्वेतरस्मिंश्च प्राप्तं विषयं स्वेतरस्मात् व्यावर्त्य स्वमात्रेऽवस्थापनमुपसंहारः । तथैव प्राप्तं विषयं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनं पर्युदास इत्यर्थः । एवञ्च प्रकृते 'नानूयाजेष्वि'त्यनेन येयजामहं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनात् पर्युदास एव नोपसंहार इति भावः । केचिदिति । न्यायसुधाकृत इत्यर्थः । अत्रैव पार्थसारथिमिश्रमतमाह - अन्ये त्विति । प्रत्ययातिरिकेनेति । विधायकप्रत्ययो यो लिङादिस्तद्भिन्नेनेत्यर्थः । स च क्वचित् धातुः, यथा 'नेक्षेते' त्यादौ । क्वचित् नामापि, यथा प्रकृते, तेन यः सम्बन्धः अन्वयः प्रतियोगितासम्बन्धावच्छिन्न. स्स इत्यर्थः । एवञ्च विधिव्यापार उपसंहारः, घात्वादिसम्बद्धनञ्व्यापारः पर्युदास इति तयोः स्पष्ट एव भेदः इत्याह-प्रतश्चेति । ननु सत्यपि बोधकमेदे फले विशेषाभावात् किमर्थं तयोर्भेद श्राश्रीयते इत्यत - एवमिति । यदि उपसंहारः पर्युदाससमनियतः स्यात् तदानीं तयोरपृथक्भावेनामेद श्राशक क्येतापीत्यर्थः । तस्मिन् पर्युदासे । सङ्कल्पमात्रेति । मात्रपदेनोपसंहारव्यावृत्तिः । यथेवं तर्हि प्रकृते कथमुभयोस्सामानाधिकरण्यम् ? अत आह-प्रकृतेति । विरुध्यत इति । विधिकार्यस्योपसंहारस्य तेनैव करणात् नामसमभिव्याहृतन कार्यस्य च पर्युदासेन करणात् न फलैक्यादिरूपो विरोध इति भावः । विरोधाभावमेवोपपादयतिविध्यभाव इति । श्राग्नेय पद्वदिति । यथा चाग्नेयपदं स्वार्थरूपं विशेषं समर्पयति, एवं 'नानूयाजेष्वि'तिपदं स्वातिरिक्तरूपं विशेषं समर्पयतीत्यर्थः । तन्मात्रसङ्कोचनमेवोपसंहारं मन्वानश्शङ्कते- न चेति । अत्र नानूयाजेवित्यत्र । तमिमं पक्षं विकल्प्य दूषयति - तन्मात्रेति । तन्मात्रेत्यत्र तच्छब्दः प्रकृतोदाहरणस्थाजस्थितमस्तु ॥ [पर्युदास१७४ वा १ माद्ये अनारम्याधीतसाप्तदश्यस्य भित्रविन्दादिप्रकरणस्थेन' वाक्येनोपसंहारो न स्यात्, आग्नेये सङ्कोचाभावात् । द्वितोये चतुर्धाकरणस्य पुरोडाशमात्रे प्राप्तस्याग्नेये सङ्कोचवदनूयाजाननूयाजसाधारण्येन प्राप्तस्याननूयाजेषु सङ्कोचादुपसंहारः स्यादेव । एतावांस्तु विशेषः-श्राग्नेयादिवाक्येषु श्राग्नेयायो विशेषाः स्वपदोपस्थापिताः प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्ववि शिष्ट एव । यच्च तदन्यमात्रसङ्कोच नार्थत्वात्पर्युदासस्येति । तन्न, 'नेक्षेते' त्यत्र सत्यपि पर्युदासे सङ्कोचाभावात् । नात्र सामान्ये प्राप्तं तदन्यमात्रे सङ्को च्यते, संकल्पमात्रविधानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं 'नानूयाजेष्वि'. त्यत्र विकल्प प्रसक्त्या पयुंदासाश्रयणमिति । यत्र तु स माश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्रीयते, यथा-' नातिरात्रे षोडशिनं गृह्णाती" त्यत्र । (१) नत्र हि "अतिरात्रे षोडशिनं ग्नेयमात्रपरामर्शकः ? उत सर्वोदाहरणगतान् सर्वानपि विशेषान् परामृशति ? इति संशयपदार्थः । श्राद्य इति । तन्मात्र इति तच्छब्देनाग्नेय व्यक्तिमात्रमादाय तत्र लक्षण समन्वय. करणपक्ष इत्यर्थः। साप्तदश्यस्येतिदर्शपूर्णमासीयसामिधेनीगतसंख्या विशेषस्य पूर्वविचा रितस्य परामर्शः । मित्रविन्दापदार्थोऽपि पूर्वमुक्तः । द्वितीय इति । सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपे द्वितीयस्मिन् पक्ष इत्यर्थः । स्यादेवेति । सामान्यप्राप्तस्य विशेषे सङ्को. चनरूपस्योपसंहारलक्षणस्य तत्र सत्वादिति भावः । यद्येव 'आग्नेयं चतुर्धा करोती'ति 'नानूयाजे' ण्वित्यनेन तुल्यमेव, तत्राहएतावानिति । एवं 'नानूयाजेष्वि'त्यत्रोपसंहारास्तितां प्रसाध्य परोक्तं पर्युदासलक्षणं खण्डयति – यच्चेति । प्रकृतमुपसंहरति - तत्सिद्धमिति । मीमांसान्यायप्रकाशः ननु एतावता लक्षणापादकतया निषेधापेक्षया गुरुभूतोऽपि पर्युदासः विकल्पप्रसक्त्यैवाश्रित इत्युक्तं भवति । यत्र तु निषेधाश्रमणे विकल्पः प्रसज्यते, ।पर्युदासस्तु नाश्रयितुं शक्यते, तत्र का गतिरित्याशङ्कायामाह - यत्र विति । सः पर्युदासः । तत्प्रसक्ता वपि विकलाप्रसक्तावपि । नातिरात्र इति ॥ अतिरात्रसंस्था के ज्योतिष्टोमे षोडशिसंज्ञकं ग्रहं गृह्णीयादित्यर्थः । अत्रेयं परिस्थितिः——ज्योतिष्टोमो नाम सोमयागः । तस्य चतखस्संस्थाः – अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । संस्था नाम ऋतुप्रयोगवृत्तिस्तोत्रोपरमः । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानमुद्गातृगणेन क्रियमा णमित्युक्तम् । एवञ्च येन स्तोत्रेण ऋतुप्रयोगस्समाप्यते तेनैव स्तोत्रेण सा संस्था व्यपदिश्यते । ज्योतिष्टोमे चाग्निष्टोमसंस्था केऽग्निष्टोमस्तोत्रमन्त्यम् । तदुपरि न स्तोत्रमस्ति । उक्थ्ये चाग्निष्टोमस्तोत्रानन्तरमुक्थ्यस्तोत्रम् । तदेव च तत्रान्त्यम् । षोडशिनि चोक्थ्यानन्तरं षोडशिस्तोत्रम् । तदेव च तत्रान्त्यम् । अतिरात्रे च षोडशिस्तोत्रानन्तरं त्रयो रात्रि पर्यायाः स्तोत्रविशेषाः, आश्विनस्तोत्रं च । रात्रिमतीत्य समाप्यत इति तस्य dark १. नद्यतिरात्रे । निरूपणम् ] सारविवेचिनीव्याख्या संवलितः गृहाती"ति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहितप्रतिषिद्धत्वाद्विकल्पप्रसक्तावपि पर्यदासो (१) नाश्रीयते, अशक्यत्वात् । यदि ह्यत्र नञः षोडशिपदेन सम्बन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति वाक्यार्थः स्यात्, तत्र चातिरात्रे षोडशिनं गृह्णाती'ति प्रत्यक्षविधिविरोधः । श्रत एवातिरात्रपदेन न नञः सम्बन्धः, मतिरात्रे षोडशिनं गृह्णाती'ति प्रत्यक्ष विधिविरोधात् । श्रतश्चात्र पर्युदासस्यानुपपत्तेनिषेध एव स्वीक्रियते, विकल्पोऽपि स्वीक्रियते । अनन्यगतेः । श्रतश्चैतत्सिद्धम् - यत्र 'तस्य व्रत'मित्याद्युपक्रमः विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलक्षं भक्षयेदिति, यत्र वा विकल्पप्रसक्तावपि पर्युदास श्राश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा नातिरात्रे षोडशिनं गृह्णातीति । पतावांस्तु विशेषः-यत्र विकल्पापादकः प्रतिषेधः, तत्र प्रतिषिध्यमानस्य व्युत्पत्तिः । याश्चान्यास्तिस्रस्संस्थाः अत्यग्निष्टोमवाजपेयातोर्यामरूपाः ता अप्यत्रैवान्तर्भताः । यत्राभिटोमोत्तरं उक्थ्यस्तोत्राण्यकृत्वा षोडशिस्तोत्रं क्रियते साग्निष्टोमसंस्थैवात्यग्निष्टोमपदवाच्या । यथावस्थितषोडश्युत्तरं यत्र वाजपेयाख्यं स्तों क्रियते सा वाजपेयसंस्था । यत्रातिरात्रे चतुर्थो रात्रिपर्यायो वर्धते साऽसोर्यामसंस्था । तत्र चाग्निष्टोम संस्थाया नित्यत्वं काम्यत्वं च संयोगपृथक्त्वन्यायात्। श्रन्यास्तूक्थ्यादयः केवलं काभ्याः । श्रश्रामिष्टोमादिशब्दानां प्रचुरप्रयोगात् तत्तसंस्थास्वेव शक्तिः, तादृशसंस्थावति ज्योतिष्टोमे निरूढलक्षणा, तद्वति क्रत्वन्तरे च साम्प्रतिकी, महणे स्तोत्रे च गौणीति । एवञ्च प्रकृते अतिराप्रशब्देन तत्संस्थाको ज्योतिष्टोमोऽभिधीयते । षोडशिपदेन च षोडशिग्रह इति बोध्यम् । पर्युदासाश्रयणाशक्यतामेव विवृणोति-श्रत्र हीति । नातिरात्र इति वाक्य इत्यर्थः । नम्वत्र षोडशिपदेन नञस्सम्बन्धमङ्गीकृत्य नानूयाजेध्वितिवत् पर्युदासाजीकरणे को दोषः ? श्रत श्राह-यदीति । श्रत इति । उपपादितरीत्येत्यर्थः । अत्र नातिरात्र इति वाक्ये । एवञ्च पूर्वोक्तयोः पर्युदास हेत्वोरभावे, विकल्पप्रसक्तावपि पर्युदासाश्रयणाशक्यत्वे च, निषेध एवेति सिद्धं निगमयति-श्रुतश्चेति । न कलञ्जमिति । कलअं रक्तलशुनम्, तन्न भक्षयेदित्यर्थः । यत्त्वत्र 'विषदिग्धबाणहतमृगमांसं कलञ्जमित्युच्यते' इति कैश्चित् कलञ्जपदं व्याख्यातं प्रमाणीकृतश्च निघण्टुवाक्यमपि, तच्चिन्त्यमेव, आपस्तम्बधर्मसूत्रे "कलञ्जपलाण्डुपारीरकाः" इति सूत्रस्थकलजपदस्य कलञ्ज, रक्तलशुनं, इत्येव हरदत्तेन व्याख्यातस्वात् । वीरमित्रोदये चाहिकप्रकाशे अभक्ष्य निरूपण प्रकरणे पूर्वोकमे• वारस्तम्बसूत्रमुदाहृत्य कलसं रक्तलशुनं इत्येवोक्तस्वात्, विषदिग्धबाण इतमृगमांसस्य विषसंसृष्टत्वेन विषसंपृक्तान्नवत् पुरुषस्य स्वत एव तत्रानिष्टसाधनताज्ञानात् प्रवृत्तेरेवानुदयेन निषेधवैयर्थ्यात् । यद्येवं कलजभक्षण निषेधषोडशिप्रहण निषेधयोस्साग्यं तर्हि प्रतिरात्राधिकरण कषोड. शिघ्रहण स्याप्य नर्थ हे तुतापत्तौ कदाचिदपि तत्र पुरुषप्रवृत्तेरनुदयात् तद्विधिवैयर्थ्यापत्ति. रित्यत ग्राह-एतावानिति । विकल्पापादक इति । यत्र विधिनिषेधयोरे कार्थत्वं Research Institute १. दास श्री । १७६/ मीमांसान्यायप्रकाशः [ प्रतिषेधनानर्थहेतुत्वम्, उभयोरपि विधिप्रतिषेधयोः कत्वर्थस्वात् । यत्र तु न विकल्पः, प्राप्तिश्च रागतः, प्रतिषेधश्च पुरुषार्थः, तत्र निषिध्यमानस्यानर्थ हेतुत्वम्, यथा-कलञ्जभक्षणस्य । 'दीक्षितो न ददाति, न जुहोती'श्यादिषु तु दानहोमादीनां शास्त्रप्राप्ता. वपि पुरुषार्थत्वेन प्राप्तत्वात् ऋश्वर्थत्वेन च प्रतिषेधात् तुल्यार्थत्वाभावेन विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम्, रागतः प्राप्त्यभावात् । रागतः प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्ठानात् ऋतोर्वैगुण्यम्, नानर्थोत्पत्तिः, यथा-वस्त्र्युपगमनादिप्रतिषेधे । रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे तत्रेत्यर्थः । अन्यथा निषेधस्य सामान्यविषयत्वे विधेश्य विशेषविषयत्वे तत्र विकल्पो न स्यात्, यथा 'न हिंस्यात् सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेते त्यत्र न विकल्प इति भावः । विधेस्सामान्यविषयत्वे निषेधस्य विशेषविषयत्वे तु विशेषस्थलेऽपि निषेघसिध्यर्थं प्राप्तेरावश्यकतया विको भवत्येव, यथा "न तो पशो करोति' इत्यपि हृदयम् । यत्र तु तुल्यार्थतायामपि तुल्यबलत्वं नास्ति तत्र निषेण्यस्यानिष्टजनकतास्त्येवे स्याह - यत्र स्विति । पुरुषार्थ इति । पुरुषनिष्ठप्रत्यवायपरिहारोद्देश्यकप्रवृत्तिमवं निषेधानां पुरुषार्थत्वम् । अनर्थहेतुत्वमिति । नरकादिरूपानिष्टजनकत्वमित्यर्थः । एवं प्रतिषेधस्वीकारेऽपि यत्र विकल्पाप्रसक्तिः तत्रापि प्रतिषेधाश्रयणम्, यथोक्तं पार्थसारथिः मिश्रैः-यदा च प्रतिषेधपक्षेऽप्यविकल्पः, तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृ क्षया च प्रतिषेधत्वमेव न्याय्यमिति । एवं रागतः प्राप्तानां पुरुषार्थतया निषेधे तेषामनर्थ हेतुतामुक्त्वा इदानीं पुरुषार्थतया प्राप्तानां क्रत्वर्थतया निषेधे न तत्रानर्थहेतुतेत्याह-दोक्षित इति । सौमिकीं दीक्षां प्राप्तो यजमानः यावद्दीक्षाविमोकं पुरुषार्थदानानि (१) क्रतुमध्यपतितानि न कुर्यात्, एवं पुरुषार्थंहो मानग्निहोत्रादीन् न कुर्यादित्यर्थः । पुरुषार्थत्वेनेति । स्वयंप्रार्थितवृत्त्युद्देश्यतानिरूपित विधेयताकत्वं पुरुषार्थत्वम्, स्वयंप्रार्थितभिन्न वृत्युद्देश्यतानिरूपित विधेय. ताकत्वं च क्रत्वर्थमिति तयोर्लक्षणम् । अत्र चोद्देश्यताविधेयते स्वरूपसम्बन्धरूपविषयताविशेषरूपे । न तु साध्यत्वानुष्ठेयत्वरूपे । एवञ्चेदं लक्षणं विधिनिषेधस्थलयोरुभयत्रापि (सङ्घतं भवतीति बोध्यम् । तुल्यार्थत्वाभावेन एकार्थस्वाभावेन । तेषां दानहोमादीनाम् । कुतो नानर्थ हेतुत्वम् ? श्रत ग्राह- रागेति । अनिष्टजनकीभूते व्यापारे रागेण तदभाववत्ता भ्रमसम्पादनद्वारा प्रवृत्तिजननेऽपि शास्त्रेण तथा कर्तुमशक्यत्वादिति भावः । स्वस्त्रीति । स्वत्रयुपगमनं च पुरुषमात्रस्य रागतः प्राप्तम् । दर्शपूर्णमासप्रकरणे च 'न स्त्रियमुपेयात्' इति तस्य निषेधः क्रियते । एवञ्च रागतः प्राप्तस्य तस्य क्रत्वर्थतया निषेधात् ऋतुमध्ये तदनुष्ठाने क्रतोर्वैगुण्यं, न तु पुरुषः प्रत्यवेयादिति भावः । एवं रागतः प्राप्तस्य पुरुषार्थतया निषेधे क्रतुमध्ये तादृशनिषेध्यानुष्ठानेऽपि न क्रतोस्तेन वैगुण्यम्, १. यत्वत्र महामहोपाध्यायाभ्यङ्करवासुदेवशास्त्रिमहोदयैः न्यायप्रकाशव्याख्यायां प्रभाख्यायां प्रसङ्गात् यज्ञाङ्गं दक्षिणादानं तु दीक्षासमाप्त्यनन्तरं क्रियते इत्युक्तम् । तदनवधानात् । सुत्यादिने माध्यन्दिनसतन एव दक्षिणादानविधानात् अवभृथान्तरमेव च दीक्षासमाप्तेः ग्रन्थेष तत्वाच्च । rien Research Institute FOUNDED 917 निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १७७ निषिद्धयमानस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुब. न्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम् । अकृतमनुसरामः । तदेवं यथा विध्यादीनामध्ययन विध्युपात्तानां नानर्थक्यम्, एवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थप्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम् । (श्रर्थवाद निरूपणम्) ते चार्थवादा द्विविधाः- विधिशेषा निषेधशेषाश्च । तत्र "वायव्यं श्वेतमालभेत्ते"त्यादिविधिशेषाणां "वायुवँ क्षेपिष्टा देवेते" त्यादीनामर्थवादानां विधेयार्थस्तावकतयार्थनत्वम् । "बर्हिषि रजतं न देय"मित्यादिनिषेधशेषाणां तस्य यथाचोदनं सिद्धत्वात्, पुरुषस्तु परं प्रत्यवैतीत्याह-रांगत इति । उक्तं हि वार्तिके-"यो नाम ऋतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः" ॥ इति, "यदा दर्शपूर्णमासस्थोऽपि तदतिक्रमं करोति तदा बाह्यातिक्रमव दस्य स्वयं प्रत्यवायमात्रं स्यात् न कर्मफलासम्बन्धः । न हि शुद्धपुरुषधर्मैः ऋतवः प्रत्यवयन्ति" इति च । अत्र च मूले निषिध्यमानस्यानर्थहेतु त्वमित्यनन्तरं न तु ऋतोर्वैगुण्यमिति पूरणीयम् । उपक्रान्तां निषेधविषयिणीं कथामुपसंहरति-तदिति । एवमिति । विधीनामंशत्रयविशिष्टभावनाविधायकत्वेन, अर्थवादानां विधेयप्राशस्त्य समर्पकत्वेन मन्त्राणां प्रयोगसमवेतार्थस्मारकत्वेन, नांमधेयानां विधेयार्थ परिच्छेदकतया, निषेधानां अनिष्टजन की भूतात् कंर्मणो निवर्तकश्वेनेत्येवंप्रकारेणेत्यर्थः । पुरुषार्थानुबन्धित्वमिति । पुरुषार्थः फलं स्वर्गादि, अनिष्टपरिहारो वा, तत्सम्बन्धित्वमित्यर्थः । प्रकृतमिति । एतावता विधिमन्त्रनामधेयनिषेधानां प्रयोजनवदर्थपर्यंवसायित्वं निरू पितम् । अर्थवादानां तु तदवशिष्टम्, तन्निरूपणमेव प्रकृतम्, तदेव निरूपयाम इत्यर्थः । तदेव स्पष्टयति- तदेवमिति । विध्यादीनां विधिमन्त्रनामधेयनिषेधानाम् । तदु. पात्तत्वेन अध्ययन विध्युपात्तत्वेन । मास्त्वानर्थक्यम्, नावता लक्षणायां किं प्रमाणम् ? स्वार्थप्रतिपादनेनैव तेषां कृतार्थत्वात, अत आह- स्वार्थेति । स्वशक्यार्थप्रतिपादन इत्यर्थः । प्रयोजनाभावादिति । ततः प्रवृत्तिनिवृत्योरनुदयादिति भावः । (अर्थवाद निरूपणम्) अर्थवादान् विभजते - ते चेति । के विधिशेषाः ? के वा निषेधशेषाः ? तानुपपादयति-तत्रेति । वायव्यमिति । अत्रालभतिघातुर्लक्षणया यागपरः, द्वितीयां च तृतीयायें । वायुदेवताकेन श्वेतगुणकपशुद्रव्येण यागेन भूतिमैश्वर्य भावयेदिति वाक्यार्थः। वायुर्वा इति । वैशब्दः प्रसिद्धौ, वायुः क्षेपिष्ठा क्षिप्रगामिनी देवता खलु । यजमानः स्वेन हविषा वायुसमीपं गच्छति चेत् वायुमाराघयति चेदिति यावत् । स वायुः एनं यजमानं भूर्ति प्रापयत्येवेत्यर्थः । अर्थवत्वमिति । प्रयोजनवत्वमित्यर्थः । निषेधशेषार्थवादमुदाहरतिबर्हिषोति । बर्हिश्शब्देन तद्विशिष्टो यागो लक्ष्यते । बर्हिषि यागे रजतं दक्षिणात्वेन न २३ मो० न्या० १७८ मीमांसान्यायप्रकाशः [ शाब्दीभावना'सोऽरोदी दित्यादी नामर्थवादानां तु निषेध्यनिन्दकतयेति । (१) अतश्च लक्षणया प्राशस्त्यमर्थवादबध्यते, तच्च प्राशस्त्यज्ञानं शब्दभावनायामिति कर्तव्यतात्वेन संबध्यते । (२) परमप्रकृतम्-तत्सिद्धं वक्ष्यमाणार्थभावनाभाव्यिका लिङार्दिज्ञानकरणिका प्राशस्त्यज्ञ (नेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति । ( शाब्दीभावनानिरूपणम् ) ननु-केयं शाब्दी भावना ? उच्यते - पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः । स एव (३) विध्यर्थ: । लिङादिश्रवणे श्रयं मां प्रवर्तयतीति नियमेन प्रतीतेः । देयमित्यर्थः । अत्र बर्हिषीं'ति निषेधवाक्यम्, 'सोऽरोदी'दित्यर्थवादवाक्यमिति विवेतव्यम् । सः श्रग्निः अरोदीत् रुदितवानित्यर्थः । सन्दर्भशुद्ध्यथ कथेयमत्र लिख्यते तैत्तिरीय संहितोक्ता-पुरा कदाचित् देवासुराणां युद्धं प्रावर्तत । तत्र युद्धार्थ गच्छन्तो देवाः स्वीयमनघं रमणीयं च वस्तुजातमग्निसमीपेऽस्थापयन् यदि कदाचिदस्मानसुराः पराजयेयुः तदिदमस्माकं लोकयात्रार्थं भविष्यतीति । दृष्ट्वा च तदतिसुन्दरममूल्यं च वस्तुजातं लोभाकृष्टचित्तोऽग्निः तत् गृहीत्वा पलायत । ते च देवा असुरान् जित्वा प्रतिनिवृत्ताः यदा पलायितमग्निमवागच्छन् तदा तमन्विष्य तत् सर्वमपि धनं बलादाच्छि. न्दन् । तादृशधन वियोगजं दुःखमसहमानोऽग्निररुदत् । रुदतस्तस्य नेत्राभ्यामपतन्नश्रुबि• न्दवः । त एव घनीभूता रजतत्वमापन्नाः । निषेध्यनिन्दकत येत्यनन्तरम् अर्थवश्वमित्य नुषञ्जनीयम् । एतादृशे स्वार्थे कस्यापि प्रयोजनस्याभावात् निषेभ्यस्य रजतदानस्य निन्दायामेव तात्पर्यमस्यार्थवादस्य वक्तव्यम्-यत् रजतदानं तदस्यन्तं निन्दितमिति । तेन च प्रयोजनवत् सिध्यतीत्यर्थः । अतश्चेति चकारेण अप्राशस्त्यं, तच्चेति चकारेण प्रा. शस्त्यज्ञानं च परिगृहोते । एवं च प्रशंसार्थवादः प्राशस्त्यम्, निन्दार्थवादरप्राशस्त्यं चावबोध्येते इति फलितम् । सम्बध्यत इति । श्रन प्राशस्त्याप्राशस्त्ययोः शब्द प्रतिपाद्यत्वेऽपि तद्ज्ञानस्य तत्त्वाभावेनाशाब्दत्वात् न शाब्दबोघेऽन्वयः । किन्तु वस्तुत एवेति. कर्तव्यतास्वमिति नव्याः । प्रन्थारम्भे कृतं परमप्रकृतं शाब्दीभावनाया अंशत्रय निरूपणमुपसंहर्तुं तत् ज्ञापयतिपरमेति । तदेवोपसंहरति - तत्सिद्धमिति । A ( शाब्दीभावनानिरूपणम् ) एवं प्रतिज्ञातं परिसमाप्य तावतैव प्रन्थमिमं समापयितु कामोऽपि भावनास्वरूप्रनिरूपणमवशिष्टं मन्वानः तदनिरूपणे च ग्रन्थस्य न्यूनतामाशङ्कमानः तन्निरूपणमारभमाणः पूर्वोपस्थितां प्रधानभूतांच शाब्दीभावनां प्रथमतो निरूपयितुं शब्दभावनास्वरूपं पृच्छतिनन्विति । एवं पृष्टे न्यायसुधाकृन्मतेन समाधत्ते - उच्यत इति । विध्यर्थः विधि१. "अतश्च लक्षण्या प्राशस्त्य मप्राशस्त्यं च स्वसन्निधिपठित विधिनिषेधापेक्षितत्वात् स्वार्थप्रतिपा. दने प्रयोजनमलभमा नैरर्थवादबध्यते" इति कचिरपाठः । परं सन ग्रन्थकूदभिमत इति भाति । २. एतच्च क्वचित् मुद्रितपुस्तके नास्ति । ३. विविधं लिङथंभूतं विधिस्वरूपं शास्त्रकारैरेवं निरूपितम्(१) वैयाकरणेषु-विधिनिमन्त्रणामन्त्रणाधीष्ट संप्रश्न प्रार्थनारूपाः षडर्था लिङः इति भगवान्पाणिनिः । (२) विध्यादिषु चतुर्ष्वनुगतं प्रवर्तनात्वम्, संप्रश्नप्रार्थने च लिडर्थ इति वाक्यपदीयकाराः। निरूपणम् ] सारविवेचिनोव्याख्या संवलितः ६७६ यत्त इष्टसाधनत्वं (१) विध्यर्थं इति, तन्न । तथा सति इष्टसाधन मितिशब्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसाधनम्, तस्मात्तत् त्वं कुर्विति सह प्रयोगात्, पर्यायाणां च सह प्रयोगाभावात् । मतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वेदे तु पुरुषाभावाच्छन्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । बोधकलिङाद्यर्थः । मयं लिङच्चारयिता । इष्टसाघनत्वस्य लिङर्थत्वं प्रसङ्गात् पूर्व निरस्तमपि प्रकरणशुद्धयर्थं पुनस्तदन्द्य निरस्पति-यत्त्विति । विधिशब्दः विधिबोधको लिङादिः । इष्टापत्तौ दोषमाह - सन्ध्योपासनमिति । सहप्रयोगादिति । सहप्रयोगदर्शनादित्यर्थः । इष्टसाधन मिति पदेन सह "कुरु" इति लोटः प्रयोगो दृश्यते । पर्यायत्वे च स न घटत इति भावः । अत नेष्टसाधनत्वस्य लिङर्थत्वं युज्यते । प्रवर्तनाप्रेरगाविध्यादिपर्यायस्यैव व्यापार विशेषस्य तदित्यभ्युपगन्तव्यमित्याह - अतश्चेति । स च व्यापारविशेषश्च । सर्वत्र लोके प्रवर्तयितुराचार्यादे' 'हमेनं प्रवर्तयामि' इत्यनुभवात् 'आचार्य प्रेरितोऽहं गामानयामि' इति व्यवहारबलाच्च प्रवर्तनायाः प्रवर्तयि तृपुरुषनिष्ठत्वम्, गवानयनादौ कृते 'मदाज्ञामयं कृतवान्' इत्याज्ञप्तुर्व्यवहाराच्च तस्याभिप्राय विशेषत्वं चाव. गम्यत इति भावः । शब्दनिष्ठ एवेति । लिब्ादिरूपो यो विधायकश्शब्दः तद्वृत्तिरिस्यर्थः । इत्युक्तमिति । ग्रन्थारम्भ इति शेषः । (३) इष्टसाधनत्वमेव लिङथं इति ततोऽर्वाचीना वैयाकरणाः । (४) नैयायिकेषु – इष्टसाधनत्वं बलवदनिष्टा जनकत्वं कृतिसाध्यत्वं चेति 'त्रितयमपि लि इति नैयायिकाः । तत्र विशेषणविशेष्यभावापन्नेषु त्रिष्वप्ये केव शक्तिरिति प्राचीनाः । तत्र पृथक्-पृथगेव शक्तित्रयमिति नवीनाः। (५) कृतिसाध्यस्वमेव लिडधं इति रतकोशकृतः । (६) लिङघटितवाक्योच्चारयितुरहमेनं प्रवर्तयामीत्यभिप्रायविशेषो लोके वेदे च लिडर्थ । इत्युदयनोचार्याः । ( ७) वेदान्तिषु - वेदे भगवदाज्ञैव लिङर्थ इति श्रीभाष्यकाराः, तदनुयायिनस्सेश्वरमीमांसा 9501 कदादयश्च । (८) इष्टसाधनत्वमेव लिडर्थ इति सुरेश्वराचार्याः, तदनुसारिणश्चित्सुखाचार्यादयश्च । ( ९ ) इष्टसाधनत्वं कृतिसाध्यत्वमित्युभयं लिङर्थ इति भामत्यां वाचस्पतिमिश्राः । ( १० ) मीमांसकेषु–इष्टसाधनत्वमेव तत्त्वेन रूपेण लिङर्थ इति मण्डनमिश्राः । ( ११ ) भाट्टेषु-तत्तद्धात्वर्थगतं कार्यस्वं लिडर्थ इति भाट्टेष्वप्येकं मतम् । (१२) लिङादिशब्दगतस्यार्थप्रकाशनसामर्थ्यस्याऽभिधाख्यव्यापारस्य लिङर्थत्व मिस्यध्ये कदेशिमतम् । (१३) इष्टसाधनस्वमेव प्रवर्तनात्वेन रूपेण लिङर्थ इति पार्थसारथिमिश्रप्रभृतयः । (१४) इष्टसाधनत्वाद्यतिरिक्तः प्रवर्तनाख्योऽलौकिकः कश्चिद्धर्मविशेषो लिङादिवाच्य इति भट्ट. सोमेश्वरः खण्डदेवप्रभृतयश्च । प्राभाकरेषु–अपूर्वांपरपर्यांयः कार्यात्मा नियोगो लिडर्थ इति प्राभाकराः । तत्र लोके कार्यत्वेन क्रियायाः, वेदे च नियोगस्य लिङर्थत्वमिति विवेकः ॥ FOUNDED एतेषां स्फुटतया विवरणं पूज्यपादेः श्रीगुरुवर्यैरेव स्वकृते विधितत्त्वसन्ग्रहाख्ये लघु सस्ताव 15 कृतम् । तत् तव एवावगन्तव्यम् ॥ १. लिङथंः। Bhandarkar Oriental Research Institute मीमांसान्यायप्रकाशः [ शाब्दीभावनानन-लोके वा शब्दनिष्ठे प्रेरणापरपर्याये व्यापारे शब्दप्रयोगाभावेन शक्तिप्रहाभावात् कथं तस्य विधिशब्दात् (१) प्रतिपत्तिरिति चेत् सत्यमेतत् । तथापि बालस्तावत् स्तन्यदानादौ स्वकृतरोदनादिजनितमातृप्रवृत्तेः स्वाभिप्रायरूपप्रवर्तनाज्ञान जन्यत्वावधारणात् सविधिकप्रयोजकवाक्यश्रवणसमनन्तरभाविनीं प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्तनाज्ञानमनुमिमीते । १८० मनु-शक्तिग्रहस्य व्यवहारसाध्यत्वेन लौकिकलिङादेः पुरुषनिष्ठव्यापारवा च करवेनैव लोके प्रयोगात् तत्रैव शक्तिग्रहेण शब्दनिष्ठव्यापारवाचकतया श्रप्रयुक्तस्य तस्य तत्र शक्तिग्रहासम्भवात् उपायान्तरस्य च शक्तिमाहकस्याभावात् कथं वैदिकलिङादितः प्रेरणापरपर्यायस्य शब्दनिष्ठव्यापारस्य प्रतीतिरिति शङ्कते-नन्विति । सत्यमिति । सत्यमित्यर्धाङ्गीकारे । लोके पुरुषनिष्ठव्यापार एव लिङ्गादीनां प्रयोग इति यदुक्तं तदङ्गीक्रियत इत्यर्थः । नैतावता लौकिके व्यापारे शक्तिग्रहो न सम्भवतौति युक्तमित्याह- तथापीति । तत्र शक्तिप्रहप्रकारं कथयिष्यन् तस्य लौकिक शक्ति प्रहपूर्वकत्वात् प्रथमं तावत् लोके शक्ति प्रहप्रकारमुपपादयति- बालस्तावदिति । यदा स्तनन्धयस्य बुभुक्षा सञ्जायते तदा स रोदिति । तच्छ्रुत्वा समनन्तरमेव च तन्माता तदभिप्रायरूपां प्रवर्तनां स्तन्यदानादिविषयिणीं ततो ज्ञात्वा स्तन्यदानादौ प्रवर्तते । एवं स्वरोदनसमनन्तरभाविनीं स्वमातृप्रवृत्ति बहुशः पश्यन् बालः तत्र कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या अन्वयव्यतिरेकाम्याञ्च स्वरोदनश्रवणानन्तरभाविस्वाभिप्रायरूपप्रवर्तनाज्ञानमेव तत्र कारणं कल्पयति । यदा च किश्चिदिव प्रबुद्धो भवति, तदा गामानयेत्या दिस विधिकवाक्यमाचार्यादिरूपप्रयोजक बृद्धप्रयुक्तं श्रुत्वा तत्समनन्तरभाविनीं शि. घ्यादिरूप प्रयोज्यवृद्धप्रवृत्ति गवानयनादिविषयिणीञ्चोपलभ्य तत्र च कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या विवादिघटितवाक्यश्रवणजनितं प्रयोक्तृपुरुषाशयज्ञानमेव स्वमातृप्रवृत्तिदृष्टान्तेन कारणमध्यवस्यति । तत्रापि प्रयोक्त्रा बहूनां शब्दानां प्रयोगात् कस्य तेषु प्रवर्तनाबोधकत्वमिति जिज्ञासमानः लिङादिशब्दश्रवणानन्तरमेव प्रवृत्तेर्जायमानत्वात् अन्वयव्यतिरेकाभ्यां लिङादिविधिशब्द एव तादृशप्रवर्तनाया वाचक इत्यवधारयति । तादृश्याश्च प्रवर्तनाया इच्छारूपायाः पुरुषाशयासंस्पृष्टे वेदे असम्भवात् तद्विलक्षणं प्रेरणा विध्याश्चपरपर्यायं कञ्चन धर्मविशेषं लि निष्ठत्वेन कल्पयति । अनेनैव पथा वैदिकलिङादिष्वपि शक्तिग्रहसम्भवात् न शक्तिग्रहाभावरूपो दोषः इति प्रकरणार्थः । तत्कारणत्वेन प्रयोज्यवृद्धप्रवृत्तिकारणत्वेन । तस्य प्रयोज्यवृद्धस्य । प्रवर्तनाज्ञानं प्रयोजक वृद्धनिष्ठस्य अयमन्त्र प्रवर्ततामित्याद्या कारकाशय विशेषस्य ज्ञानम् । मनुमिमीत इति । इयं प्रयोज्यवृद्धप्रवृत्तिः प्रवर्तनाज्ञानजन्या, लिङादिश्रवणानन्तरभावित्वात्, मदीयरोदनानन्तरभाविमन्मातृप्रवृत्तिवत् इत्यनुमितेराकारो बोभ्यः । > ननु प्रवृत्तित्वावच्छिन्नं न प्रेरणाज्ञानजन्यम् । भोजनादौ स्वत एवेष्टसाधनस्वादि बुद्ध्वा प्रवृत्तिदर्शनात् तत्र प्रेरणा ज्ञानजन्यत्वाभावात्, प्रेरणोत्तरप्रवृत्तिस्थलेऽपि च इष्टDri १. प्रतीतिरि० । निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः यद्यपि भोजनादौ स्वप्रतः समीहितसाधनताशानपूर्वकत्वावधारणात् प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम्, तथाप्यन्यप्रेरितप्रवृत्ती प्रवर्तनाज्ञान जन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेर प्यन्य प्रेरित प्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञानास्यैवाध्यवसानम् । तच्च प्रवर्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमित्यवधारयति । तत्र चावापद्वापाभ्यां प्रवर्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । स च प्रैषादिरूपो विविध इति प्रत्येकं व्यभिचारित्वाद्विधिशब्दवाच्यत्वानुपपत्तेः प्रवर्तना(१) सामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधिश्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्तनात्वेन एकरूपेण प्रतीतिर्न विशेष. रूपेण, तथैव शक्तिमहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव । १८१ एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र कोऽसौ व्यापारः ? इत्यपेक्षायां वैषादिरूपस्य वक्त्रभिप्रायस्थापौरुषेये वेदेअनुपपत्ते: शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्यापार इति कल्प्यते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना । सैव च प्रवर्तना त्वेन रूपेण विध्यर्थ इति । अयमेव चार्थःसाघनताज्ञानाभावे प्रवृत्त्यदर्शनात् । अतश्च स्वतस्सिद्धप्रवृत्तिस्थले प्रेरणाजन्यत्वव्यभिचारात् समीहितसाधनताज्ञानजन्यत्वस्य चोभयत्राव्यभिचारात प्रवृत्तिस्वावच्छिन्नस्य समीहितसाधनताज्ञानजन्यत्वमेव समुचितमङ्गीकर्तुम् न तु कस्याश्चित् प्रवृत्तेः समीहित• साधनताशांनजन्यत्वं, कस्याश्चिच प्रर्वतनाज्ञानजन्यस्वमिति वैरूप्याजीकारो युक्त इत्या. शङ्कां निराकरिष्यन् प्रथमतस्तामनुवदति- यद्यपीत्यादिना युक्तमित्यन्तेन । सत्यं द्विवि घास्ति लोके प्रवृत्तिः, सत्यं च समीहितसाधनतादि बुद्ध्वा पुरुषः प्रवर्तते तथापि यत्रा. न्यप्रेरणया प्रवृत्तिः तत्र आचार्य प्रेरितोऽहं गामानयामि, न स्वेच्छयेति व्यवहारदर्शनात् प्रेरणोत्तरप्रवृत्तित्वावच्छिन्नस्य प्रेरणाज्ञानजन्यत्वमेव वक्तुमुचितम् उक्तमातृप्रवृत्तौ तथैव दर्शनात् इति समाधत्ते-तथापीति । एवं प्रवृत्तिकारणत्वेन प्रवर्तनाज्ञानेऽध्यवसिते तत्कारण जिज्ञासायां तत्कारणाध्यवसान प्रकार मुपपादयति-तच्चेत्यादिना अवधा. रयतोत्यन्तेन । तत्रापि प्रवर्तन विशेषेषु प्रैषसम्प्रश्नादिषु न शक्तिः, प्रैषस्थले सम्प्रश्नाद्यभावात् सम्प्रश्नस्थले प्रैषाद्यभावाच्च तेषां परस्परं व्यभिचारेण सर्वानुगतप्रवर्तनाश्वमेव शक्यतावच्छेदक मित्यवघारयतीत्याइ-स चेति । लक्षण वेति । सामान्यवाचकस्य शब्दस्य विशेषबोधकत्वरूपाजहत्स्वार्थलक्षण येत्यर्थः । एवंप्रकारेण लोके बिण देश्शक्ताववघारितायां तेनैव न्यायेन वेदेऽपि शक्तिग्रहस्स्वध्यवसान इत्याह-एवञ्चेति । प्रवर्तनासामान्यमेवेति । यथा लोके लिङादिश्रवणे प्रवर्तनासामान्यस्य प्रतीतिः तथैव वेदेऽपीति नैतावत्पर्यन्तं लोकवेदयोर्भेद इति भावः । अनन्तरञ्च यथैव विशेषजिज्ञासायां तत्तत्प्रकरणाद्यनुगृहीतस्य लिङादेविशेषलक्ष कत्वमध्य वसीयते लोके, एवमेव वेदेऽपि विशेषजिज्ञासायां प्रैषादीनां तत्राभावात् शब्दनिष्ठधर्मविशेषलक्षकत्वमध्यवसीयते इत्याह-तत्रेति । प्रवर्तनात्वेनेति । प्रवृत्यनुकूलव्यापार१. प्रवर्तनायास्सा । 2 मीमांसान्यायप्रकाश [ शाब्दीभावना'अभिधाभावनामाहुरन्यामेव लिङादयः' इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्त्या श्रभिधाशब्देन वि. धिशब्द उच्यते । तद्यापारात्मिका भावना लिङादिवाच्येति – (१) केचिदाहुः । अन्ये तु - सत्यं प्रवर्तनासामान्यं विध्यर्थः, तथैव शक्तिप्रहात् । प्रवृत्यनुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रषादेरसंभवात् कश्चित् पुरुषप्र वृत्यनुकूलो व्यापारविशेषः कल्पनीयः। विधिशब्दाभिधेय प्रवर्तना सामान्यस्य विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापारविशेषः ? इत्यपेक्षायां घात्वर्थगतं समीहितसाधनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् । १६२ त्वेनेत्यर्थः । अत्र च न प्रवृत्यनुकूलत्वं शक्यतावच्छेदक कोटिप्रविष्टम्, गौरवात्, अन्य. लभ्यत्वाच्च, प्रवृत्तेहिं श्राख्यातेनैव लाभात्, अनुकूलत्वस्य च प्रयोजकत्वापर पर्यायस्य संसर्गबलेन लाभात् । अतो लाघवात् लोकवेदसाधारणं व्यापारत्वमेव शक्यतावच्छेदकम् । विशेषलाभस्तु तत्र तत्र समभिव्याहारादिनेत्यवगन्तव्यम् । नन्निदं 'अभिधाभावनामाहु' रित्यनेन वार्तिकेन विसंवदति, तेनाभिवासम्बन्धिन्या एव भावनायाः लिङवाच्यत्वप्रतिपादनात्, अतः कथं वार्तिकविरोधी पक्षोऽयमाद्रियतामित्यताह-अयमेवेति । अविरोधितामेवोपपादयति-श्रभिधीयत इति । अनेनेति ब्रुवता कर्तृव्युत्पत्तिः करणव्युत्पत्तिर्वा प्रदर्शिता । एवञ्च अभिधायकत्वात् अभिधा विध्यादिशब्दः । तन्निष्ठा तद्वयापारात्मिका भावना अभिवाभावना तां लिङादयः बोधयन्तीत्यर्थः फलितः । श्रस्मिन् मते अभिषाया भावना इति षष्ठीतत्पुरुषो विवक्षितः । केचिदिति । न्यायसुधाकृत्प्रभृ तय इत्यर्थः । । तत्रैव पार्थसारथिमिश्रिमतमुपवर्णयितुमारभते- अन्ये त्विति । आहुरित्यस्य प्रव. दन्ति प्रवर्तनामित्यनन्तरं श्रुतेनेतिना सम्बन्धः । सत्यमिति । प्रवर्तनासामान्यस्य विध्यर्थत्वमस्माकमपीष्टमेवेति भावः । तथैवेति । एवञ्चानेकार्थत्वं कल्पितं न भवति । अन्यथा प्रेषणमध्येषणमभ्यनुज्ञान मिष्टसाघनत्वं चेति बहवोऽर्थाः लिडादेः कल्पयितव्याः । तथात्वे तेषां परस्परं व्यभिचारस्याने कशक्ति कल्पनाप्रयुक्तगौरवस्य चास्माकमपि तुल्यत्वादिति भावः । अपर्यवसानादिति । 'निर्विशेषं न सामान्य'मिति न्यायेन सामान्यस्य विशेषे पर्यवसानमन्तरा अनिवृत्ताकाङ्क्षत्वात्, सामान्यस्य प्रवृत्तिविशेष जनकत्वाच्चेति भावः । एतावदुभयोरपि पक्षे तुल्यम्, तत्र विशेष जिज्ञासायां तस्याः प्रेरणारूपत्वे तस्या अपि वैदिकवाक्यप्रतिपाद्यत्वासम्भवरूपदोषतादवस्थ्यात् तां परिहाय घात्वर्थंगतं यदिष्टसाधनत्वं तस्यैव परं व्यापार विशेषत्वं कल्प्यते इत्याह - तत्रेत्यादिना । ननु कथं तस्य प्रवर्तनात्वम् ? अत आह-तस्यापोति । प्रवर्तनात्वं च प्रवृत्त्यनुकूलत्वम्, तच्चात्रापि समीहितसाघनत्वेऽस्तीति भावः । ननु आचार्यादिरनिच्छन्तमपि शिष्यादिकं बलात् प्र वर्तयतीत्यनुभवसिद्धत्वात् तत्र समीहितसाधनताज्ञानमन्तरापि शिष्यादेः प्रवृत्तिदर्शनात् कथं प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनतायाः कारणत्वमित्याशङ्कायामाह- सर्वो१. केचिदाचार्याः । Research Institute SUIENMFGETS निरूपणम् ] सारविवेचिनीव्याख्यासंवलितः १८३ सर्वोऽपि हि समीहितसांघनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितोऽपि यदीष्टसाथनतां न जानाति तदा नैव प्रवर्तते । स्वतन्त्रप्रेरणावादेऽपि तदाक्षिप्तसमीहितसाघनताज्ञानं स्वीक्रियत एव । अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात् समीहितसाधन. sपि होति । स्वतन्त्रप्रवृत्तिस्थले समीहितसाघनताज्ञानादेव प्रवर्तते इति निर्विवादम् । अन्यदीय प्रेरणानन्तरप्रवृत्तिस्थलेऽपि समीहितसाधनतो ज्ञात्वैव प्रवर्तते । यद्यपि तत्र स्वारसिकेच्छा न स्यात् तथापि आचार्यादिः स्वप्रवर्तनाबलात् तस्य समीहितसाधनताज्ञानमुत्पाद्यैव प्रवर्तयतीत्यनुभवसिद्धम् । एवञ्च तत्रापोष्टसाघनताज्ञानादेव प्रवर्तत इति प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनताज्ञानस्य कारणत्वमुचितमेवेति भावः । उक्तं च मण्डनमिश्रैः- "प्रवृत्तिसमर्थो हि कश्चित् भावातिशयो व्यापाराभिधानः प्रवर्तना। सा च क्रियाणां अपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र प्रवर्तते कश्चित् । याण्याज्ञादिभ्यः प्रवृतिः सापि कथञ्चित् श्रपेक्षितनिबन्धनस्वमुपाश्रित्यैव" इति । "कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः" इति च । प्रवृत्ति समर्थः प्रवत्तिजननसमर्थः । अपेक्षितोपायता इष्टसाधनता । मनु सर्वत्र लिखगदिशब्दश्रवणानन्तरमेव प्रवृत्तिदर्शनात् तस्याश्च कर्तव्यताप्रतिपतिपूर्वकत्वावगमात् प्रेरणाख्यस्यैव कस्यचित् व्यापारस्य समीहितसाघनतातिरिक्तस्य कर्त•व्यताबुद्ध्युस्पादनद्वारा प्रवृत्तिहेतुस्वाभ्युपगमात् न तस्यास्स मीहितसाघनतारूपत्वाभ्युपगमे प्रमाणमस्ति इत्यत आह - स्वन्त्रप्रेरणावादेऽपीति । पूर्वमुक्तो यः पक्षः प्रेरणायाः लिङर्थस्वाभ्युपगमरूपः तत्रापीत्यर्थः । तदाक्षिप्तेति । प्रेरणाख्यव्यापारस्य लिबर्थत्वमभ्युपगम्य तस्यैव प्रवृत्तिजनकत्वमभ्युपगच्छता भवतापि तत्र समीहितसाघनताशानं स्वी क्रियत एव, परन्तु सा स्वस्याः प्रवर्तकत्वसिद्धयर्थं स्वविषययागादेस्समीहितसाधनत्वमा. क्षिपतीत्युच्यते भवता । सर्वथा तु इष्टसाधनता ज्ञानमावश्यकमेव भवतोऽपीत्याशयः । मम्मते इष्टसाधनतानाक्षेपे को दोषः ? इत्याक्षिपन्तं पूर्वपक्षिणं प्रत्याह-अभ्यथेति । उकं च "हेतुमति च" इति सूत्रे महाभाष्ये "सर्व इमे स्वभूत्यर्थं प्रवर्तस्ते" इति । "कः प्रयोज्यस्य प्रेरणयार्थो यदभिप्रायेषु सजते" इति तत्सूत्रस्थभाष्येण णिज. थंप्रेरणाया अपि स्वातन्त्र्येणा प्रवर्तकत्वबोधानाच्च । एवञ्च मतद्वयेऽपि तस्या आवश्यकत्वात् तस्या एव विध्यर्थत्वकल्पनं युक्तमित्याह-अतश्चेति । नन्वेवं समीहितसाघनत्वस्यैव लिङर्थत्वमभ्युपगम्य तज्ज्ञानस्यैव सर्वत्र प्रवृत्तिहेतु. त्वाभ्युपगमे 'श्रचार्य प्रेरितोऽहं गामानयामि, न स्वतः' इति व्यवहारोच्छेदापत्तिः, न च तत्र प्रवृत्तिकारणीभूतेष्टसाधन ताज्ञान जन कलिङच्चारयितृत्वेनैवाचार्यादेः प्रवर्तकत्वव्यवहार इति वाच्यम् । तथात्वे राजप्रेरितपदातेः तादृशलिङच्चारयितृत्वेन प्रवर्तकत्वायत्तेः । न चेष्टशपत्तिः । तथात्वे 'राजप्रेरितोऽहं गामानयामि, न पदतिप्रेरितः' इति पदातेः प्रवर्तकत्वाभावव्यवहारानुपपत्तेः । अतः पूर्वोक्तव्यवहारसाधुत्वार्थ तत्र प्रेरणादेरेव विध्यर्थत्वमवश्यमभ्युपगन्तव्यमिति चेत्-न; तत्रापि तत्सम्पादनपरितोषितः श्राचार्यादिः मत्समीहितं साधयेत्, श्रहितं वा न विदध्यात् इति बुद्ध्यैव शिष्यादेः प्रवृत्तिदर्शनात्, अन्यथा Bhandarkar Oriental १८४ मोमांसान्यायप्रकाशः तैव प्रवर्तनात्वेन रूपेण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारबो. धकत्वं लोकसिद्धं सिद्धं भवति । किञ्च शब्दे एको व्यापार: स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्व. प्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनावलृप्तस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य प्रवृत्यनुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लृप्तस्य स्वनिष्ठव्यापारबोधकत्वम्, विधेश्च प्रवर्तकस्व निर्वाहाथं धात्वर्थस्य समीहित साघनत्वमिति (१) कल्पनाद्वरमावश्यकस्यैव समीहितसाधनत्वस्य स्वप्रवृत्तिहेतुत्वेन क्लु. तस्य प्रवर्तनात्वेन रूपेण विध्यर्थस्व कल्पनं लाघवात्, अन्यनिष्ठत्वाच्च । [विण्यर्थलिब्शतश्रवणेऽपि प्रवृत्तेरदर्शनात् । विधिशब्दस्येति । लोके तावत् शब्दानामन्य. निष्ठव्यापारबोधकत्वमेव व्यवहारसिद्धम् । 'देवदत्तः पचेत्' इत्यादौ लिङादिना प्रवर्तक पुरु षनिष्ठव्यापारस्यैव बोधनदर्शनात् लोकसिद्धमेव च परीक्षकैरनुसरणीयम् । अतथ्य यदि समीहितसाघनतायाः लिङर्थत्वमङ्गीक्रियते तदानीं तस्याः यागादिनिष्ठत्वात् अन्यनिष्ठव्यापारबोधकता लिङस्सिध्येत् । प्रेरणाख्यव्यापारवाचित्वाभ्युपगमे तु तस्याः स्वनिष्ठत्वेन शब्दस्य स्वनिष्ठव्याचारवाचकत्वं लोकविरुद्धमभ्युपगतं स्यादिति भावः । नम्वेवमपि प्रसिद्धव्यापारकल्पनातो वरं क्लृप्तस्यैवामिधाख्यस्य व्यापारस्य प्रव र्तनात्वकसनमित्यत आह - किञ्चेति । स्पन्दाद्यतिरिक्त इति । मीमांसकमते शब्दस्य विभुत्वेन तत्र स्पन्दादेर्निवेशासम्भवादिति भावः । उक्तं हि पार्थसारथि• मिश्रः-स्पन्दसमवायस्तु न सम्भवति । नच सावस्मामिश्शब्दस्येप्यते"इति । "न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ती" ति च । म्या यसुधायामप्युक्तम्-"न शब्दे स्पन्दयत्नौ हि विभुत्वाचेतनत्वतः-इति । तस्य शब्दनिष्ठत्वेन कल्पितस्य स्पन्दाद्यतिरिक्तस्य व्यापारस्य । स्वप्रवृत्तौ श्रन्यानधी नवतन्त्रप्रवृत्ती । पुरुषान्तरेण प्रवर्तितस्सन् स्वयमेवेष्टसाधनतादि ज्ञात्वा यत्र प्रवर्तते, तत्रेति यावत् । पराधोनप्रवृत्ती परकीय प्रेरणानन्तरभाविप्रवृत्तौ । अनेन उभयत्रापि प्रवृत्तिकारणत्वेन क्लृप्तत्वं समीहितसाघनतायास्सूचितम् । लाघवादिति । भवन्मते कल्पित स्यापि धर्मस्य प्रवृत्त्यनुकूलत्वं, शब्दस्य स्वनिष्ठव्यापारबोधकत्वं, धात्वर्थस्य च समीहितसाधनत्वमिति त्रितयं कल्पनीयम् । श्रस्मन्मते तु समीहितसाघनतायाः प्रवृत्तिकारणत्वं शब्दस्यान्यनिष्ठव्यापारबोधकत्वमित्युभयं सिद्धम् तस्या विध्यर्थत्वं परमेकं कल्पनीयमिति लाघवमित्यर्थः । क्लृप्तस्येत्यनेन भवन्मत एव क्लृप्तपरित्यागः अक्लृप्त कल्पनञ्च, नास्मन्मत इति सूचितम् । श्रावश्यकस्येति । भवतापीदमङ्गीक्रियत एव प्रवृत्तिसम्पादनार्थं मितीद मुमयोरप्यावश्यकमिति भावः । 3 तु 3 ननु यागादे: समीहितसाधनता न स्वरूपतस्सिद्धा । किन्तर्हि ? विधिविषयत्वान्यथानुपपत्या कल्पिता । विधिर्हि प्रवर्तनात्मकः स्वस्य प्रवर्तकत्व सिद्धयर्थ स्वविषयीभूतयागादेरिष्टसाघनत्वमाक्षिपति । अत एव च भावनाया इटभाव्यकत्वनियमष्पष्ठे स्वर्गकामाविकरणोक्तस्सङ्गच्छते । अत एव च धात्वर्थस्समानपदोपात्तोऽपि इष्टरूपत्वाभाषात् १. कल्पनागौरवाद्व० । Research Institute निरूपणम् ] सारविवेचिनीव्याख्या संवलितः १८५ नच विधेः प्रवर्तकत्वनिर्वाहार्थ समीहितसाधनत्वकल्पनात् प्रेरणानभिधाने च विधेः प्रवर्तकस्वाभावाद्धात्वर्थस्य समीहितसाधनत्व कल्पकमेव नास्तीति वाच्यम् ; प्रवर्तनाभिधानेनै (१) व तन्मतेऽपि विधेः प्रवर्तकत्वात् विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात्समीहितसाधनस्वाक्षेपकत्वात् । म चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपसनं ते इष्ट साधनं तत् त्वं कुर्विति सहप्रयोगानुपपत्तिरिति वाच्यम् इष्टसाधनत्वस्य विशेषरूपेण विधिनानभिधानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन दृष्टः सहप्रयोगः– पाञ्चालराजो द्रुपद-इत्यादौ । तस्मात् समीहितसाधनतव प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना । 2010 उक्तवार्तिकस्याप्ययमेवाभिप्रायः । अभिधीयते या साऽभिधा समीहितसाधनता सैव प्रवर्तनात्वेनाभिहिता पुरुषप्रवृत्ति भावयतीति भावना तां लिङादय आहुरिति । यथाद्दुःपुसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः । भाग्यत्वांशं परित्यज्य करणत्वांशे निपततीति प्रतिपादितं भावार्थाधिकरणे । यदि प्रेरणा विष्यर्थो न स्यात् तदा अन्यथानुपपद्यमानस्य कस्याप्यभावात् धात्वर्थगतेष्टसाधनताचेपप्रमाणस्यैवाभावेन सर्वमिदं दत्तजलाञ्जलि स्यादित्याशङ्कामनूथ परिहरति-न चेति । प्रेरणाविध्यर्थत्ववादिमतेऽपि न प्रेरण। त्वेन विधिगम्यत्वमङ्गीक्रियते, किन्तु प्रवर्तनासामान्येनैव । सामान्यस्य विशेषमन्तरा पर्यवसानाभावात् विशेष जिज्ञासायां परं प्रेरणारूपो विशेषोऽवघार्यते । अतथ प्रथमतः प्रेरणानभिधानेऽपि यथा तन्मते इष्टसाधनत्वाक्षेपकत्वं तथैवास्मन्मतेऽपीति न विरोध इत्यर्थः । पूर्वोक्तां सहप्रयोगानुपपत्तिं वारयति-न चेति । विशेषरूपेणेति । इष्टसाघनत्वस्य विध्यर्थत्वेऽपि न समीहितसाधनत्वरूपेण तदववोध्यते। किन्तु प्रवर्तनास्वेनैव, इष्टसाधनपदेन तु विशेषरूपेणेति सामान्यविशेषवाचकपदयोरुपपन्नस्सहप्रयोग इति भावः । तदेव संदृष्टान्तमभिधत्ते-सामान्यशब्दस्येत्यादि । उक्तमर्थमुपसंहरति-तस्मादिति । सैव समीहितसाधन तैव । तेन रूपेण प्रवर्तनात्वेन रूपेण । अस्मिन्नेवार्थे वार्तिकमपि योजयति-उक्तेति । अभिधीयत इत्यनेन कर्मव्युत्पत्तिः प्रदर्शिता । अस्मिन् पते अभिघा च सा भावना चेति कर्मधारय समासो बोध्यः । तत्र भावनात्वं निरूपयति-पुरुषेति । मंत्र मण्डनमिश्रस्यापि सम्मतिमाह-यथाहुरिति । पुंसामिति । इष्टाभ्युपायत्वात् इष्टसाधनत्वात् ल्यब्लोपे पञ्चमी । इष्टसाघनत्वं विहायैस्यर्थः । क्रियासु यागादिषु प्रव र्तको नैवास्ति । इष्टसाधनतैव प्रवर्तिकेति यावत् । प्रेक्षावतां हि यावत् स्वाभिलषितफलसाघनता न ज्ञायते तावत् दुःखात्मके कर्मणि प्रवृत्तिनोंदेतीति भावः । श्रस्तु नामे ३१. नेतन्म० । Bhandarkar Oriental Research Institute TOP IN DER JE BM २४ मी० न्या० मौमांसान्यायप्रकाशः प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति । DN तत्सिद्धं यजेतेत्यत्र लिङ्वांशेन शाब्दी भावनोच्यत इति ॥ गिरी श्राख्यातत्वांशेनार्थी भावनोच्यते । ( अर्थीभावनानिरूपणम् ) नदी ननु-केयमार्थी भावना ? । कर्तृव्यापार इति चेत-न; यागादेरपि तद्या. पारत्वेन भावनात्वापत्तेः । नचेष्टापत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभा. वादिति चेत्-pay अत्राहु:- (१) सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग. टसाघनता लिप्रतिपाद्या, प्रवर्तनात्वं तु कथं तस्याः ? इत्यत ग्राह-प्रवृत्तिहेतुमिति । यः प्रवृत्तिहेतुर्धर्मः तमेव प्रवर्तनामाचक्षते प्रवर्तनाविदः इत्यर्थः । शाब्दीभावनानिरू पण मुपसंहरति— तत्सिद्धमिति । एवं शब्दभावनां निरूप्य तत्प्रसङ्गात् तद्भाव्यभूतामार्थीभावनां निरूपयितुमारभतेश्रख्यातत्वेति । 210 ( आर्थीभावनानिरूपणम् ) ननु भावनाया यदि घात्वर्थात् भेदस्सिध्येत्, युज्येत तदा तस्याः प्रत्ययवाच्यत्वम्, तत्रैव न प्रमाणं पश्यामः, पचतीत्यादौ यावन्तो व्यापाराः प्रतीयन्ते स्थाल्यधिध यणोदका सेचनतण्डुलावा पफूत्कारावसावणादयः ते सर्वेऽपि धातुत एव प्रतीयन्त इति तेषां धातुवाच्यतैव युक्ता, न प्रत्ययवाच्यता, तदतिरिक्तस्य कस्यचिदप्रतीयमानत्वात् कस्याख्यातांशप्रतिपाद्यता अर्थभावनात्वं वोच्यते ? इति वैयाकरणश्शङ्कते-नन्विति । कर्तृव्यापार इति । सर्वत्र हि पचति, पाकं करोति, यजति, यागं करोति, इति विवरणं दृश्यते । तत्र घञन्तपाकादिपदैः प्रकृत्यर्थस्य कृञधातुना च प्रत्ययार्थस्य विवरणमित्यव गम्यते । तेन च करोति समानार्थकत्वमाख्यातस्येत्यवगम्यते । करोति सकर्मक इत्याख्यातेनापि तथैव भाग्यम् । तच्च कर्मोसायमेव भवति । एवञ्च उत्पद्यमानस्य वस्तुन उत्प श्यनुकूल उत्पादककर्तृव्यापारः श्राख्यातार्थ इति फलितम् । भावनाशब्दोऽपि तमेवाभि• धत्ते । भूघातोर्ण्यन्तात् करणार्थकल्युट् प्रत्यये कृते भावनाशब्दनिष्पत्तेः । पाकशब्दार्थश्र विक्लित्तिः । यागपदार्थश्च द्रव्यदेवतयोस्सम्बन्धः । अतश्च तण्डुल रूप कर्मंगत विक्लित्तिरूपव्यापारः पचिघात्वर्थः, तत्प्रयोजको देवदत्तादिरूपकर्तृव्यापारः प्रत्ययवाच्यः इति स एव विक्लित्यनुकूल कर्तृव्यापारत्वात् भावना भवत्वित्याशयः। न विलित्यादिः केवलो धात्वर्थो भवितुमर्हति । तथात्वे कृष्णलेषु विक्लित्यसम्भवेन तत्र तत्सम्पादकश्रपण विधानानुपपत्तेः । किन्तु पचेरधिश्रयणाद्यवस्रावणान्तो व्यापारोऽर्थः, यजेश्च मानसत्यागः, सङ्कल्पो वा, तस्यैव यागादिपदार्थत्वात्; तस्य च कर्तृव्यापारस्वात् तस्यैव भावनात्वमापद्येतेत्याह-याग देरिति । तस्य यागस्य । प्रकृत्यर्थत्वेनेति । एवञ्च प्रत्ययार्थस्य भावनात्वं वक्तुमुपकान्तो भवान् इदानीं प्रकृत्यर्थस्यैव भावनात्वमभ्युपगच्छन् म पतितः, स्वोक्तविरोधी च १६६ [ आर्थीभावनासञ्जात इत्याशयः । एवमापादितां शङ्कां प्रथमतो न्यायसुषाकृन्मतमनुसृत्य समाधत्ते- प्रत्राहुरिति । आहुरित्यनन्तरं न्यायसुधाकृत इति शेषः । न यागो भावनेति । नास्माभिर्मानस. १. इदं च न्यायसुधाकृतो भट्टसोमेश्वरस्य मतम् । अग्रे च 'अन्ये त्वाहु' रित्या दिना निरूप्यमाणं Bhar Rese FOUNDED निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः १६७ विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशेनोच्यते । यजेतेत्याख्यातश्रवणे (१) यागे यतेतेति प्रतीतेर्जायमानत्वात् । प्रयत्नः । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं करोतीति करोतिप्रयोगदर्शनात, वातादिना (२) स्पन्दने तु नायं करोति, किन्तुं वातादिनास्य स्पन्दो जायत इति प्रयोगात् करोत्यर्थस्तावत् करोतिसामानाधिकरण्यं चाख्याते दृश्यते-यजेत, यागेन कुर्यात्, पचति, पाकं करोति, गच्छति, गमनं करोतीति । अतश्च करोतिसामानाधिकरण्यात् प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोति प्रयोगानुपपत्तिः, रथे सङ्कल्परूपस्य यागस्य भावनात्वमुच्यते । तस्य भवदुक्तरीत्यैव धातुवाच्यत्वात् । किन्तु तस्यापि जनको यः प्रयत्नः पुरुषनिष्ठः स एवाख्यातवाच्यः, तस्यैव च भावनात्वमुच्यते । स एव च सर्वत्र कृञाना विव्रियते । उक्तं ह्याचार्यैः- "सर्वधात्वर्थसम्बद्धः करो. त्यर्थो हि भावना" इति । तस्य च धात्वर्थात् पृथक् विवियमाणत्वादेव न घात्वर्थता । किन्तु श्राख्यातांशवाच्य एव स इत्याशयः । यागविषय इति बहुव्रीहिः । स्तु नाम घास्वर्थातिरिक्तः कश्चित् व्यापारः स च यत्न एवेत्यन किं प्रमाणम् ? अत ग्राह-यजेतेति । 'यतेते'ति यतघातुप्रयोगेण यत्न एवाख्यातार्थों भवितुमईतीति सुचितम् । यत्र यत्नप्रतीतिरपेक्षिता तत्रैव कृञधातुप्रयोगदर्शनात् कृञ्षातोश्रख्यात सामानाधि. करण्यस्य बहुशो दर्शनादपि कृतिरूपयत्नवाचित्वमाख्यातस्येत्युपपादयति- यश्चेति । करोत्यर्थस्तावत् प्रयत्न इति । एतेन-घटं करोतीत्यर्थे घटं भावयतीति प्रयोगद शनात् करोतिभावयत्योस्समानार्थकत्वं प्रतीयते । भावयतेश्चान्योत्सत्यनुकूलव्यापारोऽर्थः इति करोतेरपिस एवार्थी भवितुमर्हति । करोतिसामान्याधिकरण्याच्चा ख्यातस्यापि स एवार्थं इति अभ्रे निरूपयिष्यमाणं मिश्रमतं प्रत्युक्तम् । यद्यन्योत्पादानुकूलव्यापारविशेष एवाख्यातार्थस्स्यात् वातरोगादिना स्पन्दमाने चैत्रशरीरे तादृशव्यापारस्य सत्वात् 'नायं स्पन्दं करोतीति निषेषोऽनुपपन्नस्स्यात् । आख्यातस्य करोतिसामानाधिकरण्यम भिलपति-यजेतेति । यजेतेत्यस्य 'यागेन कुर्यात्' इति विवरणं तस्य विधिप्रत्ययघटितत्वात् तत्र धात्वर्थातिरिक्तफलस्य सत्त्वेन तस्यैव भाव्यत्वौचित्यं धात्वर्थस्य करावे. नान्वयं च मनसि निघाय कृतम् । पचतीत्यत्र तु लडन्तत्वात् घात्वर्थस्यैव सन्निहितस्य भाव्यस्वौचित्यधिया पाकं करोतीति विवरणम् । यदि तु तत्राप्योदनमिति द्वितीयान्तपदलमभिव्याहारः तदा पाकेत श्रोदनं करोतीत्येव विवरणमिति ध्येयम् । श्राख्यात वाच्यत्वमिति । एतेन श्राख्यातस्य यत्नवाचकत्वे वाच्यतावच्छेदकं यत्नत्वं कल्पितं भवेत् । व्यापारवाचकत्वे तु तत्तत्फलमेदेन तत्तद्वयापाराणां मेदात् अनुगतैकशक्यतावच्छेदकसम्पादनं दुर्लभं स्यात् इति सूचितम् । श्राख्यातस्य यत्नार्थकत्वे तस्य चेतनमात्रवृत्तिस्वाभाव्येनाचेतने श्राख्यातप्रयोगानावा पार्थसारथिमिश्रमतम् । एतच्चातिरोहितमेव मीमांसापरिशीलनवताम् । सति चैवं यदत्र "आहुरिति पार्थसारथिमिश्रादय इति शेषः' इति व्याख्यातम् । न तत्र किञ्चिदपि प्रमाणं पश्यामःdaar Dinental १. यागेन । २. स्पन्दमाने । STITUT -FOUNDED 1917 मीमांसान्यायप्रकाशः [ श्रार्थी भावनायत्नाभावादिति वाच्यम् । वोढश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपपतेः । यन्मतेऽप्यन्योत्पादनानुकूलं व्यापारसामान्यं भावना तन्मतेऽपि रथे गमनातिरिक्तव्यापारानुपलब्धेः रथो गच्छुतीति प्रयोगस्यौपचारिकत्वमेवेति । अतश्च प्रयत्न एवार्थीभावना । यथाहुः प्रयत्नव्यतिरिक्तार्थी (१) भावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति ॥ 885 C अन्ये त्वाद्दुः - भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना । यस्मिन् व्यापारे कृते करणं फलोत्पादनाय समर्थ भवति तादृशो व्यापार इति यावत् । स एव चाख्यातार्थः । कुठारेण छिनत्तोत्याख्यातश्रवणे हि भवत्येतादृशी मतिः- कुठारेण तथा व्याप्रियेत यस्मिन् व्यापारे कृते कुठारेण छेदनं भवतीति । एवं 'यजेत स्वर्गकाम' इत्यस्यायमर्थः-यागेन तथा व्याप्रियेत नुपपत्तिमाशङ्कय परिहरति-न चेति । वोढश्वेति । रथवाहकाः रथे नियुक्ता येऽश्वाः तद्गतमित्यर्थः । रोप्येति । शक्यतावच्छेदकलाघवानुसारेण तादृशा रोपाङ्गीकरणमपि नातीव दोषायेति भावः । उक्तं हि न्यायसुधायाम्"स्त्रीत्वाभावेऽपि खट्वादो टाबादिप्रत्ययो यथा । प्रयुज्यते तथाख्यातं यत्नाभावेऽप्यचेतने । वोदूश्वादिगतं यत्नं रथादावुपचर्य वा । उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्तितः" इति । परमतेऽप्ययं दोषस्तुन्य एवेत्याह- यन्मत इति । तन्मते हि धात्वर्थानुकूलो व्यापारः श्राख्यातार्थः कश्चित् वक्तव्यः । न च 'रथो गच्छति' इत्यत्रोत्तरदेश संयोगानुकूलव्यापारातिरिक्तः कश्चित् व्यापारः प्रसिद्धोऽस्ति रथे, यन्त्राख्यातं प्रयुज्येत । अतभ तन्मतेऽप्यौपचारिकत्वं तुल्यमेवेति भावः । अस्मिन्नर्थे न्यायसुधोक्तामेव कारिकां प्रमाणयति-प्रयत्नेति । स्पष्टोऽर्थः । एवं न्यायसुधाकृन्मतमुपवर्ण्य पार्थसारथिमिश्रमतमुपवर्णयति- अन्ये त्विति । भवितुः भवनकर्तुः उत्पत्तुः श्रोदनादेः स्वर्गादेर्वा भवनानुकूल: उत्पश्यनुकूलः, भावकस्य प्रयोजंकस्य देवदत्तादेः यो व्यापारः स एव भावनापदवाच्य इत्यर्थः । स्वष्ठप्रतिपत्यर्थमाह- यस्मिन्निति । स एवेति । धात्वर्थादिरूपकरणस्य फलोत्पादने यस्सहकारी भवति स एवाख्यातार्थ इति फलितम् । कथमिदं प्रतीयते तादृश एव व्यापारः आख्यतार्थ इति ? अतः तदुपपादयितुं प्रथमं तावत् लोके तस्प्रतीतिमुपपादयति-कुठादेणेति । व्याप्रियेतेति । एवञ्च तादृशस्य व्यापारस्य सामान्यरूपेणैवाख्यातात् प्रतीतिः । न तु विशेषरूपेण । तत्तु प्रमाणान्तरसंवेद्यमेवेत्याशयः । यथा लोके तथैव वेदेऽपीत्याहएवमिति । यागादेः करणत्वं श्रुतम् । न केवलेन तेनान्यामुपकतेन फलं सम्पादयितुं शक्यमिति बागादिरेव स्वस्य फलजनने सहकारिणमपेक्षते । स एव चाख्यातात् सामा• १. 'मा' । 1917 Research Institute निरूपणम् ] सारविवेचिनी व्याख्यासंवलितः १८६ यस्मिन् व्यापारे कृते यागात् स्वर्गो भवतीति । स च व्यापारः क्वचिदुद्यमन: निपातनादिः, क्वचिचाभ्यन्वाधानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामं गच्छतीत्यत्रापि माख्यातेन ग्राम प्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन व्याप्रियते यस्मिन् व्यापारे कृते गमनाड्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः तस्य धातुनोकत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा. यां पूर्वोत्तरावान्तरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन विभज्योत्तरेण संयुज्य रथो प्रामं गच्छतीति प्रयोगात् । उद्यम्य निपात्य कुठारेण च्छिनीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्याता. न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य श्राख्यातात् प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगम्यत' इत्यनेनान्वेति । क्वचित् लोके कुठारेण च्छिनत्तीत्यादौ । क्वचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ । अग्न्यन्वा घान ब्राह्मण तर्पणपदार्थों पूर्व प्रकरण निरूपणावसरे व्याख्यातौ । पश्चादिति । 'अग्नीनन्वादधाति 'ब्राह्मणांस्तर्पयितवै' इत्यादिभिस्तत्तत्प्रातिस्वि कै विधिभिरित्यर्थः (१) 1 अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत् वदन्ति । तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तजन्यस्वात् फलजनकीभूतयागादिजनकत्व. मन्योत्पादानुकूलत्वम् । श्रस्मिथ मते फलजनकीभूतयागायुपकारकत्वं तदिति विवेकः । अत्र चशब्द एवकारश्च भिन्नक्रमौ । श्राख्यातात सामान्यत: एवेत्यर्थः । एवं व्यापारसामान्यस्याख्यातार्थत्वेऽम्युपगते 'रथो गच्छती'त्याद्यचेतन कर्तृक स्थलेऽप्यौपचारिकत्वं विनैव निर्वाहो भवतीत्याह-रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापारो गमनाख्यो धात्वर्थः । तादृशप्रामप्राप्तिरूपफलोत्पत्तौ व्यापृतस्य यः प्रकारविशेषः पूर्वदेश विभागादिरूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीत्यचेतन कर्तृकस्थलेऽपीत्याह-रथस्त. थेति । पञ्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् अत श्राइ- पूर्वऐति । एवञ्चास्मन्मते प्रयत्नवा चियतधातूत्तराख्यातस्यापि स एवार्थ इति लाघवम् । भवन्मते तु धास्वर्थानुकूलयत्नस्य तत्राप्रसिद्धे; तत्प्रयोगस्यौपचारिकत्व मेवाङ्गीकरणीयमिति गौरव मित्याशयेनाह— एवमिति । प्रयत्नो भवतीत्यनेनात्र घात्वर्थस्यैव प्रयत्नरूपस्य भाव्यत्वमिति सूचितम् । १. भत्रेदं वक्तव्यम् – यजेत, इत्यादौ देवतोद्देश्यद्रव्यत्यागरूपो व्यापारो चास्वर्थः, तदनुकूलः मन्वा धानादिब्राह्मणतपंणान्तो व्यापारकलाप आाख्यातार्थः, स चाख्यातेनानुकूल व्यापारत्वेन सामान्ये नोच्यते, बिशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरुच्यत इति पार्थसारथिमिश्रमतं इति सुविदितं मीमांसकानाम् । सति चैवं महामहोपाध्यायश्रीमदभ्यङ्करशास्त्रिमहोदयैः "अन्वाषानादिर्व्यापारो देवतोद्देश्य. कहविःप्रक्षेपानुकूलस्वेन विशेषरूपेण चातुवाच्यः" इति यदुक्तम्, न तत्र तेषामाशयमवगन्तुमीमहे । Bhandarkar Oriental १९० मीमांसान्यायप्रकाशः शा [यार्थी भावनार्थो न तु प्रयत्नः । तस्य धातुनोक्तत्वात् व्यापारविशेषापेक्षायां चेच्छादिः पश्चादवगम्यते, उद्यमननिपातनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापार सामान्य मेवाख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति, देवदत्तः प्रयतत इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तुं युक्तम्, मुख्ये संभवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव न प्रयत्नमात्रम् करोतेश्चेतनाचेतन कर्तृकाख्यातसामानाधिकरण्यादिति । तत्सिद्धमन्योत्पादानुकूलो व्यापा रविशेष आर्थी भावनेति । सैव चाख्यातांशेनोच्यते-भावयेदिति । तस्याश्च भाग्याकाङ्क्षायां स्व. गदि भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते । इतिकर्तव्यताकाङ्क्षायां प्रयाजादय इतिकर्तव्यतात्वेन संबध्यन्ते । एवञ्च यजेतेत्यादिना स्वर्गद्युद्देशेन यागादेविधानात् सिद्धं यागादेर्धर्मत्वं प्रयोजनमुद्दिश्य वेदेन विहितत्वात् । ( उपसंहारः) । सोऽयं धर्मो यदुद्देशेन विहितः तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगो(३) ननु – कोऽत्र विशेषः पूर्वस्मात् पक्षात् ? अत आह-तथा चेति । सर्वत्रेति । [श्रचेतन कर्तृकस्थले चेतनकर्तृकस्थले चेत्यर्थः । अनुगतत्वादिति । अन्योत्पादानुकूलत्वस्येति शेषः । तदभावात् प्रयत्नाभावात् । नन्वेवमप्यन्योत्पादानुकूलव्यापारस्याख्यातार्थत्वे पचति, पाकं करोतीति यत्नार्थककृञ्वातुना विवरणानुपपत्तिरित्यत आह-करोत्यर्थोऽपीति । कुत एतत् ? अत आह-करोतेरिति । चेतनकर्तृका ख्यातस्थले देवदत्तः पचतीत्यादौ देवदत्तः पाकं करोतीति विवरणवत् स्थाली पचतीत्यादावचेतन. कर्तृका ख्यातस्थलेऽपि स्थाली पाकं करोतीति विवरणस्य दृष्टत्वादिस्यर्थः । अतश्चोभयानुगतव्यापारस्यैवार्थी भावनात्वं भवितुमर्हति, न तु चेतनमात्रनिष्ठस्य प्रयत्नस्येत्युपसंहरतितत्सिद्धमिति । णिजन्तभूधातुना विवरणादपि तस्या अन्योत्पादानुकूलत्वमेव युक्तमित्यभिप्रायः । 207662 - एवं मतद्वयेनापि भावनां निरूप्य तत्सम्बन्धित्वात् पूर्व प्रकरणनिरूपणावसरे निरूपि. तमपि पुनरत्रांशत्रयं तस्यास्संक्षेपतः कथयति-तस्याश्चेति । प्रयाजादय इत्यादिन यस्य प्रधानस्य प्रकरणे यान्यज्ञानि पठितानि तानि प्रायाणि । प्रन्यारम्भे प्रतिज्ञातं या. गादेर्मत्वमेतावता प्रबन्धेन निरूप्य दर्शितमित्याशयेन पुनस्तत् स्मारयन् ग्रन्थमुपसंहरति — एवञ्चेति । 15 (उपसंहारः ) sund ननु यागादे स्वर्गादिरूपतत्तत्फलोद्देशेन विहितत्वे तत्तत्फलेषु वीतरागाणां मु. मुक्षूणां प्रवृत्तिनं स्यात् । इष्टापत्तौ केवलं कामिजनमात्रमुद्दिश्य प्रवृत्तं शास्त्रमतिसङ्कुचितं स्यादिति तस्य महाविषयत्वहानिरित्यत ग्राह- सोऽयमिति । तद्धेतुः तत्फलहेतुः । निःश्रेयसहेतुरिति । निःश्रेयसं मोक्षः तद्धेतुः चित्तशुद्धिसम्पादनद्वारा परम्परया निरूपणम् ] सारविवेचिनोव्याख्यासंवलितः विन्दार्पणबुध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पण बुद्धया तदनुष्ठाने तर निर b यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ प्रमाणाभावः । इति स्मृतेः । अस्याश्चातिष्टकादिस्मृतिवत् प्रामाण्यादित्यन्यन्त्र विस्तरः ॥ क्वाहं मन्दमतिः क्वेयं प्रक्रिया भाट्टसंम्मता । तस्माद्भक्तेर्विलासोऽयं गोविन्दगुरुपादयोः तरकारणमित्यर्थः । ननु सर्वत्र फलवाक्येषु "ज्योतिष्टोमेन स्वर्गकामो यजेत" "अग्निहोत्रं जुहुयात् स्वर्गकामः" "वाजपेयेन स्वाराज्यकामो यजेत' इत्या. दिषु स्वर्गादिरूपफलोद्देशेनैव कर्मणां विनियोगदर्शनात् ईश्वरार्पणबुभ्यानुष्ठाने प्रमा णाभावः इत्याशङ्कय परिहरति-न चेति । यत्करोषीति । यथा च तत्तद्वाक्येषु तत्तत्फलार्थं विहितानामपि कर्मणां "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इति श्रुत्या संयोगपृथक्त्वन्यायेन विविदिषोद्देशेन सर्वयज्ञानां विधानं तद्वदनयापि स्मृत्या श्रीभगवदुतया तेनैव न्यायेन ईश्वरार्पण बुध्यानुष्ठान विधानमिति भावः । यद्यपीयं स्मृतिरीश्वरार्पणबुध्याऽनुष्ठान एव प्रमाणम्, न तु तथानुष्ठितस्य निश्श्रेयस फल कत्वेऽपि । यावच्च तत्र प्रमाणं न प्रदर्श्यते तावत् अनुष्ठाने प्रवृत्तिरेव नोदे. तीति तदेव प्रथमतः प्रदर्शनीयम्, तथापि तत्रैव गीतायामेतच्छलोकानन्तर पढ़ितेन "शुभाशुभफलैरेवं मोदय से कर्मबन्धनैः । सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥" इति श्लोकेन पूर्वोक्त कर्मण: भगवद्रूपतावासिफल कत्वमुपवणितं सिद्धं कृत्वैवमुक्तं प्रन्थकृतेत्यवगन्तव्यम् । भगवद्गीतावचनस्थास्येतिहास रूपभारतान्तर्गतस्य कुतः तादृशं स्वार्थे प्रामाण्यमित्यता-स्या इति । गौताया या भारतान्तर्गतत्वेऽपि तदन्तगंताख्यानानामेवार्थवादत्वस्य तद्द्वतविधिभागानां तु धर्मे प्रामाण्यस्य वार्तिक का रैरेवार्थवादपादे स्थापितत्वात् विशेषतो भगवतो वासुदेवस्य मुखादेवास्या निर्गतत्वात् विधिरूपत्वाच्चास्याः प्रामाण्ये न कोऽपि संशय इत्याशयेनाइ-इत्यन्यत्र विस्तर इति । इति शब्दः प्रकरणवाची । कर्मणां तत्तत्फलार्थ विहितानामपि ईश्वरार्पणबुध्याप्यनुष्ठानमित्यादिकं प्रकृते सत्प्रहेण यदुक्तं तत्सर्व मया वेदान्तसारव्याख्याने नित्यादीनां कर्मणां प्रयोजनकथनावसरे विस्तरेण प्रतिपादितं तत एवावगन्तव्यम् । विस्तरभयात्तु नेह प्रपञ्चितमित्यर्थः । एवं प्रन्थं परिसमाप्य तदन्ते नम्रतां प्रदर्शयति-क्वाहमिति । भाट्टसम्मतेति । कौमारिलं मतमाश्रित्य प्रवृत्ता ये पार्थसारथिमिश्रप्रभृतयः तेषामभिमतेत्यर्थः । विशेषणमेतदुपाददता स्वप्रन्थोऽपि तदेव मतमवलम्ब्य प्रवृत्तो न प्राभाकरं मतमवलम्ब्येति सुचितम् । तर्हि किमर्थमेतादृश्यामस्यन्त दुरवगाहायां प्रक्रियायां प्रवृत्तिः ? श्रत आइभक्तेरिति । गोविन्दो भगवान् वासुदेवः स च गुरुश्च तो तयोः पादयोरित्यर्थः । स्वीय STITUT तमस्त ॥ Bhandarkar Oriental १६२ मोमांसान्यायप्रकाशः ग्रन्थरूपों मदीयोऽयं वाग्व्यापारः सुशोभनः । अनेन प्रोषत्तां देवो गोविन्दो भक्तवत्सलः ॥ 137 इति ( महामहोपाध्यायेन* ) श्रीमदनन्तदेवसूनुना श्रापदेवेन कृतं मीमांसान्यायप्रकाशसंज्ञकं पूर्वमीमांसाप्रकरणं समाप्तम् ॥ 0000000 प्रन्थं स्वेष्टदेवतायै श्रीभगवते वासुदेवाय समर्पयन् "तत्कुरुष्व मदर्पणम्" इति भगवदुक्ति स्वयमेवानुतिष्ठति । ग्रन्थरूप इति । वसुधावसुनन्देन्द्र ( १९८१ ) मिते वैक्रमवत्सरे । ज्येष्ठे मासि सिताष्टम्यां निशीथे कुजवासरे ॥ भागीरथ्यास्तटे रम्यै क्षेत्रे कनखले शुभे । पूर्णतामाप विश्वेशकृपयैयं कृतिर्मम ॥ यत्कारुण्यविलासेन प्रपेदे पूर्णतामियम् । व्याख्यैनामर्पये तस्य विश्वभर्तुः पदाम्बुजे ॥ 19 इति श्रीवेदवेदाङ्गपारगवैदिक सार्वभौमश्रीरघुनाथतनूजेन श्रीमदम्नपूर्णागर्भसम्भूतेन महामहोपाध्यायेन श्रीचिन्नस्वामिशास्त्र्यपरनाम्ना श्रीवेङ्कटसुब्रह्मण्यशर्मणा विरचिता मीमांसाम्याय प्रकाशव्याख्या सारविवेचिन्याख्या समाप्तिमगमत् । । विश्वेशश्शरणं मम । 1॥ शुभमस्तु ॥ ॥ शुभमस्तु ॥ 5310 11 MAS T 68-1970 129 12 113 * ( ) एतचिह्नान्तर्गतमधिकमुपलभ्यते कस्मिंश्चित् लिखित पुस्तके । Bath visu NSTITUTE POONA 12 FOUNDED 1917 Bhandarkar Oriental Research Institute कि प्राग्वंशवेदिकारिकाः ॥ श्रापस्तम्बमतादर्शलक्षणं त्वियमिष्यते । तत्राग्न्यायतनान्याहुः शम्यामात्राणि याशिकाः ॥ मध्येऽष्टप्रक्रमा ह्यन्तरालदेशं विहाय तु । पूर्वाप राग्ज्योस्तत्स्थानं तत्र पूर्वानलस्य तु ॥ षटूत्रिंशदङ्गुलायामविस्तारचतुरस्त्रकम् । श्रङ्गुल्यो विंशतिरपि तिलाः स्युस्सार्धबोडश ॥ तन्मात्ररज्वा भ्रमयेदापराग्निकमण्डलम् । क्षेत्रतस्तद्विगुणितं दक्षिणाग्नेस्तु मण्डलम् ॥ तद्विष्कम्भार्ध मे कोन त्रिंशदङ्गुलिकं मतम् । साधैकतिलहीनं तल्लभ्यते शुल्ब सूत्रतः ॥ तन्मात्ररज्ज्वा भ्रमणं मण्डले तु कृते सति । उत्तरार्धे परित्यक्ते शिष्टमर्धेन्दुचद्भवेत् ॥ एवं प्राग्वंशवेदिः स्यादर्थलक्षणसंमता । अन्यः प्रकारः ॥ की सार्धविंशत्यङ्गुलेन विलिखेद्गार्हपत्यकम् । सप्तविंशत्यङ्गुलेन दक्षिणाग्निस्तथा भवेत् ॥ गताष्टप्रक्रमे प्राध्याः शम्यामात्र प्रमाणतः । लिखेदाह वनींयन्तु चैषा प्राग्वंशवेदिका ॥ गार्हपत्यस्य पुरतः प्रक्रमद्वितयं त्यजेत् । श्रोण्यं सौ दर्शवेदीवत्ततो गृहपतेः पुरः ॥ श्रोणीभ्यां विलिखेत् पश्चात् प्रवर्ग्याणां तु सादनम् ॥ (1) प्राग्वंशस्थ प्रवर्ग्यादिस्थानानां पदार्थानां च प्रमापकानि सूत्राणि । FF# (3) ब्रह्मा यजमानः (१) ऋत्विजामुपवेशनप्रकारः प्रवर्ग्यसमयेपश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो प्रस्तोता च । उत्तरतः प्रतिप्रस्थाताग्नीघ्रश्च । १५-५-३॥ - (२) मेथ्याः(e) दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति । १५-६-१३ ॥ (३) वत्सशङ्को:एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुम् । १५-६-१४ ॥ (४) अजाशङ्को:201 एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरम् । १५-६-१५ ॥ (५) बर्करशङ्को:FIRES IR उत्तरतो बर्कराय । १५-६-१६ ॥ MUFIY (६) ततः खरानुपवपति। उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयFIST । तेजस्विनावधीतमस्तु ॥ मेकम् । १५-६-२०, २१ ॥ (७) उत्तरपूर्वद्वारं प्रत्युच्छिष्टखरं करोति ॥ १५-६-२२॥ २५ मी० न्या० (3) की LASTITUTE POONA Bhandarkar Oriental Research Institute p ( २ ) सौमिक्या महावेदेस्तन्त्रस्थानां च स्थानानां प्रमापकानि सूत्राणि । (१) महावेदे:- प्राग्वंशस्य मध्यमात् लालाटिकात् त्रीन् प्राचः प्रक्रमान प्रक्रम्य शङ्कं नि. हन्ति । तस्मात् पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिह तात् शङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्मात् द्वादशसु दक्षिणतः । एवमुत्त. रतः । तावंसौ । आप. श्री. ११-४-१२, १३ ॥ BERATIONS (२) उत्तरवेदे:अपरेण यूपावटदेशं सचरमवशिष्य घेद्यामुत्तरवेदिं दशपदां सोमे करौंति । ७-३-१० ॥ क (३) चात्वालस्य उत्तरस्मात् वेद्यंसादुदक प्रक्रमे चात्वालः । ७-४-१॥ (४) उत्करस्यचात्वालात् द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । ११-५-४॥ (५) आग्नीधागारस्य – Colpapbigy षट्सु प्रक्रमेषूत्करात प्रत्यगाग्नीधं मिनोति । अर्धमन्तवैद्यध बहिर्वेदि । प्राचीनवंशं चतुस्थूणं सर्वतः परिश्रितं दक्षिणत उपचारम् । ११-१-४ ॥ (६) सदसः अपरस्मात् घेद्यन्तात् त्रिषु पुरस्तात् प्रक्रमेषु तिर्यक् सदो मिनोति । नवारनिविस्तारं सप्तविंशतिरुद्गायतम् । अपरिमितं वा । ११-६-५, ७ ॥ (७) औदुम्बर्याःदक्षिणतः प्रक्रमे पृष्ठयाया औदुम्बरीं मध्ये सदसों मिनोति । ११-६-६ ॥ (८) विष्ण्यानांS चात्वालात् विष्णयानुपवपति । अन्तराग्नीध श्राग्नीप्रीयमुत्तरे वेद्यन्ते उत्तर- तस्सश्चरं शिष्ट्वा । सदसीतरान् पूर्वार्धे पुरस्तात् सञ्चरं शिक्षा । पृष्ठयायां होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् । उत्तरेण होत्रीयमितरानुदोच श्रायात- यति ब्राह्मणाच्छंसिनः पोतुर्भेष्टुरावा कस्येति । बहिस्सदसो मार्जालीयं दक्षिणे वेद्यन्ते दक्षिणतस्सञ्चरं शिष्वा सममाग्नीध्रीयेण ।११-१४-१६ ॥ (९) उपरवाणाम् ASTITUA POONA दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षं चतुर उपरवान् भवान्तरदेशेषु प्रादेशमुखान् प्रादेशान्तरालान् करोति । ११-११- १ । अधस्तात् संतृरणा भवन्त उपरिष्टादसँभिन्नाः ॥ ११-११-५ ॥ श्रीमस्तुती ar Or Inst ( ३ ) (१०) सोमखरस्य– एतस्यैव हविर्धानस्यात्रेयोपस्तम्भन मुपरवपांसुभिश्चतुरक्षं खरं करोति सोमपात्रेभ्यः माप्तम् । पुरस्तात् सञ्चरं शिनष्टि ॥ ११-१३-८, ६ ॥ (११) सोमखरस्थपात्राणाम्- खरे पात्राणि प्रयुनक्ति । दक्षिर्णेऽस उपशुपात्रम् । उत्तरमन्तर्यामस्य । ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् । तमपरेण प्रत्यञ्चि द्विदैवत्यपात्राणि । तान्यन्तरेण प्रबाहुक शुक्रामस्थनोः पात्रे । ते श्रपरेण प्रबाहुगृतुपात्रे । दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । उत्तरस्या- मुक्थ्यस्थालीम् । उक्थ्यपात्रं च तस्या उत्तरम् । स्थाल्यावन्तरेण त्रीण्यु. दञ्चयतिग्राह्यपात्राणि आग्नेयमैन्द्रं सौर्यमिति । उत्तरेंऽसे दधिग्रहपात्रम् । एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् । आदित्यपात्रञ्च तस्या उत्तरम् । उत्तरस्य हविर्घानस्याम्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् । मध्ये परिष्लवाम् । यथावकाशं दश चमसान् । दक्षिणस्य हविर्धानस्याघस्तात् पश्चादक्षं द्रोणकलशं सदशापवित्रम् । उत्तरस्य हविर्धानस्योपरिष्टान्नीडे श्राघवनीयम् । प्रधुरे पूतभृतम् । एतस्यैव हविर्थानस्याधस्तात् पश्चादक्षं श्रीनेकधनान् घटान् ॥ १२-१, १२-२-१-१३ ॥ (१२) यूपावटस्य अग्रेणाहवनीयं यूपावटं परिलिखत्यर्धमन्तवैद्यध बहिर्वेदि । ७-६-६ ॥ (१३) नाभेः- अथास्या मध्ये प्रादेशमात्र गोपदमात्रीमश्वशफमात्र वोत्तरनाभिं चतु- स्त्रक्तिं कृत्वा ॥ ७-५-१॥ एतेषां सुत्राणामर्थो मन्थविस्तरभिया न विवृतः । स च दीपिकादितो. ऽवगन्तव्यः ॥ (१४) सौमिकमहावेदिनिर्माणप्रकार:मीयते सौमिकी वेदिः प्रक्रमै दिशाकुलैः । श्रादौ त्रिषु नवद्वयेकचन्द्रद्विशरभूद्विषु ॥ १ ॥ एकैकं द्विशरैकेषु शङ्कवो दश पञ्च च । षट्त्रिंशिका मानरज्जुः तस्याः द्वयष्टेषु लक्षणम् ॥ २ ॥ विमाने पाशयोर्मध्यं प्रक्रमा द्वादश स्मृताः । श्रोणी पञ्चदशस्वाद्ये सदोऽनन्तरतुर्ययोः ॥ ३ ॥ तरकोणाः पञ्चमोनेषु भास्करेषु दशस्वपि । UNDED ॥ तेजस्विनावधीतमस्तु ॥ तृतीये द्वघन्तराधिष्ण्यास्तेषां प्रादेशतो भ्रमः ॥ ४ ॥ रुद्रेषु सप्तदशसु शङ्कपादोनितेष्विह । आग्नीधं तत्पञ्चमे तु धिष्ण्यौ द्वादशसु स्मृतौ ॥ ५ ॥ Bhandarkar Oriental. Research Institute POONA ( ४ ) षष्ठे स्यात्पञ्चके धानं पञ्चाशदृद्वितयान्विते । सप्तमे प्राग्वदाग्नीधं नवमे मनुषूत्करः ॥ ६ ॥ एकादशे हविर्घानं पाशो व्यत्यस्य पूर्ववत् । षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ॥ ७ ॥ शङ्कोरुत्तर वेदिः स्यात् द्वये सार्धं उपान्त्ययोः । अन्तिमे द्वादशस्वंसौ चात्वालोंऽसादुदक्कमे ॥ ८ ॥ पुरः पश्चात् सदो धानात् त्यजेत् प्रक्रमपञ्चकम् । एवमेव विमानं स्यात् पदैरपि चतुर्विधैः ॥ १ ॥ सर्वत्र प्रकमैर्माने नवारतिसदो हविः । ११ (१५) चमसलक्षणं कारिकात्मकम् – श्री ब्रह्मणश्चतुरश्रः स्यात् होतुस्तु परिमण्डलः । पृथुस्तु यजमानस्य त्र्यविरुद्गातुरुच्यते ॥ प्रशास्तुरवतष्टः स्यात् उत्तष्टो ब्रह्मशंसिनः । पोतुरग्रे विशाखावान्नेष्टुर्दक्षिणवककः ॥ अच्छावाकस्य रास्नावानाग्नीध्रस्य मयूखकः । सर्ववक्रः सदस्यस्य चमसत्सरवो मताः ॥ चमस्त्राश्चतुरश्रा वी मण्डला वेति केचन । होतुर्ब्रह्मण उद्गातुर्यष्टुश्शास्तुश्च शंसिनः ॥ पोतुर्नेष्ट्रच्छावाकानामाग्नोधस्येति च क्रमः । 9 2222 I DIDIN ANDEEP IN 10 FEDE I P Foreshimgate fromyogtijoppinhingfin 1 SPR 18. Top Posbf inhe 1 aplocharge mammi (७) विpिin lgdgipre an 17 23 LapivePTS (93) (9) विजयि नावधीतम ॥msgs sting NSTITUTE POONA 2312 FOUNDED 1917 Bhandarkar Oriental Research Institute न्यायप्रकाशोद्धृतानामधिकरणानाम् अनुक्रमणिका । अग्निहोत्राधिकरणम अङ्गगुण विरोधाधिकरणम अतिदेश विचारः अनारभ्याधीतानां प्रकृतिगामिताधिकरणम् अभिक्रमणाधिकरणम् * अभ्यासाधिकरणम् अर्थक्रमाधिकरणम् अर्थभावनाविचारः * आकृत्यधिकरणम् आधाराग्निहोत्राधिकरणम् आधानाधिकरणम * उत्पवनाधिकरणम् उद्भिदधिकरणम् * उपांशुयाजाधिकरणम् कण्डूयनाधिकरणम् कर्त्राधिकरणम् क्रमाधिकरणम् क्रमादीनां प्राबस्यदौर्बल्याधिकरणम गुणकामाधिकरणम् * गृहमेषीयाधिकरणम् गुणे स्वभ्याय्यकल्पनेति न्यायः * ग्रहेकत्वाधिकरणम् चित्राधिकरणम् तद्वयपदेशाधिकरणम् * तेषामर्थांधिकरणम् दक्षिणादानाधिकरणम् दर्वीहोमानामपूर्वताधिकरणम् दर्शपूर्णमासाधिकरणम् (पौर्णमास्यधिकरणम्) दीक्षणीयावानियमाधिकरणम् दीक्षितकर्तृकदानहोमादेः विशेषनिरूपणम् दैक्षस्य चेतरेषु * न चेदन्थेन शिष्टाः न देवताग्निशब्द क्रिषमन्यार्थं संयोगात् * न वा गुणशास्त्रत्वात् नानूयाजेब्विस्यन्त्र पर्युदासाश्रयणम् नामधेयप्रामाण्याधिकरणम् अ. पा. १ ४ ४ १२ २ २५ 6 ३ ५ २ १ a २ १ १ ३ 15 20 8 २ २ सहकारको ३ ४ 4.0 ८ MPS १ OFES ६ ६ 8 ४ ४ १० १० C 00% A १ १ ३ ? ३ १ २ ४ x १ 20 C TBHEDE 17 4 9 ५२ ४५ O २ २ २ ११ ५ ५ ९ १ २ ४ २ SATUT ४ 8 FOUNDED 1917 ५ २ १ ७ ३ १३ १ १ २६ पृ. लावधीतमस्तु Bhandarkar Oriental Rearch Institute DV 201 OPE १३१ ८४ ९१ Os १८६ R 679 १०४ ६० १२१ १३५ ६३ २६ ७३ ९९ १४ ४५ १० १४ TERET I SWIN १ ६ S १२५ १३१ १३२ GO ६९ mins ८८ १७६ १२७ ६ ५६ ६३ १६५ ११७ [ ६ ] BISIP221180.पा. निषादस्थपस्यधिकरणम् SINUPFER पणमय्यधिकरणम पशुसोमाधिकरणम् पाठक्रमनिरूपणम् प्रकरणाधिकरणम् प्रतिपदाधिकरणम् प्रवृत्तिक्रमनिरूपणम् प्राजापत्यव्रतेषु पर्युदासाश्रयणाधिकरणम् प्राप्ताप्राप्तन्यायविचारः (बलावलाधिकरणशेषः) * फलदेवतयोश्च बलाबलाधिकरणम् • बृहस्पतिसवस्य वाजपेयाङ्गताधिकरणम् भावार्थाधिकरणम् मन्त्रतस्तु विरोधे स्यात् मुख्यक्रमविचार: रथकाराधिकरणम् राजसूयपदस्याख्यात परतन्त्रताधिकरणम् रात्रिसत्राधिकरणम् रेवस्यधिकरणम लिङ्गाधिकरणम् वषट्कर्तुः प्रथमभचावचरिः वाजपेयाधिकरणम् विधिन्नय निरूपणम् विश्वजिदधिकरणम् वैश्वदेवाधिकरणम् शब्दभावनाविचारः शिष्टाकोपाधिकरणम् अत्यधिकरणम् अस्य धिकरणम् समाख्या निरूपणम् * सर्वशक्त्यधिकरणम् साब्राय्यं वा तत्प्रभत्वात् साप्तदश्याधिकरणम सामर्थ्याधिकरणम् स्थापवाहुतेस्सन्निपत्योपकारकत्वनिरूपणम् स्थानक्रमनिरूपणम् स्वर्गका माधिकरणम् ६ १ 8 ४ ac १ 8 १ ४ 8 १० १ ६ 0 १ 2 V १ OV १६ FOU १२ 9 8 १२ १ १३ १३ २ ४ ४ १ ६ १४ २५ POONA S अ. १ ४ २ १. १०७ १५३ ९२ ४८ १८ १९ १६२ ३७ ८८ १८ १७ ४२ ६६ ४९ १४ ६१ १११ १४६ १७८ Bhandarkar Oriental अवधेयम् –●एतचिह्नाकितान्यनिकरणानि न समग्रतय । विचारितानि । किन्तु उदाहरणार्थमेवो. पातानीनि ध्येयम् । २७ ९० १०८ 99 १०९ T आप. श्रौ. श्राप. घ. ऐ. ब्रा. पं.अ. ख. का. सं. जै. सू. 800 बृह. 2609 श. ब्रा. शा. दी. co ... न्यायसु. पृ. पा. सू. पू. मी. : ... ... ता. बा. तै. ना. का. प्र. अनु. तै. सं. का. प्र. अनु. तै. सं. का. प्र. अनु. तं. वा. पृ. न्या. र. SOOR 600 ... म. स्मृ. मै. सं. वाल्मी. रा. कि. : ●●● ... *** ॥ श्रीः ॥ साङ्केतिकशब्दार्थविवरणम् शा. भा. षड्वि. श्री. भ.गी.... ... ... 8003 DOOD 009 ... 0.0 000 ... 643 ... 600 ... 800 ... POC *** ● **** ... 8000 5000 ... 6980 000 ... ... +90 **** **** ... 800 ताण्ड्य महाब्राह्मणम् । तैत्तिरीयब्राह्मणं, अष्टकं, अथवा काण्डं, प्रश्नः अनुवाकः । तैत्तिरीयसंहिता, काण्डः, प्रश्न, अनुवाकः । तन्त्रवार्तिके, पृष्ठम् । न्यायरत्नमाला । ... ... ... DOO 900 0.00 ... शविरभाण्यम् । षड्विंशब्राह्मण । श्रीमद्भगवद्गीता । श्लो वा अपो. श्लो. श्लोकवार्तिके अपोहवादे श्लोकः । *** 0000 *** **** आपस्तम्बश्रौतसूत्रम् । आपस्तम्बधर्मक्षूत्रम् । ऐतरेयब्राह्मणम्, पश्चिका, अभ्यायः खण्डः । 92 काठकसंहिता । कातीयहोत्रम् । जैमिनीसूत्रम् । *** ***W kay riego न्यायसुधा, पृष्ठम् । पाणिनिसूत्रम् । पूर्वमीमांसा । बृहट्टीका । मनुस्मृतिः । मैत्रायणीयसंहिता । वाल्मीकीरामायणं, किष्किन्धाकाण्डः । शतपथब्राह्मणम् । शास्त्रदीपिका । FEATURE sa Bunt Joan Casa 100 1503 SEISIDA BY Ivoir bie POONA FOUNDED 1917 वैजरंतु ॥ Bhandarkar Oriental Research Institute bf pe ॥ श्रीः ॥ मीमांसान्यायप्रकाशोतवाक्यानामाकरसूची ॥ तै. सं. १. ६. ६. १. तै. ब्रा. २.१.२.१०. तै. ब्रा. २. १.९.२.८ ऐ. ब्रा. ५-५-३१) तै. सं. १. ५, ९, १. मै. सं. १.८. ७. 45 'तै. ब्रा. २. १. २.१०. ऐ. ब्रा. २५.१. p जै. सु. १२. २. २५. मै. सं. ४. ७. ६. तं. वा. ३. ३. ७. पृ. ७६३. अगन्म सुवः भग्निज्योतिः (मिश्र) अभिज्योतिः अग्निहोत्रं जुहोति अग्निहोत्रं जुहुयात अग्नेः पूर्वा अङ्गगुणविरोधे अतिरात्रे षोडअत्यन्तबलअत्र ह्येवावपन्ति अथाडतो धर्मअदन्तको अनन्यल ब्यः अनेकगवाअनेकपदअन्तरं यादृशं प्र प्राप्तेशास्त्र अभिधाभावनाअष्टवर्षं ब्राह्मणं अष्टो इवींषि आख्याता नामर्थ आग्नेयं चतुर्द्धा माझेयोष्टाकपालः आनर्थक्यप्रति- 123 श्रामिक्षां देवताआश्विनंग्रहं आश्विनोदशमो इन्द्राग्नी इदं इन्द्राग्नी रोचनाइमामगृणन् उद्भिदायजेत ऋत्विग्भ्यो दक्षिणां पतया निषादएतस्यैव रेवतीषु जे. सू. १. १. १. तै. सं. २. ६. ८. ५. grey ५, १७, १९, २३, २४, २५, २६, १३१. १४४ १७, १८ SAG 600 मै. सं. २. २.४. तां. बा. १७. ७. १. NO SERV शास्त्र. दी. १०.३.१४.६९१. तं. वा. २. २. ५. पृ. ५०३. बृहट्टीका तं. वा. २. १. १. ३४४, तै. ब्रा. १. ६. ३. ४. मै. सं. १-१०-८ of. शा. भा. सामर्थ्याधिकरणम् of. भाप. औ.३.३.२. 990 तै. सं. २. ६. ३. ३. मै. सं. १.१०.१. २०, रामप्रीती काय तं. वा. २. २.९. पृ. ५३३. श.बा.४.२.४.१२. आप. श्रौ. १२. १८.१२. काठ.सं.२७.५ तै. ब्रा. ३.५.१० मै. सं. ४. ११. १. तै. सं. ४. २. ११. १. तै. सं, ५. १. २. १. तां. बा. १९. ७. २, ३. 414 INSTITUTE POONA ८७ १३४ १३७ ८४,८५ १७४, १७५ ४२, ४२ ३४ १४३ १४१ १५९ १८२ १०४ १४९ -१५३ १०८ Bhandarkar Orenl Research Institute १७२ १५४ ७६ ११८ ९७, ९१. ४७ ७४ ३० FOUNDED १२, १९. २०, २५, ११७.१२० ॥ जनावधा १३२. १४३ १०७ १४ मतानिवाब एतावता ईनसा एवं च प्रकृताऐन्द्रवायवं ऐन्द्राग्नमेका. ऐन्द्रया गाई. श्रौदुम्बरो यूपो कृष्णसारको. क्रमविनियु. गुवानां च परा. गुणान्तरावगुणेत्वन्नाय्य गोवाश्वव प्रहं संभाष्टिं ग्रहै: जुहोति चित्रया यजेत बातपुत्रः कृष्णज्योतिष्टोमेन स्वर्ग. • तत्प्रख्यतवैय तत्र क्रमो तदमीनत्वात् तदन्यवदि. तद्धितेन चतु. तनूनपातं यजति. तस्य व्रतम् तस्यैतस्य. दषि मधु. द‍ना जुहुयात दन्ना जुहोति. दम्नेन्द्रियकामदर्शपूर्णमासाभ्यां दीक्षितो न ददाति दैक्षस्य चेतरेषु द्रव्यसंस्कारद्वये कयो द्विन कलअं नवेदन्येन न देवतानिन वा गुणशास्त्रन स्त्री स्वातन्त्र्य२६ मी० म्या० ( २ ) तै. ब्रा. १. ५.११.२. तं. वा. ३. ६. २. पृ. १०७८. मै. सं. ४. ५, ८. आप. ओ. १२.१४.८. मै. सं. २.१.१. मै.सं. १. ५. ११. तै. सं. २. १.१.६. श. ब्रा. ३. ३. ४. २३. तं. वा. २.२.२. पृ. ४५७ जे. सू. ३.१.२२. तं. वा. १. ४. ११. पृ. ३०९. जै. सू. ९. ३.१५. तां. बा. १६. १. १०. तै. सं. २. ४. ६. १. तं. वा. १. ४. १०. ३४७ पृ. तं. वा. ३, ३. ५. पृ, ८३२ तं. वा. १. ४. १. पृ. २८४. तं. वा. २. २. ९. पृ. ५२१ तै. सं. २.६.१.१. तै. ब्रा. २. ३. ३. मै.सं. २. ३.६. ते. बा. २. १५.६. जै. सु, ८. १.१.१३. नै. सु. ४. ३. १. पा. सू. १. ४. २२ जै. सू. १. ४. ९. जै. सू. ६. ३.१८. जै. सू. १०.४.५९. मनु. ९. ३. ४६ २२.१५३, १५४ ७४ ३०,३८ १२५ २१ ११,१२,१९, २३, १५१, १२८ ९५ ASTRUTA POONA १४ १३५ ९३ २१०, १३२ ८९ १२३ FOUNDED 1917 ११, १२, १८, २३, २४, २२ १४ २०,६९, ७१ १७६ १२७ ५० ॥ तेजस्वि भावधीतमस्तु ॥ Bhandarkar Oriental Research Institute १५२ ७३ & ५६ २०६ न होतारं वृणीते नातिरात्रेषोडनानूयाजेषु नान्वरिक्षे नामधात्वर्थ नावान्तरनेक्षे तो यन्तं पत्र पश्चनखाः पदमज्ञातपयसा जुहोति पर प्रकरणपर्यनिकतं पर्युदासः स पशुना बजेत पार्क तु पचिपाणिग्रहणातु पुंसां नेशपुरोडाशं चतु. 798 पृषदाज्ये नानू. प्रकृतौ वा प्रतितिष्ठन्ति ६ वै प्रतिषेधः स प्रयत्नव्यतिप्रयाजादिवाप्राकृतस्येवाप्राचीनप्रवणे प्राप्ते कर्मणि प्रायणीयनिष्कासफलो गुण- 2203438 फलदेवतफलंबुद्धिफलमात्रेयः बहिर्देवसदनं बर्हिषि रजतं महुषु बहुवचनं ब्राह्मणो न इन्त-. भूतं भव्यायोमध्यारपूर्वा मन्त्रतस्तु बिरोधे य इच्च्या पशुमा. ( ३ ) मै. सं. १. १०.१८. प्राप. ओ. २४. १३. ६. तै. सं. ५. २.७. १. मै. सं. ३. २. ६. श्लो. बा. अपोहवादश्लो. ३३. पृ. ५७५. तं. वा-१-४-३. पृ. २९३. मनुस्मृ. ४.३७. बाल्मी. रा. कि. १७. ३९. तं. वा. १: ४. २. पृ. २८६. तं. बा. ३. १. १४. पृ. ७५८. तं. सं. ६.६.६.२. आप. घ. २-१२-१७, १८. विधिवि. पृ. २४२. तै. सं. ६. ३. ११. ६. जै. सू. ३. ६. २. cfai. बा. २३, २०.४. न्यायस. पृ. ५७९. तं. वा. १. २. १. पृ. ५१. शास्त्र. दी. १०. ४. २६. ७१६. पृ. मै. सं. १-१०. ७. आय. ८.१.५ तं. वा. २.०२. ३. पृ. ४७६. तै. ६. १.५.५. पू. मी. २. २.५. १३३. पृ. जै. सू. ९. १.४ न्यायसु. १. ३. ७. पृ. २०१. जे. सू. ४. ३. १८ मै. सं. १- -२. तै. सं. १. ५. १. २. पा. सू. १. ४. २७. आप. औ. २. १८.९. जै. सू. ५. १. १६. ASTITUT POONA FOUNDED 1917 तेजस्विन Bhandarkar Oriental Research Institute १७४ १६३ ११, ५२ १६२ ११४. ११६ २४ 88 २९ १६१,१७३ ७८ १०७ १८५ १७२ ४५, १२७ ४९. .३८, ३९, ४३, ५२ १७७ ३६ १६७, १६८ १८ १६२ १८८ ९५ १४८ ८३ १९ ८७ २९ ९४ यजतिषु येयजामहं यजेत स्वर्गकामः यस्करोषि यसूर्याय च यथा वे श्येनः यदनये च प्रजायदाग्नेयोऽटायदाके चक्षुरेव यदाहवनीये यद्विश्वेदेवाः यस्य पर्णमयी यस्याहिताग्नेः यागानुमन्त्रयो वे प्रयाजानां राजसूयाय होना राजा राजसूयेन लः कर्तरि लोहितोष्णीषा वर्मं वा एतत् वर्षांस रथकारः वसन्ते ब्राह्मणः वषट्कर्तुः वाक्यार्थविधिः वाजपेयेनेष्ट्वा पायव्यं श्वेतं वायुव पिष्ठा. विधाने वानु. विधित्सितविधिरत्यन्तविश्वजिता यजेत विष्णुरुपांशु वैदस्याध्ययनं वेदोवाप्रायदर्श. वेदं कृत्वा वेदि वैश्वदेवीं कृत्वा. वैश्वदेवेन वैश्वदेव्याभिचा वैश्वानरं द्वादश. ब्रीहिमिर्चबेट ( ४ ) भग.गी. ९. २७. मै. सं. १-८. ७. षडवि. ब्रा. ३.८. मै. सं. १-८. ७. ते. सं. २-६.३.३. से. सं. ६. १.१.५.१० तै. बा. १.१.१२. ते. ब्रा. १.४.१०. ५. तै. सं. ३. ५. ७.२. तै. सं. २.२.२.५. २६९, १७०, १७१, १७२ २, १३.५०, ५१. १०२,१०५. ११२ तं. वा. ३. २. १. पृ. ७६८. तै. सं. २. ६. १.४. ते. ब्रा. १. ७. ६.४. आप. श्री. १८८१-४. cf. पा. सू. ३. ४. ६९. of. षड्वि. ब्रा. ३. ८. तै. सं. २. ६.१.५. of. आप. ओ. ५. ३.१२. तै. ब्रा. १. १. २. ६. of. आप. प्रौ. १२. २४.६. of. भाप. ओ. १८. ७.१७. तै. सं. २. १. १. तै. सं. २.१.१. तं. वा. १-४-२. पृ. २८४, तं. वा. १.४.४. पृ. २९६. तं. वा. १. २.४.पू. ६१. तै. सं. २.६. ६. श्लो. वा. १. १. ६.१. नै. सू. ३. ३.२. मै. सं. १.१०.१. मै. सं. २. १. २. आप.. ६. ३१. १३ १९१ १३६ १३२, १३३, १३६, १४४ २० ५० ३१. १३१. १५१, १५५ ही ४४,५० १०२ *** ७२ ६९, ७१,१०३ POON १२ २०५० २४२, १०४ ९०, १२९. १५४, २२ ८८ १७७ १४, १७७ १२ १०० तै. ब्रा. १. ४. १०. मै. सं. १-१०-८. १४३, १४७, १४८ १३८ ११८, १५३, २५४, १५६ Bhandarkar Oriental Research Institute ७४ २८ ब्रोहीनवहन्ति व्रीहीनवहन्यात् व्रीहीन्प्रोक्षति श्येनेनाभिचरन् श्रुत्यैवोप. औतव्यापार. से एप दिदैसक्तून्जुहोति समानयत उप. समियः समियो, समियों यजति संख्यायाँ कारके संप्रदाने चतु. सर्वत्र यौगिकैः सर्वत्राख्यात स स्वगः स्यात् सह पशुनाल सान्नाय्यं वा सामर्थ्य सर्व सामान्यविधि सायं जुहोति सारस्वती मेषी सास्य देवता सुचहविषोः सूर्यो ज्योतिः सोभयविशिष्टा सोममभिषुयोति सोमेन यजेत सोडरोदीत् स्थायी स्थापना स्थोनं ते सदनं स्वाध्यायोऽध्येतव्यः हृदय स्माते cf. भाप. श्री. १. १९. ११. 39. आप. औ. २२. ४. १३. तं. वा. २. २. ९. पृ. ५३३. तं. वा. २. ३. ३. पृ. ४७६. तै. ब्रा. १. ५. ९, ७. of. तै. सं. ३. ३.८. ते. सं. २. ६.१. २. ते. बा. ३. ५, ५. १. का. हौ. १.४. तै. सं. २-१.१.१. तं. वा. ३-४-८. पृ. १०० of. पा. सू. २.३.१३. तं. बा. ३. १. ६. पृ. ६७५. तं. वा. १.४. ३. पृ. २९०. जै. सू. ४.३.१५. of. प्राप. श्री. २२. ३. १८. जे. सू. ८.२.१३. तं. वा. ३. ४. १४. पृ. १०२०. मै. सं ७-८. ६. मै. सं. ४-७-८. पा. सू. ४. २. २४.. का. वा. मै. सं. १-८. १. ते. ब्रा. २. १.९.२ शास्त्र. दी. १०.३.११.६८७. 3830*3*3 13-03-15.5 218329 980888pl 30, 14.6 ते. बा. ३. ७. ५. श. बा. ११.५.७, २. तै. सं. ६. ३.१०. ५. 1.919. २१ -७५ २६, १०५ 8 ११३, १६८ २९, ८५. १४५ ३९५, १४४ ४८.९३, १४४ ३७ १९६ ७७ UPTO cb तै. सं. ३.२.२.३. ६. ११.१२.१७. १८.१९.२०. 323. २१. २२. २४, १२४. १५३, १.५.१.१. १७९ ८५ ३०, ४३ 1 INSTITUT BOONA ७८ १२ ४८ १३४ १२९ ११८, १३४, १४७ १४७ FOUNDED 1917 ३८ ४७ ॥जस्त्रि नाव वास्तु ॥ Bhandarkar Oriental Research Institute १३६ ४४४ ७१ २९ votifi भक्षय्यं श्वे मक्षैदींव्यति भनय भाज्यस्य अझये कृत्तिकाभ्यः भग्नये जुष्टम् अग्नये दात्रे भग्नये पावकाय भग्नये स्वाहा अग्नये स्विष्टकृते भग्निरिदं अग्निमूं अग्निज्योतिः अग्निहोत्रम् सारविवेचिन्युद्घृतवाक्यानामाकरसूची श. बा. २. ५. ४.१ श्रौ. ८.१.१. आप. मै. सं. ४. ४. ६. 99 भग्निहोत्रं जुहुयात् अग्निहोत्रं जुहोति अग्नीनन्वाद अग्नीषोमपोः भग्नीषोमा अग्नीषोमा सवे भग्नीषोमीयं पशु. अग्नेस्तृपानि अग्न्यादयो हि अनोऽग्नीषोमीयः अत एवोदपन्ति अतोऽन्यतमया भत्र होवावपक्ति अथ या दा अयेतस्य हारिभयैष ज्योतिः अमेष भूः अदितिः पा मध्वर्यु वृणोते अनभिहिते मनमध्ये पुरोडाशं अन्याय चानेकाअन्वयव्यति अन्याशयें च अर्पा नध्ये } तै. बा. ३. १.४.१. वै. सं. १. १.४.२. तै. सं. २.३.२.८. तै. सं. २. २, ४. २. ते. ब्रा. ३. १. ४. १. ते. बा. ३.५.१०.२. ते. ब्रा. ३. ५. ७. १. ऋक्सं. तै. ब्रा. २.१.९. २. ते. ब्रा. २. १ त. बा. २.१. तै. ब्रा. २. of आप. भौ. १. १.१. तै. सं. २. ३. १४. १. तै. ब्रा. ३. ५७. २. वै. सं. ६. १. ११६, आप. औ. ६. २३. १. तं. वा. १. ४. १०, ३४७. पृ. ADA मनु. ४. १३. $.B.B तां. ब्रा. १६. १. मा. श. ब्रा. ४. ४.३.१०. तां. बा. १६.८. १, at. ब्रा. of मै. सं. १.२.१५. पा. सू. २. ३. १० तै. १. ८. १. १. N तं. बा. ३. २. ७. जे. सू. १२. ४, ४७ तै. बा. १, ७.१०. ६. f b १४८ ६९ ६३, १३३ ९९ १४० १३३ FOUNDED 1917 ४७ ९२, ९८ १३४, १३७ १७, १३२ १३६ १०, १७, १३२ १८९ 66508 ९२ २८, १५३, १७०, १७६ १५२ १२८ १२५ १६२ ११५, ११६ १४२ Ann Gui WHIT१३९ 13 १०५ ३३ ६९ ADIPP३४ ११८ ॥ तंजस्वि नावधीतमस्तु ॥ Bhandariar Oriental (15) Research Institute अप्रतिष्ठिता बै अप्राधान्य भप्राप्ते तु भप्राप्ते शास्त्रं अप्स्ववभूथेन अमावास्या व सरस्वती श्रमोनो नाः अरुणया पिकाइया मर्यादा स्वविषयभव्यतासु तु सोमस्य अश्वस्य पदे अश्विनोखा अश्वं नवा अष्टवर्ष ब्राह्मण भष्टौ, हवींषि अस्पतन्त्राः भाग्नावेष्णवं भाग्नेयमप्रिष्टोम भाग्नेय मष्टा कपालं आग्नेयो वे भाग्नेयं चतुर्द्धा श्राग्नेयः कृष्णग्रीवः भाग्नेय्याऽग्नीम आधारमाधारयति भाषाराग्निहोत्रम् आचतुर्यारकर्म आचान्तेन कर्म आज्यभागौ यजति मात्मने वा यजमानाय आदित्यं चरुं आदित्यां मल्हा मानर्थक्यातद. मान्यं दिवो श्रामनमस्यामनस्य आमनहोमानां आमिच देवता आश्रययेति आश्विनं गृह्णाति आश्विनो स्वा डापते 1 (७ ) तै. ब्रा. वाक्यप. तं. वा. २.२.३. ON तै. ३.५.१.४. of. तँ. सं. ६. १. ६. ७. विधिर, ४२. जं. सू. ९.१.१६. cf. ते. बा. ३. ९. २३.१ ते. सं. ३. २. ५. सामसं. उत्त. ८. १. ७. तै. सं. ५. ५.१.४ तै. सं. १. ८.२. of तै. सं. २. ३. ३.३ भाप. ओ. ३.३.२. तै. सं. ५. ५.२२. तै. सं. २. ५.११.६ जै. सू. २.२.१३ आप. ओ. १. २. ११ मै.सं. १.१०.१५. ते. बा. १. ६. १०. ५ तै. सं. १. ८. ११. जे. सू. ३. १.१८ तै. सं. २. ३.१४. २ तै. सं. २. ३.९. ३. शास्त्रदीपिका ४ ४ ४,३९७ पृ. तं. बा. २. २. ९.५३४ पृ. तं. सं. १. ६. ११.१. मै. सं. ४.२.४.१२. तै. सं. ३.२.५.१. ते. श्रं. १७, १९, २९, ७५, १३९, १६९ NSTITUS POONA १२८ १०० ७० १६१ ७ २६९ ८१ १०४ १४०, १४९ १०६ ६१ ७५ १४६, १४९ १४७ १७४ १०१ ८५ २६, ४९ २३ ३९ ६७ FOUNDED 1917 २६, ४९, ८९, १११ ८४ १५४ १५ ६८ ६८ ७६ १३४ ६५ २२, ९, १५३ अवलम्वि भावधीत Bhandarkar Ori Research Institute इडो अग्ने इदमैव च इदं च यज इदं बावापृथिवी इदं विष्णुः इन्द्र ऊच्चों इन्द्राग्नी दं इमं पशुं पशुपते इमानि व्रतानि इमामगृभ्णन् इथे स्वा इषे स्वेति शाखां इष्टिषु दर्शपूर्ण उच्चैः प्रवर्येण उदगग्राभ्यां उद्भिदा यजेव उपवा जामयः उपहूत उपह उपांशुयाजमन्तरा ऋत्विग्भ्यो दक्षिणां ऋत्विग्दधृक्एकरवादयः एकविंशति कपालः एकविंशतिम एकविंशेनातिएकस्सोपानपंक्तिस्थो एकादश वर्षे एकादश्यां न एकार्थास्तु एतया निषाद एतयेव दिशा एतस्यामेव एतस्यैव रेवतीषु पतामेव निर्ब एतावता हैन. एन्द्र सानसिं ऐन्द्रवायवं ऐन्द्राग्नमेश्रौदम्बरो कदाचन ( ६ ) ते. बा. ३. ५.१. अर्थसंग्रह. म्या. ते. ब्रा. ३. ५. १०.१. तै. ब्रा. ३.५.१०.२. 19 तै. सं. ३.२.४.१. •त. सं. ५.१.२.१. तै. सं. १.१.१.१. आप. ओ. १. १. १०. नै. सु. ८.१. आप. औ. १. ११.९. तां. ब्रा. १७. ७. २३. सामसं. उत्त. ७. २.१४. तै. सं. २. ६. ६. ४. पा. सू. ३.२. ५९. महाभाष्यम् ते. बा. १. ७. ७. ३. तै. सं. २. ५. ७. २. of आप. ओ. १४. १.२. जे. सू. १२. ३. १०. मै. सं. २. २. ४. श्लो. वा. ६.. ४२१ तां. ब्रा. १६. १. तां. बा. १७. ७: १. तै. सं. २. ३. २. ५, ते. ब्रा. ३. ५. ७. ३. मै. सं. ४. ५.७. तै. सं. २.१.९. ६. ऋग्वे. ८. ५१.७. ८२ ४७ ६७. ४७ १०० ८० १२७ १०० ६१ १२१, १२७ १५ ८० ९९ ANSTITUT PRONA १४३, १४४ १४४ ३७ ७३ तेजस्वी Bhandarkar Oriental Research Institu ११५ ५८ १०४ २४, १५५ ७८, १०७ १२७ १४२ १६२ ९८ FOUNDED ९१, १५३ ७४ ५९,६० ३५ कर्तरि कृत् कर्तुरिटाकर्तृकरणयोः कर्मणि द्वितीया कलज जपला. कारकं चाकारके किमा कृत्तिकाभ्यः को धर्मः कोशं बर्हिः क्रबक्रीता तु तुवनम्मगोदोहनेन गौबाश्वव ग्रहं संभाष्टि ग्रहैजुहोति ग्रावभिरभि ग्रीष्मे राजन्यः चमसेनापः चाग्दः चोदना चोपचोदनालक्षणः चोदना वा गुणा. चोदनेति छागस्य वया छेदनप्रोक्षणादि ज्योतिगौंः ज्योतिष्टोमेन तत्प्रकृतौ तत्फल भूता तत्र चान्यान्यत्र चेति तत्र श्रुतिविषा तत्सादृश्यम तदन्यतद्विरु वदाडुः तद्गुणास्तु तनूनपासं तनूनपाद तमध्यापयीत (. ) पा. सू. ३. ४. २७.. पा. सू. २. ३. १८ पा. सु. २. ३. २. आप, ध. १. १७. २६. तं. ३, ४. ४. (९३३ पूना ) पा. सू. १.४. २३. पा. सु. ५.३.२५. तै. ब्रा. ३. १. ४. १. शा. भा. १, १, १, पृ. ९.. आप. श्रौ. १. १६. २. ता. ब्रा. १६.१.१० 71.00 bum तै. सं. ६. २. ११.४ तै. ब्रा. १. १. २. ७ आप. श्री. १. १५. ३ श्लो. वा. सू. १. पृ. २११ जै. सू. १.१.२. जै. सू. २. २.६ ज्ञा. भा. १. १. २. पृ. १२ cf. आप. श्रौ. ७. २१. १ विधिर, व्या. २४. 99 " २१५. न्याय. र. भङ्गनिये ३० ते. बा. १. ५. ११. जै. सू. १.४. ९. तै. सं. २.६.१.१० तै. ब्रा. ३. ५.१... १५३ १०, ३३, १२२ १०५ INSTITUT POONA FOUNDED 1917 ७, ३१, १२३ १३९ १४० १४० १३०, १३५ १७५ १२२ १२२ जावतमस्तु । २ Bhandarkar Orie Research Institute १०६ १२३ २ २ २ १२८ ४६. ११२ २७. ६ ४९, ९५ ९३, १४५ १०४ १६४ १६४ १५१ तमेतं वेदा तयोस्तु प्रत्ययः तस्माच्छक्तितस्मादर्थो तस्मादेकदेशतस्य द्वादश तस्य धेनुः तस्य नवतितस्य वायव्यातस्य व्रतम् तस्यैतस्य तानि द्वैधं ताभ्यामेतं तासां या तृतीयस्यामितेन प्रवर्तकयोः तैत्तिरीयशाखायां त्रिणवे नौत्रिवृदग्निष्टुत् त्रिवृत्पञ्चत्रिवृद्वहिष्पवत्रीणि हवै त्वं ह्यग्ने त्वाष्ट्रं पानी त्सरा वा एषा दघ्ना जुहोति दध्नेन्द्रियदर्शपूर्णमासादर्शो वा एतयोः दशापवित्रेण दक्षिणाचारेण दाक्षायणदिशोऽय राजा दीक्षितो न ददाति दुर्बलोऽपि विधिः दृष्टादृष्टार्थं च दृष्टानुविधिः देवं बर्हिः देवा आज्यपा देवानाज्यपा २७ मी० न्या० ( १० ) बृ. उ. श. ब्रा. १४. ४. ४. २१. तं. वा. ३. ४. ४. ( ९३४ पूना ) विधिर. ४२. तं. वा. १.४.१.१०. (३४७ पू) तं. ब्रा. १६. १. ११. जै. सू. १०. ३. ५६. तां. ब्रा. १६.१.८. ऐब्रा. १४. ३. तां. ब्रा. १७. ६. १. बृह. आ. २. ४.१०. जै. सू. २.१.६. तै. सं. २.५.२.३. तां. ब्रा. १६. १. ९. तै. सं. ३. ५. ७. १. तै. ब्रा. ३. २. १. १. शा. दी. न्या. मयूख. ३.३.७. पृ. २४६. HEX तां. ब्रा. १७. ६. १. तै. ब्रा. १. ५. ११. १, तां. ब्रा. २०. ३. १. तै. ब्रा.. तै. सं. ६. ६. ६. २९ मैं. सं. ३.८.२. तै. ब्रा. २. १.५.६. 338 (४० तै. सं. २. ५.५.४. तै. ब्रा. १. ७. १०.५. मै. सं. ३.६.५. न्यायरत्न. १२१ पृ. चौ. तै. ब्रा. ३. ५. ९. १. तै. ब्रा. ३. ५. १०. ४. तै. ब्रा. ३. ५. ३.२. १९१ १५८ १२२ १६८ १५० १४२ १३९ १४२ १४ १६३ ४. ८१ २८,९३ १४२ ४४ १४, १५ १५१ १३० ११६ २९, १३३ ८० १६९ fo ७२ १७. २३.१२१ ५७, १२० ५१. १८९ ७०. INSTITUTE PODNA FOUNDED 1917 । जस्थितमस्त ॥ Bhandarkar Oriental Research Institute १४० १६ ७२ १६ १७० ८२. s ६२ ६२ CHE द्रव्यसंयोगात् द्रव्यस्थाक्रियाद्रव्याणां वाक्यद्वयं वा इदं द्वयोश्शेषिणोः द्वादशवर्ष द्वाभ्यां विधेयद्विईंविषोऽवद्वथेकयोद्विव धर्मेण पापमधाता यथापूर्वी धातुसंबन्धे धेनु दक्षिणा न केवला प्रकृतिः न क्रियागर्भ नव्वर्जितो न तु यूपाख्यं न तौ पशौ नमो देवेभ्यः न द्रव्यं तेना न लङ्घयेत् नव प्रयाजा न शब्दे स्पन्दन स्त्रियमुपेयात् न स्त्रीशूद्रौ न स्त्रीस्वातन्त्र्यनहि दार्शपौर्णन हिंस्यात्सर्वाणि न हि शब्दस्य न ह्यविद्वान् नागृहीत विशेषणानातिरात्रे षोडशिनं नानृतं वदेत् नास्तं यन्तं निःश्रेण्यारोहनिमित्तफलनिर्विशेषं न नीतासु दक्षिणासु नेक्षेतोद्यन्तनेत्थं भावेन ( ११ ) MENY MENES जै. सू. २. २. १७. न्या. सु. तं. वा. १. २.४. ४११ पृ. श. ब्रा. ३.८.७.४. cf. आप. ध. १. १.१९. न्यायर. नित्यका. १२. पासू. १, ४, २२, तै. आ. १०. ७९.१०० / तै. आ. १४. पा. सू. ३. ४. १. 30 शास्त्रदी. ९.२.१३. ६१४ पृ. 3108 da तै. ब्रा. ३. ५. १०. ५. शा. भा. २. १. ४. (४११ पृ.) तै. ब्रा. १. ६.३.३. cf. २. ५.६.४. मनु. ९.३.17 तं. वा. ३. ३. ४. ( ९.११ पूना ) शा. दी. २. १. १. पृ. १०० जै. सू. ३.८.१८ of. शा. भा. १. ३. ९. (पृ. ३०४) ARMAZ 50% R तै. सं. २. ५. ५.६. मनु. ४. ३७ तं. वा. ३. ३. ७. ३४ पृ. न्यायर. तै. सं. ६. १. ३. ८. मनु. ४. ३७. 26.6 तं. वा. ३. ३. ७. पृ. ८३६. ॥ १५३ ५३ INSTITUTE POONA १०२ ३ १०९ १२७, १२८, १३९ ३४ १५४ १६० ५६ १६१. १६८. १७६ FOUNDED 1917 ५२ ११२ १०४ ॥ तजस्विनावधीतमस्तु ॥ १०३ २८ १८४ १०७ ३५ मा १६८ ११४ १६२ ५८ १४९ १८४ १७६ १०५ १०६ - १६१ १७६ Bhandarkar Oriental Research Institute ५२ १६२ १०२ १८२ ६४ १६२ ६० नैव हि द्रव्यमापञ्चदशान्याज्यानि पत्न्यवेक्षितमापत्युनों यज्ञपदमज्ञातसंपरिपूर्ण पदं पशुं पर्यग्नि पशुं विशास्ति पशुना यजेत पशुमुपाकरोति पिता रक्षति पुरुषार्थस्यैव पुरोडाशकपालेन पूर्णमासः सरस्वान् पूर्वाक्षेपप्रकारः पूषा प्रपिष्टपुष्णोऽहं देवपृषदाज्ये नानूपौर्णमासी पूर्व प्रकरणग्राह्य प्रकरणसाम. प्रकारवचने प्रकृतिप्रत्ययौ प्रजापतिरकामप्रजापतये रोप्रजापतये स्वाहा प्रजापते प्रजापतेर्जायप्रतद्विष्णुः प्रत्ययः प्राधान्येन प्रधानत्वं विधेः प्रयाजशेषेण प्रयाजाष्ट्विा प्रयोजनमप्रवृत्तिसमर्थो प्रवृत्तौ वा निवृ• प्रवो वाजा अभि प्रस साहिषे प्राकृतास्तावत् प्राचीनप्रवणे ( १२ ) तं. वा. २. २. ९. पृ. ५३३. ता. ब्रा. २०. १. १. cf. तै ब्रा. ३. ३. ४.१. पा. सू. तं. वा. १.४.२. पृ. ३२५. ef. तै. सं. ६. ३.८.१. 98.99 JP of. तै. सं. ३. १. ५, १. मनु. ९.४. शास्त्रदी. ६. १. १. पृ. ४४६ ef. आप. श्रौ. १. २०.९. विधिर. २४. तै. सं. २.६.८.५ का. सं. ४.१६. न्यायसु. of. शास्त्रदी. ४. ४. ४. ३९७ पृ. तं. वा. ३. ४. ४. पृ९१२. पा. सू. ५. ३. २५. cf तै. ब्रा. ३. १. ४.२. तै. ब्रा. ३. १. ४. २. तै. बा. ३. ५. ७. १. तै. सं. ३. १. ४. १. तै. सं. २. ६. १. ६. श्लो. वा. १. १. २. पृ. १११. तै. ब्रा. ३. ५.२.१. तै. सं ३. ४.११. ४, YJE. b मैं. सं. १.१०. ७. ११८,१५४ ४१३० १०६ १०६ १२५ १५९ १७७ २८ FFF ३१ ७७ Anshupta ११४ ४२ श्री ३९ sathv कर्कश ASTITUTE POONA FOUNDED 1917 १०, १३, १२१, १२२, १५९ गा १० FR ६३ ॥ तेजस्थि Bhandarkar Oriental Research Institute १०६ १३ २७ So लावधीत श्रीला ७० १७१ ५१ ६३ १३४ १०० १३४ १६१ ९९ ५ १८३ v ४६ ९८ ६५ १४७ ● प्राजापत्यं घृते प्रातिपदिकाथप्राप्तिश्शेषि प्राप्ते कर्मणि प्रैतु हो तुः बर्हिर्देवसदनबर्हिषि रजतं बहुषु बहुवचनम् बालयावा बाल्ये पितृवशे बुधन्वानाग्नेयः ब्रह्मक्षत्रेण ब्राह्मणांस्तर्पभारतेऽपि भारो यो येन. भावनैव हि भावप्रधानं भुवो यज्ञस्य भूतं भव्यायोमनोमयः प्राणमन्त्रतस्तु विरोममाग्ने वर्चः मरुद्भयो गृहमारुत एषः मारुतस्य चैकमाहिष्येण करण्यां माहिष्योग्रौ मैत्रावरुणं गृह्णाति मैत्रावरुणाय दण्डं य एवं विद्वानमाय एवं विद्वान्पौणंयजतिषु ये यजायजमानस्य याज्या यज्ञाथर्वणं वै यज्ञायज्ञावः यत्किंचित्सोमयत्प्रयाजानां यथा चमर्स यथा होमः क्रियायदाग्नेयोऽष्टा( १३ ) मै. सं. २.२.२. पा. सू. २.३.४६. विधिर. २१ तं. वा. २.२.३. ४८५ पृ. श. ब्रा. ४. १. ६. २९. मै.सं. १.१.२. of. तै. सं. १. ५. २. पा. सू. १.४. २१. मनु. ५. १४७ मनु. ५. १४९ वाल्मी. रामा. कि. १७.३९ श्लो. वा. १. १. ७. पृ. १४९ मयूखमा. ६. १. १. श्लो. वा. १. १. वाक्याधि०. श्लो. ३३०. नि. १.१. तै. ब्रा. ऋकसं. ३.५.७.१. शा. भा बृ. उ. जै. सू. ५. १. १६. तै. सं. ४. ७. १४.१. तै. सं. १. ८.४ १. तै. ब्रॉ. १. ७. ७.३. तै. ब्रा. १. ७. १०.६. याज्ञ. १. ९५. of. तै. सं. ६. ६.४८. तै. सं. ६. १.४.२. तै. सं. १. ६. ९. १. तै. सं. १. ६ . ९. १. ए 9 साम. सं. ५. ३५. मै.सं. २.३.२. cf श. ब्रा. ४. ४. ३.१० तं. वा. २. १.४.४११ पृ. तै. सं. २. ६. ३.३. fissimilagy