(For Private Circulation only.) ( नितान्तं गोपनीयम् ।) श्रीवात्स्यायनप्रणीतं कामसूत्रम् । यशोधरविरचितया जयमङ्गलाख्यया टीकया समेतम् । द्वितीय संस्करणम् जयपुरमहाराजाश्रितस्य पण्डितव्रजलालसूनोः महामहोपाध्यायपण्डितदुर्गाप्रसाददारकस्य केदारनाथस्य कृते मुम्बय्यां निर्णयसागरयन्त्रालये मुद्रितम् । १९०० निवेदनपत्रम् । भो भो मान्यतमा विपश्चिद्वराः, विदितमस्त्येव तत्रभवतां श्रीमतां यद्वात्स्यायनप्रणीतः कामसूत्राख्यो अन्यः प्राचीनव्यवहारान्वेपिणां सुतरामुपकारकः । समुपलभ्यन्तेऽस्मिन्मन्थे चिरविस्मृतानां प्रत्नतमानामोद्दालकि-दत्तक-चारायण-सुवर्णनामघोटकमुख-गोनर्दीय-गोणिकापुत्र-कुचुमारादीनामाचार्याणां शातवाहनादीनां बहूनां महीपतीनां च नामानि । दृश्यन्ते बहुपु स्थलेषु वर्णिताः प्राक्तनकालप्रवृत्ता मध्यदेश-वाहीक-अवन्ति-मालव-आमीर-सिन्धु-मद्र-अपरान्तलाट-स्त्रीराज्य- कोशल-आन्ध्र- महाराष्ट्र नागर-द्रविड-वानवासिक - गौड - प्राच्य अहिच्छन्त्र - साकेत -सूरसेन-वत्स-गुल्म- विदर्भ-सौराष्ट्र हैमवत-वन-अझ कलिनादिदेशव्यवहाराः । प्राप्यन्ते चात्र बहूनि 'कीलया गणिकां चित्रसेनां चोलराजो जघान, ' 'कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम्,' 'नरदेवः कुपाणिविंद्धया दुष्प्रयुक्तया नहीं काणां चकार,' 'आभीरं हि कोट्टराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान,' 'काशिराजं जयसेनमश्चाध्यक्षः' इत्यादीनि पुरातनेतिहासोपयुक्तानि वाक्यानि । लभ्यन्तेऽत्र महाकाव्येषु वर्णितानां कुसुमावचय-जलविहार- दोलाकेलि-पानगोष्ठीप्रभृतीनां मूलसूत्राणि । शिक्षयति चायं ग्रन्थः 'बहवश्ध कामवशगाः सगणा एव विनष्टाः श्रूयन्ते । यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश । देवराजश्चाहल्याम् । अतिबलश्च कीचको द्रौपदीम् । रावणश्च सीताम् । अपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टाः ।" इति, 'या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिंसात्मिका या च न तामवतरेहुधः ॥' 'न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् । शामार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । कीर्तिता इति तत्कि स्याद्भक्षणीयं विचक्षणैः,' 'धर्ममर्थं तथा कामं लभन्ते स्थानमेव च । निःसपलं च मर्तारं नार्यः सद्वृत्तमा श्रिताः ॥ इत्यादिभिर्वाक्यैः सदाचारं, निवारयति चाविनयात् । स्मारयत्युत्सन्नकल्पानां चतुःषष्टिकलानाम् । ददाति सुतरां मानुषप्रकृतिपरिचयम् । समुत्पादयति लोकव्यवहारेष्वनुपमं कौशलम् । उपदिशति च सुखप्रदायकान्गृहस्थव्यापारान् । किं बहुना, प्रशान्ते खकण्ठेनैव सूत्रकार: 'तदेतद्ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रायै न रागार्थोऽस्य संविधिः ॥ रक्षन्धर्मार्थकामानां स्थिति स्वां लोकवर्तिनीम् । अस्य शाखस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥ इत्यादि खग्रन्थस्य फलमुद्धोषयति । एवमस्मिन्ननेक सद्गुणगणपरिपूर्ण ग्रन्थरत्ने मसभापतितः कचित्किचि. दलीलतालेशोऽपि ग्रन्थकृता प्रौढतया तथा वर्णितो यथा व्युत्पन्नतमैरेव बोद्धुं शक्यते, न तु रघुवंशैकोनविंशसर्ग-कुमारसंभवाष्टमसर्ग-शिशुपालवधदशमसर्ग-किरातार्जुनीयनवमसर्ग-नैषधीयचरिताष्टादशसर्गादिवदत्युत्तानतयाश्लीलताडिण्डिमस्ताडितो येन साधारणजनमतिभ्रंशः समुत्पद्येत । अथ चैतद्रन्थाघारेण श्रीमाशंकराचार्य: कंचन निबन्धं प्रणिनायेति वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च विलोक्य सम्यक् । स्वयं व्यघताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥" इत्यादिभिर्माधवकविप्रणीतशंकरदिग्विजयस्थपद्यैः प्रतीयते । श्रीक्षेमेन्द्रेण वात्स्यायनसारः प्रणीत इति तत्कृतौचित्यविचारचर्चातोऽवसीयते । श्रीभवभूतिमहाकविरपि मालतीमाधवस्य सप्तमेऽङ्केऽस्यैव ग्रन्थस्य सप्तदशाध्यायस्थानि कतिचन सूत्राणि समुद्धृत्य 'एवं किल कामसुत्तआरा आमणन्ति' इति प्रोक्तवान् । मल्लिनाथादयः प्रसिद्धाष्टीकाकारा अपि तत्तत्स्थलेष्वत्रत्यानि सूत्राणि प्रमाणत्वेनोपन्यस्तवन्तः । एवं प्रत्नतमैर्जगन्मान्यैर्विद्वद्भिर्मानितो नितरामुपयुक्तश्च कालकौटिल्येन लुप्तप्रायतां प्राप्तोऽयं ग्रन्थः केनचन यूरोपदेशीयविदुषा आङ्ग्लभाषयानू३ दितो मुद्रितो गुप्ततया प्रचारितश्च । तद्विलोकनदिनादारभ्याहं 'केनचित्समीचीनेन व्याख्यानेन समेतो मूलग्रन्थोऽपि विद्वय उपढौकनीयः' इति मनसि संकल्पमकरवम् । समाचकलं च पञ्चपाणि मूलटीकापुस्तकानि विभिन्नप्रदेशेभ्यः । तदालम्बनेन च यथामति संशोध्य यशोधरप्रणीतयातिरुचिरया जयमङ्गलाख्यया व्याख्यया समेत ग्रन्थमेतममुमुद्रम् । यद्यपि पण्डितमात्रगम्यप्रौढसंस्कृतनिबद्धस्यास्य अन्यस्य प्रकटतयापि कृते प्रचारे न कापि साधारणजनक्षतिशङ्का किंतु वर्तमानव्यवहारानुरोधेन गुप्ततयैव विद्वत्वेवास्य प्रचारं चिकीर्पामि । प्रहिणोमि चैकं पुस्तकं विद्वन्मुकुटमणीनां श्रीमतां विलोकनार्थम् । कीदृशोऽत्र श्रीमतां निदेश इति सविनयं पृच्छामि च । श्रीमन्तोऽप्याङ्ग्लसंस्कृतान्यतरभाषानिबद्धखाभिप्रायप्रेषणेन सत्वरमेव मामनुगृह्णन्त्विति प्रार्थयेऽहं १५/२/९१. संघी का रस्ता. जयपुर. – (राजपूताना.) युप्माकमनुचरो दुर्गाप्रसादः । पृष्टाङ्क ९ २७ ४२ 80 ७३ ९२ १०४ ६ प्रमाणकालभावेभ्यो रतावस्थापनम् । ७ प्रीतिविशेषाः । प्रथमाध्यायसमाप्तिः । ८ उपगूहनविचाराः । द्वितीयाध्यायसमाप्तिः । ९ चुम्बनविकल्पाः । तृतीयाध्यायसमाप्तिः । १० नखरदनजातयः । चतुर्थाध्यायसमाप्तिः । १२९ २ ११ दशनच्छेद्यविधयः । १ १२४ २२ १३५ ३ १२ देश्या उपचाराः । पञ्चमाध्यायसमाप्तिः । १३ संवेशनप्रकाराः । १४३ ३ २ १४ १५ प्रहणनयोगाः । पङ्कः । प्रकरणाङ्कः । ११ २ १७७ १८२ १८४ कामसूत्रस्य विषयानुक्रमः । विपयः । १ शास्त्रसंग्रहः । प्रथमाध्यायसमाप्तिः । २ त्रिवर्गप्रतिपत्तिः । द्वितीयाध्यायसमाप्तिः । ३ विद्यासमुद्देशः । तृतीयाध्यायसमाप्तिः । ४ नागरकवृत्तम् । चतुर्थाध्यायसमाप्तिः । ५ नायकसहायदूतीकर्मविमर्शः । पञ्चमाध्यायसमातिः । प्रथमस्य साधारणाधिकरणस्य च समाप्तिः । ५ १९ १४७ ११६ ११६ ११ १६५ १४ चित्ररतानि । पष्ठाध्यायसमाप्तिः । १६ सीत्कृतोपक्रमाः । सप्तमाध्यायसमाप्तिः । १७ पुरुषायितम् । १३ १४ १८ पुरुषोपसृप्तानि । अष्टमाध्यायसमाप्तिः । १९ औपरिष्टकम् । नवमाध्यायसमाप्तिः । ५ ४ २० रतारम्भावसानिकम् । २४ २१ रतविशेषाः । २२ प्रणयकलहः । दशमाध्यायसमाप्तिः । द्वितीयस्य सांप्रयोगिकाधिकरणस्य च समाप्तिः । १९६ १६ २३ चरणसंविधानम् । १९७ २३ २४ संबन्धनिश्चयः । प्रथमाध्यायसमातिः । २०७ १३ २५ कन्याविसम्मणम् । द्वितीयाध्यायसमाप्तिः । २१४ २ २६ बालायामुपक्रमाः । २१६ १० • २२२ २७ इङ्गिताकारसूचनम् । तृतीयाध्यायसमाप्तिः । ३ २८ एकपुरुषाभियोगाः । १८ २९ प्रयोज्यस्योपावर्तनम् । २२४ २२६ १६ ३० अभियोगतः कन्यायाः प्रतिपत्तिः । चतुर्थाध्या- यसमाप्तिः ॥ २३२ २ २४० ३१ विवाहयोगाः । पञ्चमाध्यायसमाप्तिः [ १२ ३२ एकचारिणीवृत्तम् । २४. २४५ १० २४६ २४ ३५. कनिष्ठावृत्तम् । ३६ पुनर्भूवृत्तम् । ६ ३७ दुर्भगावृत्तम् । २४९ १५ २५१ २५३ २५८ २६० १७ २६१ २४ २६४ २६९ २७१ तृतीयस्य कन्यासंप्रयुक्तकाधिकरणस्य च समाप्तिः । ३३ प्रवासचर्या । प्रथमाध्यायसमाप्तिः । ३४ ज्येष्ठावृत्तम् । ३८ आन्तः पुरिकम् । द्वितीयाध्यायसमाप्तिः । चतुर्थस्य भार्याधिकारिकाधिकरणस्य च समाप्तिः । ७ ३.९, स्त्रीपुरुषशीलावस्थापनम् । ४० व्यावर्तनकारणानि । ४१ स्त्रीषु सिद्धाः पुरुषाः । १९ ४२ अयनसाध्या योषितः । प्रथमाध्यायसमाप्तिः । ४ ४३ परिचयकारणानि । २ ४४ अभियोगाः । द्वितीयाध्यायसमाप्तिः । २७४ १४ ४५ भावपरीक्षा । तृतीयाध्यायसमाप्तिः । २८८ ३ ४६ दूतीकर्माणि । चतुर्थाध्यायसमाप्तिः । २९५ २२ ४७ ईश्वरकामितम् । पञ्चमाध्यायसमाप्तिः । ३०२ २३ ४८ अन्तःपुरिकावृत्तम् । ३०५ १ ४९ दाररक्षितकम् । पष्ठाध्यायसमाप्तिः । ३१२ ३१४ २१ ५० सहायगम्यागम्यगमनकारणचिन्ता । २१ ११ गम्योपावर्तनम् । प्रथमाध्यायसमाप्तिः । १२ कान्तानुवृत्तम् । द्वितीयाध्यायसमाप्तिः । १३ अर्थागमोपायाः । ३२३ २२ ३२८ ८ ३२९ १५ ५४ विरक्तप्रतिपत्तिः । ८ ५५ निष्कासनक्रमाः । तृतीयाध्यायसमाप्तिः । ३४१ २० ५६ विशीर्णप्रतिसंघानम् । चतुर्थाध्यायसमाप्तिः । १९ १७ लाभविशेषाः । पञ्चमाध्यायसमाप्तिः । ३५१ ३६४ १० १८ अर्थानर्थानुबन्धसंशयविचारा वेश्याविशेपाच । षष्ठाध्यायसमाप्तिः । षष्ठस्य वैशिकाधिकरणस्य च समाप्तिः । पञ्चमस्य पारदारिकाधिकरणस्य च समाप्तिः । ६ १९ सुभगंकरणम् । २५ ६० वशीकरणम् । ३६६ ३६७ २४ ३६९ ३६९ १६ ३७० १५ ६१ वृष्या योगाः । प्रथमाध्यायसमाप्तिः । ६२ नष्टरागप्रत्यानयनम् । ६३ वृद्धिविधयः ६४ चित्राश्च योगाः । द्वितीयाध्यायसमाप्तिः । सप्तमस्यौपनिषदिकाधिकरणस्य च समाप्ति । ग्रन्थस्य च समाप्तिः । 1 रिता पुस्तक/ (शाहपुरा मेघाढ़) राजपूताना श्रीवात्स्यायनमुनिमणीतं कामसूत्रम् । यशोधरकृतया जयमङ्गलाख्यया व्याख्यया समेतम् । साधारण नाम प्रथममधिकरणम् । प्रथमोऽध्यायः । वात्स्यायनीयं किल कामसूत्रं प्रस्तावितं कैश्चिदिहान्यथैव । तस्माद्विघास्ये जयमङ्गलाख्यां टीकामहं सर्वविदं प्रणम्य ॥ इह चत्वारो वर्णा ब्राह्मणादयः, चत्वारथाश्रमा ब्रह्मचारी गृहस्थो वैखानसो भिक्षुरिति । तत्र ब्राह्मणादीनां गृहस्थानां मोक्षस्यानभिमतत्वानिवर्गः पुरुषार्थः । तत्रापि धर्मार्थयोर्हेतुत्वात्काम एव फलभूतः प्रकृष्टः पुरुषार्थ इति कामवादिनः । स चोपायं विना न भवतीति तमुपायमाचिख्यासुराचार्यमैल्लनागः पूर्वाचार्यमतानुसारेण शास्त्रमिदं प्रणीतवान् । ननु तद्धेतुत्वाद्धर्मार्थावेवोपादेयौ तौ च शास्त्रविहितौ । सत्यम् । तद्धेतुत्वेऽप्युपायान्तरापेक्षत्वात्संप्रयोगपराधीनः कामः । संप्रयोगश्चोपायमपेक्षते । उपायपरिज्ञानं च कामशासात् । न धर्मार्थशास्त्राभ्याम् । वक्ष्यति च प्रयोजनवाक्यम् –'संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते । सा चोपायप्रतिप्रत्तिः कामसूत्रात्' इति । तत्रोपायोऽभिधेयः । तठप्रकाशनं कामशास्त्रेण क्रियमाणं प्रयोजनम् । अन्यथा कथं प्रतिपत्तिः शास्त्रात् । अ नधीतशास्त्राणां तु तच्छास्त्रोपायपरिज्ञानं स्वतोऽसंभवात्, परोपदेशात्स्यात् । ¹9 १. 'कामशास्त्रम्' इति पुस्तकान्तरे पाठः. २. 'व्याख्यापितम्' इति; 'व्याख्यायि तत्' इति व पाठान्तरम्. ३. 'कामसूत्रविन्यास इव मल्नागघटित" इति वासवद त्तायां विन्ध्यगिरिवर्णने. "माझ्नागेन मुनिविशेषेण, पक्षे गजविशेपेण, घटितो रचितो युक्तच. 'मलनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि इति विभः ।" इति दर्पणारयां वासवदत्ताटीकायां शिवरामः कामसूत्रम् । १ आदितोऽध्यायः] परोपदेशश्चेत्कथं न शास्त्राभ्युपगमः । तथा चेदमुपायपरिज्ञानं तद्भुणाक्षरकल्पम् । सम्यक्करणीयवर्जनीयापरिज्ञानात् । ततश्चोपायबाहुल्याचैर्नागरिकैरनागरिका नागरिकाः क्रियन्ते । तथा चोक्तम्– 'यदविज्ञातशास्त्रेण कदाचित्साधितं भवेत् । न चैतद्वहुमन्तव्यं घुणोत्कीर्णमिवाक्षरम् ॥' इति । यदपि कामशास्त्रविदां केषांचिद्वयवहाराकौशलम्, तत्तेषामेव दोषः, न शास्त्रस्य । प्रतिपत्तिदोषाञ्च शास्त्रानर्थक्यं सर्वत्र तुल्यम् । नहि चिकित्साद्यर्थेषु शास्त्रेषु सर्वे तद्विदः पथ्याहारादिकं सेवन्ते । तस्मात्तदर्थिनो ये भक्तिश्रद्धान्वितास्तेऽपि शास्त्रप्रयोजनहेतवः । तत्र देवतानमस्कारपूर्वकं शास्त्रप्रणयनमविनितप्रसरं भवतीत्याह- धर्मार्थकामेभ्यो नमः ॥ अर्थशब्दस्याजाद्यदन्तत्वेऽपि न पूर्वनिपातः । धर्मस्याभ्यर्हितत्वात् । वक्ष्यति च – 'पूर्वः पूर्वो गरीयान्' इति । अन्यदेवतासद्भावेऽपि किमिति तेभ्यो नम इत्याह२ शास्त्रे प्रकृतत्वात् ॥ इति । 'अधिकृतानधिकृते प्रतिपत्तिबलीयसी' इति न्यायात् । यथा च पुरुषार्थत्वेन कामोऽस्मिन्शास्त्रे ऽधिकृतस्तथा तद्वारेण धर्मार्थावपि । एतदुपदिष्टोपायपूर्वकं प्रवर्तमानस्य त्रिवर्गसिद्धेः । तथा च वक्ष्यति – 'अन्योन्यानुबद्धं त्रिवर्ग सेवेत । तथा सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च' इति । तेषां चाघिकारात्तदधिष्ठात्र्यो देवता अधिकृताः । उपचाराच्छन्दवाच्याः । अन्यथा धर्मादीनां वक्ष्यमाणलक्षणानामदेवत्वात्मकत्वान्नमस्कारो नोपपद्येत । अघिष्ठातृदेवतास्तित्वं चागमात् । तथाहि — 'पुरूरवाः शक्रदर्शनार्थमितः स्वर्ग गतो मूर्तिमतो धर्मादीन्ह पागम्य धर्ममेवेतरावनादृत्य प्रदक्षिणीचकार । ततोऽसौ ताभ्यां तिरस्कारामर्षिताभ्यामभिशप्तः । ततोऽस्य कामाभिशापादुर्बशीविरहोत्पत्तिरभूत् । तस्यां च कथंचिदुपशान्तायामर्थाभि १. 'गरीयसीति मन्यते' इति पा०. २. 'विवक्षितः' पा०. ३. 'क्रियासिद्धेः' पा०. J ॥ बे । १ साधारणमधिकरणम् । शापादतिप्रवृद्धलोभश्चातुर्वर्ण्यस्यार्थमाहृतवान् । ततोऽर्थापहाराद्यज्ञादिक्रियाविरहोद्विग्नैर्ब्राह्मणैर्दर्भपाणिभिर्हतो ननाश' इत्यैतिहासिकाः । १ अध्यायः] तत्समयाववोधकेभ्यश्राचार्येभ्यः ॥ इति । तेषां धर्मादीनां समयस्तत्त्वम् । अवबोधयन्तीत्यववोधकाः । तत्सम यस्यावबोधका इति । पष्ठीसमासप्रतिषेधस्यानित्यत्वम् । 'तव्प्रयोजको हेतुश्च' इति निदर्शनात् । ये तत्समयं प्रतिपादयितुं तच्छात्रं प्रणीतवन्तस्तेभ्यो नमः, नान्येभ्य इत्यर्थः । कुत इत्यत आह तत्संवन्धात् ॥ इति । तेषामिह शास्त्रे संबन्धादित्यर्थः । तत्प्रणीतशास्त्रसंक्षेपेण हि शासस्य प्रणयनात् । 'प्रजापतिर्हि' इत्यादिनागमविशुद्ध्यर्थ गुरुपूर्वक्रमलक्षणं संबन्धमाह - मजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिवन्धनं त्रिवर्गस्य सा धनमध्यायानां शतसहस्रेणाग्रे मोवाच ॥ प्रजापतिहीति । हिशब्दो यस्मादर्थे । अविपरीतोऽयमागमो गुरुपरम्परयान्वाख्यायते । यतः स्थितिनिबन्धनमिति । प्रजानां तिखोऽवस्थाः, सर्गस्थितिप्रलयलक्षणाः । तत्र सर्गादूर्ध्वं प्रवन्धेनावस्थानं स्थितिः । सा हि द्विविधा, शुभा चाशुभा च । त्रिवर्गोऽपि द्विविधः, उपाढेयोऽनुपादेयश्च । तत्र पूर्वो धर्मोऽर्थः काम इति । द्वितीयोऽप्यधमोंऽनयों द्वेप इति । तत्र धर्मादमुत्र शुभा गतिः । अधर्मादशुभा । अर्थादिहैव परिभोगो धर्मप्रवर्तनं च । अनर्थात्क्लिष्टजीवनमधर्मप्रवर्तनं च । कामाल्लुखं प्रजोत्पत्तिश्च । द्वेषान्नोभयम् । तस्य च निःसुखस्यामजस्य तृणस्येव स्थितिः । इत्येवं स्थितेस्त्रिवर्गो निबन्धनम् । तस्योपेयानुपेयस्य प्राप्तिपरिहारौ नोपायं विनेति तदुपायशासनत्वाच्छौस्रं च सम्यगुपचारात्तन्निबन्धनम् । शतसहस्रेणेति लक्षेण । अग्रे प्रोवाचेति तदानी शास्त्रान्तराभावाढिद१. 'क्लस' पा०. २. 'अथ विपरीतः' पा०. ३. 'शान' पा०. कामसूत्रम् । १ आदितोऽध्यायः ] मेवाग्र्यमिति । श्रुतिरपि सर्वजनविषयेति तामेव हृदिस्थामैनुसंचिन्त्य साधारणभूतं स्मार्तशास्त्रं प्रकर्षेणोवाच । तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार ॥ तस्येति । प्रजापतिप्रोक्तस्यैकदेशास्त्रयः, तत्र यत्र धर्मोऽधिकृतस्तन्मनुः पृथक्चकार । यत्रार्थस्तगृहस्पतिः । यत्र कामस्तन्नन्दीति । खायंभुव इति वैवखतनिवृत्त्यर्थम् । धर्माधिकारिकमिति । धर्मप्रस्तावो यत्रास्ति तत् । धर्मशास्त्रमित्यर्थः । बृहस्पतिरर्थाधिकारिकम् ॥ अर्थाधिकारिकमिति । अर्थशास्त्रं चकारेत्यर्थः । द्वयोरप्यनयोरप्रस्तुत स्वान्नाध्यायसंख्या दर्शिता । महादेवानुचरथ नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥ महादेवेति । महादेवमनुचरति यः । नान्योऽयं नन्दिनामा कश्चित् । तथा हि श्रूयते – दिव्यं वर्षसहस्रमुमया सह सुरतसुखमनुभवति' महादेवे वासगृहद्वारगतो नन्दी कामसूत्रं प्रोवाचेति । अत्राध्यायसंख्यानमुक्तम् । शास्त्रस्य प्रस्तुतत्वात् । तदेव तु पञ्चभिरध्यायशतैरौद्दालकि: श्वेतकेतुः संचिक्षेप । तदेव त्विति । नन्दिप्रोक्तम् । तस्यैकदेशम् । तुशब्दो विशेषणार्थः । औद्दालकिरित्युद्दालकस्यापत्यं यः श्वेतकेतुः । तथाहि परदाराभिगमनं लोके प्रागासीत् । यथोच्यते – 'पेक्वान्नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः । तस्मातासु न कुप्येत न रज्येत रमेत च ॥" इति । इयमौद्दालकेन व्यवस्था निर्वर्तिता । तथा चोक्तम्-'मद्यपानान्निवृत्तिश्च ब्राह्मणानां गुरोः सुतात् । परस्त्रीभ्यश्च लोकानामृषेरौद्दालकादपि ॥ ततः पितुरनुज्ञानाद्वम्यागम्यव्यवस्थया । श्वेतुकेतुस्तपोनिष्ठः सुखं शास्त्रं निबद्धवान् ॥ इति । तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्यासं१. 'अश्यमिति दर्शयितुम्' पा०. २. 'अनुस्मृत्य' पा० ३. 'तस्यैकदेश खायभुवो मनु: ' पा०. ४. 'पक्कान्न मिच' इत्यारभ्य 'तथा चोकम्' इत्यन्त पुस्तकान्तरे नास्ति: 21 आदितोय चिन् त्रि ॥ कुनाऽविकृतल मददीत । तरंसुर पंता बजाति तत् । । हृदेश्योरेशकुनमोवा महादे ।1। कोटर पंचिशेष ॥ सितं लि जाना गुरोः = रितुदशाचद बेत। १ साधारणमधिकरणम् । प्रयुक्तकभार्याधिकारिकपारदारिकवैशिकौपनिषदिकः स करणैर्वाभ्रव्यः पाञ्चालः संचिक्षेप । १ तदेव त्विति । यदेवौद्दालकिसंक्षिप्तम् । पुनरर्थतो ग्रन्थतश्च पूर्वत्र परदाराभिगमनं सामान्येन प्रतिषिद्धम् इह तु विशेषेणे दारिकमत्रोक्तम् । अध्यर्धेन पञ्चाशदधिकेन । तत्रोत्तरेपामधिकर स्य साधारणत्वात्साधारणम् । संप्रयोगः प्रयोजनमस्येति सांप्रयो कन्यायाः संप्रयुक्तं संप्रयोगो यस्मिन्निति कन्यासंप्रयुक्तकम् । कारिणी यस्मिन्नस्तीति भार्याधिकारिकम् । तथा पारदारिकम् । के श्यावृत्तम् । तत्प्रयोजनमस्येति वैशिकम् । तथौपनिपदिकम् । उप हस्यम् । साधारणाधुपादानं शास्त्रशरीरख्यापनार्थम् । एतावन्त शास्त्र इति । आचार्योऽपि तथैव स्वशास्त्रमतः संचिक्षेप । सप्तभिरिति यमार्थम् । अधिक्रियन्ते प्रकरणार्था येष्वित्यधिकरणानि । बाभ्रव्यो रपत्यं यः पाञ्चालः । 'मधुबन्यो: ' इति यञ् । तैस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नि गादत्तकः पृथक्चकार ॥ तस्येति बाग्रव्यसंक्षिप्तस्य । पष्ठमितीयमेवानुपूर्वी नान्येति प्रदर्शन र्थम् । अन्यथा पाठादेव संख्या लब्धा । तां चानुपूर्वी वर्णयिप्यामः । प टलिपुत्रिकाणामिति मगधेषु पाटलिपुत्रं नाम नगरं तन्त्र भवा इति । 'रोफ धेतोः प्राचाम्' इति वुन् । नियोगादिति । अन्यतमो माथुरो ब्राह्मणपाटलिपुत्रे वसतिं चकार । तस्योत्तरे वयसि पुत्रो जातः । तस्य जातमात्रस्य माता मृता । पितापि तत्रान्यस्यै ब्राह्मण्यै तं पुत्रत्वेन दत्त्वा फालेन लोकान्तरं गतः । ब्राह्मण्यपि ममायं दत्तकः पुत्र इत्यनुगतार्थमेव नाम चक्रे । स च तया संवर्धितोऽचिरेण कालेन सर्वा विद्याः कलाश्यापीतवान् । व्याख्यानशीलत्वाद्दत्तकाचार्य इति प्रतीतिमुपागतः । एकटा च तस्य नेतस्येवमभवत्, लोकयात्रा परा ज्ञेयास्ति । सा प्रायशो वेश्यानु स्थितेनि । १ अध्यायः] १. 'अधिकरणानामसाधारणत्वात्' पा०. २. 'खशासाम्' पा० ३. 'तसंन्देश षष्ठम्' पा०. ४ 'लोकगर्भयात्रा' पा०. कामसूत्रम् । १ आदितोऽध्यायः ] " ततो वेश्याजनं परिचयपूर्वकं प्रत्यहमुपागम्य तथा तां विवेद यथा स एवोपदेशग्रहणायास्य प्रार्थनीयोऽभूत् । ततोऽसौ वीरसेनाप्रमुखेण गणिका जनेनामिहितः, असाकं पुरुषरञ्जनमुपदिश्यतामिति । तन्नियोगात्पृथक्चकारेत्याम्नायः । अन्यस्तु श्रद्धामधिगम्य युक्तियुक्तमाह - यत्र गर्भया त्रायां दत्तकनामा तत्पदावधूतेन प्रेतिशयितेन त्र्यक्षेण शप्तः स्त्री बभूव । पुनब्ध कालेन लब्धवरः पुरुषोऽभूत् । तेनोमयज्ञेन पृथक्कृतमिति । यदि बाभ्रव्योक्तमेव पृथक्कृतं किमपूर्व वसूत्रेषु दर्शितम् । येनोभयरसज्ञता कलप्यते । यदि चायमर्थः शास्त्रकृतोऽप्यभिमतः स्यात्तदानीं 'नियोगादुभयरसज्ञो दत्तकः' इत्येवमभिदध्यात् । तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं पृथक्मोवाच । सुवर्ण- नाभः सांगयोगिकम् । घोटकमुखः कन्यासंप्रयुक्तकम् । गोनदींयो भार्याधिकारिकम् । गोणिका पुत्रः पारदारिकम् । कुचुमार औप- निषदिकमिति । एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डश: प्रणीतमुत्स- नकल्पमभूत् । तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदे- शखात्, महदिति च बाभ्रवीयस्य दुरध्येयवात्, संक्षिप्य सर्वमर्थ- मल्पेन ग्रन्थेन कामसूत्रमिदं प्रणीतम् ॥ तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं प्रोवाच । सुवर्णनाभः सांप्रयोगिकम् । कन्यासंप्रयुक्तकं घोटकमुखः । गोनर्दीयो भार्याधिकारिकम् । गोणिकापुत्रः पारदारिकम् । कुचुमार औपनिषदिकमिति । दत्तकेन वैशिकं पृथक्कृतमित्येतत्प्रसकाच्चारायणादयोऽपि पृथक्प्रकर्षेणोचुः । प्रकर्षश्च ग्रन्थेषु स्वमतप्रकाशनम् । तच्च स्थानस्थानेषु स्वशास्त्रे दर्शयिष्यति । एवमित्यादिना स्वशास्त्रस्य प्रयोजनमाह - तच्छास्रं बाभ्रव्योक्तम् । खण्डश इति खण्डं खण्डं कृत्वा । उत्सन्नकल्पमीषदुत्सन्नमिव । क्वचिदृश्यमानत्वात् । नन्द्यादिप्रणीतमुत्सन्नमेवेत्यर्थोक्तम् । तत्रेति शास्त्रप्र१. 'इत्ययमभिप्रायः' पा०. २. 'प्रतिसेवितयक्षेण शप्तः' पा०. ३. 'अभवत्' पा०. ४. 'सर्वमल्पेन ग्रन्थेन कामसूत्रमिद प्रणीतवानिति वात्स्यायनः' पा०. १ अध्यायः] १ साधारणमधिकरणम् । स्थाने । शास्त्रावयवानामित्यवयवभूतानाम् । एकदेशार्थत्वान्न फामागीभूताशेपवस्तुपरिज्ञानम् । वाम्रवीयस्येति । वाम्रव्यप्रोक्तस्य संपूर्णशास्वस्याप्रयोजनमाह — तस्य संपूर्णस्यापि महदिति कृत्वा दुःखेनाध्ययनम् । तत्सप्तभिरधिकरणैः सप्त सहस्राणि ( सप्त शास्त्राणि) संक्षिप्य, सर्वमर्थमल्पेन ग्रन्थेनेति संपूर्णतां स्वध्येयतां च दर्शयति । इदमिति बुद्धिस्थमाह । प्रणीतमिति समाप्तमाशंसते । तस्येत्यादिना स्वशास्त्रस्यार्थावयवानाचष्टेतस्यायं प्रकरणाधिकरणसमुद्देश:शास्त्रसंग्रहः । त्रिवर्गप्रतिपत्तिः । विद्यासमुद्देशः । नागरिकदृत्तम् । नायकसहायदूतीकर्मविमर्शः । इति साधारणं प्रथममधिकरणम् । अध्यायाः पञ्च । प्रकरणानि पञ्च । प्रमाणकालभावेभ्यो रतावस्थापनम् । प्रीतिविशेपाः । आलिजनविचाराः । चुम्वनविकल्पाः । नखरदनजातयः । दशनच्छेद्यविषय: । देश्या उपचाराः । संवेशनप्रकाराः । चित्ररतानि । म हणनयोगाः । तयुक्ताच सीत्कृतोपक्रमाः । पुरुपायितम् । पुरुषोपटतानि । औपरिष्टकम् । रतारम्भावसानिकम् । रतविशेषाः । प्रणयकलहः । इति सांप्रयोगिकं द्वितीयमधिकरणम् । अध्याया दश । प्रकरणानि सप्तदश । वरणविधानम् । संवन्धनिर्णयः । कन्याविसम्भणम् । चालाया उपक्रमाः । इङ्गिताकारसूचनम् । एकपुरूपाभियोगः । प्रयोज्यस्योपावर्तनम् । अभियोगतच कॅन्यायाः प्रतिपत्तिः । विवाहयोगः । इति कन्यासंप्रयुक्तकं तृतीयमधिकरणम् । अध्यायाः पञ्च । मकरणानि नव । एकचारिणीवृत्तम् । प्रवासचर्या । सपत्नीपु ज्येष्टादृत्तम् । क निष्ठावृत्तम् । पुनर्भूवृत्तम् । दुर्भगावृत्तम् । आन्तः पुरिकम् । पुरु१. 'चालोपक्रमाः' पा०. २ 'कन्याप्रतिपत्तिः' पा०, कामसूत्रम् । १ आदितोऽध्याय षस्य वहीषु प्रतिपत्तिः । इति भार्याधिकारिकं चतुर्थमधिकरणम् अध्यायौ द्वौ । प्रकरणान्यष्टौ । स्त्री पुरुषशीलावस्थापनम् । व्यावर्तनकारणानि । स्त्रीषु सिद्ध पुरुषाः । अयत्नसाध्या योषितः । परिचयकारणानि । अभि योगाः । भावपरीक्षा । दूतीकर्माणि । ईश्वरकामितम् । आन्तः रिकं दाररक्षितकम् । इति पारदारिकं पञ्चममधिकरणम् । अ ध्यायाः षट् । प्रकरणानि दश । गम्यचिन्ता । गमनकारणानि । उपावर्तनविधिः । कान्तांत वर्तनम् । अर्थागमोपायाः । विरक्तलिङ्गानि । विरक्तप्रतिपत्तिः निष्कासनप्रेकाराः । विशीर्णमतिसंघानम् । लाभविशेषः । अर्थ नर्यानुवन्धसंशयविचारः । वेश्याविशेषाश्च । इति वैशिकं षष्ट धिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश । सुभगंकरणम् । वशीकरणम् । वृष्या योगा: । नष्टनयनम् । वृद्धिविधयः । चित्राश्च योगाः । इत्यौपनिपदि मेकमधिकरणम् । अध्यायौ द्वौ । प्रकरणानि षट् । सर्वमर्थएवं पत्रिंशदध्यायाः । चतुःषष्टिः प्रकरणानि । आ सप्त । सपादं श्लोकसहस्रम् । इति शास्त्रस्य संग्रहः ॥ अयमिति वक्ष्यमाणो ग्रन्थः । प्रक्रियन्ते प्रस्तूयन्ते येतांमयोप्रकरणानि । तेषामधिकरणानां च समुद्देशः संक्षेपेणाभिधानम् । कम् । संग्रहः, त्रिवर्गप्रतिपत्तिः, इत्यादय उक्तार्थाः । तत्साहचर्या पकअपि तत्समाख्याः । यथा – कंसवधकाव्यमिति । शास्त्रं चेदं त पश्चेति द्विधा स्थितम् । तत्र तत्र्यते जन्यते रतिर्येन तत्तन्त्रम नादि । तदुपदिश्यते येन तदपि तत्रं सांप्रयोगिकमधिकरणम् । न्तादावाप्यन्ते स्त्रियः पुरुषाश्च येन स आवापः । समागमोपाय इत्य स येनोपदिश्यते तदप्यावापः कन्यासंप्रयुक्तकाद्यधिकरणचतुष्टयम् । १. 'अनुवृत्तम्' पा०. २. 'क्रमा:' पा०. ३. 'शास्त्रसंग्रहः' पा०. ४. 'शास्त्रसंग्रह. 'पा ५. 'इत्यादयोऽनुक्तार्था:'; 'इत्यादयो मुक्तार्थाः' पा०. २ अध्याय:] १ साधारणमधिकरणम् । उ तन्त्रावापानुष्ठानं न साधारणानुष्ठानं विनेति प्राक्साधारणमुच्यते । औ पनिषदिकं तु तन्त्रावापाभ्यामसिद्धे व्याप्रियत इत्यन्ते वक्ष्यति । तदुभयमपि तघ्रावापान्तर्गतमेव । तदङ्गत्वात् । तत्र साधारणे शास्त्रसंग्रहपकरणमादावुक्तम् । तत्र शास्त्रस्य संगृह्यमाणत्वात् । पत्रिंशदित्यादिना स्वशास्त्रस्यावयवसमुदायाभ्यां संख्यानमाह । तन्त्राध्यायसंख्यानं पूर्वशास्त्रेभ्य इदं स्तोकमिति दर्शनार्थम् । प्रकरणाधिकरणसंख्यानमन्यनिरपेक्षार्थम् । लोकसंख्यानमहीनाधिकत्वज्ञापनार्थम् । उत्तरग्रन्थसंधानायाह-म ३ ! संक्षेपमिममुक्त्वास्य विस्तरोऽतः प्रवक्ष्यते । ईष्टं हि विदुषां लोके समासव्यासभाषणम् ॥ अ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रहः प्रथमोऽध्यायः । ५ G जनविति । अस्येति शास्त्रस्य । विस्तरोऽतः प्रवक्ष्यते संक्षेपादूर्ध्वम् । विधयः ।विन्यास इत्यत आह – इष्टं हीति । लोके ये शास्त्रेऽघिहणनयोगासः । तेषां संक्षेपविस्तराभ्यां शास्त्रस्य मेनसि धारणमिष्टम् । पतानि र्थित्वादसंमोहो यथामिलपितर्प्रकरणार्थप्रत्यवमर्शः स्यात् ॥ प्रणयकलात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानाया विदग्धा, नाविर दश । तरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणेकत्रकृतसूत्रभाप्यायां साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रह प्रथमोऽध्यायः । वरण उपक्रम द्वितीयोऽध्यायः । पावर्तनप्रतिपत्तिफलं शास्त्रम् । तस्मिन्प्रतिपत्तौ विप्रतिपत्तो वा इति पर्येपणमपि युक्तम् । तस्माच्छाससंग्रहादनन्तरं त्रिवर्गप्रतिपत्तिररणा इति प्रकरणसंवन्धः । उद्देशापेक्षया च संबन्धित्वे कथमुद्देश इति 'इह' पा०. २. 'साधनायाह' पा० ३. 'इदम्' पा०. ४. 'सायारणे' इति पुत्र-न्तरे नास्ति, ५. 'मननसिद्धिरितीटम्; 'मनति धारणनिट-' पा०. ६. 'प्रकरणर्यः स्यात्'; 'प्रत्यवमर्प. स्यात्' पा०. ७. 'संबन्धादुरेशापेक्षायाः संबन्धित्ये' पा०. का० २ १० कामसूत्रम् । २ आदितोऽध्यायः ] चिन्त्यम् । प्रतिपत्तिस्त्रिविधा, अनुष्ठानमवबोधः संप्रतिपत्तिश्चेति । तत्र प्राधान्यादनुष्ठानमधिकृत्याह- शतायुर्वे पुरुषो विभज्य कालमन्योन्यातुबद्धं परस्परस्यानुप- घातकं त्रिवर्ग सेवेत ॥ शतायुरिति । शतमायुरस्येति शतायुः । शतशब्द: सामान्यवाच्यपि वर्षगतसंख्यानमाह । वृत्तौ तथार्थस्य विवक्षितत्वात् । कालविभागाथै चेत्तदपि विच्छिन्नायुषो विभागासंभवात् । पुरुष इति प्राधान्यख्यापनार्थम् । स्त्रीणां तु पुरुषाधीना त्रिवर्गसेवेत्यखातन्त्र्यम् । विभज्य वक्ष्यमाणेन न्यायेन । अन्योन्यानुबद्धमिति धर्मादीनामन्यतमं द्वाभ्यामेकेन वानुबद्धम् । तद्यथा प्रजार्थिनो धर्मपत्न्यामनभिप्रेतायामृतावभिगमनं धर्मोऽर्थानुवद्धः । प्रजार्थिनोऽभिप्रेतायामृतावभिगमनं धर्मः कामानुवद्धः । अपरिणीतस्य सवर्णादनभिप्रेतकन्यालाभोऽर्थो धर्मानुबद्धः । परिणीतस्याधमवर्णादभिप्रेतकन्यालामोऽर्थः कामानुबद्धः । धर्मपत्न्यामभिप्रेतायां कामातुरायामनृतौ कामो धर्मानुबद्धः। परिणीतस्य निष्किचनस्याघमवर्णायामर्थवत्यामभिप्रेतायामँघिगतायां कामोऽर्थानुबद्धः । इत्येकानुवद्धाः । अपरिणीतस्य सवर्णायामनन्यपूर्वायामभिप्रेतायां यथाविधिसंयोगो धर्मोऽर्थकामानुबद्धः । तस्यैवाभिप्रेत्य सवर्णकन्यालाभोऽर्थो धर्मकामानुबद्धः । तस्यैवार्थरूपवत्यां परस्परोत्क योद्वाहितायां कामो धर्मार्थानुबद्धः । इति द्वयनुबद्धाः । परस्परस्यानुप तकमिति । यत्रानुबन्धो नास्ति तत्रैकमितरयोरैंनुपघातकम्, एकानुबन चान्यस्यानुपघातकं सेवेत । अत्रोदाहरणं वक्ष्यामः । वयोद्वारेण कालविभागमाह वाल्ये विद्याग्रहणादीनर्थान् ॥ बाल्य इति । वयोविभागस्तत्रान्तर उक्तः– 'आ षोडशाद्भवेद्वालो यावत्क्षीरांन्नवर्तनः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥ इति । विद्याग्रहणमादिर्येषामर्थानां तान्सेवेतेति । १. 'वैतदपि' पा० २. 'ऋतावेव गमनम्' पा०. ३. 'अभिगतायाम्' पा०. ४. 'सवर्णयानन्यपूर्वयाभिप्रेतया' पा०. ५. 'अस्ति' पा०. ६. 'अनुपघातकमिति' पा०. ७. 'चर्तिकः'; 'वृत्तिकः' पा०. २ अध्यायः] १ साधारणमधिकरणम् । एवम्- कामं च यौवने ॥ इति । तदोचितत्वात् । स्थाविरे धर्म मोक्षं च ॥ स्थाविरे धर्ममोक्षावनुभूतविपयत्वात् । मोक्षग्रहणं परमतापेक्षम् । ज्ञानवादिनां चतुर्वर्ग: पुरुषार्थः । अस्मिन्नेव काले तैरप्याध्यात्मिकं चिन्त्यमिति । ननु त्रिवर्गस्य नियतकालत्वादन्योन्यानुवन्धो नास्ति, ततवासेवनप्रसङ्ग इति नायं नियमः । अनुवद्धत्वाभावे निरनुबद्धमप्युक्तम् । अथवा यथाकालमेहन्यहनि सेवा प्रतिषेधपरत्वाद्धर्मादिनियमस्य । यथाकालं धर्मादिपु सेव्यमानेषु यद्यनुषङ्गादितरानुवन्धः, भवतु । न दोपाय । अनित्यत्वादायुपो यथोपपादं वा सेवेत ॥ अनित्यत्वादिति वर्पशतादर्वाग्विनाशदर्शनात् । यथोपपाढमिति यद्यदोपपद्यते तदा सेवेत । बाल्येऽर्थम्, धर्ममपि । यौवने कामम्, धर्मार्थावपि । स्थाविरे धर्मम्, अर्थकामानुष्ठानसामर्थ्य चेतावपीति । अन्य। थैकसेवायामसमग्रः पुरुषार्थ: स्यात् । सेवेतेति पुनर्वचनं पूर्वस्मात्पक्षात्पक्षाकृ॑ तरा[द]र्थम् । अन्यस्मिन्पक्षे विद्याग्रहणार्थस्य सेवायाः कालत्रयेऽप्यसंप्रज्ञवान्नियमयति ब्रह्मचर्यमेव त्वी विद्याग्रहणात् ॥ यावद्विद्या न गृह्यते तावत्कामं न सेवेत । अन्यथा सघर्मः, तद्ग्रहणविघातः, विद्यार्थलाभामावश्च । भूम्याद्यर्जने तु न नियमः । अन्ये तु विद्याग्रहणवर्ज प्रायेण भूम्याद्यर्जनं न संभवति, अतस्रयलिंशददाश्च। त्वारश्च मासा इति प्रत्येकं वयो विभज्य योजयन्ति । अस्लिन्विभागे पोडशवर्षादूर्ध्वे कामस्य भावात्, वाल्येऽपि धर्मार्थकामान्सेवेतेत्युक्तमनुठानभवबोधोऽपि । १. 'अर्थ काम च' पा०. २. 'प्रत्यहन्यासेवा' पा०. ३. 'दीपायेयाह' पा०. ४. 'पदात्पक्षान्तरादर्थम्'; 'पक्षात्पक्षान्तरादर्घम्' पा०. ५. 'विद्यामहणार्धसेवाया बालत्रयेऽपि संभवात्' पा०. ६. 'वा' पा०. ७. 'विभज्यते' पा०. ८. 'अयोधोऽपि' इत्यादि किचित्सदिग्धम्, १२ २ आदितोऽध्यायः ] खरूपं यतश्च परिज्ञातं तदुभयमप्याह-अलौकिकत्वादित्यादिना । अलौकिकत्वाददृष्टार्थत्वादप्रवृत्तानां यज्ञादीनां शास्त्रात्मवर्तनम्, लौकिकत्वादृष्टार्यत्वाच प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ॥ तत्र लोके रू॒पादिवदविदितस्वरूपत्वादलौकिका यज्ञादयः । ननु विशिष्टद्रव्यगुणकर्मात्मकत्वाद्विदितस्वरूपाः कथमलौकिका इत्यत आह अदृष्टार्थत्वादिति । तेषामनन्तरं फलस्यादर्शनात् । येऽदृष्टफलाः सन्तोsलौकिका न ते प्रेक्षावद्भिरदृष्टसामर्थ्योपधिवत्प्रवर्त्यन्त इत्यप्रवृत्ताः । आदिशब्दात्तपश्चरणादयः । तेषामप्रवृत्तानां शास्त्रात्मवर्तनं धर्म इति । अयं प्रवृत्तिरूपो धर्मः । लौकिकत्वादृष्टार्थत्वादिति । ये दृष्टतृप्त्यादिफलाः सन्तो लौकिकास्ते तदर्थिभिर्मृगादिमांसभक्षणवत्प्रवर्त्यन्ते । तस्मात्प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः । आदिशब्दात्सत्त्वाभिद्रोहपरस्वादानादिभ्यः । शास्त्रादेव निवारणं प्रतिषेधनमिति । अयं निवृत्तिरूपः । कथमत्र शास्त्रं प्रमाणमिति चेदुत्तरत्र वक्ष्यति । तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत ॥ तमित्युक्तस्वरूपं धर्मम् । श्रुतरिति स्मृत्यनुगताद्वेदात, योऽधिकृतः शास्त्रे । अनधिकृतो वा धर्मज्ञसमवायात् । श्रुतिस्मृत्यर्थतत्त्वज्ञसंसर्गादित्यर्थः । प्रतिपद्येतावबुध्येत । विद्याभूमिहिरण्यपशुधन्यभाण्डोपस्करमित्रादीनामर्जनमँजितस्य विवर्धनमर्थः ॥ विद्या आन्वीक्षिक्यादयः । भूमि: कृष्टा, कृष्या वा । हिरण्यं सुवर्णादि । पशुर्हस्त्यश्वादिः । धान्यं पूर्वमध्यावरवापः । भाण्डोपस्करं गृहो पकरणं लोहकाष्ठमृद्विदलचर्ममयम् । मित्रं सहपांशुक्रीडितादि । आदिशकामसूत्रम् । १. 'स्वरूपज्ञानं तत्स्वरूपम्' पा०. २. 'यज्ञादीनाम् इति पुस्तकान्तरे नास्ति. ३. 'च' इति पुस्तकान्तरे नास्ति. ४. 'खरूपा-' पा०. ५. 'प्रवृत्ताः' पा०. ६. 'धान्य' इति पुस्तकान्तरे नास्ति. ७ 'अजिंतस्य रक्षणं रक्षितस्य विवर्धनम्' पा० . ८. 'कृष्टाकृष्टा वा': 'कृष्याकृष्या वा' पा०. २ अध्यायः ] १ साधारणमधिकरणम् । व्दाद्वस्त्राभरणादयः । अर्जनं द्विविधम् । निप्पन्नानां हस्त्यादीनां स्त्रीकरणम्, अनिप्पन्नानां धान्यादीनां निष्पादनम् । अर्जितस्येत्येकवचनमेकैकस्य द्वव्यस्यार्जनवर्धनयोरन्वर्थोपदर्शनार्थम् । अन्यथा समुढायस्यैवार्जनं वर्धनं चार्थ: स्यात् । वर्धनमुपचयभोगादिव्यापारदर्शनार्थम् । तयोः नास्त्रेणोपदिश्यमानत्वात् । तमध्यक्षमचाराद्वार्तासमयविद्वयो वणिग्भ्यश्चेति ॥ अध्यक्षाः प्रचरन्त्यनेनेत्यध्यक्षप्रचारः । वार्ता शास्त्रम् । तस्माच्छाम्चे योऽधिकृतः । इतरश्च वार्तासमयविद्भयः कृपिपाशुपाल्यवणिज्यादितत्त्वविद्भ्यः । वणिग्भ्य इत्युपलक्षणार्थम् । कर्पकेभ्यो गवादिपोपकेन्यश्च प्रतिपद्यतेत्येवम् । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्टितानां स्त्रेषु स्वेषु विपयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥ त्वगिति कार्येन्द्रियम् । कायो द्विविधः, सामान्यो विशेषश्च । तत्र सामान्यमाह - आत्मसंयुक्तेन मनसेति । आत्मा समवायिकारणम् । सुखदुःखेच्छाद्वेषप्रयत्नादिगुणानां तत्र समवायात् । तत्र यदास्य प्रयत्गुण उत्पद्यते तदायं मनसा संयुज्यते । मन इन्द्रियेण । इत्यनेन क्रमेणाधिष्ठितानाम् । स्वेषु स्वेप्विति । तथाक्रमं शब्दस्पर्शरूपरसगन्धेपु । आनुकूल्यत इति । यदात्मनः खप्नादीन्विपयान्भोक्तुमिच्छा भवति तदा प्राप्याप्राप्यकारिणां श्रोत्रादीनां बुद्धीन्द्रियाणामानुलोम्येन या प्रवृत्तिः । इच्छोपगृहीता श्रोत्रादिबुद्धिरित्यर्थः । सा विषयोपभोगस्वभावा काम इ त्युपचर्यते । आत्मा हि तद्द्वारेण विषयं भुजानः सुखमनुभवति यतलवं प्रधानं कामः । तस्य निवन्धनमिच्छोपगृहीता प्रवृत्तिः । सापि काम इत्युच्यते । तस्माद्धेतुफलभेदात्सामान्यकामो द्विविधः । प्रातिकृल्यतः प्रवृत्तिस्तु दुःखहेतुत्वाद्वेषै इत्यर्थोक्तम् । १. 'भूम्यादिव्यापार -' पा०. २. 'श्रोत्रेन्द्रियादीनाम्' पा०. ३. 'हे' पा०. १४ कामसूत्रम् । २ आदितोऽध्यायः] विशेषकामो द्विविघः, प्रधानमप्रधानं च । तदुमयमपि दर्शयन्नाह - स्पर्शविशेष विषयान्त्वस्याभिमानिकमुखानुविद्धा फलवसर्थप्रती- तिः प्राधान्यात्कामः ॥ तेषां स्पर्शविशेषविषयात्त्विति । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । वचनादानविहरणोत्सर्गानन्दकर्मनिष्पादनात् । तत्र स्त्रीपुंसयोर्यदधोव्यञ्जनं संबाधकादि तन्मात्रस्वभावं तत्त्वगिन्द्रियमेव । तस्य कश्चिदेव प्रदेश उपस्थेन्द्रियमुच्यते । यो विसृष्टयवस्थायामानन्दकर्म जनयति । तस्य व्यञ्जनस्य योऽन्तर्गतः स्पर्शविशेषस्तस्मिन्विषये प्रतीतिरसावर्थप्रतीतिस्त्वगिन्द्रियबुद्धिः । अस्याः संप्रयोगेच्छालक्षणः कामिताख्यो भावः कारणम् । अस्येति । ख्यात्मनः, पुरुषात्मनश्च । तत्र ख्यात्मनः पुरुषाद्वयजनस्पर्शविशेषविषये स्त्रीव्यञ्जनत्वगिन्द्रियप्रतीतिः, पुरुषात्मनश्च स्त्रीव्यञ्जनस्पर्शविशेषविषये पुरुषव्यञ्जनत्वगिन्द्रियप्रतीतिरित्यर्थः । विशेषग्रहणात्पुरुषस्योरुकक्षादिस्पर्शनविषये स्त्रियाश्चोरुनाभ्यादिस्पर्शविषये प्रेतीतिर्निरस्ता । तस्या अप्रधानत्वात् । एवंविधा प्रतीतिः सामान्यकाम एव । कथं विशेषत्वमिति चेदाह — फलवतीति । तस्यां प्रतीतौ प्रबन्धेनोत्पद्यमानायां शुक्रक्षरणं तत्तुल्यकालमेव चानन्दाख्यं फलं सुखमित्युक्तम् । तेन युक्ता स्पर्शविशेषविषये प्रतीतिरपरा भवति । तस्याध पूर्विकैव प्रतीतिरफला कारणम् । अतो विषयमेदात्वरूपभेदाच द्विघा प्रतीतिः । अर्थप्रतीतिरिति । अर्थग्रहणात्खनव्यञ्जनस्पर्शार्थस्यालीकत्वात्फलवत्यपि न कामः । तस्या अप्रधानत्वात् । यद्येवं वियोनावयोनौ वानभिप्रेतेऽर्थप्रतीतिरेवंविधाप्यस्तीत्यत आह – आभिमानिकसुखानुविद्धेति । आमिमानिक चुम्बनादिसुखं वक्ष्यति । चुम्बननखदशनच्छेयादिषु हि तत्र तत्र स्थाने प्रयोज्यमानेषु स्त्रीपुंसो रागसंकल्पवशात्सुखमित्यभिमन्यते । तेन • १. 'विपये त्वाभिमानिक-' पा०. २. 'योन्तगतिः' पा० ३. 'स्पर्श विशेषविषये' पा०. ४. 'उपनाभ्यादि-' पा०. ५. 'प्रीतिः' पा०. ६. 'विशेष इति' पा०. ७. 'पुरुषार्थस्य' पा०. ८. 'स्थानेषु प्रयुज्यमानेषु' पा० ९. 'स्त्रीपुंसी रागसंकल्पवशात्सुखमित्यभिमन्येते' पा० • १ साधारणमधिकरणम् । १५ सुखेनानुविद्धेत्याक्षिप्तसंस्कारेऽर्थप्रतीतिः प्राधान्यात्कामः । तेन वियोनावयोनौ वानभिप्रेतस्त्रीपुंसयोः फलवत्यर्थप्रतीतिर्न कामः । आभिमानिकसुखाभावादप्राधान्यात् । तस्मात्स्प्रष्टव्यविशेषविषयो विशेषः कामः । तं काम सूत्रान्नगरिकजनसमवायाच्च प्रतिपद्येत ॥ तमित्युक्तस्वरूपं सामान्यं विशेषम् । प्रधानमप्रधानं च । कामसूत्रादस्मादेव, शास्त्रेऽधिकृतो यैः । इतर नागरिकसमवायात्काम व्यवहारज्ञसंपर्कात्प्रतिपद्येतेति । २ अध्यायः] एवं धर्मादीनि युगपत्सेवितुमधिगन्तुं वा न संभवन्तीति गुरुलाघवमपि बुध्येतेत्याह ऍपां समनाये पूर्व: पूर्वो गरीयान् ॥ समवाये संनिपाते । तदुपायसंनिधानात् । पूर्वः पूर्व इति कामादयों गरीयान् । कामस्यार्थसाध्यत्वात् । ततोऽपि धर्मः । अमुत्राप्यर्थस्य धर्मसाध्यत्वात् । नायं सर्वविधिविषयक्रम इत्यत आह अर्थश्च राज्ञः । तन्मूलत्वाल्लोकयात्रायाः । बेईयायाश्चेति त्रिव- र्गप्रतिपत्तिः ॥ अर्थस्तु राज्ञो गरीयान् । तन्मूलकत्वादिति । वर्णश्रमाचारलक्षणा लोकयात्रा । सा मा मूदन्यथेति तस्याः पालनं राज्ञो धर्मः । तच्च प्रभुशक्तौ सत्याम् । प्रभुशक्तिश्च कोषदण्डबलम् । ते चार्थत इति तन्मूला लोकयात्रा । वेश्यायाश्चार्थो गरीयान् । अर्थप्रतिबद्धत्वात्तज्जीविकायाः । वेश्या हि कामातुरब्राह्मणाभिप्रेतनागरकविषयौ धर्मकामावुपनतौ त्यक्त्वा पश्चाद्भविष्यत इर्त्यनिष्टेऽप्ययमर्थद इति प्रवर्तते । त्रिवर्गप्रतिपत्तिरनुष्ठानावबोघलक्षणोक्तेत्यर्थः । १. 'आक्षिप्त : ' पा०. २. 'नागरिकसमवायात्' पा०. ३. 'जन:' पा०. ४. 'अतिगुरुलाघवमपि पा०. ५. 'तेषाम्' पा०. ६. 'वेश्यायाः कामयेति' पा०. ७ 'राम इति । वर्णाश्रमा-' पा०. ८. 'अनिष्टोऽपि' पा०. कामसूत्रम् । २ आदितोऽध्यायः] - १६ ईदानीं विप्रतिपत्तिपूर्विकां संप्रतिपत्ति दर्शयन्नाह - धर्मस्यालौकिकत्वात्तदभिधायकं खादैर्यसिद्धेः । उपायप्रतिपत्तिः शास्त्रात् ॥ धर्मस्येत्यादि । कामसूत्र एव तद्विप्रतिपत्तिं दर्शयति—अलौकिकत्वादिति । यथोक्तं प्राक् । अभिधायकं ज्ञापकम् । अर्थसिद्धेरिति । अर्जनवर्धनाख्या चार्थसिद्धिः । अन्यथोपायं विना प्रवर्तमानस्यानर्थोऽपि स्यात् । तत्संशयश्च । । तत्र धर्मार्थमर्थार्थ च शास्त्रं युक्तम् । कामार्थं त्वयुक्तमित्याह- तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शा- स्त्रेण कृत्यमस्तीत्याचार्याः ॥ शास्त्रं युक्तम् । उपायपूर्वक तिर्यग्योनिप्वपीति । गवादिष्वपि तमोवहुलेषु शास्त्रोपदेशं विना कामः प्रवर्तमानो दृश्यते, किं पुनर्मनुष्येषु रनोवहुलेषु न प्रवर्तते । तथा चोक्तम् – 'विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः । स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणाम् ॥" इति । नित्यत्वाच्चेति । आत्मनि द्रव्यपदार्थे सदैवेच्छाद्वेषादयो गुणाः स्थिताः । ततश्च नित्यः कामः । तथा चोक्तम् – 'मुमुक्षवोऽपि सिद्धयन्ति विरागाद्रागपूर्वकात् । विषयेच्छानुबन्धिन्यो निसर्गात्प्राणिनां घियः ॥ तस्मात्प्रवर्तमानेन शास्त्रेण कार्य तनिवर्तनं तु युक्तम् । आचार्या धर्मार्थमोक्षवादिनः । अत्र संप्रतिपत्तिमाह - संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते ॥ संप्रयोगपराधीनत्वादिति । विशेषः सामान्यो वा कामः संप्रयोगपराधीनः । संप्रयोगश्च द्विविधः, आयतनसंप्रयोगोऽङ्गसंप्रयोगश्च । तत्रायतनं कामस्य रूयधिष्ठानम् । अङ्गानि च माल्यादीनि । तथा चोक्तम्'सुखं कामस्तदङ्गानि भूषणालेपनखजः । तथोपवनहर्म्याग्रवल्लकीमदिरा१. 'इदानीम्' इति पुस्तकान्तरे नास्ति. २. 'शास्त्रमुक्तम्' पा०. ३. 'चार्थसिद्धेः' 'च शास्त्रादेव' पा०. ५. कार्यमस्तीति कार्यम्. ६. 'संप्रयोगः पराधीनत्वादुपायम' पा०. 1 २ अध्यायः] १ साधारणमधिकरणम् । दयः ॥ यस्यायतनमुद्दामरूपयौवनविभ्रमाः 1 ललनाश्चाटुदाक्षिण्याश्चाकृष्टजनमानसाः ॥' इति । तत्र य आयतनसंप्रयोगः स च द्विविधः, बाह्य आभ्यन्तरश्च । तत्र यो रहसि स आभ्यन्तरो रताख्यः । स विशेषकामस्य निमित्तम् । बाह्यः समागमलक्षणो रतस्य । यश्च बुद्धीन्द्रियाणां यथाखमः संप्रयोगः सोऽङ्गसंप्रयोग इति । इन्द्रियार्थसंनिकर्पलक्षणः । स च सामान्यकामस्य निमित्तम् । अनयोश्च कामयोर्यथास्वं पूर्वोक्तमेवेच्छाकारणम् । तत्पूर्वकत्वात् । तदभावेऽभावात् । तत्राद्यः संप्रयोगः समागमलक्षणः स स्त्रीपुंसयोरन्यतरानिच्छया रक्षणाल्लज्जया भयाद्वा परतन्त्रायां न घटत इत्यत्रायमुपायमपेक्षते । रेताख्यश्च पाश्चात्य चतुःषष्टिप्रयोगानभिज्ञायां कथं स्यादिति तन्त्रमुपायम् । द्वितीयोऽपि संप्रयोगो नित्यनैमित्तिकनागरिकसंवृत्तं बिना न भवतीत्युपायापेक्षा । * a ३ व · सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥ उपायपरिज्ञानं च कामसूत्रात् । तेनोपदिश्यमानत्वात् । वात्स्यायन म द्र 'इति खगोत्रनिमित्ता समाख्या । मल्लनाग इति च संस्कारिकी । म गवादिषु कथमिति चेत्तदाह व तिर्यग्योनिषु पुनरैनादृतत्वात्स्त्रीजातेच, ऋतौ यावदर्य प्रवृत्ते- । बुद्धिपूर्वकत्वाच्च प्रवृत्तीनामनुपायः प्रत्ययः ॥ पुनःशब्दो विशेषणार्थः । अनावृतत्वादिति रक्षणाद्यावरणाभावात् । स्त्रीजातिः स्वतन्त्रा । किं तत्रोपायेनेत्यनुपायः प्रत्यय इति संवन्धः । प्रत्ययशव्देनोमयरूपोऽपि संप्रयोग उक्तः । तस्य कामोत्पत्तौ निमित्तत्वात् । तत्रावरणाभावाचार्योक्तोपायशून्यः समागम इत्यर्थः । ऋतौ यावदर्थमिति । ऋतुकाल एव ते तिर्यञ्चः संप्रयुज्यन्ते । मनुष्यास्तु प्रजार्थमृतौ, स्त्रीरमणार्थं चानृतावपीत्यसमानम् । तथा चोक्तम् –'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इति । तत्रापि यावदर्थं यावदेव तृतिलक्षणोऽर्थो निप्पद्यते तावदेव संप्रयुज्यन्ते । न तु द्वितीयं संप्रयोगिणमपेक्षन्ते, १. 'रतारम्भव' पा०० २. 'तन्त्रमुपायम्' इति पुस्तकान्तरे नास्ति. ३. 'अनारतत्वाच्च' पा०. ४. 'आवापोतोपायशून्यः'; 'आचार्यो को य उपायस्तदन्यः' प ३ ● १८ कामसूत्रम् । २ आदितोऽध्यायः] किमस्य तृतिरभून्न वेति । तस्मादसमानार्थत्वादनुपाय आन्तरसंप्रयोगः । तत्र समानार्थजन्यमेव प्रेम स्त्रीरक्षणोपायो नास्तीति मनुष्येष्वेवमिति चेदत एवास्योपदेशः । अन्यथान्यसमानार्थत्वादनुपायः । तत्पत्न्याः पुरुषा-' न्तरगमने न कश्चित्पुरुषार्थोऽस्य स्यात् । तथा चोक्तम् – 'भजते संभृतप्रेमा परं चेदस्य कामिनी । नष्टे धर्मे हते वृत्ते सुखं दूरे हतं कुलम् ॥ तस्मात्समानार्थताजन्यमेव प्रेम स्त्रीरक्षणोपायः । यच्च स्त्रीरक्षणार्थं मनुप्रोक्तमसुकुमारत्वसाघनाथै कुट्टनादि गृहकर्म तदुपायोद्वेगजननादनुपाय एव । तथा चोक्तम् –'कर्माण्यसुकुमाराणि रक्षणार्थेऽवदन्मनुः । तासां सज इवोद्दामगजालानोपसंहिताः ॥ असति प्रेम्णि तत्सर्वमित्याचार्या व्यवस्थिताः । समानार्थतया तच्च न शास्त्रेणोपदिश्यते ॥' इति । अबुद्धिपूर्वकत्वादिति । धर्मोऽर्थः पुत्राः संवन्धः पक्षवृद्धिः स्यादित्येवं बुद्धिपूर्वं न प्रवर्तन्ते । केवलं पशुधर्ममात्रेणेत्यनुपायः प्रत्यय आन्तरसंयोगः । अनुवन्धोपायरहितत्वात् । तस्माद्दैवरक्ताः किंशुका इति किं तिर्यग्योनिषु शास्त्रप्रणयनेन । अनुकूलेषु वा पुरुषेषु । इतरत्र तु विपर्ययेण सोपाय: प्रत्यय इति युक्तं शास्त्रप्रणयनम् । धर्मे विप्रतिपत्तिमाह न धर्माश्चरेत् । एष्यत्फलत्वात्, सांशयिकंत्वाच ॥ एष्यत्फलत्वादिति । यज्ञादयो नेहलौकिका जन्मान्तरफला उक्ताः । हस्तगतद्रव्यत्यौगं न प्रेक्षावान्समीहते । किं त्विहैव तेन कृष्यादिफलं निष्पाद्योपमुते । न परम्परामपेक्षते । सांशयिकत्वाञ्च भविष्यतः फलस्येति । उपस्कारतस्तपश्चर्याक्लेशादर्थक्षयाच निष्पादितेऽपि यज्ञादौ ततः किं खर्गादिफलं स्यान्न वेति संदिग्धम् । कारणानां कार्योत्पादननियमादर्शनात् । संदिग्धे च कोऽसंशयितार्थत्यागेन प्रवर्तत इति हेतुद्वयम् । तत्र प्रथमस्य लोर्केप्रसिद्धिमाह को ह्यवालिशो हस्तगतं पैरगतं कुर्यात् ॥ १. 'जृम्भितप्रेमा' पा०. २. 'अननुकूलेषु', 'अनानुकूल्येषु' पा०. ३. 'त्यागेन' पा०. ४. 'लोकसिद्धमाह' पा०. ५. 'पादगतम्' पा●● २ अध्यायः] १ साधारणमधिकरणम् । १९ को हीति । अवालिशः प्रेक्षावान् । यथा कश्चित्स्वहम्नगनं द्रव्यं प रहस्तीकृतं कार्यकाले स्वयं गत्वा साध्यं हारितं भक्षितं वानेन स्यादिनि P न विप्रकृष्टं करोति, तथा जन्मान्तरे भोक्ष्येऽहंमिति यज्ञादिषु नियोज्य विप्रकृष्टं कः कुर्यात् । के तत्र तत्स्यादिह द्रव्यसाध्यं फलं तावन्मात्रकं तावत्कालं बामुत्र वि परीतमित्याह वरमद्य कंपोतः श्वो मयूरात् ॥ वरमद्येति । यथा पक्षिमांसाथिनो महतः वो मयूरलाभादद्य कपोतलाभोऽपि गरीयांस्तद्वदिहापीति । द्वितीयस्य लोकप्रेसिद्धिमाहके वरं सांशयिकान्निष्कादसांशयिकः कार्पापणः । इति लौकाय- तिकाः ॥ G i i+ j वरमिति । गृहाण कार्पापणम्, नो चेदेण्यति मेऽद्य हेमशतं ततो निष्कं दास्यामीति । तत्र प्रत्युपस्थित कार्यस्यासंदिग्धः स्वल्पोऽपि कार्पापणो गरीयान् । संदिग्धनिष्कात् । लौकायतिका इति लोकायतमधीयते ये । उक्थादिपाठाट्ठक्प्रत्ययः । तत्र संप्रतिपत्तिमाह शास्त्रस्यानभिशङ्कचत्वादभिचारानुव्याहारयोश्च कचित्फलदर्श नानक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वक मित्र महत्तेर्दर्श- नाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच लोकयात्राया हस्तगतस्य च वी- जस्य भविष्यतः सस्यार्थे त्यागदर्शनाचरेद्धर्मानिति वात्स्यायनः ॥ शास्त्रस्येति । धर्मस्यालौकिकत्वात्तदभिषायकं शास्त्रमुक्तम् । तच्छामं पौरुषेयमपौरुषेयं च । तत्र पूर्वमभिशङ्कनीयम् - किमिदं सत्यं मिथ्या वेति । पुरुषा हि रागादिभिरविद्यया चोपलता वितथमपि ध्रुवन्ति । अ१. 'कपोतो न श्वो मयूर : ' पा०. २. 'प्रतिद्धमाह' पा०. ३. 'न्यपहारचीख पा०. ४. 'सूर्यचन्द्र-' पा०. ५. 'लोकानुमहार्यम्' पा०. ६. 'शानं दुतम्' पा●● २० कामसूत्रम् । २ आदितोऽध्यायः] भविष्यपौरुषेयं च वेदाख्यं पुरुषसंबन्धाभावाददुष्टमनभिशङ्कनीयम् । यथोक्तम् – 'दोषाः सन्ति न सन्तीति पौरुषेयस्य युज्यते । वेदे कर्तुरभावात्तु दोषशव नास्ति नः ॥" इति । अपौरुषेयत्वसाधनमन्यत्रोक्तम् । तेनेह चरेद्धर्मानिति संबन्धः । तेन संशयितत्वादित्येतदसिद्धम् । अभिचारो हिंसात्मकं कर्म । अनुव्याहारः शान्तिकपौष्टिकम् । तयोचोदितयोः 'अमिचरन्श्येनेन यजेत' इत्यादिना । कचिदिति यत्र प्रयुज्यते [तत्र ] हिंसाशान्तिपुष्टिफलदर्शनाच्छेपस्याप्यग्निहोत्रादेः स्वर्गादिफलं तीति चरेद्धर्मान् । नद्यपौरुषत्वेनाभिन्नयोः शास्त्रावयवयोर्वितथावितथत्वभेदो युज्यते । वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गात् । अदृष्टसाधनमाह–नक्षत्रेति । नक्षत्राण्यश्विन्यादीनि । चन्द्रसूर्यौ प्रसिद्धौ । ताराग्रहा अङ्गारकादयः पञ्च । तेषां चक्रमिव चक्रं संनिवेशविशेषो द्वादशराशिविभक्तः । तस्य । लोकार्थं नात्मार्थम् । बुद्धिपूर्वकमिवेति । बुद्धिपूर्वकस्येव । यथा कैश्चित्पुरुषो बुद्धिपूर्वं प्रवर्तते तद्वदेवैते सूर्यादयो नक्षत्रेण युज्यमाना अन्यथान्यथा प्रवर्तमाना दृश्यन्ते । न च तथेवेतीवार्थः । तथा द्वेषां न 'लोकस्येदं करिष्यामः' इति प्रवृत्तिः । सा च शास्त्रान्तरे बहुप्रकारोक्ता । दर्शनादिति वचनात्प्रत्यक्षप्रमाणसिद्धेति दर्शयति । तस्यां च प्रवृत्तौ लोकस्य शुभाशुभात्मकं फलं द्विविधम् । साधारणमसाधारणं च । तत्र साधारणं सुभिक्षदुर्भिक्षादि । तच्च ग्रहचारे द्रष्टव्यम् । असाधारणं तु प्रतिसत्त्वं नियतं लामालामसुखदुःखादि । तच्च जातके द्रष्टव्यम् । सैवंविधा प्रवृत्तिः कारणान्तरमदृष्टं गमयति । तच्च लोकस्य शुभाशुभात्कर्मणः । किंमन्यथैषामेकरूपाणां कारणान्तरनिरपेक्षाणां सदा प्रवृत्तिरप्रवृत्तिर्वा स्यात् । कालान्नियम इति चेत्सोऽपि कारणनिरपेक्षः सर्वदा स्यात् । तस्मादस्ति तत्प्रवर्तकमदृष्टमिति चरेद्धर्मम् । उक्तं च – 'नक्षत्रग्रहपञ्जरमहर्निशं लोककर्मविक्षिप्तम् । अमति शुभाशुभमखिलं प्रकाशयत्पूर्वजन्मकृतम् ॥' इति । वर्णाश्रमेति । वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचारि१. ''हिंसायाः शान्ति-' पा०. २. 'विभक्तस्य' पा०. ३. 'कचिहुद्धिपूर्वम्' पा०. ४. 'किमन्यत् । एषाम् पा०. २ अध्यायः] १ साधारणमधिकरणम् । २१ गृहस्थादयः । तेषामाचारः स्वधर्मः । तस्य स्थितिर्व्यवस्था । सैव लक्षणं यस्या लोकयात्रायाः सा । लौकायतिकैर्मा भूदव्यवस्थायां मात्स्यो न्याय इति दृष्टार्थं वर्णिता । संवरणमात्रं हि त्रयी। लोकयात्राविद इति तां च लोकविश्वासनार्थमाचरद्भिः कथं नाचरितो धर्मः। दृष्टार्थश्च यद्यदृष्टार्थो ऽपि स्यात्को विरोधः । एतेन न 'धर्माश्चरेत्' इति प्रतिज्ञाया अभ्युपगमबाधां दर्शयति । यञ्चोक्तमेष्यत्फलत्वादिति तद्दृष्टेऽप्यस्तीति दर्शयन्नाह - हस्तगतस्येति । तुल्ये भविष्यत्फलत्वे सत्यप्येकत्र प्रवृत्तिरन्यत्र निषेध इत्ययुक्तमुक्तम् । न कदाचित्तत्र दृष्टमिति चेत्कथं तर्हि लोकवेचित्र्यम् । नहि सर्वत्र समानाद्दृष्टात्कारणादैश्वर्यादिफललाभः । नापि खाभाविकम् । तदा सिद्ध्यसिद्धिप्रसद्गात् । अर्थविप्रतिपत्तिमाह नार्याश्चरेत् । प्रयत्नतोऽपि होतेऽनुष्ठीयमाना नैव केंदाचित्स्युः । अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥ नार्थानिति । उपायात्किलार्थसिद्धिः । उपायानुष्ठानं च येतस्तधानु- तिष्ठेदित्यर्थः । तदन्वयव्यतिरेकानुविधानादर्थसिद्धेः । यदाह — प्रयत्नत इति । प्रयत्नेनार्ज्यमाना नैव कदाचिस्युरित्यर्थोक्तम् । यदा स्युस्तदा कालसंनिधानादिति मन्यन्ते । अनुष्ठीयमानाः प्रयत्नेनेत्यर्थः । यदृच्छये- त्येवमेव स्युः । अकस्मान्निधानादिदर्शनात् । तस्मादुपायपरिज्ञानार्थे शास्त्र - मप्यनर्थकम् । किं कृतं तर्खेतदित्याह- तत्सर्वं कालकारितमिति ॥ कालो नाम द्रव्यपदार्थो नित्यः । तेन कारितमिति प्रयोजकव्यापारेण पुरुपस्य परायत्ततामाह । तदेव दर्शयन्नाह - काल एव हि स्थापयति ॥ पुरुषानर्यानर्थयोर्जयपराजययोः सुखदुःखयोश्च १. 'कथ साचरितः'; 'कथम चरितः' पा०. २. 'यद्यदृष्टार्थ: स्यात्' पा०. ३. फललाभेनापि'; 'फलभेदः । नापि', 'फललाभ नापि पा०. ४. 'कदाचित्पुनरननुष्टीयमानाः पा०. ६. 'यत्नस्तथानुष्टितादित्यर्थः'; 'यत्र तथानुष्ठितादित्यर्थः' पा०. २२ कामसूत्रम् । २ आदितोऽध्यायः] काल एवेति । हेयोपादेयाः षट्पदार्था लाभालाभादयः । तेषु काल एव -मूलमिति न त्यागोपादानार्थं स्वयं यत्नमातिष्ठेदित्यर्थः 1 लोकप्रसिद्धिमाह कालेन वलिरिन्द्रः कृतः । कालेन व्यवरोपितः । काल एव पुं- नरप्येनं कर्तेति कालकारणिकाः ॥ कालेनेति । हेयैप्रकृतिकोऽप्यसुरत्वादनहर्होऽपि शाके पदे प्रेरितः स्थापितः । व्यवरोपित इति । परिवर्तमानेन तस्मात्पदादपनीय पाताले नियोजितः । पुनरप्येनं कर्तेति । विपरिवर्तिष्यमाणः प्रेरयनिन्द्रं करिष्यतीत्यर्थः । तथा चाहुः—'काल: पचति भूतानि कालः संहरति प्रजाः । कालः सुतेषु जागर्ति कालो हि दुरतिक्रमः ॥' कालकारणिका ये कालकारणमधीयते । ईश्वरकारणिका अप्येवमेव द्रष्टव्याः । तुल्ययोगक्षेमत्वात् । अत्र संप्रतिपत्तिमाह पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपाय: प्रत्ययः ॥ पुरुषकारपूर्वकत्वादिति । कालादुपायतो वार्थसिद्ध्यै तदर्थिनो याः प्रवृतयस्ताः सर्वाः पुरुषकारपूर्विका द्रष्टव्याः । उभयत्रापि पुरुषकारस्य व्याप्रियमाणत्वात् । पुरुषकारथोपायं विना नौथै साधयतीत्युपायः प्रत्ययः । कारणमँर्थसिद्धेरित्यर्थः । यथैव हि पुरुषकारोऽर्थसिद्धौ कालमपेक्षते तथा शक्तिदेशसाँघनान्युपायमपेक्षन्ते । तेषु सर्वेष्वसत्सु कालस्याकिंचित्करत्वात् । असति काले तेषामसामर्थ्यात् । तस्माच्छक्तिदेशकालसाघनानि परस्परापेक्षाणि कार्यस्य साधकानीति तान्येवोपायः । तत्र शक्त्यादिषु पुरुषकारादर्थसिद्धिः । अनन्तगुणेषु त्ववश्यमेव कदाचित्स्याद्यादृच्छिकी कस्यचिदर्थसिद्धिः । सापि यादृच्छिकमेवोपायमाश्रित्य । १. 'इत्यथै लोकप्रसिद्धिमाह' पा०. २. 'पुनरेनम्' पा०० ३. 'अहंप्रकृतोऽपि ' • पा०. ४. 'अप्यत्रैव' पा०. ५. 'नार्थसिद्धिम्' पा०. ६. 'सोऽर्थसिद्धेः' पा०. ७. साधनान्यप्युपायम्' पा०. ८. 'तेषु सत्यु' पा०. ९. 'कार्यसाधकानि' पा०. · १ 1 1 १ साधारणमधिकरणम् । अवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेवं । न निष्कर्मणो भद्र- मस्तीति वात्स्यायनः ॥ अवश्यमिति । यतश्चैवं तस्मान्निष्कर्मण उपायानुष्ठानरहितस्य । भद्रं कल्याणम् । पूर्वजन्मकृतं कर्म निष्फलं प्रसज्येतेति चेत्, न । परस्परापेक्षमुभयं फलतीति द्रष्टव्यम् । यथोक्तम्– 'दैवं मानुषं हि कर्म लोकं पालयति' । एतेन दैवमात्रवादोऽपि प्रत्युक्तः । २ अध्यायः] यदाह२३ कामविप्रतिपत्तिमाह न कामांश्चरेत् । धर्मार्थयोः प्रधानयोरेवमन्येषां च सत प्रत्यनीकत्वात् । अनर्थजनसंसर्गमसद्व्यवसायमशौचमनायति चॅते पुरुषस्य जनयन्ति । न कामानिति । प्रधानयोरिति । ताभ्यां कामोत्पत्तेः । प्रत्यनीकत्वादिति । कामासक्ततया धर्मस्यानाचरणात्, तद्विलोमाचरणाञ्च । अर्थस्यानर्जनात् । मद्यमाटीपारितोषिकासद्व्ययाद्विरोधवर्ती कामः । सतामिति । ज्ञानवृद्धास्तपोवृद्धाः सन्तः कामासक्तं त्यजन्ति । तेषां च प्रत्यनीकवर्तिनोऽनर्थजना नटनर्तकगायनादयः । तैः संपर्क जनयन्ति । असद्व्यवसायमशोभनव्यवसायं निशीथाभिसरणप्राकारलङ्घनादिकम् । अशौचं यथोक्तशौचाकरणात् । अनायतिमप्रभावं कामगर्दम इति । तथा प्रमादं लाघवममत्ययमग्राह्यतां च । तथा प्रमादं शरीरोपघातं परदारादिगमनादौ । लाघवं तारल्यं सहसा प्रवर्तनात् । अप्रत्ययमविश्वासमसत्संगमात् । अमाद्यतां हेयतामपूज्यवृत्तित्वात् । १. 'एव' इति पुस्तकान्तरे नास्ति. २. 'भद्रमिति' पा०. ३. 'धर्मार्थयोरेव प्रधानयोरन्येषाम्' पा०. ४. 'प्रत्यनीकवर्तित्वात्' पा०. ५. 'चैव पुरुषस्यते' पा०. ६. 'आभ्याम्' पा०. ७. 'प्रत्यनीकवर्तित्वादिति' पा०. ८. 'भद्यमास-' पा०. ९. 'दान-' पा०. कामसूत्रम् । २ आदितोऽध्यायः] बेहवथ कामवशगा: सगणा एव विनष्टाः थूयन्ते ॥ बहवोsनेके कामायत्ता विनष्टा इति संबन्धः । सगणाः । न केवलं सेवितारः, तत्परिवारा अपीत्यर्थः । तथा च दृढीकरणार्थमाख्यानकम् - यथा दाण्डक्यो नाम भोजः कामाहाह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्री विननाश ॥ दाण्डक्य इति संज्ञा । भोज इति भोनवंशजः । अभिमन्यमानोऽभिगच्छन् । स हि मृगयां गतो भार्गवकन्यामाश्रमपदे दृष्ट्वा जातरागो रथमारोप्य जहार । ततो भार्गवः समित्कुशानादायागत्य तामपश्यन्नभिध्याय च यथावृत्तं राजानमभिशशाप । ततोऽसौ सबन्धुराष्ट्र: पांसुवर्षेणावष्टव्षो ननाश । तत्स्थानमद्यापि दण्डकारण्यमिति गीयते । देवराजचाइल्यामतिवल कीचको द्रौपदी रावणचे सीतामै परे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचिन्तकाः ॥ देवराज इन्द्रोऽहल्यामभिमन्यमान इत्येव । स हि गौतमाश्रमे तद्भार्यामहल्यां चकमे । ततः समित्कुशानादायागते गौतमे तद्भार्याहल्या शक्रं गर्भस्थमकरोत् । तदैवोपनिमन्त्रणेन गौतमः समार्य एवाश्रमान्तरं गतः । तैंतस्तेन योगचक्षुषा समुपलव्धेन्द्रागमनेनास्मै समुपनायितमासनत्रयं दृष्ट्वा चासौ किमेतद्भार्याद्वितीयस्य ममेति जाताशङ्को ध्यानेन यथावृत्तमवलोक्य रोषात्सहस्रभगो भवेति शशाप । ततोऽसौ देवराजोऽपि कामाद्विनाशप्रख्यां तादृशीमवस्थामाससाद । यस्याद्यापि केलकोऽहल्यायै जार इति नास्तमेति । अतिवलो नागसहस्रबलत्वात् । सोऽपि कामाद्रौपदीममिलपन्मीमसेनेन इत इति प्रतीतमेतत् । विनश्यन्तो दृश्यन्त इत्यत्र प्रत्यक्षं प्रमाणम् । किं तत्र पूर्ववृत्तोदाहरणेनेति मन्यन्ते । १. 'बहवः कामवशगा: सगणा एवाधिनष्टाः' पा०. २. 'कन्यकाम्' पा० ३. 'अभिगम्यमानः : ' पा०. ४. 'च' इति पुस्तकान्तरे नास्ति. ५. 'च' इति पुस्तकान्तरे नास्ति. ६. 'एते' पा०. ७. 'ततोऽनेन' पा०. ८. 'द्वितीयस्येति' पा०. ९. 'कलङ्कमाहुरहल्यायै आर इति नाम'; 'कलङ्कमहल्याये जार इति' पा०. १२ S 7 $ 7 ६ : + २ अध्यायः] ६ १ साधारणमधिकरणम् । यद्येवं तर्हि दोषप्रसङ्ग इत्यत आह र बोद्धव्यं तु दोषेष्विव । नहि भिक्षुकाः सन्तीति स्थाल्यो नाघिश्रीयन्ते । नहि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः ॥ बोद्धव्यमिति । अजीर्णादिदोपेप्विव बोद्धव्यम् । प्रतिविधानमिति शेषः । इदमाह-यत्र वचन दोषप्राप्तिरवश्यं सेव्यश्च कामस्तं दोपप्रतिविधानेन सेवेतेति । अयं च न्यायो लोकेप्वप्यस्तीति दर्शयति त्यादिना । तथा चोक्तम् – 'तृणानामिव हि व्यर्थे नृणां जन्म सुखद्विक पाम् । दोषास्तु परिहर्तव्या इत्याचार्यैः स्थिरीकृतम् ॥ अनुष्ठानलक्षणायाः प्रतिपत्तेः फलमाह -भवन्ति चात्र श्लोकाःनही i एवमर्थ च कामं च धर्म चोपाचरन्नरः । अत्र संप्रतिपत्तिमाह - शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः । फळभूताश्च घ मर्थयोः ॥ आहारसघर्माण इत्याहारतुल्याः । यथाहारोऽजीर्णादिदोपं जनयन्नपि प्रतिदिने शरीरस्थितये सेव्यते तथा कामोऽपि । अन्यथा रागोद्रेकादु- न्मादादिदोषेण न शरीरस्थितिरिति । फलभूताश्च धर्मार्थयोरिति । सुखार्थे धर्मार्थयोः सेवा । तदसेवायां तौ वन्ध्यभूतौ केवलमायासफलौ स्याताम् । तथा चोक्तम् –'धर्ममूलः स्मृतः खर्गस्तत्रापि परमाः स्त्रियः । गृहस्थ- धर्मो दुर्वारो नराणां धर्मयत्नजः ॥ हिताश्चापत्यसंतानेः स्त्रियस्त्विह परत्र च। परं संप्रत्ययो भोगप्रकर्षार्थाय वै स्त्रियः ॥ २५ का० ४ इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते ॥ एवमिति । यथोक्तेन न्यायेन प्रतिष्ठापिताचरणमर्थं प्रागाचरणतः । ततोऽघिगतार्थः कामं धर्मं च । इहामुत्र चेति । इहलोके परलोके न निः। १. 'तत्र' पा०. २. 'शरीरस्य स्थितये' पा०. ३. 'भोगः' पा०. ४. 'तर्हि' इति पुस्तकान्तरे नास्ति ५. 'शेषास्तु' पा०. ६. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति. २६ कामसूत्रम् । २ आदितोऽध्यायः] शल्यं सुखमश्नुत इति । अनुतापाभावात्समग्रो मे पुरुषार्थ इति मनः श्रीतिमवाप्नोतीत्यर्थः । त्रिवर्गे ह्यसेवमानस्य तावदिहलोके नैहिकं सुखमवाप्तमिति विप्रतीसारम्, दुरन्तकामानुबन्धनान्नापि परलोके, न मया मूढेन प्राकृतमवदातं कर्मेति धर्मानुषक्तत्वात् । नास्तिकनिरीहकसुखद्विषस्त्वेकाङ्क्षबिकलत्वात्सशल्यमवाप्नुवन्तीति मन्यते । 'परस्परस्यानुपघातकमन्योन्यानुबद्धम्' इत्युक्तम् तस्यैव संग्रहः श्लोककि स्या॒त्परत्रेयाशङ्का कार्ये यस्मिन्न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥ त्रिवर्गसाधकं यत्स्याइयोरेकस्य वा पुनः । कार्य तदपि कुर्वीत न त्वेकार्य द्विवाधकम् ॥ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिद्वितीयोऽध्यायः । द्वयेनReg ५ किं स्यादिति । उपघातः पूर्वेणोचरस्य, उत्तरेण वा पूर्वस्य । तत्र यस्मिन्कार्यार्थोऽपि साधयिष्यते यस्तत्र किं स्यात् । अपायोऽनपायो वेत्याशङ्का नास्ति । धर्माबाधनात् । यच्च सुखं नायै हन्ति तस्मिन्नर्थे सुखे च शिष्टास्त्रिवर्गविदः स्थिताः । अनुष्ठातुम् । पूर्वबाधके तुन स्थिताः । यस्तु दानेन धर्मोऽर्थे बाधते ब्रह्मचर्येण च विद्याग्रहणमर्थः कामं तस्मिनुत्तरबाधके स्थिता इत्यर्थोक्तम् । 'अपि नाम त्रिवर्गेऽस्मिन्सेवेतोत्तरबाधकम् । पूर्वस्य तु प्रधानत्वान्न सेव्यः पूर्वबाधकः ॥ इति । त्रिवर्गसाधकमिति । धर्मादीनां यदन्यतमं कार्यमनुष्ठेयमात्मन इतरयोस्तु साधकं तत्कुर्वीत । अयमुत्तमः पक्षो द्वयनुबन्धेऽन्तर्भूतः । द्वयोर्वैकस्येति । त्रयाणां यहूयोरात्मन इतरस्य च साधकं तदपि कुर्वीतेति । अयं मध्यमः पक्ष एकानुबन्धेऽन्तर्भूतः । एतदुभयमपि प्रागुदाहृतम् । यदेकस्यात्मन एव साधकं तदपि कुर्वीतेति । अयं जघन्यो निरनुबन्धेऽन्तर्भूतः । तद्यथा-प१. 'प्रतीतिम्' पा०. २. 'त्रयाणा साधकम्' पा०. ३. 'कार्येऽर्थ.' पा०. ४. अनु. ष्ठीयमानेन' पा०. ५. 'तथा' पा०. ३ अध्यायः] १ साधारणमधिकरणम् । २७ श्वानां महायज्ञानां प्रवर्तनं धर्मो निरनुबन्धः । भूम्याद्यर्जनमथ निरनु- बन्धः । परिचारिकायामभिप्रेतायां कामो निरनुबन्धः । अस्मिन्पने पर- स्परस्यानुपघातकं प्रदर्शयन्नाह न त्वेकार्थं द्विवाधकमिति । एक आ त्मैवार्थ: प्रयोजनं यस्य तदेकार्थ द्वयोर्बाधकं न कुर्यात् । अतिदानेन धर्मोऽर्थ बाघते कामं च बाधते । तपसा चात्यन्तसेवितेन कामं बाधित्वा शरीरक्षयादर्थमुपहन्ति । तथार्थस्तादात्मिक उपादीयमानः पुरुषवश इव धर्मकामौ वाधते । कामस्तूत्तमवर्णासु दाण्डक्यस्येवान्यत्र वात्यासेवित उभयं वाघते । यदेकस्य साधकमेन्यस्य बाधकं तत्पूर्वोत्तरबाधापेक्षया कुर्यात् । तेच यथोक्तं प्रागिति ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमद्गलाभिधानायां विदग्धादनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाण्याया साधारणे प्रथमेsधिकरणे त्रिवर्गप्रतिपत्तिद्वितीयोऽध्यायः । तृतीयोऽध्यायः । एवं प्रतिपन्नत्रिवर्गस्य सिद्धौ प्रथम उपायो यद्विद्याग्रहणम् । अगृहीतविद्यस्यानन्तरव्यापारासंभवात् । इति विद्यासमुद्देश उच्यते । समुद्देशन्ध संक्षेपाभिधानम् । निर्देशश्च शास्त्रान्तरादुपदेशाच्चापेक्षणीयः । यथा च तासां ग्रहणं तथा दर्शयन्नाह धर्मार्थाङ्गविद्याकालाननुपरोधयन्कामसूत्रं तदङ्गविद्यार्थी पुरुषो ऽधीयीत ॥ धर्मेत्यादि । तत्र धर्मविद्या श्रुतिः स्मृतिश्च । अर्थविद्या वार्ताशासम् । तयोरङ्गविद्या दण्डनीतिः । योगक्षेमसाधनात् । आन्वीक्षकी तु तत्त्वनिश्रयहेतुत्वात् । तासां प्रधानानां यथास्वमध्ययनकालाननुपरोधयन्नहापयन्, अन्तरान्तरा कामसूत्रमिदमेव तदङ्गविद्याध गीतादिका अधीयीत पाठवणाभ्याम् । । माग्यौवनात्स्त्री । मत्ता च पत्युरभिमायात् । योषितां शास्त्रग्र- हणसभावादनर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः ॥ ● १. 'अपरस्य' पा० २. 'न वा' पा०. ३. 'व्यापारान्तरासभवात्' पा० ४. 'च' इति पुस्तकान्तरे नास्ति ५. 'तु' इति पुस्तकान्तरे नास्ति ६. 'असभवान्' पा०. कामसूत्रम् । ३ आदितोऽध्यायः] प्रागिति । प्राग्यौवनात्स्त्री कामसूत्रं तदङ्गविद्याश्चाधीयीत पितुर्गृह । तरुण्याः परिणीतत्वादखतन्त्रायाः कुतोऽध्ययनम् । 'युवतिः' इति कान्तरम् । तत्र स्त्रीपर्यायो द्रष्टव्यः । प्रत्ता चेति । प्रकर्पेण दत्ता । डायामेव 'अच उपसर्गात्तः' इति तत्त्वम् । ऊढेत्यर्थः । त्रिविधं दानम्, सा वाचा कर्मणा चेति । पत्युरभिप्रायादिति । यदा पत्यानुज्ञाता तयीत । अन्यथा स्वैरिणीत्याशङ्कनीया स्यात् । शास्त्रग्रहणस्याभावाते । तासां शास्त्रानधिकारात्, शास्त्रं प्रहीतुमसमर्थत्वाच्च । इहेति । मशास्त्रे स्त्रियमुद्दिश्य शासनम्, इदं कार्यमिदं नेत्येवंरूपम्, उपदेष्टुमनइत्याचार्या मन्यन्ते । प्रयोगग्रहणं त्वासाम् । प्रयोगस्य च शास्त्रपूर्वकत्वादिति वा- यनः ॥ प्रयोगग्रहणमिति । प्रयुज्यत इति प्रयोगोऽर्थस्तग्रहणं तासाम् । ज्ञेभ्यो मा भूच्छास्त्रग्रहणम् । स च योषिदुपयोगीति शास्त्रेणावेदितः मन्यैरुपदिश्यते तस्मान्नानर्थकं स्त्रीशासनम् । तंत्र केवलमिदैव । सर्वत्र हि लोके कतिचिदेव शास्त्रज्ञाः । स- नविषयथ प्रयोगः ॥ तन्न केवलमिहैवेति । तत्प्रयोगग्रहणं न केवलमिहैवास्मिन्नेव काम। सर्वत्र हीति । हिशब्दो हेतौ । सर्वेषु व्याकरणज्योतिःशास्त्रादृश्यते, तदेव दर्शयति – लोक इत्यादिना । कतिचिदेव शास्त्रज्ञा ये हणसमर्थाः । तेभ्यः समर्थैरसमर्थैश्च प्रयोगो गृह्यत इति सर्वजनवि। प्रयोगग्रहणं च शास्त्रग्रहणात्प्रधानम् । गृहीतस्यापि शास्त्रस्य प्रज्ञानफलत्वात् । प्रयोगस्य च दूरस्थमपि शास्त्रमेव हेतुः ॥ प्रयोगस्य चेति । गृहीतशास्त्रस्य दूरस्थमपीति शास्त्रज्ञजैनाधार[ । विप्रकृष्टमपि शास्त्रं पारम्पर्येण हेतुः । एकः शास्त्रज्ञः प्रयोगं ति, ततोऽन्यः, ततोऽन्य इति । • 'तत्' इति पुस्तकान्तरे नास्ति. २. 'सर्वत्रैव' पा०. ३. 'जनसाध्यत्वात्' पा०. ३ अध्याय:] १ साधारणमधिकरणम् । अत्र दृष्टान्तमाह अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका केहं ऋतुपु प्रयुञ्जते ॥ अस्तीति । शब्देनाचोदितार्थस्य युक्त्या विमृश्य चै स्थापनमूहः । स च प्रातिपदिकलिङ्कवचनान्तरोपादानेन व्याकरणे उक्तः । तद्वयाकरणमस्ति । यतोऽयमूहः पारम्पर्याशयात्, इत्यवैयाकरणा अपि याज्ञिकास्तं ऋतुपु प्रयुञ्जते । तद्यथा— 'आग्नेयमष्टाकपालं पुरोडाशं निर्वपेत्' इति प्रकृतिप्रयोगः । 'सौर्ये चरुं निर्वपेद्रह्मवर्चसकामः' इति विकृतिप्रयोगः । अत्र सूर्यमुद्दिश्योहः । निर्वपेदिति लिङ्गात् । सौर्य चरुं निर्वपेदाम्मेयवदिति । तथाश्वारोहा नयन्ते ॥ २९ अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते ॥ पुण्याहेष्विति । अस्ति ज्यौतिपमित्यज्यौतिषिका अपि कुतश्चिदुपलभ्य शस्तदिनेषु कर्म कुर्वते । तत्र शास्त्रमेव हेतुः । गैंजारोहाश्वाश्वान्गजांश्चानधिगतशास्त्रा अपि वि- तथेति । अनधिगतशास्त्रा इति । हस्त्यश्ववैद्यकं हॅस्तिशिक्षेत्यन- धीत्याम्नायात्, पोषणदम्यादिकं कर्म कुर्वत इत्येव । तत्रापि शास्त्रमेव हेतुः । न शास्त्रं एवायं न्यायो यद्दूरस्थमपि हेतुः । किं तु लोकेऽपीत्याह- तथास्ति राजेति दूरस्था अपि जनपदा नै मर्यादामतिवर्तन्ते तदेतत् ॥ अस्ति राजेति । दूरस्था अदृष्टराजत्वात् । अस्ति व्यवस्थापकः, यत इयं व्यवस्थेति तद्भयान्न मर्यादामतिक्रामन्ति । तहदेतदिति दान्तिफे योजनीयम् । १. 'तत्र' पा०. २. 'कहान्कतुषु साधुशब्दान' पा०. २. 'च' इति पुरुष कान्तरे नास्ति. ४. 'हस्त्यारोहावाश्वान्गजोश्वानधीत्यापि मम्' पा०. ५.१० स्तिशास्त्रमनधीत्य' पा० ६. 'मर्यादा नास्ति' पा०. ● ३ आदितोऽध्यायः] कामसूत्रम् । अथवास्त्येव शास्त्रग्रहणं कासांचिदित्याह- सन्त्यपि खल शास्त्रमहतबुद्धयो गणिका राजपुत्र्यो महामात्र- दुहितरच ॥ सन्त्यपीति । शास्त्रेण महता खिन्ना बुद्धिर्यासामिति । महामात्रेति । महती मात्रा येषामिति सामन्ता महासामन्ता वा । हस्तिशिक्षायां वा तल्लक्षणमनुसर्तव्यम् । तस्माद्वैश्वासिकाज्जनाइसि भैयोगाञ्छास्त्रमेकदेशं वा स्त्री गृह्णीयात् ॥ तस्मादिति । यस्मात्प्रयोगग्रहणं शास्त्रग्रहणं चोभयं तस्मात् । वैश्वासिकाद्विश्वासार्हात् । लज्जानिवृत्त्यर्थम् । प्रयोगान्, या शास्त्रग्रहणासमर्था दुर्मेधा । शास्त्रम्, तद्ब्रहणसमर्था मेधाविनी । शास्त्रैकदेशं वा संप्रयोगाङ्गं या मध्यमेधाविनी सा गृह्णीयात् । अभ्यासप्रयोज्यां चातुःषष्टिकान्योगान्कन्या रहस्येकाकिन्य- भ्यसेत् ॥ अभ्यासेति । चातुःषष्टिकांश्चतुःषष्टिभवान् । कन्येति । तदानीम- भ्यस्तं यौवने प्रयुज्यते । रहसीति लज्जानिवृत्त्यर्थम् । एकाकिन्याचार्य- निरपेक्षा ॥ कः पुनर्वैश्वासिक इत्याह — आचार्यास्तु कन्यानां प्रवृत्त पुरुषसंमेयोगा संहसंग्रवृद्धा धात्रे- यिका । तथाभूता वा निरत्ययसंभाषणा सखी । सँवयाच मातृ- ष्वसा । विस्रब्धा तत्स्थानीया वृद्धदासी । पूर्वसंसृष्टा वा भिक्षुकी । स्वसा च विश्वासप्रयोगात् ॥ १. 'रइसि' इति पुस्तकान्तरे नास्ति. २. 'प्रयोगात्' पा०. ३. 'च' इति पुस्तकान्तरे नास्ति. ४. 'प्रयोगान्' पा०. ५. 'संयोगा' पा०. ६. 'सहसंवृद्धा' पा०. ७. 'समानवया मातृष्वसा' पा०. ८. 'वा' इति पुस्तकान्तरे नास्ति . ९. 'विश्वासयोगात्' पा०. ३ अध्यायः] १ साधारणमधिकरणम् । ३१ आचार्यास्त्विति । तुशब्दो विशेषणार्थः । पुरुषाणां स्वातन्त्र्यात्सु लभा उपदेष्टारः । तत्र प्रवृत्तपुरुषसंप्रयोगा । पुरा चानुभूतरसत्वाढभिज्ञा । धात्रेयिका धात्र्या अपत्यम् । सा हि सहसंप्रवृद्धत्वाद्विश्वास्या । ईत्येक आचार्यः । तथाभूता चेति । प्रवृत्तपुरुषसंप्रयोगा सखी वा । निरत्ययति । निर्दोषसंभाषणत्वाद्विश्वास्या । इति द्वितीया । सवयाश्चेति तुल्यवयाः प्रीतिविश्वासयोरास्पदम् । चशब्दात्तथा भूतेति वर्तते । मातृप्वसा मातुर्भगिनी । इति तृतीया । विस्रव्धेति । विश्वस्ता । तत्स्थानीया मातृष्वसतुल्या मातृभगिनीत्वेन गृहीता वृद्धदासी विदितवहुवृत्तान्ता । इति चतुर्थी । पूर्वसंसृष्टा पूर्व यया सह प्रीतिरुपन्ना सा विश्वास्या भिक्षुकी भिक्षणशीला या काचित्सा देशहिण्डनकुशला । इति पञ्चमी । स्वसा च ज्येष्ठा भगिनी । विश्वासप्रयोगादिति । यदा तत्समक्षं विश्वासात्पुरुपान्तरेण संप्रयुक्ता स्यात् । अन्यथा खसा खसारमपि नेर्प्यया शिक्षयति । इति षष्ठी । इत्युक्तम् । ग्रहणं कामसूत्रं तदगविद्याः । तासामङ्गविद्यानामयमु द्देशः । शास्त्रान्तरे चतुःषष्टिर्मूलकला उक्ताः । तत्र कर्माश्रया चतुर्विशतिः । तद्यथा – गीतम्, नृत्यम्, वाद्यम्, लिपिज्ञानम्, वचनं चोदारम्, चित्रविधिः, पुस्तकर्म, पत्रच्छेद्यम्, माल्यविधिः, आस्वाद्यविधानम्, रैलपरीक्षा, सीव्यम्, रङ्गपरिज्ञानम्, उपकरणक्रिया, मानविधिः, आजीवज्ञानम्, तिर्यग्योनिचिकित्सितम्, मायाकृतं पापण्डसमयज्ञानम्, क्रीडाकौशलम्, लोकज्ञानम्, वैचक्षण्यम्, संवाहनम्, शरीरसंस्कारः, विशेषकौशलं चेति । द्यूताश्रया विंशतिः । तत्र निर्जीवाः पञ्चदश । तद्यथा - आयुःप्राप्तिः, अक्षविधानम् रूपसंख्या, क्रियामार्गम्, वीजग्रहणम् नयज्ञानम् करणादानम्, चित्राचित्रविधिः, गूढराशिः, तुल्यामिहारः, क्षिप्रग्रहणम्, अनुप्राप्तिलेखास्मृतिः, अभिक्रमः, छलव्यामोहनम्, ग्रहदानं चेति । सजीवाः D — 19 • १. 'इत्येकसबन्ध आचार्य:' पा०. २. 'भगिनीति गृहीता' पा०. ३० ३. हुवृत्ता' पा०. ४. 'चोदारचित्रविधिः' पा०. ५. 'आश्रव्यविधानम्' पा०. ६. हपरीक्षा' पा०. ७. 'यानविधि ' पा० ८. 'वैवक्षसवाटनम' पा०. ३२ कामसूत्रम् । ३ आदितोऽध्यायः ] युद्धम् रुतम्, गतम्, नृत्तं चेति । श 9 पञ्च-उपस्थानविधिः, यनोपचारिकाः षोडश । तद्यथा – पुरुषस्य भावग्रहणम्, स्वरागप्रकाशनम्, प्रत्यङ्गदानम्, नखदन्तयोर्विचारौ, नीबीसंसनम्, गुह्यस्य संस्पर्शनानुलोम्यम्, परमार्थकौशलम्, हर्षणम्, समानार्थताकृतार्थता, अनुप्रोत्साहनम्, मृदुक्रोधप्रवर्तनम्, सम्यकोषनिवर्तनम्, क्रुद्धप्रसादनम्, सुप्तपरित्यागः, चरमस्खापविधिः गुह्यगूहनमिति । चतत्र उत्तरकलः । तद्यथा-साश्रुपातं रमणाय शापनम्, स्वशपथक्रिया, प्रस्थितानुगमनम्, पुनः पुनर्निरीक्षणं च । इति चतुःषष्टिर्मूलकलाः । आस्वेवान्तरनिविष्टानामन्तरकलानामष्टादशाधिकानि पञ्चशतान्युक्तानि । तत्र कर्मद्यूताश्रयाः प्रायश आबालं गच्छन्ति । ता एवान्यथा विभज्य चतुःषष्टिरत्रोक्ता । यास्तु शयनोपचारिका उत्तरकलाब्ध ताः प्रायशस्तंन्त्रस्याङ्गतां प्रतिपद्यन्ते । इति पाञ्चालिक्यामेव चतुःषष्ट्यामन्तरकला वेदितव्याः । ताश्च यथाप्रस्तावं वक्ष्यन्ते । तत्राप्यौपॅयिकीं चतुःषष्टिमाह गीतेम्, वाद्यम्, नृत्यम्, आलेख्यम्, विशेषकच्छेद्यम्, तण्डुलकुसुमवॅलिविकाराः, पुष्पास्तरणम्, दशनवसनाङ्गरागंः, मणिभूमिकाकर्म, शयनरचनम्, उदकवाद्यम्, उदकाघातः, चित्राश्च योगा, माल्यग्रथनविकल्पाः, शेखरैकापीडयोजनम्, नेपथ्यमयोगाः, कर्णपत्रभङ्गाः, गन्धयुक्तिः, भूषणंयोजनम्, · - १. 'प्रदर्शनम्'; 'प्रमर्दनम्' पा०. २. 'सुप्तापरित्यागः'; 'शय्यापरित्यागः' पा०. ३. 'तत्तस्य' पा०. ४. 'औपकीम्' पा०. ५. 'तद्यथा-गीतम्' पा० ६. पुस्तकान्तरे 'वाद्यम्' इत्यस्य स्थाने 'नाट्यम्' इत्यस्ति ७. भास्करनृसिंहशास्त्रिप्रणीताथां वृत्तौ मूलपुस्तकान्तरे च 'नृत्यम्' इत्यस्मादमे 'नाट्यम्' इत्यधिकमस्ति ८ वॄत्तिकारस्तु 'वालिविकाराः' इति पठति व्याख्याति च-तण्डुलाब कुसुमानि च, तैर्वालिविकाराः कर्णभूषाविशेषरचनाः' इति ९. 'पुष्पास्तरकः' पा० १०. 'रागाः' पा०. ११. 'उदकघातः' पा०. १२. 'चित्रा योगाः' पा०. १३. 'शेखरापीडयोजना'; 'शेखरापीडयोजनम्' पा०. १४. 'संप्रयोगाः'; 'योगा:' पा०. S ३ अध्यायः] - १ साधारणमधिकरणम् । ऐन्द्रजालाः, कोचुमाराथ योगाः, इस्तलाघवम् विचित्रशाकयुपानकरसरागासवयोजनम्, पभक्ष्यविकारक्रिया, र्माणि, सूत्रक्रीडा, माला, दुर्वाचकयोगाः, र्शनम्, काव्यसमस्यापूरणम्, मूँचीवानकवीणाडमरुकवाद्यानि, महेलिका, प्रतिपुस्तकवाचनम्, नाटकाख्यायिकादपट्टिकावेत्रवानविकल्पाः, तेक्षकर्माणि, तक्षणम्, वास्तुविद्या, रूप्यरत्नपरीक्षा, धातुवादः, 'मणिरागाकरज्ञानम्, वृक्षायुर्वेदयोगाः, मेपकुक्कुटलावकयुद्ध२. 'कुचुमाराध विधिः, शुकसारिकामलापनम्, उत्सादने संवाहने केशमर्दने च कौशलम् अक्षरमुष्टिकाकथनम्, म्लेच्छिंत विकल्पा:, देशभापाविज्ञानम्, पुष्पशकटिका निमित्तज्ञानम्, यन्त्रमाठका, धारणमातृका, संर्पोठ्यम्, मॉनसी, काव्यक्रिया, अभिधानकोपः, छन्दोज्ञानम्, क्रियाकल्पः, छलितकयोगाः, वस्त्रगोपनानि, धूतिविशेपाः, आकर्षक्रीडा, बौंलक्रीडनकानि, वैनयिकीनां १. 'ऐन्द्रजालिकम्'; 'इन्द्रजालम्'; 'ऐन्द्रजाल.' पा.. योगाः'; 'कौचुमारयोगाः' पा०. ३. 'चित्रशाकपूपभक्ष्यविकारक्रिया: ' पा०. ४. 'पानकरसासवरागयोजनानि' पा० ५. 'सूचीवाप-'; 'सूचीवाण-'; 'सूचीसंधान - पा०. पुस्तकान्तरे च 'सूचीवानकर्मसूत्रकीठा' इत्येक पदम ६. 'वीणाडमरुकवाद्यानि' इति पुस्तकान्तरे नास्ति. ७. 'दुर्वमनयोगा' पा. ८ 'प ठिकावेत्रवाणविकल्पाः' पा०. ९. 'तर्कुकर्माणि' पा०. १०. 'सुवर्णरुप्य' पा ११. वृत्तिकारस्तु 'मणिरागज्ञानम्' इति 'आकरज्ञानम् इति च पृथकृत्वा द्वय पठति. अन्येष्वपि केषुचित्पुस्तकेषु कलाद्वयमेव दृश्यते. १२. मूलपुस्तकान्तरे 'उत्सादनम्' इति, 'केशमार्जनकौशलम्' इति च पृथक्लाद्वय पटते. वृत्तिारस्तु – 'उत्सादने केशमर्दने च कौशलम्' इति पठति. १३. 'म्लेच्छितक-' पा०. १४. 'देशभाषाज्ञानम्' पा०. १५. वृत्तिकारस्तु 'निमित्तनानम्' इति 'धृतविदोपा.' इत्यस्मादनन्तरं पठति. १६. 'संवाच्यम्' पा०. १७. 'मानसी चिन्ता' पा०. पुन्नकान्तरे 'मानसी काव्यक्रिया' इति समुदित पठाते. १८. मूलपुलकेषु वृत 'अभिधानकोषच्छन्दोज्ञानम्' इति समुदित पटते. भाति चोचितमेवमेव. न्दोविज्ञानम् पा०. २०. 'क्रियाविकल्पा.' पा०. २१. २२. 'बालकक्रीडितकानि' पा०. २३. 'वैनायिकीना विद्यानां ज्ञानम्', 'वैजयिनरीना विद्यानां ज्ञानम्'; 'वैतालिकीना विद्याना ज्ञानम् पा०. पुन्वसन्तरे 'वैतालिनीनाम्' इत्यस्य स्थाने 'वैयासिकीनाम्' इति पाठोऽस्ति. १९.८. 'घृतविशेषः' पा०. का० ५ ३३ कामसूत्रम् । ३ आदितोऽध्यायः] वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुः- षष्टिरङ्गविद्या: कामसूत्रस्यावयविन्यः ॥ Spe गीतमित्यादि । गीतवाद्यनृत्यालेख्यानि चत्वारि प्रायः स्वशास्त्रविहितप्रपञ्चानि । तथापि संक्षेपतः कथ्यन्ते – 'स्वरगं पदगं चैव तथा लयगमेव च । चेतोवैधानगं चैव गेयं ज्ञेयं चतुर्विधम् ॥ घनं च विततं वाद्यं ततं सुषिरमेव च । कांस्यपुष्करतत्रीभिर्वेणुना च यथाक्रमम् ॥ करणान्यङ्गहाराध विभावो भाव एव च । अनुभावो रसाश्चेति संक्षेपानृत्यसंग्रहः ॥' तद्विविधम् नाट्यमनाट्यं चेति । तथोक्तम् –'खर्गे वा मर्त्यलोके वा पाताले वा निवासिनाम् । कृतानुकरणं नाट्यमैनाट्यं नर्तकाश्रितम् ॥ इति । तन्त्रान्तरे तु नृत्यभेदज्ञापनार्थमेव पृथङ्नाट्यकलोक्तेति विज्ञेयम् ॥ आलेख्यमिति । 'रूपभेदाः प्रमाणानि भावलावण्ययोजनम् । सादृश्यं वर्णिका भङ्ग इति चित्रं षडङ्गकम् ॥" इति । एतानि परानुरागजननान्यात्मविनोदार्थानि च ॥ विशेषकच्छेद्यमिति । विशेषकस्तिलको यो ललाटे दीयते, तस्य भूर्जादिपत्रमयस्यानेकप्रकारं छेदनमेव च्छेद्यम् । पत्रच्छेद्यमिति वक्तव्यम् । वक्ष्यति च – 'पत्रच्छेद्यानि नानाभिप्रायाकृतीनि प्रेषयेत्' इति । सत्यम् । विशेषकग्रहणमादरार्थम् । विलासिनीनामतिप्रियत्वात् ॥ तण्डुलकुसुमवलिविकारा इति । अखण्डतण्डुलैर्नानावर्णैः सरस्वतीभवने कामदेवभवने वा मणिकुट्टिमेषु मक्तिविकाराः । तथा कुसुमैर्नानावर्णैर्मथितैः शिवलिङ्गादिपूजार्थ भक्तिविकाराः । अत्र ग्रथनं माल्यग्रथन एवान्तर्भूतम् । भक्तिविशेषेणावस्थापनं कलान्तरम् ॥ पुष्पास्तरणमिति । यन्नानावर्णैः पुष्पैः सूचीवानादिबद्धैरभ्यस्यते तदेव । वासगृहोपस्थानमण्डपादिपु यस्य पुष्पशयनमित्यपरा संज्ञा ॥ दशनवसनाङ्गराग इति । रागशब्दः प्रत्येकं योज्यते । तत्राङ्गरागोऽङ्गमार्टि: कुङ्कुमादिना । रञ्जनविधिरिति वक्तव्ये दशनादिग्रहणमादरार्थम् । विलासिनीनां दश१. 'इति कामसूत्राइविद्या.' इत्येव पाठो वृत्तौ बहुपु मूलपुस्तकेषु च दृश्यते. २. 'चेतोविधानगं चैव गेयं ब्रूयुः' पा०. ३. 'न नाढ्यं नर्तकाश्रयम्' पा०. ४. वि. नोदात्मकानि च' पा०. ५. 'सूचीवाणादि-' पा०. ३ अध्याय:] १ साधारणमधिकरणम् । ३५ p नादिसंस्कारस्यात्यन्ताभीष्टत्वात् । इति ॥ मणिभूमिकाकर्मेति । मणिभूमिका कृतकुट्टिमा भूमिः । ग्रीप्मे शयनापानकार्थ तस्यां मरकतादिभेदेन करणम् ॥ शयनरचनमिति । शयनीयस्य कालापेक्षया रक्तविरक्तमध्यस्याभिप्रायादाहारपरिणतिवशाच रचनम् ॥ उदकवाद्यमिति । उढ़के मुरजादिवद्वाद्यम् ॥ उदकाघात इति । हस्तयन्त्रमुक्कैरुदकैस्ताडनम् । तदुभयं जलक्रीडाङ्गम् ॥ चित्राश्च योग, इति । नानाप्रकारदौर्भाग्यैकेन्द्रियपलितीकरणादयः । ईर्ष्यया पैरातिसंधानार्थाः । तानौपनिपदिके वध्यति । एते च कौचुमारयोगेपु नान्तर्भवन्तीति पृथगुक्ताः । कुचुमारेण तेपामनुक्तत्वात् ॥ माल्यग्रथनविकल्पा इति । माल्यानां मुण्डमालादीना देवतापूजनार्थ नेपथ्यानां ग्रथनविकल्पाः ॥ शेखरकापीडयोजनमिति । ग्रथनविकल्प एवायम् । किं तु योजनं कलान्तरम् । तत्र शेखरकस्य शिखास्थानेऽवलम्वनन्यासेन परिधापनात् । आपीडस्य च मण्डलाकारेण अथितस्य काठिका (?) योगेन परिधापनात् । नानावर्णैः पुप्पैर्विरचनं योजनम् । पुनर्विरचनवचनमादरार्थम् । तदुभयं नागरकस्य प्रधानं नेपथ्यागम् ॥ नेपथ्यप्रयोगा इति । देशकालापेक्षया वस्त्रमाल्याभरणाढिभिः शोभार्थे शरीरस्य मण्डनाकाराः ॥ कर्णपत्रभङ्गा इति । दन्तशङ्खादिभिः कर्णपत्रविशेषा नेपथ्यार्थाः ॥ गन्धयुक्तिरिति । स्वशास्त्रविहितप्रपञ्चा प्रतीतप्रयोजनैव ॥ भूषणयोजनमिति । अलंकारयोगः । स द्विविधः, संयोज्योऽसंयोज्यश्च । तत्र संयोज्यस्य कण्ठिकेन्द्रच्छन्दादेर्मणिमुक्ताप्रवालादिभियांजनम् । असंयोज्यस्य कटकर्कुण्डलादेविरचनं योजनम् । तदुभयं नेपथ्याङ्गम् । न तु शरीरे भूषणयोजनम् । तस्य नेपथ्यप्रयोगा इत्यनेनैव सिद्धत्वात् ॥ ऐन्द्रजाला इति । ईन्द्रजालादिशासप्रभवा योगाः । सैन्यदेवालयादिदर्शनादहंभावविस्मापनार्थाः ॥ कौचुमारा इति । कुचुमारस्यैते सुभगंकरणादयः उपायान्तरासिद्धसाधनार्थाः ॥ हस्तलाघवमिति । सर्वकर्मसु लघुहलता । i : १. 'कारणम्' पा०. २. 'पराभिसंधानार्थी.' पा०. ३. काहिकायोगेन' पा०. ४. 'शङ्खभङ्गादिभिः' पा०. ५. 'कुण्डलादिरचनम्' पा०. ६. 'ऐन्द्रजातारि-' पा०. ७. 'सैन्यवलयादि-' पा०. कामसूत्रम् । ३ आदितोऽध्यायः] कालातिपातनिरासार्थम् । द्रव्यहानिषु वा लाघवं क्रीडार्थ विस्मापनार्थं च ॥ विचित्रशाकयूषभक्ष्यविकारक्रिया, पानकरसरागासवयोजनमिति । चतुर्विध आहारः, भक्ष्यभोज्यलेह्यपेयमिति । तत्र भोज्यम् –भक्तव्यञ्जनयोर्व्यञ्जनराधनं प्रायशो न सुज्ञानमिति व्यञ्जनाग्र्यस्य शाकस्योपादानेन दर्शयति । तत्र शाकं दशविधम् । यथोक्तम् – 'मूलपत्रकरीराग्रफलकाण्डप्ररूढकम् । त्वक्पुप्पं कण्टकं चेति शाकं दशविधं स्मृतम् ॥' पेयं द्विविधम्, अग्निनिष्पाद्यमितरच्च । तत्र पूर्वे यूषाख्यम् । तच्च द्विविघम्, मुद्गादिनिर्यूहकृतं क्वाथरसं च । भक्ष्यं खण्डखाद्यादि । एषां नानाप्रकाराणां क्रिया पाकविधानेन निष्पादनम् । यदनभिनिष्पादनं पेयं तद्विविधम्, संघानकृतमितरच्च । तत्राद्यं द्रावितमद्रावितं च । तत्र यद्गुडतिन्तिडिकादिजलेन सैंयोज्य क्रियते तद्रावितं पानकाख्यम् । यदद्भावकोष घेन तालमोचाफलानि संयोज्य निष्पाद्यते तदद्रावितं रसाख्यम् । आसवग्रहणेन संघानमुपलक्षयति । तन्मृदुमध्यतीक्ष्णसंघानयोजनात्तथाविघमेव निष्पाद्यते । रागग्रहणं लेह्यं सूचयति । तस्य त्रैविध्यात् । तथा चोक्तम् – 'रागो रागविधानशैलेंसश्चूर्णो द्रवः स्मृतः । लवणाम्लकटुखाद ईषन्मधुरसंयुतः ॥' इति । एतच्चतुर्विधमाखाद्यकलायाः प्रपञ्चितं शरीर स्थित्यर्थम् । योगविभागोऽग्निजानग्निजकर्मदर्शनार्थः । तत्र पाकेन शाकादिक्रिया । विना पाकेन पानकादियोजनम् । अन्यथा ह्यास्त्राद्यविघिरित्युक्तं स्यात् । तस्मात्कर्मभेदादाखाद्यविधानज्ञोऽपि द्विविधः । तद्वशादेकापि कला द्विघाकृत्योक्ता ॥ सूचीवानकर्माणीति । सूच्या यत्संधानकरणं तत्सूचीवानं त्रिविधम् – सीवनम्, ऊतनम्, विरचनम् । तत्राद्यं कञ्चकादीनाम् । द्वितीयं त्रुटितवस्त्राणाम् । तृतीयं कुथास्तरणादीनाम् । इयं प्रतीतार्थैव ॥ सूत्रक्रीडेति । नालिकासंचारनालादिसूत्राणामन्यथान्यथा दर्शनम् । १. 'यदभि - ' पा०. २. पा०. ५. 'यथोक्तम्' पा०. पा. 'प्रयोज्य' पा. ३. 'यद्रावकौपधेन' पा०. ४. 'क्रियते' ६. 'शाकादिक्रियां विना' पा०. ७. 'अन्यथाखाद्य-' 'भूनयनम्' पा० ९. 'तालादि-' पा०. ३ अध्यायः] १ साधारणमधिकरणम् । छित्त्वा दग्ध्वा च पुनरच्छित्त्वादग्ध्वा दर्शनम् । तच्चाङ्गुलिन्यसात् । देवकुलादिदर्शनम् । इत्येवंप्रकारा क्रीडार्थेव ॥ वीणाडमरुकवाद्यानीति । वादित्रान्तर्गतत्वेऽपि तन्त्रीवाद्यं प्रधानम् । तत्रापि वीणावाद्यम् । डमरुकवाद्यमावश्यकार्थम् । बालोपक्रमहेतुत्वाद्दुर्विज्ञेयत्वाच्च । ततो ह्यक्षराणि स्पष्टान्युच्चार्यमाणानि श्रूयन्ते ॥ प्रहेलिकेति । लोकप्रतीता क्रीडार्था वादार्था च ॥ प्रतिमालेति । यस्या अन्त्याक्षरिकेति प्रतीतिः । सा क्रीढार्था वाढार्था च । यथोक्तम् – 'प्रतिश्लोकं क्रमाद्यत्र संधायाक्षरमन्तिमम् । पठेतां लोकमन्योन्यं प्रतिमालेति सोच्यते ॥ इति ॥ दुर्वाचकयोगा इति । श ब्दतोऽर्थतश्च दुःखेनोच्यत इति दुर्वाचकम् । तस्य प्रयोगाः क्रीडार्था वादार्थाश्च । यथा काव्यादर्शे– 'दंष्ट्राग्रद्धर्चा प्राग्यो द्राक्क्ष्मामम्च्वन्तः स्थामुच्चिक्षेप । देवध्रुक्षिद्धवृत्विक्स्तुत्यो युष्मान्सोऽव्यात्सर्पात्केतुः ॥' इति । अस्यार्थ: – दंष्ट्राग्रस्य ऋद्धया प्राक्पूर्व द्राक्शीघ्रं क्ष्मां पृथ्वीमम्ब्वन्तःस्थां पातालस्थामुच्चिक्षेपोत्क्षिप्तवान् । देवान्द्रुयन्तीति देवद्रुहोऽसुरास्तान्क्षिणोतीति देवश्रुक्षित् । हिशब्दः पादपूरणे । ऋत्विग्भिः स्तुत्यः । सर्पानतीति सर्पाद्गरुडः स केतुर्ध्वजो यस्येति ॥ पुस्तकवाचनमिति । भरतादिकाव्यानां पुस्तकस्थानां शृङ्गारादिरसापेक्षया गीततः खरेण वाच नम् । अनुरागजननार्थमात्मविनोदाथै च ॥ नाटकाख्यायिकादर्शनमिति । काव्येषु गद्यपद्येषु नाटकस्य बहुप्रपञ्चत्वात्, आख्यायिकायाश्च प्रधानगद्यत्वाद्दर्शनं परिज्ञानमिति । आदरार्थ विशेपाभिधानम् । काव्यदर्शनमिति नोक्तम् । तत्र नाटके दश रूपकाणि । यथोक्तम् – 'नाटकमको वीथी प्रकरणमीहामृगो डिमो भाणः । व्यायोगसमवकारौ प्रहसनमिति नाटकविकल्पाः ॥' काव्यसमस्यापूरणमिति । समस्यते संक्षिप्यत इति समस्या । हूं हासामान्यात् 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न भवति । यद्वा 'कृ त्यल्युटो बहुलम्' इत्यन्यप्रकृतेरपि यत् । बहुलग्रहणात् । काव्यस्य tag १. 'न्यासादेव कुलादि-' पा०. २. 'पुनर्विज्ञेयत्वात्' पा०. ३. 'चपा चोसम्' पा०. ४. 'पातालस्थाम्' इति पुस्तकान्तरे नास्ति. ५. 'इहासामान्यतरस्याम्' पा०. ६. 'यत्' इति पुस्तकान्तरे नास्ति. ३८ कामसूत्रम् । ३ आदितोऽध्यायः] लोकस्य समस्या पाद इत्यर्थः । तस्या पूरणं क्रीडायै वादार्थं च । तद्यथा काव्यादर्श – 'आश्वासं जनयति राजमुख्यमध्ये' इति । अयं वा (पा) द उद्योगपर्वणि विष्णुयाने त्रिभिः पादैः संग्रथितव्य इति समस्या दत्ता । तत्र त्रयः पादाः – 'दौत्येन द्विरदपुरं गतस्य विष्णोर्बन्धार्थं प्रतिविहितस्य धार्तराष्ट्रैः । रूपाणि त्रिजगति भूतिमन्ति रोषादाश्वासञ्जनयतिराजमुख्यमध्ये ॥ इत्यादि । अत्र विष्णोर्बन्धार्थ दुर्योधनादिभिर्मनः कृतः । त्रिषु लोकेषु भूतिमन्ति रूपाणि [आशु] शीघ्रमासन्बभूवुः । जनस्य समागतस्य, यतीनां रामकर्णादीनाम्, राजमुख्यानां वाहीकप्रभृतीनां च मध्य इति । एताः प्रहेलिकादयः षड् वचनकौशलान्तराः कला इह प्रायश उपयुज्यन्त इति संगृहीताः ॥ पट्टिकावेत्रवानविकल्पा इति । पैट्टिका छुरिका (?) । पट्टिकाया वानविकल्पाः खट्टाया आसनस्य च वेत्रैर्वा नविकल्पाः प्रतीतार्थाः ॥ तक्षकमाणीति । कुन्दकर्माण्यपद्रव्यार्थानि ॥ तक्षणमिति । वर्धकिकर्म । शयनासनाद्यर्थम् ॥ वास्तुविद्येति । ग्रहकर्मोंपयोगिनी ॥ रूप्यरत्नपरीक्षति । रूप्यमाहतद्रव्यं दीनारादि, रत्नं वज्रमणिमुक्तादि, तेषां गुणदोषमूल्यादिमिः परीक्षा व्यवहाराङ्गम् ॥ धातुवाद इति । क्षेत्रवादः । स हि मृत्प्रस्तररनधातूनां पातनशोघनमेलनादिज्ञानहेतुरर्थार्थः ॥ मणिरागाकरज्ञानमिति । स्फटिकमणीनां रञ्जनविज्ञानमर्थार्थ भूषणार्थं च । पद्मरागादिमणीनामुत्पत्तिस्थानज्ञानमर्थार्थम् ॥ वृक्षायुर्वेदयोगा इति । रोपणपुष्टिचिकित्सावैचित्र्यकृतो गृहोद्यानार्थाः ॥ मेषकुक्कुटलावकयुद्धविधिरिति । सजीवधूतविधानमेतत् । तत्रोपस्थानादिभिश्चतुरङ्गैर्युद्धविधानं क्रीडाथै वादार्थं च ॥ शुकसारिकाप्रलापनमिति । शुकसारिका हि मानुषभाषया प्रलापिताः सुभाषितं पठन्ति संदेशं च कथयन्ति ॥ उत्सादने संवाहने केशमर्दने च कौशलमिति । मर्दनं द्विविधम्, पादाभ्यां हस्ताभ्यां च । तत्र पादाभ्यां यन्मर्दनं तदुत्सादनमुच्यते । हस्ताभ्यां १. 'वाण' पा०. २. 'छुरिका पट्टिका'; 'छुरिकायावानविकल्पाः' पा०. ३. 'विकल्पार्थाः प्रतीताः'; 'विकल्पा प्रतीतिः' पा०. ४. 'कुट्ट-' पा०. ५. 'रस -' पा०. ६. 'साधन-' पा०. : ३ अध्यायः] ९ साधारणमधिकरणम् । ३९ यच्छिरोभ्यङ्गकर्म तत्केशमर्दनम् । केशानां तत्र मृद्यमानत्वात्तैरेव तथ्यपदेशः । शेपानेषु मर्दनं संवाहनम् । केशग्रहणमत्रादरार्थम् । तत्र कौशलं पराराधनार्थम् ॥ अक्षरमुष्टिकाकथनमिति । अक्षराणां मुष्टिरिव मुष्टिका गुप्तिरिति । सा साभासा निराभासा च । तत्र साभासा अक्षरमुद्रेत्युच्यते । तथा कथनं गूढवस्तुमन्त्रणार्थं ग्रन्थसंक्षेपार्थं च । तैस्या आचार्य रविगुप्तेन चन्द्रप्रभाविजयकाव्ये प्रकरणं पृथगुक्तम् । यथोक्तम् –'गहनप्रसन्नसर्वा कतिपयसूत्रामिमामनन्तमुखीम् । अनधीत्याक्षरमुद्रां वादसमुद्रे परिष्ठवते ॥ इति । तत्रे। दमुदाहरणम् – 'मेवृमिकसिंकतुवृधमकुंमी मूधसत्रांसुशकनिधकआव्याः । फाचैवैज्येआश्राभाआकामापौमा चैव ॥" इति । अस्या आर्याया अयमर्थ :- प्रथमपादेन मेपादयो राशय उक्ताः । द्वितीयेन राशीनां लग्नात्प्रभृति मूर्तिधनसहजबान्धवसुतशत्रुकलत्रनिधनधर्मकर्मायव्यया इति वि शेषसंज्ञाः । इतरार्धेन फाल्गुनादयो मासा इति । निराभासा [भूत]मुद्रेत्युच्यते ॥ तया कथनं गुह्यवस्तुमन्त्रणार्थम् । यथोक्तम् – 'मुष्टिः किसलयं चैव च्छटा च त्रिपताकिका । पताकाङ्कुशमुद्राश्च मुद्रा वर्गेपु सप्तसु ॥ अङ्गुल्यश्चाक्षराण्येषां खराश्चाङ्गुलिपर्वसु । संयोगादक्षरं युक्तं भूतमुद्रा प्रकीर्तिता ॥ इति । एवमन्यापि काव्यसंज्ञाभूतमुद्रा द्रष्टव्या ॥ म्लेच्छितविकल्पा इति । यत्साधुशब्दोपनिबद्धमप्यक्षरविन्यासादस्पष्टार्थ तन्मलेच्छितं गूढवस्तुमत्रार्थम् । तस्य विकल्पा बहवः पूर्वाचार्योक्ताः । तद्यथा—'कौटिलीयं यदि क्षान्तैः खरयोईखदीर्घयोः । बिन्दूप्मणोविंपर्यासाहुर्योधमिति संज्ञितम् ॥ अकौ खगौ घडो चैव चटौ तपौ यशौ तथा । एते व्यस्ताः स्थिराः शेषा मूलदेवीयमुच्यते ॥ ग्रहनयनवसुसमेतं पडाननाख्यानि सागरा मुनयः । ज्वलनानं तुकशृद्धं दुर्लिखितं गृढलेख्यमिदम् ॥" इति । एवं प्रकारा अन्येऽपि द्रष्टव्याः ॥ देशभाषाविज्ञानमिति । अप्रकाश्यवस्तुज्ञापनार्थं तद्देशीयैर्व्यवहारार्थ च ॥ पुष्पशकटिकेति । पुष्पाणि i i i 1 १. 'तथा' पा०. २. 'पृथकृतम्' पा०. ३ 'निराभासमुद्रेत्युच्यते पा०. ४. 'कौटलीयादोदेक्षान्त-'; 'कौटिलीर्यदादेक्षान्तेः'; 'कौटिलीचं दादिक्षान्त -' पा०. ५. 'छलनाई तुक' पा०. ६. 'मितम्' पा०. ७. 'विज्ञापनार्थम्', 'विज्ञानार्थम् पा०. कामसूत्रम् । ३ आदितोऽध्यायः ] निमित्तीकृत्याहं प्रणीता(?) ॥ निमित्तज्ञानमिति । निमित्तं धैर्मक्षमावर्गेऽन्तर्गन्तं (?) शुभाशुभादेशपरिज्ञानफलम् । तत्र च प्रष्टुरभिज्ञानार्थम् । एवंरूपया स्त्रिया तव संप्रयोग इति कामोपहसितप्राया आदेशा इति । निमित्तज्ञानमिति सामान्येनोक्तम् ॥ यन्त्रमातृकेति । सजीवानां निर्जीवानां यन्त्राणां यानोदकसङ्ग्रामायै घटनाशास्त्रं विश्वकर्मप्रोक्तम् ॥ धारणमातृकेति । श्रुतस्य ग्रन्थस्य धारणायै शास्त्रम् । यथोक्तम् – 'यस्तु कोषस्तथा द्रव्यं लक्षणं केतुरेव च । इत्येते धारणादेशाः पञ्चाशरुचिरं वपुः ॥ इति ॥ संपाठ्यमिति । संभूय क्रीडार्थ वादार्थ च । तत्र पूर्वधारितमेको ग्रन्थं पठति, द्वितीयस्तमेवाश्रुतपूर्व तेन सह तथैव पठति ॥ मानसीति । मैंनसि भवा चिन्ता । दृश्यादृश्यमेदेविषया द्विधा । तत्र कश्चिद्व्यञ्जनाक्षरैः पद्मोत्पलाद्याक्कृतिभिर्यथास्थितानुखारविसर्जनीययुतैः श्लोकमनुक्तायै लिखति । अन्यश्च मात्रासंधिसंयोगासंयोगच्छन्दोविन्यासादिभिरभ्यासादतीवाक्षरं (?) पठति । इति दृश्यविषया । यदा तु तथैव तानि यथाक्रममाख्यातानि श्रुत्वा पूर्ववदुन्नीय पठति, तदा दृश्यविषया न भवति । सा चाकाशमानसीत्युच्यते । तदुभयं क्रीडार्थं वादार्थं च ॥ काव्यक्रियेति । संस्कृतप्राकृतापत्रंशकाव्यस्य करणं प्रतीतप्रयोजनम् ॥ अभिधानकोष इति । उत्पलमालादिः ॥ छन्दोज्ञानमिति । पिङ्गलादिप्रणीतस्य च्छन्दसो ज्ञानम् ॥ क्रियाकल्प इति । काव्यकरणविधिः । काव्यालंकार इत्यर्थः । त्रितयमपि काव्यक्रियाङ्गं परकाव्यावबोधार्थं च । छलितकयोगा इति । परव्यामोहनार्थाः । यथोक्तम् – 'यद्रूपमन्यरूपेण संप्रकाश्य हि वञ्चनम् । देवेतरप्रयोगाभ्यां ज्ञेयं तच्छलितं यथा ॥ दिव्यं शूर्पणखा रूपं व्यंचरद्वायुनन्दनः । छलितं चानमित्य श्रुत्वा रामं च कीचकम् ॥ (?) १. 'धर्मक्षमासंकेतमार्गम्'; 'धर्मक्षमावर्गेऽन्तर्गतम्'; 'धर्मक्षमाषकेऽन्तर्गम्' पा०. २. 'निर्जीवानाम्' इति पुस्तकान्तरे नास्ति. ३. 'या नोदना सङ्क्रामार्थ घटना । शास्त्रं विश्वकमंत्रोक्तम्' पा०. ४. 'मनःसंभवा' पा०. ५. 'भेदाद्विधा' पा०. ६. 'न्यासादतीवारक्षरम्'; 'न्यासाक्षतीवाक्षरम्'; 'न्यासाक्षरतीत्राक्षरम्' पा०. ७. 'व्यतरद्वायुनन्दनम् । छलितवानमिस्रत्य' पा०. ३ अध्यायः] १ साधारणमधिकरणम् । ४१ इति ॥ वस्त्रगोपनानीति il । वस्त्रेणाप्रकाश्यदेशस्य संवरणं यथा तद्यमान- मपि तस्मान्नापैति । त्रुटितस्यात्रुटितस्येव परिधानम् । महतो बखस्य संवरणादिनाल्पीकरणम् । इति गोपनानि ॥ द्यूतविशेषा इति । निजव- 5 धूतविधानमेतत् । तत्र ये प्रात्यादिभिः पञ्चदशभिरगर्मुष्टिक्षुलकादयो धूतविशेषाः प्रतीतार्थाः ॥ आकर्षक्रीडेति । पाशकक्रीडा । द्यूतविशेष- त्वेऽपि पुनर्वचनमत्रादरार्थम् । सशृङ्गारत्वादुर्विज्ञेयत्वाद्वा । अक्षहृदयाप- रिज्ञाने हि नलयुधिष्ठिरयोरपि पराजयात् ॥ बालक्रीडनकानीति । गृह- कन्दुकपुत्रिकादिभिर्यानि बालानां क्रीडनानि तानि वालोपक्रमार्थानि । एता एकपष्टिकला उक्ताः ॥ वैनयिकीनामिति । खपरविनयप्रयोजनाद्वै- मयिक्य आचारशास्त्राणि । हस्त्यादिशिक्षा च । वैजयिकीनामिति । विजयप्रयोजना वैजयिक्यः । दैव्यो मानुष्यश्च । तत्र दैव्योऽपराजिता- दयः । मानुष्यो याः साङ्घनमिक्यः शस्त्रविद्याः । व्यायामिकीनामिति । व्यायामप्रयोजना व्यायामिक्यो मृगयाद्याः । एतास्तिस आत्मोत्कर्ष- रेक्षणार्था जीवार्थाः ॥ इति चतुःषष्टिरकविद्या इति । कामसूत्रस्यावय- विन्योऽवयवभूताः । तदभावे कामसूत्रस्याप्रवृत्तेः ॥ i पाञ्चालिकी च चतुःपष्टिरपरा । तस्याः प्रयोगानन्ववेत्य सांम- योगिके वक्ष्यामः । कामस्य तदात्मकत्वात् ॥ पाञ्चालिकी चेति । पाञ्चालप्रभवा तत्प्रोक्तत्वाद्वा । चतुःषष्टिरङ्गविद्याः । तद्भावेऽपि तस्याः प्रवृत्तेः । तस्या इति पाञ्चालिक्याः । अन्ववेत्य यथायथं विषयमनुसृत्य । सांप्रयोगिकेऽधिकरणे वक्ष्यामः । कामस्य तढात्मकत्वादिति । चतुःषष्टिस्वभावत्वात् । पूर्वस्यास्तु चतुःपष्टेस्नग्रान्तरे दृष्टप्रयोगत्वात्, इह तदङ्गताप्रतिपत्त्यर्थमुद्देशमात्रमुक्तम् । कलाग्रहणे फलमाह आमिरेभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता । लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ 4 ★ i # १. 'गृहे' पा०. २. 'रक्षणा जीवार्याः' पा०. ३. 'चतुःषष्टिन्तम्या प्रयोगाम्सप्रयोगिके वक्ष्यामः । तदात्मकत्वात्संप्रयोगस्य' पाँ०. ४. 'सूत्रान्तरे पा०. ५. 'अभ्युत्थिता' पा०. का० ६ ४२ ३ आदितोऽध्यायः] कामसूत्रम् । पूजिता सा सदा राज्ञा गुणवद्भिश्च संस्तुता । प्रार्थनीयाभिगम्या च लक्ष्यभूता च जायते ॥ योगज्ञा राजपुत्री च महामात्रसुता तथा । सहस्रान्तः पुनरपि स्वबशे कुरुते पतिम् ॥ तथा पतिवियोगे च व्यसनं दारुणं गता । देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति ॥ आभिरिति । कलाभिरभ्युच्छ्रिता जातोत्कर्षा । वेश्येति प्रायशोग्रह णमस्या इति दर्शनार्थम् । शीलं सुखभावः । रूपं संस्थानं वर्णश्च । गुणा नायिकाया वैशिके वक्ष्यमाणाः । गणिकाशब्दमिति । वेश्या सामान्यशब्दवाच्यापि विशिष्टं गणिकामिधानं लभते इत्यर्थः । एवंलक्षणत्वाद्द्वणिकायाः । स्थानं च जनसंसदीति । जनसभायामासनभूमिं लभते । न वेश्येत्यवगण्यते । राज्ञा पूजिता छेत्रभृङ्गारादिदानेन । गुणवद्भिः सं स्तुता असाधारणमस्याः कलाकौशलमिति प्रशंसिता । प्रार्थनीया कैलोपदेशार्थिनामभिगमनार्हा । विदग्धानां रतार्थिनां लक्ष्यभूता निदर्शनभूता देर्वेदत्तावत् । योगज्ञा गीतादिप्रयोगज्ञा । सहस्रान्तःपुरमिति प्रभूतदारोपलक्षणम् । स्ववशे आत्मनो वशे । तथा पतिवियोगे पत्यौ प्रोषित, तथा व्यसनं दारुणं वैधव्यलक्षणं गता निर्वेदात्त्यक्तस्वदेशा अन्यस्मिन्नपि देशे सुखेनैव जीवति । विद्योपदेशदानात् । पुरुषमधिकृत्याहनरः कलासु कुशलो वाचालचाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमा वेव विन्दति ॥ कलानां ग्रहणादेव सौभाग्यमुपजायते । देशकालौं त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे विद्यासमुद्देशस्तृतीयोऽध्यायः । पा. १. 'नायिकायाम्'; 'नायिकाद्या:' पा० . २. 'छन्त्रागारादि'; 'क्षेत्रगारादि' ३. 'कलोपदेशिनाम्' पा०. ४. 'देवदत्तवत्'; 'देवतावत्' पा०. 'अवेक्ष्य' पा०. ४ अध्यायः] १ साधारणमधिकरणम् । नर इति । वाचाल इति कलासंबन्धद्वारेणैव बहुभाषी, नान्यथा । मा भूदनागरकत्वप्रसङ्ग इति । चाटुकारकः प्रियस्य कर्ता । कलाग्रहणेन हि संस्कारवत्त्वात् । असंस्तुतोऽप्यपरिचितोऽपि चित्तं विन्दति गृह्णाति । आश्वेव न कालमपेक्षते । संयोगात्स्त्रीपुंसयोः । ग्रहणादेवाभिजायते सौभाग्यम् । अर्थोऽनर्थप्रतीघातः, कामो यशश्चेत्यर्थोक्तम् । तत्रापि देशकालापेक्षा । अस्मिन्देशे नागरकाः कलाकुशलाः घटौनिबन्धनादि कामा वेति प्रयोगः । नागरकशून्यो वा देशः, गुणद्विपो वात्र प्रतिवसन्ति, व्यसनकालो वा नागरकाणामिति, न वा प्रयोगासंभवः, अन्यथा तत्परिज्ञानं दोपफलं स्यादिति । । इति श्रीवात्स्यायनीय कामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणकत्रकृत सूत्रमाप्याया साधारणे प्रथमेऽधिकरणे विद्यासमुद्देशस्तृतीयोऽध्यायः । चतुर्थोऽध्यायः । शास्त्रकार एव प्रकरणसंबन्धमाह- गृहीतविद्यः प्रतिग्रहजयक्रयनिर्देशाधिगतैरर्थैरन्वयागतैरुभयर्वा गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तत ॥ गृहीतविद्य इति । तस्य नागरकवृत्तवर्तने योग्यत्वात् । गृहीतविद्यस्याप्यसतिपत्नीयोगे नागरकवृत्तस्यासंभवादाह — गार्हस्थ्यमिति । पत्नीसंयोगेऽपि यदि गार्हस्थ्यं गृहकर्म नागरकयोग्यं तन्नार्थ विनेत्याह-अर्थरिति । तेऽपि न विनोपायरित्याह – प्रतिप्रहेति । तत्र ब्रालणः प्रतिग्रहेण । तद्वृत्तित्वात् । क्षत्रियः शस्त्रजीवित्वाज्जयेन । वैश्यः क्रयेण चातोंपलक्षणार्थेन । शूद्रः कारुकुशीलवादिः कृते कर्मणि यो निर्देशो भृतिलेनार्जितैः । गृहस्थकर्म प्राप्येति न निष्किचनस्यायं विधिः । अन्वयागतैरिति । पितृपितामहागतैः । अत्र पत्नीयोगादनन्तरमेव गार्हस्थ्याधिगमः । १. 'सस्कारत्वात्' पा०. २. 'सयोगात्' पा०. ३. 'घण्टादिनिबन्धनदिको नो बेति' पा०. ४. 'अनुवर्तेत' पा०. ५. 'नटातित्वात्' पा०. ६. 'कारु:' पा०. 1 1 1 ४ कामसूत्रम् । ४ आदितोऽध्यायः] सत्स्वप्यन्वयागतेष्वपूर्वार्जनं उंमयैर्वेति । प्रतिग्रहाद्यागतैरन्वयागतैश्च । कार्यमिति दर्शयति । नागरको विदग्धजनः । एतद्वृत्त्येपेक्षया वा भविष्यवृत्त्या नागरकस्तस्य वृत्तं वर्तेतेति सामान्यवृत्तिर्नागरकविशिष्टा वृत्तिः कर्म वा भवति । चातुर्वर्ण्यगृहस्थमधिकृत्येदं शास्त्रम् । अस्य चेदं प्रकरणं शरीरम् । तदाश्रितस्य हि सर्वशास्त्रानुष्ठानात् । चैत्र तस्य वृत्तं तत्र स्थितिमाह नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानम् । यात्रावशाद्वा ॥ नगर इति । नगरमष्टशतश्रामीमध्ये तद्वयवहारस्थानम् । पचनं यत्र राजधानी स्थिता । खर्वटं द्विशतप्रामीमध्ये । महति वेति । चतुःशतग्रामीमध्ये द्रोणमुखं नाम खर्बटान्महद्भवति । एषामैन्यतमेऽवस्थानं 'युज्यते । कुत इत्याह–सज्जनाश्रय इति प्रतिपदं योज्यम् । यात्रावशाद्वेति । यत्र वा स्याद्यापनं शरीरस्थितिमे तनावस्थानम् । तन्निबन्धन त्वादितरवृत्तेः । तत्रापि गृहमन्तरेण न संभवतीत्याह- तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् ॥ तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संवन्धः । आसन्नोदकं नदीवाप्यादिसमीपे जलमकदर्शितं क्रीडानं च । वृक्षवाटिकावदिति यस्यां दिशि जलं तस्यां वृक्षवाटिकया गृहोद्यानेन युक्तम् । विभक्तकर्मकक्षमिति । कर्मार्थ कक्षाः प्रकोष्ठकानि विभक्ता यस्य । उच्चावचेन हि गृहकर्मणि क्रियमाणे गृहेमरमणीयं स्यात् । द्विवासगृहमिति । 1 १. 'अपेक्षाया' पा०. २. 'इति' इति पुस्तकान्तरे नास्ति. ३. 'यत्तस्य; ' 'यत्नस्य' पा०. ४. 'पत्तने' इति पुस्तकान्तरे नास्ति. ५. 'यात्रायोगाद्वा' पा० • ६. 'ग्राममध्ये' पा०. ७. 'ग्राम-' पा०. ८. 'प्राम-' पा०. ९. 'अन्यतमम्' पा०० १०. 'युज्यते' इति पुस्तकान्तरे नास्ति ११. 'क्रीडार्थ च'; 'क्रीडा च' पा०. १२. 'गृहस्य साधनीयम्'; 'गृहमरणीयम्' पा०. 7 H १ साधारणमधिकरणम् । शयनार्थेन च युक्तम् । एतावद्वृत्तोपयोगिगृहविधानम् । शेषं वास्तुविद्यायां द्रष्टव्यम् । ४ अध्याय:] तस्मिन्कारिते आधेयानां न्यासमाह बाह्ये च वासगृहे मुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोचर- च्छदं शयनीयं स्यात् । प्रॆतिशय्यिका च । तस्य शिरोभागे कूर्च- स्थानम्, वेदिका च । तत्र रात्रिशेपमनुलेपनं माल्यं सिक्यकरण्डकं सौगन्धिक पुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः । भूमौ पत- ग्रहः । नागदन्तावसक्ता वीणा । चित्रफलकम् । वर्तिकासमुद्गकः । यः कश्चित् पुस्तकः । कुरण्टकमालाथ । नातिदूरे भूमौ वृत्तास्तरणं समस्तकम् । आकर्षफलकं द्यूतफलकं च । तस्य बहिः क्रीडाशकु- निपञ्जराणि । एकान्ते च तक्षतक्षणस्थानमन्यासां च क्रीडानाम् । खास्तीर्णा मेङ्खादोला वृक्षवाटिकायां संप्रच्छाया । स्वण्डिलपी- ठिका च सकुसुमेति भवनविन्यासः ॥ बाह्य इति । आभ्यन्तरं वासगृहमन्तर्दाराणां शयनार्थम् । वाले च प्रकोष्ठे कृते रत्यर्थं शयनीयं स्यात् । लक्ष्णं खट्टाश्रय प्रतिपादिकास्तरणतूलिकादिभिः सुरमितं च । उभयोपधानं शिरश्चरणभागयोर्न्यस्तोपधानम् । मध्ये विनतमाक्रान्तम् । मृदुकमित्यर्थः । शुक्लोत्तरच्छदमिति । शुक्लस्प प्रच्छदपटस्य प्रत्यहं द्वित्रैर्वा दिवसैः प्रक्षालनीयत्वादित्यवश्यं तदुपरिदेयम् । प्रतिशय्यिका चेति । तस्य समीपे संप्रयोगार्थे तत्प्रतिच्छन्दिका किंचिन्यूनोत्सेधा यस्यामशिय्यका स्यात् । इत्येवं विधिः । अयमाचारवताम् । वेश्याकामिनस्तु शयनीयपदे उभयं निर्वर्तयन्ति । न तेषां प्रतिशय्यिका । तथा चोक्तम्- 'संप्रयुज्येत यत्रस्थो नायकः प्रियया १. 'शयनार्थ मघयुक्तम्' पा०. २. 'आधेयादीनाम्' पा०. ३. 'मृप्तम्' पा०. Y. 'बद्धवितानं शयनीयम्' पा०. ५. 'प्रतिशय्या' पा०. ६. 'च' इति पुस्तकान्तरे नाति, ७. मातुलिङ्गत्वचा मुखवासताम्बूलानि पा० ८. 'यत्किचित्पुस्तकम्' इत्युचितः पाठः, 'समसूरकम्' पा०. १०. 'तर्कतक्षण-' पा०. ११. 'सप्रच्छाया' इति पुन्वन्तरे नास्ति. १२. 'सुप्तम्' पा० १३. 'च' इति पुस्तकान्तरे नास्ति १४. 'भारोव्यका' पा. कामसूत्रम् । ४ आदितोऽध्यायः] सह । न तत्रोपहते विद्वान्शयीत शेयने शुचिः ॥" इति । तस्येति शयनीयस्य पश्चात्पार्श्वभागानां निकृष्टत्वाच्छिरोभाग एव कूर्चासनस्य देवतानुस्मरणार्थस्य स्थापनं स्यात् । यथोक्तम्–'शयनीयशिरोभागे न्यस्तकूर्चे शुचिः शुमे । कृतेष्टदेवतायोगो यायाच्छयनमात्मवान् ॥ वेदिका चेति । कुड्योपाश्रया शयनीयतुल्योत्सेधा हस्तमात्रविस्तारा कृतकुट्टिमा चतुरिका स्यात् । तत्र वेदिकायां रात्रिशेषं राज्युपयुक्तशेषमनुलेपनं चन्दनादिकं प्रातरुपभोगार्थं स्यात् । माल्यं रात्रिशेषम् । सिक्थकरण्डकं सिक्थकसंपुटिका । सौगन्धिकं सुगन्धद्रव्यनिर्वृतं खेदापनोदार्थम् । तस्य पुटिका तमालादिपत्रमयी । मातुलुङ्गत्वचो मुखवैरस्थापनोदार्थम्, दुष्टमारुतनिवारणार्थं च । यथोक्तम् – 'सायं लीढा कामी मध्वतं मातुलुङ्गदलकल्कम् । स्त्रीभुजपञ्जरसंस्थः खलेन नेहि हेप्यते मरुता ॥" इति । ताम्बूलानि च सज्जितानि रात्रिपरिमोगायै स्युः । भूमौ पतग्रहः । न वेदिकायाम् । प्रक्रान्तत्वाद्व्यवच्छिद्यते । यंत्रस्थेन वा नायकेनोपयुक्तताम्बूलादि निष्ठीवितं पतगृह्णाति सा भूमिः । तत्र स्यात् । नान्यत्र । अभूमित्वात् । वीणा निचोलावगुण्ठिता वादनार्था । चित्रफलकमालेख्यार्थम् । वर्तिकासमुद्गकश्चित्रकर्मोपयोगी । यःकश्चिदिति सामान्य निर्देशेऽपि यत्त दानीं काव्यं भावितं तस्य पुस्तको वाचनार्थ स्यादित्यर्थादेवावगम्यते । कुरण्टकमालाश्चेति । तासां शोभामात्रफलानां सुरतसंमर्देनाप्यम्लायमानत्वात् । तद्धारणे च सौभाग्यश्रुतेर्विशेषाभिधानम् । एता वीणादयोऽनुपघातार्थं वासगृहभित्तिनिहितनागदन्तेष्वासज्य स्थापिता यथाप्रयोजनं चौदातव्याः । अनुरूपस्थाननिवेशनमपि । वैदग्ध्यजननमिति गम्यते । नातिदूरे शयनीयस्य । भूमौ न पर्यके वेत्रासने वा । तत्रस्थस्याशोमित१. 'स्थानम्' पा०. २. 'उपाश्रिता' पा०. ३. 'रात्रावुपयुक्त - 'पा०. ४. 'निवृत्तम्' पा०. ५. 'नप्यहिद्रेयते' पा०. ६. 'यत्र स्थो वा' पा०. ७. 'निर्देश:' पा० . ८. 'पुस्तकम्' इत्युचितम्. ९. 'एव' इति पुस्तकान्तरे नास्ति १०. 'तद्वारेण' पा० ११ - 'च दातव्याः' पा० १२. 'मन्यते' पा०. · ४ अध्यायः] १ साधारणमधिकरणम् । त्वात् । वृत्तास्तरणं लोके प्रतीतम् । समस्तकमुपरिन्यस्तमस्तकमासनाथ स्यात् । कूर्चेपु तावत्कालिकमासनम् । आकर्षफलकं द्यूतफलकं च क्रीडाथै भूमौ कुख्याथितं स्यात् । काले च प्रसारयेत् । तस्येति वासगृहस्य । नातिदूरे बहिस्तत्सविधागारके क्रीडार्थ यानि शकुनानि तत्पूर्णानि पञ्जराणि नागदन्तावसक्तानि स्युः । नाभ्यन्तरे । पुँरीपोत्सर्गाढिदोपात् । एकान्त इति । एकदेशे । यत्रासमये न पश्यति । तत्र तक्षकर्मणस्तक्षणस्य च स्थानम् । अन्यासां च क्रीडाथै लज्जाहेतूनामेकान्ते स्थानम् । स्वास्तीर्णेति । आतपपरिहारार्थमुपरि धनशाखाप्रतानत्वात्सुसंछन्ना । मेहादोला प्रेरणया या दोल्यते । सुखावहा क्रीडाथै स्यात् । न गृहाभ्यन्तरे । चऋदोला तु चक्रपरिभ्रमणेन । सा प्रेङ्केति निगद्यते । सप्रच्छायेति । उपरिपुप्पलतावच्छिन्नत्वात्प्रकृष्टच्छायोपेता । स्थण्डिलमयी पीठिका चेति । कृतकुट्टिमा वेदिका । सकुसुमेति । लतानिपतत्कुसुमावकीर्णा स्यात् । वृक्षवाटिकायामित्येव । लतामण्डपिकेत्यर्थः । तत्रापानकादिभिरवस्थानात् । भवनविन्यास उत्थापनावस्थापनाभ्याम् । तत्रस्थस्य वृत्तं द्विविघम् - नित्यं नैमित्तिकं च । तत्र पूर्वमधिकृ१७ त्याह- स मातरुत्थाय कृतनियतकृत्यः, गृहीतदन्तधावनः, मात्रयानुले- पनं धूपं स्रजमिति च गृहीत्वा, दत्त्वा सिक्थकमलक्तकं च, दृष्ट्वा दर्शो मुखम्, गृहीतमुखवासताम्बूल, कार्याण्यनुतिष्ठेत् ॥ --- स इति । नायकः शयनात्प्रातरुत्थायाभ्युदितत्त्वपरिहारार्थ कृतनियतकृत्यः कृतमूत्रपुरीपोत्सर्गः । गृहीतदन्तधावनो जग्धदन्तकाष्ठः । अत्रातरे यथावं संध्यावन्दनादेर्धर्मस्यानुष्ठानमर्थप्राप्तम् । मात्रयेति । प्रभूतानुपनादिग्रहणादनागरकः स्यात् । कार्यानुष्ठाने प्रस्तुतत्वात् । धूपमगुर्वा १. 'कुज्योपाश्रितम्' पा० २. 'यानि शकुनिपज्ञराणि' पा०. 2 'पुरीपादोषोत्सर्गात्' पा० ४. 'एकोद्देशे यत्रासमयी' पा०. ५. 'दोलते' इति पुन्तुअन्तरे नास्ति. ६. 'च' इति पुस्तकान्तरे नास्ति ७. 'सिक्कमटक च दत्त्वा . ८. 'नागरकम्' पा०. कामसूत्रम् । ४ आदितोऽध्यायः] दिना । स्रजं शेखरकमापीडं वा । अलक्तकं विशिष्टंरागार्थम् । दत्त्वेत्यर्थादोष्ठयोः । ईषदार्द्रयालक्तकपिण्ड्या घृष्ट्वौष्ठं ताम्बूलमुपयुज्य सिक्थकमुँटिकया ताडयेदित्यर्थक्रमः । आदर्श मुखमवलोक्य, मङ्गलाथै प्रसाधनगुणदोषज्ञानार्थं च । गृहीतमुखवासताम्बूल इति । गन्धयुक्तिविहितां मुखवा सगुटिकां कपोले निधाय पुनरुपयोगार्थं च ताम्बूलं हस्तवर्तिकायां गृहीत्वेत्यर्थः । कार्याणि त्रिवर्गसाधनान्यनुतिष्ठेत् । अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह सात- नित्यं स्नानम् । द्वितीयकत्सादनम् । तृतीयकः फेनकः । चतु- र्थकमायुष्यम् । पैश्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् । त्याच संतृतकक्षावेदापनोदः । पूर्वाहापराहयोर्भोजनम् । सायं चा- रायणस्य । भोजनानन्तरं शुकसारिकामलाप नव्यापाराः । लाव- कक्कुक्कटमेषयुद्धानि । तास्ताच कलाक्रीडा: । पीठमर्दविटविदूषका- यत्ता व्यापाराः । दिवाशय्या च । गृहीतप्रसाधनस्यापराहे गोष्ठी- विहाराः । प्रदोषे च संगीतकानि । तदन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहायस्स शव्यायामभिसारिकाणां प्रतीक्ष- णम्, दूतीनां शेषणम्, स्वयं वा गमनम् । आगतानां च मनोहरैरा- लापैरुपचारैश्च ससहायस्योपक्रमाः । वर्षप्रमृष्टनेपथ्यानां दुर्दिनाभि- सारिकाणां स्वयमेव पुनर्मण्डनम्, मित्रजनेन वा परिचरणमित्या- होरात्रिकम् ॥ नित्यमिति । प्रत्यहं स्नानम् । ओजस्करत्वात्पवित्रत्वाच्च । द्वितीयकमिति । यस्मिन्दिने कृतमुत्सादनं तदनन्तरं दिनं प्रथमम्, तस्माद्वितीयेऽहि शरीरदार्यायै स्यात् । एकान्तरितमित्यर्थः । तृतीयक इति । तृतीयेऽहि जङ्घयोः फेनको देयः स्यात् । द्विदिनान्तरित इत्यर्थः । अन्यथा ऊर्ध्वं जङ्घे कर्कशे १. 'ओष्ठम्' इति पुस्तकान्तरे नास्ति २. 'उपभुज्य' पा०. ३. 'गुलिकया ' पा०. ४. 'द्वितीयम्' पा०. ५. 'पश्चक दशकम्' पा०० ६० 'पूर्वाह्नापराहभोजनम्' पा०. ८. 'विदूषकेषु चायत्ताः' पा०. 'उपक्रम:' पा०. 'भोजनाम्ते' पा०. ४ अध्याय:] १ साधारणमधिकरणम् । १९ स्याताम् । चतुर्थकमिति । त्रिः पक्षस्य चे श्मथुनखरूपाणि वर्धयेदित्ययमागमः । अत्र केपांचिन्नागरकाणामुपायभेढात्कालभेदः । तत्रायुष्यं मधुकर्म सुरेण तच्चतुर्थेऽह्रि स्यात् । दिनत्रयान्तरितमित्यर्थः । कर्तर्या तु वैपनमेव स्यात् । प्रत्यायुष्यमिति । यद्रुये क्षुरेण कर्म तत्पञ्चमेऽहनि । यत्तु लोम्नामुत्पाटनेन तद्दशमे स्यादित्याह-दशमकं वेति । तत्र लोम्ना चिरेणोद्गमनात् । तथा चोक्तम् – 'आयुष्यं तच्चतुर्थेऽहि याद्यत्तु क्षुरकर्मणा । प्रेत्यायुष्यं यदुद्धाराल्लोम्नां तद्दगमेऽहनि ॥" इति । एवमर्थ च सामान्येन त्रिः पक्षस्यालंकारकर्मेति नोक्तम् । अहीनमिति । स्नानादिपचकमविकलं स्यादित्यर्थः । सातत्यादिति । सर्वदा कंक्षा विवर्त्य स्थातव्यम् । यदा तत्किंचित्कुर्यात्स्यात्तदा संश्लेषान्नियतमस्याः स्वेदः । तं संततं कर्पटेनापनुदेत् । अन्यथा वैगन्ध्यमवैदग्धं च जनयेत् । पूर्वाहापराहृयोरिति । दिनं रात्रिमष्टधा विभज्य पूर्वाह्णे त्रिभिर्भागेः कार्याण्यनुतिठेत् । चतुर्थे स्नानादिकं कृत्वा भुञ्जीत । अपराहे च पश्चिमे भागे बलाधानाथै पुनर्भुजीते त्याचार्याणां मतमनुक्तमपि ज्ञेयम् । मतान्तरोपन्यासात् । सायमिति । पूर्वाह्ने प्रदोषे च चारायणस्य मतम् । न तथापराहे द्वितीयमोजनं बलमाघत्ते यथा रौँत्रिरिति (रात्राविति ) । तथा चोक्तम् – 'अजीर्णे भोजनं यच्च यच्च जीर्णे न भुज्यते । रात्रौ न भुज्यते यच्च तेन जीर्यन्ति मानवाः ॥' भोजनानन्तरमिति । पूर्वाह्न भोजनानन्तरं शुकसारिकाप्रलापनादयो दिवाशयनान्ता व्यापाराः स्युः । तेषामयमेव कालः । तास्ताश्चेति या याः प्रहेलिकाप्रतिमालादिभिः क्रीडा उक्ता । पीठमर्दाढ़ीन्वक्ष्यति । तेष्वायत्ता व्यापाराः संधिविग्रहादयः । दिवाशय्यति । दिवाशयनमधर्मोऽपि ग्रीष्म एव क्षयकाले शरीरपुष्टचर्थमनुज्ञातम् । शरीरस्य धर्मधारणत्वात् । गृहीतप्रसाधनस्येति । प्रस्तुतव्यापारमुपसंहृत्य गृही १. 'च' इति पुस्तकान्तरे नास्ति. २. 'यक्षुरेण'; 'चक्षुरेण' पा० . . 'मरम्' पा०. ४. 'प्रत्यायुष्य तम्घतुर्थेऽमि त्वायत्तु क्षुरर्मेति चोकम् पा०. ५. 'मिनल' पा०. ६. 'यदेतत्' पा०. ७ सर्वेषु पुस्तकेष्वेषमेव पाट ८. महापारि नत.' पा●● का० ७ 1 कामसूत्रम् । ४ आदितोऽध्यायः] तवैहारिकवेषस्यापराह्णेऽहृश्चतुर्थभागे गोष्ठीविहारा गोष्ठयां क्रीडा इति । एतद्दैवसिकं वृत्तम् । रात्रिभवमाह --प्रदोषे चेति । प्रतिष्ठितायां संध्यायां रजनीमुखे संगीतकानि नृत्यगीतवादित्रकाणि प्रकाराणि स्युः । तदन्ते च संगीतकान्ते । प्रसाधिते संमार्जनपुष्पोपकारशयनरचनादिभिः । वासगृहे बा । संचारितो विस्तारितः सुरभिधूपो यत्रेति । वासगृहं व्याप्य बहिरुपक्रान्त इत्यर्थः । ससहायस्येति । सहायान्वक्ष्यति । तेषामप्यत्र व्यापारात् । शय्यायामिति । शय्यासमीपे स्थितस्य । गौरवानुरागख्यापनार्थे न तावदप्यासीत शेय्याम् । स्वयं वा गमनं कदाचित्स्यादिति । आभिमुख्येन कान्तं सरन्तीत्यभिसारिकाः । तासां कृतसंकेतानां प्रतीक्षणम् । दूतीनां संप्रेषणम् । संकेतितकालातिक्रमे तत्संप्रेषणेऽपि मानादनागमे स्वयं वा गमनं गौरवानुरागख्यापनार्थम् । मनोहरेरिति । खागतम्, इदमासनमास्यताम्, साधु कृतं दयिते यदागतासि त्वत्प्रतिबद्धजीवित एवास्मि, तत्किमिति कालोऽतिक्रामितः, इत्यादिभिरालापैः । उपक्रमाः प्रत्युद्गमादयः । ससहायस्येति । सहाया अपि तद्वचनमनुकुर्वन्तः खव्यापारेणोपक्रमेरन् । प्रमृष्टं विलुप्तम् । दुर्दिनामिसारिका दुर्दिनकालेऽमिसरन्ति याः । स्वयमेव नान्येन । लक्ष्यभूतानां गौरवानुरागख्यापनार्थम् । पुनर्मण्डनं वर्षेणोत्पादितवैकृतत्वात् । आसन्नोपभोगकालत्वाच्च । मित्रजनेनात्मनि विशेषेण पुनर्मण्डनम् । नव्यवृत्तीनां परिचरणं चेति संवाहनवीजनादिकं सर्वासामेव परिचारकैः कारयितव्यम् । एतद्वाबस्त्रीषु । नान्तदर्दारेषु । आहोरात्रिकमहोरात्रभवम् । सांप्रयोगिकं च रात्रिभवं सांप्रयोगिके वक्ष्यति । 5 ५० नैमित्तकमाह घटानिवन्धनम्, गोष्ठीसमवायः, समापानकम्, उद्यानगमनम्, समस्याः क्रीडार्थे भवर्तयेत् । पक्षस्य मासस्य वा भैज्ञाते१. 'पुष्पप्रकर- ' पा०. २. 'शय्यायां वा गमनम्' पा०. ३. 'अतिक्रमितः' पा०. ४ 'च' इति पुस्तकान्तरे नास्ति. ५. 'प्रतीते' पा०. ५१ ४ अध्याय:] १ साधारणमधिकरणम् । 21 sहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः । कुशीलवाया- गन्तवः प्रेक्षणकमेपां दधुः । द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन् । ततो यथाथद्धमेपां दर्शनमुत्सर्गो वा । व्यसनोत्सवेपु चैषां परस्परस्यैककार्यता । आगन्तूनां च कृतसमवायानां पूजनम- भ्युपपत्तिश्च । इति गणर्धर्म: । एतेन तं तं देवताविशेषमुद्दिश्य संभावितस्थितयो घटा व्याख्याताः ॥ B के घटानिवन्धनमिति । देवानामुद्दिश्य यात्रा घटा । नागरकाणां तत्र 5 संहत्यमानत्वात् । तस्या निबन्धनं गणधर्मेण व्यवस्थापनम् । गोष्ठीसमवायो गोष्ठयां नागरकाणां काव्यकलाविषयं समवायनं संप्रधारणं प्रव र्धयेत् । यदपराहे गोष्ठीविहार इति नित्यकर्मोक्तं तस्य क्रीडामात्रफल त्वादिदं विशिष्यते । समापानकमिति । संभूय समन्तात्पानमापानकमित्यर्थः । यन्नायिकया सबैकस्य मात्रया पानं तंत्सरकाख्यं नित्यमेव स्यात् । उद्यानगमनमिति । बहिः स्वकारितेऽन्यकारिते वोद्याने गमनं च विहार इत्यर्थः । गृहवाटिकागमनं तु नित्यमेव स्यात् । समस्याः क्रीडाश्चेति । समस्यन्ते समग्रीभवन्ति नागरका यासु ता समस्याः । अधिकरणे य प्रत्ययः । पूर्ववत्संभूय क्रीडा इत्यर्थः । ता द्विविधाः- माहिमान्यो देश्याश्च । एतत्पञ्चविधं कर्म नायकः प्रवर्तयेत् । तत्र घटानिवन्धनमाह - पक्षस्य मासस्य वातिक्रान्तस्यावसानिकेऽहनि । प्रज्ञात इति । यद्दिनं यस्या देवताया लोकप्रसिद्धं तत्प्रज्ञातम् । यथा गणपतेश्चतुर्थी, सरस्वत्याः पञ्चमी, शिवस्याष्टमीत्यादि । तत्र देवतायाः संनिधानात् । सरखती च नागरकाणां विद्याकलास्वपि देवता । तस्या आयतने पञ्चजद अर ल P 1 द्र अ १. 'नित्यसमाज.' पा०. २. 'आगन्तवस्तपा प्रेक्षणक्मेकम्' पा०. ३. 'वेन्यः इति पुस्तकान्तरे नास्ति ४ 'तेपाम्' पा०. 'पाम्' इति पुस्तकान्तरे नालि. ५'५' इति पुस्तकान्तरे नास्ति. ६. 'धर्मा:' पा०. ७ 'सभापणस्थितयो विनिधा घटा: पा०. ८. 'तच्छलकाख्यम्'; 'तच्डरकाख्यम्'; 'तन्वयम्' पा०. 'ता हिम्मन्ना द्वेष्याच' पा०. १०. 'दिवसे' पा०. । ५२ कामसूत्रम् । ४ आदितोऽध्यायः] म्याम् । नियुक्तानामिति । नायकेन पूजाचारिकत्वे प्रतिपक्षं प्रतिमासं च ये वियुक्ता नागरकनटादयो नर्तितुं तेषां समाजः सव्यापारानुष्ठानेन मेलनम् । यस्मिन्प्रवृत्ते नागरकाः समाजिकीभवन्ति । नित्यमिति तत्र तत्राहनि । अन्वेष्वह सु धूपविलेपनघटा तस्या निबन्धनमाह-कुशी लवाश्चेति । आगन्तवोऽन्यस्मादागता नटनर्तकाः प्रेक्षणकमेषां प्रज्ञातेऽहन्यन्यत्र वाहनि दधुर्दर्शयेयुः । नियुक्तास्तु भृतिप्रतिबद्धाः यात्राक्कुशीलवत्वात्प्रज्ञात एव दर्शयन्ति । इदमुक्तं भवति – पूजाचारिकैः पात्रापात्रमनपेक्ष्यैर्वै प्रेक्षणमवश्यं ते दर्शयितव्या इति । द्वितीय इति । प्रथमेऽहनि प्रेक्षणकव्यग्रत्वात् । तृतीयादिष्वपि क्लिष्टदानं स्यात् । तेभ्य इति नियुक्तेभ्यः पूजाचारिकेभ्यः । पूजा प्रेक्षणकफलम् । नियतमिति । एतावत्प्रेक्षणकमूल्यमागन्तूनामिति पूर्वकल्पितं प्राप्नुयुः । अनियतान्प्रेक्षणकान्रागाद्वस्त्रादिदानलक्षणं प्रथमे वाह्नि रङ्गमध्ये नागरकेभ्यो लभेरन् । तत उत्तरकालम् । यथाश्रद्धमिति पुनद्रष्टुं यदि श्रद्धास्ति पुनरागन्तूनां नृत्यतां दर्शनम् । नो चेदुत्सर्गः प्रियालापैः संप्रेषणम् । यदा पुनःपुनदर्शनकौतुकं तदा दर्शनविशेषमाह——व्यसनोत्सवेषु चैषामिति । आगन्तूनां कस्यचिद्वयाधौ शोके वा व्यसने तथा विवाहादावुत्सवे व्यग्रस्य तत्कर्म तन्नियुक्तेन कुशीलवेन प्रेक्षणकाविघातार्थ संवाद्यम् । नियुक्तानां वा कस्यचिद्वयसनोत्सवे तदागन्तुनेति परस्परैककार्यता स्यात् । कृतसमवायानामिति । ये नागरकपदेऽभिषिक्ता घटां द्रष्टुमन्यस्मादागतास्तेषां पूंजाचारिकैर्माल्यानुलेपनादिभिः पूजनम् । पारिषदनागरकैश्च यथापरिचयं माङ्गलिकम् । अभ्युपपत्तिश्चेति व्यसने साहाय्यं तत्प्रतीकारेण । गणधर्म इति । तत्रत्यानामागन्तूनां कुशीलवनागरकाणां यथाखपरधर्म उक्तः । एतेनेति सरखतीघटादिनिबन्धेनेन तं तमिति यो यः सांनिध्याल्लोके दृष्टातिशयः । संभावितस्थितय इति देशकालापेक्षया कृतव्यवस्थाः । १. 'पूजोपचारकत्वे' पा०. २. 'मिलनम्'; 'मीलनम्' पा०. ३. 'यात्रायाम्' पा०. ४. 'च' पा०. ५. 'श्लिष्ट' पा०. ६. 'पूजोपचारिकै:' पा०. ७. 'पौद्गलिकम्'; 'यौगलिकम्' पा०. ४ अध्यायः] १ साधारणमधिकरणम् । गोष्ठीसमवायमाह - वेश्याभवने सभायामन्यतमस्योदवसिते वा समानविद्यावृद्धिशी- लवित्तवयसां सह वेग्याभिरनुरूपैराला पैरासनवन्धो गोष्ठी । तत्र चैपां काव्यसमस्या कलासमस्या वा । तस्यामुज्ज्वला लोककान्ताः पूज्याः । श्रीतिसमानावहारिताः ॥ वेश्याभवन इति । सभायां मण्डपे । अन्यतमस्य वा नागरकस्योदयसिते गृहे । एषु नागरकाणामविरुद्धं मेलनं समानविद्यादीनाम्, सुखानिशयानामसमानविद्यादीनाम् । बुद्धिः प्रज्ञा, अभिप्रायो वा । सह वेश्याभिरिति स्त्रीप्रतिबद्धकलाप्रतिपत्त्यर्थमासां गोष्ठ्यामन्तर्भावः । अनुरूपैः परस्परस्तुत्यनुरागपरिहासानुविद्धैः । आसनबन्धो यथायथमासनेऽवस्थानम् । पक्षस्य मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि स्यात् । तत्रैषां समवायमाह — काव्यसमस्या कलासमस्या चेति । संभूयदर्शनं निरूपणं तत्समस्या चर्चेत्यर्थः । पूर्ववद्भावे प्रत्ययः । 'अस गतिदीप्त्यादानेपु' इति गत्यर्थस्य ज्ञानार्थत्वात् । भारतादिकाव्यस्य नृत्यादिकैलाया वा चर्चा स्यात् । यत्तु काव्यसमस्यापूरणमित्युक्तं तस्य भिन्नार्थत्वात्कलासमस्या चेत्यत्रान्तर्भावः । तस्यामिति गोष्ठयाम् । चर्चावसाने प्रीतिनिबन्धनायें वस्त्रादिदानेन परस्परस्य कलापूजाः स्युः । उज्ज्वला अग्राम्या । लोककान्ता लोकमनोहराः । प्रीतिसमानाः प्रीत्यनुरूपाः । आहारिताः परिचारिकैरानायिताः । N समापानकमाह- परस्परभवनेषु चापानकानि ॥ परस्परभवनेषु चेति । एकस्यैकदा भवनेऽन्यदान्यस्य वा पक्षस्म मासस्य वा तद्योग्यतया प्रज्ञातेऽहनि । आपानकानि पानगोष्ठचः स्युः । आपानकेषु विधिमाह तंत्र मधुमैरेयसुरासवान्विविधलवणफलहरितशाकतिक्तऋटुक्रा१. 'च' पा०. २. 'गृहेषु' पा०. ३. 'कलायाम्' पा०. ४. 'तत्रेसापानकेषु पा. ५. 'तत्र' इति पुस्तकान्तरे नास्ति. कामसूत्रम् । ४ आदितोऽध्यायः] म्लोपदंशान्वेश्याः पाययेयुरनुपिवेयुश्च । एतेनोद्यानगमनं व्या- ख्यातम् ॥ तत्रेति । मधु माध्वीकम् । मैरेयासवौ मद्यविशेषौ । तथा चोक्तम्'भेषशृङ्गीत्वक्वाथामियुतो गुडप्रतीवापः पिप्पलीमरिचसंभारस्त्रिफलायुक्तो मैद्यो मैरेयः । कपित्थपत्रफाणितप्रस्थो मधुनश्चासवयोग ।" इति । सुरा वल्कलतण्डुलाभ्यां निष्पन्नो गुडस्तत्र निक्षिप्यते । मद्यमिति वक्तव्ये विशेषोपादानं त्रैविध्यख्यापनार्थम् । तथा चोक्तम् – 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । मन्त्र सुराशब्द: सामान्यवाची द्रष्टव्यः । एवं च विविधपानादापानकं भवति । विविधानि लवणतिकरसभूयिष्ठानि हरितकटुकानि च शिनुपर्णादीन्यवदंशो येषामिति तान्वेश्याः पाययेयुः, अभ्यर्थनापुरःसरमनुपिबेयुश्च । आदौ पिबद्धिगौरवानुरागौ न प्रकाशितौ स्याताम् । अत्र सह पृथग्वेति देशप्रवृत्तिरपेक्षणीया । एतेनेति । आपानकविधिना । उद्यानगतैरप्ययमेवापानकविधिः कार्य इत्यर्थः । ५४ तत्रोद्यानगमने विशेषमाह पूर्वाह्न एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारका- जुगता गच्छेयुः । दैवसकी च यात्रां तत्रानुभूय क्कुक्कुटयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वा अपराहे गृहीततदुधानो- पभोगचिह्नास्तथैव प्रत्याव्रजेयुः । एतेन रचितोद्धाहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥ तदा हि गतानां दैवसिकी यात्रा संपद्यते । खलंकृता गृहीतवैहारिकवेषाः । तुरगाधिरूढाः । तुरगाणां ललितयानत्वात् । वेश्याभिः सहेति । ता अपि पश्चादग्रतो वा तुरगमारोहयितव्याः । परिचारका यथावं १. 'तत्रेति' इति पुस्तकान्तरे नास्ति. २. 'वा' पा०. मद्यमित्यपेक्षितम् द्वित्रिपु. स्तकेषु 'मद्यो' इत्येवास्ति ३. 'स्खलकृताङ्गा.' पा०. ४. 'परिचारकैरनुगताः' पा०. ५. 'कुक्कुटलावकमेषयुद्धद्यूतैः' पा०. ६. 'अपराह्न' इति पुस्तकान्तरे नास्ति. ७, 'गृहीतोद्यानोप-' पा०. ८. 'आख्यातम्' पा०. ४ अध्यायः] १ साधारणमधिकरणम् । ५५ कर्मभिः परिचरन्ति ये । तैरनुगताः । पक्षस्य मासस्य वा गमनयोग्यतया प्रज्ञातेऽहनि गच्छेयुः । दैवसिकीं यात्रा प्रत्यहं क्रियमाणां शरीरस्थितिम् । तत्रैवोद्यानेऽनुभूय कुक्कुटयुद्धद्यूतैः सनीवनिर्जीवैर्नटादिप्रेक्षाभिरनुकूलैश्च चेष्टितैर्यथास्वं वेश्याप्रतिबद्धैः कालं गमयित्वा अपराह्ने प्रशान्तवेलायां तैयैवेति स्खलंकृतास्तुरगाधिरूढाः सह वेश्याभिः परिचारकानुगता इति । विशेषोऽत्र गृहीततदुद्यानोपमोगचिह्ना इति । तदुद्यानमुपभुक्तमिति यानि सूचयन्ति कुसुमस्तबककिसलयादीनि तानि गृहीतानि शिरः कर्णकण्ठेषु कृतानि [यैः] । प्रत्याब्रजेयुः प्रतीपमागच्छेयुः । एतेनेति उद्यानगमनविधिना । तत्रापि गमनं दैवसिकयात्रानुभवनमागमनं च तुल्यम् । किंतु गृहीततदुद्यानोपभोगचिह्ना इति तेन तत्रैव प्रायशोऽन्तर्भूतमिति नैमित्तिकवर्गे पृथोक्तम् । योऽत्र विशेषस्तमाह - रचितोड्राहो दकानामिति । उग्राहमविद्यमानकुम्भीरायुदकं यस्य तोयस्थानस्य तदुग्राहोदकं वापीदीर्घिकादि । रचितमिति खार्थिकरायन्ताद्धेतुमण्ण्यन्तात्कृत्प्रत्यये रूपम् । 'रच प्रतियत्ने' इत्यदन्तत्वान्न वृद्धिः । तीर्थविन्यासादिभिः कारितरचनमुद्राहोदकं यैर्नागरकैरिति । ग्रीष्म इति । अन्यदा तु पुनः पुनर्निमज्जनोन्मज्जनोदकवाद्यविघातादिप्रकारायाः क्रीडाया असंभवात् । समस्याः क्रीडा आह । यॆक्षरात्रिः । कौमुदीजागरः । सुवसन्तकः ॥ यक्षरात्रिरिति । सुखरात्रिः । यक्षाणां तत्र संनिधानात् । तत्र प्रायशो लोकस्य द्यूतक्रीडा । कौमुदीनागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्नायाः प्रकर्षेण प्रवृत्तेः । तंत्र दोलाद्यूतप्रायाः क्रीडाः । सुवसन्तक इति । सुवसन्तो मदनोत्सवः । तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः । एता माहिमान्यः क्रीडाः । १. 'तयोग्यतया' पा०. २. 'तथैव' पा०. ३. 'तत्रापि गमन दैवसिक -' इति पुस्तकान्तरे नास्ति. ४. 'समस्ता: क्रीडा:' पा०. ५. 'पक्षरात्रि 'पा०. ६ 'प्रचार: ' पा०. ७. 'शुभदोला'; 'न वा दोला' पा०. ५६ कामसूत्रम् । ४ आदितोऽध्यायः]' देश्या आह— सहकारभञ्जिका, अभ्यूषखादिका, विसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालानुयानम्, ऐकशाल्मली, कदम्बयुद्धानि, तास्ताच माहिमान्यो देश्याच क्रीडा जनेभ्यो विशिष्टमाचरेयुः । इति संभूय क्रीडाः ॥ सहकारभजिकेति सहकारफलानां भञ्जनं यत्र क्रीडायाम् । अभ्यूपखादिका फलानां विटपस्थानामझौ प्लोषितानां खादनं यत्र । बिसखादिका बिसानां मृणालानां खादनं यत्र । सरःसमीपवासिनाम् । इत्येते द्वे क्वचित्कचिदृश्येते । नवपत्रिका प्रथमवर्षणेन प्ररूढनवपत्रासु वनस्थलीषु या क्रीडा सा प्रायेणाटवीसमीपवासिनामाटविकानां च । उदकक्षवेडिकेति । 'वंशनाडी स्मृता क्ष्वेडा सिंहनादच कथ्यते' इति । उदकपूर्णा १. मूलपुस्तकेषु वृत्तौ च 'एकशाल्मली' इत्यस्मादप्रे 'स्पृहयन्तीव्रतम्, यवचतुर्थी, आलोलचतुर्थी, मदनोत्सवः, दमनभञ्जिका, होलाका, अशोकोत्तसिका, पुष्पावचायिका, चूतलतिका, इक्षुमझिका' इत्यधिकमस्ति तत्र वृत्तिकारव्याख्यानमेवमस्ति 'एकस्यां स्पृहणीयायाम्' शाल्मल्यामधिरुय क्रीडा । यवचतुर्थी वैशाखशुक्लचतुर्थ्यां नायकाना परस्परं सुगन्धयनचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा । आलोळचतुर्थी श्रावणशुक्ल तृतीयाया हिन्दोलक्रीडा । मदनोत्सवो मदनप्रतिकृतिपूजनम् । दमनभनिका परस्परं सुगन्धपुष्पविशेपावतसनम् । होलाका. अशोकोत्तंसिका अशोकपुष्पैः । शिरोभूषणरचना । पुष्पावचायिका पुष्पक्रीडा । चूतलतिका चूतपल्लवावतंसनम् । इक्षुभलिका इक्षुखण्डमण्डनम्' इति. कदर्पचूडामणिकर्ता वीरभद्रस्तु प्रायो जयमङ्गलाटीकानुकूल. तथा च कदर्पचूडामणि - 'कुर्याच यक्षरात्रि सुखरात्रिः सा च कथ्यते लोके । ऐक्यं कोजागरया कौमुद्यास्तत्र निर्दिष्टम् ॥ सुवसन्तकोऽत्र शास्त्रे भवति बसन्तस्य वासरः प्रथमः । बिसखादिका सरस्या बिसमुक्तिः कीर्तिता लोकैः । मदनार्थिताम्रकुसुमैरवतसे चाम्रभञ्जिका प्रोक्ता । अभ्यूषखादिकैवं ज्ञातव्या ग्रन्थतः परतः ॥ अन्योन्य जलसेकः पानीयक्ष्वेडिकेरिता विबुधैः । कृत्रिमविवाहलीला कथिता नवपत्रिका तज्ज्ञैः ॥ कृत्रिमपुत्रकलीला स्यादनुयान तथा तु पाञ्चाल्याः । शाल्मल्यामधिरुह्य क्रीडैका शाल्मली कथिता । युद्धं कदम्वमुकुलैः प्रविभज्य वल परस्परं यत्र । स्यात्तत्कदम्बयुद्धं कुर्यादन्यास्तथा लीलाः ॥ इति अत्र 'आम्रमझिका' इत्यधिकमस्ति. २. 'विशिष्टतरम्' पा०. ३. 'अभ्यूषखादिका विसखादिका मृणालाना खादनं यत्र' पा०. ४. 'इत्येते' इत्यादि पुस्तकान्तरे नास्ति. ३४ अध्यायः] ९ साधारणमधिकरणम् । ५७ क्ष्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् । यस्याः शृङ्गक्रीडेति प्रसिद्धिः । २. पाञ्चालानुयानम् । भिन्नालापचेष्टितैः पाञ्चालक्रीडा । यथा मिथिलायाम् । एकशाल्मली । एकमेव महान्तं कुसुमनिर्भरं शाल्मलिवृक्षमाश्रित्य तत्रत्यकुसुमाभरणानां क्रीडा । यथा वैदर्भाणाम् । कैदम्वयुद्धानि । कदम्बकुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य युद्धानि । कदम्बग्रहणं कुसुमसुकुमारप्रहरणसूचनार्थम् । यष्टीष्टकादियुक्तानि तु न कार्याणि । यथा पौण्ड्राणां युद्धं क्वचित्कचिद्दृश्यते । तास्ताश्चेति या या लोके प्रवृत्तिपूर्वाः । माहिमान्य इति महिमा महत्त्वं तद्विद्यते यासामिति । 'संज्ञायां मन्माभ्याम्' इतीनिप्रत्ययः । सर्वदेशव्यापिन्य इत्यर्थः । देशे भवा देश्याः । प्रादेशिन्य इत्यर्थः । जनेभ्यो विशिष्टमिति घटादयो नागरकाणामिति । समस्यास्तु साधारणाः । तत्र जना नागरकाश्च क्रीडन्ति । तस्मात्तेभ्यो विशिष्टमाचरेयुः । नागरत्वद्योतनार्थम् । संभूयक्रीडा इति । आसु नागर: काणां द्रव्यमुपहार्य संभूय क्रीडनात् । ऍकचारिणश्च विभवसामर्थ्यागणिकाया नायिकायाथ सखी- भिर्नागरकैश्च सह चरितमेतेर्न व्याख्यातम् ॥ नागरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव चरति तस्य खविभवानुरूपेण परिचारकैः सह यक्षरात्र्यादयः समस्या एव स्युः । एतेनेति स्थानगृहन्यासनित्यनैमित्तिकविधिना यथासंभवं गणिकाया नायिकायाश्च चरितं व्याख्यातम् । तत्र नागरकाणां स्थाने सख्यः, वेश्यानां स्थाने नागरका इति । उपनागरकाणां लक्षणद्वारेण वृत्तमाह अविभवस्तु शरीरमात्रो मल्लिकाफेनककपायमात्रपरिच्छदः पू३ । १. 'पाञ्चालानाम्' पा०. २. 'मिलितानाम्' पा०. ३. 'नवकदम्बकयुद्धानि पा. ४. 'कुसुमास्त्रमारग्रहण'; 'सुकुमारवस्तुगृहण' पा०. ५ 'उपदार्थम्'; 'उपहार्यम्'; 'उपकार्य' पा०. ६. 'एकत्रचारिणः' पा०. ७ 'गणिकाया: सखीभिः पा०. ८. 'अनेन' पा०. ९. 'नागरकान्नानाभावादृष्ट-'; 'नागरका . नानाभावाददृष्ट' पा० १०. 'समस्ता' पा०. का० ८ 1 कामसूत्रम् । ४ आदितोऽध्यायः] ज्यादेशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठयां वेशोचिते च वृत्ते साधयेदात्मानमिति पीठमर्दः ॥ तुशब्दो विशेषणार्थः । यस्तु निष्किचनो यथोक्तं नागरकवृत्तं वर्तितुमयोग्यः शरीरमात्रः पुत्रकलत्राद्यमावात् । परिचारकद्वितीयो यथोत्पादितवित्ताभावाद्देशहिण्डनकः । मल्लिका दण्डासनिका शरीरधारणात्पूर्वनागरकाचार्यैः संकेतिता । 'मल मल्ल धारणे' इति धातुपाठात् । सा तस्य पृष्ठत एवासना भ्राम्यते । वृत्तविषयेच्छत्वाच्च जङ्घाघर्षणार्थी फेनककपायाविति । तन्मात्रं परिच्छदो विभवो यस्येति । पीठिकाद्यासनं तु नार्हति । पूज्याद्देशाच्छास्त्रकलाविदध्युषितात् । तत्रत्य एव देशदिदृक्षयागतः । कलासु कुशलः खदेश एव गीतादिचतुःषष्टि पाञ्चालिक चौधीतवान् । तदुपदेशेन कलोपदेशेन । गोष्ठयां नागरकाणाम् । वेशोचिते वेश्याजनोचिते वृत्ते साधयेदात्मानमिति । आचार्य निष्पादयेदित्यर्थः । स पीठमर्द उपदेशदानेऽधिकृतत्वान्मल्लिकाख्यं पीठं मैहातीति कृत्वा । एतेनाचार्यवृत्तमस्य वृत्तम् । भुक्तविभवस्तु गुणवान्सकलत्रो वेशे गोष्ठ्यां च वहुमतस्तदुप- जीवी च विटः ॥ यस्तु यौवने नागरकवृत्त्या परिमुक्तसर्वस्खोऽप्यनुपरतो विषयेभ्यः । सविभवस्तु नागरक एव स्यात् । तत्रत्यो नान्यस्माद्देशादागतः । भुक्तविभवस्त्वागन्तुकः पीठमदौश एव । गुणवान्नायकगुणयुक्तः । प्राक्तनस्य नागरकत्वात् । सकलत्रः सानुबन्धत्वान्न स्वदेशत्यागी । बहुमत इति बहुमतं यस्य । विशेषपरिज्ञानात् । तदुपजीवी विटगोष्ठचुपजीवी । वृत्तिमन्यामॅनिच्छन्वेश्याजनं नागरकजनं चोपजीवति । तदुपजीवितया तयोः संदेशं परस्परं विटतीति कथयतीति विटः । 'विट शब्दे' इति धातुपाठात् । वक्ष्यति च – 'विटः पुरोगां प्रीतिं कुर्यात्' इति । तेन तदुपजीविवृत्तमेवास्य वृत्तम् । ५८. १. 'वेशे च' पा०. २. 'प्रवृत्ति' पा० ३. 'वाघीतः' पा०. ४. 'मूर्भ वहतीति' पा०. ५. 'अन्विच्छन्' पा●● ४ अध्याय:] १ साधारणमधिकरणम् । ५९ एकदेशविद्यस्तु क्रीडनको विश्वास्यश्व विदूषकः । वैहासिको वा । एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः ॥ यस्तु गीतादीनां प्रदेशज्ञः सोऽविभवो भुक्तविभवो वा शरीरमात्रः सकलत्रस्तत्रत्य आगन्तुको वा पूर्ववृत्त्यसंभवात् । क्रीडनको विश्वास्यश्च भवति । वेशे गोष्ठ्यां च विश्वास्यतामुपगम्य परिहासशीलवृत्त्या वर्तत इत्यर्थः । स च वेश्यां नागरकं वा क्वचित्प्रमाद्यन्तं लब्धप्रणयत्वादपवदते इति विदूषकः । क्रीडनकत्वाच्च वेशे गोष्ठ्यां च विविधेन हासेन चरतीति वैहासिक इत्युभयनामा । एते नागरकाणां पार्श्ववर्तित्वादुपनागरका मन्त्रिणः संधिविग्रहनियुक्ता इति सामान्यं वृत्तं संधिविग्रहयोर्ज्ञानं मत्रिणः कैर्मणि सांधिविग्रहिकाः । तथाहि —– देशकालकार्यापेक्षया संधिविग्रहौ प्रधानगुणौ ज्ञानेनावधार्य तत्कर्मसु प्रवर्तन्त इति ज्ञानकर्मरूपौ संघिविग्रहौ । उतैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृपल्यो वृद्धगणिकाच व्या- ख्याताः ॥ तैरित्युभयात्मकैः । भिक्षुकस्य भार्या । मुण्डगुणयुक्ताः । वृपल्यो वन्धक्यः । कलाविदग्धा इति सर्वत्र योज्यम् । ता अपि संधिविग्रहयोर्ज्ञाने कर्मणि च नियोक्तव्याः । ताश्च संधिविग्रहार्थ कुट्टनाञ्चालनाच कुट्टन्य इत्युच्यन्ते । यात्रावशाामवासिनो वृत्तमाह ग्रामवासी च सेजातान्विचक्षणान्कौतूहलिकान्मोत्साह्य नागर- कजनस्य वृत्तं वर्णयञ्श्रद्धां च जनयंस्तदेवानुकुर्वीत । गोष्टीच प्र- वर्तयेत् । संगत्या जनमनुरञ्जयेत् । कर्मसु च साहाय्येन चानुगृह्णी- यात् । उपकारयेच्च । इति नागरकवृत्तम् ॥ ग्रामवासी चेति । सजातान्समानजातीयान् । तत्रापि विचक्षणान्मा१. 'वृत्त्यासंभवात्' पा०. २. 'कर्माणि' पा०. हिन्य.' पा०. ५. 'बहुमतः सजातान्' पा०. ७. 'जनस्यम्' पा०. ८. 'उपकारयेत्' पा०. ३. 'एतैः' पा०. ४. 'कु६. 'कौतूहलिन.' पा०. } + १ १ & o कामसूत्रम् । ४ आदितोऽध्यायः] Bo ज्ञान् । कौतूहलिकान्कौतुकवतः । प्रोत्साह्य कथमित्याह – वृत्तं वर्णयन्नमुष्मिन्नगरे इत्थं गोत्रपुत्राणां नागरकाणां लोकमनोहारि चेष्टितं श्रूयते, भवतामपि युक्तं वैचक्षण्यानुरूपं जीवितफलं तद्नुकर्तुमिति श्रद्धां च जनयन्यात्रामपि तद्दर्शनेन गोष्ठीब्ध प्रवर्तयेत् । तैः सह संगत्या जनमनुरञ्जयेत् । संगतिमैत्रीभ्यामित्यर्थः । साहाय्येनानुगृह्णीयात् । यात्रोत्सवादिषु प्रवर्तमानमुपचारयंश्च परस्परमुॅपचरेत् । तत्र चैषां काव्यसमस्याः कलासमस्याश्चेत्युक्तम् । तत्र विशेषमाह भवन्ति चात्र श्लोकाःनासन्तं संस्कृतेनैव नात्यन्तं देशभाषया । कथां गोष्ठीषु कथयंलोके बहुमतो भवेत् ॥ या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिंसात्मिका या च न तामवतरेषः ॥ लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया । गोष्ठ्या सहचरन्विद्वांडोके सिद्धिं नियच्छति ॥ इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः । नात्यन्तमिति । कश्चिदेव संस्कृतं वेत्ति देशभाषां च । कथां काव्यकलाविषयां च चर्चाम् । या गोष्ठीति । यदा स्वयं गोष्ठीं न प्रवर्तयेत्तदान्यप्रवर्तितां यायात् । तत्रापि या लोकविद्विष्टा लोकस्यासंमता । खैरविसर्पिणी स्वातन्त्र्येण प्रवृत्ता। निरङ्कुशेत्यर्थः । परहिंसात्मिका परदूषणपरा । न तत्रावतरेहुधः । तत्र ह्यवतरणमवुघस्य दृश्यते । कया सह चरेदित्याह–लोकचित्तेति । लोकचित्तानुरञ्जनं क्रीडा च फलं गोष्ठचाः । सिद्धि नियच्छति प्राप्नोति । लोकसिद्धो भवति किं पुनः स्त्रीष्वित्यर्थः । खयं गोष्ठीप्रवर्तनेऽप्ययमेव विधिः । इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धामनाविरह- . कातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्याया साधारणे प्रथमेऽधिकरणे नागरकवृत्त चतुर्थोऽध्यायः । १. 'मैत्र्या प्राम्यमित्यर्थः' पा०. २. 'उपचरन्तम्' पा०. ३. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति कचित्तु 'भवन्ति चात्र' इत्येतावदेवास्ति. १ साधारणमधिकरणम् । पञ्चमोऽध्यायः । गार्हस्थ्यमधिगम्येति ससहायस्योपक्रमा इति दूतानां संप्रेषणमित्यु क्तम् । तत्र को नायकः कया नायिकया गाहर्थ्यमधिगम्य नागरकवृत्तं वर्तेत, कैश्च सहायैः किं च द्वैतस्य कर्मेति तेषां विमर्शो निरूपणमिति नायकसहायदूतकर्मविमर्श उच्यते । 'पुमान्सिया' इत्येकशेपनिर्देशान्नायकयोरित्यर्थः । द्वैतकर्मेति दूतीदूतयोरित्यर्थः । तत्र बहुवक्तव्यत्वात्प्राड्डायिका फलतोऽन्यकारणतश्च विमृश्यते- कामचतुर्षु वर्णेषु सवर्णतः शास्त्रतबनन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति ॥ कामश्चतुध्विति । सवर्णत इति येथा ब्राह्मणेन ब्राह्मण्याम् । यथा च शूद्रेण शूद्रायाम् । शास्त्रत इति शास्त्रोक्तेन वरणादिना विधानेन । अनन्यपूर्वायां भार्यात्वेनौधिगतायाम् । प्रयुज्यमानः प्रवर्त्यमानः । पुत्रीय औरसस्य पुत्रस्य निमित्तम् । 'पुत्राच्छ च' इति छप्रत्ययः । यथोक्तम्'स्वक्षेत्रे संस्कृतायां तु सुतमुत्पादयेविजः । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम् ॥ इति । तत्र स्वक्षेत्रं सवर्णः । यशस्यो यशोनिमित्तम् । 'गोयच:-' इत्यादिना यत् । अत्र च यद्यपि कामो न संयोगस्तथापि स्त्रीपुंसयोर्योोंगे कामशब्द उपचरितः । तत्पूर्वकत्वात्कामस्य । इति भवति तत्पर्यायः । लौकिकश्च लोके विदितः । तदबाह्य इत्यर्थः । तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च । प्रतिषिद्धोऽवर- वर्णास्वनिरवसितास । वेश्यास पुनर्भूपु च न शिष्टोन प्रतिषिद्धः । सुखार्थत्वात् ॥ ५ अध्यायः] CO १. 'गार्हस्थ्य – नायिकया' इति पुस्तकान्तरे नास्ति. २. 'तत्र कैथ' पा०. ३. 'दूतकस्य' पा०. ४. 'नायकसहायदूतकर्मविमर्शः' इति प्रस्तुताध्यायस्य विषयकथनम्. ५. दूतकर्मेल्यादि पुस्तकान्तरे नास्ति. ६. 'सवर्णतथ' पा०. ७. 'अनन्यपूर्वायाम्' इति पुस्तकान्तरे नास्ति ८. 'भवति' इति पुस्तकान्तरे नास्ति. ९. 'यावत्' पा०. १०. 'यावत्' पा०. ११. 'अनधिगतायाम्' पा०. १२. 'निरवसितासु' पा . १ ६ 5 1 . कामसूत्रम् । ५ आदितोऽध्यायः] उत्तमवर्णाखिति क्षत्रियेण ब्राह्मण्याम्, वैश्येन ब्राह्मणीक्षत्रिययोः, शुद्रेण ब्राह्मणीक्षत्रियावैश्यास्वनन्यपूर्वाखपि प्रयुज्यमानः । परपरिगृहीतासु चान्योढासु सवर्णास्वपि कामो विपरीतः, न पुत्रीयः, न यशस्यः, न लौकिकश्च । एवंविधः सुखार्थोऽपि न । परपरिगृहीताखेकान्तेन धर्मविरोधित्वात् । अवरवर्णास्विति ब्राह्मणस्यावरवर्णाः क्षत्रियावैश्याशूद्राः । क्षत्रियस्य वैश्याशूद्वे । वैश्यस्य शूद्रा । शुद्ध एकजातिः । तेस्य खजात्यपेक्षयावरवर्णाः । तत्रापि यद्यनिरवसिताः । पौत्रादबहिष्कृता इत्यर्थः । सन्त्येव हि काश्चित्क्षत्रियादयो याभिर्भुक्तं पात्रं न संस्कारमात्रेण शुद्धयति । ता एवंविधा बायाः । तथा चोक्तम् – 'शूदैव मार्या शुद्धस्य सा च खा च विशः स्मृते । ते च खा चैव राज्ञश्च ताश्च खा चाग्रजन्मनः ॥' इति । तासु च बाह्यास्वपि । पुनर्भूष्विति या अन्य पूर्वाः क्षतयोनयो विधवा इन्द्रियदौर्बल्यादन्यस्य पुनर्भवन्ति तालु स्वीकृतासु वेश्यासु च सामान्यस्त्रीषु प्रयुज्यमानो न शिष्टो न विहितः, तत्र सवर्णामपरिगृह्य तत्परिग्रहस्यानभिहितत्वात्, पॅरिगृह्यापि न प्रतिषिद्धत्वात् परिगृह्याप्रतिषिद्धः। सुखाधिकृता तदानीं सुखार्थैव प्रवृत्तिः, न पुत्रार्था । तत्रावरवर्णास्तदा तासु ये पुत्रा न तेषामौरसत्वम् । पुत्रकार्याकरणात् । पुनर्भूसु वेश्यासु च पुत्राशैव नास्तीति द्विविधं फलम् । तत्र नायिकास्तिस्रः कन्या पुनर्भूर्वेश्या च । इति ॥ तत्र तस्मिन्फलविभागे तिस्रो नायिकाः – कन्या, पुनर्भूः, वेश्या चेति । तत्र कन्या द्विविधा - पुत्रफला, सुखफला चेति । पूर्वा सवर्णा श्रेष्ठा । द्वितीयाघमवर्णा न्यूना । तस्या अपि न्यूना पुनर्भूः । स्वीकारे ऽप्यन्यपूर्वत्वात् । अस्या वृत्तं भार्याधिकारिके वक्ष्यति । या त्वक्षतयोनिः पुनरुह्यते सान्यांश एव । यथोक्तम् – 'पुनरक्षतयोनित्वादुते या यथा६२ १. 'अपि सुखार्थेन' पा०. पा. ४. 'नाशुचिवायाखपि'; न' पा०. ६. 'सुखार्थत्वात्' ९. 'पूर्वकत्वात्' पा०. २. 'तत्र' पा०. ३. 'पुत्रोत्पत्त्या बहिष्कृताः' 'तासु च वाह्येष्वपि' पा०. ५. 'परिग्रहोऽपि पा०. ७. 'पुत्रार्यैव' पा०. ८. 'आसु' पा०. " # → : ५ अध्यायः] १ साधारणमधिकरणम् । विधि । सा पुनर्भूस्ततस्तस्यां पौनर्भव उदाहृतः ॥ ततोऽपि वेश्या न्यूना । सामान्यत्वात् । अन्यस्मात्कारणाद्विमर्शमाह अन्यकारणवशात्परपरिगृहीतापि पाक्षिकी चतुर्थीति गोणि- कापुत्रः ॥ अन्यकारणवशादिति पुत्रात्सुखाच्च यदन्यत्कारणं तद्वशात् । पाक्षिकीति यदा कारणान्तरं तदा तस्मिन्पक्षे भवतीति पाक्षिकी । अन्यदा तु नैवेति वात्रव्यमतमनुसृत्याह । गोणि॑िकापुत्रः पारदारिकं पृ॑थक्प्रोवाचेत्युक्तम् । तत्र विषयस्तदर्थमाह - स यदा मन्यते स्वैरिणीयम् ॥ स इति नायकः । मैन्यतेऽधिगच्छेत्खैरिणीयम् । खैरिणी स्वतन्त्रा । तदेव दर्शयति --- अन्यतोऽपि वैहुशो व्यवसितचारित्रा तस्यां वेश्यायामित्र ग मनमुत्तमवणिन्यामपि न धैर्मपीडां करिष्यति । पुनर्भूरियम् ॥ अन्यतोऽपीति । यथा मामभियुञ्जाना शीलं खण्डयति तथान्येष्वपि बहून्चारान्व्यवसितचारित्रा खण्डितशीला । ततश्च वेश्यातुल्या । तस्यां वेश्यायामिव । 'पुनर्स्वामिव' ईत्यनाम्नायः पाठः । यत एकस्माद्वितीयं प्राप्ता पुनर्भूः । सा च न बहुशः खण्डितचारित्रेति न समानो दृष्टान्तः । उत्तमवर्णिन्यामिति किमसवर्णाघमवर्णयोरेवं वर्ण्यते । तत्रापि न दोषः । यथोक्तम् – 'जालकार्मुकवस्त्रादीन्दद्यादात्मविशुद्धये । चतुर्णामपि वर्णानां नारीहित्वा व्यवस्थिताः ॥" इति । अस्यार्थः - जालं जयधर्मभुवं ब्राह्मणाय दद्यात् । क्षत्रियां कार्मुकम् । वैश्यां वस्त्रम् । शूद्रामविमिति । यत्र हि " १. 'गोणिकापुत्रोऽपि पा०. २. 'तद्यदर्थमाह' पा०. ३. 'मन्यते' ४. 'बहुश एवं' पा०. ५. 'खण्डितचारित्रा' पा०. ६. उत्तमवर्णायाम्' 'पा०. ५ 'धर्मपीडाकारीति' पा०. ८. 'पुनर्मूचेयम्' पा०, पा. पा. १०. 'असमानः' पा०. ११. 'मन्यते' ९. 'इत्येवान्वयः' पा०. १२. 'हिसापि' पा०. J " ६४ कामसूत्रम् । : ५ आदितोऽध्यायः] सापि परिफल्गुदोषा तंत्राभिगमनं न कस्यापि धर्मोपघाते स्यादित्याह- गमनमपि कारणवशात्क्रियमाणं न धर्मपीडां करिष्यति । अधर्मस्याभावात् । पुनर्भूरियं कथमित्याह- अन्यपूर्वावरुद्धा नात्र शङ्कास्ति ॥ अन्यः पूर्वो यस्याः सेयं क्षतयोनिरनेनावरुद्धा संगृहीता नात्र शङ्कास्ति । गमने नाधर्मः स्यादिति । अनुत्तमवर्णिनीत्वात् । तत्र यद्यपि धर्मस्य पीडा नास्ति आशङ्का च, तथापि सुखं निमित्तीकृत्य प्रवर्तेत । निषिद्धत्वात् । किंतु वक्ष्यमाणमेव कारणं तेन विषयविशुद्धयर्थमिदमादावुक्तम् । यथोक्तम् –'विशुद्धिं विषयस्यादौ कारणानि च तत्त्वतः । प्रसमीक्ष्य प्र वर्तेत परस्त्रीपु न भावतः ॥' इति । कारणान्याह- पैति वा महान्तमीश्वरमस्मदमित्रसंसृष्टमियमवगृह्य प्रभुत्वेन च- रति । सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥ पति वा महान्तमिति । अस्मदमित्रेण जातसख्यं पतिं तस्य शत्रो- महात्त्वादैश्वर्यापकारसामर्थ्य वेत्युमयमधिकृतं वेदितव्यम् (!) । अवगृथ प्रभुत्वेन चरति अवष्टभ्य स्वामिनं व्यवहरति । सा मया संसृष्टा स्नेहा- त्संयोगात्प्रवृद्धस्नेहात्तस्मादेनं व्यावर्तयिष्यति । अस्मदमित्रादपकर्तुकामा- त्पातं प्रभवन्ती निवर्तयिष्यति ततश्च विशिष्टर्मांवो मे भविष्यति । अ- न्यथा महान्तमीश्वरमाश्रितो मामेवाकृतपुरुषार्थ हनिष्यति ॥ विरसं वा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति ॥ विरसं वेति । कार्यवशान्मयि विरक्तं पतिं शक्कमप्रतिविधेयमपकर्तुकामं कदाहमस्यापकरिष्यामीति बद्धानुशयं प्रकृतिमापादयिष्यति । प्रभवन्तीति मया संसृष्टा पूर्वावस्यं स्वभावं नेष्यति । १. 'तस्य' पा०. २. 'पुनर्भूध्येय मन्यपूर्वा न कापि शङ्कास्ति' पा०. ३. 'यदुक्तम्' पा०. ४. 'शङ्कितव्यं पति वा पा०. ५. 'तस्मादेनम्' पा० ६. 'अस्मदमित्रेण - वेदितव्यम्' इति पुस्तकान्तरे नास्ति. ७. 'तस्मात् ' ८. 'भाव्यो' पा०. ९. 'च' इति पुस्तकान्तरे नास्ति. १०. 'पूर्वाव यवस्थम्' पा०. पा०. ५ अध्याय:] १ साधारणमधिकरणम् । ६५ तया वा मित्रीकृतेन मित्रकार्यममित्रप्रतीघातमन्यद्वा दुष्पतिपा- दकं कार्यं साधयिष्यामि ॥ तया वेति । प्रभवन्त्या मया संसृष्टया मित्रीकृतेन तस्याः पत्या मित्रकायै तत्साध्यम् । मित्रकायें हि प्राणानपि त्यजेन्नरकमपि विशेत् । अ1 मित्रप्रतीघातं स्वशरीरत्राणार्थम् । अन्यद्वा खकीयं दुष्प्रतिपादकं दुःसाधकं साधयिष्यामि । संसृष्टो वानया हत्वास्याः पतिमस्मद्भाव्यं तदैश्वर्यमेवमधिगमि- ष्यामि ॥ संसृष्टो वानयेति । संप्रयोगादाहितस्नेहया कृतसंधिकां हत्वास्याः पतिं द्विषन्तं तूष्णीं दण्डेन असद्भाव्यमैश्वर्यमपि तदा भाव्यम् । केवलमस्मत्कुलं हत्वापि मतोऽपि वा हठादाच्छिद्यानेन प्रसह्य भुज्यते तत्प्राप्स्यामि । ततोऽस्य आततायित्वाद्वयापादनमपि नाधर्माय । निरत्ययं वास्या गमनमर्थानुवद्धम् । अहं च निःसारत्वात्क्षीण - प्युपायः । सोऽहमनेनोपायेन तद्धनमतिमहदकृच्छ्रादधिगमिष्यामि। मर्मज्ञा वा मयि दृढमॅभिकामा सा मामनिच्छन्तं दोषविख्यापनेन दूषयिष्यति ॥ निरत्ययं रक्षाद्यभावान्निर्दोषम् । अन्यत्राप्येतद्द्रष्टव्यम् । अर्थानुवद्धम् । आढ्यत्वादस्याः । अहं च निःसारत्वान्निद्रव्यत्वात्क्षीणवृत्त्युपाय इति । वृत्तिर्जीविका तदुपाय: कृष्यादिः स क्षीणो यस्येति । सोऽहं कुटुम्बमरणासमर्थोऽनेनोपायेनाभिगमनलक्षणेन तद्धनमतिमहद्धर्मादिसाधनमधिगमिष्यामि । खल्पाधिगमे तु नाधिगच्छेदिति मन्यते । अकृ च्छ्रादिति तैया नेहाद्दीयमानम् । अन्यथा दृष्टादृष्टसाधनं न स्यात् । तस्मात्कुटुम्बकार्थमकार्यमपि कार्य स्यात् । तथा चोक्तम् – 'माता वृद्धा पिता चैव साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या म १. 'अस्सदाभाव्यम्' पा०. २. 'द्विषन्मिन्नत्वाविषन्तम्' पा०. ३. 'असदाभाव्यम्' पा०. ४. 'वा गमनमस्या अर्थानुवन्धि पा०. ५. 'अतिकामा' पा०. ६. 'मया' पा०. का० ९ 1 ● ६६ कामसूत्रम् । ५ आदितोऽध्यायः] नुरब्रवीत् ॥' मयि दृढमभिकामेति । आभिमुख्येन कामयत इत्यमिकामा । दृढं मयि जातरागेत्यर्थः । मामनिच्छन्त खतोऽन्यस्माद्वा दोषाद्दोषविषयख्यापनेन मर्मज्ञत्वाल्लोके दूषयिष्यति । राज्यकामुकोऽयमिति येन मे विनांशः स्यात् । राजापथ्यकारीति । असद्भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्यति येन मे वि नाशः स्यात् ॥ असद्भूतं वेति । मैया संप्रयुयुक्षुरिति मिथ्यैव दोषमुत्थाप्य श्रद्धेयं कृत कमदनलेखेन जातप्रत्ययम् । एव च दुष्परिहारं मयि क्षेप्स्यति समारोपंयिष्यतिं येन मे विनाशः स्यात् । पारदारिक इति । आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति । आयतिमन्तं प्रभावयुक्तं पतिं वश्यं यथोक्तकारिणं भत्तो विभिद्य मत्तोऽनिच्छतोऽपि मित्रीभूतं विश्लेष्य द्विषतः संग्राहयिष्यत्यसच्छत्रून्मैत्रीपूर्वं स्वीकारयिष्यति । ततश्च संगृहीतप्रभावा मां हनिष्यति । स्वयं वा तैः सह संसृज्येत । मदवरोधानां वा दूषयिता पति- रस्यास्तदस्याहमपि दारानेव दूषयन्प्रतिकरिष्यामि ॥ स्वयं वा तैः सह संसृज्येत समर्थैः अस्मदुपघातार्थम् । मदवरोधानां वेति । अस्मत्परिगृहीतानां दाराणामभिगमनेन दूषयिता । ततश्चानुरूपप्रत्यपकारेण शत्रोरानृण्यं गन्तव्यमिति तदस्यापि दारानेवाभिगमनेन दूषयन्प्रतिकरिष्यामि । राजनियोगाच्चांन्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि ॥ राजनियोगादिति । राज्ञाहमभ्यन्तरं निरूपयितुं नियुक्तस्तमुपायान्त'राभावादस्याँविश्वासया संसृज्य निष्क्रामयिष्यामि । गुरुत्वात्खामिकार्यस्य । १. 'मिथ:' पा०. २. 'ग्राहयिष्यति' पा०. ३. 'आर्यतमं मन्त्रप्रभावयुक्तम्' पा०. ४. 'पतिरस्याः' इति पुस्तकान्तरे नास्ति. ५. 'तदहमपि' पा०. नियोगाच्चानुयोगादिति' इति पाठः सटीकपुस्तकेयु प्रायो दृश्यते मूलपुस्तके 'शत्रुम्' इत्यस्य स्थाने 'चारम्' इति वर्तते. ७. 'विश्वस्तया' पा०. ९ अध्यायः] १ साधारणमधिकरणम् । ६७ यामन्या कामयिष्ये सास्या वैशगा । तामनेन संक्रमेणाधिग- मिष्यामि । कन्यामलभ्यां वात्माघीनामर्थरूपवर्ती मैथि संक्राम- यिष्यति । ममामित्रो वास्याः पत्या सहकीभावमुपगतस्तमनया रसेन योजयिष्यामीत्येवमादिभिः कारणैः परस्त्रियमपि मकुर्वीत ॥ यामन्यामिति । प्रस्तुतनायिकया अन्यां यां प्रकृष्टकारणवशात्कामयिष्ये सास्या इति प्रस्तुतनायिकाया वशगा यथोक्तकारिणी । तामप्रस्तुतामुपायान्तराभावादनया संक्रमायमाणया प्राप्स्यामि । अलम्या मया निर्धनत्वादियोगात् । आत्माघीनां तदायत्ताम् । अर्थरूपवत त्रिवर्गहेतुं मयि संक्रामयिष्यति । कन्यामिति । सा वा संप्रयुज्यमाना उभयं संघटयतीति तामेव तावदधिगच्छामि । एवं च कांचित्संप्रयुज्य या स्त्री वस्तु संघटयतीति । ममाभित्रो वा प्राणहरोऽस्याः पत्या सहकीभावमुपगतः सहासनशयनपानभोजनादिभिः । प्राक् 'पतिममित्रसंसृष्टम्' इति संश्लेषमात्रमुक्तम् । तमनया संसृष्टया रसेन कालान्तरप्राणहारिणा विषेण योजयिष्यामि । एवमादिकारणं यदा मन्येतेति प्रवर्तते तदा प्रकुर्वीत । प्रपूर्वः करोतिरभिगमे वर्तते । आत्मनेपदम् । इति साहसिक्यं न केवलं रागादेव । इति परपरिग्रहगमनकारणानि । एतैरेव कारणैर्महामात्रसंवद्धा राजसंवद्धा वा तत्रैकदेशचारिणी काचिदन्या वा कार्यसंपादिनी विधवा पञ्चमीति चारायणः । सैव मत्रजिता पष्ठीति सुवर्णनाभः । गणिकाया दुहिता परिचारिका वानन्यपूर्वा ससमीति घोटकमुखः । उत्क्रान्तवालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनदींय: । कार्यान्तराभावादेनासामपि पूर्वास्खेवोपलक्षणम् तस्माचतस्र एव नायिका इति वात्स्यायनः । भिन्नखात्तृतीयामकृतिः पञ्चमीत्येके । साहसिक्यं न रागेण विषयस्याशुद्धत्वात्प्रकुर्वीत, किं तु कारणे१. 'वशगता तां चानेन क्रमेण' पा०. २. 'इय मयि' पा० . ३. 'तक्रमस्थानतया'; 'सक्रमसानाय याम्' पा०. ४. 'वस्तुरसम्' पा०. ५. 'राजसबद्धा' इति पुस्तकान्तरे नास्ति, कामसूत्रम् । ५ आदितोऽध्यायः] रित्यर्थः । एतैरिति यथोक्तैः । विधवा पञ्चमीति संबन्धः । प्राग्जीवद्धर्तृकेतिविशेषः । तत्रापि पत्युरभावात् । महामात्रस्य राज्ञो वा संबन्धः । संबद्धा असंबद्धा वा । तत्रैकदेशचारिणी तदीयकुटुम्बैकदेशसंबद्धा । अ न्या वा काचिदन्यजनसंबद्धा कार्यसंपादिनी यज्जनसंबद्धा तत्कार्येषु व्याप्रियमाणा । आसु तिसृषु विधवा स्वैरिणी पुनर्भू वेति विषयं विमृश्य पतिस्थाने राजानं महामात्रं अन्यं वा नियोज्य तत्प्रतिबद्धानि ( नायिकाप्रतिबद्धानि) कारणानि योजयेत् । सैवेति विघवा प्रत्रजिता राजमहामात्रयोरन्यस्य वा संवद्धा तत्कुलान्युपगच्छन्तीति नायिकानुवृत्त्या गृहधर्मत्वा क्षेत्रापि पूर्ववत्कारणानि योजयेत् । गणिकाया दुहिता अनन्यपूर्वा पुरुषेणासंसृष्टा । परिचारिका वा चन्द्रापीडस्येव पत्रलेखा । तत्र पूर्वा वेश्याकन्यामासा वक्ष्यमाणपाणिग्रहणमेदाद्भिद्यते । द्वितीया कन्याप्यगृहीतपाणिर्नायकं परिचरन्तीति विशिष्यते । उत्क्रान्तबालभावा कुलयुवतिरिति । कुलकन्यैवोढा सती कालेनापक्रान्तबालमावा समुपारूढयौवना कुलयुवतिः । उपचारान्यत्वादिति । उपचारभेदात्सा हि न कन्यावर्दुपचर्यते । कन्यायामुपचारा अपरिस्फुटा विकल्पेन च प्रयुज्यन्ते । प्राप्तयौवनायास्तु परिस्फुटाः समुच्चयेन चेति । कार्यान्तराभावादिति । कन्यादिषु चतसृषु यत्का र्यमुक्तं तव्यतिरिक्तानां विधवादीनां कार्याभावात्पूर्वास्खेवोपलक्षणमुपदर्शनम् । तत्रैव यथासंभवमुपलक्षयेदित्यर्थः । तत्र विधवा प्रव्रजितान्यकारणवशात्परपरिग्रहे द्रष्टव्या । गणिकादुहिता परिचारिका च सुखकार्यत्वाद्वेश्यायाम् । कुलयुवतिः पुत्रकलत्रफलत्वात्कन्यायाम् । उपचारभेदात्तद्भेदे नायिकातिसंप्रयोगात् । दृश्यते हि देशकालप्रकृतिसात्म्यभेदादेकस्यामुपचारवहुत्वम् । तृतीया प्रकृतिर्नपुंसकः स्त्रीत्वपुंस्त्वाभावाद्भिद्यते । तत्र चोपरिष्टकर्मणा सुखलाभात् । न रूपव्यापारभेदात्पञ्चमीत्येके । अन्यथा सुखकार्यत्वाद्वेश्याविशेष एंव । S १. 'प्रतिवद्धा वा' पा०. २ 'संवाहिका' पा०. ४. 'नायिकानिवृत्तगृह - पा०. ५. 'अत्रापि' पा०. ७. 'विधवादीनाम्' इति पुस्तकान्तरे नास्ति. नास्ति ९. 'एवेत्यर्थः' पा०. पा०. ३. 'आशु सिद्धयति' पा●● ६ 'उपचरेत्'; 'उपाचरयेत्' ८. 'कलत्र' इति पुस्तकान्तरे ५ अध्यायः] १ साधारणमधिकरणम् । नायकविमर्शमाह एक एव तु सार्वलौकिको नायकः । प्रच्छन्नस्तुं द्वितीयः । वि- शेषालाभात् । उत्तमाघममध्यमतां तु गुणागुणतो विद्यात् । त स्तुभयोरॅपि गुणागुणान्वैशिके वक्ष्यामः ॥ • एक एवेति । नायिकावद्भेदाभावादेक एव सार्वलौकिको नायकः कन्यापुनर्भुवेश्यास प्रवर्तमानः सर्वलोकविदितः । स एव परपरिगृहीतासु सुखव्यतिरेकेण कार्यविशेषलाभाद्गुप्त्या च प्रवर्तमानः प्रच्छन्नो द्वितीयः । गुणद्वारेण स त्रिविध इत्याह — गुणागुण इति । गुणसमुदायादुत्तमः । गुणपादद्वयाभावान्मध्यमः । पादत्रयाभावादधमः । सर्वगुणाभावादनायक इति । उभयोरिति । नायकस्य नायिकायाश्च । कन्यादीनां विशेषानभिधानात्पुनरगम्यतया विमर्शमाह - अगम्यास्त्वैवैताः – कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाश- मार्थिनी गतप्राययौवनातिश्वेतातिकृष्णा दुर्गन्धा संवन्धिनी सखी प्रव्रजिता संवन्धिसखिश्रोत्रियराजदाराच ॥ नायकस्य तु कन्यादिविधावगम्यत्वं सूचयति । तुशब्दो विशेषणार्थः । एवकारो नियमार्थः । सत्स्वपि कार्येप्वेता अगम्या इत्यर्थः । कुष्ठिनीति जुगुप्सितव्याध्युपलक्षणार्थम् । उन्मत्ता यत्किंचनकारिणी न सुखावहा । पतिता स्वजात्यपेक्षया महापातकाचरणात् । तत्संपर्कात्पतितः स्यात् । भिन्नरहस्या लोके रहस्यं प्रकाशयन्ती नायकं लज्जयति । प्रकाशप्रार्थिनी प्रकटं नायकमभिलषन्ती त्रपयत्यनर्थ च करोति । गतप्राययौवना तत्सेवायामायुस्तेजश्च हीयते । अतिश्वेता अतिकृष्णा चाप्रशस्ता । कन्यापुनर्मूश्च ज्ञेया निन्द्यत्वादन्या अपि यथासंभवं योज्या । दुर्गन्धा गुझे वक्त्रे च । दुष्टगन्धा संयोगे वैमुख्यं जनयति । संबन्धिनी भ्रातुरपत्यस्य १. 'च' पा०. २. 'च' पा०. ३. 'एवैषां विद्यात्' पा०. ४. 'तांस्तूभयो.' इत्यादि पुस्तकान्तरे नास्ति ५. 'अपि इति पुस्तकान्तरे नास्त्रि. ६. 'स्वव्यतिरेकेण' पा०. ७. 'प्रकाशार्थिनी' पा०. ८. 'ससर्गात्' पा०. ९. 'निजत्वात्' पा०. together o कामसूत्रम् । ९ आदितोऽध्यायः] भगिन्या वा परिणय संबन्धेन बाह्यन संबद्धा । सखी भार्यावयस्या तद नुरोधात् । प्रत्रजिता क्वचिच्छासने गृहीतत्रता धर्मार्थयोर्वैलोम्यात् । संबन्धिसखिश्रोत्रियराजदाराश्येति । विद्यासंबन्धेन राजसंबन्धेन वा संबद्धाः संबन्धिनस्तेषां दाराः । आचार्याणां शिष्यभार्या आतृभार्या इत्यादयोऽपि धर्मवैलोम्यात् । सखिदारा मित्रभार्या । अधर्मद्रोहादिमयात् । तथा चोक्तम् – 'रेतःसेकः स्वयोगेषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥' श्रोत्रियदारा ज्वलदभिप्रख्याः, धर्मवैलोम्यात् । राजदाराश्च चतुराश्रमगुरुभार्या दृष्टादृष्टविरोधात् । इत्येतदाचार्याणां मतमनुक्तमपि ज्ञेयम् । अत्र त्र यथोक्तव्यतिरेकेण परपरिगृहीताः सर्वा एवागम्याः स्युरिति । ७० बाम्रव्यमतमाहदृष्टपञ्चपुरुषा नागम्या काचिदस्तीति बाभ्रवीयाः ॥ खपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी कारणवशात्सर्वैरेव गम्या । तथा च पैचातीता बन्धकीति पराशरः । एकाद्वयादिदर्शने तु सत्स्वपि कारणेषु नैवेत्यर्थोक्तम् । द्रौपदी तु युधिष्ठिरादीनां स्वपतित्वादन्येषामगम्या । कथमेका सत्यनेकपतिरिति चैति •हासिकाः प्रष्टव्याः । बाअवीया इति बाअव्यशिष्याः । बाभ्रव्यमतानुसारिण एवमाहुः । तत्रापि गोणिकापुत्रो विशिष्यवक्तव्यमित्याहसंवन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिका पुत्रः ॥ दृष्टपञ्चपुरुषा नागम्येति वर्तते । अयमभिप्रायः–– संबन्धिभार्या स्वै रिण्यपि विद्यायोनिसंबन्धनान्तरेण संवन्धेन संबद्धत्वादगम्या । संवन्धित्वाद्वान तु गम्यैव । सखिमार्याप्यन्यस्य गम्या न नायकस्य । सखी 'त्वस्य भार्यावयस्या । स्वतो मैत्रीव्यवहारस्याप्रस्तुतत्वात्, गम्यैव । श्रो१. 'संवन्धः । वाह्येन'; 'संवन्धवान' पा०. २. 'स्वैरिणीव' पा०. ३. 'पाझाली न बन्धकी पा०. ४. 'अन्धस्य' पा०. १ अ त्रिय५ अध्यायः] १ साधारणमधिकरणम् । त्रियस्य क्रियावत्त्वात् राज्ञश्चतुराश्रमगुरुत्वात्, दाराः खण्डितशीला अपि दृष्टादृष्टविरोधादगम्याः । सहायविमर्शस्त्रिधा - स्नेहतो गुणतो जातितश्च । तत्राद्यमधिकृत्याह- सहपांक्रीडितमुपकारसंबद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्माणि रहस्यानि च विद्यात्, यस्य चायं विद्याद्वा धात्र- पत्य सहसंवृद्धं मित्रम् ॥ मिति स्त्रितीति मित्रं नवप्रकारम् । तत्र सहपांसुक्रीडितमेकत्रानुभूतबाल्यत्वात्निह्यति । उपकारसंबद्धमर्थेन जीवितरक्षया चोपकृतत्वान्मैच्या वर्तते । यच्चास्य नायकस्य मैर्माण्यकार्याणि यच्च रहसि भवानि विद्यात्तदुभयं मर्मज्ञं रहस्यधरं च नायकमँतीतेरास्पदत्वात्प्रतिनिाति । यस्य चेति । यस्य नायको मर्माणि रहस्यानि च विद्यात्तदुभयं तस्मिन्स मानितस्नेहत्वात्प्रीत्या वर्तते । सहसंवृद्धं धात्रीकोडे नायकेन सह स्तन्यपानादिना संवृद्धं धात्रपत्यं सहपांसुक्रीडितत्वेऽप्यत्यये ख्रिातीति प्रकर्षायें वचनम् । यदेकस्मिन्मामे वा सह संवृद्धं तत्सहपांसुक्रीडितं द्रष्टव्यम् । इति नवधा मित्रम् । गुणतो विमर्शमाह पितृपैतामहम विसंवादकमदृष्टवैकृतं वश्यं ध्रुवमलोभशीलमपरि- हार्यममन्त्रविस्रावीति मित्रसंपत् ॥ पितृपैतामहम् । पितामहादागतं पैतामहम् । पितुः पैतामहम् । नाय कस्य तु प्रपितामहम् । यथानयोमैत्री तेथा पित्रोः पितामहयोश्वासीदिति । अविसंवादकं यथादृष्टश्रुताधिकारिणम् । अदृष्टवैकृतं तदात्म्यककार्यस्यादिमध्यावसानेष्वदृष्टव्यभिचारम् । वश्यं यथोक्तकारिणम् । ध्रुवं १. 'विरोधित्वात्' पा०. २. 'रहस्यानि मर्माणि च' पा०. ३. 'विद्याद्वा' इति पुस्तकान्तरे नास्ति. ४. 'मित्रम्' इति पुस्तकान्तरे नास्त्रि. ५. 'मियति'; 'मित्रति' पा०. ६. 'मर्मकर्माणि'; 'कर्माणि' पा०. ८. 'अमन्त्रावति' 'प्रीतेः' पा०. पा. ९. 'तद्वत्' पा०. १०. 'तदात्मक' पा०. 1 1 ७२ कामसूत्रम् । ५ आदितोऽध्यायः ] न त्यजति । अलोमशीलं न तृष्णया प्रवर्तते । अपरिहार्य न परेण ह्रियते, अनुरक्तत्वात् । अमन्त्रविस्रावि गूढमन्त्रम् । मित्रसंपत्, मित्रसंबन्धात् । मित्रगुणा घर्मिद्वारणोक्ता जातितो विमृश्यन्ते रजकनापितमालाकारगान्धिकसौरिकैभिक्षुकगोपालकताम्बूलि- कसौवणिकपीठमर्दविटविदूषकादयो मित्राणि । तद्योषिन्मिन्त्राथ नागरकाः स्युरिति वात्स्यायनः ॥ रजकादयो नायकं स्वकर्ममिरुपकुर्वन्तः परभवनं च विशन्ति । तत्र गान्धिको गन्धद्रव्यस्य विक्रेता । गन्धः पण्यमस्येति । तथा सौरिकः शौ- ण्डिकः । भिक्षुको भिक्षणशीलः । पश्चात्कुत्सायां कः । तद्योषिन्मित्राश्चेति । न तथा पुरुषा यथा योषितः परभवनं विशन्ति विश्वासयन्ति च स्त्रियः । दूतस्य यत्कर्म तत्कुर्यादित्याधारतो विमृश्यते- यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः सुवित्र- व्धं तत्र दूतकर्म ॥ यदिति । मित्रमुभयोरिति, नायकस्य नायिकायाश्च मैथ्या वर्तमानत्वा- त्साघारणं यथोक्तमभिधत्ते । उभयत्रोदारं आत्मभूतकार्यकार्यात् (?) । . विशेषत इति । नायिकायाः सुष्ठु विस्रव्धं विश्वस्तम् । तस्याः साध्यमा- नत्वात् । तत्र मित्रे दूतकर्म दूतक्रिया । सिद्धिहेतुत्वात्, नान्यत्रेति । तत्रापि यदि दूतस्य गुणाः स्युरंतो गुणतो विमृश्यते- पटुता धार्ष्वमिङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणाः ॥ १. 'परैरपहियतें' पा●● २. 'मित्रसंबन्धात्' इति पुस्तकान्तरे नास्ति. ३. सौनिक'; 'शौण्डिक' पा०. ४. 'गोपालकताम्बूलिकसावर्णिक इति पुस्तकान्तरे नास्ति. क्वचिच्च मालाकारादीनां पौर्वापर्यम्. ५. 'चारायण: ' पा०. ६. 'यदति मित्रमुभयो:'; 'यन्मित्रमुमयोः' पा०. ७. 'उदाहारम्'; 'उदाहरणम्' पा०. ८. 'विस्रव्धमिति मित्रसंपत्' पा०. ९. 'उभयत्रोदाहरणमाप्तभूत-' पा०. १०. 'अतो' इति पुस्तकान्तरे नास्ति ११. 'धृष्टत्वमिङ्गिताकारज्ञानमनाकुलत्व परमर्मज्ञता प्रतारणत्व कालज्ञान देशज्ञानं कार्येषु विपयवुद्धित्वम्', 'धृष्टतेङ्गिताकारजता कालज्ञता प्रमाणता प्रतारणकार्येषु च विषयबुद्धित्वम्'; 'कालज्ञतानाकुलत्वं परममंज्ञता देशकालज्ञान प्रतारणकार्येषु चाविषयवर्तित्वम्' पा०. i ६ । F 1 ५ अध्यायः] १ साधारणमधिकरणम् । पटुता प्रज्ञानुबद्धया वाचा वक्तुं कुशलता । धार्च प्रागल्भ्यमिति । इङ्गितमन्यथा वृत्तिः, आकारो वदननयनादिगतविकारः, तज्जतया तदनुरूपमनुतिष्ठति । प्रतारणकालज्ञता कालेऽस्मिन्प्रोत्साहयितुं शक्यत इति । विषयबुद्धित्वमिति । संशयेषु विषह्या विमर्शक्षमा बुद्धिर्यस्येति विगृह्य भावप्रत्ययेन योज्यः । लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति । कार्य विमृश्य तदेवोपायपूर्वकमनुष्ठानं न कार्यातिपातनम् । इदानीमधिकरणार्थानुष्ठाने फलं प्रयोजनं चाह भवति चात्र श्लोकः आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् । अलभ्यामप्ययत्नेन स्त्रियं संसाधयेन्नरः ॥ 1 इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतीकर्मविमर्शः पश्चमोऽध्यायः । आत्मवानिति । तत्र त्रिवर्गप्रतिपत्त्या समुद्देशेन चात्मन्याहितगुणत्वा- दात्मवान् । सहायविमर्शेन मित्रवान् । युक्त इति नागरकवृत्तानुष्ठानेन युक्तः स्वकर्मनिष्ठः । भावज्ञो नायकनायिकाविमर्शेन तत्स्वरूपज्ञ इत्यर्थः । दूतकर्मचित्तपैरिमर्शनेनेति फलम् । अलभ्यामप्ययत्नेन स्त्रियं विपरिमर्शितां साघयत इति फलप्रयोजनम् । एवंभूतस्य हि स्त्रीसाधनयोग्यत्वादिति । नायकसहायद्वतीविपरिमर्शः पञ्चमं प्रकरणं पञ्चमश्चाध्यायः ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाद्मनाविरहकातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां साधारणे प्रथमेऽधिकरणे नायकसहाय दूतीकर्मविमर्शः पञ्चमोऽध्यायः । समाप्तं चेदं साधारणं प्रथममधिकरणम् । नेति' पा०. १. 'प्रतारण कालज्ञता' पा०. २. 'भवन्ति चात्र श्लोकाः' पा०. ४. 'नायकसहाय-' इत्यादि पुस्तकान्तरे नास्त्रि. का० १० ३. परिमरों७४ सांप्रयोगिक कामसूत्रम् । ६ आदितोऽध्यायः] नाम द्वितीयमधिकरणम् । प्रथमोऽध्यायः । स्त्रियं साधयत इत्युक्तं स्त्रीसाधनं चावापः स चाविज्ञातशास्त्रस्य न युज्यत इत्यावापात्प्राक्तनं सांप्रयोगिकमुच्यते । तत्रापि संप्रेयोगो रतं तस्मिन्प्रमाणादिभिर्ज्ञातखरूपे यथायथमालिङ्गनादयः प्रयुज्यमाना रैत्यर्था इति प्रमाणकालभावेभ्यो रतावस्थापनमुच्यते । हेतौ पञ्चमी । प्रमाणादिना तस्य व्यवस्थापनमित्यर्थः । तत्र लिंङ्गसंयोगाद्भावकाळाविति । ताभ्यामपि प्राक्प्रमाणतस्तावद्रतावस्थापनमाह शशो वृषोऽश्व इति लिङ्गतो नायकविशेषाः । नायिका पुनर्मू- गी वडवा हस्तिनी चेति ॥ । लिङ्गत इति । लिङ्गयन्ते स्त्रीत्वादयोऽनेनेति लिङ्गम् । लोकप्रतीत्या लिङ्गं मेहनमुच्यते । तत्र पौसमुन्नतं प्रमाणं स्त्रीणां निमं प्रमाणं च शास्त्रव्यवहारयोः । अल्पापसाच्छश इव शशः । तथा समाद्रुषः । महतोऽश्वः । इति नायकमेदाः । नायिका पुनरिति । पुनःशब्दो विशेषणार्थः । लिङ्गस्य भिन्नत्वात्संज्ञामेदः प्रयुज्यत इति पूर्वाचार्यैर्मृग्यादिभिरुपमिताः, न शशादिभिः । तथा चाहुर्लक्षणम् –'षण्नवद्वादशेत्येवमायामेन यथाक्रमम् । शशादिभेदमिन्नानां त्रिधा साधनसंस्थितिः ॥ परिणाहेन तुल्यं स्यादायामस्य प्रमाणतः । नियतं नेति केचित्तु परिणाहं प्रचक्षते ॥ स्त्रीणां संसारमार्गोऽपि तद्वदेव प्रभिद्यते । आयामपरिणाहाभ्यां मृग्यादीनां शशादिवत् ॥" इति । तत्र सहशसंप्रयोगे समरतानि त्रीणि ॥ तत्रेति नायकनायिकयोर्भेदे । सहशो विसदृशो वा संप्रयोगः स्यादित्याह—–—सहशसंप्रयोग इति । शशस्य मृग्या, वृषस्य वडवया, अश्व१. 'आयामः'. २. 'संप्रयोगे रतें'; 'संप्रयोगेतरे'. ३. 'इत्यर्थ:'. ४. 'प्रमाणकालभावेभ्यो रतावस्थापनम्' इत्यस्याध्यायस्य विषयः ५. 'पुंसाम्'. ६. 'उपयुज्यते'. 'तुल्या'. ८. 'मार्गेऽपि, स्य हस्तिन्या सह सदृशः संप्रयोगो र[^१]न्ध्रेन्द्रियसमाप्तिलक्षणः । अल्पादिभिर्लिङ्गसादृश्यात् । तस्मिन्सति त्रीणि समरतानि । रन्ध्रसाधनयोराश्रयाश्रयिमावेन य[^२]त्रसाम्यात् । विपर्ययेण विष[^३]माणि षट् । विषमेष्वपि पुरुपाधिक्यं चेदनन्तर- संप्रयोगे द्वे उच्चरते । व्यवहितमेकमुच्चतररतम् । विपर्यये पुनर्द्वे नीचरते । व्यवहितमेकं नीचतररतं च[^४]। तेषु समानि श्रेष्ठानि । तरशब्दाङ्कि द्वे कनिष्ठे । शेषाणि म[^५]ध्यमानि ॥ शशस्य वडवया हस्तिन्या च, वृषस्य मृग्या हस्तिन्या च, अश्वस्य मृग्या वडवया चेति विसदृशः संप्रयोगः । लिङ्गवैषम्यात् । तस्मिन्सति षड् विषमाणि रतानि । यन्त्रवैषम्यात् । विषमेष्वपि रतेपु व्यवहाराथै विशेषसंज्ञामाह — पुरुषाधिक्यं चेति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रिया न्यूनत्वं तदानन्तरो व्यवहितो वा संप्रयोगः स्यात् । तत्राश्वस्य वडवया वृषस्य मृग्येति वैलोम्येनान्तरसंप्रयोगः । तस्मिन्समरताद्द्वे उच्चरते । साधनस्योच्चतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् । व्यवहितमिति । अश्वस्य मृग्या सह व्यवहितसंप्रयोगः । व[^६]डवया व्यवधानात् । तस्मिन्सति उच्चरतादुच्चतररतम् । साधनस्यात्युच्चतया निप्पीडितेन कथंचिद्व्यापारात्। विपर्यये द्वे । पुनरिति । पुनःशब्दो विशेषणार्थः । स्त्रियाधिक्ये त्वनन्तरसंप्रयोगे शशस्य वडवया वृषस्य हस्तिन्येत्यानुलोम्येन समरताद्द्वे नीचरते । साधनस्य निकृष्टतया रन्ध्रे सम्यगनवपूर्य व्यवहारात् । व्यवहिते वडवयान्तरिते प्रयोगे शशस्य हस्तिन्या सहेति नीचरतान्नीचतररतम् । तत्रानवपूर्यैव व्यवहारात् । एषामुत्तमादीन्याहतेष्विति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्र[^८]शस्तानि । तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् । तर शब्दा ङ्किते कनिष्ठे [^१] 'द्वीन्द्रियसमाप्ति'; 'इन्द्रियसमाप्ति'. [^२] 'यत्र'; 'तत्र'. '[^३]विषमरताने. [^४] 'च' इति पुस्तकान्तरे नास्ति [^५] 'मध्यमानि शेषाणि'. [^६] 'धडवाव्यव. धानात् '. [^७] 'व्यापाराविषये. [^८] प्रशस्थानि. कामसूत्रम् । ६ आदितोऽध्यायः] उच्चतरनीचतरशब्दाकिते अधमे । तत्र यन्त्रस्यातिपीडनादतिशैथिल्याच स्पर्शसुखस्याभावात् । शेषाणि चत्वारि उच्चरते द्वे नीचरते द्वे मध्यमानि । श्रेष्ठकैनिष्ठाभावात् । तत्र धनतिपीडनादनतिशैथिल्याञ्च स्पर्शसुखस्य समत्वात् । तत्रापि मध्यमानां विशेषमाह-~७६ साम्येऽप्युच्चा नीचाकाज्ज्यायः । इति प्रमाणतो नवरतानि ॥ ज्येष्ठकनिष्ठाभावाद्वतस्य साम्येऽपि । मध्यस्थेऽपीत्यर्थः । उच्चाङ्कं नीचाङ्काज्ज्याय इति । उच्चरते हि योषित उत्फुल्लकादिना प्रसार्य जघनं संविष्टायाः साधनाधिक्यात्कण्डूतिप्रतीकाराधिकलाभः । नीचरते तु संपुटकादिनावहासितजघनाया अपि न तत्प्रतीकारोऽस्ति । यथोक्तम्'न त्वल्पसाधनः कामी चिरकृत्योऽपि वा नरः । कण्डूतेरप्रतीकारान्नातिस्त्रीप्रिय उच्यते ॥" इति । उक्तमेवेति । भावतों रतावस्थापनमाह यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न सहते स मन्दवेगः ॥ भावतो हि कालस्य पश्चाद्भावित्वात्फलरूपत्वाभावात्तस्यापरिच्छेदात् । तथा हि हेतुफलमेदादत्र द्विविधो भावः । तत्र कामिताख्यो हेतुः । तसिन्सति संप्रयोगात् । रतान्ते च भावः फलम् । तस्मादुभयरूपाद्रुतमवस्थाप्यते । स च मूदुर्मेध्यमातिमात्रमेदात्रिविधः । तत्र यस्य संप्रेयोगकाले प्रीतिरुदासीना संप्रयोगेच्छा मनाग्भवति रतिर्वा वीर्यमल्पं संप्रयोग मन्दो व्यापारः शुक्रधातुर्वा स्तोकः क्षतानि च नायिकया दन्तनखैः प्रयुज्यमानानि उपलक्षणत्वात्महरणं च न सहते य इत्यर्थाद्विभक्ति[वि]परिणामः । मृदुभावत्वान्मन्दवेगः । मृदुराग इत्यर्थः । १. 'कनिष्ठत्वाभावात्. २. 'अपि तूच्चाकम्'. ३. 'कामितेच्छा'. ४. 'मध्यमाSwaman Part १ अध्यायः] २ सांप्रयोगिकमधिकरणम् । तद्विपर्ययौ मध्यमचण्डवेगौ भवतस्तथा नायिकापि ॥ यथोक्तस्य विपर्ययौ । यस्य संप्रयोगे प्रीतिर्मध्या वीर्य मध्यं क्षतानि च यः सहते स मध्यभावत्वान्मध्यवेग इत्येको विपर्ययः । संयोगे प्रीतिरषिका वीर्य महत्क्षतानि चात्यर्थं सहते सोऽधिकभावाच्चण्डवेग इति द्वितीयः । तथेति पुरुषवत् । यस्य संप्रयोग इत्यादिना मन्दमध्यचण्डवेगा इति नायिकास्तिस्रः । ७७ तत्रापि प्रमाणवदेव नवरतानि ॥ प्रमाणवदेवेति सहशसंप्रयोगे समरतानि त्रीणि । विपर्यये विपमाणि षट् । तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥ यथा भावप्रमाणाभ्यां तथा कालतो नव रतानि । भावोत्पत्तिनिमितस्य कालस्य शीघ्रादिभेदेन त्रैविध्यात् । यदाह — शीघ्रमध्यचिरकाला इति । शीघ्रेण कालेन रतिर्यस्य । तथा मध्यचिरकालाभ्याम् । नायका इति नायकश्च नायिका चेति 'पुमान्स्त्रिया' इत्येकशेषनिर्देशः । तत्र स्त्रियां विवादः ॥ नायकनायिकयोः स्त्रीपुंसयोः स्त्रियां विवादः । स्त्रीविषये मतभेद इत्यर्थः । तत्र औद्दालकेर्मतम्- न स्त्री पुरुषवदेव भावमधिगच्छति ॥ यादृशं सुखं विसृष्टिप्रभवं पुरुषोऽनुभवति तादृशमेव न स्त्री । शुक्राभावात् । किमर्थं तर्हि पुरुषेण संप्रयुज्यत इत्याह- सातत्याचस्याः पुरुपेण कण्डूतिरपनुद्यते ॥ १. 'तद्विपर्यये'. २. 'भवतः' इति पुस्तकान्तरे नास्ति. ४. 'संयोगे'. ५. 'अत्रापि'. ६. 'भावेऽपि प्रमाण'. ८. 'यथा प्रमाणभावात्'. ९. 'पुरुषवद्भावम् १०. 'तस्याः'. ३. 'विपर्ययो'. ७. 'नाविकाच'. कामसूत्रम् । ६ आदितोऽध्यायः ] संबाधकस्य स्वभावतः कृमिजुष्टत्वात्तत्र निसर्गसिद्धा कण्डूतिः । तथा चोक्तम् – 'रक्तनाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः । सरसंझसु कण्डूतिं जनयन्ति यथावलम् ॥' सा त्वस्याः पुरुषेणापनीयते । सातत्यादिति अनवरतसाधनव्यापारेणेत्यर्थः । अन्यथा तत्प्रतिबन्धे कण्ड्डा उत्कोप एव स्यात् । ७८ अपद्रव्येणापि सा स्वयमपनयतीति चेदाह सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति । त स्मिन्सुखबुद्धिरस्याः । पुरुषप्रतीतेश्यानभिज्ञत्वात्कथं ते सुखमिति प्रष्टुमशक्यत्वात् । कथमेतदुपलभ्यत इति चेत्पुरुषो हि रतिमधि- गम्य स्वेच्छया विरमति, न स्त्रियमपेक्षते, न त्वेवं स्त्रीत्यौदालकिः ॥ सा च कण्डूतिरपनीयमाना शैलाकिकया कर्णकण्डूतिरिव । आभिमानिकेनेति आभिमानिकं चुम्बनादिसुखं वक्ष्यति । तेन संसृष्टानुगता । रसान्तरमिति सुखान्तरं जनयति । यत्कण्डूत्यपनोदसुखं यच चुम्वनादिसुखं तयोः संसृष्टयो रसान्तरत्वात् । तस्मिन्रसान्तरे सुखबुद्धिरस्याः सुखितासीति । कण्डूतिप्रतीकारमात्रे तु न सुरुबुद्धिः । तस्या अप्राधान्यात् । ततः 'स्पर्शविशेषविषया आभिमानिकसुखानुविद्धा फलवत्यर्थ प्रतीतिः प्राधान्यात्' इत्येतद्विशेषलक्षणं तुल्यम् । विशेषो यदत्र न फलवती । शुक्राभावात् । तच्च रसान्तरमारम्मात्प्रभृति संतानेन सर्वथा कण्डूत्यपनोदात्प्रवर्तते । पुरुषमुखं तु विसृष्टिभावित्वात् । अत एव तयोः स्वरूपतः कालतश्च न साहश्यमिति न कालभावाभ्यां नवरतानि । ननु च पुरुषवद्रति स्त्री नाधिगच्छतीति कथमेतदुपलभ्यते यस्मात्पुरुषप्रीतेश्वेतोधर्मत्वेनातीन्द्रियायाः प्रत्यक्षेणानभिज्ञत्वात् । कस्य ज्ञातुः पुरुषस्येत्यर्थः । चशब्दात्स्त्रीप्रीतेश्च । यदा स्त्री पुरुषायमाणा स्वव्यापारेणात्मनः प्रीतिं जनयति ततश्च तदसंवेदनादेव खभावात्प्रीतिरस्या इति कथमुपलभ्यते । पृष्ट्वा ज्ञास्यतीत्यपि नास्तीत्याह — कथमिति । कथं केन १. 'सद्मनि', २. 'चैवाह'. ३. 'अनुविद्धा'. ४. 'शलाकया'. ५. 'अप्रधानत्वात्. १ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ७९ - प्रकारेण तव सुखं किं विसृष्ट्या यथास्माकं किं वान्येनेति । तत्र स्त्रिया विसृष्टिसुखस्यासंवेदनात्प्रकारान्तरसुखस्य च पुरुषेणासंवेदनात्प्रष्टुमपि न शक्यते । किमुत तद्वचनात्परिज्ञानम् । तस्मात्पुरुषवद्भावं नाघिगच्छतीति कथमेतदुपलभ्यत इत्याशङ्कचौद्दालकिरुपलब्ध्युपायमाह — पुरुषो हीति । पुरुषो रतिमधिगम्य विसृष्टिसुखमनुभूय कृतकृत्यत्वात्खेच्छया व्यापाराद्विरमति न स्त्रियमपेक्षते व्याप्रियमाणामपि । न त्वेवं स्त्रीति । सापि यदि पुरुषवद्विसृष्टिसुखमधिगच्छेत्तदा तदधिगम्य पुरुपनिरपेक्षा खेच्छया यन्त्रविश्लेषपूर्वकं विरमेत् । न चैवमन्यत्र पुरुपविरामात् । विरतेऽपि पुंसि पुरुषान्तरसापेक्षत्वात् । तथा हि केनचित्युंसा संप्रयुज्य तथावस्थितै [रे] वापरैः संप्रयुज्यमाना काचिदृश्यते । अत एवोक्तम् – 'अभिस्तुप्यति नो काठैर्नापगाभिः पयोदधिः । नान्तकः सर्वभूतैथ्य न पुंभिर्वा मलोचना ॥" इति । तस्मात्स्वेच्छया विरामाभावान्न विसृष्टिसुखाधिगमो यथा प्राग्विसृष्टेः पुरुषस्येति । तत्रैतत्स्यात् । चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य भाव- मनासाद्यावसानेऽभ्यसूयिन्यो भवति । तत्सर्वे भावमातेरमातेश्च लक्षणम् ॥ मा भूत्स्वेच्छया विरामोपलम्भात्त्रीपु विसृष्टिसुखानुभूतिः, अनुरागदर्शनात्तु स्यात् । तद्यथा चिरखेगे नायके चिरमुपसृत्य विसृष्टिसुखाषिगमाद्विरते स्त्रियोऽनुरज्यन्ते । त्रिचन्तीत्यर्थः । शीघ्रवेगस्य च नायकस्य क्षिप्रमुपसृत्य सुखाधिगमाद्विरतस्य रतान्तेऽभ्यसूयिन्यो द्वेपिण्यो भवन्ति । तत्सर्वमिति । अनुरागो विरागश्चोमयं लक्षणम् । ज्ञापकमित्यर्थः । कस्येत्याह भावस्य प्राप्तेरप्राप्तेश्चेति । तत्रानुरागो योषितां सुखप्राप्ति ज्ञापयति । विरागश्च दुःखाघिगमात्सुखाप्राप्तिम् । विरागस्य विरुद्धकार्यत्वात् । अनुरागविरागौ च सुखदुःखहेतुकौ पुरुषेषु दृष्टान्तत्वेन सिद्धौ । तेऽपि हि पुरुषायिते चिरं व्यापत्य विरतायां योपित्यधिगतसुखाश्चिरवेगा अनुरज्यन्ते । तत्क्षणविरतायां च दुःखाधिगमादनवाप्यते १. 'एवं कृत्वोकम्'. 4 कामसूत्रम् । ६ आदितोऽध्यायः ] [इति सुर्ख] रतिसुखमिति विरज्यन्ते । तस्मात्पुरुषस्येव योषितोऽप्यनुरागोपलम्भाद्विसृष्टिसुखाधिगमः प्रतीयते इति तच्च न । कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति । ऐत- दुपपद्यत एव । तस्मात्संदिग्धत्वादलक्षणमिति ॥ तच्च नेति अनुरागो भावप्राप्तेलिंङ्गमित्येतन्नास्ति । साधारणत्वादस्य । तैदाह — कण्डूतिप्रतीकारोऽपि हीति । तस्माच्चिरवेगेन कण्डूतेर्यः प्रतीकारः प्रतिक्रिया दीर्घकाल इत्यतिचिरकालः सोऽपि स्त्रीणां प्रियः । न केवलं विसृष्टिसुखजननमेतदुपपद्यते [एव न तु नोपपद्यते] एवेत्यनेन योगव्यवच्छेदेन भवत्पक्षेऽप्येतदस्तीति दर्शयति । अन्यथा विसृष्टिसुखाधिगमेऽपि कण्डूतेरप्रतीकारान्न तत्रानुरागः । ततश्च किं विसृष्टिसुखाधिगमादनुरागोऽस्याः किं वा कण्डूतिमतीकारसमुत्य इति संदिग्धः । तथानघिगमात् । विरागोऽपि शीघ्रवेगे योज्यते । तस्मादेतदुभयं संदिग्धत्वाद्विसृष्टिसुखस्य प्राप्तेरप्राप्तेश्च लक्षणमज्ञापकम् । उभयत्र वर्तमानत्वात् । तस्मात्स्वेच्छया विरामाविरामावेव ज्ञापकौ । तौ च स्त्रियां वर्तमानौ स्तः इति न पुरुषवद्रतिमधिगच्छतीति स्थितम् । एतदेव मतमौद्दालकिगीतेन श्लोकेनाह संयोगे योषितः पुंसा कण्डूतिरपनुद्यते । तेच्चाभिमानसंसृष्टं सुखमियभिधीयते ॥ कैण्डूत्यपनोदसमुत्थं स्पर्शसुखमभिमानसंसृष्टमिति कारणे कार्योपचारादाभिमानिकसुखानुविद्धं सुखमित्यभिधीयते योषिद्भिः । बाम्रव्यमतमाहHAMDA सातत्याधुवतिरारम्भात्मभृति भावमधिगच्छति । पुरुषः पुन- रन्त एव । एैतदुपपन्नतरम् । नासत्यां भावशासौ गर्भसंभव इति वाभ्रवीयाः ॥ १. 'पुरुषवत्'. २. 'तत् ३. 'यदाह'. ४. 'अपीष्टः'. ५. 'तथा भिमान'; 'सा चाभिमान'. ६. 'तचेल्यपनोदसमुत्यम्'. ७. 'तदुपपन्नतरम्'; 'तदुपपन्नतरकम्'. ७. 'गर्भसंभव उपवद्यते'. १ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ' ८१ द्वावपि विसृष्टिसुखमधिगच्छतः । स्त्री त्वारम्भाद्यन्त्रयोगात्प्रभृति सातत्यान्नैरन्तर्येण । सा हि पुरुषेणोपसृप्यमाणा प्रमिन्ननलभाण्डवच्छनैः क्लिन्नसंबाधा भवतीति प्रत्यक्षसिद्धमेतत् । सुखं च पुरुपस्येव विसृष्टचनुविद्धमित्यारम्भात्प्रभृति भावमधिगच्छति । पुरुषः पुनरन्ते भावमधिगच्छति । तदानीं शुक्रविसर्गात् । एतदिति यथोक्तमुपपन्नतरम् । प्रमाणसिद्धत्वात् । ततश्च तयोर्मिन्नकालत्वान्न सादृश्यमिति न कालतो नव रतानि । भावतस्तु सन्ति । विसृष्टिसुखसादृश्यात् । ननु संवाघो व्रणस्वभावत्वादुपनुद्यमानः क्लिद्यतीत्याह – नहीति । रसप्राप्तौ विसृष्टिसुखाधिगमे तृप्ता हि स्त्री गर्ने धत्ते । यथाह चरककार: – 'निष्ठीविका गौरवमङ्गसादस्तन्द्रा प्रहर्षो हृदयव्यथा च । तृतिश्च वीजग्रहणं स्वयोन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥ इति । तृतिश्चै भावः । स च न शुक्रविटं विनेत्यभिप्रायः । आर्तवं विसृजति न शुक्रमिति केचित् । यथाह कामाभितप्तचित्तस्त्रीपुंसयोरन्योन्यदेहसंसर्गादरणीदण्डाभ्यामिव वहिः शुकार्तवमथनादिति । अस्ति तावत्ततिनिबन्धनं कि तदिति चिन्त्यते । यदि तन्त्र शुक्रं कथं योषितो गर्भसंभव उत्पद्यते । येथा हि पुरुषसंसर्गात्स्त्री गर्भ धत्ते तथा योषित्संयोगादपि । यथोक्तं सुश्रुते-'यदा नारी च नारी च मैथुनायोपपद्यते । अन्योन्यं मुञ्चतः शुक्रमनस्थिस्तत्र जायते ॥ तस्माद्रसधातोरुत्पन्नोऽसृग्धातुरेव कस्यांचिदवस्थायामार्तवम् । शुक्रधातुस्तु मज्जधातोरुत्पद्यत इति । अत्रापि तावेवाशङ्कापरिहारौ भूयः ॥ अनापीति बाम्रव्यमतेऽपि । तावेवेति पूर्वोक्तावशङ्कापरिहारौ वाच्यौ । तत्र यद्यारम्भात्प्रभृति भावाघिगमस्तदा चिरवेगेऽनुरज्यन्ते शीघ्रवेगस्य चावसानेऽभ्यसूयिन्य इत्ययं भेदो न युज्यते । तत्र यत्राप्यासां भावाधिगमाद्दृश्यते च भेदः । यस्माद्नुरागस्तस्मादन्ते पुरुषवद्भावस्य प्राप्तिः । यतः सासूया तस्मान्नारम्भात्प्रभृतीत्याशङ्कार्पेरिहारोऽपि । तन्न । कण्डूति१. 'तु'. २. 'तयाहि'. ३. 'प्रसङ्गादपि'. ४. 'परिहारौँ'. का० ११ ८२ कामसूत्रम् । ६ आदितोऽध्यायः] प्रतीकारोऽपि दीर्घकालः प्रिय इति कण्डूत्यपनोदाभावाच्च शीघ्रवेगे च प्रद्वेषः । सत्यपि भावाधिगमे कण्डूत्यपनोदस्योधिककालस्याभावात् । अथवा दीर्घकालं भावजननमपि प्रियमिति योज्यम् । भावस्याधिकृतत्वात् । शींघ्रवेगे च विरज्यन्ते । चिरकालं भावस्याजननात् । योषितो हि चिरानुबन्धनं भावमुत्पद्यमानमिच्छन्ति । तासामष्टगुणकामत्वात् । एवं सति न पुंभिर्वामलोचनास्तृप्यन्तीति युक्तम् । तेषामेकगुणकामत्वात्, न पुन र्विसृष्टिसुखाभावादिति । भूयश्चेति पुनराशङ्कार्पेरिहारः । यदाह तत्रैतत्स्यात् – सातत्येन रसमाप्तावारम्भकाले मध्यस्थचित्तता नातिसहिष्णुता च । ततः क्रमेणाधिको रागयोगः शरीरे निरपेक्ष- त्वम् । अन्ते च विरामाभीप्सेत्येतर्दुपपन्नमिति ॥ रतस्यारम्मकाले मध्यस्थचित्तता नखक्षतादीनामप्रयोगः । नातिसहिप्णुता च नखक्षतादीनां प्रयुज्यमानानां नातिक्षमिता । ततश्च क्रमेणारम्भादुत्तरकालं तरतमभेदादधिकरागयोग इति मध्यस्थचिततायां विपर्ययः । शरीरेऽपि निरपेक्षत्वमित्यतिसँहिष्णुतया । अन्ते च विरामाभीप्सा प्रयोगनिवृत्तीच्छा । एतत्सर्वमवस्थान्तरं योषितः सातत्याद्रसप्राप्सौ सत्यामनुपपन्नम् । प्रारम्भात्प्रभृत्येकरूपतया सातत्येन विसृष्टिसुखस्य प्रवृत्त त्वात् । पुरुषस्य विसृष्टयवस्थायामेतदवस्थान्तरं दृश्यत इति । तच्च न । सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणं वेगस्येत्युपपद्यते । धातुक्षयाच विरामाभीप्सेति । तस्मादनाक्षेपः ॥ नैवानुपपन्नम् । कुलालचक्रादिवदुपपद्यत एव । अमरकं काष्ठमयं क्रीडनकद्रव्यम् । यद्दीर्घेण सूत्रेणावेष्टय लाडिका भ्रमयन्ति । यथा तयोचल १. 'सत्यप्यधिगमे'. २. 'अधिकलामस्याभावात्'; 'अधिककालाभावस्याभावात्. ३. 'चिरानुवन्धितम्'. ४. 'परिहारी'. ५. 'अन्ते धातुक्षयात्'. ६. 'अनुपपन्नम् . ७. 'सहिष्णुताया: '. १ अध्याय:] २ सांप्रयोगिकमधिकरणम् । ८३ दण्डे सूत्रत्याक्षिप्ते त्रान्तिसंस्कारे समानेऽप्यादिमध्यावसानेषु भ्रान्त्यामेव वर्तमानयोरन्यथा प्रान्त्यभावात्तत्संस्कारोऽस्तीति कथं प्रतीयते । प्रारम्मे मन्दवेगता मन्दभ्रमणम् । ततः क्रमेण तरतमभेदेन पूरणं वेगस्य । यथा तत्कुलालचक्रं भ्रमरकं वा निश्चलतरमिव स्थितमिति एवं योपितोsपि पुरुषणोपैसृप्तादिभिः प्रत्ययैरुत्पद्यमाने विसृष्टिसुखे समानेऽप्यादिमध्यावसानेपु प्रारम्भकाले मन्दवेगता मृद्धी रतिः । तंत्र मध्यस्थचित्तता नातिसहिष्णुता च । ततः क्रमेण पूरणं वेगस्याधिक्यं रतेः । यत्राधिकचित्तवृत्त्या शरीरनिरपेक्षत्वमिति । सातत्येन भावस्य प्रवृत्तत्वात्कथं विरामाभीप्सेत्याह - धातुक्षयाच्चेति । समुत्पन्ने कामिताख्ये भावे यः शुक्रधातुः स्वस्थानाच्युतः स्वनाडीं प्रतिपद्यते तस्यारम्भात्प्रभृति शनैः शनैः स्यन्दनात्क्षये निवृत्तरागत्वाद्विरामाभीप्सा । तस्मादनाक्षेप इति अचोद्यं विसृष्टिप्रभवस्य भावस्य संतानेन प्रवृत्तस्यावस्थान्तरमनुपपन्नमिति । अमुमेवार्थ बाम्रव्यगीतेन लोकेनाहसुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् । धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥ एवं पक्षद्वयमुपन्यस्य सिद्धान्तमाहतस्मात्पुरुषवदेव योषितोऽपि रेसव्यक्तिद्रष्टव्या ॥ यत एवं विवादस्तस्माद्रसव्यक्ती रत्युत्पत्तिर्यथा पुरुषस्य विसृष्टिरन्ते च तद्वदेव योषितोऽपि द्रष्टव्या । पुरुषसुखेन हि स्त्रीसुखस्य वैसादृश्यं स्वरूपतः कालतो वा स्यादित्याक्षिपति कथं हि समानायामेवाकृतावेकार्थमभिप्रपन्नयोः कार्यवैलक्षण्यं स्यादुपायौलक्षण्यादभिमानवैलक्षण्याच्च ॥ १. 'दण्डस्तन्त्र'. २. 'प्रत्याक्षिप्तो'. ३. 'प्रवर्यमानयोः'. ४. 'उपसृष्टादिभिः. ५. 'उपपद्यमाने. ६. 'यत्र'. ७. 'यत्राधिकरणे वृत्तवृत्त्या'; 'यत्राधिकवृत्तवृत्त्या'. 'खनाडी:'. ९. 'रसस्य व्यक्तिर्दृष्टव्या'; 'रतिर्दृष्टव्या'. ८४ कामसूत्रम् । ६ आदितोऽध्यायः] तत्र विजातीययोः पुरुषवडवयोर्मवेत्सुखं वैसादृश्यमित्याह——समानायामेवाकृताविति । तुल्यायां मनुष्यजातौ । तुल्यजातीययोरपि खानभोजनार्थं प्रवर्तमानयोः स्यादित्याह – एकमिति । एकं रताख्यमर्थमाभिमुख्येन प्रवृत्तयोः । कथं कार्यवैलक्षण्यं स्यात् । उपायवैलक्षण्यादभिमानवैलक्षण्याच्च । कथमुपायवैलक्षण्यं च । निसर्गात् । तत्र विजातीययोः पुरुषवडवयोर्भावसुखस्य बैजातीयकार्यस्य सुखस्य स्वरूपतः कालतश्च अभेदो नेत्यर्थः । ये च समानाकृतयः सन्त एककार्यामिपन्नास्तेषां सदृशं कार्यम् । नहि मेषयोः समानाकृत्योरेकस्मिन्युद्धलक्षणार्थे प्रवृत्तयोरभिघातः कार्ये कालखरूपाभ्यां मिद्यते । इति । पुनः पुनः शास्त्रकार एव परपक्षमेंपोहयन्नाह — स्यादुपायवैलक्षण्यादिति । भवेत्तत्र कार्यभेद उपायभेदात् । कथनुपायवैलक्षण्यं तु सर्गात् । कर्ता हि पुरुषोऽधिकरणं युवतिः । अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः । तस्माञ्चोपायवैलक्षण्यात्सर्गादभिमानवैलक्षण्यमपि भवति । अभियोक्ताहमिति पुरुषोऽनुरज्यते । अभियुक्ताहमनेनेति युवतिरिति 1 वात्स्यायनः ॥ कथमिति । स चोपायमेदो निरूप्यमाणः स्त्रीपुंसव्यापारव्यतिरेकेण नास्तीत्याह – उपायवैलक्षण्यं तु सर्गादिति । उपायभेदः सृष्टेरित्यर्थः । ए॒षैव हि सृष्टिः स्त्रीपुंसयोर्यदेकः कर्तान्यश्चाघार इति । तदेव योजयन्नाह – अन्यथेति । एकस्य निम्मं मेहनमपरस्योन्नतम् । ततश्च प्रास्यप्रासकभावान्मेहनयोः क्रियाभेदः । तस्माच्चैवंभूतव्यापारात्मकत्वादुपायवैलक्षण्यान्न केवलं भवति तत्कार्यभेदोऽभिमानभेदोऽपि भवति तदेव दर्शयन्नाह — अभियोक्तेत्यादि । अहमेनां रन्तुमनुयुने इति कर्तृव्यापारापेक्षया १. 'नानभोजनादावतिशयप्रवृत्तमानयोः; 'नानभोजन एवातिशयप्रवृत्तमानयोः. २. 'सुखस्य वै कार्यस्य'. ३. 'मेदादित्यर्थ: ' ४. 'अपोहन्'. ५. निसर्गात्'. ६. 'आचारः'. ७. 'रज्यते'. ८. 'अन्यस्य'. 1 e *( 14 " ? = १ अध्यायः] २ सांप्रयोगिकमधिकरणम् । पुरुषोऽभिमन्यमानोऽनुरज्यते । अहमनेनाभियुक्ता रन्तुमिति चाधारव्यापारापेक्षया युवतिरभिमन्यमानानुरज्यते । ततश्च तावुत्पन्नाभिमानानुरागौ संप्रयोगे व्याप्रियमाणावपि कालस्वरूपाभ्यां सदृशं भावमभिगच्छतः । न तु क्रियाभेदमात्राद्विसदृशम् । ततो ह्यभिमानमात्रं मिद्यते न कार्यमे तच्चेतसि कृत्वा शास्त्रकारी व्यक्ताभिप्रायं स्वपक्षं दर्शयति स्वनाम्रा । परस्यापि शास्त्रकारेण भिन्नवैलक्षण्यमेभ्युपगतोपायवैलक्षण्यमभ्युपगतं तस्मात्त्वयं कथं कार्यभेदः, परं नाभ्युपगच्छेदित्यभिप्रायो वर्तते तन्निराकर्तुं शास्त्रकारः प्रकटयतितत्रैतत्स्यादुपायवैलक्षण्यवदेव हि कार्यवैलक्षण्यमपि कस्मान्न स्यादिति । तच्च न । हेतुमदुपायवैलक्षण्यम् । तत्र कर्त्राधारयोभिन्नलक्षणत्वादहेतुमत्कार्यवैलक्षण्यमन्याय्यं स्यात् । आकृतेरभेदादिति ॥ उपायवैलक्षण्यवदिति । यथानयोर्व्यापारो मिन्नोऽभ्युपगतस्तद्वदेव सुखाख्यमपि कार्यं भिन्नं कस्मान्नाभ्युपगम्यते तज्जन्यत्वादित्याशङ्कचाह तच्च नेति । तज्जन्यत्वे कार्यस्य न वैलक्षण्यमेव युक्तं तस्माद्धेतुमदुपायवैलक्षण्यं कुत इत्याह कर्त्राधारयोर्मिनलक्षणत्वादिति । स्वतन्त्रः कर्ता । अधिकरणमाघारः । तयोर्हेत्वोभिन्नस्वभावत्वाद्व्यापारावपि तज्जन्यत्वाद्भिनावित्यर्थ: । यत्तु कार्यस्य तज्जन्यत्वेऽपि न वैलक्षण्यं तस्य निरूप्यमाणोऽन्यो हेतुर्नास्तीत्याह – अहेतुत्वाच्च कार्यवैलक्षण्यमिति । अन्याय्यं युक्तिशून्यमभ्युपगतं स्यात् । तामेव युक्तिं स्मारयन्नाह - आकृतेरमेढादिति । समानायामेव मनुष्यजातावेकाभिसंघानयोः स्त्री पुरुषयोर्व्यापारौ परस्परापेक्षौ कालस्वरूपाम्यां सदृशं सुखं जनयतः । तत्रैतत्स्यात् । संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते । पृथक्पृथ- क्स्वार्थसाधको पुनरिमौ तदयुक्तमिति ॥ १. 'व्यापारचित्तया'. २. 'अभ्युपगच्छेत । उपायवैलक्षण्यम्'. ३. 'चायम्'. ४. 'कस्मात्कार्यवैलक्षण्यमपि न. ५. 'प्रकृते.. ६. 'कर्त्राधारभिन्न-'. ७. 'प्रकृतेः'. ८. 'पृथक्परस्परखार्थकामसूत्रम् । ६ आदितोऽध्यायः] देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ देवदत्तादिभिः कर्तृकरणाघारैः कारकैः संम्यौदनं दृश्यते । परस्परसाधकौ पुनरिमौ स्त्रीपुंसौ । यतो युवतिराधारः पुरुषव्यापारापेक्षः स्वसंतानेषु सुखाख्यं स्वार्थ साधयति पुरुषश्च कर्ता व्यापारापेक्ष इति । एतच भिन्नार्थसाधकत्वं कारकाणामयुक्तम् । ओदनादावदृष्टत्वात् । दृश्यते च स्त्रीपुंसयोः कर्त्राधारयोः सुखरूपं पृथक्कार्यं तथा समानाकृतित्वमपि । तदेव कार्ये कालस्वरूपाभ्यां विसदृशं स्यादित्यभिप्रायः । तच्च न । युगपदनेकार्थसिद्धिरपि दृश्यते । र्यंथा मेषयोरभि- घाते कपित्थयोर्भेदे मल्लयोर्युद्ध इति । न तत्र कारकभेद इति चे- दिहापि न वस्तुभेद इति । उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात् । तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥ तच्च नेति । नैतद्युक्तं किं तु युक्तमेव । युगपदनेकार्थसिद्धिदर्शनात् । यथा मेषयोरभिघात ईति । अभिघातविषये युगपदनेकार्थसिद्धिदृश्यते । युगपद्विधा चाभिघातो भवतीत्यर्थः । एवं कपित्थयोदे मल्लयोर्युद्ध इति । तथा स्त्रीपुंसयोः कारकयोः पृथक्कार्य सदृशं चं स्यादिति । मेषकपित्थमल्लग्रहणं तिर्यगचेतनमनुष्येष्वप्यस्य न्यायस्य प्राप्तिख्यापनार्थम् । तत्र को भेद इति चेत्, तत्रैतत्स्यात् । मेषादियुद्धादावपि प्रतियोगिनौ कर्तारौ न तत्र कारकान्तरम् । इह तु कर्त्राधाराविति । कैथं न विसदृशं कार्यमित्याशङ्कयाह — इहापीति । स्त्रीपुंसयोरपि न कश्चित्परमार्थतः कारकयोर्मेंदः, अपि तु द्वावप्येतौ कर्तारौ क्रियां निर्वर्तयतः । केवलं करणाधिकरणादयो भेदा बुद्धिकल्पिता व्यवहारार्थ व्यवस्थाप्यन्ते । १. 'अधिकारैः. ' २. 'संभूयौदन' इत्यस्मादप्रे पुस्तकान्तरे .............. ४. 'कारणमयुक्तम्.' एतादृश त्रुटिचिदमस्ति. रूपम् इति पुस्तकान्तरे नास्ति. ८. 'सर्गादभिहितम्'; 'निसर्गादिति न्तरे नारिख १०. 'मलयोर्वाहुयुद्धे'. तंयन्तौ . ३. 'खस्तनेपु.' ६. 'तद्यथा'. तदभिहितम् . ७. 'नियुद्धे'; 'वाहुयुद्धे. ९. 'इति' इति पुस्तका११. 'केन विसदृशम्'. १२. 'निर्व१ अध्यायः] २ सांप्रयोगिकमधिकरणम् । एवं च सति 'उपायवैलक्षण्यं तु सर्गात्' इति यदुक्तं तदमिहितं प्रतिविहितं पुरस्ताद्रष्टव्यम् । कर्त्राधारलक्षणस्यैवावास्तवत्वात् । तेन प्रतिविहितेनोभयोरपि स्त्रीपुंसयोः सदृशी सुखप्रसिद्धिः । कालस्वरूपाभ्यां सदृशं सुखमुत्पद्यत इत्यर्थः । अन्यथा कथं तयो रागज्वरोपशमः । तामेवात्य न्तिकीमानन्दावस्थामधिकृत्योपस्थेन्द्रियमानन्देन्द्रियमिति गीयते । अमुमेवार्थी शास्त्रकारः संग्रहश्लोकेनाह जातेरभेदाद्दंपत्योः सदृशं सुखमिष्यते । तस्मात्तयोपचर्या स्त्री यथाग्रे मानुयाद्वतिम् ॥ दंपत्योः स्त्रीपुंसयोः । एकार्थाभिप्रपन्नयोरित्यर्थः । एतावत्तु स्यात्, अवान्तरस्त्रीजातिभेदाद्यदपरमस्याः कॅण्डूत्यपनोदसुखं यच्चोषमृद्यमाने संबाघे स्यन्दनं शुक्रस्य । विसृष्टिसुखं तु पुरुषवदन्त एवेति । यथोक्तम्'कण्डूत्यपगमात्स्त्रीणां क्षरणाच्च सुखं द्विधा । स्यन्दनं च विसृष्टिश्च शुक्रस्य क्षरणं द्विधा ॥ किन्नता केवलस्यन्दाद्विसृष्टेर्मथनात्सुखम् । अन्ते त्वाक्षिप्तवेगाया विसृष्टिर्नरवत्स्मृता ॥ तत्र रेंसाइंपत्योः समकाला चेंद्रतिरुत्तमः पक्षः । समरतत्वात् । भिन्नकाला चेत्, पुरुषस्य प्रागधिगतभावाज न स्त्री भावमधिगच्छेत् । तस्मात्समरताद्विषमरते तथोपचर्या स्त्री चुम्बनालिङ्गनादिमिरुपचरणीया यथाग्रे प्राप्नुयाद्वतिम् । स्त्रिया प्रागघिगते भावे पुरुषो युक्तयन्त्रो वेगं कुर्यादात्मनो भावं निर्वर्तयितुं मिति । सदृशत्वस्य सिद्धत्वात्, कालयोगिन्यपि भावतोsपि कालतः प्रमाणवदेव नव रतानि ॥ १. 'वास्तवत्वात्. २. 'तस्या.'; 'तया'. ३. 'उपाचार्या'. ४. 'स्त्रीपुसो:'. ५. 'कल्यपगमात्सुखम्'. ६. 'उपमृद्यमानेन'. ७. 'अन्तरा चेति'. ८. 'यथा चोकम्'. ९. 'रसे'. १०. 'च'. ११. 'ध्वजवेगे'. १२. 'युक्तयन्त्र वेगम'; 'युतयत्रोवशम्'. १३. 'निष्पादयितुम्'. १४. 'भावतोऽपि कालत.' इति पुस्तकान्तरे नास्ति. । कामसूत्रम् । ६ आदितोऽध्यायः] कालयोगीन्यपीति । अपिशब्दाद्भावयोगीन्यपि । अन्यथा कण्डूत्यपनोदसुखस्य विसृष्टिसुखस्य वा वैसादृश्यात्कथं भावतो नव रतानि । रतिरतयोर्व्यवहारार्थं पर्यायान्तरमाह रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः । संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥ ८८ फलावस्था रतिः । हेत्ववस्था च रतम् । तयोः पर्यायशब्दानामेकार्थविषयत्वेऽपि निमित्तं भिद्यते । यथा – ऐश्वर्ययोगादिन्द्रः शक्तियोगाच्छॠः । तेत उपस्थेन्द्रियेण रसनादनुभवनाद्रसः । फलावस्थायां सुखत्वेन चित्तपरिस्पन्देन रमणाद्वतिः । चित्तप्रणयात्प्रीतिः । कामिताख्येन भावेन माव्यमानत्वाद्भावः । कामिताख्योऽपि भाव्यते फलरूपोऽनेनेति भावः । चित्तरञ्जनाद्रागः । शुक्रधातोः सुखानुविद्धस्य नाडीसुखात्पृथग्भवनाद्वेगः । रतस्य समापनात्समाप्तिरिति । असंगतयोः स्त्रीपुंसयोः सम्य• क्प्रकृष्टो योगः संप्रयोगः । हेत्ववस्थायां वा क्वापि चित्तपरिस्यन्देन रमणाद्रुतम् । दंपतिव्यतिरिक्तमन्यं रहयतीति रहः । शैयनीयप्रतिशय्यिकयोः शयनाच्छयनम् । अन्यव्यापारेषु मोहनाद्वैचित्यकरणान्मोहनमिति । प्रमाणकालभावजानां संप्रयोगाणामेकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुम् । अतिषहुत्वात् ॥ प्रमाणकालभावजानां त्रयाणां रतानामेकैकस्य नवविधत्वात्समुदायेन सप्तविंशतिः । द्विविधं रतम् —– शुद्धं संकीर्ण च । तत्र शुद्धस्यासंभवात्संकीर्णमेव युक्तमभिधातुमिति मन्यमानः शास्त्रकार आह – तेषामिति । सप्तविंशतिसंख्यानां व्यतिकरे संयोगे । तत्रापि न द्वाभ्याम् । असंभवात् । त्रिभिरेव व्यतिकरः । सुरतसंख्या न शक्यते वक्तुम् । प्रत्येकनिर्देशेनातिवहुत्वात् । तेषु हि प्रत्येकं निर्दिश्यमानेषु ग्रन्थगौरवं स्यात् । संक्षेपेण च संख्यानस्य प्रयोजनं नास्ति । तस्मात्पूर्वसंख्ययैव योजनीयमित्यभिप्रायः । 2 १. 'सुरत' इति पद पुस्तकान्तरे नास्ति. २. 'तत्र'. ३. 'दपत्योः'. ४. 'दंपतिद्रव्यातिरिकमन्यम्'. ५. 'शयनीये प्रतिशय्यिकायाम्' ६. 'सप्तविंशतिरतानाम् . ▸ L I १ अध्यायः] २ सांप्रयोगिकमधिकरणम् । स्व. तत्र समं विषमं च संकीर्णकम् । तद्यथा – शशस्य मन्दशीघ्रवेगस्य मूग्या तथाविषया, शशस्य मध्यमध्यवेगस्य मृग्या तथाविधया, शशस्य चण्डचिरवेगस्य मृग्या तथाविधया, शशस्य मन्दमध्यवेगस्य मृग्या तथाविघया, शशस्य मन्दचिरवेगस्य मृग्या तथाविधया, शशस्य मध्यशीघ्रवेगस्य मृग्या तथाविषया, शशस्य मध्यचिरवेगस्य मृग्या तथाविधया, शशस्य चण्डशीघ्रवेगस्य मृग्या तथाविषया, शशस्य चण्डचिरवेगस्य मृग्या तथाविषया, इति सदृशसंप्रयोगे समानि नव संकीर्णरतानि । एषामेव नवानां शशानामेकैकस्य सदृशीं मृगीमेकां त्यक्त्वा शेषाभिरतथाविधाभिरष्टभियोगे द्वासप्ततिरिति विषमाणि संकीर्णरतानि । यथा शशस्य नवप्रकारतया तथाविधया वडवया विषमाणि नव संकीर्णरतानि । अतथाविधाभिरष्टमियोगे द्वासप्ततिरिति विषमाण्येव । एवं हस्तिन्या तावन्त्येव विषमाण्यतिविषमाणि चेति संक्षेपेण शशस्य त्रिचत्वारिंशशतद्वयम् (२४३) । तावदेव वृषस्याश्वस्य च । समुदायेन चैकोनत्रिंशानि सप्तशतानि ( ७२९) । तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥ ८९ संकीर्णरतेषु बुद्धया परिच्छिन्नेषु तर्कादुपचारान्प्रयोजयेत् । यथाप्रमाणकालभावजेषु ये यथायथमालिङ्गनादय उपचारास्तान्रहयित्वा संकीर्णानेव योजयेत् । येथा तत्समरतमेव प्रायत्निकं स्यादित्यर्थः । अत्र बाअवीयाः श्लोकाः— 'पौरुषं मेहनं यत्र मेहने परिघृष्यते । भावकालौ समानौ च तद्रतं श्रेष्ठमुच्यते ॥ भिद्यते मेहनं यत्र घृप्यते च न सर्वशः । विषमौ कालमावौ च कनिष्ठं तदुदाहृतम् ॥ सुरतं सर्वसाम्ये स्याद्वैपम्ये रतं स्मृतम् । मध्यमानि तु सर्वाणि तेषु चाहुर्बलावलम् ॥ बलीयान्सर्वतः कालः कालेऽपि हि शशोऽपि सन् । संस्पृशत्येव सर्वत्र हस्तिनीमेहनोदरम् ॥ एवं वीजी च कथ्येत मृगीकालप्रकर्षणः । तस्मात्प्रमाणमेवाहुतु १. 'शेषाभिस्तथाविधाभिः'. २. ' तथा तु सम-' ३. 'भेद्यते'; 'मृद्यते'. ४. 'दूरत.; 'दूरत'. ५. 'बाहुबलाइलम्'; 'बाहुवलावलम्'. ६. 'वाजीव कथ्येत'. ७. 'प्रकर्षिणः'. का० १२ ९० कामसूत्रम् । ६ आदितोऽध्यायः] र्बलीयः सर्वतः परे ॥ वलीयान्वेग इत्यन्ये यस्मादश्वोऽप्यवेगवान् । नैव साधयितुं शक्तो वेगः कालप्रकर्षणः ॥ एवं तु नैव खिद्येत मन्दवेगापि नायिका । यथाविषयमेतासां तस्माज्ज्ञेयं बलाबलम् ॥ हीनो भावप्रमाणाभ्यां वेगवान्काळवर्जितः । कालप्रमाणहीनश्च तत्र शेषेण साधयेत् ॥" इति । तत्र स्वभावतो यो यस्य भावः कालब्ध स भावान्तरं कालान्तरं च यदा प्रतिपद्यते तदा भावकालान्तरसंक्रान्तिः । तां दर्शयितुमाह प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य, तद्विपरीतमुत्त रेषु । योषितः पुनरेतदेव विपरीतम् । आ धातुक्षयात् । प्राक्च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः ॥ I शीघ्रमध्यचिरवेगाणां मन्दमध्यचण्डवेगानामन्यतमस्य प्रकृतिस्थस्य प्रथमरते खमेदापेक्षया शीघ्रवेगता चण्डवेगता च द्रष्टव्या । तदानीं प्रवृद्धत्वाद्रागश्चण्डायमानो द्रुतं प्रशाम्यति । तद्यथा- चिरचण्डवेगस्य प्रथमरते मध्यवेगता चण्डतरवेगता च कालभावाभ्याम्, मध्य [मध्य] वेगस्य शीघ्रवेगता चण्डवेगता च, शीघ्रमन्दवेगस्य शीघ्रतरवेगता मध्यवेगता च, शीघ्रमध्यवेगस्य शीघ्रतरवेगता चण्डवेगता च, शीघ्रचण्डवेगस्य शीघ्रतरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीघ्रवेगता मध्यवेगता च मध्यचण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य कालभावाभ्यां [मध्यवेगता] मध्यवेगता च, चिरमध्यवेगस्य मध्यवेगता चण्डवेगता च, इति नव प्रथमरते संक्रान्तिरतानि । तद्विपरीतमुत्तरेंग्विति प्रथमरते यदुक्तं तस्य विपरीतं द्वितीयादिपु रतेम्वित्यर्थः । तत्र कामस्यैकगुणत्वात्पुरुषस्य प्रशान्तरागत्वाद्वितीये रते प्रकृतिस्थैव भावकालान्तर संक्रान्तिः । ततः शनैः शनैर्हीयमानरागत्वात्तृतीयादिपु स्वभेदापेक्षया चिरतरतमवेगतादयो मैंन्दतरतमवेगतादयश्च धर्माः । यावच्छुक्रधातुक्षयः । १. 'अपरे'. २. 'मिद्येत'. ३. 'हेय'. ४. 'वेग' कालविवर्जितः'. ५. 'कालतः'. ६. 'चिरचिरतर-'. ७. 'मन्दमन्दतर - '. १ अध्यायः] २ सांप्रयोगिकमधिकरणम् । इति पुरुषस्य भावकालान्तरसंक्रान्तिः । योषितः पुनरेतदेव विपरीतमिति । अत्रापि प्रकृतिस्थायाः प्रथमरते स्वभेदापेक्षया चिरवेगता मन्दवेगता च द्रष्टव्या । तस्या अष्टगुणो हि रागो निसर्गादेव प्रथमरतेन संधुक्षते । ततब्ध तदानीं मन्दायमानश्चिरेण प्रशाम्यति । तद्यथा- चिरचण्डवेगायाः प्रकृतिस्थायाश्चिरतरवेगता मध्यवेगता च कालभावाभ्याम्, मध्य [मध्य] वेगायाश्विरवेगता मन्दवेगता च शीघ्रमन्दवेगाया मध्यवेगता मन्दतरवेगता च, इत्येवं शेषास्वपि षट्सु योज्यम् । तद्विपरितमुतरेषु द्वितीये रते प्रकृतिस्थतैव संक्रान्तिः । ततः शनैः शनैः संधुक्षणात्प्रवर्धमानरागवेगयोः स्वमेदापेक्षया तृतीयादिरतेषु शीघ्रतरतमवेगतादयश्चण्डतरतमवेगतादयश्च धर्माः । यावच्छुक्रधातुक्षयः । इति स्त्रीपुंसयोस्तुल्ये धातुक्षये विशेषः । यत्पुरुषस्य धातोरेकगुणत्वायोपितब्ध पश्चादष्टगुणत्वार्त्तदाह ––प्राक्वेति । प्रायोवाद इति न पुंभिर्वामलोचना तृप्यतीति । प्रमाणान्तरं संक्रान्ति च योषितो जघनप्रेसारणाद्वाहंसाभ्यां पुरुषस्य च वृद्धिविधिना वक्ष्यति । शीघ्रमध्यचिरवेगा नायिका इँत्युक्तम् । काः पुनस्ता इत्याह मृदुत्वादुपसृद्यत्वान्निसर्गाच्चैव योपितः । प्रानुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः ॥ निसर्गात्स्वभावतो याः स्त्रियो मृद्रङ्गयः, अमृद्वङ्गयोऽपि याथुम्वनादिभिर्वाषैरान्तरैश्चाङ्गुलिकर्मादिभिरुपमृद्यन्ते ताः शीघ्रतरं प्रीति प्रासुवन्ति । ताः शीघ्रवेगा इत्यर्थः । तद्विपर्यये ता मध्यचिरवेगा इत्यर्थ इत्युक्तम् । तथा पुरुषोऽपीति तत्र मृदुत्वं स्वाभाविकं लक्षणम् । शेषं कृत्रिमम् । इत्याचार्या व्यवस्थिता इति सर्वेषामेतदेव मतम् । अव्यभिचारित्वात् । १. 'तुल्यधातु-'. २. 'यदाह - प्रागवोचदिति'. ३. 'तृप्यत इति'. ४. प्रमाणान्तरसंक्रान्तिम्'. ५. 'प्रसारणा च हृासाभ्याम्'. ६. 'मन्द - '. ७. 'इत्युकं प्राक्'. ८. 'पुनरित्याह' ९. 'ताः' इति पुस्तकान्तरे नास्ति. १०, 'इत्युक्तम्' इति पुस्तकान्तरे नास्ति. कामसूत्रम् । ६ आदितोऽध्यायः] एतावदेव युक्तानां व्याख्यातं सांप्रयोगिकम् । मन्दानामववोधार्थी विस्तरोऽतः प्रवक्ष्यते ॥ रतावस्थापनमात्रेण सांप्रयोगिकं संक्षेपेण व्याख्यातम् । शास्त्रेण विदित्वालिङ्गनादीनुपचारानुत्प्रेक्ष्य योजयन्ति न मन्दबुद्धय इति तैदेवांवापोद्वापाथै विस्तराभिधानम् । प्रमाणकालमवेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् । ९२ यथा त्रिधारतमवस्थापितं तथा स्थूलसूक्ष्मरूपाभ्यां प्रीतिरपि व्यवस्थापिता । किंतु तद्व्यतिरेकेणान्या अपि प्रीतयोऽसिशाको संभवन्तीति दर्शनार्थी प्रीतिविशेषा उच्यन्ते – 'अभ्यासात्' इत्यादिना । अभ्यासादभिमानाञ्च तथा संप्रत्ययादपि । विषयेभ्यश्च तंत्रज्ञाः प्रीतिमाहुचतुर्विधाम् ॥ तन्त्रज्ञाः कामसूत्रज्ञाः । आसां लक्षणमाह - 'शब्दादिभ्यः' इत्यादिना । शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा । प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥ कर्मसु क्रियमाणेषु तत्रत्याशब्दादिविषयानाश्रित्य या स्यात्सा विषयप्रीतिरेव । या तु कर्माभ्यासलक्षणा । कर्मणां पुनः पुनरनुष्ठानमभ्यासः । तेन लक्ष्यमाणत्वातल्लक्षणा प्रीतिः संक्तिः । साम्यासेन निर्वृत्ताभ्यासिकी कर्माश्रयकलाव्यासक्तानां भवति । यदाह — मृगयादिष्विति । आखेटकं मृगया व्यायामिकी विद्या । आदिशब्दान्नृत्यगीतवौद्यचित्रपत्रच्छेद्याद्युपसंग्रहः । अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका । संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥ १. 'एतावतैव'. २. पुस्तकान्तरे 'शास्त्रेण' इत्यस्मात्पूर्वे चिह्नमस्ति. ३. 'तदेवावापार्थम्'. ४. 'भेदेभ्य:'. ५. 'इति'. एतादृश त्रुटि६. 'स्थूलस्वरूपाभ्या'. ७. 'तन्वद्या विदुः प्रीति'. ८. 'सक्तिः' इति पुस्तकान्तरे नास्ति ९. 'वाद्य' इति पुस्तकान्तरे नास्ति. १ अध्याय:] २ सांप्रयोगिकमधिकरणम् । ९३ संकल्पापुरा पूर्वे कर्मस्वनभ्यस्तेष्वपीत्यपिशव्दादभ्यस्तेष्वपीति । येनापि मृगयाकर्म नाभ्यस्तमभ्यस्तं वा सोऽपि तत्कर्म कृत्वा मनसा सुखायते । आभ्यासिकी कर्माभ्यासादेवेति विशेषः । अविषयात्मिकेति । नापि विप येभ्यः शब्दादिम्य आत्मलामोऽस्या इत्यर्थः । कुतस्तहत्याह ज्जायत इति । मनसः संकल्पात्मकत्वान्मोनसीत्यर्थः । सा चैवंविधाभिमानिकीत्युच्यते । अभिमानोऽहंकारः स प्रयोजनमस्या इति । सा कथमस्मिशास्त्रे संभवतीत्याहमैकृतेर्या तृतीयस्याः स्त्रिया चैवोपरिष्टके । तेषु तेषु च विज्ञेया चुम्वनादिपु कर्मसु ॥ तृतीया प्रकृतिर्नपुंसकं तस्याः स्त्रियाश्च मुखचपलाया औपरिष्टके मुखे जघनकर्मण्यम्यस्तेऽपि विज्ञेया । प्रयोजयितुः पुनः पुनः कायिकी विषयप्रीतिः । तेषु तेषु चेति । स्वभेदमिन्नेषु चुम्बनादिषु । आदिशब्दादालिङ्गननखरदनच्छेद्यप्रहणनेष्वनभ्यस्तेष्वपि रतिकाले प्रयोकुर्मा नसी प्रीतिः यैस्या अपि प्रयुज्यन्ते तैस्या अपि तत्र तत्र स्थाने प्रयुज्यमानेषु रागसंकल्पवशान्मानसी प्रीतिर्न कायिकी । स्पर्शमात्रसंवेदनात् । दुःखामिभूते तु काये तत्प्रीतिकारणाभावात्सा न कायिकी । नान्योऽयमिति यत्र स्यादन्यस्मिन्मीर्तिकारणे । तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका ॥ स एवायमित्यर्थः । यत्र वचन अन्यस्मिन्नित्यपूर्वस्मिन्विषये पुंसि स्त्रियां वा स एवायमिति पूर्वप्रीत्यध्यारोपणायाः स्त्रियाः पुंसो वा चित्तंवृत्तिः प्रीतिकारण इति प्रीतिहेतावध्यारोपणनिबन्धनमेतत् । पूर्वप्रीतस्य ये गुणाः प्रीतिहेतवस्तेऽत्रापि सन्तीति दर्शयति । एवं च सा पूर्वप्रीतिः १. 'आभ्यासिकीति । कर्माभ्यासादेवेति शेषः . २. 'मनसि'. ३. 'प्रकृतियाँ; 'प्रकृतेः सा'. ४. 'प्रयोगतः'. ५. 'रदनदशना'. ६ 'यत्यापि ७. 'तस्यापि' ८. 'प्रीतिकारणम्'. ९. ' पुसा स्त्रिया वा'. १०. 'चित्तप्रीतिः'. ● t ९४ ६ आदितोऽध्यायः] कामसूत्रविद्भिः कथ्यते । तथा कामसूत्रम् । संप्रत्ययादुत्पन्नस्वभावत्वात्संप्रत्ययात्मिका च 'प्रियसादृश्यं गमनकारणम्' इति वक्ष्यति । प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका । प्रधानफलवन्त्वात्सा तदर्थाचेतरा अपि ॥ शब्दादिविषयाननुकूलानालम्ब्य श्रोत्रादिद्वारेण या प्रीतिरुत्पद्यते सा विषयव्यवसायानुगतत्वात्प्रत्यक्षां सती लोकत एव सिद्धत्वान्नात्र लक्षणामिनिवेशः । सा चैवंविधा नैमित्तिकनागरवृत्ते द्रष्टव्या । प्रधानफ- लवत्त्वात्सेति साक्षाद्विषयोपभोगफलेन युक्तत्वादित्यर्थः । इतरा अपि तिरुस्तदर्थाश्चेति । विषयप्रीत्यर्था एव । तदङ्गत्वात् । चशब्द एवकारार्थः । प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः । यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषा इति प्रथमोऽध्यायः । आदितः षष्ठः । चतस्रः शास्त्रतः परामृश्य निरूप्य । शास्त्रलक्षणा इति तेपु तेषु स्थानेषु शास्त्रेणानेन लक्ष्यमाणत्वात् । यो यथा वर्तते भाव इति कर्माभ्यासादीनां चतुर्णी प्रकाराणां येन प्रकारेण योऽभिप्रायो वर्तते स तेनैव प्रकारेण वर्तयेत् । तज्जन्यप्रीत्यर्थमेव । तथा हि-अतथाप्रवर्तनादनीप्सिता प्रीतिरप्रीतिरेव स्यात् । इति प्रीतिविशेषाः सप्तमं प्रकरणम् । आदितः पष्ठ इति प्रथमाध्यायात्प्रभृति षष्ठोऽयमित्यर्थः । एवमुत्तरत्रापि योज्यम् । इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोघरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रेमाणकालभावेभ्यो रतावस्थापन प्रीतिविशेपाः प्रथमोऽध्यायः । १. 'स्यात्'. २. 'वृत्तेः'; 'वृत्तेपु'. ३. 'एताः प्रीती:'. ४. 'वर्धते'. ५. 'प्रमाण-' इत्यादि पुस्तकान्तरे नास्ति. २ सांप्रयोगिकमधिकरणम् । द्वितीयोऽध्यायः । एवं रतमवस्थाप्य तदङ्गभूतां चतुःषष्टिं निर्दिदिक्षुराहसंप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते । चतुःषष्टिप्रकरणत्वात् ॥ संप्रयोगस्य चतुःषष्टयात्मकत्वात्तस्याङ्गं चतुःषष्टिरित्याचक्षते पूर्वा चार्यास्तस्मात्तां वक्ष्यामः । २ अध्यायः] ९५ तत्र चतुःषष्टिशब्दः शास्त्रे तदेकदेशे वा वर्तते, उभयथापि व्यवहाराङ्गमिति देर्शयन्नाह शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥ शास्त्रमेवेदमितीति शास्त्रमाह तच्च संप्रयोगस्याङ्गम् । तदुपायस्य तन्त्रावापाख्यस्य प्रकाशनात् । आचार्यवाद इति । शब्दविदो ह्याचार्या एवंविधा एव किंचिन्निमित्तमाश्रित्य चतुःषष्टिशब्दस प्रवृत्ति वदन्ति । तच्चेहाप्यस्तीति शास्त्रैकदेशे वा विद्यासमुद्देशे वर्तत इत्याह- कलानां चतुःषष्टित्वातासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति । ऋचां दशतयीनां च संज्ञितत्वात् । इहापि तदर्थसंवन्धात् । पञ्चाळसंवन्धाच्च वढचैरेषा पूजार्थ संज्ञा भवर्तिता इत्येके ॥ अत्र हि गीतादयः कलाश्चतुःषष्टिरुक्ताः । ततस्तत्समूहो वा संप्रयोगाङ्गम् । चतुःषष्टिः सांप्रयोगिके वा शास्त्रैकदेशे वर्तते । तत्र हि पाञ्चालिकी चतुःषष्टिः कथ्यते । कथं ताश्चतुःषष्टिरित्याह—–—दशतयीनां चेति । दशावयवा मण्डलानि यासामृचाम् । इत्यवयवे तयप् । दशतय्यस्ताश्चतुःषष्टिरित संज्ञिताः । इहापीति संप्रयोगाङ्गे । तदर्थसंवन्धादिति देशावयवमण्डलार्थसंबन्धात् । चतुःषष्टिरिति संज्ञा प्रवर्तत इति संवन्धः । संप्रयोगाङ्गं हि दशावयवाः । यथोक्तम् – 'आलिङ्गनं चुम्बनदैन्तकर्म नखक्षतं सीत्कृतपाणिघातम् । संवेशनं चोर्पसृतौपरिष्टं नरायितं चेति १. 'सप्रयोगम् . ' २. 'तद्दर्शयन्' ३. 'तच्छात्रमिदम्'. ४. 'ततथ'. ५. 'दशावयवार्थ-'. ६. 'चुम्वनम्'. ७. 'दशनकर्म'. ८. 'सीत्कृतम्'. ९. 'उपटतमीपरिष्टम्'. कामसूत्रम् । ७ आदितोऽध्यायः] दशाङ्गमाहुः ॥ इति । पञ्चालसंवन्धाञ्च प्रवर्तिता । पञ्चालेन महर्षिणा ऋग्वेदे चतुःषष्टिर्निगदिता । बाभ्रव्येणापि पाञ्चालेन स्वकृते सांप्रयो- गिकेऽधिकरण आलिङ्गनादय उक्ताः । ततश्च द्वयोरप्येकगोत्रेनिमित्तसमा- ख्येन पाञ्चालेन निगदनात्संबन्धोऽस्ति । पूजार्थेति । उमयोरपि पक्षयो ऋग्वेदैकदेशवर्तिन्यपि संज्ञा बहुचैरैशिष्टाचारैरालिङ्गनादिषु पूजार्था प्रवर्तिता । केचिदाहुः – "तत्पूजां च वक्ष्यति— 'विद्वद्भिः पूजितामेतां । खलैरपि सुपूजिताम् । पूजितां गणिकासधैर्नन्दिनीं को न पूजयेत् ॥" इति । आलिङ्गनचुम्बनेनखच्छेद्यदशनच्छेद्य संवेशनसीत्कृत पुरुषायितौ- परिष्टकानामष्टानामष्टधा विकल्पभेदादष्टावष्टका चतुःषष्टिरिति वा- भ्रवीयाः ॥ आलिङ्गनेत्यादि । चौत्रव्यस्य शिष्याः पुनरन्वर्थतामाहुः - अष्टधा वि कल्पभेदादिति । एकैकस्याष्टधा विकल्पमेदादित्यर्थः । ततश्चाष्टौ सन्तोऽष्टगुणा अष्टावष्टकाश्चतुःषष्टिः । । विकल्पवर्गाणामष्टानां न्यूनाधिकत्वदर्शनात्महणनविरुतपुरुषो- पसृतचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्प्रायोवादो- ऽयम् । यथा सप्तपर्णो वृक्षः पञ्चवर्णो वलिरिति वात्स्यायनः ॥ विकल्पेति । 'न्यूनाधिकत्वदर्शनादिति । आलिङ्गनादीनां ये विकल्प वर्गा वक्ष्यमाणास्तेषां कस्यचिदूनत्वं दृश्यते पुरुषायितस्य, केषांचिदाघिक्यमेवालिङ्गनादीनाम् । ततश्च नाष्टावष्टावेव । विकल्पवर्गाणामष्टानां न्यूनाघिकत्वदर्शनात् । अन्येपामपीति प्रकृतत्वाचुम्बनादीनाम् । तेभ्योऽन्येषामपि ग्रहणनविरुतपुरुषोपसृप्तचित्ररतादीनामिति संबन्धः । न तु प्रहणनादिभ्यश्चतुर्भ्योऽन्येषामपीति । तेषामसंभवात् । इहेति अष्टवर्गे प्रवेशनादेतान्यपि हि संप्रयोगोऽपेक्षते । ततश्च नाष्टावेवाष्टधा । कथं तर्बुक्तमित्याह–प्रायोवादोऽयमिति । प्रायिकमेतद्वचनम् । कथमित्याहयथेति । पर्णानां न्यूनत्वेऽपि पर्णानां च बहुत्वेऽपि वाहुल्येन क्वचिद्दर्श १. 'अभीष्टाचारे'. २. 'नखदशनच्छेद्य-'. ३. 'सीत्कृतीपरिष्टकानाम्'. ४. 'अष्टानाम्' इति पुस्तकान्तरे नास्ति. ५. 'वाभ्रुवीयस्य'. ६. 'विकारभेदात् ७. 'प्रवेशात्'. ● २२ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ९७ नात्तव्यपदेशो रूढिवशात् । तथाष्टानां बाहुल्येनाष्टषा भेदात्तद्व्यपदेशे- नाष्टावेवाष्टघेति । तत्र शास्त्रस्य चतुःषष्टया प्रस्तुतत्वात्कलासमूहस्य च विद्यासमुद्देशे समुद्दिष्टत्वात्पाञ्चालिकी चतुःषष्टिमाह- तत्रालिङ्गनपूर्वकत्वाचुम्बनादीनामालिङ्गनविचारा उच्यन्ते । विचाराध कालस्वरूपाभ्याम् । तत्रालिङ्गनमसमागते समागते च । तत्र पूर्वमधि- कृत्याह-- तत्रासमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयम् - स्पृष्ट कम्, विद्धकम्, उद्धृष्टकम्, पीडितकम्, इति ॥ असमागतयोरिति । असंघटितपूर्वयोः संघटितयोः । प्रीतिलिङ्गद्योत- नार्थमिति । अनुरागस्य लिङ्गिनः स्पृष्टकादि लिङ्गम् । तत्प्रकाशनात् । तदभियोगकाले द्रष्टव्यम् । स्पर्शगोचरे सति । तदभावे सति संक्रान्तकमा भियोगिकं वक्ष्यति । सर्वत्र संज्ञार्येनैवं कर्मातिदेशः ॥ सर्वत्रेति । चुम्बनादिप्वपि संज्ञार्येन कर्मातिदेश इत्यन्वर्थतां दर्शयति । । स्पृष्टकादिसंज्ञानां प्रवृत्तिनिमित्तार्थः स्पर्शनादिकः । तेनैव कर्मातिदेश = इदमेव कार्यमिति । संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्टकम् ॥ संमुखागतायामिति । नायिकायामभिमुखमागतायाम् । प्रयोज्यायामिति । आलिङ्गनादि प्रयोजयितुं तत्र वा प्रयोक्तुं न शक्यते । अन्याप* देशेनेति । अन्यदपदिश्यागच्छतः प्रयोक्तः । यथान्यो न जानाति बुद्धि६ कारितमस्येति । गात्रेण स्वस्य गात्रस्य प्रयोज्यायाः सर्शनमिति संज्ञा • त्वेन कर्मातिदिशति । स्पृष्टकमिति 'नपुंसके भावे क्तः' । पश्चात् 'संज्ञाया कन्' । एवमुत्तरत्रापि योज्यम् । अस्याः संमुखागतेन नायकेनापि । १. 'चतु. षष्टे..' २. 'विचाराच.' : 'एव' इति पुस्तकान्तरे नास्ति. का० १३ कामसूत्रम् । ७ आदितोऽध्यायः] प्रयोज्यं स्थितंमुपविष्टं वा विजने किंचिगृहती पयोधरेण वि ध्येत् । नायकोsपि तामवपीढ्य गृह्णीयादिति विद्धकम् ॥ नायिका प्रयोक्री प्रयोज्यं नायकं स्थितमुपविष्टं वा न गच्छेत् । तप्रयोक्तमप्रयोगात् । न संविष्टम् । असंगतत्वात् । विजने । अन्यत्र तु स्तनप्रदर्शनस्यापि दुर्लभत्वात् । अथ व्यधनोपायमाह — किंचिदिति । तद्धस्तात्तत्समीपे वा किंचिदर्थजातमाददाना । पयोधरेणेति । यथासंभवं प्राप्तेष्वङ्गेषु सा तमाक्षिपेदित्यर्थः । नायकोऽप्यपविध्यमानस्तां तथा व हुशो व्याप्रियमाणां पार्श्वयोस्तद्भावित्वात्स्तनमहणनस्य स्वेनसकूटेनापविध्येदिति वक्षसि पृष्ठे पार्श्वयोरेकेन बाहुपाशेन पुरस्ताद्वाभ्यां पृष्ठतश्च प्रतिनिवृत्ताभ्यामवपीढ्य गृह्णीयात् । यथाकथंचिदनुरागं मयि यदि प्र काशेत मामपविध्यतीति । एवं च द्वयोः स्तनस्यानल्पवदन्तः प्रविष्टत्वाद्विद्धकं भवतीति । क्षेपणं तु केवलमपविद्धकं नाम तदेकत्वादत्रैवागतम् । अस्य कर्मणीव प्रयोकी । विद्धकस्योभयजन्यत्वावावपि । तथा चोक्तम्'विचेष्टितापविध्येत कामिनी स्तनमालिनी । विद्धकेनेतरस्तत्र कचाकर्षणकर्मणि ॥ इति । तदुभयमनतिप्रवृत्तसंभाषणयोः ॥ तदुमयमिति । स्पृष्टकं विद्धकं च । अनतिप्रवृत्तसंभाषणयोरेवासमागतयोः । तत्रोमयस्य साधयितुं शक्यत्वात् । अतिप्रवृत्तसंभाषणयोस्तु न सिद्धमेव । अप्रवृत्तसंभाषणयोः पुनः साधयितुमशक्यत्वादशक्यमेव विज्ञेयम् । तमसि जनसंवाघे विजने वाथ शनकैर्गच्छतोर्नातिहस्वकाळमु- द्वर्षणं परस्परस्य गात्राणामुदृष्टकम् ॥ जनसंवाघ इति । जनसंकुले । अन्धकारादिपु संभवात्प्रयोगसांकर्यम् । अतथागतैर्गमनमपि युक्तम् । एवं च सति नातिहस्वकालं चिरकालमुद्ध१. 'तत्प्रयोक्तुमशक्यप्रयोगत्वात्.' २. 'असंगतप्रयोगत्वात्.' ३. 'स्तनस्पर्शनस्यापि ' ४. 'प्रहरणस्य. ' ५. 'अंसकूटादिना'. ६. 'प्रविष्टयो.' ७. 'इति' इति पुस्तकान्तरे नास्ति. ८. 'कर्मणां विप्रयोकी.' ९. 'तु.' २ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ९९ र्षणं सिद्धं भवति । परस्परस्येति नायकगात्रेण नायिकागात्रस्य तद्द्वात्रेण चेतरगात्रस्य घर्षणमुद्धृष्टकमुभयजन्यम् । एकनिष्पाद्यं तु घृष्टकं वा मतोऽत्रैवान्तर्गतम् । तदेव कुंड्य संदंशेन स्तम्भसंदंशेन वा स्फुटकमवपीडयेदिति पीडितकम् ॥ तदेवेति । उद्धृष्टकं पीडितकं भवति । कथमित्याह—कुड्यसंदंशेनेति । संदंश उभयतो ग्रहणम् । अर्थान्नायकः परतः कुंड्यं स्तम्भो वा । तेन स्फुटकं हृढमवपीडिते सति तत्पीडितकमेकजन्यमेव द्विविधम् । V तदुभयमवगतपरस्पराकारयोः ॥ i उभयमुद्धृष्टकं पीडितकं च द्रष्टव्यम् । अवगतपरस्पराकारयोरिति गृ- हीतान्योन्यभावयोरसमागतयोः । पूर्वस्मादनयोरधिकोपक्रमत्वात् । अगृहीताकारयोस्तु नैवेत्यर्थोक्तम् । ८ लतावेष्टितकं वृक्षाधिरूढकं तिलतण्डुलकं क्षीरनीरकमिति च : त्वारि संप्रयोगकाले ॥ संप्रयोगकाल इति । कृतार्द्रीकरणयोस्तु समागतयोः संप्रयोगः । तत्काले चत्वार्युपगूहनानि । तत्राद्ययोरेकजन्यत्वेऽपि नायिकैव प्रयोकी । तदनुरूपत्वात् । शेषयोरुभयजन्यत्वादुभावपि । लतेव शालमावेष्टयन्ती चुम्बनायें मुखमवनमयेत् । उद्धृत्य मन्द- सीत्कृता तमाश्रिता वा किचिद्रामणीयकं पश्येत्तल्लतावेष्टितकम् ॥ लतेव शालमिति । यथा लता वृक्षर्मांवेष्टयते तद्वन्नायिका नायकमूर्ध्वस्थितमभिमुखं कक्षयोः कण्ठे बाहुलताभ्यामावेष्टयेति चतुर्विषं लतावे. ष्टितकम् । चुम्बनार्थिनी यत्तु मुखमवनमयेत नायकवृक्षस्योच्चत्वात् । तथा लिष्टाभ्यामेव वाहुपाशाभ्यां तच्छरीरावनमनान्मुखमवनमितं भवति । अनेन प्रयोगे फलं दर्शयति । अत्र प्रयोज्यं चुम्वनफलस्य विवक्षितत्वान्मौलम् । प्रयोगस्य यद्रागस्य जननं वर्धनं च । मन्दसीत्कृतेति । सीत्कृतं 1 १. 'स्पृष्टकम् . ' २. 'संदशे स्तम्मसदशे वा.' ३. 'स्फुटम् ' ४. 'कुष्य:.' ५. 'संप्रयोगे.' ६. 'आवेष्टयति'. ७. 'चतुर्विधम्' इति पुस्तकान्तरे नास्ति. १०० कामसूत्रम् । ७ आदितोऽध्यायः] वक्ष्यति । तन्मन्दं यस्याः । उल्वणस्य रागकालवत्त्वात् । अनेन प्रयोगसंस्कारमाह । प्रयोगान्तरपरिष्कृतं सुतरां मनोहारि स्यात् । तमाश्रिता वेति द्वितीयं फलम् । यद्वा तथैव नायिकमाश्रिता अन्यत्र वामलेख्यादेः स्तनमुखस्य दशनपदाङ्कितस्य वा रामणीयकमुन्मुखी पश्येत्तल्लतावेष्टितमिव लतावेष्टितकम् । प्रतिकृतौ कन् । चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टेयन्ती वा तत्पृष्ठसक्तैकवाहुर्द्वितीयेनांसमवनमयन्ती ईषन्मन्दसीत्कृतक्कूजिता चुम्बनार्थमेवाधिरोदुमिच्छेदिति वृक्षाधिरूढकम् ॥ चरणेनेति । श्वेन चरणेन नायकस्य चरणमाक्रम्य द्वितीयेन चरणेनोरुदेशपार्श्वभागेनाक्रमन्ती यथा जघनघटनस्थानं संश्लिष्टं स्यात् । तत्र वामदक्षिणभेदाद्विविधम् । वेष्टयन्ती वेति बेहिनत्वा द्वितीयभागमानमयेच्चरणमित्यर्थः । तदपि वामदक्षिणमेदाद्विविधम् । द्वाभ्यां च यदाक्रमणमूर्वोर्वेष्टनं तदुभयमपि वृक्षाधिरूढकमत्रैवान्तर्गतम् । सामान्यविघिमाह तत्पृष्ठसक्तैकबाहुरिति । नायकपृष्ठे लतावेष्टनवल्लम एको वा हुर्वामो दक्षिणो वा यस्याः । द्वितीयेन बाहुना स्कन्धभागमवनमयन्ती । ईषदिति । अनुरागकालत्वात् । मन्दानि खिन्नानि श्वसितकादीनि यस्या इत्यर्थः । अनेन संप्रयोगसंस्कारमाह । अत्र सीत्कृतं सीत्करण मेव । कूजितस्य लक्षणं वक्ष्यति । चुम्बनार्थमेव नै रामणीयकदर्शनार्थम् । मनागूरूव्यावृतस्यासंभवात् । अघरपल्लवचुम्बनेनोरुव्यत्यासेन प्रयोगफलम् । वृक्षाधिरूढकमिति पूर्ववत् । तदुभयं स्थितकर्म । तदुभयं स्थितक्रर्मेति । ऊर्ध्वस्थितयोर्यत्र योगः स्यात्, द्वाभ्यां रागजननार्थं तावदिदं कर्म । शयनगतावेवोरूव्यत्यासं भुजव्यत्यासं च ससंघर्षमिव घनं सं- स्वजेते तत्तिलतण्डुलकम् ॥ १. 'अन्यन्यवाम'. २. 'वेष्टयन्ती' इति पुस्तकान्तरे नास्ति. ३. 'ईषत्कृतान्तःश्वसितकूजिता.' ४. 'बहिनींव्या.' ५. 'न न.' ६. 'एव' इति पुस्तकान्तरे नास्ति S २ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १०१ s शयनगतावेवेति । अत्रोरुव्यत्यासं चेति क्रियाविशेषणम् । व्यत्यासो विपर्यासः । तत्र वामपार्श्वसुतायाः स्त्रिया ऊर्वन्तरे दक्षिणपार्श्वे सुप्तः पुमान्वाममूरुम्, दक्षिणकक्षान्तरे च वामभुजं प्रवेशयेत् । योषिदपि पुंसः । २ इत्येको व्यत्यासः । इतरपार्श्वसुताया द्वितीयस्य संधैर्पार्थमिव घनं निरन्तरं संखजेते स्त्रीपुंसावुपगूहेते इति । तिलतण्डुलकमिति ऊरुभुजानां तनुस्थानां तिलतण्डुलानामिवोर्ध्वस्थित्या संमिश्रणात् । रागान्धावनपेक्षितात्ययौ परस्परमनुविशत इवोत्सङ्गगतायाम- भिमुखोपविष्टायां शयने वेति क्षीरजलकम् ॥ V अनपेक्षितात्ययाविति । रागान्धत्वादनपेक्षितास्थिमङ्गदोषौ परिष्वजमानौ परस्परमनुप्रविशत इव । बाहुयन्त्रेणातिपीडनान्मृत्पिण्डाविव क्षीरोदकवच्च तादात्म्यं प्रतिपद्येते इव । यथोक्तम् – 'भावासक्ताः कामुकाः । कामिनीनामिच्छन्त्यङ्गेष्वम्भसीव प्रवेष्टुम् इति । कथमिदं निप्पद्यत इत्याह———उत्सङ्गगतायामिति । नायकोत्सङ्गे बहिरूरू । विन्यस्याभिमुखमुपविष्टायां सैत्याम् । अत्र कक्षयो कक्षयोर्यथायोगं संश्लिष्टयोः कुँचयोबहुयनं स्यात् । शयने वेति । पार्श्वलुप्तयोरित्यर्थः । तिलतण्डुलकं + पुनरत्रैव । 7 ; i i . तदुभयं रागकाले ॥ तदुभयमिति रागस्य वृद्धत्वात्तत्काल एव द्रष्टव्यम् । संप्रयोगकालविशेषश्च रागकालः । यत्र पुंसः स्थिरलिङ्गता, स्त्रियाश्च क्लिन्नसंबाघता, तत्र च यन्त्रयोगात्प्राग्यथोक्तमेवालिङ्गनम् । यन्त्रयोजनेन तु संवेशनप्रकारानुरोघाद्योज्यम् । , इत्युपग्रहनयोगा वाभ्रवीयाः ॥ बावीया इति बाम्रव्येन प्रोक्ता उपगूहनप्रकाराः । १. 'न प्रवेशयेत्.' २. 'संघर्वार्थमिव सस्पर्धमिव', 'सघर्षमिव सघर्पार्थमिव,' 'संघर्षमिव.' ३. 'सत्याम्' इति पुस्तकान्तरे नास्ति. ४. 'वै कक्षयोः' इति पुस्तकान्तरे नास्त्रि. ५. 'कुचयोः' इति पुस्तकान्तरे नास्ति ६. 'पार्श्वयोरित्यर्थ:.' ७. 'रागस्य' इति पुस्तकान्तरे नाखि. ८. 'पुसामू.' ९. 'एव' इति पुस्तकान्तरे नाति. १०२ कामसूत्रम् । सुवर्णनाभस्य त्वधिकमेकाङ्गोपगृहनचतुष्टयम् सुवर्णनामस्य वाअवीयादुपगूहनाष्टकादनेन विकल्पवर्गस्याधिक्यमित्येकः प्रकारः । तेनोरोरूर्ध्वमागेन जघनेन यन्त्रस्यायोगे योगे वा जघनमवपीड्येत्याधिक्यं दर्शयति । एकाङ्गोपगूहनचतुष्टयं संप्रयोगकाल इति वर्तते । एकेनाङ्गेन सजातीयस्याङ्गस्य प्राधान्येन संश्लेषणात्तथोक्तम् । तत्रोरुसंदंशेनैकग्रूरुग्रूरुद्वयं वा सर्वप्राणं पीडयेदित्यूरूपगूहनम् ॥ एैकमूरुमूरुद्वयं वेति पार्श्वसुप्तस्य पुंसः स्त्रिया वा । अत्र विशेषाभावाहूयोरपि प्रयोक्तृत्वम् । यस्योरुस्थलमतिविपुलं स प्रयोक्तेति केचित् । सर्वप्राणमिति क्रियाविशेषणम् । अतिपीडनं हि मांसस्थानेऽत्यन्तसुखकारि स्यात् । जघनेन जघनमवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनमहणन- चुम्वनप्रयोजनाय तदुपरि लङ्घयेतज्जघनोपगूहनम् ॥ जघनेन जघनमिति । पार्श्वशयनेन वैराङ्गेण साधनं वाडवकेनापीड्येत्येकः प्रकारः । नाभेरधोभागेन जघनेन यन्त्रस्यायोगे वा जघनमवपीड्येति द्वितीयः । तत्र स्त्रीजघनस्यातिशृङ्गारत्वात्तैव शोभते । विशेषतो विपुलजघना । प्रकीर्यमाणकेशहस्तेति प्रयोगसंस्कारः । नखादीनि स्वेच्छ्या प्रयोज्येति । तत्प्रयोजनं तु फलम् । उपरि लङ्घयेन्नायकस्योपरि तिष्ठेदित्यर्थः । स्तनाभ्यासुरः प्रविश्य तत्रैव भारमारोपयेदिति स्तनालिङ्गनम् ॥ स्तनाभ्यामुर इति । आसने पार्श्वशयने वा पृष्ठभागं निम्नीकृत्य स्त नाभ्यां नायकोरःस्थलं प्रविश्य तत्रैवेत्युरसि भारमारोपयेत् । स्तनस्येत्यर्थात् । एवं हि नायकः स्तनभाराक्रान्ते पिण्डीकृतमिवोरसि स्पर्शसुखमनुभवति । मुखे मुखमासज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमाहन्यात्सा ललाटिका । ७ आदितोऽध्यायः] ॥ १. 'अधोभागेन.' २. 'तथा चोकम्.' ३. 'एकमूरुद्वयमेवेति' ४. 'यस्योपस्थम्.' ५. 'वराहेन जघनं यन्त्रयोगेनाव्यापीय. ' ६. 'भावमावेशयेत्.' ७. 'भावम्.' २ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १०३ उत्तानसंपुटे पार्श्वसंपुटे वा वक्रे वक्रं संयोज्य अक्ष्णोरक्षिणी दृष्टयालक्षीकरणेनासज्य । नासिकाया मुखनयनमध्यानुवर्तिनीत्वात्तत्संयोजनमथकम् । ललाटे ललाटं द्विस्त्रिराहत्य च तत्रैव भारमारोपयेदित्येवास्य नायिका प्रयोक्नी । तेन ललाटिकेव ललाटिका । नायकललाटस्य संक्रान्तिविशेषेणालंक्रियमाणत्वात् । संवाहनमप्युपगूहनप्रकारमित्येके मन्यन्ते । संस्पर्शत्वात् ॥ संवाहनमपीति । त्वङ्यांसास्थिसुखकरणेन त्रिविधं संवाहनमनमर्दनम् । तदपि संस्पर्शयुक्तत्वादुपगूहनविकारमेव द्रष्टव्यमित्येके । पृथक्कालत्वाद्भिन्नप्रयोजनत्वादसाधारणत्वान्नेति वात्स्यायनः ॥ पृथक्कालत्वादाचार्याः सर्व एव । पृथक्कालोऽस्येति पृथक्कालम् । उपगूहनात्संस्पर्शित्वेनाभेदेऽपि संवाहनं कालतो भिन्नम् । असाधारणत्वात् । उपगूहनं धनन्तरप्रयुक्तं द्वयोरप्येकस्मिन्काले कार्यकारीति साधारणम् । संवाहनं तु पुंसा प्रयुक्तं स्त्रियाः कार्यकारि, स्त्रिया च नायकस्येत्यसाघारणम् । अतो गीतादिचतुःषष्टयाम् 'उत्सादने केशमर्दने कौशलम्' इत्यत्र द्रष्टव्यम् । संस्पर्शत्वे च चुम्बनादीनामपि तद्विकारप्रदानप्रसङ्गात् । आलिङ्गनविषावादरार्थमाह पृच्छतां शृण्वतां वापि तथा कथयतामपि । उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम् ॥ पृच्छतामिति । पृच्छतां शृण्वतां पार्श्वस्थानाम् । कथयतां परेभ्यः । उपगूहविधिमिति । उपगूहनमुपगूहः । भावे घञ् वा । कृत्स्नं निरवशेषम् । क्वचित्कस्यचिदभिप्रायात् । रिरंसा रन्तुमिच्छा संजायते । किं पुनर्ये प्रयुञ्जते । अनुक्कातिदेशमाह येsपि ह्यशास्त्रिताः केचित्संयोगा रागवर्धनाः । आदरेणैव तेऽप्यन्त्र प्रयोज्याः सांप्रयोगिकाः ॥ १. 'संयोज्यम्.' २. 'भावम् ' ३. 'पृथक्काल त्वाचार्या:.' ४. 'संस्पर्शित्वे च.' ५. 'सांप्रयोगिके.' कामसूत्रम् । ८ आदितोऽध्यायः] येऽपीति । अभिधायकत्वेन शास्त्रं संजातं येषां ते शास्त्रिताः । ये संश्लेषाः । आदरेणैव । अरागवर्धनत्वात्प्रयोज्याः । सांनैवंविघः किं तु स्वेच्छयोत्प्रेक्षिताः संयोगाः वज्ञया न अशास्त्रिता इति । अत्र ते सुरते प्रयोगिकाः संप्रयोगप्रयोजनाः । किंमित्यशास्त्रिताः प्रयोज्या इत्याह शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः । रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे आलिङ्गनविचारा द्वितीयोऽध्यायः । आदितः सप्तमः । शास्त्राणामिति । अप्रवृद्धरागा हि शास्त्रोक्तक्रमसंयोगे क्रमं चापेक्ष- माणाः शास्त्राणां विषयः । रतिचक्रे रागोत्पीडे प्रवृत्ते तद्वशादशास्त्रिता- नामप्यनुष्ठानात्तदानीं न शास्त्रं स्यान्नापि क्रमः । संयोगानां लोपे पौर्वा- पर्यमुच्चावचेन प्रवर्तनम् । तस्मान्मा भूच्छास्त्रस्य क्रमस्य चानर्थक्यमित्य- नुक्तमतिदिश्यते । इत्युपगूहनविचारोऽष्टमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधिकरण आलिङ्गनविचारा द्वितीयोऽध्यायः । तृतीयोऽध्यायः । एवं परिरभ्य चुम्बनादयः प्रयोक्तव्याः, तत्रापि किं प्राक्चुम्बनं नखच्छेद्यं दशनच्छेद्यं वा पश्चादिति नास्त्येषां प्रयोगक्रम, इत्याह चुम्वननखदशनच्छेद्यानां न पौर्वापर्यमस्ति । रागयोगात् । प्रा- क्संयोगादेषां प्राधान्येन प्रयोगः । महणनसीत्कृतयोच संप्रयोगे ॥ न पौर्वापर्यमिति । रागवशादिति रागयोगात् । रागाविष्टो हि न क्रममपेक्षते । अयं तु विशेषः—यदेषां प्राक्संयोगात्प्राग्यन्त्रयोगात् । य१. 'आश्लेषाः'; 'चाश्नेपाः.' २. 'सयोगाना न पौर्वापर्यम्.' ३. 'उपगूहनप्रकाशः.' ४. 'पूर्वापर्यमिति'; 'रागावशादिति.' ] । ३ अध्यायः] २ सांप्रयोगिकमधिकरणम् । न्त्रयोगे प्राधान्येन वाहुल्येन रागाभ्यासाद्वा प्रबोधनाथै प्रयोगः । नाय- कनायिकाभ्यां यन्त्रयोगे तु प्राधान्येनेत्यर्थोक्तम् । प्रहणनसीत्कृतयोस्तु संप्रयोगे यन्त्रयोगे प्राधान्येन प्रयोग इत्येव । तदा हि प्रवृद्धरागयोः प्राधान्येन घातसहत्वम् । प्रहणनबाहुल्ये च तदुद्भवस्य सीत्कृतस्यापि बाहुल्ये प्रागप्राधान्येनेत्यर्थोक्तम् ॥ एकीयमतमेतत् । उत्तरपक्षदर्शनात् । यदाह सर्व सर्वत्र । रागस्थानपेक्षितत्वात् । इति वात्स्यायनः ॥ सर्वे सर्वत्रेति । चुम्बनादिपञ्चकं प्राक्प्रयोगे च प्राधान्येन प्रयोक्तव्यम् । रागस्यानपेक्षितत्वादिति । चण्डवेगो हि प्राधान्येनाप्राधान्येन वाश्रययोगमपेक्षते । मन्दवेगयोस्तु पूर्व एव पक्षः । अयं तु विशेषः पक्षद्वयेऽपि तुल्य इत्याह- तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च मयुञ्जीत । तथाभूतत्वाद्रागस्य । ततः पेरमतित्वरया विशेषवत्स- मुच्चयेन रागसंधुक्षणार्थम् ॥ तानि चुम्बनादीनि पञ्च । प्रथमरत इति रतस्यारम्भे । नातिव्यतानि नातिस्फुटानि । यथालक्षणस्यासमापनात् । विश्वब्धिकया विकस्पेन चेति । इदं वेदं वेत्येकमेव प्रयुञ्जीत । न समुच्चयेन । तद्यथाचुम्बनं वा नखच्छेद्यं वा । [चुम्बनं वा] दशनच्छेद्यं वा । चुम्बनं वा ग्रहणनं वा । चुम्बनं वा सीत्कृतं वेति । चतुर्था । नखच्छेद्यं त्रिधा । 'दशनच्छेद्यं द्विधा । प्रहणनमेकं वेत्यनुलोमा दश । तावन्त एव प्रतिलोमाः । एकत्र विंशतिः प्रयोगाः । तथाभूतत्वादिति । आरम्भकाले हि मन्दो रागः । ततश्च मध्यस्थचितता नातिसहिष्णुता चेति । तदनुरूप एव प्रयोगः । ततः परमिति । आरम्भादुत्तरे काले समधिको रागयोगः । शरीरेऽपि च निरपेक्षत्वमिति तदनुरूपमतित्वरया विशेषवद्विकल्पवर्गानुष्ठानात्समुच्चयेन चेदं वेत्यत्रापि विंशतिप्रयोगाः । किमर्थमेवं प्रयुञ्जी१. 'तानि प्रथमरतेऽव्यक्तानि त्वरित विकल्पेन प्रयुञ्जीत'. २. 'परमत्वरया.' ३. वि श्रब्धिकया तु. ४. 'एवं इति पुस्तकान्तरे नास्ति ५. 'निरपेक्षितत्वम्'. का० १४ १०६ कामसूत्रम् । ८ आदितोऽध्यायः] तेत्याह – रागसंधुक्षणार्थम् । अनेन क्रमेण रागो वर्धत इत्यर्थः । अन्यथा विच्छिन्नरसं रतं स्यादिति । एवं परस्परविश्रव्धयोर्न चुम्बनादीनां पौर्वापर्यम् । यदा तु विश्वासनार्थमुपक्रमस्तदास्त्येवेत्येषां पौर्वापर्यम् । उत्तरोतरस्याधिक्यात् । सहसा कर्तुमशक्यत्वादिति । आलिङ्गनानन्तरं चुम्बनविकल्पा उच्यन्ते तेच चुम्बनमेदा न च स्थानभेदं विनेत्याह- ललाटालककपोलनयनवक्षः स्तनोष्ठान्तर्मुखेषु चुम्बनम् । ऊरु- संधिवाहुनाभिमूलयोर्लाटानाम् । रागवशादेशमवृत्तेश्च सन्ति तानि तानि स्थानानि, न तु सर्वजनप्रयोज्यानीति वात्स्यायनः ॥ ललाटेति । तत्र वक्षः पुरुषस्य । स्तनौ योषितः । शेषा उमयोरपि । ओष्ठमुत्तरमधरं च । अन्तर्मुखो मुखान्तस्ताल्वादि । तत्रान्तर्मुखे । जिह्वया चुम्बनं वक्ष्यति । एतेष्वष्टसु स्थानेषु चुम्बनमविरुद्धत्वात्पूर्वा चार्याणां मतम् । ऊरुसंघिबाहुनामिमूलेष्विति । ऊरुसंधिर्वङ्गणम् । बाहुमूलं कक्षौ । तथापरं दशनकृतं वक्ष्यति । नाभिमूलं वैराङ्गं पूर्वोत्तम् । लाटानामिति । तेषामेकादश स्थानानीति मतम् । रागवशादिति । यानि रागार्थानि देशप्रवृत्तानि स्थानानि चुम्बन्ति । देशप्रवृत्तेश्चेति । यथा लाटविषये प्रवृत्तत्वादूरुसंध्यादीनि तत्रत्याश्चम्बन्ति तानि सन्ति न तु सर्वजनप्रयोज्यानि सर्वेण जनेन प्रयोक्तुमशक्यानि । शिष्टैरशुचित्वादशक्यानि । तेषामष्टावेव स्थानानि । तत्र मुकुलीकृतेन वक्रेण संयोजनमिति लोकप्रतीतम् । तत्र स्थान विशेषेण यग्रहणकर्म तस्य भेदेन चुम्वनभेदाः कथ्यन्ते । तत्र चुम्वनस्थान आस्यस्य मुख्यत्वात्तत्र चुम्बनमुच्यते । तत्राप्युत्तराधरसंपुटकमेदान्त्रिविधम् । तत्र कर्मबहुत्वादधरमधिकृत्याह तद्यथा – निमितकं स्फुरितकं घट्टितकमिति त्रीणि कन्याचुम्ब- नानि ॥ १. 'वरागमूबोंः'. , ८ ३ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १०७ कन्याचुम्बनानीति । असंगताप्यजातविश्रम्भत्वात्कन्यैव । नायिका एषां प्रयोकी । + १ i बढ़ने मैवेशितं चौष्ठं मनागपत्रपावग्रहीतुमिच्छन्ती स्यन्दयति स्वमोठे नोत्तरमुत्सहत इति स्फुरितकम् ॥ वदने नायिकायाः । प्रवेशितं चौष्ठं स्खमधरं नायकेन । किंचिच्छ्रथीकृतलज्जा अनुग्रहीतुमिच्छन्ती । समग्रहणेन कथं तत्क्रियेतेति चेदाह स्पन्दयतीति । वमोष्ठमघरं चलयतीति [ते]नोत्तरमोष्ठमुत्सहते । स्पइयितुमर्थात् । तमपि यदि चलयति गृह्णात्ये समग्रहणेन । स्फुरितकछु मघरस्फुरणात् । i वलात्कारेण नियुक्ता मुखे मुखमाधत्ते न तु विचेष्टत इति नि- मितकम् ॥ बलात्कारेण हठाचुम्बने नियुक्ता मुखे नायकस्य मुखं खमाधत्ते न्यस्यति लज्जया न विचेष्टतेऽघरग्रहणेन । निमितकमिति संज्ञायां कन् । चुम्बनक्रियामात्रत्वात्परिमितमित्यर्थः । ईषत्परिगृह्ण विनिमीलितनयना करेण च तस्य नयने अवच्छा- दयन्ती जिह्वाग्रेण धट्टयति इति घहितकम् ॥ ÷ ईषत्परिगृह्येति सर्वथा त्रपानपगमात् । समं नायकाधरौष्ठाभ्यां समन्ततो गृहीत्वा । स्पष्टग्रहणात्समग्रहणं नाम चुम्बनं वक्ष्यति । निमीलितनयना लैज्जया । जिह्वाग्रेण घट्टयन्ती सर्वतो अॅमणेन स्पृशन्तीत्यर्थः । करेण नयने तस्यावच्छादयन्ती मैवमवस्थां मामयं द्रक्ष्यतीति । घट्टितकमधरघट्टनात् । सर्वत्र संज्ञार्थेनैव कर्मातिदेश इत्यधिकृतौ वेदितव्यम् । एषामानुपूर्व्येणैव प्रयोग इति । i i इदानीं शेषाणां नायकनायिकानां कर्मभेदादघरचुम्बनविकल्पानाह--- समं तिर्यगुद्धान्तमंवपीडितकमिति चतुर्विधमपरे ॥ १. 'चुम्बति'. २. 'प्रवेशितमोष्ठम्'. ३. 'समय-'. ४. 'एवमेव ग्रहणेन'. ५. 'विनिमीलितनयना जिह्वात्रेण घट्टयित्वा सम तिर्यगुड्रान्त-'. ६. 'लजायाम्'. ७. 'भ्रमणम्'. ८. 'द्राक्षीत्'. ९. 'सज्ञात्वेनैव'. १०. 'अवपीडित निर्दशनमवपीडयेदित्यवपीडितक पञ्चममपि करणम्. १०८ कामसूत्रम् । ८ आदितोऽध्यायः] सममिति । ओष्ठपुटेनाघरे पञ्चकग्रहणम् । तत्र यत्सर्वमभिमुखं गृह्यते तत्समग्रहणम् । यत्साचीकृतेनोष्ठपुटेन सर्वे वर्तुलीकृत्य गृह्यते तत्तिर्यग्ग्रहणम् । यच्चिवुके शिरसि च गृहीत्वा मुखं अमयित्वा गृह्यते तद्भान्तम् । परस्पराघरग्रहणमित्यर्थः । तदेव त्रितयमवपीडितम् । अवपीढ्य ग्रहणात् । पूर्वत्रितयं पीडितमिति विशेषः । तत्रोमाभ्यामेव यत्पीडितं तच्छुद्धपीडितम् । यज्जिहाग्रेण सह तदवलीढपीडितम् । तच्चूषणमधरपानं चेति नामद्वयेनोच्यते । पञ्चमग्रहणमाह अङ्गुलिसंपुटेन पिण्डीकृत्य निर्देशनमोष्ठ प्लुटेनावपीडयेदित्यव- पीडितकं पञ्चममपि करणम् ॥ अङ्गुलिसंपुटेनेति तर्जन्यङ्गुष्ठसंपुटेन । पिण्डीकृत्य गृहीत्वा । ततो निर्दशनं दशनव्यापारं विना ओष्ठपुटेनावपीडयेत् । अत्र पीडनेऽपि बहिः पिण्डिताकर्षणं विशेषः । पञ्चके तदाकृष्टचुम्बनं नाम ग्रहणम् । एवं कर्मभेदादष्टविघमघरचुम्बनमुक्तं त्रीणि कन्याचुम्बनानि पञ्च ग्रहणचुम्बनानीति । तत्र कर्मणा चुम्बनमेदमशेषं समाप्यैवमवसरप्राप्तत्वादधरचुम्बने द्यूतमाह- द्यूतं चात्र प्रवर्तयेत् ॥ द्यूतं चेति । अत्रेत्यस्मिन्नधरचुम्बने । नान्यस्थाने । चुम्बने विशो- भत्वाद्द्यूतमनुरागवर्धनं स्यात् । तत्र जेयपराजयफलत्वाचूतस्य लक्षणमाह - पूर्वमधरसंपादनेन जितमिदं स्यात् ॥ पूर्वमिति । आवयोः परस्परं चुम्बतोर्येन पूर्व प्रथमतोऽधरस्य ग्रहण विधिना संपादनं कृतं तस्मिन्सति तेन जितम् । किं तदित्याह–इदम् । १. 'पूर्वत्र न पीडितम्'. २. 'अहुलिसंपुटेनौष्ठमादाय जिह्वाग्रेण घट्टयित्वा निर्देयमबपीडयेदित्यवपीडितकमिति पञ्चम-'. ३. 'पिण्डीकृत्वाकर्पणम्'. ४, 'तत्र'. ५. 'जयफळत्वाद्दधूतलक्षणमाह ६. 'पूर्वमोष्ठ'. ● ३ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १०९ इत्यनेन द्वयोरभिमतपणं सूचयति । द्यूतं च कपटेनाकपटेन वा स्यात् । तत्र यल्लौकिकेनैव चुम्बनेन द्वावेव परस्परस्याघरं चुम्बतस्तदकपटं च वक्ष्यति । तत्र तस्मिन्नकपटे द्यूते प्रवृत्ते नायकेन पूर्वमन्यतमेन ग्रहणम् । चुम्बनेन गृहीताधरत्वाज्जिता । अकपटद्यूते नायिकाया अवलत्वात्तैव जिता शोभते । कपटद्यूते चास्यास्तदनुरूपत्वाज्जयं वक्ष्यति । नायकेन तु कपटद्यूते न जेतव्या । तस्या अननुरूपत्वात् । तत्रान्यतरस्य जयेऽपरस्य कलहोऽवश्यं भावी । द्यूतस्य कलहास्पदत्वात् । इति कलहयोजनं रागोद्दीपनार्थमाह — तत्र जिता सारुदितं करं विधुनुयात्मणुदेदशेत्परिवर्तयेद्धला- दाहृता विषदेत्पुनरप्यस्तु पण इति ब्रूयात् । तत्रापि जिता द्विगु- णमायस्येत् ॥ सार्घरुदितमिति । क्रियाविशेषणं चैतत् । अधरपीडोपख्यापनायै सहार्षरुदितेन कृतकेन करं विधुनुयात्कम्पयेत् । प्रणुदेत्तर्जयेत् । भङ्गवैलक्ष्यान्नायकं क्षिपेत् । दशेच्छ्रेषमघरग्रहणं बुद्धा दन्तैः खण्डयेत् । परिवर्तेत मुखेनाशक्ता चेत्कायेनाधरमोक्षार्थम् । विवदेन्नैव जितास्मि मयैव जितमिति कलहयेत् । पुनरस्त्वपरः पण इति । पुनः क्रीडामः । पूर्वस्मात्पणादयमपरः पण इति ब्रूयात् । तत्रापीति द्वितीयेऽपि पणे । द्विगुणमायस्येदिति करधूननाद्याधिक्येन कुर्यादित्यर्थः । कपटद्यूतमाह विश्रब्धस्य प्रमत्तस्य वाघरमवगृह्य दशनान्तर्गतमनिर्गमं कृत्वा हसेदुत्क्रोशेत्तर्जयेद्वल्गेदाह्वयेन्नृत्ये मनर्तित भ्रुणा च विचलनयनेन मुखेन विहसन्ती तानि तानि च ब्रूयात् । इति चुम्बनद्यूतकलहः ॥ विश्रव्धस्येति । तस्मिन्नेव सुखे मुखचुम्बनधूते अन्तरा विश्रव्धिकया नायिका विश्रम्भयेत् । ततो विश्रव्धस्य प्रमत्तस्य वाकस्मादन्यत्र गँतचेतसोऽघरमवगृह्यौष्ठसंपुटेन ततो दशनान्तर्गतमनिर्गमं कृत्वा यथा तदन्तर्ग१. 'साख रुदितम्'. २. 'विधूनयेत'. ३. 'वलादाहृता' इति पुस्तकान्तरे नास्त्रि, ४. 'विधूनयेत्'. ५. 'प्रनतिंतभ्रूलता च'. ६. 'गता चेत्साघर-. कामसूत्रम् । ८ आदितोऽध्यायः] तमपि प्रमादान्न निर्गच्छति । सापराधत्वात् । पश्चागृहीताघरा मुक्ताघरा वा यथासंभवमुत्तरं व्यापारमनुतिष्ठेत् । इतरत्रापि कपटद्यूते स्खलितप्रमादापेक्षयैव जयो दृष्टः । इत्येवं कपटेन जित्वा हसेत् । सशब्दमितरं वा । अत्यन्तपरितोषणात् । उत्क्रोशेन्मया जितमिति पूरकुर्यात् । यथास्य मित्राणि शृण्वन्ति खसख्यो वा । तर्जयेल्लब्घोऽसीदानीं खण्डयामि तेऽघरमिति । वैल्गेत्सविलासं गात्राणि विक्षिपेत् । आह्वयेत्संख्यन्तमेव वापसृत्य गच्छ दर्श्यतां खपौरुषमिति । नृत्येत्तत्परितुष्टया । भ्रूणा चेति एकोद्धारक्रमेण समुन्नमितञ्जुणा मुखेनेति विहितसंस्कारः । विहसन्ती कलहावसानत्वात् । तानि तानीति यानि यथार्थयुक्तानि रागदीपनानि मन्यते । चुम्बनद्यूतकलह इति । अकपटे कपटे च चुम्बनधूते कलह उक्तः । वैदि नायकोsपि जेता जितो वा तथा चेष्टेत । अन्यथा कथं कलहः स्यात् । तद्यथा—दृढमघरमवपीडयन्ससीत्कृतं च शिरो विधुनुयात् । नुदतीमुपसर्पेत् । दशन्तीं प्रतिदशेत् । परिवर्तमानां प्रतिनिवर्तयेत् । विवदमानां प्रतिविवदेत् । तेषु त्वयमपरः पण इति पूर्वकमेव तावप्रयच्छेति च ब्रूयात् । तत्रापि जेता द्विगुणमायस्येदिति पणद्वयसाधनाथै साघयेत् । जितोऽपि वैलेक्ष्याद्विहसेत् । जितं जितं मयेयुंकोशन्त्या मिथ्या मिथ्येत्युत्क्रोशेत् । तर्जयन्तीं प्रतितर्जयेत् । वल्गन्तीं तद्द्वात्रसंयमनेन प्रतिवल्पयेत् । आह्वयन्तीं प्रत्याह्वयेत् । नृत्यन्तीं करतालिकया प्रतिनर्तयेत् । विहसन्तीं तानि तानि ब्रुवन्तीं तद्वचननिषेधार्थ प्रतिब्रूयादिति । यथा चोक्तम्– 'जितो वा यदि वा जेता चुम्बनद्यूतकर्मणि । तस्या एव विचेष्टाभिः कलहं प्रतियोजयेत् ॥' इति । Bogda एतेन नखदशनच्छेद्यमहणनद्यूतकलहा व्याख्याताः ॥ एतेनेति चुम्बनद्यूतकपटेनाकपटेन च। तत्राप्ययमेव विधिः । तद्यथापूर्वं नखच्छेद्यादिसंपादिते जितमिदं स्यादित्यादि । अत्र च द्यूतप्रवर्तनं नखदशनहस्तानां ग्रहणनस्थानेष्वेव मोहनेन स्यात् । सीत्कृतद्यूतकल१. 'वळेनारुहेत'; 'पलायेतारुहेत'. २. 'संख्यं तमेवापसृत्य'. ३. 'यदि वा'. ४. 'प्रयच्छेदिति', ५. 'विलक्षातू'. ६. 'आक्रोशन्त्याम्'. ७. 'इत्यर्थः'. ८. 'प्रहरण-'. = 2 P = ३ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १११ हस्तु प्रथमं न संभवति । प्रहणनकलहे द्रष्टव्यः । तदुद्भवत्वात् । तत्र जेता ससीत्कृतं ग्रहण्यात् । जीयमानस्य प्रहणनं प्रतीच्छेत् । चण्डवेगयोरेव त्वेषां प्रयोगः । तत्सात्म्यात् ॥ ५ एषामिति कलहानाम् । तत्सात्म्यादिति ईदृशैरेव चेष्टितैश्चण्डवेगयोः सात्म्यम् । न मन्दवेगयोः । तद्विमक्षमत्वात् । तत उत्तरोष्ठविधिमाह तस्यां चुवन्त्यामयमप्युत्तरं गृह्णीयात् । इत्युत्तरचुम्बितम् ॥ तस्यामिति । समग्रहणेन नायकाघरं चुम्वन्त्यां नायिकायामयमपि नायकः प्रसङ्गादस्या उत्तरोष्ठं समग्रहणेन गृह्णीयात् । उत्तरचुम्बितमुत्तरोष्ठग्रहणेन । प्रासङ्गिकमिदम् । केवलं तु सत्यधरे न प्रयोक्तव्यम् । ग्राम्यत्वान्नासिकापुटवत् । प्रासङ्गिके च तिर्यग्ग्रहणादीनामसंभवात् । एवमुत्तरचुम्बितमेकविषमेव । समग्रहणं नामास्या नायिकापि प्रयोक्त्री । यदि पुरुषो न जातव्यञ्जनस्तदा । द्वयोरपि युगपद्विधिमाह ओष्ठसंदंशेनावगृह्यौष्ठद्वयमपि चुम्चेत । इति संपुटकं स्त्रियाः, पुंसो वाजातव्यञ्जनस्य ॥ A ओष्ठसंदंशेनेति । उमाभ्यां ग्रहणं संदंशः । तेनौष्ठद्वयमवगृह्य वक्त्रान्तः प्रवेश्यामिचुम्बेदिति । ससीत्कारं खमोष्ठपुरं संकोचयेदित्यर्थः । सर्वत्र चुम्बनविघावयाते शब्दोच्चारणं कार्यम् । संपुटकमोष्ठद्वयग्रहणात् । एतच्चतुर्विधम् ~ समं तिर्यग्भ्रान्तमवपीडितं च । ओकृष्टं न योज्यमशोभित्वात् । र्खिया इति । पुंसा प्रयोक्तव्यम् । तदोष्ठयोर्निमित्वात् । स्त्रियापि पुंसश्राजातव्यञ्जनस्याप्ररूढश्मश्रोः । इतरथा लोमभिर्वकपूरणमसुखावहं स्यात् । १. 'तस्यां चुम्वन्त्यामेवोत्तरं गृह्णीयादित्युत्तरोष्ठ रागदीपनम् इति वृत्तिकारसमतः पाठ:. २. 'सत्यघरेण; 'सत्यप्यघरेण'; 'सत्यप्यघरे न.' ३. 'ससूत्कारम्. ४. 'आयति'; 'आपाते'. ५. 'मत्कष्टम्'; 'महत्कष्टम्' ६. 'त्रियेति'. १ " } ८ आदितोऽध्यायः] एवमोष्ठचुम्बनं त्रिविधमुक्त्वा संपुटान्तर्गतत्वान्तर्मुखचुम्बनविकल्पानाह ११२ कामसूत्रम् । तस्मिन्नितरोऽपि जिह्वयास्या दशनान्षयेत्ताल जिह्वां चेति जिह्वायुद्धम् ॥ तस्मिन्निति संपुटचुम्बने । इतरो नायको नायिका वा यस्य संपुटकं प्रयोक्तुमस्येति (इच्छति) । प्रयोक्तुर्विवृतास्यत्वादुपर्यधश्च दशनाजिद्दया घट्टयेत् । संमार्जयेदित्यर्थः । तालुं जिह्वयोर्ध्वप्रसारितया, जिह्वां वा ऋजुप्रसारितया घट्टयेत् । जिह्वायुद्धं च । कुर्यादिति शेषः । परस्परप्रेरणेन । एतचतुर्विधम् —–अन्तर्मुखचुम्वनं दशनचुम्वनं जिह्वाचुम्बनं ताल्लुचुम्बनं चेति । एतेन वलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ॥ जिह्वायुद्धेन वदनरदनग्रहणमिति हठाद्वदनेन वदनस्य दशनैर्देशना-' नां ग्रहणे परस्परस्य युद्धमिति ग्रहणपूर्वकं वदनयुद्धं रदनयुद्धं च व्याख्यातम् । दानं चेति । एैक चुम्वयितुं हठाद्वदनं ददाति आहयितुं वा दशनानन्यो गृह्णातीत्युमयोर्ब्रहणदानपूर्वकं वदनयुद्धं रदनयुद्धं चेति । समं पीडितमञ्चितं मृदु शेषाङ्गेषु चुम्वनं स्थानविशेषयोगात् । इति चुम्वनविशेषाः ॥ शेषाङ्गेष्विति ओष्ठान्तर्मुखेभ्योऽन्येषु ललाटादिस्थानेषु कर्मेमेदात्समचुम्बनं पीडितचुम्बनमञ्चितचुम्बनं मृदुचुम्वनं चेति चतुर्विधम् । स्थानविशेषयोगादिति । यद्यत्र प्रयुज्यते तत्तन्त्र स्यादित्यर्थः । तत्रोरुसंधिकक्षावक्षःसु समम्, न पीडितं नातिमृदु । तेन कपोलकक्षामूलनाभिमूलेषु पीडितम् । ललाटचिवुकयोः कक्षापर्यन्ते चुम्बनमैञ्चितम् । ललाटे नयनयोर्मृदुस्पर्शमात्रकरणमिति । एवमेते कर्ममेदाचुम्बनभेदा उक्ताः । त एवावस्थामेदान्नामान्तरं प्रतिपद्यन्त इत्याह - सुतस्य मुखमेवलोकयन्त्याः स्वाभिमायेण चुम्बनं रागदीपनम् ॥ १. 'संपुटान्तर्गतमुख'. २. 'ताङचुम्वनं च' इति पुस्तकान्तरे नास्ति. ३. 'एकम्' ४. 'शेषाङ्गचुम्वनानि स्थानविशेषात्. ५. 'यद्येवम्'. ६. 'चूचुकयो:'. ७. 'आकृष्टम्'. e. 'एवमेव ते.' 'अवलोकयन्त्या:. 3 ३ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ११३ सुप्तस्येति । मुखमालोकयन्तीत्याहितभावत्वं दर्शयति । स्वाभिप्रायेणेति यथा स्वयं धृतिं लभते तथा चुम्बतीत्यर्थः । एवं च सति तस्या एव रागसंधुक्षणाद्रागदीपनम् । नायकस्य चुम्व्यमानस्य प्रतिबोधात् । जाप्रतोऽप्येतत्संभवति । तत्र तदवस्थिकं सांप्रयोगिकमेव स्यात् । मत्तस्य विषदमानस्य वान्यतोऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थं चलितकम् ॥ निद्राव्याघातार्थमित्युपलक्षणमेतत् । प्रमत्तस्य गीतालेख्यादिपु प्रसतस्य । प्रमादव्याघातायै विवदमानस्य । तैया सह कलहव्याघातार्थमन्यतोऽभिमुखस्य । अन्यतो दृष्टिव्याघातार्थ सुप्ताभिमुखस्य । सुपुप्सतो निद्राव्याघातार्थम् । 'सुषुप्तितो निद्रादिव्याघातार्थम्' इति पाठान्तरम् । चलितकमिति प्रमादादिना नायकस्य चलनं चलितकम् । 'तत्करोति - ' इति णिच् । तदन्ताच्चलयतीत्यच् । ततः संज्ञायां कन् । चलितकम् । अत्र नायिकैव प्रयोकी शोभते । चिररात्रावागतस्य शयन सुप्तायाः स्वाभिप्रायचुम्वनं प्रातिवो- विकम् ॥ चिररात्राविति । असंचारवेलायामागतस्य प्रयोक्तु: संवन्धलक्षणा षष्ठी । शयनसुप्तायाः प्रयोज्यायाः । रागतश्चपल इति (?) । प्रातिवोधिकं प्रतिबोधप्रयोजनम् । मुखावलोकनस्वाभिप्रायाभावाद्वागदीपनान्न विद्यते । तत्र विसब्धिकायां रागदीपनम् । F दु सापि तु भावजिज्ञासार्थिनी नायकस्यागमनकालं संलक्ष्य व्या- जेन सुप्ता स्यात् ॥ सापि त्विति प्रातिबोधिकम् । भावजिज्ञासार्थिनी किंचित्पश्यामि म य्यनुरागोऽस्ति नेति संमानार्थिनी नायकादेव वैलक्ष्यसुप्ता स्यादिति । व्याजेन कृतकनिद्रया शयितेत्यर्थः । यदि मयि भावितस्तदा प्रातिबो१. 'भावम्'. २. 'नायकस्य च'. ३. 'एवमेतत्'; 'एवमेव'. ४. 'प्रवृत्तस्य'. ५. 'खप्नाभिमुखस्य'. ६. 'छलितकम्'. ७. 'त्वया सह'. ८. 'चिरादागतत्य शयने प्रसुप्तायाः'. ९. 'कृतकसुप्ता'. १०. 'कि च'. का० १५ ११४ कामसूत्रम् । : ८ आदितोऽध्यायः] विकं दद्यान्मानयिता वा । कुपितेति मानेन पादपतनादिना संमानात्खापयेत् । एतत्रिविधमावश्यकं समागतयोराह । आदर्श कुब्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकारम- दर्शनार्थमेव कार्यम् ॥ आदर्श इति । कुड्ये दीपाद्यालोकयुक्ते । प्रयोज्याया इत्युपलक्षणार्थत्वान्नायकस्यापि प्रयोज्यस्य । विशेषाभावात् । छायाचुम्बनमिति दर्पणादिषु प्रयोज्यप्रतिबिम्बस्य समीपालौकिकमेव चुम्बनं वैहासिकं कार्यम् । आकारप्रदर्शनार्थमिति । भावसूचकमाकारं प्रेदर्शयितुमित्यर्थः । यतस्तदवस्थां दृष्टो नरो मन्यते मय्यनुरक्तो यदेवमाकारयतीति । कुड्ये तु न वैहासिकम् । किं तु छायावदने वदनं विदध्यादेवमित्याकारप्रदर्शनार्थम् । वालस्य चित्रकर्मणः प्रतिमायाच चुम्बनं संक्रान्तक्रमालिङ्गनं च ॥ बालस्येति । खाङ्कगतस्य लाडीकस्य चित्रकर्मण आलेख्यस्य प्रतिमाया मृच्छिलाकाष्ठादिमय्याः प्रयोज्यासमक्षं चुम्बनं संक्रान्तकम् । तदध्यारोपादालिङ्गनं च संक्रान्तकम् । यथासंभवं चुम्बनाधिकारेऽपि प्रसङ्गादुक्तम् । छायाचुम्वनं संक्रान्तकं चोभयमावस्थिकं स्पर्शगोचरातीतयोरनभिवृत्तसंभाषणयोरसमागतयोर्द्रष्टव्यम् । . तथा निशि प्रेक्षणके खजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङ्गुलिचुम्बनम् ॥ तथेत्याकारप्रदर्शनार्थम् । निशि रात्रौ प्रेक्षणके वा नटादिदर्शने वा खजनसमाजे वा ज्ञातिसंबन्धिषु संभूय स्थितेषु प्रयोज्यायाः समीपोपविष्टस्य प्रयोक्तुः उपलक्षणार्थत्वात्प्रयोज्यस्य वा समीपोपविष्टायाः प्र योकत्र्याः । हस्ताङ्गुलिचुम्वनमिति । तदा हस्तस्य सुलभत्वात् । तमन्यापदेशेनाकृष्य तदङ्गलिचुम्बनम् । संविष्टस्येति नायिकासमीपे शयितस्य च तद्धस्ताङ्गुलिचुम्बनं च तदानीमुभयोरपि सुलमत्वात् । तत्र हस्ताङ्गुलि चुम्बनस्य द्वावपि प्रयोक्तारौ । पादाङ्गुलिचुम्बनस्य नायिकैव । न नरः । गर्हितत्वात् । १. 'छायायामू'. २. 'ध्रुवन्तम्'. ३. 'पुनस्तदवस्थां द्रष्टा'. ४. 'यदेव कारयतीति'. ६ a p ६ ; ३ अध्यायः) : सांप्रयोगिकमधिकरणम् । : ११५ संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशादकामाया इव तस्योर्वोर्बदनस्य निधानसूरुचुम्बनं पादाङ्गुष्ठचुम्बनं चेत्याभियो- गिकानि ॥ । il कानीति अभियोगप्रयोजनानि छायाचुम्चनादीनि तदानी प्रयोगान्तराणि च लौकिकचुम्बनवत्प्रयोक्तव्यानि । कर्मभेदासंभवात् । संप्रयोगामिकालयोः सामान्यविधिमाह भवति चात्र श्लोकः कृते प्रतिकृतं कुर्यात्ताडिते प्रतिताडितम् ॥ करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्वनविकल्पास्तृतीयोऽध्यायः । आदितोऽष्टमः । संवाहिकायास्त्विति । नायकं संवाहयति या काचित्संवाहनद्वारेण नायकमभियुते । आकारयन्त्या भावसूचकमाकारं ग्राहयन्त्याः । अकामाया इवेति चुम्बितुमनिच्छन्त्या इव । नायकाकारस्यागृहीतत्वात् । अतः कृतकनिद्रया सा नायकस्योर्वोश्चुम्बितुं वदनं निघत्ते । पादाङ्गुष्ठचुम्वनं तु पादावाकृष्य संवाहयन्त्या बुद्धिकारितमपि न दोषाय । मुखानुष्ठयोस्तदानीं परस्परा श्लेषसंभवात् । एतान्यङ्गुलिचुम्बनादीति स्पृष्टकादिना असोढगात्रस्पर्शयोरनतिप्रवृत्तसंभाषणयोरसमागतयोः आभियोगिभवति चात्रेति । कृत इति । सांप्रयोगिके आभियोगिके वा प्रयोकृकृते प्रयोज्यः भैँतिकृतं कुर्यात् । एकोदाहरणार्थमाह - ताडिते चुम्बिते चेति । अन्यतरः संप्रयोगे स्तम्ममिवैनं मन्यमानो निर्विद्यते । ततश्च निकृष्टः संप्रयोगः स्यात् । अभियोगे वा कारिते नावचुम्ब्यत इति पशुमिव परिभवेत् । ततश्च न समागमोऽर्थः सिध्येत् । तत्रापि करणेन च तेनैवेति येनैव कर्ममेदेन संप्रयुद्धे तेनैव प्रयोजयेत् । एवं रतमा१. 'नायिकाकारस्य'. २. 'प्रयोगान्तानि'. ३. ' भवति चात्र श्लोकः' इति वृत्ती मूलपुस्तकेषु च नास्ति. ४. 'प्रतिकृतिम्'. कामसूत्रम् । ९ आदितोऽध्यायः] कारग्रहणेन स्फुटरसं स्यात् । तच्चित्तानुविधानादिति । इति चुम्बनविकल्पा नवमं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गवाभिघानायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः । चतुर्थोऽध्यायः । एवं चुम्बनेनोपक्रम्य ततोऽधिकेन नखच्छेद्येनोपक्रमयितुं नखरदनजा- तय उच्यन्ते । नखविलेखनप्रकारा इत्यर्थः । तदेव खरूपेण दर्शयन्नाह -- रागवृद्धौ संघर्षात्मकं नखविलेखनम् ॥ संघर्षात्मकमिति प्रदेशस्य नखैर्यत्समन्ततो घर्षणमवयवपृथक्करणं तन्नखविलेखनम् । तत्स्वभावत्वात् । तच्च रागवृद्धौ सत्याम् । यत्तु नखात्रेण तुदनं तद्रागमान्द्ये सति । तत्र च्छेद्यस्याभावात् । नखविलेखनस्यैव प्रकाराः कथ्यन्ते । तस्य व प्रयोगः कदा चेत्याह- तस्य प्रथमसमागमे मवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः । न नित्यमचण्डवेगयोः ॥ तस्येति नखविलेखनस्य । अचण्डवेगयोरिति मन्दमध्यवेगयोः । न नित्यप्रयोगः । कदा तर्हीत्याह – प्रथमसमागमे तथा प्रवासप्रत्यागमने तयोरुत्कण्ठितयोः प्रवृद्धरागत्वात् । प्रवासगमने सरणार्थम् । क्रुद्धप्रसन्नायामिति नायकेन प्रसादिता सती हर्षाद्विवृद्धरागा भवति । मत्तायां च मद्यमदेन रागस्योच्छ्रितत्वात् । एवं क्रुद्धप्रसन्ने मत्ते च नायके द्रष्टव्यम् । चण्डवेगयोस्तदा च प्रयोगो नित्यमर्थोक्तम् । तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥ तथा दशनच्छेद्यस्य प्रयोग इत्येव । तस्यैतावता तुल्यत्वादित्यतिदेशः । तेन स्वरूपमपि योज्यम् । रागविवृद्धौ संघर्षात्मकं दशनच्छेद्यम् । १. 'तत्वभावाच रागवृद्धौ'. २. 'इत्येवम् . ४ अध्याय:] • २ सांप्रयोगिकमधिकरणम् । रागमान्ये तु दशनग्रहणमिति । सात्म्यवशाद्वा तयोः प्रयोगो यदि तदा अचण्डवेगौ प्रकृतिसात्म्यान्न सहेतां तदा नैवेत्यर्थः । ; तदाच्छुरितकमचन्द्रो शप्तकसुत्पलपत्रकमिति मण्डलं रेखा व्याघ्रनखं मयूरपदकं श रूपतोऽष्टविकल्पम् ॥ तदिति नखविलेखनम् । रूपत इति संस्थानतः । द्विविधं हि तत्रूपवदरूपवच्च । तत्र यत्कस्यचिदनुकारि तेंद्रूपवदृष्टप्रकारकमाच्छुरितकादि । तस्य लक्षणं वक्ष्यति । यदननुकारि तदरूपवत्रिविघम् । मृदुम• ध्यातिमात्रयोगात् । कक्षौ स्तनौ गलः पृष्ठं जघनमूरू च स्थानानि ॥ स्थानानि कक्षास्तनगलपृष्ठजैघनोरुष्वेतेष्वेव षट्सु नखक्षतैः स्त्रीपुंसयोरत्यर्थनिर्वृतेः । इत्याचार्याणां मतम् । उत्तरपक्षदर्शनात् । तत्र गल इति सामीप्यात्तत्पार्श्वम् । जघनशब्दः समुदायेन कटिभागे तदेकदेशे च पुरोभागे वर्तते । तदिह समुदायवृत्ति । तेन नितम्बलेखनमपि सिद्धम् । तथा चोक्तम् –'ग्रीवापार्श्वोरुकक्षेषु कटिपृष्ठस्तनेषु च । संप्रयोगे प्रयुजीत नखच्छेद्यानि योषिताम् ॥ इति । ļ महत्तरतिचक्राणां न स्थानमस्थानं वा विद्यत इति सुवर्णनाभः प्रवृत्तरतिचक्राणामिति प्रवृत्तरागोत्पीडानाम् । नास्थानमिति अङ्गप्रत्यङ्गं वा सिद्धं सर्वमेव नखक्षतस्य स्थानम् । यद्येवं तथापि शास्त्रकारो रूपवतां नियतस्थानं वक्ष्यति । तत्र हि परमागं लभन्ते इति । छेद्यस्य नखाघीनत्वात्तेषामाश्रयतः कल्पनातो गुणतः प्रमाणतश्च विधिमाह-~ तत्र सव्यहस्तानि प्रत्यग्रशिखराणि द्वित्रिशिखराणि चण्डवेग- थोर्नखानि स्युः ॥ तत्रेति नखकर्मणि । सव्यहस्तानीति आश्रयभावेन वामो हस्तो येषामिति । दक्षिणस्य प्रायशोऽत्यन्तव्यापारादेषां भङ्गोऽपि स्यात् । प्रत्यग्र १. 'तत्' इति पुस्तकान्तरे नास्ति. २. 'तद्रूपम्'. ३. 'जघनोरुक्षुतेष्वेव'. ४. 'सव्यहस्ते'. • • कामसूत्रम् । ९ आदितोऽध्यायः] शिखराणीत्यभिनवघटिताआाणि । द्विशिखरकाणि त्रिशिखरकाणि वा क्र. कचमुखवत्कल्पितानि । तैत्रिशिखरकाणि अनतिविस्तीर्णरैथलत्वाद्रुतं मि द्यन्ते । तद्विपर्ययाणि मध्यमन्दवेगयोरित्यर्थोक्तम् । तत्रेषत्प्रसृष्टाग्राणि शूकाकृतीनि मध्यवेगयोः । प्रसृष्टाप्राण्यर्धचन्द्राकृतीनि मन्दवेगयोः । इति तिस्रो नखकल्पनाः । ११८ अनुगतराज सममुज्ज्वलममलिनमविपाटितं विवर्धिष्णु मृदु स्निग्धदर्शनमिति नखगुणाः ॥ अनुगतराजीत्यनुगता विवर्णा मैध्ये लेखा यस्य । सममनिम्नोन्नतप्पूष्ठम् । उज्ज्वलमागन्तुकमलाभावादमलिनम् । नीतितः (१) अविपाटितमविस्फुटितम् । विवर्धिष्णु वर्धनशीलम् । मृदु, न काष्ठप्रख्यम् । स्निग्धदर्शन मिति दृश्यत इति दर्शनं रूपम् । 'कृत्यल्युटो बहुलम्' इति ल्युट् । तद्रूक्षमस्येति । दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडानां नखानि स्युः ॥ प्रमाणतस्त्रिघा तत्र दीर्घाणि हस्तशोभीनि हस्तं शोभयितुं शीलं येषाम् । नखच्छेद्यं कर्तुमक्षमत्वात् । आलोके दर्शने । चित्तग्राहीणि योषिद्भिर्दृश्यमाणानि तासां चित्तं हरन्तीति गुणद्वययुतानि । स्पर्शकर त्वात्प्रायशो गौडानाम् । इस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणात्यानाम् ॥ हखानि कर्मसहिष्णूनि लेखनादि कर्म सहन्ते । दीर्घाणि तुभज्यन्ते । विकैल्पयोजनासु अर्धचन्द्रादयो ये विकल्पास्तत्संपादनासु खेच्छावपातीनि प्रयोक्चुरिच्छया स्थाने योऽवपातः स विद्यते येषाम् । न तु दीर्घाणाम् । इति गुणद्वयम् । तानि खररागत्वाद्दाक्षिणात्यानाम् । "द्विगु१. 'तत्कृत्रिमशिखरकाणि'. २. 'स्थूलत्वात्कृतम्'. ३. 'राजयो लेखा:'. ४. णद्वय -'. ५. 'विकल्पयोजनानि'. ४ अध्यायः] मध्यमान्युभयभाजि महाराष्ट्रकाणामिति ॥ मध्यमानि न दीर्घाणि नातिहखानि । उभयभाझि दीर्घहखगुणभाजि । तानि वैचक्षण्यात्प्रायशो महाराष्ट्रकाणाम् । के 1 २ सांप्रयोगिकमधिकरणम् । " आच्छुरितकादेर्लक्षणं परभागार्थं च प्रयोगस्थानमाह तैः सुनियमितैर्हनुदेशे स्तनयोरघरे वा लघुकरणमनुद्द्रतलेखं स्प मात्रजननाद्रोमाञ्चकरमन्ते संनिपातवर्धमानशब्दमाच्छुरितकम् ॥ तैरिति मध्यमैर्नखैः पञ्चभिरपि । सुनियमितैरिति सुसंश्लिष्टैः । मध्यहै भावस्थापेक्षया इदं वचनम् । प्रागसंश्लिष्टान्येव स्थाने निवेश्यन्ते ततश्च : शनैराकृप्यमाणानि सुसंयमितानि भवन्ति । न भौगेव सुसंयमितानि । लोके तथा प्रयोगदर्शनात् । लघुकरणमिति लघ्वी क्रिया यसिन्निति । यथा क्षतं न भवति । यदाह — अनुगतलेखमिति । किमर्थं तींत्याहस्पर्शमात्रजननाद्रोमाञ्चकरमन्त इति । स्पर्शनक्रियाया नखघातादिमिरगुष्ठनखेन प्रतिनखस्फालनाद्वर्धमानचटचटाशब्दं यदेवविधं कर्म तदाच्छु रितकम् । नखैराच्छुरणात् । एवं च नैखच्छेद्याभावे तत्र हनुदेशेऽघरे च सर्वासामेव नायिकानामाच्छुरितकमेव नान्यन्नखकर्मेति दर्शनार्थमुभयोग्रहणम् । स्तनयोराधिक्येन प्रयोक्तव्यमिति ख्यापनार्थं वचनम् । तत्रापि स्पर्शकरत्वात् । + i अन्येषु तु स्थानेष्ववस्थापेक्षया प्रयोगमाह . ११९ प्रयोन्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः ॥ प्रयोज्यायां च कन्यायां तस्य प्रयोग इति विसम्भणायें नान्यस्येतरस्य कर्मणः । संवाहने यत्र यत्र स्थाने मर्दनं तत्र तत्र । शिरः कण्ड्यने शिरस्येव । पिटकमेदने खल्पपिटकानां शरीरस्थानां भेदने । तद्वश एव (?) व्याकुलीकरणे किंचित्कर्तुमप्रयच्छन्त्यां भीषणेन भयं दर्शयितु१. 'बैलक्षण्यात्' . २. 'प्रयोगे च'. ३. 'प्रयोगादर्शनात् ४. 'क्रियया नखपातादिभिः'. ५. 'नखच्छेद्याभावात्. ६. 'भीपणे च. १२० कामसूत्रम् ।. ९ आदितोऽध्यायः] मित्यर्थः । एते संवाहनादिष्ववस्थिकाः सर्वाखेव नायिकासु । अस्यावस्थिककार्यवशान्नायिकापि प्रयोकी । ग्रीवायां स्तनपृष्ठे च वक्रो नखपद निवेशोऽर्धचन्द्रकः ॥ ग्रीवायामिति श्रीवापार्श्वे बहिर्मुखाः स्तनपृष्ठे चोर्ध्वमुखाः । अर्धचन्द्रवद्वक्रोऽर्धचन्द्रः । सूच्यग्रेण कनिष्ठामुखेन निष्पाद्यो मध्यमामुखेनार्धचन्द्रेण । तावेव द्वौ परस्पराभिमुखौ मण्डलम् ॥ तावेव द्वाविति अर्धचन्द्रौ क्रोडभावेन परस्परॉभिमुखौ मण्डलम् । तदाकारत्वात् । नाभिमूलककुन्दरवहणेषु तस्य प्रयोगः ॥ नाभिमूले रशनानायकवदेव स्थितम् । ककुन्दरयोर्नितम्बस्योपरिकूप- } कयोरन्तर्निहितप्रतिकूपकं मनोहारि । वङ्खणयोरूरुसंध्योः कर्णिकालंकारवज्जघनस्य । सर्वस्थानेषु नातिदीर्घा लेखा ॥ सर्वस्थानेति । लेखायाः स्थानविशेषाभावान्न स्थानविशेषाः । तेन ग्रीवात्रिकष्पृष्ठपार्श्वोरुमूलवाहुपु नातिदीर्घस्थानविशेषाङ्चङ्गुला व्यङ्गुला वा प्रत्यग्रशिंखरनिष्पाद्या । सैव वक्रा व्याघनखकमास्तनमुखम् ॥ सैवेति । लेखा स्तनमुखादुत्थाप्याप्रतो वक्रीकृता व्याघ्रनखखण्डवत्स्तनकण्ठमलंकरोति । पञ्चभिरभिमुखैलेखा चूचुकाभिमुखी मयूरपदकम् ॥ पञ्चभिरपि नखैः सूच्यमशिखरकैश्चचुकाभिमुखा इति स्तनमुखस्याघस्तादङ्गुष्ठकनखं विन्यस्योपरि च संश्लिष्टाङ्गुलिनखानि चूचुकस्याभिमुखमाकर्पयेत् । मयूरपदकं तदाकारत्वात् । १. 'आवश्यकाः'. २. 'अस्यावस्थितक-'. ३. 'निष्पीज्य:'. ४. 'अभिमुखम्. ५. 'पार्श्वयोहरुमूल. ६. 'शिखरकेण'. Et 1 । २ कु 4 8 . २ सांप्रयोगिकमधिकरणम् । १२१ तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पश्चनखपदानि शंशप्लुतकम् ॥ तदिति मयूरपदकम् । संप्रयोगश्लाघाया इति नायकसंप्रयोगश्लाघा यस्मा॑स्तस्या विधेयम् । सर्वा एव हि स्त्रियः स्तनमुखं सर्वनखविलुप्तं बहु मन्यन्ते । यथोक्तम् – 'स ते मनसि तन्वनि सखि प्रागिव वर्तते । स्तनचक्रं विशालाक्षि यत्ते शिखिपदाङ्कितम् ॥" इति । स्तनचूचुक इति सामीप्ये सप्तमी । संनिकृष्टानीति नखाप्रपञ्चकमेकीकृत्यावष्टभ्य निदध्याततः पञ्च पदानि संनिकृष्टानि शशतकम् । तदाकारत्वात् । स्तनपृष्ठे मेखलापथे चोत्पलपत्राकृतीत्युत्पलपत्रकम् ॥ उत्पलपत्राकृतीत्युत्पलपत्रसंस्थानम् । तदेकमेव स्तनपृष्ठे मेखलापथे चेति । यथा मेखला निवध्यते । तत्र पैथग्रहणान्नैकम् । अपि तु तिर्यगुत्पलपत्रमालामिव शोमार्थं निर्देध्यात् । नाभिमूलस्तनमण्डलेऽस्या नाय करत्नवदाभाति । अध्यायः] ऊर्वोः स्तनपृष्ठे च भवासं गच्छतः स्मारणीयकं संहताश्चतस्र स्तिस्रो वा लेखाः । इति नखकर्माणि ॥ सारणीयकमिति प्रोषितं सारयति यन्नखच्छेद्यं लेखाख्यम् । 'कृत्यल्युटो बहुलम्' इति कर्तर्यनीयर । ततः संज्ञायां कन् । ततः प्रयोज्याया ऊर्वोः प्रवासं गच्छतः प्रच्छन्नस्य नायकस्य प्रयोक्तः, स्तनपृष्ठे सार्वलौकिकस्य । संहता इति निरन्तरा मेखलार्थम् । मा भूच्चिरविप्रयोग 5 इति चतस्रो दीर्घप्रवासे तिस्रो इस्वप्रवासे संख्याङ्कवल्लेखाः । एपामर्धचन्द्रादीनां देशकालकार्यवशान्नायिकापि प्रयोकी । नखकर्माणीत्येतानि नखच्छेद्यानि रूपवन्तीत्यर्थः । अरूपिणां त्वनिबद्धरूपत्वात्तत्स्थानानि यमः । सर्वत्रैवोक्तस्थाने प्रयोगः । 3 अन्येपामतिदेशमाह 1 आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥ १. 'श्लाघनाय चूचुके'. ५. 'श्लान येति'. ३. 'पथिग्रहणात्'. ४. 'दद्यान्', ५. 'निरन्तरमेखलार्थम्'. ६. 'स्थाननियमः ' का० १६ कामसूत्रम् । ९ आदितोऽध्यायः] आकृतिविकारयुक्तानीति संस्थानविशेषयुक्तानि । अन्यान्यपि पक्षि- कुसुमकलशपंत्रवल्लयादीनि नखकर्माणि प्रयोक्तव्यानि । अनेन विकल्प- स्याधिक्यं दर्शयति । विकैल्पानामनन्तत्वादानन्त्याच्च गामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान्कोऽभिसमीक्षितुमर्हतीत्या चार्याः ॥ कौशलविधेरभ्यासस्य च सर्वआचार्याणां मतं विकल्पानामिति । अष्टविकल्पमेवास्तु नान्यानि । तेषां छेद्यप्रकाराणां निरूप्यमाणानामानन्त्यात् । अतस्तान्कोऽभिसमीक्षितुमर्हतीति संवन्धः । तदभिसमीक्षिणा कौशलमप्यपेक्षणीयम् । तस्य च प्रतिविकल्पं भिन्नत्वादानन्त्यमित्याह – आनन्त्याच्चेति । कौशलविधिः कौशलकरणम् । स च नाभ्यासं विनेत्ययमपरस्तृतीयोऽपेक्षणीयः । सोऽप्येकत्र कृतोऽन्यत्र न कौशलं निष्पादयतीति सर्वगामिना भवितव्यमित्याह —–अभ्यासस्य च सर्वगामित्वादिति । तदियं महती परम्परेति कः प्रकारानभिसमीक्षते । किं च रागात्मकत्वाच्छेद्यस्येति रागजन्यत्वा त्तदात्मकं नखच्छेद्यम् । रागविवृद्धौ हि नखविलेखनम् । तच्च तदानीं रागान्धत्वादरूपवदेव प्रयुते । कोऽत्र च्छेद्यवस्तुनि प्रकारं प्रयोक्तुमर्हति तदानीमष्टविकल्पमपि न वक्तव्यम् । भवति हि रागेऽपि चित्रापेक्षा । वैचित्र्याच परस्परं रागो ज- नयितव्यः । वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थ- नीया भवन्ति । धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यमेवा- पेक्ष्यते किं पुनरिहेति वात्स्यायनः ॥ भवति हि रागेऽपीति । हिशब्दोऽवधारणे । रागकालेऽपि केषांचित्सत्यप्यानन्त्ये वैचित्र्यापेक्षा भवत्येव । अपिशव्दादरागकालेऽपि । यदाह–वैचित्र्याचेति । आहार्यरागे कृत्रिमरागे च रते परस्परस्य राग उत्पद्यमानः सन्विना (?) वैचित्र्यमिति तज्जननार्थं च वैचित्र्यापेक्षा । के पुनस्ते १२२ १. 'संस्कार -'. २. 'पत्रावल्यादीनि'. ३. 'विकाराणामानन्त्यादनन्तत्वाच्च'. ४ कोशलविधे:'. ५. 'कर्मशास्त्रेषु. ६. 'च' इति पुस्तकान्तरे नास्ति ७ 'वैचित्र्यापेक्षया. ४ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १२३ रागे सत्यरागे च वैचित्र्यमपेक्षन्त इत्याह – वैचक्षण्ययुक्ताश्चेति । तज्ज्ञतया युक्ता देवदत्तासदृश्यो गणिकास्तत्कामिनश्च मूलदेवसदृशाः । ते च विशिष्टरतार्थिनः परस्परस्य प्रार्थनीयास्तज्ज्ञा भवन्ति । मा भूदन्यत्र ख लरतमिति । ततश्च तेषां वैचित्र्यमेव रागं जनयति । धनुर्वेदादिष्वपीति शास्त्रान्तरेणास्य साधम्यै दर्शयति । आदिशव्दात्कुन्तखड्गादिशास्त्रपैरिअहः । शस्त्रकर्मशास्त्रेष्विति ज्ञानविद्या कर्मविद्या चेति द्विविधा विद्या । धनुर्वेदे हि परशराणामागच्छतां शरैश्छेदनमे कसंधानेनानेकशरमोक्षणमित्यादिकं कर्मवैचित्र्यम् । कि पुनरिह कामसूत्रे यत्र वैचित्र्यमेव मुख्यमभिप्रेतम् । अन्यथा नागरकानागरकयोः को भेदः । सर्वत्र च वैचक्षण्ययुक्तेषु वैचित्र्यप्रतिपेघमाह न तु परपरिगृहीतास्वेवं कुर्थात् । गच्छन्नेषु प्रदेशेषु तासामनु- स्मरणार्थ रोगवर्धनाच विशेषान्दर्शयेत् ॥ न त्विति । परपरिगृहीतासु वैचक्षण्ययुक्तास्वपि । एवमिति वैचित्र्यं युक्तम् । तासां प्रच्छन्ननायकोपभोग्यत्वात् । प्रच्छन्नेष्विति ऊरुजघनवप्रणादिषु । अनुस्मरणार्थमिति ये नखच्छेद्यविशेपास्तादृष्ट्वा स्मरन्ति । नित्यसमागमस्य दुर्लभत्वात् । रोगवर्धनाञ्चेति । प्रमोदमात्रस्वरूपत्वाद्विसृष्टिलक्षणां प्रीर्ति महती जनयन्ति । स्मरणमधिकृत्यान्वयव्यतिरेकाभ्यां प्रशंसामाह नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः । चिरोत्सृष्टाप्यभिनवा मीतिर्भवति पेशला ॥ नखक्षतानीति । गूढस्थानादिपु । अभिनवा प्रथमसमागम इव प्रीतिः नेहः । पेशला अकृत्रिमा । चिरोत्सृष्टेषु रागेषु श्रीतिर्गच्छेत्पराभवम् । रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ॥ चिरोत्सृष्टेप्वनुभूय चिरपरित्यक्तेषु । पराभवं विनाशम । रागायत१. 'परिग्रहशास्त्राणि । कर्म - २. 'रागवर्धनाथं च', 'रागवर्धनाथ'. ३. 'दिशेधास्तानि'; 'विशेषात्तानि'. ४. 'रागयर्धनं त्विति. १२४ कामसूत्रम् । ९ आदितोऽध्यायः] नसंस्मारीति रूपं यौवनं गुणाश्चेति रागायतनम् । तत्स्मारयितुं शीलं यस्येति । नखक्षतदर्शनात्तद्रूपादिषु सरणम् । ततः प्रीतिवासनात्प्रबोधः । सामान्येन प्रशंसामाह पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधराम् ।. बहुमानः परस्यापि रागयोगच जायते ॥ दूरादिति तत्प्रकारमनुपलभ्यापि । उच्छिष्टं परिमुक्तम् । बहुमानोऽतिगौरवम् । परस्यापि येनापि न संगता । रागयोग इति रागेण युज्यत इत्यर्थः । पुरुषश्च प्रदेशेषु नखचिह्रैर्विचिह्नितः । चित्तं स्थिरमपि प्रायथलयत्येव योषितः ॥ पुरुषश्चेति यथा पुरुषस्य तथा योषितोऽपि पुरुषं दृष्ट्वा रागः । प्रदेशेषु सदृशेषु । विचिह्नितो विलिखितः । तपश्चरणादिभिर्नियतमपि प्रायश्चलयतीति प्रकृतेरित्यर्थः । नान्यत्पटुतरं किंचिदस्ति रागविवर्धनम् । नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः । " आदितो नवमः । नान्यदिति रागयोगेभ्यः । पटुतरं रागवृद्धौ योग्यतरम् । दन्तग्रहणं तुल्यफलत्वदर्शनार्थं प्रासङ्गिकम् । कर्मणां गतय इति छेद्यानां प्रवृत्तयो यथा देहान्तरस्थिता न तथा लोकेऽन्यदस्ति संप्रयोगेऽपि रागवर्धनम् । पूर्वपूर्वमिति वक्ष्यति । इति नखरदनजातयो दशमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधिकरणे नखरदनजातयश्चतुर्थोऽध्यायः । १. 'विचित्रितः'. २. 'नातः परतरम्'. + केन ९ अध्याय:] // E S 1117 व इं ने २ सांप्रयोगिकमधिकरणम् । पञ्चमोऽध्यायः । एवं नखच्छेद्यानुपक्रम्य तदधिकेन दशनच्छेद्येनोपक्रमितुं दशनच्छेद्यविधयस्तथालिङ्गनादयो देशप्रवृत्तिमननुरूप्य प्रयुज्यमाणा न रागहेतव इति देशेपु भवा देश्या उपचारा इति प्रकरणद्वयमत्राध्याये । तत्र च्छेद्यस्य स्वरूपविषयकालानां पूर्वत्रानिर्दिष्टत्वात्स्थानानीत्याहउत्तरौष्ठमन्तर्मुखं नयनमिति मुक्त्वा चुम्बनवद्देशनरदनस्थानानि ॥ उत्तरौष्ठमिति चुम्बनस्येव न । तत्राप्युत्तरौष्ठं छिद्यमानमसुखावहम् । अन्तर्मुखं चिह्नां शेषमपि । दशनगोचरत्वात् । नैयनयोश्छेद्यासंभवात्पर्य न्तपीडाकरत्वाद्वैरूप्यकरणाच मुक्त्वा शेपा ललाटाधरोष्ठगलकपोलवक्षःस्तनाः, तथा लाटानामूरुसंधिबाहुम्लनाभिमूलानि सन्ति तानि स्थानानि न तु सर्वजनप्रयोज्यानीति । एतत्सर्वं योज्यम् । चुम्बनेन सबैकविषयत्वात् । दशनरदनस्थानानि दन्तविलेखनस्थानानि । उत्तरोत्तरवैचित्र्यदर्शनार्थं चुम्वनविकल्पानन्तरमिदं नोक्तम् । । १२५ गुणानाह- समा: स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास्ती- क्ष्णाग्रा इति दशनगुणाः ॥ समा अकरालास्तुल्यच्छेद्यं निष्पादयन्तीति । सिग्घच्छाया अपरुपाः । रागग्राहिणस्ताम्बूलभक्षणादौ न पुष्पदन्ताः । इति गुणद्वयं शोभार्थम् । युक्तप्रमाणा न लक्ष्णा न पृथवः । निश्छिद्रा घनाः । तीक्ष्णाग्राः । इति गुणत्रयं छेद्यायें शोभायै च । कुण्ठा राज्युद्गताः परुपाः विषमाः लक्ष्णाः पृथवो विरला इति च दोषाः ॥ राज्युद्गता इति मध्ये स्फुटिता लेखा उद्गता येपामित्याहितान्यादिषु द्रष्टव्यम् । गुणविपर्यये दोषाः सिद्धा अपि प्रेघानदोषख्यापनाथै पुनरुक्तम् । तेन रागाग्राहित्वं न दोषः । शुद्धा एव दशनाः प्रायशो वर्ण्यन्ते । अ१. 'दशनच्छेद्यस्थानानि'. २. 'नयनस्य'. ३. 'युक्तप्रमाणाञ्णान्पृथक्त्वेऽनच्छिद्रा घनाः'. ४. 'गुणद्वयम्'. ५. 'प्रमाणदोप'. १२६ कामसूत्रम् । १० आदितोऽध्यायः] त्रापि राज्युद्गतपरुषविषमाणामाननन्तिपरिपन्थित्वम् । कुण्ठादीनां शेषाणां कार्यकरणेऽसामर्थ्य दोषश्च । गूढकमुच्छ्रनकं विन्दुविन्दुमाला प्रवासमणिर्मणिमाला खण्डाभ्रकं वराहचवितकमिति दशनच्छेदनविकल्पाः ॥ छेदनविकल्पा इति संक्षेपत उक्ताः । तेषां लक्षणं प्रयोगस्थानं चाह - नातिलोहितेन रागमात्रेण विभावनीयं गूढकम् ॥ रागमात्रेणेति । राग एव रागमात्रम् । क्षताभावात् । अतिलोहितेनेति तस्याधिक्यमाह । तेन विभावनीयं विज्ञेयम् । एवं च गूढमिव गूढकम् । अस्फुटितत्वात् । तदेकेनैव राजदन्ताग्रेणावष्टभ्य निष्पाद्यम् । तदेव पीडनादुच्छ्रनकम् ॥ तदोच्यते गूढकं यदापीढ्य निष्पाद्यते । तदा जातश्वयथुत्वादुच्छूनकम् । तदुभयं विन्दुरघरमध्य इति ॥ तदुभयं गूढकमुच्छूनकं च । विन्दुरिति । अयमिति शब्दश्चार्थे । वि- न्दुश्च वक्ष्यमाणलक्षणः । त्रितयमघरमध्ये । तेषां स्वल्पाभोगत्वात् । उच्छूनकस्य वैशेपिकं स्थानमाह- उच्छूनकं प्रवालमणिश्च कपोले ॥ उच्छूनकं प्रवालमणिश्च वक्ष्यमाणलक्षणः । कपोले तस्य शक्य क्रियत्वात् । कस्मिकपोल इत्याह कर्णपूरचुम्बनं नखदशनच्छेद्यमिति सव्यकपोलमण्डनानि ॥ सव्यकपोलमण्डनानीति यथा कर्णपूरश्चारुत्वाद्वामे कर्णे विन्यस्तो वामकपोलस्य मण्डनं तथा । यथोक्तम् – 'दन्तच्छेद्यं चुम्वनं सताम्बूलं रागमण्डनम्' । १. 'कान्तिकरत्वापरिपन्थित्वम्'. २. 'सामर्थ्य दोपाच्च'. ३. 'मूढकम्'. ४. 'मूढमिव मूढकम्' ५. 'दशच्छेद्यम्' 'दशनच्छेयम्'. ५ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ॥ दन्तौष्ठसंयोगाभ्यास निप्पादनात्मवालमणिसिद्धिः दन्तौष्ठसंयोगाभ्यासनिप्पादनेति । उत्तरदन्ताघरोष्ठाभ्यां वा स्थानस्य संयोगाय गृहीत्वा पीडनं तस्याभ्यासः पुनः पुनः करणं स एव निष्पादनं यस्याः सिद्धेः । निप्पाद्यतेऽनेनेति कृत्वा । तथा हि तैदभ्यासात्मवालम णिरिव लोहितः क्षतविवर्जितो दन्तौष्ठपदविन्यासो निष्पाद्यते । सर्वस्येयं मणिमालायाच ॥ १२७ मणिमालायाश्च दन्तौष्ठसंयोगाभ्यासनिष्पादनात्सिद्धिरित्येव । अत्रा- प्ययमेव प्रकारः । किं त्वेकं निप्पाद्यं तदनन्तरमपरं यावन्माला भूतेति । अल्पदेशायाथ त्वचो दशनद्वयसंदंशजा विन्दुसिद्धिः ॥ अल्पदेशाया इति स्थानापेक्षया । तत्र गले मुद्गमात्राया अधरे ति- लमात्रायास्त्वचः । दशनद्वयसंदंशजेति । उत्तरेणाधरेण च दशनाग्रेण त्वचमाकृष्य संदंशः खण्डनं तस्माज्जायत इत्यर्थः । विन्दुसिद्धिरिति । बिन्दुरिव बिन्दुः । स्वल्पदेशखण्डनात् । सिद्धिरित्युत्तरैश्चतुभिर्दशनैरल्प- देशायास्त्वचो युगपत्संदंशजेत्यर्थः । सर्वैर्विन्दुमालायाश्च ॥ बिन्दुमाला तदाकारत्वात् । तस्मान्मालाद्वयमपि गलकक्षवडणप्रदेशेषु ॥ तस्मान्मालाद्वयमपीति मणिमाला विन्दुमाला च । गलकक्षवङ्क्षणम देशेपु । लथत्वक्त्वादेषाम् । ललाटे चोर्बोर्विन्दुमाला ॥ ललाटे चोर्वोरिति । तत्राप्यूर्वोस्तिलपङ्किरिव स्थिता स्यान्न तिर्य क्परिमण्डलमिवेति । सुँक्कभागयोर्विच्छेदेऽपि परिमण्डलमिव लक्ष्यते । मण्डलमिव विषमकूटकयुक्तं खण्डाभ्रकं स्तनपृष्ठ एव । विषमकूटकयुक्तमिति । विषमैः पृथुमध्यसूक्ष्मैर्दशनपदैः समन्ततो युक्तं १. 'निष्पादनेन'. २. उत्तरोष्ठदन्तीष्ठाभ्या स्थानस्य संयोगो यद्गृह्यं चोपपीडनम्' ३. 'तदा'. ४. 'अपरमपर वा'. ५. 'खल्प-'. ६. 'तन्माला - ७. 'सग्भागयोः', १२८ कामसूत्रम् । १० आदितोऽध्यायः] खण्डाभ्रकम् । तत्सादृश्यात् । स्तनपृष्ठे सौकर्याच्छोभितत्वाच्च । पुरुष वक्षसीत्यर्थादवगन्तव्यम् । तच्च कण्ठोपग्रहेण निष्पाद्यम् । संहताः प्रदीर्घा वहयो दशनपदराजयस्ताम्रान्तराला वराइचवितकम् । स्तनपृष्ठ एव । संहता इति । स्तनपृष्ठस्यैकतो भागात्खल्पदेशां त्वचं देशनसंदंशेन चर्चयेत्, यावदपरं भागम् । इत्यनेन क्रमेणोपर्युपरिचर्वणान्निरन्तराः प्रदीर्घा बहचश्चतस्रः षड़ा दशनपदपङ्कयो निष्पाद्याः । तासां चान्तरालानि संमूर्च्छितरक्तत्वात्तात्राणि भवन्ति । अतो वराहस्येव चर्वणाद्वराहचर्वितकम् । स्तनपृष्ठ एव बहुलमांसत्वात् । तदुभयमपि च चण्डवेगयोः । इति दशनच्छेद्यानि ॥ तदुमयमपि खण्डाब्रकं वराहचर्वितकं च छेद्यं चण्डवेगयोः । तत्सात्म्यात् । एपां नायिकापि प्रयोकी द्रष्टव्या । उभयोरपि शास्त्राधिकारात् । देशकालकार्यवशाल्किचिदेव कस्यचिदसाधारणम् । एतावन्ति द- ! शनच्छेद्यानि सांप्रयोगिकान्युक्तानि । प्रयोज्याशरीरे प्रयोज्यमानत्वात् । अभियोगे त्वसंभवात् । आकारप्रदर्शनार्थे सांक्रान्तिकमाभियोगिकमाह- विशेषके कर्णपूरे पुष्पापीडे ताम्बूलपलाशे तमालपत्रे चेति :- योज्यागामिपु नखदेशनच्छेद्यादीन्याभियोगिकानि ॥ विशेषक इति भूर्जपत्रादिकल्पिते तिलके । कर्णपूरे नीलोत्पलादौ । पुप्पापीड इत्युपलक्षणम् । शेखरे संसज्जितताम्बूलीपत्रे । तमालपत्रे सुरभि ण्यनङ्गलेखीकृते । एषां छेद्यविषयत्वात् । इतिशब्दः प्रकारे । प्रयोज्यागामिप्विति गमिष्यन्तीति गामिनः । 'भविष्यति गम्यादयः' इति निपातनात् । प्रयोज्यागामिनो विशेषकादयः । 'गमि गम्यादीनाम्' इति समासः । तेषु हि च्छेद्यानि संक्रान्तकान्याभियोगिकानि भवन्ति । नखद१. 'दशनपदपद्भिसंदशेन; 'दशनदेशसंदंशेन. २. 'दशनपदान्याभियोगिकानि. ३. 'पुष्पापीटयोरुपरि', + !! ¿ ५ अध्यायः] * २ सांप्रयोगिकमधिकरणम् । १२९ शनच्छेद्यादीनीति । नखच्छेद्यमाभियोगिकं प्राड् नोक्तम् । इहैकविषय- त्वादेकीकृत्योक्तम् । दशनच्छेद्यविषय एकादशं प्रकरणम् । देशप्रवृत्तयो देश्या उपचारास्तानाह- देशसात्म्याच योषित उपचरेत् ॥ देशसात्म्यादिति ल्यब्लोपे पञ्चमी । सात्म्यं द्विविधम् – देशतः, प्र" कृतितश्च । तत्र चुम्बनादीनां येन यस्मिन्देशे सात्म्यमवस्थितं तदपेक्ष्यते । न तत्र योषित उपचरेत् । स्वयं तच्छीलवद्भवेत् । उपलक्षणमेतत् । पुरुपानपि योषित् । इं तत्र मध्यदेशस्य प्रधानत्वात्तत्सात्म्यमाह7 मध्यदेश्या आर्यमायाः शुच्युपचाराधुम्वननखदन्तपदद्वेपिण्यः ॥ मध्यदेश्या इति । 'हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्य: गेव प्रयागाच मध्यदेशः प्रकीर्तितः ॥ इति भृगुः । 'गङ्गायमुनयोरित्येके' इति वसिष्ठः । अयमेव शास्त्रकृतां प्राधान्येनाभिप्रेतः । तत्रभवा मध्यदेश्याः । शुच्युपचाराः सुरते शुचिसमुदाचाराः । आर्यप्रायत्वात् । चुम्बनादित्रयं द्वेष्टुं शीलमासाम् । आलिङ्गनमिच्छन्ति । • चाहीकदेश्या आवन्तिकाश्च ॥ बाहीकदेश्या उत्तरापथिकाः । आवन्तिका उज्जयिनीदेशभवाः । ता एवापरमालव्यः । चुम्बनादिद्वेषिण्यः । पूर्वाभ्यो विशेषमाह चित्ररतेषु त्वासामभिनिवेश: ॥ चित्ररतेप्विति । चित्ररतानि वक्ष्यन्ते । तेष्वभिनिवेशोऽतिप्रीतिकर• त्वात् । परिष्वङ्गचुम्वननखदन्तचूषणमधानाः क्षतवर्जिताः महणनसाध्या मालव्य आभीर्यश्च ॥ मालव्य इति पूर्वमालवभवाः । परिष्वनचुम्बनानि प्राधान्येनेच्छन्ति । क्षतविवर्जिताः स्तोकदन्तनखदन्ताभ्यामिच्छन्ति (?) । प्रहणनसाध्याः १. 'आलिङ्गनादिकम् . २. 'रतेषु त्वासामभिनिवेशा.. का० १७ कामसूत्रम् । १० आदितोऽध्यायः] प्रहणनेन जातरतयः । आमीर्य इति । आमीरदेशः श्रीकण्ठकुरुक्षेत्रादिभूमिः । तत्र भवाः । सिन्धुपष्ठानां च नदीनामन्तरालीया औपरिष्टकसात्म्याः ॥ सिन्धुषष्ठानां चेति । सिन्धुनदः षष्ठो यासां नदीनाम् । तद्यथाविपाट् शतगुरिरावती चन्द्रभागा वितस्ता चेति पञ्चनद्यः । तासामन्तरालेषु भवाः । औपरिष्टकसात्म्या इति । सत्यपि परिष्वङ्गचुम्बनादौ मुखे जघनकर्माणः । खरवेगाः प्रीयन्त इत्यर्थः । 1 चण्डवेगा मन्दसीत्कृता आपरान्तिका लाव्यश्च ॥ आपरान्तिका इति । पश्चिमसमुद्रसमीपेऽपरान्तदेशः । तत्र भवाः । अत्रत्यैः किलार्जुनसकाशाद्विष्णोरन्तःपुरमाच्छिन्नमिति । लाट्यश्चेति । अपरमालवात्पश्चिमेन लाटविषयः । तत्रभवाब्यण्डवेगाः । मन्दसीत्कृता इति सीत्कृतानि मन्दं च प्रहारं सहन्त इत्यर्थः । तदुद्भवत्वात्सीत्कृतस्य । दृढप्रहणनयोगिन्यः खरवेगा एव, अपद्रव्यप्रधानाः स्त्रीराज्ये कोशलायां च ॥ स्त्रीराज्य इति । वज्रवन्तदेशात्पश्चिमेन स्त्रीराज्यं तत्र, कोशलायां च योषितः सत्यप्यालिजनादौ दृढप्रहारैः प्रीयमाणाः संप्रयुज्यन्ते । खरवेगा एवेत्यवधारणात्सर्वदैवेत्यर्थः । कण्डूतेराधिक्याद्रागः खर इत्यु च्यते । तद्भावे तु चण्ड इति विशेषः । एवं च सति अपद्रव्यप्रधानाः । कण्डूतिप्रतीकारार्थ प्राधान्येन कृत्रिम साधनमिच्छन्तीत्यर्थः । प्रकृत्या मृब्यो रतिप्रिया अशुचिरुचयो निराचाराचान्ध्यः ॥ आन्ध्य इति । नर्मदाया दक्षिणेन देशो दक्षिणापथः । तत्र कर्णाट- विपयात्पूर्वेणान्ध्रविषयः । तत्र भवाः । प्रकृत्या स्वभावेन मृदयङ्गयो न प्रहणनादि सहन्ते । किं तु रतिप्रियाः । पुरुपोपसृप्तमिच्छन्तीत्यर्थः । अशुचिरुचयोऽविविक्तसमुदाचाराः । निराचाराश्च । भिन्नमर्यादा इत्यर्थः । सकलचतुःपष्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यमियाः शयने च सरभसोपक्रमा महाराष्ट्रिकाः ॥ १. 'युज्यन्ते;' 'अनुरज्यन्ते. ५ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १३१ महाराष्ट्रिका इति । नर्मदाकर्णाटविषययोर्मध्ये महाराष्ट्रविषयः । तत्र भवाः । सकलायाश्चतुःषष्टेः पाञ्चालिक्या गीताद्यायाश्च प्रयोगेण राग- स्तासां भवतीति तत्प्रयोगरागिण्यः । अहीलं ग्राम्यं परुषं च निष्ठुरं वाक्यं वदन्ति सहन्ते चेति तत्प्रियाः । शयने चेति संप्रयोगे । रभसोप- क्रमा इति धृष्टत्वोद्भटत्वरभसेन पुरुषममियुजत इत्यर्थः । तथाविधा एव रहसि प्रकाशन्ते नागरिकाः ॥ नागरिका इति पाटलिपुत्रिकाः । तथाविधा एवेति तेनैव प्रकारेण सकलचतुःषष्टिप्रयोगतयाश्लीलपरुषवाक्यप्रियतया च रहसि विजने प्रकाशन्ते । सत्रपत्वात् । महाराष्ट्रिकास्तु प्रसह्य रहसि चेति विशेषः । शयने च रमसोपक्रमत्वं तुल्यम् । मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः ॥ द्रविड्य इति । कर्णाटविषयाइक्षिणेन द्रविडविषयः । तत्र भवाः । अभियोगादिति । यन्त्रयोगात्मागालिङ्गनाद्यमियोगात्प्रभृति पुरुपेण मृद्यमाना बहिरन्तश्च शिथिलीक्रियमाणावयवा मन्दं मन्दं प्रसिञ्चन्त इति स्तोकं स्तोकं मूर्छनासुखवर्जितं क्षरणं कार्यत इति । अमदत्वात् । ततोऽन्ते समाक्षिप्तिवेगा विसृष्टिः । तेनैकस्मिन्नेव रते निवृत्तरागा भवन्तीति दर्शयति । मध्यमवेगा: सर्वेसहाः स्वाङ्गमच्छादिन्यः पराङ्गहासिन्यः कुत्सि- ताश्लीलपरुपपरिहारिण्यो वानवासिकाः ॥ वानवासिका इति । कुङ्कणविषयात्पूर्वेण वनवासविषयः । तत्र भवाः । मध्यमवेगा भावतः कालतश्च समालिङ्गनादिकं सहन्ते । व्यक्तमात्मनः श रीरे दोषं प्रच्छादयन्ति । परस्योपहसन्ति । कुत्सितं रूपेण व्यवहारेण च । अश्लीलं ग्राम्यं परुषं परिहरन्ति । न तेन संप्रयुज्यन्ते । मृदुभापिण्योऽनुरागवत्यो मृत्यङ्ग्यश्र गौड्यः ॥ गौडेय इति । गौडदेशोद्भवाः । प्रदर्शनं चैतत् । अन्यदपि लक्षयेत् । १. 'प्रसिञ्चन्ति'. २. 'गौड्य इति । गौडदेशोद्भवा.' इति पुस्तकान्तरे नान्ति. कामसूत्रम् । १० आदितोऽध्यायः ] देशसात्म्यात्मकृतिसात्म्यं वलीय इति सुवर्णनाभः । न तत्र देश्या उपचाराः ॥ प्रकृतिसात्म्यमिति । प्रकृतिः स्वभावः तत्सात्म्यमेव मन्यते । देशमकृतिसात्म्येनैवोपचाराः कर्तव्याः । उभयसंनिपाते विरोधे सति देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति । अन्तरङ्गत्वात् । न तत्र देश्या उपचाराः सुवर्णनाभस्य । आचार्याणां तु प्रकृतिसात्म्यपरिहारेणैव देशसात्म्येनोपचरेदिति मतम् । शास्त्रकृतोऽपि सुवर्णनाभमतमेवाभिमतम् । अ प्रतिषिद्धत्वात् । १३२ कालयोगाच देशाद्देशान्तरमुपचारवेषलीला चानुगच्छन्ति । तच्च विद्यात् ॥ काल्योगाब्वेति । कालान्तरेण देशात्तथा तत्रत्यानुपचारान्वेषं नेपथ्यं लीलां चेष्टाविशेषमनुगच्छन्ति । तच्चेति देशान्तराद्यनुगमनं तत्त्वतो विद्यात् । अन्यथा उपचारादिदर्शनेन तद्देशजेयमित्युपचर्यमाणा विगुणा स्यात् । तस्मात्संचारिगुणत्यागेन स्थायिदेशप्रचारैरेवावधार्य प्रकृतिसात्म्येनोपचरेत् । उपग्रहनादिषु च रागवर्धनं पूर्वे पूर्व विचित्रगुत्तरमुत्तरं च ॥ उपगूहनादिष्विति । आलिङ्गनचुम्बननखदशनच्छेद्यप्रहणनसीत्कृतेपु षट्सु बहिःकर्मसु पूर्वं पूर्व रागवर्धनम् । तत्र सीत्कृताच्छुतिरमणीया त्प्रहणनं स्पर्शकरं रागवर्धनम् । ततो दशनच्छेद्यमतिस्पर्शकरम् । ततोऽपि परिहारेण नखच्छेद्यम् । तस्मादपि चुम्बनं मृदुस्पर्शकरम् । ततोऽपि सर्वाङ्गिकमालिङ्गनमतिस्पर्शकारीति । विचित्रमुत्तरोत्तरमिति । तत्रोपगूहनात्स्थूलकर्मणश्चुम्बनं कुटिलकर्म विचित्रम् । ततो नखविलेख नम् । तस्मादपि दशनच्छेद्यमतिकुटिलम् । ततोऽपि प्रहणनम् । यतस्तद्धस्तलाघवान्मन्दकर्मपरिहारेण रागं दीपयति । ततोऽपि सीत्कृतम् । यदुपदेशेऽपि दुर्ब्रहमिति । १. 'तथा तथा'. २. 'द्विगुण.', 'द्विगुणोक्तिगुणा'. ३. 'प्रभावैः'. ४. 'आलिङ्गनादिपु. ५ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १३३ एवं देशसात्म्यात्परस्परमुपचितौ छेद्यकलहोऽपि स्यात् । तत्र प्रीतिस्थिरीकरणार्थं चेष्टितमुच्यते । तद्विविघम्-रहसि प्रकाशे च सेवने । तत्र पूर्वमधिकृत्याहवार्यमाणञ्च पुरुषो यत्कुर्यात्तदनु क्षतम् । अमृष्यमाणत द्विगुणं तदेव प्रतियोजयेत् ॥ वार्यमाण इति । आनिकेन वाचिकेन वामिनयेन निषेध्यमानः प्रकृ तिसात्म्यात् । यदा त्वनिषेध्यमानस्तदा कृते प्रतिकृतं कुर्यात् इत्ययमेव पक्षः । न द्विगुणयोजनम् । कलहामावात् । द्यूतकलहेऽपि द्यूतमधिकृत्योक्तम् । इह सात्म्यं विशेषः । अमृष्यमाणेत्यक्षममाणा द्विगुणं प्रयुक्कादधिकछेद्यं यत्तदेव । न विजातीयम् । प्रयोजयेत्प्रतीपं योजयेत् । कस्य किं द्विगुणमित्याह विन्दोः प्रतिक्रिया माला मालायाचाभ्रखण्डकम् । इति क्रोषादिवाविष्टा कलहान्प्रतियोजयेत् ॥ बिन्दोरिति । मालेति बिन्दुमाला । तस्या अप्यम्रखण्डकं प्रतीकारः । इत्येवं द्विगुणं प्रतीकारं बुद्ध्वा योजयेत्कलहं प्रति । तथाश्रखण्डस्य वराहचर्वितकम् । गूढस्योच्छूनकम् । तस्य प्रवालमणिः । तस्यापि मणिमाला । तस्यापि बिन्दुरिति । तत्र पूर्वाणि चत्वारि त्वचि स्थितानि । शेषाणि त्वचमतिक्रम्य । क्रोधादिवाविष्टेति । कृतककोपेन दर्शितावस्थान्तरा । कलहान्तरं कृतककलहदर्शनार्थम् । सकचग्रहमुन्नम्य मुखं तस्य ततः पिवेत् । निलीयेत दशेचैव तत्र तत्र मदेरिता ॥ मुखं पिबेदघरपानाख्येन चुम्बनेन । तत्र चायं विदग्धक्रमः । सकचग्रहमुन्नम्येति । पाणिनैकेन कचेषु द्वितीयेन चिबुके परिगृह्योत्तानीकृत्येत्यर्थः । निलीयेत दृढं संलिष्येत दशेच्च । तत्र तत्र च्छेद्यस्थाने । यत्र यत्र वा तेन देष्टा । मदेरिता पानमदप्रेरिता । तदेव सुचेष्टं सुखयति । १. 'च नखक्षतम्. २. 'निषेव्यमाणः'. ३. 'गूढकस्य'. ४. 'निमीडयेत्'. ५. 'दृष्टा'. १० आदितोऽध्यायः ] विधानान्तरमाह उन्नम्य कैण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् । मणिमालां प्रयुञ्जीत यच्चान्यदैपि लक्षितम् ॥ उन्नम्येति । संश्रिता वक्षसः स्थलीमेकेन बाहुपाशेनावेष्टच कचमुनम्य द्वितीयेन हस्तेन चिबुकं गृहीत्वा मणिमालां प्रयुञ्जीत । गले स्वस्थाने कॅण्ठिकामिवाह । यच्चान्यदपि लक्षितं दशनच्छेद्यं मनोहारि । अत्रापि वैचित्र्यापेक्षेति सूचयति । प्रकाशे चेष्टितमाह १३४ कामसूत्रम् । दिवापि जनसंवाधे नायकेन प्रदर्शितम् । उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरलक्षिता ॥ दिवापीति रात्रौ नायिकया यत्कृतं चिह्नं तद्दिवापि नायकेन कथमस्मिञ्जनसमूहे प्रच्छाद्यमिति भावमाकारं ग्राहयेत्प्रदर्शयेत् । उद्दिश्य स्वयं कृतं चिह्नमिति दुष्टस्यायमेव निग्रहो युक्त इति भावं ग्राहयन्ती हसेत् । अन्यैरलक्षितेति । नायकेनाप्यलक्षितेति योज्यम् । अन्यथा द्वावप्यनागरको जनसंवाघे स्यातामिति । सापि तत्कृतानि चिह्नानि प्रदर्शयेदित्याह- विकूणयन्तीव मुखं कुत्सयन्तीव नायकम् । स्वगात्रस्थानि चिह्नानि सासूयेव प्रदर्शयेत् ॥ विकूणयन्तीव व्यर्थचुम्वनाथै संकोचयन्तीव संकोचस्येष्टत्यात् । कु- त्यन्तीव नयनविकारैधि विदग्धमिति । 'तर्जयन्तीव' इति पाठा- न्तरम् । फलमस्य प्राप्स्यसीति तर्जनम् । सासूयेवाक्षममाणेव । परस्परानुकूल्येन तदेवं लज्जमानयोः । संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः । आदितो दशमः । १. 'कप्ठम्'. २. 'स्थलम्'. ३. 'अतिलक्षितम्' ४. 'कण्टिकायाम्'. ५. 'व्यथाम्'. • ६ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १३५ तदिति तस्मात् । संवत्सरशतेन पुरुषायुःप्रमाणेनेत्यर्थः प्रीतिन परिहीयते स्थिरीभवतीत्यर्थः । भोजनमपि होकरसमुपसेव्यमानं विरागं जनयति देश्या उपचारा द्वादशं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिघानायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रमाष्याया साप्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्या उपचाराथ पञ्चमोऽध्यायः । पष्टोऽध्यायः । एवं देशप्रकृतिसात्म्यापेक्षया आलिङ्गनाद्युपचाराज्जातरागयोः संवेश- नयोग्यत्वात्संवेशनप्रकाराः, तथा संवेशनविशेषत्वाच्चित्ररतानीति प्रकरण- द्वयमत्राध्याये । यदाह- रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते ॥ रागकाल इति । रागकालो यत्र स्तब्धलिङ्गता । साधनसंबाधयोः सं योगार्थं संवेशनम् । तच्च तदानीमेव युज्यते । तेन प्रमाणतो रतमधि- कृत्य संबेशनप्रकाराः । उपलक्षणं चैतत् । उच्चतररते चाश्वेन संप्रयो- क्ष्यमाणेति [जघनं] विशालयन्तीव संविशेत् । अत्रातिदेशं वक्ष्यति । अवहासयन्तीव हस्तिनी नीचरते ॥ अवहासयन्तीवेति । ऊर्वोः संश्लेषणात्संकोचयन्तीव । यथा संवृतमुखं भवति । हस्तिनी नीचरते वृषेण संप्रयोक्ष्यमाणा संविशेदित्येव । तस्या बहलरन्ध्रत्वात् । शशेन नीचतररतेऽवहासयन्तीति । अत्राप्यतिदेशं वक्ष्यति । न्याय्यो यत्र योगस्तत्र समपृष्ठम् ॥ यत्र यस्मिन्रते न्यायादनपेतो योगः । स्वभावसिद्धत्वात् । समरत इत्यर्थः । तत्र समपृष्ठं संविशेदित्येव क्रियाविशेषणमेतत् । संकोचनप्रसारणाभावात्समं जघनपृष्ठं यस्यां क्रियायामिति । आभ्यां वडवा व्याख्याता ॥ १. 'प्रकारात्'. २. 'प्रयोगस्वत्र समपृष्टकम् . कामसूत्रम् । ११ आदितोऽध्यायः] साप्युञ्चरतेनाश्वेन प्रयोक्ष्यमाणा विशालयन्तीव शशेनावह्रासयन्तीव । न्याय्यो यत्र वृषेण तत्र समपृष्ठं संविशेदिति । मृगीहस्तिनीभ्यां व्याख्याता । यथा चोक्तम्–'विवृतोरुकमुच्चैस्तु नीचैः स्यात्संवृतोरुकम् । यथा स्थितोरुकं चापि समपृष्ठं समे रते ॥" संवेशनस्य प्रतिग्रहफलत्वात्प्रतिग्रहमाह - तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥ तत्रेति । संकोचनप्रसारणभेदात्समपृष्ठाच्च त्रिविधे संवेशने जघनेन खेन प्रतिगृह्णीयात् । लथलिङ्गं प्रतीच्छेदित्यर्थः । अपद्रव्याणि च सविशेषं नीचरते ॥ अपद्रव्याणि चेति । वृषेण शशेन वा प्रयुज्यमानानि कृत्रिमसाधनानि वडवा हस्तिनी वा प्रतिगृह्णीयादित्येव । तत्रापि विशेषः———यदि समरतं साधनसदृशं कृत्रिमं तदा नावहासयन्ती विशालयन्तीव । ततोऽप्यधिकं चेद्विशालयन्तीव प्रतिगृह्णीयादित्यर्थः । नीचरत इति । उच्चरतेऽपद्रव्यप्रयोगासंभवात् । यथा युक्त्या विवृतं संवृतं वा जघनं स्यात्तद्यथाक्रममाह उत्फुल्लकं विजृम्भितकमिन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण ॥ उत्फुल्लकमिति । समरते लौकिकी युक्तिरुक्ता न शास्त्रीया । लोके हि प्राम्यनागरभेदादुत्तानायाः संवेशनद्वयं प्रतीतं पार्श्वे च संपुटकम् । तन्त्रितयमपि समपृष्ठं घटयतीति । येथा चोक्तम्- ग्राम्यमासीनकान्तोरुविन्यस्तप्रमदोरुकम् । नागरं च नरोरुस्थं स्त्रीपादाम्भोरुहद्वयम् ॥ त्रितयमिति व्यवयवं संवेशनम् । प्रायेणेत्येकान्तेन । शिरो विनिपात्योर्ध्वं जघनमुत्फुल्लकम् ॥ शिर इति । जघनशिरोमागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्ध्न नघनं कुर्यादिति भेढमेवं रूपं पश्चाद्भागेनेत्यर्थः । यद्यपि तत्वतो भवति तथाप्यतिविस्तारणार्थमुपर्युपरि स्थितहस्तपृष्ठे त्रिकभागं विनिवेशयेत् । १. 'जघने'. २. 'यथोक्तम्'. ३. 'कहोदरम्. ६ अध्यायः] २ सांप्रयोगिकमधिकरणम् । पादपार्श्वे च स्फिजौ बाह्यतः । एवं जघनस्योर्ध्व विवृतत्वादुत्फुल्लमिवोफुल्लकम् । तत्रापसारं दद्यात् ॥ तत्रेत्युत्फुल्लके। अपसारं दद्यादिति । नायकेन यन्त्रेण संयोज्यमाना कटिभागेनापसरेत् । नायको वा शनैः शनैः संयोज्यापसरेत् । यावत्सा संवाधता न भवति । सहसोपसृप्ताया हि पीडा । नायकस्य च लिङ्गचर्मोद्वर्तनम् । यदवपाटिकेति वैद्यैरुच्यते । अनीचे सक्थिनी तिर्यगवसज्य प्रतीच्छेदिति विजृम्भितकम् ॥ अनीचे इति । सक्थिनी ऊरू तिर्यगवसज्येति तिरश्चीने कृत्वा । तत्रापि शय्यायां पादयोरुत्तानविन्यासादपि तिरब्धीने भवतः । कि तु नीचैरित्याह–अनीचेति । प्रतीच्छेन्नायकः । जृम्भितमिव सममनुकार्यम् । पार्श्वयोः सममूरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्यभ्या- सयोगादिन्द्राणी ॥ विन्यस्य पार्श्वयोरिति । जङ्घासंश्लिष्टावूरू पार्श्वयोर्जानुनी निदध्यात् । कक्षाबहिर्भागयोरित्यर्थः । एवं च बाहुमूलाभ्यामवष्टभ्य गृहीतत्वात्पूर्वस्माद्विवृततरं भवति । अभ्यासयोगादिति । सहसा निष्पादयितुमशक्यत्वादस्याः । इन्द्राणीति शचीप्रोक्तत्वादन्वर्थसंज्ञया व्यपदेशः । तत्राप्य पसारं दयादिति । १३७ तैयोच्चतररतस्यापि परिग्रहः ॥ तयेतीन्द्राण्या । उच्चतररतस्यापीति । न केवलमिन्द्राण्यामुं नृपं प्रति- गृह्णीयात्, अश्वमपि । तस्या धृतरागत्वाद्विवृतरागहेतुत्वात् । तत उच्चत- ररतेऽति विशालयन्तीवेति सिद्धं भवति । तदुत्फुल्लकविजृम्भितकाभ्यां तु वृषमेव वडवापि ताभ्यामेवाश्वमित्यर्थोक्तम् । पूर्वमतिदिष्टत्वात् । संपुटेन मैतिग्रहो नीचरते ॥ संपुटेनेति । हस्तिनी संपुटेन वक्ष्यमाणलक्षणेन वृषं प्रतिगृह्णीयादित्यर्थः । १. 'तिर्यगवष्टभ्य'. २. 'योग्यतया'; 'एतया'. ३. 'प्रतिगृहीयात् '. का० १८ १३८ कामसूत्रम् । ११ आदितोऽध्यायः] एतेन नीचतररतेऽपि संपुटकं पीडितकं वेष्टितकं वाडवकमिति हस्तिन्याः ॥ नीचतररतेऽपीति । शशमपि गृह्णीयादित्यर्थः । तस्य संवृतहेतुत्वाभावेन च प्रतिगृहीते पीडितकादि प्रयोक्तव्यम् । तेनाप्यपहासयन्तीवेति सिद्धम् । वडवापि संपुटकेन शशं प्रतिगृह्णीयादित्यर्थोक्तम् । पूर्वमतिदिधृत्वात् । संपुटकयुक्तिमाह- ऋजुप्रसारितावुभावप्युभयोचरणाविति संपुटः ॥ ऋज्विति प्रगुणं प्रसारितौ यथा यन्त्रयोगः स्यात् । उभयोरिति स्त्रीपुंसयोः । संपुट इति । संपुट इवोभयोरेकत्र संश्लेषात् । से द्विविधः–पार्श्वसंपुट उत्तानसंपुटचें । तथा कर्मयोगात् । पार्श्वेण तु शयानो दक्षिणेन नारीमधिशयीतेति सार्वत्रिकमेतत् ॥ तथा कर्मयोगादिति । तेन प्रकारेण रतानुष्ठानयोगादित्यर्थः । तंत्र पार्श्वसंविष्टयोः पार्श्वसंपुटः । उत्तानसंपुटयोरुपर्युपरिसंविष्टस्यैकोऽपि विपर्ययेण द्वितीय उत्तानसंपुटकोऽन्यतरेण व्यपदिश्यते । कथमन्त्र यन्त्रयोग इति नाशङ्कनीयम् । सुकरत्वात् । पार्श्वसंपुटके तु नायकस्य कटिरुपधानिकायां तिष्ठेत् नायिकायाश्च शयनीये । अन्यथा शयनीयस्थयोर्द्वयोः कटिभागयोर्विश्लेषाद्यन्त्रं कदाचिद्विघटेत । कात्यायनस्तु संपुटकमन्यथा ग्राह– 'आकुञ्चितस्ता नार्यः (?) संक्रान्तनृकटिः पुनः । त्र्यंसस्थनरयोगात्तु संमुखः संपुटः स्मृतः ॥' अत्राह—संहतोरुत्वाज्जधनावहासो न संभवति । अतो न नीचरते हस्तिन्याः । समरते तु स्यात् । यथास्थितोरुकैतयास्य लौकिकत्वात् । पार्श्वेण तु शयान इति निद्रां गन्तुम् । दक्षिणेन नारीमिति एनपायोगे द्वितीया । नार्या दक्षिणे भागे १. 'नीचतररतस्यापि'. २. 'संकोचयुक्तिमाह'. ३. 'संपुटकमिति हस्तिन्या ऋजुत्रसारितो'. ४. 'सच'. ५. 'चेति'. ६. 'योगाच'. ७. 'सार्वत्रिकसंपुट:'. ८. 'तत्'. ९. 'द्वितीय इति द्वितीय' १०. 'अस्तस्थनर' ११. 'कृतया लौकिक: स्यात्. ६ अध्यायः] २ सांप्रयोगिकमधिकरणम् । आत्मनो वामेन पार्श्वणासनपेरिणता शयनीयमधिशयीतेत्यर्थः । सार्वत्रिकमिति । सर्वास्त्रेव मृग्यादिनायिकास्वयं निद्राकाले भवति । अविरोधात् । रतकाले तु तद्विपरीतो हस्तिन्याः । येन संकोचहेतुत्वात् । वामहस्तेन तत्र गुह्यस्पर्शनादौ शिष्टानुज्ञातत्वात् । तु संपुटकमयुक्तयन्त्रेणैव दृढमूरू पीडयेदिति पीडितकम् ॥ संपुटकप्रयुक्तयन्त्रेणेति । उत्तानसंपुढे पार्श्वसंपुढे वा । तत्प्रयुक्तयन्त्रं तदेव विश्लिष्येत । नायिकाया दृढखरूपत्वात् । पीडयेदिति पीडनात्संपुटकमेव पीडितमिति संवृताकारं भवतीति । ऊरू व्यत्यस्येदिति वेष्टितकम् ॥ संपुटकयन्त्रेणेत्यर्थः । य उत्तानसंपुटके वामदक्षिणतो वा यद्दक्षिणवाम इति तदेव परम्परोरुबेष्टनाज्जघनं पूर्वस्मात्संवृततरं भवति । तत्र भावन सिद्धत्वात् । वडवेव निष्ठुरमवगृह्णीयादिति वाडवकमाभ्यासिकम् ॥ निष्ठुरं निश्चलम् । अवगृह्णीयात् संवाघौष्ठपुटेन साघनमित्यर्थः । वाडवकं वडवाया इव । एतेन नीचतररतस्यापि परिग्रहः । इदं कर्माभ्यासिकम् । सहसा प्रयोगे प्रयोक्तमशक्यत्वात् । तदान्ध्रीषु प्रायेण । इति संवेशनप्रकारा वाभ्रवीयाः ॥ आन्ध्रीषु प्रायेण दृश्यते । तासां यत्नपरत्वात् । तस्याभ्यासोपायश्च संप्रदायनिरूप्यः । ततोऽभ्यासात्तन्निरपेक्षग्रहणमिति । बात्रवीया बा अव्येण प्रोक्ताः सेतैव संवेशनप्रकाराः । अनेन विकल्पवर्गस्य न्यूनतामाह सौवर्णनाभास्तु–उभावप्यूरू ऊर्ध्वाविति तद्भुनकम् ॥ सौवर्णनाभास्तु हस्तिन्या इति वर्तते । सुवर्णनामेन प्रोक्ताः । अनेन द्वैविध्यमाह । उत्ताना नायिका द्वावप्यूरू संश्लिष्टावूर्ध्वावेवावस्थापयेत् । १. 'परिणताय'. २. 'शिष्टानुज्ञातः स्यात्'. ३. 'सपुटकयन्त्रेत्येव'. ४. 'अभावेन', ५. 'सतैते'. ६. 'सुवर्णनाभस्तु - आभुमकम्'; 'सोवर्णनाभा अप्यूरू-उद्धमक्म्'. १४० कामसूत्रम् । ११ आदितोऽध्यायः] · नायकोऽपि जानूत्तरेण द्वाभ्यामाश्लिष्योपसर्पेत् । तद्भुमकमिति । ऊर्वोरूध्वमनिःसृतत्वात् । चरणार्ध्वं नायकोऽस्या धारयेदिति जृम्भितकम् ॥ चरणावूर्ध्वमिति । नायिकाजानुसंधी स्कन्धयोर्विन्यस्य चरणावूर्ध्वं नायकेन धारितौ भवतः । इति जृम्भितकम् । तत्कुञ्चिताबुत्पीडितकम् ॥ तत्कुञ्चितौ धारयेदित्येव । नायकोरसि चरणौ निदध्यात् । नायकोऽपि बाहुपाशेन नायिकाया ग्रीवामावेष्टयोपसर्पेत् । एवं चरणावूर्ध्वं संकुचितौ नाधस्तादुरसा धारितौ स्याताम् । द्वयोश्योरसि पीडनात्पीडितकम् । तदेकस्मिन्प्रसारितेऽर्धपीडितकम् ॥ तदिति पीडितकम् । एकसिंश्चरणे प्रसारिते व्यत्यासेनेति द्वितीयमप्यर्धपीडितकम् । अर्धपीडनात् । नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्यत्यासे- न वेणुदारितकम् ॥ नायकस्यांसे स्कन्धे वामश्चरणः स्थितः । क्षणादनु तदधरतात्प्रसारित इत्येकम् । पुनर्व्यत्यासेन दक्षिणस्कन्धे वामः प्रसारित इति द्वितीयम् । वेणुदारितकमिति वंशस्येव दारणं पाटनम् । एकः शिरेस उपरि गच्छेद्वितीयः प्रसारित इति शूलाचितक- माभ्यासिकम् ॥ एक इति वामो दक्षिणो वा चरणः । शिरस इति नायिकायाः । द्वितीय इति दक्षिणो वामो वाघः । एवं द्विविधं शूलाचितकम् । शूल इवारोपणाच्छूलभिन्नवच्छरीरस्य लक्ष्यमाणत्वात् । आभ्यासिकम् । अन्यथा कथमुपरितनजह्वाकाण्डः स्थगितकः स्यात् । संकुचितौ स्ववस्तिदेशे निदध्यादिति कार्कटकम् ॥ संकुचितौ नायिकाचरणौ जानुसंकोचात्स्ववस्तिदेशे स्वनाभिमूले निद१. 'ऊच'. २. 'जृम्मकम्'. ३. 'स्कुषितमुत्पीडितकम् ४. 'विन्यासेन दक्षिणात्स्कन्चो वामः'. ५. 'शिरसि ६. 'द्वितीयकः'. C 1 ६ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १४१ ध्यान्नायकः । कार्कटकमिति कर्कटस्येव कर्म । यदग्रचरणौ तथा तिष्ठतः । ऊर्ध्वावरू व्यत्यस्येदिति पीडितकम् ॥ ऊर्ध्वावरू व्यत्यस्पेदिति उत्तानं बामं दक्षिणतो नयेत्, दक्षिणं वासे मतः । पीडितकं जघनपीडनात् । जहाव्यत्यासेन पद्मासनवत् ॥ जवाव्यत्यासेनेति । उत्ताना नायिका दक्षिणपादं वामे खोरुमूले निदध्यात् । वामं च दक्षिणे । पद्मासनमिति प्रतीतम् । पृष्ठं परिष्वजमानायाः पराखेण परावृत्तकमाभ्यासिकम् ॥ पृष्ठमिति । यन्त्रमविश्लिष्य पूर्वकायेण परावृत्तस्य नायकस्य पृष्ठमेव गूहमानायाः परावृत्तकम् । परामुखेण नायकेन संप्रयोगात् । उपलक्षणं है चैतत् । पृष्ठमुपगूहमानस्य पराङ्मुख्या परावृत्तकम् । आभ्यासिकम् । सहसा कर्तुमशक्यत्वात् । उभयकायं परिवृत्य संविष्टायाः पृष्ठमुपगूहमानस्य परामुख्या परावृत्तकमाभ्यासिकमर्थोक्तम् । एते संवेशनप्रकारा न चित्राः । लोके हि स्थले पृष्ठतः पार्श्वतो वा शयनं प्रतीतम् । ततोऽन्यच्चित्रम् । तदेतैरुपलक्षयेदिति दर्शयन्नाह - जले च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगानुपलक्षयेत् । तथा सुकरत्वादिति सुवर्णनाभः ॥ ६ जले चेति । चकारात्स्थले च। तत्राप्सु क्रीडायां कूले शिरो निधाय संविष्टयोः संवेशनात्मकोऽपि यः स्थलाभावाच्चित्रयोगस्तं संपुटेन चोपल। क्षयेत् । उपविष्टस्य नायकस्योपवेशनात्मकस्तं सर्वैरेव प्रकारैः । ऊर्ध्वस्थितायाः स्थितात्मकः । स्थलशयनाभावात् । चित्रो योगस्तं शूलाचि तके । तथा सुकरत्वादिति तैः प्रकारैः संयोगस्याप्सु सौकर्यात् । -445 i 15 i f वार्ते तु तत् । शिष्टैरंपस्मृतत्वादिति वात्स्यायनः ॥ वार्ते त्विति । तथा सुकरत्वादिति सत्यम् । वार्त तु तत् । असारमित्यर्थः । शिष्टैरपस्मृतत्वादिति । स्मृतिकारैर्निषिद्धत्वादित्यर्थः । तथा च गौत१. 'स्थूल- १. २. 'अपस्मृतत्वाच्छिष्टे.'. १४२ कामसूत्रम् । ११ आदितोऽध्यायः] मीयं वचनम् – 'अप्सु मिथुनसंयोगे नरकः' इति । प्रायश्चित्तविधाने भार्ग- ववचनम् – 'रेतः सिक्त्वा जले चैव कृच्छ्रं चान्द्रायणं चरेत्' इति । त- स्मात्स्थलप्रयोज्यमेव चरेत् ॥ संवेशनप्रकारास्त्रयोदशं प्रकरणम् ॥ प्रकरणसंवन्धमाह - अथ चित्ररतानि ॥ अथेति । संवेशनप्रस्तावे तद्विशेषत्वात्स्थलप्रयोज्यानीत्युच्यन्ते । तत्रोर्ध्वमधिकृत्याह- ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भौपाश्रितयोर्वा स्थितरतम् ॥ परस्परापाश्रययोरित्याश्रयान्तराभावाद्वाहुपाशेनान्योन्योपलग्नयोः । कुढ्यस्तम्भापाथितयोरिति नायिकायां कुड्ये स्तम्भे वापाश्रितायां द्विती- योऽपि तदाश्रयादाश्रित इत्युक्तम् । स्थितरतं तयोरूर्ध्वस्थित्या करणत्र- यमैवोचन्त । यथोक्तम् – 'उत्क्षिप्तप्रमदापादमेकेन नरपाणिना । प्रसार- णविशेषेण व्यायतं संमुखं स्मृतम् ॥ नारीपादतलन्यासान्नरहस्ततले तु यत् । कुञ्चितप्रमदाजानुद्वयं द्वितलसंज्ञितम् ॥ नरकूर्परविन्यस्तस्त्रीनिकु श्चितजानुकम् । जानुकूर्परमुद्दिष्टमिति शुद्धो विधिः स्मृतः ॥ कुड्यापाश्रितस्य कण्ठावसक्तवाहुपाशायास्तस्तपञ्जरोपविष्टा- या ऊरुपाशेन जघनमभिवेष्टयन्त्या कुड्ये चैरणक्रमेण वलन्त्या अ- वलम्वितकं रतम् ॥ कुड्यापाश्रितस्येत्युपलक्षणार्थत्वात्स्तम्भापाश्रितस्य वा नायकस्य क ण्ठेऽवसक्कोवलमो बाहुपाशो यस्या इति विग्रहः । तद्धस्तपञ्जर इति नायकस्य हस्ताभ्यां वेणीवन्धेन घटितपञ्जरे समुपविष्टाया ऊरुपाशेन जधनं नायकस्य वेष्टयन्त्याः । चरणक्रमेण वलन्त्या इति कुड्ये स्तम्भे वा पुनः पुनश्चरणविक्षेपेण कटिं प्रेसयन्त्याः । अवलम्वितकम् । नायककण्ठान्नायिकाया अवलम्बनात् । एतदुभयं वैहासिकत्वाञ्चित्रम् । १. 'परस्परोपाश्रितयोः'; 'परस्परोपाधययो.. २. 'आथययोर्वा'. ३. 'अवोचत'. ४. 'भुजपञ्जरो-'. ५. 'चरणपराक्रमेण'. ६. 'नायकं नायिकायाः . S ६ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १४३ भूमौ वा चतुष्पदवदास्थिताया दृपलीलयावस्कन्दनं धेनुकम् ॥ चतुष्पदवदिति सामान्यनिर्देशो वक्ष्यमाणापेक्षः । तत्र धेनुकावचतुमिर्गात्रैरधोमुखमवस्थिताया वृषलीलयेति वृषचेष्टया नायकस्यावस्कन्दनं कटिभागेऽभिपतनम् । धेनुकमिति धेनुकाया इदम् । एतच्चामनुष्यधर्माचरणाच्चित्रम् । तत्र पृष्ठमुरः कर्माणि लभते ॥ तत्रेति धेनुके । पृष्ठमुरःकर्माणि लभत इति यानि नायिकोरसि प्रहणनच्छेद्योपगूहनादीनि तानि पृष्ठे प्रयुञ्जीतेत्यर्थः । एतेनैव योगेन शौनमैणेयं छागलं गर्दभाक्रान्तं मार्जारलेलितकं - व्याघ्रावस्कन्दनं गजोपमदितं राहघृष्टकं तुरगाधिरूढकमिति यत्र यत्र विशेषो योगोऽपूर्वस्तत्तदुपलक्षयेत् ॥ 1 र 7 एतेनेति धेनुकयोगेन शौनादिकमुपलक्षयेदित्यर्थः । श्वादीनां चतुप्पद 1: त्वात्तद्रतमनेन व्याख्यातमित्यवगच्छेदित्यर्थः । विशेषप्रतिपत्तौ तु कारणमाह – यत्र यत्रेति । यस्मिन्यस्मिन्येन येन विशेषेण स्वरगतेन कायगतेन च योगोऽपूर्वी दृश्यते तत्तदुपलक्षयेत् । तत्र शुनीवदवस्थिता श्वलीलया नायकस्यावस्कन्दनम् । एवं छगलीवच्छगललीलया छागलम् । एणीवदेणलीलया ऐणेयम् । 'एण्या ढन्' । व्यापारस्यापि विकारत्वात् । गर्दभीवद्र्दमलीलया क्रमणं गर्दभाक्रान्तकम् । मार्जारीवन्मार्जारलीलया च ललितकं मार्जारललितकम् । व्याघ्रीवद्वयाघ्रलीलयावस्कन्दितं व्याघ्रावस्कन्दनम् । गजवद्गज़लील्योपमर्दनं गजोपमर्दितम् । तुरगवत्चुरगलीलयाघिरोहणं तुरगाधिरूढकम् । अत्र श्वादीनां खरकायगतं चेष्टितं प्रत्यक्षतोऽवगन्तव्यम् । अप्रत्यक्षीकृतस्य प्रयोक्कुमशक्यत्वात् । मिश्री कृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् ॥ मिश्रीकृतसद्भावाभ्यामिति । दंपत्योर्हि रतम् । द्वाम्या तु परस्परोपजनितविश्वासाभ्यां नायिकाभ्यां सहकनायकस्य रतं चित्रसंघाटकाख्यम् । G 1 = ● 3 १. 'अनेन'. २. 'लुलितकम्'. २. 'अवस्कन्दितम्' ४. 'वराहपृष्टकं' इति मूलपुस्तकेषु लभ्यते. ५. 'योऽपूर्व:'. ६. 'तमुपलक्षयेत्'. ७. 'तु सह द्वाभ्यां संघाटकम् १४४ कामसूत्रम् । ११ आदितोऽध्यायः] एकशयने स्त्रीयुग्मस्य युगपत्संप्रयुज्यमानत्वात् । यदैव हि पुरुषोपसृप्ते यदेकस्या रोगापनयनं तदैवापरस्याचुम्बनादिना रागजननम् । ततोऽस्या रागापनयनं प्रशान्तरागायाश्च रागजननमिति । वहीभिश्च सह गोग्रॅथिकम् ॥ बहीभिश्च मिश्रीकृतसद्भावाभिः सबैकस्य चित्ररतं गोयूथिकम् । वृषस्येव गोयूथे स्त्रीसमूहे वर्तनात् । वारिक्रीडितकं छागलमैणेयमिति तत्कर्मानुकृतियोगात् ॥ वारिक्रीडितकमिति । वार्या गजस्येव करिणीभिः स्त्रीभिः सह रमणात् । तथा छगलवदेणवच्च स्त्रीभिः सह च्छागलमैणैर्येमिति । तत्कर्मानुकृतियोगादिति । वृषादीनां गवादिषु यत्खरगतं कायगतं च कर्म तदनुकृतियोगात्तथा व्यपदिश्यत इत्यर्थः । यथैकस्य द्वाभ्यां बहीभिश्च तथा द्वाभ्यां नायकाभ्यां बहुभिश्च एकस्या रतं संभवति । तत्र नायकसंघाटकेनैकस्या वक्ष्यमाणयोगेन काम्यमानत्वात्संघाटकं रतम् । द्वयोर्वा संविष्टयोः पुरुपायितेन काम्यमानत्वात् । यथोक्तम्- 'ऊँरूव्यत्याससंविष्टपरिवर्तितदेहयोः । वृपयोरुँन्नतं चिहं हस्तिन्यां पुरुषायिते ॥' बहुभिश्च गोयूथिकम् । वृपगोयूथस्येवैकस्यां गवि नायकयूथस्य वर्तनात् । तथा वारिक्रीडितकमित्यादि तत्कर्मानुकृतियोगात्तदेव गोयूथिकादिवत् । देशप्रवृत्तिं दर्शयन्नाह ग्रामनारीविपये स्त्रीराज्ये च वौडीके वहवो युवानोऽन्तःपुर- सघर्माण एकैकस्याः परिग्रहभूताः । तेपामेकर्कशो युगपञ्च यथा- सात्म्यं यथायोगं च रञ्जयेयुः ॥ ग्रामनारीविषय इति । स्त्रीराज्यसमीप एव परतो ग्रामनारीविषयः । युवानो व्यवायक्षमाः । अन्तःपुरसधर्माणो रक्षणयोगादस्वतन्त्राः । एकस्या योषितः परिग्रहं गताः । खरवेगत्वान्नैकेन तुष्टिरिति । ते तां कथं रञ्जयेयुरित्याह – एकैकश युगपञ्चेति । एकैकेन कर्मणा यौगपद्येन चे १. 'यद्येव'. २. 'रागायतनम्'. ३. 'गोयूयकम्'. ४. 'ऐणेयकम्. ५. 'ऊरूविन्याससंविष्ट:'. ६. 'उत्तान'. ७. 'बाहीके बहवो' इति पुस्तकान्तरे नास्ति ८. 'एकश:'. a * P 1 a ६ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १४५ त्यर्थः । यथासात्म्यं यथायोगं चेति । येन यस्या उपचारेण सात्म्यं यत्र यस्य च युज्यते प्रयोगस्तेन तामनुरञ्जयेयुः । तस्यास्तृप्ति जनयेयुरित्यर्थः । तदेवैकैकं कर्म योगपद्यं च दर्शयन्नाह --- एको धारयेदेनामन्यो निषेवेत । अन्यो जघनमुखमन्यो मध्य- मन्य इति वारं वारेण व्यतिकरण चातुतिष्ठेयुः ॥ एको धारयेदिति यस्याङ्कमपाश्रित्य संविष्टा । मुखमन्यो निषेवेत चुम्बनदशननखक्षतैः । जघनमन्य उपसृप्तकैः । मध्यं मुखजघनयोचुम्ब ननखच्छेद्यमहणनैरन्य इत्येकैकेन कर्मणा । युगपञ्चेति । तत्रापि पुनविधानान्तरमाह — चारं वारेणानुतिष्ठेयुरिति । वारं नियोगं वारेण परिपाठ्या । तत्र यो जघनं निषेवितवान् स निवृत्तरागत्वाद्वारेण वारमनुतिष्ठेत् । वारेण वारिको मुखवारं तद्वारिको मध्यवारं तद्वारिकश्च जघनवारमिति । व्यतिकरेण चेति द्वितीयकर्मसंयोजनेन च । तद्यथा-जघनसेवको जघनं मध्यं च निषेवेत । मध्यसेवको मध्यं मुखं च । तत्सेवकथ्ध मुखं मध्यं च । वारको धारयेन्मुखं च निषेवेतेति । अनेन विधिना तावदनुतिष्ठेयुर्यावत्सर्व एव जघनवारमनुप्राप्ताः । 1 एतया गोष्टीपरिग्रहा वेश्या राजयोषापरिग्रहथ व्याख्यातः ॥ एतयेति यथोक्तया स्त्रिया । अन्यत्रापि देशे संभवत्येतदतिदेशेन दर्शयति ——गोष्ठीपरिग्रहा इति । विटैः संभूय परिगृह्यते या वेश्या । गोष्ठी येषां परिग्रह इति । योषिच्छन्दसमानार्थो योषाशब्दः । संहत्यान्तःपुरिकाभिर्योषिद्भिर्ये परिगृह्यन्ते परपुरुषाः । वक्ष्यति च–'संहत्या नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानाम्' इति । वेश्यां विटा युवानं च स्त्रियः पूर्ववदनुरञ्जयेयुरित्यर्थः । वहीमिश्च गोयूथिकमित्येतत्खदारेषु नायकव्यापारमधिकृत्योक्तम् । अधोरतं पायावपि दाक्षिणात्यानाम् । इति चित्ररतानि ॥ १. 'धारयेदेनामन्योऽन्यो निषेवेत । वदनमन्यो जघनमन्यो मध्यमन्य.. २. रन्'. ३. 'परिग्रहाथ व्याख्याता:'. ४. 'जायायामपि'. का० १९ १४६ कामसूत्रम् । ११ आदितोऽध्यायः] अघोरतमिति । अपानस्य जघनाधः स्थितत्वात् । तच्च स्त्रीपुंसविपयमेदेन द्विविधम् । तदपि विमार्गमेहनाच्चित्रम् । औपरिष्टकं तु तृतीयाप्रकृतिविषयत्वान्न चित्रम् । स्त्रीपुंसयोश्च चित्रमेव । विमार्गमेहनात् । दाक्षिणात्यानामिति देशमवृत्तिं दर्शयति । पुरुषोपतकानि पुरुषायिते वक्ष्यामः ॥ पुरुपोपसृप्तानि तु संवेशनानन्तरत्वादवसरप्राप्तान्यपि पुरुषायिते व क्ष्यामः । तत्राप्युपयोगित्वाच्चित्रस्य वैर्धनमाह भवतश्चात्र श्लोकौ पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः । तैस्तैरुपायश्चित्तज्ञो रतियोगान्विवर्धयेत् ॥ पशूनामिति । तत्राधोदशनाः पशवः । ऊर्ध्वाधोदशना मृगाः । पतज्ञाः पक्षिणः । तैस्तैरिति । ये ये प्रत्यक्षत उपलब्धाः । विभ्रमैरिति विचेष्टितैः खरकायगतैः । चित्तज्ञ इति । रुयभिप्रायं बुद्धेत्यर्थः । रतियोगानिति रत्यर्थान्योगान् । विवर्धयेदपरानपरान्प्रयोजयेदित्यर्थः । तद्विवर्धने किं फलमित्याह तत्सात्म्यादेशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः । स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराचित्ररतानि च पष्टोऽध्यायः । आदित एकादृशः । तत्सात्म्यादिति । नायिकायाः प्रकृतिसात्म्यात् । देशसात्म्यं प्रागुतम् । तैस्तैरिति पश्चाढिविभ्रमैः । भावैरिति भावहेतुत्वात्प्रयोजितैः । नायिकया प्रयोजिकया तदभिप्रायेण हि नायकेन प्रयुज्यमानत्वात् । १. 'अपनाधिष्ठितत्वात्'. २. 'वर्धमानमाह'. ३. 'चित्त.'; 'चित्रशः'. ७ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १४७ भावैर्वा प्रयोजकैरिति योज्यम् । स्नेहः सक्तिः । रागस्तृप्तिः । बहुमानो गौरवमिति ॥ चित्ररतानि चतुर्दशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमहलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्याया साप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराचित्ररतानि च पष्ठोऽध्याय. । सप्तमोऽध्यायः । एवं संविष्टायां यन्त्रयोगे प्राधान्येन प्रहणनमिति महणनप्रयोगा- अहणनोद्भवत्वाच्च सीत्कृतस्य तयुक्ता एव सीत्कृतक्रमा इति प्रकरण- द्वयमन्त्राध्याये । यथा महणनस्य प्रयोग इति सूचनार्थ क्रमग्रहणम् । प्रहणनं द्वेषजननं कथं सुरतोपयोगीत्याह- कलहरूपं सुरतमाचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च का- मस्य ॥ कलहरूपमिति । कलहसदृशमित्यर्थः । कथमित्याह — विवादात्मक त्वादिति । स्त्रीपुंसयोः स्वार्थसिद्धये परस्पराभिभवेन संप्रयुज्यमानत्वाद्विवादात्मकम् । वामशीलत्वाच्चेति । प्रतिकूलस्वभावत्वात्कामस्य । यत्सुकुमारक्रमलब्धजन्मनोऽपि मनोभवस्य सुरते निर्दयोपक्रमेणातिवाद्यमानत्वात् । तथा चोक्तम् [किरातार्जुनीये ९/४९] – 'आता नखपदैः परिरम्भाधुम्बितानि घनदन्त निपातैः । सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥' अत्रापिशब्दो भिन्नक्रमः । सौकुमार्यगुणसंभृतकीति॑िरपि सुरतेषु वाम एवेति । तेन हेतुफलभेदेनावस्थानात्कामस्य स्वभावद्वयम् । एकः संप्रयोगेच्छालक्षणः । अन्यो विसृष्टिलक्षण इति । तस्मात्महणनस्थानमङ्गम् । स्कन्धौ शिरः स्तनान्तरं पृष्ठं ज घनं पार्श्व इति स्थानानि ॥ तस्य सुरतस्य । प्रहणनस्थानमङ्गमुपकरणम् । स्थानानीति प्रहणनस्य । तच्चतुर्विधम् – अपहस्तकं प्रसृतकं मुष्टिः समतलकमिति ॥ १. 'तस्य रागवशात्प्रहणनमद्द्वम् । प्रहणनस्थानानि च असो शिर पृष्टमुर: स्व. नान्तरं जघनपार्श्वमिति'. कामसूत्रम् । १२ आदितोऽध्यायः] तदिति प्रहणनं घातश्चतुर्विधम् । अपहस्तकादि ग्रहणनस्य चतुर्विघत्वात् । प्रहण्यते वा स्थानमनेनेति ग्रहणनमपहस्तकादीति करणे ल्युट् । तत्रापहस्तको हस्तपृष्ठं प्रसृताङ्गुलि । प्रसृतकं वक्ष्यति । मुष्टिः प्रसिद्धः । समतलकं सुस्थिरहस्ततलम् । यस्य मुस्तकेति प्रसिद्धिः । द्वितीयं प्रकरणं प्रहणनान्तर्गतमिति दर्शयन्नाह तैदुद्भवं च सीत्कृतम् । तस्यातिरूपत्वात् । तदनेकविधम् ॥ तदुद्भवं चेति । तदुद्भवं प्रहणनादुद्भवतीति । कुत एतदित्याह-तस्यातिरूपत्वादिति । सीत्कृतं हि पीडया जन्यमानत्वात्तद्रूपमित्युक्तम् । यथा फलहेतु ग्रहणनात्पीडया सीत्कृतं क्रियते तथेहापि पीडाद्योतनार्थं यच्छब्दितं तत्सीत्कृतमिव सीत्कृतं पूर्वाचार्यैः संज्ञितम् । नतु सीत्करणमेव सीत्कृतम् । यदाह — तदिति । सीत्कृतमनेकविधम् । हिंकारादिभेदात् । विरुतानि चाष्टौ ॥ विरुतानि तानि मूलवर्गेण संगृहीतानि सीत्कृतप्रकरण एव ध्वनिस्वभावत्यादुक्तानि । तेषां च रतिजन्यत्वात्महणने चामहणने च मनोज्ञत्वात्प्रयोगः । सीत्कृतस्य तु महणन एवेति विशेषः । ► हिंकारस्तनितकूजितरुदितत्कृतदूत्कृतफूत्कृतानि ॥ तत्र हिकारो यः सानुनासिकेन हिशब्देन क्रियते । कण्ठनासिकाभ्यामूर्ध्वं गच्छन्मधुरो ध्वनिर्निम्पाद्यते । स्तनितं मेघस्येव यद्गम्भीरं ध्वनितम् । तच्च कण्ठाद्धंशब्देन निप्पाद्यते । रुदितं प्रतीतम् । तच्च मनोहारि स्यात् । सूत्कृतं सूत्करणं च श्वसितापरनाम । कूजितदूत्कृतफूत्कृतानां लक्षणं वक्ष्यति । सतैतान्यव्यक्ताक्षराणि । अम्वार्था: शब्दा वारणार्या मोक्षणार्थाचालमर्यास्ते ते चार्ययोगात् ॥ १. 'अवस्थानम्'. २. 'स्वरसहस्ततलम्'. ३. 'तद्भव हि सीत्कृतम् । तच्चातिरूपत्यादनेकविधम्' ४. 'मूलसर्गेण' ५. 'हिंकारं म्वनित-इत्यादिव्यतपदानि पुस्तकान्तरे. ६. 'सीत्कृत - ७. 'मोक्षायाः- चार्यसंप्रयोगात् · S पारावतपरभृतहारीत शुकमधुकरदात्यूहहंसकारण्डवलावकविरु- il तानि सीत्कृतभूयिष्ठानि विकल्पशः मयुञ्जीत ॥ पारावतादीनामिव विरुतानि पारावतविरुतानि । दात्यूहो यस्य 'डाउक' इति प्रसिद्धिः । सीत्कृतभूयिष्ठानीति सीत्कृतबहुलानि । प्रहणनकालेऽपि सीत्कृतस्य प्राधान्यादन्तरा प्रयुञ्जीतेत्यर्थः । सीत्कृतं हि स्वरान्तरसंश्लिष्टं मनोहारि स्यात् । विभागलिष्टगीतवत् । तत्रापि विक ल्पशो विकल्पं विकल्पम् । एकैकमित्यर्थः । i : 1 1 ७ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १४९ तत्र अम्वार्था इति अम्ब मातरित्यादयः । वारणार्था मा तिष्ठेत्यादयः । अलमर्था भवतु पर्याप्तमित्येवमादयः । मोक्षणार्थस्त्यज मुश्चेत्यादयः । ते ते चार्थयोगादिति । अन्येऽपि पीढार्थयुक्ता मृतासि परित्रायखेत्येवमादयः । प्रहणनसीत्कृतयोर्यत्र देशेऽवस्थायां च प्रयोगस्तदुभयमाह- उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना मैहारः ॥ उत्सद्कोपविष्टाया इति नायकस्योत्सङ्गे । पृष्ठे मुष्टिना प्रहारः । नान्यैः । अननुरूपत्वात् । तत्र सासूयाया इव स्तनितरुदितकूजितानि मॅतीघातच स्यात् ॥ तत्रेति मुष्टिना प्रहारे सासूयाया इव प्रहारमक्षममाणाया इव प्र योकत्र्यास्तदर्तिद्योतकानि स्तनितकूजितरुदितानि स्युः । तत्महारानुरूप- त्वात् । प्रतीषातश्चेति । मुष्टिनैव तत्पृष्ठे प्रतीघातः स्यात् ॥ युक्तयन्त्रायाः स्तनान्तरेऽपहस्तकेन महरेत् ॥ युक्तयन्त्राया उत्तानायाः स्तनान्तरे स्तनयोर्मध्ये अपहस्तकेन प्रहरेत् । नान्यैः । अननुरूपत्वात् । मन्दोपक्रमं वर्धमानरागमा परिसमाप्तेः ॥ मन्दोपक्रमं वर्धमानरागमिति क्रियाविशेषणम् । आरम्भे मन्दया वृत्त्या प्रहारः । ततो यथा रागो वर्धते तथाधिक एवेत्यर्थः । आ परिस१. 'विरुतानि च'. २. 'उत्सङ्गमुपविष्टाया: '. ३. 'अभिघात:'. ४. 'सासूयेव'. ५. 'प्रतीघातांथ प्रयोजयेत्'. १५० कामसूत्रम् । १२ आदितोऽध्यायः] मातेस्तृप्तिं यावत् । स्तनान्तरे हि रागास्पदस्य हृदयस्यावस्थानात् । योपितो हि त्रीणि रागस्थानानि – शिरो जघनं हृदयं चेति । तेषु हन्यमानेषु चिरचण्डवेगापि रागं मुञ्चति । तत्र हिंकारादीनामनियमेनाभ्यासेन विकल्पेन च तत्कालमेव प्रयोगः ॥ . तत्रेत्यपहस्तप्रहणने । हिंकारादीनां सप्तानाम् । अनियमेनेति मृदुना हृदयस्य हन्यमानत्वात्सर्वेपामेवार्तिसूचकानां संभवः । विकल्पेन मृदुमध्यातिमात्रमेदेन । अभ्यासेन च पौनः पुन्येन । तत्कालमेवेत्यपहस्तग्रहणनकालमेव । तस्य समाप्त्यवधिकः कालः । शिरसि किंचिदाकुञ्चिताङ्गुलिना करेण विवदन्त्याः फूत्कृत्य महणनं तत्प्रसृतकम् ॥ किंचिदाकुश्चिताङ्गुलिना फणाकारेणेत्यर्थः । विवदन्त्या इति । अपहस्तेनासुखायमाना यदि प्रहारान्तराकाङ्क्षया प्रत्यवतिष्ठेत्तदास्याः प्रथमे रागास्पदे शिरसि तदनुरूपेण प्रसृतकेन प्रहणनमपरं मन्दोपक्रमं वर्धमानरागमा परिसमाप्तर्विधेयम् । फूत्कृत्येति रागदीपनार्थम् । तत्रान्तर्मुखेन कूजितं फूत्कृतं च॑ ॥ तत्रेति प्रसृतकाघाते । कूजितं फूत्कृतं च नायिकायाः स्यात् । कथ मित्याह – अन्तर्मुखेनेति । मुखस्यान्तः स्थानमन्तर्मुखम् । तत्र कूजितम् । तत्संवृतेन कण्ठेन । कूजत्यनेनाव्यक्तं शब्दितम् । यदि विवृतेन जिह्वामूलेन च तत्फूत्कृतम् । तस्यानुकार्यं वक्ष्यति——चदरस्येवेति । रतान्ते च श्वसितरुदिते । वेणोरिव स्फुटतः शब्दानुकरणं त्कृतम् ॥ रतान्ते च श्वसितरुदिते । तदानीं धातुक्षयाच्छ्मोत्पत्तेः । श्वसितं रुदितं च मधुरकोक्त्या प्रयोक्तव्यम् । वेणोरिव पुरुपव्यापारेण ग्रन्थिस्थाने स्फुटतस्तच्च द्वैत्कृतम् । १. 'च' इति पुग्नकान्तरे नास्ति. २. 'फूत्कृनम्. ३. 'फूत्कृतम्'. i ७ अध्यायः] २ सांप्रयोगिकमधिकरणम् । अप्सु वदरस्येव निपततः (शब्दानुकरणं) फूत्कृतम् ॥ ताल्वग्रार्दुपरिभागे जिह्वाग्रे संश्लेषादुत्पद्यते । बदरस्येवेति वृत्तगुटिकोपलक्षणार्थम् । निपततः । शब्दानुकरणमिति वर्तते । यस्येदं लक्षणं सलिले शर्करापातकालनिःखनितध्वनीति । सर्वत्र चुम्वनादिष्पक्रान्तायाः ससीत्कृतं तेनैव प्रत्युत्तरम् ॥ चुम्बनादिष्वपक्रान्ताया इति चुम्बननखदशनच्छेद्येषु पुरुषेणामियुक्तायाः सत्सीत्कृतं तेनैव प्रत्युत्तरं येनैव चुम्बनादीनामन्यतमेनोपक्रान्ता । तेनैव हिंकारादिसहायेन प्रत्युत्तरेदित्यर्थः । अनेन 'कृते प्रतिकृतं कुर्यात्' इति स्मरयति । रागवशात्महणनाभ्यासे वारणमोक्षणालमर्थानां शब्दानाम- म्वार्थानां च सेतान्तश्वसितरुदितस्तनितमिश्रीकृतप्रयोगा विरु- तानां च । रागावसानकाले जघनपार्श्वयोस्ताडनमित्यतित्वरया चापरिसमाप्तेः ॥ १५१ रागवशात्प्रहणनाभ्यास इति । यदा रागस्योद्रेकान्नायकः पौनःपुन्येन प्रहरेत्तदा वारणार्थानां प्रयोगो युक्तः । किंरूप इत्याह—सतान्तेति । सह खिन्नाभ्यां श्वसितरुदिताभ्यां वर्तते यत्र स्वनितं तेन योजित इत्यर्थः । पारावतादिविरुतानां च प्रयोग एवंविध एव । रागावसानकाल इति । लिङ्गादासन्नवर्तिनी रतिरिति ज्ञात्वा जघने तृतीये रागास्पदे पार्श्वयोः कक्षाघस्ताडनम् । समतलेनेति पारिशेप्यात् । अन्ये 'समतलकेन' इति पठन्त्येव । अतित्वरयेति । विश्रब्धिकया हि ताडने मागोपना हि रतिर्निवर्तते । । तत्र लावकहंसविकूजितं त्वरयैव । इति स्तननमहणनयोगाः ॥ तत्रेति समतलकरताडने लावकहंसयोरिव शब्दितं कूजितं स्यात् । मृदुमधुरत्वात् । तच्च त्वरयैव । प्रहणनस्य त्वरितत्वात् । स्तननप्रहणन१. 'बदरस्येवाप्सु निमज्जत. प्लुकृतम्'. २. 'उपरिभागत्य'; 'उपरिभागजिद्दाप्रे. ३. 'संश्लेषातु बदरस्येवेति'. ४. 'उपक्रान्तायाः'. ५. 'सतत -'; 'सुरतान्ते'; 'संतती'. ६. 'मिश्रितप्रयोगः'. ७. 'पीडन'. ८. 'लावकपरभृतहस-. १५२ कामसूत्रम् । १२ आदितोऽध्यायः ] योगा इति सीत्कृतविरुतात्मनः शब्दितस्य ग्रहणनस्य च प्रयोगा उक्ताः । स्त्रीपुंसयोः प्रहणनसीत्कृतेषु कस्य किं सहजं तेज इत्याहभवतात्र श्लोकौ पारुष्यं रभसत्वं च पौरुपं तेज उच्यते । अशक्तिरार्तिर्व्यावृत्तिरवलत्वं च योषितः ॥ रागात्मयोगसात्म्याच्च व्यत्ययोऽपि क्वचिद्भवेत् । न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् ॥ पारुष्यमिति चेतसः शरीरस्य च कठोरता । रभसत्वमित्यविमृश्यकारिता धाष्टर्यै च । एतदुभयं पुरुषस्येदं तेजो धर्म इत्यर्थः । तद्योगागात्पुरुषः मैहरति । अशक्तिर्हन्तुमसामर्थ्यम् । हस्तसौकुमार्यादार्तिः पीडा । त्या व्यावृत्तिः । पुरुषेण हन्तुं नियुक्तायाः स्त्रिया अवलत्वं निष्णाणता । स्वयमीपदाहरणात् । एते स्त्रैणा धर्माः । तद्युक्तत्वात् । न प्रहणनम् । सीत्कृतमेव तदुद्भवम् । अतः सीत्कृतप्रहणने विषयप्रतिनि यते । कचिदिति । न सर्वत्र रते व्यत्ययोऽपि स्यात् । कारणमाह रागप्रयोगसात्म्यादिति । रागस्य प्रकर्पेण योगाद्देशसात्म्याच स्त्री स्वधर्मी स्त्यक्त्वा पौरुपं तेजो विभ्रती प्रहन्ति तदा पुरुषः स्त्रीमहणनार्थे स्वधर्म त्यक्त्वा तद्धर्मानालम्ब्य सीत्कृतविरुतानि कुर्यात् । तानपि न चिरम् । कियतीमपि कालकलां व्यत्ययः स्यात् । ततः किं स्यादित्याह चैवेति तस्यैव व्यत्ययस्यान्ते प्रकृतेरेव योजनं स्यात् । यथा खतेजसा स्त्रीपुंसयोर्वर्तनमित्यर्थः । तदेवं व्यत्ययप्रकृतियोजनाभ्यां प्रवृत्तेयाता (?)मा समाप्तेः । रागप्रयोगसात्म्याभावे तु प्राक्तन एव विधिः । तत्र व्यत्ययाभावात् । तस्य प्रहणनं चतुर्विधमुक्तं यथा तदष्टधा दर्शयन्नाह कीलामुरसि कर्तरी शिरसि विद्धां कपोलयोः संदशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह महणनमष्टविधमिति दाक्षिणात्या१. 'विहितात्मनः'. २. 'भवतथात्र श्लोको' इति पुस्तकान्तरे नाखि ३. 'प्रहन्ति'. ४. 'नन्तं नला व्यावृत्ति.. ७ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १५३ • नाम् । तयुवतीनामुरसि कीलानि च तत्कृतानि दृश्यन्ते । देश- सात्म्यमेतत् ॥ ■ कीलामुरसीति । तत्र मुटिरेव तर्जनीमध्यमयोर्वहिः पृष्ठमागेन निष्क्रान्तयोरुपर्यङ्गुष्ठयोजनात्कीला । तयाघोमुख्या ताडनम् । कर्तरी द्विविषा प्रसृतकुजिताङ्गुलिमेदात् । तत्र प्रसृताङ्गुलिर्द्विविधा । हस्तेनैकेन भद्रकर्तरी । द्वाभ्यां संश्लिष्टाभ्यां यमलकर्तरी । या कुश्चिताङ्गुल्यङ्गुष्ठाग्रोपरिन्यैस्तकुञ्चिततर्जनीका सा शब्दकर्तरी प्रयुज्यमाना लथाङ्गुलित्वादमितशब्दवती भवति । कैश्चिदुत्पत्रिकेत्युच्यते । उभाभ्यामपि कनिठिकाग्रभागेण शिरसि ताडनम् । तर्जनीमध्यमयोर्मध्यमानामिकयोर्वा = मध्येनाङ्गुष्ठं निष्काश्य बद्धा मुष्टिविंद्धा । तयाङ्गुष्ठकवदनया कपोलयोर्व्यधनमेव ताडनम् । मुष्टिरेव तर्जन्यङ्गुष्ठकाभ्यां तर्जनीमध्यमाभ्यां वा संदशनात्संदंशिका । तया स्तनयोः पार्श्वयोश्च मैलनपूर्वकं मांसस्याकर्षणमेव ताडनम् । पूर्वैरित्यपहस्त्रादिभिः । अष्टविधमिति दाक्षिणात्यानाम् । आचार्याणां तु चतुर्विधमस्ति । एतत्प्रत्यक्षेण दर्शयन्नाह -कीलानि चेति । तधुवतीनां दाक्षिणात्यतरुणीनाम् । उरसीत्युपलक्षणम् । उरसि कीलाकृतम् । शिरसि सीमन्तमुखे कर्तरीकृतम् । कपोल्योर्विद्धाकृतम् । देशसात्म्यमेतत् । यद्रागवशात्कृतं चिहं वैरूप्यकारणमपि श्लाघ्यते । तैन्नान्यत्र प्रयोक्तव्यमित्याहP -- GOOG कष्टमनार्यवृत्तमनादृतमिति वात्स्यायनः ॥ कष्टमिति दुःखावहम् । निर्दयकर्मत्वात् । अनार्यवृत्तमसाधुचरितम् । अनाहतमित्यनादरणीयम् । दोषावहत्वात् । तथान्यदपि देशसात्म्यात्मयुक्तमन्यत्र न मयुञ्जीत ॥ तथान्यदपि प्रस्तराद्याहननं देशसात्म्यात्प्रयुक्तं दाक्षिणात्यैरन्यत्र नेति । आत्ययिकं तु तत्रापि परिहरेत् ॥ • आत्ययिकं विनाशासवैकल्यकरणं तत्रापि परिहरेत् यत्रापि प्रयुक्तम् । १. ' कीलानि च तयुवती नामुरसि. २. 'एतदिति'. ३. 'व्यस्त - '. ४. 'मिषण-'. '५. 'तेनान्यत्र न'. ६. 'चाम्यदपि', ७. 'सात्म्यप्रयुक्त -'. ८. 'प्रयोकव्यम्'. का० २० १२ आदितोऽध्यायः] तमेवात्ययं दर्शयन्नाह रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान ॥ रतियोगे इति । रत्यर्थे योगे यन्त्रसंप्रयोगे । चोलराजश्चोलविषये राजा । तेन हि चित्रसेना गणिका रतारम्भे दृढमालिङ्गिता सौकुमार्याच्छरीरपीडामभजत् । तथाप्रदर्शितावस्थामपि तां सुकुमारोपक्रमां रागान्ध्यादगणिततद्वलः कीलयोरसि प्रयुक्तया व्यापादितवान् । १५४ कामसूत्रम् । कर्तर्या कुन्तलः शातकणिः शातवाहनो महादेवीं मेलयवतीम् ॥ कुन्तल इति । कुन्तलविपये जातत्वात्तत्समाख्यः । शातकर्णिः शतकर्णस्थापत्यम् । शातवाहन इति संज्ञा । स हि महादेव मलयवतीमचिरप्रतिविहितमौन्द्यामजातबलामपि मदनोत्सवे गृहीतवेषां दृष्ट्वा जातरागस्तामभिगच्छन्रागाक्षिप्तचेताः शिरसि कर्तर्यातिवलया जघान । नरदेवः कुँपाणिविंद्धया दुष्प्रयुक्तया नहीं काणां चकार । नरदेवः पाण्ड्यरॉजस्य सेनापतिः । कुपाणिः शस्त्रप्रहारात्कुणिहस्तः । स हि राजकुले नहीं चित्रलेखां नृत्यन्तीं दृष्ट्वा जातरागः संप्रयोग रा. गान्धो कुपाणित्वाहुष्प्रयुक्तया कपोलतलमप्राप्याक्षिप्राप्तया काणां चकार । संदेशिका नोदाहृता । स्वभावतो नात्ययिकत्वात् । यद्वशादयुक्तं परिहरति [तत्] दर्शयन्नाहभवन्ति चात्र श्लोकाःविद्धया नास्त्यत्र गणना काचिन च शास्त्रपरिग्रहः । प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥ नास्तीति । द्विविधो हि कामी शास्त्रतत्त्वज्ञस्तद्विपरीतश्च । तत्र शा. स्वतत्त्वज्ञस्यात्र प्रहणनविधौ न स्वभावतो गणनास्ति । काचिदिदमात्ययिकमिदम् । इदमित्यपेक्षयेत्यर्थः । न च शास्त्रपरिग्रहः । शास्त्रविहिताननुष्ठानात् । तस्मादस्य प्रवृत्ते रतिसंयोगे राग एवात्र प्रहणनविधौ प्रयोक्तव्ये कारणम् । नापरज्ञानम् । शास्त्रतत्त्वज्ञस्य तु सत्यपि रागे १. 'पचालराज.'. २. क्वचित्पुस्तके 'मलयवतीम्' इति नोपलभ्यते. ३. 'मान्द्यात्'. ४. 'कृपाणि.'; 'विप्राणि:'. ५. 'राजन्यसं. ६. 'लोकाः' इति पुस्तकान्तरे नास्ति, 'गरिका'. ७ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १५५ प्रवृत्तिकारणे ज्ञानमपरं कारणम् । ततश्च विमृश्यकारिणो गणना शास्त्रपरिग्रहश्योमयमेव भवति । तस्मादुमयोरपि प्रवृत्तौ रागः कारणम् । तत्रैकस्य ज्ञानपरिष्कृतोऽन्यस्य तद्विकल इति विशेषः । यदा चानयोरतिप्रवृद्धो रागस्तदा तद्वशाददृष्टश्रुता अपि प्रयोगा भवन्तीति दर्शयन्नाह स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः । सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ॥ स्वप्मेष्वपीति । असंभाव्यवस्तुप्रकाशनयोग्येष्वपि । भावा अपि प्रियाविभ्रमचेष्टितानि । सुरतव्यवहारेषु परस्परचुम्बनाभिगमनादिव्यापारेषु तत्क्षणनिर्मितास्तत्कालकल्पिता । न शास्त्रिता इत्यर्थः । तत्रैकस्य ज्ञानपरिष्कृतत्वाद्रतिजनन एवोत्पद्यन्ते अन्यस्य ज्ञानवैकल्यादत्ययावहा अपीति । तस्मादयं ज्ञानविकलोऽतिप्रवृद्धादागात्प्रवर्तमानोऽत्ययं न पश्यतीति दृष्टान्तेन दर्शयन्नाह यथा हि पञ्चमीं धारामास्थाय तुरगः पथि । स्थाणुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते ॥ एवं सुरतसंमर्दे रागान्धौ कामिनावपि । चण्डवेगौ प्रवर्तेते समीक्षेते न चात्ययम् ॥ यथा हीति । अश्वस्य विक्रमो वैल्गितमुपकण्ठमुपजवो जवश्चेति पञ्चधारागतयस्तुरगशिक्षायामुक्ताः । तत्र पञ्चर्मी जवाख्यां प्रकृष्टामास्थाय । स्थित्वेत्यर्थः । तत्रस्थो हि वायुगतिर्भवत्यश्वः । श्वञं पौरुषं गर्तम् । दरीं देवनिर्मिताम् । एवमिति दान्तिकयोजनम् । सुरतसंमर्दे सुसंकुले । कामिनौ स्त्रीपुंसौ । 'पुमान्स्त्रिया' इत्येकशेषः । यस्माज्ज्ञानवैकल्यादयुक्तं दृश्यते तस्माज्ज्ञानप्रधानेन भवितव्यमिति दर्शयन्नाह तस्मान्मृदुत्वं चण्डत्वं युवत्या वलमेव च । आत्मनश्च वलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥ १. 'चुम्बनालिङ्गनादि . २. 'सप्राप्य'. ३. 'रागातौं'. ४. 'वलित-'. ५. 'ततः'; 'योगान्'. १९६ कामसूत्रम् । १३ आदितोऽध्यायः ] तस्मादिति । मृदुत्वं चण्डत्वमिति । मन्दवेगतां चण्डवेगतां चेत्यर्थः । चलं प्राणः । आत्मनश्च मृदुत्वचण्डत्वे इति योज्यम् । तथेति मृद्वादिम कारेण । प्रयुञ्जीत प्रयोगान् । शास्त्र वित् । अन्यथा शास्त्रज्ञेतरयोः को भेदः स्यात् । वक्ष्यति च—'अस्य शास्त्रस्य तत्त्वज्ञो न स रागात्प्रवर्तते' इति । मृद्रादिभेदेन प्रयोगयोजने सर्वे सर्वदा सर्वास स्त्रीपु स्युरिति चेदाह--न सर्वदा न सर्वासु प्रयोगा: सांप्रयोगिकाः । स्थाने देशे च काले च योग एपां विधीयते ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनप्रयोगास्तयुक्ताञ्च सीत्कृतक्रमाः सप्तमोऽध्यायः । आदितो द्वादशः । न सर्वदेति । तत्र स्थाने प्रयोगो यथा – अपहस्तस्य स्तनान्तरे प्रसृतस्य शिरसीत्यादि । देश इति । प्रयोगविषय इत्यर्थः । यथा मालव्यां प्रहणनस्य आभीर्यामौपरिष्टकस्येत्यादि । युक्तयन्त्रायामपहस्तस्य उत्सगोपविष्टायां मुष्टिरित्यादि कालप्रयोगः ॥ प्रहणनप्रयोगाः पञ्चदर्श प्रकरणम् । तद्युक्ताश्च तदन्तर्गताः सीत्कृतक्रमाः षोडशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धामनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणेकत्रकृतसूत्रभाष्यायां साप्रयोगिके द्वितीयेऽघिकरणे अहणनयोगाः सीत्कृतक्रमाय सप्तमोऽध्यायः । अष्टमोऽध्यायः । एवं प्रहणनादिव्यापारेण परिश्रान्ते नायके नायिका पुरुषवदाचरे दिति पुरुषायितम्, तदुपयोगित्वाञ्च तदन्तर्गतानि पुरुषोपैसृप्तानीति प्रकरणद्वयमत्राध्यान । तत्र कारणान्याह- नायकत्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशमम्, अनुमता तेन तमघोऽर्वेपात्य पुरूपायितेन साहाय्यं दद्यात् । स्वाभि- प्रायाः विकल्पयोज़ेनार्थिनी नायककुतूहलाद्वा ॥ १. 'सीत्कृतोपक्रमा: '. २. 'उवपस्थानीति'. ३. 'रताभ्यास-; 'सतताभ्यास'. ४. 'तमधः पाल्य'; तनवपाल'. ५. 'विकल्पप्रयोजनार्थी'; 'शिल्पप्रयोजनार्थी'. ८ अध्यायः] २ सांप्रयोगिकमधिकरणम् । ११७ नायकस्येति । संतताभ्यासादिति रतस्य पौनःपुन्येनानुष्ठानात् । परिश्रमं सर्वान्तिकं समम् । रागस्य चानुपशममशान्तिमुपलभ्य । तत्राप्यनुमता । तेनेति नायकेन । अननुज्ञाता हि योषिद्विसदृशमाचरन्ती निस्त्रपैव स्यात् । तमधोऽवंपात्य नायकमंघस्तात्कृत्वां । एवं हि पुरुषवदाचरितम् । तेन साहाय्यं सहायकर्म प्रतिपद्यते । कार्यस्यानिष्पन्नत्वात् । खाभिप्रायाद्वेति । अनंनुमंतापि तेन जातविसम्भा । विकल्पं पुरुषायितमेदं योजयितुमर्थिनी । तच्छीलत्वात् । नायककुतूहलाद्वेति । नायकस्यात्र कौतुकमस्तीति ज्ञात्वा वा तेनाननुमता परिश्रान्तस्यापि दद्यादित्येव । L तत्र युक्तयन्त्रेणैवेवरेणोत्थाप्यमाना तमधः पातयेत् । एवं च रतमविच्छिन्नरस तथा प्रवृत्तमेव स्यात् । इत्येकोऽयं मार्गः । पुन- रारम्भेणादित एवोपक्रमेत् । इति द्वितीयः ॥ तत्रेति । पुरुषायिते द्विविधः क्रमः । तत्रायं प्रथमो युक्तयन्त्रेणैवापरित्यक्तशल्यसंयोगेनैव इतरेण नायकेन यसस्थितेनासीनेन चोत्थात्यमाना बाहुपाशसंदानिता सत्युपरि क्रियमाणा तं नायकमवपातयेदिति । एवं सति रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्यात् । यन्त्रं हि विश्लेप्य पुनः संधाने रतमपूर्वमेव स्यात् । न पूर्वप्रकारप्रवृत्तम् । यथाप्रवृत्तश्चात्र रागो विच्छिद्यते । तस्य चाकमाद्विच्छेदे न सौमनस्यमित्यत्र कामिनः प्रमाणम् । अयं मार्गः श्रमवृद्धौ रागस्यानुपशमे द्रष्टव्यः । स्वाभिप्रायादिषु पुनरारम्भेणेति । यदा रतस्य पुनरारम्भस्तदा तेनारम्भेण पुरुषवदादावेवोपक्रमेत् । प्रवृत्ते द्वितीयो मार्गः । नापरस्तृतीयः । यदन्तरा यन्त्रं विश्लेष्य प्रयोक्तव्यम् । पुरुषायितं द्विविधम्, बाह्यमाभ्यन्तरं च । तत्र प्रथममधिकृत्याहसा प्रकीर्यमाणकेशकुसुमा वासविच्छिन्नहासिनी वक्त्रसंसर्गाथे स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याचेष्टाः पूर्वमंसौ दर्शितवांस्ता एव प्रतिकुर्वीत । पातिता प्रतिपातयामीति १. 'रस भवति'. २. 'एको मार्ग:'. ३. 'उपकामेत्'. ४. 'शत्रस्थितेन'. ५. 'अयै प्रदर्शितवान्. १५८ कामसूत्रम् । १३ आदितोऽध्यामः] इसन्ती तैर्जयन्ती प्रतिघ्नती च ब्रूयात् । पुनच ब्रीडां दर्शयेत् । श्रमं विरामाभीप्सां च । पुरुषोपट सैरेवोपसर्पेत् ॥ सेति । स्वशिरसः प्रकीर्यमाणानि केशकुसुमानि चेष्टमानया ययेति विग्रहः । श्वासेन विच्छिन्नो यो हासः सोऽस्ति यस्याः । असदृशव्यापारेण जातश्रमत्वात् । वक्रसंसर्गाथै लज्जया । न तु चुम्बनदशनच्छेद्यार्थम् । स्तनाभ्यामुरो नायकस्य पीडयन्तीति । स्तनोपगूहनमेतत् । पुनः पुनः शिरो नामयन्ती लज्जया । सर्वमेतत्स्त्रैणेन तेजसा चेष्टितमुक्तम् । पौसेनाह—या इति । चेष्टा यांश्चुम्बनादिव्यापारान्पूर्वमसौ दर्शितवान् पारुण्यरमसाभ्यां ता एव प्रतीपं कुर्वीत । तदेव स्फुटयन्नाह – पातितेति । यथाहं त्वया निर्दयरतेन क्लेशिता तथाहं त्वामपि प्रतीपं पातयामीति ब्रूयादिति संबन्धः । तत्रापि हसन्ती, रामसिकतया तर्जयन्ती तर्जन्या, प्रतिघ्नती चात्यर्थमपहस्तादिना । तदुभयं पारुष्यं दर्शयति । ततश्चासौ स्त्रैणतेजःप्रख्यापनार्थमन्त्रीडितापि त्रीडाम्, अश्रान्तापि श्रमम्, रन्तुमिच्छन्त्यपि विरामाभीप्सामुपेत्य दर्शयेत् । पुरुषवदाचरितं हि योपितः पुरुषायितम् । ततश्च पुरुषस्य योषिति यदुपसर्पणमुपसृप्तं तदप्याचरन्त्याः पुरुपायितम् । प्रायशश्च पुरुषोपसृतान्नान्यरपुरुषायितमिति नियमयन्नाह — पुरुपोपसृतैरेवोपसर्पेदिति । तानि च वक्ष्यामः ॥ इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणमिति दर्शयति । तानि द्विविधानि, बाह्यान्याभ्यन्तराणि च । तत्र वाह्यान्याहपुरुषः शयनस्थाया योपितस्तद्वैचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत् । तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत् । स्थिरलिङ्गश्च तत्र तत्रैनां परिस्पृशेत् । प्रथमसंगता चेत्संहतोवरन्तरे घट्टनम् । कन्यायाथ । तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयो-- १. 'प्रतितर्जयन्ती च'. २. 'कुर्यात्'. ३. 'उपसृष्टम्'. ४. 'इति यदुपसर्पणमुपनियमयन्नाद'. ५. 'शयनगताया: '. ६. 'वचनाक्षिप्त-'. ७, 'संहतयोथोर्वो:'. ८. 'स्वनयोहलकक्षयोः संहतयोः'. 3 ३ । ९ यदा पुरुषः प्रयोक्ता तदा पुरुषोपसृतकम्, स्त्री चेत्पुरुषायितमिति दर्शनार्थं पुरुषग्रहणम् । एवं च पुरुषायितन सहास्यं वचनम् । शयनस्थाया इति । शयनात्प्राग्रतारम्भं प्रकरणं वक्ष्यति । तद्वचनव्याक्षिप्तचित्ताया इवेति नायकोक्तिभिरन्यचित्ताया नायिकायाः । लज्जाख्यापनाथै दर्शनायेतीवार्थः । नीवी निवसनबन्धः । तत्रेति विश्लेषणे विवद मानां कर्तुमददत कपोलचुम्बनेन समन्तादाकुल्येत् । यथा नीवी सुखेन संस्थते । स्थिरलिङ्गश्चेति । जातरागत्वात्सिद्धलिङ्गः । तस्यां च जातरागायां सिद्धं कार्यम्, ने चेदत्राह — तत्र तत्रेति । कक्षोरुस्तनादिध्वेनां नायिकां रागजननाथै हस्तेन परिस्पृशेदिति । एतदसकृन्नायक्रेन संगतायामतिविस्रब्धायामुक्तम् । यदि प्रथमसंगता तदास्या नीवीसंसनस्पर्शनं नास्त्येव । लज्जया संहतयोश्चोर्वोरन्तरे च संधौ हस्तेन संघइनं चलनम् । यथा विवृतौ स्याताम् । कन्यायाश्चेति । कन्याविसम्मणे विखन्धाया अप्यस्या लज्जया संहतयोरन्तरे घट्टनं नीवीसंसनं स्पर्शनं च । अस्या अधिकमाह — स्तनयोः संहतयोर्भुजमय्या सूच्या । हस्तयोः परस्पराश्लिष्टयोः प्रत्येकं वा बद्धमुष्टयोः । कक्षयोः प्रत्येकं कृतसंकोचयोः । अंसयोर्हस्तयोजनात् ग्रीवावाहुशिखरयोजनाद्वा संहतयोः । ग्रीवायां हस्तपाशसंश्लेषात्संहतायाम् । संघट्टनमित्येव । खैरिण्यामिति । या नायिका रूढविसम्मत्वात्सुरते निरूपं यथेष्टचारिणी सा स्वैरिणी । अभियोक्रीत्यर्थः । तस्या यथासात्म्यं यथायोगं चेति । यद्येन सात्म्यं यच्च यत्र युज्यते तेत्तस्य स्पर्शनमित्यर्थः । चुम्बनार्थमेनामिति । कृतक्षान्ति पूर्वोक्तां स्वैरिणी चालके निर्दयमवलम्वेत् । इतरस्या इति नायि1 ८ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १५९ ग्रींवायामिति च । स्वैरिण्यां यथासात्म्यं यथायोगं च । अलके चु म्वनार्थमेन निर्दयमबलम्बेत् । हनुदेशे चाङ्गुलिसंपुटेन । तैत्रेत- रस्या व्रीडा निमीलनं च । प्रथमसमागमे कन्यायाश्च ॥ : १. 'अखै रिण्याम्'. २. 'तत्र तत्रेतरत्या'. ३. 'ख्यापनार्थी'. ४. 'नो चेदाह'. ५. 'तत्तत्र'. १६० कामसूत्रम् । १३ आदितोऽध्यायः] कायाः । विधिमाह—या प्रथमसंगता कन्या च तस्या ब्रीडा लज्जा निमीलनं चाक्ष्णोः स्यात् । न त्वतिवि॒िसन्धायाः स्वैरिण्याश्चेति । एवं नीबीविस्रंसनस्पर्शनघट्टनावलम्बनैश्चतुर्भिर्वाद्यैरुपसृतैः शयनस्थां विश्वास्य सांप्रयोगिकांश्चुम्बनादीन्प्रयुञ्जीत । आभ्यन्तराण्यभिघातुमाह रतिसंयोगे चैनां कथमनुरज्यत इति प्रवृत्या परीक्षेत ॥ रतिसंयोगे चेति रत्यर्थे यन्त्रसंयोगे सति । एनामिति बारुपसृप्तां प्रवृत्त्या चेष्टया परीक्ष्य यथाकथंचिदाभ्यन्तरैरुपसपेंदित्यर्थः । तत्र प्रवृत्तिमाह युक्तयन्त्रेणोपसृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेत् । एतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥ युक्तयन्त्रेणेति । यत इति यत्र संवाधस्यान्तरं भागं लैक्षीकृत्य साधनेनोपसृप्यमाणा तत्स्पर्शसुखादृष्टिमावर्तयेदृष्टिमण्डलं भ्रमयेत् तत एवेति तमाश्रित्य पीडयेत् । साघनेनात्यर्थमुपसर्पेत् । तत्र हि पीढनाहूतं रतिमधिगच्छति । एतद्रहस्यम् । स्त्रीभिरप्रकाश्यत्वात् । तथा हि रतिप्राप्त्यर्थमन्यैः प्रकारान्तरमुक्तम् । शास्त्रकृतः सुवर्णनाभमतमभिमतम् । अप्रतिपिद्धत्वात् । अत्र च रतिवन्धनमेको बहव इति केषाचित्प्रदेशविबादः । तत्रोपसृप्यमाणा यस्मिन्नेकस्मिन्नियतेऽनियते वा देशे स्पृष्टा दृष्टिमावर्तयेत्तस्मिन्नेव पीडयेदित्येक प्रकारः । बहुषु वा यस्मिन्नुपसृप्यमाणा दृष्टिमावर्तयेत्तस्मिंस्तस्मिन्नेव पीडयेदिति द्वितीयः । तत्रापि यस्मिन्नत्यर्थं दृष्टिमावर्तयेत्तस्मिन्नत्यर्थमेव पीडयेदिति बोद्धव्यम् । एतेन नाडीप्रदेशा अप्यन्यतन्त्रोक्ता व्याख्याताः । तेषामनेनैव प्रकारेण ज्ञायमानत्वात् । १. 'स्वव्धाया: '. २. 'उपतेः', ३. 'चैपा'. ४. 'तच परीक्ष्य'. ५. 'तत्र तत्रनाम्'; 'तत्रनाम्'; 'तत्र एर्वनाम् ६. 'कक्षीकृत्य'. ७. 'संवन्धनम्'. ८. 'केचित्'. ९. 'अन्यत्रोफा: '. ८ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १९६१ उपसृप्यमाणाया भावस्य तिस्रोऽवस्थाः – प्राप्तः, प्रत्यासन्नः, संधुक्ष्यमाणश्चेति । त्रेयाणां लक्षणमाह गात्राणां स्त्रसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रति- योजनेति स्त्रीणां भावलक्षणम् ॥ तत्र गात्रावसादो नेत्रनिमीलनं च प्राप्तस्य लिङ्गम् । त्रीडानाशो लजानिवृत्तिः । रतियोजनेति रत्यर्थ योजना । यन्त्रयोजनेत्यर्थः । सा खजधनस्य नायकजघनेनात्यन्तलग्नात्समधिकेति प्रत्यासन्नत्य । भावलक्षणमिति प्राप्तप्रत्यासन्नस्येत्यर्थः । संधुक्ष्यमाणस्येत्याह- स्तौ विधुनोति वियति दशत्युत्यातुं न ददाति पादेनाइन्ति रतावमाने च पुरुपातिवर्तिनी ॥ हस्ताविति । विधुनोति कम्पयति । उत्थातुं न ददाति यन्त्रयोगात् । पुरुषातिवर्तिनीति । पुरुषस्य रतिप्राप्तौ तमतिक्रम्य स्वजघनव्यापारेण वर्तत इत्यर्थः । तस्याः प्राग्यन्त्रयोगात्करेण संवाधं गज इव क्षोभयेत् । आ मृ- दुभावात् । ततो यन्त्रयोजनम् ॥ तस्याश्चेष्टितमीदृशं बुद्ध्वा यज्रयोगात्मग्वत्स्वयं रतमँधिगम्य पश्चात्तदानीमस्या रतं विच्छिन्नरसं स्यात् । तञ्चतुर्विघम् । यथोक्तम् – 'अन्तः पद्मदलस्पर्श गुटिकावच योषितः । वॅलिभं च वराङ्गं स्यागोजिहाकर्कशं तथा ॥" इति । तत्राद्यं त्यक्त्वा शेषं कण्डूति हलत्वात्करेण क्षोभयेत् । आ मृदुभावादिति । यावन्मृदुतां गतम् । ततो यन्त्रयोजनम् । मृदुभूते हि तस्मिन्नुपसृप्यमाणा द्रुतं रतिमधिगच्छति । गज इवेति करौपम्यार्थम् । गजाकारेणेत्यर्थः । तथा चोक्तम् – 'अनामिकाप्रदेशिन्यौ लिप्टाग्रे १. 'रागस्य'. २. 'यत्राणाम् ' . ३. 'सखता नेत्रयोः' ४. 'हस्ती धुनोति कम्पते दशति खिद्यति खिद्यते-पुरुपातिवर्तिनी स्यादिति अनधिगतभावलक्षणम्'. ५. 'संक्षोभयेत्'. ६ 'प्राकू'. ७. 'अधिगम्य' इत्यत्र किमपि त्रुटित भाति ८. 'वलिन च'. ९. 'विषयत्वात्. १०. 'क्रोरूपस्यायें', का० २१ कामसूत्रम् । १३ आदितोऽध्यायः] ज्येष्ठया सह । गजहस्ताप्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम् ॥ एवं च क रग्रहणं कृत्रिमसाधनोपलक्षणार्थम् । तेन कृत्रिमेणाभ्यन्तराण्युपसृप्तानि ईष्टव्यानि । तान्याह- उपसृतकं मन्थनं हुलोsवमर्दनं पीडितकं निर्घातो वराहघातो दृपाघातश्चटकविलसित संपुट इति पुरुपोपटप्तानि । न्याय्यमृजुसं- मिश्रणमुपसृप्तकम् । हस्तेन लिङ्गं सर्वतो भ्रामयेदिति मन्थनम् । नीची- कृस जघनमुपरिष्टाद्धट्टयेदिति हुल: । तदेव विपरीतं सरभसमवमर्द - नम् । लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेदिति पीडितकम् । सुदू- रमुत्कृप्य वेगेन खजघनमैवपातयेदिति निर्घातः । एकत एव भू- यिष्ठमवलिखेदिति वराहघातः । स एवोभयतः पर्यायेण नृपाघातः । सकृन्मिश्रितमनिष्क्रमय्य द्विखिश्चतुरिति घट्टयेदिति चटकविलसि- तम् । रागावसानिकं व्याख्यातं करणं संपुटमिति ॥ लिङ्गेन संवाघस्य मिश्रणात्सर्वमेवोपसृप्तकम् । तत्र यहजु प्रगुणं न्याय्यमागोपालाशनाप्रसिद्धं मिश्रणं तदुपसृप्तकमिति कन्प्रत्ययेन विशेपसंज्ञां दर्शयति । हस्तेन लिङ्गं गृहीत्वा संबाधाभ्यन्तरे सर्वतो मैथ्ननिव श्रमयेत् । नीचीकृत्य जघनमिति स्त्रीकाटेमधः कृत्वा । उपरिष्टाद्विति । अभ्यन्तरस्योर्ध्वभागे भगं [व] हुलेनैव लिङ्गेनावघट्टयेत् । तदेवेति घट्टनम् । विपरीतमुच्चीकृत्य जघनमधस्तादिति विशेपश्चापरो यः । सरभसमिति । रभसेन गृह्णीयादित्यर्थः । अधोभागस्य कण्डूतिबहुलत्वात् । लिनेति । वेगादा मूलं प्रवेशमानेन समाहत्य पीडयन्भगमवतिष्ठेत । तिष्ठेत चिरमिति यावन्तं कालं लिभोन्नमनावनमनानि कर्तुं समर्थः । सुदूरमिति । प्रवेशित लिङ्गमा निवन्धमाकृप्य वेगेन जघन एव निर्घातवत्क्षिपेत् । एकत एवेति । एकन्लिन्नेव पार्श्वे भूयिष्ठं वहन्वारान्वराहवद्दंष्ट्रयावलिखेत् । स एवेति वराहस्य घातः । उभय इति । उभयपार्श्वयोः परि १. 'द्रष्टव्यानि । तान्याह' इति पुस्तकान्तरं नास्ति. २. 'मुकरम्'. ३. 'अवपीये ' ' fl Bewf ८ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १६३ पाठ्या वृषभवच्छृङ्गाभ्यामवलिखेत् । सक्कृन्मिश्रितमिति । एकवारं प्रवेशितं लिङ्गमनिष्कमय्यानिष्कास्य बहिरभ्यन्तरमेव किंचिदाकृष्य चटकवत्तत्रैव लिङ्गं संघट्टयेत् । द्विस्त्रिर्वा । प्रकर्षेण चतुरिति । रागावसानिकमेतत् । विसृष्ट्यवस्थायामेव स्वभावत्वात् । व्याख्यातमिति केरणं संपुटम् । तच्च व्याख्यातम् – 'ऋजुप्रसारितावुभयोश्चरणौ' इति । तत्र लिङ्गमनिष्क्रमय्य जघनेन जघनमेवगूथ यत्संमिश्रणं तदपि संपुटमित्युक्तम् । तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥ तेषामिति उपसृप्तकादीनाम् । स्त्रीसात्म्यादिति येन यस्याः सात्म्यं तेन तस्यां प्रयोगः । विकल्पेन मृदुमध्यौतिमात्रभेदेन । तत्र पुरुषोपसृतेपु यद्वाचं नीवीविश्लेषणादिकं तद्वितीये मार्गे नायकर्केक्षाबन्धविश्लेषणादि वाह्यं पुरुषायितम्, यच्चाभ्यन्तरमुपसृप्तं तन्मार्गद्वयेऽप्याभ्यन्तरं पुरुषायितं द्रष्टव्यम् । पुरुषोपसतं प्रकरणमुक्त्वा विशेषाभिघित्सया पुनः पुरुषायितमाह - पुरुषायिते तु संदंशो भ्रमरकः भेङ्गोलितमित्यधिकानि ॥ पुरुषायिते त्विति । अभ्यन्तरे पुरुषायिते प्रवर्तमानायास्त्रीण्यधिकानि । वीडवेन लिङ्गमवगृह्य निष्कर्षन्त्याः पीडयन्सा वा चिराव- स्थानं संदेशः ॥ वाडवेनेति वराङ्गौष्ठसंदंशेन लिङ्गमवगृह्य निष्कर्षन्त्या अन्तः समाकर्षन्त्याः स्थानमवस्थितिः । युक्तयत्रा चक्रवद्धमेदिति भ्रमरक आभ्यासिकः ॥ युक्तयन्त्रेति । भगप्रवेशितलिङ्गा कुलालचक्रवत्कुश्चितचरणा नायकाने हस्ताभ्यां शरीरावष्टम्भं कृत्वा भ्रमयेत् । अयमभ्यासाद्भवति । तत्रेतरः स्वजघनमुत्क्षिपेत् ॥ १. 'करणसंपुटम्'. २. 'अवगुह्य'; 'अवगृह्य'. ३ 'अधिमात्र- '. ४. 'करव्यावन्ध - . ५. 'भ्रमकरम्.' ६. 'वाडवकेन'. 'निष्कर्षयन्त्याः'. ८. 'चिरमवस्थानम्'. १६४ कामसूत्रम् । १३ आदितोऽध्यायः] तत्रेति भ्रमरके । इतरो नायको यन्त्राविश्लेषार्थ अमरकसौकर्याय न स्वजघनमूर्ध्वं क्षिपेत् । जयनमेव दोलायमानं सर्वतो भ्रामयेदिति भेहोलितकम् ॥ दोलायमानमिति पृष्ठतो नीत्वाग्रतो नयेत् । ऐकं पार्श्वे नीत्वा द्वितीयमित्येवम् । तत्प्रेङ्खणात्प्रेङ्खोलितकम् । मण्डलेन तु अमितं मन्थनान्तर्भूतम् । तेषां पुरुषसात्म्याद्विकल्पेन च प्रयोग इत्यत्रापि योज्यम् । युक्तयत्रैव ललाटे ललाटं निघाय विश्राम्येत ॥ युक्तयत्रैव विश्राम्येत न विश्लिष्टयन्ना । रागस्यानुपशान्तत्वात् । ललाटे ललाटं निधायेति श्रमापनयनकारणम् । विश्रान्तायां च पुरुषस्य पुनरावर्तनम् । इति पुरुषायितानि ॥ पुनरागमनं पुनरुपरि गमनमित्यर्थः । रत्यधिगमा परिश्रान्तायां पुनरावर्तनमित्यर्थोक्तम् । यथा रतपरिश्रान्तेन साहायकार्ये पुरुषायितेऽनुमन्यते तथा तत्स्वभावप्रतिपत्त्यर्थमिति । तत्र नियोज्यादि दर्शयन्नाह - भवन्ति चात्र श्लोकाः- प्रच्छादितस्वभावापि गूढाकारापि कामिनी । वितृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥ प्रच्छादितस्वभावापीति लज्जया प्रच्छादितोऽभिप्रायो यया । कथमित्याह — गूढाकारेति । अभिप्रायसूचकस्याकारस्य गोपितत्वात् । साप्युपरिवर्तिनी कामयमाना स्वभावमात्मीयमभिप्रायं रागात्प्रकाशयति न गृहितं शक्नोति । अतो नियोज्यम् । तदेव स्फुटयन्नाह ययाशीला भवेन्नारी यथा च रतिलालसा । तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ॥ यथाशीलेति । यादृशः खभावो यस्याः । यथा च रतिलालसा येन प्रकारेण रतौ जाततृष्णा । तस्या उपरिवर्तिन्या विचेष्टाभिस्तत्प्रकाराभिः । १. 'सर्वत्र'. २. 'कथम्'. ३. 'विश्रान्ताया: '. ४. 'च'. ५. 'जूट रागा' ९ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १६५ तत्सर्वमिति शीलं रतिप्रकारं च सर्वमुपलक्षयेत् । येनोत्तरकाले तथैव सुरते समुपक्रमेत । 3 तत्रापवादमाह- न त्वेवर्तौ न भैसूतां न मृग न च गर्भिणीम् । न चातिव्यायतां नारी योजयेत्पुरुषायिते ॥ d इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः । आदितस्त्रयोदशः । न त्वेवेति । ऋतौ न योजयेत् । गर्भाग्रहणभयात् । पुनरावर्तने च गर्म- ग्रहणाद्दारकदारिके व्यस्तशीले स्याताम् । न प्रसूतामचिरप्रसूताम् । प्रदरकटिनिर्गमभयात् । न मृगीम् । वृषाश्वयोरवपाटिकाभयात् । न ग- र्मिणीम् । गर्भस्रावमयात् । नातिव्यायतामतिस्थूलाम् । व्यापारयितुमश- क्यत्वात् ॥ पुरुषायितं सप्तदशं प्रकरणम् । तदन्तर्गतानि पुरुषोपसृप्तान्य- ष्टादशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां साप्रयोगिके द्वितीयेऽधिकरणे पुरुषायितं पुरुषोपटतानि चाष्टमोऽध्याय । नवमोऽध्यायः । आलिङ्गनादिपुरुषायितान्तं चतसृषु नायकासूक्तम्, 'तृतीयाप्रकृतिः पञ्चमीत्येके' इत्युक्तम्, तद्विषयमौपरिष्टकमुच्यते द्विविधेत्यादिना । द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥ तृतीयाप्रकृतिर्नपुंसकम् । स्त्रीरूपिणी स्त्रीसंस्थाना । स्तनादियोगात् । पुरुषरूपिणी पुरुषसंस्थाना । इमञ्जुलोमादियोगात् । यद्वृत्तिमाश्रित्यौपरिष्टकमनयोस्तदुच्यते । १. 'सत्युपक्रमेण' २. 'प्रजाताम्'. १४ आदितोऽध्यायः ] तत्र पूर्वमधिकृत्याह- तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्घतामसहिष्णुतां व्रीडां चानुकुर्वीत ॥ तत्रेति । तयोः सम्यक्स्त्रीत्वख्यापनार्थं तावत्स्त्रीघर्मानुकरणम् । तत्र वेषं केशपरिधानादिविन्यासेन, आलापं काकल्यनुगतम्, लीलां मन्थरादि- गमनम्, भावं हावादिकम्, मृदुत्वमकार्कश्यम्, भीरुत्वं भयशीलताम्, मुग्ध- तामृजुताम्, असहिष्णुतां प्रहणनवातातपाद्यक्षमताम्, ब्रीडां लज्जामनुकुवत। तस्या बढ़ने जघनकर्म । तदोपरिष्टकमाचक्षते ॥ तस्या इति स्त्रीधर्माननुकुर्वत्या । मुखे जघनकर्मेति स्वरूपाख्यानम् । भगे लिङ्गेन यत्कर्म तन्मुखे क्रियमाणमौपरिष्टकम् । आचक्षत इति पूर्वाचार्यकृतेयं संज्ञा । उपरिष्टान्मुखे भवतीत्यण् । 'अव्ययानां भमात्रे टिलोपः' । पश्चात् 'संज्ञायां कन्' । 'अमेहक्वतसित्रेभ्य एव' इति परिगणनात्त्यन्न भवति । १६६ कामसूत्रम् । फलमाह- सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सेत् । वेश्यावञ्चरितं प्रकाशयेत् । इति स्त्रीरूपिणी ॥ सा तत इति । औपरिष्टकाद्वति प्रीतिमामिमानिकीं प्रागुक्तलक्षणाम् । वृत्ति जीविकाम् । भाटीलाभात् । चरितमिति वेश्याया वृत्तं वैशिके वक्ष्यति । तद्वेश्येव प्रकाशयन्ती गम्यैरभिगम्यमाना रतिं धृति वा प्राप्नोति । द्वितीयामधिकृत्याहपुरुषरूपिणी तु मच्छन्नकामा पुरुषं लिप्समाना संवाहकभावसुपजीवेत् । संवाहने परिष्वजमानेत्र गात्रैरुरूनायकस्य भृगीयात् । भैसृतपरिचया चोरुमूलं सजघनमिति संस्पृशेत् । तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्येन परिघट्टयेत् । चापलमस्य कुत्सयन्तीव हसेत् । कृतलक्षणेनाप्युपलव्धवैकृतेनापि न चोद्यत इति चेत्स्वयमु१. 'उपचरेत् । संवाहनेन च परिष्वजन्ती'. २. 'गृहीयात्'. ३. 'प्रसृतपरिचयोरुमूलं संस्कृती स्थिरलिङ्गतामत्रोपलभ्य'. ९ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १६७ पक्रमेत् । पुरुषेण च चोद्यमाना विवदेत् । कृच्छ्रण चाभ्युपगच्छेत् ॥ तुशब्दो विशेषणार्थः । रतिरौपरिष्टकं च तुल्यम् । वृत्तं तु पृथगिति । यदाह — प्रच्छन्नकामेति । आभिमानिकी प्रीतिः कामः स प्रच्छन्नो यस्याः । सा पुरुषरूपिणीत्वात्पुरुषेण सहसा न संप्रयुज्यत इति लब्धुमिच्छन्ती । संवाहकभावमुपजीवेदिति । लोकेऽङ्गमर्दनकर्मणा जीवेदित्यर्थः । एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनार्थमाह —तत्रेति । संवाहने संविष्टस्य नायकस्योरू खगात्रैरपवृत्तपरिचयत्वादुपगूहमानेव मृद्रीयात् । एवं मृद्गती प्रसृतपरिचया चेदूरुमूलमपि संस्पृशेत् । सजघनमिति । लिङ्गस्थानं त्यक्त्वा सह जघनस्य स्तोकेन भागेनोरुमूलमित्यर्थः । स्थिरलिङ्गतामिति सजघनमागोरुमूलसंस्पर्शात्स्तब्धलिङ्गताम् । पाणिमन्थेनेत्यागोपालादिप्रतीतेन लिङ्गं घट्टयेत् । न यथाकथंचित् । चापलं कुत्सयन्तीवेति । ईदृशस्तु चपलो यदूरुस्पर्शमात्रेण स्तब्धलिङ्गोऽसीति निन्दयन्ती स्वाभिप्रायख्यापनार्थं हसेत् । न तु रुष्यात् । कृतलक्षणेनापीति । स्तव्धलित्वं रागस्य लक्षणम् । तत्कृतं यस्य नायकस्य । उपलब्धवैकृतेनेति ज्ञातमुखचापलेन यदि न चोद्यते कुरु मुखचापलमिति तदा तस्मिन्स्वयमेव विना चोदनयोपक्रमेत् । पुरुषेण तूपलब्धवैकृतेनानुपलव्धवैकृतेन वा चोद्यमाना नाहमेवंविधं कर्मेति सहसाङ्गीकारप्रतिषेधार्थी विवदेत् । तदेव स्फुटयति- कृच्छ्रेण चेति । स्त्रीरूपिणी तु प्रकटकामत्वादचोदिताप्यादित एवोपक्रमेत् । तैस्य क्रियामेदाद्भेदमाहतत्र कर्माष्टविधं समुच्चयप्रयोज्यम् । निमितं पार्श्वतो दष्टं वहि:संदंशोऽन्तः संदंशत्रुम्वितकं परिसृष्टकमाम्रचूषितकं संगर इति ॥ तत्रेत्यौपरिष्टके । समुच्चयप्रयोज्यमिति । क्रमेण सर्वे समुच्चयेन योज्यमित्यर्थः । १. 'पुरुपेण नु', 'पुरुपेणानु'. २. 'गृह्णीयात्'. ३. 'अज्ञात'. ४. 'हसन्ती करणप्रतिषेधार्थम्'. ५. 'तस्या.. ११८ कामसूत्रम् । १४ आदितोऽध्यायः] ----- तत्रापि नात्माभिप्रायेणेत्याहतेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥ तेष्विति निमितादिषु एकैकं प्रथमात्मभृत्युपगम्य कृत्वा परित्यागेच्छां दर्शयेत् । कौतुकजननार्थमभ्यर्थनयापरं गते किं प्रतिपद्यत इत्याह- प्रयोक्ष्यामीति नायकोऽप्येकस्मिन्नभ्युप- इतरथं पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् । तस्मिन्नपि सिद्धे तदुत्तरमिति ॥ इतरश्चेति नायकः । पूर्वसिन्निति निमिते । तदुत्तरमिति तस्मान्निमितादनन्तरं पार्श्वतो दष्टम् । निर्दिशेदिदं च कुर्विति । तस्मिन्नपि पार्श्वतो दष्टे क्रियया सिद्धे तदुत्तरं बहिःसंदंशमिति । अनेन क्रमेण सर्वे समुचयेन निर्दिशेत् । स्वरागपरिसमाप्त्यर्थं तस्माच्चाभिमानिकसुखजननार्थ नायिकापि तथैव प्रयुञ्जीतेत्ययं चोदनायां विधिः । स्वयमुपक्रमे च स्वामिप्रायेणैव समुच्चये प्रयोज्यम् । S तत्कर्म द्विविधम् – बाह्यम्, आभ्यन्तरं च । तत्र बाह्यमाह -- कॅरावलम्वितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुयात् । तन्निमितम् ॥ करावलम्बितमिति अवनमनवारणार्थे करेण गृहीतमोष्ठयोरुपरि विन्यस्तमग्रभागनापविध्येत्योष्ठेन वर्तुलीकृतेनावष्टभ्य मुखं खं वि धुनुयात्कम्पयेत् । ओष्ठयोरुपरि विन्यस्तत्वान्निमितम् । हस्तेनाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्टाभ्यामवपीड्य भवत्वे- तावदिति सान्त्वयेत् । तत्पार्श्वतो दष्टम् ॥ हस्तेनावच्छाद्य मुष्टिग्रहणेन ततः पार्श्वतो लिङ्गमोष्ठाभ्यामवपीड्य । निर्दशनमिति क्रियाविशेषणम् । देन्तवर्जमित्यर्थः । दन्तैस्तु ग्रहणमस्ति । १. 'प्रतिपाद्यते'; 'प्रतिपाद्यं ते. २. 'तु'. ३. 'तदनन्तरम्'. ४. 'तस्मिन्'. ५. 'क्रियासिद्धे'. ६. 'समुच्चयप्रयोज्यम्'. ७. 'करालम्चितमोष्ठोपरि'. ८. 'अवस्थाप्य'. ९. 'दशनवर्जम्'. ९ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १६९ यदाह — भवत्वेतावदिति । एतावदेवास्तु । तद्ब्रहणेन परं खण्डनमिति सान्त्वयेत् । भूयथोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कंर्षयन्तीव चु- म्वेत् । इति बहिःसंदेश: ॥ भूयश्चोदितेति । पार्श्वतो दष्टे संचोदिता पुनरन्यत्र चोदिता । खय- मुपक्रमे त्वचोदितैव संमीलितौष्ठी लिङ्गस्याग्रमन्तः प्रवेश्य मीलितावोष्ठौ यया सा । ताम्यामेव निष्पीढ्य कर्षयन्तीव चुम्बेदिति । ओष्ठाभ्यामे- वास्य कर्षणं कुर्वाणेव त्यजेदित्यर्थः । बहिःसंदंशश्चर्मणो बहिःसंदंशनात् । आभ्यन्तरमाह- तस्मिन्नेवाभ्यर्थनया किंचिदधिकं प्रवेशयेत् । सापि चाग्रमोष्ठा- भ्यां निष्पीड्य निष्ठीवेत् । इत्यन्तःसंदंशः ॥ तस्मिन्निति बहिःसंदंशे क्रियमाणे । अभ्यर्थनया याचनया । किंचिदधिकमिति निष्कास्य ग्रन्थि यावन्नायकः प्रवेशयेदित्ययं चोदनापक्षः । स्वयमुपक्रमे तु किंचिदधिकं प्रवेश्यामं मणिबन्धमोष्ठाभ्यां निष्पीड्य निठीवेन्निरस्येत् । अन्त. संदंशो निष्कोशितस्य संदंशनात् । करावलम्बितस्यौष्ठवग्रहणं चुम्बितकम् ॥ ओष्ठवदिति यथाधरौष्ठस्यौष्ठाभ्यां ग्रहणं तथा निष्कोशितस्येति चुम्बितकं समग्रहणाख्यम् । तत्कृत्वा जिह्वाग्रेण सर्वतो घट्टनमैत्रे च व्यघनमिति परिम कम् ॥ तदिति चुम्बितकं कृत्वा । अन्यथा ह्ययोगात् । जिह्वाग्रेणान्तः पंरित्रमता सर्वतो घट्टयेत्स्पृशेत् । अग्रे च व्यधनं स्रोतःस्थाने ताडनं जिह्वाग्रेणैव । परिमृष्टकं समन्तात् [परिमर्षणात् ] । तथाभूतमेव रागवशादर्घप्रविष्टं निर्दयमवपीड्यावपीड्य सुचेत् । इत्याम्रचूपितकम् ॥ १. 'कर्षयन्ती विमुश्चेत्'. २. 'याच्नया'. ३. 'निष्कामस्य'. ४. 'निष्कासितस्य'. ५. 'अप्रेण च तद्व्यधनम्'. ६. 'परिभ्रमिता. का० २२ कामसूत्रम् । १४ आदितोऽध्यायः] तथाभूतमेवेति निष्कोशितमेव । रागवशादिति । नायकस्य रागाधिक्यात् । तदर्धप्रविष्टकं निर्दयमत्यन्तम् । अवपीड्यावपीयेति जिहौष्ठपुटेन द्विस्खिरवपीड्यावपीढ्य मुश्चेदभ्यन्तर एव । तदाग्रस्येव चूषितकम् । पुरुषाभिमायादेवं गिरेत्पीडयेच्चापरिसमाप्तेः । इति संगरः ॥ पुरुषामिप्रायादेवेति पुरुषाभिप्रायमेव बुद्धा प्रत्यासन्नास्य रतिरिति गिरेत् । पीडयेश्चेति । जिह्वाव्यापारेण पीडयित्वा गिरेत् । ओष्ठव्यापारेण पीडयेत् । आ समाप्तेरिति शुक्रविसृष्टिं यावत् । संगरः समन्ताद्गिरणात् । यथार्थ चात्र स्तननग्रहणनयोः प्रयोगः । इत्यौपरिष्टकम् ॥ यथार्थमिति । यथा राँगो निमितादिषु मृदुमध्याधिमात्रेण स्थितस्तथा स्तननप्रहणनयोः प्रॆयोगः । आलिङ्गनादीनामत्रासंभवात् । इत्यौपरिष्टकमिति । एवं विपयखरूपफलप्रवृत्तिप्रकारैरौपरिष्टकमुक्तम् देशसात्म्यवशादविषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह । कुलटाः स्खैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति । कुलटा इति । याः स्वं कुलमन्यद्वा सदृशमटन्त्यो भ्रष्टशीलास्ताः कुलटाः । याः सदृशमसदृशं वा कुलमविचार्य स्वच्छन्दचारिण्यस्ताः खैरिण्यः । या अन्यपूर्वा वा मुक्तप्रग्रहा नायकमुपचरन्ति ताः परिचारिकाः । याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः । एतत्प्रयोजयन्तीति । औपरिष्टकं कारयन्ति । न केवलं तृतीया प्रकृतिरित्यपिशव्दार्थः । तदेतत्तु न कार्यम् । समयविरोधादसभ्यत्वाच्च । पुनरपि ह्यासां बदनसंसर्गे स्वयमेवाति प्रपद्येत । इत्याचार्याः ॥ तदेतत्तु न कार्यमिति प्रयोज्यमानमपि समयविरोधादिति । धर्मशास्त्रे प्रतिषिद्धमेतत् । 'न मुखे मेहेत' इति । असभ्यत्वाच्चेति । सद्भिर्गर्हितत्वादसभ्यम् । तस्मादसभ्यत्वात् । प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव दोषः । अयं चापर इत्याह — पुनरपि हीति । यदि हि कुलटादीनां मुखे जघन१७० १. 'अवगिरेत्'. २. 'पिण्डवत्'. ३. 'स्तनप्रहणनयोगा'; 'प्रयोगा: '. ४. 'रागार्यो'. ५. 'प्रयोगा: '. ६. 'अनन्यपूर्वा'. ७. 'समवायविरोधात्'. ९ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १७१ कर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्गे संस्पर्शे सति अर्ति प्रतिपद्येत दुःखमधिगच्छेत् । विटालितोऽस्मीति स्वयमेवेति । न तत्र नायिकापि । वेश्याकामिनोऽयमदोषः । अन्यतोऽपि परिहार्यः स्यात् । इति वात्स्यायनः ॥ वेश्याकामिन इति । कुलटादयो वेश्याविशेषाः । तत्कामिनो नायकस्यादोषोऽयमिति । समयविरोधादित्ययं दोषो न भवतीत्यर्थः । पैल्याश्वौपरिष्टकादौ दोषः । 'न मुखे मेहेत' इति । यदाह वसिष्ठः – 'यस्तु पाणिगृहीतायां मुख मैथुनमाचरेत् । पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ॥ इति । अन्यतोऽपि परिहार्य इति । असभ्यत्वाद्वदनसंसर्गाच्च । असभ्यत्वमर्तिश्चेत्ययं दोषः परिहार्यः । गुप्या चक्रभक्षणाच्च । कस्यचि द्देशमैवृत्तेरदोषत्वादपरिहार्य इत्यपिशव्दात् । उभयमपि देशप्रवृत्त्या दर्शयन्नाह तस्माद्यास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते माच्याः ॥ तस्मादिति । यतश्चैवं तस्मान्न संसृज्यन्त इति संबन्धः । यास्त्विति । या वेश्यास्तु औपरिष्टकमाचरन्ति मुखे जघनकर्म कुर्वन्ति न ताभिः सह संसृज्यन्ते संप्रयुज्यन्ते । मा भूत्तद्वदनसंसर्ग इति । अन्याभिरदृष्टदोर्पत्वात्संसृज्यन्त ऍवेत्यर्थोक्तम् । प्राच्या अज्ञात्पूर्वेण । वेश्याभिरेव न संसृज्यन्ते आहिच्छत्रिका: संसृष्टा अपि मुख- कर्म तासां परिहरन्ति ॥ आहिच्छत्रिका अहिच्छत्रभवा न संसृज्यन्ते । अदृष्टमश्रुतमप्यौपरिष्टकं तासु संभाव्यत इति । संसृष्टा अपि त एव कथंचिद्रागवशात् । मुखे कर्म चुम्बनम् । १. 'स्यात्' इति पुस्तकान्तरे नास्ति. २. 'पत्न्या त्वौपरिष्टकाशेष . ३. 'प्रवृत्ति'. 'सप्रयुज्यन्ते'. ५ 'या स्थितिवेश्यास्तु' ६. 'विषयत्वात्'. ७. 'एवार्योकम्. ८. 'वेश्यामिर्मुखे न'. १७२ निरपेक्षाः साकेता: संसृज्यन्ते ॥ साकेता आयोध्यकाः । ते निरपेक्षाः । वेश्यानां संप्रयोगे मुखकर्मणि च शौचागौचविकल्पाभावात् । न तु स्वयमौपरिष्टकमा चरन्ति नागरकाः ॥ नागरका: पाटलिपुत्रकाः संप्रयुज्यन्ते वेश्यामिः न तु खयं तासां मुखे जघनकर्म कुर्वन्ति । मा भूद्वदनसंसर्ग इति । प्रयोजितास्त्वाचरन्ति बदनसंसर्गवर्जम् । कामसूत्रम् । • १४ आदितोऽध्यायः] सर्वमविशङ्कया प्रयोजयन्ति सौरसेनाः ॥ सर्वमिति । संप्रयोगमौपरिष्टकं मुखकर्म च । अविशङ्केति । सर्वे शुचीत्यभिप्रायेणेत्यर्थः । सौरसेनाः कौशाम्ब्या दक्षिणतः कूले ये निवसन्ति । शङ्कायां हि खभार्यास्वप्यनाश्वस्त[ता]मेव दर्शयन्नाह एवं ह्याहुः – को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुमर्हति । निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः । तस्मादासां स्मृतित एव शौचमन्वेष्टव्यम् । एवं चाहु:'वत्सः मस्रवणे मेध्यः वा मृगग्रहणे शुचिः । शकुनिः फैलपाते तु स्त्रीमुखं रतिसंगमे ॥' इति ॥ एवं हीति । शीलं स्वभावं शौचमशुचिद्रव्यविश्लेषणं आचारं त्रयीकर्मानुष्ठानं चरितं कुलक्रमागतां स्थितिं प्रत्ययं विश्वासं वचनं वल्गितकं कः श्रद्धातुमर्हति । परमार्थतः प्रत्येतुं नैवेत्यर्थः । कुत इत्याह - निसर्गादेवेति । आत्मलाभादेव नान्यस्मात् । मलिनदृष्टयो मलिनवुद्धयः । यल्लोकशास्त्रविरुद्धमप्याचरन्ति । न च परित्याज्याः । एवंभूता अपि पुरुषार्थहेतुत्वात् । तेस्माद्रतविधौ स्मृतित एव शौचमन्वेष्टव्यम् । लोके स्मृतेः प्रामाण्यात् । तां स्मृतिमाह — एवं हीति । आह स्मृतिकारः । मुखवर्जे । गौः सर्वतो मेध्येत्युक्तम् । प्रसवणकाले तु मुखं शुचि । उच्छिष्टं क्षीरम १. 'भवन्ति' इति पुस्तकान्तरे नास्ति. २. 'पातेषु'. ३. 'वचनवगितं वा. ४. 'प्रत्येक'. ५. 'तस्या व्रतविधौ'. ९ अध्यायः] २ सांप्रयोगिकमधिकरणम् । १७३ पि । श्वपक्ष्युच्छिष्टं त्यजेदित्युक्तम् । मृगग्रहणफलपातकाले तु मुखस्य शुचित्वान्मांसं फलं च शुचि । तथा रतिसंगमे रत्यर्थसंगमे स्त्रीमुख कृतौपरिष्टकमन्यद्वा मेध्यम् । अन्यदा सर्वाशुचिनिधानत्वादिति । अस्मिन्स्मृत्यर्थे सर्वत्र चुम्बनप्रसङ्ग इति । स्वमतं दर्शयन्नाह शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरा- त्मनश्च वृत्तिप्रत्ययानुरूपं भवर्तेत । इति वात्स्यायनः ॥ शिष्टविप्रतिपत्तेरिति । शिष्टाना प्राच्याहिच्छन्त्रिकनागरकाणां विप्रतिपत्तिर्दृश्यते । यथोक्तम्– 'विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा । स्मृतिर्न श्रुतिमूला स्याद्या चैषा संवनश्रुतिः ॥ इति । अत्रोत्तरमाह सावकाशत्वादिति । पत्नीमेवाधिकृत्येत्युक्तम् – 'स्त्रीमुखं रतिसंगमे' इति । यद्येवं वेश्यासु चुम्बनविकल्पानर्थक्यमित्यत्र पाक्षिकमभ्यनुज्ञानमाहदेशस्थितेरिति । यो यस्मिन्देशे आचारस्तदनुरूपं प्रवर्तेत । देशाचारस्य तत्रत्यानां प्रामाण्यात् । वृत्तिप्रत्ययानुरूपमिति । यथा सौमनस्यं यथा च विश्वासस्तथा प्रवर्तेत । न शास्त्रेणैव केवलेनेति । इदं स्त्रीविषयमसाधारणमौपरिष्टकमुक्तम् । स्त्रिया एव कर्तृत्वात् । पुरुषविषयमाह भवन्ति चात्र श्लोकाः मैमृष्टकुण्डलाथापि युवानः परिचारकाः । केषांचिदेव कुर्वन्ति नराणामौपरिष्टकम् ॥ प्रमृष्टकुण्डला इति । उज्ज्वले कुण्डले येषामिति नेपथ्योपलक्षणम् । गृहीतनेपथ्या इत्यर्थः । युवानः प्राप्तरागत्वात्कर्तुं कुशलाश्चेटस्वरूपाः परिचारकाः । नान्ये । दोषात् । यॆथोक्तम् – 'अजातश्मश्रवश्वेटा वि. श्वास्या मुखकर्मणि । योज्या गृहीतनेपथ्या नेतरे श्मश्रुदोषतः ॥ इति । केषांचिदिति । ये मन्दरागा गतवयसोऽतिव्यायता ये च स्त्रीप्वलव्धवृत्तयः । १. 'सौरसेनमत'. २, 'प्रकृतिप्रत्यया- '. ३. 'सुमृष्ट-'. ४. 'केषाचिदवकुर्वन्ति'; 'केषाचिदेतत्कुर्वन्ति'; 'केषाचिदेतत्कुर्वन्ति'. ५. 'यथा चोकम् . कामसूत्रम् । १४ आदितोऽध्यायः] इदमप्यसाधारणम् । एकस्यैव कर्तृत्वात् । द्वयोः कैर्तृत्वे साधारणम् । यदाह १७४ तथा नागरकाः केचिदन्योन्यस्य हितैषिणः । कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ॥ तथेति । नागरका ये नागरवृत्तावधिकृताः । केचिदिति योषाप्रायाः । हितैषिणः । विसृष्टिसुखकारित्वात् । रूढविश्वासा मैत्रया । परस्परपरिग्रहमिति । मम तावत्कुरु पश्चात्तवापि करिष्यामीति । युगपद्वा देहव्यत्यासेन रागात्कालमनपेक्षमाणाविति द्विविधम् । साधारणमित्युपलक्षणम् । स्त्रियोऽपि कुर्वन्ति । यथोक्तम् – 'अन्तःपुरगताः काश्चिदप्राप्तभाण्डका (?) स्त्रियः । भगे ह्यन्योन्यविश्वासात्कुर्वन्ति मुखचापलम् ॥' इति । पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते । व्यासस्तस्य चॅ विज्ञेयो मुखचुम्बनवद्विधिः ॥ तथा स्त्रीष्विति । तथा स्त्रियः पुरुषेषु तथा स्त्रीषु पुरुषाः परिचारका नायका वा केचिद्भगे मुखेन कर्म कुर्वन्ति । किलेति संभावनायाम् । तस्य चेति पुरुषकर्तृकस्य । व्यासः प्रकारः । मुखचुम्बनवदिति । कन्याचुम्बने निमितादिना अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासंभवं विज्ञेयः । तत्र परिचारके कर्तर्यसाधारणं नायकेऽपि तु साधारणमपि संभवति । तच्च युगपत्परिपाट्या वा । तत्र युगपत्कथमित्याह परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् । युगपत्संगँयुज्येते से कामः काकिलः स्मृतः ॥ परिवर्तितदेहाविति । पार्श्वसंपुढे पुमान्त्रियामूर्वोः शिरो निधत्ते स्त्री च पुंस इति युगपत्संप्रयुज्येते । एकस्मिन्काले मुखेन परस्परोपस्थेन्द्रियग्रहणात् । काकिलः स्मृत इति । स्त्री पुमांश्च काक इव काकः । मुखेना१. 'एकस्यैक-'. २. 'कर्तृत्वात्'. ३. 'गूढविश्वासा: '. ४. 'प्रायः परपरिग्रहम्'. ५. 'तु'. ६. 'यत्परं रते'. ७. 'सप्रयुआाते'. ८. 'कोकिलः स किलोच्यते'; 'कामः स किल काकिल:. ९ अध्याय:] २ सांप्रयोगिकमधिकरणम् । १७५ मेध्यग्रहणात् । तौ विद्येते यस्मिन्काम इति । पिच्छादिषु द्रष्टव्यम् । ककनं वा काको लौल्यम् । 'कक लौल्ये' इति धातुपाठात् । तद्विद्यते ययोः स्त्रीपुंसयोरितीनिप्रत्ययः । तौ लात्यादत्त इति । नरयोषितोश्च परिवर्तितदेहयोर्व्याख्यातः । तत्र साधारणासाधारणयोरसाघारणं श्रेयः । ततोऽपि परिचारकविषयं हि खलसंसर्गादि परिशुद्धमिति दर्शयन्नाहC तस्माद्भुणवतस्यक्त्वा चतुरांस्त्यागिनो नरान् । वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥ तस्मादिति । गुणवतो नायकगुणयुक्तान् । चतुरान् लोकयात्राकुश- लान् । त्यागिनो दानशूरान् । वरानभिजनाद्युपेतान् । खलेषु नीचेषु । तानेव दर्शयति – दासहस्तिपकादिष्विति । रज्यन्त इति स्वभावाख्या- नम् । अशिष्टधर्माचरणाद्वा । तेषु च रक्ता अपरचरितमपि प्रकाशयन्ति । । न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः । गृहीतमययो वापि कारयेदौपरिष्टकम् ॥ न त्वेतदिति । नैवं वेश्याभिः कारयेत् । ब्राह्मणो विद्वान् श्रुतिस्मृत्यर्थतत्त्वज्ञः । मन्त्री राजधूर्धरः प्राधान्येन यो राज्यं संवाहयति । समासान्तो 'अ' अत्रानित्यत्वान्न भवति । अन्यो वा कश्चिद्गृहीतप्रत्ययो लोके विश्वास्यः । तासु क्रियमाणं लोके लब्धसमाख्यानं गौरवं व्यावर्त यति । अतो मा भूद्वदनसंस्पर्शदोषः । असभ्यत्वदोषस्तु दुर्निवारो नेतरेषाम् । अविवक्षितत्वात् । ननु च व्यासस्तन्मुखचुम्बन द्विधिरिति शास्त्रेऽभिहितत्वात्साधारणस्यापि प्रयोगप्रसङ्ग इत्याहन शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् । शास्त्रार्थान्व्यापिनो विद्यात्मयोगांस्त्वेकदेशिकान् ॥ न शास्त्रमिति । अभिधायकं शास्त्रमस्तीति नैतावत्प्रयोगे कारणम् । शास्त्रार्थान्व्यापिन इति । आलिङ्गनादेरर्थस्य रत्यौपयिकत्वात् सर्वानेव १७६ कामसूत्रम् । १४ आदितोऽध्यायः ] कामिनोऽधिकृत्य प्रवृत्तत्वात् । प्रयोगानेकदेशिकान् । कस्यचिदेवार्थस्य शिष्टैः प्रवर्तनात् । अयं च न्यायोऽन्यत्रापीत्याह--- रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । कीर्तिता इति तल्कि स्याद्भक्षणीयं विचक्षणैः ॥ रसवीर्यविपाका इति । रसो मधुरादिः । वीर्ये सामर्थ्यम् । विपाक उपयुक्तस्य परिणतौ मधुरादिः । श्वमांसस्यापि कीर्तिता इति व्यापित्वं रसादीनाम् । भक्षणीयं विचक्षणैरित्येकदेशित्वम् । यद्येवं शिष्टपरिहृतत्वादिहोपदेशानर्थक्यमित्याह सन्त्येव पुरुषाः केचित्सन्ति देशास्तथाविधाः । सन्ति कालाथ येष्वेते योगा न स्युर्निरर्थकाः ॥ तादृशा इति सन्ति ये शुच्यशुचिषु निर्विकल्पाः । देशास्तथाविधा लाटसिन्धुविषयादयः । काला औपरिष्टकसात्म्याः ख्यायत्ता यदाजी. वितादयः (१) । योगा इति । मुखचुम्बनवद्विधेयम् । तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च । आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥ तस्मादिति । यतश्चैवं तस्मात्साधारणस्यासाधारणस्य वा यथावं देशकालौ संवीक्ष्य, प्रयोगमुपायं च प्रयुज्यते नेति, शास्त्रमभिधायकमात्मानं च, कतरन्मे युक्तमिति न वा प्रयुञ्जीतोभयमपि विद्वान् । खमात्मानं संवीक्ष्य । अथवा नायं पुरुषादिनियम इत्याह - अर्थस्यास्य रहस्यत्वाञ्चलत्वान्मनसस्तथा । कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥ इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरण औपरिष्टकं नवमोऽध्यायः । आदितचतुर्दशः । १. 'उपर्युकस्य'. २. 'त्रपायत्ता यदजीवितादयः'. ३. 'प्रयोगा इति'. ४. 'मुखचुम्बन च विधेयम्'. १० अध्यायः ] २ सांप्रयोगिकमधिकरणम् । १७७ : अर्थस्येति । औपरिष्टकस्य रहसि भवत्वात् चित्तस्यास्थिरत्वात् विशे- षतो रागसंयुक्तस्य । कः कुर्यात् विद्वानितरो वेति । कदा किं मत्तावस्था- यामितरस्यां वेति । किं कुर्यात् साधारणमसाधारणं लौकिकं वा संप्रयो- गमिति । कुतो हेतोः किं रागाद्देशप्रवृत्तेर्वेति को ज्ञातुमर्हति । नैवेत्यर्थः ॥ औपरिष्टकमेकोनविंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोघरेणैकत्रकृतसूत्रभाष्याया साप्रयोगिके द्वितीयेऽधिकरणे औपरिष्टक नवमोऽध्यायः । दशमोऽध्यायः । एवमौपरिष्टकान्तं रतमुक्तम् । तस्यारम्मेऽवसाने च किं प्रतिपत्तव्यमिति तदुद्भवं रता[रम्भा]वसानिकमुच्यते । यद्यपि प्रीतिविशेषानन्तरं रतारम्भिकं युक्तम् । रतावसानिकं चेहैव । तथाभूतत्वादनुष्ठानक्रमस्येति । तथापि प्रीतिसंबन्धत्वादालिङ्गनादीनां तदभिधानम् । तदनन्तरं च प्रक्रीर्णकन्यायेन सर्वशेषतया रतारम्भः । तत्प्रतिबद्धत्वाचावसानिकम् । तत्र पूर्वमधिकृत्याहनागरकः सहमित्रजनेन परिचारकैश्च कृतपुष्पोपहारे संचारि तसुरभिधूपे रैत्यावासे प्रसाधिते वासगृहे कृतस्नानमसाधनां युक्सा पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत् । दक्षिणतञ्चास्या उपवेशनम् । केशहस्ते बनान्ते नीव्यामिसवलम्वनम् । रत्यर्थ सव्येन वाहुनानुद्धतः परिष्वङ्गः । पूर्वप्रकरणसंवद्धैः परिहासानुरागैर्वचोभिरनुवृत्तिः । गूढाश्लीलानां च वस्तूनां समस्यया प रिभाषणम् । सनृत्तमवृत्तं वा गीतं वादित्रम् । कैलासु संकथा: पुनः पाँनेनोपच्छन्दनम् । जातानुरोगायां कुसुमानुलेपनताम्बूल१. 'सर्वाशेषया'; 'सर्वाशेषतया'. २. 'रत्याघाने'. ३ 'कृतस्नानप्रसाघन:'. ४. 'पुन: पुनः' ५ 'दक्षिणतोऽस्या' ६. 'नीव्या वावलम्बनम्'. ७. ' च सपरिहासा-' ८. 'वादित्रं च'. ९. 'कलावस्तुसंकथा'; 'कालावस्थास सकथा'. १०. 'पानेन च'. ११. 'रागाया च'. का० २३ कामसूत्रम् । १७८ दानेन च शेपजनविसृष्टिः । विजने च मुद्धर्षयेत् । ततो नीवीविश्लेषणादि रतारम्भः ॥ १५ आदितोऽध्यायः] येथोक्तैरालिङ्गनादिभिरेनाययोक्तमुपक्रमेत । इत्ययं नागरक इति नागरकवृत्तावधिकृतो मित्रजनेन पीठमर्दादिना परिचारकैस्ताम्बूलदायकसरककर्मान्तिकादिभिः (१) सहोपक्रमेतेति संबन्धः । पुष्पोपहारः पुष्पमैकारः । रत्यावास इति रत्यर्थो य आवासो बाह्यं वासगृहं तत्र हि शयनीयं कल्पेतेति । अयं वासगृहसंस्कारः । स्त्रिया द्विविधः –– स्नानं नेपथ्यग्रहणं चेति शरीरसंस्कारः । असंस्कृताया दर्शनमपि प्रतिषिद्धम् । युक्त्या पीतामिति मनःसंस्कारः । नातिपीताम् । विभ्रमकरत्वात् । पीतमस्या विद्यत इति । प्रथमं सान्त्वनैः प्रियवाक्यैः कुशलप्रश्नादिमिरुपक्रमेत् । पुनः पानेन सरकः पीयतामिति । तत्र दक्षिणे पार्श्वेऽस्या उपविशेत् । येन दक्षिणहस्तेन चषको वामेन च वाहुना परिष्वज्ञः । तत्र प्रथमं केशहस्तादिष्ववलम्बनं संस्पर्शनम् । ततः सव्येन वामेन परिष्वङ्गः । अनुद्धत इति यथा नोद्विजते । पूर्वप्रकरणसंबद्धैरिति अतिक्रान्तेन प्रस्तावेन युक्तैः 'स्मरसि सुभगे यदावयोस्तत्र तत्र पॅरिहासोऽनुरागश्चासीत्' इत्येवं वचोभिरैनुवर्तनम् । गूढाश्लीलानां चेति । यद्द्धूढं दुर्वौषमश्लीलं ग्राम्यं लोकप्रतीतं वस्तु गाथास्कन्धकादिषु बद्धं तस्योमयस्यापि बुमुत्सायां समस्यया संक्षेपेण परिभाषणम् । परिकथनमित्यर्थः । सनृत्तमनृत्तं वा गीतमिति । याँ नृत्ताभिज्ञा तत्समक्षं गीतार्थमाङ्गिकाद्यमिनयेन प्रकाशयीत । आसीननृत्तं स्यात् । इतरस्या गीतमेव केवलम् । वादित्रमिति नागदन्तावसक्तां वीणामादाय । तत्रान्यस्यासंभवात् । कलासु संकथा शेषाखालेख्यादिषु कौशलख्यापनार्थम् । एवमावर्ज्य पुनः पानेनोपच्छन्दनं प्रोत्साहनम् । जातरागायां च यथोक्तानुष्ठानेन ताम्बूलदानसंप्रेषणोपायः । शेषजना मित्रपरिचारकादयः । यथोचैरिति रतामांगुक्तानि यानि । उद्धर्षयेदुत्कृष्टेन हर्षेण योजयेत् । यथा १. 'विसर्जनेन च'. २. 'यथोक्कालिङ्गना-'. ३. 'प्रकार:'. ४. 'प्रकल्प्य'. ५. 'परिहासानुरागः:': 'परिहासोऽनुरागात्'. ६. 'अनुरशनम्'. ७. 'यानि तत्समक्षं'. ८. 'प्रत्युतानि. १० अध्यायः] २ सांप्रयोगिकमधिकरणम् । शयनीयं प्रतिपद्यते । तत इति । उत्तरकाले शयनीयगताया नीवीविश्लेषणायोपक्रमेत् । इतः प्रभृति बाह्यं पुरुषोपसृतमिति । रैतावसानिकं रागमतिवाद्यासंस्तुतयोरिव सव्रीडयो: परस्परम- पश्यतोः पृथक्पृथगाचारभूमिगमनम् । प्रतिनिवृत्त्य चात्रीडाय- मानयोरुचितदेशोपविष्टयोस्ताम्बूलग्रहणमच्छीकृतं चन्दनमन्यद्वा- नुलेपनं तस्या मात्रे स्वयमेव निवेशयेत् । सव्येन बाहुना चैनां परिरभ्य चषकहस्तः सान्त्वयन्पाययेत् । जलानुपानं वो खण्ड- खाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् । अच्छर- सकयूषमम्लयवागूं भृष्टमांसोपदंशानि पानकानि चूतफलानि शु- ष्कमांसं मातुलङ्गचुक्रकाणि सशर्कराणि च ययादेशसात्म्यं च । तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् । हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनम् । तत्रानुक्कुलाभिः कथाभिरंनुवर्तेत । तदङ्कसंलीनायाचन्द्रमसं पश्यन्या नक्षत्रपति- व्यक्तीकरणम् । अरुन्धतीध्रुवसर्षिमालादर्शनं च । इति रताव- सानिकम् ॥ रतावसानिकमिति । वक्ष्यत इति शेषः । रागमतिवाह्य रतिमनुभूय । असंस्तुतयोरिवेति । अपरिचितयोर्यथा ब्रीडा तद्वत्सन्रीडयोः । अविनयाचरणात् । एवं परस्परमपश्यतोः । तदवस्थदर्शनाद्वैराग्यमपि स्यादतः पृथक्पृथगाचारभूमिगमनम् । नैकत्र शौचभूमौ शौचं कार्यमित्यर्थः । प्रतिनिवृत्त्याचारभूमेरनीडायमानयोः । एकान्तेनापरित्यक्तलज्जत्वात् । उचितदेशस्तदानीं शयनीयमपास्यान्यदेशः । ताम्बूलस्य ग्रहणं भक्षणम् । त दानी मुखस्या श्रीकृत्वाद्वैरस्याच्च । तत्र क्षीणप्रधानधातुत्वाच्छरीरस्य वृंहणं बाह्यमाभ्यन्तरं च । तत्र बाह्यं ग्रीष्मकाले अच्छीकृतं चन्दनमन्यद्वानुलेपनं कालौपयिकम् । स्वयमित्यनुरागख्यापनार्थम् । निवेशयेत् । पश्चा१. 'आवसानिकम्'. २. 'बहिर्भूमिगमनम्'; 'आचमनभूमिगमनम्'. ३. 'निदध्यात्'. ४. 'बाहुना परिष्वज्य'. ५. 'च'. ६. 'अच्छसरकम्'. ७. 'अनुवर्तनम्'. ८. 'आचमनभूमिगमनम् . १८० कामसूत्रम् । १५ आदितोऽध्यायः ] . दात्मन इत्यर्थः । आभ्यन्तरं पानादि । तत्रापि परिरभ्यालिङ्गय । चषके मद्यभाजने । सान्त्वयन्प्रियाणि ब्रुवन् पाययेत् । जलानुपानं वा खण्डखा धकं वृंहणीयत्वात् । अन्यद्वा तिलगर्भोत्करादिप्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् । अच्छरसकयूषमिति । यूषं द्विविधं मांसनिर्यूहं ब्रीहिनिर्यूहं च । बृंहणीयत्वान्मांसनिर्यूहं रसकयूषमच्छमुपयुञ्जीयाताम् । अम्लयवागूं मांससिद्धाम् । वृंहणीयत्वात् । भृष्टं भर्जितं मांसं तदेवो पदंशो येषां पानकानाम् । चूतफलानि पक्कानि । शुष्कमांसं बलबृंहण त्वात् । मातुलुङ्गचुक्रकाणीति बीजपूरमीषदपनीतचुकं खण्डशः कृत्तं शर्करायुक्तम् । हृद्यत्वात् । यथादेशसात्म्यमिति । यस्मिन्देशे न सात्म्यम् । तत्रेति भक्ष्याचुपयोगेऽनुरागख्यापनार्थो विधिः । विदश्य विदश्येति । उपलक्षणं चैतत् । इदं वृष्यमिदं वृष्यमित्यास्वाद्यास्वाद्य पानमपि तत्तदुपाहरेत् । हर्म्यतलस्थितयोर्वेति । यदि वासगृहस्थितयोरासने तापश्चन्द्रिका चोदिता तदा तदुपरि सौघस्थितयोरूर्ध्वयोश्चन्द्रिकासेवनार्थमासनम् । तत्सेवनं च तापापनयनार्थम् । यदि च तापेन न तत्र ताम्बूलग्रहणाद्यनुष्ठितं तदानीमिहानुष्ठेयम् । तत्रेति हर्म्यतले । भुक्तबिरसत्वात्कामस्य वृंहणानन्तरं कामजननार्थं तद्नुकूलाभिः कथाभिरनुवर्तेत । तदङ्कसंलीनायाश्चेति । आसीनस्य नायकस्याङ्के न्यस्तदेहाया नियतं गगनतले दृष्टिः । तत्र चन्द्रमसं नयनानन्दजननम् । यस्याङ्गसङ्गान्नक्षत्रपङ्किव्यक्तीकरणम् । प्रायशः स्त्रीणां नक्षत्रपङ्किष्वपरिचयात् । इयमरुन्धती भगबती सूक्ष्मा य एनां न पश्यति स षण्मासान्त्रियते । अयं ध्रुवादिवि स्वारः यद्दर्शनादिवसगतं पापमपैति । एते च सप्तर्षयः पया स्थिताः । इति संदर्शयेत् । द्वयमप्यधिकृत्याहतत्रैतद्भवति अवसानेऽपि च प्रीतिरुपचारैरुपस्कृता । सविस्रम्भकथायोगै रतिं जनयते पराम् ॥ १. 'अपरिक्रमातू'. S १०. अध्यायः] २ सांप्रयोगिकमधिकरणम् । परस्परमीतिकरैरात्मभावानुवर्तनैः । क्षणात्क्रोधपरावृत्तैः क्षणात्मीतिविलोकितैः ॥ हल्लीसकक्रीडन कैर्गायनैर्लोटरासकैः । रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्षेणैः ॥ आद्ये संदर्शने जाते पूर्व ये स्युर्मनोरथाः । पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥ कीर्तनान्ते च रागेण परिष्व: सचुम्बनैः । तैस्तै भावै: संयुक्तो यूँनो रागो विवर्धते ॥ तत्रेत्यारम्भेऽवसाने चोभयत्राप्येतद्वक्ष्यमाणकं भवति । अवसानेऽपीति । अपिशब्दादारम्भेऽपीति । प्रीतिः स्त्रियाः पुंसश्च स्नेहः । उपचारैः सग्गन्धादिभिः पानादिभिश्च । उपस्कृतेत्यमिवर्धिता । सविसम्मकथायोगैरिति । सविश्वासाभिः कथाभिः सविश्वासैश्व योगैः । रर्ति विसृष्टिलक्षणा परामुत्कृष्टां जनयते । कारणस्य तथाविधत्वात् । तत्र विसम्भयोगमधिकृत्याह – परस्परप्रीतिकरैरिति । स्त्रीपुंसयोस्तदन्ते सुखकरैः । कैरित्याह - आत्मभावानुवर्तनैरिति । आत्माभिप्रायेण यान्यनुवर्तनान्यालिङ्गनादीनि । अनुवर्त्यन्ते एमिरिति कृत्वा । क्षणक्रोधपरावृत्तैः क्षणप्रीतिविलोकनैरिति । अन्तरा प्रणयकलहात्क्षणक्रोघेन यानि परावर्तनानि पुनः प्रसादात्क्षणं प्रीत्या यानि विलोकनानि तैः । सेहो विवर्धत इति प्रतिपदं योज्यम् । हल्लीसकक्रीडनकै रिति । हल्लीसकक्रीडनं येपु गीतेषु । यथोक्तम् – 'मण्डलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत् । नेता तत्र मवेदेको गोपस्त्रीणां यथा हरिः ॥' लाटरासकैरन्योन्यदेशीयैः । तेषां श्रव्यत्वाद्गीतविशेषणमेतत् । रागलोलार्द्रनयनैरिति । रागेण चञ्चलानि सवाष्पाणि च नयनानि येषु गीतकेषु । अनेन रक्तकण्ठत्वं दर्शयति । चन्द्रमण्डलवीक्षणैरिति मनोहारिवस्तूपलक्षणम् । एतेऽनुवर्तनादयो विसम्भयोगाः । विश्वासेन प्रयुज्यमानत्वात् । विसम्मकथामधिकृत्याह १८१ १. 'नाट्यरासकै: '. २. 'वीक्षित.'. ३. 'ये भावा ये मनोरया.'. ४ 'तस्य च प्रतिकीर्तनै.'. ५. 'कीर्तितानां च'. ६. 'तैस्तैः स्वभावैः सयुचैः'. ७. 'यूनो.'; 'यूनां'. } १५ आदितोऽध्यायः] १८२ कामसूत्रम् । आद्य इति । प्रथमे मनोरथाः कदानयानेन वा संगमोऽस्त्वित्यादयः । पुन- वियोगे संतप्तयोर्दुःखमखास्थ्यम् । कीर्तनान्ते चेति पुनर्वियोगस्यावर्तन- मिति दर्शयति । तैस्तैरिति अन्यैरपि विसम्मयोगर्भावसंयुक्तैः । यून इत्येकशेपनिर्देशात् यूनो युवत्याश्च ॥ रतारम्भावसानिकं विंशतितमं प्रक- रणम् ॥ आरम्भावसानयो रतावयवत्वात्तग्रहणे यथा रतं व्यवस्थं तथा स्वाभा- : विकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उच्यन्ते - रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतमय- त्रितरतमिति रतविशेषाः ॥ रागवदित्यादिना स्वाभाविक आहार्यः कृत्रिमो दर्पजो विसम्भजश्चेति रागविशेषाः । तद्भेदाद्भागवदादयोऽपि रतविशेषाः । एषां लक्षणमुपचारमाह संदर्शनात्मभृत्युभयोरपि प्रवृद्धरागयोः प्रयत्नकृते समागमे अॅ वासप्रत्यागमने वा कलहवियोगयोगे तद्भागवत् ॥ संदर्शनादिति । प्रथमदर्शनात्प्रभृति चक्षुःप्रीत्याद्यवस्थावशात्प्रवृद्धरागयोर्दूतसंप्रेषणादिप्रयत्नात्कृते समागमे यद्रतम् यच्च प्रवासात्प्रत्यागमने विरहिणोरुत्कण्ठितयोः, यच्च प्रणयकलहे प्रशान्ते प्रसन्नयो रतं तद्भागवत् । स्वाभाविकस्य रागस्यातिशयेन योगात् । तंत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥ यावदर्थमिति प्रवृद्धरागत्वान्न किंचित्क्षमते । केवलं खाभिप्रायवशात्तयोर्यावद्रति प्रवृत्तिः । मध्यस्थरागयोरारब्धं यंदनुरज्यते तदाहार्यरागम् ॥ मध्यस्थरागयोरिति । इच्छामात्रस्योत्पन्नत्वाच्चक्षुःप्रीतिरेव । न मनःसंप्रयोगादयोऽवस्थाः । इत्यतो मध्यस्थो रागः । तयोर्यदारव्धमारम्भकेण १. 'संगतयो:'. २. 'यूनामिति'. ३. 'अतिप्रवृद्धरागयोः'. 'प्रवृद्धरागयोः' इति पुस्तकान्तरे नास्ति, ४. 'प्रवासप्रत्यागमने कुपितप्रसन्नाथ; कलहवियोगयोगे कुपितप्रस नायाश्च'. ५. 'तत्राभिप्रायात'. ६. 'यदनुरते. ● · १० अध्यायः] २ सांप्रयोगिकमधिकरणम् । १८३ विधिना । अनुरज्यत इति पश्चाद्रागेण संश्लिष्यते । कारणेन कार्योपचा- रान्मिथुनमेव रतमित्युक्तम् । आहार्यरागम् । तत्र रागस्योत्पाद्यमानत्वात् । तत्र चातुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत । तत्कार्यहेतोरन्यत्र सक्तयोर्वा कृत्रिमरागम् ॥ चातुःषष्टिकैरिति आलिङ्गनादिभिर्योगैः । सात्म्यानुविद्धैर्यस्य यैः सात्म्यं तदुक्तैः । रागमिच्छामात्रमात्मनः स्त्रियाश्च संदीप्य प्रवर्तेत । कार्यहेतोरिति । अर्थादनर्थप्रतीकाराद्वा । न रागात् । अन्यत्र सक्तयोर्वेति । अन्यस्मिन्पुंसि स्त्रीसक्ता पुमानप्यन्यस्यां स्त्रियाम् । तयोर्यदनुरोधाद्रतं कृत्रिमरागम् । उभयत्रापि स्वाभाविकरागस्यानुत्पत्तेः । तत्र समुच्चयेन योगाशास्त्रतः पश्येत् ॥ समुच्चयेनेति न विकल्पेन । द्वयोर्योगयोरन्यतरयोगे स्वाभाविकरागस्यानुत्पत्तेः । तस्मात्समुच्चयेन सर्वानेवालिङ्गनादिप्रयोगान्प्रयोगकाले प श्येत् । तत्रापि शास्त्रतः । तदुक्तस्थानकालस्वभावानपेक्षयेत्यर्थः । अन्यत्र सक्तयोरित्यस्य विशेषेमाह पुरुषस्तु हृदयमियामन्यां मनसि निधाय व्यवहरेत् । संमयो- गात्प्रभृति रतिं यावत् । अतस्तव्यवहितरागम् ॥ पुरुष इति । योऽन्यप्रसक्तोऽप्यमावितसंतानस्तस्यापरस्यामपि राग उत्पद्यत एव अस्वाभाविकत्वात् त्रिमुच्यते । यस्तु संभावितसंतानः सोऽन्यस्यां न रमते । रागाभावात् । यदा तु तामेव हृदयप्रियामिष्टां मनसाभिध्याय चेतसि रागमुत्पाद्य संप्रयोगात्प्रभृति रतिं यावद्वयवहरेत्प्रव र्तेत तदा तद्व्यवहितरागमित्युच्यते । हृदयप्रियया रागस्य व्यवहित त्वात् । एवं योषिदपि हृदयप्रियं निधायेति योज्यम् । अत्र समुच्चयेन योगानित्ययमेवोपचारः । स्वाभाविकाहार्यकृत्रिमरागभेदात्रयो नायका नायिकाश्च । तत्र सहशसंयोगे त्रीणि शुद्धानि । विपर्यये षट् संकीर्णानि । तत्र संकीर्णानेवो१. 'कृत्रिमं रागम्'. २. 'विशेषणमाह'. ३. 'यत्र'. ४. 'कृतम्'. ५. 'योगात्'. ● १८४ कामसूत्रम् । पचारान्योजयेत् । एतत्सर्वं समानप्रतिपत्त्योः दर्पजाद्विशेषमाह < न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं संप्रयोगस्त- पोटारतम् ॥ १५ आदितोऽध्यायः] स्त्रीपुंसयोः । हीनाधिकयोन्यूनायां तु कुम्भदास्यामिति । अघमायां कुम्भदास्यां परिचारिकायां वा न्यूनायां न समायां चन्द्रापीडस्येव पत्रलेखायाम् । यावदर्थं यावद्रति । पोटारतमिति । उभयव्यञ्जना पोटा नपुंसकम् । तंत्रोपचारान्नाद्रियेत ॥ तैस्यामुपचारान्नालिङ्गनादीन्नाद्रियेत । अरञ्जनीयत्वात् । केवलं दर्पादुत्पन्नो रागोऽपनेयः । तथा वेश्याया ग्रामीणेन सह यावदर्य खलरतम् ॥ तथेति यथा नायकस्यासादृश्यसंप्रयोगः । वेश्याया इति गणिकाया रूपाजीवायाः । न कुम्भदास्याः । अभिप्रेतमलभमानाया दर्पाड्रामीणेन कर्षकादिना संप्रयोगः खलरतम् । खलत्वेन विगोपॅनकरत्वात् । ग्रामव्रजप्रत्यन्तयोपिद्भिश्च नागरकस्य ॥ तथा ग्रामादियोषिद्भिर्नागरकस्य पत्तनवासिनो दर्पाद्यावद संप्रयोगः खलरतम् । न पोटारतम् । विगोपनस्थापि तत्र संभवात् । तत्र ग्रामयो- पितः कर्षकादिस्त्रियः । व्रजयोपितो गोप्यः । प्रत्यन्तयोषितः शवर्यादयः । विस्रम्भरागाद्विशेष॒माह- उपन्नविसम्भयोॲ परस्परानुकूल्यादयन्त्रितरतम् । इति रतानि ॥ उत्पन्नवित्रम्भयोश्चेति । चिरकालसंप्रयोगाज्जातविश्वासयोः । परस्प- रानुकूल्यादिति । आनुकूल्येन पुमानारमेत तदानुकूल्येन च स्त्री । अय- न्त्रितरतं यन्त्रणाभावात् । तच्च चित्ररतं पुरुषायितादिभेदादनेकविधमिति बहुवचनेन दर्शयति — रतानीति ॥ इति रतविशेषा एकविशं प्रकरणम् ॥ १. 'दर्पजाविशेषमाह'. २. 'तत्यामिवोपचारानू'. ३. 'वेश्या'. ४. 'अपि गोपनकरत्वात्'. ५. 'तु'. ६. 'भजेत'. 1 १० अध्यायः ] ५२ सांप्रयोगिकमधिकरणम् । १८५ प्रेणयकलहं वक्ष्यामः यथा जातविसम्मयोरयन्त्रितरतं तथा प्रणयात्कलहोऽपीति प्रणयकलह उच्यते । तत्र कलहकारणमाह वर्धमानप्रणया तु नायिका सपत्नीनामग्रहणं तदाश्रयमालापं वा गोत्रस्खलितं वा न मर्पयेत् । नायकव्यलीकं च ॥ वर्धमानप्रणया त्विति । यथा यथा विश्वासो वर्धते तथा तथा मृदुम- ध्याधिमात्रेण न मर्षयेदित्यर्थः । प्रायशश्च नायको विप्रियकारी । तन्मू- लब्ध कलह इति दर्शयन्नाह —–नायिकेति । नायकस्य विप्रियकरणं वाचा क्रियया वा । तत्र वाचा सपत्नीनामग्रहणम् । तदाश्रयमिति । अगृहीत्वैव नाम सपत्नीसंबद्धं गुणसूचकमालापम् । गोत्रस्खलितं तन्नामा नायिकाह्वानम् । नायकव्यलीकमिति । सपत्न्या गृहगमनं ताम्बूलादि- प्रेषणं संयोगादिकं नायकस्यापराधं न मर्षयेत् । क्रियया विप्रियकरणमेतत् । अमर्पेण वानुष्ठानादित्याह- तत्र सुभृशः कलहो रुदितमायासः शिरोरुहाणामवक्षोदनं प्रहण- नमासनाच्छयनाद्वा मह्यां पॆतनं माल्यभूषणावमोक्षो भूमौ शय्या च ॥ तत्रेति सपत्नीनामग्रहणादिषु । अनुष्ठानं वाचा क्रियया च । तत्र वाचा कलहः सुभृशोऽतीव महान् पुनर्मैवं कार्पोरिति । क्रियया रुदितादि । आयासः शरीरवेदनाकम्पादिकः । अवक्षोदनं विधूननम् । प्रहणनमात्मनः । अन्ये नायकस्य शिरोरुहावलम्वनं प्रहणनं चेत्याहुः । मयामिति । यतः पतिताया न दुःखोत्पत्तिः । माल्यभूषणयोरपिनद्धयोर्मोक्षणं त्यागः । भूमौ शय्या । नैं तेन सह शयनम् । स नायकोsपि सापराधत्वात्कि प्रतिपद्येतेत्याह- तत्र युक्तरूपेण साम्ना पादपतनेन वा भैँसन्नमनास्तामनुनयन्त्र- पक्रम्य शयनमारोहयेत् ॥ तत्रेति तस्मिन्ननुष्ठाने । सामेति प्रियवचनेन । तस्य युक्तरूपता अ १. 'प्रणयकलहं वक्ष्यामः' इति मूलपाठ इव भाति, मूलपुस्तकेषु तु नोपलभ्यते. २. 'कारणम्'. ३. 'च'. ४. 'सुभृशम्' ५ 'प्रपतनम् .. ६. 'तेन तेन. ७. 'प्रसनाया सानुनयमुपक्रम्य'. का० २४ १८६ कामसूत्रम् । १५ आदितोऽध्यायः] पराधविशेषात् । पादपतनं नायकविशेषात् । प्रसन्नमना इति अप्रदशितविकारः । मा भूत्क्षते क्षार इति । तामिति भूमौ सुप्ताम् । अनुनयन् प्रसादयन् । उपक्रम्योत्थापयितुम् । शयनमारोहयेत् प्रसीदोत्तिष्ठ शयनमध्यास्यतामिति । तस्य च वचनमुत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहमस्या- स्यमुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृझिखिरंवह- न्यात् । द्वारदेशं गच्छेत् । तंत्रोपविश्याश्रुकरणमिति । अतिकु- द्धापि तु न द्वारदेशाद्भूयो गच्छेत् । दोपवत्वात् । इति दत्तकः । तत्र युक्तितोऽनुनीयमाना प्रसादमाकाङ्खेत् । प्रसन्नापि तु सकपा- येरेव वाक्यैरेनं तुदतीव सन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत ॥ तस्य चेत्यनुनयतः । वचनमुत्तरेण योजयन्ती तत्कालोचितेन । विवृइक्रोधा पुनः पुनरपराधस्मरणात् । सकचग्रहमस्यास्यं मुखमुन्नमय्य । किमुद्भाव्यं नेति ज्ञातुं सकृदवहत्य । द्विस्लिरिति क्रोधवशात् । तदानीं शिरसि पादताडनमपि न दोषाय । सौभाग्यचिह्नं तदिति नागरकवृद्धाः । तत्र चेति द्वारदेशे । अनुकरणमश्रुविमोचनम् । न भूयो न बहिः । दोपवत्त्वाद्भूयोगमनस्य । कोपव्याजेनान्यत्र गमनाशङ्कोत्पत्तेः । दत्तकग्रहणं पूजार्थम् । तन्मतस्याप्रतिषिद्धत्वात् । तत्रेत्यश्रुकरणे । पादताडनं क्रोषस्यावधिरिति मन्यमानो नायकः पुनस्तां युक्त्यानुनयेत् । सा तेन युक्तितोऽनुनीयमाना पादपतनं प्रसादनोपायस्यावधिरिति मन्यमाना प्रसादमाकाङ्क्षत् । ततः प्रसन्ना नायकेनालिङ्ग्यते । तथापि सकलुपैः सासूयैर्वाक्यैरेनं " नायकं तुदती व्यथयन्ती । प्रसन्नरतिकाङ्क्षिणी प्रसन्नाद्वतिमाकाङ्क्षमाणा । अन्यथा न यदि परिरभ्येत तदातिभूमिं गतात्कोपान्नायकोऽप्यप्रसन्न इति । मतोऽयं कुलयुवत्याः पुनर्भुवश्च विधिः । वेश्यायाः परपरिगृहीतायाश्च विशेषमाह. स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्ठैव नायकमभिग १. 'वाहो:'. २. 'अवहल'. ३. 'ततोऽत्र चोपविश्य'. ४. 'प्रसन्नां रतिकाङ्क्षिणीं'. ५. 'एव'. 1 १० अध्यायः] २ सांप्रयोगिकमधिकरणम् । १८७ च्छेत् । तत्र पीठमर्दविटंविदूषकैर्नायकमयुक्तैरुपशमितरोषा तैरेवानुनीता तैः सदैव तद्भवनमधिगच्छेत् । तंत्र च वसेत् । इति प्रणयकलहः ॥ स्वभवनस्था त्विति । निमित्तात्पूर्वोक्तात् । कलहितेति कलहः संजातो यस्याः । प्राकृतकलहेत्यर्थः । वाचिकममर्षणमेतत् । कायिकमाह -तथाविधचेष्टैवेति असूयासूचकैर्दुर्निरीक्षणभङ्गादिभिः । नायकर्मेभिगच्छेदिति । तस्य समीपे ढौकितेत्यर्थः । तत्र तस्मिन्कोपानुष्ठाने । नायकप्रयुतैस्तस्याः प्रत्यानयने । उपशमितरोषा साम्ना तैरेवानुनीता । अपादपतनेन नायकेन । बहिःस्त्रीषु पादपतनस्य प्रतिषिद्धत्वात् । सहैव गच्छेत् खगौरवोत्पादनार्थम् । तत्र च वसेत् नायकभवने तां रात्रि रागसंधुक्षणार्थम् । अधिकरणार्थमुपसंहरतिभवन्ति चात्र श्लोकाःएवमेतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् । मयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥ एवमिति । चतुःषष्टिमालिङ्गनादिकाम् । बाग्रव्येण पाञ्चालेन । वरस्त्रीषु तद्विज्ञासु । सिद्धि गच्छति सौमाग्यमाप्नोति । तस्मच्चतुःषष्टिरालिअनादीनां ज्ञातव्या । अन्यथा झपरिज्ञाने अन्यशास्त्रपरिज्ञानेऽपि न केवलं सिद्धि नाधिगच्छति अन्यत्रापि नात्यर्थं पूज्यते । अस्यास्तु परिज्ञाने अन्यशास्त्रापरिज्ञानेऽपि केवलं सिद्धः पूज्यश्चाग्रणी स्यादिति दर्शयन्नाह ब्रुवन्नप्यन्यशास्त्राणि चतुःषष्टिविवर्जितः । विद्वत्संसदि नात्यर्थे कथासु परिपूज्यते ॥ १. 'वेन'. २. 'तत्रैव'. ३. 'तयाविधैथेष्ठितैरेवेति.' ४. 'उपगच्छेत्'. ५. 'अनुपशमितरोषा'. ६. 'एवमित्यधिकरणायें'. ७. 'अन्यशास्त्रपरिज्ञाने' इति पुस्तकान्त रे नास्ति. ८. 'चतुःपष्टया'. . १८८ कामसूत्रम् । १५ आदितोऽध्यायः] ब्रुवन्नपीति अर्थतः प्रयोगतश्च कथयन् । विद्वत्संसदीति । त्रिवर्गप्रतिपत्तौ येऽधिकृतास्ते विद्वांसः । तत्समायाम् । कथासु त्रिवर्गस्य । वर्जितोऽप्यन्यविज्ञानैरेतैया यस्त्वलंकृतः । स गोष्ठयां नरनारीणां कथाखग्रं विगाहते ॥ अन्यविज्ञानैर्व्याकरणादिशास्त्रपरिज्ञानैः । एतयेति चतुःषष्टया । अलंकृतः प्रयोगतोऽर्थतश्च ज्ञातत्वात् । गोष्ठयामासनवन्धे अन्यशास्त्र नाघिक्रियते । कथासु कामसूत्रस्य । अयं विगाहते अग्रणीर्भवतीत्यर्थः । ननु चतुःषष्टेरपूज्यत्वात्कथं [तत्] ज्ञाता विद्वत्संसदि पूज्यत इति चेदाह विद्वद्भिः पूजितामेनां खलैरपि सुपूजिताम् । पूजितां गणिकासंघैर्नन्दिनीं को न पूजयेत् ॥ विद्वद्भिरिति त्रिवर्गवेदिभिः स्त्रीसंरक्षणोपायत्वात्पूजिताम् । खलैरपि सुपूजिताम् । वस्तुतस्तथाविधत्वात् । पूजितां गणिकासंघैः । जीविकोपायत्वात् । एवं च कृत्वा नन्दिनीत्युच्यत इत्याह – नन्दिनीमिति । नन्दनं नन्दः पूजा । सा विद्यते यस्या इति । यथेयमनुगतार्थसंज्ञा तथान्यापीत्याह- नन्दिनी सुभगा सिद्धा सुभगंकरणीति च । नारीमियेति चाचार्यैः शास्त्रेप्वेपा निरुच्यते ॥ नन्दिनीति । सुभगा सर्वैर्गृहिभिरनुष्ठीयमानत्वात् । सिद्धा विद्येव वशं- करणी । सुभगंकरणी स्त्रीपुंसयोः सौभाग्यकरणात् । नारीप्रिया विशेषत- स्तत्सुखकरणात् । एवमनेकार्थसाधिका । कस्तां न पूजयेत् । अतो ज्ञातापि तद्योगात्पूज्य: । विशेषतो नायिकानामित्याह - कन्याभिः परयोपिद्भिर्गणिकाभिश्चै भावतः । वीक्ष्यते वहुमानेन चतुःषष्टिविचक्षणः ॥ १. 'अर्थशः पृथगेनश्च'. ९. 'अनया'. ३. 'तां'. ४. 'शास्त्रेप्वेंवॅमिरुच्यते'. ५. 'तु'. ६. 'चतुःपष्टया'. १० अध्यायः ] २ सांप्रयोगिकमधिकरणम् । इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः । आदितः पञ्चदश । १८९ कन्याभिरिति । पुनर्मूः परयोपित्येवान्तर्भूता । सैव हि विधवा पुनर्भवतीति । वेश्येति वक्तव्ये गणिकाग्रहणं योषिदपि चतुःषष्टिविचक्षणेति दर्शनार्थम् । भावत इति भावेन हेतुना । बहुमानेन गौरवेण । प्रणयकलहो द्वाविशं प्रकरणम् । इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिक रतविशेषाः प्रणयकलहथ दशमोऽध्यायः । समाप्तं चेदं सांप्रयोगिकं द्वितीयमधिकरणम् । १९० १६ आदितोऽध्यायः] कामसूत्रम् । कन्यासंप्रयुक्तकं नाम तृतीयमधिकरणम् । प्रथमोऽध्यायः । चतुःषष्टिविचक्षणः कन्याभिर्मावतो वीक्ष्यमाणोऽपि न समागमं विना संप्रयुज्यत इति तत्समागमोपाय आवाप उच्यते । समन्तादावाप्यन्ते स्त्रियोऽनेनेति । तत्र कन्यायाः प्रधानत्वात्कन्यासंप्रयुक्तकमुच्यते । तेत्रो- द्वापा अष्टौ विवाहाः ब्राह्मः प्राजापत्य आर्षों दैवो गान्धर्व आसुरः पैशाचो राक्षस इति । तत्र पूर्वे चत्वारो धर्म्या इति तदर्थं वरणसंविधानं प्रकरणमुच्यते । किमर्थमेवमनुष्ठीयत इति चेदाह-- सवर्णायामनन्यपूर्वायां शास्त्रतोऽघिगतायां धैर्मोऽर्थः पुत्राः संबन्ध: पक्षवृद्धिरनुपस्कृता रतिश्च ॥ सवर्णायामिति ब्राह्मणादीनां यथास्वं सवर्णायाम् । अनन्यपूर्वायामिति मनसा कर्मणा वचसा वान्यसै या न दत्ता । तत्र हि यत्प्रथममपत्यं तदस्यैवेति स्मृत्यर्थः । शास्त्रत इति । शास्त्रोक्तेन वरणपूर्वेण परिणयविधिनाधिगतायां खीकृतायां सत्यां धर्मः पत्याख्यो रत्यादिप्रवर्तनं च । अर्थों यौतकलाभाद्गार्हस्थ्यानुष्ठानाञ्च । पुत्रा दृष्टादृष्टार्थाः । संवन्धः सहैकमोजनादिहेतुः । पक्षवृद्धिरिति खपक्षस्य वृद्धिः । पक्षान्तरलाभात् । अनुपस्कृता रतिरकृत्रिमा । विश्वासातिशययोगात् । यतश्चैवम् तस्मात्कन्यामभिजनोपेतां मातापितृमत त्रिवर्षात्मभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धिप्रिये संवन्धिभिराकुले प्रसूतां मैंभूतमातृमितृपक्षां रूपशीललक्षणसंपन्नार्मन्यूनाघि१. चतुःषष्टिस्तन्त्रं तद्विचक्षणः चतुःषष्टिः सूत्रम्. २. 'तत्रोपायाः'. ३. 'धर्मार्थपुत्राः'. ४. 'संयोगाख्या इत्यादि'. ५. 'अन्यूनवयसम्. ६. 'पक्षवति संबन्धिप्रिये संबन्धिमियाकुले कुले', ७. 'प्रभूतपितृपक्षाम्'. ८ 'अन्यूनाधिकाङ्गीम्'. १ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । कोविनष्टदन्तन खकर्णकेशाक्षिस्तनीमरोगिप्रकृतिशरीरां एवं श्रुतवान्शीलयेत् ॥ तस्मात्कन्यां शील्येदिति संबन्धः । अशीलितायां वरणासंभवात् । तत्र शीलमभिजनतः सनाथतो वयसः कुलाचारतोऽनुरागतो रूपतः शीलतो वा लक्षणत आरोग्यतश्चेति यथाक्रममाह अभिजनं कुलं मातापितृगतम् । त्रिवर्षादिति वर्षत्रयात्प्रभृति न्यूनवयसम् । नैकेन यां वापि समवयसमधिकवयसं वा । लाय्यः स्पृहणीय आचारो यस्मिन्कुले । धनवति धनधान्याढ्ये । संबन्धिप्रियेऽनुरागिणि । पक्षवति । संबन्धिमिराकुले । प्रभूतमातापितृपक्षामित्यनेनातिसनाथतामिति दर्शयति । रूपं शरीरस्य शोमनो यो वर्णः संस्थानं च । शीलं सुखभावता । लक्षणमवैधव्यादिसूचकम् । अन्यूनेति । तत्प्रत्येकं योज्यम् । यथासंभवमन्यूनमनधिकमनष्टं च दन्तादि यस्या । अवयवरूपेणापि युक्तामित्यर्थः । कन्याया दन्तादीनां प्रधानावयवत्वात् । अरोगिप्रकृतिशरीरामिति । व भावतो न रोगवच्छरीरं यस्या इत्यर्थः । तथाविध एवेति अभिजनाधुपेतः । अन्यथा दागम्य एव स्यात् । विशेषमाह - श्रुतवानिति । गृहीतविद्य इत्यर्थः । शीलयेन्मनसि समादध्यात्। 'शील समाघौ' इति धातुपाठात् । यां गृहीत्वा कृतिनमात्मानं मन्येत न च समानैर्निन्द्येत तस्यां प्रवृत्तिरिति घोटकमुखः ॥ गृहीत्वा परिणीय । कृतिनं कृतार्थम् । न च समानैर्निन्धेत कुत्साजन्यं कृतमनेनेति । प्रवृत्तिर्वरणसंविधानम् । घोटकमुखग्रहणमधिकरणप्रावीण्यख्यापनार्थम् । १९१ तैयाविध वरणं द्विविधम् -पौरुषेण दैवेन च विधिना । तत्र पूर्वमधिकृत्याह- तस्या वरणे मातापितरौ संवन्धिनच प्रयतेरन् । मित्राणि च गृहीतवाक्यान्युभयसंवद्धानि ॥ १. 'अविनष्टकेशनखदन्तकर्णाक्षिस्तनीम्'. २. 'तयाविधगुण एवं'. ३. 'मातृपितृगतम्. १९२ कामसूत्रम् । १६ आदितोऽध्यायः ] तस्या इति शीलितायाः । वरणे याचने । मातापितरौ नायकेन मित्रजनमभिघाय प्रेरितौ प्रयतेताम् । वैरयितृपुरुषप्रेरणेन संबन्धिनो ये नायककुले संवन्धं कृतवन्तः । मित्राणि च नायकस्य प्रयतेरन्नित्येव । गृहीतवाक्यानि । तद्वचनस्यानतिक्रमणीयत्वात् । उभयसंबद्धानि मातृसंवन्धेन पितृसंवन्धेन च । तान्यन्येषां वरयितॄणां दोपान्प्रत्यक्षानागमिकांच श्रावयेयुः । कौलान्पौरुपेयानभिप्रायसंवर्धकांश्च नायकगुणान् । विशेषतच क- न्यामातुरनुकूलांस्तदात्वायतियुक्तान्दर्शयेयुः ॥ तानीति मित्राणि । अन्येपामिति नायकादन्ये ये वरयितारः । 'वर ईप्सायाम्' अदन्तश्चौरादिकः । प्रत्यक्षान्दोषान्विरूपकान्धकुब्जादीन् । आगमिकान्सामुद्रोक्तान् । 'आगामिकान्' इति पाठान्तरम् । भाविन इ- त्यर्थः । श्रावयेयुः । तस्याः पितरावित्यर्थात् । कौलान्कुले भवान् शील- शौण्डीर्यादीन नायकगुणान् । पौरुपेयान्पुरुषकारनिष्पन्नान् शास्त्रकला- ग्रहणादीन् । अभिप्रायसंवर्धकांश्चेति पित्रोः कन्यादानाभिप्रायं संवर्ध- यन्ति थे । विशेषतः कन्यामातुर्येऽनुकूला भवन्ति ते बाल्यवयस्त्वादयः । तदात्वायतियुक्तानिति वर्तमानेन अनागतेन च कालेन फैलदानात्संयु- तान् । 'तँत्कालस्तु तदात्वं स्यादायतिः काल उत्तरः' इत्यमरः । दर्श- येयुः । मित्राणीत्येव । दैवमधिकृत्याह- दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नवललक्षणदर्शनेन नाय- कस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णयेत् ॥ दैवचिन्तकरूपश्चेति सांवत्सरव्यञ्जनो नायकप्रहितः । शान्तायां दिशि रटतः काकादेः शकुनस्य । निमित्तस्य तज्जातादेः । शुभग्रहाणां १. 'वरयितुं'. २. 'प्रत्यक्षा नागरिकाः सुखं श्रावयेयु.'. ३. 'पौरुपानभिप्रायसंवर्धनानन्यांथ'. ४. 'गुणांच'. ५. 'विरूपकाकुण्ठादीन्'. ६. 'फलदत्वात्'. ७. 'तत्कालस्तु-' इत्यादि पुस्तकान्तरे नास्ति. ८. 'उपश्रुतिशकुन-'. ९. 'ग्रहवललग्न - १०. 'नक्षत्रदशन.'. ११. 'अनुवर्तयेत् . १ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । १९३ लग्नादुपचयस्थानेषु स्थितानां यद्वलं दिक्कालस्थानस्वभावैस्तस्य दर्शनेन लक्षणस्य शङ्खचक्रादेर्दर्शनेन भविष्यन्तमनागतमर्थतंयोगं सेनापत्याध्यक्ष- पत्तनादिलाभम् । कल्याणमिति कल्याणहेतुत्वात् । अर्थानुबन्धमित्यर्थः । अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरमुन्मा- दयेयुः ॥ अपर इति दैवचिन्तकरूपाः । अस्य नायकस्य । अन्यत इति यतो ब्रियते कन्या ततोऽन्यसात् । विशिष्टेनेति अमुष्य सेनापतेरतेरर्थरूपवती सुमहिमा अस्सै कर्तुमिष्यते । येन वयं श्वस्तने नक्षत्रसंयोगं पृष्टा इत्यनेन कन्यामातरमुन्मादयेयुरनुरजयेयुः । येनानुरक्ता दुहितरं दद्यात् । दैवनिमित्तशकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्दद्याच ॥ दैवनिमित्तशकुनोपश्रुतीनामिति । पूर्वजन्मकृतं शुभमशुभं वा कर्म दैवम् । तस्याभिव्यञ्जकत्वान्नक्षत्रग्रहा अपि दैवमुच्यते । अस्यानुकूल्येन षैट्राष्टकादियोगाभावात् । किमियमूढा कल्याणकरी नेति शास्त्रोक्तं निमित्तं शकुनट्टैच्छा च कार्या । निशीथे चोपश्रुतिर्भासा । तेषामानुकूल्येन वराय दीयमानामीप्सेत, दद्याच्च कन्यापक्षः । । न यहच्छया कलमानुषायेति घोटकमुखः ॥ केवलमानुषायेति । केवलं मानुषं कर्म यस्याम् । यहच्छायामभिजनसानाथ्यादिकमस्तीति । नैवान्येच्छया वरयेद्दद्याञ्चेत्यर्थः । घोटकमुख इति परमतमभिमतम् । अप्रतिषिद्धत्वात् । वरणकाले कन्यां दृष्ट्वा निमित्तं पश्येदिति दर्शयन्नाह सुतां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् । अमशस्तनामधेयां च गुप्तां दत्तां धोनां पृषतामृषभां विनतां विकटां विमुण्डां शुचिपितां सांकरिकी राकां फैलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत् ॥ १. 'उत्साहयेयुः' २. 'षडोष्टकादि'. ३. 'पृच्छाथ'. ४. 'केवलमात्माशयेनेति ; 'केवलमात्मात्रोपयमेदिति'. ५. 'गुप्ताधिगता'. ६. 'घोणा'; 'घोला'; 'द्योतां'. ७ 'मुण्डां'; 'मुरुण्डा'; 'विरुण्डा'. ८. 'सुविदूषिता'; 'विदूषिका'; 'मलूपिका'. ९ 'स्थावरिकां शाकरिका'; 'स्वावरिका शाकरिका'. १०. 'फलिनीं पालीं गुल्मिनी व्यङ्गा मित्रामनुजा वर्षी वर्जयेत्'; 'फणिनीं पालीं गुल्मिनीं जनसमवायेषु व्यङ्गा मित्राममित्रानुजा वर्षी वर्जयेत् . का० २५ १९४ १६ आदितोऽध्यायः] कामसूत्रम् । नक्षत्राख्यां नदीनानीं वृक्षनानीं च गर्हिताम् । लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥ सुप्तामिति । शयनमल्पायुषं सूचयति । रुदतीं दुःखभागिनीम् । निष्क्रान्तां गृहान्निष्कामन्तीम् । गृहत्यागिनीं दृष्ट्वा वरणकाले वरयिता वर्जयेत् । अप्रशस्तनामधेयामिति भङ्गिका वित्राटिकेति । गुप्तामप्रदर्शिताम् । आशङ्कयमानदोषत्वात् । दत्तामित्यनन्यपूर्वामित्यस्य, घोनादयश्च लक्षणसंपन्नामित्यस्य प्रपञ्चोऽवश्यत्यागार्थः । तत्र घोनां कपिलां पतिघ्नीम् । पृषतां शुक्लबिन्दुयुतामर्थहानिकरीं पतिघ्नीं च । ऋषमां पुरुषसंस्थानां दुःशीलाम् । विनतां स्कन्धदेशावनतां दुःशीलाम् । विकटामसंहतोरूं दुःखभागिनीम् । विमुण्डां बृहल्ललाटां पतिघ्नीम् । शुचिदूषितां पितुर्मूतस्य दत्तोल्कां क्रियया न प्रशस्ताम् । सांकरिकीं पुरुषदूषिताम् । तस्यां पत्नीयोगो न धर्मः । राकां जातरजसम् । रजसा क्षतयोनित्वात् । फलिनीं मूकां संव्यवहारबाह्याम् । मित्रां मित्रत्वेन गृहीतामगम्याम् । खनुजामिति त्रिवर्षात्प्रभृति न्यूनवयसमित्यस्य शेषः । सुष्ठु पश्चाज्जातामित्यर्थः । यथोक्तम् – 'चतुर्थादष्टमं यावत्कनिष्ठा वत्सरे वरात् । कन्यां परिणयेच्छस्तां नेतरातिवया याः ॥ वर्षकरी खिद्यत्करचरणां पतिघ्नीम् । नक्षत्राख्यां श्रवणां विशाखामित्येवमादि । नदीनाम गङ्गायमुनेत्यादि । वृक्षनाम जम्बू: प्रियंगुरित्यादि । लकाररफोपान्तां चेति । लकाररेफावन्ताक्षरसमीपे नाम्नि यस्याः । कमलू विमलू चारू तारू चेति । यस्यां मनचक्षुषोर्निवन्धस्तस्यामृद्धिः । नेतरामाद्रियेत । इत्येके ॥ मनश्चक्षुषोर्निबन्धनमिति केषांचिन्मतम् । यस्याममिजनादिसद्भावेऽपि मनःसङ्गश्चक्षुःप्रीतिश्चोभयमपरमस्ति तस्यां पत्न्यां सत्यां सिद्धिस्त्रिवर्गप्रा. प्तिरित्ययमुत्तमः पक्षः । नेतरामिति । यस्यां नास्ति न तामाद्रियेतत्यघमः पक्षः । केवलमभिजनाद्यपेक्षां वरयेत् । पूर्वामादरेणेति विशेषः । दोषेषु १. 'आशङ्कमानां दोपत्वात् '. २. 'अन्यपूर्वी'. ३. 'द्योता'. ४. 'धूपभां'. ५. सुविदूपितां'. ६. 'सद्व्यवहार'. ७. 'ऊनवयसं'. ८. 'विशाखाख्या'. ९. 'यस्या नायकस्य'. = १ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । १९५ तु मनश्चक्षुनिंबन्धनेऽप्युपेक्षाम् । तत्रापि दोषाणां गुरुलाघवं परीक्ष्यमिति । कन्यापक्षे वरणनिमित्तं संविधानमाह तस्मात्मैदानसमये कन्यामुदारवेषां स्थापयेयुः । अपराहिकं च नित्यं प्रसाधितायाः सखीभिः सह क्रीडा । यज्ञविवाहादिपु जन- संद्रावेषु प्रायत्निकं दर्शनम् । तथोत्सवेषु च । पॅण्यसघर्मत्वात् ॥ तस्मादिति । यतः सुप्ताद्यनिमित्तात्कन्या न त्रियते तस्मात् । प्रदानसमय इति । उपलक्षणार्थत्वाद्वरणकालेऽपि प्रसाधितां स्थापयेयुः कन्यापक्षीयाः । अपराह्निकमिति प्रदानात्प्रागपराह्णभवं विधिम् । स्थापयेयुरित्येव । तमाह – नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु । यज्ञविवाहादिषु चान्यदीयेषु । जनसंद्रावेष्विति । जनाः संभूय द्रवन्ति येषु । 'समि युद्रुदुवः' इति कर्तरि कारके घन् । प्रायत्निकमिति प्रयत्नसाध्यम् । परिचाराधिष्ठितत्वात्कौतुकेन लोको यत्नेन पश्यति । तथोत्सवेषु च वसन्तकादिषु जैनसंद्रावेषु प्रायत्निकम् । पण्यसघर्मत्वादिति । विक्रेतव्यतुल्यकौतुकेन हि लोको यत्नेन पश्यति । न दृश्यमाना पण्यवद्धियेत । वरयितॄणां च लक्षणमुपचारं चाह वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्संवन्धिसंगता- पुरुषान्मङ्गलैः प्रतिगृह्णीयुः । कन्यां चैषामलंकृतामन्यापदेशेन दर्श- येयुः । दैव' परीक्षणं चावधिं स्थापयेयुः । आ प्रदाननिश्चयात् ॥ वरणार्थमिति । अहीनाङ्गत्वान्मङ्गलाचारप्रयुक्तत्वात् । प्रदक्षिणवाच इति अनुकूलवाचः । तत्संबन्धिसंगतानिति यत्प्रागुक्तं मित्राणि संवन्धिनश्चेति तैः सहेत्यर्थः । मङ्गलैर्दध्यक्षतादिभिः प्रतिगृह्णीयात् कन्यापक्षीयः । अन्यापदेशेनेति अन्यकार्यमपदिश्य । न तूपेत्य दर्शयेत् । दानस्यानिश्चितत्वात् । दैवं परीक्षणं चेति । यावत्प्रदानं न निश्चीयते तावदेवं प्राजाप१. 'निवन्धनेऽप्यपेक्षः'. २. 'प्रदानकाले दर्शनविषये स्थापयेयुः । आपराङ्गिक वा'; 'अपराहे च'. ३. 'नित्यप्रसाधिताया.'. ४. 'जनसमुदायेषु'; 'जनसद्भावेषु'. ५. 'पप्पसधर्मत्वात्कन्यानाम् . ६. 'ततः '. ७. 'सुप्ता यद्यपि कन्या'. ८. 'सद्भावेषु . ९. 'जनसद्भावेषु'. १०. 'सुहृत्संबन्धि-'. ११. 'दैवपरीक्षणं'. १२. 'निरुपेत्य'. १३. 'देवता'. १९६ कामसूत्रन् । १६ आदितोऽध्यायः] त्यधीनमिति । परीक्षणं च मित्रखजनैः सह निरूपयाम इत्यवधिं स्थापयेयुः । अन्यस्त्वाह – 'गोष्ठसीताहृदवृक्षश्मशाने रिणदेवतः । चतुष्पथाच मृत्पिण्डैः कुर्याद्दैवपरीक्षणम् ॥' स्नानादिषु नियुज्यमाना वरयितारः सर्वे भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेयुः ॥ . स्नानादिषु नियुज्यमानाः कन्यापक्षीया वरयितार ईति वृण्वन्ति ये । सर्वमिति स्नानादिकम् । भविष्यति प्रजापतावनुकूले । तदहरेवेति । तं दिवसं स्नानादिभिर्नाङ्गीकुर्युः । देशप्रवृत्तिसात्म्यादा ब्राह्मप्राजापत्यार्षदेवानामन्यतमेन विवा- हेन शास्त्रतः परिणयेत् । इति वरणविधानम् ॥ देशप्रवृत्तिसात्म्याद्वेति । यस्मिन्देशे या प्रवृत्तिस्तदानुकूल्यादित्यर्थः । ब्राह्मप्राजापत्यार्पदैवतानामिति । एषां धर्म्यत्वादन्यतमेन । तथा चोक्तम्- 'सुहृदाहृय कन्यां तु ब्रा दद्यात्स्वलंकृताम् । सह धर्मे चरेत्येवं प्राजा- पत्योऽभिधीयते ॥ वसुग़ोमिथुनं दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वति ॥ शास्त्रत इति गृह्योक्तेन विधिना । वरणसंविधानं त्रयोविंशं प्रकरणम् ॥ अभिजनादिभिः शीलितायामप्यनिश्चिते संवन्धे वरणाभावात्संबन्ध- निश्चय उच्यते- भवन्ति चात्र श्लोकाः- समस्याद्याः सहक्रीडा विवाहाः सँगतानि च । समानेरेव कार्याणि नोत्तमैर्नापि वाधमैः ॥ समस्याद्या इति संभूय क्रीडामादिं कृत्वा । संगतानि सख्यानि । तादृशैरिति समानैः । तुल्यजात्यभिजनद्रव्यायतित्वात् । तेन समानधर्मोत्तमसंबन्धिभेदात्संवन्धस्त्रिविधः । तस्य कार्यद्वारेण लक्षणमाह१. 'इति ये विति'. २. 'विधीयते'. ३. 'संवन्धि -. ४. 'समस्याद्या'. ५. 'मइलानि'. ६. 'सदृशैः'. ७. 'च'. m १ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः । तं विद्यादुच्चसंवन्धं परित्यक्तं मनस्विभिः ॥ कन्यामिति । गृहीत्वा परिणीय । प्रेष्यवद्धृत्यवत् । द्रव्यायत्यभावात् । उच्चसंबन्धमिति अधिकेन च संवेन्धनात् । परित्यक्तं मनस्विभिः । ये तु नैवं ते कुर्वन्त्येव । स्वामिषद्विचरेद्यत्र वान्धवैः स्वैः पुरस्कृतः । १९७ अश्लाघ्यो हीनसंवन्धः सोऽपि सद्भिर्विनिन्द्यते ॥ स्वामिवदिति । कन्या गृहीत्वा प्रभुवद्विचरेत् । द्रव्यायतिमत्वात् । बान्धवैः श्वशुरश्यालकादिभिः प्रेष्यभूतैः परिवृतः । अश्लाघ्य इत्यश्लाघनीयः । तदनुरूपलोकाचारामावात् । सद्भिरिति लोकव्यवहारज्ञैः । परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते । विशेषयन्ती चान्योन्यं संवन्धः स विधीयते ॥ परस्परसुखाखादेति वरपक्षस्य कन्यापक्षस्य च सुखानुभवो यस्यां परस्परप्रयुक्तायां क्रीडायाम् । विशेषयन्ती चान्योन्यं प्रयुज्यते यस्मिन्संबन्धे स संवन्धो विघीयत इति । सद्भिः क्रियत इत्यर्थः । पूर्वौ तु न विघीयेते इत्यर्थोक्तम् । तयोरपि कः श्रेयानित्याहकृत्वापि चोञ्चसंबन्धं पञ्चज्ज्ञांतिषु संनमेत् । न त्वेव हीनसंवन्धं कुर्यात्सद्भिर्विनिन्दितम् ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे वरणविधानं संबन्धनिश्चयश्च प्रथमोऽध्यायः । कृत्वापीति । ज्ञातिषु संनमेदिति ज्ञातिगृहे स्वयं यायात् । न श्वागुरगृह इत्यर्थः । न त्वेवेत्येकान्तेनैव प्रतिषेधः । संवन्धनिश्चयश्चतुर्विशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानाया विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाध्यायां कन्यासंत्रयुक्तके तृतीयेऽधिकरणे वरणविधानं सवन्धनिश्चयश्च प्रथमोऽध्यायः । । १. 'मनीषिभिः'. २. 'संबन्धिना'. ३. 'तै.'. ४. 'निगद्यते'. ५. 'वान्योन्यं'. ६. 'अभिधीयते'. ७. 'बन्धुपु'. ८. 'निर्णय:'. द्वितीयोऽध्यायः । एवमधिगताप्यविश्वासिता न प्रयोगार्हेति कन्याविसम्भणमुच्यते । तत्र विवाहानन्तरं मजलाचारमाह संगतयोखिरात्रमधः शैय्या ब्रह्मचर्य क्षारलवणवर्जमाहारस्तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संवन्धिनां च पूजनम् । इति सार्ववर्णिकम् ॥ संगतयोरिति । परिणयात्प्राप्त समागमयोः । त्रिरात्रमिति । रात्रिग्रहणं रात्रिकर्मप्रदर्शनार्थम् । अधः शय्या भूमौ शयनम् । न खट्ट्टायाम् । ब्रह्मचर्य यावच्चतुर्थिकाहोमो न क्रियते । दिवामैथुनस्य प्रतिषिद्धत्वात् । क्षारः फाणितगुडादिः । लवणं सैन्धवादि । तद्वजै भोजनं म धुक्षीरघृतसंस्कृतप्रायम् । तच्च नक्तं स्यात् । रात्रिकर्मवर्गे पठितत्वात् । तथा सप्ताहमिति । यथा व्यहम् । तदूर्ध्वमपराणि सप्तानीत्यर्थः । अहर्झहणं दिनकर्मप्रदर्शनार्थम् । सवाद्यं समझलं सगीतं स्नानं च । प्रसाधनं मण्डनम् । सहभोजनं चेति । एकस्सिन्स्थाने । पूर्वत्रापि सहभोजनं किं तु व्रतस्थत्वात्क्षारलवणवजै नक्तं च तदिति । प्रेक्षा संबन्धिनां नटादीनां च दर्शनम् । पूजनं च गन्धमाल्यादिभिः । सार्ववर्णिकमिति चतुर्ष्वपि ब्राह्मणादिवर्णेषु भवम् । अविरुद्धत्वात् । एतच लोके दशरात्रिकमित्युच्यते । तथा चोक्तम् –'कन्यावेश्मनि निर्वर्त्य राजबद्दशरात्रिकम् । सभार्यः स्वगृहं यायात्स्थितेर्वा कुलदेशयोः ॥ इति । विसम्भणोपायमाह तस्मिन्नेतां निशि बिजने मृदुभिरुपचारैरुपक्रमेत ॥ तस्मिन्निति दशरात्रिके । कन्या द्विविधा संसर्गयोग्या इतरा च । पूर्वस्या विसम्भणं रेतापेक्षया । द्वितीयाया भयलज्जापगमापेक्षया । निशि मन्दसाध्वसत्वात् । विजने कौतुकगृहे । लज्जापगमात् । मूदुभिरुपचारैरिति अनुद्वेगकरैरालापस्पर्शनादिभिः । १. 'संहतयो: '. २. 'शयन'. ३. 'अक्षारालवणमाहार:'. ४. 'रात्रिकर्मवर्गोपचितत्वात्'. ५. 'उपाय:'. ६. 'रतापेक्षायाः'. ७. 'अनुद्वेजनकरैः'. । २ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । १९९ किमर्थमुपक्रम्यत इत्याहत्रिरात्रमवचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयामिव प्रकृतिम् । इति वाभ्रवीयाः ॥ त्रिरात्रमिति । स्तम्भमिव मूकं निश्चेष्टं तत्र निर्वचनं पश्यन्ती निर्विघेत । मूकेन ग्राम्येण चाह मूढेति खिद्येत । परिभवेच्चेति निश्चेष्टत्वान्नपुंसकमिति तिरस्कारबुद्धिं तत्र कुर्यात् । अस्मिन्पक्षे सर्वस्याविशङ्कया करणे प्राप्ते प्रतिषेधमाह - उपक्रमेत विस्रम्भयेच्च, न तु ब्रह्मचर्यमतिवर्तेत । इति वात्स्या- यनः ॥ उपक्रमेत यथा न निर्विद्येत । विसम्भयेच यथा संप्रयोगेऽनुकूला भवति । न तु ब्रह्मचर्यमतिवर्तेत । अनुकूलायामप्यकाले व्रतखण्डनस्याधर्मत्वात् । उपक्रममाणच न प्रसय किचिदाचरेत् ॥ उपक्रममाणश्चेत्यादिना मृदुमिरुपचारैरित्यस्य प्रपञ्चः । न प्रसद्ध किंचिदिति । स्पर्शनमपि नाभिभूय कुर्यादित्यर्थः । किमर्थमित्याह- कुसुमसघर्माणो हि योपितः सुकुमारोपक्रमाः । तास्त्वनधिगत- विश्वासैः प्रसभमुपक्रम्यमाणाः संप्रयोगद्वेषिण्यो भवन्ति । तस्मा- तसाचैवोचरेत् ॥ कुसुमसघर्माण इति कुसुमतुल्याः । योपित इति सर्वा एव । विशेषतः कन्याः । सुकुमारोपक्रमा इति मृदुरुपक्रमः स्पर्शनादिलक्षणो यासु । अनधिगतविश्वासैरिति । लव्धविश्वासैस्तु प्रसह्योपक्रमो न ढोपाय । १. 'त्रिरात्रमवचनमित्याचार्याः । त्रिरात्रमवचन हि स्तम्भमिव विमना नायकं पदयन्ती कन्या निर्विष्टोहूना परिभवेच्च'. २. 'तृतीया प्रकृतिमिन'. ३. 'ब्रह्मवर्चस'. ४. 'मालतीमाथवे सप्तमाङ्कप्रारम्भ एव बुद्धरक्षितावाक्ये समुद्धृतमेतत्सूत्र महाकविधीभवभूतिना. ५. 'भवन्ति । पुरुषद्वेपिण्यो वा. ६. 'उपक्रमेत'. २०० कामसूत्रम् । १७ आदितोऽध्यायः] संप्रयोगद्वेषिण्यो जातानिच्छकत्वात् । तस्मात्साम्नेति मृदुना । सर्वोपचाराणामयं प्राथमिको विधिः । तत्रालब्धप्रसरस्योपचारयोगासंभावात्तदुपायमाह- युक्त्यापि तु यतः प्रसरमुपलभेत्तेनैवानु प्रविशेत् ॥ युक्त्येति । कयाचिदर्थयुक्त्या तत्कालभाविन्या । यतः प्रसरमिति तत्सख्या सह संभाषणे क्रीडने वा आत्मनोऽवकाशमुपलभेत्तेनैव संभापणेन क्रीडनेन वा द्वारेण तामनुप्रविशेत् । kampung ततो लब्धप्रसरस्य प्रथममुपगूहनेनोपक्रम इत्याह- तत्प्रियेणालिङ्गनेनाचरितेन । नातिकालत्वात् ॥ तत्प्रियेणेति । कथं तत्प्रियमित्याह –नातिकालत्वादिति । यद्दत्त्वानन्तरमेवापनीयते तस्यानुद्वेजनकरत्वात् । पूर्वकायेण चोपक्रमेत् । विपद्यत्वात् ॥ पूर्वकायेण चेति । तस्या यो नाभेरूर्ध्वभागस्तेन प्रथममुपक्रमेत् । विपह्यत्वादिति । तेनोपक्रमः शक्यते सोढुम् । नाधरकायेन । उद्वेजनकरत्वात् । दीपालोके विगाढयौवनाया: पूर्वसंस्तुतायाः । बालाया अपू वयाचान्धकारे ॥ दीपालोके कौतुकगृहवर्तिनि । विगाढयौवनापूर्वसंस्तुतयोः । भयलज्जाभावात् । बालापूर्वयोरन्धकारे । लज्जाधिक्यात् । विगाढयौवनाप्यन्यशुभलक्षणयोगादूढा । लघुदोषत्वात् । अङ्गीकृतपरिष्वजायाच वेदनेन ताम्बूलदानम् । तदप्रतिपद्यमा- नां च सान्त्वनैर्वाक्यैः शपयैः प्रतियाचितैः पादपतनैश्च ग्राहयेत् । व्रीडायुक्तापि योपिदसन्तक्रुद्धापि न पादपतनमतिवर्तते इति सा- र्वत्रिकम् ॥ १.. 'अनतिकालत्वात्'. २ 'उपनीयते । तस्यानुद्वेगजनकत्वात् ३. 'पूर्वकायेन चोपक्रमः'; 'पूर्वकार्येनैवोपक्रमेत्'.४. 'नावरकायेन'. ५. 'विगाढयौवनाया पूर्वसंस्तुताथ. ६. 'बालाया अपूर्वायाथान्धकारे' इति पुस्तकान्तरे नास्ति ७. 'विगाढयौवनाकारा'. ८. 'लघुलक्षणत्वात्'. ९. 'वदने' १०. 'सान्त्वनवायैः सशपयैः प्रीतियाचनैः. i 1 + २ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २०१ बदनेन ताम्बूलदानमिति खेन मुखेन । चुम्बनक्षन्तेरभिप्रेतत्वात् । तदप्रतिपद्यमानामिति ताम्बूलमगृहतीम् । सान्त्वनवाक्यैः प्रियाभिधाविभिः । शपथैरिति मच्छरीरेण शप्तासीति । प्रतियाचितैस्त्वमेतन्मे दे हीति । पादपतनेन वा अन्त्यावस्थायां ग्राहयेत् । यतः स्त्रिया ब्रीडात्याजने कोषापनयने च न पादपतनादूर्ध्वमुपायोऽस्ति । सार्वत्रिकमिति न कन्यायामेव । अन्यस्यामपि । तेदानप्रसङ्गेण मृदु विशदमकाहलमस्याचुम्वनम् । तत्र सिद्धा- मालापयेत् । तँच्छ्रवणार्थं यत्किचिदल्पाक्षराभिषेयमजानन्निव पृ- च्छेत् । तत्र निष्पतिपत्तिमनुद्वेजयन्सान्त्वनायुक्तं बहुश एव पृ. च्छेत् । तत्राप्यवदन्तीं निर्वधीयात् ॥ मृद्विति यंत्र ग्रहणं नास्ति । तस्योद्वेजनत्वात् । विशदं स्पर्शकरम् । अकाहलमशब्दम् । सशब्देन लज्जिता स्यात् । तत्र सिद्धां चुम्बनेनानुकूलामालापयेत् यथा ब्रवीति । अत्रोपायमाह - तच्छ्रवणार्थमिति आ लापश्रवणार्थम् । यत्किचिदिति दृष्टं श्रुतं वा तदानीम् । अल्पाक्षराभिधेयं सुकथनीयत्वात् । अजानन्निवेति । अन्यथा विहावयतीति जानीयात् । निष्पतिपत्तिं तूष्णीं स्थिताम् । सान्त्वनायुक्तं चाटुयुक्तम् । निबेनीयात् अनेनैव क्रमेण । निर्बन्धे विरज्यत इति चेदाह सर्वा एव हि कन्या: पुरुषेण प्रयुज्यमानं वचनं विपहन्ते । न तु लघुमिश्रामपि वाचं वदन्ति । इति घोटकमुखः ॥ सर्वा एवेति । प्रयुज्यमानमिति पुनःपुनरुच्यमानं विषहन्ते । आविर्भवन्मन्मथत्वात् । लघुमिश्रामपीति कतिपयाक्षरामन्यार्थश्लिष्टामपि न वदन्ति । लज्जापरतन्त्रत्वात् । १. 'ख्याते:'. २. 'साधनवाक्यै:'. ३. 'त्वमेतर्हि मे'. ४. 'ततः'; 'चेतः'; 'न च'. ५. 'तद्दानप्रयोगेण'; 'ताम्बूलदानप्रसङ्गेन'. ६. 'आस्य चुम्बनम्'. ७. 'तदालापधवणार्थी'; 'तद्वाक्यश्रवणायें'. ८. 'न निर्बंधीयात्'. ९. 'यन्त्रप्रहण नास्ति तस्योद्वेजनात्.. १०. 'अपि'. ११. 'लध्वक्षरमिश्राम्'. का० २६ कामसूत्रम् । १७ आदितोऽध्यायः] अत्र कन्याया आलापयोजनोपायमाह g निर्वध्यमाना तु शिरःकम्पेन मैतिवचनानि योजयेत् । कैलहे तु न शिरः कम्पयेत् ॥ निर्वध्यमानेति । शिरःकम्पेनेति । किमिदं जानासीति पृष्टा जानामीत्यूर्ध्वाधः शिरश्चालनेन, न जानामीति तिर्यक् शिरश्चालनेन योजयेत् । धाष्टर्चपरिहारार्थम् । कलहे त्विति स्यामवदन्त्यां यदि कदाचिदर्थयुक्त्या प्रेरणप्रतिप्रेरणादिलक्षणो वाक्कलहो जातस्तस्मिन् किं कुपितासि नेति पृष्टा न शिरः कम्पयेत् । कोपख्यापनार्थम् । अकलहे तु स्नेहजिज्ञासायामालापयोजनमाह २०२ इच्छसि मां नेच्छसि वा किं तेऽहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्वध्यमाना तदानुकूल्येन शिरः कम्पयेत् । प्रपञ्चयमाना तु विवदेत् ॥ इच्छसि मां नेच्छसि वेति वार्तमानिकः प्रश्नः । किं तव रुचितोऽहमरुचितो वेति परिणयात्पूर्वकालिकः प्रश्नः । चिरं स्थित्वेति संकटः प्रश्नः । यदि पूर्वपक्षमाश्रयेयं तदा धाष्टर्चे लाघवं च, इतरं चेत्तदा नैष्ठुर्यमिति निर्वध्यमाना नायकेन संकटप्रश्ने किमनुष्ठास्यतीति । तस्या निर्बंध्यमानाया उभयपक्षाश्रयणमेव युक्तमित्याह - तदानुकूल्येनेति । पूर्वपक्षोतरपक्षानुकूल्येनोमयथापि शिरः कम्पयेदित्यर्थः । प्रपञ्चयमाना त्विति अनिश्चितार्थप्रकाशनान्नायकेन प्रतार्यमाणा विवदेत् । कोपख्यापनार्थं विरुद्धं वदेत् न मे रुचितोऽसि नेच्छामि त्वामिति । यदि पूर्वपरिचिता तदालापयोजने विधिमाह संस्तुता चेत्सखीमनुकूलानुभयतोऽपि विस्रब्धां तामन्तरा कृत्वा कथां योजयेत् । तस्मिन्नधोमुखी विहसेत् । तां चातिवादिनीमैघिक्षिपेद्विवदेच्च । सा तु परिहासार्थमिदमनयोक्तमिति चानुक्त१. 'आलापोपायमाह'. २. 'प्रतिवचनं'. ३. 'कलहेन च'. ४. 'अस्यामवस्थायां' ५. 'अपनुदेत'. ६. 'परिहासात्सर्वमिदं'. ३ कन्यासंप्रयुक्तकमधिकरणम् । २ अध्याय:] मपि ब्रूयात् । तत्र तामंपनुद्य तु मासीत । निर्वध्यमाना तु नोहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितायें वचनं ब्रूयात् । नायकं च विहसन्ती कदाचित्कटाक्षैः प्रेक्षेत । इत्यालापयोजनम् ॥ संस्तुता चेदिति । सखीमिति सखीनां मध्ये यानुकूला । विसन्धोभयत इति द्वयोरपि विसधा । विदितपूर्ववृत्तान्तत्वात् । तामन्तरा कृत्वा व्यवघाय कथायोजनम् । नायकस्य तु पूर्ववृत्तां कथां योजयेत् । किमहमस्या रुचितो न वेत्यर्थः । तस्मिन्निति । यदैव तस्यां क्रीडायां परिचयोऽभूत्तत एव प्रभृति रुचितोऽसीति सख्या कथने क्रियमाणेऽधोमुखी लज्जया विहसेत् । एवमिति तदितिख्यापनार्थम् । नायिका तां चेति सखीम् । अतिवादिनीमित्यनुरागातिशयं कथयन्तीमघिक्षिपेत् । विवदेख तया सह कैलहयेत् । सा विति सखी । अनुक्तमपि नायिकया ब्रूयात् । अद्यैव यदि पाणि गृह्णासि साधु भवतीति । तत्रेत्यनुरक्तकथने । अनवसितार्थमक्षराणामस्पष्टत्वाट्र्यात् । मुग्धत्वख्यापनार्थम् । नायकं च विहसन्ती कदाचिदन्तरान्तरा परिचयवशात्कटाक्षेणोन्मुखीव प्रेक्षेत । अनुरागातिशयख्यापनार्थम् । २०३ प्रतिवचनार्थमभ्यर्थ्यमाना तूष्णीएवं जातपरिचया चानिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं सजं निदध्यात् । उत्तरीये वास्य निवनीयात् । तथा युक्तामाच्छुरितकेन स्तनमुकुलयोरुपरि स्पृशेत् । वार्यमाणश्च त्वमपि मां परिष्वजस्व ततो नैवमाचरिष्यामीति स्थित्या 'पॅरिष्वञ्जयेत् । "स्वं च हस्तमा नाभिदेशात्मसार्य निर्वर्तयेत् । क्रमेण चैनामुत्सद्गमारोप्याधिकमधिकमुपक्रमेत् । अप्रतिपद्यमानां च भीषयेत् ॥ एवमालिङ्गनताम्बूलचुम्वनालापैर्जातपरिचया । अनिर्वदन्ती गृहाणेति । १. 'अनूय'; 'अपरुध्यमाना'. २. 'नैवाहमेवं'. ३. 'पूर्ववृत्तान्त'. ४. 'किमह मरुच्यो रुचितो न वेत्यर्थः'. ५. 'कलहयेद्विवदेच. ६. 'नायिकाया: '. ७. 'सखीयाचितं'. ८. 'तदायुका'. ९. 'स्पर्शयेत. १०. 'परिष्वजेत्'. ११. 'परिध्वजमानायाः खहस्तं'. १२. 'प्रसार्य प्रसार्य. २०४ कामसूत्रम् । १७ आदितोऽध्यायः] याचितं नायकेन । निदध्यात्स्थापयेत् । तथा युक्तामिति निदधतीमुत्तरीये वा निवनतीम् । आच्छुरितेन पूर्वोक्तन । स्तनमुकुलयोरिति मुकुलग्रहणमतिस्पर्शनिवृत्त्यर्थम् । बालत्वात् । वार्यमाणश्चेति । स्पर्शनस्थित्या व्यवस्थया परिष्वञ्जयेत् । स्थितिमाह —त्वमपीति । आ नाभिप्रदेशादिति नामिप्रदेशं यावत् । प्रसार्य निवर्तयेदिति वीप्साथै क्षान्त्यर्थम् । प्रसार्य प्रसार्येत्यर्थः । क्रमेणेति । न सहसोत्सङ्गमारोपयेत् । अधिकमधिकमिति नखदशनपदैरप्रतिपद्यमानामधिकोपक्रमं भीषयेत् । कथमित्याह अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखप- दम् । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य पुरतः कथयिष्यामि । सा त्वं किमत्र वक्ष्यसीति वालविभीपिकैर्वालप्रत्या- यनैश्च शनैरेनां प्रतारयेत् । द्वितीयस्यां तृतीयस्यां च रात्रौ किंचि- दधिकं विस्रम्भितां हस्तेन योजयेत् ॥ अहमिति । आत्मनश्च स्वयं कृत्वा दन्तपदं नखपदं च । किमसौ प्रतिपत्स्यते सखीजनो नवोढादुश्चेष्टितादन्यत्रेत्येतद्वालमीषितम् । अस्मिन्वचनानुष्ठाने तु नाहमेवं करिष्यामीति बालप्रत्यायनमर्थोक्तम् । शनैरेनां प्रॆतारयेत् कार्याभिमुखीं कुर्यादिति । एतत्प्रथमायां रात्रौ विलम्भणम् । तस्मात्किंचिदधिकं द्वितीयस्यां रात्रौ तृतीयस्यां च । हस्तेन योजयेदिति कैक्षोरुजघनेषु हस्तस्पर्शसंबन्धिनीं कुर्यात् । हस्तेन योजनोपायमाह सर्वाङ्गिकं चुम्बनमुपक्रमेत ॥ सर्वाङ्गिकमिति । ललाटनयनादिषु विचुम्व्यमाना पर्याकुला सर्वमभ्युपगच्छति । १. 'परिष्वजेत्'. २. 'अहं ते खल्लु'. ३. 'कृतमिति सखीजनस्य ते वक्ष्यामि . ४. 'किमत्र प्रतिपत्स्यत इति बालविभोपितैः . ५. 'प्रसारयेत्'. ६. 'ऊरुजघनेपु'. दि के' AD A La Tai 1 पुरः • वि I २ अध्यायः] - ३ कन्यासंप्रयुक्तकमधिकरणम् । हस्तयोजनविधिमाह-~- ऊर्वोथोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणो- रुमूलमपि संवाहयेत् । निवारिते संवाहने को दोप इत्याकुलयेदे- नाम् । तेच स्थिरीकुर्यात् । तत्र सिद्धाया गुहादेशाभिमर्शनं रशना- वियोजनं नीबीविसनं बसनपरिवर्तनमुरुमूलसंवाहनं च । एते चास्योन्यापदेशाः । युक्तयत्रां रञ्जयेत् । नै त्वकाले व्रतखण्डनम् अनुशिष्याच्च । आत्मानुरागं दर्शयेत् । मनोरथांच पूर्वकालिकान- नुवर्णयेत् । आयत्यां च तदानुकूल्येन प्रवृत्ति प्रतिजानीयात् । सपत्नीभ्यय साध्वसमवच्छिन्द्यात् । कालेन च क्रमेण विमुक्तक- न्याभावामनुद्वेजयशुपक्रमेत । इति कन्याविसम्भणम् ॥ ऊर्वोरिति । तत्रायं क्रमः – प्रथमं पूर्वकायस्य संवाहनक्रिया । तस्या सिद्धायामूर्वोपरि यस्तहस्त ऊरू संवाहयेत् । क्रमेणोरुमूलमिति । तत्रेत्यूरुमूले । आकुलयेत् चुम्बनाच्छुरितकैः । तच्चेति । यत्पूर्वाभ्युपगतं संवाहनं तच स्थिरीकुर्यात् क्षान्त्यर्थम् । तत्रेत्यूरुमूलसंवाहने सिद्धाया गुह्यदेशाभिमर्शनम् । संवाहनव्यपदेशेन रसनावियोजनाद्यपि कुर्यात् । पुनरूरुमूले संवाहनग्रहणमपरित्यागार्थम् । गुह्यस्पर्शहेतुत्वात् । एत इति गुह्यस्पर्शनादयो व्यापाराः । अस्येति नायकस्य । अन्यापदेशा इति त्रिरात्रादर्वागन्यमपदिश्य कर्तव्याः । न तु व्रतखण्डनमधिकृत्येत्यर्थः । युक्तयन्त्रां च चतुर्थिकांहोमादूर्ध्वं रञ्जयेदिति । रञ्जनमनुद्वेज्य सुखोत्पादनम् । अनुशिष्यात् चातुःषष्टिकान्योगान् शिक्षयेत् । आत्मानुरागं च दर्शयेत् इज्ञिताकाराभ्याम् । मनोरथान् पूर्वकालीनाननुवर्णयेत् ये ये तस्यामधरपानादयश्चिन्तिताः । आयत्यामिति । अनागतकाले तदानुकूल्येन प्रवृत्ति प्रतिजानीयात् 'यदाह भवती तन्मया विधातव्यम्' इति । सप२०५ १. 'विन्यस्तपाणिः . २. 'तत्र'. ३. 'सिद्धाय'. ४. 'विमोचनम्'. ५. 'अन्यापदेशेन'; 'अन्यापदेशात्'. ६. 'न त्वकाले युक्तयन्त्रा रञ्जयेत्,' ७. 'न त्वकाले व्रतखण्डनम्' इति पुस्तकान्तरे नास्ति. ८. 'कालेन च' इति पुस्तकान्तरे नास्ति. ९. 'चुम्बयेच्छुरितकैः . २०६ कामसूत्रम् । १७ आदितोऽध्यायः] त्नीभ्यः साध्वसमवच्छिन्द्यात् । यद्यघिविन्ना स्यात् । कालेन च गच्छता मुक्तकन्याभावां युवतीमनुद्वेजयन्नुपक्रमेत् । तदाप्ययमेव क्रमः । स स्फुटः कर्तव्यः । उक्तमुपसंहरन्नाह - भवन्ति चात्र श्लोका:- एवं चित्तानुगो वालामुपायेन प्रसाधयेत् । तथास्य सानुरक्ता च विन्धा प्रजायते ॥ । एवमिति । चित्तानुग इति चित्ताभिप्रायं बुद्धा । उपायेनेति युक्त्या । । प्रसाधयेद्विश्वासयेत् । किमेवं स्यादित्याह —— तथेति । सुविखन्धा सती अनुरक्ता प्रजायत इति योज्यम् । तत्रापि विशेषमाह नात्यन्तमानुलोम्येन न चातिप्रतिलोम्यतः । सिद्धिं गच्छति कन्यास तस्मान्मध्येन साधयेत् ॥ नात्यन्तमिति । सिद्धिं सुखम् । तत्र तदानुलोम्येन प्रवृत्तौ स एवोतरकालमपि मार्गः स्यात् । ततश्चास्य खेच्छौविघातात्तद्विषयासिद्धिः । प्रातिलोम्येनातिप्रवृत्तौ तु तदानीमेव विरक्तत्वात्कथं तद्विषया सिद्धिः । तस्मान्मध्येनोपायेन साधयेत् । विसम्मणं किंफलमित्याह — आत्मन: प्रीतिजननं योषितां मानवर्धनम् । कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ॥ आत्मन इति । वर्धनमिति । उपचारस्य तथाविधत्वात् । कन्यानामिति वक्तव्ये योषिग्रहणं प्रथमसमागमे सर्वविषयमिदमिति दर्शनार्थम् । तत्परिज्ञानर्फेलमाह – प्रियो भवेदिति । अतिलज्जान्वितेत्येयं यस्तु कन्यामुपेक्षते । सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥ १. 'सानुरागा च विसव्वा चैव'. २. 'प्रतिलोमतः'. ३. 'स्वेच्छाविधौ तद्विपया'. ४. 'फलमिल्याइ'. } 1 ३ कन्यासंप्रयुक्तकमधिकरणम् । सहसा वाप्युपक्रान्ता कन्याचित्तमविन्दता । भयं वित्रासद्गं सद्यो द्वेषं च गच्छति ॥ सा प्रीतियोगमैप्राप्ता तेनोद्वेगेन दूषिता । पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा ॥ ३ अध्यायः] २०७ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे कन्याविनम्भणं द्वितीयोऽध्यायः । अतिलज्जान्वितेति । अस्मात्कारणात्कन्या नोपेक्षणीया । अनेन त्रिरात्रं निर्वचनं पश्यन्ती निर्विद्येत परिमवेञ्चेत्यस्य प्रपञ्चः । उपक्रान्तेत्युपस- पिता । भयं यतो दर्शनपथेऽपि न तिष्ठति । वित्रासं तत्स्मरणाच्छरीर- विधूननम् । उद्वेगं भोजनादिभ्यो व्यावर्तनम् । प्रीतियोगमप्राप्ता । लज्जा- न्वितेत्युपेक्षितत्वात् । उद्वेगेन दूषिता । सहसोपक्रान्तत्वात् । पुरुषद्वेपिणी सर्वान्पुरुषान्द्वेष्टि । सर्वोऽप्येवंविष इति द्विष्टा । प्रीतियोगमप्राप्तत्वात् । तैश्च तं मुक्त्वान्यं पुरुषं गच्छति । इति कन्याविसम्भणं पञ्चविंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाप्याया कन्यासंप्रयुक्तके तृतीयेऽधिकरणे कन्याविसम्मण द्वितीयोऽध्यायः । तृतीयोऽध्यायः । वरणसंविधानपूर्वकमधिगतायां विसम्मणमुक्तम् । या तु त्रियमाणा न लभ्यते तत्र गान्धर्वादयश्चत्वारो विवाहाः । तत्रालाभकारणान्येव तावदाह - धनहीनस्तु गुणयुक्तोऽपि, मध्यस्यगुणो हीनापदेशो वा, सधनो वा प्रातिवेश्यः, मातृपितृभ्रातृषु च परतन्त्रः, वालवृत्तिरुचिप्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् । वाल्यात्मभृति चैनां स्वयमेवानुरञ्जयेत् । तथायुक्तथ मौतुलकुलानुवर्ती दक्षिणापथे बाल एव १. 'चिन्तां समुद्वेगं'. २. 'अप्राप्य'. ३. 'ततथान्य'. ४. 'उपचितप्रवेशः'. ५. 'मातुलानुवर्ती'. २०८ कामसूत्रम् । १८ आदितोऽध्यायः] मात्रा च पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादलभ्यां मा तुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् । अन्यामपि वाह्यां स्पृहयेत् । वालायामेवं सति धर्माधिगमे संवननं श्लाघ्यमिति घोटकमुखः ॥ धनहीनस्त्वभिजनादिगुणयुक्तोऽपि दरिद्रः कन्यां न लभते । मध्यस्थगुणो हीनापदेशो वेति । मध्यस्था रूपशीलादयो गुणा अभिजनः प्रधानं तदभावाद्धीनव्यपदेशः । सघनो वा प्रातिवेश्य इति खगृहसमीपवासी सीमासंबन्धेन कलहादिजनकत्वात् धनगर्वान्न लभते । मातापित्रोर्भ्रातृपु च सत्सु परतन्नोऽन्यप्रधानः सेघनोऽपि न लभते । बालवृत्तिरुचितमवेशो वेति । यो लाडीकवदृश्यते सोऽनिषिद्धगृहप्रवेशोऽपि परिभवान्न लमते । यदि न वरयेत्कथमधिगच्छेदित्याह—बाल्यादिति । अनुरजयेत् । अनुरक्ता हि स्वयमेव गान्धर्वेण विवाहेन पाणिं ग्राहयति । यतः 'स्वयं संयोगे गान्धर्वः' इति । तस्मादनुरञ्जनार्थं वालायामुपक्रमादनेकप्रकारा उच्यन्ते । यत्र च देशे प्रायेणैवंविधा वृत्तिस्तामधिकृत्याहतथायुक्तश्चेति । धनहीनत्वादियुक्तः । दक्षिणापथ इति । तत्र हि मातुलदुहिता परिणीयते । वियुक्तः पित्रोर्मृतत्वात्परिभूतकल्पो मातुलकुलयुक्तः । अन्यस्मै वा पूर्वदत्तामदत्तां वा । अन्यामपि वाह्यामिति । या मातुलदुहिता न भवति पित्रोः संबन्धबाया तामपि स्पृहयेत् । तत्र कर्तुः क्रियया आप्तुमिष्टतमत्वेन विवक्षित्वात्कर्मत्वम् । अनेनान्यस्मिन्नपि देशे विधिरयमिति दर्शयति । बाल्यात्प्रभृति सति धर्माधिगमे बालायां धर्मार्थमधिगमे संदर्शनालापलक्षणे सति संवननं वशीकरणमनुरञ्जनलक्षणं लाघ्यम् । अन्यथा दर्शनात्कथं संवननं स्यात् । धर्म्याश्च गान्धर्वा विवाहाः । यथोक्तम् – 'तत्र पूर्वे धर्म्याश्चत्वारः । पढित्येके' । उपक्रमिवत्वाद्विविधो वालो युवा च । तत्र पूर्वमधिकृत्यानुरञ्जनमाह तया सह पुष्पावचयं ग्रथनं गृहकं दुहितकाक्रीडायोजनं भक्त१. 'संचरणं'. २. 'सधर्मोऽपि'. ३. 'विवाहेन' इति पुस्तकान्तरे नास्त्रि. ४, उपक्रमाद्वा'. ५. 'तँ'. ६. 'धर्माथ'. ७. 'दुहितृकापुत्रिका'; 'गृहदुहितृकक्रीडा'; 'गृहकन्दुकं दुहितृकापट्टिका'; 'गृहकन्दुकपुत्रिका'. ८. 'भक्षपानकरणं'; 'भक्कं वा पाककरणं. ३ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २०९ पानकरणमिति कुर्वीत । परिचयस्य वयसश्रीनुरूप्यात् । आक- र्षक्रीडा पैट्टिकाक्रीडा सृष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पापाणकादीनि च देश्यानि तत्सात्म्यात्तैदाप्तदासचेटिकाभि- स्तया च सहानुक्रीडेत । वेडितकानि सुनिमीलितकामारब्धिकां लवणवीथिकामनिलताडितकां गोधूमपुञ्जिकामङ्गुलिताडितकां स- खीभिरन्यानि च देश्यानि ॥ तयेति बालया । अवचयमुच्चपादपात् । ग्रथनं पुष्पाणाम् । गृहकं काष्ठमयं मृण्मयं वा स्वल्पम् । दुहितृका सूत्रदार्वादिमयी । भक्तपानकरणमिति सद्भकं तण्डुलैरितरत्पांसुभिः । परिचयस्य वयसश्चेति । आत्मनः स्वल्पमधिकं वा परिचयम्, बाल्यं तारुण्यं वा वयो बुद्धा तदनुरूपमाचरेत् । नोक्तमित्येव । आकर्षक्रीडा पाशकक्रीडा । पट्टिकाग्रथनम् । मुष्टिद्यूतं प्रसिद्धम् । क्षुल्लकद्यूतं पञ्चसमयादि । मध्यमाङ्गुलिग्रहणमिति अझुलिविपर्यासेन गोपितुर्मध्यमाङ्गुलेर्महणम् । षट्पाषाणकमिति । यत्र स्वल्पानि षट्पाषाणानि हस्तस्य क्रोडेनोत्सिप्य पृष्ठेन गृह्यन्ते । आदिशब्दादन्यानि च देश्यानि पश्चिकाप्रसृतकादीनि । तत्सात्म्यादिति यत्र नायिकाया अभिनिवेशः । तदाप्तदासचेटिकाभिरिति तस्या ये दासाबेटिकाध तामिः क्रीडन्तीभिः सहानुक्रीडेत । ततो लब्धप्रसरस्तया च । क्ष्वेडितकानि चेति येवगव्यायामाः । तान्याह—सुनिमीलितकामिति । यत्रैकस्य कधिन्नेत्रे निमीलयति शेपाः प्रच्छन्नेप्वात्मानं गोपायित्वा तिष्ठन्ति ततोऽसावुन्मीलितचक्षुर्यगृह्णाति तस्य नेत्रनिमीलनमिति । आरब्धिकां कृष्णफलक्रीडाम् । लवणवीथिकां लवणहट इति प्रतीताम् । अनिलताडितकां यत्र पक्षवद्वाहू प्रसार्य चक्रवद्रमणम् । गोधूमपुञ्जिकामिति । गोधूमग्रहणं त्रीह्युपलक्षणम् । यत्र चहूनामेकः प्रत्येकं रूपका. १. 'अनुकुवत'. २. 'पञ्जिकक्रीडा'. ३. 'मुष्टिकानि'; 'मुष्टिकृतकादिपूतानि'. ४. 'तदा चेटिकाभि:'; 'तदातदासचेटिकाधात्रेयिकाभि. . ५. 'उदकवेडितकानि सुनिमीलितकं मानसिक'. ६. 'गोधूमपुझिकामनिलताडितका लवणवीधिकाम्'. ७. एव समयादि'. ८. 'येऽङ्गव्यायामास्वान्याह'. का० २७ २१० कामसूत्रम् । ·१८ आदितोऽध्यायः] नादाय त्रीहिपु क्षिप्त्वा संमिथ्य च तावतो भागान्करोति । अतस्ते य थेच्छमेकैकं भागमादाय रूपकमन्विप्यन्ते । तत्र यो न लभते सोन्यद्ददाति । अङ्गुलिताडितकामिति । यत्रैकं निमीलितनेत्रमन्यैर्ललाटे आहत्य केनाभिहतोऽसीति प्रश्नः । अन्यानि च देश्यानि मण्डूकिकैकपादिकादीनि । एते प्रायशो बालस्योपक्रमाः । यूनस्तु ये प्रायशस्तानाह यां च विश्वास्यास्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात् । परिचयांश्च बुध्येत । धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमुपगृह्णीयात् । सा हि प्रीयमाणा विदिताकाराप्यप्रत्यादिशन्ती तं तां च योजयितुं शक्नुयात् । अनभिहितापि मैत्याचार्यकम् । अविदिताकारापि हि गुणानेवानुरागात्मकाशयेत् । यथा प्रयोज्यानुरज्येत । यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु भविश्य साधयेत् । क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरैलशो विद्येरंस्तान्यस्या ॲयनेन संपादयेत् । तत्र कन्दुकमनेकभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संदर्शयेत् । तथा सूत्रदारुगवलगजदन्तमयीर्दुहितका मधूच्छिष्टपिष्टमृण्मयीच । भक्तपाकार्थमस्या महानसिकस्य च दर्शनम् । काष्ठमेद्रको संयुक्तयोथ स्त्रीपुंसयोरजैड कानां देवकुलगृहकाणां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्राकृतिसंयुक्ता नां जलभाजनानां च 'यन्त्रिकाणां वीणिकानां पँटोलिकानाम१. 'पादिकादीनि वेडिकादीनि'. २. 'अस्यां' इति पुस्तकान्तरे नास्ति ३. 'वा प्रत्याचार्यकं नायकस्य'; 'प्रत्याचार्यकं प्रतिनायकेन'; 'वा प्रीत्या नायकस्य'. ४. 'विदिताकारापि'. ५. 'वापूर्वाणि'. ६० 'क्कचिद्विरलश:'. ७. 'प्रयत्नेन'. ८. 'मयीं दुहि तृकां'. ९. 'मृण्मयीच देयादिति'. १०. 'भक्तपाकार्थस्य महानसस्य प्रदर्शनम्'; 'भक्तपाकार्थसाधनमस्या महानसस्य प्रदर्शनम्'; 'भक्तिपाकार्थमस्या महानसस्य च दर्शनम् . ११. 'काष्ठमेण्ढकयोश्च'; 'काष्ठसंप्रयुक्तयोमँपयोस्तथैवाजेडकाना'; 'काष्ठसंप्रयुक्तकयोमेंपयोथ तथैवाजैढकगजानां'. १२. 'यन्त्रकाणां'; 'विविधाना यन्त्राणां'. १३. पि. ण्डोलिकाना कण्डोलिकानां पेहालकानां'; 'पिण्डोलिकानां पटतिकानां ● ३ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २११ लक्तकमनः शिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दन- कुङ्कुमयोः पूगफलानां पत्राणां कालयुक्तानां च शक्तिविपये म च्छन्नं दानं प्रकाशद्रव्याणां च मेकाशम् । यथा च सर्वाभिप्रायसं- बर्षकमेनं मन्येत तथा प्रयतितव्यम् । बीक्षणे च प्रच्छन्नमर्थयेत् । तथा कथायोजनम् । प्रच्छन्नदानस्य तु कारणमात्मनो गुरुजना- दयं ख्यापयेत् । देयस्य चान्येन स्पृहणीयत्वमिति । वर्धमानानु- रागं चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्र रञ्जयेत् । विस्मयेषु गॅसह्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत् । क- लासु कौतुकिनीं तत्कौशलेन गीतमियां श्रुतिहरैर्गीतैः । आश्वयु- ज्यामष्टमी चन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैरापीडैः कर्णपत्रम: सिक्यकमधानैखालीयकभूपणदा- नैश्च । नो चेद्दोषकराणि मन्येत । अन्यपुरुपविशेपाभिज्ञतया धात्रे- यिकास्याः पुरुषमहत्तौ चातुःपष्टिकान्योगान्ग्राहयेत् । तेंद्रहणो- पदेशेन च प्रयोज्यायां रतिकौशलमात्मनः प्रकाशयेत् । उदारवे- षश्च स्वयमेनुपहतदर्शनथ स्यात् । भावं च कुर्वती मिङ्गिताकारैः सूचयेत् । युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुपं प्रथमं कामय- न्ते । कामयमाना अपि तु नाभियुञ्जत इति प्रायोवादः । 'इति वालायामुपक्रमाः ॥ अस्यामिति नायिकायां विश्वास्याम् । निरन्तरामनवच्छिन्नां प्रीतिं कुर्यात् । सापि हि धात्रेयिका मत्कार्ये करिष्यतीति परिचयाश्चाववुध्येत प्रीतिं किमप्यस्यामपि करोतीति । धात्रेयिकां धात्र्या दुहितरम् । प्रियं तदात्वे सुखकरम् । हितमायत्याम् । अधिकोपग्रहे फलमाह -सा हीति । १. 'ताम्बूलपत्राणी'. २. 'प्रकाश:'. ३. 'वीक्षणेन च प्रच्छन्नमर्पयेत् ४. 'वर्धमानानुरागा'; 'वर्धमानानुरागक'. ५. 'प्रयुज्यमानामैन्द्रजालैयोंगेः'; 'प्रयुज्यमान ऐन्द्रजालैः'. ६. 'वस्त्र' इति पुस्तकान्तरे नास्ति. ७. 'विशेषाभिज्ञां धात्रेयिकां चास्याः पुरुषप्रवृत्तान्'. ८. 'तग्रहणापदेशेन च प्रयोज्यायाः'. ९. 'अपहत - १. १०. 'विद्यात्'. ११. 'इति' इति पुस्तकान्तरे नास्ति १२. 'अस्यामिति यां नायिका विश्वासां मन्येत तया सह. ' २१२ कामसूत्रम् । १८ आदितोऽध्यायः] प्रीयमाणा स्त्रिद्यमाना । विदिताकारापीति । नायको नायिकामिच्छतीति ज्ञाताभिप्रायापि । अप्रत्यादिशन्ती तमिति नायकमप्रत्याचक्षाणा । तां चेति नायिकां भयलज्जाव्यपनयनेन प्रतार्य योजयितुं शक्नुयात् । अनभिहिता प्रत्याचार्यकमिति । संयोजने त्वमाचार्या भवेत्येतत्प्रति नायकेनानुकापि सती योजयितुं शक्नुयादिति योज्यम् । अविदिताकारापीति । यद्यपि नायक एनामिच्छतीति न ज्ञातवती तथापि गुणानेव प्रकाशयेत् । अनुरागादिति नायकविषये धात्रेयिकानुरागात् । यत्र यत्र चेति । प्रतारणप्रकारे । तत्तद्नुप्रविश्येति विज्ञाय । साधयेदिति संपादयेत् । क्रीडनद्रव्याणि वक्ष्यति । अन्यासामिति कन्यानाम् । विरलशः, न बाहुल्येन । अयत्नेनेति संपादनसामर्थ्य दर्शयति । क्रीडनकद्रव्याण्याह–कन्दुक मिति । अल्पकालान्तरितमिति कौतुकप्रबन्धाभ्युपगमार्थम् । अन्यदन्यत् भक्तीनां वैसादृश्यात् । दारु काष्ठम् । गवलं शृङ्गम् । दुहितृकाः पुत्रिकाः । संदर्शयेदित्येव । मधूच्छिष्टं सिक्थकम् । महानसिकस्येति । महानसविषयं कर्म महानसिकमित्युक्तम् । भक्तग्रहणमुपलक्षणार्थम् । भ क्तादिपाकार्थस्य कर्मणस्तत्तच्छास्त्रोकेन विधिना दर्शनम् । स्त्रीणां प्रधानविद्यात्वात् । संयुक्तयोरिति एककाष्ठघटितयोः स्त्रीपुंसयोर्मेंद्रकयोरविप्रयोगार्थं दर्शनम् । अजैडकानां काष्ठमयानाम् । उपलक्षणार्थत्वाद्गवाश्वादीनां च । मृदा वंशविदलैः काठैर्वा विनिर्मितानां देवकुलानां देवगृहाणां च । शुकादिपञ्जराणां मृदादिनिर्मितानाम् । तत्र मदनसारिका पठति । जलमाजनानां शङ्खशुक्तिखण्डानां मृत्काष्ठशिलानिर्मितानाम् । विचित्राणां वर्णिकया आकृतियुक्तानां संस्थानवताम् । यन्त्रिकाणामिति यन्त्रमातृकोक्तानाम् । वीणिका स्वल्पवीणा पिण्डोलिका यत्र दुहितृकाः स्था प्यन्ते । पटोलिका यत्र प्रसाधनं विधीयते । रैयामवर्णकं राजावर्तचूर्णं चित्रकर्मोपयोगि । पत्राणि ताम्बूलस्य । कालयुक्तानामिति । यस्मिन्काले येनार्थिनी तत्र तस्य दर्शनमित्यर्थः । शक्तिविषय इति यस्मिन्प्र१. 'यदापि '. २. 'उपरमार्थम्'. ३. 'श्यामवर्णिकं > → ३ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २१३ च्छन्ने स्वयं प्रवेष्टुं सामर्थ्य तत्र दानम् । कुङ्कुमादीनामप्रकाश्यत्वात् । प्रकाशद्रव्याणा कन्दुकादीनां प्रकाशदानम् । तैरेव कल्पनीयत्वात् । सर्वाभिप्रायसंवर्धकमिति सर्वामिलापपूर्वकं यजन्मन ईप्सितं तत्तत्संपादयतीति । दीयमानं च यथा प्रच्छन्नमर्थयेत् । किं निमित्तमित्याह-वीक्षणे चेति । दर्शननिमित्तम् । प्रच्छन्ने दृश्यमाना निशङ्कमुपचर्यते । तथा कथायोजनमिति । अन्यमुखेन संवर्धनार्थं च कथा योजयेत् । प्रच्छन्नस्य तु कारणमुमयम् । तत्रात्मनो गुरुजनाद्भयं ख्यापयेत् तव पितरौ रुप्यत इति । अन्येन स्पृहणीयत्वमिति । अन्योऽप्येतद्दृष्ट्वा स्पृहयति । ततश्च गृह्णीयादिति । अन्वर्थाभिः स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाकथाभिः । चित्तहारिणीभिरन्यामिरनुरागयुक्ताभिः । विस्मयेषु प्रसह्यमानामिति आश्चर्येषु प्रसक्ति यान्तीम् । कलासु पत्रच्छेद्यादिपु । गीतप्रियामिति । कलान्तर्गतमपि पुनर्गीतग्रहणं प्राधान्यार्थम् । प्रायेण हि गीतप्रियो लोकः । आश्वयुज्यां कोजागरे । अष्टमीचन्द्रके मार्गशीर्षबहुलाप्टम्याम् । तत्र हि दिनमुपोप्योगते चन्द्रमसि भुज्यते । कौमुद्यामिति सामान्योपादानेऽपि यत्र कन्याभिज्योंत्सामण्डलकपूजा [क्रियते] सात्र द्रटव्या । सा कार्तिक्या भवति । उत्सवेषु इन्द्रमहादिपु । यात्राया देवतायाः । ग्रहणे सूर्याचन्द्रमसोः । गृहाचारे गृहमोगतायाम् । आपीडादिमिर्विस्मापयेदिति संबन्धः । नो चेद्दोषकराणीति तद्दाने यद्यात्मनोऽपायं न पश्येत । अन्यपुरुषविशेषाभिज्ञतयेति अन्येभ्यः पुरुषेभ्यो मम विशेषं धात्रेयिका जानात्विति । पुरुषप्रवृत्ताविति जातसंप्रयोगाम् । अ न्यथा कथं विशेषमेवेति । तद्ब्रहणोपदेशेनेति धात्रेयिकोपदेशद्वारेण । र तिकौशलमिति तज्ज्ञताम् । अनुपहतदर्शन इति । अस्योपाय उदारवेषत्वम् । तथाभूतं तं च दृष्ट्वा भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्किताकारैलिंङ्गैर्विद्यात् । किमित्यनुपहतदर्शनः स्यादित्याह—युवतय इतिजा तयौवनाः । संसृष्टं जातपरिचयम् । अभीक्ष्णदर्शनं सदा दृश्यमानम् । १. 'न'. २. 'आगताया: ३. पुरुषप्रवृत्ताभिजातसप्रयोगाम् . २१४ कामसूत्रम् । १८ आदितोऽध्यायः] कामयन्त इच्छन्ति । नाभियुञ्जते कयाचिल्लज्जाद्यर्थयुक्त्या ॥ बालाया- मुपक्रमाः पशं प्रकरणम् ॥ भावं च कुर्वतीमिङ्किताकारैः सूचयेदित्युक्तं तेषां सूचनं प्रकाशनमुच्यते । यदाह — तानिङ्गिताकारान्वक्ष्यामः ॥ तानीति तत्रेङ्गितमन्यथा वृत्तिः । आकारो मुखनयनरागः । तदुभयमुत्तरत्र यथायोगं योज्यम् । संमुखं तं तु न वीक्षते । वीक्षिता व्रीडां दर्शयति । रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते । पृष्टा चैं किंचित्सस्मितमव्यक्ताक्षरमनवसितार्थं च म न्दमन्दमधोमुखी कथयति । तत्समीपे चिरं स्थानमभिनन्दति । दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं संवदनविकारमाभापते । तं देशं न मुञ्चति । यत्किंचिव विहसितं करोति । तत्र कथामवस्थानार्थमनुवघ्नाति । वालस्याङ्कगतस्यालिङ्गनं चुम्वनं च करोति । परिचारिकायास्तिलकं च रचयति । 'पैरिजनानवष्टभ्य तास्ताय लीला दर्शयति । तन्मित्रेषु विश्वसिति । वचनं चैपां बहुमन्यते करोति च । तत्परिचारकैः सह प्रीति संकथां धूतमिति च करोति । स्वकर्मसु च प्रभविष्णुरिवैतान्नियुङ्क्ते । तेषु च नाय कसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति । अत्रेयिकया चोदिता नायकस्योदवसितं प्रविशति । तॉमन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति । अनलंकृता दर्शनपर्यं १. 'सूचयेदिङ्गिताकारैर्विद्यादित्युकम्'. २. 'अनुनयनरागा:. ३. 'तं तु' इति पुस्तकान्तरे नास्ति. ४. 'तत्तदात्मनोऽङ्गमन्यापदेशेन'. ५. 'प्रयान्तं प्रच्छन्नं वा नायकमतिक्रान्तमपीक्षते'. ६. 'अपि'. ७. 'अन्यतोमुखी'. ८. 'स्थित्वा'. . 'सवचन-'. १०. 'मन्दमनुवघ्नाति'. ११. 'अङ्कगतस्य' इति पुस्तकान्तरे नास्त्रि. १२. 'परिजने सावष्टम्भा तां ता लीलां. १३. 'तस्मिन्मित्रेयु'. १४. 'चैतान्प्रभविष्णुरिव नियुते . १५. 'नायककथा'. १६. 'यात्रेयिकानोदिता'. १७. 'अन्तरा च'. १८, 'च'. ३ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २१५ तु परिहरति । कर्णपत्रमङ्गुलीयकं सजं वा तेन॑ याचिता सधीरमेव गात्रादेवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यवरसंकथासु विषण्णा भवति । तत्पक्षकैश्च सह न संसृज्यत इति ॥ संमुखं न वीक्षत इति लज्जया । पराङ्मुखी तं तु नायकम् । चीक्षितेति नायकेन तु व्रीडां दर्शयति अधोमुखी भूत्वा । रुच्यमतिमनोहरम् । आत्मनोऽङ्गं स्तनबाहुमूलादि । अपदेशेनेति प्रावरणव्याजेन । प्रमत्तमनवहितम् । प्रच्छन्नमेकाकिनम् । अतिक्रान्तं दूरगतम् । पृष्टा यत्किंचिदिति नायकेन । सस्मितमित्यादिनानुरागोन्मुखता ब्रीडा चाख्यायते । तत्समीप इति नायकसमीपे । परिजनमित्यात्मीयम् । सवदनविकारमिति सभ्रूमङ्गकटाक्षम् । तं देशमिति यत्र स्थिता तं पश्यति । तत्रैव यत्किचिदृष्ट्वा विहसितं करोति । तिर्यक्पश्यन्ती । तत्र कथामनुबध्नाति सखीं प्रोत्साद्य । वालस्येति लाडीकस्य खाङ्कमारोपितस्य । चुम्बनावगूहनं च संक्रान्तकम् । परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती । परिजनानवष्टभ्येति परिजनकोडापाश्रया । तास्ताश्चेति केशविरचनाङ्गवलनविजृम्मिकादिकाः । तन्मित्रेषु नायकमित्रेषु । विश्वसिति स्वभावं प्रकटयति । पैंचने चैषां बहुमानं कुरुते । तदनुरूपानुष्ठानात् । तत्परिचारकैरिति नायकपरिचारकैः । एतानिति नायकपरिचारकान् । तेप्विति परिचारकेपु कस्यचिदन्यस्य कथयत्सु । तां संकथाम् । धात्रेयिकया चोदिता प्रविशाव इति । उदवसितं गृहम् । तामन्तरा कृत्वेति धात्रेयिकां व्यवधानी कृत्य । नायकेन सह द्यूतादि नियोजयितुमिच्छति । दर्शनपथमिति नायकस्य । सघीरमवतार्य कि ग्रहीष्यतीति । सख्या हस्त इति लज्जया न तद्धस्ते ददाति । नित्यं धारयति श्लाघ्यमाना । तत्पक्षैरिति अन्यवरपक्षैः । प्रकरणद्वयमुपसंहरन्नाह भवतश्चात्र श्लोकौ दृद्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥ १. 'नायकेन'. २. 'अवमुच्य'. ३. 'तत्पक्षैथन'. ४. 'वचन चैपा बहुमान्य करोत. २१६ कामसूत्रम् । १९ आदितोऽध्यायः ] दृष्ट्वेति । एतानिति आकारान् इङ्गितानि चेति लिङ्गविपरिणामेन यो- ज्यम् । भावसंयुक्तानिति अनुरागसंगतान् । संप्रयोगार्थमिति । संप्रयोगो- ऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः । योगानिति अभियोगान् । त्रिविधा कन्या – वाला तरुणी प्रौढा चेति । यथाक्रममुपक्रममाह - वालक्रीडनकैर्वाला कलाभिर्यौवने स्थिता । वैत्सला चापि संग्राह्या विश्वासयजनसंग्रहात् ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽविकरणे बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः । बालक्रीडनकैरिति । कलाभिरनुरागिणी । वत्सला प्रौढा । यस्तस्या विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धामनाविरहकात रेण गुरुदत्तेन्द्रपादाभिधानेन यशोघरेणैकत्रकृतसूत्रभाष्यायां कन्यासंप्रयुक्तके तृतीयेऽधिकरणे बालोपक्रमा इगिताकारसूचन च तृतीयोऽध्यायः । चतुर्थोऽध्यायः । शास्त्रकार एव प्रकरणसंबन्धमाह An दर्शितङ्गितकारां कन्यामुपायतोऽभियुञ्जीत ॥ दर्शितेङ्गिताकारामिति । उपायत इति उपाया एवाभियोगाः । अभियुज्यते तैरिति । ते चासहायस्येत्येक पुरुषाभियोगा उच्यन्ते । ससहायस्यापि केचित्संभवन्ति । ते द्विविधाः ~~-बाह्या आभ्यन्तराश्चेति । तत्र पूर्वानधिकृत्याहद्यूते क्रीडनकेपु च विवेदमानः साकारमस्याः पाणिमवलम्वेत । द्यूत इति । विवदमानो वाक्कलहं कुर्वन् । साकारं पाणिमवलम्बेत यथावगच्छेत् 'अहमनेनोढा' इति । यँथोक्तं च स्पृष्टकादिकमालिङ्गनविधिं विदध्यात् ॥ १. 'वालाम्'. २. 'स्थिताम्'. ३. 'वत्सला चापि गृह्णीयात् '. ४. 'संश्रयात'. ५. 'उपयातः ६. 'विवदमानाया: '. ७. 'यथोक्तं स्पृष्टका दिम्'. ४ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २१७ स्पृष्टकादिकमिति स्पृष्टकं विद्धकमुद्धृष्टकं पीडितकमिति चतुष्टयमवसरप्राप्तत्वाद्यथायोग्यं विदध्यात् । पत्रच्छेद्यक्रियायां च स्वाभिप्रायसूचकं मिथुनमस्या दर्शयेत् ॥ पत्रेति । स्वाभिप्रायसूचकं संप्रयोगसूचकं हंसादिमिथुनम् । ऐवमन्यद्विरलशो दर्शयेत् ॥ एवमिति । अन्यदपि यन्मिथुनं भवति तिलकादिकं साकारम् । वि रलश इति । सततदर्शने हि ग्राम्यता संभाव्यते कौतुकं चापैति । जलक्रीडायां तेंडूरतोऽप्यु निमन: समीपमस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जेत् ॥ जलेति । स्पृष्ट्वा चैनामिति निमग्न एव । तत्रैवोन्मज्जेत् नायिकासमीपे नवपत्रिकादिषु च सविशेषभावनिवेदनम् ॥ नवपत्रिकादिषु चेति देश्यक्रीडासु । सविशेषमावनिवेदनमिति पूर्वोकेनैव स्वाभिप्रायसूचकेन पत्रच्छेद्यादिना । आत्मदुःखस्यानिर्वेदेन कथनम् ॥ आत्मदुःखस्य च कथनम् 'न जाने कि कृता मम चेतसि पीडा' इति । तत्राप्यनिर्वेदेन भूयो भूयः प्रधानकार्यत्वात्कथनम् । स्वमस्य च भावयुक्तस्यान्यापदेशेन ॥ अन्यापदेशेनेति । त्वत्तुल्यरूपया सहोपगमः खप्ने ममाभूदिति कथनम् । प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनम् । तत्रान्यापदिष्टं स्पर्शनम् ॥ स्वजनसमाजः खजनगोष्ठी । समीपोपवेशनमिति नायिकायाः । त त्रेति समीपे प्रेक्षणकादिषु अन्यापदिष्टमन्यदँपदिश्य स्पर्शनम् । अपाश्रयायें च चरणेन चरणस्य पीडनम् ॥ १. ' प्रदर्शयेत्'. २. 'अन्यदन्यत्'. ३. 'सभवात्कौतुकाभावाच'. ४. 'च दूरत.'; 'दूरतः'. ५. 'तत्तुल्य'. ६. 'खजनसमवायें', 'खजनसंवाधे'. ७. 'उद्दिश्य'. ८. 'अ पाश्रयणार्धम्'. ● का० २८ कामसूत्रम् । १९ आदितोऽध्यायः] अपाश्रयार्थमिति । अपाश्रयस्तंदङ्गे खाङ्गस्थापनम् । चरणस्य पीडनं खचरणेन । ततः शनकैरेकैकामङ्गुलिमभिस्पृशेत् ॥ तत इति । तस्मात्सिंद्धादुत्तरकाले । शनकैरिति कियत कालकलामतिक्रम्य तस्या अङ्गुलिममिस्पृशेत् । २१८ पादाङ्गुष्टेन च नखाग्राणि घट्टयेत् ॥ पादाङ्गुष्ठेनेति । नखाग्राणि घट्टयेञ्चालयेत् । तेत्र सिद्धः पदात्पदमधिकमाकाक्षेत् ॥ तत्रेति । सिद्धो नखाग्रघट्टने । पदात्पदमिति स्थानात्स्थानान्तरं जघनोरुनितम्वादिकं स्पष्टुं सोपानक्रमेण काङ्खेत् । क्षान्त्यर्थं च तदेवाभ्यसेत् ॥ क्षान्त्यर्थं चेति सहनार्थम् । अभ्यसेत् तदेव यत्पूर्वाभ्युपगतम् । आन्तरानधिकृत्याह- पादशौचे पादाङ्गुलिसंदंशेन तदङ्गुलिपीडनम् ॥ पादशौच इति पादधावनं ददत्याः । खपादाङ्गुलिसंदंशेन पीडनम् । द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्वतो विकारः ॥ तद्गतो विकार इति । द्रव्यं पूगफलादिकं समर्पयता प्रतिगृह्णता वा द्रव्यगतो विकारः कार्यः । सनखस्पर्शमर्पयेत्प्रतिगृह्णीयाद्वेत्यर्थः । आचमनान्ते चोदकेनासेकः ॥ आचमनान्त इति । उपस्प्रष्टुं ददतीं तदन्ते जलचुलकेनाहन्यात् । विजने तमसि च द्वन्द्वमासीन: क्षान्ति कुर्वीत । समानदेशश- व्यायां च ॥ १. 'तदहसमर्पणस्थापनार्थम्'. २. 'छिद्रात्'. ३. 'कियत्कालम्'. ४. 'पादानुष्ठेन च' इति पुस्तकान्तरे नास्ति. ५. 'तत्र सिद्धां पदारपदमभिकात्. ६. 'क्षान्त्यर्थमिति सहनार्थमित्यर्थः । तदेव यत्पूर्वा'. ७. 'पादधारणम्'. ८. 'द्रव्यस्य पूगीफलाटेर्ग्रहणेऽपणे वा सनखस्पर्शमर्पणं दान वा'. ९. 'आचमनार्थोदकेन नियंक:'. > श 1 इन्, में एन रं जपते 21 ॥ । । ४ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २१९ द्वन्द्वमिति साहचर्येणासीनः । शान्ति कुर्वीतेति नखस्पर्शादिना । त त्काले लज्जाभावात्कन्यायाः । समानदेशशय्यायां च क्षान्ति कुर्वीत । तत्र यथार्थमनुद्देजयतो भावनिवेदनम् ॥ तत्रेति आसने शयने च । यथार्थ भावनिवेदनमाकारेण । न वाचा । प्रत्याख्यानभयात् । अनुद्वेजयत इति यथा नोद्विजते । यदा वाचा तदा विधिमाह पंचिति हमे विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत् । यथा पारदारिके वक्ष्यामः ॥ विदितेति । व्याधिमपदिश्येति कृतकं शिरःशूलादिकमपदिश्य । ख1 मुदवसितं स्वगृहम् । आनयेत् विश्वास्यया प्रणिहितया । विविक्ते चेति । 'किंचिदस्ति कैथयितव्यम्' इत्येतावद्वक्तव्यम् । 'कि तत्' इति तयोच्यमाने निर्वचनं ब्रूयादित्यर्थः । तंत्रेति वचनोपन्यासे । भाव संप्रयोगामिलार्मेस्या लक्षयेत् । कथमित्याह - येथेति । तत्र प्रवृत्त्या भावपरीक्षां वक्ष्यति । इङ्गिताकारैश्च यद्भाववेदनं तदनुरागमात्रवेदनमिति । विदितभावस्याभ्यन्तरमभियोगमाह विदितभावस्तु व्याधिमपदिश्यैनां वार्ताग्रहणार्थ स्वमुदवसित - मानयेत् ॥ आगतायाथ शिरःपीडने नियोगः । पाणिमवलम्ब्य चास्याः साकारं नयनयोर्ललाटे च निदध्यात् ॥ शिरःपीडन इति शिरो मे दुःखयति पीडय हस्तेनेति नियोगः । औषधापदेशार्थ चास्याः कर्म विनिर्दिशेत् ॥ औषधेति । यथा जानात्यस्मत्कृतेयमस्यावस्थेति । १. 'वक्तव्यम्'. २. 'उच्यमानम्'. ३. 'ततो वागुपन्यासानन्तरम्'. ४. 'अस्या लक्षयेत्' इति पुस्तकान्तरे नास्ति ५. 'यथा पारदारिकमिति'. ६. 'विजित', ७, 'भाचग्रहणायें'. ८. 'व्याधिं शिरःशूलादिक कृतकमुक्त्वा'. ९. 'आगताया च शिरःपीडननियोगः'; 'आगतायाश्च त्वशिरः पीडने'. १०. 'हस्तेनेति साकारं निदध्यात्. ११. 'कर्माणि'. २२० कामसूत्रम् । १९ आदितोऽध्यायः] इदं त्वया कर्तव्यम् । नहोतहते कन्याया अन्येन कार्यमिति ग च्छन्तीं पुनरागमनांनुवन्धमेनां विसृजेत् ॥ त्वयैवेति त्वया साधितं सिद्धिदं भवतीति । अनुबन्धं पुनरागन्तव्यमित्येवंरूपम् । अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥ अस्येति कैन्यासाध्यस्य । त्रिरात्रं त्रिसंध्यं प्रयुक्तिः प्रयोगः । एतन्निर्देशे फलमाह - अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ॥ अभीक्ष्णेति । गोष्ठीमिति कलानामाख्यायिकानां वा । येन तदासक्ता चिरं तिष्ठेदित्यर्थः । अन्याभिरपि सह विश्वासनार्थमधिकमधिकं चाभियुञ्जीत । नतु वाचा निर्वदेत् ॥ अन्याभिरिति । तामिविश्वासनं कार्यमिति हेतोरिति भावः । न त्विति । तत्र दोषमाह दूरगतभावोऽपि हि कन्यासु न निर्वेदन सिद्ध्यतीति घोटक- मुखः ॥ दूरेति । अत्यर्थजातविसम्भोऽपि न सिद्ध्यति । वहुशोऽभियोगापेक्षणी- यत्वात्कन्यानाम् । घोटकमुखग्रहणं पूजार्थम् । तन्मतस्याप्रतिषिद्धत्वात् । यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत् ॥ यदा त्विति । बहुसिद्धां बहुभिरभियोगैः कार्योन्मुखीमुपक्रमेत । तत्र कालमाहप्रदोषे निशि तमसि च योपितो मन्दसाध्वसाः मुरतव्यवसाRepletando de ● १. 'अनुबन्धे'. २. 'एवं ब्रूयात्'. ३. 'त्रिपवण च प्रयुक्तिरिति निर्दिशेत्. ४. 'कन्यासाच्यं.' ५. 'अभीक्ष्णं दर्शनार्थमागतायाच गोष्टया प्रवर्धयेत्'. ६. 'निर्वादः . 4 1 } $ ४ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २२१ यिन्यो रागवसञ्ध भवन्ति । न च पुरुपं प्रत्याचक्षते । तस्मात- त्कालं प्रयोजयितव्या इति मायोवादः ॥ प्रदोष इति रात्रिप्रारम्भे । निशि रात्रौ त्रियामालक्षणायाम् । तत्राप्यन्धकारे प्रतार्यसर्वस्त्रीप्रतिपत्त्यर्थम् । मन्दसाध्वसाः कैश्चिददृश्यमानत्वात् । रागवत्यः संप्रयोगाभिलापिण्यः । न प्रत्याचक्षते न निषेधन्ति । तस्मात्तत्कालमिति । अत्यन्तसंयोगे द्वितीया । प्रयोजयितव्या योज्याः । वाञ्छितकार्येषु । एक पुरुषाभियोगानां त्वसंभवे गृहीतार्थया घात्रेयिकया सख्या वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सघैनामकमौनाययेत् । ततो यथोक्तमभियुञ्जीत ॥ एकेति । विप्रकृष्टत्वात्खयमेकस्याभियोगो न संभवति । सहायमपेक्षते । गृहीतार्थयेति नायकोऽपि नायिकां समीपमानयितुमिच्छतीत्येतद्रूपार्थज्ञानवत्या । अस्यामन्तर्भूतया नायिकायां प्रभवन्त्या । तादृशी तु धात्रेयिका सखी वा । अर्थ नायकपार्श्वगमनरूपम् । अनिवदन्त्या अन्यव्यपदेशिन्येत्यर्थः । ततो यथोक्तमिति द्यूतक्रीडनकेषु विर्वेदमाना इति यथासंभवं पूर्वोक्तं योज्यमित्यर्थः । खां वा परिचारिकामादावेव सखीत्वेनास्या: मणिदध्यात् ॥ खामिति सहायार्थमिति भावः । यज्ञे विवाहे यात्रायासुत्सवे व्यसने प्रेक्षणकव्याप्ते जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत । नहि दृष्टभावा योषितो देशे काले च मर्युज्यमाना व्यावर्तन्त इति वात्स्यायनः । इँत्येकपुरुपाभियोगाः ॥ यज्ञ इति । यज्ञादयो लोकव्यग्रत्वहेतवः । तत्र तत्रेति । अन्यत्राप्यनुक्त इत्यर्थः । परीक्षितभावामिति । नेयं शुष्कप्रतिग्राहिणी द्विधाभू१. 'तस्मात्काल.' २. 'तस्यामाविर्भूतया'. ३. 'आरोपयेत्'. ४. 'विवादकेपु. ५. 'प्रेक्षावृत्ते जने'; 'प्रेक्षणकथाप्रवृत्ते जने'. ६. 'प्रयोज्यमाना'. ७. 'इति' इति पुस्तकान्तरे नास्ति. २२२ कामसूत्रम् । १९ आदितोऽध्यायः ] तमानसा वा, किं त्वितरेति । उपक्रमेत गान्धर्वेण विधिनेत्यर्थ: । दृष्ट- भावा उपलब्धभावाः । दृष्टोऽभिप्रेते काले यज्ञादिकाले प्रदोषादौ चे- ति ॥ इत्येक पुरुषाभियोगा अष्टविंशं प्रकरणम् ॥ यथा धनहीनत्वादियुक्तः कन्यामलभ्यत्वात्स्वयमेवानुरञ्जयेत् तत्र कन्यापि तथाविधा कैश्चिददास्यमाना स्वयमुपावर्तेत । तत्प्रयोज्यस्योपावर्तनमाह । उपावर्तनमभिमुखीकरणम् । कथं न ब्रियत इत्याह- मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनांपि समानैरं- याच्यमाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना पाणिग्रहणं स्वयमभीप्सेत ॥ मन्देति । मन्दापदेशा हीनाभिजना । गुणवत्यपि सा तैरदास्यमाना वा । धनहीना वा कुलीनापि । समानैस्तुल्याभिजनैर्घनिमिः । मातृपितृवियुक्ता वा अनाथत्वादयाच्यमाना । प्राप्तयौवनेति प्रत्येकं योज्यम् । स्वयमीप्सेत । तदानीं स्वयंवरस्याभ्यनुज्ञानात् । यथोक्तम् –'त्रीणि वर्षाण्युपासीत कुमर्यनुमता सती । ऊर्ध्वे तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ इति । सदृशप्रतिपत्तावुपायमाह सा तु गुणवन्तं शक्तं सुदर्शनं वालमीसाभियोजयेत् ॥ सा त्विति । गुणवन्तं नायकगुणयुक्तम् । शक्तं युद्धादिपु । सुदर्शनं रूपवन्तम् । वालेति । वाल्ये क्रीडायां या प्रीतिस्तया योज्यकर्ज्या स तथामियुञ्जानः सिद्धयतीत्यर्थः । w गुणान्तरमाह- यं वा मन्येत मातापित्रोरसमीक्षया स्वयमप्ययमिन्द्रियदौर्व- ल्यान्मयि प्रवर्तिप्यत इति प्रियहितोपचारैरभीक्ष्णसंदर्शनेन च तमावर्जयेत् ॥ १. 'वा'. २. 'अदास्यमाना'. ३. 'अभ्यनुज्ञातत्वात् ४. 'प्रयोज्यया कर्ज्या'. ४ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २२३ यं वेति । असमीक्षयेति मातापितृभ्यां मम मार्गयित्वा । इन्द्रियाणि नियन्तुमसमर्थत्वात् यमेवं मन्येत तमपि योजयेदिति संवन्धः । प्रियहितेति प्रियोपचारा एतदर्थं सुखं कुर्वन्ति । आवर्जनमभिमुखीकरणम् । माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कुर्यात् ॥ माता चैनामिति । सा न जीवति चेत्कृतकमाता वा । सखीभिः सह लज्जापगमार्थम् । उपचारैर्बाधौराभ्यन्तरैश्चेति शेषः । तत्र पूर्वमधिकृत्याह- पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम् । कलाकौशलप्रकाशने वा संवाहने शिरेसः पीडने चौचित्यदर्शनम् । प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्त- माचरेत् ॥ पुप्पेति । तदुपस्थानं नायकसमीपगमनम् । कौशलप्रकाशनार्थम् । औचित्यदर्शनमिति । सहसा न प्रतिजानीयात् । अनुवन्ध्यमानमनुकुर्यादित्यर्थः । प्रयोज्यस्य सात्म्ययुक्ताः प्रयोज्यानुकूलाः । बालायां ये नायकस्योपक्रमा उक्तास्तेषु यैथोक्तं समाचरेत् । न चैवान्तरापि पुरुष स्वयमभियुञ्जीत । स्वयमभियोगिनीदि युवतिः सौभाग्यं जहातीत्याचार्याः ॥ अन्तरापीति । कामपरवशापि न स्वयमभियुञ्जीत । आचार्यग्रहणं पूजार्थम् । तन्मतस्याप्रतिषिद्धत्वात् । स चेदमियुज्जीत प्रतिगृह्णीयात् । तत्मयुक्तानां खभियोगानामानुलोम्येन ग्रहणम् । परिष्वक्ता च न विकृतिं भजेत् । लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् । वदनग्रहणे बलात्कारः । रैतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद्भुय- संस्पर्शनम् ॥ १. 'तदुपस्थानम्'. २. 'शिरसः कण्डूयने पीडने च'. ३. 'यथा चोक्तम्'. ४. 'न त्वेवानुरागादपि'; 'न त्वेवान्तरापि. ५. 'सद्यः सीभाग्य'. ६. 'रतिभावनायानन्यर्थनास च'. ७. 'संदर्शनम्'. कामसूत्रम् । १९ आदितोऽध्यायः तत्प्रयुक्तानामिति बाह्यानामभियोगानाम् । आनुलोम्येन येन न वि मुखीभवति । आभ्यन्तरमधिकृत्याह - परिप्वक्तेति । न विकृतिमिति । मा ज्ञासीन्नायको मामुद्विग्नामिति हेतोरित्यर्थः । आकारमिति नायकस्य भावसूचकमाकारं प्रतिगृह्णीयात् । न प्रत्याचक्षीत । तत्रापि लक्ष्णमस्फुटम् । क्रियाविशेषणमेतत् । अजानतीवेति घाष्टर्चपरिहारार्थम् । व लात्कार इति । तथा कार्ये यथा हठाद्वदनं गृह्णातीत्यर्थः । रतिभावनामिति । आत्मनो व्युत्पत्तिं नायकेन यदा साम्यर्थ्यते खगुह्ये तत्पाणिन्यासेन तदा कृच्छ्रान्नायकगुणस्पर्शनम् । तत्रापि विशेषमाह २२४ अभ्यर्थितापि नातिविता स्वयं स्यात् । अन्यत्रीनिश्चयका - लात् । यदा तु मन्येतानुरक्तो मैयि न व्यावर्तिष्यत इति तदैवैनमें- भियुञ्जानं वालभावमोक्षाय खरयेत् । विमुक्तकन्याभावा च वि- श्वास्येषु प्रकाशयेत् । इति प्रयोज्यस्योपावर्तनम् ॥ नातिविवृतेति । भावाङ्गप्रत्यङ्गदर्शनेनेत्यर्थः । तत्र हेतु:-अनिश्च येति । यदा त्विति । न व्यावर्तिप्यते न मां त्यक्ष्यति । अभियुज्जानं प्र- च्छन्नप्रदेशे । वलभावमोक्षायेति गान्धर्वविधिपूर्वकं कौमारहरणाय त्वर- येत् । विश्वास्येषु सखीधात्रेय्यादिपु । प्रकाशयेत् गान्धर्वेण विवाहेनाह- मूढेति ॥ इति प्रयोज्यस्योपावर्तनमेकोनत्रिंशं प्रकरणम् ॥ यदा प्रयोज्यमुपावर्तमाना बहुभिरभियुज्यते तदाभियोगतः कन्यायाः प्रतिपत्तिरुच्यते । अभियोगं दृष्ट्वा कन्याया अनुष्ठानमित्यर्थः । भवन्ति चात्र लोकाः कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम् । अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ॥ १. 'अभ्यर्थ्यमानापि तु': 'अभ्यर्थितापि न विटता. २. 'नियतकालात्'. ३. 'अय न व्यावर्तयिष्यत इति'. ४. 'अभियुञ्जानं वालभावाद्विमोक्षयेत्'; 'अभियुआना बालभावविमोक्षणाय'; 'अभियुजाना वालभावं विमोक्षेत्. ५. 'स्खोपावर्तनम्'. ६. 'बालभावमोचनाय'. ७. 'अपि युज्यते'. ८. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे ना• स्त्रि. एकस्मिन्पुस्तके च भवन्ति चात्र' एतावदेवास्त्रि. ४ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २२५ कन्येति । आश्रयमिति आश्रीयत इति कृत्वा । सुखमिति बाह्यस्योपभोगसुखस्य आन्तरस्य चरमसुखस्य हेतुत्वात् । अनुकूलं तच्चित्तानुविधायिनं वश्यं यथोक्तकारिणं मन्येत ततस्तस्य प्रतिग्रहं कुर्यात् । सोपि तथैवाचरेदित्यर्थः । अनपेक्ष्य गुणान्यत्र रूपमौचित्यमेव च । कुर्वीत धनलोभेन पतिं सापत्रकेष्वपि ॥ तत्र युक्तगुणं वश्यं शक्तं वलवदर्शिनम् । उपायैरैभियुञ्जानं कन्या न प्रतिलोभयेत् ॥ अनपेक्ष्येति । यस्मिन्खयंवरे गुणाननपेक्ष्य तदभावात् धनवानेव केवलम् । सापत्नकेष्वपि । न केवलमसापत्नकेषु । प्रायेण धनिनां बहुदारत्वात् । तत्र स्वयं युक्तगुणं संगुणं शक्तं समर्थ बलवदर्शिनमेकान्ततोऽथिनं न प्रतिलोमयेत् अपाकुर्यात् । यस्तु धनवान्बहुपत्नीको गुणवानपि न तमभियुञ्जानं प्रतिलोभयेदिति दर्शयन्नाह वरं वश्यो दरिद्रोऽपि निर्गुणोऽप्योत्मधारणः । गुणैर्युक्तोऽपि नै त्वेवं बहुसाधारणः पतिः ॥ वरमिति । आत्मघारणः कुटुम्बमात्रधारकः बहुसाधारणो बहूनामेकः । यस्तु धनवान् कृतपरिग्रहो गुणवान् वश्यः सन् प्रतिलोमयेदित्यर्थः । यस्तु न वश्यस्तत्र दोषमाह प्रायेण धनिनां दारा वहवो निरवग्रहाः । वा सत्युपभोगेऽपि निर्विसम्भा वहिःसुखाः ॥ प्रायेणेति । अत एव धनवान्बहून्दारान्प्रतिगृह्णाति । विशेषतत्ताश्च निरवग्रहा निरङ्कुशाः । तत्र कारणम् – बास इति । आसनायुपभोगेन बहिःसुखाः । निर्विखम्भा आन्तरेण रताख्यसुखेन वर्जिता इत्यर्थः ॥ १. 'आधियते'. २. 'सोऽपि'. ३. 'अभियुजीत'. ४. 'खल्पगुण'. ५. 'आत्मवान्नर.. ६. 'वा नैव' ७. 'धनवान्गुणवान्'. का० २९ २२६ कामसूत्रम् । नीचो यस्त्वभियुञ्जीत पुरुषः पलितोऽपि वा । विदेशगतिशीलच न स संयोगमर्हति ॥ नीचोऽधैमजातिः पूर्वगुणयुक्तोऽपि । पलितो वृद्धः । सदा प्रवासी । यदृच्छयोभियुक्तो यो दम्भद्यूताधिकोऽपि वा । सपत्नीकच सापत्यो न स संयोगमर्हति ॥ २० आदितोऽध्यायः ] यदृच्छयेति । स्वेच्छाभियोगशीलः । बलात्कारेणेति भावः । व्याजवहुलो दम्भद्यूतासक्तश्च । सपत्नीकः सापत्यश्च परिणीतभार्यायुक्तस्तदपत्यवांश्च । एकतरवान्वा । वश्यस्तु तादृशोऽपि संयोगमर्हत्येवेत्याहगुणसाम्येऽभियोक्तृणामेको वरयिता वरः । तत्राभियोक्तरि श्रैष्ठ्यमनुरागात्मको हि सः ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे एकपुरुपाभियोगा अभियोगतञ्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽध्यायः । गुणेति । यथोक्तगुणानां साम्ये । एको वर इति त्रियन्त इति वराः सर्व एवाभियोक्तारः । तेषां वर एको वरयिता वरणे साधुः । 'वर ईप्सायाम्' । साधुकारिणि तस्मिन्नभियोक्तरि तत्त्वाविशेपे श्रैष्ठचं श्रेष्ठता । तस्यानुरागात्मकत्वात् । इत्यभियोगतः कन्यायाः प्रतिपत्तिस्त्रिशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाङ्गनाबिरहकातरेण गुरुदत्तेन्द्रपादाभिवानेन यशोधरेणैकत्रकृतसूत्रमाव्याया कन्यासप्रयुक्त के तृतीयेऽधिकरणे एकपुरुपाभियोगा अभियोगतच कन्यायाः प्रतिपत्तिचतुर्थोऽध्यायः । पञ्चमोऽध्यायः । एैवमनुरजितां स्वयंवरप्रवृत्तां च गान्धर्वेण योजयेत् । विपरीतामासुरा१. 'अधर्मजाति: '. २. 'अभियु. ३. 'एवमनुरञ्जिताया स्वयंवरप्रयुक्तां च'. १ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २२७ दिभिरिति विवाहयोगा उच्यन्ते । तत्र गान्धर्वेण प्रायशो दृश्यन्ते । तस्यास्तावत्सहायसाध्यविधिमाह प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां मियहि- ताभ्यामुपगृह्योपसर्पेत् ॥ प्राचुर्येणेति । घात्रेयिकां पुरुषप्रवृत्तामित्यर्थात् । उपगृह्य प्रियहिताभ्यामुपसर्पेत् तस्याः समीपे निसृष्टार्था प्रेषयेत् । सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्जयेत् । तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठपवर्णयेत् । अन्येषां वरपितॄणां दोषानभिप्रायविरुद्धान्प्रतिपादयेत् । मातापित्रोच गुणानभिज्ञतां लुब्धतां च चपलतां च वान्धवानाम् । याश्चान्या अपि समान- जातीयाः कन्याः शकुन्तलाद्याः खैबुद्ध्या भर्तारं प्राप्य संमयुक्ता मोदन्ते स्म तावास्या निदर्शयेत् । महाकुलेषु सापत्नकैर्वाध्यमाना विद्विष्टा दुःखिताः परित्यक्ताश्च दृश्यन्ते । आयतिं चास्य वर्णयेत् । सुखमनुपहतमेकँचारितायां नायिकानुरागं च वर्णयेत् । समनोर- थायावास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् । दूती- कल्पं च सकलमाचरेत् । त्वामजानतीमिर्व नायको वलाद्रहीप्य- तीति तथा सुपरिगृहीतं स्यादिति योजयेत् ॥ सा चेति । सा उपसर्पिता नायकस्याविदितेव भूत्वा कृतकप्रयोगप रिहारार्थम् । तस्य नायकस्य गुणैः । तस्याश्चेति । अभिप्रायविरुद्धानिति यथा नेच्छति तानियं तथेत्यर्थः । गुणानभिज्ञतां लुब्धतां चेति । अगुणज्ञौ तव पितरौ लुब्धौ च येन गुणवन्तमपहायान्यं घनिनं निर्गुणं गवे१. 'प्रियहिताभ्या' इति पुस्तकान्तरे नास्ति २. 'परिवर्णयेत्'. ३. 'अन्यवर यितॄणा'. ४. 'गुणानपेक्षिता'. ५. 'खबुद्धया भर्तार'; 'खबुद्धया रुच्य भर्तार प्राप्य सयुक्ताः सुरतं मोदन्ते स्म'. ६. 'दर्शयेत्'. ७. 'एकचारितां नायकानुरागं कन्याविषयं वर्णयेत् मनोरथांश्च'; 'एकचारिता च वश्यतां नायकानुराग च मनोरथाथ वर्णयेत्. ८. 'अपायसाध्वस'. ९ 'नाम' इति पुस्तकान्तरे. १०. 'इति' इति पुस्तकान्तरे नास्ति. ११. 'यथेच्छितानि तथेत्यर्थ . २२८ कामसूत्रम् । २० आदितोऽध्यायः ] पयत इति । नानुरूपोऽयं ममेति । स्वदुच्यावंधारणं, न पित्रोरिच्छया । तथा कर्तव्ये शकुन्तलादिकृताः कथाः कथयेत् । कौशिकः स्वतपोविघ्नार्थमिन्द्रसंप्रेषितामप्सरसं मेनकां दृष्ट्वा जातरागश्चकमे । सा च तद्वीर्यग्रहणातत्रैव कन्यां प्रसूय त्यक्त्वा चारण्ये दिवं जगाम । शकुन्तसंपातमध्यगतां च तां कन्यां कण्वर्पिः करुणयाश्रममानीय वर्धितवान् । यथार्थं च शकुन्तलेति नाम चक्रे । सा च कालेन प्राप्तयौवना मृगयाप्रसङ्कादागतं दुष्यन्तं राजानं दृष्ट्वा खबुद्ध्या पाणि ग्राहितवतीति । आदिशब्दाद्राजदारिकाः कन्या निदर्शयेत् । महाकुलेप्विति । महाकुलेषु च लोमात्सित्रा दत्ता नियतं सापत्लकैर्वाध्यन्ते । ततश्च विद्विष्टाः परिजनस्य परित्यक्ताः सत्यो दुःखिता दृश्यन्त इति दर्शयेत् । आयतिमुत्तरभाविनमर्थम् । भविव्यति चेति । एकचारितायामिति एकपत्नीत्वे सुखमनुपहतं वर्णयेत् । सापत्न्यदुःखाभावात् । नायकानुरागं चेति । समनोरथाया इति । अस्त्येवायमस्या मनोरथः किं तु दोषान्पश्यतीत्युत्प्रेक्ष्याह - अपायमिति । विनाशं कुतश्चित् । साध्वसं भयं गुरुजनात्, ब्रीडां परिजनेषु हेतुभिरुपायैदर्शनैरपनयेत् । दूतीकल्पं च पारदारिके वक्ष्यमाणं प्रतारणकरणम् । त्वामजानतीमिवेति । जानतीमिव बलात्कारेण ग्रहीष्यति तदा न तव दोषः । तथेति तेन प्रकारेण सुगृहीतं स्यात् । प्रतिपन्नामभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निमो- नाय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत् । ततो मातरि पितरि च प्रकाशयेत् । अग्निसाक्षिका हि विवाहा न नि- वर्तन्त इत्याचार्यसमयः ॥ प्रतिपन्नामिति । अभ्युपगतामेकान्तदेशवर्तिनीम् । श्रोत्रियेति । तत्राग्नेः संस्कृतत्वादित्यर्थः । यथास्मृति स्वगृह्योक्तविधिना । त्रिः परिक्रमेत् अमिं भ्रमयेत् । प्रकाशयेत् प्रणिधिना यथा नायकेनोद्वेति । न निवर्तन्त इति नान्येनोद्यते इति दर्शयति । धर्मविवाहे वझिसंनिधानं कार्यमिति । १. 'वरण'. २. 'कौशिकम्य तपो'. ३. 'भ्रमं'. ४. 'प्रतारणप्रकरणम्'; 'प्रतारप्रकारणम्' ५. 'आनीय'. ६. 'परिणयेत्'. ७. 'अतिवर्तन्ते'. . F १ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २२९ दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् । तद्वान्धवाच यथा क्र्कुलस्याघं परिहरन्तो दण्डभयाच्च तस्मा एवैनां दद्युस्तथा योजयेत् । अनन्तरं च प्रीत्युपग्रहेण रागेण तद्वान्धवान्मीणयेदिति । गान्ध- र्वेण विवाहेन वा चेष्टेत ॥ दूषयित्वेति अभिगम्येत्यर्थः । नोवाहितमात्राम् । शनैः खजने प्रकाशयेत् तस्या आत्मीकरणार्थम् । यथा पितरौ तथाविधामपि प्रयच्छत इति तदाह – तद्वान्धवा इति । नायिकावान्धवाः । नायकोपगृहीतेत्यघं दोपं परिहरन्तो यदि तस्मै न प्रतिपाद्यते तदा कुलं दुष्यत इति । दण्डभयाश्वेति । एवं चानुष्ठीयमानं यदि राजा शृणुयात्तदा दण्डं पातयेदिति । तस्मै एव नायकायैव । अनन्तरं चेति । आन्तरस्थामधिकृत्याह- अप्रतिपद्यमानायामन्तश्चारिणीमन्यां कुलममदां पूर्वसंसृष्टां श्री- यमाणां चोपगृह्य तया सह विषयमवकाशमेनामन्यकार्यापदेशेना- नाययेत् । ततः श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥ अप्रतिपद्यमानायामिति स्वयं पाणिग्रहणमकुर्वत्याम् । अन्तश्चारिणीमन्यामित्यन्तरज्ञां कुलस्त्रियम् । पूर्वसंबद्धां पित्रोः सौजन्येन प्रीयमाणां नायकस्य । उपगृह्येति द्रव्येण स्वीकृत्य । विषद्यमिति गम्यम् । अन्यं । कार्यमपदिश्यानाययेत्प्रणिधिना । समानं पूर्वेणेति । श्रोत्रियागारादित्यादि पूर्ववदित्यर्थः । आसन्ने च विवाहे मातरमस्यास्तदभिमतदोपैरनुशयं ग्राहयेत् । ततस्तदनुमतेन भातिवेश्याभवने निशि नायकमानाय्य श्रोत्रिया- गारादग्निमिति समानं पूर्वेण ॥ १. 'शनैः शनै:'. २. 'कुलस्य त्याग'; 'कुलस्याङ्ग'; 'कुलस्य भङ्गं'. ३. 'प्रीत्युपप्र हैरनुरागेण च तान्वान्धवान्'. ४. 'च चेष्टयेत्' ५. 'अ' ६. 'विपत्य सावकाशं . ७. 'आसन्ने चास्या विवाहेऽन्येन वरेण–चरदोषै ; 'अन्यवरदोष.'. ८. 'ततस्वदनुमतेन प्राहयित्वा प्रातिवेश्यभवन निशि नायक श्रोत्रिया' · २३० कामसूत्रम् । २० आदितोऽध्यायः] तदनुमतेन मातुरभिप्रायेण । अनुशयादूर्ध्वम् । प्रातिवेश्याभवने इति । तस्या द्रव्येणोपगृहीतत्वात् । इति द्वितीयः । भ्रातरमस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तमसुक- रेण साहाय्यदानेन प्रियोपग्रहश्च सुदीर्घकालमनुरजयेत् । अन्ते च स्वाभिप्रायं ग्राहयेत् । प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानामर्थे जीवितमपि त्यजन्ति । ततस्तेनैवान्यकार्यात्तामानाय- येत् । विपक्षं सावकाशमिति समानं पूर्वेण ॥ अस्या भ्रातरं तुल्यवयसमेकान्तप्रेसक्तमसुकरेण कष्टसाध्येन दुःसाध्य- स्त्रीसंपादनादिना । प्रियोपग्रहैरिति सामदानैरन्यैर्वा । इत्यनुरञ्जनविधिः । स्वाभिप्रायमिति त्वद्भगिनीं परिणेतुमिच्छामि । अन्यकार्यादिति ल्यव्लोपे पञ्चमी । अन्यकार्यमुद्दिश्येत्यर्थः । तत्रापि नायिकामानाययेदिति तृतीयः । सुप्तप्रमत्तोपगमात्पैशाचः । तमधिकृत्याह- अष्टमीचन्द्रिकादिषु च धात्रेयिका मदनीयमेनां पाययित्वा किंचिदात्मनः कार्यमुद्दिश्य नायकस्य विषह्यं देशमानयेत् । तत्रैनां मैदात्संज्ञामप्रतिपद्यमानां दूपरिवेति समानं पूर्वेण ॥ अष्टमीचन्द्रिकादिग्विति । अष्टमीचन्द्रिकादिपु तत्र दिवसमुपोप्य पूजापुरःसरं रात्रिजागरणमा चन्द्रोदयम् । अनन्तरं तां धात्रेयिका नायकप्रसक्ता मदनीयं सुरादिकं पाययित्वा । किंचिदात्मनः कार्यमिति । अङ्गु लीयकं विस्मृत्यागतास्मि तत्र गच्छेत्युपदिश्यानयेदित्यर्थः । तत्रेति विपह्यदेशे । संज्ञां चेतनाम् । दूपयित्वेति । दूषययित्वा चैनां शनैः स्वजनेषु प्रकाशयेत् । तद्वान्धवाश्चेत्यादिपूर्ववत् । इत्येकः प्रकारः । मुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञामप्रतिपद्यमानां दूपयित्वेति समानं पूर्वेण ॥ १. 'ज्येष्टं वा भ्रातरं समान'. २. 'साहाय्यक'. ३. 'तदन्ते च समभिप्रायं. ४. 'अन्यकार्यापदेशेन'. ५. 'प्रयुकं. ६. 'अतिमदात्'. ७. 'अतस्त्रा'. ८. 'घात्रेयिकया. ५ अध्यायः] ३ कन्यासंप्रयुक्तकमधिकरणम् । २३१ सुप्तां चैकचारिणीमिति । अङ्कसुसेति द्वितीयः । अनाग्याहरणादिकं नास्ति अधर्मत्वादिति 1 प्रसबाहरणाद्राक्षसमधिकृत्याह- ग्रामान्तरसुधानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो नाय- कस्तदा रक्षिणो चित्रास्य हत्वा वा कन्यामपहरेत् । इति विवाह- योगाः ॥ ग्रामान्तरेति । अस्माद्रामादन्यग्रामम् । सुसंभृतसहाय इति सुसंनद्धवहुसहायः । रक्षिणः कन्यारक्षकान् । वित्रास्य ते यथा त्यक्त्वा पलायन्ते । हत्वा वा प्रहारैः कन्यामपहरेत् । कृष्णबद्रुक्मिणीम् । अत्राप्यधर्मत्वान्नाम्न्याहरणादि । विवाहयोगा गान्धर्वादीनां विषयः । अष्टानां विवाहानां मध्ये किमपेक्षया कस्य प्राधान्यमित्याह- पूर्व: पूर्वः प्रधानं स्याद्विवाहो धर्मतः स्थितेः । पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥ पूर्वः पूर्व इति । धर्मसंस्थितेरिति धर्मतो व्यवस्थानादित्यर्थः । तत्र पूर्वे धर्म्याश्चत्वारः । अस्मिन्दैर्शने गान्धर्वाह्रासादयः प्रघानम् । तत्रापि केचितरतमभेदेन पूर्वः पूर्व इत्याहुः । गान्धव ह्यासुरात् पडिति । एते एकस्मिन्पक्षे द्वावपि धम्र्यौ । किं तु यथा पूर्वेण तथा परतः । यथा च गान्धर्वो न तथासुर इति । केचित् 'आयुरोऽपि पैशाचात्तथाधर्मत्वात् । पैशाचोऽधर्म्येऽपि राक्षसात्प्रधानम् । राक्षसस्य साहसकर्मत्वात् । यो य उत्तर उत्तर इति अन्यगत्या अन्यः' इत्याहुः । गान्धर्व एव प्रधानमित्याह व्यूढानां हि विवाहानामनुरागः फलं यतः । मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥ व्यूढानामिति कृतानामनुरागः फलम् । अन्यथानुरागाभावे निप्फलः १. 'प्रभूतसहाय:'; 'सवृतसहाय:': 'संभृतसहाय '. २. 'योग: '. ३. 'धर्मे'. ४. 'सद्योगात्'. २३२ कामसूत्रम् । २० आदितोऽध्यायः ] स्यात् । मध्यमोऽपि हि पडित्येकस्मिन्पक्षे । सद्योग इति शोभनोऽनुरागात्मको योगोऽस्येति । तेन च सद्योगेन गान्धर्व इत्युच्यते । एवं च कृत्वास्य प्राधान्यमित्याह मुखत्वादबहुक्लेशादपि चावरणादिह । अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः ॥ इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः । सुखत्वादिति सुखहेतुत्वात् । अवहुक्लेशात् प्रायेणेति । प्रायशो न य- लसाध्य इत्यर्थः । अवरणात् वरणसंविधानाभावात् ॥ इति विवाहयोगा एकत्रिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाद्गना विरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणकत्रकृतसूत्रभाध्यायां कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः । समाप्तं चेदं कन्यासंप्रयुक्तकं तृतीयमधिकरणम् । 1 7 1 १ ४. भार्याधिकारिकमधिकरणम् । भार्याधिकारिकं नाम चतुर्थमधिकरणम् । १ अध्यायः] COTHEST प्रथमोऽध्यायः । कन्या पुरुषेण संप्रवृत्ता तया पुंसि कथं वर्तितव्यमित्यतो भार्याधिका- रिकमुच्यते । तच्च कन्यासंप्रयुक्तकशेषभूतम् । अन्यथा विशेषाधिकान- नुष्ठानात्संयुक्ताप्यसंप्रयुक्तकैन स्यात् । भार्या च द्विविधा - एकचारिणी सैपत्निका च । तत्र प्राधान्येनैकचारिणीवृत्तमुच्यते- भार्येकचारिणी गूँढविश्रम्भा देववत्पतिमानुकूल्येन वर्तेत । भार्येति । गूढविश्रम्भा । इतरस्याः कपटव्यवहारः । संभावितत्वात् । 'भर्ता तु देवता स्त्रीणाम्' इति न्यायात् । आनुकूल्येन चित्तानुविधानेनैव । वर्तेतेत्यन्तर्भावितोऽर्थः । शरीरस्थितिविषयमेतत् । वृत्तं सूचयति- तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ॥ तन्मतेनेति यदा तु नायकेनानुज्ञाता । कुटुम्बचिन्तां गृहचिन्ताम् । बाह्यवस्तुविषयमेतत् । आत्मनि संनिवेशयेत् आत्माधीनां कुर्यात् । यथायोगं योज्यम् । तत्र गृहप्रतिबद्धत्वाद्वृत्तस्य चिन्तामाह वेश्म चं शुचि सुसंमृष्टस्थानं विरचितविविधकुसुमं लक्ष्णभू- मितलं हृद्यदर्शनं त्रिषवणाचरितवलिकर्म पूजितदेवायतनं कुर्यात् ॥ वेश्म चेति । कुर्यादित्यनेन संबन्धः । सुसंमृष्टं सुशोधितम् । स्थानेपु विरचितानि विप्रकीर्णानि विविधानि कुसुमानि यस्य । लक्ष्णभूमितलमिति मसृणभूतलम् । हृह्यं हृदयप्रियं दर्शनं यस्य । त्रिपवणं त्रिसंध्यमाचरितं कारितं बलिकर्म यत्र । देवतायतनं देवगृहम् । तत्पूजितं यस्मिन् । न ह्यतोऽन्यद्गृहस्थानां चित्तग्राहकमस्तीति गोनर्दीयः ॥ १. 'प्रवृत्ता'. २. 'असंयुफकस्येव'. ३. 'सपत्नीका च'. ४. 'रूढविधम्भा'. ५. 'देवतावत्'. ६. 'सभावितवत्'. ७. 'तन्मतेन तु. ८. 'त्रिपवणं विरचित'; 'उपवनोपरचित.' का० ३० कामसूत्रम् । .. २१ आदितोऽध्यायः] अतोऽन्यदिति अत्रोपवर्णितवेश्मनः । चित्तग्राहकं मनोहारि । गोनदींय इति पूजार्थम् । अधिकरणेऽधिकृतत्वात् । तत्र वृत्तद्वयं दर्शयन्नाह गुरुपु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाई प्रतिपत्तिः ॥ गुरुष्विति श्वशुरादिपु । नायकभगिनीषु ननान्डषु । तत्पतिषु ननान्ह पतिपु । यथार्ह प्रतिपत्तिरिति यथा यस्यां प्रतिपत्तिः । वाक्कायाभ्यामनुष्ठानात् । पैरिपूतेषु च हरितशाकवमानिक्षुस्तम्बाञ्जीरकसर्पपाजमोदशत- पुष्पातमालगुल्मांच कारयेत् ॥ परिपूतेषु चेति पवित्रेषु । हरितं धान्याकार्द्वकादि । शाकं पालङ्कयादि च । एषां वप्रान्केदारान् । इक्षुस्तम्वानिक्षुविटपान् । जीरकादीशत पुष्पापर्यन्तान्कारयेत् । तत्राजमोदोऽनेनैव नाम्ना प्रतीतः । तमालगुल्मांस्तमालविटपान् । २३४ कुब्नकामलकमल्लिकाजातीकुरण्टकनैवमालिकातगरनन्द्यावर्तज- पागुल्मानन्यांथ वहुपुष्पान्चालकोशीरकपातालिकांच वृक्षवाटि- कायां च स्थण्डिलानि मनोज्ञानि कारयेत् ॥ तत्र कुब्जकादीनां गुल्मान् । तगरः पिण्डीतगरः । जपा ओडूपुष्पम् । बहुपुष्पा ये निर्भरं पुष्यन्ति । बालकोशीरयोः पातालिका केदारः । स्थण्डिलार्न्यवपदिकानि । मेध्ये कूपं वाप दीर्घिकां वा खानयेत् ॥ वापीं समचतुरखां पुष्करिणीम्, दीर्घिकामायतचतुरस्रां खानयेत् । वस्तुवशात् । भिक्षुकीश्रमणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत । १. 'पुरुषभृत्य.' २. 'परिपूते स्थाने'. ३. 'नवमलिका'. ४. 'वहून्पुष्पविशेपान. ५. 'उशीरकफेलिकाय'; 'उशीरकाथ.' ६. 'उच्छ्रितानि वितृणान्यकण्टकानि च स्थण्डिलानि'. ७. 'मनोज्ञानि कारयेत्' इति पुस्तकान्तरे नास्ति ८. 'अवपट्टिकानि'; 'अवयवकानि'. ९. 'सामान्येषु देशेषु कूप'. १०. 'वस्तु'; 'यस्तु.' १ अध्यायः] ४ भार्याधिकारिकमधिकरणम् । २३५ भिक्षुकी मिक्षणशीला । श्रमणा क्षपणा प्रत्रजिता रक्तपट्टिका च । कुलटा प्रच्छन्नं खण्डितचारित्रा । कुहका कौतु[क]कारिका । ईक्षणिका विप्रश्निका । मूलकारिका वशीकरणेन मूलेन या कर्म करोति तां ( तया) च न संसृज्येत । भर्तुर्विकल्पहेतुत्वात् । भोजने च रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपथ्यमिदमिति च विन्द्यात् ॥ भोजने चेति । भोजनकाले रुचिता [दी]नि विन्द्यात् । स्वरं वहिरुपश्रुत्य भवनमागच्छतः किं कृत्यमिति भवनमध्ये तिष्ठेत् ॥ सज्जा किं कृत्यमिति । आदिश्यमानकार्यस्यानुष्ठानबुच्या । सज्जा सावधाना । भवनमध्येऽङ्गणके । पैरिचारिकामपनुद्य स्वयं पादौ प्रक्षालयेत् ॥ परिचारिकामिति । पादप्रक्षालनोद्यतामपनुद्यापास्य । नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ॥ संदर्शन इत्यग्रतो न तिष्ठेत् । कृतशरीरसंस्कारामदृष्ट्वा वैराग्यमपि स्यात् । अतिव्ययमसव्ययं वा कुर्वाणं रहसि वोषयेत् ॥ अतिव्ययमुचितव्ययादधिकम् । असद्ययं यदनथिंजने प्रतिपाद्यते । रहसि बोषयेत् । लोकमध्ये हि लज्जित एव स्यात् । आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन- मित्यनुज्ञाता कुर्यात् ॥ आवाहे बॅरगृहे । विवाहे कन्यागृहे । गोष्ठीं संभृय पानभोजनम् । देव- ताभिगमनं द्रष्टुमनुज्ञाता कुर्यात् । अन्यथा खैरिणीत्याशङ्कचेत । सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥ सर्वक्रीडासु चेति यक्षराज्यादिषु लोके प्रवृत्तासु तच्चित्तानुविधानेन प्रवृत्तिः । १. 'बहिरुपसृत्य'; 'खरमागच्छतो बहिरुपश्रुत्य. २. 'परिचारिका.'; 'परिचार- कानू'. ३. 'भूषणा'. ४. 'आवाहविवाहयज्ञगमनं'. ५. 'वरप्रहेति'. ६. 'कन्यामहे'. ७. 'आशङ्केत'. कामसूत्रम् । २१ आदितोऽध्यायः] पश्चात्संवेशनं पूर्वमुत्थानमनववोधनं च सुप्तस्य ॥ पश्चात्संवेशनं शयितस्य नायकस्य । पूर्वमुत्थानमनुत्थितान्नायकात् । अहनि यावन्न प्रतिबुध्येत । महानसं च सुगुतं स्यादर्शनीयं च ॥ महानसं सुगुप्तं स्यात् । येथान्य उपरिको न विशति । दर्शनीयं चान्धकारभावात् । नायकापचारेषु किंचित्कैलुपिता नासर्य निर्वदेत् ॥ नायकापचारेप्विति नायकापराधेपु । किंचित्कलुषिता धीरोदात्तत्वख्या- पनार्थम् । निर्वदेत् पुनर्मा कार्पोरिति । तत्रापि नात्यथै मा भूद्वैलक्ष्यमस्येति । साधिक्षेपवचनं खेनं मित्रजनमध्यस्थमेकाकिनं वाप्युपालभेत । न च मूलकारिका स्यात् ॥ मित्रजनमध्यस्थं यदि कार्यवशात्साधिक्षेपवचनमुपालमेत । न च मूलकारिका स्यात् । सेत्स्वप्यपचारेपु युक्तिमाह २३६ नहातोऽन्यदप्रत्ययकारणमस्तीति गोनदर्दीयः ॥ अत इति मूलकर्मणः । अप्रत्ययकारणमविश्वासकारणम् । गोनर्दीयमतमनुमतम् । अप्रतिषिद्धत्वात् । दुर्व्याहृतं दुर्निरीक्षितमन्यतो मन्त्रणं द्वारदेशावस्थानं निरीक्षणं वा निष्कुटेषु मन्त्रणं विविक्तेपु चिरमवस्थानमिति वर्जयेत् ॥ दुर्व्याहृतं दुर्मन्त्रितम् । दुर्निरीक्षितमस्निग्धवीक्षणम् । अन्यतो मन्त्रणं तिर्यङ्मुखं कृत्वा भाषणम् । एतत्रितयं वैराग्यजननम् । द्वारदेशावस्थानं गृहद्वारस्थितिर्निरीक्षणं च तदुमयमयत्नसाध्यसूचकम् । निष्कुटेष्वितिं गृहवाटिकायां निर्गत्य कयाचित्सह मन्त्रणम् । विविक्तेपु निर्जनेषु गृहप्रदेशेपु चिरमवस्थानमस्निग्धताजनकं भवेत् । १. 'आहारं च महानस च सुगुप्त प्रवेशसंकटं सुदर्शनीयं च . २. 'यथायथान्य'. ३. 'न किंचित्कलुपिता निर्वदेदधिक्षेपवचनं. ४. 'साधिक्षेपवचनं त्वेनं' इति पुस्तकान्तरे नाखि ५. 'यद्यप्युपचारेपु. वैरा ६7 i f } १ अध्यायः] ४ भार्याधिकारिकमधिकरणम् । स्वेददन्तपङ्कदुर्गन्धांच बुध्येतेति विरागकारणम् ॥ स्वेदादीन्बुध्येतापनयनार्थम् । दन्तपको दन्तमलः । विरागकारणमिति वैराग्यजनकं भवेद्भर्तुः । २३७ बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास इत्याभिगामिको वेषः । मतनुश्लक्ष्णाल्पदुकूलता परिमितमोभरणं सुगन्धिता नात्युल्वणमनुलेपनम् । तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः ॥ नानावर्णकालवशाद्यद्यद्विराजते वर्णतस्तत्तदुपादेयमिति । आभिगामिको नायकाभिगमनप्रयोजनः । तदा हि बहुभूषणादिभिः कालौपयिकेन च रक्तवाससा प्रसाधिता मनोहरेति । प्रतनु शुक्ष्णमल्पं सूक्ष्मं शोमते वस्त्रम् । परिमितं कर्णयोग्रवायां च । नात्युद्धतं वर्णकमित्य अंशाभ्यां (१) चेति वैहारिके । यात्राक्रीडाविहारप्रयोगाः । नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत । वारितायां च नाहमत्र निर्वन्धनीयेति तद्वचसो निवर्तनम् ॥ व्रतं नियमं खयमनुकरणेनानुवर्तेत भक्तिख्यापनार्थम् । वारितायां नायकेन व्रतोपवासाभ्याम् । नाहमत्र निर्बन्धनीया निषेधनीयेति वाक्येन नायकवचसो निवर्तनं भक्तेर्नाट्यार्थम् । मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्पग्रहणम् ॥ मृद्धाण्डं घटादि । विदलमाण्डं पिटकादि । काठमाण्डं पीठखट्टादि । लोहमाण्डं ताम्रादिमयम् । काल इत्युपयोगकाले । तत्रापि समर्षे प्राप्यते । तथा लवणस्नेहयोथ गन्धद्रव्यकटुकभाण्डौषधानां च दुर्लभानां भवनेषु प्रच्छन्नं निधानम् ॥ लवणं सैन्धवादि । नेहा घृततैलवसामज्जानः । गन्धद्रव्यं तगरादि । कटुकं तुम्ब्यादि । औषधं द्विपञ्चमूलादि । दुर्लमा ये न तत्रत्याः । अपि x १. 'इति विरागकारणम्' इति मूलपुस्तकेषु नोपलभ्यते. टीकानुरोधादत्र लिखितम्. २. 'अम्वरेण'. ३. 'प्रसाद्याभ्या चेति प्रसाधिता'. ४. 'वर्णमिति'. ५. 'वारितायाथ'. ६. 'वचनात्तद्वचसो', ७. 'भक्तेनावार्थम् २३८ कामसूत्रम् । २१ आदितोऽध्यायः ] तु दुःखेन लभ्यन्ते । प्रच्छन्नं निधानं यत्र तानि भवन्ति, न विनश्यन्ति वा । मूलकालुकपालङ्की दमनकाम्रातकैर्वारुकत्र पुसवार्ताककृष्माण्डा- लावुवरणशुकनासास्वयंगुप्तातिलपणिकाग्निमन्थलशुनपलाण्डुमभृ- तीनां सर्वौषधीनां च वीजग्रहणं काले वापश्च ॥ मूलकादीनां च बीजग्रहणमिति । एर्वारुकः कर्कटिका । अलावुस्तुम्बी । सूरणः कन्दः । शुकनासा स... । स्वयंगुप्ता कपिकच्छ्रः । तिलपर्णिका काश्मरी । अग्निमन्थोऽनेनैव नाम्ना प्रथितः । पलाण्डुर्लशुनाकारो लोहितः । स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥ सारस्य द्रव्यस्य परेभ्यो नाख्यानं 'धनायुषी गुप्ततमे कार्ये' इति वचनात् । भर्तृमन्त्रितस्य च नाख्यानं मा ज्ञासीद्भिन्नरहस्येति । समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारै- रतिशयीत ॥ आत्मनोऽधिकत्वख्यापनार्थम् । मानेन मनस्वितया । उपचारैर्मर्तरि क्रियमाणैः । सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् ॥ तदनुरूपमायानुरूपं कालयापनार्थम् । भोजनावशिष्टाद्गोरसान्र्तकरणम् तथा तैलगुडयोः । कर्पासस्य च मूत्रकर्तनम् सूत्रस्य वानम् । शिक्यरज्जुपाशवल्कलसंग्रहणम् । कुट्टनर्कण्डनावेक्षणम् । आचाममण्डतुपकणर्कुट्यङ्गाराणामुपयोज- नम् । भृयवेतनभरणज्ञानम् । कृषिपशुपलन चिन्तावाहन विधान- योगाः । मेपकुक्कटलावकशुकशारिकापरभृतमयूरवानरमृगाणामवे- क्षणम् । दैवेंसिकायव्ययपिण्डीकरणमिति च विद्यात् ॥ घृतकरणमिति यदादिपु ब्राह्मणान्भोजयित्वा यदवशिष्टं तस्माद्धृतकरणं १. 'मानेन मनखितया तथोपचारर्मर्तरि क्रियमाणैरतिगयीत'. २. 'आत्मनोवाघितत्व'. ३. 'सारग्रहणम्'. ४. 'तन्त्रवानम्'. ५. 'संग्रहाः'. ६. 'खण्डन'. 'आचमातुप'. ८. 'कडङ्गरकाणां'. ९. 'पालनपोषण'. १०. 'देवसिकस्य व्ययस्य'. ET ६ 퀴 व ॥ R BLA १ अध्यायः] ४ भार्याधिकारिकमधिकरणम् । २३९ मथितं चापरं भवति । तैलगुडयोः करणं सर्पपेक्षुकाण्डपीडनात् । कर्पासस्य सूत्रकरणम् । वानमाच्छादनार्थम् । शिक्यस्य माण्डारोपणार्थम् । रज्ज्वा जलोद्धरणार्थम् । पाशस्य पशुवन्धनार्थम् । वल्कलस्य रज्ज्वाद्यर्थे संग्रह णम् । कुट्टनं धान्यानाम् । कण्डनं तण्डुलानाम् । तयोरवेक्षणं परीक्षणम् । आचामस्य मण्डस्य च पानार्थं चेटिकादिषूपयोजनम् । तुषाणां रन्धनलेपनादिपु । कणानां क्षुद्रतण्डुलानां कुक्कुटादिषु । कुटीनां तण्डुलपरागाणां गोमेषादिषु । अङ्गाराणां महानसादुत्पन्नानां लोहमाण्डकरणादिपु । भृत्या ये वहिरन्तः कर्मसु नियुक्ताः । तेषां वेतनं प्रतिमासं प्रतिवर्षं वा यो निबन्धः । भरणं प्रतिदिनं भग्नकं (?) तयोर्ज्ञानं देशकालकर्मवशेन । कृषिपशुपालनचिन्तेति कर्षणवापनरोपणादिप्रत्यवेक्षणम् । प्रत्यहायव्ययस्य पिण्डीकरणमेकीकरणमिति । विद्यादित्येतद्धृतकरणादि । तज्जघन्यानां चे जीर्णवाससां संचयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणामनुग्रहो मानार्येषु च दानमन्यत्र वोपयोगः ॥ तज्जघन्यानामिति नायकोपभुक्तानाम् । तैः संचितैः । कृतकर्मणामिति यैः कर्म कृतम् । मानार्थेषु चेति मान एवार्थो येषाम् । ते हि तैर्दत्तैर्मानिता भवन्ति । अन्यत्र वेति दीपवर्त्यादिपु । सुराकुम्भीनामासवकुम्भीनां च स्थापनं तदुपयोगः क्रॅयविक्र- यावायव्ययावेक्षणम् ॥ स्थापनमिति प्रच्छन्नम् । तदुपयोग इति कार्यवशात्सुरादीनामुपयोजनम् । क्रयविक्रयौ समर्घमहर्षतया । आयव्ययावल्पमहत्तयावेक्षेत । नायकमित्राणां च सगनुलेपनतम्बूलदानैः पूजनं न्यायतः । वश्वशुर परिचर्या तत्परतत्र्यमनुत्तरवादिता परिमिताप्रचण्डालापकरणमनुचैर्हासः । तत्प्रियाप्रियेषु स्वप्रियाप्रियेष्विव हृत्तिः । भोगेष्वनुत्सेकः । परिजने दाक्षिण्यम् । नायकस्यानिवेद्य न कस्मै १. 'च' पुस्तकान्तरे नास्ति. २. 'निचयैर्विविध'. ३ 'उत्सवे मानार्थिपु दान' ४. 'कुण्डीना. ५. 'क्रय विक्रयव्ययावेक्षणम्' ६. 'धूपताम्बूल'. ७. 'न्यायतश्च'. २४० कामसूत्रम् । २१ आदितोऽध्यायः] चिद्दानम् । स्वकर्मसु भृत्यजन नियमनमुत्सवेषु चास्य पूजनमित्ये- कचारिणीवृत्तम् ॥ न्यायत इति गुणजातिवयोपेक्षया । पूजनं स्वीकरणाथै परिचयधर्मार्थ : च । तत्पारतत्र्यं तद्वचनानुष्ठानात् । अनुत्तरवादिता तयोः प्रत्युत्तरं न देयम् । परिमिताप्रचण्डालापकरणमिति तयोरप्रतः खल्पं च मृदु च ब्रू- यात् । अनुच्चैर्हासस्तत्समीपे । तत्प्रियाप्रियेष्विति तयोरिष्टानिष्टेषु स्वप्रियाप्रियेष्विव वृत्तिर्यथात्मनः प्रियाप्रियौ भवतः । भोगेपु महत्स्वपि सत्खनु त्सेको लाघवपरिहारायै चित्तविकारो न कर्तव्यः । परिजनलोकस्य सर्वदा दाक्षिण्यमुपसंग्रहार्थम् । अनिवेद्य न कस्मैचिद्दानं सपुत्राया अपि स्वातन्त्र्य परिहारार्थम् । स्वकर्मस्विति यो यन्त्र नियुक्तस्तत्र तस्य नियमनं कर्मणां निपातनार्थम् (?) । अस्येति भृत्यजनस्य । पूजनं पानभोजना- दिना । एकचारिणीवृत्तं द्वात्रिंशं प्रकरणम् ॥ एकचारिण्याः संनिहिते नायके वृत्तमुक्तम्, प्रोपिते तु तद्वृत्तशेषभूता प्रवासचर्यारम्यतेगुरुजनमूल इति श्वश्रूजनसमीपे शयनमात्मविशुष्यर्थम् । तदभिमतेति गुरुजनाभिमतस्य कार्यस्यानुष्ठानमानुकूल्यख्यापनार्थम् । अर्जने प्रयत्न इति नायकस्य येऽभिमता न च तेनार्जितास्तेषाम् । निसनैमित्तिकेषु कर्मसूचितो व्ययः । तदारव्धानां च कर्मणां समापने मतिः ॥ s १. 'सुहत्परिजन'. २. 'मद्गल्य'. ३. 'ग्रहान् ४. 'शय्या गुरुसमीपे'. ५. 'प्रतिपत्तिः'. ६. 'उपार्जने. ७. 'प्रयन्नः'. 1 प्रवासे मैङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता ग्रैं- हानवेक्षेत ॥ वार्तायां स्थितेति नायकवार्तान्वेषणपरेत्यर्थः । गृहानवेक्षेतेति तात्स्थ्या- 1 कर्माण्याह । शय्या च गुरुजनमूले । तदभिमता कार्यनिष्पत्तिः । नायका- भिमतानां चार्थानामैर्जने प्रतिसंस्कारे च यत्नः ॥ 1 न ₹ A i i ४ भार्याधिकारिकमधिकरणम् । .२४१ नित्यं कर्माशनपानादि । नैमित्तिकं कर्म वालकोत्सवादि । उचितो व्ययो यावता विधिः संपद्यते, नायककल्पितो वा । तदारब्धानामिति नायकारब्धानां देवकुलोद्यानादिकर्मणां समापने मतिः । येन प्रकारेण निप्पद्यते तथा कार्यमित्यर्थः । १ अध्यायः] D ज्ञौतिकुलस्यानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् । तत्रापि नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपरिवर्तितप्रवासवे- पता च ॥ ज्ञातिकुलस्य पितृगृहस्य । अनभिगमनं कारणं विना । तत्रापि व्यसनोत्सवे । नायकपरिजनाधिष्ठिताया गमनमात्मविशुद्ध्यर्थम् । नातिकालमवस्थानमिति नातिचिरकालमवस्थानं श्वशुरकोपभयात् । अपरिवर्तितप्रवासवेपता चेत्युत्सवमधिकृत्येदं वचनम् । गुरुजनानुज्ञातानां करणग्रुपवासानाम् । परिचारकैः शुचिभि- रौज्ञाधिष्ठितैरनुमतेन ऋयविक्रयकर्मणा सारस्यपूरणं तनुकरणं च शक्त्या व्ययानाम् ॥ गुरुजनानुज्ञातानां करणं खातन्त्र्यपरिहारार्थम् । क्रयविक्रयकर्मणेति बणिज्याधर्मेण । सारस्यापूरणं द्रव्यस्याभिवर्धनम् । तनूकरणं चेति कृशीकरणम् । शक्त्या व्ययानामिति कार्यवशायदि व्ययस्य महत्ता स्यात्तदा कृशं सारं कुर्यादित्यर्थः । आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनमुपहा- राणां चाहरणमिति प्रवासचर्या ॥ आगते चेति प्रवासात्मत्यागते नायके । प्रकृतिस्थाया इति प्रवासवेष- स्थाया एव प्रथमतो दर्शनं स्यात्स्वरूपख्यापनार्थम् । न पुनरागत इत्या- त्मानं प्रसाधयेत् । देवतापूजनं सहपरिजनेन । उपहाराणामुपयाचितका- नाम् । आहरणं दानं देवताभ्यः । प्रवासचर्या त्रयस्त्रिंशं प्रकरणम् ॥ १. 'ज्ञातिकुलागमन'. २. 'तत्रापि ' पुस्तकान्तरे नास्ति. ३. 'परिजनानुयाताया: '. ४. 'आत्मा'. ५. 'अनुमता'. ६. 'आस्थापनम् . का० ३१ २४२ कामसूत्रम् । प्रकरणद्वयोपसंहरणार्थमाह भवतयात्र श्लोकौ २२ आदितोऽध्यायः ] सद्वृत्तमनुवर्तेत नायकस्य हितैषिणी । कुलयोपा पुनर्भूर्वा वेश्या वाप्येकचारिणी ॥ धर्ममर्थ तथा कामं लभन्ते स्थानमेव च । निःसपत्नं च भर्तारं नार्यः सद्वृत्तमाश्रिताः ॥ इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे । एकचारिणीवृत्तं प्रवासचर्या च प्रथमोऽध्यायः । सदिति न कपटेनानुवर्तनमिति दर्शनार्थम् । अस्मिन्वृत्ते नायिकात्रयमधिकृत्याह—कुलयोपेति । अन्यैर्वोढा (अनन्योढा) कुलयोपिदित्युच्यते । वृत्तानुवर्तने फलमाह – घर्ममिति । स्थानं प्रतिष्ठानम् । निःसपत्नं निष्कण्टकम् । इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाद्मनाविरहकातरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणकत्रकृतसूत्रभाष्यार्या भार्याधिकारिके चतुर्थेऽधिकरणे एकचारिणीवृत्त प्रवासचर्या च प्रथमोऽध्यायः । द्वितीयोऽध्यायः । सैव यदा सपत्नीभिर्युज्यते तदा कथं वर्तितव्यमिति सपत्नीपु ज्येष्ठा- वृत्तमुच्यते । तत्र सापलककारणमाह- जाड्यदौः शील्यदौर्भाग्येभ्यः प्रजानुत्पत्तेराभीक्ष्ण्येन दारि- कोत्पत्तेर्नायकचापलाद्वा सपत्न्यधिवेदनम् ॥ जाड्यं शाट्यम् । दौःशील्यं चारित्रखण्डनात् । प्रजानुत्पत्तेर्वन्ध्यत्वात् । अभीक्ष्णेन दारिकोत्पत्तेः । तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्पेत् । प्र- जानुत्पत्तौ च स्वयमेव सौपनके चोदयेत् ॥ तस्मादादित एवात्मनो भक्तिशीलवैदग्ध्यख्यापनेन यथाक्रमं जाख्या१. 'प्रकरणद्वयमुप.' २. 'सापनकं'. २ अध्यायः] ४ मार्याधिकारिकमधिकरणम् । २४३ दित्रयं परिहर्तुमिच्छेत् । नायकचापलं वैदग्ध्यख्यापनेनैव । प्रजानुत्पत्तौ स्वयमेव । अन्यथा तेन कर्तव्यमेव । सापत्रके चोदयेत् कुरु विवाहमिति । दारिकोत्पत्तावप्ययमेव क्रमः । स्त्रीपरिग्रहस्य पुत्रफलकत्वात् । अधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थिति कारयेत् ॥ दे अधिविद्यमानेति सापत्ने युज्यमाना न त्वधिविन्ना । यावच्छतीति यावती शक्तिस्तदपेक्षयात्मनः स्थितिं कारयेत् । अधिकत्वेनेति सपत्न्याः स काशादाधिक्येनेत्यर्थः । अधिविना तु किं कुर्यादित्याह- आगतां चैनां भंगिनीवदीक्षेत । नायकविदितं च प्रादोपिकं विधिमतीव यत्नादस्याः कारयेत् । सौभाग्यजं वैकृतमुत्सेकं वास्या नाद्रियेत ॥ नायकविदितमिति यथा नायको जानात्यनया कारितमिति । प्रदोपिकं प्रदोषभवं संस्कारम् । अतियत्नादनिच्छन्त्या अपि तस्याः स्खेहख्यापनार्थ परिचारिकया कारयेत् । सौभाग्यजं बैकृतं यदहंकृत्या व्याहृतम् । औत्सुक्यमुत्सेकं चित्तविकारं नाद्रियेत नापेक्षेत । अभिभवभयात् । भर्तरि प्रमाद्यन्तीमुपेक्षेत । यत्र मन्येतार्थमियं स्वयमपि प्रतिप त्स्यत इति तत्रैनामादरत एवानुशिष्यात् ॥ भर्तरीति भर्तृविषये प्रमाद्यन्तीं प्रमादं यान्तीमुपेक्षेत । अनेनैव स्खलितदोषेण दौर्भाग्यं स्यादिति । यत्रेति यस्मिन्प्रमादे मन्येत नायकसंभोगार्थमियं कृता सपत्नी स्वयमेव प्रतिपत्स्यते प्रमादो मा भूदिति तत्रैनां स्नेहख्यापनार्थमादरतोऽनुशिष्यात्पुनर्मा कार्पीरिति । ॐ + दे - नायकसंथवे च रहसि विशेपानधिकान्दर्शयेत् ॥ नायकसंश्रवे चेति नायकस्य श्रुतिगोचरे सति । रहसि च यत्रान्यो न शृणोति । विशेषानिति कलाविशेषान् अधिकानिति ये नायकस्य न दर्शिताः । तद्दर्शने झुभावपि स्निह्यतः । १. 'तु'. २. 'भगिनिकामिव वीक्षेत्'. ३. 'इम च. कामसूत्रम् । २२ आदितोऽध्यायः) तदपत्येष्वविशेषः । परिजनवर्गेऽधिकानुकम्पा । मित्रवर्गे श्रीतिः । आत्मज्ञातिषु नात्यादरः । तज्ज्ञातिषु चातिसंभ्रमः ॥ तदपत्येष्वित्यपुत्रया सपुत्राया दर्शितव्यः । परिजनवर्ग इति सपन्याः । अधिकानुकम्पा यद्यसौ नायकस्याप्यनभिमतः । मित्रवर्ग इति तस्या अघिको यो मित्रवर्गस्तस्मिन्प्रीतिः स्वीकारार्थम् । आत्मनो ज्ञातिपु नात्यादरो वैचनीयतापरिहारार्थम् । वही भिस्त्वधिविन्ना अव्यवहितया संसृज्येत ॥ बह्वीभिस्त्वधिविन्ना सपत्नीभिः । अव्यवहितयेत्यनन्तरया कनीयस्या संसृज्येत विदितशीलत्वात् । २४४ यौं तु नायकोऽधिकां चिकीर्पेतां भूतपूर्व सुभगया प्रोत्साह्य कलहयेत् ॥ यां तु तासु नायकोऽधिकां चिकीत्कर्तुमिच्छेत् । भूतपूर्वसुभगयेति नायकस्य प्रज्ञातानुनयया । प्रोत्साह्य तामेव सौभाग्यबीजोपन्यासेन च त यैव कलहयेत् । ततश्चानुकम्पेत ॥ तत इत्युत्तरकालमनुकम्पेत कलहितां प्रच्छन्ने समाश्वासयेत्कलहवर्धनार्थम् । ताभिरेकत्वेनाधिकां चिकीर्पितां स्वयमँविषदमाना दुर्जनीकुर्यात् ॥ तामिरेकत्वेनेति सपत्नीभिरन्याभिरेकत्वेनेत्यैक्येन । सहधर्मस्थितावित्यर्थः (?) । एकाभावेऽपि सैव सौभाग्यवीजोपन्यासहेतुं नायकस्याग्रतो दुर्जनीकुर्यात् । येन नायकस्य तस्यामगमबुद्धिः स्यात् । दृष्टो हि बहुभिः सकलचाहियमाणः । तत्रापि स्वयमविवदमाना मध्यस्था सती । न तत्प्रयोग इति ख्यापनार्थम् । नायकेन तु कलहितामेनां पेक्षपातावलम्वनोपबृंहितामाश्वासयेत् ॥ १. 'अधिकालो मित्र'. २. 'वचनीयतया'. ३. 'च'. ४. 'अव्यवहिताया'. ५. 'यां तु तालु'. ६. 'ताभिर्वडीभिरेव'. ७. 'अत्रिवदमानां'. ८. 'तस्थागम'. ९. 'दीर्जन्योपन्यालेन पक्षपातावलम्पनेन'. = i २ अध्यायः] ४ भार्याधिकारिकमधिकरणम् । नायकेन तु कलहितामेनां दौर्जन्योपन्यासेन । पक्षपातावलम्वनोपवृहि- तामिति तद्गुणोपबृंहितां दापित प्रत्युत्तरामाश्वासयेत् । कलहं च वर्षयेत् ॥ नायकेन सह । यत्नस्य तदर्थत्वात् । २४९ मन्दं वा कलहमुपलभ्य स्वयमेव संधुक्षयेत् ॥ छिद्यमानं तूपलभ्य कलहं संधुक्षयेद्यथा न मन्दीभवति । यदि नायकोsस्यामद्यापि सानुनय इति मन्येत तदा स्वयमेव संघौ प्रयतेतेति ज्येष्ठावृतम् ॥ स्वयं वा संधौ प्रयतेत । यद्ययमेकान्तेनास्यां निरनुनयस्तदा तिष्ठत्वसद्विषैव मैनामवमन्यध्वमिति प्रसादयेत् । इति ज्येष्ठावृत्त चतुर्खिशं प्रकरणम् । कनिष्ठापि भार्या कथं वर्तेतेति कनिष्ठावृत्तमुच्यतेकनिष्ठा तु मातृवत्सपत्नीं पश्येत् ॥ मातृवन्मातरमिव ज्येष्ठाम् । ज्ञातिदायमपि तस्या अविदितं नोपयुञ्जीत ॥ अङ्गार्पणोपाय एषः । आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात् ॥ आत्मवृत्तान्तानित्यात्मनि प्रतिषिद्धत्वाद्व्यवहारान् । तदधिष्ठितान् । अनुज्ञाता पतिमधिशयीत ॥ अनुज्ञाता ज्येष्ठया धर्मप्राप्तेऽधिशयने पतिमधिशयीत । ने वा तस्या वचनमन्यस्याः कथयेत् ॥ तस्या वचनं ज्येष्ठावचनं सदसद्वान्यस्या अग्रे न कथयेत् । कलहपरिहारार्थम् । तदपत्यानि स्वेभ्योऽधिकानि पश्येत् ॥ तदपत्यानि ज्येष्ठान्यज्येष्ठानि च । १. 'खय मन्येत'. २. 'सतोषयेदिति'. ३. 'आत्मवृत्तांथ तदनधिष्टितान'. ४. 'अनुज्ञाता ज्येष्टया'. ५. 'न चास्या'. २४६ कामसूत्रम् । २२ आदितोऽध्यायः] रहसि पतिमधिकग्रुपचरेत् ॥ रहसि शयने । अधिकमुपचरेद्येनायमन्याभ्यस्तस्यामनुरज्येत । आत्मनश्च सपत्नीविकारर्ज दुःखं नाचक्षीत ॥ सपत्नीविकारजं सपत्नीपरिभवजम् । नात्मना परस्याचक्षीत । स्वयं क थ्यमानं नायको न प्रतीयात् । अन्येन तु कथयेत् । तु पत्युश्च सविशेषकं गूढं मानं लिप्सेत् ॥ पत्युः सविशेषकमित्यन्यतरभार्याभ्यो वैशेषिकीं पूजां पत्युः सकाशादप्रकटं लब्धुमिच्छेत् । अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ॥ अनेनेति सविशेषेण मानेन । पथ्यदानेन शम्बलभूतेन जीवामि । तत्तु श्लाघया रागेण वा वहिर्नाचक्षीत ॥ तन्मानम् । श्लाघया विकत्थनेन । रागेण चेति सपत्नीकोषेन । बहिः सामान्यजनस्य नाचक्षीत । दोषमाह भिन्नरहस्या हि भर्तुरवज्ञां लभते ॥ अवज्ञा तिरस्कारः । ज्येष्ठाभयाच निगृढसंमानार्थिनी स्यादिति गोनर्दीयः ॥ अन्यथा सविशेषं मानं पश्यन्ती कुप्येदनथै वा चिन्तयेत् । गोनर्दीयमतमनुमतम् । अप्रतिषिद्धत्वात् । दुर्भगामनपत्यां च ज्येष्ठामनुकम्पेत नायकेन चानुकम्पयेत् ॥ अनुकम्पयेत्संभाषणं क्रियतामिति । आत्मसाधुत्वख्यापनार्थम् । भसा त्वेनामेकचारिणीवृत्तमनुतिष्ठेदिति कनिष्ठावृत्तम् ॥ एनामिति दुर्भगामनपत्यां ज्येष्ठाम् । ज्येष्ठाकनिष्ठयोर्मध्यवर्तिनीनां पू- र्वापरापेक्षया ज्येष्ठाकनिष्ठावृत्तं योज्यम् ॥ इति कनिष्ठावृत्तं पञ्चत्रिंशं प्रकरणम् ॥ १. 'क्रमज्येष्ठा'. २ अध्यायः] ४ भार्याधिकारिकमधिकरणम् । यथा कन्यामार्या तथा पुनर्भूरिति पुनर्मूवृत्तमुच्यते । पुनर्मुर्द्विविधाक्षतयोनिरक्षतयोनिश्च । तत्रान्त्या संस्कारार्हत्वात्कन्यायामेवान्तर्भूता । यथोक्तम्– 'पुनरक्षतयोनित्वादूझते या यथाविधि' इति । द्वितीयाया न संस्कारः । स्वीकार एव केवलम् । सा च लोकेऽपरुद्धिकेत्युच्यते । सा चैबंविधा शास्त्रेऽनुज्ञातैव । यथाह बसिष्ठः – 'मनोदत्ता वचोदत्ता या च मङ्गच्छयाचिका (!)। उदकस्पर्शिका चैव या च पाणिगृहीतका । अमि परिगता चैव पुनर्भूः प्रसवा च या ॥ इति । अत्र पूर्वाः पडक्षतयोनयः । प्रसवेति क्षतयोनिरित्यर्थः । तामेवाधिकृत्य वृत्तमाह विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पु- नविन्देत्सा पुनर्भूः ॥ २४७ विघवेति मृतभर्तृका । इन्द्रियदौर्बल्यादितीन्द्रियाणि नियन्तुमसमर्थ - त्वात् । आतुरा कामेन बाध्यमाना । भोगिनमित्युपभोगसंपन्नम् । गुणसंप- न्नमिति नायकगुणैर्युक्तम् । या पुनर्विन्देत द्वितीयं लभेत सा पुनर्भूर्भार्या - त्वेन पुनर्भवतीति कृत्वा । भोगिनं गुणसंपन्नमिति गोनर्दीयमतमेतद्भविष्यति । यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निर्गुणोऽयमिति तदान्यं कावेदिति बाभ्रवीयाः ॥ यतस्त्विति भर्तृगृहान्तरात् । खेच्छया निष्कान्ता पुनरपि यतः पुरुषात्खेच्छया निष्कमणं स्यात् । निर्गुणोऽयमिति निष्क्रमणोपायः । सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ॥ सौख्यार्थिनी विषयपरिभोगार्थिनी । किलेति वितर्के । गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति गोनर्दीयः ॥ सुखसाकल्यमिति गुणसुरतपरिभोगसुखयोः समवायात् । तत्क्रिमिति निष्कामति । यतश्चैवं तस्मात्ततो निर्गुणभोगिनो विशिष्यते गुणवान्भोगी । या तु पुनः पुनर्निष्कामत्यसौ वेश्याविशेषेऽन्तर्भवति । १. 'भोगिनी'. २. 'निष्क्रमणं त्यात्. २४८ कामसूत्रम् । २२ आदितोऽध्यायः] आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः ॥ आत्मनश्चित्तानुकूल्यादिति । सत्यपि गुणवति भोगिनि चित्तं चेन्नानुकूलं तथापि न सुखसाकल्यं तस्मादयमपरो विशेषः । तेनोक्तलक्षणादगम्योऽन्यो दर्शयति । सा वान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्यय- सहिष्णु कर्म लिप्सेत ॥ सेति विधवा । बान्धवैः स्वैः । नायकाद्यत्कर्मणा लब्धुमिच्छेत्तत्रापान- कं मद्यगोष्ठी । उद्यानं पुष्पफलौपयिकम् । श्रद्धादानं यच्छ्रद्धया दीयते । मित्रपूजनादीत्यादिशब्दात्स्वजनं च वस्त्रादिना । एतेषु कर्तव्येषु यद्ययं सहते कर्म । न तु प्रासाच्छादनमात्रमिति । इयमुत्तमप्रकृतेर्लिप्सा । आत्मनः सारेण वालंकारं तदीयमात्मीयं वा विभृयात् ॥ आत्मनः सारेण वेति मैध्यमाघमा सावधानीभूय धारयेदित्यर्थः । प्रीतिदायेष्वनियमः ॥ प्रीतिदायेष्विति प्रीत्या दत्तेष्वनियमो धारणं प्रति । स्वेच्छया च गृहान्निर्गच्छन्ती प्रीतिदायादन्यन्नायकदत्तं जी- येत । निष्कास्यमाना तु न किंचिद्दद्यात् ॥ खेच्छया चेति ( न तु) नायकदोपात्तेन गृहान्निर्गच्छन्तीति प्रीतिदायादन्यन्नायकदत्तं लोहक्षुरं (१) जीयेत दाप्येत । सा प्रभुविष्णुरिव तस्य भवनमानुयात् ॥ सेति जिगमिपुः । प्रभविष्णुरिव स्वामिनीव नायकगृहं स्वीकुर्यात् । अनन्तमपि कालं निजासु किं कुर्यादित्याह- कुलजामु तु प्रीया वर्तेत ॥ कुलजाखिति धर्मोढासु । प्रीत्या स्नेहेन । दाक्षिण्येन परिजने सर्वत्र संपरिहासा मित्रेषु प्रतिपत्तिः । क- लामु कौशलमधिकस्य च ज्ञानम् ॥ १. 'आपानकोत्सवव्यसनोद्यान'. २. 'मध्यमाघमसाव'. ३. 'धापयेत्'. ४. 'जीर्येत'. ५. 'प्रेध्यवत् ६. 'सपरिहासं'. २ अध्यायः] ४ भार्याधिकारिकमधिकरणम् । २४९ परिजने सर्वत्र कुलजानां नायकस्य दाक्षिण्येन वर्तेत । सपरिहासा सविकारा । कलासु कौशलं दर्शनीयमधिकस्य नायकाविदितस्य ज्ञानं दर्शयितव्यम् । कळहस्थानेषु च नायकं स्वयमुपालभेत ॥ कलहस्थानेष्विति उपचितच्छेदः खैरिणीसंसर्गो द्विरात्रागमनं वासकान्निष्क्रमणं चेत्यस्याः कलहस्थानानि । तेषु खयमुपालभेत । रेंहसि च कलया चतुःपष्टयानुवर्तेत । सैपत्नीनां च स्वयग्रुप- क्कुर्यात् । तासामपत्येष्वाभरणदानम् । तेषु स्वामिवदुपचारः । म ण्डनकानि वेषानादरेण कुर्वीत । परिजने मित्रवर्गे चाधिकं विश्रा- णनम् । समाजापानकोद्यानयात्राविहारशीलता चेति पुनर्भूवृत्तम् ॥ रहसि चेति नायकं शयनागतम् । कलयेत्यालिङ्गनादिभिः पुरुषोप- सृप्तान्तैः । सपत्नीनां कुलजानाम् । उपकुर्यादुत्पन्ने प्रयोजने । आमरणं मण्डनकादि । खामिवदुपचारस्तेषां कुलसंततिहेतुत्वात् । मण्डनकानि पु- ष्पानुलेपनादीनि । परिजन इत्यात्मीये । विश्राणनमिति दानम् । समाजेति गोष्ठीशीलता आपानशीलता उद्यानविहारशीलता चेति पुनर्भूवृत्तं पट्त्रिंशं प्रकरणम् ॥ आसां भार्याणां दुर्भगापि काचित्संभवति तया कथं वर्तितव्यमिति दुर्मगावृत्तमुच्यते- दुर्भगा तु सापनकपीडिता या तासामधिकमिव पत्यावुपचरे- तामाश्रयेत् । प्रकाश्यानि च कलाविज्ञानानि दर्शयेत् । दौर्भाग्या- द्रहस्यानामभावः ॥ दुर्भगा त्विति । सापत्नकपीडितेति दौर्भाग्यफलम् । तासामिति सपत्नीनां मध्ये या पत्यौ [उप] चरेत् । अधिकमिवेति नायकेनाधिकृतेन त्वधिका सेपत्म्युपचिता तां सुतरामेवाश्रयेत् । तामाश्रित्य प्रकाश्यानि कया १. 'सपरिहासाः सविकारा: '. २. 'खरं'. ३. 'खर' ४. 'मृदु रहति'. ५. 'खय सपत्नीनामुपकुर्यात् । तदपत्यानि खामिवदुपचरेत् । मण्डनकान्यादरेण कुर्वीत /विस्रम्भणं विश्राणनं च'. ६. 'अपि'. ७. 'सापत्न्य. ८. दौर्भाग्येत्यादिटीकापाठ इति भाति ९. 'सा पत्युप'. का० ३२ २५० कामसूत्रम् । २२ आदितोऽध्यायः] लाविज्ञानानि पत्रच्छेद्यादिकौशलानि दर्शयेत् । वैदग्ध्यख्यापनं हि दौर्भाग्यनिवृत्तिकारणम् । नायकापत्यानां धात्रेयिकानि कुर्यात् ॥ धात्रेयिकान्यभ्यञ्जनोद्वर्तनस्रपनादीनि । तन्मित्राणि चोपगृह्य तैर्भक्तिमात्मनः प्रकाशयेत् ॥ तन्मित्राणि चेति नायकमित्राणि । चोपगृह्य प्रियहिताभ्याम् । तैरित्युपगृहीतैर्भक्तिमात्मनः श्रावयेदैशाठ्यख्यापनार्थम् । धर्मकृत्येषु च पुरचारिणी स्याद्वतोपवासयोश्च ॥ धर्मकृत्येषु श्राद्धादिपु पुरश्चारिणी प्रारम्भिका स्यात् । व्रतोपवासयोश्च नायकेन क्रियमाणयोः पुरधारिणी । परिजने दाक्षिण्यम् । न चाधिकमात्मानं पश्येत् ॥ परिजने नायकस्य दाक्षिण्यमानुकूल्यं दर्शयितव्यम् । न चाधिकमात्मानं पश्येत्सपत्नीभ्यः परिजनेभ्यश्च । दौर्भाग्यहेतुत्वादिति । वाह्यमेतद्वृत्तम् । आभ्यन्तरमाहशेयने तत्सात्म्येनात्मनोऽनुरागमत्यानयनम् ॥ तत्सात्म्येनेति नायकानुकूल्येन । यथैव नायकोऽभियुङ्के तथैवानिच्छन्त्यप्यात्मनोऽनुरागमातृप्तिं प्रत्यानयेत् । न चोपालभेत वामतां च न दर्शयेत् ॥ न चोपालमेतेति तवाहमप्रियेति । वामतां प्रातिकूल्यमङ्गगूहनेन न दर्शयेत् । यया च कलहितः स्यात्कामं तामावर्तयेत् ॥ यया हि पल्या कलहितः स्यात्तामावर्तयेदभिमुखीकुर्यात् । काममित्यभ्युपगमे । अनेनापि प्रकारेण ममाभिमुखः स्यात् । यां च मच्छन्नां कामयेत्तामनेन सह संगमयेद्गोपयेच्च ॥ १. 'घाश्रीकमांति'. २. 'तद्भक्तिमान्मनलः'. ३. 'असाध्य'. ४. 'कार्येपु'. ५. 'जयनगत्तन्मामान्येन'. ६. 'सात्तामस्थोपावर्तयेत् . ७. 'अनेन संगमयेन्मर्माणि साम्यावयुध्येन गोपयेथ'. २ अध्यायः] ४ मार्याधिकारिकमधिकरणम् । २११ यां प्रच्छन्नां परस्त्रियं कामयेदनेन दूतीकर्मणा तां संगमयेत् । काममित्येव गोपयेच्चेतरस्मै नाचक्षीत । यथा च पतिव्रतात्वमशाठ्यं नायको मन्येत तथा प्रतिविदध्या- दिति दुर्भगावृत्तम् ॥ प्रतिविद्ध्याद्नुतिष्ठेत् । जाड्यदौः शील्ययोः प्रायेण दौर्भाग्यहेतुत्वात् । इति दुर्भगावृत्तं सप्तत्रिंशं प्रकरणम् ॥ यथा भार्याधिकारस्तथा भार्यायां नायकस्यापीति सप्तमीसमासोऽपि द्रष्टव्यः । अन्यथा नायकेन संगताप्यनुवर्तिता न संप्रयुज्येत । तत्र नायको द्विविधः - राजन्यको जानपदश्च । तत्र पूर्वमधिकृत्यान्तःपुरिकमुच्यते । अन्तः पुरे भवं वृत्तमान्तः पुरिकम् । 'रोपघेतोः प्राचाम्' इति वुञ् । ननु च यथा राज्ञो वृत्तं तथान्तः पुरिकाणामपि वक्तव्यमित्याह अन्तः पुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत् ॥ अन्तःपुराणां चेति तत्स्थस्त्रीणामेवामिधानम् । एतेष्वेव प्रकरणेषु लक्षयेत् । तत्राप्येकचारिणीज्येष्ठादयः सन्तीति पृथडोक्तम् । राज्ञस्तु पृथगुच्यते । C माल्यानुलेपनवासांसि चासां कश्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः महितमिति । तदादाय राजा निर्माल्यमासां मतिमाभृतकं दद्यात् । अलंकृतत्र स्खलंकृतानि चापराहे सर्वाण्यन्तः- पुराण्यैकध्येन पश्येत् ॥ देवीभिः प्रहितमिति तदादायेत्याद्यनुरागख्यापनार्थम् । अलंकृतश्चेति गृहीतनेपथ्यो राजा ऐकध्येनेत्येकधाशब्दाद्भावे ध्यमुञ् । तासां यथाकालं यथाई च स्थानमानानुवृत्तिः सपरिहासाथ कथाः कुर्यात् ॥ यथाहै चेति यद्यस्याः कुलवयोपेक्षया स्थानं नियोगो मानः पूजा आ भ्यामनुवृत्तिः कार्या । सपरिहासाः सर्वाकाराः कथाः । परिणीतास्विदं वृत्तम् । १. 'प्रकारेषु'. २. 'राजा' इति पुस्तकान्तरे नास्ति. २५२ कामसूत्रम् । २२ आदितोऽबाध्यः] तदनन्तरं पुनर्भुवस्तथैव पश्येत् ॥ तदनन्तरमिति परिणीतादर्शनानन्तरम् । पुनर्भुवस्तथैव पश्येदै कथ्येन तथा स्थानमानानुवृत्तिभिश्च । ततो वेश्या आभ्यन्तरिका नाटकीयाश्च ॥ आभ्यन्तरिका अन्तः पुरिका । नाटकीयाश्च नाटकहिताः । तथैव पश्येदेव । तासां यथोक्तकक्षाणि स्थानानि ॥ तासामिति पुनर्व्वादीनाम् । यथोक्तकक्षाणीति मध्ये देवीनां स्थानम् । ततो बहिःकक्षे पुनर्भुवाम् । ततो बहिर्वेश्यानाम् । ततोऽपि नाटकीयानामिति । वासकपाल्पस्तुं यस्या वासको यस्याश्चातीतो यस्याश्च ऋतुस्तत्प रिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस्तोभ्यां महितमैङ्गुलीयकाकमनुलेपनमृतुं वासकं च निवेदयेयुः । [अतीतो व्यस]नोत्सवाभ्यामन्तरितः । ऋतुश्च यस्याः प्रत्युपस्थितः । तत्परिचारिकानुगता इति तिसृणामपि देवी (व्यादी) नां याः परिचारिकास्ताभिरनुगता वासकपाल्यो दिवाशयोत्थितस्य भुक्त्वा शयितोत्थितस्य ताभ्यामिति यस्या [वासको] अतीतो यस्याश्च ऋतुः । अङ्गुलीयकाङ्कमिति मुद्रितम् । अनुलेपनं संबन्धिनः ख्यापनार्थम् । वासकं क्रमप्राप्तमतीतं वा । ऋतुं त्र प्रत्युपस्थितम् । तत्र राजा यगृह्णीयाचस्या वासकमाज्ञापयेत् ॥ तत्रेति निवेदिते । यद्गृह्णीयादिति यदीयमङ्गुलीयकम् । उत्सवेषु च सर्वासामनुरूपेण पूजापानकं च । संगीतदर्शनेषु च ॥ अनुरूपेण पूजेति कुलवयोनुरूपा । आपानकं च ताभिः सह । अन्तः पुरचारिणीनां वहिरनिष्क्रमो वाह्यानां चामवेशः । अ- न्यत्र विदितशौचाभ्यः । अपरिक्लिष्टथ कर्मयोग इत्यान्तःपुरिकम् ॥ १. 'च'. २. 'ताभिः'. ३. 'अनुलीयकं कुरुमानुलेपनं ऋतुवासकं च'. ४. 'आनुरु'५. 'अन्तरनारिणीनां बहिरनिष्काशः ६. 'वघमांय योगः'. T 1 ? i २ अध्यायः ] ४ भार्याधिकारिकमधिकरणम् । २९३ अप्रवेश (अन्यत्र) इति । ता खुपधाशुद्धत्वान्नान्यत्प्रयोजयन्ति । अ- परिशिष्टध कर्मयोग इति रतोपचारोऽकदर्थितः स्यात् । इत्यान्तःपुरिक- मष्टत्रिंशं प्रकरणम् ॥ येथा राज्ञो बह्वचः स्त्रियस्तथा जनपदस्यापि भवन्तीति पुरुषस्य बह्वीपु प्रतिपत्तिरुच्यते । तत्र सामान्यमाह भवन्ति चात्र श्लोकाःपुरुषस्तु वहून्दारान्समाहृत्य समो भवेत् । न चावज्ञां चरेदौसु व्यलीकान्न सहेत च ॥ समी भवेदिति नैकत्र खेहेन वर्तेत । न चावज्ञां चरेदिति गुणरूपरहिताखपि तिरस्कारं न कुर्वीत । व्यलीकानपराधान्न सहेत । अन्यथा क्षान्तेषु पुनः कुर्युः । एकस्यां या रतिक्रीडा वैर्ऋतं वा शरीरजम् । वित्रम्भाद्वाप्युपालम्भस्तमन्यास न कीर्तयेत् ॥ 'युक्तं वासकशय्यया (सज्जया)' इति पाठान्तरम् । अन्यास न कीर्तयेदिति स्त्रीणां वैराग्यहेतुत्वात् । न दद्यात्मसरं स्त्रीणां सपत्न्या: कारणे कचित् । तथोपालभमानां च दोषैस्तामेव योजयेत् ॥ प्रसरं न दद्यात्कलहपरिहारार्थम् । सपत्न्याः कारणे इति सापत्न्यसंबन्धिनि सत्यपि निमित्ते । तथा तैनेव प्रकारेण निःसर (सार ? ) तयोपालममानां युक्तमेवोपेक्षितमिति । दोषैतामेव योजयेत्तवैव दोषो न तस्या इति । प्रत्येकं प्रतिपत्तिमाह अन्यां रहसि विस्रम्भैरन्यां सक्षपूजनैः । वहुमानैस्तथा चान्यामित्येवं रञ्जयेत्स्त्रियः ॥ रहसि विश्वासैर्या लज्जावती । प्रत्यक्षपूजनैर्या सपत्नीषु पङ्क्तिमिच्छति । बहुमानैर्या मनस्विनी । १. 'अथ'. २. 'सभवन्ति'. ३. 'आशु व्यलीकानि सहेत वा'. ४. 'विकृत'. ५. 'सापत्न्यकारणे', 'सापत्नकरणे. ६. 'सापत्नकारणमिति'. २९४ कामसूत्रम् । उद्यानगमनेर्भोगेर्दानै स्तज्ज्ञातिपूजनैः । रहस्यैः प्रीतियोगैश्चेत्येकैकामनुरञ्जयेत् ॥ उद्यानगमनैर्या तच्छीला । भोगैर्या परिभोगलालसा । तज्ज्ञातिपूजनैर्या ज्ञातिषु कर्तव्यबुद्धिः । रहस्यै रहसि भवैः प्रीतियोगैर्या रतिप्रिया । अधिकरणार्थानुष्ठाने फलमाह २२ आदितोऽध्यायः ] युवतिश्च जितक्रोघा येथाशास्त्रमवर्तिनी । करोति वश्यं भर्तारं सपत्नीधितिष्ठति ॥ इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीपु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तमान्तःपुरिकं पुरुषस्य वहीपु प्रतिपत्तिद्वितीयोऽध्यायः । जितक्रोघेति शासानुष्ठाने कारणम् । यथाशास्त्रप्रवर्तिनीति यद्यस्याः शास्त्रमेकचारिणीज्येष्ठादिवृत्तम् । सपत्नीरधितिष्ठतीति 'अधिशीस्थासां इति कर्मसंज्ञा । इति पुरुषस्य बहीषु प्रतिपत्तिरेकोनचत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रमाप्यायां भार्याधिकारिके चतुर्थेऽधिकरणे सपत्नीपु ज्येष्ठारृत्तं कनिष्ठावृत्तं पुनर्भूत्रत्त दुर्भगावृत्तमान्तः पुरिक पुरुपस बङ्गीषु प्रतिपत्तिद्वितीयोऽध्यायः । समाप्तं चेदं भार्याधिकारिकं चतुर्थमधिकरणम् । १. 'सर्वा: समनुरप्रयेद. २. 'तया'. ३. 'इल्यपरार्जुनभुजबलमल्लराजनारायणमद्दाराजाधिराजचीतुक्यचूडामनिश्रीमद्वीसलदेवस भाण्डागारे श्रीवात्स्यायनीयकामसूत्रटीकायां१ अध्यायः] ५ पारदारिकमधिकरणम् । पारदारिकं नाम पञ्चममधिकरणम् । २५५ प्रथमोऽध्यायः । कन्यापुनर्भूनायकयोः समागमोपायः सविशेष उक्तः । तत्र वेश्यायाः काम एव परदारेभ्योऽर्थकामाविति तत्समागमोपायदर्शनार्थं वैशिकात्प्रा- क्पारदारिकमुच्यते । तत्र स्त्रीपुंसयोः शीलमनवस्थाप्योत्तरव्यापारासंभवात्सु - रुषशीलावस्थापनमुच्यते । परपरिगृहीतासु कामः प्रतिषिद्ध इति चेदाह--- व्याख्यातकारणाः परपेरिग्रहोपगमाः ॥ व्याख्यातकारणा इति परपरिग्रहगमनस्य सुखपुत्रव्यतिरेकेण कारणानि विशुद्धपूर्वकाणि नायिकाविमर्शे व्याख्यातानीति स्मारयति । तेषु साध्यत्वमनत्ययं गेम्यत्वमायतिं वृत्तिं चादित एव परीक्षेत । तेष्विति परपरिग्रहेषु । सत्खपि कारणेष्विदमादित एव परीक्षेतेत्याह । साध्यत्वमिति साधयितुं शक्येति । अनत्ययमत्ययाभावात् । गम्यत्वं कुष्ठिन्युन्मत्ताद्यभावात् । आयति प्रभावं ( ? ) तत्संयोगात् । वृत्तिमात्मनो वृत्त्यभिधानात् । मुख ( ख्य) मपि गमनकारणं यदा शरीरोपघातं पश्येदित्याह- यॅदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येचंदात्मश- रीरोपघातत्राणार्थी परपरिग्रहानभ्युपगच्छेत् ॥ यदा त्विति कांचित्स्त्रियं दृष्ट्वा संप्रयोगेच्छालक्षणः काम उत्पन्नस्तं यदा प्रथमात्स्थानात्स्थानान्तरमवस्थान्तरं प्रतिपद्यमानं गच्छन्तं पश्येदनुभवेन्न च प्रतिसंव्या (स्थाप) ने निवर्तयितुमीशः स्यात् । तस्य कति स्थानानीत्याह- दश तु कामस्य स्थानानि ॥ कामो सुन्मादात्प्रभृति विषयप्राप्तावनुकूलप्रत्ययवशात्प्रतिक्षणमुपवर्धमान १. 'परिगृहीतोप'. २. 'अगम्यत्वं'. ३. 'उन्मत्तायत्यभावात्'. ४. 'भृत्यभि'. ५. 'यत्र वा'. ६. 'तत्र शरीर', ७. 'कामावस्थाः'. २९६ कामसूत्रम् । २३ आदितोऽध्यायः] आ प्राणत्यागं वर्तते । तस्यासाधारणकार्योत्पत्त्या व्यवहारार्थ दश स्था नानि पूर्वाचार्यैरुक्तानि । तानि क्रमेणाहचक्षुः मी तिर्मनःसङ्गः संकल्पोत्पत्तिर्निद्राच्छेदस्तनुता विपयेभ्यो व्यावृत्तिर्लज्जामणाश उन्मादो मूर्छा मरणमिति तेषां लिङ्गानि ॥ त्रियं दृष्टवतः संयोगेच्छालक्षणात्कामादनन्तरं दृशौ त्रिग्धे भवतः । ततो विपैयाप्राप्तौ मनःसङ्गस्तत्र मनसः सक्तिः । तस्मिन्सक्के संकल्पोत्पत्तिः कथं प्राप्स्यामि प्राप्य चैवमनुष्ठातव्यमिति । ततः संकल्पयतो निद्राच्छेदः । ततो निद्रामलभमानस्य तनुता शरीरकार्यम् । ततो विषयेभ्यो व्यावृत्तिः । सर्वथा तद्भुतचित्तत्वादन्यविपयाज्वलदनलप्रख्यानोपयाति । तेभ्यश्च व्यावर्तमानस्य लज्जाप्रणाशनम् । गुरुभ्योऽपि निर्लज्जत्वान्न विभेति । विप्रणष्टलजस्य निर्भयस्य चोन्मादः प्रवर्तते । ततो मूर्छा भवत्यस्वास्थ्यसंज्ञिका । ततो मरणं प्राणत्यागः । तेपामिति कामस्थानानां प्रतिपत्त्यर्थमेते चक्षुःप्रीत्यादयो लिङ्कानि । तत्कार्यत्वात् । तत्राकृतितो लक्षणतथ युवत्याः शीलं सत्यं शौचं साध्यतां च ण्डवेगतां च लक्षयेदित्याचार्याः ॥ तत्रेति तस्मिन्रागवशादभिगमने शीलादिकमेव प्राधान्येन लक्षयेत् । आकृतित इति शरीरस्थाने । लक्षणतः शरीरस्थानचिहेन । शीलं वक्ष्यमाणकम् । सत्यं यथार्थवादिताम् । शौचं चारित्रविशुद्धिम् । व्यभिचारादाकृतिलंक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्ति- वोंद्धव्या योपित इति वात्स्यायनः ॥ सत्यप्याकृतियोगे लक्षणयोगेनावश्यं शीलसत्यशौचानि गम्यन्ते । साँध्यासाध्यतां चण्डमृदुवेगतां पुनर्गमयन्त्येव । कथं तर्हि लक्षयेदित्याहइगिताकाराम्यामिति । बोद्धव्या शीलादियुक्तेत्यर्थः । तत्रेङ्गिताकारी कन्यासंप्रयुक्तकेऽभिहितौ । प्रवर्तनं प्रवृत्तिः । इङ्गितव्यतिरेकेण तत्र त्रिभिदेव सत्यशीलशौचानि विशेषाणि प्रवृत्त्या स्त्रीपुंसयोः । ― १. 'तास्तु चक्षुः'. २. 'तामां'. ३. 'विपये प्राप्तां'. ४. 'काराभ्यां प्रवृत्तिथ . ५. 'साध्यामाध्यमाध्यमान्यता. १ अध्यायः] ९ पारदारिकमधिकरणम् । २१७ कस्याः किं शीलमित्याह- यं कंचिदुज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते । तथा पुरुषोsपि योषितम् । अपेक्षया तु न प्रवर्तत इति गोणिकापुत्रः ॥ यं कंचिदिति स्वकीयं परकीयं वा पुरुषम् । उज्ज्वलं वर्णवेषाम्याम् । कामयते संजातरागा भवति । पुरुषोऽपि योषितमुज्ज्वलां दृष्ट्वा कामयते । अपेक्षया तु कस्यचित्कार्यस्य । प्रवर्तते द्वावपि संप्रयुज्येते । तदुभयोरप्युज्ज्वलकामित्वं कार्यापेक्षित्वं च शीलम् । गोणिकापुत्रग्रहणं प्रावीण्य ख्यापनार्थम् । तत्र स्त्रियं प्रति विशेषः ॥ तत्रेति तयोस्तुल्यशीलत्वेऽपि । विशेषः प्रत्येकं विशेष उच्यते । न स्त्री धर्ममधर्म चापेक्षते कामयत एव । कार्यापेक्षया तु नाभि- युद्धे । स्वभावाच पुरुषेणाभियुज्यमाना चिकीर्षन्त्यपि व्यावर्तते । पुनः पुनरभियुक्ता सिद्ध्यति । पुरुषस्तु धर्मस्थितिमार्यसमयं चा- पेक्ष्य कामयमानोऽपि व्यावर्तते । तैथाबुद्धियाभियुज्यमानोऽपि न सिद्ध्यति । निष्कारणमभियुक्ते । अभियुज्यापि पुनर्नाभियुक्ते । सिद्धायां च माध्यस्थ्यं गच्छति । सुलभामवमन्यते । दुर्लभामाँका- इत इति प्रायोवादः ॥ न स्त्रीति प्रवृत्तौ धर्मः स्यान्न वेति नापेक्षते । तमोबहुलत्वात्कामयत एवैनम् । कार्यापेक्षया तु नाभियुत एवेति तत्रात्मनि च दोषदर्शनात् । इदं दृष्टदोषदर्शित्वं शीलम् । चिकीर्षन्त्यपीति तेन सह योगं कर्तुमिच्छन्त्यपि व्यावर्तते नायकाभियोगात् । कारणापेक्षया यावदभियुक्तकामित्वं कारणापेक्षित्वं च शीलम् । पुनःपुनरभियुक्ता सिद्ध्यतीति भूयोऽभियुक्तकामित्वं शीलम् । धर्मस्थितिमिति श्रुतिस्मृतिविहितमदृष्टार्थम् । आर्यसमयं शिष्टाचारं दृष्टार्थम् । कामयमानोऽपीतीच्छन्नपि व्यावर्तत इति दृष्टादृष्टदो१. 'स्त्री नित्य'. २ 'स्त्रियः', ३. 'वा'. ४. 'परम्'. ५. 'स्त्रिया तथा'. ६. 'माध्यस्थ्यमपि'. ७. 'काङ्क्षतीति'. ● का० ३३ २५८ कामसूत्रम् । २३ आदितोऽध्यायः ] पदर्शित्वं शीलम् । तथावुद्धिश्चेति धर्मस्थित्यपेक्षी आर्यसमयापेक्षी चा- भियुज्यमानोऽपि स्त्रिया । न सिद्ध्यति न प्रवर्तते । अस्य पूर्वोक्तमेव शीलम् । कर्तृकर्मभेदाद्भेदः । निष्कारणमिति सुखं कारणान्तरं चान- पेक्ष्य । अभियुज्य पुनर्नाभियुद्धे कारणस्यासमीहितत्वात् । इदं शुद्ध- कामित्वं शीलम् । सिद्धायां च माध्यस्थ्यं गच्छतीत्यभियुते न च संप्र- युज्यते । इति शुद्धकामित्वं शीलम् । सुलभामवमन्यते दुर्लभामाकान्त इति वामशीलत्वम् । इति स्त्रीपुरुपशीलावस्थापनमेकोनचत्वारिंशं प्रकरणम् ॥ तत्र व्यावर्तनकारणानि–पत्यावनुरागः । अपत्यापेक्षा । अ- तिक्रान्तवयस्त्वम् । दुःखाभिभवः । विरहानुपलम्भः । अवज्ञयोप- मन्त्रयत इनि क्रोधः । अमतर्क्य इति संकल्पवर्जनम् । गमिष्यती- त्यनायतिरन्यत्र प्रसक्तमतिरिति च । असंवृताकार इत्युद्वेगः । मि- त्रेषु निसृष्टभाव इति तेप्वपेक्षा । शुष्काभियोगीयाशङ्का । तेजस्वीति साध्वसम् । चण्डवेगः समर्थो वेति भयं मृग्याः । नागरकः कलामु विचक्षण इति श्रीडा । सखित्वेनोपचरित इति च । अदेशकालज्ञ इत्यम्या । परिभवस्थानमित्यवहुमानः । आकारितोऽपि नौवबुध्यत इत्यवज्ञा । शशो मन्दवेग इति च हस्तिन्याः । मत्तोऽस्य मा भूद- निष्टमित्यनुकम्पा । आत्मनि दोपदर्शनान्निर्वेदः । विदिता सती स्वजनवहिष्कृता भविष्यामीति भयम् । पलित इत्यनादरः । पत्या मॅयुक्तः परीक्षत इति विमर्शः । धर्मापेक्षा चेति ॥ तत्रेति स्त्रीपुरुपशीलावस्थापने यानि व्यावर्तनानि तानि व्यावर्तनकार णानि प्रकरणान्तर इ (मि)त्युच्यते । पत्यावनुरागो व्यावृत्तिकारणं प्रत्यन्यायामपीप्सायाम् । अपत्यापेक्षेति स्तनंघयं ममापत्यमिति । अतिक्रान्तवयस्त्वमिति परिणतवया लज्जते बलात्परपुरुषाणामार्पणेनेति । इष्टमरणादि दुःम्बाभिभूता जातेच्छापि व्यावर्तते । विरहानुपलम्भो भर्तुः सदा मंनिहितत्वाद्वियोगं न पश्यति येन सँप्रयुज्यते । अवज्ञयोपमन्त्रयतेऽनाद१. 'त्रिय'. २. 'या'. ३. 'न बुभ्यनि', ४. 'प्रयुक्तो मा' ५. 'संप्रयु १ अध्यायः] ५ पारदारिकमधिकरणम् । २५९ रेणाभियुक्त इति भयात्क्रोधो व्यावृत्तिकारणम् । अप्रतय दुःखग्राहचित्त इति तस्मिन्ब (नब ) हुमानात्संकल्पवर्जनम् । मनोन संकल्प्यत इत्यर्थः । गमिष्यतीति न चिरकालमनेन संप्रयोग इत्यनायतिर्भविष्यत्कालाभावः कारणम् । अन्यत्र प्रसक्तमतिरिति वानायतिस्तात्कालिकत्वात् । असंवृताकार आकारसंवरणमकुवैल्लोके मद्गीतिकां करोतीति परिभवादुद्वेगः । मित्रेषु निसृष्टभावस्ते (तानि) च यदाहुस्तत्करोतीति च तेष्वपेक्षा मयि त्ववज्ञा । शुष्काभियोगी निष्कारणमभियुद्ध इत्याशङ्का । तेजस्वीति साध्वसं प्रमादावस्खलितेऽनर्थ करिष्यतीति । मृग्या इति मन्दवेगायाः । मृग्याश्चण्डवेगः समर्थो वेत्यश्व इति भयम् । नागरक इति यो नागरकवृतावधिकृतः । कलासु च विचक्षणो नागरकादन्यः । ब्रीडा ग्राम्याया अविदग्धायाश्च । सखित्वेनेति मित्रत्वेन मयायमुपचरितः कथं पुनरेवं कुर्यामिति च ब्रीडा । अदेशकालज्ञ इति चासूया देशकालयोर्नाभियुङ्क इति । परिमवस्थानं नीचत्वात् ततश्च सखीजनोऽन्यो वा मां परिभविष्यती त्यसंयतेति तस्मिन्नबहुमानकारणम् । अभिप्रायं दर्शितो नावबुध्यत इत्यवज्ञा न विदग्ध इति । हस्तिन्या इति चण्डवेगायाः । हस्तिन्याः शशो मन्दवेग इति चावज्ञा । मत्तोऽस्येति मन्निमित्तन मामधिगच्छतो मा भूदनिष्टं शरीरतोऽर्थतो वेत्यनुकम्पा । आत्मनि दोषदर्शनादिति शरीरे रोगादिकं वैगन्ध्यादिकं पश्यन्त्या निर्वेदः । विदिता स्वजनस्य विप्रतिपन्नेति तस्माद्वहिष्कृता भविष्यामीति भयम् । पलितो वृद्ध इत्यनादरः । पत्या प्र युक्त इति किं पतिव्रता नेति ज्ञातुं नियुक्तः परीक्षत इति विमर्शः । धर्मापेक्षा च कारणम् । अस्त्येव हि काचित्स्त्री या धर्माधर्मावपेक्षते । प्रतिविधानमाह - तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात् ॥ तेष्विति व्यावर्तनकारणेषु यदात्मनि कारणं लक्षयेन्ममेदं भवितेति तदादित एव परिच्छिन्द्यात्परित्यजेद्यथा न भवति । १. 'विसृष्टि' २. 'स्थानाना च सत्त्वात्. ' २६० कामसूत्रम् । २३ आदितोऽध्यायः] उत्पन्नानि चात्मनि लियां वा परिच्छिन्द्यादुपायैरित्याह- आर्यसयुक्तानि रागवर्धनात् । अशक्तिजान्युपायमदर्शनात् । बहुमानकृतान्यतिपरिचयात् । परिभवकृतान्यतिशौण्डीर्याद्वैचक्ष- ण्याच्च । तत्परिभवजानि मणसा । भययुक्तान्याश्वासनादिति ॥ आर्यत्वयुक्तानीति पत्यावनुरागोऽपत्यापेक्षातिक्रान्तवयस्त्वं दुःखाभि- भवो धर्मापेक्षा चेत्येतानि स्त्रीगतान्यार्यत्वयुक्तानि रागवर्धनात्परिच्छिन्द्या- यथा तस्या रागो वर्धेत तथा प्रतिविधेयम् । विरहानुपलम्भोऽस्य मा भूद- निष्टमात्मनि दोपैदर्शनादप्रतक्यों नागरकः कलासु विचक्षणः सखित्वे- नोपचरितः पत्या प्रयुक्तः परीक्षत इत्यात्मगतानि बहुमानकृतान्यतिपरिच- यात् । कृतेऽतिपरिचये तस्योपरि मानो विगलति । शुष्काभियोगी अदे- शकालज्ञः परिभवस्थानमाकारितो नावबुध्यते पलित इत्यात्मगतानि ना- यिकापरिभवकृतान्यतिशौण्डीर्यादिति पॅरिभवप्रक्षालनात् । वैचक्षण्याच्चेति शास्त्रकलाप्रकाशनात् । अवज्ञयोपमन्त्रयते असंवृताकारो मित्रेषु निसृ- टमाव इत्यात्मगतानि । तत्परिभवजानि नायिकापरिभवजानि । प्रणत्येति तत्रैकान्तप्रसृतया । तेजस्वी चण्डवेगः समर्थो भवति शशो मन्दवेगो वि- दिता सती खजनवहिष्कृता भविष्यामीत्यात्मगतानि भययुक्तान्याश्वासना- दिति यथा न भयं तथा प्रतिविधानेनेति । इति व्यावर्तनकारणानि च- त्वारिंशं प्रकरणम् ॥ - एवं शीलमवधार्यात्मनः सिद्धतां पश्येत् । अन्यथाभियोगासंभवादिति स्त्रीपु सिद्धाः पुरुषा उच्यन्तेपुरुषास्तमी प्रायेण सिद्धाः – कामसूत्रज्ञः कथाख्यानकुशलो वाल्यात्मभृति संसृष्टः वृद्धयौवनः क्रीडनकर्मादिनागतविश्वासः प्रेपणस्य कर्तोचितसंभापणः मियस्य कर्तान्यस भूतपूर्वो दूतो मर्मज्ञ उत्तमया प्रार्थितः मख्या मच्छन्नं संसृष्टः सुभगाभिख्यातः सह संवृद्ध : मानिवेश्यः कामशीलस्तथाभूतश्च परिचारको धात्रेयि१. 'परिच्छिन्दादुपायैः परिच्छिन्दुपाय'. २. 'उपाय'. ३. 'परिभाग'; 'परिभोग'. ४. 'तेज' ५० 'श्रीयु पुरुषाः' ६. 'तस्या ममंग.. ● १ अध्यायः] ५ पारदारिकमधिकरणम् । कापरिग्रहो नववरकः प्रेक्षोद्यानत्यागशीलो वृष इति सिद्धप्रतापः साहसिकः शूरो विद्यारूपगुणोपभोगैः पत्युरतिशयिता महाईवेषो- पचारथेति ॥ अमी वक्ष्यमाणाः । प्रायेण बाहुल्येन । कामसूत्रज्ञः कथाख्यानकुशल इति द्वावपि कामशीलत्वात्स्त्रीषु सिद्ध्यतः । बाल्यात्प्रभृतीति योऽन्यसाग- हादागतो बाल्यात्प्रभृति स प्रवृद्धस्खेहत्वादस्याः सिद्धः । प्रवृद्धयौवन इति स हि वयःसामर्थ्यात्स्त्रीषु सिद्धः । क्रीडनकर्मादिनेति क्रीडनव्यापा- रेण । आदिशब्दात्पत्रच्छेद्यादिना यस्या आगतविश्वासः स तस्याः सिद्धः । प्रेषणस्य कर्ता यस्या वचनकरस्तस्याः सिद्धः । उचितसंभाषणोऽनियन्त्र- णात्सिद्धः । प्रियस्य कर्ता यस्या य इष्टं संपादयति स तस्याः सिद्धः । अन्यस्य भूतपूर्वो दूतः पूर्वसंस्तुतत्वादस्याः सिद्ध इति योज्यम् । उत्तम- येत्यधिकया यः प्रार्थितः स पूर्वायाः सिद्ध्यति । सख्या प्रच्छन्नं संसृष्टः मच्छन्नं कामितस्तत्परिचयान्नायिकायाः (सिद्धः) । सुभगाभिख्यातः सौभाग्य- ख्यातिमहापयन्स्त्रीषु सिद्धः । सहसंवृद्धो यया एकसिप्रिये (?) स तस्याः सिद्धः । प्रातिवेश्यः कामशीलः सोऽस्या वचनमात्रसाध्यः । तथाभूतश्च परिचारकः कामशीलः सोऽस्याः सिद्धः । धात्रेयिकापरिग्रहो धात्रेयिकया पतित्वेन यो गृहीतस्तत्परिचयादस्याः सिद्धः । नववरक इति यस्मिन्गृहे नवो जामाता तत्रत्यासु स्त्रीषु सिद्धः । प्रेक्षोद्यानत्यागशील इति नटादि- प्रेक्षणशील उद्यानक्रीडाशीलस्त्यागशीलस्त्रयोऽपि कामशीलत्वात्स्त्रीपु सिद्धाः । वृष इति सिद्धप्रतापो व्यवायीति यो लब्धप्रतापः स स्त्रीपु सिद्ध एवास्ति । साहसिक इति नावमृष्य सहसा यः प्रवर्तते स स्त्रीणां वचनमा • त्रमपेक्षते । शूर इत्यकुतोभयत्वात्परस्त्रियमपेक्षमाण एव तिष्ठति । पत्युर- तिशयितेति यस्या भर्तारं विद्यादिभिरतिशेते स तस्याः सिद्धः । महा वेषोपचारौ यस्य स कामशीलत्वात्स्त्रीषु सिद्धः । इति स्त्रीपु सिद्धाः पुरुषा एकचत्वारिंशं प्रकरणम् ॥ १. 'प्रेक्षणकोद्यान'. २. 'वेषाचार'. ३. 'आगत्य'. ४. 'संभावयति'. कामसूत्रम् । २३ आदितोऽध्यायः] २६२ ययात्मनः सिद्धतां पश्येदेवं योपितोऽपि ॥ अयनसाध्या योषितस्विमाः – अभियोगमात्रसाध्याः । द्वार- देशावस्थायिनी । प्रासादाद्वाजमार्गावलोकिनी । तरुणप्रातिवेश्य- गृहे गोष्टीयोजिनी । सततमेक्षिणी । मेक्षिता पार्श्वविलोकिनी । निष्कारणं सपत्न्याधिविन्ना । भर्तृद्वेषिणी विद्विष्टा च । परिहार- हीना। निरपत्या । ज्ञातिकुलनित्या । विपन्नापत्या । गोष्ठीयोजिनी । मीतियोजिनी । कुशीलवभार्या । मृतपतिका वाला । दरिद्रा वहु- पभोगा । ज्येष्टभार्या बहुदेवरका । बहुमानिनी न्यूनभर्तृका । कौश- लाभिमानिनी भर्तुमर्येणोद्विना । अविशेषतया लोभेन । कन्या- काले यत्नेन वरिता कथंचिदलव्धाभियुक्ता च सा तदानीं समान- बुद्धिशीलमेघाप्रतिपचिसात्म्या । प्रकृत्या पक्षपातिनी । अनपराधे विमानिता । तुल्यरूपाभिवाघः कृता । मोपितपतिकेति । ईर्ष्या- ऌपूतिचो लक्लीवदीर्घसूत्रका पुरुपक्कुब्नवामनविरूपमणिकारग्राम्यदुर्ग- न्धिरोगिदृद्धभार्याथेति ॥ अयत्नसाध्या योषितस्त्विति वक्ष्यमाणाः । अभियोगमात्रसाध्या इति या अभियोगमात्रमपेक्षन्ते नाधिकं ता अयत्नसाध्या इत्युच्यन्ते । द्वारदेशावस्थायिनीति पुरुषदिहक्षया द्वारदेगेऽवस्थातुं शीलं यस्याः सा चपलाभियोगमात्रसाध्या । प्रासादादिति प्रासादमारुह्य राजमार्गावलोकिनी । राजमार्गों हि पुरुषाणां संनिघानात् । सतरुणेति सतरुणाः पुमांसो यंत्रेति प्रातिवेश्यगृहे तत्रत्याभिः स्त्रीभिर्गोष्ठीयोजिनी सा चापल्यं द्योतयति । सततप्रेक्षिणी चेति या सततं प्रेक्षते सा तस्य साध्या । प्रेक्षितेति नायक्रेन पार्श्वविलोकिनी या पार्श्वमवलोकयति क्रिमन्येन दृष्टास्मीति सापि चापल्यं कथयति । निष्कारणमिति या तु दौः शील्यादिकं विनेति सपल्याधिविन्ना युक्तामर्षात्परपुरुषमिच्छति । भर्तृद्वेषिणीगुणवन्तमपि भर्तारमनिच्छन्ती विद्विष्टा चेति भर्ता यां द्वेष्टि द्वे अपि चञ्चले । परिहारहीना निप्परिहारा १. 'अप्रयत्न'. २ 'पार्श्वावलोकिनी'. ३. 'अविशेषज्ञतया'. ४. 'चोप्प'. ५. 'अत्रेति'. १ अध्यायः] ५ पारदारिकमधिकरणम् । २६३ परिहार्येषु सा खभावत एव व्यभिचारिणी । निरपत्या भर्तुरपत्यमपश्यन्ती परानुपैति । ज्ञातिकुलनित्या ज्ञातिगृहे सदावस्थिता खातन्त्र्याद्भिन्नवृत्तिः । विपन्नापत्या भर्तुर्यद्यदपत्यं तत्तद्विपद्यत इति परपुरुषापेक्षापत्याभावाद्वा । गोष्ठीयोजिनी स्वगृहे सखीगृहे वा चापल्यं सूचयति। प्रीतियोजिनी येन सह प्रीतिं योजयति तस्य साध्या । कुशीलवभार्या नटनर्तकादीनां भार्या वेश्याप्रायाः । मृतपतिका बालेति बाला च या विधवा सा तारुण्ये निषद्यमाना शीलं खण्डयति । दरिद्रा बहूपभोगान्वितं दातारममिगच्छति । ज्येष्ठभार्या बहुदे वरका प्रायशो देवरैरेव व्युत्पादिता । बहुमानिनी न्यूनभर्तृकेत्यात्मनि बहुमानो यस्याः । न्यूनश्च भर्ता सा न तत्र रमते । कौशलाभिमानिनी कलानां परिज्ञानाभिमानो यस्याः सा भर्तुर्मोख्र्येण मूर्खत्वेनोद्विया नियतं तत्कुशलम॑न्विष्यति । अविशेषतया भर्तुरुद्विमा विशेषज्ञा लोमेन भर्तुरुद्विमा स्वयमलुब्धा न तत्र रमते । कन्याकाल इति कन्यावस्थायां यत्नान्नायकेन वृता कथंचिद्दैवयोगात्तु न लब्धा सत्यन्येनोढेत्यभियुक्ता तदानीं यदा तस्थेच्छा सा तस्य साध्या । पूर्वानुरागात् । समानबुद्धिरिति नायकेन तुल्या बुद्ध्यादयो यस्याः सा तस्य साध्या । तत्र बुद्धिबध्येपु । शीलं स्वभावः । मेघा विद्याकलासु ग्रहणशक्तिः । प्रतिपत्तिरनुष्ठानम् । सात्म्यं देशसात्म्यं प्रकृतिसात्म्यं च । प्रकृत्येति स्वभावेन यं प्रति पक्षपातो यस्याः सा तस्य साध्या । अनपराध इति दोषं विना भर्त्रावमानिता परिभूता न तत्र सज्जते । अन्यमिच्छति । तुल्यरूपामिश्चाघः कृतेति समानप्रतिपत्तिभिः स पत्नीभिर्न्यकृता विरागादन्यमिच्छति । प्रोषितभर्तृका ब्रह्मचर्येण भग्ना कथमैन्यान्नेच्छेत् । यो निष्कारणमीर्ष्यते तस्य भार्या विटैश्विरमपहृतैव । पूतिः शरीरसंस्काररहितस्तस्य भार्या कश्मलत्वाद्विमुखीभवति । चोक्षो जातिविशेषस्तद्भार्या वेश्याप्राया । क्लीबो नपुंसकः । दीर्घसूत्रः कार्यमवमृश्य तदात्वे नारभते । कापुरुषः पौरुषहीनः । द्वयोरपि भार्या परस्यैव । कुनवामनयोर्विरूपयोरप्युपादानं वैरूप्यभेदप्रकर्षणार्थम् । द्वयोरपि भार्या खण्डितशीला । मणिकारो मणीनां संस्कर्ता । तद्भार्या सदैव हट्टचारिणी १. 'अन्यस्थिति'. २. 'निवृत्ता'. ३. 'अन्यात्र इच्छेत्. २६४ कामसूत्रम् । २३ आदितोऽध्यायः ] खण्डितशीला । ग्राम्यभार्या नागरकस्यायत्त साध्या स्यात् । दुर्गन्धिः शरीरे यस्य दुष्टो गन्धः स उद्वेगकरः । रोगी यो दीर्घरोगयुक्तः । वृद्धो व्यवायाक्षमः । एषां भार्या व्यभिचारिण्यः । प्रकरणत्रयार्थमुपसंहरन्नाह श्लोकावत्र भवतः इच्छा स्वभावतो जाता क्रियया परिवृंहिता बुद्धया संशोषितोद्वेगा स्थिरा स्वादनपायिनी ॥ सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्नीय योषिताम् । व्यावृत्तिकारणोच्छेदी नरो योपित्सु सिध्यति ॥ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे स्त्रीपुरुपशीलावस्थापनं व्यावर्तनकारणानि स्त्रीपु सिद्धाः पुरुषा अयत्नसाध्या योषितः प्रथमोऽध्यायः । इच्छेति स्वभावतो यं कंचिदुज्ज्वलं दृष्ट्वा कामयत इति । क्रिययेति परिचयामियोगलक्षणया परिबृंहिता वर्धिता । बुद्ध्येति प्रज्ञया संशोधितो- द्वेगेति संप्रयोगोपायमपश्यन्ती उद्वेगयुक्तापि स्यात् । तदुपायदर्शनेनाप- नीतोद्वेगा । सा चैवंविधा स्थिरा स्यात् । अनपायिनीत्वात् । सिद्धतामिति ज्ञात्वा किमहमस्याः सिद्ध इति । लिङ्गानीच्छासूचकानि । इङ्गिताकारा- नित्यर्थः । उन्नीयेति ज्ञात्वा । व्यावृत्तिकारणोच्छेदी रागवर्धनादिमिः । योषित्सु सिद्ध्यत्यभियुञ्जानः फलं लभत इत्यर्थः । इत्ययत्नसाध्या योषितो द्वाचत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरह- कातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रमाण्यायां पारदा- रिके पश्चमेऽधिकरणे स्त्रीपुरुपशीलावस्थापनं व्यावर्तनकारणानि स्त्रीपु सिद्धाः पुरुपा अयत्नसाध्या योपितः प्रथमोऽध्यायः ॥ १. 'च संधितोद्वेगा'. i 1 1 1 २ अध्यायः ] ५ पारदारिकमधिकरणम् । द्वितीयोऽध्यायः । क्रियया परिबृंहितेत्युक्तं तां क्रियां दर्शयितुमाह २६९ यथाकन्या स्वयमभियोगसाध्या न तथा दूत्या । परस्त्रियस्तु सूक्ष्मभावा दूतीसाध्या न तथात्मनेत्याचार्याः ॥ 1 द्वे नायिके कन्या परयोषिञ्च । अभियोगो द्विविध आत्मना दूत्या च । अत्राचार्याणां मतं यथाकन्येति । कन्यानामसंप्रयुक्तत्वात्तासु प्रायेण युक्त्याभियोगाः । तांश्च नायक एव प्रयोक्तुं शक्नोति । न दूती । एवं च ताखेकपुरुषामियोगा उक्ताः । सूक्ष्ममावा इति प्रवृत्तसंयोगात्परपुरुषः संभवति (?) । किमु तस्मिन्भावप्रदर्शनं प्रकाशनं दूत्यामुभयं संभवति । तमाहूत्यैव साध्या इति । सर्वत्र शक्तिविषये स्वयं साधनमुपपन्नतरकं दुरुपपादत्वात्तस्य दूतीप्रयोग इति वात्स्यायनः ॥ सर्वत्रेति कन्यास परस्त्रीषु चेति । शक्तिविषय इति यत्र खयमभियोक्तुं शक्नोति । उपपन्नतरकं दूतीसाधनात् । तस्येति स्वयमभियोगस्य । दुरुपपादकत्वादिति यत्र दुःखेनोपपाद्यते तत्र दूतीप्रयोगः । तत्र प्रायोवादेन दर्शयन्नाह प्रथमसाहसा अनियन्त्रणसंभाषाश्च स्वयं प्रतार्याः । तद्विपरी- ताथ दूत्येति प्रायोवादः ॥ प्रथमं साहसं चारित्रखण्डनं यासां तासु नायक एव समर्थो न दूती । अनियन्त्रणमनिषिद्धं संभाषणं यासां नायकेन सह यास्वपि किं दूत्येति । स्वयं प्रतार्या इति स्वयमुपपन्नतरकत्वं प्रदर्शयति । दुरुपपादत्वमाह तद्विपरीता इति बहुशः खण्डितचारित्रा नियन्त्रणसंभाषिण्यः । ननु प्रथमसाहसायां गमनं प्रतिषिद्धम् । विषयस्याशुद्धत्वात् । शरीरो- पघातत्राणार्थमप्ययुक्तम् । स्वयमभियोगस्य (ख) न परिचयं विनेति परिच- यकारणान्युच्यन्ते । यदाह- स्वयम॑भियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ॥ १. 'ताथ नायकेन प्रयोक्तुं शक्यन्ते न दूत्या. २. 'अभियुज्यमान.'.. का० ३४ कामसूत्रम् । २४ आदितोऽध्यायः] अभियोक्ष्यमाणोऽभियोगं करिष्यन् । परिचयं संदर्शनं दूतीपूर्वकम् । संदर्शनं च द्विविधमित्याह- तस्याः स्वाभाविकं दर्शनं मायनिकं च । स्वाभाविकमात्मनो भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्य भवनसंनिकर्पे विवा- हयज्ञोत्सवव्यसनोद्यानर्गमनादिषु ॥ २६६ भवनसंनिकर्ष इति गृहसमीपे क्वचिदागताया दर्शनं स्वाभाविकं न प्रयत्नकृतम् । मित्रादीनां यद्गृहं तत्समीपे यद्दर्शनं विवाहादिषु च । तत्मायलिकम् । प्रयत्नसाध्यत्वात् । तत्र च द्विविधे संदर्शने परिचयकारणं द्विविधं बाह्यमाभ्यन्तरं च । तत्र पूर्वमधिकृत्याह- दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुरण- माभरणप्रहाद नमघरौष्ठविमर्दनं तास्ताच लीला वयस्यैः सह मेक्ष- माणायास्तत्संबद्धाः परापदेशिन्यश्च कथास्त्यागोपभोगमकाशनं सख्युरुत्सङ्गनिपण्णस्य साङ्गभङ्गं जृम्भणमेकअर्पणं मन्दवाक्यता तद्वाक्यश्रवणं तामुद्दिश्य वालेनान्यजनेन वा सहान्योपदिष्टा व्यर्था कैथा तस्यां स्वयं मनोरथावेदनमन्यापदेशेन तामेवोद्दिश्य वालचु- म्वनमालिङ्गनं च जिह्वया चास्य ताम्बूलदानं प्रदेशिन्या हनुदेश- घट्टनं तत्तद्यथायोगं यथावकाशं च प्रयोक्तव्यम् । तस्यायाङ्कगतस्य वालस्य लालनं वालक्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृ- टत्वात्कथायोजनं तत्संभाषणक्षमेण जनेन च मीतिमासाद्य कार्य तदनुवन्धं च गमनागमनस्य योजनं संश्रये चास्यास्तामपश्यतो नाम कामसूत्रसंकथा ॥ साकारमिति भावसूचकेन मुखनयनगतेनाकारेण सह प्रकृते प्रेक्षणं क१. 'प्राथमिक'. २. 'गमनाचारेपु'. ३. 'वयस्यैः सार्धं लीला'. ४. 'क्षेपः'. ५. 'कथा: '. ६. 'उद्दिदय भूमिविलेखनं चालस्य'. ७. 'तच तश्च यथावकाश'. ८. 'लालनं क्रीडनकाना'. ९. 'ग्रहणं वा'. १०. 'च जनेन सह'. ११. 'आसज्य कार्ययोगः . २ अध्यायः] ५ पारदारिकमधिकरणम् । २६७ र्तव्यम् । केशसंयमनं केशानवमुच्य बन्धनम् । नखाच्छुरणं स्वाङ्गेष्वाच्छु रितकम् । आभरणप्रहादनं शब्दनम् । अधरोष्ठविमर्दनमङ्गुष्ठसंपुटेन परिघर्षणम् । तास्ताश्चेति गुणसंवर्धनप्रधानाः कथाः । वयस्यैमिंत्रैः । प्रेक्षमाणाया इति नायिकायाः पश्यन्त्याः । तत्संबद्धा इति नायिकासंबद्धाः । परापदेशिन्य इति नायिकापदेशिन्यः । त्यागोपभोगप्रकाशनं दातृत्वभोगित्वख्यापनार्थम् । सख्युरिति मित्रस्योत्सङ्गे निषण्णस्य । साङ्गभङ्गमिति साइस्फोटनं जृम्भणं विजृम्भिका स्यात् । एकभ्रूक्षेपणं निपण्णस्यैव । मन्दवाक्यता गद्गदवचनता किमु मां किंचिद्वतीति । तामिति नायिकाम् । बालेनेति तत्पार्श्ववर्तिना गर्मरूपेण । जनेन चान्येन । अन्योपदिष्टेति तत्सु हृदा कृता न खयम् । व्यर्था कथेत्येको बालेन संबद्धोऽर्थो द्वितीयो नायिकया । तस्यामिति कथायां क्रियमाणायां स्वयमात्मना मनोरथावेदनम् । अन्यापदेशेनेत्यस्मिन्मित्रस्या (?)मिति दुर्घटो मनोरथः स किं भविष्यति न भविष्यतीति न जाने । तामेवेति नायिकाम् । बालस्य चुम्बनमालिङ्गनं संक्रान्तकम् । जिह्वया च प्रसारितया । प्रदेशिन्या तर्जन्या । हनुदेशघट्टनं कपोलयोरघस्ताच्चलनम् । तामुद्दिश्येति सर्वत्र योज्यम् । त त्तदित्यन्यदप्येवंविधम् । यथायोगमिति यद्यस्य युज्यते स्पर्शनं ताडनं वा । यथावकाशमिति यथाप्रदेशं कक्षयोरुरसि पृष्ठे वा बालस्य विधेयम् । तस्याश्चेति नायिकायाः । अङ्कगतस्य क्रोडस्थस्य लालनं मृदुता च सा (?) बालक्रीडनकानां यानुष्टु (?) गुटिकादीनाम् । तेनेति दानग्रहणसंवन्धेन संनिकृष्टत्वात्कथायोजनं कार्यम् । तेन सह प्रीतिमासाद्य संयोज्य कार्य प्रयोक्तव्यमिति शेषः । तदनुबन्धं चेति कार्यानुबन्धम् । गमनागमनस्य योजनं येन लोकोऽनेन कार्येणास्य गमनागमनं नान्येनेति मन्यते । संश्रवे चास्या इति यत्र सा शृणोति तत्र कामसूत्रसंकथा विज्ञत्वख्यापनार्थम् । तत्रापि तामपश्यतो नामेति न किलाहमेनां पश्यामीति । अन्यथा तां पश्यतः क थयतो दुर्विदग्धता स्यात् । १. 'इति तानि'. २. 'प्रकाशनस्य'. ३. 'स्पर्शनसमताडन'. २६८ कामसूत्रम् । २४ आदितोऽध्यायः] आभ्यन्तरमधिकृत्याह- प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् । त त्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्णीयात् । सौगन्धिकं पूगफलानि च । तामात्मनो दारैः सह विस्रम्भगोष्ठयां विविक्तासने च योज- येत् नित्यदर्शनार्थं विश्वासनार्थं च । सुवर्णकारमणिकारवैकटिक- नीलीकुसुम्भरंजकादिषु च कामार्थिन्यां सहात्मनो वश्यैश्चैषां त- त्संपादने स्वयं मयतेत । तदनुष्ठाननिरैतस्य लोकविदितो दीर्घ- कालं संदर्शनयोगः । तसिंञ्चान्येषामपि कर्मणामनुसंधानम् । येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागमसु- पायं विज्ञानं चात्मायत्तं दर्शयेत् । पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्य- गुणपरीक्षासु च तया तत्परिजनेन च सह विवादः । तत्र निर्दि- ष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् । तया तु विवद- मानोऽत्यन्ताद्भुतमिति ब्रूयादिति परिचयकारणानि ॥ प्रसृते तु सर्वथोत्पन्ने परिचये । न्यासाः संस्थाप्याश्चिरकालप्रायाः । निक्षेपं यदल्पकालग्राह्यम् । प्रतिदिनं न्यासः प्रतिदिनं निक्षेपकम् । तदेकदेशं स्तोकस्तोक्रेन गृह्णीयात् । तदेव यथाक्रमं दर्शयति—सौगन्धिकं सुगन्धिद्रव्याणां समूहः । तद्वारेण प्रतिदिनं न्यासं निक्षेपं च यदल्पकालग्राह्यं प्रतिक्षणं च दृश्यते । विसम्भगोष्ठयां विविकासने चेति तामुपनिमन्त्र्यास्माभिः प्रच्छेन्न समुपविश्य पानगोष्ठी कर्तव्येत्यभिधाय स्वदारैः सह तत्र योजयेत् । नित्यदर्शनार्थं विश्वासनार्थं चेति प्रतिक्षणं दर्शनार्थं स्वयं प्रयतेतेति वक्ष्यमाणेन संबन्धः । वैकटिको रत्नानां परिशोधकः। नीलीरञ्जककुसुम्भरञ्जकौ प्रतीतौ । आदिग्रव्दात्त्वष्टकांस्यकारादयः । तेषां कामार्थिन्यां सत्यामात्मवश्यैर्विधेयैः सुवर्णकारादिभिस्तत्संपादने सुवर्णादिकर्मसंपादने तदनुष्ठानं निरस्य सुवर्णादिकर्म स्वयमधिष्ठाय कारयेत् । संदर्शनयोगो न प्रच्छन्न१. 'यत्तत्सौगन्धिक'. २. 'रजकादिपु'. ३. 'कामार्थिन्यामात्मनथ वश्येरेपां. ४. 'संपादने च योजयेत्स्वयं प्रयतेत'. ५. 'रतस्य च लोके'. ६. 'अन्यत्तद्भक्तमिति कुर्यात्'. ७. 'निरस्येति'. २ अध्यायः] ५ पारदारिकमधिकरणम् । २६९ योगः स्यात् । अपि तु दीर्घकालं लोकस्य विदितः । अन्यथा लोकस्तं दृष्ट्वा सहसा विकल्पयति । तस्मिन्निति कर्मण्यनुष्ठीयमानेऽसमाप्त एवान्येषां कर्मणामनुसंधानं कर्तव्यं मा भूद्दर्शनविच्छेद इति । येनेति कर्मणां पुष्क- केन । इति परिचयकारणानि त्रयश्चत्वारिंशं प्रकरणम् ॥ कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जी- तेति । प्रायेण तत्र सूक्ष्मा अभियोगाः । कन्यानामसंप्रयुक्तत्वात् । इतरासु तानेव स्फुटनुपदध्यात् । संप्रयुक्तत्वात् । संदर्शिताकारायां निर्मिनसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत । तेत्र महार्हगन्धमुत्तरीयं कुसुमं चात्मीयं स्यादङ्गुलीयकं च । तद्धस्ताद्गृही- तताम्बूलया गोष्टीगमनोद्यतस्य केशहस्तपुष्पयाचनम् । तत्र महाई- गन्धं स्पृहणीयं खनखदशनपदचिह्नितं साकारं दद्यात् । अधिकैर- घिकैयाभियोगैः साध्वसविच्छेदनम् ॥ ●●● • तेजिताकारायाम् । निर्मिन्नसद्भावायामिति प्रकटितसंभृतभावायां सत्याम् । समुपभोगव्यतिकरे तदीयानीति नायिकावस्तूनि स्वयमुपयुक्यात्खानि च तामुपभोजयेत् । तत्रेति परिवर्तमाने । महार्हगन्धमत्यन्तसुरभि । उत्तरीयं कुसुमं चात्मीयं स्यात्खीकुर्यादित्यर्थः । अड्ङ्गुलीयकं च महाह्रै स्यात् । तद्धस्तान्नायकहस्तायदि तया ताम्बूलं गृहीतम् । गोष्ठीगमनोद्यतस्येति कर्तरि षष्ठी । केशहस्तः केशकलापः । तत्रत्यपुष्पयाचनम् । सिद्धकरमेतदिति । खयं तु ददन्नायको यन्महार्हगन्धं स्पृहणीयं लोकस्य तदन्यहस्तेन यदा दद्यात्तदा खनखदशनपदचिह्नितम् । यदा स्वहस्तेन तदा साकारम् । क्रियाविशेषणमेतत् । एवं प्रकारद्वयेऽपि भावः सूचितो भवति । अधिकैरधिकैः पूर्वपूर्वेभ्यः साध्वसविच्छेदनम् । प्रायेण परयोषित्परपुरुषेषु ससाध्वसा भवति । १. 'तद्रव्याणि गोष्ठीगमनोपभोगव्यतिकरेष्वानीयोपयुजीत'. २. 'तत्र महाईगन्धमात्मीयं स्यात्तद्धस्ताच ताम्बूलग्रहणम् । गोष्ठीगमनोद्यतस्य तत्केशहस्त'. ३ 'सूचितोऽयं'. २७० कामसूत्रम् । २४ आदितोऽध्यायः] आन्तरानधिकृत्याह- क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥ क्रमेण चेति यदैकान्तेन गतसाध्वसा तदा विविक्तदेशगमनं यस्मिन्प्रच्छन्ने देशे तिष्ठति । तत्र चालिङ्गनादयः प्रयोक्तव्याः । गुझदेशाभिमर्शनं कक्षोरुमूलविमर्दनम् । जघने उत्क्षिप्तकेन । अभियोगस्याविषयमाह यत्र चैकाभिर्युक्ता न तत्रापरामभियुञ्जीत । तत्र या वृद्धानुभू- तविपया प्रियोपग्रहैश्च तामुपगृह्णीयात् ॥ यत्र चेति गृहे । अपरामिति द्वितीयां नामियुञ्जीत । प्रियोपमहैश्चेति प्रियं यदा खसुखकारणं तदैवोपग्रहः । उपगृह्यतेऽनेनेति । उपगृह्य स्त्रीकृत्योपन्यस्यात् । श्लोकावत्र भवतः अन्यत्र दृष्टसंचारस्तद्भुर्ता यत्र नायकः । न तत्र योपितं कांचित्सुप्रापामपि लङ्घयेत् ॥ शङ्कितां रक्षितां भीतां सश्वश्रूकां च योपितम् ॥ न तर्कयेत मेधावी जानन्प्रत्ययमात्मनः ॥ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः । यत्रेति यस्मिन्गृहे नायिकाया भर्ता अन्यस्यां योषिति दृष्टसंचारो दृष्टाभिगमो न तत्र गृहे सुप्रापामपि सुलभामपि लङ्घयेदधिगच्छेदित्यर्थः । शकिताममियोक्तरि जाताशङ्काम् । रक्षितां शस्त्रिभिः । भीतां पत्युः । १. 'दाने पुष्पाणां च'. २. 'युवा स्यात्'. ३. 'विशेषा'. ४. 'यावत', 'रक्षन्'. ३ अध्यायः] ५ पारदारिकमधिकरणम् । २७१ स श्वश्रूकां श्वश्र्वधिष्ठितां न तर्कयेत । जानन्प्रत्ययमित्यहमत्राशक्त इति निश्चयमगच्छन् । इत्यभियोगाश्चतुश्चत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धागनाविरह- कातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रमाध्याया पारदा- रिके पश्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः ॥ तृतीयोऽध्यायः । सत्यप्यभियोगे धीराः प्रगल्मपरीक्षिण्यो याः स्त्रियस्ता न निर्मिन्नसद्भा- वास्ततश्च न तासु विशेषाभियोग इति भावपरीक्षोच्यते- अभियुञ्जानो योपितः प्रवृत्ति परीक्षेत । तेया भावः परीक्षितो भवति । अभियोगांच प्रतिगृह्णीयात् ॥ प्रवृत्तिं चेष्टां परीक्षेत । अनया हि परीक्षितया भावः परीक्षितो भयति । तत्कार्यत्वात् । कथं साध्येत्याह मन्त्रमण्वानां दूसैनां साघयेत् ॥ मन्त्रमवृण्वानामिति सांप्रयोगिकं भावमप्रकाशयन्तीं दूत्या साधयेत् । प्रगल्भत्वात् । अप्रतिगृह्याभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां वि- द्यात् । तां क्रमेण साधयेत् ॥ अप्रतिगृह्णाभियोगं नायकेन क्रियमाणं प्रत्याख्याय पुनरपि कियन्तो दिवसान्स्थित्वा संसृज्यमानां नायकेन संसर्गे यातां द्विघाभूतमानसां विद्यात् । परीक्षणीयत्वात्किं कुर्यामहं न वेति तां क्रमेण साधयेत् । अत्र विशेषमाह अप्रतिगृह्याभियोगं सविशेषमलंकृता च पुनर्दृश्येत तथैव तम- भिगच्छेच विविक्ते वलाद्रहणीयां विद्यात् ॥ १. 'यावत्'. २. 'तया भावः परीक्षितो भवति इति पुस्तकान्तरे टीकान्तः पासितम्. ३. 'अभियोगांच प्रतिगृह्णीयात्' पुस्तकान्तरे नास्ति. ४. 'चेत्, कामसूत्रम् । २५ आदितोऽध्यायः ] सविशेषमिति यथा पूर्वमलंक्रियमाणा अतः सविशेषमलंकृता पुनर्नाय- केन दृश्येत तथैवाभिगच्छेत् [च]। नायिकां विविक्ते स्थितां बलाङ्गृढीयाद्ध- ठादृषां विद्यात् ॥ २७२ बनपि विपहतेऽभियोगान च चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या ॥ धीरत्वाद्वहूनपि विषहते ये ये क्रियन्ते । न च चिरेणापीति बहुमि- रपि दिवसैः । शुष्कप्रतिग्राहिणीत्यर्थशून्यानभियोगान्प्रतिग्रहीतुं शीलमस्याः । अतिपरीक्षणीयत्वात् । परिचयविघटनसाध्येति परिचयापनयनसाध्या । कथं तदपनयनात्सिध्यतीत्याह- मनुष्यजातेचित्तानियत्वात् ॥ मनुष्यजातेरिति तचित्ताभिधानम् । चित्तानित्यत्वादिति मनसब्धलत्वात् । यतो विच्छिन्ने परिचये पुनः स्वयं संधत्ते । अभियुक्तापि परिहरति । न च संसृज्यते । न च प्रत्याचष्टे । तस्मिन्नात्मनि चे गौरवाभिमानात् । सातिपरिचयात्कृच्छ्रसाध्या । मर्मज्ञया दूत्या तां साधयेत् ॥ अभियुक्तापि परिहरति । अभियोगं परिहत्यापि काचित्संसगै यातापीत्याह । न च संसृज्यते इति तस्या आत्मन्यभिमानात् । न च प्रत्याचष्टे नायिका (यक) मेकान्तेन । तस्मिन्नायके च गौरवाभिमानात् । सातिपरिचयात्कृच्छ्रसाध्या तस्या ह्यतिघीराया अतिपरिचयेन गौरवाभिमानौ कृच्छ्रयन्स्फुटयति । मर्मज्ञया दूत्या साध्या । तद्वगत्वात् । तत्र विशेषमाह-~ सा चेदभियुज्यमाना पारुष्येण सादिशत्युपेक्ष्या ॥ पारुष्येण प्रत्यादिशति निष्ठुरवाक्येण प्रत्याचष्टे । उपेक्षिताभियुञ्जीत । अत्रापि विशेषमाह परुपयित्वापि तु प्रीतियोजिनीं साधयेत् ॥ १. 'अतिपरीक्षणीयत्वात्' पुस्तकान्तरे नास्त्रि. २. 'चेतो'. ३. 'तद्वित्ता'. ४. 'ना• भियुक्तापि'. ५. 'वा'. ६. 'प्रत्यादिशेदुपेक्य'. ३ अध्याय: ] ५ पारदारिकमधिकरणम् । २७३ परुपमुक्त्वापि प्रीतियोजिनीं प्रीतियोजनशीलां साधयेत्पुनरभियुञ्जीत । तस्या जातविप्रतीसारत्वात् । कारणात्संस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमानसा सातत्येन क्षान्त्या वा साध्या । कारणादिति कुतश्चिन्निमित्तात्संस्पर्शनमभियोगं सहते । न शुष्कप्रतिआहिणीत्यर्थः । नावबुध्यते नामेति नायकाभिप्रायमजानतीव संस्पर्शनं सहते सैवंभूता द्विघाभूतमानसा परीक्षणीयत्वात्सातत्येन क्षान्त्या साध्यति । अविच्छेदेन संस्पर्शस्य क्षमणं कार्यमित्यर्थः । समीपे शयानायाः सुप्तो नाम करमुपरि विन्यसेत् । सापि सुप्ते- वोपेक्षते । जाग्रती त्वपनुदेद्भूयोऽभियोगाकाङ्क्षिणी ॥ समीपे शयानाया आन्तराभियोगेन प्रवृत्तिं परीक्षेत । सुप्ता नामेति कृतकमपदिश्यापनयति । किमर्थमित्याह – भूयोऽभियोगाकाङ्क्षिणीति । अन्यथा कि सुप्तेनैव न्यस्तः किं वाभियोगार्थं कृतकसुतेनेति संदेहः । एतेन पादस्योपरि पादन्यासो व्याख्यातः ॥ एतेन हस्तन्यासेन । तस्मिन्मसृते भूयः सप्तसंश्लेषणमुपक्रमेत् । तदसहमानामुत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं विद्यात् । अदृश्यमानां तु दूतीसाध्याम् ॥ तस्मिन्निति हस्तन्यासे पादन्यासे च । प्रसृते निवन्धनत्वेन प्रवृत्ते । सुप्तसंश्लेषणमिति कृतकसुताया आलिङ्गनमेवोपक्रमेण (त) चुम्बनादिकम् । तदिति संश्लेषणम् । उत्थितां शयनात् । प्रकृतिवर्तिनीमकुपिताम् । अभियोगार्थिनीं विद्यात् । दृश्यमाना पुनरभियुजीतेत्यर्थः । अस्या अप्रगल्भत्वात् । अदृश्यमानां तु प्रकृतिवर्तिनी दूतीसाध्यां [विद्यात्] तद्विषयत्वात् । १. 'करचरणसस्पर्शन'. २. 'सश्लेषणनियमोपक्रमेत्. का० ३५ कामसूत्रम् । २९ आदितोऽध्यायः ] चिरमदृष्टापि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिताका- रामुपक्रमेत् ॥ यदा तु तदसहमानोत्थिता चिरं बहून्दिवसान्दृष्टा सती पुनरपि प्रकृतिस्थैवाकुपिता संसृज्यते संसर्गे करोतीति यद्यप्येवं तथापि कृतलक्षणां तामिति जातावसरां दर्शिताकारामुपक्रमेताभियुञ्जीत । तस्या अतिशयेनाप्रगल्भत्वात् । २७४ अनभियुक्ताप्याकारयति । विविक्ते चात्मानं दर्शयति । सवेपयुगद्गदं वदति । स्विन्नकरचरणाङ्गुलि: खिन्नमुखी च भवति । शिरःपीडने संवाहने चोर्वोरात्मानं नायके नियोजयति । आतुरा संवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन वाहुना स्पर्शमावेदयति श्लेषयति च । विस्मितभावा । निद्रान्धा वा परिस्पृश्योरुभ्यां वाहुभ्यामपि तिष्ठति । अलिकैकदेशमूर्वोरुपरि पातयति । ऊंरुमूलसंवाहने नियुक्ता न प्रतिलोमयति । तत्रैव हस्तमेकमविचलं न्यस्यति । अङ्गसंदंशेन च पीडितं चिरादपनयति । मँतिगृहवं नायकाभियोगान्पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति । नात्यर्थं संसृज्यते । न च परिहरति । विविक्ते भावं दर्शयति निष्कारणं चागूढमन्यत्र प्रच्छन्नमदेशात् । संनिकृष्टपरिचारकोपभोग्या सा चेदाकारितापि तथैव स्यात् सा मर्मज्ञया दूत्या साध्या । व्यावर्तमाना तु तर्कणीयेति भावपरीक्षा । अभियुक्तेति । अभियुक्ता तावद्भावसूचकमाकारं दर्शयत्येव । तत्र च यदि वदति सवेपथु सगद्गदम् । खिन्नकरचरणाङ्गुलिः खिन्नमुखी च भवत्येकान्तेनाहितभावत्वात् । आतुरेति । आतुरामेकान्तेन प्रगलमयेत् । एवमवस्थापि विविक्ते नायकं दूतादमियुद्धे । संवाहिका चेति कदाचिदप्रगल्मा संवाहनद्वारेण प्रवृत्ति दर्शयति । स्पर्शमावेदयतीत्यात्मीयं नायकं १. 'संसृज्येत'. २. 'खिन्नमुखी'. ३. 'शिर. पीडनसवाहनयोद्यात्मानं नियोजयति'. , 'आनुरसंवाहिका'. ५. 'नियुका न विसंवादं गच्छति'. ६. 'अप्रतिगृह्य वा. ३ अध्यायः] ५ पारदारिकमधिकरणम् । २७५ ज्ञापयति । विस्मितभावेति विस्मिताख्यो भावो यस्याः । स्पर्श निवेदयमाना तावत्स्पर्शं विना जातविस्मया सती तेनैव द्वितीयवाहुना श्लेषयति श्लेषं करोति । वाशब्दो मिन्नक्रमे । उभाभ्यां बाहुभ्यां कृतकनिद्रा परिस्पृश्यापि ऊरुभ्यां तिष्ठति । अलिकैकदेशमग्रमागं पातंयति । संवाहयन्ती न प्रतिलोमयति । तत्संवाहनं स्यात् । तत्रैवेत्यूरुमूले । अविचलनं न्यस्यति तन्नज्ञाष्या (?) न व्यापारयति । मा भूज्जघनपार्श्वसंस्पर्श इति । अङ्गसंदंशेन चेत्यूरुद्वयसंदंशेन नायकेन पीडितं चिरादप्रनयति । मा भूदिच्छाविघातोऽस्येति । नायकाभियोगानिति । तस्यामवस्थायामन्यदा वा नायकाभियोगान्दृष्ट्वा तदीयं भावं प्रतिगृह्य पुनःसंवाहनायोपगच्छति कार्यस्यानिप्पन्न त्वात् । नात्यर्थमिति । कदाचिदतिधैर्याद्रुढभावैव प्रवृत्तिं दर्शयति स्वयं नात्यन्तं संसृज्यते । न च परिहरत्यमुम् 1 विविक्ते भावं दर्शयति मान्यो ज्ञास्यति । अन्यत्र च्छन्नप्रदेशाज्जनसंबाघे गूढं भावं दर्शयति । कथमसौ गूढ इति • .... ***. You **** ………………… ……… … ……….……. । इति भावपरीक्षा पञ्चचत्वारिशं प्रकरणम् ॥ भवन्ति चात्र श्लोकाः- 'आदौ परिचयं कुर्यात्ततश्च परिभाषणम् । परिभाषणसंमिश्रं मियश्चाकारवेदनम् ॥ प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् । ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ॥ आकारेणात्मनो भावं या नारी प्राक्मयोजयेत् । क्षिप्रमेवाभियोज्या सा प्रथमे वेव दर्शने ॥ लक्षणमाकारिता या तु दर्शयेत्स्फुटमुत्तरम् । सापि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ॥ १. 'हि वेदयमाना'. २. इतः प्रभृत्यध्यायान्त यावट्टीका सर्वेष्वस्मदीयपुस्तकेषु त्रुटितारिख, २७६ धीरायामप्रगल्भायां एप सूक्ष्मो विधिः भोक्तः सिद्धा एव स्फुटं स्त्रियः ॥ इति वात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे भावपरीक्षा तृतीयोऽध्यायः । ................ कामसूत्रम् । २६ आदितोऽध्यायः] परीक्षिण्यां च योपिति । इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाद्गनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां पारदारिके पञ्चमेsधिकरणे भावपरीक्षा तृतीयोऽध्यायः । चतुर्थोऽध्यायः । योगासंभवस्तत्र दूतीप्रयोग इति दूतीकर्माण्युच्यन्ते । दर्शितेङ्गिताकारां तु मविरलदर्शनामपूर्वी च दूसोपसर्पयेत् ॥ इङ्गिताकारौ दर्शयित्वा काचिदात्मानं न दर्शयति च कार्ययोगात्तामपूर्वी चापरिचिताम् । न दर्शिताकारामित्यर्थः । दूत्योपसर्पयेदात्मसमीपं ढौकयेत् । मूलभूतास्तिस्रो दूत्यः– निसृष्टार्था परिमितार्था पत्रहारी चेति । [तासां] सामान्येन कर्माण्याहसैनां शीलतोऽनुप्रविश्याख्यानर्केपटैः सुभगंकरणयोगैर्लोकतान्तैः कविकथाभिः पारदारिककथाभिश्च तस्याश्च रूपविज्ञानदा क्षिण्यशीलानुप्रशंसामिश्र तो रञ्जयेत् । कथमेवंविधायास्तवायमित्थंभूतः पतिरिति चानुशयं ग्राहयेत् । न तव सुभगे दास्यमपि कर्तुं युक्त इति ब्रूयात् । मन्दवेगतामीर्ष्यालुतां शठतामकृतज्ञतां चासंभोगशीलतां कदर्यतां चपलतामन्यानि च यानि तस्मिन्गुप्तान्यस्या अभ्याशे सति सद्भावेऽतिशयेन भाषेत । येन च दोपेणोदिनां ●●●●●● १. 'उच्चन्ते यदाइ'. २. 'दत्यवोपसर्पयेत्'. ३. 'विसृष्टार्था'. ४. 'कपटपाठ. ५. 'तां रजयेत्' पुस्तकान्तरे नास्त्रि. ५ पारदारिकमधिकरणम् । २७७ । यदासौ मृगी तदा नैव शशतादोपः । एतेनैव वडवाहस्तिनीविपयथोक्तः ॥ ४ अध्यायः] लक्षयेत्तेनैवानुभविशेत् शीलत इति शीलेनादावनुप्रविश्य विश्वासार्थ शीलवती स्यात् । आख्यानकपटैरिति यमुपदिश्याख्यानकानि चित्रलिखितानि । सुभगंकरणैयोगैर्वक्ष्यमाणैः । लोकवृत्तान्तैः पुराणनिवन्धनैः । कविकथामिरिति कविमिर्निवद्धाभिर्बिन्दुमतीप्रभृतिभिः । पारदारिककथाभिर्गोतमबृहस्पत्यादिदाराणामिन्द्रचन्द्रादिभिरपहरणकथाभिः । अनुप्रविश्य किं कुर्यादित्याहतस्या इति नायिकाया रूपं वर्ण संस्थानं च । [विज्ञानदाक्षिण्यं] शास्त्रकलासु दाक्षिण्यमानुकूल्यम् । शीलं सुखभावता । तेषां प्रशंसाभिः । कथमेवंविधाया यथोक्तगुणाया इत्थंभूतो वैरूप्यादिप्रकारमापन्नः । अनुशयं विप्रतीसारं ग्राहयेत् [न] भद्रकमापतितं यदहमनेनोढेति । सुभग इत्यामत्रणं जनसौभाग्यख्यापनार्थम् । दास्यमपि किमु तव पतित्वम् । मन्दवेगतां च भाषेत यदि सा चण्डवेगा । उपलक्षणं चैतत् । शीघ्रवेगतां च यदि चिरवेगा । असंभोगशीलतामिति विषयान्भोक्तुमशीलताम् । कदर्यतामहीनकामताम् । अन्यानि चेति पारुष्यनैर्घृण्यदाम्मिकत्वादीनि । तस्मिन्पत्यौ । अस्या अभ्याश इति नायिकायाः समीपे यथान्यो न शृणोति । सति सद्भाव इति विदेग्धत्वे सति । अतिशयेन भाषेत येन सा तथैव प्र तिपद्यते । येन चेति प्रत्यक्षीकृतेन तद्दोषेण तेनैवैनामनुप्रविशेत् । कथितमेव मया यथायं दोषबहुल इति । नैव शशतादोषः किं त्वश्वत्वदोपो वाच्यः । एतेनैवेत्यनन्तरोक्तेन स्वजातीयन्यायेन । वडवाहस्तिनीविपययोगे न दोषो वृषत्वमश्वत्वं च । किं तु शशत्वं दोषः । दूत्योपसर्पयेदिति सामान्येनोक्तमत्र गोणिकापुत्रदर्शनमाह- नायिकाया एव तु विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्प्रथ- मसाइसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥ विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्कसिन्विषय इत्याह – प्रथमसाह १. 'भीषयेत् . ' २. 'विदग्धा सैव सती. ' २६ आदितोऽध्यायः ] सूक्ष्मभावायामस्फुटभावायाम् । २७८ कामसूत्रम् । सायामिति । या प्रथमं चारित्रं खण्डयति । एतद्नुमतमप्रतिषिद्धत्वात् । सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् । प्रसृ- तसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् । शृणु विचित्रमिदं सुभगे, त्वां किल दृष्ट्वामुत्रासावित्थं गोत्रपुत्रो नायकचित्तोन्माद- मनुभवति । प्रकृत्या सुकुमारः कदाचिदन्यत्र परिक्लिष्टपूर्वस्तपस्वी । ततोऽधुना शक्यमनेन मरणमप्यनुभवितुमिति वर्णयेत् । तत्र सिंद्धा द्वितीयेऽहनि वाचि बक्रे दृष्ट्यां च प्रसादमुपलक्ष्य पुनरपि कथां प्रवर्तयेत् । शृण्वत्यां चाहल्याविमारकशाकुन्तलादीन्यन्या- न्यपि लौकिकानि च कथयेतंयुक्तानि । वृपतां चतुःपष्टिविज्ञतां सौभाग्यं च नायकस्य । श्लाघनीयतां (या) चास्य प्रच्छन्नं संप्रयोग भूतमभूतपूर्व वा वर्णयेत् । आकारं चास्या लक्षयेत् ॥ च चरितमनुलोमतामानुलोम्यं कामितानि चेति त्रिविधं कामितं रतस्यारम्मे मध्येऽवसाने च । प्रसृतसद्भावायां नायिकायां सत्याम् । अन्यथोक्ते दोपकरणमपि स्यात् । युक्त्या न यथाकथंचित् । यदर्थे दूतीकल्पस्तत्कार्यशरीरम् । इत्थमिति वक्ष्यमाणप्रकारम् । विचित्रमिदं यदन्याभिः काम्यमानोऽपि त्वां दृष्ट्वापि चित्तोन्मादमनुभवति । एवं च सुभग इत्यामघ्रणमर्थवद्भवति । किलेति त्वं दृष्टासीति परोक्षं ममेत्याह । इत्थं गोत्रपुत्रो न यस्य कस्यचित्पुत्रः । कार्यस्य बलीयस्त्वं दर्शयन्नाह — प्रकृत्येति । अन्यत्रेत्यन्यस्याम् । अपरिक्लिष्टपूर्वस्तद्वचन [कर ]त्वात्स्त्रीणाम् । तपस्खीत्यनुकम्पायाम् । शक्यमनेन मरणमप्यनुभवितुं विनश्य (इन्च) तीत्यर्थः । तत्रेति तस्मिन्नभिधीयमाने सिद्धा न प्रत्याख्याता । वाचि वक्रे दृष्टयां च त्रिष्वपि प्रसादं प्रसन्नताम् । कथां प्रवर्तयेत्सामान्याम् । शृण्वत्यां स्वकथाम् । अहल्या गोतमभार्या तयोत्कण्ठितया देवराजः कामितः । अग्निहोत्रकेना(णा)निपरिचरणे वधूनियुक्ता । सा च कुण्डादुत्थितेन मूर्तिमतानिना कामिता । १. 'खण्डयित्वा.' २. 'सिद्धां.' ३. 'अन्यानि च तद्वृत्तानि कथयेत.' ४ 'तद्वृत्तानि ' ५. 'सनृपतां.' ६. 'दास्या श्लाघनीयतां.' ७. 'संप्रयोगभूत वा. ' ४ अध्याय:] ५ पारदारिकमधिकरणम् । २७९ जातगभ च तां श्वशुरः कुलदोषमयादटव्यां तत्याज । प्रसूता च सह सु तेन ( सा सुतम् । तं ) शबरसेनातिरपत्यबुद्धचा संवर्धितवान् । तत्पुत्रश्चाजाविकसमूहेन वालवयस्त्वात्क्रीडमानः परित्रमन्क्षीरपानान्महावलोऽभूत् । येन शिशुरेव हस्तग्रहणाद॑नाविकं जघान । सेनापतिरप्यन्वर्थमस्य नाम चक्रेsविमारक इति । ततः प्रवृद्धयौवनः कदाचिद्राज्ञोऽटव्यां समावासितस्य दुहितरं हस्तिना व्यापाद्यमानां तं हत्वा रेरक्ष । ततो जातोत्कण्ठा [सा] स्वयमेव पाणि आहितवती । तयुक्तानि पारदारिकयुक्तानि । वृषतां व्यवाय (यि) ताम् । चतुःषष्टिविज्ञतामिति गीतादिकायां पाञ्चालिकायां विज्ञताम् । सौभाग्यं पुरुपेणाप्यभिलपत (१) इति । श्लाघनी[य]येति यां स्त्रियं षते । प्रच्छन्नं लोकस्याविदितम् । एवं चाभूतमपि भूतामिव जातम् । आह्नि(क्रि)यते गृह्यते भावो येनेति वाक्कायव्यापारोऽत्र गृह्यते । तदेव दर्शयन्नाह संविहसितं दृष्ट्वा संभाषते । आसने चोपनिमन्त्रयते । कासितं क शयितं क भुक्तं क चेष्टितं किं वा कृतमिति पृच्छति । विविक्ते दर्शयत्यात्मानम् । आख्यानकानि नियुक्ते । चिन्तयन्ती निःश्व- सिति विजृम्भते च । भीतिदायं च ददाति । इष्टेषूत्सवेषु च स्मरति । पुनदर्शनानुवन्धं विसृजति । साधुवादिनी सती किमिदमशोभन- मभिधत्स इति कथामनुवनाति । नायकस्य शाठ्यचापल्पसंवद्धा- न्दोषान्ददाति । पूर्वप्रवृत्तं च तत्संदर्शनं कथाभियोगं च स्वयमेक- थयन्ती तयोच्यमानमाकाङ्क्षति । नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति । न च निर्वदतीति ॥ सविहसितमिति संभाषणक्रियाविशेषणमेतत् । उपनिमन्त्रयते इदमास नमास्यतामिति । चेष्टितं भ्रान्तम् । कृतमवश्यकर्तव्यमिति पृच्छति । तेन द्वारेण नायकसंवद्धं किंचिदमिधास्यतीति । विविक्ते दर्शयत्यात्मानं रहस्यं १. 'अयाचितं'. २. 'रक्षतस्ततो.' ३. 'अभिलषितः'. ४. 'नाध्यते'. ५. 'सापि हसित कृत्वा सभापते. ६. 'क्क स्थितं शयितं मुक्तं विचेष्टित. ७. 'अनुयुद्धे चिन्तयति विजृम्भते श्वसिति च'. ८, 'च ता'. 'अकथनीयं. २८० कामसूत्रम् । २६ आदितोऽध्यायः ] किंचिद्वक्ष्यतीति । आख्यानकानि नियुद्धेऽधृतिकथनार्थं नायककथां वा करिष्यतीति । चिन्तयन्तीत्यभ्युद्गत (तद्गत मानसा निःश्वसिति । विजूम्भते मदनलालसा । प्रीतिदायमिति यत्प्रीत्या दीयते कटकमुत्तरीयं वा तदस्यै ददाति । इष्टेषु कार्येपूत्सवेषु च स्मरति कथमद्य नायातेति । पुनर्दशनानुबन्धमिति पुनर्मया द्रष्टव्यासीति प्रेपयति । साधुवादिनीति त्वद्दर्शनं नामश्रवणमपि तं सुखयतीति दूत्या कथायां प्रावर्तितायामाह - साधुवा. दिनी सती किमिदमशोभनमंयुक्तमभिधत्से इत्यभिधाय कथामनुबध्नाति प्रवर्तयति । दोपान्ददातीति शठोऽसौ न निर्व्याजं व्यवहरति लोके । चपलश्च नैकस्यां रमत इति । तत्संदर्शनमिति नायकदर्शनं यत्तस्याः पूर्वप्रवृत्तं यत्र [यत्र] यदा यथा । कथाभियोगं च पुनः पुनः कथायोगं पूर्ववृत्तं स्वयमकथयन्ती लज्जया तयोच्यमानं दूत्या कथ्यमानं काङ्क्षति तेनापि सुखं स्थीयत इति । नायकमनोरथेप्विति स दिवसो भविष्यति यत्र पादपतनैः प्रसादिताया अधरं पास्यामीत्येवमादिपु दूत्या कथ्यमानेषु सपरिभवमिव हसति दूरात् (दुराशा) शठस्य धूर्तस्येति । न च निर्वदति निश्चयेनाभिधत्ते सिध्यत्येव तस्य मनोरथ इति । विपये (शेपे)ण नायिकाया आकारे लक्षिते किं फलमित्याह- दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपवृंहयेत् । असंस्तुतां तु गुणकथनैरनुरागकथाभियावर्जयेत् ॥ नायकाभिज्ञानैरिति नायकस्य तया सह पूर्वे व्यावृत्तानि तैरुपबृंहयेदत्यन्तमनुरक्तां कुर्यात् । असंस्तुतामित्यपरिचिताम् । अभिज्ञानासंभवात् । नायकस्य गुणकथनैरनुरागकथामिश्चावर्जयेत् । अत्राचार्याणां मतभेदमाह नासंस्तुतादृष्टाकारयोर्दूत्यमस्तीत्यौद्दालकिः । असंस्तुतयोरपि संसृष्टाकारयोरस्तीति वाभ्रवीयाः । संस्तुतयोरप्यसंसृष्टाकारयोर१. 'तत्'. २. 'अयुक्तियुक्तं'. ३. 'निथय न. ४. 'नासस्तुताससृष्टाकारयो.; 'नासंमष्टाकारयोरसंस्तुतयोः . ४ अध्यायः] ५ पारदारिकमधिकरणम् । २८१ स्तीति गोणिकापुत्रः । असंस्तुतयोरदृष्टाकारयोरपि दूतीमत्यया- दिति वात्स्यायनः ॥ च नासंस्तुतादृष्टाकारयोरिति ययोर्न परिचयो न चाकारदर्शनं च तस्मिन्विषये न दूत्या कर्म विषयो वास्ति । यत्रेदमुक्तम् – 'कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जीत' । संसृष्टाकारयोस्तयोरसंस्तुतयोरप्यवस्थाकारस्यैव दूत्यं मित्रत्वात् । यथोक्तम् –'आकारेणात्मनो भावं या नारी प्राक्प्रदर्शयेत् । क्षिप्रमेवाभियोज्या सा प्रथमे चैव दर्शने ॥" असंसृष्टाकारयोरिति व्यामिश्रभावत्वात्तदाकारोऽपि संसृष्टशुद्धो भवति । ततश्च तयोरपि । यत्रेदमुक्तम् – 'धीरायामप्रगल्मायां' इत्यादि । दूतीप्रत्ययादिति दूतीसामर्थ्यादसंस्तुतयोरपि । अस्मिन्पक्षे त्रितयामावेऽपि दूत्यमस्ति । यत्रेदं वक्ष्यति —–'कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्य' इति । तासां मनोहराण्युपायनानि ताम्बूलमनुलेपनं सृजमङ्गुलीयकं वासो वा तेन मंहितं दर्शयेत् । तेषु नायकस्य यथार्थ नखदशनप- दानि तानि तानि च चिह्नानि स्युः । वाससि च कुङ्कुमाकमञ्जलिं निदध्यात् । पत्रच्छेद्यानि नानाभिप्रायाकृतीनि दर्शयेत् । लेखप- त्रगर्भाणि कर्णपत्राण्यापीडांच । तेषु खमनोरथाख्यापनम् । प्रति- प्राभृतदाने चैनां नियोजयेत् । एवं कृतपरस्परपरिग्रहयोश्च दूती- प्रत्ययः समागमः ॥ तासामित्यसंस्तुतानाम् । मनोहराण्युपायनानि कोशलिकास्ताम्बूला[दी]नि । तेष्वित्युपायनेषु । यथार्थमिति यैथाप्रयोजनं च संप्रयोगसूचकमेव चिह्नं स्यात् । कुङ्कुमाङ्कमञ्जलिमिति कुङ्कुमेनाङ्कितमञ्जलिं निदध्याद्यथा प्र तिबिम्बमुत्पद्यते । तत्त्वदाराषनपरोऽयं जन इति ख्यापनार्थम् । नानाभिप्रायाकृतीनीति नानाभिप्राया रतिशोकक्रोधविस्मयादिभावसूचना आकृतिः संस्थानं येषाम् । लेखपत्रगर्भाणि मध्ये लेखपत्रं प्रक्षिप्य वेष्टितानि । आपीडांश्च लेखपत्रगर्भान् । मनोरथाख्यापनमिति लिखित्वा च लेखा (खैः) १. 'प्रहितं च'. २. 'तेषु तु यथार्थ नायकस्य'. ३. 'यथाप्रयोग'. ४. 'ख्यापनानि लिखित्वा च प्रतिप्राभृतं. का० ३६ २८२ कामसूत्रम् । २६ आदितोऽध्यायः] आचक्षीत । प्रतिप्राभृतं प्रतिकोशलिका । कृतपरस्परपरिग्रहयोरिति कृतान्योन्यस्वीकारयोः । दूतीप्रत्ययः (समागमः) तथैव तदानीं निर्दिश्यमानत्वात् । स तु देवताभिगमने यात्राया मुद्यानक्रीडायां जलावतरणे वि वाहे यज्ञव्यसनोत्सवेष्वम्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्विति वाभ्रवीयाः । सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः । तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशन सुपपद्मं निष्क्रमणमविज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः ॥ देवताभिगमने देवतामभिपूजयितुं यद्गमनं तत्र । यात्रायां कस्याश्विद्देवतायाः । जलावतरण इति यदा स्नातुं जनसमूहो जलमवतरति न चालक्ष्यते स्थानात्स्थानान्तरगमनम् । अन्न्युत्पाते दह्यमानात्प्रातिवेश्यगृहागृहान्तरगमनं संभवति । चौरविभ्रमे चौराः किल पतन्तीति । अत्र सिध्यति (?) । चक्रारोपणे जनपदं निवेशयितुं स्वीकारारोपणे (?) । तदाह्मनुस्थापितप्रकारत्वात्स्त्रीजनो न सुखी भवति । तेषु तेषु च कार्येष्विति येषु येषु जनानां संमर्दः शून्यता वा । सुखोपाय इति यदैवेच्छति तदैव भवति । तस्या एवेति नायिकायाः । निष्क्रम्यते प्रविश्यते च येन मार्गेण तदुभयं विदितं वीक्षितं यत्र गेह इति । तदप्यविज्ञातकालमनियतकालं प्रवेशनं निष्क्रमणं चोपपन्नं युक्तमनुपलक्ष्यमाणत्वाद्भवति । प्रवेशनं निष्क्रमणं चानित्यं तस्याः सदासंनिहितत्वात् । न सख्यादिगृहेषु । सुखोपायं च विदितमार्गत्वात्प्रतिविहितदोषत्वाच्च । सामान्येन कर्माण्युक्त्वा दूतीभेदं प्रदर्शयन्नाह निसृष्टार्या परिमितार्था पन्नहारी स्वयंदूती मूढदूती भार्यादूती मूकदूती वातदूती चेति दूतीविशेषाः ॥ नायकस्य नायिकायाथ यथामनीषितमर्थमुपलभ्य खबुद्ध्या कार्यसंपादिनी निसृष्टार्था ॥ १. 'उपपन्नतरकं. २ 'अविज्ञातकालं तथा निष्क्रमणं च. ४ अध्यायः] ५ पारदारिकमधिकरणम् । २८३ यथामनीषितमिति यथेप्सितम् । इयमेवाकृतपरस्परपरिग्रहौ (यथा संप्रयुज्येतेति त्रिविधं कार्यं संपादयति ।) यथा तावनुरज्येते यथा कृतपरस्परपरिग्रहौ संप्रयुज्येते तत्रिविघं कार्य संपादयति । दूत निसृष्टार्थेति इदं करणीय मित्येतावतोऽर्थस्य निसृष्टत्वात् । अस्या विषयमाह सा प्रायेण संस्तुतसंभाषणयोः । नायिकया प्रयुक्ता असंस्तु- तसंभाषणयोरपि । कौतुकाञ्चानुरूपौ युक्ताविमौ परस्परस्येत्यसं- स्तुतयोरपि ॥ संभाष्यत इति संभाषा संभाषणम् । 'कृत्यल्युटो बहुलम्' इति ल्युट् । संस्तुतौ च तौ संभाषणौ च । यदि वा संस्तुतं च संभाषणं च ययोरस्तीति मत्वर्थीयोऽकारः । तयोः प्रायेण दृश्यते । अन्यतरप्रयुक्ता विषयशुद्धिगोचरत्वात् नायिकया च प्रयुक्तया प्रायेण संस्तुतभाषणयोरपि परिचितावेव केवलं नं तु संभाषणमनयोरस्ति । यत इदमुक्तम् – 'आदौ परिचयं कुर्यात्ततश्च परिभाषणम्' इति । तथा संभाषमाणोऽपि नायकः संस्तवत्वात्सुसाधन इति प्रायेण दृश्यते । न तु नायिकेति । प्रायेण युक्ताविमौ समानशीलवयस्त्वात्परस्परसंयोजने युक्ताविति निसृष्टार्थाया यदा कौतुकमुत्पद्यते तस्माच्चासंस्तुतयोरपि द्रष्टव्या न तु प्रायेण । तथाविधार्थस्य कादाचित्कत्वात् । कार्यैकदेशमभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परि- मितार्था ॥ कार्यस्याभियोगस्यैकदेशमसमापितमन्यतरस्मादुपलभ्य पादयतीति परिमितार्था । परिमितः परिच्छिन्नोऽर्थोऽस्या इति । शेषमसमापितं संविषयमाह - सा दृष्टपरस्पराकारयोः भविरलदर्शनयोः ॥ १. 'अयं'. २. 'निसृष्टार्थत्वात्', 'विस्पष्टार्थत्वात् ३. 'संस्तुतपरिभाषणयोः . ४. 'कौतूहलात'. ५. 'समापयति'. कामसूत्रम् । २६ आदितोऽध्यायः] दृष्टपरस्पराकारयोरित्याकारग्रहणेन दृष्टं परस्परं (१) नान्यत्किंचित्तयोः कार्यशेपं संभाषणम् । प्रविरलदर्शनयोरमियोगशेषम् । संदेशमात्रं प्रापयतीति पत्रहारी ॥ संदेशमात्रमिति कार्यस्य स्थिरत्वात्तन्मात्रं पत्रेण वचसा [वा] प्रापयतीति पत्रहारीत्यर्थः । कस्मिन्विषय इत्याह २८४ सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसंबोधनार्थम् ॥ प्रगाढसद्भावयोः । संप्रयोगं प्रत्यभिमुखत्वात् । संसृष्टयोश्च कृतसंसर्गयोश्च द्रष्टव्या । किमर्थमित्याह – देशकालेति । अस्मिन्काले स्थाने वानयोः समागम इति प्रबोधनार्थमन्यतरेण युज्यते सा । स्वयंदूती (विश्लिष्टार्था) द्विविधा । तत्रैका परार्था या परेण प्रयुज्यते । द्वितीयात्मार्था सा खयंदूतीति द्वितीयं नाम लभते । तस्या विधिमाह दौत्येन मेहितान्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेत् । गोत्रस्खलितं भार्थी चास्य नि- न्देत् । तथ्यपदेशेन स्वयमीर्ष्या दर्शयेत् । नखदशनचिहितं वा किं- चिद्दद्यात् । भवतेऽहमादौ दातुं संकल्पितेति चाभिदधीत । मैम भार्याया का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती । तस्या विविक्ते दर्शनं प्रतिग्रहथ । मँतिग्रहच्छलेनान्यामभिसंधायास्याः संदेशश्रावणद्वारेण नायकं साधयेत् तां चोपहन्यात्सापि स्वयंदूती । एतया नायकोऽप्यन्यदूतश्च व्याख्यातः ॥ दौत्येनेति दूतक्रियया अन्यया नायिकया प्रहिता या स्वयमेव नायकमभिगच्छेत्कामयेत्सा स्वयंदूतीति संवन्धः । अभिगमोपायोपदेशमाह -अजानती नामेति । अद्य खमे त्वयाहं किलोपभुकेति । गोत्रस्खलितं निन्देत् ईदृशं तदस्मदीयं नाम भूतं येन त्वया भार्याहूयत इति । भाय चास्य निन्देत् युक्तमाह्वयितुं यँदेयं रूपवती स्यात् । तद्व्यपदेशेनेति गोत्रस्खलितम१. 'संसृष्टयोथ तत्संसर्गयो:. २. 'प्रहिता या'. ३. 'तेन सहोपभोगखप्न कथयेद्गोप्रस्खलितं वा'. ४. 'तद्यपदेशेन किंचिद्वदेत् . ५. 'स्वामीयों. ६. 'मम वा त्वद्भा यांया वा आकाररमणीयतेति'. ७. 'दूसच्छलेन'. ७. 'तस्याः'. ८. 'यदायं रूपवती वा'. ४ अध्यायः] १ पारदारिकमधिकरणम् । २८५ पदिश्य स्वयमीप्य दर्शयति । नखादिचिह्नितं भावसूचनार्थम् । किचिदिति ताम्बूलावसरे रागादिकम् (१) । ददतीति चानुरागख्यापनार्थमिदं ब्रूयादित्याह –भवतेति । का रमणीयेति । (अथ) को ज्ञास्यतीति । नायकभार्या सुग्धां विश्वास्यायन्त्रणयानुभविश्य नायकस्य चेष्टि- तानि पृच्छेत् । योगाशिक्षयेत् । साकारं मण्डयेत् । कोपमेनां ग्राहयेत् । एवं च प्रतिपद्यस्वेति श्रावयेत् । स्वयं चास्यां नखदश- नपदानि निर्वर्तयेत् । तेन द्वारेण नायकमाकारयेत्सा मूढदूती ॥ साकारं मण्डयेत् स्वाभिप्रायसूचनार्थम् । कोपमस्मिन्प्राहयेत् आत्मनोऽपीयौ दर्शयितुम् । चपलोऽयमन्यस्यां सक्तः किमस्ति येन न कुप्यसीति । एवं च प्रतिपद्यख यथाहमाचक्ष इति तां श्रावयेत् । तत्प्रतिकूलां मामनुकूलां ज्ञास्यतीति । स्वयं चास्यां भार्यायां नखदशनपदानि विदेधीत संप्रयोगाभिलाषख्यापनार्थम् । तेनेति क्लेशपथोक्तेन (?) द्वारेण । नायकर्मांकारयेदाकारं ग्राहयेत् येनासौ संप्रयोगार्थिनीति विद्यात् । सेति भार्या । मूढदूती दूत्यर्थापरिज्ञानादियं परीक्षा द्रष्टव्या । तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥ तस्या इति नायिकायाः। तयैवेति मूढदूत्या । प्रत्युत्तराणि प्रत्यभियोगान् । यदि नायिका 'नायकोऽप्यन्यदूतश्च व्याख्यातः' इत्युक्तं च तत्र गोचरे लज्जायां वा यदि स्वयं दौत्यं न प्रतिपद्येत तदा स्वभार्यया तामाकारयेदि- त्याह- स्वभार्थी वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत् । आत्मनश्च वैचक्षण्यं प्रकाशयेत् । सा भार्या दूती । तस्यास्तयैवाकारग्रहणम् ॥ मूढामज्ञाम् । विज्ञा हि विकल्पयति मामनया योजयतीति । विश्वासेन हेतुना योजयित्वा तयैवाकारयेत्स्वभार्यया आकारं ग्राहयेत् । वैचक्षण्यं १. 'पृच्छति-शिक्षयति मण्डयति माहयति श्रावयति - निर्वर्तयति'. २ 'खाकार'. ३. 'आत्मना'. ४. 'किमस्मि'. ५. 'न्यवधीत'. ६. 'आकारयति. ७. 'तत्या'. ८. 'यदि नायिकामिष्टनायकोऽप्येतस्य दूतो व्याख्यातः'. ९. 'गूढ'. २८६ कामसूत्रम् । २६ आदितोऽध्यायः] कलाकौशलं तयैव प्रकाशयेत् । सा भार्यादूती पत्रहारीप्रकारा । तयैव भार्यादूत्या तस्या नायिकाया आकारग्रहणं प्रत्युत्तरं प्रथममित्यर्थः । यदि स्वभार्याया न गोचरस्तदा किं प्रतिपद्येतेत्याह- वालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन महिणुयात् । तत्र स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती । तस्यास्तयैव प्रत्युत्तरमार्थनम् ॥ बालां वा परिचारिकां नायकोचिताम् । अदोषज्ञामधूर्ताम् । अदुष्टेनेति बालक्रीडनकायुपायेण । नायिकागृहं प्रतिदिनं प्रहिणुयात् । तत्रेति तस्यां जातपरिचयायां गूढलेखविधानं च वाचयित्वा मां नायकोऽप्याकारयतीति सा प्रतिपद्यते । नखदशनपदानि च सजि कर्णपत्रे वा निदध्यादिति योज्यम् । सा मूकदूती । अर्थानभिभावनात् । इयं पत्रहारीप्रकारा । तस्या नायिकायास्तयैव प्रत्युत्तरप्रार्थनम् । यदि तया कैर्णपत्रात्पत्रं गृहीतं किमत्र मृगयसीति । यत्र बालाया अप्यगोचरस्तत्र किं प्रतिपद्येतेत्याह- पूर्वप्रस्तुतार्थलिङ्गसंबद्धमैन्यजनाग्रहणीयं लौकिकार्य व्यर्थ वा वचनमुदासीना या श्रावयेत्सा वातदूती । तस्या अपि तयैव प्र- त्युत्तरमार्थनमिति तासां विशेषाः ॥ पूर्वप्रस्तुतेति नायिकानायकयोर्यत्पूर्वप्रस्तुतं वृत्तं तस्य चिह्नं तेनाभिज्ञानार्थं संवद्धं वचनम् । अन्यजनाग्रहणीयम् । तस्यामेव तदर्थस्य ग्रहणात् । अत्र म्लेच्छितकविकल्पकला द्रष्टव्या । लौकिकार्थं च लोकविदितार्थम् । व्यर्थमप्रस्तुतार्थस्यापि वाचकत्वात् । उदासीना या न क्वचित्प्रतिप्राययाए (श्रावयेत् ) सा वातदूतीत्युच्यते । पत्रहारीप्रकारैव चेति । तयैव प्रत्युत्तरप्रार्थनं तस्य हि प्रश्नस्य प्रतिप्रश्नं याचेदित्यर्थः । तासां विशेपा निसृष्टार्थादीनां स्वयंदूत्यादयो विशेषाः । एवमन्येऽपि यथासंभवमत्रैव द्रष्टव्याः । यथाहुर्बानवीयाः– 'पुत्रिका चित्ररूपाणि पशवः शुकसारिकाः । सर्वेषां गूढभावानां दूतकर्माणि कुर्वते ॥" इति । १. कर्णपत्रान्तरपनं. २ 'खजनाप्रहणीयायै'. ३. 'दूत'. 1 } ४ अध्यायः] ५ पारदारिकमधिकरणम् । यास्तिसो दूत्य उक्तास्ताः का इत्याह भवन्ति चात्र श्लोकाः- २८७ विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका । प्रविशत्याशु विश्वासं दूतीकार्य च विन्दति ॥ प्रविशति । गृहमिति शेषः । विश्वासं दूतीकायै च विन्दति लभते । संक्षेपेण दूतीकर्माण्याह- विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत् । चिंत्रान्सुरतसंभोगानन्यासामपि दर्शयेत् ॥ नायकस्यानुरागं च पुनश्च रतिकौशलम् । प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ॥ विद्वेषं ग्राहयेदिति तस्य रूपादिप्रशंसामिः 'अनुशयं ग्राहयेत्' इ- त्यादिना रमणीयानि वर्णयेत् । 'नायकस्य चरितमनुलोमतां कामितानि च कथयेत्' इत्यनेन । चित्रान्पुरतसंभोगान्दर्शयेत् ( इत्यादिना ) 'वृषतां चतु:- षष्टिविज्ञतां संवर्णयेत्' इत्यनेन । अन्यासामपि तत्सखीनामग्रतो न केवलं नायिकायाः । यतस्तास्तस्यै कथयन्ति । नायकस्यानुरागं वर्णयेत् 'शृणु विचित्रं' इत्यादिना । पुनश्च रतिकौशलं वर्णयेत्प्रधानत्वादस्य । प्रार्थनां चाधिकस्त्रीभिः 'श्लाघनीयया चास्य प्रच्छन्नं संयोगं भूतमभूतपूर्व वा वर्णयेत्' इत्यनेन । अवष्टम्भं नायिकाविषयं निश्चयं तदङ्कशयनं श्मशा- नशयनं वा । यदुक्तम् – 'शक्यमनेन मरणमप्यनुभवितुम्' इति । प्रथमेऽधिकरणे पटुतादयो गुणा उक्ता दूतानां तेषां पटुता प्रधान- मिति दर्शनार्थमाह- असंकल्पितमप्यर्थमुत्सृष्टं दोपकारणात् । पुनरावर्तयसेव दूती वचनकौशलात् ॥ इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः । १. 'विचित्रान्रति संयोगाननेकानपि दर्शयेत्'. कामसूत्रम् । २७ आदितोऽध्यायः] दोषकारणादिति व्यावृत्तिकारणात् । नापानकयोग्य इत्यर्थः परि- त्यक्तः (१) । सरवकस्थितीनविचिन्तितः (?) । दूती पुनस्तमावर्तयत्यभि- मुखीकरोति । वचनकौशलारपटुतायोगात् । इति दूतीकर्माणि षट्चत्वा- रिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां पारदारिके पश्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः । २८८ पञ्चमोऽध्यायः । ईश्वराणां परगृहप्रवेशाभावात्कामितं न संभवति प्रायशस्तत्र कैथमघिक्रियत इति तदनन्तरमीश्वरकामितमुच्यते । यदाह न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते । महाजनेन हि चरितमेषां दृश्यतेऽनुविधीयते च ॥ जनसमूहेनैतेषां चरितं दृश्यते सर्वदा तदनुगतत्वात् । यदि दृष्टं तदा को दोप इत्याह – अनुविधीयते चेति । 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इति । तदेव दृष्टान्तेन दर्शयति- सवितारमुद्यन्तं त्रयो लोकाः पश्यन्ति अनुद्यन्ते च । गच्छन्तमपि पश्यन्त्यनुमैतिष्ठन्ते च ॥ सविता लोकेषु श्रेष्ठः । तमुद्यन्तं पश्यन्तीति चरितदर्शनम् । अनूद्यन्ते च तस्मिंस्तूद्गते सुप्ताः प्रवुध्यन्त इति चरितानुविधानम् । गच्छन्तमपि देशान्तरे पश्यन्तीति चरितदर्शनम् । अनुप्रतिष्ठन्ते च यथावं क्रियासु प्रवर्तन्त इति चरितानुविधानम् । तस्मादशक्यत्वाद्गर्हणीयखाचेर्ति न ते वृथा किंचिदाचरेयुः ॥ परगृहं प्रविश्य यद्यत्त (यदन्य) दाराभिगमनं तदशक्यम् । महाजनेन दृश्यमानत्वात् गर्हणीयत्वाच्चेति इतरोऽपि जनोऽनुविदध्यादिति शिष्टानां १. 'कथा'. २. 'अनुद्यन्त'. ३. 'प्रतिष्ठन्तं'. ४. 'इति' पुस्तकान्तरे नास्ति. ५ अध्यायः] १ पारदारिकमधिकरणम् । कुत्सनीयं तस्मात्तदर्थं न ते किंचिदनुष्ठानमाचरेयुः । निष्फलत्वात्स्वपरित्रहेष्वपि सुखसंभवात् । अवश्यं त्वाचरितव्ये योगान्मयुञ्जीरन् । २८९ अन्यकारणवशात्स्थानान्तरयायिनो वा रागवशादाचरितव्ये । योगानिति प्रयोगान् । ते द्विविधाः – प्रच्छन्नाः प्रकाशाश्च । ईश्वरा अपि द्विविधाः— क्षुद्रा मुख्याश्च । तत्र क्षुद्रानधिकृत्य प्रच्छन्नमाह C ग्रामाधिपतेरायुक्तकस्य हलोत्थवृत्तिपुत्रस्य यूनो ग्रामीणयो- पितो वचनमात्रसाध्याः । ताश्चर्षण्य इत्याचक्षते विटाः ॥ । ग्रामभुक्त्या युक्तस्याधिकृतस्य । हलोत्थवृत्तिर्मामकूटः । तस्य ग्रामीणैः कर्षणहलिका दीयन्ते । तस्य पुत्रस्य । यून इति प्रत्येकं योज्यम् । यत्तेपामीश्वरत्वाद्वचनमात्रसाध्या नाभियोगमपेक्षन्ते । कि सर्वा एवेत्याहताश्चर्षण्य इति संज्ञा इत्यर्थः । Cotople ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमणम- वेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णातसीशणवल्कला- दाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु संप्रयोगः ॥ तामिरिति चर्षणीभिः सह संप्रयोग इति वक्ष्यमाणेन संवन्धः । अत्रोपायमाह — विष्टिकर्मस्विति । सक्तमात्रेण (?) बिना यानि पेपणकुट्टनरन्धनादीनि कार्याणि तानि विष्टिकर्माणि । कोष्ठागारप्रवेशे तत्रत्यं कर्म कर्तुं प्रविष्टाभिः द्रव्याणां धान्यादीनां कोष्ठागारान्निष्कामणे तत्र च प्रवेशे तत्र कर्म कर्तुं प्रविष्टाभिः । क्रियमाणे भवनप्रतिसंस्कारे गृहमण्डने । क्षेत्रकर्मणि बीजानां रक्षणोत्पाटनगदी(?) । कर्पासस्योर्णाया अतसीशणवल्कलस्य च भाण्डागारात्सूत्रकर्तनाय दाने । सूत्रस्य च कर्तितस्य प्रतिग्रहे स्वीकारे कर्तनिकाभिः । द्रव्याणामिति धान्यादीनाम् । क्रयविक्रयविनिमयेप्विति क्रेतुं विक्रेतुं वा प्रविष्टाभिः । तेषु तेषु चेति राजकुलप्रवेशहेतुपु । १. 'कर्पासातसीशणोण'. २. 'संप्रयोगा'. का० ३७ २७ आदितोऽध्यायः] २९० कामसूत्रम् । तथा व्रजयोपिद्भिः सह गवाध्यक्षस्य ॥ गोपीभिर्गवाध्यक्षस्य दधिमथनादिकर्मसु । विधवानाथा प्रत्रजिताभिः सह सूत्राध्यक्षस्य ॥ स ह्यधिष्ठाय राजकीयसूत्राणि विधवादिभिः कर्तनिकाभिः कर्तयति । मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥ नगरे नियुक्तस्य दाण्डपाशिकस्य स्त्रीमर्मज्ञत्वाद्रात्रावटने चाटन्तीभिः । क्रयविक्रये पण्याध्यक्षस्य ॥ राजकीयपण्यानि क्रयितुं विक्रयितुं च नियुक्तस्य क्रेतृविक्रेतृस्त्रीभिः । संप्रयोग इति सर्वत्र योज्यम् । मुख्यानधिकृत्य प्रच्छन्नमाह अष्टमीचेन्द्रकौमुदीघ्रुवसन्तकादिपु पत्तननगरखर्बटयोषितामीश्वरभवने सहान्तः पुरिकाभिः प्रायेण क्रीडा । कौमुदी कोजागरः । नागरकविटौ (नगरखर्वटौ) व्याख्यातौ । पत्तनादिकमुपलक्षणार्थम् । द्रोणमुखश्च । ईश्वरभवन इति यस्य नगरादि [न] विद्यते तस्य भवने । अन्तःपुरिका अन्तःपुरस्त्रियः । तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तः पुरिकाणां पृथ- क्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीताश्रो- पप्रदोपं निष्क्रामयेयुः ॥ तत्रेति क्रीडायाम् । आपानकान्त इति अन्तःपुरिकाभिः सर्वाभिः सह पेयं पीत्वा । तदन्ते विशेषविधिमाह -- नगरस्त्रिय इति । अत्रापि नगरखैर्वटद्रोणमुखस्त्रियश्च । भोगावासकानिति परिभोगप्रदेशान् । कथाभिरासित्वेत्यन्तः पुरिकाभिः सह कथाभिः स्थित्वा । पूजिता अन्तःपुरिकाभिः । प्रपीता इति प्रपीतमासां विद्यत इति मत्वर्थेऽकारः । उपप्रदोषं प्रदोपसमीपे निष्कामन्ति दिनं राजभवनेऽतिवाह्य । तत्र प्रणिहिता राजदासी मँयोज्यायाः पूर्वसंसृष्टा तां तत्र सं१. 'मर्मज्ञभावाद्रात्रावटतः कुलटायोपाभिर्वणिग्योपाभिर्नागरिकस्य'. २. 'चन्द्रक'. ३. 'कट'. ४. 'च' पुस्तकान्तरे नास्ति. ५. 'योपितः'. ६. 'कवट'. 'प्रयोज्यया'. ५ अध्यायः] ५ पारद्वारिकमधिकरणम् । २९१ भाषेत । रामणीयकदर्शनेन योजयेत् । मागेव स्वभवनस्थां ब्रूयात् । अनुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयि- प्यामीति काले च योजयेत् । बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि । मणिभूमिकां वृक्षवाटिकां मृद्धीकामण्डपं समुद्रगृहमासादान्गूढभि- त्तिसंचारांश्चित्रकर्माणि क्रीडामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्ज- रादीनि च यानि पुरस्ताद्वर्णितानि स्युः । एकान्ते च तद्गतमीश्व- रानुरागं श्रावयेत् । संमँयोगे चातुर्ये चाभिवर्णयेत् । अमन्त्रावं च प्रतिपन्नां योजयेत् ॥ तत्रेत्यष्टमीचन्द्रादिपु । प्रणिहिता राज्ञा प्रयुक्ता । प्रयोज्याया इति यामभिगन्तुमिच्छेत् । पूर्वसंसृष्टेति पूर्वमेव ग्रहयित्वा (?) संसर्ग कृतवती । तामिति प्रयोज्यां राजभवने प्रविष्टां भापयेत्कुशलपूर्वकम् । रा मणीयकदर्शनेन चित्तहरणार्थम् । प्रागेवेति राजभवनप्रवेशात् खभवनस्थां त्र्यादौत्सुक्यकारणार्थम् । अमुष्यामिति काले च प्रज्ञाते योजयेत् । रामणीयकरोचनान्याह—बहिरिति । प्रवालकुट्टिमं मणिभूमिकां स्फटिकाद्याकारकृतं कुट्टिमं भूमिम् । वृक्षवाटिकां पुष्पफलसमृद्धाम् । मृद्वीकामण्डपं द्राक्षामण्डपम् । समुद्रगृहप्रासादानिति गूढभित्तिमध्यगतत्वात् जलसंचारा येषु समुद्रगृहेषु प्रासादेष्वपि निष्कासनमवेशनलक्षणसंचारानिति योज्यम् । यन्त्राणि सजीवानि निर्जीवानि घटितान्यन्यानि च यानि कौतुकानि । क्रीडार्था ये मृगाः । शकुनकान्हंसादीन् । व्याघ्रपञ्जरान्व्याघ्राधिष्ठितान् । कस्याश्चिदेव क्वचित्कौतुकमुत्पद्यत इत्यनेकोपदर्शनम् । एकान्त इति । अनुपग्रहोचितत्वादेव प्रवेशोऽपि तस्या उचित इति । अप्रतिपद्यमानां स्वयमेवेश्वर आगत्योपचारैः सान्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत् । प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तः पुरमौचित्यात्मवेशयेत् । तत्र प्रणिहिता १. 'गृहं प्रासादाच'. २. 'च प्रतिभवनं चित्रकर्माणि'. ३. 'संप्रयोगं चाभि-'; 'संप्रयोगे चायतिं चाभि-'. ४. 'श्राविता'. ५. 'अनुग्रहोचित'. ६. 'प्रदेशोऽपि. ७.'च स्वयमीश्वर आर्योपचारैः सान्त्वनैः'. ८. 'प्रवेशयेयुः'. २९२ कामसूत्रम् । :२७ आदितोऽध्यायः] राजदासीति समानं पूर्वेण । अन्तःपुरिका वा प्रयोज्यया सह स्वचेटिकासंप्रेपणेन प्रीति कुर्यात् । प्रसृतमीतिं च सापदेशं दर्शने नियोजयेत् । भविष्टां पूजितां पीतेवतीं प्रणिहिता राजदासीति समानं पूर्वेण । यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तदर्शनार्थमन्तः पुरिका सोपचार तामाह्वयेत् । प्रविष्टां प्रणिहिता राजदासीति समानं पूर्वेण । उद्भूतानस्य भीतस्य वा भार्या भिक्षुकी ब्रूयात् असावन्तः पुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति । स्वभावतथ कृपाशीला तामनेनोपायेनाधिगमिष्यामि । अहमेव ते प्रवेशं कारयिष्यामि । सा च ते भर्तुर्महान्तमनर्थं निवर्तयिष्यतीति प्रतिपन्नां द्वित्रिरित प्रवेशयेत् । अन्तःपुरिका चाया अभयं दद्यात् । अभयश्रवणाच्च संग्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण । एतया वृत्त्यर्थिनां महामात्राभितप्तानां बलाद्विगृहीतानां व्यवहारे दुर्बलानां स्वभोगेनासंतुष्टानां राजनि प्रीतिकामानां राज्यजनेषु पङ्क्ति (व्यक्ति) मिच्छतां सजातैर्वाध्यमानानां संजातान्वाधितुकामानां सूचकानामन्येषां कार्यवशिनां . जाया व्याख्याताः ॥ तत्रेति प्रविष्टायां प्रयोज्यायां प्रणिहिता राजदासीत्यनेन पूर्वोक्तेन समानम् । प्रयोगद्वयेऽप्यन्त्र प्रयोज्यानुप्रवेशस्य सुकरत्वात् । दास्येव प्रयुक्ता । चटिका त्वीश्वरप्रयुक्तान्तःपुरिका । संप्रेषणेन प्रीति कुर्यादात्मनो विश्वासासंभवात् । प्रसृतप्रीति प्रयोज्यां यादृशं (?) सापदेशं च किंचित्कार्यमपदिश्य तथैव चेट्या दर्शनेऽपि नियोजयेत् यथा मां द्रष्टुमागच्छतीति । यस्मिन्वेति गीततन्त्रीविज्ञाने विख्याता प्रवीणा । सोपचारमिति वस्त्रादिदानपूर्वकमाह्वयेत् । अत्र च प्रयोगद्वये प्रवेशस्य संभवात् अन्तःपुरिका द्वितीया प्रयुक्ता । उद्भूतानर्थस्य विति । अर्थप्रतिघाति यत्कार्यं तदुत्पन्नं १. 'अन्तः पुरिकया च'. २. 'प्रीतिवर्ती'. ३. 'तामाकारयेत् . ' ४. ' सा ते भर्तुस्तधानर्थ. ५. 'चाभयमस्या: '. ६. 'वाह्यजने व्यक्ति'. ७. 'सजातीयैः'. ८. 'सजातीयान्'. ९० 'च कार्यार्थिनां व्यसनिनां', ५ अध्याय:] ५ पारदारिकमधिकरणम् । २९३ यस्य । भीतस्य चेति यो राजकुलागीतस्तस्य जायां भिक्षुकी राजप्रणिहिता ब्रूयात् । तस्मिन्प्रयोगे तृतीयापरा प्रयुक्ता । सा ह्येवंविधं कार्य बुद्धा प्रयोज्यामन्त पुरिकया योजयति । राजनि सिद्धा प्रसादयितृका (प्रसादवित्तका) । गृहीतवाक्येति सा यदाह तद्राजा करोति मम वचनं शृणोतीत्यात्मनो गृहीतवाक्यतामाह । स्वभावतः कृपाशीलेत्युक्त्या वाभावं ( स्वभावं) दर्शयति । तामनेनेति तदानीं बुद्धिविकल्पितेनोपायेन । कथं मम प्रवेश इति चेदाह – अहमेवेति । अनर्थमित्युपलक्षणार्थम् । भयं च निवर्तयिष्यति । द्विस्त्रिरिति प्रवेशयेत्पश्चाज्जातपरिचया स्वयमेव प्रवेक्ष्यति । अभयमस्यै दद्यात् । अभयं निवेदितवत्यै संप्रहृष्टां न तूद्विमां संभाषेत । एतयेति उद्भूतानमीतजायया । वृत्त्यर्थिनां जीवनार्थिनाम् । महामात्रामिततानां महामात्रैः प्रभवद्भिः पीडितानाम् । बलाद्विगृहीतानां राजव त्त्वात् । व्यवहारे दुर्बलानां न्यायबलाभावात् । खभोगेन तावन्मात्रेणासंतुष्टानामधिकमिच्छताम् । राजनि प्रीतिकामानां क्वचित्परिभवं मम मा कार्षीदिति । राज्यजनेषु पनि (व्यक्ति) प्रसिद्धिमिच्छतां राज्ञः प्रसाद्योऽयमिति । सजातैर्दायादैः । सूचकानामुद्भाषकाणाम् । कार्यवशिनामिति कार्यार्थिनाम् । जाया व्याख्याताः । अत्रापि भिक्षुकी ब्रूयादिति योज्यम् । एते प्रच्छन्नयोगा अत्याजितखकुलासु स्त्रीपु । अन्येन वा प्रयोज्यां सह संसृष्टां 'संग्राह्य दास्यमुपनीतां क्रमे- णान्तःपुरं प्रवेशयेत् । मणधिना चायतिमस्या: संदृष्य राजनि विद्विष्ट इति कलत्रावैग्रहोपायेनैना मन्तःपुरं प्रवेशयेदिति प्रच्छन्न- योगाः । एते राजपुत्रेषु प्रायेण ॥ । येन केनचित्संसृष्टा कृतसंसर्गा । संग्राह्येति नागरकेण विधिना ग्राहयित्वा । दास्यमुपनीतामिति प्रकाशविनष्टाया वेश्याविशेषत्वात् । तां सामान्यस्त्रियं कारयित्वा क्रमेणान्तःपुरं प्रवेशयेत् । न सहसा निरन्तरमेव । मा भूदेतत्कृतः प्रयोग इति । प्रणधिना चारेण संदूप्य संभूतेनैव दोषेण । १. 'सत्य'. २. 'वग्रहोपायेनान्तःपुरं'. २९४ कामसूत्रम् । २७ आदितोऽध्यायः] अन्यथा अदुष्टदूषणमधर्माय भवति । एवं चास्य कलत्रावग्रहो न दोषाय । एतद्योगद्वयं त्याजितस्वकुलासु । एते राजपुत्रेषु प्रायेण न तु राज्ञः । तस्य मण्डले प्रतिष्ठितत्वात्कादाचित्काः स्युः । ननु परभवनप्रवेशेनापि च्छन्नयोगाः संभवन्ति यदा दूत्या प्रयोज्यां संकेत्य प्रच्छन्नः प्रविशति । न च तदानीं चरितं महाजनेन दृश्यतेऽनुविधीयते चेत्यत्राहन त्वेवं परभवनमीश्वरः प्रविशेत् ॥ प्रविशत्प्रच्छन्नोऽपीत्यर्थः । अत्र विवृतं दोषं दर्शयति आभीरं हि कोट्टराजं परभवनगतं भ्रातृमयुक्तो रजको जघान । काशिराजं जयसेनमश्वाध्यक्ष इति ॥ गूर्जराते कोट्टं नाम स्थानं तस्य राजानमामीरनामानं परभवनगतमिति थेष्ठिवसुमित्रस्य भार्यामधिगन्तुं तद्भवनगतं जघान । प्रकाशास्तु योगा राज्ञः प्रायेण द्रष्टव्याः । यदाहप्रकाशकामितानि तु देशप्रवृत्तियोगात् ॥ देशप्रवृत्तियोगादिति यो यस्सिन्देशे समाचारः पूर्वैः स्थापितस्तद्योगादिति । अतो दृश्यमानान्यपि कामितानि महाजनेन नानुविधीयन्ते । रा ज्ञामेव तत्राधिकारात् । मत्ता जनपदकन्या दशमेऽहनि किंचिदौपायनिकमुपगृह्य मंविशन्त्यन्तः पुरसुपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् । महामात्रेश्वराणार्मेन्तः पुराणि निशि सेवार्थं राजानमुपगच्छन्ति वात्सगुल्मकानाम् । रूपवतीर्जनपदयोपितः प्रीत्यपदेशेन मासं मौसार्ध वातिवासयन्त्यन्तः पुरिका वैदर्भाणाम् । दर्शनीयाः स्वभार्याः प्रीतिढायमेव महामात्रराजभ्यो ददत्यपरान्तकानाम् । राजक्रीडार्थ १. 'जयत्सेनं'. २. 'ततः'. ३. 'प्रविश्यान्तः पुरं'. ४. 'चान्तः पुराणि'. ५. 'अर्घमासं वा वासयन्ति'. ५ अध्यायः] ५ पारदारिकमधिकरणम् । २९९ नगरस्त्रियो जनपदस्त्रियश्च सङ्घश एकशच राजकुलं भविशन्ति सौराष्ट्रकाणामिति ॥ प्रत्ता इत्यूढा । औपायनिकमुपायप्रयोजनं वस्त्रादि । उपभुक्ता राज्ञा संप्रयुक्ताः । विसृज्यन्ते त्यक्ष्यन्ते इत्यान्त्राणां प्रवृत्तिः । महामात्राणामीश्वरा मुख्यास्तेषामन्तःपुराणि स्त्रियः । सेवार्थमिति कर्तु (रन्तुम् ) । वात्सगुल्मकानामिति दक्षिणापये सोदय राजपुत्रौ वत्सगुल्मौ ताभ्यामध्यासितो देशो वात्सगुल्मक इति प्रतीतः । तत्रभवानामियं प्रवृत्तिः । रूपवतीरिति प्रशंसायां वतिः । प्रीत्यपदेशेनेति प्रीतिस्तत्रापदेशः संप्रयोगस्तु प्रयोजनम् । नगरं यत्र राजधानी तत्र स्त्रियो नगरस्त्रियः । ततो बाबा जनपदस्त्रियः । सङ्घश इति संभूय । एकश इत्येकैकगन्ध सौराष्ट्रकाणामिति । उक्तमनुक्तं चोपसंहरन्नाह श्लोकावत्र भवतः 'एते चान्ये च बहवः प्रयोगाः पारदारिकाः । देशे देशे मवर्तन्ते राजभिः संप्रवर्तिताः ॥ न त्वेवैतान्प्रयुञ्जीत राजा लोकहिते रतः । निगृहीतारिपडर्गस्तथा विजयते महीम् ॥" इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरण ईश्वरकामितं पश्चमोऽध्यायः । — एते चेति अन्ये चैतत्प्रकाराः । पारदारिकाः परदारप्रयोजना एते देशे देशे प्रवर्तन्ते पूर्वराजभिः संप्रवर्तितत्वात् । स महीपतिर्न विजयते । अनिगृहीतारिषड्डूर्गत्वात् । विजयस्य कारणं कामक्रोषलोभमानमदहर्षजय इति । ईश्वरकामितं सप्तचत्वारिंशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाप्याया पारदारिके पक्ष मेऽधिकरण ईश्वरकामित पञ्चमोऽध्यायः । १. 'भवतथात्र श्लोकौं'. २. 'पूर्वराजप्रवर्तिताः'. २८ आदितोऽध्यायः] पष्ठोऽध्यायः । यथेश्वराणां परभवनप्रवेशो नास्ति तथान्तःपुरिकाणां नागरकाणां चा- न्तःपुरप्रवेश (इत्यन्तः पुरिकाणां नागरिकाणां) चेत्युभयथाप्यन्तःपुरिका- वृत्तमुच्यते । तत्र पूर्वमधिकृत्याह- नान्तः पुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वा- ढ़नेकसाधारणत्वाच्चातृप्तिः । तस्मात्तानि प्रयोगत एव परस्परं रञ्जयेयुः ॥ नान्तः पुराणामिति । तस्मादन्तः पुरिकाणामित्यर्थः । तासां पतिरस्त्येवेति चेदाह — पत्युश्चैकत्वादिति । एकोऽपि तृतिं कुर्यादिति चेदाह – अनेकसाधारणत्वाञ्चेति । स हि तासां साधारणः कथं तृप्तिं कुर्यात् । प्रयोगत एवेति । प्रयोगतः । परस्परमिति या रतिमन्यस्यां कुर्यात्तस्यामन्येति । प्रयोगमाह -- धात्रेयिकां सखीं दासीं वा पुरुपवदलंकृसाकृतिसंयुक्तैः कन्द- मूलफेलावयवैरपद्रव्यैर्वात्माभिप्रायं निवर्तयेयुः ॥ २९६ कामसूत्रम् । पुरुषवदलंकृत्येति । तत्र हि पुरुषबुद्ध्यातिमात्रे भावे तृप्तिरतिशयितवती भवति । आकृतिसंयुक्तैरिति पुरुपेन्द्रियसंस्थानवद्भिः । कन्दमूलफलावयवैरिति तत्र कन्दा आलुककदल्यादीनाम् । मूलं तालकेतकीनाम् । फलमलावुकर्कटिकादीनाम् । एतानि संशोध्य ग्राह्माणीति । अवयवग्रहणे फलं दर्शयति – आत्माभिप्रायमिति । रागभावं निवर्तयेयुः । केवलं श्रद्धाविनो[दनं] न तथाविधः कामः स्यादप्राधान्यात् । पुरुषप्रतिमा अव्यक्तलिङ्गाथाधिशयीरन् ॥ पुरुपप्रतिमाः पुरुषदेहाः । अव्यक्तलिङ्गा अजातश्मश्रुत्वात्स्त्रीरूपाभासा इत्यर्थः । एकोऽपि तृप्तिं कुर्याद्यः कामार्तासु कृपाशीलो यथा प्राच्यानामित्याह राजानच कृपाशीला विनापि भावयोगादायोजितापद्रव्या या फलं." ६ अध्यायः] ५ पारदारिकमधिकरणम् । २९७ वदर्थमेकया राज्या बहीभिरपि गच्छन्ति । यस्यां तु प्रीतिर्वासक ऋतुर्वा तत्राभिमायतः भवर्तन्त इति मांच्योपचाराः ॥ विनापि भावयोगादित्यजातसंप्रयोगेच्छा अपि । आयोजितापद्रव्या इति कट्यामाबद्धकृत्रिमसाधनाः । यावदर्थं यावत्तृति बहीभिरपि स्त्रीभिः सह गच्छन्ति संप्रयोगमिति । अभिप्रायतो भावेनेत्यर्थः । अयमन्तःपुरविषये योग उक्तः । स्त्रीयोगेणैव पुरुषाणामप्यलव्धवृत्तीनां वियोनिषु विजातिपु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिमायनिवृत्तिर्व्याख्याता । यथा स्त्रीणां कचित्पुरुषवुद्धिषु खाभिप्रायनिवृत्तिरेवं पुरुषाणामपि केषामित्याह – अलब्धवृत्तीनामिति । ये स्त्रियं न प्राप्नुवन्ति । वियोनिपु चलोरुकरव्यादिपु (?) । विजातिपु एडीवडवादिपु । स्त्रीप्रतिमासु स्त्रीपकृतिषु समुत्कीर्णस्त्रीलिङ्गादिपु । केवलमुपमर्दनाच्चेति सिहाँक्रान्तकरेण वा साधनस्य मन्थनादेव केवलात् । यथोक्तम् – 'भुवि विन्यस्तहस्ताभ्यामवष्टभ्योत्कटासनः । वाहुमध्ये विमृगीयासिंहाक्रान्तेष्वयं विधिः ॥' अस्थानेषु शुक्रविसृष्टिर्विधर्म इति चेत् सप्ताभिधाने (?) कथम् । तत्र प्रायश्चित्तविधानादिति चेदिहापि विहितत्वात् । बहिर्विषयमाह योषावेपांच नागरकान्मायेणान्तः पुरिकाः परिचारिकाभिः सह प्रवेशयन्ति । तेषानुपावर्तने धात्रेयिकाचाभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन् । सुखेमवेशितामपसारभूमिं विशालतां वेश्मनः प्रमादं रक्षिणामनित्यतां परिजनस्य वर्णयेयुः । न चासतेनार्थेन प्रवेशयितुं जनर्मांवर्तयेयुर्दोषात् ॥ परिचारिकाभिरिति । प्रदोषे परिचरितुमन्तःपुरं प्रविशन्तीभिः । तेपामिति नागरकाणामुपावर्तनेऽभिमुखीकरणे प्रयतेरन् । अभ्यन्तरसंसृष्टा १. 'वानिवेदयति तत्राभिप्रायात्'. २. 'प्राच्योपचार'. ३. सिंहानान्तेन हन्नेन'. ४. 'विषययोग'. ५. 'सुप्रवेशता'. ६. 'उपावर्तयेयु . का० ३८ २९८ कामसूत्रम् । २८ आदितोऽध्यायः] इति तासु नागरकाणां यथार्थबुद्धिर्न बाह्यासु। आयतिमित्यागामिफलमेवं भविष्यतीति । अपसारभूमिमपक्रमणमार्गम् । विशालतामिति विस्तीर्ण न ज्ञायते क कि वर्तत इति । प्रमादमसावधानताम् । अनित्यतामिति राजपरिजनो न नित्यं संनिहित इति । असद्भूतेनेति विनाभावेन सुप्रवेशितां विना । जनमिति नागरकम् । आवर्तयेयुरभिमुखीकुर्युः । दोषादिति विनाभावमदुष्टदूषणे आत्मनः सुप्रवेशिताद्यभावे च जन॑स्यापकारः । द्वितीयं वृत्तमधिकृत्या नागरकस्तु सुप्रापमप्यन्तःपुरमपायभूयिष्ठत्वान भविशेदिति वात्स्यायनः ॥ अपायभूयिष्ठत्वादिति बहूनां विनाशकारणानां संनिधानात् । अत्र विशेषमाह - सापसारं तु प्रमदवनावगाढं विभक्त दीर्घकक्ष्यमल्पप्रमत्तरक्षकं भोपितराजकं कारणानि समीक्ष्य बहुश आहूयमानोऽर्थबुद्धया क क्ष्यामैवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् । शक्तिविषये च प्रतिदिनं निष्क्रोमेत् ॥ प्रमदवनं क्रीडावनं तेनावगाढं गहनम् । कक्ष्या प्रकोष्ठकानि । प्रोपितराजकं राज्ञोऽन्यत्र गतत्वात् । कारणान्यभिगमनस्य । बहुश आहूर्य॑मानो ऽर्थबुद्धचा । कक्ष्याप्रवेशं दृष्ट्वा अनेन मार्गेण मया प्रवेष्टव्यमिति । ताभिरिति या उपावर्तन्ते । विहितोपाय इत्येवंवेषोऽस्मिन्काले गृहीत्वा चेदमिति । शक्तिविषये चेति येन प्रवेगेन प्रतिदिनं निष्क्रमितुं शक्तिस्तस्मिन्सति । इदमुपावर्तनस्य वृत्तम् । यस्तु स्वयमुपावर्तते तस्य वृत्तमाह बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृज्येत । अन्तथा रिण्यां च परिचारिकायां विदितार्थायां सक्तमात्मानं रूपयेत् । तदलाभाच्च शोकमन्तःप्रवेशिनीभिश्च दूतीकल्पं सकलमाचरेत् । १. 'जनत्योपकार:'. २. 'इति वात्स्यायनः' पुस्तकान्तरे ४. 'प्रदेशं. ५. 'निष्क्रमेत् . ६. 'आहूयमान अर्थिना युध्वा'. ७. 'निरूपयेत्'. नास्ति. ३. 'वगूढ'. ६ अध्यायः] ५ पारदारिकमधिकरणम् । २९९ राजप्रणिधींच बुध्येत । दूत्यास्त्वसंचारे यत्र गृहीताकारायाः प्रयो- ज्याया दर्शनयोगस्तत्रावस्थानम् । तस्मिन्नपि तु रक्षिपु परिचारिका- व्यपदेशः । चक्षुरनुवध्नामिङ्गिताकारनिवेदनम् । यत्र संपतो- Sस्यास्तत्र चित्रकर्मणस्तयुक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडन- कानां कृतचिह्नानामापीनकाना (कस्य) मङ्गलीयकस्य च निधानम् । प्रत्युत्तरं तयाँ दत्तं प्रपश्येत् । ततः प्रवेशने यतेत ॥ बाह्या ये रक्षिणः । अन्यदेवेत्यमुकसंबन्धेन मम त्वं आता भगिनीपतिर्वेति । संसृज्येत प्रीतिं कुर्यात् । येन तेषां तन्निवारणे शैथिल्यं स्यात् । विदितार्थायामिति मय्यनुरक्त इति विदितार्थायां शक्ति (सक्तं ) रूपयेत्प्रकाशयेदाकारसंवरणार्थम् । एवं च दायर्थमाह - तदलाभादिति । परिचारिकाया अप्राप्तेः शोकं प्ररूपयेदित्यर्थः । अन्तःप्रवेशिनीभिश्चेति । बाह्यामिरन्तः पुरप्रवेशनशीलाभिः स्त्रीभिः करणभूताभिः । दूतीकल्पं दूतीविधिं यथोक्तम् । राजप्रणिधीश्चेति । राजचरान् बुध्येतात्मसंरक्षणार्थम् । यत्र यस्मिन्प्रदेशे दूरस्थाया एव दर्शनयोगः । गृहीताकाराया इति । अन्यथा सत्यपि दर्शनयोगेऽवस्थानं निष्फलमेव स्यात् । तस्मिन्नपि तु प्रदेशे स्थितेन रक्षिषु परिचारिकाव्यपदेशः कार्यः । यस्यामात्मनः सक्तोऽतिनिरूपितः (?) । चक्षुरनुबघ्नन्त्यामिति पुनः पुनः पश्यन्त्यां प्रयोज्यायाम् । इङ्गिताकारनिवेदनं भावसूचनार्थम् । संपात इति यत्रोद्देशे सम्यग्जननम् । तद्युक्तस्येति प्रयोज्यायुक्तस्य । सानुरागमात्मानं फैलके मित्तौ (वा) विलिख्य निदध्यात् । यर्थानामिति यानि प्रयोज्याविषयमनुरागं सूचयन्ति । गीतवस्तूनां खण्डगाथावर्णादीनाम् । क्रीडनकानां पुत्रिकाकन्दुकादीनां कृतचिह्नानाम् । आपीनकस्य (?) नखदशनपदाङ्कितस्य । अङ्गुलीयकस्य नामाङ्कितस्य । प्रत्युत्तरं चेति तयान्यया वा दत्तं प्रकर्षेण पश्येत् । तत इति ल्यब्लोपे पञ्चमी । त्यतं क्रमणम् (?) । १. 'अवबुध्येत'. २. 'परिचारिकापदेशः'. ३. 'प्रयोज्यायां चक्षुः'. ४. 'संपात: स्यात्'. ५. 'श्लोकानां व्यर्थानां गीतवस्तुकाना क्रीडितकाना कृतचिहानामङ्गुलीयस्य निधानम्'. ६. 'प्रत्युत्तरं च'. ७. 'तयापि'. ८. 'शक : '. ९. 'फलकेऽभिलिख्य'. कामसूत्रम् । २८ आदितोऽध्यायः ] ३०० यत्र चास्या नियतं गमनमिति विद्यात्तत्र मच्छन्नस्य मागेवाव स्थानम् । रक्षि(त) पुरुपरूपो वा तदनुज्ञातवेलायां प्रविशेत् । आस्तरणमावरणवेष्टितस्य वा प्रवेशेनिर्हारौ । पुटपुटयोगैर्वा नष्टच्छायारूपः । तत्रायं भैयोगः– नकुलहृदयं चोरेंकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत् । ततोऽञ्जनेन समर्थांगेन पेपयेत् । अनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति । (अन्यैश्च जलव्रह्मक्षेमशिरःमणीतैर्वाह्यपानकैर्वा) रात्रिकौमुदीपु च दीपिकांसंवाघे सुरङ्गया वा ॥ पुटापुटैरिति मञ्जूपायां सपिधानायां प्रक्षिप्तस्य योगैराम्नायागतैः । नष्टच्छायारूपस्येति । कश्चिद्रूपमेव तिरस्करोति न च्छायाम् । यो रूपमपि न पश्यते । रात्रिकौमुदीपु चेति सुखरात्रिकासु वा । दीपिकासंबाघे गृहीत दीपिकानां समूहे । तद्वेषघारिणः । सुरडया वा अन्तःपुरोद्भिन्नया । प्रवेशनिर्हारौ सर्वत्र योज्यौ । तत्रैतद्भवति 'द्रव्याणामेपि निर्झरे पानकानां प्रवेशने । आपानकोत्संवार्थेऽपि चेटिकानां च संभ्रमे ॥ व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये । उद्यानयात्रागमने यात्रातच प्रवेशने ॥ दीर्घकालोदयां यात्रां प्रोपित चौपि राजानि । प्रवेशनं भवेत्प्रायो यूनां निष्क्रमणं तथा ॥ परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः । एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ॥ दूपयित्वा ततोऽन्योन्यमेककार्यार्पणे स्थिरः । अभेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ॥ १ १. 'तदनुजातोऽतिवेलाया'. २. 'निर्हरणप्रवेशी'. ३. 'योगः'. ४. 'रोचकः . ५. 'अन्तर्धूमं'. ६. 'समभगिनोदकेनाभ्यक्त'. ७. 'चेटिकासवाघे'. भवन्ति चात्र श्लोकाः'. १. 'द्रव्याणाममि'. १० 'उत्सवार्थाना.' ११. चव'. 'तत्रतद्भवति 'उत्सवार्येपु'. 1 1 ६ अध्याय:] ५ पारदारिकमधिकरणम् । तत्रेति प्रवेशननिर्हारयोरेतद्वक्ष्यमाणमुपान्तरं भवति । द्रव्याणामिति सारदार्वापानकानां युग्मादीनां करैर्निहारे प्रवेशने च तन्मध्यवर्तिनोऽपि प्रवेशनं निष्क्रमणं चेति सर्वत्र योज्यम् । आपानकमुत्सवः । चार्थेऽपिः । चेटिकानां च संभ्रमे इतस्ततो गमने। तद्वेश्मव्यत्यास इति चकारादुद्यानतश्च । दीर्घकालोदयामिति दीर्घकाल उदयः फलं यस्यां ने पात्रसाध्यं स तु न भवतीत्यर्थः । ननु या नैवंविधा अन्तःपुरिकास्ताभिर्मन्रो भिघेतेत्याह-परस्परस्येति । कार्याणि रहस्यानि । अन्तःपुरालया अन्तःपुरिकाः । एककार्या इति । एकस्या यत्कार्य तत्संभूयास्माभिर्निष्पाद्यमिति । शेषाणां भेदनं कुर्युर्यथा ता अपि समानधर्मिण्यः स्युः । किं फलमिति चेदाहदूषयित्वेति । एककार्यार्पण इति । एकं चारित्रखण्डनाख्यं कार्य परस्परस्यार्पयति योऽन्तः पुरिकासङ्घः । अमेद्यतां गतो मन्त्रभेदाभावादेव स्थितिः (स्थिरः) । इदमन्तः पुरिकावृत्तं प्रच्छन्नमुक्तम् । प्रकाशं तु देशप्रवृत्त्या । यदाहतत्र राजकुलचारिण्य एव लक्षण्यापुरुषानन्तःपुरं प्रवेशयन्ति नातिसुरक्षत्वादापरान्तिकानाम् । क्षत्रिय संज्ञकैरन्तः पुररक्षिभिरेवार्य साधयन्त्याभीरकाणाम् । प्रेष्याभिः सह तद्वेपान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मकानाम् । खैरेव पुत्रैरन्तःपुराणि कामचारैर्जननीवर्जमुपयुज्यन्ते वैदर्भकाणाम् । तथा मैवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् । ब्राह्मणैभित्रैर्भृत्यैर्दास चेटैश्च गौडानाम् । परिस्पैन्दाः कर्मकराधान्तः पुरेष्वनिषिद्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम् । अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम् । पुष्पदाननियोगान्नगरव्राह्मणा राजविदितमन्तः पुराणि गच्छन्ति । पटान्तरितचैषामालापः । तेन मसङ्गेन व्यतिकरो भवति बङ्गाङ्गकलिङ्गानाम् । संहत्य नवदशेत्येकैकं यु१. 'आह'. २. 'यानपात्रसाध्य'. ३. 'विचक्षणात्'. ४. नागरकान् तद्रपाभिवेशयन्ति'. ५. 'उपभुज्यन्ते'. ६. 'प्रवेशितैः'. ७. 'मित्रै.. ८. 'परिस्कन्दा''. ३०२ कामसूत्रम् । २८ आदितोऽध्यायः] वानं मच्छादयन्ति माच्यानामिति । एवं परस्त्रियः प्रकुर्वीत । इ- त्यन्तःपुरिकावृत्तम् ॥ तत्रेति । राजकुलचारिण्यो या राजकुले चरन्ति लियः । लक्षण्या- निति । बेरज्यादि (?) लक्षणैः साधवः तवः तत्ता (1) इत्यर्थः । नाति- मुरक्षत्वादिति नात्यन्तं खा राजकीया तत्र रक्षास्ति । क्षत्रियसंज्ञकैरिति नान्यै (व) रक्षिभिः । तेषां तत्राभ्यन्तरप्रवेशात् । अर्थमिति संप्रयोगं सा- धयन्ति राजकुलचारिण्य एव । प्रेप्याभिरिति दासीभिः । तद्वेषान्दासीवे- पान् । प्रवेशयन्ति राजकुलचारिण्य इति वर्तते । खैरिति राजापेक्षया । कामचारैरित्यनिषिद्धसंचारैः । जननीवर्जमिति मुख्यमातरं मुक्त्वा । उप- युज्यन्तेऽभिगम्यन्ते । स्त्रीराजःस्त्रीपुरी तत्र भवानाम् । मित्रैर्मृत्यैरिति । मित्रैर्मृत्यैश्च । दासचेटैरिति । दासा गृहजातास्ततोऽन्ये चेटाः । गौडानामिति । गौडाः कामरूपकाः प्राच्यविशेषाः । परिस्पन्दाः प्रतीहाराः । कर्मकराः अयनासनच मरादिकर्मान्तिकाः । अन्येऽपि तद्रूपा येऽनिषिद्धसंचाराः । उप- युज्यन्त इत्यर्थकत्वाद्विभक्तिविपरिणामेन संबन्धः । सैन्धवानामिति । सिन्धु- नामा नदस्तस्य पश्चिमेन सिन्धुदेशस्तत्रभवानाम् । अर्थेनोपगृह्य रक्षिणः लुब्ध- त्वात् । साहसिका निर्भया नान्ये । संहता एकीभूय । हैमवतानामिति हि- मवद्रोणीभवानाम् । नगरव्राह्मणा इति तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि दातुमन्तः पुरे गच्छन्ति । राजविदितमिति राजप्रज्ञातम् । पटान्तरितश्चैपा- मालापो न ताभिः साक्षाद्दृश्यमानाभिरिति देशस्थितिभेदेनेति । पुष्पदान- प्रसङ्केन व्यतिकरः संप्रयोगः । लोमराहित्यात् (?) पूर्वेणाङ्गो महानद्याः पू- वेण कलिङ्गः गौडविपयाद्दक्षिणेन (वजः) । संहत्य नवदशेतीत्यत्रेतिशब्दः प्रकारे । एकैकं युवानं व्यवायक्षमं प्रच्छादयन्ति न यथा दृश्यते । एव मित्युक्तेन पारदारिकेण विधिना प्रकुर्वीताभिगच्छेत् । इत्यन्तःपुरिकावृ- तमष्टचत्वारिंगं प्रकरणम् ॥ यथा परस्त्रियमेभिरुपायैरभिगच्छेत्तथा तद्दारानपरोऽपीति दाररक्षितक- मुच्यते । दाररक्षाप्रयोजनमस्येति । यदाह - एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥ १. 'शयनासनाचमनसरकादि. ६ अध्यायः] ५ पारदारिकमधिकरणम् । ३०३ एभ्य एवेति तथासिद्धपुरुषेभ्यः । यैश्च द्वारदेशावस्थानादिमिः कारणै- रभियोगमात्रसाध्यत्वं यानि च परिचयकारणानि अभियोगदूतीकर्माणि ई- श्वरकामितमन्तः पुरिकावृत्तं च तेभ्यो रक्षेत् । तत्रायं प्रथमोपायो यद्रक्षा- निवेशनम् । यदाह- कामोपधाशुद्धान्रक्षिणोऽन्तःपुरे स्थापयेदिखाचार्याः । ते हि भयेन चार्येन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपघाशुद्धानिति गोणिकापुत्रः । अद्रोहो धर्मस्तमपि भयाज्जयादतो धर्मभयोपधाशु- द्धानिति वात्स्यायनः ॥ कामोपषेति । कामविषये या परीक्षा तया शुद्धान् । ते हीति । यद्यपि स्वयं कामोपधाशुद्धा नाभिगच्छन्ति तथापि भयेन लोभेन चान्यं प्रयोजये युस्तदशुद्धिसंभवात्तस्मादेतादृशानित्यर्थः । धर्मोपधाशुद्धो न परदारानमिगच्छति नार्थलोमात्खामिद्रोहमाचरति भयातु धर्मे परित्यजेदिति । खदारषु परीक्षणमपि रक्षणोपाय इति केचिदाहुः । [तदाह - ] परवाक्याभिषायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारानु- पदध्याच्छौचाशौचपरिज्ञानार्थमिति वाभ्रवीयाः । दुष्टानां तेपु सिद्धत्वा नाकस्माददुष्टदूषणमाचरेदिति वात्स्यायनः ॥ । परवाक्येति । अमुकस्त्वय्यनुरक्तः स एवमाह मम प्राणसमा धार्यतामिति । गूढाकाराभिरिति सा न जानाति पत्या प्रयुक्तेति । तयोपदध्यात्परीक्षेत । अप्रतिपन्नायाः शौचं प्रतिपन्नायाश्चाशौचं ज्ञातं भवति । दुष्टानामिति विनाशकारणानामित्यर्थः । एवं मन्यते तथाहि — विनाशकारणेषु सत्सु स युवा परीक्षावान्स्मात् असत्सु वा । तत्र पूर्वस्मिन्पक्षे दूँघ्याणां दूषणमाचरेत् । उत्तरत्र नेत्याह–नाकस्मादिति । अविद्यमानविनाशकारणानामित्यर्थः । अदुष्टशोषः । वुद्धिबोधनस्य (शुद्धशोधनस्य ) दोषवत्त्वात् । यथोक्तम् – 'न शोधनमदुष्टस्य विशेषेणाम्भसश्चरेत् । १. 'धर्मार्थकाममयोपघा'; 'धर्मंत्रयोपघा. २. 'दूत्याना'. ३०४ कामसूत्रम् । २८ आदितोऽध्यायः] कदाचिद्विमकृष्टस्य नाधिगम्येत भेषजम् ॥ तस्माद्विनाशकारणान्येव निरू- प्यन्ते येभ्यो व्यावर्तन्ते । तान्याह- अतिगोष्ठी निरङ्कुशत्वं भर्तुः स्वैरता पुरुपैः सहानियन्त्रणता । प्रवासेऽवस्थानं विदेशे निवासः स्ववृत्त्युपघातः खैरिणीसंसर्गः पत्युरीर्ष्यालुता चेति स्त्रीणां विनाशकारणानि ॥ अतिगोष्ठी स्त्रीभिः सह गोष्ठी । भर्तुः खैरता भर्त्रा खातन्त्र्येण व्यवहारिता । पुरुपैः कैश्चिदनियन्त्रणा नियन्त्रणाभावः । प्रवासेऽवस्थानं भर्तर प्रोषिते यदेकाकिन्यावस्थातव्यम् । स्ववृत्त्युपघातः खशरीरस्थित्युपघातः । स्वैरिण्याः पुंश्चल्याः संसर्गः । पत्यावीसंभव इति विनाशकारणानि । एषु सत्सु परदाराभिमर्शयोगसंभवात् । अधिकरणार्थमुपसंहरन्नाह 'संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् । न याति च्छलनां कथिदारान्यति शास्त्रवित ॥ पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात् । धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ॥ तदेतहारगुत्यर्थमारब्धं श्रेयसे नृणाम् । प्रजानां दूपणायैव न विज्ञेयोऽस्य संविधिः ॥' इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे आन्तःपुरिकं दाररक्षितकं पष्ठोऽध्यायः । पारद्वारिकलक्षितानिति पारदारिकेऽधिकरणे ये प्रोक्तास्तैर्लक्षितान् । अन्यथा कथमतः (१) शास्त्रतः पश्येत् । पाक्षिकत्वादिति यदान्यकारणानि पश्येत् । अपायानां च शरीरोपघातादीनाम् । वैलोम्यादिति विपक्षत्वात् । परदारप्रयोजनप्रयोगं नाचरेदिति । तर्हि किमर्थं तदधिकरणमुक्तमिति चे· १. 'निरूप्याणि'. २ 'यदाह'. ३. 'खेरिता'. ४. 'प्रकाशे स्थाने विढेशवासः'. ५. 'सान्दागन्'. ६ अध्याय:] ५ पारदारिकमधिकरणम् । ३०५ दाह - तदेतदिति । नहि तदर्थं मुख्यं विधानमित्यर्थः । इति दाररक्षितकमेकोनैपञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोषरेणैकत्रकृतसूत्रभाष्यायां पारदारिके पश्चमेऽधिकरण आन्तः पुरिक दाररक्षितक पष्ठोऽध्यायः । समाप्तं चेदं पारदारिकं नाम पञ्चममधिकरणम् । १. 'एकोनचत्वारिंश'. का० ३९ ३०६ २९ आदितोऽध्यायः ] कामसूत्रम् । वैशिकं नाम षष्ठमधिकरणम् । प्रथमोऽध्यायः । तिसृभिर्नायिकाभिः समागमोपाय उक्तः वेश्याभिः सह वक्तुं तदधि- करणमुच्यते । तत्र सहायादिनिरूपणे व्यापारपूर्वकत्वादुत्तरव्यापारस्येति सहायगम्यागमनकारणचिन्तोच्यते । पुंवेश्ययोस्तुल्येऽपि रतिफले वेश्याया एव प्रयोक्तृतया तत्राधिकारः, न पुंसः । तत्प्रतिबद्धत्वाज्जीविकायास्तदाह- वेश्यानां पुरुपाधिगमे रतिर्दृत्तिश्च सर्गात् । रेतितः प्रवर्तनं स्वा- भाविकं कृत्रिममर्थार्थम् । तदपि स्वाभाविकवद्रूपयेत् । कामपरामु हि पुंसां विश्वासयोगात् । अलुब्धतां च ख्यापयेत्तस्य निदर्शना- र्थम् । न चानुपायेनार्थान्साघयेदायतिसंरक्षणार्थम् । नित्यमलं- कारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिविता तिष्ठेत् । पण्यसघर्मत्वात् ॥ पुरुपस्याधिगमे प्राप्तौ । सतीति शेषः । रतिर्विसृष्टिसुखं वृत्तिर्जीविका अर्थोपादानात् । सर्गादिति सृष्टेः । एपैव हि सृष्टिर्यत्कामोऽर्थागमः । रतित इति तत्र द्वयोः फलयोर्यदा रतिमभिसंधाय प्रवर्तनं तदा स्वाभाविकम् । तत्र रागस्य सहजत्वात् । यदा त्वर्थमभिसंघाय तदा कृत्रिमम् । रागाभावात् । तदपीति । तदपि कृत्रिमं स्वाभाविकवद्रूपयेत्प्रकाशयेत्कान्तानुवृत्त्या । किमर्थं तत्राह — कामेति । लेहेन मयि वर्तत इति पुंसां विश्वासयोगः सक्तियोगः न त्वर्थपरासु । कामपरतां च ख्यापयन्ती नार्थरूपतामपि ख्यापयेदित्याह – अलुब्धतामिति । स्वाभाविकत्वस्य ख्यापनार्थम् । एवं च सति सक्ताद्वित्तादानमपि स्वाभाविकं सिद्धं भवति । तत्रापि विनोपायेन नादद्वीतेत्याह – न चेति । उपायान्वक्ष्यति–आयतीति । आयतिः प्रभावः । नित्यमिति सदालंकृता स्यात् । अन्यथा आयतिहानिः । निरुज्ज्वलत्वात् । राजमार्गावलोकिनी गम्यैर्यथा दृश्येत्तथा । तत्रापि दृ१. 'रनितथ स्वाभाविक प्रवर्तनम'. २. 'पुसः' ३. 'शक्ति', ४. 'शक्तात्. १ अध्यायः] ६ वैशिकमधिकरणम् । ३०७ श्यमाना नातिविवृता प्रकटा । पण्यसधर्मत्वादिति । अतिप्रकटस्यादुर्लभत्वादित्यर्थः । तत्र सहायचिन्तामाह यैर्नायकमावर्जयेदन्याभ्यश्चावच्छिन्द्यादात्मनश्चानयै प्रतिकुर्या- दर्ये च साधयेन्न च गम्यैः परिभूयेत तान्सहायान्कुर्यात् । ते त्वार- क्षकपुरुषा धर्माधिकरणस्था दैवज्ञा विक्रान्ताः शूराः समानविद्याः कलाग्राहिणः पीठमर्दविटविदूपकमालाकारगान्धिकशौण्डिकरजक- नापितभिक्षुकास्ते च ते च कार्ययोगात् ॥ आवर्जयेदमिमुखीकुर्यात् । अवच्छिन्यात्संसृष्टमाकर्षयेत् । सहायान्कु र्याद्यथोक्तकार्यसाधकानित्यर्थः । आरक्षका नागरकादयः । धर्माधिकरणस्थाः प्राड्ढिवाकादयः । उभयेऽप्यनर्थघातिनोऽर्थसाधकाः । दैवज्ञा इति । तया संयोगे ते वृद्धिर्भविष्यतीति गम्यं प्रोत्साह्य योजयन्ति । विक्रान्ताः शरीरापेक्षाः साहसिकाः । ततोऽन्ये शूराः । उभयेऽनर्थ मन्त्यर्थं च साधयन्ति । समानविद्या इति । ते स्त्रियन्तोऽस्यास्त्वर्थे साधयन्ति । कलेति । ये नायिकातः कलां गृह्णन्ति ते तद्विज्ञतां प्रकाशयन्तो गम्यान्योजयन्ति । पीठमर्दादयः स्वकर्मभिरर्थकृतः परभवनप्रवेशाद्गम्यं योजयन्ति । कश्चिदेव किंचित्कार्यं साधयतीति तद्वशादन्येऽपि स्युः । सहायाः प्रियहिताभ्यामनुवर्तनीयाः न त्वभिगम्याः । तदभिगमने स्वार्थमेवैते कुर्युर्न तदर्थम् । गम्यचिन्तामाह केवलार्थास्त्वमी गम्याः - स्वतन्त्रः पूर्वे वयसि वर्तमानो वित्तवानपरोक्षवृत्तिरधिकरणवानकृच्छ्राधिगतवित्तः । संधैर्पवान्संततायः सुभगमानी श्लाघनकः पण्डकच पुंशब्दार्थी । समानस्पर्धी स्वभावतस्त्यागी । राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्ता१. 'परिभूयेत याननुसत्य. २. 'मालाकार' इति पुस्तकान्तरे नास्ति. ३. 'भिक्षवस्ते ते च'. ४. 'केवलार्थैः'. ५. 'सघर्षित:'. ६. 'समस्पर्धी स्वभावतथ'. श्रामसूत्रम् । २९ आहेतोऽध्यायः] बमानी शुरूणां शासनाविगः भजातानां लक्ष्यभूतः सैविच एकपुत्रो लिङ्कीमच्छन्नकामः गुरो वैद्यवेति ॥ केवः प्रीतिरहितोऽय चेन्यः इनि रतियशसी अर्थः प्रयोदनं वेन्यः । स्वतन्त्रो शुरुम्वनरायचः । न वृद्धो न दरिद्रः । अपरोक्षेति । परोक्षवृचन्तु यदा ततः विचिडेश्यति तदा दान्सतीनि ऋर्थिनं दानं स्यात् । अविवरणवानव्यक्षो योऽर्णविकारविकृतः सोऽयंदः । अकृच्छू। अन्त्र यात्रिगतं निबिलामाद्वात्रातं वनं चेन । अन्यया कृच्छ्रादः सात् । संवर्षंवानिति स्पर्धावानन्थेन गन्येन बहु ददाति । संतनायः शौकिको वाईपिक्रश्च । लुमगामिनानीति । दुर्मगोपि यः सुनगनात्मानमनिनन्यते । दुर्भागत्वमात्मनोऽप्रऋटयितुं नायिकानन्यतो व्यावर्तयन्वहु ददाति । श्ववनित्रः स्खश्चाषाकर्नुर्ब्रहुमदः । पण्डको नपुंपन्नः । स पुंस्वल्यापनार्य बहु ढुवाति । समानपर्व कुटविद्याविचवथोरन्यतरं स्पर्वतं तड़पेक्षयाविकं दद्वाति । स्वभावतस्त्यागी सोऽवश्यं ददाति दातृत्वमावत्वात् । सिद्धो भाहृवचनः । स यदि स्वयं न ददाति राजानममात्यं वामिवाय दापयति नमयं प्रीनति । देवप्रमाणो भाग्यक्षयेण दीयते नोपयोगेन संपादित न न्यानो बहु ददाति । गुरुणामिति । तदवीनस परावीनत्वादबहुदातृत्वन् । लक्ष्यभूतः प्रवानभूतः स दाता । एनपुत्र इति । बहु प्रयच्छन्नपि न पितृभ्यां स निवार्थत नान्यत्र यासीदिति । लिङ्गी प्रत्रचितः । प्रच्छन्नप्रटं न कामयते लोको मा ज्ञासीदिति । सकामेन वाध्यमानो बहु दद्वानि । ऋरो यः सहायमात्रेनोपचरिती विचवांश्च । वैद्यस दातृत्वाभावेऽपि व्याविद्यायाञ्चिनित्यानारित्वाद्दातृत्वमेव । श्रीतिचशांर्यास्त्र राणतोऽबिगम्याः ॥ यो गुणवन्य एवं प्रीतिर्यशश्च भवति । उमयोरपि गुणान्नैचित्रे वड्यान इन्युछन् । महाकुलीनो विद्वान्ससमयज्ञः कविराख्यानकुशको वाग्मी १. 'शुल्ह्याचदिव. २. जलतः इति पुस्तकान्तर नाति, ४. 'अद्वेटर'. ५. प्रीतियशोविनतु. 1 १ अध्यायः] ६ वैशिकमधिकरणम् । ३०९ प्रगल्भो विविधशिल्पज्ञो वृद्धदर्शी स्थूललक्षो महोत्साहो दृढभक्ति- रनसूयकस्त्यागी मित्रवत्सलो घटागोष्ठीप्रेक्षणकसमाजसमस्याक्री- डनशीलो नीरुजोऽव्यङ्गशरीर: भाणवानमद्यपो वृपो मैत्रः स्त्रीणां प्रणेता लालयिता च । न चासां वशगः स्वतन्त्रवृत्तिरनिष्ठुरोऽनी- र्ष्यालुरनवशङ्की चेति नायकगुणाः ॥ । विद्वानान्वीक्षिक्यादिज्ञः । सर्वेति पापण्डसमयपरिज्ञानात् । कविः संस्कृतादिकाव्यकृत् । प्रगल्भः प्रतिभाववान् । शिल्पं लेख्यादि । वृद्धदर्शी विद्यावयोवृद्धानामुपासकः । स्थूललक्षो महेच्छः । महोत्साह इति महत्त्वं च योगान्तरमहत्त्वयोगात् । यथोक्तम् – 'शौर्यममर्षता शीघ्रता दाक्ष्यं चोत्साहगुणाः ।" घटागोष्ठचौ व्याख्याते । प्रेक्षणकं नटादिदर्शनम् । समाज: पानगोष्ठी । समस्याक्रीडा संभूय क्रीडा । अव्यङ्गमहीनम् । प्राणो बलम् । अमद्यपो ब्राह्मणोऽर्थाल्लभ्यते । वृषो व्यवायक्षमः । मैत्रः करुणावान् । प्रणयित्व (प्रणेतृत्व) मुपदेशेन तासां समुदाचारेषु स्थापनम् । लालनं तासां शरीरस्थितिवैकल्यसंवरणम् । अनवशङ्की निःशङ्कमारम्भवान् । नायकगुणा इति गुणिद्वारेण गुणाभिधानमत्र प्रकरणायत्तत्वात् । गम्यगुणा इति वक्तव्ये नायकग्रहणं सामान्यसंज्ञाप्रतिपत्त्यर्थ तच्च पूर्वोक्तं गुणा वक्ष्यन्त इति तद्व्याख्यातम् । भवत्येक्षयेव (१) नायको गुणान्तरयोगात् । कन्यापुनर्भूपरदारवेश्यापेक्षया यथाक्रमं वरो जारः सिद्धो गम्यचेति संज्ञान्तरं लभते । नायिकायाः पुना रूपयौवनलक्षणमाधुर्ययोगिनी गुणेष्वँनुरक्ता न तथार्थेषु प्रीतिसंयोगशीला स्थिरमतिरेकजातीया विशेषार्थिनी नित्यमकदर्यवृत्तिर्गोष्ठीकलाप्रिया चेति [नायिकागुणा:] ॥ नायिकायाः पुनरिति । रूपं वर्णसंस्थानं यच्छोभनम् । लक्षणं सौभाग्यसूचकम् । माधुर्यै प्रियवाक्यत्वम् । तैर्योगः स यस्यास्तद्योगिनीति । १. 'वृद्धसेवी'. २. 'प्रमाणवान्प्राणवान्'. ३. 'स्वतन्त्रवृत्तिरनिष्ठुरो युवतिध्वनभिशङ्की अनीर्ष्यालुगोंष्ठी कलाप्रिय इति नायकगुणम् . ४. 'नायिकायाः पुन.' इति मूलपुस्तकेषु नास्ति, ५. 'अभिरता'. ६. 'संभोग.' ३१० कामसूत्रम् । २९ आदितोऽध्यायः] तेषु (गुणेषु) नायकसंबन्धिष्वनुरक्ता न तथार्थेषु तदीयेषु । प्रीतिसंयोगशीलेति प्रीतिग्रहणं बाह्यसंयोगनिवृत्त्यर्थम् । रतिसंभोगशीलेत्यर्थः । स्थिरमतिः कर्तव्यमिति निश्चित्यार्थान्करोति । एकजातीयेत्येकप्रकारा न मायाविनी । विशेषार्थिनी न यत्रक्वचनवस्तुनि रमते । अकदर्यवृत्तिरात्मवृत्त्यनुरोघेनार्थसंचयः । तत्रापि न कदाचिदित्याह --नित्यमिति । गोष्ठीकलाप्रियेति गोष्ठी या क्रीडामात्रैककार्या । नायिकाया गुणा इति योज्यम् । अत्रापि पूर्ववद्वेश्याया इति नोक्तम् । एतद्दूयोरप्यसाधारणतामाह m नायिका पुनर्बुद्धिशीलाचार आर्जवं कृतज्ञता दीर्घदूरदर्शिवं अविसंवादिता देशकालज्ञता नागरकता दैन्यातिहासपैशुन्यपरि- वादक्रोषलोभस्तम्भचापलवर्जनं पूर्वाभिभाषिता कामसूत्रकौशलं तदनविद्यासु चेति साधारणगुणाः । गुणविपर्यये दोषाः ॥ बुद्धिः प्रज्ञा । शीलं स्वभावता (१) । आचारो देशे काले चेदं प्रयुज्यत इति । नागरकता नागरकृवृत्तानुष्ठानम् । दैन्यं याच्चा । अतिहासो नित्यप्रहसनता । प्रैशुन्यं परस्परसंमेदनम् । परिवादः परदोषोदाहरणम् । चापलमघैर्यम् । वर्जनं त्यागः । तेन गुणा एवोक्ता दैन्यादयः । पूर्वाभिभाषिता यावदेव परो न संभाषते । कामसूत्रे कौशलं ज्ञानम् । अत्र न गुणिद्वारेण गुणाभिधानम् । साधारणादन्यतरत्वादन्यलिङ्गनिदर्शनेन हि गुणाभिधाने साधारणानां विपर्यये दोषादौ कुलेय (?) त्वादयो वैरूप्यादयो दौर्बुच्यादयश्च । तद्योगान्नायकोऽप्यनायक इत्युच्यते । सत्खपि गुणेषु दोषान्तरयोगादगम्या इति । अगम्यचिन्तामाह क्षयी रोगी कृमिशकद्वायसास्यः प्रियकलत्रः परुषवाकदर्यो निर्घृणो गुरुजनपरित्यक्तः स्तेनो दम्भशीलो मुलकर्मणि प्रसक्तो मानापमानयोरनपेक्षी द्वेष्यैरप्यर्थहार्यो विलज्ज इत्यगम्याः ॥ १. 'नायिका पुनः' मूलपुस्तकेषु नास्ति २. 'बुद्धिः शीलं'. ३. 'स्मितपूर्वाभि ४. 'अप्यहार्योऽतिलज:'. A १ अध्यायः] ६ वैशिकमधिकरणम् । क्षयो राजयक्ष्मा । रोगशब्दः सामान्यवाच्यपि लोकप्रसिद्ध्या कुष्ठवाची । द्वयोरपि सांक्रामिकत्वात् । कृमिशकृदिति पुरीषमक्षिकेति प्रसिद्धा । सा हि यस्मिन्त्रणे पुरीषं मुञ्चति तत्र कृमिर्भवति तद्वद्यच्छुक्रसंसर्गाद्या हि गर्भमाधत्ते सा स्त्री जरां धत्ते । वायसास्यो दुर्गन्धमुखः । यद्वा काकः शुच्यशुचौ मुखं निक्षिपति एवं निर्विचारं स्त्रीः कामयते स तासामनभिगमनीयः स्यात् । प्रियकलत्र इति तस्यान्यत्रानासक्तेः नाप्यर्थदः । परुषवाक् असह्यत्वात् (वाक्) । कदर्यो य आत्मानं भृत्यांच संपीड्यार्थसंचकः । निर्घृणो निर्दयः । उभावप्यदातारावकार्यकरौ च । मूलकर्म कार्मणम् । द्वेष्यैरप्यर्थहार्यो यो द्वेष्यैरप्यर्थलोमात्संघत्ते स लुब्धः कथं ददाति । यैः कारणैरभिगमनं तत्र चिन्तामाह रागो भयमर्थः संघर्षो वैरनिर्यातनं जिज्ञासा पक्षः खेदो घर्मों यशोऽनुकम्पा सुहृद्राक्यं ही: प्रियसादृश्यं धन्यता रागापनयः साजात्यं साहवेश्यं सातत्यमायतिश्च गमनकारणानि भवन्तीयाचार्याः । अर्थोऽनर्यप्रतीघातः श्रीतिश्चेति वात्स्यायनः । अर्थस्तु मीत्या न बाधितः । अस्य प्राधान्यात् । भयादिषु तु गुरुलाघवं परीक्ष्यमिति सहायगम्यागम्य (गमन) कारणचिन्ता । राग इति कचित्स्वाभाविक उत्पन्नः । मयं व्यापादनभयम् । अर्थो भूम्यादिलाभः । संघर्ष: स्पर्धा । यथा देव[द]त्ताया अनङ्गसेनयेति । ततो हि समाकृष्य स्पर्धया मूलदेवः कामितः । वैरं निर्यातयन्ती वंचिदभिगच्छति । जिज्ञासेति विदग्धोऽयमिति श्रूयते तत्किं तथैवेति । पक्ष आश्रयः यमाश्रित्य कार्य साधयति । खेदः परिश्रमः । संप्रयोगो हि जीविका । तत्र चाकृतखेदा सहसा कचित्कचित्प्रवृत्ता विमर्द न सहते। धर्मोऽकिंचनविद्वद्ब्राह्मणाभिगमनात् । यशः कस्यांचित्तिथौ कामसत्रप्रदानात् । अनुकम्पा अकामयमानायां त्वयि म्रियेऽहमित्येवंवादिनि दया १. 'संक्रामितत्वात् '. २. 'सादेश्य'. ३. 'प्रीतिरिति'. ४. 'अर्थ तु प्रीत्या न वाघेत'. ५. 'गुरुलाघवपरीक्षा'. ६. 'कचित्'. ७. 'सहस्य'. ८. 'विमर्दन सहते'. ९. 'कामसूत्र'. ३१२ कामसूत्रम् । २९ आदितोऽध्यायः] भवति । सुहृद्धाक्यं मम प्रीतकः समायातस्तेन सहाद्य शयितव्यमिति । ह्रीर्यो गुरुस्थानीयः स लज्जयाभिगम्यते । प्रियसादृश्यं मत्प्रियस्यायं सदृश इति । धन्यतेति पुण्यवानयं यतो धनवान्रूपवांश्च । रागापनयः शुक्रघातो- रुद्रितस्य कंचिदभिगम्यापनयनम् । साजात्यं सजातिरयमिति विप्रतिप- न्नायाः कुलयोषितोऽभिगमनकारणमेतत् । साहवेश्यं सहवेशकोऽयमिति । आयतिः प्रभावः । प्रभवन्तमधिगम्य । अत्राह शास्त्रकारः परिगणनमेत- प्रदर्शनं वा । तत्र परिगणनं चिकित्सा मैत्री शोकापनयः कलागम इत्ये- वमादीनामपि संभवात् । प्रदर्शने चार्थोऽनर्थप्रतीघातः प्रीतिरिति तावद्व- क्तव्यम् । सर्वेषामत्रैवान्तर्भावः । संघर्षजिज्ञासापक्षखेदधर्मयशः सुहृद्धा- क्यरागापनया अर्थे । भयं वैरमनुकम्पा अनर्थप्रतीघाते । शेषाः प्रीतौ । ह्वीरपि प्रीत्यंशमेव स्पृशति । अर्थस्त्विति अर्थप्रीत्योर्यथाखं विषयेषु युग- पत्प्रत्युपस्थितेः प्रीतिविषयं त्यक्त्वार्थविषयमधिगच्छेदित्यर्थः । गुरुलाघ- वम वक्ष्यति । इति सहायगम्यागम्यगमनकारणचिन्ता पञ्चाशत्तमं प्रकरणम् ॥ एवं सहायं निरूप्य गम्यमभिमुखीकुर्यादिति गम्योपावर्तनमुच्यते- उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात् । पुरुषाणां सुलभावमानित्वात् । भावजिज्ञासायें परिचारकमुखान्संवाहकगीय- नवैहासिकान्म्ये तैद्भक्तान्वा प्रणिदध्यात् । तदभावे पीठमर्दा- दीन् । तेभ्यो नायकस्य शौचाशौचं रागापरागौ सक्तासक्ततां दा- नादाने च विद्यात् । संभावितेन च सह विटपुरोगां प्रीति योजयेत् ॥ स्वयमुपावर्तितेन नायकेन प्रार्थिता न सहसा गच्छेत् । सुलभावमानित्वात्पुनः पुनरुपमन्त्रिता गच्छेदिति भावजिज्ञासार्थमिति । वैहासिको विदूषकः । तस्य गम्यस्य । भक्तान्सेवापरान् । प्रणिदध्यान्नियुञ्जीत । पीठमर्दादिशब्दाद्विटमालाकारगान्धिकशौण्डिकादयः सहायाः । भावोऽभिप्रायः । तस्मिन्ननेकप्रकारेऽपि प्राधान्याच्छौचादिभावेष्वेव येनायं वेत्ति १. 'गायक'. २. 'गम्येषु'. ३. 'तद्भकाना', 'तद्भकान्तान्'. ४. 'सक्तासकहानादाने', 'शताना दानादाने. ५. 'संभाषितेन'. १ अध्याय:] ६ वैशिकमधिकरणम् । ३१३ जिज्ञासनमिति । नायकस्येति गम्यसंज्ञकस्य । शुचिसमुदाचारान् शौचं भावम् । तद्विपरीतमशौचम् । यतः कश्चित्स्वयं ममोपरि कष्टं प्रयुद्धे प्र योजयति नोभयं वेति । रागः संयोगेच्छा तद्विपरीतमपरागम् । नततां चक्ष्यमाणलक्षणां तद्विपरीतामशक्तताम् । दानं दातृत्वं तद्विपरीतमदानम् । संभावितेन चेति भावान् ज्ञात्वा प्रवर्तते । विटपुरोगामिति विटो हि जीर्णनागरकवृत्तः । तेन पूर्वप्रणिहितेन प्रीतिं योजयेत् । योजितायां विधिमाह लावकक्कुक्कुटमेषयुद्धशुकशारिकामलापन प्रेक्षणककैलाव्यपदेशेन पीठमर्दो नायकं तस्या उदवसितमानयेत् । तां वा तस्य । आग- तस्य प्रीतिकौतुकजननं किंचिद्रव्यजातं स्वयमिदमसाधारणोपभो- ग्यमिति भीतिदायं दद्यात् । यत्र च रमते तया गोष्ठचैनसुपचा- रैश्च रञ्जयेत् ॥ लावकादीनां युद्धं शुकादिप्रलापनम् । प्रेक्षणकं नटादिदर्शनम् । कला गीतादिका । उदवसितं गृहम् । तां वेति नायिकां वा तस्योदवसितम् । तद्व्यपेति (?) । यत्मीतिं जनयति तस्मै हितत्वात् । कौतुकं चादृष्टपूर्वत्वात् । द्रव्यमेव द्रव्यजातम् । खयमित्यनुरागख्यापनार्थं नान्येन । असाधारणेति भवत एवेदमुपभोगाहै नान्यस्येत्युक्त्वा प्रीतिदायं यत्पु[न]र्दीयते । यत्र चेति काव्यगोष्ठ्यां कलागोष्ठयां वा । उपचारैः स्रक्ताम्बूलादिभिः । प्रत्यवच्छेदनार्थ विधिमाह गते च सपरिहासमैलापां सोपायनां परिचारिकामभीक्ष्णं प्रेप- येत् । सपीठमर्दायाच कारणापदेशेन स्वयं गमनमिति गम्योपा- वर्तनम् ॥ सपरिहासेति सक्रीडप्रकृष्टालापा हि प्रीतिं वर्धयति । सोपायनामभि१. 'जनयेत्'. २. 'कलापदेशेन च'. ३. 'पत्युर्दीयते'. ४. 'प्रायन्सोपायनांध परिचारकान्● का० ४० ३१४ कामसूत्रम् । २९ आदितोऽध्यायः ] ज्ञानार्थ सह ढौकनिकया प्रेषयेत् । तत्राप्यमीक्ष्णम् अन्तरा नायकप्रवेशो माभूदिति । सपीठमर्दायाश्चेति । पीठमों हि मन्त्री संप्रयोगस्य घटयिता । कारणापदेशेन गमनमिति सहसा गमने हि हेया स्यात् । उक्तमनुकं श्लोकैराहभ॑वन्ति चात्र श्लोका:ताम्बूलानि सेजचैव संस्कृतं चानुलेपनम् । आगतस्याहरेत्मीत्या कलागोष्ठीच योजयेत् ॥ द्रव्याणि मैणये दद्यात्कुर्याच्च परिवर्तनम् । संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ॥ प्रीतिदायैरुपन्यासैरुपचारैश्च केवलैः । गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम् ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्यागम्यचिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः । संस्कृतमिति सर्वत्र योज्यम् । कलागोष्ठीश्चेति चशब्दात्काव्यगोष्ठी च । द्रव्याणीति प्रीतिकौतुकजनकानि । परिवर्तनमुत्तरीयांशुकानामङ्गुलीया- नाम् । तत्रापि प्रणये सति । अनुत्पन्नप्रणयाया दानं परिवर्तनं च कपटं ज्ञायते । आकूतमभिप्रायम् । प्रयोजयेत्प्रकाशयेत् । यस्तु कथंचिदागत्या- गत्य गच्छति यत्र योज्यमानं लाघवं जनयति तच्च कथं योजयेदित्याह- प्रीतिदायैरिति । प्रीत्यर्थं यानि दीयन्ते । उपन्यासैः पीठमर्दादिकृतैः । अ- त्रैव किं न सुप्यत इति । केवलैः शुद्धैः ये संप्रयोगमेव सूचयन्ति । सं- सृष्टा संप्रयुक्ता । ततः परमित्यनन्तरप्रकरणानुसंधानम् । इति गम्योपा- वर्तनमेकपञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकात रेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां वैशिके षष्ठेऽधिकरणे सहायगम्यागम्यचिन्ता गमनकारणं गम्योपावर्तनं प्रथमोऽध्यायः । ३. 'प्रणयात्'. १. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति. २. 'सज'. ४. 'निजे भावे'. २ अध्यायः] ६ वैशिकमधिकरणम् । द्वितीयोऽध्यायः । ३१५ उक्तमपि संबन्धं स्पष्टीकुर्वन्नाह संयुक्ता नायकेन तद्रञ्जनार्यमेकचारिणीदृत्तमनुतिष्ठेत् । रञ्ज- येन तु सज्जेत सक्तवच विचेष्टेतेति संक्षेपोक्तिः । मातरि च क्रूर- शीलायामर्थपरायां चायत्ता स्यात् । तदभावे मातृकायाम् । सा तु गम्येन नातिप्रीयेत । प्रसय च दुहितरमानयेत् । तत्र तु नायि- कायाः संततमरतिर्निवेंदो व्रीडाभयं च । न त्वेव शासनातिवृत्तिः । व्याधि चैकमनिमित्तमजुगुप्सितमचक्षुर्ग्राह्यमनित्यं सतिकारणे तेदपदेशं च नायकानभिगमनम् । निर्माल्यस्य तु ना - यिका चेटिकां प्रेषयेत्ताम्बूलस्य च ॥ च च ख्यापयेत् । तु एकचारिणीवृत्तमनुतिष्ठेद्यद्येकचारिणी स्यात् । तथा चोक्तं प्राक् 'वेश्या चाप्येकचारिणी' इति । यदा तु नैकचारिणी तदा कान्तानुवृत्तमुच्यते । संप्रयुक्तस्य गम्यस्य कान्तत्वात् । तच्च संक्षेपेण विस्तरेण च । तत्र पूर्वमुद्घाटिततद्धीना (?) माह - रञ्जयेदिति । सक्तमिवात्मानं प्रकाशयेदित्यर्थः । विस्तारात्तमपि । प्रथमं परतन्त्रा स्यात् । व्याधिं चात्मनः प्रकाशयेत् । मा भूत्कार्यहानिरित्याह – मातरीति । आयत्ता स्यान्न वचनमतिक्रमेदित्यर्थः । मातृकायां कृतकमातरि । सात्विति सत्या कृतका वा नातिप्रीयेत नातिनिह्येत । अयमप्युद्देशः । यदि प्रीयेत कार्यमेव हन्यादित्यर्थः । अप्रीयमाणाया व्यापारमाह–प्रसह्य च दुहितरमानयेदिति । गम्यमभिभूय कार्यवशाद्गम्यान्तरं नयेदित्यर्थः । तत्र त्विति तस्मिन्गमने सति । नायिकायाः कालविशुद्ध्यर्थमाह -- संततमिति । अरतिरसुखं रम्येऽपि स्यात् । निर्वेदो निर्विण्णता । ब्रीडा कथं मया द्रष्टव्य इति । भयं किं मयि प्रतिविधास्यतीति । नत्वेवेति । काममरत्यादयः स्युर्न पुनराज्ञामतिक्रमेदित्यर्थः । व्याधिं चेति । किंविशिष्टमित्याह -- एकमित्यनन्यं ख्यापयेत् । कृतको ज्ञायते । अनिमित्तमाकस्मिकम् । अनिन्द्यमजुगुप्सितम् । निन्दिते ह्यनभिगमनीया स्यात् । अचक्षुरिति । इन्द्रियोपलक्षणार्थं चक्षुर्म१. 'भयं ब्रीडा'. २. 'तदपदेशेन च'. कामसूत्रम् । ३० आदितोऽध्यायः ] हणम् । शिरोर्तिमुदरशूलं च । अनित्यमस्थायिनम् । अस्मिन्ख्यापिते किं फलमित्याह -सतीति । कारणे कारणान्तराभिगमने । तदपदेशं व्याध्यपदेशम् । अनभिगमने च व्याधिपीडाख्यापनायें विधिमाह–निर्माल्यस्य चेति कृते इत्यध्याहार्यम् । नायिकेत्युक्ते न माता चेटिकां प्रेषयेत् । अनेनापि सुखं स्थास्यामीत्युक्त्वा ताम्बूलस्योपयुक्तस्य वा कृते । । व्यवाये तदुपचारेषु विस्मयचतुःषष्ट्यां शिष्यत्वं तदुपदिष्टानां च योगानामाभीक्ष्ण्येनांनुयोगस्तैत्सात्म्याद्रहसि वृत्तिर्मनोरथाना- माख्यानं गुह्यानां वैकृतप्रच्छादनं शयने परावृत्तस्यानुपेक्षणमानु- लोम्यं गुह्यस्पर्शने सुप्तस्य चुम्वनमालिङ्गनं च ॥ व्यवाये मैथुने नायकसंबन्धिनि । तदुपचारेषु मैथुनोपचारेषु सरकता म्बूलादिभिः(षु) विस्मयो न तु भूतपूर्वं सर्वमेतदिति । चतुःषष्टयां पाचालिक्यां शिष्यत्वं तद्विज्ञाय (?) कर्तव्यं शिक्षय मामिति । योगाना मिति चातुःषष्टिकानां तेनोपदिष्टानामाभीक्ष्ण्येनानुयोगः । पश्चात्तस्मिन्नेव नायके पुनःपुनर्योज्या इत्यर्थः । येनावगच्छेदमत्सुखार्थमेवास्या यत्न इति । तत्सात्म्यादिति । यथा तस्य सुखं तथैकान्ते वर्तत इत्यर्थः । मनोरथेति । रहसीत्यनुवर्तते । मम मनोरथा एवमासन् कदा त्वया सह दीर्घरजन्यां सपरिहासः संप्रयोगः स्यात् । गुयानामिति कक्षोरुजघनानां यद्वैकृतं वैरूप्यं किंचित्तस्य प्रच्छादनम् । स्प्रष्टुं न ददातीत्यर्थः । मा भूद्वैराग्यमस्येति । शयने परावृत्तस्यानुपेक्षणम् । स्नेहव्यापनार्थमभिमुखं खपेदित्यर्थः । गुह्यस्पर्शने आनुलोम्यं कक्षां वराङ्गं च स्पृशन्तं न वारयेत् । मा भूत्संप्रयोगेच्छाविघात इति । सुप्तस्य चुम्बनमालिङ्गनं च येन नेहात्स्व सुमपि न ददातीति जानीयात् । वृत्तं च प्रत्यक्षे परोक्षे वेति प्रत्यक्ष एव बहिर्गतं वृत्तमाह प्रेक्षणमन्यमनस्कस्य । राजमार्गे च प्रासादस्थायास्तत्र विदिताया ब्रीडाशाव्यनाशः । तद्वेष्ये द्वेष्यता । तत्मिये प्रियता । तद्रम्ये १. 'प्रयोग.' २. 'तस्य सात्म्यप्रयोगात्'. ३. 'वैकृताना'. २ अध्यायः] वैशिकमधिकरणम् । ३१७ रतिः । तमेनु हर्षशोकौ । स्त्रीपु जिज्ञासा । कोपश्चादीर्घः । स्वकृ- तेष्वपि नखदशनचिद्वेष्वन्याशङ्का ॥ प्रेक्षणमित्यन्यचित्तं पश्येत् । किमयमुत्कण्ठयोद्वेगाद्वान्यमनस्क इति राजमार्गे वर्तमानस्य प्रेक्षणम् । तत्रापि प्रासादस्थायाः । कर्त्रर्थेयं षष्ठी । तत्रेति प्रेक्षणे विदिताया नायकस्य मम पश्यतीति व्रीडा लज्जा स्यात् । सैव शाठ्यनाश इत्युच्यते । तद्धेतुत्वादस्याः । यदि ब्रीडां दर्शयेत् कृतकस्ने होऽस्याः यन्मामसकृत्पश्यतीति शाठ्यं संभाव्येत । तद्वेष्येत्यादिनानुलोम्यं ख्यापितं भवति । तद्रम्य इति यद्यसावसंप्रयोगशीलस्तदा रम्ये प्रदेशेऽनया घू(र)तिः कार्या । येन तद्गतस्य संप्रयोगेच्छा भवति । स्त्रीपु जिज्ञासा अन्यास स्त्रीषु किमस्य स्नेहोऽस्ति न वेति चरप्रणिधानेन जिज्ञासा कार्या । (किमेवं स्यादित्याह—–—संप्रयोगेच्छा भवति ।) कोपश्चादीर्घः यदि तत्र स्नेह ईर्ष्या तदा कोपः स्नेहख्यापनाथै कार्यः । स चादीर्घः कदाचिद्विरागः स्यात् । स्वकृतेष्वपीति एतदपीर्ष्याख्यापनार्थ नेहनिर्बन्धसूचनम् । अनुरागस्यावचनमाकारतस्तु दर्शयेत् । मदस्वप्नव्याधिषु तु निर्वचनम् । श्लाघ्यानां नायककर्मणां च । तस्मिन्ब्रुवाणे वाक्यार्थग्रहणम् । तदवघार्य प्रशंसाविषये भाषणम् । तद्वाक्यस्य चोत्तरेण योजनम् । भक्तिमांचेत् । कथास्वनुवृत्तिरन्यत्र सपत्न्याः । निःश्वासे जृम्भिते स्खलिते पैतिते वा तस्य चार्तिमाशंसीत । श्रुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् । दौर्मनस्ये व्याधिदौर्हदापदेशः । गुणतः परस्याकीर्तनम् । न निन्दा समानदोषस्य । दत्तस्य धारणम् । वृथापराघे तव्यसने वालंकारस्याग्रहणमभोजनं च । तधुकाय विलापाः । तेन सह देशमोक्षं रोचयेद्राजनि निष्क्रयं च । १. 'उन्मनसो वा शोकहर्षाभ्या शोकहर्षी'. २. 'अन्यशङ्का'. ३०. 'नीडिता'. ४. 'प- तिते भिन्ने वा तस्यानांत'. ५. 'दौर्हृदस्य'. ६. 'स्मरणम् । स्वयं कृतेऽपराधे भय तत्कृते पीडां दर्शयेत् । राजोपरोधे व्याध्युपरोघे तथ्यसने चालकारस्याग्रहणम्.' ७. 'यथा', 'व्यथा'. ८. 'मोक्षण'. कामसूत्रम् । ३० आदितोऽध्यायः] सामर्थ्यमायुपस्तदवासौ । तस्यार्थाघिगैमेऽभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसंभाषित इष्टदेवतोपहारः । नित्यमलंकारयोगः । परिमितो- sभ्यवहारः । गीते च नामगोत्रयोर्ब्रहणम् । ग्लान्यामुरसि ललाटे च करं कुर्वीत । तत्सुखमुपलभ्य निद्रालाभः । उत्सहे चास्योपवेशनं स्वपनं॑ च । गमनं वियोगे । तस्मात्पुत्रार्थिनी स्यात् । आयुषो ना- धिक्यमिच्छेत् ॥ ३१८ अनुरागस्येति जातरागास्मि कामयख मामिति न वाच्यम् । लज्जापरिहारायै कामातुरा तिष्ठेदित्याह - आकारत इति । तत्राप्यपरिज्ञाने मदखप्नादिपु निर्वचनम् कृतकसुता यदागत्य (१) व्याधिमपदिशेत् । असंभोगेनैव व्याधितास्मीति । श्राध्यानामिति लाघनीयानां देवकुलतडागादीनां धर्मयशोर्यानां निर्वचनं साधु कृतमिति । तस्मिन्निति नायक इत्यर्थः । वाक्यार्थग्रहणम् । अवघीरणेऽवज्ञा संभाव्ये तेत्यर्थः । न केवलमर्थग्रहणं प्रशंसा कर्तव्या सुभाषितमुक्तं को नाम जानात्येवमभिधातुमिति । विषये भाषणं शब्दस्पर्शादिषूक्तिः कर्तव्या कस्मिन्विषये रुचिरिति ज्ञापनार्थम् तथैवानुतिष्ठेत् । वाक्यस्योत्तरेण योजनं बुद्धिवैदग्ध्यख्यापनार्थम् । तत्रापि यदि भक्तिमांश्चेत् यदि स्नेहवान् । अजातस्नेहस्य वचने प्रत्युतावधीर्यमाणं वैलक्षण्यं (धीरणं वैलक्ष्यं ) स्यात् । कथास्वनुवृत्तिस्तेन कथ्यमानाखनुवर्तनम् । तन्मुखावलोकन हुंकाराभ्याम् । अन्यथास्या अवज्ञेति मन्येत । अन्यत्रेति सपत्न्याः । सपत्नीकथायामीर्ष्याकोपख्यापनार्थं नानुवृत्तिः । निःश्वासे दीर्घनिःश्वसिते स्खलितेऽर्थविस्मरणे आर्तिमाशंसीत मा भूत्पीडेति । तेषामनिष्टसूचकत्वात् । क्षुतं छिक्का । तदादिषु जीवे त्युक्तिः स्नेहसूचिका । दौर्मनस्य इति नायकसंवन्ध्यनिष्टश्श्रवणाद्दौर्मनस्ये नाते तत्कारणं पृच्छेत् । चिरानुबन्धो मे व्याधिः शत्रुर्वाधत इति । गु णतः परस्याकीर्तनम् अन्यथान्यासक्तेति जानीयात् । समानदोषस्येति ना• १. 'नास्तिक्यमायुषोऽधिगच्छेत्तदवाप्तौ साफल्यं तु. २. 'भिगमने'. ३. 'संभाषितो देवतोपहार:'. ४. 'तस्मात्पुत्रार्थिनी स्वागमने च बियोगे नायुष आधिक्यमिच्छेद. ५. 'सामान्य'. २ अध्यायः] ६ वैशिकमधिकरणम् । ३१९ यकेन तुल्यदोषस्यान्यस्य न निन्दा । मा भूदेतद्वारेण मां जुगुप्सत इति । यावदेव जानात्यनयापराद्धमिति तावदेव प्रतिविधानार्थं खेदाभ्यङ्गोपवासादिभिः शरीरपीडा दर्शयितव्या । तद्व्यसने नायकस्य पुत्रत्रात्रादिनाशे व्याघौ वा ज्वरादावुत्पन्नेऽलंकाराग्रहणम् । तयुक्ताश्चेति कथमपापस्य पतितमेतदिति विलापाः कार्याः । तयैतद्दुःखेनाहं दुःखेय (?) मिति सूचितं भवति । तेनेति नायकेन सह देशमोक्षं खदेशत्यागं तमेव रोचयेत् । माता मे विषमशीला । अपलाप्य मां देशान्तरं नयेति । येन खातन्त्र्यं स्यादिति । राजनि निष्क्रयं च यदि राजप्रतिबद्धा तदानीं राज्ञः सकाशान्मां निष्कीणाहीति रोचयेत् । अन्यथा पलायितां मामानाययेत् । तदवासाविति यत्प्रायशो न घटते तस्यावातौ सत्यां समर्थनमायुषः येन त्वं घटितः अन्यथा नियतं विनष्टास्मीति ब्रूयात् । अर्थाधिगम इति तस्यार्थलामे अभिप्रेतसिद्धौ शरीरोपचये वा व्याध्यपगमात् । पूर्वमिति न तदानीमेव संभाषेत । अर्थलामादिनिमित्तमाशापूरिका देव्या मयोपयाचितकं कृतं तेन च संपन्ना मनोरथाः । सांप्रतं तस्यै बलिरुपहर्तव्य इति । नित्यमिति । यसु 'नित्यमलंकारयोगिनी स्यात्' इत्युक्तं तदुपावर्तनकाले द्रष्टव्यम् । परिमित इति बहुभक्षणे प्रायशो वेश्यानां दोषवत्त्वात् । तत्रापि खिग्धं, न रूक्षम् । ज्वरकारित्वाद्र्क्षस्य । गीते चेति । ग्लान्यामिति । करं नायकसंबन्धिनं स्वहस्तेन गृहीत्वा स्थापयेदित्यर्थः । तत्सुखमिति हस्तस्पर्शसुखम् । उत्सङ्गेति । गमनं वियोग इति । गृहं देवतां वा द्रष्टुं गच्छति स्वयमनुगच्छेत् । तस्मात्पुत्रार्थिनीति ऋतुमत्यहमन्यत्र त्वया न शयितव्यमिति । नाधिक्यमिति एतस्मान्मम सृतिः प्राग्भवति चेद्भद्रमिति । एतस्याविज्ञातमर्थ रहसि न श्रूयात् । व्रतमुपवासं चास्य निर्वर्तयेत् मयि दोष इति । अशक्ये स्वयमपि तद्रूपा स्यात् । विवादे तेनाप्यशक्यमित्यर्थनिर्देशः । तदीयमात्मीयं वा स्वयमविशेषेण पश्येत् । तेन विना गोष्ठ्यादीनामगमनमिति । निर्माल्यधारणे श्लाघा उच्छिष्टभोजने च । कुलशीलशिल्पजातिविद्यावर्णवित्तदे१. 'स्वेदाभ्यो'. २. 'अबलापि'. ३. 'अभिज्ञात'. ४. 'अशक्य:'. कामसूत्रम् । ३० आदितोऽध्यायः] शमिन्त्रगुणवयोमाधुर्यपूजा । गीतादिषु चोदनमभिज्ञस्य । भयशीतोष्णवर्षाण्यनपेक्ष्य तदभिगमनम् । स एव च मे स्यादित्योर्ध्वदेहिकेषु वचनम् । तदिष्टरसभावशीलानुवर्तनम् । मूलकर्माभिशङ्का । तदभिगमने च जनन्या सह नित्यो विवाद: । बलात्कारेण च यधन्यत्र तया नीयेत तदा विषमनशनं शस्त्रं रज्जुमिति कामयेत । प्रत्यायनं च प्रणिधिभिर्नायकस्य । स्वयं वात्मनो वृत्तिग्रहणम् । न त्वेवार्थेषु विवादः । मात्रा विना किंचिन्न चेष्टेत । तद्रूपा गृहीतव्रता स्यात् । विवाद इति । 'कस्मिँधिद्वस्तुनि केनचिद्विप्रतिपत्तौ । तेनाप्यशक्यमिति । 'शक्तश्चेत्स एवेति कथयेदित्यर्थः । खामिनो द्रव्यं नायकसंबन्धि आस्थापनपालनाभ्यामविशेषेण पश्येत् । निर्माल्यमिति । स्वकीयं माल्यादि मम देयमिति । उच्छिष्टेति । यद्युपनिमत्रितो न मां नयसि मुक्तशेषमवश्यं प्रेषयितव्यमिति । कुलशीलेति । उदितोदितं कुलमस्य नानुदितमनुदितं वेति । शोभनं शीलं न विषममिति । प्रकृष्टमालेख्यादि शिल्पं नामकृष्टमिति । विशुद्धास्य जातिर्न संकीर्णेति । निर्मलास्यान्वीक्षिक्यादिविद्या न दुर्गृहीतेति । कनकपिञ्जरोऽस्य वर्णो न पाण्डुरिति । न्यायेनोपार्जितं वित्तं नान्यायेनेति । पूज्योऽस्य देशो नापूज्य इति । गुणवन्त्यस्य मित्राणि न दोषवन्ति । शोभना गुणा न त्वशोमनाः । प्रथमं वयो न द्वितीयं न तृतीयमिति । मधुरं बच्चो नामधुरं चेति पूजा स्तुतिः कर्तव्या । अभिनस्य गीतादौ प्रेरणम् । अनभिज्ञश्चोद्यमानो मामुपहसतीत्याशङ्कते। अभिज्ञस्तु मद्विज्ञानं श्लाघत इति मन्यते । भयेति । इदमासक्तिख्यापनार्थम् । और्ध्वदैहिकेष्विति । वर्तमानलोकादन्यलोकेऽपि यो देहः स जन्मान्तरे स्यात् । (तत्रापि ) अयमेव मे प्रियः स्यादिति वचनमुदाहार्यम् । नियतमपि वशीकरणमलीकतया प्रयुद्धे येन तव विधेयास्मीत्याशङ्का कार्या । तदभिगमन इति । नायकमनुगच्छन्तीं किं घारयसीति मात्रा सह नित्यं कृतककलहोऽनुरागप्रकटनार्थः । बलात्कारेण चेति । अन्यत्र गम्ये कार्यापेक्षया नीयेत मात्रा तदा तत्समक्षं पूर्वो १. 'प्रत्यानयनं'. २. 'खयमेवेति', 'त्वमेवेति'. ३२० २ अध्यायः ] ६ वैशिकमधिकरणम् । क्ताश्चारत्यादयः संभवन्त्येव किं त्वेतदधिकं विपाद्यशनमिति । आपातमृत्युहेतुं कामयेद्वाचैव न तु क्रियया । प्रत्यायनं च प्रणिधिभिरिति मातु रेवास्या दोषो न त्वस्या इति । स्वयं वेति । कुत्सिता वेश्यानां जीविका यत्स्निग्धं संत्यज्यार्थतृष्णया मातरोऽन्येन योजयन्तीति । न त्वेवेति । कामं तदभिगमने विवादः स्यात् नायकेन तु यद्येवं तत्साधयन्त्या जनन्या न विवादस्तदर्थत्वात्प्रयासस्य । विनाशमात्रं (मात्रां विना) किंचिञ्चेष्टेतेति । असौ भोक्तुमपि यदाह माता न कुर्यात् । कार्येषु सैव व्यापार यितव्येत्यर्थः । प्रवासे शीघ्रागमनाय शापदानम् । भोषिते मृजानियमञ्चालं- कारस्य प्रतिषेधः । मङ्गलं खपेक्ष्यम् । एकं शहवलयं वा घारयेत् । स्मरणमतीतानाम् । गमनमीक्षणिकोपश्रुतीनाम् । नक्षत्रचन्द्रसूर्य- ताराभ्यः स्पृहणम् । इष्टस्वप्नदर्शने तत्संगमो ममास्त्विति वैच- नम् । उद्वेगोऽनिष्टे शान्तिकर्म च । प्रत्यागते कामपूजा । देवतो- पहाराणां करणम् । सखीभिः पूर्णपात्रस्याहरणम् । वायसपूजा च । प्रथमसमागमानन्तरं चैतदेव वायसपूजार्जम् । सक्तस्य चा- नुमॆरणं ब्रूयात् ॥ प्रवास इति नायकस्य कार्यवशात् । शापदानं शपथदानम् । मज्जीवितेन शापितोऽसि यदि शीघ्रं नागच्छसीति । परोक्षे वृत्तमाह - प्रोपित इति । मृजानियमः शरीरासंस्कृतिः । परोक्षे विफलमिति चेन्न । तदीयजनसमक्षे सफलत्वात् । प्रवासचर्यायामुक्तमपि चैतत्प्रायशः कुलयोपितस्तत् इदं तु वेश्याया एवेति । प्रतिपेषोऽधारणम् । मङ्गलं शङ्खवल्यादि त्वपेक्ष्यम् । प्रोषितस्य मङ्गलापेक्षया तावन्मात्रं धार्यमित्यर्थः । सरणमतीतानां नायकेन सहोपभुक्तानाम् । ईक्षणिका विप्रश्निकास्तासां गमनं गृहे इत्यर्थात् । उपश्रुतिर्निशीथे शुभाशुभपरिज्ञानार्थ प्रथमवाक्यग्रहणम् । तेन तस्या रथ्याचत्वरेषु गमनमिति । नक्षत्राढिभिः स्पृहणमिति पुण्यवन्त एते यन्नायकेन दृश्यन्ते । अहमपुण्या यन्मा नेक्षत इति । इष्टखप्मेति सद्भूतं १. 'शपथदानम्'. २. 'नृयात्'. ३ 'पूर्णपात्रग्रहणम्'. ४. 'वर्जनम् ' ५. 'सरण'. का० ४१ M ३२२ कामसूत्रम् । ३० आदितोऽध्यायः ] शुभं स्वप्नं दृष्ट्वा प्रत्यूषे तज्जनसमक्षं प्रकाश्य आस्तां तावदन्यत्तत्समागम एव ममास्त्विति वचनमुदाहर्तव्यम् । दृष्ट्वापि कृतकमदृष्टं खमं प्रकाशयेत् । यदि देशान्तरस्थस्य नायकस्याभिप्रेतसिद्धिस्तैस्तैरुपलब्धा स्यात् । उद्वेगोऽनिष्ट इति । अशुभसूचके स्वमदर्शने सत्युद्वेगः । तस्य किमप्यनिष्टमस्तीति शान्तिकर्म ब्राह्मणानाहूय कार्यम् । आगते प्रत्यक्षे वृत्तमाह कामेति । त्वत्प्रसादादागत इति कामपूजनम् । देवतोपहाराणां च तज्जनसमक्षं प्रतिपन्नानां करणं निष्पादनम् । पूर्णपात्रस्येति । इष्टवुच्या खजनाद्यदुत्तरीयमाच्छिद्य गृह्यते तत्पूर्णपात्रम् । तस्य सखीमिराहरणम् । वायसेति । वल्लमे समागते पिण्डं ते दास्यामीति प्रतिज्ञातं गृहाणेति । नायकेन सह यः प्रथमः समागमस्तदनन्तरमेतत्कामपूजादिकमनुष्ठेयम् । प्रत्यक्षे परोक्षे च वृत्तमाह -संक्तस्य चेति । अनुमरणं ब्रूयात् खर्याते न मया जीवितव्यमिति । सक्तो ह्येवं संभावयति नान्यः । कः पुनः सक्त इत्याह निसृष्टभावः समानवृत्ति: प्रयोजनकारी निराशङ्को निरपेक्षो- sर्येष्विति सक्तलक्षणानि ॥ निसृष्टभाव इति सर्वात्मना विश्वस्तः । समानवृत्तिस्तावत्प्रवृत्तौ निवृत्तौ च । प्रयोजनकारी नायिकाया यत्कार्ये तदुदीरितमात्रं यः कर्तुं शक्नोति । निराशङ्को न कुतश्चिदाशङ्कते तस्यां प्रवर्तमानः । निरपेक्षोऽर्थेषु आत्मास्य तया (?) गृह्यमाणेष्वपि । तदेतन्निदर्शनार्थ दत्तकशासनादुक्तम् । अनुक्तं च लोकैतः शीलयेत्पुरुषप्रकृतितश्च ॥ तदित्युक्तं वृत्तम् । निदर्शनार्थ दत्तकशासनादिति दत्तकशास्त्रं दृष्ट्वा । लोकत इति पराराधनकुशलाच्छीलयेदागमयेत् । १. 'शकस्य'. २. 'विसृष्ट'. ३. 'निरातङ्क'. ४. 'शक्तलक्षणम्'. ५. 'शीलयेल्लोकात्पुरुपप्रकृतेय'. २ अध्यायः ] ६ वैशिकमधिकरणम् । गम्यस्याप्यनुवर्तमानस्य वेश्यास्वरूपप्रतिपत्त्यर्थमाहभवतश्चात्र श्लोकौ सूक्ष्मत्वादतिलोभाच प्रकृत्याज्ञानतस्तथा । कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैरपि ॥ कामयन्ते विरज्यन्ते रञ्जयन्ति सजन्ति च । कैर्षयन्त्योऽपि सर्वार्थाज्ञायन्ते नैव योपितः ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्तानुवृत्तं द्वितीयोऽध्यायः । ३२३ स्त्रीणामिति वेश्याशब्दत्वादिति । चेतोघर्मेणातीन्द्रियत्वाद्वेश्याशब्दवाच्यानां वैरिच्छा (?) लक्षणः कामस्तस्य लक्ष्म स्वरूपं दुर्ज्ञानं किमिदं स्वाभाविकं वा कृत्रिममिति दुःखेन ज्ञायते । कथमित्याह सूक्ष्मत्वादिति चेतोघर्मेणातीन्द्रियत्वात् । क्रियया सुज्ञानमिति चेदाह — अतिलो भादिति । लुब्धा हि स्वाभाविकमिव रूपयन्ति प्रवृत्त्या न ज्ञायन्त इति । कामपरासु हि विश्वसन्ति पुमांसः । ततश्च तेषां स्वभावत एव रागाचरणसंभवादज्ञानमेव प्रादुर्भवति न ज्ञानम् । तद्भावितैरपि लक्ष्मपरिज्ञानाभियुक्तैरपि दुर्ज्ञेयं किमिदं स्वाभाविकं कृत्रिमं वेति । तदेवं कृतकं च कामलक्ष्म दर्शयन्नाह – कामयन्त इति । अकृतकं कामयन्ते तदपि न स्थिरमित्याह—कृतककेलिवशाद्विरज्यन्ते । कृतककेलिवशाद्रजयन्ति । तदपि न स्थिरमित्याह – त्यजन्तीति । किमर्थमित्याह –कर्षयन्त्योऽपीति । सर्वार्थान् गृह्णन्त्योऽपीत्यर्थः । अलक्तकवन्निष्पीडितसारत्वाज्ज्ञायन्ते नैव किंरूपा इति । योषितो वेश्या इत्यर्थः । तस्मात्तासु नासक्किं कुर्यात् । केवलं यावदर्ये प्रतिधेरन्नित्युपदेशः । इति कान्तानुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानाया विदग्धामनाविरहकातरेण गुरुदत्तेन्द्रपादाभिघानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां वैशिके षष्ठेऽधिकरणे कान्तानुवृत्तं द्वितीयोऽध्यायः । १. 'कामलक्षणदुर्ज्ञान'. २. 'रज्यन्ते रमयन्त्यश्च'. ३. 'कर्पयन्त्यपि'. कामसूत्रम् । ३१ आदितोऽध्यायः] तृतीयोऽध्याय । एवमनुवर्तितात्कान्ताद्वित्तमाददीत । तच्च नानुपायेन साधयेदित्युक्तम् । इदानीमर्थागमोपाया उच्यन्ते । तच्चादानं द्विविधं स्वाभाविकमितरच्च यदाह३२४ सक्ताद्वित्तादानं स्वाभाविकमुपायतश्च । तंत्र स्वाभाविक संक- ल्पात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीतेत्याचार्या: । विदि- तमप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ॥ सक्तादित्युक्तलक्षणात् । स्वाभाविकं न यत्नमपेक्षते । सक्तस्यार्थेषु निरपेक्षत्वात् । उपायतश्च यदसक्ताद्भवति तत्प्रायत्निकम् । तत्र स्वाभाविकं वित्तं लभमाना संकल्पसमधिकं वेति संकल्पादिति संकल्प एतावच्च यदियमिति संकल्पिताच यदधिकं (१) तत्र नोपायान्प्रयुञ्जीत सुलभत्वात् । तेनासंकल्पिते संकल्पिते च प्रयोगः । विदितमपीति स्वाभाविकत्वेन समधिकत्वेन चापरिच्छिन्नमप्युपायैः परिष्कृतमुपबृंहितं द्विगुणं दास्यतीति तत्र प्रयोगो युक्तः । यैरुपायैरादीयमानेऽप्ययें नार्थपरता ज्ञायते तानुपायानाहअलंकारभक्ष्यभोज्यपेयैमाल्यवस्त्रगन्धद्रेव्यादीनां व्यवहारिषु कालिकमुद्धारार्थमर्थप्रतिनयनेन । तत्समक्षं तद्वित्तप्रशंसा । व्रतवृक्षारामदेवकुलतडागोद्यानोत्सर्वंभीतिदायव्यपदेशः । तदभिगमर्नानेंमित्तो रक्षिभिचरैर्वालंकारपरिमोषः । दाहात्कुडचच्छेदात्ममादाद्भवने चार्थनाशः । तथा याचितालंकाराणां नायकालंकाराणां च तदभिगमनार्थस्य व्ययस्य प्रणिधिभिनिवेदनम् । तदर्थमृणग्रहणम् । जनन्या सह तदुद्भवस्य व्ययस्य विवादः । मुहृत्कार्येष्वनभिगमनमनभिहारहेतोः । तैश्च पूर्वमाहता गुरवोऽभिहारा: पूर्वग्रुप१. 'शकात्स्वाभाविक वित्तादानमुपायतश्च स्वाभाविकं सकल्पित तत्समधिक वा. २. 'वात्स्यायनः । सकोऽनुपायतश्च साघयेत्' ३. 'पेयवस्त्रगन्धमाल्यद्रव्यादीना. ४. 'द्रव्यव्यवहारादिषु', 'द्रव्यादितध्यवहारिषु'. ५. 'मुद्धरणम्'. ६. 'प्रीतिदायादुपदेशः. ७. 'निमित्ता–परिमुष्टिः'. ८. 'सुहृदा'. ९. 'आता.'. १०. 'पूर्वमश्राविताः स्युः . · ३ अध्यायः] ६ वैशिकमधिकरणम् । ३२५ नीताः पूर्वे श्राविताः स्युः । उचितानां क्रियाणां विच्छित्तिः । नायकार्थं च शिल्पिषु कार्यम् । वैद्यमहामात्रयोरुपकारक्रिया का - र्यहेतोः । मित्राणां चोपैकारिणां व्यसनेप्वभ्युपपत्तिः । गृहकर्म । सख्याः पुत्रस्योत्सञ्जनम् दोहदो व्याधिमिंन्त्रस्य दुःखापनयनमिति । अलंकारैकदेशविक्रयो नायकस्यार्थे । तया शीलितस्य चालंकार- स्य भाण्डोपस्करस्य वा वणिजो विक्रयायें दर्शनम् । प्रतिगणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम् । पूर्वोप- काराणामविस्मरणमैनुकीर्तनं च । मणिषिभिः प्रतिगणिकानां लाभातिशयं श्रावयेत् । तानु नायकसमक्षमात्मनोऽभ्यधिकं लाभं भूतमभूतं वा ब्रीडिता नाम वर्णयेत् । पूर्वयोगिनां च लाभातिश- येन पुनः संघाने यतमानानामाविष्कृतः प्रतिषेधः । तत्स्पर्धिनां सागयोगिनां निदर्शनम् । न पुनरेष्यतीति वालयाचितकमित्यर्था- गमोपायाः ॥ भक्ष्यं लड्डुकादि । भोज्यमन्नादि कृतमकृतं वा । पेयं सुरादि । वस्त्रं चतुर्विधं त्वक्फलकृमिरोमजम् । गन्धः कुङ्कुमादिः । माल्यं अथितकुसुमादि । आदिशब्दात्ताम्बूलफलपूगपशुभाण्डोपस्करादि । तदुद्धार्य (रार्थ) मिति संबन्धः । व्यवहारिप्विति विक्रेतृषु व्यवस्थितम् । कालिकमिति कालेन देयम् । उद्धार्थमादावित्यर्थः । अर्थप्रतिनयनेनेति मूल्यप्रतिदानेन न तु द्रव्यस्यैव प्रतिनयनेन । तत्समक्षमिति नायकसमक्षम् । यतो दृष्ट्वा स्वयमेव रोचते मदीयमिति तत्प्रशंसत इति ददाति । व्रतेति । आगाम्यष्टम्यां मम व्रतं तत्रानेन प्रयोजनमिति । तद्दशें (१) मया वृक्षो रोपितस्तस्य प्रतिष्ठेति । आम्राणां मधूकानां मया आरामः कार्यः । कर्णस्य वा कर्णवेधादिकं कार्यमिति (?) । देवकुलमुत्थाप्यमुत्थापितस्य वा प्रतिष्ठेति । तडागं पुष्करिण्यादिकं खातयितव्यं खानितस्य वा प्रतिष्ठेति । उत्सवः परश्वो भविता त१. 'व्युच्छित्ति . २. 'अभावज्ञानायाकार्ये च'. ३. 'उपकारिणां वा'. ४. 'व्यसनोत्सवेषु. ५. 'इति च'. ६. 'नायकार्यतया शीलितस्य'. ७. 'नित्यमनुकीर्तनं'. ८. 'लागयोगिता'. ९. 'निदर्शनमित्यर्थागमोपाया । न पुनरेष्यतीति. ३२६ कामसूत्रम् । ३१ आदितोऽध्यायः ] त्रानेन प्रयोजनमिति । त्रिग्घोऽयमागतस्तस्य प्रीत्या अवश्यं किंचिद्देयमिति तद्व्यपदेशः । तदभिगमनमिति नायकाभिगमननिमित्तं यस्य (?) रक्षिभिर्दण्डपाशिकैः सहायैः कृतसंवित्तकैश्चौरैर्वा कृतसंवित्कैरलंकारमोक्षः कार्यः । येनेयमदग्धन्मूल(?) मागच्छन्ती दुःखितेति ज्ञात्वा अन्यमलंकारं ग (य) च्छति दाहादिति । प्रमादादुत्थितेऽसौ च दग्धमिति नाशः प्रकाश्यः । न तु खयमादीप्यः । अनेकप्राण्युपघातदोषात् । कुड्यच्छेदा दिति चौरैः संघिखातादपहृतमिति नाशः । चौरव्यञ्जनैर्वा कुड्यच्छेदान्नाशः । प्रमादादिति । मम मातुर्वा प्रमादागृह एव द्रव्यनाशः । तथेति यथा द्रव्यस्य दाहादिना नाशः याचितालंकाराणां कार्यवशादन्यतो मार्गितानां नायकालंकाराणां तेन स्थापितानां दाहादिना (नाशे) प्रकाशितेऽवश्यं प्रयच्छति स्वकीयं च न मृगयति । प्रणिघिमिरिति परिचारकमुखा ये नायकेन प्रणिहिता स्तैर्व्ययस्यातिवदनं नायकाग्रतस्त्वाममिगन्तुमस्याः सरकताम्बूलादिभिरियान् व्यय उठित (उत्थित) इति । तदर्थमिति नायकनिमित्तव्ययार्थम् । ऋणग्रहणं तत्समक्षमित्यर्थात् । जनन्येति । ऋणं किमिति गृह्णासि कथं त्वया शोधयितव्यमित्यभिधत्या मात्रा सह तदुद्भवस्य नायकसंबन्धिनः कृते नात्मीयस्य विवादः कर्तव्यः । किं तव अहमेवात्मानमपि विक्रीय शोधयिष्यामीति । तेन तथाविधं दृष्ट्वावश्यं ददातीत्यर्थः । सुहृत्कार्येष्विति नायकमित्रोत्सवादिष्वनभिगमनं कार्ये आहूयमाना न यामि । नायकेन गण्यमानाया अपि कारणमाह - अनभिहारहेतोरिति । अभिहारमु (उ) पायनं तन्मम नास्तीति । तैश्च पूर्वमाहता इति सुहृद्भिरस्माकमप्युत्सवे महान्तोऽमिहाराः । पूर्वमुपनीता इति नायकस्य । पूर्व श्राविताः स्युः यावदेव सुहृत्कार्यं न संभवति । पूर्व याचितं हि कार्यकाले प्रयच्छति यदि न दद्यादवश्यमेव तदानीमनभिगमनम् । उचितानामिति प्रत्यहं शरीरस्थित्यर्थं क्रियमाणानां विच्छेदः कार्यः । येनायमिदानीं शरीरस्थितिरप्यस्या न संभवतीति प्रयच्छति । नायकार्थं चेति । नायकादर्थो यस्मिन् । कार्य शिल्पिपु । निर्देश्यमिति शेषः । अयमुत्कृष्टः शिल्पी कारणकं (?) बहून्मृगयते तच्च मम नास्ति यदि त्वं प्रयच्छसि कारयेयं नो चेदामविति (?) ३ अध्यायः] ६ वैशिकमधिकरणम् । ३२७ कारयिष्यामीति । उपकारक्रिया उपकारकरणम् । कार्यहेतोरिति इदं तत्कार्यं यदुपकृतौ वैद्या भेषजापदेशेन नायकं दापयन्ति । महामात्रश्चोपकृतो हठाददातुकाममपि । मित्राणामिति नायकसंबन्धिनामुपकर्तुं शीलं येषां नान्येषाम् । व्यसनेषु दैवमानुषेषु । अभ्युपपत्तिः साहाय्यम् । तानि हि व्यसनेष्वभ्युपपन्नानि नायकमभिधायोपकुर्वन्ति । गृहकर्म च्छादनेष्टकादि कारयितव्यम् । सख्याः स्वस्याः पुत्रस्योत्सञ्जनं यस्योत्सवनिकेति प्रतिपत्तिः। क्रियाकालोपलक्षणं चैतत् । अन्नप्राशनं चूडाकरणादि वा करणीयम् । दोहदोऽभिलाषो यसिन्सख्याः । व्याधिर्वा आकस्मिकः प्रतिकर्तव्यः । मित्रस्य च युष्मदीयस्य पुत्रादि मरणान्ममेह दुःखमुत्पन्नं तत्संवर्गना (?) दपनेतव्यमिति । इत्येवं गृहकर्मादि व्यपदेश्यमिति शब्दशेषः । अलंकारैकदेशविक्रय इति स्वस्यालंकारस्यैकदेशमाकृष्य तत्समक्षं विक्रेयो येनायं मदर्थे विक्रीणातीति प्रयच्छति । तया नायिकया । शीलितस्य रुचितालंकारस्य भाण्डोपस्करस्य वा शीलितस्य । वणिजः कृतसंकेतस्य नायकसमक्षं दर्शनं कर्तव्यं येनायं नास्त्यस्याः किमपि यच्छीलितमपि विक्रेतुमारब्धमिति प्रयच्छति । 'भाण्डसंप्लवे विशिष्टग्रहणम्' इति दत्तकसूत्रस्पष्टार्थ सूत्रान्तरमाह — प्रतिगणिकानामिति । भाण्डस्य सादृश्यात्स्वेन भाण्डेन व्यतिकरे परिवर्ते सति मा भूत्पुनरेवमिति प्रतिशिष्टस्य प्रमाणसंस्थानाभ्यां ततोऽधिकस्य ग्रहणं वणिजो हस्तात् क्रमेण नायकसमक्षं कुर्यात् येनायं क्रीत्वा प्रयच्छति । प्रायशश्च वेश्यानां सामान्यानां कार्योत्पत्तावन्योन्यस्य भाण्डं याचितकं भवतीति प्रतिगणिकाग्रहणम् । अविस्म रणमिति विस्मरणे हि तवेदं मयोपहृतमिति यदि तेनाभिहिता किं ब्रूयात् । अनुकीर्तनं च तत्समक्षं मयोपकृतमत्र न नश्यतीति पुनः प्रयच्छति । प्रणिधिमिश्चारैः प्रतिगणिकानामात्मनातुल्यदानमभिहीनां (?) लाभातिशय श्रावणम् । नायकसमक्षं भवदावासाद्विष्णुमित्रया लव्धमिदमधिकमित्यादि । तास्विति प्रतिगणिकासु यो लाभस्तस्मादप्यधिकमिति योज्यम् । भूतं वा नायकेन दत्तम् । अभूतमदत्तम् । त्रीडिता नामेति लज्जितेव वर्णयेत् । येन सोऽपि लज्जितः प्रयच्छेत् । पूर्वयोगिनामिति । पूर्वसंसृ३२८ कामसूत्रम् । ३१ आदितोऽध्यायः ] टानां विशीर्णानां लाभातिशयेनाधिकेन लामेन पुनः संघाने यतमानानां यत्नं कुर्वतामाविष्कृतः प्रकटः प्रतिषेधः कर्तव्यः । तथासौ श्रुत्वा मय्यनु - रक्तेति प्रयच्छति । तत्स्पर्धिनां चेति नायकस्पर्धिनां त्यागयोगिनां निद- र्शनं प्रणिधिभिः । सभागत्वख्यापनार्थमित्यर्थः । येनायं श्रुत्वा वितरेत् । एषा मा भूदिति (?) प्रयच्छति । न पुनरेष्यतीति । न पुनर्गृहमनेनाग- न्तव्यमिति बालेन प्रयुक्तेन याचितकं कार्यमिदं मे देहीति । बालवद्वा लज्जां त्यक्त्वा याचितव्यमित्यर्थः । एतेऽर्थागमोपाया देशकालावस्था पे- क्षया प्रयोक्तव्याः । इत्यर्थागमोपाया स्त्रिपञ्चाशत्तमं प्रकरणम् ॥ सक्ताद्वित्तादानमुपायैरुक्तं विरक्ते तु किं प्रतिपद्येतेति विरक्तप्रेतिपत्तिरुच्यते । तत्र विरक्तस्य लक्षणमाह विरक्तं च नियमेव प्रकृतिविक्रियातो विद्यात् सुखवर्णाच ॥ नित्यमेवेति सर्वत्र क्रियासु वर्तमानम् । प्रकृतिविक्रियात इति स्वभा वान्यथात्वेनेत्यर्थः । अनेनेङ्गितमन्यथावृत्तिलक्षणं दर्शयति । मुखवर्णाच्च विद्यादित्येव । मुखरागादित्यर्थः । कश्चिदेव मुखरागेऽभिरागं सूचयति तेनेङ्गिताकाराभ्यां रक्तवद्विरक्तमपि विद्यादित्युक्तम् । तामन्यथावृत्तिमाह- ऊनमतिरिक्तं वा ददाति । प्रेतिलोमैः संवध्यते । व्यपदिश्य- न्यत्करोति । उचितमाच्छिनत्ति । प्रतिज्ञातं विस्मरति । अन्यथा वा योजयति । स्वपक्षैः संज्ञया भाषते । मिश्रकार्यमपदिश्यान्यत्र शेते । पूर्वसंसृष्टायाश्च परिजनेन मिथः कथयति ॥ अतिरिक्तं वा यथादीयमानात् । प्रतिलोमैः संवध्यते नायिकाया वि पक्षैः सह प्रीति करोति । व्यपदिश्य स्नातव्यमिति अन्यत्करोति सज्जीकृतेऽपि स्नानोपकरणे भुते । उचितमाच्छिनत्ति प्रत्यहं दीयमानं न ददाति । प्रतिज्ञातमिदं मया देयमिति विस्मरति मृग्यमाणे न प्रतिज्ञातमित्यन्यथा १. 'त्रिपञ्चाश'. २. 'प्रकृति.'. ३. 'मन. प्रकृतिविक्रियातो मुखवर्णाच्च विद्यात् . ४. मुसवर्णांकृतितच'. ५. 'प्रतिलोमैलोकै.'. ६. 'त्वन्यत्', ७. 'सह मिथ.', ८. 'व्यपदिश्यान्यत्'. ३ अध्याय:] ६ वैशिकमधिकरणम् । २२९ योजयति न त्विदमिति । स्वपक्षैरिति मित्रादिभिः सह संज्ञया भाषते न वचसा । मा श्रौषीदियमिति । मित्रकार्यमपदिश्य मयाद्य कर्तव्यमित्यन्यत्र शेते नायिकान्तरगृहे । पूर्वसंसृष्टायाश्च नायिकायाः परिजनेन परिचारकेण सह मिथो रहसि कथयति यत्पूर्ववृत्तं वर्तमाननायिकागतं वा । तसिन्विरक्त इति ज्ञातेऽनुष्ठानमाह - तस्य सारद्रव्याणि भागववोधादन्यापदेशेन हस्ते कुर्वीत । तानि चास्या हस्तादुत्तमर्णः प्रसहा गृह्णीयात् । विवदमानेन सह धर्मस्थेषु व्यवहरेदिति विरक्तप्रतिपत्तिः ॥ प्रागवबोधादिति यावदसौ न जानाति ज्ञातोऽहमनया विरक्त इति । अन्यथा प्रतिविधानान्तरं चिन्तयेत् । तत्राप्यन्यापदेशेन । यत्किंचिद्याजं कृत्वेत्यर्थः । तानि चेति सारद्रव्याणि । तस्या (अस्या) इति नायिकाया हस्तात् । उत्तमर्ण इति तस्मादुत्तमर्णान्नायकार्थमृणमाहृतं (?) गृहीतवती स तया कृतसंकेतः प्रसह्याभिभूय गृह्णीयात् । विवदमानेनेति मदीयमेतत्त्वं किं गृह्णासीति विवादं कुर्वता नायकेन सह धर्मस्थेषु प्राडिवाकादिषु च व्यव- हरेदुत्तमर्णः । यदि तुन विवदेत्सिद्धं कार्यम् । इति विरक्तप्रतिपत्ति- श्चतुःपञ्चाशं प्रकरणम् ॥ विरक्तस्य स्वयमेव निष्कासितत्वान्न निष्कासनम् । यस्तु सक्तत्वात्स्वयं न निष्कसति तस्य निष्कासनमा उच्यन्ते । तत्रायं प्रथमः कामो (कल्पो) यदस्यानुपासनम् । यदाह सक्तं तु पूर्वोपकारिणमंप्यल्पफलं व्यलीकेनानुपालयेत् । अ- सारं तु निष्पतिपत्तिकमुपायतोऽपवाहयेत् । अन्यमवष्टभ्य ॥ अल्पदत्तमपि व्यलीकेनापराधेनानुपालयेत् । तस्य सक्तत्वात् । पूर्व बहुधा कृतोपकारोऽपि परामिच्छति तदानिष्कासयेदित्यर्थः । असारं निद्रव्यम् । अपवाहयेन्निष्कासयेत् । यद्यपि तदात्वेनापि तथा भविष्यतीति चेदाह — निष्पतिपत्तिकमिति । निरनुष्ठानमित्यर्थः । ननु रतिफलत्वात्कथं १. 'तस्य च'. २. 'था'. ३. 'प्रतिगृह्णीयात् '. ४. 'इति विरकप्रतिपत्ति ' इति पुस्तकान्तरे नास्ति ५. 'क्रिया: '. ६. 'शक'. ७. 'अल्पफलमप्यलीकेन'. का० ४२ ३३० कामसूत्रम् । ३१ आदितोऽध्यायः] निष्कास्य इति चेदाह — अन्यमवष्टभ्येति । अन्यस्मादुभयोपपत्तेः । वर्त- मानादन्यं पूर्वसृष्टं विशीर्णमन्यं चास्य चासृत्य ( चानुसृत्य) अपवाहयेदिति योज्यम् । अन्यथा विपक्षस्याभावात् । सत्यप्युपयोगे सक्तस्यानिष्कासनात् । ते च निष्कासनोपायाः प्रकाशे रहसि वा स्थितस्य । तत्र पूर्वमधि- कृत्याह- तदनिष्ठसेवा । निन्दिताभ्यासः । ओष्ठनिर्भोगः । पादेन भूमे- रभिघातः । अविज्ञातविषयस्य संकथा । तद्विज्ञातेष्व विस्मयः कुत्सा च । दर्पविघातः । अधिकैः सह संवासः । अनपेक्षणम् । समानदो- घाणां निन्दा । रहसि चावस्थानम् ॥ तस्य नायकस्य यदनिष्टं तस्य सेवा कर्तव्या येनायं प्रागेवेयं मम च्छ न्दानुवर्तिनी संप्रति कारवादभक्ष (?) विरक्तेति व्यावर्तते । निन्दितं गहिंतं तृणच्छेदलोष्टमर्दनादि तस्याभ्यासः पुनः पुनः करणं तदग्रतः । येनायं ममाशुमं काङ्क्षत इति जानाति । ओष्ठनिर्भोगः तं दृष्ट्वा खमोष्ठं च क्रोडीकृत्य भयं निष्कासयेत् । पादेन भूमेरभिघातो भूमौ पादास्फालनम् । तदुभयं नित्यक्रुद्धताख्यापनार्थम् । अविज्ञातविषयस्य संकथेति यस्मिन्विषये नायकस्य परिज्ञानं नास्ति तस्मिन् तस्य संबन्धिनी शोभनमिदं जानातीति संकथा कर्तव्या यथास्य लोकमध्ये वैलक्ष्यं भवति । विज्ञातेष्वविस्मयो विरागख्यापनार्थम् । कुत्सा च दुःशिक्षितमस्य । दर्पविघातः शौर्यादिननितदर्पस्यापनयनमन्यं प्रोत्सा । येनायं विलक्षीभवति । अधिकैः सह संवासो येन तेभ्यो बिभ्यन्न ढौकते । अनपेक्षणमिष्टानिष्टवस्तुप्ववज्ञाख्यापनार्थम् । समानदोषाणां निन्दा यथायं तद्वारेण मां कुत्सतीति जानाति । रहसि चावस्थानं संकथा वा । तत्र रतमधिकृत्याहरतोपचारेषूद्वेगः । मुखस्यादानम् । जघनस्य रक्षणम् । नखदशनक्षतेभ्यो जुगुप्सा । परिष्वङ्गे भुजमय्या सूच्या व्यवधानम् । स्तब्धता गात्राणाम् । सक्नोर्व्यत्यासः । निद्रापरत्वं च । श्रान्तमु १. 'संराग: '. २. 'सुरतस्य'. ३. 'व्यधनम्'. ४. 'वा'. ३ अध्यायः] ६ वैशिकमधिकरणम् । ३३१ पलभ्य चोदना । अशक्तौ हासः । शक्तावनभिनन्दनम् । दि- वापि । भावमुपलभ्य महाजनाभिगमनम् ॥ रतार्थ सरकताम्बूलादिषूपचारेषु उद्वेग इत्यप्रतिग्रहणम् । प्रतिग्रहणे वा असौमनस्यम् । मुखस्यादानं मुखं चुम्बितुं न देयम् । जघनस्य रक्षणं स्प्रष्टुं वा न देयम् । नखदशनक्षतेभ्यस्तरकृतेभ्यो जुगुप्सा । 'जुगुप्साद्यर्थानाम्' इत्यपादानसंज्ञा । भुजमय्येति । भुजौ व्यत्यस्य । खस्कन्धयोर्निदध्यात् । ततो भुजमेकीकृत्य सूचीव सूची तथा व्यवधानं परिष्वङ्गस्य । स्तब्धता गात्राणां कर्तव्या । नाक्रष्टुं दद्यादित्यर्थः । सक्नोर्व्यत्यासः स क्थिनी व्यत्यासयीत । यन्त्रयोगे प्रतिषेधार्थमुरू व्यत्यसेदित्यर्थः । निद्रापरत्वं चात्मनः ख्याप्यम् । श्रान्तमुपलभ्येति । यदि कथंचिद्रन्तुं प्रवृत्तस्तत्र श्रान्तं चोदयेत्प्रवर्तयितुम् । न पुरुषायितेन साहाय्यं दद्यात् । तत्र चोदितस्याशक्तौ हासः कर्तव्यः पार्ष्यामिहत्य यथायं विरक्तीभवति । शक्तावनभिनन्दनं वैराग्यख्यापनार्थम् । दिवापीति । अस्त्येव कश्चित्कामगर्दमो यः प्रतिषिद्धमपि दिवामैथुनमाचरति । उत्कण्ठां (भावं) संप्रयोगेच्छामुपलभ्य चेङ्गिताकाराभ्यां महाजनाभिगमनं रतिगृहान्निर्गत्य । तदिच्छाव्याघातार्थम् । संकथामधिकृत्याहवाक्येषु च्छलग्रहणम् । अनर्मणि हासः । नर्मणि चान्यमपदिश्य हसति वदति तस्मिन्कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च । आइस चास्य कथामन्याः कथाः । तव्यलीकानां व्यसनानां चापरिहार्याणामनुकीर्तनम् । मर्मणां च चेटिकयोपैक्षेपणम् । आगते चादर्शनम् । अयाच्ययाचनम् । अन्ते स्वयं मोक्षश्रेति परिग्रहकस्येति दत्तकस्य ॥ वाक्येष्विति विरूपकमुक्तमिति । अनर्मणीति । क्रीडारहितेऽपि संक१. 'दिवाप्यस्य भाव'. २. 'चार्यान्तरमपदिश्य हसेत् । वदति तस्मिन्परिजनत्य कटाक्षेक्षणम्'. ३. 'उपेक्षणम्', 'उपप्रथनम्'. ४. 'अन्ते च मोक्ष इति परिग्रहकल्पो दत्तकस्य'. ३३२ कामसूत्रम् । ३१ आदितोऽध्यायः] थने हासोऽकस्मात्कर्तव्यः येनार्य विनैव क्रीडाक्रियया मामुपहसतीति म-' न्यते । क्रीडायां प्रस्तुतायां वदति तस्मिन्नायके हसति । तेनाभिघीयमानादन्यमन्यमर्थमपदिश्य परिजनस्य कटाक्षेण प्रेक्षणं कर्तव्यम् । ताडनं च सहासं हस्तेन । येनान्यायां जानाति नाकस्मात्कथायां रमत इति । आहत्य चेति । तेन क्रियमाणां कथामपास्यान्याः कथाः कर्तव्याः । तद्व्यलीकानां नायकापराधानाम् । व्यसनानां धूतादीनाम् । अपरिहार्याणामिति । यान्युभयान्यपि परिहर्तुमशक्यानि तेषामनुकीर्तनं वैराग्यजननार्थम् । मर्मणां चानुकीर्तनं येषूक्तेषु दुःखमास्ते । चेटिकोपक्षेपणं चेटिकामुपक्षिप्य सर्वमभिघापयेत् । ऐभिरुपायैर्निष्क्रमणयोग्यतामापादितस्योपायद्वयं यतः पुननागच्छतीति । यदाह — आगते चादर्शनमिति । यावद्यावदागच्छति तावत्तावदात्मानं न दर्शयेत् । पश्यति चेदयाच्ययाचनम् । यन्न याचितुमर्हति तद्याचेत । अन्ते चावसाने मोक्षः स्वयमेव परित्यागः कर्तव्यः । तस्योपायैः प्रायेण निवारितत्वात् । परिग्रहकस्येति । वेश्याया गम्यस्य यः परिग्रहस्तस्य विधिरेतावानेव दत्तकप्रोक्तो न मयाभिहितः । तेन हि गणिकानां नियोगात्संक्षेपेणाभिधातुमीप्सितत्वात् । यतु तत्सेवकभूतं विशीर्णप्रतिसंधानादिकमपि बाभ्रव्योक्तं तदहं वक्ष्यामीति मन्यते । यदि परिग्रहः कर्तव्योऽनेनाधिकरणेन कथ्यते कथं वैशिकमित्युच्यत इत्याहभवतश्चात्र श्लोकौ परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम् । रक्तादर्थस्य चादानमन्ते मोक्षश्च वैशिकम् ॥ एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे । नातिसंधीयते गम्यैः करोत्यर्थांच पुष्कलान् ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके पष्ठेऽधिकरणेऽर्थागमोपाया विरक्तलिङ्गानि विरक्तप्रतिपत्तिनिष्कासनक्रमास्तृतीयोऽध्यायः । १. 'आमि:'. २. 'श्लोकावत्रभवतः. ४ अध्यायः] ६ वैशिकमधिकरणम् । ३३३ कृत्वेत्यर्थः । गम्यैः सं- परीक्ष्येति सहायगम्यागम्यगमनकारणचिन्तां योगो गम्योपावर्तनेन । संयुक्तस्यानुरञ्जनं कान्तानुवृत्तैः । रक्तादर्थस्य चादानं तदुपायैः । अतो मोक्षः स निष्कासनक्रमैः । एतत्सर्वं वेश्योचितं न कुलयोषिदुचितम् । तच्च वैशिकमिति संज्ञितम् । यदाह कात्यायनः-- 'वेशं वेश्याजनोचितमिति सप्रयोजनमस्येति वैशिकम्' । तस्य वेशस्य प्रयोजनमाह — एवमिति । कल्पेनेति वैशिकाख्येन । नातिसंधीयते ना- तिबाध्यते (वश्यते) । करोति पुष्कलानिति करोत्यनेकानित्यर्थः । इति निष्कासनक्रमाः पञ्चपञ्चाशं प्रकरणम् ॥ इति श्रीवात्स्यायनीय कामसूत्रटीकायां जयमङ्गलाभिधानाया विदग्धाद्मनाविरहकात रेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाध्याया वैशिके पष्ठेऽधिकरणेऽधीगमोपाया विरक्तलिङ्गानि विरक्तप्रति पत्तिर्निष्कासनक्रमास्तृतीयोऽध्याय । शास्त्रकार एव प्रकरणसंबन्धमाह वर्तमानं निष्पीडितार्यमुत्सृजन्ती पूर्वसंसृष्टेन सह संदध्यात् ॥ वर्तमानमिति तस्यां यो वर्तते तमलक्तकवन्निष्पीडितार्थमुत्सृजन्ती यदा त्यक्तुकामा तदा संदध्यात् । एवं सति 'अपवाहयेदन्यमवष्टभ्य' इत्यनुक्तं (इत्युक्तं ) भवति । विशीर्णेनेति पूर्वसंसृष्टेन निष्कासितेन । संधिक्षणा इति (?) विशीर्णप्रतिसंधानमुच्यते । विशीर्णस्यालक्तकवदुत्सृष्टस्य किं संघानेनेति चेदाह स चेदवसितार्थो वित्तवान्सानुरागश्च ततः संधेयः ॥ वित्तवानपि यदावसितार्थोऽवश्यं दास्यतीति । सानुरागश्च । अन्यथा विश्वसनार्थं यत्किंचिद्दत्त्वापि निष्कासितोऽहमनयेति विरक्तोऽपकुर्यात् । तत इति तस्मात्कारणात्संधेयः । सोऽप्यनया यदि न संसृष्टस्तत्र विधानान्तरमाहअन्यत्र गतस्तर्कयितव्यः । स कार्ययुक्त्या पड्डिधः ॥ अन्यत्र गत इत्यनेन षड़िधो विशीर्ण इति । तर्कयितव्य इति निरूप्यः १. 'उत्सृजति'. २. 'कार्यवशात्प्रविष्टः'. ३३४ कामसूत्रम् । ३२ आदितोऽध्यायः] वक्ष्यमाणेन न्यायेन । सहसा न संधेयः । स इति योऽन्यत्रगतः । कार्य- युक्त्येति पड़िधः संसृष्टस्त्वेकविधः । कार्ययुक्तिमाह- इतः स्वयम॑पसृतस्ततोऽपि स्वयमेवापसृतः । इतस्ततश्च निष्का- सितापसृतः । इतः स्वयमंपसृतस्ततो निष्कासितापसृतः । इतः स्वय- मैपसृतस्तत्र स्थितः । इतो निष्कासितापसृतस्ततः स्वयमपसृतः । इतो निष्कासितापसृतस्तत्र स्थितः ॥ इत इति । खदोषत एवास्य (?) यदस्या नायिकातः स्वयमेवापसृत्यान्यत्र गतस्तत्रापि खदोषोपकृतोऽपि (?) स्वयमेवापसृत इत्येकः । इतस्ततश्चेति । अत्राश्रययोर्दोषो नाश्रितस्य दोषः । यस्मादितो निष्कासितोउपसृत इत्याश्रयस्य दोषः । ततो यत्र गतस्ततोऽपि निष्कासित एवापसृत इति द्वितीयः । इतः स्वयमपसृत इत्याश्रितस्य दोषः ततोऽपि निष्कासि तोऽपसृत इत्याश्रयस्य चेति तृतीयः । इतः स्वयमपसृत इत्याश्रितस्य दोषः तत्र स्थित इति नोभयोरिति चतुर्थः । इतो निष्कासितापसृत इत्याश्रयस्य दोषः । ततः स्वयमपसृत इत्याश्रितस्येति पञ्चमः । इतो निष्कासितः समुपसृत्य (निष्कासितापसृतः) इत्याश्रयदोषः तत्र स्थित इति नोमयोरपीति षष्ठः । एपु संघेयासंघेयतया तर्कमाह इतस्ततश्च स्वयमेवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलघु- द्धिरसंधेयः ॥ उपजपति चेदिति । यदि संघातुं पीठमर्दादि मुखेनोपजपति भवती(भेदयती) त्यर्थः । तत्र द्वितीयपक्षाभावात्तर्कयितव्य इति नोक्तम् । य दाह —उभयोरपीति । तस्यास्तस्याश्च ताभ्यामनिष्कासितत्वात् । सतोऽपि गुँणानपेक्ष्य चलवुद्धित्वात्खदोषमे (षेणै) वापसृतः । स संहितोऽपि न स्थायी । न च तदस्यार्थेन योग इत्यसंधेयः । www १. 'अपसृत्य'. २. 'अपसत्य'. ३. 'अपसृत्य'. ४. 'तत्र'. 'स्वयमपसृत्योपैति चेतू. ६. 'च लघुवुद्धि.'. ७. 'गुणानपेक्षी'. ८. 'संनिहितोऽपि', ४ अध्यायः] ६ वैशिकमधिकरणम् । इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः । स चेदन्यतो बहु- लभमानया निष्कासितः स्यात्सेसारोऽपि तया रोपितो ममौमर्पा- द्वहु दास्यतीति संधेयः ॥ इतस्ततश्च निष्कासित उपनपति चेदिति वर्तमाने । स्थिरबुद्धिः स्वयमनपसृतत्वात् । अत्र पक्षद्वयमप्यस्ति । स चेदिति । अत्र तर्कयितव्य इति नोक्तम् । चेच्छन्देनैव यद्यर्थेन तदर्थस्योक्तत्वात् । अन्यत इति । अन्यस्माद्गम्याइहुलभमानयापि निष्कासितः । ससारोऽपि सद्रव्योऽपि । ततश्च तया रोषितो जनितरोषोऽमर्षाद्वहु दास्यतीति ज्ञात्वा तदानीमेव संधेयः । नैवमेषितत्वात् (?) नास्यामनुशयं बध्नाति । निःसारतया कदर्यतया वा त्यक्तो न श्रेयान् ॥ निःसारतया निर्द्रव्यतया संसारे च (ससारश्च ) कदर्यतया अवदान्यतया त्यक्तो निष्कासितोऽपि न श्रेयान् । संधातुमिहापि तुल्यत्वात् । इतः स्वयमपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तमादौ च दद्यात्ततः प्रतिग्राह्यः । इतः स्वयमपसृतस्ततो निष्कासितापसृत इत्यत्राप्युपजपेदिति वर्तते । अत्रापि यदिशब्दात्तर्कयितव्य इति नोक्तम् । अतिरिक्तं पूर्वस्माद्दानात् । आदौ च यावदर्थसंप्रयोगः । कृतकृत्यश्च (स्य) हि स्वयमैपसर्पणसंभवात् । प्रतिप्रायः संधेयः । अत्र विपर्ययेणाप्रतिग्राह्य इत्यर्थोक्तं (तो) द्वितीयः पक्षः । इतः स्वयमपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः ॥ तर्कयितव्यः किमुपकर्तु चोपजपतीति । अत्र संधेयपक्षमाह g विशेषार्थी चागतस्ततो विशेषमपश्यन्नांगन्तुकामो [मयि] मां जि- ज्ञासितुकामः स आगत्य सानुरागत्वाहास्यति । तस्यां वा दोपान्दृष्ट्वा माय भूयिष्ठान्गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दास्यति ॥ १. 'बहुलभ्यमानया'. २. 'समानया रोपितः', 'स रोपतः'. ३. 'अमर्षाद्दपाहा. ४. 'प्रेयान्'. ५. 'असमर्पण'. ६. 'तत्र'. ७. 'तदर्थागन्तुकाम.', 'नमितुकामः', कामसूत्रम् । ३२ आदितोऽध्यायः ] विशेषार्थितया यत्र गतस्तत्र विशेष सुरतगतमपश्यन् । तस्या अविद ग्धत्वात् । तत इति तस्याः सकाशात् । अस्मिन्मूलम् - आगन्तुकामो मयि दृष्टविशेषत्वात् । मां जिज्ञासितुकाम इति । तत्रस्थ एव मयि जिज्ञासां कर्तुमिच्छुः किमियं मां स्वयमपसूतु (सर्तु) मिच्छति न वेति । सानुरागत्वाद्दास्यति दृष्टविशेषत्वात् । तस्यां वा दोषान्गुणविपर्ययान्दृष्टवान् । आगन्तुकाम इति योज्यम् । सत्सु वा गुणेषु मयि भूयिष्ठान्प्रभूततमान्गुणानधुना पश्यति । तद्गुणान्स्तोकान्दृष्ट्वा स उभयस्मिन्नपि पक्षे मयि गुणदर्शी भूयिष्ठं प्रभूततमं दास्यति । असंधेयपक्षमाह वालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्वारागो वा ये- त्किंचनकारी वेत्यवेस संदध्यान्न वा ॥ ३३६ हरिद्वाराग इव रागो यस्य न चिरस्थायी । मयि विरक्तो यत्र गतस्तत्रातिविरक्तः सुतरां गन्तुकामः किं दास्यति । यत्किंचनकारी वा सोऽनर्थमपि कुर्यात् । इत्येवमवेत्य ज्ञात्वा संदध्यात् प्रथमे पक्षे । न वेति । नैव संदध्यात् द्वितीयेति (इति द्वितीये) । इतो निष्कासितापसृतस्ततः स्वयमपसृत उपजपस्तर्कयितव्यः । अनुरागादागन्तुकामः स बहु दास्यति । मम गुणैर्भावितो योऽन्य- स्यां न रमते ॥ तर्कयितव्य इत्युपकारापकाराभ्याम् । अनुरागादागन्तुकामः । सक्तस्य निष्कासितत्वात् । मम गुणैर्भावितो रञ्जितोऽयम् । योऽन्यस्यां न रमते । येन ततोऽपि खयमेवापसृतः । पूर्वमयोगेन वा मया निष्कासितः स मां शीर्लेयित्वा वैरं नि - र्यातयितुकामो धनमभियोगाद्वा मयास्यापहृतं तेद्विश्वास्य प्रतीप - मादातुकामो निर्वेष्टकामो वा मां वैर्तमानाद्भेदयित्वा त्यनुकाम इत्यकल्याणबुद्धिरसंधेयः ॥ १. 'यत्किचित्कारी चेत्यवलोक्य'. २. 'दास्यतीति मद्गुणैर्भावितः सोऽन्यस्य'. 3. 'स्वयमेवापसृतः पूर्वमुपायेन वा'. ४. 'छलयित्वा'. ५. 'तन्मा विश्वास्य प्रत्यादातुकामः'. ६. 'वर्तमाना'. ४ अध्यायः] ६ वैशिकमधिकरणम् । १३७ पूर्वसं (म) योगेनेत्यन्यायेन निष्कासितः । स मां शीलयित्वेत्यनुरागप्रदर्शनेन वानुप्रविश्य वैरं निर्यातयितुकामः । प्रयच्छन्नप्यहमनया हठानिष्कासित इति । घनमभियोगाद्वेति । अस्याभियोगमेव कुर्वत्यानया धनं बह्वपहृतमाकृष्टम् । संप्रयोगश्च कादाचित्कः कृतः । तद्धनं स्नेहोपनयनेन मां विश्वास्य प्रदीपमादातुकामः । निर्वेष्टुकामो वेति । निःपूर्वो विशतिनिवेंशे भृतौ वर्तते । इदानीं धनसंप्रयोगे तदेव धनं निर्वेशं कर्तुकामो नान्यद्दातुकामः । मां वा वर्तमानादिति । निष्कास्येन येन सह वर्तेऽहं तस्माद्वर्तमानादागन्तुकात् गंधास्तेन (१) मां भेदयति मा भूदस्य लाभेन योग इति । स्वयं दास्यति चेदाह —त्यक्तुकाम इति । अकल्याणबुद्धिर्वैरबुद्धिनिर्यातनाद्यभिप्रायः । अन्यथाबुद्धिः कालेन लम्भवितव्यः ॥ अन्यथाबुद्धी रागाद्दातुकामः कालेन । तदानीमेव तस्य निष्कासनेनापादितवैकृतत्वात् । लम्भयितव्य इति प्रापयितव्यो न तु प्राप्यः । खातकयेण लाघवात् । इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः ॥ एतेनेत्यनन्तरोक्तेन विशीर्णेन व्याख्यातः । अयमपि तथैव तर्कयित्वा अकल्याणबुद्धिरसंधेयोऽन्यथाबुद्धिः कालेन लम्भयितव्य इति । इतो निष्कासितस्तत्र स्थित उपजपंश्चेत्तर्कयितव्यः । तेषूपजपत्खन्यत्र स्थितः स्वयमुपजपेत् ॥ येऽन्यत्र गता उपगतास्तेषूपजपत्सु अनुपजपत्सु वा लाघवात् । अन्यत्र स्थित इति द्विधा वर्तमानस्त्याज्य इतरच्चेति । तत्रापि स्थितौ कारणापेक्षया स्वयमुपजपेत् । बहूनि कारणान्याहव्यलीकार्य निष्कासितो मयासावन्यत्र गतो यत्नादानेतव्यः । इतः प्रवृत्तसंभाषो वा ततो भेदमवाप्स्यति । वर्तमानस्य चेदर्थवि१. 'स्थिताः'. २. 'व्यलीकार्थो य'. ३. 'वा दर्पविधात करिष्यामि . का० ४३ ३३८ कामसूत्रम् । ३२ आदितोऽध्यायः ] घातं करिष्यति । अर्थागमकालो वास्य । स्थानहद्धिरस्य जाता । लब्घमनेनाधिकरणम् । दारैर्वियुक्त: । पारतत्र्याव्यावृत्तः । पित्रा भ्रात्रा वा विभक्तः । अनेन वा प्रतिवद्धपनेन संधिं कृत्वा नायकं धनिनमवाप्स्यामि । विमानितो वा भार्यया तमेव तस्यां विक्रमयि- ष्यामि । अरय वा मित्रं महेपिणीं सपत्नीं कामयते तदमुना भेद- यिष्यामि । चलचित्ततया वा लाघवमेनमापादयिष्यामीति ॥ व्यलीकमपराधो जन (अ) न्यस्यामभिगमनं तन्निमित्तं भयान्निष्कासितो न पुनर्ददातीति यत्नादानेतव्यः ततो हि फलेन योगात् । इतः प्रवृत्तसंभापो चेति । मामुद्दिश्य यो वृत्तसंभाष इदं दास्यामीति । तत इति यत्र गतस्तस्याः सकाशाद्भेदमवाप्स्यति किमन्यस्या ददामीति तदर्थविधातं करिघ्यति । येन वाह्ये तदर्थो वर्तमानो विलक्षीभूतो निष्कामति (?) । अर्थागमकालो वास्य वणिज्यया सर्वेया वा । स्थानवृद्धिर्वा प्रामादेरधिकस्य लाभात् । लब्धं वा तेनाधिकरणमक्षपटलादिकम् । दारैर्वियुक्तो ममेदानीमवसरः प्राप्तः । पारतन्त्र्याच्यावृत्तः कर्मस्थानेषु गृहे वा स्वतन्त्रः शुभं दास्यति । पित्रार्जवेनैव विभक्तो भ्रात्रा पितरि मृते । अनेन वा प्रतिबद्धमिति तस्य मित्रत्वात् । अनेन संधिं कृत्वा संक्रमस्थानीयेन । विमानितो वेति मत्तो विशीर्णः स्वभार्यया संसृष्टः । तां चास्माद्विमर्शादवमानितां चानाय्य तमेव संधाय तस्यां विक्रमयिष्यामि विग्रहं करि (कारयि ) ष्यामि । आः क्रोशस्य निर्यातनार्थम् । अस्य वा विशीर्णस्य वा मित्रं शक्तिद्रव्यसंपन्नं मद्वेपिणीमपहर्तुकामां मम सपत्नी (मिव ) वर्तमानां भूतपूर्वी कामयते तन्मित्रमधुना विशीर्णेन भेदयिष्यामि येन सा लाभेन न योग्य (क्ष्य) ते मां चोपकरिष्यति । चलचित्ततया वेति । इतोऽन्यत्र गतस्ततोऽप्यन्यत्र गत स्तमपि चलचित्ततया लाघवमापादयिष्यामि । स्वयमुपजपेदित्युक्तं तस्य खरूपमाह तस्य पीठमर्दादयो मातुः शील्येन नायिकायाः सत्यप्यनुरागे १. 'वियुक्तः', 'विभक्तघन:'. २. 'यया तस्यां विकारयिष्यामि'. ३. 'एवेनं'. ४. 'वाद्ये'. ४ अध्याय:] ६ वैशिकमधिकरणम् । ३३९ विवैशायाः पूर्वं निष्कासनं वर्णयेयुः । वर्तमानेन चाकामायाः सं- सर्गे विद्वेपं च । तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यापयेयुः । अभिज्ञानं च तत्कृतोपैकारसंवद्धं स्यादिति विशीर्णमतिसंघानम् ॥ तस्येति विशीर्णस्य । मातुः जील्येनेति मातैवास्या दुःशीला । तया तथार्थपरतया त्वं निष्कासितः । नायिका त्वय्यनुरचैव । केवलं परदशा सती । वर्तमानेन गम्येन यः संसर्गः संप्रयोगो नायिकाया अनिच्छन्त्या (स) औषधपानवत् । विद्वेषः परमार्थतः यत्तस्य दर्शनपथेऽपि न तिष्ठतीति व- र्णयेयुः । तस्याश्चेति नायिकायाः । सामिज्ञानैरिति सा (अ) मिज्ञानं वक्ष्यति । पूर्वानुरागैरिति पूर्व विशीर्णा येऽनुरागा आसंस्त एनं प्रत्यापयेयुर्नायकं बोधयेयुः । येन तथैव प्रतिपद्यते । तत्कृतोपकारसंबद्धमिति नायकेन यः कृत उपकारोऽर्थेनानर्थप्रतीकारेण वा तेन युक्तं स्यात् । कृतज्ञतासूचनार्थम् । अपूर्वस्यासंभवे विशीर्ण नोपजपतिथ (?) तेन संधानं युक्तमित्याह- अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान् । स हि विदितशीलो दृष्ट- रागय खूपचारो भवतीत्याचार्या: । पूर्वसंसृष्टः सर्वतो निप्पीडिता- र्थत्वान्नात्यर्थमर्थदो दुःखं च पुनर्विश्वासयितुम् । अपूर्वस्तु मुखेना- नुरज्यत इति वात्स्यायनः । तथापि पुरुषप्रकृतितो विशेषः ॥ @kampoph विदितशील इति सहवासेन ज्ञातस्वभावः । दृष्टानुरागश्च पूर्वमासक्तत्वात् । स ह्युमयधर्माध्यासितत्वात्कान्तानुवृत्त्या सुखेनोपचर्यत इति । नात्यर्थमर्थद इति । अर्थार्थ संघीयते । स चेन्न यथावत् किं तेन संहितेन । दुःखं च पुनर्विश्वासयितुम् । तेस्य सत्यपि विदितशीलत्वे दृष्टानुरागत्वे च निष्कासनोत्पादितवैकृत्यात् । सुखेनानुरज्यत इति तेन तद्दोषस्यादृष्टत्वात् । तया वा अनिष्पीडितार्थत्वादत्यर्थमर्थद इत्यर्थोक्तम् । पूर्वो द्विविधः -तनत्य इत ( इहत्य ) श्च । अन्यवेश्यासंसृष्टोऽसंसृष्टश्चेति । संसृष्टोऽपि द्विविषः - निष्कासितोऽनिष्कासितश्च । तेषां संधानोपायो गम्योपावर्तने द्रष्टव्यः । पुरुषप्रकृतित इति पुरुषस्वभावात् । क.स्या (कश्चि) दपूर्वोऽपि १. 'अवशगाया: '. २. 'उपकरण'. ३. 'दु.खय'. ४. 'तत्रापि'. ५. 'तत्याः'. ३४० कामसूत्रम् । ३२ आदितोऽध्यायः ] दुरुपचरः कदर्यश्च भवति । पूर्वसंसृष्टश्च निष्पीडितार्थोऽपि दाता । निष्कासितोऽपि सविश्वासः । इति संक्षेपेण संघानम् । कारणं त्रिविधम्—नायकान्तरस्थं विशीर्णस्थं वर्तमानस्थं चेति । तदेव दर्शयन्नाह भवन्ति चात्र श्लोकाःअन्यां भेदयितुं गम्यादन्यतो गम्यमेव वा । स्थितस्य चोपघातार्थ पुनः संधानमिष्यते ॥ विभेत्यन्यस्य संयोगाव्यलीकानि च नेक्षते । अतिसक्तः पुमान्यत्र भयाह्नहु ददाति च ॥ असक्तमभिनन्देत सक्तं परिभवेत्तथा । अन्यदूतानुपाते च यः स्यादतिविशारदः ॥ तत्रोपयायिनं पूर्व नारी कालेन योजयेत् । भवेच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥ (युग्मम्) सक्तं तु वशिनं नारी संभाष्याप्यन्यतो व्रजेत् । ततथार्थमुपादाय सक्तमेवानुरञ्जयेत् ॥ आयति प्रसमीक्ष्यादौ लामें मीर्ति च पुष्कलाम् । सौहृदं भतिसंदध्याद्विशीर्ण स्त्री विचक्षणा । इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसंघानं चतुर्थोऽध्यायः । अन्यामिति । भेदयितुं विशीर्णत्वात् । 'तदानेन विमानिता भार्यया तमेव तस्यां विक्रमयिष्यामि । अस्य वा मिश्रं महेषिणीं कामयते तदमुना भेदयिष्यामि' इत्युक्तं वेदितव्यम् । स्थितस्योपघातार्थमित्यनेन तदर्थाभिघातं करिष्यतीति । अत उक्तम् – अन्यतो गम्यमेव वेति । अन्यस्यानायिकातो विशीर्ण भेदयितुमिति अनेनापि विशेषं विशीर्ण वेत्यनुरक्तं चा१. 'च'. २. 'संसर्गात्'. ३. 'अशकमभिनिन्देच शक्त'. ४. 'वाच्छिन्नसंधान. ५. 'संभाव्य'. ६. 'सौहादे'. ९ अध्यायः] ६ वैशिकमधिकरणम् । ३४१ पेक्ष्य तदेव संप्रयोग इति । विभेतीति । यत्र यस्मिन्संस्थाने वर्तमानोऽति- संसक्तोऽप्यन्यस्य संयोगाद्विमेति संयुक्तोऽयं कदाचिदपकरिष्यतीति । व्यलीकानि च नायिकाकृतानपराधान्नेक्षते अवधीरयति सत्यतिसक्तत्वा- देव । भयादिति परित्यागमयाद्वहु ददाति । असक्तमिति । यो विशीर्णो- ऽप्यतिरक्तः अतिरक्तत्वाद्वर्तमानं तमसक्तमभिनन्देत । विज्ञा (त) भा- । - वत्वात् । यदस्यां न रक्त इति सक्तं परिभवेत् । असक्तावस्थां प्राप्स्यस्य- चिरेणेति । अन्यदूतानुपाते चेति । अन्यस्य संबन्धिन्यायाते दूतेऽतिवि- शारदोऽत्यर्थमर्थदो मा भूदनेन संघानमिति । तत्रेति तस्मिन्संधाने । पूर्वमसंसृष्टं विशीर्णमुपयायिनम् । नारीति सामान्याभिधानेऽपि प्रकरणा- द्वेश्यैव द्रष्टव्या । कालेन योजयेत् न तदैव संप्रयोजयेत् । अन्यथा तदात्व एव वर्तमानेनापि सक्तेन फलवता विश्लेषः स्यात् । विशीर्णोऽप्यतिरक्त- त्वात्प्रत्याशया कालान्तरमपेक्षत एव । यदाह — 'भवेच्चाच्छिन्नसंधानेति । विशीर्णेन सहेत्यर्थः । न च सक्तं परित्यजेत् । तदात्व एव तस्य सफ- लत्वात् । यस्तु ( यत्र तु) तदात्वेऽन्यस्माल्लाभो महानेव संप्रयोग विना तत्र कि प्रतिपत्तव्यमित्याह—सक्तं त्विति । वशिनं यथोक्तकारिणम् । अन्यत इत्यन्यमुद्दिश्य व्रजेत् । ततश्वेति । तत्र प्रत्रजिता सक्तमेवानुरज- येत् । कान्तानुवृत्त्या तत्र स्थितत्वात् । नान्यं प्रति संदध्यात् । प्रोक्ता- नुष्ठाने निरूप्यमाह ——आयतिमिति प्रभावम् लाभमायत्याम् तदात्वे प्रीतिं पुष्कलां निर्व्याजं तस्यात्मविषये । विचक्षणेति । परीक्षणे विचक्षणा कु- शला । इति विशीर्णप्रतिसंधानं षट्पञ्चाशं प्रकरणम् ॥ । इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानाया विदग्धागनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्याया वैशिके षष्टेऽधिकरणे विशीर्णप्रतिसधान चतुर्थोऽध्यायः । पञ्चमोऽध्यायः । त्रिविधा वेश्या – एकपरिग्रहा अनेकपरिग्रहा अपरिग्रहा चेति । तत्र १. 'अपूर्वस्य'. कामसूत्रम् । ३३ आदितोऽध्यायः ] पूर्वस्या लाभ उक्तः । द्वितीयाया वक्ष्यति । तृतीयाया विनापरिग्रहमनेकस्माल्लभमानाया लाभविशेषा उच्यन्ते । तत्रापरिग्रहकारणमाहगम्यवाहुल्ये बहु प्रतिदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥ यदा गम्या बहवस्तेभ्यः स्पर्धया बहु लभते । प्रतिदिनं चैकैकममिगच्छन्ती तद्दिन एकं प्रतिगृह्णीयात् । स हि बहु प्रतिदिनं च न ददाति । तदेवमनियतो लाभः । सततश्च कश्चित्स्वल्पमपि दद्यात् । तद्ब्रहणे चान्ये तावन्मात्रकमेव दधुरित्यूहेत् । देश कालं स्थितिमात्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूना- तिरिक्ततां चावेक्ष्य रजन्यामेर्य स्थापयेत् ॥ देशं संपन्नमितरं वा । कालं यत्र काम उद्भूतशक्तिर्वा(?) । स्थितिं देशप्रवृत्तिं यथा अघरकायं सेवमानस्यैकगुणः पूर्वकायमपि द्विगुणः । आत्मनो गुणान्रूपवैदग्ध्यादीन् सतोऽसतो वा । तथा सौभाग्यम् । अन्याभ्य इति मेप्याभ्यः (?) स्थानमानाभ्यामात्मनश्च न्यूनत्वं चाधिक्यं चाचेक्ष्य तदनुरूपं रजन्यामर्थे स्थापयेत् । द्वयमेकां रात्रिनियतासेति इति (2) तत्र यदावस्थापितार्थेन गम्य एक दूतसंप्रेषणेन भाषयति सिद्धं कार्य नो चेदाह गम्ये दूतांश्च प्रयोजयेत् । तत्प्रतिबद्धांश्च स्वयं महिणुयात् ॥ तत्प्रतिवद्धान्न तु (गम्यते) । गम्यप्रतिवद्धान्प्रयोजयेदभिप्रायजिज्ञासार्थम् । विदिताभिप्रायांश्च प्रेषयेदात्मीयानित्यर्थः । दूतसंप्रेषणाद्गम्यसंप्रयोगं रजन्युपालम्भः । तस्मान्नियमितादधिको यो ऽनुरागाल्लभ्यते स लाभातिशयः । तं चेत्तदैव लभते भद्रकमेव नो चे दत्राह द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत् । पॅरिग्रहं च चरेत् ॥ १. 'प्रीतिदिनं'. २ 'अर्धे'. ३. 'शतानि लाभातिशयप्रतिग्रहार्थ'. ४. 'परिग्रहकल्पं, 'परिग्रहकल्प सकलं चाचरेत. ५ अध्यायः] ६ वैशिकमधिकरणम् । १४३ इतिशब्दो विकल्पार्थः । द्वौ त्रीन् चतुरो वा एकस्यापि मूलं गच्छेत् । परिग्रहं च चरेत्परिग्रहकल्पं चेति । तावत्सु दिवसेष्वन्यनिरपेक्षानुरञ्जनेन । गम्यतश्च विशेषमाह गम्ययौगपद्ये तु लाभसाम्ये यद्रव्यार्थिनी स्यात्तदायिनि वि- शेषः प्रत्यक्ष इत्याचार्याः ॥ लाभसाम्य इति । यदि बहवो गम्या युगपदुपस्थिता एको हिरण्यमपरस्तुल्यमूल्यं लाभतो येन द्रव्यार्थिनी तद्दायिनि गम्ये लामविशेषः प्रत्यक्षः । तस्यार्थिनी स्यादित्याचार्याणाम् । अप्रत्यादेयत्वात्सर्वकार्याणां तन्मूलखार्द्धिरण्यद इति वात्स्यायनः॥ हिरण्यमत्र लोकप्रतीत्या कपर्दकाः (?) । ते चेदत्र गम्येन पुनर्न प्रत्यायन्ते वस्त्रादिकं दत्त्वा किंचित्प्रत्यादत्ते । सर्वकार्याणामिति । तद्रव्यं मण्डनमैन्यच्च कार्ये हिरण्यमूलम् । तेन लभ्यमानत्वात् । तेन तत एव विशेषः । तस्मात्तत्रैवार्थित्वं कर्तव्यम् । द्रव्यखरूपमाह सुवर्णरजतताम्रकांस्यलोहमाण्डोपस्करास्तरणमावरणवासोविशे- पगन्धद्रव्यकटुकमाण्ड घृततैलधान्यपशुजातीनां पूर्वपूर्वतो विशेषः । यत्तत्रसाम्याद्वा द्रव्यसाम्ये मित्रवाक्यादतिपातित्वादायतितो ग- म्यगुणतः प्रीतितश्च विशेषः ॥ सुवर्णरजते घटिते अघटिते वा । ताम्रकांस्यलोहैर्घटितं भाण्डोपस्करम् । आस्तरणं तूलिकादि । प्रावरणं कम्बलादि । वासोविशेषः क्षौमादिः । गन्धद्रव्यं चन्दनादि । कटुकं मरिचादि । भाण्डः पटु (?) घटादिः । पूर्वपूर्वत इति क्षुद्रपशुजातेर्षान्यं ततस्तैलादिरित्यादिना विशेषः । धान्यपशवो यत्र अवलब्धा (१) वेश्यानां प्रशस्यन्ते । यत्तत्रसाम्याद्वेति यद्वा एतन ते प्रियं ततो विशेषः । द्रव्यसाम्य इति । यच्चादावपि रूपतः प्रमाणतुल्यं प्रयच्छतस्तत्र मित्रवचनमनुष्ठेयम् । यत्र वा तदानीमदीयमानमतिपतति १. 'हिरण्यतः'. २. 'अन्यत्र'. ३. 'धान्यगुटपशु ४. 'पत्तन'. ५. 'साम्चेऽपि'. ३४४ कामसूत्रम् । ३३ आदितोऽध्यायः] यत्र चायतिः प्रभावः पुरु (ष) गुणो वा यत्र गम्ये सति प्रीतिर्वा नायिकाया नायकस्य नायिकायामिति । गम्यतो विशेषमाह-~~- रागित्यागिनोस्त्यागिनि विशेषः प्रयक्ष इसाचार्याः ॥ रक्तात्त्यागिनो विशेषः प्रत्यक्षः । तदात्व एव द्रव्यप्राप्तेः । शक्यो हि रागिणि त्याग आघातुम् ॥ रागिणि अत्यागिणि रक्ते शक्यस्त्याग आघातुमुपायेन । कुत इत्याहलुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निर्वन्धाद्रज्यत इति वात्स्यायनः ॥ त्यजति द्रव्यं ददाति । निर्बन्धादिति प्रयासेनापि न रज्यते तस्य ते जस्वित्वात् । अनुरक्तस्तु त्यजति । तत्रापि धनवदधनवतोर्धनवति विशेषः । त्यागिप्रयोजनकत्रों: भयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ॥ धनवदघनवतोरिति रागित्यागिनोर्यो धनवान्स विशिष्यते नेतरो निर्धनः । प्रयोजनकर्तरीति नायिकायाः कार्यस्य यः कर्ता तस्मिन्नत्यागिनि विशेषः प्रत्यक्षः । तैदात्व एव कार्यकरणात् । त्यागी तु दास्यतीति न प्रत्यक्षः । प्रयोजनकर्ता सकृत्कृत्वा कृतिनमात्मानं मन्यते त्यागी पुनर- तीतं नापेक्षत इति वात्स्यायनः ॥ सकृत्कृत्वेति एकवारं कृतमस्याः कार्य किमपरं करिष्यामीति । अतीतमिति दत्तमेवास्यै न पुनर्ददामीति नापेक्षते । त्यागशीलत्वात् । तत्राप्यात्ययिकतो विशेषः । कृतज्ञत्यागिनोस्त्यागिनि विशेषः भैत्यक्ष इत्याचार्याः ॥ आत्ययिकत इति यदा तत्प्रयोजनमवधारितमतिपतति तदा तत एव १. 'कर्तु: '. २. 'तदायत्व', 'तदायत'. ३. 'सकृत्प्रयोजनं कृत्वा.' ४. 'कृतमिति कृतं'. ५. 'आत्ययिक'. ६. 'प्रत्यक्षतः ५ अध्यायः] ६ वैशिकमधिकरणम् । ३४५ विशेषः । कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्षो द्रव्यदर्शनात् । न तु कृतज्ञे । तस्यात्यागित्वात् । चिरमाराधितोऽपि त्यागी व्यलीकमेकमुपलभ्य प्रतिगणिकया वो मिथ्यादूपितः श्रममतीतं नापेक्षते । प्रायेण हि तेजस्विन ऋजबोsनौeताच सागिनो भवन्ति । कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते । परीक्षितशीलत्वाच न मिथ्या प्यत इति वात्स्यायनः ॥ चिरमिति दीर्घकालम् । आराधितोऽपि कान्तानुवृत्त्या । व्यलीकं नायिकापराधमुपलभ्य । मिथ्यादूषित इति मिथ्यैव दोषं ग्राहितः सदैवेयं व्यलीकं कुरुत इति । श्रममतीतमाराधनक्लेशं नापेक्षते । कुत इत्याह – प्रा. येण हीति बाहुल्येन त्यागिनां तेजस्वितादयस्त्रयो धर्माः संभवन्ति । तत्र तेजस्वितया व्यलीकं नोपेक्षन्ते । ऋजुतया मिथ्यादोपं ग्राह्यन्ते । अनाहतत्वात् श्रमं नापेक्षन्ते । ततः कथमादरः । पूर्वश्रमापेक्षीति । कृतज्ञ इति कृतज्ञत्वादेव सहसा न विरज्यते व्यलीकमुपलभ्यापि । परीक्षितशीलत्वाचेति कृतज्ञतयैव परीक्षणस्वभावत्वान्न मिथ्यैव दोषं ग्राह्यते । तत्राप्यायतितो विशेषः ॥ यत्र प्रभावोऽस्ति यत्रार्थोपगमनहेतुस्तथा मित्रवचनमनर्थप्रतीघातोऽर्थसंशयश्च । तेषां विशेषमाह मित्रवचनार्थागमयोरर्थागमे विशेषः प्रेसक्ष इत्याचार्याः ॥ मित्रवचनादर्थः प्रत्यक्षः । तस्य दृश्यमानत्वात् । अन्यत्र वचनमेव केवलम् । सोऽपि ह्यर्थागमो भविता । मित्रं तु सकृद्वाक्ये प्रतिहते कडुपितं स्यादिति वात्स्यायनः ॥ सोऽप्यर्थागमो भविता भविष्यति । प्रतिहत इत्यननुष्ठिते । कलुपितं रोषितं स्यात् । ततश्च तत्प्रतिबद्धकार्यहानिरेव स्यात् । १. 'एक' पुस्तकान्तरे नास्ति. २. 'च'. ३. 'अत्यादृताथ'. ४. 'दूषितः स्यान्'. ५. 'प्रत्यक्षतः'. ६' 'वचनायः प्रत्यक्षः'. का० ४४ ३३ आदितोऽध्यायः ] तत्राप्यतिपाततो विशेषः ॥ अतिपातत इति यदा तदानीमुपेक्षितोऽर्थो (ऽति) पतति च दास्यत्येवेति विशेषः । मित्रं कलुपितं स्यादिति चेदाह तत्र कार्यसंदर्शनेन मित्रमनुनीय श्वोभूते वैचनमस्त्विति त तोऽतिपातिनमर्यं प्रतिगृह्णीयात् ॥ कार्यसंदर्शनेनेति जनानां कार्य तत्तवापि कार्यं न चेदं महदुपस्थितमपि(ति)पतति । त्वद्वचनं च श्वः कर्तास्मीत्यनुनयपूर्वमुक्त्वा । अर्थागमानर्थप्रतीघातयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥ अर्थागमे विशेषः प्रत्यक्ष इति दृश्यमानत्वात् । ३४६ कामसूत्रम् । अर्थः परिमितावच्छेदः, अनर्थः पुनः सकृत्मसृतो न ज्ञायते कावतिष्ठत इति वात्स्यायनः ॥ अर्थ इति । अस्यावच्छेद इयत्ता । सा परिमिता यस्येत्यर्थस्थानतिश - यत्वात् । सकृत्प्रसृत इति । अखण्डितप्रसरत्वादेकवारप्रसृतो न ज्ञायते क्वावतिष्ठते किं मूलघाते सर्वघाते वेति । अत्र मधुविन्दूपाख्यानमुदाहरणम् । तत्रापि गुरुलाघवकृतो विशेषः ॥ गुरुलाघवकृत इति लघोरनर्थात्पूर्वाद्गुरुर (न) र्थो विशेष्यते लघुश्चेद्गुरुरनर्थ इति । एतेनार्थसंशयादनर्थप्रतीकारे विशेषो व्याख्यातः ॥ अर्थसंशयादर्थः स्यान्न वेति संशयः अन्यस्मादनर्थप्रतीकारः तदार्थसंशये विशेषः प्रत्यक्षः । तत्र संशयितेऽपि लोकस्य प्रवर्तनात् । परिमितावच्छेदोऽर्थोऽनर्थः पुनः सकृत्प्रसृतो न ज्ञायते कावतिष्ठत इति । अत्रैव विशेषः । न लघोरनर्थात्प्रतिकर्तव्याद्गुरोर (राव) थें संशयिते विशेष इति व्याख्यातः । १. 'पातितः'. २, 'दावस्य एव विशेष : '. ३. 'कृतं न वचन ततः'. ५ अध्यायः] ६ वैशिकमधिकरणम् । ३४७ एवं द्विविधं रदन्यर्थेन (?) विशेषितेन यदुपचितं धनं स प्रकृष्टो नाम लाभातिशयः । प्रधानार्थस्य साधनात् । अतस्तद्धारणतया यत्नं दर्शयन्नाह - देवकुलतंडागारामाणां करणम्, स्थलीनामग्निचैत्यानां निवन्ध- नम्, गोसहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानम्, देवतानां पूँ- जोपहारप्रवर्तनम्, तेंव्ययसहिष्णोर्वा घनस्य पैरिग्रहणमित्युत्तमग- णिकानां लाभातिशयः ॥ विविधा वेश्या — गणिका रूपाजीवा कुम्भदासी च । ताः प्रत्येकमुत्तममध्यमाघममेदात्रिविधाः । तडागं पुष्करिणी । स्थळीनामिति । निम्नेषु प्रदेशेषु लोकागमनाथै सेतूनां निवन्धनम् । अभिचैत्यानामिति । स्थानाद्वहिर्मृद्भिर्गेहानि कृत्वा सर्वे रसगन्धव्रीहिरत्नेषु प्रदेपुरापूर्यया (१) अनये संसज्यन्ते । पात्रान्तरितमिति । वेश्याद्रव्यस्याप्रतिग्राह्यत्वादन्यहस्तेन दानम् । देवतापूजनानां प्रवर्तनं घटानिबन्धने । उपहाराणां भक्ष्यादीनाम् । तस्येयत्तां दर्शयन्नाह – ( देवकुलतडागारामाणां करणं स्थली देवतां समुद्दिश्य सर्वमेतत्प्रधानोऽर्थः ।) तैययसहिष्णोरिति । तसिन्धानार्थसाध्ये यव्ययं सहते । धनस्य परिग्रहणभयं ( १ ) अयं प्रकृष्टो रागाति (लाभाति) शयः । उत्तमगणिकानामिति । रूपादिभिर्नायिकागुणकलादिभिरन्विता उत्तमगणिकाः । गुणानां च पादार्धाभ्यां मध्यमाघमाः । सार्वाङ्गिकोऽलंकारयोगो गृहस्योदारस्य करणम् । महार्हेर्भाण्डैः परिचारकैश्च गृहपरिच्छदस्योज्ज्वलतेति रूपाजीवानां लाभातिशयः ॥ सार्वाङ्गिक इति सर्वेष्वङ्गेषु यो भवति । उदारस्येति संस्थानतः संकेततश्चेति । महार्हैरिति लोहताम्रराजतैः । परिचारकैरिति यथास्वं कर्मणा परिचरन्ति ये । गृहपरिच्छदस्येति गृहसंविधानकस्योज्ज्वलतेत्ययं प्रघानार्थः । तद्व्ययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते । अयं प्रकृष्टो लाभातिशयः । रूपाजीवानामित्युत्तमानाम् । सत्स्वपि गुणेषु रूपाजीवायां रूपस्य १. 'तडागानामारामाणां'. २. 'चैत्यकाना च वन्धनम्'. ३. 'पूजाभ्युदय', 'पूजोपहाराभ्युदय'. ४. 'तद्वै सहिष्णो:'. ५. 'प्रतिग्रहणम् ६. 'तद्वै सहिष्णो.'. ३४८ कामसूत्रम् । ३३ आदितोऽध्याय ] प्रधानत्वात् कलास्तु न सन्ति । तत्र रूपस्य गुणानां पदार्थानां च मध्यमाघमाः । अत्र यः प्रधानार्थः स गणिकानामस्त्येव । नियं शुक्लमाच्छादनमपक्षुधमन्नपानं नित्यं सौगन्धिकेन ताम्बू- लेन च योगः सहिरण्यभागमलंकरणमिति कुम्भदासीनां ला- भातिशयः ॥ आच्छादनमिति परिघानीयं प्रावरणीयं च सदैव शुक्लम् । अपक्षुषमिति अकदर्थितत्वात्सुषमैपनयति । सौगन्धिकेन सुगन्धिसमूहेन चतुःसम कादिना ताम्बूलेन च नित्यं योगः । एतत्सर्वै गणिकानां रूपाजीवानां चास्त्येव । विशेषमाह—सहिरण्यभागमिति । सुवर्णलेशेन युक्तमित्यर्थः । अयं प्रधानार्थः । तद्व्ययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते । अयं च प्रकृष्टो लाभातिशयः । कुम्भदासीनामित्युत्तमानाम् । कुम्भग्रहणं च कर्मोपलक्षणार्थम् । कर्मकरीणामित्यर्थः । आसां चोत्तममध्यमाधमकर्मापेक्षयैव तथाविधत्वं द्रष्टव्यम् । एतेन प्रदेशेन मध्यमाधमानामपि लोभातिशयान्सर्वासामेव योजयेदित्याचार्याः ॥ प्रदेशेनेति । प्रदेशेनेत्युत्तमानां लामातिशयमार्गेण । मध्यमाघमानामपीति गणिकारूपाजीवाकुम्भदासीनाम् । लाभातिशयानिति प्रकृष्टापेक्षं मध्यमाघमान्योजयेत् । तथा चोक्तम् – 'यद्वेश्याखेर्जितं द्रव्यं प्रधानार्थस्य साधकम् । अवस्थानं हि वेश्यानां स लाम उत्तमो मतः ॥' इति । देशकालविभवसामर्थ्यानुरागलोकमवृत्तिवशार्दनियतलाभादि- यमवृत्तिरिति वात्स्यायनः ॥ इयमवृत्तीति । देशस्य सुसंपन्नस्य । (कालस्य) सुभिक्षस्य दुर्भिक्षस्य वा । विभवस्यात्मीयस्य महतोऽल्पस्य वा। सामर्थ्यस्य विभवधनशक्तेर्महत्या१. 'लेश'. २. 'उपनयति'. ३. 'ताम्वूलादिना च'. ४. 'लाभान्योजयेत्'. ५. 'स्वाजिंतं'. ६. 'अवस्था नहि'. ७. 'कालविभागसामर्थ्यात्तु रूपरागलोक . ८. 'अनियतालाभाना नियता प्रवृत्तिरिति'. ९. 'वैशस्य सप्रसन्नस्य'. ५ अध्याय:] ६ वैशिकमधिकरणम् । ३४९ (त) इतरस्य वा । ततश्च नेय वृत्तिरियत्ताप्रधानार्थद्वारेण या निर्दिष्टा कदाचित्तन्यूनाघिका वा संभवति । एवं च कार्यनिरपेक्षया कश्चित्खल्पोऽपि लामो गृह्यते कश्चिन्नैव कत्तिदात्वे गृह्यते कश्चिदायत्यां यदाह गम्यमन्यतो निवारयितुकामा सक्तमन्यस्यामपहर्तुकामा वा अन्यां वा लाभतो वि॑ियुयुक्षमाणागम्यसंसर्गादात्मनः स्थानं वृद्धि - मायतिमभिगम्यतां च मन्यमाना अनर्थप्रतीकारे वा साहाय्यमेनं कारयितुकामा सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारमकृत- मिव पश्यन्ती केवलमीत्यर्थिनी वा कल्याणर्बुद्धेरल्पमपि लाभं प्र- तिगृह्णीयात् ॥ अन्यत इति अन्यस्या नायिकातो निवारयितुकामा मान्यत्र यासीदिति । अपहर्तुकामा मद्वेषिण्यां सक्तं त्यक्ष्यामीति । लाभत इति अन्यस्या नायिकातो गम्यसंवन्धिनो लाभात् । वियुयुक्षमाणा वियोक्तमिच्छन्ती । अंगम्यसंसर्गादिति येन गम्येन सह (न) संसर्गस्तस्मात् । स्थानं जनसंसदि विशिष्टदेशावस्थानं मन्यमाना । वृद्धिं प्रकृष्टा (कर्षा ) ख्यां लाभातिशयं आयति प्रभावं अभिगम्यतामन्येषां नायकानामभिगमनीयत्वं अनर्थप्रतीकारं वेति अनर्थ प्रतिकर्तुं सहायमेनं कर्तुकामा । सक्तस्य वेति यस्तस्यां सक्तः । अन्यो वर्तमानः । तेन यः पूर्वमुपकारः कृतस्तं स्वल्पत्वादकृतमिव पश्यन्ति । तस्यातीतस्य व्यलीकार्थिनी अपराधं कर्तुकामा अल्पमपि गृह्णीयात् येनायमपराधं मन्ये (धमध्ये ?)ऽतिसक्तस्त्यजति । केवलप्रीत्यर्थेनी वेति प्रीत्यैव केवलयार्थिनी नायैः । कल्याणवुद्धेरित्यविसंवादकात् । अय (इय) मनर्थप्रतीकारिकेत्युक्तम् । अत्र विशेषमाह - आयत्यर्थिनी तु तैमाश्रित्य चानर्थं प्रतिचिकीर्पन्ती नैव प्र- तिगृह्णीयात् ॥ १. 'इयता'. २. 'कृत्वा कार्यनिरापेक्षया'. ३. 'गृहागते'. ४. 'दातृत्वे'. ५. 'विमोक्ष्यमाणा'. ६. 'आय'. ७. 'प्रत्यर्थिनी'. ८. 'वुद्धिः'. ९. 'अर्धे गृहीयात् . १०. 'अन्यससर्गादिति'. ११. 'स'. १२. 'तमाश्रितानर्थे'. ३१० कामसूत्रम् । ३३ आदितोऽध्यायः] यदा आयतिर्महती स्यादनर्थश्च न महान्प्रतिकर्तव्यस्तदा नैव प्रतिगृह्णीयात् । त्यक्ष्याम्येन॑म॒न्यतः प्रतिसंधास्यामि, गेमिष्यति दारैयक्ष्यते नाशयिष्यत्यनर्थान्, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी पिता वा, स्थानभ्रंशो वास्य भविष्यति चलचित्तश्चेति मन्यमाना तदौत्वे तस्माल्लाभमिच्छेत् ॥ त्यक्ष्याम्येनं त्यक्षा(क्त्वा) त्वेतत्तो लाभं गृहीत्वान्यतः प्रतिसंघास्यामि । तस्याधिकत्वात् । गमिष्यति दारैर्योक्ष्यते गतः कृतदारपरिग्रहो वा कथं दास्यति । नाशयिष्यत्यनर्थान्स्वकीयान् । तस्य परवशप्रायत्वात् । अङ्कशभूत इति दमयिता । उत्तराध्यक्ष उपरिकः । अस्येति गम्यस्येति क र्मणि आगमिष्यति तदायमस्वतन्त्रः कथं दास्यतीति । स्वामी पिता वाङ्कशभूतः । स्थानअंशो वेति यस्मिन्स्थानेऽस्याधिपत्यं तस्माद्विच्युतिः । चलचितो वा प्रतिज्ञायापि न दास्यति । तदात्व इति तदानीम् । प्रतिज्ञातमीश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा मा- प्स्यति वृत्तिकालोऽस्य वा आसन्नः वाहनमस्यागमिष्यति स्थलपत्रं वा सस्यमस्य पक्ष्यते कृतमस्मिन्न नश्यति नित्यमविसंवादको वे- त्यौयत्यामिच्छेत् । पॅरिग्रहकल्पं वाचरेत् ॥ प्रतिग्रहं लप्स्यत इति स क्लेशेनोपलब्धार्थो दास्यति । अधिकरणमक्षपटलादिकं स्थानं यत्राधिपत्यं करिष्यति । वृत्तिकालो वेति सेवकत्वाज्जीवनकालोऽस्यासन्नः । राजकुले विलम्बस्य वर्तमानत्वात् । वाहनं यानपात्रमागमिष्यति । वाणिज्यधर्मस्थितत्वात् । स्थलपत्रमित्थंभूतम् (?) । स्वराष्ट्रादिसस्यमस्य पक्ष्यत इति । कृषिवृत्तित्वात् । ततश्च पक्कं सस्यं दास्यति । कृतमस्मिन्न नश्यति अभिगम्यत्वं न निष्फलम् । कृतज्ञत्वात् । नित्यमविसंवादको वा प्रतिज्ञायावश्यं दास्यति । आयत्यामित्यागमनकाले । परिग्रहकल्पं वा चरेत् तत्रार्थस्य लप्स्यमानत्वात् । १. 'अन्येन'. २. 'गमिष्यत्ययं खदारैः'. ३. 'तदात्वेन'. ४. 'लप्स्यति'. ५. 'स्थालपनं'. ६. 'आयतिमिच्छेत्', 'अभिगच्छेत् ७. 'परित्रहत्वं वास्याचरेत्. ५ अध्यायः] ६ वैशिकमधिकरणम् । ३५१ भवन्ति चात्र श्लोका:कृच्छ्राषिगतवित्तांश्च राजवल्लभनिष्ठुरान् । आयत्यां च तदात्वे च दूरादेव विर्वेर्जयेत् ॥ अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा । प्रेयत्नेनापि तान्हा सापदेशर्मुपक्रमेत् ॥ कृच्छ्राधिगतवित्तांश्चेति क्लेशेनार्जितवित्तान् । राजवल्लभनिष्ठुरानिति ये राष्ट्रा निष्ठुराः क्रूरा येषां नाकरणीयमपि कुर्यादित्यर्थः (१) । प्रायशस्तेभ्योऽनर्थसंभवात् । तेषां तर्हि उपादानमित्यर्थः । अनर्थ इति यांस्त्यक्त्वान्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानुभयप्रयोजनत्वात् प्रयत्नेनापि तान्गृह्येत्यभिगम्य । सापदेशमुपक्रमेदिति यत्किचिन्मिश्रीकृत्या(?) मभिगच्छन्तमभिगच्छेदित्यर्थः । वृत्ताद्यभावादात्मनेपदं न भवति । येष्वर्थ एव प्रयोजनं तानाहप्रसन्ना ये प्रयच्छन्ति स्वल्पेऽप्यगणितं वसु । स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके पष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः । महोत्साहानिति महानुत्साहो येषाम् । महत्त्वं चोत्साहस्य शौर्यादि- मिः । ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतं द्रव्यं प्रयच्छन्ति तस्मात्ता- न्गच्छेत् । स्वैरपि व्ययैरुपचारलक्षणैः । इति लाभविशेषाः सप्तपञ्चाशं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां जगमङ्गलाभिषानायां विदग्धाहनाविरहकातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां वैशिके षष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः । १. ' भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे नास्ति. २. 'बालभ्यवित्तवान्. ३. 'प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत्' इति पुस्तकान्तरे उत्तरार्धम्. ४. 'विसर्जयेत्'. ५. 'प्रयत्नेनैव तान्सर्वांन्सापदेशमनुक्रमेत् ६. 'उपक्रम.', कामसूत्रम् । षष्ठोऽध्यायः । शास्त्रकार एव प्रकरणसंबन्धमाह ३४ आदितोऽध्यायः] 4 अर्थानाचर्यमाणाननथ अप्यनुद्भवन्त्यनुबन्धाः संशयाश्च ॥ अर्थानिति लामविशेषाननन्तरोक्तान् आचर्यमाणान्साध्यमानान् । अपरि- : ग्रहाया वेश्याया इत्यर्थः । अनर्था विरुद्धाः । अनूद्भवन्त्वि (न्ती ) ति । 'अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वे अर्थानिति द्वितीया । अर्थान्साध्यमानांलक्ष्यीकृत्यानर्था अपि स्वहेतुभ्य उत्पद्यन्ते । तत्र यदा अर्था एवोत्पद्यन्ते तदा निरनुबन्धार्थः पक्षः । यदायै बाधित्वानर्थास्तदा निरनुबन्धानर्थः पक्षः । अनुचन्धा इत्यर्थाद्याः । (अ) संशयाश्च एतयोरेवोत्पद्यन्ते । तस्मातेनोपादानार्थं विवादो युक्तः । इत्यर्थादनर्थानुबन्धसंशयविचारा उत्पद्यन्ते । तत्रार्थास्तदनुवन्धाश्चोपादेया एव । तत्संशयाश्च । केषांचित्प्रवृत्तेः । येऽनर्यास्तद्नुवन्धास्तत्संशयाश्च तेपामनुपादेयत्वात् । उत्पत्तिकारणान्याह- ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदैम्भादत्यार्जवादति- विश्वासादतिक्रोधात्प्रमादात्साहसाह्रैवयोगाच्च स्युः ॥ त इत्यनर्थादयः । बुद्धिदौर्बल्यादित्यूहानूहतत्त्वाभिनिवेशाविवेकाभ्यां बुद्धिदौर्बल्यम् । रागः सक्तिः । अभिमानोऽहंकारः । दम्भश्छद्म । आर्जवमृजुता । विश्वासो विस्रम्भः । क्रोधः कोपः । एते कार्यवशायुक्तितः प्रयुज्यमाना नैव दोषाय आधिक्येन तु दोषायैवेत्यतिशब्देनाह । प्रमादो योऽन्यत्र व्यासङ्गः । साहसमविसृष्यकारित्वम् । एतन्नवधा मानुषम् । दैवयोगादिति । दैवमशुभं कर्म शुभं च । (शुभसंज्ञं च) तेन दैवयोगादित्यर्थः । तेषां फलं कृतस्य व्ययस्य निष्फलत्वमनायतिरागमिष्यतोऽर्थस्य निवर्तनमाप्तस्य निष्क्रमणं पारुष्यस्य माप्तिर्गम्यता शरीरस्य मै १. 'अर्था आचर्यमाणा अनर्थानप्यनुवघ्नन्ति । तेषामनुवन्धास्तत्संशयाच'. २. 'दम्भादतिहर्षादतिस्तम्मादयार्जवादतिविश्वासादतिकोघादतिप्रमादादतिमदादतिसाहसाद्दैवयोगाच्च यदृच्छचा स्युः'. ३. 'प्रतीघात.'. N ६ अध्याय:] ६ वैशिकमधिकरणम् । ३१३ घातः केशानां छेदनं पातन मङ्गवैकल्यापत्तिः । तस्मात्तानादित एव परिजिहीपेंदर्यभूयिष्ठांचोपेक्षेत । तेपां बुद्धिदौर्बल्यादीनाम्, अथवा ए (ते) षामित्यनर्थानां सानुवन्धानां तत्संशयानां च फलमिति परिणामः । अनर्थवेदनविपरिणामरूपेण संशय्यमानत्वादनर्थसंशयानामपि फलम् । व्ययस्येति गम्याभिगमनाय कृतस्य । अनायतिः प्रभावहानिः । आगमिष्यत इत्यधिकृते व्यये लप्स्यमानस्य निवर्तनमिति बोद्धव्यम् । आप्तस्येति प्राप्तस्येत्यर्थः । निष्क्रमणमन्येत गृह्यमाणत्वात् । पारुप्यस्येति द्विरुक्तस्य (१) । गम्यता परिचेयंता । शरीरस्य प्रघातः प्राणवायोर्वियोगः । केशाना छेदनं लवनम् । पातनं वन्धताडनम् । अङ्गवैकल्यं कर्णनासाविच्छेदः । तान्बुद्धिदौर्बल्यादीनादित एव परिहर्तुमिच्छेत् । यावदर्थहेतूनुपायान्प्रयुङ्के । अन्यथा ह्यर्थ बाधित्वानर्थोऽपि स्यात् । कारणानां संनिहितत्वात् । अर्थभूयिष्ठांश्चेति । अर्थबहुलाननर्थहेतूनुपेक्षेत । तत्र अर्थहेतूनामेवोपायानां बाहुल्यात् । ( इदानीं निरनुबन्धान्विचारयितुमाह अर्यो धर्मः काम इत्यर्यत्रिवर्गः । अनर्थोऽधर्मो द्वेष इत्यनयंत्रि- वर्गः । तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुवन्धः । संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः । इदं वा स्यादिदं वेति संकीर्णः । एकस्मिन् क्रियमाणे कार्ये कार्यद्वयस्योत्पत्तिरुभयतो- योगः । समन्तादुत्पत्तिः समन्ततोयोग इति तानुदाहरिष्यामः ॥ अनर्थ इति । अर्थत्रिवर्गो ह्यर्थ इति कृत्वा तद्विरुद्धोऽनर्थत्रिवर्गः । ततश्चार्था(न)र्थानुबन्धसंशयविचारा इत्यसिन्सूत्रे धर्माधर्मयोः कामद्वेषयोरपि संग्रहः सिद्धः । अनेन निरनुवन्धपक्ष उक्तो वेदितव्यः । तेप्वित्यर्थादिषु षट्सु साध्यमानेषु अन्यस्यापातिनः केवलं साध्यमानस्य (अन्यस्यापीति) सजातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्येति । (अ) संप्राप्तौ संदिग्धायां स्याद्वा न वेति यो विकल्पः स शुद्धसंशयः । द्वयोरन्यतरोत्पत्त्या विकल्पस्य १. 'परुषस्य'. २. 'वध'. ३. 'तेषु चाचर्य'. का० ४५ ३५४ कामसूत्रम् । ३४ आदितोऽध्यायः] संकीर्यमाणत्वात् । एकस्मिन्कार्य इति । अर्थादिसाधने क्रियमाणे द्वयस्पेत्यर्यादीनां घण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्पतिरुभयतो योग इत्युभाभ्यां संबन्धः । समन्तादिति । एकस्मिन् क्रियमाणे बहुभ्योऽर्थादीनामुत्पत्तिः समन्ततो योगः । अस्य योगद्वयस्य निरनुबन्धपक्ष एवान्तर्भावः । ताननुबन्धादीनुदाहरणादुदाहरिष्यामः । स्पष्टोऽर्थः । ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः खरूपतोऽपरिज्ञाने कथमुदाहरण मित्याहविचारितरूपोऽर्थत्रिवर्गः । तद्विपरीत एवानर्यत्रिवर्गः ॥ विचारितरूप इति त्रिवर्गप्रतिपत्तौ निरूपितखभाव इत्यर्थः । तद्विरुद्धत्वादनर्थोऽपि विचारितरूप इत्याह - तद्विपरीत इति । तत्रार्थानर्थयोस्निवर्गयोरर्थावेत्यवधि (रर्थादीनधि) कृत्याह- यस्योत्तमस्योभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमौयतिरा- गमः प्रार्थनीयत्वं चान्येषां स्यात्सोऽर्थोऽर्थानुवन्धः ॥ उत्तमादिभेदान्त्रिविधो नायको व्याख्यातः । तत्र यः समस्तगुणस्तस्योत्तमगुणस्याभिगमने । प्रत्यक्षतोऽर्थलाभ इति तत एव प्रत्यक्षात्तदानीमर्थलाभः । ग्रहणीयत्वमिति लोकमाचत्वमुपादेयत्वम् । आयतिः प्रभावः । आगमस्तत्कालीयानां प्रार्थनीयत्वं गम्यादीनाम् । सोऽर्थ इति योऽसौ तदात्वे लाभः । अर्थानुबन्ध इति ग्रहणीयत्वादिरर्थैरनुबन्धो यस्य । अयं सजातीयानुवन्धः । लाभमात्रे कस्यचिदन्यस्य गमनं सोऽर्थो निरनुबन्धः ॥ लाममात्र इति तदात्वे यो लामस्तन्मात्रमेव निमित्तम् । कस्यचिदिति लोके यो गुणैर्दोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थो निरनुबन्धः । (ग्रहणीत्वमिति) लोकग्राह्यत्वाद्यभावात् । अन्यार्थपरिग्रहे सक्तादायतिच्छेर्दैनमर्थस्य निष्क्रमणं लोकविद्वि- टस्य वा नीचस्य गमनमाय तिघ्नमर्थोऽनर्यानुवन्धः ॥ २३. 'आयते' Y SecureT ien? ६ अध्याय:] ६ वैशिकमधिकरणम् । सक्तादिति यः सतो निःसारत्वादन्यदीयमर्थमपहृत्य प्रयच्छति तस्यार्थस्य परिग्रहे आयतिच्छेदनं प्रभावहानिर्दस्युना सह तिष्ठतीति । अर्थस्येति पूर्वोपात्तस्य । निष्क्रमणं चात्र द्रव्यमिति (?) । तावक्रेन(?) गृह्यमाणत्वात् । लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि । नीचस्य वा जातिन्यूनस्य । गमनमायतिघ्नमिति प्रभावं हन्ति । अत्रार्थोऽनर्यानुबन्धः । तदात्वे लाभस्यायतिच्छेदानर्थानुवन्धित्वात् । अयं विरुद्धानुबन्धः । ( स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्फलमपि व्यसनमतीकारार्य महतश्चार्यघ्नस्य निमित्तस्य प्रशमनमायतिजननं वा सोऽनर्थोऽर्थानुवन्धः ॥) कैदर्यस्य सुभगमानिनः कृतघ्नस्य वातिसंधानशीलस्य स्वैरपिव्य- यैस्तैयाराधनमन्ते निष्फलं सोऽनर्यो निरनुवन्धः ॥ कदर्यस्येति आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्संचिनोति तस्य सुभगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स न प्रयच्छति । यः सुदुर्भगः सुभगमानी स केवलार्थो गम्य उक्तः । कृतघ्नस्य वेति । वाशब्दः पूर्वापेक्षया सर्वत्र योज्यः । अतिसंघानशीलस्य छलेन संधानपरस्य । त थाराधनमिति यथा स्वैरपि व्ययैरभिगमनम् । निष्फलं यथानुरञ्जनमप्यन्ते निष्फलम् । सोऽनर्थ इति यः कृतो व्ययो निरनुबन्धः । कदर्यादेविशेषमाह- तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते नि- ष्फलं निष्कासनं च दोषकरं सोऽनर्थोऽनर्थानुवन्धः ॥ क्रौर्यप्रभावाधिकस्येति दोषत्रयमत्राधिकम् । तथैवाराधनमिति यथा खैर्व्ययैरभिगमनं निष्फलम् । कदर्यादीनामदातृत्वात् । निष्कासनमददता दोषकरम् । ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुप्यशरीरप्रघातादीननर्थान्कुर्युः । इत्यनर्थोऽनर्थानुबन्धः । अयं सजातीयानुवन्धः । एवं धर्मकामयोरप्यनुवन्धान्योजयेत् ॥ १. केषुचिन्मूलपुस्तकेष्वय पाठोऽत्र वर्तते. २. 'तस्यैव कदर्यस्य नुभवानिमग निन:'. 'तथैवाराधनं'. ४. 'प्रताप'. ३५६ कामसूत्रम् । ३४ आदितोऽध्यायः] एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत् । तत्र ब्राह्मणस्य गृहस्थस्यानुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारणं गार्हस्थ्यधर्मप्रवर्तनं च धर्मो धर्मानुबन्धः । काममात्रं च तद्धर्मो निरनुबन्धः । तस्यैवाकृतस्त्रानमोजनस्य गमनं कामो द्वेषानुबन्ध इति । अत्रानुबन्धाः षट् विजातीयविरुद्धाभ्यामनुबन्धा द्वादश । परस्परेण च युक्त्या संकिरेदित्यनुवन्धाः ॥ युक्त्येति विरुद्धं त्यक्त्वा शेषाणां विजातीयानामन्ययोगादित्यर्थः । तत्रार्थो धर्मानर्थकामद्वेषैः प्रत्येकमनुबन्ध (द्ध)श्चतुर्विधः । तथानर्थोऽपि धर्मार्थकामद्वेषैः प्रत्येकमनुबन्ध (द्ध)श्चतुर्विधः । तथा अधर्मोऽपि कामानर्थ धर्मैः प्रत्येकमनुवन्धः (द्ध) श्चतुर्विधः । तथा द्वेषोऽपि । इति चतुर्विंशतिसंकीर्णानुबन्धाः । शुद्धसंशयमधिकृत्याह4 परितोपितोऽपि दास्यति न वेसर्थसंशयः । निष्पीडितार्थमफ- लमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्यान्न वेति धर्मसंशयः । अभिप्रेतमुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा कामः स्यान्न वेति कामसंशयः । प्रभाववान् क्षुद्रोऽनभिमतोऽनयें करिष्यति न वेत्य- नर्थसंशयः । अत्यन्तनिष्फल: सक्तः परित्यक्तः पितृलोकं याया' तत्राधर्मः स्यान्नवेत्यधर्मसंशयः । रागस्यापि विवक्षायामंभिप्रेत- मनुपलभ्य विरॉग: स्यान्न वेति द्वेषसंशयः । इति शुद्धसंशयाः ॥ यदि तदाले न ददाति सुरतोपचारेण परितोषितोऽपि दास्यति । त्राज्ञानशीलत्वाद्द्द्यान्न वेत्यर्थसंशयः । उत्सृजन्त्या इति । कामुकेभ्योऽङ्गानि दत्त्वार्थार्जनं चेत्स्याद्धर्मः । अङ्गार्पणं वेश्याया धर्मः । तथा हि — 'यथा खवृत्तिधर्मः' इत्याचार्याः । तत्रार्थमलममानाया निप्पीडितार्थस्योत्सर्जनमपि कि धर्मो न वेति संशयः । अभिप्रेतमपि रुचिरं नायकं परिचारकमात्मीयं वा क्षुद्रं निकृष्टं गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाच्च कामः स्यान्न १. 'वेशानुवन्ध'. २. 'दद्यात्'. ३. 'अनुपलभ्य'. ४. 'अभिप्रेतायें. ५. 'द्वेप:'. ६ अध्यायः] ६ वैशिकमधिकरणम् । वेति संशयः । अनभिगत इति । अभिगन्तुमिच्छन् क्षुद्रत्वात्प्रत्याख्यातः सहि राजकुले लब्धप्रभावत्वादनथें करिष्यति न वेति संशयः । सक्त इति । अनुरक्तोऽभिगन्तुमिच्छन् । परित्यक्तो निष्फलत्वात् । पितृलोकं यायादिति । अवस्थान्तरप्राप्तौ यमलोकं यायादिति संभाव्यते । तत्रेति परित्यागेऽधर्मः स्यान्न वेति संशयः । रागस्यापि विवक्षायामिति । कामो न भविष्यतीति न विवक्षितं रागेण पीड्यमानत्वात् । अभिप्रेतोऽपि नास्ति यदायमाश्रित्य स्यादित्याह–अभिप्रेतमनुपलभ्येति । केवलमेव वर्तमानाया विद्वेषः स्यान्न वेति संशयः । शुद्धसंशया इति । एकस्यैव भावाभावाभ्यां संशय्यमानत्वात् । अथ संकीर्णाः ॥ त (अ) थेत्यानन्तर्ये । संकीर्णो (र्णा) निर्दिश्यते (न्ते ) । शुद्धानन्तरं हि संकीर्णस्योद्दिष्टत्वात् । इदं वा स्यादिदं वेति संकीर्ण इति । स च (विरुद्धा) विरुद्धाभ्याम् । ३५७ तत्र पूर्वमधिकृत्याह- आगन्तोरविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा समुप- स्थितस्याराधनमर्थोऽनर्थ इति संशयः । श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूपमित्र- वाक्यादानृशंस्याच्च गमनं धर्मोऽधर्म इति संशयः । लोकादेवाकृत- 'प्रत्ययादगुणो गुणवान्वेत्यनवेक्ष्य गमनं कामो द्वेष इति संशयः । सं- किरेच परस्परेणेति संकीर्णसंशयाः ॥ आगन्तोरिति कुतश्चिदागतस्य गमनेऽविदितशीलत्वादर्थोऽनथों वेति संशयः । अप्रत्ययस्य वा अतिथितया समुपस्थितत्वादर्थः । वल्लभसंश्रयात्प्रभविष्णुत्वाद्वानर्थ इति कारणद्वयस्य निधानात्संशयः । श्रोत्रियस्येति गृहस्थस्यापि क्रियावतः । ब्रह्मचारिण इति प्रथमाश्रमस्य । व्रतिन इति कियन्तं कालं गृहीतपराकादित्रतस्य । लिङ्गिन इति भौतादेः । मुमूपों१. 'तथा'. २. 'संकीर्ण:'. ३. 'अत्र प्रत्ययस्य'. . ३५८ कामसूत्रम् । ३४ आदितोऽध्याय:] रिति मर्तुमिच्छोः । कामस्यावस्थान्तरप्राप्तत्वात् । मित्रवाक्यादिति । श्रोत्रियादीनां मित्रस्याभ्यर्थनावचनात् । आनृशंस्याञ्च करुणायाः । अभिगमने धर्मोऽधर्म इति मा भूत्प्राणत्याग इति धर्मनियमत्रंशः दूष्य इत्यधर्मः । तदुमयमपि कस्मान्न भवतीति चेत्, न । अन्यतरस्य बलीयस उत्पादनात् । अकृतप्रत्ययादिति अकृतनिश्चयाल्लोकात् । किमयं गुणवान वेति स्वयमनवेक्ष्यानिश्चित्य केवलं लोकप्रवादागुणवानित्यभिगमनादभिसरणे किल(म)तः कामो द्वेषो वेति विरुद्धसंकीर्णास्त्रयः । अविरुद्धमधिकृत्याह- यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः । यंत्र स्वेन व्ययेन निष्फलमभिगमनं सक्ताच्चामर्षिताद्वित्तमत्यादानं स उभयतोऽनर्थः । यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का स- कोsपि संघर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः । यत्राभिग- मने व्ययवति पूर्वो विरुद्धः क्रोधादपंकारं करिष्यति नँ वेति सक्तो वामर्पितो दत्तं प्रत्यादास्यति न वेति से उभयतोऽनर्थसंशयः । इ- त्यौद्दालकेरुभयतोयोगाः ॥ यत्रेति यस्मिन्नुभयतो लोयोके (योगे) । परस्येत्यपूर्वस्य । उत्तरत्राप्यधिकृतं वेदितव्यम् । अभिगमनेऽर्थः परस्मादेव । सक्ताचेत्यनुरक्तात् । अभिगमने । संघर्षत इति स्पर्धमानादर्थः । स मा भूदनेनास्याः संप्रयोग इति स्पर्धया ददाति । स उभयतोयोग उभयतोऽर्थो नाम । अन्यत्र यस्मिन् क्रियमाणे कार्यस्योत्पत्तिरुभयतो योग इति भूतसूत्रार्थो योज्यः । यस्मिन्नु भयतोयोगे स्वेन व्ययेनाभिगमनम् । परस्येति वर्तते । निष्फलमित्यर्थः । सक्ताच्चानुरक्तादभिगमनम् । विभक्तिविपरिणामेन योज्यम् । अमर्षितादिति कदाचिदर्थयुक्तात् क्रुद्धात् । वित्तप्रत्यादानमिति तेनैव दचं प्रतीपमादीयमानम् । अनर्थः अन्ते निष्क्रमणात् । स उमयतोयोग उभयतोऽनर्थो नाम । उभयतोगम्यस्य भिन्नविषयत्वात् । निरनुबन्धपक्षेऽन्तर्भावः । सं१. 'भ्रशदूष्य'. २. 'सहर्पतः'. ३. 'यत्र परस्य खेन'. ४. 'यस्य'. ५. 'यस्य'. ६. 'अनर्थ'. ७. 'नवेतिसंशय:'. ८. 'तत्'. ९. 'अमर्पादिति'. ६ अध्यायः] ६ वैशिकमधिकरणम् । ३५९ । शयोऽत्रास्त्येवेत्याह—–— यत्रेति यस्मिन्नुमयतोयोगे । अभिगमन इति परस्य । भविष्यति न वेत्याशङ्का न निश्चयः । सक्तश्चाभिगमने संघर्षात्स्प र्धया दास्यति न वेति स उभयतोऽर्थसंशयो नाम । यत्रेति यस्मिन्नमयतोयोगे । व्ययवतीति व्ययं कृत्वापि परस्याभिगमनम् । पूर्व इति पूर्वसंसृष्टः । विरुद्धः परस्यैव । क्रोधादिति । खेन व्ययेनाभिगमनमनया क्रियत इति तद्वारेण क्रोधान्ममापकारं करिष्यति न वेति संशयः । सक्तश्च प्राक्कयाचिदर्थयुक्त्यामर्पितो मम (नो) दत्तं प्रत्यादास्यति न वेति संशयः स उभयतोयोगोऽनर्थसंशयो नाम । बाभ्रवीयास्तु – यंत्राभिगमनेऽर्थोऽनभिगमने च सक्तादर्थः स उभयतोऽर्थः । यत्राभिगमने निष्फलो व्ययोsनभिगमने च निष्प्रतीकारोऽनर्थः स उभयतोऽनर्थः । यत्राभिगमने निर्व्ययो दास्यति नवेति संशयोऽनभिगमने सक्तो दास्यति नवेति स उभ- यतोऽर्थसंशयः । यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वेति संशयोऽनभिगमने च क्रोधादनर्थं करिष्यति न वेति स उभयतोऽनर्थसंशयः ॥ वाअवीयास्त्विति । उभयतोयोगा वक्ष्यन्त इति शेपः । यत्रेत्युभयतोयोगे । अनभिगमने च सक्तादिति अनभिगतात्सक्तादित्यर्थः । यः सक्तो वशी सोऽनभिगत एव दास्यति । यथोक्तं प्राक् – 'सतं तु वशिनं नारी संभाष्यान्यन वा व्रजेत्' इति । पूर्वस्मिन्दर्शनेऽन्यतराभिगमनेऽन्यतरस्सादर्थः । इयं (इह) त्वेकत्वा (ला) भिगमने उभयस्मादर्थः । ततश्च स एवात्र मूलसूत्रार्थः । यत्रेत्युमयतोयोगे । अभिगमन इति परस्य । निष्फलो व्यय इति अनर्थः । अनभिगमने वा (च) सक्तादित्यनुवर्तते । यः पराभिगमनेन सक्तो जातामर्पस्तस्मान्निष्प्रतीकारोऽनयों यद्वित्तप्रत्यादानं स उभयतोऽनर्थो नाम । यत्रेत्युभयतोयोगे । अभिगमने परस्य । निर्व्यय इति विना व्ययः । अनभिगमने सक्त इति विनाभिगमनं दास्यति न वेति । १. 'द्राक्'. २. 'यस्य'. ३. यस्य'. ४. 'प्रत्यादात्यति'. ५. 'प्रयच्छति'. ३६० कामसूत्रम् । ३४ आदितोऽध्याय तस्य वशित्वं न निश्चितं स चोभयतोऽर्थसंशय इति नाम । यत्रेत्युभयत योगे । अभिगमने परस्य । पूर्वो विरुद्धः प्राप्स्यते मया तङ्कारेणायमपक रिष्यति न वेति संशयः । अनभिगमने च सक्त इति वर्तते । क्रोधादन करिष्यति न वेति संशयः । पराभिगमने तदीयामर्षस्यानिश्चितत्वात् । उ यतोऽनर्थसंशयो नाम । एते चत्वार उभयतोयोगा दर्शनद्वयेऽपि शुद्धा उक्ता संकीर्णानाहऐतेपामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनर्थः, तोऽर्थसंशयः, एतेषामेव व्यतिकर इति । सजातीयं त्यक्त्वा शेषाणां परस्परसंकी (र्णत्वे) षट्संकीर्णयोगाः । यदाह —- अन्यत इति । यत्र परस्याभिगम एकतो योऽर्थः । सक्ताच्चामर्षिताद्वित्तप्रत्यादानमित्यन्यतोऽनर्थो य उभयते योगोऽर्थानर्थरूपः । अन्यतोऽर्थ इति पूर्ववत् । सक्तः संघर्षाद्दास्यति न त्यन्यतोऽर्थसंशयः । अयमर्थार्थसंशयरूपः । यत्र परस्य खेन व्ययेन नि प्फलमभिगमनमित्यन्यतोऽनर्थसंशयः । अन्यतोऽर्थ इति पूर्ववत् । सक्तोऽम र्षितो दत्तं प्रत्यादास्यति नवेत्यन्यतोऽनर्थसंशयरूपः । अयमर्थानर्थसंशय रूपः । एवं बाभ्रव्यदर्शनेऽपि योज्यम् । तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयो गुरुरनर्थ प्रशमो वा ततः प्रवर्तेत ॥ अन्यतोऽर्थोऽन् अन्यतोऽर्थोऽन्यतोऽनर्थसंशय इति षद्संकीर्णयोगा तेष्विति दर्शनद्वयेsपि शुद्धेषु संकीर्णेषु च । सहायैः पूर्वोक्तैः । य इति यं गम्यमाथित्य । अर्थभूयिष्ठ इत्यर्थबहुलो योऽर्थसंशयो नेतरः । गु रुरनर्थप्रशमो वा । अर्थाद्धि महतोऽनर्थस्य प्रतिकार्यस्य गुरुत्वात् । त इति तं लक्षीकृत्य प्रवर्तेत । एवं धर्मकामावप्यनयैव युक्सोदाहरेत् । संकिरेच्च परस्परेण व्य तिपञ्जयेञ्चेत्युभयतोयोगाः ॥ अनयैवेत्युक्तयुक्त्या उदाहरेत् तत्र परस्य द्विजत्वादभिगमने धर्मः स १. 'एपामेव'. २ 'धर्मकामावपि तरेव प्रकाररुदाहरेदेकेकशः सकिरेत्परस्परे व्यतिपनयेतेत्युमयतोयोगाः". ६ वैशिकमधिकरणम् । सकते काच्चानुरागान्मुमूर्योः स उभयतो धर्मः । यत्र ब्रह्मचारिणोऽभिगमनेऽधर्मः सक्ताच्च व्रतस्थादनिच्छतः स उभयतोऽधर्मः । यत्र परस्य निद्रव्येऽमिगमने धर्मः (अनभीत्याशङ्कयाह) सक्ताच्च निप्पादितार्थत्वादप्रयच्छतो धर्मो न वेति स उभयतो धर्मसंशयः । यत्र परस्य लिङिनो भिन्नत्रतगमनेनाधर्मो (ऽर्थो) न वेति संशयः सक्ताञ्च व्रतस्थाद्दित्सतोऽधर्मो नवेति स उभयतोऽधर्मसंशय इति । यत्र परस्याभिप्रेतस्याभिगमने कामः सक्ताच्चाभिप्रेतात्स उभयतः कामः । यत्र परस्यानभिप्रेतस्य विरागः सक्ताच्चानभिप्रेतात्स उभयतोऽद्वेषः । यत्र परस्याविदितशीलस्य गमने कामो भविष्यति न वेत्याशङ्का सक्ताच्च निकृष्टत्वात्कामो न वेति स उभयतः कामसंशयः । यत्र परस्याभिगमने रागापनयनविवक्षायां विरागः स्यान्न वेति संशयः सक्ताच्च तथैव विरागः स्यान्न वेति स उभयतो द्वेषसंशयः । इत्यौद्दालकेः शुद्धा उभयतो योगाः । तथैव गमनागमनाभ्यां बानवीयेषूदाहरेत्संकिरेच्च । धर्मकामावप्येतैरेव प्रकारैरेकैकश: संकिरेच्च परस्परेणेति । सजातीयांस्त्यक्त्वा । तथान्यतो धर्मोऽन्यतोऽधर्म इति धर्मसंशयेनाधर्मसंशयन संकीर्णस्त्रिविधः । तथान्यतो धर्माभ्यामन्यतो धर्मसंशयो वान्यतो धर्मसंशयेन संकीर्णास्त्रयः । इति षट्संकीर्णाः । औद्दालकेः बाम्रव्यस्य च एवमन्यतः कामोऽन्यतो द्वेघेण कामसंशयेन च संकीर्णास्त्रयः पडौद्दालकेर्वाभ्रव्यस्य च (?) । इहापि सहायैर्विमृश्य यतो धर्मभूयिष्ठस्तत्संशयो गुरुर्धर्मद्वेषप्रशमश्च ततः प्रवर्तेत न तु यतो धर्मो द्वेषतः संशयश्चेति योज्यम् । व्यतिपञ्जयेञ्चेति । अर्थादीनां विरुद्धत्वं त्यक्त्वा शेषान्परस्परतः संश्लेषयेदित्यर्थः । तत्रान्यतो ध र्माधर्मकामद्वेषैस्तत्संशयैश्च संयोजितोऽष्टप्रकारः । तथानर्थसंशयोऽर्थानर्थसंशयश्च । समुदायेन द्वात्रिंशद्भवन्ति । एवमन्यतो धर्मोऽन्यतोऽर्थानर्थकामद्वेषैस्तत्संशयैश्च संयोजितोऽष्टप्रकारः । तथा धर्मो धर्मसंशयश्चेति द्वात्रिंशत् । एवमन्यतः कामोऽन्यतोऽर्थानर्थधर्मेस्तत्संशयैश्च संयोजितोऽष्टप्रकारः । तथा द्वेषः कामसंशयश्चेति द्वात्रिंशत् । समुदायेन पण्णवतिः । विपर्ययेणैतावन्तः। टम द ai । ६ अध्यायः] . १. 'अकामः'. का० ४६ ३६२ कामसूत्रम् । ३४ आदितोऽध्यायः ] च द्वानवतिशतम् । एवं बात्रव्यस्य । ते। एवमौद्दालकेर्व्यतिषङ्गसंयोगानां प्वपि सहायैर्विमृश्येत्यादियोज्यम् उक्ता उभयतो योगास्त्रिविधाःशुद्धाः संकीर्णा व्यतिषक्ताश्च । समन्ततो योगं दर्शयितुं विशेषमाह - संभूय च विटाः परिगृहन्येकामसौ गोष्ठीपरिग्रहः । सा तेषा- मितस्ततः संसृज्यमाना प्रत्येकं संघर्षादर्य निर्वर्तयेत् । सुवसन्तका- दिषु च योगे यो मे इमममुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत् । तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत् । एकतोऽर्थः सर्वतोऽर्थः एकतोऽनर्थः सर्वतोऽनर्थः अ धंतोऽर्थः सर्वतोऽर्थः अर्धतोऽनर्थः सर्वतोऽनर्थः । इति समन्ततो योगाः ॥ संभूयेत्येकीभूय जातविश्वासत्वात्परिगृह्यन्ते वैतके (गृह्णन्त्येवैकां) विटाः । प्राप्तापूर्वसमाचारत्वात् । असौ गोष्ठीपरिग्रह उच्यते यो बहुभिरेकस्याः परिग्रहः । तेनानेकपरिग्रहायाः समन्ततो योग इति तामेवाधिकृत्याह-अनेकपरिग्रहात्तेषामितस्तत इत्यनेनैकेन कदाचिद्वाभ्यां बहुभिर्वा संसृज्यमाना संपर्कमयन्ती । संघर्षादिति । परस्परसंघर्षात्तेषां संसृज्यमाना प्रत्येकमेकैकशोऽर्थान्निर्वर्तयेत् । स्पर्धाकारणमाह सुवसन्तकादिप्विति । तेषु सवे॑षु (विटाः सर्वेषु) विटानां कामदौर्बल्यं जायते । मनोरथमित्यभिप्रेतम् । वाचयेत् । सा हि निरतोरुषत्वात् (?) शक्ता व्यवस्थापयितुम् । संघर्षज इति संघर्षजनिते । कार्याणीति लाभान् । तान्याह – एकतोऽर्थ इति । यावद्भिः परिगृहीता तेषामन्यतमस्यैकस्य द्वयोरन्यतरस्यैकस्य शेषेण सह स्पर्धा तस्मादेकतोऽर्थे लक्षयेत् । सर्वत इति सर्वेभ्योऽर्थम् । एकतोऽनर्थ सर्वतोऽनर्थे यदोमौ स्पर्धेते तदोमयतोऽयै सर्वतोऽर्थमुभयतोऽर्थम् । उभयतोऽनर्थः सर्वतोऽनर्थ इति । यदार्षः स्पर्धेते तदार्थतोऽर्थमर्धतोऽनर्थमिति समन्ततो योगस्त्रिधा भिन्नाः । १. 'सकीर्णाश्च'. २. 'यामेका'. ३. 'यो मे मनोरथमिम युवा'. ४. 'रोचयेत्'. ५. 'उपलक्षयेत् . इं i ६ अध्यायः] ६ वैशिकमधिकरणम् । नास्ति संशयस्तु विद्यत इत्याहच पूर्ववद्योजयेत् । संकिरेच्च तथा धर्मका३१२ अभिन्नविषयत्वादनुवन्धो अर्थसंशयमनर्थसंशयं मावपि । इत्यनुवन्धार्यानर्थसंशयविचाराः ॥ पूर्ववदिति । ••••• । एकतोऽर्थः सर्वतोऽन- र्थसंशय इति तृतीयः । एकतोऽनर्थः सर्वतोऽर्थसंशयश्चेति चतुर्थः । एक- तोऽनर्थः सर्वतोऽनर्थसंशय इति पञ्चमः । एकतोऽर्थः सर्वतोऽनर्थ इति षष्ठः । इति संकीर्णाः षट् शुद्धाश्चत्वारः । एवं खजातीयं त्यक्त्वा संकीर्णाः षट् । संघर्षजेऽभिगमने कार्याण्येतान्युक्तानि । यदा त्वसंघर्षजमभिगमनं तदा तेषामेकाभिप्रायत्वाद्द्वादश समन्ततो योगाः । सर्वतोऽर्थः । सर्वतो- ऽनर्थः । सर्वतो धर्मः । सर्वतोऽधर्मः । सर्वतः कामः । सर्वतो द्वेषः । इति षट् । त एव संशयिताः षट् । इत्युक्ता अर्थानर्थानुवन्धसंशयविचाराः । वेशप्रयोजनमिदमधिकरणम् । वेशस्य कारणस्य शेषभूतमाह- कुम्भदासी परिचारिका कुलटा खैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गैणिका चेति वेश्याविशेपाः ॥ कुम्मदासीति कुम्भग्रहणं निकृष्टकर्मोपलक्षणम् । लोके सामान्यास्त्रयः प्रसिद्धाः । कुम्भदासी गणिका रूपाजीचा चेति । शेषाणामपि सामान्यात्वातत्रैवान्तर्भावः परिचारिका याः स्वामिनं परिचरन्ति । तस्या औपनिपदिके विधिं वक्ष्यति । कुलटाया पतिभयाग्रहान्तरं गत्वा प्रच्छन्नमन्येन संप्रयुज्यते । स्वैरिणी या पति तिरस्कृत्य स्वगृहेऽन्यगृहे वा संप्रयुज्यते । नटी रहयोषित् । शिल्पकारिका रजकतन्तुवायभार्या । प्रकाशविनष्टा या जीवति मृते वा पत्यौ संग्रहणधर्मेण गृहीता कामचारं प्रवर्तते । एताः षड् रूपाजीवायामेवान्तर्भवन्ति विशेषः संपद्यते (१) । सर्वासां चानुरूपेण गम्याः सहायास्तदुपरज्जनमर्यागमोपाया निष्कासनं पुनः संघानं लाभविशेषानुवन्धा अर्थानर्यानुवन्धसंश- यविचाराचेति वैशिकम् ॥ १. 'उभयतोऽर्थ'. २. 'गणिका वेश्या चेति'. ३. 'निःसारणम्. ३६४ कामसूत्रम् । ३४ आदितोऽध्यायः] ****** ***** **** **** सर्वासामिति । भवतथात्र श्लोकौ रत्यर्थाः पुरुषा येन रत्यर्याश्चैव योपितः । शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम् ॥ सन्ति रागपरा नार्यः सन्ति चार्यपरा अपि । प्राक्तत्र वर्णितो रागो वेश्यायोगाच वैशिके ॥ इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे अर्थानर्थानुवन्धसंशयविचारा वेश्याविशेषाय पष्ठोऽध्यायः । ***********... ………… ………………………………………………………… ……. ………. PÕun **** [इत्यर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्चाष्टापञ्चाशं प्रकरणम् [] इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तेन्द्रपादामिधानेन यशोधरेणैकत्रकृतसूत्रभाध्यायां वैशिके षष्ठेऽधिकरणेऽयनर्यानुवन्धसंशयविचारा वेश्याविशेषाथ बैष्ठोऽध्यायः । समाप्तं चेदं वैशिकं नाम षष्ठमधिकरणम् । १. 'प्रागन'. २. 'योगस्तु'. ३. 'अनुवन्धार्थानर्थसंशयविचारा: '. ४. 'षष्ठोऽध्यायः' इत्यस्मादनन्तरं 'इत्यपरार्जुनभुज बलमहराजनारायणमहाराजाधिराजचौलुक्यचूडामणि. श्रीमद्वीसलदेवस्य भारतीमाण्डागारे श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिथानायां वैशिकमधिकरण समाप्तम्' इति पुस्तकान्तरेऽस्ति क्वचिच्च वीसलदेवस्य स्थाने महीमलदेवस्य इति शोधितमस्ति, ७ औपनिपदिकमधिकरणम् । औपनिषदिकं नाम सप्सममधिकरणम् । @ प्रथमोऽध्यायः । १ अध्याय:] ३६९ व्याख्यातं च कामसूत्रम् । तत्रोक्तैस्तु विधिभिरभिप्रेतमर्थमनधिगच्छन्नौपनिपदिकमाचरेत् । रूपं गुणो वयस्त्याग इति सुभगं करणम् । तगरकुष्ठतालीसपत्रकानुलेपनं सुभगंकरणम् । एतेरेव सुपिष्टैर्वर्तिमालिप्याक्षतैलेन नरकपाले साधितमञ्जनं च । पुनर्नवासहदेवीसारिवाक्कुरण्टोत्पलपत्रैश्च सिद्धं तैलमभ्यञ्जनम् । तद्युक्ता एव सजश्च । पद्मोत्पलनागकेसराणां शोपितानां चूर्ण मधुघृताभ्यामैवलिय सुभगो भवति । तान्येव तगरतालीसतमालपत्रयुक्तान्यैनुलेपनम् । मेयूरस्याक्षितरक्षोर्वा सुवर्णेनालिप्य दक्षिणहस्तेन धारयेदिति सुभगंकरणम् । तथा वादरं मणि शङ्खमणिं च तेषां चार्वणान्योगान्गेमयेत् । विद्यातन्त्राच विद्यायोगात्माप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रमन्यतो धारयेत् । ततो धारितां वालां मत्वा लालसीभूतेषु गम्येषु योऽस्याः संह (घ) पेण वहु दद्यात्तस्मै विसृजेदिति सौभाग्यवर्धनम् । गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्यै इदमिदं च दद्यात्स पाणिं गृह्णीयादिति संसाध्य रक्षये दिति । सा च मातुरविदिता नाम नागरिक पुत्रैर्घनिभिरत्ययें प्रीयेत । तेषां कलाग्रहणे गन्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः । तेषां यथोक्तदायिनां माता पाणि ग्राहयेत् । त तावदर्यमलभमाना तु खेनाप्येकदेशेन दुहित्रे एतद्दत्तमनेनेति ख्यापयेत् । प्रच्छन्नं वा तैः संयोज्य स्वयमजानती भूत्वा ततो विदितेष्वेवं धर्मस्थेषु निवेदयेत् । सख्यैव तु दास्या वा मोचितकन्याभावामुपगृहीतकामसूत्रामाभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते १. अध्यायद्वयात्मकस्यास्याधिकरणस्य जयमद्गलाटोका नोपलभ्यते. वाराणसेयभास्करनरसिंहशास्त्रिप्रणीता वृत्तिस्त्वतीव तुच्छेति मूलमात्रमेवास्याधिकरणस्य मुद्रितम्. २. 'अवलिहेत्स'. ३. 'अनुलिप्य'. ४. 'मयूरस्याक्षतरोर्वा' ५ 'आमयेत्' ६ उचिता. ७. 'एव बन्धुमध्यस्थेषु. कामसूत्रम् । ३५ आदितोऽध्यायः] वयसि सौभाग्ये च दुहितरमवसृजन्ति गणिका इति प्राप्योपचाराः । पाणिग्रहश्च संवत्सरमव्यभिचार्यस्ततो यथाकामिनी सात् । ऊर्ध्वमपि संवत्सरात्परिणीतेन निमन्त्रयमाणा लाभमप्युत्सृज्य तां रात्रि तस्यागच्छेदिति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च । एतेन रङ्गोपजीविनां कन्या व्याख्याताः । तस्मै तु तां दर्य एषां तूर्यविशिष्टसुपकुर्यात् । इति सुभगंकरणम् । ( एकोनषष्टितमं प्रकरणम् ॥) धचूरकमरिचपिप्पली चूर्णैर्मधुमिश्रैर्लिप्सलिङ्गस्य प्रयोगो वशीकरणम् । वातोद्भान्तपत्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् । स्वयंमृताया मैण्डलकारिकाया चूर्ण मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् । वज्रस्तुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपापाणचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयिखा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम् । एतेनैव रात्रौ धूमं कृत्वा तमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति । एतैरेव चूर्णितैर्वानरपुरीपमिश्रितै कन्यामवकिरेत्सान्यस्मै न दीयते । वचार्गेण्डकानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धमुत्कीर्य निदध्यात् । पड्भिर्मासैरपनीतानि देवकान्तमनुलेपनं वशीकरणं चेत्याचक्षते । तथा खदिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य निदध्यात्तत्पुष्पगन्धानि भवन्ति । गन्धर्वकान्तमनुलेपनं वशीकरणं चेत्याचक्षते प्रियंगवस्तगरमिश्राः सहकारतैलदिग्धा नागकेसरवृक्षमुत्कीर्य पण्मासनिहिता नागकान्तमनुलेपनं वशीकरणमित्याचक्षते । उष्ट्रस्वास्थि भृङ्गराजरसेन भावितं दग्धमञ्जनमुट्रास्थ्यञ्जनिकायां निहितमुद्रास्थिशलाकयैव स्रोतोञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चेत्याचक्षते । एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्या तानि । ( इति वशीकरणम् । पष्टितमं प्रकरणम् ॥) १. 'मयूरास्थिचूर्ण'. २. 'मण्डलकारिका गृध्री' इति वृत्तिकृत्. ३. 'गण्डकारिकाः'. ४. 'खण्डकानि'. ५. 'खदिरसाराणि'. 5 P, १ अध्याय:] ७ औपनिपदिकमधिकरणम् । ३६७ उच्चटाकन्दश्च यष्टीमधुकं च सशर्करेण पयसा पीत्वा वृषो भवति । मेषवस्तमुष्कसिद्धस्य पयसः सशर्करस्य पानं नृपत्वयोगः । तथा विदार्याः क्षीरिकायाः स्वयंगुसायाच क्षीरेण पानम् । तथा पियालवीजानां मोरटाक्षीरविदार्योथ क्षीरेणैव । शृङ्गाटककसेरुमेधूकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्रिनोत्कारिकां पक्त्वा यावदर्थे भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचक्षते । मापकलधौतामुष्णेन घृतेन मृदूकृत्योद्धृतां वृद्धवत्साया: गोः पयः सिद्धं पायसं मधुसर्पियिमशित्वानन्ताः स्त्रियो गच्छतीत्याचक्षते । विदारी स्वयंगुप्ता शर्करामधुसपिंर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावदर्थ भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचक्षते । चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसपिय प्लावितं यावदर्थमिति समानं पूर्वेण । चटकाण्डरसभावितानपुगतत्वचस्तिलान् शृङ्गाटककसेरुकस्वयंगुप्ताफलानि गोधूममापचूर्णैः मशर्करेण पयसा सर्पिपा च पकं पायसं यावदर्ये माशितमिति समानं पूर्वेण । सर्पिपो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्पः प्रस्थं पयस इति पढङ्गममृतं मेध्यं वृष्यमायुप्यं युक्तरसमित्याचक्षते । शतावरीश्वदंष्ट्रागुडकपाये पिप्पलीमधुकरके गोक्षीरच्छागघृते पके तस्य पुष्पारम्भेणान्वहं माशनं मेध्यं दृप्यमायुष्यं युक्तरसमित्याचक्षते । शतावर्याः वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर्गुणे जले पाक आ प्रकृत्यवस्थानात् । तस्य पुप्पारम्भेण प्रातः प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्याचक्षते । श्वदंष्ट्राचूर्णसमन्वितं तत्सममेव यवचूर्ण प्रातरुत्थाय द्विपलिकमनुदिनं मानीयान्मेध्यं वृष्यमायुष्यं युक्तरसमित्याचक्षते । ( इति प्यायोगाः । एकपष्टितमं मकरणम् ॥) आयुर्वेदाच वेदाच्च विद्यातन्त्रेभ्य एव च । आप्तेभ्यश्चाववोद्धव्या योगा ये प्रीतिकारकाः ॥ १. 'मधूलिकानि'. २. 'मापकुलमा'. ३६८ ३६ आदितोsध्याय:] कामसूत्रम् । न प्रयुञ्जीत संदिग्धान शरीरात्ययावहान् । न जीवघातसंवद्धाभाशुचिद्रव्यसंयुतान् ॥ तथा युक्तान्मयुञ्जीत शिटैरपि न निन्दितान् । ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान् ॥ इति श्रीवात्स्यायनीये कामसूत्रे औपनिपदिके सप्तमेऽधिकरणे सुभगकरणं वशीकरणं वृप्याच योगाः प्रथमोऽध्यायः । द्वितीयोऽध्यायः । चण्डवेगां रञ्जयितुमशक्नुवन्योगानाचरेत् । रतस्योपक्रमे संवाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनमिति रागमत्यानयनम् । औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य श्रान्तस्य च रागमत्यानयनम् । अपद्रव्याणि वा योजयेत् । तानि सुवर्णरजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि वृष्याणि कर्मसहिष्णूनि भवन्तीति वाभ्रवीया योगाः । दारुमयानि साम्यतथेति वात्स्यायनः । लिङ्गममाणान्तरं विन्दुभिः कर्कशपर्यन्तं बहुलैः स्यात् । एत एव द्वे संघाटी । त्रिप्रभृति यावत्प्रमाणं वा चूडकः । एकामेव लतिकां प्रमाणचशेन वेष्टयेदित्येकचूडकः । उभयतोम्मुखच्छिद्र: स्थूलकर्कशप्रपतगुटिकायुक्तः प्रमाणयोगी कट्यां वद्धः केञ्चुको जालकं वा । तदभावेडलावूनालकं वेणुच तैलक पायैः सुभावितः सूत्रजङ्घावद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता वडभिरामलकास्थिभिः संयुक्तेत्यपविद्धयोगाः । न त्वपविद्धस्य कस्यचिवहृतिरस्तीति दाक्षिणात्यानां लिअस्य कर्णयोरिव व्यधनं वालस्य । युवा तु शस्त्रेण छेदयित्वा यावधिरस्यागमनं तावदुदके तिष्ठेत् । वैशधायें च तस्यां रात्रौ निर्वन्धाद्व्यवायः । ततः कपायैरेकदिनान्तरितं शोधनम् । वेतसक्नु १. 'उपमर्दनात्'. २. 'कम्वुजालक'. ३. 'सूत्रेण कट्यां बद्धः' इति वृत्तिकृत्. 'शक' 'सूककर'. ४. 'ब्याहतिः'; 'व्याहृतिः'. 1 २ अध्यायः] ७ औपनिषदिकमधिकरणम् । ३६९ टजशङ्कुभिः क्रमेण वर्धमानस्य वर्षनैर्वन्धनम् । यष्टीमधुकेन मधुयुक्तेन शोधनम् । ततः सीसपत्रकर्णिकया वर्षयेत् । म्रक्षयेद्रछातकतैलेनेति व्यधनयोगाः । तस्मिन्ननेकाकृतिविकल्पान्यपद्रव्याणि योजयेत् । वृत्तमेकतो वृत्तमुदूखलकं कुसुमकं कण्टकितं कङ्कास्यिगजमहारिकमष्टमण्डलिकं भ्रमरकं शृङ्गाटकमन्यानि वोपायतः कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यमिति नष्टरागप्रत्यानयनम् । ( द्वापष्टितमं प्रकरणम् ॥) एवं वृक्षजानां जन्तूनां शुकैरुपलिप्तं लिङ्गं दशरात्रं तैलेन मृदितं पुनः पुनरुपलिप्तं पुनः प्रमृदितमिति जातशोफं खट्टायामधोमुखस्तदन्तरे लम्वयेत् । ततः शीतैः कपायैः कृतवेदनानिग्रहं सो'पक्रमेण निष्पादयेत् । स यावज्जीवं शुकजो नाम शोफो विटानाम् । अश्वगन्धाशबरकन्दजलश्कबृहतीफलमाहिषनवनीतहस्तिकर्णवज्रवल्लीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम् । एतैरेव कपायैः पकेन तैलेन परिमर्दनं षण्मास्यम् । दाडिमत्रपुसवीजानि वालुकं बृहतीफलरसति मृद्रग्झिना पकेन तैलेन परिमर्दनं परिषेको वा । तास्तांच योगानाप्तेभ्यो बुध्येतेति वर्धनयोगाः । (त्रिपष्टितमं मकरणम् ॥) हीकण्टकचूर्णैः पुनर्नवावानरपुरीपलाङ्गलिकामूलमित्रैर्यामवकिरेत्सा नान्यं कामयेत । तथा सोमलतावलगुजभृङ्गलोहोपजिहिकाचूर्णैर्व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन लिप्तसंवाघां गच्छतो रागो नश्यति । गोपालिकाबहुपादिकाजिहिका चूर्णैर्मा हिपतऋयुक्तैः स्नातायां गच्छतो रागो नश्यति । नीपात्रातकजम्बूकुसुमयुक्तमनुलेपनं दौर्भाग्यकरं सजय । कोकिलाक्षफलमलेपो हस्तिन्याः संहतमेकरात्रं करोति । पद्मोत्पलकन्दसर्जकसुगन्धचूर्णा१. 'कङ्कास्थिमजकप्रहारिक'. २. 'निप्पातयेत् . का० ४७ ३७० कामसूत्रम् । ३६ आदितोऽध्यायः] नि मधुना पिष्टानि लेपो मृग्या विशालीकरणम् । सुहीसोमार्कसीरर्वगुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् । मदयन्तिकाकुटजकवञ्जनिकागिरिकर्णिका लक्ष्णपर्णीमूलैः स्नानं केशमत्यानयनम् । एतैरेव सुपक्केन तैलेनाभ्यङ्गात्कृष्णीकरणं क्रमेणास्य प्रत्यानयनम् । श्वेताश्वस्य सुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तोऽधरः श्वेतो भवति । मदयन्तिकादीन्येव प्रत्यानयनम् । बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्र कन्दकैरुपलिप्सं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति । धचूरफलयुक्तोऽभ्यवहार उन्मादकरः । गुडो जीणितश्च प्रत्यानयनम् । हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद्रव्यं स्पृशति तन्न दृश्यते । अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवर्णं भवति । हरीतक्याम्रातकयोः श्रवणप्रियंगुकाभित्र पिष्टाभिलिप्तानि लोहमाण्डानि ताम्रीभवन्ति । श्रवणमियंगुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद्दृश्य श्वेताया : श्वेतवत्साया गोः क्षीरस्य पानं यशस्यमायुष्यम् ब्राझणानां प्रशस्तानामाशिषः । ( इति चित्रा योगाः । चतुःषष्टितमं मकरणम् ॥) पूर्वशास्त्राणि संहृत्य प्रयोगानुपसृत्य च । कामसूत्रमिदं यत्नात्संक्षेपेण निवेशितम् ॥ धर्ममय च कामं च प्रययं लोकमेव च । पश्यत्येतस्य तत्त्वज्ञो न च रागात्मवर्तते ॥ अधिकारवशादुक्ता ये चित्रा रागवर्धनाः । तदनन्तरमत्रैव ते यत्नाद्विनिवारिताः ॥ न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते । शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ १. 'कृष्णीकरणातू'. २. 'साह्मणानां'. २. 'निवेदितम्'. ७ औपनिपदिकमधिकरणम् । वास्ववीयांच सूत्रार्थानागमं सुविमृश्य च । वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥ तदेतद्ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रायै न रागार्थोऽस्य संविधिः ॥ रक्षन्धर्मार्थकामानां स्थिति खां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥ तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन् । नातिरागात्मकः कामी मयुखान: मसिध्यति ॥ २ अध्यायः] इति श्रीवात्स्यायनीये कामसूत्रे औपनिपदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयनं वृद्धिविधयचित्राथ योगा द्वितीयोऽध्यायः । समाप्तं चेदमौपनिपदिकं नाम सप्तममधिकरणम् । ग्रन्थश्च समाप्तः । ३७१ १. 'यात्रायें'. श्रीवात्स्यायनप्रणीतं कामसूत्रम् । श्रीयशोधरविरचितया जयमङ्गलाख्यया टीकया समेतम् । विरलप्रचारोऽयमतीवोपयुक्तो लोकव्यवहारादर्शभूतः प्राचीनो ग्रन्थः सहृदयसुहृदनुरोधेन साहाय्येन च पञ्चषाणि पुस्तकानीतस्ततः संकलय्य तदाधारेण विविष्य मुद्रणं प्रापितः । मुद्रितानि च स्वल्पान्येव पुस्तकानि । अधुना यः कश्चन विपश्चितत्पुस्तकमनन्दमय भिलषति स पत्रसमेतं पञ्चकलाधिकं रूप्यकपञ्चकं (रु० ४ आ० मत्समीपे प्रहिणोतु, तदा सत्वरमेव पुस्तकं प्रहितं भविष्यति । पत्रमात्रमेव प्रेष्यते चेत्तदापि ''ह्याल्यू-पेपवल्-पार्सल' द्वारा पुस्तकं प्रद्देष्यते । पत्रं चाङ्ग्लनागरान्यतरलिपिसमुल्लसितं स्फुटं प्रहेयमित्यभ्यर्थयतेरस महामहोपाध्यायपण्डितदुर्गाप्रसाददारकः पं. केदारनाथः । संघी का रस्ता । जयपुर। (राजपुताना) h श्रीः । निवेदनम् । श्रीवात्स्यायनमुनिविरचितं कामसूत्रं गुरुदत्तेन्द्रपादाभिधानश्रीयशोधरविरचितया जयमङ्गलाख्यया टीकया समलंकृतमस्मत्पितृ चरणैर्महामहोपाध्यायपण्डितवरश्रीदुर्गाप्रसादैः पूर्व प्रकाशितम् । ग्रन्थस्यास्य नितरां गोपनीयत्वान्मित्रेष्वेव कृतेऽपि प्रचारेऽतीतानि प्रकाशितपूर्वाणि पुस्तकानि । अतएवास्य मया द्वितीयं संस्करणं व्यधायि । ( A. D. 1900) एवं संजातेऽपि संस्करणद्वयेऽन्तिमस्यौपनिषदिकाख्यसप्तमाधिकरणस्य टीकायाअनुपलब्धौ नापार्यत सा प्रकाशयितुम् । अधुना च श्रीमद्भिर्विशाखप तन (विजगापट्टम) वासिभिरार्यगुरुवरैः श्रीवेङ्कटरङ्गनाथस्वामिभिः सानुकम्पमसत्सविधे प्रेषितेति तेम्यो धन्यवादार्पणपुरःसरं प्रकाश्य वात्स्यायनीयगुणगरिमगम्भीराशयेभ्यः श्रीमद्भच उपायनीक्रियते । वात्स्यायनकामसूत्रस्यान्यापि श्रीरामचन्द्रसूनुवीरभद्रविरचिता काचन कन्दर्पचूडामणिनामिका टीका समुपलभ्यते । सा च वि. १६३३ संवत्सरे ( A. D. 1577 ) निर्मितेति तदीयान्तिम श्लोकेन स्फुटमवगम्यते । तंत्रारम्भैः । वंशः कंसद्विष इव जयति यश्चेलायां भूभुजां मान्यः । अज (न) वद्योऽस्ति जगत्यां यस्मादन्यो न भूपालः ॥ प्रादुर्बभूव वंशे तत्र श्रीशालवाहनो नृपतिः । इन्दुर्मरन्दविन्दर्यस्य पुरा पुण्डरीकस्य ॥ (1) (See catalogue of Sanskrit Mss. of H. H. the Maharaja of Jummu and Kashmir by M. A. Stein. Ph. D.) (२) ( पयान्येतानि Sanskait Manuscripts of the Maharaja of Bikaner by R. Mitra नामकबीकानेरपुस्तकालयसूचीपत्रत उद्धृतानि ) पर्यवसानम् । हरलोचनहरलोचनरसशशिमि ( १६३३)र्विश्रुते समये । फाल्गुण (न) शुक्ल प्रतिपदि पूर्णो ग्रन्थः सरस्मेरः । श्रीवीरभद्रकृतनाट्यशास्त्रे पुष्पवाणशासनानुसृते उपनिपदधिकरणे चरमोध्यायः । कन्दर्पचूडामणिः समाप्तः । टीकायाश्चास्याः पुस्तकमेकं काश्मीरमहाराजपुस्तकालये, बीकानेरराजकीयपुस्तकालये चैवं पुस्तकद्वयं वर्तते । इति निवेदयति विदुषामनुचरः केदारनाथः । मुद्रणावशिष्टा कामसूत्रव्याख्या जयमङ्गला । औपनिषदिकं नाम सप्तममधिकरणम् । शास्त्रकार एवाधिकरणसंबन्धमाह - व्याख्यातं कामसूत्रमिति । तन्त्रावापात्मकं साधारणं तु तदङ्गत्वादुमयात्मकम् ॥ तन्त्रोक्तैरिति । तन्त्रावापोक्तैः । अभिप्रेतमनधिगच्छन्निति । - ईप्सितमप्राप्नुवन् । औपनि पदिक मिति । अभिधायकमात्मनो विधेयमिति । सुभगंकरणमुच्यते – रूपमिति । वर्णसंस्थानं सहजमितरदनित्यम् । नित्यं स्नानं द्वितीयमुत्सादनमित्यादिसंस्कारवशा चेतोहारि भवति ॥ गुणा ये नायकस्योक्तास्ते विरूपमपि सुभगं कुर्वन्ति । अतस्तेषु यत्नः कार्यः ॥ वय इति । यौवनं सर्वकार्यसमर्थम् । तत्र पुनस्तन्मतेन स्थिरं का- र्यम् । वार्धक्ये हि पलित इत्यनादरो विशेषतः स्त्रीणाम् । तदपि केशर- अनादिसंस्कारापाते वैमुख्यं नोत्पादयति ॥ त्याग इति । दानं तत्सर्वे बाघते यतो विरूपो निर्गुणो वृद्धो वा दाता सर्वैरेवाभिगम्यते ॥ यत्र रूपादयो न सन्ति तत्र विधिमाह - तगरेति । तगरं तु कन्दकमौत्तरापथिकम्, न नेपालभवम् । कुष्ठं यच्छ्रुतम् । तालीसपत्रकं प्रतीतम् । एतैरनुलेपनं शरीरस्य ॥ वर्तिमालिप्य दुकूलमयीम् । अक्षतैलेन बिभीतकतैलेन । साधितमिति । नरकपाले पातितमित्याम्नायः । कज्जलं तेन स्नेहेन योज्यम् । पुनर्नवेति । पुनर्नवा सहदेवीदण्डोत्पलकम् । सारिवेत्युत्पलसारिवा ग्राह्या । कुरण्टकः प्रसिद्धः । उत्पलपत्रमिति यदाभ्यन्तरं न बाह्यम् । शेषाणां मूलम् । सिद्धमिति तैलविधानेन पक्वम् । एतैरेव कपायं कल्कं च कृत्वा । तैलमिति तिलानाम् । अभ्यञ्जनं तु सुभगंकरणम् । तक्ता इति । पुनर्नवादिचूर्णयुक्ताः सजो धारिताः सुभगंकरणम् । नाग इति । नागः, केसरः पद्मादीनाम् । केसराण्येकीकृत्य संचूर्ण्य । अवलियेति । वमनविरेचनं कृत्वा, तत्रापि न तदैव सुभगो मासादूर्ध्वे हटशक्तिः । तान्येवेति । पद्मादिकेसराणि तगरादियुक्तानि अनुलिप्येत्यनुलेपन कृत्वा शरीरस्य सुभगो भवति । मयूरस्येति । यो न विशीर्णबईः । तरक्षोर्वेति । यो मत्तः, स हि ग्रीप्मे माद्यति । अक्षीति । दक्षिणं वामं च ग्राह्यम् । द्वयोरेव सामर्थ्यमित्यामायः । सुवर्णेनावलिप्येति । शुद्धसुवर्णपत्रेण पुप्ययोगेन वेष्टयित्वा ॥ वादरमणिमिति । बदरस्य बदरीवृक्षस्योत्तरशिफाघटितां वृत्तगु- लिकाम् । शङ्खमणिमिति । दक्षिणावर्तशङ्खनाभिघटिताम् । तथैवेति । सुवर्णेनावलिप्य हस्तेन धारयेत् ॥ तेषु चेति । धारणायोगेपु । आथर्वणानिति । अथर्ववेदे बहवो धार- णायोगा उक्ताः ॥ विद्यातन्त्रादिति । मन्त्रवादात्तत्रापि भूर्जपत्रलिखितविद्याधारणयोगाः । अनुष्ठानविशेषोऽपि क्वचित्सौभाग्यनिबन्धनमित्याह-माप्तयौवना मिति । या बाल (ल्य ) इव अनन्यपूर्वा स्वामिनं परिचरति तो तरुणीमन्यतो वारयेद्रक्षयेत् । यथान्यैर्नाभिगम्यते । स्वयं त्वभिगच्छेदित्यर्थोक्तम् । तत इति । तस्याः वारितवामत्वादिति । रक्षणयोगात्कामिनो वारिताः कौतूहलाप्रतिकूला भवन्ति । ततश्च तेपु लालसीभूतेषु अत्यन्तगृभुपु योऽस्यै परिचारिकायै ॥ संघर्पेणेति । स्पर्धया वहु द्रव्यं दद्यात् । दुर्लभं हि प्रियमन्वितं च भवतीति प्रायोवादः ॥ विसृजेदिति । अभिगन्तुं दद्यात् ॥ विशेषत्वात् (पतः) वेश्यापाणिग्रहणेऽपि विधिः सौभाग्यनिबन्ध- नम् । पाणिग्रहश्च द्विविधः । यथोक्तम्- 'दैवमानवभेदेन वेश्याविवहनं द्विधा । दैवं मन्मथकाण्डेन गम्येनाप्यपरं भवेत्' इति ॥ तत्र मानुषम- धिकृत्य विधिमाह -गणिकेति । प्राप्तयौवनां रक्षयेदिति संबन्धः । तस्या इति । स्वदुहितुः यादृशं रूपादि तदानुरूप्येणेति तत्सदृशाः । तानिति । दुहितुर्ये गम्याः । अभिनिमन्त्रय सारेणेति । विभवेन खेनाभिमुख्येन खगृहे निमन्त्र्य । अस्यै दुहित्रे । इदमिदंचेति । ईप्सितमाह । संसाध्येति । उक्त्वा रक्षयेत् पण्यधर्मित्वात् ॥ सा चेति । दुहिता । अविदिता नामेति । यथैते जानन्त्यस्मास्वनुर- क्तेयम् । येन रक्ष्यमाणापि मातुरविदितैव, गच्छतीति । धनिभिर्नान्यैर्निर- र्थकत्वात् । मीयेत प्रीतिं कुर्यात् ॥ प्रीतिश्व दर्शनपूर्विका । दर्शनं च विशिष्टे देशे काले चेत्याह – तेपा मिति । कलाग्रहणकाले गान्धर्वशालायामिति । यत्राचार्यो नृत्यगीतं शिक्षयति । भिक्षुकीभवन इति भिक्षुक्यादिकलाविदग्धोपगम्यते । तत्र तत्र चेति । सरस्वतीभवनोद्यानादिपु । तेषामिति । प्रीत्यनुबद्धानामिति । यथोक्तदायिनामिति । मात्रा यत्संभावितं तद्दायिनाम् । पाणिं ग्राहयेदिति । देशप्रवृत्तिरत्रानुसर्तव्या ॥ तावदिति । यावत्प्रमाणं संभाषितम् । अलभमाना पाणिग्रहणादूर्ध्वम् । खेनापीति । आर्थी (त्मी) येन । एकदेशेनेति । संभाषिताद्यममातृकं दत्तं तावनैकदेशेन संयोज्य ख्यापयेत् सौभाग्यख्यापनार्थम् । ऊढाया वेति । दैवेन विवाहेन योजिताया इत्यर्थः । कन्याभावं विमोचयेदिति । पूर्वेणैव प्रकारेण कौमारं का ( हा ) रयेदित्यर्थः । तेन प्राप्तयौवनामूढां स्वां दुहितरमित्यादि सबै योज्यम् । विशेषोऽत्र स पाणि गृह्णीयादित्यस्य स्थाने स कौमारकं कुर्यादिति । यथोक्तदायिनं ग्राहयेदित्यस्य स्थाने कौमारकं का (हा रयेदिति । स प्रच्छन्नं वेति । योऽभिप्रेतः कन्याभावं विमोचयितुं तेन प्रच्छन्नं संयोज्य । अजानतीभूत्वेति । न ममानुज्ञातमिति दर्शनार्थम् । एवं च सति तत उत्तरकालं विदितेषु घर्मस्थेष्वेतं (वं) नावेदयेत् । अभिसंभापितम (न) थे न दद्यादित्यभिप्रायः । तावदलभमाना तु स्वेनाप्येकदेशेनेति तत्राभियोज्यम् । ६ यस्यास्तु न कश्चित्कन्याभावं मोचयति तत्र विधिमाह---- सख्यैव त्विति । दास्या वा कुशलया मोचितकन्याभावा इत्यङ्गुलि - कर्मणा का (हा) रितकौमारविधिः । कथमेवं सौभाग्यमिति चेदत्राह- सुगृहीतकामसूत्रामिति । आभ्यासिकेपु वाडवकादिकेषु प्रतिष्ठितां शिक्षितां वयसि तारुण्ये प्रतिष्ठिताम् । यदा रूपयौवनवती विदग्धेत्यभिपतन्ति नागरिकाः तथा (दा) सौभाग्ये प्रतिष्ठितेत्यवसृजन्ति । व्यवहारे प्रवर्तयन्ति । प्राच्योपचारादिति / व्यवहारात् । पूर्वकालिको विधिः यत्कन्याभाव- मोचनम् ॥ पाणिग्रह इति । यः पाणि गृहीतवान् । गृह्णातीति ग्रहः । पाणेर्ग्रह इति समासः । अव्यभिचार्य इति । संवत्सरं तेनैव सह वसेत् ॥ तत इति । संवत्सरादूर्ध्वम् । यथाकामिनीति । यथेप्सिता कामयते वेश्याघर्मस्थित- त्वात् ॥ तेनेति । गृहीतपाणिना। निमन्त्रयमाणेति । अद्य रात्रौ मया सह शक्तिव्यमिति । लाभमुत्सृज्य अन्यस्माद्भवन्तमपि ॥ सौभाग्यवर्द्धनं चेति । एवं च कृत्वा पुनरभियातव्यमिति वैशिकेनोक्तम् । रङ्गोपजीविनामिति । नटादीनां विशेषमाह तूर्य इति । नृत्तविधौ विशिष्टमुपरञ्जयेत् नृत्तगीतादिभिः ॥ इति सुभगंकरणमेकोऽनपष्टितमं प्रकरणम् ॥ एवं लोकप्रियतामात्मनो विहितवतोऽभिप्रेतसिच्यर्थं वशी (द्रवी)करणमुच्यते – धत्तूरकेति । घत्तूरकबीजानि ॥ चूर्णैरिति । समीकृतानाम । मधुमित्रैरिति । माक्षिकमधुमिश्रैरिति । यथा नच प्रयोज्या जानाति लिप्तलिङ्गो मामभिगच्छतीति । वातोहान्तपत्रं वामहस्तेन ग्रहीतव्यम् । मृतकनिर्माल्यं यत्तदुरसि स्थितम् । मयूरास्थि जीवंजीवकास्थि, न केकिसंबन्धि ग्राह्यम् । येपां चूर्णेन अवचूर्णनं स्त्रीणां शिरसि पुरुषाणां पादयोः ॥ १ स्वयं मृताया इति । तस्या एव कार्यकरणात् । मण्डलकारिका- या इति । या मण्डलेन पानीये संघशो भ्रमन्ति ॥ वज्रहीति या साश्रिः । गण्डकानि खण्डश इति खण्डं खण्डम् । कृतानि तस्याः । सप्तकृत्व इति सप्तवारान् ॥ एतेनैवेति । चूर्णेन । सौवर्ण दर्शयति विस्मापनमेतत्प्रासङ्गिके ॥ तैरेवेति । वज्रनुह्यादिचूर्णैः । वानरपुरीपमिश्रैरिति जातमुखरागो यो वानरः तस्य पुरीषेणेत्यानायः ॥ व चागण्डकानि । श्वेतायाः वचायाः ॥ वृक्षस्कन्धमिति । यतः शाखा निःसृता । देवकान्तं देवप्रियम् । वशीकरणं चेति स्वहृदयान्मूल- मुत्पाठ्य योजितमित्यानायः ॥ केवलं त्वात्मनोऽनुविलेपनं सुभगंकरणज- वशीकरणम् ॥ ताम्बूलानीति । अच्छानि । सहकारतैललिप्तानीति वर्तते । यं वृक्षमिति सुरभिकुसुमम्। उत्कीर्य उत्कीर्णस्कन्धदेशम्, इत्युत्तरत्रापि योज्यम् । प्रियंगव इति । प्रियंगुकुसुमानि । तगरमिश्र इति कौरण्टकेन तुल्य- भागेन मिश्राः । नागवृक्षं नागकेसरम् । एतत्रिविधमनुलेपनं देवगन्धर्व- नागसत्त्वेष्वेव योजयेत् । सत्त्वपरिज्ञानं च शास्त्रान्तरादनुमन्तव्यम् । उष्ट्रा- स्यीति । तण्डुलभेदं कृत्वा । भावितं त्रिः सप्तकृत्वः । दग्धमिति । अन्तर्धूमम् । अञ्जनमिति मषीभावमुपगतम् । नलिकायामिति । उष्ट्रास्थिनलिकायाम् । स्रोतोञ्जनेन तुल्यभागेन सह हृषदि लक्ष्णीकृत्य निहितः, उष्ट्रास्थिशला- कयैव घटितया चक्षुषोर्वियोजितम् । पुण्यमिति । पवित्रम् । चक्षुष्यं तिमि- राद्यपनयात् । वशीकरणं चेति । यः प्रथमं दृश्यते स वशी भवति । शेष सुभगंकरणमित्यपदेशः ॥ एतेनेति उष्ट्रास्थ्यञ्जनविधानेन । तत्र भासः गोष्टः कर्कटकः पक्षी ॥ वशीकरणं षष्टितमं प्रकरणम् ॥ वशीकृतापि प्रयोज्या रन्तुमसमर्थस्य निष्फलैवेति वृषहिता वृष्या योगा उच्यन्ते – उच्चटा प्रसिद्धा तस्याः कन्दश्चव्या वणिद्रव्यं यष्टिमधुकं च एतद् गोपयसा सह कथितम् । सशर्करेणेति । शीतीभूतं शर्करां दत्त्वा पीत्वा वृपीभवति । व्यवायक्षम (कम्) इत्यर्थः । मेपः प्रसिद्धः । वस्तः छागः । तयोरन्यतरस्य मुष्कः वृपणं तेन सिद्धस्य कथितस्य । विदारी प्र सिद्धा । तस्याः कन्दम् । क्षीरिका राजादनम् । तस्याः फलानि । स्वयंगुप्ता कपिकच्छुः तस्या मूलं क्षीरेण पानं कथितेन वृपत्वयोगः । असमासनिर्देशात्प्रत्येकं योगः । प्रियालवीजानामिति । अस्थ्युपनीय गृहीतानामित्येको योगः । मोरटाविदार्योरिति द्वितीयः । तत्र मोरटा इक्षुमूलम् । शृङ्गाटकः प्रसिद्धः तस्य सर्वे ग्राह्यम् । कशेरुका प्रतीता । वच मल्लिकाख्या प्राद्या । मधूलिका मधुकफलत्वात् मधुकं यष्टीमधु क्षीरकाकोली वणिद्रव्यं पिवा समां- शानि । उत्करिका अपूपिका । यावदर्थमिति यावत्तृति भक्षितवान् । अनन्ता इति । वहीः ॥ मापकमलिनी मापविदलिका । पयसा धौतामिति जलेन निस्तु- पीकृत्य संशोध्य च क्षीरेण धौताम् । वृद्धवत्साया इति । चर्करिकाया इति ॥ आशित्वेति शीतीभूतं मधुसर्पिय विषमाभ्यां सहेत्यर्थः । गोधूमचूर्णेनेति । कणिक्यया ॥ चटकाण्डरसेनेति ग्राम्यचटकस्य स्वयं स्फुटिते अण्डे स्वयंमृतेन पोतेन रसकः कार्यः । तेन भावितानीत्यर्थः ॥ अपगतत्वेति । निस्तुपाः । स्वयं गुप्तायाः फलानि, नतु मूलं ग्राह्यम् । पक्कसंयाव इति यावकम् ॥ द्वेद्वे इति एकैकस्य । मधुरसाया इति तिक्तवल्लिकायाः । प्रस्थं पयस इति द्वात्रिंशत्पलानि । पडाङ्गकमिति शर्करादयः पडितिकृत्वा । अमृतं स्वादुत्वात् । मेध्यं मेघाहितम् । युक्तरथ (स) मिति । योगवाहि स्त्रीसहायमित्यर्थः ॥ शतावरी प्रतीता श्वदंष्ट्रा गोक्षुरकः । एभिः कपायैः यस्मिन्घृते पिप्पली मधूकं कल्को यस्मिन्गोक्षीरमेवापःप्रक्षेपो यस्मिन्पक्के इति पाकविधानेन । · पुष्यारम्भणमिति । पुण्यनक्षत्रे प्राशितुमारव्धव्यम्। श्रीपर्णी काश्मीरी । चतुर्गुणितजलेनेति । शताण्डस्थापितं ततो द्विफलकं चूर्णमादाय प्राश्रीयात् ॥ उक्तमेवार्थे पङ्किपरिहारार्थमाह - आयुर्वेदादिति । वैद्यकात् । वेदाचेति । अथर्वणवेदात् । विद्यातन्त्रेभ्य इति । मन्त्रवादेभ्यः । आप्तेभ्य इति । तन्त्रकुशलेभ्यो विश्वासिभ्यो संदिग्धान् द्रव्ययोगमात्राणां सन्देहान् । शरीरात्ययवहान् ये प्रयुक्ताः शरीरविनाशमप्यावहन्ति – जीवघातसंबद्धान् ये प्राणिनो विनाश्य युज्यन्ते । अशुचिद्रव्यसंयुतान् शुक्रशोणितादिभिः संयोज्याशनपानेन दीयन्ते । 'तपोयुक्तः प्रयुञ्जीत; सर्वसिद्धीनां तपोमूलत्वात् । शिष्टैराचारविद्भिः । विधिनेति । अविधिपूर्व हि सुभगंकरणादिः क्रियमाणो न सिध्यति । मङ्गलैः प्रशस्तवचनादिभिः ॥ वृष्यायोगा एकषष्टितमं प्रकरणम् ॥ सप्तमेऽधिकरणे प्रथमाध्यायः । द्वितीयाध्यायः । द्विविघं रतमपत्यफलं रतिफलं च ॥ पूर्वत्र वृष्ययोगा उक्ताः। द्वितीये नष्टरागप्रत्यानयनमुच्यते ॥ कस्यचित्स्वभावतोऽवस्थाया विनष्टो रागः • प्रयोगात्प्रत्यानीयते । यदाह wedengking चण्डवेगानामिति । रजयितुं सुखयितुमशक्नुवन् नष्टरागत्वात् । योगानिति प्रयोगान् । नष्टो रागो द्विविधो मन्दो ध्वस्तश्च । तत्र मन्दः प्रवर्तकोऽप्रवर्तकश्च । तत्र पूर्वमधिकृत्याह — रतस्येति – सप्रयोगस्य । उपक्रम इत्ययमारम्भे यद्यपि मन्दो रागो रते प्रवर्तयति स्तव्धलिङ्गत्वात् तथापि प्रथमं संवाधस्य भगस्य । करेणोपमर्दनं गजहस्तेन क्षोभणं कार्यम् । तस्या इति चण्डवेगायाः करेणोपमर्दनाद्रसप्राप्तिकाले रतयोजनमिति । यत्रयोजनम् । रागमत्यानयनमिति । स्त्रीच्छाया तावन्तं कारश्च (?) रागस्य प्रवर्तितत्वात् । अप्रवर्तकमधिकृत्याहमन्दवेगस्येति । यस्योत्पन्नोपि रागो न प्रवर्तयति लिङ्गस्यान तिस्त१० व्धत्वात् तस्योपरिष्टकेन रागप्रत्यानयनं तेनैव विसृष्टिसुखस्योत्पादनात् । गतवयस इति वृद्धस्य । व्यायतस्य चेति । मेदस्विनः । उभयस्यापि ध्वस्तो रागो लिङ्गस्य दुःखेन उत्थाप्यमानत्वात् । ताभ्यामेवौपरिष्टकमेव रागप्रत्यानयनं रतयोजने प्रवर्तयितव्यमसमर्थत्वात् ॥ अपद्रव्याणि च योजयेत् । यस्य प्रवर्तकोऽप्रवर्तकन्ध रागः स कृ- त्रिमाणि साघनप्रकाराणि च योजयेत् ॥ तान्यविद्धस्य विद्धस्य वा लिङ्गस्य । तत्र पूर्वमधिकृत्याहतानीति । सुवर्णादयो द्रव्याणि येषामपद्रव्याणामिति समासः । तत्र कालायसं लोहं गवलशृङ्गं प्रतीतम् । द्रव्यशब्दः प्रत्येकं योज्यः । त्रापुषाणि त्रपुपो विकारत्वात् 'त्रपुजतुनोः पुक्' ॥ गुणानाहमृदूनीति । मृदुत्वात्साघनस्पर्श नयन्ति। शीतवीर्यत्वं च प्रवेशकाले शीतलं स्पर्शे कर्मणि च व्याहारे घृष्णूनि घर्षणशीलानि भवन्ति । अनुजेन (?) त्वात् । दारुमयानि तु विपरीतानीत्यभिप्रायः। साम्यतश्चेति । किंचिदेव कस्याश्चित् प्रियं भवति । अतो दारुमयान्यपि योज्यानीति मन्यते । तानि प्रकारान्तरेण दर्शयन्नाह - लिङ्गप्रमाणान्तरमिति । यदा स्तब्धलिङ्गस्य आनाहः प्रमाणं तदन्तरं छिद्रं यस्य तत् बिन्दुभिरिति । (रित्यु) उत्कीर्णैः कर्कशपर्यन्तं कर्कशष्टष्टमित्यर्थः । तद्वलयमिव पिनद्धं स्तव्धं लिङ्गं संपीड्य तिष्ठति । एते एवेति । वलये द्वे चतुर्पु त्रिपु वा स्थानेषु विशिष्टसंधिनि घटिते त्रिःप्रभृति यावत्ममाणं लिङ्गस्यायामतः तत्प्रमाणं चूडकः । एकामेव लतिकामिति । लताकारा सीसकादिमयी । प्रमाणवशेनेति । लिगस्यायामपरिणाहवशेन । वेष्टयेदित्येकचूडकम् । उभयत इति । द्वयोः पार्श्वयोः । मुखछिद्र इति । येन भागेन लिङ्गं प्रवेश्यते तन्मुखं तद्द्योः पार्श्वयोः छिद्रं कटिबन्धनसूत्रप्रक्षेपणाथै यस्याः । कर्कशपृषतगुटिकायुक्ता इति । उत्कीर्णैः कर्कशबिन्दुमिः युक्तः । कञ्चुकः सर्वे लिङ्गमवच्छाद्य अवस्थितत्वात् यस्य । जालकमिति । प्रतीतिः स द्विधा खरकञ्ञ्जुको योयमुक्तः । लक्ष्णकञ्चुको यो मसृणपृष्ठः । तदुभ्यमपि समन्तात्कञ्चकः । यस्तु मणिभागमाच्छाद्य तिष्ठति सोर्थ (६)कञ्चकः ॥ यस्य मणिरक्ष इति प्रतीतिः गु1 1 1 ११ लिकाभिरन्तरान्तरा मुक्तसंधिं कृतोत्कीर्णाभिर्युक्तजालकम् । तत् द्विविधं उत्कीर्णजालकं यदिदमुक्तम् । वलयं बहुछिद्रं कृत्वा दृढसूत्राण्यवबध्य छिद्रस्फोटितगुलिकादिभिर्विबद्धगुलिका दत्त्वा विरच्यते तन्मणिजालकम् । तस्याग्रे विधानिका योजनं कार्यम् । प्रमाणवशयोगीति । उभयोरपि घटितलिङ्गस्यायामपरिणाहावपेक्ष्य समन्तात्कनुकस्य जालकस्य च योग इत्यर्थः । तदलाभत इति यथोक्तसंस्थानघटनाभावे । बिल्वादीनां योजनं तेषां लिङ्गसंस्थानत्वात् । अत्र वेण्वलाबूनालयोरमं तु प्रसृष्टं कार्यम् । शुकरजङ्घावद्ध इति । शूकरजङ्घातः प्रमाणवशेन निर्मोकवदांकृष्टं चर्म । स्व (सु)भावित इति च चर्मकषायैः कषायितः तैलैः स्नेहितः कर्मण्यो भवति । लक्ष्णकाष्ठामाला चेति । मसृणाभिः काष्ठगुलिकाभिः अन्तरान्तरामलकास्थीनि दत्त्वा ग्रथिता माला तया तथा लिङ्गस्य वेष्टनं यथा सुश्लिष्टं भवति । विद्धमधिकृत्याहन विति । अविद्धस्य लिङ्गस्येति संबन्धः । व्यतिहृतिः संप्रयोगः । वालस्यै (स्ये) वेति । यथा कर्णयोर्बालावस्थायामेव व्यथनं तथा लिङ्गस्य यूनां च तत्र अन्यस्य वा लिङ्गस्य व्यघनविधिमाह — व (श) खेणेत्याराख्येन । भेदयित्वेत्यनेन कुशलेन वहिश्चर्माकृष्य अन्यत्र स्थापयित्वा शिरां त्यक्त्वा तिर्यक् छेदयेत् यथोभयतः छिद्रं भवति । उदके तिष्ठेद्बुधिरस्तम्भनार्थम् । वैशद्यार्थमिति छिद्रस्यासंकोचार्थम् । निर्वन्धाव्यवाय इति बहून्वारान् मैथुनं कार्य ममत्वे हि तत्प्रतीकारस्य पीडाभावात्कषायैरिति । पञ्चकषाय (यै :) शोधनं प्रक्षालनं वर्ण (व्रण)स्य ॥ वेतसादिशङ्कुभिः कीलकादिभिः क्रमेण वर्धनं तेषामक्रमेण वर्धमानत्वात् । यष्टिमधुकेन मधुयुक्तेन प्रलेपनशोधनम् । शुद्धं हि नणं रोहति तत इति उत्तरकालम् । सीसपत्रकर्णिकयेति सीसकस्य वर्धनहेतुत्वात् । तत्पत्र तु तालपत्रवत्सेवेष्टितम् ॥ प्रक्षिप्य वर्धयेत् ॥ त्रयेच शल्यकतैलेन प्रवेशनार्थम् ॥ तस्मिन्निति बहुछिद्रे । अनेकाकृतिविकल्पानीति अनेकसंस्थानेन कल्पितानि । १२ वृत्तमिति । वर्तुलं मध्येऽस्य द्रोणिका कार्या यत्र चर्मपाशः तिष्ठति । एकतो वृत्तमिति । अन्यतो दीर्घमष्टमीचन्द्रसदृशं दोणिका (लूखलं) तथै- चमुल्लेखनमुलूखलाकृति ॥ मध्ये निम्नं यत्र पाशः तिष्ठति । कुसुमकं कलि- काकृति (पद्म) मध्येस्य द्रोणिका । कण्टकितं कारविल्लसंस्थानं द्रोणिका । तथैव द्वयोरप्यायामेन योजनम् । काकास्थि समचतुरस्रं द्रोणिका । तथैव गजमहारिकं गजस्याकृति सिंहकरं उत्कीर्णनिर्मि(?) गतं तदनस्या ग्रीवा शिरोदन्तान्तरभागेन द्रोणिका । अष्टममष्टाश्रिटकं तस्योर्ध्वाधः कोणेन द्रो- णिका अमरकं शकटाकृति पार्श्वतः कीलिका योगा चलचक्रमायामेन द्रो- णिका द्वयोरपि कोणेन प्रवेशनम् । अन्यानि च योजयेत् । तत्राप्युपायतः यान्युपायानि रतेः प्रतिपद्यन्ते ॥ कर्मतश्चेति । यानि चर्मपाशेन संयोज्य कर्मणि निरपायं व्यापार्यते। यथा साम्यमिति । मृदुमध्यातिमात्रेण संवा- धस्य कार्कश्यं बुद्धा तदनुरूपकार्कश्यं विधेयम् । मार्दवं येषां मसृणता विद्यते ॥ इति नष्टरागप्रत्यानयनं द्विपष्टितमप्रकरणम् ॥ यथा आपद्रव्यसंयोगालिङ्गं कर्मण्यम् । तथा शसस्य (?) वर्धितमपीति वृद्धविधय उच्यन्ते – एवमिति । वृपजातानामन्येनानुयोगित्वाद्यञ्चतामिति कन्दलिकानां शूकैः लोमभिः उपबृंहन्निति तदंशिकायां जन्तून्गहीत्वा शूकैः पार्श्वपु लिङ्गं ताडयेत् । 'तृह हिंसायाम्' इति धातुपाठात् । तैलमृदित्तमाकृप्य । जातशोक (फ) मिति । जातश्वयथु । शल्वातरणेति । खट्टावस्त्रान्तरेण लम्वयेत् दैर्ध्यार्थम् ॥ तत्रे ( त इ)ति । ईप्सितप्रमाणे जाते शीतैः पञ्चकपायैः कृतवेदनाग्रहणमिति परिपिच्य परिपिच्यापनीतवेदनम् । अन्यथा शोफो वर्धते वेदना चेति । शवरकन्दकं शबरमूलम् । जलशुकं लोकप्रतीतम् । इस्तिकर्ण बृहत्पत्रमटव्यां भवति ॥ वज्रवली अस्थिसंहारः ॥ मासिकमिति । वर्द्धितं मासे तिष्ठति ॥ एतै- रेवेति । अश्वगन्धादिमिः कल्कीकृतैः कपाययुक्तैरिति तं कृतकपाययुक्तैः । तैलेनेति परिमर्दनं बर्द्धनं पाडमास्यमिति योज्यं । दाडिमत्रपुपयोर्वी- जानि वालुकेति एलवालुका बृहती बृहत्येव कङ्कवृहतीहस्तिनो वा । अनयोः फलरसः परिमर्दनं परिषेको वा वर्द्धनं षाडमास्यमिति योज्यम् ॥ तांस्तांश्च योगानिति वर्द्धनस्य वृद्धिविधयः ॥ इति त्रिषष्टितमं प्रकरणम् । उक्तव्यतिरिक्तकार्यसाधनायें प्रकीर्णकन्यायेन चित्रा योगा उच्यन्ते- अथेति प्रकरणाधिकारार्थम् । स्रुहीति वज्री माझा ॥ अवकिरेदिति । शिरस्यवचूर्णयेत् ॥ नान्येन काम्यते तस्या अनेन रक्षितत्वात् ॥ सोमेति । सोमलता अवल्गुनं वाकुचीबीजम् । भृङ्गो भृङ्गराजः । लोहं लोहचूर्णम् । उपजिह्विकाया वल्मीकं चिनोति व्याधिधातुकः सुवर्णसे- फालिका तस्याः पत्रत्वनिर्यासः जम्बूफलम् । तत्र च निर्यासः फणितीकृ- तेन तैः सह कल्कीकृतेन रागो नश्यति । संस्पर्शमात्रेण लिङ्गं नोत्तिष्ठती त्यर्थः । बहुपादिका रुण्डिका । या वर्षासु भवति । स्नाता च गच्छतो रागो नश्यति ॥ स्रुजवेति । नापि च कुसुमयुक्तादपि नद्धाभ्यां यकृतः कोकि- लाक्षकः श्वेतः । बीजानि ॥ संहतिमिति संकोचम् । वृक्षात्फलस्य कुसुमम् । कन्दुकमिति नजकन्दुकमिति । सर्वसुगन्धावीरणस्थाने वर्षा सुगन्धि- जयते । विशालीकरणमेकरात्रम् ॥ P हिसोमार्कक्षारैरिति दग्ध्वा परिस्राव्य च जलं ग्राह्यम् । अवल्गु- जफलैश्च क्षारैः । मदयन्तिका प्रसिद्धा । कुटजकः यस्येन्द्रयवा फलानि । अञ्जनिका कृष्णकुसुमा प्रतीता । गिरिकर्णिका नालस्य पदो ग्राह्यः लक्ष्णपण कश्मारी । येषामिति श्वेतीकृतानां प्रत्यानयनं पुनः कृष्णी- करणमित्यर्थः ॥ $ एतैरेवेति कषायकल्कीकृतैः क्रमेणेति । दिवसक्रमेण स्वयमेव निव- र्तते कार्ण्यम् । मुष्कस्वेदेनेवि वृषणप्रस्वेदेन उपलिप्तमिति । औषधज- लेन बहिरन्तश्च बहुशः क्षालिते उपलिप्तो भवति ॥ १ 'नान्यं कामयेत' इति मूलाधिष्ठितपाठः. अभ्यवहार इति । यदशनं पानं वा अभ्यवहिते गुडो भक्षितः प्रत्यानयनमभ्यवहारो वा यदा जीर्णो भवति तदा खच्छता हरितालमन:शिलाभक्षिण इति उपवासं कारितस्य मासेन देयम् आदराय । तृणं लोकप्रतीतम् ॥ हरीतकमिति । पत्रं तरथिता यस्य चटचट इति प्रतीतिः । आम्रातकः प्रसिद्धः । तयोः पत्रमित्यर्थः ॥ श्रवणप्रियंगुका ज्योतिप्मतीति तत्फलैः सह पिष्वा दुकूलं शुद्धं गृहीत्वा सर्पनिर्मोकेन सह वर्तिका कार्या । दीपे प्रज्वलिते सति सर्पवद्दृश्यते तदाकारमात्रदर्शनात् विस्मायनमेतत् ॥ क्षीरपानं धन्यं पवित्रत्वात् यशसे आयुपे च हितं भवति सर्वदा सेव्यमित्युपदेशः ॥ तथा आशिषश्च प्रसन्नेभ्यो मृग्याः । चित्रा योगाः इति चतुःषष्टितमं प्रकरणम् । एवं संक्षेपविस्तराभ्यां शास्त्रं प्रणीय ग्राह्यतां प्रतिपादयितुमाहपूर्वशास्त्राणीति । संदृश्येति शब्दतोऽर्थतश्च दृष्ट्वा । तेषां प्रमाणत्वात् प्रयोगमनुसृत्य च प्रयोगतश्च ज्ञात्वेत्यर्थः । संक्षेपेणेति । स्वशास्त्रस्य प्रयोजनं निवेदितुं कथितम् । ननु च संप्रयोगाङ्गं शास्त्रमिदम् । संप्रयोगश्च रागहेतुः । तं च रागमेवानर्थहेतुं दीपयत्येतद् इत्याह - धर्ममिति । एत स्येति शास्त्रस्य । यः तत्वज्ञः स नियतं धर्मादीन् पश्यति तांश्च पश्यन् न रागादनर्थहेतुकात्प्रवर्तते । प्रत्ययं विश्वासम् । लोकमिति । शिष्टमशिष्टं चेति । यद्येवं किमिति धर्मविरुद्धा औपरिष्टकादयोऽत्र विहिता इत्याहअधिकारवशादिति । प्रकरणवशात् रागहेतवः । तदनन्तरमिति विधानानन्तरं प्रयत्नानिर्धारितादेशपुरुषापेक्षया निषिद्धाः ॥ तदेव स्फुटयनाह - न शास्त्रमस्तीति । व्याख्यातं चैतत्प्राक् । यतश्च शास्त्रात्प्राधान्येन संक्षिप्य निबद्धं येन च तदुभयं दर्शयन्नाह – वाभ्रवीयां चेति आगमय्य गुरुभ्यः विमृश्य च स्वबुद्ध्या । मूत्रमिति । कामसूत्रमावर्त्तयत् कृतवान् । यथावस्थ्ययासदर्थच (?) विहितं तदर्शयन्नाह -तदेतमिति । परेणच समाधिना समाहितेन येन सह । लोकयात्रार्थमिति चातुर्वण्यें गृहस्थव्यवहारार्थम् । न पुना रागार्थोस्य संविधिः कथं न रागार्थों भवतीत्याह – रक्षन्निति । अस्य शाखस्य यस्त१५ त्वमवैति सोऽवश्यं धर्मादीनू परस्परस्य अनुपघातेन रक्षन् । लोकवर्तिनीमिति इहलोकपरलोकमार्ग शोभनाशोभनात् । एतत्कुशल इति । एतसिन्शास्त्रे कुशलः । विद्वान् ज्ञानवान् । धर्मार्थावधर्ममयार्था कामेन न वाध्यते । कामीति गृहस्थः । प्रयुञ्जान इति शास्त्रार्थम् ॥ प्रसिध्यति लोकेषु प्रमाणपुरुषो भवति । नातिरागात् एकत्वादिति । इति सप्तमेऽधिकरणे द्वितीयोऽध्यायः । आदितः षट्त्रिंशः ॥ समाप्तं च कामसूत्रटीकायां जयमङ्गलाख्याया- मौपनिषदिकं नाम सप्तममधिकरणम् ॥ समाप्तम् PRINTED AT THE 'NIRNAYA SAGARA' PRESS. ¦ An extract from Dr. P. Peterson's paper on Courtship in ancient India. (Read before the Bombay Branch of the Royal Asiatic Society on the 29th of July 1891). ÷ > ? Among the 540 manuscripts collected by Horace Hayman Wilson in Benares and Calcutta, and now deposited in the Bodleian Library at Oxford, there is one which contains the Kamasutra of Vâtsyâyana, along with a commentary by one Bhâskara Nrisimha. The commentary was written in 1788 at the request of one Vrijalal. It is described as being the work of a man who was not sufficiently acquainted either with the language or with the subject-matter of his author. The Kamasutra itself is a work which is destined, I believe, to throw a great deal of light on much that is still dark in the ancient history of this country. Aufrecht, who denounces the subject-matter of the book with all a scholar's asceticism, saw its importance and gives up seven columns of his catalogue to a long extract from it He notes that Vâtsyâyana refers to the following previous writers on the subject of love:-Auddâlakı, Gonikâputra, Gonardiya, Ghotakamukha, Chârâyaṇa, Dattaka, Bâbhravya, and the Bâbhraviyas. Aufrecht also pointed out that Vâtsyâyana must be put before Subandhu, the author of the Vasavadatta. For both Mahes'vara and Hemachandra tell us that Vâtsyâyana is another name for Mallanaga, whom Subandhu quotes. The extracts given by Aufrecht attracted the attention of scholars, but the book itself has only been accessible to them very recently. The translation into English (1883) was printed and circulated privately only; and it was, besides, for scholars a very inadequate representation of the original We owe it to Pandit Durgaprasåd of Jeypore that we have at last an excellent edition of the book, accompanied by a better commentary than that which Aufrecht describes. This is the commentary, a fragment of which I secured in 1883 for the Bombay Government collection, and 2 which is referred to in my second report, p. 67. It is called the Jayamangala. The author gives his name as Yas'odhara, but states that he wrote this "explanation of the Satras which Vâtsyâyana collected after he had retired from the world in grief at the loss of a beloved wife, and had, under the name of Indrapåla, entered the ascetic life" It can be shown that the book, as we have it now, was known to Bhavabhâti, who flourished at the end of the seventh century, and that he makes constant reference to it in his Målatîmâdhava. There is a statement to that effect at the beginning of the play itself, the point of which has been hitherto missed. I refer to the phrase "Auddhatyamâyojitakamasutram," which occurs in the enumeration by the actor of the qualities the audience expect to find in the play about to be represented before them. Jagaddhara sees no reference to a book here, and Bhândårkar, differing from Jagaddhara, translates, "bold or adventurous deed, intended to assist the progress of love (ht. in which is introduced the thread of love)." Bhavabhuti doubtless means this, too. But his words include a reference to this book, of which he makes great use. When Kamandakt slyly suggests, while professing to put aside, the tales of how S'akuntalâ and others followed the dictates of their own hearts in love, she is following Vâtsyâyana When she tells Avalokitâ that the one auspicious omen of a happy marriage is that bride and bridegroom should love one another, and quotes the old saying that the happy husband is he who marries the girl who has bound to her his heart and his eye, she is quoting Vatryâyana. And so in many other parts of the play. One of the most conspicuous passages is in his seventh act, where Buddharakshitâ breaks through her Prâkrit to quote the Sanskrit phrase, "Kusumasadharmâno hi yoshitah sukumáropakramâh"—"For women are like flowers, and should be approached gently.' Buddharakshitâ is quoting our book (p 199), and the whole of the context refers to a matter which Vâtsyâyana treats of at great length, and which is interwoven with the plot of the Målatfinadhata. 3 I will say only in passing that I hope on some future occasion to show that what is true of Bhavabhûti is true of his great predecessor, Kalidasa. If that is so, a vista of antiquity opens up for our book. For it is certain now that Kâlidâsa must be put earlier than has lately been very generally supposed. He stands near the beginning of our era, if indeed he does not overtop it, and dates from the year of Vikrama's era. It is enough, however, for my present purpose, if you will bear in mind that this Kamasutra of Vâtsyâyana can be shown to have been known to Subandhu and Bhavabhfiti. It contains much that is in conflict with the poet's dream of the "unchanging East" and his belief that India is a country in which all things have continued as they were from the beginning. But its evidence cannot, I believe, be overturned It is with a full conviction of the authenticity and antiquity of the book that I proceed to lay before you a translation of that chapter in which Vâtsyâyana lays down the rules which, in his opinion, in all ordinary cases, should govern the relations of the sexes before mairiage. **** «*** Your edition of Vâtsyâyana's Kâmasutra will be a valuable publication, and I am glad that you have been induced to bring it out **** Dr F Kelhorn Ph. D, CI E (Gottingen 23-2-87.) OPINIONS. "*** To judge from the printed sheets sent to us, the latter (Vâtsyâyana's Kâmasûtra) will be a most interesting and valuable publication (The Academy 26-3-87 ) 39 "I had extreme pleasure in receiving your elegant aud accurate edition of the Kamasutra, which is a most important contribution to Indology.***" Dr. R. Garbe (16 Prinzenstrassc, Königsberg । Pr. 19-4-91.) का० ४८ 4 "*** I congratulate you on having done and done well a work which cannot fail to be of great service to Sanskrit Scholars The work is really a very important one. Though it is a work on Erotics only and treats principally of love, it contains a good deal of valuable information on many important subjects and will be found to be a great help in the study of Indian society in ancient times as well as in our endeavours to account for many customs and practices of medieval and modern Indo-Aryans The commentary you have published is one of the best specimens of its class, it always elucidates all the really dark points in the text and gives particulars geographical, political and social, which are not usually met with in similar works. You seem to have devoted much care and labour in bringing out your edition. I hope that it will command the success which it undoubtedly, in my opinion, deserves and pay the trouble you have taken in preparing it." Mr. Haridasa S'âstri, MA, F. S Sc. (Lond), M. R. A. S; F. R H. S. (Director of Public Instruction, Jaypur State Jaypur 24-4-91.) "Please accept my best thanks for the copy of Vâtsyâyana's Kamasutras which you have kindly sent me I feel sure that the editing of this difficult and important work could not have been in better hands than yours, and that by the publication of this strange book you have rendered a great service to Sanskrit scholarship."-Dr. F. Kelhorn, Ph. D, ( Göttingen 1-5-91.) **** I think the publication of this book is likely to be of much assistance in the investigations now being carried on into the Literary History, and the social condition of Ancient and Medieval India ***-The Honorable Mr. Justice K. T. Telang M. A; LL B; C. I E. (High Court, Bombay, 3-8-91.) **** The Kâmasûitra seems to me to be very valuable for all researches covering Infant Marriage in Ancient India, as it supplies many details to the marriage laws preserved in the Smritis and Grihya Sûtras.***"-Prof J. Jolly (Professor of Sanskrit in Würzburg University, late Tagore Professor of Law, Germany, 19-10-91 ) 5 " सर्वशास्त्रकलाकलापपारंगमायानेकोच्छिन्नप्रायकाव्यालंकारा दिप्रन्योद्धारकाय सकलसद्गुणसंपद्विभूषिताय श्रीदुर्गाप्रसाद इति सुगृहीतनाम्ने श्रीजयपुरनिवासिने महापण्डितशिरोमणये डाक्टर जी० ब्यूलर इत्यमिघस्य राजसभामात्य'Hograth' पदविशिष्टस्य संस्कृताध्यापकस्य कुशलप्रश्नपुरःसरं समुल्लसतुतरां विज्ञप्तिरियम्——–भवत्प्रेषितं कामसूत्रस्य मुद्रितं पुस्तक मया प्राप्तम् । तत्प्रेषणेन चाहमतीवोपकृतो भवता । यद्यपि कामसूत्रय भूयांसि स्थलानि लजां वीभत्सां वोत्पादयन्ति, तथापि सा श्रीवात्स्यायनमुनिकृतिः काव्यशास्त्राध्ययने भरतखण्डीयप्राचीनवृत्तान्तनिर्णये चोयुक्तैरवश्यमेवावलोकनीया । तेन तत्संशोधने यो भवता प्रयत्नो विहितः स न निष्फल:, किं तु विद्याविवर्धनायैव । अन्येषामप्यस्मजातीयानां विदुपां स एवाभिप्रायः । * * 4 काव्यमाला तु चिरं तिष्ठेत्कीर्त्या च वर्धतामिति ममेच्छेत्यतिविस्तरेणालम् ॥ — Dr f Buler Ph. D, CI. E., ( 22 Stefamni Gasse Ober Dobling Vienna, Austria. 3-12-91 )