--PPN 14.5: 892 2.38
Sri Vani Vilas Sanskrit Series No. 15.
Meghasandesa
OF KALIDASA
WITH THE COMMENTARY
'VIDYULLATA'
BY
PURNASARASWATI.
EDITED BY
Pandit R. Y. KRISHNAMACHARIAR.
SRIRANGAM:
BRI VANI VILAS PRESS.
1909.
Copyright Registered.
---
॥ श्रीः ॥
॥ मेघसंदेशः ॥
श्रीमता पूर्णसरस्वतीनाम्ना पण्डितमणिना
विरचितया विद्युल्लतारूयया
व्याख्यया समुद्भासितः ॥
अभिनवभट्टबाणेन श्रीकृष्णसूरिणा परिशोधितः ।
श्रीरङ्गनगरे श्रीवाणीविलासमुद्रयन्त्रालये संमुद्रितः । १९०९ --PREFACE.
IT affords us much pleasure to be the first to publish this rare and excellent commentary on Meghasandesa--the well known poem of the world famous Kalidasa. The poem itself is the first of its kind and is very popular being short and sweet. It is written in the peculiarly charming style of Kalidasa and consequently is a very great favourite with all lovers of Sanskrit literature. No other evidence is needed for this statement but the fact that since the days of Kalidasa a host of imitators have sprung up who have composed several Sandesakavyas in close imitation of this splendid masterpiece. Further this precious little poem is commented upon by not less than twenty commentators--good, bad and indifferent. Of all these commentaries that of Mallinatha is considered to be the best and it would be thought presumptuous on the part of any one if he were to state that there exists another commentary for this poem which excels Mallinatha's in every way and which makes the latter pale into insignificance. Still such is the fact and a perusal of the commentary called Vidyullata published here for the first time would clearly show its superiority to every other known commentary. The commentator, named Purna Sarasvati, seems to have lived some three centuries ago somewhere in the State of Cochin. He must have possessed vast learning as is evidenced from the numerous quotations in his commentary. It is not a mere commentary explaining the meanings of passages that he has written, but a very critical study of the poem itself. Modern Sanskrit scholars, both oriental and occidental, would be astonished to find after reading this commentary that a Pandit of some three centuries ago possessed so much critical spirit as to produce this masterly study of the Poem.
We obtained only one Mss. copy of this excellent commentary through the kindness of our friend Mr. K. Rama Pisharati, Senior Sanskrit Pandit, Ernakulam College. When we went through it, we could not resist the temptation to begin its printing at once. But on the completion of the first Aswasa we felt that another Mss. was absolutely necessary if a correct edition had to be brought out. So with the help of H. H. Manavikrama Ettan Raja, the 3rd Prince of Calicut we got another Mss. copy from Brahma Sri Desamangalam Cheria Narayanan Nambudripad and with these two manuscripts to guide us we completed the book. Our thanks are due to all the above named gentlemen for their kind help. In spite of all our care, several mistakes might have crept in, in this first edition which we hope to rectify in the subsequent editions.
SRI VANI VILAS PRESS Srirangam
J. K. Balasubrahmanyam.
---
॥ श्रीः ॥
॥ भूमिका ।
महाकविश्रीकालिदासविरचितेषु काव्येषु, संक्षिप्तमक्षरेण, अधिकमर्थपोषेण, रम्यं रसविलासेन चेदं मेघसंदेशाभिधं काव्यरत्नम् । इदं च खण्डकाव्यमिति दर्पणकृदादयः । दण्डिमतानुसारिणस्तु महाकाव्यमेव मन्यन्ते । स्वाधिकारप्रमत्तो वर्षभोग्येण भर्तुः शापेन अस्तंगमितमहिमा कश्चिद्राजराजानुचरः, रामगिर्याश्रमेषु वसतिं कुर्वाणः, एकदा आषाढस्य प्रथमदिवसे मेघं पश्यन्, अन्तर्बाष्पश्चिरमनुध्याय कथंचिदात्मानं संस्तभ्य, स्वदयिताजीवितालम्बनार्थी सन्, रामगिरिमारभ्य यावदलकमादौ मार्गमनन्तरं संदेशार्योश्च कथयित्वा प्रेषयामास प्रियासमीपमित्येतदत्र कमनीयं कथावस्तु ।
'सीतां प्रति रामस्य हनूमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः' इति मल्लिनाथः । युक्तं चैतत् । न खल्वन्येषामिव महाकवीनां वचसि गूढतयापि विना महापुरुषचरितवर्णनपरिमलं केवलं निरभिसंधि यत्किंचिन्निरूपणदोहदं कदापि भविष्यति । तथा च भट्टभवभूतिः कल्पितेतिवृत्ते मालतीमाधवे नायकं माधवनाम्ना व्यपदिशन्, 'कुवयदलश्यामः' इति च तं वर्णयन्, मूढमात्माभिसंधिमभिदर्शयति । अयं किल महाकविर्वाल्मीकिसूक्तिसुधारसमनवरतमास्वादयन्सर्वेष्वपि स्वकीयेषु काव्येषु शब्दतोऽर्थतश्च श्रीमद्रामायणस्यैवानुकरोतीति नेदमविदितं मेधाविनाम् । अनुकरणं च बिम्बग्रहणे नियतमादर्शे विषमं विलोक्यत इति जीमूतस्य उत्तरदिशाप्रस्थानं नांशतोऽप्यत्रार्थे दूषणम्, परं तु व्यङ्ग्यैकजीविते महाकवेर्वचसि सर्वात्मना भवति भूषणम् । तथा च महाकविरयमत्र काव्ये शब्दार्थाभ्यां रामायणानुकरणमात्मना सूचयति । तथा हि-
प्रथमत एव कान्ताविरहितं यक्षम् 'कश्चित्' इति निर्दिशन् अनिर्वचनीयमहिमानं कंचन महापुरुषं नायकं क्रोडीकरोतीति युक्तं प्रतिपत्तुम्[^1]। 'जनकतनयास्नानपुण्योदकेषु' 'रामगिर्याश्रमेषु' 'रघुपतिपदैरङ्कितम्' 'दशमुखभुजोच्छ्वासितप्रस्थसंधेः' 'इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा' इति पदानि प्रयुञ्जानो महाकविरयं नियतमेवात्र रामायणकथामासूत्रयतीति को वा सचेतनो भावुको न भावयतु । किं च रामायणोक्तमेव हनुमतो गजपर्वतशृङ्गादिसादृश्यं कामरूपत्वं च मेघेऽप्यत्र योजयता, सुग्रीवकथितं वानरगमनमार्गमनुस्मारयता, सुवेलस्थितां लङ्कामिव कैलासमधिष्ठिता
[^1]'अस्ति कश्चिद्वागर्थः' इति स्वसहचर्या पृष्टेन समधिगतदेवीप्रसादेन महाकविना कालिदासेन स्वपत्न्युच्चारितं पदत्रयमादौ घटयित्वा क्रमेण 'अस्त्युत्तरस्याम्--' इति कुमारसंभवः, ‘कश्चित्कान्ताविरहगुरुणा—’ ‘इति मेघसंदेशः, 'वागर्थाविव--' इति रघुवंशश्च संग्रथित इति तु चिरादैतिह्यवादिनः । मलकामालोचयता, हनूमतो लङ्कायामिव मेघस्यालकायां सायं प्रवेश समर्थयता, हनूमत इव रात्रौ तनुतनूकरणपूर्वकं मेघस्य संदेशार्थकथनं संगमयता, अशोकवनिकामध्यवर्तिन्या अशरणाया जानक्या अतिकरुणामवस्थां वर्णयन्तमनुसृत्य वाल्मीकिमन्यूनानतिरिक्तं तदुक्तानि मैथिलीविशेषणान्येव प्रकृतेऽपि नायिकायां घटयता, संदेशप्रघट्टकस्थितमेवाभिज्ञानदानमत्राप्यन्तर्भावयता महाकविनानेन साधु समाकलितः स्वाभिसंधिप्रकाशनप्रकार इति न खल्विदं तिरोहितं सहृदयानाम् । अस्य चार्थस्य समासोक्तिगर्भाप्रस्तुतप्रशंसावान्तरभेदरीत्या प्रबन्धव्यङ्ग्यत्वाभ्युपगमात् तत्रेवात्राप्युक्ता अर्थाः शब्दाश्च सर्वथा अनुकूला एवेति न काचिदनुपपत्तिः । एतेन "कवेर्यक्षवृत्तान्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्, तन्न सहृदयसंवादाय; प्रयोजनाभावात्, कविनैव 'जनकतनयास्नान' इति 'रघुपतिपदैः’ इति चात्यन्ततटस्थतया प्रतिपादितत्वात्, उपरि च 'इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा' इत्यत्र उपमानतया प्रतिपादयिष्यमाणत्वात् उपमेयस्यार्थस्यात्यन्तभेदः कण्ठोक्त इति" इति केषां चिद्यत्यवस्थानमपि प्रशान्तम्; संचारिस्वशब्दोक्तिन्यायेन इतरव्यावर्तनाय उपमानतयोक्तेः संभवत्समर्थनत्वात् । अस्तु वा तत्र शास्त्रीयः कश्चन विरोधः ; कवेर्मनसि तु हनुमत्संदेश एक विपरिवर्तत इत्यत्र सचेतसां हृदयमेव प्रमाणम्।[^1]
[^1] तदेतदखिलमनुसंधायैव तत्रभवान्कवितार्किकसिंहः सर्वतन्त्रस्वतन्त्रः श्रीमान्वेङ्कटनाथार्यः-- यः किल कवीनां कविः, दार्शनिकानां दार्शनिकः, वेदान्तिनां वेदान्ती, निबन्धॄणां निबन्धा, कालिदासेन चास्मिन् लघुनि मेघसंदेशकाव्ये शब्दार्थाभ्यां माधुर्यम्, वर्णननैपुणम्, व्यङ्ग्यवैशिष्ट्यम्, रसपरिपोषणम्, चमत्कारातिशयं च सम्यगभिदर्शितमालोडयतां भावुकमणीनां कीदृशी वा चित्तवृत्तिरिति ननु स्वानुभवैकवेद्यमेतत् । अत एवात्र असाधारणं चमत्कारातिशयमनुभूय स्वकीयान्यादृशबहुमानप्रदर्शनाय पार्श्वाभ्युदयकाव्यकर्ता मेघसंदेशपद्यादेकैकं पादमुद्धृत्य एकैकस्मिन्पद्ये घटयित्वा पद्यानि विरचय्य क्रमेण समग्रमपि मेघसंदेशकाव्यमात्मकाव्ये अन्तर्भाव्य स्वात्मनः कृतार्थतामापादयामास । एवं नेमिदूतकर्तापि मेघसंदेशपद्यानां चतुर्थान्पादान्स्वपद्येषु चतुर्थपादत्वेन संयोज्य काव्यमारचयन्, स्वकाव्यस्य अभङ्गुरं मङ्गलमसाधारणं परिष्करणं च सर्वात्मना समाकलयति स्म । तथा भवभूतिरप्येनां रीतिमाश्रित्य 'कञ्चित्सौम्य-- 'इति, 'दैवात्पश्येः--'इति च पद्याभ्यां समग्रमपि मेघसंदेशकाव्यार्थमायोज्य मन्यते स्म महनीयतां मालतीमाधवस्य ।
कर्मठानां कर्मठः, ज्ञानिनां ज्ञानी, भक्तानां भक्तः, प्रपन्नानां प्रपन्नः, वादिनां वादी, शान्तानां शान्तः-- साक्षादेव सीतारामव्यतिकरसखं हंससंदेशाभिधं मेघसंदेशानुकारि काव्यमात्मना रचयामास; एषा किल अस्य श्रीमतो निगमान्तमहादेशिकस्य प्रकृतिः, यदुत स्वानुगमनेन कविसार्वभौमे कालिदासे स्वकीयबहुमानप्रदर्शनप्रवणता नाम । अत एव रघुवंशसमकक्ष्यतया यादवाभ्युदयमारिरचयिषुरयं श्रीमान्वेदान्तदेशिकः, रघुवंश इव स्वकीयेऽपि काव्ये प्रथमं सर्गमानुष्टुभैः पद्यैरारभमाणः, 'वागर्थाविव— अयं च कालिदास एव संदेशकाव्यस्य मार्गदर्शी महाकविः । श्रीमति रामायणे भागवते च परिदृश्यमाना संदेशपद्धतिः प्रथममेनेनैव महाकविना सरसकवितायाः संचारक्षमा संस्कृता । एतदनुसारेण प्रवृत्तेषु च संदेशकाव्येषु श्रीमद्वेदान्तदेशिकविरचितो हंससंदेशः, उद्दण्डशास्त्रिकृतः कोकिलसंदेशः, लक्ष्मीदासकलितः शुकसंदेशश्च सुप्रसिद्धाः । तत्र हंससंदेशश्च भूयसा मेघसंदेशमतिशेते सर्वतो रामणीयकेनेति प्रागेव निवेदितमस्माभिः । उद्धवदूतादीनि तु नास्माभिरवलोकितानि । मनोदूतवातदूतादीनि च भिन्नच्छायानि रसकृशानि चेति न तान्यत्र परिगणनामर्हन्ति ।
प्रायेण च सुप्रसिद्धानि संदेशकाव्यानि मन्दाक्रान्तावृत्तमवलम्ब्यैव सन्ति संदृब्धानि । अस्यैव च वृत्तस्य समादरणे को नु नाम हेतुः स्यात् ? न खलु दृश्यते लाक्षणिकेषु ग्रन्थेषु क्वचिदप्येवमालंकारिकेण छान्दसेन वा केनचिदेतदनुशिष्टम् । ऐच्छिकं तदिति
इति श्लोके कविचक्रवर्तिना प्रयुक्तम् 'वन्दे' इति पदमेव' वन्दे वृन्दावनचरम्' इति प्रथमपद्ये प्रयुज्य काव्यमुपचक्राम । यथा च वागर्थाविति पद्यस्य व्यङ्या् र्थरसविलासादिभिर्नितरां चमत्कारकारिता श्रीमता अप्पय्यदीक्षितेन चित्रमीमांसायां प्रदर्शिता, तथा वन्दे वृन्दावनचरमिति पद्यस्यापि स्वकृते यादवाभ्युदयव्याख्याने सा प्रकटितेति तत एव शायतां रसिकवर्यैः । तथा हंससंदेशेऽपि 'जातं वंशे भुवनविदिते’ इति मेघसंदेशे मेघविशेषणतया प्रयुक्तम् 'जातं वंशे' इत्येतत् 'वंशे जातः सवितुरनघे' इति प्रथमपद्ये नायकतु बहवः । वयं पुनः, मन्दाक्रान्तायां प्रतिपादं प्रथमतः चतुर्षु पश्चात् षट्सु परस्ताच्च सप्तस्वक्षरेषु यतेर्विद्यमानतया विरहविक्लवस्वस्य नायकस्य संदेशावसरे क्रमेण किंचिद्विलम्ब्य विलम्ब्य निश्वासविच्छेदः सुकर इति तदिदं वृत्तमानुभाविकेन महाकविना समनुसृतमिति ब्रूमः । अत एव चेदं वृत्तं क्रमेण आरोहस्य मन्दमाक्रमणान्मन्दाक्रान्तापदेन व्यपदिश्यत इति च कलयामः । अल्पाक्षराणामत्यधिकाक्षराणां वा वृत्तानामनुसरणं त्वेकतो वक्तव्यार्थपरिपूर्त्त्यसहत्वादपरतश्च हृदयोद्वेजकत्वात् न कार्यमिति मध्यस्थस्य सप्तदशाक्षरस्य वृत्तस्य परिग्रह इति च भावयामः । यथा च भवभूत्यादयः शिखरिण्यादिषु, तथा कालिदासोऽपि मन्दाक्रान्तायां विशिष्यत इति क्षेमेन्द्रः ।
अत्र च शापप्रवासविप्रलम्भशृङ्गारो रसः । कालिदासस्य चान्यादृशं दृशं कौशलं विप्रलम्भशृङ्गारवर्णने । न खलु विप्रलम्भमन्तरा संभोगस्य परिस्फुरिष्यति कापि विच्छित्तिः । 'न विना विप्रलम्भेन सं
विशेषणतया संघटयन्सर्वात्मना शब्दतोऽर्थतश्च कालिदासीयेषु काव्येषु निरतिशयमात्मनो बहुमानमभिदर्शयति श्रीमान्कवितार्किकसिंह: । सानुस्वारस्य वकारस्य अमृतबीजत्वात् स्वयं भगवद्भक्ति: परिपूर्णत्वाच्च यादवाभ्युदये प्रथमतः एव 'वन्दे' पदनिर्देशः कवि तार्किकसिंहस्य । हंससंदेशेऽपि 'जातो वंशे' इत्युक्तौ शैथिल्यापत्त्या तत्परिहाराय, दूतभूतमेघविशेषणत्वापेक्षयापि नायके तद्विशेषणमेव नितरां शोभत इत्यभिमत्य, 'कश्चित्' इति निर्देशमसहमानेन महावेदान्तिना परमभागवतेन वेङ्कटनाथार्येण प्रथमतोऽमृतबीजं सानु: भोग: पुष्टिमश्नुते' इति ह्यभियुक्ताः । तत्रापि शापप्रवासविप्रलम्भे भूयानादरः परिदृश्यतेऽस्य महाकवेः । तथा च शाकुन्तले विक्रमोर्वशीये च रुचिरतममयमुपनिबद्धवान्महाकविः शापप्रवासविप्रलम्भम् । रसानुगुणाश्च नायकस्य नायिकायाश्च तास्ता दशा: सुनिपुणं महाकविना तत्र तत्र प्रतिपादिता इति सुगममेवेदं सुधियाम् ।
प्रायेण हि भारतीयानां पण्डितानां कवीनां वा न खलु स्वदेशसंनिकृष्टमपि देशान्तरमधिकृत्य विद्यते ज्ञानलवोऽपीति सर्वसंप्रतिपन्नमिदम् । अस्य तु महाकवेरनितरसाधारणमत्याश्चर्यकरं भूगोलपरिज्ञानं देशान्तरपरिचयश्चेति मेघसंदेशमार्गकथनघट्टमनुशीलयन्को हि नाम सचेता नाम्युपगमिष्यति।
अस्य च रसमयस्य लघुनः संदेशकाव्यस्य सन्ति व्याख्यानान्युपविंशानि । तेषु च सकलैरपि गुणैः सर्वतोऽपि सारतमं मल्लिनाथीयं व्याख्यानमिति निर्विवादं समकण्ठं सर्वेऽपि पण्डिताः प्रशंस्वारो वकारः प्रयुक्त इत्याकलयतां कृतमतीनां यत्सत्यमन्यादृश एव प्रादुर्भविष्यति परमानन्दसंदोहः । अथ वा, अयमस्य निगमान्तगुरोः कोऽपि कवितासंप्रदायः, यदन्यानाक्रान्तेन पथा संचरणम्, उत वा परप्रहतामेव पद्धतिमात्मना सविशेषं परिष्कृत्य तया पुनर्गमनं नाम । अत एव भूयःसु स्थलेषु मेघसंदेशापेक्षयापि हंससंदेशे नूनमनुभूयते विशिष्टः कोऽपि रसादिभिश्चमत्कारातिशयः । यथां चैतत्तथा संदेशविमर्शे सनिदर्शनं सविस्तरं निरूपयिष्यामः । इदं पुनरन्यादृशमानन्दसर्वस्वम्, यदयं श्रीमान् वेङ्कटनाथः स्वयं सन्ति । अस्मद्देशीयानां हि विदुषां वेदपुरुष इव खलु भूयसी: बहु मतिर्मल्लिनाथमहोपाध्याये । तदुक्तं हि सर्वमप्यर्थजातं स्वतः प्रमाणपदवीमर्हतीति दृढाभिमानेन तदुक्तिषु साधुत्वासाधुत्वस्वारस्यास्वारस्यादिविचारणां महापातककृत्यमाकलयन्तः, तद्विमर्शप्रवृत्तान्गजनिमीलिकया सुदूरमधिक्षिपन्तो भूयसा समुपलभ्यन्ते यथाश्रुतग्राहिणः पण्डितप्रथाजीविन इत्यन्याय्यमिदमतिशोचनीयमवस्थान्तरमखिलस्यापि भारतस्य । यदि नाम वयं मल्लिनाथादप्यतिप्रकृष्टः कश्चन काव्यव्याख्यातास्तीति ब्रूमः, नियतमेव तर्हि वयमपरैरर्धमुग्धैरनेकधा परिहस्येमहीत्येतदनुभवपुनरुक्तमस्माकम् । अस्त्येवास्माकमपि मल्लि नाथमहोपाध्याये महती संभावना, नूनमयं बहूनां काव्यानां व्याख्याता दार्शनिको विद्वान् बहुश्रुतश्चेति । परं तु काव्यव्याख्यानकरणे यावती पुनरस्य पण्डितैः प्रशस्यमाना प्रसिद्धिरस्ति, तावतीमर्हति वायं मल्लिनाथ इत्यत्रैव बलवती विप्रतिपत्तिर्विद्यतेऽस्माकम् । यतो वयं बहुत्र तद्व्याख्यानेषु प्रमादमुपलभामहे, जानीमश्च
हंससंदेशे तावन्त्येव पद्यानि विरचयामास; यावन्ति पुनर्मेघसंदेशे । (मे. प्र. ६३. द्वि. ४७. आहत्य= ११०. हं. ६०+५०=११०) 'दशेन्द्रियाननं घोरम्' इति प्रमाणमनुसृत्य 'दर्पोदग्रदशेन्द्रियाननमनोनक्तंचराधिष्ठिते' इति स्वयं प्रणयता हनुमत्संदेशस्याध्यात्मिकमान्तरार्थमन्यमनुभावयता वेङ्कटनाथेन यथा हंससंदेशे आध्यात्मिकार्थव्यञ्जनक्षमाणि सांकेतिकानि श्रुतिप्रत्यभिज्ञापकानि च निशाकाम्यादिपदानि सन्ति प्रयुक्तानि, तथा अत्रापि मेघसंदेशे प्रकृतिपुरुषादिपदानि तादृशानि वर्तन्त इति सुधियः स्वयमेव जानन्तु । तदुक्तादपि व्याख्येयग्रन्थस्य स्वरसवाहि पुष्टं च परिपूर्णे च व्याख्यानम् । किं च नास्ति तादृशमेकमपि काव्यं मल्लिनाथेन व्याख्यातम्, यन्मल्लिनाथात्प्राक्पञ्चधैर्वापि व्याख्यातृभिर्न व्याख्यायि । स्वोपज्ञं किल व्याख्यानमसाधारणीमापादयिष्यति व्याख्यातुः समाख़्याम् । सुलभश्च सुकरश्च खलु जगति परप्रहतया पदव्या कस्यचि द्गमनानुसारः, तमेव पन्थानं तत्र तत्र परिष्कृत्य तेनैव सुखसंचारो वा। बहुषु व्याख्यानग्रन्थेषु विशीर्णान्यर्थजातान्येकत्र संकलय्य प्रदर्शनम्, काव्यव्याख्यानप्रवृत्तेषु ब्राह्मणेष्वस्य महोपाध्यायस्य प्राथमिकत्वं वा, यत्सत्यमस्या अनन्यसामान्याया विख्यातेः स्यात्कारणमित्यूहस्प तु, विश्वसिमः, बलवानेव मूलबन्धोऽस्तीति ।
सति चैवमविमृश्यवादिनि पक्षपातिनि प्रायेण पण्डितलोके, कथंकारमस्मदीयं वचनमधिरोहतु श्रद्धापदवीम्, यन्मेघसंदेशस्य मल्लिनाथव्याख्यानातिशायि सर्वाङ्गसुन्दरमस्ति किंचित्प्राचीनं व्या ख्यानमित्यभिदध्मः । 'माघे मेघे गतं वयः' इति मल्लिनाथेनैव कथितमिति हि सर्वतोऽपि प्रसरति कापि बहोश्चिरात्किंवदन्ती । अथ वा, सन्ति सांप्रतमपि सरसहृदया: कतिपये भावुका इति, ते च तारतम्यपर्यालोचनेन सारासारपरिशीलनेन च ज्ञास्यन्ति वस्तुतत्त्वमिति च विश्वसन्तो वयं निर्भयं निःसंकोचं च वदामः, यदस्ति मेघसंदेशस्य पूर्णसरस्वतीनाम्ना महामतिना विरचिता विद्युल्लताख्या कापि व्याख्या; सा च विद्योतते विश्वातिशायिनीति । अस्यां खलु व्याख्यायां मौलानां सर्वेषामपि पदानां सुप्रसिद्धानि प्रतिपदानि विवरणतया प्रकटितानि ! पदार्थप्रदर्शनपूर्वकं वाक्यार्थः साधु निरूपितः । तत्र तत्र शङ्कासमाधाने च सयुक्तिप्रमाणं प्रदर्शिते । रसगमनिका च रम्यतरं विचारिता । कोशव्याकरणादिकं च निपुणं निरूपितम् । अलंकारश्च सातिशयं विवेचितः । व्यङ्यारमर्थश्च विशेषेण विशदीकृतः, यः किल मल्लिनाथेन मनसापि न कलितः । समादृतश्च समीचीनतरः पाठः, यो बहुत्र मल्लिनाथीयेन पाठेन विसंवदति, संवदति च पार्श्वाभ्युदयस्थितेन तेन तेन पाठेन । इदं पुनरन्यादृशमस्य व्याख्यानस्य सौभाग्यसर्वस्वम्, यदयमेतत्काव्यश्रवणपठनजन्यं प्रयोजनमत्र विचारयति[^1] । यद्यप्यलंकारलाक्षणिकैः 'काव्यं यशसे' इत्यादिना काव्यस्य प्रयोजनानि प्रतिपादितान्येव, अथापि विहाय पूर्णसरस्वतीं न किल कश्चिदपि व्याख्याता व्याख्येये काव्ये शृङ्गग्राहिकया एवमेतावत्सु गणरात्रेषु फलं नाम प्रत्यपादयत्; यथा अनेन प्रतिपादितं व्याख्याता । इदमेव हि नव्यानां विमर्शकानां सर्वात्मना संवननम् । एवं प्रातिस्विकतया फलविचारादिकं भारतीयानां पण्डितानां व्याख्यातॄणां च न परिचितचरमित्युच्चैरुद्धुष्यन्तो नव्या विमर्शका अपि, मन्यामहे, दृष्ट्वेदं व्याख्यातुः कौशलमतिमात्रमाश्चर्यपरवशा भवेयुः । किं बहुना-नास्ति कापि न्यूनता अस्मिन्व्याख्याने, या दोषैकगवेषणपरतायामपि विमर्शकानां स्फुरिष्यति । इमे च व्याख्यातुरादावन्ते च विद्यमाने पद्ये व्याख्यातुराशयं व्याख्यायाश्च गमनिकां स्फुटं प्रकटयिष्यत इति ते एते सहृदयेभ्य उपहरिष्यामः-- 'निधौ रसानां निलये गुणांना
[^1] दृश्यतां ६ पुटे ९ पङ्क्तिमारभ्य विद्यमानो विचारः: । मलंकृतीनामुदधावदोषे । काव्ये कवीन्द्रस्य नवार्थतीर्थे या व्याचिकीर्षा मम तां नतोऽस्मि ॥' 'सुकविवचसि पाठानन्यथाकृत्य मोहाद्रसगतिमवधूय प्रौढमर्थे विहाय । विबुधवरसमाजे व्याक्रियाकामुकाणां गुरुकुलविमुखानां धृष्टतायै नमोऽस्तु ॥'
अयं च पूर्णसरस्वतीनामा पण्डितमाणः कः ? कतरं देशमलंचकार? को वास्य गुरुः १ कश्चास्य जीवयात्राप्रकार: ? इति जिज्ञासमानानां न वयमामूलमपनेतुं प्रभवामः कुतूहलम् । यतो बहुधा तच्चरितावगमाय प्रयतमानानामपि नैतावतापि समग्रमवगतमस्माकं तच्चरितम् । एतावत्परमवगम्यते-- अयं किल पूर्णसरस्वत्याख्यः पण्डितमाणः केरलेषु ‘काटमाटस्' इति सुप्रसिद्धे मान्त्रिककुले लब्धजन्मा कश्चन केरलीयो ब्राह्मण इति । अयं च केरलीय इत्यत्र नास्ति नः संदेहः । यतोऽयमादावन्ते च पूर्णज्योतिरभिधमीश्वरं स्मरति । स च गोश्रीराज्ये (कोच्चि) 'तृप्पूणित्तुरै' इति सुप्रथिते देशे महति क्षेत्ररत्ने अद्यापि कृतसंनिधानः । अयं च व्याख्याता मल्लिनाथादर्वाचीन इति ज्ञायते, यतोऽयं मल्लिनाथीयं व्याख्यानमेव केचिदिति तत्र तत्र निर्दिशति । किं च तत्र तत्र अलंकारलक्षणकथनावसरे शब्दप्रक्रियाप्रकाशनप्रकरणे च प्राचां मम्मटवृत्तिकारादीनां वचनान्येव प्रमाणतया प्रदर्शयति, न पुनरप्पयदीक्षितभट्टोजिभट्टप्रभृतीनाम् । अतश्च संभाव्यते कुवलयानन्दकर्तुः श्रीमतोऽप्पयदीक्षितात् तत्समकालिकात्सिद्धान्तकौमुदीकाराद्भट्टोजिभट्टादपि प्राचीनोऽयं व्याकर्तेति । ततश्च वयं निश्चिनुमः-- अयं व्याख्याता सार्धवर्षशतत्रयात्पूर्वमुत्पन्नः स्यादिति । व्याख्यानावसरे चायं तत्र तत्र तात्पर्यावेदनाय गद्यकाव्यरीतिमाश्रित्य मधुराणि सानुप्रासानि च वाक्यानि विलिखन्नियतमावर्जयति सहृदयानां हृदयानि । पद्यप्रणयनेऽप्यस्य परिदृश्यते प्रशंसनीया पटीयस्ता । 'स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्' इत्येतद्विवरणावसरे कथाभागं पद्यैरेव प्रतिपादयन्नयं महामतिरन्येषामपि पद्यानामेतत्कृतानामन्वेषणे नूनमतिमहतीमुपजनयत्युत्कण्ठाम् । न जानीमः-- अपि नाम कृतं स्यादनेन गद्यतः पद्यतो वा किमपि काव्यम् ? अनेन च विरचितमतिप्रशस्तं मालतीमाधवस्य व्याख्यानमपि केरलेषु क्वचित्क्वचिदुपलभ्यते । कालिदासीयानां सर्वेषामपि काव्यानामयं व्याख्यातेत्यपि केरलेषु बहवः कथयन्ति । उपलभ्य च तदीयानि व्याख्यानानि समूलमचिरात्प्रकटयितुमभिलषामः ।
इति
श्रीवत्सचक्रवर्ती
अभिनवभट्टबाणः कृष्णमाचार्यः ।
॥ श्रीः ॥
॥ मेघसंदेशः ॥
विस्तारभाजि घनपत्रलतासनाथे
मुक्तावलीविमलनिर्झरधाम्नि तुङ्गे ।
गोवर्धने कुचतटेऽपि च गोपिकाना-.
मापद्धनं सुमनसां रममाणमीडे ॥ १ ॥
विश्वव्यापन्निशिचरमयी विक्षिपन्ती नगेन्द्रं
मन्दाक्रान्ता किसलयरुचा यस्य पादाञ्चलेन ।
भ्रश्यच्चेष्टैरुपरिनिपतच्छैलपिष्टैः प्रवेष्टैः
सस्मारार्तिं स्वकृतविपदां तं स्मरामः स्मरारिम् ॥ २ ॥
गुणैर्वा त्रिविधैः शब्दैर्भावांस्तैरेव निर्मितान् ।
नवयन्ती जयत्युच्चैः शक्तिः स्रष्टुर्महाकवेः ॥ ३ ॥
ताल्वादियत्रवसाकाङ्क्षवाग्विलम्बभयाद्ध्रुवम् ।
द्रुतमास्रैः स्तुवन्सूक्तिं जीयात्सहृदयो जनः ॥ ४ ॥
पूर्णज्योतिश्चरणकरुणाजाह्नवीपूतचेताः
स्फीतासूयाकलुषितधियो दुर्जनाद्भीतभीतः ।
मेघस्याहं स्वमतिसदृशं व्याक्रियायां पतिष्ये
सौजन्येन्दोरुदयगिरयः सूरयस्तत्क्षमन्ताम् ॥ ५ ॥
प्रतिपदमखिलार्थव्याकृतौ कः कृती स्या-
स्सुमतिभिरनुभाव्ये कालिदासस्य काम्ये 1 H
प्रभवति परिमातुं को विशेषानशेषा-
न्वपुषि सुकृतिदृश्ये विश्वरूपस्य विष्णोः ॥ ६ ॥
निधौ रसानां निलये गुणाना-
मलंकृतीनामुदधावदोषे ।
काव्ये कवीन्द्रस्य नवार्थतीर्थे
या व्याचिकीर्षा मम तां नतोऽस्मि ॥ ७ ॥
मेघस्य विष्वग्रसवर्षुकस्य
व्याख्या ममेयं विशदप्रकाशा ।
विद्योतयन्ती स्फुटमर्थजातं
विद्युल्लतेवास्तु विभूषणाय ॥ ८ ॥
अथ सकलविबुधमहितयशाः कविकुलपरमेश्वरो मेघसंदेशसंज्ञितं रसिकजनरसायनं प्रबन्धमारभमाणः, तस्य निष्प्रत्यूहपरिसमाप्त्यादिनिखिलसमीहितसिद्धये विश्वमङ्गलनिदानमवनिदेवताकं मगणमादौ प्रयुञ्जानः, 'कं ब्रह्म खं ब्रह्म' इति, 'वह्नीन्द्रोपेन्द्रमित्रे कः' इति, 'काश्चित्तात्मार्कधीधातृवाताः' इत्यादिवचनैः परब्रह्मवाचिनः ककारेण चित्तसाक्षिज्ञानमात्रस्वलक्षणजीवप्रतिपादकेन चिच्छब्देन च समानाधिकृताभ्यां जीवेश्वरैक्यमशेषपुरुषार्थमौलिभूतमनुसंदधानः, प्रथमपद्येन वस्तुनिर्देशं करोति-
कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
कश्चिदित्यादि । वस्तु चात्रेतिवृत्तनायकः, तस्य प्रतिपादनं
निर्देशः, यथा शिशुपालवधे-- 'हरिर्मुनिं ददर्श' इति; किरा-
तार्जुनीये च-- 'वनेचरो युधिष्ठिरं समाययौ' इति ; यथा
चास्यैव कवेः कुमारसंभवे-- 'नगाधिराजोऽस्ति' इत्युपनायकस्य ।
कश्चिदिति सामान्यनिर्देशो रससरेम्भितया कवेस्तदनुपयुक्तयक्षविशे-
षप्रतिपादने तात्पर्याभावं ध्वनयति; यथा रघुवंशे-- 'मतङ्गशापादव-
लेपमूलात्' इत्यवलेपप्रकारविशेषानुक्तिः । कान्ताविरहगुरुणा प्रिय-
तमावियोगोपदेशाचार्येण, स्वप्नेऽप्यविदितविरहदुःखस्यास्य, 'इदृशो
दयितावियोगः' इति शापेनैवोपदिष्टत्वात् स गुरुरित्युच्यते अज्ञा-
तज्ञापकत्वसामान्येन, 'स मारुतसुतानीतमहौषधिहृतव्यथः । लङ्का-
स्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः' इतिवत् । कान्ताविरहतो गु-
रुणा अलघुना दुर्भरेणेति केचित् । अनेनैव कान्तातिसक्तिमूलत्वमपि
प्रमादस्यावगम्यते, अन्यथा तद्विरहविषयस्यानुपपत्तेः शापस्य । स्वा-
धिकारप्रमत्तः स्वेन आत्मना अङ्गीकृते अधिकारे कार्यधुरायां निधि-
पालनादौ । अत्रापि विशेषानभिधानं पूर्ववद्रसानुपयोगात् । प्रमत्तः
अनवहितः । 'प्रमादोऽनवधानता' इत्यमरः । अनपचारप्रवृत्तिरवधा-
नम् । अथवा भर्तुः स्वे स्वीये अधिकारे यक्षराजपदे प्रमत्तः यथोचितं
समुदाचारमुल्लङ्घितवान् । यथा स्थूणाकर्णः शिखण्डिने निजमखण्डं
पुंस्त्वं प्रतिपाद्य तदङ्गसङ्गिनमङ्गनाभावमङ्गीकृत्य विकुर्वाणः शर्व-
सखेन पर्वतं तदनुपालितं यदृच्छयोपगच्छता तुच्छेतरलज्जाभारमोहि-
तमतिस्तिरोहितः समुदाचारलङ्घनकुपितेन तेन शप्तः, यथा वा नल-
कूबरमणिग्रीवौ दिगम्बरौ नितम्बिनीकदम्बकेन सममम्बरसरिदम्भसि
रममाणावपत्रपमाणौ मर्यादातिक्रमजनित रोषेण भगवता नारदेन ;
तथायमपि रमणीरतिलालसः स्वधर्मतः स्खलितः कलितकोपेन राज-
राजेन शप्त इति । शापो निग्रहवचनम् । अस्तंगमितमहिम्न अन्त-
र्धानं प्रापितो दिव्यज्ञानादिर्महिमा यस्य सः । तथात्वं च शापज-
निताधिबाधितत्वात्, शापान्तर्भावितया वा महिमभ्रंशस्यापि; यथा
रघुवंशे प्रियंवदशापप्रस्तावे 'मतङ्गशापादवलेपमूलादवाप्तवानस्मि
मतङ्गजत्वम्' इति प्रथमं शापस्य गजत्वमात्रहेतुत्वमुक्त्वा, पश्चात्
'संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम्' इत्यनुवादे
शापे नान्तरीयकत्वं महिमभ्रंशस्योक्तम् । 'अथास्तमदर्शने' इति वैज-
यन्ती । सूर्य एव प्रसिद्धस्य अस्तगमनस्याभिधानात् महिम्नस्तत्सा-
दृश्यमवगम्यते ; तेन च सकलार्थप्रकाशकत्वमत्यन्ताविनाशश्च द्योत्यते
निशासमयेनेव शापेनान्तर्हितस्य दिवसमुख इव शापावसाने सूर्यस्येव
त॑स्य यथापुरमुदेष्यत्त्वात् । वर्षभोग्येण संवत्सरम् अनुभाव्येन ।
'वर्षोऽस्त्री भारताद्यन्दवृष्टिषु प्रावृषि स्त्रियाम्' इति वैजयन्ती ।
‘कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । 'अत्यन्तसंयोगे च’ इति
समासः । एतेन प्रणिपातप्रसादितेन प्रभुणा एकवर्षावधिः शापः कृत
इत्यवसीयते, कुपितदशायामवधिविधानानुपपत्तेः । शापस्य भोग्यत्वं
नाम फलतः प्रियाविरहरूपात् । भर्तुः स्वामिनः, अविशेषनिर्देशे-
ऽपि वैश्रवणस्य यक्षेश्वरत्वप्रसिद्धेः यक्षं प्रति तस्यैव भर्तृत्वोपपत्तिः ।
उपरि कविरेवैतत्स्फुटीकरिष्यति-- 'अनुचरो राजराजस्य' इति ।
भर्तुरिति, निग्रहान्तरेऽपि शक्तस्य एतावता क्रोधनिवृत्तिर्महालाभः,
अप्रतिविधेयत्वादिति द्योत्यते । यक्ष इति । जात्यैव यः सुखो-
चितो निरतिशयैश्वर्यशाली निरुपमरूपादिगुणसंपन्नश्च, अस्य हन्त
तस्यैवेदृशी दशा दैववशादुपगतेति भावः । तथा कुमारसंभवे--
'यक्षकिंपुरुषाः पौराः' इति, यत्र यक्षकिंपुरुषाः पौराः, तत्पुरं
कथं वर्ण्यत इत्यनेन यक्षाणां लोकोत्तरगुणशालित्वं सूचितम् । जन-
कतनयास्नानपुण्योदकेषु जनकतनयेत्यभिजनादिसर्वगुणसंपत् सूचिता;
अयोनिजत्वमत एव दिव्यत्वं चेत्यादिदिव्यसर्वगुणसंपत्सूचिता ।
पितुर्दशरथस्य शासनमनुपालयतो भर्तुः शुश्रूषया तत्र कंचित्कालमु-
षितायाः पतिदेवताकुलमौलिमणेर्देव्याः सीताया नित्यनैमित्तिकस्ना-
नविधेर्हेतोः पावनं जलं येषु । स्निग्धच्छायातरुषु सीतास्वहस्तोम्भि-
तकुम्भाम्भःसंभृतसमृद्धिकाः 'प्रभावस्तिमितच्छायम्' इतिवत्
ततस्तत्करप्रभावादविरतकिसलयकुसुमफलभरभरितविकटविटपास्तत
एव स्निग्धाः लावण्यशालिनः छायाप्रचुरास्तरवो येषु । छायातरव
इति शाकपार्थिवादित्वात्समासः । रघुवंशे च-- 'छायावृक्षभि-
वाध्वगाः' इति । विशेषणाभ्याम् 'पापहरत्वं मनोहरत्वं च युगप-
देकत्र न संभवति; तदुभयमत्र समुदितम्; अतोऽत्रैव वसामः’
इति तस्य बुद्धिरुत्पन्नेति द्योत्यते । रामगिर्याश्रमेषु रामेण चिरम-
ध्युषितत्वात्तेनैव नाम्ना प्रसिद्धो गिरिः चित्रकूट इति केचित्;
अन्यः कश्चिदित्यन्ये । तत्संबन्धिषु रामभुक्तमुक्तेषु शून्येषु तापस-
निवासस्थानेषु, तेष्वेव विरहविधुरितस्य निवासौचित्यात् महाश्वेतादि-
वत्, उपर्यपि स्थलीदेवतानामेव प्रस्तावात् न तु मुनीनाम् । बहुवचनेन
रणरणिकया क्वचिदवस्थातुमशक्तस्य बह्वाश्रमभ्रमणं व्यञ्जयति । वसतिः
वासः । वसतिं चक्रे, न तूवास; चक्रे, न तु चकार; प्रियासमा
गमत्वरितमपि चेतः शापयन्त्रणया संस्तभ्य प्रयत्नतो न्यवसदित्यर्थः ।
अत्राह कश्चित्-- यक्षो रामगिरौ न्यवसदित्युक्तम् ; उपरि तु तत्सं-
देशप्रकारः प्रपञ्चयिष्यते; अतोऽस्माकं पठतां शृण्वतां च किमाया-
तम्--इति । उच्यते ; अत्र तावन्मृदुलसरलचेतसां व्युत्पाद्यानाम-
क्लेशेनैव विशिष्टशब्दार्थव्युत्पत्तिः, तत्तद्देशविशेषव्यवहारवेदनम्,
पुण्यतीर्थदेवायतनादिसंकीर्तनेन दुरितक्षयः, कीर्तिरलघीयसी, राजा-
दिवल्लभतया द्रविणसंपत्तिः, कामसूत्रादिविद्यासु गीतादिकलासु च
कौशलम्, संभोगविप्रलम्भरूपशृङ्गारसागरकर्णधारत्वम्, पतिव्रताधर्म-
परिज्ञानम्, सहृदय इति सदसि सत्कृतिः, मन्दीकृतपरब्रह्मानन्द-
संदोहश्च रसास्वाद इत्यादीनि परःशतं प्रयोजनानि । किंच सखे
सूक्ष्मेक्षिकादीपिकया निरूपय काव्यहृदयगह्वरगोपितमुपह्वरे सकल-
पुमर्थसाधनसमर्थमुपदेशरत्नम् । यथा-- महात्मनोऽपि यक्षस्य महि-
लासङ्गतरङ्गितानङ्गरसपारतन्त्र्यदोषस्य स्वाधिकारप्रमादः, तेन स्वा-
मिकोपः, तस्माच्छापोपलम्भः, ततः स्वमहिमभ्रंशः, प्रियावियोग-
वेदनासंतानानुभवश्चेत्यनर्थपरंपरा संपतिता; अतो विषयेष्वतिसक्ति-
रनर्थाय । 'विनोदमात्रमेवेदमिति यस्यावधारणा विटवृत्तं स जानाति'
इत्युक्तरीत्या वर्तमानो न क्वचिदवसीदतीति । अतोऽपरस्यार्थस्य
शब्दताडितत्वेनाप्रकाशमानत्वादशाब्दतैव । अतिप्रसङ्गादेतावतैव सं-
तोष्टव्यम्। कवेर्यक्षवृत्तान्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्,
तन्न सहृदयहृदय़संवादाय; प्रयोजनाभावात् कविनैव 'जनक-
तनयास्नान– ' इति 'रघुपतिपदैः' इति चात्यन्ततटस्थतया प्रति-
पादितत्वात् उपरि च ‘इत्याख्याते पवनतनयं मैथिलीवोन्मुखी
सा’ इत्यत्र उपमानतया प्रतिपादयिष्यमाणत्वात्, उपमेयस्यार्थ-
स्यार्थभेदः कण्ठोक्त इति । कान्ताविरहगुरुणेत्यत्र रूपकमलंकारः ।
अस्तंगमितमहिमेत्यत्र रूपकमेकदेशविवर्ति; अथवा सादृश्याल्लक्षणा-
रूपा वक्रोक्तिः । जनकतनयेत्यत्र स्निग्धेत्यत्र च उदात्तमलंकारः ।
शब्दशक्त्याह्लादकत्वरूपं माधुर्ये झटिति विवक्षितार्थसमर्पकत्वात्मा
प्रसादश्व गुणौ । अनुप्रासः स्वभावोक्तिः । भाविकादयश्चालंकारा
महाकविवचसि व्याप्तत्वात्तत्र तत्र नोद्भावयिष्यन्ते ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
अथ प्रमेयसंघटनाय बीजभूतमर्थे प्रस्तौति-- तस्मिन्नद्राविति ।
तच्छब्देन प्रकृत: समासे गुणीभूतो रामगिरिः परामृश्यते, 'अथ
शब्दानुशासनं केषां शब्दानाम्' इति, 'तवास्य नीलोत्पलचारुचक्षुषो
मुखस्य तद्रेणुसमानगन्धिनः' इति च शास्त्रे काव्ये चैवं प्रयोगदर्श -
नात्, 'सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य' इति लक्षणाच्च । कतिचिदिति ।
अर्थादष्टौ, 'मासानन्यान् गमय चतुरः' इति वक्ष्यमाणत्वात् ;
मुखतोऽनुक्तिरनुपयोगात् । अबलाविप्रयुक्तः कामीति । कामो रागः
तद्वान् रागी सन् रागविषयवियुक्तो यः, तस्य दुःखासिका कथं कथ्यता-
मिति भावः। अबलाशब्देन स्वावस्थातोऽप्यस्य शिरीषमृद्व्यास्तस्याः
प्रलयार्ककर्कशे विरहदुःखे किमापतिष्यतीति चिन्तया संतापः संता-
यत इति करुणरसो व्यज्यते । मासान्नीत्वा न तु मासेषु गतेषु,
निर्विनोदतया दीर्घीभूतानिवानपगच्छतो मासान् विचित्रैरुपायैः
कथं कथमपि गमयित्वेत्यर्थः । कनकवलयभ्रंशरिक्तप्रकोष्ठः वेषवि-
रचनाविद्वेषेण भूषणान्तरेष्वपाकृतेषु कनकवलयं मङ्गलार्थे वामप्रको-
ष्ठनिविष्टमवशिष्टम्, तस्यापि कार्यातिरेकजनितेन विगलनेन शून्यभूतं
कैवल्यमात्रभूषणं प्रकोष्ठं यस्य सः । कनकवलयस्यैकस्य धारणं विरह-
चिह्नमिति केचित् । तथा शाकुन्तले-- ‘प्रत्याख्यातविशेषमण्डन-
विधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासापरक्ताधरः’
इति, 'अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं स्रस्तं
स्रस्तं मया प्रतिसार्यते’ इति च । आषाढस्य ग्रीष्मर्तुद्वितीय-
मासस्य शुचेः। प्रथमदिवस इति, वर्षासमयसंनिकर्षजनितहर्षो-
त्कर्षस्य स्तनयित्नोः संनाहातिशयं सूचयति । आश्लिष्टसानुम्
आलिङ्गिततटम् । 'सानु: प्रस्थं तटं भृगुः’ इत्यमरः । अत्र सु-
हृदालिङ्गनसमाधिः । सलिलमरखेदेन गिरितटे निषद्य विश्राम्यन्त-
मित्यर्थः । वप्रकीडापरिणतगजप्रेक्षणीयं गिरितटविहारे दन्ताभ्यां
तिर्यक्प्रहरन्तं द्विपेन्द्रमिव लोचनहरम् । 'वप्रः पितरि ना न स्त्री
क्षेत्रे रोधसि सानुनि' इति वैजयन्ती । 'तिर्यग्दन्तप्रहारस्तु गजः
परिणतो मतः' इत्यमरः । श्यामलरुचो गजेन्द्रस्योपमानत्वात् सलि-
लगर्भो नीलमेघ इत्यवसीयते । स कामी मेघं ददर्शेति, अहो गण्ड-
स्योपरि पिटकोद्भेद इति भावः । वप्रक्रीडापरिणतगजप्रेक्षणीयमित्यत्र
उपमालंकारः । अथवा तादृशानां गजानां तत्र विद्यमानत्वात् तेषां
मध्ये किमन्यतमोऽयमिति दृश्यमानमित्यर्थः । तदा संदेहालंकारः,
भ्रान्तिमान्वा ॥ २॥
तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो-
रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
मेघदर्शनविभावितोद्दीपितमन्मथस्य प्रवृत्तिमाह-- तस्य स्थित्वे-
ति । कथमपि तरुलताद्यवलम्बनप्रयासेनेत्यर्थः । केतकाधानहेतोः
परिमलबहुलकेतकीकुसुमनिकरोत्पादननिमित्तभूतस्य । अनेन कुसु-
मास्त्रसाहाय्यसंनाहो ध्वन्यते । अन्तर्वाष्पः प्रयत्नसंस्तम्भितान्तर्गताश्रु-
वेगनिरुद्धकण्ठः। राजराजस्यानुचरः वैश्रवणस्य भृत्यः । अनेन
धिक् पारतन्त्र्यस्य दौरात्म्यमिति प्रतीयते । 'मनुष्यधर्मा धनदो राज-
राजो धनाधिपः' इत्यमरः । दध्यौ 'प्रियामिति शेषः । ध्यानं नाम
प्रत्ययान्तरानन्तरिताभिमतार्थप्रत्ययसंतानकरणम् । मेघालोक इति ।
नवजलधरदर्शने अभिमतविषयसंनिधाननिर्वृतस्यापि मनः क्षणमदर्श-
नादिषु सोत्कण्ठं भवति; घनस्तनितजनितसंत्रासचपलविपुलविलोचने
सरभसोच्चण्डकण्ठग्रहानुरागिणि जने दयितायामित्यर्थात् श्रवणदर्श-
नागोचरस्थानवर्तिनि सति तद्विरहिणः पुंसः कथा कथं कथ्यतामिति
भावः । एतेन लोकवृत्तान्तेनास्यापि महापुरुषस्य धैर्यच्युतिरुपपन्नेति
समर्थ्यते । अत्रार्थान्तरन्यासोऽलंकारः ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
अथ प्रयत्नावलम्बितधैर्यस्तम्भस्तम्भितात्मनस्तद्विषयां प्रतिपत्ति-
माह-- प्रत्यासन्ने नभसीति । परिमेयदिवसान्तरितागमे श्रावणे
वर्षः प्रथमे मासि प्रियतमाप्राणितप्रयोजनं स्वाव्यापत्तिरूपं वृत्ता-
न्तं प्रार्थनाप्रतिपादितदूतीभावेन जलधरेण नाययिष्यन्, तत्सकाशं प्र-
तीत्यर्थात् । अत्र कुशलशब्देन प्रियतमापुनःसमागमोत्सवहेतुभूतमेता-
वतो मासान् प्राणसंधारणमेवोच्यते, 'क्षणमप्यवतिष्ठते श्वसन्यदि जन्तु-
र्ननु लाभवान्' इत्युक्तवत् ; उपरि च 'अव्यापन्नः कुशलम्'
इत्यव्यापत्तिमात्रस्य प्रतिपादनात् । सः यक्षः तत्कालोत्फुल्लैः गिरि-
मल्लिकापुष्पैः कृतपूजाय जलमुचे विशिष्टदूतोपलम्भहृष्टः प्रीतौ सत्यां
तद्विषयभूतं जनं प्रति प्रथमतः प्रयोज्यम् 'सखे भवता सुखेनागतम्'
इति वा, 'भवतः शोभनमागमनम्' इति वा स्वागतवचनं प्रयु-
युजे । 'प्रत्यग्रं नूतनम् नवम्' ‘कुटजो गिरिमल्लिका' इत्यमरः ।
वर्षारम्भसंभवित्वाच्च तत्र सौलभ्याच्च कुटजोपादानम् । अर्घेति
पाठः । 'अर्घौ पूजाप्रतिक्रियौ' इति वैजयन्ती ॥ ४ ॥
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
मेघं दौत्ययोग्यं परिकल्प्य तदावर्जने प्रवृत्त इत्युक्तम् । तत्र
किमसावुन्मत्तः, यदचेतने चेतन इवाचेष्टत; तदिदमनुपपन्नमित्या-
शङ्कय परिहरति कविः-- धूमज्योतिःसलिलमरुतामित्यादि ।
ज्योतिः अग्निः, मरुत् वायुः, संनिपातः संश्लिष्टः समुदायः, 'गुण-
संनिपाते निमज्जति' इतिवत् । जलानलाभ्यामवष्टब्धो वायुना संचा-
र्यमाणो धूमनिवहः पयोधरः । तथा श्रीविष्णुपुराणे-- 'विवस्वानं-
शुभिस्तीक्ष्णैरादाय जगतो जलम् । सोमे मुञ्चत्यथेन्दुश्च वायुना
धीमयैर्दिवि ॥ नालैर्विक्षिपतेऽभ्रेषु धूमाननिलमूर्तिषु । न भ्रश्यन्ति
यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ अभ्रस्थाः प्रपतन्त्यापो वायुना
समुदीरिताः । संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥' इति ।
संदेशार्थाः संदिश्यमानस्य वचनस्याभिधेयाः । पटुकरणैः समर्थे-
न्द्रियैः, श्रवणग्रहणधारणगमनसंभाषणादिशक्तिमद्भिरित्यर्थः । प्राप-
णीयाः, अभिलषितजनं प्रतीति शेषः । इति प्रकारे । औत्सुक्यात्
प्रियाजीवितपरिरक्षणेच्छाग्रहग्रस्ततया । अपरिगणयन् परितः का-
र्त्स्न्ये॑न अनिरूपयन् । गुह्यकः यक्षः । यद्यपि 'विद्याधराप्सरोय-
क्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देव-
योनयः इत्यभिधानशास्त्रे यक्षगुह्यकयोर्भेदः प्रदर्शितः, तथाप्यवा-
न्तरभेदापेक्षया स मन्तव्यः । कवीनां तु न तादृशभेदेष्वास्था ।
तथा श्रीविष्णुपुराणे –“संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
नभस्तः प्रजगामैव सचन्द्र इव वारिदः ॥ संस्तूयमानो गोपैस्तु रामो
दैत्ये निपातिते । प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौः" इत्यवा-
न्तरभिदानादरेणैकस्यैव दैत्यदानवत्वोक्तिः । ययाचे सप्रार्थनं
बभाषे । न चासौ दोषः ; हि यस्मात् मन्मथोन्माथोन्मत्त-
चित्ताः विशेषवित्सु सख्यादिषु विवेकरहितेषु वृक्षादिषु च विषये
प्रियाप्रवृत्तिकथनतत्प्रदर्शनतत्समीपगमनादियाञ्चया दीनवृत्तयः ।
हि शब्दः प्रसिद्धौ वा । तथा च रामायणादिषु– 'अशोकशोका-
पनुद शोकोपहतचेतसम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन
माम् ॥' 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता। विभा-
वितैकदेशेन देयं यदभियुज्यते ॥' 'रक्ताशोक कृशोदरी क्वनु
गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं
शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदुष्टच्छदस्तत्पादाहतिमन्त-
रेण भवतः पुष्पोद्गमोऽयं कुतः ॥' इत्याद्युक्तीनाममन्दरसनिष्य-
न्दसुन्दरत्वात्, कामावस्थाविशेषत्वेनाप्युन्मादस्य कामसूत्रकारैः
प्रतिपादितत्वाच्च 'नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सं-
कल्पः। निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्च्छा
मृतिरित्येताः स्मरदशा दशैव स्युः’ इति । अत्रार्थान्तरन्यासो-
ऽलंकारः ॥ ५ ॥
जातं वंशे भुवनविदिते पुष्कलावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
अथ तं गुणकीर्तनेनाभिमुखीकृत्य प्रोत्साहयन्, त्वाभिमतमुपक्षि-
पति-- जातं वंश इत्यादि । पुष्कलावर्तका नाम प्रलयसमयाधि-
कारिणो महान्तः पयोधरविशेषाः । मन्वादीनां कूटस्थानां पुत्रपौ-
त्रादिरूपेण वंशस्थापनदर्शनादेतेषां च प्राधान्यादस्य मेघस्य सामा-
न्याश्च तत्कर्तृत्वमभ्युपेत्यैवमुक्तिः । भुवनविदित इति । यतस्ते
सुरकरिकरपीवरप्रचण्डधारासारसंप्लावितजगदण्डपिण्डा देवकार्याधि-
कारिणः, ततस्तेषां वंशं जगति को न जानातीत्यर्थः । जानामि न
तु यस्य कस्यचिद्वचनाद्विश्वसिमि, अहमेवैतत्सर्वे साध्ववगच्छामी-
त्यर्थः । प्रकृतिपुरुषं राज्याङ्गत्वेनान्तर्भूतं पुरुषम् अधिकारिपुरुष-
मिति यावत् । कामरूपं कामतो रूपं यस्य तम्, अणिमाद्यष्टसिद्धि-
संपन्नमित्यर्थः । एतच्च – 'पुष्पमेधीकृतात्मा' इत्यादीनामुपरि वक्ष्य-
माणानां निर्वाहकतयोपात्तम् । मघोनः प्रकृतिपुरुषमिति, त्रिभुवन-
पतेर्महेन्द्रस्यापि त्वदधीना राज्यस्थितिः वृष्ट्यायत्तत्वात् जगत्स्थितेः,
अहो धन्यस्त्वमिति द्योत्यते । तेन यत एवं जानामि तस्मात् । अर्थि-
त्वमिति सामान्येनोक्तिरभ्युपगमे विषयविशेषप्रकाशनार्थम् । विधि-
वशात् दैवबलादिति अप्रतिकर्तव्यतां द्योतयति । दूरबन्धुः दूरे बन्धु-
र्यस्य सः । 'धर्मार्थकामकार्येषु भार्या पुंसः सहायिनी। विदेशगमने
चास्य सैव विश्वासकारिणी' इति, 'न हि भार्यासमं मित्रम्' इति
च तदविशायिनो बन्धोरभावात् भार्यैवात्र बन्धुरित्युच्यते । तथा
रघुवंशे-- 'वैदेहिबन्धोर्हृदयं विदद्रे' इति । ननु त्वत्प्रार्थितं मया
दुष्करं चेत्, सुकरमपि न वा क्रियते; तदानीं प्रणयभङ्गेन मानक्षति-
र्भवतो भाविनीत्याशङ्कय तन्नेत्याह – मोघा प्रयोजनवन्ध्या । 'वरं
क्लीबे मनाक्प्रिये' इत्यमरः । अधिगुणे अधिगतगुणे अभिजनादि-
गुणैरुत्कृष्टे । पुंसीति शेषः । अधमे तद्विपरीते । लब्धकामा काम्यते
इति कामः प्रयोजनम् 'यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम् '
इति लक्षितत्वात्, प्राप्तप्रयोजना । उभयत्र अपिशब्दोऽध्याह-
र्तव्य: । मोघत्वेऽपि श्लाघ्यत्वम् अमोघत्वेऽपि अश्लाघ्यत्वं च या-
च्ञाया:, पूर्वत्र याचितुः सतामगर्हणीयत्वात् उत्तरत्र अन्यथाभावा-
च्चेति ग्राह्यम् । अर्थान्तरन्यासोऽलंकारः ॥ ६ ॥
संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥
अथ लोकोत्तरगुणोद्भावनेन तं प्ररोचयन् स्वप्रार्थनाविषयं प्रका-
शयति-- संतप्तानामिति । संतप्तानां कर्कशतरनिदाघार्ककिरणदा-
वसंपर्कनितान्ततान्तानाम् । अविशेषोक्त्या स्थावराणां जङ्गमानां च
भूतानामिति सिध्यति । त्वमिति । न तु तव कश्चित् प्रतिनिधिरिति
भावः । शरणमसि रक्षिता भवसि, न पुनः क्रियसे राजपुरुषादिवत्
परनियोगेनोत्कोचग्रहणादिना चेति व्यज्यते । 'शरणं गृहरक्षित्रोः'
इत्यमरः । ततश्च स्वभावत एव परोपकारपरस्त्वमिति प्रतीयते ।
तत् तस्मात्, यतोऽहमपि प्रियाविरहघर्मसंतप्तः । पयोद 'पानीयं
प्राणिनां प्राणा विश्वमेव च तन्मयम्' इति स्तुतस्य पयसो ननु
दाता त्वम्, अतः सर्वस्य प्राणद इति भावः । प्रियायाः संबन्धि
मत्कर्तृकं वाचिकम् । अथवा प्रियायाः हर प्रापय । प्रियाया इत्यव-
श्यकर्तव्यत्वं द्योत्यते । मे पुरोवर्तिनो मम दशा तावत्तव नयनगो-
चरा, अतोऽहं दयाविषय एवेति भावः । किंनिमित्तं तवायमीदृशो
दशाविपाक इति चेत्तत्राह-- धनपतिक्रोधविश्लेषितस्य निधिपतेः
कोपेन, न पुनरितो गतेन महतापराधेन । निर्निमित्त एव काशं
कुशं वावलम्ब्य श्रीमतामनपेक्षितापरोपतापः कोप इति भावः ।
हेतुहेतुमतोरभेदोपचारात् शापः क्रोध इत्युच्यते । विश्लेषितस्य न
तु विश्लिष्टस्येति मन:श्लेषणे विश्लेषणे बलात्कारं द्योतयति ।
भवतु, अभ्युपगतं मया सुहृदर्थानुष्ठानम् ; अथ कथय कियति दूरे
ते दाराः ; किंनामा चासौ देश इति तद्विचारं स्वाभिप्रायेणैव परि-
कल्प्योत्तरमाह– गन्तव्या त इति । 'कृत्यानां कर्तरि वा' इति
षष्ठी । नाम प्रसिद्धौ । यक्षेश्वराणां वैश्रवणस्य, तदनुवर्तिनां च मा-
णिभद्रादीनां वसतिः । राजधानीत्यनेन निरुपमविभूतिशालित्वादति-
दर्शनीयतयावश्याभिगमनीयतां व्यनक्ति । ननु पुरन्दरपुरादीना-
मस्माभिर्दृष्टत्वात्तेभ्योऽस्या: को विशेष इति चेत्तत्राह– बाह्योद्यान-
स्थितहरशिरश्चन्द्रिकाधौतहर्म्येति । कैलासस्य हिमवदेकदेशत्वात्
हिमवतश्च 'यस्य चोपवनं बाह्यं सुगन्धिर्गन्दमादनः' इत्युक्तत्वात्
कैलासमेखलावासिन्या धनदराजधान्याश्च गन्धमादनमेव बाह्यो-
द्यानमिति मन्तव्यम् । मेरुदक्षिणभागवर्तिनः कैलासानुषक्तस्य पूर्व-
पश्चिमसमुद्रावगाढकोटिद्वयस्य गन्धमादननाम्नः शैलस्योपरि गन्ध-
मादनं नाम दिव्यमुद्यानम्, 'गन्धमादनकैलासौ पूर्वपश्चायता-
बुभौ । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ वनं चैत्ररथं पूर्वे
दक्षिणं गन्धमादनम्' इति श्रीविष्णुपुराणवचनात्; 'त्वामिह स्थित-
वतीमुपस्थिता गन्धमादनवनान्तदेवता’ इति, ' पद्मभेदपिशुनाः
सिषेविरे गन्धमादनवनान्तमारुताः' इत्यादिभिर्गन्धमादने च मदन-
रिपुविहारस्य ग्रन्थान्तरेषु श्रवणात् । बाह्योद्यानादचलतो रामणीय-
कहृतहृदयस्य गौरीपतेर्जटाजूटतटसततसंनिहिततरुणचन्द्रनिष्यन्द-
मानसान्द्रचन्द्रिकानिर्झरप्रक्षालनद्विगुणकान्तिभिः सुधाधवलै: प्रासा-
दैर्विभूषिता; अतः पुरान्तरासाधारणपरमगुणविशिष्टेति व्यतिरेकः, तत
एवं विशिष्टा भोगभूमिरवश्यं द्रष्टव्येति अद्भुतरसः, नगरीप्रवेशात्पूर्व-
मेव पार्वतीवल्लभं दुर्लभदर्शनं देवमनायासेन साक्षात्करिष्यसि अहो
दिष्टया वर्धिष्यसे प्रकृष्टपुरुषार्थलाभादिति वस्तु च द्योत्यते ॥ ७ ॥
त्वामारूढं पवनपदवीमुगृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥
अथ मदर्थमपीदं भवतः प्रस्थानमन्येषामप्युपकारकं भविष्यती-
त्याह-- त्वामारूढमित्यादि । पवनपदवीम् 'आवहो विवहश्चैव
उद्वहः सुवहस्तथा । संवहः प्रवहश्चैव तत ऊर्ध्वे परावहः ॥ तदूर्ध्वे
स्यात्परिवहो वायोर्वै सप्त नेमयः' इत्युक्तानां सप्तानां वायुमार्गाणा-
मधस्तनमावहाख्यस्य वायोः स्कन्धरूपं पन्थानम् आस्थितम्, तस्य
मेघमार्गत्वात्, पवनाधीनसंचारणत्वाच्च मेघानाम् । उद्गृहीताल-
कान्ताः करकिसलयैरूर्ध्वीकृताः प्रलम्बत्वान्नयनरुधः चूर्णकुन्तला-
ञ्चलाः याभिस्ताः । प्रेक्षणस्वभावोक्तिः । पथिकवनिताः धनार्जना-
दिहेतोर्गृहात्प्रोषितानां भार्याः । प्रत्ययात् विश्वासात्, अचिरभा-
विनि प्रियागमे इत्यर्थात् । 'प्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु'
इति वैजयन्ती । आश्वसत्यः दुःखसागरादुन्मग्नमात्मानं मत्वा जी-
वितसंधारणमाशंसमानाः । किंनिमित्तो विश्वास इति चेत्तत्राह-- क
इति । किंजातीयः, किंदेशीयः, किंरूपो वा । 'पथिकवनिताः'
इति प्रसङ्गात् अत्र पथिक इति लभ्यते । किंशब्दः क्षेपे । ‘प्रश्ने
क्षेपे वितर्के किम्' इति वैजयन्ती । न कश्चिदपीत्यर्थः । संनद्धे बद्धो-
द्योगे। विरहविधुरामिति । संभावितशरीरापायामित्यर्थः । त्वयीति,
चन्द्रचन्दनमन्दानिलकुन्दमन्दारमाकन्दपल्लवमल्लिकोत्फुल्लजलजज-
लधिकल्लोलकोककोकनदकोकिलप्रमुखेषु कुसुमशरवरूथिनीनासीर-
वीरेषु त्वमेवानतिक्रमणीय इति व्यज्यते; तथा चामरुक:--
'मलयमरुतां व्राता याता विकासितमल्लिकापरिमलभरो यातो ग्रीष्म
त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एक निवर्तने प्रभवति
गवां किं नश्छिन्नं स एव धनंजयः' इति । तथा कश्चित्-- 'ऋतु-
भिरिह किमन्यैरेक एवाहमीशो जगति विरहभाजां जीविताकर्षणाय ।
इति नियतमतानीन्मारवीरप्रतिज्ञां प्रकटविकटनादः प्रावृषेण्यः पयो-
दः' इति । उपेक्षेत झटिति समागमनेन नाश्वासयेत् । अनवक्लृप्तौ
लिङ् । जायां धर्मपत्नीम् । अनेनान्यथा धर्मलोपोऽपि स्यादिति
दर्शितम्, तद्विनाशे गृहस्यैव नाशात् कृत्यप्रयोजककर्तृत्वमपि
तवेति भावः । त्वय्येव तद्व्याप्तिभङ्ग इति चेत्तत्राह-- न स्यादिति ।
अन्योऽपि यः पुमान् अयं जन इव पराधीनवृत्तिर्न स्यात्, अहं
यथा अनतिक्रमणीयेन स्वामिना परतन्त्रः एवं परतन्त्रता यस्य
नास्ति स इति वैधर्म्योदाहरणमेतत् । उत्तरवाक्यगतो यच्छब्दः
सामर्थ्यात् पूर्ववाक्यगतं तच्छब्दमाक्षिपति; यथा कुमारसंभवे--
'किं येन सृजति व्यक्तमुत येन बिभर्षि तत्' इति । यथा माघे--
'अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति' इति । अन्य इति । इतो
जनादित्यर्थात्सिध्यति ; अतस्तव नापराधः, ममैव दग्धदैवनिबद्धपार-
तन्त्र्यनिगलयन्त्रितस्य कर्मदौरात्म्यमिति भावः । अत्र अप्रस्तुतप्रशंसा-
लंकारः, मेघस्योद्दीपनविभावतापौष्कल्यस्य कार्यमुखेन प्रतिपादनात्॥
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षमपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगाः खे भवन्तं बलाकाः ॥९॥
भवतः प्रस्थानप्रस्तावे प्रादुर्भवति सुनिमित्तसंपत्तिरपि मदर्थती-
र्थस्य भवतः फलस्वामिनश्च मम भविष्यन्तीमभिलषितसिद्धिमभि-
व्यनक्तीत्याह श्लोकद्वयेन-- मन्दमिति । मन्दं मन्दं मृदुतरम्, नवं
नवमितिवत् । अनेनानायासजनकत्वमुक्तम्, अन्यथा क्लेशावहत्वात्;
यथा रघुवंशे-- 'तस्य जातु मरुतः प्रतीपगा वर्त्मनि ध्वजपटप्रमा-
थिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरया: स्थलीम्'
इति । नुदति प्रेरयति, गमनायेति शेषः । विशिष्टफललाभसूचकत्वात्
गमनाय त्वरयतीवेति द्योतकशून्योत्प्रेक्षा । अनुकूल: यामुद्दिश्य गन्ता
व्रजति, तामेव दिशं प्रति वायोरनुगमनमानुकूल्यम्; यथा रघु-
वंशे— 'पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोद्धू-
तैरस्पृष्टालकवेष्टनौ' इति । यथा येन प्रकारेण । वामः वामभाग-
स्थितः, चातकस्य वामभागस्थितौ प्राशस्त्यात् ; यथा योगयात्रायां
वराहमिहिर:-- 'चुचुन्दरीसूकरिकाशिवालिश्यामागलीपिङ्गलिकान्य-
पुष्टाः । वामाः प्रशस्ता गृहगोधिका च पुंसंज्ञका ये तु पतत्रिणश्च'
इति । तथा महायात्रायाम्-- 'न तु भाद्रपदे ग्राह्याः सुकराश्ववृ-
कादयः । शरद्यजागलीक्रौञ्चाः श्रावणे हस्तिचातका:' इति काल-
विशेषनिषेधात् कालान्तरे चातकस्वरस्य प्रशस्तत्वम् । सगन्धः,
अत्रापि यथाशब्दोऽनुषज्यते । तव प्राणभूतः समीरणो यथा त्वां
चोदयति, त्वद्दत्तजीवनैकशरणस्त्वदन्यवदान्यविमुखश्चातकश्च यथा
प्रशस्तभागस्थितः 'गम्यतामर्थलाभाय क्षेमाय विजयाय च' इतिवत्
श्रवणसुभगमाभाषते । तथाशब्दोऽध्याहर्तव्यः, गम्यत्वान्नोपात्तः ।
तेन प्रकारेण, लिङ्गेनोन्नीयते; यथोक्तं हर्षचरिते-- 'निधिस्तरुवि-
कारेण सन्मणिः स्फुरता धाम्ना । शुभागमो निमित्तेन स्पष्टमाख्यायते
लोके' इति । तथा शाकुन्तले-- 'हळा सउन्दळे एदाए अब्भुव-
पत्तीए सूइदा दे भत्तुणो गेहे अणुहोदव्वा राअळच्छी' इति ।
गर्भाधानक्षमपरिचयात् अपत्योत्पादनशक्तादभ्यासात् । बलाकानां
नीलपयोदनिकटसंचरणे गर्भधारणमिति प्रसिद्धि; तथा श्रीरामायणे
सूचितम्-- 'मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाक-
पङ्क्तिः ' इति। तत्रापि गर्भाधानौत्सुक्यमेव बलाकासंबन्धहेतुर्मन्तव्यः,
हेत्वन्तरानिरूपणात् । नूनम् असंशयम् । 'तर्कनिश्चययोर्नूनम्' इति
वैजयन्ती । आबद्धमालाः विरचितपङ्क्तयः । खे आकाशे । मालाश-
ब्देन गगनमण्डले पुण्डरीकमालिका इव निबद्धा इत्यपि स्फुरति ।
नयनसुभगाः मरतकमरकतमणिरमणीयकान्तेस्तवान्तिके चरन्त्यो निस्तल
स्थूलमौक्तिकरुचयस्ताः परभागलाभान्नयनग्राहिण्य इत्यर्थः । बला-
काः बिसकण्ठिकाः । सेविष्यन्ते रागोन्मत्ताः स्वयमनुयास्यन्ति;
विषयिणश्चातः परं को लाभ इति भावः । यथा मदनतन्त्रे--
'यत्र स्त्री स्वयमेव रतिं प्रार्थयते तदुत्तमरतम्' इति । एतेन
सौभाग्यातिशयोऽस्य ध्वनितः । अत्र च विदग्धमन्त्रिवृद्धाभिचोदि-
तस्य स्निग्धचेतसा पुरोधसा प्रयुज्यमानपरमाशीर्वचनस्य सुहृदर्थे
प्रतिष्ठमानस्य गुणवतो महीपतेर्भविष्यदनवद्यराजकन्यारत्नसंप्राप्तिकस्य
संपत्स्यमानसिषाधयिषितकार्यसिद्धेश्च समाधिरनुसंधेयः । सुहृज्जनहृ-
दयसंवादोऽपि यात्रायामभिमतसिद्धिसूचक इत्यपि ज्ञाप्यते । समा-
सोक्तिरनुमानं चालंकारः ॥ ९ ॥
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशप्राणमप्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
पूर्वे तत्प्रयोजनप्रतिपादनं गमनरसापादनार्थम् । अथ प्रस्तुत-
स्वार्थसिद्धिमाह-- तामिति । तां प्रस्तुताम् । चकारः फलान्तरस-
मुच्चये । अवश्यम् अव्यभिचारेण । दिवसगणनातत्परां न तु मासग-
णनातत्पराम् । अनेनैतदुक्तं भवति-- विरहावधिभूतस्य संवत्सरस्य
प्रथमदिवसादारभ्य निर्विनोदतया सुदुस्तरे यत्नादतिवाहिते दिवसे,
अयं तावत्प्रथमो दिवसोऽतीतः, अयमपि द्वितीयोऽतीत इत्येवम-
नुदिनं संख्यानैकहृदयाम् । इदमाशाबन्धनिबन्धनमुक्तं वेदितव्यम् ।
एकपत्नीं पतिव्रतामिति दिवसगणनाहेतुः ; साध्वीनां पतिविषय-
चिन्तैव, नान्या काचिदिति भावः । अव्यापन्नाम् अत्र व्यापदिति
विरहविकसितकुसुमशरहेतुकः शरीरापाय उच्यते, आपदन्तरासंभवा-
त्तादृशाम्; तथा च कुमारसंभवे-- 'यौवनान्तं वयो यस्मिन्नातङ्कः
कुसुमायुधः' इति । तद्रहिताम् । अविहतगतिः चण्डतरमण्डलप-
वनखण्डितदेहत्वादिभिर्विघ्नैरनुपहतगमनः । अनेनान्यतरवैकल्येऽपि
गमनवैफल्यशल्यापातः सूचितः । द्रक्ष्यसि विलोकयिष्यसि । भ्रातृ-
जायां निरन्तरस्नेहयन्त्रितत्वात् सखित्वाच्चाहं परमोपकारिणस्तव
धर्मतो भ्रातैव, ततस्तां मम धर्मपत्नीं रघुवीरसारलक्षणो लक्ष्मण इव
जानकीं द्रष्टुमर्हस्त्वमिति द्योत्यते । ततश्च तस्याः शीलसंपत्, द्रष्टुश्च
जितेन्द्रियत्वम्, स्वस्य तस्मिन् विश्वासातिशयनिदानं सौहार्दातिश-
यभूमिश्च प्रतीयते । तथा चोक्तम्-- दर्शितानि कलत्राणि गृहे
भुक्तमशङ्कितम्। कथितानि रहस्यानि सौहृदं किमतः परम् ॥'
इति । अव्यापन्नेति कथं निश्चीयत इत्यत्राह-- आशाबन्ध इति ।
'कालेनापीदं भविष्यति' इत्यभिमतविषये लिप्साया अविच्छेदः
आशा, सैव बन्धो निगलः, अथवा तया बन्धनम् । कुसुमसदृश-
प्राणं प्राणः बलम् ! 'प्राणस्तु प्रणये जीवे जीविते परमात्मनि ।
इन्द्रिये वायुभेदे च बलान्तर्यामिणोरपि' इति वैजयन्ती । पुष्प-
तुल्यबलम् अतिसुकुमारम् । अपिर्विरोधे । अङ्गनानां मुदुप्रकृतीनां
स्त्रीविशेषाणाम् । सद्य:पातप्रणयि यस्मिन्क्षणे दुःखप्राप्तिः, तत्क्षण
एव पाते नाशे प्रणयि बद्धोद्योगम् । हृदयं मनसोऽधिष्ठानभूतं
हृत्पुण्डरीकम् । रुणद्धि निवारयति, स्फुटनादिति शेषः । अन्यथा
स्फुटत्येव ; यथा कादम्बर्याम्-- 'चन्द्रापीडस्य स्वभावसरसं हृदय-
मस्फुटत्' इति । यदि निधिपतिरवधिं न व्यधास्यत्, तदावयो-
स्तदानीमेव हृदयं स्फुटितमभविष्यत् ; नातिदीर्घस्यावधेः संभवा-
त्समागमाशातन्तुसंदानितहृदयतया अहमेव तस्या अप्यव्यापत्तिं
निश्चिनोमीत्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्यां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥
दूरं गच्छतस्तव संलापादिना विनोदनाय निरायासमेव सहचरा
अपि संपत्स्यन्त इत्याह-- कर्तु यच्चेत्यादि । चकारो वाक्यार्थ-
समुच्चये । प्रभवति परानपेक्षया शक्तं भवति । महीं भूमात्रमेव, न
पुनर्देशविशेषम् । उच्छिलीन्ध्राम् उद्भिन्नकन्दलकुसुमाम्; यथा
माघे-- 'नवकदम्बरजोरुणिताम्बरैरधिपुरुन्ध्रि शिलीन्ध्रसुगन्धिभिः ।'
इति । अवन्ध्यां अशून्यां कृषिमुखतत्तत्कार्यव्यापृतकृषी चलादिसंकुलां
नानाविधसस्यप्रसवयोग्याम्' कृष्यादिचोदनालक्षणत्वाद्गर्जितस्य ।
श्रवणसुभगं निदाघदाहकदर्थितानां जनानामपेक्षायां संनिकृष्टवृष्टिसुख-
सूचकतयोदीर्णत्वात्कर्णामृतायमानम्। मानसोत्काः पङ्काङ्कितवसुधाङ्क-
णरिङ्खणातङ्कशङ्कया कलुषनवोदककबलितकमलषण्डखण्डितमदतया
सर्वर्तुसुखं निजराजधानीं मानसं सरोऽभिगन्तुम् उत्सुकाः ।
'उत्क उत्कण्ठितः प्रोक्तः' इति हलायुधः । आ कैलासादिति, मध्ये
विच्छेदाभाव उक्तः ; त्वद्यात्रावधिभूतः कैलास एव तेषामप्यवधि-
रित्यर्थः । बिसकिसलयच्छेदपाथेयवन्तः अकठोरमृणालशकलरूप-
पथ्यशनशालिनः । बिसकिसलयं बिसाङ्कुरम् ; तथा चोत्तररामच-
रिते-- 'येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण' इति । पथि
भोजनार्थे संगृहीतमन्नं पाथेयम्; यथा किराते-- 'जग्राह पाथेय-
मिवेन्द्रसूनुः' इति । संपत्स्यन्त इति । अहो ते दैवानुकूल्यम्; यद-
नायासेन गुणवत्सहायसंपदिति भावः । नभसि, द्राघीयसि निर्जने
गगनाध्वनि एकाकिनो गमनमयुक्तमिति भावः; 'एको न गच्छे-
दध्वानम्' इति स्मृतेः । राजहंसा इति, विहगश्रेष्ठत्वात् गुणवत्त्वं
तेषां ध्वनति । 'अनुप्लवश्चानुचरः सहायोऽभिसरः समाः' इत्यमरः ।
विरुद्धानामपि हंसानां सहायतोक्तिः, वर्षकलुषितजलाशयमात्रे तेषां
द्वेषात् जलधरेण सह साक्षाद्विरोधाभावात् समानदेशगमनाच्चेति
मन्तव्यम् । अत्र स्वभावोक्तिरलंकारः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्य्स शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवता यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥
एवं स्थितेऽनन्तरकर्तव्यमाह-- आपृच्छस्वेत्यादि । 'आङि नु-
प्रच्छ्योः' इत्यात्मनेपदम् । गमनानुज्ञानार्थमामन्त्रणम् आप्रश्नः
आपृच्छय राघवमनुष्ठितदेवकार्यम्' इतिवत् । प्रियसखं इष्टसुहृदम्,
समये तव विश्रमदायित्वात् त्वया वर्षणेनोपकृतत्वाच्च, न खलु
तदनुज्ञामन्तरेण पदमपि गन्तुं युक्तमिति भावः । तुङ्गम् उन्नतम्,
अभ्रंलिहशिखरं च; यथा दिवाकरः-- 'बुद्धिनीं च पथेनात्मवृत्तिं
वर्तयितुं रहः । यस्य जातु न जायेत सोऽयमुन्नतसंज्ञितः ।’ इति ।
अनेन तुङ्गस्य भवतस्तादृशैव सख्यं घटत इति द्योत्यते, ‘समान-
चित्तवृत्तित्वं मित्रत्वमिति दर्शितम्' इति लक्षितत्वात् । आलि-
ङ्ग्येति । चिरदृष्टस्य भवतो झटिति यात्राप्रसङ्गस्तेन नानुमोद्येत;
अतस्तमनुनयपूर्वमनुकूलयेति भावः । पुंसां वन्द्यैः दर्शनमात्रेण तेषां
पुरुषार्थसाधकैः । मेखलासु कटकेषु । बहुवचनेन ग्रहाश्चर्यदिदृक्षया
तत्र तत्र भगवतो विहरणं व्यज्यते । मेखलास्वङ्कितमित्यत्र भक्त-
समाधिः ; तेऽपि कनकपट्टादिनिविष्टानीष्टदेवताचरणप्रतिबिम्बानि
कण्ठसूत्रकटिसूत्रादिषु धारयन्ति; यथा 'श्रीकण्ठपदलाञ्च्छनो भव-
भूतिर्नाम कविः' इति । अथ मेखला । श्रोणीस्थानेऽद्रिकटके
कटिबन्धेऽसिबन्धने' इति वैजयन्ती । अनेन महापुरुषाभिगम्यत्व-
मप्यस्येति स्फुरति । काले काले प्रतिप्रावृडारम्भे, तदानीमेव भव-
दागमननियतेः । स्नेहव्यक्तिः प्रेमप्रकाशनम्, स्निग्धवर्णोदयश्च ।
चिरविरहजं संवत्सरदर्शनाभावदुःखसंभृतम् । वाष्पं अश्रु, धर्म-
दुर्मददवदहनमिहिरकिरणसंतप्ततया प्रथमवर्षावसेके प्रसरन्तमूष्माणं
च । 'वाष्पोऽश्रुण्यम्बुधूमे च’ इति वैजयन्ती। अनेन चिरादुपगते
हि सुहृदि तदनुरागिणो जनस्यातीतविरहदुःखानुस्मरणहेतुकं झटिति
प्रवृत्तमश्रुसलिलमनुमापयति तद्विषयं हृदयगतमनुरागातिशयम्; एव-
मस्यापीति द्योत्यते । एत्य मुञ्चत इत्यन्वयः । श्लेषोऽलंकारः । तद-
नुगृहीताप्रस्तुतप्रशंसा वा ॥ १२ ॥
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं
संदेशं मे तद्नु जलद श्रोष्यसि श्राव्यबन्धम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥
एवमनुष्ठितानुष्ठेयस्य प्रतिष्ठमानस्य भवतः कृत्यद्वयमिदानीमव-
शिष्टं मार्गश्रवणं संदेशश्रवणं च; तयोः प्रथममावितया प्रथमं मार्ग-
मवधारयेत्याह-- मार्गमिति । तावत् इतो देशाद्यदवधि गन्तव्यं
'तदवधि, साकल्येन वा । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे'
इत्यमरः । शृण्विति । श्रवणमेव प्रार्थ्यते, ग्रहणादीनि महामेधाविन-
स्तवानुषङ्गिकानीति भावः । मे मत्सकाशादित्यर्थः । त्वत्प्रयाणानुरूपं
रसिकजनमौलेः परमेश्वरभक्तिशालिनस्तव यात्रानुगुणो भुक्तिमुक्ति-
साधनमेकः पन्थाः, नीरसानां नास्तिकानां च कमपि पुमर्थमस्पृशन्नन्य
एवेति भावः । अनेन दयिताजीवितपरिरक्षणकृतक्षणतया त्वरित-
स्यापि 'वक्रः पन्थास्तव मवतु च' इति, 'स्थातव्यं ते नयनविषयम्'
इत्यादि च वक्ष्यमाणं मेघगमनौचित्यापेक्षयेति मन्तव्यम् । तदनु
मार्गश्रवणानन्तरम् । श्राव्यबन्धं श्रोतव्यशब्दसंदर्भम्, अतिकरुणा-
र्थपरिपोषितविप्रलम्भरससुधानिर्भरगर्भत्वात् । शृणोतेः 'ओराव-
श्यके' इति ण्यत्प्रत्ययः । जलदेति, श्रवणसमये रसार्द्रहृदयतया
तवापि बहुलवाष्पझरीपरीतनयनता भाविनीति द्योत्यते ; यथा वक्ष्य-
ते-- त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति
करुणावृत्तिरार्द्रान्तरात्मा' इति । खिन्नः खिन्नः अध्वगमनेन यदा
यदा श्रान्तिरुद्भवति, तदा तदेत्यर्थः ; 'अध्वखिन्नान्तरात्मा' इति
वक्ष्यमाणत्वात् । शिखरिषु न पुनर्नगमात्रेषु; गगनसरणिवितततुङ्ग-
शृङ्गाणामेव त्वदुपगमयोग्यत्वमिति भावः । क्षीणः क्षीण: उचित-
प्रदेशवर्षणेन यदा यदा सलिलविच्छेदो भवति, तदा तदेत्यर्थः ।
स्रोतसाम् अगाधतया शश्वदविच्छिन्नप्रसाराणां महानदीप्रवाहाणाम् ।
अत एव तरुकुञ्जशिलाकुञ्जाद्यभिघट्टनेन परिलघु सर्वतो गलितगौ-
रवम् । ‘उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयो-
द्भूताः पथ्याः' इति वाहट: । उपलक्षणं चैतन्माधुर्यनैर्मल्ययोः ।
अनेन तव शरीरस्थितिचिन्ता विश्रमस्थानचिन्तापि न भविष्यतीति
द्योत्यते । अत्र स्वभावोक्तिरलंकारः ॥ १३ ॥
अद्रेः श्रृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि-
र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १४ ॥
अथ प्रतिज्ञातं मार्गकथनमारभते-- अद्रेः शृङ्गमिति । अस्ये-
ति लभ्यते, 'स्थानादस्मात्' इत्युक्तेः । शृङ्गं न तु शिलामात्रम् ।
एतेन तुङ्गत्वविस्तृतत्वोक्तिः । किं स्विदिति । किंशब्दो विकल्पे ।
स्विच्छब्दः प्रश्ने । 'क्षेपे विकल्पे किम्' इति, 'प्रश्ने विकल्पे नु
स्विच्च' इति वैजयन्ती । उन्मुखीभिः उन्नमितवदनाभिः । चकि-
तचकितं अतिभयविवशम् । गगनशिरसि किमिदमनिलबलचलि
तमवनिधरशिखरम्, अपरमुत किमपि बृहदिति सरभसमुपरिपरिपत-
नभयभरतरलनयनकुबलयमनिभृतकुचमुकुलमभिरुचितजनमनुयुञ्जा-
नाभिरित्यर्थः । अत्र हेतुः-- मुग्धाभिः अनतिनिर्भरयौवनाभरण-
त्वादविदितवस्तुतत्त्वाभिः, सिद्धाः खङ्गगुलिकाञ्जनादिधारिणो देव-
योनिविशेषाः तेषां वधूभिः । सिषाधयिषितकार्योद्योगभारः उत्साहः ।
अनेन त्रासशङ्काविस्मयौत्सुक्यतरङ्गितविविधविलासभङ्गिरङ्गाणां दि-
विचराङ्गनापाङ्गानां प्रथमत एव भाजनं भविष्यतीत्यहो प्रथमखनन
एव निधिदर्शनमिति द्योत्यते । सरसनिचुलात् विमलसलिलबहुल-
तया सतततरुणवेतसतरुविशेषात् । 'निचुलो हिञ्जलोऽम्बुज:'
इत्यमरः । एतच्च मदजलनिर्झरोद्गारमण्डितगण्डमण्डलतया चण्ड-
तापविनोदनाय शीतलतमममुं प्रदेशमुद्दिश्य तेषामागमनं संभाव्यत
इति व्यञ्जयति; इदानीमत्र वृष्टिर्नापेक्षिता, तत् गमन एवोद्युज्य-
तामिति वा त्वत्कृतेदानीन्तनवर्षनवीकृततरुतया यावदागमनमिह
न शोषशङ्केति वा । खमुत्पतेति । सकलदेशदर्शनसौकर्याय गगन-
शिखरमारोहेत्यर्थः । दिङ्नागानाम् ऐरावतादीनाम्; बहुभिरेकस्य
विरोधो न युक्तोऽपनयत्वादिति भावः । एतेन समररतत्वशङ्कामस्य
परिहरति । पथि परिहरन्निति । तदाघातशङ्कायामपथेनापि गन्तव्य-
मिति भावः । स्थूलहस्तावलेपान् प्रतिगजधिया समराय वा, गिरि-
तटबुद्धया वप्रक्रीडनार्थ वा, समाक्रष्टुं प्रसरतां महतां शुण्डाद-
ण्डानां मदभरजनितान् यत्किंचित्कारितालक्षणान् व्यापारान्; यथा
कुमारसंभवे-- 'तदीयास्तोयदेष्वद्य पुष्कलावर्तकादिषु । अभ्य-
स्यन्ति तटाघातं निर्जितैरावता गजाः' इति । अत्र प्रथमपादे संदे-
हालंकारः । अन्यत्र स्वभावोक्तिः ॥ १४ ॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
द्वल्मीकाग्रात्प्रभवति धनुः खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥
अथ मध्येमार्गकथनं गमनसमये प्रशस्तं दैवत एवोपपन्नं किमपि
मङ्गलमवलोक्य तदुद्धर्षणायाह – रत्नेति । रत्नच्छायाव्यतिकरः
व्यामिश्रितानां वज्रादीनां विचित्राणां नवानां रत्नानां संकीर्णः प्रभाप्र-
रोहसंदोह इवेत्यर्थः, इन्द्रधनुषो नानावर्णत्वात् । प्रेक्ष्यं पुरस्तात्
अग्रतो भवता दृष्टिर्देयेत्यर्थः । दर्शनीयमिति धनुषो विशेषणम् ।
वल्मीकाग्रादपि पाकशासनशरासनोदयः । उक्तं च संहितायाम्--
'जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरूत्थिते व्याधिः । वल्मीके शस्त्रभयं
निशि सचिववधाय धनुरैन्द्रम्' इति । खण्डं अपूर्णस्वरूपम्, उत्प-
द्यमानदशाकत्वात् । आखण्डल: इन्द्रः । अतितरामिति । पूर्वमेव
नयनहारि, एतत्साहित्ये किंपुनरिति भावः । बर्हेणेति । जातावेकव-
चनम् । प्रालम्वात्मना ग्रथितैर्मयूरपिञ्च्छैरित्यर्थः, तेषामपि शबलव-
र्णत्वात् । स्फुरितरुचिना शुद्धश्यामले वपुषि शबलवर्णस्य परभाग-
लाभात् विभक्तोल्लसितलावण्येन । श्याममिति स्फुरितरुचिनेति च
साधारणो धर्मः । गोपवेषस्य वल्लवानां वेष इव वेषो यस्य । आक-
ल्पस्य कल्पना वेषः । अनेन धरणितलमवतीर्णस्य पूर्णात्मनः पद्म-
नाभस्य कर्मबन्धनिबन्धनमन्तरेणैव धर्मसंस्थापनाय नटस्येव तत्तद्भूमि-
कावलम्बेन विवर्तः, न तु वास्तवः कश्चिद्विग्रहपरिग्रह इति द्योत्यते;
'जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापि-
न्यव्याहतात्मिका' इति वचनात् । विष्णो: व्याप्तत्वेन वेदशिरसि
प्रतिपाद्यमानस्य, 'वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो क्तोऽस्मि तम् ?
इति वचनात् । अत्र भगवत उपमानत्वात् उपमेयस्यापि मेघस्य
संकोचविकासशक्तत्वं स्वरसत एव परोपकारपरत्वं च द्योत्यते । 'ते'
इति केवलमेघस्यैवोपमेयत्वेन गोपवेषस्येति धर्माधिक्यमिति नाशङ्क-
नीयम्; तस्यैव बर्हधारणोपपत्तेस्तद्विशिष्टस्यैव विष्टरश्रवस उपमान-
त्वात्, श्रीरामायणे-- 'सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं
विभाति । शरत्प्रसन्नं परिपूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥'
इत्यत्र महाह्रदस्थमितिवत् । उपमात्रालंकारः । कस्यचिद्राज्ञः प्रस्था-
नारम्भे कुतश्चित्पुरुषादनर्घरत्नाभरणोपहारप्राप्तिसमाधिरत्रानुसंधेयः ।
इन्द्रधनुषो दर्शनस्य यात्रायां मङ्गलत्वमुक्तम् । तथा च महायात्रा-
याम्-- 'चापमैन्द्रमनुलोममखण्डं प्रोज्ज्वलं बहलमायतमिष्टम्’
इति ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः
श्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥
पुनः प्रकृतमनुसरति-- त्वयीति । कृषिफलं कृषिः क्षेत्रसंस्कार-
बीजावापादिकोव्यापारः, तस्य फलं संपूर्णसस्यसंपत्तिः तत् । त्वयि,
अधीनं परापेक्षया स्थितम्, तस्य समुचितसमयसंभविविशिष्टवृष्टिनि-
ष्पाद्यत्वात् । इतिशब्दो हेतौ । भ्रूविलासानभिज्ञैः आरोचितप्रभृतीनां
भ्रूचेष्टितानामकोविदैः, उपलक्षणं चैतदन्येषामपि नयनविलासानाम्,
नगरसुन्दरीनयनारविन्दवत् कृत्रिमविलासविरचनास्वशिक्षितैरित्यर्थः ।
एतेन स्वारसिकविलासैरेव तेषां सहृदयचमत्कारकारित्वं ध्वनितम् ।
'अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेष-
पराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षितैः कथय सुकृती
कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥' इति मुग्धानामप्यकृत्रिमविलाससं-
पत्प्रतिपादनात् । तथा किराते-- 'अकृत्रिमप्रेमरसाभिरामं रामार्पितं
दृष्टिविलोमि दृष्टम्' इति। 'पुंसः’ पूर्वापरीभूता सुखित्वेन व्यवस्थितिः ।
बुद्धेरुन्मीलनी गाढं प्रीतित्वेन निगद्यते ॥' इति दिवाकरः ।
स्निग्धैः अरूक्षैः। जनपदवध्वः राष्ट्राणां कृषीबलबहुलतया अर्थातन्नि-
वासिकृषीबलमहिलाः । पीयमानः स्नेहबहुमानौत्सुक्यातिरेकजनि-
तेन दर्शनेन कबलीक्रियमाणः । सद्यः सीरोत्कषणसुरभि समनन्तर-
मेव हलमुखोल्लिखितेषु धर्मतप्तेषु प्रदेशेषु त्वदुपगमजनितनववर्षावसे-
कात् घ्राणेन्द्रियप्रीणनयुक्तम् । 'अथो फलम् । निरीषं कूटकं फाल:
कृषिको लाङ्गलं हलम् । गोदारणं च सीरः' इत्यमरः, 'सुरभिर्घ्राणत-
र्पण:' इति च । क्षेत्रं केदारबहुलत्वात् पुण्यदेशत्वाद्वा । 'क्षेत्रं गृहे
पुरे देहे केदारे योगिभार्ययोः । पुण्यस्थाने समूहे च' इति वैजयन्ती।
आरुह्य, उन्नतस्थलत्वात् । मालमिति नाम्ना प्रसिद्धम् । 'मेघमन्म-
थयोर्मारो मारं मरणमिष्यते । माला पुष्पादिबन्धे स्यान्मालमुन्नतभू-
तलम्' इत्युत्पलमाला । मालयोगान्मालव इति हि देशः प्रसिद्धः ।
किंचित्पश्चात् पश्चिमां दिशमुद्दिश्य, मार्गसौन्दर्यानुरोधेन। लघुगतिः
शीघ्रगमनः, मध्ये विश्रमशैलाभावात् । 'लघु क्षिप्रमरं द्रुतम्' इत्य-
मरः । उत्तरेण उत्तरदिग्भागेन । भूयः पुनः, अङ्गीकृताया उत्तर-
दिशो मध्ये परित्यागात् । एवकारो भिन्नक्रमः, उत्तरेणैव प्रस्तुतेने-
त्यर्थः । अत्र स्वभावोक्तिरलंकारः ॥ १६ ॥
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोच्चैः ॥ १७ ॥
अथ दूरसरणिगमनखिन्नस्य विश्रमस्थानमुपदिशति-- त्वामिति ।
'आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्वले' इति वैजयन्ती । प्रशमितः
प्रकर्षेण नाशितः वनोपप्लवः दवश्लेषलताशोषादिस्तटकाननोपद्रवो
यस्य। साधु सम्यक् । मूर्ध्ना शिखरेण, शिरसेति च । वक्ष्यतीति, वहतेर्धा-
तोर्लृटि। शिरसा वहनं नाम लक्षणया सत्कारातिशयः। अध्वश्रमपरिगतं
मार्गगमनसंभृतेनायासेन समेतम्, तदानीं विशेषत: सत्कारस्यौचि-
त्यम्, अन्यथा तादर्थ्यमपि नातिदोषायेति भावः । सानुमान् पर्वतः
आम्रकूट इति नाम । कुतोऽत्र निश्चयः, जनमनसामनवस्थानादि-
त्याशंङ्कयाह-- क्षुद्र: कुलादिभिर्नीचः । प्रथमसुकृतापेक्षया स्वविषये
पूर्वे तेन प्रयुक्तमुपकारमालोच्य । संश्रयाय स्वगृहनिवासार्थम् । प्राप्ते
निधाविवात्मनान्वेषणीये स्वयमुपगत इत्यर्थः । मित्रे 'इह लोक-
सुखं मित्रम्' इति लक्षितार्थस्य मित्रशब्दस्य मुख्याभिधेये पुंसि ।
अनेन अभङ्गुरप्रेमास्पदत्वं सुहृदां सूचितम् । तथा कुमारसंभवे--
'प्रमदास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने, इति । अत्र
नृणामिति न तु सतामिति सदसत्साधारणत्वम्, न चलमित्यर्भङ्गुर-
त्वं च सुहृत्प्रेम्णः प्रकाशितम् । विमुखः प्रतिनिवृत्तमुखः, अनादर
इति यावत् । किं पुनर्य इत्याक्षिप्यते; तस्य स्वप्नेऽपि वैमुख्यं ना-
शङ्कनीयमिति भावः । तथेति, अनुभवाभिनयः । उच्चः उन्नतः,
प्राणात्ययेऽप्यनुचितेष्वदत्तदृष्टिरित्यर्थः । अत्र पूर्वार्धे समासोक्तिमूला-
प्रस्तुतप्रशंसा; उत्तरार्धेऽर्थान्तरन्यासः ॥ १७ ॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-
स्त्वय्यारूढे शिखरमचलः सर्पवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
त्वदुपगमेन तस्य लोकोत्तरचमत्कारत्वं भविष्यतीत्याह-- छन्नो-
पान्त इति । स्थगितः अर्थात् शिखरसविधप्रदेशो यस्य । परिणत-
फलद्योतिभिः पाकपाण्डुरफलभरोद्भासिभिः । काननाम्रैः तद्वनरूढ-
चूतद्रुमैः । अनेन जनानुपभोग्यत्वात्समग्रफलजालकञ्चुकितविटप-
संचयत्वमुक्तम् । सर्पवेणीसवर्णे सर्पवेणी नाम मेचकरुचिः कश्चित्
पदार्थः सर्पसदृशाकारः । 'नीलालके मेघचये मेचके स्तनचूचुके ।
मण्डले कृष्णसर्पाणां सर्पवेणी निगद्यते ॥' इति दिवाकरः । कामि-
नीकेशबन्धविशेषो वा, तत्समानच्छाये । सर्पवेणीति कृष्णभुजंगभो-
गमण्डलमिति केचित् । नूनं तर्के । 'तर्कनिश्चययोर्नूनम्' इति
वैजयन्ती । अमरमिथुनप्रेक्षणीयां धरणितलोदन्तसंदर्शनकुतूहलेन
वियति विमानेन संचरमाणानां सुरमिथुनानां प्रकर्षेणेक्षणयोग्याम् ।
मध्ये चूचुकप्रदेशे। शेषविस्तारपाण्डुः तद्व्यतिरिक्ते निजमण्डला-
भोगे तारुण्यजनितलावण्यपाण्डिमा; तथा रघुवंशे-- 'अथास्य
रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम्' इति । उत्प्रेक्षाबलात्
वृत्तोत्तुङ्गनिवेशत्वं गिरेरप्यवसीयते । अत्र लवणसागरसलिलनीलपरि-
धानाया वनजनपदनगनगरचित्रतरपत्रभङ्गभाजो गङ्गादितरङ्गि-
णीपूरतारहारनिकरहारिण्याः क्षितितरुण्या विकचकुवलयमेचकचूचुको
द्विरदरदनखण्डपाण्डुमण्डल: कुचकलश इवायमिदानीमवनिधर इ-
त्युत्प्रेक्षमाणैर्विलासिभिरुल्लसितनर्मसंलापैर्वैमानिक मिथुनैः सकौतुकवि-
लोकनीयां कामपि रमणीयतामुपलप्स्यत इत्यर्थः । उत्प्रेक्षात्रालं-
कारः ॥ १८ ॥
स्थिता तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्ते
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णो
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥१९॥
अथ विश्रान्तस्यानन्तरकरणीयमनुवादमुखेन विदधाति-- स्थित्वा
तस्मिन्नित्यादि । वनचरवधूभुक्तकुञ्जे पुलिन्दसुन्दरीभिः स्वविहारेण
सफलीकृतलतावितानकुहरे। 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितो-
दरे' इत्यमरः । अनेन गहनवनबहुलतया विशिष्टविलासिनामनुप-
भोग्यत्वं ध्वन्यते । मुहूर्ते यावद्विश्रमलाभम् द्रष्टव्यान्तराभावात् ।
तोयोत्सर्गद्रुततरगतिः तदनुग्रहाय तत्र प्रयुक्तेन वर्षेण गलितगौरव-
तया शीघ्रतरगमनः । तत्परं तस्मादूर्ध्वम् । वर्त्म मार्गम् । तीर्णः
उल्लङ्घितवान् । 'रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका' इत्य
मरः । उपलविषमे शिलाभिर्निम्नोन्नते, स्थूलविकटस्थित्या शिलाव-
द्विषमे वा । विन्ध्यपादे 'पादाः पर्यन्तपर्वताः' इत्यमरः । विशी-
र्णाम् उच्चावचशिलातलास्फालनस्खलितजर्जरिततया बहुमार्गीकृताम् ।
भक्तिच्छेदैः विन्यासविच्छित्तिविशेषैः । भूतिं भस्म । 'भूतिर्भसितं
भस्म' इति हलायुधः । विन्ध्यस्य समासे गुणीभूतत्वेऽपि वस्तुतः
प्राधान्यात्तस्यैव गजेनोपमेयत्वम् । तुङ्गत्वदर्शनीयत्वादिः साधा-
रणो धर्मः ; रेवाभूत्योस्तु स्वच्छत्वपापहरत्वादिः । अत्र दृष्टान्तोऽलं-
कारः ॥ १९ ॥
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२०॥
अनन्तरकरणीयमाह-- तस्यास्तिक्तैरिति । 'कटुतिक्तकषायास्तु
सौरभ्येऽपि प्रकीर्तिताः' इत्यमरः । वासितं परिमलितम् । वान्तवृष्टि-
रिति पूर्वोक्तानुवादः । तोयमादायेति, तदादानस्यावश्यकर्तव्यतां
द्योतयति । जम्बूकुञ्जप्रतिहतरयं जम्बूलतामण्डपास्फालनस्खलितवे-
गम् । अनेन लाघवमुक्तम् । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः ।
अन्तःसारम् अभ्यन्तरसंपन्नबलम् 'सारो बले स्थिरांशेऽर्थे पुमा-
न्न्याय्ये वरे त्रिषु' इति वैजयन्ती । जलभरगर्भतया जातगौरव-
मित्यर्थः । घनेति । घनत्वमपि तव तदानीं व्यक्तं भविष्यतीति भावः ।
तुलयितुं स्वच्छन्दतो यत्र कुत्रचिन्नयनाय चलयितुम्, परिच्छेत्तुं वा ।
मत्प्राणसुहृदः पवनस्य मय्यवज्ञा कथं भाविनीति चेत्तत्राह--
रिक्त इति । सामान्येन शून्यतापर्यायोऽपि रिक्तशब्दोऽर्थाद्द्रविणदा-
रिद्र्यं लक्षयति। सर्वः सर्वदा माननीयो सुहृत् भ्राता पिता बन्धुर्गुरु-
रित्यादिरपि । हि शब्दः प्रसिद्धौ । लघुः अवमानपदम्, 'लघुता
नियता निरायतेः ' इतिवत् । पूर्णता अत्रार्थाद्धनसमृद्धिं लक्षयति ।
गौरवाय बहुमानाय, 'वपुर्विशेषेष्वतिगौरवाः क्रियाः' इतिवत् ।
अत्र च पुष्टकामुकोपभोग्यायाः कस्याश्चिद्गणिकाया निकृष्टकुट्टिनी-
विघ्नितमपि निजवैदग्ध्वान्निधुवनमनुभूय झटित्यपसरतो जनैरपरिच्छे-
द्यगभीरवृत्तेर्विटस्य समाधिरनुसंधेयः । 'कृतशुद्धेः क्रमात्पीततोयादेः
पथ्यभोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः' इति
खरनादोक्तश्चिकित्साक्रमोऽप्यनुसंधेयः । पूर्वार्धे स्वभावोक्तिरलंकारः,
अन्यत्रार्थान्तरन्यासः ॥ २० ॥
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै-
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥
अथ व्रजतस्ते पन्थास्तत्कालभाविभिर्ललितैर्लक्षणैर्विना वाचं
व्यक्तीभविष्यतीत्याह - नीपमिति । नीपं कदम्बकुसुमम् । 'नीप-
प्रियककदम्बास्तु हलिप्रियः' इत्यमरः । दष्ट्वा अपक्वत्वादनभिव्यक्त-
समग्रमकरन्दतया नवीनरसौत्सुक्याच्च मुखैः परिपीड्य । हरितकपिशं
नवपर्णवर्णे श्याचवर्णे च । 'पालाशो हरितो हरित् । श्यावः स्यात्क-
पिशः' इत्यमरः । अत्र हेतुरसमग्रसंजातकिञ्जल्कत्वम् । अनुकच्छं
कच्छप्रदेशेषु । ‘जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्य-
मरः । दष्ट्वेति अत्राप्यनुषज्यते । दग्धारण्येषु दावदग्धेष्वरण्येषु ।
अधिकसुरभिं दग्धस्थलपरिमलेभ्योऽतिशयेन घ्राणप्रीणनं नवजलाव-
सेकात् । सारङ्गशब्देनात्र चातकमधुकरहरिणास्त्रयोऽप्यर्थास्त्रिषु वा
क्येषु क्रमातन्त्रेणोच्यन्ते । 'सारङ्गः शबलो वर्णश्चातकः षट्पदो
मृगः' इति वैजयन्ती । तत्र चातकानां कदम्बकुड्मलखण्डनम्,
षट्पदानां कन्दलीमुकुलदलनम्, मृगाणां दग्धस्थलपरिमलाघ्राणम् ।
अथ वा पूर्ववाक्येऽपि भ्रमराणामेव कर्तृत्वम्, चातकानां कदम्बचु-
म्बनस्याप्रसिद्धत्वात्; उत्तरवाक्ये क्रियान्तरोक्तेर्हरिणानाम् । घ्राणे
तु सारङ्गा गजा इति केचित्, 'करीव सिक्तं पृषतैः पयोमुचां शुचि-
व्यपाये वनराजिपल्वलम्' इत्युक्तत्वात् । अत्र प्रमाणं मृग्यम् ।
जललवमुचः लोकसुखानुरोधेन शनैः शनैर्वर्षतः । सूचयिष्यन्ति ज्ञापयि-
ष्यन्ति, 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि' इति -
वत् । काव्यलिङ्गमलंकारः ॥ २१ ॥
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गै: सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमिव भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥
अथास्य कालक्षेपं संभाव्य उक्तिमङ्गयानुमोदमान इव निषेधति-
उत्पश्यामीति । उत्पश्यामि संभावयामि । सखे निर्व्याजप्रेमास्पद ।
मत्प्रियार्थे यियासोः ईदृशस्य व्यसनविह्वलस्य मम प्रीतिहेतोर्जिग-
मिषतः । सखे इति, मत्प्रियार्थमिति च, विलम्बस्य स्वप्नेऽप्यचिन्त-
नीयतां द्योतयति । कालक्षेपं प्रकृतकार्यानुपयोगेन कालस्य यापनम् ।
ककुभसुरभौ तदात्वोन्मीलदर्जुनमञ्जरीसौरभ्याधिवासिते। 'इन्द्रद्रुः
ककुभोऽर्जुनः' इत्यमरः । एतद्विलम्बने हेतुः । पर्वते पर्वत इति ।
मध्येमार्गे पर्वतानां बहुत्वात् प्रतिपर्वतं क्षणं क्षणमवस्थानेऽपि महतः
कालस्यातिक्रमापत्तिरिति भावः । अन्यं च तस्मादपि दुर्लङ्घं विलम्ब-
हेतुमाह-- शुक्लापाङ्गैरिति । 'शुक्लापाङ्गः शिखावलः' इति वैज-
यन्ती । सजलनयनैः चिरसंदर्शनसंभृतानन्दवाष्पबिन्दुभिः संस्त-
म्भितनयनैः । स्वागतीकृत्य स्वागतशब्दं कृत्वा । 'केका वाणी मयू-
रस्य' इत्यमरः । कथमिवेति पाठः । आशु गन्तुं त्वरितगमनाय ।
कथमिव व्यवस्येत् उद्योगं कुर्यात्, दाक्षिण्यनिघ्नत्वादिति भावः ।
कथमपीति केचित् । सखित्वान्मद्दशादर्शनाच्च प्रियाजीवितपरित्राणा-
यत्तत्वान्मज्जीवनस्य प्राणत्राणात्परस्य धर्मस्य चाभावान्मध्ये विलम्बो
न ते युक्त इत्यर्थः । उत्पश्यामि न पुनर्निश्चिनोमि, यतस्त्वयि नैवं
संभाव्यत इति द्योत्यते । अत्राप्रस्तुतप्रशंसालंकारः ॥ २२ ॥
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै -
र्नीडारम्भैर्गृहबलिभुजामा कुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥
विन्ध्यमतिक्रम्य मार्गवशादन्यांश्च पर्वतान् विलङ्घय व्रजतस्ते
दशार्णा नाम जनपदाः पथि भविष्यन्ति; तेषां च त्वदासत्तौ का-
चिदीदृशी दशा समुदेष्यतीत्याह–पाण्डुच्छायेत्यादि । वृतिः
कण्टकिविटपिनिर्मितं समन्ततः प्राकारसमाकारमावरणम् । 'प्रान्ततो
वृति:' इत्यमरः । केतकैः केतकीकुसुमैः । सूचिभिन्नैः सूचिः शस्त्र-
विशेषः, सूचिवत्तीक्ष्णतया दलाग्राण्यत्र सूचय इत्युच्यन्ते, सूचिमात्रेण
विकसितैः, अनतिपाकाददलितदलसंपुटैरित्यर्थः । नीडारम्भैः कुला-
यनिर्माणोपक्रमैः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । गृहबलि-
भुजां भवनेषु संचरतां काकानाम् । 'वायसे करटारिष्टबलिपुष्टसकृ-
त्प्रजाः' इत्यमरः । अथवा चटकानाम् । 'गृहबलिभुङ्नीलकण्ठश्च’
इति चटकाभिधाने हलायुधः । आकुलाः वाचाटचटुलकरटचटक-
परिपाटीचलितविटपतया क्षोभवन्तः ग्रामेषु चैत्याः शिलादिबद्ध-
मूलाः पूजिताः प्लक्षाश्वत्थादयः पादपाः येषु । 'चैत्यं चिताङ्के
बुद्धाङ्गे उद्देशद्रौ सुरालये' इति वैजयन्ती । 'पोटायुवतिस्तोक-
कतिपयगृष्टिधेनुवशा' इत्यादिसूत्रेण समासे कतिपयशब्दस्योत्तरपद-
त्वविधानाद्दिनकतिपयेति वक्तव्ये प्रायिकत्वान्नोक्तम्, 'कतिपयपुर-
स्वाम्ये पुंसाम्' इति हरिवचनाच्च । अत्र स्वभावोक्तिरलंकारः ॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलमतिमहत्कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्तत्
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्म्याः ॥ २४ ॥
अथ जललवमुच इति जलमोक्षणस्य प्रसङ्गात्तन्मोक्षणलघोस्तव
सलिलपानमपेश्चितम् ; तच्च तत्र वेत्रवत्यां भविष्यतीति प्रतिपादय-
ति-- तेषां दिक्ष्विति । दिगन्तरप्रसिद्धविदिशासंज्ञां दशार्णदेशा-
नां संबन्धिनीं महानगरीम् । 'लक्षणं वार्षिके चिह्ने नाम्नि मुद्राङ्ग-
संपदोः' इति वैजयन्ती । सद्यः गमनानन्तरमेव । अतिमहत् प्रयो-
जनान्तरेभ्यो विशिष्टत्वात् । कामुकत्वस्य सलिलपानतृष्णायाः,
विषयरसिकतायाश्च । लब्धा लप्स्यते, त्वयेति शेषः । लब्धेति,
कर्मणि लुङन्तमिदं रूपम् । लब्ध्वेति क्त्वान्तः पाठ; तदा लब्ध्वा
पास्यसीत्यन्वनः । तदिति, उत्तरवाक्यगतयच्छन्दबलादायाति ।
यत्तदित्यत्र यच्छब्दः पयः परामृशति । यच्छब्दनिकटवर्तित्वात्त-
च्छब्दः प्रसिद्धिं परामृशति । तीरोपान्तस्तनितसुभगं तटनिकटास्फा-
लनजनितकलकलमनोहरम्, 'स्तनितमणितादि सुरते' इति,
नितमभ्रघोषवत्' इति च भरतवात्स्यायनादिप्रतिपादितशब्दविशे-
षवर्धितरागं च । स्वादु मधुररसम्, पीयूषातिशायिनोऽधरामृतस्य
विद्यमानत्वाद्रसनीयं च । सभ्रूभङ्गं रसावेशविवशेन प्रेयसा हठा-
त्कारेण पीयमानेन मुखाम्बुजेनाभिनीतललितकोपोल्लसितचिल्लीवल्ली-
मनोहरमित्यर्थः । वेत्रवतीति नद्याः संज्ञा । चलोर्म्याः चलः मृदु-
मारुतोत्थापित: ऊर्मि: तनुतरङ्गो यस्याः, तस्यैव भ्रूभङ्गसादृश्योप-
पत्तेः; वक्ष्यति च-- 'प्रतनुषु नदीवीचिषु भ्रूविलासान्' इति ।
चलोर्म्या इति नदीविशेषत्वेनोक्तोऽप्यर्थात् पयस एव फलति,
नायिकात्वेन प्रतीयमानायाः सरितः सभ्रूभङ्गमुखस्थानीयत्वात् पयसः।
चलोर्मीति वा पाठः । अत्र नायिकापक्षे तीरोपान्ते स्तनितसदृश-
स्तनितसुभगमिति, चलोर्मि पय इव मुखमिति च योज्यमर्थबलात्;
यथा-- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार' इत्यत्र
समासोक्तिरलंकारः ॥ २४ ॥
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
स्त्वत्संपर्कात्पुलकितमिवाप्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥
अथ श्रमविनोदस्य स्थलं निर्दिशति-- नीचैरिति । नीचैरि-
त्याख्या नाम यस्य तम् । गिरिमधिवसेरिति । 'उपान्वध्याङ्वस; '
इति सप्तम्यर्थे कर्मत्वात् द्वितीया । तत्र विदिशापुरे। विश्रामहेतोः
'अध्वश्रमविनोदनान्निमित्तात् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः'
इति वृद्धिप्रतिषेधाद्विश्रमेति वक्तव्यम्; विश्रामेति रूपसिद्धिर्लक्षणा-
न्तरेणेति ज्ञेयम् । मद्दता श्रमेण परगृहोपसर्पणे त्रपापि त्वया न
कार्या; यत्र न सत्कारः तत्रैव तस्याः सावकाशत्वात् । अत्र तु प्रत्यु-
तेत्याह-- त्वत्संपर्कात् चिराभिलषितात् अचिन्तितोपनतात् प्रिय-
सुहृदस्तव समागमात्, उपचितप्रहर्षतया रोमाञ्चकञ्चुकितमिवो-
त्प्रेक्ष्यमाणम् । अप्रौढपुष्पैः अपरिणतमुकुलैः, कुड्मलानामेव पुल-
कसाम्यप्रसिद्धेः । पण्यस्त्रीणां वारविलासिनीनाम् संभोगोपकरणभूत-
विविधकुसुमाङ्गरागपटवासादिसौरभं मुखेनोद्वमद्भिर्दरीगृहैः। नागरा-
णां नगरवासिनाम्। उद्दामानि विशृङ्खलानि, विशृङ्खलत्वं नाम निर-
तिशयविभूतिसंभारभूषितनियन्त्रणस्मरव्यापारपारगत्वम्; 'यौवनम-
फलं दरिद्रस्य' इत्युक्तत्वात् । एतेन सुरभिपरिमलाघ्राणेनैव श्रमस्ते
गमिष्यतीति द्योत्यते । अत्रोत्प्रेक्षा उदात्तं चालंकारः ॥ २५ ॥
विश्रान्तः सन्व्रज वननदीतीरजानां निषिञ्च-
न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥
अथ विश्रान्तस्य सेतिकर्तव्यं गमनं विदधानो मध्येमार्गमानुष-
ङ्गिकरसान्तरप्रतिपादनेन प्ररोचयति- विश्रान्तः सन्निति । वन-
नदीतीरजानां धर्मनिर्मूलितस्रोतसां क्षुद्रनदीनां तीरजातत्वात् शोषो
न्मेषशोच्यानामित्यर्थः । उद्यानानामिति, सरसजनोपभोगयोग्यत्वा-
दवश्यरक्षणीयत्वं द्योत्यते । नवजलकणैरिति । धर्माभितप्तानां सद्यो
जलावगाहने रोगप्रसङ्गात् शनैः शनैरास्वादनं विधेयमित्यर्थः; यथा
वक्ष्यति-- 'तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां
सममभिनवैर्जालकैर्मालतीनाम्' इति । 'अथ मागधी । गणिका
यूथिकाम्बष्ठा' इत्यमरः । यूथिका पुष्पलताविशेषः । सौकुमार्याति-
शयेन सुलभग्लानित्वाद्दयनीयताद्योतनार्थे यूथिकाग्रहणम्। जालकं
समूहः, अथवा कुङ्मलानि । 'कोरकजालककलिकाकुङ्मलमुकुलानि
तुल्यानि' इति इलायुधः । निषिञ्चन् उत्पादयन्, अथवा नितरां
सिञ्चन्। 'सुखैर्निषिञ्चन्तमिवामृतं त्वचि' इत्यत्र सिञ्चतेरमृतं कर्मीभ-
वति । अत्रतु जालकानीति ? मैवम् ; किरतिसिञ्चत्यादीनां कुसुमजा-
लादीनि कदाचित्करणीभवन्ति कदाचित्कर्मीभवन्तीति परिहारः ।
गण्डेति। करतलेनादाय स्विद्यत्कपोलमुकुरप्रमार्जनं यत्, तज्जनितया
रुजा क्लेशेन विवर्णकर्णकुवलयानाम्। अनेन स्वररुचिमरीचिपरिचयविर-
चितेन तादात्विकेन रूपेण सहृदयास्वाद्यत्वं ध्वनितम् । छायादानात्
अपरोचितपरमोपकारकरणात् । क्षणपरिचितः क्षणमात्रबन्धुः, सस्नेह-
बहुमानं निर्वर्णितत्वात्; तावता किं न पर्याप्तम्, जन्मलाभस्य साफल्या-
दिति भावः । पुष्पलावीमुखानां पुष्पखण्डनपराणां युवतीनां यावतीति
भावः (?) मुखानामिति, तासां कुसुमलवनकुतूहलाकुलितत्वेऽपि भव-
च्छायालाभवशेन स्वरसत एव सचमत्कारं त्वदभिमुखविवृतोत्तानलो-
चनत्वं मुखानां नियतं भावीति व्यज्यते । अत्र स्वभावोक्तिरलंकारः ॥
वक्रः पन्थास्तव भवतु च प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७ ॥
अथ परमप्रयोजनोद्देशेन कमपि पथि विशेषं विदधाति-- वक्रः पन्था इति । उत्तराशां प्रस्थितस्येति । तस्यार्जवेनापि शक्यत्वे प्रयोजनापेक्षया वक्रेणैव पथा गन्तव्यमिति भावः । मा भूरिति निषेधमुखेन प्रतिपादनम्, अप्रविश्य गमनं मनसापि न चिन्तनीयमिति द्योतयितुम् । सौधोत्सङ्गप्रणयविमुख इति, ललितविश्रमस्थानसंपतिरप्यस्तीति व्यज्यते । त्वत्कार्यार्थे गच्छतो मे प्रगुणमार्गविलङ्घिन्यां कथमुज्जयिन्यां प्रवेश इति चेत्तत्राह - विद्युद्दामेति । भवत्सहचारिण्याः सौदामन्याः परंपरायाः स्फुरणेन सत्रासैः । लोलापाङ्गैः स्फुरणास्फुरणदशयोर्निमीलनोन्मीलनवशात् विभ्रमतरलतरकटाक्षैः । रमसे क्रीडसि मोदस इत्यर्थः । वञ्चितः प्रतारित: प्रमादभ्रंशितजन्मप्रयोजन इत्यर्थः । अतो मत्कार्यस्य किंचिद्विलम्बेऽपि भवजन्मवैफल्यपरिहारायोज्जयिनीप्रवेशः कर्तव्य एवेति भावः । अत्र अरमणे वञ्चनोक्तेस्तत्रत्ययोषितां विशिष्टगुणप्रतिपत्त्या व्यतिरेकोऽलंकारः, निरुपमरूपवेषविलाससंपत्प्रकाशनेन निरतिशयशृङ्गारविभावताप्रतिपादनाद्रसः, तदुपगमे सफलजन्मा भविष्यसीति वस्तु च योग्यते ।
वीचिक्षोभस्वनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥
अथावन्तिनगरप्रयाणानुगुणं मार्गमुपदिशन्, यूथिकानिषेकवि-
रहितसलिलगौरवस्यास्य पयःपानस्थलं विच्छित्त्या प्रकाशयति-- वी-
चीति । स्वनितेति पाठः, स्तनितस्य शकुने रशनाकलापे चाप्रसिद्धेः ।
तरङ्गसंघट्टनेन शब्दायमानानां पक्षिणां हंससारसचक्रवाकादीनामाव-
लिरेव रशनाकलापो यस्याः । स्खलितम् उपलादिसंघट्टनेन प्रति-
हतवेगत्वम्, व्याजेन गमनविहतिप्रकाशनं च, तेन सुभगं स्पृहणीयम् ।
सलिलवसनोच्छ्वसनेन प्रकाशिता आवर्त एव नाभिर्यस्याः । ‘आ-
वर्तस्त्वम्भसां भ्रमः’ इत्यमरः । निर्विन्ध्येति संज्ञा । पथीति, कदा
मे प्रेयानागमिष्यतीति त्वन्मार्गनिहितदृष्टेरिति व्यज्यते; अथवा
अनायासेनैव मध्येमार्गमुपपन्नं रसं कोऽवमन्येतेति द्योत्यते । रसाभ्य-
न्तरः संभोगरसावगाढः, जलमभ्यन्तरे यस्य स च; अथवा मधुर-
रसाभिज्ञः । संनिपत्य संगम्य । अमिश्रितवचनस्य तस्या विलास-
दर्शनमात्रेण कथं विस्रब्धमुपसर्पणमिति चेत्तत्राह-- स्त्रीणामिति,
सहजलज्जाभूषणत्वात्स्वमुखोक्ताववैयात्यं द्योतयति । आद्यं प्रधानम् ।
प्रणयवचनं हृदयगतस्य प्रेम्णः कथनम् । विभ्रमः शृङ्गारचेष्टा ।
हिशब्दः प्रसिद्धौ; रसवित्सु प्रसिद्धोऽयमर्थ इत्यर्थः, रसपरिवाहत्वाद्वि-
लासानाम् ; तथा रघुवंशे-- 'तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां
प्रणयाग्रदूत्यः । प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा
बभूवुः ॥' इति। शाकुन्तले च-- 'दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च वि-
मोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥' इति । विहगश्रे-
णिकाञ्चीगुणध्वननादिरत्र विभ्रमः । रूपकानुगृहीता समासोचिरलं-
कारः ॥ २८ ॥
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९ ॥
अथ गृहीतसलिलस्य व्ययस्थलं वचोवैचित्र्या सूचयति-
वेणीति । त्रिधा पञ्चधा वा विभज्य दोराकारेण प्रथितः केशक-
लापो वेणी । सलिलस्य प्रतनुत्वात् वेणीत्वोपपत्तिः । 'वेणी तु केश-
बन्धे जलस्रुतौ' इति वैजयन्ती । वेणीधारणं च विरहिणीनां प्रसि-
द्धम् । तां निर्विन्ध्याम् । सिन्धुरिति नाम्ना प्रसिद्धा कापि नदी ।
पाण्डुच्छाया धवलशोभा । तत्त्वं दयितवियोगे तद्दर्शनोत्कण्ठिताया
भवति; यथा रत्नावल्याम्-- 'उद्दामोत्कलिकां विपाण्डुररुचं प्रार-
ब्धजृम्भां क्षणादायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्या-
नलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युतिमुखं
देव्याः करिष्याम्यहम् ॥' इत्यत्र विपाण्डररुचमिति । तटरुहतरुभ्रं-
शिभिः तीरजातेभ्यस्तरुभ्यो विगलनशीलैः । जीर्णपर्णैः विपाक-
पाण्डुभिः पत्रैः । सौभाग्यं रमणीयवल्लभत्वम् । सुभगेति । यः सर्व-
स्यापि सुभगः, तस्मिंस्त्वयि तस्याः प्रार्थना शोभत एवेति भावः ।
विरहावस्थया वियोगे भवन्त्या स्वदशया । व्यञ्जयन्ती न केवलं
मनसा निरूपयन्ती, अपि तु त्रपानाशलक्षणेन दशान्तरेण सर्वजन-
साक्षिकं प्रकाशयन्तीत्यर्थः । कार्श्ये जलहीनताम्, शरीरतनुतां
च । येन विधिना विधीयत इति विधिः कर्म, येन कर्मणा वर्ष-
णाख्येन, समागमरूपेण च । त्वयैवोपपाद्यः अस्मिन्नर्थे न तु कश्चि-
दन्य उपायः, 'स्मरज्वरश्चिकित्स्यो हि दयितालिङ्गनामृतैः' इत्यु-
क्तत्वात् ; तथा च श्रीमहाभारते-- 'मितं ददाति हि पिता
मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न
पूजयेत् ॥' इति । वृष्टिकार्यस्यापि कर्त्रन्तराभावादित्यर्थः । अत्र
प्रवासावसाने विरहविधुरितायाः प्रियायाः परिभोगो रसस्य परा
काष्ठेति द्योत्यते, यथाह कविवल्लभः-- 'प्रवासान्ते पाण्डुमुखीं
क्षामामुपचितस्मराम् । दिवसान्निर्विशेः कांश्चिदकर्कशतरां प्रियाम् ॥'
इति । अत्र समासोक्तिरलंकारः ॥ २९ ॥
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
न्पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैः कृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३० ॥
अथ सिन्धुमतिक्रम्य किंचिदन्तरं गत्वा मालवविषयं प्राप्य तदलंकारभूतामुज्जयिनीं प्रविशेत्याह – प्राप्यावन्तीनिति । 'मालवा: स्युरवन्तयः' इति वैजयन्ती । उदयनकथाको विदग्रामवृद्धान् उदयन इति वत्सराजस्य सांस्कारिकं नाम कौशाम्बीपतेर्गजवनविहारवत्सलस्य वत्सेशितुरुदयनस्यावन्तिनगरनाथेन महासेनेन मायया स्वविषयमुपनीय चारके निगलितस्य यौगन्धरायणाख्यसचि वमुख्यप्रयुक्तनिरपायनयोपायव्यक्तीकृतशक्तित्रयस्य वासवदत्ताभिधानेन दुहितृरत्नेन सह महासेनस्य कीर्तिमपहृत्य स्वविषयप्राप्तिलक्षणा या कथा, तस्यां विदग्धाः ग्रामेषु वयः परिणताः पुरुषा येषु । अनेन रससुधोत्स्राविणो वत्सराजचरितस्य तन्मुखेन सततास्वादनाज्जनपदजनस्यापि रसैकशरणत्वमुक्तम् । पूर्वोद्दिष्टां वक्रः पन्थास्तव भवतु चेत्यादिना पूर्वमुपदिष्टाम् । श्रीविशालां विशालेत्युज्जयिन्याः संज्ञान्तरम् । 'विशालोज्जयिनी समे' इत्यमरः । तस्या भुक्तिमुक्तिक्षेत्रत्वात्पूजायां श्रीशब्दप्रयोगः। विशालाम् अमितचतुरङ्गबलजलधिसांनिध्येऽप्यसंकटविशिखामुखाम् । अथवा श्रिया धनधान्यादिलक्षणया लक्ष्म्या विस्तृताम्, विशालां नाम्ना । विशालत्वेनोत्प्रेक्षते-- स्वल्पीभूत इति । सुचरितम् अश्वमेधादिकर्मनिष्पाद्यं पुण्यजातं तस्य फलं विशिष्टभोगसाधनसंपत्तिः तस्मिन्, भोगेन क्षीणप्राये । स्वर्गिणां कर्मदेवानाम् । गां गतानां भूमिं पुनः प्राप्तानाम् 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इति स्मृतेः । शेषैः फलदेभ्योऽन्यैः । 'अथ शेषस्त्रिष्वन्यस्मिन्नुपयुक्ततः' इति वैजयन्ती । 'ताः पिबन्ति मदायुक्ता जलदादिषु ये स्थिताः । वर्षे तु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥' इति श्रीविष्णुपुराणे, 'प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचिनां श्रीमतां गेहे योगभ्रष्टो विजायते ॥' इति भगवद्वचने च पुण्यशेषज्ञापनात् । कृतं उपस्थापितम् । खण्डम् एकदेशम्, 'वर्षद्वयं तु मैत्रेय भौमः स्वर्गोऽयमुत्तमः' इत्युक्तेभूमिस्पर्शिनोऽपि स्वर्गस्योत्पत्तेः । एकं मुख्यम् । 'मुख्यान्यकेवलेष्वेकः' इति वैजयन्ती । मुख्यत्वमेवोपपादयति-- कान्तिमत् साक्षात्स्वर्गतोऽपि शोभातिशययुक्तम् । 'मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः' इत्युक्तत्वात् मनःप्रीतिकरत्वस्यातिशयेनात्र विद्यमानत्वादिति भावः । अत्रोत्प्रेक्षालंकारः ॥ ·
दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥५०॥
अथ पुरप्रवेशात्पूर्वमेव शिप्रापवनसेवनेन कमलपरिमलाधिवासि-
ततदीयसलिलकबलेन च तवाध्वश्रमः शममुपेष्यतीति द्योतयन्,
मदनसाम्राज्यनिर्वाहकतां पुरस्य प्रतिपादयति - दीर्घीकुर्वन्निति ।
पटुमदकलं अनल्पेन कमलमधुजनितेन मदेन मधुरम् । अथवा
पटु स्पष्टमिति कूजितविशेषणम् । शीतलस्पर्शसुखानुभवेन दीर्घ-
त्वम्, कालस्वरूपतो वा, अथवा निद्राविरामजनकत्वात् ।
'प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि' इति सिंहः। स्फुटि-
तम् ईषद्दलितमुखम्, तदानीं परिमलस्य बाहुल्यात् । मैत्री संश्ले-
षातिशयः, कषायः सुरभिः । सुरतग्लानिं संभोगावसानसंभृतां व्या-
पारनिःसहताम्। अङ्गानुकूलः मन्दसुन्दरस्पर्शतया चरणनलिनसंवाह-
नादिभिश्च । शिप्रावात: शिप्रानाम्नो नद्याः संबन्धी वायुः । प्रार्थनाचा-
टुकारः पुनः संभोगयाच्ञायां रागप्रत्यानयनाय प्रियवचनप्रयोक्ता; यथा
दशकुमारचरिते-- 'त्रिभुवनसर्गस्थितिसंहारसंबन्धिनीभिः कथाभिः
प्रत्यानीयमानरागपूरा न्यरूपयत्' इति । 'चटुश्चाटुः प्रियं वाक्यम्'
इत्यमरः । अत्र तारमधुराणां सारसरसितानां मन्मथोद्दीपनत्वेन तजन-
कत्वात्सुखशीतलत्वम्, कषायत्वात्सौरभ्यम्, अङ्गानुकूलत्वान्मान्द्यं
च वायुगुणाः प्रकाशिताः । किं च सरससज्जनवल्लभत्वात्, रसनं
शब्दनं तत्सहितत्वाद्वा, सारसा: वन्दिनः, तेषां कूजितं लक्षणया
स्तुतिगीतिमङ्गलं स्वसंनिधानेन तारं कुर्वन् । कमलामोदसदृशामो-
दविशिष्टश्चेति प्रियतमेऽपि योज्यम् । स्त्रीणां प्रियतमानुकूल्यप्रार्थनया
सान्त्वप्रयोक्तेति वातेऽपि । प्रत्यूषेष्वित्यनेन सकलसमृद्धिभाजनतया
प्रवृत्त्यन्तरव्यग्रताभावात्प्रबलोद्दीपनसंनिधानाच्च पौराणामविरतरसि-
कत्वं ध्वनितम्; शिप्रावात इत्यनेन सर्वर्तुसुखेषु तत्तटोद्यानेषु विहर-
णशरणत्वं च ; तथा रघुवंशे-- 'अनेन यूना सह पार्थिवेन रम्भोरु
कच्चिन्मनसो रुचिस्ते । शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरं-
परासु' इति लोकोत्तरेण रूपेण शिप्रातटोद्यानानां परमोद्दीपनत्वं
ध्वनितम् । अत्रोपमा सहोक्तिरलंकारः ॥ ३१ ॥
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा
स्वेदं नीत्वा ललितवनितापादरागाङ्कितेषु ॥३२॥
अथ विशालां प्रविश्य विगलितसरणिखेदप्रसन्नचेतसा भवता
दुरितभरहरणबन्धुरिन्दुमौलिकरुपसर्प्तव्य इत्याह श्लोकद्धयेन--जा
लेति । जालोद्गीर्णै: गवाक्षविवरनिष्ठ्यूतैः । 'जालं गवाक्ष आनाये'
इति वैजयन्ती । अयत्नलभ्यत्वमनेन द्योत्यते । उपचितवपुः आप्या-
यितशरीरः, धूमस्यैव मेघाकारपरिणामात्; यथा हर्षचरिते--
'स्वमपि धूममम्भोदसंभूतिभियेव भक्षयन्तः' इति । केशसंस्कार-
धूपैः शिरोरुहाधिवासनार्थैरगरुचन्दनादिचूर्णावकीर्णहुतवहोद्गीर्णतया
सुगन्धितैर्धूमैः । 'धूमस्तरिर्मेघवाही धूपोऽसौ गन्धवासितः' इति
वैजयन्ती । बन्धुप्रीत्या सुहृदयमस्माकमागत इति हर्षेण । भवन-
शिखिभिः क्रीडार्थे गृहेषु संवर्धितैर्मयूरैः । हर्म्येष्विति । गिरिशिखर-
वदभ्रंलिहत्वाद्विश्रमौचित्यम्, बहुवचनेन विविधवृत्तान्तकान्ततया तत्र
तत्र रसानुरोधेन विहर्तव्यमिति च व्यज्यते । अस्याः उज्जयिन्याः ।
कुसुमसुरभिषु उपहारपुष्पादिभिः सुरभिषु । ललितवनितापादरागा-
ङ्कितेषु लावण्यवर्षिणीनां स्त्रीणां दयितदर्शनसंभ्रमादिभिरार्द्ररागमेव
निहितानां चरणानां यावकरसेन चिह्नितेषु, अथवा पादानामेव
कान्त्या लिप्तेष्विति, तासां सदा संनिधानं ध्वनितम् । 'रागोऽनुरागे
लाक्षादौ त्विषि' इति वैजयन्ती । आभ्यां लोकोत्तरोद्दीपनालम्बन-
विभावसंपत्त्या रसोल्लासो ध्वन्यते । अध्वखिन्नान्तरात्मा मार्गगमन-
तान्तेन शरीरेण विगलितोत्साहं मनो यस्य सः; यथा वैद्यके--
मनःशरीरयोस्तापः परस्परमभिव्रजेत् । आधाराधेयभावेन तप्ताज्य-
घटयोरिव ॥' इति। खेदं नीत्वा श्रमं गमयित्वा, इत्यनुवादेनायत्न-
साध्यत्वमुक्तम् । नीत्वेत्यस्य याया इत्युत्तरश्लोकगतेनान्वयः । अत्रा-
नुष्ठितमृष्टभोजनस्य जनपदजनोपहारमुदितस्याभिमतविषयोपस्थान-
हृद्यप्रासादविहारिणो धरणीपतेः समाधिरनुसंधेयः । उदात्तमलंकारः ।।
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडाविरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥३३॥
अथ परमेश्वरपरिसरमुपसरतस्तव तद्दर्शनात्पूर्वमेव सौभाग्यभाग्य-
भाजनता भविष्यतीत्यनुवादमुखेनाह-- भर्तुरिति । भर्तुः स्वामिनः,
इति सादरत्वे हेतुः । कण्ठच्छविः कण्ठच्छविसदृशच्छविः। 'शोभा का-
न्तिर्द्युतिश्छविः' इत्यमरः । कालकूटमृगमदकलितकालिमस्निग्धत्वा-
त्परमेश्वरकण्ठस्य तत्सवर्णतया तदनुस्मारकं भवन्तं भाग्यराशिरयमि
ति सबहुमानं पार्षदाः परमेश्वरहृदयभूताः प्रेक्षिष्यन्ते ; किमतः परं
सुकृतफलमिति भावः । पुष्यं पापहरम् । त्रिभुवनगुरोः विशिष्ट-
ज्ञानप्रदानात्सर्वलोकमान्यस्य, 'अष्टादशानामेतानां विद्यानां भिन्न-
वर्त्मनाम् । आंदिकर्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः' इति
वायूक्तेः । अथवा पितामहस्यापि पितृत्वात् त्रिभुवनगुरुः, 'योऽग्रे
मां विदधे पुत्रं छन्दश्च प्रहिणोति मे' इति वायूक्ते । धाम आल-
यम् । पुण्यं धामेत्युक्तेर्धाम्न एव दर्शनादिभिः पापहरणसामर्थ्ये
ध्वन्यते, 'दूरतः शिखरं दृष्ट्वा नमस्कुर्याच्छिवालयम् । सप्तजन्मकृतं
पापं तत्क्षणादेव नश्यति' इति श्रीनन्दिकेश्वरवचनात् । चण्डेश्वरस्य-
चण्डः क्रूरः संहर्तृत्वात्, ईश्वरः नियामकत्वात्प्रपञ्चस्य यः, तस्य ;
अथवा गौरीपतेः । अनेनातिक्रमे श्रेयः प्रतिबन्धकत्वमपि स्यादिति
द्योत्यते । न केवलमामुत्रिकं कालान्तरभावि; तादात्विकं वैषयिकमपि
तदुपगमे सुखं भविष्यतीत्याह - धूतोद्यानमिति । गन्धवतीति
काचिन्नदी । तोयक्रीडाविरतयुवतिस्नानतिक्तैः चिरं जले विहृत्य ततो
निवृत्तानां तरुणीनां स्नानेन; स्नानमिति स्नानोपकरणभूतगन्धद्रव्यो-
पलक्षणम् । 'स्नानीयेऽभिषवे स्नानम्' इति वैजयन्ती । तेन सु-
रभिभिः । अत्र गन्धवत्या परिभोगे इन्दीवरपरागगन्धसंपर्कमात्रम्,
युवतिजनसंश्लेषे तु स्पृहणीयपरिमलविशिष्टत्वं च मरुत इति गन्ध-
शब्दतिक्तशब्दाभ्यां गन्धवत्या युवतीनां व्यतिरेको ध्वन्यते । तद्दर्श-
नाच्च चमत्कारेण मत्सरेण वा सहृदयतया कामुकान्तरत्वेन वा तरलि
तमुद्यानं यत्र । अनेन विशिष्टनायिकान्तरपरिरम्भोपलम्भनिर्वृतस्य
मरुतो यत्किंचित्कारितालक्षणो मदो व्यज्यते । अत्र च पूर्वे 'स त्वयै-
वोपपाद्यः' इति जलमोक्षणस्योकेरिदानीं शिप्रागन्धवत्योः प्रसङ्गाच
उभयोर्यथारुचि जलपानं त्वयान्यतरस्यां विधेयमित्युक्तं वेदितव्यम् ।
अत्र स्मरणमुदात्तं चालंकारः ॥ ३३ ॥
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।.
कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया-
मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥
अथ देवदेवस्य सेवासमयमुपदिशन्, सेवाप्रकारमाह - अप्यन्य-
स्मिन्निति । अन्यस्मिन् काले पूर्वाह्नादौ । जलधरेति । पूर्वे जलपानस्य
सूचितत्वात् जलधरेत्यामन्त्रणम् ; ननु जलधरस्त्वम्, अतोऽपेक्षितस्थ-
लेषु वर्षणेन त्वया कालविनोदः कर्तुं शक्यः; चिरावस्थानचोद्यस्यापि
नावकाश इति भावः । महाकालमिति स्थानस्य संज्ञा, 'असौ महा-
कालनिकेतनस्य वसन्नदूरे किल चन्द्रमौले: । तमिस्रपक्षेऽपि सह
प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥' इत्युक्तत्वात् । त इति
'कृत्यानां कर्तरि वा' इति षष्ठी । तावदित्यध्याहार्यम्, यावदि-
त्युक्तेः। नयनविषयं नेत्रगोचरं देशम् । यावत्सूर्यास्तमयमवस्था-
नस्य महाफलप्रतिपादनेनावश्यकर्तव्यतामाह – कुर्वन्निति । संध्या-
बलि: सायंसंध्याकालपूजोपहारः । 'बलि: पूजोपहारे च दैत्यभेदे
करेऽपि च ' इति वैजयन्ती । पटहः आनकवाद्यविशेषः । 'आनकः
पटहो ज्ञेयः' इत्यमरः । शूलिन इति । तीक्ष्णतरदण्डसाधनविशिष्ट-
त्वोक्तेर्जगदण्डदण्डधरस्य खण्डपरशोः प्रसादे जगत एव प्रसाद इति
भावः ; 'ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः । न स चेदी-
शतां कुर्याजगतां कथमीश्वरः ॥' इति, 'वृक्षस्य मूले सेकेन शाखा:
पुष्यन्ति वै यथा । शिवस्य पूजया तद्वत्पुष्प्यत्यस्य वपुर्जगत् ॥' इति
च वायूक्तेः । अत एव श्लाघनीयां सज्जनप्रशंसायोग्याम् । आमन्द्राणां
गम्भीराणाम् । 'मन्द्रो गम्भीर उच्यते' इत्यमरः । अविकलम्
अन्यूनम्, 'कर्तुं यच्च' इत्यादिना पूर्वमपि फलवत्त्वोक्तौ तस्यैहि-
कक्षुद्रफलरूपत्वादविकलत्वं नास्ति; अद्य तु परमेश्वरप्रसादहे-
तुत्वादविकलफललाभ इति भावः ; ' तस्मिन् प्रसन्ने किमिहास्त्य-
लभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंशयः
पक्वफलप्रपाकः ॥' इति श्रीविष्णुपुराणवचनात् । रूपकमलंकारः,
बलिपटहत्वेनास्य रूपितत्वात् । अतिशयोक्तिर्वा, अध्यवसायात् ।
अथवा पटहकरणस्य असंबन्धादुपमापरिकल्पकत्वेन निदर्शना ॥
पादन्यासक्वणितरशनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-
नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥
अथास्यानङ्गरिपुसेवायामानुषङ्गिकं फलान्तरमाह-- पादेति ।
पादन्यासक्वणितरशनाः परमेश्वरस्य प्रदोषयात्रानुरूपं चरणसंचरणेन
रणितमणिमेखलाः । तत्र महाकाले । लीलावधूतैः विलासमृदुसं-
चारितैः । रत्नच्छायाखचितवलिभिः दण्डप्रत्युप्तवज्रादिरत्नप्रभापट-
लावकुण्ठितमूलमध्याग्रगतशिल्परेखैः । अथवा रत्नप्रभानुविद्धमध्य-
वलित्रयैः । चामरैः सेवार्थैश्चमरीवालव्यजनैः । लीलावधूतैः क्लान्त-
हस्ता इति, वेगावधूतैस्तु कीदृशी दशा भाविनीति तेषां सौकुमार्या-
तिशयचमत्कारो ध्वन्यते । वेश्याः परिवारवारवनिताः । नखपदसु-
खान् नवीनानां नखपदाङ्कानां वेदनानिवारकत्वेन सुखकरान् । सुख-
शब्दो गुणिनि गुणेऽपि च वर्तते; यथा रघुवंशे-- 'दिशः प्रसेदु-
र्मरुतो ववुः सुखाः' इति । अग्रबिन्दून् प्रथमजलकणान्, अन्येषा-
मुद्वेगजनकत्वात् । आमोक्ष्यन्ति आभरणं करिष्यन्ति, आमोचनस्य
परिष्कारपर्यायत्वात् ; यथा रघुवंशे-- 'आमुञ्चतीवाभरणं द्विती-
यम्' इति, 'आमुमोच तनुच्छदम्' इति च । मधुकरश्रेणिदीर्घान्
भ्रमरमालावदायतान्, साहचर्यात् स्निग्धश्यामलानित्यपि प्रतीयते;
'धर्मयोरेकतरनिर्देशेऽन्यसंवित्साहचर्यात्' इति लक्षणात् । कटाक्षान्
अपाङ्गभागनिर्गतान्नयनमरीचिनिचयान्, तेषां साकल्यनिरीक्षणादपि
रसावहत्वम्; सानुरागाकूतमेव प्रसरादिति भावः । अत्र स्वभावोक्तिः
परिवृत्तिरलंकारः ॥ ३५ ॥
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगः स्तिमितनयनं दृष्टभक्तिर्भवान्या ॥
अथ देवदेवस्य सेवायां प्रकृष्टं प्रकारान्तरमाह-- पश्चादिति ।
पश्चात् पटहकृत्यानुष्ठानानन्तरम् । अथवा पृष्ठभागे, करिकृत्तिप्रावर-
णौचित्यात् । उच्चैः ऊर्ध्वकृतम् । भुजतरुवनं वृत्तोत्तुङ्गकठिनाय-
तत्वैर्भुजेषु तरुत्वारोपणम्, बाहुल्याद्वनोक्तिः । मण्डलेन वर्तुलेना-
कारेण । अभिलीनः आश्रितः । सान्ध्यं संध्याकालसंबन्धि । तेज:
प्रभाविशेषम्। प्रतिनवजपापुष्परक्तं तत्कालविलसितरुद्रपुष्पवत्स्निग्धा-
रुणम्। दधानः मेघानां संध्याकाले तत्संबन्धित्वनियमात्, 'संध्यापयो-
दकपिशाः पिशिताशनानाम्' इत्यादिप्रयोगदर्शनात्, अनुभावाच्च।
नृत्तारम्भे आनन्दताण्डवप्रक्रमे । हर अपनय । आर्द्रनागाजिनेच्छां
नवोत्पाटितत्वात्क्षरदरुणरुधिररञ्जितकुञ्जरत्वक्प्रावरणाभिलाषम्, तद्रू-
पसाम्यसाकल्येन भवतैव तत्कार्यस्यानुष्ठानात् । पशुपतेरार्द्रनागा-
जिनेच्छामिति । त्रिभुवनपतेरात्मारामस्य कामरिपोराशापाशानुपहत-
त्वेन तादृशेष्वेवोपेक्षणीयेषु भावौचित्यादिति भावः; न तु नागाजि-
ननिर्बन्धपरम् ; तथा कुंमारसंभवे-- विभूषणोद्भासि पिनद्धभोगि
वा गजाजिनालम्बि दुकूलधारि वा। कपालि वा स्यादथवेन्दुशेखरं न
विश्वमूर्तेरवधार्यते वपुः ॥' इति क्वचिदप्यैकान्तिकरसस्य दूरोत्सार-
णात् । शान्तोद्वेगः प्रचण्डताण्डवोद्दण्डभुजतरुषण्डस्य खण्डपरशो-
र्जगदण्डखण्डनक्षमेषु मण्डलभ्रमणसंभ्रमेषु धैर्यावलम्बेन नियन्त्रित-
भयविकारः । स्तिमितनयनं कामचारिणो विषयरसिकस्यास्य कथमी-
दृशी भक्तिरुत्पन्नेति विस्मयविकसितनिभृतनयनकुवलयम् । भवान्या
परमेश्वरस्य निरतिशयैश्वर्यसर्वस्वभूतया शरीरार्धस्वामिन्या देव्या पार्व-
त्या; तद्दर्शनेऽपि न भवानुग्रहफलसिद्धौ व्यभिचारः, शिवस्यापि भ-
क्तानुग्रहकरणे तन्मुखप्रेक्षित्वादिति भावः; 'यथा शिवस्तथा देवी
यथा देवी तथा शिवः । नानयोरन्तरं विद्याच्चन्द्रचन्द्रिकयोरिव ॥’
इति वायूक्तेः, 'परो हि शक्तिरहितः शक्तः कर्तुं न किंचन । शक्त-
स्तु परमेशो हि शक्त्या युक्तो यदा भवेत् ॥' इत्यागमाच्च । दृष्टभ-
क्तिः प्रत्यक्षीकृतभक्तिकार्यः, न तु श्रुतभक्तिः । अनेन सद्य एव फल-
प्राप्तिर्भाविनीति द्योत्यते; 'भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि
पुरः फलानि इत्युक्तत्वात् । अत्र सदृशानुभवाद्वस्त्वन्तरस्मृतिलक्षणं
स्मरणमलंकारः ; यथा- 'यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो
युधि स्फीतासृक्स्रुतिपाटलीकृतपुरोभागं परान्दारयन् । तेषां दुःसह-
कामदेवदहनप्रोद्भूतनेत्रानलज्वालालीभरभासुरे स्मररिपावस्तं गत
कौतुकम्' इत्यत्र ॥ ३६ ॥
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥
अथ संध्यावसाने निवृत्तनिर्वृत्तोत्सवस्य गौरीपतेः सेवाया अस-
मयत्वादनौचित्यान्महाकालतो निर्गतस्यास्य ललितं व्यापारान्तरं
विदधाति-- गच्छन्तीनामिति । गच्छन्तीनां न तु नीयमानानाम् ।
अनेन सहायराहित्यं ध्वनितम् । रमणवसतिं प्रियतममन्दिरमिति,
स्मरशरबलात्कारेणैकाकिनीनां तिमिरमविगणय्यापि गमनोद्योगः
शोभत इति भावः । तत्र उज्जयिन्याम् । नक्तं रात्रौ इति, प्रिय
इदानीमेष्यतीति प्रत्याशया कंचित्कालं प्रतीक्ष्य तदनागमनं निश्चित्य
प्रौढप्रदोषे निर्गमं व्यञ्जयति । रुद्धालोके निह्नुतनिम्नोन्नतादिदर्शने ।
नरपतिपथे राजवीथ्याम् । सूचिभेद्यैः सूचिः शस्त्रविशेषस्तीक्ष्णाग्रः,
तया भेत्तुं योग्यैः। अनेन बहुलत्वातिशय उक्तः । सौदामन्या
विद्युता । कनकनिकष: हेमनिकषणरेखा तद्वत् स्निग्धया, साहचर्यात्
कपिलया च, दर्शनमात्रोपयुक्तया न तु नयनप्रतिघातिन्येत्यर्थः ।
तत्क्षणे च लोचनचाकित्यस्यावश्यंभावात् 'विद्युद्दामस्फुरणचकितैः'
इत्युक्तमनुसंहितम् । तोयोत्सर्गो वर्षणम्, तदर्थेन गर्जितेन, अथवा
तोयोत्सर्गेण स्तनितेन च, वाचालः । मा भूः । कुतः ? विक्लवास्ताः ।
तच्छन्दः प्रसिद्धौ, सौकुमार्यादिगुणविशिष्टा योषितः परामृशति ।
विक्लबाः अधीराः । यतो गम्भीरभीषणे तव गर्जिते जृम्भमाणे ससं-
भ्रमपरिरम्भोचिते दयितजने चासन्निहिते तासामतिसुकुमारीणाम-
चिन्तनीयापि कापि दशा संभाव्यत इति भावः । अत्र मुखरत्ववि-
क्लबत्वयोरतिवैधर्म्यादघटमानत्वमिति विषमालंकारः ॥ ३७ ॥
तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
रात्रिं नीत्वा चिरविलसनात्खिन्नविद्युत्कलत्रः ।
सूर्ये दृष्टे पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥
अथानुभूतोज्जयिनीरसचरितार्थस्यास्यानन्तरकरणीयमाह-- ता-
मिति । तां या परमेश्वरसेवायै प्रतिपालिता नीतभूयिष्ठा च ताम् ।
कस्यांचिदिति, सर्वत्र वाससौख्यं द्योतयति । भवनवलभौ गृहविट-
ङ्किकायाम् । अथवा भवनकूटेषु । 'कूटाकारं तु वलभिः' इति
वैजयन्ती । सुप्तपारावतायां सुखसुप्तानां कलरवाणामनुपमदेनेत्यर्थः ।
अथवा तत्सवर्णतया कैश्चिदप्यपरिज्ञात इति । रात्रिं नीत्वा न पुनः
खेदं नीत्वा, खेदनयनस्य पूर्वमेवोक्तत्वात्; रात्रिनयनमेव तदानीं
तवापेक्षितमिति भावः । चिरविलसनात् मार्गप्रदर्शनसंरम्भेण चिर-
कालपरिस्फुरणात् । खिन्नविद्युत्कलत्रः परिश्रान्ता विद्युद्रूपा भार्या यस्य;
भवतः श्रमाभावेऽपि तदर्थमपि क्वचिद्विश्रमो युक्त इति भावः ।
सूर्ये दृष्ट इति, न त्वरुणोदयमात्रे; अनेन तरुणकिरणकबलिततमसि
गगनसरणिमशिशिरमहसि समुपसरति सति दिवसमुखविततललित-
विविधचरितमधिकरुचिरमवनिपनगरं तदतिकुतुकमनुभूयैव गन्तव्य-
मिति द्योत्यते । पुनरपि उज्जयिनीमहाकालदर्शनोत्सवनिवृत्तोऽपीति,
पुनःशब्दो व्यावृत्तौ । 'पुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे' इति
वैजयन्ती । प्रस्तुतस्य मार्गस्य भूयोऽपि गमनमित्यर्थो न घटते, शेषश-
ब्देन पौनुरुक्त्यापत्तेः । वाहयेत् गच्छेत् ; 'निशासु भास्वत्कलनूपु-
राणां यः संचरोऽभूदभिसारिकाणाम् । ज्वलन्मुखोल्काविचितामिषाभिः
स वाह्यते राजपथः शिवाभिः' इत्यत्र वाह्यत इतिवत् । अध्वशेषं
मार्गस्यावशिष्टमेकदेशम् । शेषशब्देनोपयुक्तेतरस्याभिधानात् तस्य चा-
र्थान्न्यूनत्वसिद्धेर्लङ्घितभूयिष्ठत्वान्मार्गस्य कियानैव शेषः, अतो लाघ-
वात्सौकर्येण न तन्द्रालुत्वावकाश इति प्रोत्साहनम् । प्रसिद्धसुजनसौहृ-
दस्वभावोद्भावनेनापि प्रोत्साहयति; अथवा अभिरुचितदेशादिदर्श-
ने कथमविलम्बितनिर्गम इति चेत्तत्राह-- मन्दायन्ते अपटुवदाच-
रन्ति, उदासत इति यावत् । 'मूढात्मापटुनिर्भाग्या मन्दाः' इति
वैजयन्ती । खलु: अनुनये । 'निषेधवाक्यालंकारे ज्ञीप्सानुनयोः खलु'
इति वैजयन्ती । सुहृदां अशठहृदयानां मित्राणाम् । अभ्युपेतार्थ-
कृत्याः एवं करिष्यामीति प्रतिश्रुतप्रयोजनानुष्ठानाः ; 'सुहृदर्थे प्रति-
श्रुत्य यश्च पश्चादकुर्वताम् । तेन पापेन लिप्येयं यद्यहं नागमे पुनः ॥'
इति महाभारते महापातकत्वोक्तेः, दधीचादीनां तथानुष्ठानाच्चेति
भावः । अत्रार्थान्तरन्यासोऽलंकारः ॥ ३८ ॥
तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्ति नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥
अथ प्रतिष्ठमानस्यास्य पथिकमपि प्रमादं निषेधति-- तस्मिन्निति ।
तस्मिन् काले सूर्यदर्शनस्य प्रस्तावात् प्रभात इति लभ्यते। 'ज्ञातेऽ-
न्यासङ्गविषये खण्डितेर्ष्याकषायिता' इत्यमरः । शान्ति नेयं प्रणि
पातादिप्रसादनोपायप्रयोगेणावेगापनयान्निवारणीयम् । प्रणयिभिरिति,
प्रसादनसौकर्ये द्योतयति प्रणिपातादिकमन्तरेणापि तदर्शनमात्रा-
न्मन्मथपरतन्त्रतया प्रसादो लभ्यत इत्यर्थः । प्रणयिभिरिति, तद्गत-
प्रेमनिगलयन्त्रितत्वात् प्रमादापतितत्वमपराधस्य; अतो नेयमिति
प्रसादस्य प्रयत्नतोऽप्यनुष्ठेयत्वम् । अतः अस्मात्कारणात् । वर्त्म
किरणप्रसरणसरणिम्, कररुधीति किरणनिवारणस्यैव वक्ष्यमाणत्वात् ।
आशु त्यज झटित्यपसरणेन वर्जय, सर्वथा वर्जनस्य गगनतले तपन-
मण्डलमधोऽधो वर्तमानस्याशक्यत्वात् ; अज्ञातकिरणघटनविघटन-
मपसरणीयमिति भावः । प्रालेयास्रं रजनिसमयनिपतिततुहिनकणनि-
वहमयनयनजलम् । 'तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका च'
इत्यमरः । अस्रश्चास्रश्च पुल्लिंङ्गो केशेऽच रुधिरेऽश्रुणि' इति वैज-
यन्ती । कमलवदनात् पद्मरूपान्मुखात् । सोऽपि भानुरपि, यथा-
न्ये प्रणयिनः प्रणयिनीनाम् तथा सूर्योऽपीत्यपिः समुच्चये ।
‘अपि संभावनाप्रश्नगर्दाशङ्कासमुच्चये' इति वैजयन्ती । हर्तुं करप्र-
मार्जनेनापनेतुम् । प्रत्यावृत्तः रात्रिनिवासस्थानादागतः । कररुधि
किरणच्छादके, न तु करस्पृशि, मन्दगमनेन चिरं किरणप्रसारं निवा-
रयतीत्यर्थः । श्लेषात् हस्तनिरोधिनीत्यपि स्फुरति । अनल्पाभ्यसूयः
गाढान्तर्गतविद्वेषः । यथा प्रणयापराधगाढकुपितायाः प्रियायाः
प्रसादनाय प्रयतमाने प्रबलमदनबाणपरिक्षीणे प्राणेश्वरे, तदीयहृदय-
मजानानः कश्चिन्मित्रजडः प्रसरदश्रुचिन्दुप्रबन्धप्रकटितप्रसादप्रक्रमं
प्रियावदनं प्रमार्जयितुं प्रसारितं पाणिं निवारयन्, किमनया प्रसादि-
तया वराक्येति प्रलपन्, प्रभूतविद्वेषभाजनं भवति ; तथा त्वमपि
नीरसकोटौ निपतन् भविष्यसि; तत्तथा न कर्तव्यमिति भावः ।
अत्र समासोक्तिरलंकारः ॥ ३९ ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४० ॥
अथास्य 'प्राप्य वर्षाग्रबिन्दून्' इत्यादिना वर्षणस्य प्रस्तावात्
सलिलरिक्तस्य तदास्वादभूमिं वैदग्ध्यात्प्रकाशयति-- गम्भीराया
इति । गम्भीरेति नद्याः संज्ञा । प्रसन्ने पङ्कादिरहिते, विषयान्तर-
विक्षेपविक्षोभविरहसुस्थिते च । च्छाया प्रतिबिम्बरूपेण शरीरम्; उपरि
गच्छत्स्तव स्वच्छत्वात्सलिले आत्मापि बिम्बरूपं च । तस्मिन्नवलम्ब-
नेन प्रवेशं प्राप्स्यति, कान्तिः, तदाश्रयं शरीरं चेतसीवेत्यर्थः ;
नयनप्रीतिपूर्वमेव चित्तासङ्गस्योपपत्तेः। 'छायात्वनातपे कान्तौ प्र-
तिबिम्बार्कजाययोः' इति वैजयन्ती । अथवा छायात्मा प्रतिबिम्ब-
शरीरम् । 'आत्मा जीवे धृतौ देहे ' इति वैजयन्ती । अपिर्भिन्नक्रमो
गम्भीराया अपीति निर्विन्ध्यादिभिः समुच्चयार्थः । प्रकृतिसुभगः
स्वभावेनैव कृत्रिमवेषमन्तरेण सुन्दरः, स्निग्धमुग्धश्यामललावण्य-
दिग्धवियदन्तरालत्वादिति भावः । तस्मात् यस्मात् भवन्तं हृदये-
नोद्वहन्ती प्रकृष्टप्रेमप्रवणा वर्तते, तस्मात्कारणात् । कुमुदविशदानि
विकसितकुमुदधवलानि । अनेन हर्षविकसितनयनसितभागप्रभापरि-
वीतकनीनिकानीलिमत्वं द्योत्यते ; हर्षचरिते-- 'अस्नपयदिव धव-
लितदशदिशा दृशा' इति । त्वं नार्हसि, तद्योग्योऽन्य एव नीरसजन
इत्यर्थः । धैर्यात् तद्विषयार्द्रताविरहादित्यर्थः । मोघीकर्तुं निष्फलानि
कर्तुम् ; प्रणयपिशुनानां प्रमदाविलोकनानां प्रियप्रावण्यफलत्वात्
तदनभिनन्दनेन त्वयि व्रजति सति नितरां तव नीरसत्वं भविष्य-
तीति भावः। चटुलशफरोद्वर्तनप्रेक्षितानि चञ्चलानि शफराख्यम-
त्स्यविशेषपरिस्फुरणरूपाणि विलोकनानि । चटुलत्वं ह्रीयन्त्रणया
स्थिरत्वाभावः, मत्स्यस्फुरणस्वभावश्च । शफरग्रहणं तेषां नयनसाम्य-
प्रसिद्धेः । प्रेक्षितानीति, प्रकृष्टरसवर्षित्वं प्रोपसर्गेण, विविधभाव-
विकसितविलासभङ्गितरङ्गितत्वाद्बाहुविध्यं च बहुवचनेन द्योत्यते ।
अत्र समासोक्तिरलंकारः ॥ ४० ॥
तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो वितृतजघनां को विहातुं समर्थः ॥
अथ तदुपभोगरससङ्गेनास्य गमनविलम्बमाशङ्कय भङ्गया निषेधति-- तस्या इति । किंचिदिति धारणक्रियाविशेषणं करेणेषन्निवारितमिवेति । मदनसुहृदो मनसः संवादेऽपि त्रपापरवशतया करेण शिथिलधृतमिव । प्राप्तवानीरशाखं स्पृष्टवेतसविटपम् । हृत्वा आदाय, आक्षिप्य च । मुक्तरोधोनितम्बम् अनेन सलिलस्यापीयमानत्वे वीयमाणत्वाद्वर्जितं तीररूपं श्रोणिमण्डलं येन । एतच्च हरणप्रथमाश्वासः ।
कालविशेषणम् । हृत्वा लम्बमानस्येत्यन्वयः । लम्बमानस्य जलभ-
रगौरवादवनमतः, रसमग्नतया कालं क्षिपतश्च । प्रस्थानं तत्समीपात्
प्रयाणम् । कथमपि भवतीत्युक्तिद्वारेण प्रयत्नतोऽपि कर्तव्यमित्यु-
क्तम्। सखे इति, प्रियवयस्येन त्वया न विस्मर्तव्या मद्दशेति
द्योतयति । वसनहरणे विलम्बोऽवश्यंभावीति कथं निश्चीयत इति
चेत्तत्राह – ज्ञातास्वाद इति । विदितभोगरसः । विवृतजघनां
प्रकटितविकटकटितटपुरोभागाम् । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे
तु जघनं पुरः' इत्यमरः । विवृतेति, स्वानुकूल्यं द्योतयति 'आनुकू-
ल्यरसाः स्त्रियः' इत्युक्तत्वात् ; सा हि रसस्य परा काष्ठेति भावः ।
जघनेति, दयितायाः कण्ठमूलकक्षवक्षोरुहादीनामपि हृदयगन्धसि-
न्धुरबन्धनालानत्वात्, मदनसार्वभौमगर्वसर्वस्वखनिपर्वते जघनपुं-
लिने प्रकाशिते किं पुनरिति भावः । क इति क्षेपे; शान्तनवोऽपि
न शक्त इत्यर्थः । विहातुमिति, आस्तां दवीयस्यस्य सेवनम्;
सेवनानन्तरमपि परित्यागो न सुकर इति व्यज्यते । अत्रोत्प्रेक्षारूप-
कसमासोक्त्यर्थान्तरन्यासा: संकीर्णाः । अर्थान्तरन्यास एवोद्भा-
ब्यते । एवमन्यत्रापि बहूनां संकरसंसर्गे प्रधानस्यैकस्यैव निर्देशः
क्रियते, ग्रन्थविस्तरभयादशक्यत्वाच्च ॥ ४१ ॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥
अथ मार्गस्थितो देवगिरिस्त्वयोपगन्तव्यः; तदभियायिनश्च तवा-
ध्वश्रमोऽनायासमेव गमिष्यतीत्याह- त्वन्निष्यन्देत्यादि । त्वत्कृत-
नवजलावसेकशिथिलितावयववसुंधरागन्धसंसर्गसुन्दरः। स्रोतोरन्ध्र-
ध्वनितसुभगं अम्बुनिर्गमद्वारकलकलवन्मनोहरनिनदश्राव्यम्, शुण्डा-
काण्डकुहरकुहूकारकोलाहलत्वात् । 'स्रोतोऽम्बुनिर्गमद्वार इन्द्रियेऽ-
प्सु जलस्रुतौ' इति वैजयन्ती । दन्तिभिरिति, निशितविषाणकोटि-
पाटितप्रतिकरटितरुविटपगिरितटादित्वेन सुलभश्रमत्वं ध्वन्यते । अ-
थवा गजानामेव दन्तवत्वात्तेषामेव मदयोगाच्च मददोषसंतप्तैरिति
ध्वन्यते; तादृशामेव शीतमारुतास्वादतृष्णौचित्यात् । पीयमानः पु-
ष्करैरास्वाद्यमानः, मुखैरेव वा सुरभिनवजलमनीषया; तथा श्रीरामा-
यणे-- 'मेघोदरविनिर्मुक्ताः कल्हारसुखशीतलाः । शक्यमञ्जलिभिः
पातुं वाताः केतकगन्धिनः ॥' इति । हर्षचरिते च-- 'पवनमपि
पातुमभूदभिलाषो दिवसकरसंतापात्' इति । नीचैः मन्दम् । वास्यति
वीजिष्यते । उपजिगमिषोः समीपे गन्तुमिच्छोः । अनेन देवगिरेः
सामीप्यात्तदीयो वायुरिति सिध्यति । देवपूर्वं गिरिमिति । 'दशपू-
र्वरथं यमाख्यया' 'हिरण्यपूर्वे कशिपुं प्रचक्षते' इत्यादिवद्देवपूर्वगि-
रिशब्दामिधानं पर्वतमिति झटिति प्रतीतेः शब्दपरत्वार्थपरत्वादिवि-
कल्पस्यानवकाशः, शाब्दे व्यवहारे निर्व्यभिचारार्थप्रतीतेरेव प्रयोज-
कत्वात्; लक्षणेऽप्यप्रयुक्तस्याप्रयोज्यतया लक्षणतो महाकविप्रयोगस्य
प्राबल्याच्च । शीतः त्वन्निष्यन्देत्यनेनैव शैत्यहेतोः प्रसङ्गात् । परिणम-
यिता परिणामजनकः । काननोदुम्बराणां वनगतयज्ञाङ्गतरुफलानाम् ।
' कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी। अनेन परिणतोदुम्बरफलश-
रण्यानामारण्यकानां जीवातुहेतुरिति ध्वन्यते । अत्र कस्मिंश्चित्सुहृदि
नरपतौ संनिकृष्टदेशवर्तिनि प्रहृष्टेन केनचिद्राज्ञा तदानयनाय प्रहितस्य
सुगन्धानुलिप्तस्य सुभगमण्डलगृह्यमाणगुणगणस्य सज्जनोपकारिणः
कुमारादेः समाधिरनुसंधेयः । स्वभावोक्तिरलंकारः ॥ ४२ ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पैः साधु स्नपयतु भवान्व्योमगङ्गाजलार्दैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥४३॥
अथ परमप्रयोजनप्रधावकं कमपि विधिमनुष्ठेयमुपदिशति-
तत्रेति । तत्र पूर्वप्रस्तुते देवगिरौ । 'पार्वतीनन्दनः स्कन्दः सेनानी-
रग्नि॒भूर्गुहः' इत्यमरः । नियता निश्चिता वसतिर्वासो यस्य तम् ।
अनेन दर्शनाव्यभिचार उक्तः । पुष्पमेघीकृतात्मा पुष्पवर्षी यो मेषः,
तत्त्वेन निपुणितं शरीरं येन । अनेन जलवर्षणोचितरूपवत् पुष्प-
वर्षणे अद्भुतरूपान्तरपरिग्रह उक्तः; तथा रघुवंशे-- 'गन्धोदग्रं तदनु
ववृषुः पुष्पमाश्चर्यमेघाः' इति । साधु भक्तिपूर्वम् । व्योमगङ्गाज-
लार्द्रैः मन्दाकिनीजलसंदोहसंमिश्रिततया सरसैः । व्योमगङ्गेत्युक्तेः
कल्पतरूत्पन्नत्वं पुष्पाणां गम्यते । अत्र पुष्पाणां प्राधान्यप्रतीतावपि
सामर्थ्यात् गगनगङ्गाजलस्यैव तत्प्रकराधिवासितस्य प्राधान्यं वेदि-
तव्यम् 'सा सपुष्पजलवर्षिभिर्धनैः' इत्यत्रेव; अन्यथा अवकिरण-
मात्रमेव वक्तव्यम्, 'अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैः'
इत्यत्रेव । ततश्च सुरभितरसुरतरुकुसुमसहचरितशुचिशिशिरगगनस-
रिदुदकस्नपनेन भगवतः प्रसादातिशयलाभः, ततः प्रकृष्टप्रयोजन-
प्राप्तिरिति द्योतितम्, 'अभिषेकप्रियः शिवः । अलंकारप्रियो हरिः'
इति पुराणवचनात् । रक्षाहेतोः प्रबलतरतारकाद्यसुरवीरदारणनि-
मित्तम् । 'षष्ठी हेतुप्रयोगे' इतीयं षष्ठी । नवशशिभृता तरुणचन्द्र-
शेखरेणेति, अनन्यसाधारणेन विशेषणेनाणिमादिसर्वैश्वर्यनिकेतनस्य
परमेश्वरस्य प्रतिपादनात् 'अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ इत्यणिमादीनामस्पृष्ट-
पुरुषान्तरत्वेन साहचर्याव्यभिचारस्योक्तेः, तत्संभृतस्य तेजसोऽपि
'कारणगुणप्रक्रमेण कार्यगुणारम्भः' इति न्यायात्तदीयगुणसर्वस्वसं-
पत्तिः प्रतिपाद्यते । अथवा नवशशिभृतेति, 'नवो नवो भवसि'
इति मन्त्रात्प्रतिमासं नव्यस्य चन्द्रस्य योगशक्त्या शिवेन धारणा-
त्तस्य च बहुवनजनपरिपोषकत्वाद्योगीश्वरस्य शंभोः सर्वदा जगदुप-
कारैकशरणत्वं ध्वन्यते; 'सोमाधारः पितृगणो योगाचारश्च चन्द्रमाः ।
श्राद्धे योगिनि योगस्तु तस्माद्भूपाल शस्यते' इति श्रीवचनात् ।
अथवा सुरासुरनिकरघस्मरजलधिविसृमरगरलकबलनेन तदूष्मशा-
न्तये शिवस्य सुधाकरशकलधारणात्तदनुस्मरणेन जगदेकशरण-
ता करुणानिधेर्द्योत्यते । स च संभरणहेतुः । वासवीनां वासवः
इन्द्रः, तत्संबन्धिनीनाम्, वसवो देवाः तदीयानां वा । एतेन दानव-
कदनदूनदीनवासवादिप्रार्थनाप्रसन्नत्वं परमेश्वरस्योक्तम् ; यथा कुमार-
संभवे-- 'अरिविप्रकृतैर्देवैः प्रसूतिं प्रतियाचितः' इति । चमूनां सेना-
नामिति बहुवचनेन बाहुविध्यं द्योत्यते । सेनाग्रहणेन सेनानां राजस्-
सार्थत्वेन तासां च तारकादिष्वकिंचित्करतया प्रत्युत अत एव
रक्ष्याः संवृत्ता इति प्रकाश्यते । अत्यादित्यम् आदित्या: द्वादश, धात्र-
र्यमादीन् तानतिक्रान्तम्, अतिदुष्करे कर्मण्यनायासेन साधकत्वात् ।
हुतवहमुखे देव्यादिभिर्धारणाक्षमतया विमुक्तत्वादग्निनैव धारणात्तत
एव च रूपसामग्र्यसंपत्तेः । संभृतं संभावितमिति, पितुर्देवस्य बुद्धि-
पूर्वकमपि सकलशक्तिसमर्पणं द्योत्यते । हिशब्दः प्रसिद्धौ। तेजः न
तु तेजस्वी । अनेन तेजोघनत्वं ध्वन्यते । बाह्यान्तरध्वान्तविध्वंसनक्ष-
मत्वाच्च तेज इत्युच्यते । अत्र गङ्गाजलतरुकुसुमाभिषेकप्रयासे मम
किं फलमिति कार्ये पृष्टे सकलसमीहितसाधकत्वशक्तेः कारणस्याभि-
धानादप्रस्तुतप्रशंसालंकारः ॥ ४३ ॥
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलक्षेपि कर्णे करोति ।
धौतापाड़्गं हरशशिरुचा पावकेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४ ॥
अथ भगवतः स्कन्दस्य प्रसादनं बन्धुकार्ये चैतेन कर्मणा संपाद्य-
मित्याह—ज्योतिर्लेखेति । वर्तुलाकारतेजोरेखाविशिष्टमिति मनोहर-
त्वातिशय उक्तः । गलितं न तु खण्डितम्, स्वयमेव कालतो भ्रष्टम् ।
अनेन तद्विषये सदयत्वं ध्वन्यते; 'नादत्ते प्रियमण्डनापि भवतां
स्नेहेन या पल्लवम्' इतिवत् । बर्हं भवानीति । इयं परमेश्वर-
प्राणेश्वरी, तत्तु वनेचरवनितावतंसोचितमतिक्षुल्लमित्यर्थः । पुत्र-
प्रेम्णा स्वनन्दनस्य तस्मिन्मयूरे पक्षपातदर्शनात्, स्वपुत्रविषयेण
वात्सल्येन वा; इयं खलु स्नेहस्य शैली, यत्तत्परिग्रहेऽपि तद्वत्पक्ष-
पात इति भावः । कुवलयदलक्षेपि विकसितारुणदलकेसरपरिवेष-
भासुरविकसितेन्दीवरानुकारि, अथवा स्वधारणदशायां पूर्वावस्थिता-
वतंसकुवलयनिरासि । कर्णे श्रवणशिखरे । करोति निदधाति ।
धौतापाङ्गं वाल्लभ्यातिरेकादत्यन्तसविधसंचारिणः स्वतो धवलमपाङ्गं
मृगाङ्ककिरणवारिधाराभिर्धावल्योद्दीपनात् क्षालितं यस्य । पावकेः
हुतवहसुतस्य, तन्मुखसंभृतत्वात् । पश्चात् पुष्पाभिषेकानन्तरम् ।
अद्रिग्रहणगुरुभिः देवगिरिगुहाप्रवेशप्रभूतप्रतिध्वनिबहलैः । नर्तयेथाः
त्वद्गर्जितश्रवणे प्रहर्षपरवशस्य तस्य नृत्तमवश्यंभावि, तदानीं तत्प्र-
योजकत्वान्नृत्ताचार्यत्वं तव भवतीत्यर्थः । अत्रोदात्तमलंकारः॥४४॥
आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
व्यालम्वेथाः सुरभितनयालम्भजां मानयिष्य-
न्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥
अथ मयूरकेतनाभिषेकविनियुक्ततोयस्यास्य तदादानस्थलमुपदि-
शति — आराध्यैनमिति । एनं प्रस्तुतम् । एवमिति वा पाठः ।
उक्तप्रकारेण पूजयित्वा । शरवणभवं मेरुमेखलावस्थितकनकमयका-
शकाननप्रदेशे प्रसूतत्वात् । देवं दीव्यत्यर्थसामग्र्यस्य परमेश्वर एव
संभवात् स एव देव इत्युच्यते; शिवमेव शरवणसंभूतं षडाननतया
परिणतम्, 'आत्मा वै' इति श्रुतेः, 'जायां पतिः संप्रविश्य सर्वेः
संजायते पुनः' इति स्मृतेश्च । ततश्च कृतकृत्योऽसीति ध्वन्यते। उल्ल-
ड़्घिताध्वा तीर्णः अर्थाद्देवगिरेश्चर्मण्वत्याख्याया नद्याश्चान्तरालवर्ती
मार्गो येन । सिद्धद्वंद्वैः सिद्धमिथुनैः । वीणिभिः विपञ्चीसहितैः । व्रीह्या-
दित्वादिनिः। 'व्रीहिः शिखाष्टका माला पताका कर्मवर्मणी । मेखला
वडवा वीणा संज्ञा च्छद्मबलाकयोः' इति व्रीह्यादिगणः । जलेति । प्रथ-
मजलकणानां सुखसेव्यत्वेऽपि तन्त्रीणामार्द्रीभावशङ्कितैरिति भावः ।
सुक्तमार्गः परिहृतागमनसरणिः । व्यालम्बेथाः गगनतलादवतरेः।
सुरभितनयालम्भजां सुरभिर्नाम गोकुलमाता दिव्यधेनुः, 'मथ्यमाने
ततस्तस्मिन्क्षीराब्धौ देवदानवैः । हविर्धामाभवत्पूर्वं सुरभिः सुर-
पूजिता' इति श्रीविष्णुपुराणोक्तेः ; तत्पुत्रीणां गवामालम्भो यज्ञे
वधः, तेन जाताम्। मानयिष्यन् पूजयिष्यन् । अनेन जलपानतृष्णा-
भावेऽपि धार्मिकस्य राजर्षेः सत्कारार्थमपि तत्रावतरणीयमिति द्यो-
त्यते, 'धर्मः श्रुतो वा दृष्टो वा स्मृतो वा कथितोऽपि वा । अनुमो-
दितो वा राजेन्द्र पुनाति पुरुषं सदा ॥' इति महाभारतोक्तेः ।
स्रोतोमूर्त्या जलप्रवाहरूपेण । भुवीति, यावत् भूमौ स्वयं परिवर्तते,
तावत् स्वर्गवासहेतुत्वं द्योत्यते; 'यावत्कीर्तिर्मनुष्यस्य भूमौ भवति
भारत । तावत्स पुरुषष्याघ्रः स्वर्गलोके महीयते' इति स्मृतेः। परि-
णतां संभूताम् । रन्तिदेवस्य रन्तिदेवनाम्न आदिराजस्य । कीर्तिं
सजनश्लाघनीयं यशःशरीरम् । अत्र महाभारतप्रसिद्धा कापि कथा-
नुस्मर्यते ; यथा— 'आसीत्पुरा नरपतिः किल रन्तिदेवः कीर्तिप्र-
सूनसुरभीकृतदिङ्मुखश्रीः । यो वर्णसंकरवतीमपि रत्नपुञ्जैः क्षोणी-
मपालयदसंकरवर्णहृद्याम् ॥ राष्ट्रे च तस्य रमणीयगुणाम्बुराशेर्गावः
कदाचिदटवीं गहनां प्रविष्टाः । दृष्ट्वा श्रिया परमया ज्वलिता
द्यु पप्रच्छुरच्छकनकच्छविमङ्गलाङ्गीः ॥ सख्यः कथं नु भव-
तीभिरवाप्तमेतद्रूपं जरामृतिरुजारहिता च लक्ष्मीः । इत्यादृतं सुर-
भयः परिपृच्छ्यमानास्ताभ्यः शशंसुरथ तत्त्वमुदारशीलाः ॥ यज्ञे
वयं सुकृतिभिर्विधिना विशस्ताः पुण्यस्य तस्य फलमेतदवेत पुण्याः ।
अर्थे गिरामपुरुषाशयदूषितानामासेव्य को हि भुवने न भवेत्कृतार्थः ।
इति गिरममलां निशम्य तासामवनिचरः किल गोगणः स्पृहावान् ।
नरपतिमुपगम्य वाचमूचे सुरपितृमानवमाननैकदीक्षम् ॥ यजस्व राज-
न्नस्माभिः श्रेयोऽस्माकं भवेत्ततः । तवापि सुमहत्पुण्यं कीर्तिश्चाभ्यु-
दयेदिति ॥ अथ प्रीतो राजा पशुनिवहमालभ्य विधिना बहूनीजे
यज्ञान्बहुमतिपदं भूदिविषदाम्। विशस्तानां तस्यां मखभुवि पशूना-
मयुतशः स्रवन्ती सस्यन्दे क्षतजविसरैश्चर्मगलितैः ॥ यागे यथाविधि
कृते विबुधाः प्रसन्नास्तस्मै वरं सुकृतिने कृतिने वितेरुः । चर्मण्वतीति
तब कीर्तिरनन्तकीर्तेः शश्वत्पुनातु धरणीं सरिदात्मनेति ॥ धेनवो-
ऽपि गतिमापुरभीष्टां तेन शिष्टमहितेन विशस्ताः । रन्तिदेवनृपतिश्च
महीयानिन्द्रलोकमधुनाप्युपभुङ्क्ते ॥ इति । अत्रापह्नुतिरलंकारः ॥
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥
अथास्मिन्नवतीर्णे चर्मण्वत्याः कामपि दर्शनीयां भाविनीं दशा-
मुत्प्रेक्षमाण आह - त्वय्यादातुमिति । शार्ङ्गिणः विष्णोः। वर्ण-
चोरे नीलिम्नोऽपहर्तरि । अन्वदीयद्रव्यस्यास्मिन्दर्शने चौर्यशङ्कोपपत्ते-
र्भगवद्वर्णसाम्यस्यास्मिन्नुपलब्धेश्च लक्षणया सदृशे चोरशब्दप्रयोगः ।
अथवा अभवद्वस्तुसंबन्धत्वेनोपमापरिकल्पिका निदर्शनेयम् । अथवा
नारायणीयं लावण्यसर्वस्वं त्वयि दृश्यते; तत्सर्वथा त्वया मुषितम् ;
न जानीमस्तत्र किंचिदवशिष्टं वा न वेति सोत्प्रासवचनम् । एत-
दिन्द्रनीलत्वोत्प्रेक्षानिदानम् । सिन्धोः नद्याः । पृथुमपि स्वभावतो
विस्तीर्णमपि । तनुं दूरदेशवर्तित्वात् प्रेक्षकाणां कृशम् । मुक्तागुण-
साम्यनिर्वाहकमेतत् । प्रवाहमिति । विस्तीर्णायाः पृथ्व्या हारेणापि
तदाकारानुगुणायामेन भवितव्यम्; अतोऽविच्छिन्नप्रसृतं स्रोतस्तदा-
त्मनोत्प्रेक्षितुं योग्यमेवेति भावः । गगनगतयः गगनगमनं येषां
वैमानिकविलासिनां, ते। नूनं प्रायेण । उत्प्रेक्षाद्योतकमेतत् । आव-
र्ज्य आनम्य । अनेन कौतुकातिशययोग्यमेवेति द्योत्यते । एकं
द्वितीयसरविरहितम् । मुक्तागुणं अन्यरत्नासंकीर्णैः प्रशस्तैर्मौक्तिकैर्गु-
म्भितां हारयष्टिम्, एकावलीमिति यावत् । मुक्तागुणमिवेत्युक्तेः
प्रवाहस्यापि स्वच्छत्वं शिशिरत्वं धरणेः शोभाहेतुत्वं च प्रतीयते ।
स्थूलमध्येन्द्रनीलं स्थूलं मुक्त्याभ्योऽधिकसंस्थानं मध्ये नायकत्वेन
प्रत्युप्तं महानीलरत्वं यस्मिन् । अनेन हारयष्टिनिविष्टस्य तरलम-
हानीलस्य परभागलाभान्नयनहरत्वं ध्वन्यते । उत्प्रेक्षात्रालंकारः ॥
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥
अथ तामतीतस्य पथि निरुपमरसानुभूतिर्भाविनीत्याह-- ता-
मिति । तां चर्मण्वतीम् । परिचितः शिक्षितो भ्रूलतानां विलासो
यैः । अनेन 'भ्रूविलासानभिज्ञैः' इत्युक्तजनपदवधूस्वभाववैपरीत्यं
नागरीषु प्रकाश्यते। पक्ष्मोत्क्षेपात् गगनशृङ्गरिङ्गणपरस्यास्य दर्श-
नौत्सुक्यादुत्तानीकृततया चक्षुषां तत्पुटरोमरेखयोरप्युन्नमनात् । उ
परि ऊर्ध्वभागे । विलसत्कृष्णशारप्रभाणां विशेषेण निष्प्रत्यूहं प्रस-
रन्ती कृष्णेन कनीनिकानीलिम्ना शारा शबलिता पारिशेष्यात् सित-
भागस्य प्रभा किरणमञ्जरी येषाम् । कृष्णादयः शब्दा गुणं गुणिन-
मपिं प्रतिपादयन्ति, 'स्वच्छस्वच्छायायासितेन्दवः' 'फुल्लमल्लिका-
धवलाट्टहास:' इत्यत्र स्वच्छधवलवत् । 'सारङ्गः शबलो वर्णश्चातकः
षट्पदो मृगः । शबले मारुते शारः' इति वैजयन्त्यां शारसारङ्गश-
बलानां पर्य्यायत्वावगतेः, सितनीलसंकलनस्य सारङ्गवर्णतया, 'सित-
नीलसमायोगात्सारङ्ग इति संज्ञितः' इति दिवाकरेण प्रतिपादनाच्च,
अत्र शारशब्देन कृष्णधवलयोरेव मिश्रत्वमुक्तं वेदितव्यम्; तावत
एवोत्प्रेक्षा-- कुन्दक्षेपानुगमधुकरश्रीमुषामिति । ऊर्ध्वप्रसारितं कुन्द-
कुसुमं कुन्दक्षेपः; 'पुरुषविशेषो विशिष्टपुरुष ईश्वरः' इतिवत्
'अभिनवकरिदन्तच्छेदकान्तिः कपोल:' इतिवच्च क्षेपक्रिया साम-
र्थ्याद्रव्यं लक्षयति । सितकरणानामूर्ध्वे क्षिप्तानां कुन्दपुष्पाणाम्
अनुगा अनुसारिणो ये स्वभावनीला लोलम्बास्तेषां शोभामपहर-
ताम् । मधुकरशब्देन कुन्दकुसुमानां मकरन्दबहुलतया भ्रमराणां च
मधुसंग्रहलोमादविश्रममव्यवधानेनानुगमनौचित्यं द्योत्यते । आत्म-
बिम्बं स्वशरीरमण्डलम्; 'दरीगृहद्वारि विलम्बिबिम्बाः' इतिवत् ।
पात्रीकुर्वन्, न तु पात्रीभवन्, भाजनं वितन्वन् । अनेन स्वमति-
पूर्वमेव प्रतिक्षणं विविधरूपचेष्टापरिग्रहलीलया कौतुकमवश्यमुत्पाद-
नीयमिति द्योत्यते; तेन च सुखस्पर्शसलिलबिन्दुप्रबन्धेन च तासा-
माह्लादनादभिमुखीकरणमनुष्ठेयमिति ध्वन्यते । दशपुरं नाम नगरी-
विशेषः । तत्रत्यानां युवतीनां यानि नेत्राणि, तान्येव कुतूहलकब-
लितत्वात् कौतूहलानीत्युच्यन्ते; अथवा लोकलोचनकुतूहलास्पदत्वात्
कौतूहलत्वेनाध्यवस्यन्ते । अथवा मेघदर्शनौत्सुक्यकुतूहलितया कुतू-
हलविशिष्टानि नेत्राणि धर्मित्वाल्लक्ष्यन्ते । बहुवचनेनानेकनेत्रगत-
त्वात् कौतूहलस्याप्यनेकत्वमुक्तम् । अथवा कौतुककार्यभूतविलोकन-
प्रकारबाहुल्यं सूच्यते । अत्रोत्प्रेक्षालंकारः, निदर्शना वा ॥ ४७ ॥
ब्रह्मावर्तं जनपदमधच्छायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥
अथ दशपुरमुल्लङ्घितवतो धर्मक्षेत्रं कुरुक्षेत्रमवश्यमुपगन्तव्यमि-
त्याह-- ब्रह्मावर्तमिति । 'सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । त-
देव निर्मितं देशं ब्रह्मावर्ते प्रचक्षते' इति मनुः । अधः अधस्तात् ।
च्छायया अनातपरूपेण प्रतिबिम्बेन । गाहमानः प्रविशन्; उपरि
गछतस्तव तपनकिरणनिरोधाच्छायया प्रवेशोऽपरिहर्तव्य इति भावः ।
तस्य पुण्यभूमित्वात्तत्प्रवेशेऽप्यगण्यपुण्यलाभ इति च द्योत्यते । क्षेत्रं
पवित्रं देशम् । क्षत्रप्रधनपिशुनं 'अद्भयोऽग्निर्ब्रह्मत: क्षत्रम्' इति,
'स क्षत्रं नाम वर्णः' इत्यादिभिः क्षत्रशब्दस्य द्वितीयवर्णवाचकत्वाव-
गमान्न केवलं क्षत्रवर्णकूटस्थानाम्, अपि त्वाकुमारस्थविरं क्षत्रवर्णस्यैव
प्रथनं युद्धम् अत्र निर्वृत्तमिति सूचकम् ; निशितविशिखनिवहमुस्वश-
कलितकरितुरगरथपदातिपरिषदवयवशिखरिकूटसंकटतया पतितविक-
टमणिमुकुटकटककङ्कटकङ्कणहारसारसनशिरस्त्रातपत्रशस्त्रचामरादि-
भिश्च लिङ्गैरुन्नेयधन्यराजन्यजन्याद्भुतमित्यर्थः । प्रधनपिशुनम्, न तु
निधनपिशुनमित्यनेन दिव्यमानुषविविधव्यूहनिर्माणनिपुणदुर्मदनरेन्द्र-
धर्मयुद्धवैचित्र्यज्ञापकत्वं ध्वन्यते । कौरवं कुरुजनपदान्तः पाति ।
अथ वा कुरुवंशनरेन्द्राणां स्वभूतं तदिति भुवनचरमाणरससुधाभ-
रितभारतप्रसिद्धमित्यर्थः । भजेथाः सेवेथाः, भक्तिश्रद्धापुरःसरं तत्र.
दिवसं वसेरित्यर्थः । राजन्यानां मूर्धाभिषिक्तानां क्षत्रियाणाम् । अ-
नेन कुलपुत्रतया परिपालनाधिकृतत्वाच्च भुजबलमत्तानां तेषां स्वयम-
भियोगो ध्वन्यते। शितानां शाणोत्तेजितानामतिस्वच्छानां शराणां शतैः
शतशब्दोऽनेकवाची असंख्यैः शरैरित्यर्थः । उपमानबलाद्युगपन्मुक्तै-
रिति द्योत्यते । गाण्डीवधन्वा गाण्डीवं नाम धनुर्यस्य स इत्यनेनैव वि-
शेषणेन गाण्डीवहस्तस्य लक्ष्मीवल्लभसुहृदो विजयस्य प्रतीतेरीदृश्या-
श्चोक्तेश्चमत्कारकारित्वाद्विशेष्यस्य पृथगनुपादानम्; तदुपादानं तु
निरर्थकत्वाद्दोष एव; यथाह वामनः-- 'विशेषणमात्रप्रयोगो विशे-
ष्यप्रतिपत्तौ' इति । गाण्डीवधन्वेत्यनेन साधनान्तरनैरपेक्ष्यं ध्वन्यते;
गाण्डीवकुण्डलीकरणपण्डितो यस्य भुजदण्डः, तस्य किं दुष्करमिति
च । धारापातैः पतन्तीभिर्जलधाराभिः । अनेन शराणामक्षयत्वम्,
उपर्युपरि प्रसरणादनुबन्धश्च व्यज्यते । त्वमिवेति । यथा तव निराया-
समेव युगपदनन्तधारतया संपातने कौशलम्, तथा तस्यापि दिव्या-
स्त्रज्ञानसंपन्नतया कृतहस्ततया च अक्रममेवापरिमेयशरसंदोहवर्षण
इति द्योत्यते । कमलानीति । विशिष्टानामेव मुखानामुपमेयतया क-
मलानामेवोपमानतयोपादानम् । अथवा योग्यतया कमलाकराणा-
मित्यायाति, राजान्यानामुपात्तत्वात् । कमलानीत्यनेन मुखानामपि
शरपतनेऽप्यचकितत्वम्, पूर्वच्छायाविच्छेदविरहश्च प्रकाश्यते । अ-
भ्यवर्षत् आभिमुख्येनासिञ्चत् । वर्षणेन विचयनं लक्ष्यते । अनेन
धर्मविजयितया विमुखेषु विशिखप्रयोगाभावः सूचितः । मुखानी-
ति, राजन्यानामप्यतिसाहसिकत्वेन निवातकवचदारुणानामपि स-
व्यसाचिसायकानां सुरतरुकुसुमानामिव मुखैरेवासंभ्रमं प्रत्येषणं प्रका-
श्यते । मुखानीति बहुवचनेन, गाण्डीवधन्वन एकस्यैव केसरिण इव
वारणैररिवीरैरसंख्यैः संख्यसंक्षोभेऽपि लीलायितबुद्धिरासूत्र्यते । अ-
त्रोपमा उदात्तं चालंकारः ॥
हित्वा हालामभिमतरसां रेवतीलोचनाड़्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामभिगममपां सौम्य सारस्वतीना-
मन्तः शुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः ॥
अथ पात्रीकुर्वन्नित्यत्र सुखवर्षणस्यापि ध्वनितत्वात्, अथवा
भजेथा इति सेवाया विधानात् तद्देशवर्षणस्यापि सेवाप्रकारतया
जलमोक्षे सिद्धे अस्य सलिलपानाय स्थलमुपदिशति-- हित्वेति ।
हित्वा त्यक्त्वा । हालां मदिराम् । अभिमतरसां आत्मनोऽत्यन्तवल्ल-
भास्वादाम्, इतिहासपुराणेषु कामपालस्य वारुणीरसास्वादव्यसन-
प्रसिद्धेः; तथा श्रीविष्णुपुराणे-- 'अभीष्टा सर्वदा यस्य मदिरे त्वं
महौजसः । अनन्तस्योपभोगाय तस्यागच्छ मुदे शुभे ॥' इति ।
रेवतीलोचनाङ्कां ककुद्मिसुतया देव्या रेवत्या सहैव पीयमानत्वेन मणि-
चषकवर्तिन्या मदिरायाः प्रतिबिम्बिततन्नयनकुवलयलाञ्च्छितत्व-
मिति भावः ; यथा रघुवंशे-- 'न च शशिप्रतिमाभरणं मधु' इति
सान्द्रचन्द्रिकाधवलेषु प्रदोषेषु चन्द्रशालिकावर्तिना सेव्यमानस्य
मणिभाजनभाजो मधुनः प्रतिमाचन्द्रगर्भत्वकथनम् । रसातिशय-
जनकत्वख्यापनाय च रेवतीवदनाङ्कत्वोक्तिः । विशिष्टायाश्च हालाया
हानाभिधानाद्देवीपरिभोगनिवृत्तिरपि सूच्यते, तीर्थसेवायां संयतेरव-
श्यंभावात्, बन्धुजनविनाशशङ्कया दुःस्थत्वाच्च मनस इति । बन्धु-
प्रीत्या पाण्डवकौरवपक्षयोरुभयोरपि यौनसंबन्धितया साम्नोऽपि संधि-
त्सया प्रयुक्तस्य मोघत्वादेकतरपरिग्रहेऽन्यतरवैमनस्यमाशङ्कय, तद्ग-
तस्नेहेन यत् भावि तत् भवत्विति द्वयमपि परित्यज्य, सुहृज्जननिधन-
निबन्धनात्संग्रामादेव निवृत्तो दुस्त्यजमपि विषयग्रामं निर्वेदान्निरस्ये-
त्यर्थः । अथवा बन्धुः अन्तेवासी दुर्योधनस्तद्गतेत पक्षपातेन, युधि
ष्ठिरपक्षे वासुदेवस्यावस्थानात् तत्पक्षे विजयस्यैकान्त्यात् सुयोधन-
निधनं निश्चित्य तदनुभवमसहमानः समरदर्शनमप्यनभिनन्दन्नि-
र्वेदाद्विषयनिवृत्त इत्यर्थः । लाङ्गलीति । भगवान् रामस्त्रिभुवनम-
पिलाङ्गलाग्रेण लीलया परिवर्तयितुं शक्नोतीति बन्धुप्रीतिपारवश्यमे
वात्र हेतुः, न त्वशक्त्या विरतिरिति द्योत्यते । लाङ्गलं सीरम् । अभिगमं
प्राप्तिम्, पानमित्यौचित्यात्सिध्यति । सौम्य शान्तचित्तेत्यामन्त्रणेन
सात्विकतया तव तादृशेष्वेव बहुमतिरिति प्रकाश्यते । सारस्वतीनां
सरस्वत्याख्यमहानदीसंबन्धिनीनाम् । अन्तः शुद्धः रजस्तमोमलवि-
युक्तान्तरात्मा, धवल इत्यपि स्फुरति । भविता असि भविष्यसि ।
भवितेति तृजन्तमिदं रूपं भविष्यत्काले । वर्णमात्रेण बाह्यरूपेणैव
श्यामः सलिलगर्भस्यैव नैल्योदयात्, मलिन इति च स्फुरति । 'मात्रं
कार्त्स्न्येऽवधारणे' इति वैजयन्ती । अत्रोदात्तं विरोधश्चालंकारः ॥
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां
जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवक्रे भ्रुकुटिरचनां या विहस्येव फेनैः
शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥
अथ तव मङ्गलान्मङ्गलसंपत्तिः, यतः कुरुक्षेत्रादनन्तरं गङ्गा-
द्वारे भगवती भागीरथी द्रक्ष्यत इत्याह-- तस्मादिति । तस्मात्
कुरुक्षेत्रात् । अनुकनखलं कनखलाख्ये शैले; 'गङ्गाद्वारं युधिष्ठिर।
पुण्यं तत्ख्यायते राजन् ब्रह्मर्षिगणसेवितम् । सनत्कुमारः कौरव्य
पुण्यः कनखलस्तथा । पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः' इति
भारतोक्तेः । शैलराजावतीर्णो हिमवतो भारतवर्षप्रारम्भेऽवतीर्ण-
मात्राम् अवतीर्णो न तु जाताम् । अनेन त्रिभुवनविक्रममाणस्य
बलिरिपोरूर्ध्वप्रवृत्तचरणपुण्डरीकवेगखण्डितब्रह्माण्डविवरनिष्ठ्यूतवा-
रिपूरपरिपोषितविरिञ्चकरकुण्डिकाजलोपोद्बलित धर्मदेवताद्रवरूपाया:,
शिवजटाजूटविधृतवेगायाः सुमेर्वादिक्रमेण हिमवन्तं यावदागतायाः
सुरसरितो भगीरथतपोनुरोधेन भारतेऽवतारः, न तु नद्यन्तरवत्
क्वचन गिरिकुडुङ्गे संभूतिरिति ध्वन्यते; तेन तीर्थान्तरेभ्यः प्रकृष्टसु-
कृतप्रसावकत्वं च । जह्नोः कन्यां महातपस्विनो राजर्षेर्जह्नोर्धर्म-
पक्षपातेन पुत्रीत्वमुपगताम् । अनेन तत्तादृशमहिमनिधेरपि देव्या-
स्तपस्विषु सविनयत्वम्, ततश्च तपसोऽनतिक्रमणीयवीर्यत्वं च प्रती-
यते । सगरतनयस्वर्गसोपानपड़्क्तिं सगरपुत्राणां षष्टिसहस्रस्य कपि-
लमुनिकोपजातवेदसि शलभीभूतानामलब्धपुण्यगतीनां स्वर्गारोह-
णस्य सोपानपरंपराभूताम्, तज्जलस्पर्शनानन्तरं तेषां चिताभस्मभू-
तानां पुण्यलोकारोहणदर्शनात् । अनेनाबुद्धिपूर्वकमासेवनेऽपि तस्याः
प्रभूतदुरितप्रक्षालनक्षमत्वम्; प्रबलभक्तिश्रद्धापुरःसरत्वे तु किंपुन-
रिति प्रकाश्यते । 'अपहृत्य तमस्तीव्रं यथा भात्युदये रविः ।
तथापहृत्य पाप्मानं गङ्गा भाति सरिद्वरा ॥ इति, 'श्रुताभिलषिता
दृष्टा पृष्टा पीतावगाहिता । या पावयति भूतानि कीर्तिता च दिने
दिने ॥' इत्यादिपुराणवचनानि । अथ तस्याः पावनत्वातिशय-
हेतुं भङ्गया प्रकाशयति-- गौरीवक्त्रे श्रीपार्वत्या मुखे । भ्रुकुटि-
रचनां निजप्रणयतपोविशेषैर्निर्व्याजक्रीते स्मरहरशरीरे योषिदन्तर-
स्पर्शमसहमानाया देव्याः सपत्नीरोषसंभूतां ललाटकुटिलसिराविकृ-
तिम् । विहस्येव सौभाग्यसंभूतेन मदेनानादरादपहस्येवेत्युत्प्रेक्षा ।
फेनैरिति । धवलत्वातिशयेन दशनकिरणविशदहासविलाससाधर्म्ये
फेनानां प्रतीयते । केशग्रहणमकरोत् जटाजूटकोटरमाश्रितवती ।
अतिरागिण्या रमण्या दयितमुखाम्बुजचुम्बने क्रियमाणे यत् शिरो-
रुहाकर्षणम्, तत् कृतवतीवेत्यर्थः । तत्र हेतुः-- इन्दुलग्नोर्मिहस्ता
शिरःशेखरीभूतशिशिरकरकलाकलितकल्लोलकरेति यत्, अत इति
काव्यलिङ्गम् । अतस्तादृशसौभाग्यानिधेस्तस्याः का पुनरन्या धुनी
धन्येति भावः ; 'भेदं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् ।
दधार शिरसा प्रीत्या तां गङ्गां को न पूजयेत् ॥' इति पुराण-
वचनात् । अत्र समासोक्तिरलंकारः ॥ ५० ॥
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५१ ॥
अथ तत्सलिलपानाय प्रवृत्तौ तस्याः शोभाविशेषं भाविनमुत्प्रे-
क्ष्याह-- तस्याः पातुमिति । सुरगज इव श्यामवर्णः कश्चिद्दिग्गज
इव। व्योम्नि पश्चार्धलम्बी शरीरस्यापरार्धेन गगने लम्बमानः;
'पश्चार्धेन प्रविष्टः शारपतनभयाद्भूयसा पूर्वकायम्' इतिवत् ।
'विनापि पूर्वपदेन पश्चभावो वक्तव्यः' इति पश्चभावः । एतच्च
सुरगजस्यैव विशेषणम्। ततश्चोपरिगते पिहितधवलदन्तत्वात्संपूर्णौ-
पम्यसिद्धिः । मेघस्य तु पयःपानायावतरतः पूर्वभागेनैव लम्बनस्या-
वश्यंभावान्न तथात्वम् । अच्छस्फटिकविशदं कलङ्काद्यनुपहतस्फटि-
कशिलावन्निर्मलम् । अतो जलान्तरेभ्यो धावल्यातिशय उक्तः ।
तर्कयेश्चेत् मनसा निरूपयेर्यदीति यद्यथोक्तिः सरस्वतीजलस्य गृही-
तस्य क्वचिद्वर्षणाप्रसङ्गात् कुत्रचिदुचितस्थले त्वया दृष्टिः कृताचेत्त-
दानीमेव तदीयजलपिपासावकाशः, नो चेददृष्टार्थमभिगमनमात्रं भा-
वीति द्योतयति। तिर्यग्भूत्वा प्रतिस्रोतः स्थातुमशक्तेरुभयतटस्पृष्टको-
टिद्वयेनैव स्थित्वा पेयमित्यर्थः । तदानीं च छायायाः स्रोतोव्यापि-
त्वसिद्धिः; अन्यथा चेदेकदेशवर्तित्वादुत्प्रेक्षानवकाशः । संसर्पन्त्या
सम्यक् व्याप्नुवत्या । सपदि अवतरणानन्तरमेव । स्रोतसीति । पारि-
प्लवे वारिप्रवाहे छायाया अपि तारल्यसिद्धेर्मेचकचपलजलभरशबल-
त्वबुद्धिसंभवादुत्प्रेक्षायामवारणीयत्वं द्योत्यते । छायया कान्त्या अना-
तपरूपेण वा । अस्थानोपगतयमुनासंगमा प्रयागस्थान एव तस्य
संभवात् अस्थानभूते कनखलेऽपि प्राप्तः कालिन्द्या संसर्गो यया
सा । अभिरामा सहृदयदृश्यरूपा, परभागलाभादिति भावः । अत्रो-
त्प्रेक्षालंकारः ॥ ५१ ॥
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥५२॥
अथ तथैव द्वारेण तत्प्रभवभूतमासन्नवर्तिनमचलराजमुपगच्छेत्या-
ह-- आसीनानामिति । आसीनानां सुखनिषण्णानाम् । सुरभितशिलं
अधिवासितपाषाणम् । नाभिगन्धैः नाभीनां कस्तूरिकामयत्वात्तदी-
यपरिमलै: । मृगाणाम् योग्यतया कस्तूरीमृगाणाम् । तस्याः गङ्गायाः ।
प्रभवः प्रथमत उपलब्धिस्थलं 'भुवः प्रभवः' इत्यत्रेव । प्रभवमे-
वेति । शैलराजावतीर्णामिति तदास्पदत्वेन प्रस्तुतं गिरिराजमेव । सुर-
भितशिलमिति रमणीयत्वम्, तत्प्रभवमिति पावनत्वम्, उभाभ्याम-
प्यनन्तरत्नप्रभवत्वोपलक्षणं च । तुषारैर्गौरं हिमनिचयेन धवलम् ।
अनेन शुद्धधवलत्वोपपादनेन पटीरपङ्कादिवत् कान्तिहेतुरेवास्य हिमा-
नी न तु सौभाग्यत्रिलोपिनीति, कुमारसंभवे 'अनन्तरत्नप्रभवस्य
यस्य हिमं न सौभाग्यविलोपि जातम्' इति कविना प्रतिज्ञातस्व
निर्वाहः कृतः । गौरत्वं च हरवृषसाम्यसाचिव्येनात्रोपयुज्यते । वक्ष्य-
सि धारयिष्यसि। अध्वश्रमविनयने मार्गखेदस्य निवारके । अध्वश्रम-
विनयनं निमित्तमिति निमित्तसप्तमी वा । अनेन मृगमदपरिमला-
घ्राणेन, तुषारशीकरशिशिरस्य भागीरथीस्पर्शपावनस्य पवनस्य निषे-
वणेन चात्राध्वश्रमः क्षणात्क्वाप्यपयास्यतीति ध्वन्यते । शृङ्गे शिखरे,
विषाणे इति च स्फुरति । 'क्रीडाभ्बुयन्त्रे शृङ्गोऽस्त्री पर्वताग्रप्रभु-
त्वयोः । पश्वङ्गे च' इति वैजयन्ती । शुभ्रत्रिनयनवृषोत्खातपङ्कोप-
मेयां कैलासगौरेण परमेश्वरवाहनपुंगवेन क्रीडया शृङ्गाग्रोद्धृतनदी-
तटपङ्केनोपमातुं योग्याम् । वृषाणां पड़्कोत्खननं च स्वभावः; यथा
रघुवंशे-- 'मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः' इति,
'शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः' इति च । हर्षचरिते च 'प्रकटकलङ्कमु-
दयमानं विशङ्कटविषाणोत्कीर्णपङ्काङ्कशाक्वरककुदसकाशम्' इति ।
अत्रोपमालंकारः ॥ ५२ ॥
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥
अथाध्वश्रमशमनकृतोपकारस्य प्रत्युपकारद्वारमाह--तमिति । तं
एवं तव कृतोपकारं तम् । वायौ सरति मारुते प्रवर्तमान इति, सहाय-
संपदा संभृतमदत्वाद्दुःसहत्वमग्नेः प्रकाश्यते; अन्यथा प्रबलबाधाभावा-
त् । सरला: तरुविशेषाः, तत्प्रकाण्डानां परस्परनिष्पेषनिष्पन्नः । बाधेत
चेदिति। दवबाधायाः कादाचित्कत्वात्त्वदुपगमे तथा संभवति चेदि-
त्यर्थः । तस्य बाधा नाम राज्ञ इव तदाश्रयिणां पीडा । उल्काभिः
अलातैः नाशितः चमरीणां वालनिवहो येन । उल्केत्यनायासेनाने-
कधा नाशकत्वं द्योत्यते ; चमरीति तु वालानां सौकुमार्यसौन्दर्या-
तिशयः । वाला रोमाणि। भारशब्देन ताभिरतिलोभेन रक्ष्यमाणत्वादे-
कवालस्यापि अविच्छेदेन सामग्र्या दुर्वहत्वं ध्वन्यते; यथा माघः--
'संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः ।'
इति । गिरिराजस्य राजचिह्नभूतचामरक्षपणेन चाशुशुक्षणेरत्यपकारि-
त्वादवश्यदण्ड्यत्वमनेन विशेषणेन प्रतिपाद्यते। दवाग्निरिति। असंस्कृ-
तानामकृत्यकरणेष्वहो निर्बन्ध इति भावः । एनं दवाग्निम् । अलं शम-
यितुं निःशेषं निर्वापयितुम्, 'अग्नेः शेषमृणात् शेषं शत्रोः शेषं न
शेपयेत्' इति वचनात् । वारिधारासहस्रैः झटित्यसंख्यवारिधारा-
विकिरणैः, आतिपातिके कार्ये मान्द्यस्यायुक्तत्वादिति भावः । न
केवलं प्रत्युपचिकीर्षया, अपि तु आर्तानुकम्पयाप्येतदनुष्ठेयमित्याह-
आपन्नार्तिप्रशमनफला इति । आपन्नाः स्वयमप्रतिविधेयैर्दुःखहेतु-
भिराक्रान्ताः, तेषां जनानामार्तेर्दुःखस्य प्रकर्षेण शमनं दुःखनिवा-
रणेन यत्, तदेव फलं प्रयोजनं यासां ताः । संपदः द्रविणादिवि-
भूतयः । संपद इति बहुवचनेन, यया कयापि विधया वर्तमाना
सर्वापि विभूतिः शरीरादिकमपि परोपकरणमौशीनरादिवदिति द्यो-
त्यते । हिशब्दः प्रसिद्धौ । उत्तमानाम् उन्नतहृदयत्वेन । बहुवच-
नेन, यो य उत्तमस्तस्य तस्यायमेव स्वभाव इति विभाव्यते । अत्रार्था-
न्तरन्यासोऽलंकारः ॥ ५३ ॥
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मि-
न्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णा-
न्केषां न स्युः परिभवफला निष्फलारम्भयत्नाः ॥
अथ तत्र केचन दुर्जनास्त्वां परिबुभूषन्ति, तानकरुणमुपमर्दये-
त्याह-- ये संरम्भेति । संरम्भोत्पतनरभसाः शिखरितुङ्गस्य भव-
तो लङ्घनोद्योगे प्रथममशक्यतया भग्ने, पुनः सरोषनिर्बन्धं यल्लङ्घना-
र्थमुत्प्लवनम्, तत् संरम्भेणोत्पतनं तस्मिन्, स्वनाशमप्यनवेक्षमाणः
क्रममुल्लङ्घयन् य: सत्वरो व्यापारः, स रभसो येषाम्। 'आवेश एव
विषये प्रतिघातिनि रोषवान् । अनुबन्धी च भूयोऽपि संरम्भत्वं प्रप-
द्यते ॥' इति, 'सर्वात्ययानवेक्षी तु त्वरावान् लङ्घितक्रमः । अशक्य:
सोढुमन्यैश्च व्यापारो रभसः स्मृतः ॥' इति च दिवाकरः । स्वाङ्ग-
भङ्गाय अशक्यप्रवृत्तौ प्रस्तरपतनेन विशीर्णशरीरतारूपं फलं प्राप्तुम्,
न पुनः फलान्तरायेति भावः । तस्मिन् हिमवति । मुक्ताध्वानं तत्सं-
चरणसरणिपरिहारेण विश्रमार्थ क्वचित्कोणे निषण्णम् । अनेन तेषां
निरपराधबाधकत्वाद्दण्डयत्वमखण्डमेवेति द्योत्यते । सपदि अचिन्ति-
तमेव । शरभाः पादाष्टकविशिष्टा दुष्टमृगाः । 'शरभश्च गजाराति-
रुत्पादश्चाष्टपादपि' इति वैजयन्ती । बहुवचनेन एकस्य मोहादप-
चारे क्षन्तव्येऽपि बहुनां बुद्धिपूर्वमैकमत्येन करणे कः क्षमायाः प्रसङ्ग
इति व्यज्यते । कुर्वीथा इति विधिः, न तु दयया कथंचिदपि
निवर्तनीयमिति भावः ; 'अवध्ये यो भवेद्दोषो वध्यमाने नृपात्मज ।
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥' इति स्मरणात् ।
तुमुलकरकावृष्टिपातावकीर्णान् संकुलमेघोपलवर्षपातनविशीर्णान् ।
'मेघोपलास्तु करकाः' इत्यमरः । भयपलायितवियुक्तदारदारकान्
गिरिगुहादिषु निलीय स्वरक्षणपरानित्यर्थः । उचितमेवैतदनुचितका-
रिणां दैवप्रातिकूल्यादित्याह-- केषामिति । ब्रह्मादीनां महात्मना-
मपि पुरहरनिन्दादिषु शिरश्छेदादिदर्शनान्न कस्यापीति भावः ।
परिभवफलाः स्वगर्वभङ्गमात्र प्रयोजनाः । निष्फलारम्भयत्नाः विशि-
ष्टप्रयोजनशून्येषु कार्येषु चापलमात्रेणोद्योगाः । यत्ना इति बहुवचनं
क्रियासमभिहारस्यासह्यतां दर्शयति । अत्रार्थान्तरन्यासोऽलंकारः ॥
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः
शश्वत्सिद्धैरुपहृतबलिं भक्तिनम्रः परीयाः ।
यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥
अथ तत्रानायासेनैवोपासनीयं श्रेयःसाधनमुपदिशति-- तत्रेति।
तत्र हिमवति । व्यक्तं भसितलिप्तत्वादिलिङ्गैः स्पष्टम् । अथवा
दृषदि शिलायां न तु शिलासु व्यक्तं कस्यांचित्पवित्रायां दृषदि
भक्तानुग्रहाय प्रभावादवगाढमर्पितं गयादिवत् । चरणन्यासं पादवि-
धानमुद्राम् । अर्धेन्दुमैौलेः साक्षाच्छिवस्य । शश्वत् व्रतत्वेन । सिद्धैः
देवयोनिविशेषैः । अथवा कपिलादिभिः परमयोगिभिः 'सिद्धानां
कपिलो मुनिः' इति भगवद्वचनात् । उपहृतबलिं उपपादितपूजम् ।
भक्तिनम्रः भक्त्या प्रणतः । परीयाः प्रदक्षिणं परिक्रामे: । दृष्टे
दर्शनविषयीकृतमात्रे । करणविगमात् वर्तमानस्य शरीरस्य प्रार-
ब्धकर्मपरिक्षयेण पतनात् । ऊर्ध्वम् अनन्तरम् । 'करणं कारणे
काये' इति वैजयन्ती । उद्धूतपापा: अनेकजन्मवासितमपि झटिति
हठात् विश्लेषितं दुःखबीजं दुरितं येषाम् । अनेन दर्शनात्प्रभृति
पापराहित्यात् यावत्करणविगममैहिकमुखानामपि भाजनं भवन्तीति
द्योत्यते । कल्पिष्यन्ते योग्या भविष्यन्ति, 'तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवं चिताभस्मरजोऽपि शुद्धये' इतिवत् । 'नमःस्वस्तिस्वाहास्वधालं-
वषड्योगाच्च' इति सूत्रे अलंशब्दस्यार्थग्रहणात् पर्याप्तिवाचिन: क्लृ-
पिधातोर्योगे प्राप्तय इति चतुर्थी । स्थिरगणपदप्राप्तये इन्द्रादिपदव-
त्कतिपययुगावस्थानलक्षणास्थैर्यरहितशाश्वतपार्षदस्वरूपोपलब्धये; त-
त्प्रसादान्मुक्तानामपि पशुत्वाख्यमलविरहात् सर्वज्ञत्वादिशिवलक्षणवि-
शिष्टत्वाच्च शिववन्नित्यत्वमेवेति भावः । 'मुक्तात्मनोऽपि शिवाः किंत्वे-
ते तत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः'
इत्यागमात्तेषामनादिमुक्तत्वस्यैव निषेधात्तदितरगुणानुमतिः। श्रद्दधा-
नाः आस्तिक्यार्द्रीकृतचेतसः । 'तथेति प्रत्ययः श्रद्धा' इति हलायुधः ।
श्रद्धापूर्विकाया एव प्रवृत्तेः सर्वत्र साफल्यमिति भावः; 'हतमश्रद्धये-
तरत्' इति स्मृतेः । दृष्ट इति, दर्शनमात्रस्येयं परिणतिः; प्रदक्षिण-
नमस्करादिषु कृतासु क्रियासु किमुच्यतामिति भावः । अप्रस्तुतप्र-
शंसालंकारः, कार्ये प्रस्तुते कारणस्याभिधानात् ॥ ५५ ॥
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः ।
निर्ह्रादी ते मुरज इव चेत्कन्दरेषु ध्वनिः स्या-
त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥
अथ तत्र साक्षान्निवसतः पार्वतीपतेर्हृदयंगमं सेवाप्रकारमुपदिशति -- शब्दायन्त इति । शब्दायन्ते स्वनन्ति, 'मन्दं शब्दायमाने' इति वत् । 'शब्दवैरकलहाभ्र-- 'इत्यादिना क्यङ् । मधुरं श्रवणसुभगम् । अनिलैः तानप्रदानोत्सुकैर्वोशिकैरिवेति ध्वन्यते । बहुवचनं वारं वारमापततां मरुतामविच्छेदात्कीचकशब्दस्याप्यनुबन्धं द्योतयति । कीचकाः वेणुविशेषाः । पूर्यमाणाः षट्पदादिनिष्पादितैश्च्छिद्रैरनुप्रविश्याध्माप्यमानाः । संरक्ताभिः सम्यक् रक्तकण्ठीभिः; यथा-'रक्ताभिः सुरसुन्दरीभिरभितो गीतात्तु कर्णद्वयी तच्च श्रोष्यति नाम किम्' इति । त्रिपुरविजयः कनकरजतताम्रमयपुरत्रयनिवासिनामसुराणामीश्वरकर्तृको नितरां सुकरस्त्रिजगदुपकारको विजयप्रकारो गेयारोपितः । किन्नरीभिः गुहागृहविहारिणीभिरश्वमुखीभिः स्त्रीभिः । बहुवचनेन बहुत्वात् कासांचिच्छ्रमेऽन्यासां प्रवृत्तेर्गीतानुबन्धो द्योत्यते। कन्दरेषु निर्ह्रादी गुहासु प्रतिध्वनिप्रसरेण घोषवान् । मुरजः आनद्धवाद्यविशेषः । ध्वनिः स्तनितशब्दः । संगीतार्थः गीतनृत्तवाद्यरूपं वस्तु, संगीतस्य हेतुर्वा । 'नृत्तं गीतं च वाद्यं च त्रयं संगीतमुच्यते ।' इति हलायुधः । 'अर्थ: स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥' इति वैजयन्ती । ननुरवधारणे । 'प्रश्नावधारणैतिह्यसमीहानुनये ननु' इति वैजयन्ती। पशुपतेरित्यनेन, सर्वेश्वरत्वेन पूर्णकामस्य कर्तव्यान्तराभावादानन्दताण्डवोद्योग इति ध्वन्यते । तत्र हिमगिरौ । समग्रः अविकलः, संपूर्ण इति यावत् । अत्र समाधिरलंकारः, कारणान्तरयोगेन कार्यसौकर्यप्रतिपादनात् । समं वा, योग्यतया योगस्य संभावितत्वात् ।।
प्रालयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषा-
न्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिविमथनाभ्युद्यतस्येव विष्णोः ॥
अथ गिरीन्द्रमतिक्रम्योत्तरां दिशं व्रजतोऽस्य ममनप्रकारमुपदि-
शति- प्रालेयेति । प्रालेयाद्रेः हिमगिरेः । उपतटं कटकसमीपे ।
अतिक्रम्य हृदयंगमतया दर्शनादौ तृष्णाया अविच्छेदेऽपि सुहृत्का-
र्यत्वरापाशनिगलितत्वात् कथमप्युल्लङ्घ्यम् । तांस्तान् नानाप्रकारान् ।
विशेषान् कुतूहलजनकतया शैलान्तरेभ्यो व्यावर्तकान् धर्मान् । हंस-
द्वारं हंसानां मानससरोमर्त्यलोकगतागतयोर्मार्गभूतः । भृगुपतियशो-
वर्त्म भगवता परशुरामेण शरवेधतो जनितत्वात् निरतिशयबलवीर्य-
हेतुकस्य तद्यशसो दिव्यदेशप्रसरणसरणिम् ; यथा कादम्बर्याम्--
'परशुरामशरविवरनिर्गता हंसा इव' इति । हर्षचरिते च पर
शुरामपराक्रमस्मृतिकृतो हंसा इव' इति । क्रौञ्चरन्ध्रं क्रौञ्चगिरिम-
ध्यवर्ति दक्षिणोत्तरायामेन भूतं छिद्रम् । तेन मार्गेण । उदीचीम् उत्त-
राम् । तिर्यगायामशोभी तिरश्चीनदैर्घ्यदर्शनीयः । तत्कालविशेषण-
मिदम् । ऊलोकविक्रमाय शनैरुन्नमने तिर्यग्भागवर्ती । पाद:
अड़्घ्रिदण्डः। बलिविमथनाभ्युद्यतस्य वैरोचनिपदप्रच्यावनोद्युक्तस्य ।
विष्णोः त्रिभुवनमपजिहीर्षतो नारायणस्य । अत्रोपमानेन फलाव्यभि-
चारः, गन्तुरस्यासन्नफललाभता च द्योत्यते । अत्रोपमालंकारः ॥
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथि: स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥
अथ संनिकृष्ट एवं कैलासगिरिः, तमुपसरेत्याह-- गत्वा चोर्ध्व-
मिति । चकारो वाक्यार्थसमुच्चये । ऊर्ध्वं क्रौञ्चरन्ध्रात्परतः किंचि-
दन्तरम् । अथवा, गिरिविवरसंकोचं निस्तीर्य गगनशृङ्गमधिरुह्येति ।
दशमुखभुजोच्छ्वासितप्रस्थसंधेः परममाहेश्वरस्य लङ्कापतेः सुहृद इव
भुवनविजयश्लाघिभिर्भुजैर्दृढोपगूढतया संपीडिताः तटानामन्योन्य-
बन्धनप्रदेशा यस्य, प्रियतमभुजोच्छ्वासितालिङ्गितानाम्' इतिवत्।
अनेन भक्तोपरोधमन्तरेण परिभवान्तराप्राप्तिः शंकरगिरेः परिसं-
ख्यया द्योत्यते । त्रिदशवनितादर्पणस्य एफटिकमयसर्वाङ्गतया राज-
तत्वाद्वा स्पष्टदृष्टप्रतिमाशरीराणामलंकृतानां सुराङ्गनानां दर्पनिष्पा-
दकत्वान्मणिमुकुरभूतस्य । अतिथिरिति । नूतनागतत्वेन गुणशालि-
त्वेन च सविशेषसमानभाजनं भूया इत्यर्थः । शृङ्गोच्छ्रायैः उच्छ्रितैः
शिखरैः । 'नगाद्यारोह उत्सेध उच्छ्रायश्चोच्छ्रयश्च सः' इत्यमरः ।
वितत्य आस्तीर्य । राशीभूतः एकत्र देशे संभरणात्पुञ्जीभूतः ।
त्र्यम्बकस्य त्रिभुवनसंहारदीप्तनेत्रत्रयस्य महेश्वरस्य । अनेन रौद्ररूपाव-
लम्बिन एव शंभोः स्पष्टाट्टहासविशिष्टतेति व्यज्यते; यथा रघुवंशे--
'महेश्वरस्त्र्यम्बक एव नापरः' इति । अट्टहासः अतिशयो हासः ।
'अट्टावतिशयश्चौमौ' इति वैजयन्ती । प्रतिदिनमट्टहास इत्यन्वयः,
दिने दिने भवन्नट्टहास इत्यर्थः । हासस्यापि विकटदशनदीधितिनिच-
यनिचुलितत्वात्कुमुदविशदत्वम् । विभातीति शेषः । उत्प्रेक्षालंकारः ॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यःकृत्तद्विरदरदनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥
अथ तदुपसरणे भवतः कामपि मनोहरतां भाविनीमुत्प्रेक्ष इत्या-
ह-- उत्पश्यामि त्वयीति । तटगते अधित्यकाश्रयिणि, शिरःस्था-
नीयस्य शिखरस्याधोगतसानुसंनिषण्ण इत्यर्थः, अंसन्यस्तस्योपमान-
त्वात् । स्निग्धभिन्नाञ्जनाभे स्निग्धा तत्कालदलिताञ्जनशिलाकान्ति-
सदृशी च कान्तिर्यस्य तस्मिन् । सद्यः तत्काल एव कृत्तः छिन्नः
द्विरदरदनच्छेदः करिणो दन्तखण्डः, तद्वत् धवलवर्णस्य ।
भिन्नसद्यः कृत्तशब्दाभ्यां धरणिधूलिधौसर्यादिविरहात्मभाप्रकर्षः प्रका-
श्यते । स्तिमितनयनप्रेक्षणीयां विस्मयौत्सुक्यनिश्चलनेत्रैः प्रेक्षकैर्वैमा-
निकादिभिः प्रेक्षितुं योग्याम् । भवित्रीं भविष्यन्तीम् । अंसन्यस्ते
लीलया स्कन्धपीठनिहिते । हलभृत इति, सीरेणैव विश्वसंहरणचतुर-
भुजबलशालिनः कैलासौपम्ययोग्यस्य उत्तुङ्गस्य शरीराभोगस्य वैशि-
ष्ट्यं प्रकाश्यते; यथा श्रीविष्णुपुराणे-- 'मत्तः कोपेन चाघूर्णेस्ततो-
ऽधिक्षेपजन्मना । उत्थाय वार्ष्ण्य वसुधां जघान स हलायुधः ॥'
इति हलायुधशब्देन निरतिशयबलविशिष्टस्योक्ति: । द्विरदरदनच्छेदगौ-
रत्वं हलभृतोऽपि समम् । मेचके नीले, तस्य नीलाम्बरत्वात् सितव-
र्णत्वाच्च; यथा श्रीविष्णुपुराणे-- 'किं न पश्यसि दुग्धेन्दुमृणाल-
सदृशाकृतिम् । बलभद्रमिमं नीलपरिधानमुपागतम् ॥' इति । अत्रो-
मालंकारः ॥ ५९ ॥
हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।
भङ्गी भक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥६०॥
अथ तत्र जगन्मातुर्हैमवत्याः शिवसहचरितायाः समयोचितं
सेवाप्रकारमाह-- हित्वेति । तस्मिन् कैलास । भुजगवलयं
नागरूपं कङ्कणम् । हित्वा देव्यास्त्रासपरिहाराय । अनेन देवस्य देवी-
सेवायामवहितत्वं द्योत्यते । शंभुनेति । यः सर्वजगतः सुखप्रसावकः,
तस्य तत्तादृशसेवाप्रवर्तको देव्याः सौभाग्यातिशयो ध्वन्यते;
लोमीप्रमुखं मुखप्रतीक्षं परिजनं निषिध्य स्वयमेव देवस्य प्रसादनप्रवृ-
त्तिश्च । अथवा शंभुनेति निष्प्रत्यूहसंभोगसंपदे तन्मात्रसहायत्वं सूच्यते ।
दत्तहस्ता गिरितटस्खलनभयच्छलेन करकिसलयस्पर्शलौल्यात्समर्पित-
प्रकोष्ठा । क्रीडाशैले लीलासाधनपर्वतभूते तस्मिन्नित्यन्वयः। अथवा क्री-
डाशैलः कश्चिदन्यः कृत्रिमः । चकारो वाक्यार्थसमुच्चये। विचरेत् । परि
क्रामेत् । विहरेदिति वा पाठः, क्रीडेत् । त्वदुपगम इति शेषः । पादचारे-
ण उपभोगयोग्यकुसुमितलतानिकुञ्जादिनिरीक्षणविनोदमात्रफलकत्वा-
त्संचरणस्य चरणपल्लवाभ्यां चङ्क्रमणेन, न तु वाहनपूर्वकम् । अनेन
भवत्सेवायास्तदानीं सुतरामौचित्यम्, पवित्रतरतद्रेणुस्पर्शसंभवादिति
व्यज्यते । गौरीति, कौशिकीसंपादनाय योगबलपरित्यक्तकालवर्णत्व-
कोशतयाभिव्यक्तगौरवर्णत्वात् त्रिभुवनोपकारिणीति प्रकाश्यते; ततश्च
कृतज्ञतयापि सर्वैर्देव्याः सेव्यत्वमिति भावः । भङ्गी सोपानसदृशभ-
ड़्गपरंपराविशिष्टः । भक्त्या शिवयोरुपरि प्रकृष्टेन भावेन; डाम्भिकत्वे
पादस्पर्शोत्सवभाजनतानुपपत्तेः । विरचितवपुः विविधकृतरूपः ।
अनेन मणितटसोपानत्वोचितरमणीयरूपपरिग्रह उक्तः । अथवा
भङ्गीभक्त्या भङ्गीनां खण्डप्रस्तराणां भक्त्या विन्यासविशेषेण विभा-
गेन वा । विरचितं वपुः येनेत्यर्थः । स्तम्भितान्तर्जलौघः चरणन्या-
ससहत्वाय स्थिरीकृतोदरगतजलसंचयः । सोपानत्वं आरोहणमार्गकृ-
त्यम् । 'आरोहणं स्यात्सोपानम्' इत्यमरः । मणितटारोहणाय
अधस्तनेभ्यः स्फटिकादिमयेभ्यस्तटेभ्य ऊर्ध्वगतानां तादृशानां तटा-
नामारोहणार्थम्। तयोरिति शेषः । अग्रयायी तत्तत्तटारुरुक्षामुप
लक्ष्य, तयोः पुरतस्तत्र तत्र गच्छन्नित्यर्थः । अत्र च 'बाह्योद्यानस्थि-
तहर-- 'इत्युक्तमनुसंहितं वेदितव्यम् । अत्र परिणामोऽलंकारः,
मेघस्य सोपानतया परिणामप्रतिपादनात् ॥ ६०॥
तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यद्मधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या-
त्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥
अथ तत्र प्रस्तुतकार्यप्रत्यूहसंभेदमुत्प्रेक्ष्य स परिहर्तव्य इत्याह-
तत्रावश्यामेति । अवश्यं निश्चितम्, पुरापि तासां तादृशदुर्विल-
सितानि मयानुभूतानीत्यर्थः । वलयकुलिशोद्घट्टनोद्गीर्णतोयं कङ्कण-
प्रत्युतवज्ररत्ननिशितकोटिपाटनजनितसूक्ष्मरन्ध्रजालप्रक्षरितजलकणम् ।
नेष्यन्ति प्रापयिष्यन्ति । त्वां सहजदाक्षिण्यवंशवदमित्यर्थः । सुरयुव-
तयः शिवसेवार्थं वा स्वैरविहाराय वा तत्र वर्तमाना देवलोकतरुण्यः ।
युवतय इत्यनेन, तासां स्मरशरसंज्वरसौलभ्यं ध्वन्यते । बहुवचनेन
कयाचित्कंचित्कालमनुभूय मुक्तत्वे पुनरन्या, ततोऽप्यपरेति द्योत्यते ।यन्त्रधारागृहत्वं स्थूणनिवहस्थापनमन्तरेण यथा तिष्ठेत्, तथा यन्त्रे--
गोपायेन रचितमुपरिसलिलस्थापनयोग्यसौधसंनिवेशमधोनिषण्णानां
परितः पातुकवारिधाराशीकरनिकरेणोष्णदुःखनिवारकं गृहविशेषं
यन्त्रधारागृहमाहुः, तद्भावम्; यथा रघुवंशे-- 'शिलाविशेषानधि-
शय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः' इति । प्रबोधचन्द्रोदये च--
'मुच्यन्तां यन्त्रमार्गाः प्रसरतु परितो वारिधारा गृहेषु' इति । यन्त्र-
धारागृहत्वमिति, 'गृहयन्त्रपताकाश्री: ' इतिवत् । मोक्षः अनुज्ञया
विसर्जनम् । न स्याद्यदीति। प्रस्थानप्रक्रमे पुनराकर्षणादिप्रसङ्गान्न कथं-
चिद्भवेदित्यर्थः; कार्यान्तरत्वरितस्य हृदयमविज्ञाय, तासामतिप्रसङ्ग-
स्थानौचित्याद्रसभड़्गहेतुत्वमेव, औचित्यस्यैव सर्वत्र रखसुधर्णावकर्ण-
धारत्वादिति भावः । सखे इति । सुहृत्कार्यव्यसनिनस्तव तदीयवि-
लासवागुरावश्यत्वमवश्यं न भावीत्यर्थः । घर्मलब्धस्य स्मरज्वरसंताप-
समये प्राप्तस्येत्यर्थः । 'निदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेष्वपि ।
आतपे तद्दिने च' इति वैजयन्ती । ग्रीष्मकाले लब्ध इत्यर्थो न
घटते, सुरयुवतीनां विशेषतः परमेश्वरनिवासभूते प्रदेशे सततमुखे
ग्रीष्मबाधोक्तेरनौचित्यात्, 'आतङ्कः कुसुमायुधः' इति कुमारसं-
भवे, माघे च 'कुर्वन्ति द्यामुत्पतन्तः स्मरार्त्तस्वलोकस्त्रीगात्रनिर्वा-
णमत्र' इति स्मरस्यैव तादृशीनां व्याधित्वोक्तेः, तच्छमनाद्य
कादम्बर्यादिषु हिमगृहादिनिर्माणवर्णनाच्च । घर्मलब्धस्येत्यनेन स्वा-
पेश्चितसमये प्राप्तस्य तव अमोक्षणे दासीसुतानामम्बरचरशम्भ-
लीनां का हानिः; मम तु प्रयोजनं निर्मूलं नड़्क्ष्यतीति द्योत्यते। क्री-
डालोला: त्वदधोभागे स्थित्वा त्वदीयधाराशीकरनिर्वापितशरीरतया
कन्दुकादिविनोदपरत्वादन्यचित्ताः; अचिन्तितोपनतत्वे भयस्योद्वेल-
त्वादेति भावः । श्रवणपरुषैः यथा श्रवणे दुःसहत्वं भवेत्, तथा
प्रयुक्तैरिति तत्कालविशेषणम् ; श्रवणसुभगत्वस्यैव स्वभावत्योक्तेः ।
गर्जितैः न तु गर्जितेन । अनेनोपर्युपरि प्रवृत्तेराश्वासावसरो न देय
इत्युच्यते स्वविषयवैराग्योत्पादनेन तासां पुनरनुसरणपरिहाराय। भा-
ययेः त्रासयेः ; तत्रापि कृत्यमस्ति-- विभीषिकैव कार्या तासां
मार्दवरक्षणेन, न पुनर्मोहमरणादिजननेनात्यन्तनिर्दयत्वमाविष्करणी-
यमिति भावः । ता इति । भीरवः कोमलशीलास्तावतैव परिहरि-
प्यन्तीति भावः । अत्र परिणामोऽप्रस्तुतप्रशंसा चालंकारः ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन्कामात्क्षणमुखपटप्रीतिमैरावतस्य ।
धून्वन्कल्पद्रुमकिसलयान्यंशुक्रानि स्ववातै-
र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६२॥
अथानन्यसामान्यगुणविशिष्टमतिचिरदृष्टं तमद्रिराजं यावदिच्छ-
मुपभुङ्क्ष्वेत्याह–हेमेति । हेमाम्भोजप्रसवि कनककमलसंतानवि-
शिष्टम् । अनेन तजननोचितसारत्वाल्लोकोत्तरत्वं सलिलस्य प्रकाश्यते ।
मानसस्येति, अविज्ञातकालुष्यत्वं सूच्यते । आददानः न पुनरात्त-
वान्। अनेन बहुशः समादानस्य मध्ये मध्ये सलिलमोक्षणहेतुकत्वात्,
कनकारविन्दगन्धबन्धुना मानससरोवारिणा भगवत्प्रीतये कैलासकट-
कावसेचनमसकृत्कर्तव्यमिति प्रकाश्यते । कुर्वन्निति । यदा यदा
जलादानायावतीर्यते, तदा तदा संपादयन्नित्यर्थः । कामात् इच्छा-
वशात् । क्षणमुखपटप्रीतिं प्रतिगजादर्शनाय मुखे निधेयं दृष्टितिरो-
धायकं वस्त्रं मुखपटः, तर्जन्यां प्रीतिं तत्कृत्यानुष्ठानात् । क्षणमिति,
चिरावस्थाने मदनिघ्नस्य तस्य समाकर्षणादिकदर्थनप्रसङ्गात्प्रमादः
परिहर्तव्य इति द्योत्यते । ऐरावतस्य कनककोकनदषण्डविहरणर-
सेन सरसि मज्जत: सुरेन्द्रकुञ्जरस्य । ऐरावतोपादानं तस्याभ्रमा-
तङ्गत्वात् बान्धवातिशयेन तत्प्रीतिकरणस्यावश्यकत्वध्वननार्थम् ।
धून्वन् कम्पयन्। कल्पद्रुमकिसलयानि तटगतसुरतपल्लवभूतानि ।
अंशुकानि अरुणसुकुमाराणि दुकूलानि । स्ववातैः 'अभ्रस्थाः प्रप-
तन्त्यापो वायुना समुदीरिताः' इति वचनात् वृष्टिप्रेरकैर्निजमारुतैः ।
बहुवचनेन बहुमुखत्वान्मरुतां बहूनां कल्पद्रुमाणामंशुकानां युगपद्धूनन
ननं प्रतिपाद्यते; ततश्च सर्वतः पर्वतकटके मङ्गलवैजयन्तीसंतानसौ-
भाग्यं भविष्यतीति ध्वन्यते; यथा कुमारसंभवे-- 'यत्र कल्पद्रुमैरेव
विलोलविटपांशुकैः । गृहयन्त्रपताका श्रीरपौरादरनिर्मिता ॥' इति ।
उक्तं चेष्टान्तरमुपलक्षणं चेष्टान्तराणाम्, कामादित्युक्तवात्; अत
आह-- नानाचेष्टैः विविधव्यापारैः । अनेनाबुद्धिपूर्वकतदात्वोन्मी-
लत्स्वाभाविकसुकुमारचेष्टावैविध्योज्ज्वलत्वमुक्तम् । जलदेति, मेघजा
त्युचितं च सर्वमाचेष्टितव्यम्– विद्युत्स्फुरणैः प्रकाशनम्, स्तनितैर्द-
रीविवरपूरणमित्यादि च द्योत्यते । ललितैः पुरुषगुणविशेषैः। यथाह--
दिवाकरः-- 'अबुद्धिपूर्वजं यत्तु सुकुमारं स्वभावजम् । शृङ्गाराकार-
चेष्टत्वं ललितं तदुदाहृतम् ॥' इति । ललितैरिति बहुवचनेन
प्रतिक्षणं रमणीयत्वान्नवनवत्वं ध्वन्यते । निर्विशेरिति, निर्विशेः उपभु-
ड़्क्ष्व । 'निर्वेश उपभोगः स्यात्' इत्यमरः । उपभोगेन सफलमात्मा-
नं कुरु विशिष्टविषयोपभोगफलत्वात्प्रवृष्टस्य शरीरग्रहणस्येति भावः ।
तं रमणीयतया प्रसिद्धम् । नगेन्द्रं पर्वतानां मध्ये परमैश्वर्यशालिनमिति
रमणीयताया हेतुः । अत्रोदात्तमलंकारः ॥ ६२ ॥
तस्योत्सड़्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारी ।
या वः काले वहति सलिलोद्गारमुच्चैर्विमानै-
र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रबृन्दम् ॥ ६३ ॥
अथानुषड़्गिकं रसमनुभूय 'गन्तव्या ते वसतिरलका नाम' इत्युक्तत्वात् परमोद्देश्यभूतामलकामुपगच्छेति भङ्गया प्रतिपादपतितस्येति । तस्य प्रकृतस्य कैलासस्य । उत्सङ्गे अधित्यकामध्ये । प्रणयिन इव प्रियतमस्येव । कामिनीमिति योज्यम्, 'कामिनीव' इत्युतरवाक्ये उपादानात् । अनेन परस्परसुखावहत्वं दर्शनीयत्वं च श्लिष्टयोरलकाकैलासयोर्व्यज्यते । स्रस्तगङ्गादुकूलां विगलितं परिसरे प्रवहन्ती स्वच्छसलिला गड़्गैव दुकूलं यस्याः, तत्परिखापरिक्षेपात् । प्रियाङ्गसङ्गे रसवशतया स्वयमेवोच्छ्वसितनीवीबन्धत्वात् दरगलितं गङ्गासदृशं दुकूलं यस्याः, तां च । त्वमिति । यः सर्वत्राप्रतिहतगतिः, सदा विषयरसिकश्च, स त्वमित्यर्थः । दृष्ट्वा पुनरिति पुनः शब्दो व्यावृत्तौ। सकृद्दृष्टाया अपि परोक्षे दृष्टा न वेति संशयो भवति दृष्टायां विशेषः । न न ज्ञास्यसे अद्दो पूर्वमस्माभिर्दृष्टचरीयमिति प्रत्यभिज्ञास्यस एवेत्यर्थः ; 'द्वौ नञौ प्रकृतमर्थे दृढं सूचयतः' इति न्यायात्, 'नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः' इतिवत् कामचारी कामतः स्वेच्छया संचरणशील इत्यर्थ: ; अतस्त्वमलकामपि सर्वभोगसंपन्निदानभूतां पूर्वमुपगत एवेति भावः । न च ब्रह्मलोकादिवत् भवादृशामसावगोचर इत्याह-- या पुरी । वः काले युप्माकं मेघानामनुदिनं वर्षणाय विभज्याधिकृते समये, 'हस्ते लीलाकमलम्' इत्यादिना युगपदृतूनां संनिधानस्य वक्ष्यमाणत्वात् । अथवा वर्षासु । 'हस्ते लीलाकमलम्' इत्यत्रापि पुष्पसंपत्संपादनमेवोच्यते; यथा कुमारसंभवे-- 'पर्यायसेवामुसृज्य पुष्पसंभारतत्पराः' इति, माघे च प्रसूनक्लृप्तिं ते दधतः सदर्तवः' इति, पुष्पसंभरणमात्रमुक्तम् । अत एव 'प्रत्यासन्ने नभसि' इति, 'या वः काले' इति, 'घर्मलब्धस्य' इति 'परिणतशरच्चन्द्रिकासु' इत्यादीनामविरोधः, कार्यान्तराणां तत्रापि देशान्तरसाधारण्यात् । सलिलोद्गारं जलमुद्गिरति सलिलधारां वर्षतीति सलिलोद्वारम् । 'कर्मण्यण्' । उच्चैः उन्नतैः, अर्थान्मेघमार्गातिक्रान्तशिखरै रित्यर्थः । विमानैः पुष्पकादिभिर्देवयानैर्भवनभूतैः । अथवा सप्तभूमैः प्रासादविशेषैः । बहुवचनप्रयोगेऽपि सर्वेषामपि विमानानां संभूय नगर्याः शिरस्त्वेनावस्थानादेकोत्तमाङ्गस्थानीयत्वमेव, एकस्याः कामिन्याः शिरोबहुत्वानुपपत्तेः । 'विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि' इति वैजयन्ती । मुक्ताजालग्रथितं प्रशस्तमुक्ताफलगुम्भितो गवाक्षाकारो भूषणविशेषो मुक्ताजालम्, तेन ग्रथितं बद्धम् । अलकमिति जात्येकवचनम्; चूर्णकुन्तलनिकरमित्यर्थः ; अभ्रवृन्दस्योपमानत्वात् । कामिनीवेति । यथा कामिन्यास्तदानीं निकामप्रेक्ष णीयत्वम्, तथा तस्यास्तदानीमिति ध्वन्यते । अभ्रवृन्दं सलिलोद्गारमित्युक्तत्वाजलगर्भतया स्निग्धनीलमिति सिद्धयति, अलकोपमेयत्वात् । उपमात्रालंकार: ।।
अत्र च 'मार्गे तावच्छृणु' इति प्रतिज्ञातस्य मार्गकथनस्य संपूर्ण-
त्वात्पूर्वभागस्य परिसमाप्तौ प्रणयिन उत्सङ्गे स्वलंकृतां कामिनीमिवेति
यक्षवचनद्वारेण भविष्यत्तदीयप्रियासमागमसूचकं मङ्गलं कविकुल-
चकोरचन्द्रेण प्रयुक्तं वेदितव्यमिति मङ्गलम् ॥
इति श्रीपूर्णसरस्वतीविरचितया विद्युल्लताख्यया व्याख्यया समेते
महाकविश्रीकालिदासकृते मेघसंदेशे
प्रथमाश्वासः समाप्तः ।
॥ द्वितीय आश्वासः ॥
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरवाः स्निग्धपर्जन्यघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥१॥
अथ 'संदेशं मे तदनु जलद श्रोष्यसि' इत्युद्दिष्टस्य संदेशस्य प्राप्ता-
वसरतया तमारभमाणः, पुरवर्णनतदन्तःपातिस्वभवनलक्षणतत्प्रा-
प्तिस्वप्रियादर्शनतदीयतत्कालदशातदुपसरणप्रकारादीनि संदेशात्पुरो-
भावीनि तत्प्रसङ्गाङ्गानि प्रतिपिपादयिषुस्तत्र पूर्वभागप्रस्तुतां राजरा-
जराजधानीमेव वर्णयितुमुपक्रमते-- विद्युत्वन्तमिति । विद्युत्वन्तं
सौदामिनीसहितम् । 'तसौ मत्वर्थे' इति भसंज्ञा; तेन तकारस्य
पदाश्रयं जश्त्वं न भवति । ललितवनिताः ललिता: रूपवेषविलासा-
दिभिर्मधुराः स्त्रियो येषु, यक्षीणां स्त्रीषु विशिष्टत्वात् । सेन्द्रचापं इन्द्र-
धनुःसहितम् । सचित्रा: आलेख्ययुक्ताः । संगीताय नृत्तगीतवाद्यप्रयो-
गार्थम् । प्रदतमुरवा: ताडितत्वेन शब्दायमानमुरवाख्यवाद्यविशेषाः ।
स्निग्धपर्जन्यघोषम् अपरुषवृष्ट्युद्योगस्तनितयुक्तम् ; 'अन्नाद्भवन्ति
भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमु-
द्भवः॥' इति भगवद्वचने पर्जन्यशब्दस्य दृष्टिवाचकत्वावगतेः ।
वैजयन्त्यां तु 'पर्जन्यो गर्जदभ्रेऽपि स्वाने शक्रेऽर्थयन्त्रके' इति श्रव-
णात्तदानीं स्निग्धगर्जनघोषमिति व्याख्येयम् । अन्तःस्तोयम् उदर-
वर्तिजलम् । मणिमयभुवः स्फटिकादिरत्नबद्धभूतलाः । तुङ्गम् उन्न-
तम् । अभ्रंलिहाग्राः गगनशृङ्गस्पर्शिशिखराः । 'वहाभ्रे लिह:'
इति खश् । प्रासादाः यक्षेन्द्राणां देवयोनिविशेषाणां भवनविशेषाः।
'हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्' इत्यमरः । तुलयितुम्
उपमानीकर्तुम् । तुलाशब्दः सदृशवाचकोऽप्यस्ति; तस्मात् 'तत्क-
रोति--' इति णिच् । 'तुल उन्माने' इत्ययं धातुश्चौरादि-
कः । तस्मिन्वा अलं पर्याप्ताः । यत्र यस्यामलकानगर्याम् । तैस्तैः
उक्तैरनुक्तैः प्रालम्बमुक्तादामत्वादिभिर्धारापातादिविशिष्टमिति बहु-
भिः पुरान्तरव्यावर्तकैर्धर्मैः । अत्र द्वितीयान्तानां मेघविशेषणत्वे-
नैकतः, प्रथमान्तानां प्रासादविशेषणत्वेनान्यतश्चान्वयेऽर्थसामर्थ्या-
द्विद्युदादिभिर्वनितादीनामुपमेयत्वसिद्धिः । 'संगीताय प्रहतमुरवाः
स्निग्धपर्जन्यघोषम्' इत्यत्र प्रक्रमभङ्गशङ्का न कर्तव्या; स्निग्धध्वानं
प्रहतमुरजाः साधुसङ्गीतहेतोरित्यादिप्रयोगप्रकारसौकर्येऽपि, विवक्षि-
तार्थप्रतिपादकश्लिष्टमधुरसंदर्भ एव संरम्भोऽस्मादृशानाम्, न पुन-
रीदृशक्षुद्रदोषास्थादौःस्थ्यमिति रससुधार्णवकर्णधारेण कवीन्द्रेण
स्वातन्त्र्यप्रकाशनात् । अत्र च कनकावदातलोललावण्यालोकले-
पित्वम्, स्निग्धदीप्तसंकीर्णविविधवर्णरमणीयत्वम्, गम्भीरमधुरनिर्ह्रा-
दप्रतिश्रुन्मिश्रितदिगन्तरत्वम्, प्रसन्नमसृणशीतलाभ्यन्तरशमितश्रम-
त्वम्, दूरदृश्यत्वं चेति विद्युदादिभिर्वनितादीनां प्रतीयमानः
समानधर्मो ग्राह्यः । त्वां तुलयितुमलमित्यनेन अहो चिरात्सदृशयः
संगमो भविष्यतीति ध्वन्यते । तत्समानगुणतया च त्वां तत्रत्यः
परिपालकादिजनो विविक्ततया न ज्ञास्यत इति सामान्यं तद्गुणो
वालंकारो ध्वन्यते । उपमा चात्रालंकारः। अलकावर्णनान्तर्गतानामे-
षां श्लोकानां तामलकां न न ज्ञास्यस इति पूर्वत्रान्वयः ; तत्रागार-
मिति उत्तरत्र वा पर्यवसानम् ॥ १ ॥
हस्तेलीलाकमलमलका बालकुन्दानुविद्धा
नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥
अथ तत्र परमेश्वराराधनाय युगपदृतुषट्कस्य यथास्व कार्यसमग्र-
तया वा, यथा यथाकुसुमसंभारसंपादनमात्रेण वा संनिधानाद्देशान्तरेभ्यः सौभाग्यातिशयमाह-- हस्त इति । हस्ते लीलाकमलमिति, शर-
दृतोः प्रथमलिङ्गम्; लीलार्थं कमलं करतले । यथा शरद्वर्णने सेतौ-
'भमर रुअ दिव्णअण्णं घणरोह विमुक्कदिणअरकराळिद्धम् । परिससुहा-
अंतंवि पडिवुज्झइ जळणिहित्तणाळं गळिणम् ॥' इति; तथा हर्षच-
रिते-- 'कोमलकमले मधुस्यन्दीन्दीवरे' इति रघुवंशे च-- ' पुण्डरी-
कातपत्रस्तं विलसत्काशचामरः' इति । अलका बालकुन्दानुविद्धा
इति पाठः, 'अलकाश्चूर्णकुन्तलाः' इत्यमरसिंहेनालकानां पुल्लिंग-
विधानात्, तथा प्रयोगबाहुल्यदर्शनाच्च । बालैः नवैः कुन्द-
पुष्पैः । अथवा बालानां कुन्दद्रुमाणां पुष्पैरिति धावल्यात्परभागाय
निहितैरविरहिता: स्निग्धनीलाश्चूर्णकुन्तला इत्यर्थः । कुन्दपुष्पं च
हेमन्तसमयलक्षणम्; यथा शाकुन्तले-- 'भ्रमर इव विभाते कुन्द
मन्तस्तुषारम्' इति । लोध्रप्रसवरजसा लोध्राख्यवृक्षविशेषपुष्पपरा-
गेण । वदनलक्ष्मीपाण्डुताकरणं तेन सौन्दर्यातिशयार्थे काव्येषु प्रसिः
द्धम्; तथा कुमारसंभवे-- 'कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाप-
त्रनितान्तगौरे' इति; माघे च-- 'अधरेप्वलक्तकरजः सुदृशां विशदं
कपोलभुवि लोध्ररजः' इति । लोध्रपुष्पं च शिशिरकाललक्षणम् ।
माघे हेमन्ते च-- 'अभिषिषेणयितुं भुवनानि यः स्मरमिवाख्यत
लोध्ररजश्चयः' इति लोध्रस्य, शिशिरे च-- 'स्फुटमिति प्रसवेन
पुरो हसत्सपदि कुन्दलता दलतालिनः' इति, विक्रमोर्वशीये च--
'निषिञ्चन्माधवीवृद्धिं कुन्दशेषं च वर्तयन्' इति कुन्दस्य वर्णनं
हेमन्तसंबन्धिनः कुन्दस्य शिशिरेऽनुवृत्तेः, शिशिरसंबन्धिनो लोध्रस्य
हेमन्ते प्रारम्भाच्चेति मन्तव्यम् । चूडापाशे बद्धकेशकलापे । 'धम्मिल्लः
संहताः कचाः। शिखा चूडा केशपाशे' इत्यमरः । नवकुरवकं तत्का-
लविकसितं कुरवकतरोः कुसुमम् । तच्च वसन्तसमये केतनभूतम्,
'कुरवका रवकारणतां ययुः' इति, 'अग्रे स्त्रीनखपाटलं कुरवकम्'
इति च काव्येषु प्रसिद्धेः। चारु सहृदयचमत्कारकारि, सौकुमार्यसौन्द-
र्यानुगुण्यात् । कर्णे श्रवणशिखरे, अवतंसतया न्यस्तं शिरीषं शिरीषाख्य-
तरुप्रसूनम् । तत् ग्रीष्मर्तोरसाधारणं लिङ्गम्; यथा शाकुन्तले--
'इसि चुम्बिआइ भमरेहिं सुउमारकेसरसिहाइ । ओदंसअन्ति दअमाणा
पमदाओ सिरीसकुसुमाइ' इति; रघुवंशे च-- अमी शिरीषप्रसवावतंसाः
प्रभ्रंशिता वारिविहारिणीनाम् ।' इति । सीमन्ते केशमध्यरेखायाम् ।
त्वदुपगमजं त्वमस्मिन् उपगच्छसीति त्वदीयः प्रावृट्कालः त्वदुपगम
इत्युच्यते, घनागम इति प्रावृषः पर्यायत्वात् । ततो जायमानं नीपं
कदम्बपुष्पम् । नीपं च वर्षासमयचिह्नम्; तथा रघुवंशे-- 'गन्धश्च
धाराहतपल्वलानां कदम्बमर्धोद्गतकेसरं च' इति । ऋत्वन्तरसंबन्धिनां
लीलाकमलादीनामर्थोन्नेयत्वेनोक्तौ, नीपस्य तु त्वदुपगमजमिति
कण्ठोक्त्या प्रकाशनमन्येभ्यः सर्वेभ्यस्त्वदीयं कदम्बमेव सुषमासंपाद-
कतया प्रशस्तेन सीमन्तस्थानेन धार्यत इति मेघस्य चाटुकरणार्थम् ।
अत्र च पर्यायभाविनां परस्परविरुद्धगुणानामृतूनां युगपदेव तत्रावस्था-
नात् सर्वस्यापि यथाभिलषितभोगसामग्रीतो विषयिणां ततः परं किं
विशिष्टं भोगस्थानमिति प्रकाश्यते । वधूनामिति, अनन्यसामान्याक-
ल्पकल्पनेनोत्तमस्त्रीणां तत्रत्यानामालम्बनविभावतापरिपोष उक्तः ।
अत्र कार्यमुखेन कारणानामभिधानादप्रस्तुतप्रशंसालंकारः । गम्यस्यापि
भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तं वा । भूतभाविनां प्रत्यक्षायमाण-
त्वात् भाविकं वा ॥ २ ॥
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमखचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतिं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ३ ॥
अथ तद्वासिनां विलासिनाम् अनुपमरसासेवनेन सफलोद्दामयौव-
नत्वमाह-- यस्यामिति । यक्षाः निधिपतित्वेन प्रसिद्धसमृद्धिकाः ।
सितमणिमयानि सितमणिः स्फटिकशिला, अथवा मुक्ताशिला, तन्नि-
र्मितानि । हर्म्यस्थलानि सौधशिखरकुट्टिमानि । ज्योतिश्छायाकुसुम-
खचितानि ज्योतिषां नक्षत्रग्रहताराणां प्रतिबिम्बरूपैः पुष्पोपहारैः
संमिश्राणि । अथवा छायाभिः कुसुमैश्च संकीर्णानि । अनेन हर्म्यशृ-
ङ्गाणां तारापथसंनिकृष्टत्वम्, मणिकुट्टिमानां प्रसादसंपञ्च ध्वन्यते ।
ज्योतिश्छायाकुसुमनिकरयोः संदिह्यमानत्वमिति संदेहालंकारध्व-
निश्च । प्रदोषकाल इति च सिध्यति, तदात्वस्य तदानीमेवौचि-
त्यात्; यथा कुमारसंभवे-- 'यत्र स्फटिकहर्म्येषु नक्तं सोपानप-
ङ्क्तिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥’ इति । उत्तम-
स्त्रीशब्दस्य मुख्यवाच्यभूताभिर्यक्षोभिः सहिताः । आसेवन्ते न पुनः
केवलं पिबन्ति, दयितामुखपुण्डरीकगण्डूपादानादिभिः सरसतरीकृत्य
सचमत्कारमास्वादयन्तीत्यर्थः । रतिफलं त्रपानिगलनिर्गलननिरर्गलं
निधुवनं प्रयोजनं यस्य । कल्पवृक्षप्रसूतिं कल्पतरुपुष्परसनिष्पादितम्,
‘पुष्पासवाघूर्णितनेत्रशोभम्' इतिवत् । अथवा, दिव्यजनोपभोगाय
सुरतरुकोटरे देव्या वारुण्याः संनिधानात् ततो निष्ठयूतम्, 'इत्युक्ता
वारुणी तेन संनिधानमथाकरोत् । वृन्दावनवनोत्पन्नकदम्बतरुको-
टरे ॥' इति श्रीविष्णुपुराणोक्तत्वात् । अनेन लोकोत्तरगन्धरसस्पर्श-
वीर्यविपाकादिमत्त्वं मधुनो ध्वन्यते । त्वद्गम्भीरध्वनिषु त्वद्वत् स्निग्ध-
धीरघोषेषु । शनकैः नातिद्रुतम्, मधुपानोत्सवस्य दीर्घकालभावि-
त्वात्तान्यपि मन्द्रमधुरं मन्दं शब्दायन्त इत्यर्थः । पुष्करेषु मुरवा-
दिवाद्यभाण्डमुखेषु। 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले’ इति
वैजयन्ती । आहतेषु कुशलैस्ताडितेषु; तथा रघुवंशे-- 'नदद्भिः
स्निग्धगम्भीरं तूर्यैराहतपुष्करैः' इति । पुष्कराहतिर्नृत्तगीतयोरप्यु-
पलक्षणम् । 'पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासांचक्रिरे
सर्वे सिद्धगन्धर्वपन्नगाः ॥ अवादयञ्जगुश्चान्ये जयशब्दानथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः' इति श्रीविष्णुपुराणे मधु-
पानोत्सवाङ्गत्वेन संगीतस्य कथनात् । अत्रोदात्तमलंकारः ॥ ३ ॥
नीवीबन्धोच्छ्वसनशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
न्ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ४ ॥
अथ तत्रत्यानां यूनां परस्परानुरागसाचिव्यप्राज्यसंभोगसाम्राज्यमा-
इ-- नीवीति । 'नीविराग्रथनं नार्या जघनस्थस्य वाससः' इत्यमरः ।
नीवीबन्धस्य उच्छ्वसनं गलनम्; तच्च प्रियस्पर्शसुखपरायत्तचित्तता-
द्योतकम् ; यथा रतिरहस्ये-- 'प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रो-
णीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गितं योषि-
ताम् ।' इति । तेन शिथिलं नितम्बबिम्बेषु असक्तम् । बिम्बाधराणां
पुनः पुनः प्रियैर्गाढलीढतया स्फुटोपलब्धबिम्बीफलसाम्यं दन्त-
वासो यासाम्। अनेन तादृशामधरमणीनामेव रागराज्यनिर्वहणगर्व-
दुर्वारत्यादितराङ्गानां कः साहायकावकाश इति ध्वन्यते । क्षौमं
पट्टांशुकविशेषम् । रागात् कामावेशात् । अनिभृतकरेषु 'छुरितलि-
खितनाभीमूलवक्षोरुहोरुः श्लथयति धृतधैर्यं च्यावयित्वाथ नीवीम्'
इत्युक्तप्रकारेण स्तनादिस्थानप्रसरत्पाणिपल्लवेषु । अनिभृताः न तु
व्यापारिता इत्यनेन, रसावेशवशात्स्वयमेव क्रममनवेक्ष्य कराः प्रव-
र्तन्त इति द्योत्यते, 'शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।
रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥' इत्युक्तत्वात् । बिम्बा-
धराणाम् अनिभृतकरेष्विति च चुम्बनालिङ्गननखविलेखनादिबाह्यरस-
प्रपञ्चः सूचितः ; 'अभ्यर्चिता बाह्यरतेन भूयो या देशकालप्रकृती-
रवेक्ष्य । श्लथास्तरुण्यः प्रबलानुरागा द्रवन्ति तृप्यन्ति च शीघ्रमेव’
इति मदनतन्त्रोक्तेः । आक्षिपत्सु अपहरत्सु, न त्वाक्षिप्तवत्सु इति
वर्तमाननिर्देशः, हरणे निर्वृत्ते तासां स्वात्मनोऽपि स्मरणासंभवात्
चूर्णमुष्टिप्रेरणादीनां स्मरणदशाभाविनां दूरनिरस्ततां द्योतयितुम्;
यथामरुकः-- 'धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुक-
शतानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः
शपामि यदि किंचिदपि स्मरामि ।' इति । प्रियेष्विति, नीवी-
बन्धोच्छ्वसनशिथिलत्वहेतुः । अर्चिस्तुङ्गान् ज्वालया अधिकान्।
अभिमुखं मुखप्रतीपम् । प्राप्यापि दृष्ट्वापि उपगम्यापीति वा । अनेन
मोहस्य प्राबल्यं सूच्यते । रत्नप्रदीपान् माणिक्यरूपान् प्रदीपान् ।
बहुवचनेन सर्वतोदिक्कत्वान्माणिक्यदीपानामेकस्य यत्नतो निर्वापणेऽ-
प्यन्येषां जागरणादपूरणं कदाचिदपि मनोरथस्य व्यज्यते । ह्रीमूढा-
नां गोप्याङ्गप्रकाशनजनितया लज्जया किंकर्तव्यमित्यजानतीनाम् ।
विफलप्रेरणा निष्प्रयोजनीभूतप्रक्षेपा अस्थानपतनाद्वा प्रसिद्धप्रदीप-
वदनिर्वाप्यज्वालात्वाद्वा । अर्चितुङ्गत्वं चात्र हेतुः, क्षोदीयसां
तथात्वेऽपि तरुणतरणिसधर्मणां मणिविशेषाणां दुर्निर्वापत्वात् । फलं
च तदुपशमे तिमिरतिरस्करणीतिरोधानम्। चूर्णमुष्टिः मुखवासाद्यर्थानां
घनसारादिसुरभिद्रव्याणां करकमलमुष्टिप्रमाणगृहीतं चूर्णम् । 'चूर्णा-
नि वासयोगाः स्युः' इति वैजयन्ती । अनेन प्रियतमहृदयरसायनं
तासां मौग्ध्यातिशयो ध्वन्यते । अत्र च समग्रभोगसाधनप्रधाने विवि-
क्ते वेश्मनि क्षौमाक्षेपस्पष्टदृष्टदयिताघनजघनाद्यपघनानां प्रियजनानां
कुपितरतिदयितशरशकलितचेतसां निर्यन्त्रणं निधुवनविलसितं कथं
कथ्यतामिति द्योत्यते । अत्र विशेषोक्तिरलंकारः ॥ ४ ॥
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमे-
रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यन्त्रजालै-
र्धूपोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ५ ॥
अथ तत्र कामिजनस्य नष्टरागप्रत्यानयनाद्युपयुक्तचित्रविषयजल-
धराणां प्रमादापतितमपराधम्, वैदग्ध्यात्तदापन्निस्तरणं च प्रतिपाद-
यन्, प्रकृतस्य स्वजातिवैदग्ध्यचमत्कारेण प्ररोचनं करोति-- नेत्रेति ।
नेत्रा तत्र तत्र स्वसंचारकेण । नीताः समीपं प्रापिताः । सततगतिना
वायुना, न तु स्वबुद्धिदोषेण ; धीमतामपि सचिवदोषेण विपदापत-
तीति भावः । यद्विमानाग्रभूमेः यस्या नगर्याः संबन्धिनां प्रासाद-
विशेषाणाम् अग्रभूमेः चन्द्रशालायाः, भित्तिसंश्रयिणाम्, आले-
ख्यानां चित्रगतपदार्थानाम् । सलिलकणिकादोषं जलकणार्द्री-
करणजनितं वर्णौज्ज्वल्यप्रमोषभूतमपराधम्। कणिकेति अमूलक्षयकर-
त्वाद्दोषस्याल्पत्वम् । सद्यः तदवगमनानन्तरमेवेति ‘न कश्चिन्नापन-
यते पुमानन्यत्र भार्गवात् । शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्ववतिष्ठते'
इति वचनात् प्रत्युत्पन्नप्रतिभत्वं तेषां चमत्करोति । शङ्कास्पृष्टा इव
तत्रत्यजनादनिष्टापत्तिचिन्ताक्रान्ता इव । जलमुचः वर्षणपरा इति
विशेषणम्, तदानीमेव दोषोत्पादनोपपत्तेः । त्वादृशाः भवत्सदृशाः
सजातीया मेघा इत्यर्थः । यन्त्रजालैः विश्वकर्मविज्ञाननिर्मिताद्भुतगवा-
क्षविवरैः । धूपोद्गारानुकृतिनिपुणाः केशाधिवासनधूपनिर्गमानुकरण-
विदग्धाः, तत्सवर्णत्वाद्धूपजालत्वेनात्मानमपह्नोतुं पटव इत्यर्थः ।
'साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः' इति सप्तम्यां 'सप्तमी शौण्डैः'
इति समासः । जर्झराः विशीर्णशरीराः, 'मूर्ध्नि ग्राव्णा जर्झरा निर्झ-
रौघाः' इतिवत् । एष धूपनिर्गमस्वभावारोपो वैदग्ध्योपपादकः ।
निष्पतन्ति कैश्चिदप्यपरिज्ञातं निःसरन्तीति वैदग्ध्यफलोक्तिः । अत्र
सापह्नवोत्प्रेक्षालंकारः ॥ ५॥
यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गिताना-
मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥
अथ तत्रत्यानां यूनां संभोगश्रमस्यानायासेन शमनोपायमतिरमणी-
यमावेदयति-- यत्र स्त्रीणामित्यादि । प्रियतमभुजोच्छ्वासितालि-
ङ्गितानां प्रियतमानां भुजैः संजातोच्छ्वासं यथा तथा गाढमुपगूढा-
नाम्। प्रियतमेति, तदङ्गसङ्गस्यामृतायमानत्वेन सुदृढमप्यालिङ्गनं
किसलयमृदुलाभिरपि सह्यत इति द्योत्यते । भुजेति, प्रियतमानां
दयया मृदूपक्रमेऽपि तद्भुजानां प्रियागात्रस्पर्शसुखग्रहग्रस्ततया तदङ्गं
प्रविविक्षतामिव अभेदमभिलषतामिव निर्भरपरिरम्भारम्भः सूच्यते ।
अङ्गग्लानिम् अङ्गानां व्यापारासहमवसादम् । सुरतजनितां सुरता-
याससंभृताम् । तन्तुजालावलम्बाः वितानाधोभागे सूत्रसमूहग्रथिताः,
गुलिकाकारा: मालात्मनावलम्बमानाः । तथात्वं च जललवस्य-
न्दित्वोक्तेः सिध्यति; अन्यथा जलधारास्यन्दसंभवात् । त्वत्संरोधा-
पगमविशदै: मेघाच्छादनविरहेण निर्मलैः । अथवा 'बाह्योद्यान-
स्थितहरशिरश्चन्द्रिकाधौतहर्म्यैः' इत्युक्तत्वात् नित्यं मेघाद्यनुपपहतैर्ह-
रशिरश्चन्द्रस्य किरणैरित्यर्थः । चन्द्रपादैरिति, जलबिन्दुस्यन्दनहेतुः ।
हेतौ तृतीया, सहार्थे वा । निशीथ इति, अत्यायतरतसंभृतस्य
श्रमस्य प्राबल्यं ध्वन्यते; यतः स्वत एव शीतलतरेण मध्यरात्र-
समयेनाप्यनपनेया ग्लानिश्चन्द्रकान्तजलबिन्दुसंतानैरवलुप्यत इति
व्यालुम्पन्ति विशेषेण समन्ताच्च नाशयन्ति । स्फुटजललवस्य-
न्दिनः शैत्यादिगुणयोगात् व्यक्ततरवारिबिन्दुस्राविणः । चन्द्रका-
न्ताः चन्द्रदर्शने द्रवीभावशीला: शिलाविशेषाः । अत्र करतलस्पर्श-
क्लेशितानां मालतीमालिकानां जलशीकरावसेकेनाश्वासयितुर्मालिकस्य
समाधिरनुसंधेयः । उदात्तमलंकारः ॥ ६ ॥
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्षेष्वमोघै-
स्तस्यारम्भचतुरवनिताविभ्रमैरेव सिद्धः ॥ ७ ॥
अथ तत्र साक्षाद्वसतो हरस्याज्ञया सर्वजनदुर्वारो मारोऽपि सवि-
नय एव वर्तते; का पुनरन्येषामकृत्यस्य वार्तापीति प्रतिपादयन्,
भङ्गया तदीयवनिताविभ्रमाणां दुर्वारवीर्यत्वमाह-- मत्वेति । मत्वा
न तु दृष्ट्वा, तत्तादृशकोपाटोपदुःसहतया निरूप्येत्यर्थः । देवं मदन-
शरव्यापारमन्तरेणापि स्वाव्यतिरिक्ततया देव्या सह क्रीडापरम्;
‘श्रद्धा कामं तथा दर्पम्' इत्युपक्रम्य 'सुखं सिद्धिर्यशः कीर्तिरित्येते
धर्मसूनवः' इति श्रीविष्णुपुराणोक्तेः, धर्मस्य दारेषु श्रद्धायां दाक्षा-
यण्यामुत्पन्नस्य कामस्य सर्गात्पूर्वमेव जगत्पित्रोः शिवयोरनादिसिद्ध-
योर्निरुपाधिकसंबन्धसिद्धेः । धनपतिसखं निधिपतेर्वैश्रवणस्य सखा-
यम्; तदनुग्रहार्थे तत्र वास इत्यर्थः । अनेन बलवदरिनिवहभयच-
कितचेतसां धनवतां बलीयांसं सुहृदमनाश्रित्य कुतः सुखासिकेति
व्यज्यते । साक्षात् भक्तजनध्यानपूजनार्थमवलम्बितेन पञ्चकृत्योपयु-
क्तपञ्चब्रह्मात्मकेन वपुषा, न तु प्रतिमारूपेणेत्यर्थः, 'साधकस्य तु
लक्षार्थं तस्य रूपमिदं स्मृतम् । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयो-
गिभिः ॥' इति 'ईशतत्पुरुषाघोरवामाद्यैर्मस्तकादिकम्' इति
चागमात् । वसन्तं न तु चरन्तम्, गृहाभिमानेन सदा निषीदन्तमि-
त्यर्थः । अनेन तादृशे देशे किंचिदप्यपराध्यतः प्रचण्डदण्डापत्ति-
द्योत्यते । प्रायः बाहुल्येन, निश्चितमित्यर्थः । चापं न वहति न तु
न प्रवर्तत इति, आडम्बरमात्रस्यैव प्रभुविद्वेषजनकत्वम् ; न पुनस्ते-
नैव स्थापितस्य स्वकृत्यानुष्ठानस्येति भावः । चापवहनस्य शरसंधा-
नार्थत्वात् तन्निषेधेन कुसुमशरप्रयोग एव नोद्युङ्क्त इत्यर्थो लभ्यते ।
भयात् चटुलज्वालाजालचूडालफालनयनपावकरसाभिज्ञतया पुन-
रपि तत्तादृशव्यसनापातसंत्रासादित्यर्थः । मन्मथ इति, मादृशे-
ष्वेव तस्य चापवहने निर्भयत्वमिति सोत्प्रासवचनम् । षट्प-
दज्यं मधुकरमालामौर्वीकम् । अनेन झंकारमुखरभृङ्गावलीकोलाहल-
शङ्काकुलितत्वादिति द्योत्यते । षट्पदज्यं चापं न वहतीत्यनेन तथा-
विधस्य फलाव्यभिचारिणश्चापान्तरस्य, तत्क्षेप्याणां शरान्तराणां च
सद्भावः, तत्प्रयोगे निभृततया निःशङ्कत्वं च प्रकाश्यते; तदेव
साधनान्तरमाह-- सभ्रूभङ्गप्रहितनयनैः भ्रूभेदसहितं प्रयुक्तनैत्रैः ।
कामिलक्षेषु रसिकजनरूपेषु शरव्येषु । अमोघैः अव्यभिचारिभिः ;
मनोविकाररूपस्य कार्यस्य करणात् । तस्य मन्मथस्य, चापस्य वा ।
आरम्भः प्रवृत्ति: । हेतुहेतुमतोरभेदोपचारात् प्रवृत्त्युद्देश्यं प्रयोजन-
मात्र आरम्भ इत्युच्यते; निजसाम्राज्यनिर्वहणमित्यर्थः । चतुरवनिता-
विभ्रमैः विदग्धतरुणीविलासैः । अत्र कामिनां लक्षत्वेन रूपणात्
भ्रूभङ्गानां धनुर्लतात्वेन, नयनानां भल्लत्वेन, विभ्रमाणामायुधान्तरत्वेन
च रूपणं लभ्यते । एवेति । पूर्वचापस्यासाध्येषु तपस्विजनेष्वपि तेषां
साधकत्वात्, एतदसाध्ये तु विषये तस्य दूरतः कुण्ठितत्वात् साध-
नान्तरस्यापेक्षैव नास्तीत्यर्थः । सिद्धः प्राप्तः । भूतनिर्देशः प्रयोगान-
न्तरमेव फलझाटित्यं प्रकाशयति । अत्र प्रतीपमलंकारः, भ्रूभङ्गादि-
सद्भावेन पूर्वचापादीनां कैमर्थक्थेनाक्षेपात् । एकदेशविवर्तिरूपकं च
तस्याङ्गम्। अस्मिन्प्रकरणे 'विद्युत्वन्तम्' इत्यादिभिः सप्तभिः श्लोकैः
क्रमात् निरुपमसंभोगसमुचितस्थानसंपत्तिः, तदनुकूलकालसौन्दर्यम्,
तदुद्दीपनतल्लजस्थलद्रव्यसेवोल्लासः, लोकोत्तररतिरसैकशरणत्वम्, न-
ष्टरागप्रत्यायनोपयुक्तविचित्रचित्रादिमनोहरता, रतिश्रमशमनोपायचा-
तुर्यम्, तत्रत्ययोषारूपवेषविलासानामसमानत्वं च रतिरसजीवितभूतं
प्रतिपादितानि वेदितव्यानि ॥ ७ ॥
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं त्वदमरधनुश्चारुणा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ ८ ॥
अथ पुरे वर्णिते तदन्त:पातितया प्रतिपादितसाधारणगुण-
विशिष्टं स्वभवनविशेषं विशेषलक्षणैर्विविच्योपदिशति-- तत्रेति ।
तत्र वर्णितायामलकायाम् । अगारं गृहम् । धनपतिगृहान्,
उत्तरेण यक्षराजकुलस्योत्तरभागे संनिकृष्टे । 'एनबन्यनरस्याम्'
इत्येनप्प्रत्ययः । 'एनपा द्वितीया' इति द्वितीया । गृहानिति, 'गृहाः
पुंसि च भूम्न्येव' इत्यभिधानात् पुंलिङ्गत्वे नियतबहुवचनत्वम् । अनेन
राजवाल्लभ्यमधिकारगौरवं च द्योत्यते । अस्मदीयं न तु मदीयम्,
पितृपितामहपरंपरापतितमित्यर्थः । दूरात् लक्ष्यं दूरत एव दृश्यम्;
उत्तुङ्गत्वात् । त्वदमरधनुश्चारुणा त्वदीयेन्द्रचापवत् सुन्दरेण,
प्रत्युप्तविविधरत्नद्युतिशबलोज्ज्वलत्वात् । अथवा त्वदीयेनेन्द्रचा-
पेन लिखितेन रत्नप्रभाजनितेन वा योगाच्चारुणा; ‘इन्द्रायुध-
द्योतिततोरणाङ्कम्' इतिवत् । तोरणेन बाह्यद्वारस्तम्भसंनिवेशेन ।
'तोरणोऽस्त्री बहिर्द्वारम्' इत्यमरः । यस्य अगारस्य । उद्याने आक्री-
डे । अनेन स्वस्य यक्षश्रेष्ठत्वात्प्रशस्तवस्तुरमणीयत्वमुद्यानस्य द्योत्यते ।
'पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्' इत्यमरः । कृतकतनयः
कृत्रिमपुत्र इति, उदरेण धारणमेव न तस्य कृतम् ; स्नेहस्त्वौरस इवेति
द्योत्यते । तदेवोपपादयति-- कान्तया वर्द्धितः प्रियया, न तु चेटी-
जनेन, स्वकरकिसलयोत्तम्भितशातकुम्भसंभृतैरम्भोभिर्वात्सल्यात्स्वय-
मेव परिपोषित इत्यर्थः । अनेन तस्याः प्रिय इति स्वस्य तस्मिन्स्नेहाति-
शयो ध्वन्यते । मे इति, तत्सौकुमार्यसदयेन मया प्रार्थ्यमानापि मामपि
तस्मिन्कृत्ये नानुमन्येतेति द्योत्यते । हस्तप्राप्यस्तबकनमितः शैशवाद-
नुन्नतत्वेऽपि संस्कारवशात्कुसुमित इति, नमित इति स्तबकप्राचुर्यं च
द्योत्यते; प्रयासप्रयोजनप्रदानप्रक्रमेण तस्य पुत्रवत्कृतज्ञत्वं च । हस्तप्रा-
प्यः अधःस्थितानामिति शेषः । मन्दारवृक्ष इत्यनेन, कुलपुत्रस्यैव
वर्धनमुपकारायेत्यभिव्यज्यते । उद्याने बालमन्दारवृक्ष इत्यनेन,
तत्र महतां मनोहराणां तरुविशेषाणां बाहुल्येऽपि कृतकतनयत्वे-
नास्य सविशेषसंस्कृतत्वाल्लक्षणत्वमिति द्योत्यते । स्वभावोक्तिरलं-
कारः ॥ ८ ॥
वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैः स्फीता कमलमुकुलैर्दीर्घवैडूर्यनालैः । यस्यास्तीरे कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ।।
अथ लक्षणान्तरमाह-- वापी चास्मिन्नित्यादिना । 'वापी तु
दीर्घिका' इत्यमरः । स्वच्छवारिपूरितत्वात् परभागशोभार्थे श्या-
मलगारुत्मतरत्नशिलाघटितावतरणमार्गा। हैमैः सुवर्णमयैः, दिव्यदे-
शप्रभावात्तथात्वेनोत्पद्यमानैः । स्फीताः समृद्धाः । कमलमुकुलैः
पद्मकोशैः । मुकुलोपादानमनुदिनविकासिनां कमलानामविच्छेदध्वन-
नार्थम् । मत्प्रियया मत्समागमफलसिद्धये देवतार्चनाय नित्यमेव
विकसितमात्रेषु कमलेष्वाक्षितेषु मुकुलमात्रावशिष्टत्वं मुकुलशब्देन
द्योत्यते, 'बलिव्याकुला वा' इत्युपर्युक्तेः । अवशिष्टमुकुलबाहुल्या-
देव समृद्धेति चोच्यते । दीर्घवैडूर्यनालैः अगाधजलतया बह्वायामै-
र्वैडूर्यरत्नस्वरूपैर्दण्डैर्विशिटैः । वैडूर्यनालत्वमपि दिव्यत्वात्स्वाभावि-
कम् । तीरे तटगतलतामण्डपादिषु । तोय इति वा पाठः, जलग-
तनलिनीदलादिषु । कृतवसतयः कल्पितकुलायाः । अनेन तत्र तेषां
स्थिरत्वबुद्धिः प्रकाश्यते । मानसं ब्रह्मणा मनसा निर्मितं दिव्यं सरो
मानसाख्यम्। अनेन प्रसिद्धानां गभीरमधुरस्वच्छत्वादीनां तद्गुणानां
प्रतीति: । संनिकृष्टम् अत्यासन्नदेशस्थितमिति, अनादरेणैव न तु दूर-
यित्वादिति द्योत्यते । न ध्यास्यन्ति न तु गमिष्यन्ति, मनसापि न
चिन्तयिष्यन्तीत्यर्थः । त्वामपि प्रेक्ष्य भारतभागे जलकलुषीकारादिना
शोकहेतुत्वादुत्सारकं भवन्तं दृष्ट्वापि । व्यपगतशुचः विशेषेणनिरस्त-
शोकाः शोककारणस्य जलकालुष्यशङ्कादेर्दूरोत्सारितत्वात् । अगाध-
त्वादिति हेतुः प्रतीयमानो ग्राह्यः । अत्र विशेषोक्तिरलंकारः । कार-
णसामग्र्ये कार्यानुत्पादप्रतिपादनात् ॥ ९ ॥
तस्यास्तीरे विहितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
महिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततटितं त्वां तमेव स्मरामि ॥
अथ पुनर्लक्षणान्तरमाह-- तस्या इति । तस्याः वाप्याः । तीरे
तरलतरङ्गसंघातसंगीतलीलागुरोः कनककमलपरिमलमिलनदुर्ललि-
तस्य रतिखेदनोदिनस्तदीयवायोरुपसेवनाय, मधुरकूजितोत्तेजितमद-
नानां मधुमदचपलानां हंससारसकादम्बकोकलोलम्बप्रभृतीनां विह-
गानां विहारविलोकनविनोदनाय च, तत्तटनिकटे निवेशित इत्यर्थः।
विहितशिखरः विश्वकर्मनिर्मितशृङ्गः । पेशलैः निर्दोषतया गुणव-
त्तया च रमणीयैः । 'चारौ दक्षे च पेशल:' इत्यमरः । इन्द्रनीलैः
इन्द्रनीलाख्यैः शिलाविशेषैः । बहुवचनेन शिखरबाहुल्यम्, निर्माण-
वैविध्यं च प्रतीयते । विहितशिखर इत्यनेन कटककन्दरादीनामपि
रत्नान्तरनिर्मितत्वं प्रकाश्यते; अन्यथा विहित इत्येतावदेव वक्तव्यं
स्यात् । कनककदलीवेष्टनप्रेक्षणीयः हेमाम्भोजवत् कनकमयत्वेनोत्प-
न्नानां कदलीनां परिवेषेण दर्शनीयः । तटादीनामुन्नतनिरन्तरेण कपि-
लत्विषा कदलीवनेन परितस्तिरोहितत्वादुपरि गतानां नीलरुचां
शिखराणामेव दृश्यतया तटित्वद्दर्शनेन तत्स्मरणोक्तिः । मद्गेहिन्याः
मद्गृहस्वामिन्याः । अनेन तद्रव्यानुरोधेन तन्निर्माणम्, प्रतिदिनं तस्या-
स्तस्मिन्नुपस्करणपरिरक्षणप्रयत्नश्च ध्वन्यते । प्रिय इति प्रकृष्टसंभो-
गस्थानतया वल्लभ इति हेतुना तत्प्रियत्वेन मम तस्मिन् सविशेषः
पक्षपात इति भावः । सखे इति, मत्प्रियकारिणा त्वया प्रथमतः
सोऽवश्यं प्रत्यवेक्षणीय इति प्रार्थना व्यज्यते । कातरेण अतिस्नेहा-
विष्टत्वात्तत्तदनिष्टमशनिपातचण्डवातादिकमुत्प्रेक्ष्य सभयेनेत्यर्थः । उ-
पान्तस्फुरिततटितं प्रान्ते प्रकाशमानविद्युल्लतम् । तटितः कदली-
सादृश्यात्, तव चेन्द्रनीलशिखरसाम्यात्, तमेव स्मरामि तादृशं
क्रीडाशैलमेव भावयामि, न पुनरन्यत्र क्वचिन्मनो धावतीत्यर्थः ।
ततश्च पुनर्गृहगमने तमक्षतं तथाविधमेव तया सह अपि नाम पश्ये-
यम् ? इत्यौत्सुक्यं ध्वन्यते । स्मरणं चात्रालंकारः ॥ १० ॥
रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहलच्छद्मनास्याः ॥
अथ पुनरतिललितं लक्षणान्तरमाह-- रक्ताशोक इत्यादि ।
विद्रुमारुणकिसलयकुसुमोऽशोकतरुविशेषो रक्ताशोकः । चलकिस-
लय इति, मृदुपवनतरलललिततरुणपल्लवत्वेन नयनहारितातिशयः,
प्रियतमाकर्णपूराद्युपभोगयोग्यत्वं च ध्वन्यते । केसरः बकुलतरुः । अत्र
गृहे । अथवा क्रीडाशैले । कान्तः हृदयंगमः, बहुलपरिमलकुसुम-
पुञ्जकञ्चुकितत्वात्, पुष्पवृक्षाणां तन्मुखेनैव कान्त्युपपत्तेः । प्रत्यास-
नौ अतिनिकटवर्तिनौ, द्वारस्तम्भत्वेनावस्थितावित्यर्थः । कुरवकवृतेः
'अम्लानस्तु महासहा। तत्र शोणे कुरवकस्तत्र पीते कुरुण्डक:'
इत्यमरः । कुरवकरूपं भित्तिस्थानीयमावरणं यस्य । माधवीमण्ड-
पस्य। 'अतिमुक्तकमिच्छन्ती वासन्ती माधवी लता' इति हला-
युधः । अविमुक्तकलतावलयरूपस्य लीलागृहस्य । विलसत इति
शेषः । एकः, तयोरित्यायाति; प्रथमोक्तो रक्ताशोकः । तव सख्याः
सखिभार्याया अपि सखीति चिरन्तनव्यवहारः, 'तव कृष्ण प्रिया
सखी' इति श्रीमहाभारते, 'इत्युक्तो वै निववृते देवराजस्तया द्विज ।
प्राह चैनामलं चण्डि सखि खेदातिविस्तरैः ॥’ इति श्रीविष्णुपु-
राणे च तथा व्यवहारात् । मया सह मया सहित एव । वामपादा-
भिलाषी वामचरणताडनलुब्धः । स्त्रीणां वामपादस्य कामनिकेत-
नत्वेन प्राधान्यम् । सरसालक्तकपल्लवितस्य रणितमणिनूपुरमुखरस्य
अशोकताडनोद्योगिनो दयितावामचरणस्य सविशेषरमणीयतया त-
दानीं प्रणिपातादिभिः प्रयत्नैरात्मनापि शिरसि निक्षेप्यमाणत्वान्मया
सहेत्युक्तिः ; अथवा, प्रणयकोपादिषु स्वस्याप्यनुभूततत्ताडनत्वात् ।
काङ्क्षति प्रार्थयते । अन्यः अनन्तरोक्तः केसरः । वदनमदिरां
मुखपुण्डरीकगण्डूषवारुणीम् । अत्रापि मया सहेत्यनुषञ्जनीयम्;
बकुलसेकप्रारम्भे गृहीतस्य गण्डूषमधुनो मया पूर्वमास्वादितत्वादिति
भावः । दोहलच्छद्मना सपदि पुष्पोद्गमसाधनसंस्कारव्याजेन, तयो-
रपि तदङ्घ्रिपङ्कजस्पर्शसुखमुखमदिरास्वादयोरेव तात्पर्यम्, दोहल-
मिति व्याजः, पतिदेवतायास्तस्याः प्रकारान्तरेण तदलाभादित्यर्थः ।
अस्याः तव सख्याः । अशोकस्य तरुणीचरणताडनं वकुलस्य तन्मु-
स्वमधुगण्डूषावसेकश्च दोहलत्वेन काव्येषु प्रसिद्धे; यथा कादम्ब-
यम्-- 'मदकलितकामिनीगण्डूषशीथुसेकपुलकितवकुलेषु अशो-
कताडनारणितमणिनूपुरसहस्रमुखरेषु' इति । अत्र सहोक्तिरलंकारः ॥
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥
अथ तत्र नियतवसतिस्त्वदुपगमे सत्कारोन्मुखः सुहृदप्यस्तीति
लक्षणद्वारेणाह-- तन्मध्ये चेत्यादि । तस्य भवनस्य अङ्कणे । चकारो
लक्षणान्तरसमुच्चये। स्फटिकफलका शिखरप्रोतस्फटिकशिलामयपीठा।
तथात्वं च मयूराणां शिशिरप्रियत्वात् । काञ्चनी कनकमयी। वास-
यष्टिः क्षितितलनिखातमूलो वासार्थो दण्डः। मूले पादे। बद्धा चिता,
स्थैर्यार्थम् । अनतिप्रौढवंशप्रकाशैः अनतिपरिणतवेण्वङ्कुरसदृशप्रभैः ।
मणिभिः स्निग्धबहुलश्यामलच्छायैर्मरतकैरित्यर्थः । श्वेतरक्तश्यामानां
मुख्यवर्णानां संगमे परस्परगुणावहत्वेन कामनीयकातिशयात्तथा-
त्त्वोक्तिः । तालैः करकमलप्रहारशब्दैः । शिञ्जद्वलयसुभगैः तदनुगुणर-
णन्मणिकङ्कणस्पृहणीयैः, मधुरतरवाद्यविशेषमनीषोन्मेषात् । 'शिजि
अव्यक्ते शब्दे' इत्ययं धातुरात्मनेपदी; अतः परस्मैपदित्वं चि-
न्त्यम् । नर्तितः नृत्तलीलायां तालानुगुणायां शिक्षितः । मे कान्तया
तदानीं सातिशयरमणीयत्वादन्तरान्तरा चुम्बनालिङ्गनादिभिरुपला-
लयतो मम रागमुद्दीपयन्त्येत्यर्थः । यामध्यास्ते यस्यां वसति ।
'अधिशीङ्स्थासां कर्म' इति आधारस्य कर्मत्वात् सप्तम्यर्थे
द्वितीया । दिवसविगमे दिनावसाने, दिवसस्य विहारेणैवातिवाहि-
तत्वात् । नीलकण्ठः मयूरः । वः सुहृत् युष्माकं मेघानामिष्टबन्धुः ।
अत्रोदात्तमलंकारः ॥ १२ ॥
एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥
अथोक्तानि तोरणादीनि मन्दिरसौन्दर्योपयुक्तानि लक्षणत्वेन
निगमयन्, निजस्य यक्षेश्वरत्वस्यासाधारणं लक्षणं किमप्युपदिशति--
एभिरित्यादि । एभिः अनन्तरोचैस्तोरणादिभिः । साधो सुजन,
हृदयस्वेदस्त्वया न कर्तव्य इति भावः । हृदयनिहितैः अवधानेन
गृहीत्वा धारितैः । लक्षणैः इतरेभ्यो व्यावर्धकैर्धर्मैः । लक्षयेथाः
विविच्य विजानीयाः । तत् भवनमिति शेषः । द्वारोपान्ते द्वारस्य
समीपे, अर्थादुभयतः । लिखितवपुषौ द्वारपालत्वेन चित्रनिवेशित-
निजलक्षणविशिष्टशरीरौ । शङ्खपद्मौ शिरसि शङ्खेन लाञ्छितो निधिदे-
वताविशेष: शङ्खनिधिः, पद्मेन तु पद्मनिधिः, तौ । चकारो लक्षणान्त-
रसमुच्चयार्थ: । 'दृष्ट्वा' इत्युक्तेः पूर्वत्रापि दृष्टैरिति विपरिणामेन यो-
ज्यम् । अत्र च बहुलक्षणोपदेशः कालवशात् केषांचिदन्यथात्वेऽपि
परेषां प्रकृतिस्थानामेव गमकत्वायेति वेदितव्यम् । अथ गृहस्य यथा-
पुरमवस्थितेरभावमाशङ्क्य तमुपपत्त्या निश्चिन्वन्नाह-- क्षामच्छायं
वियोगसमयतो न्यूनशोभम् । अधुना एषु दिवसेषु । मद्वियोगेन रसै-
कुशरणस्य विशिष्टसंभोगसंपत्तये तदुपस्कारतत्परस्य स्वामिनो मम दूर-
देशवर्तित्वात्तन्मूलमेव दुःखितायाः प्रियायाश्च तत्परिचरणे ताटस्थ्या-
दित्यर्थः । नूनं निश्चितम् । कुतो निश्चय इति चेत्तत्राह-- सूर्यापाये
भास्करस्य ततो देशाद्देशान्तरप्राप्तौ । खल्विति सानुनयः प्रश्नः;
तवापि तत्संमतमेवेत्यर्थः । 'निषेधे वागलंकारे ज्ञीप्सानुनययोः खलु'
इति वैजयन्ती । कमलमिति प्रसिद्धकान्त्यादिगुणत्वम्, 'ताळा जा:
अन्ति गुणा जाळा दे सहिअ एहि घेप्पन्ति । रविकिरणाणुग्गद्दिआ
इहोत्ति कमलाइ कमलाइ’ इत्यत्र द्वितीयकमलशब्दवत् । पुष्यति
प्रकाशयति । स्वां सहजाम् । अभिख्यां शोभाम् । 'अभिख्या नाम
शोभयोः' इति वैजयन्ती । सहजस्यापि सौन्दर्यस्य तरणिसंनिधान
एवोन्मीलनात् । अत्रोपमानेन भवनस्यापि स्वतःसिद्धायाः शोभाया
अविनाशेऽपि स्वस्य विरहादनुज्ज्वलत्वम्, पुनः स्वसमागमे तस्य
भविष्यदनुपमरामणीयकत्वं च द्योत्यते । अत्र दृष्टान्तोऽलंकारः ॥
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥
अथैवं लक्षणं स्वभवनमुपगतस्यास्यानन्तरकरणीयमाह-- गत्वेति ।
गत्वा अवलम्ब्य । सद्यः तद्दर्शनानन्तरमेव । कलभतनुतां द्वात्रिंश-
द्वर्षरूपचतुर्थदशावर्तिनो गजस्य शरीरमिव प्रमाणतः शरीरं यस्य,
तद्भावम् । शीघ्रसंपातहेतोः गगनतलादविलम्बितावतरणनिमित्तम् ।
प्रथमकथिते वापीतटनिविष्टत्वेन पूर्वमुक्ते । अनेन वापीपवनसेवने-
नाध्वश्रमस्यानायासापनोद्यत्वं ध्वनितम् । रम्यसानौ स्फटिकादिनि-
र्मितत्वेन वासस्पृहाजनककटकाभोगे । निषण्णः न तु स्थितः, स्व-
त्वाद्विस्रब्धमेव सुखासीन इत्यर्थः । निषण्णः न तु निषीदन्, इति
भूतनिर्देशेन कंचित्कालं स्थित्वा लब्धविश्रान्तिसुख इति द्योत्यते,
तदानीमेव प्रस्तुतकार्यप्रारम्भौचित्यात्; तदाह-- अर्हसि योग्यो भव-
सि, प्रसन्नचेतस्त्वाम् । अन्तर्भवनपतितां गृहोदरप्रविष्टाम् । कर्तुं
न तु धर्तुम् । अनेन स्वबुद्धिपूर्वप्रवर्तने यथाभिलषितप्रभाप्रसरप्रमाण-
सिद्धिर्ध्वन्यते । अल्पाल्पभासं अतिस्वल्पप्रकाशाम्, दयिताभीति-
परिहाराय । खद्योतालीविलसितनिभां कीटमणिपरंपरापरिस्फुरणसदृ-
शीम्, तनुतरप्रकाशजननान्नयनप्रतिघाताकरणाच्चेत्यर्थः । विद्युदुन्मेष-
दृष्टिं तटित्स्फुरणरूपं चक्षुः। यादृशो रक्षस्तादृशो बलिरिति न्यायात्
मेघस्य तद्दृष्टिविशिष्टत्वौचित्यम् । गृहान्तर्वृत्तान्तनिरीक्षणायेति शेषः ।
ननु 'खिन्नविद्युत्कलत्रः' इत्यादिभिर्विद्युतः कलत्रत्वमुक्तम् ; अत्र तु
तस्या दृष्टित्वमुच्यत इति विरोध इति चेत्, न; तत्तत्स्थलोचितार्थ-
प्रतिपादनेन रसनिर्वाहकत्व एव कवीनां तात्पर्यात्, शास्त्रार्थविसंवाद
इव प्रभूतप्रत्यवायाभावाच्च । 'सलिलवसनम्' इति, 'वेणीभूतप्रतनु-
सलिला' इति, 'मुखमिव पयः' इत्यादिष्वप्येवमनुसंधेयम् ।
अत्रोपमा रूपकं चालंकारः ॥ १४ ॥
तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी
मध्येक्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥
अथ दृष्टिव्यापारानन्तरं तत्र किमपि स्त्रीरत्नं प्रत्यक्षीकरिष्यसी-
त्याह-- तन्वीति । तन्वी न तु तनुतरा । अनेन नातिस्थूला नाति-
कृशेति व्यज्यते, 'अतिदीर्घा भृशं ह्रस्वा अतिस्थूला भृशं कृशा ।
अतिगौरी भृशं काली षडेता वर्जिताः स्त्रियः' इति सामुद्रोक्तेः ।
श्यामा कुवलयदलश्यामवर्णा । शिखरदशना 'पक्वदाडिमबीजाभं
माणिक्यं शिखरं विदुः' इति हलायुधः । शिखराख्यमाणिक्यविशे-
षवत् स्निग्धधवलारुणदन्तीत्यर्थः, 'श्लक्ष्णैः स्निग्धैः सितैर्दन्तैः शोभ-
नत्वं च गच्छति' इति सामुद्रोक्तेः । पक्वबिम्बाधरोष्ठी परिणतबिम्बिका-
फलसदृशोऽधरोष्ठो यस्याः, स्निग्धारुणकोमलाधरेत्यर्थः; 'ओष्ठौ च
निर्व्रणौ स्निग्धौ नातिस्थूलौ न रोमशौ । रक्तौ बिम्बफलाकारौ धन-
पुत्रसुखप्रदौ ॥' इति सामुद्राक्तेः । मध्येक्षामा मध्यप्रदेशे तनुतरा ।
'अमूर्धमस्तकात्स्वांगादकामे' इत्यलुक् । चकितहरिणीप्रेक्षणा केन-
चित्कारणेन भीताया मृग्यास्तत्कालतरलतरमुग्धस्निग्धासितदीर्घवि-
पुलप्रेक्षणमिव प्रेक्षणं यस्याः । निम्ननाभिः गम्भीरनाभिरन्ध्रा ।
श्रोणीभारात् नितम्बगौरवाक्रान्तत्वात् । अलसगमना मन्दगतिः ।
स्तोकनम्ना ई॒षन्नमिता । स्तनाभ्यां वृत्तोत्तुङ्गपीनाभ्याम्, ' स्निग्धके-
शी विशालाक्षी निम्ननाभिः सुमध्यमा । सुमुखी सुप्रभा नारी
तां कन्यां वरयेद्बुधः ॥' इति 'सा धन्या सुभगा ज्ञेया या वै
दीर्घासितेक्षणा । मयूरहंसनेत्रा च मृगनेत्रा च शोभना ।' इति
च सामुद्रोक्तेः । अत्र 'कमलमुकुलमृद्वी फुल्लराजीवगन्धः सुरतप-
यसि यस्याः सौरभं दिव्यमङ्गे । चकितमृगदृगाभे प्रान्तरक्ते
च नेत्रे स्तनयुगलमनर्घे श्रीफलश्रीविडम्बि ॥ तिलकुसुमसमानां
बिभ्रती नासिकां च द्विजगुरुसुरपूजा: श्रद्दधाना सदैव । कुवलयद-
लकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा ॥
व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमध्या हंसवाणी
सुवेषा । मृदु शुचि लघु भुड़्क्ते मानिनी गाढलज्जा धवलकुसुमवासोव-
ल्लभा पद्मिनी स्यात् ॥' इति नन्दीश्वरमते पद्मिनीत्वेन, 'सममूर्धा-
कुञ्चितघनकेशी तुच्छोदरी नितम्बाढ्या' इत्याद्युक्तरीत्या वात्स्यायन-
मते हरिणीत्वेन, 'स्निग्धनखदशननयना निरनुशया मानिनी स्थिर-
स्नेहा । सुस्पर्शशिशिरमांसलवराङ्गविवराङ्गना श्यामा । भवति
श्लेष्मप्रकृतिः' इति वैद्यकरीत्या श्लेष्मप्रकृतित्वेन च, शुभ-
लक्षणसंपन्नत्वाल्लोकोत्तरशृङ्गारालम्बनविभावत्वमस्याः प्रतिपादितम्;
'श्यामा कफप्रकृतिका बडबा मृगी वा गन्धर्वयक्षसुरकिन्नरसा-
त्त्विका वा । बालाथवाभिनवयौवनभूषिताङ्गी सा भामिनी भव-
मुदां परमं रहस्यम् ॥' इत्युक्तत्वात् । 'सुरभिशुचिशरीरा सुप्रस-
न्नानना च प्रचुरजनधनाढ्या भामिनी देवसत्त्वा ।' इति, 'अपे-
तरोपोज्ज्वलदीप्तवेषां स्रग्गन्धधूपादिषु बद्धरागाम् । संगीतलीलां
कुशलां कलाज्ञां गन्धर्वसत्त्वां युवतीं वदन्ति ।' इति लक्षितदेवगन्ध-
र्वसत्त्वयोरन्यतरा चेयं ज्ञेया, तद्गुणविशिष्टत्वात् । 'नूनं तस्याः' इति
मुखचन्द्रस्य, 'शिखिनां बर्हभारेषु केशान्' इति केशपाशस्य
'नदीवीचिषु भ्रूविलासान्' इति भ्रूलतयोः, 'यास्यत्यूरुः सरस-
कदलीस्तम्भगौरश्चलत्वम्' इत्यूर्वोः, 'श्यामास्वङ्गम्' इति करचर-
णानां तत्र तत्र प्रसङ्गे वर्णयिष्यमाणत्वादत्र मुखादिवर्णनं न कृतमिति
वेदितव्यम् । श्यामा यौवनमध्यस्थेत्यर्थोऽत्र न वक्तव्यः, वर्णस्याव
श्यवक्तव्यत्वात्, 'बाला' इति चानन्तरमेवावस्थाया वक्ष्यमाणत्वात् ।
या, स्त्रीति शेषः । तत्र भवनमध्ये । स्यात् भवेत्, न तु भवति ;
आशापाशवशेन जीवेदिति संभाविता, न तु निर्णीता, मम प्रतिकू-
लदैवत्वादिति भावः । समग्रस्त्रीगुणविशिष्टत्वादुत्प्रेक्षते-- युवति-
विषये तरुणीजनसृष्टिकर्मण्यधिकृते । सृष्टिः निर्माणम् । आद्या प्रथमा
प्रथममतियत्नादनल्पशिल्पकल्पिता प्रतिक्षणप्रत्यवेक्षणीया, पश्चा-
त्सिसृक्षितानां युवतीनां संस्थानसौन्दर्यस्योपमानभूता योषित्प्रतियात-
नेत्यर्थः । अथ वा, स्त्रीसर्गबीजभूता परमेश्वरीतेजोंऽशसंभूता देवी
दाक्षायणी भगवतो नीललोहितस्य धर्मपत्नी सृष्टिराद्येत्युच्यते; यथाह
कश्चित्-- नतनाभि नितम्बखिन्नमव्यादधरे शोणमचाक्षुषं विलग्ने ।
स्तनशालि वपुस्तवाम्ब धातुर्महिलासृष्टिषु मातृकायमाणम्' इति । धातुः
प्रथमप्रजापतेः । अत्र प्रथमेऽर्थे उत्प्रेक्षा; द्वितीये रूपकमलंकारः ।
ततश्च तस्या धातुरतिप्रयत्ननिर्मितत्वं तत्संरम्भगोचरस्य चाशक्यवर्ण-
नत्वं ध्वन्यते ॥ १५ ॥
तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
च कवीन्द्रेण तदर्थचमत्कारतत्परतया तदर्थछायायोनिरर्थोऽस्मिन्पद्ये
निवेशितः स यथा-- 'हिमहतनलिनीव नष्टशोभा व्यसनपरंपरया
निपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां
प्रपन्ना' इति । अत्रातिशयोक्तिरुपमा चालंकारः ॥ १६ ॥
नूनं तस्याः प्रवलरुदितोच्छूननेत्रं प्रियाया
निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ १७॥
अथ तस्याः सर्वाङ्गप्रधानममन्दसौन्दर्यसुधानिधानं तन्मयत्वेना-
नुभूयमानमाननं तदात्वविशेषणविशिष्टमनुशोचन्नाह-- नूनं तस्याः
प्रबलरुदितोच्छूनेत्यादि । नूनं निश्चितम् । तस्याः तथाविधानुरा-
गनिगलतत्वेनानुभूतायाः । प्रबलरुदितोच्छूननेत्रम् अविच्छिन्नेन म-
हता चाश्रुमोक्षेण सशोकनयनम् । प्रियाया इति, तादृशदशामग्नत्वेन
चिन्त्यमाना सा मम प्राणसमत्वान्मम हृदयमतितरां दहतीति ध्वन्यते ।
निश्वासानां मुखमारुतानाम् । अशिशिरतया अन्तर्दाहतप्तत्वेनाशीत-
लत्वात् । भिन्नवर्णाधरोष्ठं भिन्नः अन्यथाकृतः वर्णः स्निग्धारुणत्वं
यस्य धूसरीकृत इत्यर्थः, सोऽधरोष्ठो यस्य । हस्तन्यस्तं करकमल-
तलनिवेशितकपोलमुकुरम् । चिन्तासंतानस्य चायमनुभावः; यथाह
कश्चित्-- अधिकरतलतल्पं कल्पितस्वापकेली परिमलन निमीलत्पा-
ण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरप-
तिलीलायौवराज्याभिषेकम्' इति । असकलव्यक्ति अपूर्णदर्शनम् ।
लम्बालकत्वात् अनलंकृतत्वेन गलितवलीकस्वैरविलम्बिनः प्रगुणा-
यताः कुन्तला यस्य, तत्त्वात् । दैन्यं शोभाविरहम् । त्वदनुसरण-
क्लिष्टकान्तेः त्वच्छब्देन पुरोवर्तिनः सलिलगर्भस्य मेघस्य परामर्शात्
नवजलधरासङ्गकलुषितलावण्यस्येत्यर्थः, अलकप्रतिवस्तुत्वाजलध-
रस्य । अत्र निदर्शनालंकारः ॥ १७ ॥
आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां
कच्चिद्भर्तुः स्मरसि सुभगे त्वं हि तस्य प्रियेति ॥
अथ पतिदेवतायास्तस्याः स्वविरहसमयसमुचितान्व्यापारान्संभा-
वितान्प्रतिपादयन्, तदन्यतमव्यग्रा सा तव नयनगोचरं गमिष्य-
तीत्याह-- आलोके ते इत्यादि । आलोके आलोचने दर्शनगोचर
इति यावत् । निपतति पुरा निपतिष्यति, दर्शनपथमवतरिष्यतीत्यर्थः ।
'यावत्पुरानिपातयोर्लट्' इति ऌडर्थे लट् । सा मम प्रियतमा ।
बलिव्याकुला देवताविशेषान् गिरिजागिरीशप्रभृतीनचिरसमागमसंपा-
दकानुद्दिश्य पूजोपहारव्यग्रा । वाशब्दो विकल्पे । मत्सादृश्यं मच्छरीर-
प्रतिच्छन्दम् । विरहतनु वियोगदुःखेन कृशम् । तत्कथं तया ज्ञायत इति
चेत्तत्राह-- भावगम्यं मनोवृत्तिज्ञेयम्, अस्या दशाया ईदृशं तदिति
प्रेमवशात् भावनया परिच्छेद्यमित्यर्थः । लिखन्ती तूलिकया चि-
त्रपटादिष्वाकारयितुं प्रयतमाना, न तु लिखित्वा पश्यन्ती । अनेन
प्रवहदश्रुपटलपिहितनयनत्वेन साध्वससन्नस्विन्नकरकिसलयतया चाश-
क्यलेखनमप्यौत्सुक्यवशात्पुनः पुनरारभमाणेति द्योत्यते । पृच्छन्ती
अनुयुञ्जाना । मधुरवचनां श्रवणसुभगसंजल्पितामित्यनेन प्रियतमा-
वचनसहचरतया तद्वचसां तस्याः क्षणे क्षणे तदनुस्मारकत्वेन स्वप-
क्षपातभूमित्वं प्रकाश्यते । शारिकां शुकाङ्गनाम् । पञ्जरस्थां न पुनः
प्रकोष्ठनिविष्टाम्। अनेन निर्वेदात्तादृशरसेष्वनुयोगो ध्वन्यते । क-
च्चित् किमित्यर्थः । 'कच्चित्प्रश्ने सामवादे' इति वैजयन्ती। भर्तुः
स्मरसि मधुरफलमधुरसादिभिस्त्वत्पोषणपरस्य पितुः किं स्मरसि ।
'अधीगर्थदयेशां कर्मणि ' इति कर्मणि पष्ठी। सुभगे सौभाग्यशालिनि ।
तदेव सौभाग्यमाह-- त्वं हि त्वं त्विति विशेषार्थो हिशब्दः ;
अस्मदादिभ्योऽपीत्यर्थः । प्रिया इष्टा । अतस्त्वं कच्चित्स्मरसीति
पृच्छन्ती वेत्यन्वयः ॥ १८ ॥
उत्सड़्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचि-
द्भूयो भूयः स्वयमधिकृतां मूर्च्छनां विस्मरन्ती ॥
अथ व्यापारान्तरमाह-- उत्सङ्गे इति । उत्सङ्गे अङ्के । मलि-
नवसने वासोन्तरपरिवर्तनाभावाद्धरणिशयनादिना रजोरूषितम् अ
म्बरं यस्य । अनेन 'आर्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मरणादु-
क्तेन मलिनवसनत्वेन वक्ष्यमाणैर्वेणीधारणधरणिशयनशुद्धस्नानादि-
भिश्च प्रियविरहे पतिव्रताधर्मावधानं ध्वन्यते । सौम्य शुद्धहृदय;
सतीनामाचारःशुद्धचेतसा त्वया परिज्ञायत एवेति भावः । निक्षिप्य
स्तनकलशकलितालुबुकां निहितचरणाङ्कां कृत्वा । वीणां विपञ्चीम् ।
मद्गोत्राङ्कं मदीयनामाक्षरचिह्नितम् । 'गोत्रं नाम्नि कुलाचलयोः' इति
वैजयन्ती । विरचितपदं स्वयं विविधगुम्भितशब्दम् । गेयं गान-
योग्यं गाथादि। उद्गातुकामा उत्कण्ठाविनोदनाय उच्चैर्गातुमि-
च्छन्ती। तन्त्रीः गुणान् । आर्द्राः सिक्तत्वान्मृदुभूताः । नयनसलिलै:
मया सह पुरावृत्तं गीतोत्सवमनुस्मृत्य दुःखवशान्निष्पतद्भिरश्रुजलैः ।
बिन्दुप्रबन्धविवक्षया बहुवचनम् । सारयित्वा अङ्गुलीदलैरास्राव्य,
ध्वनिमान्द्यहेतुभूतामार्द्रतां करकमलपरामर्शेनापनीयेत्यर्थः । कथं-
चित् प्रयत्नेन, निर्भरोद्भूतमन्युवशतरलितानामङ्गुलीनां संस्थापने-
नेत्यर्थः। भूयो भूयः पुनः पुनः । स्वयमधिकृतां देशकालदशा-
नुगुण्येन, स्वया तदानीं प्रयोज्यतया अङ्गीकृताम् । मूर्छनां रागस्व-
रूपक्रमव्याप्तिम् । 'क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता
इति निघण्टुः । विस्मरन्ती अन्यचित्ततया नावगच्छन्ती । भूयो
भूय इत्यनेन सकृद्विस्मृतां पुनर्यत्नतोऽन्विष्य सिद्धां पुनरपि चित्त-
व्याकुलतया प्रभ्रंशितामिति द्योत्यते ॥ १९ ॥
शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः।
मत्संयोगं हृदयनिहितारम्भमास्वादयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ २० ॥
अथ व्यापारान्तरमाह-- शेषानिति । शेषान् अवशिष्टान्,
अनतिवाहितानित्यर्थः । विरह दिवसस्थापितस्य तत्प्रथमविश्लेषहेतुभूते
दिवसे निर्णीतस्य। अवधेः कालसीमायाः, वर्षस्येति यावत् ।
इतो दिवसादारभ्यैतावतो दिवसानतिवाह्य प्रक्षालितशापकलङ्कः समा-
गमिष्यामि, तावदस्य मज्जीवितजीवातोस्त्वदीयजीवितस्य परित्राणे
प्राणसमे प्रयतस्वेति बहुमुखं समाश्वास्य मया प्रवसता स्थापितस्य
तस्य कालरात्रिबालमित्रस्य संवत्सरस्यावयवभूतान् गतशेषान्मासा-
नित्यर्थः। विन्यस्यन्ती एकादिक्रमेण निक्षिपन्ती । भुवि भूतले ।
गणनया संख्यापरिज्ञानहेतो: । हेतौ तृतीया । अथवा, संख्यारूपेण ।
देहलीमुक्तपुष्पैः 'गृहावग्रहणी देहली' इत्यमरः । देहल्यां द्वाराधः-
स्थितफलकायामनुदिनमेकैकशो निहितैः पुष्पैः, कतिपयदिनाव-
साने तैः संपिण्डितैर्गणितैर्गतदिवसेयत्तापरिज्ञानसौकर्यात् । अथ
मङ्गलार्थे वा, देहल्यां निहितैः पुष्पैः । मासान् भुवि गणनया
विन्यस्यन्तीत्युक्तेः तस्या मुग्धतातिशयाद्दिवसगणनद्वारेण मासगणनं
द्योत्यते; अन्यथा शिष्टस्य मासचतुष्टयस्य गणनायामीदृशयत्रप्रति
पादनानुपपत्तेः । मासोपादानं तु तेषां फलितत्वात्, मौग्ध्यरसभङ्ग-
प्रसड़्गाच्च । ततश्च 'दिवसगणनातत्पराम्' इत्युक्तस्यानुसन्धानं च कृतं
वेदितव्यम् । मत्संयोगं मया सह समागमम्, आलिङ्गनचुम्बनादिरू-
पम् । । हृदयनिहितारम्भं मनसा संपादितप्रक्रमम्, संकल्पपरिकल्पि-
तमित्यर्थः । आस्वादयन्ती अनुभवन्ती । वेत्यत्राप्यनुषज्यते; अथ
वा, सर्वव्यापारेष्वपि तत्समागमस्य मनसानुभूयमानस्य निष्प्रत्यूहत-
यानुवृत्तेर्विकल्पानुपादानम्; यथा श्रीरामायणे- 'नैषा पश्यति
राक्षस्यो नेमान्पुष्पफलद्रुमान् । एकस्थहृदया नूनं राममेवानुपश्य-
ति॥' इति, 'नैव दशान्न मशकान्न कीटान्न सरीसृपान्। राघ-
वापनयेद्गात्रात् त्वद्गतेनान्तरात्मना ॥' इति च । प्रायेण बाहुल्येन,
शास्त्रतोऽनुभवतश्च सिद्धत्वादित्यर्थः । 'गतवति दयिते तु क्वापि
मङ्गल्यमात्राण्यपचितगुरुविप्रा धारयेन्मण्डनानि । उपगुरुशयनं च
स्वल्पतां च व्ययस्य प्रतिदिनमपि कुर्यादस्य वार्तानुसारम् ॥
अनवहितविधानं स्वस्य निर्वाहयत्नं प्रतिदिननियमं च क्षेमसिद्ध्यै-
विदध्यात्' इत्यादि भार्याधिकारोक्तेः, सीतादिषु तथा व्यापारश्रव-
णाच्च । एते ईदृशाः ! रमणविरहेषु दयितस्य भर्तुर्वियोगेषु । बहु-
वचनेन कार्यबाहुल्यान्मध्ये मध्ये प्रवासादिभिर्विरहे विरहे तथैव
वृत्तिः सतीनामिति व्यज्यते । अङ्गनानाम् उत्तमस्त्रीणाम् । विनोदाः
कालक्षेपोपायाः । प्रायेणेति, गुर्वादिसद्भावे तच्छुश्रूषादीन्यपीति द्यो-
त्यति । एत इति न पुनरन्ये इति, 'क्रीडाशरीरसंस्कारसमाजो-
त्सवदर्शनम् । हासं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥' इति स्मर-
णात् क्रीडादीनामचिन्तनीयत्वं ध्वन्यते । अत्र च 'पितृमातृसुत-
भातृश्वश्रूश्वशुरमातुलैः । न हीना स्याद्विना भर्त्रा गर्हणीयान्यथा
भवेत् ॥' इति स्मृतस्याधिष्ठितत्वस्याकथनं प्रस्तुतरसानङ्गत्वाद्वा,
तादृशीनां साध्वीनां निरुपमनिजतपःप्रभावगुप्तानां जानक्या द्रौपद्या
दमयन्त्या इव च गुप्यन्तरानपेक्षत्वाद्वा ; 'शीलेन रक्ष्यते नारी'
इत्युक्तत्वात् । अत्र प्रकरणे स्वभावोक्तिरलंकारः ॥ २० ॥
सव्यापारामहनि न तथा पीडयेद्विप्रयोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥ २१ ॥
अथ समाश्वासनोचितं तदुपसर्पणसमयमस्योपदिशति-- सव्या-
पारामित्यादि । सव्यापारां पूर्वोद्दिष्टबल्यादिव्यापारसहिताम्, तदा-
नीं चित्तस्य किंचिद्व्याक्षेपात् । अहनि दिवसे । तथा दु:सहतया
प्रसिद्धेन रूपेण । पीडयेत् मोहादिभिरवशीकुर्यात् । विप्रयोगः वि-
रहः । गुरुतरशुचं शङ्के अनल्पशोकाक्रान्तेति मन्ये । तत्र हेतुः--
निर्विनोदामिति । निरस्तकालक्षेपोपायामित्यर्थः ; तदानीं स्वैरलब्धा-
वसरतया निरङ्कुशैर्निरवधिभिराधिभिराधीयमानवैधुर्यत्वात् रोदना-
दिरूपस्य शोकस्य दुर्निवारत्वमिति भावः । ते सखीमिति, तवाव-
श्यरक्षणीया ननु सेति द्योत्यते ; ततश्च निशीथप्रतिपालनसमाश्वासना-
दिप्रयत्नेनालस्यमपास्यमिति द्योत्यते । तदित्यध्याह्रियते, तस्मात्
मत्संदेशैः मदीयवाचिकैः । सुखयितुम् अलम् अतितरामानन्दयि-
तुम् । पश्य निरीक्षस्व । कुलवधूसविधोपसर्पणानुचिते निशीथसमये
तामेकाकिनीं कथं निरीक्ष इत्यत्राह-- साध्वीमिति । विजितेन्द्रि-
वतया सदाचारैकनिरताम्, 'पतिप्रियहिते युक्ता स्वाचारा विजि-
तेन्द्रिया। इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥' इति स्मर-
णात्। उन्निद्राम् उद्धूतनिद्राम् । अवनिशयनासन्नवातायनस्थः
क्षितितलविततमेध्याजिनादिरूपतदीयशयनप्रदेशसंनिकृष्टगवाक्षबहि-
र्मागस्थितः । अनेन योग्यस्थानस्थितेश्च तव न कश्चिद्दोष इति सू-
च्यते । अत्र काव्यलिङ्गमलंकारः ॥ २१ ॥
आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ २२ ॥
अथ तस्यास्तदानींतनं विरहव्यथायाः सतीत्वस्य मन्मथोन्मादस्य
चानुगुणं समवस्थानमनुरागातिशयवशादुत्प्रेक्षितं चतुर्भिः श्लोकैर्व-
र्णयति-- आधिक्षामामित्यादि । आधिक्षामां मानसदुःखसंस्पर्शक-
र्शिताम् । विरहशयने वियोगदशासमुचिते धरणीशयने । संनिषण्णै-
कपार्श्वी सम्यड़्निलीनैकपार्श्वाम् । अनेन प्रियतमगतहृदयतया पार्श्वा-
न्तरपरिवृत्तिविरहेण एकेनैव पार्श्वेन लिखितवदवस्थानं व्यज्यते ।
प्राचीमूले पूर्वदिङ्मुखे । तनुं मूर्तिम् । कलामात्रशेषां कला षोड-
शभाग एव शिष्टो यस्याः । 'मात्रं कार्त्स्न्येऽवधारणे' इति वैज-
यन्ती । सुरपरिपीतकलान्तरत्वादेककलात्मिकाममावास्यायामिन्दुमूर्ति-
मिवेत्यर्थः । उपमया प्रकृतिकोमलत्वम्, तादृशे कृशत्वेऽप्यपरिलुप्तला-
वण्यत्वम्, रसिकजनहृदयशल्यायमानकष्टदशाविशिष्टत्वं चेष्टतमाया
द्योत्यते । नीता अतिवाहिता । क्षण इव नाडिकायाः षष्ठो भाग इव,
रसव्याक्षेपेणाचेतितापयानात् । इच्छारतैः मनोरथानुगुणकरणबन्ध-
बन्धुरैः सुरतविशेषैः । या रात्रिः । तामिति, रात्रित्वसामान्यविव-
क्षयोच्यते । एवेति, पश्यावयोर्विधिविलसितवैपरीत्यमिति द्योत्यते ।
उष्णैः, शोकजत्वात् । विरहमहतीं मद्वियोगदुःखदीर्घीभूताम् । याप-
यन्तीं गमयन्तीम् । अत्रोपमा विरोधश्चालंकारः । 'आधिक्षामाम्'
इत्यारभ्य 'न प्रबुद्धां न सुप्ताम्' इत्यन्तानां 'पश्य साध्वीम्'
इत्यत्र पश्येति क्रिययान्वयः ॥ २२ ॥
निश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
मत्संयोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रा-
माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥
निश्वासेनेति । निश्वासेन नितरामायतेन श्वासेन । अधरकिस-
लयक्लेशिना पल्लवदरुणकोमलस्याधरस्य म्लानिमधौसर्यसंपादनेन
क्लेशकारिणा । विक्षिपन्तीं व्याकुलयन्तीम् । शुद्धस्नानात् स्नेहाभ्यञ्ज-
नस्नानीयलेपविरहेण नियमार्थमभिषेकात् । परुषम् अस्निग्धम्, धूस-
रीभूतमित्यर्थः। अलकं चूर्णकुन्तलम् । जात्येकवचनम् । नूनं निश्चि-
तम् । आगण्डलम्बं कपोलं यावल्लम्बमानम् उपेक्षया भङ्गुरभङ्गि-
भङ्गात्प्रगुणायतमित्यर्थः । मत्संयोगः मया सहालिङ्गनादिरूपः संभो-
ग इत्यर्थः । कथमुपनमेत् केन प्रकारेणोपपद्येत । स्वप्नजोऽपि स्वप्ना-
वस्थाजनितोऽपि । अपीति, जागरदशाभाविनोऽस्य दैवनिवारितत्वा-
द्दौर्लभ्यं भवतु नाम ; स्वाप्नस्य तु क्षणिकतया कारुणिकेन विधिनापि
क्षन्तव्यत्वमिति द्योत्यते । इति एवं निरूपणेन हेतुना । निद्राम्,
आकाङ्क्षन्तीम् इच्छन्तीम् ; न पुनरनुभवन्तीम् । तत्र हेतुः-- नय-
नसलिलोत्पीडरुद्धावकाशां शोकजनिताश्रुसमूहनिरस्तस्वावस्थानस्थ-
लाम् । अत्र केनचिज्जलात्मना मित्राभासेन कदर्थीकृत्य दूरीकृतायां
प्रियसमागमोपायनिपुणायां सख्यां तदीयप्रियसख्यास्तदानयनचिन्ता-
समाधिरनुसंधेयः । परिवृत्तिरलंकारः ॥ २३ ॥
आये बद्धा विरहदिवसे या शिखादाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ २४ ॥
आद्येत्यादि । आद्ये तत्प्रश्रमे । बद्धा तदनुगुणेनाकारेण ग्रथिता।
विरहदिवसे वियोगहेतुभूते दिवसे । शिखादाम धम्मिल्लभूषणभूतां
नवकुसुममालिकाम् । हित्वा न पुनरपनीय, तद्गतेन कौतुकेन सह
तृणवद्दूरतस्त्यक्त्वेत्यर्थः । शापस्यान्ते वर्षपरिपूरणेन शापस्यावसाने
जाते । विगलितशुचा विशेषेणापुनरुद्भवाय गलिता नष्टा शुक् दुःखं
यस्य तेन ; विगलितशुचेति, उपरि ईदृशानां प्रमादानां परिहारेण
मतिपूर्वं प्रवर्तनात्प्रियाविरहदुःखस्य न कदाचिदपि संभावनेति
भावः । उद्वेष्टनीयां उद्वेष्टयितुं शिथिलग्रन्थिबन्धीकर्तुं योग्याम्,
यथापुरमत्युदारबन्धनाय । स्पर्शक्लिष्टां कुसुमदामकोमलेष्वड़्गेषु आसड़्गे
कण्टकवत्प्रचण्डतोदवेदनासंपादकेन तस्याः स्पर्शेन म्लानीकृताम् ।
अयमितनखेन अकल्पितत्वात्स्वेच्छाविवृद्धकररुहेण । असकृत् बहुशः,
पुनः पुनः पतनात् । सारयन्तीं परतोऽपसारयन्तीम् । गण्डाभोगात्
कपोलस्थलात् । कठिनविषमां कर्कशामुच्चावचां च । अयं च स्पर्श-
क्लिष्टात्वे हेतुः, स्पर्शक्लिष्टात्वं चापसारणे । एकवेणीम् एकजटात्मक-
केशबन्धनविशेषरूपां वेणीम् । करेण न तु अड़्गुलीभिः । अनेन स्निग्धा-
सितबहुलबर्बरदीर्घसूक्ष्ममृदुलानां भिन्नाग्राणां च केशानां वेण्याकारेण
संदष्टतया घनीभूय भारायमाणत्वात्करकमलेनैव यत्नतोऽपसारणीय-
त्वम्, न पुनरतिदुर्बलैरङ्गुलिदलैः शक्यापसारत्वमिति द्योत्यते ।
अत्र परिवृत्तिः, काव्यलिङ्गम्, स्वभावोक्तिश्चालंकारः ॥ २४ ॥
पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा-
न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयित्वा
साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥
पादानिन्दोरित्यादि । पादान् किरणान् । अमृतशिशिरान् पि-
यूषमयत्वेन शीतलान् । जालमार्गप्रविष्टान् गवाक्षैरन्तरागतान् ।
पूर्वप्रीत्या मत्सहावस्थानसमयोपभोगसंभृतेन स्नेहेन । गतं प्राप्तम् ।
अभिमुखं प्रतीपमिति गमनक्रियाविशेषणम्, प्रियातिथीनिवाभ्युद्ग-
तमित्यर्थः । संनिवृत्तम् इतोमुखमेवागतम् । तथैव तत्रानासादितर-
सतया गमनदशातो निर्विशेषत्वात् झटित्येव निवारितप्रसरमित्यर्थः ।
खेदात् दुःखातिशयनिःसहतया । सलिलगुरुभिः अश्रुबिन्दुदन्तुरा -
न्तरालतया गौरवाक्रान्तैः । पक्ष्मभिः नयनपटलरोमावलिभिः। छाद-
यित्वा पिधाय, निमील्येत्यर्थः । साभ्रे मेघसहिते, नीलजलदजालजालि-
कानिचुलिततरणिबिम्बतया तिमिरपरागनिकुरुम्बकरम्बित इत्यर्थः ।
अह्नि स्वतःसिद्धप्रसिद्धप्रकाशसंबन्धे दिवस इत्यर्थः । स्थलकमलिनीं
पङ्कमन्तरेण भूमिमात्रे प्ररोहन्तीं कमलिनीम्। कमलिन्यन्तरात्तस्याः
सौन्दर्यसौकुमार्यातिशयात्तदुपादानम्, यथा भल्लटः-- 'न पड़्का-
दुद्भूतिर्न जलसहवासव्यसनिता वपुर्दिग्धं कान्त्या स्थलनलिन रत्न-
द्युतिमुषा' इति । न प्रबुद्धां प्रकृष्टबोधरहिताम्, निमीलितनयनत्वा-
त्तीव्रदुःखाभिघाततिरस्कृतबाह्यविषयपरिज्ञानत्वाच्च, अन्यत्र निरर्ग-
लतरणिकरसंसर्गसुखविरहादसमग्रलब्धविकासत्वात् । न सुप्तां निखि-
लेन्द्रियविश्रामजनकस्य निद्रारसप्रसङ्गस्य भङ्गात्, अन्यत्र दिवस-
स्वाभाव्यादेव दरदलितदलसंपुटत्वमात्रविशिष्टत्वात् । कमलिनीशब्दो
यद्यपि कन्दमृणालपलाशकुसुमादिसमुदाये प्रसिद्धः, सुप्तिप्रबोधौ च
तत्प्रसूनमात्रगतौ; तथाप्यवयवधर्मस्यावयविन्यप्युपचारोपपत्तेस्तद्गत-
त्वेन तयोरुक्तिः, महाकविप्रयुक्तेश्च; यथा रत्नावल्याम्-- 'यातोऽ-
स्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया ।
आश्वासनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करो-
ति । ' इति । अत्रोपमा विरोधश्चालंकारः ॥ २५ ॥
सा संन्यस्ताभरणमबला पेलवं धारयन्ती
शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् ।
त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥
एवं तस्यास्तदानीन्तनीं दशां वर्णयित्वा तादृशदशाविशिष्टाया-
स्तस्या दर्शने तत्करुणारसपराधीनचेतास्त्वं भविष्यसीत्याह-- सा
संन्यस्ताभरणमित्यादि । सा एवमुक्तप्रकारा। संन्यस्ताभरणं 'गत-
वति दयिते तु क्वापि मङ्गल्यमात्राण्यपचितगुरुविप्रा धारयेन्मण्ड-
नानि' इत्यनुमतेः कण्ठसूत्रादिमङ्गल्याभरणव्यतिरेकेण संन्यस्तानि
त्यक्तानि आभरणानि केवलशोभार्थानि येन । अबलेति, तादृशामति-
सुकुमाराणां कृशानां स्वाड़्गानामपि धारणे न शक्तिरित्यहो सत्त्वे
संशयितजीवितं मम जीवितमिति शङ्कातङ्कसंकटमनुशोचनम् । पेल-
वम् अतिकोमलम् । शय्योत्सङ्गे तल्पमध्ये । असकृदिति, रणरणि-
काव्याकुलहृदयतया पुनः पुनरुत्थानं शयनतले निपतनं च द्योत्यते ।
दुःखदुःखेन आधिभिरुपहतत्वादन्यदीयमिव भारायमाणमतिक्लेशेन
वहन्ती । त्वामपि पूर्वदशादर्शिनं जनम्, किं पुनस्तत्कालोपनतं
भवन्तमिव तदात्विकदौःस्थ्यविवशतादर्शिनमित्यर्थः । आस्रम् अश्रु।
नवजलमयमिति, जलधरानुगुण्यात् । आसं मोचयिष्यति करुणाद्र-
द्रुतहृदयतया शोकाश्रुवर्षिणं करिष्यतीत्यर्थः । अवश्यं निश्चितम् ।
निश्चयमेवोपपादयति-- प्रायः अव्यभिचारेण । सर्वः, जन इति
शेष: । करुणावृत्तिः अनुकम्पायां प्रवृत्तिर्यस्य ; 'अनुकम्पा तु सा
ज्ञेया दुःखितान् प्रति देहिनः । उपकारपरत्वं या कुरुते चित्तवि-
क्रिया' इति दिवाकरः । आर्द्रान्तरात्मा आर्द्रः सर्वत्र मैत्रः अन्त-
रात्मा मनो यस्य सः ; 'यद्यदस्य प्रियं वेत्ति तस्य तस्याशुकारिताम् ।
योग्यतामार्द्रतामाहुर्मनःकालुष्यनाशिनीम् ॥' इति दिवाकरः । सु-
खिदुःखिनिर्विशेषमार्द्रान्तःकरणो यः, तस्य दुःखितमदुःखोचितं
जनं दृष्ट्वा निर्व्याजकारुण्यवश्यत्वमवश्यं भवतीत्यर्थः । अर्थान्तरन्या-
ऽलंकारः ॥ २६ ॥
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मादित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्धातरुक्तं मया यत् ।
अथ दयितादशादौःस्थ्यस्य स्वानुरागहेतुकतया स्वकृतस्य तद्व-
र्णनस्य स्वसौभाग्यश्लाघापरत्वदोषमाशङ्कय परिहरति-- जाने स-
ख्या इत्यादि । जाने बहुशः परीक्ष्य निश्चिनोमि । तव सख्याः निस-
र्गत एव परिशुद्धशीलतया तव सखीव्यपदेशयोग्याया इत्यर्थः । मनः
हृदयमेव ; न तु गणिकानामिव वागादिभिरहृदयपूर्वकैर्व्यापारैर्जल-
तया वञ्चितस्तां स्निग्धां जानामीत्यर्थः । मयि संभृतस्नेहं मद्वि-
षये संपूर्णप्रेमरसत्वेनाभेद्यम्, 'अनन्या राघवेणाहं भास्करेण प्रभा
यथा' इत्युक्तवत् । अस्मात् अतो हेतोः । इत्थंभूतां एवंप्रकार-
विशिष्टाम् । प्रथमविरहे इति । इदंप्रथमे वियोगे; पूर्वे मुहूर्तमपि
विरहदुःखस्याविदितत्वाद्दैवदोषाद्राघीयसि तस्मिन्नुपनते प्रेमार्द्रमन-
सस्तस्या इतोऽपि दौःस्थ्यं संभाव्यत इति भावः, 'न तथा बाध्यते
कृष्ण प्रकृत्या निर्धनो जनः । यथा भद्रां श्रियं प्राप्य तया हीनः
सुखैधितः ॥' इत्युक्तत्वात् । तां तादृशीं गुणशालिनीं भार्याम् । अहं
निरतिशयोपलालननिपुणतया यो गृहीततदीयहृदयः, सोऽहम् ।
तर्कयामि उपपत्त्या संभावयामि । वाचालं बहुभाषिणम्, तद्विरह-
दशावर्णनवचनमुखरमित्यर्थ: । खलु वाक्यालंकारे, अनुनये वा ।
सुभगंमन्यभावः सुभगं युवतिजनवल्लभमात्मानं मन्यत इति सुभगं-
मन्यः । 'आत्ममाने खश् ।' 'अरुद्विषदजन्तस्य मुम्' इति मुमा-
गमः । तस्य भावस्तत्त्वम् । प्रत्यक्षम् अनुभवगोचरः, भविष्यतीति
शेषः । निखिलं सर्वम् । अचिरात् अविलम्बितमेव । भ्रातरिति ।
मत्कार्यार्थं द्रुततरगतिरप्यसीति भावः । यत् वस्तुगृहसंबद्धं गृहि-
णीसंबद्धं च । अत्र काव्यानुमानमलंकारः ॥ २६ ॥
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ २७ ॥
अथ संदेशहारिणि मम प्रियसुहृदि त्वयि प्रत्यासन्ने समासन्नम-
त्समागमसूचकं सुनिमित्तमपि तस्याः प्रादुर्भविष्यतीत्याह-- श्लोकद्वयेन-
रुद्धापाङ्गप्रसरमित्यादि । निवारितकटाक्षव्यापारम्, अलकैः कपो-
लस्यैवाच्छादनात्। अञ्जनस्नेहशून्यम्, कालाञ्जनजनितेन स्निग्ध-
श्यामत्वेन रहितम् तस्यैव वर्जनात् । प्रत्यादेशात् परित्यागात् ।
'प्रत्यादेशो निराकृतिः' इत्यमरः । अपि चेति समुच्चये । मधुनः
मदिरायाः । विस्मृतभ्रूविलासं विस्मृतानि भ्रूलतायाश्चतुरचेष्टितानि
येन । विस्मरणं नाम संस्कारमात्रस्यापि विलोपः । प्रेक्षिताङ्गत्वेनैव
भ्रूविलासानां चमत्कारकारित्वात् विस्मृतभ्रूविलासत्वं नयनविशेषण-
त्वेनोक्तम् । आसन्ने मत्सन्देशविवक्षया समीपोपसर्पिणि । नयनमि-
त्येकवचनेनैकत्वम्, स्त्रीत्वौचित्यात् 'वामश्च' इत्युत्तरत्र चकाराञ्च
वामत्वं सिद्धयति । उपरिस्पन्दि कनीनिकाया उपरिभागे स्पन्दन-
विशिष्टम् । शङ्के निरूपयामि । मृगाक्ष्या इति, सुनिमित्तप्रसङ्गेनौ-
त्सुक्यहर्षकौतुकादिक्षोभितहृदयतया तादात्विकतारल्यमधुरतरविपुल-
नीलस्निग्धमुग्धस्य नयनयुगलस्य निकामप्रेक्षणीयत्वं द्योत्यते । मीन-
क्षोभात् विहरणतरलमत्स्यसंघट्टनात्, न तु वातक्षोभात्, वायुना
क्षोभे सुजातयोः संनिकृष्टनिविष्टयोर्द्वयोरिन्दीवरयोरन्यतरचलनानुप-
पत्तेः ; मीनक्षोभे तु तदुपपत्तेरेकनयनस्फुरणौपम्ययोगात् तदुपादा-
नम् । चलकुवलयश्रीतुलां स्पन्दमानस्य कुवलयस्य शोभया साम्यम् ।
एष्यति प्राप्स्यति । इतिः शङ्काप्रकारे । अन्यच्छायायोनिश्चायमर्थः ।
'प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्' इति
श्रीरामायणोक्तेः । उपमात्रालंकारः ॥ २८ ॥
वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-
र्मुक्ताजालं चिरविरचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥
वामश्चेत्यादि । वामः दक्षिणेतरः । कररुहपदैः नखक्षतकिणैः।
मुच्यमानः न तु मुक्तः, कालक्रमेण तेषां तिरोधीयमानत्वात्। मदीयैः
तदूरुदण्डसौकुमार्यकदर्शीकारकातरेण मया सदयं न्यस्तैरित्यर्थः ।
तच्च मुच्यमानत्वे हेतुः । मुक्ताजालं मुक्ताभिर्विरचितो मेखलादामनि
लम्बमानो जालाकारो भूषणविशेषो मुक्ताजालम् ; यथा हारयष्टिप्र-
भेदाधिकारे कौटिल्य:-- 'सुवर्णसूत्रान्तरं सोपानं मणिमध्यं वा मणि-
सोपानकं तेन शिरोहस्तकटीकलापजालकविकल्पा व्याख्याताः' इति ।
चिरविरचितं चिरकालविन्यस्तम्, अविरहेणैव चिरकालातिवाह-
नात् । अथ वा, चिरेण निर्मितं विश्वकर्मणा शिल्पविकल्पकल्पनासं-
रम्भात् । त्याजितः न तु त्याज्यमानः, तस्य विरहदिवस एव निर-
स्तत्वात् । दैवगत्या विधेः प्रकारेणास्थिरतालक्षणेन; न पुनरीदृशी
दशा स्वप्नेऽप्युत्प्रेक्षितेति भावः। संभोगान्ते सुरतावसाने । प्रतिसंभो-
गावसानं तदाश्वासनपरतया त्वेन नियतकृत्यत्वेनानुष्ठीयमानत्वात्समु
चितत्वोक्तिः । हस्तसंवाहनानां कोमलतया करतलेनैव मुष्टिगृहीतेन
श्रमशमनाय सुखसंमर्दनानाम् । 'संवाहनं मर्दनं स्यात्' इत्यमरः ।
सरसकदलीस्तम्भगौरः सारोत्तरधरातलावस्थानात्समयावसेकाच्चावि-
दितशोपदण्डकदलीकाण्डवत् श्लक्ष्णवृत्तविपुलत्वसहचरितविमलवर्ण-
विशिष्टः । गौरवर्णत्वं च वरवर्णिनीनां गण्डमुकुरकुचमण्डलोरुकाण्डेषु
स्मरेण यौवनोष्मणा च काव्येषु प्रसिद्धम् । चलत्वं स्पन्दनम्, वामोरू-
स्पन्दनस्य प्रियसमागमसूचकेषु प्रशस्तत्वात् । तदुपादाने निमि-
त्तान्तरप्रतिपादननिवृत्तिः, 'प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्ता-
त्स्थितमाचचक्षे' इत्युक्तत्वात् । अत्र स्वभावोक्तिरलंकारः ॥ २९ ॥
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-
दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि-
त्सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥
अथास्य तदुपगमसमये तस्याः कमप्यवस्थान्तरं संभाव्य तदनु-
गुणां स्थितिं सहेतुकमुपदिशति-- तस्मिन्काल इत्यादि । तस्मिन्
'त्वय्यासन्ने' इति प्रकृते त्वदासत्तिकाले । जलदेति, स्वकीयशीकर-
निकरशिशिरमारुतस्पर्शेन तस्या निर्वापितशरीरतया सुखनिद्रोपपत्ति-
द्योत्यते। अथ वा, स्तनितस्यैव निषेधाद्वृथावस्थानपरिहाराय तत्समीपे
स्थित्वैव बहिः शनैःशनैर्निःशब्दं जलमोक्षणविनोदः कार्य इति
व्यज्यते । अथ वा, विरहिजनजीवितहरत्वेन प्रसिद्धस्य भवतो दर्शने
सा यथा प्राणान्न जह्यात्, तथा कर्तव्यमिति । सा 'निद्रामाकाङ्क्ष-
न्तीम्' इत्युक्तप्रकारेण दुर्लभनिद्रा । यदि स्यादिति । अत्र न तु
निश्चय इति भावः । अन्वास्य उपास्य, समीपे निषद्येत्यर्थः ।
स्तनितविमुखः गर्जनाद्विरतः, तदकालप्रबोधशङ्कया तत्रासपरिजि-
हीर्षया च । याममात्रं मुहूर्तत्रयमात्रम्, तावतोऽवधेरन्यूनातिरिक्त-
तया रमणीयत्वात्समागमसुखस्य तावता निर्वृत्तत्वेन स्वाप्नविरहस्य
तादृशदुःखावहत्वाभावात् । प्रथमयामे चिन्तासंतापेन निद्रया विहीने,
द्वितीययामे श्रमेण स्वाभाविककालशैत्याच्च कथंचिन्निद्रोपपत्तेस्तृती-
ययामे पुनः प्रबोधाच्चोत्तमस्त्रीणामतिचिरनिद्राया अयुक्तत्वाञ्च याम-
मात्रमित्युक्तम् । सहस्व क्षमस्व, अप्रबोधयंस्तूष्णीमास्वेत्यर्थः ।
अन्यथाकरणे दोषमाह-- प्रणयिनि निरतिशयप्रेमार्द्र इति, भुज-
ग्रन्थिगाढत्वहेतुः । कथंचित्स्वप्नलब्धे प्रयत्नेन समासादिते सति ।
सद्यः प्राप्त्वनन्तरमेव ; कंचित्कालं विलम्बे तु तदावर्जनीयत्वाद्युक्त-
मेवेति भावः । कण्ठच्युतभुजलताग्रन्थि मत्कण्ठदेशाद्विगलितो
भुजलतयोर्वलयाकारेण बन्धनरूपो ग्रन्थिर्यस्य । सयः कण्ठच्युतेति,
तदानीं तस्य शोच्यतातिशयं ध्वनयति । गाढोपगूढं दृढतरं तर्षो-
त्कर्षादालिङ्नगम् । किमर्थमसौ न प्रबोध्यत इति कार्ये पृष्टे कारण-
स्याभिधानादप्रस्तुतप्रशंसालंकारः ॥ ३० ॥
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीर स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥
अथ तामवसरे प्रबोध्य, संदेशश्रवणायाभिमुखीकुर्वित्याह-- ता-
मुत्थाप्येत्यादि । तां स्वप्नसमागमसुखनिर्वृताम् । उत्थाप्य प्रबोध्य।
स्वजलकणिकाशीतलेन त्वदुदरनिर्गतत्वेन त्वत्संबन्धिजलबिन्दुसंसर्ग-
शिशिरेण । प्रत्याश्वस्तां स्वप्नसमागमसुखभङ्गप्रतिनवीकृतविरहदुःख-
तया शनैः पुनरुपपन्नमसादाम् । मालतीजालकानां तु प्रत्याश्वासो
नाम दिवादनसंतापग्लानिविरहेणोल्लासः । समं सह, तेषामपि
प्रदोषसमये विकासात् । ततश्च तस्या अपि संतापासहसौकुमार्यत्वं
ध्वन्यते। अभिनवैः तत्कालविकसितैः । जालकैः कुड्मलैः, समूहैर्वा ।
मालती जातिः । दुःखावहेनापि जलदपवनेन विरहिण्याः समाश्वासन-
कथनं तस्य स्वभावतः संतप्तशरीरनिर्वापकत्वाद्विरहदुःखस्य संदेशेना-
नन्तरमेव निर्वापयिष्यमाणत्वाच्चेति ग्राह्यम् । विद्युद्गर्भः उदरनियमित
तटिल्लतः। तत्फलमाह-- स्तिमितनयनाम् अतर्कितोपनतेन भवद्दर्श-
नेन विस्मयचिन्तौत्सुक्यादिविवशतया निश्चलन्यस्तदृष्टिम्; तटितो
बहिः स्फुरणे स्तिमितनयनात्वं न संभवतीति भावः । त्वत्सनाथे त्वया
नाथवति, सहित इत्यर्थः । गवाक्षे वातायने । धीर अविकृतेन्द्रिये-
ति वचनौचित्यम् । अथ वा, धीरस्तनितवचनैः गम्भीरगर्जितरू-
पैर्वाक्यैः । मानिनीं स्वचारित्रपरिरक्षणाभिमानशालिनीम्; ततोऽपि
तव तया संलापे न दोष इति भावः । अथ वा, एतावतो दिव-
सान् दुःखिताया ममाश्वासनाय वार्तामात्रमपि न कस्यचिन्मुखेन
कठिनहृदयेन प्रेषितमिति मयि प्रणयप्रकोपवतीमित्यर्थः। वक्तुं
प्रक्रमेथा इति । 'एवं ब्रूयाः' इति वक्ष्यमाणस्य संदेशस्यावसरला-
भायाभिमुखीकुर्वित्यर्थः । अत्र सहोक्तिरलंकारः ॥ ३१ ॥
भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं
तत्संदेशान्मनसि निहितादागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतामध्वगानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥
अथ अभीष्टवस्तुसंकीर्तनरूपमभिमुखीकरणप्रकारमाह-- भर्तु-
रिति । भर्तुरिति, न केवलं प्रियेति तस्य मदन एव, अपि तु धर्म-
पत्नीति शोकोऽपि त्वद्विरहे वर्तत इति द्योत्यते; 'पत्नी नष्टेति
शोकेन प्रियेति मदनेन च' इति श्रीरामायणोक्तेः । अतश्च तव
धर्मपत्न्याः समाश्वासनमवश्यकर्तव्यमेव तस्येति द्योत्यते । मित्रं सुहृ-
दम्, ईदृशेषु कार्येषु मित्राणामेवाधिकृतत्वात् । तेषामप्यपण्डितत्वा-
नात्मवित्त्वादिदोषवत्त्वादप्रियत्वे बाह्यत्वमाशङ्कयाह-- प्रियमिति ।
निर्दोषोऽयमिति मां हृदयनिर्विशेषं मन्यमानः परममन्त्रेष्वन्तरङ्गी-
करोतीत्यर्थः, 'नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् । अपण्डितो
वापि सुहृत्पण्डितो वाप्यनात्मवान्' इति महाभारतोक्तेः । अविधवे
जीवद्भर्तृके इत्यामन्त्रणेनैव तव प्राणसमो जीवत्येव, न खलु तज्जीविते
त्वया शङ्का कर्तव्येति तस्या हृदयमवस्थापयति; सति धर्मिणि धर्मा-
चिन्त्यन्त इत्यन्येषां विशेषाणामत्वरयैव वक्तव्यत्वात् । विद्धि विजा-
नीहि। अम्बुवाहमिति, स्वभावत एव परोपकारैकपरत्वं द्योतयन्,
विश्वास्यतामात्मनः प्रकाशयति । अथ किं तन्मित्रत्वमात्रेण मद्दर्शना-
यागत इति चेत्तत्राह-- तत्संदेशात् तदीयात् त्वद्विषयात्संदेशा
द्हेतोः । मनसि निहितात् न तु लेखार्पितात् । अनेन मम निसृष्टार्थता-
माप्ततां चावगम्य मन्मुखे तेन दत्तो मया चावधानेन हृदये निक्षिप्त इति
द्योत्यते । त्वत्समीपम् आगतं त्वद्दर्शनमेव प्रधानप्रयोजनत्वेनोद्दिश्य दूर-
देशादागतम्, न पुनरानुषङ्गिकत्वद्दर्शनार्थमित्यनेन तद्दर्शनस्य गौरवं
ध्वनितम्। अचिराच्च त्वया सह तं घटयिष्यामीति द्योतयन्,
विरहिजनसंघटनव्यापारसामर्थ्यमाह-- य इति । वृन्दानि समूहान् ।
अनेन विविधकार्यव्यग्रचेतसामनेकेषां जनानां तत्तत्कार्योपेक्षणेन संभूय
निवर्तनं सूचितम् । त्वरयति शीघ्रगमनाय प्रेरयति । पथि श्राम्यतां
स्थपुटगिरिकटकसरिदवटतरुविटपादिसंकटे मार्गे सीदताम् । अनेन
तादृशक्लेशशतानिरूपणेनैव तेषामविश्रमं प्रवृत्तिर्व्यज्यते । अध्वगानां
पथिकानाम्, अर्थाद्विरहिणामिति लभ्यते । मन्द्रस्निग्धैः गम्भीरैर-
रूक्षैश्च । ध्वनिभिः गर्जितशब्दैः । ध्वनिभिरिति, त्वरणकार्यसौकर्यं
सूच्यते । बहुवचनेन खेदेऽपि तेषां मध्ये विलम्बचिन्तापरिहाराय
ध्वनिपरंपरया विभीषिका द्योत्यते । त्वराया हेतुमाह-- अबलावेणि-
मोक्षोत्सुकानीति । विरहव्यक्तदौर्बल्यानां प्रेयसीनामेतच्छब्दश्रवणे
जीवितसंशयोऽपि स्यादिति शङ्कया तत्परिहाराय झटित्युपगमेन
तासामेकवेणीबन्धनोद्वेष्टनार्थमुत्कण्ठितानीत्यर्थः । त्वरयति न पुन-
स्त्वरयामीति परोक्षनिर्देशः प्रसिद्धाम्बुवाहस्वभावप्रतिपादनेन सहृ-
दयसंवादमस्याः संपाद्य स्वस्य तद्भावप्रकाशनात्स्वसामर्थ्ये विस्र-
म्भजननाय । यस्त्वरयति, तमम्बुवाहं मां त्वत्समीपमागतं विद्धी-
त्युक्तेः, अत्रापि मम शक्तिरस्त्येव, किं तु विधिविहितस्यावधेरल-
ङ्घ्यत्वात्तदीयदूतत्वेनागतोऽस्मि, किं करोमि मान्यशीले, नान्या
गतिरस्तीत्यनुकम्पा संतापश्च ध्वन्यते । अत्राप्रस्तुतप्रशंसालंकारः,
कार्यद्वारेण स्वसामर्थ्यस्य कारणस्य प्रतिपादनात् ॥ ३२ ॥
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वासितहृदया वीक्ष्य संभाव्य चैव ।
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
कान्तोपान्तात्सुहृदुपगमः संगमात्किंचिदूनः ॥
अथैतद्वचनानन्तरं तस्याः प्रवृत्तिमाह-- इत्याख्यात इत्यादि ।
इति अनेन प्रकारेण निजकर्णरसायनायमानमन्नामसंकीर्तनपुरःसरं
कथित इत्यर्थः । 'वानरोऽहं महाभागे दूतो रामस्य धीमतः। राम-
नामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥' इत्यादिवादिनम्,
तनयं पैतृकबलावलेपतृणीकृतदुर्लङ्घलङ्कादुर्गं स्वसमीपमागतं हनूम-
न्तम् । मैथिलीत्यनेन, न केवलं सीरध्वजस्यैव, किंतु मिथिलाभवा-
नामतीतानामागामिनां च राजर्षीणामतिपवित्रेण निजचरित्रेण पावनी
अलंकारभूता चेति ध्वन्यते । मैथिलीव वक्ष्येत्यनेन, यथा देवी
सीता वातात्मजं हर्षविस्मयस्नेहबहुमानविश्वासोत्कण्ठाशबलितहृदय-
मवलोकितवती, तथा त्वां मद्गेहिनीति व्यज्यते । उपमानेन दुष्कर
कार्यशक्तत्वम्, मित्रकार्येष्वनिर्वेदः, बन्धुजनानुरागः, विशुद्धशास्त्रो-
द्भासितप्रतिभाप्रसरत्वम्, विजितेन्द्रियत्वं च मेघस्य, निजचरित्र-
निष्कलङ्कत्वम्, महाभिजनत्वम्, स्त्रीरत्नत्वं च नायिकायाः प्रकाश्यते ।
उन्मुखी उन्नमितवदना। उत्कण्ठोच्छ्वसितहृदया मद्वार्ताश्रवणौ-
त्सुक्यविकसितहृदया। उच्छ्वसितं पूर्वसंकोचविरहादुल्लसितम्,
'सुग्गीअस्स वि हिअअं राहबसुंकअपडिमुञ्चणासन्तह्नं । अगणिअद-
हमुहृदप्पं णिब्वूढभरं व तक्खणं ऊससिअं॥' 'पूर्वापराधभीतस्य
कामस्योच्छ्वसितं मनः' इतिवत् । संभाव्य 'कल्याणी बत गाथेयं
लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥'
इत्यादिभिः प्रियवचनैरर्घ्यादिभिश्च संपूज्य । संभाव्य चैवेत्येवका-
रेण, तस्या हर्षसंभ्रमेऽप्युपचारावधानं ध्वन्यते । अस्मात् उक्ताद्वच-
नात्। परम् अनन्तरं वक्ष्यमाणं मदीयं संदेशम्। अवहिता
एकाग्रचित्ता । सौम्येति, शान्तात्मनस्तव दर्शने को नाम नाद्रियत
इति व्यज्यते । तस्या अवधानमेवोपपादयति-- सीमन्तिनीनाम्
उत्तमाङ्गनानाम् । कान्तोपान्तात् प्रियतमसमीपात् । तत्संदेशादिवि-
शिष्टत्वेन, सुहृदुपगमः तदीयमित्रागमः; न पुनः कान्तमित्रागम-
मात्रम्, तस्यादरमात्रविषयत्वात्, 'संगमात्किंचिदूनः' इति वक्तु-
मयुक्तत्वात् । संगमात् तदङ्गसङ्गात् । किंचिदूनः ईषदेव हीनः ।
एवशब्दोऽध्याहर्तव्यः । तद्वचनश्रवणेन श्रोत्रस्य, तच्चरितपरिज्ञानेन
हृदयस्य च समाश्वासात्, नयनरसनघ्राणस्पर्शनानामेव सुखसंविभागा-
भावादित्यर्थः । अत्त्रोपमार्थान्तरन्यासश्चालंकारः ॥ ३३ ॥
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तु-
र्ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तां
पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ ३४ ॥
अथैवमभिमुखीकृतामवहितां च तां प्रति वचनप्रकारमाह--
तामायुष्मन्नित्यादि। तां यैवं श्रवणायावहिता, ताम्। आयुष्म-
न्निति, ईदृशदुःखसागरमग्नजनपरित्राणात् भवत एव सफलतया प्रश-
स्तमायुरिति द्योत्यते । प्रशंसायां मतुप् । मम वचनाच्च मदीयवच-
नत्वेन चेत्यर्थः । उपकर्तुः ईदृशपरमोपकारकारिणः । आत्मनश्च
आत्मशब्देन मेघः परामृश्यते, भवतश्चेत्यर्थः । वचनादित्यनुषज्य-
ते । एवं अनन्तरवक्ष्यमाणप्रकारेण । अत्र च 'तव सहचर: 'इत्या-
रभ्य 'मन्मुखेनेदमाह' इत्यन्तस्य मेघवचनत्वात्, 'श्यामासु'
इत्यादेश्च यक्षवचनत्वात् 'पाठक्रमादर्थक्रमस्य बलीयस्त्वम्' इति न्या-
यात् अर्थानुरोधेन आत्मनो वचनाच्च मम वचनत्वाच्चेति क्रमो ज्ञेयः ।
अर्थविवक्षया तु न क्रमभङ्गदोषप्रसङ्गः । तव सहचरः न पतिमा
त्रम्, नापि प्रियमात्रम्, अपि तु चक्रवाकवत्पृथक्संचरितुमप्यशि-
क्षितः। रामगिर्याश्रमस्थः रामगिरिसंज्ञकगिरिविशेषगताश्रमवर्ती ।
सहचरो रामगिर्याश्रमस्थ इति, अघटमानसंघटनदुर्ललिते विधिवि-
लसिते विरोधिनि क उपालभ्यतामिति भावः । अव्यापन्नः त्वद्दर्श-
नाशापाशनिगलितजीविततया कथमप्येतावतो दिवसान् जीवन्नेव ; न
तु तत्प्राणितविषया चिन्ता त्वया कर्तव्येत्याशयः । कुशलं जीवितसं-
धारणरूपं मङ्गलम्, त्वज्जीवितायत्तत्वात् तदीयजीवितधारणप्रयोज-
नस्य । अबले इति, एतावत्येव तस्य चिन्ता-- त्वं प्रकृतिपेलवा
विशेषतो विरहाधिभिः कृशतरीकृता; अतस्त्वाम् अपि नाम शापावसाने
जीवन्तीं संभावयेयम्-- इति द्योत्यते । वियुक्तामिति, अवश्यप्रष्टव्यत्वे
हेतुः, सुलभकुशलेतरत्वादवस्थायाः । अपि सुवासिनि निष्प्रत्यूह-
नियमासि ? अपि निरापदो भवनमुपवनतरवः परिष्कुर्वते ? अपि
कुशली परिजनो वशे वर्तते ? अपि सुरक्षितं कोशगृहम् ? इत्यादीनां
प्रष्टव्यान्तराणां बहूनां विद्यमानत्वेऽपि किमादौ जीवितप्रश्न एव
क्रियत इति चेत्तत्राह-- पूर्वाशास्यमिति । प्रथमप्रार्थ्यम्, प्रार्थ्यत्वा-
दिष्टविषये प्रष्टव्यत्वमपि तस्य सिध्यति । सुलभविपदाम् अचिन्तितो-
पनमद्विरहादिदुःखोत्खातनिर्वृतीनामित्यर्थः । तदपि तावत्सह्यते, यदि
पुनः समागमे निश्चयः ; सोऽपि नेत्याह-- प्राणिनामिति । छत्र-
च्छत्रिणोरिवात्यन्तविविक्ततया वर्तमानयोर्देहदेहिनोरविश्लेषेणावस्थि-
तेर्दुरवधारत्वात् प्राणानां वारुणीमदतरलवरतरुणीभ्रूलताविभ्रमानु-
कारितया तद्वतां का पुनः समागमप्रत्याशेति भावः । एतदेव स्वजी-
वितमेव; सति हि कुङ्ये चित्रकर्मसौकर्यमिति भावः । अत्र शृङ्गार-
प्रसङ्गे शान्तरसविभावस्योपादानं प्रतिकूलमिति रसदोषो नाशङ्कनीयः,
नायकवचनत्वाभावात्, नायिकाजीवितदर्शनाभ्युदयमुदितहृदयस्य
मेघस्य तदाश्वासन एव तात्पर्यात् । न चात्र सुलभविपत्त्वमात्रं प्रति-
पादितम्, अपि तु विविधभोगनिदानतया कुशलमेवाशास्यं प्रका-
शितमिति न निर्वेदप्रस्तावः । अर्थान्तरन्यासोऽलंकारः ॥ ३४ ॥
अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं
सास्रेणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥
अथ कुशलप्रश्नावधृततदीयजीवितावस्थापितस्वजीवितस्य तद्विषयां
प्रवृत्तिमाह-- अङ्गेनाङ्गमित्यादि । चकारः कुशलप्रश्नसमुच्चयार्थः ।
तनु कृशम् । तनुना कृशेन । गाढतप्तेन अतिशयज्वरितेन । तप्तं
ज्वरितम् । सास्रेण सवाष्पेण । आस्रद्रुतम् अश्रुरूपेण विलीनम् ।
अविरतोत्कण्ठम् अविच्छिन्नदर्शनौत्सुक्यम् । उत्कण्ठितेन संजातरण-
रणिकेन । उष्णोच्छ्वासम् अन्तस्तापक्वथितोद्भूतश्वासम् । समधिक-
तरोच्छ्वासिना आयततरमुच्छ्वसितुं शीलं यस्य तेन । दूरवर्ती विप्रकृष्टे
देशे वसन् । संकल्पैः मनोरथैः । ते एवं मम प्रियतमामाश्लिष्या-
मीति तद्भावभावनोपपादितायास्तवेत्यर्थः । विशति तृष्णातिशयेनैक्य-
मभिलषन्ननुप्रविशति। विधिना दैवेनेति, तस्यालड़्घ्यत्वं प्रकाशयति ।
वैरिणा अकारणद्वेषदारुणेनेति, निष्कारुण्ये तस्मिन्नसूया व्यज्यते ।
रुद्धमार्गः निवारितत्वदुपगमनमार्गः ; शापार्गलयेति शेषः । अतो
गत्यन्तराभावात्संकल्पैरेव त्वदङ्गमनङ्गपरवशो निजाङ्गेन सुदृढमालि-
ड़्गति चेत्यर्थः । तनु तनुनेत्यादिभिरुभयानुरागसाचिव्येन परां काष्ठा-
मधितिष्ठन् रसो ध्वन्यते । अत्र श्लोके 'तनु तनुना' इति साधारण्येन,
'गाढतप्तेन' 'समधिकतरोच्छ्वासिना' इति दुःखाधिक्यस्य तृतीयान्त-
स्वाङ्गगतत्वेन' 'आस्रद्रुतम्' 'अविरतोत्कण्ठम्' इति द्वितीयान्त-
प्रियतमाङ्गगतत्वेन अनियमप्रतिपादनम् उभयत्रापि विरहविधुरता-
साम्यसंसूचनायेति मन्तव्यम् । अतश्च निरतिशयान्योन्यानुरागव्य-
ञ्जनपरत्वात्तथोक्तेः प्रक्रमानिर्वाहशङ्काया नावसरः । यथासंख्यमलं-
कारः ॥ ३५ ॥
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥३६॥
अथैवं दृढतरदत्तकण्ठग्रहस्त्वामेवं संदिशतीत्याह– शब्दाख्ये
यमित्यादि । शब्देन प्रकाशमेव कथयितुं योग्यम् । शब्द एवाभि-
धेयं यस्य, तत् निरर्थकमिति केचित् । यदपि यद्यपि। किलेति वार्ता-
याम् ; मयापि सख्युः संलापेष्वधिगतम्, न त्वनुभूतमिति भावः ।
'वार्तासंभाव्ययोः किल' इति वैजयन्ती । सखीनां पुरस्तादिति,
निर्यन्त्रणमुखस्पर्शानौचित्यहेतुः । कर्णे कथयितुम् । लोल: तृष्णा-
तरलः । लोल इत्यनेन चपलोऽयमिति तासां बुद्धयुन्मेषमप्यनवेक्ष्येति
ध्वन्यते । अभूदिति, अहो तत् पुरावृत्तत्वेनेदानीं कथाशेषं वर्तत
इति द्योत्यते । आननस्पर्शलोभात् क्षणमात्रं स्पर्शनाभावं सोढुमधी-
रतया। सः तादृशानुरागनिगलितः । अतिक्रान्तः अतिलङ्घितवान् ।
श्रवणविषयं कर्णाभ्यां वृत्तान्ताकर्णनगोचरमपि, अतिदूरवर्तित्वात् ।
लोचनाभ्यामदृष्टः तथात्वे नयनाभ्यां दर्शनस्य का वार्तापि । त्वां
तादृशीं भवतीम् । उत्कण्ठाविरचितपदम् औत्सुक्येन विविधग्रथित-
शब्दम् । मन्मुखेन मद्रूपेण स्वेन मुखेन, मम तस्य चाभेदात् ; अथ
वा मदीयेन मुखेन । इदं वक्ष्यमाणं वचनम् । आह ब्रूते । अत्र
विरूपसंघटनात्मकं विषमं विरोधो वालंकारः ॥ ३६ ॥
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ।
अथ प्रतिज्ञातं संदेशमारभते ; तत्र प्रथमं तावददर्शनजनिततर्षो-
त्कर्षस्य मे त्वदीयं दर्शनमपेक्षितम्, आश्लेषादीनां पश्चाद्भावित्वात्,
'अदर्शने दर्शनमात्रकामा' इत्युक्तवत् । तच्च साक्षान्न लभ्यते,
शापोपहतत्वात् । अतः सादृश्यरूपेण तदर्थे यत्ने, तदपि मम मन्द-
भाग्यस्य न समग्रं सिद्धयतीत्याह-- श्यामास्वित्यादि । श्यामासु
फलिनीलतासु, न तु श्यामायाम्। अनेन देशकालदशाविशेषवशात्तासां
वैविध्येन प्रयत्नतोऽन्विष्य कस्यांचिद्वर्णकान्तिम्, अन्यस्यां कोमल-
त्वम्, अपरस्यां तनुत्वमित्यादि द्योत्यते । श्यामालतानां श्यामलको-
मलत्वादिगुणयोगात्तदुपादानम्, 'कुवलयदलश्यामा श्यामालता प्रवि-
जृम्भते' इत्युक्तत्वात् । अङ्गं शरीरम्, करचरणादिकं वा । चकि-
तहरिणीप्रेक्षणे त्रस्तानां मृगीणां नेत्रव्यापारेषु, न तु मृगीजातिमात्रस्य ।
अनेन सिंहबृंहितादिसद्भावे चकितत्वस्योपपत्तेः, तस्य च कादाचि-
त्कत्वात् कृच्छ्रलभ्यत्वं द्योत्यते । दृष्टिपातं नयनप्रेरणम् । वक्त्रच्छायां
मुखशोभाम्। शशिनीति, चन्द्रमस: पूर्णत्व एव मुखसादृश्यलाभादस्थि-
रत्वम्, तदानीं च स्फुटविकटकलङ्कपङ्काङ्कतया तत्सामग्र्यविरहो ध्वन्य-
ते। शिखिनां न पुनः शिखिनः । तेन तेषामपि प्रावृषि प्रभूतमदानामरो-
गाणां बहूनां मध्ये केषांचिदेव शबराद्यनुल्लुञ्छितेषु पिञ्छकलापेषु केषु-
चिद्घनतरायतस्निग्धनीलमृदुलेष्वेव साम्यसिद्धेस्तथात्वस्य दुःखोपल-
भ्यत्वं प्रकाश्यते । बर्हभारेषु शिखण्डनिचयेषु । केशान् न तु केशभा-
रम्, शिरोरुहमात्रस्यैव स्मारकत्वात्, चतुरकृतबन्धस्य केशभारस्य
तुल्यतायामपर्याप्तेः । उत्पश्यामि उत्प्रेक्षे । ईदृशमिदम्, ईदृशमिद-
मिति मनसा तर्कयामि। प्रतनुष्विति, मृदुपवनशकुनिशफराद्यास्फालन
एव तनुतराणां तरङ्गाणामुदयात्तेषामध्यसुलभत्वम्, अन्येषां च
तादृशसादृश्यबाह्यत्वं प्रतीयते । नदीवीचिषु सरित्तरङ्गेषु न तु सरो-
वीचिषु । प्रसन्नशीतलेषु अविच्छिन्नेषु जलप्रवाहेष्वेव त्वदीयं लावण्य-
मप्यनुसंदध इति द्योतयितुं नदीग्रहणम्, तन्मध्यगतानां वीचीनां
लावण्यान्तर्वर्तिभ्रूलतानुस्मारकत्वनियमात् । भ्रूविलासान् स्मरसमर-
मधुमदादिष्वनुभूतान् भ्रूलताविभ्रमान् । हन्तेति विषादे । 'हन्त
हर्षविषादयोः' इति वैजयन्ती । हन्तेति, अहो दुष्कर्मणो विष्वक्प्र-
तिकूलाचरणनिर्बन्ध इति भावः । एकस्थम् एकस्मिन्नेव वस्तुनि
समग्रतया स्थितम् । क्वचिदपि वनेषु गिरिषु गगने सलिले अन्यत्र
वा कुत्रचिद्देशे। ते इत्यङ्गादिष्वपि प्रत्येकमनुषज्यते । चण्डि
कोपने । अनेन एकस्मिन् वस्त्वन्तरे समग्रत्वत्सादृश्यदर्शनमसहमा-
नया त्वया तत् बहुषु विभज्य निवेशितमिति मयोत्प्रेक्ष्यत इति
द्योत्यते । अथ वा, विभक्तस्यापि तस्य निरीक्षणं त्वया मत्प्राणस्वा-
मिन्या प्रणयप्रभावान्न क्षम्यते ; तथापि किं करोमि ; सहस्व हंस-
गामिनि कालविनोदनाय क्रियमाणं तदिति व्यज्यते । सादृश्यं
साम्यम् । नास्ति न तु न दृश्यत इत्यनेन सादृश्यस्य सतो न केव-
लमदर्शनम्, अपि तु तत्सत्तैव न भवति, समग्रस्य सौन्दर्यकोशस्य
त्वय्येव वेधसा यत्नतो निवेशितत्वादिति व्यज्यते । ततश्चोपमानाद-
न्यस्य गुणाधिक्यप्रतीतेर्व्यतिरेकालंकारध्वनिः । अत्र स्मरणमलंकारः ॥
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ३८ ॥
अथैकस्थत्वत्सादृश्यसामग्र्यदर्शनोत्सवे समुत्सारिते किमपि त्वदनु-
भवोपायान्तरं चिन्तितमपि न संपद्यत इत्याह-- त्वामित्यादि ।
त्वाम् आलिख्य या त्वं मदुर:कवाटसालभञ्जिका, सा त्वमालिख्य
द्रष्टव्या जातेति हा कष्टमिति द्योत्यते । आलिख्य चित्रात्मना
निवेश्य । प्रणयकुपितां प्रणयस्य प्रेम्णः प्रकर्षेण यत्किंचिदप-
दिश्य वास्तवकारणमन्तरेण कुपिताम्, न पुनः प्रणयापराधकु-
पिताम्, त्वदेकरसतया मम स्वप्नेऽपि अनपराधित्वात् । तद-
वस्थायाश्च आलेखनं तदानीं तस्याः सविशेषस्पृहणीयतया विप्रलम्भ-
संभिन्नस्य संभोगस्य तृषितसमयसमुपनतस्येव शिशिरवारिणः परमान-
न्दनिष्यन्दसुन्दरत्वादिति ग्राह्यम्। धातुरागैः मनःशिलादिभिः रञ्जनद्र-
व्यैः, धातूनां वर्णैर्वा । बहुवचनेन तत्तत्स्थानोचितवर्णपञ्चकसामग्र्य-
मुक्तम्, गिरौ तेषां सौलभ्यात् । शिलायां समचतुरश्रतया फलकस्था-
नीये क्वचिच्छिलातले । आत्मानम् आत्मशब्देनात्र यक्षः परामृ-
श्यते, मामित्यर्थः । ते तव । चरणपतितं न तु चरणविनतम् ।
अनेन प्रसन्नचेतसा प्रतिपन्नदयार्द्रया त्वयैव भुजलताबलयेन सुदृढ-
मादाय स्मितसुधाधवलिताधरबिम्बया यावत्सशपथमुत्थाप्यौ, तावच्चर-
णपल्लवौ कराभ्यां निष्पीड्य तदुपहितशिरसमवनिमण्डले दण्डवत्पति
तमिति द्योत्यते । चरणपतितं न तु चरणे पतन्तमिति, किमिदम् अयि
कुमुदहासिनि निरपराधकोपिनि प्रसीदेति झटिति कोपविकारदर्श-
नानन्तरमेव पतितम्, न पुनः प्रणामोद्युक्तमात्रमिति तत्कोपकातरतया
सादरत्वं ध्वन्यते । यावत् यत्कालावधौ । इच्छामि मनसा निरूप-
यामि । कर्तुं साक्षादेव स्वरूपेण विधातुम् । अथवा चित्रे निवेश-
यितुम् । आस्रैः अश्रुभिः। तावत् तत्कालावधौ । मुहुः बहुशः,
सद्य इति वा। उपचितैः अनुबन्धेन प्रवृत्तैः । दृष्टिः चक्षुः । दृष्टि-
शब्देन प्रतिपादनं दर्शनसौक्ष्म्यस्यैव चित्रकर्मणि प्राधान्यं द्योत-
यितुम् । आलिप्यते परिदिह्यते इत्यनेन यथा सुधादिद्रव्योपलि
प्तत्वे भित्त्यादेरत्यन्तान्तरितत्वम्, तथा दृष्टेरप्यश्रुजलोपलेपलुप्तशक्ति-
त्वात् कथं तत्र प्रवृत्तिरिति सूच्यते । मे योऽहमनुचिन्तितपूर्ववृत्ता-
न्ततान्तमनाः, तस्य मे इत्यर्थः । क्रूरः निरपराधबाधकः क्वचि-
त्कदाचिदप्यनुपजातकरुणाकणश्चेत्यनेन साक्षात्संगमं तावन्न सहतां
नाम, येन केनाप्युपायेन क्रियमाणं स्मरशरमथितचेतसोः संगमाभासं
जनंगमोऽपि सन् क इव न सहते हतविधिमन्तरेणेति दैवविषयो
मन्युः प्रकाश्यते । तस्मिन्नपि अमुख्ये आलेख्यरूपेऽपि । संगमं
संश्लेषम् । नौ आवयोः । कृतान्तः कृतः निर्मितो विशेषेण सर्व-
स्याप्यन्तो नाशो येन सः । अथ वा कृतस्य स्वसृष्टस्य प्रपञ्चस्य
प्रतिसंहर्ता परमेश्वर इत्यनेन निष्प्रतिकारत्वं ध्वन्यते । अत्र तुल्य-
योगितालंकारः ॥ ३८ ॥
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥
अथ तस्मिन्नप्युपाये विहते त्वदुपलम्भायैक एव योगोऽवशिष्टः ;
तत्राप्यपूर्णमनोरथतयातिकरुणं वर्तत इत्याह-- मामाकाशेत्यादि ।
मां य एवं प्रतिहतोपायान्तरस्त्वदालिङ्गनतृषितः, तं माम् । आका-
शप्रणिहितभुजम् अलक्षमेव गगने प्रमोदसरभसप्रसारितबाहुयुगम्,
'क्व नीलकण्ठ व्रजसीत्यलक्षवागसत्यकण्ठार्पित बाहुबन्धना' इतिवत् ।
अतश्च लब्धायाः आश्लेषोद्योगे निद्राभङ्गादपूर्णमनोरथस्यैव प्रबोधः
प्रकाश्यते ; अन्यथा लक्षशून्यत्वोक्त्यनुपपत्तेः । निर्दयाश्लेषहेतोः
स्मरशरसंज्वरितमदङ्गनिर्वापणसुधायमानदृढतरालिङ्गननिमित्तम् । ल-
ब्धायाः प्रमादप्रभ्रंशिताया इव रत्नमालायाः पुनरुपलब्धायाः । ते
मयेति, विरहपरितप्तयोरावयोः परस्परसमागमे या निर्वृतिः, तां
भगवानपर्णाजानिरेव जानातीति द्योत्यते । कथमपीति, नयनजल-
द्रवोद्रेकविद्रावितनिद्रामुद्रतया स्वप्नदर्शनस्यापि कादाचित्कत्वम्,
झटिति विनश्वरत्वं च ध्वन्यते । स्वप्नसंदर्शनेषु स्वप्नावस्थोपपादितेषु
सम्यग्दर्शनेषु । सम्यगिति, सादृश्यस्यापूर्णत्वात्, आलेख्यदर्शनस्य
विहतत्वाच्च, स्वप्ने तु न तथा, दर्शनसुखं तावत्समग्रमुपलभ्यत इति
व्यज्यते । बहुवचनेन विषयान्तरचिन्ताभावान्मनसः, सातत्यवासि-
तायाः स्वप्नोन्मेषप्रमोषयोस्तटित इव तस्याः क्षणे क्षणे दृष्टत्वं नष्टत्वं
च, ततश्च स्वस्य वारं वारं व्याकुलत्वम्, तेन च द्रष्टॄणामतिकरुणार्द्र-
ताजनकत्वं च द्योत्यते । बहुश इत्यनेनाप्ययमर्थः समर्थ्यते । पश्य-
न्तीनां न तु दृष्टवतीनाम् । अनेन दर्शनस्य नैरन्तर्यं प्रकाश्यते । स्थ-
लीदेवतानां गिरिवनस्थल्यभिमानिनीनां देवतानाम् । मुक्तास्थूलाः क-
रुणरसविलीनहृदयतया झटित्यवशमेव विगलनात् स्थूलाः पृथवः ।
मुक्ताफलवत्स्थूला इत्यनेन साहचर्याद्धवलत्वं वृत्तत्वं च लभ्यते ।
तरुकिसलयेष्विति। तासां तरुशिखरेष्ववस्थानात् किसलयानां च
निरन्तरस्थितेरश्रुलेशानां तेष्वेव पतनस्यावश्यंभावात् । अश्रुलेशाः
नयनजलबिन्दवः । किसलयेष्वश्रुलेशाः पतन्तीत्यनेन कोमलारुणेषु
पल्लवेषु स्थूलधवलवर्तुलानाम् अश्रुबिन्दूनामवश्यायशीकराणामिव
परभागलाभात् चटचटध्वनिप्रादुर्भावाच्च स्फुटदृश्यत्वम् । खल्विति
प्रसिद्धौ, सर्वजनविदितोऽयमर्थ इत्यर्थः । अत्र च करुणरसो
ध्वन्यते । लब्धाया अप्याश्लेषानुपलब्धैर्विशेषोक्तिरलंकारः ॥ ३९ ॥
भित्त्वा सद्यः किसलयपुटं देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिड़्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥
अथ तदङ्गस्पर्शसुखलोभेन तदुपलब्ध्युपायमनुष्ठीयमानमाह--
भित्त्वा सद्य इत्यादि । भित्त्वा स्वसंघट्टनेन विदलितमुखं कृत्वा ।
सद्यः अनन्तरमेव । सद्य इत्यनेन अयातयामत्वात् स्पर्शस्य अनन्त-
रितत्वं द्योत्यते । सद्यः प्रवृत्ता इत्यन्वयः । किसलयपुटं बाल्या-
दस्फुटितमुखं पल्लवाङ्कुरम्। अतो मान्द्यमुक्तम्, 'भिन्नशिखण्डि-
बर्हः' इतिवत् । देवदारुरिति कोविदार इतिवत्संज्ञा ; अतो दारुश-
ब्देन द्रुमशब्दस्यापौनरुक्त्यम्, 'स देवदारुद्रुमवेदिकायाम्' इति-
वत् । तत्क्षीरस्रुतिसुरभयः मदभरचण्डवेगवेतण्डगण्डपिण्डकण्डूयना-
दिखण्डितत्वचां तेषां नवीनरसनिष्यन्दैः सुगन्धयः । एतच्च तुषाराद्रि-
वातत्वे प्रमाणम् । दक्षिणेनेति । मार्गेणेति शेषः । 'प्रकृत्यादिभ्य
उपसंख्यानम्' इति तृतीया । समेन धावति, विषमेण धावतीति-
वत् विशेष्याप्रयोगः। आलिङ्गयन्ते प्रसारितबाहुयुगलं परिरभ्यन्ते,
न पुनरालिङ्गिता इत्यनेन प्रतिसमागमं तेषां तथाचरणं ध्वन्यते।
गुणवति विशिष्टस्पर्शादिगुणशालिनि । अनेन येन केनाप्युपायेन तदी-
यस्पर्शसुखानुभवे चेतसि स्फीततृष्णता द्योत्यते। तुषाराद्रिवाता इति,
गिरिराजस्य हिमशीतलतया तदीयत्वाद्वातानां शैत्यमपि सूचितम् ।
पूर्वस्पृष्टं हिमवदुपगमात्प्राक् स्पृष्टम्, कैलासस्य हिमवदुत्तरभागवर्ति-
त्वात्तदधिवासाच्च तेवत्यर्थः । यदि किलेति अपरमार्थसंभावनाया-
मव्ययम् । मम तावदभिनिवेशादेवं मनीषा ; वस्तुतस्तु तथा न
वेति देवो जानातीत्यर्थः । भवेत् संभावनायां लिङ् । अङ्गं शरीरम्,
अथ वा, करचरणादिष्वेकम्; तावतापि मम चरितार्थत्वादिति
भावः । एभिः वातैः । यो य आयाति, स स आलिङ्ग्यते केन-
चित्कदाचित्कस्यचित्कथंचित्तवाङ्गस्य स्पर्शशङ्कयेति बहुवचनेन द्यो-
त्यते । इति एवं निरूपणाद्हेतोः । अयं च श्रीरामायणश्लोकच्छाया-
योनिः श्लोकः ; यथा-- 'वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि
स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः' इति । अत्र च
श्यामास्वड़्गमित्यादिभिश्चतुर्भिः श्लोकैः 'वियोगे चायोगे प्रियजन-
सदृक्षानुभवनं ततश्चित्रालोकः स्वप्नसमये दर्शनमपि । तदङ्गस्पृष्टाना-
मुपगतवतां स्पर्शनमिति प्रतीकारः कामव्यथितमनसां कोऽपि गदितः'
इति गुणपताकोक्तमनुसंहितं वेदितव्यम् । अत्राप्रस्तुतप्रशंसालंकारः,
स्वदेहसंतापनिर्वापकप्रियतमास्पर्शामृततर्षातिशयस्य कारणस्य पवना-
श्लेषरूपकार्यमुखेन प्रतिपादनात् ॥ ४० ॥
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥
अथैवं प्रतिहतसकलसमागमोपायो मन्मथशरमथितचेतस्तया
शक्याशक्यविवेकशून्यां स्वां दशामाह-- संक्षिप्येतेति । संक्षिप्येत
ह्रासं गच्छेत् । क्षणो नाडिकायाः षष्ठो भागः । क्षण इव न तु
याम इव । अनेन मेरोः सर्षपत्वप्रार्थनवदतिविलक्षणवस्तुविषयत्वं
मनोरथस्य ध्वन्यते । कथं केन प्रकारेण, कस्योपायस्यानुष्ठानादि-
त्यर्थ: । दीर्घयामा निर्विनोदतया निद्राविच्छेदाच्च दीर्घीभूता इवा-
नपगच्छन्तो यामा यस्याः । दीर्घयामा, न तु दीर्घेत्यनेन अवयविन्या
यामिन्या एव न केवलम्, अपि तु तदवयवानां यामानामपि न विर-
तिरिति द्योत्यते ; त्रियामेति सोत्प्रासं वचनम् ; परःशतयामामिमां
यामिनीं त्रियामेति कथं कथयन्तीति भावः । सर्वावस्थासु ग्रीष्मे
शरदि मध्याह्ने च । अहः दिनम् । अपिः समुच्चये । मन्दमन्दातपं
निरूष्मतया भृशापटुभूतरविकरोद्योतम्, अन्यथा शीतलतरत्वादा-
लिङ्गनसुखानुस्मारणेन यातनावहत्वात् । 'प्रकारे गुणवचनस्य'
इति द्विर्वचनम् । अत्र त्रियामायाः स्वत एव विरहिजनसंतापक-
रत्वात्संक्षेपस्यैव प्रार्थना ; अह्नस्तु विविधव्यापारविनोदशालितया तीव्रा-
तपत्व एव बाधकत्वान्मन्दमन्दातपत्वाशंसनमेवेति मन्तव्यम् । इत्थम्
अनेन प्रकारेण । चटुलनयन इति, मद्विरहवेदनाविहतधृतिम् अयु-
गशरशरपतनकदनतरलतरनयनयुगलीं पुरोवर्तिनीमिव भवती पश्यत-
स्तस्य मे कथं वा व्यथा मा भूदिति द्योत्यते । दुर्लभप्रार्थनं प्राप्तु-
मशक्ये वस्तुन्याशंसाः यस्य। गाढोष्णाभिः अन्तर्दृढसंतापाभिः ।
कृतं न तु क्रियते । अनेन तथात्वं तस्य पूर्वमेव निर्वृत्तमिति व्यज्यते।
ततश्च प्रतीकाराभावाजीवित एवाशंसा दूरोत्सारितेति ध्वन्यते ।
अशरणं अपगतरक्षकम्, त्वत्समागमस्यैव शरणत्वात्तस्य च विल-
ग्वनादित्यर्थः । त्वद्वियोगव्यथाभिः त्वद्विरहहेतुकैर्वेदनानुभवैः । बहु-
वचनेन प्रकारबाहुल्यं ध्वन्यते । अत्र विरोधोऽलंकारः ॥ ४१ ॥
न त्वात्मानं बहु विगणयन्नात्मना नावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छन्त्युपरि च दशाश्चक्रनेमिक्रमेण ॥ ४२ ॥
अथैवं त्वद्विरहव्यथाक्षुभितं निधनोन्मुखमपि जीवितं त्वत्समाग-
मप्रत्याशाभेषजेनाहं परिरक्षामि ; तस्मात्त्वमपि मत्प्राणत्राणकारणात्
कुसुमसुकुमारं स्वजीवितं कथंचिद्धारयेति समाश्वासयति-- न त्वा
त्मानमित्यादि । तुशब्दो विशेषे ; अतिदुःखितस्य प्राणत्यागे योग्ये-
ऽपीत्यर्थः । आत्मानं जीवं देहं वा । 'आत्मा जीवे धृतौ देहे '
इति वैजयन्ती । बहु विगणयन् त्वया सहोपरि परिभोक्ष्यमाणमनेक-
मभिलाषविषयं विचिन्तयन्निति हेतुः । आत्मना धृत्या ; अथ वा,
धैर्यावलम्बिना रवैनैव, समाश्वासयित्रन्तराभावात् । न नावलम्बे नि-
पातान्निवारयाम्येव । तत् तस्मात्कारणात् । कल्याणि पुण्यलक्षणे
इत्यामन्त्रणेन प्रशस्तलक्षणप्रकाशितभविष्यदनवद्यसमृद्धिसंभारा भ-
वती न अतिचिरं दुःखस्य भाजनं भविष्यतीति द्योत्यते । त्वमपि त्वद-
पेक्षयाहमिव, मदपेक्षणेन त्वमपीत्यर्थः । सुतरां यावता जीवितव्यसन-
मापतेत्, तावदित्यर्थः । कातरत्वं दुःखानुभूतौ अधीरताम् । लोक-
वृत्तमवेक्ष्यापि त्वया धैर्यमवलम्बनीयमित्याह-- कस्येति । त्रैलोक्या-
न्तवर्तिनः स्थिरस्य चरस्य वा कस्य भूतस्येत्यर्थः; पुरन्दरादिषु देवता-
विशेषेष्वपि वृत्रवधादौ स्वपदभ्रंशप्रत्त्यापत्त्याद्यतीतवृत्तान्तश्रवणात्,
वर्तमानेषु च तथानुभवात्, भविष्यत्सु च तथानुमानादित्यर्थः ।
अत्यन्तं निरतिशयम् । सुखम् अनुकूलविषयसाध्योऽनुभवः। उपनतं
प्राप्तम् । दुःखं प्रतिकूलविषयसाध्योऽनुभवः । एकान्ततः कालत्रि-
तयेऽप्येकरूपेणेत्यर्थः। कस्य सुखं दुःखं वा अत्यन्तम् एकान्तत
उपनतमित्यन्वयः, 'नैकान्तात्यन्ततोऽभावात्' इतिवत् । तत्र हेतु-
माह-- नीचैः अभिमतविषयपरिपोषणविरहादपरेण रूपेण । उपरि
तद्वैषम्यादुत्कृष्टेन। चकारेण आश्रयैक्यं प्रकाश्यते । गच्छन्ति न तु
गम्यन्ते आपाद्यन्त इति वा । अनेन पुराकृतविचित्रकर्मोपनेयानां
तासां कालवशेन स्वयमेव प्रवृत्तेः पुरुषेच्छाधीनत्वं निरस्यते ; यथाह
कश्चित्-- 'देहिनामिति विचित्रकर्मणामुच्चनीचफलभोगसाक्षिणी ।
कालकालमपहाय केवलं कालशक्तिरिह केन लङ्घयते ॥' इति, 'वासरं
वासतेयीं च पाराधीन्येन पश्यतः । सुस्थान्याभ्यामवस्थाभ्यां स्वस्थाभ्यां
कौ मदेतरौ ॥' इति च । दशाः अवस्थाः । बहुवचनेन देशकालाद्यु-
पाधिभेदात् बाहुविध्यमवबोध्यते । चक्रनेमिक्रमेण चक्रं रथचरणं
तस्य नेमिः धारा क्रमः तदीयं संचरणम्, न्यायो वा-- स चोर्ध्वगतस्व
भागस्याधोगमनमधोगतस्य च पर्यायेणोर्ध्वगमनमिति ; तेन तत्सदृशेन
क्रमेणेत्यर्थः । 'चक्रधारा प्रधि नेमिः' इत्यमरः । अत्र प्रकृतशृङ्गा,
ररसप्रतिकूलशान्तरसोद्दीपनविभावप्रसड़्गशड़्का न कर्तव्या, लोकवृत्ता-
न्तप्रदर्शनेन प्रियतमाहृदयधैर्यापादन एव तात्पर्यात् । किंच
'न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः' इत्यत्र कालस्या-
पुनरागमप्रतिपादनात् विरुद्धरसविभावत्वमेव ; अत्र तु न तथा, सुख-
दुःखयोर्द्वयोरपि पर्यायप्रवृत्तिप्रकाशनात्; लोकवृत्तनिदर्शनेन प्रिया-
जीवितावलम्बनप्ररोचन एव विरहविधुरितस्य कामिनः प्रवृत्तेः,
दुःखमात्रप्रतिपादने च निर्वेदशङ्काया अवकाशलाभात्, परस्परप्रेमसं-
दानितयोर्विधिवशोपनीतविरहोत्तामिनोः कामिनोर्भविष्यत् क्षणिकमपि
समागमसुखमवेक्ष्य 'एति जीवन्तमानन्दो नरं वर्षशतादपि' इति
मनीषया वर्षशतानुभाव्यमपि दुःखं तितिक्षमाणयोर्विदेहकैवल्यनिर्वृ-
तेरपि विषयसुखेष्वेव बहुमतेः शान्तस्य स्वप्नेऽप्यसंभाव्यत्वाच्च ।
अर्थान्तरन्यासोऽलंकारः ॥ ४२ ॥
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
मासानन्यान्गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४३ ॥
अथ कियदवधिरियं धैर्यस्तम्भावष्टम्भेन जीवितालम्बनविडम्बनेति
दुःखनिःसहायाः प्रियाया हृदयमाशड़्क्य तदवधिलाघवप्रतिपादनेन भ-
विष्यत्सुखसंपत्प्रकाशनेन च तात्पर्यमवस्थापयति-- शापान्त इत्यादि ।
शापान्तः यक्षेश्वरदत्तस्य शापस्य निवृत्तिः । भुजगशयनात् अनन्ता-
ख्यनागराजरूपात् तल्पात् । शयनादुत्थित इति, स्वात्मानुसंधानरू-
पयोगनिद्रामुद्रितनयनारविन्दस्येन्दिरापतेः परमात्मनः परमार्थतः
संवेशोत्थानयोरभावेऽपि भक्तजनपूजनादिहेतोः शुद्धकालसंपादनाय
शेषशयनप्राप्तिपरिहारौ, न तु स्वापप्रबोधाविति द्योत्यते, 'असुवंतो
वि पबुद्धो पुढमविबुद्धसिरिसेविओ महुमहणो' इति सेतूक्तवत् । तथा
कौर्मे-- 'क्षीराब्धौ शेषपर्यङ्के आषाढ्यां संविशेद्धरिः । निद्रां त्यजति
कार्तिक्यां तयोः संपूजयेद्धरिम् ॥' इति । सदा जागरूकत्वमेव जग-
द्गुरोरुपपादयति–शार्ङ्गपाणाविति। 'भूतादिमिन्द्रियादिं च द्विधा-
हंकारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥' इति
श्रीविष्णुपुराणोक्तेः, तत्वदृष्टया निखिलेन्द्रियकारणभूततैजसाहंकाररूप-
शार्ङ्गधारणात्सकलेन्द्रियप्रवर्तकत्वेनापरिलुप्तदृक्स्वरूपस्य, लोकदृष्टया
दुष्टनिष्टापनप्रकृष्टदिव्यायुधवहनाल्लोककण्टकखण्डनव्यापृतस्य कुतो
निद्राप्रसङ्गः ; कुतस्तरां च प्रबोधशङ्केति व्यज्यते । अतश्चातीतशर-
न्कालप्रारम्भे शापस्योपलम्भ इति गम्यते; तदानीं च तत्प्राप्तिर्वर्ष-
यन्त्रितानां प्रवर्तकत्वाच्छरदस्तदारम्भेऽप्यस्य दयितादिसङ्गेन निधि-
पालनादौ स्वाधिकारे प्रमादादित्यवसेयम् । अन्यान्, गमितेभ्य
इत्यर्थात् । गमय अतिवाहय । चतुर इति, तस्याः स्थैर्यापादनाय
लघुत्वादकृच्छ्रयाप्यत्वं ध्वनति । विरहव्यथामूर्च्छनेन मासमेकमपि
यापयितुं न कश्चिदुपायः, किमुत मासचतुष्टयमित्याशङ्ख्याह-- लोचने
मीलयित्वा नयने निमील्येति लोकोक्त्यनुसारः ; यथा कश्चित्कातरो
जनः स्वाङ्गसंभूतपिटकादिच्छेददाहक्षारप्रयोगादिप्रसङ्गे तद्दर्शनमसह-
मानो गत्यन्तराभावान्नयननिमीलनेन प्रतीकारेण तद्दुःखं गमयति,
तथा त्वमपि दु:खमनालोचयन्ती विविधकार्यव्यापारितेन चेतसा
मासान् गमयेत्यर्थः । एवं कथंचिज्जीवने भविष्यत् फलगौरवमाह--
पश्चात् मासचतुष्टयात्ययेन शापे क्षालिते। आवां त्वमहं च । विरह-
गुणितं वियोगेन बहुमुखीकृतम्, भोगैरपूर्यमाणत्वात्, अभिमत-
विषयालाभे च वर्द्धिष्णुत्वात्तृष्णायाः । तं तमिति, प्रतिक्षणं प्रसरतां
मनोरथानामीदृक्तया इयत्तया वा अनवधारणीयत्वं द्योत्यते। आत्मा-
भिलाषम्, अभिलष्यते प्रार्थ्यते इत्यभिलाषविषयोऽत्राभिलाष
उच्यते । आत्मशब्देन च भिन्नरुचित्वान्मनसां मम कश्चिदुपभोग-
प्रकारोऽभिलषितः, तव कश्चिदन्य इत्यभिव्यज्यते । निर्वेक्ष्यावः
उपभोक्ष्यावहे । तं तं निर्वेक्ष्याव इत्यनेन प्रत्यापन्नदिव्यमहिमसंपन्नत-
या तदानीमनवद्यदिव्योद्यानसरोविहारगीतनृत्तवाद्यविद्याविशेषप्रयोग-
प्रकृष्टवारुणीरसास्वादबहुविधपरिरम्भचुम्बनादिषु संभोगप्रकारेषु म-
नोरथविषयेषु संकल्पमात्रोदयत्सिद्धिकत्वान्न प्रतिनिधिग्रहणदौर्गत्यवै -
रस्यमिति प्रकाश्यते । तदनुकूलं कालसौन्दर्यमाह-- परिणतशरच्च-
न्द्रिकासु मेघाद्यावरणविरहेण लब्धसामग्रीका शरत्प्रसन्ना ज्योत्स्ना
यासु। अनेन स्वनिवासभूतायामलकायां सदा शरदः संन्निधानात्त-
त्प्रसादितायाश्चन्द्रिकाया अप्यविच्छेदान्निष्प्रत्यूहसंभोगसंपत्त्वं सूच्यते ।
क्षपासु रात्रिषु । क्षपाग्रहणेन शापमोक्षादूर्ध्वं पुनरीदृशव्यसनापातप-
रिहाराय स्वाधिकारावधानेनैव दिवसानामतिवाहनात् भोगयोग्ये
निशमुख एव संभोगारम्भादसंभाव्यविरहत्वं ध्वन्यते । अत्र
उदात्तमलंकारः । अत्र च 'श्यामास्वङ्गम्' इत्यारभ्य 'आत्माभि-
लाषं निर्वेक्ष्याव:' इत्यन्तमिदं वचनम् 'मन्मुखेनेदमाह' इति
संदेशकथनं परिसमापितं वेदितव्यम् । इति शब्दोपादानं तु गम्य-
त्वान्न कृतम् ॥ ४३ ॥
भूयश्चाह त्वमसि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा ।
सान्तर्हासं कथितमसकृत्पृच्छते च त्वया मे
दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ४४ ॥
अथ कथितस्य संदेशस्य विश्वास्यतासिद्ध्यै किमप्यविगीतं चिह्न-
मपि प्रियसुहृदा दत्तमित्याह-- भूयश्चेत्यादि । भूयश्च एवं संदे-
शमुक्त्वा पुनरपीति चकार: पूर्वोक्तसमुच्चये । शयने न तूद्यानविहा-
रादौ। अनेन विजने वासमन्दिरे मद्द्वितीया हंसतूलिकातल्पगतेति
सखीभिरप्यविदितस्य द्वाभ्यामेव ज्ञातत्वं द्योत्यते । कण्ठलग्ना दृढतर-
भुजलताबन्धेन मालतीमालिकेव कण्ठे सुश्लिष्टा । अनेन सुरता-
वसानसादनि:सहैरङ्गैः संदष्टत्वं सूच्यते । पुरा परस्परसमागमसुखेन
रसमयेष्विव दिवसेष्वतिक्रान्तेषु ; कदाचिदिति शेषः । मे निरति-
शयगुणगणवशीकृततया त्वदेकरसस्य मे इत्यर्थः । किमपि निद्रां
गत्वा 'घेत्तुं मुंचइ अंग रोअण्णंतो वळ्ळपेक्खिउं दिग्घटिउं ।
विघडन्ति भुआरआ असुरअम्मि वीसामो' इत्युक्तनीत्या निर्विघ्ने राग-
राज्ये प्रवर्तमानेऽपि रतिखेदसादवशेनेषन्निद्रां प्राप्येत्यर्थः । सस्वरं
रुदती अदृष्टपूर्वमदीयप्रणयापराधदर्शनप्रचण्डखण्डनोद्दण्डमन्युसंभार-
विवशतया मुक्तकण्ठं प्ररुदितेत्यर्थः । विप्रबुद्धा व्याकुलं प्रबुद्धा,
असीत्यन्वयः । सान्तर्हासं प्रबोधानन्तरमेव प्रेमकाष्ठाप्रतिष्ठितनिज-
हृदयातिशङ्कानुगुणोन्मेषेण स्वप्नदर्शनेन स्वस्याः प्रतारितत्वमवगम्य
समुल्लसितमन्दस्मितमिति कथनक्रियाविशेषणम् । असकृत् पृच्छते
त्वत्क्षोभदर्शनकम्पितहृदयतया किमिदममृतहासिनि कथय कथयेति
सशफथं पुनः पुनरनुयुञ्जानाय । चकारः प्रबोधेन कथनं समुच्चि-
नोति । कितव वञ्चक । अनेन स्वप्न इति ऋजुधियो मे प्रतिभाति ;
कितवेन त्वया तु साक्षादेव तथा समाचरितं न वेति दैवं जानातीति
तस्याः प्रणयकोपानुवृत्तिः प्रेमातिशङ्कामौग्ध्यं च ध्वन्यते । रमयन्
आलिङ्गनादिभिरुपचरन् । कामपि रमयन् दृष्ट इत्यनेन आवेगाज्झ-
टिति प्रबोधेन नायिकान्तरस्य विशेषानालोचनम्, ततश्च दृष्ट इति
दर्शनमेव कृतम्, न तु तदनन्तरभावि चरणताडनादि प्रयुक्तमि-
त्यनुतापो व्यज्यते । त्वं मयेति, त्वमेव मयैव स्वप्नेऽप्येवं दृश्यस
इत्यतः किमरुंतुदं ममेति प्रतीयते । इति कथितं चेत्यन्वयः ॥
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
या कौलीनादसितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे हासिनस्ते ह्यभोगा-
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४५ ॥
अथैवमुक्तमर्थमभिज्ञानत्वेन संवादयन्, आत्मनः कुशलित्वे
तस्या निश्चयमुपपाद्य, शङ्कान्तरमपि संभावितं निरस्य, प्रयत्नतोऽपि
जीवितधारणे स्थैर्ये हृदयस्य च व्याकुलतापनोदनेन परं प्रमोदमापा-
दयति-- एतस्मादित्यादि । एतस्मात् अनन्तरकृतात् । कुशलिनं
जीवन्तम् । अभिज्ञानदानात् चिह्नसमर्पणात् । 'अङ्कश्चिह्नमभिज्ञा-
नम्' इत्यमरः । विदित्वा निश्चित्य । कौलीनात् रससुधार्णवविगा-
हविधुराणां पुरुषविशेषमजानतामितरजनानाम् 'स्नेहः प्रवासा-
श्रयात्' इत्यादिसामान्यवचनं प्रमाणयतामनुपपत्तिकात्प्रलापात्,
'कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः' इतिवत् ।
'कौलीनं जनवादः' इत्यमरः । असितनयने आसतां तावदनवद्य-
लावण्यसुधास्रोतःस्रावीणि अवयवान्तराणि ; विपुलचपलमेचकाभ्यां
विलोचनकुवलयाभ्यामेव ते विचिन्तिताभ्यां बलवदशरणीकृते मयि
कः पुनरन्यथाशङ्काया अवकाश इति द्योत्यते । अविश्वासिनी
पुरातनोत्तरङ्गप्रेमभङ्गप्रसङ्गशङ्कया विस्रम्भरहितेत्यर्थः। जनवादप्रका-
रमेव प्रकाशमनूद्य, तमुपपत्त्या दूषयन्, विश्वासं दृढीकरोति-- स्ने-
हान् केषां चित्केषुचित्स्वरसत एव जायमानान् प्रेमबन्धान् ।
बहुवचनेन कस्यचित्कदाचित्केनचिदुपाधिना भवतु नाम प्रेमभ्रंशः,
तं हन्त सार्वत्रिकं मन्यन्ते मन्दा इति द्योत्यते । आहुः कथयन्तीति
वक्तृविशेषानिर्देशेन अनिर्दिष्टवक्तृकस्यैतिह्यस्य कालतालीयत्वेन प्रा-
माण्यनियमं निरस्यति; 'जगति बहु न तथ्यं नित्यमैतिह्यमुक्तम्' इति
वचनात् । किमपि ह्रासिनः पूर्वावस्थातः किंचिदपक्षययुक्तान् । ह्रा-
सिन इत्याहुरित्यन्वयः । ते स्नेहाः । हिस्त्वर्थे ; ते तु तथा न नियता
इत्यर्थः । अभोगात् भोगाभावात्, भोगे हि भोजन इव क्षुधो रसस्य
क्षयः शनैर्भवत्यपीत्यर्थः । इष्टे वस्तुनि बुभुक्षिते पदार्थे। वस्तुनीति,
न केवलं प्रियाविषय एवायं नयः ; अपि तु सर्वस्मिन्भाव इति द्यो-
त्यते। उपचितरसाः तदा तदानुचिन्तया प्रतिक्षणप्रवृद्धरागाः ।
प्रेमराशीभवन्ति यथा व्रीह्यादयोऽनुपभुज्यमानाः सजातीयप्रक्षेपेण
प्रतिदिनमुपचीयमानाः कालतः पर्वतवत्परिवर्धन्ते, एवं काष्ठागतप्रे-
मपुञ्जतया परिणमन्तीत्यर्थः । यत एवम्; अतः प्रतिदिनोप-
चीयमानप्रेमरसविसरविवशमनसि त्वदुपसरणाशाधारितजीविते मयि
विश्वासिनी भूत्वा धैर्यमवलम्ब्य स्वजीवितपरिरक्षणाय प्रि-
यतमे प्रयतेथा इति भूयश्चाहेत्यन्वयः । अत्राप्रस्तुतप्रशंसा, अर्था-
न्तरन्यासो वालंकारः । 'तव सहचरो रामगिर्याश्रमस्थः इत्यार-
भ्य 'मय्यविश्वासिनी भूः' इति 'भूयश्चाह' इत्यन्तस्य प्रकरणस्य
संदेशत्वात् तस्य च परिसमाप्तत्वात् 'एवं ब्रूयाः' इति क्रिययान्व-
यो ज्ञेयः ॥ ४५ ॥
कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दो हि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं तु प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ४६॥
अथैवं संदेशप्रकारं परिसमाप्य, तच्छ्रवणकृतावधानस्य दौत्या-
वलम्बिनोऽम्बुवाहस्य तूष्णींभवतोऽपि स्वकार्यकरणेऽनुमतिं परिकल्प्य,
सानुनयप्रश्नरूपेण तं व्यवसाययन्, लोकोत्तरस्वभावप्रकाशनेन तमु -
पश्लोकयति-- कच्चित्सौम्येत्यादि । 'कच्चित्प्रश्ने सानुनये' इत्य-
मरः । सौम्य अक्रूरहृदय । अनेन एतस्यामवस्थायामीदृशं दुःखितं
जनमुपेक्ष्य गन्तुं चण्डालानामिवातिक्रूराणामेव युज्यते धैर्यम्, न तु
करुणामृतार्द्रचेतसां त्वादृशामिति व्यज्यते । व्यवसितम् अवश्यकर्त-
व्यत्वेनाङ्गीकृम् । इदम् अनन्तरप्रतिपादितम् । बन्धुकृत्यं सुहृद्भिर-
ष्ठातुं योग्यम्, आपदि शरणत्वेन तिष्ठत एव बन्धुत्वात् । प्रत्यादे-
याच्ञाया अवधीरणात् । हेतौ ल्यब्लोपे वा पञ्चमी; प्रत्यादेशं
कृत्वेत्यर्थः । 'प्रत्यादेशो निराकृतिः' इत्यमरः । खलुः वाक्यालं-
कारे। भवतः अभिजनादिभिर्मान्यस्य तव । धीरतां निर्दयताम् ।
कल्पयामि मनसा संभावयामि, तद्विषये मम संशय एव नास्तीत्यर्थः ।
नियोज्यस्यानुवादे हि नियोक्तुः संशयनिर्वृत्तिर्युक्ता । मम तूष्णीं-
भावे कथं सेति चेत्तत्राह-- निःशब्द इति । निरस्तगर्जितः । हिः
प्रसिद्धौ ; 'वर्षति वर्षासु निस्वनो मेघः' इत्यादिभिर्लोकसिद्धोऽयम-
र्थः इत्यर्थः । प्रदिशसि प्रशस्तं ददासि, समये संभवित्वाद्दानस्य । या-
चितः तृष्णातिशयवशादाक्रन्दितेन प्रबोधितः, समासन्नवृष्टिसूचकत्वा
च्चातकरटितस्य । चातकेभ्य इति बहुवचनेन अनिर्वेदो ध्वन्यते।
अयमेव च सज्जनस्वभाव इत्याह-- प्रत्युक्तं प्रतिवचनम् । तुशब्दो
विशेषे । प्रणयिषु स्वाभिलषितं याचमानेषु । सतां फलानुमेयप्रार-
म्भाणां प्रकृत्या मितभाषिणां महापुरुषाणां । ईप्सितार्थक्रिया तेषामा-
प्तुमिष्टस्य प्रयोजनस्य करणम् । एवकारेण न तु फलशून्यो मृषा
गर्जिताडम्बर इति द्योत्यते । अर्थान्तरन्यासोऽलंकारः ॥ ४६ ॥
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री-
र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥४७॥
अथाभ्युपगतकार्याय मुदितचेतसे प्रतिष्ठमानाय पयोमुचे स्वाभिमत-
करणोद्योगपरितुष्टेन गुह्यकश्रेष्ठेन प्रयुज्यमानामाशिषं द्वारीकृत्य रसिक-
जनचातकालिकालमेघः कालिदासः प्रारब्धं मेघसंदेशं परिसमाप्य
व्याख्यातृश्रोतॄन्प्रति परमाशीर्वचनं प्रयुड़्क्ते-- एतत्कृत्वेत्यादि । एतत्
प्रस्तुतम् ; कार्यमिति शेषः । कृत्वा अनुष्ठाय । प्रियम् इष्टम्, प्रियत-
माप्रेमग्रहगृहीततामात्रेणौचित्यमनवेक्ष्य प्रस्तुतत्वात् ; तदाह-- अनुचि-
तप्रार्थनावर्त्मनः 'न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः' इति
न्यायात् सुरपतिसाचिव्यभव्यस्य भवतो लघीयसि दूतकर्मणि यो नियो-
गः, तद्रूपे अनुचिते वस्तुनि याञ्चाप्रकारौ यस्य । ममैव नियोक्तुस्तदनु-
चितम्, नियोज्यस्य भवतः प्रत्युत भूषणमेव तदिति हेतुयेनाह--
सौहार्दात् सुहृद्भावात्, मित्रत्वादित्यर्थः ; मित्रकार्ये का पुनरुचिता-
नुचितचिन्ता, 'सारथ्यपारिषदसेवनसख्यदौत्यवीरासनानुगमनस्तव-
नप्रणामैः । स्निधेषु पाण्डुषु जगत्प्रणतस्य विष्णोर्भक्तिं चकार नृपति-
श्चरणारविन्दे ॥' इत्युक्तेर्भगवतोऽपि त्रिभुवनगुरोर्लक्ष्मीपतेः सुहृत्पक्ष-
पातेन तत्तदनुचितकर्मप्रवृत्तेरिति भावः । हेत्वन्तरमाह-- विधुरः
विरहक्लिष्ट इति हेतोः । मय्यनुक्रोशबुद्ध्या वा ईदृशदशाविशिष्टत्वेन
पुरोवर्तिनि मयि कारुण्यबुद्ध्या वा ; सौहार्दमन्तरेणापि तत्कालदृष्टेऽपि
क्लिष्टे जने सतां जीमूतवाहनादीनामिव दयामयत्वेन परित्राणप्रवृत्त्यौ-
चित्यादिति भावः । सौहार्दाद्वा अनुक्रोशबुद्ध्या वेति विकल्पेन द्वयो-
रेकस्यापि प्रवर्तकत्वम् ; किं पुनरेकत्र समुदितयोर्द्वयोरपीति ध्वन्यते ।
इष्टान् अभिमतभोगसाधनसामग्र्या विचरितुमभिरुचितान् । देशान्
स्वर्गादीन् । बहुवचनेन क्वचिद्देशे कदाचिद्वर्षाः, अन्यत्रान्यदा ;
अतो यत्र यत्र स्वानुकूलः कालो वर्तते, तत्र तत्र पर्यटनं कार्य-
मिति द्योत्यते । विचर विविधप्रकारैः पुष्पमेघत्वादिभिः परिक्राम ।
जलद समुचितप्रदेशवर्षणपर । अनेन तत्तद्देश्यानामपि त्वदुपगमः
प्रमोदायेति द्योत्यते । प्रावृषा संभृतश्री: पूर्वोक्तनीत्या नित्यं वर्षर्तु-
ना संपादिता शिखण्डिताण्डवबलाकाभिगमकदम्बसौरभसुरपति-
शरासनादिशोभिनी समृद्धिर्यस्य । एवं यथा मम मत्प्रियतमयेति
व्यतिरेकदृष्टान्तः । क्षणमपि कालकलामपि । विद्युता निजप्रियतमया
परमसुषमासंपादिन्या सौदामिन्या । विप्रयोगश्च मा भूदित्यन्वयः ।
एषा यक्षवचनत्वेन योजना । अथ कविवचनत्वेन योज्यते-- एतत्
मेघसंदेशत्वेन प्रारब्धं संपूर्णं चेदं काव्यम् । कृत्वा गुरुमुखेन शिक्षि-
त्वा, 'कृतास्त्रः कृतविद्यः कृतहस्तः' इतिवत् । प्रियं रससंरम्भेण
सादरं निर्मितत्वात् । अनुचितप्रार्थनावर्त्मनः सतां गुणग्रहणलोभेन
स्वयमेव प्रवृत्त्युपपत्तेर्मम त्वेतन्निरीक्षणप्रार्थना अनुचितेत्यर्थः । सौहा-
र्दात् मात्सर्यादिदोषोत्सारणविशुद्धहृदयतया । विधुरः एतद्विरचना-
यासक्लेशितः । अनुक्रोशबुद्ध्या दाक्षिण्येन 'प्रणयिषु वा दाक्षिण्यात्'
इत्युक्तत्वात् । इष्टान् देशान् यत्र यत्र रुच्यनुरोधेन गम्यते, तत्र
तत्रैतच्छीलनोन्मीलितमनीषस्य रसिकसदसि सत्कारलाभात् । जलद
जलानां नीरसदुस्तार्किकाणां खण्डक । अथवा रसातिशयजनकत्वेन
सहृदयानामानन्दवाष्पजलदायिन्, हे श्रोतः, व्याख्यातश्च । प्रावृडिति
सुखशीतलकालोपलक्षणम् । रसानुभवविनोदात्सुखायमानेन कालेन
जनितशोभः । अथ वा प्रावृडिति समयवर्षितया राजावली लक्ष्यते ।
तया गुणगणाह्लादितया वितीर्णधनधान्यादिरूपलक्ष्मीयुक्तः । एवमि-
ति, अभिनयेन पुरोवर्ती सुखदुःखाभ्यां श्लिष्टविशिष्टो लोक इवेति
वैधर्म्यदृष्टान्तः प्रदश्यते। विद्युदिव चञ्चलत्वात् विशेषेण द्योत-
नाच्च पूर्वप्रस्तुता श्रीर्विद्युदित्यभ्यवसीयते ; तथा वियोगश्च मा भूत्
श्रीः सिध्यतु, तया सततमविरहश्च भूयादित्याशिषा श्रीशब्दप्रयो
गाच्च एतत्काव्यश्रोतृव्याख्यात्रादीनामभङ्गुरमङ्गलसंपत्तिरित्यशेषमति-
मङ्गलम् ॥ ४७ ॥
पूर्णसरस्वत्याख्यः पूर्णज्योतिःपदाब्जपरमाणुः ।
मेघस्य विवृतिमेतां विदधे विद्युल्लतां नाम्ना ॥
विद्युल्लताकृतोद्योतं मेघं दृष्ट्वा रसस्रुतम् ।
नर्तनेऽपि प्रवर्तन्तां मत्ताः केऽपि कलापिनः ॥
सुकविवचसि पाठानन्यथाकृत्य मोहा-
द्रसगतिमवधूय प्रौढमर्थं विहाय ।
विबुधवरसमाजे व्याक्रियाकामुकाणां
गुरुकुलविमुखानां धृष्टतायै नमोऽस्तु ॥
यस्य भासा जगद्भाति यद्भासा भाति मन्महः ।
अविद्याविद्विषे तस्मै श्रीपूर्णज्योतिषे नमः ॥
भाविःस्नेहमुपासिता सह बुधैरन्ते वसन्त्या गिरा
चान्द्री चन्द्रिकयेव मूर्तिरमला तारागणैः शारदी ।
मूले धाम्नि निषेदुषी वटतरोर्मुग्धेन्दुना मुद्रिता
मुद्रा वेदगिरां परा विजयते विज्ञानमुद्रावती ॥
इति श्रीपूर्णसरस्वतीविरचितया विद्युल्लताख्यया व्याख्यया समेते महाकविश्रीकालिदासकृते मेघसंदेशे द्वितीयाश्वासः समाप्तः । अनेन व्याख्यात्रा अनुद्धृतानि मल्लिनाथेन व्याख्यातानि पद्यानि ।
प्रथमाश्वाशे
'नीपं दृष्ट्वा' इति पद्यानन्तरम्
अम्भोबिन्दुग्रहणचतुरांश्चातकान्वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥
प्रक्षिप्तमपि व्याख्यायते । अम्भ इति । अम्भोबिन्दूनां वर्षो-
दबिन्दूनां ग्रहणे 'सर्वंसहापतितमम्बु न चातकस्य हितम्' इति
शास्त्राद्भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे । चतुरान्
चातकान् । वीक्षमाणाः कौतुकात्पश्यन्तः । श्रेणीभूताः बद्धपङ्क्तीः ।
अभूततद्भावे च्विः । बलाका बकपङ्क्तीः । परिगणनया एका द्वे तिस्र
इति संख्यानेन। निर्दिशन्तो हस्तेन दर्शयन्तः । सिद्धाः। स्तनितसमये
त्वद्गर्जितकाले । सोत्कम्पानि उत्कम्पपूर्वकाणि । प्रियसहचरीणां संभ्रमे-
णालिङ्गितानि आसाद्य। स्वयंग्रहणाश्लेषसुखमनुभूयेत्यर्थः। त्वां मान-
यिष्यन्ति ; त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥
'दीर्घीकुर्वन्' इति श्लोकानन्तरम्
हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः
शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गा-
न्संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥
हारानिति । यस्यां विशालायाम् । कोटिशः । विपणिषु पण्यवीथि-
कासु । 'विपणिः पण्यवीथिका' इत्यमरः । रचितान् प्रसारितान् ।
इदं विशेषणं यथालिङ्गं सर्वत्र संबध्यते । तारान् शुद्धान् । 'तारो
मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके' इति विश्वः। तरलगुटिकान् मध्य-
मणीभूतमहारत्नान् । 'तरलो हारमध्यगः' इत्यमरः । 'पिण्डे मणौ
महारत्ने गुटिका बद्धपारदे' इति शब्दार्णवे । हारान् मुक्तावलीः ।
तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च । 'मुक्तास्फोटः स्त्रियां
शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ' इत्यमरः । शष्पं बालतृणं तद्वच्छ्या-
मान् । 'शष्पं बालतृणं घासो यवसं तृणमर्जुनम्' इत्यमरः । उन्म-
यूखप्ररोहान् उद्गतरश्म्यङ्कुरान् । मरकतमणीन् गारुडरत्नानि । तथा
विद्रुमाणां भङ्गान् प्रवालखण्डांश्च । दृष्ट्वा । सलिलनिधयः समुद्राः ।
तोयमात्रमवशेषो येषां ते तादृशाः । संलक्ष्यन्ते तथानुमीयन्त इत्यर्थः ।
रत्नाकरादप्यतिरिच्यते रत्नसंपद्भिरिति भावः ॥
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्धान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥
प्रद्योतस्येति । अत्र प्रदेशे। वत्सराजो वत्सदेशाधीश्वर उदयनः ।
प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः । प्रियदुहितरं वासवदत्ताम् ।
जह्रे जहार । अत्र स्थले । तस्यैव राज्ञः प्रद्योतस्य । हैमं सौवर्णम् ।
तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजः । दर्पात्
मदात् । स्तम्भम् आलानम् । उत्पाट्य उद्धृत्य । उद्भ्रान्त उत्पत्य
भ्रमणं कृतवान् । इति इत्थंभूताभिः कथाभिरित्यर्थः । अभिज्ञः
पूर्वोक्तकथाभिज्ञः कोविदो जनः । आगन्तून् देशान्तरादागतान् ।
औणादिकस्तुन्प्रत्ययः । बन्धून् । यत्र विशालायाम् । रमयति विनो-
दयति । अत्र भाविकालंकारः । तदुक्तम्-- 'अतीतानागतं यत्र
प्रत्यक्षत्वेन लक्ष्यते। अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ।' इति ॥
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास्त्वमित्र करिणो वृष्टिमन्तः प्रभेदात् ।
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥
पत्रेति। हे जलद, यत्र विशालायाम् । वाहा हयाः । पत्रश्यामाः
पलाशवर्णाः। अत एव दिनकरहयस्पर्धिनः वर्णतो वेगतश्च सूर्याश्वक-
रूपाः। तथा शैलोदग्राः शैलवदुन्नताः । करिणः प्रभेदात् मदस्रावात्
हेतोः । त्वमिव वृष्टिमन्तः । अनं नयन्तीत्यग्रण्यः । 'सत्सूद्विषः-- 'इत्या-
दिना क्विप्। 'अग्रग्रामाभ्यां नयतेः' इति वक्तव्याण्णत्वम्। योधाना-
मग्रण्यो भटश्रेष्ठाः। संयुगे युद्धे । प्रतिदशमुखम् अभिरावणम्। तस्थि-
वांसः स्थितवन्तः । अत एव चन्द्रहासस्य रावणासेर्व्रणानि क्षतान्ये -
वाड़्काश्चिह्नानि तैः । 'चन्द्रहासो रावणासावसिमात्रेऽपि च क्वचित्'
इति शाश्वतः । प्रत्यादिष्टाभरणरुचयः प्रतिषिद्धभूषणकान्तयः । शस्त्र-
प्रहारा एव वीराणां भूषणमिति भावः । अत्रापि भाविकालंकारः ॥
द्वितीयाश्वासे
'हस्ते लीलाकमलम्' इति श्लोकानन्तरम्
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥
यत्रेति । यत्रालकायाम् । पादपा वृक्षाः । नित्यानि पुष्पाणि येषां
ते तथा, न त्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः
शब्दायमानाः । नलिन्यः पद्मिन्यः नित्यानि पद्मानि यासां तास्तथा,
न तु हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः
नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूराः । नित्यं
भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः, न तु वर्षास्वेव ।
अत एव केकाभिरुत्कण्ठा उद्गीवाः । प्रदोषा रात्रयः नित्यं
ज्योत्स्ना येषां ते, न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां
वृत्तिर्व्याप्ति ते च ते रम्याश्चेति तथोक्ताः ॥
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-
र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति-
र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥
आनन्देति। यत्रालकायाम्। वित्तेशानां यक्षाणाम्। 'वित्ताधिपः
कुबेर: स्यात्प्रभौ धनिकयक्षयोः' इति शब्दार्णवे । आनन्दोत्थमा-
नन्दजन्यमेव। नयनसलिलम्। अन्यैर्निमित्तैः शोकादिभिर्न। इष्टसंयो-
गेन प्रियजनसमागमेन साध्यान्निवर्तनीयात्, न त्वप्रतीकार्यादित्यर्थः।
कुसुमशरजात् मदनशरजात् । अन्यस्तापो नास्ति । प्रणयकलहाद-
न्यस्मात्कारणात् । विप्रयोगोपपत्तिर्विरहप्राप्तिरपि नास्ति । किं च
यौवनादन्यद्वयो वार्धकं नास्ति । श्लोकद्वयं प्रक्षिप्तम् ॥
'यस्यां यक्षाः' इति श्लोकानन्तरम्
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-
र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः॥
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥
मन्दाकिन्या इति । यत्रालकायाम्। अमरैः प्रार्थिताः, सुन्दर्यं
इत्यर्थः । कन्या यक्षकुमार्यः । 'कन्या कुमारिकानार्योः' इति विश्वः ।
मन्दाकिन्या गङ्गायाः। सलिलेन शिशिरैः शीतलैः । मरुद्भिः सेव्य-
मानाः सत्यः । तथानुतटं तदेषु रोहन्तीत्यनुतटरुहः । क्विप् । तेषां
मन्दाराणाम्। छायया अनातपेन । वारितोष्णाः शमितातपाः सत्यः ।
कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैः । अत एवान्वेष्टव्यै-
र्मृग्यैः । मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्य-
क्क्रीडन्तीत्यर्थः । 'क्रीडोऽनुसंपरिभ्यश्च' इत्यात्मनेपदम् । 'रत्नादि-
भिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्त-
मणिः स्मृता । रासक्रीडा गूढमणिर्गुप्तकेलिस्तु लायनम् । पिच्छक-
न्दुकदण्डाद्यैः स्मृता दैशिककेलयः ।' इति शब्दार्णवे ॥
'यत्र स्त्रीणाम्' इति श्लोकानन्तरम्
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-
रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥
अक्षय्येति । यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः । 'क्षय्यनय्यौ
शक्यार्थे' इति निपातः । ततो नञ्समासः । भवनानामन्तः अन्त-
र्भवनम् । 'अव्ययं विभक्ति' इत्यादिनाव्ययीभावः । अक्षय्या
अन्तर्भवने निधयो येषां ते तथोक्ताः । यथेच्छाभोगसंभावनार्थमिदं
विशेषणम् । विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता
एव सद्दाया येषां ते तथोक्ताः । 'वारस्त्री गणिका वेश्या रूपाजी-
वाथ सा जनैः । सत्कृता वारमुख्या स्यात्' इत्यमरः । बद्धालापाः
संभावितसंलापाः । कामिनः कामुका: । प्रत्यहमहन्यहनि । 'अव्ययं
विभक्ति--' इत्यादिना समासः । रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां
ते तैः सुन्दरकण्ठध्वनिभिः । धनपतियशः कुबेरकीर्तिम् । उद्गायद्भिरु-
च्चैर्गायनशीलैः, देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ।
किंनरैः.सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य
तद्वैभ्राजाख्यम् । 'विभ्राजेन गणेन्द्रेण त्रातं वैभ्राजमाख्यया' इति
शंभुरहस्ये । चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्वि-
शन्ति अनुभवन्ति ॥
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥
गतीति । यत्रालकायाम्। कामिनीनामभिसारिकाणाम् । निशि
भवो नैशो मार्गः । सवितुरुदये सति । गत्या गमनेनोत्कम्पश्चलनं तस्मा-
द्हेतोः । अलकेभ्यः पतितैः । मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां
पत्रलतानां छेदैः खण्डैः ; पतितैरिति शेषः । तथा कर्णेभ्यो विभ्रश्य
न्तीति कर्णविभ्रंशीनि तैः । कनकस्य कमलैः । षष्ठ्या विवक्षितार्थलाभे
सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् । तथा
मुक्ताजालैर्मोक्तिकसरैः, शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः
प्रदेशस्तत्र च्छिन्नानि सूत्राणि येषां तैः । हारैश्च । सूच्यते ज्ञाप्यते ।
मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत
इत्यर्थः ॥
वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
मेकः सुते सकलमबलामण्डनं कल्पवृक्षः ॥
'कचधार्ये देहधार्ये परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणामन्यत्र दैशिकम् ॥' इति रसाकरे । तदेवैतदाह-- वास इति । यस्यामलकायाम्। चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् । नयनयोः । विभ्रमाणामादेश उपदेशे दक्षम् । अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम्, उभयं चेत्यर्थः । इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च । चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थ: । सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातम् । एकः कल्पवृक्ष एव । सूते जनयति, न तु नानासाधनसंपादनप्रयास इत्यर्थः ॥ 'एतस्मान्माम्' इति श्लोकानन्तरम्
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
मातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥
इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते--
आश्वास्येति । प्रथमविरहेणोदप्रशोकां तीव्रदुःखाम् । ते सखीम् । एवं
पूर्वोक्तरीत्या। आश्वास्य उपजीव्य । त्रिनयनस्य त्र्यम्बकस्य वृषेण वृष-
भेणोत्खाता अवदारिता: कूटाः शिखराणि यस्य तस्मात् । 'कूटोऽस्त्री
शिखरं शृङ्गम्' इत्यमरः । शैलात् कैलासात् । आशु निवृत्तः
सन्प्रत्यावृत्तः सन् । साभिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं
कुशलं येषु तैः । तस्यास्त्वत्सख्या वचोभिः । ममापि । प्रातः कु-
न्दप्रसवमिव शिथिलं दुर्बलम् । जीवितम् । धारयेथाः स्थापय ।
प्रार्थनायां लिङ् ॥
॥ श्रीः ॥
॥ श्लोकानुक्रमणिका ॥ पृष्ठम्
अक्षय्यान्तर्भवन १८१ अङ्गेनाङ्गं तनु च १५१ अद्रेः शृङ्गं हरति २६ अप्यन्यस्मिञ्जल ५२ अम्भोबिन्दुग्रहण १७६ आद्ये बद्धा विरह १३५ आधिक्षामां विरह १३३ आनन्दोत्थं नयन १८० आपृच्छस्व प्रिय २३ आराध्यैनं शरवण ६८ आलोके ते निपतति १२७ आश्वास्यैवं प्रथम १८४ आसीनानां सुरभि ८० इत्याख्याते पवन १४७ उत्पश्यामि त्वयि तट ८९ उत्पश्यामि द्रुतमपि ३७ उत्सङ्गे वा मलिनवसने १२८ एतत्कृत्वा प्रियमनु १७२ एतस्मान्मां कुशलिन १६८ एभिः साधो हृदय ११८ कच्चित्सौम्य व्यवसि १७० कर्तुं यच्च प्रभवति २२ कश्चित्कान्ता १ गच्छन्तीनां रमण ५६ गत्युत्कम्पादलक १८२ गत्वा चोर्ध्वं दशमुख ८८ गत्वा सद्यः कलभ ११९ गम्भीरायाः पयस ६१ छन्नोपान्तः परि ३२ जातं वंशे भुवन १३ जाने सख्यास्तव १३९ जालोद्गीर्णैरुपचि ४९ ज्योतिलेखावलयि ६७ तत्र व्यक्तं दृषदि ८४ तत्र स्कन्दं नियतव ६५ तत्रागारं धनपति १११ तत्रावश्यं वलयकु ९२ तन्मध्ये च स्फटिक ११७ तन्वी श्यामा शिख १२१ तं चेद्वायौ सरसि ८१ तस्माद्गच्छेदनुक ७७ तस्मिन्काले जलद १४३ तस्मिन्काले नयन ५९ तस्मिन्नद्रौ कति ७ तस्य स्थित्वा ९ तस्याः किंचित्करधृ ६२ तस्यास्तिक्तैर्वन ३४ तस्यास्तीरे विहि ११४ तस्याः पातुं सुरग ७९ तस्योत्सङ्गे प्रणयिन ९५ तामायुष्मन्मम च १४९ तामुत्तीर्य व्रज ७१ तामुत्थाप्य स्वजल १४४ तां कस्यांचिद्भवन ५८ तां चावश्यं दिव २० तां जानीयाः परिमि १२३ तेषां दिक्षु प्रथित ३९ त्वन्निष्यन्दोच्छ्वसित ६३ त्वय्यादातुं जलम ७० त्वय्यायत्तं कृषि ३० त्वामारूढं पवन १६ त्वामालिख्य प्रण १५५ त्वामासारप्रशमित ३१ दीर्घीकुर्वन्पटुमद ४८ धूमज्योतिः सलिल ११ न त्वात्मानं बहु १६२ निश्वासेनाधरकि १३४ नीचैराख्यं गिरिम ४० नीपं दृष्ट्वा हरित ३६ नीवीबन्धोच्छ्वसन १०४ नूनं तस्याः प्रबल १२६ नेत्रा नीताः सतत १०६ पश्चादुच्चैर्भुजत ५५ पत्रश्यामा दिनकर १७८ पाण्डुच्छायोपवन ३८ पादन्यासक्वणित ५४ पादानिन्दोरमृत १३६ प्रत्यासन्ने नभसि १० प्रद्योतस्य प्रियदुहि १७७ प्राप्यावन्तीनुदय ४६ प्रालेयाद्रेरुपतट ८७ ब्रह्मावर्ते जनपद ७३ भर्तुः कण्ठच्छविरिति ५१ भर्तुर्मित्रं प्रियमवि १४५ भित्त्वा सद्यः किस १५९ भूयश्चाह त्वमसि १६७ मत्वा देहं धनपति १०९ मन्दं मन्दं नुदति १८ मन्दाकिन्याः सलिल १८० मार्गे तावच्छृणु २५ मामाकाशप्रणिहि १५७ यत्र स्त्रीणां प्रियतम १०७ यत्रोन्मत्त भ्रमरमुख १७९ यस्यां यक्षा: सितम १०२ ये संरम्भोत्पतन ८३ रक्ताशोकश्चलकिस ११५ रत्नच्छाया व्यतिकर २८ रुद्धापाड़्गप्रसर १४० वक्रः पन्थास्तव ४३ वापी चास्मिन्मर ११२ वामश्चास्याः कररुह १४१ वासश्चित्रं मधु नयन १८३ विद्युत्वन्तं ललित ९८ विश्रान्तः सन्व्रज ४१ वीचिक्षोभस्वनित ४३ वेणीभूतप्रतनु ४५ शब्दाख्येयं यदपि १५२ शब्दायन्ते मधुरम ८६ शापान्ते मे भुजग १६४ शेषान्मासान्विरह १२९ श्यामास्वङ्गं चकित १५३ संक्षिप्येत क्षण १६१ संतप्तानां त्वमसि १४ सव्यापारामहनि १३२ सा संन्यस्ताभरण १३७ स्थित्वा तस्मिन्वन ३३ हस्ते लीलाकमल १०० हारांस्तारांस्तरल १७६ हित्वा तस्मिन्भुजग ९५ हित्वा हालाभिमत ७० हेमाम्भोजप्रसवि ९४ परिष्क्रियानिवेदनम् ।
महाशयाः, विदितमेवेदं भवतां यदद्य यावन्मुद्रणासंस्करणमनवाप्य कुहचन कोणे खनाविव निविष्टानि ग्रन्थरत्नान्युद्धृत्य सहृदयश्रवणाभरणतामापिपादयिषतामस्माकमलघुतर एव प्रयासभर इति । तत्रैवं सति प्रकृतव्याख्याप्रकटनावसरे तद्वचःसंदर्भशोधनैकप्रवणतया मनसः क्वचित्क्वचिद्यथापूर्वपरिचित्यन्यथैव निक्षिप्तानां मूलपाठानां यथैतद्व्याख्यासंदर्भानुगुण्यं स्यात्तथा विहितेयमधस्तनी परिष्क्रिया नतरामाकुलयितुमलं भावुकानां क्षमापरीवाहधोरणीम् ।
आश्वासः श्लोकः शोधितः पाठः
१ ५ प्रणयकृपणा १ ८ संनद्धे १ ८ दन्योऽप्ययमिव १ १२ भवति भवता यस्य १ १७ स्तथोच्चः १ २४ स्वादु यत्त१ ३६ नृत्तारम्भे १ ३८ मभ्युपेतार्थ २ ५ सलिलकणिकादोष २ ९ हैमैः स्फीता कम