श्रीमदतिरात्रयाजिप्रणीतम् कुशकुमुद्वतीयनाटकम् श्रीकण्ठस्य शिरस्पदे त्रिजगतीनिष्पत्तिदिव्यौषधे- रश्रान्तभ्रमदभ्र[^1]सिन्धुलहरीमालाभिराद्रीकृते। नूत्नामङ्कुररेखिविकामिव बेहो:[^2] कालाद् बहिनिर्गतां वन्दे चान्द्रमसीं कलामनुकलं बोधाय बोधात्मिकाम्॥२॥ किञ्च-- कल्याणावसरे सहस्मरजिता कल्याणपीठे स्थिता सख्या पार्श्वगया तदात्वपुलकस्वेदौ निरीक्ष्यात्मनः। भीता[^3] किं[^4] प्रति[^5]भूषणोरगततेः तन्मौलिगङ्गाम्भसा सिक्ता किं त्वमितीरिता नत[^6]मुखी ह्रीणा शिवापातुवः॥२॥ [^1]M.Em- ॰भ्रमदर्ग्र॰ [^2]M- विभोः [^3]T2- भूता [^4]M- रुं [^5]T2- परिभूषण [^6]T2- गिरिसुता नम्रता, M.Em. गिरिसुता ही नम्रिता, T. offers a variasst. गिरिसुता नम्रानना अपि च-स्निग्धश्यामलवामभागकबरी भारप्रभानीलिमव्याप्तिप्राप्तकलिन्द(ग्रा)पदशिरोमन्दाकिनीसुन्दरः। फालाक्षिज्वलनोष्मलब्धतपनीभावेन्द्रचूडामणिर्गौरीविभ्रमलिप्रचन्दनसितग्रीवः शिवः पातु वः॥३॥ (नान्द्यन्ते) सूत्रधार:-स्वज्योतिर्मण्डलान्तर्धृत[^1](ति) नयकठिनं मूर्तिमद् ब्रह्मयस्मिन् नीलग्रीवं त्रिनेत्रं निवसति सकलैश्चक्षुषा गृह्यमाणम्। सोऽयं ध्येयस्त्रिसन्ध्यं त्रिभिरपिविधिवद् वर्णभेदेन वर्णैरज्ञानध्वान्तमन्तःकरणगत[^2]मसो खण्डयेच्चण्डभानुः॥४॥ (इति पुष्पाञ्जलिं विकीर्य पञ्चपदानि गत्वा समन्तादवलोक्य) हन्त जगदानन्दकेन कन्दलितं वसन्तेन। [^1]T,T2- घृत [^2]M Em- परिणमत् and परिणतं, T, has a variant प्रमाणस्व, TC.- परिणतं यतः-मन्दस्पन्दनचन्दनाचलमरुद्व्याधूतचूताङ्कुरच्छेदास्वादकषायकण्ठमधुरव्याहारिपुंस्कोकिलाः। उत्सर्पद्भुजदर्पदर्पकजगत्सम्मोहनेच्छामृतप्रादुर्भावितमोहनाकस्त्रकुसुमाक्रान्ता वनान्ता इमे॥५।। (प्रविश्य) पारिपार्श्विक:- अद्य श्रीहालास्यचैत्रोत्सवयात्रायामार्यमिश्रा:[^1] समापतन्ति। सूत्र- किं समापतन्तीति[^2]। अन्योन्य प्रवित[^3]न्यमानविविधालापान्तरालापत- न्नानातन्त्रकृतान्तरखण्डनसमाधानाभिधानोर्मिला। विद्वद्भिर्निखद्यपद्यकृतिनिस्तन्द्रै: कवीन्द्रैर्वृता लब्धेयं परिषन्मया कवयितुर्निस्सीम भाग्योदयात्॥६॥ उक्तं हि मयि स्वकृतिमर्पयता पण्डितम्मन्यदुर्जनसंवादनिर्विण्णेन कविकुलाग्रागण्येन। [^1]T2- मित्राः [^2]T₂ omits ति [^3]T2 प्रवितत्यमान विभावादिस्वादूकृतनवरसास्वादचतुरा यदि स्युः श्रोतारः सुकृतपरिपाकेन मिलिताः। तदा तेषामेव प्रकटय पुरस्तान्मम कृतिं न चेदास्तां गूढा चिरमियमनिष्पन्नसदृशी॥७॥इति। तदेषा परिषदभिमता तस्य कवे: (पुन: परिषदं निर्वर्ण्य सानन्दम्) अथवा किमभिमतेति? सर्वस्यापि प्रार्थितदुर्लभैवैषा। यतः- विद्वद्वादविवादकालयुगपद्विष्फूर्त्यहंपूर्विकानिर्यद्युक्तिसहस्रदर्शितनिजाहीन्द्रावताराकृतिः। कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यलंभूष्णु[^1]र्भाति सभासभाजितमतिः श्रीनीलकण्ठाध्वरी॥७॥ (नेपथ्याभिमुखमवलोक्य) आर्ये इतस्तावत्। (प्रविश्य) नटी- भाव णमो दे। किण्णु खु एण्हिं[^2] तुम्हाण एआरिस को[^3]उहळकारणं। [भाव नमस्ते किन्नु खल्विदानीं [^2]M- विष्णुः [^2]T.C.- दाणिं [^3]T.C.- कोदूहळ युष्माकमेतादृशकौतूहलकारणम्।] सूत्र- अभिमतसभानायकलाभ:। नटी- को णु खु एसो ईदिसो[^1]।[को नु खल्वेष ईदृश:?][^2] सूत्र- अयं किल[^3] भरद्वाजकुलपारावारपारिजातः सकलकलासाम्राज्यसिंहासनाधिपतिस्तत्रभवतः श्रीमतो नारायणाध्वरिण: तपः परिपाककर्ता काव्यानां व्याकर्ता तन्त्राणामाहर्ता क्रतूनां व्याहर्ता नृपसभेषु दिगन्तरविश्रान्तकीर्तिरपारमहिमा मानवाकृतिस्साक्षादेव दाक्षायणीवल्लभः श्रीकण्ठमतसर्वस्ववेदी श्रीनीलकण्ठाध्वरी। नटी- (उरसि हस्तं निधाय) णंएणं ण आणामि[^4]। एसो खु वीअ[^5] संकररूवाणं अप्प[^6]अदीक्खिआणं णत्तरो णळचरि[^7]अणाडअपवद्धा[^8]। [ननु[^9] एनं न जानामि। एष खलु द्वितीयशङ्कररूपाणामप्पथदीक्षितानां नाप्ता नलचरितनाटकप्रबन्धा।] [^1]T.C.- सुन्दिसो [^2] All mss. have स्पष्टम् and omit chāya. [^3]T2- कुल [^4]T2- जाणामि [^5]T.C.-दुवीअ [^6]T1,M,T.C- अप्पय [^7]T1,T2,M- अरिअ [^8]T1, M- पवधा; T2- पवता [^9]M- नन्वो अनन्त; T1- नन्वोतनन्न, T.C.- नन्वेतन्न सूत्र: अथ किम्। नटी- केण कविकम्मेण एसो उवद्ठेओ। [केन कविकर्मणैष उपस्थे।] सूत्र- ज्ञातस्तवाभिप्रायः। स्वाद्नेव रसान् कटुन् विदधतां कर्षन्तु मा मेति च क्रन्द[^1]न्त्येव पदानि वा कवयतां कुर्वन्तु लज्जां च[^2] वा। कुत्रैको मधुरो रसः क्व मधुरा वाणीति नो जीवतां कर्णौ निष्करुणं दहन्ति कवयः कस्मादिवानीन्तनाः॥९॥ इत्यतो नलचरित श्लोकाद्भीतासि। मा मैवम्। तच्छिक्षया परिणतं तदतिप्रियं च तत्कर्ण[^3]धारितमभूदपि यस्य काव्यम्। तेनेदमद्य निरवद्यरसानुसारि तेने नवं प्रकरणं तदिह प्रयोज्यम्॥१०॥ नटी-कुत्त तन्नाडअम्। [कुत्र तन्नाटकम्।] (सूत्रधारः पुस्तकमर्पयति ।) [^1]M, T2- क्रन्दत्येव [^2]M- तु [^3]T1, T2- ॰कण्ठ॰; कर्ण is the variant shown in M नटी- (गृहीत्वा तत्र तत्र वाचयन्ती) पंच[^1]विहवत्थुभरिअं कज्जावत्थाणपंच[^3]असमेदं। रूवअमिदमणुरुवं उवद्ठिदाए विअद्धगोद्ठीए॥११॥ [पञ्च[^4]विधवस्तुभरितं कार्यावस्थानपञ्चकसमेतम्। रूपकमिदमनुरूपमुपस्थिताया विदग्धगोष्ठ्या।।:] अस्स अ णाम कुसकुमुज्जईअं त्ति। तेण धीरोदत्तो अस्स णाऊओ त्ति दस्सिदं[^5]। [अस्य च नाम कुशकुमुद्वतीयमिति। तेन धीरोदात्तोऽस्य नायक इति दर्शितम्।] सूत्र- आर्ये एवमे[^6]वैतत्— वैदर्भीरीतिरेकैव चतस्रोऽप्यत्र वृत्तय:। अङ्गी रसोऽस्य शृङ्गारः केनेदमुपनीयताम्॥१२॥ नटी- को णु किण्णुमहेओ एअण्णाड[^5]अप्पणेदा। [को नु किन्नामधेय एतन्नाटकप्रणेता।] [^1]T has the following passage which appears to be a gloss. पंचचेहि? साहणेहिस्संईहि मंडि अं अवत्थाहि। [पञ्चविधसाधनैः सन्धिभिः मण्डितमवस्थाभि:।] [^2]T2-omits from विहवत्थु to पंचअसमेदं [^3]M- पंच असहिदं [^4]T2 omits विधवस्तुमस्तिं [^5]M,T- दंहिदं [^6]M,T1.- एवमेतत् [^7]M, T- उपगीयताम् [^8]T.C.- एदन्नाडअ सूत्र- नन्वस्यैव सभानेतुरनुजन्मा विदितव्रेदितव्यः कविलोकमित्रमतिरात्रयाजी। नटी- जुज्जइ जुज्जइ। को अण्णो ईरिस णिरवज्जसरसकविकम्मणिम्मादा? स इव पदूरवंसादि कत्तारो त्ति रसिअगोट्ठीसु जोहुस्सइ[^1]। एआरिसो कवीन्दो अम्हे कुसळा पओअमग्गेसु। रूवअमिदमणुरूवं तह विण सामाजिष्सु वीमासो[^2]॥२३।। [युज्यते युज्यते। कोऽन्य ईदृशनिवधसरसकविकर्मनिर्माता? स किल प्रनिरघुवंशादिकर्तेति रसिकगोष्ठीषु जोघुष्यते। एतादृश: कवीन्द्रो वयं कुशला: प्रयोगमार्गेषु। रूपक मिदमनुरूपं तथापि न सामाजिकेषु विश्वासः॥] सूत्र- आर्ये साधु भणिनं। एवमेवैतत्। नार्थसन्दर्भसौन्दर्यान्न कवीन्द्रगुणादपि। विद्वद्भयः स्वदते काव्यं कटाक्षेण विना विधे॥२४।। तथापि नायं विचारः प्रकृते[^3] प्रबन्धे यदयमम्बिकाप्रसादनिष्पन्न:। [^1]T.C- जोहुज्जदि [^2]T.C- विस्ससो [^3]M- प्रकृत° नटी- कहं[^1] विअ। [किथमिव।] सूत्र- कविरयं[^2] कालिदास इव स्वयमम्बिकादास[^3]तया तदाज्ञामन्तरेण नि:विश्वासमपि न करोति। किं पुनरेतादृशं प्रबन्धम्। नटी- जइ एव्वं भअवत्ता[^5] कअत्था[^6] एदे। किं अण्णं सव्वं सुहडि[^7]अं। [यद्येवं भगवन्तः कृतार्था एते। किमन्यत्सर्वं सुघटितम्।] सूत्र-(कर्णं दत्वा आकर्ण्य सानन्दम्) मुरजवादनबिरुदशाली रङ्गशेखरः शृङ्गाररसोचितां मधुरां[^8] मार्जनामारचयति। तथाहि- स्निह्यत्पोहणहृत्यमर्दलमुखोद्गीर्णस्वनानन्तरः श्रोतॄणामकरञ्जनोऽनुरणनाकारोऽपि तारोदयः । षड्जादिस्वरवर्ग एष मधुरोदग्रः समग्रक्रमः केकिक्रौञ्चपिकादिकूजितसमः कर्णे[^9] ममाघूर्णति॥१५॥ [^1]M,T1- कही [^2]M2-इयं [^3]T2- वासतया [^4]M- निवासमपि [^5]M- भअवता [^6]T.C.- किअत्था [^7]M- सुहडिदं: T2- सुहसिअं [^8] This is the eminded reading., M.T,T.C.- माधुरीं; T2-मधूनि [^9]T2- कण्ठे (पारिपार्श्विकमवलोक्य) मारिष किमेतदाब्धम्? किमु निर्ज्ञातं प्रयोक्तव्यं रूपकम्? पारिपार्श्विक:- निर्ज्ञातमिव। सूत्र- कथमिव? पारि- नान्दीभिस्तावद् भावस्य पञ्चपदक्रमणेन च पातालं भुवनं[^1] चाधिकृत्य प्रवृत्तं शृङ्गारोत्तरं रूपकं प्रयुयुक्षितमिति विज्ञाय तदनुगुणा मार्जनारब्धा। सूत्र- साधु भोः साधु। चतुरमुत्प्रेक्षसे। तत् किं विलम्बेन। आर्ये प्रस्तुतं वसन्तमधिकृत्य गीयतां तावत्। नटी- तह।[^2] [तथा।] (इति गायति।) चळपळळवहत्थाओ महुपरवेहिं कुहुमुहकुहुहिं। अण्णोण्णेण भणंते काणणळच्छीवसंतळच्छी ओ॥१६॥ [चलपल्लवहस्ते मधुपरवैः कुहूमुखकुहूभिः। अन्योन्येन भणतः[^3] काननलक्ष्मीवसन्तलक्ष्म्यौ।।] सूत्र- (सानन्दन्) आर्ये तवैतेन गीतेन परस्परेण सल्लपन्यौ द्वे देवते सुचिते। तदयोध्याधिदेवताया नागरिकाया: सरय्वधिदेवतायाः सागरिकायाश्च भूमिकापरिग्रहेण [^1]M, T1, T.C.- भुवं [^2] All mss. have तहत्ति [^3]T2,T.C- भणंतः पात्रद्वयं प्रवेशनीयमित्यर्थतो निर्दिष्टं भवति। ततस्तदनुरूपं प्रवर्तामहे। (इति निष्क्रान्ता: सर्वे) ॥प्रस्तावना॥ (ततः प्रविशति सागरिकाद्वितीया नागरिका।) साग- भगवति नागरिके शतं नमांसि। नाग- अभिमतेन युज्यस्व। साग- (सानन्दं स्वगतम्) ईश्वरव्याहारा एते यत् पुनरमी मनोगतार्थान्वयिनो यदृच्छालापाः। आचक्षते हि महान्तःयदृच्छाव्याहृतैरेव सर्वभूतान्तरस्थितः। दयालुश्चिन्तयानानामुत्तरं वदतीश्वर:॥२७॥इति। तत् सिध्यति मन मनोरभ:।(प्रकाशम्) किमन्यदभिमतं मम[^1] सख्यास्तव यथापुरमवस्थानात्। नण- अपि पश्यसि ममेदानीमीदृशीं दुखस्थाम्। साग- (सखेदं हस्तमुत्तानयन्ती) कुत्र[^2] ते तादृशं रूपं यत्सत्यमध्यक्षयन्त्यपि त्वामद्यसेयमिति प्रत्यभिज्ञातुं न शक्नोमि। [^1]T1,T2- मत् [^2]M,T1- अत्र नाग अयि परदुःखखेदिनि तवावस्था कीदृशी। साग- अहं तु जडेति[^1] सर्वजनीनमेतत्। नाग- अतस्तव दर्शनादेव शीतलितं मदन्तःकरणम्। तदास्तामेतत्। किं मम तत् स्थावरं रूप दृष्टवतीभवती। सौधानि सकुलतृणाङ्कुरसंवृतानि प्लक्षप्ररोहजटिला मम सालभित्तिः। (इत्यर्धोक्ते स्मरणमभिनीय) त्वं चापि पार्श्वयुगलीपरिवर्धमाननीरन्ध्रकाननवृता[^2] कथमीक्षसे माम्॥२७॥ साग- सत्यमेतत्। तथापि तु जानामि। नैसर्गिकस्वचपलत्वनियन्त्रभावात् केलिप्लवङ्गनिरवग्रहचेष्टितेन। क्रीडाशुक्रास्तत इतस्तरमागता मे शंसन्ति ते प्रतिदिनं करुणामवस्थाम्॥१९॥ अद्य पुनरागमनावसरे तदेव तावकीनं रूपमालक्षयन्ती किमपरमहयन्तरङ्गधृतमङ्गारमक्ष्णोरपि समर्पितवती। [^1] The adds सर्व [^2]M has gap in the place of वृ नाग- (स्वगतम्) मयीयमतिस्निग्धा दृश्यते। इयन्तमपि कालमियन्मयि स्निग्धेति नेनां जानामि। अतोऽस्यै सर्वं निवेदनीयम्। (प्रकाशम्) सखि सागरिके[^1] पश्च कालस्य दुर्विपाकम्। इक्ष्वाकोर्मणिसद्म विस्मयवलच्छाखामृगाघट्टन- त्र्युट्यत्कृत्रिमपुत्रिका विगलितैराकीर्यते मौक्तिकै:। वैदेह्या परिवर्धितं भगवता रामेण यत्पालितं हा हन्त प्रमदावनं तदधुना दावाग्निना दह्यते॥२०॥ इक्ष्वाकुणा प्रथमतो जनिताहमस्मि तद्वंशजैरपि नृपैरथ पालिताहम्। रामेण चास्मि गमिता महतीं प्रतिष्ठां मामीदृशीं न विदुरध हि ते नरेन्द्राः॥२१॥ ममैतावदपि दुःख[^2]जातमद्य क्षणादुन्मूलितमिव। यदद्य त्वमीदृशीमेव मामाच्छिद्येव मम मानसाद्दु:खमनुभवन्ती साक्षात्कृतवती। आचक्षते हिविधिना विपरीतेन चरतां विषमे पयि। मैत्र्या मित्रेण दृष्टानामाधिराशु विनश्यति॥२३॥इति। [^1]M- नागरिके [^2]T2,TC.- दुःखतः साग- अलमलमतीतराजकानुस्मरणेन। इक्ष्वाकुस्तव यः पिता तदनु ये मान्धातृमुख्या नृपा यः साक्षादथ राक्षसक्षयकरो रामाकृतिर्माधव:। एकीकृत्य हि तानिमान् कुतुकिना धात्रास्वयंनिर्मितः संरक्षन् क्षितिमण्डलं विजयते यस्मादिदानी कुश:॥२३॥ नाग- एवमेतत्। कस्तत्र सन्दिग्धे? यस्य माता जगन्माता यत्पिता जगतामपि । तस्य त्रैलोक्यमान्यस्य माहात्म्यं केन वर्ण्यते॥२४॥ साग- तत् केयमपरिपूर्णता तव मुखप्रसादस्य? नाग- स एवावामुपेक्षत इति। साग- सत्यमुक्तं भवत्या। क उपायस्तस्य[^1] वशीकरणाय? नाग- तमेव हि विचिन्वत्यपि नोपलभे। (पुरोऽवलोक्य) ते हि नागकन्यके नागलोकादिहागच्छतः। ते खलु मनुष्यदर्शने साध्वसादन्यतो यास्यतः। तदावां तिरस्करिणीविद्यया संवृते तयोः स्वैरालापान् श्रोष्याव:। (उभे तथा कुरुतः।) [^1]T.C.- तत् (ततः प्रविशतः कुमुद्वतीचेट्यौ।) प्रथमा- हळा कळावद कुत्त तुमं पट्ठिदासि। [सखि कलावति कुत्र त्वं प्रस्थितासि।] कलावति- फणावइ अम्हाणं भट्टिदारिआ कुमुज्जई अयुज्झाणअरपोसा[^1]दंमि कीडइ। तत्त पट्ठि[^2]दम्हि। [फणावति अस्माकं भर्तृदारिका कुमुद्वती अयोध्यानगरप्रासादे क्रीडति। तत्र प्रस्थितास्मि।] फणावति- कहं भट्टिदारिआ ताद[^3]पादासूदो सज्झ[^4]समुज्झिअ रतिं विभूल्लो(ळ+ओ) अमागआ[^5]। [कथं भर्तृदारिका तातपादेभ्य: साध्वसमुज्झित्वा रात्रिमपि भूलोकमागता।] कला - अम्हाणं ल्लो(ळ+ओ)अमि[^6] दुळळहं जोण्हाविहारं उद्दिसिअ तादपादाणुमदा सहस्सेण सहीजणेहिं विअणं अयुज्झाणअरं पट्ठिदा। तं वि किं ण आणासि। तुमं कुत्त[^7]पट्ठिदा। [अस्माकं लोके दुर्लभं ज्योत्स्ना [^1]M- पासादंहि, T.C.- पासादे [^2]T1, T2, Te- पट्ठिदंमि [^3]M, T1, T2- तातपादासूतो [^4]M- सद्धस [^5]T.C.- आगदा [^6]T.C.- ल्लोए [^7]M1,T1- कहिं विहारमुद्दिश्य तातपादालनुमता सहस्रेण सखी[^1] जनेन अयोध्यानगरं प्रस्थिता। तदपि किं न जानासि त्वं कुत्र प्रस्थिता।] फणा- अज्ज भट्टिदारिया सर[^2]ऊसे[^3]अदम्मि हारंणिक्खिविअ ण्हाणं कदुअ[^4] तं उण विम्हरती आगआ। तदण्णेसणस्स णिग्गदम्हि। सो विण ळद्धो। सच्चं सो साअरिआहत्थळाग्गो। सा वि दिव्वाहरणं त्ति णिअसामीणे रण्णे तं[^6] समप्पइस्सादि। [अद्य भर्तृदारिका सरयूसैकते हारं निक्षिप्य स्नानं कृत्वा तं पुनः[^7] विस्मरन्ती आगता। तदन्वेषणाय निर्गतास्मि। सोऽपि न लग्ध:। सत्यं स सागरिकाहस्तलग्गः। सापि दिव्याभरणमिति निजस्वामिने राज्ञे तं [^8] समर्पयिष्यति।] कळा - तदेहि झत्ति भट्टिदारिआए णिवेदअम्हो । [तदेहि झटिति[^9] भर्तृदारिकायै निवेदयाव:।] ( इति निष्कान्ते।) [^1]M,T1,T2- सखीजनैः [^2]M,T2,T.C- सरयू [^3] सेअदंहि [^4]T1,T2- कादुण [^5]T1, 2 - सागरिआ [^6] momits तं [^7] All mss. omit पुन: [^8]M1, T1, T.C. omits तं [^9]All mss. omit झटिति., M has a gap (सागरिकानागरिके तिरस्करिणणीं तिरस्कुरुतः।) साग- श्रुतं श्रोतव्यम्। कुश[^1]वशीकरणे चायमेवोपाय:। नाग- क इव। साग- स्त्रीरत्नं कुमुद्वती नागलोकान्निर्गत्य सरयूपरिसरे सञ्चरतीति तस्मै वक्तव्यं द्रुतमयोध्यामभ्येहीति । नाग- (समुखभङ्गम्) नायमुपाय:। गभीरस्य निसर्गेण विशेषाद् रामनन्दनः। कथं[^2] स्त्रीशब्दमात्रेण: वश्यो अस्माकं भविष्यति॥२५॥ साग- तर्ह्यावां किमेवमेव स्थास्याव:। नाम- (क्षणं विचार्य) अयमुपाय:। साग-(सानन्दम्) आप्यायय कर्णपुटीम्। नाग- प्रथमतः कुमुद्वती कुशाय प्रदर्शनीया। त्रैलोक्येअपि तस्या रूपं न दृष्टचरं हि। लोकरीतिश्चेयमीदृशी- अनुरूपाङ्गनारूपसकृदालोकनादपि। हृदयं विद्रवेत् पुंसां नवनीतमिवानलात्॥२६॥ तथाहि निष्काम: सोऽपि कामारिरुत्तमाङ्गीं तिलोत्तमाम् । दृष्टकाम: पुराकल्पे पञ्च वक्त्रोतोऽजनि स्वयम्।।२७।। [^1] T omits कुश [^2]M- कथं ततश्च कुमुद्वतीदर्शनं कुशावतीस्थितस्य कुशस्य दिव्यचक्षु: प्रदानेन साधनीयम्। अन्यच्च फणावत्युत्प्रेक्षितप्रकारेण हारस्त्वया यदि लब्धस्तदा सर्वं सुघटितम्। साग-- सोऽपि दैवान्मया लब्धः। नाग-- नोद्घाटनीयं कुत्रापि। तिष्ठतु त्वय्येव। समय[^1] उपयोक्ष्यते। तदावां कुशावतीमेव यास्याव:। (इति निष्क्रान्ते।) ॥मिश्रविष्कम्भः॥ (ततः प्रविशति शय्यागृहे मञ्चोपविष्टो राजा विभवतश्च परिवार:।) राजा—कर्तव्यं कृतमेव यत् क्षितिभृतामाधैर्मुनीन्द्रैः स्मृतं भ्रातॄणां सुहृदां प्रवृत्तिरमला दैनन्दिनी श्रूयते। पौरा जानपदा जनानियमिता धर्मेषु किं मे परं कण्डूया भुजयोर्न शाम्यति रिपोः कस्याप्यनुन्मेषतः॥२८॥ प्रथमा चामरग्राहिणी- (सपरिहासम्) णं अय्येण सैसवं [^1]T2-समयमुपेक्ष्यतं [^2]T.C.- अनुन्मेष्यतः; M- अनुत्मेषतम् चिअ गुरुजणेसु दोकंडू परिहदा। [नन्वार्येण शैशव एव गुरुजनेषु दोःकण्डू- परिहृता।[^1]] राजा-- अनुचितं तत् किञ्चिदस्माकं बालचेष्टितमिति नोद्घाटनमर्हति। द्वितीया-- बाळचेट्टिअं ति अय्यस्स तस्सिं विपरक्कमे[^2] के अमेवरि[^2]पुण्णदा। दाणिं खु- चक्कीभवंत[^3]धणु[^5]हंचवमाणबाण- णिस्संगादारिअमहंकरीन्दबिन्दे। संमोहणत्थपरिमुद्धसमत्थसण्णे जण्णे तुहाण जणआं वि सविह्मओ सो॥२९॥ [बालचेष्टितमित्यार्यस्य तस्मिन्नपि पराक्रमे केयमपरिपूर्णता। तदानीं खलुचक्रीभवद्धनुश्चयवमानबाणनिस्संगदारित महाकरीन्द्रवृन्दे। संमोहनास्त्रपरिमुग्धसमस्तसैन्ये जन्ये तव जन‌कोऽपि मविस्मयः सः॥] [^1]T2- परिवृता [^2]M- पराकमे [^3]M, T2- अपरि [^4]M, T1- भवद् [^5]T2- धणु [^6]M- महाकरीन्द्र, T1, T2- महंतकरीद राजा-- (कराभ्यां कर्णौ पिधाय) प्रकृत्यैव मुग्धा निरङ्कुशवचना च स्त्रीजातिः। मुग्धे मा मैवम्। निष्पत्राकृतसालसप्रकगिरिमारन्ध्रवातायनप्रेमाविष्कृतवक्त्रवीरकमलासन्दृष्टदोर्विक्रमः। उन्मज्जन्मुखषण्डखण्डनहृताहङ्कारलङ्काधिपः कस्मिन् विस्मयतामसौ[^1] हरधनुर्वेतण्डकण्ठीरव:॥३०॥ नह्यस्मादृशाः प्राकृत मनुष्यास्ते। किन्तु लोकरक्षायै स्वयमवतीर्णः सकलभुवनाध्यक्षः स साक्षादेव पुण्डरीकाक्षः। सीतापि मम माता लक्ष्मीरेव। परन्त्वस्माभिरभाग्येन पितरौ न कदापि युगपदनुभुतौ। प्रथमा—अज्ज तुंहाग रज्जपरिवाळनको सर्वं पिअरा ण पुळोअंते। [अद्य युष्माकं राज्यपरिपालन कौशलं पितरौ न पश्यतः।] राजा-- वर्तितुं पितुराज्ञायां मातुश्च स्थातुमन्तिके। यौवराज्यमनुप्राप्तुं नास्माभिश्चरितं तप:॥३१॥ [^1]M,T,T2- अयं [^2]T1- वेदण्ड॰ (प्रविश्य) प्रतीहारी-- जेदु महाराओ। तत्तभवंतस्स[^1] वसिद्ठस्स सीसो संगरवो सज्जा[^2] घरट्ठिओ[^3] राआ कहं विअ उवट्ठेओ[^4] त्ति संदिहाणो दोरंमि वट्ठइ। [जयतु महाराजः तत्रभवतो वसिष्ठस्य शिष्य: शार्ङ्गवः शय्यागृहस्थितो राजा कथमिवोपस्थेय इति सन्दिहानो द्वारे वर्तते।] राजा-- अनुचितमेतत्। कथं वसिष्ठशिष्यस्थापि प्रवेशे देशकालापेक्षा? त्वरितं प्रवेश्यताम्। प्रतीहारी-- तह[^5]। [तथा] (इति निष्क्रम्य शार्ङ्गरवेण सह प्रविश्य) इदो इदो भवं[^6]। [इत इतो भवान्।] शार्ङ्गरव:-- (स्वगतम्) अहो रामकुमारस्य कुशस्य गुरुजनानुवर्तनमाहात्म्यं यदेवमत्रभवान् प्रत्यक्षीकृतपरमार्थोऽप्यरुन्धतीजानिरस्मै श्रेय:काङ्क्षी प्रतिसन्ध्यमपि समाधिमास्थाय शुभाशुभनिमित्तानि पर्यालोचयति। मम तु राजोपजीविब्रह्मबन्धोरिव मन्त्रपाठमपि विहत्य [^1]M- भवंतस्य [^2]T2- गज्जा [^3]M- वर° [^4]T2- omits उव [^5] All mss read तहंति [^6] All mss. have स्पष्टम् and om.chāya. केवलं निद्राविधातः संवृत्त: अनतिलङ्घ्यानि हि गुरुवचनानि। (प्रकाशम्) अत्र महाराजः। (राजा शार्ङ्गरवं निरीक्ष्य मञ्चादवतीर्य तिष्ठति।) शार्ङ्गरवः-- (त्वरितमुपसृत्य) जयत्वैक्ष्वाकः। राजा-- नमांसि शार्ङ्गरवाय। कश्चित् भगवत्पादानां सायन्तनः समाधिर्निवृत्त:। शार्ङ्गरव:-- त्वद्गुणाकृष्टचित्तस्य वसिष्ठस्य महात्मनः। समाधिरिति कोऽन्योऽस्ति शुभानुध्यानतस्तव॥३२॥ चामरग्राहिणी-- को अण्णो अय्यस्स गुरुचरणादो मादापिअरो भादा[^1] मित्तं परं देवं[^2] अ । [कोऽन्य आर्यस्य गुरुचरणान्माता पिता भ्राता मित्रं परं दैवं[^3] च।] राजा-- मुग्धे तत् कस्मै कथनीयम्। निरुपाधिकरुणाशालिनो हि मयि गुरुचरणा:। शार्ङ्गरव किं काचिदस्ति गुरुणामाज्ञप्ति:? अनुगृह्णीष्व माम्। शार्ङ्गरव:-- अद्य तव दिव्यजनदर्शनसम्भाषणादि भावेष्यति।तच्च शुभोदर्कं भविष्यतीत्येतावती गुरुणामाज्ञप्ति:। [^1]T2- भावा [^2]T.C.- देवअं [^3]T.C – दैवतं राजा - धन्योऽस्मि। तदवहितो निद्राविहीनश्च वर्त इति विज्ञापनीयास्ते। (इति शार्ङ्गरवं विसृज्य पुनर्मञ्च उपविशति।) (नेपथ्ये) अब्बम्हण्णं अब्बम्हण्णं। (अब्रह्मण्यम् अब्रह्मण्यम्।] राजा-- (कर्णं दत्वा) प्रायेण देव्याः कान्तिमत्याश्चन्द्रपूजावसाने लब्धमोदको निवर्तमानो माढव्यवटु: कौतुकास्तमितलोकतन्त्रः सन् त्रस्यति पथि यं कञ्चिदपि तमसि स्पृष्ट्वैव। तस्यायमार्तश्शब्दः। भो भो कञ्चुकिन् भीतो माढव्य:। त्वरितं हस्ते गृहीत्वा तमानय। कञ्चुकी-- यदाज्ञापयति देव:।(इति निष्क्रान्तः।) [ततः प्रविशति भयकम्पितावयवः कञ्चुकिगृहीतहस्तो विदूषकः। कञ्चुकी राजसमीपे तं विसृज्य गतः।) विदूषकः—परित्ता[^2]अदु महाराओ। [परित्रायतां महाराज:I] राजा-- बालिश किमकाण्डे तवैतादृशं भयस्थानम्। [^1]T2- स्पृष्ट्वेव [^2]M, T1, T2- परित्तादु विदू-- कहइस्सं दाव। पुडमं पुळोएदु[^1] देवीए दिण्णा मोदआ[^2] वट्ठंते ण वेत्ति। [कथयिष्यामि तावत्। प्रथमं पश्यतु देव्या दत्ता: मोदका वर्तन्ते न वेति।] (इत्युत्तरीयं विस्तारयति।) राजा-- चपल बालिश, तव मोदकानां न कापि क्षतिरस्ति। भण निश्शङ्कम्। विदू-- अज्ज देवीए मज्झ कुज्जवामणसामाण्णेण मोदआ दिण्णा। विसेसेण[^4] ण दिण्णा। णद्धि देवीए बम्हणेसु वीसासो। महाराअ पस्स मे बम्हणत्तणम्। अज्जव्व दे दारंतरपरिग्गहो होदु। [अद्य देव्या मम कुब्जवामनसामान्येन मोदका दत्ता:। विशेषेण न दत्ता:। नास्ति देण्या ब्राह्मणेषु विश्वासः। महाराज पश्य मे ब्राह्मणत्वम्। अधैव ते दारान्तरपरिग्रहो भवतु।] राजा—(दक्षिणाक्षिस्यन्दमभिलक्ष्य स्वगतम्) फलिष्यति प्रायेण ब्राह्मणस्य वचनम्। (प्रकाशम् चामर [^1]T1,T2,T.C.- पुळेएदु [^2]T2 – मोदमुवद्विते [^3] All mss. have स्पष्टम् and omit chāyā. [^4]M, T1, T2 omit विसेसेण ण दिण्णा ग्राहिणीमालोक्य) कुपितो माढव्यो। यथापुरमस्मै मोदका देया इति देव्यै मदाज्ञामभिज्ञापय। (चामरग्राहिणी पराची हसति।) राजा-- माढव्य किमेतेनैव क्रोधेन महान्तमाक्रोशमकार्षीः। विद्व-- णहि णहि। अण्णं एण्व तत्त कारणं। [नहि[^1] नहि। अन्यदेव तत्र कारणम्।] राजा-- किमिव? विदू-- अहं खु मोदअं[^2] घेत्तूण[^3] तुह समीवमाअच्छन्तो अई[^4]न्दिष्ण केण विभूदेण ताडि[^5]ओम्हि। तदो सज्झसेण मए उन्घोसिअं। [अहं खल मोदकं गृहीत्वा तव समीपमागच्छन्नतीन्द्रियेण केनापि भूतेन[^6] ताडितोऽस्मि। ततस्साध्वसेन मयोद्घोषितम्।] राजा-- (स्वगतम्)संवदतीव शार्ङ्गवोदितम्। तन्मन्ये दिव्यो जनः कश्चिदन्तर्हित: समेत्य मदवसरं प्रतीक्षते । माढण्यश्च मोदकलोभ[^7]सम्भ्रमेणेतस्ततः [^1] All mss. read स्पष्टम् and omit chāyā [^2]T2- मोदआ [^3]M- घेंकुण,T.C.- गहिअ [^4]M- अदीन्दिण्ण [^5]T2- तांधिओह्मि [^6]T2- भूतो [^7]T1,T2- ॰लाभ॰ प्रचलन् दिव्यजनेन सङ्घट्टित आसीत्। (प्रकाशम्) माढव्य न भेतव्यम्। न कदाप्यत्र[^1] भूतशङ्का। विदू-- अज्ज तुए संग[^2]अस्स मह का संका। [अद्य त्वया सङ्गतस्य मम का शङ्का। राजा-- (स्वगतम्) विविक्तता सम्पादनीया। विविक्तप्रिया हि देवा:।(प्रकाशम् समन्तादवलोक्य) अतीतो निशीथ:। माढव्यवर्जं सर्वेऽपि निर्यान्तु। कवाटोऽपि बध्यताम्। (सर्वे तथा कुर्वन्ति) विदू-- महाराज किं णु खु अहं ण पेसिदो। [महाराज[^3] किं नु खल अहं न प्रेषित:।] राजा-- (सपरिहासम्)बहिर्गतस्य तव मोदकान् ग्रहीष्यन्तीति। (ततः प्रविशति आकाशयानेन सागरिकाद्वितीया नागरिका।) नागरिका--(पुरतो राजानं निर्वर्ण्य अपवार्य) सखि सागरिके[^4] सत्यममुमध्यक्षयन्ती साक्षादेव [^1]M, T1, T.C.- अतर्कितशङ्का [^2]T2,T.c.- संगदस्स [^3]M, T1, T2 omit chāyā [^4]M- नागरिके दाशरथिं पश्यामि। आत्मा[^*] वै पुत्र इति हिश्रूयते। सत्यैव श्रुतिरेषा। पश्य पश्य- सा कान्तिर्दलितेन्द्रनीलशकलप्रस्पर्धिनी सा स्थितिः सिंहस्येव दुरासदा वपुषि तद्रूपं जगन्मङ्गलम्। तच्चास्य स्मितवीक्षणादिकमहो दोषैरुपाधिस्थितै- र्यद्बिम्बप्रतिबिम्बयोरपि महद्वैष[^1]म्यमालक्ष्यते॥३३॥ साग-- (नासोपरि तर्जनीं निधाय) किन्नैष दाशरथी रामः। अहो विधेर्निर्माणचातुरी। (उभे राजानमुपसृत्य) जय जय रामकुमार कुश कुशाग्रबुद्धे। राजा-- (निर्वर्ण्य स्वगतम्) एते हि प्रोषितभर्तृके देवकुलपालिके। यतः स्नानानुलेपरहिते त्यक्तविभ्रममण्डने। तथापि तेजसा स्वेन दीप्यमाने खमाश्रिते॥३४॥ (प्रकाशम् सप्रश्रयमञ्ञ्जलिं बध्वा) तत्रभवतीभ्यां "युवाभ्यामैक्ष्वाकस्य कुशस्य प्रणामाः। नाग, साग—राजन् दीर्घायुरभिमतेन युज्यस्व। [^1]M, T1- वैलक्ष्य [^*]T2- Kausitaki. II.ii आत्मा वै पुत्रनामासि। विदू[^1]-- (स्वगतम्)अज्ज मण्णे अय्यस्स महत्तो दिव्वजणसंवादो होजो। ता झत्ति मंचस्स परसदेसं गदुआ मोदअं निरवसेसं खादऊण आअ[^2]च्छामि। [अद्य मन्ये आर्यस्य महादिव्यजनसंवादो भविष्यति। तत् झटिति मञ्चस्य पार्श्वदेशं गत्वा मोदकं निरवशेषं खादयित्वा आगच्छामि।] (तथा[^3] करोति।) राजा-- के युवां दिव्यवनिते किमर्थो वामिहागमः। कभ्यतां[^4] लभ्यतो वृत्तं युक्तं यदि कृतं हि तत्॥३५॥ नाग-- (अपवार्य) अपि श्रुतानि रामकुमारस्य गभीरार्थानि वचनानि? साग-- आकारसदृशी बुद्धिरिति हि लक्षणविद आचक्षते। नाग-- (प्रकाशम्) आवां हि स्वयमेव स्वरूपनिवेदनाय लज्जावहे। राजा-- तत्कथं मया ज्ञायताम्? नाग-- अयं तव ज्ञानोपाय:। [^1]M adds स्व [^2]T.C- आअच्छंहि [^3] All mss. add प्रकाशम् [^4]T2 omits from कथ्यतां to वचनानि [^5]T2- स्वरूपं पश्यतु भवानिदानीं ज्ञानदृशा मत्प्रसादतः सर्वम्। अथवा दृग्वैशद्यं दिव्यं चक्षुर्मयाद्य ते दत्तम्॥३५।। राजा--(साश्चर्यम् क्षणं ध्यात्वा परितो विलोक्य) दूरे हि वाङ्मनसयोर्दिव्यचक्षुर्माहात्म्यम्। तथाहियन्[^1]मेरोरधिगह्वरं यदवनीगर्भस्थितं यन्नभस्यत्युच्चैर्यदतीन्द्रियं यदपि वा गुप्त क्वचित्केनचित्। तच्चान्यच्च[^2]करोदरामलकवत् पश्माम्यहं चक्षुष। मातस्त्वद्दयया किमन्यदधुना सर्वज्ञ एवास्म्यहो॥३६।। अस्माच्च चक्षुषो मानुषाणां चक्षुः काण[^3]प्रायं मन्ये। यतः- स्वसन्निकृष्टमुद्भूत[^4]रूपमभ्यर्णगामि यत्। महदालोकमध्यस्थं तदेवं वेत्त्यनावृतम्॥३७॥ नाग-- सत्यमेतत्। किमिदानीमप्यावां न जानासि। राजा-- इदानीं युवयोर्विशेषणसाक्षात्कारात् भवत्यौ जानामि। विस्मयेन तु विस्मृतकरणीयोऽस्मि। नन्वस्मत्कुलराजधानी नागरिका त्वम्। इयं च सा सरयूः सागरिका। तधुवां युवयोः कुमारोऽभिवादये। [^1]M- यन्मेघोरदिगह्वरे; T.C.- यन्मेघोरदिगंबरं [^2]M- यच्चान्यद्य [^3]M- प्रियं [^4]T2- ॰उद्धृत॰ (इत्युत्थायोभे प्रणमति।) नाग, साग-- वात्सलयेन तं बाहुभ्यामुत्थाप्य शिरस्युपाघ्राय) वत्स[^1] सत्यमावयो: कुमारोऽसि। यत्तव स्पर्शादवयोः प्रस्नुतमुखावुरोजौ। मनश्च महान्तमानन्दसागरमवगाहते। राजा-- कुलवृद्धाश्चिरस्याद्य कौसल्याद्या मयेक्षिताः। साक्षात्कृताथवा सीता शरीरद्वयधारिणी[^2]॥ ३७॥ विद्-- (ससम्भ्रममुत्थाय) किण्णु खु एदे तुम्हाणं कुळदेवदे सा[^3]अरिआणाअरिए ता वन्दणिज्जे। [किन्नु खलवेते युष्माकं कुलदेवते सागरिकानागरिके तद्वन्दनीये।] (इत्युपसृत्य ते प्रणमति।) साग, नाग-- (सपरिहासम्) प्रतिदिनं लब्धमोदकत्रारो भूयाः। विदू—पिअं णो विअं[^4] अ एसा तुज्झाणं आसी[^5] मज्झ[^6] मोदअकप्परुक्खस्थ रेण्णो[^7] वि खेमं अक्खिवइ। [प्रियं नः। द्वितीयं च एषा युष्माकमाशी: मम मोदककल्पवृक्षस्य राज्ञोऽपि क्षेममाक्षिपति।] [^1]T2 adds तत् [^2]T2- धारिण: [^3]T1-सायारिआणायारिए [^4]M- विअय्य [^5] All mss., read आसीसा [^6]T.C.- मह [^7]M, T1, T2- राआणस्सवि साग, नाग-- अन्यूनप्रतिभोऽयं वटु:। कथमन्यथास्य राजपरिग्रहो भवेत्। राजा-- युवयोरागमनप्रयोजनं तु ज्ञातव्यमवशिष्यते। नाग-- तज्ज्ञानं च ते सुकरमेव। राजा-- कथमिव? नाग-- आवयोः स्थावरं रूपं पश्य। राजा-- तत् कुत्र द्रष्टव्यम्? नाग-- नातिदूर एव दक्षिणपूर्वस्यां दिशि। राजा-- (तत्र दृष्टिं व्यापारयन्) इह महारण्यमध्ये कापि पूरी काचिन्नदी चदृश्यते। नाग-- तद्द्वयं[^1] सम्यगालोकम्। राजा-- (पुनर्निरीक्ष्य) निःस्वाहानम[^2]उक्तिदेवयजनं सत्रे समाप्ते यथा रङ्गस्थानमिव प्रनृत्यरुचिरं पाने बहिर्निर्गते। आरवेटप्रियलुब्धकाश्रितमिव प्रध्वस्तसत्त्वं वनं दृष्टं द्रष्ट्टं[^6]मनोऽनुतापजनकं रूपं तव स्थावरम्॥३१॥ [^1]M. T1, T.c. - वयं [^2]All mss – नममोक्ति। नमउक्ति is the emended reading. [^3]M, T1- दृष्ट॰ तथैव सागरिकाया अपि। कष्टमयोध्यायाश्च विशीर्णप्रायाया निर्वर्णनमपि। साग-- (अपवार्य) नागरिके अलमन्यदन्यत् प्रदर्श्य। किं कलावत्युक्तं विस्मृतवती भवती। तत्प्रकृतनिर्वृत्तये ज्योत्स्नाविहारिकुमुद्धतीमण्डितं प्रासादं प्रदर्शय[^1]। नाग-- (अपवार्य) सखि सम्यगवबोधितास्मि। (प्रकाशम्) तिष्ठतु वत्स राजभवनादिकम् इक्ष्वाकुणा तव कूटस्थेन निर्मितं नवरत्नप्रसादं कीदृश पश्य। राजा-- (तमालोक्य तत्र चक्षु: प्रतिहतिमभिनीय) नागरिके किमत्र मेघेन विनैव विद्युतः सञ्चरन्ति। (पटाञ्च लेन लोचने निर्मृज्य पुनर्निरीक्ष्य) सत्यमत्र दिव्यस्त्रियो विहरन्ति। नागरिके किमित्र सन्निधानादागत्य क्रोडन्ति नाक[^2]कान्ताः। नाग-- नाककान्ता नागकान्ताश्च कदाचित्। एताः का इति निर्णीयन्ताम्। राजा-- निर्णीतमेव। दृश्यन्ते खलु प्रासादसन्निहिते नन्दने देवकान्ताः। न तास्वेतादृशं सौन्दर्यमस्ति [^1]T2- किदृशं पश्य for प्रदर्शय [^2]M- नागकान्ता: यादृशशमासां प्रासादगतानाम्। तत्पारिशेष्याद् नागकान्ता एता:। किञ्च सरयूमारभ्य यावन्नवरत्नप्रासादं पिपीलिकापङ्क्तिरिव स्त्रीपङ्क्तिदृश्यते अधस्ताच्च सरय्वा:। सूर्याचन्द्रमसौ विनैव सहजः कोऽपिप्रकाशो महान् क्रीडत्सारसहंसिकानुरसिताः प्रत्यालयं दीर्घिकाः। किञ्चात्यप्सरस:स्त्रियो न च जरामृत्यूस्थियाः संपदो निक्षेपा इव जेधसः कतिपये लोका इमे सुन्दराः।।४०।। तत्सरयूनार्गेण पातालान्निर्गता एता अन क्रीडन्ति। नाग-- एवमेतत्। सम्यगुत्प्रेक्षसे। कुमुद्वती नाम कुमुदस्य नागधिनेतु:कन्यका। त्रैलोक्यजीवरत्नं स्वानु- रूपवरार्थिनो कर्मभूमिरियमिति सरयूतीरमागत्य गोरीमाराधयति। तत्प्रसङ्गेन च कदाचित् विविक्ततया प्रासादे क्रीडति। राजा-- (प्रसादम:) हो निभृतं निर्वर्ण्य स्वगतम्) तारास्वि व चन्द्रकला चन्दनलतिकेव मलयवतरीषु। कान्तासु चासु मध्ये कान्त्यां कान्तातिरिच्यते क्वापि।।४१।। तटिदिव विवलन्ती दृष्टिचित्ते हरन्ती घनकलकलकाञ्चिर्मञ्जुनञ्जीरघोषा। वरतनुरिह केयं कन्दुकं ताङ्यन्ती विहरति रतिनेतुर्धीरलक्ष्मीरिवाग्रे॥४२॥ त्रैलोक्यजीवरत्नं सेव्युक्त्या उपमानविधया सेयं कुमुद्वतीति[^3] निर्णीयते। इन्दीवरप्रतिममक्षियुगं मुखं तु राकेन्दुकान्तमनयोरुचितो[^4] हि योगः। वक्षोरुहौ मदनपूर्णसुवर्णकुम्भौ रम्भापि सा कथमुपेष्यति साम्यमस्या:॥४३॥ किं च अस्याः सक्ता क्वचिदवयवे दृष्टिरेषा मदीया मग्ना तस्मिन् न चलति ततः कृष्यमाणा परत्त। चेत: काङ्क्षत्यखिलमपरं द्रष्टुमङ्ग प्रसङ्गान्मध्ये लग्नस्तदह[^5] मनयो: सम्भ्रमी[^6]बम्भ्रमीमि।।४४।। (क्षणं विचार्य) कोऽयमकाण्डे मम चित्तविकार:। विशिष्य गुरुजनसन्निधाने। [^1]T2- विवलन्ती [^2]T1, T2, T.c- वीरलक्ष्मी [^3]M omits इति [^4]M- रुचिर:, °M.Em- रुचिभि [^5]T2- अयं [^6]M- सम्भ्रमो नाग-- (अपवार्य)सखि सागरिके पश्य पश्यरोमाञ्चकञ्चुकितमड्‌ममुष्य सद्य: स्वेदश्च कण्ठ[^1]मभितः स्तिमितः च दृष्टिः। पश्यत्यसौ तदवशः फणिराजराजकन्यां पञ्चेषुजीवनकलामिति तर्कयामि।।४५।। साग—अनितरसाधारणरामणीयकनीराजिताया: कुमुद्वत्या: दर्शनेन कस्य वा पशुप्रायस्यापि नभवेदनङ्गविकार:। किं पुन: प्राज्ञस्य[^2] यूनोऽस्य राजकुमारस्य। तदस्य द्वागुरालग्न एष:। नाग-- तथैव ममापि प्रतिभाति। विदू-- (अपवार्य) किं णु तुसं णाअकण्णआवागुरालग्गोऽसि। तुह तह[^3] विआरा दीसंदि। [किं नु त्वं नागकन्यकावागुरा लग्नोऽसि तव तथा विकारा दृश्यन्तै।] राजा-- (अपवार्य) बालिश नायमवसरः[^6] अस्मत्पुरः[^7] तदनुयोगस्य क्षणं जोषमास्स्व। (धैर्येण विकारमन्यथयति।[^8]) [^1]T1,T.c.- कर्ण॰ [^2]T2- प्राज्ञः [^3]M- तहवि:; T1, T.c.- तहहि [^4]M- दीसत्ति; [^5] All mss. omit chāyā [^6]M.Em.adds अनुयोगस्य [^7]M omits from here upto आस्स्व [^8]T1- अन्यथयामि (प्रकाशम्) नागरिक पश्य- प्राकारसौधपरिधाद्युपधातवेदः पातालवासिजनदर्शनविस्मयश्च। कालाद् बहोस्त्त्रदनवेक्षणतश्च लज्जा मच्चेतसः कति करोति विकार भेदान्॥४६॥ नाग-- इयन्तमपि कालं त्वदन्तिकमनागते आवामेव हि आवामुपेक्षितवत्यौ कस्तवास्मदनवेक्षणापराधः। साग-- (अपवार्य) सखि पश्यसि तस्य स्वमान्मथविकारगोपनचातुरीम्। नाग-(अपवार्य) अयि गोपयितुमागत्य प्रकाशितमनेन। न ह्यकारणिकगोपनादन्यत् प्रकाशनमस्ति। सिद्धं नः समीहितम्। तदेनमितोऽपि मोहयिष्यामि। (प्रकाशम्) वत्स नागकान्ता: किं प्रासादादवरूढाः उत तत्रैव क्रीडन्ति। राजा-- इदानीं ताः प्रासादभित्तिषु पश्यन्त्यो वाचयन्ति किमपि। नाग-- प्रासादभित्तिषु हि भवद्वंश्या इक्ष्वाकुप्रमुखा [^1]T2 omits किं लिखिताः। तत्सन्निधौ च नूतनतया रामः सीता भवानपि लिखिताः। तत्तन्नामानि च तत्रैव लिखितानि। प्रायेण तानि वाचयन्त्येता:। राजा-- (पुनर्निरीक्ष्य स्वगतम्) सत्यमिदानीं कुमुद्वती मत्प्रतिच्छन्द्रं पश्यति। सख्यश्च तां परिहसन्ति। न ह्यतीतराजकदर्शन परिहास: प्रवर्तते। इदानीं च क्रीडन्ती संस्मरन्तीव मध्ये मध्ये कुमुद्वती। दृष्ट्वा मां वाचयत्याख्यामाकृष्टापि सखीजनै: ॥४७॥ तन्मध्ये मय्यनुरक्तैषा। नयनवलनैरर्धोदञ्चत्सगद्गदभाषितैः प्रणयपिशुनै: पश्यन्ती मामपाङ्गतरङ्गिन्तै:। स्मरपरवशा निष्कम्पाङ्गी यदद्य कुमुद्वती स्फुरति पुरतो मच्चित्रस्य स्वयं लिखितेव सा॥४७॥ (पुनर्विमृश्य) अहो मम स्मरपारवश्यमहिमा। यदस्यां मदनुराग एव मयि तस्या अपि महान्तमनुरागमुत्पादयति। सर्वेऽपि हि चित्रं कुतूहलेन पश्यन्ति। साक्षादेव तु सा मां दृष्ट्वा कथं भवति न ज्ञायते। (प्रकाशम्) नागरिके बालिका: यत्किश्चित् कुर्वन्ति। तदास्ताम्। अहो इक्ष्वाकुप्रासादोऽप्यनाथ इव सर्वसाधारणो वृत्त इति मे विषाद:। विदू-- णहि सो पासादो साहारणो जाओ। कुमुज्जई हि तत्त वट्टइ। सा हि दे मुद्धण्णा महिषी होज्जा। [न हि स प्रासादः साधारणो जात:। कुमुद्वती हि[^1] तत्र वर्तते। सा हि ते मूर्धन्या महिषी भविष्यति।] राजा-- मूर्ख किं प्रलपसि। क्व पातालं क्व भूलोक:। अनयोश्च कः सम्बन्धः। विदू-- तुए च्चिअ हि[^1] संन्धो कओ। सो वि किं परेण बोहगिज्जो। अज्ज नए तुह दारंतरपरिग्गहो पडिण्णादो। णहि बम्हणण्वाहारा अण्णहा होंति। [त्वयैव हि सम्बन्धः कृतः। सोऽपि[^3] किं परेण बोधनीय: अद्य मया तव दारान्तर परिग्रहः प्रतिज्ञात:। न हि ब्राह्मणव्याहारा अन्यथा भवन्ति।] नाग—सत्यमुक्तं विदूषकेण। युक्तं च तत्। अनुरूपो हि राजकुमुद्वत्योः समागमः। [^1]M- खलु [^2]T.C.- अ [^3]M, T1 omits अपि, T2- omits सोऽपि राजा-- किमनेन यथाप्रतीतमसंबद्धप्रलापिना वटुना। तदास्तमेतत्। युवयोः प्रसादेन दिव्यदृशा द्रष्टव्यं दृष्टमेव। एतावदितः कर्तव्यमवशिष्टम्। ततश्च-युष्मदिच्छानुरोधेन तामयोध्यापुरीमहम्। नवीकृत्य प्रवेश्यामि द्रक्ष्यामि सरयूमपि॥४९॥ साग, नाग-- सिद्ध‌मावयो: समीहितेन। इतः परमावां तवैवेष्टं साधयिष्याव:। ततश्च कालेषु त्वया स्मृते सत्यौ स्वयमस्मृते वा कार्यानुगुणं सन्नि[^1]धास्यावः। वत्स सुखमास्स्व। (इति गिरान्तर्हिते।) राजा-- (क्षणं विस्मयस्तिमितः स्थित्वा) माढव्य पश्य पश्यदिव्यजनान्तर्धानादन्तर्हितमस्तु दिव्यचक्षुस्तत्। नैसर्गिकमपि नयनं क्व नु मम यातं कुमुद्वत्या॥५०॥ हा प्रिये कुत्र गतासि। विदू-- किं भवं उम्मत्तो विअ पळ[^2]वति। कुत्त दे गअंसहजं वि गहीरत्तणम्[^3]। [किं भवान् उन्मत्त इव प्रलपति। [^1]M- सन्धास्यावः [^2]T2- पळवतु; M - पळवसि [^3]M – गंहीरत्तणन् कुत्र ते गतं सहजमपि गभीरत्वम्[^1]। राजा-- (अश्रुतिं नाटयन्) दिशि दिशि विकिरन्ती वृन्दमिन्दीवराणां चतुरमनुसरन्ती कन्दुकं तं भ्रमन्तम्। स्मरकृतशरवृष्टिस्पर्धिनी दृष्टिरस्या निपतति किमिदानीं मत्प्रतिच्छन्द केऽपि॥५१॥ विद्र-- (राजानं हस्तेन चालयन्[^2]) किं णु दे कुमुज्जई अत्तणो, चक्खुस्सवत्तणेण णेत्तेण सह तुह सोत्तं वि घेतूण[^3] पट्ठिदा। [किन्नु ते कुमुद्वती आत्मनश्चक्षु: श्रवस्त्वेन नेत्रेण सह तव श्रोत्रमपि गृहीत्वा प्रस्थिता।] राजा-- (सनिर्वेदम्) किं भवान् करस्थजीवरत्नापहरणेन दुःखितं मां[^*] भूयोऽपि दुःखाकरोति? विदू—तुह जीवरयणं[^4] तुश्च्चि अ हिअए धारिअं[^*]। णहि परेण केण वि अवहदं।[तव जीवरत्नं त्वयैव हृदये धारितम्। न हि परेण केनाप्यपहृतम्।)] [^1]M- गम्भीरत्वम् [^2]M- लालयन् [^3]T.C.- गोहिअ [^4]M- जीवरअणं [^5]M- तुअच्चिअ; T.c.- तुए एव [^* ]T₂ omits from मां to धारिअं राजा-- (विहस्य) सत्यमेनां निरन्तरं चिन्तयामि। बालिश तल्लाभोपायमेव कमप्यलभमानो विषीदामि। विदू-- दिण्णो दे[^1]देवेणण्व तत्तोवाओ। [दित्तस्ते दैवेनैव तत्रोपाय:।] राजा-- (सानन्दम्) क इव? विदू-- सा खु कुमुज्जई साणुराअं तुह पडि[^2]च्छन्दअं दिट्ठवई। [सा खलु कुमुद्वती सानुरागं तव प्रतिच्छन्दकं दृष्टवती।] राजा-- किमयमेवोपाय:? मुग्धोऽसि किं मत्प्रतिच्छन्दकानुराग एव मय्यनुरागः? विदू—किण्णु तुमं मुद्धो विअ पण्डितो विअ विभामसे। सा किं आएअण विअ चित्त[^3]म्मि अणुरत्ता। न उण तारिसरूवत्ते पुरिसम्मि? [ किन्नु त्वं मुग्ध इव पण्डित इवापि भाषसे। सा किमचेतन एवं चित्रे अनुरक्ता। न पुनस्तादृशरूपवति पुरुषे?] राजा-- तथापि तत्सादृश्यद्वारैव तस्या मय्यनुरागः संपादितः। न साक्षात्। अथवा साक्षादेव सा मय्यनुक्तास्तु। तथापि कथं नाग[^4]कन्यकानयो 8 सम्बन्धो [^1]M omits दे [^2]T2- पडिशदअं [^3]T.C चित्ते [^4]T1,T2,M.Em- नागकन्या भवेत् । विदू-- सो वि साअरिआणाअरिआपसादादो होज्जा। [सोऽपि सागरिकानागरिकाप्रसादात् भविष्यति।] राजा-- इदमगाधे मदना[^2]तङ्कमहोदधौ मज्जतो मम काशकुशावलम्बनम्। (स्मृतिमभिनीय)[^3] कनत्ताटङ्काङ्कं कमलविमलं कान्तमतुलं स्मितज्योत्स्नालब्धारुणिमपर भागाधरदलम्। नवाम्भ: प्रक्रीडच्छफरनिभट्टग्विभ्रमशतं कुमुद्वया वक्त्रं कुत इव निरीक्षे पुनरहम्॥५२॥ अपि च- क्वणन्मञ्जीरालङ्कृतचरणसञ्चारचणया तटित्कोटिज्योतिर्जटिलनिटिलस्थाभरणया। कुमुद्वत्या मध्याकलितजनसन्देहपदया विना वर्तिष्येऽहं कथमिव जगज्जीवकलया॥५३॥ विदू-- आदि भूमिं गओ वअस्सस्स मअणुम्मादो एसो[^4] वासं[^5]गन्तरेण विसुमरणिज्जो। [अितिभूमिं [^1]All mss. read स्पष्टम् and omit chāyā. [^ 2]M- मदनान्तकं [^3]M adds राजा [^4]T.c. omit एसो [^5]T2- वासंभंतरेण, T.C.- सव्वासंगांतरेण गतो वयस्यस्य मदनोन्माद: । एष[^1] व्यासङ्गान्तरेण विस्मरणीय:। (नेपथ्ये वैतालिकों) प्रथम:-- अद्य हि निस्तन्द्राः कवयन्ति काव्यरासिकाश्चेतः प्रसादोदयात् कान्ताभिस्तरुणा विहृत्य रजनीं निद्रातुमुद्युञ्जते। शय्योत्थायमनुस्मरन्ति गिरिशं धन्या भवान्या समं सङ्केतस्थलनिर्गतास्तत इतो निर्यान्ति जाराङ्गना:॥५४॥ द्वितीयः-- सायं सङ्कुचदम्बुजोदरगता नीत्वा निशां क्लेशवः सम्प्रत्युन्मिषितेषु लेषु सुखमुत्प्लुत्य द्विरेफार्भकाः। त्यक्त्वा पद्मवनंधिगित्युपगता नीलोत्पलानांवनं बध्यन्ते पुनरत्र तन्मुकुलनैः कोऽयं विधेः प्रक्रमः ॥५५॥ राजा-- (आकर्ण्य) अविदितयामैव प्रभाता रजनिः। तद्गच्छ सन्ध्यामुपास्स्व। वयमपि साधयामः। (इति निष्क्रान्तौ ।) ॥ कुमुद्वतीदर्शनं नाम प्रथमोऽङ्कः॥ [^1]M, T1, T.C.- omit एष and have स व्यासङ्गान्तरेण [^2]M - उद्युञ्जये द्वितीयोऽङ्कः (ततः प्रविशति सुमन्त्र:।) सुम-- क्षुद्रक्ष्मारुहखण्डनेन सरयूपर्यन्तभूमिः कृता रम्या हर्म्यगृहादिनिर्मितिलसद्रथ्याप्ययोध्यापुरी आखेटैरसकृन्मृगाश्च निहता हिंस्रा मया तेन किं सुस्थस्तत्र कुशः कदापि न कुशावत्याः स्मरत्यादृतः॥१॥ (क्षणं विचार्य) अथवा दिव्यजनदर्शनप्रभृति कुश: स्ववशीकृत भूमण्डलोऽपि विनैर कारणमस्वस्थो दृश्यते। (नेपथ्ये) हद्धि हद्धि। णद्धी एत्थ मे को वि परितादा। [हा[^1] धिक् हा धिक्। नास्त्यत्र मे कोऽपि परित्राता।] सुम-- आर्तस्य माढव्यस्यायं शब्द:। (ततः[^*] प्रविशति तुरगकण्ठलग्नहस्तो लम्बमानो विदूषक:।) बिंदू-- परित्ताअदु परित्ताअदु। [परित्रायतां परित्रायताम्।] सुम-- (विदूषकनवतार्य) नभेतव्यं ब्राह्मणवटो[^*] कस्तवैतादृशं तुरङ्गमर्पितवान्। विदू-- अज्ज पहादम्मि राआ मिअ[^2]आववदेसेण मणो[^3]जवं णाम अस्सोरस आरुहिअ मं उण एदं दासीए पुत्तअं आरोह[^4]अंतो पट्ठिदो। (दीर्घं निःश्वस्य) एस अ [^1] All mss. have हद्धीति खेदे and omit chāyā [^2]T.C- मिगआ [^3]M,T1,T2- मनो [^4]M- आरोहयंतो [^*]T₂ omits from तत: to ब्राह्मणवटो दासीए पुत्ताओ[^1] मं धेत्तूण[^2] धावंतो मज्झेमग्गं बडबं दट्ठूण विअडं विक्कममाणो चत्तारिवि पदाइ विक्खिवंतो एत्थ आगओ। स अ राआ कुत्तेत्ति ण मुणीअदि। [अद्य प्रभाते राजा मृगयाव्यपदेशेन मनोजवं नामाश्वोरस-. मारुह्य मां पुनरेतं दास्या:पुत्रकमारोहयन् प्रस्थित:। एष च दास्याःपुत्रको मां गृहीत्वा धावन् मध्येमार्गं बडवां दृष्ट्वा विकटं विक्रममाणश्चत्वार्यपि पदानि विक्षिपन्नत्रागतः। स च राजा कुत्रेति न ज्ञायते।] सुम-- राज्ञा साधु बहुमतोऽसि। विदू--अज्ज तुह दंसणेण किमवरं जीविओम्हि। णिंदंति हि[^3] महन्ताओ[^4] राअ[^5]सेवं।[अद्य तव दर्शनेन किम परं जीवितोऽस्मि। निन्दन्ति हि महान्तो राजसेवाम्] सुम-- सत्यमेव। अतिप्रीतिरनर्थाय प्रीत्यभावे कुतः फलम्। तस्मान्मध्यमरीत्यैव सेव्यो राजा मनीषिभिः॥२॥ तदास्तामेतत्। माढव्य तवाहं किलाद्य जीवितप्रदाता। तत् त्वां पृच्छामि किञ्चित्। रहस्यमपि तन्निवेदनीयम्। [^1]T2- पुत्तए [^2]T.c.- गहिअ [^3]M,T1,T2 omic हि [^4]T2- महंता [^5]T2- शओ विदू—उवअत्तुणो उवआरो कादव्वो। तदो किं दे णिवेदणिज्जं। [उपकर्तुरूपकार: कर्तव्यः। ततः किं ते निवेदनीयम्।] सुम-- किं तव सखा यथा पुरं न लक्ष्यते। किं नागकन्यावृत्तान्तः पौरै: क्वचित् क्वचिदुच्यमानः सत्य एव? विद्व-- (सर्वतो[^1]ऽवलोक्य नीचैः) सच्चो एव्व सो। तेण हि तस्य रत्तिंदिवं वि णिद्दाहारा ण रोअंते। भवं[^2] वीओ[^3] राअति मए कहिअं। राअकज्जाणि गूहणिज्जाणि। ता मए उत्तं ति कुत्तवि णो पआसणिज्जं। [सत्य एव सः। तेन हि तस्य रात्रिंदिवमपि निद्राहारा नरोचन्ते। भवान् द्वितीयो राजेति मया कथितम्। राजकार्याणि गूहनीयानि। तन्मयोक्तमिति कुत्रापि न प्रकाशनीयम्।] सुम-- (विहस्य) वयमपि राजद्वारि संचरामो बहो: कालात्। तन्न भेतव्यम्। राजा बहिर्गत इति त्वया[^4] निवेदितम्। तन्मया बहिर्व्यापर्तव्यमस्ति। क: कोऽत्र भो:? गच्छाम। (इति निष्क्रान्तः।) विदू-- राआ कुत्तेति[^5] विआरणिज्जो।(पुरोऽवलोक्य) एसा खु साअरिया[^6]दुईआ णाअरिआ आअच्छदि। [राजा कुत्रेति विचारणीयः। एषा खलु सागरिकाद्वितीया नागरिका आगच्छति।] [^1]T. adds नीचै: [^2]M,T1,T2, T.c – भवंतो [^3]T.C.- दुवीओ [^4]M, T1- मया, T.c.- कृत्वा [^5]T1,T2- कुत्तत्ति। [^6]M1, T1, T2- सागरिआविईआ हैं Y (ततः प्रविशति सागरिका द्वितीया नागरिकां1) नाग- सखि सागरिक कुमुद्धती प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त तत्र किं विलम्बसे! (ततः प्रविशति सागरिकाद्वितीया नागरिका।) नाग-- सखि सागरिके कुमुद्वती प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त तत्र किं विलम्बसे। साग-- सा प्रवृत्तिरधिगता। कुमुद्वती च वशीकृता। नाग-- (सानन्दं स्वहस्तेन तस्या हस्तं ताड्यन्ती) सागरिके जितमस्माभिः। कथय कथय की दृशः प्रकार:। साग-- फणावती हारविचारणाय मदन्तिकं प्रत्यहमायाति तन्मुखेन हारप्रवृत्तिमुपदिशन्तीव कुमुद्वतीसमीपं गतास्मि। तस्यै[^*] च हारमदत्वैव पञ्चषदिनेष्वेव हारं त्वां प्रापयिष्यामीति वदन्त प्रत्यहमपि तत्र गत्वा तस्या: सखीषु मूर्धन्यास्मि[^*]। नाग-- जडाहनित्युक्तवत्या कियत् साधितं भवत्या। ततस्ततः- साग-- सा च तव प्रासादे ज्योत्स्नाविहाराय गता। तत्र प्रतिमागतं वत्समालोक्य तदाप्रभृति महान्तं मदनातङ्कमनुभवति। मया च तद्विज्ञायशिल्पिभिः कारितं वत्सस्य चित्रपटं तस्यै रहस्यमर्पितम्। ततश्च सा मयि परमं विस्रम्भमादधाना सानन्दं चित्रपटमादाय मयि पश्यन्त्यामेव पश्यन्ती प्रणयार्धकूणितदृशा मन्दस्मितं कुर्वती चुम्बन्तीव मुखे मुखं निदधती जलपन्त्यनलपं वचः। धृत्वा दर्पणमग्रस्तदुदरे चित्रं स्वमप्युत्सुका दर्शं दर्शमहो चकार कति सा ज्ञाता न ता विक्रियाः॥३॥ [^*] T2- omits from तस्यै to मूर्धन्यास्मि एवमनुरक्ता वत्से कुमुद्वती। नाग-- वत्सश्च दिव्यदृष्टिदृष्ट मत्प्रासादस्तदाप्रभृति कुमुद्वतीनिविष्टहृदयः सन्निकृष्टमपि जनं न जानाति। ततश्च तयोःसमागम: सकृदन्योन्यदर्शनमात्रेण सुकरः। आवयोश्च कृतार्थता सुलभा। साग-- (समुखभङ्गम्) अद्य कश्चिदनयोरन्योन्यदर्शनं प्रत्यन्तराय इव श्रूयते। नाग-- (सोद्वेगम्) सकीदृशः? साग-- मध्यमलोकपाल: कुशो महाराजः पुरेव नवीकृत्य पुरीमयोध्यामध्यास्त इति पाताले महान् प्रवादः। ततश्य कुमुदेन कुमुद्वतीमाहूय नेतःपरं मनुष्यसङ्कीर्णे सरयूतटे गन्तव्यं त्वयेति सा कथितेति तत्सखीभिरेव कथितम्। नाग-- (सविषादन्) क इवात्रोपाय:? साग-- तिरस्करिणीविद्यया तयोः[^*] समागमः साधनीयः। नाग-- चोरवृत्तिरनुचिता। रामकुमारस्य महाराजस्य सोऽपि नानुनन्यते। साग-- (पुरोऽवलोक्य) प्रहृष्टा फणावती मामन्विच्छन्तीव समायति। तत् प्रहर्षणकारणं पृच्छावः। (तत: प्रविशति प्रहृष्टा फणावती।) फणा—णनो भअवदीणं। [नमो भगवतीभ्याम्।] [^*] The order of the matter from here till the end of missaviskambha (p.-136) is different in T2. साग, नाग-- स्वस्ति कुमुद्वत्यै, तुभ्यमपि। फणा-- दाणिं कं (किं) वि सोद्धि(त्थि) व्व[^1] आसि। [इदानीं(किमपि[^2] स्वस्तीव आसीत्)] उभे—कथमिव? (फणावती सागरिकामुखं प्रेक्षते।) साग-- नागरिकाप्यस्मास्वेकैव। निःशङ्कमावेद्यताम्। फणा-- अज्ज णो णाअएपण कुमुएण[^3] स अं एव्व विआरिअ आरद्धं गोरीए आराहणं अवस्सं समावणिज्जं त्ति कुमुज्जइं आहूअ[^4] अस्सिं एकस्सिं दिणे सरयूअऽम्मि कम्मजोग्गे अम्हाण कंचुइसोधिए निस्सळाए गदुअ गोरीए आराहणं समाविअ आअच्छ त्ति आणतं। सा अ भट्टिदारिआ आअच्छदि। [अद्य नो नागराजेन कुमुदेन स्वयमेव विचार्य आरब्धं गौर्या आराधनम् अवश्यं[^5] समापनीयमिति कुमुद्वतीमाहूय अस्मिन्नेकस्मिन् दिने सरयूतटे कर्मयोग्ये अस्माकं कञ्चुकिशोधिते निःशलाके गत्वा गौर्या आराधनं समाप्यागच्छेत्याज्ञप्तम्। सा च भर्तृदारिका आगच्छति।] साग,नाग-- प्रियं नौ। [^1]T2- सोद्धिवअणि [^2] All mss have for किञ्चिदासीदिव स्वस्ति [^3]M- कुमुदेण [^4]M- आह्वय [^5]T1 T.c.- अवश्य॰ फणा-- साअरिए अज्ज एक्कवारं वि तस्स रण्णो दंसणं साहणिज्जं[^1]। अण्णहा ण जीविस्सामि त्ति कुमुज्जइ पडिव[^2]अं वदइ। तह तुए संविहादव्वं। एदं एव्व वत्तुं समागअम्मि। [सागरिके अद्य एकवारमपि तस्य राज्ञो दर्शनं साधनीयम्। अन्यथा न जीविष्यामीति कुमुद्वती प्रतिपदं वदति। तथा त्वया संविधातव्यम्। एतदेव वक्तुं समागतास्मि।] साग-- नागरिके कुमुद्वत्यै वत्ससन्दर्शनं त्वया कार्यम्। वत्सस्त्वदंशः कुमुद्वतीव्यापारस्तु मदायत्तः। नाग—मया प्रातरेव मृगयाण्याजेन तदृर्शनाय सरयूतटे वत्सः क्वचित् स्थापितः। त्वया किल तत्र विघ्न: प्रसञ्जितः। दैवात् तदेव सुविहितमासीत्। विदू-- (सर्वमिदन कर्ण्य उपसृत्य) णाअरिए कुत्त मे वअस्सो वट्टइ। [नागरिके कुत्रने वयस्यो वर्तते।] नाग-- एकाकी तव वयस्यस्तिष्ठति। तत्समीपं याहि। विदू-- सो कुत्ते[^3]ति हि नए पुच्छिदं। कहं उत्तरं[दिण्णं][^4] सः कुत्रेति हि मया पृष्टन्। कथमुत्तरं दत्तम्।] नाग—कुमुद्वत्यागमनसम्भ्रमेण त्वदुक्तं न श्रुतन्। तर्हि मया सदैव याहि। [^1]T.c.- साजणिज्जं [^2]M.- पाववअं [^3]T2- कुत्तति [^4]All mss. read दत्तम् [^5]All mss. omit chāyā. साग-- (अपवार्य) यथा नागराजकञ्चुकी[^1] न वेत्ति तथा प्रवर्तस्व। नाग-- तथैव संविधास्यते। तत्र ते मा विचारः। त्वया तु चतुरं प्रवर्तितव्यम्। ( इति निष्क्रान्ताः सर्वे1) (मिश्रविष्कम्भः) (ततः प्रविशति विविक्ते सरयूतटे लतागृहस्थः कामयमानावस्थो नागरिकाद्वितीयो राजा विदूषकश्च।) राजा-- (स्वगतम्)विद्युद्वल्लीमिव विगलितामभ्रगर्भाद् वलन्तीं प्राणिप्रेङ्ख[^2]न्मुखरवलयां वेणिकावेष्टिताङ्घ्रिम्। काञ्ची[^3]नादै: स्थगितहरितं कन्दुकं ताडयन्तीं कान्तामिन्दीवरवरदृशं किं नु पश्यामि भूयः॥४॥ अपि च-- किमु कुमुदकुमार्या कन्दुकं ताडयन्त्या हृदयमपि म[^4]दीयं तद्गतं नाड्यते स्म। यदिदमुदितवेगं कन्दुकेनैव सार्धं भ्रमति वपुषि तस्यास्तत्र ततार्धलग्नम्॥५॥ [^1]M- किन्नरकी [^2]M- प्रोङ्खन् [^3]T1,Tc- क्रौञ्ची [^4]M- तदीयं नाग-- (सर्वतो निर्वर्ण्य) दिव्यजनसञ्चार योग्योऽयं प्रदेशः। तथाहि-- पश्येतः परितः स्रवन्ति सरयूवेण्यः प्रसन्नोदका[^*]- स्ता एता निकषा कदम्बवकुळप्रच्छायशीताः शिलाः। पर्यन्तेषु लतागृहाश्च सिकतापूर्णा विकीर्णा नवै: पुष्पै[^*] कल्पशतस्थितेरपि दिवि श्लाघ्योऽत्न वासः क्षणम्॥६॥ विदू-- सच्चं एव्व एदं। जइ एत्थ मोदआस्सण्णिहिदा। [सत्यमेवैतत्। यद्यत्र मोदका: सन्निहिता:।] राजा-- तव तथैव। मम तु- आयान्तीं मदमन्थरं प्रियसखीहस्तावलम्बालसां स्वैशलापकृतस्मितां सललितं संप्रेक्षमाणां पुरः। पश्येयं यदि पश्यतः परिणमत्तारुण्यसारश्रियं तामस्मिन् सरयूतटे सकृदपि श्रेयः किमस्मादपि॥७॥ नाग-- अद्य ते कुमुद्वतीदर्शनमचिरादेव भविष्यति। कृतमत्र संशयेन। एषा हि सूक्ष्मदर्शिनी कन्यकाद्वितीया कुमुद्वतीं प्रतिपालय वर्तते। सा किल ब्राह्मणकात्यायनीयोगनिष्ठेति कुमुद्वत्याः परम[^1]विश्वासभाजनम्। समीप एव सा तरुतिरोहितास्ते। राजा-- (सकुतूहलम्) माढव्य तत्र गच्छता भवता तत् संभाषणेन कुमुद्वतीप्रवृत्तिरुपलभ्या। [^1]T1- परमं, T2- परं [^*]T2 omits from प्रसन्नोदका: till पुष्पैः विदू-- तह[^1]। (इति त्वरितमुत्थाय कात्यायनीसमीपं गत्वा) सुण्ह[^2]दंसिणी णमो दे।[तथा। सूक्ष्मदर्शिनि नमस्ते।] सूक्ष्म-- आयुष्मान् भूया:। विदू-- (तस्याः कन्यकां दृष्ट्वा स्वगतम्) वअसा[^3]रुवेण अ ममाणु[^4]रुवैसा। गोरी वण्ण वयोहिं[^5] कुत्तवि[^6] विअळत्तणं णंगे[^7]। एसा विरहि[^8]अदोसा कण्णा देव्वादणण्णपुव्वाअ॥७॥ (प्रकाशम्) भअवदि किं दाणिं एत्थ पडिवाळेसि।[^9] [वयसा रूपेण च ममानुरूपैषा। गौरी वर्णवयोभ्यां कुत्रापि[^10] विकलत्वं नाङ्गे। एषा विरहितदोषा कन्या दैवादनन्यपूर्वा च॥ भगवति किमिदानीमत्र प्रतिपालयसि।] सूक्ष्म—कुमुदकन्यकां कुमुद्वतीम्। सापि सन्निहितैव। इतः किल दूरे कञ्चुकी सपरिवारः समायाति। (विदूषकः तत्कन्यां पश्यन्नास्ते।) [^1] All mss. have तहत्ति and omit chāyā [^2]M- सुण्ण [^3]T1- वयसा रूपेण अ [^4]M- ममारूवा एषा, T1- ममानुरूवा एसा, T2- ममारूवा एसा [^5]T- वएहि, T2- वएहित्तं [^6]M- तुत्तवि विगळत्तणं, T2- कुत्तए विअळत्तणं, [^7]M,T,T.C- णांगे [^8]M- विरहिद [^9]M- पडियाळेसि [^10]M- तत्रापि सूक्ष्म-- (सप्रत्यभिज्ञं विदूषकमालोक्य) त्वं खलु महाराजस्य कुशस्य हृदयनिर्विशेषः सखा माढव्यः। तत् किमत्रागतोऽसि। विद्व-- णित्तक[^1]न्मणि[^2]मित्तं णई[^3]अडंमि आ[^4]अदंहि। तदणु अ तुह कण्णअं दट्ठूण[^5] तुमं वि सण्णि[^6]हिदेत्ति तुह समीव[^7] आअदंहि[^8]। [नित्यकर्मनिमित्तं नदीतटे आगतोऽस्मि। तदनु च तव कन्यकां दृष्ट्वा त्वमपि सन्निहितेति तव समीपमागतोऽस्मि।] सूक्ष्म-- (स्वगतम्) एष हि मत्कन्यकायं दत्तदृष्टिरास्ते। सापि तमेव प्रेक्षते। तदस्मै कन्या दातुमर्हा। तद्दानेन च कुशी राजैव मे बन्धुर्भविष्यति। (प्रकाशन) किं तव मद्दर्शनेन प्रयोजनम्। विदू—किमण्णन्मे पओजणं। योगनिट्ठा खु तुमम्। ता तुह दंसणेण एण्व कअत्तोम्हि। [किमन्यन्मे प्रयोजनम्। योगतिष्ठा खलु त्वम्। तत्तव दर्शनेनैव कृतार्थोऽस्मि।] [^1]M- णित्तक्कम्म, T2- णत्तकम्म [^2]T2, Tc- णिमित्तअं [^3]Tc- णईतडं, M- णईतडंभि [^4]T1,T2- आगअंनि [^5]T1- दंमुण omits तुमं [^6]T1- संगिहदंति, Tc- संणिहिदाअंति [^7]TC- समीअं [^8]T2- आगओमि, Tc- आगओम्हि [^9]Tc- पओअणं [^10]M- निष्ठा सूक्ष्म-- (विहस्य) माढव्य अहमपि कन्यानुरूपवरार्थिनी। तव दर्शनेन कृतार्थास्मि। किं विलम्बेन? आचक्षते हशुभानि शीघ्रकर्तव्यानीति। तदद्य गौरीपुजावसाने कुमुद्वत्यैव तुभ्यं मम कन्या दाप्यते। ततश्च क्षणक्षणम् अत्रैव मद्दृष्टिगोचरे क्वचित्तिष्ठ। नभेतव्यम्। अहमेव त्वां मदीय इति कञ्चुकिने प्रदर्श्य स्थापयिष्यामि। विदू-- (स्वगतम्) दाणिं अहिळसिअं दाणिं एव्व फळिअं। (प्रकाशम्) तह[^2]। (इति विस्मयाकुलितस्त्वरितं बहिर्निर्गत्य राजसनीपं गत्वा) वअस्स मए सव्वं विआरिअंकुमुज्जई सण्णिहिदा तिरोहिदोहोहि। [इदानीमभिलषितमिदानीमेव फलितम्। तथा। वयस्य मया सर्वं विचारितम्। कुमुद्वती सन्निहिता तिरोहितो भव।] राजा-- तव किं विरोधानापेक्षा। विदू-- सुण्हदंसिणीपसादेण मे ण कावि संका। सूक्ष्मदर्शिनीप्रसादेन ने न कापि शङ्का। राजा-- नागरिके कथमावभ्यां वर्तितव्यम् । नाग-- मया हि तिरस्करिणी प्रयोक्ष्यते तत् केनापि न ज्ञास्यते। राजा-- मया कुमुद्वतीवीक्षणेऽपि सा कथं मां द्रक्ष्यति? [^1] All mss. read तहत्ति and omit chāyā. नाग-- तत्रापि कृत उपाय:। सा परमेका त्वां द्रक्ष्यति । राजा-- सर्वं सुघटितम्। इद्मन्यत् पश्य पश्य- कालमियन्तमपीदं कुमुद्वती दर्शनं काङ्क्षत्। संप्रति सन्निहितेऽस्मिन् उपरि च मच्चित्तमीहते चित्रम् ॥१॥ नाग-- यत्साध्यमुपायैस्तत्सिद्धमुपधारय। राजा-- त्वयावलम्बितस्य मम किमसाध्यं त्रिषु लोकेष्वपि ? विद्र-- भअवदि मह बम्हणस्सवि कज्ज तुए अवलंबणिज्जम् [भगवति मम ब्राह्मणस्यापि कार्यं त्वयावलम्बनीयम्। नाग-- किं तक वा साधनीयं कार्यम् ? विदू-- जं बन्हचारिणो अहिळसंति। [यदब्रह्मचारिणोऽभिलषन्ति।] राजा-- निवृत्तस्य वर्णिनश्चतुर्थ आश्रमः। प्रवृत्तस्य तु द्वितीयः। त्व मनयो: कतरो[^1] असि ? विदू-- कनेण[^2] एण्व नं पवुत्तं णिवुत्तं अ जाणीहि [क्रमेणैव मां प्रवृत्तं निवृत्तं च जानीहि।] नाग-- विवाहरूपं कार्यमिति निर्दिष्टम्। राजा-- को अयमकाण्डे माढव्य तव विवाहः संप्राप्तः ? [^1] All mss read कतमः [^2]M, T1- क्रमेगण्व T2- कनेणंव विदू-- तुह पि[^1]अवअस्सत्तणं तत्त कारणं[^2]। सुण्हदसिणीए हि तुह पिअवअस्सत्ति तह पिअं कत्तुकामाए णिअकृण्णआदाणं मे पडि[^3]ण्णाद। [तव प्रियवयस्यत्वं तत्र कारणम्। सूक्ष्म[^4]दर्शिन्या हि तव प्रियवयस्य इति तव प्रियं कर्तुकामया निजकन्यकादानं मह्यं प्रति[^5]ज्ञातम्।] राजा-- तत विवाहप्रसञ्जक: कसस्ते व्यापार:? विदू-- मम्महवावार एव्व। [मन्मथव्यापार एव।] राजा-- (विहस्य) कथमिव? विदू-- ताए कण्णआदंसणमेत्तेण मोहचुण्णकिण्णो विअ मोहंधआरपडिदोम्हि। सा विकण्णआ मं दहूण[^6] रुक्ख[^7]तिरोहिअंगी पुणो पुणोवि नं पेक्खंति मंदहाससुंदरनुही आसी। एत्थंतरम्मि कच्चाअणीए णिएण सुण्हदंसिणित्तणेण उहआणुराआणुरूवं नह गिअकण्णअदागं पडिण्णादं। [तस्याः कन्यकादर्शनभात्रेण मोहचूर्णकीर्ण इव मोहान्धकारपतितोऽस्मि। सापि कन्यका नां दृष्ट्वा वृक्ष[^8]तिरोहिताङ्गी पुनःपुनरपि नां प्रेक्षमाणा मन्दहाससुन्दरमुखी आसीत्। अत्रान्तरे [^1]M, T1,T2- पिअवअत्तणं [^2]T.c.- काळणं [^3]T.c.- पडिण्णादवई [^4]M,T2,Tc.- सूक्ष्मदर्शिनी [^5]M,Tc- प्रतिज्ञातमिती, Tc.- प्रतिज्ञातमिति [^6]Tc- दक्खिज [^7]Tc- तरुतिरोहिआंगी [^8]M,Tc- तरु कात्यायन्या निजेन सूक्ष्मदर्शिनीत्वेन उभया[^1]नुरागानुरूपं मम निजकन्यकादानं प्रतिज्ञातम्।] राजा-- हन्त त्वमपि मन्दं स्मरवागुरालग्नोऽसि। विदू-- वअस्स सच्चं इयन्तं काळंवि तुमं अहीरोत्ति मे हिअअं। अज्ज तुमं धीरेसु मुद्दण्णोसि। [वयस्य सत्यमियन्तं कालमपि त्वमधीर इति मे हृदयम्। अद्य त्वं धीरेषु मूर्धन्योऽसि।] राजा—कथमिव? विदू—फणिराअकण्ण[^2] आत्थी पस्ससि काळेसु राअकज्जाणि। भिच्छुअकण्णाकामो सन्झाकम्मं वि विम्ह[^3]रामि अहं॥१०॥ अविअ अइसरिअं सुंदेरण्णं णत्थिगुणोअत्थिकोणुसे[^4] अवरो। तह वि किळ कण्णअं तं दट्ठूण वसंगओम्हि कामस्स॥११॥ [फणिराजकन्यकार्थी पश्यसि कालेषु राजकार्याणि। भिक्षुककन्याकाम: सन्ध्याकर्मापि विस्मराम्यहम्॥ अपि[^5] च ऐश्वर्यं सौन्दर्यं नास्ति गुणोऽस्ति कोन्वस्या अपर:। तथापि किल कन्यकां तां[^6] दृष्ट्वा वशंगतोऽस्मि कामस्य॥ [^1] All mss. omit उभयानुरागानुरूपं [^2]M- कण्णओत्थि [^3]TC- विसुमरिआमि [^4]Tc has अस्स for से [^5] All mss. omit अपि च [^6]M omits तां राजा-- मा मैवम्- सुरूपास्तु विरूपा वा यस्य यस्यां मनोगति:। सैव तस्योर्वशी सैव रम्भा सैव तिलोत्तमा॥१२॥ अन्यच्च-- यः सर्वदैव विषयेषु विषक्तचित्त- स्तस्य क्रमेण मदनः कुरुते विकारान्। स्त्रीकामना यदि सदा नियतस्य जातु तत्र क्रमोऽस्ति किमनङ्गपराक्रमाणाम्॥१३॥ नाग-- सत्यनेवैतत्। पश्य पश्य- अनर्गलप्रवाहस्य पयसोऽस्ति गतिक्रमः। रुद्धस्य बन्धविच्छेदे कः क्रमोऽस्य विनिर्गमे॥१४॥ विदू-- हो हो मह हिअअगआणं मअणविआराणं एक्कदेसकअणे वि एत्तिओ परिहासो[^1]। तस्स निरवसे[^2]सकअणे कहं हांज्जा। [हो हो[^*] मम हृदयगतानां मदनविकाराणामेकर्दशकथतेऽपि इयान् परिहासः। तस्य निरवशेष[^3]कथते कथं भविष्यति।] राजा-- बालिश नते कृतः परिहासः। मदनस्वभावो वर्णितः। [^1]T2- पडिहासो [^2]T1- नरवसेस्स [^3]M2,T1 – निरवशेषस्य [^*] All mss. add वैदूषके नाग-- (पुरोऽवलोक्य) नागराजस्य कञ्चुकी समायाति। क्षणं मौनमालम्ब्यताम्। चक्षुषस्तिरस्करणं कृतं न श्रोत्रस्यापि। (राजा तथा तिष्ठति।) (ततः प्रविशति सपरिवारः कञ्चुकी।) कञ्चुकी-- भो भो: यामिका:[^1] त्वरितं परिक्रम्य वनमिदं विजनं न वेति विचार्यताम्। यामिका:-- तह।[^2] (इति परिक्रम्यागत्य) ण को विएत्थ। एसो एक्को विप्पो सुण्णदं सिणीए ठाविदो। [तथा। न कोऽप्यत्र। एष एको विप्रः सूक्ष्मदर्शिन्या स्थापितः।] कञ्चुकी-- स एकस्तिष्ठठ। वयं तु दूरतस्तिष्ठन्तो वनमिदं पालयन्तः कुमुद्वतीं प्रवेशयामः। (इति निष्क्रान्ताः) (ततः प्रविशति सपरिवारा कुमुद्वती सागरिका च।) राजा-- (कुमुद्वतीं निर्वर्ण्य) तदेवेदं वक्त्रं सरसिरुहमित्रं स्मियुतं दृशावप्येते ते दरविकसितेन्दीवरनिभे। तटित्कोटिप्रख्यं तदिदमुदितार्कद्युति वपु- श्चिरालग्ना सेयं मम हृदय[^3]चौर्यं कृतवती॥१५॥ [^1]M- परिचारकाः [^2]All mss. read तहत्ति and cons, clife. [^3]T1- has two readings: चौर्यैकरसिका and चाँर्यै कृतवती अधुना किल-- शाम्यत्यूष्मा श्वसितमरुतां संज्वरश्चाङ्‌गकानां चक्षुर्मान्द्यं त्यजति शनकैरस्म्यहं चाहमेवम्। आनन्दाब्धाववतरति मे मानसं मग्नमास्ते हा धिक् कष्टं सुखमनुभवन् मुह्यतीवान्तरात्मा॥१६॥ विदू-- मम वि सुण्हदं सिणी कण्णआदंसणे सव्वं तह विअ होदि। [ममापि सूक्ष्मदर्शिनीकन्यकादर्शने सर्वं तथैव भवति। नाग-- वत्स मनस्येव सर्वं स्थाप्यताम्। प्रकाशने ह्याभाससाधारण्यमापतति। (राजा हसति।) (विदूषक: लज्जते।) साग-- विविक्तरमणीयोऽयं प्रदेशः। अत्र च यत्र लतागृहे तव मनः प्रीतिः तत्र गौर्या: पूजनं कार्यम्। "यत्र वा रोचतं मनः इति तन्त्रविद आचक्षते। तदालोक्यतां परितोऽपि। कुमु-- (पुरतां लतागृहे राजानं निरीक्ष्य) किण्णु खु संरयूतडं वि अयुज्झापासादो वट्टइ जस्सिं एसो अय्यउत्तो आव्विखिओ। अहव[^2] सो एव्व एत्थ आगओ। [किन्नु [^1]T1,TC- मग्नमासीत्, T2,M- corrupt, मननास्ते is the emended reading. [^2]M- अहवा खलु सरयूतटेऽपि अयोध्याप्रासादो वर्तते यस्मिन्नेष आर्यपुत्रो आलिखितः। अथवा स एवात्रागतः।] फणा-- अयि कंचुइसोहिए वणे ण को वि संभाविदो। तं एव्व चिंतयन्तीए तुए संकप्पकप्पिओ एसो। [अयि कञ्चुकिशोधिते वने न कोऽपि सम्भाव्यते। तमेव चिन्तयन्त्या त्वया सङ्कल्पकल्पित एषः।] कुमु-- किण्णु[^1] तुमं फणावइ भणइ मं मुद्धेत्ति कदुअ। संकप्प दिट्ठो हि खणेण ण दीसइ। सच्चो एव्व एसो। [किन्नु त्वं फणावति भणसि मां[^2] मुग्धेति कृत्वा। सङ्कल्पदृष्टो हि क्षणेन न दृश्यते। सत्य एवैष:।] साग-- (उपसृत्य अपवार्य) वत्से सत्य एवैष इति सत्यनेव। परन्तु कञ्चुकिदर्शनभिया नागरिका तमदृश्यं कृर्वती त्वदनुग्रहाय त्वां विना तस्य सर्वादृश्यतां कृतवती। तन्न बहिः प्रकाशनीयम्। कुमु-- (अपवार्य) अणुगहीदांहि। (प्रकाशन्) अहव फणावइ तूह वअणाणुरोहेण मह एसो कोवि अपुव्वो संकप्पो चिरेण तं अणुभावेदि। [अनुगृहीतास्मि। अथवा फणावति तव वचनानुरोधेन ममैष कोऽपि अपूर्वः सङ्कल्पश्चिरेण तमनुभावयति।] [^1]Tc. adds खु [^2] All mss. add केवलं फणा-- दीहसिविणिओ(ग) वि अ दीहसंकप्पो एसो। [दीर्घस्वप्न इव दीर्घसङ्कल्प एष:।] साग-- (अपवार्य) लज्जामन्थरितैः पुनश्च चलितैः पञ्चेषु संचोदितैः पृच्छद्भिः कुशलं क्रमादिव समालिङ्गद्भिरङ्गं कृशम्। मग्नोन्मग्नकनीनिकैर्मुकुलितैरानन्द विस्तारितै- र्वत्से पश्यति कंचिरादनिमिषैराक्रम्य नेत्राञ्चलैः॥१७॥ कुमु-- (सलज्जम् अपवार्य) णं एसो सो एण्व अण्णो वत्ति सन्दिहाणा पुणो पुणो वि पेक्खामि। जं एसो। पुण्वं[^1] हरिमणिमळिणो[^2] संपइ सरअब्भसुब्भसअळंगो। से उण वअणं णअणं पणसमाणं विदीसइ मिळाणं॥१७।। [निन्वेष स [वान्यो वेति सन्दिहाना पुनः पुनरापे प्रेक्षे। यदेषः। पूर्वं हरिमणिमलिनः संपति शारदभ्रूशुभ्रसकलाङ्ग:। अस्य पुनर्वदनं नयनं मलिनसनानमपि दृश्यते म्लानम्।।] साग-- त्वत्कृत एवायनस्य रूपविपर्यय:। यतः मद्दत्त दिव्यदृष्ट्या दृष्ट्वात्र त्वामसौ[^3] कुशावत्याम्। स्मरतापतापिताङ्गस्तच्छररजसा च पाण्डरीभूतः॥ कुमु-- (उरसि हस्तं निधाय) किं अहं एव्व अय्यउत्तस्य पढ़मं अवरद्धा। [किमहमेवार्यपुत्रस्य प्रथममपराद्धा।] [^1]T1, T2, Tc, M. Em.- पुरिमं [^2]All mss. add कुश: [^3]M, T1, T2- मइळा साग-- अद्य पुनस्तत्समीपमागच्छन्त्या त्वया सत्यं वत्सः सञ्जीवितः। यद्यमिदानीमानन्दविवशो दृश्यते। तथाहि-दृष्ट्या निश्चलया तृषा विवशया पीत्वापि न त्वामसौ तृप्तिं याति वपुश्च तस्य पुलकैरुच्छूनतामश्नुते। (पङ्क्तिशेषो[^*] विस्मृत एव) दूरत्वादिह नः श्रुतानि वचनान्युक्तानि तेनाधुना वर्ण्यन्ते पुरदेवतां प्रति निजानन्दास्त्वदालोकजा:॥२०॥ कुमु-- सो महाराओ बहप्पइसमो सक्कुणोदि णिआणंदं वण्णेदुं। अहं उण तं पुळो[^1]अंती किं वि ण आणामि। गेहादो निक्कमणे सहस्सहा मे मणोरहो जणिओ। इदमिदमेव्वं कज्जं तस्सिं दिद्ठेति कुत्त सोज्ज गओ॥२१॥ [स] महाराजो बृहस्पतिसमः शक्नोति निजानन्दं वर्णयितुम्। अहं पुनस्तं पश्यन्ती किमपि न जानामि। गेहान्निष्क्रमणे सहस्रधा मे मनोरथो जनितः। इदमिदमेवं कार्यं तस्मिन् दृष्ट इति कुत्र सोऽद्य गतः॥ साग-- सर्वं ते मनोरथं पूरयिष्यामः। [^1]M- पुळोयन्ती [^*] All mss. add पङ्‌क्तिशेषो विस्मृत एव, which seems to be a stage direction. But even that seems out of place here. कुमु-- (सहर्षम्) तुमं एव्व मे जणणी हळा[^1] देवं[^2] अ।[त्वमेव मे जननी सखी दैवं च।] फणा-- कुत्त तुए गोरीपूआ करणिज्जा। [कुत्र त्वया गौरीपूजा करणीया] (कुमुद्धती अश्रुत्वेव तिष्ठति।) सूक्ष्म-- (उपसृत्य) अतिवर्तते पूजासमयः। शंस वत्से कुत्र पूजा त्वया क्रियते। कुमु-- (सनिर्वेदम्) किण्णु[^3] खणं वि मं पिअं जं किं वि पुळोयंति[^4] पीडेह। सागरि अं पुच्छंह। [किन्नु क्षणमपि मां प्रियं यत्किमपि पश्यन्तीं पीडयथ। सागरिकां पृच्छथ।] साग-- अत्रैव निकुञ्जे पूजाद्रव्याणि सन्निधाप्यन्ताम्। वत्साया: प्रियवीक्षणविघ्नोऽपि न भविष्यति। कुमु-- (सज्जीक्रियमाणं निकुञ्जं दृष्ट्वा) ण्हादव्वं मए दाव। साआरिए तुह पवाहस्स तुमं एण्व तित्थं पदंसअ। [स्नातव्यं मया तावत्। सागरिके तव प्रवाहस्य त्वमेव तीर्थं प्रदर्शय।] साग-- अस्मिन्नेव सुखावतारे कल्याणतीर्थे स्नातव्यम्। अत्र स्नाता ह्यनुपदमेव प्रियेण युज्यन्ते। [^1]Tc.- सही [^2]M- देवी [^3]Tc. adds खु [^4]Tc. परसन्तीं (कुमुद्वती सलज्जं फणावतीकलावत्यो: करौ गृहीत्वा सरय्वामवतीर्य नाभिदघ्ने जले तिष्ठति। फणावती कलावत्यौ कुमुद्वत्या उत्तरीयं कट्यां निबध्य स्तनकञ्चुकं मुञ्चतः। कुमुद्वती लज्जमाना पाणिभ्यां स्तनौ पिदधाति।) राजा-- (दृष्टवा) कष्टम् आच्छादितं हि कुमुद्वत्या स्तनद्वयमपि। साक्षात्कर्तुमिदं तपस्यति चिरादक्षि स्वबाष्पोदके तन्मे भाग्यविपर्ययात् किमधुना नाप्नोति पूर्णं फलम्। अग्रे यत् कुमुदात्मजाकरयुगप्रच्छाद्यमानं कुचद्वन्द्वं दृश्यमभूत् स्वगौरवबहिर्भूतं कियत्केवलम्॥ २२॥ नागरिके ममानुकूलयमाचरन्त्येव किमाचरितं त्वया। इदानीं हि मामग्रे पश्यन्ती कुमुद्वती लज्जते। तस्याः कञ्चुकापनयनावसरे मामदृश्यं न कृतवती। नाग—अनुमेकमिदानीन्तनं ममापराधं क्षमस्व। क्षणादेव ते मनोरथं पूरयिष्यामि। फणा- किण्णु दे विअणे वि[^1] वणे ईरिसी[^2] लज्जा। [किन्तु ते विजनेऽपि वने ईदृशी लज्जा।] (इति तस्या हस्तावुत्क्षिपति। कुमुद्वती ह्रिया शीघ्रं जले निमज्जति।) [^1]T1,M- वणेवि [^2]T,T2,M- ईदिसी राजा-- साधु फणावति साधु। त्वया मदानुकूलयं कृतमेव। मम तु मन्दभाग्यतया तन्न फलितम्। क्षणमिव मयाद्य दृष्टं कुचयुगमस्यास्तटिद्वलयकान्तम्। तत्रत्यपत्रमकरीदर्शि तु मच्चित्तमाप[^1] तन्मयताम्॥२३॥ विदू-- (सहासन्) सुदं मए पुव्वं खु तुह तादपादेहि मअरावदारो कओत्ति[^2]। दाणिं तुह चित्तेण वि सो कओ। जुत्तं एव्व एदो। [श्रुतं मया पूर्वं खलु तव तातपादैर्मकरावतारः कृतइति।इदानीं तव चित्तेनापि स कृत:। युक्तमेवैतत्।] नाग-- (समन्दस्मितम्) हरिणा हि पूर्वं तदवतारेण सर्वश्रुतिरक्षणं कृतम्। वत्सेन तु तवैकस्यापि श्रुतिगोपनं न कृतमिति अयुक्तमेव। (राजा हसति।) (कुमुद्वती स्नात्वा वस्त्रधारणाय तरुमूलं याति।) राजा-- (अवलोक्य) अस्या नितम्बजघनादिषु यादृगद्य लग्न: पटो निरवशेषमदृश्यभेदः। तादृङ्‌मनश्च मम किन्तु पटो निवार्यो न ब्रह्मणापि विनिवार्यमिदं मनो मे॥२४॥ (कुमुद्वती तरुतिरोहितधृतवस्त्रा पुण्ड्रभूषणादि धत्ते।) [^1]T2,Tc- मम [^2]T1,Tc,M omit त्ति विदू-- एत्थ फणावईपमुहा कुमुज्जईपरिजणा मज्जंति। (पुनर्निरीक्ष्य सानन्दम्) ताणं मज्झे मह पोम्मावदि वि उत्तरीअं विसज्जिअ मज्जइ। (उन्मज्जन्तीं तां निर्वर्ण्य) थणयुगमुरंमि[^1] ताए हीणं विअ मुहमेत्तमुण्णमिअ। पस्सइ मं तस्स मए मुणि[^2]अं वळअद्दएण परिमाणं॥२५॥ अज्ज इ-- मज्जइ समुम्मज्जइ ताए[^4] देहंमि[^5] मह[^6] तम्मअं हिअअं। तह वि कहं म अणकओ संतो तस्सिं ण संदावो॥२६॥ [अत्र फणावती प्रमुखा: कुमुद्वतीपरिजना मज्जन्ति। तासां मध्ये मम पद्मावत्यपि उत्तरीयं विसृज्य मज्जति। स्तनयुगमुरसि तस्या ह्रीणमिव मुखमात्रमुन्नम्य। पश्यति मां तस्य मया[^7] ज्ञातं वलयद्वयेन परिमाणम्॥ अद्य हि-- मज्जति समुन्मज्जति तस्या: देहे मम तन्मयं हृदयम्। तथापि कथं मदनकृतः शान्तस्तस्मिन्न सन्तापः॥ राजा-- (विहस्य) तन्निमज्जनोन्मज्जने तव हृदयमेव नानुकरोति। किं तु ते शिरो दृष्टिश्च। [^1]M,Tc- उरसि तस्सा [^2]Tc- ण्हादं [^3]M,Tc- वळयद्दएण [^4]Tc- नस्से [^5]Tc- देहे, M omits देहंमि [^6]T1,T2- मं, Tc- ममवि [^7]M- वा जात्यधीरेषु विप्रेषु चपलेषु विशेषत:। अङ्कुरन्नेव मदनः मर्यादामतिलङ्घते॥२७॥ (कुमुद्वती पूजोचितमण्डना कुञ्जगृहं प्रविश्योपविशति।) राजा-- (निर्वर्ण्य) क्षौमाम्बरावृततनुर्द्रुत[^1]हेमकान्तिः सन्ध्येव सान्द्रतरचन्द्रिकयोपगूढा। एकाङ्गुलीकलितफालविभूतिरेखा नागाङ्‌गमा हृदयमाकुलयत्यकाण्डे॥२८॥ नाग-- वत्स पश्च-- चेतः[^2] संप्रणिधाय सागरिकया संचोद्यमाना मुहुर्ध्यातुं जातु कुमुद्वती विनमयत्यक्ष्णोर्बलात् पक्ष्मणी। ते तु त्वय्यतुरागसङ्गततया नैव क्षमे मीलितुं प्रसोऽतः कलहोऽद्य सुन्दरतरस्तस्याश्चतच्चक्षुषोः॥२९॥ राजा-- तदयमवसरस्तदुपसर्पणस्य। नाग-- वत्स ना त्वरस्वः फलेषु हि कृत्रिमपाकादपि कालकृतपाकेन स्वादुतातिशय: सार्वजनीन एव। तदहं संविधास्ये। (इति सन्निहितपुष्पाणि स्वयनपचित्य सागरिकां संङ्कतयति। सागरिकापि तद् ज्ञात्वा सव्याजहस्तत्यापारेण तां प्रतिसङ्केतयति।) [^1]M- मृत [^2]M,T1- चेतस्वं प्रणिधाय कुमु-- साअरिए कहं अज्ज गौरीपूजा मए साहणिज्जा। जण्ण मे हत्थपादं पसरइ। [सागरिके कथमद्य मया गौरीपूजा साधनीया यन्न मे हस्तपादं प्रसरति।] साग-- भूभृतं हृदये वहन्त्याः कथं ते हस्तपादप्रसरणम्। फणा-- कुमुज्जइ राजकरसंपक्के पाडवं गमिस्सदि।[कुमुद्वती राजकरसंपर्के पाटवं गमिष्यति।] कुमु-- (सनिर्वेदम्) सव्वा वि मह परिहासम्मि[^1] पअब्भा। ण[^2] उणो मम जीवणे। [सर्वा अपि मम परिहासे प्रगलभा:। न पुनर्मम जीवने।] साग-- वत्से मा नैवम्। अद्य ते गौरी प्रसादेन मनोरथं पुरयिष्यामि। अद्य हि गौर्याः पूजा समाप्यते। तदद्य स्वयमपचितैरेव पुष्पैः पूजा कार्या। आचक्षन्ते हि शास्त्रविदः- परिक्रीनात्परानीतादपि भक्तैर्वनान्तरात्। स्वेनाहतानि[^3] पुष्पाणि स्वयं गृह्णाति पार्वती॥इति॥३०॥ कुमु-- साअरिए अज्ज मं[^4] कहं वि जीव[^5]अ। किं वि मेण फुरइ। [सागरिके अद्यमां कथमपि जीवय। किमपि मे न स्फुरति।] [^1]M- परिहसे [^2]M omits ण उणो मम जीवते [^3]T,Mc- स्वेजनाहृतानि, T2- स्वेजयनाहृत [^4]M omits मे [^5]M- जीविअ साग-- फणावति क्षणं प्रतिपालय अहं तु कुमुद्वतीहस्तेन पुष्पाण्यपचाय्यागच्छामि। (इति कुमुद्वत्या सह बहिर्निर्गत्य तया पुष्पापचयं कारयन्ती राजसमीपं कुमुद्वतीं नयति।) राजा--(सन्निहितां कुमुद्वतीमालोक्य स्वगतम्) किं वाभिगम्य परिरम्भमहं करोमि किं वा पिबेयमधरामृतमानताङ्‌गया:। किं वाधिरोप्य रथमाशु गृहं नयामि कान्तामिमां भ्रमति मे हृदयं विमूढम्॥३२॥ अपि च किं चेन्द्रि[^1]केयमिह शारदपूर्णिमेन्दोः किं वा सुधालहरिरेव दिवश्च्युतेयम्। किं मन्नथस्य भुवनत्रयजैत्रलक्ष्मीः किं वा ममैव धुरि जीवकलाविरासीत्॥३२॥ (धैर्यमालम्ब्य प्रकाशम्) नागरिके किमत्र कर्तव्यमस्माभिः। विदू-- माढव्वस्स पोम्मावदि देअत्ति पत्थणिज्जा एसा। [माढव्यस्य पद्मावती देयेति प्रार्थनीया एषा।] राजा—वयमित्थमनेन समयानभिज्ञेन बाध्यामहे। नाग-- क्षणमितोऽपि वत्स मा त्वरस्व। धैर्यमवलम्बतां भवान्। त्वत्समीपमेव सागरिका चतुरमिमामानयति। [^1]T2- चन्द्रिकेथ कुमु-- (परिक्रम्य पुरोऽवलोक्य ससंभ्रमम्) एसो अय्यउत्तो महाराओ। (स्वगतम्) जइ सविहे दाणिं मह रण्णो वि जणो ण वट्टइ अण्णो। अलिंगिय झत्ति पिअं मुंचेअं पंचवाणसंजरअं॥३३॥ (प्रकाशम्) सा अरिए सण्णि[^1]हिदो अय्यउत्तो। किण्णु मए काढ़व्वं। [एष[^2] आर्यपुत्रो महाराजो। यदि सविध इदानीं मम राज्ञोऽपि जनो न वर्ततेऽन्य:। आलिङ्‌गय झटिति प्रियं मुञ्चेयं पञ्चबाणसंज्वरकम्॥ सागरिके सन्निहित[^3] आर्यपुत्रः। किं नु मया कर्तव्यम्।] साग-- यत्त्वया चिरान्मनस्युल्लिखितं तदद्य कर्तव्यम्। (कुमुद्वती लज्जापराची तिष्ठति।) मुग्धासि मुञ्च जडतां प्रतिमुञ्च धैर्यं पश्चाद्धि तप्स्यसि गते सति दैवयोगे। प्राप्य प्रियं निकटकुञ्जगृहं नयन्ती स्वैरं रमस्व परिरभ्य चिराय धन्या॥३४॥ कुमु-- (सकोपम्) को णु गुरुअणाणुवट्टिणीणं कण्णआणं सेरा[^4]आरो। [को नु गुरुजनानुवर्तिनीनां कन्यकानां स्वैराचार:।] साग—तर्हि कथं तव पण्डितमानिनि कन्दर्पशरसन्तप्तायाः सञ्जीवनन्। [^1]M- सौणिहिदो [^2]M omits chāyā from एष्ट to महाराजो [^3]M- सौहित [^4]Tc- स्वैराआरो कुमु-- अय्यउत्तेण मह अंगीकरणं एव्वं संजीवणं णाम। एत्तिअं एव्व मह तुए साहणिज्जं। अण्णं कमेण भविस्सदि। [आर्यपुत्रेण ममाङ्गीकरणमेव सञ्जीवनं नाम। एतावदेव ममत्वया साधनीयम्। अन्यत् क्रमेण भविष्यति।] साग-- साधु कुमुद्वति साधु। यत्प्राप्तेऽपि प्राणसङ्कटे कन्यकाधर्ममेव परिपालयसि। तत्तव कर्मधर्मशीलायाः साध्यामि। तदेहि गच्छाव। (इति तो राजसमीपं नीत्वा) प्रणम वत्से तव जीवनाथं भूलोकनाथम्। (कुमुद्वती ह्रिया स्तिमिता तिष्ठति।) साग-- (तां बलात् तत्पादयो: पातयन्ती) अनन्यगामिनी सेयं गौरी त्वां स्वयमागता। राजमौले मैथिलेय युक्तो[^1]ऽस्यास्ते परिग्रहः॥३५॥ राजा-- (सानन्दं सादरं च आलिङ्गन्निव हस्ताभ्यां तामुत्थाप्य) प्रिये प्रसीद प्रसीद। उत्तुङ्गपीनजघनस्तनभारखिन्ना खिन्नापि पुष्पसुकुमारपदारविन्दा। मां प्रत्युपागतवती त्वमितीदमाग: प्राप्तं हि सागरिकया मयि तत् क्षमस्व॥३६॥ [^1]Tc- युक्तं तेऽस्मा: साग-- वत्स राजानो बहुदारा इति कुमुद्वती तव स्वप्रीतौ संशेते। तदुचितमभिधीयताम्। राजा-- दुर्गाणि राष्ट्रमियमर्णवनेमिरुर्वी मौलं बलं रथगजध्वजवाजिपूर्णम्। दारा गृहा मम वसून्यसवोऽप्यहं च जानीहि तन्वि निखिलं त्वदधीनमेव॥३७॥ नाग-- विधिर्वक्त्रं हरिर्वक्षो वपुरर्धं महेश्वरः। स्वप्रियाभ्यो ददुर्वत्सस्त्वखिलं ते कुमुद्वति॥३८॥ कुमु-- (कथञ्चिदपि धैर्येण किञ्चिद्विगलितत्रपा। मुखनीष[^*]त्स्वमुन्नम्य सस्मितं त्रियमैक्षत)॥३९॥ अय्यउत्त पिअं णेदं भेदं कदुआ[^1] भाषणम्। तुह देहो हि मे दे हो तुह पाणा ममव्वहि॥४०॥ [आर्यपुत्र प्रियं नेदं भेदं कृत्वा भाषणम्। तव देहो हि मे देहो तव प्राणा ममैव हि॥] राजा-- (स्वगतम्) सम्यगुत्तरं दत्तम्।(प्रकाशम्) एह्येहि कौमुदि सुधारसवर्षिभिः स्वैरङ्गैरनङ्गशरमुर्मुरदह्यमानम्। आलिङ्गय गाढमसकृत् गतचेतनं मां सञ्जीवयन्त्यथ निदर्शय मय्यभेदम्॥४२॥ [^1]T1- कादुअ [^*]T2 omits from मुख to ममण्वहि of the following varse. कुमु-- (कराभ्यां कर्णौ पिधाय) उवद्विदे कळ्ळाणे अळमळं गद[^1]जीवणेत्ति अस्सीळकित्तेणेण। [उपस्थिते कल्याणे अलमलं गत[^2]जीवनेति अश्लीलकीर्तने।] फणा-- (सत्वरं ससम्भ्रममागत्य) कुमुज्जइ किं एत्थ विअणे पदेसे णिरत्थकं विळंबेसि। कंचुइ तुवरावेदि। परिणिवट्टस्स। किं अ[^3] तुमं सअं एण्व गवेसेदि। [कुमुद्वति किमत्र विजने प्रदेशे निरर्थकं विलम्बसे। कञ्चुकी[^4] त्वरयति। प्रतिनिवर्तस्व। किं च त्वां स्वयमेव गवेषयति।] कुमु-- (ससम्भ्रमं राजानमवलोक्य सभयाविषादगद्दम् अपवार्य) अय्यउत्त गच्छति[^5] पुणो विदे दंसणं होदु। [आर्यपुत्र गच्छामि। पुनरपि ते दर्शनं भवतु।] (इति सागरिका फणावतीभ्यां सह निवृत्य निवृत्य पश्यन्ता पूजागृहं प्रविशति।) साग-- (स्वगतम्) कञ्चुकी नय्यतिशङ्कया कुपित इव दृश्यते। भवत्वेवं तावत्। (प्रकाशन् कञ्चुकि समीपं गत्वा) अद्य पूजा समापनाय कुमुद्वत्येव पुष्पाण्यपचितानि पश्य (इति तस्मै स्वकरस्थपुष्पाणि प्रदर्श्य) एतदर्थमियं[^6] [^1]M, T1, T2- गतजीवनेत्ति [^2]M,T1, T2 omit कालजीवनेति [^3]M- च [^4]M adds त्वां [^5]T.C.- गच्छंहि [^6]T1- इदं क्षणमन्यतो नीता। वत्से कुमुद्वति त्वरितं पूजा समाप्यताम्। कुमु-- (उपविश्य विधिवदेव लघु पूजां समाप्य) साअरिए कृण्णआ कस्स[^1] देआ[^2]? [सागरिके कन्यका कस्य देया?] साग, सूक्ष्म च-- (अपवार्य पद्मावतीमानीय) इयमस्मै राजप्रियाय माढव्याय वटवे प्रदेया। (इति दूरस्थितं माढव्यं दर्शयति।) कुमु-- (अपवार्य) अवस्सं अस्स अय्यउत्तवअस्सस्स कण्णआ देया। [अवश्यमस्मै आर्यपुत्रवयस्याय कन्यका देया।] साग-- (संज्ञया माढव्यमानीय) अयमसौ माढव्यः। कुमु-- (सूक्ष्मदर्शिनीदत्तां पद्मावतीं तदनुज्ञया) एसा दे सहधन्म[^3]चारिणी होज्जा। (इति माढव्यस्य करेऽर्पयति) [एषा ते सहधर्मचारिणी भविष्यति।] विदू-- (सानन्दम्) णाअराअकुमारिए मह कण्णादाणेथा तुह वि झत्ति कळ्ळाणं भविस्सदि। [नागराजकुमारि के मन कन्या[^4]दानेन तवापि झटिति कल्याणं भविष्यति। कुमु—अणुमहीदेहि। [अनुगृहीतास्मि।] साग-- माढव्य तव तु कल्याणं कुमुदानुमत्या भविष्यति। (विदुषक: समुखभङ्गं: निवृत्त:।) [^1]T1,T2- कस्य [^2] All mss. read स्पष्टन् and omit chāyā. [^3]TC- धन्मचाळिनी [^4] All mss. have कन्याप्रदाने कुमु-- साअरिए गच्छा[^1]मो।[^2] [सागरिके गच्छाम:।] साग-- (साभिप्रायम्) वनदेवतामन्त्रणं कुरुष्व। कुमु-- (स्वगतम्) अय्यउत्तो एण्व वणदेवआसद्देण भणिओ। (प्रकाशम्) साअरिए साहु अवबोहिअंहि। (राजाभिमुखी भूत्वा सवाष्पम्) गमो वण[^*]देवदे पुणोवि दे दंसणं देहि[^*] (आर्यपुत्र[^3] एव वनदेवता शब्देन भणितः। सागरिके साध्ववबोधितास्मि। नमो[^*] वनदेवते पुनरपि ते दर्शनं देहि।][^*] (इते शिरस्यञ्जलिं धारयन्ती सपरिवारा[^*] निवृत्य निवृत्य पश्यन्ती सागरिया तह निष्क्रान्ता।) राजा-- नागरिके सत्यमिदं श्रूयते "श्रेयांसि बहुविघ्नानीतिं। पश्य पश्य— अनुगुण इव वेधा दर्शयन्नानुगुण्यं मिभुननुभयलोक[^4]स्थायि कृत्वा समेतम्। लघु विघटयति स्मालब्धकामं तदास्तां मन समजनि कोऽयं कञ्चुकीकालसर्पः॥४२॥ [^1]Tc- गच्छंहो [^2]All mss. read स्पष्टम् and omit chāyā [^3]M omits chāyā from आर्यपुत्र to भणितः [^4]Tc. लोकस्यापि [^*]T2 omits from वणदेवदे to देहि; नमो to देहि; इति to सपरिवारा (दृशौ निमीलय स्मृत्वा) कर्पूरसान्द्रहरिचन्दनलेपनं वा यन्त्रस्थचन्द्रगलितामृतसेचनं[^1] वा। हेमन्तहैमवतनिर्झरमज्जनं वा तस्याः स्तनाग्रघटनेन मयानुभूतम्॥४३॥ (दृशावुन्मील्य) मोलिन्यस्ताञ्जलिकिसलयं वक्त्रमावृत्तकण्ठ्या: क्षुभ्यद्दृष्टिस्फुरदधरसंलक्षितामन्त्रणोक्ति। पश्यन्त्या मां स्वयनुपगतप्रस्खलन्मन्दहासं चित्रा[^2]गारे मम विलिखितं चेतसीव स्मरेण॥४४॥ विदू-- मन वि एव्वं एव्व पोन्नावइ हिअअकळ्ळं संवुत्ता। तदो मए मअणसंदावदुग्गमे चिंत सन्ताणनस[^3]असंकुळे मानअ नाणस कारग्गहे[^4] सा दुट्ठदासो[^5] ठाविदो। एव्वं अयं वि मे दासीए पुत्तयो मअणो बाहइ। अज्ज हि- अंग कुत्तवि दावो कुत्तवि सेदो कुहा वि रोमंचो। मह माणसँ वि चिंतादंतुरिअं हा हदोंहि मअणेण॥४५॥ तुमं दयाळत्तणेण मअणन्नि ण कुप्पेसि ता जुवराए लवे जिवेदइस्सम्। (इत्युत्थातु मिच्छति।) [^1]T2,Tc- सेवनं [^2]M, T2, TC- छत्रागारे [^3]M- मअअ, अनअ [^4]T2- काराव्यरे, Tc- काआघरे [^5]M, T2- दासीए [ममाप्येवमेव पद्मावती हृदयशल्यं संवृत्ता। ततो मया मदनसन्तापदुर्गमे चिन्तासन्तानमशक[^1]सङ्कुले मामकमानसकारागृहे सा दुष्टदासी स्थापिता। एवमयमपि मां दास्याः पुत्रको मदनो बाधते। अद्य हि- अङ्गे कुत्रापि ताप: कुत्रापि[^2] स्वेद: कुत्रापि रोमाञ्च:। मम मानसमपि चिन्तादन्तुरितं हा हतोऽस्मि मदनेन। त्वं दयालुत्वेन मदनाय न कुप्यसि। तद्युवराजे लवे निवेदयिष्यानि।] राजा-- (सहासम्) बालिश तिष्ठ तूष्णीम्। (इति हन्तेन[^3] गृहीत्वा नाढव्यं स्थापयति।) नाग-- वत्स दृष्टं ब्राह्मणपाण्डित्यम्। राजा-- मन्मथोऽत्रापराध्यति। स हि यंकञ्चिद् यत्र कुत्रापि मोहयति। तेन सांसिद्धिकोऽपि तस्य विवेको नश्यति। पशवः खगा मृगा वा पश्य निजस्त्रीषु परवशा एव। तत्र तु धैर्यं पुंसां लज्जास्त्रीणां च भूषणं भवति॥४६॥ [^1]Tc - ॰मयक॰ [^2]T1,T2- कुहापि [^3]M adds हस्तं (नेपथ्ये वैतालिकौ) प्रथमः-- अत्युग्रातपकम्पिताग्रगरुतः सन्त्यक्तपद्मोदरा लीयन्ते नलिनीनिरन्तरदलच्छायासु हंसार्भका:। कासारेषु निपत्य कासरगणाः पङ्कामि शृङ्गाञ्चलै रुत्खयोपरि विक्षिपन्ति परितस्ता[^1]पाल्लुठन्तो मुहुः॥४७॥ द्वितीयः-- स्वेदोजने हिमजलीक्षणतः प्रशान्ते धन्याः सचन्द्रहरिचन्दनलेपशीतम्। अङ्गं कुरङ्‌गमदपङ्‌किलमङ्‌गनाना- मालिङ्गय केलिसदनेषु सुखं लभन्ते॥४७॥ राजा-- (आकर्ण्य) नध्याह्नो वर्तते। तत् कर्तव्यं तदुचितं कर्म। (इति निष्क्रान्ता: सर्वे।) कुमु[^2]द्वतीसाक्षात्कारो नाम द्वितीयोऽङ्कः। [^1]M- चापात् [^2]M, T add कुश तृतीयोऽङ्क: (ततः प्रविशतः सागरिकानागरिके।) नाग-- सागरिके किं तव यथापुरं न दृश्यते मुखप्रसादः। साग-- राजोपजीविनामीषद्राजकार्यप्रवृत्ति[1]त:। निद्राहारौ न कालेषु सौमनस्य कथा कुतः॥२॥ नाग-- (साश्चर्यम्) हा किमिदमासीत् पूर्वेधुरेव हि सर्वं सुघटितमित्युक्तवत्यास्तव संप्रति किमाकस्मिक राजकार्यं प्रसक्तम्। साग-- न प्रसक्तमात्रं तत्। प्रकृतकार्यं विघटय्य[^2] रूढमूलमासीत्। नाग-- (सोद्वेगम्) हा हतास्मि। कथं विघटितम्? तद् ब्रूहि। साग-- पूर्वेधुरागतः कञ्चुकी निसर्गतो दुर्विदग्धः। सहि क्षणं कुमुद्वतीदर्शनाभावमात्रेण माढव्यस्य कन्यकाप्रदानेन च कुमुद्वती कुशानुरक्तेति नागलोके सर्वत्र घोषयति स्म दुर्विदग्धः[^3]। तच्च शङ्खपालो विज्ञाय राज्ञे कुमुदाय विज्ञापयांचक्रे। कुमुद्रोऽपि [^1]T2- reading corrupt [^2]T2- विघटीय [^3]M, T1, T.c omit दुर्विदग्धः कुपितः कुमुद्वतीं सपरिवारां शङ्खपालगृह एव निर्वृत्तबाह्यसञ्चारां स्थापयामास। त्वरितमेव च शङ्‌खपालेन तस्या विवाहः कार्यते। नाग-- कोऽयं शङ्खपालो नाम? का च तस्य तद्विवाहप्रसक्ति:? साग-- वासुकिवंश्य: कुमारः शङ्खपालः। तस्मै च त्रैलोक्यचन्द्रिका कुमुद्वती वासुकियाचिता कुमुदेन दीयत इति शैशव एव प्रतिज्ञाता। वासुकिर्हि सकलसर्पराज:। ततः तत्प्रार्थितं कुमुद्वतीदानं केनापि न परिहार्यम्। सूक्ष्मदर्शिनी च समानलोकवासिनी कुशस्य कुमुद्वतीसङ्घटिकेति परित्यक्ता। पद्मावती कुमुद्वतीसरवीति तत्र स्थापिता। अहं सरयूदेवतेति विश्वासात् कुमुदेन न निवारिता। नाग-- कुमुद्वती कथं वर्तते? साग-- सा हिं बलात्कृत्य यदि मामन्यस्मै दद्यु: प्राणानेव तदा त्यक्ष्यामीति दृढनिश्चया वर्तते। कथं भविष्यतीति[^1] न ज्ञायते [^1]T1,T2 omit इति नाग-- (दृशौ निमील्य क्षणं ध्यात्वा पुनरुन्मीलय सानन्दम्) सागरिके मा विषादं गम:। उपस्थितं कल्याणं कुशकुमुद्वत्यो: त्र्यहमध्य एव विवाहो भविष्यति। मया हि कुशस्नेहाद् दिव्यदृशा दृष्टम्। तदिह दिनत्रये कुशकुमुद्वत्योः प्राणधारणमावाभ्यां साधनीयम्। तत्रापि त्वया कुमुद्वती रक्ष्या। मया तु वत्सो रक्ष्यते। साग-- इदानीं तु मया विचार्यमाणे दुर्घटमनयो: सङ्घटनमिति प्रतीयते। नाग-- प्रतीयतां तावत्। विद्यटयितुं घटमानं घटयितुमपि दुर्घटं वस्तु। विधिरलमिच्छामात्रान्नहि सोऽपि तदन्यसाधनापेक्षः॥२॥ तत् सुचित्ता सती कुमुद्वतीमाश्वासयन्ती तया च वत्ससमाश्वासनाय तत्सन्देशहारिणीं फणावतीं प्रेषय। मयापि कुमुद्वत्यै वत्ससन्देशः फणावतीमुखेन कार्यते। गच्छ सावधाना भव। साग-- तथा। (इति निष्क्रान्ता।) नाग-- (पुरोऽवलोक्य) सन्निहितो माढव्य:। (ततः प्रविशति विदूषकः।) विदू-- णमो भअवदीए। [नमो भगवत्यै।] नाग-- माढव्य सुखमास्यताम्। विदू-- कहं मह सुहासिआ। कहेहि कदा मे पोम्मावईविवाहो। [कथं मे सुखासिका। कथय कदा मे पद्मावती विवाह:।] नाग-- (सहासम्) गणेशेन समं तव विवाहः। विदू-- क अं परिहासेण। सच्चं कहेहि। [कृतं परिहासेन। सत्यं कथय।] साग-- भविष्यति स[^1] विलम्बेन। विदू-- (स्वगतम्) हा हदोम्हि। (क्षणं विषादेन स्थित्वा प्रकाशम्) किंकओसोविळंबो। [हा हतोऽस्मि। किंकृतः स विलम्ब:। (नागरिका सागरिकोक्तं सर्वमस्मै कथयति।) विद्व-- (श्रुत्वा) चउत्थोवा असज्झो मह व अस्सस्स अ विवाहो। व अस्सो दअद्दचित्तो दंडेण ण साहेदि। तदो लवे णिवेदिअ कज्जं साहणिज्जं। [^1]M, T2, TC. omit स [चतुर्थोपायसाध्यो मम वयस्यस्य च विवाह:। वयस्यो दयार्द्रचित्तो दण्डेन न साधयति। ततो लवे निवेद्य कार्यं साधनीयम्।] नाग-- साधु कल्याणबुद्धे साधु। चतुरमुत्प्रेक्षसे। विदू-- (सोल्लासम्) अहवा अहं एव्व सप्पयागेण णाअराअस्स दप्पभंगं करोमि। [अथवा अहमेव सर्पयांगेन नागराजस्य दर्पभङ्गं करोमि।] नाग-- तदपि काले भविष्यति। त्वमिदानीं केवलं लवे रहसि त्वत्कार्यं निवेद्य तदुपरि कुमुद्वतीवृत्तमपि किञ्चिदुद्घाट्य तेन सहैव राजसभामुपेत्य सर्वथा सर्पाणामस्मत्सरयूतीर्थदूषकाणां दर्पभङ्ग: कार्य इति लवेनाथवा त्वया राज्ञे विज्ञापनीयम्। अन्यच्च लवे विद्यमान एव कुमुद्वतीप्रवृत्तिज्ञापिका चीटिकामुत्पाद्य राज्ञे सा मद्दत्तेति त्वया देया। अन्यथा हि तद्वृत्तान्तबोधने त्वद्वयस्यस्य मोहो भविता। चतुरं प्रवर्तस्व। (इति विदूषकं विसृज्य स्वगतम्) अद्य वत्सस्य कुमुद्वतीनिरोधजन्मस्य मोहस्य निवृत्तये तस्या हारः प्रदेशः । तस्य तदर्शनं कुमुदतीदर्शनसमम् । अतस्तदानभनाय गच्छामि। (इति निष्क्रान्ता!) (मिश्रविष्कम्भः) (ततः प्रविशति सरयुतनिकुञ्जगतो राजा विभवतश्य उद्धान्त परिवार: 1) चेटी- देव कृतिमईदेवी पंचसविणाणि आरभिअ विमुत्तनिद्वाहारा सुण्णहि अआ बहुत। [देव कान्तिमतीदेवी पञ्चषदिनान्यारथ्य विमुक्तनिद्राहारा शशून्यहृदया वर्तते । राजा - (सनिःश्वासम् चामरग्राहिणीमालोक्य) अभि कलहंसिके किमिदनारब्धं देव्या चेष्टितम् ? कलहंसिका - (उपसृत्य करसंवृतमुखी) देवी. खु तुम्हाण सरीर दिणे दिणे वि किसत्तर्ण पंडुत्तर्ण अ विदेश। पापण पुरुसाणं इत्थिअंतर कोमणाल एवं होदि अहवं रोअविसेसेण । सव्वहा मे पाणा ण धारणिज्जति एव्वं वदृड । 1 .. M. T2 - कामणा 171 [देवी खलु युष्माकं शरीरं दिने दिनेऽपि कृशत्वं पाण्डत्वमपि विन्दते। प्रायेण पुरुषाणां स्त्र्यन्तरकामनयैवं भवति अथवा रोगविशेषेण। सर्वथा मे प्राणा न धारणीया इत्येवं वर्तते।] राजा-- (स्वगतम्) किं तयापि कुमुद्वतीवृत्तान्तः श्रुतः। (क्षणं विचार्य) भवतु यथा तथा वा।(प्रकाशम्) शरीरं हि प्राणिनां कदाचित् कदाचित् कमपि विकारं भजति। स च तदुचितचिकित्सया परिहार्य:। मा तत्र शतिष्ठाः। शापितासि मत्पदाभ्याम् इति मदाज्ञां ज्ञापयन्ती तामधुनैन भोजय(इति स्वनामाङ्कितमङ्गुलीयकं हस्ते दत्त्वा कलहंसिञ्कां प्रेषयन् पुरोऽवलोक्य स्वगतम्।) पूर्वस्मिन्नहनीह कुञ्जसदने पूर्णेन्दुबिम्बानना सा गौर्याः स्वयमर्चनं कृतवती पश्यन्त्यपाङ्गेन माम्। अद्याप्यत्र सकृत् समेष्यति तटिल्लोखेव चेन्मत्प्रिया भूरेवं स्वरहं च शक्रपदवीं यास्यामि सैवोर्वशी॥३॥ नाद्राक्षं मुखमुन्नमय्य रुचिरं नाश्लिष्टमस्या वपुः प्रस्निग्धं मृदु नापिबं तदधरं स्पष्टाभिवृष्टामृतम्। नैनामन्वगमं सुखं प्रचलितां मुग्धोऽस्मि बुद्धिर्हि मे द्रागेवानुससार तां स्वयमनापृच्छयैव मामाकुलम्॥४॥ चेटी-- देव रमणिज्जो अयं पदेसो। जुत्थं एत्थ तुम्हाणं देवीए सह कीडिदुम्। [देव रमणीयोऽयं प्रदेशः युक्तमत्र युष्माकं देव्या सह क्रीडितुम्।] राजा-- (स्वगतम्) युक्तमेव कुमुद्वत्या अलाभे।(प्रकाशम्) तथैव। देवी भुक्तवती न वेति विचारयत। इत्यन्तःपुरजनान् विसृज्य) नेदानीमपि नागरिका समागता। माढव्योऽपि नायातः। (प्रविश्य) कञ्चुकी-- (राजानं निर्वर्ण्य) विविक्तमध्यास्ते महाराजः कथमुपसर्पणीय:? (इति स्थित्वा स्वगतम्) अङ्के निवेश्य शिशुमेनमलालयं प्राग् आराजभावममुना मम मित्रभाव:। राज्ये स्थितोऽजनि स एव ममाप्रधृष्यो वर्ण्यक्रियस्तु महिमा नहि मादृशेन॥५॥ तथा कथापि युवराजलवागमनं विज्ञापनीयम्। (प्रकाशम उपसृत्य) जयतु महाराज:। युवराजो लवः समयं प्रतिपालयति। राजा-- (संप्रणयसंभ्रमम्) त्वरितमाहूयताम्। कञ्जु-- तथा। (इति निष्क्रम्य लवेन विदूषकेण च सह प्रविश्य) इत इतो राजा। इति राजानं प्रदर्श्य निष्क्रान्त:।) विदू-- जेदु महाराओ। [जयतु[^1] महाराज:।] (इत्युपविशति।) (लव: उपसृत्य विनयेन[^*] प्रणम्य शिरस्पञ्जलिं कृत्वा तिष्ठति। राजा हस्तेन तमाकृष्य स्वमङ्कयारोप्य शिरस्युपाघ्रामार्धासने स्थापयति।[^*] लव: अपसृत्य केवलभूमाकुपविशति।) राजा-- (सस्नेहम्) कच्चिद्राज्यं तव वशे कच्चित् स्निग्धाः प्रजास्त्वयि कच्चिन्मन्त्रयसे वत्स कालेषु[^2] सह मन्त्रिभिः॥६॥ लव:-- आर्येणाज्ञप्तं यत् क्रियते तन्मन्त्रिभिग्नुक्तम्। युष्मद्दृष्टः केनचिदन्येनार्थो न दृश्यते कश्चित्॥७॥ [^1] All mss. omit chāyā [^2] T2- adds मन्त्र [^*] T2 omits from विनयेन to स्थापयति राजा-- (सानन्दम्) वत्स लव लवणासुरबन्धुर्वज्रदंष्ट्नो नाम द्विशिरा महासुरो निशि यमुनातीरवासिनः पीड्यतीति भवता विज्ञप्तम्। तत्र कीदृशं प्रतिविधानं कृतम्? लव:-- स बलवानितराजय्य इति चन्द्रकेतुरेव प्रस्थापितः। वज्रदंष्ट्नोऽपि बहुचारतया चन्द्रकेतुमायान्तमाकर्ण्य भीतः पलायितः समुद्रमेव प्रविवेश। प्रस्थितचन्द्रकेतुश्च यमुनातीरवासिनामभयं दत्त्वा समागतः। राजा-- तर्हि किं विवक्षुरिव दृश्यसे? लव-- दिनत्रयेऽप्यार्यस्य शासनं न शृणोमि। तेन समागतोऽस्मि। इदानीं च साक्षांद्युष्माकमङ्गेषु दृश्यमानो विकारो मानसं ममाकुलयति। अत्र च हेतुं न पश्यामि। यदि तत्र निमित्तमुपलप्स्येपातालान्यपि सप्त पादशिखयैवोत्क्षिप्य दिक्षु क्षिपाम्युच्चैरुच्चलितैः शरैर्दिवमपि प्रच्यावयाम्यम्बरात्। एकीकृत्य विशोषयामि जलधीनार्याज्ञया किं जडैरन्यैः पन्नगकिन्नरासुरमरुद्गन्धर्वविद्याधरैः॥७॥ राजा-- सत्यमेवैतत्। मम हि त्वं दक्षिणो बाहुरसि। किन्तु वत्स न बलमस्तीति बलिना दुर्बला हन्यन्ते। सत्यपराधे सबलोऽपि शिक्षणीय एव। देहश्च देहिनामखिलरोगाकर एव। तन्निमित्तं च सम्यगुपलभ्य तत्प्रतीकाराय प्रवर्तितव्यं समये प्रवर्तमाने। समयं च नागरिका जानाति। विदू-- (उत्तरीयाञ्चलगृहीतां[^1] चीटिकामादाय) इयमद्य नागरिकादत्ता चीटिका। (इति तां राज्ञो हस्ते समर्पयति।) राजा-- (अपवार्य चीटिकां वाचयन् कुमुद्वती निरुद्धेति बुध्द्वापि लवसन्निधानाध्दैर्येण विकारमाच्छाद्य प्रकाशम्) किमेतेन? (इति चीटिकां पृष्ठतो निधाय लवमालोक्य) वत्स परिश्रान्तोऽस्मि गम्यतामिदानीम्। (इति लवं विसृज्य विदूषकं पश्यन्) माढव्य कोऽयमकाण्डे निरम्भोददम्भोलिपातः? पश्य पश्य- [^1]M- महितां प्राणेभ्योऽपि गरीयसी हि महिषी तस्या मुमूर्षाधुना राजा राज्यपराङ्मुखोऽजनि किलेत्यार्तिं गता भ्रातरः। यामिच्छामि कुमुद्वतीमियमभूढन्यावरुद्धा बलाद् हा कष्टं मम निष्ठुरः परिणतः कोऽयं विधेः प्रक्रमः॥१॥ (पुनश्च चीटिकां वाचयित्वा) हा कष्टम् रुध्दैव नम प्रियतमा। कथं तस्या मम च जीवनाशंसा? विदू-- महवि पोम्मावई रुध्दा। ता चउण्णं जीवण दुळ्ळहंति भणिदव्वं। [ममापि पद्मावती रुध्दा। तस्माचतुर्णां जीवनं दुर्लभमिति भणितव्यम्।] राजा-- द्वयोः त्र्याणां[^1] चतुर्णां वा जीवनं दुर्लभमस्तु। कथं जीवनमिति विचारे किमासीत्। सर्वथा त्वया पण्डितमानिना बाध्यामहे। विद्व-- जीवणोवाओ हि रवत्तिआणं णच्छादिओ। एक्केणेव्व बाणेण सप्पा उच्चाडणिज्जा। तदो कण्णआयुगळं गण्हिअ सुहं[^2] जीवामो। [जीवनोपायो हि[^3] क्षत्रियाणां नाच्छादितः। एकेनैव [^1]M- कार्याणां [^2]M omits सुहं [^3]M, T2 omit हि बाणेन सर्पा उच्चाटनीया: । तत: कन्यका युगलं गृहीत्वा सुखं जीवामः।] राजा-- अहो तव नीतिशास्त्रज्ञता यस्य चतुर्थोपाय: प्रथमः प्रयोज्यः। विदू-- (उपांशु) ता जइ भवं एव्वं अहिण्णो दाणिं केवळं दुक्खभाअणं होहि। [तद्यदि भवानेव[^1]मभिज्ञ: इदानी[^2] केवलं दुःखभाजनं भव।] (ततः प्रविशति नागरिका।) राजा-- (उत्थाय) नमो भगवत्यै। नाग-- (राजानमासने निवेशयन्ती) अभिमतेन युज्यस्व राजा-- कथमिदानीमभिमतलाभ:? नाग-- किं विदूषकदत्ता चीटिका वाचिता? राजा-- नागरिके त्वयाद्य कुमुद्वतीवृत्तान्त: कथं ज्ञात:? नाग-- सागरिका मुखादेव। राजा-- तर्हि सूनृत एव कुमुद्वतीवृत्तान्तः।(दृशौ निमील्य) [^1]M omits एवं [^2]M- तदानीं तस्याः स्तनौ तदधरस्तदपाङ्गितंवा हा हन्त मन्दहसितं विधिवञ्चितोऽस्मि। तत्रैव जन्मनि पुनः सकृदप्यमूनि पश्येयमन्यदपि वस्त्वथवा तदीयम्॥१०॥ (इति मूर्च्छति) नाग-- (तमङ्के निधाय तत्कालोचितैरुशीरचन्दनहिमाम्बुसेकादिभिरूपचर्य्य हस्तपादादिचालनं दृष्ट्वा) वत्स गृह्यतामयं ते कुमुद्वतीहार:। (इति राज्ञः कर्णे कथयति।) राजा-- (सानन्दं दृशावुन्मील्य हस्तं प्रसार्य) नागरिके कुत्र स हार:? कुमुद्वतीदर्शनेनेव तस्या हारदर्शनेन का जीवामि। (नागरिका हारमर्पयति।) राजा-- हारमादाय सादरमुत्थाय स्वोरसि निधाय) हा प्रिये जीवितोऽस्मि। स्तनयुगलविमर्दकलिष्टबाह्वन्तरालं दृढमिव परिरम्भं दत्तरोमाञ्चकम्पम्। प्रणयशिशिरचित्तः प्राप्तवानस्मि सद्यो हृदि विनिहितया ते हारयष्ट्याद्य दिष्ट्या॥२२॥ (तं हार पुनः करे गृहीत्वा निर्वर्ण्य) वेलोन्मर्दितयक्षकर्दममुखानेकाङ्गरागाङ्कितः सौरभ्येण विसर्पता दिशि नृणां घ्राणेन्द्रियानन्दनः। कन्दर्पोष्मनखंपचस्तनतटीसंपर्कधूम्रः क्वचित् प्राणानर्पयतीव मे फणिसुताहारस्तुषारो[^1]पमः॥२२॥ विद्व-- णाअरिए सव्वण्णा तुमं। तुए हि समये रण्णो हारो दिण्णो कुमुज्जईसण्णिहाणे हि राआ तण्ण बहुमण्णेदि। [नागरिके सर्वज्ञा त्वं। त्वया हि समये राजे हारो दत्त:। कुमुद्वतीसन्निधाने हि राजा तन्न बहुमन्यते।] नाग-- अभिज्ञमानिन् किं ब्रूषे। वत्स[^2]सञ्जीवनायैव हि मयेदानीं कुमुद्वतीहारो दत्तः। न पुनस्तस्य बहुमानाय। राजा-- सत्यमिदानीमनेनैव जीवितोऽस्मि। नागरिके कथमेष त्वया लब्धः? नाग-- पूर्वमत्रागमन काले कुमुद्वत्या सरयूतीरे निक्षिप्य विस्मृतोऽयं हार:। स च सागरिकाहस्तलग्नो [^1]M, T1- तुषारोद्वितिः, T.C. तुषारोचितिः [^2]M, T1, TC. वत्सस्य जीवनायैव मया ज्ञातः। ततश्च मया त्वदर्थमेव समये दातव्य इति स कुत्रचिद्रक्षितः। अद्य सोऽयं तव संरक्षणाय मया दत्तः। राजा-- साधु नागरिके साधु। सर्वं[^1] च काल एवोपकरोति। विदू-- णाअरिए रण्णे[^2] हारो दिण्णो। मम उण पोम्मावईमंडणं किं वि ण दिण्णं।[नागरिके राज्ञे हारो दत्त: मम पुन: पद्मावतीमण्डनं किमपि न दत्तम्।] नाग-- (स्वगतम्) सर्वदायं राजानमनुकरोति[^3]। भवत्वेवं तावत्। (प्रकाशम्) माढव्य पूर्वेद्यु: पद्मावतीनिर्माल्यमाल्यं तस्मिन् निकुञ्जे मया गुप्तम्। तइद्‌य शुना जम्बुकेन वा बहिः क्षिप्तं दृश्यते। तद्यदि तव धार्यं तदा गृह्यताम्। विदू—तुए खु पत्तक्खदो सुणा हअमाणं ण दिट्ठं। तदो धारणिज्जं एव्व। कुत्त तं ओमळळमळळम्। [त्वया[^4] खलु प्रत्यक्षतश्शुना ह्रियमाणं न दृष्टम्। ततो [^1]M, T1- सर्व: [^2]M- रण्णो [^3]All mss. add च [^4]M has प्रत्यक्षं for त्वया धारणीयमेव। कुत्र तन्निर्माल्यमाल्यम्। (उत्थाय नागरिकादर्शितं यत्किञ्चिन्निर्माल्यमाल्यं गृहीत्वा वक्षसि निक्षिपति।) राजा-- माल्यं हि शिरसा धारणीयम्। (विदूषक: तथा करोति।) राजा—नागरिके नेयमस्य प्रवृत्तिरारोपिता। स्वभावकृतैव। न ह्ययमनृतं जातुचिद्वेद। किं तु मदमस्यैष महिमा-- उचितज्ञस्तदज्ञो वा निःस्पृहः सस्पृहोऽपि वा। आब्रह्मकीटमस्याज्ञा चित्तविभ्रमकारिणी॥१३॥ तदास्तामेतत्। मयेदानीं लब्धमपि जीवनं निष्फलमिति प्रतीयते। नागरिके अपि विचारितं कुमुद्वती जीवति वा न वेति। नाग-- अद्य प्रातरेव हि मया सागरिकामुखाद् वृत्तान्तः श्रुतः। तदा कुमुद्वती शङ्खपालगृहे सह सखीभिर्यथापुरं वर्तत इति श्रुतम्। तदनन्तरप्रवृत्तिश्च ज्ञास्यते राजा-- मां चिन्तयन्त्यनुकलं दरमीलिताश्री रोमञ्चकञ्चुकितकोमलगात्रयष्टि:। निःश्वासवेगमलिनाधरबिम्बपार्श्वा सुप्तेव मत्प्रियतमा किमु मूर्च्छितास्ते॥ (इति चक्षुर्तिमील्य मौनमालम्बते।) नाग-- हा कष्टं पुनरपि वत्सो मूर्च्छतीव (बहिर्निर्गत्य नागह्रदसमीपे स्त्रियं काञ्चिदायान्तीमालोक्य) इयमिदानीं केति न ज्ञायते। वत्साय फणावत्यायातीति ब्रवीमि। क्षणं वापि स सन्तुष्यतु। (प्रक्रम प्रविश्य) वत्स दूरे फणावती समायाति। राजा-- (कर्णं दत्वा) किं कुमुद्वतीसकाशात् फणावती समायाति। नाग-- तथा पश्यामि। राजा-- त्वरितमाहूमताम्। नाग-- (स्वगतम्) वत्सस्य तावन्मूर्च्छा परिहृता। भवतु द्रक्ष्याम:। (प्रकाशम् किञ्चिदभिगम्य[^1] समीपे तां पश्यन्ती सानन्दम्) इयं सा फणावत्येव। अहं [^1]T2- अभिगत्य हि सत्यवादिन्यभवम्। श्रोत: सुकृत[^1]पाकेन वक्तुर्वा भाग्यगौरवात्। हठादुक्तः प्रिया वाचः सद्य: सत्या भवन्ति हि॥ (उपसृत्य) अपि सत्यं फणावती त्वम्। (इति तामालिङ्गय) फणावति दूरे त्वां स्त्रीसामान्येन पश्यन्ती राज्ञे शोकार्णवमग्नाय "फणावती समायाति इति समाश्वासनमहमुदीरितवती। त्वमद्य मां सत्यवादिनीमकार्षी:। एह्येहि गच्छावः। अद्य वत्सः कुमुद्वतीमनुस्मन् द्विस्त्रिर्मुमोह। तमाश्वासय यथोचितम् (इति वदन्ती तया सह राज्ञो धुरि स्थित्वा) इयमागता कुमुद्वतीप्रेषिता फणावती। फणा-- जेदु महाराओ। [जयतु[^2] महाराज:।] राजा—फणावत्यद्य त्वां कुमुद्वतीमेव पश्यामि। नाग-- सङ्कल्पेन कुमुद्वतीं दिशि दिशि कल्पयतस्तव तत्सख्यां तद्बुद्धिरुचितैव। फणा-- अम्हाणं भट्ठिदारिआ तुम्हाण[^3] चिंतासन्दावेण [^1]M, T add भाग्य विशेषेण्य [^2]All mss. omit shāyā. [^3]M- तुम्हा and adds एव्व हि णिस्सासू[^1]सासमेत्तसेसा। अय्यउत्तो जीवदि[^2] वा[^3] ण वेत्ति वि आरिअ मं उपेहित्ति मं पेसिदवसौ अहं अ हारगवेसणववदेसेण शंखपाळाणुमदा कहं वि णिग्गदा। [अस्माकं भर्तृदारिका युष्माकं चिन्तासन्तापेन निःश्वासोच्छवासमात्रशेषा। आर्यपुत्रो जीवति वा न वेति विचार्य मामुपेहीति मां प्रेषितवती। अहं च हारगवेषणव्यपदेशेन शङ्खपालानुमता कथमपि निर्गता।] नाग-- तेन कुमुद्वतीहारेणैव वत्सोऽद्य सञ्जीवितः। फणा-- (सानन्दम्) कहं हारो ळध्दो कहं अ तेण महाराओ जीविओ। [कथं हारो लब्धः कथं च तेन महाराजो जीवित:।] नाग-- सर्वमिदं दैवकारितम् यत् कुमुद्वत्या हारविस्मरणं या च तस्य सागरिकाद्वारा मत्करप्राप्ति: यच्च गवेषमन्तीं त्वां प्रति तध्दोपनं यच्च कालेन वत्साय तस्य दानम्। स हार एव हि कुमुद्वत्याः [^1]M- निस्सासोच्छासमात्तसेसा [^2]T1,T2- जीवइ [^3] T₁, T₂ omit वा [^4]M- पेरिसवई णिस्सासू[^1]सासमेत्तसेसा। अय्यउत्तो जीवदि[^2] वा[^3] ण वेत्ति वि आरिअ मं उपेहित्ति मं पेसिदवसौ अहं अ हारगवेसणववदेसेण शंखपाळाणुमदा कहं वि णिग्गदा। [अस्माकं भर्तृदारिका युष्माकं चिन्तासन्तापेन निःश्वासोच्छवासमात्रशेषा। आर्यपुत्रो जीवति वा न वेति विचार्य मामुपेहीति मां प्रेषितवती। अहं च हारगवेषणव्यपदेशेन शङ्खपालानुमता कथमपि निर्गता।] नाग-- तेन कुमुद्वतीहारेणैव वत्सोऽद्य सञ्जीवितः। फणा-- (सानन्दम्) कहं हारो ळध्दो कहं अ तेण महाराओ जीविओ। [कथं हारो लब्धः कथं च तेन महाराजो जीवित:।] नाग-- सर्वमिदं दैवकारितम् यत् कुमुद्वत्या हारविस्मरणं या च तस्य सागरिकाद्वारा मत्करप्राप्ति: यच्च गवेषमन्तीं त्वां प्रति तध्दोपनं यच्च कालेन वत्साय तस्य दानम्। स हार एव हि कुमुद्वत्याः [^1]M- निस्सासोच्छासमात्तसेसा [^2]T1,T2- जीवइ [^3] T₁, T₂ omit वा [^4]M- पेरिसवई प्रतिनिधी भूय मोहितं वत्सं प्रबोधयति स्म। इदं सर्वं कुमुद्वत्यै रहसि निवेदय। फणा-- अज्ज हारस्स अहव भट्ठिदारिआए अहव सव्वासं एव्व अम्हाणं जम्मसाहळ्ळ ळध्दम्। [अद्य हारस्य अथवा भर्तृदारिकाया अथवा सर्वासामेवास्माकं जन्मसाफल्यं लब्धम्।] राजा-- फणावति कुमुद्वती किं जीवति? फणा-- तुम्हाणं णाममन्तजपेण मुत्तुंजअमन्तजपेण विअ कहं वि जीवइ। [युष्माकं नाममन्त्रजपेन मृत्युञ्जयमन्त्रजपेनेव कथमपि जीवति।] राजा-- (दीर्घमुष्णं च निःश्वस्य) अस्ति किमस्याः कश्चन सन्देशः? फणा-- (सस्मरणम्) अत्थि सन्देसो। [अस्ति सन्देश:।] (इति ससंभ्रमं कर्णपूरकृतं कैतकपत्रमादायार्पयति।) राजा-- (प्रतिगृह्य) किमेतत्? फणा-- इयं संदेसपत्तिआ। पत्तक्खेण पत्तिआ णाणेदुं सक्का। कंचुकी हि सोहेदि। तदो भट्टिदारिअआ सबुद्धिकोसळेण फुडधारिअं कंचुई ण सोहेदित्ति मह कण्णपूरए[^1] केद[^2]अदळे णहळेहणीए किं वि आळिहिअ अध्यउत्तसंदे सोत्ति मे कण्णे एव्व धारिअं। किं ळिहिअं ण आणे। भवं एण्व पुळोएद। [इयं संदेशपत्रिका। प्रत्यक्षेण पत्रिका नानेतुं शक्या। कञ्चुकी हि शोधयति। ततो भर्तृदारिकया स्वबुद्धिकौशलेन स्फुटधारितं कञ्चुकी न शोधयतीति मम कर्णपुरके कैतकदले नखलेखन्या किमप्यालिख्य आर्यपुत्रसन्देश इति मे कर्ण एव धारितम्। किं लिखितं न जाने। भवानेव पश्यतु। राजा-- (तत् कैतकदलमुद्धाट्य तत्र वर्णान् निर्वर्ण्य) अहो लेखिनीं विनैव कुमुद्वत्या नखेन लेखनचातुर्यम्। म्रदीयः कैतक पत्रं नखरं च खराञ्चलम्। कथं पत्रानुगुण्येन विन्यस्ता वर्णराजयः॥२६॥ अथ च स्पष्टमेव वाचनीया वर्णाः। आकारसदृशी प्रज्ञेति हि सामुद्रिका[^3] आचक्षते। (सानन्दंसंस्कृतमाश्रित्य वाचयति।) एति जीवन्तमित्येषा गाथा सद्भिरुदीर्यते। तत्प्रमाणात्तदावाभ्यां प्राणा रक्ष्या: कथञ्चन॥१७॥इति। [^1]T1,T2- कण्णपूर [^2]M- कैद अदळे [^3]T2 adds विद नाग-- वत्स दृष्टः कुमुद्वत्या: सन्देशनिष्कर्षः। तदेषा प्रज्ञया[^1] तव सदृशी भार्या। त्वमप्यस्याः सदृशः पतिः। राजा-- ममापि कुमुद्वत्युक्तमेव युक्ततया रोचते[^2]। आवयोरार्जवेन सङ्घटनं त्वदधीनम्। नाग-- वत्स त्वया धैर्यमवलम्ब्यताम्। आर्जवेन पौरुषेण वा परश्वः परमोऽवधिः। उभयोः सङ्घटनं मदधीनम्। विदू—फणावइ पोम्मावइ कुत्त वट्टइ?[^3] [फणावति पद्मावती कुत्र वर्तते?] फणा-- सा खीरं[^4] एव्व पिबन्ती भट्टिदारिआसमीवमि वट्टइ। कदा मोक्खो सेहो भविस्मदित्ति[^5] ण आणे। [सा क्षीरमेव पिबन्ती भर्तृदारिकासमीपे वर्तते। कदा मोक्षोऽस्या भविष्यतीति न जाने।] विदू-- हद्धि हद्धि कसा खु सा भविस्सदि। कहं जीविस्सं। [हा धिक् हा धिक् कृशा खलु सा भविष्यति। कथं जीविष्यामि।] [^1] T2- प्राज्ञया [^2] T2 रोचयते [^3] All mss. have स्पष्टम् and omit chāyā. [^4]M, T1- क्षीरं [^5]T, T2 omit भविस्सदित्ति (नागरिका भ्रूसंज्ञां पश्यन्ती फणावती।) फणा-- दाणिं ताए अंगाइ क्षीरपाणेन मंसळिआणि। [इदानीं तस्या अङ्गानि क्षीरपानेन मांसलितानि।] विदू-- किं कस्सा[^1]णंतर भाविणी सोहा वि पवुत्ता? [किं कार्श्यानन्तरभाविनी शोभापि प्रवृत्ता?] नाग-- नहि नहि शोभा रोगरूपा किन्तु कान्तिरूपा। दरिद्राणां हि भूय: क्षीरपाने वपुस्तथा भवति। विदू-- तुह वअणं सच्चं होदु जीविस्सामि। [तव वचनं सत्यं भवतु जीविष्यामि।] राजा[^2]-- आस्तामेतत्। कथय फणावति मां प्रति तया किं वाचिकमुक्तम्। फणा—अय्यउत्त दुवे दिणे कहं वि पाणा मए धारणिज्जा। परदो ण धारेदुं सक्का। झत्ति मे पाणिं गृहाणेत्ति। [आर्यपुत्र द्वे दिने कथमपि प्राणा मया धार्यन्ते परतो न धारयितुं शक्या:। झटिति मे पाणिं गृहाणेति।] राजा—नागरिके श्रोत्रव्यम्। [^1]T1,T2- कस्याणंतर॰ [^2]M omits राजा नाग-- झटित्येव सङ्घटनं करोमि। फणावति निःशङ्का सुखमास्स्व इति मदुक्तिं तव भर्तृदारिकायै निवेदय। राजा-- फणावति कथमिदानीं कालं कुमुद्वती क्षिपति? नाग-- किमिदमपि ते ताः प्रति प्रष्टव्यम्? मयोत्प्रेक्ष्यते- त्वामेव ध्यायन्ती त्वन्नाममहामनुं जपन्त्यन्तः। स्मरशरहुताशपञ्चकमध्यगता सा तपश्चरन्त्यास्ते॥२८॥ फणा-- सच्चं एव्व भअवदी भणइ[^1]। अण्णंअ अणिच्छन्तीए वि ताए खणे खणे मोहो होदि। सही अणेहि अम्हाहिं महाराअसमाअमपसंगे पवट्टिदे णिवट्टेदि सो। [सत्यमेव भगवती भणति। अन्यच्च अनिच्छन्त्या अपि तस्याः क्षणे क्षणे मोहो भवति। सखीजनैरस्माभिर्महाराजसमागमप्रसङ्गे प्रवर्तिते निवर्तते[^2] स:।]। राजा-- इन्दीवरप्रतिममीक्षणमायताक्ष्या वक्त्रं च शारदसुधाकरबिम्बकान्तम्। अङ्गानि पङ्कजदलोदरसोदराणि मूर्च्छासु कामिव दशां करुणां भजन्ति॥१९॥ [^1]T1,T2- भणादि [^2]T1- निवर्तिते नाग-- अलं वृथा शोचित्वा। यथास्या: पुनर्न मोहो भवति तथा यतितव्यम्। राजा-- क उपाय:? नाग-- यथा तव तस्या हारलाभेन मोहनिवृत्ति तथैव तव भूषणेषु कस्यचिल्लाभेन तस्या अपि मोहनिवृत्तिर्भविष्यति। राजा-- तथा क्रियताम्। नाग-- इदं ते कुमुद्वतीज्ञातमाभरणम्। (इति राज्ञो हस्तादङ्गदमाहरन्ती) वत्सेदानीं त्वमतिकशोऽसि। बलादाकर्षणीयं यद् तद् बाहोर्गलति स्वयम्। इदं च ते महत्कार्श्यमचिरादपनेष्यते॥२०॥ (इति तदङ्गदं गृहीत्वा राज्ञोऽनुज्ञया फणावत्या: करे अर्पयति।) इदं कुत्रचिदाच्छाद्य मूर्च्छासमये तस्यै दातव्यम्। फणा-- (गृहीत्वा) कहं एदं दाणिं मए तत्त णेदव्वं। कंचुई हि सोहेहि। [कथमेतदिदानीं मया तत्र नेतव्यम्। कञ्चुंकी हिशोधयति।] नाग—तिरस्करिणीमहिम्ना तिरोहितं भवतु। कुमुद्वत्यै परं प्रकाशताम्। (इति स्वहस्तेन स्पृशति।) फणा-- तह[^1]। [तथा।] (इति उत्तरीयाञ्चले बध्नाति।) राजा-- हारोऽप्ययं तस्या: प्रीत्यै प्रदेशः। नाग-- न प्रदेय:। तवोज्जीवनाय हि मया चिराद् गुप्तः। कुमुद्वत्यपि तादृशहारोपनयने फणावत्यै कुप्यति। फणा-- सच्चं एव्वं सा कुप्पइ। णाहं तं णआमि। [सत्यमेव सा कुप्यति। नाहं तं नयामि।] नाग-- परन्तु हारो लब्ध इति तद्वृत्तान्तस्तस्यै रहस्यभिधीयताम्। प्रकाशं च पृच्छद्भयो न लब्ध इत्येव ब्रूयाः। फणा-- तहव्व[^2] साहआमि। (इत्युत्थाय स्मृत्वा) महाराअ अम्हाण भट्टिदारिआवअणेण अहं एव्व भट्टिदारिआ भविअ तुम्हाण पाएसु पणमामि। [तथैव साधयामि। महाराज[^*] अस्माकं भर्तृदारिकावचनेनाहमेव भर्तृदारिका भूत्वा युष्माकं पादयोः प्रणमामि) (इति राजानं पादयोः स्पृष्ट्वा प्रणमति।[^*]) [^1]All mss. read तहत्ति [^2]M- तहं वि [^*]T2 omits from महाराज to प्रणमति राजा-- फणावति उत्तिष्ठ। तस्या एव पाणिस्पर्शो मया लब्ध:। नाग-- फणावति श्रुता त्वया वत्सस्य गभीरार्था वाणी। कुमुद्वतीभूय प्रणमन्तीमपि त्वां परपरिग्रह इति न पस्पर्श। सैव यदि बाहुभ्यामुत्क्षिप्यालिङ्गति। त्वया कृतः स्पर्शोऽपि वत्सेन तस्या एव स्पर्श इति भावितः। फणा-- जुज्जइ रामकुमारस्य कुसस्स एआरिसं वअणं एसो महापुरसोत्ति हि एदस्सिं अणुरत्ता कुमुज्जई। [युज्यते रामकुमारस्य कुशस्य एतादृशं वचनम्। एष महापुरुष इति हि पतस्मिन्ननुरक्ता कुमुद्वती।] राजा-- फणावति गत्वा च त्वमेव मत्प्रणिधिः सती तां गाढं परिष्वजस्व। मत्सन्देशश्च तस्यै कथ्यताम्। श्वोऽहं परेद्युरथवा[^1] न विवादलेश: सामादिभिस्त्रिभिरथ स्वपराक्रमेण। पाताललोकमखिलं स्ववशे विधाय पाणिग्रहेण भवतीं पुरमानयामि॥२१॥इति। फणा-- फळिस्सदि तुम्हाण सन्देसो। फुरइ[^2] मे वायो [^1]M, T1- अपरेद्यु [^2]T2- फुरो चक्खू। अहव सैसवच्चिअ[^1] दासरइं जिअवत्तस्स तुह रसाअळजए को संदेहो[^2]। [फलिष्यति युष्माकं सन्देशः। स्फुरति मे वामं चक्षुः। अथवा शैशव एष दाशरथिं जितवतस्तव रसातलजये कः सन्देहः।] नाग-- (पुरोऽवलोक्य) इतः कलावती त्वरितमायाति। राजा-- (निर्वर्ण्य) निस्सहनिःश्वासचलत्कुचयुगल निरस्यमान संव्याना। स्फुरदधरा करमुच्चैरुत्कम्प्यायाति संभ्रमादेषा॥२२॥ (ततः प्रविशति कलावती।) कला-- फणावइ किं तिट्ठसि। उट्ठेहि उट्ठेहि। तुमं अयुज्झं गआ[^3]सित्ति कुपिओ कंचुइ समा आदि। [फिणावति किं तिष्ठसि। उत्तिष्ठ उत्तिष्ठ। त्वामयोध्यां गतासीति कुपितः कञ्चुकी समायाति।] नाग-- त्वरितं गच्छ त्वम्। कञ्चुक्यत्र नायातु। (फणावतीकलावत्यौ निष्क्रान्ते।) [^1]M- एव्व [^2]T1- संदोहो [^3]T1, T2- गअंति राजा-- नागरिके किं फणावत्यै वक्तव्यं सर्वमादिष्टम्? नाग-- तव कुमुद्वतीसन्देशसमाप्तिरप्यस्ति? विस्मृतमंश मदनो वदिष्यति। (नेपथ्ये वैतालिक:) वैतालिक:-- अस्ताचलं व्रजति सम्प्रति लोकबन्धुः सन्तो भजन्ति निजकर्मकृते सरांसि। सिंहा विशन्ति शयितुं गिरिगह्वराणि राजन्नृसिंह नगरं त्वमपि प्रयाहि॥२३॥ राजा-- (आकर्ण्य) अहो फणावतीवाक्यश्रवणकुतूहलादविदितपरिणामो गतो दिवसः सकलोऽपि। तद्गन्तव्यमस्माभिः। (इति निष्क्रान्ता: सर्वे) ॥तृतीयोऽङ्कः॥ चतुर्थोऽङ्क: (ततः प्रविशति नागरिका) नाग-- अद्य कुमुद्वतीवृत्तान्तो नोपलब्धः। वत्सेन पृष्टा किं[^1] कथयानि। (समन्तादवलोक्य) दूरे नागकन्यकाद्वयं सञ्चरति। ते पृच्छामि (इत्युपसृत्य) कन्यके किमर्थमत्रागते भवत्यौ? कन्यके-- नागराअकण्णआए कुमुज्जईए मूळिआ गह्नीमो। [नागराजकन्यकायै कुमुद्वत्यै मूलिकां गृह्णीम:।] नाग-- कस्तस्या रोगः? कन्यके-- माणससन्दावेण उम्मादो। [मानससन्तापेन उन्माद: परिणत:।] नाग-- (सोद्वेगम्) कीदृशस्तस्य उन्मादः? विस्तरेण कथयतम्। कन्यके[^2]-- अम्हाणं अवसरो णत्थि। कंचुई ताडेइ। गच्छामी। साअरिआ णाअळोआदो पट्ठिदा[^3]। सा आजवुन अ सव्वं दे कहइस्सदि। [आवयोः [^1]M,T2- [^2]T1,T2- कन्ये [^3]T- अवसरो नास्ति[^1]। कञ्चुकी ताडयति। गच्छावः। सागरिका नागलोकात् प्रस्थिता। सा आगत्य सर्वं ते कथमिष्यति। (इति निष्क्रान्ते कन्यके1) नाग-- कदा सागरिकाभ्येति कदा तस्या वचनं श्रोष्यामि। कोऽयमुन्मादो नाम कुमुद्वत्या:? उन्मत्ताविवाहश्च निषिद्ध: वत्सश्च न संमन्यते। ततश्च तस्य मनोरथो भग्नः। न कस्याप्युन्मत्तया व्यवहारोऽस्ति। उन्मादो हि निवृत्तोऽपिचिकित्साभिः शरीरिणाम्। न निवर्तेत निःशेषं लेशतस्त्वनुवर्तते॥१॥ कथं प्रभातमद्य। (पुरोऽवलोक्य) आगतैव सागरिका। (प्रविश्य) साग-- (उरसि हस्तं निधाय) नागरिके[^2] कियत्ते मुखे वैवर्ण्यम्। अपि वत्सस्य कुशलम्? नाग-- कथं वत्सस्य कुशलं कुमुद्वत्या उन्मादे। साग-- कुतः श्रुतोऽयं कुमुद्वत्या उन्माद:? [^1]T2- णंति [^2]M, T.c omit नागरिके नाग-- मूलिकान्वेष[^1]कात् नागकन्याद्वयात्। साग-- (सहासम्) न भेतव्यम् न भेतव्यम्। तस्या ममैव हि रहस्यारोपित उन्मादा[^2]दिर्न स्वाभाविकः। नाग-- (सानन्दं तामालिन्ती) सारिके सत्यं त्वयाद्य जीवितास्मि। (निःश्वस्य) कथय सविस्तरं कथमारोपितः किमर्थश्च तस्यामुन्मादादिः। साग-- श्रूयतामादितः स वृत्तान्त:। अद्य प्रभाते कुमुद्वती सुप्तोत्थिता संभ्रान्तासती स्वेन दृष्टं स्वप्नं मह्यं निवेदितवती रात्रावद्य राजा स्वप्ने मूर्च्छितो दृष्टः न पुनस्तस्य तदपगमोऽपि। ततो मे किमपि न स्फुरति इति। मया तु ततः[^4] कुमुद्वति त्वया दृष्टः स्वप्नो न फलिष्यति। पूर्वेद्यु: फणावतीमुखात् श्रुता राज्ञो मूर्च्छैव त्वया स्मृता इत्युक्तम्। पुनः सा सागरिके स्वप्नः स्मृतिरस्तु अनुभवोऽस्तु वा नाहमशुभदर्शनं सहिष्ये। ततश्च यदद्य दिनान्तावधिकाले दयितं न पश्यामि त्यक्ष्याम्यसून् न [^1]T2- अन्वेषणात् [^2]T2 has उन्मादादिर्न स्वाभाविक: as marginalia. [^3]M- जीवितोऽस्मि [^4]T2- कुतः मिथ्या। तदत्र दृश्यस्त्वयोपाय: इति प्रतिज्ञातवती। अहं च तस्या: प्रतिज्ञादाढर्यं[^1] विज्ञाय तदुचितमेव कुमुद्वतीबहिर्निर्गमनमिव राज्ञोऽप्यत्रागमनमसंभावितम्। अथापि तव प्राणत्राणाय स एव वेषान्तरप्रतिच्छन्न आनीयते। त्वं च तदानयनं[^2] यावदत्रैव मञ्चे शयाना व्याधितेव ग्रहग्रस्तेव पश्यतामुन्मत्तेव च यत्किञ्चित् कुर्वाणा यत्किञ्चिदालपन्ती तिष्ठ। सखीभ्योऽपि तत्त्वं नावेदय। मुहूर्तेनैव तव प्रियानयनसंविधानं करोमि पश्य इति तां मञ्चे शायितवत्यस्मि। नाग-- अहो तस्या वत्से महाननुराग: यन्महिम्ना सेयमेतादृशीं दशागमनुभवति। सर्वोऽप्ययं मदनस्य प्रभाव:। आस्तामिदम्। ततस्ततः। साग-- ततश्चोन्मत्ता कुमुद्वती मञ्चान्नावरूढेति तत्सखीभिरावेदितः शङ्खपालसहित: कुमुदः सम्भ्रमेण सपरिवारस्तत्समीपमागत्य कुमुद्वतीं तथाविधां [^1]M, T1, Tc- ॰दास्यं [^2]T2- त्वद् [^3]M, T1, T.c- मञ्चान्तावरूढेति दृष्ट्वा शोकवेगसम्भ्रान्तमानसः शीघ्रमानीयन्तां चिकित्सका: मान्त्रिका: मौहूर्तिकाश्चेत्यादिश्य धुरि पश्यन्यां सागरिके किं त्वया भूतले कश्चिदेतच्छिकित्सको दृष्ट इति सादरं पृष्टवान्। ततो लब्धावसराहं काचिन्मम तीरे सिद्धयोगिनी वर्तते। तस्या: करे सर्वज्ञो नाम कश्चन शुक:। तौ सर्वं ज्ञात्वा प्रतिकरिष्यतः इति किञ्द्वदन्त्यामेव मयि कुमुद: प्रियोक्तिपूर्वकमवश्यं शुक्रेन सह तां सिद्धयोगिनीं कथमपि त्वरितमानयेति मां प्रेषितवान्। एष कुमुद्वतीवृत्तान्तः। नाग-- (सानन्दम्) प्रियं नः। प्रागेव वत्सः केनापि प्रकारेण तद्दर्शनमेव काङ्क्षति। स[^1] तिर्यग्रूपमपि तद्दर्शनाय सम्मन्यते। तदस्मै सर्वमिदं वृत्तं निवेद्य राजाद्य शुद्धान्ते शेत इति सुमन्त्रमाढव्याभ्यामुपदिश्य दिव्यशकरूपेण तेन सममहं कापालिकीरूपधरा सिद्धयोगिनीभूय नागहदतटनिकुञ्जे वसामि। त्वमपि कुमुद्वतीमुपगम्य [^1] To omits स कुमुदस्य तत्रत्यवैद्यादिवैयर्थ्यं कुमुद्वतीविकृत्यैव लक्षयित्वा समये तेनैवं प्रार्थिता सती मामाकारय। तावच्च तदुचितसंविधाने प्रवर्तस्व। साग-- यदाज्ञापयति भगवती। (इति निष्क्रान्ता।) (नागरिकापि स्वकार्यनिर्वाहाय निष्क्रान्ता।) ॥मिश्रविष्कम्भः॥ (ततः प्रविशति मञ्चे शयाना स्वयमभ्रान्तैव बहिरभिनीत भ्रान्तिरूपा उपविष्टाभ्यां सपरिवाराभ्यो कुमुदशङ्खपालाभ्यां सागरिकया चोपास्यमाना कुमुद्वती।) कुमु-- (पितरं दृष्ट्वा ज्ञात्वैव) कोणु एसो। [कोनु एष:।] (इति वदन्ती तन्द्रीं नाट्यति।) कुमुदः-- कोऽहम्? किं मां जानासि? कुमु-- तुमं भूळोअणाहो महाराओ।[^1][त्वं भूलोकनाथो महाराज:।] कुमुद:-- (स्वगतम्) मया किलायोध्यापतिरागत इति सरयूगमनं प्रत्येषा प्रतिषिद्धा। स्वगतिनिरोधकं तमेव [^1] All mss स्पष्टम् and omits chāyā स्मत्येषा। (प्रकाशम्) कुमुद्वति किं ब्रूषे भूलोकनाथ इति। शङ्ख-- (स्वगतम्) सत्यमेषा कुशानुरक्ता। कञ्चुकी सत्यमाह। कुमुदः-- कुमुद्वति किमुत्तरं न ददासि? कुमु-- (स्वगतम्) तादस्स वि किं संका जाआ जेण मं पुणो वि पुच्छइ। तं एव्व चिन्तयन्तीए मह महादो[^1] तण्णाम णिग्गअं। होदु दाव। भंतन्तरेण परिहरणिज्जं। (प्रकाशम्)[^2] अहव भवं तिदिवळोअणाहो महींदो। [तातस्यापि किं शङ्का जाता येन मां पुनरपि पृच्छति। तमेव चिन्तयन्त्या मम मुखात् तन्नाम निर्गतम्। भवतु तावत्। भ्रान्त्यन्तरेण परिहरणीयम्। अथवा भवान् त्रिदिवलोकनाथो महेन्द्र:।] कुमुद:-- मुग्धैवेयम्। शङ्ख-- अहं कः? कुमुद्वति शंस। कुमु-- तुमं दक्खिणदिसाणाहो धम्मराओ[^3]। [त्वं दक्षिणदिशानाथो धर्मराज:।] [^1] T1,T2- मुहाहिंतो, Tc.- मुहंतो [^2]M,T1 omit प्रकाशम् [^3]T2- अम्मआओ शङ्ख-- (स्वगतम्) मय्यस्या महान् मत्सरः[^1]। साग-- (स्वगतम्) भ्रान्तिव्याजेन[^2] स्वहृदयमाविष्कृतं कुमुद्धत्या। (प्रकाशम्) शङ्खपाल दिक्पालक्रमेण कुमुदं महेन्द्रमुक्त्वा त्वां धर्मराजमाह कुमुद्वती। भ्रान्तावपि क्रमस्फूर्तिरुत्सर्गः। किमुन्मत्तामालापयथ। भ्रान्ता हि यत्किञ्चित् ब्रुवते। भिषज आनीयन्ताम्। कुमुद:-- क: कोऽञ भो:। भिषज आहुयन्ताम्। कञ्चुकी-- यदाज्ञापयति देव:। (इति निष्क्रम्य तैः सह प्रविश्य) जयतु देवः। एते भिषजः। कुमुदः भोभो वैद्याः अस्या धातुं परीक्ष्य चिकित्सा प्रवर्त्यताम्। वैद्या:-- (अपवार्य) प्रायः प्रभुगृहे नार्यः क्षीराज्यप्राय भोजनाः। भजन्ति विविधान् रोगांस्त्यजन्ति भिषजां क्रमम्॥२॥ [^1]T2- सत्वर: [^2]M- णाजेण धातुत्रयेण पृथगेव भवन्ति रोगाः साङ्कर्यतस्तनुभृतां त इमे त्वसङ्ख्या:। तेषां निदानमिह बोद्धमलां न दस्रा- वस्माकमत्र कथमत्र(मद्य?) निदानबोधः॥३॥ राजानस्तत्त्वमेतन्न जानन्ति। यदि जानीयुर्नास्मान् संगृह्णन्ति। तदज्ञानमेषामस्मत्सुकृतमेव[^1]। तदस्माभिर्निदानमजानद्भिः सर्वरोगानुगुण्येन चिकित्सा प्रवर्तनीया। (प्रकाशम् प्रत्येकमेव कुमुद्वती धातुमालोक्य पाणीन् प्रक्षाल्य परस्परानुमता) राजन् पञ्चषदिनैरौषधकषायादिभिरेनामुत्पाव्यां विधाय बहुमता भविष्यामः। कुमुद:-- अस्या: को रोग:? वैद्या:-- (मिथः पश्यन्तः ऐककण्ठ्येन) वातप्रधानो रोग:। कुमु-- (स्वगतम्) वाअरोओत्ति उण्हकसाएहिं पागेव विरहदावपीडिअं मं पीडइज्जन्ति[^2]। होदु दाव। (प्रकाशम् ज्ञानाज्ञानशबलितेव ज्ञानमधिनीय) ताद वेज्जा दे किं विण आणंति। मह नाडीषु [^1]T2- adds कृत [^2] All mss have पीडिज्जन्ति विआरो णद्धि। भवंतो[^1] विळोअंतु। [वातरोग इत्युष्णकषायै: प्रागेव विरहतापपीडितां मां पीडयिण्यन्ति। भवतु तावत्। तात वैद्या ते किमपि न जानन्ति। मम नाडीषु विकारो नास्ति। भवन्तो विलोकमन्तु।] साग-- (उपसृत्य अपवार्य) नागराज संप्रति कुमुद्वत्या: क्षणं बोधः क्षणमबोधश्च। इदं मया सूक्ष्मदृष्ट्या दृश्यते। इदानीं सत्यमेषा वदति। अस्या: किल त्वया चरकसुश्रुतादि ग्रन्थस्तज्ञैः पाठितः। वैद्याश्च मञ्चे शयानामिमां दृष्टवा नीरोगां वक्तुं बिभ्यतो यत्किञ्चित् वदन्ति। भवन्तः सर्वज्ञाः कियेतन्न जानन्ति। कुमुदः-- (स्वगतम्) कुमुद्वत्याः ज्ञानमस्तु न वा। सागरिकोक्तं सत्यमेव भविष्यति। तदेते वैद्या: प्रेषणीया:। (प्रकाशम्) वैद्या: श्वोऽस्या: पाणिग्रहो निवर्तिष्यते। उत्सवसंभारायश्च संभृताः। कथं पञ्चषदिनविलम्ब:। तर्हि मान्त्रिकै: [^1]T1,T2- भवंता नीरोगा क्रियते। यूयमिदानीं गच्छत। (वैद्या: निष्क्रान्ता:।) कुमुदः-- (अग्रे स्थितमालोक्य) अस्तीकवंश्यो मान्त्रिकोऽस्तिमन्त्रः प्रवेश्यताम्। (ततः प्रविशति तेनाहूतः परितो विभूतिप्रक्षेपेग दिग्बन्धनं कुर्वन्[^1] पदे पदे हुंकारं प्रयुञ्जानोऽस्तिमन्त्र:।) कुमुदः-- (अभिगम्मास्तिमन्त्रमासन उपवेश्य स्वयमुपविश्य) अस्तिमन्त्र दृश्यतामस्य ग्रहशङ्कास्ति न वेति। कुमु-- (स्वगतम्) मह शंखवालपाणिग्गहसंकत्थि। [मम शङ्खपालपाणिग्रहशङ्कास्ति।] अस्तिमन्त्रः नालिकेरशिखासु दीपानारोप्य कुमुवत्याः परितः परिभ्राम्य दिक्षु स्थापयित्वा करतालिकया त्रि:शब्दमुत्पाद्य भस्त्रिकास्थ[^2]मघोरभस्मादाय अघोरमन्त्रमावर्तयन् कुमुत्याललाटे तेन भस्मना तिलकं कृत्वा हुंकार [^1]M- कुर्वति [^2]T2- अध्यस्थ 2. T2.- अध्यस्थ 206 ङ्गमालिम्पति।) (कुमुदती निर्विकारा पश्यति।) अस्तिमन्त्रः-- (निर्विकारां तामालोक्य) नैतस्यां काप्यस्ति ग्रहशङ्का। अस्ति यदि मन्नामश्रवणेनैव ग्रहः पलायेत। तव वाक्यगौरवान्मया भस्मधारणपर्यन्तमाचरितम्। न तावता दोषः। तेन चास्या अचिरादेव चिन्तितार्थ[^1]सिद्धिर्भवति। (कुमुद्वती साभिप्रायं सागरिकां पश्यति।) साग-- (तदभिप्रायं विज्ञाय) तथा भवन्तः सम्यगनुगृह्णन्तु। अस्ति-- न ह्यस्ति मद्वचनेष्वपि वितथता जातु राजन् अनुष्ठानाय गच्छामि। (इति निष्क्रान्तः।) कुमुदः-- तं प्रयान्तमनुगम्य निवृत्त: उपविश्य पुरोऽवलोक्य) कञ्चुकिन् मौहूर्तिकमूर्धन्यो गोलाचार्य: प्रवेश्यताम्। (ततः प्रविशति कञ्चुकिना हूयमानो गोलाचार्यः।) गोलाचार्य:-- (स्वगतम्) अद्य प्रातरेव हि मयां पञ्चाङ्ग [^1]M adds सिद्धिर्भवति, T1 adds सिद्धिर्भवति and omits चिन्तितर्न्यसिद्धिर्भवति श्रावणकाले कुमुद्वतीग्रहानुकूल्यं प्रदर्श्य श्वो विवाहोऽस्या निर्विघ्न: सेत्स्यतीत्युक्त्वा गतः। अद्य कुमुद्वती केनापि हेतुना मुग्धा यदि गोलाचार्येण किं कार्यम्? समयस्तत्त्वानि श्रृण्वन्ति प्रवर्तन्ते चमूर्खवत्। राज्ञां सर्वज्ञभूतानां सार्वज्ञयमिदमीदृशम्॥४॥ (प्रकाशम्) उपसृत्य राजन् ग्रहानुकूल्यं ते भवतु। कुमुदः-- गोलाचार्य इत आस्यताम्। गोलाचार्य:--(उपविश्य तदुक्तवाक्याक्षराणि गणयन्) गोलाचार्य इत आस्यताम् इति भवदुक्तं नवाक्षरं नवग्रहवाक्यमेतत्। तदिदमादायैव फलान्युच्यन्ते। प्रथमं तावत् श्रूयताम्। गोलाचार्येव्याद्यगकारस्य गुरुवाचक[^*]तया जीवचिन्तेयम्। तत्रापि गुरो: पुत्रकारकस्य गोचरे शुक्रविहष्टतया[^1] पुत्रीचिन्ता। तस्याश्च संप्रप्ति सर्वग्रहानुकूल्यात् न कोऽपि रोगः। [^1]M has चन्द्रदृष्टतया as a variant [^*]T2 omits from गुरुवाचकतया to इतीकारस्य in the following page. इल इतीकारस्य[^*] स्मरपर्यायस्य दर्शनात् तस्या: स्वाभीष्टवरलाभः। शंङ्ख--(प्रहस्य) अतिरहस्यमुक्तं मौहूर्तिकेन कुमुद्वत्यर्थमाहूतोऽसि। तस्याश्च भिषणमान्त्रिकाभ्यां रोगशङ्का निराकृता। मया च श्वः पाणिरस्या गृह्यत इति सर्वं सर्वविदितमेव। त्वया गोलाचार्येण किमधिकमुक्तम्? गोलाचार्यः--(सकोपं) लोकप्रसिद्ध एवार्थो मया संवादाय शास्त्रेणापि दर्शितः। का तावता मम न्यूनता? श्रूयताम्[^1]- केनाप्यचितितोऽर्थस्तवैव प्रकाश्यते। त्वया प्रार्थितः श्वः पाणिग्रहो न भविष्यति न ब्रह्मणापि तस्य प्रतीकारः शक्यशङ्क:। इदमेकं श्वः प्रभाते व:[^2] स्पष्टीभविष्यति। तदा[^*] मां गोलाचार्य मन्यस्व। शंङ्ख-- (सहस्ततालं प्रहस्य ) श्वः प्रभाते त्वां [^1] T2 adds कुतः [^2]T1 omits व: [^*]T2 omits from तदा मां to व्यक्तं भविष्यति (p -210) पुरस्कृत्यैवास्या: पाणिर्मया गृह्यते। तदा तव ज्ञानं व्यक्तं भविष्यति[^*]। (कुमुद्वती शङ्कपालवाक्यमाकर्ण्य सरवेदं दीर्घमुष्णम् च निःश्वस्य सागरिकामुखमवेक्षते।) साग-- (अपवार्य उपसृत्य) वत्से मामा शुचः। गोलाचार्योक्तमेव सत्यं भविष्यति। सहि शास्त्रदृष्टमाचष्टे। वत्स एव श्वोऽवश्यं तव पाणिं ग्रहीष्यति। तथैव नागरिकया संविधानं क्रियते। (प्रकाशम् उत्तरीयाञ्चलेन तस्या मुखे[^1] स्वेदं शमयन्तीव वीजयति।) कुमुद:-- मा मैवं तव शङ्खपाल सर्वत्रातिशङ्का। प्रसक्तं प्रलयं याति प्रसजव्यप्रसञ्जितम्। कार्यसिद्धिर्हि सन्दिग्धा को वेदविधिचोष्टितम्। गोलाचार्याहते कोऽन्योगोलद्वयविवेचकः फललानि संवादयितुं प्रगल्भो वास्ति कोउपर:॥६॥ [^1]T2 adds अति [^2]M, T1- प्रसञ्जकम् गोलाचार्य भवद्भि: शास्त्रदृष्टमेव निर्दिष्टम्। शङ्खपालो बाल: स्वाज्ञानेन यत्किञ्चिदवादीत्। क्षम्यतामेतत्। गृहं प्रति गम्यताम्। (गोलाचार्यो निष्क्रान्त:।) कुमुदः-- (दीर्घं निःश्वस्य) केनापि कुमुद्वती विकारप्रकारो न निर्णीतः। (सागरिकां निर्वर्ण्य) सागरिके पारिशेष्यादिदानीं त्वदुक्ता सिद्धयोगिन्येव नः शरणम्। सैव दिव्यदृष्ट्या स्वयमिदमित्थमिति निर्धारमिष्यति। साग-- निर्धारयिष्यति विकारं निवर्तयिष्यति च। कुमुदः-- (सानन्दम्) सागरिके त्वमेव गत्वा त्वरितं तामानय। साग-- (लब्धावसरा ससम्भ्रमम्) तथा। (इति किञ्चिदन्तरं गत्वा स्मरन्ती प्रतिनिवृत्य) राजन् सा सिद्धयोगिनी देवचर्या। ततः प्रत्युत्थानादिभिर्हृणीयैव। कुमुद:-- सागरिके जानाम्येतावत्। त्वरितं याहि।क: कोऽत्र भो:। सिद्धयोगिन्याः स्वर्णपीठपाद्यादि सर्वज्ञशुकस्य फलोपहारं च समानयत। (सागरिका सानन्दं कुमुदोक्तमाकर्णयन्ती निष्क्रम्य सरयूतटनिकुञ्जं गत्वा तत्र सराजशुकां नागरिकामुपसरति।) (कुमुदः कुमुद्वतीप्रियदर्शनेच्छया स्वयं तन्द्रीदरमीलिताक्षी धृतमौनां पश्यन् पुनः पुनः सागरिकामार्गे चारान् प्रेषयन् योगिन्या: स्वर्णपीठादि तत्तत्स्थानेषु स्थापयन् संसंभ्रम: चिन्तयानस्तिष्ठति।) साग-- सखि नागरिके सत्वरमुपेहि। अवसरोऽयं वत्सस्य कुमुद्वतीदर्शनाय। कुमुदेनैव त्वदानयनाय सप्रियोक्ति[^1] सबहुमानं च प्रेषितास्मि। वत्स त्वमपि तत्र कालोचितमाचरन्नपि मा चपलो[^2]ऽतिप्रसक्तिं कार्षी:। (नागरिका सानन्दं विशिष्य सर्वाङ्गीणं भस्मोद्लनं विधाय कन्थां वेत्र कमण्डलुं च [^1]M, T1, T.C.- सप्रियोक्तं [^2]M- चपलेति सागरिकया धारयन्ती स्वयमजिनं वसाना स्वर्णपादुकामारुह्य राजशुकमंसस्थितमुपलालपन्ती प्रस्थिता।) (राजशुक:-- शुकजात्युचिताश्चेष्टाः प्रियास्पर्शसुखप्रदाः। उल्लिखन् विविधाः स्वैरं प्रातिष्ठत समुत्सुकः॥७॥) (सागरिका मार्गं प्रदर्शयन्ती पाताले नगरमध्यगतं शङ्खपालगृहं प्रविशति।) शुक:-- कुत्र सा मात्प्रिया कुमुद्वती। (इति तामेव चिन्तयन् परितोऽपि पश्यति। तत्र चरन्तीस्तत्सखीर्दृष्ट्वापि महान्तमानन्दमनु भवति।) साग-- इत इतः सिद्धयोगिनि नागराजोऽत्र वर्तते। कुमु- सागरिकाशब्दं श्रुत्वा तन्द्रीमभिनयन्त्येव किञ्चिदुद्घाटितदृष्टिः सानन्दं पश्यन्ती स्वगतम्) सच्चं एसा सिद्धजोइणी णाअरिआ। ताए आकिदिं हि पत्तहिजाणामि। एसो अमहप्पा सुओ[^1] परिसेसेण वेसन्तरिओ यह पाणणाहो। [^1]M, T1, omit सुओ एणं परिस्सजे किण्णु सहामज्झंमि णित्तवा। अहवाणेण कीडिस्सं शुकंहूअ सुनित्वुदा॥७॥ (इति चिन्तयन्ती तिष्ठति।) [सत्यमेषा सिद्धयोगिनी नागरिका। तस्या आकृतिं हि प्रत्यभिजानामि। एष च महात्मा शुको[^1] परिशेषेण वेषान्तरितो मम प्राणनाथः। एनं परिष्वजे किन्नु सभामध्ये निस्त्रपा। अथवानेन क्रीडिष्यामि शुकीभूय[^2] सुनिर्वृता।।] कुमुदः-- (अग्रे सिद्धयोगिनींदृष्ट्वा) किं सिद्धिरेव तपसां धृतमूर्तिरेषा किं राशिरेष रविसोमरुचां समेतः। किं सप्तकोटिमनुमण्डलमण्डिताङ्गी माहेश्वरी धुरि ममाविरभूद्विभूतिः॥९॥ (प्रकाशम् ससंभ्रममुत्थाय प्रणम्यार्घ्यादिभिरूपचर्म गिद्धयोगिनीं स्वर्णपीठे निवेशयति।) साग-- (इङ्गितेन[^3] कुमुद्वतीचिन्तामालक्ष्य तस्याः श्लथ [^1]T2- शुक [^2]T2- शुकं [^3]M, T1,T.c.- इत इतः मंशुकं समीकुर्वतीव समीपं गत्वा अपवार्य) अत्र समागतावेतौ सिद्धयोगिनीशुकौ नागरिकाकुशावेव। क्षणेन त्वां प्राणनाथेन योजयामि। क्षणं तन्द्री[^1] शैथिल्यं मा कार्षी:। तावेव च नवीक्षस्व। (कुमुद्वती तथा तिष्ठति।) कुमुद:-- (हस्ते फलान्यादाय सर्वज्ञराजशुकाय) तवायं फलोपहारः। (इति प्रदर्शयति।) शुक:[^1]- कुमुद[^3] तव कन्यां द्रष्टुमाहूतोऽस्मि। ततस्तदर्शनमेव मे प्रधानं फलम्। इदं त्वानुषङ्गिकम्। (इति सिद्ध‌योगिनीं पश्यति। सा तत्करात् तानि फलान्यादाय सागरिकाहस्तेऽर्पमति।) शुक:-- (मञ्चे शयानां कुमुद्वती दृष्ट्वा स्वगतम्) मयि दृढमनुरक्ता मामियं द्रष्टुकामा रचयति धुरि शोच्यां नाटिकां हा ममैव। अहमपि दुरवस्थामेवदर्थं भजामि द्रवति न विधिचित्तं कष्टमद्यापि धिक् तत्॥२०॥ अथाप्यस्या दर्शनेन ममान्तरात्मा परां निर्वृतिमप्नोति। [^1]M3 T1- तन्द्रं [^2]T2 omits शुक: [^3]M omits कुमुद कुमुद:-- अद्य भवत्या दर्शनेन कृतार्थोऽस्मि। सिद्ध-- अद्य सर्वज्ञशुकदर्शनेन दैवयोगलब्धेन सर्वेऽपि वयं कृतार्थाः। अयं हि वैयासिकिरेव शुकः। अथवा तत्समान: कोऽपि महात्मा। अस्य च सर्वज्ञसंज्ञा यथार्थैव। एष च ममान्तिकं कदाचिदायाति पुनर्न दृश्यते। प्रायेणायं न निसर्गेण शुकः। कोऽपि महापुरुष एव दृश्यते। मयि चास्य परं सौहार्दम्। ममाप्यस्मिन्नेवमेव। संस्कृतमेव च भाषते। कुमुद:-- अयं सर्वथा महात्मैव। तथा ह्यस्य तेजोमयं रूपमेव महिमानमा चष्टे। देवतिर्यङ्‌नरत्वादि न[^1] जात्येति सतां मतम्। चित्तारतम्यतो जाता देवतिर्यङ्नरादयः॥११॥ सिद्ध-- नागराज एवमेतत्। न तिर्यञ्च इमे शेषतार्क्ष्यमारुतनन्दनाः। तथापि किं न पूज्यन्ते देवता इति तेऽखिलैः॥१२॥ कुमु-- (स्वगतम्) को अस्स महाराअस्स माहप्पे विवादो। [^1]M- नन्दत्येति झत्ति अस्स संपक्को मए साहणि[^1]ज्जो। (प्रकाशम् सागरिकां वीक्ष्य तन्द्रीं नाटयति।) [कोऽस्य महाराजस्य माहात्म्ये विवाद:। झटित्यस्य संपर्को मया साधनीयः। सण-- (कुमुद्वतीं दर्शयन्ती) कुमुद अनु[^2]कलमप्येषा तन्द्रीमेवमालम्बते। अनुपदमेव च प्रबुध्यते। कुमुद:-- सागरिके कृतमस्मद्विचारेण यदद्य भाग्यवशादनुप्राप्तौ सिद्ध‌योगिनीसर्वज्ञशुकौ। तावेव क्षणादेनामुल्लाघां[^3] करिष्यतः। साग-- सिद्धयोगिनि कुमुद्वतीमनुगृहीष्व। सिद्ध (अभिमन्त्रयन्तीव क्षणमधरकम्पं कुर्वाणा कुमुद्वतीं वीक्ष्य शुक्रमंसादवरोप्य) भो भो सर्वज्ञ महात्मन् मयि सौहार्दात् क्षणमेनामधिगत्य तत्तदवयवानामृश्य दोषानुत्सारयन् प्रज्ञामुत्पाद्य त्वरितमुल्लाघय। शुक:-- सानन्दम् उड्डीय कृमुद्वव्या अंसमारुह्य प्रत्यङ्ग्य [^1]M- साहणिज्जा [^2]All mss.read कुमुदानुकलम् [^3]M- उल्लापां मभिमृशन्निव मुखं मुखेन संयोज्य चक्षुरधरादीनि स्वतुण्डेन जिथ्रन् स्वगतम्) मध्याह्नातप्तप्रकैतकदलश्रान्तश्लथान्यङ्गका- न्यश्रान्तस्मरसंज्वरव्यतिकरक्लान्तौ स्तनान्तावपि। आलिङ्गन्नपनेतुमान्तरममुं तापं न शक्नोम्यहं[^1] प्राप्यैनामपि हा विना निजभुजावर्धं प्रसन्नोविधि:॥२३॥ (प्रकाशम) सिद्धयोगिनि एषा स्वभावतः स्वमनोभवेन संज्वरेण पीड्यते। भ्रान्तिस्त्वियमस्या परकृत्यारोपिता। कुमु-- ईसरकओ मे संजरो। [ईश्वर[^*]कृतो मे संज्वर:।(^2)] साग-- (स्वगतम्) श्लेषेण स्वप्रियोक्तमेव कथमेषापि प्रकाशितवती। भवत्वेवं तावत्। (प्रकाशम्(^*)) ईश्वरकृतः संज्वर इत्येषा वदति। शुक:-- मदुक्तमेव वदति। कुमुदः-- सर्वज्ञ परप्रेरिता भ्रान्तिस्त्वयाणि किमनिवार्या? [^1]T2 omits अहं; M adds हा after अहं [^2]T, Tc add a gloss. ईश्वरशब्द: ईश्वरस्मरद्वय वाचकः तत्कृत: संज्वरः इत्यर्थः। [^*]M, T2 have a gap and omit ईश्वरकृतो to प्रकाशम्। शङ्ख-- सर्वज्ञस्तामपि विचारयत्येव। सिद्ध-- सखे सर्वज्ञ क्षणादस्या भान्तिमुत्सार्य मयि सौहार्दं प्रदर्शय। किं तवाप्यसाध्यमस्ति किञ्चित्? शुक-- सिद्ध‌योगिनि तव कृतेऽद्य क्षणादेव भ्रान्तिमिमामपनेष्यामि। मनोभवतापस्तु श्वः प्रातरपनेष्यते। पश्यन्त्वद्य मे सर्वेऽपि कौशलम्। (सानन्दं पश्यत्स्वेव सर्वेषु कुमुद्वतीं पक्षाभ्यामुपगूहति।) कुमु-- (स्वगतम्) ळित्तम्मि चन्दणरसैरहव सुहासा[^1]रसाअरे मग्गा। (सुखातिशयमनुभूय) णहि णहि तहज्ज मण्णे परिरद्धा पाणणाहेण॥२४॥ (प्रकाशम् सुखेन तन्द्रेय दृशौ निमीलयति।) [लिप्तास्मि चन्दनरसैरथवा सुधासारसागरे मग्ना। नहि नहि तथाद्य मन्ये परिरब्धा प्राणनाथेन॥ शुक:-- (स्वगतम्) उष्ण[^*]मुष्णेन शाम्यति इति हि वैद्यावदन्ति। सत्यमेतत्। संप्रति हि- [^T]M- संसार [^*]T1 has उष्णमुष्णेन to प्रकाशम् in the malgin, T2 omits उष्णमुष्णेन to प्रकाशम् अस्या स्मराभितप्तैरुद्वेगैः सङ्गम्यमानस्य। मम हृदये सन्तापो विरहकृतः सद्य एव शममेति॥२५॥ (प्रकाशम् मन्त्रं जपन्निव अपवार्य) कुमुद्वति त्वरित मभिनीयतां[^2] भ्रान्त्यपगमः। कुमु-- सानन्दं दृशावुन्मील्म ससंभ्रममुत्थाम मञ्च एव विषीदन्ती पितरं निर्वर्ण्य किमप्यजानानेव) ताद[^3] किं दाणिं मं तुमं उवट्ठिओ। (उरसि हस्तं निधाय) हा कोऽयं समाओ का एसा जोइणी। को एसो मह अंसम्मि सुओ। [तात किमिदानीं मां त्वमुपस्थितः। हा कोऽयं समाजः। कैषा योगिनी? क एष ममांसे शुकः?] कुमुदः-- (आनन्द बाण्पमुत्सृजन् गद्गदकण्ठ: उपसृत्य हस्तेन तामामृशन्) हा वत्से कुमुद्वति किमिदानीं ते भ्रान्तिनिर्वृत्ता? किं सर्वान जानासि? कुमु-- किं णाम अहं मुद्धा आसं। [किं नाम अहं मुग्धा आसम्।] कुमुदः-- अद्य प्रातरारभ्य मुग्धासि। इदानीं सर्वज्ञ[^4]शुकप्रसादेन तव प्रज्ञा जाता। [^1]M - उद्येगैः [^2]M,T1- अपनीयतां [^3]M omits ताद [^4]T2- सत्यज्ञ शङ्ख-- शुकराज श्वः पाणिग्रहणमस्या यथा न विच्छिद्येत तथा क्रियताम्। शुकः-- मैवं पामर इव भवान् कदापि वादीत्। नहि कस्यचित कर्म मया निर्मीयते। किन्तु यदीयमेव मया[^*] क्रियते। (कुमुद्वती पराची[^1] लज्जां नियमयति।) साग-- शुकराज साधु प्रत्युत्तरं दत्तम्। अनेन हि त्वया कुमुदे सौहार्दसारो दर्शितः येन तत्कार्यमेव स्वकार्यं व्यवहृतम्। कुमुदः-- सन्तः खलु साप्तपदीनमेव सरव्यमाद्रियन्ते। सिद्ध-- (स्वगतम् शुकवचनं कुमुद्वतीचेष्टामपि विचार्य) अतिप्रसङ्गो भविष्यति। त्वरितं गन्तव्यम्। (प्रकाशम्) अनुष्ठानकालोऽनिवर्तते। कुमु-- (तद्वचनमाकर्ण्य स्वगतम्) सच्चं एसा जिअमिसदि। णाहमेणं सुअरअं मुंचामि। विणाणेज हि खणं[^3] वि ण जीविस्सं।( इति हस्तेन शुकं गृह्णति।) [^1] All mss. read पराचीं लज्जां निगमयति। [^2]T2- व्यवहितम् [^3]M- सुखं for खणं [^*] T2 omits from मया to कार्यमेव. [सत्यमेषा जिगमिषति। नाहमेनं शुकराजं मुञ्चामि। विनानेन हि क्षणमपि न जीविष्यामि। शुक:-- (स्पर्शसुखं निरूप्य स्वगतम्) राज्यं रक्षतु मे लवस्स चतुर:संरक्षणे शिक्षितो देवी कान्तिमती तपश्चरतु मामुद्दिश्य कालान् बहून्। नाहं[^1] यामि पुनः पुरंध्रुवमिदं तिर्यग्वपुश्चास्तु मे कान्तास्पर्शसुखावादितोऽपि[^2] भविता किं वान्यदेतादृशम्॥१६॥ (सागरिका सिद्ध‌योगिनीहृदयं शुककुमुद्वत्यारेध्यवसायमिङ्गितेन ज्ञात्वा अपवार्य सिद्धयोगिनीमेव संज्ञापयति।) सिद्ध-- वत्स सर्वज्ञ किं नस्यरत्यावयोः कर्तव्यानि? शुक:-- (तस्या मुखविकारमालक्ष्य ससंभ्रमम्) यदाज्ञापयति भगवती। (इति स्वयमेव कुमुद्वतीकरात् ससङ्केतमात्मानं मोचयति।) कुमु-- (स्वगतम्) अवस्सं एसा अय्यउत्तेण समं जिअमिसदि। इदो बळक्कारो ण जोग्गो। होदु दाव। [^1]T2- नोऽहं [^2]All mss. read सुखान्दतोऽपि (प्रकाशम्) सिद्धजोइणि अज्ज वि वासणारूपेण मे मोहोऽणुट्ठइ। [अवश्यमेषा आर्यपुत्रेण समं जिगमिषति। इतो बलात्कारो न योग्यः। भवतु तावत्। सिद्ध‌योगिनि अद्यापि वासनारूपेण मे मोहोऽनुवर्तते। सिद्ध-- श्वः प्रातरागत्य सत्यं तव मोहं निश्शेषयिष्यावः। कुमु-- (स्वगतम्) कहं वि एसा णिवारेदुं ण सक्का। (प्रकाशम्) सच्चं जइ पुणो वि आअमणं तुक्हाणं आअमणसूअअं किं वि मे वत्थु देयं। [कथमपि एषा निवारयितुं न शक्या। सत्यं यदि पुनरपि आगमनं युष्माकमागमनसूचकं किमपि मे वस्तु दे।] सिद्ध-- (अपवार्य सागरिकया फणवतीहस्तात् पूर्वदत्तमङ्गन्दमादाय तिरस्करिणीतिरोहितं सर्वै:कुश मयतमा गृह्यमाणं तद् बहि: प्रकाश्य इदं मे कुशाभरणमिति कुमुदुत्यै प्रदाय एतेन तेऽनुवर्तमानो[^1] मोहलेशोऽपि निवर्तते। तत्स्वरूपं च ते [^1]M- अनुवर्ण्यमाने; T2- अनुवर्त्यमाने व्यक्तं भविष्यति। श्वः प्रातरागत्य ग्रहीष्यामि। तावदिदं रक्ष्यताम्। कुमु-- अङ्गन्दमादाय सिद्धयोगिनी प्रसादेन तत् कुशेन धृतमाभरणमिति ज्ञात्वा सानन्दं[^1] प्रकाशम् सिद्ध जोइणि इदं मह पिआभरणं। (इति तत् स्वहृदि निधाय सुखमनुभवन्ती राजशुकमवेक्ष्य अपवार्य) तुह[^2] अंगदं ति हिअअम्मि धारेमि। (प्रकाशम) सुअराअ मह माणसप्पसादजणअं एदं तुह पदिणिहीभूदं। [सिद्धयोगिनि इदं मे प्रियाभरणम्। तवाङ्गदमिति हृदये धारयामि। शुकराज मम मानसप्रसादजनकम् एतत्तव प्रतिनिधीभूतम्।] शुक:-- तर्हि मां विसर्जय। कुमु-- तह वि तुमं एव्व मे पिओसि। [तिथापि त्वमेव मे प्रियोऽसि।] शुक:-- विसृज मां श्वः प्रभाते पुनरेष्यामि। कुमु-- सो पहादम्मि सिध्दजोइणीए समं जइ णाआसि तदा तुमं मे पिओ णासि। [श्वः प्रभाते सिद्ध [^1] Madds स्व [^2]M omits तुह [^3]T2- मह प्रियो योगिन्या समं यदि नायासि तदात्वं मे प्रियोनासि।] शुक:-- (स्वगतम्) केयमस्या वचनचातुरी श्वोऽवश्यमस्याः पाणिर्मया ग्राह्यः। (प्रकाशम्) गमिष्यामि वरारोहे मामनुज्ञातुमर्हसि। श्वः प्रभाते समागत्य भविष्यामि तव प्रिय:॥२७॥ (कुमुद्वती असम्मत्येव लज्जया निनमधिषुरपि प्रियदिदृक्षया वक्त्रं[^1] नमयितुं नेष्टे।] शुक:-- (तादृशीतां दृष्टवा स्वगतम्) प्रेम्णा मयि स्थितवती स्तिमितैव दृष्टि- र्वक्त्रं न चालयितुमप्यनुमन्यतेऽस्या:। लज्जा तु तन्नमयितुं यतते क्व नु स्यात् प्रेमह्नीयो[^2]र्बलमरालदृशो महीय:॥२७॥ (प्रकाशम् शुकजाति निसर्गचेष्टयेव तत्करं सङ्केतं दशन् अपवार्य) मां विसृज। (इत्यात्मानं योचयित्षा) कुमुद्वति गच्छामि। (इति पुनरुड्डीय सिद्धयोगिनीमेव प्राप्त:।) [^1] All mss. read तन्नमयितुं [^2]M- ह्रियांचलयराल शङ्ख-- नागराज श्रुतस्त्वया शुककुमुद्वत्योः सरससल्लाप:? कुमुदः-- (सकोपम्) सूक्ष्मदर्शिन् सर्वैरस्माभिरश्रुतस्त्वयैकेन तयोः सल्लापे विशेषः श्रुतः। अद्याप्यनतिक्रान्तशैशवा महङ्कादनवरूढा हि बाला कुमुद्वति। कथमेषा तिरश्चा सरससल्लापं करिष्यति? अयुक्तयुक्तं कथं भवता। शङ्ख-- (स्वगतम्) न हि जनकै: स्वापत्य[^1]दोषा गृह्यन्ते। अतः कालविलम्बो[^2] न कार्य:। श्व एव पाणिरस्या ग्रहीतव्य:। (प्रकाशम्) नागराज यथाबुद्धं मयाभिहितम्। क्षम्यतामेतत्। कुमुदः-- कुमुद्वति मया सहैव त्वमस्माकमन्तःपुरमभ्येहि। (इत्युत्थायाञ्जलिं द्धवा) सिद्धयोगिन्यै शतं नमांसि। तव भगवत्याः सर्वज्ञशुकस्य च प्रसादेन कन्यापिता[^3]हमस्मि। युवाभ्यां श्वोऽप्यागत्य स्वयमेवमनुग्रहः कार्यः। ( इति निष्क्रान्ता: सर्वे।) ॥चतुर्थोऽङ्कः॥ [^1]T2- सापत्य॰ [^2]T2- विलंबे [^3]T2- पितामहमस्मि पञ्चमोऽङ्क: (ततः प्रविशति क्रुद्धो लव:।) लव:-- पातालं करतालतो बहिरिदं निष्का[^1]सयाम्युच्छवसन् द्यामद्यैव निपातयामि नभसः क्ष्मामुत्क्षिपाम्योजसा। दिक्पालान् युधि धावयामि निखिलानिन्द्रानिमानाशुगै- रार्यस्यार्थितमप्रदाय वसतां क्षेमः[^2] कथं क्षाम्यताम्॥१॥ (ततः प्रविशति तदुक्तमाकर्णयन्तौ सुमन्त्रविदूषकौ।) सुनन्त्रः-- (सविनयमुपसृत्य) वत्स तव कोऽयमकाण्डे कदाप्यदृष्टपूर्व: संरम्भ:। लवः-- (तदुक्तनश्रुत्वैव तावप्यपश्यन्) अद्य लवस्य खरान्तकप्रसूतत्वं लोकाः प्रत्यक्षयन्तु। सुम-- (लवस्य दृष्टिपथं गत्वा) वत्सनिरपराधिषु ते कुत एवमारम्भ:। लवः-- (सुमन्त्र इति ज्ञात्वा प्रणम्य क्रोधं लघूकृत्य) श्रूयतामत्र कारणमभिधास्यामि। पूर्वेद्यु: सायं माढव्यो मया राजा किं करोतीति पृष्ट: आसायमस्वस्थः शुद्धान्त एव स्थितः [^1]T2- निष्कामगानि [^2]M- मोक्षः इदानीं स बहिर्निर्गत्य मन्त्रिभिर्मन्त्रयते इत्यवादीत्। मया च तदाकर्ण्य शरीरस्वभाव एष शरीरिणामिति जोषमासितम्। अद्य प्रातरयमेव ममान्तिकमागत्य नागरिकोक्तमिति किञ्चित्पातालवृत्तमुद्घाटितवान्। तच्च वृत्तं स एव प्रष्टव्यः। ततः कुद्धोऽस्मि। सुम-- माढव्य किं तद्‌वृत्तम्। विदू- पहादंनि तुम्हासु भणिदं एव्व।[^1] [प्रभाते युष्मासु भगितं एव।] सुम-- तद् वृत्तं मया ज्ञातमेव। ईशते हि स्वकन्यानां पितरः प्रतिपादने। तेभ्यश्च रोचते यस्तु तस्मै कन्या प्रदीयते॥२॥ तथा च शङ्खपालाय यदि प्रतिज्ञातां कन्यां ददाति कस्ततः कुमुदेऽपराध:? का च कुमुदस्यैकस्यापराधेन सकलजगदुन्मूलने प्रवृत्तिः? विदू-- (स्वगतम्) कहं एसो मए पआसेण पिप्पादिअं ळवस्स कोवं णिवट्टेदि। [कथमेष मया प्रयासेन निष्पादितं लवस्य कोपं निवर्तयति।] [^1] All mss read स्पष्टम् and omit chāyā. लव:-- (ललाटे भ्रुकुटिं कृत्वा) कोऽयमस्माकं सुमन्त्रो नाम? दुर्मन्त्रो भवान्। कथं त्वां पूर्वेराजानः सचिवपदे स्थापयांचक्रु:? अस्मदार्य: कृशस्तव कीदृश इति प्रतिभाति? अयं किल साक्षात् नारायणावतारस्य भगवतो दाशरथेरादिमस्तनूजस्तत्समानप्रभावश्च। वस्तुतस्तु तदतिशाय्यस्य महिमा। दृष्टं हि भवतैव पुरा तदश्वमेधाश्वहरणावसरे तस्य बालचेष्टितम्। तस्य च महात्मानो यदर्शितं तत् किं न सर्वैर्जगत्साधनीयम्? तदन्यथाभावे जगदन्यथाभावश्च कथं न भविता। आस्तां वा जगदन्यथाभावहेतुः। वंश[^1]श्चे रघुवंश एव महितश्चन्द्रार्कवंशद्वये शौण्डीर्यं यदि खण्डितेशधनुषस्तस्येव तस्यात्मजे[^2]। रूपं चारू न हष्टमेव भवता वृद्धेन दृङ्गान्द्यतः के नास्मै कुमुद्रो ददाति न सुतां तस्त्रापराधस्तु स:॥३॥ तदविवेकिनस्तिर्यग्जातेस्तस्य शिक्षा कार्येव। अन्यश्च कन्यारत्नस्य प्रसह्य हरणं क्षत्रियधर्म इति पुराणविद आमनन्ति। तत् किमित्यहं निवर्त्योऽस्मि? [^1]M- वंशो: [^2]M- तस्मात्मजे विदू-- साहु खतिअपुत्त साहु। खत्त धम्मण्णो तुमं। [साधु क्षतिघपुत्र साधु। क्षत्रधर्मज्ञस्त्वम्।] सुम- युवराज लव साधु नीतिमार्गेऽपि कुशलोऽसि। बालादपि सुभाषितं ग्राह्यमेव। अतस्त्वदुक्तमङ्गीक्रियते। परं तु नागरिकामनुज्ञाप्य प्रवर्तस्व। सा हि राजहृदयं जानाति। लव:-- तत्तु ममापि रोचते। माढव्य साप्यानीयताम्। (विदूषक: सानन्दं तरुतिरोहितां तां संज्ञयाकारयति।) (ततः प्रविशति नागरिका।) लव:-- (अभिगम्य) भगवति रामात्मजोऽहं लवोऽभिवादये। नाग—आयुष्मान् भूया:। शत्रुवागन्तुक: क्रोधः सत्सु सांसिद्धि की नतिः। दारयं च भ्रातरि ज्येष्ठे युक्तं सीतात्मजस्य ते॥४॥ सुम-- भगवति शतं नमांसि। नाम-- अभिमतेन पुज्यस्व। सुम-- भगवति कोऽपिमाधिराधिराज्यस्थापि राज्ञः येनामं यथापुरं बहिर्न निःसरति। [^1]M, T- धन्मग्णा नाग-- (स्वगतम्) किमितः सर्वविज्ञातस्य संवरणेन।(प्रकाशम्) किमजानन्निव पृच्छसि। अद्य कुमुद्वतीं कुमुदः शङ्खपालाय दास्यति। वत्सश्च तामेवध्यायन्नास्ते। तदद्य तस्याः शङ्खपालाय दानं विघटनीयम्। तदर्थं च मया पूर्वेद्युरेव रात्रिं सर्वामपि सामादयस्त्रयोऽप्युपाया: कुमुदं प्रति प्रसञ्जिताः। स च बन्धुसम्बन्धकुतूहलात् तान् नानुमन्यते। इतस्तेषां चतुर्थोऽवशिष्यते। तत्र च वत्सो महापुरुषतया पितृकारितदार[^1]परिग्रहस्यापि मे स्त्र्यन्तरकामनेत्येव लज्जमानः स्वयं न व्याप्रियते। तामेव ध्यायति च। तदस्माभिरेख समीकर्तव्योऽयमर्थः। सुम-- अत्र च युवराज एव नः शरणम्। नाग-- तथैव मम पूर्वमेव रोचते। स च पूर्वमेव प्रवृत्तस्तत्र नास्माभिः प्रवर्तनीयः। किन्त्वेतावत्। वत्स लव भीषय केवलं कुमुदं शङ्खपालपाणिग्रहणविद्याताय न पुनरन्यत्। अनपराधि त्रैलोक्यम्। लव:-- (सहासम्) कुमुद्वत्येकावशेष्यते। मा विचारं गमः। [^1] All mss. have ॰कारिता॰ नाग-- (लवं चुबुके गृहीत्वा) वत्स मा मैवम् मया शापितोऽसि। मास्म लव सर्वान् नाशय। लवः-- (सप्रश्रयमञ्जलिं बद्धवा) यदाज्ञप्तमेव क्रियते। अननुमतप्रवृत्ते मय्यार्यस्य प्रसादस्त्वया साधनीय:। नाग-- न वत्साद् भेतव्यम्। तत्राहमेव संविधास्यामि। विदू-- जुवराअ दे अहं वि सहाओ होमि। [युवराज ते अहमपि सहायो भवामि।] लव:-- कथमिव? विदू-- अहं सप्पजाएण सप्पउळं णा[^1]सेम्मि।[अहं सर्पयागेन[^2] सर्पकुलं नाशयामि।] लव:-- माढव्य तव पद्मावती मनुष्यजातिरिति तदविरोधेन सर्पयागं मत्प्रजावतीबन्धुनाशाय[^3] करोषि? विदू-- णहि णहि। अहं हि मा आमेत्तेण सप्पाणं भओ[^4]प्पादणणिमित्त अं सप्पजाअं करेम्हि। [अहं हि मायामात्रेण सर्पाणां भयोत्पादननिमित्तं सर्पयागं करोमि।] [^1]T.c.- णासम्मि [^2]M- ॰योगेन [^3]M- नाशं [^4]T2- भय उप्पादण लवः-- तथा क्रियताम्। अहमपि माययैव गारुडास्त्रप्रयोगेन सर्पाणां सद्य: संक्षोभं जनयामि। नाग-- सम्यगुत्प्रेक्षितं युवाभ्याम्। अहं[^*] तु वत्सं नागहृदसमीपे कुत्रचिन्निकुञ्जे स्थापयामि। युवयोः प्रयोगं[^1] तं क्षटित्येव प्रवतेथाम्। काले हि कृतं फलाय भवति। (इति निष्क्रान्ताः सर्वे।) मिश्रविष्कम्भः। (ततः प्रविशति सरयूनिकुञ्जगतो राजा नागरिका च।) राजा-- नागरिके पश्य पश्य- धिग् धिग् भाग्यविपर्ययं मम भवद्यत्नोऽप्यभून्निष्फलो जाता सागरिकामतिश्च विफला नानाप्रकारोदया। किं वात्रास्ति मयैव कर्तुमुचितं वेधास्त्वमेधा यदि स्त्रैणं कर्म न चेदिदं विधिमपि क्षेप्तुं क्षमे विक्रमै।।५।। नाग-- सागरिकामतिर्मम यत्नश्च फलिष्यत्येव। मुहूर्तं प्रतीक्षस्व। [^1]T1,T.C- प्रयोगेन [^*]T2 omits from अहं तु to प्रयोगं तं राजा-- मुहूर्तं[^1] दिनं वापि प्रतीक्षे। इतः का तव प्रत्याशा शङ्खपालेन कुमुद्वत्या विवाहे निश्चिते? नाग-- स तु न चलत्येव। राजा-- कथमिव:। नाग-- न सम्मतः कुमुदव्यास्त्वदन्येन पाणिग्रहः। बलात्कारे सा प्राणानपि त्यक्षयति। राजा-- पित्रैव कारिते विवाहे सा किं करिष्यति? नाग-- पितुः किं न दुहितुः प्राणा नरक्ष्या:? राजा-- किं सा मदर्भमेव तादृशं साहसं करिष्यति? तटित्तुलितचाञ्चल्या स्त्रीणां प्रेमप्रवृत्तयः। वश्या भवन्ति ता: पुंसां भूषाम्बरधनादिभि:॥६॥ नाग-- सत्यं तादृश्य एव स्त्रियो लोके। न तादृशीर्वेषा। लक्ष्मीसरस्वत्यादिषु गणनीया कुमुद्धती। राजा-- भवत्वेवमन्यविवाहविघातः। कथं सा कुमुदेन मह्यं दीयते? नाग-- मुहूर्तादेव तदपि भविष्यति। [^1] All mss. have मुहूर्त दिनं [^2]T2- ददेत राजा-- (सानन्दम्) सत्या भवतु ते वाणी। (दृशौ निमील्य स्मृत्वा) नागरिके तथापि मे मनस्येषा चिन्ता प्रवर्तते। इयतः कालस्य हि नागरिके तव साहाय्येन कुमुद्ती मया त्रिरेव दृष्टा। तेषु च दर्शनेषुआद्यं हि दर्शनमसत्सदृशं विदूराज्जातं द्वितीयमपि कञ्चु किना सविघ्नम्। आसीत् तृतीयमपविघ्नमथापि तिर्यग् रूपोऽस्ति तत्र मदभाग्यपरंपरैषा॥७॥ एवं विद्धस्य ममः कथं भविष्यति? नाग-- निमित्तानि हि दृश्यन्ते मङ्गलानि पदे पदे। शान्तं तवाशुभं सर्वं सद्यः श्रेयो भविष्यति॥८॥ राजा-- मदाश्वासनाय प्रयुक्तमिदं वाक्यम्। (इति शङ्कयानादरेण तदाकर्णयन् पुरोऽवलोक्य) अभ्युदितपूर्वोऽयमरवर्वदीप्तिरंशुमाली। [^1]T.c.- अभिदृश्यन्ते and omits हि आश्यानोदरपत्रमम्बुजवनं भास्वत्करोल्लासितं सन्तृप्ता मधुनश्च षट्पदगणा झङ्कारमातन्वते। दुग्ध्वा दुग्धमजाश्च शाबककुलाद् गोपाः पृथक्कुर्वतं प्रायः पञ्चषनाडिका[^1] परिणता भानो: सम्मेषतः॥९॥ किं च- रात्रिं विद्युत्य मिलितानि निशावसाने द्वन्द्वानि संप्रति रथाङ्गसमाननाम्नाम्। आश्लेषचुम्बनविधाः प्रविधाय तृप्ता न्यम्भोजनालशकलानि गवेषयन्ति॥२०॥ नागरिके तदिदानीं बलादेव तत्र प्रवर्तेत कुमुद्वत्या: शङ्खपालविवाह:। प्रायोऽस्मिन् समये फणीन्द्रतनया स्नानानुलिप्ता बलात् सन्तापं वपुषि स्फुटं वहति मानन्तः स्मरन्ती मुहुः। पुष्पे माङ्गलि के कचेषु निहिते बाष्पेण रूद्धे दृशौ वृद्धे बध्नति कौतुकं करतले चित्ते विधत्ते शुचम्॥२२॥ (दृशौनिमील्य) हा प्रिये किं करोषि? किं मनुषे? [^1] All mss. have नासिका नाग-- (शान्तं पापम्)। (कराभ्यां कर्णौ पिधाय) वत्स मैवं कदाप्युत्प्रेक्षिष्ठाः। अश्लीलस्य चिन्तनमपि सन्तो न प्रशंसन्ति। राजा-- प्रतिगृहीतं भगवत्या[^1] वचनम्। (समन्तादवलोक्य) कः कोऽत्र भोः। (प्रविश्य) कञ्चुकी-- अहमस्मि। आज्ञापयतु देव:। राजा-- युवराजो लवः प्रतिदिनं प्रातरागच्छन्नध नागत:। माढव्यं च न पश्यामि। तावुभौ कुत्र किं वा कुरुतः विचार्यताम्। कञ्चुकी-- तथा। (इति निष्क्रम्य त्वरितं विचार्य पुनः प्रविश्य वेत्रदण्डं घट्टयन्) जयतु महाराज:। राजा-- किं कञ्चुकिन् विचारितम्? कञ्चुकी-- विचारितं प्रत्यक्षतो दृष्टं च। राजा-- कथमिव। कञ्चुकी-- (सरोमहर्षकम्पम्) अद्य मया महदद्भुतं दृष्टम्। [^1]T.C. भवत्या तथाहि एकं देव लवः क्षिपत्यधिजलं नागह्रदे सायकं तस्मादुत्पतिता:[^1] सहस्रमयुतं लक्षा च तार्क्ष्या:स्वतः। पातालं परिवेष्ट्य पन्नगगणानुत्क्षिप्य चञ्चूपुटैराकांश रचयन्ति तत्फणमणिज्योतिर्वितानोज्ज्वलम्॥१२॥ प्रत्येकमेव फणिनः पतगेन्द्रनीता- नावेष्ट्य नागसुदृशो[^2] गणशो लुठन्ति। तार्क्ष्या श्च ते भुवि किरन्ति निहत्य सर्पान् रत्नानि लुप्तसुकृतानिव तारकौधान्॥१३॥ अन्यच्च तत्र किञ्चिदाश्चर्यमालोकितम्। अस्माकं माढव्य एव कृष्णाजिनमौञ्जीधरो नवनीतलिप्तगातत्रो दीक्षित[^*] इव महान्तमग्निमुत्पाद्य यागं करोति। [^1]M- उत्पत्तिता: [^2]M, T.C.- ॰सदृशो [^*]M has gap from दीक्षित to ज्वलनो (p. 241) Several are such gaps in the following 2-3 pages in T1 and M. These gaps have been filled up with the help of T2. कल्पान्तज्वलनोष्मणि[^*]ज्वलति तद्वह्नौ च नागह्रदा- दुत्प्लुत्य स्ववशं विनैव भुजगा विस्तारयन्तः[^1] स्फटाः[^2]। माढव्योद्धृतवेत्र[^3]पातचकिता: संवेष्टमाना मिथो ज्वालान्तर्निपतन्ति शोणित दृश:[^4] शात्कारघोरक्रमाः॥१४॥ अपि च स्वामिन् पश्य दयानिधे दिश मम प्रत्युत्तरं दह्यते पुत्रो मे सहजः पिताति[^5]कुशलो मुग्धो महीयानिति। याचन्ते परितस्तमेत्य भुजमुत्क्षिप्यातिदीनाननाः खिन्ना वासुकिशेषशङ्खगलिकाः पृष्ठावरोधस्त्रियः॥१५॥ राजा-- युवराजो लवःसर्पेषु[^6] गारुडा[^7]स्त्रं प्रयुङ्क्ते। माढव्यश्च सर्पयागम्। कथमेतौ मयाननुज्ञातावेव प्रवर्तेते[^8]। नागरिके [^1]M- gap upto स्फटा:; T1- breakage. [^2]T2- स्फुटा: [^3]M- gap up to दृशः [^4]All mss- शशां [^5]M- gap upto उत्क्षिप्य [^6]M- gap upto कथमा [^7]T2- गारुडास्त्र्य प्रयुक्ते। This is the emended reading. [^8]M- प्रवर्तते श्रुतमेतद्भुतं वृत्तम्? कथमाभ्यामेवं मद्विरुध्द[^1]माचर्यते? कमद्य विश्वसिम? नाग-- (उपसृत्य) तावेव ते परमविश्वसनीयौ। न ताभ्यां तद्विरुद्धमारब्धम्। तव मनोरथपूरणायैव प्रवृत्तावेतौ। राजा—कथमिव[^2]? नाग—मया हि पूर्वेधुः प्रवर्तितेषु सामाद्युपायेषु विफलेषु दण्डसाध्य: कुमुद इति निर्णीतम्। लवश्च कर्णाकर्णि: कया कुमुदप्रवृत्तिमाकर्ण्य स्वयं कुपित[^3] आसीत्। ततश्चाहमेव कुमुदनिग्रहाय निरु(यु)क्तवती। माढव्यश्च तवैव[^4] प्रियाय मदनुमतः[^5] तत्र प्रवृत्त:। किं तू भावपि कुमुदशङ्खपालभयोत्पादनाय माययैव गारुडास्त्र[^6]सर्पयागौ प्रयुञ्जाते। तयोश्च भीत्या वशीकृतयोः[^7] सर्पयागादि मिथ्या भवति[^8]। [^1]M- gap upto परम [^2]M gap upto सामाद्युपायेषु वि [^3]M gap up to प्रियाम [^4]T2 omits एव [^5]M omits मत् [^6]M- gap upto वशीकृतयोः सर्पया [^7]T2- वशीकृत्ययो [^8]M- भावतः; T.c- भवतः राजा-- (सानन्दम्) बहु संविहितं भगवत्या[^1]। तत् फलिष्यति त्वत्प्र[^2]सादेन। (ततः प्रविशति अपटीक्षेपेण[^3] सागरिका।) साग-- (सहासम्) दिष्ट्या कुशलिनं (पुरोऽवलोक्य) सिद्धमनोरथं च त्वां पश्यामि। राजा-- (आनन्दसंभ्रमाभ्यामाकुलमतिरकृत्वैव नमस्क्रियामुत्तिष्ठन्[^4] सागरिकां करे[^5] गृहीत्वा तामर्धासने निवेश्य) सागरिके कथं मम मनोरथसिद्धि:। कथय विस्तरेण। नाग-- कथय सागरिके कर्णामृतम्। साग-- अद्य प्रभाते कुमुद: प्रबुध्य शङ्खपालाय[^6] कुमुद्वतीं प्रदास्यन्[^7] सर्वैः स्वबन्धुजनैः सभामापूर्य तन्मध्यगतो दुर्मनायमानाम् अनिच्छन्तीमेव तामाकारयामास। [^1]M- भवत्या [^2]M-तत-प्रदानेन; T1, T2- तत्प्रसादेन [^3]M- gap up to सिद्धमनो [^4]M, T1, Tc add करे [^5]M- gap upto मनोरथ सिद्धि: [^6]M-gap upto स्वबन्धुजनैः [^7]T2- प्रवासस्यन् सा च कुमुद्वती रुदती सती[^1] मां शरणमित्यभजत। मयि च तया सह मदन्तर्धानमिच्छन्त्यां क्षणादेव[^2] तत्समाजगताः– अज्ञातसङ्गतविहङ्गपतिप्रपञ्च चञ्चूहृता ववलिरे दिवि पन्नगेन्द्राः। माढव्यमन्त्रबल कल्पित[^3]भूतकृष्टा केचिन्निपेतुरहियागहुताशमध्ये॥१६॥ अपि च दिशि दिशि चुक्रुशुर्निपतिता कतिचित् कतिचित् क्वचन निलिल्यिरे कतिपये च मुहुश्च[^5] मुहुः। गृहमपरे[^6] प्रविश्य दृढबद्धकवाटघटाः क्षणमपि मेनिरे द्रुहिणकल्पशतप्रतिमम्॥२७॥ [^1]M- gap up to क्षणादेव [^2]T1, Tc- corrupt readings. [^3]M- gap up to अपि च- दिशि [^4]M- निलिलयुरे; T2- निलिलिरे [^5]All mss have मुहुर्मुहुः to the detriment of metre. [^6]M- gap up to द्रुहिणकल्प इति रसातले निखिलेऽपि ससंभ्रमं भ्रमति[^1] कुमुद: संभ्रान्तमानसः[^2] प्रतिभय[^3]विस्मृतप्रस्तुत[^4]विवाहः प्राणत्राणपरायणः प्रतिक्षणचारित चारमुखावधृतलवमाढव्यवृत्तान्तोऽयोध्यापरिसरवाहिनी सागरिका तत्प्रभुपरि चितास्तीति[^5] भीतिमन्मुखेन जिजीविषुर्मामेव[^6] शरणमासाद्य भगवति तारयास्मानस्मात्[^7] महाभयात्। अज्ञानतः कृतं कृतमेव। रामसमानमहिमा रामकुमार: कुशो यथा मयि दयते[^8] तथा त्वं झटिति प्रवर्तस्व। सर्वा एव नाग[^9] कन्याः सर्वमपि नम[^10] कोशजातं सर्वे च वयं यावज्जीवं यावत्सन्तति च सर्वं तदधीनमेव। सर्वैः सममागम्यते[^11] मया। प्रागेव त्वं राजसमीपमेत्य राज्ञः प्रसादमुत्पादयेति सभयगद्दमवादीत्। शङ्खपालस्तु अहं साक्षात् कुशस्य परिपन्थी [^1]T.C. भ्रमं [^2]T2 मानसाः [^3]T.c.- प्रतिभूय [^4]M, T2- प्रच्युत [^5]M, T1, T2 omit अस्तीति [^6]T1, T2- मादेव [^7]T2- अस्मान् महाक्रियात्, T.C- आत्महात् भयात् [^8]T2- दयिते [^9]T.c.- ताः कन्या [^10]T.c. omits मम [^11]T2- समागम्यते वृत्तस्ततो[^1] मत्त्राणं न केनापि शक्यशङ्कम्। तदहमेवाग्निं प्रवेक्ष्यामीति प्रवृत्तः कथञ्चिन्मया निवर्तितः। पश्चाश्चमया कुमुदं प्रति कुशाय सखीसहस्रेण समं कुमुद्वती देया। शङ्खपाल परित्राणाय तद्नुजा कमलिनी कुमुद्वती सदृशी लवाय देया। पद्मावती च माढण्याय तत्कोपशान्तये सूक्ष्मदर्शिन्या दापनीया। राज्ञ उपदाश्च यथासम्भवमानेया: इयदेवालम्। मा भैषी:। अहं राज्ञः प्रसादमुत्पादयामीत्युदीर्य समगतम्। राजा-- (सानन्दम्) यथोचितमाचरितम्। (इति वदन् स्वकार्यं साधितमालोच्य तत्साधिके सागरिकानागरिके प्रणम्प कृताञ्जलिः) सीतासूत परं मां संप्रति संरक्षतो युवामेव। अपनिद्रमपाहारं तस्मादधिके युवां मातु:॥२०॥ हन्त कियत् साधितं युवाभ्याम्। एक: करग्रहो मे प्रार्थितपूर्वस्तथापि मे लब्धा। माढव्यस्य लवस्य च कल्याणपरम्परा सेयम्॥२९॥ [^1]T2- स्मितो साग, नाग-- आवाभ्यां वाङ्मात्रेण साहाय्यमाचरितम्। तवानुजन्मनो युवराजलवस्य त्वदाश्रितस्य माढव्यस्य च महिमा केन वर्ण्यते। (नेपथ्ये कलकल:।) राजा[^1]-- (आकर्ण्य स्वगतम्) कुमुदः सन्निहितः। (प्रकाशम्) सिंहासन उपविश्य[^2]) कः कोऽत्र भोः? (प्रविश्य) कञ्चुकी-- अयमस्मि। राजा-- कञ्चुकिन् युवराजो लवो माढव्यश्च प्रस्तुतं[^3] कर्म मध्ये समाप्य[^4] समानीयेताम्। कञ्चुकी-- तथा। (इति निष्क्रम्य ताभ्यां सह प्रविश्य) इत इतो भवन्तौ। राजा-- (निर्वर्ण्य सहासम्) आगच्छतमायासेन[^5] तिर्यग्जन्तु संहारिणौ। लवमाढव्यौ-- नावां तिर्यग्जन्तुसंहारिणौ। किन्तु सकल [^1]T.c. omits राजा [^2]T2- अपविश्य [^3]T.c. प्रकृत [^4]T.c.- समाप्ये [^5] अनायासेन would see better. लोकनाथस्य सर्वशरण्यस्य दीनदयालोस्तव विप्रिय[^1] कारिणो कुमुदशङ्खपालावेव। राजा-- सन्निहितौ तौ। मास्त्वयं प्रसङ्गः। सर्वे वयं सागरिकामतमनुवर्तयामः। उपविशतम्। (समारोपित कार्मुको लवः सकृष्णाजिनमौञ्जी[^2]कश्चोभौ निविश्तः।) (पुनर्नेपथ्ये) अणाहणाह तेळ्ळोळ्ळणाह दीणदआणिहे। तुमे गअह्मो सरणं पाणताणं विहेहिणो॥२०॥ [अनाथनाथ त्रैलोक्यनाथ दीनदयानिधे। त्वां गताः स्मशरणं प्राणत्राणं विधेहि न:।।] राजा-- (कर्णं दत्वा) प्रायेण भीतानां स्त्रीणामयं शब्दः। साग-- तथैव। कुमुदोऽपराधितया प्रथममागन्तुमधिगत साध्वसः स्वान्तःपुरस्त्रिय: प्रेषयामास। राजा-- तर्हि ता न प्रवेश्याः[^3]। नहि पत्यसन्निधाने परस्त्रियः संभाष्याः। [^1]M, T.c.- विप्रियकारिणौ [^2]॰मौञ्जीको माढव्यश्च would have been better. [^3]T2- प्रवेण्या: साग-- साधु तव व्रतं न भञ्जनीयम्। (उच्चैः) भोः कुमुदान्तःपुरकान्ताः राज्ञा निरुपाधिकरुणार्णवेन युष्माकमभयं दत्तम्। तदभीतेन कुमुदेन सहैवागच्छता (ततः प्रविशति कुमुद: सपरिजनां[^2] सविवाहवेषां कुमुद्वती पुरस्कृत्य सपरिवार:[^3] कमलिनी[^4]पद्मावतीभ्यां शङ्खपालेन च सह।) कुमु-- (अग्ने राजानं निर्वर्ण्य स्वगतम्) अज्ज वि मे भग्ग विअळत्तणं। अय्यउत्तं दट्ठूणं वि मे ण[^5] लध्दो परिरंभो। तादो मे रण्णे पडिवादेदुं विळंबेदि। [अद्यापि मे भाग्यविकलत्वम्। आर्यपुत्रं दृष्टवापि मे न लब्धः परिरम्भः। तातो मां राज्ञे प्रतिपाद्‌मितुं विलम्बते।] किण्णु खु मए काढ़व्वं। [किन्नु खलु मया कर्तव्यम्।] राजा-- (स्वगतम्) हृदय समाश्वसिहि समाश्वसिहि। [^1]M- वृत्तं [^2]T.C- सपरिवार: [^3]T.c.- सपरिजनः [^4] All mss. have सकमलिनी [^5] M, T1, T2- न तवाभिलषितं सिद्धमेव। क्षणं विलम्बस्व युवराजमाढव्ययो: कमलिनी पद्मावतीदाने निर्वृत्ते मयापि कुमुद्वर्ती प्रतिगृह्यते। (प्रकाशम्) न भेतव्यम् न भेतव्यम्। युवराजेन गरुडास्त्रमुपसंहृतम्। माढव्यसर्पयागश्च निवर्तितः। सर्वे-- महाराजदर्शनेनैव जीविता स्म:।(इति प्रणमन्ति।) राजा-- सर्वेषामभयं दत्तमेव। नाग-- (समन्तादवलोक्य) किमिदमभये दत्तेऽपि नागकान्ताः पलायन्ते। साग-- (सहासम्) केवलमारोपितशरासनं युवराजं कृष्णाजिनधरं माढव्यं च दृष्ट्वा भीता एता:। राजा-- निसर्गमुग्धा हि स्त्रीजाति:। वत्स लव चापमवरोपय। माढव्य त्वमजिनं परिहृत्य क्षौमं[^1] परिधेहि। (उभौ तथा कुरुतः।) (कुमुदः उपसृत्य नमश्चिकीर्षति।) साग-- कुमुद त्वया हि कन्या प्रदास्यते तदनुचितं मा[^2] [^1]T2- कक्षौ मम for क्षौम [^2]T.c. omits मा कार्षी: राज्ञे विज्ञापनीय[^1] विज्ञापय। कुमुद:-- (सविनयमञ्जलिं बद्धवा) अन्तर्भूतं[^2] हि तिर्यक्षु वधं[^3] सर्वैऽपि तद्विदुः। मत्कृतं बुद्धयबुद्धिभ्यां क्षन्तव्यं तद् दयालुभिः॥२१॥ राजा—तिर्यग् वास्तु मनुष्यो वा शत्रूर्वा यश्च कश्चन। शरणं मां प्रपन्नो यः स रक्ष्यः सर्वदा मया॥२२॥ स एव हि क्षत्तधर्मः। विशिष्मास्माकं कुलधर्मश्च। कुमुद:-- कः सन्देहः? सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्मेतद् व्रतं मम॥२३॥ इति युष्मत्पितृचरणभणितं केन न ज्ञायते? भवद्भि रपि तदेव व्रतमनुष्ठीयते। अत एव हि निर्विचिकित्सोऽहं युष्मान् शरणं गतोऽस्मि। नाग-- साधु साधु चतुरं भाषसे। माद-- (अपवर्ग) णाअरिए अस्स एसा चउरदा पुव्वं कुत्त गआ। [नागरिके अस्यैषा चतुरता पूर्वं कुत्र गता?] [^1]M, T1, T.c.- अपिज्ञापनीयं [^2]T2, T.c- अन्तर्भूता [^3]T2, T.c- वयं नाग-- (अपवार्य) को वा गच्छन् न स्खलति? माढव्य मूढ इव भाषसे। अस्य चातुर्ये युवराजस्य तव च कथमिव पाणिग्रह: प्रसजेत्। साग-- (अपवार्य) सखि नागरिके कस्तव परत्र व्याक्षेपः? इतः पश्य- वत्सः पश्यति संल्लान्नपि परैरक्ष्णोपाङ्गेनी तां लब्धां यत्नशतैरहीन्द्रतनयां साप्येनमेवेक्षते। आस्तामेतदनद्भुतं तरुणयोः सव्याजमेतौ पुन[^1]- र्दूरादेव मुदस्यमान विनयं?)प्रेम्णा समालिङ्गतः॥२४॥ अन्यच्चेदमालोक्यताम्-- एषा राज्ञी भवित्रीत्यह[^3]महमिकया नागकान्तासु काचित् धर्मं[^4] निर्मार्ष्टि फाले स्वयमहिदुहितु: कापि दत्ते स्म वीटीम्। अन्या विन्यासभेदान् रचयति चिकुरे पुष्पदाम्नस्तदेतत् पश्यन्ती लज्जमाना मुखमवनमयत्यन्तरान्तःस्मितेयम्॥२५॥ [^1]T.C. यूनौ(मनो) [^2] Gap in T1, M, T.c. T2-बुदस्थमानी [^3] M- अहमिकमिया, T1- अहमिहनिकमा [^4]M has gap for घ; T1- कर्मं इतश्च-- वत्सानुजं कमलिनी दरमीलिताक्षी पश्यत्यनुक्षणमुदञ्चितमञ्जुहासा। पद्मावती च पतिमेव निरीक्षमाणा तत्प्रत्यवेक्षणदशास्वपि सा तथैव॥२६॥ परस्त्रियो न वीक्षार्हा इति व्यावर्तितेक्षण:। स्वं विवाहमजानातो[^1] लवः स्वाग्रजमीक्षते॥२७॥ कुमुद:-- एषा मे परमा विज्ञप्तिः। मम प्रमाददोषेण नष्टा: केचन बान्धवाः। ये गतास्ते गता एव शिष्टा रक्ष्या वयं त्वया॥२७॥ (राजा नागरिकामवेक्षते।) नाग-- (अपवार्य) भो युवराज भो माढव्य स्वां स्वां(मायां?)[^2] उपसंहरतम्। (तौ क्षणं ध्यात्वा तथा कुरुत:।) [^1] M, T, T.c.- जानानो [^2] This is the suggested reading. All mss. do not have this word. (ततश्च-- सुप्तोत्थिता इव निजां मृतिमस्मरन्तो नष्टाः कुतोऽपि मिलिता मिषतां जनानाम्। ते बन्धुभिः प्रमुदितैरतिविस्मयेन प्रेम्णा चिराय परिषस्वजिरे फणीन्द्राः)॥२९॥ कुमुद:-- (तदद्भुतमवेक्ष्य महान्तमानन्दमनुभवन्विस्मयेन सगद्दमिद्‌मवादीत्।) दातारो धन[^1]मर्पयन्ति करुणाशाली न हन्ति स्वयं जीवन्तं शरणागतं स हि जनैः प्राणप्रदःस्तूयते। को वा जीवयितुं प्रभुर्मृतमपि त्यक्त्वा भवन्तं परस्तस्मात् त्वन्महिमा न मानवजनैर्ज्ञेयः कुतो मादृशैः॥३०॥ (अत्रान्तरे नभसि मङ्गलदिव्यतूर्य[^2]- घोष: स्वयं समुदपद्यत हृद्यरूप:। देवा ववर्षा[^3]वनीपतिमूर्ध्नि हर्षात् कल्पद्रुपुष्पनिवहान् सह वासवेन॥३१॥ [^1]T.c.- वन [^2]T.c. adds तूर्यं [^3]M, T2 Tc. have मृदैव ववृषुर्नरदेवमौलौ, T1 has this reading also. (कुमुद: अयमेव समय इति कुमुद्वतीं प्रदातुं करे गृह्णाति।) राजा-- (स्वयं त्वरमाणोऽपि धैर्यमवलम्ब्य) सर्पराज मा त्वरस्व। प्रथमं विप्राय माढव्याय पद्मावती देया। ततो युवराजाय कमलिनी। ततः कुमुद्वतीति क्रमो मह्यं रोचते। कुमुदः-- (स्वगतम्) अय्यउत्तस्य धीरत्तणं मह मन्दभाइणीए करग्गहणंतराओ होदि। [आर्यपुत्रस्य धीरत्वं मम मन्दभाग्यायाः करग्रहणान्तरायो भवति।] (इति सखेदलज्जं तिष्ठति।) कुमुदः-- महतां मानसमुचितमेव गोचरयति। राजा-- भगवत्यौ सागरिकानागरिके अयं वामवसरश्चिर काङ्क्षतिः संप्राप्त:। उत्थाय पाणिग्रहमहोत्सवमनुभवतम्। एतत्पाणिग्रहणत्रयसम्बन्धी कङ्कणबन्धश्च प्रागेव युवाभ्यां युवयोः करे बद्धः। इतः पाणिग्रहणमात्रमवशिष्यते। तदारभ्यतां तावत्। साग, नाग-- ससंभ्रममुत्थाय कुमुदकुमुद्वतीभ्यामनुगते सूक्ष्मदर्शिन्या पद्मावती हस्तं ग्राहयित्वा[^1] [^1]M, T1 T.c.- गृहीत्वा (कुमुद: अयमेव समय इति कुमुद्वतीं प्रदातुं करे गृह्णाति।) राजा-- (स्वयं त्वरमाणोऽपि धैर्यमवलम्ब्य) सर्पराज मा त्वरस्व। प्रथमं विप्राय माढव्याय पद्मावती देया। ततो युवराजाय कमलिनी। ततः कुमुद्वतीति क्रमो मह्यं रोचते। कुमुदः-- (स्वगतम्) अय्यउत्तस्य धीरत्तणं मह मन्दभाइणीए करग्गहणंतराओ होदि। [आर्यपुत्रस्य धीरत्वं मम मन्दभाग्यायाः करग्रहणान्तरायो भवति।] (इति सखेदलज्जं तिष्ठति।) कुमुदः-- महतां मानसमुचितमेव गोचरयति। राजा-- भगवत्यौ सागरिकानागरिके अयं वामवसरश्चिर काङ्क्षतिः संप्राप्त:। उत्थाय पाणिग्रहमहोत्सवमनुभवतम्। एतत्पाणिग्रहणत्रयसम्बन्धी कङ्कणबन्धश्च प्रागेव युवाभ्यां युवयोः करे बद्धः। इतः पाणिग्रहणमात्रमवशिष्यते। तदारभ्यतां तावत्। साग, नाग-- ससंभ्रममुत्थाय कुमुदकुमुद्वतीभ्यामनुगते सूक्ष्मदर्शिन्या पद्मावती हस्तं ग्राहयित्वा[^1] [^1]M, T1 T.c.- गृहीत्वा माढव्येन सस्मितं झटिति प्रसारिते करे निधाय) प्रजासम्पत्तये[^1] तुभ्यं कुमुद्वत्यर्थिताप्तये। मम कन्यां प्रदास्यामि नाम्ना पद्मावतीमिमाम्॥३१॥ (इति तया वाचयत:[^2]) विदूषक:-- (अर्धोच्चारित एव मन्त्रे पद्मावतीकरं गृहीत्वा झटित्युत्थाय राज्ञः समीपं गत्वा) जेदु महाराओ। तुह पसादेण सिद्धमणोरहोम्हि महंतो महाणंदो। [जयतु महाराजः। तव प्रसादेनसिद्ध मनोरथोऽस्मि। महान् ममानन्द:।] राजा-- तवानन्द एव ममानन्दः। विदू-- (सहासम्) सच्चं एव्व एदं। तुह वि पाणिग्गहाणंद एव्व सण्णिहिदो। [सत्यमेवैतत्। तवापि पाणिग्रहणानन्द एव सन्निहितः।] (कुमुद्वती मुखं नमयति।) राजा—विप्रप्रसादात् किं न लभ्यते। [^1]M, T1- ॰संपूर्तये, T2- संवृत्तये [^2]M- वाचःयत, T2- वाचयन्तः साग-- (शङ्खपालकुमुदाभ्यां सह कमलिनीं पुरस्कृत्य लवसमीपं प्राप्य) युवराज कमलिनीपाणिं गृहाण। लव:-- (स्वगतम् कमलिनींमालोक्य) एषा ममानुरूपैव। तथापि आर्यानुमत एव पाणिं गृह्णामि।(प्रकाशम्) नहि मम पाणिग्रहणाय प्रवर्तितोऽयं यत्न:। आर्यस्य पाणिग्रहोत्सव: प्रवर्यताम्। नागरिके किं विलम्बसे? साग—सत्यमार्यहिताचरणायैव प्रवृत्तोऽसि तेनैवसुकृतेन च देव[^1]प्रसादलब्धस्ते कमलिनीपाणिग्रह:। राजा—अचिन्तितोपनम्रं यद् विधिदत्तं हि तद्[^2] विदु:। धर्म्य एष विवाहस्ते परिहर्तुं न साम्प्रतम्॥३२॥ (लवः कमलिनीसौन्दर्याकृष्यमाणहृदयोऽप्यार्यशासनबलादिव सपुलकेन पाणिना कमलिनीपाणिं गृहीत्वा सागरिकानागरिके स्वमार्यमपि प्रणमति स्म।) (राजा लवनाशीर्भिरभिवर्धयन्नेव विशिष्य भूषाम्बरादिभिरलङ्कृत्य महोत्सव इति पृथक् सिंहासने कमलिनीं युवराजमपि स्थापयति।) [^1]M, T1 omit देव [^2]T2- तद्दविजः शङ्ख-- (अपवार्य) सागरिके राज्ञा ममाभयं दाप्यताम्। साग-- (तं करे गृहीत्वा) वत्सायं शङ्खपालः। राजा-- (तमालोक्य दयार्द्रहृदय:) इदानीमयं युवराजसम्बन्धाद् युवराजपोष्य एव। तत्सुखेन वर्तताम्।(शङ्खपालः राजानं प्रणमदि।) राजा-- सागरिके भूषणाम्बरादि तस्मै प्रदाप्यताम्।(सागरिका तथा करोति।) कुमु-- (अपवार्य) साअरिए किं इढो वि विळंबेसि।[^1] [सागरिके किं इतोऽपि विलम्बसे।] साग-- (सानुस्मरणम्) वत्स शुभोऽयं मुहूर्त:। देव दुन्दुभयो नदन्ति। प्राङ्मुमास्स्व। (राजा तथा कुर्वन् कुमुद्वतीमीक्षते।) साग-- कुमुद राजे कुमुद्वती देया। तदवसरोऽयं तव[^2] प्राप्तः। कुमुदः-- [सामन्दसन्भ्रमं कुमुद्वतीमलङ्कृतां सपरिवारां पुरस्कृत्य राजसमीपं गत्वा उपदाः पुरो निधाय कृताञ्जलि:) [^1] All mss read स्पष्टम् and omit chāyā. [^2] T2- तं राजन् कुमुद्वती सेयमनुरक्ता स्वत[^1]स्त्वयि। विधिनैव स्वयं दत्ता केन तुभ्यं प्रदीयताम्॥३३॥ परं तु-- ज्योत्स्नाया इव चन्द्रेण प्रभाया इव भानुना। कुमुद्वत्यास्त्वया योगं द्रष्टुकामोऽस्मि केवलम्॥३४॥ राजा-- दृश्यतां दृष्टव्यम्[^2]। (सानन्दमुत्थाय कुमुदाय प्रणम्य कुमुद्वतीं करे गृहीत्वा तया सह सिंहासन उपविशति। विशिष्य देवदुन्दुभयो नदन्ति। सभागताश्च समानरूपयोः सम्बन्ध इति सर्वेऽभिनन्दन्ति।) कुमु-- हिअअ समास[^3]सहि समाससहि। इदो दे ण सन्दावो होज्जा। आणन्दमणहोहि। मअणरज्जसिंहामणं अहिरूढं हि। [हृदय समाश्वसिहि समाश्वलिहि। इतस्ते न सन्तापो भविष्यति। आनन्दमनुभव। मदनराज्यसिंहासनमधिररूढास्मि।] [^1]M - त्वत: [^2]M, T.c.- दृष्टं [^3]T2, T.c. समस्ससिहि राजा-- (स्वगतम्) अहो[^1] सुस्थमिदमिदानीं ममान्तःकरणम्। किं हरस्य धनुर्भग्नं सेतुर्वा सागरे कृतः। जितः किं रावणः सङ्ख्ये का ममेयं कृतार्थता॥३५॥ (पुनर्विमृश्य) अथवा ममैतया कृतार्थतया तातचरणानामपि सा चरितार्थता नोपनीयते। (प्रकाशम् लवमालोक्य) सत्यमहमद्य तवातर्कि तोपनतेन विवाहेन महात्मानन्दमनुभवामि। लव:-- आर्य पुनः कस्यायमानन्दः? पितुरेव हि पुत्र विवाहानन्द:। कुमु-- (फणावतीहस्तादङ्गदमादाय राज्ञो हस्ते धारयन्ती) अय्यउत्त ण सक्कुणोमि धारेदुं। सच्चं तुम्हाणं विप्पओएण इदं[^2] कसं जाअं। [आर्यपुत्र[^3] न शक्नोमि धारयितुं। सत्यं युष्माकं विप्रयोगेन इदं कृशं जातम्।] नाग-- (विह्रस्य) अयि मुग्धे नाङ्‌दस्य कार्श्यमस्ति। [^1]M omits अहो [^2]M- जजक्षहाअं, T1, T.c.- इदं कंसहाअं [^3] All mass. omit chāyā. तव हस्तस्पर्शेन वत्सस्य हस्तो मांसलितो जायते। ततो मयैव धार्यते। (इति तत्करात् अङ्गदमादाय स्वयमेव धारयन्ती[^1] राजानमवेक्ष्य) संफुल्लचम्पकसगन्धसुगन्धिमूर्तेः सान्निध्यतो भुजगराजकुमारिकाया:। भासाङ्‌दस्य च भवानधुना विभाति सेन्द्रायुधः क्षण[^2]रुचेव नवः पयोदः॥३६॥ राजा-- सर्वोऽप्ययं भगवत्या महिमा। (इति वदन् स्वकण्ठात् कुमुद्वतीहारमादाय तस्या: पुलकिनि स्वेदकरम्बिते कण्ठे समर्पयन्) प्रिये पश्य पश्य-- मन्दस्मितद्युतिझरोभिरुदित्वरीभिः संवर्धमानसितिमद् द्रढिमैष हारः स्वस्थानमेत्य सुखमद्य तव स्तनाद्रिं क्रीणाति मे हृदयमेतदमूल्यमेव॥३७॥ किं ते भूय: प्रियमुपहरामि। तथापीदमस्तु। [^1]T2- धारयित्वा [^2]M- रवेन; T1- रुचे; T.c.- रुचेर ( भरतवाक्यम्) वन्ध्या भवन्तु वनिता: कुकविप्रसूतौ व्युत्पित्सवोऽपि हि कृती: सरसा: पठन्तु। विज्ञाश्च तत्र रसमेव विवेचयन्तु सामाजिका अपि[^1] भवन्तु रसैकनिष्ठः॥३७॥ किं चेयं सुकुमारमञ्जुलपदन्यासा समासादित- प्रौढालङ्कृतिरङ्कुरन्मनसिजा शृङ्गारचारुः कृतिः। आवर्ज्य स्वयमेव वाक्यरचनैरानन्दनिष्यन्दिभि- श्चुम्वन्ती वदनाम्बुजं हृदि समारूढा नृणां क्रीडतु॥३९॥ मुर्खेण शुष्ककलहः कविरवेदहेतु- र्भावज्ञविज्ञकलहः कृतिशोधहेतुः। मूढस्त्रिया विहरतो(ऽप्यनिशं)[^2] किमस्ति प्रौढस्त्रिया विहरतस्तु सुखाप्तिरस्ति॥४०॥ (इति निष्क्रान्ता: सर्वे।) पञ्चमोऽङ्कः[^3] [^1]M -भूवि; T1, T2 have भुवि or a variant. [^2]This is the en.reading. All mss. have विहरतोऽपि विशाम् [^3] All. Mss. add समापञ्चेतुं नाटकं कशकमतृतीयम्। इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीकण्ठमतनिर्वाहधूर्वहचतुरधिकशतप्रबन्धनिर्मित्यलङ्कर्मीणश्रीमदप्पय्यदीक्षितसोदर्य श्रीमदाच्चादीक्षितपौत्रस्य श्रीनारायणदीक्षितेन्द्रवरसुनोरतिरात्रयाजिनः कृतिषु कुशकुमुद्वतीयं नाम[^1] नाटकं समाप्तम्[^2]। [^1]M omits नाम [^2]T1, T2 add- ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ॥ओं।। T2 adds- इदं कुशकुमुद्वतीयं नाम नाटकं रामाभट्टेन लिखितम्। obviously this is the name of the scribe. M- इत्थं श्रीमत्तञ्जनगरविराजमानं श्रीमद्राजकीयं श्रीसरस्वती महाल ताळपत्रग्रन्थानुसारेण लिखितं समवलोकितं च सद्विजयतेतराम्। यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया। अबद्धं वा सुबद्धं वा मम दोषो न विद्यते॥ इत्थं कीरनूर बालसुब्रह्मण्यशास्त्रिणः।24-11-1923. T.c.- सत शके ९८४९ प्रभव वत्सर मीनमासे एकोनत्रिंशद्दिवसे विशाखयुक्तकृष्णषष्ठ्यां इन्दुवासरे समाप्तिमगात्।12-3-1924 इत्थं मातृकवल्लेखकः बालसुब्रह्मण्य शास्त्री।