<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>RUSH</p>
<p>6351</p>
<p>Comp</p>
<p>THE</p>
<p>MÂLAVIKÂGNIMITRA</p>
<p>OF</p>
<p>KÂLIDÂSA.</p>
<p>With the Commentary of Kâtayavema.</p>
<p>EDITED BY</p>
<p>KAS'INATH PANDURANG PARAB.</p>
<p>Sixth Edition.</p>
<p>REVISED BY</p>
<p>WASUDEV LAXMAN S'ASTRI PANSIKAR.</p>
<p>PUBLISHED</p>
<p>BY</p>
<p>PANDURANG JAWAJI,</p>
<p>PROPRIETOR OF THE "NIRNAYA-SAGAR" PRESS,</p>
<p>BOMBAY.</p>
<p>1924.</p>
<p>Price 12 Annas.</p>
<pb n="2" />
<p>[All rights reserved by the publisher.]</p>
<p>Published by Paularang Jaraji at the Nimang The</p>
<p>23, Kolbhat Lane, Bombay,</p>
<p>Printed by Ramchandra Yesu Shedge, at the "Nimaga-sagar' Press
23, Kalist Lane, Barbar</p>
<pb n="3" />
<p>॥ श्रीः ॥
महाकविश्रीकालिदासविरचितं
मालविकाग्निमित्रम् ।
श्रीकाटयवेमभूपविरचितेन कुमारगिरिराजीयेन
व्याख्यानेन समेतम् ।
काशीनाथ पाण्डुरङ्ग परव इत्यनेन
संशोधितम् ।
तस्येदं षष्टं संस्करणम् ।
पणशीकरोपाहलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
संस्कृतम् ।
तच्च
शाके १८४६ संवत्सरे
मुम्बापुर्यां
पाण्डुरङ्ग जावजी,
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये प्रकाशितम् ।
मूल्यं १२ आणकाः ।</p>
<pb n="4" />
<p>N.S.S.
Acc. No. 1988/2626
Date 31.12.1988
Item No. B/5-1540
Doa by
SHODH
ANSTHAN
1540
VALEN
CUTTA</p>
<pb n="5" />
<p>अथ
मालविकाग्निमित्रम् ।
प्रथमोऽङ्कः ।</p>
<lg>
  <l>एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः</l>
  <l>कान्तासंमिश्र देहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् ।</l>
  <l>अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्विभ्रतो नाभिमानः</l>
  <l>सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ १ ॥</l>
</lg>
<lg>
  <l>वेदादीनां विशुद्धानां विद्यानां जन्महेतवे ।</l>
  <l>पार्वतीपरतन्त्राय परस्मै वस्तुने नमः ॥</l>
</lg>
<lg>
  <l>भाग्यं नाम समग्रमीदृशमति ने हैकपात्रं यतो</l>
  <l>नीरं काटयवेममुद्धतरिपुध्वंसे नियुज्य स्वयम् ।</l>
  <l>नित्यं नन्दति नर्तनैरभिनवैः कान्तैर्वसन्तोत्सवैः</l>
  <l>संतानाभ्युदयैः कुमारगिरिभूपालो नृपालोत्तमः ॥</l>
</lg>
<p>अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थमिष्ट देवता-
स्मरणपूर्वकमाशिषं प्रयुङ्क्ते- एकैश्वर्य इत्यादि । स ईशः परमेश्वरः सन्मार्गालो-
कनाय । सन् प्रशस्तो मार्गः पन्था मोक्षमार्गस्तस्यालोकनाय दर्शनाय वो युष्माकं
तामसीं तमःसंबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्विति संबन्धः । कथंभूत
ईशः । यः प्रगतबहुफले । बहूनि फलानि यस्मात्तत्तथोक्तम् । प्रणतानां प्रणामं
कृतवताम् । भक्तानामित्यर्थः । तेषां बहुफलं तस्मिन् । एकैश्वर्ये । ईश्वरस्य भाव
ऐश्वर्यम् । एकं मुख्यम् । अनन्यसाधारणमित्यर्थः । तच्च तदैश्वर्यं च । तस्मिन्स्थि-
तोऽपि । अणिमाद्यैश्वर्ययुक्तोऽपीत्यर्थः । स्वयमात्मना कृत्तिवासाः कृत्तिश्चर्म वासो
वसनं यस्य स तथोक्तः । यः कान्तासंमिश्र देहोऽपि कान्तया स्त्रिया संमिश्रः संमि-
लितो देहः शरीरं यस्य स तथोक्तस्तादृशोऽपि सन् । अविषयमनसाम् । न विद्यन्ते
विषयाः शब्दादयो येषां तान्यविषयाणि तानि मनांसि येषां ते तथोक्ताः तेषां
यतीनां संयमिनां परस्तात्परः श्रेष्ठः । 'दिक्शब्देभ्यः सप्तमीपश्चमी प्रथमाभ्यो दि
ग्देशकालेष्वस्वातिः' इत्यस्तातिप्रत्ययः । अष्टाभिस्तनुभिः पृथिव्यादिमूर्तिभिः कृत्स्नं</p>
<pb n="6" />
<p>मालविकाग्निमित्रे</p>
<p>(नान्द्यन्ते)
(प्रविश्य ।)</p>
<p>सूत्रधारः - ( नेपथ्याभिमुखमवलोक्य ) मारिष, इतस्तावत् ।</p>
<p>पारिपार्श्विकः – भाव, अयमस्मि ।
-
सूत्रधारः - अभिहितोऽस्मि विद्वत्परिषदा कालिदासग्रथितवस्तु
मालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति ।
तदारभ्यतां संगीतम् ।
पारिपार्श्विकः मा तावत् । प्रथितयशसां भाससौमिल्लकक-
विपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां
कथं बहुमानः ।
सूत्रधारः - अयि, विवेकप्रस्तमभिहितम् । पश्य ।
सर्वं जगलोकं बिभ्रतोऽपि धारयतोऽपि यस्यामिमानः प्रणयो ममत्वं न भवति ।
एषु विशेषणेषु विरोधालंकारेणास्येश्वरस्य लोकातिशायित्वमुक्तं भवति । अत्र प्रण-
तबहुफल एकैश्वर्यस्थित्या कान्तासंमिश्रणेन जगद्भरणेन ईश इत्यनेन च लोकोत्तरः
कश्चिद्राजास्मिन्नाटके वर्ण्यत इति सूच्यते । सन्मार्गालोकनायेत्यनेनात्र कश्चिन्मा-
गोभिनयः प्रतिपाद्यत इति सूच्यते । मार्गो नाम नाट्यविशेषः । तथोक्तम्-
'मार्गोऽपि देशी तद्भेदः कथितो नाट्यवेदिभिः । अत्र मार्गो भवेन्नाट्यं नाट्यवे -
दोक्तलक्षणम् ॥' इति । एष नान्दीश्लोकः । नान्यादिलक्षणं तु शाकुन्तलव्याख्यान
एवाभिहितम् । अत्र 'पदादिनियमोऽपि वा' इति विकल्पात्पदादिनियमाभावः ॥
अथ प्रस्तावनां विवक्षुस्तदङ्गयोः प्ररोचनामुखयोः प्ररोचनां प्रस्तौति – नान्द्यन्ते
सूत्रधार इत्यादिना । मारिष, इतस्तावत् । आगम्यतामिति शेषः । नटः सू-
त्रधारेण मारिष इति वाच्यः । ' सूत्री नटेन भावेति तेनासौ मारिषेति च' इत्यु-
तत्वात् ॥ परिपार्श्व यथा भवति तथा वर्तत इति पारिपार्श्विकः । नट इत्यर्थः ।
'परिमुखं च' इत्यत्र चकाराट्ठक् ॥ अभिहितोऽस्मीत्यादि । विद्वत्परिषदा
विदुषां विपश्चितां परिषत्सभा तथा । अनेन सभाप्रशंसा कृता । कालिदासप्रथि -
तवस्तु कालिदासेन प्रथितं वस्तु कथा यस्मिंस्तत्तथोक्तम् । मालविकाग्निमित्रम् ।
'अधिकृत्य कृते प्रन्थे' इत्यण् । यथा मालतीमाधवम् । वसन्तोत्सव इत्यनेन का-
लनिर्देशः कृतः । संगीतं तौर्यत्रिकम् । तथा चोक्तं संगीतरत्नाकरे - 'नृत्तं गीतं
तथा वाद्यं त्र्यं संगीतमुच्यते' इति । आरभ्यतां प्रयोक्तुं यत्नः क्रियताम् ॥ मा
तावत् । मा इति निवारणे । भास - कविपुत्र - सौमिल्लकाः कवयः प्राक्तनाः । प्रबन्धा-
न्रूपकाणि । अतिक्रम्योल्लङ्घ्य । परिहृत्येत्यर्थः । कालिदासस्य कालिदासनामधेयस्य</p>
<pb n="7" />
<p>प्रथमोऽङ्कः ।</p>
<lg>
  <l>पुराणमित्येव न साधु सबै</l>
  <l>न चापि काव्यं नवमित्यवद्यम् ।</l>
  <l>सन्तः परीक्ष्यान्यतरद्भजन्ते</l>
  <l>मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥</l>
</lg>
<p>पारिपार्श्विकः – आर्यमिश्राः प्रमाणम् ।
-
सूत्रधारः - तेन हि त्वरतां भवान् ।</p>
<lg>
  <l>शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् ।</l>
  <l>देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ॥ ३॥</l>
</lg>
<p>( इति निष्क्रान्तौ । )
(ततः प्रविशति बकुलावलिका । )</p>
<p>प्रस्तावना ।</p>
<p>बकुलावलिका – आणत्तम्हि देवीए धारिणीए । अइरप्पउत्तोव -
-</p>
<note>१. आज्ञप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्य-</note>
<p>कवेः क्रियायां कृती रूपके । कथं बहुमान आदरातिशयः कथनमीक्ष्यते ॥ विवेकग्रस्तं
विवेकदुर्बलम् । विवेकशून्य मित्यर्थः । क्रियाविशेषणं चैतत् । पुराणमित्यादि ।
सर्व काव्यं कवेः कर्म । कृतिरित्यर्थः । पुराणमित्येव पुराणत्वादेव साधु रम्यं न
भवति । नवमिति च नवत्वादेव अवयं गर्भं न भवति । किंतु सन्तो विद्वांसः
परीक्ष्य पुराणं नवं च काव्यं गुणतो दोषतश्च परामृश्य अन्यतरत्तयोरेकं पुराणं
नवं वा । गुणयुक्तमित्यर्थः । भजन्ते । स्वीकुर्वन्तीत्यर्थः । मूढोऽज्ञस्तु परप्रत्य-
यनेयबुद्धिः परस्यान्यस्य प्रत्ययेन ज्ञानेन नेया प्राप्या बुद्धिर्यस्य स तथोक्तः ।
अनेन कविकाव्यप्रशंसा कृता । शिरसेत्यादि । शिरसा मूर्ध्ना प्रथमगृहीतां
पूर्वस्वीकृताम् । शिरसा ग्रहणेन भक्त्यतिशयो गम्यते । परिषदः सभाया आज्ञां
शासनं कर्तुं निर्वर्तयितुमिच्छाम्य मिलषामि । अत्रोपमामाद - धारिण्या देव्याः। धा-
रिणी नामकथानायकस्य पत्नी । तस्या आज्ञां सेवादक्षः परिचर्यानिपुणोऽयं पुरोवर्ती
परिजन इव । परिचारको जनः परिजनः । अनेन पात्राक्षेप हेतुः प्रयोगातिशयो
नाम मुखाङ्गमुक्तं भवति ॥ प्रस्तावना । कविरिदानीमङ्कमारभमाणः कथोपयो-
गितया प्रथमं मिश्रविष्कम्भं नामार्थोपक्षेपकं प्रस्तौति - ततः प्रविशतीत्या-
दिना । आज्ञप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्य मन्त-
रेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तस्मात्तावत्संगीतशालां</p>
<pb n="8" />
<p>मालविकाग्निमित्रे
देसं छलिअं णाम णट्ट अन्तरेण कीरिसी मालविअत्ति णट्टाअरिअं
अज्जगणदासं पुच्छिदं । ता दाव संगीतसालं गच्छम्मि (इति परिक्रामति ।)</p>
<p>(ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ।)</p>
<p>प्रथमा - ( द्वितीयां दृष्ट्वा ) हेला कोमुदीए, कुदो दे इअं धीरदा ।
जं समीवेण वि अदिकमन्ती इदो दिहिं ण देसि ।
द्वितीया - अम्हो बउलावलिआ । सहि, इदं देवीए सिप्पिस -
आसादो आणीदं णाअमुद्दासणाहं अङ्गुलीअअं सिणिद्धं णिज्झा-
अन्ती तुह उवालम्भे पडिदम्हि ।
प्रथमा - ( विलोक्य) ठाणे सज्जदि दिट्ठी । इमिणा अङ्गुलीअ -
एण उभिण्ण किरण केसरेण कुसुमिदो विअ दे अग्गहत्थो ।
द्वितीया - हेला, कहिं पत्थिदा सि ।
मन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तत्तावत्संगीत-
शालां गच्छामि ।</p>
<note>१. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतो</note>
<p>दृष्टिं न ददासि ।</p>
<note>२. अहो बकुलावलिका । सखि, इदं देव्याः शिल्पिसकाशादानीतं</note>
<p>नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि ।</p>
<note>३. स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरण केसरेण कुसुमित</note>
<p>इव तेऽग्रहस्तः ।
8. 'सखि, कुत्र प्रस्थितासि ।
-
गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते । छलिकं नाम नाट्यविशेष इत्यर्थः ।
तथा चोक्तम् – 'तदेव च्छलिकं नाम साक्षाद्यदमिनीयते । व्यपदिश्य पुरावृत्तं खा-
भिप्रायप्रकाशकम् ॥' इति ॥ सखि कौमुदि के, कुतस्त इयं धीरता । यत्समीपेनाप्यति-
कामतीतो दृष्टिं न ददासि ॥ अहो बकुलावलिका । सखि, इदं देव्याः शिल्पिसका-
शादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती पश्यन्ती तवोपालम्मे प-
तितास्मि । स्थाने सज्जति दृष्टिः । अनेनाङ्गुलीयकेनोद्भिन्नकिरण केसरेण कुसुमित इव
तेऽप्रहस्तः ॥ सखि, कुत्र प्रस्थितासि ॥ देव्या एव वचनेन नाटकाचार्यमार्य गणदासं</p>
<pb n="9" />
<p>प्रथमोऽङ्कः ।
प्रथमा - देवी व अपेण नाडआआरिअं अज्जगणदासं
देक्खिदु । उवसग्गह की रिसी मालविअत्ति ।
द्वितीया - सेहि, ईरिसेण वावारेण असंणिहिदा विसा कहं
भणा दिट्टा ।
प्रथमा - आम । सो जणो देवीए पास्सगदो चित्ते दिट्टो ।
द्वितीया - हं विअ ।
प्रथमा - सुणु । चित्तसालं गदा देवी पञ्चग्गवण्णराअं चित्तलेहं
आआरिअस्स ओलोअन्ती चिट्ठदि । भट्टा अ उवट्ठिदो ।
द्वितीया - दो दो ।
प्रथमा – उवआराणन्तरं एक्कासणोवविद्वेण भट्टणा चित्तगदाए
देवीए परिणमज्झगदं आसण्णदारिअं देखिअ देवी पुच्छिदा ।
द्वितीया - किंति ।</p>
<note>१. देव्या एव वचनेन नाटकाचार्यमार्यगणदासं द्रष्टुम् । उपदेशग्रहणे</note>
<p>कशी मालविकेति ।</p>
<note>२. सखि, ईदृशेन व्यापरेणासंनिहितापि सा कथं भर्त्रा दृष्टा ।</note>
<note>३. आम । स जनो देव्याः पार्श्वगतचित्रे दृष्टः ।</note>
<note>४. कथमिव ।</note>
<note>५. शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामाचार्यस्यान-</note>
<p>लोकयन्ती तिष्ठति । भर्ता चोपस्थितः ।</p>
<note>६. ततस्ततः ।</note>
<note>७. उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजन-</note>
<p>मध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ।</p>
<note>८. किमिति ।</note>
<p>द्रष्टुम् । उपदेशग्रहणे कीदृशी मालविकेति ॥ सखि, ईदृशेन व्यापारेणासंनिहिता पि
सा कथं भर्त्रा दृष्टा ॥ आमेत्यभ्युपगमे । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ॥ कथमिव ॥
शृणु। चित्रशालांगता देवी प्रत्यप्रवर्णरागां चित्रलेखामाचार्यस्यावलोकयन्ती तिष्ठति ।
भर्ता चोपस्थितः॥ ततस्ततः॥ उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया
देव्याः परिजनमध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ॥ किमिति ॥ अपूर्वेयं दारिका,</p>
<pb n="10" />
<p>मालविकाग्निमित्रे
प्रथमा - अपुत्रा इअं दारिआ, आसण्णा अ देवीए आलिहिदा,
किंणामहेएत्ति ।
द्वितीया - आकिदिविसेसेसु आअरो पदं करेदि । तदो तदो ।
प्रथमा - तदो अवहीरि अवअणो भट्टा देवीं पुणो अणुबन्धिदुं
सङ्किदो । तदो कुमारी वसुलच्छीए आचक्खिदम् । अज्ज, एसा
मालवेअति ।
द्वितीया - ( सस्मितम् । ) सरिसं खु बालभावस्स । अदो वरं कहे हि ।
प्रथमा - किं अण्णं । संवदं मालविआ सविसेसं भगुणो दंसण-
पहादो रक्खी अदि ।
द्वितीया - ला, अत्तणो णिओअं अणुचिट्ट । अहं वि एवं
अङ्गुलीअअं देवीए उवणइस्सम् । ( इति निष्क्रान्ता ।)
प्रथमा - ( परिक्रम्यावलोक्य 1) ऍसो णट्टाअरिओ संगीदसालादो
णिग्गच्छादे । जाव से अत्ताणं दंसेमि । ( इति परिक्रामति । )</p>
<note>१. अपूर्वेयं दारिका, आसन्ना च देव्या आलिखिता किंनामधेयेति ।</note>
<note>२. आकृतिविशेषेष्वादरः पदं करोति । ततस्ततः ।</note>
<note>३. ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्द्धुं शङ्कितः । ततः कुमार्या</note>
<p>त्रसुलक्ष्म्याख्यातम् । आर्य, एषा मालविकेति ।</p>
<note>४. सदृशं खलु बालभावस्य । अतः परं कथय ।</note>
<note>५. किमन्यत् । सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते ।</note>
<note>६. सखि, आत्मनो नियोगमनुतिष्ठ । अहमप्येतङ्गुलीयकं देव्यै</note>
<p>उपनेष्यामि ।</p>
<note>७. एष नाट्याचार्यः संगीतशालातो निर्गच्छति । यावदस्मा आत्मानं</note>
<p>दर्शयामि ।
आसन्ना च देव्या आलिखिता, किंनामधेयेति ॥ आकृतिविशेषेष्वादरः पदं करोति ।
ततस्ततः ॥ ततोऽवधीरितवचनो भर्ता देवीं पुनरनुबन्ढुं शङ्कितः । ततः कुमार्या
वसुलक्ष्म्याख्यातम् । आर्य, एषा मालविकेति । सदृशं खलु बालभावस्य । अतः
परं कथय॥ किमन्यत् । सांप्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते । 'अपुन्व
इअं दारिआ' इत्यारभ्य 'दंसणपहादो रक्खिअदि' इत्यन्तेन वाक्यकदम्बकेन
गम्यमानो मालविकागोचरो राज्ञोऽमिलाषोऽत्र नाटके बीज मित्यनुपस्थेयम् ॥ सखि
आत्मनो नियोगमनुतिष्ठ । अहमप्येतदङ्खलीयकं देव्यै उपनेष्यामि ॥ एष नाट्याचार्य</p>
<pb n="11" />
<p>प्रथमोऽङ्कः ।</p>
<p>( प्रविश्य । )</p>
<p>गणदासः - कामं खलु सर्वस्यापि कुलविद्या बहुमता ।
। पुनरस्माकं नाट्यं प्रति मिथ्या गौरवम् । तथा हि ।</p>
<lg>
  <l>देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं</l>
  <l>रुद्रेणेदमुमाकृतव्यतिकरे खाङ्गे विभक्तं द्विधा ।</l>
  <l>त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते</l>
  <l>नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥</l>
</lg>
<p>संगीतशालातो निर्गच्छति । यावदस्मा आत्मानं दर्शयामि ॥ देवानामित्यादि ।
मुनयो भरतमतङ्गादय इदं नाट्यं देवानामिन्द्रादीनां ऋतुं यज्ञमामनन्ति । कीदृशम् ।
शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुरनु-
भाव्यम् । अस्य नाट्यस्य ऋतुवनिरूपणं चतुर्वेदसारनाट्य वेदविहितकर्मत्वादिति
मन्तव्यम् । तथा च कुमारसंभवे - कर्म यज्ञः फलं खर्ग:' इति । अत्र चतुर्वेदसारत्वं
भारतीये प्रतिपादितम् -'सर्वशास्त्रार्थ संपन्नं सर्वशिल्पप्रदर्शनम् । नाट्यसंज्ञमिमं वेदं
सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत-
के चतुर्वेदाग संभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादमि-
नयान्रसानाथर्वणादपि॥वेदोपवेद संबद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो
ब्रह्मणा ललितात्मना ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ॥' इति । प्रकारा-
न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम् -' प्रयोगं यश्च कुर्वीत प्रेक्षते चावधानवान् । या
गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्। या गतिर्दानशीलानां तां गतिं प्राप्नुयान्नरः ॥'
इति । पुनः कीदृशमिदं नाट्यम् । रुद्रेणेश्वरेणोमाकृतव्यतिकरे उमया पार्वत्या कृतो
व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्वाने आत्मदेहे द्विधा द्विप्रकारेण लास्य-
ताण्डवरूपेण विभक्तं पृथकृतम् । तथा चोक्तं संगीतविद्या विनोदे- ' उद्दण्डताण्डव-
मुदश्चितास्यलीलां कर्तुं स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्रतरा-
र्श्वकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाट्ये त्रैगुण्योद्भवम् । त्रयो
गुणाः सत्त्वरजस्तमांस्येव त्रैगुण्यम् । चतुर्वर्णादित्वात्खार्थे ष्यञ् । तस्मादुद्भवमुद्भूतं
लोकचरितं लोकानां लोकस्थानां रामाद्यनुकार्याणां चरितं सुखदुःखमिश्रात्मकं चरितं
नानारसं नाना बहुविधा रसाः प्रियतमोपभोग्या यस्मिंस्तत्तथोक्तं दृश्यते ज्ञायते ।
सामाजिकैरनुभूयत इत्यर्थः । लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं
नटेनाभिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः । पुनः कीदृशम् । नाट्यं नटनप्र-
योगः । एकमप्येकैकमपि मिन्नरुचेर्भिन्ना बहुविधा रुचयः प्रीतयो यस्य स तथोक्त-
।</p>
<pb n="12" />
<p>मालविकाग्निमित्रे
बकुलावलिका – (उपेत्य ।) अज्ज, वन्दामि ।
गणदासः - भद्रे, चिरं जीव ।
1
बकुलावलिका - अज्ज, देवी पुच्छदि । अवि उवदेसग्गहणे
णादिकी लिस्सदि वो सिस्सा मालविअत्ति ।
गणदासः - भद्रे, विज्ञाप्यतां देवी परमनिपुणा मेधाविनी
चेति । किंबहुना ।</p>
<lg>
  <l>यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।</l>
  <l>तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥</l>
</lg>
<p>बकुलावलिका - ( आत्मगतम् । ) अदिक्कन्तं विअ इरावदिं
पेक्खामि। (प्रकाशम् ।) किदत्था दाणिं वो सिस्सा । जाए गुरुअणो एवं
तुस्सदि ।</p>
<note>१. आर्य, वन्दे ।</note>
<note>२. आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्रिनाति वः शिष्या</note>
<p>मालविकेति ।</p>
<note>३. अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या । यस्या</note>
<p>गुरुजन एवं तुष्यति ।
स्तस्य जनस्य बहुधा बहुप्रकारेण शृङ्गारहास्यादिरूपेण समाराधकं संतर्पकम्। तथा
चोक्तं भारतीये -'त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् । धर्मो धर्मप्रवृत्तानां
कामः कामोपसेविनाम्। अर्थोपजीविनामर्थो धृतिरुद्विनचेतसाम् ॥ नानाभावोप-
संपन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ एतद्रसेषु
भावेषु सर्वकर्मक्रियासु च । सर्वोपदेशजननं नाट्यमेतद्भविष्यति॥न तज्ज्ञानं न तच्छि-
रूपं नासी विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन्यन्न दृश्यते ॥ ' इति ॥
अर्य, वन्दे॥ आर्य, देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्नाति वः शिष्या मालवि-
केति ॥ यद्यदित्यादि । प्रयोगविषयेऽमिनयार्थे मया तस्यै मालविकायै यद्यद्भाविकं
भाववत् । 'अत इनिठनौ' इति ठन् । नृत्य मित्यर्थः । यथोकम् -'अङ्गिकामिनयप्राय-
मल्पवाचिकसात्विकम् । भावानामास्पदं नृत्यं पदार्थव्यञ्जनात्मकम् ॥' इति । उप-
दिश्यते बोध्यते । तत्तद्विशेषकरणात्तस्य तस्य भाविकस्य विशेषेणातिशयेन करणं
निर्वर्तनं मे तस्मात्सा बाला प्रत्युपदिशतीव प्रतिबोधयतीव । अनेन तस्या नृत्ये
प्रावीण्यातिशयो गम्यते ॥ अतिक्रान्तामिवेरावतीं पश्यामि । कृतार्थेदानीं वः शिष्या ।
यस्यां गुरुजन एवं तुष्यति । अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भत्र</p>
<pb n="13" />
<p>प्रथमोऽङ्कः ।</p>
<p>गणदासः - भद्रे, तद्विधानामसुलभत्वात्पृच्छामि । कुतो देव्या
पात्रमानीतम् ।
बकुलावलिका — अस्थि देवीए वण्णावरी भादा वीरसेणो णाम
णा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे
ग्गा इअं दारिअत्ति भणिअ भइणीए देवीए उवाअणं पेसिदा ।
गणदासः - ( स्वगतम् ।) आकृतिविशेषप्रत्ययादेनामनूनवस्तुक
भावयामि । (प्रकाशम् ।) भद्रे, मयापि यशखिना भवितव्यम् । यतः ।</p>
<lg>
  <l>पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।</l>
  <l>जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६॥</l>
</lg>
<p>बकुलावलिका – अह इं । अह कहिं वो सिस्सा ।
गणदासः - इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यता-
त्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति ।</p>
<note>१. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भर्त्रा नर्मदातीरेऽन्त-</note>
<p>दुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या
उपायनं प्रेषिता ।</p>
<note>२. अथ किम् । अथ कुत्र वः शिष्या ।</note>
<p>'दातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्पाधिकारे कलाविद्याधिगम इयं योग्या
रेकेति भणिला भगिन्या देव्या उपायनं प्रेषिता ॥ अनूनवस्तुकामनूनमनल्पं
रोष्टं वस्तु वृत्तं यस्याः सा तथोक्ता तां संभावयामि मन्ये । पात्रविशेष
यदि । आधातुरुपदेष्टुः शिल्पं कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं
गुणान्तरं गुणविशेषं व्रजति प्राप्नोति। अत्रोपमामाह- पयोदस्य मेघस्य जलं समु-
कौ न्यस्तं सत् मुक्ताफलतां मौक्तकत्वमिव ॥ अथ किम् । अथ कुत्र वः शिष्या ॥
नीमित्यादि । पञ्चाङ्गाभिनयं पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमित्यर्थः ।
भिनयः प्रयोगस्तमिदानीमयैवोपदिश्य शिक्षयित्वा । प्रवातं प्रशस्तो वातो यस्मि-
शेस तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुक्तं संगीतरत्नाकरे - 'नृत्तं तथा च कैवारो
रोजागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम् ॥ त्रिभिस्त्वेतत्प्रयोज्यं
कैवारं जागरं विना ॥ इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं
साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानातु मामार्यः ।</p>
<pb n="14" />
<p>मालविकाग्निमित्रे
बकुलावलिका – तेर्ण हि पुणो अणुजाणादु मं अज्जो । जाव से
अज्जरस परितोस णिवेदणेण ऊसाहं बड्रेमि ।
--
गणदासः - दृश्यतां सखी। अहमपि लब्धक्षणः खगृहं गच्छामि ।</p>
<p>( इति निष्क्रान्तौ । )
(ततः प्रविशत्येकान्तस्थितपरिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा 1 )</p>
<p>मिश्रविष्कम्भः ।</p>
<p>राजा - (अनुवाचित लेखममात्यं विलोक्य 1 ) वाहतव, किं प्रतिप-
यते वैदर्भः ।
अमात्यः - देव, आत्मविनाशम् ।
राजा - संदेशमिदानीं श्रोतुमिच्छामि ।
अमात्यः - इदमिदानीमनेन प्रतिलिखितम् । पूज्येनाहमादिष्टः ।
पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसंबन्धो ममोपान्तिकमु-
पसर्पन्नन्तरा त्वदीयेनान्तपालेनावस्कन्द्य गृहीतः । स त्वया मदपेक्षया
सकलत्रसोदर्यो मोक्तव्य इति । एतन्ननु वो विदितम् । यत्तुल्या-</p>
<note>१. तेन हि पुनरनुजानातु मामार्यः । यावदस्या आर्यस्य परितोषनिवे-</note>
<p>दनेनोत्साहं वर्धयामि ।
-
यावदस्या आर्यस्य परितोष निवेदनेनोत्सादं वर्धयामि ॥ लब्धक्षणो लब्धः प्राप्तः क्षणो
निर्व्यापारस्थितिर्विश्रमो येन स तथोक्तः स्वगृहमात्मगृहं गच्छामि ॥ मिश्र विष्क-
म्भः॥ ततः प्रविशतीत्यादि । वाहतवेति तस्यामात्यस्य संज्ञा । वैदभा विदर्भराजः
किं प्रतिपद्यते किं कार्यं मन्यते । संदेशं संदिष्टार्थं श्रोतुमिच्छामि ॥ अनेन वैदर्भेणेदं
प्रतिलिखितं प्रत्युत्तरत्वेनाभिलिखितम् । पूज्येन पूजार्हेण त्वया अग्निमित्रेणेत्यर्थः ।
अहं वैदर्भ आदिष्ट आज्ञप्तः । तमेवादेशं विवृणोति भवत इत्यादिना । भवतस्तव
पितृव्यपुत्रः पितृभ्रातृसुतो माधवसेनो नाम प्रतिश्रुतसंबन्धः प्रतिश्रुतोऽङ्गीकृतः संब-
न्धः कन्यकाप्रदानरूपो येन स तथोक्तो ममोपान्तिकं मत्समीपमुपसर्पनुपगच्छन्नाग
च्छन्नन्तरा मध्ये त्वदीयेन वत्संबन्धिनान्तपालेन सीमा दुर्गरक्षकेणावस्कन्य पथिप्र-
हृत्य गृहीतो निरुद्धः । बन्दीकृत इत्यर्थः । समाधवसेनस्त्वया भवता मदपेक्षया मय्यपे.
क्षा इच्छा । स्नेह इत्यर्थः । तया हेतुना । सकलत्र सोदर्यो भार्याभगिनी सहितः । 'वोपसर्ज-
नस्य' इति सहशब्दस्य सादेशः । मोक्तव्यो विसर्जनीयः । इतिः समाप्तौ । एतावता
वैदर्भेणाग्निमित्रप्रेषितपत्रिकार्थानुवादः कृत इत्यनुसंधेयम् । इतःपरं प्रत्युत्तररूपं वै-
दर्भवचनमुच्यते - एतन्ननु वो विदितमित्यादि । एतद्वक्ष्यमाणं वो युष्माकं</p>
<pb n="15" />
<p>प्रथमोऽङ्कः ।
1</p>
<p>जनेषु राज्ञां वृत्तिः । अतोऽत्र मध्यस्थः पूज्यो भवितुमर्हति । सो-
पुनरस्य ग्रहणविप्लवे विनष्टा । तदन्वेषणाय प्रयतिष्ये । अ-
, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम-
संधिः ।
ते ।</p>
<lg>
  <l>मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् ।</l>
  <l>मोक्ता माधवसेनस्ततो मया बन्धनात्सद्यः ॥ ७ ॥</l>
</lg>
<p>राजा - ( सरोषम् ) कथं कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः ।
हतव, प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः । तद्यातव्यपक्षे
तस्य पूर्वसंकल्पित समुन्मूलनाय वीरसेनमुखं दण्डचक्रमाज्ञापय ।
अमात्यः - यदाज्ञापयति देवः ।
राजा - अथवा किं भवान्मन्यते ।
अमात्यः — शास्त्रदृष्टमाह देवः ।</p>
<lg>
  <l>अचिराधिष्ठित राज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।</l>
  <l>नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८ ॥</l>
</lg>
<p>राजा - तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव वचनं निमित्त-
दाय समुद्योज्यतां सेनाधिपतिः ।
दितं नन्वित्यत्र काकुरनुसंधेया । तुल्याभिजनेषु समानवंशेषु । ज्ञातिष्वित्यर्थः ।
वृत्तिर्वर्तनमीदृश्येवंविधेति यत्तन्ननु वो विदितमिति संबन्धः । अतोऽस्मात्का-
।दत्रास्मिन्नर्थे पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । अस्य माधवसेनस्य
दर्या
पुनः स्वसा पुनर्ग्रहणविलवे विनष्टा तिरोहिता । तदन्वेषणाय तस्या अन्वे-
॥ गवेषणाय प्रयतिष्ये । अथवेति पक्षान्तरे । मोचयितव्यस्त्याजयितव्यः । अमि-
धेर्निश्चयः। मौर्यसचिवमित्यादि । पूज्यो भवान्संयतं लया निगलितं मम
लं पत्नीभ्रातरं मौर्यसचिवं मौर्यसचिवनामानं विमुञ्चति यदि त्यजति चेत् तत-
स्मात्कारणान्मया सद्यः सपदि माधवसेनो बन्धनान्निगलान्मोक्ता मुक्तो भविता ।
!तेः कर्मणि लुट् । इतिः लिखितार्थसमाप्तौ ॥ प्रकृत्यमित्रः स्वभावतः शत्रुः । अत्र
ग्त्यमित्रत्वं च विषयानन्तरत्वादिति मन्तव्यम् ॥ अचिराधिष्ठितेत्यादि ।
टोऽर्थः ॥ तेनारूढमूलत्वेन हेतुना तन्त्रकारवचनमर्थशास्त्रकार वचनमवितथं</p>
<pb n="16" />
<p>मालविकाग्निमित्रे
अमात्यः - तथा (इति निष्क्रान्तः । )</p>
<p>( परिजनो यथाव्यापारं राजानमभितः स्थितः । )
( प्रविश्य । )
( विदूषक उपविष्टः । )</p>
<p>विदूषकः – आणतोहि तत्तभवदा रण्णा । गोदम, चिन्ते
दाव उवाअं । जहा मे जदिच्छा दिट्ठपदिकिदी मालविआ पच्छक्ख
दंसणा होदिति । मए अ तत्तहा किदं । दाव से णिवेदेमि । ( इति
परिक्रामति ।)
राजा - ( विदूषकं दृष्ट्वा । ) अयमपरः
नुपस्थितः ।
विदूषकः - ( उपगम्य । ) वैदु भवं ।
राजा - ( सशिरःकम्पम् ।) इत आस्यताम् ।</p>
<p>कार्यान्तरसचिवोऽस्मा
राजा - अपि किंचिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः ।
विदूषकः असिद्धिं पुच्छ ।
-</p>
<note>१. आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय तावदुपायम् ।</note>
<p>यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च
तत्तथा कृतम् । तावद्स्मै निवेदयामि ।</p>
<note>२. वर्धतां भवान् ।</note>
<note>३. प्रयोगसिद्धिं पृच्छ ।</note>
<p>हि सत्यमेव । भविष्यतीति शेषः । हिशब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः ।
इदमेव वैदर्भस्य कार्यविनिमयरूपमेव वचनं वाक्यं निमित्तं हेतुमुपादायावलम्ब्य
समुद्योज्यतां प्रत्यावर्त्यताम् ॥ आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय ता
वदुपायम् । यथा मे यदृच्छादृष्ट प्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया
च तत्तथा कृतम् । तावदस्मै निवेदयामि । अत्र गम्यमानं राज्ञो मालक विकादर्शनौ-
त्सुक्यमारम्भो नाम प्रथमावस्थेति मन्तव्यम् । अत्र बीजारम्भयोः समन्वयान्मुख-
संधिरित्यनुसंधेयम्॥वर्वतां भवान् ॥ उपेयोपाय दर्शने उपेयस्य साध्यस्य मालविका -
साक्षाद्दर्शनस्योपायदर्शने साधनज्ञाने ते प्रज्ञाचक्षुः प्रतिभादृष्टिः किंचिदीषदपि व्या-
पृतं प्रसृतम् । अपिः प्रश्न । अत्र गम्यमानस्य मालविकारूपस्य बीजस्य विन्यासा -
दुपक्षेपो नाम संध्यङ्गमुक्तं भवति ॥ प्रयोगसिद्धिं पृच्छ ॥ कर्णे । एवमिव । एतद्वचनं</p>
<pb n="17" />
<p>राजा - कथमिव ।
प्रथमोऽङ्कः ।
( विदूषकः - ( क ) एवमिव ।
राजा - साधु वयस्य; निपुणमुपक्रान्तम् । इदानीं दुरधिगम -
सिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे । कुतः ।</p>
<lg>
  <l>अर्थ प्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।</l>
  <l>दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ९॥</l>
</lg>
<p>(नेपथ्ये ।)
(ततः प्रविशति कचुकी ।)</p>
<p>अलं बहु विकत्थ्य । राज्ञः समक्षमेवावयोरधरोत्तरयोर्व्यक्ति-
भविष्यति ।
राजा - (आक) सखे, त्वत्सुनीतिपादपस्य पुष्पमुद्भिन्नम् ।
विदूषकः - फैलं वि अइरेण दक्खिस्ससि ।</p>
<p>कञ्चुकी – देव, अमात्यो विज्ञापति अनुष्ठिता प्रभोराज्ञेति ।
एतौ पुनर्हरदत्तगणदासौ</p>
<lg>
  <l>उभावभिनयाचार्यौ परस्परजयैषिणौ ।</l>
  <l>त्वां द्रष्टुमुद्यतौ साक्षाद्भावाविव शरीरिणौ ॥ १० ॥</l>
</lg>
<note>९. एवमिव ।</note>
<note>२. फलमप्यचिरेण द्रक्ष्यसि ।</note>
<p>नियतस्य व्यापारान्तरभेद्यस्य गुह्यतरार्थस्य प्रयोगे कविना प्रयुक्तम् । तथोक्तम् —
'कर्णे एवमिवेत्युक्ला ज्ञाप्यः पश्चात्प्रसङ्गतः' इति ॥ इदानीमित्यादि । अस्मि-
नारम्भे मालविकासाक्षाद्दर्शनोद्योगे दुरधिगमसिद्धावपि दुर्लभ सिद्धौ सत्यपीदानीं
त्वद्वचनश्रवणानन्तरं वयमाशंसामहे सिद्धिमपेक्षामहे ॥ अर्थमित्यादि । सप्रति-
वन्धं सप्रतिरोधमर्थं प्रयोजनमधिगन्तुं लब्धुं सहायवानेव जनः प्रभुः समर्थो भ
वति । 'इदानीम्' इत्यादिना 'सहायवानेव' इत्यन्तेन तस्य वीजस्य बहुलीकरणात्परि-
कर इति संध्यङ्गमुक्तं भवति ॥ नेपथ्य इत्यादि । बहु विकत्थ्यात्मश्लाघां कृत्वालम् ।
अलमिति प्रतिषेधे । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः ॥ फल-
मप्यचिरेण द्रक्ष्यसि । अत्र बीजस्य दृढीकरणात्परिन्यासो नाम संध्यङ्गमुक्तं भवति ॥
उभावित्यादि । शरीरिणौ मूर्ती साक्षाद्भावौ प्रत्यक्षभावाविव नृत्याभिनयार्थाविव॥
माल० २</p>
<pb n="18" />
<p>-
राजा प्रवेशय ।
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य ताभ्यां सह प्रविष्टः । )
इत इतो भवन्तौ ।
गणदासः - (राजानं विलोक्य ) अहो दुरासदो राजमहिमा ।</p>
<lg>
  <l>न च न परिचितो न चाप्यरम्य-</l>
  <l>श्चकितमुपैमि तथापि पार्श्वमस्य ।</l>
  <l>सलिलनिधिरिव प्रतिक्षणं मे</l>
  <l>भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥</l>
</lg>
<p>हरदत्तः—महत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि ।</p>
<lg>
  <l>द्वारे नियुक्तपुरुषाभिमतप्रवेशः</l>
  <l>सिंहासनान्तिकचरेण सहोपसर्पन् ।</l>
  <l>तेजोभिरस्य विनिवर्तितदृष्टिपातै-</l>
  <l>र्वाक्यादृते पुनरिव प्रतिवारितोऽस्मि ॥ १२ ॥</l>
</lg>
<p>कञ्चुकी – एष देवः । उपसर्पतां भवन्तौ ।
-
उभौ - ( उपेत्य ) विजयतां देवः ।
राजा - खागतं भवद्भ्याम् ( परिजनं विलोक्य 1 ) आसने तावदत्र-
भवतोः ।</p>
<p>(उभौ परिजनोपनी तयोरासनयोरुप विष्टौ ।)</p>
<p>राजा - किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप-
स्थानम् ।
-
गणदासः —— देव, श्रूयताम् । तीर्थादभिनयविद्या शिक्षिता । दत्त-
प्रयोगश्चास्मि देवेन देव्या च परिगृहीतः ।
न च न परिचित इत्यादि । अयं राजा परिचितः संस्तुतश्च न भवतीति न, किं
तु परिचित एव । अरम्योऽसौम्यश्च न किं तु रम्य एव । तथापि चकितं सभयं यथा
भवति तथास्य पार्श्वे समीपमुपैमि । शेषं सम्॥ द्वारे नियुक्तेत्यादि । विनिवर्ति-
तदृष्टिपातैर्विनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनः प्रकाश विशेषैस्तु वाक्या-
ते प्रतिषेधवाक्यं विना प्रतिवारित इव निरुद्ध इवास्मि ॥ तीर्थादभिनय विद्ये</p>
<pb n="19" />
<p>राजा - बाढ जान । ततः किम् ।
गणदासः— सोऽहममुना हरदतेन प्रधानपुरुषसमक्षमयं मे न
दरजसापि तुल्य इत्यधिक्षिप्तः ।
हरदत्तः — देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल
म च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे
योगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकः ।
विदूषकः समत्थं पइण्णादं ।
गणदासः - प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति ।
राजा - तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः
ण्डितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः ।
विदूषकः – सुट्टु भवं भणादि ।
आचार्य — यद्देवाय रोचते ।
राजा - मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध-
हूयतां देवी ।
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य सपरिव्राजिकया
व्या सह प्रविष्टः । ) इत इतो भवती ।
-
धारिणी – (परिव्राजिकां विलोक्य) मैअवदि, हरदत्तस्स गण-
सस्स अ संरम्भे कहं पेक्खसि ।
परिव्राजिका – अलं खपक्षावसादशङ्कया । न परिहीयते प्रति-
दिनो गणदासः ।</p>
<note>१. समर्थ प्रतिज्ञातम् ।</note>
<note>२. सुष्ठु भवान्भणति ।</note>
<note>३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि ।</note>
<p>यादि । तीर्थाद्विशिष्टाद्गुरोरभिनयविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तप्रयो-
वास्मि । दत्तः शिष्येभ्यः प्रतिपादितः प्रयोगो विनियोगो येन स तथोक्तः ॥
मर्थं प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पक्षः ॥ न्याय्यो युक्तः । व्यवहारो वि-
दः॥ सुष्ठु भवान्भणति ॥ भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि
थं मन्यसे । अनयोः कतरस्य पराजयं विचारयसीत्यर्थः ॥ अलं स्वपक्षे-</p>
<pb n="20" />
<p>मालविकाग्निमित्रे
धारिणी – जैइवि एवं अपरिग्गहो से पहाणत्तणं उवहरइ ।
परिव्राजिका - अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु
भवती । पश्य ।</p>
<lg>
  <l>अतिमात्र भासुरत्वं पुष्यति भानोः परिग्रहादनलः ।</l>
  <l>अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥</l>
</lg>
<p>विदूषकः —– अइ, उअडिदा देवी पीठमद्दिअं पण्डि अकोसिईं
-
पुरोकरिअ धारिणी ।
राजा - पश्याम्येनाम् । यैषा</p>
<lg>
  <l>मङ्गलालंकृता भाति कौशिक्या यतिवेषया ।</l>
  <l>त्रयीविग्रहवत्येव सममध्यात्मविद्यया ॥ १४ ॥</l>
</lg>
<p>परिव्राजिका – (उपेय) विजयतां देवः ।
राजा - भगवति, अभिवादये ।</p>
<note>९. यद्यप्येवं राजपरियोज्य प्रधानत्वमुपहरति ।</note>
<note>२. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिक पुरस्कृत्य</note>
<p>धारिणी ।
›
त्यादि । अत्र परिव्राजिकायाः स्त्रीलात्प्राकृते प्राप्ते संस्कृताश्रयणं लिङ्गित्वादिति
मन्तव्यम् । तथा चोक्तम् — 'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥
यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वमुपहरति ॥ अतिमात्रभासुरत्व-
मित्यादि । स्पष्टोऽर्थः ॥ अयि उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुर
स्कृत्य धारिणी। पीठमर्दो नाम काम पुरुषार्थ सहायो नायकसमीपवर्ती पुरुषः कथ्यते ।
तथा चोक्तम् —' पीठमर्दः समीपस्थः कार्यालोचनकोविदः' इति । अत्र विदूषकः परि-
हासेन परिव्राजिकायां पण्डितकौशिक्यां तद्धर्भमारोपयतीति मन्तव्यम् ॥ मङ्गले-
त्यादि । मङ्गलालंकृता मङ्गलं शोभनं यथा भवति तथालंकृता भूषितैषा धारिणी
यतिवेषया यतेः परिव्राजकस्य वेप इव वेषः काषायादिधारणं यस्याः सा तथोक्ता
तया कौशिक्या समं सार्धं भाति प्रकाशते । अत्रोपमामाह - विग्रहवत्या शरी-
रियाध्यात्मविद्यया समं त्रयीव वेदत्रयीव । विग्रह्नतीव विभक्तिविपरिणामेन योज-
-</p>
<pb n="21" />
<p>परिव्राजिका-
प्रथमोऽङ्कः ।</p>
<lg>
  <l>महासारप्रसवयोः सदृशक्षमयोर्द्वयोः ।</l>
  <l>धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥</l>
</lg>
<p>धारिणी – जेदु अज्जउत्तो ।
राजा — खागतं देव्यै । ( परिव्राजिकां विलोक्य) भगवति, क्रि-
यतामासनपरिग्रहः ।</p>
<p>( सर्व उपविशन्ति ।)</p>
<p>राजा—भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान -
संघर्षणोर्भगवत्या प्राश्निकपदमध्यासितव्यम् ।
परिव्राजिका - ( सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे
रत्नपरीक्षा ।
राजा - नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति-
नावहं देवी च ।
आचार्यौ — सम्यगाह देवः । मध्यस्था भगवती नौ गुणदोषतः
परिच्छेत्तुमर्हति ।
राजा - तेन हि प्रस्तूयतां विवादः ।
परिव्राजिका – देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र
वाग्व्यवहारेण । कथं वा देवी मन्यते ।
देवी – जेइ मं पुच्छसि, एदाणं विवादो एव ण मे रोअदि ।
गणदासः - देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि ।
विदूषकः - मोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ-</p>
<note>१. जयत्वार्यपुत्रः ।</note>
<note>२. यदि मां पृच्छसि एतेषां विवाद एव न मे रोचते</note>
<note>३. भवति, पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।</note>
<p>'नीयम् ॥ महासारेत्यादि । महासारप्रसवयोः । महान्सारो वरः प्रसवः संतानं
ययोस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं ययोस्ते तयोः । शेषं
स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छसि, एतयोर्विवाद एव न मे रोचते ॥ भवति,</p>
<pb n="22" />
<p>मालविकाग्निमित्रे
देवी - 'णं कलहप्पिओसि ।
विदूषकः – म एवं । अण्णोष्णकलहप्पिआणं मत्तहत्थीणं
एक्कदरस्सि अणिज्जिदे कुदो उवसमो ।
राजा - ननु खाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती ।
परिव्राजिका - अथ किम् ।
राजा - तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् ।
परिव्राजिका — तदेव वक्तकामास्मि ।
-</p>
<lg>
  <l>लिष्टा क्रिया कस्यचिदात्मसंस्था</l>
  <l>संक्रान्तिरन्यस्य विशेषयुक्ता ।</l>
  <l>यस्योभयं साधु स शिक्षकाणां</l>
  <l>धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥</l>
</lg>
<p>विदूषकः - सुदं अज्जेहिं भअवदीए वअणं । एसो पिण्डितत्थो
उवदे सदसणादो णिण्णओति ।
हरदत्तः - परमभिमतं नः ।
गणदासः -- देवि, एवं स्थितम् ।</p>
<note>१. ननु कलहप्रियोऽसि ।</note>
<note>२. मैवम् । अन्योन्यकलहप्रिय योम त्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत-</note>
<p>उपशमः ।</p>
<note>३. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शना-</note>
<p>निर्णय इति ।
पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ॥ ननु कलहप्रियोऽसि ॥ मैवम् । अ-
न्योन्य कलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः ॥ श्लिष्टेत्यादि ।
कस्यचित्कस्यापि पुरुषस्यापि क्रिया शिक्षा । विद्याभ्यास इत्यर्थः । आत्मसंस्था आ-
त्मनिष्टा सती श्लिष्टा संगता । रम्या भवतीत्यर्थः । अन्यस्य पुरुषस्य संक्रान्तिः शिष्येषु
क्रियासंक्रमणम् । संक्रान्तिशब्दोऽत्रान्तभीवितण्यर्थः । विशेषयुक्तातिशयवती । यस्य
पुरुषस्योभयम्, आत्मसिद्धिः पर संक्रमणं च साधु रम्यं स पुरुष एव शिक्षकाणामुपदे-
शकानां धुर्य प्रतिष्ठापयितव्यः प्रतिष्टां प्रापयितव्यः । श्रुतमायाभ्यां भगवत्यावचनम्।
एष पिण्डितार्थ उपदेशदर्शनान्निर्णय इति । अत्र मालविका दर्शन संदेह निर्णयाद्यु-</p>
<pb n="23" />
<p>प्रथमोऽङ्कः ।</p>
<p>देवी - जदा उण मन्दमेधा सिस्सा उवदेसं मलिणेन्ति, तदा
आअरिअस्स दोसो णु ।
राजा - देवि, एवमापठ्यते । विनेतुरद्रव्यपरिग्रहोऽपि बुद्धि-
लाघवं प्रकाशयतीति ।
देवी - (स्वगतम् ) कैहं दाणिं (गणदासं विलोक्य प्रकाशम् । ) --
अलं अज्जउत्तस्स ऊसाहकारणं मणोरहं पूरिअ । विरम णिरत्थ-
आदो आरम्भादो ।
विदूषकः - सुडु भोदी भणादि । भो गणदास, संगीदपदं
लम्भिअ सरस्सईए उवाअणमोद आणं खादमाणस्स किं ते सुहणि-
गण विवादेण ।
गणदासः– सत्यसमयमेवार्थो देवीवाक्यस्य । श्रूयतामवसरप्रा-
मिदानीम् ।</p>
<lg>
  <l>लब्धास्पदोऽस्मीति विवादभीरो-</l>
  <l>स्तितिक्षमाणस्य परेण निन्दाम् ।</l>
  <l>यस्यागमः केवलजीविकायै</l>
  <l>तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥</l>
</lg>
<note>९. यदा पुनर्मन्द मेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य</note>
<p>दोषो नु ।</p>
<note>२. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा ।</note>
<p>वेरम निरर्थकादारम्भात् ।</p>
<note>३. सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपाय-</note>
<p>मोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ।
क्तर्नाम संध्यङ्गमुक्तं भवति ॥ यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति, तदा-
आर्यस्य दोषो नु । नुः प्रश्ने॥ कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं
रयित्वा विरम निरर्थकादारम्भात् ॥ सुष्ठु भवती भणति । भो गणदास, संगीतपदं
लब्ध्वा सरखत्युपायनमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा-
पदोऽस्मीत्यादि । स्पष्टोऽर्थः ॥ अचिरोपनीतायां शिष्यायां पुनःप्रतिष्टितस्योप-</p>
<pb n="24" />
<p>मालविकाग्निमित्रे
देवी - अइरोवणीदाए सिस्साए उण पडिट्टिदस्स उवदेसर
अण्णाय्यं पआसणं ।
गणदासः- - अत एव मे निर्बन्धः ।
-
देवी :- तेणं हि दुवेवि उवदेसं भअवदीए दंसेध ।
परिव्राजिका - देवि, नैतन्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण
याभ्युपगमो दोषाय ।
देवी - ( जनान्तिकम् ।) मूढे परिवाजिए, मं जाग्गतिंपि सु
विअ करेसि । ( इति सासूयं परावर्तते । )
1</p>
<p>( राजा देवीं परिव्राजिकायै दर्शयति । )</p>
<p>परिवाजिका-</p>
<lg>
  <l>अनिमित्तमिन्दुवदने मित्र भवतः पराङ्मुखी भवसि ।</l>
  <l>प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ १८ ॥</l>
</lg>
<p>विदूषकः सकारणं एव । अत्तणो पक्खो रक्खिदबो :
( गणदासं विलोक्य) दिडिआ कोववाजेण देवीए परित्तादो भवं ।
सुसिक्खिदो वि स उवदेसेण णिण्हादो होदि ।
गणदासः - देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम्</p>
<note>१. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यान्याय्यं प्रका-</note>
<p>शनम् ।</p>
<note>२. तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् ।</note>
<note>३. मृढे परिव्राजिके, मां जाग्रतीमपि सुतामिव करोषि ।</note>
<note>४. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्यः । दिष्टया कोपव्याजेन</note>
<p>देव्या परित्रातो भवान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति ।
देशस्यान्याय्यं प्रकाशनम् । तेन हि द्वावप्युपदेशं भगवयै दर्शयतम् ॥ मूढे परित्रा-
जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमित्यादि स्पष्टोऽर्थः ॥
ननु सकारणमेव आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भ
वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । अत्र देवीकोपेन वस्तुवि-
च्छेदे प्राप्ते विदूषक कृतं प्रोत्साहनमुत्तराङ्कोपयोगित्वेनाविच्छेदकारणत्वाद्विन्दुरित्यनु-</p>
<pb n="25" />
<p>प्रथमोऽङ्कः ।</p>
<lg>
  <l>विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः ।</l>
  <l>यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९॥</l>
</lg>
<p>(आसनादुत्थातुमिच्छति । )</p>
<p>देवी - (स्वगतम् ।) का गई। ( प्रकाशम् ।) पहवदि आअरिओ
. सिस्सजणस्स ।
गणदासः - चिरमपदे शङ्कितोऽस्मि । ( राजानमवलोक्य ।) अनु-
ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिनयवस्तुन्युपदेशं दर्श-
यिष्यामि ।
राजा - यदादिशति भगवती ।
परिवाजिका - किमपि देव्या मनसि वर्तते । ततः शङ्कितास्मि ।
देवी - भेण वीसद्धं । पहवदि पहू अत्तणो परिअणस्स ।
राजा – मम चेति ब्रूहि ।
-
देवी–भैअवदि, भणेदाणीम् ।
परिव्राजिका – देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलिकं
दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि ।
तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् ।
आचाय - यदाज्ञापयति भगवती ।
विदूषकः - तेर्णे हि दुवेवि बग्गा पेक्खाघरे संगीदरअणं करिअ
तत्तभवदो दूदं पेसअह । अहवा मुदङ्गसदो एव णो उत्थावइस्सदि ।</p>
<note>१. का गतिः । प्रभवत्याचार्यः शिष्यजनस ।</note>
<note>२. भण विस्रब्धम् । प्रभवति प्रभुरात्मनः परिजनस्य ।</note>
<note>३. भगवति, भणेदानीम् ।</note>
<note>४. तेन हि द्वावपि वर्गों प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं</note>
<p>प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति ।
संधेयम् ॥ विवाद इत्यादि । स्पष्टोऽर्थः ॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य॥
भण विस्रब्धम् । प्रभवति प्रभुरात्मनः परिजनस्य ॥ भगवति, भणेदानीम् ॥ तेन हि
द्वावपि वर्गों प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं प्रेषयतम्। अथवा मृदङ्गशब्द</p>
<pb n="26" />
<p>मालविकाग्निमित्रे
हरदत्तः — तथा । (इत्युत्तिष्ठति ।)
-</p>
<p>(गणदासो धारिणीमवलोकयति । )
( आचायाँ प्रस्थिती)
(नेपथ्ये मृदङ्गध्वनिः । सर्वे कर्णं ददति ।)</p>
<p>देवी - ( गणदासं विलोक्य 1 ) विई होहि ।</p>
<p>परिवाजिका - इतस्तावत् ।
आचाय - ( परिवृत्य ।) इभौ खः ।
परिव्राजिका - निर्णयाधिकारे ब्रवीमि । सर्वाङ्गसौष्ठवाभिव्य
क्तये विगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु ।
उभौ — नेदमावयोरुपदेश्यम् । ( इति निष्क्रान्तौ ।)
देवी - ( राजानमवलोक्य) जंइ राजकज्यु ईरिसी उवाअणि
उदा उत्तम्, तदो सोहं भवे ।
राजा-
अलमन्यथा गृहीत्वा न खलु मनखिनि मया प्रयुक्तमिदम्
प्रायः समानविद्याः परस्परयशः पुरोभागाः ॥ ३० ॥</p>
<p>परिव्राजिका - हन्त । प्रवृत्तं संगीतम् । तथा ह्येषा</p>
<lg>
  <l>जीमृतस्तनितविशङ्किभिर्मयूरैरुद्रीवैरनुरसितस्य पुष्करस्य ।</l>
  <l>निर्ह्रादिन्युपहितमध्यम खरोत्था मायूरी मदयति मार्जना मनांसि ॥२१॥</l>
</lg>
<note>१. विजयी भव ।</note>
<note>२. यदि राजकार्येष्वीदृय्युपायनिपुणतार्यपुत्रस्य ततः शोभनं भवेत्</note>
<p>एव न उत्थापयिष्यति ॥ विजयी भव ॥ सर्वाङ्गेत्यादि । अत्र गुणवत्त्वस्य गम्य
मानत्वादिलोचनं नाम संध्यज्ञमुक्तं भवति ॥ यदि राजकार्येष्वीदृश्युपाय निपुणतार्य
पुत्रस्य ततः शोभनं भवेत् । अत्र गूढार्थोद्भदनादुद्भेदो नाम संध्यङ्गमुक्तं भवति ।
अलमन्यथा गृहीत्वेत्यादि । स्पष्टोऽर्थः ॥ जीमूतस्तनितेत्यादि । जीमूत
स्तनितविशङ्किभिर्जीमूतस्य स्तनितं गर्जितं विशङ्कन्त इति तथोक्तास्तैरुद्रीवैरुत्कण्ठै
र्मयूरैः शिखण्डिभिरनुरसितस्यानुध्वनितस्य पुष्करस्य वाद्यभाण्डमुखस्य मायूरं
मयूरप्रिया मार्जनामनांसि मदयति हर्पयति । कीदृशी मार्जना । उपहितमध्य
मस्वरोत्था उपहितो योजितो मध्यमखरो मध्यमसंज्ञकख रस्तस्मादुत्तिष्ठत्यु देती
तथोक्ता । निर्ह्रादिन्यतिशयनिनादा । मार्जना नाम पुष्करवाद्यनामविशेषः</p>
<pb n="27" />
<p>11
11
री
1
प्रथमोऽङ्कः ।
राजा - देवि, तस्याः सामाजिका भवामः ।
देवी - (स्वगतम् ।) अहो अविणओ अज्जउत्तस्स ।</p>
<p>( सर्व उत्तिष्ठन्ति । )
( इति निष्कान्ताः सर्वे । )</p>
<p>विदूषकः - ( अपवार्थ । ) भो, धीरं गच्छत । तत्तभोदी धा-
रिणी विसंवादइस्सदि ।
राजा-</p>
<lg>
  <l>धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम् ।</l>
  <l>अवतरतः सिद्धिपथं शब्दः खमनोरथस्येव ॥ २२ ॥</l>
</lg>
<p>इति प्रथमोऽङ्कः ।</p>
<note>१. अहो अविनय आर्यपुत्रस्य ।</note>
<note>२. भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ।</note>
<p>तथोक्तं भारतीये – ' षोडशाक्षरसंपन्नं चतुर्मार्ग तथैव च ॥ द्विलेपनं षदकरणं
। त्रियति त्रिलयं तथा । त्रिगतं त्रिप्रचारं च त्रिसंयोगं त्रिपाणिकम् ॥ दशार्धपा-
णिप्रहृतं त्रिप्रहारं त्रिमार्जनम् । एमिरङ्गैस्तु संपन्नं वाद्यं पुष्करजं भवेत् ॥' तत्र
'मायूरि चार्धमायूरी तथा कामरवीति च । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु
खराश्रयाः ॥ गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे । मध्यमचोर्ध्वगः
कार्यों मायूर्यास्तु स्वरास्त्वमी ॥ वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा ।
धैवतश्चोर्ध्वगोत्रार्धमायूर्या निर्दिशेदुधः ॥ ऋषभः पुष्करे वामे पइजो दक्षिणपु-
करे । पञ्चमश्चोर्ध्वगः कार्यः कामरव्याः स्वरा अमी ॥' इति ॥ अहो, अविनय
आर्यपुत्रस्य ॥ भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ॥
धैर्यावलम्बिनमित्यादि । अयं मुरजवाधरागो मुरजवाद्यस्य रञ्जकत्वं धैर्या-
। बलम्बिनमपि मां त्वरयति संभ्रमयति । सिद्धिपथं सिद्धि मार्गमवतरतः प्राप्नुवतः
खमनोरथस्यात्मवाञ्छितस्य शब्द इव ध्वनिरिव । अत्र बीजस्य पुनरावर्तना-
त्समाधानं नाम संध्यङ्गमुक्तं भवति । अत्रैव मुखागमस्य गम्यमानत्वात्प्राप्तिर्नाम
संध्यङ्गमुक्तं भवति । अत्रोपक्षेपादिषु संध्यङ्गेषु कतिचिदेव कविनोक्तानि नेतराणि
तथापि न दोषः । 'न्यूनमप्यत्र यैः कैश्चिदङ्गनाट्यं न दुष्यति । यद्युपात्तेषु
-संपत्तिराराधयति तद्विदः ॥' इति वचनात् । अत्र नृत्यदर्शननिश्चयान्ते प्रथमा-
कार्थे समाप्तेऽपि तमसमाप्यैवोत्तराङ्गादौ विष्कम्भादौ प्रतिपाद्यायाः संगीतरचनाया
अत्रैव निपातनादङ्कावतरणं नामार्थोपक्षेपकमुक्तं भवति । यथोक्तम् – 'अङ्काव-
तारस्त्वङ्कान्ते पात्रेणाङ्कस्य सूचनात्' इति ॥ इति श्रीकाटयवेमभूपविर.
चिते कुमार गिरिराजीये मालविकाग्निमित्रव्याख्याने प्रथमोऽङ्कः ॥</p>
<pb n="28" />
<p>मालविकाग्निमित्रे
द्वितीयोऽङ्कः ।
(ततः प्रविशति संगीतरचनायामासनस्थो राजा सवयस्यो धारिणी परिव्राजिका
विभवतश्च परिवारः । )
राजा - भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं
द्रक्ष्यामः ।
परिव्राजिका - ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गुण-
दासः पुरस्कारमर्हति ।
राजा - मौद्गल्य, एवमत्रभवतोरावेद्य नियोगमशून्यं कुरु ।
कञ्चुकि - यदाज्ञापयति देवः । (इति निष्क्रान्तः ।)</p>
<p>( प्रविश्य 1 )
(निष्क्रान्तो गणदासः । )</p>
<p>गणदासः - देव, शर्मिष्ठायाः कृतिर्लयमध्या चतुप्पदास्ति ।
तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः ।
राजा - आचार्य, बहुमानादवहितोऽस्मि ।</p>
<p>राजा - ( जनान्तिकम् ।) वयस्य,</p>
<lg>
  <l>नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः ।</l>
  <l>संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥ १ ॥</l>
</lg>
<p>अत्र-
कविरिदानीमङ्कान्तरं प्रस्तौति - ततः प्रविशतीत्यादि । 'भगवति,
भवतो:' इत्यादिना 'गणदासः पुरस्कार मर्हति' इत्यन्तेन प्रतीयमानं राज्ञ उपायतो
मालविका दर्शनप्रवर्तनं प्रयत्नो नाम द्वितीयावस्थितिरिति मन्तव्यम् । अत्र
बिन्दुप्रयत्नयोः समन्वयात्प्रतिमुखसंधिरित्यनुसंधेयम् ॥ देव, शर्मिष्ठाया इ-
त्यादि । शर्मिष्ठा नाम वृषपर्वणो राक्षसराजस्य दुहिता । तस्याः कृतिः काव्यम् ।
लयमध्या लयेन तालकालेन मध्या मध्यमानयुक्ता । चतुष्पदा चत्वारि पदानि
खण्डानि यस्याः सा तथोक्ता । तस्याः कृतिसंबन्धिनश्चतुर्थवस्तुनश्चतुर्थस्य तुर्यस्य
वस्तुनः प्रबन्धस्य प्रयोगमभिनय मेकमना अवहितः सन् श्रोतुमर्हति । अत्रशृङ्गा-
रस्य प्रतिपाद्यमानत्वालयमध्येत्युक्तम् । तथा चोक्तं भारतीये – ' शृङ्गारहास्ययोर्म-
ध्यलयः । करुणे विलम्बितः । वीररौद्राद्भुतबीभत्सभयानकेषु द्रुतः ॥ 'नेपथ्य-
परिगताया इति । नेपथ्यपरिगताया यावनिकान्तरस्थितायास्तस्या मालवि-
काया दर्शनसमुत्सुकमवलोकनोत्कण्ठितं मे चक्षुरधीरतया तरलतया तिरस्करिणीं</p>
<pb n="29" />
<p>द्वितीयोऽङ्कः ।</p>
<p>विदूषकः - (अपवार्य ।) उवद्विदं णअणमहु संणिहिदमक्खिअं
च । ता अप्पमत्तो दाणि पेक्ख ।</p>
<p>(ततः प्रविशत्याचार्यावेक्ष्यमाणाङ्गसौष्टवा मालविका ।)</p>
<p>विदूषकः - (जनान्तिकम् ।) पेक्खदु भवं । ण खु से पडिच्छ-
दादो परिहिआदि महुरदा ।
राजा - (अपवार्य ।) वयस्य,</p>
<lg>
  <l>चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।</l>
  <l>संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ २ ॥</l>
</lg>
<p>गणदासः – वत्से, मुक्तसाध्वसा सत्त्वस्था भव ।
-
राजा- ( आत्मगतम् । ) अहो सर्वस्थानानवद्यता रूपविशेषस्य ।
तथाहि ।</p>
<note>१. उपस्थितं नयनमधु संनिहितमक्षिकं च । तद्प्रमत्त इदानीं पश्य ।</note>
<note>२. पश्यतु भवान् । न खल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता ।</note>
<p>यवनिकां संहर्तुमपनेतुं व्यवसितमिवोद्युक्तमिव । अष्टार्थविषयेच्छाया गम्यमा-
नत्वाद्विलासो नाम संध्यङ्गमुक्तं भवति ॥ उपस्थितं नयनमधु संनिहितमक्षिकं
च । तस्मादप्रमत्त इदानीं पश्य ॥ ततः प्रविशतीत्यादि । आचार्यावेक्ष्यमा -
गाङ्गसौष्ठवा आचार्येण गणदासेनावेक्ष्यमाणमङ्गानां सौष्ठवं यस्याः सा तथोक्ता ।
* सौष्ठवं नामाङ्गानां शोभनावस्था । यथोक्तम् - 'अनुच्चनीच चलतामङ्गानां समपा-
दताम् । कटिकूर्परशीर्षांसकण्ठानां समरूपताम् ॥ रम्यां प्रतीकविश्रान्तिमुरसश्च
समुन्नतिम् । अभ्यासोपहितामाहुः सौष्ठवं नृत्यवेदिनः ॥' पश्यतु भवान् । न ख-
ल्वस्याः प्रतिच्छन्दात्परिहियते मधुरता ॥ अत्रापवार्येत्येतन्नियतश्राव्यार्थभेदस्या-
पवारितस्य विवक्षितत्वे कविना प्राक्प्रयुक्तमिति मन्तव्यम् । यथोक्तं वसन्त-
राजीये –'अर्थस्त्वेकेन विज्ञेयो नियतश्राव्य इष्यते । द्विविधः स परिज्ञेयो जना -
न्तश्चापवारितः॥' अत्र 'परैरलक्ष्य व्यापारं कथितोऽर्थोऽपवारितः । उक्त्वा प्राग-
पवार्येति पश्चादेनं प्रयोजयेत् ॥' इति ॥ चित्रगतायामित्यादि । मे हृदयं
मनचित्रगतायामा लेख्यगतायामस्यां मालविकायां कान्तिविसंवादशङ्कि कान्तेः
शोभाया विसंवादं विपर्यासं शङ्कत इति तथोक्तम् । संप्रतीदानीम् । साक्षादर्शन-
वेलायामित्यर्थः । इयं मालविका येन चित्रकारेणालिखिता तं चित्रकारं शिथिल-
समाधिं शिथिलप्रयत्नं मन्ये जानामि ॥ मुक्तसाध्वसा परित्यक्तभया । सभाकम्प -
माल०</p>
<pb n="30" />
<p>मालविकाग्निमित्रे</p>
<lg>
  <l>दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः</l>
  <l>संक्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।</l>
  <l>मध्यः पाणिमितो नितम्ब जघनं पादावरालाङ्गुली</l>
  <l>छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ ३ ॥</l>
</lg>
<p>मालविका — (उपगानं कृत्वा चतुष्पद वस्तु गायति ।)</p>
<lg>
  <l>दुल्हो पिओ मे तम्सि भव हिअअ णिरासं</l>
  <l>अह्म अपङ्गवो मे परिष्फुरद्द किं पि वामो ।</l>
  <l>एसो सो चिरदिट्ठो कहँ उण उवणइदबो</l>
  <l>गाह में पराहीणं तुइ परिगण सतिण्हम् ॥ ४ ॥</l>
</lg>
<p>( ततो यथार समभिनयति । )</p>
<lg>
  <l>१. दुर्लभः प्रियो में तस्मिन्भव हृदय निराश-</l>
  <l>महो अपाङ्गो मे परिस्फुरति किमपि वामः ।</l>
  <l>एष स चिरदृष्टः कथं पुनरुपनेतव्यो</l>
  <l>नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥</l>
</lg>
<p>रहितेत्यर्थः । सत्त्वस्था सत्त्वगुणयुक्ता । अधिकृता भवेत्यर्थः । यथोक्तम्—'चि
तस्याविकृतिः सत्त्वं विकृतेः कारणे सति' इति । अत्र विकृतिकारणं नायकसं-
निधिः ॥ अहो इत्याधर्ये । सर्वस्थानानवद्यता सर्वेषु स्थानेषु सर्वावयवेष्वनवद्यता
निर्दोषता । रमणीयतेत्यर्थः । दीर्घाक्षमित्यादि । वदनं मुखं दीर्घाक्षं दीर्घं
आयते अक्षिणी लोचने यस्य तत्तथोक्तम् । शरदिन्दुकान्ति शरदिन्दोः
शरच्चन्द्रस्य कान्तिरिव कान्तिर्यस्य तत्तथोक्तम् । बाहू भुजावंसयोः स्कन्धयोनती
नम्रौ । मध्योऽवलग्नं पाणिमितः पाणिना हस्तेन मितः परिमितः । जघनं
नितम्ब नितम्बातिशययुक्तम् । पादौ चरणावरालाङ्गुली अराला आकुचिता अड-
लयो ययोस्तौ तथोक्तौ । अस्या मालविकाया वपुः शरीरं नर्तयितुर्नृत्ताचार्यस्य छ-
दोऽभिप्रायो यथा यादृशस्तथा तेन प्रकारेण श्लिष्टं संगतम् । अनेन नर्तक्या वृत्तार-
म्भोचितावस्थानविशेष उक्तः । तथा चोक्तं वसन्तराजीये – 'अङ्गस्य चतुरस्रत्वं
समपादौ लताकरौ । आरम्भे सर्वनृत्तानामेतत्सामान्यमिष्यते ॥' इति ॥ उपगानं
रागदीप्तं कृत्वा चतुष्पदवस्तु चतुष्पदसंज्ञकं प्रवन्धं गायति वस्त्विति प्रबन्धः ।
'प्रबन्धो रूपकं वस्तु निबन्धस्याभिधात्रयम्' इत्युक्तलात् । दुर्लभः प्रियो मे तस्मि
न्भव हृदय निराशम् । अहो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चि -
रदृष्टः कथं पुनरुपनेतव्यः । नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ ततो
गानानन्तरं यथारसं रसानुकूलमभिनयति । अत्र रसोऽयोगविप्रलम्भश्टङ्गारः ।</p>
<pb n="31" />
<p>द्वितीयोऽङ्कः ।</p>
<p>विदूषकः – (जनान्तिकम् ।) भो, चउप्पदवत्तुअं दुवारीकरिअ
इ उवट्टाविदो अप्पा तत्तहोदीए ।
राजा - सखे, एवमेव ममापि हृदयम् । अनया खलु</p>
<lg>
  <l>जनमिममनुरक्तं विद्धि नाथेति ये</l>
  <l>वचनमभिनयन्त्याः खाङ्गनिर्देशपूर्वम् ।</l>
  <l>प्रणयगतिमदृष्ट्वा धारिणीसंनिकर्षा-</l>
  <l>दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥</l>
</lg>
<p>( मालविका गीतान्ते निष्क्रमितुमारब्धा ।)</p>
<note>१. भोः; चतुष्पद वस्तुकं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ।</note>
<p>थोक्तम्—'अप्राप्तिर्विप्रलम्भः स्याद्यूनोजताभिलापयोः । विप्रलम्भस्य भेदाः
रयोगो विरहस्ततः ॥ प्रवासः शापः करुणा मानश्चेति च पण्मताः॥' तत्र । 'संप्राप्ते
गनो यस्तमयोगं प्रचक्षते' इति । अत्र चतुष्पद्याः पादचतुष्टये क्रमेण निर्वेदः
विस्मयो हर्षश्चिन्ता दैन्यं चेति संचारिभावास्तत्तदनुभावैर्मुखरागादिभिः सम्य-
प्रकाशिता इत्यनुसंधेयम् । तेषां लक्षणमुक्तं वसन्तराजीये --' इष्टार्थ विरहव्याधि-
नेन्दासदनमानसैः । दारिद्र्य संताननाशपरवृज्यवलोकनैः । निष्फलवमतिर्नृणां
वेदो जीवितादिषु ॥' अत्रेष्टार्थविरहजनितो निर्वेदः । ' अन्तर्वाष्पोंपमध्याननिः-
वासस्यावमाननैः । दैन्यगद्दवैवर्यैरभिनेयो भवेदयम् ॥ हर्षो मनःसमुहासो
रुदेव महीभुजाम् । प्रसादात्प्रियसङ्गाच भवेदिष्टार्थलाभतः ॥' अत्रेष्टार्थलाभज-
तो हर्पः । अपाङ्गस्फुरणस्येष्टार्थलाभ हेतुलात् । 'मुखे नेत्रे प्रसन्नत्वात्प्रियोक्ति-
पुलकोद्गमः । दानत्यागपरीरम्भैरभिनेयो भवेदयम् ॥ इटालाभादिष्टनाशादनि-
पप्तेश्च दैन्यतः । चित्तस्यैकाग्रता चिन्ता' । अत्र चिन्तेष्टालाभजनिता । 'स्मरणं
अनुपस्मृतिः॥ संतापोच्छ्वास निश्वासा मान्यमिन्द्रियकर्मणाम्। अधोमुखत्वमित्याद्यै-
. भिनेयो भवेदयम् ॥ अनौजस्त्वं तु मनसो दैन्यमित्यभिधीयते । मनःसंतापदारिद्र्य-
वेन्तौत्सुक्यादिभिर्भवेत्॥' अत्रौत्सुक्यजनितं दैन्यम्।' अङ्गानामपि शैथिल्यं देहसं-
कारवर्जनम्। अश्ञ्चितं भरतेऽस्मिन्वै अनुभावाः प्रदर्शिताः॥' इति ॥ भोः, चतुष्पद-
स्तुकं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ॥ जनमिमभित्यादि । नाथ
मिनू, इमं जनम् । मामित्यर्थः । अनुरक्तं स्निग्धम् । त्वयीति शेषः । विद्धि जा-
हि । इत्येवंविधे ये गीते । वचनं 'णाह मं पराहीणं' इत्यादिवाक्यं स्वाङ्ग निर्देश-
पूर्वमात्मशरीरप्रदर्शनपूर्वं यथा भवति तथाभिनयन्त्या हस्तादिभिः प्रकाशीकुर्वत्या
अनया मालविकया धारिणीसंनिकर्षाद्विहितां प्रणयगतिं मम स्नेहप्रवृत्तिमदृष्ट्वा -
क्षत्विा । अनुभावानामप्रकाशनादिति भावः । सुकुमारप्रार्थनाव्याजं सुकुमारा मृ</p>
<pb n="32" />
<p>मालविकाग्निमित्रे
विदूषकः - भोदि', चिट्ठ किंचि । वो विसुमरिदो कम्म
भेदो । तं दाव पुच्छिस्सम् ।
गणदासः - भद्रे, उपदेशविशुद्धा यातुमर्हसि ।</p>
<p>( मालविका निरृत्य स्थिता 1 )</p>
<p>।
राजा - ( आत्मगतम् ।) अहो, सर्वास्ववस्थासु चारुता शोभान्तरं
पुष्यति । तथा हि ।</p>
<lg>
  <l>वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे</l>
  <l>कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।</l>
  <l>पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं</l>
  <l>नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्थम् ॥ ६ ॥</l>
</lg>
<p>देवी - णं गोदमवअणं वि अज्जो हिजए करेदि ।
गणदासः - देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद-
शिता गौतमस्य ।</p>
<lg>
  <l>मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।</l>
  <l>'पङ्कच्छिदः फलस्येव निकपेणाविलं पयः ॥ ७ ॥</l>
</lg>
<note>१. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि ।</note>
<note>२. ननु गौतमवचनमप्यार्यो हृदये करोति ।</note>
<p>दुला । रसनीयेत्यर्थः । सा चासौ प्रार्थना सैव व्याजोऽपदेशो यस्मिन्कर्मणि तत्तथो-
तम् । अहमुक्त इवोदित इव ॥ भवति तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म-
भेदः । तं तावत्प्रक्ष्यामि ॥ वाममित्यादि । संधिस्तिमितवलयं संधौ मणिबन्धे
स्तिमितं निश्चलं वलयं कङ्कणं यस्य स तथोक्तः । तं वामं सव्यं हस्तं नितम्बे न्यस्य
निधाय । श्यामाविटपसदृशं फलिनीशाखासंनिभं द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं
स्तं शिथिलं यथा भवति तथा मुक्तं विसृष्टम् । लम्बितमित्यर्थः । कृत्वा विधाय ।
पादाङ्गुष्ठालुलितकुसुमे पादाङ्गुष्टेनालुलितमामृष्टं कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे ।
स्फटिकादिखचितस्थले पातिते व्यापारिते अक्षिणी यस्मिन्कर्मणि तथोक्तम् ।
ऋज्वायतार्धम् ऋजु अवक्रमायतं दीर्घ अधं शरीरस्योर्ध्वभागो यस्य तत्तथोक्तम् ।
अस्याः स्थितमवस्थानं नृत्तान्नर्तनादतितरामत्यर्थं कान्तं मनोहरं भवति । अत्र
वाक्यस्य विशेषितत्वात्पुष्पं नाम संध्यङ्गमुक्तं भवति ॥ ननु गौतमवचनमप्याय
हृदये करोति ॥ मन्दोऽप्यमन्दतामेतीति । स्पष्टोऽर्थः । अस्य वाक्यस्योपप-</p>
<pb n="33" />
<p>द्वितीयोऽङ्कः ।</p>
<p>विदूषकं विलोक्य) ततः शृणुमो वयं विवक्षितमार्यस्य ।
विदूषकः—(गणदासं विलोक्य ) कोसिई दाव पुच्छ । पच्छा
तो मए कम्मभेदो दिट्टो तं भणिस्सं ।
गणदासः - भगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा ।
परिव्राजिका – यथादृष्टं सर्वमनवद्यम् । कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः</p>
<lg>
  <l>:</l>
  <l>पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।</l>
  <l>शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ</l>
  <l>भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ८ ॥</l>
</lg>
<p>गणदासः - देवः कथं वा मन्यते ।
राजा - वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः ।
गणदास:- - अद्य नर्तयितास्मि ।
-</p>
<note>१. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि ।</note>
<p>तमत्त्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाद्यो
या कर्मभेदो दृष्टस्तं भणिष्यामि ॥ अङ्गैरित्यादि । अन्तर्निहितवचनैरन्तर्नि-
रेतान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरङ्गैर्हस्वादिभिः । अत्राभ्यासपा-
वादङ्गानां स्वत एवान्तर्निहितवचनवमुत्प्रेक्षितमिति मन्तव्यम् । अर्थो गीतार्थः
म्यकू साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम-
रंगतोऽनुसृतः । लयो नाम तालमानम् । 'तालवर्ती तु यः कालः स काललयना-
यः' इत्युक्तत्वात् । अत्र पादन्यासस्य स्वतो लयानुसरणमभ्यासपाटवादिति
मन्तव्यम् । रसेषु रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः ।
पत्र रसशब्देनोपचारात्परितोषातिशयवत्त्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकत्वा-
.सेष्विति बहुवचनानुपपत्तिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम् —' प्रयोगो
! तु नाट्यादेर्भवेदभिनयो हि सः' इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स
थोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां मानप्रचारः ।
थोक्तम् -'शाखा तु नृत्तहस्तानां या मात्रोचितनर्तना' इति । तद्विकल्पानु-
त्तौ तस्याभिनयस्य विकल्पो भेदस्तस्यानुवृत्तिरनुगतिः प्राप्तिः । तस्यां सत्यां
वः अभिनीयमानो निर्वेदादिर्विषयादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं</p>
<pb n="34" />
<p>मालविकाग्निमित्रे</p>
<lg>
  <l>उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।</l>
  <l>श्यामायते न युष्मासु यः काञ्चनमिवामिषु ॥ ९ ॥</l>
</lg>
<p>देवी – दिट्ठिआ अपरिक्खदाराहणेण अज्जो वड्ढइ ।
गणदासः -- देवपरिग्रह एव वृद्धिहेतुः । ( विदूषकं विलोक्य ।)
गौतम, वदेदानीं यत्ते मनसि वर्तते ।
-
विदूषकः — ढमोपदेसदंसणे पुढमं बह्मणस्स पूआ कादवा ।
सा णं वो विसुमरिदा ।
परिव्राजिका - अहो प्रयोगाभ्यन्तरः प्रश्नः ।</p>
<p>( सर्वे प्रहसिताः । )
( मालविका स्मितं करोति । )</p>
<p>राजा - (आत्मगतम् । ) उपात्तसारश्चक्षुषा मे स्वविषयः । यदनेन</p>
<lg>
  <l>स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् ।</l>
  <l>असमग्रलक्ष्य केसरमुच्छ्रसदिव पङ्कजं दृष्टम् ॥ १० ॥</l>
</lg>
<p>गणदासः - महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् ।
अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
विदूषकः -- मैं णाम मुद्धचादरण विअ सुक्खवणगज्जिदे</p>
<note>१. दिष्ट्या परिक्षताराधनेनार्यो वर्धते ।</note>
<note>२. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो</note>
<p>विस्मृता ।</p>
<note>३. मया नाम मुग्धचातकेनेव शुष्कधनगर्जितेऽन्तरिक्षे जलपानमिष्टम् ।</note>
<p>अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभवत्या शोभनं भणितं
ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ।
पूर्वाभिनीतं संचारिणं नुदत्यपाकरोति । रागबन्धो रञ्जनत्वयोगः स एव । पूर्वे
यादृशस्तादृश एवेत्यर्थः ॥ उपदेशं विदुरित्यादि । उपदेशिनः शिक्षकस्य ।
युष्मासु युष्मदृशेषु । विवेकिष्वित्यर्थः । न श्यामायते न मलिनीभवति । 'लोहि-
तादिडाज्भ्यः क्यप्' । 'वा क्यषः' इति विकल्पादात्मनेपदम् ॥ दिष्ट्या अपरिक्ष-
ताराधनेनार्यो वर्धते ॥ प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा
ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति ॥
स्मयमानमित्यादि । स्पष्टोऽर्थः । मया नाम मुग्धचात केनेव शुष्कघनगर्जितेन्त-</p>
<pb n="35" />
<p>द्वितीयोऽङ्कः ।</p>
<p>अन्तरिक्खे जलपाणं इच्छिदं । अहवा पण्डिदसंतोसपच्चयाणं
मूढजादी जदो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि-
तोसिअं पअच्छामि । ( इति राज्ञो हस्तात्कटकमाकर्षति । )
देवी - चिंह दाव । गुणन्तरं आणन्तो किंणिमित्तं तुमं आ-
हरणं देसि ।
.
विदूषकः – परकेरअंति करिअ ।
देवी - ( आचार्य विलोक्य) अज्ज गणदास, दंसिदोवदेसा दे
सिस्सा ।
गणदासः - वत्से, प्रतिष्ठखेदानीम् ।</p>
<p>( मालविका स्नेहाचार्येण निष्क्रान्ता ।)</p>
<p>विदूषकः - ( जनान्तिकम् ) ऐत्तिओ मे मादिविहवो भवन्तं
सेविदुं ।
राजा - अलमलं परिच्छेदेन । अहं हि</p>
<lg>
  <l>भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।</l>
  <l>द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥ ११ ॥</l>
</lg>
<note>१. तिष्ठ तावत् । गुणान्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि ।</note>
<note>२. परकीयमिति कृत्वा ।</note>
<note>३. आर्य गणदास, दर्शितोपदेशा ते शिष्या ।</note>
<note>४. एतावान्मे मतिविभवो भवन्तं सेवितुम् ।</note>
<p>रिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभ-
त्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत् । गुणा-
न्तरमजानन्किनिमित्तं लमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आर्य गण-
दास, दर्शितोपदेशा ते शिष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन
राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तं भवति ॥ एतावान्मे मतिविभवो
भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकायास्तिरस्करणं
तिरोधान मक्ष्णोर्ने त्रयोर्भाग्यास्तमयमिव भाग्यस्य भागधेयस्यास्तमयमिव नाशमिव ।
हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेर्द्वारपिधानमिव द्वारस्य
प्रवेशमार्गस्य पिधानं तिरोधानमिव । मन्ये संभावयामि । अत्रार्तेर्गम्यमानत्वाद्वि-</p>
<pb n="36" />
<p>मालविकाग्निमित्रे
विदूषकः - ( जनान्तिकम् ।) दैलिदो विअ आदुरो वेज्जेण ओ-
सदं दीअमाणं इच्छसि ।
-</p>
<p>( प्रविश्य 1 )
(नेपथ्ये ।)</p>
<p>हरदत्तः — देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां
प्रसादः ।
राजा - (आत्मगतम् ।) अवसितो दर्शनार्थः । ( दाक्षिण्यमवलम्ब्य
प्रकाशम् ।) ननु पर्युत्सुका एव वयम् ।
हरदत्तः - अनुगृहीतोऽस्मि ।</p>
<p>वैतालिकः — जयतु जयतु देवः । उपारूढो मध्याह्नः । तथा हि ।
-</p>
<lg>
  <l>पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां</l>
  <l>सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि ।</l>
  <l>विन्दुक्षेपान्पिपासुः परिसरति शिखी भ्रान्तिमद्वारियां</l>
  <l>सर्वैरुस्रैः समग्रस्त्वमिव नृपगुणैदप्यते सप्तसप्तिः ॥ १२ ॥</l>
</lg>
<p>विदूषकः - अविहा अविहा । अह्माणं उण भोअणवेला उव-
ट्टिदा । उदवेलादिकमे चिइच्छआ दोसं उदाहरन्ति । ( हरदत्तं
विलोक्य 1 ) किं दाणिं भणसि ।
हरदत्तः - नास्ति वचनस्यान्यस्यावकाशोऽत्र ।
राजा - तेन हि त्वदीयमुपदेशं वो वयं द्रक्ष्यामः । विश्राम्यतु
भवान् ।
हरदत्तः - यदाज्ञापयति देवः । ( इति निष्क्रान्तः । )</p>
<note>१. दरिद्र इवातुरो वैद्येनोपधं दीयमानमिच्छसि ।</note>
<note>२. अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे</note>
<p>चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि ।
धुतं नाम संध्यङ्गमुक्कं भवति ॥ दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ॥
पत्रच्छायेत्यादि । स्पष्टोऽर्थः ॥ अविध अविध । अस्माकं पुनर्भोजनवेलोप-
स्थिता । उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि ॥</p>
<pb n="37" />
<p>द्वितीयोऽङ्कः ।</p>
<p>देवी — बिट्टेदु अज्जउत्तो मज्जणविहिम् ।
विदूषकः - भोदि, विसेसेण पाणभोअणं तुवरावेहि ।
परिव्राजिका- (उत्थाय । ) स्वस्ति भवते ( इति सपरिजनया देव्या
सह निष्क्रान्ता । )
विदूषकः - भो अस्स, ण केवलं रूवे, सिप्पेवि अद्दुदीआ
मालविआ ।
राजा - वयस्य,</p>
<lg>
  <l>अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।</l>
  <l>परिकल्पितो विधात्रा वाणः कामस्य विषदिग्धः ॥ १३ ॥</l>
</lg>
<p>किंबहुना । सखे, चितथिन्तव्योऽस्मि ।
विदूषकः - भवदावि अहं । दिढं विपणिकन्दु विअ मे अ-
रब्भन्तरं दज्झइ ।
राजा - एवमेव भवान्सुहृदर्थेऽपि त्वरताम् ।
---
विदूषक - हीदी खणो । किं तु मेहावलीणिरुद्धा जोण्हा
विअ परोहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो विअ</p>
<note>१. निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ।</note>
<note>२. भवति, विशेषेण पानभोजनं त्वरय ।</note>
<note>३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ।</note>
<note>४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते ।</note>
<note>५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना तत्र-</note>
<p>भवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च ।
तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे ।
,
निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ॥ भवति विशेषेण पानभोजनं वरय ॥ भो
वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ॥ अव्याजसुन्दरीमि-
त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन ॥ भवताप्यहम् ।
दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुर्नाम पण्यवीथिकायां
पिष्टपचनपात्रम् । 'कन्दुर्ना स्वेदनी स्त्रियाम्' इत्यमरः ॥ एवमेवेत्यादि ।
एवमेवेत्थमेव । यथा भवान्भोजनरूपे स्वकार्ये त्वरते तथा सुहृदर्थे मदर्थे माल-
विका पुनर्दर्शने वरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग-
मुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेघावली निरुद्धा ज्योत्स्नेव पराधीनदर्शना</p>
<pb n="38" />
<p>मालविकाग्निमित्रे
विहंगो आमिसलोलुओ भीरुओ अ । ता अणादुरो भविअ कज्जसिद्धिं
पत्थेन्तो मे रोअसि ।
राजा — कथमनातुरो भविष्यामि ।</p>
<lg>
  <l>सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य ।</l>
  <l>सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १४ ॥</l>
</lg>
<p>( इति निष्क्रान्ताः सर्वे । )</p>
<p>इति द्वितीयोऽङ्कः ।
तत्रभवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकच ।
तस्मादनातुरो भूला कार्यसिद्धिं प्रार्थयमानो मे रोचते । अत्र सान्त्वनस्य गम्य-
मानलात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति ॥ सर्वान्तःपुरेत्यादि । यत्स्नेहम्य
प्रेम्ण एकायनीभूता । एकं केवलमयनं स्थानम् । आश्रय इत्यर्थः । तद्भूता ।
अत्राने मालविकाया निष्क्रमणेन कथाविच्छेदे सति सर्वान्तःपुरेत्यादिना गम्य-
मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्विन्दुरियनुसंधेयम् ॥ इति
श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्र
व्याख्याने द्वितीयोऽङ्कः ॥</p>
<pb n="39" />
<p>तृतीयोऽङ्कः ।
तृतीयोऽङ्कः ।</p>
<p>(ततः प्रविशति परिव्राजिकायाः परिचारिका समाहितिका 1)
(ततः प्रविशत्युद्यानपालिका । )</p>
<p>समाहितिका – आणत भअवदीए । समाहिदिए, देवीए
उवायणत्थं बीअऊरअं गेव्हिय आअच्छति । जाव पमदवणपा-
लिअं महुअरिअं अण्णेसामि । ( परिक्रम्यावलोक्य) एसा तवणीआ-
सोअं ओलोअन्ती चिदि । जाव णं उवसप्पामि ।</p>
<p>प्रथमा - ( उपसत्य ) हुअरिए, अवि सुहो दे उज्जाणवावारो
द्वितीया - अह्मो समाहिदिआ । सहि, सागदं ते ।
समाहितिका – हेला, भगवदी आणवेदि । अरितपाणिणा
अह्मारिसजणेण तत्तहोदी देवी देक्खिदा । ता बीअपूरएण सुस्सू-
सिदुं इच्छामिति ।
मधुकरिका - "णं संणिहिदं बीजपूरअं । कहेहि दाब अ-</p>
<note>१. आज्ञप्तास्मि भगवत्या । समाहितिके, देव्या उपायनार्थं बीजपूरकं गृ-</note>
<p>हीत्वागच्छेति । यावत्प्रमदवनपालिकां मधुकरिकामन्विष्यामि । एषा तप-
नीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पामि ।</p>
<note>२. मधुकरिके, अपि सुखस्त उद्यानव्यापारः ।</note>
<note>३. अहो समाहितिका । सखि, स्वागतं ते ।</note>
<note>४. सखि, भगवत्याज्ञापयति । अरिक्तपाणिनास्माद्दशजनेन तत्रभवती</note>
<p>देवी द्रष्टव्या । तद्वीजपूरकेण शुश्रूषितुमिच्छामीति ।</p>
<note>४. ननु संनिहितं बीजपूरकम् । कथय तावदन्योन्यसंघर्षितयोर्नाट्याचा-</note>
<p>ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसितः ।
कविरिदानीमङ्कान्तरमारभमाणः कथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षे-
पर्क प्रस्तौति - ततः प्रविशतीत्यादिना ॥ आज्ञप्तास्मि भगवत्या । समाहितिके,
देव्या उपायनार्थं बीजपूरकं गृहीत्वा गच्छेति । यावत्प्रमदवनपालिकां मधुकरिकाम-
न्विष्यामि । एषा तपनीयाशोक मवलोकयन्ती तिष्टति । यावदेनामुपसर्पामि ॥ मधु-
किरिके, अपि सुखस्त उद्यानव्यापारः । अहो समाहितिका । सखि, स्वागतं ते ॥
सखि, भगवत्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्रष्टव्या ।</p>
<pb n="40" />
<p>मालविकाग्निमित्रे
ष्णोष्णसंघरिसिदाणं णट्टाअरिआणं उवदेसं देक्खिअ कदरो भभ-
वदीए पसंसिदो ।
समाहितिका — देवेवि किल आअमिणा पओअणिउणा अ ।
किंतु सिस्सागुणविसेसेण मालविआए उवदेसो पसंसिदो ।
मधुकरिका — अह मालविगदं कोलीणं किंति सुणीअदि ।
समाहितिका — दिढं किल तस्सि साहिलासो भट्टा । किंतु
केवलं धारिणीए चित्तं रक्खन्तो पहुत्तणं दसेदि । मालविआवि
इमे दिसु अदमुत्ता विअ मालदीमाला मिलाणा लक्खि-
अदि । अदो वरं ण जाणे । विसज्जेहि मं ।
1
मधुकरिका - एदं साहावलम्बिदं बीअपूरअं गेव्ह ।
।
1
समाहितिका - तह । ( इति नाव्येन बीजपूरकं गृहीला ) हला
तुमं व दो पेसलदरं साहुजणसुस्साए फलं पावेहि । ( इति प्र-
स्थिता ।)
1</p>
<note>१. द्वापि किलागमनौ प्रयोगनिपुणौ च । किंतु शिष्यागुणविशेषेण</note>
<p>मालविकाया उपदेशः प्रशंसितः ।</p>
<note>२. अथ मालविकागतं कौलीनं किमिति श्रूयते ।</note>
<note>३. दृढं किल तस्यां साभिलापो भर्ता । किंतु केवलं धारिण्याश्चित्तं</note>
<p>रक्षन्प्रभुत्वं दर्शयति । मालविकाप्येषु दिवसेष्वनुभूतमुक्तेव मालतीमाला
म्लाना लक्ष्यते । अतः परं न जाने । विसृज माम् ।</p>
<note>४. एतच्छाखावलम्बितं बीजपूरकं गृहाण ।</note>
<note>५. तथा । सखि, त्वमप्यतः पेशलतरं साधुजनशुश्रूषायाः फलं प्राप्नुहि ।</note>
<p>तस्माद्बीजपूरकेण शुश्रूषितुमिच्छामीति ॥ ननु संनिहितं बीजपूरकम् । कथय तावद-
न्योन्यसंघर्षितयोर्नाट्याचार्ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसितः ॥ द्वावपि कि-
लागमिनौ प्रयोगनिपुणौ च। किंतु शिष्यागुणविशेषेण मालविकाया उपदेशः प्रशं-
सितः ॥ अथ मालविकागतं कौलीनं लोकवार्ता किमिति श्रूयते ॥ दृढं किल तस्यां
साभिलाषो भर्ता किंतु केवलं धारिण्याश्चित्तं रक्षन्प्रभुत्वं दर्शयति । मालविकाप्येषु
दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लाना लक्ष्यते । अतः परं न जाने । विसृज
माम् ॥ एतच्छाखावलम्बितं बीजपूरकं गृहाण ॥ तथा । सखि, त्वमप्यतः पेशलतरं
साधुजन शुश्रूषायाः फलं प्राप्नुहि ॥ सखि, सममेव गच्छावः । अहमप्यस्य चिरायमा-</p>
<pb n="41" />
<p>तृतीयोऽङ्कः ।</p>
<p>मधुरिका – हेला, समं एव गच्छा । अहं वि इमस्स चि-
राजमाणकुसुमोग्गमस्त तवणीआसोअस्स दोहलनिमित्तं देवीए
विणावे ।
समाहितिका - जुज्जइ । अहिआरो क्खु तुह ।</p>
<p>( इति निष्क्रान्ते )
(ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च । )</p>
<p>इति प्रवेशकः ।</p>
<p>राजा - (आत्मानं विलोक्य ।)</p>
<lg>
  <l>शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे</l>
  <l>भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति ।</l>
  <l>तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं</l>
  <l>प्रसक्ते निर्वाण हृदय परितापं व्रजसि किम् ॥ १ ॥</l>
</lg>
<p>विदूषकः - अलं भवदो धीरं उज्झिन परिदेविदेण । दिट्ठा
म तत्तहोदीए मालविआए पिअसही बउलावलिआ । सुणाविदो
अअं अत्थो जो भवदा संदिठ्ठो ।</p>
<note>१. सखि सममेव गच्छावः । अहमप्यस्य चिरायमाणकुसुमोद्गमस्य</note>
<p>तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ।</p>
<note>२. युज्यते । अधिकारः खलु तव ।</note>
<note>३. अलं भवतो धीरतामुज्झित्वा परिदेवितेन । दृष्टा मया तत्रभवत्या</note>
<p>मालविकायाः प्रियसखी बकुलावलिका । श्रावितोऽयमर्थो यो भवता
संदिष्टः ।
णकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ॥ युज्यते । अधि-
कारः खलु तव॥ इति प्रवेशकः ॥ ततः प्रविशतीत्यादि । कामयमानावस्थः ।
कामयमानानां कामिनामवस्थेवावस्था दशा यस्य स तथोक्तः ॥ शरीरमित्यादि ।
दयिता लिङ्गनमुखे प्रियाभिष्वङ्गसौख्येऽसत्य विद्यमाने सति शरीरं वपुः क्षामं स्यात्कृशं
भवेत् । क्षणमपि क्षणमात्रमपि सा मालविका न दृश्यत इति न लक्ष्यत दृति चक्षुः
साखं सवाष्पं भवेत्स्यात् । हे हृदय चित्त, सारङ्गाक्ष्या हरिणनेत्रया तया मालविकया
कदाचिनातुचिद्विरहितं वियुक्तं नासि न भवसि । अतस्तस्मात्कारणान्निर्वाणे सुखे
माल० ४</p>
<pb n="42" />
<p>मालविकाग्निमित्रे
राजा - ततः किमुक्तवती ।
विदूषकः - विणा वेहि । अणुगहीदसि इमिणा णिओएण ।
किंतु सा तवस्सिणी देवीए अहिअं रक्खन्तीए णाअरक्खिदो
विअ णिही ण सुहं समासादइदवा । तहवि घटइस्सं ति ।
राजा - भगवन् संकल्पयोने, प्रतिबन्धवत्सु चापि विषयेष्वभि-
निवेशकारी किं तथा प्रहरसि यथा जनोऽयं न कालान्तरक्षमो
भवति । (सविस्मयम् ।)</p>
<lg>
  <l>क्व रुजा हृदयप्रमाथिनी</l>
  <l>क्व च ते विश्वसनीयमायुधम् ।</l>
  <l>मृदु तीक्ष्णतरं यदुच्यते</l>
  <l>तदिदं मन्मथ दृश्यते त्वयि ॥ २ ॥</l>
</lg>
<p>विदूषकः - णं भणामि तस्सि साहणिजे किदो उवक्खेओ ।
पज्जवत्थावेदु भवं अप्पाणं ।
राजा - अथेमं दिवसशेषमुचितव्यापारविमुखेन चेतसा क्वनु
खलु यापयामि ।</p>
<note>१. विज्ञापय । अनुगृहीतास्म्यनेन नियोगेन । किंतु सा तपस्विनी</note>
<p>देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या । तथापि
घटयिष्यामीति ।</p>
<note>२. ननु भणाभि तस्मिन्साधनीये कृतः उपक्षेपः । पर्यवस्थापयतु भवा-</note>
<p>नात्मानम् ।
प्रसक्ते प्रस्तुते सति किं किमर्थं परितापं संतापं व्रजसि प्राप्नोषि ॥ अलं भवतो धीर
तामुज्झित्या परिदेवितेन । दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुला-
वलिका । श्रावितोऽयमर्थो यो भत्रता संदिष्टः ॥ विज्ञापय । अनुगृहीतास्म्यनेन
नियोगेन । किंतु सा तपखिनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुख
समासादयितव्या । तथापि घटयिष्यामिति । अत्र तपस्विनीति करुणापात्रमुच्यते ।
'तपस्वी करुणापात्रम्' इति हलायुधः । अत्र प्राप्तिसंभावनया प्रात्याशा नाम तृ-
तीयावस्था सूचिता । अनया प्राप्याशया बिन्दोः समन्वयाद्गर्भसंधिरिति मन्तव्यम् ॥
क्व रुजेत्यादि । स्पष्टोऽर्थः ॥ ननु भणामि तस्मिन्साधनीये कृत उपक्षेपः । पर्य</p>
<pb n="43" />
<p>तृतीयोऽङ्कः ।</p>
<p>1 विदूषकः - अज्ज एव पुढमावदारसुहआणि रक्तकुरबआणि
'उवाअणं पेसिअ णववसन्तावदारववदेसेण इरावदीए णिउणिआमु
हेण पत्थिदो भवं । इच्छामि अज्जउत्तेण सह दोलाहिरोहणं अणुह-
विदुं ति । भवदावि से पडिण्णादं । ता पमदवणं एव गच्छल ।
राजा - न क्षममिदम् ।
विदूषकः — के विअ ।
राजा – वयस्य, निसर्गनिपुणाः स्त्रियः । कथमन्यसंक्रान्तहृदय-
मुपलालयन्तमपि ते सखी न मां लक्षयिष्यति । अतः पश्यामि ।</p>
<lg>
  <l>उचितः प्रणयो वरं विहन्तुं</l>
  <l>बहवः खण्डनहेतवो हि दृष्टाः ।</l>
  <l>उपचार विधिर्मनखिनीनां</l>
  <l>न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ३ ॥</l>
</lg>
<note>१. अद्यैव प्रथमावतारसुभगानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्ता -</note>
<p>वतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् । इच्छाम्यार्यपु-
त्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमद-
वनमेव गच्छावः ।</p>
<note>२. कथमिव ।</note>
<p>वस्थापयतु भवानात्मानम् । अत्र 'कृत उपक्षेपः' इत्यनेन कपटोपाय कल्पनाया गम्य-
मानश्वेनाभूताहरणं नाम संध्यङ्गमुक्तं भवति ॥ अद्यैव प्रथमावतारसुभगानि रक्त-
कुरवकाण्युपायनं प्रेष्य नववसन्तावतारव्यपदेशेनेरावत्या निपुणिका मुखेन प्रार्थितो
भवान् इच्छाम्यार्यपुत्रेण सह दोलाघिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञा •
तम् । तस्मात्प्रमदवनमेव गच्छावः ॥ कथमिव ॥ उचित इति । प्रणय इरावत्याः
प्रार्थना विहन्तुं प्रतिषेद्धमुचितोऽर्हो वरं मनाक्प्रियम् । अयं पक्षः किंचित्साधुरि-
त्यर्थः । हि यस्मात्कारणात्खण्डन हेतव ईर्ष्याकोपकारणानि बहवोऽनेके दृष्टा मया
लक्षिताः । खण्डनहेतुदर्शनेऽप्युपचारविशेषैः प्रलोभ्यतामित्यत आह—उपचा-
रेति । भावशून्यः प्रेमरहितं उपचार विधिरिष्टाचरणं पूर्वाभ्यधिकोऽपि पूर्वस्मादुप-
चार विधेरतिशयितो मनखिनीनां तु प्रशस्तमनसां पुनः । विवेकवतीनामित्यर्थः ।
उपचार विधिर्न भवति । किंत्वपचारविधिरित्यर्थः । अत्र नञर्थस्तद्विरोधः ॥</p>
<pb n="44" />
<p>मालविकाग्निमित्रे
विदूषकः - गीरिहदि भवं अन्तेउरपडिट्ठिदं दक्खिण्णं एक्क
पदे पिट्ठदो कादुम् ।
राजा - ( विचिन्य ।) तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः - दो इदो भवं ।</p>
<p>( उभौ परिक्रामतः । )
( उभौ प्रविशतः । )</p>
<p>विदूषकः - ऐदं पमदवणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव -
रेदि विअ भवन्तं पवेसिदुं ।
पश्य
राजा - ( स्पर्शसुखं रूपयित्वा । ) अभिजातः खलु वसन्तः । सखे,</p>
<lg>
  <l>आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां</l>
  <l>सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।</l>
  <l>अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे</l>
  <l>सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥</l>
</lg>
<p>विदूषकः - विस णिव्बुदि लाहा अ ।</p>
<p>विदूषकः - अवहाणेण दिहिं देहि । एवं खु भवन्तं विअवि-</p>
<note>१. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।</note>
<note>२. इत इतो भवान् ।</note>
<note>३. एतत्प्रमदवनं पवनदरचलाभिः पलवाङ्गुलिभिस्त्वरयतीव भवन्तं</note>
<p>प्रवेष्टुस् ।</p>
<note>४. प्रविश निर्वृतिलाभाय ।</note>
<note>५. अवधानेन दृष्टिं देहि । एतत्खलु भवन्तमिव विलोभयितुकामया</note>
<lg>
  <l>मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।</l>
  <l>नार्हति भवानन्तःपुर प्रतिष्ठितं दाक्षिण्य मेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान् ॥</l>
</lg>
<p>एतत्प्रमदवनं पवनदरचलाभिः पलवाङ्गुलीभिस्त्वरयतीव भवन्तं प्रवेष्टुम् ॥ आम-
ज्ञानामित्यादि । स्पष्टोऽर्थः ॥ प्रविश निरृतिलाभाय ॥ अवधानेन दृष्टिं देहि । एत-
खलु भवन्तमिव विलोभयितुकामया मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकु-</p>
<pb n="45" />
<p>तृतीयोऽङ्कः ।</p>
<p>इदुकामाए महुलच्छीए जुवइवेसलज्जापइत्तअं वसन्तकुसुमणे-
त्थं गहीदं ।
राजा - ( विस्मयात् । ) एतदवलोकयामि ।</p>
<lg>
  <l>रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः</l>
  <l>प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।</l>
  <l>आक्रान्ता तिलकक्रिया च तिलकैर्लमद्विरेफाञ्जनैः</l>
  <l>सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ ५ ॥</l>
</lg>
<p>(उभौ नाट्येनोद्यानशोभां निर्वर्णयतः । )
(ततः प्रविशति पर्युत्सुका मालविका ।)</p>
<p>मालविका -- अविण्णादहिअअं भट्टारं अहिलसन्ती अप्पणो</p>
<note>१. अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावज्जामि । कुतो</note>
<p>भवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुकां
दन कियन्तं कालं मनो मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि ।
[दिष्टास्मि देव्या । गौतमचापला दोलापरिभ्रष्टायाः सरुजो मम चरणः ।
तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे
सुमं दर्शयति, ततोऽहमभिलाषपूरयितृकं प्रसादं दास्यामीति । यावन्नियो-
भूमिं प्रथमं गता भवामि, तावदनुपदं मम चरणालंकारहस्तया बकुलावलि-
भागन्तव्यम्, परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम् ।
नेपथ्यं गृहीतम् ॥ रक्ताशोकेत्यादि । बिम्बाधरे । बिम्बमिवाधरस्तस्मिन् ।
शेषणं विशेष्येण बहुलम्' इति विशेषण समासः । ' उपमितं व्याघ्रादिभिः सामान्या -
ओगे' इत्युपमितसमासस्तु कविभिरत्र ग्राम्ये (प्रायेण नाङ्गीकृतः । अलक्तको लाक्षा ।
शोकरुचा रक्ताशोककुसुमस्य रुचा कान्त्या विशेषितगुणः । विशेषितोऽतिशयित-
रस्कृत गुणो रागो यस्य स तथोक्तः । श्यामावदातारुणम् । श्यामं च तदवदातमरुणं
तत्तथोक्तम् । 'वर्णो वर्णेन' इति कर्मधारयः । कुरबकं कुरबकपुष्पं प्रत्याख्यात विशे-
म् । प्रत्याख्यातं तिरस्कृतं विशेषकं पत्रभङ्गो येन तथोक्तम् । लमद्विरेफाञ्जनै-
1: सक्तो द्विरेफो भ्रमर एवाजनं येषु तैस्तिलकैस्तिलककुसुमैस्तिलकक्रियापि
लकस्य ललाटिकायाः क्रियाकान्तोलङ्घिता । परिभूतेत्यर्थः । माधवी मधु संबन्धिनी
र्लक्ष्मीः । शोमेत्यर्थः । योषितां स्त्रीणां मुखप्रसाधनविधौ मुखालंकारकरणे
वज्ञेवावमानेन सहितेव । अवमाननां कृतवतीवेत्यर्थः ॥ अविज्ञातहृदयं भर्ता -</p>
<pb n="46" />
<p>मालविकाग्निमित्रे
वि दाव लज्जेमि । कुदो विहवो सिणिद्धस्स सहीजणस्स इमं वुत्तन्तं
आचक्खिदुं । ण जाणे अप्पडिआरगरुअं वेअणां केत्तिअं कालं
मअणो मं णइस्सदित्ति । ( इति कतिचित्पदानि गत्वा । ) आ, कहिं खु
पत्थिदह्नि । (इति स्मृतिमभिनीय 1 ) आदिसि देवीए । गोदमचावलादो
दोलापरिभट्टाए सरुजो मह चलणो । तुमं दाव गदुअ तबणीआसो-
अस्स दोहलं विट्टेहित्ति । जदि सो पञ्चरत्तब्भन्तरे कुसुमं दंसेदि, तदो
अहं अहिलासपूरइत्तअं पसादं दाइस्सं ति । जाव णिओअभूमिं पुढमं
गदा होमि, ताव अणुपदं मम चलणालंकारहत्थाए बउलावलिआए
आअन्तवं परिदेवइस्सं ताव वीसद्धं मुहुत्तअं । ( इति परिक्रामति । )
विदूषकः - ( दृष्ट्वा 1 ) वैअस्स, एदं खु सीहुपाणुवेजिदस्स
मच्छण्डिआ उवणदा ।
राजा - अयि किमेतत् ।
'
विदूषकः - ऐसा णादिपरिआरवेसा ऊसुअवअणा एआइणी
मालव अदूरे वट्टदि ।
राजा - ( सहर्षम् 1 ) कथं मालविका ।
विदूषकः - अह ई ।
इं</p>
<note>१. वयस्य, एतत्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ।</note>
<note>२. एपा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाऽदूरे वर्तते ।</note>
<note>३. अथ किम् ।</note>
<p>रमिलषन्त्यात्मनोऽपि तावलनामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं
वृत्तान्तमाख्यातुम् । न जानेऽप्रतीकारगुरुकां वेदनां कियन्तं कालं मदनो मां
नेष्यतीति । आ, कुन खलु प्रस्थितास्मि । 'आस्मृती' । आदिष्टास्मि देव्या । गौत•
मचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य
दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमभिलाष-
पूरयितृकं प्रसादं दास्यामीति । यावन्नियोगभूमिं प्रथमं गता भवामि । यावत्पु-
रानिपातयोर्लट्' इति भविष्यदर्थे लट् । तावदनुपदं मम चरणालंकारहस्तया
बकुलावलिकयागन्तव्यम्। परिदेवयिष्यामि तावद्विषब्धं मुहूर्तकम् ॥ वयस्य, एत-
त्खलु सीधुपानोद्वे जितस्य मत्स्यण्डिकोपनता ॥ मत्स्यण्डिका नाम शर्कराविशेषः ॥
एषा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाsदूरे वर्तते ॥ अथ किम् ॥</p>
<pb n="47" />
<p>तृतीयोऽङ्कः ।
राजा - शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छसितं मम विक्लवम् ।
तरुवृतां पथिकस्य जलार्थिनः</p>
<lg>
  <l>अथ क्व तत्रभवती ।</l>
  <l>सरितमारसितादिव सारसात् ॥ ६ ॥</l>
</lg>
<p>विदूषकः - ऐसा तरुराइमज्झादो किन्ता इदो एव अहिव-
इन्ती दीसर ।
राजा - ( विलोक्य सहर्षम् 1 ) वयस्य, पश्यामि ।</p>
<lg>
  <l>विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।</l>
  <l>अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥</l>
</lg>
<p>सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि ।</p>
<lg>
  <l>शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।</l>
  <l>माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥</l>
</lg>
<p>विदूषकः - ऐसावि भवं विअ मअणवाहिणा परिमुट्ठा
भविस्सदि ।
राजा - सौहार्दमेवं पश्यति ।
--
मालविका - असो सुउमालदोहापेक्खी अगहिदकुसुमणे-</p>
<note>१. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ।</note>
<note>२. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।</note>
<note>३. अयं स सुकुमारदोह दापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममा-</note>
<p>शोकोऽनुकरोति । यावदस्य प्रच्छायशीतले शीतले शिलापट्ट के निपण्णात्मानं
विनोदयामि ।
त्वदुपलभ्येत्यादि । स्पष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्राप्तेः क्रमो नाम
संध्यङ्गमुक्तं भवति ॥ एषा तरुराजिमध्यानिष्क्रान्तेत एवाभिवर्तमाना दृश्यते ॥
विपुलमिति । स्पष्टोऽर्थः ॥ शरकाण्डेति । स्पटोऽर्थः ॥ एषापि भवानि -</p>
<pb n="48" />
<p>मालविकाग्निमित्रे
वच्छो उक्कण्ठिदाए मह असोओ अणुकरेदि । जाव एदस्स पच्छा-
यसीदले सिलापट्ट णिसण्णा अप्पाणं विणोदेमि ।
विदूषकः - सुदं भवदा । उक्कण्ठिदम्मित्ति तत्तहोदी मन्तेदि ।
राजा -- नैतावता भवन्तं प्रसन्नतर्फे मन्ये । कुतः ।</p>
<lg>
  <l>वोढा कुरवकरजसां किसलयपुटभेदशीकरानुगतः ।</l>
  <l>अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥</l>
</lg>
<p>( मालविकोपविष्टा । )
( विदूषको राजानमपेक्षते ।)</p>
<p>राजा - सखे; इतस्तावत् । आवां लतान्तरितौ भवावः ।
विदूषकः - ईरावदिं विअ अदूरे समद्धेमि ।
राजा - नहि कमलिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । ( इति
विलोकयस्थितः । )
मालविका - हिअअ, णिरवलम्बणादो अदिभूमिलङ्घिणो ते
मणोरहादो विरम । किं मं आआसिअ ।</p>
<p>राजा - प्रिये, पश्य वामत्वं स्नेहस्य ।</p>
<lg>
  <l>औत्सुक्य हेतुं विवृणोषि तत्त्वं</l>
  <l>तत्त्वावबोधैकरसो न तर्कः ।</l>
  <l>तथापि रम्भोरु करोमि लक्ष्य-</l>
  <l>मात्मानमेषां परिदेवितानाम् ॥ १० ॥</l>
</lg>
<note>१. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मन्त्रयति ।</note>
<note>२. इरावतीमिवादूरे समर्थये ।</note>
<note>३. हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामा-</note>
<p>यास्य ।
व मदनव्याधिना परिमृष्टा भविष्यति ॥ अयं स सुकुमार दोहदापेक्ष्यगृहीत-
कुसुमनेपथ्य उत्कण्ठिताया ममाशोकोऽनुकरोति । यावदस्य प्रच्छायशीतले
शिलापट्टके निषण्णात्मानं विनोदयामि ॥ श्रुतं भवता । उत्कण्ठितास्मीति तत्र-
भवती मन्त्रयति ॥ वोढेत्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये ॥
हृदय, निरवलम्बनादतिभूमिल निस्ते मनोरथाद्विरम । किं मामायास्य ॥ औ-,
त्सुक्येत्यादि । स्पष्टोऽर्थः ॥ सांप्रतं भवतो निःसंशयं भविष्यति एषार्पित
1</p>
<pb n="49" />
<p>तृतीयोऽङ्कः ।</p>
<p>विदूषकः - संपदं भवदो णिस्संसअं भविस्सदि । एसा
अप्पिदम अणसंदेसा विवित्ते णं बउलावलिआ उवठ्ठिदा ।
राजा - अपि स्मरेदसावस्मदभ्यर्थनाम् ।
विदूषकः - किं दाणि एसा दासीए दुहिदा तुह गरुअं संदेसं
विसुमरेदि । अहं दाव ण विसुमरेमि ।</p>
<p>( प्रविश्य चरणालंकारहस्ता 1 )</p>
<p>बकुलावलिका - अवि सुहं सहीए ।
मालविका - अह्मो बउलावलिआ । सहि, साअदं ते । उवविस;
बकुलावलिका – (उपविश्य ) हैला, तुमं दाणिं जोग्गदाए णि
उत्ता । ता एक्क चलणं उवणेहि । जाव सालत्तअं सनूउरं च करेमि ।
मालविका – (आत्मगतम् ।) हिअअ, सुहिदाए अलं उवट्ठिदो
अअं विवोत्ति । कहं दाणीं अत्ताणं मोचेअं । अहवा दार्णि एवं
मिच्छुमडणं मे हविस्सदि ।</p>
<note>१. सांप्रतं भवतो निःसंशयं भविष्यति । एषार्पितमदनसंदेशा विविक्ते</note>
<p>एनां बकुलावलिकोपस्थिता ।</p>
<note>२. किमिदानीमेषा दास्या दुहिता तव गुरुकं संदेशं विस्मरति । अहं</note>
<p>तावन्न विस्मरामि ।</p>
<note>३. अपि सुखं सख्याः ।</note>
<note>४. अहो बकुलावलिका । सखि, स्वागतं ते । उपविश ।</note>
<note>५. सखि, त्वमिदानीं योग्यतया नियुक्ता । तस्मादेकं चरणमुपनय ।</note>
<p>यावत्सालक्तकं सनुपुरं च करोमि ।</p>
<note>६. हृदय, सुखितयालमुपस्थितोऽयं विभव इति । कथमिदानीमात्मानं</note>
<p>मोचयेयम् । अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति ।
मदनसंदेशा विविक्ते एनां बकुलावलिकोपस्थिता ॥ किमिदानीमेषा दास्या दुहिता
तव गुरुकं संदेशं विस्मरति । अहं तावन्न विस्मरामि ॥ अपि सुखं सख्याः ॥
अहो बकुलावलिका । सखि, स्वागतं ते । उपविश ॥ सखि, त्वमिदानीं योग्य-
तथा नियुक्ता । तस्मादेकं चरणमुपनय । यावत्सालक्तकं सनूपुरं च करोमि ॥
हृदय, सुखितयालमुपस्थितोऽयं विभव इति । कथमिदानीमात्मानं मोचयेयम् ।</p>
<pb n="50" />
<note>४.६</note>
<p>मालविकाग्निमित्रे
बकुलावलिका - किं' विआरेसि । ऊसुआ खु इमस्स तवणी-
आसोअस्स मुउलुग्गने देवी ।
राजा -- कथमशोकदोहदनिमित्तोऽयमारम्भः ।
विदूषकः -- किंणु खु जाणासि तुमं । मह कालणादो देवी
इमं अन्तेउरणेवच्छेण जोअइस्सदित्ति ।
मालविका - हैला, मरिसेहि दाब णं (इति पादमुपहरति ।)
बकुलावलिका - इ, सरीरअं सि मे । ( इति नाव्येन चरणसं
स्कारमारभते ।)
राजा-</p>
<lg>
  <l>चरणान्तनिवेशितां प्रियायाः</l>
  <l>सरसां पश्य वयस्य रागरेखाम् ।</l>
  <l>प्रथमामिव पल्लवप्रसूतिं</l>
  <l>हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥</l>
</lg>
<p>विदूषकः - चैलणाणुरूवो तत्तहोदीए अहिआरो उवक्खित्तौ ।
राजा - सम्यगाह भवान् ।</p>
<note>१. किं विचारयसि । उत्सुका खल्वस तपनीयाशोकस्य मुकुलो-</note>
<p>मे देवी ।</p>
<note>२. किंनु खलु जानासि त्वम् । मम कारणादेवीमामन्तःपुरनेपथ्येन</note>
<p>योजयिष्यतीति ।</p>
<note>३. सखि, मर्षय तावदेनम् ।</note>
<note>४. अयि, शरीरमसि मे ।</note>
<note>५. चरणानुरूपस्तत्रभवत्या अधिकार उपक्षिप्तः ।</note>
<p>अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति ॥ किं विचारयसि । उत्सुका खल्वस्य
तपनीयाशोकस्य मुकुलोद्मे देवी ॥ किंनु खलु जानासि लम् । मम कार-
णाद्देवीमामन्तःपुरनेपथ्येन योजयिष्यतीति ॥ सखि, मर्पय तावदेनम् ॥ अयि,
शरीरमसि मे ॥ चरणान्तेत्यादि । स्पष्टोऽर्थः ॥ चरणानुरूपस्तत्रभवत्या</p>
<pb n="51" />
<p>तृतीयोऽङ्कः ।</p>
<lg>
  <l>नव किसलयरागेणाग्रपादेन बाला</l>
  <l>स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।</l>
  <l>अकुसुमितमशोकं दोहदापेक्षया वा</l>
  <l>प्रणमितशिरसं वा कान्तमार्द्रापराधम् ॥ १२ ॥</l>
</lg>
<p>विदूषकः - पेहरिस्सदि तत्तहोदी तुमं अवरद्धम् ।
_
राजा - मूर्ध्ना प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य ।</p>
<p>(ततः प्रविशति युक्तमदा इरावती चेटी च । )</p>
<p>इरावती - हैजे णिउणिए, सुणोमि बहुसो मदो किल इत्थि -
आजणस्स मण्डणं ति । अवि सच्चो लोअवाओ अअं ।
निपुणिका – पैढमं लोअवाओ एव । अज्ज सच्चो संवृत्तो ।
इरावती- "संकितणसंसिणा अलं सिणेहेण । कहेहि कुदो
दाणिं ओगमिवो दोलाघरं पुढमं गदो भट्टा ण वेति ।
निपुणिका-ट्टिणीए अखण्डिदादो पणआदो ।
इरावती - अलं सेवाए । मज्झत्थदं परिगहिअ भणाहि ।</p>
<note>१. प्रहरिष्यति तत्रभवती वामपराद्धम् ।</note>
<note>२. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति</note>
<p>अपि सत्यो लोकवादोज्यम् ।</p>
<note>३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः ।</note>
<note>४. संकीर्तनशंसिनालं स्नेहेन । कथय कुत इदानीमवगन्तव्यो दोला-</note>
<p>गृहं प्रथमं गतो भर्ता न वेति</p>
<note>५. भट्टिन्या अखण्डितात्प्रणयात् ।</note>
<note>६. अलं सेवया । मध्यस्थतां परिगृह्य भण ।</note>
<p>अधिकार उपक्षिप्तः ॥ नव किसलयेत्यादि । स्पष्टोऽर्थः ॥ प्रहरिष्यति तत्रभवती
वामपराद्धम् ॥ चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डन-
मिति । अपि सत्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः ॥
संकीर्तनशंसिनाएं स्नेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो
भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयात् । अलं सेवया । मध्यस्थतां परिगृह्य
न ॥ वसन्तो नलोलुपेनार्यगौतमेन । कथितम्। त्वरतां भट्टिनी । चेटिम,</p>
<pb n="52" />
<p>मालविकाग्निमित्रे
निपुणिका - वैसन्तो अणलोलुवेण अज्जगोदमेण कहिअं ।
तुवरदु भट्टिणी ।
इरावती - (अवस्थासदृशं परिक्रम्य ।) हज्जे, मदेण किलामिअमाणं
अत्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण ण मह
पसरन्ति ।
निपुणिका - णं पत्ता दोलाघरं ।
इरावती - णिउणिए, अज्जउत्तोएत्थ ण दीसदि ।
निपुणिका – भेट्टिणीए ओलोअदु । परिहासणिमित्तं कहि
वि अदिट्टेण भत्तणा होदवं । इमं पिअङ्गुलदापरिक्खित्तं असोअ-
सिलापट्टं पविसामो ।
इरावती - तह ।
निपुणिका - ( विलोक्य) औलोअदु भट्टिणी । चूदङ्कुरं विचि -
पणन्तीणं पिवीलिआहिं दंसिदं ।</p>
<note>१. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । त्वरतां भट्टिनी ।</note>
<note>२. चेटि, मदन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । च-</note>
<p>रणौ पुनर्न मम प्रसरतः ।</p>
<note>३. ननु प्राप्ते स्वो दोलागृहम् ।</note>
<note>४. निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ।</note>
<note>५. भट्टिन्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् ।</note>
<p>इमं प्रियङ्गुलतापरिक्षिप्तमशोक शिलापट्टं प्रविशावः ।</p>
<note>६. तथा ।</note>
<note>७. अवलोकयतु भट्टिनी । चूताङ्कुरं विचिन्वत्योः पिपीलिकाभिर्दष्टम् ।</note>
<p>देन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । चरणौ पुनर्न मम
प्रसरतः ॥ ननु प्राप्ते खो दोलागृहम् ॥ निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ॥ भट्टि
न्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् । इमं प्रियङ्गुलता-
परिक्षिप्तमशोकशिलापट्टं प्रविशावः ॥ तथा ॥ अवलोकयतु भट्टिनी । चूताङ्कुरं विचि-</p>
<pb n="53" />
<p>इरावती — कहं विअ ।
-
तृतीयोऽङ्कः ।</p>
<p>निपुणिका – ऐसा असो अपाअवच्छाआए मालविआए बउला-
लिआ चलणालंकारं णिवेदि ।
इरावती — (शङ्कां रूपयित्वा ।) अभूमी इअं मालविआए । कहं
इत्थ तक्केसि ।
निपुणिका – मि दोलापरिब्भंसिदाए सरुअचलणाए दे-
बीए असोअदोहलाहिआरे मालविआ णिउत्तेत्ति । अण्णा कह
वी सअं धारिअं णूउरजुउलं परिअणस्स अब्भणुजाणिस्सदि ।
इरावती - मेहदी क्खु से संभावणा ।
निपुणिका – अण्णेसीअदि भट्टा ।
इरावती - हैला, ण मे चलणा अण्णदो पवट्टन्ति । मदो मं</p>
<note>१. कथमिव ।</note>
<note>२. एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणालंकारं</note>
<p>निर्वर्तयति ।</p>
<note>३. अभूमिरियं मालविकायाः । कथमत्र तर्कयसि ।</note>
<note>४. तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोहदाधिकारे</note>
<p>मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंधारितं नृपुरयुगुलं परिजन -
स्याभ्यनुज्ञास्यति ।</p>
<note>५. महती खल्वस्याः संभावना ।</note>
<note>६. किमन्विष्यते भर्ता ।</note>
<note>७. सखि, न मे चरणावन्यतः प्रवर्तते । मदो मां विकारयति । आश-</note>
<p>ङ्कितस्य तावदन्तं गमिष्यामि । स्थाने खलु कातरं मे हृदयम् ।
न्वत्योः पिपीलिकाभिर्दष्टम् । भावे क्तः ॥ कथमिव ॥ एषाशोकपादपच्छायायां
मालविकाया बकुलावलिका चरणालंकारं निर्वर्तयति ॥ अभूमिरियं मालविकायाः ।
कथमत्र तर्कयति ॥ तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोह-
दाधिकारे मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंधारितं नूपुरयुगुलं परि-
जनस्याभ्यनुज्ञास्यति ॥ मद्दती खल्वस्याः संभावना ॥ किमन्विष्यते भर्ता ॥ सखि,
न मे चरणावन्यतः प्रवर्तेते । मदो मां विकारयति । आशङ्कितस्य तावदन्तं ग-
माल० ५</p>
<pb n="54" />
<p>मालविकाग्निमित्रे
विआरेदि । आसक्किदस्स दाब अन्तं गमिस्सं । ( इति मालविकां नि.
वैर्ण्य । आत्मगतम् ।) ठाणे क्खु कादरं मे हिअअं ।
-
बकुलावलिका – (मालविकायै चरणं दर्शयन्ती ।) अवि रोअदि ते
राअरेहाविण्णासो ।
मालविका —– हेला, अत्तणो चलणं ति लज्जेमि णं पसंसिढुं
तेण पसाहणकलाए अहिविणीदासि ।
बकुलावलिका— एत्थ अहं भणो सीस ि।
विदूषकः — वरेहि दाव णं गुरुदक्खिणाए ।
मालविका - दिडिओ ण गविदासि ।
-
बकुलावलिका – वदेसाणुरूवा चलणा लम्भित्र अज दाव
गविदा भविस्सं । (रागं विलोक्य । आत्मगतम् ।) हन्त, सिद्धं मे दु
स्थम् । (प्रकाशम् ।) सहि, एकस्स दे चलणस्स अवसिदो राअणिक्खेवो ।
केवलं मुहमारुदो लम्भइदवो । अहवा पवादं एदं ठाणं ।</p>
<note>१. अपि रोचते ते रागरेखाविन्यासः ।</note>
<note>२. सखि, आत्मनश्चरण इति लज्जे एनं प्रशंसितुम् । तेन प्रसाधनक-</note>
<p>लायामभिविनीतासि ।</p>
<note>३. अत्राहं भर्तुः शिष्यास्मि ।</note>
<note>४. त्वरय तावदेनां गुरुदक्षिणायै ।</note>
<note>५. दिष्ट्या न गर्वितासि ।</note>
<note>६. उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्गर्विता भविष्यामि । हन्त</note>
<p>सिद्धं मे नृत्यम् । सखि, एकस्य ते चरणस्यावसितो रागनिक्षेपः । केवल
मुखमारुतो लम्भयितव्यः । अथवा प्रवातमेतत्स्थानम् ।
मिष्यामि । स्थाने खलु कातरं मे हृदयम् ॥ अपि रोचते ते रागरेखाविन्यासः
सखि, आत्मनश्चरण इति लज्जे एनं प्रशंसितुम् । तेन प्रसाधनकलायामभिविनी-
तासि ॥ अत्राहं भर्तुः शिष्यास्मि । त्वरय तावदेनां गुरुदक्षिणायै ॥ दिष्ट्या न
गर्वितासि ॥ उपदेशानुरूपौ चरणौ लब्ध्वाद्य तावद्गर्विता भविष्यामि । हन्त,
सिद्धं मे दूत्यम् । सखि, एकस्य ते चरणस्यावसितो रागनिक्षेपः । केवलं मुखमा</p>
<pb n="55" />
<p>राजा - सखे, पश्य ।
तृतीयोऽङ्कः ।</p>
<lg>
  <l>आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् ।</l>
  <l>प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥</l>
</lg>
<p>विदूषकः - कुदो दे अणुसओ । चिरं भवदा एदं कमेण अ-
गृहविदवं ।
बकुलावलिका—संहि, अरुणसदपत्तं विअ सोहदि दे च -
ठणं । सबहा भत्तणो अङ्कपरिवट्टिणी होहि ।</p>
<p>( इरावती निपुणिकामपेक्षते ।)</p>
<p>राजा - ममेयमाशीः ।
मालविका - माँ अवअणीअं मन्तेहि ।
बकुलावलिका - ए मन्तइद एव मन्तिदं ।
मालविका — पंखु अहं तव ।
-
बकुलावलिका — केवलं मह ।
मालविका — कंसखु अण्णस्स ।</p>
<note>१. कुतस्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ।</note>
<note>२. सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि-</note>
<p>तिनी भव ।</p>
<note>३. मा अवचनीयं मन्त्रयख ।</note>
<note>४. मया मन्त्रयितव्यमेव मत्रितम् ।</note>
<note>५.</note>
<p>प्रिया खल्वहं तव ।</p>
<note>६. न केवलं मम ।</note>
<note>७. कस्य खल्वन्यस्य ।</note>
<p>हतो लम्भयितव्यः । अथवा प्रवातमेतत्स्थानम् ॥ आर्द्रालक्तकमित्यादि ।
मुखमारुतेन वीजयितुं शोषयितुं प्रथमतरो मुख्यतरः प्रतिपन्नः प्राप्तः ॥ कुत-
स्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमिव
शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्त्रयख ॥
मया मन्त्रयितव्यमेव मन्त्रितम् ॥ प्रिया खल्वहं तव ॥ न केवलं मम ॥ कस्य खल्व-</p>
<pb n="56" />
<p>मालविकाग्निमित्रे
बकुलावलिका—गुणेसु अहिणिवेसिणो भो वि ।
मालविका - अलीअं मन्तेसि । एदं एव मइ णत्ति ।
बकुलावलिका – सच्चं तुइ णत्ति । भत्तृणो किलेसु वरपण्डुरेस
दीसह असु
-
निपुणिका – ढमं गुणिदं विअ हदासाए उत्तरं ।
-
बकुलावलिका — अणुराओ अणुराएण पचेो चि सुअ-
णवणं पमाणीकरेहि ।
8
मालविका - किं अत्तणो छन्देण मन्तेसि ।
बकुलावलिका - हि हि । भत्तणो खु एदाई पणअमिदु-
आई अक्खराई वत्तन्तरिदाई ।
मालविका - हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि ।
बकुलावलिका – मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा-
रसवत्सं किं ण चूदप्पसवो ओदंसिदवो ।</p>
<note>१. गुणेष्वभिनिवेशिनो भर्तुरपि ।</note>
<note>२. अलीकं मन्त्रयसे । एतदेव मयि नास्ति ।</note>
<note>३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ।</note>
<note>४. प्रथमं गुणितमित्र हताशाया उत्तरम् ।</note>
<note>५. अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ।</note>
<note>६. किमात्मनश्छन्देन मन्त्रयसे ।</note>
<note>७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्रान्तरितानि</note>
<note>८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ।</note>
<note>९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतार सर्वस्वं किं न चूत-</note>
<p>प्रसवोऽवतंसितव्यः ।
न्यस्य ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥
सत्यं वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव
हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥
किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणय मृदुकान्यक्ष-
राणि वक्रान्तरितानि ॥ सखि, देवी चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे,
भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूतप्रसवोऽवतंसितव्यः ॥</p>
<pb n="57" />
<p>-
-
तृतीयोऽङ्कः ।
मालविका —तुमं दाव दुज्जादे अच्चतं सहाया होहि ।
बकुलावलिका – विद्दरही बउलावलिआ खु अहं ।
राजा - साधु बकुलावलिके, साधु ।
भावज्ञानानन्तरं प्रस्तुतेन
प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता खे निदेशे</p>
<p>स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥
इरावती - पेक्ख । कारिदं एवं बउलावलिआए एदं पदं
मालविआए ।
निपुणिका – भट्टिणि अहिआरस्स उदो उवदेसो ।
,
इरावती - टोणे खु संकिदं मे हिअअं । गहीदत्था अणन्तरं
चिन्तइस्सं ।
बकुलावलिका – ऐसी दुदी ओवि दे णिव्वत्तपरिकम्मा चलणो ।
जाव णं सणूउरं करेमि । ( इति नाट्येन नूपुरयुगलमामुच्य ।) हला, उ-
ट्टेहि । असोअविआसइत्तअं देवीए णिओअं अणुचिट्ट ।</p>
<p>( उमे उत्तिष्ठतः । )</p>
<note>१. त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव ।</note>
<note>२. विमर्दसुरभिर्बकुलावलिका खल्वहम् ।</note>
<note>३. पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ।</note>
<note>४. भट्टिनि, अधिकारस्योचित उपदेशः ।</note>
<note>९. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि ।</note>
<note>६. एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । यावदेनं सनपुरं क-</note>
<p>रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ ।
त्वं तावद्दुर्जाते दुःखेऽत्यन्तं सहाया भव । 'दुर्जातं व्यसने क्लीबमसम्यग्जात-
वस्तुनि' इति केशवस्वामी ॥ विमर्दसुरभिर्बकुलावलिका खल्वहम् ॥ भावज्ञाने-
त्यादि । स्पष्टोऽर्थः ॥ पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ॥
भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । गृही-
तार्थानन्तरं चिन्तयिष्यामि । एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । या-
वदेनं सनूपुरं करोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोग-</p>
<pb n="58" />
<p>मालविकाग्निमित्रे
इरावती - मुदो देवीए णिओओ । होदु दाणिं ।
बकुलावलिका —— ऐसो उवारूढराओ उअभोअक्खमो पुरदो
देव ।
मालविका - ( सहर्षम् ) किं भेट्टा ।
बकुलावलिका - ( सस्मितम् ) ण दाव भट्टा । एसो असोअसा-
हावलम्बि पल्लवगुच्छओ । ओदंसेहि णं ।
विदूषकः—सुंदं भवदा ।
राजा - सखे, पर्याप्तमेतावता कामिनाम् ।</p>
<lg>
  <l>अनातुरोत्कण्ठितयोः प्रसिद्ध्यता</l>
  <l>समागमेनापि रतिर्न मां प्रति ।</l>
  <l>परस्परप्राप्तिनिराश योर्वरं</l>
  <l>शरीरनाशोऽपि समानुरागयोः ॥ १५ ॥</l>
</lg>
<p>( मालविका रचितवावतंसा पादमशोकाय प्रहिणोति ।)</p>
<p>राजा - वयस्य,</p>
<lg>
  <l>आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति ।</l>
  <l>उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ १६ ॥</l>
</lg>
<note>१. श्रतो देव्या नियोगः । भवत्विदानीम् ।</note>
<note>२. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते ।</note>
<note>३. किं भर्ता ।</note>
<note>४. न तावद्भर्ता । एषोऽशोकशाखावलम्बी पल्लवगुच्छः । अवतं-</note>
<p>सयैनम् ।</p>
<note>५. श्रुतं भवता ।</note>
<p>मनुतिष्ठ ॥ श्रुतो देव्या नियोगः । भवत्विदानीम् ॥ एष उपारूढराग उपभोगक्षमः
पुरतस्ते वर्तते ॥ किं भर्ता ॥ न तावद्भर्ता । एषोऽशोकशाखावलम्बी पलवगुच्छ ः ।
अवतंसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि । अनातुरोत्कण्ठितयोः । अना-
तुरोऽनाः । उत्कण्ठितः कामोत्कण्ठित इत्यर्थः । प्रसिद्ध्यता संभवता समागमे-
नापि संपर्केणापि मां प्रति मामनु । मत्पक्ष इत्यर्थः । रतिर्न शृङ्गारो= भवति ।
एकानुरागस्य रसाभासत्वात् । तथा चोक्तम्- 'एकत्रैवानुरागश्चेद्बहुसक्तिश्च योषितः ।
अनौचित्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥' इति । शेषं स्पष्टम् ॥ आदायेत्यादि ।
कर्णकिसलयं कर्णपूरार्थं किसलयम् । अत्र कर्णशब्देन कर्णपूरो लक्ष्यते ॥ सखि,</p>
<pb n="59" />
<p>तृतीयोऽङ्कः ।</p>
<p>बकुलावलिका – हेला, णत्थि दे दोसो । णिग्गुणो अअं असो-
ओ जइ कुसुमोन्भेदमन्धरो हवे, जो दे चलणसक्कारं लम्भि ।
राजा-</p>
<lg>
  <l>अनेन तनुमध्यया मुखरनूपुराराविणा</l>
  <l>नवाम्बुरुह कोमलेन चरणेन संभावितः ।</l>
  <l>अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे</l>
  <l>वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १७ ॥</l>
</lg>
<p>सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि ।
विदूषकः - ऐहि । णं परिहासइस्सं ।
1</p>
<p>(उभौ प्रवेशं कुरुतः । )</p>
<p>निपुणिका - भट्टिणि भट्टिणि, भट्टा एत्थ पविसदि ।
इरावती - एवं पुढमं मम चिन्तिदं हिअएण ।
विदूषकः - ( उपेत्य ।) जुत्तं णाम अत्तहोदो पिअवअस्सो 'अ
असोओ णं वामपादेण ताडितुं ।
उभे – (ससंभ्रमम् ।) अम्हो, भट्टा ।</p>
<note>१. सखि, नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोदम-</note>
<p>न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा ।</p>
<note>२. एहि । एनां परिहासयिष्यामि ।</note>
<note>३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति ।</note>
<note>४. एवं प्रथमं मम चिन्तितं हृदयेन ।</note>
<note>५. युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन</note>
<p>नाडयितुम् ।</p>
<note>६. अहो, भर्ती ।</note>
<p>नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्थरो भवेत्, यस्ते चरणस-
स्कारं लब्ध्वा ॥ अनेनेत्यादि । स्पष्टोऽर्थः ॥ एहि । एनां परिहासयिष्यामि ॥ भट्टिनि
भट्टिनि भर्ता प्रविशति ॥ एवं प्रथमं मम चिन्तितं हृदयेन ॥ युक्तं नाम अत्रभवतः
प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । 'जुतं णाम' इत्यत्र काकुरनुसं-</p>
<pb n="60" />
<p>मालविकाग्निमित्रे
विदूषकः - बउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं
अविण करन्ती कीस ण णिवारिदा ।</p>
<p>( मालविका भयं रूपयति । )
( मालविका लज्जां रूपयति । )</p>
<p>निपुणिका – भेट्टिणि पेक्ख । किं पउत्तं अज्जगोदमेण ।
इरावती - हं खु बह्मबन्धु अण्णा होदि ।
बकुलावलिका - अज्ज एसा देवीए णिओअं अणुचिहृदि ।
एदस्सि अदिकमे परवदी इअं । पसीददु भट्टा । ( इत्यात्मना सहनां
प्रणिपातयति ।)
राजा - यद्येवमनपराधासि । उतिष्ठ भद्रे । ( इति हस्तेन गृहीत्व-
नामुत्थापयति । )
विदूषकः - जैज्जइ । देवी एत्थ माण दवा ।
-
राजा-</p>
<lg>
  <l>किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।</l>
  <l>चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥</l>
</lg>
<note>१. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न</note>
<p>निवारिता ।</p>
<note>२. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ।</note>
<note>३. कथं खलु ब्रह्मबन्धुरन्यथा भवति ।</note>
<note>४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव-</note>
<p>तीयम् । प्रसीदतु भर्ता ।</p>
<note>५. युज्यते । देव्यत्र मानयितव्या ।</note>
<p>या ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं
कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्संभ्रमणं नाम
संध्यङ्गमुक्तं भवति ॥ भट्टिनि पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म-
बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवती-
यम् । प्रसीदतु भर्ता ॥ युज्यते । देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।</p>
<pb n="61" />
<p>तृतीयोऽङ्कः ।
इरावती - अहो णवणीदक पहिअओ अज्जउत्तो ।</p>
<p>मालविका – बैउलावलिए, एहि । अणुचिट्टिदं अत्तणो णि-
ओअं देवीए णिवेदेा ।
बकुलावलिका – विणावेहि भट्टारं विसज्जेद्दित्ति ।
-
राजा - भद्रे यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावलिका - अवहिदा सुणाहि । आणवेदु भट्टा
राजा-</p>
<lg>
  <l>धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति ।</l>
  <l>स्पर्शामृतेन पूय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥</l>
</lg>
<p>इरावती - ( सहसोपसृत्य । ) पूँरेहि पूरेहि । असोओ कुसुमं ण
मेदि । अअं उण पुप्फदि एव ।</p>
<p>(सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः । )</p>
<p>राजा - (अपवार्य ।) वयस्य, का प्रतिपत्तिरत्र ।
विदूषकः किं अण्णं । जङ्घाबलं एव ।</p>
<note>१. अहो नवनीतकल्पहृदय आर्यपुत्रः ।</note>
<note>२. बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।</note>
<note>३. विज्ञापय भर्तारं विसर्जयेति ।</note>
<note>४. अवहिता श्रृणु । आज्ञापयतु भर्ता ।</note>
<note>५. पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्प्यत्येव ।</note>
<note>६. किमन्यत् । जङ्घाबलमेव ।</note>
<p>पटोऽर्थः । अत्र प्रसक्त्या संग्रहो नाम संध्यङ्गमुक्तं भवति ॥ अहो नवनीतकल्प-
दय आर्यपुत्रः ॥ बकुलावलिके, एहि । अनुष्टितमात्मनो नियोगं देव्यै निवे-
यावः ॥ विज्ञापय भर्तारं विसर्जयेति ॥ अवहिता शृणु । आज्ञापयतु भर्ता ॥
प्रतिपुष्पेति । स्पष्टोऽर्थः ॥ पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं
{नः पुष्प्यत्येव । अत्र संरब्धवचनात्तोटकं नाम संध्यङ्गमुक्तं भवति ॥ वयस्येत्या-
दे । का प्रतिपत्तिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानार्थ-
बागो नाम संध्यङ्गमुक्तं भवति ॥ किमन्यत् । जङ्घाबलमेव ॥ बकुलावलिके,</p>
<pb n="62" />
<p>,</p>
<p>मालविकाग्निमित्रे
इरावती - बउलावलिए, तुए साहु उवक्कन्तं । दाणिं सफलन्भ-
त्थणं करेहि उज्जउत्तं ।
उभे - पेसीददु भट्टिणी । काओ अहो भत्तुणो पणअपरिग्ग-
हस्स । ( इति निष्क्रान्ते ।)
इरावती - अविस्सणीआ पुरिसा । अतणो वचणत्रअणं
पमाणीकरिअ अक्खित्ताए वाहजणगीद्गहीदचित्ताए विअ हरिणीए
एदं ण विणादं ।
विदूषकः– (जनान्तिकम् ।) पेंडिजोएहि दाणि किंपि । कम्म-
महीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओम्मित्ति वत्तवं होदि ।
राजा - सुन्दरि, न मे मालविकया कश्चिदर्थः । मया त्वं चि-
रयसीति यथाकथंचिदात्मा विनोदितः ।
इरावती - विस्ससणीओसि । मए ण विष्णादं ईरिसं विणोदव-</p>
<note>१. बकुलावलिके, त्वया साधूपक्रान्तम् । इदानीं सफलाभ्यर्थनं कु-</note>
<p>वीर्यपुत्रम् ।</p>
<note>२. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयपरिग्रहस्य ।</note>
<note>३. अविश्वसनीयाः पुरुषाः । आत्मनो वञ्चनावचनं प्रमाणीकृत्या-</note>
<p>क्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम् ।</p>
<note>४. प्रतियोजयेदानीं किमपि । कर्मगृहीतेनापि कुम्भीलंकेन संधिच्छेद</note>
<p>शिक्षितोऽस्मीति वक्तव्यं भवति ।</p>
<note>५. विश्वसनीयोऽसि । मया न विज्ञातमीदृशं विनोदवस्तुकमार्यपुत्रेणोप-</note>
<p>लब्धमिति । अन्यथा दुःखभागिन्यैवं न क्रियते ।
त्वया साधूपक्रान्तम् । इदानीं सफलाभ्यर्थनं कुर्वार्यपुत्रम् ॥ प्रसीदतु भट्टिनी :
के आवां भर्तुः प्रणयपरिग्रहस्य ॥ अविश्वसनीयाः पुरुषाः । आत्मनो वञ्चना-
वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्येवैतन्न विज्ञा-
तम् । एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि :
संघेः कृत्रिमभूसंघेरछेदे भेदने । सुरङ्गाकरण इत्यर्थः । शिक्षितः अभ्यसितोऽस्मीति
वक्तव्यं भवति । किमपि प्रतियोजय । उपपन्नमनुपपन्नं वा उत्तरं कुर्वित्यर्थः ।
विश्वसनीयोऽसि । मया न विज्ञातमीदृशं विनोदवस्तुकमार्यपुत्रेणोपलब्धमिति ।</p>
<pb n="63" />
<p>तृतीयोऽङ्कः ।</p>
<p>अं अज्जउत्तेण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण
करीअदि ।
विदूषकः- मां तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणिदं
समावत्तिदिट्टेण देवीए परिअणेण संकहाअवराहेण संधावीअदु ।
एत्थ तुमं एव पमाणं ।
इरावती - संकहा णाम होदु । किंति अत्ताणं आआ-
सइस्सं । ( इति रुषा प्रस्थिता । )
राजा - ( अनुसरन् ।) प्रसीदतु भवती ।</p>
<p>( इरावती रशनासंधारितचरणा व्रजत्येव । )</p>
<p>राजा - सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता ।
इरावती-सैट, अविस्ससणी अहि अओसि ।
राजा-</p>
<lg>
  <l>शठ इति मयि तावदस्तु ते</l>
  <l>परिचयवत्यवधीरणा प्रिये ।</l>
  <l>चरणपतितया न चण्डितां</l>
  <l>विसृजसि मेखलयापि याचिता ॥ २० ॥</l>
</lg>
<p>इरावती - इअं पिहदासा तुमं एव अणुसरदि । ( इवि राना-
मादाय राजानं ताडयितुमिच्छति । )</p>
<note>१. मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन</note>
<p>देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ।</p>
<note>२. ननु संकथा नाम भवतु । किमित्यात्मानमायासयिष्यामि ।</note>
<note>३. शठ, अविश्वसनीय हृदयोऽसि ।</note>
<lg>
  <l>४. इयमपि हताशा त्वामेवानुसरति ।</l>
  <l>अन्यथा दुःखभागिन्यैवं न क्रियते ॥ विश्वसनीय इत्यत्र विपरीतलक्षणानुसंघेया ॥</l>
</lg>
<p>मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन
संकथापराधेन संघाप्यताम् । अत्र त्वमेव प्रमाणम् ॥ ननु संकथा नाम भवतु ।
किमित्यात्मानमायासयिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि ।
हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।</p>
<pb n="64" />
<p>मालविकाग्निमित्रे
राजा - इयमिरावती</p>
<lg>
  <l>बाप्पासारा हेमकाञ्चीगुणेन</l>
  <l>श्रोणीबिम्बादप्युपेक्षाच्युतेन ।</l>
  <l>चण्डी चण्डं हन्तुमभ्युद्यता मां</l>
  <l>विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥ २१ ॥</l>
</lg>
<p>इरावती - किं मं एव भूओ वि अवरद्धं करेसि ।
राजा - ( सरशनं हस्तमवलम्बयति ।)</p>
<lg>
  <l>अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि ।</l>
  <l>वर्धयसि विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥</l>
</lg>
<p>नूनमिदमनुज्ञातम् । (इति पादयोः पतति ।)
इरावती - खु इमे मालविआचलणा, जा दे हरिसदोहलं
पूरयिस्सन्ति । (इति निष्क्रान्ता सह चेट्या ।)
विदूषकः — उहि । किदप्पसादोऽसि ।
राजा - (उत्थाय इरावतीमपश्यन् । ) कथं गतैव प्रिया ।
विदूषकः - अस्स, दिट्टिआ इमस्स अविणअस्स अप्पसण्णा</p>
<note>१. किं मामेव भूयोऽप्यपराद्धां करोषि ।</note>
<note>२. न खल्विमौ मालविकाचरणौ यौ ते हर्षदोहदं पूरयिष्यतः ।</note>
<note>३. उत्तिष्ठ । कृतप्रसादोऽसि ।</note>
<note>४. वयस्य, दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा तद्वयं शीत्रमपत्र-</note>
<p>मामः । यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति ।
तस्मिन्मयि राठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति-
परिचयादवज्ञा' इति वदन्ति । तस्मादियमवधीरणा युक्तैवेत्यर्थः । हे चण्डि अ-
त्यन्तकोपने, चरणपतितया मेखलया रशनया याचितापि प्रार्थितापि तामवधीरणां
न विसृजसि न त्यजसि । किमिदं युक्तमिति शेषः ॥ इयमपि हताशा त्वामेवानु-
सरति ॥ बाप्पासारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥
अपराधिनीत्यादि । स्पष्टोऽर्थः ॥ नूनमित्यादि । इदमेतद्रशनासंहरणमनु-
ज्ञातमनुमतम् । मत्प्रार्थनाया इति शेषः ॥ न खल्विमौ मालविकाचरणौ, यो ते
हर्ष दोहदं पूरयिष्यतः ॥ उत्तिष्ठ । कृतप्रसादोऽसि ॥ वयस्य, दिष्ट्या अनेनाविनयेना-</p>
<pb n="65" />
<p>तृतीयोऽङ्कः ।</p>
<p>गदा एसा । ता वअं सिग्घं अवकमाम । जाव अङ्गारओ रासिं वि-
अ अणुवङ्कं परिगमणं ण करेदि ।
राजा - अहो मदनस्य वैषम्यम् ।</p>
<lg>
  <l>मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।</l>
  <l>एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥</l>
</lg>
<p>( इति निष्क्रान्तः सह वयस्येन । )</p>
<p>इति तृतीयोऽङ्कः ।
-
प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति .
गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहृतमनाः प्रणि-
पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः
फलमाह — कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि-
पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति
निपातः । अत्र वीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो-
त्तराङ्ककथोपयोगित्वाद्विन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते
कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥
माल० ६</p>
<pb n="66" />
<p>मालविकाग्निमित्रे
चतुर्थोऽङ्कः ।</p>
<p>(ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च । )
( प्रविश्य । )</p>
<p>राजा - ( आत्मगतम् । )</p>
<lg>
  <l>तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः</l>
  <l>संप्राप्तायां नयनविषयं रूढरागः प्रबालः ।</l>
  <l>हस्तस्पर्शैर्मुकुलित इव व्यक्तरोमोद्गमत्वा-</l>
  <l>कुर्यात्कान्तं मनसिजतरुर्मी रसज्ञं फलस्य ॥ १ ॥</l>
</lg>
<p>( प्रकाशम् ।) सखे गौतम ।
प्रतीहारी - जेदु जेदु भट्टा । असंणिहिदो गोदमो ।
राजा - (आत्मगतम्) आः, मालविका वृत्तान्तज्ञानाय मया
प्रेषितः ।
विदूषकः—वैदु भवं ।</p>
<p>राजा -- जयसेने, जानीहि तावत्क देवी धारिणी सरुजचरण-
त्वाद्विद्यत इति ।
प्रतीहारी - जं देवो आणवेदि । ( इति निष्क्रान्ता ।)
राजा - गौतम, को वृत्तान्तस्तत्रभवत्यास्ते सख्याः ।
विदूषकः – जो बिडालगहीदाए पर हुदिआए ।
राजा - (सविषादम् ।) कथमिव ।</p>
<note>१. जयतु जयतु भर्ता । असंनिहितो गौतमः ।</note>
<note>२. वर्धतां भवान् ।</note>
<note>३. यद्देव आज्ञापयति ।</note>
<note>४. यो बिडाल गृहीतायाः परभृतिकायाः ।</note>
<p>कविरिदानीमङ्कान्तरमारभते - ततः प्रविशतीत्यादिना । तामिति । मु
कुलित इव संजातमुकुल इव कान्तं कामनायुक्तं कुर्यादिति प्रार्थनायां लिङ् । अत्र
प्रसञ्जितं बीजं प्रकरीस्थाने कृतमिति मन्तव्यम् ॥ जयतु जयतु भर्ता । असंनि-
हितो गौतमः ॥ वर्धतां भवान् ॥ यद्देव आज्ञापयति ॥ यो बिडालगृहीतायाः परभृ-</p>
<pb n="67" />
<p>चतुर्थोऽङ्कः ।</p>
<p>विदूषकः-सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्ड भू-
घर गुहाए विअ णिक्खित्ता ।
राजा - ननु मत्संपर्कमुपलभ्य ।
विदूषकः - अह ई ।
राजा - क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी ।
विदूषकः – सुणादु भवं । परिव्वाजिआए मे कहिदं । हिओ
किल तत्तहोदी इरावदी रुअक्कन्तचलणं देवं सुहपुच्छिआ आअदा ।
राजा - ततस्ततः ।
विदूषकः - दोसा देवीए पुच्छिदा । किंणु ओवलोइदो वल्ल-
हजणो ति । ताए उत्तं । मन्दो वो उवआरो । जं परिजणे संकतं
वल्लत्तणं ण जाणीअदि ।
राजा - निर्भेदादृतेऽपि मालविकायामयमुपन्यासः शङ्कयति ।
विदूषकः - तंदो ताए अणुविजमाणा सा भवदो अविण अं
अन्तरेण परिगदत्था किदा ।</p>
<note>१. सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव</note>
<p>निक्षिप्ता ।</p>
<note>२. अथ किम् ।</note>
<note>३. शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः किल तत्रभवती-</note>
<p>रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता ।</p>
<note>४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वलभजन इति । तयोक्तम् ।</note>
<p>मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते ।</p>
<note>५. ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता ।</note>
<p>तिकायाः सा खलु तपखिनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव नि-
क्षिप्ता ॥ अथ किम् ॥ शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः पूर्वेद्युः किल
तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकया गता ॥ ततः सा देव्या पृष्टा । किं
न्ववलोकितो वहभजन इति । तयोक्तम् । मन्दो व उपचारः । यत्परिजने संक्रान्तं
वल्लभत्वं न ज्ञायते ॥ निर्भेदादृतेऽपि स्फुटीकरणं विनापि ॥ ततस्तयानुखिद्यमाना सा
भवतोऽविनयमन्तरेण परिगतार्था कृता । धारिणी राजाविनयमिरावत्याः सकाशा</p>
<pb n="68" />
<p>मालविकाग्निमित्रे
राजा - अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय ।
विदूषकः - किं' अदो वरं । मालविआ बउलावलिआ अणि-
अलपदीओ अदिट्ठसुज्जपादं पादालवासं णाअकण्णआओ विअ
अणुहोन्ति ।
राजा - कष्टं कष्टम् ।</p>
<lg>
  <l>मधुरखरा परभृता भ्रमरी च विबुद्धचूतसङ्गियौ ।</l>
  <l>कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ २ ॥</l>
</lg>
<p>अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् ।
विदूषकः – हं भविस्सदि । जं सारभाण्डवरएवाउदा माह-
विआ देवीए संदिट्ठा । मह अङ्गुलीअअमुहं अदेक्खिअ ण मोत्तवा,
मालविआ बउलावलिआ अत्ति ।
राजा - ( निःश्वस्य । सपरामर्शम् ) सखे, किमत्र कर्तव्यम् ।
विदूषकः - ( विचिन्त्य ।) अस्थि एत्थ उवाओ ।
राजा - क इव ।
विदूषकः - ( सदृष्टिक्षेपम् । ) को वि अदिट्टो सुणोदि । कण्णे दे
कहेमि । (इत्युपश्लिष्य कर्णे । ) एवं विअ । (इत्यावेदयति । )</p>
<note>१. किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू-</note>
<p>र्यपादं पातालवासं नागकन्यके इवानुभवतः ।</p>
<note>२. कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सं-</note>
<p>दिष्टा । ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति ।</p>
<note>३. अस्त्यत्रोपायः ।</note>
<note>४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमित्र ।</note>
<p>ज्ञातवतीत्यर्थः ॥ किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू-
र्यपादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । सष्टोऽर्थः ॥
कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या संदिष्टा । ममाङ्गुलीय-
कमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति ॥ अस्त्यनोपायः ॥ को-
ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । अत्र राज्ञः कर्णे विदूषकोक्त उपायो</p>
<pb n="69" />
<p>चतुर्थोऽङ्कः ।
राजा - (सहर्षम् । सुष्ठु । प्रयुज्यतां सिद्धये ।</p>
<p>( प्रविश्य । )
(ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः । )</p>
<p>प्रतीहारी - देवे, पवादसयणम्मि देवी णिसण्णा रत्तचन्दण-
धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि-
जमाणा चिट्टदि ।
राजा - तेन समादेशयोग्योऽयमवसरः ।
विदूषकः - तो गच्छदु भवं । अहं वि देवीं पेक्खिदुं अरि-
पाणी भविस्सं ।
राजा - जयसेनायास्तावदस्मद्रहस्यं विदितं कुरु ।
विदूषकः - तह । ( इति कर्णे । ) एवं विअ होदि । (इत्यावेद्य नि-
ष्क्रान्तः ।)
1
राजा - जयसेने, प्रवातशयनमार्गमादेशय ।
प्रतीहारी - दो इदो देवो ।</p>
<p>देवी – अवदि, रमणिज्जं कहावत्थु । तदो तदो ।
परिवाजिका - देवि, अतः परं पुनः कथयिष्यामि ।
अत्र भगवान्विदिशेश्वरः संप्राप्तः ।</p>
<note>१. देव, प्रवातशयने देवी निपण्णा रक्तचन्दनधारिणा परिजन हस्त-</note>
<p>गतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ।</p>
<note>२. तद्गच्छतु भवान् । अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि ।</note>
<note>३. तथा । एवमिव भवति ।</note>
<note>४. इत इतो देवः ।</note>
<note>५. भगवति, रमणीयं कथावस्तु । ततस्ततः ।</note>
<p>नियमेन मालविकाप्राप्तिहेतुत्वान्नियताप्तिर्नाम चतुर्थावस्था सूचिता ॥ अत्रपूर्व प्रकरी -
स्थानोक्तबीजस्यानया नियतात्या समन्वयादवमर्शो नाम चतुर्थसंधिः प्रतिपादित
इति मन्तव्यम् ॥ देव, प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजन हस्तगतेन
चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ॥ तस्माद्गच्छतु भवान् । अहमपि देवीं
द्रष्टुमरितपाणिर्भविष्यामि ॥ तथा । एवमिव भवति ॥ इत इतो देवः ॥ भगवति,</p>
<pb n="70" />
<p>मालविकाग्निमित्रे
देवी - अह्मो, भट्टा । ( इत्युत्थातुमिच्छति ।)
राजा - अलमलमुपचारयन्त्रणया ।</p>
<lg>
  <l>अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि ।</l>
  <l>चरणं रुजा परीतं कलभाषिणि मां च पीडयितुम् ॥ ३ ॥</l>
</lg>
<p>धारिणी – जेदु अज्जउत्तो ।
परिव्राजिका - विजयतां देवः ।
राजा - (परिव्राजिकां प्रणम्योपविश्य ।) देवि, अपि सह्या वेदना ।
धारिणी – अज अस्थि विसेस ।</p>
<p>(ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्टः संभ्रान्तो विदूषकः । )
( सर्वे विषण्णाः । )</p>
<p>विदूषकः— पॅरिताअदु परिचाअदु भवं । सप्पेणमि दो ।</p>
<p>राजा - कष्टं कष्टम् । क भवान्परिभ्रान्तः ।
विदूषकः - देवि देक्खिस्सं ति आआरपुप्फग्गहणकारणादो
पदवणं गदोमि ।
देवी - द्धिहद्धि । अहं एव वह्मणस्य जीविदसं अणिमित्तं
जादह्नि ।</p>
<note>१. अहो, भर्ता ।</note>
<note>२. जयत्वार्यपुत्रः ।</note>
<note>३. अद्यास्ति मे विशेषः ।</note>
<note>४. परित्रायतां परित्रायतां भवान् । सर्पेणास्मि दष्टः ।</note>
<note>५. देवीं द्रक्ष्यामीत्याचारपुष्प ग्रहणकारणात्प्रमदवनं गतोऽस्मि ।</note>
<note>६. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्</note>
<p>जातास्मि ।
रमणीयं कथावस्तु । ततस्ततः ॥ अहो, भर्ता ॥ अनुचितेति । स्पष्टोऽर्थः॥ जयत्या
र्यपुत्रः ॥ अद्यास्ति मे विशेषः ॥ तत इति । यज्ञोपवीतेन बद्धोऽङ्गुष्टो यस्य स तथोक्तः
अत्र कल्पनाया गम्यमानत्वाच्चलनं नाम संध्यङ्गमुक्तं भवति ॥ परित्रायतां परित्रा
यतां भवान् । सर्पेणास्मि दष्टः ॥ देवीं द्रक्ष्यामीत्याचारपुष्प ग्रहणकारणात्प्रमदव
गतोऽस्मि ॥ हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशय निमित्तं जातास्मि</p>
<pb n="71" />
<p>चतुर्थोऽङ्कः ।</p>
<p>विदूषकः - तहिं असो अत्थव अकारणादो पसारिदे दक्खि-
हत्थे कोडरणिग्गदेण सप्परूवेण कालेण दट्ठोमि । णं एदे
दुवे दंसणपदाणि । ( इति दंशं दर्शयति ।)
परिव्राजिका - तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । सता-
वदस्य क्रियताम् ।</p>
<lg>
  <l>छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोचनम् ।</l>
  <l>एतानि दष्टमात्राणामादुष्याः प्रतिपत्तयः ॥ ४ ॥</l>
</lg>
<p>राजा - संप्रति विषवैद्यानां कर्म । जयसेने, ध्रुवसिद्धिः क्षि-
प्रमानीयताम् ।
प्रतीहारी — जं देवो आणवेदि । ( इति निष्क्रान्ता । )
विदूषकः - अहो, पात्रेण मिच्छुणा गहीदोमि ।
राजा - मा कातरो भूः । अविषोऽपि कदाचिद्दशो भवेत् ।
विदूषकः — ह ण भाइस्सं । सिमसिमा अन्ति मे अङ्गाई ।</p>
<p>( इति विपवेगं रूपयति । )</p>
<p>देवी— हो दंसिदं अमुहं विआरेण । अवलम्भध बह्मणं ।</p>
<note>१. तस्मिन्नशोकस्तवककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन स-</note>
<p>परूपेण कालेन दुष्टोऽस्मि । नन्वेते द्वे दंशपदे ।</p>
<note>२. यदेव आज्ञापयति ।</note>
<note>३. अहो, पापेन मृत्युना गृहीतोऽस्मि ।</note>
<note>४. कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि ।</note>
<p>1</p>
<note>५. हा, दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ।</note>
<p>तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन सर्परूपेण कालेन
दष्टोऽस्मि । नन्वेते द्वे शपदे ॥ छेदो दंशस्येत्यादि । स्पष्टोऽर्थः ॥ ध्रुवसिद्धि-
रिति तस्य वैद्यस्य नाम ॥ यद्देव आज्ञापयति ॥ अहो, पापेन मृत्युना गृहीतोऽस्मि ॥
कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । अनेन संतापः सूच्यते । विषवेगं विष-
प्राप्तिं रूपयति प्रकाशयति । विषवेगास्तु वसन्तराजीये कथिताः - 'वैवर्ण्य वेपथुर्दाहः
फेनः स्कन्दस्य भञ्जनम् । दुःखं जाड्य मृतिश्चेति विषवेगाः स्युरष्टधा ॥ इति ॥ हा क-</p>
<pb n="72" />
<p>૬૮
1
मालविकाग्निमित्रे</p>
<p>(परिव्राजिका ससंभ्रममवलम्बते ।)
( प्रविश्य 1 )
(निष्क्रान्तौ विदूषकः प्रतीहारी च । )</p>
<p>विदूषकः - ( राजानं विलोक्य ) 'भोः, भवदो बाल्लादोवि तिभ-
वअस्सोमि । तं विभरिअ अनुत्ताए मे जणणीए जोगक्खेमं वहेसु ।
राजा - मा भैषर्गोतम । स्थिरो भव । अचिरात्त्वां वैद्यश्चिकि-
सिष्यति ।
1</p>
<p>जयसेना – देवे, आणाविदो धुवसिद्धी विष्णावेदि । इह एव
आणीअदु सो गोदमोति ।
राजा - तेन हि प्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय ।
जयसेना - तहा ।
विदूषकः - ( देवीं विलोक्य) भोदि, जीवेअं वाण वा । जं
मए अत्तभवन्तं सेवमाणेण ते अवरद्धं तं मरिसेहि ।
देवी - दीहोऊ होहि ।</p>
<p>राजा - प्रकृतिभीरुस्तपखी ध्रुवसिद्धिमपि यथार्थनामानं सि-
द्धिमन्तं न मन्यते ।</p>
<note>१. भोः, भवतो बाल्यादपि प्रियवयस्योऽस्मि । तं विचार्यापुत्राया मे</note>
<p>जनन्या योगक्षेमं वह ।</p>
<note>२. देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानीयतां स गौतम</note>
<p>इति ।</p>
<note>३. तथा ।</note>
<note>४. भवति, जीवेयं वा न वा । यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं</note>
<p>तन्मृष्यस्व ।</p>
<note>५. दीर्घायुर्भव ।</note>
<p>ष्टम् । दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ॥ भोः, भवतो बाल्यादपि प्रि
यवयस्योऽस्मि । तं विचार्यापुत्राया मे जनन्या योगक्षेमं वह ॥ देव, आज्ञापितो घु
वसिद्धिर्विज्ञापयति। इहैवानीयतां स गौतम इति ॥ तथा ॥ भवति, जीवेयं वा न वा
यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यख ॥ दीर्घायुर्भव ॥ जयतु भर्ता । घुब</p>
<pb n="73" />
<p>चतुर्थोऽङ्कः ।</p>
<p>( प्रविश्य । )
( प्रतीहारी गृहीत्वा स्थिता । )
( प्रविश्य । )</p>
<p>जयसेना - जेदु भट्टा । धुवसिद्धी विण्णावेदि । उदकुम्भवि-
हाणेण सप्पमुद्दिअं किंपि कप्पिद । तं अण्णेसीअदु ति ।
देवी - इदं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि
णं । (इत्यङ्गुलीयकं ददाति । )</p>
<p>राजा - कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी - जं देवो आणवेदि ।
परिव्राजिका यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः ।
राजा - भूयादेवम् ।</p>
<p>जयसेना - जेदुं देवो
पकिदित्थो संवृत्तो ।
देवी — "दिट्टि
। णिवुत्तविसवेगो गोदमो मुहुत्तेण
।
प्रतीहारी - ऐसो उण अमच्चो वाहतओ विष्णावेदि । रा-
अकजं बहु मन्तिदवं । दंसणेण अणुग्गहं इच्छामिति ।</p>
<note>१. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं</note>
<p>किमपि कल्पयितव्यम् । तदन्विष्यतामिति ।</p>
<note>२. इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् ।</note>
<note>३. यद्देव आज्ञापयति ।</note>
<note>४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः ।</note>
<note>५. दिया ।</note>
<note>६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्य बहु मन्त्रयित -</note>
<p>व्यम् । दर्शनेनानुग्रहमिच्छामीति ।
सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि-
यतामिति ॥ इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् ॥ यद्देव आज्ञाप
यति ॥ जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः ॥ दिष्ट्या ॥
एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्यं बहु मन्त्रयितव्यम् । दर्शनेनानुप्र-</p>
<pb n="74" />
<p>मालविकाग्निमित्रे
देवीच्छदु अज्जउत्तो कज्जसिद्धीए ।
राजा - आतंपाकान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र-
शस्ता । तदन्यत्र नीयतां शयनम् ।
देवी बालिआओ, अज्जउत्तवअणं अणुचिट्ठह ।
परिजनः — तह ।</p>
<p>(निष्क्रान्ता देवी परित्राजिका परिजनश्च । )
(प्रविश्य ।)</p>
<p>राजा - जयसेने, मां गूढेन पथा प्रमदवनं प्रापय ।
प्रतीहारी - ईदो इदो देवो ।
राजा - जय सेने, समाप्तकरणीयो ननु गौतमः ।
प्रतीहारी - अह ई ।
राजा-</p>
<lg>
  <l>इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा ।</l>
  <l>संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥</l>
</lg>
<p>विदूषकः - वैदु भवं । सिद्धाई दे मङ्गलकम्माई ।
राजा - जयसेने, त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी - जं देवो आणवेदि । ( इति निष्कान्ता ।)</p>
<note>१. गच्छत्वार्यपुत्रः कार्यसिद्धये ।</note>
<note>२. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत ।</note>
<note>३. तथा ।</note>
<note>४. इत इतो देवः ।</note>
<note>५. अथ किम् ।</note>
<note>६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि ।</note>
<lg>
  <l>७. यद्देव आज्ञापयति ।</l>
  <l>हमिच्छामीति ॥ गच्छवार्यपुत्रः कार्य सिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥</l>
</lg>
<p>तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ-
वान् । सिद्धानि ते मङ्गलकर्माणि ॥ यद्देव आज्ञापयति ॥ देव्या अङ्गुलीयकमुद्रां</p>
<pb n="75" />
<p>चतुर्थोऽङ्कः ।</p>
<p>राजा - वयस्य, क्षुद्रा माधविका । न किंचिद्विचारितमनया ।
विदूषकः – 'देवीए अङ्गुलीअअमुद्दिअं देक्खिअ कहं वि-
आरेदि ।
राजा - न खलु मुद्रामधिकृत्य ब्रवीमि । एतयोर्द्वयोः किंनिमित्तो
मोक्षः । किं वा देव्याः परिजनमतिक्रम्य भवान्संदिष्ट इत्येवमनया
प्रष्टव्यम् ।
विदूषकः - पुच्छिदोद्मि । पुणो मन्दस्स मे तस्सि पच्च-
पण मदी ।
राजा - कथ्यताम् ।
-
विदूषकः – मणिदा मए । देवचिन्तएहिं विष्णाविदो राआ ।
सोवसग्गं वो णक्खत्तं । सवबन्धणमोक्खो करीअदु त्ति ।
राजा - ( सहर्षम् । ततस्ततः ।
विदूषकः - तं सुणिअ देवीए इरावदीचित्तं रक्खन्तीए राज
किल मोदित्ति अहं संदिट्टो त्ति । तदो जुज्जदि ति ताए एवं
संपादिदो अत्थो ।
राजा - ( विदूषकं परिष्वज्य ) सखे, प्रियोऽहं तव ।</p>
<note>१. देव्या अङ्गुलीयकमुद्रां दृष्ट्वा कथं विचारयति ।</note>
<note>२. ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः ।</note>
<note>३. भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्ग वो नक्ष-</note>
<p>त्रम् । सर्वबन्धनमोक्षः क्रियतामिति ।</p>
<note>४. तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सं-</note>
<p>दिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ।
दृष्ट्वा कथं विचारयति ॥ ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः ॥
भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । सर्वबन्धन-
मोक्षः क्रियतामिति ॥ तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयती -</p>
<pb n="76" />
<p>मालविकाग्निमित्रे</p>
<lg>
  <l>नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् ।</l>
  <l>कार्यसिद्धिपथः सूक्ष्मः स्नेहो नाप्युपलभ्यते ॥ ६ ॥</l>
</lg>
<p>विदूषकः — तुवरदु भवं समुदधरए सही सहिदं मालविअं
ठाविअ भवन्तं पच्चग्गदो
।
राजा – अहमेनां संभावयामि । गच्छाग्रतः ।
विदूषकः – ऐदु भवं (परिक्रम्य ।) इदं समुद्दवरं ।
राजा - (साशङ्कम् ।) वयस्य, एषा कुसुमावचयव्यग्रहस्ता स-
ख्यास्ते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां
भित्तिगूढौ भवावः ।
विदूषकः - अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ
चन्द्रिआ ।
(उभे यथोक्तं कुरुतः ।
राजा - गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एन
गवाक्षमाश्रित्य विलोकयामि ।
विदूषकः - ह ।</p>
<p>(उभौ विलोकयन्तौ तिष्टतः । )
(ततः प्रविशति मालविका बकुलावलिका च । )</p>
<p>बकुलावलिका – संहि, पणम भट्टारं ।</p>
<note>१. त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन</note>
<p>प्रत्युद्गतोऽस्मि ।</p>
<note>२. एतु भवान् । इदं समुद्रगृहम् ।</note>
<note>३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका ।</note>
<note>४. तथा ।</note>
<note>५.</note>
<p>सखि, प्रणम भर्तारम् ।
त्यहं संदिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ॥ नहि बुद्धीत्याि
स्पष्टोऽर्थः ॥ त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भव
प्रत्युद्गतोऽस्मि ॥ एतु भवान् । इदं समुद्रगृहम् ॥ अहोइत्यामन्त्रणे । कुम्भिलकैःका
कैश्च परिहरणीया खलु चन्द्रिका ॥ तथा ॥ सखि, प्रणम भर्तारम् ॥ नमस्ते ॥ स</p>
<pb n="77" />
<p>मालविका
चतुर्थोऽङ्कः ।</p>
<p>मो दे ।
राजा - शते मे प्रतिकृतिं निर्दिशति ।
मालविका - ( सहर्षम् । द्वारमवलोक्य 1 ) हेला, मं त्रिप्पलम्भेसि ।
राजा - हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि ।</p>
<lg>
  <l>सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।</l>
  <l>वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥</l>
</lg>
<p>बकुलावलिका — णं एसो चित्तगदो भट्टा ।
उभे - ( प्रणिपत्य ।) जेदु भट्टा ।
मालविका - हैला, तदा संभमदिट्ठे भट्टिणो रूवे जहा ण वि -
तिहलि, तहा अज्जवि मए भाविदो अवितिहदंसणो भट्टा ।
विदूषकः सुदं भवदा । तत्तहोदी चित्ते जहा दिट्ठो तहा
दिट्टो भवं ति मन्तेदि । मुद्धा दाणिं मसा विअ रअणभण्डअं जो-
वगवं बहेसि ।
राजा - सखे, कुतूहलवानपि निसर्गशा लीनः स्त्रीजनः । पश्य ।
कात्र्येन निर्वर्णयितुं च रूप-</p>
<note>१. नमस्ते ।</note>
<p>मिच्छन्ति तत्पूर्वसमागमानाम् ।</p>
<note>२. सखि, मां विप्रलम्भयसि ।</note>
<note>३. नन्वेष चित्रगतो भर्ता ।</note>
<note>४. जयतु भर्ता 1</note>
<note>५. सखि, तदा संभ्रमदृष्टे भर्त रूपे यथा न वितृष्णास्मि, तथाद्यापि</note>
<p>मया भावितोऽवितृष्णदर्शनो भर्ता ।</p>
<note>६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति</note>
<p>मन्त्रयति । मुधेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वे वहसे ।
यां विप्रलम्भयसि ॥ सूर्योदय इत्यादि । स्पष्टोऽर्थः ॥ नन्वेष चित्रगतो भर्ता ॥ जयतु
भर्ता ॥ सखि, तदा संभ्रमदृष्टे भर्तु रूपे यथा न वितृष्णास्मि, तथाद्यापि मयाभावितोऽ-
वितृष्णदर्शनो भर्ता ॥श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मन्त्र-
यति। मुधेदानीं मजषेव रत्नभाण्डं यौवनगर्व वह से ॥ कात्सूर्येनेत्यादि । स्पष्टोर्थः॥
माल • ७</p>
<pb n="78" />
<p>मालविकाग्निमित्रे
न च प्रियेष्वायतलोचनानां
समप्रवृत्तीनि विलोचनानि ॥ ८ ॥
9
मालविका - हला, का एसा पासपरिउत्तवअणेण भट्टिणा
सिणिद्धाए दिट्ठीए णिज्झाईअदि ।
बकुलावलिका - इअं पासगदा इरावदी ।
मालविका - सहि, अदक्खिणो विअ भट्टा मे पडिभादि ।
जो सवं देवीजणं उज्झि एक्काए मुहे बद्धलक्खो ।
बकुलावलिका – (आत्मगतम् ) चिंत्तगदं भट्टारं परमत्थदो सं-
कप्पि असूअदि । होदु । क्रीडिस्सं दाव एदाए । ( प्रकाशम् ।)
हला, भट्टिणो वल्लहा एसा ।
मालविका - दो किं दाणिं अत्ताणं आआसइस्सं । ( इति सा-
सूयं परावर्तते । )
राजा - सखे, पश्य ।</p>
<lg>
  <l>भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं</l>
  <l>सासूयमाननमितः परिवर्तयन्त्या ।</l>
  <l>कान्तापराध कुपितेष्वनया विनेतुः</l>
  <l>संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥</l>
</lg>
<note>१. सखि, कैपा पार्श्वपरिवृत्तवदनेन भर्त्रा में स्निग्धया दृष्ट्या निध्यायते ।</note>
<note>२. नन्वियं पार्श्वगतेरावती ।</note>
<note>३. सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वे देवीजन मुज्झित्-</note>
<p>कस्या मुखे बद्धलक्ष्यः ।</p>
<note>४. चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु । क्रीडिष्यामि</note>
<p>तावदेतया । सखि, भर्तुर्वल भैषा ।</p>
<note>५. ततः किमिदानीमात्मानमायासयिष्यामि ।</note>
<p>'सखि, कैषा पार्श्वपरिवृत्तवदनेन भर्त्रा स्निग्धया दृष्ट्या निध्यायते ॥ नन्वियं
पार्श्वगतेरावती ॥ सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्व देवी जन-
मुज्झित्वैकस्य मुखे बद्धलक्ष्यः ॥ चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति ।
भवतु क्रीडिष्यामि तावदेतया । सखि, भर्तुर्वल्लभैषा ॥ ततः किमिदानीमात्मान-
मायासयिष्यामि ॥ भ्रूभङ्गेत्यादि । स्पष्टोऽर्थः ॥ अनुनयसज्ज इदानीं भव ॥</p>
<pb n="79" />
<p>चतुर्थोऽङ्कः ।
विदूषकः - अणुणअसज्जो दाणिं होहि ।</p>
<p>मालविका - अज्जगोदमो एत्थे ण संसेवदि । ( पुनः स्थानान्तरामि-
मुखी भवितुमिच्छति ।)
बकुलावलिका—(मालविकां रुद्धा 1) खु कुविदा दाणि तुमं ।
मालविका - जैइ चिरं कुविदं एव मं मण्णेसि, एसो पच्चा-
णीअदि कोवो ।
राजा - ( उपेल ।)</p>
<lg>
  <l>कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे ।</l>
  <l>ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥ १० ॥</l>
</lg>
<p>बकुलावलिका — जेदु भट्टा ।
मालविका – (आत्मगतम् ।) कहं चित्तगदो भट्टा मए असुइदो ।</p>
<p>(इति सप्रणयवदनमञ्जलिं करोति । )
(राजा मदनकातर्यं रूपयति ।)</p>
<p>विदूषकः - किं भवं उदासीनो विअ ।
राजा - अविश्वसनीयत्वात्सख्यास्तव ।
विदूषकः -- अतहोदीए अअं तुह अविस्सासो ।
राजा - श्रूयताम् ।</p>
<note>२. अनुनयसज्ज इदानीं भव ।</note>
<note>२. आर्य गौतमोऽत्र न संसेवते ।</note>
<note>३. न खलु कुपितेदानीं त्वम् ।</note>
<note>४. यदि चिरं कुपितामेव मां मन्यसे, एप प्रत्यानीयते कोपः ।</note>
<note>५. जयतु भर्ता ।</note>
<note>६. कथं चित्रगतो भर्ता मयासूयितः ।</note>
<note>७. किं भवानुदासीन इव ।</note>
<note>८. अत्रभवत्यामयं तवाविश्वासः</note>
<p>आर्य गौतमोऽत्र न संसेवते ॥ न खलु कुपितेदानीं त्वम् ॥ यदि चिरं कुपितामेव
मां मन्यसे, एष प्रत्यानीयते कोपः ॥ कुप्यसीत्यादि । स्पष्टोऽर्थः ॥ जयतु
भर्ता ॥ कथं चित्रगतो भर्ता मयासूयितः ॥ किं भवानुदासीन इव ॥ अत्र</p>
<pb n="80" />
<p>मालविकाग्निमित्रे</p>
<lg>
  <l>पथि नयनयोः स्थित्वा स्थित्वा तिरोभवति क्षणा-</l>
  <l>त्सरति सहसा बाहोर्मध्यं गतापि सखी तव ।</l>
  <l>मनसिजरुजा क्लिश्यत्येवं समागममायया</l>
  <l>कथमिव सखे विस्रब्धं स्यादिमां प्रति मे मनः ॥ ११ ॥</l>
</lg>
<p>बकुलावलिका - सहि, बहुसो किल भट्टा विप्पलद्धो । दाव
तुए अता विस्सासणिज्जो करीअदु ।
मालविका — सेहि, मह उण मन्दभभगाए सिविणसमाअमो
वि भट्टिणो दुल्लहो आसि ।
बकुलावलिका - भट्टा कहेदु से उत्तरं ।
राजा-</p>
<lg>
  <l>उत्तरेण किमात्मैव पञ्चवाणाभिसाक्षिकम् ।</l>
  <l>तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १२ ॥</l>
</lg>
<p>बकुलावलिका - अणुग हीदम्ह ।
विदूषकः - ( परिक्रम्य 1 ) बेहुलावलिए, एसो बालासोअरुक्खस्स
पल्लवाई लङ्घदि हरिणो । णिवारेम णं ।</p>
<note>१. सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः</note>
<p>क्रियताम् ।</p>
<note>२. सखि, मम पुनर्मन्दभाग्यायाः स्वमसमागमोऽपि भर्तुर्दुर्लभ आसीत् ।</note>
<note>३. भर्ता कथयत्वस्या उत्तरम् ।</note>
<note>४. अनुगृहीताः स्मः ।</note>
<note>५. बकुलावलिके, एप बालाशोकवृक्षस्य पलवानि लयति हरिणः ।</note>
<p>निवारयाम एनम् ।
भवत्यामयं तवाविश्वासः । अस्मिन्वाक्ये काकुरनुसंधेया ॥ पथि नयनयोरि
त्यादि । स्पष्टोऽर्थः ॥ सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा
विश्वसनीयः क्रियताम् ॥ सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तु
दुर्लभ आसीत् ॥ भर्ता कथयत्वस्या उत्तरम् ॥ उत्तरेणेत्यादि । स्पष्टोऽर्थः ।
अनुगृहीताः स्मः ॥ बकुलावलिके, एष बालाशोकवृक्षस्य पल्लवानि लयति</p>
<pb n="81" />
<p>चतुर्थोऽङ्कः ।
बकुलावलिका तह । ( इति प्रस्थिता ।)</p>
<p>राजा - वयस्य, एवमेवास्मिन्रक्षणक्षणेऽवहितेन त्वया भवि -
तव्यम् ।
विदूषकः- एवं वि गोदमी संदिसे अदि ।
-
बकुलावलिका – (परिक्रम्य ।) अज्ज गोदम, अहं अप्पअसे
चिट्ठामि । तुमं दुवाररक्खओ होहि ।
विदूषकः — जुज्जइ ।
-</p>
<p>(निष्क्रान्ता बकुलावलिका । )
( मालविका ससाध्वसा तिष्ठति ।)</p>
<p>विदूषकः - इमं दाव फलिहक्खम्भं अस्सिदो होमि । ( इति तथा-
कृत्वा । ) अहो सुहप्फरिसदा सिलाविसेसस्स । ( इति निद्रायते । )
राजा-</p>
<lg>
  <l>विसृज सुन्दरि संगमसाध्वसं</l>
  <l>तव चिरात्प्रभृति प्रणयोन्मुखे ।</l>
  <l>परिगृहाण गते सहकारतां</l>
  <l>त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥</l>
</lg>
<p>मालविका — देवी भएण अत्तणोवि पिअं कादं ण पारेमि ।</p>
<note>१. तथा ।</note>
<note>२. एवमपि गौतमः संदिश्यते ।</note>
<note>३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ।</note>
<note>४. युज्यते ।</note>
<note>५. इमं तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि-</note>
<p>लाविशेषस्य ।</p>
<note>६. देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ।</note>
<p>हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपि गौतमः संदिश्यते ॥ आर्य गौतम,
अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ युज्यते ॥ इमं तावत्स्फटिकस्त-
म्भमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य ॥ विसृजेत्यादि ।
1</p>
<pb n="82" />
<p>मालविकामिमित्रे
राजा - अयि न भेतव्यम् ।
मालविका — (सोपालम्भम् । ) जो ण भाअदि, सो मए भट्टिणी -
दसणे दिवसामत्थो भट्टा ।
राजा-</p>
<lg>
  <l>दाक्षिण्यं नाम बिम्बोष्ठ वैम्बिकानां कुलव्रतम् ।</l>
  <l>तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥</l>
</lg>
<p>तदनुगृह्यतां चिरानुरक्तोऽयं जनः । ( इति संश्लेषमुपजनयति ।)</p>
<p>( मालविका परिहरति । )
(ततः प्रविशतीरावती निपुणिका च । )</p>
<p>राजा - ( आत्मगतम् । ) रमणीयः खलु नवाङ्गनानां मदन विष-
यावतारः । तथा हि ।</p>
<lg>
  <l>हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः</l>
  <l>स्वौ हस्तौ नयति स्तनावरणतामालिन्यमाना बलात् ।</l>
  <l>पातुं पक्ष्मल नेत्रमुन्नमयतः साचीकरोत्याननं</l>
  <l>व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १५ ॥</l>
</lg>
<p>इरावती - हे णिउणिए, सच्चं तुमं परिगदत्था चन्द्रिआए ।
समुद्दघर अलिन्दसइदो एआई अज्जगोदमो दिठ्ठोत्ति ।
निपुणिका – अण्गहा कहं भट्टिणी विणावेमि ।</p>
<note>१. यो न बिभेति, स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ।</note>
<note>२. हजे निपुणिके, सत्यं त्वं परिगतार्थी चन्द्रिकया । समुद्रगृहालिन्द-</note>
<p>शयित एकाकी आर्यगौतमो दृष्ट इति ।</p>
<note>३. अन्यथा कथं भट्टिन्यै विज्ञापयामि ।</note>
<p>स्पष्टोऽर्थः ॥ देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ॥ योन बिभेति,
स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ॥ दाक्षिण्यमिति । स्वष्टोऽर्थः
वैम्बिकास्तद्वंश्या राजानः ॥ हस्तमित्यादि । सष्टोऽर्थः ॥ हजे निपुणिके
सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आर्यगौतम
दृष्ट इति ॥ अन्यथा कथं भट्टिन्यै विज्ञापयामि ॥ तेन हि तत्रैव गच्छामः । संश</p>
<pb n="83" />
<p>चतुर्थोऽङ्कः ।</p>
<p>इरावती - ते हि तहिं एव गच्छामो । संसआदो मुत्तं पिअ -
वअस्सं पुच्छिदुं च ।
निपुणिका – सावसेसं विअ भट्टिणीए वअणं ।
इरावती - अण्णं च चित्तगदं अज्जउत्तं पसादेदं ।
निपुणिका – अह कहं दाणिं एव ण पसादीअदि ।
"
इरावती - मुंढे, जारिसो चित्तगदो णं तारिखो एव अण्णसं-
कन्तहिअओ अज्जउत्तो । केवलं उअआरादिकमं पमज्जिदुं अअं
आरम्भो ।
1
निपुणिका – दो इदो भट्टिणी ।</p>
<p>( उभे परिक्रामतः । )
( प्रविश्य । )</p>
<p>चेटी - जेदु भट्टिणी । देवी भणादि । ण मे मच्छरस्स एसो
कालो । तेण खु बहुमाणं बड्डेदुं वअस्साए सह णिअलबन्धणे किदा
1</p>
<note>१. तेन हि तत्रैव गच्छामः संशयान्मुक्तं प्रियवयखं प्रष्टुं च ।</note>
<note>२. सावशेषमिव भट्टिन्या वचनम् ।</note>
<note>३. अन्यच्च चित्रगतमार्यपुत्रं प्रसादयितुम् ।</note>
<note>४. अथ कथमिदानीमेव न प्रसाद्यते ।</note>
<note>५. मुग्धे, यादृशश्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः ।</note>
<p>केबलमुपचारातिक्रमं प्रमार्जितुमयमारम्भः ।</p>
<note>६. इत इतो भट्टिनी ।</note>
<note>७.</note>
<p>जयतु भट्टिनी । देवी भगति । न मे मत्सरस्यैष काल : । तेन
खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धनं कृता मालविका ।
यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तन्मे भणेति ।
यावन्मुक्तं प्रियवयस्य प्रष्टुं च ॥ सावशेषमिव भट्टिन्या वचनम् ॥ अन्यच्च चित्र-
गतमार्यपुत्रं प्रसादयितुम् ॥ अथ कथमिदानीमेव न प्रसाद्यते ॥ मुग्धे, यादृश-
श्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमा-
जिंतुमयमारम्भः ॥ इत इतो भट्टिनी ॥ जयतु भट्टिनी । देवी भणति । न मे
मत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धनं</p>
<pb n="84" />
<p>मालविकाग्निमित्रे
मालविआ । जइ अणुमण्णसि अज्जउत्तस्स पिअं का तहा करेमि ।
जं तुह इच्छितं मे भणाहिति ।
इरावती-अरिए, विण्णावेहि देविं । का वअं भट्टिणि
णिओजेदुं । परिअणणिअलणे दंसिदो मइ अणुग्गहो । स
पसादेण अअं जणो वढदित्ति ।
चेटी-तेह । ( इति निष्क्रान्ता । )
-
निपुणिका – (परिक्रम्यावलोक्य च ) अँट्टिणि, एसो दुवारुद्देसे
समुदघर अस्स विपणिगदो विअ बलीवद्दो अज्जगोदमो आसीणो
एव णिद्दा अदि ।
इरावती - अचाहिदं । ण खु सावसेसो विसविआरो हवे ।
निपुणिका – पसण्णमुहवण्णो दीसह । अवि अ धुवसिद्धिणा
चिच्छिदो । ता से असङ्कणिज्जं पावं ।
-</p>
<note>१. नागरि के, विज्ञापय देवीम् । का वयं भट्टिनीं नियोजयितुम् । परि-</note>
<p>जननिगलने दर्शितो मय्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति ।</p>
<note>२. तथा ।</note>
<note>३. भट्टिनि, एष द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्य गौ-</note>
<p>तम आसीन एव निद्रायते ।</p>
<note>४. अत्याहितम् । न खलु सावशेषो विषविकारो भवेत् ।</note>
<note>५. प्रसन्नमुखवर्णो दृश्यते । अपि च ध्रुवसिद्धिना चिकित्सितः ।</note>
<p>तदस्याशङ्कनीयं पापम् ।
कृता मालविका । यद्यनुमन्यसे आर्यपुत्रस्य प्रियं कर्तु तथा करोमि । यत्तवेष्टं
तन्मे भणेति ॥ नागरिके, विज्ञापय देवीम् । का वयं भट्टिणीं नियोजयितुम् ।
परिजन निगलनेन दर्शितो मय्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति ॥
तथा ॥ भट्टिनि एष द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौतम
आसीन एव निद्रायते ॥ अत्याहितम् । अत्याहितं नाम जीवानपेक्षि कर्म । 'अत्याहितं
महामीतिः कर्म जीवानपेक्षि च' इत्यमरसिंहः । न खलु सावशेषो विषविकारो
भवेत् ॥ प्रसन्नमुखवर्णो दृश्यते । अपिच ध्रुवसिद्धिना चिकित्सितः । तस्मा
दस्याशङ्कनीयं पापम् ॥ भवति मालविके ॥ श्रुतं भट्टिन्या । कस्यैष आत्मनियोग-</p>
<pb n="85" />
<p>चतुर्थोऽङ्कः ।
विदूषकः - ( उत्खायते । ) भोदि मालविए ।</p>
<p>निपुणिका – सुंदं भट्टिणीए कस्स एसो अत्तणिओअसंपा-
द विणिज्जोहदासो । सवाकलं इदो एव सोत्थिवाअणमो -
दहिं कुच्छ पूरिअ संपदं मालविअं सिविणावेदि ।
विदूषकः - इरावदिं अदिकमन्ती होहि ।
निपुणिका – एदं अच्चाहिदं । इमं भुअङ्गभीरुअं बह्म-
बन्धुं इमिणा भुअङ्गकुडिलेण दण्डकट्टेण खम्भन्तरिदा भाअइस्सं ।
इरावती - अरुहृदि एव किदग्घो उवद्दवस्स ।</p>
<p>( निपुणिका विदूषकस्योपरि दण्डकाष्टं पातयति ।)</p>
<p>विदूषकः - (सहसा प्रबुध्य । ) अविहा अविहा । भो वअस्स,
सप्पो मे उवरि पडिदो ।
राजा - ( सहसोपसृत्य ) सखे, न भेतव्यं न भेतव्यम् ।</p>
<note>१. भवति मालविके ।</note>
<p>1</p>
<note>२. श्रुतं भट्टिन्या । कस्यैष आत्मनियोगसंपादने विश्वसनीयो हताशः ।</note>
<p>सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकां
स्वमायते ।</p>
<note>३. इरावतीमतिक्रामन्ती भव ।</note>
<note>४. एतदत्याहितम् । इमं भुजंगभीरुं ब्रह्मबन्धुमनेन भुजंगकुटिलेन</note>
<p>दण्डकाष्ठेन स्तम्भान्तरिता भीषयिष्यामि ।</p>
<note>५. अर्हत्येव कृतघ्न उपद्रवस्य ।</note>
<note>६. अविधा अविधा । भो वयस्य, सर्पो म उपरि पतितः ।</note>
<p>संपादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं
पूरयित्वा सांप्रतं मालविकां खप्नायते । अत्र दोषोद्घाटनादपवादो नाम संध्यङ्गमुक्कं
भवति । तत्रैव रोषभाषणात्संफेटो नाम संध्यङ्गमुक्तं भवति ॥ इरावतीमतिक्रामन्ती
भव ॥ एतदत्याहितम् । इमं भुजंगभीरुं ब्रह्मबन्धुमनेन भुजंगकुटिलेन दण्डकाष्ठेन
स्तम्भान्तरिता भीषयिष्यामि । अर्हत्येव कृतघ्न उपद्रवस्य । 'उवद्दवस्स' इत्यत्र क्वचित्,
'असादेः' इति प्राकृते कर्मणि षष्ठी ॥ अविधाअविधा । भो वयस्य, सर्पो म उपरि पतित</p>
<pb n="86" />
<p>मालविकाग्निमित्रे
मालविका — ( अनुसृत्य ।) भेट्टा, मा दाव सहसा णिक्कम । स-
प्पोत्ति भणीअदि ।
इरावती - हेद्धि हद्धि । भट्टा इदो एब धावदि ।
विदूषकः - ( सप्रहासम् । ) कैहं दण्डकट्ठे एदं । अहं उण
जाणे जं मए केदई कण्टएहिं डंसं करिअ सप्पस्स उवरि अ-
असो किदं, तं मे फलिदं ।</p>
<p>(प्रविश्य पटाक्षेपेण । )
( सर्वे इरावर्ती दृष्ट्वा संभ्रान्ताः । )</p>
<p>बकुलावलिका — दाव भट्टा पविसदु । कुडिलाई सप्पो
विदीसदि ।
इरावती - (स्तम्भान्तरिता राजानमुपेत्य ।) अवि णिविग्घमणो रहो
दिवासंकेदो मिहुणस्स ।</p>
<p>राजा - प्रिये, अपूर्वोऽयमुपचारः ।
इरावती — उलावलिए, दिट्ठआ दुच्चाहिआअविसआ सं-
पुणा देवइण्णा ।</p>
<note>१. भर्तः, मा तावत्सहसा निष्क्राम । सर्प इति भण्यते ।</note>
<note>२. हा धिक् हा धिक् । भर्ता इत एव धावति ।</note>
<note>३. कथं दण्डकाष्ठमेतत् । अहं पुनर्जीने यन्मया केतकी कण्टकै देश</note>
<p>कृत्वा सर्पस्योपर्ययशः कृतम्, तन्मे फलितम् ।</p>
<note>४. मा तावद्भर्ता प्रविशतु । कुटिलगतिः सर्प इव दृश्यते ।</note>
<note>५. अपि निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ।</note>
<note>६. बकुलावलिके, दिष्टया दूत्याधिकारविषया संपूर्णा ते प्रतिज्ञा ।</note>
<p>अत्रोद्वेजनाद्युक्तिर्नाम संध्यङ्गमुक्तं भवति ॥भर्तः, मा तावत्सहसा निष्क्राम । सर्प
इति भण्यते ॥ हा धिक् हा धिक् । भर्ता इत एव धावति ॥ कथं दण्डकाष्ठमेतत् ।
अहं पुनर्जाने । यन्मया केतकी कण्टकैर्देशं कृत्वा सर्पस्योपर्ययशः कृतम्, तन्मे
फलितम् ॥ मा तावद्भर्ता प्रविशतु । इह कुटिलगतिः सर्प इव दृश्यते ॥ अपि
निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ॥ बकुलावलिके, दिष्ट्या दूत्याधिकारवि-</p>
<pb n="87" />
<p>चतुर्थोऽङ्कः ।</p>
<p>बकुलावलिका — पसीददु भट्टिणी । किं णु खु दद्दुरा वा-
हरन्ति त्ति देवी पुढवीए देवो वरिसिदुं विरमदि ।
विदूषकः— मा दाव । भोदीए दंसणमेत्तेण अत्तभवं पणिवा -
दलणं विसुमरिदो । तुमं उण अज्जवि पसादं ण गेण्हसि ।
इरावती - कुविदा दाणिं अहं किं करिस्सं ।
राजा - अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।</p>
<lg>
  <l>कदा मुखं वरतनु कारणाहते</l>
  <l>तवागतं क्षणमपि कोपपात्रताम् ।</l>
  <l>अपर्वणि ग्रहकलुषेन्दुमण्डला</l>
  <l>विभावरी कथय कथं भविष्यति ॥ १६ ॥</l>
</lg>
<p>इरावती - अट्टाति सुष्ठु वाहरिदं अज्जउत्तेण । अण्णसंकन्ते सु
अह्माणं भाअहेएसु जदि उण कुप्पेअं, तदो हस्सा भवेअं ।
1
राजा - त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं
न पश्यामि ।</p>
<note>१. प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्ती देव्या पृथिव्यां</note>
<p>देवो वषितुं विरमति ।</p>
<note>२. मा तावत् । भवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः ।</note>
<p>त्वं पुनरद्यापि न गृह्णासि ।</p>
<note>३. कुपितेदानीमहं किं करिष्यामि ।</note>
<note>४. अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भाग-</note>
<p>धेयेषु यदि पुनः कुप्येयम्, ततो हास्या भवेयम् ।
पया संपूर्णा ते प्रतिज्ञा ॥ प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्त्या-
क्रोशन्तीति देव्यां पृथिव्यां देवो वर्षितुं विरमति ॥ मा तावत् । भवत्या दर्शन-
मात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः । त्वं पुनरद्यापि प्रसादं न गृह्णाति ॥
कुपितेदानीमहं किं करिष्यामि ॥ कदेति । स्पष्टोऽर्थः ॥ अस्थान इति सुष्ठु
त्र्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम्, ततो</p>
<pb n="88" />
<p>मालविकाग्निमित्रे</p>
<lg>
  <l>नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो दण्डम् ।</l>
  <l>इति मोचिते मयैते प्रणिपतितुं मामुपगते च ॥ १७ ॥</l>
</lg>
<p>इरावती — णिउणिए, गच्छ । देवीं विण्णावेहि । दिट्ठो भ-
वदीए पक्खवादो णं अज्जति ।
निपुणिका – तेह । ( इति निष्कान्ता ।)
विदूषकः -- ( आत्मगतम् ।) भो, अणत्थो संपडिदो । बन्धणन्भट्टा
गिहकवोदो बिडालिआए आलोए पडिदो ।</p>
<p>( प्रविश्य 1 )</p>
<p>निपुणिका – (अपवार्य) ट्टिणि, जदिच्छादिट्ठाए माहविआए
आचक्किदं एवं खु एदं णिव्वुत्तंति । ( इति कर्णे कथयति । )
इरावती - ( आत्मगतम् ।) उववण्णं । सचं अअं एत्थ ब्रह्मबन्धुणा
किदो पओओ । (विदूषकं विलोक्य 1 ) इअं इमस्स कामतन्तसचिवस्स
णीदी ।</p>
<note>१. निपुणिके, गच्छ । देवीं विज्ञापय । दृष्टो भवत्याः पक्षपातो नन्वद्येति ।</note>
<note>२. तथा ।</note>
<note>३. भोः, अनर्थः संपतितः । बन्धनभ्रष्ट गृहकपोतो बिडालिकाया</note>
<p>आलोके पतितः ।</p>
<note>४. भट्टिनि यच्छादृष्टया माधविकयाख्यातम् । एवं खल्वेतन्निर्वृ</note>
<p>तमिति ।</p>
<note>५. उपपन्नम् । सत्यमयमत्र ब्रह्मबन्धुना कृतः प्रयोगः । इयमर</note>
<p>कामत सचिवस्य नीतिः ।
हास्या भवेयम् ॥ नार्हतीत्यादि । स्पष्टोऽर्थः ॥ निपुणिके, गच्छ । देवीं विज्ञापय
दृष्टो भवत्याः पक्षपातो नन्वद्येति ॥ तथा ॥ भोः, अनर्थः संपतितः । बन्धनभ्रष्ट
गृहकपोतः पारावतो बिडालिकाया आलोके पतितः ॥ भट्टिनि यदृच्छादृष्टय
माधविकयाख्यातम् । एवं खल्वेतन्निर्वृत्तमिति ॥ उपपन्नम् । सत्यमयमत्र ब्रह्मबन्धु-
कृतः प्रयोगः । इयमस्य कामतन्त्रसचिवस्य नीतिः ॥ भवती, यदि नीतिगतमेव</p>
<pb n="89" />
<p>चतुर्थोऽङ्कः।</p>
<p>विदूषकः - मोदि, अदि णीदिगदं एक्कवि अक्खरं पढेअं, णं
म अत्तभवं पेसिदो हवे ।
राजा - ( आत्मगतम् । कथं नु खल्वस्मात्संकटादात्मानं मो-
चयिष्यामि ।</p>
<p>( प्रविश्य ।)
(निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ।)</p>
<p>जयसेना — देवें, कुमारी वसुलच्छी कन्दुअं अणुधावन्ती पि-
ङ्गलवाणरेण बलिअं तासिदा अङ्कणिसण्णा देवीए पवादकिसलअं
विअ वेवमाणा ण किंवि पकिदि पडिवज्जइ ।
राजा - कष्टम् । कातरो बालभावः ।
इरावती - ( सावेगम् ।) तुवरदु अज्जउत्तो णं समासासिदुं । मा
से संतासजणिदो विआरो वढदु ।
राजा - अयमेनां संज्ञापयामि । ( इति सत्वरं परिक्रामति ।)
विदूषकः - साहु रे पिङ्गलवाणर, साहु । परिवादो तुए स-
पक्खो ।</p>
<note>१. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रे-</note>
<p>षितो भवेत् ।</p>
<note>२. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवत्रा-</note>
<p>सिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं
प्रतिपद्यते ।</p>
<note>३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो</note>
<p>विकारो वर्धताम् ।</p>
<note>४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया स्वपक्षः ।</note>
<p>नप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु-
कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवात किसलयमिव
वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते ॥ त्वरतामार्यपुत्र एनां समाश्वासयितुम् ।
मास्याः संत्रासजनितो विकारो वर्धताम् ॥ साधु रे पिङ्गलवानर, साधु । परित्रात-
माल० ८</p>
<pb n="90" />
<p>मालविकाग्निमित्रे
मालविका - हैला, देविं चिन्ति
वेवदि मे हिअअं । ण
जाणे अदो वरं किं वा अणुह विदवं हविस्सदित्ति ।</p>
<p>(नेपथ्ये)
( उभे श्रुत्वा प्रहृष्टे । )
( इति निष्क्रान्ते । )</p>
<p>अच्चरिअं अच्चरिअं । अपुणे एव पञ्चरते दोहलस्स मुउलेहिं
संणद्धो तवणीआसोओ । जाव देवीए णिवेदेमि ।</p>
<p>बकुलावलिका – आससिदु सही । सच्चप्पइण्णा देवी ।
मालविका - ते हि पमदवणपालिआए पुट्टदो होमि ।
बकुलावलिका–तेह ।</p>
<p>इति चतुर्थोऽङ्कः ।</p>
<note>१. सखि, देवीं चिन्तयित्वा वेपते मे हृदयम् । न जानेऽतः परं</note>
<p>किं वानुभवितव्यं भविष्यतीति ।</p>
<note>२. आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्ध-</note>
<p>स्तपनीयाशोकः । यावद्देव्यै निवेदयामि ।</p>
<note>३. आश्वसितु सखी । सत्यप्रतिज्ञा देवी ।</note>
<note>४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः ।</note>
<note>५. तथा ।</note>
<p>स्त्वया स्वपक्षः । अहमिति शेषः ॥ सखि, देवीं चिन्तयित्वा वेपते मे हृदयम् ।
न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति ॥ आश्चर्यमाश्चर्यम् । अपूर्ण एव
पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्तपनीयाशोकः । यावद्देव्यै निवेदयामि ॥
आश्वसितु सखी ॥ सत्यप्रतिज्ञा देवी । अत्र देव्यनुग्रहरूपकार्थसंग्रहणादादानं</p>
<lg>
  <l>नाम संध्यङ्गमुक्तं भवति ॥ तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः ॥ तथा ।</l>
  <l>इदं मालविकाकृतमुयानपालिकानुसरणमुत्तराङ्कोपयुक्तसाद्विन्दुरित्यनुसंधेयम् ॥</l>
</lg>
<p>इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्नि-
मित्रव्याख्याने चतुर्थोऽङ्कः ॥</p>
<pb n="91" />
<p>पञ्चमोऽङ्कः ।
पञ्चमोऽङ्कः ।</p>
<p>(ततः प्रविशत्युद्यानपालिका 1 )</p>
<p>उद्यानपालिका — उवक्खित्तो मए किदसक्कार विहिणो तवणी-
आसोअस्स वेदिआबन्धो । जाव अणुट्ठिदणिओअं अत्ताणं देवीए
णिवेदेमि । (परिक्रम्य ।) अहो देवस्स अणुकम्पणीआ मालविआ ।
तस्सि तह चण्डिआ देवी इमिणा असोअकुसुमवुत्तन्तेण पसादसुमुही
विस्सदि कहिं णु खु देवी हवे । ( विलोक्य ।) अह्मो, एसो देवीए
परिअणव्भन्तरो किंवि जदुमुद्दालञ्छदं मसं गेव्हिअ चदुस्सा-
लादो कुज्जो सारसिओ णिक्कमदि । पुच्छिस्सं दाव णं । (उपसृत्य ।)
सारसि, कहिं पत्थिदोसि ।
सारसिकः — मेहुअरिए, विज्जाभरि आणं बह्मणाणं णिच्छद-
क्खिणामाडिआ पुरोहिदस्स इत्थं पावइस्सं ।</p>
<note>१. उपक्षिप्तो मया कृतसत्कारविधिस्तपनीयाशोकस्य वेदिकाबन्धः ।</note>
<p>यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो देवस्यानुकम्पनीया
मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी
भविष्यति । कुत्र न खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्यन्तरः
किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको
निष्क्रामति । प्रक्ष्यामि तावदेनम् । सारसिक, कुत्र प्रस्थितोऽसि ।</p>
<note>२. मधुकरिके, विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका पुरोहि-</note>
<p>तस्य हस्तं प्रापयिष्यामि ।
कविरिदानीमङ्कान्तरमारभमाणः यथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षेपकं
प्रस्तौति - ततः प्रविशतीत्यादि । उपक्षिप्तो मया कृतसत्कार विधिस्तपनीया-
शोकस्य वेदिकाबन्धः । यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो
दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोक कुसुमवृत्तान्तेन
प्रसादसुमुखी भविष्यति । कुत्र नु खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्य-
न्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको
निष्क्रामति । प्रवक्ष्यामि तावदेनम् । खारसिक, कुत्र प्रस्थितोऽसि ॥ मधुकरिके,
विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका निष्काणि पुरोहितस्य हस्तं प्राप-</p>
<pb n="92" />
<p>૮૮
मालविकाग्निमित्रे
उद्यानपालिका—'किंणिमित्तं ।
सारसिकः --- जैदप्पहुदि सेणावदी जण्णतुरंगरक्खणे णिउत्तो
भट्टिदारओ वसुमित्तो, तदप्पहुदि तस्स आऊसणिमित्तं णिक्कसदसु-
व्रणपरिमाणं दक्खिणं देवी दक्खिणीएहिं परिग्गाहेदि ।
1
उद्यानपालिका – अह कहिं देवी । किं वा अणुचिट्ठदि ।
सारसिकः ङ्गलघरे आसणत्था भविअ विदव्भविसआदो
भादुणा वीरसेणेण पेसिदं लेहं लेहकरेहिं वाइअमाणं सुणादि ।
उद्यानपालिका – को' उण विदब्भराअवुत्तन्तो सुणीअदि ।
-
सारसिकः - सीकिदो किल वीर सेणप्पमुहेहिं भत्तुणो विजअ -
दण्डेहिं विदभणाहो मोइदो से दाआदो माहवसेणो । दूदो अ</p>
<note>१. किंनिमित्तम् ।</note>
<note>२. यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः,</note>
<p>तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः
परिग्राहयति ।</p>
<note>३. अथ कुत्र देवी । किं वानुतिष्ठति ।</note>
<note>४. मङ्गलगृह आसनस्था भूत्वा विदर्भविपयाद्धात्रा वीरसेनेन प्रेषितं लेखं</note>
<p>लेखकरैर्वाच्यमानं शृणोति ।</p>
<note>५. कः पुनर्विदर्भराजवृत्तान्तः श्रूयते ।</note>
<note>६. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैविंदर्भनाथः । मोचितो -</note>
<p>ऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शि-
ल्पकारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ।
यिष्यामि ॥ किंनिमित्तम् ॥ यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको
वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्कशत सुवर्णपरिमाणां दक्षिणां देवी
दक्षिणीयैः परिग्राहयति । दक्षिणीयो दक्षिणाः । 'कडङ्करदक्षिणाच्छ च' इति छप्र-
त्ययः ॥ अथ कुत्र देवी । किं वानुतिष्ठति ॥ मङ्गलगृह आसनस्था भूत्वा विदर्भ-
विषयाद्भात्रा वीरसेनेन प्रेषितं लेख लेखक रैर्वाच्यमानं शृणोति । कः पुनर्विदर्भरा-
जवृत्तान्तः श्रूयते ॥ वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः ।</p>
<pb n="93" />
<p>पञ्चमोऽङ्कः ।</p>
<p>ते महासाराणि रअणाणि वाहणाइ सिप्पआरिआ भूइटुं परिअणं
उवाअणीकरिअ भट्टिणो सआसं पेसिदोत्ति ।
उद्यानपालिका - अहं वि देवीए सआसं गच्छसि । तुमं वि
अतणो णिओ अणुचिट्ठ ।
-</p>
<p>(इति निष्क्रान्तो ।)
(ततः प्रविशति प्रतीहारी । )
(नेपथ्ये वैतालिकाः ।)</p>
<p>इति प्रवेशकः ।</p>
<p>प्रतीहारी — आणत असो अस कारवाबुदाए देवीए । विष्णावे-
हि अज्जउत्तेण सह असोअरक्खस्स पसूणलच्छि पच्चक्खी कादुति ।
ता जाव धम्मासणगदं देवं पडिवालेमि । ( इति परिक्रामति ।)
-</p>
<p>प्रथमः – दिष्ट्या दण्डैरेव रिपुशिरःसु वर्तते देवः ।</p>
<lg>
  <l>परभृतकलव्याहारेषु त्वमात्तरतिर्मधुं</l>
  <l>नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।</l>
  <l>विजयकरिणामालानत्वं गतैः प्रबलस्य ते</l>
  <l>वरद वरदारोधोवृक्षैः सहावनतो रिपुः ॥ १ ॥</l>
</lg>
<note>१. अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ ।</note>
<note>२. आज्ञप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण</note>
<p>महाशोकवृक्षस्य प्रसून लक्ष्मीं प्रत्यक्षीकर्तुमिति । तद्यावद्धर्मासनगतं देवं
प्रतिपालयामि ।
मोचितोऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शिल्प-
कारिका भूयिष्टं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ॥ अहमपि देव्याः
सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ ॥ ततः प्रविशतीत्यादि ।
आज्ञप्तास्म्यशोकसत्कारव्यापृतया देव्या विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य
प्रसूनलक्ष्मी प्रत्यक्षीकर्तुमिति । तस्माद्यावद्धर्मासनगतं देवं प्रतिपालयामि ॥
परभृतेत्यादि । स्पष्टोऽर्थः ॥ विरचितेति । क्रथकैशिकान्विदर्भदेशान्मध्ये-</p>
<pb n="94" />
<note>९०.
( प्रविश्य सवयस्यः । )</note>
<p>द्वितीय:-
मालविका मिमित्रे</p>
<lg>
  <l>विरचितपदं वीरप्रीत्या सुरोपमसूरिभि-</l>
  <l>चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान् ।</l>
  <l>तव हृतवतो दण्डानकैर्विदर्भ पतेः श्रियं</l>
  <l>परिघगुरुभिर्दोर्भिर्विष्णोः प्रसह्य च रुक्मिणीम् ॥ २ ॥</l>
</lg>
<p>प्रतीहारी — ऐसो जअससूइदप्पत्थाणो भट्टा इदो एव आअ-
च्छदि । अहं वि दाव इमस्स पमुहादो लोआदो ओसरिअ खम्भ-
न्तरिदा होमि । (इत्येकान्ते स्थिता ।)
1
राजा-</p>
<p>कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्च ।
धाराभिरात इवाभिहतं सरोजं
-
दुःखायते मम मनः सुखमश्नुते च ॥ ३ ॥
विदूषकः — जैह अहं पेक्खामि । एक्कन्तसुहिदो भवं हविस्सदि ।
राजा — कथमिव ।
विदूषकः - अज्ज किल देवीए एवं पण्डितकौशिकी भणिदा ।</p>
<note>१. एष जयशब्दसूचित स्थानो भर्तेत एवागच्छति । अहमपि ताव-</note>
<p>दस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ।</p>
<note>२. यथाहं पश्यामि । एकान्त सुखितो भवान्भविष्यति ।</note>
<note>३. अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसा-</note>
<p>धनगर्व वहसि, तद्दर्शय मालविकायाः शरीरे विवाह नैपथ्यमिति । तया
सविशेषालंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् ।
कृत्य । आक्रम्येत्यर्थः । 'मध्ये पदे निवचने च' इति गति संज्ञा । 'कुगतिप्रादयः' इति
समासः । 'समासे नञ्पूर्वे क्त्वो ल्यप्' । शेषं स्पष्टम् ॥ एष जयशब्द सूचितप्रस्थानो
भर्तेत एवागच्छति । अहमपि तावदस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ॥
कान्तां विचिन्त्येत्यादि । सुलभेतरसंप्रयोगाम सुलभ समागमाम् । दुःखायते
'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यच् । अत्र मालविकारूपबीजानुसंधानात्संघिर्ना-
म निर्वहणसंध्यङ्गमुक्तं भवति ॥ यथाहं पश्यामि । एकान्तसुखितो भवान्भविष्यति ॥</p>
<pb n="95" />
<p>पञ्चमोऽङ्कः ।</p>
<p>1 भअवदि, जं तुमं पसाहणगवं वहसि तं दंसेहि मालविआए स-
रीरे विवाहणेवच्छं ति । ताए सविसेसालंकिदा मालविआ । ततहोदी
कदावि पूरए भवदोवि मणोरहं ।
राजा - सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वाचरितैः
संभाव्यत एवैतत् ।
-
प्रतीहारी — (उपगम्य 1 ) जेद भट्टा । देवी विष्णावेदि । तवणी-
आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु चि ।
राजा - ननु तत्रैव तिष्ठति ।
-
अह इं । जहारहसंमाणसुहिअं अन्तेउरं विस-
जिअ मालविआपुरोएण अतणो परिक्षणेण सह देवं पडिवालेदि ।
राजा - (सहर्षं विलोक्य विदूषकम् ) जयसेने, गच्छाग्रतः ।
प्रतीहारी - दु एदु देवो । (इति परिक्रामति ।)
विदूषकः - ( विलोक्य) भो वअस्स, किंचि परिवुतजोवणो
विअ वसन्तो पमदवणे लक्खीअदि ।</p>
<note>१. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद-</note>
<p>र्शनेन ममारम्भः सफलः क्रियतामिति ।</p>
<note>२. अथ किम् । यथार्हसंमानसुखितमन्तःपुरं विसृज्य मालविका पुरो-</note>
<p>गेणात्मनः परिजनेन सह देवं प्रतिपालयति ।</p>
<note>३. एत्वेतु देवः ।</note>
<note>४. भो वयस्य, किंचिलरिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते</note>
<p>कथमिवेति प्रश्ने । अत्र कार्यान्वेषणाद्विरोधो नाम संध्यङ्गमुक्तं भवति ॥ अद्य किल
देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसाधनगर्व वहसि, तद्दर्शय माल-
विकायाः शरीरे विवाहनेपथ्यमिति । तथा सविशेषालंकृता मालविका । तत्रभवती
धारिणी कदाचित्पूरयेद्भवतोऽपि मनोरथम् । अत्र कार्योपदर्शनात्पूर्व भाव इति संध्य-
मुक्तं भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहदर्शनेन
समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्ह संमानसुखितमन्तःपुरमव-
रोधजनं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति ॥
एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते ॥ अग्रे</p>
<pb n="96" />
<p>मालविकाग्निमित्रे
राजा - यथाह भवान् ।</p>
<lg>
  <l>अग्रे विकीर्णकुरबक फलजालकभिद्यमानसहकारम् ।</l>
  <l>परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ४ ॥</l>
</lg>
<p>विदूषकः - ( परिक्रम्य ।) अहो, अअं सो दिण्णणेवच्छो विअ
कुसुमत्थवएहिं तवणीआसोओ । ओलोअदु भवं ।
राजा -स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्यसा-
धारणीं शोभामुद्वहति । पश्य ।</p>
<lg>
  <l>सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।</l>
  <l>निर्वृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥</l>
</lg>
<p>-
विदूषकः – तेह । भो, वीसद्धो होहि । अह्मेसु संणिहिदेसु वि-
धारिणी पासपरिवट्टिणिं मालविअं अणुमण्णेदि ।
राजा - ( सहर्षम् ।) सखे, पश्य ।</p>
<lg>
  <l>मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रियया ।</l>
  <l>विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥</l>
</lg>
<p>(ततः प्रविशति धारिणी मालविका परिव्राजिका विभवतश्च परिवारः । )</p>
<p>मालविका - (आत्मगतम् ) जाणामि णिमित्तं कोदुआलंकारस्स ।</p>
<note>१. अहो, अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव-</note>
<p>लोकयतु भवान् ।</p>
<note>२. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व -</note>
<p>परिवर्तिनीं मालविकामनुमन्यते ।</p>
<note>३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृदयं बिसिनीप-</note>
<p>न्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरति ।
विकीर्णकुरवकेत्यादि । स्पष्टोऽर्थः ॥ अहो, अयं स दत्तनेपथ्य इव कुसुमस्त -
कैस्तपनीयाशोकः । अवलोकयतु भवान् ॥ सर्वाशोकतरूणामित्यादि । स्पष्टो-
Sर्थः ॥ तथा भोः, विस्रधो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्वपरिवर्तिनी
मालविकामनुमन्यते ॥ मामियमिति । स्पष्टोऽर्थः ॥ जानामि निमित्तं कौतुकालंका-</p>
<pb n="97" />
<p>पञ्चमोऽङ्कः ।</p>
<p>'
तह वि मे हिअअं बिसिणीपत्तगदं विअ सलिलं वेवदि । अविभ
दक्खिणेदरं वि णअणं बहुसो फुरदि ।
विदूषकः - भो वअस्स, विवाहणेवच्छेण सविसेसं खु सोहदि
मालविआ ।
राजा - पश्याम्येनाम् । यैषा</p>
<lg>
  <l>अनतिलम्बिदुकूलनिवासिनी</l>
  <l>बहुभिराभरणैः प्रतिभाति मे ।</l>
  <l>उड्डुगणैरुदयोन्मुखचन्द्रिका</l>
  <l>हतहिमैरिव चैत्रविभावरी ॥ ७ ॥</l>
</lg>
<p>देवी (उपेय) जेदु अज्जउत्तो ।
विदूषकः - भोदी ।
परिव्राजिका - विजयतां देवः ।
राजा -- भगवति, अभिवादये ।
परिव्राजिका-अभिप्रेतसिद्धिरस्तु ।
देवी - ( सस्मितम् ।) अज्जउत्त, एस ते अहोहिं तरुणीजणसहा-
अस्स असोओ संकेदधरो कप्पिदो ।
विदूषकः - भो, आराहिओसि ।</p>
<note>१. भो वयस्य, विवाहनैपथ्येन सविशेषं खलु शोभते मालविका ।</note>
<note>२. जयत्वार्यपुत्रः ।</note>
<note>३. वर्धतां भवती ।</note>
<note>४. आर्यपुत्र, एष तेऽस्माभिस्तरुणीजन सहायस्याशोकः संकेतगृह</note>
<p>कल्पितः ।</p>
<note>५. भोः, आराधितोऽसि ।</note>
<p>रस्य । तथापि मे हृदयं बिसिनी पत्रगत मिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे
नयनं बहुशः स्फुरति ॥ भो वयस्य, विवाहनैपथ्येन सविशेषं खलु शोभते मालविका॥
अन तिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयत्वार्यपुत्रः ॥ वर्धतां भवती ॥ आर्य-
त्र, एष तेऽस्माभिस्तरुणीजन हितस्याशोकः संकेतगृहं कल्पितः ॥ भोः, आरा-</p>
<pb n="98" />
<p>मालविकाग्निमित्रे
राजा - ( सत्रीडमशोकमभितः परिक्रामन् । )</p>
<lg>
  <l>नायं देव्या भाजनत्वं न नेयः</l>
  <l>सत्काराणामीदृशानामशोकः ।</l>
  <l>यः सावज्ञो माधवश्रीनियोगे</l>
  <l>पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥</l>
</lg>
<p>विदूषकः - 'भो, वीसद्धो भविअ तुमं जोवणवदिं इमं पेक्ख ।
देवी—कं ।
:- मोदि, तवणीआसोअस्स कुसुमसोहम् ।
विदूषकः-</p>
<p>( सर्व उपविशन्ति । )
(प्रविश्य ।)</p>
<p>राजा - (मालविकां विलोक्य । आत्मगतम् ।) कष्टः खलु संनिधि-
वियोगः ।</p>
<lg>
  <l>अहं रथाङ्गनामेव प्रिया सहचरीव मे ।</l>
  <l>अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ९ ॥</l>
</lg>
<p>कञ्चुकी – विजयतां देवः । देव, अमात्यो विज्ञापयति । विदर्भ-
विषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलघुशरे इति पूर्व न
प्रवेशिते । संप्रति देवोपस्थानयोग्ये संवृत्ते । तदाज्ञां देवो दातुम-
र्हतीति ।
राजा - प्रवेशयते ।
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य ताभ्यां सह प्रविश्य ।)
इतो भवत्यौ ।</p>
<note>१. भोः, विस्रब्धो भूत्वा त्वं यौवनवतीभिमां पश्य ।</note>
<note>२. काम् ।</note>
<note>३. भवति, तपनीयाशोकस्य कुसुमशोभाम् ।</note>
<p>धितोऽसि ॥ नायं देव्या इत्यादि । स्पष्टोऽर्थः ॥ भोः, विस्रब्धो भूत्वा त्वं यौव-
नवतीमिमां पश्य ॥ काम् ॥ भवति, तपनीयाशोकस्य कुसुमशोभाम् ॥ अहं
रथाङ्गेत्यादि । स्पष्टोऽर्थः ॥ सखि मदनिके, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसी-</p>
<pb n="99" />
<p>पञ्चमोऽङ्कः ।</p>
<p>प्रथमा - हेला मदणिए, अपुवं इमं राअउलं पविसन्तीए पसी-
ददि मे हिअअं ।
द्वितीया - जोसिणीए, अस्थि खु लोअप्पवादो । आआमि सुहं
दुक्खं वा हिअअसमवत्था कहेदिति ।
प्रथमा - सो सच्चो दाणिं होदु ।
कञ्चुकी – एष देव्या सह देवस्तिष्ठति । उपसर्पतां भवत्यैौ</p>
<p>(उभे उपसर्पतः ।)
(मालविका परिव्राजिका च चेट्यौ दृष्ट्वा परस्परमवलोकयतः । )
( राजाज्ञया उभे उपविष्टे ।)</p>
<p>उभे - ( प्रणिपत्य ।) जे भट्टा । जेदु भट्टिणी ।</p>
<p>राजा - कस्यां कलायामभिविनीते भवत्यौ ।
उभे—ट्टा, संगीदे अब्भन्तरा ।
राजा - देवि, गृह्यतामनयोरन्यतरा ।
-
देवी – मालविए, इदो पेक्ख । कदरा ते संगीदसह आरिणी
रुच्चदि ।</p>
<note>१. सखि मदनिके, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसीदति मे</note>
<p>हृदयम् ।</p>
<note>२. ज्योत्स्नके, अस्ति खलु लोकप्रवादः । आगामि सुखं दुःखं वा</note>
<p>हृदयसमवस्था कथयतीति ।</p>
<note>३. स सत्य इदानीं भवतु ।</note>
<note>४. जयतु भर्ता । जयतु भट्टिनी ।</note>
<note>५. भर्तः, संगीतेऽभ्यन्तरे खः ।</note>
<note>६. मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी रोचते ।</note>
<p>दति मे हृदयम् ॥ ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगामि सुखं दुःखं वा
हृदयसमवस्था कथयतीति ॥ स सत्य इदानीं भवतु ॥ जयतु भर्ता । जयतु भट्टिनी ॥
भर्तः, संगीतेऽभ्यन्तरे खः ॥ मालविके, इतः पश्य । कतरा ते संगीत सहकारिणी</p>
<pb n="100" />
<p>मालविकाग्निमित्रे
उभे – (मालविकां दृष्ट्वा ।) अह्म भट्टदारिआ । ( इति प्रणम्य ।) जे-
दु जेदु भट्टदारिआ । ( तया सह बाष्पं विकिरतः । )</p>
<p>(सर्वे सविस्मयमवलोकयन्ति । )</p>
<p>राजा – के वा भवत्यौ । का वा इयम् ।
उभे भेट्टा, एसा अह्माणं भट्टदारिआ ।
राजा–कथमिव ।
उभे - सुणादु भट्टा । जोसो भट्टिणा विजअदण्डेहिं विदन्भ-
णाहं वसीकरिअ बन्धणादो मोइओ कुमारो माहवसेणो णाम, तस्स
इअं कणीअसी भइणी मालविआ णाम ।
देवी – कहं राअदारिआ इअं । चन्दणं खु मए पादुओवओ-
एण दूसिदं ।
राजा - अथात्रभवती कथमित्थंभूता ।
मालविका — (निःश्वस्य । आत्मगतम् ) विहिणिओएण ।
द्वितीया — अनुदाआदवसंगदे भट्टदारए माहवसेणे तस्स अम-</p>
<note>१. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ।</note>
<note>२. भर्तः, एषास्माकं भर्तृदारिका ।</note>
<note>३. शृणोतु भर्ती । यः स भर्त्रा विजयदण्डैर्विदर्भनार्थं वशीकृत्य</note>
<p>बन्धनान्मोचितः कुमारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी माल-
विका नाम ।</p>
<note>४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् ।</note>
<note>५. विधिनियोगेन ।</note>
<note>६. भर्तृदायादवशंगते भर्तृदार के माधवसेने तस्यामात्येनार्य सुमतिना-</note>
<p>स्मादृशं परिजनमुज्झित्वा गूढमानीतैषा ।
रोचते ॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ॥ भर्तः, एषास्माकं भर्तृदारिका
शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कु-
मारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी मालविका नाम ॥ कथं राजदारि •
केयम्। चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विधिनियोगेन ॥ भर्तृदायादव-</p>
<pb n="101" />
<p>पञ्चमोऽङ्कः ।</p>
<p>चेण अज्जसुमदिणा अह्मारिसं परिअणं उज्झिअ गूढं आणीदा एसा ।
राजा - श्रुतपूर्व मयैतत् । ततस्ततः ।
द्वितीया - भट्टा, अदो वरं ण आणीमो ।
परिव्राजिका - ततः परं मन्दभागिनी कथयिष्यामि ।
उभे - अज्ज कोसिईए विअ सरसंजोओ ।
मालविका —णं सा एव्व ।
उभे — दिवेसधारिणी अज्जकोसिई दुक्खेण विभावीअदि ।
भवदि, वन्दामो ।
परिव्राजिका - खस्ति भवतीभ्याम् ।
राजा - कथमाप्तवर्गोऽयं भगवत्याः ।
परिव्राजिका — एवमेतत् ।
विदूषकः - ते हि कहेदु भश्रवदी अत्तहोदीए उत्तन्तं असेसं ।
परिव्राजिका - (सर्वव्यम् । तावच्छ्रयताम् । माधवसेनसचिवं
ममाग्रजं सुमतिमवगच्छ ।
राजा - उपलक्षितम् । ततस्ततः ।
।
परिव्राजिका—स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ
वत्संबन्धापेक्षया पथिकसार्धं विदिशागामिनमनुप्रविष्टः ।
राजा - ततस्ततः ।</p>
<note>१. भर्तः, अतः परं न जानीमः ।</note>
<note>२. आर्यकौशिक्या इव स्वरसंयोगः ।</note>
<note>३. ननु सैव ।</note>
<note>४. यतिवेषधारिण्यार्यकौशिकी दुःखेन विभाव्यते । भगवति, व-</note>
<note>५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ।</note>
<p>शंगते भर्तृदारके माधवसेने तस्यामात्येनार्य सुमतिनास्मादृशं परिजनमुज्झित्वा गूढ-
मानीतैषा ॥ भर्तः, अतः परं न जानीमः ॥ आर्यकौशिक्या इव खरसंयोगः ॥ ननु
सैव ॥ यतिवेषधारिण्यार्यकौशिकी दुःखेन विभाव्यते । भगवति, वन्दावद्दे ॥ तेन
माल ०९
',</p>
<pb n="102" />
<p>मालविकाग्निमित्रे
परिव्राजिका - स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः ।
राजा - किं चान्यत् ।
परिव्राजिका - ततः</p>
<lg>
  <l>तूणीरपट्टपरिबद्धभुजान्तराल-</l>
  <l>मापाणिलम्बिशिखिपिच्छकलापधारि ।</l>
  <l>कोदण्डपाणि विनदत्प्रतिरोधकाना-</l>
  <l>मापातदुष्प्रसह मा विरभूदनीकम् ॥ १० ॥</l>
</lg>
<p>( मालविका भयं रूपयति । )</p>
<p>विदूषकः- - मोदि मा भआहि । अदिक्कतं खु तत्तहोदी क-
हेदि ।
राजा - ततस्ततः ।
"
परिव्राजिका - ततो मुहूर्तं बद्धायुधास्ते पराङ्मुखीभूताः सार्थ -
वाहयोद्धारस्तस्करैः ।
राजा - हन्त, इतः परं कष्टतरं श्रोतव्यम् ।
परिव्राजिका - ततः सुमतिः</p>
<lg>
  <l>इमां परीप्सुदुर्जाते पराभिभव कातराम् ।</l>
  <l>भर्तृप्रियः प्रियैर्भर्तुरानृण्यमस्रुभिर्गतः ॥ ११ ॥</l>
</lg>
<p>प्रथमा - अहो, हदो सुमदी ।</p>
<note>१. भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति ।</note>
<note>२. अहो, हतः सुमतिः ।</note>
<p>1
हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीर पट्टेत्यादि । सोऽर्थः ॥
भवति, मा बिमेहि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इमामित्यादि ।
दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिभव आक्रमणं त-
स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्तुं परित्रातुमिच्छुः । 'आ'ज्ञ-
प्यृधामीत्' इतीम् । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः 'पर्याप्तिः स्यात्परि-
त्राणं हस्तधारणमित्यपि' इत्यमरः । भर्तृप्रियः स्वामिभक्तः । प्रियैरिटैरसुभिः
प्राणैर्भर्तुरानृण्यमनृणत्वं गतः प्राप्तः ॥ अहो, हतः सुमतिः ॥ अतः खलु भर्तृदारि-</p>
<pb n="103" />
<p>पञ्चमोऽङ्कः ।
द्वितीया - अहो खु भट्टिदारिआए इअं समवत्था संबुता ।</p>
<p>(परिव्राजिका बापं विसृजति । )</p>
<p>राजा - भगवति, तनुत्यजामीदृशी लोकयात्रा । न शोच्यं तत्र-
भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः ।
परिव्राजिका - ततोऽहं मोहमुपगता यावत्संज्ञां लभे, ताव -
दियं दुर्लभदर्शना संप्रवृत्ता ।
राजा - महत्खलु कृच्छ्रमनुभूतं भगवत्या ।
परिव्राजिका - ततो भ्रातृशरीरमन्निसात्कृत्वा पुनर्नवीभूत वैध-
व्यदुःखया मया त्वदीयदेशमवतीर्य इमे काषाये गृहीते ।
राजा - युक्तः सज्जनस्यैष पन्थाः । ततस्ततः
परिव्राजिका — सेयमाटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं
गता देवीगृहे लब्धप्रवेशया दृष्टेत्येतदवसानं कथायाः ।
मालविका - किं णु खु संपदं भट्टा भणादि ।
राजा - अहो परिभवो पहारिणो विनिपाताः । कुतः ।</p>
<lg>
  <l>प्रेयभावेन नामेयं देवशब्दक्षमा सति ।</l>
  <l>स्नानीयवस्त्रक्रियया पत्रोर्ण वोपयुज्यते ॥ १२ ॥</l>
</lg>
<p>देवी - भै अवदि, तुए अभिजणवदिं मालविअं अणाचक्खन्तिए
असंपदं किदम् ।
परिव्राजिका - शान्तं पापम् । केन च कारणेन मया नैर्धृ-
यमवलम्बितम् ।</p>
<note>१. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।</note>
<note>२. किं नु खलु सांप्रतं भर्ता भणति ।</note>
<note>३. भगवति, त्वयाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् ।</note>
<p>काया इयं समवस्था संवृत्ता ॥ किं नु खलु सांप्रतं भर्ता भणति ॥ प्रेष्यभावेने-
त्यादि । देवीशब्दक्षमा देवीशब्दयोग्या सतीयं मालविका प्रेष्यभावेन परिचारक-
त्वेन उपयुज्यते किल।पत्रोर्णं वा धौतकौशेयमिव । वेत्युपमायाम् ।'उपमायां विकल्पे</p>
<pb n="104" />
<p>मालविकाग्निमित्रे
देवी - किं' विअ तं कारणम् ।
परिव्राजिका - इयं पितरि जीवति केनापि देवयात्रागतेन
सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य-
भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभाविनमादे-
शमस्यास्त्वत्पाद शुश्रूपया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया
साधु कृतमिति पश्यामि ।
राजा - युक्ता प्रतीक्षा ।
कञ्चुकी – देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति ।
विदर्भगतमनुष्ठेयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा-
मीति ।
राजा - मौद्गल्य, तत्रभवतोर्यज्ञसेनमाघवसेनयोर्द्वैराज्यमिदानीम-
वस्थापयितुकामोऽस्मि ।</p>
<lg>
  <l>तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।</l>
  <l>नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥</l>
</lg>
<p>कञ्चुकी – देव, एवममात्यपरिपदे निवेदयामि ।</p>
<p>(राजाङ्गुल्यानुमन्यते ।)
(निष्क्रान्तः कचुकी । )</p>
<p>प्रथमा – (जनान्तिकम् ।) भेट्टदारिए, दिट्टिआ भट्टिणा भट्टदारओ
अद्धरज्जे पट्टिं गमइस्सदि ।</p>
<note>१. किमिव तत्कारणम् ।</note>
<note>२. भर्तृदारिके, दिष्टया भर्त्रा भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ।</note>
<p>वा' इत्यमरसिंहः । स्नानीयवस्त्रक्रियया स्नानीयवस्त्रकरणेन ॥भगवति, त्वयाभिजनवतीं
मालविकामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमिव तत्कारणम् ॥ तौ पृथगि
त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षिणे वरदाकूले । वरदा नाम
तत्रत्या नदी तस्याः कूले उमे तीरे शिष्टां रक्षताम् ॥ भर्तृदारिके, दिष्ट्या भर्त्रा</p>
<pb n="105" />
<p>।
पञ्चमोऽङ्कः ।</p>
<p>मालविका - ऐदं दाव बहु मण्णिदबं, जं जीविदसंस आदो
मुत्तो ।</p>
<p>( प्रविश्य 1 )
(राजोत्थाय सप्राभृतकं लेखं सोपचारं गृहीत्वा परिजनायार्पयति ।)
( परिजनो लेखं नाट्येनोद्घाटयति ।)</p>
<p>कचुकी - विजयतां देवः । देव, अमात्यो विज्ञापयति । क-
ल्याणी देवस्य बुद्धिः मन्त्रिपरिषदोऽप्येतदेव दर्शनम् । कुतः ।</p>
<lg>
  <l>द्विधा विभक्तां श्रियमुद्वहन्तौ</l>
  <l>धुरं रथाश्वाविव संग्रहीतुः ।</l>
  <l>तौ स्थास्यतस्ते नृपतेर्निदेशे</l>
  <l>परस्परोपग्रहनिर्विकारौ ॥ १४ ॥</l>
</lg>
<p>राजा - तेन हि मन्त्रिपरिषदं ब्रूहि । सेनान्ये वीरसेनाय लेख्य-
तामेवं क्रियतामिति ।
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य सप्राभृतकं लेखं गृ-
हीत्वा पुनः प्रविष्टः ।) अनुष्ठिता प्रभोराज्ञा । अयं देवस्य सेनापतेः
पुष्पमित्रस्य सकाशात्सोत्तरीयप्राभृतको लेखः प्राप्तः । प्रत्यक्षीक -
रोत्वेनं देवः ।</p>
<p>देवी - ( आत्मगतम् । ) अाहे, तदोमुहं एव णो हिअअं । सु-
णिस्सं दाव गुरुअणस्स कुसलाणन्तरं वसुमित्तस्स वुत्तन्तं । अदिघोरे
खुपुतओ सेनावदिणा णिउत्तो ।</p>
<note>१. एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशयान्मुक्तः ।</note>
<note>२. अहो, ततोमुखमेव नो हृदयम् । श्रोष्यामि तावद्गुरुजनस्य कुश -</note>
<p>लानन्तरं वसुमित्रस्य वृत्तान्तम् । अतिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ।
भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ॥ एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशया-
न्मुक्तः ॥ द्विधा विभक्तामित्यादि । स्पष्टोऽर्थः ॥ अह्म हे इति हर्षे । ततोमुख-
मेव नो हृदयम्। श्रोष्यामि तावद्गुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् । अ-
तिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ॥ यज्ञशरणादित्यादि । अत्र राज -</p>
<pb n="106" />
<p>मालविकाग्निमित्रे
राजा - (उपविश्य लेखं सोपचारं गृहीत्वा वाचयति । खस्ति । यज्ञ-
शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमग्निमित्रं स्नेहा-
त्परिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसौ राजयज्ञदीक्षितेन
मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्त नियमो
निरर्गलस्तुरंगो विसृष्टः, स सिन्धोर्दक्षिणरोधसि चरन्नश्वानीकेन यव-
न प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः ।</p>
<p>( देवी विषादं नाटयति ।)</p>
<p>राजा - कथमीदृशं संवृत्तम् । ( शेषं पुनर्वाचयति ।)</p>
<lg>
  <l>ततः पराम्पराजित्य वसुमित्रेण धन्विना ।</l>
  <l>प्र हियमाणो मे वाजिराजो निवर्तितः ॥ १५॥</l>
</lg>
<p>देवी - इमिणा आससिदं मे हिअअं ।
राजा - ( शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सगरपुत्रेणेव
प्रत्याहृताश्व यये । तदिदानीमकालहीनं विगतरोषचेतसा भवता
वधूजनेन सह यज्ञसेवनायागन्तव्यमिति ।
राजा - अनुगृहीतोऽस्मि ।
परिव्राजिका - दिष्या पुत्र विजयेन दम्पती वर्तेते ।</p>
<lg>
  <l>भर्त्रास वीरपत्नीनां लाध्यानां स्थापिता धुरि ।</l>
  <l>वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः ॥ १६ ॥</l>
</lg>
<p>देवी भअवदि, परितुट्टसि । जं पिदरं अणुजादो मे वच्छओ ।
राजा - मौद्गल्य, ननु कलभेन यूथपतिरनुकृतः ।</p>
<note>१. अनेनाश्वस्तं मे हृदयम् ।</note>
<note>२. भगवति, परितुष्टास्मि । यत्पितरमनुजातो मे वत्सकः ।</note>
<p>यज्ञो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च
श्रुतावश्वमेघप्रकरणे 'शतेन राजपुत्रैः सह' इति ॥ ततः परा नित्यादि । स्पष्टोऽर्थः ॥
अनेनाश्वस्तं मे हृदयम् ॥ भर्त्रासीत्यादि । स्पष्टोऽर्थः ॥ भगवति, परितुष्टास्मि ।</p>
<pb n="107" />
<p>पञ्चमोऽङ्कः ।</p>
<p>कञ्चुकी – देव, अयं कुमारः</p>
<lg>
  <l>नैतावता वीरविजृम्भितेन</l>
  <l>चित्तस्य नो विस्मयमादधाति ।</l>
  <l>यस्याप्रधृष्यः प्रभवस्त्वमुचै-</l>
  <l>रग्नेरपां दग्धुरिवोरुजम्ना ॥ १७ ॥</l>
</lg>
<p>राजा - मौद्गल्य, यज्ञसेनश्यालमूरीकृत्य मोच्यन्तां सर्वे बन्ध-
नस्थाः ।
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्कान्तः ।)
देवी - जयसेणे, गच्छ । इरावदिप्पमुहाणं अन्तेपुराणं पुचस्स
वुत्तन्तं णिवेदेहि ।
देवी — ऐहि दाव
।</p>
<p>( प्रतीहारी प्रस्थिता । )</p>
<p>प्रतीहारी - ( परिवृत्य ) अ ह्नि ।
देवी - (जनान्तिकम् ।) जं मए असोअदोहएणिओए मालवि-
आए पइण्णादं, तं से अदिजणं च णिवेदिअ मह वअणेण इरा-
यदि अणुहि । तुए अह सच्चादो णविन्भंसिदवेत्ति ।</p>
<note>१. जयसेने, गच्छ । इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं</note>
<p>निवेदय ।</p>
<note>२. एहि तावत् ।</note>
<note>३. इयमस्मि ।</note>
<note>४. यन्मयाशोकदोहद नियोगे मालविकायै प्रतिज्ञातम्, तदस्या अभि-</note>
<p>जनं च निवेद्य मम वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न विभ्रंशयितव्येति ।
यत्पितरमनुजातो मे वत्सकः ॥ नैतावतेति । स्पष्टोऽर्थः ॥ जयसेने, गच्छ । इराव-
तीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं निवेदय ॥ एहि तावत् ॥ इयमस्मि ॥ यन्मया-
शोकदोहदनियोगे मालविकायै प्रतिज्ञातम् ॥ तदस्या अभिजनं च निवेद्य मम वचनेने-</p>
<pb n="108" />
<p>मालविकाग्निमित्रे
प्रतीहारी - 'जं देवी आणवेदि । ( इति निष्क्रम्य पुनः प्रविश्य ।)
भट्टिणि, पुत्तविज अणिमिचेण परितोसेण अन्तेउराणं आहरणाणं म-
सिंत्ता ।
देवी - ऐदं किं अच्चरिअं । साहारणो खु ताणं मह अ अअं
अभुदओ ।
-
प्रतीहारी — (जनान्तिकम् ।) भट्टिणि, इरावदी उण विष्णवेदि ।
सरिसं देवीए पहवन्तीए । तुह वअणं संकप्पिदं ण जुज्जदि अ-
हा का ति ।
देवी - अत्रदि, तुए अणुमदा इच्छामि अज्जसुमदिणा पढमसं-
कप्पिदं मालविअं अज्जउत्तस्स पडिवादेदं ।
परिव्राजिका - इदानीमपि त्वमेवास्याः प्रभवसि ।
देवी – (मालविकां हस्ते गृहीत्वा ) इदं अज्जउत्तो पिअणिवेदणाणु-
रूवं पारितोसिअं पडिच्छदु ।</p>
<p>( राजा व्रीडां नाटयति । )</p>
<note>९. यद्देव्याज्ञापयति । भट्टिणि, पुत्रविजयनिमित्तेन परितोषेणान्तः पु-</note>
<p>राणामाभरणानां मञ्जूषास्मि संवृत्ता ।</p>
<note>२. एतत्किमाश्चर्यम् । साधारणः खलु तासां मम चायमभ्युदयः ।</note>
<note>३. भट्टिनि, इरावती पुनर्विज्ञापयति । सदृशं देव्याः प्रभवन्त्याः । तव</note>
<p>वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति ।</p>
<note>४. भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथम संकल्पितां मालवि-</note>
<p>कामार्यपुत्राय प्रतिपादयितुम् ।</p>
<note>५. इमार्यपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु ।</note>
<p>रावतीमनुनय । त्वयाहं सत्यान्न विभ्रंशयितव्येति ॥ यद्देव्याज्ञापयति । भट्टिनि, पुत्र-
विजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मञ्जूषास्मि संवृता ॥ एतत्किमाश्च-
र्यम् । साधारणः खलु तासां मम चायमभ्युदयः ॥ भट्टिनि इरावती पुनर्विज्ञापयति ।
सदृशं देव्याः प्रभवन्त्याः।तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति॥ भगवति,
वयानुमतेच्छाम्यार्य सुमतिना प्रथम संकल्पितां मालविकामार्यपुत्राय प्रतिपादयितु-
म्॥ इदमार्यपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । अत्र प्रीत्युत्पादनात्प्र-</p>
<pb n="109" />
<p>पञ्चमोऽङ्कः ।
देवी - ( सस्मितम् ।) किं' अवधीरेदि अज्जउत्तो ।</p>
<p>विदूषकः - भोदि, एसो लोअववहारो । सबो णववरो ल-
जादुरो होदि ।</p>
<p>( राजा विदूषकमपेक्षते । )</p>
<p>विदूषकः - अह देवीए एव किदप्पणअविसेसं दिण्णदेवी सद्द
मालविअं अत्तभवं पडिग्गहीदुं इच्छदि ।
देवी - एदाए राजदारिआए अहिजणेण एव दिण्णो देवी-
सद्दो । किं पुणरुत्तेण ।
।
परिव्राजिका – मा मैवम् ।</p>
<lg>
  <l>अप्याकरसमुत्पन्नो रत्नजातिपुरस्कृतः ।</l>
  <l>जातरूपेण कल्याणि स हि संयोगमर्हति ॥ १८ ॥</l>
</lg>
<p>देवी - (स्मृत्वा ) मैरिसेदु भअवदी । अब्भुदअकहाए उड़दं ण-
लक्खिदं । जअसेणे, गच्छ दाव । कोसे अपत्तोण्णजुअलं उवणेहि ।
१ किमवधीरयत्यार्यपुत्रः ।</p>
<note>२. भवति, एष लोकव्यवहारः । सर्वो नववरो लज्जातुरो भवति ।</note>
<note>३. अथ देव्यैव कृतप्रणयविशेषां दत्तदेवीशब्दां मालविकामत्रमवा-</note>
<p>प्रतिग्रहीतुमिच्छति ।</p>
<note>४. एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः किं पुन-</note>
<p>रुक्तेन ।</p>
<note>५. मर्षयतु भगवती । अभ्युदयकथयोचितं न लक्षितम् । जयसेने,</note>
<p>गच्छ तावत् । कौशेयपत्रोर्णयुगलमुपनय ।
सादो नाम संध्यङ्गमुक्तं भवति ॥ किमवधीरयत्यार्यपुत्रः ॥ भवति, एष लोकव्यव-
हारः । सर्वो नववरो लज्जातुरो भवति ॥ अथ देव्यैत्र कृतप्रणयविशेषां दत्तदेवी-
शब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ॥ एतस्या राजदारिकाया अभिजनेनैव
दत्तो देवीशब्दः । किं पुनरुक्तेन ॥ अप्या करेत्यादि । स्पष्टार्थः । अत्र लब्धा-
। र्थस्य स्थिरीकरणात्कृतिर्नाम संध्यङ्गमुक्तं भवति ॥ मर्षयतु भगवती ॥ अभ्युदय-
कथयोचितं न लक्षितम् । जयसेने, गच्छ तावत् कौशेय पत्रोर्णयुगलमुपनय ॥ यद्दे -</p>
<pb n="110" />
<p>मालविकाग्निमित्रे
प्रतीहारी - 'जं देवी आणवेदि । (इति निष्क्रान्ता पत्रोर्णं गृहीत्वा पुनः
प्रविश्य ।) देवि, एदम् ।
देवी - ( मालविकामवगुण्ठनवतीं कृत्वा ।) अज्जउत्तो दाणिं इमं प-
डिच्छदु ।
-
तिगृहीता ।
एव वयम् । (अपवार्य ।) हन्त, प्र-
विदूषकः - अहो देवीए अणुऊलदा ।</p>
<p>( देवी परिजनमवलोकयति । )
( देवी परिव्राजिकां निरीक्षते । )
( प्रविश्य । )</p>
<p>परिजन : – ( मालविकामुपेत्य ।) जेर्डे भट्टिणी ।</p>
<p>परिवाजिका - नैतच्चित्रं त्वयि ।</p>
<lg>
  <l>प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्यः ।</l>
  <l>अन्य सरितामपि जलं समुद्रगाः प्रापयन्त्युदधिम् ॥ १९ ॥</l>
</lg>
<p>।
निपुणिका - जेदु भट्टा । इरावदी विष्णावेदि । जं उवआ-</p>
<note>१. यद्देव्याज्ञापयति । देवि, एतत् ।</note>
<note>२. आर्यपुत्र इदानीमिमां प्रतीच्छतु ।</note>
<note>३. अहो देव्या अनुकूलता ।</note>
<note>४. जयतु भट्टिनी ।</note>
<p>1</p>
<note>५. जयतु भर्ता । इरावती विज्ञापयति । यदुपचारातिक्रमेण तदा भ</note>
<p>अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम मयाचरितम् । सांप्रतं पूर्णमनोरथेन
प्रसादमात्रेण संभावयितव्येति ।
व्याज्ञापयति । देवि, एतत् ॥ आर्यपुत्र इदानीमिमां प्रतीच्छतु ॥ हन्त हर्षे । प्रतिगृ-
हीता वशीकृता । अत्र वाञ्छितावाप्तेरानन्दो नाम संध्यङ्गमुक्तं भवति ॥ अहो देव्या
अनुकूलता ॥ जयतु भट्टिनी । अत्र बहुमान प्राप्तेर्भाषेति संध्यङ्गमुक्तं भवति ॥ प्र-
तिपक्षेणेत्यादि । स्पष्टोऽर्थः ॥ जयतु भर्ती । इरावती विज्ञापयति । यदुपचारातिक्र-</p>
<pb n="111" />
<p>पञ्चमोऽङ्कः ।</p>
<p>रादिकमेण तदा भट्टिणी अवरद्धा, तं सअं एव भत्तणो आणुऊलं
णाम मए आअरिदं । संपदं पुण्णमणोरहेण भत्तणा पसादमेत्तेण
संभावइदवति ।
देवी - णिउणिए, अवस्सं से सेविदं अज्जउत्तो जाणिस्सदि ।
निपुणिका – अणुगहीदह्नि ।
-
परिवाजिका — देव, अमुना युक्तसंबन्धेन चरितार्थ माधवसेनं
सभाजयितुं गच्छामः ।
देवी - अवदीए ण जुत्तं अले परिचइदं ।
राजा - भगवति, मदीयेष्वेव लेखेषु तत्रभवतस्त्वामुदिश्य स-
भाजनाक्षराणि पातयिष्यामः ।
परिवाजिका - युवयोः स्नेहात्परवानयं जनः ।
देवी - अज्जउत्त, किं ते भूओ पिअं उवहरामि ।
राजा-
त्वं मे प्रसादमुमुखी भव देवि नित्य-
मेतावदेव हृदये प्रतिपालनीयम् ।</p>
<note>१. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति ।</note>
<note>२. अनुगृहीतास्मि ।</note>
<note>३. भगवत्या न युक्तमस्मान्परित्यक्तुम् ।</note>
<note>४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि ।</note>
<p>मेण तदा भर्त्रे अपराद्धा,तत्स्वयमेव भर्तुरनुकूलं नाम ममाचरितम् । सांप्रतं पूर्ण-
मनोरथेन भर्त्रा प्रसादमात्रेण संभावयितव्येति ॥ निपुणिके, अवश्यमस्याः सेवितमा-
र्यपुत्रो ज्ञास्यति ॥ अनुगृहीतास्मि ॥ भगवत्या न युक्तमस्मान्परित्यक्तुम् ॥ आर्यपुत्र,
किं ते भूयः प्रियमुपहरामि ॥ त्वं मे प्रसादेत्यादि । हे देवि त्वं मे मम
नित्यं सर्वदा प्रसादमुमुखी प्रसादेन प्रसन्नतया शोभनं मुखं यस्यास्तथोक्ता भव
भूयाः । एतावदेवेदमेव हृदये मनसि प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा -</p>
<pb n="112" />
<p>मालविकाग्निमित्रे</p>
<p>( भरतवाक्यम् ।)
( इति निष्क्रान्ताः सर्वे । )</p>
<p>आशास्यमभ्यधिगमात्प्रभृति प्रजानां
संपद्यते न खलु गोप्तरि नाग्निमित्रे ॥ २० ॥</p>
<p>इति श्रीकालिदासस्यकृतौ मालविकाग्निमित्रे पञ्चमोऽङ्कः ।
क्यम् । आशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात् संप्राप्तेः । परिग्रहा-
दित्यर्थः । तस्मात्प्रभृत्यारम्याग्निमित्रेऽस्मिन्नाय के गोप्तरि रक्षके सति तासांप्रजाना-
माशास्यमपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न संभवत्येवेत्यर्थः । अनेन
आशास्य सिद्धिकथनरूपेण शुभशंसनात्प्रशस्तिर्नाम संध्यङ्गमुक्तं भवति । यदुक्तं -
'प्रशस्तिः शुभशंसनम्' इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ
शीर्वचने कर्तव्ये सति अत्र प्रजानामाशास्यसिद्धिं प्रति गोतुरग्निमित्रस्य कथनं तत्का-
लराजोपलक्षणमिति मन्तव्यम् ॥ इति श्रीकाट्यवेमभूपविरचिते कुमा-
गिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः ।</p>
<lg>
  <l>श्रीमत्काटयमस्य कृतिविज्ञानशालिनः ।</l>
  <l>कुमारगिरिराजीया जीयादाचन्द्रतारकम् ॥</l>
</lg>
<pb n="113" />
</body>
</text>
</TEI>