<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<lg>
  <l>अनीनदत्पद्मभवो मृदङ्गं जगौ हनूमान् जगतामधीशम् ।</l>
  <l>अदर्शयत्तालगतीः कपर्दी ननर्त गोपालकबालमौलिः ॥</l>
</lg>
<pb n="2" />
<p>श्रीः
अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
<error>तृतीयं</error> <fix>तृतीयम्</fix> उपाधिखण्डनम्
श्रीजयतीर्थभिक्षुविरचितेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया मन्दारमञ्जरीटिप्पण्या समलङ्कृतेन
विभूषितम्</p>
<pb n="3" />
<lg>
  <l>कामधेनुर्यथा पूर्वं सर्वाभीष्टफलप्रदा ।</l>
  <l>तथा कलौ वादिराजश्रीपादोऽभीष्टदः सताम् ॥</l>
</lg>
<pb n="4" />
<p>श्रीः
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
<error>तृतीयं</error> <fix>तृतीयम्</fix> <error>उपाधि खण्डनम्</error> <fix>उपाधिखण्डनम्</fix>
श्रीजयतीर्थभिक्षुविरचितया टीकया विभूषितम्
टीका</p>
<lg>
  <l>रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।</l>
  <l>तत्वप्रकाशिकाव्याख्यां करिष्यामो यथामति ॥</l>
</lg>
<p>अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाः
मन्दारमञ्जरी टिप्पणी प्रारभ्यते
हरिः ॐ</p>
<lg>
  <l>[^1]लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।</l>
  <l>प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥</l>
</lg>
<lg>
  <l>श्रीमदानन्दतीर्थार्यचरणाम्बुरुहद्वयम् ।</l>
  <l>शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥</l>
</lg>
<lg>
  <l>जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरूनपि ।</l>
  <l>तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥</l>
</lg>
<p>प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनकमविगीतशिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं
मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति 'कृतल्युटो बहुलम्'
[^1] 'कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् । तत्वप्रकाशिका<flag>व्य ख्यां</flag> <fix>व्याख्यां</fix> करिष्यामो यथामति ॥ १ ॥
स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया । ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥
मङ्गलाचरणपूर्वकं चिकीर्षितं निर्दिशति ॥ रमाया रमणमिति ॥ <fix>'</fix>नन्द्यादित्वात् कर्तरि ल्युट्' इति मुद्रितः पाठः ।
अयं पाठो न साधुरिति भाति । तत्वप्रकाशिकाव्याख्याया जयतीर्थकर्तृकायाः स्वकर्तृकत्वाभावेन प्रथमश्लोकोत्तरार्धस्यानुपपन्नत्वात् ।</p>
<pb n="5" />
<p>इति कर्त्रर्थे ल्युटः स्मरणात् कर्तरि ल्युट् । रमारमणस्यैव नम्यत्वे हेतुमाह ॥ गुणमाणिक्येति ॥ गुणा एव
माणिक्यानि तेषां मण्डनमित्यर्थः ॥ तत्वप्रकाशिकाव्याख्यामिति ॥ ब्रह्ममीमांसासहितवेदान्तविषयादितत्व-
प्रकाशिकाव्याख्यामित्यर्थः । करिष्याम इति परसमवेतक्रियाफलाभिधायिना परस्मैपदेन शिष्यानुजिघृक्षया ग्रन्थो निर्मीयत इति सूचयति ।
<blold>अवतरणिका<bold>
(टी.) परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्दाद्यात्मकस्यापि जीवस्य अनाद्यविद्याकामकर्मादि-
निमित्तोऽयं परमार्थ एव अन्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादादृते अपगच्छति । न च असाक्षा-
त्कृतोऽसौ प्रसीदति । न च अविदितस्वरूपः शक्यते साक्षात्कर्तुम् इति सकलगुणाकरतया निश्शेष-
दोषगन्धविधुरतया च तं प्रतिपादयितुमशेषाम्नायाः प्रवर्तन्ते । तदुपकरणभूता च ब्रह्ममीमांसेति
परमार्थः ।
(मं. टि.) ननु किमर्थमिदं प्रकरणमारभ्यते भगवत्पादैः ? न च वेदान्तानां समीमांसानां विषयप्रयोजनादि-
स्वरूपनिर्णयार्थमारभ्यते, तन्निर्णयश्च वेदान्तादौ जिज्ञासूनां प्रवृत्त्यर्थः, प्रवृत्तिश्च ज्ञानसम्पादनद्वारा मोक्षपर्यवसायि-
नीति वाच्यम् । मोक्षस्य ईश्वरप्रसादैकसाध्यत्वेन ज्ञानानपेक्षणादित्याशङ्क्याह ॥ परमात्मन इत्यादिना न चासा-
क्षात्कृतोऽसौ प्रसीदतीत्यन्तेन ग्रन्थेन ॥ जीवस्य दुःखाद्यनर्थः परमेश्वरप्रसादादृते नापगच्छतीति सम्बन्धः । ननु दुःखादेरानन्दादिवदनिवृत्तिः किं न स्यात् ? इत्यत आह ॥ अन्यथाकार इति ॥ आनन्दादिवन्न स्वाभाविकत्वं [^1] अन्तःकरणधर्मत्वाद्दुःखादीनामिति भावः । तर्हि मायिमत इव दुःखादीनां मिथ्यात्वं स्यादिति । नेत्याह ॥ [^2] परमार्थत इति ॥ दुःखादीनां स्वरूपेण [^3] अन्तःकरणे परमार्थत्वात् तदनुसन्धातृत्वस्य दुःखित्वस्य जीवे परमार्थत्वान्न कस्यापि मिथ्यात्वमित्यर्थः । ननु तस्यानर्थस्यानिमित्तकत्वे स्वरूपानन्दादिवत्स्वाभाविकत्वं स्यात् । सनिमित्तकत्वे च निमित्तस्यापि निमित्तान्तरापेक्षायामनवस्था स्यादित्यत आह ॥ अनाद्यविद्याकामकर्मेति ॥ सनिमित्तकत्वेऽपि निमित्तस्यानादित्वान्नानवस्थेत्यर्थः । अविद्या भावरूपाज्ञानम् । कामो रागः । कर्म काम्यादिकर्म । अविद्यायाः स्वरूपेणानादित्वम् इतरयोस्तु प्रवाहत इति द्रष्टव्यम् ।
<bold>स्वरूपतोऽनादित्वपरिष्कार:<bold>
ननु किमिदमनादित्वं नाम । किं प्रागभावाप्रतियोगित्वं ? किं वा कारणशून्यत्वं ? आद्येऽपि किं
स्वप्रागभावाप्रतियोगित्वं ? अन्यप्रागभावाप्रतियोगित्वं वा ? प्रागभावमात्राप्रतियोगित्वं वा ? आद्येऽपि किं</p>
<lg>
  <l>[^1] आगन्तुकत्वाद्दुःखादीनामिति भावः ।</l>
  <l>[^2] परमार्थ इति ॥</l>
</lg>
<p>[^3] अन्तःकरणपरिणामत्वेन परमार्थत्वात् तदनुसन्धातृत्वस्य च.</p>
<pb n="6" />
<p><bold>मन्दारमञ्जर्या स्वरूपतोऽनादित्वपरिष्कार:<bold>
(मं. टि.) स्वप्रागभाव: प्रसिद्ध : ? उत न ? आद्ये कथमयं न तत्प्रतियोगी स्यात् ? इत्यसम्भवः । द्वितीये त्वसम्भवः ।
[^1] स्वप्रागभावाप्रसिद्धौ तत्प्रतियोगित्वाभावस्य दुर्ज्ञानत्वात् । [^2] नापि द्वितीय: । घटस्यापि पटप्रागभावाप्रतियोगि-
नोऽनादित्वापातात् । तृतीयेऽपि मात्रशब्दः किं <error>कार्यवाची</error> <fix>कात्स्न्र्यवाची </fix>? किंवा सामान्यवाची ? नाद्यः । घटस्याऽपि
[^3] कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वापातात् । न हि घटः पटादिप्रागभावप्रतियोगी । न द्वितीयः । आका-
शादिप्रतियोगिकप्रागभावस्याप्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयो: [^4] सामान्याभावात् । एवमेव कारणशून्य-
त्वमिति द्वितीयोऽपि निरसनीयः । तस्मादविद्यानादित्वं दुर्निरूपमिति । अत्रोच्यते ।</p>
<lg>
  <l>घटादौ प्रमिता तावत्प्रागभावेन युक्तता ।</l>
  <l>आरोप्य बुद्धिपूर्वं सा गगनादौ निषिद्धयते ॥</l>
</lg>
<p>स्वप्रागभावाप्रतियोगित्वमेवानादित्वम् । यत्तु 'स्वप्रागभावाप्रसिद्धौ [^5] स्वप्रागभावप्रतियोगित्वाभावोऽप्य-
सिद्धः' इति तत्र किं 'प्रतियोगिनोऽसत्वेऽभावोऽपि न स्यात्' इत्यर्थो विवक्षितः ? । किं वा 'प्रतियोगिनोऽसत्वे
तज्ज्ञानोपायाभावेन प्रतियोगिज्ञानपूर्वकमभावज्ञानं च न स्यात् इति ? । नाद्यः । <error>प्रागभावप्रध्वंसयो</error> <fix>प्रागभावप्रध्वंसयोः</fix> प्रतियोगि
सत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्याप्त्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्त्वमेवा-
पेक्षते । प्रकृते च स्वप्रागभावप्रतियोगित्वात्यन्ताभावस्य लक्षणत्वेन विवक्षितत्वात् । न द्वितीयः । [^6] <error>घटरादौ</error> <fix>घटादौ</fix>
प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधात् । निषेधो हि प्रसक्तिपूर्वकः । प्रसक्तिश्च
बुद्धिपूर्वकारोप एव । 'इह भूतले घटो नास्ति' इत्यादौ भूतलान्तरे प्रमितस्य घटस्य इह भूतले बुद्धिपूर्वक-
मारोप्य निषेधे एतद्भुतलस्य घटाभावः सिद्धयति यथा एवमेवात्रापि घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य
गगनादौ बुद्धि पूर्वकमारोप्य निषेधे गगनस्य स्वप्रागभावप्रतियोगित्वाभावो ज्ञातो भवति । अथ वा घटादौ
स्वप्रागभावप्रतियोगित्वस्य दर्शनात् 'गगनं स्वप्रागभावप्रतियोगि वस्तुत्वात् घटवत्' <error>इत्याद्यनुमानाभासैगगनादेः</error> <fix>इत्याद्यनुमानाभार्सैगगनादेः</fix>
स्वप्रागभावप्रतियोगित्वे प्रसक्ते तन्निषिद्धयत इति नाप्रसक्तप्रतिषेधः । एवमेव स्वकारणराहित्यस्वोत्पत्तिराहित्या-
दीन्यनादित्वलक्षणान्यूह्यानि । एवमेव [^7] प्रध्वंसाप्रतियोगित्वं नित्यत्वमित्यादीन्यपि [^8] समर्थनीयानीति दिक् ।
<bold>प्रवाहतोऽनादित्वपरिष्कारः<bold>
[^9] नन्वथापि प्रवाहतोऽनादित्वमिति कोऽर्थ: ? प्रवाहोऽनादिरित्यर्थ इति चेत् । स किं प्रवाहिभ्यो
भिद्यते ? उत न ? आद्येऽपि स किं प्रवाहिभिरारभ्यते ? उत [^10] ज्ञाप्यते ? आद्ये कथमयमनादि: स्यात् ?
[^1] प्रागभावाप्रसिद्धौ.
[^2] न द्वितीय:
[^3] कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वप्रसङ्गात्.
[^4] सामान्यस्याभावात्.
[^5] स्वप्रागभावप्रतियोगित्वाभावोऽप्यप्रसिद्ध इति.
[^6] इत आरभ्य अथवा इत्यन्तो भागो मुद्रितपुस्तके नास्ति.
[^7] ध्वंसाप्रतियोगित्वं.
[^8] समर्थनीयानि.
[^9] तथापि.
[^10] ज्ञायते.</p>
<pb n="7" />
<pb n="8" />
<p><bold>प्रकरणस्य प्रयोजनादिसमर्थनम्<bold>
(म. टि.) प्रतिपादकत्वात् ब्रह्मण्येव महातात्पर्यमित्याह ॥ अशेषेति ॥ न चैवं ब्रह्ममीमांसावैयर्थ्यम्! [^1] वेदार्थ-
निर्णायकन्यायव्युत्पादकत्वादित्याह ॥ तदुपकरणेति ॥ .
<bold>मायावाद्यभिमतविषयादिनिरूपणम्<bold>
(टी.) अपरे तु स्वतः [^2] परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञा-
<error>नैकनिवर्हणीय</error> <fix>नैकनिबर्हणीय</fix> इत्यतोऽस्यानर्थहेतोः <error>ग्रहाणाय</error> <fix>प्रहाणाय</fix>आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ।
तदितिकर्तव्यतारूपा ब्रह्ममीमांसा चेति मन्यन्ते ।
(मं. टि.) वेदान्तानां विषयादितत्वनिर्णयार्थं चैतत्प्रकरणम् । किं [^3] विषयाद्याभासप्रसक्तिरस्ति ? इत्याशङ्कय
<error>अस्तीत्या</error> <fix>अस्तीत्याह</fix>॥ अपरे त्वित्यादिना मन्यन्त इत्यन्तेन ग्रन्थेन ॥ वेदान्तस्य प्रयोजनमात्मैकत्वविद्येत्याह
॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते। [^4] आत्मैकत्वविद्याया: प्रयोजनमाह ॥ अनर्थोऽद्वै-
तज्ञानैकनिबर्हणीय इति ॥ यद्वा वेदान्तानामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्ति-
शब्देन प्राप्तिर्विवक्ष्यते । यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । प्रयोजनमाह ॥ अन-
<error>र्थोऽद्वैतज्ञानकनिबर्हणीय</error> <fix>र्थोऽद्वैतज्ञानैकनिबर्हणीय</fix> इति ॥ इत्यनर्थनिबर्हणार्थमिति शेषः । अनर्थस्याद्वैतज्ञाननिवर्त्यत्वे हेतुमाह
॥ अपरमार्थ इति ॥ अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति ॥ निमित्तशब्द: कारणमात्र
वाची तद्विशेषोपादाने <flag>पर्यवस्यनीति</flag> द्रष्टव्यम् । तत्र हेतुमाह ॥ स्वतः परमात्मभूतस्येति ॥ ननु स्वतः
<error>परमात्माभित्रे</error> <fix>परमात्माभिन्ने</fix> जीवे स्वाभाविकानर्थ इव अज्ञाननिमित्तकोऽपि न सम्भवतीत्यत आह ॥ अयमिति ॥ युक्त्य-
सहत्वमनर्थस्य भूषणं । प्रतीतिमात्रं तु प्रत्यक्षसिद्धत्वान्नापलापार्हमिति भावः । ननु ज्ञानस्याज्ञानमात्रनिवर्तक-
त्वान्न दुःखादिनिवर्तकत्वं, तत्राह ॥ अस्य <error>ग्रहाणायेति</error> <fix>प्रहाणायेति</fix>॥ अस्येत्यज्ञानस्येत्यर्थः । <error>साक्षादन निवृत्तिहेतुत्वा</error> <fix>साक्षादनर्थनिवृत्तिहेतुत्वा</fix> -
भावेऽपि अनर्थहेत्वज्ञाननिवृत्त्यर्थमात्मैकत्वविद्येत्यर्थः । अविद्यानिवृत्तेः कथमनर्थनिवृत्तिहेतुत्वम् ? तत्राह ॥ अनर्थ-
हेतोरिति ॥ अनर्थोपादानस्येत्यर्थः । उपादाननिवृत्तेरुपादेयनिवृत्तिहेतुत्वं सुप्रसिद्धमिति भाव ।
<bold>मङ्गलाचरणम्<bold>
(टी.) तमेतं शास्त्रस्य पराभिमतमधिकारिविषयप्रयोजनसम्बन्धं निरस्य स्वाभिमतं समर्थयितुमिदं
प्रकरणमारभमाणो भगवानाचार्यो नारायणस्तवनतत्प्रीतिप्रार्थनारूपमादितो मङ्गलमाचरति ।</p>
<lg>
  <l>नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।</l>
  <l>अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥</l>
</lg>
<p>अगण्यगुणानां नित्यैकनिलया सदा मुख्याश्रया आकृति: मूर्तिर्यस्यासौ तथोक्तः । प्रीयतां
अस्माकमिति शेषः । अभ्यर्हितत्वेन सिद्धत्वात् इदं नोक्तम् । अत्राऽद्य विशेषणद्वयं स्तुत्यर्थमपि
[^1] वेदान्तार्थ.
[^2] श्री. परब्रह्मभूतस्य.
[^3] विषयाद्याभासप्रसक्तिरित्याशङ्कय.
[^4] यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । आत्मैकत्वविद्यायाः प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैकनिबर्हणीय
इति ॥ अनर्थनिबर्हणार्थमिति शेषः ।</p>
<pb n="9" />
<pb n="10" />
<pb n="11" />
<pb n="12" />
<pb n="13" />
<pb n="14" />
<pb n="15" />
<pb n="16" />
<pb n="17" />
<pb n="18" />
<pb n="19" />
<pb n="20" />
<pb n="21" />
<pb n="22" />
<pb n="23" />
<pb n="24" />
<pb n="25" />
<pb n="26" />
<pb n="27" />
<pb n="28" />
<pb n="29" />
<pb n="30" />
<pb n="31" />
<pb n="32" />
<pb n="33" />
<pb n="34" />
<pb n="35" />
<pb n="36" />
<pb n="37" />
<pb n="38" />
<pb n="39" />
<pb n="40" />
<pb n="41" />
<pb n="42" />
<pb n="43" />
<pb n="44" />
<pb n="45" />
<pb n="46" />
<pb n="47" />
<pb n="48" />
<pb n="49" />
<pb n="50" />
<pb n="51" />
<pb n="52" />
<pb n="53" />
<pb n="54" />
<pb n="55" />
<pb n="56" />
<pb n="57" />
<pb n="58" />
<pb n="59" />
<pb n="60" />
<pb n="61" />
<pb n="62" />
<pb n="63" />
<pb n="64" />
<pb n="65" />
<pb n="66" />
<pb n="67" />
<pb n="68" />
<pb n="69" />
<pb n="70" />
<pb n="71" />
<pb n="72" />
<pb n="73" />
<lg>
  <l>नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।</l>
  <l>इन्दिरापतये नित्यानन्दभोजनदायिने ॥ २० ॥</l>
</lg>
<p>इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु तृतीयं उपाधिखण्डनं सम्पूर्णम्
(टी.) आत्मसादृश्यद इत्युक्तं । न चायं पुरुषार्थः, इत्येतत्परिहाराय आद्यं विशेषणं । नानन्दः
स्वरूपेण पुरुषार्थः इत्यतो नित्यानन्देति विशेषणं । भोजनं भोगः अनुभव इति यावत् ।
(मं टि.) ॥ समापितप्रकरणोऽपीति ॥ प्रकरणस्य समापितत्वात् प्रणामादेर्निर्विघ्नपरिसमाप्तिलक्षणप्रयोज
नामावेऽपि भक्तिवशात् प्रणमति अभिष्टौति चेति अपिशब्दार्थः । आनन्दस्वरूपस्य परमेश्वरस्य सादृश्येन अधि-</p>
<lg>
  <l>कारिणः किंप्रयोजनं ? आनन्दानुभवाभावदित्यत आह ॥ नित्यानन्देति ॥</l>
  <l>(टी.) सदा सुरशिरोरत्नप्रभामोषिनखत्विषि ।</l>
  <l>कमलाकमितुः पादयुगले रतिरस्तु मे ॥</l>
  <l>इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वप्रकाशिकाविवरणं श्रीमज्जयतीर्थभिक्षुविरचितं <error>संपूर्ण</error> <fix>संपूर्णं</fix>॥</l>
</lg>
<p>(मं. टि.) एवं परिसमापिततत्वप्रकाशिकाव्याख्यो भगवांष्टीकाकारः एतादृशटीकाकरणस्य अन्ततो नारा-
<flag>यणीतिः<flag> प्रयोजनमिति ज्ञापयन् तत्प्रीतिं प्रार्थयते ॥ सदा सुरेति ॥</p>
<lg>
  <l>हयग्रीवपदाम्भोजनखदीधितिचन्द्रिकां ।</l>
  <l>मनश्चकोर संसारसन्तप्त सततं पिब ॥</l>
</lg>
<p>इति श्रीमत्समस्तदेवतामस्तकमणिकिरणारुणितपादारविन्दस्य अरविन्दनेत्रस्य श्रीमुख्यप्राणहृदयां-
रविन्दराजहंसस्य सज्जनकुमुदचन्द्रस्य श्रीलक्ष्मीनिवासस्य श्रीहयग्रीवस्य किङ्करेण श्रीम-
त्परमहंसपारिव्राजकाचार्याणां ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण श्रीलक्ष्मीनारा-
यणतीर्थाख्यात् यतिकुलतिलकात् अधीतश्रीमध्वशास्त्रामृतेन श्रीव्यास-
यतिना विरचिता मन्दारमञ्जरी तत्वप्रकाशिकाव्याख्याटिप्पणी सम्पूर्णा
-</p>
<pb n="74" />
<p>श्रीः
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
तुरीयं मायावाद खण्डनम्
श्रीजयतीर्थभिक्षुकृतेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया
मन्दारमञ्जरीटिप्पण्या समलङ्कृतेन
विभूषितम्</p>
<pb n="75" />
<p>श्रीजयतीर्थाः</p>
<lg>
  <l>माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्गय विज्ञातभावः</l>
  <l>संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः ।</l>
  <l>कृत्वाऽन्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती</l>
  <l>र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ॥</l>
</lg>
<pb n="76" />
<pb n="77" />
<pb n="78" />
<pb n="79" />
<pb n="80" />
<pb n="81" />
<pb n="82" />
<pb n="83" />
<pb n="84" />
<pb n="85" />
<pb n="86" />
<pb n="87" />
<pb n="88" />
<pb n="89" />
<pb n="90" />
<pb n="91" />
<pb n="92" />
<pb n="93" />
<pb n="94" />
<pb n="95" />
<pb n="96" />
<pb n="97" />
<pb n="98" />
<pb n="99" />
<pb n="100" />
<pb n="101" />
<p>श्रीव्यासराजतीर्थाः</p>
<lg>
  <l>भो भो मत्सरकुत्सितान् सुमतयो दुर्वेदुषीगर्वितान्</l>
  <l>आकाशावतारभागिन इवाहंयून् समाढौक्य किम् ।</l>
  <l>श्लाघाकम्पनमेकमेव शिरसः श्रीव्यासयोगीशितु</l>
  <l>र्मेरूणां शतमर्हति क्षितितले विद्यासु विद्यावताम् ॥</l>
</lg>
<pb n="102" />
<p>श्रीः
अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
पञ्चमं प्रपञ्चमिथ्यात्वानुमान खण्डनम्
श्रीमज्जयतीर्थभिक्षुविरचितेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया
मन्दारमञ्जरीटिप्पण्या समलङ्कृतेन
विभूषितम्</p>
<pb n="103" />
<p>श्रीराघवेन्द्रतीर्थाः</p>
<lg>
  <l>धीरश्रीराघवेन्द्रव्रतिवर रसनारङ्गनृत्यत्स्वयम्भू-</l>
  <l>योषाधम्मिल्लभारश्लथकुसुमततीस्त्वद्भिरः सङ्गिरामः ।</l>
  <l>याभिः संमिश्रिताभिर्निरवधिवसुधाविश्रुता सा सुधापि</l>
  <l>क्षोणीगीर्वाणगम्यं परिमलमतुलं साम्प्रतं सम्प्रपेदे ॥</l>
</lg>
<pb n="104" />
<pb n="105" />
<pb n="106" />
<pb n="107" />
<pb n="108" />
<pb n="109" />
<pb n="110" />
<pb n="111" />
<pb n="112" />
<pb n="113" />
<pb n="114" />
<pb n="115" />
<pb n="116" />
<pb n="117" />
<pb n="118" />
<pb n="119" />
<pb n="120" />
<pb n="121" />
<pb n="122" />
<pb n="123" />
<pb n="124" />
<pb n="125" />
<pb n="126" />
<pb n="127" />
<pb n="128" />
<pb n="129" />
<pb n="130" />
<pb n="131" />
<pb n="132" />
<pb n="133" />
<pb n="134" />
<pb n="135" />
<pb n="136" />
<pb n="137" />
<pb n="138" />
<pb n="139" />
<pb n="140" />
<pb n="141" />
<pb n="142" />
<pb n="143" />
<pb n="144" />
<pb n="145" />
</body>
</text>
</TEI>