विद्योदयग्रन्थमाला १-प्रथमं पुष्पम् ॥ ॥ श्रीः ॥ श्री शृङ्गेरी जगद्गुरुमहासंस्थानं श्रीशारदापीठम् । ॥ श्रीमच्छङ्करदिग्विजयः ॥ मूलमात्रात्मकः ॥ Edited by N. S. Ananthakrishna Sastri, Vedantha Siromani, Nurani, PALGHAT All Rights reserved by the Editor. Published on the occasion of the Chathur masya of His Holiness at Kaladi on 1st September 1956 by THE SRINGERI MATH, SRINGERI सर्गः ॥ विषयानुक्रमणिका ॥ विषयः पृष्ठम 1 उपोद्घातः - 2 आचार्यजन्मादिकथनम् 11 3 देवावतारः 19 4 कौमारचरितवर्णनम् 28 500 6 संन्यासग्रहणम् आत्मविद्याप्रतिष्ठा 41 58 7 व्यासदर्शनादिवरितवर्णनम् 70 8 श्रीमदाचार्यमण्डनमिश्रसंवादः 81 9 श्रीमदाचार्य सरस्वती संवादः 93 10 राजदेहप्रवेशादिकथनम् 103 11 उग्रभैरववधः 114 12 हस्तामलकादीनां शिष्यत्वेन ग्रहणम् 121 13 ब्रह्मविद्याविचार: 129 14 पद्मपादतीर्थयात्रावर्णनम् 136 15 आचार्य कृतदिग्विजयवर्णनम् 152 16 श्रीमदाचार्याणां शारदापीठवासवर्णनम् 168 ॥ श्रीरस्तु ॥ श्रीगुरुचरणारविन्दाभ्यां नमः ॥ ॥ प्रस्तावना ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ " निश्चप्रचमिदं समेषामास्तिकमहाशयानाम्, यत्, करुणावरुणालयो भगवांस्तरुणेन्दुशेखरः समुद्दिधीर्षुरिमं मानवं लोकमुरीकृत्य मार्त्य शरीरमवातरत् पृथिव्यां श्रीशङ्कर नाम्नेति । पञ्चम एव वयस्यवाप्तोपनयन- संस्कारोऽसौ कला अपि कला अनायासेना चिरादधिगस्याष्टम एव वयसि समधिगततुरीयाश्रमः स्वशेमुषोचातुरीविजिता खिलविद्वन्मण्डलो भगवतो बालेन्दुमौलेः परमेश्वरस्यानितरसुलमां प्रसादस्य परां काष्ठा- मधिरूढोऽथ च भगवतो द्वैपायनाच्चानन्यसुलभमाशीर्विशेषं चावाप्य " भगवत्पादसंज्ञां परमाचार्याभिघां" च समार्जयत् इतीदं विस्मय- मानन्दभरं चादधाति भारतीयानामखिलानामपि मानवानाम् । चिन्तामणिर्लोकसुखं सुरद्रः स्वर्गसम्पदम् । " प्रयच्छति गुरुः प्रोतो वैकुण्टं योगिदुर्लभम् । इति हि गुरोर्म हिमोघुष्यते । भगवान् कपिलो हि देवहूत्यास्तपोमहिना भाग्यातिशयाच्चात्मजभावमुपेत्य तपोनिधिं जनकं कर्दमं तपश्चरणायानु- मान्य परिव्राजकपदवीमधितिष्ठति तस्मिन् साध्वीकुलललामभूतायै स्वजनन्यै परमामध्यात्मविद्यां गुरुमूर्तिः सन् उपादिक्षत् । प्रापयच्च तां योगिजन दुर्लभां वैकुण्ठपदवीमिति च श्रीमद्भागवतशास्त्रमवबोधयति । प्रकृते च भगवान् संयमिचक्रवर्ती श्रीशङ्करभगवत्पादो मातुश्चरमां दशामात्मनो योगशक्त्याऽवगत्य तेनैव योगमहिना विजययात्राप्रसङ्गेऽ- ध्युषितात् श्रीश्टङ्गगि रिक्षेत्रात् कालटीक्षेत्रमात्मनः प्रादुर्भावभूमिं मातुरा- वसथं च प्रत्यागत्य भगवन्तं रमारमणमस्तौत्, अगमयच्च प्रसवित्री - मात्मनोऽप्राकृतां पुनरावृत्तिरहितामकुण्ठां वैकुण्ठपदवीमित्यहो ! अनि- वर्णनीयः सती कुलतिलकीभूतायास्तत्तादृश्या चनितामणेस्तथाऽमोघ- सङ्कल्पस्य भगवतः शङ्करस्य च प्रभावविशेषो न मनसो वसोऽपि वा ii गोचर इति । एवमनेके मानवाः पुनरावृत्तिरहितं मुक्तिसुखं प्रापिता इति करुणासागरस्य श्रीमश्छङ्करभगवत्पाद मुनेर्वदान्यता न तुलामोरहति ॥ " ज्ञानं महेश्वरादिच्छेत्, मोक्षमिच्छेजनार्दनात् " इति चाभि- युक्तानां वाचमर्थवतीं बोधयन् श्रीशङ्करभगवत्पादोऽज्ञानोपहतान् जना - नात्मविद्योपदेशेन निराकृताविद्याकानापादयन् सन्ततानुसन्धीयमान- नारायणस्वरूपोऽभ्यस्यमानतन्नामधाराकश्च हरिहरयोः प्रसादमेवात्यन्ति- कश्रेयःसाधनमखिलानप्यास्तिकान् विशेषेण बोधयति स्म । तत्तादृक्षस्य भगवतः श्रीशङ्करभगवत्पादस्य लीलाविशेषावबोधकोऽयं माधवीयोऽथवा विद्यारण्यकीयो ग्रन्थो द्रविड (तमिल) भाषायामनूद्य मुद्राप्य प्रकाशितो विधेयतमेनानेन दासजनेन । आस्तिकजनतायाः पारायणस्य सुकरतामालोच्य मूलमात्रात्मकश्चायमन्यो भागः क्वचित् कचित् लघु- टिप्पणीसंवलितो मुद्रापणाय समभिलषितः ॥ सोऽयमभिलाषोऽकिञ्चनस्यास्य सज्जनविधेयस्य, यमनियमाद्यष्टाङ्ग- योगानुष्ठान पारावारपारीणानां श्रीशृङ्गगिरिव्याख्या महासिंहासनमलं- कुर्वतां सन्ततशारदावरिवस्यावशीकृतान्तःकरणानां परमहंस परिव्राज- काचार्याणां श्रीमदभिनव विद्यातीर्थ भारतीखा मिचरणानां प्रसादप्रभावे- णानुगृहीत इति धन्यधन्योऽयं समजनीति नासकृद्वचनेनाप्यात्मानं तोषयितुमलम् ॥ 'विद्योदय ग्रन्थमाले 'ति नामनिर्देशपूर्वकं मुद्राप्य प्रकाशं जिगमि- षितेषु ग्रन्थेष्वयं ग्रन्थः प्राथमिकं प्रसूनपदं लभतामिति चानवरतानति- पूर्वकं प्रार्थयता सप्रथयं समर्प्यतेऽयमुपहारः ॥ श्री १००८ - मतां विश्वजनीनाचरितानां श्रीचरणानां दुर्मुखनाम संवत्सरीय - चातुर्मास्यव्रतानुष्ठान बद्धदीक्षाणामादिभगवत्पाद - श्रीशङ्करा- चार्याविर्भावभुवं कालटीक्षेत्रं निजचातुर्मास्यव्रतानुष्ठानाय पवित्रीकुर्वतां श्रीशृङ्गगिरिजगद्गुरुचरणारविन्दानां तत्तादृशचातुर्मास्यव्रतानुष्ठानकाल एव समर्प्यमाणोऽयमुपहारः प्रसादपरम्परा विश्वजनीनाः पुष्णात्विति च भूयोभूयोऽभ्यर्थये ॥ PALGHAT, 25-8-1956) इति विधेयतमः N. S. Ananthakrishna Sastry, Retired Sanskrit Pandit. पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः प्रभेदा वा मुक्तेर्विमल तर सालोक्यमुखराः । मुखान्याहो धातुश्चिरमिति विमृश्याय विबुधा विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥ [ सर्ग १२ - श्लोका ८७] ॐ ॥ eft: 11 ओं तत्सब्रह्मणे नमः श्री गुरुचरणारविन्दाभ्यां नमः ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो गुरुभ्यः श्रीविद्यारण्यविरचितः ॥ श्रीमच्छङ्करदिग्विजयः ॥ प्रथमः सर्गः उपोद्घातः प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । प्राचीनशङ्करजये सारः संगृह्यते स्फुटम् ॥ द्वानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि । तद्वन्मदीये लघुसंग्रहेऽस्मिन्नुद्वीक्ष्यतां शाङ्करवाक्यसारः ॥ यथाऽतिरुच्ये मधुरेsपि रुच्युत्पादाय रुच्यान्तरयोजनार्हा । तथेष्यतां प्राक्कविहृद्यपद्येष्वेषाऽपि मत्पद्यनिवेशभङ्गी ॥ स्तुतोऽपि सम्यक्कविभिः पुराणैः कृत्याऽपि नस्तुष्यतु भाष्यकारः । क्षीराब्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं चकमे न गोष्ठे ॥ पयोब्धिविवरी सुनिःसृतसुधाझरीमाधुरी- धुरीणभणिताधरीकृतफणाधराधीशितुः । शिवङ्करसुशङ्कराभिधजगद्गुरोः प्रायशो यशो हृदयशोधकं कलयितुं समीहामहे ॥ 2 श्रीमच्छङ्करदिग्विजये [ प्रथमः केमे शङ्करसद्गुरोर्गुणगणा दिग्जालकूलङ्कषा: कालोन्मीलितमालतीपरिमलावष्टंभमुष्टिषयाः । काहं हन्त तथाऽपि सद्गुरुकृपापीयूषपारम्परी- मनोमन कटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥ धन्यंमन्य विवेकशून्य सुजनंमन्याब्धिकन्यानटी- नृत्योन्मत्तनराधमाधमकथांसंमर्ददुष्कर्दमैः । दिग्धां में गिरमद्य शङ्करगुरुक्रीडासमुद्यद्यश:- पारावारसमुच्चलज्जलझरैः संक्षालयामि स्फुटम् ॥ वन्ध्यासूनुखरी विषाणसदृशक्षुद्र क्षितीन्द्रक्षमा- शौर्यौदार्यदयादिवर्णनकळा दुर्वासनावासिताम् । मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरङ्गस्थली- नृत्यत्कीर्तिनटी पटीर पटली चूर्णैर्विकीर्णैः क्षितौ ॥ पीयूष तिखण्डमण्डनकृपारूपान्तर श्रीगुरु- प्रेमस्थेमसमर्हणाईमधुरव्याहारसूनोत्करः । प्रौढोऽयं नवकालिदासकवितासन्तानसंतानको दद्यादद्य समुद्यतः सुमनसामामोदपारम्परम् ॥ सामोदरनुमोदिता मृगमदैरानन्दिता चन्दनै- मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजैः स्मेरिता । वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि- व्रातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥ यद्वा दीनदयालवः सहृदया: सौजन्यकल्लोलिनी- दोलान्दोलन खेलनैकरसिकखान्ताः समन्तादमी । सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिन्तयाऽनन्तया यद्वा तुष्यति शङ्करः परगुरुः कारुण्यरत्नाकरः ॥ उपक्रम्य स्तोतुं कतिचन गुणाञ्छङ्करगुरोः प्रभद्मा: श्लोकार्थे कतिचन तदर्धार्धरचने । ሪ गः । १] उपोद्घातः 3 अहं तुष्टषुस्तानहह कलये शीतकिरणं कराभ्यामाहर्तुं व्यवसितमते : साहसिकताम् ॥ तथाप्युज्जृम्भन्ते मयि विपुलदुग्धाब्धिलहरी - ललत्कल्लोलालील सितपरिहासैकरसिकाः । अमी मूकान्वाचालयितुमपि शक्ता यतिपतेः कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥ अस्मज्जिह्वाग्रसिंहासनमुपनयतु खोक्तिधारामुदारा- मद्वैताचार्यपादस्तु तिकृतसुकृतोदारता शारदाम्बा । नृत्यन्मृत्युञ्जयो चैर्मुकुटतटकुटी निः स्त्रवत्स्वः स्रवन्ती कल्लोलोद्वेलकोलाहलमदलहरी खण्डिपाण्डित्यहृद्याम् ॥ १४ केदं शङ्करसगुरोः सुचरितं काहं वराकी कथं निर्बास चिराजितं मम यशः किं मज्जयस्यम्बुधौ । इत्युक्त्वा चपलां पलायितवतीं वाचं नियुङ्क्ते बलात् प्रत्याहृत्य गुणस्तुत कविगणश्चित्रं गुरोगौरवम् ॥ रूक्षैकाक्षरवाड़ निघण्टुशरणैरौणादिकप्रत्यय- प्रायैर्हन्त यङन्तदन्तुरतरैर्दुर्बोधदूरान्वयैः । कराणां कवितावतां कतिपयैः कष्टेन कृष्टैः पदै- sfer स्याद्वशगा किरात विततेरेणीव वाणी मम ॥ १६ नेता यत्रोल्लसति भगवत्पादसंज्ञो महेशः शान्तिर्यत्र प्रकचति रसः शेषवानुज्वला थैः । यत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता धन्यो व्यासाचलकविवरस्तत्कृतिज्ञाश्च धन्याः ॥ तत्रादिम उपोद्घातो द्वितेये तु तदुद्भवः । तृतीये तत्तदमृतान्धोवतारनिरूपणम् ॥ चतुर्थ सर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् । पञ्चमे तद्योग्यसुखाश्रमप्राप्तिनिरूपणम् ॥ 4 श्रीमच्छङ्करदिग्विजये महताऽनेहसा यैषा सम्प्रदायागता गता । तस्याः शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः ॥ तद्वयासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् । स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥ वाणी साक्षिक सार्वज्ञनिर्वाहोपायचिन्तनम् । [ प्रथमः दशमे योगशक्त्या भूपतिकायमवेशनम् ॥ बुद्धवा मीनध्वजकलास्तत्प्रसङ्गप्रपञ्चनम् । सर्ग एकादशे तु भैरवाभिधनिर्जयः ॥ द्वादशे हस्तधान्यार्योटको भयसंश्रयः । वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥ चतुर्दशे पद्मपादतीर्थयात्रा निरूपणम् । सर्गे पञ्चदशे तृक्तं तदाशाजयकौतुकम् ॥ षोडशे शारदापीठवासस्तस्य महात्मनः । इति षोडशभिः सर्वैव्युत्पाचा शाङ्करी कथा ॥ सैपा कलिमलच्छेत्री सकृच्छ्रत्याऽपि कामदा । नानाप्रश्नोत्तरे रम्या विदामारभ्यते मुदे ॥ एकदा देवता रूपयाचलस्थमुपतस्थिरे । देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥ प्रसादानुमित स्वार्थसिद्धयः प्रणिपत्य तम् । मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन ॥ विज्ञातमेव भगवन्विद्यते यद्धिताय नः । वञ्चयन्सुतान् बुद्धवपुर्धारी जनार्दनः ॥ तत्प्रणीतागमालम्बैबौद्धैर्दर्शनदूषकैः । व्याप्तेदानीं प्रभो धात्री रात्रिः संतमसैरिव ॥ सर्गः १] उपोद्घातः वर्णाश्रमसमाचाराद्विषन्ति ब्रह्मविद्विषः । ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥ न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन । करोति मनुजः कश्चित्सर्वे पाखण्डतां गताः ॥ * श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये । क्रियाः कथं प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥ शिव विष्ण्वागमपरैर्लिङ्गचक्रादिचिह्नितैः । पाखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ॥ अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् । श्रुतिः साध्वी मदक्षीवैः का वा शाक्यैर्न दुषिता ॥ सद्यः कृत्तद्विजशिरःपङ्कजाचितभैरवैः । न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ॥ अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः । जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ॥ तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् । वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥ इत्युक्तत्वापरतान्देवानुवाच गिरिजाप्रियः । मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥ * सहयज्ञाः प्रजाः सृष्ट्रा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्त्यथ ॥ यज्ञो दानं तपः कर्म पावनानि मनीषिणाम् । 5 सैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते ॥ ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ इत्यादीनी भगवद्गीतावचनानि यज्ञादीनामवश्यानुष्ठेयत्वमुपदिशन्ति । 6 श्रीमच्छङ्करदिग्विजये दुष्टाचारविनाशाय धर्मसंस्थापनाय च । भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः । चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिखद्भुजैः ॥ यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले । मत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥ तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिनः । तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥ ब्रुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् । * कुमारे निदधे भानुः किरणानिव पङ्कजे ॥ क्षीरनीरनिधेर्वीचिसचिवान् प्राप्य तान् गुहः । कटाक्षान्मुमुदे रश्मी नुदन्वानैन्दवानिव ॥ • अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः । दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥ शृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम् । काण्डत्रयात्मके वेदे प्रोद्धते स्याद् द्विजोद्धृतिः ॥ [ प्रथमः तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् । तदधीनत्वतो वर्णाश्रमधर्मतस्ततः ॥ इदानीमिदमुद्धार्यमितिवृत्तमत: पुरा । मम गूढाशय विदौ विष्णुशेषौ समीप ॥ मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ । अवतीर्याशतो भूमौ सङ्कर्षणपतञ्जली ॥ * कुत्सितो मारः यस्मात् सः कुमारः । अथवा कुत्सित्रान् मारयतीति कुमारः इति 'धा कुमारशब्दनिर्वचनम् ॥ [R] उपोद्घातः मुनी भूत्वा मुदोपास्तियोग काण्डकृतौ स्थितौ । अग्रिमं ज्ञानकाण्डं तूद्धरिष्यामीति देवताः ॥ सम्प्रति प्रतिजाने स्म जानात्येव भवानपि । जैमिनीयनयाम्भोधेः शरत्पर्वशशी भव ॥ विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते । सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ॥ नैगमीं कुरु मर्यादामवतीर्य महीतले । निर्जित्य सौगतान्सर्वानाम्नायार्थविरोधिनः ॥ 7 ब्रह्माऽपि ते सहायार्थं मण्डनो नाम भूसुरः । भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥ तथेति प्रतिजग्राह विधेरपि विधायिनीम् । बुधानी पतिर्वाणीं सुधाधारामिव प्रभोः ॥ अथेन्द्रो नृपतिर्भूत्वा प्रजा धर्मेण पालयन् । दिवं चकार पृथिवीं स्वपुरीममरावतीम् ॥ सर्वज्ञोऽप्यतां शास्त्रे कृत्रिमश्रद्धयान्वितः । प्रतीक्षमाणः क्रौञ्चारिं मेलयामास सौगतान् ॥ ततः स तारकारातिरजनिष्ट महीतले । भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥ स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् । सहस्रांशुरिवानूरुव्यञ्जितं भासयञ्जगत् ॥ राज्ञः सुधन्वनः प्राप नगरीं स जयन्दिशः । प्रत्युद्गम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥ सोsभिनन्द्याशिषा भूपमासीनः काञ्चनासने । तां सभां शोभयामास सुरभिवनीमिव ॥ 8 श्रीमच्छङ्करदिग्विजये सभासमीप विटपिश्रितको किलकूजितम् । श्रुत्वा जगाद तद्वयाजाद्राजानं पण्डितायणीः ॥ [ प्रथमः मलिनैश्चेन्न सङ्गस्ते नीचैः काककुलैः पिक । श्रुतिदूषक निर्ह्रादैः श्लाघनीयस्तदा भवेः ॥ ६५ षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् । ६६ नितरां चरणस्पृष्टा भुजङ्गा इव चुक्रुधुः ॥ छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् । सद्ग्रन्थेन्धनैीणैः क्रोधज्वालामवर्धयत् ॥ सा सभा वदनैस्तेषां रोषपाटलकान्तिभिः । art बालातपाताः सरसीव सरोरुहैः ॥ उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् । तेषूद तिष्ठन्निर्घोषो भिन्दन्निव रसातलम् ॥ अधः पेतुर्बुधेन्द्रेण क्षता: पक्षेषु तत्क्षणम् । व्यूढ कर्कशतर्केण तथागतधराधराः ॥ स सर्वज्ञपदं विज्ञोऽसहमान इव द्विषाम् । चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥ ततः प्रक्षीणदर्पेषु बौद्धेषु वसुधाधिपम् । बोधयन्बहुधा वेदवचांसि प्रशशंस सः ॥ Terse घराधीश विद्यायत्तौ जयाजयौ । यः पतित्वा गिरेः शृङ्गादव्यग्रस्तन्मतं ध्रुवम् ॥ तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन् । द्विजाय्यस्तु स्मरन्वेदानारुरोह गिरेः शिरः ॥ यदि वेदाः प्रमाणं स्युर्भूयात्काचिन्न मे क्षतिः । इति घोषयता तस्मान्न्यपाति सुमहात्मना ॥ सर्गः १] उपोद्घातः किमु दौहित्रदत्तेsपि पुण्ये विलयमा स्थिते । ययातिश्चचवते स्वर्गात्पुनरित्युचिरे जनाः ॥ अपि लोकगुरुः शैलात्तलपिण्ड इवापतत् । श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥ श्रुत्वा तदद्भुतं कर्म द्विजा दिग्भ्यः समाययुः । घनघोषमिवाकर्ण्य निकुञ्जेभ्यः शिखावळा: ॥ दृष्ट्वा तमक्षतं राजा श्रद्धां श्रुतिषु सन्दधे । निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥ सौगतास्त्वनुवन्नेदं प्रमाणं मतिनिर्णये । मणिमन्त्रौषधैरेवं देहरक्षा भवेदिति ॥ दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः । भ्रुकुटीभीकरमुखः सन्धामुतरां व्यधात् ॥ पृच्छामि भवतः किञ्चिद्वक्तं न प्रभवन्ति ये । यन्त्रोपलेषु सर्वास्तान्यातयिष्याम्यसंशयम् ॥ इति संश्रुत्य गोत्रेशो घटमाशी विषान्वितम् । आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् ॥ वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् । इति प्रसाद्य राजानं जग्मुर्भूसुरसौगता: ॥ पद्मा व तपस्तेषुः कण्ठद्वय सपाथसि । मणिप्रति भूदेवाः सोऽपि प्रादुरभूत्ततः ॥ सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते द्विजाः । आजग्मुरपि निश्रित्य सौगताः कलशस्थितम् ॥ ततस्ते सौगताः सर्वे भुजंगोऽस्तीत्यवादिषुः । भोगीशभोगशयनो भगवानिति भूसुराः ॥ 6 10 श्रीमच्छङ्करदिग्विजये श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः । कासारशोषणम्लानसार सश्रियमाददे ॥ अथ प्रोवाच दिव्या वाक सम्राजमशरीरिणी । तुदन्ती संशयं तस्य सर्वेषामेव पृण्वताम् ॥ सत्यमेव महाराज ब्राह्मणा यद्वभाषिरे । मा कृथाः संशयं तत्र भव सत्यमतिश्रवः । श्रुत्वाsशरीरिणीं वाणीं ददर्श वसुधाधिपः । मूर्ति मधुद्विषः कुम्भे सुधामिव सुराधिपः ॥ निरस्ताखिलसन्देहो विन्यस्तेतरदर्शनात् । व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ॥ आसेतो रातुषाराद्रे बौद्धानादृद्धबालकम् । [ प्रथमः सर्गः १] नहन्ति य: स हन्तव्यो भृत्यानित्यन्वशान्नृपः ॥ इष्टोऽपि दृष्टदोषद्वय एव महात्मनाम् । जननीमपि किं साक्षान्नावधीद्भृगुनन्दनः ॥ स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः । योगीन्द्रेणेव किं योगघ्ना विघ्नास्तत्त्वावलम्बिना ॥ हतेषु तेषु दृष्टेषु परितस्तार कोविदः । तव तमिस्रेषु नष्टेष्विव रविर्महः ॥ कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु । निष्प्रत्यूहमवर्धन्त श्रुतिशाखा: समन्ततः ॥ प्रागित्यं ज्वनलभुवा प्रवर्तितेऽस्मिन् कर्माध्वन्यखिलविदा कुमारिलेन । उद्ध भुवनमिदं भवान्धिमनं कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥ ९८ इति श्रीमाधवीये तदुपद्धातकथापरः । संक्षेपशङ्करजये सर्वोऽयं प्रथमोऽभवत् ॥ आदितः श्लोकाः 98 द्वितीयः सर्गः ॥ १ ॥ आचार्य जन्मादिकथनम् ॥ ततो महेशः किल केरलेषु श्रीमद्वषाद्रौ करुणासमुद्रः । पूर्णानदीपुण्यतटे स्वयंभू लिङ्गात्मनाऽनङ्गधगाविरासीत् ॥ तच्च्चोदितः कश्चन राजशेखरः स्वमे मुहुर्दष्टतदीयवैभवः । प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥ तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्त निरीतिभावः । कश्चित्तदभ्याशगतोऽग्रहारः कालव्यभिख्योऽस्ति महान्मनोज्ञः ॥ ३ कश्चिद्विपश्चिदिह निश्चलधीवरेजे विद्याधिराज इति विश्रुतनामधेयः । द्रो वृषाद्रिनिलयोऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्सः ॥ ४ पुत्रोऽभवत्तस्य पुरात्तपुण्यै: सुब्रह्मतेजाः शिवगुर्वभिख्यः । ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाऽकृत लब्धवर्णः ॥ स ब्रह्मचारी गुरुगेहवासी तत्कर्यकारी विहितान्नभोजी । सायंप्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥ क्रियाद्यनुष्ठानफलोऽर्थबोध: स नोपजायेत विना विचारम् । अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥ वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म । अपाठि मत्तः षडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥ भक्तोऽपि गेहूं व्रज संपति त्वं जनोऽपि ते दर्शनलालसः स्यात् । गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥ विधातुमिष्टं यदिहापराह्ने विजानता तत्पुरुषेण पूर्वम् । विधेयमेवं यदि श्व इष्टं कर्तुं तदद्येति विनिश्चितोऽर्थः ॥ कालोबजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् । तथा विवाहादि कृतं स्वकाले फलाय कल्पेत न चेदृथा स्यात् ॥ 12 श्रीमच्छङ्करदिग्विजये [ प्रथमः आजन्मनो गणयतो ननु तान्गतान्दान्माता पिता परिणयं तव कर्तुकामौ । पित्रोरियं प्रकृतिरेव पुरोपनी ति यद्धया यतस्तनुभवस्य ततो विवाहम् ॥ तत्तत्कुलीन पितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म । पिण्ड प्रदातृपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥ अर्थाaaraaफलो हि विचार एष तच्चापि चित्रवहुकर्म विधानहेतोः । अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदां प्रवादः ॥ सत्यं गुरो न नियमोsस्ति गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति । वैराग्यवान्त्रजति भिक्षुपदं विवेकी नो चेद्गृही भवति राजपदं तदेतत् ॥ श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्विरायुः । दण्डाजिनी सविनय बुध जुहृदनौ वेदं पठन् पठितविस्मृतिहानिमिच्छन् । दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् । पश्चाच्छनैर्विरसतामुपयाति सोऽयं किं निहुषे स्वानुभूतिपदं महात्मन् ॥ यागोऽपि नाकफलदो विधिना कृतचेत् प्रायः समग्रकरणं भुवि दुर्लभं तत् । वृष्ट्यादिवन हि फलं यदि कर्मणि स्यात् दिष्ट्या यथोक्तविरहे फलदुर्विधत्वम् ॥ निःखो भवेद्यदि गृही निरयी स नूनं भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् । पूर्णेपि पूर्तिमभिमन्तुमशक्नुवन्यो मोहेन शं न मनुते खलु तत्र तत्र ॥ यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः । एकत्र संहतवतः स्थित पूर्वनाशस्तच्चापयाति पुनरप्यपरेण योगः ॥ २० एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः । तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नान्निकेतनमनायि गृहीतविद्यः ॥ २१ सर्गः २] आचार्यजन्मादिकथनम् 13 गत्वा निकेतन सौ जननीं ववन्दे साऽऽलिङ्गय तद्विरहजं परितापमौज्झत् ॥ प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२ श्रुत्वा गुरोः सदनतश्विरमागतं तं तद्बन्धुराग पदथ त्वरितेक्षणाय । प्रत्युद्गमादिभिरसावपि बन्धुताया: संभावनां व्यधित वित्तकुलानुरूपाम् ॥ वेदे पदक्रमजटादिषु तस्य बुद्धि संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् । यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सङ्गतवाच्यमस्य ॥ भाट्टे नये गुरुमते कणभुङ्मतादौ प्रश्नं चकार तनयस्य मतिं बुभुत्सुः । शिष्योऽप्युवाच नतपुर्वगुरुः समाधि पित्रोदितः स्मितमुखो हसिताम्बुजास्यः ॥ वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणीं ताम् । दृष्ट्वा तुतोष तितरां पिताsस्य स्वतः सुखा या किमु शास्त्रतो वाक् ॥ कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः । पूर्व विवाहसमयादपि तस्य गेहं संबन्धवत्किल बभूव वरीतुकामैः ॥ २७ दाषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म । कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥ कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः । कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥ सङ्कल्पिताद् द्विगुणमर्थमहं प्रदास्ये महमेत्य परिणीतिरियं कृता चेत् । अर्थ बिना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥ कश्चित् तस्याः पितरं बभाण मिथः समाहूय विशेषवादी । अस्मासु गेहं गतवत्स्वमुष्मै विगृह्य कन्यामपरः प्रदद्यात् ॥ तेनानुनीतो वरतात भाषितं द्विजोऽनुमेने वररूपमोहितः । दृष्टो गुणः संवरणाय कल्पते मन्त्रोऽभिजापाश्चिरकालभावितः ॥ ३२ 14 श्रीमच्छङ्करदिग्विजये [ द्वितीयः विद्याधिराजमघपण्डितनामधेयौ संप्रत्ययं व्यतनुतामभिपूज्य दैवम् । सम्यङ्मुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥ उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ संमुदं बहुमवापतुराप्तकामौ । लागतो भृशममोदत बन्धुवर्ग: किं भाषितेन बहुना मुदमाप वर्गः ॥ तौ दंपती सुवस शुभदन्तपकी संभूषितौ विकसिताम्बुजरम्यवक्तौ । सत्रीडासमुखीक्षणसं हृष्टौ देवाविवापतुरनुत्तमशर्म नित्यम् ॥ ३५ अग्नीनथाधित महोत्तरयागजातं कर्तुं विशेषकुशलैः सहितो द्विजेश: । तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥ यागैरनेकैर्बहु वित्ता सध्यैर्विजेतुकामो भुवनान्ययष्ट । व्यस्मारि देवैरमृतं तदाशैर्दिने दिने सेवितयज्ञभागैः ॥ संतर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैरभिवाञ्छितैः सह । विशिष्टवित्तैः सुमनोभिरञ्चितं तं मेनिरे जङ्गमकल्पपादपम् ॥ परोपकारaतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः । श्रुतिस्मृतिमोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससंमिताः ॥ रूपेषु मारः क्षपया वसुन्धरा विद्यासु वृद्धो धनिनां पुरःसरः । गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् ॥ गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् । संभावना बन्धुजनैश्च संगमो न पुत्रहीनं बहवोऽप्यमृमुहन्न ॥ अस्यामजाता मम सन्ततिश्वेच्छरद्यवश्यं भवितोपरिष्टात । तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥ खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ । साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ॥ ४३ एवं प्रिये गतवतोः सुतदर्शनं चेत्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् । अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ॥ सर्गः २ ] आचार्य जन्मादिकथनम् 15 भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्र सरणिक्रमतः प्रसिद्धिः । लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवालमये फलितं विहाय ॥ इतीरिते प्राह तदीयभार्या शिवारूपकल्पद्रुमपाश्रयावः । तत्सेवनान्नौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ॥ ४६ भक्तेप्सितार्थ परिकल्पन कल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धये । तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७ इत्थं कत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् । इयेष सन्तोषयितुं तपोभिः सोमार्धमूर्धानमामीशम् ॥ तस्योपधाम किल संनिहिताऽऽपगैका स्नात्वा सदाशिवमुपास्त जले स तस्याः । कन्दाशनः कतिचिदेव दिनानि पूर्व पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥ जायाऽपि तस्य विमला नियमोपतापैश्विक्लेश कायमनिशं शिवमर्चयन्ती । क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतो रनेकः ॥ देव: कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् । प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते पुत्रार्थितेति वचनं स जगाद विमः ॥ देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् । पुत्रं ददान्यय बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥ पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे । दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥ आकर्णयन्निति बुबोध स विप्रवर्यस्तं चाब्रवीनिजकलत्रमनिन्दितात्मा । स्वनं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ॥ तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वप्रेक्षितं गृहगतौ बहुदक्षिणानैः । संतर्प्य विमनिकरं तदुदीरिता भिराशीर्भिरापतुरनल्पमुदं विशुद्धौ ॥ ५५ 16 श्रीमच्छङ्करदिग्विजये [ द्वितीयः तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्त प्रविष्टमभवत्किल शैवतेजः । भुक्तान्न विप्रवचनादुपभुक्तशेषं सोऽभुङ्ग साऽपि निजभर्तृपदाब्जभृङ्गी ॥ गर्भे दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् । तेजोऽतिरेक विनिवारितदृष्टिपात विश्वं रवेर्दिव समध्य इवोग्रतेजः ॥ ५७ . गर्भालसा भगवती गतिमान्धमीषदापेति नाद्भुतमिदं धरते शिवं या । यो विष्टपानि विभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः ॥ संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरसकावकृतात्र कांचित् । यत्पूर्वमेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतोः ॥ ५९ रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै नाधातुमैशत भरात्किमु भूषणानि । यथद्गुरुत्वपदमस्ति पदार्थजातं तत्तद्विधारणविघावलसा बभूव ॥ ६० तां दौहृदं भृशमबाधत दुःशरारिः प्रायः परं किल न मुञ्चति मुञ्चतेऽपि । आनीतदुर्लभमपोहति याचतेऽन्यत्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥ तां बन्धुताssगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु । आस्वाद्य बन्धुजनदत्तमसौ जहर्ष हा हन्त गर्भधरणं खलु दुःखहेतुः ॥ मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे न वध्वाः । सर्वव्यथाव्यतिकरं परिहर्तुकामा देवं भजन्त इति तच्चविदां प्रवादः ॥ उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा । संगीयमानमपि गीतविशारदाढ्यैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४ आकर्णयज्जय जयेति वरं दधाना रक्षेति शब्दमवलोकय मा दृशेति । आकर्ण्य नोत्थितवती पुनरुक्तशब्द सा विस्मिता किल शृणोति निरीक्षमाणा ॥ ६५ नमक्तिकृत्यामपि विद्यमाना किञ्चापि चञ्चत्तरमञ्चरोहे । जित्वा मुदाऽन्यानविद्या विद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६ सर्गः २ ] आचार्यजन्मादिकथनम् समानता सात्विकवृत्तिभाजां विरागता वैषयिकप्रवृत्तौ । तस्याः स्त्रिया गर्भगपुत्रचित्र चरित्रशंसिन्यजनिष्ट चेष्टा ॥ तद्रोमवल्ली रुरुचे कुचायावृण्वत्प्रभाघुन्युरुशैवलालि: । यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणुः ॥ पयोधरद्वंद्व मिषादमुष्याः पयः पिवत्यर्थविधानयोग्यौ । कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयांबभूव ॥ द्वैतप्रवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च । सुमभंग एव सोम द्रागर्हयामास महात्मगम् ॥ 17 लग्ने शुभे शुभते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च । जाया सतीं शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥ दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ मनोऽपि शक्तिमनुसृत्य जले न्यमाक्षीत् । व्यश्राणयद्वहु धनं वसुधाश्च गाव जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः ॥ तस्मिन्दिने मृतकन्द्रतरक्षु सिंह सर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः । वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥ वृक्षा लताः कुसुमाराशिफलान्यमुञ्चन्नद्यः प्रसन्नसलिला निखिला स्तथैव । जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्गणादपि जलं सहसोत्पपात ॥ अद्वैतवादिविपरीतमतावलम्विहस्ताग्रवर्तिवर पुस्तकमप्यकस्मात् । उच्चैः पपात जहसुः श्रुतिमस्तकानि श्री व्यासचित्तकमलं विकचीबभूव ॥ सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः । प्रजज्वलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्र कीलैः ॥ सुमनोहरगन्धिनी सतां सुमनोमिला शिवंकरी । सुमनो निकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ॥ 18 श्रीमच्छङ्करदिग्विजये [द्वितीयः लोकart लोकदृशेन भास्वता महीधरेणेव मही सुमेरुणा । विद्या विनीत्येव सती सुतेन सा रराज तत्तादृशराजतेजसा ॥ सत्कारपूर्वमभियुक्तमुहूर्तवे दिविप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म । सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमय वागधिपांच जेता ॥ कीर्ति स्वकां भुवि विधास्यति यावदेषा किं बोधितेन बहुना शिशुरेष पूर्ण: । नापृच्छि जीवितमनेन च तैर्न चोक्तं प्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥ तज्ज्ञातिबन्धुसुहृदिष्टजनाङ्गनास्तास्तं सूतिकागृहनिविष्टमयो निदध्युः । सोपायनस्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्तूम् ॥ तत्सूतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत्क्षपायाम् । आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥ यत्पश्यतां शिशुरसौ कुरुते शमय्यं तेनाकृतास्य जनकः किल शङ्कराख्याम् । यद्वा चिराय किल शङ्करसंप्रसादाज्जातस्ततो व्यधित शङ्कर नामधेयम् ॥ सर्व विदन्स कलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तद्वत् । बालः शनैर्हसितुमारभत क्रमेण सप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥ arose मचे किल शायितेऽस्मिन्सतां प्रसन्नं हृदयं बभूव । संवीक्षमाणे मणिगुच्छवर्य विद्वन्मुखं हन्त विलीनमासीत् ॥ संताडयन्हन्त शनैः पदाभ्यां पर्यङ्कव कमनीयशय्यम् । बिभेद सद्यः शतधा समूहान्विभेदवादीन्द्रमनोरथानाम् ॥ द्वित्राणि वर्णानि वदत्यमुष्मिन्द्वैतिप्रवीरा दधुरेव मौनम् । मुदा चलत्य‌ङ्घ्रिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ॥ उदचारयदर्भको गिरः पदचारानतनोदनन्तरम् । विकलोऽभवदादिमात्तयो: पिकलोकश्वरमान्मरालकः ॥ ૮૮ सर्गः २] आचार्य जन्मादिकथनम् नवविद्रुमपलवस्तुतामिव काश्मीरपरागपाटलाम् । रचयन्नचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ॥ मूर्धनि हिमकरचिह्नं निटिले नयनाङ्कमंसयोः शूलम् । वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम् ॥ 19 राज्यश्रीरिव नयको विदस्य राज्ञो विद्येव व्यसनददीयसो बुधस्य । शुभ्रांशश्छविवि शारदस्य पित्रोः संतोषैः सह ववृधे तदीयमूर्तिः ॥ नागेनोरसि चामरेण चरणे बालेन्दुना फालके पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्ध्नि त्रिशूलेन च । तत्तस्याद्भुतमाकलय्य ललितं लेखाकृते लाञ्छितं चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥ ९२ सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गते स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति । वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्णौ भुवि ॥ इति श्रीमाधवीये तदवतारकथापरः । संक्षेपशङ्करजये सर्ग: पूर्णो द्वितीयकः ॥ आदितः श्लोकाः 191 तृतीयः सर्गः ॥ ३ ॥ देवावतारः ॥ इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः । दिविषत्वराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥ कमलानिलयः कलानिधेर्विमलाख्यादजनिष्ट भूसुरात् । भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ॥ 20 श्रीमच्छङ्करदिग्विजये [ तृतीयः पवमानो ऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात् । गलहस्तिभेदवाद्यसौ किल हस्तामलकाभिधामधात् ॥ ३ पवमानदशांशतोऽजनि लवमानाऽञ्चति यद्यशोम्बुधौ । धरणी मथिता विवादिवाक्तरणी येन स तोटकाहयः ॥ उदभाव शिलादनुना मदवद्वादिकदम्ब निग्रहैः । समुदञ्चितकीर्तिशालिनं यमुदकं ब्रुवते महीतले ॥ विधिरास सुरेश्वरो गिरां निधिरानन्द गिरिर्व्यजायत । अरुण: समभूत्सनन्दनो वरुणोऽजायत चित्सुखाह्वयः ॥ अपरेऽप्यभवन्दिवौकसः स्वपरेर्ष्यापर विद्विषः प्रभोः । चरणं परिसेवितुं जगच्छरणं भूसुरपुङ्गवात्मजाः ॥ चार्वाकदर्शन विधानसरोषधातृ- शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः । नन्दीश्वरः करुणयेश्वरचोदितः स- नानन्द गिर्यभिधया व्यजनीति केचित् ॥ अयावतीर्णस्य विधेः पुरन्ध्री साऽभूद्यदाख्योभयभारतीति । सरस्वती सा खलु वस्तुवृत्या लोकोऽपि तां वक्ति सरस्वतीति ॥ पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् । वेदं तदा दुर्वसनोऽतिकोपनो वेदानधीयन्कचिदस्खलत्स्वरे ॥ तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भव शब्दसन्ततिः । चुकोप तस्यै दहनानुकारिणा निरक्षताक्ष्णा मुनिरुप्रशासनः ॥ शशाप तां दुर्विनयेऽवनीतले जायस्व मर्त्येष्वविभेत्सरस्वती । प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥ दृष्ट्वा विषण्णां मुनयः सरस्वतीं प्रसादयांचक्रुरिमं तमादरात् । कृतापराधा भगवन्क्षमस्व तां पितेव पुत्रं विहितागसं सुने ॥ देवावतारः सर्गः ३ ] प्रसादितोऽभूदथ सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् । ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥ सा शोणतीरेऽजनि विप्रकन्या सर्वार्थवित्सर्वगुणोपपन्ना । यस्या बभूवुः सहजाव विद्या: शिरोगतं के परिहर्तुमीशाः ॥ सर्वाणि शास्त्राणि षडङ्गवेदान्काव्यादिकान्वेत्ति परं च सर्वम् । तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥ सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः । शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥ अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् । अवाप्य संदर्शनभाषणानि पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥ दिक्षपाणावपि नेक्षमाणावन्योन्यवार्ताहृतमानसौ तौ I यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥ ar data पितरौ कदाचिदपृच्छतां तौ परिकशिताङ्गौ । वपुः कृशं ते मनसोऽप्यगव न व्याधिमीक्षे न च हेतुमन्यम् ॥ इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् । वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥ न तेऽत्यगादुद्वहनस्य कालः परावमानो न च निःस्वता वा । कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥ न मूढभावः परितापहेतु: पराजितिर्वा तव तन्निदानम् । विद्वत्सु विस्पष्टतया पाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥ आ जन्मनो विहितकर्मनिषेवणं ते स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा । तस्मान्न भेयमपि नारकयातनाभ्यः 21 किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥ 22 श्रीमच्छङ्करदिग्विजये निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ वक्तुं कृपाभरयुता विदमूचतुः स्म । निर्बंन्धतस्तव वदामि मनोगतं मे वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥ शोणाख्यपुंनदतटे वसतो द्विजस्य कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः । सर्वज्ञतापदमनुत्तमरूपवेषां तामुद्विवक्षति मनो भगवन्मदीयम् ॥ पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् द्वौ fat वधूवरणकर्मणि सम्प्रवीणौ । तावापतुर्द्विजगृहं द्विजसंदिदृक्षू देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥ भूभृनिकेतनगतः श्रुतविश्वशास्त्रः श्री विश्वरूप इति यः प्रथितः पृथिव्याम् । तत्पादपद्यरजसे स्पृहयामि नित्यं साहाय्यमत्र यदि तात भवान्विदध्यात् ॥ पुत्र्या वचः पिवति कर्णपुटेन ताते श्री विश्वरूपगुरुणा गुरुणा द्विजानाम् । आजग्मतुः सुवसनौ विशदाभयष्टी संप्रेषितौ सुतरोद्वहनक्रियायै ॥ [ तृतीयः तावास द्विजवरौ विहितोपचारैरायानकारणमयो शनकैरपृच्छत् । श्री विश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥ संप्रेषितौ श्रुतवयः कुलवृत्तधर्मैः साधारणीं श्रुतवता स्वसुतस्य तेन । याचाहे तव सुतां द्विज तस्य हेतोरन्योन्यसंघटन मेतु मणिद्वयं तत् ॥ ३१ मह्यं तदुक्तमभिरोचत एव विमौ पृष्ठा वधूं मम पुनः करवाणि नित्यम् । कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥ ३२ सर्गः ३] देवावतारः भार्यामपृच्छदय किं करवान भद्रे विप्रौ वरीतुमनसौ खलु राजगेहात् । एतां सुतां सुतनिभा तत्र याऽस्ति कन्या ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥ 23 दूरे स्थितिः श्रुतवयः कुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम् । वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥ नैवं नियन्तुमनघे तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे । प्रादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय । कि केन सङ्गतमिदं सति मा विचारीयों वैदिकीं सरणिममहतां प्रयत्नात् । प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनमशिषत्स च भट्टपादः ॥ ३६ किं वर्ण्यते सुदति यो भविता वरो नो विद्याधनं द्विजवरस्य न बाह्यवित्तम् । याऽन्वेति सन्ततमनन्तदिगन्तभाजं यां राजचोरवनिता न च हर्तुमीशाः ॥ वध्वर्जनावनपरिव्ययगानि तानि वित्तानि चित्तमनिशं परिखेदयन्ति । चोरान्नपात्स्वजनतश्च भयं धनानां शर्मेति जातु न गुणः खलु बालिशस्य ॥ केचिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् । अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्तृ ॥ ३९ सर्वात्मना दुहितरो न गृहे विधेयास्ताचेत्पुरा परिणयाद्रज उद्गतं स्यात् । पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥ मा भूदयं मम सुता कलह: कुमारीं पृच्छाव सा वदति यं भविता वरोऽस्याः । एवं विधाय समयं पितरौ कुमार्याः अभ्याशमीयतुरितो गदितेष्टकार्यौ ॥ 24 श्रीमच्छङ्करदिग्विजये श्री विश्वरूपगुरुणा हितौ द्विजाती कन्यार्थिनौ सुतनु किं करवाव वाच्यम् । तस्याः प्रमोदनिचयो न ममौ शरीरे रोमाञ्चपूर मिषतो बहिरुज्जगाम ॥ [ तृतीयः तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् । आदाय विमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥ अस्माच्चतुर्दशदिने भविता दशम्यां जामित्रभादिशुभयोगयुतो मुहूर्त: । एवं विलिख्य गणितादिषु कौशलास्या व्याख्यापराय दिशति स्म सरस्वती सा ॥ तौ हृष्टपुष्टमनसौ विहितेष्टकायै श्री विश्वरूपगुरुमुत्तममैक्षिषाताम् । सिद्धं समीहितमिति प्रथितानुभावो मुखमसाथ निश्विकाय ॥ अन्यः स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्वा जहास सुखवारिनिधौ ममज्ज । विप्रान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥ पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः । कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयोचितसाधनाय ॥ मौहूर्तिकैर्बहुभिरेत्य मुहूर्तकाले संदर्शिते द्विजवरैबैहुविद्भिरिष्टैः । माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥ शोणस्य तीरमुपयातमुपाशृणोत्स जामातरं बहुविधं किल विष्णुमित्रः । प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥ ४९ दवाssसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्घपात्रे । अर्घ्यं ददावहमियं तनया गृहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥ सर्गः ३] देवावतारः अस्माकमद्य पवितं कुलमाहताः स्मः संदर्शनं परिणयव्यपदेशतोऽभूत् । नोचेद्भवान्बहु विदग्रसरः कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥ 25 sa भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् । वक्ष्यामि सर्वमभिलाषपदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥ ५२ एवं मिथः परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ । अन्ये च संमुमुदिरे प्रियसत्कथाभिः स्वेच्छाविहारहसनैरुभये विधेयाः ॥ कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ दृष्ट्टोभयेऽपि परिकर्म विलम्बमानाः । चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥ 'एतत्सभाप्रतिहतात्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने । लोकप्रसिद्धिमनुसृत्य विधेयबुद्ध्या भ्रूषां व्यधुस्तदुभये न विशेषबुद्धया ॥ मौहूर्तिका बहुविदोऽपि मुहूर्तकालपत्राक्षुरक्षतधियं खिलतीं सखीभिः । पश्चात्तदुक्तशुभयोगयुते शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥ ५६ जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णु मित्रदुहितुः करपल्लवेन । भेरी मृदङ्गपटहाध्ययनान्नघोषैर्दिमण्डले सुपरिमूर्च्छति दिव्यकाले ॥ यं यं पदार्थमभिकामयते पुमान्यस्तं तं प्रदाय समतुतुषतां तदीड्यौ । देवद्रुमाविव महासुमनस्त्वयुक्तौ संभूषितौ सदसि चेरतुरात्मलाभौ ॥ ५८ आधाय वह्निमथ तत्र जुहाव सम्य- गृक्तमार्गमनुसृत्य स विश्वरूपः । लाजाञ्जुहाव च वधूः परिजिघ्रति स्म धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥ होमावसानपरितोषितविप्रवर्यः प्रस्थापिताखिलसमागतबन्धुवर्ग: । संरक्ष्य वह्निमनया सममग्निगेहे दीक्षाधरो दिनचतुष्कमुवास हृष्टः ॥ ६० प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः । आभाषिषातां शृणु सावधानो बालेव बाला न तु वेति किञ्चित् ॥ ६१ 26 श्रीमच्छङ्करदिग्विजये बालैरियं क्रीडति कन्दुकाद्यैर्जातक्षुधा गेहमुपैति दुःखात् । [ तृतीयः एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥ ६२ बालेयमङ्ग वचनैर्मृदुभिर्विधेया कार्या न रूक्षवचनैर्न करोति रुष्टा । केचिन्मृदुक्तिवशगा विपरीतभावा: केचिद्विहातुमनलं प्रकृतिं जनो हि ॥ कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्वीक्ष्य लक्षणमवोचदनिन्दितात्म । मानुष्यमात्रजननं निजदेवभावेत्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥ सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् । तत्साक्षिभावं व्रजिताऽनवद्या संदिश्य नावेवमसौ जगाम ॥ श्वर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् । निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥ बाल्येषु बाल्यात्सुलभोsपराधः स नेक्षणीयो गृहिणीजनेन । वयं सुधीभूय हि सर्व एव पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥ दृष्ट्वाऽभिधातुमलं च मनोऽस्मदीयं गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः । दृष्ट्वाऽभिधानफलमेव यथा भवेन्नो ब्रूयात्तथेष्टजनता जननीं वरस्य ॥ वत्से त्वमद्य गमिताऽसि दशामपूर्वी तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् । 'कुर्यान्न बालविहति जनतोपहास्यां सा नाविवापरमियं परितोषयेत्ते ॥ पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् । पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥ ७० पत्यावमुक्तवति सुन्दरि मा स्म शुक्ष्व याते प्रयातमपि मा स्म भवेद्विभूषा । पूर्वापरादिनियमो ऽस्ति निमज्जनादौ वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥ रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्यम् । तस्मिन्प्रसन्नवदने चकितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥ सर्गः ३ ] देवावतारः भर्तुः समक्षमपि तद्वदनं समीक्ष्य वाच्यो न जातु सुभगे परपुरुषस्ते । कि वाच्य एष रहसीति तवोपदेशः शङ्का वधुपुरुषयोः क्षपयेद्धि हार्दम् ॥ आयाति भर्तरि तु पुत्र विहाय कार्य- मुत्थाय शीघ्रमुदकेन पदावनेकः । कार्यों यथाभिरुचि हे सति जीवनं वा नो पेक्षणीयमणुमात्रमपीह कं ते ॥ धवे परोक्षेऽपि कदाचिदेयुर्गृहं तदीया अपि वा महान्तः । ते पूजनीया बहुमानपूर्व नो चेन्निराशाः कुलदाहकाः स्युः ॥ पित्रोरिव श्वशुरयोरनुवर्तितव्यं तद्वन्मृगाक्षि सहजेष्वपि देवरेषु । ते स्नेहिनो हि कुपिता इतरेतरस्य योग विभिरिति मे मनसि प्रतर्कः ॥ हितोपदेशे विनिविष्टमानसौ वधूवरौ राजगृहं समीयतुः । लब्धानुमानौ गुरुबन्धुवर्गतो बभूव संज्ञोभयभारतीति ॥ सा भारती दुर्वसनेन दत्तं पुनः प्रसन्नेन पुराऽऽत्तहर्षा । शापावधि संसदि वर्त्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥ स भारती साक्षिकसर्वविचोऽप्यात्मीयशक्त्या शिशुवद्विभातः । स्वशैशवस्योचितमन्त्रकांक्षीत्स केशवो यद्वदुदारवृत्तः ॥ शैशवे स्थितवता चपलाशे शार्ङ्गिणेव वटवृक्ष पलाशे । आत्मनीदमखिलं विलुलो के भाविभूतमपि यत्खलु लोके ॥ तं ददर्श जनताऽद्भुतवालं लीलयाऽधिगतनूतनदोलम् । वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम् ॥ कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि । केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥ 27 28 श्रीमच्छङ्करदिग्विजये [ तृतीयः शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै- रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वेदिकम् । पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते घोरे संसृतिकानने विचरतां भद्रंकरः शङ्करः ॥ इति श्रीमाधवये तत्तद्देवावतारार्थकः । संक्षेपशङ्करजये तृतीयः सर्ग अभवत् ॥ आदितः श्लोका: 274. अथ चतुर्थः सर्गः ॥ ४ ॥ कौमारचरितवर्णनम् ॥ अथ शिवो मनुजो निजमायया द्विजगृहे द्विजमोदमुपावहन् । प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ॥ द्विसम एव शिशुर्लिखिताक्षरं गदितुमक्षमताक्षर वित्सुधीः । अथ स काव्यपुराणमुपाशृणोत्स्वयमवैत्किमपि श्रवणं विना ॥ अनि दुःखकरो न गुरोरसौ श्रवणतः सकृदेव परिग्रही । सहनिपाठजनस्य गुरुः स्वयं स च पपाठ ततो गुरुणा विना ॥ रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि । कलाधरसत्तमात्मजो सकलाचापि लिपीरविन्दत ॥ सुधियोऽस्य विदिद्युतेऽधिकं विधिवच्चौलविधानसंस्कृतम् । ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणः ॥ उपपादन निर्व्यपेक्षधी: स पपाठाहृतिपूर्वकागमान् । अधिकाव्यमरस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ॥ हरतस्त्रिदशेज्यचातुरीं पुरतस्तस्य न वक्तुमीश्वराः । प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधाः ॥ 9 सर्गः ४ ] कौमारचरितवर्णनम् अमुकमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम् । मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥ कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता । स्वमतान्यपि तेन खण्डितान्यतियत्नैरपि साधितानि कैः ॥ अमुना तनयेन भूषितं यमुनातातसमानवर्चसा । तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥ शिवगुरुः स जरंस्त्रिसमे शिशावमृत कर्मवशः सुतमोदितः । उपनिनीषितसूनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥ इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् । सुतमवाप कथञ्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥ मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः । समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पदैः ॥ कृतवती मृतचोदितपक्षमा निजजनैरपि कारितवत्यसौ । उपनिनीषुरभूत्सुतमात्मन: परिसमाप्य च वत्सरदीक्षणम् ॥ उपनयं किल पञ्चमवत्सरे प्रवरयोगयुते सुमुहूर्त के । 29 द्विजवधूर्नियता जननी शिशोर्व्यधित तुष्टमनाः सह बन्धुभिः ॥ १५ अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडङ्गकान् । अजनि विस्मितमत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥ सहनिपाठयुता बहवः समं पठितुमैशत न द्विजसूनुना । अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥ अत्र किं स यदशिक्षत सर्वाश्चित्रमागमगणाननुवृत्तः । द्वित्रिमास पठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥ 30 श्रीमच्छङ्करदिग्विजये वेदे ब्रह्मसमस्तदङ्गनिचये गायोंपमस्तत्कथा- तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने । आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो [ चतुर्थः व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्टतः ॥ १९ आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे पीतं पातञ्जलाम्भः परमपि विदितं भाट्टघट्टार्थतत्वम् । यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैत विद्यासुखेऽस्मि - कूपे योऽर्थः स तीर्थे सुपयसि वितते हन्त नान्तर्भवेत्किम् ॥ २० स हि जातु गुरोः कुले वसन्सवयोभिः सह भैक्षलिप्सया । भगवान्भवनं द्विजन्मनो धनहीनस्य विवेश कस्यचित् ॥ तमवोचत तत्र सादरं यतिवर्य गृहिणः कुटुंबिनी । कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥ विधिना खलु वञ्चिता वयं वितरीतुं वटवे न शक्नुमः । अपि किञ्चनत्वतो धिगिदं जन्म निरर्थकं गतम् ॥ इति दीनमुदीरयन्त्यसौ प्रददावामलकं व्रतीन्दवे । करुणं वचनं निशम्य सोऽप्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥ स मुनिर्मुरभिकुटुम्बिनीं पदचित्रैर्नवनीत कोमलैः । मधुरैरुपतस्थिवांस्तवैर्द्विजदारिद्र्यदशानिवृत्तये ॥ अथ कैटभजित्कुटुम्बिनी तटिदुद्दाम निजाङ्गकान्तिभिः । सकलाश्च दिशः प्रकाशयन्त्यचिरादाविरभूत्तदग्रतः ॥ अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरतः कृताञ्जलिम् । ललितस्तुतिभिः प्रहर्षिता तमुवाच स्मितपूर्वकं वचः ॥ सर्गः ४ ] कौमारचरितवर्णनम् विदितं तव वत्स तं कृतमेभिर्न पुरा भवे शुभम् । वत्सहृतं अधुना मदपाङ्गपात्रतां कथमेते महितामवाप्नुयुः ॥ इति तद्वचनं स शुश्रुवान्निजगादाम्ब मयीदमर्पितम् । फलमद्य ददस्व तत्फलं दयनीयो यदि तेऽहमिन्दिरे ॥ अमुना वचनेन तोषिता कमला तद्भवनं समन्ततः । कनकामलकैरपूरयज्जनताया हृदयं च विस्मयैः ॥ अथ चक्रभृतो वधूमये सुकृतेऽन्तर्धिमुपागते सति । प्रशशंसुरतीव शङ्करं महिमानं तमवेक्ष्य विस्मिताः ॥ दिवि कल्पतरुर्यथा तथा भुवि कल्याणगुणो हि शङ्करः । सुरभूसुरयोरपि प्रियः समभूदिष्टविशिष्टत्रस्तुदः ॥ अमरस्पृहणीयसम्पदं द्विजवर्यस्य निवेशमात्मवान् । स विधाय यथापुरं गुरोः सविधे शास्त्रवराण्यशिक्षत ॥ वरमेनमवाप्य भेजिरे परभागं सकलाः कला अपि । समवाप्य निजोचितं पतिं कमनीया इव वामलोचनाः ॥ सरहस्य समग्र शिक्षिताखिलविद्यस्य यशस्विनो वपुः । उपमानकथाप्रसङ्गमप्यसहिष्णु श्रियमन्वपद्यत ॥ जयति स्म सरोरुहप्रभामदकुण्ठीकरणक्रियाचणम् । द्विजराजकरोपलालितं पदयुग्मं परगर्वहारिणः ॥ जलमिन्दुमणि स्रवेद्यदि यदि पद्मं दृषदः ततः सरः । यदि तत्र भवेत्कुशेशयं तदमुष्यांघितु लामवाप्नुयात् ॥ पादौ पद्मसमौ वदन्ति कतिचिच्छ्री शङ्करस्यानघौ वक्तुं च द्विजराज-मण्डलनिभं नैतद् द्वयं साम्प्रतम् । प्रेष्यः पद्मपदः किल त्रिजगति ख्यातः पदं दत्तवा- नम्भोजे द्विजराजमण्डलशतैः प्रेष्यैरुपास्यं मुखम् ॥ 31 32 श्रीमच्छङ्करदिग्विजये मुहुः सन्तो नैजं हृदयकमलं निर्मलतरं विधातुं योगीन्द्राः पदकमलमस्मिन्निदधति । दुरापां शक्राद्यैमति वदनं यन्नवसुधां ततो मन्ये पद्मात्पदमधिकमिन्दोश्च वदनम् ॥ तत्वज्ञानफलेग्रहिर्घनतरव्यामोहमुष्टिधयो निःशेषव्यसनो दरंभरिरघप्राग्भारकूलंकषः । लुण्टाको मदमत्सरादिवितते स्तापत्रया रंतुदः पादः स्यादमितंपचः करुणया भद्रंकरः शङ्करः ॥ पादाघातस्फोटवणकिणितकार्तान्तिकभुजं प्रघाणव्याघातप्रणतविमतद्रोह बिरुदम् । परं ब्रह्मैवासौ भवति तत एवास्य सुपदं गतापस्मारातञ्जगति महतोऽयापि तनुते ॥ प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्जृम्भणं स्वालोकेन विधूतविश्वतिमिरस्यासन्नतारस्य च । ari नस्त्वरितं क्षिपन्ति घनतापनं प्रसन्ना मुने- राहूलादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥ नतिर्दते मुक्ति नतमुत पदं वेति भगव- पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः । वयन्तु श्रमस्तद्भजनरतपादाम्बुजरज:- परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥ लांशुकपल्लवाटतं विललासोरुयुगं विपश्चितः । तार्णव फेनमञ्जरीच्छुरितैरावतहस्तश स्तिभृत् ॥ दे हाटकवल्लरीत्रयीघटिता स्फाटिककूटभृत्तटी । टमस्य तथा कटीतटी तुलिता स्यात्कलितत्रिमेखला ॥ [ चतुर्थः सर्गः ४ ] कौमारचरितवर्णनम् 33 आदाय पुस्तकपुः श्रुतिसारमेकहस्तेन वादिकृततनकण्टकानाम् । उद्धारमारचयतीव विबोधमुद्रामुद्विभ्रता निजकरेण परेण योगी ॥ ४६ सुधीराजः कल्पद्रुम किसलयाभौ करवरौ करोत्येतौ चेतस्य लकमलं यत्सहचरम् । रुचेश्वोरावेतावहनि किमु रात्राविति भिया निशादेराप्रातर्निजदलकवाटं घटयति ॥ रुचिरा तदुरस्थली बभावररस्फाल विशालमांसला धरणी भ्रमणोदितश्रमात्पृथुशय्येव जयश्रियाऽऽश्रिता ॥ परिपथमापहारिणौ शुशुभाते शुभलक्षणौ भुजौ । बहिरन्तर शत्रु निग्रहे विजय स्तंभयुगी धुरन्धरौ ॥ उपवीतममुष्य दिद्युते बिसतन्तु क्रियमाणसौहृदम् । शरदिन्दुमयूखपाण्डिमातिशयोलङ्घनजाङ्घिकप्रभम् ॥ समराजत कण्ठकम्बुराड् भगवत्पादमुनेर्यदुद्भवः । निनद: प्रतिपक्ष निग्रहे जयशङ्खध्वनितामविन्दत ॥ अरुणाघर संगताऽधिकं शुशुभे तस्य हि दन्तचन्द्रिका । नवविद्रुमवल्लरीगता तुहिनांशोरिव शारदी छविः ॥ सुकपोलतले यशस्विनः शुशुभाते सितभानुवर्चसः । वदनातिभारतीकृते विधिसङ्कल्पितदर्पणाविव ॥ समासीत्तस्यास्थं सुकृतजलधेः सर्वजगतां पयःपारावारादजनि रजनीशो बहुमतात् । सुधाधारोद्वारः सुसहगनयोः किन्तु शशभृ- रसतां तेजःपुञ्जं हरति वदनं तस्य दिशति ॥ पुरा क्षीराम्भोधेरहह तनया यद्विषयता- जुषो दीनस्याये घनकनकधाराः समकिरत् । इदं नेत्रं पात्रं कमलनिलयामीतिवितते- नीशस्य स्तोतुं कृतसुकृत एव प्रभवति ॥ 34 श्रीमच्छङ्करदिग्विजये दुर्वारप्रतिपक्षद्वणसमुन्मेषक्षितौ कल्पने सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः । अपन्नानतिकायविभ्रममुषः संसारिशाखामृगान् पुष्णन्त्यच्छपयो वीचिवदलङ्काराः कटाक्षाङ्कुराः निःशङ्कक्षतिरुक्षकण्टककुलं मीनाङ्कदावानल- ज्वालासंकुलमार्तिपङ्किलतरं व्यध्वं धृतिध्वंसिनम् । संसारकृतिमापयच्छल चद्दरदुर्वारणं मुष्णन्ति श्रममाश्रिता नवसुधाहृष्ट्यायिता दृष्टयः ॥ त्रिपुष्ट्रं तस्याहुः सितभसितशोभि त्रिपथगां कृपापारावारं कतिचन मुनिं तं श्रितवतीम् । वयं त्वेतद् ब्रमो जगति किल तिस्रः सुरुचिरा- स्त्रयीमौलिव्याकृत्युपकृतिभवाः कीर्तय इति ॥ असौ शंभोललावपुरिति भृशं सुन्दर इति द्वयं सम्पत्ये तज्जनमनसि सिद्धं च सुगमम् । यदन्तः पश्यन्तःकरणमदसीयं निरुपमं तृणीकुर्वन्येते सुषममपि कामं सुमतयः ॥ अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै- स्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् । मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती शम्भोर्मूर्तिश्चरति भुवने शङ्कराचार्यरूपा ॥ उच्चण्डाहितवात्रककुहनापाण्डित्यवैतण्डिकं जाते देशिकशेखरे पदजुषां सन्ताप चिन्तापहे । कातर्य हृदि भूयसाsकृत पदं वैभाषिकादेः कथा- चातुर्य कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥ अमुना क्रतवः प्रसाधिताः क्रतुविभ्रंशकरः स शङ्करः । इयमेव भिदाऽनयोजितस्मरयोः सर्वविदोर्बुधेड्ययोः ॥ [ चतुर्थः सर्गः ४ ] कौमारचरितवर्णनम् कलयाऽपि तुलानुकारिणं कलयामो न वयं जगत्त्ये । विदुषां स्वसमो यदि स्वयं भविता नेति वदन्ति तत्र के ॥ युवनान्त इवामरद्रुमा अपरष्विव पुष्पसञ्चयाः । भ्रमरा इव पुष्पसञ्चयेष्वतिसंख्याः किल शङ्करे गुणाः ॥ 35 कामं वस्तुविचारतोऽच्छिनदयं पारुष्य हिंसाकुचः क्षान्त्या दैन्यपरिग्रहानृतकथालाभांस्तु सन्तोषतः । मात्सर्य वनसूयया मदमहामानौ चिरं भावित - स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥ ६५ कामं यस्तु समूलघातमवधात्स्वर्गापवर्गापहं रोषं यः खलु चूर्णपेषमपिषन्निःशेषदोषावहम् । लोभादीनपि यः परांस्तृणसमुच्छेदं समुचिच्छिदे स्वस्यान्तेवसतां सतां स भगवत्पादः कथं वर्ण्यते ॥ ६६ asमी कान्त दिवा निशाकरकरा घर्मस्य मर्मच्छिदो मुग्धे शम्भुनवावतारसुगुरोरेते गुणानां गणाः । कस्मादुत्पलसन्ततिर्विकसिता विस्मेरदिग्योषिता- पाझरीत दिग्गजवधूप्रश्नोत्तरे रेजतुः ॥ नाणा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहुः शिक्षिता क्षीरेक्षू समुपेक्षितौ भुवि यया सा शङ्कर श्रीगुरोः । कान्तानन्तदिगन्तलङ्घन्न कलाजङ्घालत त्तद्गुण- श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥ क्षान्तिवेद्वसुधा जहातु महतीं सर्वसहत्वमथां विद्यारिहन्तु षण्मुखमुखाः स्वावर्गगर्वावलीम् । वैराग्यं यदि बादरायणियशः कार्य परं गाहतां कि जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि मन्यामहे ॥ ६९ या मूर्तिः क्षमया मुनीश्वरीमयी गोत्रासगोत्रायते विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषयते । 36 श्रीमच्छङ्करदिग्विजये भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥ न बभूव पुरातनेषु तत्सदृशो नाद्यतनेषु दृश्यते । भविता किमनागतेषु वा न सुमेरोः सदृशो यथा गिरिः ॥ समशोभत तेन तत्कुलं स च शीलेन परं व्यरोचत । अपि शीलपदीपि विद्यया ह्यपि विद्या विनयेन दिद्युते ॥ सुयशः कुसुमोच्चयः श्रयद्विबुधा लिर्गुणपल्लवोद्गमः । अवबोधफलः क्षमारसः सुरशाखीव रराज सूरिराट् ॥ न च शेषभवी न कापिली गणिता काणभुजी न गीरपि । फणितिष्वितरासु का कथा कविराजो गिरि चातुरीजुषि ॥ भट्टभास्कर विमर्ददुर्दशामज्जदागम शिरः करग्रहा । हन्त शङ्करगुरोर्गिरः क्षरन्त्यक्षरं किमपि तद्रसायनम् ॥ जाटाटङ्कजटाकुटी र विहर नैलिम्पकल्लोलिनी- क्षोणीश प्रियकृन्नत्रावतरणावष्टम्भगुम्फच्छिदः । गर्जन्तोऽवतरन्ति शङ्करगुरुक्षोणीघरेन्द्रादरा- द्वाणी निर्झरिणीझराः क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥ वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते- दूरीभूतदुरन्तदुर्वदझरी हारीकृता सूरिभिः । चिन्तासन्ततितूलवातलहरी वेदोल्लसच्चातुरी संसाराब्धितरीरुदेति भगवत्पादीयवाग्वैखरी ॥ कथादपौत्सर्पत्कथकबुधकण्डूलरसना- सनालाघःपाते स्वयमुदयमन्त्रो व्रतिपतेः । निगुम्फः सूक्तीनां निगमशिखराम्भोजसुरभिः जयत्यद्वैतश्रीजय बिरुदघण्टाघणघणः ॥ [ चतुर्थः सर्गः ४ ] कौमारचरितवर्णनम् कस्तूरीघनसारसौरभपरीरंभप्रियंभावुका- स्वापोन्मेषमुषो निशाकरकराहंकारकूलंकषाः । द्राक्षामाक्षिकशर्करामधुरिमयामाविसंवादिनो व्याहारा मुनिशेखरस्य न कथंकारं मुदं कुर्वते ॥ अद्वैते परिमुक्तकण्टकपथे कैवल्य घण्टापथे स्वाहपूर्वक दुर्विकल्परहितपाज्ञाध्वनीनाकुले । प्रस्कन्दन्मकरन्दवृन्दकुसुमस्रतोरणप्रक्रिया- 37 माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं सूक्तयः ॥ ८० दूरोत्सारितदुष्टपांसुपटीदुर्नी तयोऽनीतयो वाता देशिकवाङ्मया: शुभगुणग्रामालया मालयाः । मुष्णन्ति श्रममुल्लसत्परिमलश्री मेदुरा मे दुरा- यासस्याssधहविर्भुजो भवमये धीमान्तरे प्रान्तरे ॥ ८१ नृत्यन्त्या रसनाग्रसीमन गिरां देव्याः किमधिकण- न्मञ्जीरो जित सिञ्जितान्युत नितम्बालम्बिकाञ्चीरवाः । किं वलत्करपद्मकङ्कणझणत्कारा इति श्रीमतः शङ्कामङ्करयन्ति शङ्करकवेः सद्युक्तयः सूक्तयः ॥ ८२ वर्षारम्भविजृम्भमाणजलमुग्गम्भीरघोषोपमो वात्यातूर्ण विघूर्णदर्णवपयः कल्लोलदर्पापहः । उन्मीलन्नवमल्लिकापरिमलाहंतानिहन्ता निश- तङ्कः शङ्करयोगिदेशिक गिरां गुम्फः समुज्जृम्भते ॥ ८३ हृद्या पद्य विनाकृता प्रशमिता विद्याऽमृषोद्या सुधा- स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता । विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी पद्या मुक्तिपदस्य साद्य मुनिवाङ्नुद्यादनाद्या रुजः ॥ ८४ आयासस्य नवाङ्करं घनमनस्तापस्य बीजं निजं क्लेशानामपि पूर्वरङ्गमलघुपस्तावनाडिण्डिमम् । 38 श्रीमच्छङ्करदिग्विजये दोषाणामनृतस्य कार्मणमसच्चिन्तात ते र्निष्कुटं देहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥ तथागतपथाहतक्षपणकमथालक्षण- प्रतारणहतानुवर्त्यखिलजीवसञ्जीवनी । [ चतुर्थः हरत्यतिदुरत्ययं भवभयं गुरूक्तिर्नृणा- मनाधुनिकभारतीजरठशुक्तिमुक्तामणिः ॥ झंझामारुतवेल्लितामरधुनीकल्लोलकोलाहल- प्राग्भारैकसगयनिर्भरजरीजम्भद्वचोनिर्झराः । नैकालीकमता लिधूलिपटली मर्मच्छिदः सद्गुरो- रुदुर्मतिघमदुर्मतिकृताशान्ति निकृन्तन्ति नः ॥ उन्मीलन्नवम लिसौरभ परीरम्भ प्रियं भावुकाः मन्दारद्रुमरन्दवृन्द विलुठन्माधुर्यधुर्या गिरः । उद्गीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात् सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥ ८८ धारावाहिसुखानुभूतिमुनिवाग्धरासुधाराशिषु क्रीडन्द्वैतिवचः सुकः पुनरनुक्रीडेत मूढेतरः । चित्रं काञ्चनमम्बरं परिदधचित्ते विधत्ते मुहुः कञ्चित्कच्चरदुष्पटच्चरजरत्कन्यानुबद्धादरम् ॥ ततादृक्षमुनि क्षपाकरवच: शिक्षा सपक्षाशयः क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकांक्षति । रूक्षां क्षेपयति क्षितौ खलु सितां नेक्षं क्षणं प्रेक्षते द्राक्षां नापि दिक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥ ९० विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया क्षीर: पात्रधियाऽर्पिता युधि जिताल्लब्धा बलादिक्षुतः । न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्विरां माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥ ९१ सर्गः ४ ] 'कौमारचरितवर्णनम् कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं मल्लीभिश्चिरसेवनादुपगतं क्रीतं तु काश्मीरजैः । प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा- 39 मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥ ९२ असां द्रप्स सुलिप् चिरतरमचरं क्षीरमद्राक्ष मिक्षं साक्षाद्वाक्षामचक्षं मधुरसमधयं प्रागविन्दं मरन्दम् । मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा- माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीना ॥ संतप्तानां भवदवथुभिः स्फारकर्पूरदृष्टि: मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः । अद्वैतात्मानवधिक सुवासारका सारहंसी बुद्धेः शुद्धयै भवतु भगवत्पाद दिव्योक्तिधारा ॥ आम्नायान्तालवला विमलतर सुरेशा दिसूक्ताम्बु सिक्ता कैवल्याशा पलाशा विबुधजनमन: सालजालाधिरूढा । तत्वज्ञान सूना स्फुरदमृतफला सेवनीया द्विजैर्या सा मे सोमावतंसावतरगुरुचोवल्लिरस्तु प्रशस्त्यै ॥ नृत्यद्भूतेश वल्गन्मुकुट तट रटत्स्वर्धुनी स्पर्धिनीभि- र्वाग्भिनिर्भिन्नकूलोच्चलदमृतसरः सारिणीधोरणीभिः । उद्वेलद्वैतवादिस्वमतपरिणताहं क्रिया हुक्रियाभि- र्भाति श्रीशङ्करार्यः सततमुपनिषद्वाहिनी गाहिनीभिः ॥ ९६ साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुब्धक्षीरपयोन्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् । जङ्घा लैर्भवदावपावक शिखाजालैर्जटालात्मनां जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥ कलशाब्धिकचाकचिक्षमं क्षणदाधीशगदागदिप्रियम् । रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते । 40 श्रीमच्छङ्करदिग्विजये परिशुद्धकथासु निर्जितो यशसा तस्य कृताङ्कनः शशी । स्वकलङ्कनिवृत्तयेऽधुनाऽप्युदधौ मज्जति सेवते शिवम् ॥ धम्मिल्ले नवमल्लिवल्लिकुसुमस्रकल्पना शिल्पिनो भद्रश्रीरस चित्रचित्रितकृतः कान्ते ललाटान्तरे । तारावल्यनुहारिहारलतिकानिर्माणकर्माणुकाः कण्ठे दिवसुदृशां मुनीश्वर यशः पूराः नभःपूरकाः ॥ उत्सङ्गेषु दिगङ्गना निदधते ताराः कराकर्षिकाः रागाद चौरवलम्ब्य चुम्बति वियद्गङ्गा समालिङ्गति । लोकालोकदरी प्रसीदति फणी शेषोऽस्य दत्ते रतिं त्रैलोक्ये गुरुराजकीर्तिशशिनः सौन्दर्यमत्यद्भुतम् ॥ संप्राप्ता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं कल्लोला यशसः शशाङ्ककिराणानालक्ष्य सांहासिनम् । कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसंलोपिनं [ चतुर्थः सम्यग् घ्नन्ति च विश्वजांघिकतमः संघात सांघातिनम् ॥ १०२ सोत्कण्ठा कुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ- प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला । मन्याद्रिक्षुब्धदुग्धार्णवनिकट समुल्लोलकल्लालमैत्री- पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाला ॥। १०३ लोकालोकदरि प्रसीदसि चिराकि शङ्कर श्रीगुरु- प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि । त्वं चात्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो- रित्यं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥ दुर्वाराखर्वगर्वाहितबुधजनतातुलवातूल वेगो निर्बाधागाधबोधामृत किरणसमुन्मेषदुग्धाम्बुराशिः । निष्प्रत्यूहं प्रसद्भवदवदहनोद्भूतसन्तापमेघो जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शङ्कराचार्यवर्यः ॥ १०५ सर्ग: ५ ] संन्यासग्रहणम् इतिहासपुराणभारतस्मृतिशास्त्राणि पुनःपुनर्मुदा । विबुधैः सुबुधो विलोकयन्सकलज्ञत्वपदं प्रपेदिवान् । स पुनः पुनरैक्षतादरादरवैयासिकशान्तिवाक्ततीः । समगादुपशान्तिसंभवां सकलज्ञत्ववदेव शुद्धताम् ॥ असत्मपञ्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् । 41 - १०७ अनङ्गजेताऽप्यविरूपदर्शनो जयत्यपूर्वी जगदद्वयीगुरुः ॥ आलोक्याननपङ्कजेन दधतं वाणीं सरोजासनं शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पुरुषम् । आर्याराधितको मलाङ्घ्रिकमलं कामद्विषं कोविदाः शंकन्ते भुवि शङ्करं व्रतिकुलालङ्कारमङ्कागताः ॥ एकस्मिन् पुरुषोत्तमे रतिमतीं सत्तामयोन्युद्भवां मायाभिक्षुहृतामनेकपुरुषासक्तिभ्रमान्निष्ठराम् । जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यविरा- दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शङ्करः ॥ ११० इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः । संक्षेपशङ्करजये चतुर्थः सर्ग अभवत् ॥ आदितः श्लोकाः 384 अथ पञ्चमः सर्गः ॥ ५ ॥ ॥ संन्यासग्रहणम् ॥ इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो चटुः । परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥ १ परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् । मनुचरैर्नियतं परिपूजयञ्छिरवर्तत संस्तरणिर्यथा ॥ 42 श्रीमच्छङ्करदिग्विजये [ पञ्चमः. शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् । अपि करोति जनः करयोर्युगं वशगतो विहिताञ्जलि तत्क्षणात् ॥ ३ मृदु वचरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम् । सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥ जातु मन्दगमनाऽस्य हि माता स्त्रातुमम्बुनिधिगां प्रतियाता । आतपोयकिरणे रविविबे सा तपःकुशतनुर्विललम्बे ॥ शङ्करस्तदनु शङ्कितचित्तः पङ्कजैर्विगतपङ्कजलादैः । वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥ सोऽथ नेतुमनवद्यचरित्रः सद्मनोऽन्तिकमृषीश्वरपुत्रः । अस्तवीज्जलधिगां कविहृद्यैर्वस्तुतः स्फुरदलंकृतपचैः ॥ ईहितं तत्र भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये । इत्यवाप्य स वरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥ प्रातरेव समलोकत लोकः शीतवातहृतशीकरपूत: । नूतनामिव धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥ एवमेनम तिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् । केरल क्षितिपतिर्हि दिक्षुः प्राहिणोत्सचिवमादृतभिक्षुः ॥ सोऽप्यतन्द्रितमभीरुपदाभि: प्राप्य तं यदनु सद्विरदाभिः । उक्तिभि: सरसमपदाभि: शक्तिभृत्समम जिज्ञपदाभिः ॥ यस्य नैव सदृशो भुवि बोद्धा दृश्यते रणशिरःसु च योद्धा । तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥ राजिताभ्रवसनैर्विलसन्तः पूजिताः सदसि यस्य वसन्तः । पण्डिताः सरसवादकथाभिः खण्डितापर गिरोऽवितथाभिः ॥ सोऽयमा जिजितसर्वमहीपः स्तूयमानचरणः कुलदीप: । पादरेणुमवनं भवभाजामादरेण तव विन्दतु राजा ॥ ሪ सर्ग: ५ ] संन्यासग्रहणम् एष सिन्धुरपरो मदपूर्णो दोषगन्धरहितः प्रवितीर्णः । अस्तु ते रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥ इत्युदी परिसाधितदत्यं प्रत्युदीरितसदुक्तिममात्यम् । अत्युदारमृषिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥ भैक्षमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानम् । कर्म दातृवर शास्ति बहूनां शर्मदायिनिगमाप्तिपटूनाम् ॥ कर्म नैजमपहाय कुभांगैः कुर्महेse किमु कुम्भपुरोगैः । इच्छया सुखममात्य यथेतं गच्छ नाथमसकृत्कथयेत्थम् ॥ प्रत्युत क्षितिभृताऽखिलवर्णा वृत्त्युपाहरणतो विगतर्णाः । धर्मवर्त्मनिरता रचनीयाः कर्म वर्ज्यमिति नो वचनीयाः ॥ इत्यमुष्य वचनादकलङ्कः प्रत्यगात्पुनरमात्यमृगाङ्कः । वृत्तमस्य स निशम्य धरापः सत्तमस्य सविधं स्वयमाप ॥ भूसुरार्भकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् । अच्छजह्नुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥ चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्त्रमुचितं विदधानम् । नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् !! जातरूपरुचिमुञ्जसुधाम्ना छातरूपकटिमद्भुतधाम्ना । नाकभूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥ सस्मितं मुनिवरस्य कुमारं विस्मितो नरपतिर्बहुवारम् । संविधाय विनति वरदाने तं विधातृसदृशं भुवि मेने ॥ तेन पृष्टकुशल: क्षितिपाल: स्वेन सृष्टमथ शात्रवकालः । हाटकात समर्पणपूर्व नाटकत्रयमत्रो चदपूर्वम् ॥ तद्रसार्द्रगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् । संग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥ 43 44 श्रीमच्छङ्करदिग्विजये तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् । भूपतिः स रचिताञ्जलिबन्धः स्वोपमं सुतमियेष सुसन्धः ॥ नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय । ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदत्तम् ॥ राजवर्य कुलवृद्धिनिमित्तां व्याजहार रहसि श्रुतिवित्ताम् । इष्टिमस्य सकष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥ स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वरः । अगमत्कृतकृत्यधीर्निजां नगरीमस्य गुणानुदीरयन् ॥ बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शङ्करागुरोः । महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥ पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम् । प्रविभज्य निमञ्जतः सुखे स विधेयान् विदधेतमां सुधीः ॥ सर्वार्थतत्वविदपि प्रकृतोपचारैः शास्त्रोक्तभक्त्यतिशयेन विनीतशाली । सन्तोषयन् स जननीमनयत्कियन्ति [ पञ्चमः संमानितो द्विजवरैर्दिवसानि धन्यः ॥ सा शङ्करस्य शरणं स च तज्जनन्या अन्योन्ययोग विरहस्त्वनयोरसह्यः । नो वोडुमिच्छति तथाऽप्यमनुष्य भावान् मेरुं गतः किमपि वाञ्छति दुष्पदेशम् ॥ कृतविद्यममुं चिकीर्षवः श्रितगार्हस्थ्यमथाशबन्धवः । अनुरूपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥ अथ जातु दिदृक्षवः कलावतीर्णे मुनयः पुरद्विषम् । उपमन्युदधीचिगौतमत्रितलागस्त्यमुखाः समाययुः ॥ संन्यास ग्रहणम् सर्ग: ५ ] प्रणिपत्य स भक्तिसंनतः प्रसवित्र्या सह तान्विधानवित् । विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥ विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पित विष्टरा अमी । ऋषयः परमार्थसंश्रया अमुना साकमचीकरन कथाः ॥ निजगाद कथान्तरे मुनीञ्जननी तस्य समस्तदर्शिनः । वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥ क कलिदोषभाजनं क च युष्मच्चरणावलोकनम् । तदभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥ शिशुरेष किलातिशैशवे यशेषागमपारगोऽभवत् । महिमाऽपि यदद्भुतोऽस्य तद् द्वयमेतत्कुरुते कुतूहलम् ॥ करुणादृशानुगृह्यते स्वयमागत्य भवद्भिरप्ययम् । वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥ इति सादरमीरितां तया गिग्माकर्ण्य महर्षिसंसदि । प्रतिवक्तुमभिमचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥ तनयाय पुरा पतिव्रते तव पत्या तपसा प्रमादित: । स्मितपूर्वमुपाददे वचो रजनी वल्लभ खण्डमण्डनः ॥ वरयस्व शतायुषः सुतानपि वा सर्वविदं मितायुषम् । सुतमेकमितीरितः शिवं सति सर्वज्ञमयाचतात्मजम् ॥ तदभीप्सित सिद्धये शिवस्तव भाग्यात्तनयो यशखिनि । स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥ इति तद्वचनं निशम्य सा मुनिवर्ये पुनरप्यवोचत । कियारमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥ शरदोsट पुनस्तथाऽष्ट ते तनयस्यास्य तथाऽप्यसौ पुन: । निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान् ॥ 45 46 श्रीमच्छङ्करदिग्विजये इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् । ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥ सृणिना करिणीव साऽर्दिता शुचिना शैवलिनीव शोषिता । मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥ अथ शोकपरीतचेतनां द्विजराडित्यमुवाच मातरम् । अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तब ॥ मबलानिल वेगवेल्लितध्वजचीनांशुकको टिचञ्चले । अपि मूढमतिः कलेबरे कुरुते कः स्थिरबुद्धिमम्बिके ॥ कति नाम सुता न लालिताः कति वा नेह बघूरभुञ्जि हि । कनु ते क्वच ताः कवा वयं भवसंग ः खलु पान्थ संगमः ॥ भ्रमतां भववर्त्मनि भ्रमान्न हि किंचित्सुखमम्च लक्षये । तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥ इति कर्णकंठोर भाषणश्रवणाद्वाष्पपिनद्धकण्ठया । द्विगुणीकृतशोकया तथा जगदे गद्द्दवाक्यया मुनिः ॥ त्यज बुद्धिमिमां शृणुष्व मे गृहमेधी भव पुत्रमाप्नुहि । यज च क्रतुभिस्ततो यतिर्भवितास्यङ्ग सतामयं क्रमः ॥ कथमेकतनुभवा त्वया रहिता जीवितुमुत्सहेवला । अनयैव शुचोर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥ त्वमशेषविदप्यपास्य मां जरठां वत्स कथं गमिष्यसि । द्रवते हृदयं कथं न ते न कथंकारमुपैति वा दयाम् ॥ एवं व्यथां तां बहुधाsssयन्तीमपास्तमो है बहुभिर्वचोभि: । अम्बामशकां व्यदधाद्विधिज्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥ मम न मानसमिच्छति संसृति न च पुनर्जननी विजिहासति । न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥ [ पञ्चमः 99 सर्गः ५ ] संन्यासग्रहणम् इति विचिन्त्य स जातु मिमंक्षया बहुजलां सरितं समुपाययौ । जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥ स च रुरोद जले जलचारिणा धृतपदो हियतेऽम्ब करोमि किम् । चलितुमेकपदं न पारये बलवता विद्युतोरुमुखेन ह ॥ गृहगता जननी तदुपाशृणोत्परवशा द्रुतमाप सरितटम् । मम मृेः प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥ स च मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः । इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तूगतेक्षणा ॥ त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे । सकलसंन्यसने परिकल्पिते यदि तवानुमतिः परिकल्पये ॥ इति शिशौ चकिता वदति स्फुटं व्यक्ति साऽनुपर्ति द्रुतमम्बिका । सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥ तदनु संन्यसनं मनसा व्यधादथ मुमोच शिशुं खलनक्रकः । शिशुरुपेत्य सरितटमत्रसन मसुवमेतदुवाच शुचाऽऽनृताम् ॥ मातर्विधेयमनुशाधि यदत्र कार्य संन्यासिना तदु करोमि न सन्दिहेऽहम् । वस्त्राने तव यथेष्टममी प्रदद्यु 47 गृह्णन्ति ये धनमिदं मम पैतृकं यत् ॥ देहेऽम् रोगवश च सनाभयोमी द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसङ्गे । अर्थग्रहाज्जनमयाच्च यथाविधानं कुर्युव संस्कृतिममी न विभेषीषत् ॥ यज्जीवितं जलचरस्य मुखात्तदिष्टं संन्याससंगरवशान्मम देहपाते । संस्कारमेत्य विधिवत्कुरु शङ्कर त्वं नो चेत्प्रसूय मम किं फलमीरय त्वम् ॥ 48 श्रीमच्छङ्करदिग्विजये अब रात्रिसमये समयान्तरे वा संचिन्तय स्ववशगावशगाऽथवा माम् । एष्यामि तत्र समयं सकलं विहाय विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥ संन्यस्तवाञ्छिशुरयं विधवामनाथां क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् । यावन्मया स्थितवता फलमापनीयं मातस्ततः शतगुणं फलमापयिष्ये ॥ [ पञ्चमः इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाय्यः । संन्यास कल्पितमना व्रजितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ॥ एवं सनाभिजनमुत्तममुत्तमाग्र्यः श्रीमातृकार्यमभिभाष्य करद्वयेन । सम्प्रार्थयन् स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिञ्चमानाम् ॥ आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदूरगनदीं जननी हिताय । तत्तीरसंश्रितयदूद्वहधाम किंचित्सा निम्नगाऽऽरभत ताडयितुं तरङ्गैः ॥ ७५ वर्षासु वर्षात हरौ जलमेत्य किंचिदन्तःपुरं भगवतोऽपनुनोद मृत्स्नाम् । आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुञ्चति भीरुहिंसाम् ॥ प्रस्थातुकाममनघं भगवाननङ्गवाचाऽवदत्कथमपि मणिपत्य मातुः । पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशङ्करं जनहितैकरसं स कृष्णः ॥ ७७ आनेष्ट दूरगनदीं कृपया भवान् यां सा माऽतिमात्रमनिशं बहुलो र्मिहस्तैः । क्लिश्नाति ताडनपरा वद कोऽभ्युपायो वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥ आकर्ण्य वाचमिति तामतनुं गुरुर्न: प्रोद्धृत्य कृष्णमचलं शनकैर्भुजाभ्याम् । प्रातिष्ठिपन्निकट एव न यत्र बाधा नचेत्युदीर्य सुखमास्स्व चिराय चेति ॥ तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा- मादाय संसृतिमहाब्धिविरक्तिमान् सः । गन्तुं मनो व्यधित संन्यसनाय दूरं कि नौ स्थितः पतितुमिच्छति वारिराशौ ॥ सर्गः ५ ] संन्यासग्रहणम् इत्थं सुधीः स निरवग्रहमातृलक्ष्मी- शानुग्रहो घटनबोधितभाविवेदी । एकान्ततो विगतभोग पदार्थतृष्णः कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥ यस्य त्रिनेत्रापर विग्रहस्य कामेन नास्थीयत दृक्पथेऽपि । तन्मूलकः संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥ स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ तथाऽहमपि मोहिनी कुच कचादिवीक्षापरः । अगामहह मोहिनी मिति विमृश्य सोऽजागरीत् यतीश्वपुषा शिवः स्मरकृतार्तिवातज्झितः ॥ 49 निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राकरो - दप्यन्यानिह निष्कुलाsकृततरां गन्धर्वविद्याधरान् । यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं यस्तस्मिन्नशुशुरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥ ८४ शान्तिश्वावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रिया: आधाता विषयान्तरादुपरतिः क्षान्तिर्मृदुत्वं व्यधात् । ध्यानैोत्सुकतां समाधिविततिश्चक्रे तथाssस प्रिया श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्यतो वेद्मि नो ॥ ८५ विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः । परिहरन् ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥ गच्छन्वनानि सरितो नगराणि शैलान् ग्रामाञ्जनानपि पशून् पथि सोऽपि पश्यन् । नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं ब्रह्मैवमेव परिदर्शयतीति मेने ॥ वादिभिर्निजनिजाध्वकर्शितां वर्तयन् पथि जरगवीं निजे । दण्डमेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ॥ 50 50 श्रीमच्छङ्करदिग्विजये सारङ्गा इव विश्वकद्रुभिरहंकुर्वद्भिरुच्छृंखलै- जल्पाकैः परमर्मभेदनकला कण्डूलजिहाञ्चलैः । पाखण्डैरिह कान्दिशीकमनसः कं नानुयुर्वेदिका: [ पञ्चमः hi दण्डधरो यदि स्म न मुनिस्त्राता जगद्देशिकः ॥ ८९ दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवनमिन्दुभवातटस्थम् । तेन प्रविष्टमजनिष्ट दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥ ९० तीरद्रुमागतमरुद्विगतश्रमः सन् गोविन्दनाथवनमध्यतलं लुलोके । शंसन्ति यत्र तरवो वसतिं मुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥ आदेशमेकमनुयोक्तमयं व्यवस्थन् प्रादेशमात्र विवरप्रतिहारभाजम् । तत्र स्थितेन कथितां यमिनां गप्पेन गोविन्ददेशिक गुहां कुतुकी ददर्श ॥ ९२ यस्य प्रपन्नपरितोष हो गुहायाः स त्रिः प्रदक्षिणपरिक्रमणं विधाय । द्वारं प्रति प्रणिपतञ्जनतापुरोगं तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३ पर्यङ्कतां भजति यः पतगेन्द्रकेतोः पादाङ्गदत्वमथवा परमेश्वरस्य । तस्यैव मूर्ध्नि घृतसान्धिमहीघ्र भूमेः शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥ दृष्ट्रा पुरा निजसहस्रमुखी म भैषुरन्तेवसन्त इति तामपहाय शान्तः । एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन । प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥ तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षेः । अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां प्रसृमरमहिमानं प्रापमेकान्तभक्त्या ॥ तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं दिष्ट्या समाधिषदरुद्ध विसृष्टचित्तम् । गोविन्ददेशिकमुवाच ततो वचोभिः प्राचीनपुण्यजनितात्मविबोधचिहैः ॥ स्वामिन्नहं न पृथिवी न जलं न तेजो न स्पर्शनो न गगनं न च तद्गुणा वा । नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो यः केवलोsस्ति परमः स शिवोऽहमस्मि ॥ सर्ग: ५ ] संन्यास ग्रहणम् आकर्ण्य शङ्करमुनेर्वचनं तदित्थ- मद्वैतदर्शनसमुत्थमुपात्तहर्षः । स माह शङ्कर स शङ्कर एव साक्षा- ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥ तस्योपदर्शितवतश्चरणौ गुहाया द्वारे न्यपूजयदुपेत्य स शङ्करार्यः । आचार इत्युपदिदेश स तत्र तस्मै गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥ शङ्करः सविनयैरुपचारैरभ्यतोपयदसौ गुरुमेनम् । 51 ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२ भक्तिपूर्वकृततत्परिचर्यातोपितोऽधिकतरं यतिवर्यः । ब्रह्मतामुपदिदेश चतुर्भिर्वेदशेखरवचोभिरमुष्मै ॥ साम्प्रदायिक पराशरपुत्रप्रोक्तसूत्रमतग त्यनुरोधात् । शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध सुबुद्धि: ॥ १०४ व्यासः पराशरसुतः किल सत्यवत्यां तस्यात्मजः शुकमुनिः प्रथितानुभावः । तच्छिष्यतामुपगतः किल गौडपादो गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥ शुश्राव तस्य निकटे किल शाखजालं यश्वाशृणोद्भुजगसद्मगतस्त्वनन्तात् । शब्दाम्बुराशिमखिलं समयं विधाय यथाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥ सोऽधिगम्य चरमाश्रमपार्य : पूर्वपुण्यनिचयैरधिगम्यम् । स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥ छन्नमूर्तिरतिपाटलशाटी पल्लवेन रुरुचे यतिराजः । वासरोपरमरक्तपयो दाच्छादितो हिमगिरेरिव कूटः ॥ 52 श्रीमच्छङ्करदिग्विजये [ पञ्चमः एष धूर्जटिरबोधमहेभं संनिहत्य रुधिराप्लुतचर्म । उद्यदुष्णकिरणारुणशाटी पल्लवस्य कपटेन विभर्ति । १०९ श्रुतीनामाक्रीडः प्रथितपर हंसोचितगति- निजे सत्ये धानि त्रिजगद तिवर्तिन्यभिरतः । rat ब्रह्मैवास्मिन्न खलु विशये किन्तु कलये बृहेर साक्षादनुपचरितं केवलतया ॥ मितं पादेनैव त्रिभुवनमिहैकेन महसा विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् । दशाकारातीतं स्वमहिमनि निर्वेदरमणं ततस्तद्विष्णोः परमपदमाख्याति निगमः ॥ न भूतेष्वासङ्गः वचन न गवा वा विहरणं न भूत्या संसर्गो न परिचितता भोगिभिरपि । तदप्याम्नायान्तस्त्रिपुरदहनात्केवलदृशा तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥ न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता न चैवाहोरात्र स्फुरदरियुतः पार्थिवरथः । असाहाय्येनैवं सति विततपुर्यष्टकजये * कथं तं न ब्रूयान्निगमनिकुरम्बं पर शिवम् ॥ दुःखासारदुरन्तदुष्कृतधनां दुःसंसृतिप्रावृषं दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः । उच्चण्डप्रतिपक्ष पण्डितयशोनाली कनालाङ्कर- ग्रासो हंसंकुलावतंसपदभाक् सन्मान से क्रीडति ॥ " ' * 1. ज्ञानेन्द्रियपञ्चकम् 2. कर्मेन्द्रियपञ्चकम् 3. प्राण- 'पञ्चकम्, 4. अन्तःकरणचतुष्टयम्, 5. अविद्या, 7. कर्म, 8. वासना इति पुर्यष्टकम् - इति व्याख्या ॥ 6. कामः, सर्गः ५ ] संन्यास ग्रहणम् क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं दुर्भेदं वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् । येनाशेषविशेषदोष लहरी मासेदुषीं शेमुषीं 59 53 सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५ नीरक्षीरनयेन तथ्य वितथे संपिण्डिते पण्डितै- दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः । हंसोऽयं परमोsस्तु ये पुनरिहाशक्ताः समस्ताः स्थिता: जृम्भान्निम्बफलाशनैकरसिकान काकानमून्मन्महे ॥ ११६ दृष्टि यः प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां नालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् । विश्वस्योपकृतेर्विलुम्पति सुहृच्चक्रस्य चार्ति घनां हंसः सोऽयमभिव्यक्ति महतां जिज्ञास्यमर्थ मुहुः ॥ ११७ सभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुक्तथै । संचचाल कथयन्निव मेघवञ्चलाचपलतां विषयेषु ॥ एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै । अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरन्दैः ॥ ११९ वारिवाहन क्षणलक्ष्य श्रीररोचत किलाचिररोचिः । अन्तरङ्गगतबोधकलेत्र व्यावृतस्य विदुषो विषयेषु ॥ १२० किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः । यन्निशम्य निखिलाः स्वनमेषां विभ्रति स्म किल निर्भरमोदान् ॥ १२१ देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी । इत्यमर्षवशगेन पयोद स्यन्दनेन धनुराविरकारि ॥ आववुः कुटजकन्दलबाणास्फीत रेणुकलिता वनवात्याः । सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः ॥ १२३ बभ्रमुस्तिमिरसच्छविगात्राचित्रकार्मुकभृतः खरघोषाः । ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥ १२४ 54 श्रीमच्छङ्करदिग्विजये उत्ससर्जरसकृज्जधारा वारिदा गगनधाम पिधाय । [ पञ्चमः शङ्करो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्ती: ॥ १२५ शनैः सान्वालापैः सनयमुपनीतोपनिषदां F चिरायत्तं त्यक्त्वा सहजपभिमानं दृढतरम् । तमेत्य यांस सपदि परहसं पुनासा - धीरा संस्वष्टुं कनु सपदि तद्धयमगात् ॥ १२६ न सूर्यो नैवेन्दुः स्फुरति न च ताराततिरियं कुतो विद्युल्लेखा कि कुशानोर्विलसितम् । नो विद्यो रोदस्यों न च समयमस्मिन्न जलदे चिदाकाशे सान्द्रवसुखरसवर्णयविरतम् ॥ किमादेयं हेयं किमिति सहजानन्दजलधा- वतिस्वच्छे तुच्छीकृतसकलपाये परशिवे । तदेतस्मिन्नेव स्वमहिपनि विस्मापनपदे स्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती । माप विष्णुपदभागपि मेघः प्रावृडागमनतो मलिनत्वम् । विद्युदुज्ज्वलरुचाऽनुसृतश्च कोsध्ययन्यपि भजेन्न विरागम् ॥ १२९ आशये कलुषिते सलिलानां मानसोत्कहृदयाः कलहंसाः । कोऽन्यथा भवति जीवन लिप्सुर्नाश्रये भजति मानस चिन्ताम् ॥ १३० अभ्रवर्त्मनि परिभ्रममिच्छशुभ्रदीधितिरद भ्रपयोदे । न प्रकाशनमवाप कलावान कश्चकास्ति मलिनाम्बरवासी ॥ चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय । प्रामुपादमृतमप्यभिवाञ्छन् कालतो व घनाश्रयकारी । इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले । प्राणभृत्प्रचरणप्रतिकूले नीडनीलघनशालिनि काले ॥ अग्रहारशतसंभृतशोभे सुग्रहाक्षतुरगः स महात्मा । अध्युवास तटमिन्दुभवायाः सुध्युपास्यचरणं गुरुमर्चन् ॥ सर्ग: ५ ] संन्यासग्रहणम् 55 त्रस्तमयेगणमस्तमिताशं हस्तिहस्तपृथुलोदकधाराः । मुञ्चति स्म समुदश्चित विद्युत्पञ्चरात्रमहिशत्रुरजखम् ॥ तीर भूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः । आययावधिकघोषमनल्पः कल्पवार्धिलहरीव तटिन्याः ॥ घोषना रिझरभीरुनराणां घोषमेष कलुषं स निशम्य । देशिकं ध्रुवसमाधिविधानं वीक्ष्य च क्षणमभूदविवक्षुः ॥ सोऽभिमन्त्रय करके त्वरमाणस्तत्ववाहपुरतः प्रणिधाय । कृत्स्नमत्र समवेशयदम्भः कुम्भसंभव इव स्वकरेऽब्धम् ॥ तं निशम्य निखिलैरपि लोकैरुत्थितोऽस्य गुरुरुक्तमुदन्तम् । योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥ छात्र मुख्यममाह कियद्भिवसरैघने गगने सः । पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम् ॥ वारिदा यतिवराच सुपायोधारया सदुपदेशगिरा च । ओषधीरनुचरांश्च कृतार्थीकृत्य सम्पति हि यान्ति यथेच्छम् ॥ १४१ शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः । भाति तत्वविदुषामित्र बोधो मायिकावरण निर्गमशुभ्रः ॥ वारिवाहन प्रतियाते भान्ति भानि शुचिभानि शुभानि । मत्सरादिविगमे सति मैत्रीपूर्वका इव गुणाः परिशुद्धाः ॥ मत्स्य कच्छपमयी धृतचा गर्भवर्तिभुवना नलिनाढ्या । श्रीयुताय तटिनी परहसैः सेव्यते मधुरिपोरिव मूर्तिः ॥ नीरदा: सुचिरसंभृतमेते जीवनं द्विजगणाय वितीर्य । त्यक्तविदवलाः परिशुद्धाः पव्रजन्ति घनवीथिगृहेभ्यः ॥ चन्द्रिकाभलित चर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी । बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवामनेहाः ॥ * " मैत्री करुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव- नातश्चित्तप्रसादनम्" इति पातञ्जलयोगसूत्रम् ॥ 56 श्रीमच्छङ्करदिग्विजये इस संगतिलसद्विरजस्कं क्षोभवर्जितमपहुतपङ्कम् । वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥ शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु । लिप्तचन्दनरजः समुदञ्चत्कौस्तुभं मुररिपोरिव वक्षः ॥ पङ्कजानि समुदूढहरीणि प्रोद्गतानि विकचानि कनन्ति । [ पञ्चमः सौम्य योगकलयेव विफुल्ल न्युन्मुखानि हृदयानि मुनीनाम् ॥ १४९ रेणुभस्मकलितैर्दशाटीसंवृतैः कुसुमलिड्जपमालैः । वृन्तकुड्मलकमण्डलुयुक्तैर्धार्यते क्षितिरुहैर्यतितौल्यम् ॥ धारणादिभिरपि श्रवणाद्यैर्वार्षिकाणि दिवसान्यपनीय । पादपद्मरजसाऽद्य पुनन्त: संचरन्ति हि जगन्ति महान्तः ॥ तद्भवान् व्रजतु वेदकदम्बादुद्भवां भवदवाम्बुदमालाम् । तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥ अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ । वृत्रशत्रुमुख दैवतजुष्टं सत्रपत्रिमुनिकर्तृकमास ॥ संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः । इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्तमं तम् ॥ आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् । योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥ अत्र केचिदिह विप्रतिपन्नाः कल्पयन्ति हि यथायथमर्थान् । अन्यथाग्रहणनिग्रह दक्षं भाष्यमस्य भगवन् करणीयम् ॥ मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् । पूर्वमेव दिविषद्भिरुदीर्ण: पार्वतीपतिसदस्ययमर्थः । वत्स तं शृणु समस्त विदेको मत्समस्तव भविष्यति शिष्यः । कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्बणमम्भः ॥ सर्गः ५ ] संन्यासग्रहणम् दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् । कीर्तयिष्यति यशस्तव लोक: कार्तिकेन्दुकरकौतुकि येन ॥ इत्युदी मुनिराट् स वनान्ते पत्युराप सुगिरिं गिरिजायाः । तन्मुखाच्छ्रतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥ सत्वमुत्तमपुमानसि कश्चित्तत्ववित्यवर नान्यसमानः । तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ॥ गच्छ वत्स नगरं शशिमौले: स्वच्छदेवतटिनीकमनीयम् । तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन् ॥ एवमेनमनुशास्य दयालुः पावयन्निजदृशा विससर्ज । 49 57 भावतः स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥ पङ्कजप्रतिभट पदयुग्मं शङ्करोऽस्य निरगादसहिष्णुः । तद्वियोगमभिवन्द्य कथंचित्तद्विलोकनमयन् हृदयाब्जे ॥ माप तापसवरः स हि काशीं नीपकाननपरीतसमीपाम् । आपगानिकटहाटकचञ्च धूपपतिसमुदश्चितशोभाम् ॥ संददश स भगीरथतप्तामन्दतीत्रतपसः फलभूताम् । योगिराडुचिततीरनिकुञ्ज भोगिभूषणजटातटभूषाम् ॥ विष्णुपादनखराज्जननाद्वा शंभुमौलिशशिसंगमनाद्वा । या हिमाद्रिशिखरात्पतनाद्वा स्फाटिकोपमजला प्रतिभाति ॥ गायतीव कलषट्पदनादैर्नृत्यतीव पवनोच्चलिताब्जैः । मुञ्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोर्मिकरैर्या ॥ श्यामला कचिदपाङ्गमयूखैश्चित्रिता क्वचन भूषणभाभिः । पाटला कुचतटीगलितैर्या कुडुमैः वचन दिव्यवधूनाम् ॥ सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः । जाह्नवीसलिलवे गहृतस्तद्योगपुण्यपरिपूर्ण इवेन्दुः ॥ 58 श्रीमच्छङ्करदिग्विजये स्वर्णदीजलकणा हितशोभा मूर्तिरस्य सुतरां विललास । चन्द्रपाद् गलदम्बुकणाङ्का पुत्रिका शशिशिलारचितेव ॥ [ षष्ठः विश्वेशश्चरणयुगं प्रणम्य भक्त्या हर्याचैस्त्रिदशवरैः समर्चितस्य । सोऽनैषीत्प्रयतमना जगत्पवित्रे क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥ १७२ इति श्रीमाधवीये तत्सुखाश्रमनिवासगः । संक्षेपशङ्करजये सर्वोऽयं पञ्चमोऽभवत् ॥ ५ ॥ आदितः श्लोकाः 556 अथ षष्ठः सर्गः ॥ & ॥ आत्मविद्याप्रतिष्ठा ॥ अथागमद्ब्राह्मणसूनुरादरादधीतवेदो दलयन् स्वभासा । तेजांसि कचित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥ आगत्य देशिकपदाम्बुजयोरपप्तत् संसारवारिधिमनुत्तरमुत्तितीर्षुः । वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥ उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां कस्त्वं क धाम कुत आगत आत्तधैर्यः । बालोऽप्यबालधिषण: प्रतिभासि मे त्व- मेsistara sa नैकशरीरभावः ॥ इव पृष्टो वभाण गुरुमुत्तरमुत्तरज्ञो विप्रो गुरो मम गृहं बुध चोलदेशे । यत्रापगा वहति तत्र कवेरकन्या यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥ अटव्यमानो महतो दिक्षुः क्रमादिमं देशमुपागतोऽस्मि । बिभेमि मज्जन् भववारिराशौ तत्पारगं मां कृपया विधेहि ॥ or सर्गः ६ ] आत्मविद्याप्रतिष्ठा अपाङ्गैरुत्तुङ्गैरमृतझरभङ्गैः परगुरो 59 ६ शुचा दूनं दीनं कलय दयया मामविमृशन । गुणं वा दोषं वा मम किमपि संचिन्तयसि चेत् तदा चैव श्लाघा निरवधिकूपानीरधिरिति ॥ स्यात्ते दीनदयालुताकृतयशोरा शिस्त्रिलोकीगुरो तूर्ण चेदयसे ममाद्य न तथा कारुण्यतः श्रीमति । वर्षन भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते नैवं वर्षशतं पयोनिधिले वर्षन्नपि स्तूयते ॥ * त्वत्सारस्वतसारसारस सुधाकूपारसत्सारस- स्रोतः संभृतसंततोज्ज्वलजलक्रीडा प्रतिमें मुने । चञ्चत्पञ्चशरा दिवञ्चनहतं न्यञ्चं प्रपञ्चं हित- ज्ञानाकिञ्चनमा विरिञ्चमखिलं चालोचयन्त्यञ्चतु ॥ ८ सौरं धाम सुधामरीचिनगरं पौरन्दरं मन्दिरं कौबेरं शिविरं हुताशनपुरं सामीरसद्मोत्तरम् । वैधं चाssवस्थं वदीयफ णितिश्रद्धासमिद्धात्मन: * शुद्धाद्वैतदिन दोग्धि कुतुकं विरतिश्रीधातुकं कौतुकम् ॥ ९ न भौमा रामाद्या: सुषमविषवल्लीफलसमाः समारम्भन्ते नः किमपि कुतुकं जातु विषयाः । नगण्यं नः पुण्यं रुचिरतररम्भाकुचतटी- परीरम्भारं भोज्ज्वलमपि च पौरन्दरपदम् ॥ न चञ्चद्वैरिश्चं पदमपि भवेदादरपदं वचो भव्यं नव्यं यदकृत कृती शङ्करगुरुः । चकोराली चञ्चपुटदलित पूर्णेन्दु विगल- सुधाधाराकारं तदिह वयमीहेमहि मुहुः ॥ तव सरस्वत्याः साररूपः सारससुधाकूपारः चन्द्रसम्बन्धी अमृतसमुद्रस्तस्य सतां सारसानां पक्षिणां कमलानां वा स्रोतोभिः प्रवाहैः यत् संभृतं संमिश्रितं संश्रितं वा संततमुज्ज्वलं जलं तस्मिन् क्रीडा यस्यास्तथा भूता सती मे मतिः - इति व्याख्या 60 90 श्रीमच्छङ्करदिग्विजये द्यावाभूमिशिवकरैर्नवयशः प्रस्तावसौवस्तिकैः पूर्वारवर्वतपः पचोलिमफलैः सर्वाधिमुष्टिधयैः । दीनाढ्यं करणैर्भवाय नितरां वैरायमाणैरलं- कर्मणं प्रसितं त्वदीयभजनैः स्यान्मामकीनं मनः ॥ संसारबन्धामयदुःखशान्त्यै स एव नस्त्वं भगवानुपास्यः । भिषक्तमं त्वां भिषजां शृणोमीत्युक्तस्य योऽभूदुदितावतारः ॥ इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्संन्यसनं यथावत् । प्राहुर्महान्तः प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥ [ षष्ठः संसारघोरजलधेस्तरणाय शश्वत्सायात्रिकीभवनमर्दयमानमेनम् । हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारस के निपातः ॥ १५ astras सेवितुं देवतांशा यातास्तेऽपि प्राय एवं विरक्ताः । क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य मापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ॥ १६ व्याख्या मौनमनुत्तराः परिदलच्छङ्का कलङ्काङ्करा- छात्रा विश्वपवित्र चित्रचारितास्ते वामदेवादयः । तस्यैतस्य विनीतलोकतुतिमुद्धर्तु धरित्रीतलं प्राप्तस्याद्य विनेयतामुपगता धन्याः किलान्यादृशाः ॥ १७ शेषः साधुभिरेव तोषयति नृञ्छन्नैः पुमर्थार्थिनो वाल्मीकिः कविराज एष वितथैरथैर्मुहुः कल्पितैः । व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्थदां व्यासः शङ्करदेशिकस्तु कुरुते सद्यः कृतार्थानहो ॥ चक्रितुल्यमहिमानमुपासांचक्रिरे तमविमुक्त निवासाः । वक्रसृत्यनुसृतामपि साध्वीं चक्रुरात्मधिषणां तदुपास्त्या ॥ चण्डभानुरिव भानुमण्डलैः पारिजात इव पुष्पजातत: । वृत्रशत्रुरिव नेत्रवारिजैइछात्रपङ्गिभिरलं ललास सः ॥ सर्गः ६ ] संन्यास ग्रहणम् एकदा खलु वियत्रिपुरद्विड्भाललोचनहुताशनभानोः । विस्फुलिङ्गपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ॥ 61 दर्शयत्युरुमरीचिसरस्वत्पूरसृज्य परमायिनि भानौ । साधुनैकमणिकुट्टिमसूच्छंद्र श्मिजालकशिखावल पिच्छम् ॥ पङ्कजावलिविलीनपराले पुष्करान्तरभिगत्वरमीने । शाखिकोटरशयालुशकुन्ते शैलकन्दरशरण्यमयूरे ॥ शङ्करो दिवसमध्यमभागे पङ्कजोत्पलपरागकषायाम् । जाह्नवीमभिययौ सह शिष्यैराह्निकं विधिवदेष विधित्सुः ॥ सोऽन्त्यजं पथि निरीक्ष्य चतुर्भिर्भीषणैः श्वभिरनुद्रुतमारात् । गच्छ दूरमिति तं निजगाद प्रत्युवाच च स शङ्करमेनम् ॥ अद्वितीयमनवद्यमसङ्कं सत्यबोधसुखरूपमखण्डम् । आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम् ॥ दण्डमण्डितकरा घृतकुण्डा: पाटलाभवसनाः पटुवाचः । ज्ञानगन्धरहिता गृहसंस्थान वञ्चयन्ति किल केचन वेषैः ॥ गच्छ दूरमिति देहमुनाहो देहिनं परिजिहीर्षसि विद्वन् । भिद्यतेऽन्नपयतोऽन्नमयं कि साक्षिणश्च यतिपुंगव साक्षी ॥ ब्राह्मणश्वपचभेदविचारः प्रत्यगात्मनि कथं तव युक्तः । विम्बितेऽम्बरमणौ सुरनद्यामन्तरं किमपि नास्ति सुरायाम् ॥ शुचिर्द्विजोsहं श्वाच व्रजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम् । सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्ण पुरुषं पुराणम् ॥ अचिन्त्यमव्यक्तमनन्तमाद्यं विस्मृत्य रूपं विपलं विमोहात् । कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यर्हता कथमाविरास्ते ॥ विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसंग्रहेच्छा । अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ॥ * लोकविलक्षणैन्द्रजालिके - इति व्याख्या ॥ 62 श्रीमच्छङ्करदिग्विजये [ षष्ठः इत्युदीर्य वचनं विरतेऽस्मिन् सत्यवाक्तदनु विप्रतिपन्नः । अत्युदारचरितो ऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेताः ॥ सत्यमेव भवता यदिदानीं प्रत्यवादि तनुभृत्प्रवरैतत् । अन्त्यजोऽयमिति सम्पति बुद्धि संत्यजामि वचसाऽऽत्मविदस्ते ॥ ३४ जानते श्रुतिशिरांस्यपि सर्वे मन्वते च विजितेन्द्रियवर्गाः । युञ्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम् ॥ भाति यस्य तु जगद् दृढबुद्धेः सर्वमप्यनिशमात्मतयैव । सद्विजोsस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढ निष्ठा ॥ या चितिः स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम् । नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरु ॥ यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले । बोधमात्रमवशिष्टहं तस्य धीरिति गुरुः स नरो मे ॥ भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे । धूर्जटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदैः ॥ भयेन भक्त्या विनयेन धृत्या युक्तः स हर्षेण च विस्मयेन । तुष्टाव शिष्टानुमतः स्तवैस्तं दृष्ट्वा दृशोगचरमष्टमूर्तिम् ॥ दासस्तेऽहं देष्टाऽस्मि शंभो जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे । सर्वस्यात्मन्नात्मदृष्टया त्वमेवेत्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥ यदालोकादन्तर्बहिरपि च लोको वितिमिरो न मञ्जूषा यस्य त्रिजगति न शाणो न च खनिः । यतन्ते चैकान्तं रहसि यतयो यत्पणयिनः नमस्तस्मै स्वस्मै निखिल निगमोत्तंसमणये ॥ अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः । किमालम्बश्वास न यदि परतचं मम तथा नमः स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा ॥ आत्मविद्याप्रतिष्ठा सर्गः ६ ] इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् । बाष्पपूर्णनयनं मुनिवर्य शङ्करः सबहुमानमुवाच ॥ अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा । बादरायण इव त्वमपि स्याः सद्वरेण्य मदनुग्रहपात्रम् ॥ संविभज्य सकळतिजालं ब्रह्मसूत्रमकरोदनुशिष्टः । यत्र काणभुज सांख्यपुरी गाण्युद्धतानि कुमतानि समूलम् ॥ तत्र मूढमतयः कलिदोषाद द्विवेदवचनोद्वलितानि । भाष्य काण्यरचयन् बहुबुद्धैर्दृष्यतामुपगतानि च कैश्चित् ॥ तद्भवान्विदितवेद शिखार्थस्तानि दुर्मतिमतानि निरस्य । सूत्रभाष्यमधुना विदधातु श्रुत्युपोद्बलितयुक्त्यभियुक्तम् ॥ एतदेव विबुधैरपि सेन्द्रैरर्चनीयमनवद्यमुदारम् । तावकं कमलयोनिसभायामप्यवाप्स्यति वरां वरिवस्याम् ॥ भास्कराभिनवगुप्त रोगान्नीलकण्ठगुरुमण्डनमुख्यान् । पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्वम् ॥ मोहसंतमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् । पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ॥ एवमेनमनुगृह्य कृपावानागमैः सह शिवोऽन्तरधत्त । विस्मितेन मनसा सह शिष्यैः शङ्करोऽपि सुरसिन्धुमयासीत् ॥ संनिवर्त्य विधिमाह्निमीशं ध्यायतो गुरुमथाऽखिलभाष्यम् । कर्तुमुद्यतमभूद् गुणसिन्धोर्मानसं निखिललोकहिताय ॥ 69 63 कर्तृत्वशक्तिमधिगम्य स विश्वनाथात् काशीपुरान्निरगमत्त्व विकास भाजः । प्रीतः सरोजमुकुलादिव चञ्चरीकनिर्वन्धतः सुखमवाप यथा द्विजेन्द्रः ॥ अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युपविम्ब सितातपत्रम् । अस्ताचले वहति चारु पुरः प्रकाशव्याजेन चामरमथादिव दिवसुकान्ता ॥ 64 श्रीमच्छङ्करदिग्विजये [ षष्ठः शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा । तत्रत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाद्वदरीं क्रमात्सः ॥ ५६ तेनान्ववर्ति महता कचिदुष्णशालि शीतं क्वचित्कचिदृजु कचिदप्यरालम् उत्कण्कटकं कचिदकण्टकवत्कचिच्च तद्वर्त्म मूर्खजनचित्तमिवाव्यवस्थम् ॥ आत्मानमक्रियमव्ययमीक्षितापि पान्यैः समं विचलितः पथि लोकरीत्या । आदत्फलानि मधुराण्यपिवत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ॥ तेन व्यनीयत तदा पदवी दवीयस्यासादिता च वदरी वनपुण्यभूमिः । गौरीगुरुवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम् ॥ ५९ *स द्वादशे वयसि तत्र समाधिनिष्ठैर्ब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य । षभिश्च सप्तभिरयो नवभिश्च खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥ करतलकलिताद्वयात्मतत्वं क्षपितदुरन्तचिरन्तनममोहम् । उपचितमुदितोदितैर्गुणौधैरुपनिषदामयमुज्जहार भाष्यम् ॥ * क्षुत्पिपासे जरामृत्यू शोकमोहो षडूर्मयः । - त्वक् चर्ममांसास्थिमेदोमज्जारेतांसि सप्तधातवः पञ्चज्ञानेन्द्रियाणि, चत्वार्यन्तः करण्यनीति नवकम्, अथवा, १) ज्ञानेन्द्रियपञ्चकम, २) कर्म- न्द्रियपञ्चकम, ३) प्राणपञ्चकम, ४) अन्तःकरणचतुष्टयम्, (" मनो- बुद्धिरहंकारश्चित्तं करणमन्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥" इति वृत्तिचतुष्टयभेदभिन्नम् ) ५) भूतपञ्चकम् ६) अविद्या, ७) कामः, ८) कर्म, ९) वासना इति नव पदार्थाः, नवद्वारोपितं शरीरं वा । अथवा १) चार्वाकः, २) आर्हतः, ३) सौत्रान्तिकः, ४) वैनाशिकः, ५) वै- भाषिकः, ६) योगाचार इति षड् दर्शनकाराः १) गौतमः, २) काणादः, ३) कपिलः, ४) पतञ्जलिः, ५) जैमिनि:, आस्तिक दर्शनकाराः पञ्च । सप्त । ६) साख्यैकदेशिनः, ७) शाक्तमीमांसकाद्ये कदर्शिनः इति आकलय्य १) जीवेश्वरभेदः, २) ईश्वरजगद्भेदः, ३) जीवपरस्परभेदः, ४) जगत्परस्पर मेदः, ५) जीवजगद्भेदः, ६) ७) ८) ९) पूर्वोक्तविद्यादि- चतुष्टयम् । एतैः खेदं प्राप्तानां श्रेयःप्रदं भाष्यम् ॥ सर्गः ६ ] आत्मविद्याप्रतिष्ठा 65 ततो महाभारतसारभूताः स व्याकरोद्भामवतीश्च गीताः । सनत्सुजातीयमत्सुदुरं ततो नृसिंहस्य च तापनीयम् ॥ ग्रन्थान संख्यांस्तदनुपदेशसाहस्रिकादीन्व्यदधात्सुधीड्यः । श्रुत्वाऽर्थविद्यान विवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ॥ श्रीशङ्कराचार्यश्वावदेत्य प्रकाशमाने कुमतिप्रणीता: । व्याख्यान्धकारा प्रलयं समीयुर्दुर्वादिचन्द्रमभयाऽवियुक्तात् ॥ ६४ अथ व्रतीन्दुर्विधिवद्विनेयानध्यापयामास स नैजभाष्यम् । तर्कै परेषां तरुणैर्विवस्वन्मरीचिभिः सिन्धुवदमशोष्यम् ॥ निजशिष्यहृदव्जभास्वतो गुरुवर्यस्य सनन्दनादयः । शमपूर्वगुणैर शुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम् ॥ स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दनः । श्रुतनिजश्रुतिकोऽप्यभवत्पुन: पिपठिषुर्गहनार्थविवित्सया ॥ ६७ अभक्तिममुमात्मपदारविन्दद्वद्वे नितान्तदयमानमना मुनीन्द्रः । आम्नायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठयत्तम् ॥ ६८ ईर्ष्या भराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् । अभ्रापगापरतटस्थममुं कदाचिदाकारयन्निगमशेखर देशिकेन्द्रः ॥ ६९ संतारिकाऽनवधिसंसृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्तिः । इत्यञ्जसा प्रविशतः सलिलं सिन्धुः पद्मान्युदञ्चयति तस्य पदे पदे स्म ॥ पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् । आनन्दविस्मय निरन्तनिरन्तरोऽसावाश्लिष्य पद्मपदनामपदं व्यतानीत् ॥ तं पाठयन्तमनवद्यतमात्मविद्यां ये तु स्थिताः सदसि तत्वविद सगर्वाः । आचिक्षिपुः कुमतपाशुपताभिमानाः केचिद्विवेक विटपोग्रदद्वायमानाः ॥ तद्विकल्पनमनलपमनीषः श्रुत्युदाहरणतः स निरस्य । ईषदस्तमितगर्व भराणामागमानपि ममन्य परेषाम् ॥ 66 श्रीमच्छङ्करदिग्विजये [ag: अद्वितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात् । ध्यानजा किमिति सा न विनश्येद्भाव कार्यमखिलं हि न नित्यम् ॥ ७४ किंच संक्रमणमीशगुणानामिष्यते पशुषु मोक्षदशायाम् । तन्न साध्ववयवैर्विधुराणां संक्रमो न घटते हि गुणानाम् ॥ पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न । तत्र गन्धसमवायि नभस्वरसंयुतं दिशति गन्धधियं यत् ॥ किंचैकदेशेन समाश्रयन्ते कात्स्न्र्त्स्न्येन वा शंभुगुणा विमुक्तान् । पूर्वे तु पूर्वोदितदोषसङ्गस्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥ इत्थं तर्कैः कुलिशकठिनैः पण्डितं मन्यमाना मित्स्वार्थाः स्मयभरमदं तत्यजुस्तान्त्रिकास्ते 1 पक्षाघातैरिव रयभरैस्ताड्यमानाः फणासु क्ष्वेडज्वालां खगकुलपतेः पन्नगाः साभिमानाः ॥ ७८ व्याख्याजृम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपयन् संख्यालङ्घिन्त शिष्यहृद्वनरुहेष्वादित्यतामुद्वहन् । उद्वेल स्वयशःसुमैः स भगवत्पादो जगद्भूषयन् कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥ वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसयुक्तिनखाग्रदंष्ट्रः । भयङ्करो वादिमतंगजानां महर्षि कण्ठीरव उल्लास ॥ अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् । अत्यन्तमाश्चर्ययुतान्तरङ्गाः काशोपुरस्था जगदुस्तदेत्थम् ॥ अस्मान्मुहुद्यतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीका: । प्रपेदिरे भास्कर गुप्त मिश्रमुरारिविद्येन्द्रगुरुप्रधानाः ॥ अस्यात्मनिष्ठातिशयेन तुष्टः प्रादुर्भवन कामरिपुः पुरस्तात् । चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥ सर्गः ६ ] संन्यास ग्रहणम् कुदृष्टितिमिरस्फुरत्कुमतपङ्कमनां पुरा पराशरसुवा चिराद् बुधमुदे बुधेनोद्धृताम् । अहो बत जरवमनघभाष्यसूक्तामृत- रपङ्कयति शङ्करः प्रणतशङ्करः सादरम् ॥ त्रैलोक्यं ससुखं क्रियाफलपयो भुङ्गे ययाऽऽविष्कृतं यस्या वृद्धतरे महासुरगृहे वासः मवृद्धाध्वरे । तां पङ्कते कुतर्ककुहरे घारैः खरैः पातितां 20 67 निष्पङ्कामकरोत्स भाष्यजलधेः प्रक्षाल्य मुक्तामृतैः ॥ ८५ मिथ्या वक्तीति कैचित्पुरुषमुपनिषदूरमुत्सारिताऽभू- दन्यैरस्मिन्नियोज्यं परिचरितुम सावर्हतीति प्रणुन्ना । अर्थाभासं दधानैमृदुभिरिव परैर्वञ्चिता चोरितार्थे- विन्दत्यानन्दमेषा सुचिरमशरणा शङ्करार्य प्रपन्ना ॥ ८६ हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा- ज्जातः कौमारिलायैर्निजपदगमने दर्शितं मार्गमात्रम् । सांख्यैर्दुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै- रित्थं खिन्नं पुमांसं व्यधित करुणया शङ्करार्यः परेशम् ॥ ८७ स्तं भूतैर्न देवं कतिचन ददृशुः के च दृष्ट्वाऽप्यधीराः केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिनः केऽपि सर्वैर्विमुक्तम् । किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीतिं ततोऽसों तेषामुच्छिय सत्तामभयमकृत तं शङ्करः शङ्करांशः ॥ चार्वाकैर्निहुतः प्राग्बलिभिरथ मृषा रूपमापाद्य गुप्तः काणादैर्दा नियोज्यो व्यरचि बलवताऽऽकृष्य कौमारिलेन । सांख्यैराकृष्य हृत्वा मलमपि रचितो यः प्रधानैकतन्त्रः कृष्ट्वा सर्वेश्वरं तं व्यतनुत पुरुषं शङ्करः शङ्करांशः ॥ वाच: कल्पलता: प्रसूनसुमनः सन्दोहसन्दोहनाः भाष्ये भ्रूण्यतमे समीक्षितवतां श्रेयस्करे शांकरे । 68 श्रीमच्छङ्करदिग्विजये भाष्याभास गिरो दुरन्वय गिराssश्लिष्टा विसृष्टा गुणै- रिष्टाः स्युः कथमम्बुजासन वधूदौर्भाग्यगर्भ कृताः ॥ कामं काम किरातकार्मुकलतापर्याय निर्यातया नाराचच्छटया विपाटितमनोधैर्यैर्धिया कल्पितान् । आचार्याननवर्यनिर्यदभिदासिद्धान्तशुद्धान्तरो [ षष्ठः धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥ ९१ सुधास्यन्दाहन्ताविजयिभगवत्पादरचना समस्कन्धान् ग्रन्थान् रचयति निबद्धा यदि तदा । विशङ्कां भङ्गानां मृडमुकुटशृङ्गाटस रितः कृतौ तुल्या कुल्या नियतमुपशल्याहतगतिः ॥ या दीनाधीना धनकनकधारा समरचि प्रतीति नीताऽसौ शिवयुवतिसौन्दर्यलहरी । भुजङ्गो रौद्रोऽपि श्रुतभहृदाधायि सुगुरो- गिरां धारा सेयं कलयति कवेः कस्य न मुदम् ॥ गिरां धारा कल्पद्रुमकुसुमधारा परगुरो- स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका । अभङ्गव्यङ्गयौघः सुरसुरभिदुग्धोर्मिसहभू- दिवं भव्यैः काव्यैः सृजति विदुषां शङ्करगुरुः ॥ ९४ वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था व्यङ्गयं भङ्गयन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः । मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या- rasotaisfy येषु प्रथितकविजनानन्दसन्दोहकन्दः ॥ ९५ वाग्गुम्भैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता- मथैधैरर विन्दवृन्द कुहर स्यन्दन्मरन्दोज्ज्वलैः । व्यङ्गयैः कल्पतरुप्रफुल्लसुमनः सौरभ्यगर्भीकृतै- देत्ते कस्य मुदं न शङ्करगुरोर्भव्यार्थ काव्यावलिः ॥ ९६ सर्गः ६ ] आत्मविद्याप्रतिष्ठा तत्तादृग्यतिशेखरोद्धृतनिषद्भाष्यं निशम्येयया केचिदेवनदीतटस्थ विदुषामक्षांघ्रिपक्ष श्रिताः । मौर्यात्खण्डयितुं प्रयत्नमनुमानैकेक्षणा विक्षमा- वर्भाव्यविचार्य चित्रकिरणं चित्राः पतङ्गा इव ॥ निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति । विवादिभिः साधु मिथ्यमानं तथा मुनेर्भाव्यमदीपि भूयः ॥ स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्यः । विधूय गोभिः कुमतान्धकारानतर्पयद्विपमनचकोरान् । अनादिवाक्सागरमन्यनोत्था सेव्या बुधैर्धिक्कृतदुः सपत्नैः । विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः ॥ 69 69 सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती । प्रत्यर्युलूकान् प्रविलापयन्ती भाष्यप्रभाभाद्यतिवर्यभानोः ॥ १०१ न्यायमन्दर विमन्थनजाता भाष्यनूतनसुधा श्रुतिसिन्धोः । केवलश्रवणतो विबुधेभ्यचित्रपत्र वितरत्यमृतत्वम् ॥ पादादासीत्पद्मनाभस्य गङ्गा शंभोक्ताच्छांकरी भाष्यसूक्तिः । आद्या लोकान्दृश्यते मज्जयन्तीत्यन्या मनानुद्धरत्येष भेदः ॥ १०३ व्यासो दर्शयति स्म सूत्रकलितन्यायौघरत्नावली- रर्थालाभवशान कैरपि बुधैरेता गृहीताश्विरम् । अर्थापत्या सुलभाभिराभिरधुना ते मण्डिताः पण्डिता व्यासवाssy कृतार्थतां यतिपतेरौदार्यमाश्चर्यकृत् ॥ १०४ विद्वज्जालतपः फलं श्रुतिवधूधम्मिक्लमल्लीवजं सद्वैयासकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् । वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालय भाष्यं ते निपिबन्ति हन्त न पुनर्येषां भवे संभवः ॥ १०५ 10 70 श्रीमच्छङ्करदिग्विजये मन्थानाद्रिधुरंधरा श्रुतिसुधा सिन्धोर्यतिक्ष्मापते- ग्रन्थानां फणितिः परावरविदामानन्दसंधायिनी । इन्धानैः कुमतान्धकारपटलैरन्धी भवच्चक्षुषां [ षष्ठः पन्थानं स्फुटयन्त्यकाण्ड कमभात्तकार्कविद्योतितैः ॥ १०६ आ सीतानाथनेतुः स्थलकृत सलिल द्वैतमुद्रात्समुद्रा- दारुद्राकर्षणाद्रागवनतशिखराद्धोग सान्द्रान्नगेन्द्रात् । आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे- रद्वैताद्यापवर्गा जयति यतिधरापोद्धृता ब्रह्मविद्या ॥ १०७ इति श्रीमाधवीये तद्ब्रह्मविद्यापतिष्ठितिः । संक्षेपशङ्करजये षष्ठः सर्ग उपारमत् ॥ ६ ॥ आदितः श्लोकाः 663. अथ सप्तमः सर्गः ॥ ७ ॥ व्यासदर्शनादिचरितवर्णनम् ॥ स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे । शिष्यालिशङ्काः शमयन्नुवास यावन्नभोमध्यमितो विवस्वान् ॥ श्रान्तेष्वथाधीत्य शनैर्विनेयेष्वाचार्य उत्तिष्ठति यावदेषः । तावद् द्विजः कश्चन वृद्धरूपः कस्त्वं किमध्यापयसीत्यपृच्छत् ॥ २ शिष्यास्तमूचुर्भगवानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः । अनेन दुरीकृतभेदवादमकारि शारीरकसूत्रभाष्यम् ॥ स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भुतमेतदास्ताम् । अथैकमुच्चारय पारमार्ष यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥ तमब्रवीद्भाष्यकृदग्र्यवाचं सुत्रार्यविद्भयोsस्तु नमो गुरुभ्यः । सूत्रज्ञताहंकृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तद्ब्रवीमि ॥ सर्गः ६ ] व्यासदर्शनादिचरितवर्णनम् पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् । 71 ' तदन्तरे 'त्यादिकमस्ति सूत्रं ब्रह्येतदर्थं यदि वेत्थ किञ्चित् ॥ ६ स माह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मैः । ताण्डौ गौतम जैवलीयपश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥ इत्युक्तमर्थं निशमय्य तेन स वावदुकः शतधा विकल्प्य । अखण्डयत्पण्डितकुञ्जराणां मध्ये महाविस्मयमादधानः ॥ अन्य सर्व फणितं तदीयं सहस्रधा तीर्थकरखण्ड । तयाः सुराचार्यफणीन्द्रवाचोर्दिनाष्टकं वाक्कलहो जजृम्भे ॥ एवं वदन्तौ यतिराद्विजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपाद: । आचार्यमाहेति महीसुराज्यं व्यासो हि वेदान्तरहस्य वेत्ता ॥ त्वं शङ्करः शङ्कर एव साक्षात् व्यासस्तु नारायण एव नूनम् तयोर्विवादे सततं प्रसक्ते किं किङ्करोऽहं करवाणि सद्यः ॥ इतीदमाकर्ण्य वचो विचितं स भाष्यकृत्सूत्रकृतं दिदृक्षुः । कृताञ्जलिस्तं प्रयतः प्रणम्य वभाण वाणीं नवपद्यरूपाम् ॥ १२ भवांस्तडिच्चारुजटा किरीटपवर्षुकाम्भोधरकान्तिकान्तः । । शुभ्रोपवीती घृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥ १३ भावत्कसुत्रप्रतिपाद्यतादृक्परापरार्थप्रतिपादकं सत् । अद्वैतभाष्यं तव संमतं चेत्सोवा ममागः पुरतो भवाऽऽशु ॥ १४ एवं वदन्नयमथैक्षत कृष्णमाराच्चामीकरवत तिचारुजटाकलापम् । विद्युल्लतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टपर्थम् ॥ १५ गाढोपगूढमनुरागजुषा रजन्या गपदं विदधतं शरदिन्दुबिम्बम् । तापिच्छरीतितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम् ॥ सप्ताधिकाच्छदर विंशतिमौक्तिकाढ्यां सत्यस्य मूर्तिमिव विभ्रतमक्षमालाम् । तत्तादृशस्वपतिवंशविवर्धनात्मा- तारावलीमुपगतामिव चानुनेतुम् ॥ 72 श्रीमच्छङ्करदिग्विजये शार्दूलचर्मोद्वहनेन भूतेरुडूलनेनापि जटाच्छटाभिः । रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम् ॥ अद्वैत विद्यासृणितीक्ष्णधारावशीकृताकृतिकुञ्जरेन्द्रम् । स्वशास्त्रशङ्कज्ज्वलसूत्रदाम नियन्त्रिताकृत्रिमगोसहस्रम् ॥ तप्ताहगत्युज्ज्वलकीर्तिशालिशिष्या लिसंशोभितपार्श्वभागम् । कटाक्षवीक्षामृतवर्षधारानिवारिताशेषजनानुतापम् ॥ विलोक्य वाचंयम सार्वभौमं स शङ्करोऽशङ्कितदर्शनं तम् । गुरुं गुरूणामपि दृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥ अत्यादराच्छात्रगणैः सहासौ प्रत्युद्गतस्तच्चरणौ प्रणम्य । यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं सः ॥ द्वैपायन स्वागतमस्तु तुभ्यं दृष्ट्वा भवन्तं चरिता मयाऽर्थाः । युक्तं तदेतत्त्वयि सर्वकालं परोपकारतदीक्षितत्वात् ॥ मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थगर्भाणि सुदुष्कराणि । कृतानि पद्यद्वयमत्र कर्तुं को नाम शक्नोति सुसंगतार्थम् ॥ वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा शाखाप्रभेदनवशादपि तान् विभक्तान् । मन्दाः कलौ क्षितिसुरा जनितार एते वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥ एष्यद्विजानासि भवन्तमर्थं गतं च सर्वे न न वेत्सि यत्तत् । नो चेत्कथं भूतभवद्भविष्यत्कथाप्रबन्धान् रचयेरजानन ॥ आभासयन्नन्तरमङ्गमान्ध्यं स्थूलं च सूक्ष्मं बहिरन्तरं च । अपानुदन् भारतशीतरश्मिरभूदपूर्वो भगवत्पयोधेः ॥ [ षष्ठः वेदा: षडङ्गं निखिलं च शास्त्रं महान् महाभारतवारिराशिः । त्वत्तः पुराणानि च संबभूवुः सर्वे त्वदीयं खलु वाङ्मयाख्यम् ॥ २८ सर्गः ७ ] व्यासदर्शनादिचरितवर्णनम् 73 द्वीपे कचित् समुदयन्नृतमेव धाम शाखा सहस्रसचिवः शुकसेव्यमानः । उल्लासयत्यहह यस्तिलको मुनीनामुच्चैः फलानि सुदृशां निजपादभाजाम् ॥ धत्से सदाऽऽर्तिशमनाय हृदा गिरीशं गोपायसेऽधिवदनं च चिरन्तनीर्गाः । दूरीकरोषि नरकं च दयार्द्रदृष्ट्या कस्ते गुणान् गदितुमद्भुतकृष्ण शक्तः ॥ यमामनन्ति श्रुतयः पदार्थ न सन्न चासन्न बहिर्न चान्तः । सच्चिदानन्दघन: परात्मा नारायणस्त्वं पुरुषः पुराणः ॥ इति स्तुतस्तेन यथाविधानमासेदिवान् विष्टरमात्मनिष्ठः । द्वैपायनः प्रश्रयनम्र पूर्वकार्यं यतीशानमिदं बभाषे । ॥ त्वमस्मदादेः पदवीं गतोऽभूरखण्डपाण्डित्यमबोधयं ते । शुकर्षवत् प्रीतिकरोऽसि विद्वन् पुरेव शिष्यैः सह मा भ्रमम् ॥ ३३ कृतं त्वया भाष्यमिर्तीन्दुमोले : सभाङ्गणे सिद्धमुखान्निशम्य । हृदा प्रहृष्टेन दिदृक्षया ते दुगध्वनीनः प्रशमिन्नभूवम् ॥ इत्थं मुनीन्द्रवचनश्रवणोत्थहर्ष रोमाञ्च पूरमिषतो बहिरुत्प्लवन्तम् । बिभ्रत्तमभ्ररुचिमारुश्ददभ्रशक्तिं श्रीशङ्करः शुकमतार्णवपूर्णचन्द्रः ॥ ३५ सुमन्तु पैलप्रथमा सुनीन्द्रा महानुभावा ननु यस्य शिष्याः । तृणालघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥ सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः । भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥ अकारि यत्साहसमात्मबुद्धया भवत्यशिष्यव्यपदेशभाजा । विचार्य तत्सूक्तिदुरुक्तिजालम: समीकर्तुमिदं कृपालुः ॥ इत्थं निगद्योपरतस्य हस्ताद्धस्तद्वयेनाऽऽदरतः स भाष्यम् । आदाय सर्वत्र निरैक्षतासौ प्रसादगांभीर्यगुणाभिरामम् ॥ सूत्रानुकारिमृदुवाक्य निवेदितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् । सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्राऽभिनन्द्य परितोषवशादवोचत् ॥ 74 श्रीमच्छङ्करदिग्विजये न साहसं तात भवानकार्षीद्यत्सूत्रभाष्यं गुरुणा विनीतः । विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमि ॥ मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् । विनिःसरेते वदनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ॥ न प्राकृतस्त्वं सकलार्थदर्शी महानुभावः पुरुषोऽसि कश्चित् । यो ब्रह्मचर्याद्विषयानिवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥ गर्भाणि लघूनि यानि निगूहभावानि च मत्कृतानि । त्वामेवमित्यं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ॥ निसर्गदुर्ज्ञानतमान को वा सूत्राण्यलं वेदितुमर्थतः सन् । क्लेशस्तु तावान् विवरीतुरेषां यावान् प्रणेतुर्विबुधा वदन्ति ॥ भावं मदीयमवबुध्य यथावदेवं भाष्यं प्रणेतुमलं भगवानपीशः । सांख्यादिनाऽन्यथयितं श्रुतिमूर्धवम- द्ध कथं पर शिवांश मृते प्रभुः स्यात् ॥ रोषानुषङ्गकलयाऽपि सुदूरमुक्तो धत्सेऽधिमानस महो सकलाः कलाश्च । सर्वात्मना गिरिजयोपहितस्वरूपः शक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ॥ [ सप्तमः व्याख्याप्यसंख्यैः कविभिः पुरैतद्वयाख्यास्यते कैश्रिदितः परं च । भवानिवास्मद्धृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥ व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान् विदुषो विजित्य । ग्रन्थान् भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम् ॥ ४९ इत्युक्तवन्तं तमसाववोचत् कृतानि भाष्याण्यपि पाठितानि । ध्वस्तानि सम्यक्कुमतानि धैर्यादितः परं किं करणीयमस्ति ॥ ५० मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्दत्सल सन्निधानम् । चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेयम् ॥ सर्गः ७ ] व्यासदर्शनादिचरितवर्णनम 75 इतीदमाकर्ण्य वचो विचिन्त्य स शङ्करं प्राह कुरुष्व मैत्रम् । अनिर्जिताः सन्ति वसुन्धरायां त्वया बुधाः केचिदुदारविद्याः ॥ ५२ जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि । नो चेन्मुमुक्षा भुवि दुर्लभा स्यात् स्थितिर्यथा मातृधुतस्य बाल्ये ॥ ५३ प्रसन्नगम्भीरभवत्प्रणीतवन्ध सन्दर्भभवः महर्षः । प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥ अष्टौ वयांसि विधिना तत्र वत्स दत्ता- न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि । भूयोऽपि षोडश भवन्तु भवाज्ञया ते भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥ त्वमायुषाऽनेन विरोधिवादिगर्वाङ्गरोन्मूलन जागरूकैः । वाक्यैः कुरुष्वोज्झितभेदबुद्धी न द्वैत विद्यापरिपन्थिनोऽन्यान् ॥ इतीरयन्तं प्रति वाचमूचे स शङ्करः पावित सर्वलोकः । त्वत्सूत्रसम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विद्वन् ॥ इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा । प्रदाय संभाव्य वरं मुनीशो द्वैपायनः सोऽन्तरघाद्यतात्मा ॥ इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेकनिधिरप्यथ विव्यथे सः । हृत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषयः ॥ तत्पादपद्मे निजचित्तपत्रे पश्यन् कथंचिद्विरदं विषय । यतिक्षितीशोऽपि गुरोर्नियोगान्मनो दधे दिग्विजये मनीषी ॥ ६० भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान मुनीन्द्रः । वन्ध्यायमानदर विन्ध्यमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥ ६१ ततः स वेदान्तरहस्यवेत्ता भेत्ताऽपतानां तरसा मतानाम् । प्रयागमागात्प्रथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥ 76 श्रीमच्छङ्करदिग्विजये [ सप्तमः आमज्जतां किल तनूमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषङ्गाम् । अह्नाय जहुतनयामथ निहुताघां मध्ये प्रयागमगमन्मुनिरर्थमार्गम् ॥ ६३ गङ्गाप्रवाहैरुप रुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा । अपूर्व सख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥ अन्तेवसद्भिरमलच्छविसम्पदायमध्येतुमाश्रितजलां कुहचिन्मरालैः । चक्रद्वयेन रजनी सहवाससौख्य संशीलनाय किल संवलितां परत्र ॥ ६५ यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् । संभुञ्जते व्याधिकयानभिज्ञा: प्राहेममर्थं श्रुतिरेव साक्षात् ॥ अज्ञात संभवतिरोधिकथाsपि वाणी यस्याः मितासिततयैव गृणाति रूपम् । भागीरथीं यमुना परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥ सिद्धापगे पुरविरोधिजटोपरोधक्रुद्धा कुतः शतमदः सदृशान् विधत्से । बद्धा न किं नु भवितासि जटाभिरेषापद्धा ज्डपकृतयो न विदन्ति भावि ॥ सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यपशुचीनि किमाददासि । आ ज्ञातमम्ब हृदयं तव सज्जनानां प्राय: प्रसाधनकृते कृतमज्जनानाम् ॥ स्वापानुषङ्गजडताभरिताञ्जनौघान् स्वापानुषङ्गजडता विधुरान्विधत्से । दूरीभवद्विषय रागहृदोऽपि तूर्णं धृतवतं संयसि देवि क एष मार्गः ॥ ७० इति स्तुवंस्तापसराट् त्रिवेणीं शाठ्या समाच्छाय कटीं कृपीटे । दोर्दण्डयुग्मोद्धृतवेणुदण्डोऽघमर्षणस्नानमना बभूव ॥ सस्त्र प्रयागे सह शिष्यसंघैः स्वयं कृतार्थो जनसंग्रहार्थी । अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ॥ अनुष्ठितं द्रागवसाय्य वातैः कल्हारशीतैरुपसेव्यमानः । तीरे विशश्राम तमालमालिन्यत्रान्तरेऽश्रूयत लोकवार्ता । गिरेरवप्लुत्य गतिः सतां यः प्रामाण्यमाम्नाय गिरामवादीत् । यस्य प्रसादात्तिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ॥ सर्ग: ७ ] व्यासदर्शनादिचरितवर्णनम सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णुः । अशेषवेदार्थविदास्तिकत्वात्तुषानलं प्राविशदेष धीरः ॥ अयं ह्यधीताखिलवेदमन्त्रः कूलंकपालोडितमर्वतन्त्रः । नितान्तदूरीकृतदुष्टतन्त्र स्त्रैलोक्यविभ्रामितकीर्तियन्त्रः ॥ श्रुत्वेति तां सत्वरमेष गच्छन् व्यालोकयत्तं तुषराशिसंस्थम् । प्रभाकराः प्रथितप्रभावैरुपस्थितं साश्रुमुखैर्विनेयैः ॥ धूपायमानेन तुषानलेन संह्यमानेऽपि वपुष्यशेषे । सन्यमानेन मुखेन वाष्पपरीत पद्मश्रियमादधानम् ॥ दूरे विधूतापाङ्गङ्गया तं देशिकं दृष्टिपथावतीर्णम् । ददर्श भट्ट ज्वलदग्निकल्पो जुगोप यो वेदपथं जितारिः ॥ अष्टपूर्व श्रुतपूर्ववृत्तं दृष्ट्वाऽतिमोदं स जगाम भट्ट ! अचीकरच्छिष्यगणैः सपर्यामुपाददे तामपि देशिकेन्द्रः ॥ उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै । सर्वो निबन्ध मलोऽपि लोके शिष्टेक्षितः संचरणं प्रयाति ॥ 77 42 दृष्ट्वा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शङ्करं देशिकेन्द्रम् । लोके यामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥ अष्टौ सहस्राणि विभान्ति विद्वन् सद्वार्तिकानां प्रथमेऽत्र भाष्ये । अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य ॥ ८३ भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् सपये दुरापम् । पुराऽऽर्जितैः पुण्यचयैः कथंचित्वमद्य मे दृष्टिपथं गतोऽभूः ॥ असार संसार पयोन्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः । भवाः संगतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ॥ चिरं दिदृक्षे भगवन्तमित्थं त्वमय मे दृष्टिपथं गतोऽभूः । नात्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ॥ 78 श्रीमच्छङ्करदिग्विजये [ सप्तमः ॥ ८८ युनक्ति कालः कचिदिष्टवस्तुना कचिच्चरिष्टेन च नीचवस्तुना । तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेद्मतः ॥ ८७ कृat frest निरणायि पन्था निरासि नैयायिकयुक्तिजालम् । तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥ निरास्थमीशं श्रुतिलोक सिद्धं श्रुतेः स्वतोमात्वमुदाहरिष्यन् । न निहुवे येन विना प्रपश्च: सौख्याय कल्पेत न जातु विद्वन् ॥ तथागताक्रान्तमभूदशेषं स वैदिकोsध्वा विरलीबभूव । परीक्ष्य तेषां विजयाय मार्ग प्रावर्तिषि त्रातुमनाः पुराणम् ॥ सशिष्यसङ्कनः प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् । राजा मदीयोsजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥ वेदोsप्रमाणं बहुमानबाधात् परस्परव्याहतवाचकत्वात् । एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ॥ अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः । तदीयसिद्धान्तरहस्यवार्धी निषेध्यबोधाद्धि निषेध्यबाधः ॥ तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा । अददुषद्वैदिकमेव मार्ग तथागतो जातु कुशाग्रबुद्धिः ॥ तदापतन्मे सहसा बिन्दुस्तच्चाविदुः पार्श्व निवासिनोऽन्ये । तदाप्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ॥ विपक्षपाठी बलवान् द्विजातिः प्रत्याददद्दर्शनमस्मदीयम् । उच्चाटनीयः कथमप्युपायैर्नैतादृशः स्थापयितुं हि योग्यः ॥ संमन्त्र्य चेत्थं कृतनिश्वयास्ते ये चापरेऽहिंसनवादशीलाः । न्यपातयन्नुच्चतरात् प्रमत्तं मामसौधाद्विनिपातभीरुम् ॥ पतन् पतन् सौधतलान्यरोहं यदि प्रमाणं श्रुतयो भवन्ति । जीवेयमस्मिन् पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गतिः ॥ ९८ सर्गः ७] व्यासदर्शनादिचरितवर्णनम यदी सन्देहपदप्रयोगाद्वयाजेन शास्त्रश्रवणाच्च हेतो: । ममोच्चदेशात्पततो व्यनंक्षीत्तदेकचक्षुर्विधिकल्पना सा ॥ 79 79 एकाक्षरस्यापि गुरुः प्रदाता शास्त्रोपदेष्टा किमु भाषणीयम् । अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ॥ तदेवमित्यं सुगतादधीत्य पाघातयं तत्कुलमेव पूर्वम् । जैमिन्युपज्ञेऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ॥ दोषद्वयस्यास्य चिकीर्षुरर्हन यथोदितां निष्कृतिमाश्रयाशम् । प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पाद निरीक्षणेन ॥ भाष्यं प्रणीतं भवतेति योगिनाकर्ण्य तत्रापि विधाय वृत्तिम् । यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्प्रति किं तदुक्त्या ॥ जाने भवन्तमहमायेजनार्थजातमद्वैतरक्षणकृते विहितावतारम् । प्रागेव चैन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेदृशमाचरिष्यम् ॥ प्रायोऽधुना तदुभयमभवाघशान्त्यै प्राविक्षमार्य तुषपावकमात्तदीक्षः । भाग्यं न मेऽजनि हि शावर भाष्यवत्त्व- द्भाष्येऽपि किंचन विलिख्य यशोऽधिगन्तुम् ॥ १०५ इत्युचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी । श्रुत्यर्थ कर्म विमुखान् सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ॥ संभावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय । उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमङ्ग भव्यम् ॥ इत्यू चिवांसं विबुधावतंसं स धर्मविद्ब्रह्मविदां वरेण्यम् । विद्याधनः शान्तिधनाग्रगण्यं समश्रयं वाचमुवाच भूयः ॥ नामि शुद्धमपि लोकविरुद्धकृत्यं कर्तुं मयीड्य महितोक्तिरियं तवाह । आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूराः ॥ संजीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शङ्कर दयोर्मिलदृष्टिपातैः । आरब्धमेतदधुना व्रतमागमोक्तं मुञ्चन् सतां न भविताऽस्मि बुधाविनिन्द्यः ॥ 80 श्रीमच्छङ्करदिग्विजये [ सप्तमः जाने तवाहं भगवन् प्रभावं संहृत्य भूतानि पुनर्यथावत् । स्रष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेवेदिह किं विचित्रम् ॥ १११ नाभ्युत किन्तु यतिक्षितीन्द्र सङ्कल्पितं हातुमिदं व्रताय्यम् । तत्तारकं देशिकवर्यमामादिश्य तद्ब्रह्म कृतार्थयेथाः ॥ अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डन मिश्रशर्मा । दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥ ११३ सदा बदन योगपदं च साम्यतं स विश्वरूपः प्रथितो महीतले । महागृही वैदिककर्मतत्परः प्रवृत्तिशास्त्रे निरतः सुकर्मठः ॥ निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् । वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ११५ वे इत्यभिहितस्य हि तस्य लोकैरुवेति बान्धवजनैरभिधीयमाना । हेतोः कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूय भारतीति ॥ सर्वासु शास्त्रसरणीषु स विश्वरूपो मत्तोऽधिकः प्रियतमच मदाश्रवेषु । तत्प्रेयसीं रामधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥ तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् । त्वं विश्वनाथ इव मे समये समागास्तत्तारकं संमुपदिश्य कृतार्थयेथः ॥ नियोजकारुण्य मुहूर्तमानपत्र वया भाव्यमहं तु यावत् । योगीन्द्रहृत्पङ्कजभाग्यमेतत् त्यजाम्यसून् रूपमवेक्षमाणः ॥ इत्युचिवांसमिममिद्ध सुखमकाशं ब्रह्मोपदिश्य बहिरन्तर पास्तमोहम् । तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गाच्छ्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥ अथ गिरमुपसंहृत्यादराद्भट्टपादः शपधनपतिनासौ बोधिताद्वैततत्वः । प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पे ॥ इति श्रीमाधवये तयाससंदर्शचित्रगः । संक्षेपशङ्करजये सर्वोऽसौ सप्तमोऽभवत् ॥ ७ ॥ आदितः श्लोकाः 784. सर्गः ८ ] श्रीमदाचार्य मण्डनमिश्र संवादः अथाष्टमः सर्गः ॥ ८॥ 81 श्रीमदाचार्यमण्डन मिश्र संवादः ॥ अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् । गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥ अवातरद्रत्र विचित्रवमां विलोक्य तां विस्मितमानसोऽसौ । पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थ ने मना ॥ प्रफुल्लराजीववने बिहारी तरङ्गरिङ्गत्कणशीकराईः । रेवामरुत्कम्पितसालमाल: श्रमापहृद भाष्यकृतं सिषेवे ॥ तस्मिन् स विश्रम्य कृताह्निकः सन् खस्वस्तिकारोहणशालिनीने । गच्छन्नसौ मण्डनपण्डितको दासीस्तदीयाः स ददर्श मार्गे ॥ कुत्रालयो मण्डनपण्डितस्येत्येताः स पच्छ जलाय गन्त्रीः । ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥ स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ फलदं कर्म फलपदोऽज: कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डिततैकः ॥ पीत्वा तदुक्तीरथ तस्य गेहाद्गत्वा बहिः सद्म कवाटगुप्तम् । दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदङ्गणान्तः ॥ तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुञ्चञ्चल केतनाभम् । समग्रमा लोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥ सौधाय संच्छन्ननभोवकाशं प्रविश्य तत्वाप्य कवेः सकाशम् । विद्याविशेषात्तयशःप्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥ 82 श्रीमच्छङ्करदिग्विजये तपोमहिम्नैव तपोनिधानं सजैमिनि सत्यवतीतनूजम् । यथाविधि श्राद्ध विधौ निमन्त्र्य तत्पादपद्मान्यवने जयन्तम् ॥ तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः । द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥ [ अष्टमः अथ मार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञान शिखोपवीतिनम् । संन्यास्य सावित्यवगत्य सोऽभवत्वृत्तिशास्त्र करतोऽपि कोपनः ॥ १४ तदाऽतिरुष्टस्य गृहाश्रमे शितुर्यतीश्वरस्यापि कुतूहलंभृतः । क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥ १५ कुतो मुण्ड्यागलान्मुण्डी पन्थास्ते पृच्छयते मया । किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥ पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन । स्वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥ अहो पीता किमु सुरा नैव श्वता यतः स्मर । किं त्वं जानासि तद्वर्णमदं वर्ण भवान् रसम् ॥ मत्तों जातः कलञ्जाशी विपरीतानि भाषते । 'सत्यं ब्रवीति पितृवचत्तो जातः कलज्ज ॥ कन्यां वहसि दुर्बुद्धे गर्दभेनापि दुर्बहाम् । शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥ कन्यां वहामि दुर्बुद्धे तव पित्रापि दुर्बहाम् । शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥ त्यक्त्वा पाणिगृहीती स्वामशक्त्या परिरक्षणे । शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ॥ गुरुशुश्रूषणालस्यात्समावर्त्य गुरोः कुलात् । स्त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठता ॥ सर्गः ८ ] श्रीमदाचार्यमण्डन मिश्र संवादः स्थितोऽसि योषितां गर्भे ताभिरेव विवर्धितः । अहो कृतघ्नता मूर्ख कथं ता एवं निन्दसि ॥ यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनितः । तासु मूर्खतम स्त्रीषु पशुवद्रवसे कथम् 11 वीरहत्यामवाप्तोऽसि वह्नीनुद्वास्य यत्नतः । आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥ 83 atarftarraafrat कथं स्तेनवदागतः । भिक्षुभ्योऽन्नमदत्वा त्वं स्तेनवद्भोक्ष्यसे कथम् ॥ कर्मकाले न संभाष्य अहं मूर्खेण सम्यति । अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥ यतिभङ्गे प्रवृत्तस्य यतिभङ्गो न दोषभाक् । यतिभ प्रवृत्तस्य पञ्चम्यन्तं समस्यताम् ॥ कं ब्रह्म च दुर्मेधाः क संन्यासः क वा कलिः । स्वान्नभक्षकामेन वेषोऽयं योगिनां धृतः ॥ क स्वर्ग: क दुराचार: काग्निहोत्रं क वा कलिः । मन्ये मैथुन कामेन वेषोऽयं कर्मिणां धृतः ॥ इत्यादिदुर्वाक्यगणं ब्रुवाणे रोषेण साऽहंकृतिविश्वरूपे । श्रीशङ्करे वक्तरि तस्य तस्योत्तरं च कौतूहलतच चारु ॥ तं मण्डनं सम्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वचः । आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्वं यमिनं धुतैषणम् ॥ ३३ अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रयत्वम् । इत्याश्रयं ज्ञातविधिं प्रतीतं सुध्यग्रणीः साध्वशिषन्मुनिस्तम् ॥ अथोपसंस्पृश्य जलं स शान्तः ससंभ्रमं मण्डनपण्डितोऽपि । व्यासाज्ञया शास्त्र विदर्चयित्वा न्यमन्त्रयद्भैक्ष्यकृते महर्षिम् ॥ 84 श्रीमच्छङ्करदिग्विजये [ अष्टमः स चाब्रवीत्सौम्य विवाद भिक्षामिच्छन् भवत्संनिधिमागतोऽस्मि । साsन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः माकृतभक्तभैक्ष्ये ॥ ३६ मम न किंचिदपि ध्रुवमीप्सितं श्रुतिशिरःपथविस्तृतिमन्तरा । अवहितेन मखेष्ववधीरितः स भवता भवतापहिमद्युतिः ॥ ३७ जगति सम्पति तं प्रथयाम्यहं समभिभूय समस्त विवादिनम् । स्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्विति ॥ ३८ इति यतिप्रवरस्य निशम्य तद्वचनमर्थवदागत विस्मयः । परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥ ३९ अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् । नच विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥ अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति । इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥ भवतु सम्प्रति वादकथाssवयोः फलतु पुष्कलशास्त्र परिश्रमः । उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥ अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्विगम् । सुकलहं कलहंसकलाभृतां दिश सुधांशुसुधामलसत्तनो ॥ अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारघुरन्धरा । न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥ अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे यदि वाददित्सुता । गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥ वादं करिष्यामि न संदिहेत्र जयाजयौ नौ वदिता न कश्चित् । न कण्ठशोषैकफलो विवादो मिथो जिगीषू कुरुतस्तु वादम् ॥ ४६ वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः । का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ॥ ४७ । सर्गः ८ ] श्रीमदाचार्य मण्डन मिश्र संवादः 85 कः पाणिकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तमः । जयाजयौ नौ सुपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥ ४८ अद्यातिधन्योऽस्मि यदार्थपादो मया सहाभ्यर्थयते विवादम । भविष्यते वादकथाsपरेयुर्माध्याह्निकं सम्प्रति कर्म कुर्याम् ॥ तथेति सूक्ते स्मितशङ्करेण भविष्यते वादकथा श्व एव । तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्वादरजैमिनी सः ॥ विधाय भार्या विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र । इत्थं सरस्वत्यवताराज्ञौ तद्धर्मपत्न्यास्तमभाषिषाताम् ॥ अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः । आमचे दैवोपगतान्मुनीन्द्राननीनिव त्रीन्मुनिशेखरांस्तान् ॥ भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ । अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ॥ अथ क्रियान्ते किल सूपविष्टास्त्रय्यन्तवेद्यार्थविदस्त्रयोsपी । अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टाः ॥ तेषां द्विजेन्द्रालय निर्गतानामदर्शनं जग्मतुरञ्जसा द्वौ । रेवातटे रम्यकदम्बाले देवालयेऽवस्थितवांस्तृतीयः ॥ इति स यतिवरेण्यो दैवयोगाद्गुरू- णामितरजनदुरापं दर्शनं प्राप्य हृष्टः । तदुदितवचनानि श्रावयन्नात्मशि- ध्याननयदमृततुल्यान्यात्मवित्तां त्रियामाम् ॥ प्रातः शोण सरोजबान्धवरुचिप्रद्योतिते व्योमनि प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः । साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं वादायोपविवेश पण्डितसभामध्ये मुनिर्येयवित् ॥ ५७ ततः समादिश्य सदस्यतायां सधर्मिणीं मण्डनपण्डितोऽपि । स शारदां नाम समस्त विद्याविशारदां वादसमुत्सुकोऽभूत् ॥ ५८ 86 श्रीमच्छङ्करदिग्विजये पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे । तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीय ॥ वृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः । परावरज्ञः स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥ ब्रह्मकं परमार्थसच्चिदमलं विश्वपञ्चात्मना शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते । तज्ज्ञानान्निखिलमपञ्च निलया स्वात्मव्यवस्था परं [ अष्टमः निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ६१ बाढं जये यदि पराजयभागहं स्यां संन्यासम परिहृत्य कषायचेलम् । शुकं वसीय वसनं द्वयभारतीय वादे जयाजयफलपतिदीपिकाऽस्तु ॥ इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुत्ररे स्वकीयाम् । fare गृहमेधिर्यश्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥ वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र संगत्ययोगा- त्पूर्वी भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे । शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुषः स्यात्समाप्तेः ॥ ६४ वादे कृतेऽस्मिन्यदि मे जयान्यस्त्वयोदितात्स्याद्विपरीतभावः । येयं त्वयाऽभूद्गदिता प्रसाक्ष्ये जानाति चेत्सा भविता वधू ॥ ६५ जेतु: पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरूपौ । अम्बामुदार धिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥ आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ । एवं विजेतुमनसोरुप विष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ॥ माला यदा मलिनभावमुपैति कण्ठे यस्यापि तस्य विजयेतर निश्चयः स्यात् । उक्त गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥ अन्योन्यसञ्जयफले विहितादरौ तौ वाद विवादपरिनिर्णयमातनिष्टाम् । ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥ स्वर्गः ८ ] श्रीमदाचार्यमण्डनमिश्र संवादः ततस्तयोरास महाविवादः सदस्यविश्राणितसाधुवादः । स्वपक्षसाक्षीकृतसर्ववेदः परस्परस्यापि कृतप्रमादः ॥ दिने दिने चापकर्षो भूरीभवत्पण्डितसन्निकर्षः । अन्योन्यभङ्गा हिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्षः ॥ दिने दिने वासरमध्यमे सा व्रते पर्ति भोजनकालमेव । समेत्य भिक्षं समयं च भैक्ष्ये दिनान्यभूवन्निति पञ्चषाणि ॥ अन्योन्यमुत्तरमखण्डयतां प्रगल्भं बद्धासनों स्मितविकासमुखारविन्दौ । न स्वेदकम्पगगनेक्षणशालिनो वा न क्रोधवाक्मवादि निरुत्तराभ्याम् ॥ ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य विचक्षणस्य । चिक्षेप तं क्षोभितसर्वपक्षं विद्वत्समक्षापतिभातकक्ष्यम् ॥ ततः स्वसिद्धान्तसमर्थनाय मागल्भ्यहीनोऽपि स सभ्यमुख्यः । जगाद वेदान्तवचः प्रसिद्धमद्वैत सिद्धान्तमपाकरिष्णुः ॥ भो भो त विशुद्धपङ्गीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥ स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् । उद्दालकाद्या गुखो महान्तः संग्राहयन्त्यात्मतया परेशम् ॥ वेदावसाने हि तमादिवचांसि जप्तान्यवमर्पणानि । फण्मुखानी वचांसि योगिनैषां विवक्षाऽस्ति कुहस्विदर्थे ॥ अर्थातीत किल हुंडादेर्जपोपयोगित्वमभाणि विज्ञैः । अर्थप्रतीत स्फुटपत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥ आपाततस्तमसीति वाक्याद्यतीश जीवेश्वरयोरभेदः । प्रतीयतेऽथाऽपि मखादिकर्तृमशंसया स्याद्विधिशेष एव ॥ क्रत्वङ्गयूपादिकमर्यमादिदेवात्मना वाक्यगण: प्रशंसन् । भवद्भिजीवेशयोर्वास्तवमैकरूप्यम् । 89 87 ૮ शेषः क्रियाकाण्डगतो यदि स्यात्काण्डान्तरस्थोऽपि भवेत्कथं सः ॥ ८१ 88 श्रीमच्छङ्करदिग्विजये तर्ह्यस्तु जीवे परमात्मदृष्टिविधायकः कर्मसमृद्धयेऽर्हन् । अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्क नभस्वदादौ ॥ संश्रूयतेऽन्यत्र यथा लिङादिर्विधायको ब्रह्मविभावनाय । तथा विधेरश्रवणान्मनीषिन् संजाघटीत्यत्र कथं विधानम् ॥ यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्रिसत्रे । प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥ तर्हि क्रियाजन्यतया विमुक्ति: स्वर्गादिवद्धन्त विनश्वरा स्यात् । उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्दा मनसः क्रियैव ॥ मा भूदिदं तत्वमसीति वाक्यमुपासनापर्यवसायि कामम् । किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥ किं चेतनत्वेन विवक्ति साम्यं सार्वश्यसार्वात्म्यमुखैर्गुणैर्वा । आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥ नित्यत्वमात्रेणं मुने परात्मगुणोपमानैः सुखबोधपूर्वैः । गुणैरविद्यावृतितोऽपतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥ यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः । त्वयैव तस्य प्रतिभासशङ्का विद्वन्नविद्यावरणान्निरस्ता ॥ भोवेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्मसूतेः । चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरासः ॥ इन्तैवमस्तीति तदा प्रयोगः स्यावन्मते तत्त्वमसीति न स्यात् । तदैक्षतेत्यत्र जडत्वशङ्काव्यावर्तनाच्चात्र पुनर्न चोद्यम् ॥ न त्वमप्यैक्यपरत्वमस्य प्रत्यक्ष पूर्वप्रमितिप्रकोपात् । न युज्यते तज्जपमात्र योगिस्वाध्याय विध्याश्रितमभ्युपेयम् ॥ अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यवाधः । असन्निकर्षान्न भवेद्धि भेदममैव तेनास्य कुतो विरोधः ॥ [ अष्टमः सर्गः ८ ] श्रीमदाचार्य मण्डन मिश्र संवादः 89 69 भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्म विशेषणत्वम् । तत्संनिकर्षोऽस्त्वथ सम्प्रयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥ ९४ अतिप्रसक्तेर्नतु केवलस्य विशेषणत्वस्य तदभ्युपेयम् । भेदाश्रये हीन्द्रियसन्निकृष्टे न सन्निकृष्टत्वमिहात्मनोऽस्ति ॥ भेदाश्रयात्मेन्द्रियसंनिकर्षो नेत्युक्तमेतच्चतुरं न यस्मात् । चित्तात्मनोद्रव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥ आत्मा विभुः स्यादथवाऽणुपात्रः संयोगिता नोभयथाऽपि युक्ता । दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन ॥ मनोऽक्ष मित्यभ्युपगम्य भेदासङ्गित्वमुक्तं परमार्थतस्तु । साहाय्यकुल्लांचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥ भेदमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरूपैव तथाऽपि योगिन् । तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥ प्रत्यक्षमात्मेश्वरयोर विद्यामायायुजोद्यतयति प्रभेदम् । श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥ स्याद्वा विरोधस्तदपि वृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् । प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्या ह्यपच्छेदनयोक्तरीत्या * ॥ " *पाष्ठं पारमर्षे सूत्रम - " पौर्वापयै पूर्वदौबल्यं प्रकृतिवत् " इति । ज्योतिष्टोमे बहिष्पवमानार्थ हविर्धानानिर्गच्छतामृत्विग्यजमानानां - " अध्व प्रस्तोता ऽन्वारभते, प्रस्तोतारमुद्गाता, उद्गातारं प्रतिद्धर्ता " इत्यादिनाऽन्वारंभणं विहितम् । तद्विच्छेद निमित्तं प्रायश्चित्तं श्रूयते- "गाताऽपच्छिद्येऽदक्षिणं तं यज्ञमिट्ठा तेन पुनर्यजेत तत्र तद् दद्यात् यत्पूर्वस्मिन् दास्यन् स्यात् यदि प्रतिहर्ताऽच्छिद्येत सर्ववेदसं दद्यात् " इति । तत्त्रोद्गातृप्रतिहत्रः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात् किं पूर्व कार्यम उतापरमिति विराये, अनुपजातविरो- धितया पूर्वमिति प्राप्ते - राद्धान्तः, पौर्वापर्ये सति निमित्तयोः पूर्वस्य नैमित्तिकस्य दौर्बल्यम, उत्तरस्य पूर्वनिरपेक्षस्य तद्बाधकतयोतत्वात्, पूर्वोदयकाल उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । तदुक्तम- पूर्व परमज्ञातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादानत्वबाधेन संभवः ॥ इति " 90 90 श्रीमच्छङ्करदिग्विजये नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुतेः संयमिचक्रवर्तिन् । घटादिवद्ब्रह्मनिरूपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥ [ अष्टमः किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽये । तानि रमे तु विद्वन्नूरीकृतोऽस्माभिरसाधनीयः ॥ स्वप्रत्ययाबाधयभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् । वयाऽऽत्मबोधेन भिदान बाध्येत्यनभ्युपेतेति न कोऽपि दोषः ॥ १०४ ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा । आद्येोऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानिः पुनरेव ते स्यात् ॥ १०५ यो गिन्ननोपाधिकभेदवच्त्वं विवक्षितं साध्यमिह त्वदिष्टः । औपाधिकत्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥ घटेशभेदेऽप्युपधि विद्या तवानुमानेषु जडत्वमेव । चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतुः ॥ धर्मप्रमा बाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् । त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥ १०८ धात् । किं कृत्स्त्रधर्मिप्रमया न बाध्यः किं वा स यत्किंचनधर्मिबोधा घटाधिके ब्रह्मणि चात्मभेदस्यैक्यात् पुनः स्यान्ननु पूर्वदोषः ॥ १०९ किचागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्यः । भेदस्य तद्बुध्य विबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥ किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे । शरीर्यभेदेन परस्य सिद्धेः प्राप्नोति धर्मिग्रहमानकोषः ॥ तत्र दृष्टान्तः प्रकृतिवत् - यथा प्रकृतौ कृतोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकांक्षिण्यां प्राप्ताः कल्योपकारच रमाविभिरपि शरैर्निर- पेक्षैर्बाध्यन्ते तद्वत् । तथा च यथा प्रथमप्रवृत्तं दुबलं पूर्वनैमित्तिकमेव पश्चात्प्रवृत्तेन प्रबलेनोत्तरेण नैमित्तिकेन बाध्यम्, तद्वद् यथोक्तं प्रत्यक्ष- मेव यथोक्तश्रुत्या बाध्यम् । इति डिण्डिमः ॥ सर्गः ८ ] श्रीमदाचार्य मण्डन मिश्र संवादः 91 भो 'द्वा सुपर्णा सयुजा सखाये' त्याद्या श्रुतिर्भेदमुदीरयन्ती । जीवेशयोः पिप्पलभोक्तभोक्तोस्तयोरभेदरश्रुतिबाधिकाऽस्तु ॥ ११२ प्रत्यक्षसिद्धे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् । स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोsपि विद्वन् ॥ ११३ स्मृतिसिद्धार्थविबोधि वाक्धं यथेष्यते मूलतया प्रमाणम् । प्रत्यक्षसिद्धार्थक वाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥ श्रुतिः स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् । कथं भवेद्वेदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयोः सा ॥ जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु । विविच्य सत्वात्पुरुषं समस्त संसारराहित्यममुष्य वक्ति ॥ यदीयमाख्यात्यथ सजीव विहाय सर्वज्ञशरीरभाजौ । जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमन् कथमश्नुवीत ॥ न चोदनीया वयमत्र विद्वन् यतस्त्वया पैङ्गिरहस्यमेव । अतीति सवं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥ ११८ शरीरवाची ननु सवशब्दः क्षेत्रज्ञशब्दः परमात्मवाची । तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैडयोदितवर्त्मनाऽपि ॥ तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः । क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीर के द्रष्टरि तत्र विद्वन् ॥ येनेति हि स्वप्नदृशिक्रियायाः कर्तोच्यते तत्र स जीव एव । क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वमक् सर्वविदीश्वरोऽपि ॥ १२१ तिङ्प्रत्ययेनाभिहितोऽत्र कर्ता ततस्तृतीया करणेऽभ्युपेया । द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥ १२२ वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् । तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥ १२३ 92 श्रीमच्छङ्करदिग्विजये [ अष्टमः भवञ्छरीरादितरत्र वेशः कथं च शारीरपदाभिधेयः । नभः शरीरेsपि भवत्यथापि न केsपि शारीरमितीरयन्ति ॥ यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्बुद्धिशरीरभाजौ । अन्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्तर्हि कथं प्रमाणम् ॥ अदाहकस्याप्ययसः कृशानोराश्लेषणाद्दाहकता यथाssस्ते । तथैव भोक्त्रमचेतनाया बुद्धेरपि स्याच्चिदनुपवेशात् ॥ छायातपौ यतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा । ऋतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥ भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा । एषात्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥ मानान्तरोपोलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य । तद्वाधितुं सा प्रभवत्यभेदश्रुति प्रमाणान्तरबाधितार्थाम् ॥ प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् । गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ॥ इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां देव्या तादृशविश्वरूप भसावष्टंभमुष्टिधया । भर्तृन्यास विलक्ष्यसूक्तिजननी साक्षित्वकुक्षिभरि : सश्लाघात पुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥ १३१ इत्थं यतिक्षितिपतेरनुमोद्य युक्ति मालां च मण्डनगले मलिनामवेक्ष्य । भिक्षार्थमुच्चलतमद्य युवामिती मावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥ १३२ कोपातिरेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते । साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससंभ्रममुं निजधाम यान्तीम् ॥ बबन्ध निःशङ्कमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः । जयोऽपि तस्याः स्वमतैक्य सिद्ध्यै सार्वज्ञतः स्वस्य न मानहेतोः ॥ १३४ सर्गः ९ ] श्रीमदाचार्य सरस्वती संवादः जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगर्भ्याम् । उपात्तलक्ष्म्यादिविचित्ररूपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ॥ व्रज जननि तदा त्वं भक्तचूडामणिस्ते निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् । इति निजवचनेऽस्मिञ्छारदा संमतेऽसौ मुनिरथ मुदितोऽभून्मण्डनं हृद्बुभुत्सुः ॥ इति श्रीमाधवीये तन्मण्डनार्यकथापरः । संक्षेपशङ्करजये सर्वोऽसावष्टमोऽभवत् ॥ ८ ॥ आदितः श्लोकाः 920. अथ नवमः सर्गः 118 11 श्रीमदाचार्य सरस्वती संवादः ॥ अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरैः सनयैः । शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मज: ॥ यतिराज संप्रति ममाभिनवान्न विषादितोऽस्म्यपजयादपि तु । अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥ स हि वेश्यागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः । निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्रपदः ॥ इति संदिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् । प्रमिमीमहे न वयमेव मुनेर्हृदयं यथावदनभिज्ञतया ॥ यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः । यदि युक्त पत्र भवता कथितं हृदि कुर्महे दलदहंकृतयः ॥ अभिसंधिमानपि परे विषयप्रसरन्मती ननुजिघृक्षुरसौ । 93 तदवाप्तिसाधनतया सकलं सुकृतं न्यरूपयदिति स्म परम् ॥ ६ 94 श्रीमच्छङ्करदिग्विजये वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया । तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥ श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा । इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥ श्रुतिरा शिरद्वयपरोऽपि परंपरयाऽऽत्मबोधफलकर्मणि च । प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्वकरणस्थ गिराम् ॥ ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्नवेदनिचयस्य मुनेः । फलदातृतामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥ ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना । परमेश्वरं प्रथयति श्रुतयस्त्वनुवादमात्रमिति काणभुजाः ॥ न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः । कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥ इति भावमात्मनि निधाय मुनिः स निराकरोन्निशितयुक्ति शतैः । अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥ तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि । इति गूढभावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥ किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः । न निशाटनाहिततमः कचिप्यदहनि प्रभां मलिनयेत्तरणेः ॥ इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा । मनसा ननन्द कविराणितरां सह शारदाश्च सदसस्पतयः ॥ [ नवमः विदिताशयोऽपि परिवर्तिपनाविशयः स जैमिनिमवाप हृदा । अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥ १७ अवदच्च पिवति स भाष्यकृति प्रजहाहि संशयमिमं सुमते । यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥ सर्गः ९ ] श्रीमदाचार्य सरस्वती संवादः न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः । यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा वितरः ॥ गुरुणा चिदेकर सतत्परता निरणायि हि श्रुतिशिरोवचसाम् । कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥ अलमाकलय्य विशयं सुयशः शृणु मे रहस्यमिममेव परम् । स्वमवेहि संसृतिनिमग्न जनोत्तरणे गृहीतवपुषं पुरुषम् ॥ आधे सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे दत्त द्वापरनामके तु सुमतिर्व्यासः कलौ शङ्करः । इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत- स्तस्य त्वं सुपते मते त्ववतरेः संसारवार्थि तरेः ॥ इति बोधितद्विजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् । सच यायजूक परिषत्प्रमुखः प्रणिपत्य शङ्करमवोचदिदम् ॥ विदितोऽस्ति संप्रति भवाञ्जगतः प्रकृतिर्निरस्तसमतातिशयः । अवबोध मात्रवपुरण्यबुधोद्धरणाय केवलमुपात्ततनुः देकमुदितं पदं यतिवर त्रयीमस्त कै- स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः । परं गलितसौगतप्रलपितान्धकूपान्तरे पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥ प्रबुद्धोऽहं स्वप्नादिति कृतमतिः स्वप्नमपरं यथा मूढः स्वप्ने कलयति तथा मोहवशगाः । विमुक्ति मन्यन्ते कतिचिदिह लोकान्तरगति हसन्त्येतान् दासास्तव गलितमायाः परगुरोः ॥ मुहुधिग्विभेदिप्रलपितविमुक्ति यदुदयेऽप्य- सार: संसारो विरमति न कर्तृत्वमुखरः । भृशं विद्वन्मोदे स्थिरतमविमुक्ति त्वदुदितां भवातीता येयं निरवधिचिदानन्दलहरी ॥ 95 98 96 श्रीमच्छङ्करदिग्विजये अविद्याराक्षस्या गिलितमखिलेशं परगुरो पिचण्डं भिवास्या: सरभसममुष्मादुदहरः । हृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमां हनूमांलो केयस्तव तु कियती स्यान्महितता ॥ जगदार्तिहननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् । तव यत्पुरोऽब्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥ कपिलाक्षपादकणभुक्प्रमुखा अपि मोहमीयुरमितप्रतिभाः । श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥ समेतैरेतैः किं कपिलकण भुग्गौतमवच- स्तमस्तोमैश्वेतो मलिनिमसमारम्भणचणैः । सुधाधारोद्वारमचुरभगवत्पादवदन- प्ररोहदयाहारामृत किरणपुञ्जे विजयिनि ॥ भिन्दानैर्देवमेतैरभिनवयवनैः सद्रवीभञ्जनोकै- र्व्याप्ता सर्वेयमुर्वी क जगति भजतां कैव मुक्तिप्रसक्तिः । यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता [ नवमः उज्जृम्भन्ते समन्ताद्दिशि दिशि कृतिनः किं तया चिन्तया मे ॥ ३२ कथमल्पबुद्धिविवृतिमचयमबलोरगक्षतिहताः श्रुतयः । न यदि त्वदुत्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥ भवदुक्तमुक्त्यमृतभानुकरा न चरेयुरार्य यदि कः शमयेत् । अतितीव्रदुःसहभवोष्णकरप्रचुरातपप्रभवतापमिमम् ॥ बत कर्मयन्त्रमधिरुह्य तपः श्रुत गेहदारसुतभृत्यधनैः । अतिरूढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपविलात् ॥ अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना । जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥ सर्गः ९ ] श्रीमदाचार्य सरस्वती संवादः शान्तिवाक्सुकृताङ्कुरं दमसमुल्लासोल सत्पल्लवं वैराग्यद्रुमकोरकं सहनता वल्लीप्रसूनोत्करम् । ऐका सुमनो मरन्दविसृतिं श्रद्धासमुद्यत्फलं विन्देयं सुगुरोगिरां परिचयं पुण्यैरगण्यैरहम् ॥ त्रिदिवौकसामपि पुमर्थ करीमिह संसरज्जन विमुक्तिकरीम् । करुणोर्मिलां तव कटाक्षझरीमवगाहतेऽत्रं खलु धन्यतमः ॥ केचिच्चञ्चललोचनाकुचतटी चेलाञ्चलोचालन- 97 ३९ स्पर्शद्राक् परिरंभ संभ्रमकलालीलासु लोलाशयाः । सत्येते कृतिनस्तु निस्तुलयशः कोंशादय: श्रीगुरु- व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥ चिन्तासन्तानतन्तु ग्रथितनव भवत्सूक्तिमुक्ताफलौधै- रुद्यद्वैशच सद्यः परिहृततिमिरैहरिणो हारिणोऽमी । सन्तः सन्तोषयन्तो यतिवर किमतो मण्डनं पण्डितानां विद्या हृद्या स्वयं तान् शतमखमुखरान् वारयन्ती वृणीते ॥ ४० सन्तः सन्तोषपोषं दधतु तव कृतान्नायशो भैर्यशोभिः सौरालोकैरुलका इव निखिलखला मोहमाहो वहन्तु । धीरश्रीशङ्करार्य प्रणतिपरिणतिभ्रश्यदन्तर्दुरन्त- 'ध्वान्ताः सन्तो वयं तु प्रचुरतर निजानन्दसिन्धौ निमग्नाः ॥ ४१ चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं ते सङ्कल्पः कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम् । स्वर्गे दृग्गोचरस्त्वत्पद भजनमतः संविचार्येदमार्या मन्यन्ते स्वर्गमन्यं तृणवद तिलघु शङ्करार्य त्वदीयाः ॥ तदहं विसृज्य सुतदारगृहं द्रविणानि कर्म च गृहे विहितम् । शरणं वृणोमि भगवच्चरणावनुशाधि किङ्करममुं कृपया ॥ इति सूनृतोक्तिभिरुदीर्णगुणः सुधियाऽऽत्मवाननुजिघुक्षुरसौ । समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥ 98 श्रीमच्छङ्करदिग्विजये यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया । इह भावि तापसमुखादखिलं तदुदीर्यते शृणु ससभ्यञ्जनः ॥ मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोच्चजटः । सितभूतिरूषित समस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥ परिगृह्य पाद्यमुखयाऽर्हणया रचिताञ्जलिर्नमितपूर्वतनुः 1 जननी तदाssत्तवरिवस्यममुं मुनिमन्वयुङ्क्त मम भाव्यखिलम् ॥ [ नवमः भगवन्न वेद्मि दुहितुमम भाव्यखिलं च वेत्ति तपसा हि भवान् । प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥ ४८ कियदायुरवाप्स्यति सुतान् कति वा दयितं कथंविधमुपैष्यति च । अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥ ४९ इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः । सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ॥ निगमाध्वनि प्रबलबाह्यमतैर मितैरधिक्षिति खिले द्रुहिणः । पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डन कवीन्द्रमिषात् ॥ तमवाप्य रुद्रमित्र साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता । अनुरूपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥ अथ नष्टौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् । ननु मानुषं वपुरुपेत्य शिवः समलंकरिष्यति धरां स्वपदैः ॥ सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा । विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥ इतिगामुदीर्य स मुनिः प्रययौ सकलं यथातथमभूच्च मम । भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥ अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् । वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्य मिमम् ॥ ५६ श्रीमदाचार्य सरस्वतीसंवादः सर्गः ९] यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच्च परमः पुरुषः । तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तुत्कलिकाम् ॥ इति याजूकसहधर्मचरीकथितं वचोऽर्थवद्गह्येपदम् । मधुरं निशम्य मुदितः सुतरां प्रतिवक्तुमैहत यतिप्रवरः ॥ यदवादि कलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले । तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥ स्वतं प्रभेत्तमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः । यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् !! 99 99 अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् । जनकस्तथा सुलभयाऽवलया किममी भवन्ति न यशोनिधयः ॥ ६१ इति युक्तिमद्गदितमाकलयन्मुदितान्तरः श्रुतिसरिज्जलधिः । स तथा विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥ अथ सा कथा प्रववृते स्म तयोरुभयोः परस्परजयोत्सुकयोः । मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृत विचक्षणयोः ॥ अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य संकथनमाकलितम् । न फणीशमप्यतुलयन पपीं न गुरुं कविं किमपरं जगति ॥ न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते । इति जल्पतोः सममनल्पधियोर्दिवसाथ सप्त दश चात्यगमन् ॥ अथ शारदाऽकृत वाक्प्रमुखेष्वखिलेषु शास्त्र निचयेषु परम् । तमजय्यमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥ अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा । मदनागमेष्वकृतबुद्धिरसौ तदनेन संप्रति जयेयमहम् ॥ इति संप्रधार्य पुनरप्यमुना कथने प्रसंगमथ संगतितः । यमिनं सदस्यमुपपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥ ६४. 100 श्रीमच्छङ्करदिग्विजये [ नवमः ७१. ॥ ७३ कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिका: किंच पदं समाश्रिताः । पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पूरुषे ॥ नेतीरितः किंचिदुवाच शङ्करो विचिन्तयन्नत्र चिरं विचक्षणः । तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ ७० इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव । विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद जगति व्रतिनाम् ॥ इह मासमात्रमवधिः क्रियतामनुमन्यते हि दिवसस्य गणः । तदनन्तरं सुदति हास्यसि भोः कुसुमास्त्रशास्त्रनिपुणत्वमपि ॥ उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् । श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि । मनुजेश्वरं परिवृतं मलपत्प्रमदाभिरार्तिमदमात्यजनम् ॥ अयो निशाखेटवशादटव्यां मूले तरोर्मोहवशात्परासुम् । तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं माह स संयमीन्द्रः ॥ सौन्दर्य सौभाग्यनिकेतसीमाः परःशता यस्य पयोरुहाक्ष्यः । सं एव राजाsपरुकाभिधानः शेते गतासुः श्रमतो धरण्याम् ॥ प्रविश्य कार्य तमिमं परासोर्नृपस्य राज्येऽस्य सुतं निवेश्य । योगानुभावात्पुनरप्युपैतुमुत्कण्ठते मानसमस्मदीयम् 11 अन्यादृशानामदसीयनाना कुशेशयाक्षी किलकिञ्चितानाम् । सर्वज्ञता निर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥ इत्युचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् । सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥ मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै । नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥ सर्गः ९ ] श्रीमदाचार्य सरस्वती संवादः भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम् । वर्ष कालेषु बलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥ विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् । समादिशत्राजसरोरुहाक्षीः सर्वात्मना तस्य वशीक्रियायै ॥ संगीतलास्याभिनयादि केषु संसक्तचेता ललितेषु तासाम् । स एष विस्मृत्य पुनः समाधिं सर्वात्मना प्राकृतवद्धभूव ॥ गोरक्ष एषोऽथ गुरोः प्रवृत्ति विज्ञाय रक्षन् बहुधाऽस्य देहम् । निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥ तत्रैकदा तच्चनिबोधनेन निवृत्तरागं निजदेशिकं सः । योगानुपूर्वी सुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ॥ इन्तेदृशोऽयं विषयानुरागः किंचोर्ध्वरेतोव्रतखण्डनेन । किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तम् ॥ व्रतमस्मदीयमतुलं क महत् क च कामशास्त्रमतिगर्ह्यमिदम् । तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिदैव भवेत् ॥ अधिमेदिनि प्रथयितुं शिथिलं घृतकङ्कणस्य यतिधर्ममिमम् । भवतः किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥ 101 स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभः । अविगीतमेव भवता फणितं शृणु सौम्य वच्मि परमार्थमिदम् ॥ ८९ असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूस खस्य । वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ॥ सङ्कल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः । तन्मृलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥ अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमतिः सुदृढम् । तमबुद्धतत्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ॥ 102 श्रीमच्छङ्करदिग्विजये कृतधीस्त्वनाश्रममवर्णमजात्यवबोधमात्रमजमे करसम् । [ नवमः स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्ध्नि विधिकिङ्करताम् ॥ ९३ कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् । परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥ कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः । न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥ तदयं करोतु हयमेधशतान्यमितानि विवहननान्यथवा । परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥ अवधी तिशीर्षमददाच्च यतीन वृकमण्डलाय कुपितः शतशः । चत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बहूचगीः ॥ बहुदक्षिणैरयजत ऋतुभिर्विबुधानतर्पयदसंख्यधनैः । जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥ न विहीयतेऽहिरिपुवदुरितैर्न च वर्धते जनकवत्सुकृतैः । न स तापमेयर दुरितं किमहं न साध्वकरवं त्विति च ॥ तदनङ्गशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् । न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥ इति सत्कथाः स कथनीययशा भवभीतिभञ्जनकरी: कययन् । सुदुरासदं चरणचारिजनैर्गिरिशृङ्गमेत्य पुनरेव जगौ ॥ - १०० अधिसानु पश्यत विभाति गुहा पुरतःशिला समतला विपुला । सरसी च तत्परिसरेऽच्छजला फलभारनम्रतरुरम्यतटा ॥। १०२ परिपाल्यतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः । अहमा स्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥ इति शिष्यवर्गमनुशास्य यतिप्रवरो विसृष्टकरणोऽधिगुहम् । महिपस्य व गुरुयोगवलोऽविशदातिवाहिकशरीरयुतः ॥ १०४ सर्गः ९ ] राजदेहप्रवेशादिकथनम् अङ्गुष्ठमारभ्य समीरणं नयन् करन्ध्रमार्गाद्वहिरेत्य योगवित् । करन्धमार्गेण शनैः प्रविष्टवान् मृतस्य यावच्चरणायमेकधीः ॥ गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे । तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥ 103 आदौ तदङ्गमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् । उन्मीलदंघ्रिचलनं तदनुवदक्षिन्याको चमुत्थितमुपात्तबलं क्रमेण ॥ १०७ तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपङ्कजास्ताः । नार्यो विरेजुररुणोदय संमफुल्लपद्मा: ससारसरवा इव वारिजिन्यः ॥ १०८ हर्ष तसामुदितमतुलं वीक्ष्य वामेक्षणाना- मात्तप्राणं नृपमपि महामात्यमुख्याः प्रहृष्टाः । दध्मुः शङ्खान् पणत्रपटहान् दुन्दुभीचाभिजघ्नु- स्तेषां घोषाः सपदि बधिरचक्रिरे द्यां भुवं च ॥ १०९ ' इति श्रीमाधवीये तत्सार्वयोपायगोचरः । संक्षेपशङ्करजये सर्वोऽयं नवमोऽभवत् ॥ ९ ॥ आदितः श्लोकाः 1029 अथ दशमः सर्गः ॥ १० ॥ राजदेहप्रवेशादिकथनम् ॥ अथ पुरोहितमन्त्रिपुरःसरैर्नरपतिः कृतशान्तिककर्मभिः । विहितमाङ्गलिकः स यथोचितं नगरमा स्थितभद्रगजो ययौ ॥ समधिगम्य पुरं परिसान्त्वितप्रियजनः सचिवैः सह सम्मतैः । भुवमपाल दाहतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥ इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्रिणः । तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथः ॥ मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा लयम् । नरपति: प्रतिभाति न पूर्ववत्समुदिता खिल दिव्यगुणोदयः ॥ 104 श्रीमच्छङ्करदिग्विजये वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्भिरमर्थवित । जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥ अनुसवनविस्तृत्वरैर पूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वैः । अनितरसुल भैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥ अनृतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुधाश्च गोमहिष्यः । क्षितिरभिमतवृष्टिराज्य सस्या स्वविद्दितधर्मरताः प्रजाय सर्वाः ॥ कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यथ राज्ञः प्रभावात् । तस्मादस्मद्राजव प्रविश्य प्राप्तैश्वर्यः शास्ति कश्विद्धरित्रीम् ॥ तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः । करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥ अथ ते भुवि यस्य कस्यचिद्विगता सोर्वपुरस्ति देहिनः । अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥ अथ राज्यधुरं धराधिपः परमाप्तेषु निवेश्य मन्त्रिषु । बुभुजे विषयान् विलासिनीसचिवोऽन्य क्षितिपालदुर्लभान् ॥ स्फटिक फळके ज्योत्स्नाशुभ्रे मनोज्ञशिरोगृहे वरयुवतिभिर्दीव्यन्नक्षैर्दुरोदर के लिए । अधरदशनं बाह्वावा महोत्पलताडनं रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ॥ अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल- व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् । मधु मदकरं पायपायें मिया: समपायय- कनकच कैरिन्दुच्छा या परिष्कृतमादरात् ॥ मधुमदकलं मन्दखिन्न मनोहरभाषणं निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् । दरमुकुलिताक्षीषलज्जं विसृत्वरमन्मथं प्रचरदलकं कान्तावक्तुं निपीय कृती नृपः ॥ [ दशमः सर्गः १० ] राजदेहप्रवेशादिकथनम् विजघनं संदष्टष्ठं प्रणुन्नपयोधरं प्रसृतभणितं प्राप्नोत्साहं रणन्मणिमेखलम् । निभृतकरणं नृत्यगात्रं गते तर भावनं प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥ मनसिजकलातत्वाभिज्ञो मनोज्ञविचेष्टितः सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः । कृतक्कुचगुरूपास्त्याऽत्यन्तं सुनिर्वृतमानसो निधुवनवरब्रह्मानन्दं निरर्गलमन्वभूत् ॥ 105 पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभिः सहितोऽप्यरंस्त । कन्दर्पशास्त्रानुगतः प्रवीणैर्वात्स्यायने तच्च निरक्षैताद्धा ॥ वात्स्यायनमोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् । स्वयं व्यधत्ताभिनवार्यगर्भ निबन्धमेकं नृपवेषधारी ॥ पारशर्यवनिभृति प्रविश्य राज्ञो वर्णैवं विहरति तद्विलासिनीभिः । दृष्ट्रा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥ १९ आचार्यैवधिरकारि मासमात्रं सोडतीतः पुनरपि पञ्चषाश्च घस्राः । अद्यापि स्वकरणमेत्य नः सनाथान् कर्तुं तन्मनसि न जायतेऽनुकम्पा ॥ किं कुर्मः क नु मृगयामहे क यामः को जानन्निह वसतीति नोऽभिदध्यात् । विज्ञातुं कथममर्म हे विचिन्त्याच्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥ गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः । जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥ २२ निःशेषेन्द्रियजाड्यहृन्नवनवाह्लादं मुहुस्तन्वती नित्याश्लिष्टर जो यतीशचरणाम्भोजाश्रया श्रेयसी । निष्पत्यूह विजृम्भमाणवृजिनस्योद्वासना वासना निःसीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥ फलितैरिव सत्यपादपैः परिणामैरिव योगसम्पदाम् । समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयः ॥ 106 श्रीमच्छङ्करदिग्विजये सधनैर्निजला भवैभवात् सकुटुम्बैरुपशान्तिकान्तया । अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥ अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् । जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥ विगतमोहतमो इतिमाप्य यं विधुतमायतमा यतयोऽभवन् । अमृतदस्य तदस्य दृशः सृतवावतरेम तरेम शुगर्णवम् ॥ शुभाशुभ विभाजकस्फुरणदृष्टिमुष्टिघयः क्षपान्धमतपान्यदुष्कथकदम्भकुक्षिंभरिः । कदा भवसि मे पुनः पुनरनाद्यविद्यातमः प्रमृद्य गलितद्वयं पदमुदञ्च यन्नद्वयम् ॥ [ दशमः मर्त्यानां निजपादपङ्कजजुषामाचार्य वाचा यया रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया । द्राङ् नायास्यसि चेत्सुधीकृतपरीहासस्य दसस्य ते दुःखान्तो न भवेदितीय स पुनर्जानीहि मीनीहि मा ॥ २९ इति खेदमुपेषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा । शुचमर्थवता शमयन्वचसा निजगाद सरोरुहपाद इदम् ॥ पर्याप्तं नः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिधानात् । अन्वेष्यामो भूविवराण्यप्यथ च द्यां यद्वद्देवं देवमनुष्यादिषु गूढम् ॥ ३१ अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्प्रापमप्यर्यमाप्नोत्यवश्यम् । हुर्विजालैः सुरा हन्यमाना सुधामप्यवापुर्वनिर्विण्णचित्ताः ॥ ३२ यदप्यन्यगात्रप्रतिच्छन्न रूपो दुरन्वेषणः स्याद्गुरुर्नस्तथापि । स्वभानुदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः ॥ ३३ इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्यां चितं कृष्णवर्त्मद्युतिः । विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणी: संयमी ॥ नित्यतायाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः । दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी खरा मेदिनी कामसूः ॥ सर्गः ०१] राजदेहप्रवेशादिकथनम् तदिहाssस्यमपास्य विचेतुं निरवधिसंसृतिजलधैः सेतुम् । देशिकवरपदकमलं यामो न वृथाऽनेहसमत्र नयामः ॥ इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्ने । कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥ ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् । प्रापुर्धिक्कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥ मृत्वा पुनरप्युत्थितमेनं श्रुत्वा चैन्य दिलीपसमानम् । त्यक्त्वा विरहदैन्यममन्दं मत्त्राssचार्य धैर्यमविन्दन् ॥ ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् । विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्त विशेषाः ॥ राज्ञे ज्ञापितविद्यातिशयास्ते तत्संग्रह विधृतातिशयाः । रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारानृतमित्र चन्द्रम् ॥ वरचामरकर तरुणीकङ्कणरञ्जितमनोहरपश्चाद्भागम् । गीतिगतिज्ञो गीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम् ॥ 107 धृतचामीकरदण्ड सितातपवारणरञ्जितरत्न किरीटम् । श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तः पुरममरेशम् ॥ रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा । समतिसृष्टास्ततः सुखरं मृच्र्च्छनापद विदस्ते जगुर्मोहयन्तः सभाम् ॥ ४४ भृङ्ग तव सङ्गतिमषास्य गिरिशृङ्गे तुङ्गविटपिनि सङ्गमजुषि त्वदङ्गे । स्वाङ्गरचिताः सकलुषान्तरङ्गाः संगमकृते भङ्गमुपयन्ति भृङ्गाः ॥ ४५ पञ्चशरसमयसञ्चयकृते प्राञ्चं मुञ्चन्निवेह सञ्चरसि प्रपञ्चम् । पञ्चजनमुख पञ्चमुखमप्यनञ्चंस्त्वं च गतिरिति किंच किल वञ्चितोऽसौ ॥ पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् । न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तदस्मर परमस्मदुक्त्या ॥ 108 श्रीमच्छङ्करदिग्विजये [ दशमः नेति नेतीत्यादि निगमवचनेन निपुणं निषिध्य मूर्तीमूर्तराशिम् । यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति को विदा स्तत्त्वमसि तत्त्वम् ॥ ४८ खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नपयादिकोशतुषजाले । कवयो विविच्य युक्तत्यवघाततो यत्तण्डुलवदाददति तत्त्वमसि तत्त्वम् ॥ विषमविषयेषु सञ्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघाततः । स्वैरं संनिवर्त्य स्वान्तरश्मिभिर्धीरा वनन्ति यत्र तत्त्वमसि तत्त्वम् ॥ ५० व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम् । इति यदौपाधिकयपृथक्त्वेन विदन्ति सुरयस्तत्वमसि तत्त्वम् ॥ ५१ पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य । सार्वात्म्यं हाटकस्येव मुकुटादितादाम्यं सरसमाम्नायते तत्त्वमसि तत्त्वम् ॥ यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति । वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्तत्त्वमसि तत्त्वम् ॥ ५३ वेदानुवचनसद्दानमुखधर्मैः श्रद्धयाऽनुष्ठितैर्विद्यया युक्तैः । विविदषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा यद्ब्रह्म तत्त्वमसि तत्त्वम् । ५४ शमदमो परमादिसाधनैर्धीराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः । अधिगतामितसच्चिदानन्दरूपा न पुनरिह विद्यन्ते तच्चमसि तत्त्वम् ॥ अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् । विससर्ज पूरिताशा नेताभिर्ज्ञातकर्तव्यः ॥ उद्घोधितः सदसि तैरवलम्ब्य मूर्च्छा निगत्य राजतनुतो निजमाविवेश । गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥ तनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन । निजव पुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥ सपदि दहनशान्तये महान्तं नरमृगरूपमधोक्षजं शरण्यम् । स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतोषयदात्मवित्प्रधानः ॥ सर्गः १० ] राजदेहप्रवेशादिकथनम नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः । निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्तबिलाद्विधुन्तुदस्य ॥ तदनु शमधनाधिपो विनेयैश्चिरविरहाद तिवर्धमानहादैः । सनक इव वृतः सनन्दनाधैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥ तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्गलितक्रियाभिमानम् । विषयविषनिवृत्तवर्षमुचैरतनुत मण्डनमिश्रपक्षिपात्रम् ॥ तं समीक्ष्य नभश्च्युतं स च प्राञ्जलिः प्रणतपूर्वविग्रहः । अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिवन्निव । विश्वरूप बत सत्यवादी पपात पादाम्बुजयोर्यतीशः । गृहं शरीरं मम यच्च सर्व तवेति वादी मुदितो महात्मा ॥ प्रेयसा प्रथममर्चितं मुनिं प्राप्त विष्टरमुपस्थितं बुधैः । प्रश्रयावनतमूर्तिरवत्रीच्छारदाऽभिवदने विशारदा । ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् । ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिवः ॥ 109 सदसि मामविजित्य तथैव यन्मदनशासन कामकलावपि । तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्र विडम्बनम् ॥ त्वया यदावां विजितौ परात्मन्न तत्त्पापावहतीड्य सर्वथा । कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥ आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् । इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥ ६९ जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् । वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्राप्यात्तलक्ष्म्यादिरूपाम् ॥ ७० तस्मादस्मत्कलितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती । इष्टानर्थानृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥ 110 श्रीमच्छङ्करदिग्विजये [दशमः तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य । अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुच्चैः ॥ तस्या यतीशजितभर्तृयतित्वजातवैधव्यसंभवशुचा भुवमस्पृशन्त्याः । अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥ मण्डनमिश्रोऽप्यथ विधिपूर्वं दत्वा वित्तं यागे सर्वम् । आत्मारोपितशोचिष्केशो भेजे शङ्करमस्तमिताशः ॥ संन्यासगृह्य विधिना सकलानि कर्माण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् । कर्णे जग किमपि तच्चमसीति वाक्यं कर्णेजपं निखिल संसृतिदुःखहानेः ॥ संन्यासपूर्व विधिवद्धिभिक्षे पश्चादुपादिशदथाऽऽत्मतत्त्वम् । आचार्यवर्यः श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥ त्वं नासि देहो घटवद्ध्यनात्मा रूपादिमच्चादिह जातिमत्त्रात् । ममेति भेदमथनादभेदसंप्रत्ययं विद्धि विपर्ययोत्थम् ॥ लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः । दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्तः शरीरं कथमात्मतागतिः ॥ नापीन्द्रियाणि खलु तानि च साधनानि दात्रादिवत्कथममीषु तवाऽऽत्मभावः । चक्षुर्मदीयमिति भेदगतेरमीषां स्वमादिभावविरहाच्च घटादिसाम्यम् ॥ यद्यात्मतैषां समुदायमा स्यादेकव्ययेनापि भवेन्न तद्धीः । प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ॥ आत्मत्वमन्यतपगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् । एकाश्रयत्वनियमात्स्मरणानुभूत्यो दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥ मनोsपि नाSSत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् । इति प्रतीतेर्व्यभिचारितायाः सुप्तौ च तश्चिन्मनसोर्विविक्तता ॥ अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् । अपि भेदगतेरनन्वयात्करणादाविव बुद्धिमुज्झ भोः ॥ सर्गः १० ] राजदेहप्रवेशादिकथनम 111 नाहंकृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् । प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भः सर्वोपसंहारिणि सन् सुषुप्ते ॥ ८४ एवं शरीराद्य विविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये । तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुग्मबोध्यम् ॥ कथं तदैक्यं प्रतिपादयेद्वचः सर्वज्ञ संमूढपदाभिषिक्तयोः । न कता संतमप्रकाशयोः संदृष्टपूर्वा न च दृश्यतेऽधुना ॥ सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः । आदाय वाच्यमविरोधि पदद्वयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥ जहीहि देहादिगतामहंधियं चिरार्जितां कर्मशठैः सुदुस्त्यजाम् । विवेकबुद्धया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥ ८८ साधारणे वपुषि काकशृगालवह्निमात्रादिकस्य ममतां त्यज दुःखहेतुम् । तद्वज्जहीहि बहिरर्थगतां च विद्वंश्चित्तं बधान परमात्मनि निर्विशङ्कम् ॥ तीरात्तीरं संचरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन । एवं देही संरञ्जायदादौ तस्माद्भिन्नो नापि तद्धर्मको वा ॥ जाग्रत्स्वम सुषुप्तिलक्षणमदोsवस्थात्रयं चित्तनौ त्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः । क्लृप्तं रज्ज्वदमंशके वसुमतीच्छिद्राहिदण्डादिवत् तद्ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥ ९१ प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं दूरं तदेव परिमूढमतेर्जनस्य । अन्तर्बहिश्च चितिरस्ति न वेति कवि- चिन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्तेः ॥ यथा पायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमार्गाः । प्रयान्ति तद्बहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥ सुखाय यत् क्रियते दिवानिशं सुखं न किंचिद्बहुदुःखमेव तत् । बिना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥ ९४ 112 श्रीमच्छङ्करदिग्विजये परिपक्कपतेः सकृच्छ्रतं जनयेदात्मधियं श्रुतेर्वचः । परिमन्दमतेः शनैः शनैर्गुरुपादाब्जनिषेवणादिना ॥ प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् । अपगच्छति मानसं मलं क्षमते तच्चमुदीरितं ततः ॥ [दशमः मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् । निजानुवृत्या परितोषितो गुरुर्विनेयवक्तुं कृपया हि वीक्षते ॥ सा कल्पवल्लव निजेष्टपर्थ फलत्यवश्यं किमकार्यमस्याः । आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विधातुमिष्टा ॥ गुरूपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरुः स्यात् । रुष्टे गुरौ पालयिता न कश्चिद्गुरौ न तस्माज्जनयेत कोपम् ॥ पुमान् पुमर्थ लभतेऽपि चोदितं भजन्निवृत्तः प्रतिषिद्धसेवनात् । विधि निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसंभवः ॥ आराधितं दैवतममर्थं ददाति तस्याधिगमो गुरोः स्यात् । नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं नः ॥ तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागण: । सदाऽऽत्मभावेन सदात्मदेवताः पश्यन्नसौ विश्वमयो हि देशिकः ॥ १०२ एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य । धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाणः ॥ ततः स संप्राप्य सुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् । सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ॥ १०४ निखिल निगमचूडा चिन्तया इन्त यावत् स्वमवधिक सौख्यं निर्विशनिर्विशङ्कम् । बहुतिथमभितोऽसौ नर्मदां नर्मदां तां मगधभुवि निवासं निर्ममे निर्ममेन्द्रः ॥ सर्गः ९०] राजदेहप्रवेशादिकथनम् इति वशीकृतमण्डनपण्डितः प्रणतसत्करणत्रयदण्डितः । सकलसद्गुणमण्डलमण्डितः स निरगात् कृतदुर्मतवण्डितः ॥ कुसुमितविविधपलाशभ्रमद लिकुलगीतमधुरखनम् । पश्यन् विपिनमयासीदाशां कीनाशपालितामेषः ॥ तत्र महाराष्ट्रखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः । शमिततान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥ 113 प्रफुल्ल मल्लिकावनप्रसङ्गसङ्गतामितप्रकाण्ड गन्धबन्धु रमत्रातधूतपादपम् । सदामद द्विपाधिपवहार शुर केस रिव्रजं भुजंगभूषण प्रियं स्वयंभुकौशलम् ॥ कलिकल्मषभङ्गायां सोऽद्रेराराच्चत्तरङ्गायाम् । अधरीकृततुङ्गायां सत्रौ पातालगा मिगङ्गायाम् ॥ नममोहभङ्ग नभोले हिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षभृङ्गम् । समाश्लिष्टङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तु ददर्शेशलिङ्गम् ॥ प्रणमद्भवबीजभर्जनं प्रणिपत्यामृत सम्पदार्जनम् । प्रमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ तीररुहैः कृष्णायास्तीरेऽवात्सीतिरोहितोष्णाया: । आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्यायाः ॥ तत्रातिचित्र पदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् । अग्राहयत्कृतमसग्रह निग्रहार्थमय्यान समग्रसुगुणान् महदययायी ॥ अध्यापयन्तमसदर्थनिरासपूर्व किन्त्वन्यतीर्थयशसं श्रुतिभाष्यजातम् । आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वरायैः ॥ केचिद्विसृज्य मतमात्म्यममुष्य शिष्य- भावं गता विगतमत्सरमानदोषाः । अन्ये तु मन्युवशमेत्य जघन्यचित्ता निन्युः क्षणं निधनमस्य निरीक्षमाणाः ॥ 114 श्रीमच्छङ्करदिग्विजये [ एकादशः वेदान्तीकृतनी चशुद्रवचसो वेदा: स्वयं कल्पनाः पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः । साक्षाद्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मि कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥ ११७ वाणी काणभुजी च नैव गणिता लीना कचित्कापिली शैवं चाशिवभावमेति भजते गपदं चार्हतम् । दौर्गे दुर्गतिमनुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशसूक्तिषु कथा केली कृतासूक्तिषु ॥ ११८ तथागतकथा गता तदनुयायि नैयायिकं वचोऽजनि न चोदितो वदति जातु तौतातितः । विदग्धति न दग्धधीर्विदितचापलं कापिलं विनिर्दय विनिर्दल द्विमत सङ्करे शङ्करे ॥ इति श्रीमाधवीये तत्कलाज्ञत्वमपश्ञ्चनम् । संक्षेपशङ्करजये सर्वोऽयं दशमोऽभवत् ॥ १० ॥ आदितः श्लोकाः 1148. अथैकादशः सर्गः उग्रभैरववधः ॥ ॥ ११ ॥ तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः । निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥ असावपश्यन्मदनाद्यवश्यं वश्येन्द्रियावैर्मुनिभिर्विमृग्यम् । आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनि रहस्यम् ॥ हृष्टः स चिरादभीष्टं निर्धार्थ संसिद्धमित्र स्वमिष्टम् । महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥ गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वश्यसौशील्यदयालुताद्यान् । द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्तिः ॥ x सर्गः ११] उग्रभैरववधः त्वमेक एवात्र निरस्तमोह: पराकृतद्वैतिवचः समूहः । आभास दूरीकृतदेहमानः शुद्धाद्वये यो जितसर्वमानः ॥ परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः । कटाक्षलेशार्दितसज्जनार्तिः सदुक्तिसम्पादित विश्वपूर्तिः ॥ गुणाकरत्वाद्भुवनैकमान्यः समस्त वित्त्वादभिमानशून्यः । विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच्च महावदान्यः ॥ अशेष कल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु । कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥ तस्मान्महत्कार्यमहं प्रपय निर्वर्तितं सर्वविदा त्वयाऽद्य । कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥ अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् । अतोषयं तीव्रतपोभिरूयं सुदुष्करैरब्दशतं समग्रम् ॥ तुष्टोऽब्रवीन्मां गिरिश: पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् । जुहोषि चेत्सर्वविदः शिरा वा हुताशने भूमिपतेः शिरो वा ॥ एतावदुक्तत्वाऽन्तरधान्महेास्तदादि तत्संग्रहणे धृताश: । चराम्यथापि क्षितिपा न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥ fagers लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् । इतःपरं सेत्स्यति मेनुबन्धः संदर्शनान्तो हि जनस्य बन्धः ॥ मूर्धाभिषिक्तत्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः । आद्यं पुनर्मे मनसाऽप्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥ शिरःप्रदानोऽद्भुतकीर्तिलाभस्तत्रापि लोके मम सिद्धिलाभ: । आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ॥ तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु । भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥ 115 116 श्रीमच्छङ्करदिग्विजये [ एकादशः जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः । रिपुं निहन्तुं कुलिशाय वज्री दाधीन्वमादात्किल वाञ्छितास्थि । १७ दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशः शरीरम् । प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनयैः किल रञ्जयन्ति ॥ वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रशान्ता दयया परीताः । अस्मादृशाः केचन सन्ति लोके स्वार्थेकनिष्ठा दयया विहीनाः ॥ १९ परोपकारं न विनाऽस्ति किंचित्प्रयोजनं ते विधुतैषणस्य । अस्मादृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥ २० जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः । आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥ यदप्यदेयं ननु देहवद्भिर्मयाऽर्थितं गर्हितमेव सद्भिः । तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ अखण्ड मूर्धन्य कपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः । विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन् पृथिव्याम् ॥ प्रयच्छ शीर्ष भगवन्नमः स्वादितीरयित्वा पतितं पुरस्तात् । तमब्रवीद्वीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमनाः समस्तात् ॥ नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् । को वार्थिसात्माज्ञतम नृकायं जानन्न कुर्यादिहि बहपायम् ॥ पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् । वर्मामुना सिध्यति चेत्परार्थः स एव मर्त्यस्य परः पुमर्थ: ॥ वर्ते विविक्तेऽधिसमाधि सिद्धिविनिमयः समायाहि करोमि ते मतम् । नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥ शिष्या विदन्ति यदि चिन्तित कार्यमेतत् योगिन मदेकशरणा विहति विदध्युः । को वा सहेत वपुरेतदपोहितुं स्वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥ सर्गः १] उग्रमैश्ववधः तौ संविदं वितनुतामिति संप्रहृष्टौ योगी जगाम मुदितो निलयं मनस्वी । श्रीशङ्करोऽपि निजधामनि जोषमास पांचे न किंचिदपि भावमसौ मनोगम् ॥ शूली त्रिकुण्डी पुरतोऽवलोकी कंकालमालाकृतगात्रभूषः । संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥ शिष्येषु शिष्टेषु विदुग्गेषु स्नानादिकार्याय विविक्तभाजि । श्रीदेशिकेन्द्रे तु सनन्दनाख्पभीत्या स्वदेहं व्यवधाय गूढे ॥ 117 तं भैरवकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः । आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् ॥ ३२ तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृत देवराज्यम् । योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ जत्रुपदेशे चिबुकं निधाय व्यात्ताम्यमुत्तानकरौ निधाय जानुपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥ ३४ आसीनमुच्चीकृतपूर्वगात्रं सिद्धासनं शेषितबोधमात्रम् । चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः । प्रापोचतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥ त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदेक्षतान्तः । स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोर्हितैषी ॥ स्मरन्नथैष स्मरदार्तिहारि महादवश्यं परमं महस्तत् । स मन्त्रसिद्ध नृहरेनृसिंहो भूत्वा ददर्शो दुरीहचेष्टशम् ॥ स तत्क्षणक्षुब्धनिजस्वभावः प्रवृद्धरुड् विस्मृतमर्त्यभावः । आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभाव: ॥ 118 श्रीमच्छङ्करदिग्विजये सटाच्छटास्फोटितमेघ संघस्तीवारवत्रासितभूतसंघः । संवेगसंमूच्छित लोकसंघ: किमेतदित्या कुलदेवसंघः ॥ क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् । ज्वल दिशान्तं प्रचलद्धरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥ जवादभिद्रुत्य शितस्वरूयैर्दैत्येश्वरस्येव पुरा नखायैः । क्षिपत्तिशुलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥ तत्ताहगत्युग्रनखायुधायो दंष्ट्रान्तरप्रोतदुरीहदेहः । निन्ये तदानीं नृहरिर्विदीर्ण युपट्टनाट्टालिकमट्टहासम् । [ एकादशः आकर्णस्तं निनदं बहिर्गता उपागमन्ना कुलचित्तवृत्तयः । व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥ ४४ प्रहृदश्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति । सविस्मयैः स्त्रिग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५ पुरा किलाई बलभूधरा पुण्यं समाश्रित्य किमप्यरण्यम् । भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥ किमर्थमेो गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् । केनापि पृष्टोsa किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥ आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् । मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥ इतीग्यत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् वनान्तम् । निबध्य गाढं नृहरि लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥ महर्षिभिस्त्वं मनसाप्यगम्यो वनेचरस्यैव कथं वशेऽभूः । इत्यद्भुताविष्टा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥ एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वैः । नोपाळ भेयास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥ सर्गः ११] उग्र भैरववधः आकर्ण्य तां पद्मपदस्य वाणीमानन्दममैरखिलैरभावि । जगर्ज चोच्चैर्जगदण्डभाण्डं भूना स्वधाम्ना दलयन नृसिंहः ॥ ततस्तदार्भाटचलत्समाधिः स्वात्मप्रबोधोन्मथितत्र्युपाधिः । उन्मील्य नेत्रे विकरालवक्तं व्यलोकयन्मानवपञ्चवक्तम् ॥ चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राव्जकनन्निटालम् । सहोदुष्णांशु सहस्रमासं विध्यण्ड विस्फोटकृदट्टहासम् ॥ नखाग्रनिर्भिन्नकपालिवक्षःस्थलोञ्चलच्छोणितपङ्किलाङ्कम् । 119 श्रीवत्सवत्सं गलवैजयन्ती श्रीरत्न संस्पर्धितदन्त्रमालम् ॥ सुरासुरवास करातिघोरखाकारसारव्यथिताण्डकोशम् । दंष्ट्रकरालानन निर्यदग्निज्वालालिसेलीढनभोवकाशम् ॥ ५६. स्वरोमकूपोद्गत विस्फुलिङ्गमचारसंदीपितसर्वलोकम् । जम्भद्विडुज्जृम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥ मा भूदकाण्डे पलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् । ससाध्वसैः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्ध्यमानम् ॥ ५८ विलोक्य विद्युच्चपलो ग्रजिह्वं यतिक्षितीशः पुरतो नृसिंहम् । अभीतिरैडिट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः । नरहरे हर कोपमर्थदं तत्र रिपुर्निहतो भुवि वर्तते । कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥ तव वपुः किल सत्वमुदाहृतं तत्र हि कोपनमण्वपि नोचितम् । तदिह शान्तिमवामुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥ सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् । भवति किं वदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥ स्मृततस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता । तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेध्यति ॥ 120 श्रीमच्छङ्करदिग्विजये दितिजसूनुममुं व्यसनादितं सकृदरक्षदुदारगुणो भवान् । सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः । [ एकादशः सृजसि विश्वमिदं रजसाssवृतः स्थितिविधौ श्रितसत्व उदायुधः । अवसि तद्धरणे तमसाssवृतो हरसि देव तदा हरसंज्ञितः ॥ तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् । तव पदं खलु वाङ्मनसातिगं श्रुतिवचचकितं तव बोधकम् ॥ नरहरे तव नामपरिश्रवात् प्रमथगुह्यकदुष्टपिशाचकाः । अपसरन्ति विभोsसुरनायका न हि पुरः स्थितये प्रभवन्त्यमी ॥ त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य । त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥ हृतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ । एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥ द्रष्टुं न शक्या हि तवानुकम्पाही नैर्जनैर्निहुतकोटिशंषाम् । मूर्ति तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम् ॥ कल्पान्तोज्जृम्भमाणप्रमथपरिवृढमौढळालावह्नि- ज्ज्वालालीढ त्रिलोकीज नितचटचटाध्वानधिकारधुर्यः । मध्ये ब्रह्माण्डभाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्थां स्त्यानस्त्यानो ममायं दळयतु दुरितं श्रीनृसिंहाट्टहासः ॥ ७१ मध्ये व्यानद्धवातंधयवळनाधानमन्थान भूभृ- न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथः स्फालनाचारघोरः । कल्पान्तोभिद्ररुद्रोच्चतरडमरुकध्वानबद्धाभ्यसूयो घोषोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहति नः ॥ ७२ क्षुन्दानो क्षु कल्पावधिसमयसमुज्जृम्भदम्भोदगुम्भ- स्फूर्जभोलि संघस्फुरदुरुर टिताखर्वगर्व प्ररोहान् । क्रीडाको डेन्द्रघोणासरभसविसर द्वोरघूघरवश्री- गम्भीरस्तेऽट्टहासो हर हर टहरे रहंसाऽहांसि हन्यात् ॥ ७३ हस्तामलकादीनां शिष्यत्वेन ग्रहणम् 121 सर्गः १२ ] एवं विशिष्टतिभिर्तृहरी प्रशान्ते स्वं भावमेत्य मुनिरेष बभूत्र शान्तः । स्वनानुभूतमित्र शान्तमनाः स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ॥ ७४ चारित्र्यमेतत्प्रयतस्त्रिसन्ध्यं भक्त्या पठेयः शृणुयादवन्ध्यम् । तीर्चापमृत्युं प्रतिपय भक्ति स भुक्तभोगः समुपैति मुक्तिम् ॥ इति श्रीमाधवये तदुग्रभैरव निर्जयः । संक्षेपशङ्करजये सर्ग एकादशोऽभवत् ॥ ११ ॥ आदितः श्लोकाः 1223 अथैकदा अथ द्वादशः सर्गः ॥ १२ ॥ हस्तामलकादीनां शिष्यत्वेन ग्रहणम् ॥ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन् सतीयैः । घोरात् कलेग पितधर्ममागाद्गोकर्णमभ्यर्णचलार्णवधम् ॥ विरिश्विनाम्भोरुहनाभवन्द्यं प्रपञ्च नाट्याद्भुतसूत्रधारम् । तुष्टाव वामार्धवधू टिपस्तदुष्टावलेपं प्रणमन् महेशम् ॥ वपुः स्मरामि वचन स्मरारेर्बलाहकाद्वैतवदावदश्रि । सौदामिनी साधित सम्प्रदाय समर्थनादेशिक मन्यतश्च ॥ वामाङ्गसीमाङ्करदंशुतृण्याचञ्चन्मृगाश्चत्तरदक्षपाणि । सव्यान्यशोभाकलमायभक्षसाकांक्षकीरान्यकरं महोऽस्मि ॥ महीघ्रकन्यागल संगतोऽप माङ्गल्यतन्तुः किल हालहालम् । यत्कण्ठदेशेऽकृत कुण्ठशक्तिमै क्यानुभावादहमस्मि भूमा ॥ गुणत्तयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा । तिस्रः स रात्री त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥ वैकुण्ठकैलास विवर्तभूतं हरन्नताघं हरिशङ्कराख्यम् । दिव्यस्थलं देशिकसार्वभौमस्तीर्थवासी नचिरादयासीत् ॥ 60 122 3 श्रीमच्छङ्करदिग्विजये 2 [द्वादशः भ्रमापनोदाय भिदावदानामद्वैतमुद्रा मिह दर्शयन्तौ । आराध्य देव हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥ वन्द्यं महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् । मैनं महः किंचन दिव्यमङ्गीकुर्वन् विभुर्ते कुशलानि कुर्यात् ॥ यो मन्दरागं दधदादितेयान सुधाभुजः स्माऽऽतनुते विषादी । स्वापद्विलोलोचितचारुमृर्ते कृपामपारां स भवान् विधत्ताम् ॥ उल्लासयन्यो महिमानमुचैः स्फुरद्वराहीशकलेवरोऽभूत् । तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुह सामरस्यम् ॥ समावहन केसरितां वरां यः सुरद्विषत्कुञ्जरमाजघान । प्रहलादमुल्ला सितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥ दैत्त बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः । तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं नः ॥ येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः संङ्गररङ्गभूमौ । नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥ विलासिनाऽलीकभवेन धाम्ना कामं द्विषन्तं स दशास्यमस्यन् । देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥ उत्तालकेतुः स्थिर धर्ममूर्तिर्हालाहलस्वीकरणोग्रकण्ठः । स रोहिणीशा निशचुम्न्यमाननिजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥ विनायकेनाऽऽकलिता हितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् । यः पूतनामोहक चित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥ पाठीनकेतोर्जयिने प्रतीत सर्वज्ञभावाय दयैकसी । प्रायः क्रतुद्वेषकृतादराय बोधैकधाम्ने स्पृहयामि भूने ॥ 2 मेनाया इदम्, मीनस्येदम् । 'पक्षे, अविषादीति पदच्छेदः । 3 के इति छेदः । वारिशब्दो बालकवाची । " दशेन्द्रियद्वारकं कामम् । ● क्रियाविशेषणम् । 7 'पूतनामा चासावूक चित्तवृत्तिश्च । सर्गः १२ ] हस्तामलकादीनां शिष्यत्वेन ग्रहणम् व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे । भूने सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥ 'वृषाकपायीवरयोः सपर्यो वाचाऽतिमोचारसयेति तन्वन् । मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ॥ अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररु । तदेकपुत्रौ द्विजदम्पती स दृष्ट्वा दयाधीनतया शुशोच ॥ अपारमश्ञ्चत्यथ शोकम स्मिन्नभूयतोच्चैरशरीरखावा । जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥ आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञः । जगत्तयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥ इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् । समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ रम्योपशल्यं कृतमालसालर सालहितालतमालशालैः । सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥ उच्चावचानन्दजवाष्पमुच्चैरुद्गीर्णरोमाञ्च मुदारभक्तिः । अम्बामिहापार कृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥ पारेपरा पदपद्मभाः षष्टयुत्तरं ते त्रिशतं तु भासः । आविश्य वह्नयर्कसुधामरीची नालोकवन्त्यादधते जगन्ति ॥ अन्तश्चतुःषष्टचुपचारभेदैरन्तेव सत्काण्डपटपदानैः । आवहनाचैस्तव देवि नित्यमाराधनामादधते महान्तः ॥ अम्बोपचारेष्वधिसिन्धुषष्टि शुद्ध ज्ञयोः शुद्धदमेकमेकम् । सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥ आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव । अन्ये परे त्वम् कदापि कुर्युनैव त्वदैक्यानुभवैकनिष्ठाः ॥ 'वपाकपायी श्रीगर्यो:' इति निघण्टुः । 123 124 श्रीमच्छङ्करदिग्विजये [ द्वादशः अष्टोत्तरत्रिंशति याः कलास्ताः स्वर्ध्याः कलाः पञ्च निवृत्तिमुख्याः । तासापर्यम् तवाङ्घ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥ कालाग्निरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽलान्यसमुत्सृजन्तीम् । ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥ ये प्रत्यभिज्ञातार विज्ञा धन्यास्तु ते प्राविदितां गुरुक्त्या । सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥ आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्यैहिकभोगलुब्धाः । उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्वहिस्ते ॥ अनाहते देवि भजन्ति ये त्वामन्तः स्थितिस्त्वन्नगरे तु तेषाम् । शुद्धज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥ सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे खामनुसंदधानः । चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाञ्चति साधकेन्द्रः ॥ श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् । चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्रः ॥ इति तां वचनैः प्रपूज्य भैक्षौदनमात्रेण स तुष्टिपान कृतार्थ: । बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८ श्रयति स्म ततोऽग्रहारकं श्रीबलिसंज्ञं स कदाचन स्वशिष्यैः । अनुगेहहुता ग्निहोत्रदुग्धपसरत्पावनगन्धलोभनीयम् ॥ यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा । दृष्ट्वा द्विजातीन्निजकर्मनिष्ठान् दुरान्निषिद्धं त्यजतोऽममत्तान् ॥ यस्मिन् सहस्रद्वितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् । सत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं मथितानुभावम् ॥ मध्ये वसन् यस्य करोति भूषां पिनाकपाणिगिरिजासहाय: । हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२ सर्गः १२] हस्तामलकादीनां शिष्यत्वेन ग्रहणम् 125 तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः । प्रवृत्तिशास्त्रकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिबृन्दः ॥ गावो हिरण्यं धरणी समग्रा सद्बान्धवा ज्ञातिजनाश्च तस्य । सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥ ४४ न वक्ति किंचिन्न शृणोति किंचित् ध्यायन्निवास्ते किल मन्दचेष्ट: । रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥ ग्रहग्रहात् किं जडवद्विचेष्टने किं वा स्वभावादुत पूर्वकर्मणः । संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥ ४६ शिष्यैः प्रशिष्यैर्वहुपुस्तभारैः समागतं कञ्चन पूज्यपादम् । शुश्राव तं ग्राममनिन्दितात्मा निनाय सूनुं निकटं स तस्य ॥ ४७ न शून्यस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्रवित् स्वयम् । सोपायनः प्राप गुरुं व्यशिक्षणत् फलं ननामास्य च पादपङ्कजे ॥ ४८ अनीनमतं च तदीयपादयोर्जडाकृतिं भस्मनिगूढवह्निवत् । सनोद तिष्ठत् पतितः पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ॥ ४९ उपात्तहस्तः शनकैरवाङ्मुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् । उत्थापिते वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किंकृतम् ॥ ५० वर्षाण्यतीयुर्भगवन्नमुष्य पञ्चाष्ट जातस्य विनाऽवबोधम् । नाध्यैष्ट वेदान लिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ॥ क्रीडापर : क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति । बालाः शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥ ५२ भुङ्गे कदाचिन्न तु जातु भुङ्गे स्वेच्छाविहारी न करोति चोक्तम् । तथापि रुष्टेन न ताड्यतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३ इतीरयित्वोपरते च विमे पप्रच्छ तं शङ्करदेशिकेन्द्रः । कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥ ५४ 126 श्रीमच्छङ्करदिग्विजये । [ द्वादशः नाहं जड : किन्तु जड: प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो । *षडूर्मिषड्भाव विकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥ ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् । पद्यैः परैर्द्वादशभिर्बभाषे चिदात्मतत्वं विधुतप्रपञ्चम् ॥ प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् । श्लोकास्तु हस्तामलका : प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ॥ विनोपदेशं स्वत एव जातः परात्मबोधो द्विजवर्यसुनोः । व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥ सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् । वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥ पुराभवाभ्यासवशेन सर्व स वेति सम्यङ् न च वक्ति किंचित् । नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्यः ॥ ६० न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते । तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ॥ ६१ इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः । विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्मदेशं स्थिरधीबहुश्रुतः ॥ ६२ ततः शतानन्दमहेन्द्रपूर्वैः सुपर्ववृन्देरुपगीयमानः । पद्ममुख्यैः सममाप्तकामक्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥ यत्राधुनाऽप्युत्तममृष्यशृङ्गस्तपश्चरत्यात्मभृदन्तरङ्गः । संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुङ्गभद्रा ॥ अभ्यागताचल्पितकल्पशाखाः कूलंकषाधीत समस्तशाखा: । इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥ *(1) जन्म, (2) मरणम्, (3) क्षुत्, (4) पिपासा, ( 5 ) शोकः, ( 6 ) मोहः इति षडूर्मथः । (1) जायते, (2) अस्ति, (3) वर्धते, (4) परिणमते, (5) अपक्षीयते, ( 6 ) नश्यति इति षद्भावविकाराः ॥ सर्गः १२ ] हस्तामलकादीनां शिष्यत्वेन ग्रहणम् अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् । आकर्णनप्राप्यमहामर्थानादिष्ट विद्याग्रहणे समर्थान् ॥ 127 मन्दाक्षन कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् । निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ प्रकल्प्य तन्त्रेन्द्र विमान कल्पं प्रासादमाविष्कृतसर्वशिल्पम् । प्रवर्तयामास स देवतायाः पूजामजाचैरपि पूजितायाः ॥ या शारदेत्यभिधां वहन्ती कृतां मतिज्ञां प्रतिपालयन्ती । अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥ चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः । कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति ॥ स्नात्वा पुरा क्षिपति कम्बलवत्रमुख्यैरुच्चासनं मृदु समं स ददाति नित्यम् । संलक्ष्य दन्तपरिशोधनकाष्ठमय्यं बाह्यादिकं गतवते सलिलादिकं च ॥ श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः । श्रीपादपद्मयुगमर्दनको विदश्व छायेव देशिकमसौ भृशमन्वयाद्यः ॥ ७२ गुरोः समीपे न तु जातु जृम्भते प्रसारयन्नो चरणौ निषीदति । नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ७३ तिष्ठन् गुरौ तिष्ठति संप्रयाते गच्छन् ब्रुवाणे विनयेन शृण्वन् । अनुच्यमानोऽपि हितं विधत्ते यच्चाहितं तच्च तनोति नास्य ॥ ७४ तस्मिन् कदाचन विनेयवरे स्वशाटी प्रक्षालनाय गतवत्यपवर्तनीगाः । व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विलम्ब एषः ॥ शान्तिपाठमथ कर्तुमसंख्येषूवतेषु स विनेयवरेषु । स्थीयतां गिरिरपि क्षणमात्रा देष्यतीति समुदीरयति स्म ॥ तां निशम्य निगमान्तगुरूक्ति मन्दधीरनधिकार्यपि शास्त्रे । किं प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥ 128 श्रीमच्छङ्करदिग्विजये तस्य गर्वमपहर्तुमख स्वाश्रयेषु करुणातिशयाच्च । व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाने ॥ सोऽधिगम्य तदनुग्रहमय्यं तत्क्षणेन विदिताखिलविद्यः । ऐट्ट देशिकवरं परतत्त्वव्यञ्जकैर्ललिततोटकवृत्तैः ॥ श्रीमदेशिकपादपङ्कजयुगी मूला तदेकाश्रया तत्कारुण्यसुधावसेकसहिता तद्भक्तिसलरी । हृद्यं तोटक वृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं निःश्रेणिः पदमुन्नतं जिगमिषोयम स्पृशन्ती परम् । वंश्या काप्यधरीकृत त्रिभुवनश्रेणी गुरूणां कथं सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि । दययैव गुरोस्त्रयी शिरोऽर्थं स्फुटयन्नैक्षि विचक्षणः सतीयैः ॥ [ द्वादशः अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरी धुरीणम् । जलजांघ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥ भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति । तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥ ८४ अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति । शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्व निवेदनं यत् ॥ ८५ तोटकायमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि । पद्मपादसदृशप्रतिभावान् मुख्य शिष्यपदवीमपि लेभे ॥ मर्थाश्चत्वारः किमुत निगमा ऋक्पभृतयः प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः । मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा विदुः शिष्यान हस्तामलकमुखराञ्छङ्करगुरोः ॥ सर्गः १३] ब्रह्मविद्याविचारः 129 स्फारद्वारा द्विरदमदसमुल्लोलकल्लोलभृङ्गी- सङ्गीतोलासभङ्गीमुखरितहरितः संपदोऽकिंपचानैः । निष्ठीव्यन्तेऽतिदुरादधिगत भगवत्पाद सिद्धान्तकाष्ठा- निष्ठासम्पद्विजृम्भ निरवधिसुखद वात्मलाभै कलो भैः ॥ ८८ समिन्धानो मन्थाचलमथित सिन्धु दरभव- सुधानानामृत रुचि नियेनात्मयशसा । निरुन्धानो दृष्ट्या परमहह पन्थानमसतां पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिरा ॥ इति श्रीमाधवीये. तद्धस्तधान्यादिसंश्रयः । संक्षेपशङ्करजये सर्वोऽयं द्वादशोऽभवत् ॥ १२ ॥ आदितः श्लोकाः 1312. अथ त्रयोदशः सर्गः 11 23 11 ब्रह्मविद्याविचारः ॥ ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुप्रात्मदेशम् । शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ॥ मम यत्करणीयमस्ति ते स्वमिमं मामनुज्ञाध्यसंशयम् । तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ॥ इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः । मत्स्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥ द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः । तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥ अस्त्वेव मित्यार्यपदाभ्यनुज्ञामादाय मूर्ध्ना स विनिर्जगाम । अथाम्बुजार्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥ ५ योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् । प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥ 130 श्रीमच्छङ्करदिग्विजये [ त्रयोदशः यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः । कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥ प्रत्येकस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता । व्यासो मुनिजैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥ गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः । तथाऽपि यद्यस्ति स पूर्वपक्ष: सिद्धान्तभावस्तु गुरूक्त एव ॥ आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इद्दानिशमेव कर्म । ब्रूते परांच कुरुतावहिताः प्रयत्नात् स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥ एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके । भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥ ११ संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् । तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥ १२ यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति । यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥ १३ एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् । एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्वन्धनमत्र किञ्चन ॥ १४ पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु । आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवास्मदीयाम् ॥ तदा तदाकर्ण्य समाकुलेषु नावर्थमस्मासु परिभ्रपत्सु । सनन्दनस्त्वेष वियत्तटित्या झरीमभिप्रस्थित एव तूर्णम् ॥ अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य । तुष्टा त्रिवर्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥ पदानि तेषु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा । ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ॥ सर्गः १३] ब्रह्मविद्याविचार: 131 स एव युष्मच्चरणारविन्द सेवाविनिर्घृत समस्त भेदः । आजान सिद्धाऽर्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे ॥ यद्वाऽयमानन्द गिरिर्यदुग्रतपःप्रसन्ना परमेष्ठिपत्नी 1 भवत्यवन्धेषु यथाभिसंधि व्याख्यान सामर्थ्यवरं दिदेश ॥ कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः । भाष्यस्य पद्मपद एव करातु टीकामित्यू चिरे रहसि योगिवरं विधेयाः ॥ अत्रान्तरेऽभ्यर्णगतः स तूर्णं सनन्दनो वाक्यमुदाजहार । आचार्य हस्तामलकोsपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ यतः करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् । अतो मुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥ वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे । नैपुण्यमन्यादृशस्य किन्तु समाहितत्वान्न बहिः वृत्तिः ॥ अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि । न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ वालैर्न चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि । निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ॥ अस्मानवेक्ष्येव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् । इमामपूर्वी प्रकृतिं विलोक्य विसिष्मिये तत्र जनः समेतः ॥ कस्त्वं शिशोकस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः । आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्तपयैर्वचोभिः तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य । पिता प्रपद्यस्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञः । जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्त्वम् । मज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥ 11 २८ 132 श्रीमच्छङ्करदिग्विजये [त्रयोदशः आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव । प्रफुल्ल राजीववने विहारी कथं रमेत क्षुरके मरालः ॥ विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः । आ शैशवादात्मविलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥ श्रुत्वेति पप्रच्छुरमुं विनेयाः स्वामिन् विनैव श्रवणाद्युपायैः । अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥ तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती । बभूव सिद्ध: किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥ तस्यान्तिके काचन विकन्या द्विहायनं जातु निवेश्य बालम् । क्षणं प्रतीक्षस्त्र शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥ ३५ अत्रान्तरे दैववशात्स बालश्चङ्क्रम्यमाणो निपपात नद्याम् । मृतं तमादाय शिशुं तदीयाश्चक्रन्दुरुचैः पुरतो महर्षेः ॥ आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्तखिन्नो निजयोगभूम्ना । प्राविशद पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥ तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च । सर्वाणि शास्त्राणि परं च तत्रमज्ञातमेतेन न किञ्चिदस्ति ॥ तत्तागात्मा च बहि:प्रवृत्तौ नियोगमहत्ययमत्र वृत्तौ । स मण्डनस्त्वर्हति बुद्धतच्चः सरस्वती साक्षिक सर्वविच्चः ॥ तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी । आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥ अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे । किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥ भवन्निदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् । स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षो विदितो हि सर्वतः ॥ ४२ ब्रह्मविद्याविचारः सर्गः १३] सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये । न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नृनदीक्ष: ॥ 133 आदिश्येत्थं शिष्यस यतीन्द्रः प्रोवाचेत्थं नृत्रभिक्षु रहस्तम् । भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥४४ तात्पर्य ते गेहिधर्मेषु दृष्ट्रा तत्संस्कारं सांपतं शङ्कमानाः । भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ॥४५ नास्त्येवावापतुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्ध: । द्वारि द्वाःस्थैरिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥ ४६ इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे । स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७ विद्वन् यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन । इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥ ४.८ शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा- वेनं स्वतन्त्र कृतिनिर्मितये न्ययुक्त । नैष्कर्म्यसिद्धिम चिराद्विदधत्स चेत्थं न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥ नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिप्रधानाम् । आद्यन्तव्यपदबन्धवती मुदारामाद्यन्तमैक्षततरां परितुष्टचेताः ॥ ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् । तेषां चाssसीत्प्रत्ययस्तद्वदस्मिन् यच्चान्यस्तत्त्व विद्यः स नेति ॥ ५१ यत्राद्यापि श्रूयते मस्करीन्द्रैर्निष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धि: । तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकातोऽभूत् ॥ ५२ आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज । शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥ ५३ 131 श्रीमच्छङ्करदिग्विजये [ त्रयोदशः नैष्कर्म्यसिद्धयाख्य निबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाssप्त्वा । विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥ न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रबन्धः । नोल्लङ्घनीयं वचनं गुरूणां नोलङ्घने स्याद्गुरुशिष्यभावः ॥ पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् । न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥ ५६ अहं गृही नात्र विचारणीयं किं तेन पूर्व मन एव हेतु: । बन्धे च मोक्षे च मनोविशुद्ध गृही भवेद्वाऽप्युत मस्करी वा ॥ नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राप्तिनिवृत्तिगामिनौ । प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥ ५८ संभिक्षमाणा न लभन्त एवं चेद्रह्नप्रवेशं गुरुणा प्रवेशनम् । । कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥ ५९ तच्चोपदेशाद्वितितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा । विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥ पुरा गृहस्थेन मया प्रवन्धा नैयायिकादौ विहिता महार्थाः । इतः परं मे हृदयं चिकीर्षु वदङ्घ्रिसेवां न विलङ्घन्य किञ्चित् ॥ ६१ श्रद्धामद्वैतवद्धा दरबुधपरिषच्छेमुषीसं निषण्णा- मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् । सिक्त्वा सूक्तामृतौघैरह परिहसञ्जीवयस्यद्य सद्यः को वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोनैव जाने ॥ ६२ इत्युक्त परते सुरेश्वरगुरौ तेनैव शारीरके नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुनिं शनैः । धीरायः शमयन्विवेकपयसा देवेश्वरेण त्रयी- भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ ६३ भावानुकारिमृदुवाक्यनिवेशितार्थ स्त्रीयैः पदैः सह निराकुतपूर्वपक्षम् । सिद्धान्तयुक्तिविनिवेशितवत्स्वरूपं दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥ सर्गः १३] ब्रह्मविद्याविचारा 135 सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्य निबन्ध इष्टः । तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥ तवदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् । लद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥ तत्रोभयत्र कुरु वार्तिकमार्तिहारि कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् । माशङ्कि पूर्वमित्र दुःशठवाक्यरोधो मद्वाक्यमेव शरणं व्रजमा विचारीः ॥ इत्थं स उक्तो भगवत्पदेन श्रीविश्वरूपो विदुषां वरिष्ठः । चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूगां ह्यविचारणीया ॥ आज्ञा गुरोरनुचरैर्न हि लङ्घनीयेत्युक्त्वा तयोर्निगमशेखरयोरुदारम् । निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥ सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टीकां व्यधितेरितः पराम् । यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७० व्यासर्विसूत्रनिचयस्य विवेचनाय टीकाभिधं विजयडिण्डिममात्मकीर्तेः । निर्माय पद्मचरणो निरवचयुक्तिदृन्धं मबन्धमकरोद्गुरुदक्षिणां सः ॥ आलोचयन्नथ तदानुगतिं ग्रहाणामृचे सुरेश्वरसमाह्वयमुपहरे सः । पञ्चैव वत्स चरणाः प्रथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥ प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं वाचस्पतित्वमधिगम्य वसुन्धरायाम् । भव्यां विधास्यसितमां मम भाष्यटीका- माभूतसंयमधिक्षिति सा च जीयात् ॥ इत्येवमुक्तवथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हूत्वा । कुरुध्वमद्वैतपरान्निबन्धान्नित्यन्वशा निर्मम सार्वभौमः ॥ 136 श्रीमच्छङ्करदिग्विजये [ चतुर्दशः ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः । आतेनुर्जगति यथास्वमात्मतत्त्वाम्भोजार्कान् विशदतरान् बहू निबन्धान् ॥ इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः । संक्षेपशङ्करजये पूर्ण: सर्गस्त्रयोदशः ॥ १३ ॥ आदितः श्लोकाः 1387. अथ चतुर्दशः सर्गः ॥ 28.11 पद्मपादतीर्थयात्रावर्णनम् ॥ अथाब्जपात् कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् । देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥ स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाङ्घ्रिजलं च तीर्थम् । गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥ शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे । विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥ द्विधा हि संन्यास उदीरितोऽयं विबुद्धतन्त्रस्य च तद्बुभुत्सोः । तत्पदार्थैक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ॥ संभाव्यते क च जलं क्व च नास्ति पाथः शय्यास्थलं कचिदिहास्ति न च क चास्ति । शय्यास्थलीजल निरीक्षणसक्तचेताः पान्थो न शर्म लभते कलुषीकृतात्मा ॥ ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः । स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥ स्नानं प्रभाते न च देवतार्चनं क्व चोक्तशौचं क्व च वा समाधयः । क चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ॥ सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् 137 नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः । श्रेयानिति प्रथम संयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥ सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु । मार्गो हि विद्येत न सुव्यवस्थः सुखेन पुण्यं क्व नु लभ्यतेऽधुना ॥ जन्मान्तरार्जितमधं फलदानहेतो- व्ययात्मना जनिमुपैति न नो विवादः । साधारणादिह च वा परदेशके वा कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥ इह स्थितं वा परतः स्थितं वा कालो न मुश्चेत् समयागतश्चेव । तदेशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११ मन्वादयो मुनिवराः खलु धर्मशास्त्रे धर्मादि संकुचितमाहुर तिमवृद्धम् । देशाद्यवेक्ष्य न तु तत्सरणि गतानां शौचाद्यतिक्रमकृतं प्रभवेदयं नः ॥ दैवेऽनुकूले विपिनं गतो वा समाप्नुयाद्वाञ्छितमन्नमेषः । aियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥ गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा । गृहं गतो याति मृर्ति पुरस्तात्तदागमादत्र च किं निमित्तम् ॥ देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र । चित्तैकाय्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥ सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् । क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥ १५. अटाट्यमानोऽपि विदेशसङ्गतिं लभेत विद्वान् विदुषाऽभिसङ्गतिम् । बुध बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥ १७ समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद हृदयेन धारयेत् । समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥ 138 श्रीमच्छङ्करदिग्विजये सुजन: सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः । परिपुष्टमतिर्विवेकवाञ्शनकैर्हेयगुणं विमुञ्चति ॥ [चतुर्दशः होऽस्ति तव तीर्थ निषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुमर्थे । चित्त स्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥ नैको मार्गों बहुजनपदक्षेत्र तीर्थानि यातां चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि । विप्राग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष- नो चेत्सार्धं परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना- मध्यात्मैक्ये कथास्ता घटितबहुरसा: श्राव्यमाणाः प्रशान्तैः । कायक्लेशं विभिन्धुः सततभयभिदः श्रान्तविश्रामवृक्षाः स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥ सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् । खल्वासको वसतिसमये शर्मद: पूर्वकाले मायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥ मार्गे यास्यन्न बहुदिवसान् पाथस: संग्रही स्या- तस्मादोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् । प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे- र्मूला भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥ मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव छन्नात्मानो बहुविधगुणैः संपरीक्ष्याः प्रयत्नात् । देवान् वस्त्रं लिखितमथवा दुविधा नेतुकामा विश्वासोsaisपरिचितनृषु प्रोज्ज्ञनीयो न कार्यः ॥ मध्ये मार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्या: । पूज्याः पूज्यास्तद्वयतिक्रान्तिरुया श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥ २६ सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् 139 यदापदपदं सदा यतिवर स्थितं वस्तु त न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् । कषायकलुषाशयक्षतिविनिर्वृतः सन्मतः सुखी चर सुखे चिरात् स्फुरति संततानन्दता ॥ २७ इत्थं गुरोर्मुखगुहोदितवावसुधां तामापीय हृष्टहृदयः स मुनिः प्रतस्थे । प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह शृङ्गकुधे ॥ अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः । अवलंबिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥ तत्राssai मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा । सा चैनमुद्रक्ष्य शरीरतापं जहौ निदाघात इवाम्बुदेन ॥ असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता । अम्बायमस्त्यत्र शुचं जहीहि प्रब्रूहि किं ते करवाणि कृत्यम् ॥ दृष्ट्वा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् । अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥ इतः परं पुत्रक गात्रमेतद्वोढुं न शक्नोमि जराविशीर्णम् । संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ॥ ३३ सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूपमेकम् । मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥ उपादिश परं सनातनं न यत्र हस्ताङ्घ्रिविभागकल्पना । अन्तर्बहिः संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५ सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् । न बुद्धिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोलम् ॥ निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् । वृत्तै भुजङ्गोपपदैः प्रसन्नः प्रस्थापयामास स च वदूतान् ॥ 140 श्रीमच्छङ्करदिग्विजये विलोक्य तापिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् । तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥ भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रिपद्मम् । अभिवीजितमादरेण नीळावसुधाभ्यां चलमानचामराभ्याम् ॥ विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन । धृतमूर्तिभिरस्त्रदेवताभिः परितः पञ्चभिरञ्चितोपकण्ठम् ॥ महनीयतमालकोमलाङ्ग मुकुटीरत्नचयं महार्हयन्तम् । शिशिरेतर भानुशीलितायं हरिनीलोपलभूधरं हसन्तम् ॥ 1 [ चतुर्दशः तत्तादृशं निजसुतोदितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि । चित्तेन कञ्जनयनं हृदि भावयन्ती तत्याज देहमवला किल योगिवत्सा ॥ ततः शरच्चन्द्रमरीचिरो चिर्विचित्र पारिप्लव के तनाढ्यम् । विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा मशशंस पुत्रम् । विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥ इयमर्चिरहर्बलक्षपक्षान् षडुदङ्माससमानिलार्कचन्द्रान् । चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥ स्वयमेव चिकीर्षुरेष मातुश्वरमं कर्म समाजुहाव बन्धून् । किमिहास्ति यते तत्राधिकारः कितवेत्येनममी निनिन्दुरुचैः ॥ 1 अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया । अथ कोपपरीनृतान्तरोऽसावखिलांस्तानशपच्च निर्ममेन्द्रः ॥ ४७ सञ्चित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः । स दक्षिणे दोष्ण ममन्य वह्नि ददाह तां तेन च संयतात्मा ॥ ४८ न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः । इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा ॥ सर्गः १४] पद्मपादतीर्थयात्रावर्णनम् गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति ताञ्शशाप । अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥ तदाप्रभृत्येव गृहोपकण्ठेष्वासीच्छ्मशानं किळ हन्त तेषाम् । महत्सु धीपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ॥ शान्तः पुमानिति न पीडनमस्य कार्य शान्तोऽपि पीडनवशात् क्रुधमुहेत् सः । शीतः सुखोऽपि मथितः किल चन्दनद्रु- स्तीत्राहुताशजनको भवति क्षणेन ॥ यद्यप्यशास्त्रीयतया विभाति तेजखिनां कर्म तथाऽप्यनिन्द्यम् । 141 विनिन्द्यकृत्यं किल भार्गवस्य ददुः खपुत्रान् कतिचिद्वकाय ॥ ५३ इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां पुन: पतनवर्जितामतनुसौख्यसंदोहिनीम् । यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत- स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥ अथ तत्सहाय जलजाङ्घयुपागमेच्छुरभीप्सितेऽत्र विलम्ब एषकः । जलाजाङ्घ्रिरथ पुरा निज ज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥ ५५ आससाद शनकैर्दिशे मुनिर्यस्य जन्म वसुधाघटी स्मृता । सा श्रुतिः सकलरोगनाशिनी योऽपिवज्जलधिमेक बिन्दुवत् ॥ अद्राक्षीरसुभगा हिभूषिततनुं श्रीकालहस्तीश्वरं लिङ्गे सन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके । पार्वत्या करुणारसार्द्रमनसाऽष्टिं प्रमोदास्पदं देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥ स्नात्वा सुवर्णमुखरी सलिलाशयेऽन्तर्गत्वा पुनः प्रणपति स्म शिवं भवान्या । आनचे भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥ लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात् काञ्ची क्षेत्रमागात् पवित्रम् । संसारान्धि संतितीर्षोः प्रसिद्धं वृद्धाः पाहुर्यद्धि लोके ह्यमुनि ॥ ५९ 142 श्रीमच्छङ्करदिग्विजये . [ चतुर्दशः antaratश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या । देवी धामान्तर्गतामन्तका रेहर्दि रुद्रस्येव जिज्ञासमानाम् ॥ ६० कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् । कारुण्यार्द्रस्वान्तमन्तादिशून्यं दृष्ट्वा देवं संतुतोषैकभक्त्या ॥ पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम् । वीक्षते प्रकुतिरादिपा हृदा पार्वतीपरिणतिः शुचिस्मिता ॥ ताण्डवं मुनिजनोऽत्रवीक्षते दिव्यचक्षुरमलाशयोऽनिशम् । जन्ममृत्युभयभेदि दर्शनान्नेत्र मानस विनोदकारकम् ॥ किचात्र तीर्थमिति भिक्षुगणेन कश्चित् पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः । संप्रार्थितः करुणयाऽस्मरत्र गङ्गां देवोऽथ संन्यधित दिव्य सरित् सुतीर्थम् ॥ शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गङ्गां प्रवदन्ति लोके । स्नानादमुष्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ॥ शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती । शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्प्रथितं तदाख्यम् ॥ नृत्यत्ती रहतस्वलज्जलगतेः पर्यापतद्विन्दुकं पार्श्व स्वासतेर्विनोदवशतो यज्जहुकन्यापयः । नृत्यं तन्वति धूर्जटौ विगलितं प्रेङ्खज्जटामण्डला- तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥ स्नायंस्त्रायं तीर्थवर्येऽत्र नित्यं वीक्षंवीक्षं देवपादाब्जयुग्मम् । शोधंशोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥ शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य । निमज्ज्य शम्भुसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः ॥ इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे । तीर्थं तदाप्लुत्य ननाम शम्भोरङ्घ्रि जितात्मा भुवनस्य गोप्तुः ॥ ७० सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् 143 रामसेतुगपनाय संदधे मानसं मुनिरनुत्तमः पुनः । वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ॥ यत्पवित्र पुलिनस्थलं पय: सिन्धुवासरसिकाय विष्णवे । अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥ सह्यपर्वतसुतातिनिर्मलाम्भो भिषिक्त भगवत्पदाम्बुजे । आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाय सः ॥ गच्छन् गच्छन् मार्गमध्येऽभियातं गेहूं भिक्षुर्मातुलस्याऽऽजगाम । दृष्ट्रा शिष्यैस्तं चिरेणाभियातं मोदं प्रान्मातुलः शास्त्रवेदी ॥ ७४ शुश्राव तं बन्धुजनः सशिष्य स्वमातुलागारमुपेयिवांमम् । आगत्य दृष्ट्रा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥ रुरोद कश्चिन्मुमुदे कचिज्जहास पूर्वा वरितं बभाषे । कश्चित्प्रमोदातिशयेन किञ्चिद्वचः स्खलगी: प्रणनाम कश्चित् ॥ ऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः । दिनक्षते त्वां जनताऽतिहादत्तथाऽपि शक्नोषि न वीक्षणाय ॥ पुत्राः समित्रान्न न बन्धुवर्गो न राजबाधा न च चोरभीतिः । कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८ शाखोपशाखाञ्चितमेव वृक्षं वाघन्त आगत्य न तद्विहीनम् । यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ॥ ७९ कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु । क देवताच क च तीर्थयात्रा क वा निषेवा महतां भवेन्नः ॥ अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतश्चिद्गुहमागतान्नः । कालोऽत्यगात्ते बहुर दैवात्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥ यथा शकुन्ताः परवर्धितान् द्रुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि । परक्लृप्तान मठदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२ 144 श्रीमच्छङ्करदिग्विजये [ चतुर्दशः यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते । तथा यतिः सारमवाप्नुत्रन सुखं गृहाद्गुहादोदनमेव भिक्षते ॥ ८३ यतेर्विरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् । विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४ मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् । दारानी सुर्यत दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥ ८५ अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः । सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६ विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुर्महतां निषेवाम् । भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥ अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः । चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥ ८८ चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः । शुद्धात्मविद्याक्ष पितो रुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥ वस्तव्यमत्र कतिचिद्दिवसानि विद्वंस्त्वद्दर्शनं वितनुते मुदितादि भव्यम् । एष्यद्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥ कोशं क्लेशमलस्य कास्यगृहमप्युदंड सामलयं पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् । हिंसामांसलमाश्रिता घनधनाशंसानृशंसा वयं वर्ज्य दुर्जनसङ्गमं करुणया शोध्या यतीन्दो त्वया ॥ ९१ संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि । इष्टसङ्गतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ॥ मध्याह्नकाले क्षुधितस्तृषार्तः क मेऽन्नदातेति वदन्नुपैति । यस्तस्य निर्वापयिता क्षुदार्तेः कस्तस्य पुण्यं वदितुं क्षमेत ॥ सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् सायंप्रातह्निकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च । ● 145 नित्यं वर्णी वेदवाक्यान्यधीयन क्षुद्धवा शीघ्रं गेहिनो गेहमेति ॥ ९४ उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जपन्वा यतात्मा । मध्येघस्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥ ९५ यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतम् । कर्तुस्तदर्थं ददतोऽन्नमर्थमिति स्मृतिः संववृतेऽनवद्या ॥ पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् । विनाऽपि तत्कर्तृ निषेवणेन तीर्थादिसेवा बहुदुःखसाध्या ॥ गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे । चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिद्रलतोऽपि कश्चित् ॥ सन्तोषयेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् । तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छ्रुतिरेव वक्ति ॥ स्वधर्मनिष्ठा विदिता खिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः । परोपकारवतिनो महान्त आयान्ति सर्वे गृहिणी गृहाय ॥ गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थ सेवाभिरवाप्यते जनैः । तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्यः प्रवसेन कश्चन ॥ १०१ अन्तः स्थिता मृषकमुख्यजीवा बहिः स्थिता गोमृगपक्षिमुख्याः । जीवन्ति जीवाः सकलोपजीव्यस्तस्माद्गुही सर्ववरो मतो मे ॥ १०२ शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽवगम्यते । तच्चान्नमस्माक पर्मषु संस्थितं सर्व फलं गेहपतिदुपाश्रयम् ॥ ब्रवीमि भूयः शृणुताssदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् । संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥ १०४ विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः । तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५ 146 श्रीमच्छङ्करदिग्विजये ससंरम्भाश्लिष्यत्सुफणितिवघटी कुचतटी- पटवत्पाटीरागरवनवपङ्काङ्कितहृदः । तथाऽप्येते पूता यतिपतिपदाम्भोजभजन- क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिनः ॥ [ चतुर्दशः संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे । पप्रच्छैनं मातुलो भुक्तवन्तं किंखिच्छन्नं पुस्तकं शिष्यहस्ते ॥ टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दत्तवांश्च । अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्ट्वाऽऽनन्दीत् खेदपापच्च किञ्चित् ॥ १०८ प्रबन्ध निर्माणविचित्रनैपुणीं दृष्ट्वा प्रमोदं स विवेद किञ्चित् । मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९ गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् । साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यसूयोऽपि कृताभिनन्दः ॥ ११० सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेsत्र जीवः । विद्वन् योगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ १११ इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यैर्हृष्यन् सेतुमेष प्रतस्थे । प्रस्थातुः श्रीपद्मपादस्य जातं कष्टं चैष्यत्सुचनायै निमित्तम् ॥ ११२ वाम नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरुः । चुक्षावोचन्त कश्चित्पुरस्तात्तत्सर्वं द्राग्ज्ञांगणित्वा जगाम ॥ sa ने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानि: । दग्धे जायेत महान प्रचारो नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ११४ पक्षस्य नाशाद्द्रहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् । एवं निरूप्य न्यदधाद्भुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ११५ ऐतिमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि । यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तुः ॥ ११६ सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् 147 गच्छन्नसौ फुलमुनेर्जगाम तमाश्रमं यत्र च रामचन्द्रः । अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७ तीर्खा समुद्रं जनकात्मजायाः सन्दर्शनोपायमनीक्षमाणः । वसुन्धरायां प्रवणा: लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥ ११८ सञ्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् । संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥ आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः । ततः पुमाकारमदृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥ मध्ये प्रभामण्डल मैक्षताञ्चितं शिवाकृति सर्वतपोमयं पुनः । लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्भवमादराज्जनैः ॥ १२१ अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् । प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥ १२२ समामर्थ्यादिभिरर्चयित्वा रामस्तदङ्घ्रि शिरसा ननाम । तूष्णीं मुहूर्त व्यसनार्णवस्थो धृतिं समास्थाय पुनर्बभाषे ॥ दृष्ट्वा भवन्तं पितृमोदे यन्मापगा दुःखमहार्णवस्थम् । मन्ये ममात्मापवाकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ न तत्र माहग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः । सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे । सा चाधुनाशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी !! समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि । थथा तथोपायमुदाहरत्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥ इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः । वंशद्वये सन्ति नृपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥ 148 श्रीमच्छङ्करदिग्विजये [चतुर्दशः त्वमग्रणीर्दाशरथे धनुर्भृतां तवानुजस्यापि समो न लक्ष्यते । लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुश्च वचो विनार्थम् ॥ १२९ सहाय संपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् । वारां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्र मेनम् ॥ १३० पुरेव चाहिं पिवामि शुष्केऽत्र तेन प्रतियाहि लङ्काम् । एवं मया कीर्तिरुपार्जिता स्याद्वद्धे तु वा तव साऽर्जिता स्यात् ॥ सेतुं वा बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् । प्राप्नोषि त्वं कीर्तिमाचन्द्रतारं तेनात्रान्धि बन्धय त्वं कपीन्द्रैः ॥ १३२ इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वाध । तुङ्गैः शृङ्गैर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥ १३३ तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्वा भक्त्या रामनाथं प्रणम्य । तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥ १३४ तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित् । रामेशाख्या किसमासोपपन्ना पृष्टस्त्रेधाऽवोचदेवं समासम् ॥ १३५ रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् । रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ॥ १३६ एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् । अम्भोजाङ्घ्रिस्तैरथ स्तूयमानः कश्चित्कालं तत्र योगीडनैषीत् ॥ १३७ तस्मादार्य: प्रस्थितोऽभूत् सशिष्यस्तीर्थस्नानोपान्तचित्तामलत्वः । पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥ १३८ श्रुत्वा किञ्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् सः । श्रावं श्रावं मातुलीयस्य तीव्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥ १३९ विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्भुतवहः पतितः प्रमादात् । तावान मे सदनदाहकृतोऽनुतापो यावांस्तु पुस्तक विनाशकृतो मम स्यात् ॥ सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् 149 इत्थं ब्रुवन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धिरवस्थिता मे । उक्त्वा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥ १४१ दृष्ट्वा बुद्धिं मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने सन्मनोन्नम् । किञ्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तुं केचिदेवं ब्रुवन्ति ॥ १४२ अत्रान्तरेऽन्यैर्निजवच्चरद्भिः स्वैस्तीर्थयात्रां दयितैः सतीयैः । अर्थादुपेत्याश्रमतः कनिर्ज्ञातः सखेदैः स मुनिः समैक्षि ॥ १४३ दृष्ट्वा पद्माङ्घ्रि क्रमात् प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः । अन्योन्यं द्रागाददुस्ते ददुश्वाने कानेहो यो गजैक्यान्नपांसि ॥ १४४ वाणीनिर्जितपन्नगेश्वरगुरुपाचेतसा चेतसा विभ्राणा चरणं मुनेर्विरचितव्यापल्लवं पल्लवम् । धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं रेजेऽन्तेवसतां समष्टिरसुहृत्तत्या हितात्या हिता ॥ १४५ शुश्राव सान्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् । अर्थात् समीपागततः कुतश्चिद् द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६ अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्य विनेयाः । कथमपि विदिततदीयसुवार्ताः समधिगताः किल केरलदेशान् ॥ १४७ अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः । आकाशलङ्घिवरकेर महीरुहेषु श्री केरलेषु मुनिरास्त चरन् विरक्तः ॥ विचरन्नथ केरलेषु विष्वङ् निजशिष्यागमनं निरीक्ष्य मौनी । विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ॥ १४९ सदसत्रविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् । कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥ १५० रजसा सृजसीश सच्चवृत्ति त्रिजगद्रक्षसि तामसः क्षिणोषि । बहुधा परिकीर्त्यसे च स त्वं विधिवैकुण्ठ शिवाभिघाभिरेकः ॥ १५१ 150 श्रीमच्छङ्करदिग्विजये [ चतुर्दशः विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः । बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥ १५२ इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौं सुरसद्मसंनिविष्टः । चिरकाल वियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥ १५३ गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु । अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः । बहुधा विहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥ अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् । अप भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥ दग्धमुद्रमुख मुद्रणमन्त्रैर्ध्वस्त तर्कगुरुका पिलतन्त्रैः । वर्मितो निगम सारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥ खड्गाखङ्गिविहारकल्पितरुजं काणादसेनामुखे शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे । यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः सूक्तैौक्तिकवंशमौक्तिकमयैर्नाऽऽपद्यते वर्मितः ॥ अथ गूढहृदो यथापुरं मामभिनन्द्याऽऽहितसत्क्रियस्य तस्य । after निधाय भाष्यटीका महस्याऽऽयमशङ्कितो निशायाम् ॥ १५९ युगपर्ययनृत्य दुग्रफालज्वलनज्वालकरालकीलजालः । दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६० अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः । मतिमान्धकरं गरं च भैक्षे व्यधितास्येति विजृम्भते स्म वार्ता ॥ १६१ अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति । विषमा पुनरीहशी दशा नः किमु युक्ता भवदङ्घ्रिकिङ्कराणाम् ॥ १६२ सर्गः १४ ] पद्मपादतीर्थयात्रावर्णनम् 151 गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः । निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कुशानौ ॥ १६३ प्रयतेऽहं पुनरेव यदा तां विधातुं बहुधाकृतयत्नः । न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥ कृपापारावारं तव चरणकोणाग्रशरणं गता दीना दूनाः कति कति न सर्वेश्वरपदम् । गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे- न्मृषा मा भाषिष्ठा: पदकमल चिन्तावधिरसौ ॥ १६५ इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः । अमृताब्धिसखैरपास्तमोर्वचनैः सान्त्वयति स्म वल्गुवन्धैः ॥ १६६ विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः । विदितः प्रथमं मयाऽयमर्थः कथितश्चाङ्ग सुरेशदेशिकाय ॥ पूर्व शृङ्गमारे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी । १६७ सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदायः ॥ आश्वास्येत्थं जलजचरणं भाष्यकृत्पञ्चपादी- माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या । नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ तस्मिन् मूले त्रिभुवनगुरौ सर्वविद्याप्रवृत्तेः ॥ प्रसभं स विलिख्य पञ्चपाद परमानन्दभरेण पद्मपाद: । उदतिष्ठद तिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥ कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः । मुनिवर्यममुं मुदं वितेने निजकौटीर निघृष्टपन्नखाय्यः ॥ प्रथते किमु नाटकी सेत्यमुना संयमिना ततो नियुक्तः । अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२ मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः । वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच्च ॥ १७३ 152 श्रीमच्छङ्करदिग्विजये [ चतुर्दशः नृप कालटिनामक ग्रहारा द्विजकर्मानधिकारिणोऽय शप्ताः । भवताऽपि तथैव ते विधेया बत पापा इति देशिको शिषत्तम् ॥ १७४ पद्माङ्घ्रौ प्रतिपच नष्टविवृति तुष्टे पुन: केरल- क्षमापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा । लब्ध्वा तस्य मुखात् स्वनाटकवराण्यानन्दपाथो निधौ मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥ इति श्रीमाधवये तत्तीर्थयात्राटनार्थकः । संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः ॥ १४ ॥ आदितः श्लोकाः 1562. अथ पञ्चदशः सर्गः 11-24 11 आचार्यकृतदिग्विजयवर्णनम् ॥ अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा । ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमुदारधीः प्रतस्थे ॥ अभवत् किल तस्य तत्र शाक्तैर्गिरिजाचकपटान्मधुप्रसक्तैः । निकटस्थ वितीर्णभूरिमोदस्फुटरिङ्खत्पटुयुक्तिमान विवादः ॥ स हि युक्तिभरैर्विधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् । द्विजजातिबहिष्कृताननार्यानकरो लोकहिताय कर्मसेतुम् ॥ अभिपूज्य स तत्र रामनाथं सह पाण्डेयः स्ववशे विधाय चोलान् । द्रविडांच ततो जगाम काचीं नगरीं हस्तिगिरेर्नितम्बकाञ्चीम् ॥ ४ सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् । अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥ निजपाद सरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्धान् । अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥ सर्गः १५] आचार्य कृतदिग्विजयवर्णनम् 153 अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण । निज शिष्य निरस्तदुष्टबुद्धीन् व्यदधाद्वैरवतन्त्रसावलम्बान् ॥ अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरा मियासुम् । भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ॥ न हि ते भगवद्यशः सहन्ते निहितेर्ष्याः श्रुतिषु ब्रवीम्यतोऽहम् । अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा । मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १० अथ तीर्थकरायणीः प्रतस्थे किल कापालिकजालकं विजेतुम् । निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाय्यः ॥ ११ पितृकाननभस्मनाऽनुलिप्तः करसंप्राप्तकरोटिरात्तशूल: । सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥ १२ भसितं घृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरः कपालमेतत् । हथाशुचि खर्परं किमर्थे न कथंकारमुपास्यते कपाली ॥ नरशी कुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवाचम् । उमया समया सरोरुहाक्ष्या कथमाश्लिष्टत्रपुर्मुदं प्रयायात् ॥ इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य । निरवासयदात्मवित्समाजात् पुरुषः स्वैरधिकारिभिः सुधन्वा ॥ . भ्रुकुटीकुटिलाननश्चळोष्ठः सितमुद्यम्य परश्वधं स मूर्खः । भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥ १६ रुषितानि कपालिनां कुलानि मलयाम्भोधरभीकरारवाणि । अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥ १७ अय विपकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा । कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान् विमुञ्चन् ॥ १८ 154 श्रीमच्छङ्करदिग्विजये [पञ्चदशः अवनीभृति योधयत्यरींस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः । क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥ अवलोक्य कपालिसङ्गमाराच्छमनानीक निकाशमापतन्तम् । व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥ २० असितोमरपट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताट्टहासान् । यतिराट् स चकार भस्मसात्तान्निजहुङ्कारभुवाऽग्निना क्षणेन ॥ २१ नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपमैः । रणरङ्गभुवं सहस्रसङ्घैः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥ तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य । अतिमात्रविदूयमानचेता यतिराजस्य समीपमाप भूयः ॥ कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्य धुनैव कर्मणोऽस्य । इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥ सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे । स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥ अथ मर्त्यशिरःकपालमाली ज्वलनज्वालजटाछट त्रिशूली । विकटकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥ तव भक्तजनद्रहं दृशा सञ्जहि देवेति कपालिना नियुक्तः । कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥ यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः । अखिलेsपि खिले कुले खलानाममुमानर्चुरलं द्विजाः प्रहृष्टाः ॥ यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् । अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता । विललास चलत्तरङ्गहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् । अवधीरितदुन्दुभिखनेन प्रतिवादीव महान् महारेण ॥ सर्गः १५ ] आचार्यकृत दिग्विजयवर्णनम् 155 बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव । इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥ अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्याः । स्तवसत्तममद्भुतार्थचिंत्र रचयामास भुजङ्गवृत्तरम्यम् ॥ तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् । हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥ भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् । स्ववशीकृत भट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥ इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः । शिवतत्परसूत्रभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्यः ॥ सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा । पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥ परपक्षतमित्रचञ्चदर्कैर्मम तर्कैर्बहुधा विशीर्यमाणम् । अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोप: ॥ सितभूतितरङ्गिताखिलाङ्गैः स्फुटरुद्राक्षकलापकम्रकण्ठैः । परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥ अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेष: । शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्र पद्धा ॥ भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे । इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः ॥ सुमते तव कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु । इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ ४१ परपक्षविसावली मरालैर्वचनैस्तस्य मतं चखण्ड दण्डी । अथ नीलगल: स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥ 156 श्रीमच्छङ्करदिग्विजये [ पञ्चदशः प्रशस्तिदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः । अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मत्वात् ॥ ४३ रवितत्प्रतिबिम्बयरिवाभितामित्यपि तत्त्वतो न वाच्यम् । मुकुरे प्रतिविम्बितस्य मिथ्यात्व गते व्यमशिवादिदेशिकोत्त्या ॥ ४४ मुकुरस्यमुखस्य बिम्बवक्ताद्भिदया पार्श्वगलोकलोकनेन । प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५ न च मायिकजीवनिष्टमोढ्येश्वर सार्वज्ञविरुद्ध धर्मबाधात् । उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥ न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाञ्जलिर्भिदा स्यात् । विपरीत हयत्वगोत्वबाधाद्धयपश्वोर्निजरूपकैक्ययुक्त्या । यदि मानगतस्य हानमिष्टं न भवेत्तार्ह न चेश्वरोऽहमस्मि । इति मानगतस्य जीव सर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥ इति युक्तितैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् । निगमान्तवचः प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥ अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् । शृणु तत्वमसीति संप्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥ ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने । अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः ॥ यदिोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् । अभिदाघटक तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥ ननु मौढ्य समस्त वित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् । उभयोः परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३ इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या । तदधिष्ठितसत्य वस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ५४ स्वर्गः ६५ ] आचार्य कृतदिग्विजयवर्णनम् 157 rasपि तथा हि दृश्य देहायहमन्तस्य जडत्वमभ्युपेयम् । परिशिष्टमुपेयमेकरूपं ननु किश्चिद्धि तदेव तस्य रूपम् ॥ जगतोऽसत एवमेव युक्त्या स्वनिरूप्यत्वत एव कल्पितत्वात् । तदधिष्ठितभूतरूपमेध्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥ ५६ तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्य सर्ववित् । न जपाकुसुपात्तलोहितिनः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७ अपि भेदधियो यथार्थतायां न भयं भेददृशः श्रुतिर्ब्रवीतु । विपरीतदृशो ह्यनर्थयोगो न भिदाधीर्विपरीतधीर्यतः स्यात् ॥ अभिदा श्रुतिगाऽप्यताविकी चेत्पुरुपार्यश्रवणं न तद्गतौ स्यात् । अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९ तदवाधितकल्पनाक्षतिनों श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः । निगमात् प्रचलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥ ऋषिभिर्बहुधा परात्मतत्त्रं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् । तदपास्य निरूपितप्रकारो भवताऽसौ कथमेक एव धार्यः ॥ प्रवलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेयाः । * इति नीतिबलात्तूयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२ ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथाहि । प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥ ६३ यदि चात्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् । अमुकः ससुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४ अयमेव विदन्तिश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् । अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥ ६५ *" विरोधेत्वनपेक्षं स्यादसति हानुमानम्" इति जैमिनीयसूत्रम् ॥ 158 श्रीमच्छर दिग्विजये । पञ्चदशः पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्तत्वात् । अतियतया पुमर्थता नो विषवृक्तान्नवदित्यभेद्ययुक्तेः ॥ ६६ इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् । न कथञ्चन युज्यते पुनः सा घटयेत्पत्युत मानसीयभेदम् ॥ चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् । तदभावत एव कर्तृता स्यान्न तृणादेरिति कल्पनं वरीयः ॥ विषयोत्थ सुखस्य दुःखयुक्तत्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् । पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥ इति युक्तितोपबृंहितार्थैर्वचनैः श्रुत्यबरोधमोविदः । यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजेपीत् ॥ विजितो यतिभूभूतास शैवः सह गर्वेण विसृज्य च स्वभाष्यम् । शरणं प्रतिपेदिवान महर्षि हरदत्तममुखैः महात्मशिष्यैः ॥ ७१ यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीषिधुर्यवर्यम् । सहसोदयनादयः कवीन्द्राः परमद्वैतमुपचकम्पिरे स्म ॥ विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र । बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवतीं पुरीं विवेश ॥ भुजयोरतितप्तराङ्गचक्राकृतिलो हाहतसंभृतव्रणाङ्काः । शरदण्ड सहोदरी र्ध्वपुण्ड्रास्तुलसी पर्णसनाथकर्णदेशाः ॥ शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः । मुनिशिष्यवरैरतिप्रगल्भैर्मृगराजैरिव कुञ्जराः प्रभग्ना: 11 इति वैष्णवशैवशाक्त सौरममुखानात्मवशंवदान्विधाय । अतिवेलवचो झरी निरस्तप्रतिवाद्युज्जयिनीं पुरीमयासीत् !! सपदि प्रतिनादितः पयोद स्वनशङ्काकुल गेह के किजालैः । शशभृन्मुकुटाईणामृदङ्गध्वनिरश्रूयत तत्र मूर्छिताशः ॥ सर्गः १५ ] आचार्यकृत दिग्विजयवर्णनम् मकरध्वज विद्विडाप्ति विद्वाञ्श्रमहत्पुष्प सुगन्धवन्मरुद्भिः । अगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥ भगवानभिवन्द्य चन्द्रमौलि मुनिवृन्दैरभिवन्द्यपादपद्मः । श्रपहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरमभावः ॥ कवये कथयास्मदीय वार्तामिह सौम्येति स भट्टभास्कराय । विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥ अभिरूपकुलावतंसभूतं बहुवाव्याकृतसर्ववेदराशिम् । तमयत्न निरस्तदुः सपत्नं प्रतिपद्येत्यमुवाच वावदुकः ॥ जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शङ्करयोगिचक्रवर्ती । मथयन् परमाद्वितीयतत्त्रं शमयंस्तत्परिपन्थिवादिदर्पम् ॥ स जगाद बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूत्रवृत्तिजालम् । अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥ तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् । अथवाऽस्मदुग्रतर्क वज्रपतिघातात् परिरक्ष्यतां स्वपक्ष: ॥ इति तामवहेलपूर्ववर्णा गिरमाकर्ण्य तदा स लब्धवर्णः । यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ॥ ध्रुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीनुदन्तम् । परकीर्तिविसारानदन्तं विदुषां सूर्यसु नानदत्पदं तम् ॥ मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति । कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥ इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ मावमंस्थाः । न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वजमणिप्रभेदनाय ॥ स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदव्यः । सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥ 159 160 श्रीमच्छङ्करदिग्विजये [पञ्चदशः अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ । बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥ अनयोरतिचित्रशब्दशय्यां दधतो दुर्नय भेदशक्तयुक्त्योः । पटुवादमृधेऽन्तरं तटस्था: श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥ ९१ अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जडाब्जभूतम् । बहुधाss क्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२ अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः प्रगल्भयुक्त्या । श्रुतिशीर्षवचः प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥ प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिर्जीव परात्मभेदिकेति । न भिनत्ति हि जीवगेगा दोभयभावस्य तदुत्तरोद्भवत्वात् ॥ मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिविम्वविम्बभेदी । कथमीरय वक्तमात्रगश्चेश्च्चि तिमात्राश्रिदियं तथेति तुल्यम् ॥ चितिमात्रगप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् । प्रतिविम्बितजीव पक्षपातो मुकुरस्येव विरुध्यते न जातु ॥ अविकारिनिरस्तसङ्गबोधैकरसात्माश्रयता न युज्यतेऽस्याः । अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७ न हि मानकथा विशिष्टत्वे भवदापादित ईक्षते तथा हि । अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्रुते तथा चेत् ॥ अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् । अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥ ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव । अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूति: ॥ इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचार: । न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥ सर्गः १५] आचार्यकृत दिग्विजयर्णनम् 161 न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् । इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेव बाधकत्वात् ॥ १०२ अधिपत्यपि चित्तवर्ति तत्स्याद्यदि चाज्ञानमिदं हृदाश्रितं स्यात् । तदिहास्ति न मानः क्तरीत्या प्रकृतेर्दृश्यविशिष्टनिष्ठतायाम् ॥ १०३ ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिह्ननेति । प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥ १०४ न च तत्र च तत्स्थितिप्रतीतिः सति संपद्य विदुर्न हीति वाक्यात् । श्रुतिर्गस्तदधिक्षिपत्यभावप्रतिपत्तेर्न च निह्नवोऽत्र नेति ॥ किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् । अनिवर्तक सच्चतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥ न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य । तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किंत्विह तद्भ्रमाग्रहादि ॥ १०७ इति चेदिदमीर भ्रमः को मनुजोऽहं स्विति शेमुषीति चेन्न । अतिविस्मृतिशीलता तवाही गदितुः सर्वपदार्थसङ्करस्य ॥ १०८ प्रमितत्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वाशास्त्रसिद्धात् । भिदभिदद्वयगात्तरत्व हेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ १०९ अनुमानमिदं तथा च सिद्धं विपता धीः प्रमितिर्भिदाभिदत्वात् । इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥ ११० ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्धयमानगत्वात् । इदमिति प्रतिपन्नरूप्यधीवत्यवला सत्प्रतिपक्षतेति चेन्न ॥ १११ व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे । इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमच्यात् ॥ ११२ ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् । इति चेन्न विवक्षितस्य हेतोर्व्यभिचारात् पुनरप्यमुत्र चैव ॥ 162 श्रीमच्छङ्करदिग्विजये [पञ्चदशः ननु गोल उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः । अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४ इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः । उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसत्यभावात् ॥ ११५ न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संप्रसक्त्यभावः । चरमोsपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६ स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् । तदिहोदित हेतु सच्चतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥ ननु भातितरामुपाधिरत्वादलदेतद्व्यवहर्तृतेति चेन्न । अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥ ननु तद्वयवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ । श्रुतिवाक्यगतेन संप्रतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥ तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य । तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥ १२० ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते । प्रथितस्थल पञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥ १२१ इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् । उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पञ्च न हि कचिद्यतः स्युः ॥ चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकभावस्य च तन्त्रता न किं स्यात् । न च योजकगौरवं च दोषः प्रकृते तस्य तत्रापि सम्मतत्वात् ॥ १२३ अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् । अपि सोऽत्र न दुर्लभ श्चिदात्माङ्गकयोः कारणकार्य भावभावात् ॥ १२४ न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति । तदभेदत एव सर्वकस्याप्युपपत्तेरिह जीवकार्यतायाः ॥ १२५ सर्गः १५] आचार्यकृत दिग्विजयवर्णनम् 163 तद सिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् । भ्रमधर्मामतित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६ अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ । परिणाम इहाssदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥ १२७ ननु रक्ततमप्रम्नयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्नः । भ्रमसंयुतचित्तयो गतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥ १२८ इति चेयमीरयाssत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा । प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥ १२९ चरमोऽपि न युज्यतेऽपरोक्ष पथनस्यानुपपद्यमानतायाः । परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३० असभागतयात्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः । परिणत्ययुजेश्च योग्यतायामपि बुद्धयाकृतितश्चिदात्मनोऽस्य ॥ न हि नित्यचिदाश्रयपतीचः परिणामः पुनरन्यचित्स्वरूपः । गुणयो: समुदायगत्ययोगाद्गुणतावान्तरजातित: सजात्यो ॥ युगपत्समवैति नो हि शौक्यद्वयकं यत्र च कुत्रचिद्यदेतत् । ननु चिन्न गुणो गुणी तथा च प्रसन्नोदितदुष्टतेति चेन्न ॥ १३३ कटकाश्रयभूतदीप्तो रुचकाधारकभाववत्तथैव । अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥ १३४ न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्तयसंभवेऽपि । भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतेरयोगात् ॥ १३५ अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः । तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६ न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य । इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्वयोगात ॥ १३७ 164 श्रीमच्छङ्करदिग्विजये । ॥ [ पञ्चदशः अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटे सकलव्यवहारसङ्करत्वात्तदलं जीवनिकाऽपि दुर्लभा ते इति युक्ति शतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जिल्ला । श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ 11 इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसत्रे । घनवार्षिकवारिवाहजाले विगते शारदचन्द्रचन्द्रिकेव ॥ स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् । शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांचकार ॥ प्रतिपद्य तु बालिकान् महर्षी विनयिभ्यः प्रविवृण्वति स्वभाष्यम् । अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽर्हताभिधाने ॥ १४२ ननु जीवमजीवमात्रं च श्रितवत्संवर निर्जरौ च बन्धः । अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३ कथाssen जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी । अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् ॥ १४४ अमहाननणुर्घटादिवत्स्यात्स न नित्योऽप च मानुषाच्च देहात् । गजदेहमयन्विशेन कृत्स्नं प्रविशेच्च प्लुविदेहमप्यकृत्स्नः ॥ १४५ उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य । अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥ उपयन्त इमे तथाsपयन्तो यदि वर्मेव न जीवतां भजेयुः । प्रभवेरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥ जनितारहिता: क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते । अमुकोपचितः प्रयाति कृत्स्नं त्वमुत्रैश्चापचितः प्रयात्यकृत्स्नम् ॥ किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्ध पत्या । वपुरुन्मथितं भवेत्तु पूर्वे बत कात्स्न्र्त्स्न्येन वपुर्न चेतयेयुः ॥ १४९ सर्गः १५] आचार्य कृत दिग्विजयवर्णनम् चलयन्ति रथं यथैकमत्या बहवो वाजिन एवममतीताः । इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य 11 raise florests च्वात्सुमते तत्र भजेयुरैकमत्यम् । कथमत्र नियामकस्य तद्वद्विरहात् कस्यचिदप्यदो घटेत ॥ उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे । विकसन्ति च सत्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ॥ यदि चैवमी विक्रियत्वाद्वत्ते च विनश्वरा भवेयुः । इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसङ्गमौ भवेताम् ॥ 165 अपि चैवमला बुद्भवान्धों निजकर्माष्टकभारमनजन्तोः । सततोर्ध्वगतिस्वरूप मोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥ १५४ अपि साधनभूतसप्तभङ्गीनयमप्याहेत नाऽऽद्रियामहे ते । परमार्थसतां विरोधभाजां स्थितिरेकत्र हि नैकदा घटेत ॥ इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य । दरदान् भरतां शूरसेनान् कुरुपाञ्चालमुखान् बहूनजैषीत् ॥ पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुमहोदयनादिकैरजय्यम् । स हि खण्डनकारमृहद बहुधा व्युय वशंवदं चकार ॥ १५७ तदनन्तरमेष कामरूपानधिगत्याभिनवोपशब्दगुप्तम् । अजयत्किल शाक्तभाष्यकारं स च भग्नो मनसेदमालोचे ॥ १५८ निगमाब्जविकासिवालभानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् । न कथञ्चन मद्वशंवदाऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् । परिहृत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥ निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः । विहितापचितिस्तथाऽङ्गबङ्गेष्वयमास्तीर्य यशो जगाम गौडान ॥ १६१ 166 श्रीमच्छङ्करदिग्विजये [ पञ्चदशः अभिभूय मुरारिमिश्रवर्यं सहसा चोदयनं विजित्य वादे । अवधूय च धर्मगुप्त मिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥ पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौ बुद्धस्य प्रविभेद मस्करिवरस्तान् भास्करादीन् क्षणात् । शास्त्रास्त्राय विनिन्दकेन कुधिया कूटप्रवादाग्रहा- निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥ शाक्तैः पाशुपतैरपि क्षपणकैः कापालिक वैष्णवै- रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिवैदिकम् । मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोर्व्यधा- त्सर्वज्ञो न यतोऽस्य संभवति सम्मान ग्रहग्रस्तता ॥ दिष्टे पङ्कज विष्टरेण जगतामाद्येन तत्सूनुभि- निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाद्यैरपि । श्रोताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान् प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वक्षुण्णताम् ॥ १६५ शान्तिर्दान्तिविरागते परतिः क्षान्तिः परैकाग्रता श्रद्धेति प्रथिताभिरेषिततनौ षड्वक्तवन्मातृभिः । भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल- स्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुर्तः ॥ १६६ यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतः काणाः काणभुजास्तु सैन्यरजसा सांख्यैर्धृताऽसांख्यधीः । युद्ध्वा तेषु पलायितेषु सहसा योगाः सहैवाद्रवन् को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥ उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः । जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना- मद्य श्रोत्रतटात्रीषु दधते दावानलज्वालताम् ॥ सर्गः १५] आचार्यकृत दिग्विजयवर्णनम् बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्रितः कोणे द्राणमुग्व्यलीयत तमः स्तोमावृतो गौतमः । भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्वाञ्जलिं 167 चक्रस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥ हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः । गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा ॥ १७० शान्त्याद्यर्णववाडवानलशिखा सत्याभ्रवात्या दया- ज्योत्स्नादर्श निशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः । आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा- हंसी माडखण्ड दण्डिपतिना पाखण्डवाङ्मण्डली ॥ १७१ अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरैः कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्त तापत्रयैः । दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षु संपादितं शान्तं संपति खण्डिताश्च निविडाः पाखण्डचण्डातपाः ॥ १७२ शान्तानां सुभटाः कपालिकपतद ग्राहग्रहव्यापृता: काणादमतिहारिणः क्षपणकक्षोणीश्वैतालिकाः । सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांङ्करा नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३ इति सकलदिशासु द्वैतवार्ता निवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म । प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं रविरिव तिमिरौघे संप्रशान्ते महः स्वम् ॥ इति श्रीमाधवीये तत्तदाशाजयकौतुकी । संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥ आदितः श्लोकाः 1736. 168 श्रीमच्छङ्करदिग्विजये अथ षोडशः सर्गः ॥ १६ ॥ श्रीमदाचार्याणां शारदापीठवासवर्णनम् ॥ [ षोडशः अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् । स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥ स ततोऽभिचचार मृढबुद्धिर्यतिशार्दूलममुं प्रहरोषः । अचिकित्स्यतमो भिषग्भिरस्मादजनिष्टास्य भगन्दराख्यरोगः ॥ अचिकित्स्य भगन्दराख्यरोग पसरच्छोणितपङ्कियवशाय्याः । अजु उप्स विशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥ ३ भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयशनैः । नोपेक्षणीयो भगवन् महामयस्वपीडितः शत्रुरिवर्द्धिमान्नुयात् ॥ ४ महानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽर्तिरीदृशी । पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ ५ चिकित्सका व्याधिनिदानकोविदाः संपच्छनीया भगवन्नितस्ततः । प्रत्यक्षवत्संपति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६ उपेक्षमाणेऽपि गुरावनास्था शरीरकादौ सुखमात्मनीश्वरैः । नोपेक्षणीयं गुरुदुः खश्वभिर्दुःखं विनेयैरिति शास्त्रनिश्चयः ॥ स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः । तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा बाञ्छति पूज्य ना मनः ॥ ८ व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एवः । अभुज्यमान: पुरुषं न मुञ्चेज्जन्मान्तरेऽपीति हि शास्त्रत्राद: ॥ व्याधिर्द्विधाऽसौ कथितो हि विद्भिः कर्मोद्भवधातुकृतस्तथेति । आद्यक्षयः कर्मण एव लीनाच्चिकित्सया स्याच्चरमादितस्य ॥ १० संक्षीयतां कर्मण एवं संक्षयाद्व्याधिः प्रवृत्तो न चिकित्स्यते मया । पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किञ्चन ॥ सर्गः १६] श्रीमदाचार्याणां शारदापीठवासवर्णनम् सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै । स्वज्जीवनेनैव हि जीवनं नः पाथश्वराणां जलमेव तद्धि ॥ 169 स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् । तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥ १३ निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्यः । नत्वा गुरुं प्रतिदिशं प्रययुः महृष्टाः शिष्याः प्रवासकुशळा हरिभक्तिभाजः ॥ प्रायो नृपं कविजना भिषजां वदान्यं वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते । तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥ तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भिः । अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ॥ ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः । यदत्र कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदा गौ सः ॥ १७ उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः । यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारयः ॥ चिरमुपेक्षतवानहमेत दुरितजोऽयमिति प्रतिभाति मे । तदपि शिष्यगणैर्निरहिंस्यहं प्रहितवान् भवदानयनाय तान् ॥ निगदिते मुनिति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः । न च शशाम गर्दा बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥ अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् । अटल गेहमगात्समय बहुर्गदहृते भवतामित ईयुषाम् ॥ दिनचयं गणयन पथिलोचनः प्रियजनो निवसेद्विरहातुरः । नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ रुषितवान्न च वो तिरेन्नृपः फणितजीवितमक्षतशासनः । तुरगवन्नृपतिश्चलमा सो भिषजमन्यमसौ विदधीत वा ॥ 170 श्रीमच्छङ्करदिग्विजये जनपदो विरलो गदद्दारकैर्बहुलरुग्णजनः प्रकृतेरतः । मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥ पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति । जनितमध्यफलं भिषजं बिना भिषगसौ हरिरेव तनुभृतः ॥ [ षोडशः यदुदितं भवता वितथं न तत्तदपि न क्षमते ब्रजितुं मनः । सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६ इति निगद्य ययुर्भिषजां गणा विमनसः पटवोsपि निजान् गृहान् । अथ मुनिर्विजन्ममतां तनौ गुरुवरो गुरुदुः खमसोढ सः ॥ प्रथितैरवनौ परः सहसैरगदंकार चयैरथाचिकित्स्ये । प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८ स्मरशासन शासनान्नियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ । उपसेदतुरश्विनौ च देव सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥ यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुषा । इति तं समुदीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥ ३० तदनु स्वगुरोर्गदापनुच्यै परमन्त्रं तु जजाप जातमन्युः । मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपादः ॥ अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः । मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥ स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापूरसङ्गार्द्रवातैः । आगच्छन्तं सैकते प्रत्यगच्छद्योगांशानं गौडपादाभिधानम् ॥ ३३ पाणी फुलवेतपङ्केरुही मैत्रीपात्रीभूतभासा घटेन । आराद्राजत्कैरवानन्द सन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यद्भूङ्गीमण्डली तुल्यकुल्याम् । अङ्गुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठायेणासकृद् भ्रामयन्तम् ॥ ३५ श्रीमदाचार्याणां शारदापीठवासवर्णनम् 171 सर्गः १६] आर्यस्यायो गौढपादस्य पादावभ्यर्थ्यासौ शङ्करः पङ्कजाभौ । भक्तिश्रद्धासंभ्रमाक्रान्तचेताः प्रहस्तस्थावग्रतः प्राञ्जलिः सन् ॥ सिञ्चनेनं क्षीरवाराशिवीची साचिव्यायाऽऽसन्नयन्नैः कटाक्षैः । दन्तज्योत्स्नादन्तुराचापि कुर्वन्नाशाः सूक्ति सन्दधे गौढपादः ॥ कच्चित्स वेत्सि गोविन्दनान्नो हृद्या विद्या संमृदुद्धारकृया । कच्चित्तत्वं तत्त्वमानन्दरूपं नित्यं सन्चिन्निर्मलं वेत्सि वेद्यम् ॥ भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः । कच्चित्तवज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥ ३९ कच्चिन्नित्याः शत्रवो निर्जितास्ते कच्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वा: । कच्चिद्योगः साधितोऽष्टाङ्गयुक्तः कश्चिच्चित्तं साधुचित्तत्वगं ते ॥ ४० इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः । भक्त्युद्रेकाद्वाष्पपर्याकुलाक्षो बन्नन्मूर्धन्यञ्जलिं व्याजहार ॥ यद्यत्पृष्टं स्पष्टपाचार्य पादैस्तत्तत्सर्वं भो भविष्यत्यवश्यम् । कारुण्यान्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुदुर्लभं किंनु जन्तोः ॥ मूको वाग्मी मन्दधी: पण्डिताय्यः पापाचारः पुण्यनिष्ठेषु गण्यः । कामासक्तः कीर्तिमान्नि. स्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥ ४३ लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महित्रः । तुष्ट्वाऽत्यन्तं तच विद्योपदेष्टा जातः साक्षाद्यस्य वैयासकिः सः ॥ आजानात्मज्ञानसिद्धं यमारादौदासीन्याज्जातमात्रं व्रजन्तम् । प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्यः पृष्ठतोऽनुप्रपेदे ॥ Tessa योगभाष्यत्रा पित्रा प्राप्तः स प्रपञ्चकभावम् । सर्वादन्ताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोदृक्षरूपः ॥ तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् । दैवादेतद्दीनदृग्गोचरवेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥ 172 श्रीमच्छङ्करदिग्विजये [ षोडशः इत्याकर्ण्याब्रीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् । द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥ ४८ कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुः सुखार्काः । श्रुत्वेति गोविन्दमुखात्महृष्य हगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९ इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै । विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥ मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणो त्यहर्षः । दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥ स माह पर्यायशुकर्षमीक्ष्य भवन्तमद्राक्षम तिष्यपूरुषम् । वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥ तथेति सोऽन्तर्धिमपास्त मोहे गते चिरञ्जीविशुनावथासौ । वृत्तान्तमेतं समुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३ अथ नद्यामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः । तीरे निदिध्यासनकालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४ जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् । काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥ ५५ द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् । यत्रारोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्मवेष्टुं क्षमन्ते ॥ ५६ प्राच्या: प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः । सर्वज्ञास्तदद्वारमुद्घाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७ वार्तापत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् । काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥ ५८ द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः । तां किंवदन्तीं विफलां विधातुं जगाम देवीनिलयाय हृष्यन् ॥ ५९ सर्गः १६ ] श्रीमदाचार्याणां शारदा पीठवासवर्णनम् वादिवातगजेन्द्र दुर्मदघटा दुर्गर्वसङ्कर्षण- श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् । दूरं गच्छत वादिदुः शठगजाः संन्यासदंष्ट्रायुधो वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥ करटनटान्तवान्तमदसौरभ सारभर- स्खलद लिसंभ्रमत्कलभकुम्भविज म्भवः । हरिरिव जम्बुकानमददन्तगजान्कुजना- नपि खलु नाक्षिगोचरयतीह यतितकान् ॥ संश्रावयन्नध्वनि देशिकेन्द्र: श्रीदक्षिणद्वारभुवं प्रपेदे । कवाट मुद्धा निवेष्टुकामं ससंभ्रमं वादिगणां न्यरौत्सीत् ॥ अयात्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसंभ्रमक्रिया । यत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥ 173 यः कश्विदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु । इत्थं भवान्वक्ति समुन्नतीच्छा दत्त्रा परीक्षां व्रज देवतालयम् ॥ ६४ षड्भाववादी कणभुङ्यपतस्थः पप्रच्छ तं स्वीयरहस्यमेकम् । संयोगभाजः परमाणुयुग्माज्जातं हि सूक्ष्मं द्वयणुकं मतं नः ॥ ६५ यत्स्यादत्वं तदुपाश्रितं तज्जायेत कस्माद्वद सर्वविचेत् । नो लत्वं तव वक्तुमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥ या द्वित्वसंख्या परमाणु निष्ठा सा कारणं तस्य गतस्य मात्रा । इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥ तत्रापि नैयायिक आत्तगर्वः कणादपक्षाच्चरणाक्षपक्षे । मुक्तेर्विशेषं वद सर्वविच्चन्नो चेत्प्रतिज्ञां त्यज सर्ववित्वे ॥ अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे । मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसं वित्सहिता विमुक्तिः ॥ 174 श्रीमच्छङ्करदिग्विजये पदार्थभेद: स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता । स ईशवादीत्युदितेऽभिनन्द्य नैयायिकोऽपि न्यनृतन्निरोधात् ॥ [पोडशः तं कापिलः प्राह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा । जगन्निदानं वद सर्ववित्वान्नो चेलवेशस्तव दुर्लभः स्यात् ॥ ७१ सा विश्वयोनिर्वहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती । इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२ ततो नदन्तो न्यरुवन् सगर्वा दत्त्वा परीक्षां व्रज धाम देव्याः । बौद्धास्तथा संमथिताः पृथिव्यां बाह्यार्थविज्ञानकशून्यवादः ॥ ७३ बाह्यार्थवादद्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् । विज्ञानवादस्य च किं विभेदकं भवन्मताद्ब्रूहि ततः परं व्रज ॥ ७४ सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं वितरोऽक्षिगम्यम् । तयोस्तयोर्भङ्गुरताऽविशिष्टा भेद: कियान्वेदनवेद्यभागी ॥ विज्ञानवादी क्षणिकत्वमे पामङ्गीचकारापि बहुत्वमेपः । वेदान्तवादी स्थिरसंविदेके उङ्गीचकारेति महाविशेषः ॥ अथाब्रवीदिग्वसनानुसारी रहस्यमेकं वद सर्वविचत् । यदस्तिकायांत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७ तत्राsss देशिकवर: शृणु रोचते चेजीवादिपञ्चमी मुदाहरन्ति । तच्छन्दवाच्यमिति जैनमनेऽप्रशस्ते यद्यस्ति वोद्धमपरं कथयाऽऽशु तन्मे ॥ दत्तोत्तरे वादिगणे तु बाह्ये बाण कश्चिक्किल जैमिनीयः । शब्दः किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ॥ ७९ नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्र शब्दजालं च नित्यम् । द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः ॥ ८० 175 सर्गः १६ । श्रीमदाचार्याणां शारदापीठवासवर्णनम् शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते । द्वारं समुद्धा ददुध मार्गे ततो विवेशान्तरभूमिभागम् ॥ पाणौ सनन्दनसावलम्ब्य विद्याभद्रासनं तद्वरोदुननाश्वचाल । अत्रान्तरे विधिवधूर्विबुधाय गण्यमाचार्य शङ्करमवा चदनङ्गवाचा ॥ ८२ सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पर्वै क्षे भवान्न चेत्ते । विरिश्चिरूपान्तर विश्वरूपः शिष्यः कथं स्यात् थताग्रणीः सः ॥ सर्वज्ञतैकैव भवेन्न हेतु: पीठाधिराहे परिशुद्धता च । साऽस्ति वा नेति विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥ त्वं चाङ्गनाः समुपभुज्य कलाग्हन्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठः । आरो दुहरापदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ॥ ८५ नास्मिशरीरे कृतकि वषोऽहं जन्मप्रभृत्यम्ब न संदिऽहम् । व्यधायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः । संमानितोऽसौ विबुधैश्च वाण्या गार्ग्य कहोलमुखरैरिव याज्ञवल्क्यः ॥ वादादुर्विनोदपतिकथनसुधीवाद दुर्वारतर्क- न्यक्कारस्वैरघाटी भरितहरिदुपन्यस्तमाहानुभाव्यः । सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ- श्लाघाजांघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८ कुत्राप्यासीत्पली नेक्षणचरणकथा कापिली कापि लीना भग्ना भग्ना गुरुक्तः कचिदजनि परं भट्टपादपवाद: । भूमावायोगकाणादजनिमतमथाभूतवाग्मेदवार्ता दुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभेर्धिन्धिमेतः ॥ काणादः क प्रणादः क च कपिलवचः काक्षिपादपवादः । कायन्त्रा योगकन्या व गुरुरतिलघुः कापि भाट्टपपट्टम् । 176 श्रीमच्छङ्करदिग्विजये कद्वैताद्वैतवार्ता क्षपणकविवृतिः कापि पापण्डखण्ड- ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥ ततो दिविषदध्वनि त्वरितमध्वराशावली- धुरन्धरसमीरितत्रिदशपाणिकोणाहनः । अरुन्द्ध हरिदन्तरं स्वरभरैर्भ्रमत्सिन्धुभि- घनाघनघनारवमवन्धुभिर्दुन्दुभिः ॥ [ षोडशः कचभरवहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् । गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥ ९२ इति मुनिरतितुष्टोऽव्युष्य सर्वज्ञपीठं निजमतगुरुतायै ना पुनर्मानहेनीः । कतिचन विनिवेश्याथर्ण्यशृङ्गाश्रमादौ मुनिरथ वदरीं स पाप कैश्वित्स्व शिष्यैः ॥ दिवान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः । कृपया पदिशन्स्वसूत्रभाष्ये विजितत्या जिन सर्वदर्शनेभ्यः ॥ नितरां यतिराडुडुराजकरमकर प्रचुरप्रसरस्वयशाः । स्वमयं समयं गमयन्रमयन्हृदयं सदयं सुधियां शुशुभे ॥ एवंप्रकरैः कलिकल्मषन्नैः शिवावतारस्य शुभेश्वरित्रः । द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥ भाष्यं भ्रूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं हन्ताहन्ता समन्तात्कुप्रतिनतिकृता खण्डिता पण्डितानाम् । सद्यो विद्यातिताऽसौ विषयविमथनमुक्तिपद्याऽनवद्या श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥ हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा मुक्ताहारपटीरहीरविहर भी हारतारानिभैः । कारुण्यामृतनिझरैः सुकृतिनां दैन्यानलः शुन्यतां ९.३ ९.५ नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥ ९८ सर्गः १६ ] श्रीमदाचार्याणां शारदापीठवासवर्णनम् आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा 177 ९९ विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः । भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता भिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमान्यताम् ॥ पारिकाङ्गीश्वरोऽप्यापदुद्धारकं सेवमानातुलख स्तिविस्तारकम् । पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १०० तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः । तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥ कर्मन्दिवृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् । प्रावर्तयत्प्रथयती यतिनाथकीर्ति याद्यापि तत्र समुदञ्चति तप्ततोया ॥ इति कृतसुरकार्ये नेतुमाजग्मुरेनं रजत शिखरशृङ्गं तुङ्गमीशावतारम् । विधिशतमख चन्द्रोपेन्द्रवाय्वग्निपूर्वाः सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥ १०३ विद्युद्वल्ली नियुतसमुदारब्धयुद्धैर्विमानैः संख्यातीतः सपदि गगनाभोगमाच्छादयन्तः । स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं मन्दारोत्यैः कुसुमनिचयैरनुवन्नर्चयन्तः ॥ भवानाद्यो देवः कवलितविषः कामदहन: पुरारातिर्विश्वप्रभवलयहेतुस्त्रिनयनः । यदर्थं गां प्राप्तो भवमथन वृत्तं तदधुना तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥ १०५ उन्मीलद्विनयप्रधान सुमनोवाक्यावसाने महा- देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति । शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा- दुक्षा शारदवारिदुग्धवरटाहङ्कारहुङ्कारकृत् ॥ १०६ 178 श्रीमच्छङ्करदिग्विजये इन्द्रोपेन्द्रमधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसुनै- दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्बः । आरुह्योक्षाणपत्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः [ षोडशः शृण्वन्नालोकशब्दं समुदितगृपिभिर्धाम नैनं प्रतस्थे ॥ १०७ आदितः श्लोकाः 1843. इति श्रीमाधवीये तच्छारदापीठवासगः । संक्षेपशङ्करजये सर्ग: पूर्णोऽपि पोडशः ॥ इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छङ्करदिग्विजयः समाप्तः ॥ ভ