अनीनदत्पद्मभवो मृदङ्गं जगौ हनूमान् जगतामधीशम् । अदर्शयत्तालगतीः कपर्दी ननर्त गोपालकबालमौलिः ॥ श्रीः
अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु
तृतीयं तृतीयम् उपाधिखण्डनम्
श्रीजयतीर्थभिक्षुविरचितेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया मन्दारमञ्जरीटिप्पण्या समलङ्कृतेन
विभूषितम् कामधेनुर्यथा पूर्वं सर्वाभीष्टफलप्रदा । तथा कलौ वादिराजश्रीपादोऽभीष्टदः सताम् ॥ श्रीः
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
तृतीयं तृतीयम् उपाधि खण्डनम् उपाधिखण्डनम्
श्रीजयतीर्थभिक्षुविरचितया टीकया विभूषितम्
टीका
रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।
तत्वप्रकाशिकाव्याख्यां करिष्यामो यथामति ॥
अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाः मन्दारमञ्जरी टिप्पणी प्रारभ्यते
हरिः ॐ
[^1]लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।
प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥
श्रीमदानन्दतीर्थार्यचरणाम्बुरुहद्वयम् ।
शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥
जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरूनपि ।
तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥
प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनकमविगीतशिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति 'कृतल्युटो बहुलम्'
[^1] 'कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् । तत्वप्रकाशिकाव्य ख्यां व्याख्यां करिष्यामो यथामति ॥ १ ॥ स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया । ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥ मङ्गलाचरणपूर्वकं चिकीर्षितं निर्दिशति ॥ रमाया रमणमिति ॥ 'नन्द्यादित्वात् कर्तरि ल्युट्' इति मुद्रितः पाठः । अयं पाठो न साधुरिति भाति । तत्वप्रकाशिकाव्याख्याया जयतीर्थकर्तृकायाः स्वकर्तृकत्वाभावेन प्रथमश्लोकोत्तरार्धस्यानुपपन्नत्वात् । इति कर्त्रर्थे ल्युटः स्मरणात् कर्तरि ल्युट् । रमारमणस्यैव नम्यत्वे हेतुमाह ॥ गुणमाणिक्येति ॥ गुणा एव माणिक्यानि तेषां मण्डनमित्यर्थः ॥ तत्वप्रकाशिकाव्याख्यामिति ॥ ब्रह्ममीमांसासहितवेदान्तविषयादितत्वप्रकाशिकाव्याख्यामित्यर्थः । करिष्याम इति परसमवेतक्रियाफलाभिधायिना परस्मैपदेन शिष्यानुजिघृक्षया ग्रन्थो निर्मीयत इति सूचयति ।
अवतरणिका
(टी.) परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्दाद्यात्मकस्यापि जीवस्य अनाद्यविद्याकामकर्मादिनिमित्तोऽयं परमार्थ एव अन्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादादृते अपगच्छति । न च असाक्षात्कृतोऽसौ प्रसीदति । न च अविदितस्वरूपः शक्यते साक्षात्कर्तुम् इति सकलगुणाकरतया निश्शेषदोषगन्धविधुरतया च तं प्रतिपादयितुमशेषाम्नायाः प्रवर्तन्ते । तदुपकरणभूता च ब्रह्ममीमांसेति परमार्थः ।
(मं. टि.) ननु किमर्थमिदं प्रकरणमारभ्यते भगवत्पादैः ? न च वेदान्तानां समीमांसानां विषयप्रयोजनादिस्वरूपनिर्णयार्थमारभ्यते, तन्निर्णयश्च वेदान्तादौ जिज्ञासूनां प्रवृत्त्यर्थः, प्रवृत्तिश्च ज्ञानसम्पादनद्वारा मोक्षपर्यवसायिनीति वाच्यम् । मोक्षस्य ईश्वरप्रसादैकसाध्यत्वेन ज्ञानानपेक्षणादित्याशङ्क्याह ॥ परमात्मन इत्यादिना न चासाक्षात्कृतोऽसौ प्रसीदतीत्यन्तेन ग्रन्थेन ॥ जीवस्य दुःखाद्यनर्थः परमेश्वरप्रसादादृते नापगच्छतीति सम्बन्धः । ननु दुःखादेरानन्दादिवदनिवृत्तिः किं न स्यात् ? इत्यत आह ॥ अन्यथाकार इति ॥ आनन्दादिवन्न स्वाभाविकत्वं [^1] अन्तःकरणधर्मत्वाद्दुःखादीनामिति भावः । तर्हि मायिमत इव दुःखादीनां मिथ्यात्वं स्यादिति । नेत्याह ॥ [^2] परमार्थत इति ॥ दुःखादीनां स्वरूपेण [^3] अन्तःकरणे परमार्थत्वात् तदनुसन्धातृत्वस्य दुःखित्वस्य जीवे परमार्थत्वान्न कस्यापि मिथ्यात्वमित्यर्थः । ननु तस्यानर्थस्यानिमित्तकत्वे स्वरूपानन्दादिवत्स्वाभाविकत्वं स्यात् । सनिमित्तकत्वे च निमित्तस्यापि निमित्तान्तरापेक्षायामनवस्था स्यादित्यत आह ॥ अनाद्यविद्याकामकर्मेति ॥ सनिमित्तकत्वेऽपि निमित्तस्यानादित्वान्नानवस्थेत्यर्थः । अविद्या भावरूपाज्ञानम् । कामो रागः । कर्म काम्यादिकर्म । अविद्यायाः स्वरूपेणानादित्वम् इतरयोस्तु प्रवाहत इति द्रष्टव्यम् ।
स्वरूपतोऽनादित्वपरिष्कार:
ननु किमिदमनादित्वं नाम । किं प्रागभावाप्रतियोगित्वं ? किं वा कारणशून्यत्वं ? आद्येऽपि किं स्वप्रागभावाप्रतियोगित्वं ? अन्यप्रागभावाप्रतियोगित्वं वा ? प्रागभावमात्राप्रतियोगित्वं वा ? आद्येऽपि किं
[^1] आगन्तुकत्वाद्दुःखादीनामिति भावः । [^2] परमार्थ इति ॥ [^3] अन्तःकरणपरिणामत्वेन परमार्थत्वात् तदनुसन्धातृत्वस्य च. मन्दारमञ्जर्या स्वरूपतोऽनादित्वपरिष्कार:
(मं. टि.) स्वप्रागभाव: प्रसिद्ध : ? उत न ? आद्ये कथमयं न तत्प्रतियोगी स्यात् ? इत्यसम्भवः । द्वितीये त्वसम्भवः । [^1] स्वप्रागभावाप्रसिद्धौ तत्प्रतियोगित्वाभावस्य दुर्ज्ञानत्वात् । [^2] नापि द्वितीय: । घटस्यापि पटप्रागभावाप्रतियोगिनोऽनादित्वापातात् । तृतीयेऽपि मात्रशब्दः किं कार्यवाची कात्स्न्र्यवाची ? किंवा सामान्यवाची ? नाद्यः । घटस्याऽपि [^3] कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वापातात् । न हि घटः पटादिप्रागभावप्रतियोगी । न द्वितीयः । आकाशादिप्रतियोगिकप्रागभावस्याप्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयो: [^4] सामान्याभावात् । एवमेव कारणशून्यत्वमिति द्वितीयोऽपि निरसनीयः । तस्मादविद्यानादित्वं दुर्निरूपमिति । अत्रोच्यते ।
घटादौ प्रमिता तावत्प्रागभावेन युक्तता ।
आरोप्य बुद्धिपूर्वं सा गगनादौ निषिद्धयते ॥
स्वप्रागभावाप्रतियोगित्वमेवानादित्वम् । यत्तु 'स्वप्रागभावाप्रसिद्धौ [^5] स्वप्रागभावप्रतियोगित्वाभावोऽप्यसिद्धः' इति तत्र किं 'प्रतियोगिनोऽसत्वेऽभावोऽपि न स्यात्' इत्यर्थो विवक्षितः ? । किं वा 'प्रतियोगिनोऽसत्वे तज्ज्ञानोपायाभावेन प्रतियोगिज्ञानपूर्वकमभावज्ञानं च न स्यात् इति ? । नाद्यः । प्रागभावप्रध्वंसयो प्रागभावप्रध्वंसयोः प्रतियोगि सत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्याप्त्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्त्वमेवापेक्षते । प्रकृते च स्वप्रागभावप्रतियोगित्वात्यन्ताभावस्य लक्षणत्वेन विवक्षितत्वात् । न द्वितीयः । [^6] घटरादौ घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधात् । निषेधो हि प्रसक्तिपूर्वकः । प्रसक्तिश्च बुद्धिपूर्वकारोप एव । 'इह भूतले घटो नास्ति' इत्यादौ भूतलान्तरे प्रमितस्य घटस्य इह भूतले बुद्धिपूर्वकमारोप्य निषेधे एतद्भुतलस्य घटाभावः सिद्धयति यथा एवमेवात्रापि घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धि पूर्वकमारोप्य निषेधे गगनस्य स्वप्रागभावप्रतियोगित्वाभावो ज्ञातो भवति । अथ वा घटादौ स्वप्रागभावप्रतियोगित्वस्य दर्शनात् 'गगनं स्वप्रागभावप्रतियोगि वस्तुत्वात् घटवत्' इत्याद्यनुमानाभासैगगनादेः इत्याद्यनुमानाभार्सैगगनादेः स्वप्रागभावप्रतियोगित्वे प्रसक्ते तन्निषिद्धयत इति नाप्रसक्तप्रतिषेधः । एवमेव स्वकारणराहित्यस्वोत्पत्तिराहित्यादीन्यनादित्वलक्षणान्यूह्यानि । एवमेव [^7] प्रध्वंसाप्रतियोगित्वं नित्यत्वमित्यादीन्यपि [^8] समर्थनीयानीति दिक् ।
प्रवाहतोऽनादित्वपरिष्कारः
[^9] नन्वथापि प्रवाहतोऽनादित्वमिति कोऽर्थ: ? प्रवाहोऽनादिरित्यर्थ इति चेत् । स किं प्रवाहिभ्यो भिद्यते ? उत न ? आद्येऽपि स किं प्रवाहिभिरारभ्यते ? उत [^10] ज्ञाप्यते ? आद्ये कथमयमनादि: स्यात् ?
[^1] प्रागभावाप्रसिद्धौ. [^2] न द्वितीय: [^3] कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वप्रसङ्गात्. [^4] सामान्यस्याभावात्. [^5] स्वप्रागभावप्रतियोगित्वाभावोऽप्यप्रसिद्ध इति. [^6] इत आरभ्य अथवा इत्यन्तो भागो मुद्रितपुस्तके नास्ति. [^7] ध्वंसाप्रतियोगित्वं. [^8] समर्थनीयानि. [^9] तथापि. [^10] ज्ञायते. प्रकरणस्य प्रयोजनादिसमर्थनम्
(म. टि.) प्रतिपादकत्वात् ब्रह्मण्येव महातात्पर्यमित्याह ॥ अशेषेति ॥ न चैवं ब्रह्ममीमांसावैयर्थ्यम्! [^1] वेदार्थनिर्णायकन्यायव्युत्पादकत्वादित्याह ॥ तदुपकरणेति ॥ .
मायावाद्यभिमतविषयादिनिरूपणम्
(टी.) अपरे तु स्वतः [^2] परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञानैकनिवर्हणीय नैकनिबर्हणीय इत्यतोऽस्यानर्थहेतोः ग्रहाणाय प्रहाणायआत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । तदितिकर्तव्यतारूपा ब्रह्ममीमांसा चेति मन्यन्ते ।
(मं. टि.) वेदान्तानां विषयादितत्वनिर्णयार्थं चैतत्प्रकरणम् । किं [^3] विषयाद्याभासप्रसक्तिरस्ति ? इत्याशङ्कय अस्तीत्या अस्तीत्याह॥ अपरे त्वित्यादिना मन्यन्त इत्यन्तेन ग्रन्थेन ॥ वेदान्तस्य प्रयोजनमात्मैकत्वविद्येत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते। [^4] आत्मैकत्वविद्याया: प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैकनिबर्हणीय इति ॥ यद्वा वेदान्तानामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते । यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानकनिबर्हणीय र्थोऽद्वैतज्ञानैकनिबर्हणीय इति ॥ इत्यनर्थनिबर्हणार्थमिति शेषः । अनर्थस्याद्वैतज्ञाननिवर्त्यत्वे हेतुमाह ॥ अपरमार्थ इति ॥ अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति ॥ निमित्तशब्द: कारणमात्र वाची तद्विशेषोपादाने पर्यवस्यनीति द्रष्टव्यम् । तत्र हेतुमाह ॥ स्वतः परमात्मभूतस्येति ॥ ननु स्वतः परमात्माभित्रे परमात्माभिन्ने जीवे स्वाभाविकानर्थ इव अज्ञाननिमित्तकोऽपि न सम्भवतीत्यत आह ॥ अयमिति ॥ युक्त्यसहत्वमनर्थस्य भूषणं । प्रतीतिमात्रं तु प्रत्यक्षसिद्धत्वान्नापलापार्हमिति भावः । ननु ज्ञानस्याज्ञानमात्रनिवर्तकत्वान्न दुःखादिनिवर्तकत्वं, तत्राह ॥ अस्य ग्रहाणायेति प्रहाणायेति॥ अस्येत्यज्ञानस्येत्यर्थः । साक्षादन निवृत्तिहेतुत्वा साक्षादनर्थनिवृत्तिहेतुत्वा भावेऽपि अनर्थहेत्वज्ञाननिवृत्त्यर्थमात्मैकत्वविद्येत्यर्थः । अविद्यानिवृत्तेः कथमनर्थनिवृत्तिहेतुत्वम् ? तत्राह ॥ अनर्थहेतोरिति ॥ अनर्थोपादानस्येत्यर्थः । उपादाननिवृत्तेरुपादेयनिवृत्तिहेतुत्वं सुप्रसिद्धमिति भाव ।
मङ्गलाचरणम्
(टी.) तमेतं शास्त्रस्य पराभिमतमधिकारिविषयप्रयोजनसम्बन्धं निरस्य स्वाभिमतं समर्थयितुमिदं
प्रकरणमारभमाणो भगवानाचार्यो नारायणस्तवनतत्प्रीतिप्रार्थनारूपमादितो मङ्गलमाचरति ।
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥
अगण्यगुणानां नित्यैकनिलया सदा मुख्याश्रया आकृति: मूर्तिर्यस्यासौ तथोक्तः । प्रीयतां अस्माकमिति शेषः । अभ्यर्हितत्वेन सिद्धत्वात् इदं नोक्तम् । अत्राऽद्य विशेषणद्वयं स्तुत्यर्थमपि
[^1] वेदान्तार्थ.
[^2] श्री. परब्रह्मभूतस्य.
[^3] विषयाद्याभासप्रसक्तिरित्याशङ्कय.
[^4] यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । आत्मैकत्वविद्यायाः प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैकनिबर्हणीय
इति ॥ अनर्थनिबर्हणार्थमिति शेषः ।
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।
इन्दिरापतये नित्यानन्दभोजनदायिने ॥ २० ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु तृतीयं उपाधिखण्डनं सम्पूर्णम्
(टी.) आत्मसादृश्यद इत्युक्तं । न चायं पुरुषार्थः, इत्येतत्परिहाराय आद्यं विशेषणं । नानन्दः स्वरूपेण पुरुषार्थः इत्यतो नित्यानन्देति विशेषणं । भोजनं भोगः अनुभव इति यावत् ।
(मं टि.) ॥ समापितप्रकरणोऽपीति ॥ प्रकरणस्य समापितत्वात् प्रणामादेर्निर्विघ्नपरिसमाप्तिलक्षणप्रयोज
नामावेऽपि भक्तिवशात् प्रणमति अभिष्टौति चेति अपिशब्दार्थः । आनन्दस्वरूपस्य परमेश्वरस्य सादृश्येन अधि-
कारिणः किंप्रयोजनं ? आनन्दानुभवाभावदित्यत आह ॥ नित्यानन्देति ॥
(टी.) सदा सुरशिरोरत्नप्रभामोषिनखत्विषि ।
कमलाकमितुः पादयुगले रतिरस्तु मे ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वप्रकाशिकाविवरणं श्रीमज्जयतीर्थभिक्षुविरचितं संपूर्ण संपूर्णं॥
(मं. टि.) एवं परिसमापिततत्वप्रकाशिकाव्याख्यो भगवांष्टीकाकारः एतादृशटीकाकरणस्य अन्ततो नारा-
यणीतिः प्रयोजनमिति ज्ञापयन् तत्प्रीतिं प्रार्थयते ॥ सदा सुरेति ॥
हयग्रीवपदाम्भोजनखदीधितिचन्द्रिकां ।
मनश्चकोर संसारसन्तप्त सततं पिब ॥
इति श्रीमत्समस्तदेवतामस्तकमणिकिरणारुणितपादारविन्दस्य अरविन्दनेत्रस्य श्रीमुख्यप्राणहृदयांरविन्दराजहंसस्य सज्जनकुमुदचन्द्रस्य श्रीलक्ष्मीनिवासस्य श्रीहयग्रीवस्य किङ्करेण श्रीमत्परमहंसपारिव्राजकाचार्याणां ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण श्रीलक्ष्मीनारायणतीर्थाख्यात् यतिकुलतिलकात् अधीतश्रीमध्वशास्त्रामृतेन श्रीव्यासयतिना विरचिता मन्दारमञ्जरी तत्वप्रकाशिकाव्याख्याटिप्पणी सम्पूर्णा
श्रीः
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु दशप्रकरणेषु
तुरीयं मायावाद खण्डनम्
श्रीजयतीर्थभिक्षुकृतेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया मन्दारमञ्जरीटिप्पण्या समलङ्कृतेन
विभूषितम् श्रीजयतीर्थाः
माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्गय विज्ञातभावः संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः । कृत्वाऽन्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ॥ श्रीव्यासराजतीर्थाः
भो भो मत्सरकुत्सितान् सुमतयो दुर्वेदुषीगर्वितान् आकाशावतारभागिन इवाहंयून् समाढौक्य किम् । श्लाघाकम्पनमेकमेव शिरसः श्रीव्यासयोगीशितु र्मेरूणां शतमर्हति क्षितितले विद्यासु विद्यावताम् ॥ श्रीः
अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु
पञ्चमं प्रपञ्चमिथ्यात्वानुमान खण्डनम्
श्रीमज्जयतीर्थभिक्षुविरचितेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया मन्दारमञ्जरीटिप्पण्या समलङ्कृतेन
विभूषितम् श्रीराघवेन्द्रतीर्थाः
धीरश्रीराघवेन्द्रव्रतिवर रसनारङ्गनृत्यत्स्वयम्भू-
योषाधम्मिल्लभारश्लथकुसुमततीस्त्वद्भिरः सङ्गिरामः ।
याभिः संमिश्रिताभिर्निरवधिवसुधाविश्रुता सा सुधापि
क्षोणीगीर्वाणगम्यं परिमलमतुलं साम्प्रतं सम्प्रपेदे ॥