It is a reproduction of the earlier edition of Nirnaya Sagar Press THE KADAMBARI OF BANABHATTA & HIS SON BHÜŞANABHATTA (WITH THE COMMENTARIES OF BHĀNUCANDRA AND HIS DISCIPLE SIDDHACANDRA, PROTEGES OF THE EMPEROR AKABAR) Edited by KASHINATH PANDURANG PARAB & Revised by WASUDEVA LAXMANA SHASTRI PANSIKAR NAG PUBLISHERS NAG PUBLISHERS 11A/U.A. Jawahar Nagar, Delhi-7 (India) Published with the Financial Assistance from the Ministry of Education & Culture, Govt. of India. Ⓒ NAG PUBLISHERS (i) 11A/U.A. (Postoffice Bldg.), Jawahar Nagar, Delhi-7 (ii) 8A/U.A.-3 Jawahar Nagar. Delhi-110007 (iii) Jalalpurmafi (Chunar-Mirzapur) U. P. REPRINT 1985 Price Rs.120.00 Printed In India Published by Nag Sharan Singh for Nag Publishers, 11 A/U.A. (Postoffice building) Jawahar Nagar, Delhi-110007 and printed at Gian Offset Printers, Daya Basti, Delhi--110035 481500221 FX महाकवि बाणभट्ट- भूषणभट्ट-विरचिता कादम्बरी महोपाध्याय भानुचन्द्र सिद्धचन्द्राभ्यां कृतया टीकयानुगता काशीनाथपाण्डुरङ्ग परब- प्रमुखै: शोधितपूर्वेयं NAG PUBLISHERS नाग पब्लिशर्स ११ ए/यू. ए. जवाहरनगर :: दिल्ली - ७ © नाग पब्लिशस (१) ११ ए/यू. ए. जवाहर नगर, दिल्ली-७ (२) ८ ए/यू. ए. जवाहरनगर, दिल्ली-७ ( ३ ) जलालपुरमाफी ( चुनार - मिर्जापुर ) उ० प्र० पुनर्मुद्रित १६८५ नागशरणसिंह द्वारा नागपब्लिशर्स, जवाहर नगर दिल्ली - ७ के लिए प्रकाशित तथा ज्ञान ग्राफसेट प्रेस, दिल्ली द्वारा मुद्रित विनन्दतु नीलसरोरुहचाद पद [^१]द्वयमुक्तिविकासनकारु । यतः किल कीलितकुण्डलि [^२]धाम व्यभादिव मञ्जुलमौक्तिक [^३]दाम ॥ १ ॥ उपोद्धातः 'गद्यं कवीनां निकषं वदन्ति ।' कवे: काव्यकौशलं गद्येनैव पूर्णतया परीक्ष्यत इति हि सर्वथा सत्यम् । पद्यं ह्येकचरणस्यापि सौन्दर्येण संवहत्येव कामप्यभिख्याम् । किन्तु गद्यं सर्वतः सौन्दर्यं विना निजरचयितुः प्रददाति पाण्डित्यपरिचयमनायासादेव । किञ्च पद्ये छन्दोबन्धानुरोधेन न स्वच्छन्दमभिरुचितशब्दशय्या यथावन्निर्वाहयितुं सुशका । किन्तु गद्ये नाऽयं प्रतिबन्धः । अत्र हि यथास्थलविनिवेशितैर्मौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैर्हार इव निजभावोद्गार: सहृदयानां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसामग्रीदारिद्र्यं न पुरः प्रतिबन्धकं भवति । पद्ये छन्दसोऽनुरोधेन कल्पनायाः शरीरं बलादेवाऽऽकुञ्चनीयं भवति । पुरः प्रदृश्यमानेऽपि हि विस्तृते कल्पनाऽङ्गणे, छन्दःप्रतिबन्धवशात्पङ्गूक्रियते कविरयम् । गद्ये तु हृदयोत्थितं कल्पनोदूगारं यथामनोरथमविकृतरूपेणैव प्रकटयितुं नान्तरायः कश्चित् । पद्ये हि नियताक्षरबन्धेनोत्पादिता संगीतानुगामिनी कापि गतिर्निभृततरमुत्पादयति माधुर्यं मानसे, येन हि मनागभावशैथिल्येऽपि श्लोकः [^४]श्लोकमुपयाति । गद्यं तु पुनरनाविष्कृतभावमाधुर्यं पुर एव पिशुनयति कार्पण्यं कवेः । पदान्तानुप्रास ('तुक' 'काफिया') सापेक्षे छन्दसि तु निबद्धार्थनिर्वाहो मन्ये न यस्यकस्यचित्कवेः कार्यम् । तत्र ह्यनुप्रासपरवशो बलादेव स्वाभिप्रेतमर्थं विरूपयति, अप्रचलितशब्दबन्धेन लाञ्छयति वा पदबन्धमात्मीयम् । अत एवाऽक्षराणां विरूप [^५]करणं कविसंप्रदायेनाऽप्यनुमतमेतस्मिन् । एवंविधे छन्दसि विवशतया विरूढपि वैगुण्ये समालोचकपुंगवस्थापि मनो मनाङ् मार्दवमुपयात्येव । भवति च कश्चि [^६]दपदेशः कवेरपि स्वकीयामशक्तिं गोपयितुम् । किन्तु गद्ये किञ्चिदप्यवद्ये संघटिते निर्वचनमभ्युपगन्तव्या भवति स्वीयैव स्थूलता । पाशकक्रीडायां पराजितः प्रमादमात्मीयं पाशकानामुपरि निपातयितुमासादयत्यवसरम् । परं बुद्धिबल(शतरञ्ज) क्रीडायां विजितस्य क: स्यादपदेशोऽन्यः ? अत एव गद्यगुम्फः पूर्णपरिनिष्ठितस्यैव कवेः कार्यमित्यधिगन्तव्यं भवति । गद्ये हि स्वच्छदर्पण इवाऽविकलं प्रतिफलिता विभाति कवयितुः प्रतिभा । तत एव हि चिरात्प्रसिद्धं कविगोष्ठ्याम्- 'गद्यं कवीनां निकषं वदन्ति' इति । भारतीयकवीनां सर्वविदितेऽपि सामर्थ्ये, संस्कृतसाहित्यमिदं गद्यकाव्यैर्भूयस्तरां शून्यमिति प्रत्यक्षमीक्ष्यतेऽस्माभिः ।प्रसिद्ध्यनुसारम् - भगवतो वाल्मीकेर्यथैव सेयं छन्दोबन्धरीतिर्लोकेऽस्मिन् प्रसृता, तथैवास्या माधुर्यप्रभावस्था कविषु बद्धास्पदो बभूव यथा गद्यगुम्फः शनैः शनैर्विरलतामवाप वराकः । पद्यबन्धश्चावश्यकतातोऽप्यधिकमासादयामास प्रसारम् । नाट्यम्, गीतम् वादिनम्, काव्यम्, कोषः,आयुर्वेदः, इतिहासः, पुराणम्, धर्मः, दर्शनम्, एतदादिषु सर्वत्र पद्यबन्धस्यैव प्रसारो बभूव । किं बहुना - एकमेकं च मिलित्वा द्वे भवत इति हि गणितशास्त्रमपि पद्यबद्धमेवाऽत्राविरभूत् । पद्यकविताया मादकता भारतमात्रस्य वातावरणे तथा दृढतथा व्याप्ताऽभूद् यथा व्यतीतेऽपि बहुतिथे समये मदोऽसौ [^१]G. उक्तीनां विकासने कारु ( शिल्पि, निपुणम् ) उपास्यदेवतायाः पदद्वयम् । [^२]G. सर्पाणां तेजः । [^३]G. छन्दोऽप्येतन्नामकम् । [^४]G. प्रशंसाम् । श्कोकोयं प्रशस्यो भवतीत्यर्थः । [^५]G. ' रलयोर्डलयोश्चैव शषयोर्बवयोस्तथा' इत्यादि । 'अपि माषंमषं कुर्याच्छन्दोभङ्गं न कारयेम्' इत्यादिः किंवदन्ती च । [^६G. 'बहाना' । नास्माकं मस्तिष्काद्व्यपथाति । अधुनापि हि पद्यानां प्रवाहः प्रकामं प्रसृतो विलोक्यते, कामं तानि पद्यानि पद्याभासान्येव भवेयुः परं गद्यनिषद्यायां नास्माकं मनो रमते । यानि किल गद्यकाव्यानि निर्मितानि तान्यपि पद्यमयानि कृत्वा मन्ये प्रमादपरिशोधनमिव क्रियतेऽस्माभिः । अत एव हि कादम्बर्या अपि 'पद्यकादम्बरी' नाम्ना पुनःसंस्करणं पुनर्जन्म वा भवति । श्लोकबद्धं दशकुमार- चरितमाविर्भूतमेव पुरा जयपुरात् । अन्यत्किम्, या सिद्धान्तकौमुदी स्वच्छन्दगतिना गद्येन निबद्धाप्यन्तेवासिनां यथावद्बुद्धिगता न भवति, नागेशाद्या: प्रगाढपण्डिता यां टीकाशतैस्तुन्दिलयन्तोपि न तृप्यन्ति, सैव पुनः [^१]पद्यबन्धे निगडयितुं काम्यते इति किं न्यूनाऽस्माकं पद्यभक्तिः ? संस्कृतभाषायां गद्यसाहित्यं नासीदिति तु न कथञ्चिद्वक्तुं शक्यते । संहिता- ब्राह्मणकालादेवाऽस्योद्भवो नाम । सूत्र-भाष्याणां काले तु प्राचुर्यमविन्दत गद्यलेख एव । किन्तु सा शैली दार्शनिकं प्रवाहमन्वसरत्, न काव्यसौन्दर्यम् । ततः पक्षधरमिश्र - गदाधरभट्टाचार्यादीनामनन्तरं समुज्जृम्भमाणे शास्त्रार्थयुगेऽवच्छेदकताच्छिन्नैःसमासाच्छन्नपदगुच्छकैरेवाऽऽ-च्छाद्यत संस्कृतगद्याङ्गणमिदम् । न केवलं तर्कशास्त्रीया एव, व्याकरणादीनामपि ग्रन्थास्तमेव वीरवेषं वहन्तः पुरा प्रादुरभवन् । महाभारतसंबद्धाद्गद्यभागात्, महाभाष्ये दृष्टेभ्य: [^२]'वासवदत्ता' 'सुमनोत्तरा' 'भैमरथी' त्यादिकथाऽऽख्यायिकानामभ्यश्च बहो: कालात्पूर्वमेव यद्यपि गद्यकाव्यानां प्रादुर्भूतिरनुमातुं शक्या किन्तु साहित्यनियमानुसारी सर्वविदितस्तद्विकासो दण्डिपण्डितादेव प्रारभ्यते । एवं तु ख्रिष्टजन्मतः पूर्वं शतकद्वयमारभ्य ख्रिष्टीयषष्ठशतकपर्यन्तमुपलब्धेषु शिलालेखेष्वपि काव्यशैलीभुक्तानि गद्यानि प्राप्यन्ते किन्तु गद्यकाव्यानां व्यवस्थितं रूपं दण्डिकवेरेव प्रारभ्यत इति वक्तव्यमापतति । दण्डी कविर्दण्डी दशकुमारचरितं नाम गद्यकाव्यं निर्ममौ यद्धि सर्वत्र सुप्रसिद्धं नात्मपरिचयमपेक्षते । बाणभट्टस्य कादम्बर्यां पदमाधुर्ये वर्णनाचातुर्ये सत्यपि, विशेषणानां बाहुल्यात् सुदीर्घदीर्घैर्व- नाऽऽटोपैः कथांशे व्याघातो भवतीति बहूनां कथनम् । दशकुमारचरिते न तथा । परमत्र कथानामत्यन्तमेवाधिक्यं येन हि तासां मनःस्थीकरणमत्यन्तं कठिनम् । दण्डिनः पदलालित्यमपि बहूनां मते प्रसिद्धम् [एतद्विषये परस्तादालोच्येत ] । अयं हि अनुमानतः खि. षष्ठशताब्द्यामजायत । सुबन्धुः एतस्य किञ्चिदेवाऽनन्तरं सुबन्धुर्वासवदत्तां नाम 'कथां' निबबन्ध, या हि पदे पदे श्लेष - यमकादिभिर्विभूषिता । अत्र हि शब्दचमत्कारः कामं भवेत्परं विचारमार्मिकतायामर्थस्यौचित्यं बहुत्रैव विस्खलति । शब्दालंकारनिर्वाहे निमीलितनयनो ग्रन्थकृत् कथागतानामर्थानामौचित्योल्लङ्घनमपि नावेक्षते । कथापि न किञ्चित् । परस्परं स्वप्ने विलोकयन्तौ नायिका-नायकौ मिथोऽनुरज्यतः । तदनन्तरं मित्रसहचरो नायकोऽन्विष्यन् नायिकामवाप्नोति। न कथायामाकर्षकं किञ्चिद्वैचित्र्यम् । एकस्मिन्पृष्ठ एव सर्वापि कथा समापयितुं शक्यते । केवलं शब्दचातुर्येणैव ग्रन्थाभोगः पूरितः कविना । किन्तु नेतः पूर्वमेवं विधशैली भुक्तं किञ्चिदपि 'कथा' काव्यमासीदिति भूयसी [^३]प्रशंसा समभूत्साहित्ये । एतस्य समयः खि. षष्ठशतकादुत्तरं सप्तमशतकस्य प्रथमः पादः । यतो हि वासवदत्तावर्णने- 'न्यायस्थितिमिव उद्योतकरस्वरूपाम्, बौद्धसंगतिमिव अलंकारभूषितां ..... वासवदत्तां ददर्श' इति वाक्यमुपलभ्यते । अत्र हि न्यायवार्तिककार उद्घोतकराचार्यः, प्रसिद्धो बौद्धनैयायिको धर्मकीर्तिश्चापि निर्दिष्टोऽस्ति । अनयोः समयः ख्रिष्टस्य षष्ठं शतकमेवैतिहासिकैः स्वीकृतः । अत एव सप्तमशतकस्यादिभाग एव सुबन्धुर्जात इति सामञ्जस्येनोपपद्यते । [^१]G.देवीप्रसादकविचक्रवर्तिमहोदयेन प्रकटयितुमुपक्रान्ता 'सुप्रभात' पत्रे दृष्टा पुरा । [^२]G. नेयं सुबन्धोर्वासवदत्ता । अतिप्राचीनो हि महर्षिः पतञ्जलिः । सुबन्धुस्तु षष्ठशतकोत्पन्नः । [^३]G. 'कवीनामगलद्दर्पो नूनं वासवदत्तया' (हर्षचरितम्) । उपोद्धातः । कादम्बरीकारः श्रीवाणभट्टः श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे - ऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णने । आ सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी- संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ एतदुत्तरम् - गद्यकवीनामेव किम्, महाकवीनां चूडामणिर्बाणभट्टः प्रादुर्बभूव । महाकविर्बाणो महाराजाधिराजश्रीहर्षस्य समकालिकः । यतो ह्ययं हर्षचरितनाम्ना श्रीहर्षस्य चरितं वर्णयामास । महाराजः श्रीहर्षवर्धनः ६०६ तमं ख्रिष्टसंवत्सरमारभ्य ६४८ तमं वर्षं यावद्राज्यशासनं कृतवानित्यैतिहासिकानां समयः । अयं हि स्थानेश्वरजनपदनायकस्य प्रभाकरवर्धनस्य पुत्रः । अयं भाग्यशाली महावीरो राजनैतिकश्च सर्वानन्यान्विजित्य उत्तरभारते आत्मनश्चक्रवर्तित्वमास्थापयामास । ६२९ तमं ख्रिष्टीयवत्सरमारभ्य ६४५ तमं यावद्भारते भ्रमन् चीनदेशीयो यात्री 'हाँग्काँग्' इत्याख्यो लिखति - 'उत्तरभारते तस्मिन्काले श्रीहर्ष एवैकमात्रोऽधिपतिर्बभूव । नासीत्कश्चिदन्यः प्रशासकः ।' श्रीहर्षस्य राजसभायां मातङ्गदिवाकरो बाणो मयूरश्चेति प्रथिततमाः कवयो बभूवुरिति राजशेखरेणोल्लिखितम् । बाणो मयूरकवेर्भगिनी पतिरासीदिति केचित् । अन्ये तु मयूरो बाणस्य श्वशुर आसीदिति वदन्ति । परं बाणमयूरौ समसामयिकावित्यत्र न संदेहः । मयूरः किल सूर्यशतकस्य निर्माता, यो हि शतकेनानेन सूर्यं स्तुत्वा कुष्ठरोगान्मुक्तो बभूवेति सुप्रसिद्धम् । केच्चिदिमामपि किंवदन्तीमाहुर्यत् - मयूरवत् बाणोपि विकलाङ्गो बभूव, ततश्च चण्डीशतकेन भगवतीं स्तुत्वा रोगान्मुक्तिमवाप । तदिदं शतकं काव्यमालागुच्छकेषु मुद्रितम् । हर्षचरितम्, कादम्बरीपूर्वार्धम्, चण्डीशतकम्, पार्वतीपरिणयनाटकं चेति बाणस्य कृतिमाहुः । मुकुटताडिकापि बाणकृतेति केचित् । किन्तु नात्र प्रमाणमुपलब्धम् । बहवस्तु-हर्षचरितं कादम्बरी चेत्येव बाणस्य कृतिरित्यसाधयन् । अतिसमर्थो बाणकविः । 'गद्य कवीनां निकषं वदन्ती' ति यन्महत्त्व- मारम्भप्रघट्टक एवं मया सूचितम् यस्य च गद्यस्य वासवदत्ता कादम्बरी चेत्येव सर्वोपादेयं संस्कृतसाहित्ये काव्यद्वयमाहुस्तयोरपि च कादम्भरी सर्वोत्तमं गद्यकाव्यमिति मार्मिकाणामुक्ति: । तत्त्वपरीक्षका अभिप्रयन्ति यद् गद्यस्य गुम्फनपाटवं बाणस्यालौकिकम् । यद्धि गद्यं पद्यतोपि सुमधुरम्, लोकानां हृदयाकर्षकम्, कर्णयोः संगीतस्येव सुखरलहरीप्रस्रावकं च स्यादेवंविधस्य जन्मदाता बाणमन्तरा नान्यः कश्चन सफलो दृष्टः । दण्डिनो लेखानुसारम् - कथायामोजःप्राधान्यस्पर्शेपि बाणः कादम्बर्यां वर्ण्यमानरसानुरोधेन [^१]पाञ्चालीरीतिं सुमधुरतथा निरुवाह । वर्णानां गुम्फो मौक्तिकगुम्फमपि भृशमतिशेते-'कमलिनीपलाशानि जललवलाञ्छितान्यादाय, गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलयकमलानि गृहीत्वाऽऽगत्य तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् ।' इत्यादिभिरेवाक्षरैः को वाऽपरः संपूर्णं प्रकरणं समापयितुं शक्नुयात् ? अत एव साक्षात्सरस्वतीरूपोऽयमिति प्रशशंसुर्मार्मिका:- 'जाता शिखण्डिनी प्राक् यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥' बाणपरिधृतस्य प्रत्येकपात्रस्य चरित्रचित्रणमततिस्वाभाविकंकथारसानुरूपं च। चातुर्यपूर्वकमालोचनेऽस्य पात्रणां प्रत्येकं चरित्रं परस्परं पृथक्- प्रकारकमपि अकृत्रिमं सुस्वाभाविकम् । नामान्यप्यनुकूलानि - सेनापतिर्वीरतोचितो मेघनादः । ब्राह्मणो मन्त्री शुकनास्तत्पुत्रो वैशम्पायनः, पत्नी मनोरमा । तस्य चरित्रमात्रे महानादरः । पुत्रोत्पत्तौ स्वयं राजा पूर्णपात्रमाहरति । युवराजश्चन्द्रापीडः पितरमिव तमभ्युत्तिष्ठति । तेनौचित्याद्दत्तासनोपि तत्स [^१]G.शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते । शीलाभट्ट- रिकावाचि बाणोक्तिषु च सा यदि ॥ ( सरस्वतीकण्ठाभरणम् ) । विधे भूमावुपविशति । भृत्याश्च तं तारापीडादनन्तरमवबुध्यन्ते । अप्सरःसंभूतानां विद्याधरपत्नीनां गौरी- कादम्बरी - मदिरेत्यादीनि नामानि । एतासां सेवकाः शृङ्गारानुकूलाक्षराः केयूरकमदलेखादयः । देशदेशान्तरेषु संवादवाहकः 'करभकः' । शृङ्गारमनश्लीलं प्रेक्षामहे । 'औचित्योपनिबन्धस्तु रसस्योपनिषत्परा' इति ध्वनिकृत् । तत्रापि शृङ्गारो रसः परमोज्ज्वलः । अस्यौचित्येन निर्वाहोऽनेन सफलतया कृतः । यद्यपि कुमारीपुरे 'अतिरिक्तं सुरतमिवाभ्यस्यन्तीनाम्' इत्याद्युच्यते (पृ. ३८१) किन्तु शृङ्गारभूमिकारम्भाय, कुमारीणां प्राप्तयौवनत्वसूचनाय, तन्न तथाऽश्लीलम् । प्रत्युत कुमारस्य शृङ्गारोद्भवाय उपयुक्तमेव तत् । लोकचरित्रावेक्षणम् लोकावेक्षणमपूर्वं बाणस्य । श्रूयते यदयं स्वतन्त्रचरित्रैर्मित्रै: सह भूयांसं कालं स्वतन्त्रतया लोकानां 'वचनीयतामिवावहन् पर्यन्ततो यथेच्छं बभ्राम । एतस्य मित्रेषु सर्वविधा एव कलाज्ञातारोऽभूवन् । आक्षिक-नर्तक-संवाहक-ताम्बूलिकानारभ्य महाकविप्रभृतयः सर्व एवाऽभवन् । ज्ञानानुभवाय सोयं प्रघट्टक उल्लिख्यतेऽधस्तात् "अभवंश्चास्य वयसा समानाः सुहृदः सहायाश्च । तद्यथा- भ्रातरौ पारशवौ चन्द्रसेनभ्रातृषेणौ, भाषाकविरीशानः परं मित्रम् । प्रणयिनौ रुद्रनारायणौ । विद्वांसौ वारबाणवासवानौ । वर्णकवि- र्वेणीभारतः प्राकृतकृत्कुलपुत्रो वायुविकारः । बन्दिनाव- भङ्गबाणसूचीबाणौ । कात्यायनिका चक्रवाकिका । जाङ्गुलिको मयूरकः । ताम्बूलदायकश्चण्डकः । भिषक्पुत्रो मन्दारकः । पुस्तकवाचकः सुदृष्टिः । कलादश्चामीकरः । हैरिकः सिन्धुसेनः । लेखको गोविन्दकः । चित्रकृद्वीरवर्मा । पुस्तककृत्कुमारदत्तः । मार्दङ्गिको जीमूतः । गायनौ सोमिलग्रहादित्यौ । सैरन्ध्री कुरङ्गिका । वांशिकौ मधुकरपारावतौ । गान्धर्वोपाध्यायो दर्दुरकः । संवाहिका केरलिका । लासकयुवा ताण्डविकः । आक्षिक आखण्डलक: । कितवो भीमकः । शैलालियुवा शिखण्डकः । नर्तकी हरिणिका । पाराशरी सुमतिः । क्षपणको वीरदेवः । कथको जयसेनः । शैवो वक्रघोणः । मन्त्रसाधकः करालः । असुरविवरव्यसनी लोहिताक्षः । धातुवादविद्विहङ्गमः । दार्दुरिको दामोदरः । ऐन्द्रजालिकश्चकोराक्षः । मस्करी ताम्रचूडः ।" [ पीटर्सन् इन्ट्रोडक्शन् ] कविः किल गुणदोषादीनां सर्वेषामेव मार्मिको भवतीति प्रसिद्ध्यनुसारं सर्वमेव लोकचरित्रमयमेतेषां संगत्या संजग्राह । एतस्य प्रतिफलमस्य काव्येषु स्पष्टमुपलभ्यते । गृहस्थस्य कार्याणि [ जन्मारभ्य पालनपर्यन्तानि - यथा प्रसूतायाः किं किं संविधानकमिति मध्ये अतिप्रगल्भाः कुलवृद्धाः स्त्रियोपि न जानीयुर्यानि किल बाणेन चन्द्रापीडप्रसवे वर्णितानि ] । संतानार्थं के के व्रत-देवताभ्यर्थनादिकाः क्रियन्ते तेषां सर्वाङ्गपूर्ण: कोष इव दर्शितः ( चन्द्रापीडकथायाम् ) । रुग्णस्य कथमुपचर्या, कानि कान्यरिष्टलक्षणानि, रुग्णावस्थायां रोगिणः का परिस्थितिश्चेष्टा चेति सर्वमविकलं चित्रयामास ( हर्षचरिते ) । तान्त्रिकाः स्वस्य सिद्धिप्राप्तये, निध्यादीनामुपलम्भाय च कीदृशीमुत्कटां लालसां वहन्ति, कश्च तेषामुपायसंरम्भ इति सर्वाण्यपि साकल्येनोपनिबबन्ध ( 'जरद्द्रविडधार्मिकस्य' चरिते ) । एतदेव सर्वविधं लोकनैपुण्यमवेक्ष्य बाणस्याग्रे कस्यापि कवेः प्रतिभा नाधिकं प्रतिभासते । न च कादम्बर्याः संमुखे किंचिदपि 'कथा' काव्यमुत्कर्षं लभते, लेभे च । एतस्य रोचकतामुपलक्ष्यैव हि 'कादम्बरीरसज्ञेभ्य आहारोपि न रोचते' इति सहृदयसमाजे प्रासिध्यत् । बाणश्चान्ये गद्यकाराश्च गद्यकाव्यकृत्सु सुबन्धुर्दुरूहश्लेषयमकादिशब्दचमत्कारविषये कदाचित्प्रभवेत्परम् औचित्यनिर्वाहे कथासंघटनायां च न बाणतः कथमप्युत्कृष्यत इति पूर्वमुक्तमेव,अतो न पुनः प्रपञ्चनमावश्यकम् । ये पुनर्दण्डिरचनां बाणलेखनीत उत्कृष्टामुल्लपन्तः श्रूयन्ते ते तु रचनापरीक्षणे न मार्मिका इति प्रतिभाति । अत एव तेषां मतालोचनमनावश्यकमिव । ते हि 'दण्डिनः पदलालित्यम्' इत्याभाणकं श्रुत्वैव तथा जल्पन्ति । किन्तु बाणात्पूर्वं तदिदं सूक्तं कदाचित्संघटितं स्यात् । कादम्बरीसंमुखे तु सेयमुक्ति: 'श्रोतुर्वितन्त्रीरिव ताड्यमाना' । तत्रापि कथाकल्पनबाहुल्यम्, वर्णने विशेषणानामनाधिक्यात्कथा- निर्वाहसौकर्यम्, इत्यादिगुणश्चेद्दण्डिनः ( दशकुमारचरितस्य ) गीयेत तदपि स्वात्सह्यम् । किन्तु पदलालित्यमादाय बाणापेक्षया दण्डी चेदुत्कृष्यते तर्हि समाप्ता काव्यपरीक्षा । न केनचिद्रचनामर्मविदा तदिदं कथंचिन्मृष्येत । 'स्वर्लोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौ-भाग्यभोगभाग्यवान्, शरदिन्दुकुन्दघनसारनीहारहारमृणालमराल सुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशनीकाशमूर्त्या रचितदिगन्तरालपूर्त्या कीर्त्याऽभितः सुरभितः, ( राजहंसो, नाम भूपो बभूव ) ।' इत्यादिपदबलेनैव किं दण्डी बाणं विजयेत ? एवंविधोत्कलिकाप्रायगद्यलेखे हि सिद्धहस्तो बाणः । स्थाने स्थाने च दत्तः परिचयस्तस्य, कियद्वा इहोल्लिख्यताम् ? किन्तु 'कथाकाव्यम्' वर्तमानकालिक' उपन्यास Novel' स्थानीयमिति न विस्मर्तव्यं स्यात् । अत एवात्र प्राक्तनसाहित्यकारकृत 'कथाख्यायिका'लक्षणानुरोधेन दीर्घसमासताद्योजोगुणस्पर्शेऽपि माधुर्यमेकान्तत एव न गलहस्तयितव्यं भवेत् ।मधुराक्षरैरेवोपनिबद्धा कथा सहृदयानां हृदि दृढतरं पदमादधातीति स्वाभाविकी वार्ता । बाणश्च नेदं क्षणमपि विस्मरति । अत एव दीर्घसमासतायामपि द्वीपान्तरागतानेकभूमिपाल- मौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्...( शुद्रकः प्रथमे वयसि सुखमतिचिरेमुवास )" इत्यादिमधुरतरैरक्षरैरुपनिबध्नाति । द्वयोरपि राजवर्णनाक्षरेषु माधुर्यस्य कियत्तारतम्यमिति सहृदयानां हृदयमेव साक्षि । किञ्च दृश्यताम् – एकमात्रं पद्यं यथा रसस्य कस्यचित्प्रकटनाय प्रभवति तथा गणस्य एकमात्रं वाक्यरसस्य परिपोषे प्रभवेदिति न यत्रकुत्रचिदृश्येत । बाणस्यैव लेखनी तदेतस्मिन्प्रकर्षे प्रभवति । विन्ध्याटव्यामगस्त्याश्रमवर्णने आह - 'अधुनापि यत्र जलधरसमये गम्भीरमभिनवजलधरनिवहनिनादमाकर्ण्य भगवतो रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्पकवलमजस्रमश्रुजललवलुलितदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । (पृ. ४६ ) अनेन हि कारुण्यार्द्रं हृदयं भवति न वेति कश्चित्सहृदयःपृच्छ्यताम् । 'जललवलुलितदृष्टयो वीक्ष्य शून्या दश दिशः' इत्यनेन मृगाणां कीदृशं प्रत्यक्षं प्रणयदैन्यं चित्रितम् ? अन्यदप्यालोक्यताम् – 'तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन् , उच्छुष्कतालुरात्मप्रतीकाराऽक्षमस्त्रासस्रस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाद्य मां तत्कालोचितं प्रतीकारं मन्यमानः, स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ ।' ( पृ. ७२ ) अत्र हि मुमूर्षतो जराजीर्णस्य शुकस्य निजशावकोपरि कीदृशमसामान्यं वात्सल्यमङ्कितम् । हास्यरसस्याऽवतारणं यथा जरद्द्रविडधार्मिकवर्णने– 'असकृ- दभिमन्त्रितसिद्धार्थकाहतिधावितैः पिशाचगृहीतकैः करतलताडन- निबिडीकृतश्रवणनासापुटेन [ पिशाचाविष्टानामुपरि अभिमन्त्रितान् सर्षपान्यथैवायं विकिरति तथैवैते धावित्वाऽस्य श्रवणयोर्नासिकायां च चपेटां प्रददति येन चिपिटीकृतश्रवणनासिकोऽयम् ], दिवसमेव मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, गृहीततुरगब्रह्मचर्यतयाऽन्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन [ अनेन घोटकवत् प्रतिबन्धवशादेव ब्रह्मचर्यं गृहीतं न तु वास्तवम् । अत एव याः प्रदेशाऽऽगता जरत्संन्यासिन्यस्तद्दुर्गामन्दिरे रात्रौ निवसन्ति तदुपरि जरद्द्रविडधार्मिकमहाभागो वशीकरणचूर्णस्य प्रयोगं करोति ! ], असकृदुत्सन्नदेवमातृगृहवास्यृक्षनखजर्जरितकपोलेन [अलीककामुकत्वाभिनयवशात् अभिसारलील्या आरण्यकेषु निर्जनभग्नदेवगृहेषु महाभागोऽयं प्रविशति यत्र हि तद्गृहवासिभिर्ऋक्षैः शतशोऽयं जर्जरितकपोलो जाता ], शतशः श्रीफलतरुशिखरच्युतिचूर्णितोसमाङ्गेन [ लोलुपतया बिल्वफलाहरणाय तद्वृक्षमारोहति । चापल्य कादंबरी प्र० २ वशाच्च ततोप्यधोमुखः पतति येन निष्केशतया चमत्कुर्वन्मस्तकमस्य चूर्णीभवति ], ...जरद्द्रविडधारकेणाधिष्ठितां चण्डिकामपश्यत् ।' (पृ. ४६१-६३) यस्मादियं किंवदन्ती ('दण्डिनः पदलालित्यम्' ) लोके प्राचरत्, मूलप्रस्रवणभूतस्य तस्य पद्यस्योपर्यपि किञ्चिदालोचनादृग् दीयते । पद्यं हि - 'उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥' इति । अवश्यं महाकवेः कालिदासस्य विषये यदुच्येत तन्न्यूनम् । सितसारस्वतवैभवो महाकविचूडामणिः कालिदासो ह्यनिर्वचनीयेन काव्यगुणगौरवेण गरिष्ठः । अर्थगाम्भीर्यं,पदलालित्यं प्रौढिरित्यादिःसर्वोप्यभिनन्दनीयः काव्यगुणगणस्तस्मिन्वर्तत इत्युपमापि तस्याऽन्यकविभ्यो ऽतिशायिनीति न कस्यचिद्विमतिः । प्रतिपदमुपलभ्यते हि तादृशमेवोपमासामञ्जस्यम् । भारवेरथेगौरवम् 'स्यादेतत्' इति भङ्ग्या तावत्स्वीकुर्मः । समयान्तरेऽस्य विचारः प्रस्तूयेत । किन्तु 'माघे सन्ति त्रयो गुणाः' इति यच्चतुर्थं चरणं तत्र मन्ये बहूनामेव मार्मिकाणां विचारः प्रसज्येत । माघस्य सुन्दरं शिशुपालवधम् । 'नवसर्गे गते माघे नवशब्दो न विद्यते' इति किंवदन्त्यनुसारम--शब्दगुम्फे प्रौढाऽस्य लेखनी । अलंकारादिविन्यासेन शब्दार्थयोश्चमत्कारोऽपि स्थाने स्थानेऽभिनन्दनीया एव । किन्तु कालिदासस्य पाटवमेकदेशि, यतो हि स उपमाप्रयोगे एव सिद्धहस्तः । भारविरर्थगाम्भीर्य-गवेषणायामेव, दण्डी पदलालित्य एव, इति सर्वेप्येकैकदेशिकाव्यसौष्ठवे पटिष्ठाः । परं माघः सर्वैरप्येतैर्गुणैर्युक्त इति सार्वदेशिककाव्यसौन्दर्येणाभिनन्दनीय इति यदि पद्यस्यास्य तात्पर्यं तर्हि मन्ये स्पष्टमेतत्सर्वेषां प्रतीयेत यन्माघस्यातिभक्तिसूचकः प्ररोचनापरोऽयमर्थवाद एव । यतो हि कालिदासतुलनायाम्--सर्वथोत्कृष्टो माघः ? यतो हि यदर्थं कालिदासस्य प्रशंसा कविसमाजे प्रसक्ता तदेतत् उपमाप्रयोगपाटवम्, तत्वस्त्येव माघे । तदधिको गुणस्त्वयं यत्कालिदासः केवलमुपमापटिष्ठ एव, अयं तु अर्थगाम्भीर्य-पदलालित्यादिगुणैरप्यभ्यर्हितः । एवं सति कालिदासापेक्षयापि काव्यसौष्ठवसामग्रीसमृद्धत्वं माघस्य मार्मिकविचारसापेक्षं सिध्येत्। बहवः किल संगिरन्ते यन्माघः केवलं 'शब्दकविः' । यथाकथा शब्दगुम्फ एवायं पटुः । अर्थगाम्भीर्यस्य का कथा, सामान्यत औचित्यमपि तत्र मृग्यमेव । नारदमुनेः कुथ('झूल')धारिणा न केवलं हस्तिना, अपि तु पर्वतानां राज्ञा' हिमालयेन सादृश्यं कियदौचित्यमावहति ? मुनेरागमने शान्तिमयी चित्तवृत्तिर्भवेत्, दिव्यप्रभावपूर्णं च सर्वतो वातावरणं स्यादित्येव हि मुनिसमागमवर्णनस्य सौन्दर्यं नाम यथा भारवे:- 'मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु विभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥ १ ॥ प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥ २ ॥' अत्र तु मुनेरागमने भूमिः कम्पते –('धृते कथंचित्फणिनां गणैरधः') । कुलाचला दोलायन्ते, इत्यादि खण्डप्रलयस्येव समयः समुपस्थितो भवति । कुतो वा न स्यात्, स्वयं कविः कृष्णनारदयोर्वर्णने आह-'तुषाराञ्जनपर्वताविव !' यत्र हि द्वयोः काल-धवलयोः पर्वतयोः संघर्ष उपतिष्ठति तत्र का वा प्रलये न्यूनता ? भगवतो रामस्य ( बलभद्रस्य ) यत्स्वरूपं चित्रितं तद्भयंकरं मद्यपायिनमप्यतिशेते । अस्य सभामध्ये आगमन एव घोरेण मद्यगन्धेन व्याप्तोऽभूत्सर्वोपि स्थानोद्देशः । अस्तु एवं माघस्य वर्णनापाटवमालोचनाचक्रे वक्रेण दृष्टिकोणेन चेत्परीक्ष्यते तर्हि 'माघे सन्ति त्रयो गुणाः' इत्येष प्रस्तावो न किल सर्वसंमत्या स्वीकर्तव्यः सिध्येत्ततश्च तत्पद्यगता अन्येप्यंशा विचारणीया एवेत्यलमन्यत्र विचारणीयेन प्रसक्तानुप्रसक्तेन। उपर्युक्तेन प्रघट्टकेन बाणरचनायां पदमाधुर्यं त्वसाधारणं सिद्धमेव, किन्तु तत्तद्रसानुकूलं गद्यनिबन्धनचातुर्यमप्यसामान्यं सिध्यति । एतदादिकमेव सर्वमालोच्य प्रोक्तं जयदेवेन- 'हृदयवसतिः पञ्चबाणस्तु बाणः' इति । अर्थात् सर्वासामपि कविताकामिनीनां हृदयदत्तस्थानतया सर्वा अपि कविगिरो बाणमादर्शत्वेन उन्नतत्वेन वा सर्वदा स्मरन्तीति रसपरिपोषपाटवमसाधारणं सूच्यते । एतस्मिन्विषये नान्यः कश्चित्कविर्बाणस्य प्रातिद्वन्द्व्ये स्थातुमशक्त् । अत एवालोचनामार्मिकैः प्रोक्तम् 'युक्तं कादम्बरी श्रुत्वा कवयो मौनमागताः । बाणध्वनावनध्यायो भवतीति श्रुतिर्यतः ॥' [ कीर्तिकौमुदी भा. २ ] सप्तमशताब्दीत उत्तरं तादृशस्य नवीनगद्यकाव्यस्योत्पत्तिरेव न जातेति बेवरपण्डितादीनां मतम् । बाणसदृशैः समर्थैः पद्यकविताप्रभावो यः किञ्चिल्लोकानां हृदयादपसारितः स पुनर्यथावत्प्रबभूव । किन्तु संस्कृतसाहित्यस्य विगुणदैववशाद्बा- णस्य कृतिः कादम्बरी न बाणस्य लेखनीतः पूर्णा बभूव । उत्तरकादम्बरी पूर्वभागमेव समाप्य लोकान्तरमुपगते महाकवौ बाणे, एवंविधमधुरकथाया अकाण्डे विच्छेदो महते रसविघाताय, पितुः कीर्तिप्रसारप्रतिबन्धाय चेति भावयन् बाणपुत्रस्तदुत्तरभागं विनिर्माय कथां पूरयामास । एतस्य नाम केषांचिन्मतेन 'भूषणभट्टः' इति । अपरे 'पुलिन्दः' इत्याहु: 'केवलोपि स्फुरन् बाणः करोति विमदान्कवीन् । किं पुनः क्लृप्तसंधानः पुलिन्दकृतसंनिधिः ॥' ( धनपालस्य तिलकमञ्जरी ) अन्ये 'पुलिनः' इति नाम निरदिशन् । केषांचन मतेन 'निचुलः' इत्यपि नामधेयम् । एतदपि कथयन्तः केचन श्रुता यत् 'स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ इति मेघदूते महाकविकालिदासेन निर्दिष्टः सोयमेव निचुल इति । सोयं भ्रम एव तेषाम् । महाकविर्बाणस्तत्पुत्रश्च कालिदासस्य बहो: कालादनन्तरं जातः । न तस्य स्मरणं पूर्वभाविना कालिदासेन कर्तुं शक्यते । मेघदूतं चादिमकालिदासस्यैवेति तु क्षेमेन्द्रेण 'कविकण्ठाभरणे' मन्दाक्रान्ताच्छन्दो महाकवे: कालिदासस्यैव सर्वापेक्षया मधुरमिति प्रस्तावे प्रोक्तम् । किञ्च मेघदूते निर्दिष्टेन- चित्रकूटादारभ्य कैलासपर्यन्तेन मेघगमनमार्गेण 'महाकविः कालिदासो भूगोलविषयेपि परममार्मिकोऽभूत्' इति गवेषकैः साध्यते । ततश्च सर्वथा सोऽयमकाण्डसंलाप एव केषांचिदिति निश्चितम् । यत्किञ्चिदस्तु, एवंविधः पुत्रो विरलैरेव महाकविभिरवाप्तः स्याद् येन हि अकाण्डे विच्छिन्ना पितुः कृतिरेवमविभावितविभागं संयोजिता स्यात् । सर्वतः काठिन्यमिदमेव यत्पूर्वार्धे नाधिकः कथाभागः सूचितश्च संगृहीतश्च कविना । तत्र हि राज्ञः शूद्रकस्य सविधे शुकस्यागमनम्, तन्मुखेन चन्द्रापीडस्य जन्म, दिग्विजययात्राप्रसङ्गेन महाश्वेताश्रमे गमनम्, तन्मुखात्तस्याः पुण्डरीकेण प्रणयः, समागमात्पूर्वमेव पुण्डरीकस्य देहत्यागः, आकाशवाण्या पुनःसमागमसूचनात्तत्प्रत्याशायां तपश्चरणम्, ततो महाश्वेतानुरोधेन कादम्बरीदर्शनम्, तत्प्रणयः, चन्द्रापीडेन कादम्बरीसविधे पूर्वं प्रापितायाः पत्रलेखायाः कादम्बरीसंदेशं तदुपालम्भं चादाय चन्द्रापीडसविधे आगमनम्, अस्मिन्स्थान एव पूर्वभागस्य समाप्तिर्भवति । पुण्डरीकस्य शापवशाद् वारद्वयं भूमौ चन्द्रमसो जन्मना भाव्यमिति कथासंघटनाय चन्द्रापीडस्य हृदयस्फोटः, पुनस्तेनैव देहेन कादम्बरीसमागमः, पुण्डरीकस्य वैशम्पायननाम्ना जन्म, महाश्वेताशापेन शुकदेहप्राप्तिः, तस्यैव शुकस्य शूद्रकसविधे गमनम्, चन्द्रापीडस्य शूद्रकनाम्ना भूमौ संभवः, शापविमुक्तौ च चन्द्रापीड-पुण्डरीकादीनां सर्वेषां स्वस्वाभीष्टप्राप्तिरिति सर्वोप्यकाण्डविच्छिन्नः कथाभागो बाण- पुत्रेणैव संघटित इति महदेव मेधावत्त्वं संघटयितुः सोयं सूचयति । अवश्यं बाणो बाण एव, तत्पुत्रश्च तत्पुत्रः । इतिहासपुराणादिषु बाणस्य यद्व्यापकं पाण्डित्यम्, व्याकरणादिषु या व्युत्पत्तिः, रचनायां प्रसादः, अक्षरसंघटनायां माधुर्यम्, एतदादिगुणेषु उत्तरकादम्बर्यामवश्यं न्यूनता विलोक्येत । रचनायाः प्रौढिः, परिपाकश्च वयःक्रमेणैव जायते । श्रीमतो ब्राणस्यैव हर्षचरिते या रचना तदपेक्षया कादम्बर्यामसाधारण्येव प्रौढि:, प्रौढताप्रकर्षेपि अभूतपूर्वमेव माधुर्यम्, प्रतिपदं प्रस्फुरन्प्रसादश्चाप्यवलोक्येत । एष किल परिपाकोऽनुभवेन वयसा च समुत्पद्यते, यौवने न तस्योद्भवः सुसंभवी । अत एवैतत्कृता त्रुटिर्न किञ्चिद् गणनीया । तस्मादेव – 'अपि चेदानीमानीतस्यापि कुमारस्य०' इत्यादिः प्रारम्भिक एव वाक्यसंदर्भ: परस्परमन्वयेऽर्थांशसंघटने च वाचयितुः काठिन्यमुत्पादयति । किन्तु सर्वतो विकीर्णा विच्छिन्ना च कथा ह्यनेन तथा संघटिता यथा तत्प्रवाहपतिताः सर्वा अपि त्रुटयो न सहृदयस्य मनस्यास्खलन्ति । वर्तमानकालिका: 'उपन्यास 'कारा घटनावैचित्र्यस्याभिमानमावहन्ति । किन्तु कादम्बरीकथायां घटनागतं तादृशमाश्चर्यं यस्य हि पूर्वापरसंघटनपूर्वकं मार्मिकतयाऽऽलोचने कृते संघटनचतुरस्यापि चेतश्चित्रीयेत । यः शुको यश्च शूद्रकः कथायाः प्रारम्भिके दृश्येऽस्मत्संमुखमायाति, एतदेव दृश्यमन्तिमतया परिणमति । शुकपञ्जरमादाय या 'चाण्डालदारिका' राजसभां प्रविशति तस्या वर्णने-'किरातवेषामिव भवानीम्, नारायणदेहप्रभाश्यामलितामिव श्रियम्, रुधिररक्तचरणामिव कात्यायनीम्' इत्यादीनि पूज्यदेवतासाम्यसूचकानि चाण्डालकन्यकाविशेषणानि हृदये किञ्चिदाश्चर्यम्, कवीनां निरङ्कुशतां च निर्विशङ्कमङ्कुरयन्ति । किन्तु सत्यमेव सा अन्ते लक्ष्मीः परिणमति ! किं वर्तमानकालिकोपन्यासघटनातो 'न्यूनमिदम् ? एवंकथा- निर्माणपाटवेऽपि कवयितुर्विनयः पितृभक्तिश्च किञ्चिदालोच्यतां यत् कृतिसमाप्तौ स्वस्य नामपर्यन्तमपि न निर्दिष्टम् । 'बाणतनयः' इति संकेतेनैव स्वपरिचयो दत्तः । बाणस्य वंशश्चरित्रं च कान्यकुब्जप्रदेशे शोणनदस्य पश्चिमतटे प्रीतिकूटनामा ग्रामो बाणभट्टस्य पारम्परिको वासः । वात्स्यगोत्रजातो वैदिक- क्रियाकुशलो वैदिकप्रवरः कुबेरनामा पण्डितः सर्वतः पूर्वमिमं ग्राममध्यवात्सीत् । तस्य पुत्रः पाशुपतः, तत्तनयश्चार्थपतिरासीत् । अर्थपतेरेकादश पुत्रा अभूवन् । तेषामष्टमाच्चित्रभानो: राजदेव्यभिधानायां भार्यायामस्माकं चरितनायकस्य महाकविशिरोमणेः श्रीमतो बाणस्य जन्माऽभवत् । बाणस्य जननी शैशव एव परलोकमगात् । चित्रभानुरेव तनयं बाणं मातृवत्परमप्रेम्णा परिपोषयन्, उपाध्यायवदावश्यकं पाठ्यजातं शिक्षयन्, पौगण्डं प्रापयामास । यथाविधिसंस्कारोत्तरं बाणस्य चतुर्दशे वर्षे चित्रभानुर्लोकान्तरमगात् । यौवनसमये संगदोषेण बाणस्य चरित्रे स्वातन्त्र्यमधिकमुदियाय । एतस्य ये ये सहचराः समभवम् तेषां नाम-परिचयादिकं पूर्वं सूचितवानस्मि । तैः साकं स्वदेशानिर्गतोऽयं नानाविधान्देशान्पर्यटन्, बहूनां नरपालानां सभामुपतिष्टमानः, नानाविधैः पण्डितैश्च सह सख्यं च संवादं च संबध्नन्नयं बहुतरमेवानुभवं ज्ञानं चोपार्जयामास । मध्ययौवने देशाटनजन्यं बहुतरं लाभमुपार्ज्यं सोयं स्वदेशं प्रत्याववृते । पितृपरम्परातो बाणस्याश्रयदाता कान्यकुब्जेश्वरो हर्षवर्धनो बाणस्यागमनं परिज्ञाय दूतमुखेन तमाजुहाव । लोकानां मुखाद्बाणस्य स्वातन्त्र्यादिविगुणचरितानि पूर्वत एव श्रुतवान् कान्यकुब्जाधिपतिः 'महाभुजङ्गः खल्वयमागतः' इति समीपस्थं सदस्यं प्रति व्याजहार । अतीव मार्मिको बाणो निभृतजल्पितमपि तदाकर्ण्य ज्ञानगौरवान्निजापमानमाकलयन् मनसि परमं चुकोप । 'निजविचारेण निर्णीयतामखिलम्' इति जल्पन् मनस्वी सोयं सगौरवं संभामिमामातस्थौ । अथ प्रसङ्गेन सभास्थितैः परमप्रगल्भैरपि पण्डितैः सह शास्त्रविचारे सर्वाधिक वैचक्षण्यं ख्यापयन् सोयं कान्यकुब्जेश्वरस्य हृदि परमं गौरवमास्थापयामास । राजा बाणं प्रधानोपाध्यायपद- मध्यारोपयामास । हर्षवर्धनस्य सभायाम् 'मयूरभट्ट - मातङ्गदिवाकर'नामानावन्यावपि राजकवी आस्ताम् । शनैः शनैराभ्यां सह बाणस्य सुदृढः संबन्धोऽभूत् । एनयोरनुरोधेन बाणो हर्षवर्धनस्य चरितं 'हर्षचरित' नाम्ना आख्यायिकाकाव्येन मधुरं निबबन्ध । वयसोऽन्तिमभागे 'कादम्बरी'नामिकामिमां कथामारेभे, यां हि अर्धमात्रामेव निर्माय बाणः परलोकपथिको बभूव । तत्तनयेन 'भूषणभट्टेन' पूरिता साऽस्माकं संमुखगा वर्तते । अयं बाणभट्टस्य वंशवृक्ष: ब्रह्मा । पुलहः । [^१]वात्स्य: । कुबेरः । पाशुपतः । अच्युत: ईशान: हर: पाशुपत: । अर्थपतिः । भृगुः हंसः शुचिः कविः महीदत्तः धर्मः जातवेदाः चित्रभानु: त्र्यक्ष: अहिंदत्तः विश्वरूपः । । बाणभट्टः । भूषणभट्टः बाणसमये सामाजिकी परिस्थितिः तस्मिन्समये वेषविन्यासो विचित्र एव प्राप्यते । राज्ञः शूद्रकस्य वर्णनेन ज्ञायेत यद् राजापि केवलं विसंस्थुलप्रायं श्वेतवस्त्रं शिरसि वेष्टयति । अङ्गे च केवलमुत्तरीयं स्कन्धयोर्वहति । यतो ह्यङ्गरागः शरीरे विलिप्यमानः स्फुटमवभासते । सर्वेषामेव पात्राणां वर्णने अङ्गरागस्य सुमहद्बाहुल्यम्, वस्त्रस्य च वैरल्यम् । कादम्बरीप्रेरितः केयूरकनामा वीणावाहकः केवलमधोवस्त्रमेव धारयति, नोत्तरीयमपि - 'अधरवास एव केवलं वसानेन' (पृ. १७४ ) वेषविन्यासादिषु वैचित्र्येऽपि बह्व्य: सामाजिकप्रथा वर्तमानकाल इव तदाऽप्यासन् । होलिकायां नानोपद्रवाः, विरूपरूपक ( स्वाँग ) निःसारणादिप्रथा यथा साम्प्रतमस्ति तथा बाणसमयेऽप्यासीदिति चित्रम् । द्रविडधार्मिकपरिचये यथा --'सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन (पृ. ४६३ ) बाणस्य समये आन्ध्रद्रविडसिंहलादिदेशीयाः ( आदिमनिवासिनः ) मध्यदेशीयै राजभिर्विजित्य स्वाधीना अक्रियन्त । अत एव कृष्णसुदृढगात्रा वीरप्रायास्ते राज्ञां सेवाकार्येषु बहुलतया उपायोज्यन्त । प्रतिष्ठा शोभा च तादृशैः सेवकवर्गैस्तदा भूपालानामज्ञायत । सूच्यते तदिदमैतिहासिकं वृत्तमुज्जयिनीराजभवनवर्णने– 'धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धासिधेनुकेनान्ध्रद्रविडसिंहलप्रायेण सेवकजनेन...' (पृ. १९४ ) एवमादयस्तत्सामयिक्यो भूयस्यो घटनाः सूच्यन्तेऽस्मिन् ग्रन्थे, यासां गवेषणेन बहुतरमैतिहासिकं सामाजिकं च तथ्यमवगतं भवति । किन्तु भूमिकायां भूयान् विस्तरः स्यादिति समयान्तरार्थं तत्परित्यज्य वर्णिका ('बानगी) मात्रमिह दर्शितम् । [^१]G. 'स्वयं वात्स्यस्तु पुलहात्' इति ब्रह्मवैवर्तपुराणम् । वात्स्यादनन्तराणां बहूनामेव पुरुषाणां नामानि न लभ्यन्ते । [^२]G. हर्षचरिते स्फुटमिदम् । वर्णनायामत्युक्तयः सौन्दर्यवर्णनादिष्ववत्युक्तयः प्रायः पूर्वत एव प्रचलिताः कवीनां स्वभावसिद्धा इव । 'मुखं दृष्ट्वा चन्द्रोऽयमिति बुद्ध्या पूर्णिमाव्र- तकारिणस्तदग्रत एवं कुसुमार्घ्यं [^१]व्यतरन् ।' 'तस्या मुखकान्त्या तत्प्रतिवेशे सर्वास्तिथयः पूर्णिमा एव भवन्ति । अन्या- स्तिथयस्तु पञ्चाङ्गेनैव [^२]बोध्या:' इत्यादि ।एवमुदात्तालंकारविधया राजादीनां समृद्ध्यतिशयोपि पुरातनै: प्रचुरं प्रख्यापित एव । 'राजाश्रितानां कवीनामपि सदनेषु महार्घंमुक्तामणयः संमार्जनीभिर्दूरमवक्षि [^३]प्यन्ते ।' 'वृक्षाणामालवालाश्चन्द्रकान्तमणिभिर्निर्मिताः । अत एव चन्द्रकिरणसंस्पर्शात्प्रस्रवज्जलपूर्णेषु तेषु स्वतः सिच्यन्ते [^४]पादपा:।' बाणोऽप्यस्मिन्विषये न कस्माच्चिप्रहीण: । कादम्बर्याः शीतोपचाराय मौक्तिकानि संचूर्ण्य प्रतिक्षणं जलं विकिरतां यन्त्रवृक्षाणामालवाला विरचिताः । हरिचन्दनद्रवस्य दीर्घिकाः पूरिताः । गन्धोदकपूरितेषु कूपेषु घटीयन्त्राणि (अरहट ) तादृशानि कृतानि यत्र केतकपत्रमयानि पुटकान्येव जलाधारपात्राणि । कुवलयावलीनां रज्जुः' इत्यादि (पृ. ४३९ ) । कादम्बरी गन्धर्वराजपुत्री । अत एव दिव्यमिदं वैभवं संभवेत् । किन्तूज्जयिनीराजभवनेपि निष्कुटेषु मणिभिः क्रीडापर्वता एव निर्मिताः । येषां मणिशिलासु अबलानां चरणालक्तकैरद्भुतैव शोभा भवति । जालवातायनविवरेभ्यो महार्घरत्नकिरणास्तथा निष्पतन्ति ये मणिखचितकनकशृङ्खला इव बहिर्निःसरन्तः प्रतीयन्ते ( पृ. १९०) । एतत्सर्वं धनसमृद्धिप्राचुर्यम् । प्राकृतशोभाप्राचुर्यमपि समृद्धिशालिषु भूपभवनेष्वत्यद्भुतमेव । गृहोद्यानेषु चकोरकादम्बहारीतादयस्तु वृक्षेषु विहरन्तः शोभन्त एव । किन्तु कस्तूरिकाकुरङ्गा अपि तत्रेतस्ततः संचरन्ति । ते च नैकद्वाः, अपि तु अपरिमिताः, गृहवासिनां च परिचिताः । येषां नाभिपरिमलेन दिङ्मुखान्येव सुरभितानि भासन्ते ( पु. १९५ ) । कस्तूरिकामृगो न यत्रकुत्रचित्स्थातुं शक्नोति । हिमालयस्य हिमाच्छादितस्थलेष्वेव स प्रकृतिनियमतः प्राप्यते इत्यभिज्ञा वदन्ति । किन्तु कविप्रतिभा तमपि राजभवने निगडयामास । समृद्धिमिव राज्ञां संमानमप्यसामान्यं कविरेष चित्रयामास । न केवलमाश्रिता एव, अपि तु मूर्द्धाभिषिक्ता राजानोपि तारापीडस्य चरणौ मौलिमालाभिरुपरञ्जयन्ति । राजकीयपुरुषं दृष्ट्वैव सर्वे ससंमानमभिगच्छन्ति । राजा, राजसचिवादयोऽपि राजधर्मे परिनिष्ठिताः, सद्व्यवहारिणः । अतीवनम्रा उपचारचतुराश्च । राजकुमारश्चन्द्रापीडोऽप्युपचारस्य चरमसीमानं स्पृशति । 'चरणरजोरूपाः दासानुदासा वय'मित्यादीनि विनम्रवचनानि प्रसिद्धान्येव । यवनभाषापटवोपि 'खाकसार' इत्यात्मानं व्यपदिशन्तो विनयातिशयमसामान्यमभिनयन्ति । किन्तु बाणेन तत्सीमाप्यतिलङ्घिता । चन्द्रापीडः स्वविनयमभिव्यनक्ति'असज्जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डाल: ।' [पु. ४५२]। कादम्बरीकथा सेयं कादम्बरीकथा बाणभट्टेन तत्समयसुप्रसिद्धाया बृहत्कथाया आधारेण गुम्फिता । यतो हि तद्गतमकरन्दिकोपाख्यानमेतस्या मूलम् । तदीयपात्राणां नामान्तराणि विधाय, कथायाश्च रसानुकूल्येन किञ्चिद्व्यत्यासमारचय्य सेयं कथोद्भाविता । महाकविक्षेमेन्द्रसोमदेवयोः समयपर्यन्तम् (नि. १०६३------) गुणाढ्यरचिता बृहत्कथा सुलभासीत् । अत एव हि तदाधारेण ताभ्यां बृहत्कथामञ्जरी-कथासरित्सागरौ रचितौ । एवं च खि. षष्ठशतकोत्पन्नस्य बाणस्य सा समुपजीव्या स्यादत्र किमाश्चर्यम् । [^१]G. 'हसितः प्रशंतसा सखि चिरमावसथिकजनः पत्या । विधुरिति तव किल वदने विस्तीर्णकुसुमाञ्जलिविलक्षः ॥" ( गाथासप्त ४।४६ ) [^२]G. 'पत्रा ही तिथि पाइये वा घरके चहुँपास । नितप्रति पूर्नोही रहत आनन ओप उजास‌‌॥ '( बिहारी ) 'तद्गृहमभितस्तिथिमहो पञ्चाङ्गादवयाति । वदनविभाप्रतिभासतः प्रतितिथि पूर्णा भाति ॥' [ साहित्यवैभवम् ] [^३]G. 'संमार्जनीभिः परतः क्रियन्ते विसूत्रहारावलिमौक्तिकानि ॥' (नवसाहसाङ्कचरितम् ) [^४]G. नैषधीयचरिते प्रसिद्धमेव । किञ्च बृहत्कथाधारेणैव कादम्बरी व्यरच्यतेत्यस्याऽन्यदपि चिह्नमधिगम्यते । कथाभागेन सह क्वचित्कवि- चमत्कारकोऽर्थोऽलंकारादिकश्चापि बाणेनाविकलं बृहत्कथाया एवोपजीवितः । यतो हि बृहत्कथामञ्जर्यां यो बृहत्कथागतो वर्णनाचमत्कारः संक्रान्तः कादम्बर्यामपि सोऽविकलमुपलभ्यते । यथा 'कर्णीसुतश्च कटकः स्तेयशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञकौ ॥ शशो मन्त्रिवरस्तस्य'....... "इति ( मकरन्दिकोपाख्याने बृहत्कथामञ्जरी ) । एवं विन्ध्याटवी- वर्णने– 'कर्णीसुतकथेव संनिहितविपुलाचला, शशोपगता च ।' ( कादम्बरी ) । 'यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥' इति (कथासरित्सागरः ) । 'प्रलयानलशिखाकलापकपिलजटाभारभ्रान्तसुरसिन्धु- रन्धकारातिर्भगवानुत्सृष्टकैलासवासप्रीतिर्महाकालाभिधानः स्वयं निवसति' इति ( उज्जयिनीवर्णनकादम्बरी ) । 'पुरा मुनयः किन्नरराज्ये द्रुमनामकं नृपमभिषेचयामासुः' इति बृहत्कथा । 'किंपुरुषाधिराज्यमिव मुनिजनगृहीतकलशाभिषिच्यमानद्रुमम्' इति जाबाल्याश्रमवर्णनकादम्बरी । कथासरित्सागराधारेण कादम्बरी विरचितेति वदतां श्रीहरिदाससिद्धान्तवागीशादीनां मन्ये कथासरित्सागरपदेन बृहत्कथातस्तात्पर्यम् । अन्यथा सुतरां प्राचीनः खि. षष्ठशतकोत्पन्नो बाण एकादशशतकोत्पन्नं कथासरित्सागरं कथंकारमुपजीवेत् ? अस्तु बृहत्कथागता कादम्बरीमूलकथा संप्रति कथासरित्सागरस्य ऊनषष्टितमतरङ्गान्तर्मकरन्दिकोपाख्याने द्रष्टुं शक्या । तत्र हि कानि नामानि, बाणभट्टेन च कानि परिवर्तितानीत्यधो दीयन्ते कथासरित्सागरे काञ्चनपुरी सुमनाः मुक्तालता शास्त्रगङ्गः (शुकः ) हिमालयपादे रोहिणतरुः मरीचिः पौलस्त्यः रत्नाकरं पुरम् ज्योतिष्प्रभः हर्षवती सोमप्रभः प्रभाकरः प्रियङ्करः आशुश्रवाः (उच्चैःश्रवसः पुत्रः) पद्मकूट: हेमप्रभा मनोरथप्रभा दीधितिमान् रश्मिवान् सिंहविक्रमः ( विद्याधरराजः ) मकरन्दिका देवजय: सिंहविक्रमः शुको जातः रश्मिवान् सुमना अभूत् । कादम्बर्याम् विदिशा शूद्रकः चाण्डालदारिका वैशम्पायनः विन्ध्याटव्यां शाल्मलीतरुः हारीतः जाबालिः उज्जयिनी नगरी तारापीड: विलासवती चन्द्रापीड: शुकनासः वैशम्पायन: इन्द्रायुधः हंसः गौरी महाश्वेता श्वेतकेतुः पुण्डरीक: चित्ररथः (गन्धर्वराजः ) कादम्बरी केयूरकः पुण्डरीको मध्ये वैशम्पायननामा मन्त्रिपुत्रः परस्ताच्च तन्नामक एव शुकोभवत् चन्द्रापीडः शूद्रकोऽभवत् । विद्यार्थिनां कृते काव्यस्वरूप-नायकादिनिरूपणमधस्ताद्दीयते कादम्बरीनामेदं कथाकाव्यम् । यथा साहित्यदर्पणे 'कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् । क्वचिदत्र भवेदार्या क्वचिद् वक्रापवक्रके । आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥ अस्मिन्काव्ये साहित्ये लक्षितानि चतुर्विधान्येव गद्यानि दृश्यन्ते । किन्तु, उत्कलिकाप्रायमेव गद्यमाधिक्येन । क्वचिच्चूर्णकमपि । तेषां लक्षणानि यथा 'वृत्तबन्धोज्झितं गद्यम् – 'मुक्तकम्', 'वृत्तगन्धि' च । भवेत् 'उत्कलिकाप्रायम्' 'चूर्णकं' च चतुर्विधम् ॥ आद्यं समासरहितं वृत्तभागयुतं परम् । अन्यद्दीर्घसमासाढ्यं तुर्यं चाल्पसमासकम् ॥' अत्र अनुकूलो धीरोदात्तचन्द्रापीडो नायकः । लक्षणं यथा 'अनुकूल एकनिरत:' अविकत्थनः क्षमावानतिगम्भीरो महासत्वः । स्थेयाग्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ ' नायिका कन्या ( परकीया ) मुग्धा कादम्बरी । यथा 'कन्या त्वजातोपयमा सलज्जा नवयौवना' परकीया द्विधः प्रोक्ता परोढा कन्यका तथा ।' प्रथमावतीर्णयौवनमदनविकारा रतौ वामा । कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥' परिणयोत्तरं स्वकीया मध्यापि च नायिका, किन्तु ( उत्तरार्द्धे ) तत्प्रसङ्गः स्वल्प एव । काव्येऽस्मिन् विप्रलम्भशृङ्गारोऽङ्गी रसः । तस्यापि भेदेषु - पूर्वार्धे, उत्तरार्धस्य कियदंशे च पूर्वरागाख्यः । उत्तरार्धशेषे तु करुणविप्रलम्भाख्यः । संभोगशृङ्गारोप्यस्ति, परं परिणयोत्तरं तत्सूचनमात्रमेव । लक्षणादि यथा 'यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।' 'श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥' 'यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्य: ॥' अङ्गतया हास्यादयोऽन्येपि रसाः सन्ति । ... माधुर्यं गुणः । यथा 'चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते । संभोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥' प्रसादगुणोपि बहुत्र । रीतिरत्र 'पाञ्चाली' बाहुल्येन यथा 'वर्णैः शेषैः पुनर्द्वयोः (वैदर्भीगौडीययोः परिगृहीतेभ्यो वर्णेभ्यः शेषैरित्याशयः) । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ ' अन्या अपि रीतयो यथास्थानं सन्ति, परं न प्रधानं ताः । विद्यार्थिनां सौकर्याय सर्वसंग्रहश्लोकोयम् 'चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो नेत्री कन्याऽन्यदीया मृदुललिततनुर्मुग्धकादम्बरी च । पाञ्चाली नाम रीतिर्विलसति बहुला, विप्रलम्भो रसोऽङ्गी माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययो [^१]रन्त्यमेतत् ॥' टीका श्रीभानुचन्द्रगणि- तच्छिष्यसिद्धचन्द्रगणिमहोदयाभ्यां विरचिता सेयं व्याख्या मोगलसम्राजोऽकबरस्य समये निरमीयत । यतो हीमौ अकबरसम्राजा सभाजिताविति ताभ्यामेव पुष्पिकायां स्वहस्तेन लिखितम् । गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम् । महाभागेन चानेन 'शत्रुंजय' करो मोचितः । शिष्योपि सम्राजा 'षु(द) स्युदमा' इत्युपपदेनालङ्कृतः । सेयं व्याख्या प्रत्येकपदस्य पर्यायप्रकटन एव व्यग्रा, कामं स पर्यायशब्द: 'इन्द्रस्य टीका बिडौजा : ' एव किं न भवेत् । एको यः शब्द: पर्यायत्वेनादौ परिगृहीतः, अन्तपर्यन्तमपि स एव पदे पदे व्यवह्रियते । यथा - ग्रन्थे यत्र यत्रापि सुखपदमायातं तत्र तत्र 'सातम्' इत्यनेनैव व्याख्यातं महाभागेन । 'भ्रान्ति: आरेका, जरा विस्रसा, कुवलयं कुवेलम्' इत्यादिरूपेणैव सर्वत्र व्याख्यातवानयम् ।पर्यायशब्दनिवेशो हि जिज्ञासूनां सारस्येन बोधनायैव भवति । सरलस्यापि पर्यायपदनिवेशः करणीय एवेति न ब्रह्मवाक्यम्, किन्त्वेतस्योपरि न मनागपि दृष्टिनिक्षेपष्टीकाकर्तुः । स्नानप्रकरणे आगतं 'स्नानं' पदं कादम्बरीमारभमाणस्य कृते न वज्रसारं स्यात्, किन्तु स्नानपीठस्य पर्यायपदम् 'आप्लवनचतुष्किकाम्' इत्येव कृत्वाऽयं कृती भवति । कुत्रचित्तु मूलपदं सर्वैर्बोध्यं भवति, टीकाकर्तुर्व्याख्या तु ज्ञातमप्यर्थं भ्रमिचक्रे निपातयति । यथा 'इन्द्रगोपैः (वर्षाकीढै: ) ' इत्यस्य व्याख्या 'अग्निरजोभिः' इति । कोऽस्यार्थ इति हि विदन्तु विद्वांस एव । 'विन्ध्यः जलबालकः, निगड: अन्दुकः, मदनः जराभीरुः, धूमो दहनकेतन:, जानु नलकीलकः' इत्यादिरूपेण कृता व्याख्याक्रियते उपकारायेति विमृशन्तु मनीषिण एव । कुत्रचित्तु व्याख्यापाटवं तथा प्रकाशयति यथा कृतबुद्धिरपि वराको ग्रन्थस्वारस्यं विहाय व्याख्यापदानामर्थबोधायैव व्ययो भवति । नगरं 'द्रङ्गम्' इति कृत्वा व्याख्याति । 'लता' पदस्य हि सुप्रसिद्धोर्थः । किन्तु टीकाकारस्तदर्थमाह - 'सरलवृक्षः' । अत्र हि तन्नामको वृक्षविशेष: सर्वस्यैव बुद्धिनिष्टो भवेत् । भूयस्सु स्थलेषु तु टीकाकारस्य व्याख्यामालोक्य क्षमाशीलस्यापि मानसमुद्वेलं भवति । 'निर्लक्षणा पाण्डुरपृष्ठा', 'दावानलशङ्का वनवह्निद्वापरः', 'वसन्त इव इष्य इव', इत्यादिव्याख्या कस्य क्षोभाय न भवेत् ? काव्ये च साहित्ये च टीकाकारमहोदयस्य कियत्पाण्डित्यमिति त्वग्रे निवेदयिष्यामि, किन्तु पर्यायशब्दान्वेषणे सर्वमपि वैदुष्यसेष निःशेषयतीति तु प्रत्येकमार्मिकस्यैवाऽवगतं भवेत् । 'निष्पतन्तीम्' इत्यस्य टीकां करोति 'अधःसंयोगफलिकां क्रियां कुर्वन्तीम्' । 'श्वसन्ती' इत्यस्यार्थमाह 'एतनं गृह्णन्ती' । 'एतनं गृह्णन्ती' इत्यस्यार्थ एतस्मिन्काले किमु सहसैवोदयेत् ? परं सर्वस्यापि पदस्य यत्किञ्चित्पर्यायपदमवश्यं निवेश्यम् । पर्यायस्थापनेनैव टीका सुटीका भवतीति महोदयस्यास्यविचार: । किन्तु पर्यायनिरपेक्षस्य पदस्य बलात्पर्यायसंनिवेशे कुत्रचित्कुत्रचित्कीदृशोऽनर्थः संभवतीति तु नास्य महाभागस्य विचारशक्तिरपि । सूक्ष्ममीक्ष्यतां तावत् - गद्यकाव्यं हि कवीनां कृतित्वपरीक्षायै निकषो नाम । गद्यकाव्येष्वपि 'कथा' - काव्यमतिमनोहरम्, यद्धि वर्तमानकालिक उपन्यास (Novel) ' स्थापनीयम् । तत्रापि- वाचयतामाहाररुचिमपि तिरोदधत्तदिदं काव्यमस्ति यस्य लेखको मार्मिकाणां शिरोमणिः श्रीमान्बाणः । तस्यैव काव्यस्य नायिकायाः सौन्दर्यसारसंघटिताया देवाङ्गनायाः (कादम्बर्याः) सौन्दर्यवर्णने महोदयोयं 'नाभिम्' [^१]G. महामहोपाध्यायहरिदाससिद्धान्तवागीशभट्टाचार्यटीका- भूमिकायाः सोयं संदर्भ उद्धृतः । कादंबरी प्र० ३ व्यपदिशति 'तुन्दकूपीम्' इति ! तुन्दपदं हि प्रचण्डोदरायाः कस्याश्चित्पम्फुल्यमानमुदरं सूचयत् ( यत प्रफुल्लोदरस्तुन्दिल इत्युच्यते ) गहनान्धकारितं महान्तं नाभीगर्तं चेतसि चित्रयतीति मन्ये न वक्तव्यं भवेन्मार्मिकाणां कृते । किन्तु सर्वतो निमीलितनयनोऽयं न किञ्चित्पश्यति । येन केनापि रूपेण पर्यायपदस्थापनायैव सहस्रनयनः सन् सोयं जागरूकः । अन्यदपि व्याख्यानं दृश्यताम् – 'तडिद्भिः ऐरावतीभिः','शुष्काणि वानानि', 'पिपासा उदन्या', 'वल्कलोपान्तेन चोचाञ्चलेन' ।वल्कलोपान्तमित्यस्य योऽर्थं न ज्ञातवान् तदर्थं ह्येषा व्याख्याऽपेक्षिता, तस्य कृते चोचाञ्चलमिति किं सुखबोध्यं भवेत् ? प्रसिद्धाऽप्रसिद्धयोरन्तरं न विदन्नेव किं 'निरन्तरव्याख्या' कारो भवति ? टीकाकारमहाभागस्य व्याकरणज्ञानमप्यलौकिकम् । कर्म-कर्तृवाच्ययोः सर्वत्रापि निरर्गलं प्रयोगः । 'कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानः ( अहम् ) ' इत्यत्र 'मन्यमानः' इति कर्तृवाच्यक्रियाया: 'ज्ञायमानः' (पु. ७४ ) इति व्याख्या । एवं प्रायः सर्वत्रैव । आत्मनेपद-परस्मैपदव्यत्ययाः पदे पदे । 'व्रजमानानीव' संचरमाणानीव' (तृतीयान्तयोगं विनापि ) । 'निमज्जमानम्' 'कम्पति सति' 'उत्पश्यमानः' (पृ. ७५) 'अजनिषम्' इत्यादीनि स्थाने स्थाने । लिङ्गव्यत्ययाः प्रतिपदम् – 'बाहुवल्ल्यालिङ्गनान्' 'दन्तक्षतान्' 'कर्णावतंसानि' 'त्यज्यमानासु सत्सु,' 'श्वेतायमानासु सत्सु ' ( पू. ५४७)। ध्वनिशब्दस्य, 'रक्तिमा' इत्यादि इमनिच्प्रत्ययान्तानां च प्रायः स्त्रीत्वमेव प्रयुक्तम् । 'पुस्तकान् शास्त्रान्' (२०५) । 'अप्रापम्, अप्रार्थयत,' इत्याद्यपि बहुत्र । शिष्या इत्यस्य लोकोत्तरा व्याख्या 'शिष्यिणी' इति (पृ. २२० ) । 'पराभवितस्य' 'रुदनम्' (पृ. ६८२) 'कार्यताम्' इत्येतस्य व्याख्या 'काराय्यताम् इत्यादि ('कराइये' इति 'हिन्दी) (पृ. ६६३ ) अलौकिकं व्याख्यानपाण्डित्यं तु स्थाने स्थाने, यस्य शोधनं 'चषक' टिप्पण्या कर्तुमाचेष्टितम् । इह तस्योल्लेखे मुधैव भूमिकाकायवृद्धिः स्यात् । यथा - 'दिग्विजयमङ्गलध्वजेन,''''''' त्रिभुवनमलङ्घ्यत रजसा' अर्थात् सैन्यसंघर्षोत्थं रजश्चन्द्रापीडकृत- दिग्विजयस्य मङ्गलध्वजः (माङ्गलिककेतुदण्डस्वरूपः ) । ध्वजवदुत्थानसादृश्यात् रजसि ध्वजत्वरूपणम् । टीकाकारमहाभागो व्याचष्टे - 'दिशां ककुभां यो विजयः तत्र यन्मङ्गलं विघ्ननिवारकदधिदूर्वादि तस्य ध्वजेन केतुना' (पृ.२४९) । ( इयं लक्ष्मी:) पुस्तमय्यपि (अचेतनपुत्तलिकारूपापि) इन्द्रजालमाचरति [ अकस्मात् लक्ष्म्या विलोपात्]।' 'पुस्त' पदस्य पुत्तलिकार्थे प्रयोगो यथा - 'पुस्तस्त्रीहस्तनिर्यत्' इत्यादि वाग्भटे । टीकाकारो व्याख्याति - 'पुस्तकमय्यपि ज्ञानमय्यपि' । निन्दां कुर्वाणस्य ज्ञानमयीति निर्देशः कियत्स्वाभाविक इति न विचारितं वराकेण (पृ. २२९) । 'अपि च अनेन ( कामेन) अधिष्ठितानां चिन्तया ( चिन्तावशात् ) प्रियमुखचन्द्रसहस्राणि पश्यन्तीनां कामिनीनां कृते संकटमम्बरतलम् ( मुखचन्द्रसहस्रसंकीर्णतया) संबाधं भवति । 'लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्,' [ अनेनाधिष्ठितानाम् अत एव विनोदार्थं दयितस्य प्रतिकृती- र्लिखन्तीनां (कामिनीनां हृदये ) महीमण्डलमविशालम्, यतो हि तच्चित्रिता दयिताकारास्तत्र न मान्ति ] । 'वल्लभगुणान् गणयन्तीनामल्पीयसी संख्या ' ( गुणगणनाकाले परार्धान्तापि संख्या अपर्याप्ता भवतीत्यर्थः ) । 'शृण्वतीनां प्रियतमकथामबहु- भाषिणी सरस्वती' ( प्रियकथां शृण्वतीनां कृते वाग्देवतात्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि कथया तासां श्रवणेच्छा न पूर्यत इत्यर्थः)। 'ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान् कालो हृदयस्थापतति' [ ध्यानवेलायां कालः सहसैव समाप्यत इत्यर्थ: ] । टीकाकारमहाशयो व्याख्याति — 'अनेन कन्दर्पेणाधिष्ठितानाम् आश्रितानां कामिनीनां हृदयस्य ह्रसीयान् हासकृत्काल आपतति, अकस्मादागच्छति [ अयं महाभागः ह्रसीयान् काल इति सर्ववाक्येषु योजयति ] । 'अथ कामिनीनां विशेषणानि - किं कुर्वन्तीनाम् । चिन्ताजनितं यत्प्रियमुखसहस्रं तेन संकटं संकीर्णं यदम्बरतलं तत्पश्यन्तीनां विलोकयन्तीनाम् ... ' इत्यादि । (पृ. ४७७)। पाठपरिवर्तनम् सर्वमौलिभूतो दोषस्त्वयमस्याष्टीकाया यन्मूलपाठस्तथा धृतोस्ति येन कादम्बर्या: शोभायाः का कथा वराकी सा लज्जेत । अवश्यं ग्रन्थपाठः प्राग्लिखितपुस्तकाधीनः किन्तु यष्टीकां लेखितुं परिकरमाबध्नाति तस्यापि बुद्धेः किञ्चिन्मूल्यं जनसमाजेनाशंसनीयं भवति । गुरुतरं ह्यासनं टीकायाः । यद्धि वाक्यं सामान्यशिक्षितोपि न लेखितुं पारयति तादृशं वाक्यं बाणसदृशो मार्मिकचूडामणिः कथं वा कविमण्डलमण्डनभूते स्वग्रन्थे विलिखेदित्यक्षरमुखस्यापि विचारो भवत्येव । किन्त्वाश्चर्यं नास्यात्र गन्धोपि । नापि चात्र लेखक -मुद्रकदोषोपि संभावयितुं शक्यः, व्याख्याक्षराणां तथैवाऽभिप्रायात् । ग्रन्थस्य प्रायः प्रतिपदमेव सेयं दशा । टिप्पण्यां च सूचितमिदं स्थाने स्थाने । अत्र तदुद्धरणे मुधा विस्तरः स्यात् । किन्तु मार्मिका द्वित्रैरुदाहरणैस्तद्वर्णिकाम् (बानगी ) परीक्षितुं पारयेयुः । 'विबुधसद्मन्यप्सरसो नाम कन्यकाः सन्तीति' मन्ये सर्वबोध्योयं विषयः । किन्तु टीकाकारेण मूलपाठः परिगृहीतोऽस्ति - 'विबुधसद्मन्यप्सरसेना नाम कन्यकाः सन्तीति' । व्याख्यानं चास्य दृश्यताम्- 'विबुधसद्मनि किंनरगृहे । अप्सरसेनाः । नामेति कोमलामन्त्रणे । कन्यकाः पुत्र्यः सन्तीति' । 'किंनरगृहे' इति समीक्षणीयं तावत् । अविवाहितत्वात् 'कन्यकाः' इति बाणलेखन्योत्कीर्णम्, तस्य 'पुत्र्य:' इति पर्यायः कियत्स्वारस्यवाहीति सर्वैर्बुध्यतैव (२९३ ) । 'हेमकूटधाम्नां किरातानां सुवर्णपुरं नाम निवासस्थानम्' इत्यस्य स्थाने पाठोऽस्ति 'हेमजकूटनाम्नां किरातानाम्' । व्याख्यानं दृश्यताम् – 'हेमजकूट इति नाम येषामेवंविधानां किरातानां भिल्लानां म्लेच्छानां वा (पृ. २५७ ) । गन्धर्वराजधान्यां हेमकूटे ( कादम्बरीनिवासस्थाने ) यदा चन्द्रापीडो जगाम तदाऽनुरक्ता कादम्बरी प्रेमोपायनं शेषाख्यं रत्नहारं तस्मै प्रजिघाय । तदेतदुपायनमादाय कादम्बर्याः प्राणप्रिया सखी मदलेखा तरलिकया सह चन्द्रापीडमुपजगाम । प्रणय मार्गोचितमिदम् । न हि स्वयं नायिकाया इदमौचित्यमावहति । बाणोपि तथैवोपनिबबन्ध । अत एव हारसमर्पणे तत्प्रशंसायामाह - ' (सोयं हारः ) अम्भसां पत्या प्रचेतसे दत्तः । पाशभृता गन्धर्वराजाय । गन्धर्वराजेन कादम्बर्यै' इति । न हि कादम्बरी स्वयमेवं ब्रूयात् । अत एव तदागमनावसरे पाठोऽस्ति — "... कादम्बरीप्रतीहार्या दक्षिणकरेण दत्तहस्तावलम्बां मदलेखाम्, तरलिकाम्** अद्राक्षीत्" इत्यादिः । किन्तु टीकाकारः पाठमाह - 'कादम्बरीं प्रतीहार्या दत्तहस्तावलम्बाम्' इत्यादिः । न हि लेखक-मुद्रकदोषोऽत्र संभाव्यः । पदच्छेदपूर्वकं स्पष्टं व्याख्याति — 'चन्द्रापीड: कादम्बरीम्, अथ चागच्छन्तीं मदलेखाम् तस्याः समीपे तरलिकाम्, ******पात्र विशेषे गृहीतं हारं चाद्राक्षीत्' इति । पुनरपि स्पष्टयति — 'अथ कादम्बरीं विशिनष्टि' इत्यादिना (पृ. ४१४ )। केयूरकश्चन्द्रापीडसविधे कादम्बर्याः प्रणय-विह्वलतादिकं निवेदयति – 'निर्गते त्वयि हृदयसहस्रप्रयाणपटहकलकलमिव नूपुरक्वणितेन कन्यकान्तःपुरे कुर्वति । 'कन्यकान्तःपुरे नूपुरक्वणितेन, हृदयसहस्राणां यत्प्रयाणम् ( गृहं प्रत्यागच्छता त्वया सह प्रस्थानम् ) तस्य पटहकलकलमिव कुर्वति सति' इति सप्तम्यन्तः पाठः । अर्थात् कन्यकानां नूपुरशब्दा नासन्, मन्ये त्वया सह प्रस्थितानां कन्यकाहृदयसहस्राणां प्रयाणे पटहध्वनय एवाऽभूवन्निति । किन्तु टीका कारपाठोऽस्ति–पटहकलकलमिव नूपुरक्वणितेन कुर्वन्ती देवी कादम्बरी...' इत्यादि । एकस्यास्तस्या नूपुराभ्यां पटहकोलाहलः कथमिति न विचारयितुमिच्छति टीकाकारपुंगवः । न चात्रापि लेखक-मुद्रकदोषः । 'कुर्वन्ती सृजन्ती' इति स्फुटं व्याख्यानात् । लेखकदोषेण ह्रस्वदीर्घयोर्व्यत्ययो न जात इत्येतस्य साक्षी नुमागमः, नहि सप्तम्यां नुमः स्पर्शशङ्कापि (पृ. ४३३) । कुत्रचित्कुत्रचिच्च दुष्पाठपरिग्रहणेन तथा ग्रन्थस्य सर्वनाशः कृतोऽस्ति यं दृष्ट्वैव सभ्यताऽवगुण्ठने गोपितोपि दुःखप्रेरितोऽमर्षो बलात्प्रकटीभवत्येव । अत एव टिप्पण्यां लेखनीमुखाद्दुःशब्दा अपि विवशं निःसृता इति क्षम्यासुः सहृदयमहोदया: । घोरदुःखमिदं यज्जानतापि मया हन्त कविधृतः पाठो निरस्यते । मूलटीकयोः संवादानुरोधेन ग्रन्थभ्रंशकरो दुष्पाठ एव च स्वकरेण निवेश्यते । परं क्वचित्तु तथा मे मनो विवशमभूद् यथा भ्रष्टतमं तं पाठं लेखितुं लेखन्येव न प्रचचाल । अत एव मूलटीकयोः संवादनियममुल्लङ्घ्यापि समुचितं पाठं मूले बलान्न्य- वेशयम्, तं च घोरपाठं नीचैः पाठान्तरे । यथा-शबरसेनापतिवर्णने - 'रचिताभरणेन**** वक्षःस्थलेनोद्भासमानम्** *शबरसेनापति- मपश्यम्' इति । अत्र टीकाकारमहाभागेन पाठो दत्तोऽस्ति – 'चक्षुःस्थलेनोद्भासमानम्' । अस्यैव साक्षात्संनिधौ यद्यपि विशेषणमस्ति 'विन्ध्यशिलाविशालेन' इति । न हि चक्षुः शिलाविशालं भवति । किन्तु लोके शिलाविशालमीदृशं हृदयमवश्यमस्ति यद्धि वक्षःस्थलस्थाने चक्षुःस्थलं क्लिश्नाति । नात्रापि लेखक- मुद्रकदोषशङ्का । स्पष्टमस्ति व्याख्यानम्–'चक्षुःस्थलेन नेत्रस्थानेनोत्प्राबल्येन भासमानम्' इति । नैतदेव, अग्रे पुनरस्ति - 'चक्षुस्थलं विशिनष्टि' इति । यदि 'नेत्रस्थानेन' इति पर्यायकरणमपि लेखकमुद्रकदोष एव तर्हि मन्ये न क्वचिन्नीलपीतादिष्वपि लोके मिथो भेदः (पृ. ६५ ) । टीकायाः स्थाने स्थाने- समासविग्रहादिषु भ्रामिका अशुद्धयोऽवलोक्यन्ते । तत्र तत्र कोष्ठके समुचिताक्षरनिर्माणेन शोधनस्य चेष्टा कृता । यथा -'स्वीकृता यतिजनानामुचिता यात्रा उपवरणम्' इत्यत्र 'उपव ( क )रणम्' इति । 'आबद्धं मण्डलं यस्याः' इत्यत्र ( यया ) इति कोष्ठके दत्तम् । यत्र तु किञ्चिदधिकं वर्तते तदपि कोष्ठके निबद्धम् । पाठका विवेकेन उभयोरुपयोगं जानीयुः । महाकविर्बाणः पुराण-महाभारतादिषु परिनिष्ठितः । स्थाने स्थानेऽयं रामायणमहाभारतादीनामुपाख्यानानि स्वरचनायां सूचितवान् । किन्तु जैनष्टीकाकारमहोदयस्तेषामपरिचितः । अत एव बहुत्र विपरीतं जल्पति । यथा - शुक-करिणामग्निशा- पवशाजिह्वापरिवर्तनस्य कथा टीकाकारेण महाभारततो वैपरीत्येन केवलं प्रवाद इति स्थूलैरक्षरैर्गदिता । अस्तु टिप्पण्यां स्थाने स्थाने तत्कथानां परिचयाय प्रयतितम् । एवम् - बाणस्य स्फुटं सनातनधर्मावलम्बित्वेऽपि टीकाकारो व्याख्यायां बहुत्र स्वसंप्रदायप्रणयं पिशुनयत्येव । यथा - 'न प्रणमन्ति देवताभ्यः' इत्यत्र 'हरिहरादिदेवेभ्यः' इति स्फुटेऽप्यर्थे 'अर्हद्भयः' इति व्याख्याति (पृ. २३५ ) । एवं महाश्वेतावर्णने– 'त्र्यम्बकस्य अम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्य • • • पुण्याः स्तुती: पठन्तीभिः' इत्यत्र 'कृष्णस्य जिनस्य' इति व्याख्यातवान्(पृ. ४२७)। किमधिकं परिवादेन, अनुपमकाव्यस्यास्य कादम्बर्या यादृशी व्याख्याऽपेक्षिता न तत्सीमस्पर्शिन्यपि सेयम् । बहवो हि व्याख्याकारा मूलकारस्य कल्पनां तथा प्रगुणयन्ति यथा कवेश्चमत्कारातिशयेन सह व्याख्याया अप्यलौकिकी काचिदभिख्या प्रस्फुरति । दूरे सा संकथा, इह तु ग्रन्थस्यार्थस्पर्शोपि दुर्लभो बहुत्र । किन्तु यस्मिन्काले सेयमिदंतया प्रथमममुद्र्यत तस्मिन्काले न प्रसृताभूत्काचिदन्या विस्तृता व्याख्या । प्रतिपदव्याख्यैव च प्रारम्भतः पठतां विद्यार्थिनामुपयोगिनीति बहूनां दृष्टि: । सेयं च व्याख्या स्वयमात्मानमपदिशति 'निरन्तरव्याख्या' 'प्रतिपदव्याख्या' इत्यादि । अत एवान्तेवासिनामधिकोपकारमालक्ष्य सेयमारम्भतोऽद्यावधि सप्तभिः संस्करणैः प्राकाश्यत । प्रथमतष्टीकाकारेणानेन मूलपाठ एव विरूपोऽधिगतः, ततोपि स्वयमेतद्वयाख्यापुस्तकमप्यशुद्ध- मेवासादितं प्रकाशकैः । अत एवाद्यावधिसंस्करणेषु यथाजातैव सेयं टीका प्रकाशिताभूत् । अष्टमसंस्करणावसरे त्वस्मिन् नवीनटीकाप्रकाशनाय सूचिता अपि मुद्रायन्त्राध्यक्षाः पूर्वतः प्रचलिताया अस्याष्टीकायाः प्रक्रमस्य प्रणयस्य च भङ्गं नान्वमन्यन्त । अत एव हि मत्संमतिमग्रिमसंस्करणार्थमुपेक्ष्य, इमामेव टीकां संस्कर्तुमाज्ञापयन् । अस्तु मूलटीकयो: पाठसंवादनियमे जाग्रति किमप्यन्यत्कर्तुं परवशोहं टिप्पण्याऽनया स्थाने स्थाने मूलस्य टीकायाश्च विषये आवश्यकं संशोधनं विवक्षितं च किञ्चिदभिव्यञ्जितवानस्मि । नैतस्योपयोगिताविषये मम वक्तव्यं शोभते । गुणगृह्याः स्वयमनुगृह्यासुः कृपाकटाक्षदानेन । कादम्बरीयं चिरापाठ्यपुस्तकत्वेन परिगृहीता । अत एव पठतामुपयोगाय१-गद्यकाव्यानां विकासक्रमः । २-बाणस्य समयः, जीवनचरितम्, वंशवृक्षादिकं च । ३-बाणसमये सामाजिकी परिस्थितिः । ४- बाणकृतेस्तत्त्वविमर्शः । ५- अन्यकविभिः सह तुलनात्मकमालोचनम् । ६- कादम्बरीबृहत्कथयोः कथानकंस्य पात्राणां च मिथोविमर्शः । ७-ग्रन्थे वर्णितानां नायकनायिका-रस-गुण-रीत्यादीनां निरूपणम्। ८-'कादम्बरीसार'नाम्ना पूर्वोत्तरकादम्बर्योः कथासंक्षेपः । ९ –विषयानुक्रमणिका । एवमादयो विषयाः संनिवेशिताः । पूर्वार्धसंशोधने उपोद्धाते च महामहोपाध्यायश्रीहरिदाससिद्धान्तवागीशभट्टाचार्यटीकापुस्तकात्,उत्तरार्धे च श्रीजीवानन्दविद्यासागरपुस्तकाच्च भूयसी सहायताधिगता । सिद्धान्तवागीशमहोदयस्य वैदुष्यमभिनन्दन्नुपकार- भारमिममसामान्यमधिमानयामि । बाणा [^१]दुद्भूय भूमानमभीमेष्वपि विन्दती । 'सेयं कादम्बरीगङ्गा रससङ्गान्निषेव्यताम् ॥ मकरसंक्रान्ति: १९९६ } मञ्जुनाथोपनामा (कविशिरोमणि)जयपुरम् भट्टश्रीमथुरानाथशास्त्री, १ अर्जुनशरादुद्भूय भीष्मे एवं महिमानं प्रकाशयन्त्या: प्रसिद्ध- (बाण) गङ्गात: अभीष्मेषु (काव्यभावनाकोमलहृदयेषु ) महत्त्वं प्राप्नुवती बाणरचनारूपा गङ्गा विशिष्टेति सेवनीयेत्याशयः । ॥ श्रीः ॥ कादम्बरीसारः । विद्वत्कृपासनाथेन मञ्जुनाथेन निर्मितः । सोयं कादम्बरीसारो हृदि हारोऽस्तु धीमताम् ॥ १ ॥ [ पूर्वकादम्बरी ] विदिशेतिख्यातनाम्न्यां राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलंकुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिचाण्डालदारिकाया आगमनमावेदयामास । अथ कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सममागत्य राजानं प्रणाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय, तद्गुणावलीं चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य 'स्तनयुगमनुस्नातं समीपतरवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ ' इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तःपुरे प्रवेशयितुमाज्ञाप्य सभास्थानादुदतिष्ठत् । कृताह्निककृत्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन मन्त्रिवरेण सह सुखोपविष्टः शुकमेनमानाय्य समयं तद्वृत्तान्तमा- वेदयितुमाज्ञापयामास । शुकोऽप्येवं कथयामास – "विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ न्यवास्ताम् । मां प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिद्वृद्धशबरः शाल्मलीवृक्षमेनमारुह्य स्नेहवशात्पक्षपुटेन मामाच्छादयन्तं जनकं मे व्यापाद्य, मामपि वृक्षादधः शुष्कपल्लवपुञ्जोपरि न्यपातयत् । भाग्यवशाज्जीवितोऽहं जलान्वेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन्, कौतुकादन्यैर्मुनिभिः पृष्टो मद्वृत्तान्तमेवं निशि निजगाद [ इति कथामुखम् ] "अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत्, यस्य महिषी विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंतानतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राज्ञ्या मुखे प्रविशन्तं चन्द्रं ददर्श स्वप्ने राजा । शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्डरीकमेकमालोकयामास स्वप्ने । ततश्च विलासवत्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः सुतोऽभवत् । मिथः सौहार्दमापनौ द्वावप्येतौ कुमारौ राज्ञा सकलविद्यासु पारगामितामुपनीतौ । ततो विद्यास्नातकोसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधनामानं तुरगवरमारुह्य विद्यागृहाद्राजधानीमाययौ । जनकजनन्योः संदर्शनेनानन्दितः, मृगयां विधाय नगरमुपागतो जनन्या प्रेषितां पत्रलेखामवाप्य मुदितः शुकनासोपदेशेन प्रगुणीकृतः, तारापीडेन यौवराज्येभिषिक्तोसौ दिग्विजयाय प्रातिष्ठत । त्रिभिः संवत्सरैः सर्वा दिशो विदिशश्च विजित्य, हेमकूटवासिकिराताना- मावासं सुवर्णपुरमधितिष्ठन्नेकाकी चन्द्रापीडः कदाचिदिन्द्रायुधमारुह्य मृगयार्थनटन् किंनरयुगलानुसरणप्रसङ्गेन पञ्चदशयोजनानि ययौ । किंनरमिथुने गिरिशिखरमारूढे, भृशमनुतप्तः श्रमेण तृषातुरो जलमन्विष्यन् विशालमनोरम- मच्छोदाख्यं सरः प्राप्तवान् । जलावगाहन-पानोत्तरं तत्तटे विश्राम्यन्, वीणाकणसहितं गानमाकर्ण्य तदनुसरन्, अतिगौरमनोरमामेकां कन्यकां शिवालयगतां ददर्श । अथ प्राप्तातिथिसत्कारेण तेन पृष्टा सा निजतपोवृत्तमेवमाह स्म "अरिष्टातनयो गन्धर्वराजो हंसः सोममयूखसंभवकुलजातां गौरीं परिणीतवान् । तयोस्तनया महाश्वेतानाम्न्यहमतिक्रान्तशैशवा कदाचिदस्मिन् सरसि स्नातुमागत्य कुतोप्यलौकिकं सौरभमाजिघ्रती तदनुसरणं च विदधती केनचिदन्येन कुमारेण सहितं मूर्तिमन्तमिव मन्मथं मुनिकुमारमेकमवलोक्य 'कोयं युवा, किंनामकस्य तरोरियं सुरभिता मञ्जरी' इति तत्सहचरं कुमारमप्राक्षम् । स प्रत्युवाच–'महर्षेः श्वेतकेतोः सौन्दर्यमोहितायां – लक्ष्मीदेव्यामुत्पन्नः पुण्डरीकमध्ये जाततया पुण्डरीकनामा सोयं कुमारः । नन्दनवनदेवतया सादरमुपहृता सेयं पारिजातस्य मञ्जरी ।' निर्जितमारः स तु कुमार : -'कुतूहलिनि ! किं वा प्रश्नायासेन । यदि रुचिता तर्हि गृह्यतामियम्' इत्यभिधाय मञ्जरीं तां मे कर्णे कुर्वन् हस्तान्निपतितामक्षमालामपि न ज्ञातवान् । अहं तु मालामिमामगृह्णाम् । मन्मथविकारमिममालोक्य कुपितेन द्वितीयेन कुमारेण तिरस्क्रियमाणः कुमारोऽसौ ( पुंडरीक: ) मामुपेत्य मालामयाचत् । अहं तु मुक्तामयं निजहारमेव कण्ठादुन्मुच्य तस्मै समर्प्य, तां च स्फटिकमयीं जपमालां कण्ठे वहन्ती जनन्या सह कृतस्त्राना गृहमुपागच्छम् । ततो मत्परिचारिका तरलिका तेन कुमारेण कृतं मत्परिचयादिप्रश्नवृत्तं मह्यमावेद्य पत्रमेकमर्पितवती यत्र चेयमार्याऽऽसील्लिखिता 'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥' सायं तु तत्सहचरः कुमारः ( कपिञ्जल: ) कामविह्वलां मां तस्य कुमारस्य मन्मथव्यथां यावदावेदयति तावदेव समागच्छन्तीं मज्जननीं ज्ञात्वा स त्वरितं परावर्तत । प्रतिगतायां जनन्याम्, उपस्थितायां च रजन्याम् समुदिते चन्द्रमसि, उत्कण्ठिताहं तरलिकाद्वितीया निभृतं गृहान्निर्गत्य तमभिसरन्ती दूरात्कपिञ्जलविलापमाकर्ण्य द्रुततरमभिपतन्ती मन्दभाग्या महाभाग्यं तं कुमारमुपरतमद्राक्षम् । शोकात्कृतमरणव्यवसायां माम्- 'वत्से महाश्वेते ! न त्वया त्याज्याः प्राणाः, पुनरपि ते भविष्यत्यनेन सह समागमः' इति चन्द्रमण्डलादवतीर्णः कश्चिन्महापुरुषोऽभिधाय तं कुमारदेहं कराभ्यामुत्क्षिपन् नभसि न्यलीयत । ''क्व मे सुहृदमपहरसि' इति रोषाद्बद्धपरिकरः कपिञ्जलोऽपि तमन्वसरत् । विस्मयविषादाभ्यां गृहीताऽहं तु संसारान्निर्विण्णा व्रतमेतदवालम्बिषि" । इति अथ 'परिचारिका सा तरलिका क्व गता' इति चन्द्रापीडेन जिज्ञासिते सा पुनरवदत्-"गन्धर्वराजाच्चित्ररथान्मदिरादेव्यां जाता कुमारी कादम्बरी मम द्वितीयं हृदयम् । सा ममाऽनेन शोकवृत्तान्तेन प्रतिज्ञामकरोत् - 'सशोकायां महाश्वेतायां नाहमात्मनः पाणिं ग्राहयिष्यामि । कादम्बरीपाणिग्रहणायाऽनुनेतुं गन्धर्वराजेन कृतानुरोधाऽहमद्यैव कादम्बरीसकाशे तां प्राहैषम्" इति । द्वितीयेऽहनि प्रातरेव तरलिकया सह समागतः केयूरकनामकः कादम्बरीवीणावाहकः पाणिग्रहणे तस्या असंमतिमावेदयत् । कादम्बरीबोधनाय हेमकूटं प्रयान्त्या महाश्वेताया अनुरोधेन चन्द्रापीडोपि गन्धर्वराजधानीं गतोऽलौकिकसौन्दर्यशालिनीं कादम्बरीमालोक्य प्रणयपरतन्त्रोऽभवत् । कादम्बर्यपि तत्प्रणयवशंवदा दिव्यं दुकूलयुगं शेषनामकं रत्नहारं च निजसख्या मदलेखाया हस्तेन तस्मै प्रजिघाय । अथ प्रीतिपरतन्त्रः स कादम्बर्या हृदयमादाय निजस्कन्धावारं प्रत्यागतः सुहृदे वैशम्पायनाय सर्ववृत्तमाचख्यौ । द्वितीयेऽहनि प्रत्यूष एव समुपेतेन कादम्बरीवैकल्यनिवेदकेन केयूरकेण सह पत्रलेखामादाय हेमकुटं गतश्चन्द्रापीडो हिमगृहगतां मदनपरवशां कादम्बरीं ददर्श । तया सह व्यङ्ग्यार्थगर्भं ललितमालप्य, तदनुरोधात्पत्रलेखां तत्रैवावस्थाप्य निजस्कन्धावारं पराववृते । तत्र च पितुः पत्रमवाप्य, 'पत्रलेखामादाय त्वया परस्तादागन्तव्यम्' इति सेनापतिसुतं मेघनादमादिश्य, तत्रैव चावस्थाप्य, मार्गे द्रविडधार्मिकाधिष्ठितां चण्डिकां पश्यन्नुज्जयिनीमाजगाम । कतिचिद्दिनानन्तरं मेघनादेन सहागता पत्रलेखा कादम्बर्या विरहावस्थामुपालम्भोक्तिं च चन्द्रापीडाय न्यवेदयत् । [ कादम्बरीपूर्वभाग: ] उत्तरकादम्बरी हेमकूटात्प्रत्यागता पत्रलेखा चन्द्रापीडविरहनिमित्तं कादम्बर्याः परमं वैकल्यमावेदयांबभूव । तेन हि कादम्बर्याः प्रेमणि संदिहानश्चन्द्रापीडो भृशमात्मानमुपालेभे । तद्दिनादारभ्य बहिरप्रकाशयन्नपि हृदये वियोगवह्निनाऽतितरामदूयत। एकदा मनोविनोदाय सायं नगराद्बहिर्भमन् बहुभिस्तुरगैः सह दूरादायान्तं केयूरकमकस्माद्ददर्श । नगरे आगत्य केयूरको रहसि कादम्बर्याः सुभृशमुपचितं मदनसंतापं तथाऽऽवेदयद् यथा शोकेन मूच्छितप्रतिबुद्धश्चन्द्रापीडः प्रत्युवाच – 'किमित्यहं नाहूतो देव्या । संप्रत्यहं प्राणपणेनापि तत्तापनिवृत्तये संनद्धः । केयूरकः शीघ्रगमनाय चन्द्रापीडं प्रार्थयत । निशि चन्द्रापीड: -'पित्रादीननिवेद्य गमनं नोचितम् । आज्ञाग्रहणे तु इदानीमेव दिग्विजयप्रत्यागताय मे तौ गमनानुमतिं दास्यतो न वेति संदेह एव । वैशम्पायनोपि अच्छोदसरस्तटे त्यक्तः । कोऽधुना मे सहायकः' इति नानाचिन्तामकरोत् । प्रातः सहसा शुश्राव 'दशपुरं यावत्परागतः स्कन्धावार:' इति । ततश्चात्र प्रत्यागतेन वैशम्पायनेन सह कादम्बरीमनुसरिष्यामीति हृदि संतुतोष चन्द्रापीड: । केयूरकस्तु ' यावद्वैशम्पायनेन सह देवो हेमकूटाय प्रतिष्ठते ततः पूर्वं भवदागमननिवेदनाय विसर्जयतु मां देवः' इति गमनानुमतिं ययाचे । चन्द्रापीडस्तु स्वागमनप्रत्ययार्थं पत्रलेखामपि तेन सह पुरतो विससर्ज । चन्द्रापीडश्चिरवियुक्तस्य प्रियसुहृदो वैशम्पायनस्य मार्ग एव प्रत्युद्गमनाय पितृभ्यां शुकनासाच्चानुमतिमाचकाङ्क्ष । तारापीडश्चन्द्रापीडस्य यौवनारोहमालोक्य विवाहस्य प्रस्तावमाकलयन् शुकनासमुखेन प्रत्युद्गमनानुमतिं ददौ । अथ चन्द्रापीडस्तुरगसैन्यमादाय वैशम्पायनाभिमुखं प्रतस्थे । मार्गे च निजं स्कन्धावारमागच्छन्तमालोकयत् । सुहृद्दर्शनप्रत्याशया तत्र गतोपि शुश्राव यत् "वैशम्पायनोऽच्छोदसरस्तटे आगत्य सहसैव विकृतचित्तोऽभवत्।स्नानभोजनादिकं परित्यज्यलतामण्डपैकदत्त- दृष्टिरस्मान् गन्तुमाज्ञापयत । आगमनाय कृतानुरोधस्तु सोत्तेजनमवादीत्- 'नाहं गन्तुं शक्नोमि । न मे देहो मनो वा वशे । अत एव कुमारस्य कार्योपरोधहरणाय यूयं गच्छत' इति । दिनत्रयं तत्सान्त्वनचेष्टायां निष्प्रत्याशाः संप्रति वयं तत्प्रबन्धं तत्रैव विधाय कुमारसूचनाय परावृत्ताः स्मः" इति । कथमकस्मादिदं तस्य चित्तवैकृत्यमभूदिति विषण्णचित्तो बहुधा विकल्पयँस्तुरङ्गसैन्येनोज्जयिनीं पराववृते कुमारः । तारापीडो वैशम्पायनवैराग्ये चन्द्रापीडस्य कञ्चिदपराधमाशशङ्के, किन्तु शुकनासः सर्वमिदमपममार्ज । परतस्तु –वैशम्पायनानयनाय अच्छोदतटे गमनानुज्ञामयाचच्चन्द्रापीडः । प्रवासाय प्रेषयन्ती माता हृदयेऽभूतपूर्वं विषादमकस्मादनुभूय अतिशीघ्रमागन्तुमाज्ञाप्य यथाकथञ्चिद्विससर्ज । मनसि नानामनोरथानावर्तयंश्चन्द्रापीडो मार्गे यात्राविघ्नकरं प्रावृट्कालं यापयामास । त्रिभागमात्रावशिष्टे चाध्वनि अच्छोदात्परावर्तमानं मेघनादम् ( सेनाध्यक्षम् ) अलोकयत् । उत्कण्ठितेन चन्द्रापीडेन – 'अच्छोदसरस्तटे दृष्टस्त्वया वैशम्पायनः?' इति पृष्टः सेनाध्यक्षो व्यजिज्ञपत्– 'अच्छोदसरः समीपे वैशम्पायनागमनस्य कथैव न श्रुता मया । विशेषतश्च पत्रलेखाकेयूरकाभ्यामहमुज्जयिनीं विसर्जितो यत्त्वरितमागमनाय कृतप्रतिज्ञोपि कुमारः प्रावृष्यस्यां न राजदम्पतिभ्यां प्रेषितः । तत्तवानुपदमावामप्यागतावेव' इति । चन्द्रापीडस्तु विरहविकलायाः कादम्बर्याः का दशा स्यादस्यां प्रावृषि, इति नानाविचारसंतप्तो यथाकथंचिदच्छोदमासाद्य तत्र च सर्वतो विचिन्वन्नपि वैशम्पायनमनासाद्य तद्वृत्तान्तोपलम्भाशया महाश्वेतामुपजगाम । तत्र च तरलिकया यथाकथंचिदवस्थाप्यमान शरीरामतिविकलां तां ददर्श । 'हन्त न किञ्चिदनिष्टं स्याद्देव्याः कादम्बर्याः' इति मनसि विषीदन्कुमारो वैकल्यस्य कारणं पप्रच्छ । गद्गदकण्ठा सा जगाद - "महाभाग, मन्दभाग्याहं हेमकूटाद्यावदिह परावृत्ता तावदेव भवत्तुल्याकृतिमेकं ब्राह्मणयुवानं प्रनष्टमिव किञ्चिद्विचिन्वन्तमितस्ततो व्यलोकयम् । स तु मां दृष्ट्वैव परिचित इव स्निग्धया दृष्ट्या विलोकयन्, भूयसा निवार्यमाणोपि चाटूनि वदन् कामाकूतेन मुहुरभ्यसरत् । अहं तु तमनभि- वीक्ष्यैवोपेक्षयाऽन्यतोऽगच्छम् । अथैकदा ज्योत्स्नापूरप्लावितायां गाढयामिन्यां सर्वेषु सुप्तेषु निभृतपदसंचारी मदनाविष्टतया युक्तायुक्तविचारशून्योऽसौ मामागत्य – 'चन्द्रमुखि ! हन्तुमुद्यतो मामेष कुसुमशरसहायश्चन्द्रमाः । तत्त्वां शरणमागतोऽस्मि' इत्यादि शुक इव नाना प्रलपन् मुहुर्निवार्यमाणोपि यदा न व्यरमत्तदा प्रियतमशोकोद्दीप्तमन्युश्चन्द्राभिमुखी भूत्वा 'सकलभुवनचूडामणे ! यदि मया देवस्य पुण्डरीकस्य दर्शना कादंबरी प्र. ४ त्प्रभृति न मनागप्यपरः पुमांश्चिन्तितस्तर्हि शुक इव परप्रणोदितं जल्पन्नयं तस्यामेव जातौ पततु ' इत्यशपम् । स तु मद्वचनानन्तरमेव छिन्नमूलस्तरुरिवाचेतनः क्षितावपतत्' । एतदाकर्ण्यैव कादम्बरीविरहदुःखेन पूर्वमेव भेदोन्मुखं चन्द्रापीडस्य हृदयं सहसाऽस्फुटत् । अनेनानर्थेन हा किमिदमिति मुक्ताक्रन्दायां तरलिकायाम्, स्तब्धदृष्टिनिश्चेष्टायां महाश्वेतायाम्, नानाविधं विलपत्सु चन्द्रापीडपरिजनेषु, केयूरकाञ्चन्द्रापीडागमन- माकर्ण्य तद्दर्शनोत्कलिकावगृहीता कादम्बरी पत्रलेखाहस्तावलम्बिनी तत्रैवाजगाम । सा तून्मुक्तजीवितं तमालोक्य निश्चलस्तब्धदृष्टिर्न व्यलपन्न रुरोद । अनुमरणाय कृताध्यवसाया सा यावच्चंन्द्रापीडचरणौ स्पृशति तावदेव तत्करस्पर्शादुच्छ्वसत इव चन्द्रापीडदेहात्किमपि चन्द्रधवलं ज्योतिरुज्जगाम, अन्तरिक्षे चाशरीरिणी वागश्रूयत — 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासयितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाऽऽप्याय्यमानं भूयस्त्वत्समागमाय तिष्ठत्येव । इदमपरं मत्तेजोमयं चन्द्रापीडस्य शरीरं शापदोषादात्मशून्यमपि, कृतशरीरान्तरसंक्रान्तेर्योगिन इवाऽत्रैव भवत्योः प्रत्ययार्थमा शापक्षयादास्ताम् । नेदमग्निना संस्कर्तव्यम् । यत्नतः पालनीयमा समागमप्राप्तेः' । अथ किमेतदिति विस्मयाक्षिप्तहृदयेषु सर्वेषु, आविष्टेव पत्रलेखा 'विनां वाहनमेकाकिनि प्रस्थिते देवे, न क्षणमपि शोभसे त्वम्' इतीन्द्रायुधमाकर्षन्ती सह तेनाच्छोदसरस्यपतत् । तत्क्षणमेव च तस्मादच्छोदाम्भसो निर्गत्य कपिञ्जलो महाश्वेतामुपजगाम । सप्र- हर्षं कृतवन्दनया तया सर्वं वृत्तजातं पृष्टोऽसौ जगाद - "-"क्व मे प्रियसुहृदमपहृत्य गच्छसि' इत्यभिधाय पुण्डरीकशरीरमुत्क्षिपन्तं तं पुरुषमनुबध्नन्नहं तेन सह चन्द्रलोकं गतोऽस्मि । पुरुषोसौ स्वयं चन्द्रमाः । असौ तच्छरीरं पर्यङ्के स्थापयित्वा मामवादीत् – "कपिञ्जल ! जानीहि मां चन्द्रमसम् । अनेन ( पुण्ड.) हि स्वव्यापारमनुतिष्ठन्नहम् 'यथाहमप्राप्तप्रियासमागम एव त्वया प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तप्रियासमागमो जीवितमुत्स्रक्ष्यसि' इति निरपराधमेव शप्तः । शापक्रोधाज्ज्वलितोहम् 'त्वमपि मत्तुल्यदुःखसुख एव भविष्यसि' इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च महाश्वेताव्यतिकरं विवेकेन विचार्य दयमानहृदयोहम्, मद्दत्तशापदोषमोचनपर्यन्तमस्य शरीरं मा व्यनशदिति शरीरमिदमानैषमहम् । वत्सा च महाश्वेता समाश्वासिता । तदनेन स्वयंकृतादात्मदोषान्मया सह मर्त्यलोके जन्मनि जन्मनीति वीप्सावशाद्, वारद्वयमवश्यमुत्पत्तव्यम् । त्वमिदं वृत्तं प्रतिकारं कर्तुं श्वेतकेतवे निवेदय" । अहं तु वयस्यशोकान्धतया सुरवर्त्मनि धावनेन वैमानिकमेकं लङ्घयन्, क्रोधोद्दीप्तेन तेन- 'तुरङ्गम इव मामवहेलयन् तुरङ्गम एव भूत्वा त्वं मर्त्यलोकेऽवतर' इति शप्तोऽस्मि । शापप्रतिसंहाराय बहुशः कृतानुनयोसौ जगाद – 'उज्जयिन्यामपत्यहेतोस्तपस्यत- स्तारापीडनाम्नो राज्ञश्चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासस्य ( तनयत्वम् ) । त्वमपि तस्य चन्द्रात्मनो राजपुत्रस्य वाहनतामुपगत्य सहचारी भविष्यसि ।' अहं तु तद्वचनानन्तरमेव महोदधौ निपत्य तुरगीभूयोदतिष्ठम् । पूर्वजन्मप्रभावात्सर्वं स्मरन्नहमेव किन्नरयुग्मानुसरणप्रसङ्गेन चन्द्रावतारं चन्द्रापीडमिहाऽऽनयम् । योसौ प्राक्तनसंस्कारात्वा- मभिलषन् त्वया शापाग्निना दग्धः सोपि मे सुहृद: पुण्डरीकस्यावतारः" । 'हन्त पुनरपि निर्घृणया मयैव देवः पुण्डरीको निपातितः' इति सोरस्ताडं विलपन्तीं महाश्वेताम् 'अचिरादेव पुनः समागमो भवेत्' इत्याश्वास्य कपिञ्जलः श्वेतकेतोः समीपमुदपतत् । गते तस्मिन् पुनः समागमोपदेशेन समाश्वास्यमाना कादम्बरी शिलातले चन्द्रापीड- तनुमवस्था प्रयता देवोचितं पूजयन्ती तस्थौ । इतो जलदकालात्यये चन्द्रापीडवार्तामादाय प्रतिगतदूतमुखेन 'शापच्युतदिव्यप्रकृतीना- मखिलं मङ्गलोदर्कं भविष्यतीति' समाश्वासेन मरणव्यवसायान्निवार्य -माणा अपि तारापीडशुकनासादयः सान्तःपुरपरिजनाः स्नेहवशादखिलप्रजाभिरनुगम्यमानाश्चन्द्रापीडदर्शनाय तत्राजग्मुः । तत्र च शयानस्येवाऽविकृतां चन्द्रापीडस्य तनूमालोक्य विस्मिताः सर्वे सौन्दर्य - पातिव्रत्याधिदेवतामन्वहमुपचरन्तीं कादम्बरीमभिननन्दुः । कादम्बरीमहाश्वेताप्रबन्धेन राजोचितसपर्ययोपचर्यमाणोपि सप्रजापरिजनो राजा तपस्वि- जनचर्ययाऽऽश्रमभूमिमिमामधितष्ठौ । हारीतप्रमुखानामृषीणां सविधे सर्वमिमं वृत्तान्तं कथयित्वा भगवान् जाबालि: सस्मितमवादीत् - 'योऽयं कामोपहततया दिव्यलोकात्परिभ्रश्य वैशम्पायननामा शुकनाससूनुरभूत्स एवैष कुपितस्य पितुराक्रोशान्महाश्वेताशापाच्चास्यां शुकजातौ पतितोऽस्ति'- । " राज्ञः शूद्रकस्य सविधे शुकः स्ववृत्तान्तं कथयति यत् –' एवं वदत्येव जाबालौ सुप्तप्रबुद्धस्येव मे सकलविद्यानां पूर्वपरिचितवस्तूनां च परिचयो यथावदभूत्, आसीच्च मनुजस्येव वाक् । जाबालिपुत्रेण हारीतेन स्नेहादुपचर्यमाणोपि चन्द्रापीड - महाश्वेतादीनां स्मरणवशादुत्कण्ठया ताम्यन् पक्षोद्भेदपर्यन्तं कालं तत्र यथाकथंचिदगमयम् । पितुः ( श्वेतकेतोः ) समीपादागतेन कपिञ्जलेन दुर्दैवावसानं यावत्तत्रैवावस्थातुमागृहीतोऽपि उत्पतनसामर्थ्योदये एव महाश्वेतादीनां दर्शनार्थमुत्तरदिङ्मुखो नभस्युदपतम् । अशक्ततया क्षुत्तृड्भ्यां परीतोऽहं विश्रमार्थं यावन्निशि मार्गतरौ विश्राम्यामि तावदेव प्रातस्तन्तुपाशैर्बद्धं चाण्डालहस्तगतं चात्मानमालोकयम् । ततः पक्कणाधिपतिदुहित्रा चाण्डालदारिकया पञ्जरे निबध्य मुनिभोजनोचितैः फलादिभिरेव यौवनमुपनीतोऽस्मि । कियत्कालानन्तरमेकदा प्रातरकस्मादात्मानं सुवर्णपञ्जरगतं तां च चाण्डालदारिकामीदृशीमपश्यं यादृशी देवेनाद्य दृष्टा । यावदहमाश्चर्यमिदं जिज्ञासितुं मौनमुत्सृजामि तावदेव सेयं मामादाय देवपादमूलमायाता । तत्केयम्, किमर्थं वाऽहमाबध्य इहानीत इत्यस्मिन्विषये भवानिवाहमप्यनपगत- कुतूहल एवास्मि" इत्युक्त्वा शुको विरराम । प्रवृद्धकुतूहलेन राज्ञाऽऽहूता चाण्डालकन्यका त्वागत्य स्वतेजसा राजानमभिभवन्ती प्रागल्भ्येन बभाषे– 'कादम्बरीलोचनानन्द चन्द्र ! सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अस्मिन् शुकजन्मन्यपि पित्रा निषिद्धेपि सोयं परिचितप्रणयाय प्रस्थित इत्यनेन स्वयं कथितम् । अहमस्य दुरात्मनो जननी श्रीः । दुर्दैवशमनपर्यन्तं मर्त्यलोके एवैनमभिरक्षितुं पित्राऽस्य समादिष्टा, तथाप्रस्थितमेनमिहानीतवती । भवतश्चास्य च शापावसानसमयः । तद् द्वावपि दुःखबहुले तनू परित्यज्य सममेव स्वेष्टजनसमागम- सुखमनुभवतम्' इति कथयन्त्येव विद्युदिव चमत्कृत्य क्षितेर्गगनमुदपतत् । जन्मान्तरस्मरणेन द्वयोरपि (शुद्रकवैशम्पायनयोः) शरीरं काष्ठीभूतमभून् । इतो मनोवृत्तिमुद्दीपयतो वसन्तस्य विजृम्भणेन सहसैव प्रोद्दीपितरागा कादम्बरी आत्मानं धारयितुमपारयन्ती तां चन्द्रापीडतनुं रागाद्यावत्कण्ठे गृह्णाति तावदेव कादम्बरीस्पर्शतो निवृत्तशापस्यास्य पुनः पराववृते जीवः । सुप्तप्रबुद्ध इवायमवादीत् -'प्रत्युज्जीवितोस्मि तवानेन कण्ठग्रहेण । निवृत्ता सा शूद्रकाख्या तनुः । तव प्रियसख्या महाश्वेताया अपि प्रियतमो मयैव सह निवृत्तशाप:' । इत्यभिदधत्येव कपिञ्जलकरावलम्बी गगनादवतरन्पुण्डरीकोपि संमुखमदृश्यत । यावत्कादम्बरी प्रियसखीं महाश्वेतां प्रियसमागमप्रियाख्यानेना- भिवर्द्धयति तावदेव विलासवतीतारापीडादयोऽपि समागत्य परमं प्रमोदमन्वभवन् । चन्द्रात्मकत्वेपि तारापीडादीनां पूर्ववत्पादयोः प्रणमंस्तैश्चाशीर्भिरभिवर्द्धितश्चन्द्रापीडःस्वपित्रोस्तत्पित्रोश्च 'एष वो वैशम्पायनः' इति विनयविलक्षवदनं पुण्डरीकमदर्शयत् ।अस्मिन्नवसरे कपिञ्जलः समुपसृत्य शुकनासमवादीत् – 'एवं संदिष्टमार्यस्य श्वेतकेतुना - अयं पुण्डरीकः केवलं संवर्द्धितो मया, आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन इत्येवावगत्याऽयमविनयेभ्यो निवारणीयः' । अपरेद्युः सकलगन्धर्वानुगतौ मदिरा-गौरीभ्यां सह चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । चित्ररथश्चन्द्रापीडविवाहाय स्वराजधानीं नेतुं तारापीडं प्रार्थयत । तारापीडस्तं प्रत्यवादीत् — 'गन्धर्वराज ! मदीयं सर्वस्वमपि मया ते जामातरि संक्रमितम् । संप्रत्यहं सर्व सुतसात्कृत्य तपोवन एव निवस्तुमिच्छामि।" सर्वैः सह हेमकूटं गतश्चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । हंसोपि पुण्डरीकाय समं महाश्वेतया निजपदमदात् । एकदा विषण्णमुखी कादम्बरी चन्द्रापीडमूर्तिं चन्द्रमप्राक्षीत — 'आर्यपुत्र ! सर्वे वयं वियुक्ताः परस्परं संघटिताः । सा पुनर्वराकी पत्रलेखा न दृश्यते ।' चन्द्रापीडः प्रत्यवादीत् – 'सा खलु मद्दु:दुखदुःखिता रोहिणी । शापवशान्महीमागतेन मया सह स्नेहादवतीर्णा । संप्रति मया साऽऽत्मलोकं विसर्जिता, तत्रैव तां पुनर्द्रक्ष्यसि ।' एवं पुण्डरीके समारोपितराज्यभारः परित्यक्तस्वकार्ययोः पित्रोः पादावनुचरन् कदाचिदुज्जयिन्यां कदाचिद्धेमकूटे कदाचिच्च पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि, यथेच्छं विहरंश्चन्द्रापीडमूर्तिश्चन्द्रः कादम्बर्या सह, कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण सह, पुण्डरीकोपि चन्द्रमसा सह परस्परावियोगेन सुखान्यनुभवन्तः सर्वे परां कोटिमानन्दस्याऽध्यगच्छन् । भट्टश्रीमथुरानाथशर्मनिर्माण [^१]मुद्रितः । सोयं कादम्बरीसारः सतां मदयतान्मनः ॥ १ निर्माणस्यैव मुद्रा ( चिह्नम् ) संजाता यस्य सः । कादम्बरीनिर्यासः पात्रमुखे लाक्षादिमुद्राङ्कितो रसिकानां मनो मादयति । अयं कथानिष्कर्षो मथुरानाथकृतनिर्माणेनाङ्कितः सज्जनमनो हर्षयेदित्युभयोऽर्थः । श्रीः विषयानुक्रमणिका । पूर्वभागे विषयाः पृष्ठाङ्काः मङ्गलाचरणम् ..... ..... सुजनदुर्जनाख्यानम् ..... ..... कविवंशवर्णनम् शूद्रकवर्णनम् शुकमादाय चाण्डालकन्यकायाः प्रवेशः शुद्रकवर्णनम् शुकप्रशंसा शूद्रकसभा विसर्जनम् शूद्रकस्नानम् सभामण्डपवर्णनम् शुककथारम्भः विन्ध्याटवी अगस्त्याश्रमः पम्पासरः शाल्मलीतरुः शुकानां निवासादि शुकोत्पत्तिः प्रभातवर्णनम् शबरमृगया मृगयाकोलाहलः शबरसैन्यवर्णनम् शबरसेनापतिः शबरचरित्रलोचनम् शुकस्य पतनम् शुकस्य स्वदशावर्णनम् हारीतवर्णनम् जाबाल्याश्रमः जाबालिः शुकस्य स्ववृत्तान्तः सन्ध्यावर्णनम् रात्रिवर्णनम् कथारम्भः - उज्जयिनी कविवंशवर्णनम् चाण्डालकन्यकावर्णनम् तारापीड: शुकनासवर्णनम् राज्ञो भोगविलासः शुकनासगौरवम् विलासवतीगौरवम् विलासवती दुःखप्रश्नः राज्ञा विलासवतीसान्त्वनम् विलासवत्या देवताराधनम् स्वप्नविषयालोचनम् गर्भवार्तावगमः गर्भवती विलासवती राज्ञो गर्भवार्तावगमः चन्द्रापीडस्य जन्मोत्सवः सूतिकागृहवर्णनम् जातस्य कुमारस्य वर्णनम् शुकनासपुत्रजन्मोत्सवः चन्द्रापीडस्य शिक्षा चन्द्रापीडस्य यौवनोद्गमः तारापीडस्य गृहगमनादेशः इन्द्रायुधः चन्द्रापीडस्य विद्यागृहात्प्रत्यावर्तनम् नगरं प्रति प्रस्थानम् चन्द्रापीडस्य पुरप्रवेशे पुनर्नारीणां भावाः '' नारीणां भावालापा: राजभवनम् चन्द्रापीडस्य मातापित्रोदर्शनम् चन्द्रापीडस्य शुकनाससाक्षात्कारः '' शुकनास-तत्पत्नी साक्षात्कार: सन्ध्यावर्णनम् चन्द्रापीडस्य मृगया चन्द्रापीडस्य विश्रामभोजनादिव्यापारः ताम्बूलकरङ्कवाहिन्याः परिचयः शुकनासोपदेशः २६ ● विषयाः चन्द्रापीडस्य दिग्विजययात्रा दिग्विजय: किंनर मिथुनाप्राप्तौ निर्वेदः जलान्वेषणम् अच्छोदसरः जलपान विश्रामों शिवसिद्धायतनम् महाश्वेता महाश्वेताकृतमातिथ्यम् महाश्वेतां प्रति प्रश्नः महाश्वेताया वृत्तान्तः महाश्वेताजन्म महाश्वेतास्नानागमनवृत्तान्तः ... ... ... ... 000 obo ... 200 86 quo 600 ... 800 ... ... विषयाः कादम्बर्याः प्रतिसंदेश: कादम्बरीभवनप्राप्तिः कुमारीपुरस्य वृत्तान्तः कुमारीपुरकौतुकानि । कुमारीपुरवृत्तान्तः कादम्बरीवर्णनम् कादम्बरीचन्द्रा पीडयोर्मियोभावावेशः ३९५ चन्द्रापीडदर्शने कादम्बर्या भावावेशः शुकसारिकामुखेन कौतुकारम्भः कादम्बर्याः स्वविकारजा चिन्ता ..२९१ २९३ २९५ चन्द्रापीडस्य मनसि विचाराः कादम्बरीप्रहितमदलेखागमनम् २९७ २९९-३०२ । कादम्बरीप्रहितहारदर्शनम् कादम्बरीप्रंहितोपहार समर्पणम् सन्ध्यावर्णनम् ३०३-३०६ ... ... ... 000 पुण्डरीक: ... तद्दर्शने महाश्वेताया अवस्था महाश्वेतादर्शने पुण्डरीकावस्था पुण्डरीकजन्मवृत्तान्तः पुण्डरीकाय कपिजलोपदेशः विरहातुरा महाश्वेता पुण्डरीकस्य प्रवृत्तिनिवेदनम् महाश्वेताया विह्वलता कपिअलस्यागमनम् मदनार्तपुण्डरीकस्य दशा कपिञ्जलकृत उपदेशः पुण्डरीकोपचारः • पुण्डरीकस्य कृते कपिजलस्य चिन्ता महाश्वेतायाः स्वकर्तव्य विचारः चन्द्रोदयः महाश्वेताया अभिसारः, उपरतः पुण्डरीक: महाश्वेताया विलापः पुण्डरीकशरीरस्य गगने नयनम् महाश्वेतावृत्तान्तोपसंहारः चन्द्रापीडस्य महाश्वेतासान्त्वनम् महाश्वेता - चन्द्रापीडयोः सान्ध्यविधिः ३६९ कादम्बरीजन्मादिकथा ३७१ केयूर केण सह तरलिकाया आगमनम् ३७३ ... ... 000 २७१-२७६ २७७-२८६ ●●● २८७-२८९ ... ... ... ... ... 008 ... one 3.0 ... ... 000 ... ... ... 000 ... पृष्ठाङ्काः २३९-२५४ २५५ २५७- २५९ ... २६१ २६३ - २६८ कादम्बरी । ३१३ ३१५ ३०७ ३०९-३११ । कादम्बरीचन्द्रापीडयो: प्रीतिवर्धक उपचारः ३३१ ३३३ ३३५ ... ... ३५७ ३६१ ... ३१७-३२० । चन्द्रापीडस्य गृहप्रस्थानम् कादम्बर्याः संवादप्रेषणम् ३६३-३६८ चन्द्रापीडस्य कादम्बर्युपगमनम् ... द्वयोः सभङ्गि भाषणम् स्कन्धावारे तारापीडस्य पत्रप्राप्तिः चन्द्रापी डस्योज्जयिनी प्रस्थानम् ३३९ ३४१ – ३४७ । माग शून्याटवी ३४९-३५१ । रक्तध्वजस्य दर्शनम् ३५३-३५६ । चण्डिकावर्णनम् जरद्रविडधार्मिक वर्णनम् द्रविडधार्मिक परिचयः उज्जयिनी प्रवेशः DOO ... ४२३-४२५ ४२७ ४२९ ३२१ ४३१ कादम्बरीविषयकः प्रश्नः ३२३ ४३३ ३२५-३३० । चन्द्रापीडस्य पुनः कादम्बरीभवने प्रया० ४३५ काम्बरीभवने शीतोपचारसज्जा उत्कण्ठिता कादम्बरी ... पत्रलेखाया आगमनम् पत्रलेखातः कादम्बरीवृत्तश्रवणम् चषकपूर्वार्धपूर्तिः 800 ३७५ ... ३७९ ३८१ ३८३ ३८५ ... ... ... ... पृष्ठाङ्काः ३८७-३९४ ४१३ ●●● ४१५ ... ३९७ - ४०२ ४०३ .०० ४२१ ४०५-४०८ ४०९-४११ 0.8 ४१७-४१९ ४४७ ४४९ ४५१ ४५३ ००१४५५ ४३७-४४१ ४४१-४४५ ४५७-४५९ • ४६१ ४६३ ४६५ ४६७ ४६९-४८० ४८१ विषयाः मङ्गलाचरणम् कथारम्भप्रस्तावना पत्रलेखाद्वारा कादम्बर्याः संदेश: DOO कादम्बर्या वृत्तान्तश्रवणम् चन्द्रापीड स्यानुतापः चन्द्रापीडस्य मनसि विचार: चन्द्रापीडस्य विरहावस्था आगच्छतः केयूरकस्यावलोकनम् कादम्बरीदशानिवेदनम् कादम्बर्या विरहावस्था चन्द्रापीडस्य प्रतिवचनम् केयूरकेण सह संलाप: यात्रार्थ चन्द्रापीडस्य विचारः श्रवणम् वैशम्पायनवृत्तान्तः ... वैशम्पायनस्यावस्थाश्रवणम् चन्द्रापीडस्य चेतसि चिन्ता पटमण्डपे दैनिक कार्यकरणम् मध्याह्नः चन्द्रापीड स्योज्जयिनीयात्रा पितुश्चन्द्रापीडोपरि संदेहः शुकनासस्य चन्द्रापीड प्रशंसा वैशम्पायनतिरस्कार : तारापीडस्य शुकनासपरिबोधनम् चन्द्रापीडस्य यात्रानुमतियाचनम् ... ... ... ... ... ०००.४८५ ... ४८७-४९४ प्रस्थापनका लिकी मातुरुक्तिः पितुः शिक्षा ४९७-५०० । विसर्जने पितुरुक्तिः ४९५ op 000 000 ... ५२९ वैशम्पायनस्यागमनश्रवणम् ५३१ ... पत्रलेखया सह केयूरकस्याप्रतो बिसर्जनम् ५३३ कादम्बर्यर्थ पत्रलेखा ये संदेश: ५३५ ५३९ ५४१ पत्रलेखाया अभिनन्दनं विसर्जनं च ५३७ चन्द्रापीडस्य परिणय प्रस्तावः चन्द्रापीडस्यौत्सुक्यम् अपररात्रे यात्राशङ्खध्वनिः चन्द्रापीडस्य यात्रासमारोहः मार्गे प्रातः कालः स्कन्धावारदर्शनम् वैशम्पायनार्थ प्रश्नः स्कन्धावारलोकेभ्यो वैशम्पायनवृत्तान्त... ... ... ... ... ... ... ... ... ५५३ 0.0 ... अनुकण । उत्तरभागे पृष्टाङ्काः । विषयाः तारापीड स्याज्ञापनम् ... ... ५५९ ५६१ ५६३ ५६५ ५६७ ५७१ ५७.३ ... ५०७ ५०९ ... ५५५-५५८ ५८३ मातुरनुमतियाचनं यात्रासंविधानं च ५८५ ५८७ 300 ५०१ ५०३-५०६ । मार्गे प्राइद्रकालः प्रावृषा कुमारस्य वैकल्यम् परावर्तमानस्य मेघनादस्य दर्शनम् ५११-५२० । मेघनाद संदेशेन विषादः ५२१-५२४ । अच्छोदगमनम् ५२५-५२७ । महाश्वेताश्रमे गमनम् तस्या वैशम्पायनवृत्तश्रवणम् वैशम्पायनस्य महाश्वेताभिसार: वैशम्पायनस्य तिरस्कारः वैशम्पायनस्य मृत्युः, चन्द्रापीडस्य हृदयस्फोट: 000 ५७५ ५७७ ... मार्गे गच्छतश्चन्द्रापीडस्य भावनाः 000 ... ... ... ... ... ५८९ ●●● ५९१ ... ... ५९५-५९७ ५९९ ६०१ ६०३ ६०५ ... ६०७ ६०९ 008 ... ... 000 ५४३ ५४५ कपिजलस्य वृत्तम् ५४७ कपिजलकृतं सान्त्वनम् ५४९ महाश्वेतोपदेशात्कादम्बर्याश्चन्द्रापीड५५३ 000 ... कादम्बर्यास्तत्रागमनम् अनुमरणार्थ विलापः आकाशवाण्या कादम्बर्याः सान्त्वनम् ६२७ कपिञ्जलस्यागमनम् ६२९ ६३१-६३३ ६३५ 600 ... ... Que देहरक्षा शरीरस्य निर्विकारतया सर्वेषां प्रमोदः दूतानां कुमारदर्शनाग्रहः दूतानां सान्त्वनम् दूतैः सह सरितकप्रेषणम् देवमन्दिरे विलासवत्या दूतानामाह्वानम् ६४९-६५१ अशुभमनुमाय तस्या विलापः तारापीडस्यागमनम् ... 0.0 ... ... ... राज्ञा विलासवत्याः सान्त्वनम् सर्व वृत्तं श्रुत्वा राज्ञो मरणाध्यवसाय: पृष्ठाड्डाः eco ६१८ ६२१ ६११-६१४ ६१५ ६१७ ... ... २७ ६२३-६२६ शुकनासस्य सान्त्वनम् सपरिकरस्य राज्ञो गमनम् ५७९-५८१ । अच्छोदतीरे मेघनादस्याभिगमनम्... ६६७ ६३९ ६४३ ३४५ ६४७ ६५३ ६५५ ६५९ ६६१-६६३ २८ विषयाः विलासवत्याः शोकः कादम्बर्या दर्शनमालापश्च तारापीडस्य परिशमः चन्द्रापीडादीनां जन्मप्रश्नः पुनः पूर्वावस्था प्राप्तिप्रश्नः गोष्ठीं भक्त्वा जाबालेरु थानम् शुक्ररूपपुण्डरीकेण सह कपिञ्जलसमागमः ६८१ कपिजलस्य श्वेतकेत्वादिवृत्तनिवेदनम् ६८३ जाबाल्याश्रमं त्यक्त्वा शुकस्योड्डयनम् ६८५ वृक्षे निद्रितस तस्य चण्डालहस्ते गमनम् ६८७ 000 :80 ... ... ... कादम्बरी । पृष्ठाङ्काः ६७१ ६७३ ६७५ ६७७ विषयाः दीन प्रार्थनोत्तरमपि पक्कणे नयनम् चण्डालकन्यया पञ्जरबन्धः ६८९-९२ ६९३ निर्वेदात् शुक्रस्य भोजनादित्यागः ६९५ राज्ञो जन्मान्तर स्मरणम् ६९७ ६९९ शुकस्य राज्ञश्च शरीरव्यागः वसन्तागमने कादम्बयुत्कण्ठा ७०१ चन्द्रापी इस्योजी वनं पुण्डरी कस्यागमनं च ७०३-५ कपिञ्जलद्वारा श्वेतकेतुसंदेशः । चन्द्राय इ पुण्डरीकयोर्विवाहः । चन्द्रापीडादीनां सुखलाभः BOD ... ... 000 000 पृष्ठाङ्काः ७०९ ७११ कादम्बरी पूर्वभागः । रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥ श्रेयः श्रीललनाविलासकुशलः पायादपायात्स वः श्रीमन्नाभिनरेन्द्रसूनुरमरैः संसेव्यमानान्तिकः । रेजे यस्य कचावली भुजशिरोदेशे लुठन्ती प्रभो- र्लग्ना शैवलमञ्जरी भवसरित्पारं प्रयातुः किमु ॥ सर्वेऽन्ये जनतानिषेविततया मानाभिभूता भृशं मन्यन्ते तृणवन्त्रिलोकमखिलं दुर्बुद्धिबद्धाशयाः । कृत्स्नैश्वर्यजुषापि येन सुधिया देवेन्द्रसेव्याङ्गिणा नैवाकारि कदापि गर्वमलिनं चेतः स शान्तिः श्रये [^1]॥ यत्कीर्तिर्धवलीचकार सहसा ब्रह्माण्डभाण्डोदरं दाशार्होऽपि तदन्तरा निपतितः सद्यो न संलक्षितः । तेनाद्यापि निरीश्वरं जगदिदं जल्पन्ति सांख्यादयः स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दां मुदम् ॥ मूर्ध्नि न्यस्तद्विजिह्वाधिपतिफणगणस्पष्टसंरम्भदम्भा- द्धत्ते यः सप्तविश्वाद्भुतपरममनोहारिसाम्राज्यलक्ष्मीम् । नम्रालुस्वर्गिमौलिप्रकरमणिलसत्कान्तिभिश्चित्रिताङ्घ्रिः स श्रीपार्श्वाधिराजो भवतु भवभिदे पार्श्वसंसेव्यमानः ॥ यद्वाचामधिकां विलासपदवीमीहेद् भृशं भारती यत्सत्त्वैकपरम्परां कलयितुं सिंहोऽङ्कदम्भादियात् । यत्सौन्दर्यदिदृक्षयेव समभूदक्ष्णां सहस्रं हरेः स श्रीवीरविभुर्ददातु भविनां शश्वन्मनोवाञ्छितम् ॥ श्रीमत्तपःपक्षसहस्रदीधितिः श्रीहीरसूरिः समभून्महोदयः । यद्वक्त्रसौन्दर्यगुणं विलोकयन्ययौ सुरौघः किमु निर्निमेषताम् ॥ अनन्यसौजन्यगुणैर्गरीयान्विशिष्टशिष्टाचरणैर्वरीयान् । तत्पट्टपाथोनिधिपूर्णचन्द्रो विराजते श्रीविजयादिसेनः ॥ तत्पट्टोदयचूलावलम्बिपूर्णेन्दुसंनिभः श्रीमान् । श्रीविजयतिलकसूरिर्भूरिगुणैर्भूषितो जयति ॥ टिप्प0 - कविभुवनभास्वतीं तां सरस्वतीं सादरं समधिगम्य । कादम्बरीमनर्घां चतुराश्चषकेण सेवन्ताम् ॥ १ ॥ [^१] प्राचीनोपलब्धोयं पाठो न सम्यक् । 'श्रिये' इति स्यात् । अन्यथा 'शान्तिः' इत्यत्र द्वितीया वाक्यभेदो वा भवेत् । तत्संप्रदाये प्रथितप्रभावो बभूव दानर्षिरतिप्रसिद्धः । यदीयवैराग्यकथां प्रवक्तुं प्राप्तो गुरुः किं हरिसंनिधानम् ॥ तद्दीक्षितानेकविनेयवर्गमुक्तालतामध्यमणिप्रकारः । श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥ श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीर्न्यायविदां वरेण्यः । यत्तर्कयुक्त्या त्रिदिवं [^१]निषेवे तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥ तदीयपादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः । श्रीवाचकः संप्रति भानुचन्द्रो ह्यकब्बरक्ष्मापतिदत्तमानः ॥ श्रीशाहिचेतोब्जषड्ङ्घ्रितुल्यः श्रीसिद्धचन्द्रोऽस्ति मदीयशिष्यः । कादम्बरीवृत्तिरियं तदीयमनोमुदे तेन मया प्रतन्यते[^२] ॥ इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितविघ्नविघातफलकं हिरण्यगर्भनमस्कारात्मकं मङ्गलमाचरति - रजोजुष इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुषे रजोगुणयुक्ताय । पुनः किंविशिष्टाय । प्रजानां स्थितौ स्थितिकाले सत्त्ववृत्तये सत्वस्य वृत्तिर्यस्मिन् । सत्त्वगुणयुक्तायेत्यर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशे तमोगुणयुक्ताय । अमीषां च गुणानां लक्षणम् 'सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुर्वावरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किंविशिष्टाय । सर्गस्थितिनाशहेतवे प्रजानामित्यस्य सर्वत्रानुषङ्गः । तेन प्रजानां सर्गः स्थितिश्च नाशश्च तेषां हेतवे कारणीभूताय । पुनः किंलक्षणाय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी । तन्मयाय तत्स्वरूपाय । पुनः किंविशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्गुणयोगात्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय[^३] नम इति प्राचीनव्याख्या ॥ अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संबन्धात्त्रि- गुणात्मकत्वमतिविरुद्धम् । किं च विधेस्तमोगुणवत्त्वे सत्त्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः अपि च पूर्वार्धे जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धे सर्गस्थितिनाशहेतव इति त्रिगुणात्मन इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्याख्यास्यामः - अजाय कूटस्थ- नित्याय परब्रह्मणे नम इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजानामित्यनित्यमात्रपदार्थोपलक्षकम् । तेनानित्यपदार्थानां सर्गस्थितिनाशकारणायेत्यर्थः।अनित्यपदार्थानां सृष्टिस्थितिनाशहेतुत्वं च श्रुतिसिद्धम् । 'जगत्कारणं ब्रह्म' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्स्वरूपाय । 'वेद एव परं ब्रह्म' इत्युक्तत्वात् । यद्वा । त्रयी ब्रह्मविष्णुमहेशानां त्रयी तत्स्वरूपाय । यथा मृद उत्पन्नेऽपि घटे मृन्मय इति व्यवहारस्तथा ब्रह्मणस्त्रयाणामुत्पादकत्वेऽपि त्रयीमयत्वव्यवहारः समुचितः । ब्रह्मविष्णुमहेशास्त्रयो जीवा एवेति वेदान्तिनः । अत एव त्रिगुणात्मकाय । भेदाभेदविवक्षयेत्यर्थः । तस्य परब्रह्मणः कथं ब्रह्मविष्णुमहेशात्मकत्वमत आह - प्रजानां जन्मनि सृष्टौ रजोजुट् प्रजापतिस्तत्स्वरूपायेत्यर्थः । पुनः प्रजानां स्थितौ सत्त्ववृत्तिर्विष्णुस्तत्स्वरूपाय । पुनः प्रजानां प्रलये तमःस्पृक् शिवस्तत्स्वरूपाय । यथैकस्यैव स्फटिकस्य नीलपीतादिगुणसंबन्धान्नीलः पीत इति व्यवहारस्तथैकस्यैव परब्रह्मणः सृष्टिकाले रजोगुणसंबन्धाद्ब्रह्मेति, स्थितिकाले सत्त्वसंबन्धाद्विष्णुरिति प्रलये तमःसंबन्धादीश्वर इति व्यवहारः । तेन परब्रह्मण एवायं नमस्कार इति किं बहुना ॥ १ ॥ [^१] सिषेवे इति स्यात् । [^२] अक्षरवृद्ध्या छन्दोभङ्गः । [^३] अजाय इत्यस्य पितामहाय (ब्रह्मणे) इति स्वयमर्थं विधाय खण्डनमिदं टीकाकृतः स्वस्यैव खण्डनं नूनम् । न जायते इत्यजः अजन्मा आदिपूरुषः परमात्मैवात्र अजपदेन गृह्यते, न ब्रह्मा । सर्गस्थितिनाशहेतवे इत्यनेन एकमात्रस्य परमात्मनोऽस्यैव सत्त्वादिगुणभेदात्त्रिमूर्तिव्यपदेश इत्युत्तरार्द्धे सूचनात् । सोयमर्थः स्वीकृतस्तेन स्वपाण्डित्यं प्रथयितुमन्ते । एवमेवाग्रेपि ग्रन्थस्वारस्यमविचिन्त्य यत्किञ्चिद्व्याख्यानं स्थालीपुलाकन्यायेनारम्भे सूचितमित्यलं विद्वत्सु । जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥२॥ जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षण[१]लब्धल[२]क्ष्यया। दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवात्रपाटलम् ॥ ३ ॥ नमामि [^३]भत्सोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिका विटङ्कपीठोल्लुठितारुणाङ्गुलि ॥४॥ अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ ५ ॥ कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनश्शृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ६ ॥ जयन्तीति । त्र्यम्बकस्य शिवस्य पादपांसवश्चरणरेणवो जयन्ति । सर्वोत्कर्षेण वर्तन्त इत्यर्थः । कथंभूताः । बाणासुरेति । बाणो बाणनामासुरस्तस्य मौलिना मुकुटेन मस्तकेन वा लालिताः परिचिताः । पुनः किंविशिष्टाः। दशास्येति । दशास्यो रावणस्तस्य चूडामणयः शिरोमणयस्तेषां चक्रं समूहं चुम्बन्ति स्पृशन्तीत्येवंशीलाः । पुनः किंविशिष्टाः । सुरेति । सुराश्चासुराश्च तेषामधीशाः स्वामिनस्तेषां शिखाः चूडास्तासामन्तः प्रान्तस्तत्र शेरत इत्येवंशीलाः । पुनः किं विशिष्टाः । भवच्छिदः ।संसारविच्छेदिन इत्यर्थः । अत्र पूर्वविशेषणत्रयेण परमेश्वरचरणरजसः परमैश्वर्यं भवच्छिद इत्यनेन च संसारिणां संसारदुःखनिवारकत्वमुक्तमिति ॥ २ ॥ जयतीति । स उपेन्द्रो विष्णुर्नृसिंहावतारी जयति सर्वोत्कृष्टत्वेन वर्तते । स कः । यो नृसिंहो बिभित्सया भेत्तुमिच्छया दूरतो दूरादिव क्षणं लब्धं लक्ष्यमवलोकनैकाग्रत्वं यया अत एव कोपेन रोषेण अरुणया आरक्तया दृशैव दृष्ट्यैव रिपोः शत्रोर्हिरण्यकशिपोः उरो वक्षःस्थलमस्रं रुधिरं तद्वत्पाटलमारक्तं चकार।भयाद्विदारणभीत्या स्वयमेव भिन्नमिवेति कवेरुत्प्रेक्षा ॥ ३ ॥ शश्वद्गुरोर्नमस्कारं कुर्वन्नाह - नमामीति । भत्सुरिति गुरो [^1]र्नाम । क्वचित्तु 'भर्त्सु:' इति पाठः । तस्य चरणाम्बुजद्वयं पादकमलयुगलं नमामि नमस्करोमि । किंभूतम् । सशेखरैः समुकुटैर्मौखरिभिः क्षत्रियविशेषैः कृतं विहितमर्चनं पूजनं यस्य तत्तथा । पुनः किंविशिष्टम् । समस्तेति । समस्ताः समग्रा ये सामन्ता विषयान्तरराजानस्तेषां किरीटानि कोटीराण्येव वेदिका परिष्कृता भूमिः । विस्तीर्णत्वात्तत्साम्यम् । तस्या विटङ्को मध्य उन्नतप्रदेशः । विटङ्कशब्दस्य कपोताद्याधारभूतकाष्ठवाचित्वेऽप्यत्र लक्षणयोन्नतत्वमात्रवाचित्वम् । विटङ्क एव पीठं स्थलं तत्रोल्लुठिता घृष्टा अत एवारुणा रक्ताः । तत्रत्यरक्तादिसंबन्धात्स्वभावेन चारुणा अङ्गुलयः करशाखा यस्येति तत्तथा ॥४॥ अकारणेति । असज्जनात्खलात्कस्य साधोर्भयं साध्वसं न जायते न भवति । अपि तु सर्वस्यापि भवतीत्यर्थः । कथंभूतादसज्जनात् । अकारणेत्यादि । अकारणमनिमित्तमेवाविष्कृतं प्रकटीकृतं यद्वैरं विरोधः तेन दारुणात् क्रूरान्निष्ठुरात् । यस्य खलस्य सदा निरन्तरं मुख आनने संनिहितं निकटस्थं दुर्वचो दुष्टवचनं सुदुःसहमत्यन्तोद्वेगजनकं भवति । यथा महाहेर्महोरगस्य विषं गरलं मुखे संनिहितं परमसंतापकत्वाद्दुःसहमित्युपमा ॥ ५ ॥ कट्विति । खला दुर्जनाः साधून्सज्जनानलमत्यर्थं तुदन्ति पीडयन्ति । किं कुर्वन्तः । क्वणन्तो रटन्तः । किम् । कटु ।[^2]अर्थाद्दुर्वचनमित्यर्थः । पुनः किंविशिष्टाः । मलदायकाः मलो मिथ्याकलङ्कस्तस्य दायकाः । आरोपका इत्यर्थः । क इव । बन्धनशृङ्खला इव । बन्धनं मनुष्यादेस्तदर्थं शृङ्खला लोहनिगडा इव । तेऽपि टिप्प० - [^1] वास्तवे तु 'भवः' इति पाठः । भर्वोः हरि - हरयोरिति तदर्थः । [^2] कटु यथा स्यात्तथा कणन्तः शब्दायमानाः । [^१] 'बद्ध'. [^२] 'लक्षया'. [^३] ' भर्त्सो'. सुभाषित हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम् ॥ ७ ॥ स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् । रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥ ८ ॥ हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः । निरन्तरश्लेषघनाः सुजातयो महास्रजश्चम्पककुड्मलैरिव ॥ ९ ॥ बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणी सताम् । अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥ १० ॥ कटु कुत्सितं शब्दायमाना मलः स्वसंपर्कात्स्वमालिन्यं तस्यारोपकाः स्वाच्छन्द्येन गतागतावरोधका भवन्तीति । उत्तरार्धेन साधून्स्तौति — सन्तः सुजनास्तु साधुध्वनिभिर्मनो- हारिशब्दैर्वचनैः पदे पदे शब्दे शब्दे प्रतिक्षणं वा, मनश्चित्तं हरन्ति गृह्णन्ति । क इव । यथा मणिखचिता नूपुरा मञ्जीराणि पदे पदे अर्थात्कामिनीनां चरणप्रक्षेपे प्रक्षेपे साधुध्वनिभिर्मञ्जुलसिञ्जितै- र्हृदयहारिणो भवन्तीत्युपमा ॥ ६ ॥ सुभाषितमिति । सुभाषितं सुकाव्यादि हारि मनोहार्यपि दुर्जनस्य खलस्य गलात् कण्ठान्निगरणादधो न विशति न गच्छति। हृदयशून्यत्वादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं विशति पूर्वोक्तहेतोरेव । तदेव सुभाषितं सज्जनो गुणग्राहको हृदयेन स्वान्तेन धत्ते धारयति । स हृदयगतत्वान्न कदाचिद्विस्मरतीति भावः । यथा हरिः विष्णुर्नारायणो हृदयेन वक्षःस्थलेनातिनिर्मलं स्वच्छं महारत्नं कौस्तुभं दधाति ॥ ७ ॥ स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन शृङ्गारादिना कृत्वा जनस्य सहृदयजनस्य हृद्यन्तःकरणे कौतुकं कुतूहलमधिकं यस्मिंस्तत्कौतुकाधिकम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीतिं करोति जनयति । किंभूता । स्फुरदिति । स्फुरच्चञ्चत्कलो मधुरो य आलापः शब्दरचना तस्य विलासो माधुर्यं तेन कोमला मृद्वी । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता । 'शय्या तल्पे शब्दगुम्फे' इत्यनेकार्थः । यथाभिनवा नवोढा वधूः रसेन प्रेम्णा स्वयमेव अर्थाद्भर्तृजनस्य शय्यां पल्यङ्कमागता कौतुकमनुरागं च करोति । किंभूता वधूः । स्फुरन् प्रसर्पन्यः कलो मन्द्र आलापविलासो वचनव्यापारस्तेन कोमला सुन्दरा । 'कोमलं मृदु सुन्दरे' इति विश्वः ॥ ८॥ हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदार्थैः पदानां शब्दानामथैरभिधेयैः उपपादिता निर्मिता रचिताः कथा गद्यपद्यादिप्रबन्धाः कं सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति भावः । कीदृशैः पदार्थैः । उज्ज्वलदीपकोपमैरुज्वलः प्रकटो दीपकोऽलंकारविशेष उपमा च येषु ते तथा तैः । 'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानं प्रतिपदं वा ।उपमानोपमेययो- रर्थसाम्यरूपः शब्दसाम्यरूपो वा यः श्लेषस्तेन घना बहुलतराः । पुनः किंभूताः । सुजातय इति । सुष्ठु जातिश्छन्दोविशेषो यासु । यद्वा । सुष्ठु जातिः स्वरूपं यासां ता इव । यथा नवैरम्लानैश्चम्पक- कुड्मलैर्हेमपुष्पकमुकुलैरुपपादिता महास्रजो महामाला मनो हरन्ति । अत्र यद्यपि कुड्मलैर्मालानिर्माणे नातीव रम्यत्वं तथाप्यग्रिमक्षणे विकासोन्मुखकुड्मलैर्मालानिर्माणे त्वौचित्यमेव । कीदृशैश्चम्पककुड्मलैः । उज्ज्वलो यो दीपकः प्रदीपस्तदुपमैस्त- त्तुल्यैः । किंभूताः स्रजः । निरन्तरं यः श्लेषो तेन घना निबिडाः । पुनः किंभूताः । सुष्ठु, जातयो जातीपुष्पाणि यासु ताः ॥ ९ ॥ कीर्त्यनुवृत्त्यर्थं स्ववंश्यानाह - बभूवेति । कुबेरनामा द्विजो ब्राह्मणो बभूवासीत् । कथंभूतः । वात्स्यायन इति । वात्स्यायननामा ऋषिस्तस्यायं वात्स्यायनो वंशोऽन्वयस्तस्मिन्संभवः समुत्पन्नः । वत्सगोत्रीय इत्यर्थः । द्विज इति च द्विजोत्कृष्टत्वसूचनार्थम् । यथा गजमात्रस्य दन्तवत्वेऽप्युत्कृष्टदन्ते दन्तीति प्रयोगः । पुनः कीदृशः । जगदिति । जगति विश्वस्मिन्नुद्गीता उत्प्राबल्येन गानविषयीकृता गुणाः शौर्यादयो यस्य सं उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे । सरस्वती सोमकषायितोदरे समस्तशास्त्रस्मृतिबन्धुरे मुखे ॥ ११ ॥ जगुर्गृहेऽ[^१]भ्यस्त समस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः। निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः॥१२॥ हिरण्यगर्भो भुवनाण्डकादिव क्षपाकरः क्षीरमहार्णवादिव । अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ॥ १३ ॥ विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः । उषःसु लग्नाः श्रवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ॥ १४॥ तथा । पुनः कीदृशः । सताम् अग्रणी: साधूनामग्रेसरः । किंभूतः । अनेकेति । अनेकेऽसंख्या ये गुप्तागुप्तनामाङ्किता वैश्यशूद्रादयः । तदुक्तम् – 'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥' इति । तैरर्चितं पादपङ्कजं चरणसरोजं यस्य स तथा । पुनः कीदृश इव । स्वयंभुवो बह्मणोंऽशोऽवतार एकदेशरूप इव।अतिवैदिकत्वादिति भावः॥१० ॥ उवासेति । यस्य कुबेरद्विजस्य मुख आनने सरस्वती वाग्देव्युवास । वसति स्मेत्यर्थः । किंभूते मुखे । श्रुतीति । श्रुतिभिर्वेदाध्ययनैः शान्तमुपशमितं कल्मषं पापं यस्य तत्तथा । परमपवित्र इत्यर्थः । पुनः कथंभूते । सदेति । सदा सर्वकालं पुरोडाशेनाग्निहोत्रे देवेभ्यो दत्तहविःशेषेण पवित्रितः पावनीकृतोऽधर ओष्ठो यस्य तत्तथा तस्मिन् । पुनः किंविशिष्टे । सोमेति । सोमेन सोमयागे सोमसंज्ञकलतारसेन कषायितं किंचित्कटुकीभूतमुदरं मध्यभागो यस्य तत्तथा तस्मिन् । सोमस्य किंचित्कटुत्वादिति भावः । पुनः कीदृशे । समस्तेति । समस्तानि समग्राणि यानि शास्त्राणि व्यासादिप्रणीतसूत्ररूपाणि स्मृतयश्च मन्वादिप्रणीता धर्मनिबन्धास्तैर्बन्धुरम् । मनोहरमित्यर्थः । तस्मिन् ॥ ११ ॥ जगुरिति । यस्य कुबेरविप्रस्य गुहे बटवः शिष्यभूता ब्रह्मचारिणः शङ्किताः सत्रासाः सन्तो यजूंषि यजुर्वेदान् सामानि सामवेदांश्च जगुः । पठन्ति स्मेत्यर्थः । शङ्कितत्वे बीजमाह - किंभूता बटवः । निगृह्यमाणा निग्रहो निर्भर्त्सनं तेन त्रास्यमानाः । कस्मिन् । पदे पदे शुद्धपाठकैः शुकैः कीरैः । कथंभूतैस्तैः । ससारिकैः सारिकाभिः सह वर्तमानैः । अनेन सारिकाणामपि विद्यावत्त्वं सूचितम् । पुनः कथंभूतैः । पञ्जरवर्तिभिरिति । पञ्जरो लोहशलाकानिर्मितं पक्षिगृहं तत्र वर्तिभिः । तन्निष्ठैरित्यर्थः । पुनः कीदृशैः । अभ्यस्तेति । अभ्यस्तं जिह्वाग्रवर्ति समस्तं समग्रं चतुर्दशविद्यात्मकं वाङ्मयं येषां ते तथा तैः । समस्तविद्यापारंगतैरित्यर्थः । 'भवद्भिरशुद्धं पठ्यते । वयं गुरुनिकटे कथयित्वा ताडनं कारयिष्यामः ।' ईदृशं शुकवचनमाकर्ण्य ते भीताः सन्तः पठन्ति बटवः । यद्गृहे शुकानामप्येतादृशज्ञानमिति तन्महिमोपवर्णनम् ॥ १२ ॥ हिरण्येति । ततः कुबेरादर्थपतिनामा पुत्रोऽभूत् । किंभूतः । द्विजन्मनां ब्राह्मणानां पतिः श्रेष्ठः । क: कस्मादिव । यथा भुवनस्याण्डकं ब्रह्माण्डं तस्माद्धिरण्यगर्भः स्वयंभूः । हिरण्यगर्भोपमया वेदपारङ्गत्वं सूचितम् । पुनः कः कस्मादिव । क्षीरमहार्णवाद्दुग्धोदधेः क्षपाकरः शशाङ्क: ।क्षीरसमुद्रोत्थ- चन्द्रोपमया च समस्तजनाह्लादकत्वं सूचितम् । पुनः कः कस्मादिव । विनता पक्षिणी तस्या उदरात्कुक्षेः सुपर्णो गरुड इव । अनेन नारायणपरायणत्वं सूचितम् । गरुडपक्षे द्विजन्मनां पक्षिणाम् । ब्रह्मपक्षे चन्द्रपक्षे च द्विजन्मनां ब्राह्मणानां पतिरित्यपि योज्यम् ॥१३॥ विवृण्वत इति । नवा नवा नूतनाः । उत्तरोत्तरं बुद्धिशालिन इति यावत् । एतादृशाः शिष्यगणारछात्रचया यस्य अर्थपतेर्गुरोरधिकां श्रियं शोभां प्रचक्रिरे वितेनिरे । पुनः किंभूतस्य यस्य । दिने दिन उषःसु प्रातःसमयेषु विसारि विसरणशीलं वाङ्मयं चतुर्दशविद्यात्मकं विवृण्वतः । अध्यापयत इत्यर्थः । किंभूताः शिष्याः । श्रवणे गुरोर्वचनाकर्णने लग्नाः सावधानाः । यद्वा । श्रवणे कर्णे लग्नाः । जगद्विदिता इत्यर्थः । क [^१]G. 'ग्रस्त': विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः । मखैरसंख्यैरजयत्सुरालयं सुखेन यो यूपकरैर्गजैरिव ॥ १५ ॥ स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशाखशालिनाम् । अवाप मध्ये स्फटिको[^१]पलोपमं क्रमेण कैलासमिव क्षमाभृताम् ॥ १६ ॥ महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः । द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य [^२]नखाङ्कुरा इव ॥ १७ ॥ दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो [^३]मलीमसः शुक्लतरं निजं यशः ॥ १८ ॥ इव । यथा चन्दनवृक्षस्य मलयजतरोः पल्लवाः किसलयानि नवा नवाः प्रतिदिनमम्लानाः श्रवणे कर्णे लग्नाः सन्तः शोभां कुर्वन्ति । रमण्या इति शेषः ॥ १४ ॥ विधानेति । योऽर्थपतिरसंख्यैरगण्यैर्मखैर्यज्ञैः सुखेनाप्रयासेन सुरालयं स्वर्गमजयत् । आचक्रामेत्यर्थः । किंभूतैर्मखैः । विधानेति । विधानेन विध्युक्तमार्गेण संपादितं विहितं यद्दानं ब्राह्मणेभ्यः स्वर्णादिप्रतिपादनं तेन शोभितैः । विशिष्टदक्षिणैरित्यर्थः । पुनः किंभूतैः । स्फुरदिति । स्फुरन्त उज्ज्वलन्तो ये महावीराः श्रौताग्नयस्तैः सनाथा सहिता मूर्तिः स्वरूपं येषां ते तथा तैः । अग्नित्रयसहितैरित्यर्थः । 'होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत्' इति कोशः । पुनः किंभूतैः । यूपकरैरिति । यूपा यज्ञे पशुबन्धनार्थं स्तम्भविशेषास्त एव करा हस्ता येषां ते तथा तैः । कैरिव गजैरिवेति यज्ञगजयोः शब्दसाम्येनोपमा । किंभूतैर्गजैः । विधानेन मदोद्रेकार्थं गजादीनां दीयमानभक्ष्यविशेषेण । अत एव '··विधानपिण्डस्नेहस्र- तिस्नपितबाहुरिभादिराजम्' इति माघे । तेन संपादितं निष्पन्नं यद्दानं मदजलं तेन शोभितैः । पुनः पक्षे स्फुरन्तः शूरा ये महावीरा योद्धारस्तैः सनाथमूर्तिभिः । अधिष्ठितैरित्यर्थः । पुनः पक्षे यूपवद्यज्ञस्तम्भवत्करः शुण्डादण्डो येषां ते तथा तैः॥१५॥ स इति । सोऽर्थपतिः क्रमेण वंशक्रमेणेत्यर्थः । महात्मनां जितेन्द्रियाणां श्रुतिशास्त्रशालिनां श्रुतिशास्त्राध्यापकानां सुतोत्तमानां पुत्राणां मध्ये चित्रभानुसंज्ञकं पुत्रमवाप लेभे । किंभूतम् । स्फटिकेति । स्फटिकोपलः क्षीरतैलस्फटिकाभ्यामन्यः स्वच्छस्फटिकस्तद्वदुपमा यस्य स तथा तम् । निष्कलङ्कमित्यर्थः । किंभूतानां सुतोत्तमानाम् । क्षमाभृतां क्षान्तिमताम् । किंभूतमिव । कैलासमिव । पक्षे क्षमाभृतां भूधराणां मध्ये वरमित्यर्थः । 'क्षितिक्षान्त्योः क्षमा' इत्यमरः । पक्षे स्फटिकाश्मभिर्निर्मितं स्फटिकमयत्वात्कैलासस्येति ॥ १६ ॥ महेति । महात्मनो यस्य चित्रभानोर्गुणाः । अपिशब्दाध्याहारेण पितुः समाना अपि द्विषन्मनः शत्रूणामप्यन्तःकरणं प्राविविशुः प्रवेशं चक्रुः । किं पुनः सज्जनानामिति । किंभूता गुणाः । सुदूरनिर्गताः । दिगन्तं गता इत्यर्थः । पुनः कीदृशाः । कलङ्केति । कलङ्केनाङ्क- लक्षणेन मुक्तो वर्जितो य इन्दुश्चन्द्रस्तस्य कला षोडशोंSशस्तद्वदमला विशदा त्विट् कान्तिर्येषां ते तथा । पुनः कीदृशाः । कृतेति । कृतं निष्पादितमन्तरसवकाशः प्रवेशपद्धतिरिति यावत्, यैस्ते तथा । कस्य क इव । नृसिंहस्य विष्णोर्नखाङ्कुराः पुनर्भवाग्रभागा इव । यथा नृसिंहस्य नखाङ्कुरा द्विषद्दृदयं प्रविष्टास्तथैतेऽपीति भावः ॥ १७ ॥ दिशामिति । यस्य चित्रभानोर्मलीमसोऽप्यध्वरधूमसंचयो यज्ञधूमसमूहो निजं स्वकीयं यशः शुक्लतरमतिशयेनोज्ज्वलं चकार विदध इति विशेषोक्तिः । किंविशिष्टोऽध्वरधूमसंचयः । दिशामिति । दिग्वधूनामलीके ललाटदेशेऽलकभङ्गतामलकाश्चूर्णकुन्तलास्तेषां भङ्गो रचनाविशेषस्तस्य भावस्तत्ता तां गतः प्राप्तः । एतेना- जस्रं क्रतुसमूहविधानेन धूमस्य दिगन्तव्यापित्वं सूचितमिति । पुनः किंविशिष्टः । त्रयीति । त्रयी वेदत्रयी सैव वधूस्तस्याः । कर्णे श्रोत्रे तमालपल्लव इव तमालपल्लवः । श्यामत्वसाधर्म्यात्त- मालकिसलयेनोपमानम् ॥ १८ ॥ [^१]G. 'पलामलं'. [^२]G. 'नखाङ्कशा'. [^३]G. 'मलीमसं'. सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः । यशोंऽशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत॥१९॥ द्विजेन तेनाक्षतकण्ठकौठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निवद्वेयमतिद्वयी कथा ॥ २० ॥ आसीदशेषनरपतिशिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्त- सामन्तचक्रः, चक्रवर्तिलक्षणोपेतः, चक्रधर सरस्वतीति । ततश्चित्रभानोर्बाण इति बाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किं विशिष्टात्ततः । सरस्वतीति । सरस्वत्या भारत्याः पाणिसरोजसंपुटेन हस्तकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोञ्छितं होमादिकर्मसंबन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्खेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति । यशसः कीर्तेरंशवो दीप्तयस्तैः शुक्लीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स तथा तस्मात् । 'विष्टपं भुवनं जगत्' इत्यमरः ॥ १९ ॥ द्विजेनेति । इदानीं बाणः कथां चिकीर्षुरतितीक्ष्णबुद्धिरप्यहंकारं निराकुर्वन्नाह - तेनेति । तेन बाणेन द्विजेनेयं कादम्बरीरूपा कथा धिया बुद्ध्यैव निबद्धा ग्रथिता । पूर्वं बुद्ध्यारूढीकृत्य पश्चालिखितेति भावः । समुद्रसमकादम्बरी कथोपबन्धने धियः सामर्थ्यं ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्द्यमेवारोपयति — अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्यं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि कुण्ठिता किमुत सभायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता तेन मलीमसा मलिना चासावन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैदग्ध्य-विलासश्चातुर्यलीला तेन मुग्धाऽप्रगल्भा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषणबलाद्बुद्धेरतितीक्ष्णत्वं फलितम् । [^१]द्वयीं बृहत्कथां वासवदत्तां चातिक्रान्तेत्यर्थः ॥ २०॥ 'प्रसिद्धो वापि वर्ण्यः स्यान्महीपालोऽथवा ' ...॥' दशरूपकेऽपि'प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तत्त्रिधा । प्रख्यातमितिहासादे- रुत्पाद्यं कविकल्पितम् । मिश्रं च संकरात्' इत्यादेरुक्तभेदानां काव्यनाटकचम्पूनां मध्ये 'गद्यपद्यमयी चम्पूर्द्विधा श्लेषवती च या । राजवर्णनमादौ स्यान्नगरीवर्णनं ततः । तया चामुकमन्यस्मिन्न तु तन्नृषु कुत्रचित् ॥' यथा - 'शूलसंबन्धो देवतायतनेषु न नृषु' इति नलचम्प्वाम् । तथात्रैवाग्रे 'चित्रकर्मसु वर्णसंकरो न मनुष्येषु' इत्यादि । [^२]चम्पूलक्षणयुक्तां कादम्बरीसंज्ञिकां कथामारचयति - आसीदिति । शुद्रको नाम राजासीदिति दूरेणान्वयः । अथ राजानं विशेषयन्नाह — अशेषेति । अशेषाः समग्रा ये नरपतयो राजानस्तेषां शिरांस्युत्तमाङ्गानि तैः समभ्यर्चितं सादरतया गृहीतं शासनमाज्ञा यस्य स तथा । सर्वेषामाज्ञापको न त्वाज्ञाकरः । अतः एवापरो भिन्नः पाकशासन इव । इन्द्रसाम्यम् । चतुरिति । चत्वारश्च त उदधयश्च चतुरुदधयस्तेषां माला पङ्क्तिः सैव मेखलावधि- र्यस्यास्तादृश्या भुवः पृथिव्या भर्ता नायकः । प्रताप इति । प्रतापः कोशदण्डजं तेजः, अनुरागः स्नेहः ताभ्याभवनतं नम्रीभूतं समस्तं समग्र सामन्तचक्रं सामन्तमण्डलं स्वदेशपर्यन्तवर्ति राजचक्रं यस्य तथा । अन्यदपि लोहचक्रमग्निप्रतापादवनतं भवतीति ध्यन्यते । चक्रेति । चक्रवर्ती सार्व.......... टिप्प० - [^१]F. द्वयं स्वस्माद् द्वितीयमतिक्रान्ता, अद्वितीयेति वास्तवोऽर्थः । [^२]F. सर्वाङ्गसंपूर्णोयं भ्रमष्टीकाकृन्महाभागस्य । साहित्यलक्षणग्रन्थेषु कादम्बरी गद्यकाव्यं 'कथा' परिगण्यते, न गद्यपद्यमयी चम्पूः । (आदिगतपद्यान्यासाद्य विस्मृतवान्पद्यां विद्याविकल: सोयम् । कथालक्षणं प्रोक्तं तत्रैव - 'क्वचिदत्र भवेदार्या कचिद्वक्रापवक्रके । आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥' इति । इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसो [^१]पजायमानोदयः, मेरुरिव [^२]सकलोपजीव्यमानपादच्छायः, [^३]दिग्गज इवानवरतप्रवृत्तदानार्द्रीकृतकरः, कर्ता महाश्चर्याणाम्, आहर्ता क्रतूनाम्, आदर्श: सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगम: काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त भौमस्तस्य यानि लक्षणानि सामुद्रिकशास्त्रप्रतिपादितानि तैरुपेतः सहितः । पुनस्तमेव विशेषयन्नाह — चक्रधर इति । करकमले हस्तपद्म उपलक्ष्यमाणं दृश्यमानं शङ्खचक्राकारं च रेखोपरेखा स्वरूपं लाञ्छनं चिह्नं यस्य स तथा । क इव । चक्रधर इव विष्णुरिव । सोऽपि शङ्खचक्रायुधलाञ्छितकरः स्यादि- त्युपमानोपमेयभावः । हर इवेति । जितो निर्जितो मन्मथ [^1]जनक- त्वान्मन्मथानीन्द्रियाणि येन स तथा । क इव । हर इव शंभुरिव । सोऽपि जितमन्मथ: स्यादित्युभयोः साम्यम् । गुह इवेति । अप्रतिहताऽकुण्ठिता शक्ति: सामर्थ्यं यस्येति स तथा । क इव । गुह इव कार्तिकेय इव । सोऽप्यप्रतिहतशक्तिः स्यादित्युभयोः साम्यम् । एतत्पक्षे शक्तिरस्त्रविशेषः । अत एव 'षाण्मातुरः शक्तिधरः' इत्यमरः । विगतेति । विगतो मानो दर्पो यस्य तद्विमानं तथा कृतं राजहंसानां श्रेष्टनृपाणां मण्डलं वृन्दं येन स तथा । क इव । कमलयोनिरिव विधातेव । एतत्पक्षे विमानं देवयानं तत्स्वरूपीकृतं राजहंसानां पक्षिविशेषाणां मण्डलं येन स तथा । हंसाधिरूढत्वादिति भावः । 'देवयानं विमानं स्यात्' इत्यमरः । 'राजहंसास्तु ते चञ्चुचरणैरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभा वा । 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा । क इव । जलधिरिव समुद्र इव । सोऽपि लक्ष्म्या रमायाः शोभाया वोत्पत्तिस्थानं समुद्रमथ- नादेव तन्निर्गमात् । तथा च जगद्विभूषितमिति शोभाजनकत्वमिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः [^2]पितॄणामुद्धारस्तत्र प्रवृत्तो लग्नः । क इव । गङ्गाप्रवाह इव स्वर्धुनीरय इव । सोऽपि भगीरथपथप्रवृत्तः स्यात्तदनुयायित्वादित्युभयोः साम्यम् । रविरिति । प्रतिदिवसं प्रत्यहम् उपजायमान उत्पद्यमान उदयः संपत्तेरुद्रेको यस्य स तथा । क इव । रविरिव भानुरिव । सोऽपि निरन्तरमुदयाचलाज्जायमानोद्गम: स्यादित्युपमा । मेरुरिति । सकलैः समग्रैरर्थाल्लोकैरुपजीव्यमाना सेव्या पादच्छाया कान्तिर्यस्य स तथा । क इव । मेरुरिव स्वर्णाद्रिरिव । स कथंभूतः । सकलैरर्थाद्देवैः अन्येषां तत्र प्रवेशाभावात् । उपजीव्याः पादाः प्रत्यन्तपर्वतास्तेषां छायाऽऽतपाभावो यस्य स तथा । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दिग्गज इति । अनवरतं निरन्तरं प्रवृत्तं कृतं यद्दानं जलसहितं देयद्रव्यं तेनार्द्रीकृतः स्तिमितः करो हस्तो यस्य स तथा । क इव । दिग्गज इव दिङ्नाग इव । एतत्पक्षे निरन्तरप्रवृत्तं प्रचालितं यद्दानं मदः । 'मदो दानं प्रवृत्तिश्च' इति कोशः । तेन स्तिमितः करः शुण्डादण्डो यस्य स तथेत्युपमा । कर्तेति ।महाश्चर्याण्यनन्य- कृतयुद्धादीनि तेषां कर्ता निष्पादकः । आहर्तेति । क्रतूनां यज्ञानामाहर्ता कारकः । आदर्श इति । सर्वशास्त्राणां समग्रवाङ्मयानामादर्शो मुकुरः । तत्र तेषां प्रतिबिम्बितत्वादिति भावः । उत्पत्तिरिति । कलानामिति द्विसप्ततिप्रमिता याः कलाः शिल्पादिरूपास्तासामुत्पत्तिर्जन्मभूः । गुणानामिति । गुणा गाम्भीर्यादयस्तेषां कुलभवनं परम्परास्थानम् । आगम इति । काव्यामृतेति । काव्यं कविकर्मतत्संबन्धिनो येऽमृतरसास्तेषामागम उद्गमरूपः । उदयेति । मित्राणि सुहृदस्तेषां मण्डलं समुदायस्तस्योदयशैलोऽभ्युन्नतेः स्थानम् । पक्षे मित्रमण्डलस्य सूर्यबिम्बस्योदयशैलः । उदयाचलः । उत्पातेति । अहितजनस्य [^1]F. सौन्दर्येण ( अथवा संयमातिशयेन ) जितो मन्मथो येनेति सरलोऽर्थः । [^2]F. भगी ऐश्वर्यसंपन्नः, रथपथे प्रवृत्तश्च । 'भगं श्रीकाममाहात्म्य- वीर्ययत्नार्ककीर्तिषु' इत्यमरः । [^१]G. 'पचीयमानो'. [^२]G. 'सकलभुवनो'; 'सकलभुवनतलो'. [^३]G. 'बृहस्पतिरिव सकलशास्त्रार्थतत्त्वज्ञः, दिग्गज', यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरैयः साहसिकानाम्, अग्रणी र्विदग्धानाम्, वैनतेय इव विनतानन्दजननः, [^१]वैन्य इव चापकोटिसमुत्सारिता- [^२]रातिकुलाचलो राजा शूद्रको नाम । नाम्नैव यो निर्भिन्नारातिहृदयो विरचित [^३]नारसिंहरूपाडम्बरम्, एक- विक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितभुवनत्रयं च [^४]जहासेव वासुदेवम् । अतिचिरकाललग्नमतिक्रान्त-कुनृपतिसहस्रसंपर्ककलङ्कमिव क्षालयन्ती यस्य विमले कृपाणधाराजले चिरमुवास राजलक्ष्मीः । यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि शत्रुलोकस्योत्पातकेतुर्धूमकेतुः । प्रवर्तयितेति । गोष्ठीबन्धानां मधुरकथानां प्रवर्तयिता प्रवर्तकः । आश्रय इति । रसिकानां रसवेत्तॄणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां सत्त्ववतां मध्ये धौरेयो धुर्यः । अग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीर्मुख्यः । वैनतेय इति । विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि विनतायाः स्वमातुः प्रमोदकृत्स्यादित्युभयोः साम्यम् । वैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वता: क्षेत्रसीमावर्तिपर्वताः येन स तथा । क इव । वैन्य इव पृथुराज इव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेषं पूर्ववत् । पृथुना पूर्वं पर्वताकीर्णां धरित्रीं विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम्। नाम्नेति । यः शद्रको वासुदेवं श्रीकृष्णं जहासेव हास्यं चकारेव । कथंभूतः । नाम्नैवाभिधानश्रवणमात्रेणैव निर्भिन्नानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा । कीदृशं वासुदेवम् । विरचितेति । विरचितो विहितो नारसिंहरूपलक्षण एवाडम्बर आटोपो येन स तथा तम् । एकेति । एकेनाद्वितीयेन विक्रमेण पराक्रमेणाक्रान्तं व्याप्तं सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथंभूतं वासुदेवम् । विक्रमेति । विक्रमः पादविक्षेपस्तस्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं स्थितम् । अत्रायं भावः - अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदारणे नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्व जगदाक्रान्तम् । वासुदेवेन तु भुवनाक्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खड्गधारारूपे जले चिरं बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चक्रे । खड्गबलाल्लक्ष्मीः स्ववशीकृतेति भावः । किं कुर्वतीव । क्षालयन्तीव प्रमार्जयन्तीव । कम् । अतीति । अतिचिरकालो भूयानतीतः समयस्तेन लग्नं जातम् । पुनः कीदृशम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्यनरपतयस्तेषां सहस्रं तेन संपर्कः संबन्धस्तेन यः कलङ्कोऽभिज्ञानम् । अन्योऽपि पङ्कादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शुद्रको भगवतो नारायणस्यानुकरोति । 'कृञः प्रतियत्ने' इत्यनेन कृञः कर्मणि षष्ठी । भगवन्तं नारायणं सर्वदेवमयत्वेन विश्वात्मकतया चानुकरोति । तत्तुल्यतां भजतीत्यर्थः । तदेव दर्शयति - मनसि धर्मेणेत्यादि । अत्र वसतेति वसतापदस्य सर्वत्रान्वयो यथालिङ्गम् । मनसि स्वान्ते धर्मेण वृषेण वसता वासं कुर्वता । सदैव धर्मचिन्तनात् । कोपे क्रोधे यमेन कृतान्तेन । तत्कालमेव सापराधिनां प्राणहरणात् । तथा प्रसादे प्रसन्नतायां धनदेन श्रीदेन । सेवाकृत्समीहिताधिकप्रदानात् । प्रतापे पूर्वोक्तलक्षणे वह्निनाग्निना । समग्रशत्रुदाहकत्वात् । भुजे बाहौ भुवा पृथिव्या । राज्यभारक्षमत्वात् । दृशि चक्षुषि श्रिया लक्ष्म्या । सप्रीतिनिरीक्षणमात्रेणैव तत्संभवात् । वाचि वचने सरस्वत्या भारत्या । अनवरतगद्यपद्याद्यनेकप्रबन्धविधानात् । मुखे वदने शशिना [^१]G. पृथुः [^२]G. सकलाराति. [^३]G. नरसिंह [^४]G. हसति स्मेव. २ का० सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य च मदकलकरिकुम्भपीठपाटनं [^१]विदधतो लग्नस्थूलमुक्ताफलेन [^२]दृढमुष्टि [^३]निष्पीडनान्निष्ठ्यूतधारा [^४]जलबिन्दुदन्तुरेणेव कृपाणेना- कृष्यमाणा, सुभटोरःकपाट [^५]विघटितकवचसहस्रान्धकारमध्यवर्तिनी करि [^६]करटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपं [^७]सकृ [^८]दगाद्राजलक्ष्मीः । यस्य च [^९]हृदिस्थितानपि [^१०]भर्तॄ [^११]न्दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनित[^१२]दाघो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति [^१३]पालयति महीं चित्रकर्मसु वर्णसंकराः, रतेषु केशप्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु [^१४]चिन्ता, स्वप्नेषु विप्र चन्द्रेण । तदनुकारित्वाज्जनाह्लादकत्वाच्च । बले सामर्थ्ये मरुता वायुना । अतिबलत्वात् । तथा प्रज्ञायां प्रतिभायां सुरगुरुणा बृहस्पतिना । निःप्रतिमप्रतिभावत्वात् । एवंरूपे सौन्दर्ये मनसिजेन कामेन । मानिनीमानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य । सर्वेति । सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति सूत्र आदिशब्दात्स्वरूपार्थेऽपि मयड्ग्रहस्तस्य । प्रकटितेति । प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपाकृतिराकारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः समरनिशासु सङ्ग्रामरात्रिषु राजलक्ष्मीर्वैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव समीपं संनिधिमगादागतवती । सकृदित्येकवारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत आचरतः । किम् । मदेति । मदेन दानवारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरःपिण्डफलकं तस्य पाटनं विदारणम् ।अर्थाद्वैरिणा- मित्यर्थः । पुना राजलक्ष्मी विशेषयन्नाह - आकृष्येति । आकृष्यमाणा समन्ताद्गृह्यमाणा । केन । कृपाणेन खङ्गेन । इतः खङ्गं विशिनष्टि - लग्नेति । लग्नानि संबद्धानि स्थूलानि स्थविष्ठानि गजसंबन्धीनि मुक्ताफलानि रसोद्भवानि यस्य स तथा तेन । दृढेति । दृढमुष्ट्या यन्निपीडनम् । अत्र दार्ढ्यमात्रविवक्षया न पुंवद्भावनिषेधः। तस्मान्निष्ठ्यूतं निर्गतं धारैव जलमिति रूपकं तस्य ये बिन्दवः पृषताः तैरेव दन्तुरेणोदग्रदशनेनेत्युपमा । 'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषामुरांस्येव कपाटानि, तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यसादृश्यादन्धकारस्तमिस्रं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह - करीति । करिणां गजानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्षस्तेन दुर्दिनं मेघजं तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्डजं तेजस्तदेवानलो वह्नि- र्दिवानिशमहोरात्रं जज्वाल प्रदीप्तो बभूव । किं कर्तुमिच्छुरिव । भर्तॄन् दिधक्षुरिव दग्धुमिच्छुरिव । किंविशिष्टान्भर्तॄन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोक्तं प्रतापानलं विशिनष्टि - अन्तरिति । अन्तर्मध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । तासाम् । रिपुसुन्दरीणां शत्रुवनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि पूर्वमेव भर्तृव्यापादनात् । एतेन हृदयान्तर्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् ।पुनस्तदाधिक्यं वर्णयन्नाह -यस्मिंश्चेति । यस्मिन्राजनि जितजगति निर्जितविष्टपे महीं पृथ्वीं पालयति शासति सत्येतानि वस्तून्येतेषु स्थलेष्वासन्बभूवुः । न प्रजानामित्यन्वयः । तान्येवाह - चित्रेत्यादि । चित्रकर्मस्वालेख्यक्रियासु वर्णारक्तपीतादयस्तेषां संकराः परस्परसंबन्धाः । चित्रकर्मणि सुवर्णसंकरा इति वा ।सुवर्णमिश्रालेख्यानीत्यर्थः । द्वितीयपक्षे वर्णा ब्राह्मणादयस्तेषां संकराः । अन्यतोऽन्योत्पत्तिरित्यर्थः । रतेष्विति । रतेषु मैथुनेषु केशग्रहाः । नान्यत्र कलहेषु । तदभावात् । काव्येष्विति । काव्येषु कविकर्मसु दृढबन्धाः । कठिनबन्धाः । [^१]G.आचरतो; आचरता. [^२]G. दृष्ट. [^३G. नि:पीडन. [^४]G. जलदन्तुरेण [^५G. घटित [^६]G. करटतट; करतट. [^७]G. असकृत् [^८]G. आजगाम [^९]G. हृदय. [^१]G. पतीन्. [^११]G.धक्षु. [१२]G. दाहो. [^१३]G. परिपालयति. [^१४]G. चिन्ताः लम्भाः, छत्रेषु कनकदण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः, चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गः, शशिकृपाणकवचेषु कलङ्काः रतिकलहेषु दूत [^१]प्रेषणानि, सार्यक्षेषु शून्यगृहा [^२]न प्रजानामासन् । यस्य च परलोकाद्भयम्, [^३]अन्तः [^४]पुरिकाकुन्तलेषु भङ्गः, नूपुरेषु मुखरता, विवाहेषु [^५]करग्रहणम्,[^६]अनवरतमखाग्नि- धूमेनाश्रुपातः, [^७]तुरङ्गेषु कशाभिघातः, मकरध्वजे चापध्वनि [^८]रभूत् । तस्य च राज्ञः कलिकालभयपुञ्जीभूत [^९]कृतयुगानुकारिणी, त्रिभुवनप्रसवभूमिरिव विस्तीर्णा,मज्जन्मालवविलासिनी- कुचतटास्फालनजर्जरितोर्मिमालया जलाव [^१०]गाहनागतजयकुञ्जरकुम्भ नान्यत्र । अपराधाभावात् । शास्त्रेष्विति । शास्त्रेषु सिद्धान्तेषु चिन्ता चिन्तनम् । नान्यत्र । समग्रवस्तुनः सद्भावात् । स्वप्नेष्विति । स्वप्नदशायां विप्रलम्भा वियोगाः । नान्यत्र पुरुषायुषजी- वित्वाज्जनस्येति भावः । छत्रेष्विति । छत्रेष्वातपत्रेषु कनकदण्डाः सुवर्णयष्टयः । नान्यत्र । कनकदण्डाः दण्डेन सुवर्णग्रहणम् । स्वस्वमार्गानतिक्रमेण तासां प्रवर्तनात् । ध्वजेष्विति । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षेण वेल्लनम् । नान्यत्र । भीतेरभावात् । गीतेष्विति । गीतेषु गानेषु रामा वसन्तादयः । शास्त्रीयाः देशीया धनाश्रीप्रभृतयस्तेषां विलसितानि चेष्टितानि । नान्यत्र रागाः क्रोधादयस्तेषां विलसितानि हननादिरूपाणि । तादृग्रागद्वेषाभावात् । करिष्विति । करिषु हस्तिषु मदो दानं तस्य विकारा विकृतयः । नान्यत्र मदोऽहंकारस्तस्य विकारास्तत्तद्विचेष्टितानि । मदो रागस्तस्य विकारा इति वा । सर्वदा गुरुवचनामृता- स्वादमेदुरितमानसत्वात् । चापेष्विति । चापेषु धनुःषु गुणस्य ज्यारूपस्य छेदः । नान्यत्र गुणस्य शौर्यादेर्विच्छेदः । सर्वदा सदाचारित्वात् । गवाक्षेष्विति । गवाक्षेषु वातायनेषु जालमार्गा वातागमनहेतवो जालिकाः । नान्यत्र कुवेणीस्थापनपन्थानः । सर्वदाऽभयदानप्रवृत्तत्वात् । शशीति । राशी चन्द्रः, कृपाणं खङ्गम्, कवचः संनाहः, एतेषां द्वन्द्वः । एषु कलङ्काश्चिह्नानि । नान्यत्र कुलमालिन्यादिहेतवो व्यभिचारादिदोषाः । रतिकलहेष्विति । रतिकलहेषु कामकेलिषु विग्रहेषु दूतप्रेषणानि संचारकगमनानि नान्यत्र । सर्वदा प्रबलविरोधिनोऽभावात् । सार्यक्षेष्विति । सारयः खेलिन्यः, अक्षाः पाशकाः, तेषु शून्यगृहाः शून्यस्थानानि । नान्यत्रोद्वसवगृहाणि । राजदेयद्रव्यजनितपीडाभावात् । यस्य चेति । यस्य राज्ञः । अभूदिति क्रियान्वितम् । कर्मीभूतमाह - भयमिति । परलोकादेव जन्मान्तरादेव तत् । न तु शत्रुलोकात् । तथा यस्य राज्ञः । अन्तःपुरे भवा आन्तःपुरिकाः । भवार्थे ठक् तासां नायिकानां कुन्तलेषु केशेषु भङ्गो वक्रता । नान्यत्र । तथा नूपुरेषु हंसकेषु मुखरतानुरणनरूपा । न तु प्रजासु मौखर्यं वाचालत्वम् । विवाहेष्विति । विवाहेषूपयामेषु करग्रहणं हस्तग्रहणम् । न तु प्रजासु करो राजदेयद्रव्यं तद्ग्रहः । अनवरतेति । अनवरतं निरन्तरं मखाग्निधूमेन यज्ञाग्निधूमेनाश्रुपातो नेत्रजलच्युतिः । न तु शोकादिना । तुरङ्गेति । तुरङ्गेष्वश्वेषु कशा चर्मदण्डस्तस्याभिघातः प्रहारः। नान्यत्र । मकर इति । मकरध्वजे कंदर्पे चापस्य धनुषो ध्वनिः । अन्यत्र न भयाभावात्तदारोपणमिति भावः । तस्येति । तस्य च राज्ञो राजधान्यासीदित्यन्वयः । तां विशेषयन्नाह – कलीति । कलिकालाद्यद्भ्यं त्रासस्तस्मात्पुञ्जीभूतं समुदायीभूतं यत्कृतयुगं सत्ययुगं तदनुकरोतीत्येवंशीला या सा । विस्तीर्णेति । विस्तीर्णा विपुला । केव । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य प्रसवभूमिरुत्पत्तिस्थलं धरित्री तद्वदिव । परीति । परिगता संगता । कया । वेत्रवत्या नद्या । अथ नदीं विशिनष्टि - मज्जन्निति । मज्जन्त्य: स्नान्त्यो या मालवविला- सिन्योऽवन्तिकामिन्यस्तासां यानि कुचतटानि पयोधरस्थलानि [१]G. संप्रेषणानि. [^२]G. प्रजानां. [^३]G. यस्यान्तःपुरिका. [^४]G. अलकेषु. [^५]G. करपीडनम् [^६]G. अनवरतप्रवृत्त. [^७]G. तुरगेषु. [^८]G. उदभूत्. [^९]G. अनुसारिणी. [^१]G. आयात; अवतारित. सिन्दूरसंध्यायमानसलिलयोन्मदकलहंसकुलकोलाहल [^१]मुखरीकृतकूलया [^२]वेत्रवत्या परिगता [^३]विदिशाभिधाना नगरी राजधान्यासीत् । स तस्या [^४]मवजिताशेषभुवनमण्डलतया विगतराज्य- चिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपालमौलिमाला- लालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचित नीतिशास्त्रनिर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चमात्यैः परिवृतः, समानवयोविद्यालंकारैरनेकमूर्धाभिषिक्तपार्थिव [^५]कुलोद्गतैर- खिलकलाकलापालोचनकठोरमतिभिरतिप्रगल्भैः कालविद्भिः [^६]प्रभावानुरक्तहृदयैरग्राम्यो [^७]पहासकुशलैरि तेषामास्फालनेनाघातेन जर्जरिताः क्षीणा ऊर्मिमालाः कल्लोलपङ्क्तयो यस्याः सा तथा तथा । अत्र कुचानामतिकाठिन्यं व्यङ्ग्यम् । जलेति । जलं पानीयं तस्यावगाहनमवलोडनं तदर्थमागताः समायाता जयकुञ्जराःपरदलदलनसमर्था हस्तिनस्तेषां कुम्भाः शिरः पिण्डाः तेषु शोभाकृद्यत्सिन्दूरं नागजं तेन संध्यायमानं संध्यावदारक्तं सलिलं जलं यस्याः सा तथा तया । उन्मदेति । उन्मदानां प्रबलमदानां कलहंसानां कादम्बानां यानि कुलानि तेषां यः कोलाहलोऽनभिव्यक्तध्वनिस्तेन मुखरीकृतं प्रतिध्वनियुक्तं कूलं सैकतं यस्याः सा तथा तया । अत्र विस्तृतकमलस्वच्छपानीयादि व्यङ्ग्यम् । किमभिधाना राजधानीत्याशयेनाह- विदिशेति। विदिशेत्यभिधानं यस्याः सा तथा। स तस्यामिति । तस्यां नगर्यां स राजातिचिरं बहुकालं प्रथम आद्ये वयस्यवस्थायां सुखं सातं यथा स्यात्तथोवास वासं चक्र इत्यन्वयः । अथ राजानं विशेषयन्नाह — विगतेति । विगतो दूरीभूतो यो राज्यचिन्ताभारस्तेन निर्वृतो निष्पन्नप्रयोजनः । तत्र हेतुमाह - अवजितेति । अवजितानि स्वायत्तीकृतान्यशेषाणि समग्राणि भुवनमण्डलानि येन तस्य भावस्तत्ता तया । द्वीपेति । एकस्माद्वीपादन्ये द्वीपा द्वीपान्तराणि तेभ्य आगताः समायाता येऽनेके बहवो भूमिपाला राजानस्तेषां मौलयः किरीटानि शिरांसि वा तेषां मालाः स्रजः पङ्क्तयो वा ताभिर्लालितं क्रीडितं चरणयुगलं पादयुग्मं यस्य स तथा । किं कुर्वन् । उद्वहन्नुपाटयन् (?) । किम् । भुवनभारं जगद्वीवधम् । केन । भुजेन बाहुना । किमिव । वलयमिव बाहुभूषणमिव । कया । लीलया क्रीडया । स्वल्पप्रयासेनेत्यर्थः । किंविशिष्टः सः । परीति । परिवृतः परिवेष्टितः । कैः । अमात्यैर्मन्त्रिभिः । 'अमात्यः सचिवो मन्त्री धीसखः' इति कोशः । किं कुर्वद्भिस्तैर्मन्त्रिभिः । उपहसद्भिरुपहासं कुर्वद्भिः । कम् । अमरगुरुमपि बृहस्पतिमपि । कया । प्रज्ञया बुद्ध्या । अथ मन्त्रिणो विशिनष्टि — अनेकेति । अनेके च ते कुलक्रमागता- श्चानेककुलक्रमागताः । कुलपारम्पर्यागतैर्न त्वाधुनिकैरित्यर्थः । असकृदिति । असकृन्निरन्तरमालोचितं निदिध्यासितं यन्नीतिशास्त्रं नृपोचिताचारबोधको ग्रन्थस्तेन निर्मलानि स्वच्छानि मनांसि येषां ते तथा तैः । अलुब्धैरिति । अलुब्धैः अलोलुपैः स्निग्धैर्वत्सलैः । 'स्निग्धस्तु वत्सलः' इति कोशः । प्रबुद्धैः पण्डितैः । पुनः किं कुर्वाणो नृपतिः । राजपुत्रैर्नृपतनयैः सह रममाण : क्रीडां कुर्वाणः । इतो राजपुत्रान्विशेषयन्नाह - आत्मन इति । आत्मनः स्वकीयस्य प्रतिबिम्बैरिव । प्रतिच्छायैरिव । सर्वदा तदनुयायित्वात् । समानैरिति । समानाः सदृशाः वयोवस्थाविशेषाः विद्याश्चतुर्दश प्रतीताः, अलंकारा विभूषणानि येषां ते तथा तैः । अनेकेति । अनेके सहस्रशो ये मूर्धाभिषिक्ताः कृताभिषेकाः पार्थिवा राजानस्तेषां कुलानि वंशास्तेभ्य उद्गतैः प्रभवैः । अखिलेति । अखिलाः समग्रा याः कला विज्ञानानि तासां कलापाः समुदायास्तेषां यदालोचनं विमर्शनं तेन कठोरा शास्त्रे दृढा मतिर्बुद्धिर्येषां ते तथा तैः । एतेन मन्त्रदार्ढ्यं सूचितम् । अतीति । अतिप्रगल्भैः प्रतिभान्वितैः । 'प्रगल्भः प्रतिभान्विते' इति कोशः । कालेति । कालविद्भिः [^१]G. मुखरित [^२]G. वेत्रवत्या सत्या; वेत्रवत्या सरिता. [^३]G. महिला. [^४]G. च, विजिता. [^५]G. कुलोद्भूतैः. [^६]G. प्रेमा, प्रेमभावा [^७ ]G.परिहास. ङ्गिताकारवेदिभिः काव्यनाटकाख्यानका [^१]ख्ययिकालेख्य- व्याख्यानादिक्रियानिपुणैरतिकठिनपीवरस्कन्धोरुबाहुभिरसकृदवदलितसमदरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकरसैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास । तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमा [^२]नस्यापि रूपवतोऽपि संतानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीसत्यपि रूपविलासोपहसितरतिविभ्रमे लावण्यवति विनय [^३]वत्यन्वयवति हृदयहारिणिचावरोधजने । स कदाचिदनवरत- दोलायमानरत्नवलयो घर्घरिकास्फालनप्रकम्पझणझणा समयज्ञैः । अवसरज्ञैरिति यावत् । प्रभावेति । प्रभावो माहात्म्यं तेनानुरक्तान्यासक्तानि हृदयानि चेतांसि येषां ते तथा । अग्राम्येति । अग्राम्यो नागरिको य उपहासो नर्मवचोविलासस्तत्र कुशलैश्चतुरैः । 'कुशलश्चतुरोऽभिज्ञः -' इति कोशः । इङ्गितेति । इङ्गितं चेष्टाविशेषः आकार आकृतिः तौ विदन्तीत्येवंशीलास्ते तथा तैः । काव्येति । काव्यं निपुणकविकर्म, अवस्थानुकृतिर्नाटकम्, आख्यानकानि चूर्णकानि, आख्यायिका वासवदत्तादिः, आलेख्यानि चित्रकर्माणि, व्याख्यानान्यर्थनिर्वचनानि, इत्यादिका याः क्रियाः कार्याणि तेषु निपुणैर्दक्षैः । 'निष्णातो निपुणो दक्षः' इति कोशः । अतीति । अतिकठिना अतिकठोराः पीवराः पुष्टाः स्कन्धा बाहुशिरांस्युरवो विस्तीर्णा बाहवश्च येषां ते तथा तैः । असकृदिति । असकृन्निरन्तरमवदलिता मर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुद्विपपङ्क्तयस्ता एव पीठबन्धाः स्थलविशेषा यैस्ते तथा तैः । केसरीति । केसरिणां सिंहानां किशोरकैरिव बालैरिव। अत्र किशोरशब्दोऽल्पवयसि सामान्येन प्रयुक्तः । 'किशोरोऽल्पवया हयः' इति तु विशेषो ग्रन्थकृता नाश्रितः । विक्रमैरिति । विक्रम एव पराक्रम एवैकोऽद्वितीयो रसो येषां ते तथैवंविधैरपि । विनयेन प्रश्रयेण व्यवहारो व्यवहरणं विद्यते येषां ते तथा तैः । एतेन शक्तौ सत्यामपि विनयाधिक्यं सूचितम् । अन्वयस्तु प्रागेवोक्तः । तस्य चेति । तस्य राज्ञः प्रथमे वयसि वर्तमानस्यापि । अत्र वृद्धत्वापेक्षया वयसः प्राथम्यं ज्ञेयम् । अन्यथाग्रेतनेनान्वयानुपपत्तिः । एवंविधेऽवरोधजने सत्यपि सुरतसुखस्योपरि निधुवनसातस्योपरि द्वेष इव मत्सर इवासीद्बभूव । किं कुर्वतो राज्ञः । आकलयतः संभावयतः । किम् । स्त्रैर्णं स्त्रीसमूहम् । तदेव विशिनष्टि - लध्विति । लघु तुच्छा वृत्तिर्वर्तनं यस्य तत् । किमिव । तृणमिव यवसमिव । एतेन तासांमकिं-चित्करत्वं सूचितम् । कया हेतुभूतया । अतीति । अतिशयेन विजेतुमिच्छुर्विजिगीषुस्तस्य भावस्तत्ता तया । तद्रसाक्षिप्तचेत- स्कत्वेन कामोत्पत्तेरसंभवात् । पुनर्हेत्वन्तरं प्रतिपादयन्नाह - महेति । महासत्त्वमतिशायि धैर्यं तस्य भावस्तत्ता तया । प्रायशो महासत्त्वस्य सिंहवत्स्वरूप एव कामः स्यात् । किंविशिष्टस्य राज्ञः । रूपवतोऽपि सौन्दर्यवतोऽपि । एतेन युवतिमनो ( न उ ) न्मादकत्वेऽपि तदभिलाषाभाव इति विभावनोक्तिः । अत्रापिशब्दो विरोधालंकारद्योतनार्थः । एतादृशोऽपि विषयसुखोपरत इति विरोधः । पुनरेव राजानं विशेषयन्नाह - संतानार्थिभिरिति । संतानमपत्यं तदेवार्थः प्रयोजनं विद्यते येषां ते तथा तैरमात्यैः सचिवैरपेक्षितस्यापि वाञ्छितस्यापि । एतेन सचिवानुकूल्यं दर्शितम् । अथावरोधजनं विशेषयन्नाह - रूपेति । रूपं सौन्दर्यम्, विलासा विलसनानि तैरुपहसिता हास्यास्पदीकृता रते: कामस्त्रियो विभ्रमा भ्रूसमुद्भवा येन स तथा तस्मिन् । लावण्येति । लावण्यं लवणिमा तद्वति । विनयेति । विनयोऽभ्युत्थानादिरूपस्तद्युक्ते । एतेन तदानुकूल्यं सूचितम् । अन्वयेति । अन्वयो वंशः स विद्यते यस्य स तथा तस्मिन् । अत्रास्त्यर्थे वतुः । सुवंशज इत्यर्थः । अत्र प्रौढकुलोत्पन्नत्वेन रूपलावण्यातिशयत्वं व्यङ्ग्यम् । हृदयेति । हृदयस्य चित्तस्य हारिण्याक्षेपके । अनेन सर्वजनस्पृहणीयत्वं व्यङ्ग्यं सूचितम् । स कदाचिदिति । स राजा दिवसमनैषीन्निनायेति सर्वत्र संबध्यते । केन । कदेति । कदाचित्कस्मिंश्चित्प्रस्तावे । [^१]G. आख्यानकालेख्य [^२]G. अतिरूपवतोऽपि [^३]G. अन्वयवत्यभिजनवति. यमानमणिकर्णपूरः स्वयमारब्धमृदङ्गवाद्यः [^१]संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासारशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदाचिच्छास्त्रा- लापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदालेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शना- गतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतकविन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिवस [^२]मनैषीत् । यथैव च दिवसमेवमारब्धविविधक्रीडापरिहास [^३]चतुरैः सुहृद्भिरुपेतो निशामनैषीत्। गीतनृत्यवाद्यत्रयं प्रेक्षणार्थे कृतं संगीतकमुच्यते तत्प्रसङ्गेन तत्संबन्धेनेत्यर्थः । इतो राजानं विशेषयन्नाह - अनवरतेति । अनवरतं निरन्तरं दोलायमानं कम्पमानं रत्नवलयं कङ्कणं यस्य स तथा । घर्घरिकेति । घर्घरिका वाद्यविशेषस्तस्या आस्फालनं वादनं तेन यः प्रकम्पश्चलनं तेन झणझणायमानो झणझणेति शब्दं कुर्वाणो मणिकर्णपूरो मणिखचितः कर्णालंकारो यस्य स तथा । स्वयमिति । स्वयमात्मनैवारब्धं विहितं [^F ]मृदङ्गवद्वाद्यं वादित्रं येन स तथा । उभयहस्ताभ्यां तद्वादनादिति भावः । पुनः कदाचित् । मृगयेति । मृगयाखेटकस्तस्या व्यापारेण व्या(पृत्या) । अविरलेति । अविरलमविच्छिन्नं विमुक्ताः क्षिप्ता ये शरा बाणास्तेषामासारो वेगेन वर्षस्तेन शून्यीकृतं काननं वनं येन स तथा । अत्र समग्रवन- चारिव्यापादनं व्यङ्ग्यम् । आबद्धेति । आबद्धमारचितं विदग्धानां प्रेक्षावतां मण्डलं येन स तथा । कदेति । काव्यं पूर्वव्यावर्णितस्वरूपं, प्रबन्धाः कथास्तेषां रचनेन ग्रथनेन । एतेन राज्ञोऽपि पण्डितजनानुरागित्वं प्रेक्षावत्त्वं च सूचितम् । पुनः केन । शास्त्रेति । शास्त्राणां न्यायादीनामालापेनापृच्छनेन । 'आपृच्छालाप: संभाषः' इति कोशः। पुनः केन । आख्यानकेति । आख्यानकं व्यक्तकथा, आख्यायिका वासवदत्तादिका, इतिहासः पुरावृत्तम्, पुराणं मत्स्यादि, तेषाकर्णनेन श्रवणेन । कदाचिदिति । आलेख्यं चित्रकर्म तस्य विनोदेन क्रीडयेत्यर्थः । पुनः केन । वीणयेति । वीणा विपञ्ची तद्वादनेन तच्छ्रवणेन चेत्यर्थः । पुनः केन । दर्शनेति । दर्शनार्थं विलोकनार्थमागताः प्राप्ता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रूषा पादसपर्या तया । पुनः केन । अक्षरेति । अक्षरस्य वर्णस्य च्युतिर्यत्र तदक्षरच्युतकम् । यथा -'कुर्वन्दिवाकरा श्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥" इति । अत्र करेणुपदात्ककारच्युतौ द्वितीयार्थप्रतीतिः । मात्रायाश्च्युतिर्यत्र तन्मात्राच्युतकम् । यथा -'मूलस्थितिमधः कुर्वन्पात्रैर्जुष्टो गताक्षरः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥" इति । विटपदादिकारमात्राच्युतौ वटस्यार्थस्य प्रतीतिः । पद्यवर्णसंख्यया बिन्दुमात्रव्यवस्थापनेन तद्वर्णोपलब्धि: । बिन्दुमतिती यथा - - : : : -ः । ॥ इति । एतत्पद्यं यथा- -'त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमुद्वतीबन्धुः । अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥' गूढो गुम्फश्चतुर्थः पादो यस्य तद्गूढचतुर्थपादं चित्रम् । एतदुदाहरणं विदग्धमुखमण्डना- दवसेयम् । प्रहेलिका प्रवह्लिका । सा शाब्दी, आर्थी च । आद्योदाहरणं यथा - 'पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादशविक्रीय गृहीत्वैकां गृहं गतः ॥' अत्र धेन्वा ऊना धेनूना तां धेनूनामिति विंशतेर्विशेषणेनार्थावगमः सुगमः । आर्थी यथा- 'जइ सासुआइ भणिआ पियवासघरंमि दीवयं देसु । ता कीस मुद्धडमुही हिययंमि निवेसए दिठ्ठिम् ॥' एतेन सर्वदा मम हृदयान्तर्वर्तित्वेन मम हृदयमेव भर्तुर्वासगृहम् । तेन तत्र दीपककरणानर्हत्वमिति ज्ञापितम् । एतासां प्रदानं समर्पणम् । आदिशब्दात्स्वात्मना तन्निर्माणं च तैः । अथ नृपं विशेषयन्नाह - वनितेति । वनितानां योषितां यः संभोग उपभोगस्तज्जनितं यत्सुखं सातं तस्मात्पराङ्मुखानभिमुखः । सुहृद्भिः सज्जनैर्मित्रैर्वा परिवृतः परिवेष्टितः । यथैवेति । यथा येन प्रकारेण दिवसं [^1]F. मृदङ्गस्य वाद्यं येन, इत्येवार्थः । [^१]G. संगीत, [^२]G. अनयत्. [^३]G. चतुरः एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि [^१]किंचिन्मुक्तपाटलिनि [^२]भगवति सहस्रमरीचिमालिनि राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण संनिहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरल [^३]मलय [^४]जानुलेपनधवलितस्तनतटोन्मज्जदैरावत- कुम्भमण्डलेव मन्दाकिनी, [^५]चूडामणिप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाऽम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी प्रतीहारी [^६]समुपसृत्य वासरमनैषीत् । एवं तथैव निशां त्रियामामपि । सुहृद्भिर्मित्रैरुपेतः संयुतः । कीदृशैः । आरब्धेति । आरब्धाः प्रारब्धा ये विविधक्रीडासु परिहासास्तेषु चतुरैर्दक्षैः अनैषीदगमयदिति संबन्धः । एकदेति । एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य निकटदेशमागत्य राजानं सविनयमब्रवीदित्यन्वयः। विनयेन सहवर्तमानमवोचदित्यर्थः । सूर्यवर्णनाव्याज उक्त्यवसरमाह - भगवतीति । श्रीसूर्ये सतीत्यर्थः । इतः सूर्यं विशेषयन्नाह – सहस्त्रेति । सहस्रसंख्या ये मरीचयः किरणास्तै- र्मालते शोभते तान्धारयतीति वा यः स तथा तस्मिन् । नेति । नातिदूरं स्वल्पकालीनमुदितमुद्गमनं यस्य स तथा तस्मिन् । नवेति। नवानि प्रत्यग्राणि यानि नलिनानि तेषां दलानि पत्राणि तेषां यः संपुटो मुकुलस्तं भिनत्तीति स तथा तस्मिन् । किंचिदिति । किंचिदीषन्मुक्तः परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तथा तस्मिन् । दूरोदितेत्यारभ्य त्रिभिर्विशेषणैः प्रत्यूषसमयो व्यज्यते । कीदृशं राजानम् । आस्थानेति । आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । प्रतीहारीं विशेषयन्नाह - भीषणेति । भीषणा भयानका रमणीया मनोज्ञाऽऽकृतिराकारो यस्याः सा तथा । रमणीयत्वे दृष्टान्तमाह - चन्दनलतेवेति । यथा चन्दनलता वस्तुस्वभावादेव रमणीया तथेयमपीत्यर्थः । लताया भीषणत्वे हेतुमाह-संनिहितेति । संनिहिताः पार्श्ववर्तिनो विषधराः सर्पा यस्याः सा तथेत्यर्थः । अस्या भीषणत्व आगन्तुकहेतुमाह - वामेति । वामपार्श्वे सव्यप्रदेशेऽवलम्बतेऽवतिष्ठत इत्येवंशीलेन कौक्षेयकेन खङ्गेन । 'तरवारिर्मण्डलाग्र: खङ्गकौक्षेयकौ' इति कोशः । खङ्गं विशिष्टि - अङ्गनेति । अङ्गनाजन: प्रमदावर्गस्तस्य विरुद्धेन । त्रपोत्पादकेनेत्यर्थः । यथा चन्दनलताया निसर्गतो रमणीयत्वेऽपि संनिहितविषधरत्वेन भीषणत्वं तथैतस्या अपि स्वभावतो बन्धुरत्वेऽपि वामपार्श्ववर्तिनिस्त्रिंशत्वेन भीषणत्वमित्यभिप्रायः । अथ प्रतीहारीं विशिनष्टि — अविरलेति । अविरलं घनतरं यन्मलयजस्य चन्दनस्यानुलेपनमुद्वर्तनं तेन धवलितं शुक्लीकृतं स्तनतटं कुचतटं यस्याः सा तथा । तत्र दृष्टान्तमाह - मन्दाकिनीव स्वर्धुनीव । इतो गङ्गां विशेषयन्नाह-उन्मजदिति । उन्मज्जन्स्नानं कुर्वन्य ऐरावतो हस्तिमलस्तस्य कुम्भमण्डलं शिरःपिण्डचक्रवालं यस्यां सा तथा । चन्दनशुभ्रकुम्भोपमानेन कुचतटस्य काठिन्यं व्यज्यते । केव । मूर्तीति । मूर्तिमती विग्रहवती राजाज्ञेव नृपशिष्टिरिव । ननु राजाज्ञा संनिहितराजशिरोभिरुह्यमाना भवेत् । इयं तु तथा न भवतीत्यत आह -चूडेति । अर्थात्संनिहितराजमस्तकेषु चूडामणयः शिरोमणयस्तेषु यः प्रतिबिम्बः प्रतिच्छायस्तस्य छलं मिषं तेन । राजभिर्नृपैः शिरोभिरुत्तमारुह्यमाना [^F]वहमना । पुनः केव । शरदिव घनात्यय इव । उभयत्र विशेषणसाम्यमाहकलहंसेति । कलहंसा एव कलहंस इव वा धवलं शुभ्रमम्बरं वस्त्रं यस्याः सा तथा । पुनः केव। जामदग्न्येति । जमदग्नेर्गोत्रापत्यं जामदग्न्य: परशुरामस्तस्य परशुः कुठारस्तस्य धारा प्रान्तप्रदेशस्तद्वदिव । उभयविशेषणसाम्यमाह-वशीति । वशीकृतं स्वायत्तीकृतं क्रूरत्वेन व्यामोहेन वा सकलराज्ञां समग्रभूपतीनां मण्डलं चक्रं यया सा तथा । पुनः केव । विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य वनमरण्यं तस्य भूमिः पृथिवीव तत्सदृशीव । उभयत्र साम्यमाह — वेत्रेति । वेत्राणां वेतसानां लताः सरलवृक्षा यत्र । पक्षे वेत्रस्य लता यष्टिः । हस्त इति शेषः । यस्याः सा तथा । पुनः केव । राज्येति । राज्यस्याधिपत्यस्याधिष्ठात्री सांनिध्यकारिणी देवतेव सू (सु) रीवे [^1]F.धार्यमाणेत्यर्थः । [^१]G. उन्मुक्त, [^२]G. भगवति मरीचि. [^३]G. चन्दना [^४]G. अनुलेप. [^५]G. चूडामणिसंक्रान्तप्रतिबिम्ब [^६]G. समुपासृत्य, क्षितितलनिहितजानुकर [^१]कमला सविनयमब्रवीत् -- देव, [^२]द्वारस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमख- हुंकार [^३]निपातिता राजलक्ष्मीर्दक्षिणापथादागता [^४]चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं [^५]विज्ञापयति- 'सकलभुवन [^६]तलरत्नानामुदधिरिवैकभाजनं देवः । विहंगमश्चायमाश्चर्य [^७]भूतो निखिलभुवनतलरत्नमिति कृत्वा [^८]देवपादमूलमादायाऽऽगताहमिच्छामि देवदर्शन- सुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां [^९]राज्ञामालोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश । अथ प्रतीहारी नरपति [^१०]कथनानन्तरमुत्थाय तां मातङ्गकुमारीं प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिन- मशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम्, अनेकरत्ना [टि]- त्युत्प्रेक्षा । अपूर्वेति शेषः । अत एव विग्रहिणी शरीरिणी । पुनस्तामेव विशेषयन्नाह - क्षितीति । क्षितितले भूमितले निहितौ स्थापितौ जानू तलकीलौ, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन सहवर्तमानम् । किमब्रवीत्तदाह - देवेति । हे देव हे स्वामिन् द्वारे स्थिता चाण्डालानां दिवाकीर्तीनां कन्यका कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमादाय गृहीत्वा देवं स्वामिनं विज्ञापयति स्वरहस्यं निवेदयतीत्यर्थः । केव । सुरेति । सुराणां देवानां लोकं वर्गमारोहत आरोहणं कुर्वतस्त्रिशङ्को- रयाज्यस्य राजलक्ष्मीरिव । तामेष विशेषयन्नाह – कुपितेति । त्रिशङ्कोरयाज्यस्य देवयागात्स्वर्गे वासो न भवतीत्यतः कुपितः कुद्धो यः शतमख इन्द्ररतस्य हुंकार: कोपध्वनितेन निपातिताधःक्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथाद्दक्षिणमार्गा- दागता प्राप्ता । प्रतीहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह - सकलेति । चाण्डालकन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुकमादाय देवस्य राज्ञः पादमूलं चरणमूलमहमागता देवदर्शनसुखं महाराजस्यावलोकन- सातमनुभवितुमनुभवविषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह - सकलेति । सकलानि समग्राणि यानि भुवनतलानि तेषु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्यभूत इत्यद्भुतप्रेक्षणविषयः अतस्तादृशोक्तविशेषत्वादेव निखिलानि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । आदाय गृहीत्वा । देवः प्रमाणमिति । यदेवास्य राज्ञोऽनुशासनं तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्वयः । प्रतीहार्युक्तं चाण्डालकन्यकाविज्ञापनावाक्यं सर्वं नृपेणाकर्ण्य राजमन्त्रिवैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोषः, प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा । उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृत्वा । समीपवर्तिनां निकटस्थानां राज्ञां मन्त्रिणां च मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दिदृक्षेति ज्ञात्वेत्यर्थः । अथेति । अथ नरपतिकथनानन्तरमुत्थायोत्थानं कृत्वा प्रतीहारी तां मातङ्गकुमारीं प्रावेशयत्प्रवेशमकारयत् । प्रविश्य चेति । प्रविश्य प्रवेशं कृत्वा सा चाण्डालकुमारी राजानमद्राक्षीत् । अपश्यदित्यर्थः । 'दृशिर् प्रेक्षणे' इत्यस्य लुङि रूपम् । राजानं विशेषयन्नाह -नरपतीति । नरपतीनां राज्ञां यत्सहस्रं तन्मध्यवर्तिनम् । तदन्तरालस्थितमित्यर्थः । कमिव । कनकशिखरिणमिव मेरुमिव । कीदृशं मेरुम् । अशनीति । अशनेरिन्द्रायुधाद्वज्रायुधद्भयमात- ङ्कस्तेन पुञ्जिता एकत्रीभूता ये कुलशैलाः क्षेत्रसीमाकारिपर्वतास्तेषु मध्यगतं तदन्तः स्थितम् । पुनर्नृपं विशिनष्टि - अनेकेति । अनेकानि विविधानि यानि रत्नाभरणानि मणिखचितभूष [^१]G. कमलं. [^२]G. द्वारि. [^३]G. निपतिता. [^४]G. चण्डालकन्यका काचित् [^५]G. विज्ञपयति. [^६]G. तलसर्वरत्नानां. [^७]G. भूत: [^८]G. मूलमेनम्. [^९]G. अवलोक्य. [^१0]G. वचना. भरणकिरणजालकान्तरितावयवमिन्द्रायुधसहस्रसंछादिताष्ट- दिग्भागमिव [^१]जलधरदिवसम्, [^२]अवलम्बितस्थूलमुक्ता- कलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसिन्धुफेनपटल [^३]पाण्डुरस्य नातिमहतो दुकूलवितानस्या- धस्ता [^४]दिन्दुकान्तपर्यङ्किकानिषण्णम्, उद्धूयमान [^५]सुवर्णदण्डचामरकलापम्, [^६]उन्मयूखमुखकान्तिविजय- पराभवप्रणते शशिनीव [^७]स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्कश्यामायमानैः प्रणतरिपुनिःश्वास- मलिनीकृतै [^1]रिव चरणनखमयूख [^८]जालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेनाचिरमृदितमधुकैटभरु-धिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामर [^९]वायुप्रनर्तितान्तदेशे दुकूले वसानम्, अतिसुरभिचन्दना [टि]-- णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि । स्वार्थे कप् । मरीचिमण्डलानि तैरन्तरिता आच्छादिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह - इन्द्रेति । इन्द्रायुधानां हरिकार्मुकाणां यत्सहस्रं तेन संछादिता- स्तिरोहिता अष्टौ दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधर दिवसमिव प्रावृड्दिनमिव । पुनस्तमेव नृपं विशिष्टि - नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौमं तस्य वितानमुल्लोचः । 'उल्लोचो वितानं कदकोऽपि' इत्यभिधानचिन्तामणिः तस्याधस्तात्तदध:प्रदेश इन्दुकान्तानां चन्द्रकान्तमणीनां या पर्यङ्कि- का मञ्चिका तस्यां निषण्णमुपविष्टम् । अथ वितानं विशेषयन्नाह अवेति । अवलम्बित आश्रितः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य तस्य । कनकेति । कनकं सुवर्णं तस्य या शृङ्खला बन्धनरश्मयस्तैर्नियमिता निबद्धा मणिदण्डिका रत्नखचितायष्टयस्तासां चतुष्टयं यस्मिन्स तथा तस्य । गगनेति । गगनसिन्धोः स्वर्णद्याः फेनो डिण्डीरः । 'डिण्डीरोऽब्धिकफः फेनः' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत् पाण्डुरं शुभ्रं तस्य । पुनर्नृपं विशिनष्टि - उद्धूयेति । उद्धूयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्बनयष्टिर्येष्वेतादृशानि चामराणि प्रकीर्णकानि तेषां कलापः समूहो यस्य स तम् । स्फटिकेति । स्फटिकानां स्वच्छमणीनां यत्पादपीठं चरणस्थापनस्थलं तत्र विन्यस्तः स्थापितो वामपादः सव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह - शशिनीति । शशिनीय चन्द्रमसीव । अथ शशिनं विशेषयन्नाह - उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिन्नेतादृशं यन्मुखं तस्य या कान्तिदीप्तिस्तया यो विजयो जयस्तेन यः पराभवस्तिरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयन्नाह -चरणेति । चरणानं पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालानि समूहास्तैरुपशोभमानं भासमानम् । मयूखजालं विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणीना- मिन्द्रमणीनां या कुट्टिमप्रभा बद्धभूमिकान्तिस्तस्याः संपर्को मिश्रभावस्तेन श्यामायमानैः श्यामवदाचरमाणैः । कीदृशैरिव । प्रणतेति । प्रणता नता ये रिपवः शत्रवस्तेषां ये निःश्वासाश्चे [^2]तनाः तैर्मलिनीकृतैर्मालिन्यं प्राप्तैरिव पुनर्नृपं विशेषयन्नाह - ऊरू इति । ऊरू सक्थी तयोर्युगलं तेन विराजमानं शोभमानम् । ऊरुयुगलं विशिष्टि - आसनेति । आसन उपवेशनस्थल उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तेषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेतरक्तीकृतेनेत्यर्थः । 'श्वेतरक्तस्तु पाटलः' इति कोशः । कमिव । अचिरेति । अचिरं त्वरितं मृदितो मर्दितो यो मधुकैटभो[^3] दैत्यविशेषस्तस्य यद्रुधिरं रक्तं तेनारुणेन रक्तेनोरुयुगलेन विराजमानं हरिमिव कृष्णमिव । पुनः किं कुर्वाणं नुपम् । वसानं दधानम् । किम् । दुकूले क्षीरोदवस्त्रे । अथैते विशिष्टि - अमृतेति । अमृतस्य सुधायाः फेनस्तद्वद्धवले शुभ्रे । गोरोचनेति । गोरोचना गोपित्तं तेन लिखितानि यानि हंस मिथुनानि सितच्छदयुग्मानि तैः सनाथः सहितः पर्यन्तः प्रान्तदेशो ययोस्ते । चार्विति । चारुणी च ते चामरे च चारुचामरे तयोर्वायुना समीरणेन प्रनर्तिता आन्दोलिता अन्तदेशाः प्रान्तदेशा ययोस्ते । पुनर्नृपं विशेषयन्नाह - अतीति । [^1]F. उत्प्रेक्षालंकारः । [^2]F. मुखपवना इत्यर्थः । [^3]F. यौ मधु-कैटभौ दैत्यविशेषौ । इत्युचितम् । [^१]G. जलधरसमय. [^२]G. आलम्बित. [^३]G. पाण्डरस्य. [^४]G. इन्दुकान्तमणि. [^५]G. कनक. [^६]G. उन्मयूखकान्तिनिचयपराभव; उन्मयूखमुखविजयपराभव; उन्मयूखमुखकान्तिविजिते पराभव. [^७]G. स्फाटिके. [^८]G. जालकै:. [^९]G. पवननर्तित. [^१]G. अन्तर्देशे. का० ३ नुलेपनधवलितोरःस्थलम्, उपरिविन्यस्तकुङ्कुमस्थास [^१]कमन्तरान्तरानिपतितबालातपच्छेदमिव कैलासशिखरिणम्, अपरशशिशङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अति [^२]चपलराज्यलक्ष्मीबन्धनिगडकटकशङ्कामुपजनय [^३]तेन्द्रमणिकेयूर [^४]युग्मेन मलयजरसगन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहु [^५]युगलम्,[^६]ईषदालम्बिक- र्णोत्पलम्, उन्नतघोणम्, उत्फुल्ल [^७]पुण्डरीकनेत्रम्, अमलकलधौत [^८]पट्टायतमष्टमीचन्द्रशकलाकार- मशेषभुवनराज्याभिषे [^९]कपूतमूर्णासनाथं ललाटवेशमुद्वहन्तम्, आमोदिमालतीकुसुमशेखरमुषसि शिखरपर्यस्ततारकापुञ्जमिव पश्चिमाचलम्, आभरणप्रभापिश [^१०]ङ्गितया लग्नहरहुताशमिव मकरध्वजम् आसन्नवर्तिनीभिः सर्वतः [ टि ]-- अतिसुरभि अतिसुगन्धि यच्चन्दनं मलयजं तस्यानुलेपन- मङ्गरागस्तेन धवलितं शुभ्रीकृतमुरःस्थलं वक्षःस्थलं यस्य स तथा तम् । उपरीति । उपरि । अर्थाद्वक्षसः । विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तबिम्बा यस्य स तम् । 'स्थासकस्तु हस्तबिम्बम्' इति कोशः । कमिव । अन्तरेति । अन्तरान्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपस्य नवीनालोकस्य छेदाः खण्डा यस्मिन्नेतादृशं कैलासशिखरिणमिव रजताद्रिमिव । पुनः प्रकारान्तरेण तमेव नृपं विशेषयन्नाह - अपरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य या शङ्का भ्रान्तिस्तया नक्षत्राणि तारास्तासामाली ( सां माला ) श्रेणी तद्रूपयैव हारलतया । 'हारो मुक्तान्तः प्रालम्बस्रक्कलापावली लता' इति कोशः । तेन कृतो विहितो मुखस्याननस्य परिवेषः परिधिर्यस्य स तम् । अनेन हारलताया अत्यन्तनैर्मल्यं मुखस्य च चन्द्रसाम्यं सूचितम् । 'परिधिः परिवेषश्च' इति कोशः । अतीति । अतिचपलातिचञ्चला या राजलक्ष्मीराधिपत्यश्रीस्तस्या बन्धो नियमनं तत्र निगडोऽ [^1]न्दुकस्तस्य यत्कटकं वलयं तस्य शङ्कामारे [^2]कामुपजनयता कुर्वता एवंभूतेनेन्द्रमणियुक्तमिन्द्रनील- मणिखचितं यत्केयूरयुग्ममङ्गदद्वन्द्वं तेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वितयं यस्य स तथा तम् । यद्यपि समस्तवेष्टितपदस्य बाहुपदान्वितस्य विभक्त्यन्तरबद्धेनान्वयस्तथापि विशेषे क्वचित् 'मानेन जितेन्द्रियः' इत्यादौ तथा दृष्टत्वाददोषो द्रष्टव्यः । केनेव । मलयेति । मलयजश्चन्दनसक्तो यो रसो द्रवस्तस्य गन्धे परिमले लुब्धेनासक्तेन भुजङ्गद्वयेनेव सर्पयुग्मेनेव । ईषदिति । ईषत्किंचिदालम्बि लम्बमानं कर्णोत्पलं श्रवणपङ्कजं यस्य स तथा तम् । उन्नतेति । उन्नतोच्चा घोणा नासिका यस्य स तम् । उत्फुल्लेति । उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वन्नेत्रे लोचने यस्य स तम् । किं कुर्वन्तं नृपम् । ललाटदेशमलिक- प्रदेशमुद्वहन्तं धारयन्तम् । अथवालीकं विशेषयन्नाह – अमलेति । अमलं निर्मलं यत्कलधौतं सुवर्णं तस्य यः पट्टस्तद्वदायतं विस्तीर्णम् । 'अयनम्' इति पाठे सुवर्णतिलकस्थानम् । 'अयनं सरणिर्मार्गः' इति कोशः । अष्टमीति । अष्टम्यां यच्चन्द्रशकलं तदर्धभागस्तद्व- दाकार आकृतिर्यस्य तत्तथा । उभयोः पक्षयोरष्टम्यामष्टावेव कला इत्यर्धचन्द्रः । अतोऽष्टमीग्रहणं युक्तमेवेति भावः । अशेषेति । अशेषाणि समग्राणि यानि भुवनानि तेषां राज्यमाधिपत्यं तस्याभिषेको मङ्गलस्नानं तेन पूतं पवित्रम् । ऊर्णेति । ऊर्णा भ्रुवोरन्तरावर्तस्तेन सनाथं सहितम् । 'ऊर्णा मेषादिलोम्नि स्यादावर्तस्त्व ( र्ते चा ) न्तरा भ्रुवोः' इत्यमरः । स च चक्रवर्तिप्रभृतीनामेव नान्यजनस्य । तदुक्तम् – 'भ्रूद्वयमध्ये मृणालतन्तुसूक्ष्मं शुभ्रायतमेकं प्रशस्तावर्तं महापुरुषलक्षणम्' इति । पुनरेव नृपं विशेषयन्नाह - आमोदीति । आमोदीनि सुगन्धीनि यानि मालतीकुसुमानि जातीपुष्पाणि तेषां शेखरचूडाभूषणं यस्य स तथा तम् । कमिव । पश्चिमाचलमिवास्ताद्रिमिव । कीदृशम् । उषसीति।उषसि प्रभाते शिखरे सानुनि पर्यस्ताः पतितास्तारकाणां नक्षत्राणां पुञ्जाः समूहा यस्मिन्स तम् । अत्र शैलशिखरनृपोत्त- माङ्गयोः पुष्पपुञ्जतारकयोश्चोपमानोपमेयभावः । मकरेति । मकरस्य जलजन्तुविशेषस्य ध्वजोऽङ्को यस्य तमिव । मदनसादृश्यं प्रदर्शयन्नाह- आभरणेति । आभरणानां भूषणानां या प्रभा कान्तिस्तया पिशङ्गितं पीतरक्तीकृतमङ्गं यस्य तस्य भावस्तत्ता तया कृत्वा लग्न आसक्तो हरस्येश्वरस्य हुताशोऽग्नि [^1]F. शङ्खला । [^2]F. शान्तिमित्यर्थः । [^१]G. अन्तरानिपतित; अन्तरान्तरानिपतित. [^२]G. राजलक्ष्मीबन्धननिगडशङ्कां. [^३]G. इन्द्रनीलमणि. [^४]G. युगलेन. [^५G. शिखरम्. [^६]G. आलम्बित. [^७]G. लोचनम् . [^८]G. पट्टायित; पट्टायमान. [^९]G. सलिलपूत. [^१]G. अङ्गरागतया. [^१]सेवार्थमागताभिरिव दिग्वधूभिर्वारविलासिनीभिः परिवृतम्, अमलमणिकुट्टिम [^२]संक्रान्तसकलदेहप्रतिबिम्बतया पतिप्रेम्णा वसुंधरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतयाप्यसाधारणया राजलक्ष्म्या [^३]समालिङ्गितदेहम्, अपरिमित- परिवारजनमप्यद्वितीयम्, अनन्तगजतुरगसाधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम्, [^४]आसने स्थितमपि धनुषि निषण्णम्, उत्सादितद्विष- [^५]दिन्धनमपि ज्वलत्प्रतापानलम् आयतलोचनमपि सूक्ष्म [^६]दर्शनम्, महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि [^७]कलत्रवल्लभम् अविरतप्रवृत्तदानमध्य [ टि ] -- र्यस्य स तम् । अत्राभरणदीप्तिहरनेत्रोद्भववह्नयो राजमकरध्वजयोश्चशेपमानोपमेयभावो दर्शितः । आसन्नेति । आसन्नवर्तिनीभिर्निकटस्थायिनीभिः सर्वतो विश्वतः सेवार्थं सपर्यार्थमागताभिः प्राप्ताभिर्वारविलासिनीभिर्वाराङ्गानाभिः । काभिरिव । व्यापकत्वाद्दिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव । अत्र दिग्वधूवारविलासिन्योः साम्यं सूचितम् । ताभिः परिवृतं परिवेष्टितम् । अमलेति । अमलाः स्वच्छा ये मणयश्चन्द्रकान्ताद्या स्तेषां कुट्टिमं बद्धभूस्तस्मिन्संक्रान्तं यत्सकलदेहप्रतिबिम्बं समग्रशरीरप्रतिच्छायस्तस्य भावस्तत्ता तया । हेत्वर्थे तृतीया । पतिः स्वामी तस्य प्रेम प्रीतिस्तेन च वसुंधरया पृथिव्या हृदयेनेव स्वान्तेनेवोह्यमानं [^1]वहमानम् । अशेषेति । अशेषाः समग्रा ये जना लोकास्तेषां भोग्यतां भोगयोग्यतामुपनीतया प्राप्तयापि । सर्वसाधारणयेत्यर्थः । असाधारणया च तथा चान्येषामेतादृशी राजलक्ष्मीर्नास्तीत्यपकर्षोत्कर्षाभ्यां साधारणासाधारणया च राजलक्ष्म्या समालिङ्गितमुपगूहितं देहं शरीरं यस्य स तथा तम् । अत्र विरोधाभासोऽलंकारः । साधारणासाधारणयोर्विरुद्धधर्मत्वात् । तत्परिहारपक्षेऽसाधारणया । सर्वोत्कृष्टयेत्यर्थः । अपरिमितेति । अपरिमितोऽसंख्येयः परिवारजनः परिच्छदजनो यस्य स तम् । एवं बहुजनत्वेऽप्यद्वितीयं न द्वितीयो जनो यस्येति विरोधः ।तत्परिहारपक्षेऽद्वितीय इत्यस्य सर्वोत्कृष्ट इत्यर्थः । अनन्तेति । अनन्तान्यसंख्यानि गजा हस्तिनस्तुरगा अश्वास्तेषां साधनान्युपकरणानि सहाया यस्य 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः । एवं च बहुसहायवत्त्वेऽपि केवलं खङ्गः खड्गमात्रं सहायो यस्येति विरोधः । तत्परिहारपक्षे खड्गमात्र- सहायमित्यस्य युद्धे तदन्यानपेक्षत्वमित्यर्थः । एकदेशस्थितमिति । एकदेश: सभामण्डपादिः, जनपदो वा । तत्र स्थितमपि निषण्णमपि व्याप्तं समाक्रान्तं भुवनमण्डलं जगन्मण्डलं येनेति विरोधः । परिहारपक्षे व्याप्तं ख्यातं भुवनमण्डले यमिति विग्रहः । विशेषेणाप्तं व्याप्तमिति वार्थः । 'व्याप्तं ख्याते समाक्रान्ते' इति विश्वः । आसने स्थितमिति । आसने भद्रासने स्थितमप्युपविष्टमपि धनुषि कार्मुके निषण्णं स्थितमिति विरोधः । परिहारपक्षे धनुःसंज्ञा तस्मि [^2]न्स्थितमित्यर्थः । नामश्रवणेन विपक्षाणां साक्षादागत इव इति भयोत्पत्तेः । 'धनुःसंज्ञा प्रियालद्रौ' इति विश्वः । उत्सादितेति । उत्सादितं व्यापादितं द्विषन्त एवेन्धनमेधो येन । एवंभूतमपि ज्वलत्प्रतापानलमिति विरोधः । परिहारपक्षे ज्वलदित्यस्य दीप्यदित्यर्थः । आयतेति । आयते विस्तीर्णे लोचने यस्यैवंभूतमपि सूक्ष्ममविपुलं दर्शनं लोचनं यस्येति विरोधः । परिहारपक्षे सूक्ष्ममध्यात्मविषयं दर्शनं ज्ञानं यस्येत्यर्थः । 'सूक्ष्मं स्यात्कैतवेऽध्यात्मेऽप्यणौ' इति विश्वः । 'दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति विश्वः । महादोषमिति । महान्दोषो यस्मिन्नेवंभूतमपि सकलगुणाधिष्ठानं समग्रगुणस्थान- मिति विरोधः । परिहारपक्षे महती दोषा बाहुर्यस्येत्यर्थः । 'दोषा रात्रौ भुजेऽपि च ' इति विश्वलोचनः । कुपतिमिति । कुत्सितश्चासौ पतिश्च कुपतिरेवंभूतमपि कलत्रवल्लभं स्त्रीजनप्रियमिति विरोधः । तत्परिहारपक्षे कुः पृथिवी तस्याः पतिः । स्वामीत्यर्थः ।एतादृशास्तत्प्रियः स्यादिति न विरोधः । अविरतमिति । अविरतं संततं प्रवृत्तं दानं यस्यैवंभूतमप्यमदं दानरहितमिति विरोधः । तत्परिहारस्त्वेवम् अविरतं प्रवृत्तं दानं त्यागो यस्यैवंभूतमप्यमदम् । गर्वरहित [^1]F. धार्यमाणमित्युचितम् । [^2]F. धनुषि आस्थितं धनुषि विजयविश्वासिनमित्यर्थः । [^१]G. सेवासंगता. [^२]G. संक्रान्तप्रतिबिम्ब: ; संक्रान्तदेहप्रतिबिम्ब. [^३]G. समलिङ्गितम्. [^४]G. आसनस्थितम् ;आसनगतम्. [^५]G. अशेषद्विषत्. [^६]G. दर्शिनम्. [^७]G. कलत्रचय. मदम्, [^१]अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्त [^२]स्थितभुवनतलं राजानमद्राक्षीत् । आलोक्य च सा दूरस्थितव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्जरितमुखभागां वेणुलतामादाय नरपति [^३]प्रतिबोधनार्थं [^४]सकृत्सभाकुट्टिममाजघान, येन सकलमेव [^५]तद्राजकमेकपदे वनकरियूथमिव तालशब्देन[^६]युगपदा- वलितवदनमवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् । अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयः परिणाम [^७]शुभ्रशिरसा रक्तराजीव [^८]नेत्रापाङ्गेना- नवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेषेण [^९]शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम्, [ टि ] -- मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मलः स्वभावः प्रकृतिर्यस्यैवंभूतमपि कृष्णं श्यामं चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो वा तद्वच्चरितं यस्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले च' इति विश्वः । अकरमिति । न विद्यते करो हस्तो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो दण्डो यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः । आलोक्य चेति । राजानमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधौ गमनमनभिज्ञलक्षणमिति दूरस्थितैव दविष्ठप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरेति । नरपते राज्ञः प्रतिबोधनं समुखीकरणं तदर्थं सभाकुट्टिमं परिषद्बद्धभूमिं सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पाणिं विशेषयन्नाह - प्रचलितमिति । प्रचलितं प्रकम्पितं रत्नवलयं मणिखचितकङ्कणं यस्मात्स तथा तेन । रक्तमिति । रक्तं यत्कुवलयं [^1]कुवेलं तस्य दलानि पत्राणि तद्वत्कोमलेन सुकुमारेण । अनेन लक्षणोपेतत्वं हस्तस्य सूचितम् । वेणुयष्टिं विशेषयन्नाह - जर्जरितेति। जर्जरितो जर्जरीभूतो मुखभागोऽग्रभागो यस्याः सा तथा ताम् । अग्रभागदलनाच्छब्दविशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राजकं राजसमूहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुखं येनैवंभूतं तदभिमुखं तस्याः संमुखमासीदभवत् । किं कृत्वा । आकृष्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुर्नेत्रम् । तत्रोप ^2]मानम् । किमिव।वनकरिणामरण्य- हस्तिनां यूथमिव समूहमिव । केन । तालशब्देन तालो [^3]वाद्यविशेषस्तस्य शब्देन तदुत्थध्वनिना एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः । अवनीति । अवनिपती राजा तु तामनिमिषे निमेषोन्मेषवर्जिते लोचने यस्यैवंभूतो ददर्शेत्यन्वयः । कथंभूतां ताम् । निर्दिश्यमानां लोचनविषयीक्रियमाणाम् । कया । प्रतीहार्या द्वाररक्षानियुक्तया । किं कृत्वा । अभिधाय कथयित्वा । किम् । दूरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यकां विशेषयन्नाह – अधीति । अधिष्ठित आश्रितः पुरोभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंसा । तमेव पुरुषं विशेषयन्नाह - वय इति । वयसः परिणामेन वार्धक्येन शुभ्रं श्वेतम् । आधाराधेययोरभेदोपचारात्। शिरो मौलिर्यस्य स तथा तेन । रक्तेति । रक्तं लोहितं यद्राजीवं कमलं तद्वन्नेत्रापाङ्गौ लोचनप्रान्तौ यस्य स तथा तेन । अनवरतेति । अनवरतं निरन्तरं कृतो विहितो व्यायामः परिश्रमः ( येन सः) तस्य भावस्तत्ता तया यौवनापगमेऽपि तारुण्यनिवृत्तावपि न शिथिलाः श्लथाः शरीरस्य संधयो धातूनामस्थ्यादीनां च बन्धा यस्य स तथा तेन । सत्यपीति । सत्यपि विद्यमानेऽपि मातङ्गत्वे चाण्डालत्वे नातिनृशंसातिक्रूराकृतिराकारो यस्य स तथा तेन । अन्विति । अनुगृहीतः स्वीकृत आर्यस्य सभ्यस्य वेषो नेपथ्यं येन स तथा तेन । शुभ्रमिति । शुभ्रं श्वेतं वासो वस्त्रं यस्य स तथा तेन । पुनस्तां किं क्रियमाणाम् । अनुग [^1]F. कमलमित्यर्थः । [^2]F. तालशब्देन वनकरियूथमिवेति राजसमूहयोपमानम् । [^3]F. वृक्षविशेषस्तस्य पतनशब्देन । [^१]G. अतिशुद्ध. [^२]G. सकलभुवन [^३]G. प्रबोधनार्थम् [^४]G. असकृत् [^५]G. राजन्यकं. [^६]G. तेन वेणुलताध्वनिना युगपत्. [^७]G. पाण्डुर, [^८]G. ईक्षणा, [^९]G. धवल, आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गत- शुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुद्वहता चाण्डाल- दारकेणानुगम्यमानाम्, असुरगहीतामृतापहरणकृत- [^१]कपटपटुविलासिनी [^२]वेषस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, [^३]संचारिणीमिवेन्द्रनीलमणि [^४]पुत्रिकाम्, [^५]गुल्फावलम्बिनीलकञ्चुकेनावच्छन्नशरीराम्, उपरिरक्तां- शुकरचितावगुण्ठनाम्, नीलोत्पलस्थलीमिव निपतितसंध्यातपाम्, एककर्णा [^६]वसक्तदन्तपत्रप्रभाधवलितकपोलमण्डलाम्, उद्य [^७]दिन्दुकिरणच्छुरितमुखीमिव विभावरीम्,आकपिलगोरोचनारचिततिलकतृतीयलोचना [^८]मीशानरचितानुरचितकिरातवेषा- मिव भवानीम्, उरःस्थलनिवाससंक्रान्तनारायणदेहप्रभा- [^९]श्यामलितामिव श्रियम्, कुपितहरहुताशनदह्यमानमदनधूम- मलिनीकृतामिव रतिम्, [^१०]उन्मदह [^११]लिहला[^१२]कर्षण [ टि ] -- म्यमानामनुव्रज्यमानाम् । केन । चाण्डालदारकेणान्त्यज- सूनुना । तमेव विशिनष्टि-आकुलेति । आकुलाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ' इति कोशः । किं कुर्वता तेन । उद्वहता धारयता । किम् । पञ्जरं पक्षिरक्षणस्थलम् । अथ पञ्जरं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य याः शलाका इषीकास्ताभिर्निर्मितं रचितम् । कनकस्य पीतत्वाद्बहिःपीतमपि तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तस्या श्यामायमानं श्याममिव दृश्यमानम् । किमिव । मरकतमयमिव मरकत [^1]मश्मगर्भं तनिष्पन्नमिव । किं कुर्वतीम् । अनुकुर्वतीं सादृश्यमनुभवन्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कथा । श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः । असुरेति । असुरैर्दैत्यैर्गृहीतं यदमृतं तस्य यदपहरणमपहृतिस्तत्र कृतो विहितो यः कपटेन कैतवेन पटुः प्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्येन स तथा तस्य । तदुक्तम् - 'हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह संचारेति । संचारिणी संचरणशीलां जङ्गमप्राणिरूपामिन्द्रनील- मणिपुत्रिकामिवेन्द्रमणिपाञ्चालिकामिव । गुल्फेति । गुल्फावलम्बी घुटिकावलम्बी यो नीलकञ्चुको हरितकूर्पासकस्तेनावच्छन्न- माच्छादितं शरीरं देहो यस्याः सा तथा ताम् । उपरीति । उपर्यूर्ध्व- प्रदेशे रक्तांशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं मुखाच्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि - नीलोत्पलेति । निपतित उपरिप्राप्तः संध्यासंबन्धी सायंकालसक्त आतपो घर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयानां स्थल्यकृत्रिमा तामिव । 'जानपद-' इति ङीप् । एकेति । एकस्मिन् कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरण-विशेषस्तस्य या प्रभा कान्तिस्तया धवलितं शुभ्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् । अनेनावलोकनचातुरी- विशेषः सूचितः । उद्यदिन्द्विति । उद्यन्नुदयमासादयन्य इन्दुश्चन्द्रस्तस्य किरणैर्दीधितिभिश्छुरितं ध्वान्त [^2]निवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरीं रात्रिमिव । एतेन रात्रिनायिकयोर्दन्तपत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईषत्कपिलं पीतरक्तं यद्गोरोचनं गोपित्तं तेन रचितं निर्मितं यत्तिलकं पुण्ड्रं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामित्र । ईशानेन महादेवेन रचितो विहितस्तदनु यो रचितः किरात्या भिल्ल्या वेषो नेपथ्यं यया सैवंभूता भवानी पार्वती तामिव । श्रियमिति । श्रियं लक्ष्मीमिव । अथ लक्ष्मी विशिनष्टि - उरःस्थलेति । उरःस्थले वक्षसि यो निवासो निवसनं तेन संक्रान्तः प्रतिबिम्बितो यो नारायणस्य श्रीकृष्णस्य देहः शरीरं तस्य या प्रभा तथा श्यामलितां श्यामतां प्राप्ताम्। एतेन लक्ष्मीचाण्डालकन्यकयोः साम्यं ध्वनितम् । रतिमिति । रतिः कामस्त्री तामिव । कीदृशीम् । कुपित इति । कुपितः क्रोधं प्राप्तो यो हर ईश्वरस्तस्य हुताशन- स्तृतीयलोचनोद्गतो [^1]F. हरिन्मणिः 'पन्ना' इति भाषायाम् । [^2]F. किरणैः छुरितं रञ्जितं मुखं यस्या इत्याशयः । [^१]G. कपटविलासिनी. [^२]G. वेषश्यामलतया. [^३]G. संचारिणीमिन्द्र. [^४]G. पुत्रिकामिव. [^५]G. आगुल्फावलम्बिना. [^६]G. अवमुक्त. [^७]G. इन्दुबिम्ब. [^८]G. ईशानरञ्जनानुरचित; ईशानुरचित; ईशानाचरितानुरचित. [^९]G. श्यामलतां. [^१]G. उन्मत्त. [^१]G. हलापकर्षण. [^१]G. कर्षणप्रपलायिताम्. भयपलायितामिव[^१]कालिन्दीम्,अतिबहलपिण्डालक्तकरसराग- पल्लवितपादपङ्कजामचिरमृदितमहिषासुररुधिररक्तचरणामिव कात्यायनीम्, आलोहिताङ्गुलिप्रभापाटलितनखमयूखाम्, अतिकठिनमणिकुट्टिमस्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम्, आपिञ्जरेणोत्सर्पिणा नूपुरमणीनां [^२]प्रभाजालेन रञ्जितशरीरतया पावकेनेव भगवता [^३]रूप एव पक्षपातिता प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थ- मालिङ्गितदेहाम्, अनङ्गवारणशिरोनक्षत्रमालायमानेन रोमराजिलतालवालकेन [^४]रशनादाम्ना [^५]परिगतजघनाम्, अतिस्थूलमुक्ताफलघटितेन [^६]शुचिनाहारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसितपुण्डरीक- लोचनाम्, [ टि ]-- वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो [^1]जराभीरुस्तस्य धूमो दहनकेतुस्तेन मालिनीकृतां मलिन्यं प्राप्ताम् । पुनः कामिव । कालिन्दीमिति । कालिन्दी यमुना तामिव । यमुनां विशेषयन्नाह - उन्मदेति । उन्मदस्य प्रबलगर्वस्य हलिनो बलभद्रस्य यद्धलं लाङ्गलं तेन यदाकर्षणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां नष्टाम् । अतीति । अतिबहलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तस्य रागो रक्तिमा तेन पल्लवितं संजातकिसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिरं तत्कालं मृदितो मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिर [^2]माग्नेयं तेनारक्तौ लोहितौ चरणौ पादौ यस्या एवंविधां कात्यायनीं दुर्गामिव । आलोहितेति।आलोहिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां स्वतएवा- रुण्यात्पाटलत्वमस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लववर्णनप्रयोजनमाह - अतीति । अतिकठिनमतिकर्कशं यन्मणिकुट्टिमं मणिबद्धभूस्तस्य स्पर्शं संश्लेषमसहमानामक्षममानाम् । क्षितीति । क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वती मित्यु [^3]त्प्रेक्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन भगवता माहात्म्यवता पावकेन वह्निना । अथ पावकं विशेषयन्नाह - रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापतिं ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिञ्जरेति । आपिञ्जरेण पीतरक्तेन । 'पीतरक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसकस्य मणयो रत्नानि तेषां प्रभास्त्विषस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणिप्रभावह्नयो: परस्परमुपमानोपमेयभावः सूचितः । तदालिङ्गनप्रयोजनमाह - जातीति । विधात्रा चाण्डालजात्याक्रान्ता निर्मिता । सा च सर्वथाऽस्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति [^4]तदालिङ्गने प्रयोजनमिति भावः । रशनेति । रशना कटिमेखला सैव दाम बन्धनरज्जुस्तेन परिगतं समन्ताद्व्याप्तं जघनं कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीबे तु जघनं पुरः' इत्यमरः । मेखलादाम विशेषयन्नाह - अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थं नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजिरेव लता वल्ली तस्या आलवालकेनावापेनेति रूपकम् । अतीति । अतिस्थूलानि यानि मुक्ताफलानि तैर्घटितो निष्पादितस्तेन शुचिना विशदेन हारेण चतुःषष्टिलतेन । 'चतुःषष्टिलतो हारः' इत्यमरः । अत एव विशदत्वम् । गङ्गास्रोतसेव गङ्गाप्रवाहेणेव । चाण्डालकन्यकायाः श्यामत्वात् कालिन्दीशङ्कया यमुनाभ्रान्त्या कृतः कण्ठग्रहो गलसंश्लेषो यस्याः सा तथा ताम् । पुनः कामिव । शरदमिव घनात्ययमिव । उभयोः शब्दसाम्यं प्रदर्शयन्नाह - विकसितेति । विकसितानि पुण्डरीकाण्येव लोचनानि यस्याः सा तथेति विग्रहः । शरदि सर्वत्रापि कमलाना- मुन्निद्रत्वेन तथा संभवात् । पक्षे विकसित पुण्डरीकवल्लोचने यस्याः [^1]F. कामदेव इत्यर्थः । [^2]F. क्षतजमित्यर्थः । [^3]F. कठिनभूमिस्पर्शमसहमानश्चरणवेदनानिवारणार्थं यथा कोमलमास्तरणं निदधाति तथा लोहितनस्वप्रभा एव भूमौ नवपल्लवखण्डाः स्थापिता इत्याशयः । [^4]F. ब्रह्मा अस्पृश्यजातावेनामुत्पादितवान् । अत एव विधातु- रसंमतो रूपपक्षपाती वह्निः शोधनार्थं तामालिङ्गितवानित्याशयः । [^5]F. प्रचलितेऽमरपुस्तके तु न दृष्टम् । [^१]G. यमुनाम्. [^२]G. जालकेनानुरञ्जित, [^३]G. रूपैकपक्षपातिना; रूपपक्षपातिना. [^४]G. मेखला. [^५]G. जघनस्थलान्. [^६]G. शुचिहारेण. प्रावृषमिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवा- वतंसाम्, नक्षत्रमालामिव चित्रश्रवणाभरणभूषिताम्, श्रियमिव हस्तस्थितकमलशोभाम्, मूर्च्छामिव [^१]मनोहारिणीम्, अरण्य भूमिमिव [^२]रूपसंपन्नाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्रहिणीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शवर्जिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमासकुसुमसमृद्धिमि [^३]वाजातिम्, अनङ्गकुसुमचापलेखा- मिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरो [^४]पारूढयौवनाम्, अतिशयरूपाकृति [^५]मनिमिषलोचनो ददर्श । [ टि ] -- सा तथेति विग्रहः । पुनः कमिव । प्रावृषमिव । वर्षाकालमिव । उभयोर्विशेषणसाम्यमाह - घनेति । घना निबिडा ये केशास्तेषां जालानि यस्याम् । पक्षे घना एव केशजालानि यस्यामिति विग्रहः । मलयेति । मलयस्य पर्वतस्य मेखला मध्यभागस्तमिव । उभयोः सादृश्यमाह - चन्दनेति । चन्दनस्य पल्लवाः किसला( लया)नि तेषामवतंसा यस्यां सा ताम् । पक्षे चन्दनपल्लवास्त एवावतंसः शेखरो यस्यामिति विग्रहः । नक्षत्रेति । नक्षत्राणामुडूनां माला पङ्किस्तामिव । उभयोः सादृश्यमाह-चित्रेति । चित्राणि विविधप्रकाराणि श्रवणे कर्ण आभरणानि भूषणानि यस्याः सा ताम् । पक्षे चित्राश्रवणावेव आभरणे ताभ्यां [^1]भूषितेति विग्रहः । श्रियमिति । श्रीलक्ष्मीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह- हस्तेति । हस्ते पाणौ स्थिता कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम् । पक्षे हस्ते स्थितं यत्कमलं तेन शोभा यस्या इति विग्रहः । मूर्च्छेति । मूर्च्छा मोहस्तामिव । एतयोः साम्यमाह - मनोहारिणीमिति । सुन्दराकृतित्वेन मनोहरामित्यर्थः । पक्षे नष्टचेतनात्मकत्वेन मनोहारिणीमिति भावः । अरण्येति । अरण्यमटवी तस्य भूमिः क्षितिस्तामिव । उभयोः सादृश्यमाह - रूपेति । रूपमाकृतिविशेषस्तेन संपन्नां सहिताम् । पक्षे रूपाः पशवस्तैः संपन्नां संगताम् । 'रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये' इत्यनेकार्थः । दिव्येति । दिव्या देवसंबन्धिनीयोषित्स्त्री तामिव । उभयोः सादृश्यमाह - अकुलीनामिति । अकुलीनामकुलोत्पन्नाम् । 'कुलात्खः' । खस्येनादेशः । पक्षेन कौ पृथिव्यां लीनां स्थिताम् । निद्रेति । निद्रा प्रमीला तामिव । उभयोः सादृश्यं प्रदर्शयन्नाह लोचनेति । अत्यद्भुतरूपवशात्कामिजनानां लोचनग्राहिणीं नेत्राकर्षिणीम् । पक्षे निमेषोन्मेषसहिते लोचने ग्रहीतुं शीलमस्या इति शीले णिनिः । नान्तत्वान्ङिप् । अरण्येति । अरण्यं वनं तस्य या कमलिनी तामिव । उभयोः सादृश्यमाह - मातङ्गेति । मातङ्ग- श्चाण्डालस्तस्य कुलमन्वयस्तेन दूषितां मलिनीकृताम् । पक्षे मातङ्गकुलेन हस्तिसमुदायेन दूषिताम् । मर्दितामित्यर्थः । अमूर्तेति । अमूर्तेयत्तावच्छिन्नपरिमाणशून्या बुद्धि [^2]स्तामिव । उभयोस्तुल्यत्वमाह - स्पर्श इति । स्पर्शः संश्लेषः शिष्टानां तेन वर्जितां रहिताम् । अकुलीनत्वादेव । पक्षे स्पर्शो गुणस्तद्वर्जितां रहिताम् । अमूर्तत्वादेव । आलेख्येति । आलेख्यं चित्रं तत्र गतां प्राप्तां पुत्रिकामिव । उभयोः साम्यमाह - दर्शनेति।चाण्डालत्वादेव न भोगफलकत्वमस्याः । अत एव दर्शनमालोकनमात्रमेव फलं प्रयोजनं यस्याः सा तथा ताम् । पक्षेऽपि तथैव बोध्यम् । मध्विति । मधुमासे वसन्तसमये या कुसुमसमृद्धिस्तामिव । उभयोस्तुल्यतां प्रदर्शयन्नाह - अजातिमिति । न विद्यते जातिर्ब्राह्मणत्वादिर्यस्यां सा ताम् । पक्षे न विद्यते जातिर्मालती यस्यां सा तथा ताम् । 'वसन्ते मालतीपुष्पं फलपुष्पं च चन्दने न वर्णनीयम्' इति कविप्रसिद्धरपि । अनङ्गेति । अनङ्गस्य मदनस्य कुसुमचापस्य पुष्पधनुषो या लेखा तामिव । उभयोः साम्यं प्रदर्शयन्नाह - मुष्टीति । मुष्टिना ग्राह्यो ग्रहीतुं शक्यो मध्यो मध्यप्रदेशो यस्याः सा ताम् । यक्षाधिपलक्ष्मीमिति । यक्षाधिपानां गुह्यकेश्वराणां लक्ष्मीर्हरि [^3]प्रिया तामिव । उभयोः सादृश्यमाह - अलकेति । अलकैः केशैरु [^4]द्भासयत इत्येवंशीला सा तथा ताम् । पक्षे अलका [^5]भिर्नगरीभिरुद्भासिनीति विग्रहः । अचिरेति । अचिरं त्वरितमुपारूढं प्राप्तं यौवनं तारुण्यं यया ताम् ।संप्राप्तयौवनामित्यर्थः । अतीति । अतिशयरूपोत्कृष्टाकृतिराकारो यस्याः सा तथा ताम् । अन्वयस्तु प्रागेवोक्तः । [^1]F. चित्रा - श्रवण- भरणी नामकैर्नक्षत्रैर्भूषितामित्युचितम् । श्लेषे लिङ्गव्यत्ययोऽदुष्टः । [^2]F. अमूर्ता मूर्तिरहिता (आकाररहिता) एव स्पर्शवर्जिता भवति, इयं तु मूर्ताऽपि अस्पृश्यत्वात्, अमूर्तेव स्पर्शे वर्जितेत्यर्थः। [^3]F. संपदित्यर्थ उचितः । [^4]F. उद्भासते इति तात्पर्यम् । [^5]F. अलकानाम्न्या नगर्या उद्भासिनीमिति ज्ञेयम् । [^१]G. मनोहराम्. [^२]G. अक्षतरूपसंपन्नाम् ; अन्याक्षतबहुशोभिरूपाम्. [^३]G. विजातिम्. [^४]G. उपरूढ. [^५]G.अनिमेष. समुप [^१]जात [^२]विस्मयस्याभून्मनसि महीपतेः- 'अहो विधातुरस्थाने [^३]सौन्दर्यनिष्पादनप्रयत्नः । तथा हि — यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगत- स्पर्शसंभोगसुखे कृतं कुले [^४]जन्म। मन्ये च मातङ्गजातिस्प- र्शदोषभयादस्पृश्यतेय [^५]मुत्पादिता प्रजापतिना, अन्यथा कथमियक्लिष्टता लावण्यस्य। [^६] नहि करतलस्पर्शक्लेशिताना- मवयवानामीदृशी भवति कान्तिः । सर्वथा [^७]धिग्धिग्विधातार- मसदृश-संयोगकारिणम्, [^८]मनोहराकृतिरपि [^९]क्रूरजातितया येनेयमसुरश्रीरिव सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष- दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं [^१०]विहङ्गमं शुकमादाय [^११]पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् । [ टि ]-- मनसीति । मनसि जातो विस्मय आश्चर्यं यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदिस्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुर्ब्रह्मणोऽस्था- नेऽपदे सौन्दर्यस्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति — तथाहीति । नामेति कोमलामन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपह- सितोपहास्यास्पदीकृताशेषरूपसंपत्समग्रसौन्दर्यसमृद्धिर्यया सैवंविधोत्पादिता निर्मिता । किमर्थं किप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः संभोगसुखं सुरतसातं ते च यस्मिन्नेवंभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्शे निश्चयमाह मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता निष्पादिता । अत्रार्थे हेतुमाह - मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्श: संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह - अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लावव्यस्य लवणिनम्न: । कथमिति प्रश्न । इयं प्रत्यक्षोपलक्ष्य- माणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह - नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातारं ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिणम् । येनासदृशसंयोगेनेयं चाण्डालकन्यका मनोहराकृतिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हितं सुरतं मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युद्वेजयति । वैचित्यमुत्पा- दयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्तप्रकारेण चिन्तयन्तं विमर्शं कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यनारूढ- यौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ज्ञेयम् । तदुक्तम् – 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः' इति । 'सर्वदा तत्सांनिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिमं रत्नबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति पूर्वोक्तो धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव प्राप्तमेव । न ततः पृथक्कृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागत्य राज्ञे नृपाय न्यवेदयत्प्रदर्शितवान् । [^१]G. जात; दृष्ट्वा च तां समुपजात. [^२]G. चाभूत्. [^३]G. रूपनिष्पादनप्रयत्न:. रूपविधानप्रयत्न:. [^४]G. अस्या जन्म. [^५]G. मनसोत्पादिता [^६]G. तथाहि [^७]G. धिग्विधातारम् [^८]G. अतिमनोहरा [^९[G. क्रूरजातिजा. [^१]G. विहङ्गमादाय; विहङ्गममादाय [^१]G. गतं किंचित्. अब्रवीच्च – 'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालापनिपुणः, वेदिता गीतश्रुतीनाम्, काव्य [^१]नाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभाषितानामध्येता स्वयं च कर्ता, परिहासाSSलापपेशल:, वीणावेणु [^२]मुरजादीनामसमः श्रोता, [^३]नृत्यप्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, [^४]प्रणयकलहकुपित [^५]कामिनीप्रसादनोपायचतुरः, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः [^६]सर्वरत्नाना- मुदधिरिव देवो भाजनमितिकृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमायाता । [^७]तदयमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जर[^८]मसावपससार। [ टि ]--अब्रवीच्च । उवाचेत्यर्थः । देवेति संबोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्, अयं वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नामेति कोमलामन्त्रणे । शुको वर्तते । कीदृक् । विदितो ज्ञातः सकलशास्त्राणां धर्माध्यात्मयुक्ति- शास्त्राणामर्थोऽभिधेयो येन स तथा । तेन वक्ष्यमाणेन न पौनरु-क्त्यम् । इतः शुकं विशेषयन्नाह - राजेति । राजनीतेः कामन्दक- प्रतिपादितायाः प्रयोगः शिक्षा तत्र कुशलश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम् तेषां या कथा वार्ता तत्र य आलापस्तदर्थबोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तम्--' सप्त स्वरास्त्रयो ग्रामा मूर्च्छाश्चकोनविंशतिः । ताना एकोनपञ्चाशद्व्यधिका विंशतिः श्रुतिः ॥' इति । तासां वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम्, नाटकमभिनयात्मकम्, आख्यायिका वासवदत्तादिः, आख्यानकमिदानींतनराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनां तथाऽपरिमितानामसंख्यानां, सुभाषितानां शृङ्गारनीतिवैराग्यप्रतिपादकानां चाध्येता पाठकः । स्वयमात्मनैव कर्ता निष्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य आलापा रसव्यञ्जकशब्दप्रयोगास्तत्र पेशल: कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम् । तथैव वेणुशब्देन सुषिरम्, मुरजशब्देनानद्धं, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषामसमोऽद्वितीयः श्रोता आकर्णयिता । नृत्यमिति । नृत्यं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणोऽभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । द्यूतं दुरोदरं तस्य व्यापारी [^1]व्याहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्त्वनं तत्र य उपायः प्रपञ्चस्तत्र चतुरोऽभिज्ञः । गजेति । गजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवभणिप्रभृतयः पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः, तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समयं यद्भूतलं अर्थाद्भरत [^2]क्षेत्रं तत्र रत्नभूतः । स्वजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्तारत्नाश्रयत्वात् । राज्ञो रत्नाकरत्वमाह - सर्वेति । सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां कौस्तुभप्रभृतीनामाश्रयस्तथा भवानपीत्यर्थः । एतत्प्रयोजनमाह- इतीति । इतिकृत्वा इतिहेतोरस्मत्स्वामिनो वक्ष्यमाणस्य दुहिता कन्यकैनं शुकमादाय गृहीत्वा देवस्य राज्ञः पादमूलं चरणमूलमायातागता । तदिति । तस्माद्धेतोरयं शुक आत्मीयः स्वकीयः क्रियतां विधीयतामिति पूर्वप्रतिपादितमुक्त्वा प्रतिपाद्य । 'पूर्वकालत्वस्य त्वाप्रत्ययवाच्यत्वेऽपिविवक्षित- विवेकेनानन्तर्यमेव वाच्यम्' इति । नरपते राज्ञः पुरो निधायाग्रे स्थापयित्वा पञ्जरं पक्षिरक्षणस्थलम्, असौ पुरुषोऽपससारापसृतवान् । 'सृञ् अपसरणे' इत्यस्य लिटि रूपम् । [^1]F. व्यवहृतिः क्रीडेत्याशयः । [^2]F. भूमण्डलमित्याशयः, भारतवर्षस्यैकदेशत्वात् । [^१]G. नाटकाख्यानक. [^२]G. मुरजप्रभृतीनां वाद्यविशेषाणाम्. [^३]G. नृत्त. [^४]G. प्रणयकुपित. [^५]G. कामिनीजन. [^६]G. सर्वरत्नानां च. [^७]G. आत्मायत्त. [^८]G. पञ्जरमपससार. ४ का० अपसृते च [^१]तस्मिन्स विहङ्गराजो राजाभिमुखो भूत्वो [^२]न्नमथ्य दक्षिणं चरणमतिस्पष्ट [^३]वर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ 'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्ने:। चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ १ ॥ राजा तु [^३]तामार्यां श्रुत्वा [^५]संजातविस्मयः सहर्षमासन्नवर्तिनम्, अति [^६]महार्घहेमासनोपविष्टम् अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, [^७]अतिवयसम्, अग्रजन्मानम्, [^८]अखिले मन्त्रिमण्डले प्रधानममात्यं कुमारपालितनामानमब्रवीत् - 'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता । प्रथमं तावदिदमेव [^९]महदाश्चर्यम्,यदय[^१०]मसंकीर्णवर्णप्रविभागामभि- [^११]व्यक्तमात्रानुस्वारसंस्कारयोगां विशेषसंयुक्तां [^१२]गिरमुदीरयति । तत्र [^१३]पुनरपरमभिमतविषये तिरश्चोऽपि [ टि ] -- अपेति । तस्मिन्पुरुषेऽपसते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणां राजा विहङ्गराजः । 'राजाहःसखिभ्यष्टच्' राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरणं पादमुन्नमयोर्ध्वीकृत्य । शुकादीनां शब्दोच्चारणे तादृशोऽयं जातिस्वभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि स्वरा उदात्तादय- स्तेषां संस्कार : परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्र शुकादीनामस्पष्टो वर्णस्तथाप्येतस्य स्पष्टो वर्ण इति विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स एवंविध इमामग्रे वक्ष्यमाणामार्या पपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तनयुगं कुचयुग्मं व्रतमिव नियममिव चरत्यासेवते । तदेव विशिनष्टि - अश्र्विति ।अश्रुभिर्नयनसलिलैः स्नातं कृतस्नानम् । समीपेति । समीपतरवर्ति संनिहितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्वह्निस्तस्य । विमुक्त [^1]स्त्यक्त आ समन्ताद्धारो येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ता [^2]हारः कृतस्नानोऽग्निसमीपस्थायी च स्यात् ॥ २१ ॥ राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वाकर्ण्य संजातविस्मयः समुत्पन्नाश्चर्यः सहर्षं सप्रमोदं यथा स्यात्तथासन्नवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममात्यं सचिवम- ब्रवीदवोचत् । अथामात्यं विशेषयन्नाह - अतीति । अतिमहार्घ- मतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं स्थितम् । अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्य- विवेकाविवेकप्रतिपादकानि तन्त्राणि तेषां पारगं रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिकं वयो दिवस [^3]बाहुल्यं 'यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवर्णे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति । अखिले समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधानं मुख्यम् । श्रुतेति । भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुकस्य वर्णाःकादयस्तेषा- मुच्चारणे वक्तव्यतायां स्पष्टताऽश्लिष्टता श्रुताकर्णिता । तथा स्वरे स्वरविषये मधुरता माधुर्यम् । चकारः पुनरर्थकः । प्रथममिति प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् 'अतिकौतूहलमित्यर्थः । तदेव दर्शयति - यदिति । यदयं गिरं वाणीमुदीरयत्युच्चरति । इतो वाणीं विशेषयन्नाह - असंकीर्णेति । असंकीर्णः परस्परवैलक्षण्येन प्रतीयमानो वर्णानामक्षराणां प्रविभागो भिन्नता यस्यां सा तथा तम् । अभीति । मात्रा एकारादयः, अनुस्वरा अनुनासिकाः, संस्कारो व्याकरणशुद्धिः, अभिव्यक्ताः प्रकटाः एतेषां योगाः संबन्धा यस्यां सा तथा ताम् । विशेषेति । विशेषः शब्दश्लेषादिस्तेन संयुक्तां [^1]F. विगतो मुक्ता (मौक्तिक) हारो यस्मात्तत् । विमुक्त इत्यर्थस्य व्रतपक्षे गृहीतत्वेनात्राऽचमत्कारित्वात् । [^2]F. परित्यक्तभोजन इत्यर्थः । [^3 ]F.अवस्थेत्याशयः । [^१]G. तस्मिन्विहङ्गराज:. [^२]G. समुन्नमय्य. [^३]G. वर्णसंस्कारया. [^४]G. तां श्रुत्वा [^५]G. जातविस्मय: [^६]G. महार्हासनोपविष्टम्; महार्हहेमासनोपविष्टम् [^७]G. अतिपरिणतवयसम् [^८]G. अखिलमन्त्रिमण्डले प्रधानम्;अखिलमन्त्रिमण्डलप्रधानम्. [^९]G. महत्तरमाश्चर्यम्; महाश्चर्यम्. [^१०]G. असंकीर्ण. [^११]G. अनुस्वारस्वरसंयोगविशेष; अनुस्वारस्वरसंयोगाम्. [^१२]G. यदयमतिपरिस्फुटाक्षरां गिरम्; यदयमतिपरिस्फुटां गिरम्. [^१३]G. पुनर्यदियम्. मनुजस्येव [^१]संस्कारवतो बुद्धिपूर्वा [^२]प्रवृत्तिः । तथा हि-[^३]अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या- मामुद्दिश्य [^४]परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमैथुन [^५]निद्रासंज्ञामात्रवेदिनो भवन्ति । इदं तु महच्चित्रम्' इत्युक्तवति भूभुजि कुमारपालितः किंचित्स्मितवदनोऽ [^६]वादीत् - [^८]'किमत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो [^८]विहङ्गविशेषा [^९]यथाश्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्रा [^१०]प्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् ।[^११]अन्यदेतेषामपि पुरा पुरुषाणामिवातिपरि- [^१२]स्फुटाभिधाना वागासीत् । अग्निशापा [^१३]त्त्वस्फुटालापता शुकानामुपजाता, [^१४]करिणां च जिह्वाप [ टि ] -- सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः। तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्ध्वीकृतो दक्षिणचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् । इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां निराकुर्वन्नाह – किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन स्वानुभवोऽपि सूचितः । अत्रापि कारणान्तर साचिव्यं दर्शयन्नाह तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तस्यानुबन्धोऽविच्छित्तिस्तेन वा पुरुषाणाम् अर्थात्प्रेक्षावतां प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दार्ढ्यमुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारण- मस्तीत्याशयेनाह - अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्वं प्राचीन- पुरुषाणामिवातिपरिस्फुटमतिविशदमभिधानं नाम यस्यामेवंविधा वागासीत् । तु पुनरर्थे । अग्निशापादस्फुटालापता शुकादीनामुप- जातेति स्पष्टम् । अत्रायं प्रवादः । छद्मना गृहीतरूपस्य वह्नेर्यादृशं संवादं श्रुतवाञ्छुकस्तथैवो [^1]क्तवानिति तं प्रति क्रुद्धेन वह्निना स शप्तः । करिणां हस्तिनां च जिह्वापरिवृत्तिः स्वभावजनितां तां दूरीकृत्य तत्स्थले तदितर [^2]रसनायाः प्रक्षेपः । सा च गजानामेव नान्येषामित्यन्यत्र विस्तरः । शुक इत्यविशदाक्षरत्वमिति । [^1]F. पुरा तारकासुरपीडितैरमरैः प्रार्थितो ब्रह्मा अग्निसकाशात्कार्तिकेयनामानं देवसेनानायकं कुमारं प्राप्तुमादिदेश । अग्निमन्विष्यन्तो देवास्तु 'कुत्राग्निरिति' समीपगं करिणं पप्रच्छुः । 'अश्वत्थेऽन्तर्हितोग्निरिति' स उवाच । अथाग्नि- र्निष्क्रम्य 'तव जिह्वा प्रतीपा भविष्यति' इति करिणं शप्त्वा पुनरन्तर्हितः । ततोऽग्न्यर्थं देवैः पृष्टः शुकः शमीवृक्षेऽग्निं निर्दिदेश । ततोऽप्यभिव्यक्तो वह्निः 'तवाऽस्फुटा वाग्भविष्यति' इति शुकमशपदिति महाभारतम् । [^2]F. रसनाया जिह्वायाः परिवृत्तिर्विपरीतभावेनावस्थितिः 'जिह्वा प्रतीपा भविष्यति' इति शापवचने प्रतीपशब्दप्रयोगात् । [^१]G. संस्कारवती. [^२]G. वाक्प्रवृत्तिः [^३]G. एतेन. [^४]G. अतिपरिस्फुटाक्षरम्. [^५]G. निद्रामात्र. [^६]G. नृपमवादीत्. [^७]G. देव किमत्र. [^८]G. विहङ्गम. [^९]G. यथाश्रुतम् [^१0]G. तत्राप्यत्रान्य. [^११]G. अन्यच्च [^१२]G. स्फुटाक्षरा. [^१३]G. अपरिस्फुटा. [^१४]G. सारिकाणाम् रिवृत्तिः' इति । एवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य [^१]मध्यमध्यारूढमावेदयन्नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य [^२]च समासन्नस्नान- समयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ । अथ चलति महीपतावन्योन्यमतिरभससंचलनचालिताङ्गदपत्र- भङ्गमकरकोटिपाटि [^३]तांशुकपटानाम्, आक्षेपदोलायमान- [^४]कण्ठदाम्नाम्, अंसस्थलोल्लासितकुङ्कुमपटवास- [^६]धूलिपटलपिञ्जरीकृतदिशाम्, आलोलमालती [^७]पुष्पशेख- रोत्पतदलिकदम्बकानाम्, अर्धावलम्बिभिः कर्णोत्पलैश्चुम्ब्यमान- गण्डस्थलानाम् ; [^८]गमनप्रणामलालसानामहमहमिकया, वक्षःस्थलप्रेङ्खोलितहारलतानाम्, उत्तिष्ठतामासी [^९]त्संभ्रमो महीपतीनाम् । इतश्चेतश्च निःपतन्तीनां [^१०]स्कन्धावसक्त- चामराणां [ टि ]-- तस्मिन्निति । तस्मिन् कुमारपालित एवं पूर्वोक्त- प्रकारेणोच्चारयत्येवोक्तवत्येव मध्याह्नशङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्पन्नोऽभूदित्यन्वयः । किं कुर्वन् । आवेदयञ्ज्ञापयन् । कम् । अम्बरतलस्य गगनतलस्य मध्यं मध्यप्रदेशमशिशिरकिरणं श्रीसूर्यमध्यारूढं प्राप्तम् । अथ ध्वनिं विशेषयन्नाह -- नाडिकेति । नाडिका घटिका तस्याश्छेदः परिसमाप्तिस्तस्यां प्रहतस्ताडितो यः पटुर्महान्पटहो दुन्दुभिस्तस्य नादो निनादस्तमनुर्सतुं शीलमस्येति स तथा । तमिति । तं ध्वनिमाकर्ण्य श्रुत्वा क्षितिपती राजाऽऽस्थानमण्डपादुत्तस्थावुत्थितो बभूव । राजानं विशिनष्टिसमासनेति । समासन्नो निकटवर्ती स्नानसमय आप्लवनसमयो यस्य स तथा । विसर्जित इति । विसर्जितो निवर्तितो राजलोकः सेवकजनो येन स तथा । अथेति । उत्थानानन्तरं महीपतौ राज्ञि चलति सत्युत्तिष्ठतामुत्थानं कुर्वतां महीपतीनां संभ्रमः संमर्द आसीदित्यन्वयः । अथ महीपतीन्विशेषयन्नाह -- अन्योन्येति । अन्योन्यं परस्परमतिर- भसेनातिवेगेन संचलनं गमनं तेन चालितानि स्वस्थानात्प्रच्याविता- नि यान्यङ्गदपत्राणि तेषां [^1]भङ्गस्त्रुटनं तस्य या मकरकोटिर्वक्र- प्रदेशस्तेन पाटितानि छिन्नान्यंशुकानि गर्भसूत्रनिर्मितानि, पटाः सूत्रनिर्मिता येषु ते तथा तेषाम् । आक्षेपेति । आक्षेपः परस्परसंलग्नता तेन दोलायमानानि चञ्चलानि कण्ठदामानि निगरण [^2]बन्धनस्रजो येषां ते तथा तेषाम् । अंसेति । अंसस्थलेभ्यो भुजशिरःस्थलेभ्य उल्लासितान्युच्छ्रसितानि यानि कुङ्कुमानि केसराणि पटवासः पिष्टातकश्च तयोर्धूलिपटलं परागसमूहस्तेन पिञ्जरीकृताः पीतरक्तीकृता दिशः ककुभो यैस्ते तथा तेषाम् । आलोलेति । आलोलाश्चञ्चला ये मालतीपुष्पाणां जातीकुसुमानां शेखरा अवतंसास्तदुपरिष्टादुत्पतन्तो भ्रमन्तोऽलयो भ्रमरास्तेषां कदम्बकानि समूहा येषां ते तथा तेषाम् । अर्धेति ।अर्धावलम्बिभि- रर्धभागलग्नै: । एवंविधैः कर्णोत्पलैः श्रवणन्यस्तनलिनैश्चुम्ब्यमानमाश्लिष्यमाणं गण्डस्थलं कपोलात्परो भागो येषां ते तथा तेषाम् । गमन इति । गमने व्रजने यो राज्ञः प्रणामो नमस्कारस्तत्र लालसानां कृतस्पृहाणाम् । कया । अहं शक्तोऽहं [^3]शक्त इत्यस्यां साहमहमिका । मयूरव्यंसकादित्वात्साधुः । तया । वक्ष इति । वक्षःस्थले भुजान्तरे प्रेङ्खोलितास्तरलिता हारलता मुक्ताफलस्रजो येषां ते तथा तेषाम् । ततश्चेति । तदा तस्मिन्समय आस्थानभवनं नृपोपवेशनस्थलं सर्वतः परितः क्षुभितमिव क्षोभं प्राप्तमिवाभवदभूदित्यन्वयः । केन । इतश्चेतश्च संमर्दवशादितस्ततो भिन्नभिन्नप्रदेशे निःपतन्तीनां स्खलन्तीनां स्कन्धो भुज [^1]F. अङ्गदानां भुजभूषणानां ये पत्रभङ्गाः पत्ररचनाः (उत्किरणशिल्पचातुर्यम् 'जडाई' ) तासु ये मकराः (उत्कीर्णजलजन्तु विशेषाः ) तेषां कोट्या अग्रभागेन, इत्यर्थ उचितः। [^2]F. कण्ठावलम्बितहारादिस्रजः । [^3]F. अहं पूर्वमहं पूर्वमिति स्पर्धा, इत्युचितोऽर्थः । [^१]G. मध्यमारूढ. [^२]G.चासन्न. [^३]G. पाटितानेकपटानाम् ; पाटितांशुकानाम्. [^४]G. मालतीकण्ठदाम्नाम्. [^५]G. स्थलोल्लसित. [^६]G. धूलिपिञ्जरित. [^७]G. कुसुम. [^८]G. प्रसरणसदालालसानाम्. [^९]G. अतिमहान्संरम्भः [^१०]G. स्कन्धदेशावसक्त. चामरमाहिणीनां कमलमधुप [^१]पानमत्तजरत्कलहंसनाद [^२]जर्जरितेन पदे पदे रणितमणीनां मणिनूपुराणां निनादेन, वारविलासिनीजनस्य संचरतो [^३]जघनस्थलास्फालन- रसितरत्नमालिकानां [^४]मणिमेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपानफलकानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रसनारसितो [^५]त्सुकितानां च तारतरविराविणामुल्लिख्य [^६]मानकांस्य- क्रेङ्कारदीर्घेण गृहसारसानां कूजितेन, सरभसप्रचलितसामन्त- शतचरणतलाभिहतस्य चास्थानमण्डपस्य [^७]निर्घोषगम्भीरेण कम्पयतेव [^८]वसुमतीं ध्वनिना, [^९]प्रतीहारिणां च पुरः [^१०]संभ्रमसमुत्सारित [^११]जनानां दण्डिनां समारब्धहेलमुच्चै [^१२]रुच्चरता [^१३]मालोकयन्त्विति [^१४]तारतरदीर्घेण भ [ टि ]-- शिरस्तत्रावसक्तं न्यस्तं चामरं वालव्यजनं याभिरेतादृशीनां चामरग्राहिणीनां स्त्रीणाम् । संबन्धे षष्टी । तासां मणिखचितानि नूपुराणि पादकटकानि तेषाम् । अथ नूपुराणि विशेषयन्नाह - पदे पदे इति । पदे पदे प्रतिपदं रणिताः शब्दायमाना मणयो वैडूर्यादयो येषु तानि तेषां निनादेन तदुद्भवशब्देन । तमेव विशेषयन्नाह -- कमलेति । कमलस्य नलिनस्य यन्मधु रसस्तस्य पानमास्वादस्तेन मत्ताः क्षीबा ये जरत्कलहंसाः कादम्बास्तेषां नाद: शब्दस्तेन जर्जरितेन संभिन्नेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्षाणा रत्नमालिका माणिस्रजो यास्वेवंविधानां मणिमेखलानां रत्नखचितकाञ्चीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन । पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धवलितेति । धवलितानि शुभ्रीकृतान्यास्थान- मण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि यैरेवंविधानां भवनदीर्घिका गृहवाप्यस्तासां कलहंसा एव कलहंसकाः । स्वार्थे कः । तेषां कोलाहलेन कलकलेन । पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रोत्सुकता उत्कण्ठितास्तेषाम्। चः समुच्चये। तारतरोऽत्यन्तोच्चै- स्तरो विरावः शब्दो विद्यते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन । शब्दितेन । कीदृशेन । उल्लिख्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य क्रेङ्कारोऽव्यक्तध्वनिस्तद्वद्दी- र्घेणायतेन । 'कूजितं स्याद्विहङ्गानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः स्वदेशपर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैः पादतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थलस्य निर्घोषोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्वनिना । तदुत्थशब्देनेत्यर्थः । किं कुर्वता । वसुमतीं पृथ्वीं कम्पयतेव क्षोभयतेव । पुनः केन । आलोकशब्देना लोक्यतामालोक्यतामित्येवंरूपेण । केषाम् । प्रतीहारिणां द्वारपालकानाम् । अथ प्रतीहारिणो विशेषयन्नाह - पुर इति । पुरोऽग्रे ससंभ्रममनुपलक्षितस्वरूपं समुत्सारिता दूरीकृता जना लोका यैस्ते तथा तेषाम् । दण्डो विद्यते येषां ते दण्डिनस्तेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धक्रीडं यथा स्यात्तथा । उच्चैरित्यर्थः । उच्चरतां ब्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतरः शिरः[^2]समुद्भवः शब्दस्तेन दीर्घेणा [^1]F. वसुमतीं कम्पयता हव निर्घोषगम्भीरेण निर्घोषेण प्रतिध्वनिना गंभीरेण आस्थानमण्डपस्य ध्वनिना शब्देनेति व्याख्योचिता । 'गम्भीरेण पुष्टध्वनिना, तदुत्थशब्देनेत्यर्थः' इति व्याख्या "ध्वनिना' इति विशेष्यरहितः पाठस्तु विचार्य एव विवेकिनाम् । [^2]F. अत्युच्चैः शब्द इत्याशयः । [^१]G. मदमत्त. [^२]G. जर्जरेण. [^३]G. जघनस्थलस्थला. [^४]G. मेखलानाम् [^५]G. उत्सुकानाम् [^६]G. काञ्ची. [^७]G. निर्घात; निर्घातनिर्घोष [^८]G. वसुमतीं ध्वनिना. [^९]G. प्रतिहाराणाम् [^१0]G. ससंभ्रमजनानाम्. [^११]G. जानपदानाम् [^१२]G. उच्चारयताम्. [^१३]G. आलोकयतेति. [^१४]G. तारदीर्घेण. वनप्रासाद [^१]कुञ्जषूच्चरितम [^२]प्रतिच्छन्दतया दीर्घता [^३]मुपगतेनालोकशब्देन, राज्ञां च ससंभ्रमावर्जितमौलिलोल- चूडामणीनां प्रणमताममलमणिशलाकादन्तुराभिः किरीटकोटिभि- रुल्लिख्यमानस्य मणिकुट्टिमस्य [^३]निःस्वनेन, प्रणामपर्यस्ता- नामतिकठिनमणिकुट्टिम [^५]निपतितरणरणायितांनां च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानां च पुरोयायिनां [^६]जयजीवेति मधुरवचनानुयातेन पठतां दिगन्तव्यापिना कलकलेन, प्रचलितजनचरणशत [^७]संशोक्षोभाद्विहाय कुसुमप्रकरमुत्पततां च मधुलिहां हुंकृतेन, संक्षोभादति [^८]त्वरितपद [^९]प्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदाम्नां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् । अथ विसर्जितराजलोको "विश्रम्यताम्' इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्, [ टि ] -- यतेन । पुनः कीदृशेन । दीर्घतां बहुलतामुपगतेन प्राप्तेन । कया । उच्चरितेति । उच्चरित उक्तो यः शब्दस्तस्य प्रतिच्छन्दस्तस्य भावस्तत्ता तया । केषु । भवनानि सामान्यगृहाः प्रासादा देवभूपसद्मानि तेषां कुञ्जेषु लतान्तरितप्रदेशेषु । पुनः केन । मणीति । मणिकुट्टिमं रत्नबद्धभूस्तस्य निःस्वनेन । किं क्रियमाणस्य । उल्लिख्यमानस्य घृष्यमाणस्य । काभिः । किरीटकोटिभिर्मुकुटाग्रै: । कीदृशीभिः । अमलेति । अमला निर्मला मणिशलाका रत्नेषीकास्ताभिर्दन्तुराभिर्विषमाभिः । केषाम् । राज्ञां नृपाणाम् । किं कुर्वताम् । प्रणमतां नमस्कारं कुर्वताम् । कीदृशानाम् । ससंभ्रमेति । संभ्रमेण सहसावर्जिता नमिता मौलौ शिरसि लोलाश्चञ्चलाश्चूडामणयः शिरोमणयो येषां ते तथा तेषाम् पुनः केन । मणीति । मणिकर्णपूराणां रत्नकर्णाभरणानां निनादेन शब्देन । कर्णपूरं विशेषयन्नाह - प्रणामेति । प्रणामेन नमस्कारेण शिरोनमनात्पर्यस्तानां पतितानाम् । अतीति । अतिकठिनं यन्मणिकुट्टिमं तत्र [^1]निपतितेन पातेन रणरणायितानां संजातरण- रणितशब्दानाम् । पुनः केन । दिश ककुभामन्ता दिगन्ता स्तान्व्याप्नुवन्तीत्येवंशीलेन कलकलेन कोलाहलेन । केषाम् पठताम् । कीर्तिपाठकानामित्यर्थः । कीदृशानाम् । पुरोयायिना- मग्रगामिनां मङ्गलपाठकानां बन्दिनां जयजीवजयजीवेति यन्मधुरं वचनं तदनुलक्षीकृत्य यातेन प्रवृत्तेन । पुनः केन । मधुलिहां भ्रमराणां हुंकृतेन हुंकारशब्देन । किं कुर्वताम् । उत्पततामुड्डीनं कुर्वताम् । किं कृत्वा । विहाय त्यक्त्वा । किम् । कुसुमप्रकरं पुष्पसमूहम् । कस्मात् । प्रचलितेति । प्रचलिता ये जनास्तेषां चरणाः पादास्तेषां शतं तस्माद्यः संक्षोभः संभ्रमस्तस्मात् । पुनः केन । मणिस्तम्भानां रत्नस्थूणानां रणितेन रणत्कारेण । कीदृशेन । क्वणितेन शब्दितेन मुखराणि वाचालानि रत्नदामानि येषु ते तथा तेषाम् । केयूरेति । केयूराणामङ्गदानां कोटयोऽग्रभागास्तै- स्ताडितानामाहतानामिति स्तम्भविशेषणम् । कैः । अवनिपतिभिः नृपतिभिः । कीदृशैः । संक्षोभश्चित्तवैक्लव्यं तस्मादतित्वरितपद- मतिवेगवत्तरचरणं यथा स्यात्तथा प्रवृत्तैः प्रचलितैः । अन्वयस्तु प्रागेवोक्तः । अथेति । अथेत्यानन्तर्ये । नरपती राजा कतिपयैः कियद्भिराप्तैः शिष्टै राजपुत्रैर्नृपसूनुभिः परिवृतः सहितो विसर्जितो विसृष्टो राजलोकः परिच्छदलोको येन स तथा । राज्ञो विशेषणम् । विश्रम्यतां [^2]विश्रामं गृह्यतामिति स्वयमेवात्मनैवाभिधायोक्त्वा तां चाण्डालकन्यकां, वैशम्पायनश्च शुकोऽभ्यन्तरं मध्यं प्रवेश्यतां प्रवेशं कार्यतामिति ताम्बूलस्य नागवल्ल्या: करङ्कः स्थगी तां वहतीत्येवंशीला सा तथा तामादिश्याज्ञां दत्त्वाभ्य [^1]F. निपतिताः अत एव रणरणायिता ये मणिकर्णपूराः तेषां निनादेन । इत्याशयः । [^2]F. विश्राम इति प्रथमायां तात्पर्यम् । [^१]G. कुञ्जेषु चरित. [^२]G. प्रतिशब्दसया. [^३]G. दीर्घतरयाताम् ; दीर्घतरताम्. [^४]G. स्वनेन. [^५]G. निपतन. [^६]G. जयजयेति [^७]G. मङ्गलमधुरवचनानुपातेन; मधुवचनानुयातेन. [^८]G. दिगन्तर. [^९]G. संक्षोभभयादपहाय. [^१0]G. त्वरितपदम्. [^११]G. प्रसृतैः. 'वैशम्पायनः प्रवेश्यतामभ्यन्तरम्' इति [^२]ताम्बूलकरङ्क- वाहिनीमादिश्य, कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् । [^३]अपनीताभरणश्च दिवसकर इव विगलित- किरणजालः, चन्द्रतारकासमूहशून्य इव गगनाभोगः, समुपाहृत- समुचितव्यायामोपकरणां व्यायामभूमिमयासीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः,श्रमवशादुन्मिषन्तीभिः कपोलयोरीष [^४]दवदलितसिन्दुवारकुसुममञ्जरी विभ्रमाभि- रुरसि निर्दय [^५]श्रमच्छिन्नहारविगलितमुक्ताफलप्रकरानु- कारिणीभिर्ललाटपट्टकेऽष्टमीचन्द्रशकलतलोल्लसदमृतबिन्दु विडम्बिनीभिः स्वेदजलकणिकासंततिभिरलंक्रियमाणमूर्तिः, इतस्ततः स्नानोपकरणसंपादनसत्वरेण पुरः [^६]प्रधावता- [^७]परिजनेन तत्कालं [^८]विरलजनेऽपि राजकुले समुत्सारणा- धिकारमुचितं [^९]समाचरद्भिर्दण्डिभिरुपदिश्यमानमार्गः, विततसितवितानाम्, अनेकचारणगण [^१०]निबध्यमानमण्ड [ टि ]-- न्तरम् । अर्थाद्गृहस्य । प्राविशत्प्रवेशं चकार । तदनन्तरं स राजा व्यायामः श्रमस्तत्करणयोग्यां भूमिं वसुंधरामयासीदगच्छत् । इतो राजानं विशेषयन्नाह - अपेति । अपनीतानि दूरीकृतान्या- भरणानि भूषणानि येन स तथा । क इव दिवसकर इव सूर्य इव । कीदृशः । विगलितानि स्रस्तानि किरणजालानि दीधितिवृन्दानि यस्य स तथा । तत एवैतयोः साम्यम् । पुनः क इव । गगनाभोग इव घनाश्रयविस्तार इव । कीदृशः । चन्द्रः शशी, तारका नक्षत्राणि, तेषां समूहः संघातस्तेन शून्यः । अथ व्यायामभूमिं विशिनष्टि - समुपाहृतेति । समुपाहृतान्येकत्रीकृतानि समुचितानि योग्यानि व्यायामे श्रम उपकरणानि साधनानि यस्यां सा तथा ताम् । स राजा तस्यां भूमौ समानं तुल्यं वयः कौमारादि येषामेवंविधै राजपुत्रै- र्नृपसुतैः सह सार्धं कृतो विहितो मधुरो लक्षणया शरीरपीडाजनको व्यायामो येन स तथा । अलंक्रियमाणा भूष्यमाणा मूर्तिः शरीरं तस्य स तथा। राज्ञो विशेषणद्वयम् । काभिः । स्वेदेति । कपोलयो- र्गल्लात्परभागयोः स्वेदजलस्य श्रमजनितदेहजलस्य कणिकाः सूक्ष्मबिन्दवस्तषां संततयः परंपरास्ताभिः । इतः स्वदजलकणिका- संततिं विशेषयन्नाह - अमेति । श्रमवशाद्व्यायामवशादुन्मिषन्तीभिः प्रकाशं प्राप्नुवतीभिः । कपोलयोः । ईषदिति । ईषत्किंचिदव- [^1]दलितं मर्दितं सिन्दुवारस्य निर्गुंड्याः कुसुमं पुष्पं तस्या मञ्जरी वल्लरी तस्या विभ्रमो भ्रान्तिर्यासु तास्तथा ताभिः । उरसीति । उरसि वक्षस्थले निर्दयश्रमेण कठिनप्रयासेनान्यैः कर्तुमशक्य- व्यायामेनेति यावत् । तेन छिन्नश्छेदं प्राप्तो यो हारो मुक्ता- स्रक्तस्माद्विगलितश्च्युतो यो मुक्ताफलानां मौक्तिकानां प्रकरः समूहस्तमनुकारिण्यस्तमनुकुर्वन्त्यस्ताभिः । ललाटेति । ललाट- पट्टके भालस्थलेऽष्टमीचन्द्र एव शकलं तस्य तलमुत्तानस्थलं तत्रोल्लसन्तो दीप्यमाना येऽमृतबिन्दवः सुधापृषतास्तान्विडम्बयन्ति तिरस्कुर्वन्तीत्येवंशीलास्तास्तथा ताभिः कीदृशो राजा । परिजनेन सेवकजनेन । कीदृशेन । पुरतोऽग्रे प्रधावता त्वरितं गच्छता । पुनः किंविशिष्टेन । इतस्ततः समन्तात्स्नानमाप्लवस्तस्योपकरणानि जलादीनि तेषां संपादनं निष्पादनं तत्र सत्वरेण शीघ्रण । तत्कालं तत्समयावच्छेदेन विरलजनेऽपि स्वल्पजनेऽपि राजलोके राजगृहे सत्युचितं योग्यं समुत्सारणं निवारणं तत्र योऽधिकारो नियोगस्तं समाचरद्भिः कुर्वद्भिर्दण्डिभिर्वेत्रिभिश्चोपदिश्यमानः प्रदर्श्यमानो मार्गो यस्य स तथा । इतः परं स्नानभूमेर्विशेषणानि । विततेति । विततो विस्तीर्णः सितः शुभ्रो वितान उल्लोचो यस्यां सा तथा ताम् । अनेकेति । [^1]F. किञ्चित्स्फुटितम् ( विकसितम् ) इत्यर्थ उचितः । [^१]G. अभ्यन्तरं स्नानपानाशनादिना च सुखिनमेनं कारयेति; अभ्यन्तरमशनादिना चोपचर्यताम्. [^२]G. करण्ड. [^३]G. अपनीताशेषभूषणश्च. [^४]G. अवगलितसितसिन्दुवार. [^५]G. रतिश्रम; रतिविभ्रम. [^६]G. प्रधाविना. [^७]G. परिजनेनानुगम्यमानः. [^८]G. विरलतरेऽपि. [^९]G. आचरद्भिः. [^१०]G. आबध्यमान. लाम्, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापित- स्फाटिकस्नानपीठाम्, एकान्तनिहितैः [^१]अतिसुरभिगन्ध- सलिलपूर्णैः परिमलावकृष्टमधुकरकुलान्धकारितमुखै: आतपभयान्नीलकर्पटावगुण्ठितमुखैरिव [^२]स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत्। [^३]अवतीर्णस्य जलद्रोणीं वारविलासिनीकर- मृदितसुगन्धामलक [^४]लिप्तशिरसो राज्ञः [^५]परितः [^६]समुपतस्थुरं [^७]शुकनिबिडनिबद्धस्तनपरिकरा:, दूरसमुत्सारितवलयबाहुलताः, समुत्क्षिप्त [^८]कर्णाभरणाः, कर्णोत्सङ्गोत्सारितालकाः गृहीतजलकलशाः स्नानार्थमभिषेकदेवता इव वारयोषितः । ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वारिमध्य- प्रविष्टः करिणीभिरिव वनकरी परिवृतस्तत्क्षणं रराज राजा । द्रोणी [^९]सलिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव राज [ टि ]-- अनेकेऽसंख्या ये चारणगणाः कुशीलवसमुदाया- स्तैर्निबध्यमानं विरच्यमानं मण्डलं परिवृतिर्यस्यां सा तथा ताम् । गन्धोदकेति । गन्धोदकेन सुरभिपानीयेन पूर्णा भृता या कनकमयी सुवर्णमयी । अत्र विकारार्थे मयट् । एतादृशी जलद्रोणी जलकुण्डिका तया सनाथः सहितो मध्यो मध्यभागो यस्याः सा तथा ताम् । उपेति । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिनिर्मितं स्नानपीठमाप्लवनचतुष्किका यस्यां सा तथा ताम् । स्नानेति । स्नानार्थं ये कलशाः कुम्भास्तैरुपशोभितां विराजिताम् । अथ कलशान्विशेषयन्नाह -- एकान्तेति । एकान्ते निर्जलस्थले निहितैः । स्थापितैः । अतीति । अतिशयेन सुरभिर्गन्धो यस्मिन्नेवंविधं यत्सलिलं जलं तेन पूर्णैर्भृतैः । परीति । परिमलेन गन्धेनावकृष्टा ये मधुकरा भ्रमरास्तेषां कुलानि समुदायास्तैरन्धकारितं संजातान्धकारं मुखमाननं येषां ते तथा तैः । कीदृशैरिव । आतपभयान्नीलकर्पटावगुण्ठितानि मुखानि येषां ते तथा तैरिव । जलद्रोणीमवतीर्णस्य तन्मध्ये प्रविष्टस्य राज्ञो नृपस्य परितः सर्वतः स्नानार्थमभिषेकदेवता इवाभिषेकाधिष्ठात्र्य इव वारयोषितो वाराङ्गनाः समुपतस्थुः सम्यक्प्रकारेणातिष्ठन् । कीदृशस्य राज्ञः । वारविलासिन्या करेण मृदितं यत्सुगन्धामलकं सुरभिधात्रीफलं तेन लिप्तं शिरो यस्य स तथा तस्य । ता विशेषयन्नाह–अंशुकेति । अंशुकैर्वस्त्रैर्निबिडं दृढं निबद्धः संयतः स्तनपरिकरः कुचाभोगो याभिस्तास्तथा । दूरेति । दूरं समुत्सारितानि निराकृतानि वलयानि कङ्कणानि यास्वेवंभूता बाहुलता भुजवल्लयो यासां ताः । सम्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूषणं याभिस्तथा । कर्णेति । कर्णोत्सङ्गाच्छ्रवणसमीपादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदैस्तासां शोभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जलकलशा वारिभृतघटा याभिस्ताः । च पुनरर्थे । ताभिस्तत्क्षणं तस्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । समुन्नतं कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभि- र्हस्तिनीभिः परिवृतो वनकरीव । यथा धेनुकाभिः समं मज्जनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसलिलात् द्रोणीजलादुत्थाय बहिर्निर्गत्य स्नानपीठमारुरोहेत्यन्वयः । कीदृशम् । अमलेति । अमलो मलवर्जितो यः स्फटिको मणिविशेषस्तद्व- द्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कलहंसमा [^१]G. अभिसुरभि. [^२]G. कलशै:. [^३]G. अवतीर्णस्य च . [^४]G. उपलिप्त. [^५]G. समन्तात्. [^६]G. समुत्तस्थुः. [^७]G. अंशुकविनिबद्ध. [^८]G. चरणाभरणा:. [^९]G. जलद्रोणि. हंसमारुरोह । ततस्ताः [^१]काश्चिन्मरकत [^२]कलशप्रभा- श्यामायमाना नलिन्य इव मूर्तिमत्यः पत्रपुटैः काश्चिद्रजतकलश- हस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवाहेण, कश्चित्कलशोत्क्षेपश्रमस्वेदार्द्रशरीरा जलदेवता इव स्फाटिकैः कलशैस्तीर्थजलेन, काश्चिन्मलयसरित इव चन्दनरसमिश्रेण सलिलेन, काश्चिदुत्क्षिप्तकलशपार्श्वविन्यस्तहस्तपल्लवाः प्रकीर्यमाणनखमयूखजालकाः प्रत्यङ्गुलिविवरविनिर्गतजलधाराः सलिलयन्त्रदेवता इव, काश्चिज्जाड्यमपनेतुमाक्षिप्तबालातपेनेव दिवसश्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वाराङ्गना [^३]यथायथं राजानमभिषिषिचुः । अनन्तरमुदपादि च [^४]स्फोटयन्निव श्रुतिपथमनेकप्रहतपटु [ टि ]---रोहति । तत इति । आरोहणानन्तरं ता वारयोषितो यथायथं यथायोग्यं राजानमभिषिषिचुरभिषेकं चक्रुः । इतो वारयोषितो विशेषयन्नाह -काश्चिदिति । काश्चित् काश्चन मरकतमणिनिर्मितो यः कलशः कुम्भस्तस्य प्रभा कान्तिस्तया श्यामायमानाः श्यामवदाचरिताः नलिन्य इव पद्मिन्य इव मूर्तिमत्यो नीलत्वसाम्यात्तद्रूपधारिण्यः पत्रपुटैः पर्णसंपुटै: राजानमभिषिषिचु- रिति सर्वत्र । अन्याः काश्चन रजतस्य रूप्यस्य कलशः कुम्भो हस्ते पाणौ यासां तास्तथा । का इव। पूर्णचन्द्रमण्डलात्समग्रशशि- बिम्बाद्विनिर्गतेन निःसृतेन ज्योत्स्नाप्रवाहेण कौमुदीरयेण शोभमाना रजन्य इव त्रियामा इव । अन्याः काश्चन कलशस्य कुम्भस्य चोत्क्षेप उत्पाटनं तस्माद्यः श्रमस्तेन यः स्वेदो घर्मजलं तेनार्द्रं स्विन्नं शरीरं देहो यासां ताः स्फाटिकैः स्फटिकसंबन्धिभिः कलशैस्तीर्थजलेन तीर्था [^1]म्भसा च सहिता जलदेवता जलाधिष्ठात्र्य इव । काश्चिदिति । अन्याः काश्चन चन्दनस्य मलयजस्य रसो द्रवस्तेन मिश्रेण संयुक्तेन सलिलेन स्नानं [^2]चक्रुः । का इव । मलयसरित इव मलयाचलनद्य इव । ता अपि चन्दनरसमिश्रसलिला: स्युः । काश्चिदिति । अन्याः काश्चनोत्क्षिप्त उत्पाटितो यः कलशस्तस्य पार्श्वयोर्वामदक्षिणयोर्विन्यस्ताः स्थापिता हस्तपल्लवा: करकिसलयानि याभिस्ताः, प्रकीर्यमाणानीतस्ततो विक्षिप्यमाणानि नखमयूखजालकानि पुनर्भवदीप्तिचयायाभिस्ताः । प्रत्यङ्गुलि प्रतिकरशाखं यानि विवराणि छिद्राणि तेभ्यो विनिर्गता जलधारा पानीयसंततिर्यासां ताः । का इव । सलिलयन्त्र [^3]देवता इव । ता अप्येवंविधाः स्युरित्यर्थः । काश्चिदिति । अन्याः काश्चन कनकस्य सुवर्णस्य कलशो हस्ते यासां ताः । का इव । दिवसत्रिय इव वासरलक्ष्मीरिव । केनेव । जाड्यं शीतमपनेतुं दूरीकर्तुमाक्षिप्त आकर्षितो यो बालातपो नव्यालोकस्तेनेव कुङ्कुमजलेन केसरवारिणा । अत्र कुङ्कुमजलबालातपयोरुपमानोपमेयभावः । अन्वयस्तु प्रागेवोक्तः । अनन्तरमिति । अभिषेकानन्तरं स्नानशङ्खानां ध्वनिः शब्द उदपाद्युत्पन्नोऽभूत् । 'पद गतौ' इत्यस्य लुङि रूपम्। किं कुर्वन्निव । श्रुतिपथं कर्णमार्गं स्फोटयन्निव द्विधा कुर्वन्निव । पुनः कीदृक् । [^1]F. जलदेवता इव काश्चित् स्फाटिकैः कलशैः (स्फटिककलशद्वारा ) तीर्थजलेन अभिषिषिचु:, तीर्थजलाभिषेकं चक्रुरित्यर्थे उचितः । [^2]F. कारयामासुरित्याशयः । [^3]F. करनखेभ्यः कान्तिकिरणास्तथा निरगच्छन् यथा जलयन्त्र- देवतानाम् (जलनिर्झरणार्थं निर्मितयन्त्रपुत्तलिकानाम् ) हस्ताङ्गुलिविवरेभ्यो जलधारा एव मन्ये निष्पतन्तीत्युत्प्रेक्षाशयः । [^१]G. काश्चन. [^२]G. शकल. [^३]G. क्रमेण. [^४]G.आस्फोटयन्निव. ५ का० पटहझल्लरीमृदङ्गवेणुवीणागीतनिनादानुगम्यमानो बन्दि [^१]वृन्दकोलाहलाकुलो [^२]भुवनविवरव्यापी स्नानशङ्खानामापूर्यमाणाना [^३]मतिमुखरो ध्वनिः । एवं च क्रमेण निर्वर्ति [^४]ताभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय [^५]धौतवाससी शरदम्बरैकदेश इव जल- [^६]क्षालननिर्मल [^७]तनुः, अतिधवलजलधरच्छेदशुचिना दुकूलपट्टपल्लवेन तुहिनगिरिरिव गगनसरित्स्रोतसा कृतशिरो- वेष्टनः, संपादितपितृजलक्रियो मन्त्रपूततोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् । [^९]उपरचितपशुपति [^१०]पूजश्च निष्क्रम्य देव [^११]गृहान्निवर्तिताग्निकार्यो विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमानपरिमलेन मृगमदकर्पूरकुङ्कु [ टि ] -- अतिशयेन मुखरस्तारतरः । किंविशिष्टानां शङ्खानाम् । आपूर्यमाणानां वाद्यमानानाम् । पुनः कीदृशः । अनेकेति । अनेकप्रकारेण प्रहता वादिताः पटवः समर्था ये पटहा दुन्दुभयो, झल्लरी प्रसिद्धा, मृदङ्गो मर्दलो, वेणुर्वंशो, वीणा वल्लकी, गीतानि गानानि चैतेषां यो निनादो ध्वनितं तमनुलक्षीकृत्य गम्यमानः प्रवर्तमानः । पुनः कीदृक् । वन्दिनां वैतालिकानां वृन्दं समुदाय- स्तस्य कोलाहलः कलकलस्तेनाकुलो मिश्रितः । पुनः कीदृक् । भुवनेति । भुवनानां विष्टपानां विवराणि छिद्राणि व्याप्नोतीत्येवंशीलः स तथा । एवं च पूर्वोक्तप्रकारेण क्रमेण परिपाट्या निर्वर्तितो विहितोऽभिषेको यस्यैवंभूतो नृपो देवगृहं चैत्यमगमदित्यन्वयः । किं कृत्वा । विषेति । विषधराः सर्पास्तेषां निर्मोकः कञ्चुक- स्तद्वत्परिलघुनी अति [^1]ह्रस्वे, अत एव धवले शुभ्रे धौतवाससी प्रक्षालितवस्त्रे परिधाय परिधानं कृत्वा । अथ राजानं विशिनष्टि - जलेति । जलेन पानीयेन यत्क्षालनं तेन निर्मलापगतमला तनुः शरीरं यस्य स तथा । किमिव । शरदिति । शरदि घनात्यये यदम्बरं गगनं तस्यैकदेशो भागस्तद्वदिव । शरद्यम्बरं वृष्टेरभावा- न्निर्मलमेवेति भावः । अतीति । अतिधवलो यो जलधरो मेघस्तस्य यश्छेदः खण्डस्तद्वच्छुचिना निर्मलेन दुकूलपट्टः क्षीरो- [^2]दपट्टस्तस्य पल्लवेन प्रान्तेन कृतं विहितं शिरोवेष्टनमुत्तमाङ्ग- वेष्टनं येन स तथा । क इव । तुहिनगिरिरिव हिमाचल इव । गिरिं विशिनष्टि -- गगनेति । गगनसरित्स्वर्धुनी तस्या यत्स्रोतः प्रवाहस्तेन कृतशिरोवेष्टनः । संपादित इति । संपादिता निष्पादिता पितॄणां जलक्रिया येन सः । मन्त्रेति । मन्त्रैर्वेदोक्तैः पूतं पवित्रं यत्तोयं पानीयं तस्याञ्जलिः प्रसृतिस्तेन दिवसकरं सूर्यमभि संमुखं प्रणम्य नमस्कृत्य। उपेति । उपरचिता निष्पादिता पशु [^3]पतेरीश्वरस्य पूजार्चा येनैवंभूतः सन् तस्माद्देवगृहान्निष्क्रम्य बहिरागत्यावनिपो राजाऽऽहारमशनादिकं निर्वर्तयामास कृतवानित्यन्वयः । निर्वर्तितेति । निर्वर्तितं कृतमग्निकार्यं होमादि येन सः। विलेपनभूमावङ्गरागनिष्पादनस्थले झङ्कारिभिर्झङ्कार- शब्दकुर्वाणैरलिकदम्बकैर्भ्रमरसमूहैरनुबध्यमानो नियम्यमानः परिमल आमोदो यस्य स तथा तेन । मृगमदेति । मृगमदः कस्तूरी, कर्पूरो हिमवालुका, कुङ्कुमं केसरमेतेषां यो वासः परिमलस्तेन सुरभिणा सुगन्धिनैवंभूतेन चन्दनेन मलयजेनानुलिप्तं लेपितं सर्वाङ्गं [^1]F. अतीवसूक्ष्मे । [^2]F. क्षौम ( कौशेय) पट एव पल्लवः नवकिसलयः । अथवा क्षौमपट्टस्य पल्लवो विस्तारः 'पल्लवो विस्तरे षिङ्गे किसले विटपे वने' इति त्रिकाण्डशेषः । तेन । शिवपूजनापूर्वं सूर्याय अर्घ्यदानं तु ' यावन्न दीयते चार्घ्यं भास्कराय महात्मने । तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम्' ॥ इति ब्रह्मपुराणवचनात् । [^१]G. कोलाहलो. [^२]G. भवन. [^३]G. मुखरो. [^४]G. निवर्तित [^५]G. धौते वाससी. [^६]G. आक्षालन. [^७]G. विमल. [^८]G. संपन्न. [^९]G. उपचरित [^१०]G. पूजनश्च. [^११]G. निवर्तित, मवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालती कुसुमशेखरः [^१]कृतवस्त्र [^२]परिवर्तो रत्नकर्णपूरमात्राभरण: समुचितभोजनैः सह भूपतिभिराहारमभिमतरसास्वादजात- प्रीतिरवनिपो निर्वर्त [^३]यामास । परि [^४]पीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात्प्रमृष्ट- मणि [^५]कुट्टिमप्रदेशादुत्थाय नातिदूरवर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या [^६]प्रसारितं बाहुमवलम्ब्य [^७]वेत्रलता ग्रहणप्रसङ्गा- दतिजरठकिसलयानुकारि [^८]करतलं करेण, अभ्यन्तरसंचार- समुचितेन परिजनेनानुगम्यमानो, धवलांशु [^१०]कपरिगत- पर्यन्ततया [^११]स्फटिकमणिमयभित्ति [^१२]निबद्धमिवोप- लक्ष्यमाणम् अति [^१३]सुरभिणा मृगनाभि [^१४]प [ टि ] -- समग्रशरीरावयवा येन स तथा । इतो राज्ञो विशेषणानि - विरचितेति । विरचितो रचनाविशेषेण निर्मित आमोदिमालती- कुसुमानि सुगन्धिजातिपुष्पाणि तेषां शेखरः शिरोभूषणं येन स तथा । कृतेति । कृतो विहितः पूर्वपरिहितवस्त्रस्य परिवर्तः परावर्तो येन स [^1]तथा । कृतं वस्त्रस्य क्षीरोदवस्त्रस्य परिवर्त उपरिवस्त्रं येति वा । रत्नेति । रत्नखचितः कर्णपूरः कर्णाभरणं तन्मात्रमाभरणं यस्य स तथा । ननु नीचजनप्रदर्शनार्थं बहुतरभूषणधारणमिति मात्रपदव्यङ्ग्यम् । एकपङ्क्तौ समुचितं योग्यं भोजनं येषामेवंभूतैर्भूपतिभिर्नृपतिभिः सहेति भिन्नक्रमः । अभीति । अभिमताः श्रेष्ठा ये रसा मधुरादयस्तेषामास्वादो ग्रहणं तेन जातोत्पन्ना प्रीतिः संतुष्टियस्य स तथा । परीति । मुखसौगन्ध्यप्रतिपादनार्थं परि सामस्त्येन पीता गृहीता धूमवर्तिद्रव्य [^2]विशेषो येन स तथा । किं कृत्वा । उपस्पृश्याचम्य। 'उपस्पर्शस्त्वाचमनम्' इति कोशः । पुनः किं कृत्वा । भुक्त्वा । भोजनं विधाय । आस्थानमण्डपं परिषन्मण्डपमयासीज्जगामेत्यन्वयः । गृहीतमात्तं ताम्बूलं नागवल्लीदलं येन स तथा । तस्मात्प्राङ्निर्दिष्टात् प्रसृष्टेति । प्रमृष्टं सातिशयं मृष्टं मणिकुट्टिमं यस्मिन्नेवंभूतात्प्रदेशात्स्थलात् उत्थाय । उत्थानं कृत्वेत्यर्थः । नातिदूरं वर्तते या सा तया । पुनः कीदृश्या । ससंभ्रमं सभयं प्रधावितया त्वरितं गच्छन्त्या एवंभूतया । प्रतीहार्या । 'पुंवत्प्रगल्भा या नारी वक्तुं या च विचक्षणा । सा प्रतीहारी' इति । तया प्रसारितः संनिहितः कृतो बाहुर्भुजस्तमवलम्ब्य । तदाश्रयमास्थायेत्यर्थः । परीति । परिजनेन सेवकजनेनानुगम्यमान इति राज्ञो विशेषणम् । अथ सेवकजनं विशेषयन्नाह - वेत्रेति । वेत्रस्य वेतसस्य या लता सरलयष्टिस्तस्या ग्रहणं धारणं तस्य प्रसङ्गोऽभ्यासस्तस्मादतिजरठमतिकठिनं यत्किसलयं तदनुकरोति तादृशं करतलं पाण्यधोभागो यस्यैवं [^3]विधः करो हस्तो यस्य स तथा तेन । अभ्यन्तरेति । अभ्यन्तरं बाह्यजनागम्यो यो गृहप्रदेशस्तत्र यः संचारः संचरणं तत्र समुचितो योग्यः स तथा तेन । अथास्थानमण्डपं विशिनष्टि - धवलेति । धवलं शुभ्रं यत् अंशुकं वस्त्रं तेन परिगतः सहितो यः पर्यन्तः प्रान्तस्तस्य भावस्तत्ता तया । स्फटिकमणिमयी या भित्तिः कुड्यं तया निबद्धं निर्मितमिवो- पलक्ष्यमाणं दृश्यमानम् । अनेनांशुकानां श्वेतत्वसौक्ष्म्यातिशयो व्यज्यते । अतीति । अतिसुरभिणा मृग [^1]F. धृताऽपरस्त्र इति यावत् । [^2]F. पीता अग्निसंयोगेन धूमसंयुक्तताम्रकूटादिनिर्मिता वर्तिर्येन। [^3]F. वेत्रलतेत्यादिविशेषणं प्रतीहार्या बाहो: । अन्यपरिजनस्य वेत्रग्रहणाऽसंबन्धात्, संबन्धेऽपि अनुगामिन: परिजनस्य करतलकठोरतावर्णनेऽत्र स्वारस्याभावात् । तेनैवं पाठः अन्वयश्चो- चितः-'प्रतीहार्या प्रसारित क्षेत्रलता ग्रहणप्रसङ्गादतिजरठ- किसलयानुकारिकरतलं बाहुं करेण ( राजा इत्यर्थः) अवलम्ब्य' । व्याख्या तु उपरितो ज्ञेया । [^१]G. कृताम्बर. [^२]G. परिवर्तो. [^३]G. निवर्तयामास. [^४]G. धूप; धूपधूम. [^५]G. कुट्टिमात्. [^६]G. प्रसारितबाहुम्; प्रसारितम्. [^७]G. अनवरतवेत्र. [^८]F. प्रसङ्गानति; प्रसङ्गादनति. [^९]G. करतलकरेण. [^१0]G. जवनिकापरिगत. [^११]G. स्फटिकमय. [^१२]G. बद्ध. [^१३]G. अतिसुरभि. [^१४]G. परिमलेन. रिगतेनामोदिना चन्दनवारिणा सिक्त [^१]शिशिरमणिभूमिम्, अविरलविप्रकीर्णेन विमलमणि [^२]कुट्टिमगगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन संनिहितगृहदेवतेनेव गन्धसलिलक्षालितेन कलधौतमयेन स्तम्भ- संचयेन विराजमानम्, अतिबहलागुरुधूपपरिमलम्, अखिल- [^३]विगलितजलनिवहधवलजलधरशकलानुकारिणा कुसुमामो दवासितप्रच्छदपटेन पट्टोपधा [^४]नाध्यासित [^५]शिरोभागेन मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थ [^६]रत्नपादपीठेन [^७]तुहिनशिलातल [^८]सदृशेन शयनेन सनाथीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् । तत्र च [^९]शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खड्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरण- स्तत्कालोचितदर्शनैरवनिपतिभिर [ टि ]-- नाभिपरिगतेनामोदिना चन्दनवारिणा मलयजपानीयेन सिक्ता [^1]सिञ्चितात एव शिशिरा शीतला मणिभूमी रत्नबद्धा. भूर्यस्मिंस्तत्तथा । अवीति । अविरलं घनतरं विप्रकीर्णेन पर्यस्तेन । विमलेति । विमलमणीनां निर्मलरत्नानां यत्कुट्टिमं तत्रगगनतलतारागणेनेवाकाशस्थितनक्षत्रसमूहेनेव कुसुमोपहारेण पुष्पप्रकरेण निरन्तरं सर्वकालं निचितं व्याप्तम् । स्तम्भेति । स्तम्भाः स्थूणास्तेषां संचयेन समुदायेन विराजमानं शोभमानम् । स्तम्भसंचयं विशेषयन्नाह -- गन्धेति । गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन धौतेन । कलधौतं सुवर्णं तन्मयेन । अत्र विकारार्थे मयट् । उत्कीर्णेति । उत्कीर्यकृताः शालभञ्जिकाः पुत्रिकास्तासां निवहः समूहो यस्मिन्स तथा । केनेव । संनिहिताः समीपस्था गृहदेवता गृहाधिष्ठत्र्यो यस्मिन्नेवंभूतेनेव । 'गोस्त्रियोः -' इति पुंवद्भावः । अतीति । अतिबहलोऽतिप्रचुरो योऽगुरुः कृष्णागुरुस्तस्य धूपस्य परिमलः सौगन्ध्यं यस्मिंस्तत्तथा । तुहिनेति । तुहिनं हिमं तस्य शिलातलं तत्सदृशं यच्छयनं शय्या तेन । सनाथीकृता सहिता वेदिका संस्कृतभूमिर्यस्मिंस्तत्तथा । इतः शयनं विशेषयन्नाह – अखिलेति । अखिलः समग्रो विगलितो जलनिवहो नीरसमूहो यस्मिन्नेवंभूतो धवलः शुभ्रो जलधरो मेघस्तस्य शकलं खण्डस्तमनुकारिणा तत्सादृश्यकरणशीलेन । कुसुमेति । कुसुमानां पुष्पाणामामोदः परिमलस्तेन वासितो भावितः प्रच्छदपट उत्तरच्छदो यस्मिंस्तत्तथा तेन । पट्टेति । पट्टस्य पदुकूलस्योपधान- मुच्छीर्षकं तेनाध्यासितमधिष्ठितं शिरोधाम शिरःस्थलं यस्मिंस्तत्तथा तेन । मणीति । मणिमया मणिप्रचुराः प्रतिपादुका अधःपीठानि तेषु प्रतिष्ठिताः स्थिताः पादा यस्य तत्तथा तेन । पार्श्वेति । पार्श्वस्थं समीपस्थं रत्नपादपीठं मणिपादासनं यस्मिंस्तत्तथा तेन । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र शयने निषण्ण उपविष्टो राजा मुहूर्तमिव घटिकाद्वयमात्रमिवासांचक्रे सुष्वाप । इतो राजानं विशेषयन्नाह – क्षितीति । क्षितितले भूमितल उपविष्टया स्थितया तथोत्सङ्गे क्रोडे निहिता स्थापितासिलता खड्गलता ययैवंभूतया खड्गवाहिन्या नवं नूतनं यन्नलिनं कमलं तस्य दलानि पत्राणि तद्वत्कोमलेन मृदुना करसंपुटेन हस्तसंपुटेन शनैः शनैः संवाह्यमानौ [^2]संचाल्यमानौ चरणौ पादौ यस्य स तथा तेन । तत्काल इति । तत्काले शयनकाल उचितं योग्यं दर्शनमालोकनं येषामेतादृशैरवनिपतिभिर्नृपैरमात्यैः सचिवैर्मित्रैः सुहृद्भिस्तास्ताः प्रस्तावोचिताः कथा वार्ताः कुर्वन्विदधत् । ततः कथासमाप्त्यनन्तरं पूर्वोक्तां प्रतीहारीमित्यादिदेशाज्ञापयामास । कीदृशीम् । नातिदूरवर्तिनीं [^1]F. आर्दीकृता इत्युचितम् । [^2]F. आमृष्यमाणौ । सुखकरं यथा स्यात्तथा आपीड्यमानौ इत्यर्थः । [^१]G. शिशिरकर. [^२]G. कुट्टिमं गगनतलम्. [^३]G. परिगलित. [^४]G. अध्यवसित. [^५]G. शिरोधाम्ना. [^६]G. रत्नपीठेन; रत्नमयपीठेन. [^७]G. तुहिनगिरि. [^८]G. सदृशशयनेन. [^९]G. शयनतलनिषण्णः. मात्यार्मित्रैश्च सह तास्ताः कथा: कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् 'अन्तःपुराद्वैशम्पायनमादायागच्छ' इति [^१]समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश । सा क्षितितळनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथादिष्टमकरोत् । अथ [^२]मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलता- वलम्बिना किंचि [^३]दवनतपूर्वकायेन सितकञ्चुका [^४]वच्छन्नवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्द [^५]संचारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितल[^६]निहितकरतलस्तु कञ्चुकी राजानं [^७]व्यज्ञापयत् - 'देव, देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पायनः स्नातः कृताहारश्च [^८]देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय [^९]गते च तस्मिन्राजा वैशम्पायनमपृच्छत् - [^१०]'कच्चिदभिमतमास्वादित- मभ्यन्तरे भवता किंचिदशनजातम्' इति । [^११]स प्रत्युवाच - 'देव, किं वा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाम [ टि ]-- नातिव्यवधानेन वर्तते या सा ताम् । आज्ञाविषयमाह - अन्तःपुरेति । अन्तःपुरादवरोधात्तं वैशम्पायनं शुकमादायागच्छेति । समुपेति । समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्ति- पृच्छायां कुतूहलमाश्चर्यं यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहितौ स्थापितौ जानू नलकीलकौ करतले हस्ततले च यया सा । आसनविशेषेण विनयविशेषो व्यञ्जितः । आज्ञोत्तरं तस्याः कर्तव्यमाह - यथेति । यथा येन प्रकारेणाज्ञाप- यत्याज्ञां धत्ते देवो भवानित्यनूद्य शिरसि मस्तक आज्ञां पूर्वोक्तां कृत्वा । स्वशिरसि करतलं निधायेति भावः । यथेति । येन प्रकारेण राज्ञादिष्टमाज्ञापितं तथाकरोच्चकार । अथेति । अन्तःपुरप्रवेशानन्तरम् । मुहूर्तादिव तावन्मात्रविलम्बादिव वैशम्पायन: शुको राजान्तिकं नृपसमीपमाजगामाययौ । शुकं विशिनष्टि - प्रतीति । प्रतीहार्या पूर्वोक्तया गृहीतमात्तं पञ्जरं यस्य स तथा । कञ्चुकिनेति । कञ्चुकिना सौविदल्लकेनानुगम्य- मानोऽनुव्रज्यमानः । केन । विहङ्गजातिप्रीत्या पक्षित्वजातिस्नेहेन जरत्कलहंसेनेव वृद्धराजहंसेनेव । अथ कञ्चुकिनं विशेषयन्नाह – कनकेति । कनकस्य सुवर्णस्य या वेत्रलता वेतसयष्टिस्तामवलम्बत इत्येवंशीलः स तथा तेन । किंचिदिति । किंचिदीषदवनत आनम्रः पूर्वका यो यस्य स तथा तेन । सितेति । सितः श्वेतो यः कञ्चुकः कूर्पासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य स तथा तेन । जरेति । जरा विस्रसा तया धवलितः शुभ्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्गदः शब्दविशेषः स्वरो यस्य स तथा तेन । मन्देति । मन्दमन्दं शनैः शनैः संचरतीत्यवंशीलः स तथा तेन । क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवंविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापनमकरोत् । हे देव हे स्वामिन्, देव्यो राजपत्न्यो विज्ञापयन्ति विज्ञप्तिं मन्मुखेन कारयन्ति । किं तदाह - देवेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्वं स्नातः कृतस्नानः पश्चात्कृताहारो विहिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमत- मिष्टं किंचिदशनजातं भक्ष्यसमूहमास्वादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ, किंवेत्यत्र नञि काकुः । तेन सर्वमास्वादितमित्यर्थः । तदेवोत्कर्षतया निरूपयति - प्रकामेति । प्रकाममति [^१]G. समुपयात. [^२]G. मुहूर्तादेव. [^३]G., आनत. [^४]G. अवच्छिन्न. [^५]G. चारिणा. [^६]G. विहित; निहितकरस्तु. [^७]G. व्यजिज्ञापयत्. [^८]G. पादमूले. [^९]G. अपगते तस्मिन्. [^१०]G. क्वचित्. [^११]G. स तु. मापीतो जम्बूफलरसः, हरि [^१]नखर [^२]भिन्नमत्तमातङ्गकुम्भ- मुक्तरक्तार्द्रमुक्ताफलत्वींषि खण्डितानि [^३]दाडिमबीजानि, नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च [^४]चूर्णितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते' इति एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्- 'आस्तां ताव [^५]त्सर्वम् । अपनयतु नः कुतूहलम् । आवेदयतु भवानादितः प्रभृति कात्सर्येनात्मनो जन्म कस्मिन्देशे, भवान्कथं जातः, केन वा नाम कृतम्, [^६]का ते माता, [^७]कस्ते पिता, कथं वेदानामागमः, कथं शास्त्राणां परिचयः, कुतः कला [^८]आसादिताः, किंहेतुकं जन्मान्तरानुस्मरणम्, उत वरप्रदानम्, अथवा [^१०]विङ्गहवेषधारी कश्चि [^११]च्छन्नं निवससि, क्व वा पूर्वमुषितम्, कियद्वा वयः, [^१२]कथं [^१३]पञ्जरबन्धनम्, कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम्' इति । वैशम्पायनस्तु स्वयमुपजातकुतूह [ टि ]-- शयेनातृप्तिमर्यादं पीतः पानविषयीकृतो जम्बूः सुरभिपत्रा तस्याः फलानि सस्यनि तेषां रसोऽन्तर्भूतद्रवः । कीदृशः । नीलः सन्पाटलः श्वेतरक्तः । अत एव आमत्तेति । आमत्तो मदोन्मत्तो यः कोकिलः पिकस्तस्य लोचनच्छविरिव छविर्यस्य स तथा । पुनः कीदृक् । कषायोऽम्लो मधुरो मिष्टश्चेति कर्मधारयः । अथ च खण्डितानि शकलीकृतानि । मयेति शेषः । कानि। दाडिमबीजानि । अथैतानि विशेषयन्नाह - हरीति । हरिः सिंहस्तस्य नखरा नखास्तैर्भिन्ना ये मत्तानां मातङ्गानां कुम्भा मांसपिण्डाः तेभ्यो मुक्तान्यपगतानि यानि रक्तानि रुधिराणि तैरार्द्राणि स्विन्नानि यानि मुक्ताफलानि तद्वत्त्विट् कान्तिर्येषु तानि । नलिनीति । नलिनी कमलिनी तस्या दलानि पत्राणि तद्वद्धरिन्ति नीलानि । द्राक्षेति । द्राक्षा गोस्तनी तस्याः फलानि तद्वत्स्वादूनि मिष्टान्येवंविधानि प्राचीनामलकी क्षीरधात्री तस्याः फलानि स्वच्छया स्वाधीनतया चूर्णितानि मर्दितानि । किंवा नास्वादितानीति पूर्वानुषङ्गः । प्रीत्यतिशयस्यावक्तव्यत्वमाह - किं वेति । बहुना प्रलपितेन कथितेन किं वा । न किमपीत्यर्थः । सर्वमेवेति । जम्बूरसादिकं देवीभी राजपत्नीभिः स्वयं न परतः करतलोपनीयमानं हस्ततलेनोपनीयमानं मदर्थमानीयमानममृतायते अमृतवदाचरति । 'उपमानादाचारे' इति [^1]क्यच्प्रत्ययेनात्मनेपदम् । इति वाक्य- समाप्तौ । एवं पूर्वोक्तप्रकारेण वादिनो ब्रुवतः कीरस्य वचनं वाक्यमाक्षिप्य तिरस्कृत्यान्यदेव जिज्ञासितुं प्रष्टुं नरपती राजाब्रवीत् । पूर्ववक्तव्यतायामनादरमाह - आस्तां तावदिति । सर्वं पूर्वोक्तं तावदादावास्तां तिष्ठतु । नोऽस्माकं कुतूहलमाश्चर्यं पक्षिणा सर्वशास्त्रविषयकं ज्ञानं स्यादित्येवरूपमपनयतु दूरीकरोतु । तदेव दर्शयति – आवेदयत्विति । कार्येन समग्रत्वेनादितः प्रभृत्युत्पत्ति- समयादारभ्यावेदयतु कथयतु भवान् । तदेव दर्शयति — आत्मन इत्यादि । कस्मिन्देशे कुत्र जनपद आत्मनः [^2]स्वकीयस्य जन्मोत्पत्तिः । कथं केन प्रकारेण भवांस्त्वं जात उत्पन्नः । केन वा वैशम्पायन इति नामाभिधानं कृतं विहितम् । ते तव का माता जननी। ते कः पिता जनकः। कथं केन प्रकारेण वेदानामाम्नायाना- मागम उपलब्धिः । कथं शास्त्राणां न्यायमीमांसादीनां परिचयोऽवबोधः । कुतः कस्मात्कला विज्ञानैकदेशा द्वासप्ततिभेदभिन्ना आसादिता अभ्यस्ताः । किंहेतुकं किंनिमित्तकं जन्मान्तरस्य पूर्वजन्मनोऽनुस्मरणमनुभूतार्थज्ञानम् । उताहोस्विद्वरप्रदानम् । यद्वा । केनचिद्वरः प्रदत्तो येन जन्मान्तरं जानासीति भावः । अथवेति पक्षान्तरे । सिद्ध एव वा कश्चित् कश्चन त्वं विहङ्गानां पक्षिणां वेषधारी छन्नं गूढं निवससि निवास करोषि । व वा कस्मिन्स्थलेऽत्रागमनात्पूर्वमुषितं स्थितम् । ते कियद्वार्षिकं वयः कौमारादि । कथं केन प्रकारेण पञ्जरः पक्षिणां गृहं [^1]F. क्यच् प्रत्यये सति नात्मनेपदम् । तेन 'कर्तु: क्यङ् सलोपश्च' इति क्यङ्प्रत्यये तात्पर्यं बोध्यम् । [^2]F. स्वस्येत्यर्थः । [^१]G. करखरनखर. [^२]G. निभिन्न. [^३]G. दाडिमी. [^४]G. वलितानि; समास्वादितानि. [^५]G. सर्वमेवेदम्. [^६]G. का माता. [^७]G. कः पिता. [^८]G. समासादिताः. [^९]G. किं जन्मान्तर. [^१०]G. विहग. [^११]G. छन्नो. [^१२]G. कथं वा. [^१३]G. बन्धः. लेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् - 'देव, महतीयं कथा । यदि कौ [^१]तुकमाकर्ण्यताम् अस्ति पूर्वापरजलनिधि [^२]वेलावनलग्ना मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलमदजलसेकसंवर्धिरतिविकच धव- लकुसुमनिकरमत्युच्चतया [^३]तारकागणमिव [^४]शिखरप्रदेश- संलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यमान- मरिचपल्लवा, करिकलभकरमृदिततमालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोल [^५]च्छविना संचरद्वनदेवताचरणा- लक्तकरसरञ्जितेनेव पल्लव [^६]चयेन संच्छादिता, शुककुल- दलितदाडिमीफलद्रवार्द्रीकृततलैरतिचपल [^७]कपिकम्पित [^८]कल्लोलच्युतपल्लवफलशबलैरनवरतनिपतित- [^९]कुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्ल [ टि ] -- तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमनमिति । तदनन्तरं वैशम्पायनः । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेनादरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्प्रश्नानन्तरं मुहूर्तमिव घटिकांद्वयमिव ध्यात्वा ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे देव, यत्पृष्टं तद्विषयिणी महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां श्रूयताम् अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह - पूर्वेति । पूर्वश्चापरश्च पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संबद्धा । मध्येति । सह्यहिमालययोर्मध्यं मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अत एव मध्यभूषणरूपत्वाद्भुवः पृथिव्या मेखलेव काञ्चीव । पादपैर्वृक्षैरुपशोभिता द्योतमाना । अथ पादपान्विशेषयन्नाह - वनेति । वने कानने करिणो गजास्तेषां कुलानि यूथानि तेषां मदजलस्य दानवारिणः सेकः [^1]सिञ्चनं तेन सम्यग्वर्धिता वृद्धिं प्राप्तास्तैः । अतीति । अतिविकचान्यत्यन्तं विकसितानि यानि धवलानि शुभ्राणि कुसुमानि पुष्पाणि तेषां निकरः समूहस्तम् । कीदृशम् । अत्यन्तमुच्चतया शिखरप्रदेशः प्रान्तदेशस्तत्र संलग्नमत एवोच्चत्वाच्छुभ्रत्वाच्च तारकाणां गणमिव नक्षत्राणां समूहमि- वोद्वहद्भिर्धारयद्भिः । पुनरटवीं विशिनष्टि - मदेति । मदेन कला मनोज्ञा ये कुररा मत्स्यनाशनास्तेषां कुलानि तैर्दश्यमाना आस्वाद्यमाना मरिचवृक्षस्य पल्लवा यस्यां सा । करीति । करिणां गजानां कलभास्त्रिंशदब्दकास्तेषां कराः शुण्डादण्डास्तैर्मृदितानि मर्दितानि यानि तमालवृक्षस्य किसलयानि तेषामामोदः परिमलो विद्यते यस्यां सा । मध्विति । मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितैषंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोली गल्लापरप्रदेशौ तयोश्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी, मधुमदात्तु विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पल्लवानां किसलयानां चयेन समूहेन संच्छादिताच्छादिता । विराजितेति । लता वल्ल्यस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह – शुकेति । शुककुलैर्दलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनार्द्रीकृतमार्द्रतामुपनीतं तलं मध्यभागो येषां ते तथा तैः । अतीति । अतिचपला अत्यन्तं चञ्चला ये कपयो गोलाङ्गूलास्तैः कम्पिता धूनिता ये कक्कोलाः कोश- फलवृक्षास्तेभ्यश्च्युतैः पतितैः पल्लवफलैः शबलाः कर्बुरास्तैः । अनवरतेति । अनवरतं निरन्तरं निपतितानि यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति । पथिकजनैः [^1]F. सेचनमित्यर्थः । १ कौतूहलम्. २ वेलावलग्ना. ३ तारांगणम्. ४ देशलग्न. ५ कोमलच्छविना. ६ प्रचयेन. ७ कपिकुल. ८ कङ्कोल; कम्पिल्ल. ९ धूलीलतावनद्धकुसुम. वसं [^१]स्तरैरतिकठो [^२]रनालिकेरके [^३]तकीकरी [^४]रबकुलपरिगतप्रान्तैस्ताम्बूलीलतावनद्धपूगखण्डमण्डितैर्वनलक्ष्मीवा [^५]संभवनैरिव वि [^६]राजिता लतामण्डपैः, उन्मदमातङ्गकपो [^७]लस्थलगलि [^८]तसलिलसिक्तेने[^९]वानवरतमेलालतावनेन मद्गन्धिनान्धकारिता, नखमुखलग्ने- भकुम्भमुक्ताफललुब्धै: शबरसेनापतिभिरभिहन्यमान केसरिशता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधिष्ठिता च, समरो [^१०]द्यतपताकिनीव [^११]बाणासनारोपितशिलीमुखा [^१२]विमुक्तसिंहनादा च, कात्यायनीव प्रचलितखङ्गभीषणा रक्तचन्दनालंकृता च, कर्णीसुतकथेव संनिहितविपुलाचला शशोपगताच, [ टि ]-- पान्थलोकै रचितो निर्मितो लवङ्गपल्लवानां लवङ्गवृक्ष- विशेषकिसलयानां संस्तरः प्रस्तरो येषु तैः । अतीति । अतिकठोरा अत्यन्तकठिना नालिकेरा लाङ्गलीवृक्षाः केतक्यः क्र- कचच्छदाः करीराः केसरा बकुलाश्च तैः परिगतो व्याप्तः प्रान्तोऽन्त्यप्रदेशो येषां ते तथा तैः । ताम्बूलीति । ताम्बूली नागवल्ली सा चासौ लता चेति कर्मधारयः । तयावनद्धं बद्धं यत्पूगखण्डं क्रमुकवनं तेन मण्डितैः शोभितैः । कैरिव । वनेति । वनलक्ष्मीररण्यश्रीस्तस्या वासस्य वसतेर्भवनानि गृहाणि तैरिव । उन्मदेति । उन्मदा मत्ता ये मातङ्गा गजास्तेषां कपोलस्थलानि करठप्रदेशास्तेभ्यो गलितं च्युतं यत् सलिलं मदजलं तेन सिक्तेनेव सिञ्चितेनैव । अत एव मदगन्धिना मदस्य गन्ध इव गन्धो यस्मिन्नेतादृशेन । अनवरतं निरन्तरमेलानां चन्द्रवालानां लता वल्लयस्तासां वनं काननं तेनान्धकारिता श्यामीकृता । एलारजःसंबन्धाच्छ्यामतां प्रापितेत्यर्थः । नखेति । नखानां मुखान्यग्राणि तेषु लग्नान्यासक्तानि यानीभकुम्भमुक्ताफलानि गजमांसपिण्डरसोद्भवानि तेषु लुब्धैर्लोलुपैः शबराणां भिल्लानां सेनापतिभिः सैन्यनायकैरभिहन्यमानं व्यापाद्यमानं केसरिणां नखरायुधानां शतं यस्यां सा तथा । प्रेतेति । प्रेताधिपो यमस्तस्य नगरीव संयमिनीव सदा निरन्तरं सर्वदा संमिहितो निकटवर्ती मृत्युर्यमस्तेन भीषणा भयकारिणी । पक्षे सदा निकटस्थो यो [^1]मृत्युरजगरस्तेन भीषणा भयावहा । यद्वा । कारणे कार्योपचारान्मृत्युर्व्याघ्रादयस्तैर्भीषणेत्यर्थः । महिषेति । महिषैर्गव लैरधिष्ठिता व्याप्ता च । अथ च यमपुरीपक्षे यमस्य वाहनं महिषस्तेनाधिष्ठिता सहिता । समरेति । समरे सङ्ग्राम उद्यता या पताकिनी सेना तद्वदिव । उभयोः साम्यमाह - बाणेति । बाणाख्ये वृक्षविशेषे समारोपिताः स्थापिताः शिलीमुखा भ्रमरा यया सा तथा । पक्षे बाणेषु शरेषु सम्यक्प्रकारेणारोपिताः शिली [^2]मुखालोहखण्डा यस्यामिति विग्रहः । विमुक्तेति । विमुक्तस्त्यक्तः । अर्थात्केसरिभिः । सिंहनादः केसरिध्वनिर्यस्यां सा तथा । पक्षे सुभटैर्विहितः सिंहनाद इव नादो यस्यामिति विग्रहः । पुनः कीदृशी । कात्यायनी सिंहयाना तद्वदिव । उभयोः साम्यमाह – प्रचलितेति । सेनाप्रकर्षेण प्रचलितो यः खङ्गो गण्डकस्तेन भीषणा भयावहा । रक्तचन्दनं रक्ताङ्गं वृक्षविशेषस्तेनालंकृता च भूषिता च । पक्षे प्रचलितो यः खङ्गः कौक्षेयकस्तेन भीषणा भयजनिका, रक्तमेव चन्दनं तेनालंकृता च । चर्चितेत्यर्थः । कर्णीसुतः कश्चित्क्षत्रि-यविशेषः तस्य कथा वृत्तान्तस्तद्वदिव । उभयोस्तुल्यतामाह - संनिहितेति । संनिहितौ समीपवर्तिनौ विपुलाचलौ विपुलाचल- संज्ञको सखायौ यस्यां सा तथा । शशस्तस्य मन्त्रिमुख्यस्तेनोपगता सहिता च । [^1]F. हिंस्रजन्तुद्वारा मरणं तेन भीषणेत्यर्थः । [^2]F. बाणासनारोपितशिलीमुखा इत्येव पाठ: । बाणासु नीलझिण्टीषु असनेषु पीतशालेषु (वृक्षेषु ) आरोपिताः कुसुमसौरभात् शिलीमुखा भ्रमरा यया , इति अटवीपक्षेऽर्थः । पक्षे तु बाणासनेषु धनुःषु आरोपिताः शिलीमुखा बाणा यया इत्यर्थः । टीकागृहीतपाठे तु हठादाकर्ष एवार्थस्येति विमृशन्तु । [^१]G. स्रस्तरैः. [^२]G. नारिकेल, करिकेसर. [^३]G. केतकीपरिगत. [^४]G. केसर. [^५]G. भुवनैः. [^६]G. विराजितमण्डपैः . [^७]G. स्रवण; प्रस्रवण; सलिलप्रस्रवण. [^८]G. मदसलिल. [^९]G. निरन्तरमेला. [^१०]G. सेनेव. [^११]G. समारोपित; बाणासनारोपित. [^१२]G. विविक्त. कल्पान्तप्रदोषसंध्येव [^१]प्रनृतनीलकण्ठा पल्लवारुणा च, अमृतमथनवेलेव श्रीद्रुमोपशोभित [^२]वारुणीपरिगता च, प्रावृडिव घनश्यामलानेकशतह्रदालंकृता च, चन्द्रमूर्तिरिव सततमृक्षसार्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृगबालव्यजनोपशोभिता समदगजघटापरिपालिता च, गिरितनयेव स्थाणुसंगता भृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचर [^३]परिगृहीता च, कामिनीव चन्दन- मृगमदपरिमलवाहिनी [^४]रुचिरागुरुतिलकभूषिता च, [ टि ]-- अत एव 'कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञकौ । शशो मन्त्रिवरस्तस्य' इति बृहत्कथायां कथा निबद्धा । पक्षे संनिहिताः समीपवर्तिनो विपुलाः पृथुला अचलाः पर्वता यस्यां सा तथा । शशो मृदुलोमको लोध्रवृक्षो वा तेनोपगता सहिता च । 'शशो लोध्रे नृभेदे च पशौ' इत्यनेकार्थः । कल्पान्तेति । कल्पान्तस्य युगान्तस्य प्रदोषो रजनीमुखं तस्य या संध्या सायंकालस्तद्वदिव । उभयोः सादृश्यमाह - प्रवृत्ता नीलकण्ठा मयूरा यस्यां सा तथा । सस्तैः पल्लवैः किसलयैररुणा चेति । पक्षे प्रवृत्तो नीलकण्ठो महादेवो यस्याम् । पल्लववदरुणा रक्ता चेत्यर्थः । अमृतेति । अमृताय सुधायै यन्मथनं विलोडनम् । क्षीरसमुद्रस्पेति शेषः । तत्र वेलाम्भसो वृद्धिः समयो वा । तद्वदिव । उभयोः सादृश्यमाह – श्रीति । श्रीद्रुमाः श्रीवृक्षास्तैरुपशोभिता वरुणानां वृक्षविशेषाणां समूहो वारुणं तेन परि सामस्त्येन गता प्राप्ता चेत्यर्थः । पक्षे श्री मौ लक्ष्मीकल्पद्रुमौ ताभ्यामुपशोभिता वरुणस्येदं वारुणं मद्यं तेन परिगता सहिता च । समुद्रप्रभवत्वात्तस्येति भावः । प्रावृड्डर्षास्तद्वदिव । उभयोः सादृश्यमाह - घनेति । घनं निबिडं श्यामला । अत्यन्तकृष्णेत्यर्थः । अनेकशतसंख्याका ये हदैा ग्रहाः (?) तैरलंकृता च । पक्षे घनैर्मेघैः श्यामला अनेका भिन्नाभिन्न स्वरूपाः शतहदा जलबालिकास्ताभिरलंकृता चेति विग्रहः । चन्द्रस्य कुमुदबान्धवस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह सततेति । ऋक्षा भल्लूकास्तेषां सार्थः समुदायस्तैनानुगता, तथा हरिणैर्मृगैरध्यासिताश्रिता च । पक्षे सततं निरन्तरमृक्षाणि नक्षत्राणि तेषां सार्थः समुदायस्तेनानुगता सहानुयाता हरिणेन मृगेणाध्यासिता च । राज्यस्थिती राज्यमर्यादा सेव । उभयोः साम्यमाह – चमरेति । चमराश्चमर्यः, मृगा हरिणाः बालव्यजनानि चामराणि तैरुपशोभिता, सह मदेन वर्तमानाः समदा ये गजा हस्तिनस्तेषां घटाः समुदायास्ते परिपालिता यया सा । अथ च तादृशी राज्यस्थितिरित्युभयोः साम्यम् । गिरिति । गिरेर्हिमाचलस्य तनया पार्वती तद्वदिव । उभयोः सादृश्यमाह - स्थाण्विति । स्थाणवः कीलकाः संगताः प्राप्ता यया सा, मृगपतयः सिंहास्ते सेविता आश्रिता यया सेति विग्रहः । पक्षे स्थाणुर्महादेवस्तेन संगता मिलिता, तथा मूर्तिमा सहो मृगपतिस्तेन सेविता । सिंहवाहनत्वादिति भावः । जानकीति । जानकी सीता तद्वदिव । उभयोः साम्यमाह - प्रसूतेति । प्रसूताः कुशानां दर्भाणां लवा यया सा निशाचरैरुलूकादिभिः परिगृहीता स्वीकृता । पक्षे प्रसूतौ जनितौ कुशलवाभिधानौ सुतौ यया सा, निशाचरेण रावणेन परिगृहीता । स्वस्थानं नीतेत्यर्थः । कामिनीति । कामिनी शृङ्गारनायिका सेव । उभयोः सादृश्यमाह–चन्दनमिति । चन्दनं वृक्षः, मृगमदो गन्धधूली तयोः संसर्गाद्यः परिमलस्तं वहतीति सा तथा रुचिरो योऽगुरुवृक्षस्तथा तिलकवृक्षश्च ताभ्यां भूषिता शोभिता चेति । पक्षे चन्दनं च मृगमदश्च तयोरनुलेपनवशात्परिमलस्तं वहतीत्येवंशीला । रुचिरस्य शोभनस्यागुरोः काकतुण्डस्य तिलकेन पुण्ड्रेण भूषिता शोभिता चेति विग्रहः । सेति । प्रियोत्कण्ठया व्रजति या नारी सोत्कण्ठिता तद्वदिव । उभयोः सादृश्यमाह । टिप्प० - 1 वारुणीपरिगतेत्येव पाठः । विन्ध्याटवी श्री दुमैर्बिल्ववृक्षैरुपशोभिता, वारुणीं पश्चिमां दिशं परिगता भारतपश्चिमपर्यन्तगामित्वात् । अमृतमथनवेला तु लक्ष्मी-कल्पद्रुमाभ्यां उपशोभिता, वारुण्या समुद्रमथनोत्थया मदिरया युक्ता इत्यर्थः । 2 अगाधजलाशयाः । 'तत्रागाधजलो हदः' इत्यमरः । 3 विद्युत इत्यर्थः । 4 चमरमृगाणां वालाश्रामराणि व्यजनानि तालवृन्तानि तैरुपशोभिता इत्यर्थः । पाठा० -१ प्रनृत्यत् ; नवृत्त:. २ वारुण. ३ पतिगृहीता. ४ कृष्णागरु. ६ का० सो [^१]त्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्याघ्रनख [^२]पङ्क्तिमण्डिता गण्डकाभरणा च, [^३]पानभूमिरिव प्रकटितमधुकोश [^४]शता प्रकीर्णविविध- कुसुमा च, क्वचित्प्रलयवेलेव महावराहदंष्ट्रासमुत्खातधरणिमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्दभज्यमान [^५]तुङ्गशालाकुला, क्वचिदचिरनिर्वृत्तविवाहभूमिरिव हरितकुशसमित्कुसुम- शमीपलाशशोभिता, [^६]क्वचिदुद्वृत्तमृगपतिनादभीतेव कण्ट किता, कचिन्मत्तेव कोकिलकुल [^७]प्रलापिनी, कचिदुन्मत्तेव वायुवेगकृततालशब्दा, क्वचिद्विधवेवोन्मुक्ततालपत्रा, क्वचित्समर- भूमिरिव शरशतनिचिता, क्वचि [ टि ]-- विविधेति । विविधा अनेकप्रकारा ये पल्लवास्तेषामनिलो वायुस्तेन वीजिता तथा मदनेन मदनद्रुमेण सहवर्तमाना । संयुक्तेत्यथः । पक्षे सह मदनेन कन्दर्पेण वर्तमाना समदना सा । उत्कण्ठिता स्त्र्यपि तथा । बालेति । बालाः स्तनंधयास्तेषां ग्रीवा कन्धरा तद्वदिव । उभयोरेकधर्मतामाह - व्याघ्रेति । व्याघ्राः शार्दूला नखाः सुरभि [^1]नखप्राणिनस्तेषां पङ्क्ति: श्रेणी तया मण्डिता शोभिता तथा गण्डका वार्ध्रीणसास्त एवाभरणं यस्यां सेति । पक्षे व्याघ्रनखपङ्क्त्या मण्डिता । अत एव 'शार्दूलदिव्यनख- भूषणभूषिताय नन्दात्मजाय' इति । बालरक्षार्थं व्याघ्रनावध्यन्त इति प्रसिद्धिः । गण्डस्थलपर्यन्तवर्ति यत्तादृशं ग्रीवास्थं भूषणं देशविशेषे गण्ड [^2]कमिति प्रसिद्धं तदाभरणं यस्यां सा । पानेति । मद्यपानार्थं या भूमिः सा पानभूमिस्तद्वदिव । उभयत्र साम्यमाह - प्रकटितेति । प्रकटितमाविष्कृतं यन्मधु माक्षिकं कोशा एव कोशकाः पट्टसूत्रस्था [^3]नानि तेषां शतं यस्यां सा । पक्षे प्रकटितं मधु मद्यं तस्य कोशकानि पानपात्राणि तेषां शतं ययेति विग्रहः । प्रकीर्णानि पर्यस्तानि विविधानि विचित्राणि कुसुमानि यस्यामित्युभयत्र समानम् । क्वचिदिति । क्वचित्प्रदेशे यदा सर्वं जलमयं तदा प्रलयस्तस्य वेलावसरस्तद्वदिव । 'वेला वारादवसरः' इति कोशः । उभयोः सादृश्यमाह - महेति । महावराहाः क्रोडास्तेषां दंष्ट्रा दाढास्ताभिः समुत्खातं सम्यक्प्रकारेण खनितं धरणिमण्डलं पृथ्वीप्रदेशो यस्याः सा तथा । पक्षे महावराहस्य परमेश्वरतृतीया- वताररूपदंष्ट्रया समुत्खातमूर्ध्वमानीतं घरणिमण्डलं यस्यामिति विग्रहः । क्वचिदिति । क्वचित्प्रदेशे दशमुखस्य रावणस्य नगरी लङ्का तद्वदिव । उभयत्र साम्यमाह - चटुलेति । चटुलाश्चञ्चला ये वानराः कपयस्तेषां वृन्दं समूहस्तेन भज्यमानास्त्रोट्यमानास्तुङ्गा उच्चाः शाला: शालवृक्षास्तैराकुला व्याकुला । पक्षे कपिवृन्देन भज्यमानास्तुङ्गा याः शाला गृहैकदेशास्ताभिराकुला व्यग्रेति विग्रहः । क्वचिदिति । क्वचित्प्रदेशेऽचिरं तत्कालं निवृत्तो निष्पन्नो विवाहः पाणिपीडनं यस्यामेवंविधा भूमिस्तद्वदिव । उभयोस्तुल्यतामाह - हरितेति । यथायोग्यमन्वयः । हरिता नीला ये कुशा दर्भाः, समिध एधांसि, कुसुमानि पुष्पाणि, शमी शिवा, पलाशा ब्रह्मपादपास्तैः शोभिता विराजमाना । उद्वाहभूमिरप्येतादृशी स्यादित्युभयोः साम्यम् । क्वचिदिति । उद्वृत्तो निर्मर्यादो यो मृगपतिः सिंहस्तस्य नादो गर्जितं तेन भीतेव । कण्टको रोमाञ्चः संजातोऽस्या इति कण्टकिता । द्वितीयपक्षे कण्टकिता कण्टकयुक्ता । क्वचिदिति । क्वेति पूर्ववत् । मधुना मत्तेव कोकिलानां परभृतानां कुलानि तेषां कलशब्दरूपः प्रलापो यस्याम् । अथ च 'प्रलापोऽनर्थकं वचः' । क्वचिदिति । उन्मत्तेवोन्मादवातंयुक्तेव वायुवेगेन पवनाधिक्येन कृतो विहितस्तालवृक्षैः शब्दो यस्यां सा । उन्मादवातवानपि तालं शब्दं करोतीति लोकप्रसिद्धम् । क्वचिदिति । विधवेव मृतभर्तृकेव । उभयोः शब्दसाम्यमाह - उन्मुक्तेति । उन्मुक्तानि त्यक्तानि तालपत्राणि तालदलानि यस्यां सा । पक्ष उन्मुक्तानि तालपत्राणि ताडङ्का ययेति विग्रहः । क्वचिदिति । समरः [^1]F. व्याघ्राणां नखपङ्क्तिभिः ( गमनकालोत्पन्न नखचिह्न- श्रेणिभिः ) मण्डितेति स्पष्टोऽर्थः । [^2]F. 'गण्डा, 'तावीज' इति भाषाप्रसिद्धम् । [^3]F. प्रकटितम् आविष्कृतं मधु-कोशानां माक्षिकाधाराणाम् ( 'शहदके छत्ते' ) शतं यस्याम् ( अटवी ) । आविष्कृतं मधुकोशानां मद्यपात्राणां शतं यस्याम् ( पानभूमिः ) । इति स्पष्टोऽर्थः । [^4]F. करतलध्वनिः, भुजास्फालनशब्दो वा । [^१]G. सोत्कण्टवनिते. [^२]G. पदपङ्क्ति. [^३]G. आपान. [^४]G. कोकशता. [^५]G. शृङ्ग; उत्तुङ्ग [^६]G. उन्मत्त. [^७]G. कुलकल. दमरपतितनुरिव नेत्रसहस्रसंकुला, क्वचिन्नारायणमूर्तिरिव तमाल- नीला, क्वचित्पार्थरथपताकेव [^१]कप्याक्रान्ता, [^२]क्वचि- दवनिपतिद्वारभूमिरिव वेत्रलताशतदुःप्रवेशा, क्वचिद्विराटनगरीव [^३]कीचकशताकुला, क्वचिदम्बरश्रीरिव व्याधानुगम्यमानतरल- तारकमृगा, क्वचिद्गृहीतव्रतेव दर्भचीरजटावस्कलधारिणी, अपरिमित[^४]बहलपत्रसंचयापि सप्त [^५]पर्णोपशोभिता, क्रूरसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्यादवी नाम । [ टि ]--सङ्ग्रामस्तस्य भूमिरिव । उभयोस्तुल्यतामाह - शरेति । शरामुञ्जदण्डास्तेषां शतं तेन निचिता व्याप्ता । पक्षे शरा बाणास्तेषां शतैर्निचितेति विग्रहः । क्वचिदिति । अमराणां देवानां पतिः प्रभुरिन्द्रस्तस्य तनुरिव शरीरमिव । उभयोः साम्यमाह – नेत्रेति । नेत्राणां [^1]वृक्षविशेषाणां सहस्रं तेन संकुला । यद्वा । नेत्राणां जटानां सहस्रं तेन संकुला । 'जटांशुकयोर्नेत्रम्' इत्यमरः । पक्षे नेत्राणां चक्षुषां सहस्रं तेन संकुलेति विग्रहः । क्वचिदिति ।नारायणस्य कृष्णस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह - तमालेति । तमालैर्वृक्षविशेषैर्नीला । पक्षे तमालवन्नीला । क्वचिदिति । पार्थोऽर्जुनस्तस्य रथः स्यन्दनस्तस्य पताका वैजयन्ती सेव । उभयोस्तुल्यमाह - कपीति । कपिभिर्गोलाङ्गूलैराक्रान्ता । पक्षे कपिचिह्नोपयुक्तेत्यर्थः । क्वचिदिति । अवनिपती राजा तस्य द्वार भूमिरिव । उभयोः सादृश्यमाह - वेत्रेति । वेत्राणि वृक्षविशेषाः लता वल्लयश्च तासां शतं तेन दुःप्रवेशा दुःखेन प्रवेष्टुं शक्या । पक्षे वेत्रलता वेत्रयष्टयः सरलत्वाल्लतोपमानम् । ताभिर्दुःप्रवेशेत्यर्थः । क्वचिदिति । क्वचित्प्रदेशे विराटराजनगरी तद्वदिव । उभयोः साम्यमाह — कीचकेति । कीचकाः सच्छिंद्रवेणवस्तैराकुला । पक्षे कीचकानां स्वप्रियाबान्धवानां शतं तेनाकुला व्यग्रा । क्वचिदिति । अम्बरमाकाशं तस्य श्रीरिव । उभयसादृश्यमाह - व्याधेति । व्याधैरनुगम्यमानास्तरला भयविह्वला [^2]स्तारकमृगा विचित्रमृगा यस्यां सा । पक्षे व्याधेनानुगम्यमानस्तरलतारकामृगश्चन्द्रनक्षत्रं यस्यामिति विग्रहः । महादेवेन व्याधरूपधारिणा हतं (?) तस्यार्धं मृगनक्षत्रमिति प्रसिद्धम् । क्वचिदिति । गृहीतेति । गृहीतमात्तं व्रतं नियमो यया सैवंविधेव । उभयतुल्यतामाह - दर्भेति । दर्भाः कुशाः, चीराणि तृणविशेषाणि, जटा शिफा, वल्कलानि चोचानि, एतानि धर्तुं शीलमस्याः सा तथा । पक्षे दर्भचीराणि पूर्वोक्तानि, जटाः संहताः कचाः । 'शिफाजटे संहतौ कचौ' इत्यनेकार्थः । वल्कलानि प्रतीतानि तेषां धारणं विद्यते यस्या इति विग्रहः । अपरीति । अपरिमितान्यगणितानि बहलानि निबिडानि पत्राणि पर्णाणि तेषां संचयः समूहो यस्यामेवंभूतापि सप्तपर्णोपशोभितेति विरोधः । तत्परिहारपक्षे सप्तपर्णोऽयुक्छदस्तेन शोभायमानेत्यर्थः । क्रूरेति । क्रूरं सत्त्वं मनो यस्याः सैवंविधापि मुनिजनसेवितेति विरोधः । 'सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः' इत्यनेकार्थः । तत्परिहारपक्षे क्रूरा हिंस्राः सत्त्वाः प्राणिनो यस्यामिति विग्रहः । मुनिजनतपोमाहात्म्यात्क्रूरा अक्रूरतां गता इत्यत्र व्यङ्ग्यम् । पुष्पवतीति । पुष्पवत्यार्तववत्यपि पवित्रेति विरोधः । तत्परिहारपक्षे पुष्पं सूनं विद्यते यस्यामिति विग्रहः । [^1]F. 'नरगिस' इति उर्दू भाषायामिति कश्चित् । वस्तुतस्तु नेत्राणां वृक्षमूलानां सहस्रेण संकुला । 'नेत्रं मन्थगुणे वस्त्रभेदे मूले तु द्रुमस्य च ' इति मेदिनी । [^2]F. व्याधैः किरातैः अनुगम्यमानाः, अत एव तरलतारका भयेन चञ्चलनेत्रकनीनिका मृगां यस्यां सा ( अटवी ) । व्याधरूपिणा महादेवेन अनुगम्यमानम् अत एव तरलं तारकमृगं मृगशिरोनक्षत्रम् (मृग-तारकम् - तारक मृगम्) यस्यां सा । पुरा हि ब्रह्मा निजकन्यां सुन्दरीं सन्ध्यामालोक्य कामातुर- स्तामन्वगच्छत् । सन्ध्या मृगीरूपेण शिवं शरणमयासीत् । ब्रह्मापि मृगो भूत्वा तामन्वधावत् । तदवलोक्य शिवो ब्रह्मणः शिरश्छेदाय पिनाकेन शरं प्रजिघाय । भीतलज्जितो ब्रह्मामृगशिरो- नक्षत्रमध्यास्त । शिवशरोपि आर्द्रानक्षत्ररूपेण तमनु स्थित इति शिवपुराणम् । [^3]F. शोभमाना । [^१]G. वानराक्रान्ता. [^२]G. अमरपति, [^३]G. कीचकावृता; कीचकशतावृता. [^४]G. बहुल, [^५]G. पर्णभूषिता. तस्यां च दण्डकारण्यान्तःपाति, सकलभुवन [^१]विख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, सुरपति [^२]प्रार्थनापीत- सकलसागर [^३]जलस्य, [^४]मेरुमत्सरा [^५]द्गगनतलप्रसारित विकट [^६]शिरः सहस्रेण दिवसकररथ [^७]गमनपथमपनेतु- मभ्युद्यतेनावगणित [^८]सकलसुरवचसा विन्ध्यगिरिणा [^९]प्यनु [^1]लङ्घिताज्ञस्य जठरानलजीर्ण [^2]वातापिदानवस्य, सुरासुरमुकुट [^१०]मकर [^११]पत्रकोटिचुम्बितचरणरजसो [^१२]दक्षिणामुख [ टि ]--तस्यां चेति । तस्यां विन्ध्याटव्यामगस्त्यस्य मुनेर्वातापिद्विष आश्रमपदं मुनिस्थानमासीदित्यन्वयः । इत आश्रमविशेषणानि । दण्डकेति । दण्ड [^3]कारण्यं सह्याद्रिसंबन्धि काननं तदन्तः- पाति । तदन्तर्वतीत्यर्थः । सकलेति । सकलानि समग्राणि यानि भुवनानि विष्टपानि तेषु विख्यातं प्रसिद्धम् । उदिति । भगवतो माहात्म्यवतो धर्मस्य श्रेयस उत्पत्ति क्षेत्रमिव प्रभवस्थानमिव । इतो मुनिं विशिष्टि - सुरेति । सुरपतिरिन्द्रस्तस्य प्रार्थना याचना तया पीतं चुलुकीकृतं सकलसागरस्य समग्रसमुद्रस्य जलं पानीयं येन स तथा तस्य । विन्ध्येति । विन्ध्यगिरिणापि जलबालकाद्रिणा- प्यनुल्लङ्घितानतिक्रान्ताऽऽज्ञा शिष्टिर्यस्य स तथा तस्य । अथ विन्ध्यगिरिं विशिनष्टि – मेरुमत्सरादिति । मेरोः सुवर्णाद्रेर्मत्सरान्मा- त्सर्याद्गगनतल आकाशतले प्रसारितानि विस्तारितानि विकटानि विपुलानि यानि शिरांसि तेषां सहस्रं येन स तथा तेन । दिवसेति । दिवसकरः सूर्यस्तस्य रथः स्यन्दनस्तस्य या गतिर्गमनं तस्याः पन्थाः । 'ऋक्पूरब्धूः - ' इत्यच् । तं अपनेतुं दूरीकर्तुमभ्युद्यतेन प्रयतमानेन । अवेति । अवगणितान्यनादृतानि सकलानि समग्राणि सुराणां देवानां वचांसि वाक्यानि येन स तथा तेन । अथ मुनिं विशेषयन्नाह - जठरेति । जठरानलेनोदराग्निना जीर्णोऽन्ततिरोहितो वातापिदानवो येन स तथा तस्य । सुरा देवा असुरा दानवास्तेषां मुकुटाः किरीटानि तेषु मकरपत्रं मकराकारः पक्षः । 'पत्रं वाहनपक्षयोः' इत्यमरः । तस्य कोटिरग्रं तया चुम्बितं गृहीतं चरणरजोऽङ्घ्रिरेणुर्यस्य स तथा तस्य । दक्षिणेति । दक्षिणा अवाची तस्या मुखमाननं तस्मिन्विशेषकस्तिलकस्तस्य । 'चित्रपुण्ड्रविशेषकः' [^1]F. सुमेहं प्रदक्षिणीकृत्य यथा प्रत्यहमादित्यो भ्रमति तथा मामपीति मनसि सुमेरुमीर्ष्यन्विन्ध्यगिरिस्तथा कर्तुमादित्य- मनुरुरोध । तत्प्रत्याख्यानास्कुपितः स तन्मार्गमवरोढुं भृशं प्रवर्धमानो देवैनिषिद्धोऽपि नात्यजद्दुराग्रहम् । ततस्रस्तानां देवानामनुरोधेन सपत्नीके गुरावगस्त्यमहर्षो तन्त्रोपस्थितेऽवनतशिरस्को विन्ध्याचलस्तं प्रणनाम । महर्षिस्तु - ' यावदहं न परावर्ते तावदेवमेव स्वमवनतस्तिष्ठेः' इत्यादिश्य दक्षिणां दिशमुपगतो नायापि प्रत्यागच्छति । विन्ध्योप्यद्यावधि तथैव तिष्ठतीति पुराणम् [^2]F. पुरा किल भ्रात्रोरिल्वल-वातापिनोर्दैत्ययोर्मध्ये ज्येष्ठ इल्वलो ब्राह्मणरूपभृत् मेषरूपवाहिनो वातापेर्मांसेन निमन्त्रितान् ब्राह्मणान् भोजयामास । भुक्तेषु तेषु 'एहि वातापे !' इस्थमिल्व- लेनाहूतो वातापिर्देववरप्रभावात्तेषामुदरं भित्त्वा निरक्रमीत् । ब्राह्मणानामित्थमकाण्डसंहारमालोक्य दयमानैरमरैः प्रार्थितो भगवानगस्त्यो दुरभिसन्धिमिमं वातापिं भुक्त्वा जरयामासेति भारतम् । [^3]F. दण्डको नाम कश्चित्सूर्यवंशीयो नृपः शुक्राचार्यस्य कन्या- मरजां नाम बलादुपजग्राह । शुक्राचार्यस्तदवगम्य राजानमपशत्- 'तवाचिरान्मृत्युर्भवेत् । सप्ताहान्तस्तदिदं ते राज्यं महारण्यतया परिणमेत् ।' तदेव राज्यं दण्डकारण्यमिदमिति रामायणम् । [^१]G. तलख्यातम्. [^२]G. निपीत. [^३]G. सलिलस्य. [^४]G. मेरुशिखर. [^५]G. अम्बरतल. [^६]G. शिखर. [^७]G. गतिपथ. [^८]G. सुरसमूह. [^९]G. असङ्घित. [^१०]G. तटघटितमरकतमय. [^११]G. भङ्गकोटि ; पत्रकोटि. [^१२]G. दक्षिणाशावधू. विशेषकस्य, सुरलोकादेकहुंकार [^१]निपाति [^1]त[^२]नहुषप्रकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य [^३]भार्यया [^४]लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेक- संवर्धितै: सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रते- [^५]नाषाढिना पवित्रभस्मविरचितत्रिपुण्ड्रकाभरणेन कुशचीवर [^६]वा [^७]ससा [^८]मौञ्जमेखलाकलितमध्येन गृहीत[^९]हरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाना पवित्रीकृतम्, अतिप्रभूतेध्माहरणाच्च यस्मेध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि [^१०]शुकहरितैश्च कदलीवनैः [^११]श्यामलीकृतपरिसरम्, सरिता च कलशयोनिपरिपीतसागर- मार्गानुगतयेव बद्धवेणिकया [^१२]गोदावर्या परिगतमाश्रम- पदमासीत् । [ टि ]-- इति कोशः । सुरेति । सुरलोकादेकहुंकारेणैकहुंकृति- मात्रेण निपातितो भ्रंशितो यो नहुषो राजा तेन प्रकटः स्पष्टः प्रभावो यस्य स तथा तस्य भगवतो माहात्म्यवतः । महांश्चासौ मुनिश्च महामुनिस्तस्योत्प्रकृष्टमननशीलस्य । पुनः कीदृशम् । पादपैर्वृक्षैरुपशोभितम् । अथ पादपान्विशिष्टि - अगस्त्येति । अगस्त्यस्य भार्यया पत्या लोपामुद्रया स्वयमात्मनोपरचित- मालवालकमावापो येषां ते तथा तैः । करेति । करा एव पुष्टानि तैर्यः सलिलय जलस्य सेकः सिच्चनं तेन संवर्धितैर्वृद्धिं प्रापितैरत एव सुतेभ्यः सूनुभ्यो निर्गतो विशेषो येभ्यस्ते तथा तैः । तत्पुत्रेण दृढदस्युनाम्ना पवित्रीकृतम् । अथ तत्पुत्रं विशिष्टि - पालशो दण्ड आषाढः स विद्यते यस्यासौ स तेन । पवित्रं यद्भस्म तेन विरचितं निर्मितम् । त्रयाणां पुण्ड्रकाणां समाहारस्त्रिपुण्ड्रकं तिलकविशेष- स्तदेवाभरणमलंकारो यस्य स तथा । कुशेति । कुशेति । कुशा एव चीवरं वासो यस्य स तेन मौजेति । मुञ्जः शरस्तत्संबन्धिनी या मेखला तया कलितो व्याप्तो मध्यो मध्यप्रदेशो यस्य स तथा तेन । गृहीतेति । गृहीतमात्तं हरितं नीलं पर्णपुटं पत्रपुटं येन स तथा तेन । किं कुर्वता । उटजमुटजं प्रति प्रत्युटजं भिक्षार्थमटता पर्यटनं कुर्वता । 'पर्णशालोटजः' इति कोशः । 'अकथितम्' इत्यनेन भिक्षामिति द्वितीया । चः पुनरर्थे । यस्य दृढदस्युनाम्नः पितागस्त्य इध्मवाह इत्यन्वर्थं द्वितीयं नाम चकार निर्ममे । कस्मात् । अतीति । अतिप्रभूता य इध्मानस्तेषामाहरणादानयनात् । दिशीति । दिशि दिशि प्रत्येकदिशि शुकवद्धरितैनलैः कदलीवनै रम्भाकाननैः श्यामलीकृतः कृष्णीकृतः परिसरः पर्यन्तभूर्यस्य तत्तथा तम् । गोदावर्येति । गोदावर्यां सरिता परिगतं परिप्राप्तम् । अथ गोदावरीं विशेषयन्नाह - कलशेति । कलशयोनिरगस्त्यस्तेन परिपीतश्चु- लुकीकृतो यः सागरः समुद्रस्तस्य मार्गः पन्थास्तमनुगतयेवानुसृ [^2]तयेव । वेणीति । वेण्येव वेणिका । बद्धा वेणिका यया सा तथा । 'वेणी धारारयश्च' इति कोशः । [^1]F. वृत्रवधाद् ब्रह्महत्यामुपगते सुरपतौ स्वर्गराज्यमराजक- मालोक्य निर्जरैः स्वस्वतेजोभिः संवर्ध्यं नहुषः स्वर्गराज्येऽभिषिक्तः । ऐश्वर्यमदाद्भ्रष्टबुद्धिः स इन्द्राणीमकामयत । सा तु ऋषिमन्त्रणया तं संदिदेश - 'यदि महर्षिभिरूढां शिबिकामारुह्य मन्मन्दिरमुपगच्छसि ततस्ते भवामि' इति : दुर्बुद्धिप्रेरितो नहुषस्तु प्रभुतया भृगुमुखान्महर्षीन् शिबिकावहने नियोज्य इन्द्राणीमभिसरन् त्वरितगमनाय भृगुं शिरसि पदाऽऽजघान - 'सर्प सर्प' इति । भृगोर्जटासु निभृतं विलीनो भगवानगस्त्यस्तत्प- दाघातात्प्रकुपितः शशाप - 'सर्प एव सन् भुवि निपत' इति महाभारतम् । [^2]F. अगस्त्यपरिपीततया नूनं सागरो लुप्त: । अत एव साध्व्या गोदावर्या बद्धवेणिकया सत्या ( संस्काराकरणात् जटीभूततया बद्धा वेणिः यथा ) तन्मार्गानुगमनं कर्तव्यमेवेति उत्प्रेक्षाशयः । [^१]G. निपतित. [^२]G. प्रकटन. [^३]G. तद्भार्यया. [^४]G. लोपामुद्रया च. [^५]G. आषाढिव्रतिना. [^६]G. चीर. [^७]G. वल्कल. [^८]G. मुञ्ज. [^९]G. हरिणकर्णपुटेन. [^१o]G. शुककुल. [^११]G. श्यामीकृत. [^१२]G. कावेर्या . यत्र च दशरथवचनमनुपालयनुत्सृष्टराज्यो दशवदनलक्ष्मी विभ्रम [^१]विरामो रामो महामुनिमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कंचित्कालं सुखमुवास । [^२]चिरशून्येऽद्यापि यत्र शाखानिलीन निभृतपाण्डुक- पोत [^३]पङ्क्तयोऽमललग्नतापसाग्निहोत्रधूमराजय इव लक्ष्यन्ते तरवः । बलिकर्मकुसुमान्युद्धरन्त्याः सीतायाः करतलादिव संक्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना निखिलमाश्रमपान्तवर्तिषु विभक्तं महाह्रदेषु । [^४]यत्र च दशरथसुतनिकरनिशित- शरनिपातनिहत [^५]रजनीचर [^६]बलबहलरुधिर [^७]सिक्तमूलमद्यापि [^८]तद्रागाविद्धनिर्गतपलाशमिवाभाति नव [^९]किसलयमरण्यम् । अधुनापि यत्र जलधरसमये [^१०]गम्भीरमभिनव [^११]जलधरनिवहनिनादमाकर्ण्य भगवतो रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति [^१२]शष्पकवलमजस्रमश्रुजललु [ टि ]-- यत्र चेति । यत्र यस्मिन्नाश्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरन्ननुगच्छन्कंचित्कालं पञ्चवट्यां जनस्थाने सीतया जानक्या सह सुखं यथा स्यात्तथोवास वसतिं चक्रे । किं कुर्वन् । दशरथस्य राज्ञो वचनमाज्ञामनुपालयन्यथा निर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह — उत्सृष्टेति । उत्सृष्टं त्यक्तं राज्यं येन स तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विलासरतस्य विरामोऽवसानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजो यस्मै स तथा । अथ च यत्र यस्मिन्नाश्रमपदे चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्यन्ते दृश्यन्त इत्यन्वयः । इतः पादपान्विशेषयन्नाह - शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृतमत्यर्थं पाण्डव: श्वेता ये कपोता रक्तलोचनास्तेषां पङ्क्तयः श्रेणयो येषु ते तथा । कीदृशा इव । अमला निर्मला लग्नास्तापसानां तपस्विनां यदग्निहोत्रं तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः । बलीति । बलिकर्मार्थं कुसुमान्युद्धरन्त्याः पुष्पावचयं कुर्वन्त्याः सीताया जानक्याः करतलादिव विनिर्गतः सन् । लताकिसलयेषु संक्रान्तो रागः स्फुरति स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्वं पीतं पश्चादुद्गीर्णं च तन्निखिलं जलनिधिजलमिवाश्रमोपान्तवर्तिषु महाह्र- देषु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यग्राणि किसलयानि यस्मिन्नेवंभूतमरण्यं अद्यापि आभाति शोभत इत्यन्वयः । तदेव विशिनष्टि – दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यद्बलं सैन्यं तत्संबन्धि यद्बहलं विस्तृतं रुधिरं रक्तं तेन सिक्तं मूलं यस्य । अत एवायापि तद्रागेणाविद्धानि युक्तानि निर्गतानि [^1]पलाशपुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति । सांप्रतमपि यत्र यस्मिञ्जलधर- समये वर्षाकाले जीर्णमृगा वृद्धहरिणाः शष्प बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति नाददते । कीदृशाः । अभीति । अभिनवा नूतना ये जलधरा मेघास्तेषां निवहः समूहस्तस्य निनादं शब्दमाकर्ण्य श्रुत्वा रामस्य भगवतः पूज्यस्य चापो धनुस्तस्य घोषं शब्दं स्मरन्तः स्मृतिविषयीकुर्वन्तः । घोषस्येति स्मृतियोगे मातुः स्मरतीति- वत्कर्मणि षष्ठी । अथ घोषं विशेषयन्नाह - त्रिभुवनेति । त्रिभुवनं विष्टपं तस्य विवराणि छिद्राणि तानि व्याप्नोतीत्येवंशीलः स तथा तस्य । कीदृशा मृगाः । अजस्रं निरन्तरमश्रुजलेन नेत्रजलेन लुलिता व्याकुलीभूता दृष्टयो नेत्राणि येषां ते तथा । किं कृत्वा । दश दिशो दश ककुभो वीक्ष्यावलोक्य । कीदृश्यो दिशः । शून्याः सजातीयप्राणिरहिताः । मृगान्विशेषयन्नाह [^1]F. पलाशानि पत्राणि । स्वभावरक्तेषु किसलयेषु रुधिररागा- विद्धत्वस्योत्प्रेक्षा । [^१]G. रामो. [^२]G. अतिचिर. [^३]G. पङ्क्तयोऽलग्न. [^४]G. यत्र दशरथसुतशर. [^५]G. रजनीचर. [^६]G. बहुल. [^७]G. रक्त. [^८]G. रागानुविद्ध. [^९]G. किसलम्. [^१०]G. गम्भीररवम्. [^११]G. जलघरनिनाद. [^१२]G. सम्यक्शष्प. लित [^१]दृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । यस्मिन्ननवरतमृगयानिहत[^२]शेषवनहरिण [^३]प्रोत्साहित इव कृतसीताविप्रलम्भः कनकमुगो राघवमतिदूरं जहार । यत्र च मैथिलीवियोग- दुःखदुःखितौ [^४]रावणविनाशसूचकौ चन्द्रसूर्याविव कबन्धग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं [^४]महच्चक्रतुः । अत्यायतश्च यस्मिन्दशरथ [^६]सुतबाणनिपातितो योजनबाहोर्बाहुरगस्त्य [^७]प्रसादनागतनाहुषाजगरकायशङ्का [^८]मकरो [^९]दृषिजनस्य । [^१०]जनकतनया च भर्त्रा [^११]विरहविनोदनार्थमुटजा [^१२]भ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव [^१३]धरणीतला [^१३]दुल्लसन्ती वनचरैरद्या [^१४]प्यालोक्यते । तस्य [^१६]च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्त- स्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान[^१७]प्रकुपित [^१८]वरुणप्रोत्साहितेनागस्त्य मत्सरात्तदाश्रम- समीपवर्त्यपर इव वेधसा [^१९]जलनिधिरुत्पादितः, [ टि ]-- जरेति । जरया वार्धक्येन जर्जरिता विशीर्णा विषाणकोटि: शृङ्गाग्रभागो येषां ते तथा । जानकीति । जानक्या सीतया संवर्धिता वृद्धिं प्रापिताः । यस्मिन्निति । यस्मिन्वने अनवरतं निरन्तरं या मृगयाखेटस्तया निहता व्यापादितास्तेभ्यः शेषा [^1]उद्वरिता एव ये वनहरिणास्तैः प्रोत्साहित इवोत्साहं प्रापित इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकमृ- गः सुवर्णमृगो रघोरपत्यं राघवमतिदूरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ रामलक्ष्मणौ महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातङ्कं चक्रतुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी तस्या वियोगेन विरहेण यद्दुःखं तेन दुखितौ । पुनस्तावेव विशेषयन्नाह - कबन्ध इति । कबन्धः [^2]राहू राक्षसाधिपतिस्तेन ग्रस्तौ गृहीतौ । काविव । चन्द्रसूर्याविव पुष्पवन्ताविव । रावण इति । रावणस्य दशाननस्य यो विनाशस्तस्य सूचकौ ज्ञापकौ । अत्यायतश्चेति । अथ यस्मिन्दशरथसुतो रामस्तस्य बाणैर्विशिखैः निपातितः छिन्नो योजनबाहुनाम्नो दैत्यस्य बाहुर्भुजोऽत्यन्तमायतो [^3]विस्तृतः सोऽगस्तिमुनेरप्रसादेन कोपेन आगतः प्राप्तो नहुषस्य राज्ञोऽजगरस्य कायस्तस्य शङ्कामृषिगणस्य मुनिसमुदायस्य चकार विदधे । यत्र चेति । यस्मिञ्जनकतनया सीता भर्त्रा रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशालाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्ठिता । यथा पूर्वं धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वनचरैर्भिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते । तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोप- लक्ष्यमाणः स्पष्टं ज्ञायमानः पूर्ववृत्तान्तो यस्य तस्य नातिदूरेऽगस्त्य- मत्सरात्पीताब्धिमात्सर्याद्वेधसा तस्यागस्त्यस्याश्रमस्तस्य समीपवर्ती निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा। जलेति । जल [^1]F. अवशिष्टा इति यावत् । [^2]F. कबन्धेन तन्नामकेन राक्षसेन ग्रस्तौ रामलक्ष्मणौ । शिरश्छेदात् कबन्धेन राहुणा ग्रस्तौ सूर्यचन्द्रौ । उभयोरपि त्रिभुवनभय- कारकत्वं समम् । इत्याशयः । [^3]F. अगस्त्यस्य प्रसादनाय (अगस्त्यं प्रसन्नं कर्तुम् ) आगतो यो नाहुषः नहुषसंबन्धी अजगरकायः ( सर्पशरीरम् ) तच्छङ्काम् ऋषिजनस्याऽकरोत् । अगस्त्यस्य शापेन नहुषः सर्पो बभूव । अत एव अगस्त्यं प्रसादयितुं मन्ये दीर्घः अजगरकाय एव पतितो भवेदिति कबन्धबाहौ ऋषीणां शङ्काऽभवदित्याशयः । टीकापरिगृहीतः पाठो व्याख्या च विचार्येव । [^१]G. दीनदृष्टयो. [^२]G. नि:शेष; अशेष. [^३]G. प्रोत्सारित. [^४]G. दशवदनविनाशपिशुनौ. [^५]G. अतिमहत्. [^६]G. शर. [^७]G. प्रसादेन. [^८]G. चकार. [^९]G. ऋषिगणस्य. [^१०]G. तनयभर्त्रा . [^११]G. विनोदार्थम्. [^१२]G. अभ्यन्तरे. [^१३]G. धरणितलात्. [^१४]G. उल्लसन्तीव. [^१५]G. उपलक्ष्यते. [^१६]G. चैवंविधस्य. [^१७]G. कुपित. [^१८]G. उत्साहितेन. [^१९]G. महाजलनिधि. प्रलयकालपि [^१]घट्टिताष्टदि [^२]ग्विभाग [^३]संधिबन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृतधरामण्डल- स्थानमिव [^४]जलपूरितम्, अनवरतमज्जदुम्मदशबरकामिनीकुच -कलशलुलितजलम्, उत्फुल्लकुमुदकुवलयकह्लारम्,उन्निद्रारविन्द [^५]मधुबिन्दुनिष्यन्दबद्धचन्द्रकम्, अलिकुलपटलान्धकारित- सौगन्धिकम्, [^६]सारसितसमदसारसम्, अम्बुरुहमधुपानमत्त- कलहंसकामिनीकृतकोलाहलम्, अनेकजलचर [^७]पतङ्ग शतसंचलन [^७]चलितवाचालवीचिमालम्, अनिलो- [^९]ल्लासितकल्लोल [^१०]शिखरसीक [^१२]रारब्धदुर्दिनम्, अशङ्कितावतीर्णाभि [^१२]रम्भःक्रीडारागिणीभिः स्नानसमये वनदेवताभिः [^१३]केश [ टि ]-- निधिः समुद्रस्तस्य पानं तेन प्रकुपितः क्रोधं प्राप्तो यो वरुणः प्रचेतास्तन प्रोत्साहितेन प्रगुणितेन । अथ चेति । यस्य पद्मसरः पम्पेत्यभिधानमित्यग्रेतनेनान्वयः । इतः सरो विशेषयन्नाह - प्रलयेति । प्रलयकाले कल्पान्ते विघट्टिता नष्टा येऽष्टदिशामष्ट- ककुभां विभागाः प्रदेशास्तत्तत्पर्वतावधिकास्तेषां संधयः संयो-गास्तेषां बन्धो मर्यादा यस्मिन्नेवंभूतं भुवि भूमौ निपतितं गगनतल- मिव । नभस्तलमिव । जलनैर्मल्यसादृश्यात्तदुपमानम् । जलेनेति । जलेन पानीयेन पूरितं पूर्णमादिवराहेण तृतीयावतारेण वराहरूपेण सम्यक्प्रकारेणोद्धृतं जलाद्बहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं निरन्तरं मज्जन्त्यः स्नानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शबराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव कलशौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विकसितानि कुमुदानि कैरवाणि कुवलयानि कुवेलानि कह्लाराणि सौगन्धिकानि यस्मिंस्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि यान्यरविन्दानि कमलानि तेषां मधुः मधुरसस्तस्य यो द्रव: कल्कस्तेन बद्धा मयूरपिच्छचन्द्रा [^1]काराश्चन्द्रका यस्मिंस्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहस्तेनान्धकारितानि संजातान्धकाराणि सौगन्धिकानि कह्लाराणि यस्मिंस्तत्तथा । 'सौगन्धिकं तु कह्लारम्' इति कोशः । सारसितेति । सारसिते- [^2]न शब्दितेन वर्तमाना अत एव समदा मदोत्कटाः सारसाः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताः कलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यस्मिन् । अनेकेति । अनेके सहस्रशो ये जलचरा नकचक्रादयः पतङ्गाः पक्षिणस्तेषां यच्छतमसंख्यातं तस्य संचलनं गमनं तेन चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यस्तासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन वायुनोल्लासिता उल्लासं प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणैरारब्धं विहितं दुर्दिनं मेघजं तमो यस्मिन् । स्नानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रीभिः केशपाशः केशकलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सौगन्ध्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्ध्युपकारकत्वेन करणे तृतीया । इतो वनदेवता विशेषयन्नाह - अशङ्कितेति । शङ्कारहितं यथा स्यात्तथावतीर्णाभिरन्तः प्रविष्टाभिः । शङ्काराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनस्तदेव [^1]F. उन्निद्राणि यान्यरविन्दानि तेषां यो मधुबिन्दूनां (मकरन्द बिन्दूनाम् ) निष्यन्दः द्रवः, तेन बद्धाः चन्द्रकाः चन्द्राकाराणि मण्डलानि यस्मिन् । जले यदा चिक्कणो द्रवबिन्दुः पतति तदा जलस्तरोपरि मण्डलं प्रसरति । तथात्र स्थाने स्थाने कमलमधु- मण्डलानि बढानीत्याशयः । उपरिव्याख्याधृतः पाठस्तु न मनोहरः। [^2]F. आरसितेन सह वर्तमानाः सारसिताः अर्थात् सशब्दाः समदाः सारसा यस्मिन् । इत्यर्थो बोध्यः । [^१]G. विघटितं. [^२]G. दिग्भाग. [^३]G. बन्धनम्. [^४]G. सलिलपरिपूरितम्. [^५]G. मधुद्रवबद्ध; मकरन्दबिन्दुबद्ध. [^६]G. आरसित. [^७]G. पतत्रि. [^८]G. चञ्चलित. [^९]G. उल्लसित. [^१०]G. शिशिर. [^११]G. आरचित. [^१२]G. अन्तः. [^१३]G. केशकुसुमैः. पाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाण कमण्ड [^१]लुकलजलध्वनिमनोहरम्, [^२]उन्मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयै: [^३]कादम्बैरासेवितम्, अभिषेकावतीर्ण- पुलिन्दराज [^४]शबरीकुचचन्दनधूलिधवलित [^५]तरम्, [^६]उपान्तकेतकीरजःपटलबद्धकूलपुलिनम्,आसन्नाश्रमागततापसक्षालितार्द-वल्कलकषायपाटलतटजलम्, उपतट [^७]वृक्षपल्लवानिलवीजितम्, अविरलतमाल [^९]वीथ्यन्ध- कारिताभिर्वालिनिर्वासितेन [^१०]संचरता प्रतिदिनमृष्यमूक- वासिना सुग्रीवेणावलुप्तफल [^११]लघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पत [^१२]ज्जलचरपक्षपुटविगलित- जलबिन्दुसेकसुकुमारकिसलयाभिर्लतामण्डप [^१३]तलशिख- ण्डिमण्डलारब्धताण्डवाभिरनेककुसुमपरिमलवाहिनीभिर्वनदेव [^१४]ताभिः स्वश्वासवासिताभिरिव वनराजि [^१५]भिरूपरुद्ध- तीरम्, विशेषयनाह–एकदेशेति । एकदेश एकभागस्तत्रावतीर्णोऽन्तः प्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन श्रियमाणानि यानि कमण्डलूनि पात्रविशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशब्दस्तन मनोहरमभिरामम् । कादम्बेति । कादम्बाः कलहंसास्तैरासमन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशि नष्टि - उन्मिषदिति । उन्मिषन्ति विकसन्ति यान्युत्पलानि कुवलयानि तेषां वनं खण्डस्तन्मध्यचारिभिस्तदन्तर्गामिभिः । सवर्णेति । सवर्णतया सादृश्यतया रसितं स्खनितं तेनानुमेयैरनुमातुं योग्यैः । पुनः प्रकारान्तरेण सरो विशिष्टि — अभीति । अभिषेकार्थ स्नानार्थमवतीर्णा जलान्तः प्रविष्टाः पुलिन्दराजस्य भिल्लस्वामिनो याः शबर्यः स्त्रियस्तासां कुचाः स्तनास्तेषां चन्दनं मलयजं तस्य धूलिभिः पांसुभिः धवलिततरमतिशयेन शुश्रीकृतम् । उपान्तेति । उपान्ते समीपे याः केतक्यो मालत्यस्तासां रजः परागस्तस्य पटलं समूहस्तेन बद्धमानद्धं कूलं जलयुक्तं पुलिनं तटं च जलोम्भितं यस्मिंस्तत्तथा । आसन्नेति । आसन्ना निकटवर्तिनो ये आश्रमा मुनिस्थानानि तेभ्य आगताः प्राप्ता ये तापसा ऋषयस्तैः क्षालितानि धौतान्याणि जलाविलानि वल्कलानि । 'वल्कलम स्त्रियाम्' इत्यमरः । तै कषायं तुवरम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । पाटलं च तटजलं यस्मिन् । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । उपेति । तटस्य समीपमुपटं तत्र ये वृक्षाः पादपास्तेषां पल्लवाः किसलयानि तैर्यः अनिलः वायुस्तन वीजितं व्यजनवात इवाचरितं यस्मिन् । बनेति । वनराजिभिः कानन श्रेणिभिरुपरुद्धमाबद्धं तीरं तटं यस्य तत्तथा । अथ वनराजिं विशिनष्टि अविरलेति । अविरला निबिडा या तमालानां कालस्कन्धानां वीथी पकिस्तयान्धकारिताभिः संजातान्धकाराभिः । वालीति । सुग्रीवेण वानराधिपतिनावलुप्तानि दूरीकृतानि यानि फलानि तैलघुलता यासु ताभिः । कीदृशेन सुप्रीवेण । वालिनेन्द्रसुतेन निर्वासितेन स्थाना शितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता व्रजता । तत्रेति शेषः । ऋष्येति । ऋष्यमूकाभिधानो गिरिस्तत्र वासिना निवसनशीलेन । उदवासिनामिति । उदवासिनां तत्र स्थितिजुषां तापसानां देवतार्चने देवपूजायामुपयुक्तानि सोपयोगानि कुसुमानि पुष्पाणि यासु ताभिः । उत्पतदिति । उत्पतन्तो ये जलचरा नकचक्रायास्तेषां पक्षपुटानि तेभ्यो विगलिताः सस्ता ये जलबिन्दवः पानीयपृषतास्तेषां सेकेन सिञ्चनेन सुकुमाराणि सुकोमलानि किसलयानि यासु ताभिः । लतेति । लतानां वल्लीनां ये मण्डपा आच्छादितप्रदेशास्तेषां तलेऽधःप्रदेशे शिखण्डिमण्डलैर्मयूरसमूहैरारब्धमुत्पादितं ताण्डवं नृत्यं यासु ताभिः । अनेकेति । अनेकानि विभिन्नजातीयानि कुसुमानि पुष्पाणि तेषां टिप्प० – 1 साहइयेनेत्यर्थः । 2 तेन बद्धं कूले कूलसमीपे पुलिनं सैकतं यस्य तत् । फेतकीपुष्पा णामियान् परागो राशीभूतो येन कूले सैकतं परागजनित: सिकतामयः प्रदेशो जात इत्यर्थः । 3 लघवो भारशून्या लता यासु । पाठा०- •१ कलध्वनि. २ उन्मिषित. ३ कादम्बकदम्बकै:, कादम्बककदम्बकैः. ४ सुन्दरी. ५ तरङ्गभू. ६ उपान्तजात. ७ विटपि. ८ पुढानिल. ९ वीथिका. १० च संचरता. ११ परिलघुलताभि:. १२ जलचरपतङ्गकुलपक्ष. १३ तलस्थित १४ देवतानि:श्वासं. १५ रुजू. ७ का० अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलघरैरिव बहलपङ्क- मलिनैर्वनकरिभिरनवरत [^१]मापीयमानसलिलम्, अगाधमनन्त- [^२]मप्रतिममपां निधानं पम्पाभिधानं पद्मसरः। [^३]यत्र च विकचकुवलयप्रभाश्यामायमानपक्षपुटान्यद्यापि मूर्तिमद्राम- शापग्रस्तानीव मध्यचारिणामालोक्यन्ते [^४]चक्रवाकनाम्नां मिथुनानि । [^५]तस्यैवंविधस्य [^६]सरसः पश्चिमे तीरे राघवशरप्रहारजर्ज- रित [^७]बालतरखण्डस्य च समीपे दिग्गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, तुङ्ग स्कन्धावलम्बिभिरनिलवेल्लितैरहिनिर्मोकैर्धृतोत्तरीय इव, दिक्चक्र- वालपरिमाणमिव गृह्णता भुवनान्त [ टि ]-- परिमलो गन्धस्तं वहन्तीत्येवंशीलास्तास्तथा ताभिः । वनेति । वनदेवता अरण्याधिष्ठात्र्यस्ताभिः स्वश्वासेन स्वकीयश्वासवातेन वासिताभिरिव भाविताभिरिव । अन्वयस्तु प्रागेवोक्तः । पुनः सरो विशेषयन्नाह – वनेति । वनकरिभिररण्यगजैरनवरतं निरन्तरमा समन्तात्पीयमानं सलिलं यस्य तत्तथा । अथ करिणो विशिनष्टि बहलेति । बहलो निबिडो यः पङ्कः कर्दमस्तेन मलिनैः श्यामैः । कैरिव । जलधरैरिव मेघैरिव । तान्विशिनष्टि – अपरेति । अपरो भिन्नो यः सागरः समुद्रस्तदाशङ्किभिस्तद्धान्तिकारिभिः सलिलमम्भ आदातुं ग्रहीतुमवतीर्णैराकाशादुत्तरितैः । अगाधमलब्धतल- मनन्तमपरिमितपारमप्रतिमं स्वप्रतिनिधिरहितमपां पानीयानां निधानं शेवधिभूतम् । अक्षयजलत्वात्तदुपमानम् । अभिधानं तु प्राक् प्रतिपादितमेव न पुनः प्रोच्यते । यत्र चेति । यस्मिन्सरसि चक्रवाकनाम्नां रथाङ्गाह्वानां मिथुनानि द्वन्द्वानि मध्य [^1]चारिणा वनान्तर्भ्रमणकारिणा । 'पथि चारिणा' इति पाठे पथिकेनेत्यर्थः आलोक्यन्त इत्यन्वयः । चक्रवाकमिथुनानि विशेषयन्नाह- विकचेति । विकचानि विकस्वराणि यानि कुवलयानि नीलाम्बुजन्मानि तेषां या प्रभा कान्तिस्तद्वच्छ्यामायमानानि श्यामवदाचरमाणानि पक्षपुटानि येषां तानि । पुनः कीदृशानीव । अद्याप्येतावत्काल- पर्यन्तमपि मूर्तिमान्स्फुरद्रूपो यो रामस्य शापः शपनं तेन ग्रस्तानीव गृहीतानीव । तस्येति । तस्य सरस एवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य पद्मसर इत्यभिधानस्य पश्चिमे पश्चिमदिग्वर्तिनि तीरे तटे महान्मही- याञ्जीर्णश्चिरकालीनः शाल्मलीवृक्षः रोचनो द्रुमोऽस्तीत्यन्त्रयः । तस्य स्थानाभिव्यक्त्या आह - राघवेति । राघवस्य रामस्य ये शरा बाणास्तेषां प्रहार उपघातस्तेन जर्जरिता विसंस्थुला ये बालास्तुणराजास्तरवो वृक्षास्तेषां यत्खण्डं वनं तस्य समीपे निकटे दिशां गजाः हस्तिनस्तेषां ये करदण्डाः शुण्डादण्डास्ताननु- [^2]कुर्वन्तीत्येवंशीलास्तदनुकारिणस्तेन जरञ्जरीयान्योऽजगरचक्रमण्डलस्तेन सततं निरन्तरमावेष्टितं यन्मूलं स्थलं तस्य भावस्तत्ता तया बद्धं नद्धं महन्महीय आलवालमावालं यस्मिन्स तथा । पुनः कीदृश इव । धृतमुत्तरीयमुपसंव्यानं येन स तथा । कैः । अहीनां सर्पाणां निर्मोकैः कञ्चुकैः । निर्मोकं विशिनष्टि—अनिलेति । अनिलो वायुस्तेन वेल्लितैः' कम्पितैः । 'वेल्लिते कम्पिताधूत - ' इति कोशः । तुङ्ग इति । तुङ्ग उच्चो यः स्कन्धः । प्रकाण्डस्तत्रावलम्बिभिरवलम्बमानैः । अत एवोत्तरीयस्योपमानता । पुनः किं कुर्वतेव । दिगिति । दिशां चक्रवालं मण्डलं तस्य परिमाणमायामस्तदिव गृह्णता ग्रहणं कुर्वता । केन । भुवनाना- मन्तरालं मध्यभागस्तत्र विप्रकीर्णेनेतस्ततः पर्यस्तेन शाखानां लतानां संचयेन संदोहेन । 'शिखा [^1]F. वस्तुतस्तु मध्यचारिणामिति पाठः । पम्पासरोमध्यचारिणां चक्रवाकानां मिथुनानि कुवलयप्रभया श्यामायितानि सन्ति । तेषु श्यामतावशात् मूर्तिमतः शापस्य ग्रासोत्प्रेक्षा । पुरा हि सीता- वियोगदुःखितं रामं विलोक्य चक्रवाका जहसुः । तदवलोक्य ' भवतामपि ममेव वियोगदुःखदात्री रात्रिर्भविष्यति' इति रामः शशाप । [^2]F. करदण्डम् अनुकरोति तच्छीलेन जरदजगरेण जीर्णेन महासर्पेण । इत्यर्थो बोध्यः । [^१]G. आपीयमानम्. [^२]G. अप्रतिष्ठम्. [^३]G. यत्र. [^४]G. चक्रनाम्नाम्. [^५]G. तस्यैव. [^६]G. पद्मसरसः. [^७]G. जीर्णतालतरु. रालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुज- सहस्र [^१]मुडुपतिशेखरमिव विडम्बयितुमुद्यतः, पुराणतया पतनभयादिव [^२]वायुस्कन्धलग्नः, निखिलशरीरव्यापिनीभि- रतिदूरोन्नताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः, जरातिलकबिन्दुभिरिव [^३]कण्टकैराचिततनुः, इतस्ततः परिपीतसागर [^४]सलिलैर्गगनागतैः पत्ररथैरिव [^५]शाखान्तरेषु निलीयमानैः क्षणमम्बुभारालसैरार्दीकृतपल्लवैर्जलधरपटलै- रप्यदृष्ट [^६]शिखरः, [^७]तुङ्गतया नन्दनवनश्रियमिवावलोक- यितुमभ्युद्यतः [^९]स्वसमीपवर्तिनामुपरि संचरतां [^१०]गगनतल- गमनखेदायासितानां रविरथतुरङ्गमाणां सृक्कपरिस्रुतैः फेनपटलैः संदेहिततूलराशिभिर्धवलीकृतशिखरशाखः,वनगजकपोलकण्डूयन [^११]लग्नमदनिलीनमत्तमधुकरमालेन लोहशृङ्खला [^१२]बन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः [^१३]स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षितशकुनिपक्ष [ टि ]-- शाखालताः समाः' इत्यमरः । प्रलय इति । प्रलयकाले संहारसमये ताण्डवे नृत्ये प्रसारितमूर्ध्वीकृतं भुजसहस्रं बाहुसहस्रं येन स तथा तम् । अथ चोडुपतिश्चन्द्रः शेखरे यस्यैवंविधं महादेवं विडम्बयितुमुद्यत इव कृतप्रयत्न इव बहुशाखावत्त्वेनात्युच्चत्वेन शशिनोऽपि तच्छिरोवर्तित्वेन च तद्विडम्बकत्वमिति भावः । पुराणेति । पुराणतया जीर्णतया पतनभयादिव प्रपातशङ्कयेव [^1]वायोः स्कन्धे लग्नो यस्यैवंभूत इव । अनेन शाखासु महावाप्रवेगेण प्रकम्पः सूचितः । तिरस्कर्तुं च वायोः स्कन्धे लग्न इत्यपि केचियाख्यानयन्ति । निखिलेति । व्रततिभिर्लताभिः । 'वल्ली तु व्रततिर्लता' इति कोशः । परिगतः परिवेष्टितः । अथ व्रततीर्विशेषयन्नाह — निखिलेति । निखिलं समग्रं यच्छरीरं तद्व्याप्तुं शीलं यासां ताभिः । अतीति ।अतिदूरमतिविप्रकृष्ट- मुन्नताभिः । काभिरिव । जीर्णतया वार्धक्येन शिराभिरि- वास्थिबन्धनैरिव । जरेति । कण्टकैराचिता व्याप्ता तनुर्यस्य स तथा । कैरिव । जराया विस्रसाया ये तिलकबिन्दवस्तैरिव । अतिवार्धक्ये शरीरे कृष्णबिन्दवो जायन्त इति लोकप्रसिद्धिः । जलेति । जलधरपटलैर्मेघसमूहैरप्यदृष्टमनवलोकितं शिखरं प्रान्तप्रदेशो यस्य स तथा । मेघपटलं विशेषयन्नाह - इत इति । इतस्ततः समन्तात्परिपीतं सागरसलिलं समुद्रपानीयं यैस्तै तथा तैः । अथ च गगनागतैः । कैरिव । शाखान्तरेषु शालान्तरेषु निलीयमानैर्गुप्ततया तिष्ठद्भिः पत्ररथैरिव पक्षिभिरिव । क्षणमिति । क्षण क्षणमात्रं यावदम्बुभारालसैर्जलभारेण मन्दगामिभिः । आर्द्रीति । आर्द्रीकृता जलेन स्विन्नाः पल्लवा यैस्ते तथा तैः । तुङ्गेति । तुङ्गतयोच्चतया नन्दनवनमिन्द्रोद्यानं तस्य या श्रीस्तामिव अवलोकयितुं द्रष्टुं अभ्युद्यत उद्यतः । स्वसमीपेति । धवलीकृताः शुभ्रीकृताः शिखरस्याग्रस्य शाखा यस्य स तथा । कैः । फेनपटलैः कफसमूहैः । कीदृशैः । संदेहितः संदेहविषयीकृतस्तूलराशिराबीजकार्पास- कपिण्डो यैस्तै तथा तैः । स्वेति । स्वस्य समीपवर्तिनां निज-निकटवर्तिनामुपर्यूर्ध्वं संचरतां गच्छताम् । अथ च गगनतल- माकाशतलं तत्र यद्गमनं संचरणं तेन यः खेदः प्रयास- स्तेनायासितानां खिन्नानां रविरथतुरङ्गमाणां सूर्यरथाश्वानां सृ- क्कमोष्ठप्रान्तस्ततः परिस्रुतैः पतितैः फेनपटलैः । वनेति । वनगजा अरण्यकरिणस्तेषां कपोलयोः कण्डूयनेन खर्जूयनेन लग्नो यो मदो दानं तत्र निलीना लग्ना ये मत्ता मधुकरा भ्रमरास्तेषां माला यस्यैवंभूतेन । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । अतो नैल्यसाम्याल्लोहस्य या शृङ्खलान्दुकस्तेन बन्धनं नियन्त्रणं तेन निश्चलेनेव स्थिरेणेवात एव कल्पस्थायिना कल्पान्तं तिष्ठता । एतेन स्वस्यातिवृद्धत्वेन शैथिल्यनिवृत्त्यै भ्रमरवेष्टनस्य कटिबन्धनत्वं प्रदर्शितमिति भावः । एतादृशेन मूलेन बुध्नेन समुपेतः संयुक्तः । कोटरेति । कोटरो निष्कुहस्तस्याभ्यन्तरं मध्यभागस्तत्र निविष्टैः प्रविष्टैः स्फुरद्भिर्दीप्यमानैर्मधुकरपटलैर्भ्रमरसमूहै: सजीव इव श्वासादिप्राणयुक्त इव । । भ्रमराणामन्तश्चारित्वेन तदुपमानम् । दुर्योधनेति । दुर्योधनो गान्धारीतनयस्तद्वदिव । उभयोः सादृश्यमाह - उपेति । उपलक्षितो दृग्विषयी [^1]F. वस्तुतस्तु 'गगनस्कन्धलग्नः' इत्येव पाठः । पतनभयात् ( उच्चतया ) गगनस्य स्कन्धे लग्न इव इत्यर्थः । [^१]G. उडुपतिशकलशेखर. [^२]G. पवन, गगन. [^३]G. निजकण्टकैः . [^४]G. जलै:. [^५]G. शाखान्तदेशेषु. [^६]G. शिखरदेशः. [^७]G. उत्तुङ्गतया. [^८]G. आलोकयितुम्. [^९]G. समीप. [^१०]G. अम्बरतल. [^११]G. मदसलिल. [^१२]G. बन्ध. [^१३]G. पतद्भिः. पात:, [^१]नलिननाभ इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि [^२]दर्शितोन्नतिः, अखिलभुवनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववनस्पतीनाम्, सखेव [^३]विन्ध्यस्य, शाखाबाहुभि [^४]रुपगुह्येव विन्ध्याटवीं [^५]स्थितो महाञ्जीर्णः [^६]शाल्मली। तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिषु जीर्ण- [^७]वल्कविवरे [^८]षु महावकाशतया विस्रब्धविरचित- कुलायसहस्राणि दुरारोहतया [^९]विगतभयानि नानादेश- समागतानि शुकशकुनिकुलानि प्रतिवसन्ति स्म । यैःपरिणामविरल [^१०]दलसंहतिरपि स वनस्पतिरविरलदलनि [^११]चयश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः । ते च [^१२]तस्मिन्नति [^१३]वाह्यातिवाह्य [^१४]निशामा [^१५]त्मनी [ टि ]-- कृतः शकुनीनां पक्षिणां पक्षाणां छदानां पातो यस्मिन्स तथा । पक्षे शकुनौ मातुले पक्षपातोऽङ्गीकारो यस्येति विग्रहः । नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उभयोः सादृश्यमाह - वनेति । वनमालया वनश्रेण्योपगूढ आच्छादितः । पक्षे वनमाला भूषणविशेषस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह - नभसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः साम्य [^1]त्वादभङ्गश्लेषः । अखिलेति । अखिलानि समग्राणि यानि भुवनतलानि तेषामवलोकनं निरीक्षणं तदर्थं प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्यस्य वनस्याधिपतिरिव स्वामीव । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वेति । पुष्पं विना फलं येषां ते वनस्पतयस्तेषां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह – विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य । शाखेति । शाखा एव बाहवो भुजास्तैः विन्ध्याटवीं विन्ध्यभूमि- मुपगुह्येवालिङ्ग्येव स्थित आश्रितः । तत्र चेति । तस्मिन्वृक्षे शुकाः कीराः शकुनयोऽन्ये पतत्त्रिणस्तेषां कुलानि संतानानि प्रतिवसन्ति स्मेत्यन्वयः । अथ निवासस्था- नान्याह- शाखाग्रेष्विति । शाखानां शालानामग्राणि प्रान्ताः तेषु कोटराणां निष्कुहाणामुदरेषु मध्येषु पल्लवाः किसलयानि तेषामन्तरेषु मध्येषु स्कन्धः प्रकाण्डस्तस्य ये संधयो बन्धास्तेषु जीर्णानि पुरातनानि यानि वल्कानि चोचानि तेषां विवराणि छिद्राणि तेषु । अथ शकुनिकुलानि विशेषयन्नाह — महेति । महान्महीयोऽवकाशोऽन्तर्विस्तारस्तस्य भावस्तत्ता तया विस्रब्धं निःशङ्कं विरचितानि निर्मितानि कुलायसहस्राणि यैस्तानि । दूरेति । दुःखेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्यस्तानि । नानेति । नानादेशेभ्यो भिन्नभिन्नप्रदेशेभ्यः समागतान्येकीभूतानि । यैरेति । यैः शकुनिकुलैर्दिवानिशमहर्निशं निलीनैः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः समूहो यस्मिन्नेवंविधोऽपि स वनस्पतिरविरलानि निबिडानि यानि दलानि पत्राणि तेषां निचयः संदोहस्तेन श्यामल इव कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अग्रे विचरन्ति स्मेत्यग्रेतनेनान्वयः । तस्मिञ्शल्मलीवृक्ष आत्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमति- वाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थायोत्थाय । वीप्सया भूया [^1]F. साम्यादित्याशयः । [^2]F. संताना इति तात्पर्यम् । [^१]G. पद्मनाभ. [^२]G. कृतोन्नति:. [^३]G. विन्ध्याचलस्य. [^४]G. उपगृह्य; अवगुह्य. [^५]G. अवस्थितः. [^६]G. शाल्मलीवृक्ष:. [^७]G. वल्कल. [^८]G. विवरेषु च. [^९]G. विगलितविनाशभयानि, विगतविनाशभयानि. [^१०]G. संतति: [^११]G. श्यामः. [^१२]G. तस्मिन्वनस्पतौ. [^१३]G. अतिवाह्य. [^१४]G. रजनीम्. [^१५]G. आत्मनो नीडेषु. डेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, मद [^१]कलबलभद्रहल [^२]मुखाक्षेपवि [^३]कीर्णबहुस्रोतस- मम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगल- दाकाशगङ्गाकमलिनीशङ्का [^४]मुत्पादयन्तः, दिवसकररथतुरंग- [^५]प्रभानुलिप्तमिव गगनतलं [^६]प्रदर्शयन्तः, संचारिणीमिव मरकतस्थलीं विडम्बयन्तः, शैवलपल्लवावलीमिवाम्बरसरसि प्रसारयन्तः, [^७]गगनावततैः पक्षपुढैः कदलीदलैरिव [^८]दिनकरखरकरनिकर [^९]परिखेदितान्याशामुखानि [^१०]वीजयन्तः, वियति [^११]विसारणीम् शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति [^१२]स्म । कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कल [^१३]मञ्जरीविकारांश्च प्रहतहरिणरुधिरा- [^१४]नुरक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दत्त्वा- धरीकृत [ टि ]-- न्कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पङ्क्तिः श्रेणी यैस्ते । मदेति । मदेन कलो मनोज्ञो यो बलभद्रो हली तस्य यद्बलं सीरं तस्य यन्मुखमग्रप्रदेशस्तेन य आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहूनि स्रोतांसि यस्य एवंभूतामम्बरतल आकाशतले कलिन्दकन्यामिव यमुनामिव दर्शयन्त आलोकनीयतां प्रापयन्तः । सुरेति । सुराणां देवानां गजो हस्ती तेनोन्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा स्वर्धुनी तस्याः कमलिनी [^1]नलिनी तस्याः शङ्कां भ्रान्तिमुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनस्तस्य ये तुरगा अश्वास्तेषां या प्रभा [^2]सैव नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपनविषयीकृतमिव गगनतलं नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारिणीति । संचारिणी भ्रमणशीला मरकतस्याश्मगर्भस्य या स्थली तामिव विडम्बन्तस्तिरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली किसलयश्रेणी तामिवाम्बरसरसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः पक्षपुटैः पक्षच्छदैः कदलीनां रम्भाणां दलैरिव । नीलत्वसाम्यात्तदुपमानम्। दिनकरस्य सूर्यस्य खरास्तीक्ष्णा ये कराः किरणास्तेषां निकर: समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो व्यजनवातकर्म कुर्वन्तः । पुनः किं कुर्वन्तः । वियतीति । वियत्याकाशे विसारिणीं विस्तारिणीं शष्पवीथीं बालतृणोपयुक्त- पद्धतिमिवारचयन्तो विरचयन्तः । सेन्द्रायुधमिति । इन्द्रायुधं शक्रधनुस्तेन सहवर्तमानमिवान्तरिक्षं गगनमादधानाः कुर्वाणाः । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतो विहित आहारो भोजनं यैस्ते क्षपास्त्रियामाः क्षपयन्ति स्मेत्यनेनान्वयः । 'क्षिप प्रेरणे' णिजन्तस्य रूपम् । किं कृत्वा । पुनरिति । स्वतृप्यनन्तरं प्रतिनिवृत्त्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रावस्थितेभ्य उषितेभ्यः शावकेभ्यः पोतेभ्यो विविधान्नानाप्रकारान्फलरसान्सस्य- निर्यासान् । कलमेति । कलमः [^3]कलामकस्तस्य मञ्जर्यो वल्लर्यस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथा- पत्येषु संतानेषु यत्प्रेमस्नेहस्तेन । कीदृशेन । अधरीति।अधरीकृतो न्यूनत्वमापादितः सर्ववस्तुसंबन्धी स्नेहो येन स तथा तेन । [^1]F. आकाशे उड्डीयमानान् शुकशकुनीन् दृष्ट्वा सुरगजेन उन्मूलितायाः कमलिन्या हरितानां पत्राणां शङ्का भवतीत्याशयः । भ्रान्तिमानलंकारः । [^2]F. सूर्यरथाश्वानां या ( हरिता) प्रभा तथा विच्छुरितमिव गगनं दर्शयन्त इत्याशयः ( वस्तूत्प्रेक्षा ) । [^3]F. तण्डुलानां या मञ्जर्यः कणिशाः, 'बाल' इति ख्याताः । [^१]G. हलधर. [^२]G. मुखोत्क्षेप. [^३]G. विप्रकीर्ण. [^४]G. उपजनयन्तः [^५]G. अनुलिप्तगगनतलम्. [^६]G. उपपादयन्तः. [^७]G. गगनविततैः. [^८]G. दिनकरकर. [^९]G. परिखेदिताशामुखानि. [^१०]G. परिवीजयन्तः. [^११]G. विस्तारिणीम्. [^१२]G. स्म शुकशकुनयः. [^१३]G. फलविकाराम्. [^१४]G. प्रसक्त. सर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा [^१]तस्मिन्नेव क्रोडान्तर्निहिततनयाः [^२]क्षपा: क्षपयन्ति स्म । एकस्मिंश्च जीर्णकोटरे जायया सह [^३]निर्वसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुर [^४]हमेको विधिवशात्सूनुरभवम् । अति [^५]प्रबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे [^६]परलोकमग [^७]मत् ।अभिमतजायाविनाश- शोकदुःखितोऽपि खलु तातः सुतस्ने [^९]हादभ्यन्तरे निरुध्य पटुप्रसरमपि शो [^१०]कमेकाकी मत्संवर्धनपर एवाभवत् । [^११]अतिपरिणतवयाश्च कुशचीरानुकारिणीमल्पावशिष्ट- जीर्णपिच्छजाल [^१२]जर्जरामवस्रस्तांसं [^१३]देश शिथिलामप- गतोत्पतनसंस्कारां [^१४]पक्षसंततिमुद्वहन्, उपारूढ- [^१५]कम्पतया संतापकारिणीमङ्गलग्नां जरामिव विधुन्वन्नकठोरशेफालिका [^१६]कुसुमनालपिञ्जरेण कलममञ्जरीदलनमसृणि- [^१७]तक्षीणो [^१८]पान्त्यलेखेन स्फुटिताग्रकोटि [ टि ]-- पुनः कीदृशेन । असाधारणेन तन्मात्रवृत्तिना गुरुणा परावृत्तेने तथा प्रहतो व्यापादितो यो हरिणो मृगस्तस्य रुधिरं रक्तं तेनानुरक्तारुणीकृता या शार्दूलस्य सिंहस्य नखकोटिर्नखराधं तद्वत्पाटलेन श्वेतरक्तेन चक्षुपुटेन त्रोटीसंपुटेन दत्त्वा दत्त्वा । वारंवारं तेभ्यो भक्ष्यदानं वितीर्येत्यर्थः । ततो दिवसकार्यानन्तरम् । तस्मिन्निति । तस्मिन्वृक्षकुहरे क्रोड उत्सङ्गस्तदन्तर्निहितास्तन्मध्यस्थापितास्तनया अपत्यानि यैस्ते तथा । अन्वयस्तु पूर्वमुक्तः । एकस्मिंश्चेति । एकस्मिञ्जीर्णकोटरे चिरकालीननिष्कुहे जायया पत्त्या सह निवसत आसेदुषः पश्चिमे प्रान्त्ये वयसि दायां वर्तमानस्य स्थितवतः कथमपि महता कष्टेन पितुर्जनकस्य विधिवशाद्दैववशात् । अह मित्यात्मनिर्देशः । एको नापरः सूनुः सुतोऽभवमजनिषैम् । अतिप्रबलेति । मम जायमानस्यैवोत्पद्यमानस्यैव अतिप्रबलया अत्यन्तया प्रसववेदनया प्रसूतिव्यथयाभिभूता पीडिता सती मे मम जननी परलोकं भवान्तरम गमदासीत् । अभिमतेति । अभिमताया अभीष्टाया जायाया विनाशेन मरणेन रोदनादिरूपः शोक दुःखितोऽपि । अपिः स्नेहदार्ढ्यसूचकः । खलु निश्चितम् । तातः पिता, पटुः स्पष्टः प्रसरो विस्तारो यस्यैवंभूतमपि शोकं दुःखं मम सुतस्य पुत्रस्य स्नेहादभ्यंन्तर एव मध्य एव निरुध्यावरुध्यैकाकी पत्नीवियुक्तो ममैव यत्संवर्धनं वृद्धिस्तस्यामेव परः तत्परोऽभवत् । अतीति । अतिपरिणतमत्यन्तं पक्कं वयो यस्य स तथा । अतिजरीयानित्यर्थः । किं कुर्वन् । एतादृशीं पक्षसंततिं वाजसमूहमुद्वहन्दधत् । इतः पक्षसंततिं विशेषयन्नाह—कुशेति । कुशो दर्भधीर जीर्णवस्त्रखण्डं तदनुकरोति तत्सादृश्यं भजति या सा ताम् । वार्धक्यवशादल्पानि स्तोकान्य व शिष्टान्युर्वरितानि जीर्णानि पुरातनानि पिच्छानि बर्हाणि तेषां जालं तेन जर्जरां विशीर्णाम् । अवेति । अवस्रस्तो गलितोंऽसदेशो यस्याः सा ताम् । अथवा स्कन्धदेशादवस्रस्तांदेशा तामत एव शिथिलां लथामदृढावयवसंयोगाम् । अपेति । अपगतो दूरीभूत उत्पतने वियद्गमने संस्कारः शक्तिविशेषो यस्याः सा ताम् । उपेति । उपारूढः प्राप्तो यः कम्पश्चलनं तस्य भावस्तत्ता तया । चः समुच्चये । संतापकारिणीं दुःखदायिनीमङ्गलनां जरां वृद्धावस्थामिव बिधुन्वैन्परित्यजन्निवाकठोरं यच्छेफालिका निर्गुण्डी तस्याः कुसुमं पुष्पं तस्य यन्नालं तद्वत्पिञ्जरेण । कलमेति ! कलमस्य या मञ्जरी तस्या टिप्प० -1 गुरुणा महता अपत्यप्रेरणा संतानस्त्रेहेनेत्याशयः । 2 अन्तिमे इत्यर्थः । 3 अजनिषीत्याशयः । 4 वृद्धावस्थया यः वीरीरकम्पो भवति तत्रोत्प्रेक्षा - अङ्गलमां जरामिव विधुन्वन् कम्पयन् इति । जरा संतापकारिणी, अत एव शरीरं कम्पयित्वा तां निपातयितुमिच्छतीत्याशयः । पाठा० -१ स्वस्मिन्नेव. २ सुखं क्षपाः ३ तत्र निवसतः ४ अहमेवैकः ५ प्रबलतया. . ६ लोकान्तरम्. . ७ अगच्छत्॰ ८ दुःखदुःखितः ९ अन्तर्निगृह्य. १० शोकवेगम्. ११ अतिपरिणततया च १२ जर्जरीम्. १३ देशाम्. १४ संहतिम्. १५ कम्पतया च. १६ कुसुमपिअरेण, १७ क्षीर. १८ उपान्त. ना चपुटेन पर [^१]नीडपतिताभ्यः शालिवल्लरीभ्यतण्डुल- कणानादायादाय [^२]वृक्षमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहत्य परिभ्रमितुमशक्तो [^३]मह्यमदात् । प्रतिदिवसमात्मना च [^४] मदुपभुक्तशेषमकरोदशनम् । एकदा तु प्रभातसंध्यारागलोहिते [^५]गगनतले, कमलिनी [^६]मधुरक्त [^७]पक्षपुटे वृद्धहंस इव मन्दाकिनीपुलिनादपर- जलनिधितटमवतरति चन्द्रमसि, परिणतरङ्कुरोमपाण्डुनि व्रजति विशालतामाशाचक्रवाले, गजरुधिररक्तहरिसटालोमलोहिनीभिः [^८]प्रतप्तलाक्षिकतन्तुपाटलाभि [^९]रायामिनीभिरशिशिरकिर- णदीधितिभिः पद्म [^१०]राग [^११]शलाकसंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिम [ टि ]-- दलनं विदारणं तेन मसृणिता संजातचिक्कणतात एव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजिर्यस्यैवंभूतेन चक्षुपुटेन त्रोटीसंपुटेन श्रमवशात्स्फुटिता स्फोटं प्राप्ता अग्रकोटि- रग्रिमतीक्ष्णतरभागो यस्य स तेन । परेति । अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः स्रस्ता याः शालिवल्लर्यस्ताभ्यस्तण्डुलकणा- नादायादाय गृहीत्वा गृहीत्वा । वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डितानि फलशकलानि तानि समाहत्य एकीकृत्य परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो मह्यमदाद्ददौ । घुसंज्ञकदाधातोर्लुङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारेणानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्वरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाच्चतुर्थ्यर्थे तृतीया । एकदा त्विति । एकदैकस्मिन्समये कोलाहलमशृणवमिति दूरे- णान्वयः । प्रभेति । प्रभातस्य प्रातःकालस्य या संध्या तत्संबन्धी यो रागस्तेन लोहिते रक्ते । गगनेति । गगनतलमेव [^1]कमलिनी वियद्गङ्गा, कमलिनी वा । तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुटं यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव मन्दाकिनी गङ्गा तस्याः पुलिनं सैकतं तस्माच्चन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रस्तस्य तटं तीरं प्रत्यवतरत्युत्तीर्णे सति । परीति । परिणतः पक्वो यो रङ्कुर्मृगविशेषस्तस्य रोमाणि तनूरुहाणि तद्वत्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामाशाचक्रवाले दिक्समूहे व्रजति गच्छति सति । गजेति । गजानां हस्तिनां यद्रुधिरं तेन रक्ताः शोणिता या हरिसटाः सिंहस्कन्धकेसरास्तत्संबन्धि यल्लोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतु- विकारोद्भवास्तन्तवस्तद्वत्पाटलाभिः श्वेतरक्ताभिरायामिनी- भिर्विस्तारवतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिर्दीप्तिभिः । काभिरिव । पद्मरागा लोहितकमणयस्तेषां शलाका इषीकास्तासां संमार्जनीभिरिव बहुकरीभिरिव समुत्सार्यमाणे दूरीक्रियमाणे गगनमेव कुट्टिमं [^2]बहिर्द्वारं तत्र यः कुसुमप्रकरः पुष्पसमूहस्तम्मिन्निव तारागणे नक्षत्रसमूहे । उत्तरेति । उत्तराशोदीची दिक्तामवलम्बत इत्येवंशीलः स तथा तस्मिन्सप्त- र्षिमण्डले सप्तर्षिसमुदाये मानससरस्तीरं प्रति संध्यामुपासितुमिव सायंतनविधिं कर्तुमिवावतरति सति । अत्र रूपकम् । अत्र सतीति प्रत्येमन्वये [^1]F. गगने प्रभातसन्ध्यालोहिते सतीति पृथगन्वयः । कमलिन्या अरुणवर्णेन मकरन्दरसेन रक्तपक्षसंपुटो वृद्धहंसो यथा मन्दाकिनी ( वियद्गङ्गा ) पुलिनात् अपरजलनिधितटमवतीर्णो भवेत्तथा प्रभातसन्ध्यालोहिते चन्द्रमसि अपरजलधितटमवतरति सतीति योजना । पदव्याख्या उपरि दृश्या । उपमालंकारः । [^2]F. कुट्टिमं निबद्धा भूः, भूमितलमित्यर्थः । [^१]G. निपतिताभ्यः. [^२]G. तरु. [^३]G. माह्यमाहारमदात्. [^४]G. मदुपयुक्तम्. [^५]G. गगनतलगगने च; गगनकमलिनी. [^६]G. मध्वनुरक्त. [^७]G. पक्षसंपुटे. [^८]G. आतप्तलाक्षिक; संतप्तलाक्ष; अनन्तलाक्षा. [^९]G. आगामिनीभिः. [^१०]G. रत्नशलाका. [^११]G. संमार्जिनीभिः. कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि [^१]मानससरस्तीरमि [^२]वावतरति सप्तर्षिमण्डले, तटगतवि- [^३]घट्टितशुक्तिसंपुटविप्रकीर्णमरुणकरप्रेरणाधोगलितमुडुगण- मिव मुक्ताफलनिकरमुद्वहति धव [^४]लितपुलिनमुदन्वति पूर्वेतरे, तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमाणकेसरिणि करिणीकदम्बकप्रबोध्य [^५]मानसमदकरिणि क्षपाजलजडकेसरं कुसुमनिकरमुदयगिरि [^६]शिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः [^७]समुत्सृजति कानने, रासभरोम [^८]धूसरासु वनदेवताप्रासादानां तरूणां शिखरेषु पारावतमालायमानासु [^९]धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलवने [^१०]रत [^११]खिन्नशबर- सीमन्तिनीखे [ टि ]-- योजनीयम् । पुनः कस्मिन्सति । तटेति । तटगतानि तीरप्राप्तानि विघट्टितानि स्फुटितानि यानि शुक्तिसंपुटान्यब्धिमण्डूकीपुटानि तेभ्यो विप्रकीर्णं पर्यस्तम् । कीदृशमिव । अरुणस्य सूर्यस्य ये कराः किरणास्तेषां प्रेरणा नोदना तस्मादधो गलितमधः पतितं उडुगणमिव । धवलितं शुभ्रीकृतं पुलिनं जलोज्झितं तटं येनैवंभूतं मुक्ताफलानां निकरं समूहमुद्वहति धारयत्युदन्वति समुद्रे सति । पूर्व इतरो यस्मादिति बहुव्रीहिः । तस्मान्न सर्वादित्वम् । पश्चिमसमुद्रे सतीत्यर्थः । यद्वा पूर्वस्मान्नीचः पूर्वेतरः । 'इतरस्त्वन्यनीचयोः' इत्यमरः । तस्मिन् । अतो नीचार्थवाचित्वान्न सर्वादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह - तुषारेति । तुषारस्य तुहिनस्य बिन्दूनां पृषतां वर्षो यस्मिंस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शिखिकुलं मयूरकुलं यस्मिंस्तत्तथा, विजृम्भमाणा जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा । करिणीति । करिणीनां हस्तिनीनां कदम्बकं समूहस्तेन प्रबोध्यमाना जागरावस्थां प्राप्यमाणाः समदा मदेन सह वर्तमानाः करिणो हस्तिनो यस्मिन् । क्षपेति । क्षपाजलेन रात्रिसंबन्धितुषारेण जडानि स्तम्भितानि केसराणि किञ्जल्कानि यस्यैतादृशं कुसुमनिकरं पुष्पसमूहम् । उदयेति । उदयगिरि- रुदयाद्रिस्तस्य शिखरं शृङ्गं तत्र स्थितं सवितारं श्रीसूर्यमिवो- द्दिश्याश्रित्य । पल्लवेति । पल्लवा एव किसलयान्येवाञ्जलयस्तैः समुत्सृजति प्रयच्छति सति । पुनः कासु सत्सु । रासभेति । रासभस्य बालेयस्य रोमाणि तनूरुहाणि तद्वद्धूसरासु धूम्रवर्णासु । वनेति । वनदेवताः काननाधिष्ठात्र्यस्तासां प्रासादाश्चैत्यानि तेषां तरूणां [^1]च शिखरेषु प्रान्तेषु पारावतानां कपोतानां माला श्रेणिस्तद्वदाचरन्तीति ण्यन्तत्वाच्छानच् । तासु । धर्मेति । धर्मे यज्ञादौ पताका वैजयन्त्यस्तास्विव समुन्मिषन्तीषु समुत्सर्पन्तीषु । तप इति । तपोवने यदग्निहोत्रमभ्याधानं तस्य धूमलेखा धूमस्तोमपङ्क्तयस्तासु । पुनः कस्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूषसंबन्धिनि मातरिश्वनि वायौ । 'मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवेति । अवश्यायो हिमं तस्य सीकरा यस्मिन् । 'वातास्तं वारि सीकर :' इति कोशः । वायुं विशेषयन्नाह – लुलितेति । लुलितं कम्पितं कमलानां नलिनानां वनं खण्डं येन स तस्मिन् । रतेति । रतं मैथुनं तत्र खिन्नाः खेदं प्राप्ता याः शबरसीमन्तिन्यो भिल्लवध्व- स्तासां यत्स्वेदजलं प्रस्वेदवारि तस्य कणा बिन्दवस्तेषामपहारिणि हरणशीले । [^1]F. अत्रापि टीकाकर्तुर्भ्रमः । वनदेवतानां कृते ये प्रासादाः ( इव) विहारहर्म्याणि तेषां तपोवनतरूणां शिखरेषु पारावत- मालायमानासु [ राजप्रासादानामुपरि कपोता विश्राम्यन्तीति प्रसिद्धम् । एवमेव वनदेवताप्रासादेषु वृक्षेषु अग्निहोत्रधूमलेखास्तथा प्रतीयन्ते यथा कपोतमाला एव स्थिताः स्युरित्याशयः, ( क्यङ्गता लुप्तोपमा ) ] धर्मपताकास्विव रासभरोमधूसरासु तपोवनाग्निधूमलेखासु समुन्मिषन्तीषु सतीष्विति योजना । [^१]G. मानससरस:. [^२]G.अम्बरादवतरति. [^३]G. विघटित. [^४]G. पुलिनतटम्; पुलिनतलम्. [^५]G. मानमदकरिणी स्पष्टे च जाते प्रभाते. [^६]G. स्थित. [^७]G. उत्सृजति. [^८]G. धूसरासु वनराजिषु. [^९]G. पताकासु. [^१०]G. रति. [^११]G. स्विन्न. [^१]दजलकणापहारिणि वनमहिषरोमन्थफेनबिन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि विघटमानकमल- खण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातजडिम्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, [^२]कमलवनप्रबोधमङ्गलपाठकानामिभगण्ड- डिण्डिमानां [^३]मधुलिहां कुमुदोदरेषु घट [^४]मानदलपुट- [^५]निरुद्धपक्षसंहतीनामुच्चरत्सु [^६]हुंकारेषु, प्रभातशिशिर- वाय्वा [^७]हतमुत्तप्तजतुरसा [^८]श्लिष्टपक्ष्ममालमिव सशेषनिद्रा [^९]जिह्मतारं चक्षुरुन्मीलयत्सु शनैः शनैरूषरशय्या- धूसरक्रोड [^१०]रोमराजिषु वनमृगेषु, इतस्ततः संचरत्सु वनचरेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासर: [^११]कलहंसकोलाहले, समुल्लसति नर्तित [^१२]शिखण्डिनि मनोहरे [ टि ]-- वनेति । वनमहिषाः सैरिभास्तेषां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य बिन्दवः पृषन्ति तान्वहतीत्येवंशीलः स तस्मिन् । चलितेति । चलिताः कम्पिता: पल्लवाः किसलयानि यासामेवंविधा या लता वल्लयस्तासां लास्यं नृत्यं तस्योपदेशः शिक्षणं तस्य व्यसनं विद्यते यस्य स तस्मिन् । विघटेति । विघटमानानि विकाशं प्राप्यमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधुरसस्तस्य सीकरा वाताक्षिप्तकणास्तेषामासारो वेगवान्वर्षो विद्यते यस्मिन्स तथा तस्मिन् । कुसुमामोदेति । कुसुमानामामोदः परागस्तेन तर्पितं प्रीणितमलिजालं भ्रमरसमूहो येन स तस्मिन् । निशेति । निशाया रात्रेर्यदवसानं प्रान्तस्तेन जाता जडिमा जडत्वं यस्मिन्स तथा तस्मिन् । अत एव मन्दं मन्दं संचरत इत्येवंशीलः स तथा तस्मिन् । पुनः केषु । कुमुदोदरेषु कैरवान्तरेषु मधुलिहां हुंकारेष्वव्यक्तशब्देषूच्चरत्सु ब्रुवत्सु सत्सु । इतो मधुलिहो विशेषयन्नाह–कमलेति । कमलवनानां प्रबोधपाठका मङ्गलपाठका- स्तेषाम् । तथेभ [^1]गण्ड एव हस्तिकरट एव डिण्डिमः पटहो येषां ते तथा तेषां मधुलिहां भ्रमराणां विघटमानानि संकोचं [^2]प्राप्यमाणानि यानि दलानि पत्राणि तेषां पुटानि कोशानि तेषु निरुद्धावरुद्धा पक्षसंहतिश्छदसमूहो येषां ते तथा तेषाम् । पुनः केषु सत्सु । वनमृगेति । वनमृगेष्वरण्यहरिणेषु शनैः शनैश्चक्षुर्नेत्र- मुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषयन्नाह - प्रभातेति । प्रभातं प्रत्यूषस्तस्य यः शिशिरः शीतलो वायुः समीरस्तेनाहतं पीडितम् । उत्तप्तेति । उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारस- स्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपङ्क्तिर्यस्य तदिव । सशेषेति । सशेषोर्वरिता या निद्रा तया जिह्मा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेषु । ऊषरेति । ऊषरा तृणरहिता या शय्या शयनस्थलं तेन धूसरा धूम्रवर्णा क्रोडरोम- राजिर्हृदयलोमपङ्क्तिर्येषां तेषु । पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिषु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति । श्रोत्रहारिणि कर्णमनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति । पुनः केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो [^3]मयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां कर्णा एव ताला वाद्यविशेषास्तेषां शब्दो ध्वनिस्तस्मिन्समुल्लसति सति सम्यक्प्रकारेण प्रसरति सति । [^1]F. इभगण्डेषु डिण्डिमानान्, डिण्डिमैर्यथा राजादीना- मागमनादेः सगौरवं घोषणा क्रियते, तथा भ्रमरगुञ्जनेन गजराजाना मागमन-जागरादे: सूचना दीयत इति डिण्डिमत्वम् ( रूपकम् ) । न भ्रमरास्तं वादयन्ति येन इभगण्डस्य डिण्डिमत्वं स्यात् । [^2]F. घटमानैः सूर्योदयारम्भात् संकुचद्भिः दलपुटैः निरुद्धा पक्षसंहतिर्येषाम् इत्येवार्थः । विघटनं हि विश्लेषो न संकोचः । [^3]F. कर्णतालशब्दं मेघध्वनिं ज्ञात्वा हर्षेण ते नृत्यन्तीति भ्रान्तिमान् । [^१]G. स्वेदजलकणिका; स्वेदकणिका. [^२]G. कमलप्रबोध. [^३]G. मधुलिहां पटलेषु. [^४]G. विघटमान; घनघटमान. [^५]G. निबद्ध. [^६]G. झकारेषु; टङ्कारेषु. [^७]G. मारुताहत. [^८]G. पक्षमजालम्. [^९]G. जिमिततारम् ; जितितारकम्. [^१०]G. राजिषु च. [^११]G. कलहंसकुल. [^१२]G. शिखण्डिमण्डले. ८ का० वनगजकर्णतालशब्दे, क्रमेण च [^१]गगनतलमवतरतो दिवसकरवारणस्याव [^२]चूलचामरकलाप इवोपलक्ष्यमाणे मञ्जिष्ठारागलोहिते किरणजाले, शनैः शनैरुदिते भगवति सवितरि, पम्पासरः-पर्यन्ततरुशिखरसं [^३]चारिण्यध्यासितगिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, नचिरादिव दिवसा [^४]ष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु [^५]च यथाभिमतानि दिगन्तराणि शुककुलेषु, [^६]कुलायनिलीननिभृतशुकशावक- सनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पतौ, स्वनीडावस्थित एव ताते, मयि च शैश [^७]वादसंजातबलसमुद्भिद्यमानपक्षपुटे [^८]पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा [ टि ]-- क्रमेणेति । क्रमेण परिपाट्या गगनतलमाकाशमार्ग- मवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचूलेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापस्तस्मिन्निवोप- लक्ष्यमाणे दृश्यमाने [^1]मञ्जिष्ठस्य वस्तुविशेषस्य रागो रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैः शनैर्नातिशीघ्रं भगवति माहात्म्यवति सवितरि श्रीसूर्य उदिते उदयं प्राप्ते सति । कीदृशे । पम्पेति । पम्पासरः पर्यन्तानि यानि तरुशिखराणि तेषु संचारो विद्यते यस्य स तथा तस्मिन् । अध्येति । अध्यासितान्याश्रितानि गिरिशिखराणि पर्वतशृङ्गाणि येन स तस्मिन् । अथ बालातपं विशेषयन्नाह - दिवसेति । दिवसकरात्सूर्याज्जन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे सुग्रीव इव । तरुशिखरचारित्वात्तद्धृत [^2]तारत्वाच्च तदुपमानम् । तं वृक्षं पूर्वोक्तमभिपतति व्याप्नुवति बालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते स्पष्टे व्यक्ते जाते सति नचिरादिव स्तोककालेनेव दिवसस्याष्टमो भागश्चतुर्घटिकात्मकस्तं भजतीति भाक् । ण्विप्रत्ययान्तः । तस्मिन्स्पष्टा भा कान्तिर्यस्य स तथा तस्मिन्भास्वति श्रीसूर्ये भूते जाते सति । पुनः केषु । शुककुलेषु कीरव्रजेषु यथाभिमतानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु गतेषु सत्सु । कुलायेति । कुलाया नीडानि तेषु निलीनाः सुप्ता निभृतमत्यन्तं शुकशावकाः कीरशिशवस्तैः सनाथेऽपि संयुक्तेऽपि बालकाना- मेकाकित्वेन भयवशान्निःशब्दतया तस्मिन्वनस्पतौ शाल्मलीवृक्षे शून्य इव सति । स्वेति । स्वस्य नीडं कुलायस्तत्रावस्थित एव ताते पितरि मयि चेति । चः पुनरर्थे । मयि पितुर्जनकस्य समीपवर्तिनि निकटवर्तिनि सति । अथ शिशुं विशेषयन्नाह–कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशवाद्बाल्या[^3]दसंजातमनुत्पन्नं यद्बलं तेन समुद्भिद्यमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह - सहसैवेति । तस्मिन्पूर्वोक्ते महावने सहसैवाकस्मा- देव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकललक्षणः शब्द उदरदुदतिष्ठत् । [^1]F. मञ्जिष्ठेत्युचितम् 'मञ्जिष्ठा विकसा जिङ्गी'त्यमरः । 'मँजीठ' इति भाषा । [^2]F. न केवलं विशेषणद्वयमेव बालातपसुग्रीवयोरन्वितम्, अपि तु सर्वाण्येव । सुग्रीवोपि अध्यासितं गिरि (ऋष्यमूक) शिखरं येन तादृक् । वालिभयाच्च अग्रे न गत्वा पम्पासरः पर्यन्ततरुशिखरेषु संचारी । सूर्यात् जन्म यस्य तस्मिन्निति उभयत्र समानम् । हृताः लोपिताः ताराः नक्षत्राणि येन ( बालातपे ), हृता तन्नाम्नी वानरी येन इति सुग्रीवे । सुग्रीवे इव बालातपे पुनः वनमभिपतति सतीति योजना । [^3]F. शैशवात् असंजातबले, समुद्भिद्यमानम् क्रमशः उत्पद्यमानं पक्षपुटं पतत्रयुगलं यस्य एतादृशे, मयि पितुः समीपवर्तिनि कोटरगते सतीत्यर्थः । उद्भिद्यमानं विलीयमानम्, असंजातं यद् बलमित्युक्तिर्भ्रमः । [^१]G. गगनतलमार्गः; गगनमार्ग. [^२]G. अवधृत. [^३]G. संचारिणां. [^४]G. अष्टभाग. [^५]G. तेषु. [^६]G. कुलायनिभृतशावक. [^७]G. असंजातबले. [^८]G. तातस्य समीप; तातसमीप. वने संत्रासितसकलवनचरः [^१]सरभससमुत्पतत्पतत्रिपक्षपुट- शब्दसंततः भीतकरिपोतचीत्कारपीवरः [^२]प्रचलितलताकुल- मत्तालिकुलकणितमांसलः परिभ्रमदुद्घोण [^३]वनवराहरवघर्घरो गिरिगुहासुप्तप्रबुद्धासिंह [^४]निनादोपबृंहितः कम्पयन्निव तरून्भगी [^५]रथावतार्यमाणगङ्गाप्रवाहकलकलवहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत् ।[^६]आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुद्ध्या [^७]जराशिथिलपक्षपुटान्तरमचिशम् । अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभद्रमुस्तारसामोदः, इतः करिकलभभज्यमान- सल्लकीकषायगन्धः, इतो निपतितशुष्कपत्रमर्मरध्वनिः, इतो वनमहिषविषाणकोटिकुलिशभिद्यमानवल्मीकधूलिः, इतो मृग- कदम्बकम्, इतो [ टि ]-- अथ ध्वनिं विशेषयन्नाह - संत्रासितेति । संत्रासिता भयं प्रापिताः सकलवनचराः समग्रारण्यचारिणो येन स तथा । सरभसेति । [^1]सरभसेन वेगेन समुत्पतन्तो ये पतत्रिणः पक्षिणस्तेषां पक्षपुटानि छदपुटानि तेषां शब्दो निनादस्तेन सम्यक्प्रकारेण ततो विस्तीर्णः । भीतेति । भीतास्त्रस्ता ये करिपोताः कलभास्तेषां चीत्काराः शब्दविशेषास्तैः पीवरः पुष्टः । प्रचलितेति । प्रचलिताः कम्पिता या लता वृल्लयस्तास्वाकुला व्याकुला ये मत्तालयो मत्तभ्रमरास्तेषां कुलानि तेषां क्वणितेन शब्दितेन मांसलः पुष्टः । परीति । परिभ्रमन्त इतस्ततः संचरन्त उद्घोणा उच्चनासा ये वनवराहा अरण्यशूकरास्तेषां रवः शब्दस्तेन घर्घरः कठोरः । गिरीति । गिरिगुहासु शैलकन्दरा पूर्वं सुप्ताः पश्चात्प्रबुद्धा उत्थिता ये सिंहाः केसरिणस्तेषां यो निनादः शब्दस्तेनोपबृंहितो वृद्धं प्राप्तः । पुनः किं कुर्वन्निव । तरुन्वृक्षान्क- म्पयन्निव चालयन्निव । भगीति । भगीरथेन राज्ञावतार्यमा- णोऽधस्तादानीयमानो यो गङ्गाप्रवाहः स्वर्धुनीस्रोतस्तस्य यः कलकलस्तद्वद्बहलः प्रभूतः । भीतेति । भीता भयं प्राप्ता या वनदेवतास्ताभिराकर्णितः श्रवणविषयीकृतः । आकर्ण्य चेति । अहमश्रुतपूर्वं तं शब्दमाकर्ण्य श्रुत्वा प्रतीकारबुद्ध्या भयनि- वृत्त्युपायधिया समीपवर्तिनो निकटस्थस्य पितुर्जनकस्य जरया विस्रसया यच्छिथिलं श्लथं पक्षपुटं तस्यान्तरं मध्यमविशं प्रविष्टोऽभवम् । कीदृशोऽहम् । उपेति । उपजातवेपथुः संजातकम्पोऽर्भकतया बालतया तादृशशब्दश्रवणादेव जर्जरितं प्रतिरुद्धं कर्णयोः श्रवणयोर्विवरं छिद्रं यस्य स तथा । अनन्तरं चेति । पितुः पक्षपुटान्तर प्रवेशानन्तरम् । चकारः पूर्वसमुच्चये । कोलाहलमशृणवमित्यग्रेतनेन संबन्धः । तदेव दर्शयति — सरभसमित्यादि । इतोऽस्मिन्प्रदेशे सरभसं वेगवत्तरं गजयूथपतिना लुलिता मर्दिता या कमलिनी नलिनी तस्याः परिमल आमोदः । इत इति पूर्ववत् । क्रोडकुलैररण्यशूकरसमुदायैर्दश्यमाना भक्ष्यमाणा या भद्रमुस्ता गुन्द्रास्तासां रसो द्रवस्तस्यामोदः परिमलः । इत इति प्राग्वत् । करिणां कलभा [^2]स्त्रिंशदब्दका- स्तैर्भज्यमाना आमर्द्यमाना याः सल्लक्यो गजप्रियास्तासां कषायः तुवरो गन्धः । इत इति प्राग्वत् । इतःप्रदेशे निपतितानि पर्यस्तानि यानि शुष्कपत्राणि तेषां मर्मरध्वनिर्मर्मर इति शब्दः । 'मर्मरो वस्त्रपत्रादेः' इति कोशः । इत इति । वनमहिषा गवलास्तेषां विषाणानि शृङ्गाणि तेषां कोटिरग्रं तदेव कुलिशं वज्रम् । अभेद्यत्वात्तदुपमानम् । तेन भिद्यमानं छिद्यमानं यद्वल्मीकं शक्र [^3]शिरैस्तस्य धूलिः पांसुः । इत इति । मृगाणां हरिणानां कदम्बकं समुदायः । इत इति । वनगजानामरण्यहस्तिनां कुलं समुदायः । इत इति । [^1]F. सरभसं भयवशात्सवेगम् उत्पतन्त इत्युचितम् । [^2]F. करिशावका इत्येवोचितम्, त्रिंशदब्देति परिगणनं स्थूलम् । [^3]F. सर्पादिगर्तः, कीटराशीकृतमृत्तिकास्तूपो वा । [^१]G. सततम्. [^२]G. प्रचलितलताकुलित; प्रचलितमत्तालिकुल. [^३]G. वराहघर्घरकठोर:. [^४]G. नाद. [^५]G. आवार्यमाण. [^६]G. आकर्ण्य तम्. [^७]G. जरातिशिथिल, वनगजकुलम्, इतो [^१]वनवराहयूथम्, इतो वनमहिषवृन्दम् इतः शिखण्डिमण्डलविरुतम्, इतः कपिञ्जलकुलककूजितम्, इतः कुररकुलक्वणितम्, इतो मृगपतिनखभिद्यमानकुम्भकुञ्जररसितम्, इयमार्द्रपङ्कमलिना [^२]वराहपद्धतिः, इयमभिनवशष्पकवलर- सश्यामला हरिणरोमन्थफेनसंहतिः, इयमुन्मदगन्धगजगण्ड- कण्डूयनपरिमलनिलीन [^३]मुखरमधुकरविरुतिः, एषा निपतित- रुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतद्द्विरदचरण- मृदितविटपपल्लवपटलम्, एत [^४]त्ससङ्गिकुलक्रीडितम्, एष नख [^५]कोटिविकटविलिखितपत्रलेखो रुधिरपाटलः करिमौक्ति [^६]कदलदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भ रुधिरलोहिनी भूमिः, इयमटवीवेणिका [^७]नुकारिणी [^८]पक्षचरस्य यूथपतेर्मदजलमलिना संचारवीथी, चमरी- पङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृगकरीषपांसुला त्वरिततर- मध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम् आलो [ टि ]-- वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां मयूराणां मण्डलं समूहस्तस्य विरुतं कूजितम् । इत इति । कपिञ्जलानां गौरतित्तिराणां कुलं समुदायस्तस्य कलं मधुरं कूजितं शब्दितम् । इत इति । कुरो मत्स्यनाशनस्तस्य कुलं [^1]पुत्रपौत्रादि तस्य क्वणितं शब्दितम् । इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरः पिण्डो येषामेवंभूताः कुञ्जरा हस्तिनस्तेषां रसितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षार्दोऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मलीमसा वराहपद्धतिर्वनक्रोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि बालतृणानि तेषां [^2]कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्ध [^3]गजा गन्धेभाः । सुरभिमदयुक्ता इत्यर्थः । तेषां गण्ड: करटस्तस्य कण्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिन्निलीना आसक्ता मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिर्झङ्कारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमौ स्रस्ता ये रुधिरबिन्दवो रक्तपृषतास्तैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृगविशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेषां चरणाः पादास्तैमृदितं मर्दितं विटपाना वृक्षाणां पल्लवपटलं किसलयसमूहो यस्मिन्नेतादृशं स्थलमित्यर्थः । एतदिति । एतद्दृश्यमानं खङ्गिनां वार्ध्रीणसानां कुलं पौत्रादि तस्य क्रीडितं चेष्टितम् । एष इति । एष प्रत्यक्षोपलक्ष्यमाणो मृगपतिमार्गो नखरायुधपन्थाः । कीदृक् । नखकोटिभिर्नखराग्रैर्विकटा विपुला विलिखिता 'निर्भिन्ना पत्रलेखा पर्णपतिर्यस्मिन्स तथा, रुधिरैः रक्तैः पाटलः श्वेतरक्तः करिणां गजानां मौक्तिकानि मुक्ताफलानि तेषां दलानि खण्डानि तेन दन्तुरः स्थ[^5]पुट: । एषेति । प्रत्यग्रप्रसूता नवप्रसविनी या वनमृग्यरण्यहरिणी तस्या गर्भो भ्रूणस्तस्य रुधिरं रक्तं तेन लोहिनी रक्तैषा भूमिः पृथ्वी । इयमिति । इयमटव्यरण्यभूमिर्वेणिकामलकपङ्क्तिमनुकरोतीत्येवंशीला सा तथा । कीदृशी । पक्षचरस्य समुदायचरिणो यूथपतेर्यूथनाथस्य मदजलेन दानवारिणा मलिना श्यामा । अनेन वेण्या साम्यमरण्यस्य सूचितम् । संचारेति । संचारवीथ्यां गोचरमार्गे चमर्या गोविशेषस्य पङ्क्तिः परंपरा सा अनुगम्यतामनुव्रज्यताम् । युष्माभिरिति शेषः । उच्छुष्केति । इयं वनस्थली त्वरिततरं वेगवत्तरमध्यास्यतामधिश्रियताम् । कीदृशी । उत्प्राबल्येन शुष्कं वानं यन्मृगकरीषं हरिणच्छगणं तेन पांसुला निन्दिता । तर्विति । तरुशिखरं वृक्षाग्रमारुह्यतामारोह विषयीक्रियताम् । इयमभिमुखा दिगालोक्यतामालोकविषयीक्रियताम् । अयं शब्द आकर्ण्यतां श्रूयताम् । धनुश्चापो गृह्यतां स्वीक्रियताम् । अवहितैः साव [^1]F. समुदाय इत्येवोचितम् । [^2]F. कवलो ग्रासः । [^3]F. येषां गन्धेन अन्ये गजाः प्रद्रवन्ति। [^4]F. स्रवद्रुधिरैर्नखैर्विलिखिताः चित्रिताः पत्रलेखाः पत्राकार- चिह्नानि यस्मिन् स इत्यर्थः । [^5]F. उच्चावचः । [^6]F. अटव्याः वेणिकेति समस्तमेवोचितम् । [^१]G. वराहयूथम्. [^२]G. वराहकुलपद्धति:. [^३]G. आलीन. [^४]G. शिखण्डिकुल. [^५]G. कोटिविलिखितविकपटत्रः. [^६]G. मौक्तिकदन्तुर:. [^७]G. अनुसारिणी. [^८]G. एकचरस्य; समीपचरस्य. क्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वान इत्यन्योन्य [^१]मभिवदतो [^२]मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् । अथ नातिचिरादे [^३]वानुलेपनार्द्रमृदङ्ग [^४]ध्वनिधीरेण गिरिविवरविजृम्भित [^५]प्रतिनाद [^६]गम्भीरेण [^७]श-बरशरताडितानां केसरिणां निनादेन, संत्रस्तयूथमुक्तानामेका- किनां च संचरतामनवरतकरास्फोटमिश्रेण जलधररसितानु- कारिणा गजयूथपतीनां कण्ठ [^८]गर्जितेन, सरभससारमेय- विलुप्यमानावयवाना [^९]मालोलतरलतारकाणामेणकानां च करुणकूजितेन, निहतयूथपतीनां वियोगिनीनामनुगत [^१०]कलभानां च स्थित्वा स्थित्वा समाकर्ण्य कलकलमुत्कर्ण- पल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यग्रपतिविनाशशोकदीर्घेण- करिणीनां चीत्कृतेन, कतिपयदिवसप्रसूतानां च खङ्गिधेनुकानां त्रासपरिभ्रष्ट [^११]पोतकान्वेषिणीनामुन्मुक्त [^१२]कण्ठ- मारसन्तीनामाक्रन्दितेन, तरुशिखरसमुत्पतिताना [ टि ] -- धानैः स्थीयतामुपविश्यताम् । श्वानः कौलेयका विमुच्यन्तां प्रस्थाप्यन्तामित्यन्योन्यमिति पूर्वोक्तप्रकारेणान्योन्यं परस्परमभिवदतो जल्पतो मृगयासक्तस्याखेटकासक्तस्य महतो महीयसो जनसमूहस्य जनवृन्दस्य तरूणां वृक्षाणां गहनं निकुञ्जस्तेनान्तरितो व्यवधानीकृतो विग्रहः शरीरं यस्य स तथा तस्य क्षोभितकाननमान्दोलितारण्यं यथा स्यात्तथा कोलाहलं कलकलमशृणवमश्रौषम् । अथेति । अथेत्यानन्तर्ये । नातिचिरादेव स्वल्पकालेनैव सर्वतोऽभितः प्रचलितमिव कम्पितमिव तदरण्यमभवत् । केन । अन्विति । अनुलेपनं द्रवद्रव्यं तेनार्द्रः स्विन्नो यो मृदङ्गो मुरजस्तस्य ध्वनिः शब्दस्तद्वद्धीरेण गम्भीरेण । गिरीति । गिरिविवरेषु पर्वतच्छिद्रेषु विजृम्भितः प्रसृतो यः प्रतिनादः प्रतिच्छन्दस्तेन गम्भीरेण मन्द्रेण । पुनः केन । शबरेति । शबरा भिल्लास्तेषां शरा- बाणास्तैस्ताडितानां व्यथितानां केसरिणां सिंहानां निनादेन शब्देन । पुनः केन । संत्रस्तेति । संत्रस्तं चकितं यद्यूथं तेन मुक्तानामेकाकिनां च संचरतां गच्छतामनवरतं निरन्तरं यः करास्फोट: शुण्डाघातस्तेन मिश्रः संवलितो जलधरो मेघस्तस्य रसितं गर्जितं तदनुकारिणा गजयूथपतीनां हस्तिसमुदायनाथानां कण्ठगार्जितेन निगरणरसितेन । पुनः केन । सरभसेति । सरभसं वेगवत्तरं सारमेयैः श्वभिर्विलुप्यमाना दूरीक्रियमाणा अवयवा अपघना येषां ते तथा तेषामालोलाश्चञ्चला अत एव तरला [^1]स्फुटिता तारका कनीनिका येषामेवंविधानामेणकानां हरिणानां करुणं करुणरसोत्पादकं यत्कूजितं शब्दितं तेन । पुनः केन । करिणीनां हस्तिनीनां चीत्कृतेन चीत्कारशब्देन । कीदृशेन । प्रत्यग्रेति । प्रत्यग्रस्तत्कालीनो यः पतिविनाशशोकस्तेन दीर्घेणायतेन । हस्तिनीं विशेषयन्नाह — इतस्तत इति । इतस्ततः समन्ततः परिभ्रमन्तीनां परिभ्रमणं कुर्वन्तीनाम् । उत्कर्णेति । उदूर्ध्वकर्णपल्लवा यासां तास्तासाम् । किं कृत्वा । स्थित्वा स्थित्वा पूर्वोक्तं कलकलं समाकर्ण्य श्रुत्वा । अन्विति । अनुगताः पश्चाल्लग्ना: कलभा यासां तास्तथा तासां वियोगिनीनां विप्रलम्भयुक्तानाम् । निहतेति । निहता व्यापादिता यूथपतयो यासां तास्तथा तासाम् । पुनः केन । आक्रन्दितेन रुदितेन । कासाम् । खङ्गिधेनुकानां गण्डकस्त्रीणाम् । किं कुर्वतीनाम् । उन्मुक्तकण्ठं यथा स्यात्तथातिकरुणशब्दमारसन्तीनामारटन्तीनाम् । पुनः कीदृशीनाम् । त्रासेति । त्रासेन भयेन परिभ्रष्टो नष्टो यः पोतकः स्तनंधयस्तदन्वेषिणीनां तद्विलोकनशीलानाम् । कतिपयेति । कतिपये कियन्तो ये दिवसा वासरास्तत्र प्रसूतं याभिस्तासाम् । पुनः केन । पत्रेति । पत्ररथानां पक्षिणां कोलाहलेन कलकलशब्देन । पक्षिणो विशेषयन्नाह - तर्विति । [^1]]F. वास्तवे तु । आलीलकातरतारकाणामित्येव पाठः। कातरा भीता। [^१]G. अभिददतः. [^२]G. मृगयाप्रसक्तस्य. [^३]G. इव. [^४]G. ध्वान. [^५]G. प्रतिनिनाद. [^६]G. गभीरेण. [^७]G. शरताडितानाम्. [^८]G. गर्जितेन. [^९]G. आलोलकातरतरलतर; विलोलकातरतरलतर. [^१०]G. कलभकानाम्. [^११]G. पोतान्वेषिणीनाम्. [^१२]G. कण्ठकरुण; कण्ठं करुण, कण्ठमतिकरुण. माकुलाकुलचारिणां च पत्ररथानां [^१]कोलाहलेन, रूपानुसार [^२]प्रधावितानां च मृगयूथानां युगपदतिरभस [^३]पादपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्ट [^४]ज्यानां च मदकलकुररकामिनीकण्ठ- [^६]कूजितकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, [^७]पवनाहतिक्वणितधाराणामसीनां च कठिनमहिषस्कन्ध- [^८]पीठपातिनां रणितेन, शुनां च सरभसविमुक्तघर्घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव [^९]तदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधर- वृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव [^१०]स्तिमिततामुपगते [^११]कानने मन्दीभूतभयोऽहमुपजात- [^१२]कुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य [^१३]संत्रासतरलतारकः शैशवात्कि [^१४]मिद- मित्यु [^१५]पजातदिदृक्षस्तामेव दिशं चक्षुः प्राहिणवम् । [ टि ]--तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चारिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां [^1]चरणशब्देन क्रमणोत्थरवेण । कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगपदिति । युगपत् एकदैवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः । बलवद्द्रव्याघाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह - कम्पमिवेति । जनयतोत्पादयता । पुनः केन । धनुषां निनादेन चापशब्देन । धनूंषि विशेषयन्नाह - कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्षिता ज्या गुणो येषां तानि तथा तेषाम् । शरेति । शराणां बाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि धनूंषि तेषाम् । चापध्वनिं विशेषयन्नाह - मदेति । मदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्ठकूजितं तस्य कलो मधुरो ध्वनिस्तेन शबलितेन मिश्रितेन । पुनः केन । असीति । असीनां खङ्गानां रणितेन शब्दितेन । असीन्विशेषयन्नाह - पवनेति । पवनस्य समीरणस्याहत्याहननेन क्वणिताः शब्दिता धारा येषां ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्वानेन शब्देन । शुनो विशिनष्टि - सरभसेति । सरभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेषाम् । अचिराच्चेति । [^2]अचिरात् बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्दे सागर इव समुद्र इव स्ति-मिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयन्नाह - मथनेति । मथनस्य विलोडनस्यावसानं पर्यन्तस्तेनोपशान्तं स्वस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनितशून्या ये जलधरा मेघास्तेषां वृन्दं तदनुकर्तुं शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्तं भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्क्रो डादीषदिव निष्क्रम्य किंचिदिवोन्नतो भूत्वा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन भयेन तरला चञ्चला तारका कनीनिका यस्य स तथा । शैशवाद्बाल्यात्किमिदमिति हेतोः । तामेव दिशं ककुभं प्रति चक्षुर्नेत्रं प्राहिणवम [^3]प्रैषम् । किमिदमदृष्टपूर्वमित्युपजाता समुत्पन्ना दिदृक्षा द्रष्टुमिच्छा यस्य सः । [^1]F. वास्तवे तु - मृगयूणामित्येव पाठ उचितः । रूपाणां मृगाणामनुसारेण प्रधावितानां मृगयूणां किरातानाम् चरणशब्देन इति तद्व्याख्या । 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः । [^2]F. स्वल्पकालेनेत्यर्थ उचितः । [^3]F. प्रैषयमित्याशयः । [^१]G. निनादेन. [^२]G. प्रस्थितानाम्. [^३]G. मृगयूणाम्. [^४]G. पादवातात्. [^५]G. ज्याघोषमद. [^६]G. कलेन; कलशबलेन. कलकलेनेव; कलकलशबलेन. [^७]G. आहृत. [^८]G. पाटितानाम्. [^९]G. तदा. [^१०]G. उपागते. [^११]G. तस्मिन्कानने. [^१२]G. मन्दीभूतसाध्वसः. [^१३]G. तरलतर. [^१]G.४ किमिति. [^१५]G. समुपजातविस्मयो दिदृक्षुः; समुपजातदिदृक्षः; संजातदिदृक्षः. अभिमुख [^१]मापतच्च तस्माद्वनान्तरादर्जुनभुजदण्डसहस्र- विप्रकीर्णमिव नर्मदाप्रवाहम्, [^२]अनिल [^३]चलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसंघातम्, अञ्जनशिलास्तम्भसंभारमिव क्षितिकम्पविघूर्णितम्, अन्धकार [^४]पुञ्जमिव रविकिरणा [^५]कुलितम्, अन्तकपरिवारमित्र परिभ्रमन्तम्, अवदारितरसातलो [^६]द्भूतमिव दानवलोकम् अशुभकर्मसमूहमिवैकत्र समागतम्, [^७]अनेकदण्डका [^८]रण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षिराम [^९]निहतखरदूषण [^१०]बलनिवहमिव तदपध्यानात्पिशाचता [^११]मुपगतम्, कलिकालबन्धु [^१२]वर्गमिवैकत्र संगतम्, [^१३]अवगाह- प्रस्थितमिव वनमहिषयूथम्, अचल [^१३]शिखरस्थित- केसरिकराकृष्टि [^१४]पतनविशीर्णमिव [^१६]कालाभ्रपटलम्, अखिलरूपविनाशाय धूमकेतुजालमिव समुद्गतम्, अन्धकारित- [^१७]काननम्, अनेकसहस्रसंख्यम्, अतिभ [^१८]यजनक- मुत्पातवेतालनातमिव शबरसैन्यमद्राक्षम् । [ टि ]-- अभीति । तस्माद्वनान्तरान्ममाभिमुखं संमुखमापतदा- गच्छच्छबरसैन्यं भिल्लानीकम् । तदहमद्राक्षमित्यग्रिमेणान्वयः । तत्सैन्यं विशेषयन्नाह --अर्जुनेति । सहस्रार्जुनस्य राज्ञो भुजदण्डसहस्रं बाहुसहस्रं तेन विप्रकीर्णमितस्ततः पर्यस्तं नर्मदाप्रवाहमिव मेकलाद्रिजास्रोत इव । अनिलवशाद्वायु- वशाच्चलितमितस्ततः पर्यस्तं तमालानां तापिच्छानां काननं वनमिव । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां याम- [^1]संघातमिव । अञ्जनशिलानां श्यामशिलानां ये स्तम्भाः स्थूणास्तेषां संभारमिव व्रातमिव । क्षितीति । क्षितिकम्पेन पृथ्वी [^2]प्रचलितेन विघूर्णितं मूर्च्छितम् । अन्धकारपुञ्जमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूर्यरश्मिभिराकुलितं व्याकुलीभूतम् । अन्तकस्य यमस्य परिवारमिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तमितस्तत: पर्यन्तम् । अत । अवदा- रिताद्विदीर्णासातलाद्भूतलादुद्भूतं प्रकटीभूतं दानवलोकमिव लोकमिव । अशुभेति । एकत्र समागतं मिलितमशुभ [^3]कर्मण: पापप्रकृतेः समूहमिव संघातमिव । अनेकेति । अनेके च ये दण्डकारण्यवासिमुनिजनास्तेषां शापानां सार्थ: समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं व्रजन्तम् । अनवरतेति । अनवरतं निरन्तरं शरनिकरं बाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन निहतो व्यापादितः खर [^4]दूषणस्य पाताललङ्काधिपतेर्बलनिवहः सैन्यसमूहस्तमिव । कीदृशम् । तस्मिन्रामचन्द्रेऽपध्यानं दुश्चिन्तनं तस्मात्पिशाचतां भूततामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य बन्धुवर्गं सहचरसमुदायमिव । एकत्रेति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मज्जनं तदर्थं प्रस्थितं वनमहिषयूथमिव गवलवृन्दमिव । अचलेति । अचलः पर्वतस्तस्य शिखरं शृङ्गं तत्र स्थितो यः केसरी महा- [^5]नागस्तस्य करौ हस्तौ ताभ्यामाकृष्टिराकर्षणं तस्माद्यत्पतनं भ्रंशस्तेन विशीर्णं विशरारुतां प्राप्तं कालाभ्रपटलमिव मेघमालामिव । अखिलेति । अखिलानां समग्राणां [^6]यद्रूपं तस्य विनाशाय नाशनाय समुद्गतमुदयं प्राप्तं धूमकेतुजालमिव केतुसमूहमिव । अन्धेति । अन्धकारितं संजातान्धकारं काननं येन तादृशम् । अनेकेति । अनेकानि सहस्राणि संख्या यस्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिस्तस्य जनकमुत्पादकम् । किमिव । [^7]उत्पातोऽजन्यं तस्य वेतालवातं देव विशेषसमूहमिव भयोत्पादकमित्यर्थः । अन्वयस्तु प्रागेवोक्तः । [^1]F. प्रहरसमूहमिव । [^2]F. प्रचलनेन, भूकम्पेनेत्यर्थः । [^3]F. कर्थणामिति बहुलमुचिइम् । [^4]F.खरदूषणयोःतन्नामकयोर्दण्डकारण्यसमीपस्थरावणसेनाधि-पत्योः बलनिवहमिवेत्यर्थः । [^5]F. सिंह इत्यर्थः। [^6]F. वस्तुतस्तु अखिलानां रूपाणां मृगाणां विनाशाय धूमकेतुसमूहमिवेत्यर्थः । 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः [^7]F. उत्पाताय अमङ्गलाय यो वेतालव्रातः भूताविष्टशव- समूहस्तमिव । इत्यर्थो बोध्यः । [^१]G. आपतन्तं च; आपतितम्. [^२]G. अनिलबल; अनिलवशाल ; अनिलवंश. [^३]G. संचलित. [^४]G. पूरम्; बलम्. [^५]G. आकुलम्. [^६]G. उद्गतमिव. [^७]G. अशेष. [^८]G. वासित. [^९]G. निहतम् ; हत. [^१०]G. बलमिव. [^११]G. उपगतम्. [^१२]G. वर्गमिव समुद्गतम् ; वर्गमिव संगतम्. [^१३]G. अवगाह्योत्थित [^१४]G. शिखरस्थसिंह. [^१५]G. शीर्णम्. [^१६]G. कालमेघ. [^१७]G. अशेषकाननम्. १८ जननम्. मध्ये च तस्य [^१]महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अतिकर्कश [^२]त्वादायसमयमिव निर्मितम्, एकलव्यमिव जन्मान्तर [^३]गतम्, उद्भिद्यमानश्मश्रुराजितया प्रथममदलेखामण्ड्यमानगण्डभित्तिमिव गजयूथपति [^४]कुमारकम्, असितकुव [^५]लयश्यामलेन देहप्रभाप्रवाहेण कालिन्दीजलेनेव [^६]पूरितारण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयत [^७]ललाटम्, [^८]अतितुङ्गघोरघोणम्, उपनीतस्यैककर्णा- भरणतां [^९]भुजगफणा [^१०]मणेरापाटलैरंशुभिरालोहिती- कृतेन पर्णशयनाभ्यासाल्लग्नपल्लवरागेणेव वामपार्श्वेन विराजमानम्, अचिरप्र [^११]हतगजकपोलगृहीतेन सप्तच्छद- परिमलवाहिना [^१२]कृष्णागरुपङ्केनेव सुरभिणा मदेन कृताङ्गरागम्, [^१३]उपरि तत्परिमलान्धेन [^१४]भ्रमता [^१५]मायूरपिच्छा [ टि ]-- मध्ये चेति । तस्य पूर्वव्यावर्णितस्य महतः शबरसैन्यस्य भिल्लबलस्य मध्ये मातङ्गनामानं शबरसेनापतिमपश्य- मद्राक्षमित्यन्वयः । तमेव विशेषयन्नाह– प्रथमे इति । अत्र प्राथम्यमापेक्षिकम् । तेन वार्धकापेक्षया प्रथमं वयस्तत्र वर्तमानम् । अतिकर्कशत्वादतिकठिनत्वादायसमयमिव लोहमयमिव निर्मितं रचितम् । कमिव । एकेति । एकलव्यो द्रोणाचार्यशिष्यः शबर- स्तमिव । कीदृशम् । जन्मेति । एकस्माज्जन्मनोऽन्यज्जन्मान्तरं तत्र गतं प्राप्तम् । उदिति । उद्भिद्यमानान्युत्पद्यमानानि यानि श्मश्रूणि तेषां राजि: पङ्क्तिस्तस्या भावस्तत्ता तया प्रथमाया या मदलेखा तया मण्ड्यमानालंक्रियमाणा गण्डभित्तिः कपोलभित्तिर्यस्यैवंभूतो यो गजयूथपतिर्गजनायकस्तस्य कुमारकः कलभस्तमिव । असितेति । पूरितं भृतमरण्यं काननं येन स तथा तम् । केन देहस्य शरीरस्य या प्रभा कान्तिस्तस्याः प्रवाहेणौघेन । तमेव विशेषयन्नाह – असितेति। असितं कृष्णं यत्कुवलयं कुवेलं तद्वत् श्यामलेन श्यामेन । केनेव । कालिन्दीजलेनेव । यमुनाम्भसेव । यमुनाजलं नीलम्, शबरदेहप्रभापि तादृशी, अतस्तयोः साम्यम् । कमिव । आकुटिलेति । आ ईषत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनोपेतं सहितं गजानां [^1]व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केसराणां कलापेन सटानां कलापेनोपेतं सहितं केसरिणमिव सिंहमिव । आयतेति । आयतं विस्तीर्णं ललाटमलिकं यस्य स तम् । अतीति । अतितुङ्गात्युच्चा घोरा रौद्रा घोणा नासिका यस्य स तम् । वामेति । वामपार्श्वेन सव्यपार्श्वेन विराजमानं शोभमानम् । तदेव विशेषयन्नाह - पर्णेष्विति । पर्णेषु पत्रेषु यच्छयनं स्वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्लवानां राग आरुण्यं यस्मिंस्तत्तथा तेन । अत्रोत्प्रेक्षा - नायं पल्लवैररुणः किंत्वेकस्मिन्कर्णे आभरणतां भूषणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः श्वेतरक्तैः अंशुभिः किरणै: आलोहितीकृतेन अरुणीकृतेनेव । इव भिन्नक्रमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छदानामयुक्छदानां यः परिमलो गन्धस्तं वहतीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य पङ्केनेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृतोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य मदस्य यः परिमलो गन्धस्तेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्भ्रमता भ्रमणं कुर्वता । मायूरेति । [^1]F. गजानां मदेन मलिनीकृतेन केसरकलापेन सटासमूहेनोपेतं केसरिणमिव सिंहमिवेति स्पष्टोऽर्थः । [^१]G. अतिमहतः. [^२]G. आयसम्. [^३]G. आगतम्. [^४]G. कुमारम्. [^५]G. श्यामेन. [^६]G. पूरयन्तमरण्यम्. [^७]G. ललाटभासिनम्. [^८]G. तुङ्गघोर. [^९]G. भुजंग. [^१०]G. फणा. [^११]G. आहत. [^१२]G. कृष्णागुरु. [^१३]G. उपरिपतत्परिमल. [^१४]G. परिभ्रमता. [^१५]G. मायूरातपत्र; मयूरपिच्छातपत्र; मयूरपिच्छछत्र. तपत्रानुकारिणा मधुकरकुलेन तमालपल्लवेनेव निवारितातपम्, [^१]आलोलपल्लवव्याजेन भुजबलनिर्जितया भयप्रयुक्तसेवया विन्ध्याटव्येव करतले नापमृज्यमानगण्डस्थल [^२]स्वेदलेखम्, आपाटलया [^३]हरिणकुलकालरात्रिसंध्यायमानया शोणितार्द्रयेव दृष्ट्या [^४]रञ्जयन्तमिवाशा [^५]विभागानाम्, [^६]जानुलम्बेन [^७]कुञ्जरकरप्रमाणमिव गृहीत्वा निर्मितेन [^८]चण्डिकारुधिर- बलि [^९]प्रदानायाऽसकृन्निशितशस्त्रोल्लेखविषमितशिखरेण भुजयुगलेनोपशोभितम्, अन्त [^१०]रान्तरालग्ना ऽऽश्यान- हरिणरुधिरबिन्दुना स्वेदजल [^११]कणिकाचितेन गुञ्जा [^१२]फलमिश्रै: करिकुम्भमुक्ताफलैरिव [^१३]रचिताभरणेविन्ध्य [^१४]शिलाविशालेन [^१५]वक्षःस्थलेनोद्भासमानम्, अविरतश्रमाभ्यासा [^१६]दुल्लिखितोदरम्, इभमदमलिन [ टि ]-- मायूर [^1]मयूरसंबन्धि यदातपत्रं तदनुकारिणा मधुकरकुलेन भ्रमरसमुदायेन । केनेव । तमालपल्लवेनेव तापिच्छकिसलयेनेव निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तथा तम् । आलोलेति । विन्ध्याटव्या विन्ध्यवनस्थल्या लोला- [^2]श्चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन छलेन करतलेन हस्तेनेवापसृज्यमाना गण्डस्थलवेदलेखा यस्य तम् । विन्ध्याटवीं विशिनष्टि - भुजेति । भुजयोर्यद्बलं वीर्यं तेन निर्जितया पराजितया । भयेति । भयमातङ्कस्तेन प्रयुक्तारब्धा सेवा यया । दृष्ट्या चक्षुषा । कीदृश्या आपाटलयेषच्छे्वतरक्तया । मृगेति । मृगकुलानां हरिणवंशानां या क्षयरात्रिर्विनाशयामिनी तस्याः संध्यायमानया सायंकालवदाचरितया शोणितायेव रक्तलिप्तयेव रञ्जयन्तं [^3]शोभय न्तम् । केषाम् । आशाविभागानां दिग्विभागानाम् । अत्र [^4]कर्मणि षष्ठी । जान्विति । भुजयोर्युगलं बाहुद्वन्द्वं तेनोपशोभितं विराजमानम् । भुजयुग्मं विशेषयन्नाह - जान्विति । जानुर्नलकीलस्तत्पर्यन्तं चावलम्बेनायतेन । महापुरुषलक्षणमिदम् । कुञ्जरेति । कुञ्जरो गजस्तस्य करप्रमाणं शुण्डाप्रमाणं गृहीत्वेव निर्मितेन कृतेन । चण्डिकेति । चण्डिका काली तस्या रुधिरबलिप्रदानायासकृन्निरन्तरं निशितानि तेजितानि यानि शस्त्राणि तेषामुल्लेखो घर्षणं तेन विषमितं स्थ [^5]पुटितं शिखरं भुजाग्रं यस्य स तथा तेन । चक्षुरिति । [^6]चक्षुःस्थलेन नेत्रस्थानेनोत्प्राबल्येन भासमानं शोभमानम् । चक्षुःस्थलं विशिनष्टि - लग्नेति । अन्तरा मध्ये लग्नाश्यानाशुष्का हरिणस्य मृगस्य यदुधिरं रक्तं तस्य बिन्दवो यस्मिन् तेन । स्वेदेति । स्वेदजलं प्रस्वेदवारि तस्य कणिकाः क्षुद्ररजःकणिकास्ताभिराचितेन व्याप्तेन । रक्तश्वेतसादृश्योपमानमाह - गुप्तेति । रचितं विरचितमाभरणं भूषणं यस्य तत्तथा तेन । कैः । करिकुम्भमुक्ताफलैरिव हस्तिशिरःपिण्डरसोद्भवैरिव । कीदृशैः । गुञ्जाफलानि प्रसिद्धानि तैर्मिश्रः संयुक्तः । विन्ध्येति । विन्ध्यपर्वतस्य जलबालकाद्रेर्या शिला तद्वद्विशालेन विस्तीर्णेन । अविरतेति । अविरतं निरन्तरं यः शक्त्यतिशयार्थं [^1]F. मायूरं यत्पिच्छं बर्हं तदेव तस्य वा यत् आातपत्रं छत्रं तदनुकारिणेति पाठो युक्तः । [^2]F. आलोलाः पल्लवास्तस्य कपोलस्वेदलेखां प्रोञ्छन्ति, तत्रोत्प्रेक्षा – विन्ध्याटवी भुजबलेन निर्जिता, अत एव भयवशात् प्रयुक्तसेवा आरब्धसेवना । तत एव पल्लवानां व्याजेन सा विन्ध्याटव्येव करतलेन तस्य स्वेदान् प्रोञ्छतीत्युत्प्रेक्षाशयः । [^3]F. रक्तीकुर्वन्तमित्यर्थः । [^4]F. कर्मणः शेषत्वविवक्षायां मातुः स्मरतीतिवत् षष्ठीति मार्मिकैर्बोध्यम् । [^5]F. क्षतकिणैरुच्चावचीकृतमित्यर्थः । [^6]F. टीकाकारो आन्तशिरोमणिः 'रचिता -भरणविन्ध्यशिला विशाले'त्यादिविशेषणानि वक्षःस्थलस्यैव न चक्षुषः । अत एव वक्षःस्थलेन इति मूलस्थितपाठानुसारं सर्वं संगमनीयम् । व्याख्या त्वत्रत्या ग्राह्या । वक्षःस्थलं स्वेदजलबिन्दुभिर्व्याप्तं यस्य हि मध्ये मध्ये ईषच्छुष्का हरिणरुधिरबिन्दवोपि लग्नाः । अत एवोत्प्रेक्षा यत्-गुञ्जाफलमिश्रै: गजमौक्तिकैरिव रचिताभरणमिति व्याख्याशयः । [^१]G. आलोलकर्णपलव. [^२]G. स्वेदसलिल. [^३]G. मृगकुलक्षयरात्रि. [^४]G. रञ्जयन्तमाशा. [^५]G. विभागाम्. [^६]G. आजानुलम्बिना. [^७]G. वनकुञ्जर, दिक्कुञ्जर. [^८]G. कालिका. [^९]G. प्रदानार्थमसकृत्. [^१०]G. अन्तरालग्ना. [^११]G. कणचितेन. [^१२]G. विमिश्रैः. [^१३]G. विरचिता. [^१४]G. विन्ध्यशिलातल. [^१५]G. कक्षस्थलेन, चक्षुःस्थलेन. [^१६]G. उल्लिखिताम्बरम्. ९ का० मालानस्तम्भयुगलमुपहसन्तमिवोरुदण्डद्वयेन,लाक्षालोहितकौशेय-परिधानम्, अकारणेऽपि [^१]क्रूरतया बद्ध [^२]त्रिपताकोदग्र- भ्रुकुटिकराले ललाट [^३]फलके प्रबलभक्त्याराधितया मत्प- रिग्रहोऽयमिति कात्यायन्या त्रिशूलेनेवाङ्कितम्, उपजातपरिचयै- रनुगच्छद्भिः श्रमवशाद्दूरविनिर्गताभिः स्वभावपाटलतया शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेद्यमान- खेदैर्विवृतमुखतया स्पष्टदृष्ट [^५]दन्तांशून्दंष्ट्रान्तराललग्नकेसरि- [^६]सटानिव सृक्कभागानुद्वहद्भिः स्थूलवराटकमालिकापरिगत- कण्ठै- र्महावराहदंष्ट्राप्रहारजर्जरैरल्पकायैरपि महाशक्तित्वादनुप- जात केसरैरिव केसरि [^७]किशोरकैर्मृगवधू [^८]वैधव्यदीक्षादा- नदक्षैरनेकवर्णैः श्वभिरतिप्रमाणाभिश्च केसरिणामभयप्र [ टि ]-- श्रमस्तत्राभ्यासः पुनः पुनः करणं तस्मादुल्लिखितं [^1]चिह्नितमुदरं यस्य स तम् । इभेति । ऊर्वोर्यद्दण्डद्वयं तेनेभो गजस्तस्य मदो दानवारि तेन मलिनं श्याममालानं गजबन्धनस्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिव तिरस्कुर्वन्तमिव । लाक्षेति । लाक्षया जतुना लोहितं रक्तीकृतं यत्कौशेयं कृमिकोशोत्थं तदेव परिधानमधोंशुकं यस्य स तथा तम् । अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतयां बद्धा त्रिपताका त्रिवलिर्ययैवंभूता या भ्रुकुटिर्भृकुटिस्तया कृत्वा कराले विकराले ललाटफलकेऽलिकपट्टे प्रबलभक्त्याराधितयात्युत्कृष्टभक्तिवशीकृतया कात्यायन्या भवान्या मत्परिग्रहोऽयमिति मदीयोऽयमिति त्रिशूलेन शस्त्रविशेषेणाङ्कितमिव चिह्नितमिव । श्वभिरिति । श्वभिः श्वानैरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषयन्नाह - उपेति । उपजातः समुत्पन्नः परिचयः सांगत्यं यैस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवेद्येति । आवेद्यमानोऽन्येभ्यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः जिह्वाभी रसनाभिः । एता विशिनष्टि – श्रमेति । श्रमवशात्खेदमाहा- त्म्यान्मुखाद्दूरं विनिर्गताभिर्निःसृताभिः । स्वभावेति । स्वभावो जातिस्वभावस्तेन पाटलतया श्वेतरक्ततया शुष्काभिरपि निर्लेपाभिरपि हरिणशोणितं मृगरुधिरं क्षरन्तीभिरिव स्रुवन्तीभिरिव । किं कुर्वद्भिस्तैः । विवृतेति । विवृतं विदीर्णं यन्मुखं तस्य भावस्तत्ता तया सृक्कभागानोष्ठप्रान्तदेशान् । 'दन्तवस्त्रं चं तत्प्रान्तौ सृक्किणी' इति कोशः । उद्वहद्भिरुत्प्राबल्येन वहमानैः । तान्विशेषयन्नाह – स्पष्टमिति । स्पष्टं प्रकटं दृष्टा अवलोकिता दन्तांशवो दशनत्विषो येषु ते तथा तान् । कामिव । दंष्ट्रान्तराले दाढामध्ये लग्ना या केसरिसटा सिंह [^2]स्कन्धकेसरा तामिव । स्थूलेति । स्थूला स्थविष्ठा ये वराटकाः कपर्दकास्तेषां मालिका मालास्ताभिः परिगतः सहितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनक्रोडास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तैर्जर्जरैः शिथिलाङ्गैः । अल्पेति । अल्पकायैः स्वल्प- शरीरैरपि महाशक्तित्वात्प्रौढपराक्रमत्वादनुपजातकेसरै- रनुत्पन्नसटैः केशरिकिशोरकैरिव सिंहशावकैरिव । मृगेति । मृगवधूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वव्रतदानं तत्र दक्षैर्निपुणैः । अनेकेति । अनेके बहवो वर्णा रक्तपीतादयो येषु ते तथा तैः पुनः काभिः । अतीति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां सिंहानामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्थं आगताभिः प्राप्ताभिः सिंहीभिरिव कौलेयककुटु [^1]F. कृशत्वेन उल्लेखयोग्यीकृतं कृशमित्यर्थः । [^2]F. कीदृशान् सृक्कभागान् ? येषु दुन्तांशवः स्पष्टं दृश्यमानाः सन्ति । अत एव ते ईदृशाः प्रतीयन्ते यथा एषां दंष्ट्रान्तराले केसरिणः सटैव लग्ना भवेत् । दन्तकिरणेषु लग्नायाः केसरसटाया उत्प्रेक्षेत्याशयः ॥ [^१]G. क्रूरजातितया.. [^२]G. त्रिपताकाग्रभ्रुकुटि. [^३]G. पट्टे. [^४]G. दर. [^५]G. दृष्टदष्टांशून्दन्तान्तराल. [^६][G. सटानिव.. [^७]G. किशोरैः. [^८]G. वैधव्यदान. दानयाचनार्थमागताभिः सिंहीभिरिव [^१]कौलेयककुटुम्बिनी- भिरनुगम्यमानम्, [^२]कैश्चिद्गृहीतचमरबालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्धमधुपुटैः कैश्चिन्मृगपतिभिरिव [^३]गजकुम्भमुक्ताफलनिकरसनाथपाणिभिः कैश्चिद्यातुधानैरिव गृहीत [^४]पिशितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधारिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छ [^५]धारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कृष्णचरितमिव दर्शयद्भिः समुत्खात- विधृतगजदन्तैः कैश्चिज्जलदागमदिवसैरिव जलधरच्छाया [^६]मलिनाम्बरैरनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्यमिव सखङ्गधेनुकम्, अभिनवजलधरमिव मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृतानेकमहानागदशनम्, भीष्ममिव शिखण्डिशत्रुम्, निदाघदिवसमिव सतता- विर्भूतमृगतृ [ टि ]-- म्बिनीभिः [^1]श्वानपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैर्भिल्लसमूहैः परिवृतमावेष्टितम् । कीदृशैः । कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयानां बालाः केशाः गजानां दन्ताश्च तेषां भारः समूहो यैस्ते तथा तैः । कैश्चिदिति । अच्छिद्रपर्णैर्निबिडपत्रैर्बद्धानि मधुनः पुटानि यैस्ते तथा तैः । कैश्चिदिति । मृगपतिभिरिव सिंहैरिव गजानां हस्तिनां कुम्भाः शिरः पिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गश्लेषः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः पिशितस्य मांसस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लेषः । कैश्चिदिति । प्रमथैरिव पार्षदैरिव केसरिणां सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशीलैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरैरिव मयूराणां बर्हिणां पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हृतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चिदिति । शिशुभिरिव बालकैरिव काकपक्षः शिखण्डकस्तद्धारिभिः । भिल्लपक्षे काकानां [^2]सकृत्प्रजानां पक्षाश्छदास्तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव पूर्वं समुत्खाताः सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि बाल्ये गज [^4]हननक्षण इत्थ-मेवाचरितमिति साम्यम् । कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य छायातपा- भावस्तद्वन्मलिनानि कश्मलाम्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिनमम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहवो वृत्तान्ताश्चरित्राणि येषां ते तथा तैः । अरण्येति । अरण्यं वनं तद्वदिव । उभयोः सादृश्यमाह – सखङ्गेति । खङ्गः कौक्षेयको धेनुका कृपाणिका ताभ्यां सह वर्तमानम् । पक्षे खङ्गो वार्ध्रीणसः धेनुका वशा ताभ्यां युक्तमित्यर्थः । अभीति । अभिनवः प्रत्यग्रो यो जलधरो मेघस्तमिव मयूराणां पिच्छानि तद्वच्चित्रं विविधवर्णधारि यच्चापं धनुस्तद्धत्त इत्येवंशीलः स तथा तम् । पक्षे मयूरपिच्छवच्चित्रं चापमिन्द्रधनुस्तद्धारिणम् । बकेति । बकाभिधानो राक्षसो यातुधानस्तद्वदिव । उभयोः साम्यमाह - गृहीतेति । गृहीतं धृतमेकमद्वितीयं चक्रं येन स तम् पक्षे गृहीता स्वायत्तीकृतैकचक्राभिधाना पुरी येनेति विग्रहः । अरुणेति । अरुणानुजो गरुडस्तद्वदिव । उभयोरैक्यं प्रदर्शयन्नाह - उद्धृतेति । उद्धृता उत्पाटिता अनेकेषां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उद्धृता मुखान्निष्कासिता अनेक- महानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीष्मेति । भीष्मो गाङ्गेयस्तमिव । उभयोः सादृश्यमाह -- शिखण्डीति । शिखण्डिनो बर्हिणस्तेषां शत्रुम् । तद्वधकारित्वात् । पक्षे शिखण्डी पाण्डवपक्षीयो वर्षवरस्तस्य शत्रुं विपक्षम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्य दिवस [^1]F. श्वपत्नीभिरित्यर्थः । । [^2]F. वायसानाम् । [^3]F. कृष्णस्य लीलां । [^4]F. कुवलयापीडस्य हननोत्तरमित्यर्थः [^१]G. कौलेय; कौलटेय. [^२]G. आगृहीत. [^३]G. विभिन्नगजकुम्भ. [^४]G. पिशिताहारैः; [^५]G. वाहिभिः. [^६]G. मलिनैः. ष्णम्, विद्याधरमिव मानसवेगम्, [^१]पाराशरमिव योजनगन्धानुसारिणम्, घटोत्कचमिव भीमरूपधारिणम्, अचलराजकन्यकाकेशपाशमिव नीलकण्ठचन्द्रकाभरणम्, [^२]हिरण्याक्षदानवमिव महावराहदंष्ट्राविभिन्नवक्षःस्थलम्, अतिरागिणमिव कृतबहु [^३]बन्दीपरिग्रहम्, पिशिताशनमिव [^४]रक्तलुब्धकम्, [^५]गीतकलाविन्यासमिव निषादानुगतम्, अम्बिकात्रिशूलमिव महिषरुधिरार्दकायम्, अभिनवयौवनमपि [^६]क्षपितबहुवयसम्, कृतसारमेयसंग्रहमपि फल [^७]मूलाशनम्, कृष्णम [ टि ]-- मिव दिनमिव । उभयोः साम्यमाह -सततेति । सततं निरन्तरं वनादाविर्भूता प्रकटीभूता ये मृगा हरिणास्तेषु तृष्णा हननेच्छा यस्य स तम् । पक्ष आविर्भूता प्रकटिता मृगतृष्णा मरीचिका येष्विति विग्रहः । विद्येति । विद्याधरो व्योमगस्तद्वदिव । उभयोः साम्यार्थमाह – मानसेति । मानेनाहंकारेण सवेगः सर्वदा तीव्रगतिः । पक्षे मानसे मानसाभिधाने सरसि गतिर्गमनं यस्येति विग्रहः । पारेति । पाराशरो व्यासस्तमिव । उभयोः सादृश्यमाह - योजनेति । योजनं गन्धो विद्यते यस्मिन्नित्यर्शआदित्वादच्प्रत्ययः । योजनगन्ध: कस्तूरीमृगस्तमनुसरतीत्येवंशीलः स तम् । योजनगन्धा शीतं तमनुसारिणमिति वा । पक्षे [^1]व्यासमातरि। कस्तूरी- शीतयोश्च' इति कोशः । घटेति । घटोत्कचो हिडिम्बासुतस्तमिव । उभयोः सादृश्यमाह - भीमेति । भीमं भयकारि यद्रूपं तद्धारिणम् । पक्षे भीमस्य वृकोदरस्य रूपमाकृतिस्तद्धारिणम् । तत्पुत्रत्वात् । अचलेति । अचलराजो हिमाचलस्तस्य कन्यका पार्वती तस्याः केशपाशः केशकलापस्तमिव । उभयोस्तुल्यतामाह- नीलेति । नीलकण्ठो मयूरस्तस्य चन्द्रका [^2]मेचकास्तेषामा समन्ताद्भरणं धारणं यस्मिन्स तथा तम् । पक्षे नीलकण्ठो महादेवस्तस्य यश्चन्द्र एव चन्द्रकस्तदेवाभरणं यस्मिन् । अर्धनारीत्वादिति भावः । हिरण्येति । हिरण्याख्यो हिरण्यकशिपुः दानवः दैत्यस्तमिव । उभयोः साम्यं दर्शयन्नाह - महेति । महावराहा वनसूकरास्तेषां दंष्ट्रा दाढास्ताभिर्विभिन्नं विहितक्षतं वक्षःस्थलं भुजान्तरं यस्य स तथा तम् । द्वितीयपक्षे भगवता कृष्णेन महावराहरूपमाधाय हिरण्याक्षस्य वक्षःस्थलं विदारितमिति प्रसिद्धिः । अतीति । अतिरागिणमतिरागाभिभूतमतियशोभि [^3]लाषुकं तमिव । उभयोस्तुल्यतामाह- कृतेति । कृतो विहितो बहुबन्दीनां ग्रहाणां परि सामस्त्येन ग्रहो येन स तम् । पक्षे कृतो बहुबन्दिनां वैतालिकानां परिग्रहः स्वीकारो येनेति विग्रहः । 'श्लेषे स्वरो न गण्यते' इति हस्वदीर्घार्थः श्लेषः । पिशितेति । पिशिताशनो मांसभक्षकस्तद्वदिव । उभयोस्तुल्यत्वमाह – रक्तेति । रक्ता अनुरक्ता लुब्धका व्याधा यस्मिन्स तथा तम् । पक्षे रक्ते रुधिरे लुब्ध एव लुब्धकः । सस्पृह इत्यर्थः । गीतेति । गीतकला गेयविज्ञानं तस्या विन्यासो रचना तमिव । उभयोः साम्यमाह - निषादेति । निषादा भिल्लास्तैरनुगतं पश्चाद्गतम् । पक्षे निषादस्तन्त्रीकण्ठोद्भवः खरः । 'निषादर्षभगान्धार -' इति कोशः । तेनानुगतं सहितम् । अम्बिकेति । अम्बिका भवानी तस्यास्त्रिशूलं शस्त्रविशेषस्तद्वदिव । उभयोः सादृश्यमाह - महिषेति । महिषो रक्ताक्षस्तस्य रुधिरं रक्तं तेनार्द्रः [^4]स्विन्नः कायो देहो यस्य स तम् । तदपि तादृशामित्यभङ्गश्लेषः । अभिनवेति । अभिनवं मनोहारि प्रत्यग्रं वा यौवनं तारुण्यं यस्यैवंभूतमपि क्षपितानि बहूनि वयांसि येनेति विरोधः । परिहारपक्षे क्षपिता बहवो वयसः पक्षिणो येनेति विग्रहः । कृतेति । कृतो विहितः सारस्य धनस्य मेयस्य मातुं योग्यस्यान्नादेः संग्रहः स्वीकारो येनैवंभूतमपि फलमूलान्येवाशनं भक्षणं यस्येति विरोधः । परिहारपक्षे कृतः सारमेयाणां कुक्कुराणां संग्रहो येनैवंभूतम् । [^1]F. योजनगन्धानाम्नीं दाशकन्यामनुसरति स इत्यर्थः । [^2]F. पिच्छप्रान्तभागे चन्द्राकाराः शिखण्डका इत्यर्थः । [^3]F. अतिरागिणम् अत्यन्तविषयासक्तं धनिनमिव कृतो बहूनां बन्दीनां प्रसभापहृतस्त्रीणां संग्रहो येन इत्यर्थ उचितः । टीकाधृत- व्याख्या तु विचारणीया। [^4]F. सिक्त इत्याशयः । [^१]G. पराशरम्. [^२]G. हिरण्याख्य. [^३]G. बन्दि. [^४]G. बहुरक्त. [^५]G. कलाविलास; कलाभिलाष. [^६]G. क्षयितवयस्कम्. [^७]G. फलाशिनम्. प्यसुदर्शनम्, स्वच्छन्द [^१]चारमपि दुर्गैकशरणम्, क्षितिभृत्पादा- नुवर्तिनमपि राजसेवानभिज्ञम्, अपत्यमिव [^२]विन्ध्याचलस्य, अंशकावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, [^३]सारमिव कलिकालस्य, भीषणमपि महासत्त्वतया गम्भीरमिवोपलक्ष्यमाणम्, [^४]अभि [^1]भवनीयाकृतिं [^५]मातङ्गनामानं शबरसेना- पतिमपश्यम् । अभिधानं तु [^७]पश्चात्तस्याहमश्रौषम् । आसीच्च मे मनसि — 'अहो, [^८]मोह [^९]प्राय [^१०]मेतेषां जीवितं साधुजन [^११]गर्हितं च चरितम् । तथा हि — पुरुषपिशितोपहारे धर्मबुद्धिः, आहारः साधुजन [^१२]गर्हितो मधुमांसादिः, श्रमो मृगया, [^१३]शास्त्रं शिवारुतम्, [^१४]समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः श्वानः, राज्यं [^१५]शून्यास्वटवीषु, आपानकमुत्सवः, मित्राणि [^१६]क्रूरकर्मसाध [^१७]नानि धनूंषि, सहाया [ टि ]-- कृष्णेति । कृष्णं विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीमदर्शनम् । भयोत्पादकत्वादिति भावः । स्वच्छन्देति । स्वच्छन्देन स्वेच्छतया चारश्चरणं यस्यैवंभूतमपि दुर्गं कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षितिभृदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या अनभिज्ञमकुशल- मिति विरोधः । तत्परिहारपक्षे क्षितिभृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायिनमिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलबालकाद्रेरपत्यमिव प्रसूतिमिव । अंशेति । कृतान्तस्य यमस्यांशावतारमिवैकदेशावतारमिव । सहोदरेति । पापस्यैनसः सहोदरमिव सोदरमिव । सारेति । कलिकालस्य कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि भयजनकमपि महच्च तत्सत्त्वं च महासत्त्वं तस्य भावस्तत्ता तया गम्भीरमिव गाम्भीर्यगुणयुक्तमिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति । अभिभवनीया तिरस्करणीयाकृतिरा- कारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याहमश्रौषं तस्य सेनापतेरभिधानं नामाहं पश्चात्तद्दर्शना- नन्तरमश्रौषमाकर्णयम् । अनुचरमुखादिति शेषः । आसीच्चेति । मे मम मनसि चित्त आसीद्बभूव । खेद इति शेषः । तदेव दर्शयति - अहो इत्यादिना । अहो इत्याश्चर्येति । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरितमाचरणं साधुजनैः सज्जनजनैर्गर्हितं निन्दितम् । तदेव विशेषतो दर्शयति- तथा हीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्य [^2]वसानं साधुजनैर्गहितो निन्दितो मधुमांसादिर्मधु मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः।आदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासः मृगयाऽऽखेटकः ।शास्त्रमिति । शिवा शृगाली तस्या रुतं शब्दितं शास्त्रमुच्च- स्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पतत्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपात्राणि । राज्यमिति । शून्यासु जनरहितासु अटवीषु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् । स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेतुभूतानि धनूंष्येव चापान्येव मित्राणि सुहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं लिप्तं मुखमाननं येषामेवंविधाः सायका बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव । भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं [^1]F. अनभिभवनीयाकृतिम् दृढगात्रतया अपराजय्यमूर्तिम् । इत्येव पाठो व्याख्या चोचिता । [^2]F. भोजनमित्यर्थः । [^१]G. प्रचार. [^२]G. विन्ध्यस्यः. [^३]G. सारथिम्. [^४]G. अनभिभव. [^५]G. मातङ्गक. [^६]G. सर्वशबर. [^७]G. तस्य पश्चात्. [^८]G. घोर. [^९]G. प्राज्य. [^१०]G. एषाम्. [^११]G. निर्वाहितम्. [^१२]G. निन्दितः; विगर्हितः. [^१३]G. शास्त्रे. [^१४]G. उपदेष्टारः. [^१५]G. शून्याटवीषु. [^१६]G. क्रूरकर्माणि. [^१७]G. धनं धनूंषि. विष [^१]दिग्धमुखा [^२]भुजंगा इव सायकाः, गीतमु- [^३]त्साहकारि मुग्धमृगाणाम् कलत्राणि [^४]बन्दीगृहीताः परयोषितः, क्रूरात्मभिः शार्दूलैः सहसंवासः, [^५]पशुरुधिरेण देवतार्चनम्, मांसेन बलिकर्म, चौर्येण [^६]जीवनम्, भूषणानि भुजंग [^७]मणयः, वन [^८]करिमदैरङ्गरागः, [^९]यस्मिन्नेव कानने निवसन्ति तदेवोत्खातमूलमशेषतः [^१०]कुर्वते' इति चिन्तयत्येव [^११]मयि [^१२]शबरसेनापतिरटवी [^१३]भ्रमण[^१४]समुद्भवं श्रममपनिनीषुरागत्य तस्यैव [^१५]शाल्मलीतरोरध [^१६]श्छायायामवतारितकोदण्डस्त्वरितपरि [^१७]जनोपनीतपल्लवासने समुपाविशत् । [^१८]अन्यतरस्तु शबरयुवा ससंभ्रममवतीर्य तस्मात्करयुगलपरिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि, प्रलयदिवसकरकिरणोपतापादम्बरैकदेशमिव विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, [^१९]द्रुतमिव मुक्ता- फलनिकरम्, अत्यच्छतया स्पर्शानु [ टि ]-- स्वाभाविकम् । तेषामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेषामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव बन्दी ग्रहस्तद्रूपत्वेन गृहीताः स्वीकृताः कलत्राणि स्वपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलैश्चित्रकैः समं संवासः सहावस्थानम् । पश्विति । पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारस्तत्कर्म तत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूषणा- नीति । भूषणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतवासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्यहस्तिनां मदैर्दानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव स शबरसेनापतिस्तस्यैव शाल्मलीतरोरधरछायायामागत्य ।त्वरितेति । त्वरितं शीघ्रं परिजनेन परिच्छदेनोपनीतमानीतं यत्पल्लवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अपनिनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषयन्नाह – अटवीति । अटव्यां भ्रमणमितस्ततः पर्यटनं तस्मात्समुद्भवं समुत्पन्नम् । सेनापतिं विशेषयन्नाह–अवेति । अवतारितं अनधिज्यं कृतं कोदण्डं धनुर्येन स तथा । तुः पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा । शबरश्चासौ युवा चेति कर्मधारयः । न तु शबराणां युवेति निर्धारणे षठ्या समासः । 'न निर्धारणे' इति षठ्या सह समासनिषेधात् । ससंभ्रमं सवेगमवतीर्य तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्याः पत्रपुटेनाम्भः पानीयं तथा धौतः क्षालितः पङ्कः कर्दमो यासां ता अत एव निर्मला विशदा या मृणालिकाः कम- लिन्यस्ताश्च समुपाहरदानीनवानित्यन्वयः । 'सरो विशिनष्टि - करेति । करयुगलेन हस्तद्वयेन परिक्षोभितं विलोडितमम्भः पानीयं तत्तथा तस्मात् । अथाम्भो विशेषयन्नाह – वैडूर्येति । वैडूर्यं वाल- [^1]वायजं तस्य द्रवः कल्करतदनुकारि तत्सदृशम् । अत्युज्ज्वल- वर्णत्वा [^2]त्तदुपमानम् । प्रलयेति । प्रलयस्य कल्पान्तस्य यो दिवसकरः सूर्यस्तस्य किरणा दीधितयस्तेषामुपतापादुष्णाद्विलीनं क्षरितमम्बरस्याकाशस्यैकदेशमिवैकप्रविभागमिव । इन्दुमण्ड- लाञ्चन्द्रबिम्बात्प्रस्यन्दितं क्षरितमिव । तथा मुक्ताफलस्य रसोद्भवस्य निकरं समूहं द्रुतमिव द्रवोपयुक्तमिव । अत्यच्छतया अतिस्वच्छतया तादृशभ्रमेऽपि शीतस्पर्शेनानुमेयमनुमातुं योग्यं हिमेन तुहिनेन जडं स्तब्धतां प्राषितम् । अरविन्दस्य कमलस्य यः कोशः कर्णिकाधारस्तस्य रजः परागस्तेन कषायं तुवरम् । कमलिनीर्विशेषयन्नाह [^1]F. हरितमणिरित्यर्थः । [^2]F. उष्णत्वात् । [^3]F. हिमवत् जडं शीतमित्यर्थो बोध्यः । [^१]G. दग्ध. [^२]G. भुजंगमाः. [^३]G. उत्साद. [^४]G. बन्दि. [^५]G. पशुरुधिरेणैव. [^६]G. जीवितम्. [^७]G. फणामयः. [^८]G. गज. [^९]G. यस्मिन्नेव च. [^१०]G. कुर्वन्ति. [^११]G. मयि सः. [^१२]G. शबरसेनापतिश्च. [^१३]G. परिभ्रमण. [^१४]G. समुद्भव. [^१५]G. शाल्मलि. [^१६]G. छायाम्. [^१७]G. उपनीते. [^१८]G. अन्यतम. [^१९]G. हृतम्. मेयं [^१]हिमजडम्, अरविन्दकोशरजः कषायमम्भः कमलिनीपत्र [^२]पुटेन प्रत्यग्रोद्धृताश्च धौतपङ्क [^३]निर्मला मृणालिकाः समुपाहरत् । आपीत [^४]सलिलश्च सेनापतिस्ता मृणालिका: शशिकला इव सैंहिकेय: क्रमेणादशत् । अपगतश्रमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानुगम्यमानः शनैः शनैरभिमतं दिगन्तरमयासीत् । [^५]एकतमस्तु जरच्छबरस्तस्मात्पुलिन्दवृन्दादनासादित- हरिणपिशितः पिशिताशन इव [^६]विकृतदर्शनः पिशितार्थी तस्मिन्नेव [^७]तरुतले मुहूर्तमिव व्यलम्बत । अन्तरिते [^८]च शबरसेनापतौ स जीर्णशबरः पिबन्निवास्माकमायूंषि रुधिरबिन्दु- पाटलया कपिलभ्रूलतापरिवेषभीषणया दृष्ट्या गणयन्निव [^१०]शुककुलकुलायस्थानानि श्येन इव [^११]विहगामिषखाद- लालसः [^१२]सुचिरमारुरुक्षुस्तं वनस्पतिमा मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे [^१३]तदालोकनभीतानां शुककुलानामसुभि: । किमिव हि दुष्करमकरुणानाम् । यतः स तमनेकता- लतुङ्गमभ्रंकषशाखाशिखर [ टि ]-- प्रत्यग्रेति । प्रत्यग्रं तत्कालमुद्धृता उत्खाताः । आपीतेति । आपीतं पानविषयीकृतं सलिलं येनैवंभूतः सेनापतिः सैन्यनायकः । क्रमेण जलपानानन्तरं ता मृणालिका अदशदभक्षयत्।कः कामिव । सैंहिकेयो राहुः स यथा शशिकलाश्चन्द्रकला अश्नाति । अपेति । अपगतो दूरीभूतः श्रमः खेदो यस्य स उत्थायोत्थानं कृत्वा परिपीताम्भसा कृतजलपानेन सकलेन समग्रेण तेन पूर्वोक्तेन शबरसैन्येन भिल्लबलेनानुगम्यमानःशनैः शनैः कृताखेटकवृत्तित्वेन त्वराभावादभिमतं समीहितम् । एकस्या दिशः सकाशादन्या दिशो दिगन्तरमयासीदगमत् । 'या प्रापणे' इत्यस्य लुङि रूपम् । एकतमस्त्विति । तु पुनरर्थे । एकतमः कश्चिज्जरच्छबरः स्थविर- भिल्लस्तस्मात्पुलिन्दवृन्दाच्छबरसमुदायादनासादितमप्राप्तं हरिणपिशितं मृगमांसं येनैवंभूतः पिशितार्थी मांसार्थी । पिशितेति । पिशितमश्नातीति पिशिताशनो [^1]व्याघ्रस्तद्वदिव विकृतं दर्शनं यस्य स तस्मिन्नेव तरुतले पूर्वोक्तवृक्षाध एकमुहूर्तमिव घटिकाद्वयमिव व्यलम्बत तद्गमनानन्तरं विलम्बं चकार । तथा शबरसेनापतौ भिल्लनायकेऽन्तरिते वृक्षादिना व्यवहिते सति स पूर्वोक्तो जीर्णशबरोऽस्माकं पक्षिणामायूंषि जीवितानि पिबन्निव पानं कुर्वन्निव शुकानां कीराणां यानि कुलानि तेषां कुलाया नीडानि तेषां स्थानानि स्थलविशेषाणि गणयन्निव तत्संख्यां कुर्वन्निव । कया । दृष्ट्या । इतो दृष्टिं विशेषयन्नाह – रुधिरेति । रुधिरस्य रक्तस्य यो बिन्दुः पृषत्तद्वत्पाटलया श्वेतरक्तया । कपिलेति । कपिला पिङ्गला या भ्रूलता तस्याः परिवेषः परिधिस्तेन भीषणया भयकारिण्या । पुनः प्रकारान्तरेण तमेवं विशेषयन्नाह -श्येनेति । श्येन इव शशादन इव विहगानां पतत्त्रिणां यदामिषं मांसं तस्यास्वादो भक्षणं तत्र लालसो लम्पटस्तं वनस्पतिं शाल्मलीवृक्षमारुरुक्षुरारोढुमिच्छुः सुचिरं चिरकालं यावत् । आ मूलान्मूलं मर्यादीकृत्यामूलं तस्मात्प्रान्तपर्यन्तमपश्यव्द्यलोकयत । उत्क्रान्तमिवेति । तस्मिन्क्षणे तस्मिन्प्रस्तावे तस्य यदालोकनं वीक्षणं तेन भीतानां भयप्राप्तानां शुककुलानामसुभिः प्राणैरुत्क्रान्तमिव निर्गतमिव । हीति । हि यस्मात्कारणादकरुणानां निर्दयानां किमिव दुष्करम् । न किमपीत्यर्थः । सर्वमेवाकृत्यं कुर्वन्तीति भावः । यतः स भिल्लस्तं पादपमनेके ताला वृक्षविशेषास्तद्वत्तुङ्गमुच्चम् । अभ्रमिति । अभ्रंकषमभ्रंलिहं शाखानां शिखरं प्रान्तो यस्यैवंभूतमप्ययत्नेनैव प्रयासव्यतिरेकेणैव सोपानैरिवारोहणैरिवारुह्यारोहणं कृत्वा तस्य वनस्पतेः शाखान्तरेभ्यश्च शुकशावकानेकैकं प्रत्येकं तस्य भावस्तत्ता तया फलानीव सस्यानीव तानग्रहीदादत्तेत्य [^1]F. पिशिताशन इव राक्षस इवेत्युचितोऽर्थः । [^१]G. जलशिशिरम्. [^२]G. संपुटेन. [^३]G. निर्मल. [^४]G. सलिल: सेनापतिः; सलिलश्च शबरसेनापति:. [^५]G. एकतर:. [^६]G. अतिविकृतदर्शनस्तस्मिन्नेव. [^७]G. तरुमूले. [^८]G. च तस्मिन्. [^९]G. भ्रुवा परिवेष. [^१०]G. शुककुलाय. [^११]G. विहङ्गा. [^१२]G. सुरुचिर. [^१३]G. आलोकभीतानाम्. मपि सोपानैरिवायत्नेनैव पादपमा [^१]रुह्य ताननुपजातोत्पतन- शक्तीन्कांश्चिदल्पदिवसजातान्गर्भच्छविपाटलाञ्छा [^२]ल्मली- कुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया [^३]नलिन- संवर्तिकानुकारिणः, कांश्चिदर्कफलसदृशान्, कांचिल्लोहिता- यमानचञ्चुकोटीनीषद्विघटितदलपुटपाटलमुखानां कमल- मुकुलानां [^४]श्रियमुद्वहतः, कांश्चिदनवरतशिरःकम्पव्याजेन [^५]निवारयत इव [^६]प्रतीकारासमर्थानेकैकतया फलानीव तस्य वनस्पतेः [^७]शाखान्तरेभ्यश्च शुकशावकानग्रहीत् । अपगतासूंश्च कृत्वा क्षितावपातयत् । तातस्तु तं [^८]महान्तमकाण्ड एवं प्राणहरमप्रतीकारमुपप्लव- मुपनत [^९]मालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्त- तर [^१०]लता [^११]रको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमस्त्रासस्रस्तसंधि- शिथिलेन [^१२]पक्षसंपुटे [^१३]नाच्छाद्य मां तत्कालो [ टि ]-- न्वयः । इतः शुकशिशून्विशेषयन्नाह - अन्विति । अनुपजातानुत्पन्नोत्पतनशक्तिर्नभोगमनसामर्थ्यं येषां ते तथा तान् । कांश्चिदिति । अल्पदिवसजातान्स्वल्पदिनप्रभवान् । गर्भेति । प्रत्यग्रोत्पन्नस्य गर्भस्य या छवि: कान्तिस्तया पाटलाञ्श्वेतरक्तान् । किं कुर्वंतः । उपजनयत उत्पादयतः । काम् । शाल्मलीवृक्षस्य यानि कुसुमानि पुष्पाणि तेषां शङ्कामारे [^1]काम् । तत्कुसुमानामपि श्वेतरक्तत्वादेतेषां च तथात्वादुपमानोपमेयभावः । कांश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संवर्तिका नवदलम् । 'संवर्तिका नवदलम्' इति कोशः । अनेनातिनैर्मल्यं द्योत्यते । तदनुकारिण- स्तत्सादृश्यभाजः । कांश्चिदिति । अर्को मन्दारस्तस्य फलानि तैः सदृशांस्तत्तुल्यान् । कांश्चिदिति । लोहितायमाना रक्तायमाना- श्चञ्चूनां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चिकिं कुर्वतः । श्रियं [^2]शोभामुद्वहत उत्प्राबल्येन धारयन्तः । केषाम् । कमलमुकुलानां नलिनकुड्मलानाम् कीदृशानाम् । ईषत्किंचिद्विघटितं विकसितं यद्दलपुटं तेन पाटलं श्वेतरक्तं मुखं येषां तानि तथा तेषाम् । पुनः शिशून्विशिनष्टि - अनेति । अनवरतं निरन्तरं यः शिरःकम्पस्तस्य व्याजो मिषं तेन निवार [^3]यत इव 'वयं बालकाः, अस्मासु दया कर्तव्या, मास्माञ्जहि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकारो वधनिवृत्त्युपाय- स्तत्रासमर्थान्सामर्थ्यवर्जितान् । अपेति । अपगता असवः प्राणा येषामेवंविधांस्तान्कृत्वा विधाय क्षितौ भूमावपातयदचिक्षिपत् । तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्या- लम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा महान्तं महीयांसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारमचिकित्स्यमुपप्लवमुपद्रवमुपनतं प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह - द्विगुणतरेति । द्विगुणतरः पूर्वस्माद्विगुणित उपजातः समुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्मृत्युत्रासादुद्भ्रान्ता अतिशयेन भ्रमितास्तरलाश्चञ्चलस्तारकाः कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् । दृशं विशिनष्टि - विषादेति । विषादेन शोकेन शून्यां निस्तेजसम् । अश्र्विति । अश्रुजलेन नेत्राम्बुना प्लुतां प्लाविताम् । उदिति । उत्प्राबल्येन शुष्कमनार्दं तालु काकुदं यस्य स तथा । आत्मनः स्वस्य यः प्रतीकारो दुःखनिवृत्त्युपायस्तत्राक्षमोऽसमर्थः । किं कृत्वा । पक्षपुटेन छदपुटेन मामाच्छाद्य तिरोधाय । किं कुर्वाणः । मन्यमानो जानानः । किं । तत्कालोचितं तत्समययोग्यम् । इममेव प्रतीकारमुपायम् । पक्षसंपुटं विशेषयन्नाह - त्रासेति । [^1]F. शङ्काम् । भ्रान्तिमानलंकारः । [^2]F. उपमानधर्मस्य ( श्रियः ) उपमेये आरोपात्पदार्थनिदर्शना । [^3]F. स्वाभाविककम्पे निवारणस्य संभावनात्क्रियावस्तूत्प्रेक्षा । व्याजेनेस्युक्त्या सापह्नवा । [^4]F. अनवसरे एवेत्यर्थः । [^5]F. उद्भ्रान्ते तरले, चञ्चले अथवा अधिकविस्फारणेन भास्वरे ('तरलो भास्वरे चले' इति हैमः ) कनीनिके यस्येत्युचितम् । [^१]G. अधिरुह्य. [^२]G. शाल्मलि. [^३]G. नलिनी. [^४]G. उद्वहन्ता. [^५]G. निवारयन्तः. [^६]G. प्रतीकारानेकैकशः. [^७]G. शाखासंधिभ्यः कोटरान्तरेभ्यश्च; शाखान्तरेभ्यः कोटरान्तरेभ्यश्च. [^८]G. अतिमहान्तमकाण्ड इव. [^९]G. अवलोक्य. [^१०]G. तरलतर. [^११]G. तारकान्; तारकाम्. [^१२]G. पक्षपुटेन. [^१३]G. आच्छाद्य तत्कालोचितम्. [^१]चितं प्रतीकारं मन्यमानः स्नेहपरवशो [^२]मद्रक्षणाकुल: किंकर्तव्यता [^३]विमूढ: क्रोड [^४]विभागेन मामवष्टभ्य तस्थौ । असावपि [^५]पापः शाखान्तरैः संचरमाण: कोटरद्वारमागत्य जीर्णासितभुजंगभोगभीषणं प्रसार्य विविधवनवराहवसा [^६]विस्र- गन्धिकरतलं [^७]कोदण्डगुणाकर्षणव्रणाङ्कितप्रकोष्ठमन्तक- दण्डानुकारिणं वामबाहुभतिनृशंसो मुहुर्मुहुर्दत्तचञ्चुप्रहार- [^८]मुत्कृजन्तमाकृष्य तातं [^९]गतासुमकरोत् । मां तु [^१०]स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वा [^११]त्सावशेषत्वाञ्चायुषः कथमपि [^१२]पक्षसंपुटान्तरगतं नालक्षयत् । [^१३]उपरतं च [^१४]तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् । अहमपि तचर [^१५]णान्तरे निवेशित [^१६]शिरोधरो निभृत[^१७]मङ्कनिलीनस्तेनैव सहापतम् । [^१८]अवशिष्टपुण्यतया तु [^१९]पवनवश्येन पुञ्जितस्य महतः शुष्क [^२०]पत्रराशेरुपरि [^२१]पतितमात्मानमपश्यन् । अङ्गानि [ टि ]-- त्रासेन भयेन स्रस्ता विदीर्णा ये संध्योऽस्थिबन्धास्तैः शिथिलेन श्लथेन । स्नेहेन प्रीत्या परवशः परायत्तो मम यद्रक्षणं गुप्तिस्तत्राकुलः संभ्रान्तः । किमिदानीं कर्तव्यं विधेयमित्यस्य भावः किंकर्तव्यता तत्र विमूढो भ्रष्टमतिः । असावपीति । असौ जरच्छबरोऽपि पापः पापिष्ठ: शाखान्तरैः [^1]शालान्तरैः संचरमाणः प्रवर्तमानः कोटरद्वारं निष्कुहद्वारमागयैत्य तातं मत्पितरं गतासुं विगतप्राणमकरोदसृजदित्यन्वयः । किं कृत्वा । प्रसार्य विस्तार्य । कम् । वामबाहुं सव्यभुजम् । अथैनं विशेषयन्नाह - - जीर्णेति । जीर्णो जरीयानसितः कृष्णो यो भुजंगः सर्पस्तस्य भोगः कायस्तद्वद्भीषणं भयजनकम् । विविधेति । विविधा अनेके ये वनवराहा अरण्यक्रोडास्तेषां वसा स्नायुस्तया विस्रगन्ध्यामगन्धि करतलं हस्ततलं यस्य स तथा तम् । कोदण्डेति । कोदण्डस्य धनुषो ये गुणाः प्रत्यञ्चास्तेषामाकर्षणमाक्षेपस्तेन व्रणं किणं तेनाङ्कितश्चिह्नितः प्रकोष्ठः कलाचिका यस्य स तम् । अन्तकेति । अन्तस्य यमस्य यो दण्डो लगुडस्तदनुकारिणम् । तत्सादृश्यधारिणमित्यर्थः । कीदृक्सः । अतिनृशंसोऽतिक्रूरः । कीदृशं तातम् । मुहुरिति । मुहुर्मुहुर्वारंवारं दत्तश्चक्षुप्रहारस्त्रो-टीप्रघातो येन स तथा तम् । किं कुर्वन्तम् । उत्प्राबल्येन कूजन्तं शब्दं कुर्वन्तम् । किं कृत्वा । आकृष्य । कोटराद्बहिरानीयेति शेषः । मां तु वैशम्पायनं कथमपि महता कष्टेन पक्षसंपुटान्तरगतं नालक्षयन्न ज्ञातवान् । अत्र हेतुमाह - स्वल्पत्वादित्यादि । स्वल्पत्वादत्यल्पत्वाद्भयसंपिण्डिताङ्गत्वात्त्राससंकुचिताङ्गत्वादायुषो जीवितव्यस्यावशेषेणोद्वरितभागेन सहवर्तमानत्वात् । उपेति । उपरतं मृां तं पितरमवनितले पृथ्वीतले शिथिला श्लथा शिरोधरा कन्धरा यस्य स तमधोमुखमवाङ्मुखममुञ्चदचिक्षि [^2]पत् । अहमपि तस्य पितुश्चरणान्तरे क्रमण [^3]मध्ये निवेशिता स्थापिता शिरोधरा ग्रीवा येन सः । निभृतमत्यर्थमङ्क उत्सङ्गे निलीनो लग्नः । यथा पितुर्देहाद्भिन्नतया नोपलभ्यते तथा स्थित इत्यर्थः । तेनैव जनकेनैव सहापतम् अधःसंयोगफलिकां क्रियामकरवम् । 'पत्ऌ पतने' इत्यस्य लुङि रूपम् । अवेति । अवशिष्टमुर्वरितं यत्पुण्यं श्रेयस्तस्य भावस्तत्ता तया । पवनेति । पवनः समीरणस्तस्य वश्यस्तदायत्तता तेन पुञ्जितस्य पिण्डितस्य महतो महीयसः शुष्कपत्रराशेः शुष्काणि वानानि यानि पर्णानि पत्राणि तेषां राशिः समुदायस्तस्योपरि पतितं स्रस्तमात्मानं [^1]F. विटपान्तरैरित्यर्थः। [^2]F. अक्षिपदित्यर्थः। [^3]F. पदयोर्मध्ये इत्याशयः। [^4]F. लङि इति बोध्यं लुङि पुमः प्रसङ्गात् । [^5]F. वस्तुतस्तु 'पवनवशात्पुञ्जितस्य' इत्येव पाठः। [^१]G. उचित. [^२]G. मद्रक्षाकुल:. [^३]G. मूढः. [^४]G. भागेन. [^५]G. पापः क्रमेण· [^६]G. विमिश्र. [^७]G. अनवरतकोदण्ड. [^८]G. उत्कूजन्तं तमाकृष्य. [^९]G. अपगतासुम्. [^१०]G. स्वल्पशरीरत्वात्. [^११]G. अवशेषत्वादायुषः. [^१२]G. तत्पक्षपुटान्तर. [^१३]G. उपरतमेनम्. [^१४]G. तातम्. [^१५]G. अन्तराले. [^१६]G. प्रवेशित:. [^१७]G. अङ्कदेश; अङ्कविलीन. [^१८]G. आयुषोऽवशिष्टतया. [^१९]G. पवनवशसंपुञ्जितस्य: ; पवनवशात्पुञ्जितस्य. [^२०]G. पर्णराशे:. [^२१]G. निपतितम्. १० का० [^१]येन मे [^२]नाशीर्यन्त । यावच्चासौ तस्मात्तरुशिखरान्ना- वतरति तावदहमवशीर्ण [^३]पत्रसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले [^४]बालतया का [^1]लान्तरभुवः स्नेहरसस्यानभिज्ञो जन्म- सहभुवा भयेनैव केवलमभिभूयमानः किंचिदुपजाताभ्यां पक्षाभ्यामीष [^५]त्कृतावष्टम्भो लुठन्नितस्ततः कृतान्तमुखकुहरा- दिव विनिर्गतमात्मानं मन्यमानो नातिदूरवर्तिनःशबरसुन्दरीकर्णपूररचनोपयुक्तपल्लवस्य संकर्षणपट [^६]नीलच्छाययोपहसत इव [^७]गदाधरदेहच्छविम्, अच्छै: कालिन्दीजलच्छेदैरिव विरचितच्छदस्य, वनकरि [^८]मदोपसिक्तकिसलयस्य, विन्ध्याटवी केशपाशश्रिय [^९]मुद्वहतः, दिवाप्यन्धकारितशा- खान्तरस्य, अप्रविष्टसूर्यकिरणमतिगहनमपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदेशमविशम् । [ टि ]-- स्वमपश्यमद्राक्षम् । येनेति । येन पुण्येन, शुष्कपत्रराश्युपरिपातेन वा मे ममाङ्गानि नाशीर्यन्त न विगलितानि । यावच्चासौ शबरो यावता कालेन तस्मात् तरुशिखराक्षाग्रान्नाव- तरति नोत्तरति तावदहमवशीर्णानि विगलितानि यानि पत्राणि तैः सवर्णः सदृशस्तस्य भावस्तत्त्वं तस्मादस्फुटमप्रकटमुपलक्ष्यमाणा दृश्यमाणा मूर्तिराकृतिर्यस्यैवंभूतोऽहमतिमहतोऽत्युच्चस्य तमालविटपिनस्तापिच्छस्य मूलदेशं बुध्नप्रदेशेमविशं प्रविष्टवानित्यन्वयः । उपेति । उपरतं व्यापन्नं पितरमुत्सृज्य त्यक्त्वा । क इव । नृशंस इव क्रूर इव प्राणपरित्यागे योग्य उचितस्त-स्मिन्वृद्धपितुर्मरणे मरणमेवोचितमिति योग्यता तस्मिन्नपि काले समये सति बालतयार्भकत्वेन कालान्तरेऽप्रबुद्धवयोवस्थाविशेषे शयनासनभोजनादिषु यः स्नेहस्तद्विषयको रसस्तस्यानभिज्ञस्तद- ज्ञाता । किं क्रियमाणः । जन्मेति । जन्मसहभुवा उत्पत्तिसमयादा- रभ्य समुत्पन्नेन भयेनैव भियैव केवलं सर्वतोभिभूयमानः पीड्यमानः । पुनः कीदृक् । किंचिदिति । किंचिदीषदुपजाताभ्यां निष्पन्नाभ्यां पक्षाभ्यां छदाभ्यामीषत्कृतोऽवष्टम्भ आधार आश्रयो यस्य स । किं कुर्वन् । लुठन्नितस्ततो भूमौ पतन् । कृतान्तेति । कृतान्तो यमस्तस्य मुखमिव मुखं यस्यैवंभूतात्कुहरात्सुषिराद्विनिर्गतं निःसृतमात्मानं स्वं मन्यमानो ज्ञायमानः । अथ तमालं विशेषयन्नाह - नातीति । न प्रतिषेधे । अतिदूरवर्ती दविष्ठप्रदेशस्थायी तस्य । शबरेति । शवराणां भिल्लानां सुन्दर्यः स्त्रियस्तासां कर्णपूराणि कर्णाभरणानि तेषां रचना विनिर्मितिस्तत्रोपयुक्ताः सोपयोगिनः पल्लवा यस्य स तथा तस्य । संकर्षणेति । संकर्षणो बलभद्रः । 'संकर्षणः प्रियमधुर्बलरौहिणेयौ' इति कोशः । तस्य पटो वस्त्रं तस्यै नीला छाया कान्तिस्तया, गदाधरो विष्णुस्तस्य देहच्छवि शरीरदीप्तिमुपहसत इवोपहासं कुर्वत इव । अच्छेरिति । अच्छैर्निर्मलैः कालिन्दी यमुना तस्या जलं पानीयं तस्य छेदाः खण्डानि तैरिव विरचितानि निर्मितानि छदानि पत्राणि यस्य स तथा तस्य । वनेति । वनकरिणामरण्यहस्तिनां मदा दानानि तैरुपसितानि सिञ्चितानि किसलयानि यस्य स तथा तस्य । विन्ध्येति । विन्ध्याटवी दण्डकारण्यं तस्याः केशपाशः केशकलापस्तस्य श्रियं शोभामुत्प्राबल्येन वहतो दधतः । दिवापीति । दिवापि दिवसेऽपि अन्धकारितं जातान्धकारं शाखान्तरं शालान्तरं यस्य स तथा तस्य । कीदृशं मूलदेशम् । अप्रविष्टेति । अप्रविष्टा नान्तर्गताः सूर्यस्य रवेः किरणा यस्मिन्स तम् । अतीति । अतिशयेन गहनमपर्याप्तावकाशम् । कस्येव । अपरस्येव भिन्नस्येव पितुरभयदातुरुत्सङ्गं क्रोडम् । 1 टिप्प0 - 1 कालान्तरे शैशवं विहाय अन्यसिन् यौवनादिषु भवति तादृशस्य स्नेहरसस्य । स्नेहो हि सुखदुःखानुभवोत्तरं बाल्यात्परमेवोद्भवति, न बाल्ये इत्याशयः । टीका तु भ्रमिकैव । 2 जानन्नित्यर्थः । 3 तद्वत् नीला या छाया तया, इत्यर्थ उचितः । पाठा० -१ मे येन. २ नावाशीर्यन्त. ३ पर्ण. ४ बालकतया. ५ कृतगमनावष्टम्भः. ६ नीलच्छायम्; नीलदलच्छायया; नीलया छायया. ७ गदाधरच्छविम्. ८ मदस लिलैरिवोपसिक्त; मदसलिलैरिव संसिक्त, ९ उद्वहन्तः. [^१]अवतीर्य च स तेन समयेन क्षिति [^२]तलविकीर्णान्संहृत्य [^३]शुकशिशूनेकलतापाशसंय [^४]तानाबध्य पर्णपुटेऽतित्वरितगमनः सेनापतिगतेनैव वर्त्मना तामेव दिश [^५]मगच्छत् । मां तु लब्धजीविताशं प्रत्यग्रपितृमरणशोकशुष्कहृदयमतिदूर[^६]पाती- दायासितशरीरं संत्रास [^७]जाता सर्वाङ्गोपतापिनी बलवती पिपासा परवशमकरोत् । अनया च कालकलया [^८]सुदूरमतिक्रान्तः स पापकृदिति परिकलय्य किंचिदुन्नमित- कन्धरो भयचकितया दृशा दिशोऽ[^९]वलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमाल[^१०]तरुमूलात्सलिलसमीपं [^११]सर्तुं प्रयत्नमकरवम् । [^१२]अजातपक्षतया नाति [^१३]स्थिरतरचरणसंचारस्य मुहुर्मुहु- [^१४]र्मुखेन पततो मुहुस्तिर्यङ्निपतन्तमात्मानमेकया पक्षपाल्या संधारयतः क्षितितलसंसर्पण [^१५]भ्रमातुरस्यानभ्यासवशा- देकमपि दत्त्वा पद [ टि ]-- अवेति । अवतीर्योत्तीर्य स शबरस्तेन समयेनेति तत्कालेन क्षितितले पृथ्वीतले विप्रकीर्णानितस्ततः पर्यस्ताञ्शुकशिशून्कीर- पाकान्संहृत्यैकीकृत्य । कीदृशान् । एकाद्वितीया या लता वल्ली तल्लक्षणो यः पाशो बन्धनरज्जुस्तेन संयतान्बद्धानेवभूतान्पर्णपुट आबध्य बन्धनं कृत्वातित्वरितमतिशीघ्रं गमनं यस्य स तथा । सेनेति । येन सेनापतिर्गतस्तेनैव वर्त्मना मार्गेण तामेव दिशं सेनापति- गृहीतामेव ककुभमगच्छदगमत् । मां त्विति । तु पुनरर्थे । मां पिपासा तृट् परवशं परायत्तमकरोदित्यन्वयः । इतो मां विशेषयन्नाह - लब्धेति । तद्गमनादेव लब्धा प्राप्ता जीविताशा प्राणधारणरांभावना येन स तम् । प्रत्यग्रेति । प्रत्यग्रो नवीनो यः पितृमरणशोको जनकमृत्युविषादस्तेन शुष्कमनार्दं संकुचितं वा हृदयं चित्तं यस्य स तम् । अतीति ।अतिदूरपाताद्दविष्ठतरप्रदेश- पतनात् । तद्वृक्षादिति शेषः । आयासितं परिश्रमितं शरीरं यस्य स तम् । तृषं विशेषयन्नाह -- संत्रासेति । संत्रासेन भयेन जाता समुत्पन्ना । सर्वेति । सर्वाणि समग्राण्यङ्गानि हस्तप्रभृतीन्युपता- पयति पीडयतीत्येवंशीला बलवती बलोपयुक्ता । अनयेति । अनया कालकलया घटिकया स पापकृद्भिल्लः सुदूरं दूरदेशमतिक्रान्तो गत इति परिकलय्य चेतसि परिकलनां कृत्वा । किंचिदिति । किंचिदीषदुन्नमितोर्ध्वीकृता कन्धरा ग्रीवा येन स तथा । भयेति । भयेन भीत्या चकिता त्रस्ता या दृक्तया दिशोऽवलोक्य निरीक्ष्य तृणेऽपि यवसेऽपि चलति [^1]कम्पति सति पुनः प्रतिनिवृत्तः प्रत्यागत इति तमेव शबरमेव पदे पदे पापकारिणं कल्मषकारिण- मुत्प्रेक्षमाण उत्पश्य [^2]मानो निष्क्रम्य बहिर्निर्गत्य । कस्मात् । तस्मात्तमालतरुतलमूलात्तापिच्छवृक्षाधःस्थलात्सलिलसमीपं जलोपान्तं सर्वं गन्तुं प्रयत्नं प्रयासमकरवमकार्षम् । अथ च मम मनस्येवमभूदित्यन्वयः । तं विशेषयन्नाह - अजातेति । अजातावनुत्पन्नौ यौ पक्षौ छदौ तयोर्भावस्तत्ता तया न विद्यतेऽति- स्थिरतरश्चरणयोः क्रमयोः संचार: स्थापनयोग्यता यस्य स तथा । तस्य किं कुर्वतः । मुहुर्मुहुर्वारंवारं मुखेनाननेन पततः पतनं कुर्वतः । मुहुर्वारंवारं तिर्यक्तिरश्चीनं निपतन्तं भ्रश्यन्तमात्मानमेकया केवलया पक्षपाल्या छदसंहत्या संधारयतः पतनाद्रक्षां विदधतः । क्षितीति । क्षितितले संसर्पणं गमनं तस्माद्यो भ्रमो [^3]भ्रान्तिस्तेनातुरस्य पीडितस्य । अभ्यासेति । अभ्यासः पुनः पुनः करणं [^1]F. कम्पमाने इत्यर्थः । [^2]F. आशङ्कावशात्पश्यनित्यर्थः । [^3]F. वस्तुत:-संसर्पणश्रमातुरस्येत्येव पाठ उचितः । [^१]G. अवतीर्य स:. [^२]G. विकीर्णान्. [^३]G. ताञ्शुक. [^४]G. आविध्य. [^५]G. अन्वगच्छत्. [^६]G. पातायासित. [^७]G. जातवेपथुम् ; जातसर्वाङ्ग. [^८]G. आक्रान्तः. [^९]G. विलोक्य. [^१०]G. तरुतलमूलात्. [^११]G. उपसर्तुम्. [^१२]G. अजातपक्षया च; अनुपजातपक्षतया. [^१३]G. स्थिरचरण. [^१४]G. अधोमुखेनापततः. [^१५]G. श्रमा. मनवरतमुन्मुखस्य [^१]स्थूलस्थूलं [^२]श्वसतो धूलिधूसरस्य संसर्पतो [^३]मम समभून्मनसि– ' अतिक [^४]ष्टास्ववस्थास्वपि जीवितनिरपे [^५]क्षा न भवन्ति खलु जगति [^६]प्राणिनां [^७]प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति [^८]सर्वजन्तूनाम्, [^९]एवमुपरतेऽपि सुगृहीतनाम्नि ताते यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुण- [^१०]मतिनिष्ठुरमकृतज्ञम् । अहो सोढ [^११]पितृमरणशोकदारुणं येन मया जीव्यते, उपकृतमपि [^१२]नापेक्ष्यते, खलं हि खलु मे हृदयम् । [^१३]मया हि "लोकान्तरगतायामम्बायां नियम्य शो [^१३]कवेगमा प्रसवदिवसात्परिणतवयसापि [^१६]सता तैस्तैरुपायैः संवर्धन [^१७]क्लेशमतिमहान्तमपि स्नेहवशाद- गणयता [^१८]यत्तातेन परिपालितस्तत्सर्वमेकपदे [^१९]विस्मृतम् । अतिकृपणाः खल्वमी [^२०]प्राणाः, यदुपकारिणमपि [^२१]तातं क्वापि गच्छन्तमद्यापि नानुगच्छन्ति, [^२२]सर्वथा न कंचि [^२३]न्न खलीकरोति जीविततृष्णा, [^२४]यदीदृगवस्थमपि [^२५]मामयमाया [^२६]सयति जला [ टि ]-- तदभाववशादेकमपि पदं चरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योर्ध्वाननस्य स्थूलस्थूलं यथा स्यात्तथा श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेति श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूसरस्य धूम्रवर्णस्य । किं कुर्वतः । संसर्पतः प्रचलतः । चिन्तां विवृणाति-ममेति । मम मनस्येवं समभूत् । तदेव दर्शयति --- खल्विति । खलु निश्चयेन जगति लोकेऽतिकष्टमतिकृच्छ्रं यास्वेवंविधास्ववस्थासु दशासु प्राणिनां जीवानां प्रवृत्तयः प्रवर्तनरूपाः क्रिया जीवितं प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिंल्लोके सर्वजन्तूनामेव सर्वप्राणिनामेव जीवितादन्यत्किमप्यभिमततरं वाञ्छिततरं नास्ति । तत्रार्थे हेतुमाह - यदहमिति । यद्यस्मात्कारणात्सुगृहीतं सर्वदा ग्रहणयोग्यं नाम यस्यैवंभूते ताते पितर्युपरतेऽपि मृतेऽप्यविकलानि विषयग्रहणसमर्थानीन्द्रियाणि यस्यैवंभूतोऽहं पुनरेव सांप्रतमेव प्राणिमि जीवामि अतो मां धिगस्तु । अत्र धिग्योगे मानिति द्वितीया । मां विशेषयन्नाह – अकरुणेति । अकरुणम् । निर्घृणमित्यर्थः । अतिनिष्ठुरमतिक्रूरम् । कृतं जानातीति कृतज्ञं न कृतज्ञमकृतज्ञम् । अहो इति । अहो आश्चर्ये । सोढः क्षमितो यः पितृमरणशोकस्तेन दारुणं भीषणं यथा स्यात्तथा मया जीव्यते तेन बहुकालमुपकृतं तदपि नापेक्ष्यते । तस्याप्यपेक्षा न क्रियत इति भावः । खल्विति । खलु निश्चयेन । मे मम हृदयं चित्तं खलं पिशुनम् । उपकारान- भिज्ञत्वादिति भावः । मयेति । हि निश्चितम् । मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः । तत्किमित्यत आह - लोकान्तरेति । लोकान्तरगतायां परलोकप्राप्तायामम्बायां जनन्यां शोकवेगं शोचनप्रवाहं नियम्य निरुध्य प्रसवदिवसान्मजन्म- दिनादारभ्य परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायैः क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । स्नेहवशात्पुत्रप्रीतिमाहात्म्यात् अतिमहान्तमप्यत्यायतमपि मत्संवर्धन- क्लेशमगणयता क्लेशेषु तद्गणनामकुर्वता । यदिति हेत्वर्थे । तातेन पित्रा परि सामस्त्येन पालितो वृद्धिं प्रापितः । खलु निश्चयेन । अमी मे प्राणा अतिकृपणा अतिशयेन जीवितलोलुपा अतितुच्छाः । यदिति हेतौ । उपकारिणमप्युपकृतिविधायकमपि तातं पितरं क्वाप्यनिर्दिष्टस्थले गच्छन्तं व्रजन्तमद्यापि सांप्रतमपि नानुगच्छन्ति नानुव्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ नञौ प्रकृतमर्थं सूचयत इति सर्वमेव खलीकरोतीत्यर्थः । यदी- दृगवस्थमपि शोकाकुलमपि मामयं जलाभिलाषः पानीयग्रहणा- ध्यवसाय आयासयति खेदं जनयति । च पुनरर्थे । अहं मन्ये जाने । इयं मम सलिलपानबुद्धिर्जलपा [^१]G. मुहुर्मुहुः स्थूलस्थूलम्. [^२]G. निश्वसतः. [^३]G. ममाभूत्. [^४]G. अप्यवस्थासु. [^५]G. स्वजीवित. [^६]G. सर्वप्राणिनाम्. [^७]G. वृत्तय:. [^८]G. जन्तूनामेव. [^९]G. उपरते सुगृहीत. [^१०]G. अतिनिष्ठुरं विसोढ. [^११]G. मरणम्. [^१२]G. नापेक्षते. [^१३]G. अहम्. [^१४]G. लोकान्तरमुपगतायाम्. [^१५]G. शोकावेग. [^१६ ]G.सता तातेन तैस्तै:. [^१७]G. महान्त. [^१८]G. यत्परिपालितः [^१९]G. विस्मृतमिति. [^२०]G. मे प्राणाः; मम प्राणा: [^२१]G. तातमद्यापि गच्छन्तम्; तातमद्यापि कापि गच्छन्तम् ; तातमद्य क्वापि यान्तम्. [^२२]G. सर्वथा कंचिन्न. [^२३]G. कंचन. [^२४]G. यदीदृशावस्थम्. [^२५]G. मामावासयति. [^२६]G. अभिलाषयति. भिलाषः । मन्ये चागणितपितृमरणशोकस्य निर्घृ [^१]णतैव केवलमियं मम सलिलपानबुद्धिः । अद्यापि [^२]दूर एव [^३]सरस्तीरम् । तथा हि – जलदेवता [^४]नूपुररवानुकारि दूरेऽद्यापि कलहंसवि [^५]रुतम् । [^६]अस्फुटानि श्रूयन्ते सारसरसितानि । अयं च [^७]विप्रकर्षादाशामुखविसर्पणविरलः संचरति नलिनीखण्डपरिमलः । [^८]दिवसस्य चेयं [^९]कष्टा दशा वर्तते । तथा हि-रविरम्बरतलमध्यवर्ती स्फुरन्तभातपमनवरतमनलधूलिनिकरमिव विकिरति करैः, अधिकामुपजनयति [^१०]तृषम् । सं [^११]तप्तपांसुपटलदुर्गमा [^१३]भूः । अतिप्रबलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि । [^१३]अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुप- याति चक्षुः । अपि नाम खलो विधिरनिच्छतोSपि मे मरण- [^१४]मद्यैवोपपादयेत् । [^१५]एवं चिन्तयत्येव मयि तस्मात्सरलो नाति [^१६]दूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः [ टि ]-- मधीः केवलं निर्घृणतैवाननुकम्पितैव । कीदृशस्य मम । अगणितेति । अगणितो न गणनविषयीकृतः पितृमरणशोको येन स तथा तस्य । आद्यापीयतागतेनापि सरस्तीरं कासारतटं दूर एव । तदेव दर्शयति - तथा हीति । जलेति । जलदेवतानां जलाधिष्ठा- त्रीणां नूपुराणां पादकटकानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि कलहंसविरुतं कादम्बकूजितमेतद्दूरे । तथा सारसरसितानि लक्ष्मणकूजितान्यस्फुटान्यव्यक्तानि श्रूयन्त आकर्ण्यन्ते । विप्रकर्षादिति । विप्रकर्षाद्दूरादाशामुखेषु दिग्व- दनेषु विसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः कमलवनामोदः संचरतीतस्ततः प्रसरति । कदाचिद्दारुणधर्माभावे मार्गसौलभ्याद्दूरेऽपि गन्तुं शक्यत इत्यत आह - दिवसेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा मध्यावस्था वर्तते । तदेव दर्शयति - तथाहीति । रविः सूर्योऽम्बरतलमध्यवर्ती व्योममध्यगामी । अनवरतेति । अनवरतमविच्छिन्नं स्फुरन्तं दीप्यमानमातपं प्रकाशमनलधूलिनिकरमिव वह्निकणिका- समूहमिव करैः किरणैर्विकिरति क्षिपति । अधिकां [^1]तृषां पिपासामुपजनयति निष्पादयति । संतप्तमुष्णं यत्पांसुपटलं धूलिसमूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति । अतिप्रबलाऽत्यधिका या पिपासोदन्या तयावसन्नानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि गन्तुं नालं न समर्थानि । किं बहुनात्मनो देहेन्द्रियसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि' धातुः । लडुत्तमैकवचनम् । देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदत्यवशीर्यते । चक्षुरपि नेत्रमप्यन्धकारतां तिमि [^2]रतामुपयाति प्राप्नोति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये । खलः अशुभकरणाद्दुर्जनो विधिर्विधाता- निच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुप- [^3]पादयेत्कुर्यात् । इत्येवं पूर्वोक्तप्रकारेण मयि चिन्तयत्येव विचारयत्येव यदभूत्तदाह - तस्मादिति । तस्मात्पूर्वोक्त्तात्सरसोऽदूर [^1]F. टीकाकारेण प्रायः स्थाने स्थान एव तादृशाः पाठाः परिगृहीता ये हि ग्रन्थगुम्फनसरणितः सर्वथा विपरीताः । एतैर्हि बाणसदृशस्य महाकवेर्वाणी पङ्किलेव भवति । अत एव मूल-टीकयोर्विसंवादमनुचितमवगच्छन्नपि ग्रन्थगौरवं मा नशदिति परिवर्तितवानस्मि । व्याकरणादिप्रमादाः शोषिता अप्यवशिष्यन्त एवेति क्षम्यतां विवेकिभिरिति टिप्पणीकृत् । [^2]F. अन्धं करोति इति अन्धकारस्तत्ताम् ( अन्धताजनकत्वम् ) उपयातीत्याशयः । [^3]F. अपि नाम मृत्युमुपपादयेत् ? इति मूलधृतपाठानुसारं खेदवशान्मनस्येव प्रश्न: । [^१]G. निर्घृणतयैव. [^२]G. दूरतः. [^३]G. सर:. [^४]G. नूपुरानुकारि. [^५]G. विरुतमेतम्. [^६]G. एतानि चास्फुटानि. [^७]G. विप्रकर्षात्. [^८]G. चेयम्. [^९]G. अतिकष्टा दशा; कष्टा च. [^१०]G. तृषम्. [^११]G. आतपस्पर्शसंतप्त. [^१२]G. च भूमिः. [^१३]G. अलमप्रभुरस्मि. [^१४]G. अथ. [^१५]G. एव. [^१६]G. अतिदूर. [^१]प्रतिवसति स्म । तत्तनयश्च हारीतनामा [^२]मुनिकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, [^३]सवयोभिरपरैस्तपोधन- [^४]कुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसु- रतितेजस्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतोदिवसकरमण्डला- दिवोत्कीर्णः, तडिद्भिरिव [^५]रचितावयवः, तप्तकनकद्रवेणेव बहिरुपलिप्तमूर्तिः, [^६]पिशङ्गावदातया देहप्रभया स्फुरन्त्या सबालातपमिव दिवसं सदावानलमिव वनमुपदर्शयन्, उत्तप्तलोह लोहिनीनामनेकतीर्थाभिषेकपूतानामंसस्थलावलम्बिनीनां [^७]जटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववन- दिधक्षया कृतकपट [^८]वटुवेष इव भगवान्पावकः, तपोवनदेवतानू- पुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेनाक्षवलयेन दक्षिणश्रवण [^९]विलम्बिना विराजमानः सकलविषयोपभोग [^१०]निवृत्त्यर्थ [^११]मुपपादितेन [ टि ]-- वर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालिनामा महदत्युग्रं तपो यस्यैवंभूतो मुनिर्ऋषिः प्रतिवसति स्म । निवासं कृतवानित्यर्थः । तत्तनयश्चेति । तस्य तनयः सुतः । च पुनरर्थे । हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । स्वल्पवया इत्यर्थः । तदेव पूर्वोक्तं पम्पाभिधानं कमलसरः सिस्नासुः स्नातुमिच्छुः । सन्नन्तस्त्राधातो रूपम् । तत्रोपागमदित्यन्वयः । तमेव विशेषयन्नाह - सनत्कुमारेति । सनत्कुमारो वैधात्रस्तद्वदिव सर्वविद्यास्वदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति । सवयोभिः सदृशवयोभिरपरैस्तद्भिन्नैस्तपोधनकुमारकैस्तापसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण । उपागमदिति पूर्वेणान्वयः। द्वितीय इवैतद्भिन्न इव भगवाञ्ज्ञानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी तस्य भावस्तत्ता तया दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं 'कुर्वतो दिवसकरमण्डलात्सूर्यबिम्बादिव । उत्कीर्णं उल्लिख्य कर्षित इत्यर्थः । तडिद्भिरैरावती [^1]भिरिव रचिता निर्मिता अवयवा यस्य सः । तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः शरीरं यस्य सः । पिशङ्गेति । पिशङ्गा पीतावदाता निर्मला एवंविधया स्फुरन्त्या दीप्यमानया देहप्रभया शरीरकान्त्या सहबालातपेन वर्तमानं दिवसं दिनमिव सहदावानलेन वर्तमानं वनं काननमिवोपदर्शयन्प्रकाशयन् । उत्तप्तेति । उत्तप्तमुष्णीकृतं यल्लोहं कालायसं तद्वल्लोहिनीनां रक्तानामनेकानि यानि तीर्थानि तेषामभिषेकः स्नानं तेन पूतानां पवित्राणाम् । अंसेति । अंसस्थलं भुजशिरःस्थानं तत्रावलम्बिनीनां वेल्लन्तीनां जटानां निकरेण समूहेनोपेतः सहितः । स्तम्भितेति । स्तम्भितो बद्धः शिखाकलापो येन स तथा । खाण्डवेति । 'वह्निना जलोदरग्रस्तेन ब्राह्मणरूपेण [^2]शय्यागतेन खाण्डववनं दग्धमिति प्रसिद्धिः । दग्धुमिच्छा दिधक्षा तया कृतो विहितः कपटेन [^3]पटुः स्पष्टो वेषो येनैवंभूत इव भगवान्पावको वह्निः । तपोवनेति । स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षवलयेनाक्ष- मालिकया विराजमानः शोभमानः । अक्षवलयं विशेषयन्नाह – दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः कर्णस्तत्रावलम्बिना । तपोवनेति । तपोवनदेवता तपोवनाधिष्ठात्री तस्य नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन । केनेव । धर्मो विधिनिषेधादिरूपस्तस्य शासनमाज्ञा तस्य कटकेनेव वलयेनेव । सकलविषयस्य समग्र- पदार्थस्य य उप [^1]F. विद्युद्भिरिति स्पष्टोप्यर्थो जटिलीकृतो महात्मना । [^2]F. श्वेतकिनाम्नो नरपतेर्द्वादशवार्षिके यागे सततहविर्भोजनेन संजातमन्दाग्निरपि तत्प्रतीकाराय त्रिविधमहौषधिजुष्टं खाण्डववनं विरिञ्चेरुपदेशादुदरस्थीकर्तुमिच्छुः कृष्णार्जुनयोः साहाय्येन ब्राह्मणवेषः सन् ददाहेति महाभारतम् । [^3]F. कृतः कपटेन वटुवेषो ब्राह्मणरूपं येनेत्येव मूलधृतपाठानुसारी अर्थः । [^१]G. प्रसवति. [^२]G. तापसकुमारकः. [^३]G. समानवयोभिः, समवयोभिः. [^४]G. कुमारै:. [^५]G. विरचिता. [^६]G. आपिशङ्ग. [^७]G. जटावलीनाम्. [^८]G. पटुवेष:. [^९]G. अनुलम्बिना. [^१०]G. निवृत्ति. [^११]G. उत्पादितेन. ललाट [^१]पट्टके त्रि[^२]सत्येनेव भस्मत्रिपुण्ड्रकेणालंकृतः, गगनगमनोन्मुखबलाकानुकारि [^३]णा स्वर्गमार्गमिव दर्शयता सततमुद्ग्रीवेण [^४]स्फटिकमणिकमण्डलुनाध्यासितवामकरतलः, स्कन्धदेशावलम्बिना कृष्णाजिनेन [^५]नीलपाण्डुभासा तपस्तृष्णानिपीतेनान्तर्नि [^६]ष्पतता धूमपटलेनेव परीतमूर्तिः, [^९]अभिनवबिससूत्रनिर्मितेनेव परिलघुतया पवनलोलेन निर्मांसविरल [^८]पार्श्वक [^९]पञ्जरमिव गणयता वामांसा- वलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीतवनलता- [^१०]कुसुमपरिपूर्णपर्णपुटसनाथशिखरेणाषाढदण्डेन व्यापृ- तसव्येतरपाणिः, [^११]विषणोत्खातामुद्वहता स्नानमृदमुपजात- परिचयेन नीवारमुष्टिसंवर्धितेन कुशकुसुमलताया [^१२]स्यमान- लोलदृष्टिना तपोवनमृगे [^१३]णानुयातः, विटप इव कोमलव- [^१४]ल्कलावृतशरीरः, गिरिरिव समेखलः, राहुरिवासकृदावा [ टि ]-- भोगः परिभोगस्तस्मान्निवृत्तिरुपरमस्तदर्थं तन्निमित्त- मुपपादितेन विहितेन । ललाटेति । ललाटपट्टकेऽलिकफलके मनोवाक्कायलक्षणेन त्रिसत्येनेव भस्मत्रिपुण्ड्रकेन विभूतित्रितिलकेनालंकृतो विभूषितः । गगनेति । गगनगमने उन्मुखा ऊर्ध्वानना या बलाका बिसकण्ठिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवपन्थानमिव दर्शयता प्रकाशयता सततं निरन्तरमुद्ग्री- वेणोर्ध्वकन्धरेणैवंभूतेन स्फटिकमणिकमण्डलुना स्फटिककुण्डि- कयाध्यासितमाश्रितं वामकरतलं यस्य सः । स्कन्धेति । कृष्णा- जिनेन कृष्णचर्मणा परीता व्याप्ता मूर्तिर्यस्य स तथा । केनेव । धूमपटलेनेव दहनकेतनसमूहेनेन । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तया निपीतेनेव । कीदृशेन । अन्तः शरीराभ्यन्तरे [^1]निपतता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽवलम्बत इत्येवंशीलं तत्तेन नीला पाण्ड्वी च भा यस्य तत्तेन । अभीति । यज्ञोपवीतेन यज्ञसूत्रेणोत्प्राबल्येन भासमानो दीप्यमानः । केनेव । अभिनवं प्रत्यग्रं यद्बिससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलघुतया परि सामस्त्येन स्वल्पतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मांसं पलरहितं विरलमसंकीर्णं यत्पार्श्वकपञ्जरं पार्श्वगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता । यज्ञोपवीतं विशिष्टि- वाम इति । वामः सव्यो योंऽसः स्कन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषयन्नाह – देवतेति । देवतार्चनार्थं परमैश्वरपूजार्थमा समन्ताद्गृहीतान्यात्तानि वनलताकुसुमान्यरण्यव्रततिपुष्पाणि तैः परिपूर्णं भृतं यत्पर्णपुटं तेन सनाथं सहितं शिखरं प्रान्तं यस्यैवंभूतेनाषाढदण्डेन व्यापृतो व्यापारयुक्तः सव्येतरो दक्षिणः पाणिर्हस्तो यस्य स तथा । तपोवनेति । तपोवनसंबन्धी यो मृगो हरिणः । जा [^2]त्येकवचनम् । तेनानुयातोऽनुगतः । किं कुर्वता मृगेण । विषाणं शृङ्गं तेनोत्खातामुत्खनितां स्नानमृदमाप्लवमृत्स्ना- मुद्वहता धारयता । मृगं विशेषयन्नाह -- उपेति । उपजातः समुत्पन्नः परिचयः संबन्धविशेषो मुनिभिः सार्धं यस्य स तथा तेन । नीवारेति । नीवारो वनव्रीहिस्तस्य मुष्टिः प्रसिद्धा तया संवर्धितेन वृद्धिं प्रापितेन । कुशेति । कुशा दर्भाः, कुसुमानि पुष्पाणि, लता व्रतत्यः, ताभिरायास्य [^3]माना खेदं प्राप्यमाणात एव लोला चपला दृष्टिर्यस्य स तेन । प्रकारान्तरेण मुनिपुत्रं विशिनष्टि - विटप इति । विटपो वृक्षस्तद्वदिव उभयोः सादृश्यमाह - कोमलेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कल [^1]F. निष्पतता इत्येव मूलधृतपाठ उचितः । तपस्तृष्णया धूमपटलं पूर्वं निपीतं तदनन्तरम् तत् अन्तः ( अभ्यन्तरात् ) निष्पतत् बहिर्निर्गच्छदिवेत्युत्प्रेक्षा [^2]F. एक एवासीन्मृगो न जात्या एकवचनम् । विषाणोत्खात- मृत्तिकां वहन्नेक एवं मृगोऽनुगच्छति स्म, न किल सर्वं मृगयूथम् । [^3]F. मुनिकुमारधृते कुशकुसुमादिपुटके तृष्णया वारंवारं चलनाद् दृष्टिरायासमनुभवतीत्याशयः । [^१]G. पट्टे. [^२]G. त्रिसत्यकेन. [^३]G. अनुकारिस्वर्ग. [^४]G. स्फाटिककमण्डलुना. [^५]G. लीलया. [^६]G. अपगच्छता; निष्पतता. [^७]G. अभिनवबिस. [^८]G. पार्श्व. [^९]G. अस्थिपञ्जर; आपञ्जर. [^१०]G. कुसुमपूर्ण. [^११]G. विषाणशिखर. [^१२]G. उपास्यमान:. [^१३]G. अनुगम्यमानः. [^१४]G. वल्क. दितसोमः, पद्मनिकर इव [^१]दिवसकर [^1]मरीचिपः, नदीतटतरुरिव सततजलक्षालनवि [^२]म [^2]लजट:, करि [^३]कलभ इव विकचकुमुददलशकलसितदशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृग [^४]कृत्तिकाश्लेषोपशोभितः, घर्मकालदिवस इव [^५]क्षपितबहुदोषः, जलधरसमय इस प्रशमितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोषारम्भ इव संध्या [ टि ]-- धारित्वात्साम्यम् । गिरिरिवेति । गिरिः पर्वतस्तद्वदिव । उभयोः साम्यमाह - समेखल इति । सह मेखलया मौञ्ज्या वर्तते यः स तथा । पक्षे मेखलाद्रेर्मध्यभागस्तया सह वर्तमान इत्यर्थः । राहुरिवेति । राहु: सैंहिकेयस्तद्वादेव । एतयोः साम्यमाह - असकृदिति । असकृन्निरन्तरमास्वादितः सोमो ज्योतिष्टोमयागसाधनद्रव्यं येन स तथा । एतेनात्यन्तसोमयज्ञकारित्वं सूचितम् । पक्षेऽसकृद्बहुवारमास्वादितो ग्रस्तः सोमश्चन्द्रो येनेति विग्रह: । पद्मेति । पद्मानां कमलानां निकरः समूहस्तद्वदिव । उभयोः साम्यमाह - दिवसेति । दिवसकरस्य सूर्यस्य भयान्मरीची [^1]न्पाति रक्षति स तथा । पक्षे सूर्यविकासित्वात्सूर्यमरीचीन्पाति पिबति यः स तथेति विग्रहः। नदीति । नद्यास्टटिन्यास्तटं प्रतीरं तस्मिंस्तरुर्वृक्षस्तद्वदिव । उभयोः सादृश्यमाह - सततमिति । सततं निरन्तरं त्रिसायं जलेन पानीयेन क्षालनं तेन विमला जटाः सटा: यस्य सः । पक्षे सततजलक्षालनेन विमला जटा अवरोहा यस्येति विग्रहः । करीति । करिणां हस्तिनां कलभस्त्रिंशदब्दको गजस्तद्वदिव । उभयोस्तुल्यतामाह - विकचेति । विकचानि स्फुटानि कुमुदानि कैरवाणि तेषां दलानि पर्णानि तेषां शकलानि खण्डास्तद्वत्सिताः शुभ्रा दशना दन्ता यस्येति स तथा । उभयसा- म्यादभङ्गश्लेषः । द्रौणिरिवेति । द्रौणिरश्वत्थामा तद्वदिव । उभयोः शब्दसाम्यमाह- कृपेति । कृपा दुःखहानेच्छा तयानुगतः सहितः । पक्षे कृपः कृपाचार्यस्तेनोगगत इति विग्रहः । नक्षत्रेति । नक्षत्राणां तारकाणां राशिः समूहस्तद्वदिव । अनयोः साम्यमाह - चित्रेति । चित्रमृगस्य कृत्तिका चर्म तेनाश्लेषः संबन्धस्तेन उपशोभितः शोभां प्राप्तः । पक्षे चित्रा त्वाष्ट्री, मृगो मृगशिरः, कृत्तिका प्रसिद्धा, आश्लेषा सार्पी, ताभिरुपशोभितः । घर्मेति । घर्मकाल उष्णकालस्तस्य दिवसो दिनं तद्वदिव । उभयोः साम्यमाह - क्षपित इति । क्षपिताः क्षयं प्रापिता बहवो दोषा रागादयो येन सः । पक्षे क्षपिता बह्वी दोषा रात्रिर्येनेति विग्रहः । जलेति । जलधरसमयःप्रवृट्का- लस्तद्वदिव । उभयोस्तुल्यतामाह- - प्रशमितेति । प्रशमितः शान्तिं प्रापितो रजःप्रसरः प्रवर्तक [^3]गुणव्यापारो येन सः । पक्षे प्रशमितो रजःप्रसरो धूलिविस्तारो येनेति विग्रहः । वरुण इति । वरुण: प्रचेतास्तद्वदिव । उभयोः साम्यमाह- कृतोदेते । कृतो विहित उदवासो व्रतविशेषो येन सः । पक्षे कृत उदकेषु वासो निवासो येनेति विग्रहः । उदकस्योदादेशः । हरिरिति । हरिरिव कृष्ण इव । उभयोरैक्यमाह - अपनीतेति । अपनीतो दूरीकृतो नरको दुर्गतिः तद्भयं येन सः । पक्षे नरको दैत्यस्य भयं येनेति विग्रहः । प्रदोषेति । प्रदोषो यामिनीमुखं तस्यारम्भःप्रारम्भस्तद्वदिव । उभयोरैक्य - संध्येति । संध्या दिवसरजन्योः संधिस्तद्वत्पिङ्गला तारैव तारका कनीनिका यस्य स तथा । इदं महापुरुषोपलक्षणम् । तदुक्तमन्यत्र - 'शुद्रोऽपि चक्रवर्ती स्यात्पीततारकचक्षुषि' इति । पक्षे संध्याकृता पिङ्गला तारका यस्मिन्निति विग्रहः । प्रभातेति । प्रभातं प्रत्यूषस्तस्य काल: समयस्तद्वदिव । उभयोः साम्यमाह - बालेति । बालो यः सूर्यस्तस्यातपः । बालश्चासावातपो वा । प्रकाशस्तद्वत्कपिलः पिङ्गलः । पक्षे बालातप उद्गमनसमय- वर्त्यातपस्तेन कपिल: पिङ्गलः । पीतरक्त इत्यर्थः । [^1]F. सूर्यरश्मीन् पिबति ऊर्ध्वमुखः सन् ग्रसते इति हारीतपक्षे, 'ग्रीष्मे पञ्चापिमध्यस्थो वर्षासुव्यण्डिलेशयः' इति तपश्चरणनियनात् । पूर्णविकासार्थं सूर्यरश्मीन् पिबति आदत्ते इति पद्मनिकरपक्षे । टीकार्थस्तु विचारणीयः । [^2]F. विमला जटा लग्नकेशा यस्य सः ( मुनिः ), विमला मृत्तिकाहीना जटा मूलं यस्य सः (तरुः ) 'मूले लग्नकचे जटा' इत्यमरः । [^3]F. रजोगुणव्यापारः कामादिर्येन ( मुनिपक्ष ) । [^4]F. संध्यय संध्याकालवर्णेन पिङ्गलास्तारका नक्षत्राणि यस्मिन्नित्यर्थः । [^१]G. दिनकर. [^२]G. विरल. [^३]G. करभ. [^४]G. विश्लेषा. [^५]G. क्षयितदोषः. [^१]पिङ्गलतारकः, प्रभातकाल इव बालातपकपिलः, रविरथ इव [^२]दृढनियमिताक्षचक्रः, सुराजेव निगूढमन्त्रसाधन- [^३]क्षपितविग्रहः, [^४]जलनिधिरिव कराल [^1]शङ्ख मण्डलावर्त [^५]गर्तः, भगीरथ [^६]इवासकद्दृष्टगङ्गावतारः [^६]भ्रमर इवासकृदनुभूतपुष्करवनवासः वनचरोऽपि कृत- महालयप्रवेशः, असंयतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितनेत्रयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् । [ टि ]-- रविरथ इति । रवेः सूर्यस्य यो रथः स्यन्दनस्तद्वदिव । उभयोः साम्यमाह - अक्षेति । दृढं यथा स्यात्तथा नियमितं निबद्धमक्षाणमिन्द्रियाणां चक्रं समूहो येन सः । पक्षे दृढे नियमिते अक्षचक्रे यस्मिन्निति विग्रहः । तत्राक्षो मध्यप्रदेशः । चक्रं प्रसिद्धम् । सुराजेवेति । सुष्टु शोभनो यो राजा नृपतिस्तद्वदिव । तयोः साम्यमाह - निगूढेति । निगूढं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षपितः कृशतां नीतो विग्रहः शरीरं येन सः । पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः शत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति। जलनिधिः समुद्रस्तद्वदिव । उभयोः सादृश्यमाह- करालेति । करालं यच्छङ्खमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्तो यस्य स तथा । तादृशावर्तश्च महातपस्विलक्षणम् । पक्षे करालानि जिह्मानि यानि शङ्खमण्डलानि षोडशावर्तवृन्दान्यावर्तः पयसां भ्रमश्च एते गर्ते अगाधप्रदेशे यस्येति विग्रहः । भगीति । भगीर: सगरप्रपौत्रसद्वदिव । उभयोः सादृश्यमाह - असकृदिति । असकृन्निरन्तरं दृष्टोऽवलोकितो गङ्गाया अवतारो घट्टो येन सः । 'घट्टस्तीर्थावतारे' इति कोशः । पक्षे [^3]असकृत् दृष्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव । उभयोः साम्यमाह - असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयी- कृतः पुष्करं जलं तेन सहितं यद्वनं तत्र वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः । वनेति । वने चरतीति वनचरः । एवंभूतोऽपि कृतो महालयेषू- चैस्तरगृहेषु प्रवेशो येनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि लयः । तदुक्तम् –'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्तेनावस्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयतेति । असंयतोऽसंयमवानपि मोक्षार्थी मोक्षाभिलाषुक इति विरोध । तत्परिहारपक्षेऽसंयतोऽबद्धोऽपीत्यर्थः । 'संदानितः संयतश्च' इत्यभिधानचिन्तामणिः । सामेति । साम सान्त्वनं तत्प्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निरन्तरमवलम्बित आश्रितो दण्डो राजदेयद्रव्यं येनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोगपरोऽपि सततमलम्बितो दण्डो यष्टिर्येनेति विग्रहः । सुप्त इति । सुप्तोऽपि निद्रितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः । परिहारपक्षे सुष्टु शोभना सुप्ता: जटा यस्येति विग्रहः । लक्ष्यं च – 'राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं न.प. नागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः सप्ताः सप्ताश्वानुन्नारुणकिरणनिभाः पातु बिभ्रन्त्रिनेत्रः ॥ इति शृङ्गारतिलकटीकायाम् । तथा 'सालिग सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यक्प्रकारेण निहितं स्थापितं लोचनद्वयं येनैवंभूतोऽपि [^4]परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः । परिहारपक्षे [^1]F. करालः उन्नतावनतो यः शङ्खः तस्य मण्डलावर्तवत् ( मण्डलाकारभ्रमिरेखावत् ) नाभिगर्तो यस्य सः (मुनि), करालशङ्खः बृहच्छङ्ख; मण्डलावर्तो मण्डलाकारेण जलभ्रमश्च नाभिगर्तस्थानापन्नो यस्य सः ( जलनिधिः ), ततश्च 'मण्डलावर्त- नाभिगर्तः' इत्येव मूलपाठः समञ्जसः । [^2]F. भगीरथ इव दृष्टगङ्गावतारः इत्येव पाठः समुचितः, भगीरथपक्षे असकृत्पदस्य स्वारस्याभावात् । [^3]F. सुप्तो बाह्यविषयेषु निद्रितवत् असंसक्तोपि प्रबुद्धः परमात्मविषयकज्ञाने जागरूक: 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी' । इति स्पष्टोर्थः । [^4]F. परित्यक्ता वामलोचना कामिनी येन सः इति स्पष्टोऽर्थः । [^१]G. पिशङ्ग. [^२]G. नियमित; दृढसंयमित. [^३]G. क्षवित. [^४]G. जलगि. [^५]G. नाभिगर्त:. [^६]G. इव दृष्ट [^७]G. मधुकर. प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि [^१]सदा खलु भवन्ति सतां चेतांसि । यतः स मां तदवस्थमालोक्य समुपजात [^२]करुणः [^३]समीपवर्तिनमृषिकुमारकमन्यतममब्रवीत्-'अयं कथमपि शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन [^४]भवितव्यम् । तथा हि—अतिदवी- यस्तया प्रपात [^५]स्याल्पशेषजीवितोऽयमामीलितलोचनो मुहु- र्मुहुर्मुखेन [^६]पतति, मुहुर्मुहुरत्युल्बणं [^७]श्वसिति, मुहुर्मुहुश्चञ्चुपुटं विवृणोति, न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न वि [^८]मुच्यते, तावदेव गृहाणे [^९]मम् । अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । [^१०]उपसृत्य च जलसमीपमेकदेशनिहितदण्डकमण्डलुरादाय स्वयं [^११]मामामुक्तप्रयत्न [^१२]मुत्तानित [^१३]मुखमङ्गुल्या कतिचित्सलिलबिन्दूनपाययत् । अम्भःक्षोदकृतसेकं [^१४]चोपजातनवीनप्राणमुपतटप्ररूढस्य [^१५]नवनलिनीदलस्य जलशिशि [ टि ]-- परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनस्विन्यां लोचनं येनेत्यर्थः । प्रायेणेति । प्रायेण बाहुल्येनाकारणमित्राणि निदानव्यतिरेकेण प्रियकारीण्यतिशयेन करुणा परदुःखप्रहाणेच्छा तयार्द्राणि खिन्नानि खलु निश्चयेन सदा सर्वकालं सतां सज्जनानां चेतांसि मनांसि भवन्ति । यतः स मुनिसुतो हारीताख्यो मां तदवस्थं कष्टदशा- पन्नमालोक्य निरीक्ष्य सगुपजाता सम्यक्प्रकारेणोत्पन्ना करुणा कृपा यस्यैवंभूतः समीपवर्तिनं निकटस्थायिनमृषिकुमारकमन्यतमं मुनिसुतमब्रवीदवोचत् । अयं प्रत्यक्षगतः कथमपि महता कष्टेन शुकशिशुः कीरपोतोऽसंजातपक्षपुट एवासमुत्पन्नच्छद एवास्मात्तरु शिखराद्वृक्षप्रान्तातत्परिच्युतः स्रस्तः । वाथवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रष्टेन पतितेन भवितव्यम् । तदेव दर्शयति — तथा हीति । अतिदवीयो द्राघीयस्तस्य भावस्तत्ता तया [^1]प्रपातस्य प्रपतनस्याल्पं शेषमुद्वरितं यस्मिन्नेवंविधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहुर्वारंवारं मुखेन पतति । अयं पक्षिणां जातिस्वभावः । मुहुर्मुहुरत्युल्बणमुत्कटं श्वसिति [^2]प्राणिति । मुहुर्मुहुश्चञ्चुपुटं त्रोटिपुट विवृणोति विकासयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् । तदिति । तत् पूर्वोक्तहेतो- रेह्यागच्छ । यावदेवायं यावत्कालमयं शिशुरसुभिः प्राणैर्न विमुच्यते न विश्लेषं प्राप्नोति तावदेव तावत्कालं गृहाणेमं शुकम् । अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रकारेणाभिधा- योक्त्वा तेनर्षिपुत्रेण मां सरस्तीरं कासारतटमनाययत्प्रापयत् । उपसृत्य प्राप्य च जलसमीपम् । एकेति। एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू येन स तथा तत आदाय गृहीत्वा माम् । कीदृशम् । आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूल- शारीरक्रियारूपो येन तम् । उत्तानितमूर्ध्वीकृतं मुखमास्यं येन स तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियतः सलिलबिन्दून्पानीयपृषतोऽपाययज्जलपानमकारयत् । अम्भसः पानीयस्य [^3]क्षोदेन हस्तच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् । शुकपोतं विशेषयन्नाह - उपेति । उपजाता नवीना नवाः प्राणा असवो यस्यैवंविधं मामुपतटं तटसमीपं [^1]F. प्रपातस्य अतिदवीयस्तया प्रपतनस्थानस्य अतिदूरवर्ति- तयेत्याशयः । [^2]F. श्वासान्मुञ्चतीत्यर्थः । [^3]F. चूर्णवदतिसूक्ष्मबिन्दुच्छुरणेन, 'चूर्णे क्षोदः' इत्यमरः । [^१]G. च सदा भवन्ति सतां चेतांसि; सतां खलु भवन्ति सदा चेतांसि. [^२]G. दयः. [^३]G. समीपतर. [^४]G. प्रायो भवितव्यम्. [^५]G. अस्याल्पशेषं जीवितम्. [^६]G. वमति. [^७]G. निश्वसिति. [^८]G. वियुज्यते. [^९]G. एनम्. [^१०]G. उपसृत्य जल. [^११]G. मुक्तं. [^१२]G. उन्नमितम्. [^१३]G. मन्मुखम्. [^१४]G. समुपजातप्राणम्; समुपजातप्रज्ञम्. [^१५]G. नलिनीपलाशस्य. रायां छायायां निधाय स्वोचि[^१]तमकरोत्स्नानविधिम् । अ [^२]भिषेकावसाने चानेकप्राणाया [^३]मपूतो उपन्पवित्राण्य- घमर्षणानि प्रत्यप्रभग्नैरुन्मुखो रक्तारविन्दैर्नलिनीपत्रपुटेन भगवते सवित्रे दत्त्वा [^५]र्घमुदतिष्ठत् । [^६]आगृहीतधौतधवल्कलश्च [^७]सहज्योत्स्न इव संध्यातपः करतल निर्धू [^८]ननविशदसट: [^९]प्रत्यग्रस्नार्दजटेन सकलेन तेन मुनिकुमार [^१०]कदम्बके- नानुगम्यमानो म गृहीत्वा तपोवनाभिमुखं [^११]शनैरगच्छत् । अनतिदूरमिव गत्वा दिशि दिशि सदा संनिहितकुसुम [^१२]फलैस्तालतिलक [^१३]तमालहिन्तालबकुलबहुलैरेलालता- कुलित [^१४]नलिकेरीकलापैर्लोल [^१५]लोध्रलवलीलवङ्ग [^१६]पल्लवै [^१७]रुल्लसितचूतरेणुपटलैरलिकु. [ टि ]-- प्ररूढस्य जातस्य नवनलिनीदलस्य प्रत्यग्रपद्मिनीपत्रस्य जलेन [^1]पानेन शिशिरायां शीतलायां छायायाम् । वैशम्पायन इत्यभिधा नाम यस्यैवंविधं शुकं निधाय स्थापनां कृत्वैतदभि- धानोऽयमिति स्वोचितं स्वस्योचितं योग्यं स्नानविधिमकरोदसृजत् । अभिषेकस्य स्नानस्यावसाने प्रान्ते । चः पुनरर्थे । उदतिष्ठदुत्थितो बभूवेत्यन्वयः। हारीतं विशिनष्टि - अनेकैरिति । अनेकैर्बहुभिः प्राणायामैः प्राणयमैः पूतः पवित्रः । किं कुर्वन् । जपन्स्मरन् । कानि । अघमर्षणान्यब्देवतास्तुतिरूपाणि 'सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्' इति कोशः । कीदृशानि । पवित्राणि स्वत एव विशदानि । कीदृक् । उन्मुख ऊर्ध्वमुखः । नलिनीति । नलिन्याः कमलिन्या पत्रपुटेनाधारभूतेन प्रत्यग्रभग्नैस्तत्कालगृहीतै रक्तारविन्दै रक्तकमलैराधेयभूतैर्भगवते माहात्म्यवते सवित्रे श्रीसूर्यायार्घं पूजां दत्त्वा वितीर्य । अन्वयस्तु प्रागेवोक्तः । कीदृक् । आगृहीतेति । स्नानानन्तरमागृहीतं स्वीकृतधौतं क्षालितमत एव धवलं शुभ्रं वल्कलं चोचं येन स तथा । सहज्योत्स्न इति । सह ज्योत्स्नयः कौमुद्य वर्तते यः स एवंभूतः संध्यातपः सायंकालीन- सूर्यातप इव । करतलेति । करतलेन हस्ततलेन यन्निर्धूननमा [^2]च्छोटनं तेन विशदा निर्मला जटा सटा यस्य सः । प्रत्यग्रं तत्कालं स्नानेनार्द्राभूता जटा सटा यस्य स तथा तेन । सकलेन समग्रेण मुनिकुमारकदम्बकेन तापसशिशुसमूहेनानुगम्यमानः । मामिति । मां वैशम्पायनं गृहीत्वादाय तपोवनाभिमुखं स्वाश्रमसंमुखं शनैर्नातिवेगेनगच्छद [^3]न्वतिष्ठत् । अनतिदूरमिव गत्वां । दविष्ठं पन्थानमतिक्रम्येत्यर्थः । अहमाश्रमं मुनिस्थानमपश्यमिति दूरेणान्वयः। कीदृशम् । काननैर्वनैरुपगूढं व्याप्तम् । अथ वनविशेषणानि व्याख्यापयन्नाह - दिशीत्यादि । दिशि दिशि प्रतिदिशं सदा सर्वकालं संनिहितानि हस्तग्रह्याणि कुसुमफलानि येषां तैः । तालस्तृणराजः, तिलकश्रीमान्, तमालस्तापिच्छः, हिन्तालो वृक्षविशेषः, बकुलः केसरःएतैर्बहुलैर्दृढैः ।'नीरन्ध्र बहुलं दृढम्इति कोशः । एलायाश्चन्द्रवालाया या लता वल्लयस्ताभिराकुलितो व्याप्तो नालिकेरीकलापो लाङ्गलीसमूहं येषु तैः । लोलाश्चपला लोध्रो गालवः, लवली लताविशेषः, लवङ्गः श्रीसंज्ञः, एतेषां पल्लवा येषु तैः । उल्लसितानि बहिर्निर्गतानि चूतरेणुपटलान्याम्रपरागपुञ्जानि येषु तैः । अलिकुलानां भ्रमरसमूहानां झङ्कारेण झङ्कृतिशब्देन मुखरा वाचालाः सहकारा येषु तैः । आम्रेष्वतिसौरभो यः स सहकार इति पूर्वस्माद्भेदः । अतो न पौनरुक्त्यम् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । उन्मदानि मदोन्मत्तानि यानि कोकि [^1]F. सलिलेन शीतलायामित्यर्थः । [^2]F. आस्फालनम् 'फटकारना' हिन्दी । [^3]F. अव्रजत इत्याशयः। अनुपूर्वकस्य तिष्ठतेरत्र ग्रहणं भ्रामकम् । [^१]G. समुपचितम्; यथासमुपचितम्. [^२]G. अभिमताभिषेक. [^३]G. पूजित: ; पूतोऽपि. [^४]G. जपन्नघमर्षणानि. [^५]G. अर्ध्यम्. [^६]G. आगृहीतधवला; आगृहीतधवलधौत. [^७]G. सज्योत्स्न:. [^८]G. निर्धूतविशद. [^९]G. कमण्डलुमापूरितकमलकिञ्जल्कसुरभिणा शुचिना सरोवारिणा प्रत्यय. [^१०]G. कुमारक. [^११]G. शनैः शनैः. [^१२]G. पटलै:. [^१३]G. तालीतमाल. [^१४]G. नारिकेल. [^१५]G. आलोल. [^१६]G. पुष्पैः. [^१७]G. उल्लसत्. लझङ्कारमुखरसहकारैरुन्मदकोकिलकुल [^१]कलापकोलाह- लिभिरुत्फुल्लके [^२]तकी रजःपुञ्जपिञ्जरैः पूगीलतादोलाधिरूढ- वनदेवतैस्तारका [^३]वर्षमिवाघर्मविनाशपिशुनं कुसुमनिकर- मनिलचलितमनवरतमतिधवलमुत्सृजद्भिः संसक्त [^४]पादपैः काननैरुपगूढम् अचकितप्रचलितकृष्ण [^५]सारशतशबलाभि- रुत्फु [^६]ल्लकमलिनीलोहिनीभिर्मारी [^७]चमायामृगावलून- [^८]रूढवीरुद्दलाभिर्दाशरथिचापकोटिक्षत [^९]कन्दगर्तविषमिततलाभिर्दण्डकारण्यस्थलीभिरुपशोभितप्रान्तम्, आगृहीत समित्कुशकुसुम [^१०]मृद्भिरध्ययनमुखर [^११]शिष्यानुगतैः सर्वतः प्रविशद्धिर्मुनिभिरैशून्योपकण्ठम्, उत्कण्ठि शिखण्डिमैण्डल श्रयमाणजल कलशपूरणध्वानम्, अनवरसाज्याहुतिप्रीतश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं निनीषुभिरुद्धूयमानधूमलेखाच्छलेनाबध्यमानस्वर्ग मार्गगमनसोपान सेतु१ . १ लकुलानि पिककुलानि तेषां कलापः समूहस्तस्य कोलाहलः कलकलो येषु तैः । उत्फुल्ला विकसिता याः केतक्यो मालत्यस्तासां रजःपुञ्जः परागसमूहस्तेन चिरैः पीतरक्तैः । पूगीलताः ऋमुकलता एव दोलाः प्रेङ्खास्ताधिरूढा आश्रिता वनदेवता अरण्याधिष्ठात्र्यो देवता बेषु तैः । पुनः कि कुर्वद्भिः । अनवरतं निरतरमनिलचलितं बायुधूतमतिधवलमतिपाण्डुरं कुसुमनिकरं पुष्पसमूहमुत्सृजद्भिर्विकिरद्भिः । किमिव । तारकावर्षमिवोल्कापातमिन । तदपि किंचिदनिष्टस्य सूचकं भवति । इदमपि तथेत्याह--अधर्मेति । अधर्मस्या शिष्टाचारस्य विनाशोऽभावस्तस्य पिशुनं सूचकम् । एतेन सर्वथाsधर्माभावोऽत्रेति ध्वनितम् । संरक्ता अन्योन्यं मिलितांः पादपा वृक्षा येषु तैः । पुनः कीदृशम् । दण्डकारण्यं प्रसिद्धं तस्य याः स्थल्यः स्थूलभूमयस्ताभिरुपशोभितः शोभां प्रापितः प्रान्तः पश्चाद्भागो यस्य स तम् । अतः स्थल्या विशेषणानि अचकितेत्यादि । अचकिता अत्रस्ताः प्रचलिता गच्छन्तो ये कृष्णसाराः कृष्णमृगास्तेषां शतं दशशतगुणितास्तेन शबलाभिः किमराभिः । उत्फुल्ला विकसिता याः कमलिन्यो नलिन्यस्ताभिर्लोहिनीभी रक्ताभिमरीचनामा यो मायामृगस्तेनावलूनानि छिन्नानि रूढवीरुधां संजातनलीनां दलानि पर्णानि यासु ताभिः । दाशरथी रामचन्द्रस्तस्य चापकोट्या क्षता उत्खाता ये कन्दा मूलानि तेभ्यो ये गर्ता भुवो विवराणि तैर्विषमितमुचनीचतां प्राप्तं तलं यासु ताभिः । पुनः कीदृशम् । मुनिभिः करणभूतैरशून्यमुपकण्ठं समीपं यस्य स तथा तम् । यथाक्रमं मुनीनां त्रीणि विशेषणानि व्याख्यापयजाह- आगृहीतेति । आगृहीता आत्ताः समिध एधांति, कुशा दर्भाः, कुसुमानि पुष्पाणि, मृदो भृत्तिका यैस्ते तथा तैः । अध्ययनेन वेदपारायणेन मुखरा बाचाला मे शिष्या विनेयास्तैरनुगतैः सहितैः सर्वतोऽभितः प्रविशद्भिः प्रवेशं कुर्वद्भिः । तद्गतपदार्थप्रदर्शनपूर्वकं पुनर्निशिनष्टि - उत्कण्ठीति । उत्कण्ठिना हृल्लेखवता शिखण्डिमण्डलेन मयूरसमूहेन भूयमाण आकर्ण्यमानो जलेषु कलशपूरणध्वानः शब्दो यस्मिन्स तम् । अनवरतं निरत्ययमाज्येन सर्पिषा याहुतिर्हवनं तया प्रीतैः संतुष्टैश्चित्रभानुभिर्वह्विभिः सशरीरमेन सविग्रहमेन मुनिजनमृषिवर्गममरलोकं स्वर्गलोकं निनीषुभिर्नेतुमिच्छुभिरुद्धूयमाना कम्पमाना या धूमलेखा दहनकेतनवीथी तस्याश्छलेनाबध्यमानो विरच्यमानः स्वर्गमार्गगमनसोपानसेतुरिव स्वर्गस्य त्रिबिष्टपस्य यो मार्गः पन्थास्तत्र गमनं तदर्थ सोपानसेटिप्प० -1 'केवडा' इति प्रसिद्धपुष्पानुकारि भिनमिदं कुसुमम् । 2 नक्षत्रवृष्टिमिव इत्युचितोर्थः, श्वेतानां पुष्पाणां तारकोपमितत्वात् । 3 उत्कण्ठितेन शिखण्डिमण्डलेन श्रूयमाणो जलकलशपूरण ध्वानो यस्मिन्, कलशपूरणध्वनौ मेघगर्जनभ्रमात् मयूराणामुत्कण्ठेत्यर्थः । ततश्च उत्कण्ठितेत्येव पाठः समुचितः । पाठा०. १ कलालाप. २ केतकी कुसुममञ्जरीरजः, केतकमञ्जरीरज:. ३ दृष्टि. ४ पादपैरुपगूढम्. ५ सारसारङ्ग • ६ स्थलकमलिनी. ७ मारीचि. ८ प्ररूढ. ९ कन्दर. १० मृत्तिकै: • ११ शिष्यागतैः १२ प्रसरद्भिः. १३ अविशून्य. १४ उत्कण्ठ १५ मण्डलीमण्डल. रि [^1]वोपलक्ष्यमाणम्, आसन्नवर्तिनीभि [^१]स्तपोधनसंपर्का- दिवापगतकालुष्याभिस्तरङ्गपरंपरासंक्रान्त [^२]रवि बिम्बपङ्क्तिभिस्तापसदर्शनागतसप्तर्षिमालाविगाह्यमानाभिरिव [^३]विकचकुमुदवनमृषिजनमुपासितुमवतीर्णं ग्रहगणमिव निशासूद्वहन्तीभिदीर्घिकाभिः परिवृतम्, अनिलावनमित [^४]शिखराभिः प्रणम्यमानमिव वनलताभिः, अनवरतमुक्त- कुसुमैरभ्यर्च्यमानमिव पादपै: आबद्ध [^५]पल्लवाञ्जलिभि- रुपास्यमानमिव विटपैः, उटजाजिरप्रकीर्णशुष्यच्छ्यामाकम् उपसंगृहीतामल [^६]कलवलीकर्कन्धूकदलीलकुच [^७]चूत- पनसतालीफलम्, अध्ययनमुखरवटुजनम्, अनवरतश्रवणगृहीतवषट्कारवाचालशुककुलम्, अनेकसारिकोद्धुष्यमाण- सुब्रह्मण्यम्, अरण्यकुक्कुटोपभुज्यमा [ टि ]-- तुरिवोपलक्ष्यमाणं व्यज्यमानम् । दीर्घिकाभिर्वापीभिः परिवृतमावृतम् । अथ क्रमेण वाप्या विशेषणानि । आसन्न- वर्तिनीभिः समीपसंस्थिताभिस्तपोधनैस्तापसैः संपर्क: संबन्धस्त- स्मादिवापगतकालुष्याभिर्दूरीभूतमालिन्याभिस्तरंगपरंपरासु कल्लोलवीथिषु संक्रान्ताः प्रतिबिम्बिता रविबिम्बस्य सूर्यबिम्बस्य पङ्क्तयो यासु ताभिः तरङ्गपरंपरासु प्रतिबिम्बपरंपरेत्यर्थः । तज्जनितशोभान्तरं वर्णयन्नाह - तापसेति । तापसदर्शनार्थमागता प्राप्ता या सप्तर्षिमाला तया विगाह्यमानाभिरिव विलोड्यमाना- भिरिव । एतेन सप्तर्षीणां सूर्यप्रतिबिम्बसादृश्यं ध्वनितम् । कुर्वतीभिः । निशासु रात्रिषु विकचकुमुदवनं विनिद्रकैरव- वनमृषिजनं मुनिजनमुपासितुं सेवितुमवतीर्णमुपरिष्टादागतं ग्रहगणमिव [^2]नक्षत्रवृन्दमिवोद्वहन्तीभिर्धारयन्तीभिः । एतेन कुमुदवनग्रहणयोः स्वच्छत्वसारूप्याद्रूपकमुक्तम् । पुनः प्रकारान्तरेण तमेव विशेषतो विशिनष्टि – अनिलेति । अनिलेति वायुनावनमितं शिखरं प्रान्तं यासां ताभिरेवंभूताभिर्वनलता- भिररण्यवल्लीभिः प्रणम्यमानमिव नमस्क्रियमाणमिव । अनवरतेति । अनवरतं मुक्तानि कुमुमानि यैरेवंभूतैः पादपैर्वृक्षै- रभ्यर्च्यमानमिव पूज्यमानमिव । आबद्धेति । आबद्धा रचिताः पल्लवा एवाञ्जलय एवं भूतैर्विटपैर्वृक्षैरुपास्यमानमिव सेव्यमानमिव। उटजेति । उटजाजिरेषु पर्णशालाङ्गणेषु प्रकीर्णा विक्षिप्ताः शुष्यन्तः शोषं प्राप्नुवन्तः श्यामाका धान्यविशेषा यस्मिन्स तम् । उपसंगृहीतेति । उपसंगृहीतान्यात्तान्यामलकं धात्री, लवली लताविशेषः, कर्कन्धूर्बदरी, कदली रम्भा, लकुचो वृक्षविशेषः, चूत आम्रः, पनसः प्रसिद्धः, ताली तृणराजः, एतेषां फलानि यस्मिन्स तम् । अध्ययनेति । अध्ययनेन वेदपठनेन मुखरा वाचाला बटुजना ब्रह्मचारिजना यस्मिन्स तम् । अनवरतेति । अनवरतं निरन्तरं श्रवणगृहीताः श्रुतिमात्रेण शिक्षिता ये वषट्कारशब्दास्तैर्वाचालं शुककुलं यस्मिन्स तम् । अनेकेति । अनेकाभिः सारिकाभिः पीतपादाभिरुद्धुष्माणमुच्चैः स्वरेण पठ्यमानं सुब्रह्मण्यं वेदो यस्मिन्स तम् । अरण्येति । तत्कुक्कुटैश्चरणायु: उपभुज्य [^1]F. सशरीरमेव मुनिजनम् अमरलोकं निनीषुभि: आहुतिजी तैश्चित्रभानुभिः धूमलेखाच्छलेन आबध्यमानः स्वर्गमार्गगमनाय सोपानरूपः सेतुः यत्र तमिव उपलक्ष्यमाणम् । अग्नीनां वायुकम्पिता उर्ध्वगामिनी धूमपङ्क्तिर्मुनीनां सशरीरस्वर्गगमनार्थं सोपानभूता । द्वयोर्लोकयोः संयोजिकेति सेतुस्थानापन्नेति उत्प्रेक्षाशयः । एवं च 'सेतुमिवोपलक्ष्यमाणम्' इत्येव पाठः समुचितः । मूलटीकयोर्विसंदो मा भूदिति नामाभिः शोधितः । नीरक्षीरविवेकिनिष्टीकात: सारमात्रं ग्राह्यमित्यलम् । [^2]F. ऋषिजनमुपासितुम् अवतीर्णं नीचैरागतं ग्रहगणमिव स्थितं कुमुदवनमुद्रहत्तीभिः कुमुदानि मन्ये जाबाल्यादिमुनीनां सेवायै सनागतानि नक्षत्राण्येव सन्तीत्युत्प्रेक्षा । इवशब्ददर्शनेपि 'सारूप्याद्रूपकम्' इति टीका तु अलङ्कारशास्त्रस्पर्शशून्या। [^3]F. विटपैः शाखाभिरित्युचितोर्थः । शाखार्थत्वाद्विटपस्य। 'पादपैः' इति तु पूर्वं प्रोक्तमपि । [^१]G. तपोवन. [^२]G. रविपङ्किभि:. [^३]G. अतिविकच. [^४]G. शिखाभिः. [^५]G. पल्लवपुटाञ्जलिभिः. [^६]G. लवङ्गकर्कन्धू. [^७]G. चूततालफलम् ; तालचूतफलम्. नवैश्वदेवबलिपिण्डम्, आसन्नवापीकलहंसपोतभुज्यमाननीवार- बलिम्, एणीजिह्वापल्लवोपलिह्यमानमुनिबालकम्, अग्निकार्यार्धदग्धमि [^१]समिसायमान [^२]समित्कुशकुसुमम्, उपलभग्न [^३]नालिकेररसस्निग्धशिलातलम्, अचिरक्षुण्णवल्कल- रसपाटलभूतलम्, रक्तचन्दनोपलिप्तादित्य [^४]मण्डलक- निहितकरवीरकुसुमम्, इतस्ततो विक्षिप्तभस्म [^५]लेखाकृत- मुनिजनभोजन [^६]भूमिपरिहारम्, परिचितशाखामृग [^७]करा- कृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, [^८]इभकलभार्थोपभुक्तपतितैः सरस्वती [^९]भुजलता विगलितैः शङ्ख- वलयैरिव मृणालशकलै : कल्माषितम्, ऋषिजनार्थमेणकैर्विषाण- शिखरोत्खन्यमानविविधकन्दमूलम्, अम्बुपूर्ण पुष्करपुटैर्वन- करिभिरापूर्यमाणविटपालवालकम्, ऋषिकुमारकःकृष्यमाण- वनवराहदंष्ट्रान्तराललग्नशालूकम्, उपजातपरि [ टि ]-- मानो भक्ष्यमाणो वैश्वदेवस्य देवयज्ञस्य बलिपिण्डो हन्तकारो यस्मिन्स तम् । आसन्नति । आसन्ना समीपस्था या वापी दीर्घिका तस्याः कलहंसपोतैः कादम्बशिशुभिर्भुज्यमानो भक्ष्यमाणो नीवारबर्लियस्मिन्स तम् । एणीति । एण्यो भृग्यस्तासां जिह्वा रसना एव पल्लवास्तैरुपलिह्यमाना आस्वाद्यमाना मुनिबालका यस्मिन् स तम् । अग्नीति । अग्निकार्ये होमेऽर्धदग्धान्यर्धभस्मीभूतान्यत एव मिसमिसाय [^1]मानानि मिसमिसेतिशब्द आचरमाणानि समित्कुशकुसुमानि यस्मिन्स तम् । उपेति । उपले दृषदि भग्नानि द्वैधीकृतानि नालिकेराणि लाङ्गलीफलानि तेषां यो रसो द्रवस्तेन स्निग्धं चिक्कणं शिलातलं यस्मिन्स तम् । अचिरेति । अचिक्षुण्णानि [^2]तत्कालमर्दितानि यानि वल्कलानि तेषां रसस्तेन पाटलं श्वेतरक्तं भूतलं यस्मिन्स तम् । रक्तेति । रक्तचन्दनं पत्राङ्गं तेनोपलिप्तमालिप्तमालिखितं यदादित्यमण्डलमेव मण्डलकं तस्मिन्निहितानि स्थापितानि करवीरो हयमारस्तस्य कुसुमानि पुष्पाणि यस्मिन्स तम् । इति । इतस्ततो विक्षिप्तं यद्भस्मपूतिस्तस्य लेखा तथा कृतो विहितो मुनिजनभोजनभूमेः परिहारो निषेधो यस्मिन् । भस्मलेखाङ्कितायां भूमौ केनापि नागंतव्यमिति भावः । यद्वा भस्मनो या लेखा घर्षस्तेन कृतो मुनिजनभोजनभूमे रुच्छिष्टभूमेः रिहारो मार्जनं यस्मिन् । दृश्यते हि भोजनान्ते भस्मना मार्जनं पश्चाद्गोमयेनोपलेपनमिति । परिचितेति । परिचिताः संजातपरिचया ये शाखामृगास्ताम्रमुखाः श्याममुखा वा वानरास्तेषां कराकृष्ट्या हस्तावलम्बेन निष्कास्यमानाः प्रवेश्यमानाश्च जरन्तोऽन्धाश्च तापसा यस्मिन् । इभेति । मृणाल- शकलैर्बिसखण्डैः कल्माषितं वेत्रितम् । कीदृशैरिव । सरस्वती देवी तस्या भुजलते बाहुलते ताभ्यां विगलितः स्रस्तैः शङ्खवलयै रिव वरेखकटकै: । बिसानां स्वतो भूमिपातो न स्यादित्याह - इभेति । इभकलभानां यदर्धोपभु [^3]क्तमर्धचर्वितं तस्मात्पतितैः स्रस्तैः । ऋषीति । ऋषिजनार्थं मुनिजनकृत एणकैर्हरिणै- र्विषाणशिखरैः शृङ्गप्रान्तैरुत्खन्यमानानि विविधानि विचित्राणि कन्दमूलानि यस्मिन् । अम्बुपूर्णेति । अम्बुभिर्जलैः पूर्णानि भृतानि करपुटा शुण्डाग्राणि । 'शुण्डाग्रं त्वस्य पुष्करम्' इति कोशः । येषामेतादृशैर्वनकरिभिररण्यहस्तिभिरापूर्यमाणानि भ्रियमाणानि विटपानां वृक्षाणामालवालकान्यावापस्थानकानि यस्मिन् । एतेन शाखामृगरिणगजानामपि बुद्धिपूर्वकयथोचितकार्यकर्तृत्वं सूचितम् । ऋषीति । ऋषिकुमारकैर्मुनिशिशुभिराकृष्यमाणानि वनवराहदंष्ट्रान्तराललग्नानि शालूकान्युत्प [^4]लानां कन्दा यस्मिन् । 'उत्पलानां तु शालूकम्' इति [^1]F. सिमसिमेत्येव कविसंमतः पाठः, आर्द्रवस्तुदहने 'सिमसिम' इति शब्द एवं कविमार्धुनुयातः । 'सिमसिमाकारि चक्षुस्तृतीयम्' इत्यनर्घराघवम् । [^2]F. तत्कालं वृक्षेभ्यो निष्कासितानीत्यर्थः । [^3]F. इभकलभैरर्धोपभुक्तानि च तानि पतितानि । इभकलभैः पूर्वम् अर्धमुपभुक्तानि पश्चात्पतितानीत्युवतोर्थः । [^4]F. पङ्कशूरणं शालूकं, तदेव वराहैर्भुज्यते, न जलजानाम् । [^१]G. सिमसिमायमान; सिमिसिमायमान; मिसिमिसायमान. [^२]G. कुशसमित्. [^३]G. नारिकेल. [^४]G. मण्डलनित. [^५]G. अलंकृत. [^६]G. भूमिभागम्. [^७]G. कराकृष्टयष्टि; कराकृष्ट. [^८]G. कलभक. [^९]G. बाहुलताविभूषणैः. चयैः कलापिभिः पक्षपुटपवनसंधुक्ष्यमाणमुनिहोमहुताशनम्, आरब्धामृतचरुचारुगन्धम्, अर्धपक्वपुरोडाश [^१]परिमला- मोदितम्, अविच्छिन्नाज्यधाराहुतिहुतभु [^२]ग्झङ्कारमुखरितम्, उपचर्यमाणातिथिवर्गम्, पूज्यमानपितृदैवतम्, [^३]अर्च्यमान- हरिहरपितामहम्, [^४]उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमान- यज्ञविद्यम्, [^५]आलोच्यमानधर्मशास्त्रम्, [^६]वाच्यमानविविध- पुस्तकम्, विचार्यमाणसकलशास्त्रार्थम् आरभ्यमाणपर्णशालम्, उपलिप्यमानाजिरम्, [^७]उपमृज्यमानोटजाभ्यन्तरम्, आबध्य- मानध्यानम्, साध्यमानमन्त्रम्, अभ्यस्यमानयोगम्, [^८]उपहूय- मानवनदेवताबलिम्, निर्वर्त्यमान[^९]मौञ्जमेखलम्, [^१०]क्षाल्य- मानवल्कलम्, उपसंगृह्यमाणसमिधम्, [^११]उपसंस्क्रियमाण- कृष्णाजिनम्, [^१२]गृह्यमाणगवेधुकम्, [^१३]शोष्यमाणपुष्कर- बीजम्, ग्रथ्यमानाक्षमालम्, न्यस्यमान [^१५]वेत्रदण्डम्, [^१६]सत्क्रियमाणपरिव्राजकम्, आपूर्यमाणकमण्डलुम्, अदृष्टपूर्वं कलिकालस्य, [ टि ]-- कोशः । उपजातेति । उपजातपरिचयैः संजातसंबन्धैः कलापिभिर्मयूरैः पक्षपुटपवनेन छदपुटानिलेन संधुक्ष्यमाणः प्रज्वाल्यमानो मुनीनां होमार्थं हुताशनो वह्निर्यस्मिन्स तम् । आरब्धेति । आरब्धो विहितो योऽमृतचर्वोदनस्तस्य चारु: मनोहरो गन्धो यस्मिन्स तम् । अर्धेति । अर्धपक्वो यः पुरोडाशः पूर्वोॽ स्तस्य परिभलो गन्धस्तेनामोदितं हर्षजननशीलम् । अवीति । अविच्छिन्नां त्रुटिता या आज्यधारा घृतधारां तयाहुतिर्हवनं तथा यो हुतभु [^1]ग्झङ्कारोऽग्निशब्दस्तेन मुखरितं वाचालितम् । उपचर्येति । उपचर्यमाणः पर्युपास्यमानोऽतिथिवर्गो यस्मिन् । पूज्येति । पूज्यमानानि पितृदैवतानि पितरो यस्मिंस्तम् । अर्च्येति । अर्च्यमानाः पूज्यमाना हरिः कृष्णः, हर ईश्वरः, पितामहः पितुः पिता ब्रह्मा, एते यस्मिन् । उद्दिश्येति । उद्दिश्यमान उद्देशपूर्वकं क्रिय- माणः श्राद्धकल्पः श्राद्धाचारो यस्मिन्स तम् । व्याख्येति । व्याख्यायमानार्थद्वारा निरूप्यमाणा यज्ञविद्या यागविद्या यस्मिन् स तम् । आलोच्येति । आलोच्यमानं मनसि विचार्यमाणं धर्मशास्त्रं स्मृत्यादिकं यस्मिन्स स तम् । वाच्येति । वाच्यमानानि परिभाष्यमाणानि विविधान्यनेकप्रकाराणि पुस्तकानि शास्त्राणि यस्मिन्स तम् । विचार्येति । विचार्यमाणो युक्त्या स्थाप्यमानः सकलशास्त्रार्थो यस्मिन्। आरभ्येति । आरम्यमाणा नवीना क्रियमाणा पर्णशालोटजो यस्मिन् । उपलीति । उपलिप्यमानानि गोमयादिनाजिराणि प्राङ्गणानि यस्मिन् । उपेति । उपमुज्यमानानि [^2]प्रसर्यमाणानि उटजाभ्यन्तराणि पर्णशालामध्यानि यस्मिन् । आवध्येति । आवध्यमानं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । साध्येति साध्यमानो होमादिना स्वायत्तीक्रियमाणो मन्त्रो देवाधिष्ठातृको यस्मिन् । अभ्यस्येति । अभ्यस्यमान उद्योगविषयीक्रियमाणो योगश्चित्तवृत्तिनिरोधो यस्मिन् । उपेति । उप [^3]हूयमान उपढौक्यमानो वनदेवतायै बलिर्यस्मिन् । निर्वर्त्येति । निर्वर्त्यमाना निष्पाद्यमाना मौञ्जमेखला यस्मिन् । क्षाल्येति । क्षाल्यमानानि वल्कलकानि यस्मिन् । उपेति । उपसंगृह्यमाणा उपादीयमानाः समिधो यस्मिन् । उपेति । उपसंस्क्रियमाण छगणादिना शुद्धीक्रियमाणं कृष्णाजिनं मृगचर्म यस्मिन् । गृह्येति । गृह्यमाणा गवेधुका धान्यविशेषः कन्दं वा यम्मिन् । शोभ्येति । शोष्यमाणानि शोषं नीयमानानि पुष्करबीजानि कमलफलानि यस्मिन् ग्रथ्येति । ग्रथ्यमाना अक्षमाला रुद्राक्षमाला यस्मिन् । न्यस्येति । न्यस्यमानः स्थाप्यमानो वेत्रदण्डं यस्मिन् । सदिति । सत्क्रि- यमाणाः परिव्राजका यस्मिन् । आपूर्येति । आपूर्यमाणानि जलेन भ्रियमाणा कमण्डलूनि यस्मिन् । अदृष्टेति । कलिकालस्य कलियुगस्यादृष्टपूर्वमनवलोकितपूर्वम् । कलिप्रवेशायोग्य [^1]F. हुंकार इत्येव पाठः।अग्नेर्हुंकार एव प्रसिद्धो न भूषणवज्झंकारः। [^2]F. प्रक्षाल्यमानानीत्यर्थ: । [^3]F. उपह्रियमाण इति पाठ एव समुचितः, बलि: उपह्रियते न तु उपहूयते । [^१]G. पुष्पपरिमल. [^२]G. हुंकार; उग्रहुंकार. [^३]G. अभ्यर्च्यमान. [^४]G. उपदिश्यमान. [^५]G. अवलोक्यमान. [^६]G. पठ्यमान. [^७]G. आपमृज्यमान. [^८]G. उपह्रियमाण. [^९]G. मुञ्ज. [^१०]G. प्रक्षाल्यमान. [^११]G. संस्क्रियमाण. [^१२]G. निगृह्यमाण [^१३]G. पोष्यमाण. [^१४]G. गृह्यमाणत्रिपुण्ड्रकपूर्यमाण. [^१५]G. त्रिदण्डकम्. [^१६]G. संस्क्रियमाण. अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवनवन्दितम्, असुरारिमिव प्रकटित [^१]नरहरिवराहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, [^२]मधुरोपवनमिव वलावलीढ- दर्पितधेनुकम्, उदयनमिवानन्दितवत्सकुलम्, किंपुरुषाधि- राज्यमिव मुनिजनगृहीत [^३]कलशाभिषिच्यमानद्रुमम् निदाघसमयावसानमिव [^४]प्रत्यासन्नजलप्रपातम्, जलघरसमयमिव वनगहनमध्यसुख [^५]सुप्तहरिम्, [^६]हनूमन्तमिव शिला [^७]शकलप्रहारसंचूर्णिताक्षास्थिसंचयम्, खाण्डवविनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम्, सुरभिविलेपनध- रमपि [^८]सतताविर्भूतहव्यधूमगन्धम्, [^९]मातङ्गकुलाध्यासित- मपि पवित्रम्, उल्लसितधूमकेतु [^१०]शतमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजप [ टि ]-- मित्यर्थः । एतेन सर्वथा पातकाभावो व्यज्यते । अपरीति । अनृतस्यासत्यस्यापरिचितमसंनिहितम् । अश्रुतेति । अनङ्गस्य कामस्याश्रुतपूर्वमनाकर्णितपूर्वम् । मदनोद्दीपकत्वाभावात् । अब्जेति । अब्जयोनिमिव ब्रह्माणमिव त्रिभुवनवन्दितं अभिवादि- तम् । पक्षे वन्दितं श्रेष्ठम् । असुरारीति । असुरारिर्विष्णुस्तद्वदिव प्रकटितानि नरो नरनारायणो हरिश्च नृहरिः । अथवा नरहरिनृसिंहो वराहश्च तेषां रूपाणि येन स तम् । पक्षे प्रकटितानि नरेभ्यो हरिवराहरूपाणि येन स [^1]तम् । सांख्येति । सांख्यं कापिलदर्शनं तदिव कपिलमुनिनाधिष्ठितमाश्रितम् । तत्प्रणीतत्वात् । पक्षे कपिलाभिर्गोभिरधिष्ठितम् । मधुरेति । मधुरा मधूपघ्नं तस्यो पवनमिव द्वादशवनेषु गर्भितं वनं तद्वदिव [^२]बलावलीढो बलवान्दर्पितो दर्पयुक्तो धेनुको दैत्यो यस्मिन् । पक्षे बलावलीढा: बलयुक्ता दर्पिता धेनवो गावो यस्मिन् । उदयनेति । उदयनं राजानमिवानन्दितं वत्सकुलं येन । वत्सोऽत्र राजा पाण्डवकुल- समुत्पन्नः । पक्षे वत्सस्तर्णकस्तस्य कुलं समुदायः । किंपुरुषेति । किंपुरुषः किंनरस्तस्याधिराज्यं प्रभुत्वं तदिव मुनिजनैर्गृहीता ये कलशास्तैरभिषिच्यमानो द्रुमोनाम राजा यस्मिन् । किंनराणां द्रुमो नाम राजाभूदिति प्रसिद्धिः । पक्षे द्रुमा वृक्षाः । निदाघेति । ग्रीष्मसमयावसानमिव शुक्रमासमिव प्रत्यासन्नः समीपस्थो जलप्रपातः प्रवर्ष यस्मिन् । पक्षे जलप्रपातो निर्झरः । जलधरेति । जलधरसमयमिव पर्जन्यकालमिव वनस्य पानीयस्य यद्गहनं गम्भीरं मध्यमभ्यन्तरप्रदेशस्तत्र सुखेन सुप्तो निद्रां प्राप्तो हरिर्विष्णुर्यस्मिन् । प्रावृषि विष्णुः समुद्रे शेत इति प्रसिद्धम् । पक्षे वनस्यारण्यस्य गहनानि गहराणि तेषु सुप्ता हरयः सिंहा यस्मिन् । हन्विति । हनूमन्तमिवाञ्जनीसुतमिव शिलाशकलप्रहारेण संचूर्णितोऽक्षनाम्नो रावणपुत्रस्यास्थिसंचयो येन स तम् । पक्षे संचूर्णितो योऽक्षो विभीतकस्तस्यास्थिसंचयो मध्यप्रदेशसमूहो यस्मिन् । खाण्डवेति । खाण्डवनाम्नो वनस्य यो विनाशस्तत्रोद्यत उद्योगवान्योऽर्जुनः फाल्गुनस्तमिव प्रारब्धं विहितमग्नि [^3]कार्यं देवसंतर्पणं यस्मिन् । पक्षेऽग्निकार्यं होमः । सुरभीति । सुरभि सुगन्धि यद्विलेपनमङ्गराग स्तद्धरमपिसततं निरन्तरमाविर्भूतः प्रकटितो हव्यं सुरेभ्यो दातव्यं तस्य धूमगन्धो यस्मिन्निति विरोधः । तत्परिहारपक्षे सुरभेर्गो: विलिप्यतेऽनेन भूरिति विलेपनं गोमयं यस्यामेतादृशी धरा भूर्यस्मिन्नित्यर्थः । मातङ्गेति । मातङ्गस्य यत्कुलं तेनाध्यासितमपि तदाश्रितमपि पवित्रं पावनमिति विरोधः । तत्परिहारस्तु मातङ्गकुलानि हस्तियूथानीत्यर्थात् । उल्लुसितेति । उल्हसित- मुल्लासं प्राप्तं धूमकेतुशतं यस्मिन्नेवंभूतमपि प्रशान्तोपद्रवमिति विरोधः । तत्परिहारस्तु धूमकेतवो वह्नय इत्यर्थात् । परीति । परि [^1]F. वस्तुतस्तु 'प्रकटितवराहनरसिंहरूपम्' इत्येव पाठः । प्रकटितानि वराहाः नराः सिंहारूपाणि मृगाव येन (सर्वेषाम- त्राऽवस्थानात) इति आश्रमपक्षे । प्रकटिते वराहनरसिंहयो रूपे येनेति हरिपक्षेऽर्थः । [^2]F. बलेन बलरामेण अवलीड: समापितो दर्पितो धेनुक- स्तन्नामासुरो यस्मिनीदृशं मथुराया उपवनमिवेति मूलपाठानुकूला व्याख्या । आश्रमपक्षेऽर्थस्तु स्फुटः । [^3]F. अग्नेः कार्यमभीष्टं तत्संतर्पणं येन । [^4]F. मातङ्गकुलेन चण्डालसमूहेन अध्यावसितमपि पवित्रमिति विरोध:। [^१]G. वराहनरसिंह. [^२]G. मधुरोपवनम्. [^३]G. जलकलशा. [^४]G. आसन्न. [^५]G. प्रसुप्त. [^६]G,. अनिलसुतम्. [^७]G. शकलसंचूर्णित. [^८]G. आविर्भूतधूमगन्धम्. [^९]G. मातङ्गक. [^१०]G. सहस्रम्. तिमण्डलसनाथमपि सदासंनिहिततरुगहनान्धकारम्, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् । यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षूरागः कोकिलेषु न परकलत्रेषु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेर्ष्याकलहेषु, स्तनस्पर्शो होमधेनुषु न [^१]कामिनीषु, पक्षपात: [^२]कृकवाकुषु न विद्याविवादेषु, भ्रा- न्तिरनल [^३]प्रदक्षिणासु न [^४]शास्त्रेषु, वसुसंकीर्तनं दिव्यकथासु न [^५]तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः क्रतुदीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन; मुखभङ्गविकारो जरया न धनाभिमानेन । यत्र [ टि ]-- पूर्णो न न्यून एवंविधो यो द्विजपतिश्चन्द्रस्तस्य मण्डलं तेन सनाथमपि सहितमपि सदा संनिहितमासन्नवर्तितरुगहनेष्वन्धकारं यस्मिन्निति विरोधः । तत्परिहारस्तु परिपूर्णा ज्ञानेन भृता ये द्विजपतयो ब्राह्मणास्तेषां मण्डलं समूहमित्यर्थात् । अतिरमणीय- मत्यन्तमनोहारि – अपरेति । अपरं भिन्नमिव ब्रह्मलोकं सुरलोकम् । अन्वयस्तु प्रागेवोक्तः । अथ पुनर्विरोधा [^1]भासाप्रदर्शनपूर्वकमाश्रममाहात्म्यं प्रदर्शयति – यत्र चेति । 'मूलानामधोगतिः' एतत्पर्यन्तं प्रघट्टकः । मलिनतेति । हविः सान्नाय्यं तस्य धूमेषु मलिनता मालिन्यम् । चरितेष्वाचारेषु न, कौलीन्यलक्षणं तदित्यर्थः । मुखराग इति । शुकेषु कीरेषु मुखरागो मुखारुण्यम् । कोपेष्विति निमित्तसप्तमी । कोपनैमित्तिकं न मुखे वैरूप्यमित्यर्थः । तीक्ष्णतेति । कुशाग्रेषु दर्भप्रान्तेषु तीक्ष्णता चर्मास्थिमेदनसमर्थः शक्तिविशेषः । स्वभावेषु प्रकृतिषु न क्रूरत्वमित्यर्थः । चञ्चलतेति । कदलीदलेषु रम्भापत्रेषु चञ्चलता तरलता । न मनःसु चेतःसु वृत्तिविशेषः । चक्षुरिति । कोकिलेषु [^2]परभृत्सु चक्षूरागो नेत्रयोरारुण्यम् । परकलत्रेषु परस्त्रीषु नाभिलाष इत्यर्थः । कण्ठग्रह इति । कमण्डलुषु कुण्डिकासु कण्ठग्रहः कण्ठे ग्रहणम् । सुरतेषु मैथुनेषु न कण्ठालिङ्गनम् । मुनीनां तदभावादिति भावः । मेखलेति । व्रतेषु नियमेषु मेखलाबन्धो मौञ्जीबन्धनम् । ईर्ष्याकलहेष्वसूयाविग्रहेषु न शृङ्ख- लाबन्धनम् । स्तनेति । होमधेनुषु होमनैमित्तिकधेनुषु स्तनस्पर्शो दोहनम् । कामिनीषु ललनासु न कुचमर्दनम् । पक्षपात इति । कृकवाकुषु कुक्कुटेषु पक्षपातः पक्षाणां पतनम् । न विद्याविवादेषु शास्त्रकथासु सोपाधिकोऽङ्गीकारः । अन्यस्य पक्षिणस्तथा युद्धे पक्षपातो नास्तीति कुक्कुटग्रहणम् । भ्रान्तिरिति ।अनल- प्रदक्षिणासु भ्रान्तिः परिवृत्तिः । शास्त्रेषु न भ्रान्तिर्मिथ्याज्ञानम् । वस्विति । दिव्यकथासु भारतकथासु वसवो गणदेवाः पितृगणा वा तेषां संकीर्तनं सम्यक्प्रकारेण कथनम् । न तृष्णासु लिप्सासु वसु द्रव्यं तस्य संकीर्तनं प्रशंसनम् । गणनेति । रुद्राक्षवलयेषु रुद्राक्षस्मरण्यां गणना संख्या । न शरीरेषु देहेषु गणनाऽऽदरः । अत्यन्तनिस्पृहत्वात्तत्र निरपेक्षेत्यर्थः । मुनीति । बवयोरैक्यान्मुनीनां वालाः केशास्तेषां नाशो ध्वंसः क्रतुदीक्षया यज्ञदीक्षया । न मृत्युना बालनाशः शिशुनाशः । पुरुषायुषजीवित्वात्तेषाम् । रामेति । रामो दाशरथिस्तस्मिन्ननुराग आराध्यत्वेन ज्ञानं रामायणेन रामचरित्रेण । तद्ग्रन्थश्रवणेन तदुपरि रागाधिक्यमित्यर्थः । न तु यौवनेन तारुण्येन रामानुरागो रामाः स्त्रियस्तास्वनुरागो विषयेच्छा । मुखेति । मुखे भङ्गविकारस्त्रिविलीविकृतिर्जरया वार्धक्येन । धनाभिमानेन द्रव्यस्मयेन मुखभङ्ग आस्यमोटनादिविकृतिर्नेत्यर्थः । यत्र चेति । यस्मिन्स्थले महाभारते शास्त्रे शकुनिवधो दुर्यो [^3]धनराज्ञो [^1]F. परिसंख्यालंकारेत्युचितम् । [^2]F. परभृतेषु, काकैः पोषितस्वात् । [^3]F. दुर्योधनराजस्येत्याशयः । [^१]G. वनितासु. [^२]G. कुक्कुटेषु. [^३]G. प्रदक्षिणेषु. [^४]G. शास्त्रार्थेषु. [^५]G. धनतृष्णासु. १२ का० च महाभारते शकुनि [^1]वध:, पुराणे वायुप्रलपितम्, वयः[^१]परि णामेन द्विजपतनम्, उपवनचन्दनेषु जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां [^२]गीतश्रवणव्यसनम्, [^३]शिखण्डिनां [^४]नृत्यपक्षपातः, [^५]भुजंगमानां भोगः, कपीनां श्रीफलाभि- लाषः, मूलानामधोगतिः । तस्य चैवंविधस्य [^६]मध्यभागमण्डलमलंकुर्वाणस्या [^७]लक्तकालोहित [^८]प [^९]ल्लवस्य मुनिजना [^१०]लम्बितकृष्णाजिन [^११]जलकरकसनाथशाखस्य तापस [^१२]कुमारिकाभिरालवालदत्तपीत [^१३]पिष्टपञ्चाङ्गुलस्य हरिणशिशुभि: [^१४]पीयमा [^१५]नालवालकसलिलस्य मुनिकुमारकाबद्धकुशचीरदाम्नो हरितगोमयोप [^१६]लेपनविविक्त [^१७]तलस्य तत्क्षण [^१८]कृतकुसुमोपहाररमणीयस्य नातिमहतः परिमण्डलतया विस्तीर्णावकाशस्य [ टि ]-- मातुलस्य विनाशः श्रूयते । न तत्र शकुनिवधः पक्षिवधः । पुराणेति । पुराण इतिहासादौ वायोर्षायुदेवतायाः प्रलपितं जल्पितम्, श्रूयते इति शेषः । नतु वायुना वायुविकारेणोन्मादादिना प्रलपितं यथाकथंचिज्जल्पितं यत्र नाभूत् । वय इति । वयःपरिणामे- न वार्धकेन द्विजानां दन्तानां पतनं पातः । न तु द्विजानां ब्राह्मणानां पतनं स्वाचाराशः । यत्र नेति सर्वत्रानुषङ्गः । उपेति । उपवनं समीपवनं तत्र चन्दनतरवस्तेषु जाड्यं शैत्यम् । न त्वाश्रमवर्तिमुनि- जनेषु जाड्यं प्रज्ञाहीनत्वम् । अग्नीनामिति । अग्नीनां वह्नीनां भूतिमत्त्वं भस्मवत्त्वम् । न तु मुनीनां भूतिः संपत्तद्वत्त्वम् । एणकेति । एणकानां मृगाणां गीतं गानं तस्य श्रवणं तत्र व्यसनमासक्तिः । न मुनीनां तच्छ्रवणाभिलाषातिरेकः । शिखण्डीति । शिखण्डिनां मयूराणां नृत्ये ताण्डवे पक्षपातश्छदपतनम् । न तु मुनीनां नृत्यविषये पक्षपातोऽङ्गीकारः । भुजंगमेति । भुजंगमानां सर्पाणां भोगः शरीरम् । 'भोगोऽहिकायः' इति कोशः । न तु मुनीनां भोगः स्त्र्यादिजनितं सुखम् । कपीनामिति । कपीनां वानराणां श्रीफला- भिलाषः श्रीफलानि बिल्वीफलानि तेष्वभिलाषो वाञ्छाविशेषः । न तु मुनीनां श्रीलक्ष्मीस्तस्याः फलानि गृहकारापणादीनि तत्राभिलाष- स्तीव्राध्यावसायः । मूलानामिति । मूलानां जटानामधोगतिरधः संयोगः । न त्वाश्रमवर्तिमुनीनामधोगतिर्नरकपातः । तस्येति । आश्रमस्यैवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य तस्य यो मध्यभागस्तस्य [^2]मण्डलं वर्तुलप्रदेशस्तदलंकुर्वाणस्य रक्ताशोकतरोः कङ्केलिवृक्षस्याधरश्छायायां उपविष्टं निषण्णं भगवन्तं जाबालिं जाबालिमुनिमपश्यमिति दूरेणान्वयः । अथ जाबालिं वर्णयति – तत्र षष्ठ्यन्तानि तरोर्विशेषणानि द्वितीयान्तानि मुनिविशेषणानीति स्वयमूहनीयम् । अलक्तेति । अलक्तकवद्या- वकवल्लोहिता रक्ताः पल्लवा यस्य स तथा तस्य । मुनीति । मुनिजनैस्तापसजनैरालम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृग- चर्माणि जलकरकाः पात्रविशेषास्तैः सनाथा सहकृता शाखा यस्य स तथा तस्य । तापसेति। तापसकुमारिकाभिर्मुनिकन्याभिरालवाले मूलप्रदेशे दत्ताः पीतपिष्टस्य हरिद्राचूर्णस्य पञ्चाङ्गुलयो हस्तबिम्बा यस्मिन्स तथा तस्य । हरिणेति । हरिणशिशुभिर्मृगबालकैः पीयगानमास्वाद्यमानमालवालकस्य सलिलं यस्य स तथा तस्य । मुनीति । मुनिकुमारकैराबद्धं कुशचीरदाम यस्य स तथा तस्य । हरितेति । हरितमशुष्कं यद्गोमयं छगणं तेनोपलेपनं तेन [^1]F. 'मत्र च महाभारते शकुनिवधः' इत्यारभ्य परिसंख्याया निषेधांशो व्यङ्ग्य इति बोध्यम्। [^2]F. 'मध्यभागमककुर्वाणस्य' इत्येव पाठः समुचितः । [^१]G. परिणामे. [^२]G. गीतव्यसनम्. [^३]G. शिखण्डिनीनाम्. [^४]G. गीतनृत्तपक्ष. [^५]G. भुजगानाम्; भुजंगानाम्. [^६]G. मध्यभागम्. [^७]G. अलक्तक. [^८]G. आलोहित. [^९]G. लोलपल्लवस्य. [^१०]G. अवलम्बित. [^११]G. करङ्क. [^१२]G. कुमारिकाभिर्दत्त; कन्यकाभिर्मूलभागदत्त. [^१३]G. विष्टातकानेक. [^१४]G. आपीयमान; परिपीयमान. [^१५]G. आलवाल. [^१६]G. उपलिप्त. [^१७]G. भूतलस्य. [^१८]G. रचित. . रक्ताशोकतरोरधश्छायायामुपविष्टम्, [^१]उग्रतपोभि र्भुवनमिव सागरैः, कनकगिरिमिव [^२]कुलपर्वतैः, क्रतुमिव वै [^३]तानिक- वह्निभिः, कल्पान्तदिवसमिव रविभिः, कालमिव कल्पैः समन्तान्महर्षिभिः परिवृतम्, उग्र [^४]शा [^1]पकम्पितदेहया प्रणयिन्येव विहितकेशग्रहया क्रुद्धयेव कृतभूभङ्गया मत्तये- वाकुलितगमनया प्रसाधितयेव प्रकटिततिलकया जरया गृहीतव्रतयेव भस्मधवलया धवलीकृतविग्रहम्, आयामिनीभिः पलितपाण्डुराभि [^५]स्तपसा विजित्य मुनिजनमखिलं धर्मपताकाभिरिवो [^६]च्छ्रिताभिरमरलोकमारोढुं [^७]पुण्यरज्जु- भिरिवोपसंगृहीताभिरतिदूरप्रवृद्धस्य [^८]पुण्य [ टि ]-- विविक्तं पूतं तलमधोभागो यस्य स तथा तस्य । तदिति । तत्क्षणे तदात्वे कृतो विहितो यः कुसुमोपहारः पुष्पढौकनं तेन रमणीयस्य मनोहरस्य । नातिमहतो नातिदीर्घस्य परिमण्डलं समन्तात्परिमाणं तस्य भावस्तत्ता तयात एव दीर्घस्य तालादेन ( ? ) । तथा परिमण्डलं विस्तीर्णोऽवकाशोऽभ्यन्तरप्रदेशो यस्य स तथा तस्य । उग्रेति । उग्रतपोभिस्तीक्ष्णतपोभिर्महर्षिभिः समन्तात्परिवृतं परिवेष्टितम् । किमिव । भुवनमिव विष्टपमिव सागरैः समुद्रैः । कनकगिरिमिव सुवर्णाद्रिमिव कुलपर्वतैः कुलाचलैः । क्रतुमिव यज्ञमिव वैतानिकवह्नयो दक्षिणाग्निगार्हपत्याहवनीयास्तैः । कल्पान्तदिवसमिव युगान्तवासरमिव रविभिः सूर्यैः । कालमिव समयमिव कल्पैः कालावयवैः । धवलीकृतेति । जरया विस्रसया धवलीकृतः शुभ्रीकृतो विग्रहः शरीरं यस्य स तम् । अथ च जराया विशेषणानि - उग्रेति । उग्रः कठिनो यः शापस्तेन कम्पितश्चालितो देहो यया सा तया । प्रणयिन्येवेति । प्रणयिन्येव मनस्विन्येव विहितः केशग्रहो यया सा तया । वल्लभापि रतिकलहे केशग्रहं करोति । इयमपि केशे लग्नेत्यर्थः । क्रुद्धयेवेति । क्रुद्धयेव कोपा- विष्टयेव कृतो भ्रूभङ्गो या सा तया । क्रुद्धापि भ्रूभङ्गं करोति तथेयं कृतवतीत्यर्थः । मत्तयेवेति । मत्तयेव शौण्डयेव आकुलितं गमनं गतिर्यस्याः सा तया । मत्तापि स्खलद्गतिर्भवति तथेयमपि । प्रसाधितयेव भूषितयेव प्रकटितमाविष्कृतं तिलकं यया सा तया । भूषितापि स्त्री सतिलका भवति । अस्या अपि देहे [^2]तिलकाः प्रजायन्त इति प्रसिद्धिः । गृहीतेति । गृहीतं स्वीकृतं व्रतं यया सा तयेवात एव भस्मधवलया भस्म भूतिस्तद्वद्धवलया शुभ्रया । पुनः किंविशिष्टम् । जटाभिः सटाभिरुपशोभितमलंकृतम् । अथ जटा विशिनष्टि - आयामिनीभिर्विस्तारवतीभिः । पलितेति । पलितं पाण्डुरः कचस्तद्वत्पाण्डुराभिः श्वेताभिः । तपसेति । तपसाखिलं समग्र मुनिजनमृषिजनं विजित्य धर्मपताकाभिरिव धर्मस्य तपोमयस्य जयध्वजाभिरिवोच्छ्रिताभिरूर्ध्वीकृताभिरिव । अमरेति । अमरलोकं स्वर्लोकमारोढुमारोहणं कर्तुं पुण्यरज्जुभिरिव पवित्ररश्मिभिरिवोपसंगृहीताभिः स्वीकृताभिः । अतीति । अतिदूरं प्रवृद्धस्यातिदूरं वृद्धिं गतस्य पुण्यतरोः श्रेयस्तरोरुद्गताभिः प्रादुर्भूताभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव । [^1]F. 'उग्रशापभीतयेव कम्पितदेहया' इत्येव पाठः । जाबालेर्य उग्रशाप: तस्माद् भीता ( जरा ), अत एव सा कम्पितदेहा (कम्पितो देहो यस्याः, या हि भीता भवति तस्या देहकम्पो भवति ), वस्तुतस्तु कम्पितो देहो ( जाबालेः ) यया । जरसा यः स्वाभाविको देहकम्पस्तत्र शापभयहेतुकत्वमुत्प्रेक्ष्यत इत्युप्रेक्षालंकारः । [^2]F. कृष्णवर्णचिह्नानि, 'तिल' इति भाषा । [^3]F. या गृहीतव्रता भवति सा भस्मधारणेन धवला भवति । इयं तु भस्मवद्धवला, इति व्याख्योचिता । [^4]F. पलितं केशेषु जराजनिता शुक्लता तया पाण्डुराभिः । [^१]G. अत्युग्र. [^२]G. कुलाच:. [^३]G. वैतान; वैतानक. [^४]G. शापभियेव; शापभीतयेव. [^५]G. तपोभिः. [^६]G. उपार्जिताभि. [^७]G. पुण्यै रज्जुभिः; पुण्यरजोभिः. [^८]G. तपस्तरोः. तरोः कुसुममञ्जरीभिरिवोद्गताभिर्जटाभि [^१]रुपशोभितम्, उपरचितभस्मत्रिपुण्ड्रकेण तिर्यक्प्रवृत्तत्रि [^२]पथगास्रोत- [^३]स्त्रयेण हिमगिरिशिला [^४]तलेनेव ललाट [^५]फलके- नोपेतम्, अधोमुखचन्द्रकलाकाराभ्यामवलम्बितवलिशिथिलाभ्यां भ्रूलताभ्यामवष्टभ्यमानदृष्टिम्, अनवरत [^६]मन्त्राक्षराभ्यासविवृताधरपुटतया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रियवृत्तिभिरिव [^७]करुणारसप्रवाहैरिव दशनमयूखै- र्धवलितपुरोभागम्, उद्वमदमलगङ्गाप्रवाहमिव जह्नुम्,[^८]अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टर्मूर्ति [^९]मद्भिः शापाक्षरैरिव सदा मुख [^१०]भागसंनिहितैः परिस्फुरद्भिरलिभिरविरहितम्, अतिकृशतया निम्नतरगण्डगत [^११]मुन्नततरहनुघोण- माकरालतारकमवशीर्यमाणविरलनयनपक्ष्ममालमुद्गवदीर्घरोम- रुद्धश्रवणविवरमानाभि [^१२]लम्बकूर्चकलापमाननमादधानम्, अति [ टि ] -- ललाटेति । ललाटफलकेन भालपट्टकेनोपेतं सहितम् । कीदृशेन । उपेति । उपरचितानि कृतानि भस्मना त्रीणि पुण्ड्रकाणि त्रिरेखामयतिलकानि यस्मिन् । केनेव । तिर्यगिति । त्रिपथगाया एकमुपर्येकं तिर्यगेकमधःस्रोतः । इदमभिनवं तिर्यक्प्रवृत्तं स्रोतस्त्रयमेव यस्मिन्नेवंभूतं तेन हिमगिरिशिलातलेनेव । भूलतेति । भूलताभ्यामवष्टभ्यमानावलम्ब्यमाना दृष्टिर्यस्य स तम् । कीदृशाभ्याम् । अधोमुखी या चन्द्रकलार्धचन्द्रस्तद्वदाकारो ययोस्ताभ्याम् । अवलम्बितेति । वार्धक्याद [^1]वलम्बिता आश्रिता या वलयस्त्रिवल्यस्ताभिः शिथिलाभ्यां श्लथाभ्याम् । पुनस्तमेव विशिनष्टि – अनवरतेत्यादि । अनवरतं यो मन्त्राक्षराभ्यासस्तेन विवृतो विदीर्णो योऽधरपुट ओष्ठपुटस्तस्य भावस्तत्ता तया निष्पतद्भिः स्रवद्भिरतिशुचिभिरतिपवित्रैः सत्यप्ररोहैरिव सत्याङ्कुरैरिव । स्वच्छेति । स्वच्छा निर्मला या इन्द्रियवृत्तय- स्ताभिरिव । करुणेति । शृङ्गारवत्करुणारसोऽपि विशदस्तस्य प्रवाहैः स्रोतोभिरिव । एवंविधैर्दशनमयूखै रदनदीप्तिभिर्धवलितः शुभ्रीकृतः पुरोभागो यस्य स तम् । श्वेतत्वसाधर्म्येण श्वेतप्रवाह- प्रकटनसाधर्म्येण च मुनेरुपमानमाह - उद्वमदिति । उद्वमन्बहि- रागच्छन्नमलो निर्मलो गङ्गाप्रवाहो जाह्नवीरयो यस्मात्तमेवंभूतं जह्नुमिव । कथा चात्र – भगीरथपथेन प्रवृत्ता गङ्गा कलकलशब्दं कुर्वती शब्दकण्टकानि ध्यानानि भवन्तीति रोषात् महर्षिणा जह्नु- ना पीता । भगीरथाराधनाच्च पुनर्जानुभ्यामुद्गीर्णा । ततो जाह्नवी- त्युच्यते मुखनिश्वासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि - अनवरतेत्यादि । अनवरतं यः सोमपानस्योद्गारस्तेन सुगन्धी यो निश्वासः पवनस्तेनावकृष्टैराकर्षितैर्मूर्तिमद्भिदेहवद्भिः शापाक्षरैरिव शापवर्णैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिम- प्रदेशस्तत्र संनिहितैः पार्श्वगैः परिस्फुरद्भिर्दीप्यमानैरलिभि- र्भ्रमरैरविरहितमवियुक्तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि— अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगर्तः कपोलतः परो भागो यस्य तत् । उन्नतेति । उन्नत- तरेऽत्युच्चे हनु चिबुकं घोणा नासा च यस्मिंस्तत् । अतिवृद्ध- लक्षणमेतत् । आकरालेति । आकराले [^2]षद्वक्रा तारका कनीनिका यस्य तत् । अवेति । अवशीर्यमाणा क्षीयमाणा विरलानिबिडा नयनयोर्नेत्रयोः पक्ष्ममाला रोमराजिर्यस्मिंस्तत् । उद्गतेति । उद्गतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोर्विवरं रन्ध्रं यस्मिंस्तत् । आनाभीति । आनाभि नाभिपर्यन्तं लम्बः प्रलम्ब: कूर्चकलाप आस्यलोमसमूहो यस्मि [^1]F. अवलम्बिता शिथिलतया निन्ने पतिता या वलिः शिथिलं चर्म ( 'वलिश्चामरदण्डे च जरया श्लथचर्मणि' इति विश्व:) तथा शिथिलाभ्याम् [ वलिशैथिल्यान्नयनोपरि पतिताभ्याम्, इत्यर्थः ] । [^2]F. व्यात्त इत्यर्थः । [^3]F. आकराले तेजस्वितया अतीवोग्रे तारके नयनताराद्वयं यस्मिन् इति व्याख्योचिता । [^१]G. उपशोभमानम्. [^२]G. गङ्गा. [^३]G. त्रयेणेव. [^४]G. तलेन. [^५]G. पट्टेन. [^६]G. मन्त्राभ्यास. [^७]G. विद्यागुणैरिव करुणा; विद्याभिरिव करुणा. [^८]G. अविरत; अविरल. [^९]G. मूर्तिमद्भिरिव शापाक्षरै:. [^१०]G. संनिविष्टै:. [^११]G. समुन्नत. [^१२]G. लम्बित. चपलाना [^१]मिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवातताभिः कण्ठनाडीभिर्निरन्तराव [^२]नद्धकन्थरं [^३]समुन्नत विरला- स्थिपञ्जरमंसा [^४]वलम्बि [^५]यज्ञोपवीतं [^६]वायुवशजनित- तनुतरंगभङ्गमुत्प्लवमान [^८]मृणालमिव मन्दाकिनीप्रवाह- मकलुषमङ्ग मुद्वहन्तम्, अमलस्फटिक [^८]शकलघटित- मक्षवलय [^९]मत्युज्ज्वलस्थूलमुक्ताफलप्रथितं सरस्वतीहारमिव चलदङ्गुलिविवरगतमावर्तयन्तम्, अनवरत [^१०]भ्रमिततारकाचक्रमपरमिव ध्रुवम्, [^११]उन्नमता शिराजालफेन जरत्कल्प- तरुमिव परिणतलतासंचयेन निरन्तरनिचितम्, [^१२]अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस [ टि ]-- स्तत् । अतीति । अतिचपलानामतिपारिप्लवाना- मिन्द्रियाश्वानां करणतुरंगमानामन्तर्मध्ये संयमनरज्जुभि [^1]रिव नियन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलस्नायुभिरिव निरन्तरं अवनद्धा संबद्धा कन्धरा ग्रीवा यस्मिन्नेवंविध- मकलुषं निर्मलमङ्गं शरीरमुद्वहन्तं धारयन्तम् । समुन्नतेति । समुन्नतमुच्चं विरलं पेलवमस्थिपञ्जरं कङ्कालं यस्मिंस्तत्तथा । अंसेति । अंसावलम्बि भुजान्तरावलम्बि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वायुवशेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादिता- स्तनवः सूक्ष्मास्तरंगभङ्गाः कल्लोलविघटनानि यस्मिन् । उत्प्लवेति । उत्प्राबल्येन प्लवमानानि वहमानानि मृणालानि बिसानि यस्मिन्नेवंभूतं मन्दाकिनीप्रवाहमिव गङ्गौघ [^2]मिव । अत्र तरंगास्थ्नो: श्वेतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधर्म्यमिति भावः । किं कुर्वन्तम् । अक्षवलयं रुद्राक्षमाला- मावर्तयन्तं परिवर्तयन्तम् । अथाक्षवलयस्य विशेषणे –अमलेति । अमलानि विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युज्ज्वलेति । अत्युज्ज्वलान्यतिविशदानि स्थूलानि यानि मुक्ताफलानि मौक्तिकानि तैर्मथितं गुम्फितं सरस्वतीहारमिव सरस्वत्या भारत्या हारमिव मुक्ताकलापमिव । अत्र स्फटिकाक्ष- वलयस्यातिनिर्मलत्वान्मुक्ताफलोपमानम् । चलेति । चलन्त्यो या अङ्गुलयस्तासां विवरं रन्ध्रं तत्र गतं प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचक्रं नक्षत्रसमूहो यस्मिन्नेवंभूतमपरं द्वितीयं ध्रुवमिवोत्तानपादजमिव । अत्र स्फाटिकाक्ष- वलयतारकाणां शुचिर्तुलत्वमेव साधर्म्यम् । उपविष्टस्य मुनेः स्थिरत्वाद्भुवसाधर्म्यमिति । पुनर्विशिनष्टि - उन्नमतेति । उन्नमतो- परि स्फुरता शिराजालकेन शिरा धमनस्तासां जालकेन समूहेन निरन्तरं निचितं व्याप्तम् । उच्छूनस्नायुसमूहेनात्यन्तव्याप्तविग्रहमित्यर्थः । केन कमिव । परिणताः पाकं गता या लता वल्लय- स्तासां संचयेन समूहेन । निचितमिति शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा । अमलेनेति । अमलेन निर्मलेन दुकूल- वल्कलेन । दुकूलेन सदृशं वल्कलमिति मध्यमपदलोपी समासः । तेन संच्छादितमावृतम् । केनेव । अद्वितीयेनापूर्वेण जराजालकेनेव विस्रसासमूहेनेवेत्युत्प्रेक्षा । दुकूलवल्कलं विशिनष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्योत्स्नाभिरिवामृतफेनैरिव पीयूषडिण्डीरैरिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहास्त एव तन्तवः सूत्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवज्जलं तेन क्षालितं धौतमत एव शुचिना निर्मलेन । पुनस्तमेव मुनिं विशिनष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलुं [^1]F. 'इव' इत्यसंबद्धमेवात्र । [^2]F. अत्र तादृशकुटिल - तनु- तरङ्गसदृशम् अस्थिपञ्जरम्, जलोपरिप्लवमाननवमृणालसदृशं च यज्ञोपवीतमिति मन्दाकिनी- प्रवाहेण सादृश्यम् । उपमा । [^3]F. 'द्वितीयेनेव इत्येव पाठ उचितः । एकेन जराजालकेन तु जाबालिराच्छादित एव, वल्कलरूपेण द्वितीयेन जराजालकेन स आच्छादित इति वक्तुरभिप्रायः । [^१]G. इन्द्रियाणाम्. [^२]G. संबद्ध. [^३]G. उन्नत. [^४]G. अवलम्बित; आलम्बित. [^५]G. धवलयज्ञोपवीतम्. [^६]G. अनिल. [^७]G. नवमृणाल. [^८]G. घटिताक्ष. [^९]G. उज्ज्वल. [^१०]G. तारक. [^११]G. उल्लसता. [^१२]G. अमलैः. सरोजल [^१]क्षालितशुचिना दुकूलवल्कले [^२]नाद्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नवर्तिना मन्दाकिनीसलिलपूर्णेन त्रिदण्डोपविष्टेन [^३]स्फाटिककमण्डलुना विकच [^४]पुण्डरीकराशिमिव राजहंसेनोपशोभमानम्, [^५]स्थैर्येणाचलानां गाम्भी- र्येण सागराणां तेजसा सवितुः प्रशमेन तुषाररश्मेर्निर्मल- तयाम्बरतलस्य संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्त [^६]द्विजाधिपत्यम्, कमलासनमिवाश्रमगुरुम्, जरचन्दन- तरुमिव [^७]भुजंगनिर्मोकधवलजटाकुलम्, प्रशस्त [^८]वारण- पतिमिव [^९]प्रलम्बकर्णवालम्, बृहस्पतिमिव जन्मसंवर्धितकचम्, दिवसमिवोद्यदर्कबिम्बभास्वरमुखम्, शरत्कालमिव क्षीणवर्षम्, शन्तनुमिव प्रियसत्यव्रतम्, अम्बिकाकरतल [ टि ]-- विशिनष्टि -- आसन्नेति । आसन्नवर्तिना समीपस्थेन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्याः सलिलं तेन पूर्णेन भृतेन । त्रिदण्डेति । त्रिदण्डस्त्रिपादिका तत्रोपविष्टेन स्थापितेन । मुनेर्धवलीकृतविग्रहवत्त्ववर्णनात्कमण्डलोश्च शुभ्रत्ववर्णनात्तदुप- मानमाह — विकचेति । राजहंसेन विकचपुण्डरीकराशिमिव स्मितसिताम्भोजसमूहमिवेत्युत्प्रेक्षा । पुनर्मुनिं प्रकारान्तरेण विशिनष्टि - स्थैर्येति । स्थैर्ये स्थिरतयाचलानां पर् तानाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां समुद्राणाम्, तेजसा प्रतापेन सवितुः सूर्यस्य, प्रशमेनोपशमेन तुषाररश्मेश्चन्द्रस्य, निर्मलतया स्वच्छतयाम्बरतलस्य संविभागमिव स्वकीयवस्तुनः परेभ्यः किंचिद्विभज्य प्रदानमिव कुर्वाणं विदधानम् । अचलादीनां स्थैर्यादयो गुणा अनेनैव संविभागीकृताः सन्तीति भावः । अथान्यसादृश्यद्वारा तमेव विशेषयन्नाह – वैनतेयमिति । वैनतेयो गरुडस्तद्वदिव स्वस्यात्मीयस्य यः प्रभावो माहात्म्यं तेनोपात्तमङ्गीकृतं द्विजेषु ब्राह्मणेष्वाधिपत्यं प्रभुत्वं येन स तम् । पक्षे द्विजेषु पतत्रिष्वाधिपत्यं मुख्यत्वं येनेति विग्रहः । कमलेति । कमलासनो ब्रह्मा तमिवाश्रमो मुनिस्थानं तत्र गुरुं श्रेष्ठम् । पक्ष आश्रमा ब्रह्मचारिप्रभृतयस्तेषां गुरुं प्रवर्तकम् । वर्णाश्रमाच ब्रह्मणैव प्रवर्तिताः । जरदिति । पुरातने परिमलविशेषाधिक्याजरद्विशिष्टचन्दनतरुग्रहणम् । तत्रैव भुजंगबाहुल्यम् । अत एव भुजंगस्य यो निर्मोकः कञ्चुकस्तद्वद्धबला या जटा तयाकुलं व्याप्तम् । पक्षे निर्मोक एव जटेति विग्रहः । शेषं पूर्ववत् । प्रशस्तेति । प्रशस्तः सर्वलक्षणोपेतो वारणपतिर्गजनायकस्तद्वदिव प्रलम्बाः कर्णयोर्बालाः केशा यस्येति विग्रहः । पक्षे प्रलम्बौ लम्बमानौ कर्णौ श्रवणौ वालश्च वालधिर्यस्मिन् । बृहस्पतीति । बृहस्पतिः सुरगुरुस्तमिव आजन्म जन्म मर्यादीकृत्य संवर्धिता वृद्धिं प्रापिताः केचाः केशा येनेति स तम् । पक्षे कचनामा बृहस्पतेः पुत्र इति पुराणे प्रसिद्धम् । शेषं पूर्ववत् । दिवसेति । दिवसो घस्रस्तद्वदिवोद्यदुद्गच्छद्यदर्कबिम्बं सूर्यमण्डलं तद्वद्भाखरं दीप्तं मुखमाननं यस्य स तम् । पक्ष उद्यदर्कबिम्बेन भास्वरं मुखमादिर्यस्येति विग्रहः । तन्विति । शरत्कालो घनात्ययसमयस्तद्वदिव क्षीणानि गतानि वर्षाणि हायनानि यस्य स तम् । पक्षे क्षीणं स्वल्पत्वं प्राप्तं वर्ष वृष्टिर्यस्मिन् । शन्तन्विति । शन्तनुभष्मपिता तद्वदिव प्रियमिष्टं सत्यमेव व्रतं यस्य स तम् । पक्षे प्रियो बल्लभः सत्यव्रतो भीष्मो यस्येति विग्रहः । कथा चात्र - श्रीमन्महाभारतगतानुसंधेया । अम्बिकेति । अम्बिका पार्वती तस्याः करतलं पाणितलं तद्वदिव रुद्राक्षः फलविशेषस्तद्वलयस्य कटकस्य यद्रहणं तत्र निपुणम् । सर्वदा तदावर्तनेन कृताभ्यासमित्यर्थः । पक्षे रुद्र ईश्वरस्तस्याक्षमिन्द्रियं लोचनं वर्तुत्वात्तदेव यद्वलयं टिप्प० -- 1 'रुद्राक्षग्रहणनिपुणम्' इत्येव पाठः । अम्बिकाकरतलपक्षे - 'रुद्रस्य अक्षिणी रुद्राक्षे ( शिव-नयने ) तयोर्ब्रहणे पिधाने निपुणम्' इत्यर्थे वलयपदस्य वस्तुतः स्वारस्याभावात् । पाठा०- -१ क्षालन. २ द्वितीयेन. ३ स्फटिक. ४ कमल, ५ अवनेः स्थैर्येण सागराणां गाम्भीर्येण ६ सकलद्विजा, ७ भुजग. ८. वारणमिव ९ कर्णतालम्. मिव [^१]रुद्राक्षवलयग्रहणनिपुणम्, शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम्, [^२]वडवानलमिव [^३]संततपयो[^४]भक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम्, पशुपतिमिव भस्मपाण्डु- रोमाश्लिष्टशरीरं भगवन्तं जाबालिमपश्यम् । अवलोक्य चाहमचिन्तयम्- 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महाप्रभावतया भयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुम- [^५]निपतितानलचटुलवृत्तिनित्यमसहिष्णु तपस्विनां [^६]तनु- तपसामपि तेजः प्रकृत्या [^७]भवति । किमुत सकल [^८]भु- वनतलवन्दितचरणानामनवरत [^९]तपःक्षपितमलानां [^१०]करतला [^११]मलकवदखिलं जगदालोकयतां दिव्येन चक्षुषा [ टि ]--तस्य ग्रहणं पिधानं तत्र निपुणं चतुरम् । रते चन्द्रकला- प्रकाशस्यानिवार्यत्वेन लज्जावशात्पार्वत्या तृतीयं लोचनं करतलेन पिहितमिति भावः । शिशिरेति । शिशिरसमयः शीतकालस्तस्य यः सूर्यो भगवांस्तद्वदिव कृतो विहित उत्तरासङ्गो बृह [^1]तिका येन स तम् । पक्ष उत्तरस्या दिशः सङ्गः संश्लेषो येनेति विग्रहः । बडवेति । बडवानल और्वस्तमिव संततं निरन्तरं पय एव क्षीरमेव भक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं यस्येति भावः । शून्येति । शून्यमुद्वसितं यन्नगरं पुरं तद्वदिव । शून्ये धनिनां निवासायोग्यत्वाद्दीनादिग्रहणम् । तत्र दीनान्यशोभावन्त्यना- थान्यप्रभूणि विपन्नान्यविद्य [^2]मानभावानि शरणानि गृहाणि यत्र नगर इति । अन्यत्र दीना दुःखाभिभूता अनाथाः स्वामिरहिता विपन्ना इव विपन्ना मृतकल्पा व्याध्यादिपरिभूतास्तेषां शरणं परित्राणहेतुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमिव भस्म- वत्पाण्डुराण्यतिवार्धक्याच्छ्वेतानि रोमाणि तैराश्लिष्टं शरीरं यस्य तम् । पक्षे भस्मवत्पाण्डुरोमा गौरी तया चाश्लिष्टमर्धाङ्गीकृतं शरीरं यस्येति विग्रहः । अन्वयस्तु प्रागेवोक्तः । जाबालिं निरीक्ष्य किं कृतवानित्याह - अवलोक्येति । अवलोक्य निरीक्ष्य । च पुनरर्थे । अहमचिन्तयमेवं विचारितवान् । चिन्ता त्वेनं चिन्तयन्तमेव मामित्यवधिकम् । तामेवाह - अहो इत्याश्चर्ये । तपसां प्रभावो माहात्म्यम् । इयमस्य मुनेः शान्तापि मूर्तिः शरीरमुत्प्राबल्येन तप्तमुष्णीकृतं यत्कनकं सुवर्णं तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुषो नेत्रस्य तेजांसि महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां नयनरश्मीनां बलवद्वेगसौदामिनीतेजसा प्रतिनिवृत्ति- रनुभवसिद्धैवेति भावः । इदं स्वभाववर्णनम् । विरोधोऽपि शान्त- स्योत्तप्तकनकावदाततेति विरोधः । सततेति । सततं निरन्तर- मुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपगतस्यापूर्वागतस्य भयमिव भीतिमिवोपजनयति । अन्येषां करो- तीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकत्वमिति विरोधः । उभयत्रोत्प्रेक्षा । शुष्केति । तनु स्वल्पं तपो येषां तेषामपि तपस्विनां तेजो नित्यं सर्वदा प्रकृत्या स्वभावेनासहिष्ण्वसहनशीलं भवति । कीदृशम् । शुष्काणि यानि नलकाशकुसुमानि तत्र निपतितो योऽनलो वह्निस्तद्वच्चटुला त्वरिता वृत्तिर्यस्य तत् । एतस्य पर्यव- सितार्थमाह - किमुतेति । एवंविधानामक्षयकारिणां पापविनाश- कर्तॄणां किमुत किमाश्चर्यम् । अथ तानेव विशिनष्टि - सकलेति । सकलभुवनतलैर्वन्दितानि नमस्कृतानि चरणानि येषां ते तथा तेषाम् । अनवरतेति । अनवरतं तपसा क्षपिताः क्षयं प्रापिता मलाः पापानि यैस्ते तथा तेषाम् । करतलेति । करतलामलकवत्पाणि- स्थधात्रीफलवद्दिव्येन चक्षुषा [^1]F. उत्तरीयवस्त्रमित्यर्थः । [^2]F. भग्नानीत्याशयः । [^3]F. भस्मना पाण्डुरं च उमया आश्लिष्टं च शरीरं यस्य तमित्यर्थ उचितः । [^१]G. रुद्राक्षग्रहण. [^२]G. और्वानलम्. [^३]G. सतत. [^४]G. भक्ष्यम्. [^५]G. निपतिता चटुल. [^६]G. प्रतनु. [^७]G. दुःसहं भवति. [^८]G. भुवनवन्दित. [^९]G. तपः सलिलक्षालित. [^१०]G. करकमलतल. [^११]G. आमलकफल. भगवतामेवंविधानामघक्षय [^१]कारिणाम् । पुण्यानि हि नामग्रहणान्यपि [^२]महामुनीनाम्, किं पुनदर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितलकमलयोनिना । पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलिनासनमपगतान्य- व्यापारा [^३]मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः शृण्वन्तः [^४]समुपासते । सरस्वत्यपि धन्या [^५]यास्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिर [^६]द्विजपरिवारा मुख [^७]कमल [^८]संपर्कमनुभवन्ती निवसति हंसी [^९]व मानसे । चतुर्मुख [^१०]कमलवासिभि [ टि ]-- ज्ञानलोचनेनाखिलं समग्रं जगद्विष्टपमालोकयतां पश्यतां भगवतां माहात्म्यवतामेवंविधानां पूर्वोक्तगुणविशिष्टानाम् । हि निश्चितम् । अघक्षयकारिणां पापविनाशकानाम् । महामुनीनामिति । महातपस्विनां नामग्रहणान्यप्यभिधानोच्चारणमात्राण्यप्या- युर्घृतमितिवत्कारणकार्योपचारात्पुण्यानि पुण्यजनकानि । दर्शना- नीति ।दर्शनानि तेषामवलोकनानि समग्रपापापहारकाणीत्यर्थे किं पुनर्भण्यते । अवश्यं तदपहारकाणीत्यर्थः । धन्यमिति । इदं प्रत्यक्षमाश्रमपदं मुनिस्थानं धन्यं कृतपुण्यम् । अत्रार्थे हेतुमाह — यत्रेति । यस्मिन्नाश्रमपदेऽयं महान्मुनिरधिपतिर्नेता । अथवेति पक्षान्तरे । अवनीति । अवनितलकमलयोनिना भुवनतलब्रह्मणानेन प्रत्यक्षोपलभ्यमानेन मुनिनाधिष्ठितमाश्रितं भुवनतलमेव जगती- तलमेव धन्यं कृतपुण्यम् । 'सुकृती पुण्यवान्धन्यः' इति [^1]हैमः । आश्रमस्य तदन्तःपातित्वादिति भावः । तच्छिष्याणां धन्यतां प्रतिपादयन्नाह – पुण्येति । खलु निश्चयेन । अमी मुनयः पुण्यभाजः सुकृतभाजः । यदिति हेत्वर्थे । अहर्निशं प्रत्यहमपरमिवान्यमिव नलिनासनं कमलयोनिं समुपासते सेवां कुर्वते । तानेव शिष्यान्वि- शिनष्टि — अपेति । अपगतो दूरीभूतोऽन्यव्यापारस्तदितरकार्यं येभ्यस्ते तथा । मुखेति । मुखस्य वदनस्य अर्थान्मुनेरिति शेषः । तस्य यदवलोकनं निरीक्षणं तेन निश्चला निमेषरहिता दृष्टिर्येषां ते तथा । किं कुर्वन्तः । पुण्याः पवित्राः कथाः किंवदन्तीः शृण्वन्त आकर्णयन्तः । तद्वदनगतायाः सरस्वत्याः श्लाघां कुर्वन्नाह - सरस्वतीति । सरस्वत्यपि भारत्यपि धन्या श्लाघ्या । तु पुनरर्थे । या अस्य मुनेर्मुखमेव कमलं नलिनं तस्य संपर्क संबन्धमनुभवन्ती साक्षात्कुर्वन्ती मानसे मनसि निवसति निवासं करोति । उभयोः साम्यमाह - हंसीति । यथा मानसे सरसि हंसी मराली निवसति तथेयमपीत्यर्थः । अत्र प्रसन्नेत्यादिविशेषणानि मानसे मनसि सरसि च स्वबुद्ध्या योजनीयानि । अतीति । अतिशयेन प्रसन्ने प्रसाद- गुणयुक्ते । करुणेति । करुणा परदुःखप्रहाणेच्छा सैव जलं तस्य तयोर्वा निस्यन्दिनि स्राविणि । अगाधेति । अगाधमतलस्पर्शं गाम्भीर्यं गम्भीरता यस्मिन् । रुचिरेति । रुचिरा मनोज्ञा ये द्विजा दन्तास्त एव परिवारः परिच्छदो यस्याः सेति भारत्या विशेषणम् । चतु [^1]F. अमरकोष एव प्रसिद्धो‍ऽयं पाठः । [^2]F. मुखं कमलमिव इत्युपमितसमासो योग्यः । मयूरव्यंसकसमासे तु उत्तरपदार्थस्य कमलस्य प्राधान्ये रूपकं स्यात् । तथा सति च ' हंसीव' इति कवेरभीष्टा प्रधानभूतोपमा न संगच्छेत । तस्मात् - "रुचिराः सुन्दराः द्विजाः शिष्यभूता ब्राह्मणाः पक्षिणश्च ( हंसाद्याः ) परिवारा यस्याः सा, या सरस्वती राजहंसीव, मुखं कमलमिव तस्य संपर्क सुखमनुभवन्ती सती अतिप्रसन्ने अत्यन्तानुग्रहकारके अतिशयनिर्मले च, करुणा जलमिव तस्य निस्यन्दिनि स्राविणि, अगाधम् इयत्तारहितम् अतलस्पर्शं च, गाम्भीर्यं दुरवगाहस्वभावत्वं गभीरता च यस्य तस्मिन्, अस्य ( जाबाले: ) मानसे मनसि मानससरोवरे च, सततं निवसति" इति व्याख्यया पूर्णोपमालंकारो निर्वाह्यः । [^१]G. कारणानि पुण्यानि नाम; करणानि पुण्यानि नाम. [^२]G. मुनीनाम्. [^३]G. मुखकमलावलोकन. [^४]G. पर्युपासते. [^५]G. यदस्मिन्; या तु. [^६]G. परिवारे; कुलपरिचये. [^७]G. कमले. [^८]G. संपर्कसुखम्. [^९]G. राजहंसीव. [^१०]G. मुखकमल. [^१]श्चतुर्वेदैः सुचिरादिवेदमपरमुचितमासादितं स्थानम् । एनमा- साद्य शरत्कालमिव [^२]कलिजलदसमयकलुषिताः प्रसादमुप- गताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मना कृतावस्थितिना भगवता परिभूतकलिकालविलसितेन धर्मेण न स्मर्यते कृतयुगस्य । धरणितलमनेनाधिष्ठित [^३]मालोक्य न वहति नूनमिदानीं [^४]सप्तर्षिमण्डलनिवासाभिमानमम्बरतलम् । अहो महासत्त्वेयं जरा याऽस्य प्रलय [^५]रविरश्मिनिकरदुर्निरीक्ष्ये रजनिकर [^६]किरण [^७]पाण्डुशिरोरुहे जटाभारे फेनपुञ्ज- धवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसो- [^८]र्निपतन्ती न भीता । बहलाज्यधूमपटलमलिनी [^९]कृताश्रमस्य भगवतः [^१०]प्रभावाद्भीतमिव रविकिरण- [^११]जालमपि [ टि ]-- रिति । चत्वारि यानि मुखकमलानि तत्र वासिभिः स्थायिभिश्चतुर्वेदैर्ऋग्यजुःप्रभृतिभिः सुचिरादिव चिरकालादिवेदमपरं द्वितीयम् । कमलस्य कदाचित्संकोचसंभवात् । उचितं योग्यं स्थानमासादितं प्राप्तम् । एनमिति । एनं मुनिं शरत्कालमिव घनात्ययसमयमिवासाद्य प्राप्य जगति लोके पुनरपि द्वितीयवारमपि सर्वविद्याश्चतुर्दशविद्याः प्रसादं नैर्मल्यमुपगताः प्राप्ताः । का इव । सरितो नद्य इव । यथा शरत्कालं प्राप्य ता इव नैर्मल्यं भजन्ति । उभयोरेकविशेषणमाह – कलीति । कलि [^1]रेव कलौ वा यो जलदसमयो मेघकालस्तेन कलुषिता मलिनीकृताः । नियतमिति । नियतं निश्चितमिहास्मिन्नाश्रमे सर्वात्मना सर्वप्रकारेण कृतावस्थिति- र्येन स तथा तेन भगवता माहात्म्यवता । परीति । परिभूतं न्यक्कृतं कलिकालस्य विलसितं चेष्टितं येनैवंभूतेन धर्मेण न स्मर्यते । कृतयुगस्येति कर्मणि षष्ठी 'मातुः स्मरति' इतिवत् । धरणीति । नूनं निश्चितमनेन मुनिना धरणितलमधिष्ठितमाश्रितमालोक्य निरीक्ष्या- म्बरतलं व्योमतलमिदानीं सांप्रतं सप्तर्षिमण्डलनिवासाभिमान- मिति, सप्तर्षीणां कश्यपप्रभृतीनां यन्मण्डलं समूहस्तस्य यो निवासोऽवस्थानं तेन योऽभिमानोऽहंकारस्तं न वहति न धत्ते । अत्र बहूनामृषीणां सत्त्वात् । अहो इत्याश्चर्ये । महासत्त्वा महाधैर्येयं जरा विस्रसा यास्य मुनेर्जटाभारे सटासमूहोपरि निपतन्ती पतनं कुर्वती न भीता न त्रस्ता । अत्रार्थं उपमानद्वयं प्रदर्शयति - पशुपेति । पशुपतेरीश्वरस्य जटाभारे सटासमूहे गङ्गेव स्वर्णदीव । क्षीरेति । विभावसोर्वह्ने: शिखाकलापे ज्वालासमूहे क्षीराहुतिरिव क्षीरस्य दुग्धस्याहुतिः । वह्नौ प्रक्षेप इवेत्यर्थः । गङ्गां विशिनष्टि – फेनेति । फेनस्य डिण्डीरस्य यः पुञ्जः समूहस्तेन धवलोज्ज्वला । इयमपि धवला भवति । जटां विशिनष्टि - प्रलयेति । प्रलयः कल्पान्त- स्तस्मिन्यो रविः सूर्यस्तस्य यो रश्मिनिकरः किरणसमूहस्तद्वत् दुर्निरीक्ष्ये विलोकयितुमशक्ये । रजनीति । रजनिकरश्चन्द्रस्तस्य किरणा मयूखास्तद्वत्पाण्डूनि श्वेतानि शिरोरुहाणि केशा यस्मिन् । बहलेति । बहलं निबिडं यदाज्यं सर्पिस्तस्य धूमपटलं तेन मलिनीकृतः श्यामतां प्रापित आश्रमो यस्यैवंविधस्य भगवतो मुनेः प्रभावान्माहात्म्यागीतमिव त्रस्तमिव रविकिरणजालं सूर्यरश्मिसमूहस्तपोवनं मुनिस्थानं दूरतः परिहरति दूर एव त्यजति । मालिन्यस्य तमः- प्रतिनिधीभूतस्य सूर्यरश्मिभिर्विरोधात् मालिन्याश्रयाश्रमाधिपतेर्मुनेः प्रभावाद्भीतिरुचितैवेति भावः । [^1]F. अत्रापि कलिर्जलदसमय इव इत्युपमितसमासो योग्यः, अन्यथा 'सरित इव' इत्युपमाया: संगतिर्न स्यात् । [^2]F. ' रविकरनिकरदुर्निरीक्ष्ये' इत्येतान्येवाक्षराणि कवेः संमतानि प्रमाणं च सहृदयहृदयम् । [^१]G. चतुर्भिर्वेदै:. [^२]G. कालिकालजलधर. [^३]G. आलक्ष्य; अवलोक्य. [^४]G. सप्तर्षिनिवास. [^५]G. रविकरनिकरदुर्निरीक्षे. [^६]G. निकरपाण्डुरे जटाभारे. [^७]G. पाण्डुर. [^८]G. निष्पतन्ती. [^९]G. आश्रमपदस्य. [^१०]G. भीतभीतमिव. [^११]G. जालकम्. का० १३ दूरतः परिहरति तपोवनम् । एते च पवनलो [^१]लपुञ्जीकृतशिखाकलापा रचिताञ्जलय इवात्र मन्त्रपूतानि हवींषि [^२]गृह्णन्त्ये- तत्प्रीत्याशुशुक्षणयः । तरलितदुकूलवल्कलोऽयं चाश्रमलताकुसुमसुरभिपरिमलो [^३]मन्दमन्दचारी सशङ्क इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महाभूतानामपि दुरभिभवानि भवन्ति [^४]तेजां- सि । सर्वतेजस्विनामयं चाग्रणीः द्विसूर्यमिवाभाति जगदनेनाधिष्ठितं महात्मना । [^५]निष्कम्पेव क्षितिरेतद [^६]वष्टम्भात् । एष प्रवाहः करुणारसस्य, संतरणसेतुः संसारसिन्धो:, आधार : [^७]क्षमाम्भ- साम्, परशुस्तृष्णालतागहनस्य, सामरः संतोषा [^९]मृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरि [^१०]सद्ग्रहकस्य, मूलमुपशम- तरोः, [^११]नाभिः प्रज्ञाचक्रस्य, [^१२]स्थितिवंशो धर्मध्वजस्य, [^१३]तीर्थं सर्वविद्यावताराणाम्, [^१४]वडवानलो लोभार्णवस्य, निकषोपल: शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, [^१५]मंत्रः [^१६]क्रोधभुजंगस्य, दिवसकरो मोहा [ टि ]-- एते चेति । एते समीपवर्तिन आशुशुक्षणयो वह्नयः । पवनेति । पवनेन वायुना लोलश्चपलः पुञ्जीकृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताञ्जलय इव विहिताञ्जलय इव । एतत्प्रीत्यैतन्मुनिस्नेहेन मन्त्रपूतान्यृचापवित्राणि हवींषि होतव्यानि गृह्णन्ति स्वीकुर्वन्ति । 'अग्निर्वैश्वानरो वह्निः शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्श्वं सशङ्क इव भीताशय इवोपसर्पति गच्छति । अथ साशङ्कत्वे हेतुं प्रदर्शयन्नाह - तरलितेति । तरलितानि कम्पितानि दुकूलवल्कलानि येन स तथा । अयमिति स्पार्शनप्रत्यक्षः ।आश्रमेति । आश्रमलताकुसुमानां सुरभिः परिमलो यस्मिन्नत एव मन्दमन्दचारी शनैः शनैः संचरमाणः । प्राय इति । प्रायो बाहुल्या- र्थेऽव्ययम् । महाभूतानामपि पृथिव्यादीनामपि तेजांसि महांसि दुरभिभवानि दुःखेनाभिभवितुं शक्यानि भवन्ति । अयं चेति । अयं च मुनिः सर्वतेजस्विनां समग्रधामवतामग्रणीमुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठितमाश्रितं जगद्द्वि- सूर्यमिव द्वौ सूर्यौ यत्र तद्वदिव । निष्कम्पेति । एतस्य मुनेरवष्टम्भा- दालम्बात्क्षितिर्वसुधा निष्कम्पेव निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एषेत्यादि । एष मुनिः करुणारसस्य प्रवाह ओघः । संसारसिन्धोर्भवाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलिलानामाधारोऽम्भसां बन्धः । तृष्णैव लता तद्गहनस्य परशुः कुठारः । संतोष एवामृतरसः पीयूषद्रवस्तस्य सागरः समुद्रः । सिद्धिमार्गस्य मोक्षपदव्या उपदेष्टोपदेशकः । अस [^1]द्ग्रहकस्याशुभग्रहस्यास्तगिरि- रस्ताचलः । उपशमतरोः शमद्रुमस्य मूलं बुध्नः । प्रज्ञाचक्रस्य प्रतिभाचक्रस्य नाभिर्मध्यप्रदेशः । धर्मध्वजस्य सुकृतकेतोः स्थितिवंशोऽवस्थानवेणुः । सर्वविद्यावताराणां समग्रविद्याप्रवेशानां तीर्थं घट्टः । लोभार्णवस्य लिप्सासमुद्रस्य वडवानल और्वः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपलः कषणपट्टः । रागपल्लव- स्येच्छाकिसलयस्य दावानलो वनवह्नि: । क्रोधभुजंगस्य कोपसरी- सृपस्य मन्त्रः । मोहान्धकारस्याज्ञानतिमिरस्य दिवसकरः सूर्यः । नरकद्वाराणां दुर्गतिद्वाराणामर्गलाबन्धः प्रतिबन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलानां श्रेयसामायतनं [^1]F. 'असद्ग्रहस्य' इत्येव कविसंमतः पाठः । [^१]G. पुञ्जितशिखाकलापाः शिखाजटिला. [^२]G. प्रतिगृह्णन्त्याशुशुक्षणयः; प्रतिगृह्णन्त्येतत्प्रदत्तान्याशुशुक्षणयः. [^३]G. मन्दसंचारी; मन्दमन्दसंचारी; मन्दमन्दसंचार:. [^४]G. तेजांसि यतः. [^५]G. निष्कण्टकेव. [^६]G. अवष्टम्भादेव; अवष्टम्भेन. [^७]G. प्रभवः. [^८]G. कृपाम्भताम्. [^९]G. अमृतस्य. [^१०]G. असद्ग्रहस्य. [^११]G.नेमिः. [^१२]G. प्रसाद:. [^१३]G. तीर्थ:. [^१४]G. वाडवानल:. [^१५]G. महामन्त्रः. [^१६]G. भुजंगमस्य. न्धकारस्य, अर्गलाबन्धो [^१]नरकद्वाराणाम् कुलभवनमाचारा- णाम्, आयतनं मङ्गलानाम्, अभूमिर्मदविकाराणाम्, दर्शक: सत्पथानाम्, [^२]उत्पत्तिः साधुतायाः, नेमिरुत्साहचक्रस्य, आश्रयः सत्त्वस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, [^३]प्रभवः पुण्यसंचयस्य, अदत्तावकाशो मत्स- रस्य, अरातिर्विपत्तेः, अस्थानं परिभूते: अननुकूलोऽभिमा- नस्य, असंमतो दैन्यस्य, अनायत्तो रोषस्य, [^४]अनभिमुखः सुखानाम् । अस्य भगवतः [^५]प्रसादादेवो [^६]पशान्तवैरमपगतमत्सरं तपोवनम् । अहो प्रभावो महात्मनाम् । अत्र हि शाश्व-तिक्रमपहाय विरोध [^७]मुपशान्तात्मानस्तिर्यञ्चोऽपि तपोवन- वसतिसुखमनुभवन्ति । तथा हि- एष विकचो [^८]त्पलवनरचना- नुकारिणयुत्पतच्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलमभिन- वशाद्वलमिव [^९]विशति शिखिनः [^१०]कलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातर [^११]मजातकेसरैः केसरि- शिशुभिः सहोपजातपरिचयः [^१२]क्षरत्क्षीरधारं [^१३]पिबति कुरङ्गशावकः सिंहीस्तनम् । एष [ टि ]-- गृहम् । मदविकाराणामहंकारवृत्तीनामभूमिरूषरक्षेत्रम् । सत्पथानां शोभनमार्गाणां दर्शक उपदेष्टा । साधुतायाः शुभा- वस्थोत्पत्तिः । उत्साहः प्रगल्भता स एव चक्रं तस्य नेमिर्धारा । सत्त्वस्य धैर्यस्याश्रय आधारः । कलिकालस्य कलियुगस्य प्रतिपक्ष: शत्रुः । तपसः प्रसिद्धस्य कोशो भाण्डागारम् । सत्यस्य सखा मित्रम् । आर्जवस्य मार्दवस्य क्षेत्रं सस्योत्पत्तिस्थलम् । पुण्य- संचयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थलम् । मत्सरस्येर्ष्याया अदत्तावकाशः विपत्तेरापदोऽरातिः शत्रुः । परिभूतेः पराभवस्या- स्थानमपदम् । अभिमानस्याहंकृतेरननुकूलोऽहितकारकः । दैन्यस्यासंमतोऽस्वीकृतः । रोषस्यानायत्तोऽनधीनः । सुखाना- मनभिमुखः पराङ्मुखः । अस्येति । अस्य भगवतो मुनेः प्रसादादेव माहात्म्यादेव उपशान्तं शान्तिं प्राप्तं वैरं विरोधो यस्मिन् । अपेति । अपगतो दूरीभूतो मत्सरः परगुणोत्कर्षासहनं यस्मिन्नेवंभूतं तपोवनम् । वर्तत इति क्रियाध्याहारः । अत्रार्थे साधारणं कारणमाह - अहो इति । अहो इत्याश्चर्ये । महात्मनां महानुभावानां प्रभावो माहात्म्यम् । एतदेव विशेषतो दर्शयन्नाह - अत्रेति । हि निश्चितम् । अत्र तपोवने शाश्वतिकं सदातनं विरोधं वैरमपहाय दूरीकृत्योपशान्तात्मानः प्रशान्तात्मानस्तिर्यञ्चोऽपि पशवोऽपि तपोवनवसतिसुखं मुनिस्थाननिवाससातमनुभवन्त्यनुभवविषयी- कुर्वन्ति । तदेव दर्शयन्नाह – तथेति । तथा हि । एषोऽहिः सर्पो विकचं विकसितं यदुत्पलं नीलकमलं तस्य वनं तस्य या रचना निर्मितिस्तदनुकरोत्येवंशीलं तत्तथा । उत्पतदिति । उत्पतदूर्ध्वं गच्छच्चारु मनोहारि चन्द्रकशतं मेचकशतं यस्मिन् । हरिणेति । हरिणस्य मृगस्य या लोचनद्युतिर्नेत्रकान्तिस्तद्वच्छबलं कर्बुर- मेवंभूतं शिखिनो मयूरस्य कलापं [^1]प्रचलाकमातपेन सूर्यालोकेनाहतः पीडितो निःशङ्कं निर्भयं विशति प्रविशति । कमिव । अभिनवः प्रत्यग्रः शादाः शष्पाणि सन्त्यत्रेति शाद्वलो हरितप्रदेशस्तमिव । अयमिति । अयं कुरङ्गशावको मातरमम्बा- मुत्सृज्य विहायाजातकेसरैरनुत्पन्नसटैः केसरिशिशुभिरिभारिबालकैः सह समुपजातः समुत्पन्नः परिचयः संस्तवो यस्यैवंभूतः सिंहीस्तनं पिबति पानं करोति । क्षरन्तीति । क्षरन्ती स्रवन्ती क्षीरधारा यस्मिन् । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्व: । एष इति । एष समीप [^1]F. बर्हभारमित्यर्थः । [^१]G. नरकपुरद्वाराणाम्. [^२]G. आदर्श: ;सर्वविद्यानामुत्पत्तिः. [^३]G. प्रसवः; प्रभाव:. [^४]G. अवशो विषयाणामनमिमुखः; अनवकाशो विषयाणामनभिमुखः. [^५]G. प्रभावात्. [^६]G. एतदपि. [^७]G. उपशान्तान्तरात्मानः. [^८]G. उत्पलिनीवनानुकारिणम्. [^९]G. अधिवसति; आवसति. [^१०]G. कलापमाहत:. [^११]G. अनुपजात. [^१]G. प्रक्षरत्. [^१३]G.आपिबति. [^१]मृणालकलापाशङ्किभिः [^२]शशिकरधवलं [^३]सटाभार- मामीलितलोचनो बहु मन्यते [^४]द्विरदकलभैराकृष्यमाणं मृगपतिः । इदमिह कपिकुलमपगतचापलमुपनयति मुनि- [^५]कुमारकेभ्यः स्नातेभ्यः फलानि । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाञ्जि मदजलपाननिश्चलानि मधुकर- कुलानि [^६]संजातदया: कर्णतालैः करिणः । किं [^७]बहुना, तापसाग्निहोत्रधूमलेखा [^८]भिरुत्सर्पन्तीभिरनिशमुपपादित- कृष्णाजिनोत्तरासङ्ग [^९]शोभाः फलमूलभृतो [^१०]वल्कलिनो निश्चेतनास्तरवोऽपि सनियमा [^११]इव लक्ष्यन्तेऽस्य भगवतः । किं पुनः सचेतनाः [^१३]प्राणिनः' इति । एवं चिन्तयन्तमेव मां [^१३]तस्यामेवाशोकतरोरधश्छायायामेक- देशे स्थापयित्वा हारीतः पादावुपगृह्य कृताभिवादनः पितुरनति- समीपवर्तिनि कुशासने समुपाविशत् । आलोक्य तु [^१४]मां [^१५]सर्व एव मुनयः 'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु तानब्रवीत् 'अयं मया स्नातुमितो गतेन कमलिनी [^१६]सरस्तीरतरु [^१७]नीडनिपतितः शुकशिशु-रातप [ टि ]-- वर्ती । मृणेति । मृणालानां बिसानां कलापं समूहमाशङ्कत इत्येवंशीलास्तैः । द्विरदेति । द्विरदा गजास्तेषां कलभा बाल- कास्तैराकृष्यमाणमवकृष्यमाणं शशिकरश्चन्द्रस्तद्वद्धवलं शुभ्रं सटाभार केसरकलापम् । आमीलीति । आ ईषन्मीलिते लोचने येनैवंभूतो बहुमन्यते सुखत्वेन जानातीत्यर्थः । इदमिति । इहास्मिं- स्तपोवन इदम् । अपेति । अपगतं चापलं चाञ्चल्यं यस्यैवंभूतं कपिकुलं वानरयूथम् । स्नातेभ्यः कृताप्लवेभ्यः । मुनीति । मुनीनां तपस्विनां कुमारका बालास्तेभ्यः फलानि सस्यान्युपनयति ढौकयति । एते चेति । एते करिणो हस्तिनो मदान्धा अपि मदोन्मत्ता अपि गण्डस्थलीभाञ्जि । करटस्थलभाजि । मदेति । मदजलस्य दानवारिणः पानं प्राशनं तेन निश्चलानि स्थिराणि मधुकराणां भ्रमराणां कुलानि समूहान् संजातदया: समुत्पन्न- करुणाः कर्णतालैः श्रवणचपेटैर्न निवारयन्ति न दूरीकुर्वन्ति । किं बह्विति । किं बहुना किं बहुजल्पितेन । स्तोकेनैवोच्यत इति भावः । तापसेति । उत्सर्पन्तीभिरुर्ध्वं व्रजन्तीभिस्तापसानां यदग्निहोत्रं तस्य या धूमलेखा दहनकेतनराजयस्ताभिरनिशं निरन्तरम् । उपेति । उपपादिता विहिता कृष्णं श्यामं यदजिनं चर्म तस्योत्तरासङ्गो वैकक्ष्यं तस्य शोभा येषां ते तथा फलमूलभृतो वल्कलिनो निश्चेतना ज्ञानरहिता अस्य भगवतस्तरवोऽपि वृक्षा अपि सनियमा इव व्रतिन इव लक्ष्यन्तेऽवलोक्यन्ते । सचेतना ये प्राणिनो मनुजादयस्तेषां किं पुनः किं भण्यते किं कथ्यते । ते त्वेतादृशा भवन्त्येवेति भावः । अथ हारीतः किं कृतवानित्याह – एवमिति । एवं पूर्वोक्तप्रकारेण चिन्तयन्तं विचारयन्तं मां तस्यामेवाशोकतरोरधश्छायायामेकदेश एकस्मिन्प्रदेशे स्थापयित्वा संस्थाप्य हारीतः हारीतनामा मुनिः । पादाविति । पादौ चरणावुपगृह्य पादयोः पतित्वा । कृतेति । कृतं विहितमभिवादनं येनैवंभूतः पितुर्जनकस्यानतिसमीपवर्तिनि नातिनिकटवर्तिनि कुशासने दर्भविष्टरे समुपाविशदुपविष्टवान् । आलोक्येति । आलोक्य निरीक्ष्य । तु पुनरर्थे । मां सर्व एव समग्रा एव मुनयो ऋषयः कुतः कस्मात्प्रदेशादयं शुकशिशुरासादितः प्राप्त इति तमासीनमुपविष्टं हारीतं मुनिमपृच्छन्नप्राक्षुः । असौ हारीतः । तु पुनरर्थे । तान्मुनीनब्रवीदुवाचेत्यर्थः । किमुवाचेत्याह – अयमिति । अयं शुकशिशुर्मया स्नातुं स्नानार्थमितोऽस्मात् प्रदेशात् गतेन प्राप्तेन । कमलिनीति । कमलिनीसरः पद्मसरस्तस्य तीरतरुः प्रतीरवृक्षस्तस्मिन्यो नीडः कुलायस्तस्मानिपतितः स्रस्तः । आतपेति । आतपेनालोकेन जनितोदिता क्लान्तिः श्रमाधिक्यं यस्य स तथा । [^१]G. मृणालशङ्किभि:. [^२]G. शिशिरकर; शिशिरकलापकर. [^३]G. जटा. [^४]G. कलभकैः . [^५]G. कुमारेभ्यः. [^६]G. जातदयाः. [^७]G. तपसा. [^८]G. उत्सर्पन्तीभिरुपपादित; सर्पन्तीभिरहर्निशमुपपादित. [^९]G. शोभनाः. [^१०]G. वल्कलिनस्तरवः. [^११]G. इवास्य भगवतः समीपवर्तिनोऽत्र लक्ष्यन्ते; इव लक्ष्यन्तेऽस्य भगवतः समीपवर्तिनः [^१२]G. प्राणिन एवम्. [^१३]G. तस्यैव रक्ताशोकतरोश्छायायाम्. [^१४]G. मां ते. [^१५]G. मुनयः सर्व एव. [^१६]G. शिरस्तर; सरसस्तीरतरु. [^१७]G. नीडपतितः. जनितक्लान्तिरुत्तप्तपांसुपटलमध्यगतो दूर [^१]निपतनविह्वलतनुरल्पावशेषायुरासादित [^२]स्तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः । तद्यावदयमप्ररूढपक्षतिरक्षमो [^३]ऽन्तरिक्षमुत्पतितुं तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्माभिश्चोपनीतेन नीवारकणनिकरेण [^४]फलरसेन च संवर्ध्यमानो धारयतु जीवितम् । अनाथपरिपालनं हि [^५]धर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतल [^६]संचरणसमर्थो यास्यति यत्रा- [^७]स्मै रोचिष्यते । इहैव वो [^८]प [^९]जातपरिचयः स्थास्यति' इत्येवमादिक [^१०]मस्मत्संबद्धालापमाकर्ण्य किंचिदुपजात- [^११]कुतूहलो भगवाञ्जाबालिरीषदाबलितकंधरः पुण्यजलै: प्रक्षालयन्निव मामतिप्रशान्तया [^१२]दृष्ट्या दृष्ट्वा सुचिरमुप- [^१३]जातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमनेनानुभूयते' इत्यवोचत् । स हि भगवा [^१४]न्कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव [ टि ]-- उत्तप्तेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूह- स्तस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्दविष्ठाद्यन्निपतनमधः संयोगफलिका क्रिया तेन विह्वला व्याकुला तनुर्देहो यस्य स तथा । अल्पेति । अल्पं स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लब्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरारोहतया दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मलीवृक्षस्य स्वनीडं स्वकुलाय- मारोपयितुं स्थापयितुं न शक्यते न समर्थीभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीतोऽत्रानीतः । मयेति पूर्वोक्तमेवेति न पुनरुच्यते। तद्यावदिति । तदिति हेत्वर्थे । यावत् यावत्कालम् । अमिति पूर्वोक्तः । अप्ररूढेति । अप्ररूढाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्ष- माकाशमुत्पतितुमक्षमोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । कस्मिंश्चिदिति । कस्मिंश्चित् अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिरस्माभिश्चोपनीतेन आनीतेन । नीवारेति । नीवारो वनव्रीहिस्तस्य कर्णानिकरेण सस्यसमूहेन फलरसेन सस्यद्रवेण च संवर्ध्यमानो वृद्धिं प्राप्यमानो धारयतु दधातु जीवितं प्राणितम् । अनाथेत्यादि । हि यस्माद्धेतोरस्मद्विधानां तपस्विनामनाथपरिपालनं दीनजनरक्षणं धर्म आचारः । तु पुनरर्थे । उद्भिन्नेति । उद्भिन्ना प्रकटीभूता पक्षतिर्यस्यैवंभूतः । गगनेति । गगनतलमाकाशतलं तत्र संचरणं गमनं तत्र समर्थः क्षमः । यत्रेति । यत्र यस्मिन्देशेऽस्मै शुकशिशवे रोचिष्यते रुचिरभिलाष उत्पत्स्यते तत्र यास्यति गमिष्यति । रुच्यर्थानां धातुभिर्येगे चतुर्थी । इहैवेत्य- नास्थायाम् । उपजातपरिचयः संजातसंस्तवः स्थास्यत्यवस्थानं करिष्यति । इत्येवमादिकमस्मत्संबद्धमिति मद्विषयकमालापं प्रश्नोत्तररूपमाकर्ण्य श्रुत्वा । किंचिदिति । किंचिदीषदुपजामुत्पन्नं कुतूहलमाश्चर्यं यस्य स तथा भगवान्माहात्म्यवान् जाबालिः जाबालिनामा मुनिः । ईषदिति । ईषत्किंचिदावलिता नमिता कंधरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् । पुण्येति । पुण्यजलैः पवित्रपानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्ट्या दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य । उपेति । उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारकं ज्ञानं यस्य स तथा तद्वदिव पुनःपुनर्वारंवारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्याशिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षात्क्रियत इति तानवोचदब्रवीत्। कथं मुनिर्जानातीत्याशयेनाहस हीति । यतः । हि निश्चितम् । स भगवान् । कालेति । कालत्रय- स्यातीतानागतवर्तमानलक्षणस्य दर्शी [^1]पश्यकः । तप इति । तपःप्रभावाद्दिव्येन [^1]F. 'दर्शकः' इत्युचितम् । [^१]G. निपितत. [^२]G. तपस्विदुरारोहतया तस्य. [^३]G. अन्तरिक्ष. [^४]G. विविधफलरसेन. [^५]G. धर्मोऽस्ति. [^६]G. संचलन. [^७]G. चास्मै. [^८]G. समुपजात. [^९]G. विस्रम्भः. [^१०]G. संबद्धमालापम्. [^११]G. कौतूहल:. [^१२]G. दृष्टया सुचिर. [^१३]G. अभिजातप्रत्यभिज्ञ:. [^१४]G. त्रिकाल. करतलगतमिव जगद [^१]वलोकयति । [^२]वेत्ति जन्मान्तराण्य- तीतानि । कथयत्यागामिनमप्यर्थम् । ईक्षणगोचरगतानां च प्राणिनामायुषः [^३]संख्यामावेदयति । [^४]सर्वैव [^५]स तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, क्व वा कृतः, [^६]जन्मान्तरे वा कोऽयमासीत्' इति [^७]कौतूहलिन्यभवत् । [^८]उपनाथितवती च तं भगवन्तम् ' आवेदय, प्रसीद भगवन्, कीदृशस्याविनयस्य फलमनेना- [^९]नुभूयते । कश्चायमासीज्जन्मान्तरे । विहग [^१०]जातौ वा कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान्प्रभवः' । इत्येव [^११]मुपयाच्यमानस्तपोधनपरिषदा स महामुनिः [^१२]प्रत्यवदत् - 'अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेष- महः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति [^१३]देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व [^१४]एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न [ टि ]-- ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करतल- गतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति । अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि ब्रवीति । ईक्षणेति । ईक्षणगोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुषो जीवितव्यस्य संख्यां परिमाणमावेदयति निवेदयति । सर्वैवेति । सर्वैव समग्रैव सा तापसपरिषन्मुनिसभा श्रुत्वाकर्ण्य । पूर्वोक्तमिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जाबालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी कौतुकवत्यभवदित्यन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृगविनयोऽपराधविशेषोऽनेन शुक- शिशुना कृतो विहितः । किमर्थं किंप्रयोजनं वा कृतः । क्व वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे भवान्तरेयं क आसीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेति । [^1]उपनाथितवती । 'नाथ याचने' इत्यस्य धातो रूपम् । याचितवतीत्यर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जाबालिमुनिम् । किं याचितवतीत्याशयेनाह -आवेदयेति । हे भगवन् आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नाननुदन्नाह- कीदृशस्येति । कीदृशस्य किंरूपस्याविनयस्य फलमनेनानुभूयते । कश्चेति । जन्मान्तरेऽयं क आसीत्। विहगेति । विहगजातौ पक्षिजातौ कथंमिति केन प्रकारेण अस्य संभव उत्पत्तिः । किमिति । अयं किमभिधानः किंनामा । अपनयत्विति । नोऽस्माकं कुतूहलमाश्चर्यमपनयतु दूरीकरोतु । आश्चर्याणामिति । हि भगवान्, सर्वेषां समग्राणामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् । इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभ- योपयाच्यमानः प्रार्थ्यमानः स महामुनिः प्रत्यवदत्प्रत्यवोचत् । अतीति । इदमाश्चर्यमति महदतिमहीयस्तयाख्यातव्यं कथनीयम् । मयेति शेषः । अपेति । अहर्दिनमल्पशेषमल्पावशिष्टम् । प्रत्येति । नोऽस्माकं स्नानसमय आप्लवकालः प्रत्यासीदति विलम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजाक्षणोऽतिक्रामत्युल्लङ्घिता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं [^1]F. 'असकृदुपयाचितवती' इत्येव ग्रन्थाक्षराणि । [^१]G. आलोकयति. [^२]G. वेत्ति च जन्मान्तराण्यपि. [^३]G. प्रमाणम्. [^४]G. यतः सर्वैव; ततः सर्वैव. [^५]G. तापसपरिषत् ; सतापसपरिषत्. [^६]G. जन्मान्तरे को. [^७]G. कुतूहलिनी. [^८]G. असकृदुपयाचितवती; इत्युपनाथितवती; उपेत्यार्थितवती. [^९]G. भुज्यते. [^१०]G. जातौ कथम् ; जातौ च कथम्. [^११]G. उपयाच्यमानस्तु; उपयाचितः. [^१२]G. अवदत्. [^१३]G. देवार्चनवेला. [^१४]G. एव तावत्. समये भवतां पुनः [^१]कृतमूलफलाशनानां विस्रब्धोपविष्टाना- मादितः प्रभृति सर्व [^२]मावेदयिष्यामि योऽयम्, [^३]यच्चानेन कृतमपरस्मिजन्मनि, इह [^४]च लोके यथास्य संभूतिः । अर्थ च तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो [^५]जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिधदेवोत्थाय सह [^६]मुनिभिः [^७]स्नानादिक- मुचितदिवसव्यापारमकरोत् । [^८]अनेन च समयेन परिणतो दिवसः । स्नानोत्थितेन मुनिजनेनार्घविधिमुपपादयता यः क्षितितले [^९]दत्तस्त [^१०]मम्बरतलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखैरर्कबिम्ब- विनिहि [^११]तदृष्टिभि [^१२]रूष्मपैस्तपोधनैरिव परिपीयमान- तेजःप्रसरो [^१३]विरलातपस्तनिमानमभ [ टि ]-- दिवसव्यापारं दिनकृत्यमाचरन्तु समाचरन्तु । अपराह्णे ति । अपराह्णसमये द्विप्रहरानन्तरसमये भवत युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् । विस्रब्धेति । विस्रब्धं [^1]सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् । आदित इति । आदितः प्रारम्भतः प्रभृति सर्वं वृत्तान्तमावेदयिष्यामि । निवेदयिष्यामि । योऽयमिति । यश्चायं पूर्वजन्मन्यासीत् । यच्चानेनापरस्मिजन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभूतिरुत्पत्तिः । अयं चेति । तावदादावयं शुक आहारेणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नियतेति । नियतं निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परभववृत्तान्तं स्वप्नोपलब्धमिव स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयीकरिष्यति । इतीति । इति पूर्वोक्तमभिदधदेव कथयन्नेवोत्थायोत्थानं कृत्वा । सहेति । सह समं मुनिभि- स्तपस्विभिरुचितं योग्यं दिवसव्यापारं स्नानादिकमकरोन्निर्ममे । अनेन चेति । अनेन समयेन मध्याह्नसमयकर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे सूर्यस्य रक्तत्वात्तूवर्णनमाह - स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्यक्षसिद्धमुनिप्रत्यर्पितमूर्तिरूपेणैवोदवहदधारयत् । तं कम् । यः स्नानोत्थितेन मुनिजनेन तपस्विवर्गेणार्घविधिं रक्तचन्दनरक्तपुष्पादिना पूजाविधिमुपपादयता निष्पादयता क्षितितले दत्तोऽर्पितः । सूर्यायेति शेषः । सायंकाले सूर्यस्य रक्तत्वान्मुनिप्रदत्तो रागः किमनेन साक्षादिव गृहीत इत्युत्प्रेक्षा ऊर्ध्वमुखैरिति । ऊर्ध्वमुखैरुर्ध्वाननैः । अर्केति । अर्कबिम्बे सूर्यबिम्बे विनिहिता स्थापिता दृष्टियैस्ते तथा तैरूष्मपैरूष्मा वह्निज्वाला [^2]तस्यानु- कारिभिस्तपोधनैरिव परिपीयमान आस्वाद्यमानस्तेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः स्वल्प [^1]F. विश्वस्ततया, सुस्थभावेन उपविष्टानामित्यर्थः । [^2]F. सायंकाले मन्दातपः सूर्यो यत्कशतां भजते तत्र हेतुरुत्प्रेक्ष्यते - सूर्यनिहितदृष्टिभिः सूर्योत्तापपायिभिर्मुनिभिः समग्रं दिनं यावत् स ऊष्मा पीतः, अत एव सायं रविस्तनुतामभजदिति । टीकार्थस्तु भ्रमात्मक एव । [^१]G. कृतफलमूलाशनानाम्. [^२]G. आवेदयिष्यामः. [^३]G. कृतमनेन. [^४]G. लोके च यथा; लोके यथा. [^५]G. जन्मान्तरवृत्तम्. [^६]G. तैर्मुनिमिः. [^७]G. स्नानादिकमुचितं दिवस; स्नानादिकं दिवस. [^८]G. अनेन समयेन. [^९]G. अधोदत्तः. [^१०]G. अम्बरतलम् ; अस्ताचल. [^११]G. निहित. [^१२]G. ऊष्मपैः. [^१३]G. विरलातपो दिवसः. जत् । उद्यत्सप्तर्षि [^१]सार्थस्पर्शपरिजिहीर्ष [^२]येवं संहृतपादः पाराव [^३]तपादपाटलरागो रविरम्बरतला [^४]दवालम्बत । आलोहितांशुजालं जलशयन [^५]मध्यगतस्य [^६]मधुरिपो- र्विगलन्मधुधारमिव [^७]नाभिनलिनं प्रतिमागतमपरार्णवे सूर्य- मण्डलम [^८]लक्ष्यत । विहाया [^९]म्बरतल [^१०]मुन्मुच्य च कमलिनी [^११]वनानि शकुनय इव दिवसावसाने [^१२]तरु- शिखरेषु पर्वताग्रेषु च रविकिरणाः स्थितिमकुर्वत । आ [^१३]लग्न- लोहितातपच्छेदा मुनिभि [^१४]राल [^१५]म्बितलोहितवल्कला इव [^१६]तरवः क्षण [^१७]मदृश्यन्त । अस्तमुपगते च भगवति सहस्र- दीधितावपरार्ण [^१८]वतला [^१९]दुल्लसन्ती विद्रुमलतेव [^२०]पाटला संध्या समदृश्यत । यस्यामाबध्यमानध्यानम्, एक- देशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतराति [^२१]मनोहरम्, [^२२]अग्नि [ टि ]-- आतप आलोको यस्य स तथा तनिमानं तनोर्भावस्तनिमा तमभजत् । क्षीणत्वं प्रापेत्यर्थः । उद्यदिति । उद्यदुदयं प्राप्नुवन्यः सप्तर्षिसार्थः सप्तर्षिसमूहस्तेन यः स्पर्शः संबन्धस्तस्य या परिजि- हीर्षा परिहर्तुमिच्छा तया संहृताः संकोचिताः [^1]पादा येन स तथा । पारावत इति । पारावतः कलरवस्तस्य पादौ चरणौ तद्वत्पाटलः श्वेतरक्तो रागो यस्मिन्नवंविधो रविः सूर्यः । अम्बरतलादित्यवधौ पञ्चमी । अवालम्बताललम्बे । तदनन्तरमालोहितांशुजालमीष- द्रक्तकिरणसमूहं सूर्यमण्डलं रविबिम्बमलक्ष्यतैक्ष्यत । कमिव । अपरेति । अपरार्णवे पश्चिमसमुद्रे प्रतिमागतं [^2]स्वमूर्तिरूपेणा- गतं बहिर्निःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभि- नलिन मिव नाभिपद्ममिव । तदेव विशिनष्टि—विगलदिति । विगलन्ती स्रवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विहायेति । अम्बरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्युन्मुच्य च शकुनय इव पतत्रिण इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु पर्वतात्रेषु च रविकिरणाः सूर्य- रश्मयः स्थितिमवस्थानमकुर्वत कृतवन्तः । तत्कालीनतरुशोभा- माह - आलग्नेति । आलग्नेषत्संबन्धं प्राप्ता लोहितातपस्य रक्तालोकस्य मध्ये मध्ये छेदा रचनाविशेषा येषां ते तथा । अत एव 'भक्तिच्छेदैरिव विरचितां भूमिमङ्गे गजस्य' इति । मुनिभिस्तपस्वि- भिरालम्बिता आश्रिता अत एव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावालोक्यन्त । संध्यावस्थां प्रदर्शयन्नाह – अस्तेति । अस्तमुपगतेऽदृश्यतां प्राप्ते भगवति सहस्रदीधितावपरार्णवतलात्पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवल्लीव पाटला श्वेतरक्ता संध्या सायंकालः समदृश्यत समालोक्यत । यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदम- भवत् । बभूवेत्यर्थः । कीदृशम् । आबध्येति । आबध्यमानं क्रिय- माणं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । अनस्तं गत एव सूर्ये संध्या- वन्दनार्घयोरुक्तत्वाद्ध्यानग्रहणम् । एकेति । एकदेश एकस्मिन्प्र- देशे दुह्यमाना या होमधेनवो होमार्थं गावस्तासां दुग्धधारा पयःश्रेणी तत्र यद्ध्वनितं शब्दितं तेन धन्यतरं सदतिमनोहरमतिचारु । अग्नीति । [^1]F. पाद ( किरण ) द्वारा पूज्यानामृषीणां स्पर्शजनितोऽपराधो माऽस्त्विति हेतुना उपसंहृतपादः ( किरणः ) सूर्योऽम्बरादलम्ब- तेत्युत्प्रेक्षा । किरण-चरणयोर्भेदेऽपि 'पाद' शब्दश्लेषेणाऽभेदाध्यवसायादतिशयोक्तिः । पारावतपादवत् पाटलो रागो यस्येत्युपमा च । जगद्वन्द्यस्य रवेः कान्तौ पारावतपादसादृश्य कल्पनादुपमाऽनौ- चित्यं तु न शङ्कनीयम्, सायं तेजोविरहितरक्तिमसादृश्येन रवेर्मन्द- प्रभताऽतिशयव्यञ्जनात् । [^2]F. प्रतिबिम्बरूपेण पतितं सूर्यमण्डलं मधुरिपोर्नाभिपद्म- मिवाऽऽलक्ष्यतेत्यर्थः । [^3]F. आलग्ना: कोहितातपच्छेदा येषु ईदृशा आश्रमतरवः, मुनिभिरालम्बितानि उपरिस्थापितानि लोहितवल्कलानि येषु ईदृशा इव अलक्ष्यन्तेत्युत्प्रेक्षा । [^१]G. सार्थपरि. [^२]G. एव. [^३]G. चरण. [^४]G. अलम्बत. [^५]G. शयनगतस्य. [^६]G. मधुमिदः. [^७]G.नलिनम्. [^८]G. आलक्ष्यत; अवैक्ष्यत; अद्रक्ष्यत. [^९]G. धरणितलम्; धरातलम्. [^१०]G. उन्मुच्य कमलिनी. [^११]G. वनानि च. [^१२]G. तपोवनतरु. [^१३]G. रक्तातप; रक्तातपगमस्ति. [^१४]G. आलम्बिताः. [^१५]G. आलोहित. [^१६]G. आश्रमतरवः. [^१७]G. अशोभन्त; अलक्ष्यन्त. [^१८]G. तटात्. [^१९]G. उपसर्पन्ती. [^२०]G. आपाटला. [^२१]G. ध्वनितमनोहरम् ; ध्वनिमनोहरम्. [^२२]G. अग्निहोत्रवेदी. वेदि [^१]विकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाण [^२]दिग्देवता बलिसिक्थमाश्रमपदमभवत् । क्वापि विहृत्य [^३]दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्तमाना संध्या [^४]तपोधनैरदृश्यत । अचिर [^५]प्रोषिते सवितरि शोकविधुरा कमलमुकुलकमण्डलुधरणी हंससितदुकूल- परिधाना मृणालघवल [^६]यज्ञोपवीतिनी मधुकरमण्डलाक्षवलय- मु [^७]द्वहन्ती कमलिनी [^८]दिनपतिसमागमव्रतमिवाचरत् । अपरसागराम्भसि पतिते [^९]दिवसकरे वेगोत्थित [^१०]मम्भः- सीकरनिकरमिव तारा [^११]गणमम्बरमधारयत् । अचिराच्च सिद्धकन्यकाविक्षिप्तसंध्यार्चनकुसुमशबलमिव [^१२]तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्वविप्रकीर्णैः प्रणामाञ्जलिसलिलै: [^१३]क्षल्यमान इवागलदखिल: संध्यारागः । क्षय [^१४]मुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव [ टि ]-- अग्निवेद्यां वह्निस्थापनचतुरस्रभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुशा नीलदर्भा यस्मिन् । ऋषीति । ऋषि- कुमारिकाभिर्मुनिपुत्रीभिरितस्ततो विक्षिप्यमाणानि समन्ताद्विकीर्य- माणानि दिग्देवतानां बलिसिक्थानि बलिसंबन्धिसिद्धान्नानि यस्मिं- स्तत्तथा । पुनरवस्थान्तरमाह -क्वापीति । क्वापि कुत्रचित्प्रदेशे विहृत्य पर्यटनं कृत्वा दिवसावसाने दिनपर्यन्ते कपिला तपोवन- धेनुरिव लोहिततारका परिवर्तमाना तपोधनैः मुनिभिः संध्यादृश्य- तालोक्यत । गौरपि कपिलत्वाल्लोहिततारका रक्तकनीनिका । संध्या तु लोहिततारका रक्तनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्त- त्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलिनी- सूर्ययोर्नायिका नायकत्वेन तौ वर्णयन्नाह– अचिरेति । अचिरप्रोषिते तत्कालीनप्रोषिते गते सवितरि श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थं स्वकीयनायकस्यागमन हेतोर्व्रतं नियमविशेषमाचरदिवाकरोदिव । कमलेति । संकुचित- मुखसाम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव दधातीत्येवं- शीला सा तथा । हंसेति । श्वेतसाम्याद्धंसा एव सितदुकूलानि परिधानमधोंशुकं यस्याः सा तथा । मृणालेति । श्वेततन्तुसारू- प्यान्मृणालान्येव धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा । मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका तदुद्वहन्ती धारयन्ती । अपराम- वस्थां वर्णयन्नाह- अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानी ये पतिते दिवसकरे सूर्ये वेगेन रभसोत्थितं प्रादुर्भूतमम्भःसीकरनिकरं पानीयपृषत्समूहं तारा [^1]गणमिव नक्षत्रवृन्दमिवाम्बरमाकाशम- धारयद्दधार । अतिश्वेतरूपत्वसाम्यात्ताराजलबिन्द्वोरुपमानोपमेय- भावः । अचिराच्चेति । अचिरात् स्वल्पकालेन सिद्धा विद्या सिद्धा- स्तेषां कन्यकाः पुत्र्यस्ताभिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुसुमानि सायंकालीनपूजार्थमानीतानि पुष्पाणि तैः शबलमिव कर्बुरमिव तारकितम् । 'तारकादिभ्य इतच्' । संजाततारकोदयं वियदाकाशमराजताशोभत । अतीतसंध्यावस्थां प्रकटयन्नाह - क्षणेनेति । क्षणेन सपद्येव । च समुच्चये । उन्मुखे- नोर्ध्वमुखेन मुनिजनेन तापसजनेनोर्ध्वविप्रकीर्णैरूर्ध्वं विक्षिप्तैः प्रणामाञ्जलिसलिलैर्नमस्कृतिसमयाञ्जलिपानीयैः क्षाल्यमान इव प्रक्षाल्यमानोऽखिलः समग्रोऽपि संध्यारागोऽगलत्तत्स्थानात्प्रच्युतः । क्षयमिति । संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् । तदिति । तस्याः स्वसानिध्यात्सखी [^1]F. भ्रान्तोऽत्र टीकाकृत् । अम्बरम् ( कर्तृ) तारागणम् अम्भः- सीकरमिवाऽधारयदित्युत्प्रेक्षा । [^१]G. विप्रकीर्यमाण. [^२]G. दिग्देवतार्चनबलिसिक्थकम्. [^३]G. दिनावसाने. [^४]G. मुनिभिः; मुदितैस्तपोधनैः [^५]G. प्रोषिते च सवितरि. [^६]G. यज्ञोपवीता. [^७]G. अक्षमालावलयम्. [^८]G. रवि. [^९]G. दिनकरे; दिवाकरे पतन; तत्पतन. [^१०]G. पवनवेगोत्थितम् ; पतङ्गवेगोत्थितम् ; पतनवेगोत्थितम्. [^११]G. अम्बरतलम्. [^१२]G. सतारम्. [^१३]G. प्रक्षाल्यमानः, [^१४]G. उपागतायां च संभ्यायाम्; उपगतायां च संध्यायाम्. १४ का० मवहत् । [^१]अपहाय मुनि [^२]हृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं [^३]गत इत्युदन्तमुपलभ्य [^४]जातवैराग्यो धौतदुकूलवल्कलधवलाम्बरः सता [^५]रान्तः- पुरपर्यन्त [^६]स्थिततनु [^1]स्तिमिरतमाल [^७]वृक्षलेखं सप्तर्षिमण्डलाध्युषितमरुंधतीसंचरण [^८]पूत मुपहिता [^९]षा- ढमालक्ष्यमाणमूलमेकान्तस्थितचारु [^१०]तारकामृगममरलोका- श्रममिव [^११]गगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा [ टि ]-- रूपायाः संध्याया विनाशो ध्वंसस्तेन दुःखिता कष्टं प्राप्ता विभावरी रजन्यभिनवं प्रत्यग्रं तिमिरोद्गमं ध्वान्तोदयं कृष्णाजिन- मिवासितचर्मवदवहत् । नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिन- साधर्म्यम् । तिमिरोद्गमस्य कृत्यं व्याख्यापयन्नाह — अपहेति । तिमिरं ध्वान्तं मुनिहृदयानि तपस्विचेतांसि स्वप्रकाशात्मकप्रकाश- वन्तीयतस्तिमिरस्यावकाशाभावादन्यत्सर्वं प्रौढप्रकाशहीनं वस्तुजातमन्धकारतामचाक्षुषतामनयत्प्रापयत् । तदुत्तरकालं चन्द्रेऽपि मित्रवियोगावस्थां वर्णयन्नाह - क्रमेणेति । क्रमेण परि- पाट्या रविः सूर्योऽस्तं गतोऽदृश्यतां प्राप्त इत्युदन्तमिति वृत्तान्तमुपलभ्य प्राप्तोऽमृतदीधितिश्चन्द्रः । अमरेति । अमरा वसिष्ठादयो मुनयस्तेषां लोकः समुदायस्तस्याश्रमो मुनिस्थानं तदिव गगनतलमम्बरतलमध्यतिष्ठदधितस्थौ । कीदृक्सूर्यः । जातेति । जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागो विरागस्तस्य भावस्तत्त्वम् । धौतेति । धौतं क्षालितं दुकूल- वल्कलमेव धवलं शुभ्रमम्बरं वस्त्रं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमाकाशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रह्म च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्यागमनादृते' । एतद्वृत्तौ 'तारत्रयं प्रणवशतत्रयम्' इत्याह विज्ञानेश्वरः । तया सहवर्तमानं यदन्तःपुरमिति पुरस्य शरीरस्यान्तर्मध्यं कुण्डलिनी नाडीविशेषः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः । तस्याः पर्यन्तः सहस्रारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिकं तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः सहवर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसाम्येन गगनतलं विशेषयन्नाह – तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पङ्क्तिर्यस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः । शेषं पूर्ववत् । सप्तर्षीति । सप्तर्षिसदृशा ये ऋषयो नारदाद्यास्तेषां मण्डलं समूहः । 'मण्डलं श्वसमूहयोः' इति धरणिः । तेनाध्युषितमाश्रितम् । पक्षे सप्तर्षयः सप्ततारकाः । शेषं प्राग्वत् । अरुंधतीति । अरुंधती वसिष्ठपत्नी तस्याः संचरणं परिभ्रमणं तेन पूतं पवित्रम् । पक्षेऽरुं- धती ताराविशेषः । शेषं प्राग्वत् । उपहितेति । उपहितः संनिहित आषाढ : पालाशदण्डो यस्मिन् । 'पालाशो दण्ड आषाढः' इत्यभि- धान चिन्तामणिः । पक्ष अषाढा पूर्वाषाढानक्षत्रम् । आलक्ष्येति । आसमन्ताल्लक्ष्यमाणानि विलोक्यमानानि मूलानि वसुधान्तर्गत- वृक्षप्रदेशा यस्मिन् । पक्षे मूलं मूलनक्षत्रम् । शेषं प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारवो मनोहराकृतयस्तारका- मृगाः श्वेतमृगा यस्मिन् । पक्षे तारकारूपं मृगो मृगनक्षत्रम् । तस्या- मेव विभावर्यां चन्द्रे जातवैराग्योपमानमम्बरमण्डले चाश्रमरूपक- मुक्त्वा ज्योत्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमाङ्गोप- मानमाह - चन्द्रेति । चन्द्र एवाभरणं बिभर्तीति [^1]F. 'सतारान्तःपुरः, पर्यन्तस्थिततनुतिमिरतमालवनलेखम्' इत्येव पाठः साधुः । सतारं सप्रणवम् अन्तःपुरं हृदयमध्यं यस्य सः ध्याननिष्ठ इत्यर्थः । पक्षे - तारा: ( अश्विन्यादयः ) एव अन्त:पुराणि स्त्रियः तैः सहितः (अमृतदीधितिः) । पर्यन्ते प्रान्तभागे स्थिता तनुतिमिरवत् स्वल्पान्धकारवत् तमालवनानां लेखा यस्मिन् तम् ( आश्रमम् ), पक्षे - पर्यन्ते स्थितं तनुतिमिरं निजोदयेन विरलमन्धकारं तमालवनरेखेव यत्र तत् ( गगनतलम् ) इति तद्व्याख्या । [^१]G. शापदग्धमिव भयाद्विहायेव. [^२]G. मुनिजनहृदयानि. [^३]G. उपगतः; उपागत. [^४]G. समुपजात. [^५]G. अन्तःपुर. [^६]G. तनुतिमिर. [^७]G. वन. [^८]G. पवित्रतम्; पवित्रम्. [^९]G. उपलक्ष्यमाण. [^१०]G. तारकमृगम्. [^११]G. गगनम्. भरणभृतस्तारकाकपालशकलालंकृतादम्बरतलात्र्यम्बकोत्तमाङ्गा दिव गङ्गा [^१]सागरानापूरयन्ती हंसधवला धरण्यामपतज्योत्स्ना । हिमकरसरसि विकचपुण्डरीकसिते चन्द्रिकाजलपानलोभादव- तीर्णो निश्चलमूर्तिरमृतपङ्ककलग्न [^२]इवादृश्यत हरिणः। तिमिर- जलधर [^३]समयापगमानन्तर-मभिनवसित [^४]सिन्दुवार- कुसुमपाण्डुरैरर्ण [^५]वागतै [^६]रव [^1]गाह्यन्त हंसैरिव कुमुदुसरांसि चन्द्रपादैः । विगलितसकलोदयरागं रजनिकरबिम्ब- मम्बरापगावगाहधौतसिन्दूरमैरावतकुम्भस्थलमिव तत्क्षणमलक्ष्यत । शनैःशनैश्च दूरोदिते भगवति [^७]हिमततिस्रुति, सुधाधूलिपटले- नेव [^८]धवलीकृते [ टि ]-- चन्द्राभरणभृत्तस्मात् । तारकेति । तारका एव कपाल- शकलानि कर्परखण्डानि तैरलंकृतं भूषितं यस्मात् । 'अम्बरतला- दित्यवधौ पञ्चमी । त्र्यम्बकोत्तमाङ्गादिवेश्वरमौलेरिव गङ्गा जाह्नवी । सागरानिति । अगस्त्यगण्डूषेण शुष्कान् सागरान् समुद्रानापूरयन्ती परिपूर्णीकुर्वती । चन्द्रोदयेन सागराणां पूरणं प्रसिद्धम् । 'हंसवद्धवला शुभ्रा ज्योत्स्ना चन्द्रिका धरण्यां पृथिव्यामपतत्पपातेत्यर्थः । अथ च चन्द्रमृगोऽप्येतादृशोऽभूदित्याह-हिमकरेति । हिमकरश्चन्द्रः स एव सरस्तस्मिन् । तदेव विशिनष्टि-विकचेति । विचकानि विकस्वराणि यानि पुण्डरीकाणि तद्वत्सिते शुभ्रे । अन्यदपि सरो विकचपुण्डरीकः सितं भवति अतस्तदुपमानम् । चन्द्रिकेति । चन्द्रिका ज्योत्स्ना सैव जलं पानीयं तस्य पानमास्वादनं तस्य लोभो गर्धस्तस्मादवतीर्णो मध्यप्रविष्टः । निश्चलेति । निश्चला निस्पन्दा मूर्तिर्यस्य स तथा । अमृतेति । कृष्णत्वसाम्यात्कलङ्क [^2]एवामृतपङ्कस्तत्र लग्न इवान्तर्निगीर्ण इव हरिणो मृगोऽदृश्यतालक्ष्यत । चन्द्रोदयजनितं शोभातिशयं वर्णयन्नाह – तिमिरेति । 'कृष्णत्व- साम्यात्तिमिरमेव जलधरसमयस्तस्यापगमानन्तरं निवृत्त्यनन्तरम् । अभीति । अभिनवानि प्रत्यग्राणि सितानि शुभ्राणि यानि सिन्दु- वारस्य निर्गुण्ड्याः कुसुमानि पुष्पाणि तद्वत्पाण्डुरैः शुभ्रैरर्णवः समुद्रस्तत्रागतैः प्राप्तैश्चन्द्रपादैः शशिकिरणैर्हंसैरिव मरालैरिव कुमुदसरांसि कैरवोपलक्षिततटाकान्यवागाह्यन्तालोड्यन्त । अतः श्वेतत्वसाधर्म्याद्धंसचन्द्रपादयोरुपमानोपमेयभावः । पुनरवस्थान्तरं वर्णयन्नाह - विगलीति । विगलितो विलयं प्राप्तो यः सकल: समग्र उदयसंबन्ध्युद्गमनक्षणजन्मा रागो रक्तिमा यस्मिन्नेवंभूतं रजनिकर बिम्बं चन्द्रमण्डलं तत्क्षणमिव तत्काल इवालक्ष्यत जनैरैक्ष्यत । किमिव । अम्बरेति । अम्बरस्य व्योम्नो या आपगा नदी तस्या अवगाह आलोडनं तेन धौतं क्षालितं सिन्दूरं नागजं यस्यैवंविधं यदैरावतस्य हस्तिमल्लस्य कुम्भस्थलं तदिव । अतिवर्तुलत्वसाम्या- च्चन्द्रबिम्बस्य कुम्भस्थलोपमानम् । अथ मुनिवृत्तं निरूपयन्नाह - शनैरिति । हारीतो मुनिः कृताहारं विहितभोजनं मां वैशम्पायन- मादाय गृहीत्वा पितरं जाबालमुनिमित्यवोचदत्यन्वयः । कस्मिन्सति । शनैः शनैः स्वल्पप्रयत्नेन दूरोदिते दूरं गते भगवति चन्द्रे । हिमेति । हिमं प्रायं तस्य ततिर्वीथी [^3]तस्या: स्रुति स्राविणि । चन्द्रस्य विशेषणम् । सुधेति । श्वेतत्वसाम्यात्सुधैव धूलिपटलं पांसुसमूह- स्तेनेव चन्द्रातपेन शशिन आलोकेन जगति लोके धवलीकृते सति शुभ्रीकृते सति । पुनः केषु सत्सु । निशामुखसमीरणेषु प्रदोष- कालीनवायुषु प्रवहत्सु वहमानेषु सत्सु । अथ [^1]F. - 'रगाह्यन्त' इत्येव पाठः । अन्यथा तु 'अवगाह्यन्त' इति वक्तव्यमुचितं स्यात् । [^2]F.- निश्चलमूर्तिर्हरिण: चन्द्रबिम्बगतचिह्नरूपो मृगः अमृतमेव पङ्कस्तत्र लग्न इव अलक्ष्यत । अन्योऽपि जलपानलोभादवतीर्णो मृगः पङ्कमग्नो निश्चलमूर्तिस्तिष्ठति । इत्येव व्याख्योचिता । कलङ्क एव हरिणत्वाऽऽरोपात् । [^3]F. 'हिमस्रुति' इत्येव पाठः । हिमं स्रवति इति हिमसुत ( क्विप्) तस्मिन्निति विग्रहः । [^१]G. सागरम्. [^२]G. आलक्ष्यत. [^३]G. समयादनन्तरम्. [^४]G. सिन्धुवार. [^५]G. गगनागतै:. [^६]G. अगाह्यन्त; अगृह्यन्त. [^७]G. हिमस्रुति; हिमदीधितौ. [^८]G. धवलीकृते जगति. चन्द्रातपेन जगति, अवश्यायजल [^१]बिन्दुमन्दगतिषु विघटमान- कुमुद [^२]वनकषायपरिमलेषु समुपोढनिद्राभरालसतारकै- रन्योन्यग्रथितपक्ष्मपुटैरारब्धरोमन्थमन्थरमुखै: सुखासीनैराश्रम- मृगैरभिनन्दि [^३]तागमनेषु [^४]प्रवहत्सु निशामुख [^५]समीर- णेषु, अर्धयाममात्रावखण्डितायां विभावर्यां हारीतः कृताहारं मामादाय [^६]सर्वैस्तैर्महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे [^७]वेत्रासनोपविष्ट [^८]मनतिदूरवर्तिना जालपादनाम्ना शिष्येण [^९]दर्भपवित्रधवित्रपाणिना [^१०]मन्दमुपवीज्यमानं पितर [^११]मवोचत्– 'हे [^१२]"तात, सकलेय- माश्चर्यश्रवणकुतूहला [^१३]कलितहृदया समुपस्थिता तापसपरिषदाबद्धमण्डला [^१४]प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्रि- पोतः । तदावेद्यतां [^१५]यदनेन कृतम् । [ टि ]-- वायूनां विशेषणानि– अवश्येति । अवश्यायो हिमं तस्य जलबिन्दवः पानीयविप्रुषस्तैर्मन्दा मन्थरा गतिर्गमनं येषां ते । विघटेति । विघटमानानि विकासं प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं श्लाघितमागमनं येषां ते तथा । कैः । आश्रममृगैर्मुनिस्थानस्थ- हरिणै: । अथ च तेषां विशेषणानि - समुपोढेति । समुपोढा सम्यक्प्रकारेणोपोढा या निद्रा प्रमीला तस्या भरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं परस्परं प्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुटानि येषां ते तथा तैः । आरब्ध इति । आरब्धो यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासीनैरुपविष्टैः । अर्धेति । त्रियामाशयेनार्धयाममात्रमर्धप्रहरमात्रमवखण्डितं खण्ड- नां प्राप्तं यस्याः सा तथा । तस्यामप्रहरन्यूनायामित्यर्थः। एवंविधायां विभावर्यां रजन्यां सर्वैस्तैर्महा [^1]मुनिभिर्महातपस्विभिरुपसृत्या- गत्य । कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्राबल्येन शोभत इत्येवंशीलः स तथा तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशरतस्मिन्नधिकरणीभूते । अथ जाबालिमुनिं विशेषयन्नाह — वेत्रेति । वेत्रासनमासन्दी तत्रो- पविष्टमासीनम् । अनतीति । अनतिदूरवर्तिना नातिसमीपवर्तिना । जालेति । जालपाद इति नाम यस्य स तथा तेन शिष्येण विनेयेन । दर्भेति । दर्भः कुशस्तद्वत्पवित्रं [^2]यद्धवित्रं मृगचर्मनिर्मितं ताल- वृन्तं पाणौ हस्ते यस्य स तथा तेन । 'धवित्रं मृगचर्मणः' इति कोश: । मन्दं यथा स्यात्तथोपवीज्यमानं दूरीक्रियमाणमक्षिकम् । अन्वयस्तु पूर्वमुक्तः। तदनुसारेण किमुवाचेत्याह - हे तात हे पितः, सकला समग्रेयं प्रत्यक्षगता तापसपरिषत्तपस्विसंसत्समुपस्थिता- गता । आश्चर्येति । आश्चर्यस्याद्भुतवस्तुनो यच्छ्रवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेषस्तेनाकलितं व्याप्तं हृदयं चेतो यस्याः सा । परिषद्विशेषणम् । आबद्धेति । आबद्धमारचितं मण्डलं यथा सा । प्रतीक्षत इति । भवन्तमिति शेषः । भवद्विलम्बेन विलम्ब इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह-व्यपनीतेति । अयं पतत्रिपोतः शुकशिशुर्व्यपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवं- भूतः कृतो विहितः । चेति पूर्वोक्तसमुच्चये । तदिति हेत्वर्थे । आवेद्यतामिति। यदनेन शुकेन कृतं विहितं तदावेद्यतां निवेद्यताम्। [^1]F. 'सर्वैस्तैः सह मुनिभिः' इत्येव पाठ: । अन्यथा महामुनिभि- रिति पाठस्वीकारे सहार्थस्याऽऽक्षेप: कर्तव्यः स्यात् । किञ्च महामुनिस्तत्र जाबालिरेव, न सर्वे । [^2]F. 'दर्भपवित्रपाणिना' इत्येव ग्रन्थशय्याक्षराणि । यदि तु 'पवित्रधवित्र' इति सहृदयलवित्रपदसंग्रहः प्रिय एव तर्ह्यपि 'दूरीक्रियमाणमक्षिकम् ' इति व्याख्यानं तु विचित्रमेव, रात्रौ मक्षिकाणामभावात् । [^१]G. बिन्दुपतनमन्द; बिन्दुपतनशीतेषु मन्द. [^२]G. खण्ड. [^३]G. आगमेषु. [^४]G. प्रवात्सु. [^५]G. समीरेषु. [^६]G. सह मुनिभिः. [^७]G. वेत्रासने सुखोपविष्टम्. [^८]G. नातिदूर. [^९]G. पवित्रपाणिना. [^१०]G. मन्दमन्दम्. [^११]G. उवाच. [^१२]G. तात. [^१३]G. माकुलित. [^१४]G. प्रतीक्ष्यते [^१५]G. किमनेन. [^१]अपरस्मिञ्जन्मनि कोऽ [^२]यमभूद्भविष्यति [^३]च' इति । एवमुक्तस्तु स [^४]महामुनिरग्रतः स्थितं मामवलोक्य तांश्च सर्वानेकाग्रा [^५]ञ्छ्रवणपरान्मुनीन्बुद्ध्वा [^६]शनैः शनैरब्रवीत् - 'श्रूयतां यदि कौतूह [^७]लम् कथारम्भः । [^८]अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्य, आत्म [^९]निवासोचिता भगवता महाकालाभिधानेन भुवनत्रय- सर्गस्थितिसंहार [^१०]कारिणा प्रमथ [^११]नाथेनापरेव पृथिवी समुत्पादिता, द्वितीयपृथिवी [^१२]शङ्कया जलनिधिनेव रसातल- [^१३]गभीरेण परिखा [^१४]वलयेन परिवृता, पशुपति [^१५]नि- वासप्रीत्या [^१६]गगनपरिसरोल्लेखिशिखरमालेन [^१७]कैलास- गिरिणेव सुधासितेन प्राकारमण्डलेन [^१८]परिवृता, प्रकटशङ्ख युक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चामीकर चूर्णसिकैतानि कैरनिचितैरायामि [ टि ]-- अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापर- जन्मनि भूते भविष्यति च कोऽयमभूत्कोऽयमग्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्तप्रकारेणोक्तः प्रश्नविषयीकृतः । तु पुनरर्थे । स महामुनिः जाबालिमुनिरग्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समग्रानेकाग्रानेकतानान् । श्रवणेति । श्रवणमा- कर्णनं तस्मिन्परान्मुनींस्तपस्विनो बुद्ध्वा ज्ञात्वा च अतिवृद्धत्वा- त्क्षीणत्वाश्च शनैः शनैर्मन्दस्वरेणाब्रवीदुवाच । किमुवाचेत्याह - श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तर्हि श्रूयतामाकर्ण्यताम् । अनेनात्यादरः सूचितः । अस्तीति । उज्जयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वाण्यपि नगरीविशेषणानि । अन्येषां त्वन्यविभक्ति- कानीति बोध्यम् । सकलेति । सकलं समग्रं यत्त्रिभुवनं त्रिविष्टपं तस्य ललामभूता तिलकभूता। प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमिरिव जन्मभूरिव । आत्मेति । भगवतेश्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्याऽपरेवैतद्भूभिन्नेव पृथिवी वसुधा समुत्पादिता कृता । अथेश्वरं विशेषयन्नाह – महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य विष्टपत्रयस्य यः सर्गः सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन । प्रमथेति । प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयैतव्द्यतिरिक्ता या पृथिवी तस्याः शङ्का आरेका तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिकामण्डलेन परिवृता परिवेष्टिता । परिखावलयं विशिनष्टि - रसेति । रसातलं पृथ्व्या अधोभागं यावद्गभीरेणालब्धमध्येन । पुनर्विशेषतो नगरीं विशिनष्टि- प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परिवृता परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वरस्तस्य निवासोऽवस्थितिस्तेन या प्रीतिः स्नेहस्तया कैलासगिरिणेव रजताद्रिणेवेत्युपमानम् । वप्रकैलासौ युगपद्विशेषयन्नाह — गगनेति । गगनस्याकाशस्य यः परिसरः पर्यन्तभूः । 'पर्यन्तभूः परिसर:' इत्यभिधानचिन्तामणिः । तदुल्लेखिनी तत्संघर्षकारिणी शिखरमाला सानुश्रेणिर्यस्य स तथा । पक्षे गगनोल्लेखिनी शिखरमालाग्रमाला अर्थात् कपिशीर्षाणि यस्मिन् । 'शिखरं पुलकाग्रयोः' इत्यनेकार्थः । सुधेति । सुधा गृहधवलीकरण- द्रव्यं तेन सितेन शुभ्रेण । पक्षे सुधावच्छुभ्रेणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खः कम्बुः शुक्तिरब्धिमण्डूकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहा येषु तैः । चामीकरेति । चामीकरचूर्णं पर्वतादौ 'चूकी' इति प्रसिद्धं तदेव सितानिकरो वालुकासमूहस्तेन [^१]G. अन्यस्मिन्. [^२]G. को वायम्. [^३]G. वा. [^४]G. अग्रस्थितम्. [^५]G. श्रवणतत्परान्. [^६]G. शनैः. [^७]G. कुतूहलम्. [^८]G. अस्ति किल. [^९]G. निवासोचिता महा. [^१०]G. कारणेन. [^११]G. नाथेनेवापरेव. [^१२]G. शङ्कया च जल. [^१३]G. गम्भीरेण. [^१४]G. जलपरिखा. [^१५]G. प्रीत्या च गगन. [^१६]G. गगनतलोल्लेखि. [^१७]G. गिरिणा सुधा. [^१८]G. परिगता. [^१९]G. वालुका. [^२०]G. रचितैः. भिरगस्त्यपरिपीतसलिलैः सागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्वविद्याधरोरगाध्यासिताभिश्चित्रशाला [^१]भिर- विरतो [^२]त्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभिर्दिव्यविमानपङ्क्तिभिरिवालंकृता, [^३]मथनो [^४]द्धतदुग्धधवलि- तमन्दरद्युतिभिः कनकमयामलकलशशिखरैरनिलदोलायितसितध्वजैरुपरिपतदभ्रगङ्गैरिव तुषारगिरिशिखरैरमरमन्दिरैर्विरा- जितशृङ्गाटका, सुधावेदिकोपशोभितोदपानैरनवरतचलितजल घटीयन्त्रसिच्यमानहरितोपवनान्धकारैः केतकीधूलिधूसरैरुपशल्य- कै [^५]रुपशोभिता, मदमुखरमधु [^६]करकुलान्धकारितनिष्कु- टा, स्फुरदुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभाग्य- घण्टैरालोहितांशुकपताकैराबद्ध [ टि ]-- निचितैर्व्याप्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तेन परिपीतं सलिलं जलं येषां तैः सागरैरिव समुद्ररिव । महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या ये पन्थानो मार्गास्तैरुपशोभिता विराजमाना । 'ऋक् -' इति सूत्रेण पथोऽकारान्तत्वम् । सुरेति । सुरा देवाः, असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः एतैरध्यासिताभिराश्रिताभिश्चित्रोपलक्षितशालाभिरलंकृता भूषिता । काभिरिव । दिव्यविमानपङ्किभिरिव देवयानश्रेणिभिरिव । तस्याः कथमत्रागम इत्यारेकायामाह-अविर- तेति । अविरतं निरन्तरं य उत्सवो महस्तस्मिन्याः प्रमदा योषित- स्तासां यदवलोकनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्यं तस्मादिति हेत्वर्थे पञ्चमी । अम्बरतलादाकाशादवतीर्णाभिरुतीर्णाभिः । आगताभिरिति यावत् । अमरेति । अमरमन्दिराणि देवप्रासादास्तैविराजितानि शोभमानानि [^1]शृङ्गाटकानि त्रिमार्गाश्लेषरूपाणि यस्यां सा तया । 'त्रिमार्गाश्लेषः शृङ्गाट' इति कोशः । कैरिव । तुषारगिरि र्हिमाद्रिस्तस्य शिखरैः सानुभिरिव । देवगृह- गिरि- शिखरयोः साम्यं प्रदर्शयन्नाह -- मथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितो धवलीकृतो यो मन्दरो मेरुरतद्वद्द्युतिः कान्तिर्येषां तैः । कनकेति । कनकमयाः स्वर्णमया अमला निर्मला ये कलशा लघुकुम्भास्त एव शिख- राण्यग्राणि येषां ते तथा तैः, पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनिलेति । अनिलैर्वायुभिर्दोलायिताः प्रेङ्खावदाचरिताः सितध्वजाः श्वेतवैजयन्त्यो येषु तैः । कैरिव । उपरिपतदभ्रगङ्गैरिवो- परिष्टात्पतन्ती स्रवन्त्यभ्रगङ्गा स्वर्धुनी येषु तैरिव । सुधेति । सुधा प्रागेव व्याख्याता तयोपलक्षिता या वेदिका पीठबन्धस्तयोपशो- भिताः शोभां प्रापिता उदपाना: कूपा येषु तैः । 'कूपः स्यादुदपानोऽन्धुः' इति कोशः । अनवरतेति । अनवरतं निरन्तरं चलितं भ्रामितं यज्जलघटीयन्त्रमरघरट्टस्तेन । कारणेन कार्योपचारात् । सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्ध- काराणि येषु तैः । केतकीति । [^2]केतक्या मालत्या या धूलि: पराग- स्तेन धूसरैर्मलिनैरेवंभूतैरुपशल्यकैर्ग्रामसीमाभिः उपशोभिता विभूषिता । 'ग्रामसीमा तूपशल्यम्' इति कोशः । मदेति । मदेन मधुपानेन मुखराणि वाचालानि यानि मधुकरकुलानि भ्रमरसमूहाः तैरन्धकारिता जनितान्धकारा निष्कुटा गृहारामा यस्यां सा । अनेनारामाणां शोभातिशयः सूचितः । स्फुरेति । स्फुरन्त्य उल्ल- सन्त्यो या उपवनलता उपवनव्रतसुमनसस्तेषां परिमलेनामोदेन सुरभिर्घ्राणतर्पण: समीरणो वायुर्यस्यां सा । पुनः - सदनेति । सदन [^3]स्य गृहस्य यष्टयः प्रसिद्धास्तासु स्थिताः केतवो वैजयन्त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा । अथ च सदनयष्टिमदनयष्ट्यो: [^1]F. चतुष्पथानि ( 'चौराहे' हिन्दी ) । [^2]F. कण्टकयुक्तवृक्षविशेषः केतकी, यो हि सीमान्तभागे आरोप्यते । मालती तु 'जातिः,' न सा कण्टकिनी, नापि वा सीमनि रोप्यते । न च तस्यां परागधूलिर्भवति । [^3]F. 'मदनयष्टिकेतुभिः' इत्येव पाठः । तद्व्याख्या तु- मदनवृक्ष- निर्मितकन्दर्पध्वजैः प्रकाशिता सूचिता मकरध्वजस्य कामस्य पूजा यस्यां सा, कामपूजायां तादृशध्वजोच्छ्रयणस्य शास्त्रोक्तत्वात् । [^१]G. अनवरत. [^२]G. उत्सवावलोकन. [^३]G. मन्थन. [^४]G. दुग्धसिन्धुधवल. [^५]G. विभूषिता. [^६]G. मधुकरपटलान्धकारित. रक्तचामरैर्विद्रुममयैः [^१]प्रतिगृहमुच्छ्रितैर्म [^२]कराङ्कै: [^३]सदनयष्टिकेतुभिः प्रकाशितमकरध्वजपूजा, सततप्रवृत्ताध्ययनध्वनिधौतकल्मषा, स्तिमितमुरजरवगम्भीरगर्जितेषु सलिल- सीकरासार [^४]स्तबकरचितदुर्दिनेषु [^५]पर्यस्त [^६]रवि- किरणरचितसुरचाप [^७]चारुषु धारागृहेषु [^८]मत्तमयूरै- र्मण्डलीकृतशिखण्डैस्ताण्डवव्यसनिमिराबध्यमानकेका [^९]कोलाहला, विकचकुवलयकान्तैरुत्फुल्ल [^१०]कुमुद- धवलोदरैरनिमिषदर्शनरमणीयैराखण्डललोचनैरिव सहस्र- संख्यैरुद्भासिता सरोभिः, अविरलकदलीव [ टि ]-- साम्यं प्रदर्शयन्नाह - रणितेति । रणिताः रणरणशब्दं कुर्वाणाः सौभाग्यघण्टाः सुभगताहेतोर्न्यस्ता घण्टा बृहत्किङ्किण्यो येषु तैः । आलोहीति । आलोहितं रक्तमंशुकं तस्य पताका वैजयन्त्यो येषु तैः । आबद्धेति । आबद्धानि बद्धानि रक्तचामराणि लोहितवालव्यजनानि येषु तैः । विद्रुमेति । विद्रुममयैः विद्रुमं प्रवालं प्रचुरं येषु तैः । प्रतिगृहं प्रतिसद्मोच्छ्रितरूर्ध्वीकृतैः । मकरो मत्स्य- स्तस्याङ्कश्चिह्नं येषु तैः। एवंप्रकारेणैव वसन्ते कामपूजा जनैः क्रियत इति तदुत्प्रेक्षा । सततमिति । सततं निरन्तरं प्रवृत्तः प्रसृतोऽध्यय- नस्य शास्त्रपाठस्य ध्वनिः शब्दस्तेन धौतं क्षालितं कल्मषं पातकं यस्यां सा । पुनः प्रकारान्तरेण तां विशिनष्टि - धारेति । धारागृहेषु यन्त्रगृहेषु मत्तमयूरैरुन्मदकलापिभिराबध्यमानोऽन्योन्याश्लिष्टतया क्रियमाण: केका मयूरस्य वाण्यस्तासां कोलाहलः कलकलो यस्याम् । यन्त्रगृहाणां जलधरसादृश्यं विशेषणमुखेन दर्शयन्नाह - स्तिमितेति । स्तिमितो निश्चलो यो मुरजस्य मृदङ्गस्य रवः शब्दः स एव गम्भीरं घोरं गर्जितं स्तनितं येषु । सलिलेति । सलिलस्य जलस्य सीकरा वातास्तवारिविप्रुषस्तेषामासारो वेगवान्वर्षो येष्वेवंविधाः स्तबका गुच्छकास्तै रचितं प्रारब्धं दुर्दिनं येषु ते तथा तेषु । आसारस्य स्तबका इति समासो वा । पर्यस्तेति । पर्यस्ता निपतिता ये रविकिरणाः सूर्यरश्मयस्तै रचितं, विहितं यत्सुरचापमिन्द्रधनुस्तेन चारुषु मनोहरेषु । रविकिरणानां द्रव्यान्तरसंयोगेन विविधवर्णत्वोपपत्तेरु [^1]त्प्रेक्षा । अथ मयूरान्विशिनष्टि-मण्डलेति । मण्डलीकृता वर्तुलीकृताः शिखण्डा बर्हाणि यैः । नृत्यप्रारम्भे मयूरकलापो मण्डलाकृतिः स्यादिति सर्वप्रसिद्धिः अत एव ताण्ड- वव्यसनिभिर्नृत्यरसिकैः । पुनः कीदृशी । सरोभिस्तटाकैः उद्भा- सिता उपशोभिता । अथ च सरोविशेषणानि — विकचेति । विकचानि विकस्वराणि कुवलयान्युत्पलानि तैः कान्तैर्मनोहरैः । उत्फुल्लेति । उत्फुल्लानि विनिद्राणि यानि कुमुदानि कमलानि तद्वद्धवलं शुभ्रमुदरं मध्यभागो येषां तैः । कैरिव । सहस्रसंख्यै- राखण्डलस्येन्द्रस्य [^2]लोचनैरिव । अथोभौ विशेषयन्नाह – अनिमिषेति । अनिमिषा मत्स्यास्तेषां दर्शनं विलोकनं तेन रमणीयैर्मनोहरैः । पक्षेऽनिमिषं पक्ष्मपातरहितं यद्दर्शनमीक्षणं तेन रमणीयैः मनोहरैः । गृहवर्णनद्वारा तां पुनर्विशिनष्टि - दिशीति । दिशि दिशि प्रतिदिशं दन्तवलभिकाभिर्गजदन्तनिर्मित [^3]च्छदि- भिराधारभूताभिर्धवलीकृता । अथ वलभीविशेषणानि – अविरलेति । अविरलानि निबिडानि यानि कदलीवनानि रम्भावनानि तैः कलिताभिः । [^1]F. पर्यस्तैः काचकपाटादिषु निपतितै रविकिरणैर्नानावर्ण- शालिनः सुरपतिधनुषः संसिद्धिः स्वाभाविक्येव, न तत्र संभावनेति नोत्प्रेक्षा । किन्तु समग्रे वाक्यार्थे – अन्योन्याश्लिष्टकेका कोलाहलेन मयूराणां मुरजरवादौ मेघगर्जनादिभ्रान्तिः प्रतीयत इति वस्तुना अन्तिमदलंकारध्वनिः । [^2]F. अत्र हि आखण्डलोचनैः सह सरसां साम्यात्पूर्णोपमा । तेन सर्वाणि विशेषणान्युभयसंबद्धानि । ततश्च - विकचकुवलयवत्का- न्तैः (इति लोचनपक्षे ), उत्फुल्लैः कुसुदैर्धवलानि मध्यस्थलानि येषां तैः ( इति सरःपक्षे ) व्याख्यानमप्यत्र योजनीयम् । [^3]F. अविरलं यत्कदलीवनं पताकासमूहस्तेन कलिताभिः फेनपुञ्जपाण्डुराभिः दन्तवलभिकाभिः उपरितलगतलघुगृहै: ('अटारी' हिन्दी ) 'शुद्धान्ते वलभी चन्द्रशाले सौधोर्ध्ववेश्मनि' इति रभसः । 'यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः' इति माघश्च । कदली पताका । 'कदली वैजयन्त्यां च रम्भायां हरि- णान्तरे' इति विश्वः । उपरितनटीका तु असंबद्धत्वात्प्रामादिकी । [^१]G. प्रतिभवनम्. [^२]G. मकराङ्कितै:. [^३]G. मदन. [^४]G. आसाररचित. [^५]G. पर्यन्त. [^६]G. दिवसकरकिरणस्तबकरचित. [^७]G. चारुधारा. [^८]G. मयूरमण्डलैरामण्डलीकृत. [^९]G. केकारव. [^१०]G. कमल. [^१]नकलिताभिरमृतफेनपुञ्जपाण्डुराभि [^२]र्दिशि दिशि दन्त- वलभिकाभिर्धवलीकृता, यौवनमदमत्तमालवीकुचकलश [^३]लुलितसलिलया भगवतो महाकालस्य शिरसि सुरसरित [^४]मालोक्यो [^५]पजातेर्ष्ययेव [^६]सतत्समाबद्धतरंगभृकुटिलेखया खमिव क्षालयन्त्या सिप्रया परिक्षिप्ता, [^७]सकलभुवनख्यात- यशसा हरजटाचन्द्रेणेव कोटिसारेण मैनाकेनेवाविदितपक्षपातेन मन्दाकिनीप्रवाहेणेव प्रकटितकनकपद्मराशिना स्मृतिशास्त्रेणेव सभावसथकूपप्रपारामसुर [^८]सदनसेतुयन्त्रप्रवर्तकेन मन्द [ टि ]--अमृतेति । अमृतस्य पीयूषस्य यः फेनपुञ्जो डिण्डीर- पिण्डस्तद्वत्पाण्डुराभिः शुभ्राभिः । सिप्रावर्णनद्वारा नगरीं वर्णयन्नाह — यौवनेति । यौवनमदेन तारुण्याभिमानेन मत्ता उच्छृङ्खला या मालव्यो मालवदेशोद्भवाः स्त्रियस्तासां कुचा एव कलशास्तैर्लुलित- मान्दोलितं सलिलं यस्याः सा तया । भगवत इति । भगवतो महाकालस्य महाकालाभिधानस्येश्वरस्य शिरसि मस्तके सुरसरितं गङ्गामालोक्य निरीक्ष्य सततं निरन्तरं समाबद्धा सम्यक्प्रकारेणा- बद्धा बन्धं प्रापिता ये तरंगाः कल्लोलास्त एव भृकुटिलेखा भृकुटिपङ्क्तिर्यया सा [^1]तथोपजातेर्ष्ययेवोत्पन्नासूययेव । एतेन सपत्नीदर्शनेन भृकुटिविकारो दर्शितः । खमिति । खमाकाशं क्षालयन्त्येव निर्मलं कुर्वत्येवंविधया सिप्रया सिप्रानद्या परिक्षिप्ता परिवेष्टिता । इभ्यजनवर्णनद्वारा नगरीं विशेषयन्नाह - विलासिजनेनाधिष्ठितेति दूरेणान्वयः । तत्र विलासिनीनां जनो, विलासी यो जन इत्येवं समासभेदेन द्वयोर्ग्रहणम् ।अथ विलासिजनविशेषणानि - कीदृशेनेव विलासिजनेन । हरजटाचन्द्रेणेवेश्वरजटास्थनिशानाथे- नेव । उभयं विशिनष्टि-सकलेति । सकलं समग्रं यद्भुवनं विश्वं तत्र ख्यातं प्रसिद्धं यशः कीर्तिर्येषां ते तथा । पक्षे यशः कान्तिर्यस्येति विग्रहः । कोटीति । कोटि: संख्याविशेषस्तावत्प्रमाणं सारं द्रव्यं येषां ते तथा । ' सारो द्रव्यं बलं सारम्' इत्यनेकार्थः । पक्षे कोटि- रग्रभागस्तेन सारः प्रधानः । पुनः केनेव । मैनाकेनेव हिमाचलात्म- जेनेव । उभयं विशिनष्टि - अविदितेति । अविदितोऽननुभूतः पक्षयोः पातरछेदो येन स तथा तेन । इन्द्रेण सर्वेषां भूभृतां पक्षच्छेदो विहितः, परं मैनाकस्य न कृत इति प्रसिद्धिः । पक्षेऽविदितोऽज्ञातः पक्षपातोऽसदङ्गीकारो येन । मन्दाकिनीति । मन्दा- किनी [^2]गङ्गा तस्याः प्रवाहो रयस्तेनेव । उभयं विशेषयन्नाह– प्रकटितेति । प्रकटिता प्रकाशिता कनकस्य सुवर्णस्य । पद्मेति । पदैकदेशे पदसमुदायोपचारा [^3]त्पद्मरागमणीनां राशयः समूहा येन स तथा तेन । पक्षे कनकपद्मानां राशयः कमलसमूहाः । स्मृतीति । स्मृतिर्धर्मसंहिता तल्लक्षणेन शास्त्रेणेव । उभयं विशि- नष्टि – समेति । सभा संसदावसथं छात्रव्रतिनां वेश्म सामान्यतो गृहं वा, कूप उदपानः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम् सुरसदनं देवगृहम्, सेतुः पालिः, यन्त्रोऽरघट्टकादिगृहायाश्रम- स्थत्वात् एतेषां प्रवर्तकेन प्रयोजन । पक्षे धर्मजनकत्वात्तद्वि [^1]F. 'उपजातर्ष्ययेव आबद्धतरंगभुकुटिलेखया' इतिक्रमेण व्याख्यानमुचितम्, सेर्ष्यत्वे एव भ्रुकुटिबन्धौचित्यात् । अत्र कार्येण ( भुकुटिबन्धेन ) शिप्रायां सपत्नीव्यवहारसमारोपात् रूपकगर्भा समासोक्तिः, 'समुपजातेर्ष्ययेव' खमिव क्षालयन्त्या, इत्युत्प्रेक्षाद्वयेन अङ्गभूतेन संकीर्यते । [^2]F. स्वर्गङ्गा इत्यर्थः, तस्यामेव कनककमलसद्भावात् । [^3]F. वस्तुतस्तु - प्रकटितः कनकानां सुवर्णानां पद्मराशिः 'पद्म' संख्यकपञ्जो येन । कोटि - अर्बुदवत् 'पद्म' इति संख्या । एतेन अप्रकटः ( गुप्तः ) धनराशिस्तु विलासिजनस्य न जाने कियान् स्यादिति व्यङ्ग्यम् । [^१]G. कदलिताभिः. [^२]G. दिशि दन्त. [^३]G. क्षुभित. [^४]G. आलोक्यमुपजात. [^५]G. समुपजातेर्ष्यया. [^६]G. समानद्धभ्रुकुटि; आबद्धतरंगभ्रुकुटी. [^७]G. निखिलभुवनतल. [^८]G. सदने. रेणेवो [^१]द्धृतसमग्रसागररत्नसारेण संगृहीतगारुडेनापि [^२]भुजंगभीरुणा [^३]स्वलोपजीविनापि प्रणयिजनोपजीव्यमान- विभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदारसंतुष्टेनातिथिजनाभ्यागमार्थिनापि परप्रार्थनानभिज्ञेन कामार्थपरेणापि धर्मप्रधानेन महासत्त्वेनापि परलोकभीरुणा सकल- [^४]विज्ञानविशेषविदा [^५]वदान्येन [^६]दक्षेण स्मितपूर्वाभि- भाषेणा परिहासपेशलेनोज्ज्वलवेषेण शिक्षिताशेषदेशभाषेण वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु [ टि]-- धायकेनेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव । तदुभयं विशिनष्टि - उद्धृतेति । उदूर्ध्वं धृतानि समग्राण्यखिलानि सागरव [^1]त्समुद्रवद्रत्नेषु साराणि मुख्यरत्नानि येन । पक्ष उद्धृतानि बहिर्नीतानि समग्राणि सागरात्समुद्राद्रत्नसाराणि चतुर्दशरत्नानि येन । संगृहीतेनेति । संगृहीतं गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतिधूर्तो वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवतीत्येवंशीलेनापि प्रणयि- जनेन सज्जनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरोधः। तत्परिहारस्तु खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजी- विना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि सुभटे- नापि विनयवता नमनशीलेनेति विरोधः । तत्परिहारस्तु वीरेण विरा [^2]जमानेनेत्यर्थात् । प्रियमिति । प्रियमेव वदतीति प्रियंवद- स्तेनैवंभूतेनापि सत्यवादिनेति विरोधः । तत्परिहारस्तु प्रियो वल्लभो [^3]वदो वक्ता यस्येत्यर्थात् । 'अनुस्वारः श्लेषभङ्गकृन्न भवति' इति प्राञ्चः । अभीति । अभिरूपेणाप्यतिसुन्दरेणापि स्वस्य दाराः स्त्रियस्तेष्वेव ( स्त्री तस्यां ) [^4]संतुष्टेन संतोषिणेति विरोधः । तत्परिहारस्त्वभिरूपेण पण्डितेनेत्यर्थात् । 'कृतिकृष्ट्यभिरूप- धीराः' इति कोशः । अतिथीति ।अतिथिजनोऽभ्यागतजनस्तस्या- भ्यागम आगमनं तदर्थिनापि परेषु यत्प्रार्थनं याचनं तत्रानभिज्ञेना- कुशलेनेति विरोधः । तत्परिहारस्तु [^5]साधुजनाभ्यागमस्यार्थिना वाञ्छकेनेत्यर्थात् । कामेति । कामः स्त्रीषु रतिः, अर्थो द्रव्यम् तत्परेण तदासक्तेनापि धर्मप्रधानेनेति विरोधः । तत्परिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थस्तत्परेण तत्साधकेनेत्यर्थात् । महेति । महासत्त्वेनापि महासत्त्ववतापि परे शत्रवस्तेषां लोकः समूह- स्तस्माद्भीरुणा साशकेनेति विरोधः । तत्परिहारस्तु परलोको भवान्तरमित्यर्थात् । सकलेति । सकलं समग्रं यद्विज्ञानं शिल्पादि तस्य यो विशेषस्तारतम्यं तद्विदा तद्वेत्रा । वदान्येन दानतत्परेण प्रियं- वदेन च । 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः । दक्षेण चतुरेण । स्मितेति । अदृष्टरदं हास्यं स्मितं तत्पूर्वं यथा स्यात्तथाभि- भाषिणा जल्पकेन । परीति । परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण । 'पेशलं हृद्यसुन्दरम्' इति कोशः । उज्ज्वलेति । उज्ज्वलो निर्मलो वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिता- भ्यस्ताशेषाणां समग्राणां देशानां जनपदानां भाषा वाग्येन स तथा तेन । वक्रोक्तीति । वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुणेन दक्षेण । आख्यायीति । 'आख्यायिका पुरावृत्तमाख्यानं सांप्रतं च तत्' इति कोशः । तत्र यः परिचयः संस्तवस्तत्र [^1]F. उद्धृतं धनद्वारा संगृहीतं समस्तसागररत्नानां सारमुत्कृ- ष्टांशो येन ( विलासि० ) , इति तु सरला व्याख्या । [^2]F. वीरेणापि विनयवता शिक्षावतेति परिहार उचितः । [^3]F. प्रियंवदत्वेपि मितभाषित्वात्परिहारः सरलः । [^4]F. अभि अभिमतं रूपं यस्य तेन ( रूपपक्षपातिना ) । रूपैकपक्षपातिनः कुरूपभार्यत्वे सति सुरूपाऽन्यस्त्रीगामितया संतुष्टत्वं विरुद्धमिति व्याख्यानमुचितम् । [^5]F. अतिथयोपि परे एवेति विरोधः परेषु अर्थप्रार्थनाऽनभिज्ञेनेति तत्परिहारः । [^१]G. उद्धतसमस्त. [^२]G. भुजंग; भुजंगसङ्ग. [^३]G. सकलोपजीविना; कलोपजीविना. [^४]G. विज्ञानविदा. [^५]G. विद्यावदातेन दानशीलेनादीनेन. [^६]G. दक्षिणेन. १५ का० रेण सर्वलिपिज्ञेन महाभारतपुराणरामायणानुरागिणा बृहत्कथा- कुशलेन द्यूतादिकलाकलापपारगेण श्रुतरागिणा सुभाषित- व्यसनिना प्रशान्तेन सुरभिमासमारुतेनेव सततदक्षिणेन हिमगिरि- काननेनेवान्तःसरलेन लक्ष्मणेनेव रामाराधनानिपुणेन शत्रुघ्नेनेवा- विष्कृतभरतपरिचयेन दिवसेनेव मित्रानुवर्तिना बौद्धेनेव [^१]सर्वा- स्तिवादशूरेण सांख्यागमेनेव प्रधान [^२]पुरुषोपेतेन जिनधर्मेणेव [^३]जीवानुकम्पिना विलासिजनेनाधिष्ठिता, सशैलेव प्रासादैः, [^४]सशाखानगरेव महा [ टि ]-- चतुरेणाभिज्ञेन । सर्वेति । सर्वाः समग्रा या लिपयोऽक्षर- विन्यासास्तासां ज्ञेन तज्ज्ञानवता । महेति । महाभारतं प्रसिद्धम्, पुराणं पञ्चलक्षणम्, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतस्नेहेन । बृहदिति । बृहत्कथा [^1]वासिष्ठादिकथा तत्र कुशलेन तद्रहस्य वेदि- ना । द्यूतादीति । द्यूतादयो दुरोदरप्रभृतयो याः कला विज्ञानैक- देशास्तासां कलापः समूहस्तस्य पारगेण पारदृश्वना । श्रुतं शास्त्र- मात्रं तत्र रागिणाभ्यन्तरप्रीतिमता । सुभाषितेति । सुभाषितानि नाटकादीनि तत्र व्यसनिनासक्तचित्तेन प्रशान्तेन क्रोधनिर्मुक्तेन । केनेव । सुरभीति । सुरभिमासो वसन्तमासस्तस्य मारुतो वायु- स्तेनेव । सततेति । सततं निरन्तरं दक्षिणा[^2]त्यागो यस्य स तथा तेन । पक्षे सततं दक्षिणेन दक्षिणदिग्गा- मिना ।हिमेति । हिमगिरिस्तुहिनाचलस्तस्य काननं वनं तेनेव । अन्तरिति । अन्तर्मध्ये सरलेनाकुटिलेन । पक्षे सरला वृक्षविशेषाः । लक्ष्मणेति । लक्ष्मणः सौमित्रिस्तेनेव । रामेति । रामस्य दाशरथेर्यदाराधनं समुपासनं तत्र निपुणेन कुशलेन । पक्षे रामाणां स्त्रीणामाराधनं सेवनम् । शत्रुघ्नेति । शत्रुघ्नो रामानुजस्तेनेवाविष्कृतः प्रकटीकृतो भरते नाट्यशास्त्रे परिचयः परिचितिर्येन स तथा । पक्षे भरतः शत्रुघ्नभ्राता । दिवसेनेव वारेणेव । मित्रमिति । मित्रं सुहृत्तदनु- वर्तिना तच्चित्ताराधकेनेत्यर्थः । पक्षे मित्रः सूर्यस्तदनुवर्तिना तदायत्तेनेत्यर्थः । बौद्धेति । बौद्धः सुगतस्तेनेव । सर्वेति । सर्वस्य वस्तुनो योऽस्तिवादः सर्वमस्तीति जल्पनं तत्र शूरेण धीरेण । कदाचिदपि नास्तीति न ब्रुवतेति भावः । पक्षे सर्वास्तिवादो बौद्धानां निकाय- भेदः स च शूरो यस्मिन् । अतः परं सिद्धान्ताभावात् । यद्वा सर्वेषां पदार्थानां सर्ववादिनां वा योऽस्ति वादोऽक्षणिकवादस्तत्र शूरेण तदवक्षेप [^3]केण । सांख्येति । सांख्याः कापिलास्तेषामागमः सिद्धान्तस्तेनेव । प्रधानेति । प्रधाना मुख्या ये पुरुषाः पुमांसस्तैरु- पेतेन सहितेन । पक्षे प्रधानं सत्त्वादीनां साम्यावस्था, पुरुषश्चेतना- रूप आत्मा । यदुक्तम्- 'अजामेकां लोहितशुक्लकृष्णाम्' 'अजो ह्येकः' इत्यादि । प्रधानश्चासौ पुरुषश्च तेनोपेतेन । जिनेति । जिनः सर्वज्ञस्तस्य धर्मो वृषस्तेनेव । जीवेति । जीवे प्राणिन्यनुकम्पा यस्येत्य [^4]भङ्गलेषः । पुनः प्रकारान्तरेण नगरीं वर्णयन्नाह --- सरौलेति । सशैलेव सपर्वतेव । कैः । प्रासादैर्देवभूपसदनैः । अतिमहत्त्वाच्छैलसाम्यम् । सशाखेति । शाखानगरमुपपुरं तेन सह वर्तमानेव । [^1]F. गुणाढ्यकृतः प्राकृतग्रन्थ इति व्याख्योचिता । [^2]F. सततं दक्षिण: उदारचरितस्तेनेति सरलोऽर्थः । [^3]F. सर्वेषां भूतभौतिकानां बाह्यानां चित्तचैत्तानाञ्चाभ्यन्तराणां पदार्थानाम् अस्तिवादे अस्तित्वभाषणे शूरेण, तदस्तित्वस्य युक्त्या- दिना समर्थनान्नितान्तदक्षेण । तथाच शारीरकभाष्यम् -'बौद्ध- सिद्धान्ते एते त्रयो वादिनो भवन्ति । केचित् सर्वास्तित्ववादिनः केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिनः । तत्र ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं चित्तं चैत्तं चेति तांस्तावत् प्रति ब्रूमः ।' [^4]F. इदं विशेषणमुभत्रापि सममित्यर्थः । [^१]G. सर्वदा नास्तिवादशूरेण; सर्वास्तिवादशून्येन. [^२]G. पुरुषगुणोपेतेन विकासि. [^३]G. सर्वजीवानुकम्पिना; सर्वभूतानुकम्पिना. [^४]G. सशाखेव. भवनैः, सकल्पवृक्षेव सत्पुरुषै:, दर्शितविश्वरूपेव चित्रभित्तिभिः, संध्येव पद्म [^१]रागानुरागिणी, अमराधिपमूर्तिरिव मखशतानल- धूमपूता, पशुपतिलास्यक्रीडेव सुधाधवलाट्टहासा, वृद्धेव जातरूप- क्षया, गरुडमूर्तिरिवाच्युतस्थितिरमणीया, प्रभातवेलेव प्रबुद्धसर्व- लोका, शबरवसतिरिवा [^२]वलम्बित [^३]चामरनागदन्तघवल- गृहा, शेषतनुरिव सदासन्नवसुधाघरा, [^४]जलधिमथनवेलेव महा- घोषपूरितदिगन्तरा, प्रस्तुताभिषेक [^५]भूमिरिव [^६]संनिहित- कनक [^७]घटकसहस्रा, गौरीव महासिंहासनोचितमूर्ति: अदिति- रिव देवकुलसहस्रसेव्या, महावराहलीलेव दर्शितहि [ टि ]-- कैः । महाभवनैरुत्तुङ्गगृहै: । सद्मनामतिदैर्घ्येण शाखापुरो- पमानम् । सकल्पेति । सह कल्पवृक्षेण पारिजातेन वर्तमानेव । कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् । दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यया सेव । काभिः । चित्रभित्तिभिरालेख्यसहितकुड्यै: । चित्रस्य सकलवस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा । संध्येव पितृप्रसूरिव । पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नबाहु- ल्यं दर्शितम् । पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः । अमरेति । अमराधिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो वह्निस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् । पक्षे मखशतं शताश्वमेधाः । शेषं पूर्ववत् । पश्विति । पशुपतिरीश्वरस्तस्य लास्यक्रीडेव । नृत्यक्रीडेव । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला [^1]विपणय एव अट्टहासो हास्यं यस्यां सा । पक्षे सुधामृतं तद्वद्धवलः शुभ्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धेव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा । 'वसतिः शरणं क्षयः' इति कोश: । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः । गरुडेति । गरुडो गरुत्मांरतस्य मूर्तिरिव । अच्युतेति । न च्युताच्युता सर्वदा स्थिरा' या स्थितिर्मर्यादा तया रमणीया मनोहारिणी । पक्षेऽच्युतस्य कृष्णस्य या स्थितिरवस्थानं तेन रमणीया । प्रभातेति । प्रभातं प्रत्यूषस्तस्य वेलाम्भसो वृद्धि: ( ? ) सेव । प्रबुद्धेति । प्रबुद्धा विशे- षाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा । पक्षे प्रबुद्धाः सुप्तो- त्थिताः । शेषं पूर्ववत् । शबरेति । शबरा भिल्लास्तेषां वसति- र्निवासस्थलं सेव । अवलेति । अवलम्बितान्यालम्बितानि चामराणि वालव्यजनानि येष्वेवंविधा नागदन्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा । पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तैर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शेषतनुरिति । शेषो नागाधिपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्नाः समीपस्था वसुधाधराः पर्वता यस्यां सा । पक्षे सदा सर्वकालमासन्नां समीपवर्तिनीं वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलोडने या वेला सेव । महेति । महाघोषा महत्य आभीरपल्लिकास्ताभिः पूरितानि चितानि दिगन्तराणि यस्यां सा । 'घोषस्त्वाभीरपल्लिका' इति कोशः । पक्षे महाघोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः पृथ्वी सेव । संनि- हितेति । संनिहिता समीपस्थाः कनक [^2]घटकाः सौवर्णिका- स्तेषां सहस्रं यस्यां सा तथा । एतेन जनालंकारबाहुल्यं सूचितम् । पक्षे संनिहिता आसन्नवर्तिनः कनकघटकसहस्राः सुवर्णकुम्भ- सहस्रा यस्यामिति विग्रहः । गौरीवेति । गौरी पार्वती सेव । महेति । महासिंहासनं महासुवर्णासनं तत्रोचिता योग्या मूर्तिर्यस्या इति विग्रहः । अदीति । अदितिर्देवमाता सेव देवकुलानां देवगृहाणां सहस्रं सेव्यं यस्यां सा, बेवकुलसहस्रैः सेव्या सेवनीया । देवमातृत्वात् । महावराहेति । महावराह आदिवराहस्तस्य लीला क्रीडा सेव । दर्शितेति । दर्शितो दृग्विषयीकारितो हिरण्य [^1]F. सुधया धवलानाम् अट्टानामट्टालिकानां हासः प्रकाशो यस्यां सा, इत्यर्थः । [^2]F. 'कनकघटसहस्रा' इति पाठे तु अभिषेक भूमौ स्नानीय- घटसहस्रम्, नगर्यां तु मङ्गलार्थं द्वारेषु स्थापितं घटसहस्रं बोध्यम् । [^3]F. गौरीपक्षे - महासिंहरूपे आसने उचितेत्यर्थः । [^१]G. रागारुणा. [^२]G. आलम्बित. [^३]G. चारुचामर. [^४]G. जलनिधि. [^५]G. भूमी; वेलेव. [^६]G. सदासंनिहित. [^७]G. घटः कलश. रण्याक्षपाता, [^१]कद्रूरिवानन्दितभुजंगलोका, हरिवंशकथेवानेक- बालक्रीडारमणीया, प्रकटाङ्गनोपभोगाप्यखण्डितचरित्रा, रक्त- वर्णापि सुधाधवला, अवलम्बितमुक्ताकलापापि विहारभूषणा, बहुप्रकृतिरपि स्थिरा, विजितामरलोकद्युतिरवन्तीषूज्जयिनी नाम नगरी । यस्यामुत्तुङ्गसौधो [^२]त्सङ्गसंगीतसङ्गिनीनामङ्गनानामतिमधुरेण गीतरवे [^३]णाकृष्यमाणाधोमुखरथतुरंग: [^४]पुरःपर्यस्तरथ-पताकापटः कृतमहाकालप्रणाम इव [^५]प्रतिदिनं [^६]लक्ष्यते गच्छ [^७]न्दिवसकरः । यस्यां च संध्यारागारुणा इव सिन्दूरमणि- कुट्टिमेषु, [^८]प्रारब्धकमलिनी [^९]परिमण्डला इव [ टि ]-सुवर्णस्य येऽक्षाः पाशास्तेषां पातो यस्यां सा । पक्षे हिरण्य- [^1]दैत्यस्याक्षाणामिन्द्रियाणां पातो नाशो यस्याम् । कद्रूरिति । कद्रूर्नागमाता सेव । आनन्दितेति । आनन्दितः प्रमोद प्रापितो भुजंगलोको [^2]गणिकापतिजनो यस्यां सा । पक्षे भुजंगलोकः सर्पसमुदायः । हरिवंशेति । हरिवंशनाम्नो ग्रन्थस्य या कथा प्रबन्धः सेव । अनेकेति । अनेकेषां बालानां शिशूनां या क्रीडा खेलनं तथा रमणीया मनोहरा । पक्षेऽनेका बह्व्यो [^3]बालनाम्रो नृपस्य क्रीडोद्यानगमनादिरूपा तया मनोहरा चित्ताकर्षिणी । प्रकारान्त- रेण पुनस्तामेव वर्णयन्नाह - प्रकटेति । प्रकटं स्पष्टमङ्गनायाः स्त्रिय उपभोगो यस्यामेवंभूताप्यखण्डितचरित्रेति विरोधः । तत्परिहारस्तु प्रकटाङ्गनानामुपभोगस्ताम्बूलादिरित्यर्थादखण्डितं चरित्रं लोक- प्रशंसारूपमस्यामित्यर्थाद्वा । रक्तेति । रक्तवर्णाप्यरुणवर्णापि सुधा पूर्वव्याख्यातवद्धवलेति विरोधः । तत्परिहारस्तु रक्ता अनुरक्ता वर्णा ब्राह्मणादयो यस्यामित्यर्थात् । अवेति । अवलम्बित- आलम्बनीकृतो मुक्ताकलापो मुक्ताप्रालम्बो ययैवंभूतापि विगतस्त्रुटितो रतादौ यो हारः स एव भूषणमलंकृतिर्यस्यामिति विरोधः । तत्परिहारस्तु विहारा जैनप्रासादा इत्यार्थात् । 'विहारो जिनसद्मनि' इति कोशः । बह्विति । बह्वी प्रकृतिर्यस्यामेवंविधापि स्थिरेति विरोधः । तत्परिहारस्तु बह्व्य: प्रकृतयः पौरलोकाः । विजीति । विशेषेण जिता अमरलोकस्य देवलोकस्य द्युतिः कान्तिर्यया सा । अवन्तीषु मालवेषु । अन्वयस्तु प्रागेवोक्तः । यस्यामिति । यस्याम् उज्जयिन्याम् । उत्तुङ्गेति । उत्तुङ्गमुच्चं सौधं धवलं गृहं तस्योत्सङ्ग उपरिप्रदेशस्तस्मिन्यत्संगीतं गीतनृत्यादि तत्र सङ्गिनीनां व्यासक्तानामङ्गनानां स्त्रीणामतिमधुरेणातिमिष्टेन गीतरवेण गानस्वरेणाकृष्यमाणा अधोमुखा अवाङ्मुखा रथस्य स्यन्दनस्य तुरंगा अश्वा यस्य सः । पुरोऽग्रे पर्यस्तः क्षिप्तो रथस्य पताकापटो वैजयन्तीपटो येनैवंभूतो गच्छन्व्रजन्दिवसकरः सूर्यः । आकृष्यमाणाधोमुखरथतुरगव्याजेन कृतो विहितो महाकालस्य ज्योतिर्लिङ्गात्मकशंकरस्य प्रणामो येनैवंभूत इव प्रतिदिनमहर्निशं लक्ष्यते दृश्यते । जनैरिति शेषः । यस्यां चेति । यस्यामुज्जयिन्यां रविगभस्तयः सूर्यकिरणाः । सिन्दूरेति। सिन्दूरमणयो मणिविशेषा- स्तेषां कुट्टिमेषु तदारुण्यप्रतिबिम्बात्संध्यारागेणारुणा इव । संल- क्ष्यन्त इति क्रियायाः पूर्वतः परतो वा राजन्त इति क्रियायाः सर्वत्रा- नुषङ्गः । किरणेषु मरकतहरितप्रतिबिम्बादाह- प्रारब्धेति । प्रारब्धमाचरितं कमलिनीषु परिमण्डलं लुठनं यैस्ते तादृशा इव । मरकतवेदिकास्वंश्मगर्भ घटित [^1]F. दर्शितो हिरण्याक्षस्य तदाख्यस्य दैत्यस्य पातो विनाशो यस्यामित्यर्थ उचितः । [^2]F. विटजन इति सरलोर्थः । [^3]F. यदुवंशीयानां बालानां नानाविधक्रीडाकथाभी रमणीयेति स्पष्टोऽर्थः । [^4]F. दुश्चरित्रत्वेन लज्जासंकोचाद्यभावादभिव्यक्तः अङ्गनाना- मुपभोगो यस्यामेवं सत्त्वेपि अखण्डितचरित्रत्वं विरुद्धम् । परि- हारस्तु - प्रकटः सौरभोद्गारादिना अङ्गनानां ताम्बूलाडुपभोग इति । [^१]G. आस्तीकतनुरिव. [^२]G. उत्संगीतसंगिनीनाम्; उत्सङ्गसंगिनीनाम्. [^३]G. कृष्यमाणा. [^४]G. पुरपर्यस्त. [^५]G. प्रतिदिवसम्. [^६]G. आलक्ष्यते. [^७]G. भगवान्दिवस. [^८]G. नीलकमलिनी. [^९]G. परिमलिनी; परिमिलना; परिमलना; परिमला; परिमीलना. मरकतवेदिकासु, [^१]गगन [^२]पर्यस्ता इव वैडूर्यमणिभूमिषु, तिमिरपटलविघटनोद्यता इव कृष्णागुरु [^३]धूममण्डलेषु, अभि- भूततारकापङ्क्तय इव [^४]मुक्ताप्रालम्बेषु, विकचकमलचुम्बिन इव नितम्बिनीमुखेषु, प्रभातचन्द्रिकामध्यपतिता इव [^५]स्फटिकभित्तिप्रभासु, गगनसिन्धु [^६]तरंगावलम्बिन इव सितपताकां- शुकेषु, पल्लविता इव सूर्यकान्तोपलेषु, राहुमुखकुहरप्रविष्टा इवेन्द्रनीलवातायन विवरेषु विरा [^1]जन्ते रविगभस्तयः । [^१]यस्यां चानुपजाततिमिरत्वादविघटितचक्रवाकमिथुना [^८]व्यर्थीकृतसुरतप्रदीपाः संजातम [ टि ]-- पीठिकासु वैडूर्यमणिनैर्मल्यप्रतिबिम्बादाह -गगनेति । अधःप्रसृता अपि नैल्यसाम्याद्गगन आकाशे पर्यस्ता विस्तीर्णा इव दृश्यन्ते । वैडूर्यमणयो बालवायजानि तेषां भूमिषु । तन्मणिबद्ध- स्थलीष्वित्यर्थः । किरणेषु धूमरूपप्रतिबिम्बादाह - तिमिरेति । तिमिरपटलस्य ध्वान्तसमूहस्य यद्विघटनं भेदनं तत्रोद्यता इव कृतप्रयत्ना इव । केषु । कृष्णागुरुः काकतुण्डस्तस्य धूमस्तेषां मण्डलेषु पटलेषु । मुक्तानां स्वच्छताविशेषसंक्रमादाह — अभि- भूतेति । अभिभूतास्तारकत्वेनानिर्धार्यमाणास्तारकाणां नक्षत्राणां पङ्क्तयो लेखा यैस्तादृशा इव मुक्ताप्रालम्बेषु मुक्ताकलापेषु । मुखस्य विकचकमलसाम्यादाह — विकचेति । विकचानि विक- स्वराणि यानि कमलानि चुम्बिन इव नितम्बिनीमुखेषु प्रमदावदनेषु । अत्र सिन्दूरमरकतवैडूर्यधूमेषु तद्रूपविशेषातिशयो व्यज्यते । मुखेSभङ्गुरगुणवत्त्वकमलापेक्षया कमलस्य भङ्गुरगुणवत्त्वा- त्स्फटिकरूपसंक्रमादाह — प्रभातेति । प्रभातस्य प्रत्यूषस्य या चन्द्रिका चन्द्रगोलिका तन्मध्यपतिता इव तदन्तःपातिन इव स्फटि- कस्य चान्द्रोपलस्य भित्तयः कुड्यानि तासां प्रभासु कान्तिषु। उदये चन्द्रिकाया रक्तत्वात्, मध्ये च पाण्डुरत्वात्, प्रातस्तु स्फटिकसाम्यात्प्रभातपदम् । अत्रातिशयो व्यज्यते ।तरंगसादृश्यात्सितपता- कानां तत्संबन्धवशादाह - गगनेति । गगनसिन्धुः स्वर्धुनी तस्या- स्तरंगाः कल्लोलास्तानवलम्बत इत्येवंशीला इव सितपताकांशुके- षूज्ज्वलवैजयन्तीपटेषु । पताकायां श्वेतातिशयो व्यज्यते । सूर्य- कान्तेषु संक्रमवशादाह - सूर्येति । पल्लववदाचरन्तीति पल्लविता' अङ्कुरितास्तादृशा इव सूर्यकान्ता एवोपलाः प्रस्तरास्तेषु । इन्द्र- नीलसंपर्कवशादाह - राह्विति । राहुः सैंहिकेयस्तस्य मुखमिव कुहरं बिलं तत्र प्रविष्टास्तदन्तर्गता इवेन्द्रनीलमणीनां ये वातायना गवाक्षास्तेषां विवरेषु छिद्रेषु विराजते । अन्वयस्तु प्रागेवोक्तः । यस्यां चेति । यस्यामुज्जयिन्यां रजन्यो रात्रय एवंभूताः सत्यो यान्ति । कीदृशाः । न विघटितं न विभिन्नं चक्रवाकानां कोकानां मिथुनं [^2]द्वन्द्वं याभिस्ताः । तत्र हेतुमाह- अनुपजातेति । अनुपजातं तिमिरं यस्यां तस्या भावस्तत्त्वं तस्मात् । व्यर्थीकृतेति । व्यर्थीकृता निष्प्रयोजनीकृताः सुरतप्रदीपा रतप्रयोजका [^1]F. रविगभस्तयः सिन्दूरमणि ( प्रवाल ) कुट्टिमेषु ( पतिताः सन्तः ) सन्ध्यारागारुणा इव विराजन्ते । मरकत ( हरितमणि ) वेदिकासु ( पतिताः ) प्रारब्धं नीलकमलिनीषु परिमण्डलं मण्डलाकारेणाऽवलुण्ठनं यैस्ते इव विराजन्ते इत्यादिः तत्तदाधारसंबन्धाद्र- विकिरणेषु नानाविधगुणक्रियादेरुत्प्रेक्षा । एवं सर्ववाक्येषु व्याख्याऽनुसंधेया । [^2] F. भूषणप्रभाभिरन्धकाराभावाद्दिवस एवायमिति चक्रवाकानां भ्रमः । तथा चात्र भ्रान्तिमानलंकारो व्यज्यते, (वाच्यत्वाभावात् ) । [^१]G. गगनतल. [^२]G. प्रसृता. [^३]G. धूप. [^४]G. मुक्ताफल. [^५]G. स्फटिकमणि. [^६]G. तरंगसङ्गिन:. [^७]G. यस्यामनु. [^८]G. प्रकटीकृत. दनानलदिग्दाहा इव यान्ति कामिनीनां भूषणप्रभाभिर्वालातपपिञ्ज- रा [^1]इव रजन्यः । यां च संनिहित विषमलोचनामनवरतमति- मधुरो रतिप्रलाप [^२]इव प्रसर्पन्मुखरीकरोति मकरकेतुदाहहेतुभूतो भवन [^३]कुलहंस [^४]कुलको [^2]लाहलः । यस्यां च निशि निशि [^५]पवनविलोलैर्दुकूलपल्लवैरुल्लसद्भिर्मालवीमुख- कमलकान्तिलज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारित- [^६]ध्वजभुजाः प्रासादा लक्ष्यन्ते । [^७]यस्यां च सौध [^८]शिख- रशायिनीनां पश्यन्मुखानि पुरसुन्दरीणां मदनपरवश इव पतितः प्रतिमाच्छलेन लुठति बहलचन्दनजलसेकशिशि [^९]रेषु मणि- कुट्टिमेषु मृगलाञ्छनः । यस्यां च [^१०]निशावसानप्रबुद्धस्य [^११]तारतारमपि पठतः पञ्जरभाज: शुकसारिकासमूह [^१२]स्या [ टि ]-- गृहमणयो यस्यां सा । अनुपजाततिमिरत्वादेवेति भावः । तत्रापि हेतुमाह - कामिनीति । कामिनीनां योषितां भूषणान्या- भरणानि तेषां प्रभाभिः कान्तिभिः । अत्र भूषणप्रभालक्षणेन हेतुनानुपजाततिमिरत्वम् । तेन चाविघटितचक्रवाकमिथुनत्वं व्यर्थीकृतदीपकत्वं चेति भावः । प्रभाभिः कीदृशा इव । संजातेति । संजातः समुत्पन्नो यो मदनानलो मदनवह्नि: स एव दिग्दाहो यासु तादृशा इव बालातपो नवीनसूर्यातपस्तेन पिञ्जराः श्वेतरक्ता- स्तादृशा इव । यां चेति । यां नगरीं भवनं गृहं तस्य कुलं समुदायस्तत्र हंसकुलानि तेषां कोलाहलो मुखरीकरोति वाचाली करोति । 'अभूततद्भावे च्विः' । कीदृशः । अतिमधुरोऽतिमिष्टः अनवरतं प्रसर्पन्प्रसरन् कीदृश इव । रतीति । रतिर्मदनस्त्री तस्याः प्रलाप इव विलाप इव । मकरेति । मकरकेतुना मदनेन दाहस्तस्य हेतुभूतः । अन्यत्र मकरकेतोर्दाहो हेतुभूतोऽस्य रतिप्रलापस्येति विग्रहः । रतिप्रलापसाम्यं कोलाहले वक्तुमाह - संनिहितेति । संनिहितः समीपस्थो विषमलोचनः शंभुर्यस्यां सा । यस्यां चेति । यस्यां नगर्यां प्रासादा आवासा ईदृशा लक्ष्यन्त इत्यन्वयः । तान्विशिनष्टि — दूरेति । दूरमूर्ध्वं प्रसारिता विसारिता ध्वजा वैजयन्त्य एव भुजा येषां ते तथा । किं कुर्वन्त इव । इन्दोश्चन्द्रस्य कलङ्कं मालिन्यमपनयन्त इव दूरीकुर्वन्त इव । चन्द्रं विशिनष्टि - मालवीति । मालव्यः मालवदेशोद्भवाः तासां मुखकमलानि तेषां कान्तिस्तया लज्जितस्य त्रपितस्य । तत्करणे कारणं दर्शयन्नाह - निशि निशीति । निशि निशि प्रतिनिशमुल्लसद्भिः शोभमानैः पवनेन वायुना विलोलैश्चपलैर्दुकूलपल्लवैर्वस्त्राञ्चलैः । यस्यां चेति । यस्यां नगर्यां मृगलाञ्छनश्चन्द्रो मणिकुट्टिमेषु प्रतिमाच्छलेन प्रतिबिम्बमिषेण लुठति प्रसरति । कीदृशः । मदनेन कंदर्पेण परवशः परायत्त इव । हेतुमाह - किं कुर्वन् । पश्यन्विलोकयन् । कानि । सौधशिखर- शायिनीनां गृहप्रान्तस्थायिनीनां पुरसुन्दरीणां नगरनारीणां मुखानि वदनानि । कीदृशेषु मणिकुट्टिमेषु । बहलेति । बहलं यच्चन्दनजलं मलयजद्रवमिश्रिताम्भस्तेन सेकः सिञ्चनं तेन शिशिरेषु शीतलेषु । अत एव पतित इति विशेषणं शिशिरवाञ्छकत्वात्कामार्तस्येति भावः । यस्यां चेति । प्रभाते प्रत्यूषे मङ्गले नैमित्तिका गीतयो व्यर्थीभवन्ति निष्फलीभवन्ति । व्यर्थीभवने हेतुद्वयं प्रदर्शयन्नाह – शुकेति । शुकः कीरः, सारिका पीतपादा, तयोः समूहः संघातस्तस्य । अभिभूतानि [^1]F. अत्र चक्रवाकानां विघटनसंबन्धेऽपि तदसंबन्धात्, प्रदीपानां व्यर्थीकरणाऽसंबन्धेपि तत्संबन्धोक्तेरतिशयोक्तिद्वयम् । संजातदिग्दाहा इव पिञ्जरा इव चेत्युत्प्रेक्षाद्वयम् । एतेषामलंकारा- णामेकस्मिन्वाक्ये निरपेक्षतयाऽवस्थानात्संसृष्टिः । [^2]F. संनिहितविषमलोचना ( पुरी ), अत एव तत्कर्तृकमक-रकेतुकर्मकदाहकारणात् रते: प्रलापः ( विलापः ) इव हंसकोला- हलो यां पुरीं मुखरयति । वस्तुतस्तु-- मकरकेतुना यो दाहः ( कामकर्तृको यो लोकानां संतापः हंसरवस्योद्दीपकत्वात् ) तस्य हेतुभूतः हंसकोलाहलो यां मुखरीकरोति । इत्याशयः । [^१]G. पिञ्जरत्वं रजन्य:. [^२]G. इव प्रतिवासरं प्रसर्पन्. [^३]G. कल. [^४]G. हंसकोलाहल:. [^५]G. पवनवश. [^६]G. ऊर्ध्वध्वज. [^७]G. यस्यां सौध. [^८]G. शिखरोत्सङ्ग. [^९]G. शिशिरेषु मृग. [^१०]G. निशावसाने. [^११]G. तारतरमतिपठत:. [^१२]G. रवेणाभिभूता गृहसारविरुतेन. भिभूतगृहसारसस्वरामृतेन विस्तारिणा विलासिनी [^१]भूषणर- [^२]वेणाविभाव्यमाना व्यर्थीभवन्ति प्रभात [^1]मङ्गलगीतयः । यस्यां चानिवृत्तिर्मणि [^३]प्रदीपानाम्, [^४]अन्तस्तरलता [^५]हाराणाम्, अस्थिति: संगीतमुरजध्वनीनाम्, द्वन्द्ववियोग[^६]श्चक्रनाम्नाम्, वर्णपरीक्षा कनकानाम्, अस्थिरत्वं ध्वजानांम्, मित्रद्वेषः कुमुदानाम्, कोशगुप्तिरसीनाम् । किं बहुना [^७]यस्यां सुरासुरचूडामणि [^८]मरीचिचुम्बितचरणनखमयूख:, निशित- [^९]शूलदारितान्धकमहा [ टि ]-- तिरस्कृतानि गृहसारसानि येन । सारसानीत्यत्र लक्षणया सारसस्वरस्तादृशेन स्वरामृतेन । विलासिनीति । विलासिन्यः स्त्रियस्तासां भूषणरवेणाभरणनिनादेन विस्तारिणा प्रसरणशीलेना- विभाव्यमानाः पराभूयमानाः । अथ शुकसारिकासमूहं विशिनष्टि - निशेति । निशाया रजन्या अवसाने प्रान्ते प्रबुद्धस्य जागृतस्य । तारेति । तारतारमप्युच्चैस्तरमपि पठतः पठनं कुर्वतः । पञ्जरेति । पञ्जरं भजतीति तथा तस्य । पञ्जरस्थायिन इत्यर्थः । यस्यां चेति । पूर्ववत् । अनिवृत्तिरनिर्वाणता मणिप्रदीपानाम् । न तु लोकाना- मनिवृत्तिरनुपरमः । 'निवृत्तिः स्यादुपरमे' इति कोशः । क्वचित्' 'अनिर्वृतिः' इति पाठः । तत्र निर्वृतिः सुखम् । शेषं पूर्ववत्। अन्तरिति । अन्तर्मध्ये [^2]तरलो मध्यमणिस्तस्य भावस्तस्य । हाराणां मुक्ताप्रालम्बानाम् । 'नायकस्तरलः' इति कोशः । न तु लोकानामन्तश्चित्ते तरलता चाञ्चल्यम् । 'तरलं कम्पनं कम्प्रम्' इति कोशः । अस्थितिरिति । अस्थितिस्ताल [^3]लयादिष्वनवस्थानं संगीतमुरजध्वनीनां प्रेक्षणार्थप्रयुक्तगीतनृत्यवाद्यमृदङ्गशब्दानाम् । न तु लोकानामस्थितिरमर्यादा । द्वन्द्ववियोग इति । द्वन्द्वस्य स्त्रीपुरुषरूपस्य वियोगो विघटनं चक्रनाम्नां द्वन्द्वचराणाम् । न तु लोकानां द्वन्द्वेन युद्धेन वियोगः स्त्रीपुरुषविश्लेषः । वर्ण इति । वर्णो [^4]वर्णिका तस्याः परीक्षा परीक्षणं कनकानां सुवर्णानाम् । न तु लोकानां वर्णा ब्राह्मणादयस्तेषां परीक्षा वर्णसांकर्याभावात् । अस्थिरत्वमिति । अस्थिरत्वं चञ्चलत्वं ध्वजानां केतूनाम् । न तु लोकानां चाञ्चल्यम् । मित्रद्वेष इति । मित्रः सूर्यस्तेन सह द्वेषोऽप्री- तिः कुमुदानां कैरवाणाम् । चन्द्रविकासित्वात् । न तु लोकानां मित्रेण सुहृदा द्वेषः । कोश इति । कोश: प्रती [^5]कार ( ? ) स्तत्र गुप्तिर्गोपनमसीनाखड्गानाम् । न तु लोकानां कोशस्य भाण्डारस्य गुप्तिः । किं बहुनेति । किं बहुजल्पितेनेत्यर्थः । यस्यां नगर्यां महाकाल इत्यभिधानं यस्य स देवः स्वयं साक्षाद्वसति । तं विशिष्टि -- सुरेति । सुरासुराणां यश्चूडामणिः शिरोरत्नं तस्य मरीचयः किर- णास्तै चुम्बिताः स्पृष्टाश्चरणनखानां मयूखा यस्य सः । निशितेति । निशितं [^1]F. निशावसाने जागरितस्य तारं पठतश्च पञ्जरस्थशुकसारिकासमूहस्य प्रभातमङ्गलगीतयः ( अर्थात् शुकसारिकाभिर्गीताः प्राभातिकगीतयः ) गृहसारसमधुरस्वराभिभाविना विलासिनी- भूषणझणत्कारेण अज्ञायमानाः सत्यः व्यर्थीभवन्ति, इत्याशयः । टीकाकारस्तु विचित्रं व्याख्याति येन पौरकृतमाभातिकगीतीनां भ्रमो भवति । [^2]F. 'अन्तस्तरलता हारलतानाम्' इत्येव ग्रन्थोचितान्यक्षराणि । अन्तस्तरलो मध्यमणिर्येषां तद्भावः अन्तस्तरलता ( मध्यमणि- शालिता ) इति च व्याख्या । [^3]F. संगीतस्य मुरजस्तस्य च ध्वनीनां अस्थितिः इतस्ततः प्रसरणशीलत्वम्, इत्यर्थ: ( अस्थितिः तृतीयक्षणे अविद्यमानता वा ) । ताललयादिषु अनवस्थानम् ( अर्थात् ताललयाद्युल्लङ्घनम् ) तु गीतवाद्यानां भ्रष्टतैव । [^4]F. वर्णः ( रूपम् 'रङ्गः ) तस्य परीक्षा ( वह्नितापनिकषकषणा- दिद्वारा ) । [^5]F. प्रसिद्धः, चर्ममयमावरणगृहम् । [^१]G. रवेण च. [^२]G. अभिभाव्य. [^३]G. दीपानाम्. [^४]G. तरलता. [^५]G. हारलतानाम्. [^६]G. चक्रनाम्नः ; चक्रवाकनाम्नाम्. [^७]G. यस्यां च. [^८]G. मरीचिचय. [^९]G. त्रिशूल. सुरः, गौरीनूपुरकोटिघृष्ट [^१]शेखरचन्द्रशकलः, त्रिपुरभस्मरजः- कृताङ्गरागः, मकरध्वजध्वंसविधुरया रत्या प्रसादयन्त्या प्रसारित- [^२]करयुगविगलित [^३]वलयनिकरार्चितचरणः, प्रलयानलशिखाकलापकपिलजटाभारभ्रान्त [^४]सुरसिन्धु [^५]रन्धकारा- तिर्भगवान्, उत्सृष्टकैलासवासप्रीतिर्महाकालाभिधः स्वयं [^६]वसति । तस्यां चैवंविधायां नगर्यां [^७]नलनहुषययातिधुन्धुमारभरतभगीरथदशरथप्रतिमः, भुज [^८]बलार्जितभूमण्डलः, फलित- शक्तित्रयः, मतिमान् उत्साहसंपन्नः, नीतिशास्त्राखिन्नबुद्धिः, अधीतधर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः अनेकसप्ततन्तुपूतमूर्तिः, उपशमितसकलजगदुपप्लवः, विहाय कमलवनान्यवगणय्य नारायणवक्षःस्थलवसतिसुखमु [ टि ]-- तीक्ष्णं यच्छूलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धक- महासुरो येन स तथा । गौरीति । गौरी मानवती तस्याः सान्त्वना- वसरे तन्नूपुरस्य या कोटि [^1]स्तस्य घृष्टं वर्षणां प्रापितं शेखरेऽव- तंसे चन्द्रशकलं यस्य स तथा । त्रिपुरेति । त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वयमेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति । मकरध्वजस्य कंदर्पस्य यो ध्वंसो दाहस्तेन विधुरया दुःखितया रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं यत्करयुगं हस्तयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेना- र्चितौ पूजितौ चरणौ पादौ यस्य सः । प्रलयेति । प्रलयसंबन्ध्यनलो वह्निस्तस्य शिसा ज्वालास्तासां कलापः समूहस्तेन कपिलः पिङ्गलो यो जटाभारः जटासमूह [^2]स्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारातिरन्धकनाम्नो दैत्यस्यारातिः शत्रु- र्भगवान्माहात्म्यवान् । उत्सृष्टेति । उत्सृष्टा व्यक्ता कैलासवासप्रीतिः रजताद्र्यवस्थानस्नेहो येन सः । तस्यां चेति । तस्यां नगर्यां उज्जयिन्याम् । एवमिति । एवंविधायां पूर्वोक्तप्रकारेण व्यावर्णितस्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि - तत्र प्रथमान्तानि सर्वाण्यपि राजविशेषणानि । नलो नैषधः; नहुषो नृपविशेषो योऽगस्ति- शापादजगरो जातः, ययातिर्यदुपिता, धुन्धुमारः कुवलाश्वः, भरतो दौष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः सदृशः । 'प्रख्यः प्रकारः प्रतिमः' इति कोशः । भुजेति । भुजबलेन बाहुबलेनार्जितमुपार्जितं भूमण्डलं पृथ्वीमण्डलं येन स तथा । फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्र शक्तिरुत्साहशक्तिश्चेति शक्तित्रयम् । मतिमान्बुद्धिमान् । उत्साहः प्रगल्भता तेन संपन्नः सहितः । नीतीति । नीतिशास्त्रे व्यवहार- ग्रन्थेऽखिन्ना [^3]अरीणा बुद्धिः प्रतिभा यस्य स तथा । धर्म इति । अधीतं पठितं धर्मशास्त्रं येन स तथा । सूर्येति । सूर्याचन्द्रमसोः शशिभास्करयोस्तृतीय इव । 'देवताद्वन्द्वे पूर्वपदस्य दीर्घ:' इति दीर्घः । केन । तेजसा कान्त्या च । तत्र तेजः प्रकाशः कान्ति- श्चन्द्रिका । राज्ञि तेजः प्रतापः, कान्तिः शोभा देहदीप्तिर्वा । अनेकेति । अनेके ये सप्ततन्तवो यज्ञास्तैः पूता पवित्रा मूर्तिः शरीरं यस्य स तथा । प्रयाजादीनि षडङ्गानि सप्तमः प्रधानमिति सप्त- तन्तवः । उपशमितेति । उपशमितः शान्ति प्रापितः सकलजगतः समग्रविष्टपस्योपप्लव उपद्रवो येन स तथा । प्रकारान्तरेण तमेव विशेषयन्नाह - विहायेति । कमलवनानि नलिनखण्डानि विहाय त्यक्त्वा । नारायणस्य कृष्णस्य यद्वक्षः [^1]F. तेन घृष्टं शेखर ( शिरोभूषण ) भूतं चन्द्रशकलं यस्येति स्पष्टोऽर्थः । [^2]F. तस्मिन् भ्रान्ता घूर्णमाना सुरसिन्धुर्यस्य स इति स्फुटोऽर्थः । 3 अश्रान्तेत्यर्थः । [^१]G. चन्द्रशकलशेखरः. [^२]G. करयुगल. [^३]G. वलयततिकरम्बित. [^४]G. अमरसिन्धु. [^५]G. अन्धकारिः. [^६]G. निवसति; प्रतिवसति. [^७]G. नृगनल; नृग. [^८]G. दशरथजनमेजयार्जुन. [^९]G. उपार्जित. त्फुल्लारविन्दहस्तया शूरसमागम [^१]व्यसनिन्या निर्व्याजमा- लिङ्गितो लक्ष्म्या, महामुनिजनसंसेवितस्य मधुसूदनचरण इव सुरसरित्प्रवाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजनसंतापकारिणः स्थिरस्यापि [^२]नित्यं भ्रमतो निर्मलस्यापि मलिनीकृता- रातिवनितामुखकमलद्युतेरतिधवलस्यापि सर्वजनरागकारिण: सुधासूतेरिव [^३]सगर उद्भवो यशसः, [^४]पाताल इवाश्रितो निजपक्ष [^५]क्षतिभीतैः [^६]क्षितिभृत्कुटिलै:, महगण इव बुधा- नुगतः, मकरध्वज इवोत्सन्नविग्रहः, [ टि ]-- स्थलं भुजान्तरस्थलं तत्र या वसतिर्निवासस्तस्माद्यत्सुखं सातं तदवगणय्यावगणनां कृत्वा । उदिति । उत्फुल्लं विकसितं यदरविन्दं कमलं तद्वद्धस्तौ यस्याः सा तया । शूरेति । शूरेण सुभटेन यः समागमः संबन्धस्तस्मिन्व्यसनमासक्तिर्विद्यते यस्याः सा तया लक्ष्म्या श्रिया निर्व्याजं निष्कपटमालिङ्गित उपगूहितः । सत्यस्य प्रभव उत्पत्तिस्थानम् । तत्रोपमानमाह — महेति । महा- मुनिजना वसिष्ठादयस्तैः संसेवितस्य पर्युपासितस्य सत्यस्य प्रभवः । कस्य क इत्र । सुरसरित्प्रवाहस्य स्वर्धुनीरयस्य मधुसूदनचरण इव हरिपाद इव । यथा हरेः पादः स्वर्धुन्या उत्पत्तिस्थानं तथायमपि सत्यस्येति भावः । विरोधोक्त्या तमेव विशेषयन्नाह - यश इति । यशसः श्लोकस्योद्भव उत्पत्तिस्थानम् । तत्रोपमानमाह- सुधासू- तेरिति । सुधासूतेश्चन्द्रस्य सागर: समुद्र इव । 'अब्धिजश्चन्द्रः' इति कविरूढि: । अथ च चन्द्रयशसोः साम्यं प्रदर्शयंस्तद्विशेषणान्याह - शिशिरेति । शिशिरस्यापि शीतलस्यापि रिपुजना वैरिजना विरहि- जना वा तेषां संतापो दाहस्तत्कारिण इति विरोधः । तत्परिहारस्तु संतापश्चित्तोद्वेग इत्यर्थात् । स्थिरेति । स्थिरस्यापि निश्चलस्यापि नित्यं सर्वकालं भ्रमतो गच्छतः । 'सर्वदिग्गामुकं यशः' इति कविरूढेर्विरोधः । तत्परिहारस्त्वाकल्पान्तस्थायित्वा [^2]त्स्थिरो नित्य इत्यर्थात् । निर्मलेति । निर्मलस्यापि गतमलस्यापि मलिनी- कृता कश्मलीकृता अरातिवनितामुखान्येव कमलानि मुखवत्कम- लानि वा तेषां द्युतिर्येनेति विरोधः । तत्परिहारस्तु निर्मलस्य स्वच्छस्येत्यर्थात् । अत्र यशःशब्दस्य नित्यनपुंसकत्वात्तद्विशेषणे द्युतिपदे न [^3]नुमागमः । 'दधिदूर्वादौ मङ्गले' इतिवद्बहुव्रीहिः । अतीति । अतिधवलस्याप्यतिशुक्लस्यापि सर्वजनानां समग्रलोक- नां रागकारिण इति विरोधः । तत्परिहारस्तु रागः स्नेहस्तत्कारिण इत्यर्थात् । अत्र सर्वत्रापिशब्दो विरोधद्योतको विशेषोक्तिर्वा । पातालेति । पातालं रसातलं तद्वदिव । उभयोः साम्यं प्रदर्शयन्नाह - आश्रित इति । क्षितिभृतो राजानः पर्वताश्च तेषु [^4]कुटिला वक्रास्तैरा- श्रित आसेवितः । उभयं विशिनष्टि - निजेति । निजा आत्मीया ये पक्षाः स्वजना [^5]वाजश्च तेषां क्षतिः क्षयस्तया भीतास्त्रस्तास्तैः । नृपाः स्वराज्यक्षयभीत्या तमाश्रिताः । पर्वतास्तु पक्षक्षयभीता रसातलमिति भावः । ग्रह इति । ग्रहा नक्षत्राणि तेषां गणः समूहस्तद्वदिव । सर्वत्रैकविशेषणेन विशेषयन्नाह - बुधेति । बुधाः पण्डितास्तैरनुगतः सहितः । तदुक्तम् – 'व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह' इति । पक्षे बुधः सौम्यः यः । मकरेति । मकरध्वजः कन्दर्पस्तद्वदिव । उत्सन्नेति । उत्सन्न उच्छेदं प्राप्तो विग्रहः शरीरं यस्य [^1]F. कीर्तेरित्यर्थः । [^2]F. स्थिरं नित्यमिति बोध्यम् । [^3]F. प्रलापोऽयं टीकाकृतः । नित्यनपुंसकस्य यशसो विशेषणी- भूतस्यापि 'मलिनी ० . द्युतेः' इति पदस्य भाषितपुंस्कतया पुंवद्भावान्न नुम् अपि तु घित्वेन गुण इति तस्य तात्पर्यम् । [^4]F.'क्षितिभृत्कुलैः' इत्येव ग्रन्थोचितः पाठः । क्षितिभृतां राज्ञां पर्वतानां च कुलैरिति च तदर्थः । कुटिलैस्तु नाश्रयितुं शक्यते, इति तदाश्रयणवर्णनं न स्वरसाय । [^5]F. गरुतः 'पंख' इति हिन्दी । [^१]G. एकव्यसनिन्या. [^२]G. अनवरतम् ; अविरतम्. [^३]G. जलनिधि:. [^४]G. पातालवत्. [^५]G. क्षति. [^६]G. क्षितिभृतां कुलैः; क्षितिभृत्कुलैः; क्षितिभृतः कुलैः. १६ का० दशरथ इव सुमित्रोपेतः, पशुपतिरिव महा [^१]सेनानुयातः, भुजग- राज इव क्षमाभरगुरुः, नर्मदाप्रवाह इव महावंशप्रभवः, अवतार इव धर्मस्य, प्रतिनिधिरिव पुरुषोत्तमस्य, [^२]परिहतप्रजापीडो राजा तारापीडोऽ [^३]भूत् । यस्तमः प्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमा- मूलतो धर्मं दशाननेव [^४]कैलासं पशुपतिरिवावष्टभ्य पुनरपि [^५]स्थिरीचक्रे । यं च रतिप्रला [^६]पजनितदयार्द्रहृदयहर- [^७]निर्मितमपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरङ्ग- धौतमेखला [^८]त्पत्रान्तर्विचारितारागणद्विगुणिततटतरुकुसुम- प्रकरादुद्यदिन्दुबिम्बवि [^९]गलदमृत [^१०]बिन्द्वासारार्द्रचन्द [ टि ]-- स तथा । पक्षे विग्रहो युद्धादिकलहः । दशरथ इव दश- रथो रामपिता तद्वदिव । सुमित्रेति । सुष्ठु शोभनं यन्मित्रं सुहृत्तेनोपेतः सहितः । पक्षे सुमित्रा लक्ष्मणजननी । पश्विति । पशुपतिरीश्वरस्तद्वदिव । महेति । महती या सेना सैन्यं तया- नुयातोऽनुगतः । पक्षे महासेनः षण्मुखः । भुजगेति । भुजगराजोऽनन्तस्तद्वदिव । क्षमेति । क्षमा क्षान्तिस्तस्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी । शेषेण स्वपृष्ठे वसुधा धृतेति लोक- रूढिः । नर्मदेति । नर्मदा मेकलाद्रिजा तस्याः प्रवाहो रयस्तद्वदिव । महेति । महावंशो महत्कुलं तस्मात्प्रभव उत्पत्तिर्यस्य स तथा । पक्षे महावंशो महावेणुः । वंश [^1]मूलान्नर्मदाप्रवाहः प्रादुर्भूत इति लोकोक्तिः । अवतार इव धर्मस्य श्रेयसोऽवतार इव जन्मान्तरमिव । प्रतीति । पुरुषोत्तमस्य विष्णोः प्रतिनिधिः प्रतिभास इव । परीति । परि सामस्त्येन हता ध्वस्ता प्रजापीडा प्रकृतिपीडा येन स तथा । अन्वयस्तु प्रागेवोक्तः । स य इति । यः तारापीड : पशुपतिरिव कलिकालेन दशाननेनेवा मूलतः मूलं बुधं आ मर्यादीकृत्य चालितं कम्पितं धर्ममवष्टभ्या- वष्टम्भं दत्त्वा कैलासमिव पुनरपि स्थिरीचक्रे दृढीचकार । अथ कलिकालविशेषणानि - तम इति । तमोऽज्ञानं तस्य प्रसरः प्रसरणं तेन मलिनं कश्मलं वपुः शरीरं यस्य स तथा तेन । पापेति । पापेनै [^2]नसा बहुलेन दृढेन । 'बहुलं दृढम्' इति कोशः । यं चेति । यं तारापीडं लोको जनोऽपरं भिन्नं मकरकेतुं मदनममंस्ताभिमत- वान् । तमेव विशिनष्टि - रतीति । रतेः प्रलापेन परिदेवनेन जनि- तोत्पादिता या दया करुणा तयार्द्रं स्विन्नं हृदयं चेतो यस्यैवंभूतो यो हरः शंभुस्तेन निर्मितं विहितम् । यं चेति । यं राजानम् । आशैलेति । उदयनाम्न आ शैलात् उदयाचलं शैलं आ मर्यादीकृत्य । आसे- त्विति । आ सेतुबन्धात् सेतुबन्धं आ मर्यादीकृत्य । आ मन्दरादिति । मन्दरं मेरुमा मर्यादीकृत्य । आगन्धमादनादिति । गन्धमादनं पर्वतमा मर्यादीकृत्य । पूर्वदक्षिणपश्चिमोत्तरमवधीकृत्येति भावः । अवनिपा राजानः प्रणेमुर्नमश्चक्रुरित्यन्वयः । अथोदयाद्रिं विशेषय- न्नाह - जलेति । जलनिधिः समुद्रस्तस्य तरंगाः कल्लोलास्तैर्धौता क्षालिता मेखला मध्यभागो यस्य स तथा तस्मात् । पत्रेति । पत्राणां पर्णानामन्तर्मध्ये विचारी गमनशीलो यस्तारागणो नक्षत्रसमूहस्तेन द्विगुणितोऽधिकीभूतस्तटतरूणां भृगुवृक्षाणां कुसुमप्रकरः पुष्प- समूहो यस्मिन्स तथा तस्मात् । उद्यदिति । उद्यदुदयं प्राप्नुवद्य- दिन्दुबिम्बं तस्माद्विगलन्तः स्रवन्तो येऽमृतबिन्दवः पीयूषविप्रुष- स्तल्लक्षणो य आसारो मेघजं [^1]F. मेकलाचलस्थवेणुनिकरान्नर्मदाप्रवाहः पूर्वमुद्गत इति प्रसिद्धिरित्याशयः । [^2]F. पापमेव बहुलम् अधिकं यस्मिन् ( आहिताग्न्यादि ) इति तु स्पष्टोऽर्थः । [^१]G. अनुगतः. [^२]G. परिहृत. [^३]G. नामाभूत्; अभवत्. [^४]G. कैलासमिव. [^५]G. चकार. [^६]G. उपजनित. [^७]G. अपरमिव. [^८]G. पत्रान्तर. [^९]G. गलत्. [^१०]G. बिन्दुदुर्दिनार्द्र. नादशिशिरकररथ [^१]तुरमखुरशिखरोल्लेखखण्डितोल्लस [^२]ल्लेविङ्गपल्लवादैरावतक[^३]रलूनसल्लकी कि [^४]सल- यदलादाशैलादुदयनाम्नः, कपि [^५]बल विलुप्त विरललवलीलता- [^६]फलादुदधिविनिर्ग [^७]तजलदेवताव [^८]न्द्यमानराघव- पादादचल [^९]पातदलितशङ्खकुलशकलतारकितशिलातलात् नलकर [^१०]तलाकलितशैलसहस्रसंभूतादासेतुबन्धात्, अच्छ- निर्झरजलधौततारकासार्थादमृतमथनोद्यतवैकुण्ठकेयूरपत्रमकरकोटिकषणमसृणित [^११]ग्राव्णः [^१२]सुरासुरहेलावलयित- वासुकिसमाकर्षणप्रा [^१३]रम्भ [^१४]चलितचरणभरदलित- [^१५]नितम्बकटकादमृतसीकरतिक्तसानो [^१६]रामन्दरात्, नरनारायणचरणमुद्राङ्कितबदरिकाश्रम [ टि ]-- पयस्तेनार्द्रा अशुष्काश्चन्दना मलयजा यस्मिन्स तथा तस्मात् । अशिशिरेति । अशिशिरकरः सूर्यस्तस्य ये रथतुरगाः स्यन्दनहयास्तेषां खुराः शफास्तेषां शिखरेण प्रान्तेन य उल्लेख: [^1]संबन्धस्तेन खण्डिता द्विधाकृता इव उल्लसन्तो लविङ्गपल्लवा यस्मिन्स तथा तस्मात् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य यः करः शुण्डा तेन लूनानि छिन्नानि सल्लकी गजप्रिया तस्याः किस- लयदलानि यस्मिन्नेवंविधादाशैलादुदयनाम्न इति प्रागेवोक्तम् । इतः सेतुबन्धविशेषणानि । कपीति । कपिबलेन वानरसैन्येन विलुप्तानि लोपं प्राप्तानि [^2]विरला तुच्छा या लवलीनाम्नी लता वल्ली तस्याः फलानि यस्मिन्स तथा तस्मात् । उदधीति । उदधेःसमुद्राद्विनिर्गता या जलदेवता जलाधिष्ठात्री तया वन्द्यमानौ नमस्क्रियमाणौ राघवस्य रामचन्द्रस्य पादौ चरणौ यस्मिन्स तथा तस्मात् । अचलानां पर्वता- नां यः पातस्तेन दलितानि भिन्नानि यानि शङ्खकुलानि जलज- समूहास्तेषां शकलैः खण्डः तारकितं संजाततारकं शिलातलं यस्मिन्स तथा तस्मात् । नलेति । नलेत्युपलक्षणं नीलजाम्बवत्प्र- मुखानाम् । तेन नलादीनां वानराणां यानि करतलानि तैराकलितं व्याप्तं यच्छैलसहस्रं पर्वतसहस्रं तेन संभूतान्निष्पन्नात्सेतुबन्धात् । समुद्रबन्धादित्यर्थः । लङ्कायां गच्छता रामचन्द्रेण समुद्रबन्धनं विहितमिति लौकिकः । अथ मन्दरविशेषणानि - अच्छमिति । अच्छं निर्मलं यन्निर्झरजलमिति निर्झरो झरस्तस्य जलं पानीयं तेन धौताः क्षालितास्तारकासार्था नक्षत्रसमूहा यस्मिन्स तथा तस्मात् । अमृतेति । अमृतं पीयूषं तदर्थं यन्मथनम् । समुद्रस्येति शेषः । तत्र उद्युक्तो यो वैकुण्ठः कृष्णः । स हि मथनवेलायां पुरः स्थितं मन्दरमालिङ्ग्य स्थितः तस्य यत्केयूरपत्रमङ्गदपत्रं तस्य या मकर- कोटिस्तया यत्कषणं घर्षणं तेन मसृणिता श्लक्ष्णीकृताः ग्रावाणः शिला यस्मिन्स तथा तस्मात् । सुरेति । सुरा देवाः, असुरा दैत्याः तैर्हेलया क्रीडया एकोत्साहेन वा वलयितो वलयाकारतां प्रापितो यो वासुकिर्नागराजस्तस्य यत्समाकर्षणं तस्य यः प्रारम्भ उपक्रम- स्तस्माच्चलितः स्वस्थाना [^2]च्च्युतो यश्चरणभरः पादसमूहस्तेन दलितश्चूर्णितो नितम्बकटको यस्मिन्स तथा तस्मात् । अमृतेति । अमृतस्य पीयूषस्य ये सीकराः पृषतास्तैः सिक्तानि सिञ्चितानि सानूनि शिखराणि यस्य स तथा तस्मात् । आमन्दराचलादिति प्रागेव व्याख्यातम् । अथ गन्धमादनं विशेषयन्नाह - नरेति । नरनारायणौ नामार्जुनवासुदेवौ तयोर्या चरणमुद्रापादन्यासस्तया- ङ्कितश्चिह्नितो यो [^1]F. घर्षणमित्युचितोऽर्थः । [^2]F. कपिबलेन विलोपं प्रापितानि ( भक्षणायेत्यर्थः अत एव विरलानि अल्पीभूतानि लवलीलतानां फलानि यस्मिन्निति व्याख्यो- चिता । एकस्या लतायास्तत्रापि तुच्छाया: सैन्येन फलभक्षणवर्णनं तु दारिद्र्यमेव टीकाकर्तुः । [^3]F. तस्मात् चलितानां चरणानां भरेण ( भारेण ) दलित इति व्याख्योचिता । [^१]G. तुरंग. [^२]G. लवङ्ग. [^३]G. करतल; करलूनरोध; करलूनलोध. [^४]G. कबलात्. [^५]G. कुल. [^६]G. पुष्पात्. [^७]G. निर्गत. [^८]G. अभिवन्द्यमान. [^९]G. निपात. [^१०]G. तलकलित. [^११]G. ग्रावाण:. [^१२]G. सुरासुरावलयित. [^१३]G. आरम्भ. [^१४]G. चलावलित. [^१५]G. नितम्बात्. [^१६]G. आमन्दराचलात्. रमणीयात्कुबेरपुरसुन्दरीभूषणरवमुखरशिखरात्सप्तर्षिसंध्योपासनपूतप्रस्रवणाम्भसो वृकोदरोद्दलितसौगन्धिक [^१]खण्डसुगन्धि- मण्डला [^२]दागन्धमादनात्, सेवाञ्जलिकमल [^३]मुकुलदन्तुरैः शिरोभिश्चरणनख [^४]मयूख [^५]ग्रथितमुकुटपत्रलताग्रन्थयो भयचकित [^६]तरलतारदृशो भुजबलविजिताः प्रणे [^७]मुरव- निपाः । येन चाने [^८]करत्नांशुपल्लविते [^९]व्यालम्बि [^१०]मुक्ता- फलजालके दिग्गजेनेव कल्पतरावाक्रान्ते सिंहासने भरेण शिली- मुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः [^११]सर्वदिशः । यस्मै च [^१२]मन्ये सुरपतिरपि स्पृहयांचकार । यस्माच्च धवली- कृतभुवनतलः सकललोकहृदयानन्दकारी [ टि ]-- बदरिकाश्रमस्तेन रमणीयात्सुन्दरात् । कुबेरेति । कुबेर- पुरमलकापुरी तस्याः सुन्दर्यः स्त्रियस्तासां भूषणरवेणाभरण- शब्देन मुखराणि वाचालानि शिखराणि यस्मिन्स तथा तस्मात् । सप्तर्षीति । सप्तर्षीणां संध्योपासनेन संध्यावन्दनेन पूतं पवित्रं प्रस्रवणाम्भो निर्झराम्भो यस्मिन्स तथा तस्मात् । वृकोदरेति । वृकोदरेण भीमेनोद्दलितं [^1]छेदितं सौगन्धिकखण्डं सौगन्धि- काभिधं वनं तेन सुगन्धि सुरभि मण्डलं भूमिभागो यस्य स तथा तस्मात् । अत्र कथा - पाण्डवा द्यूते जिताः सन्तो विन्ध्याटवीं प्रविष्टाः । तत्र द्रौपद्या दोहद उत्पन्नः सौगन्धिककुसुमेषु । ततो भीमसेनेन गत्वा सरस्तदध्यासीनं नागराजं जित्वा तत्कन्यकां चोलूप्याख्यां परिणीय सौगन्धिककुसुमानि गृहीत्वा स्वा [^2]श्रम- माययौ । गन्धमादनादिति प्रागेव व्याख्यातम् । अथ नृपान्विशेषयन्नाह - शिरोभिरिति । शिरोभिर्मस्तकैरुपलक्षिताः । कीदृशैः ।सेवेति । सेवायै योऽञ्जलिः स एव कमलमुकुलं तेन दन्तुरैर्विषमैः । चरणेति । तस्य राज्ञश्चरणौ पादौ तयोः नखा नखरास्तेषां मयूखाः किरणास्तैर्ग्रथिता मुकुटे या पत्रलता तस्या ग्रन्थयो येषां ते तथा । भयेति । भयेनं साध्वसेन चकिता त्रस्ता तरला कम्पना तारा कनीनिका यासामेवंविधा दृशो येषां ते तथा । भुजेति । भुजवलेन बाहुबलेन विजिता निर्जिताः । अन्वयस्तु प्रागेवोक्तः । येन चेति । येन च राज्ञा दिग्गजेनेव कल्पतरौ सिंहासने नृपासन आक्रान्ते सति भरेण भारेणायासिन्यो विस्तारवत्यः सर्वदिशो नेमुः प्रणता बभूवुः । का इव । लता इव व्रतत्य इव । कीदृश्यः । शिलीमुखा भ्रमरास्तेषां व्यतिकरः संबन्धस्तेन कम्पिता धूताः, दिक्पक्षे शिलीमुखा बाणाः । अथ च सिंहासनविशेष [^3]णानि-- अनेकेति । अनेकानि रत्नानि तेषामंशवः किरणास्तैः पल्लविते किसलयिते । व्यालम्बीति । व्यालम्बीन्यालम्बमानानि मुक्ता- फलानां रसोद्भवानां जालकानि समूहा यस्मिन् । यस्मै चेति । अहमिति मन्ये । यस्मै राज्ञे सुरपतिरिन्द्रोऽपि स्पृहयांचकार सस्पृहोऽभूत् । 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञायां चतुर्थी । इन्द्रस्पृहणीयतामाह -- यस्मादिति । यस्माद्राज्ञो गुणाः शौर्यादय- स्तेषां गणः समूहो निर्जगाम बहिर्निर्नयौ । यस्मादित्यवधौ पञ्चमी । गुणान्विशिष्टि - धवलीति । धवलीकृतं शुभ्रीकृतं भुवनतलं विष्टपतलं येन स तथा । सकलेति । सकललोकानां समग्रजनानां यानि हृदयानि चेतांसि तेषामान [^1]F. छिन्नमिति तात्पर्य । [^2]F. भीमसेनः स्वाश्रममाययौ इति तात्पर्यम् । [^3]F. न केवलं सिंहासनविशेषण । इदं विशेषणद्वयं कल्पतरा- वप्यन्वेति । संजाता अनेकरतांशव एव पल्लवा यस्मिन्निति तत्पक्षेऽर्थः । व्यालम्बिमुक्ताफलेत्यादिविशेषणव्याख्या तूभयत्र समाना । [^4]F. इन्द्रस्पृहणीयतायां नाग्रिमो हेतुः, किन्तु 'यस्मै च मन्येऽनन्यसाधारणशक्तिसंपदे :: :..' इत्यादिरेव ग्रन्थानुकूलः पाठः । अनन्यसाधारणी शक्तिसंपद् यस्य ईदृशाय यस्मै इन्द्रोऽपि स्पृहयांचकारेति तदर्थः । ईदृशी शक्तिसंपद् ममापि स्यादितीन्द्र- स्पृहायास्तापर्यम् । [^१]G. खण्डमण्डलात्. [^२]G.मेकलात्. [^३]G. मुकुलैर्दन्तुरै:. [^४]G. मयूखाग्र. [^५]G. ग्रथिता. [^६]G. तारकदृशो. [^७]G. अवनीपतयः. [^८]G. रक्तांशुक:; रत्नांशुजात. [^९]G. व्यलग्बि. [^१०]G. मुक्ताजालके. [^११]G. सर्वा दिश:. [^१२]G. मन्येऽनन्यसाधारणशक्तिसंपदे सुरपति :. कौञ्चादिव हंसनिवहो निर्जगाम गुणगणः । यस्य चामृतामोदसुरभिपरिमलया मन्दरो [^१]द्धतबहुलदुग्धसिन्धुफेनलेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवन [^२]मभ्रम्यत कीर्त्या । यस्य चातिदुःसहप्रतापसंतापखिद्यमानेव क्षणमपि न मुमोचा [^३]तपत्रच्छायां राजलक्ष्मीः। तथा च [^४]यस्य [^५]"दिष्टिवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, [^६]मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, [^७]आगममिव न विसस्मार चरितं जनः । यस्मिंश्च राजनि गिरीणां विपक्षता, प्रत्ययानां परत्वम्, [^८]दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां [ टि ]-- न्दकारी प्रमोदकृत् । कः कस्मादिव । क्रौञ्चत्क्रौञ्चनाम्नः पर्वतैकप्रदेशाद्धंस [^1]निवहः सितच्छदसमूह इव । यस्येति । चः पूर्वोक्तसमुच्चये । यस्य राज्ञः कीर्त्याभिख्यया दशसु दिक्षु मुखरितभुवनं यथा स्यात्तथा भ्रम्यतागम्यत । भावे रूपम् । अथ कीर्तिविशेषणानि – अमृतेति । अमृतस्य पीयूषस्य य आमोद- स्तद्वत्सुरभिः प्रकटितः प्रकटः सुगन्धिश्च परिमलो यस्याः सा तया । 'कीर्त्याः सौगन्ध्यं वर्ण्यते' इति कविसमयः । धवलीति । धवलीकृतः शुभ्रीकृतः सुरासुरलोको देवदानवलोको यया सा तया । कयेव । मन्दरेति । मन्दरेण स्वर्णाद्रिणोद्धतो [^2]दुर्दान्तो यो बहुलो दृढो दुग्धसिन्धुः क्षीरसमुद्रस्तस्य फेनोऽब्धिकफस्तस्य लेखयेव वीथ्येव । मन्थनक्षणे तयापि सुरासुरलोकः शुभ्रीकृत इति तदुपमानमिति भावः । यस्य चेति । यस्य राज्ञो राजलक्ष्मी राज्यश्रीरातपत्रस्य छत्रस्य छायामातपाभावलक्षणं क्षणमपि निमेषमात्रमपि न मुमोच न तत्याज । तपआक्रान्तायास्तत्र शीतलस्थलाश्रयणस्यादित्या- शयेनाह — अतीति । अतिदुःखेन सोढुं शक्योऽतिदुःसहः एवंविधो यः प्रतापः कोशदण्डजनितं तेजस्तस्माद्यः संतापो घर्मस्तेन खिद्यमानेव पीड्यमानेव । अथ पञ्चक्रियाणामेकेनैव कर्त्रा संबन्धं दर्शयन्नाह - तथाचेति । यस्य राज्ञश्चरितं शौर्यविस्फूर्जितं दिष्टिवृद्धि- मिव भाग्या [^3]भ्युदयमिव जनो लोकः शुश्रावाकर्णितवान् । उपदेशमिव गुरुनिदेशमि [^4]व जग्राह गृहीतवान् । मङ्गलमिव श्वोवसीयमिव बहु मेने सर्वाधि [^5]कत्वेन ज्ञातवान् । मन्त्री देवताधिष्ठातृकस्तमिव जजाप जपित [^6]वान् । आगमः सिद्धान्त [^7]स्तमिव न विसस्मार न विस्मृतवान् । जन इत्यस्य सर्वत्र संबन्धः । यस्मिंश्चेति । यस्मिंस्तारापीडे राजनि । 'ङिश्योर्वा' इति वाकारलोपः । इदं पृथिव्यामासीत् । तदेव दर्शयति — गिरी- त्यादि । गिरीणां पर्वतानां विपक्षता पक्षराहित्यम् । इन्द्रेण पक्षारि- छन्ना गिरीणामिति प्रागेवोक्तम् । न तु लोकानां विपक्षता दस्युता । प्रत्ययानां स्वादीनां परत्वं प्रकृत्युपरिवर्तमानत्वम् । न तु लोकानां परत्वं भिन्नत्वं शत्रुत्वं वा । अभिमुखं जनानामवस्थीयतेऽनेनेत्यभि- मुखावस्थानम् । कर्मणि ल्युट् । दर्पणानां मुकुराणाम् । न तु लोकानां कस्यचित्पुरतः कस्याप्यवस्थानम् । सर्वेषां लक्ष्मीवत्त्वा- दिति भावः । शूलपाणिरीश्वरस्तस्य प्रतिमाया मूर्तेर्दुर्गा पार्वती तयाश्लेषोऽभिष्वङ्गः । न तु लोकानां दुर्गं विषमस्थलं तेन आश्लेषः संबन्धः । राजग्रहाभावात् । जलधराणां मेघानां चापधारणमिन्द्र- धनुर्धारणम् । न तु लोकानाम् । भयाभावान्न धनुरादा [^1]F. पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्च- दारकस्य स्कन्दस्य स्पर्धया बाणेन कौ बिभेद यद्विवराद्धंससमूहो निर्जगामेति पुराणम् । [^2]F. मथितः क्षोभित इत्याशयः । [^3]F. दैवज्ञमुखात्स्वभाग्योदयं लोको यथा शृणोति तथा शुश्राव । उभयत्रापि लालसा कौतुकातिशयश्च हेतुः । [^4]F. उभयत्र अभ्युदयसंपादकत्वप्रत्याशा हेतुः । [^5]F. उभयत्रापि सुखजनकत्वं हेतुः । [^6]F. असकृज्जपेन (उच्चारणेन ) तादृशानुकरणसिद्धि: ( चरित- पक्षे ), अभीष्टसिद्धि: ( मन्त्रपक्षे ) । [^7]F. वेदादिविस्मरणे पापं स्यात्, यशस्तु मनोहरतथा स्वत एव न विस्मर्यते । [^१]G. उद्धत; उद्धते. [^२]G. अभ्राम्यत. [^३]G. आतपच्छायाम्. [^४]G. अस्य. [^५]G. दिष्टवृद्धिम्. [^६]G. बहुमङ्गलमिव मेने. [^७]G. आगमवचनम्. [^८]G. दर्पाणाम्. चापधारणम्, [^१]ध्वजानामुन्नतिः, धनुषामवनतिः, वंशानां [^२]शिलीमुखमुखक्षतिः, [^३]देवतानां यात्रा, कुसुमानां बन्धन- स्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारि [^४]प्रवेशः, [^५]तै- क्ष्ण्यमसिधाराणाम्, [^६]व्रतिनामग्निधारणम्, ग्रहाणां तुलारोहणम् अगस्त्योदये [^७]विषशुद्धिः, केशनखानामायतिभङ्गः,[^८]जलद- दिवसानां मलिनाम्बरत्वम्, रत्नोपलानां भेदः, मुनीनां योग [^९]सा- धनम्, कुमारस्तुतिषु तारकोद्धरणम्, उष्णरश्मेर्ग्रह [^१०]णशङ्का, शशिनो ज्येष्ठातिक्रमः, महाभारते [^११]दुःशासनापराधाकर्णनम्, वयःपरिणामे दण्डग्रहणम्, [^१२]असिपरिवारेष्वकुशल [ टि ]-- नम् । ध्वजानां वैजयन्तीनामुन्नतिरूर्ध्वमुखत्वेन । न तु लोकानाम् । अहंकृतेरभावात् । धनुषां चापानामवनतिरवनमनम् । न तु लोकानां बलात्कारेण नतिः । सर्वेषां स्वाधीनवृत्तित्वात् । वंशानां वेणूनां शिलीमुखा भ्रमरास्तेषां मुखैराननैः क्षतिश्छेदः । न तु लोकानां शिलीमुखा बाणास्तैः क्षतिः पीडा । युद्धाभावात् । 'पत्रिष्वजिह्मगशिलीमुखकङ्कपत्राः' इति कोशः । देवतानां यात्रा क्षणविशेषः । न तु लोकानां यात्रा भयादन्यत्र गमनम् । 'यात्रा स्याद्यापने गतौ' इत्यनेकार्थः । कुसुमानां पुष्पाणां बन्धनेन ग्रथनेन स्थितिः । न तु लोकानां बद्धत्वेनावस्थानम् । सर्वेषां निरपराधित्वात् । इन्द्रियाणां करणानां निग्रहो निरोधः । न तु लोकानां निग्रहो दण्डः । वनकरिणामरण्यवासिगजानां वारिप्रवेशः । यया गज- बन्धनं क्रियते सा [^1]वारी । 'वारी तु गजबन्धनी' इति कोशः । न तु लोकानां दिव्यार्थं वारिप्रवेशः । तैक्ष्ण्यं छेदशक्तिरसिधाराणां खड्गाग्रभागानाम् । न तु लोकानां तैक्ष्ण्यं क्रौर्यम् । व्रतिनां योगि- नामग्निधारणम् । न तु लोका [^2]नाग्नौ धारणम् । ग्रहाणां नक्ष- त्राणां तुलारोहणं तुला राशिस्तस्यामारोहणं संक्रमः । न तु लोकानां दिव्यार्थं तुलारोहणम् । अगस्त्योदयेऽगस्त्यस्य मुनेरुदये विषशुद्धि- र्विषं पानीयं तस्य शुद्धिः स्वच्छता । न तु लोकानां विषेण शुद्धिः कलङ्कापहारः । तदुक्तम् -- 'सप्तयवप्रमाणं वत्समाभविषं तेन शुद्धिर्वैश्यानाम्' इति । केशनखानामायतिर्विस्तारस्तस्या भङ्गो विच्छेदः । न तु लोकानामायतिरुत्तरः कालस्तस्य भङ्गो लक्षणया दुःखजनकत्वम् । नित्येन तद्विच्छेदायोगात् । 'आयतिस्तूत्तरः कालः' इति कोशः । जलदो घनाघनस्तत्कालीना ये दिवसा वासरास्तेषां मलिनं कश्मलमम्बरमाकाशं येषु तेषां भावस्तत्त्वम् । न तु लोकानां मलिनाम्बरत्वं मलोपयुक्तवसनत्वम् । रत्नोपलानां मण्यश्मनां भेदः स्फोटनम् । न तु लोकानां मन्त्रभेदः । मुनीनां तपस्विनां योगश्चित्तवृत्तिनिरोधस्तस्य साधनं यमादि । न तु लोकानां योगो विषाग्निप्रयोगः कार्मणं वा तस्य साधनं दुष्टमन्त्रादि । कुमारः षण्मुखस्तस्य स्तुतयो नुतयस्तासु तारकस्य दैत्यस्योत्प्राबल्येन हरणं नाशनम् । न तु लोकानां तारका कनीनिका तस्या उद्धरण- मुत्क [^3]र्षणम् । उष्णरश्मेः सूर्यस्य ग्रहणशङ्कोपरागशङ्का । न तु लोकानां ग्रहणं नियन्त्रणं तस्य शङ्कारेका । शशिनश्चन्द्रस्य ज्येष्ठा नक्षत्रं तस्यातिक्रमस्तदुल्लङ्घनम् । न तु लोकानां ज्येष्ठो भ्रात्रादिस्तन्निदेशोल्लङ्घनम् । महाभारते शास्त्रे दुःशासनो दुर्योधनलघु- भ्राता तस्य योऽपराधः दुर्योधनाज्ञया दुःशासनेन द्यूते जितेषु पाण्डवेषु द्रौपदी केशेषु गृहीत्वाकृष्टेत्यपराध आगस्तस्याकर्णनं श्रवणम् । न तु लोकानां दुष्टं शासनं येषां ते दुःशासना दुष्टमनुजा- स्तेषामपराधश्रवणम् । वयोऽवस्था तस्य परिणामः पक्वता तस्मिन्दण्डो यष्टिस्तस्य ग्रहणम् । न तु लोकानां दण्डः करस्तदा- दानम् । असिपरिवारेषु खड्गपिधानेष्वकुशलयोगो न विद्यते [^1]F. वारिः इति ह्रस्व उचितः वारि (जल) प्रवेश इति श्लेषाय । 'वारि ह्रीबेरनीस्योः । वारिर्वट्यां [ ?] सरस्वत्यां गजबन्धनभुव्यपि । हैमः । [^2]F. अग्नेर्धारणम्, अग्निदिव्यम् 'यद्यहं पापी स्यां तदाऽग्निना दग्धहस्तो भवेयमिति' पापाभावात् । [^3]F. उत्पाटनमित्यर्थः । [^१]G. पद्मानां जलदिव्यं प्रतीहाराणामसिधारणं तैक्ष्ण्यमसि- धाराणां ध्वजानाम्. [^२]G. शिलीमुखक्षतिः. [^३]G. देवानाम्. [^४]G. प्रवेशा:. [^५]G. असिधाराणां तैक्ष्ण्यम्. [^६]G. व्रतिनामसिधाराधारणम्. [^७]G. विषविशुद्धिः. [^८]G. जलधर. [^९]G. धारणम्. [^१०]G. ग्रहणाशङ्का. [^११]G. दुःशासनापराध:. [^१२]G. असिधारासु कोशगुप्ति :. योगः, [^१]कामिनी [^२]कुचभङ्गेषु वक्रता, करिणां दानविच्छि- त्तिः, अक्षक्रीडासु शून्यगृहदर्शनं पृथिव्यामासीत् । [^३]तस्य च राज्ञो निखिलशास्त्र [^४]कलावगाहगम्भीरबुद्धिः, आशैशवादुपारूढनिर्भरप्रेमरसः, नीतिशास्त्रप्रयोगकुशलः, भुवन- राज्य [^५]भारनौकर्णधारः, महत्स्वपि कार्यसंकटेष्वविषण्णधीः, धाम धैर्यस्य, स्थानं स्थितेः, [^६]सेतुः सत्यस्य, गुरुर्गुणानाम्, आचार्य आचाराणाम्, धाता धर्मस्य, शेषाहिरिव [^७]महीभार- धारणक्षमः, सलिलनिधिरिव [^८]महासत्वः, जरासंध इव [^९]घटित [ टि ]-- कुशलं यस्मात्सोऽकुशलः खड्गस्तेन योगः संबन्धः । न तु लोकानां परिवारेषु परिच्छदेष्वकुशलमपुण्यं तस्यै योगः । 'पर्या- प्तिक्षेमपुण्येषु कुशलम्' इत्यनेकार्थः । अकुत्सितं शोभनं चर्म तस्य योगः । अन्यत्राकुशलमक्षेमजरादि तेन योगो नास्तीति वा । केचित् 'असिपरिवारेषु कलङ्कयोगः' इति पठन्ति । कलङ्कः श्यामिका । अन्यत्र दोष इत्यर्थः । कामिनीनां स्त्रीणां कुचभङ्गेषु पयोधरपत्र- रचनायां वक्रतारालता । करिणां हस्तिनां दानं मदः । 'मदो दानप्रवृत्तिश्च' इति कोशः । तस्य विच्छित्ती रचना । न तु लोकानां दानं वितरणं तस्य विच्छित्तिर्नाशः । अक्षक्रीडासु द्यूतक्रीडासु शून्यगृहदर्शनं शून्यगृहावलोकनम् । खेलिन्या शून्यमित्यर्थः । न तु लोकानां शून्यस्थलदर्शनम् । अन्वयस्तु प्रागेवोक्तः । तस्य चेति । तस्य राज्ञोऽमात्यः शुकनासो नाम ब्राह्मण आसीद्वभूव । अथ प्रथमान्तानि तस्य विशेषणानि । निखिलेति । निखिलानि यानि शास्त्राणि कलाश्च तासामवगाहस्तदभिप्रायाकलनं तेन गम्भीराSलब्धमध्या बुद्धिः प्रतिभा यस्य स तथा । आ शैशवादा बाल्यादुपारूढ आश्रितो निर्भरो निबिडः प्रेमरस: स्नेहरसो यस्मिन्स तथा । नीतीति । नीतिशास्त्रं व्यवहारग्रन्थस्तस्य प्रयोगस्तदर्थ- परीक्षणं तत्र कुशलो दक्षः । भुवनेति । भुवनानां राज्यमाधिपत्यं तस्य [^1]भारो वीवधस्तलक्षणा या नौर्द्रोणी तस्याः कर्णधारो नाविकः । महत्स्वपीति । महत्स्वपि गुरुष्वपि कार्यसंकटेषु कृति- कष्टेष्वविषण्णाऽविषादवती धीर्बुद्धिर्यस्य स तथा । धामेति । धैर्यस्य धीरि [^2]माया धाम गृहम् । स्थितेर्मर्यादायाः स्थानं स्थलम् । सत्यस्यावितथस्य सेतुःपालि: । गुणानां शौर्यादीनां गुरुर्हितोपदेष्टा । आचाराणां शिष्टजनाचीर्णमार्गाणामाचार्य उपदेष्टां । धर्मस्य वृषस्य धाता प्रजापतिः । शेषेति । शेषाहिरनन्तस्तद्वदिव मह्याः पृथ्व्या भारो वीवधस्तस्य धारणमुद्वहनं तत्र क्षम इत्यभङ्गश्लेषः । सलिलेति । सलिलनिधिः समुद्रस्तद्वदिव । सर्वत्रैकविशेषणेनोभयं विशेषयन्नाह - महेति । महत्सत्त्वं साहसं यस्मिन् । पक्षे महा- [^3]सत्त्वा जलचारिणः । जरेति । जरा राक्षसी तया साक्षात्संधितत्वाज्जरासंधस्तद्वदिव । कथा चात्र - राजगृहे जरासंधपित्रा बृहद्रथेन राज्ञीभ्यां पुत्रार्थमाराधितेन महर्षिणा अण्डकौशिकेना- म्रफलं प्रदत्तम् । तच्च सोऽर्धार्धं कृत्वा राजमहिषीभ्यां दत्तवान् । तयोश्चार्धार्धशरीरं बालकद्वयं जातम् । तद्दृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमौ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरासंधनाम संवृत्तमस्येति वार्ता । उभयं विशिनष्टि- घटितेति । घटितौ विहितौ संधिविग्रहौ येन । तत्र संधिः साम, विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्येति [^1]F. राज्यभारग्रहणमेव नौका तस्याः कर्णधार इति सरलोऽर्थः । [^2]F. धीरतायाः ( अविचलचित्ततायाः ) इत्युचिता व्याख्या । [^3]F. सलिलनिधिपक्षे महान्तः सत्त्वाः ( जलजन्तवः ) यस्मिन्नित्यर्थः । वस्तुतस्तु - 'महासत्वनिवासः' इत्येव पाठः । महासत्त्वस्य ( उत्कृष्टाध्यवसायस्य ) आश्रयः ( राजपक्षे ) । समुद्रपक्षे तु महतां जलजन्तूनां निवासः । [^१]G. वक्रता कामिनीनां कुचमङ्गेषु. [^२]G. कुचपत्र. [^३]G. तस्य राज्ञो. [^४]G. कलाकलापावगाहनगभीर; कलापावगाहनगभीर. [^५]G. भारैक. [^६]G. सिन्धुः. [^७]G. सकलमही. [^८]G. महासत्त्वनिवासः. [^९]G. प्रकटित. संधिविग्रहः । त्र्यम्बक इव प्रसाधितदुर्गः, युधिष्ठिर इव धर्मप्रभवः; सकलवेदवेदाङ्गवित्, अशेषराज्य [^१]मङ्गलैकसार: बृहस्पतिरिव सुनासीरस्य, कविरिव वृषपर्वणः, वसिष्ठ इव दशरथस्य, विश्वामित्र इव रामस्य; धौम्य इवाजातशत्रोः, [^२]दमनक इव नलस्य, सर्वकार्ये [^३]ष्वाहितमतिरमात्यो ब्राह्मणः शुकनासो ना [^४]मा- सीत् । यो नरका[^५]सुरशस्त्रप्रहारभीषणे भ्रम [^६]न्मन्दरनितम्बनिर्दयनिष्पेषकठिनांसपीठे नारायणवक्षःस्थलेऽपि स्थितामदुष्कर- लाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यं [^७]चासाद्य दर्शितानेक- राज्यफला लतेव [^८]पादपमनेकप्रतानगहना विस्तार [^९]मुप- ययौ प्रज्ञा । [^१०]यस्य चानेकचारपुरुषसहस्र [^११]संचार [ टि ]-- घटितसंधिविग्रहं यस्य जरासंधस्ये[^1] ति द्वितीया- बहुव्रीहिः । त्र्यम्बकेति । त्र्यम्बक ईश्वरस्तद्वदिव । प्रसाधितेति । प्रसाधितं स्वायत्तीकृतं दुर्गं विषमस्थलं येन । पक्षे प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन स तथा । युधिष्ठिर इति । युधिष्ठिरो धर्मपुत्रस्तद्वदिव । धर्मस्य नीतिधर्मादेः प्रभव उत्पत्तिर्यस्मात् । पक्षे धर्मात्प्रभवो यस्येति विग्रहः । सकलेति । सकलानि समग्राणि यानि वेदवेदाङ्गानि शिक्षादीनि तेषां विज्ञाता । अशेषेति । अशेषं समग्रं यद्राज्यं तत्र मङ्गलैकसारः कल्याणैकरहस्यभूतः । प्रकारान्तरेण तमेव विशेषतो विशेषयन्नाह – सुनासीरस्येन्द्रस्य बृहस्पतिः सुरगु- रुस्तद्वदिव । वृषपर्वणो दैत्यस्य कविः शुक्रस्तद्वदिव । दशरथस्य- रामपितुर्वसिष्ठोऽरुन्धतीजानिस्तद्वदिव । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकस्तद्वदिव । अजातशत्रोर्धर्मपुत्रस्य धौम्यः सचि- वस्तद्वदिव । नलस्य नैषधेर्दमनकाभिधानोऽमात्यस्तद्वदिव । अयं तारापीडस्य राज्ञ इति भावः । सर्व इति । सर्वकार्येषु समग्रकृत्ये- ष्वाहिता स्थापिता मतिर्बुद्धिर्येन स तथा । अन्वयस्तु प्रागेवोक्तः । य इति । यः शुक: प्रज्ञाबलेन बुद्धिसामर्थ्येनादुष्करलाभां स्वल्प- प्रयासलभ्यां लक्ष्मीं श्रियममन्यत ज्ञातवान् । कीदृशीम् । नारा- यणस्य कृष्णस्य यद्वक्षःस्थलं भुजान्तरं तत्र स्थितामासेदुषीमपि । एतेन तत्प्राप्तेरतिकाठिन्यं सूचितम् । वक्षःस्थलं विशिनष्टि - नर- केति । नरकासुरो दैत्यस्तस्य शस्त्राणि तेषां प्रहारोऽभिघातस्तेन भीषणे भयानके । भ्रमदिति । [^2]भ्रमच्चासौ मन्दरश्च भ्रमन्मन्द- रस्तस्य यो नितम्बः कटकस्तस्य यो निर्दये 'निरनुकम्पं निष्पेष- श्चूर्णीभावस्तत्कर्तव्यतायां कठिनं कठोरमंसपीठं स्कन्धपीठं यस्मिन् । अथवा निष्पेषेणावनतिविशेषेणेति बोध्यम् । मथनावसरे हि मन्दरनितम्बा अंसयोर्लग्ना इति भावः । एतेन मन्दरादप्यंसयोरधिककाठिन्यमिति ध्वनितम् । यमिति। यं शुकनासाख्यमासाद्य प्राप्य प्रज्ञा विस्तारं विस्तीर्णतामुपययौ प्राप्तवती । तां विशिनष्टि -- दर्शितेति । दर्शितानि प्रकटितान्यनेकराज्यान्येव फलानि यया सा तथा । वलमेव यथा लता पादपं वृक्षं प्राप्य विस्तारं याति । कीदृशी । अनेकेति । अनेकैः प्रतानैलतागहनैर्गहना निबिडा । यस्येति । यस्य मन्त्रिणो धरणीतले जगतीतले राज्ञां समुच्छ्रसितमप्युच्छ्वसित- मात्रमप्यहरहः प्रतिदिनमविदितमज्ञातं नासीत् । न बभूवेत्यर्थः । कस्मिन्निव । भवन इव गृह इव । यथा सद्मनि किमप्यज्ञातं न स्यात् । भुवनतलं विशेषयन्नाह - अनेकेति । [^3]अनेका ये चारपुरुषाः प्रणिधिपुरुषास्तेषां सहस्रं तस्य [^1]F. घटितो विहितः सन्धि: ( उभयखण्डयोः संयोगः ) यस्य तादृशो विग्रहः शरीरं यस्य स इति स्पष्टोऽर्थः । [^2]F. भ्रमंश्चासौ इत्यर्थः । [^3]F. अनेके इत्यवगन्तव्यम् । [^१]G. मण्डलैक. [^२]G. दमनक इव भीमस्य, सुमतिरिव नलस्य. [^३]G. अप्रतिहत. [^४]G. नामाभवत्. [^५]G. शस्त्रभीषण. [^६]G. मन्दरनिर्दय. [^७]G. समासाद्य. [^८]G. महापादपमनेकगहना. [^९]G. उपाययौ. [^१०]G. यस्यानेक. [^११]G. परिचिते; विचिते. निचिते चतुरुदधिवल [^१]यपरिधिप्रमाणे [^२]धरणीतले भवन इवाविदितमहरह: समुच्छ्वसितमपि राज्ञां नासीत् । स राजा बाल एव सुर [^३]कुञ्जरकरपीवरेण [^४]राज्यलक्ष्मी- लीलोपधानेन सकल [^५]जगदभय [^६]दानयज्ञदीक्षायूपेन स्फुरदसिलतामरीचिजालजटिलेन निखिलारातिकुल [^७]प्रलय- धूमकेतुदण्डेन बाहुना विजित्य सप्तद्वीपवलयां वसुंधरां तस्मिञ्छु- कनासनाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य सुस्थिताः प्रजाः कृत्वा कर्तव्यशेषम [^८]परमपश्यत् । प्रशमिताशेषवि [^९]पक्ष- तया [^१०]विगताशङ्कः शिथिली [^११]कृतवसुंधराव्यापारः [^१२]प्रायो यौवनसुखान्य [^१३]नुबभूव । तथा हि — कदाचिदुल्लसत्कठोरकपोलपुलकजर्जरितकर्ण- पल्लवानां प्रणयिनीनां चन्दनजलच्छटाभिरिव स्मितसुधाच्छविभि- रभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः, [ टि ]-- संचार: परिभ्रमणं तेन निचिते पूरिते । चतुरिति । चतुरुद- धीनां चतुःसमुद्राणां वलयं कङ्कणं तस्य या किंचिदधिका त्रिगुणिता [^1]परिधि: परिक्षेपः स एव प्रमाणं यस्य स तस्मिन् । स इति । स राजा तारापीडो बाल एव । सुरेति । सुरकुञ्जरो हस्तिमल्लस्तस्य करः झुण्डा तद्वत्पीवरेण पुष्टेन । राज्येति । राज्यलक्ष्मीराधिपत्यश्रीस्तस्या लीलोपधानेन लीलोपबर्हेण । सकलेति । सकलजगतः समग्रविष्टपस्य यदभयदानं तदेव यज्ञ- दीक्षा तत्र यूपेन यज्ञस्तम्भेन । स्फुरदिति । स्फुरन्ती देदीप्यमाना याऽसिलता खड्गलता तस्या मरीचिजालं कान्तिसमूहस्तेन जटिलेन व्याप्तेन । निखिलेति । निखिलाः समग्रा येऽरातयः शत्रवस्तेषां यानि कुलानि तेषां प्रलयो विनाशस्तत्र धूमकेतुर्ग्रह- विशेषस्तस्य [^2]दण्डेन पुच्छेन । दण्डाकृतिरूपत्वात्पुच्छस्येति भावः । एवं विधेन बाहुना भुजेन । सप्तेति । जम्बूप्लक्षशाल्मलि- कुशक्रौञ्चकुशक्रौञ्चशाकपुष्कराः सप्तद्वीपा एव वलयं कङ्कणं यस्या एवंभूतां वसुंधरां विजित्य तस्मिञ्छुकनासनाम्नि मन्त्रिणि सुहृदीव मित्र इव राज्यभारमारोप्य निधाय सुस्थिताः सुखेन स्थायिन्यः प्रजाः प्रकृतीः कृत्वा निष्पाद्य कर्तव्यशेषमितः परं किं कर्तव्यमस्तीत्यपरं विचारविषयं कार्यमपश्यदित्यन्वयः । प्रश- मितेति । प्रशमिताः शान्ति प्रापिता अशेषाः समग्रा विपक्षा दस्यवो येन तस्य भावस्तत्ता तया । अत एव विगताशङ्को निर्भयः । शिथिलीति । शिथिलीकृतः श्लथीकृतो वसुंधरायाः क्षितेर्व्यापारो व्यापृतिर्येन स तथा । प्रायो बाहुल्येन यौवनस्य तारुण्यस्य सुखानि स्त्रीसंभोगादीन्यनुबभूवानुभवविषयीचक्रे । तदेव दर्शयति — तथा हीति । कदाचिदिति । कदाचित् कस्मिंश्चित्समयेऽनङ्ग- परवशः कामपरायत्तः सुरतं मैथुनमाततान विस्तारयामासेत्यन्वयः । किं क्रियमाणः । अभिषिच्यमानः सिच्यमानः । काभिः । स्मित- मीषद्धसितं तदेव सुधामृतं तस्याश्छविभिः कान्तिभिः । काभिरिव । प्रणयिनीनां कामिनीनां चन्दनजलच्छटाभिरिव । कीदृशीनाम् । उल्लसन्तो विकसन्तः कठोराः कठिनाः कपोलेषु पुलका रोमाञ्चास्तैर्जर्जरिताः श्लथीभूताः कर्णपल्लवाः श्रोत्रकिसलयानि यासाम् । पुनः किं क्रियमाणः । ताड्यमानः पीड्यमानः । कैः । लोचनांशुभिः नेत्रकान्तिभिः । कैरिव। कर्णोत्पलैरिव श्रवणकुवलयै [^1]F. परिधिशब्दस्य पुंस्त्वमेवावगन्तव्यम् । [^2]F. 'निखिलारातिकुलप्रलयधूमकेतुना बाहुदण्डेन' इत्येवो- चितः पाठः । निखिलस्य अरातिकुलस्य प्रलये विनाशे धूमकेतुरिव धूमकेतुः ( विनाशसूचकः ) तेन इति तदर्थः । [^१]G. परिक्षेप प्रमाणे; परिखाप्रमाणे. [^२]G. धरणितले. [^३]G. कुञ्जरपीवरेण. [^४]G. राजलक्ष्मी. [^५]G. जगदीक्षाभयप्रदान. [^६]G. प्रदानशौण्डेन रणयज्ञदीक्षा. [^७]G. धूमकेतुना बाहुदण्डेन विजित्य सकलद्वीप. [^८]G. अपश्यन्. [^९]G. विपक्षतया तया. [^१०]G. विगलिताशङ्क. [^११]G. शिथिलितपृथिवीव्यापार:. [^१२]G. प्रायशो. [^१३]G. सुखम्. १७ का० [^१]कुङ्कुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रियमाण [^२]लोचनः, धवलांशुकैरिव करनख [^३]मयूखजालकैराहन्य- मानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिराबध्यमानः, [^४]दष्टाधरा [^५]धूतकरतलचलन्मणिवलय [^६]कलकल- रमणीयम्, [^७]अतिरभसदलितदन्तपत्रदल [^८]दन्तुरशयनम्, [^९]उत्क्षिप्तचरणतलगलदलक्तकरक्तशेखरम्, सरभसकच- ग्रहचूर्णितमणिकर्णपूरम्, उल्लसितकुचकृष्णागुरुपङ्कपत्रलताङ्कितप्रच्छदपटम्, [^१०]अच्छश्रमजलकणिका [^११]लुलितगोरो- चनतिलकपत्रभङ्गम्, अनङ्गपरवशः सुरतमाततान । कदाचिन्मक- रकेतुकनकनाराचपरम्पराभिरिव कामिनीकरपुटविनि [^१२]र्गता- भिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटा- प्रहारपाटलीकृतदुकूलो मृगमदजलबिन्दुशबलचन्दनस्थासकः कनकश्रृङ्गकोशैश्चिरं चिक्रीड । [ टि ]--रिव । कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिश्चर्णैरिवाभरणप्रभाभिभूषणरश्मिभिराकुलीक्रियमाणे लोचने यस्य स तथा । धवलेति । धवलांशुकैरिव शुभ्रवसनैरिव करयोर्हस्तयो- र्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालकै: समूहैराहन्य- मान आघातविषयीक्रियमाणः । चम्पकेति । चम्पको हेमपुष्पक- स्तस्य कुसुमानां पुष्पाणां दलानि खण्डानि तेषां मालिका मालास्ताभिरिव भुजलताभिर्बाहुवल्लीभिराबध्यमानः संयम्यमानः । इतः सुरतविशेषणानि । दष्टेति । दष्टः खण्डितो योऽधरो रदनच्छदस्तेनाधूतं कम्पितं यत्करतलं तेन चलन्ति यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीयं मनोहरमत एवाति- रभसमतित्वरं दलितानि द्वैधीकृतानि यानि दन्तपत्राणि कर्णा- भरणानि तेषां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् । उत्क्षिप्तेति । उत्क्षिप्तावूर्ध्वीकृतौ यौ चरणौ पादौ ताभ्यां [^1]गल- त्स्रवद्योऽलक्तको यावकरसस्तेन रक्तो रञ्जितः शेखरोऽवतंसो यस्मिन् । सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णितं भग्नं मणिकर्णपूरं रत्नोपेतं श्रवणभूषणं यस्मिन् । उल्ल- सितेति । संभोगावस्थायामुल्लसिता उल्लासं प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ताभिरङ्कितश्चिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् । अच्छेति । अच्छं निर्मलं यच्छ्रमजलं रतक्लान्तिपानीयं तस्य कणिकाः पृषन्ति तैर्लुलितो विलुप्तो गोरोचनातिलकपत्राणां भङ्गो यस्मिन् । अन्वयस्तु प्रागेवोक्तः । कदाचिदिति । स राजा कनकशृङ्गकोशै: सुवर्णघटित [^2]शृङ्गसंघातैः चिरं चिरकालं यावच्चिक्रीड क्रीडां कृतवान् । 'क्रीड कीडने' धातुः । लिटि रूपम् । कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिञ्जरीक्रियमाणः कायो यस्य स तथा । कीदृशीभिरिव । मकरकेतुर्मदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा बाणास्तेषां परम्पराभिरिव । कीदृ- शीभिः । कामिन्यः स्त्रियस्तासां करपुटा हस्तसंपुटास्तेभ्यो विनिर्गताभिर्निःसृताभिः । पुना राजानं विशिनष्टि - लाक्षेति । लाक्षाजलं यावकजलं तस्य छटास्तासां प्रहारोऽभिघातस्तेन पाटलीकृतं श्वेतरक्तीकृतं दुकूलं दुगूलं यस्य स तथा । मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य बिन्दुना पृषतेन शबलाः कर्बुरा- श्चन्दनस्थासका मलयजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । [^1]F. गलन् स्रवन् योऽलक्तक इत्यर्थः । [^2]F. फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य मदनोत्सवस्य वर्णनमिदम् । अत एव तत्र नारीभिः कुङ्कुमजलेन पिञ्जरीकृ- तोऽयम् । गात्रवस्त्रोपरि दत्तेषु चन्दनस्थासकेषु कस्तूरीजल- बिन्दुभिः शबलीकरणम् । अयमपि च कनकनिर्मितैः शृङ्गाकारैर्जल निक्षेपपात्रैः (डोलची ) तासु रङ्गजलं निक्षिपन् चिरं चिक्रीड । 'कीर्णै: पिष्टातकौघैः' इत्यादिना रत्नावल्यां सोयमुत्सवो वर्णितः । सातवाहनेनापि गाथासप्तशत्याम्- 'घेत्तूण चुण्णमुट्ठेि हरिसूससि- आाएँ वेपमाणाए । भिसिणेमित्ति पिअअमं हत्थे गंधोदअं जाअं ॥ ( ४- १२ ) । इत्यादिना वर्णितः । एतद्गाथाया मत्कृतोऽनुवाद:'आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानायाः । प्रियमवकिरामि पुर इति हस्ते गन्धोदकं जातम् ॥' इति । [^१]G. कुङ्कुमपटवास; कुङ्कुमवास. [^२]G. लोललोचन:. [^३]G. नखर. [^४]G. दष्टाधरकरतल. [^५]G. धुत; आधूत. [^६]G. कलकलरव. [^७]G. रतिरभस. [^८]G. दन्तुरित. [^९]G. चरणगलत्. [^१०]G. अश्रमजल. [^११]G. गोरोचना; रोचना. [^१२]G. विनिर्गताभिरिव. कदाचित्कुचचन्दनचूर्ण [^१]धवलितोर्मिमालम्, चटुलतुलाकोटि- वाचालचरणाल [^२]क्तकसिक्तहंसमिथुनम्, अलक [^३]निपतितकुसुमसारम्, प्लवमान [^४]कर्णपूरकुवलयदलम्, उन्नतनि- [^५]तम्बक्षोभजर्जरिततरंगम्, उद्दलितनालपर्यस्तनलिननिपतित- धूलिपटलम्, अनवरत [^६]करास्फालनस्फु [^७]रत्फेनबिन्दुचन्द्रकितं सावरोधजनो जलक्रीडया गृहदीर्घिकाणामम्भश्चकार । कदाचित्संकेतवञ्चिताभिः प्रणयिनीभिराबद्धभङ्गुर [^८]भृकुटि- भिरारणितपारि [^९]हार्यमुखरभुजलताभिर्बकुलकुसुमा [^१०]व- लीभिः संयतचरणो नखकिरणविमिश्रै: कुसुमदामभिः कृतापराधो दिवसमताड्यत । कदाचिद्बहुकुलतरुरिव [^११]कामिनीगण्डूष- सीधु [^१२]धारास्वादमुदितो विकाशमभ [ टि ]-- कदाचिदिति । सहावरोधजनैरन्तःपुरलोकैर्वर्तमानः स राजा जलक्रीडया गृहदीर्घिकाणां भवनवापीनामम्भः पानीयमे- तादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचा- नां स्तनानां यानि चन्दनचूर्णानि मलयजक्षोदास्तैर्धवलिता शुभ्री- कृतोर्मिमाला कल्लोलपङ्क्तिर्यस्य तत् । चटुलेति । चटुला मनो- हरा ये तुला [^1]कोटयस्तैर्वाचाला मुखरा ये चरणाः पादास्तेषां योऽलक्तकस्तेन सिक्तं सिञ्चितं हंसमिथुनं सितच्छदद्वन्द्वं यस्मिं- स्तत्तथा । अलकेति । अलकाच्चूर्णकुन्तलानिपतितं त्रस्तं कुसुम- [^2]सारं पुष्परहस्यं यस्मिंस्तत्तथा । प्लवेति । प्लवमानं [^3]नि- मज्जमानं कर्णपूररूपं कुवलयदलं यस्मिन् । उन्नतेति । उन्नता उच्चा ये नितम्बा आरोहास्तैः क्षोभ आस्फालनं तेन जर्जरिता: क्षीणास्तरंगाः कल्लोला यस्मिंस्तत् । उद्दलितेति । उद्दलितान्यु- च्छिन्नानि नालानि बिसानि येषामेवंभूतानि पर्य [^4]स्तानि नलि- नानि कमलानि तेभ्यो निपतितं स्रस्तं धूलिपटलं परागसमूहो यस्मिन् । अनवरतेति । अनवरतकरास्फालनेन निरन्तरहस्ता- स्फोटनेन स्फुरन्तो देदीप्यमाना ये फेनबिन्दवोऽब्धिकफपृषता- स्तैरेव संजाता चन्द्रका मेचका यस्मिन् । 'तारकादिभ्य इतच्' इति । चन्द्रकितं मेचकितम् । अन्वयस्तु पूर्वोक्तः । कदाचिदिति । स [^5]दिवसं प्रतिदिवसं प्रणयिनीभिर्मानिनीभि- रताड्यत ताडितोऽभूदित्यन्वयः । 'ताड व्यथने' इति धातुः । लुङन्तप्रयोगः । अत्र यद्यपि प्रथमतः कर्तृत्वेन निर्देशादितश्च कर्म- त्वेनेति 'कारकप्रक्रमभङ्गस्तथापि वाक्यभेदाददोषः । कीदृशः । कृतेति । कृतो विहितोऽपराध आगो येन स तथा । पुनः कीदृक् । संयतौ बद्धौ चरणौ पादौ यस्य स तथा । कैः । कुसुमदामभिः पुष्प- मालाभिः । किंविशिष्टाभिः । बकुलेति । बकुलः केसरस्तस्य कुसु- मानां पुष्पाणामावलिः श्रेणिर्येषु तैः । नखेति । नखानां पुनर्भवानां किरणा मयूखास्तैर्विमिश्रैः संपृक्तैः। अथ च प्रणयिनीनां विशेषणानि - संकेतेति । अमुकस्थले मयावश्यमागन्तव्यमिति संकेतस्तेन वञ्चिताभिर्निष्फलीभूताभिः । सागता, स्वयं तु नागत इति भावः । अत एवाबद्धा विरचिता भकुरा वक्रा भृकुटयो याभिस्ताः । आर- णितेति । आरणितं शब्दायमानं यत्पारिहार्यं कङ्कणं तेन मुखरा वाचाला भुजलता यासां ताभिः । कदाचिदिति । बकुलतरुः केसर- वृक्षस्तद्वदिव विकाशं विकस्वरतामभजत प्राप्तवान् । तमेव विशिनष्टि- कामिनीति । कामिनीनां स्त्रीणां यो गण्डूषश्चलुकस्तस्य यत् सीधु मद्यं [^1]F. चटुलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नूपुराभ्यां वाचालयोः चरणयोः अलक्तकेन सिक्तं हंस मिथुनम् (नूपुररवाकृष्टौ हंस- दम्पती) यस्मिन् तत् । इति व्याख्यानमुचितम् । [^2]F. 'कुसुमनिकरशारम्' इत्येव पाठः। अलकनिपतितैः कुसुम- निकरैः शारं चित्रमिति तद्व्याख्या । [^3]F. प्लवमानानि जलोपरि संतरन्ति कर्णपूराणाम् आकण्ठ- मग्नमहिलाकर्णाभरणीकृतानां कुवलयानां नीलोत्पलानां दलानि यस्मिन् तत् । इति व्याख्योचिता । [^4]F. उच्छिन्ननालत्वाज्जलोपरि पतितानि यानि कमलानि, इत्यर्थः। [^5]F. समस्तं दिवसमभिव्याप्येत्यर्थः । प्रतिदिनताडनार्थस्तु टीकाकारस्य राजनि परमानुग्रह एव । [^१]G. धवलोर्मि. [^२]G. अलक्त. [^३]G. कुसुमनिकरसारम्. [^४]G. कर्णकुवलय. [^५]G. संक्षोभ. [^६]G. करतल. [^७]G. विस्फुरत्. [^८]G. भृकुटीभिः, भ्रुकुटीभिः, भ्रकुटीभिः. [^९]G. मणिपरिहार्य. [^१०]G. आवलीसंयत. [^११]G. कामिनीनां गण्डूष. [^१२]G. आस्वादन. जत । कदाचिदशोकपादप इव युवतिचरणतलप्रहार [^१]संक्रा- न्तालक्तको रागमुवाह । कदाचिन्मुसलायुध इव चन्दन [^२]धवल: [^३]कण्ठावसक्तोल्लसल्लोलकुसुममालः पानमसेवत । कदा- चिद्गन्धगज इव मदरक्तकपोलदोलायमानकर्ण [^४]पल्लवो मदकल: काननं [^५]विकचवनलताकुसुमसुरभिपरिमलं जगाहे । कदा [^६]चित्क्वणितमणिनूपुरनिनादानन्दितमानसो हंस इव कमलवनेषु रेमे । कदाचिन्मृगपतिरिव [^७]स्कन्धावलम्बिकेसर- माल: क्रीडा [^८]पर्वतेषु विचचार । कदाचिन्मधुकर इव विजृम्भ- माणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम । [^९]कदाचिन्नील- [^१०]पटविरचितावगुण्ठनो [^११]बहुलपक्षप्रदोषदत्तसंकेता: सुन्दरीरभिससार । [^१२]कदाचिच्च विघटित [^१३]कनककपाटं प्रक [ टि ]-- तस्य धारा पङ्क्तिस्तस्या यः स्वादस्तेन मुदितो हर्षितः । कदाचिदिति । अशोकपादपः कङ्केल्लिवृक्षस्तद्वदिव अशोकसाम्यं प्रदर्शयन्नाह – युवतीति । युवतीनां स्त्रीणां यश्चरणतलप्रहारः पाद- तलाभिघातस्तेन संक्रान्तो लग्नोऽलक्तको यस्य स तथा रागमनुरागमुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । कदाचिदिति । पूर्ववत् । मुसलायुधो बलभद्रस्तद्वदिव । तत्साम्यमाह - चन्दनेति । चन्दनेन हरिचन्दनाङ्गरागेण धवलः शुभ्रः । पक्षे चन्दनवद्धवलः । कण्ठेति । कण्ठावसक्तोल्लसन्ती लोला कुसुममाला यस्य स तथा पानं मद्यपानमसेवताभजत । कदा- चिदिति । गन्धगजो गन्धहस्ती तद्वदिव काननं वनं जगाहे विलो- डयामासेत्यन्वयः । कीदृशः । मदेति । मदेन रक्तो यः कपोल- स्तस्मिन्दोलायमानः कर्णपल्लवो यस्य स तथा । मदकलो मदेन कलो मनोहरो विकचानि विकस्वराणि यानि वनलताकुसुमानि तेषां सुरभिः परिमलो यस्मिन् । कदाचिदिति । हंस इव मराल इव कमलवनेषु नलिनकाननेषु रेमेऽरमत । कीदृशः । क्वणितेति । क्वणितानि शब्दितानि यानि मणिनूपुराणि रत्नपा [^1]दाङ्गदानि तेषां निनादः शब्दस्तेनानन्दितं मुदितं मानसं यस्य तथा । पक्षे क्व- णितमणिनूपुरवयो निनादस्तेनानन्दितं [^2]मानसं सरो येनेति विग्रहः । कदाचिदिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडाशैलेषु विचचार व्यहार्षीत् । तमेव विशिनष्टि - स्कन्धेति । स्कन्धावलम्बिनी केसरो [^3]पयुक्ता माला स्रग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटापङ्किर्यस्येति विग्रहः । कदाचि- दिति । मधुकर इव भ्रमर इव लतागृहेषु वल्लीगृहेषु बभ्राम भ्रमणं चकार । कीदृशेषु लतागृहेषु । विजृम्भेति । विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु । कदाचिदिति । सुन्दरीः प्रमदा अभिससार सेवितवान् । कीदृक् । नीलेति । नीलपटेन श्यामपटेन विरचितं विहितमवगुण्ठनं शिरोवेष्टनं येन स तथा । सुन्दरीर्विशि- नष्टि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो यामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः । कदाचिच्चेति । अवरोधस्यान्तः पुरस्य संगीतकं नृत्यादि ददर्शाद्राक्षीदित्यन्वयः । केषु । प्रासादा भूपगृहा- स्तेषां कुक्षयो मध्यभागास्तेषु । तानेव विशिनष्टि - विघटितेति । विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति क्रियाविशेषणम् । प्रकटा वातायनाः स्पष्ट [^1]F. रत्ननिर्मितानि पादभूषणानि (मञ्जीराः ) इत्यर्थः । अङ्गदस्तु भुजे प्रसिद्धः । [^2]F. वास्तवे तु हंसपक्षेऽप्ययमेवार्थः । कामिनीनूपुररवेण तस्यापि मनःप्रहर्षस्य प्रसिद्धत्वात् । [^3]F. बकुलमाला, इत्यर्थः । [^4]F. स्वयभिसरणेन संगतवान् । [^१]G. अलक्तकरसो रागम्. [^२]G. धवलकण्ठ. [^३]G. कण्ठावसक्तलोल; कण्ठावसक्तसमुल्लसल्लोल. [^४]G. पल्लवः कुसुमसुरभि. [^५]G. विकस्वर. [^६]G. क्वणन्. [^७]G. स्कन्धावलम्बित. [^८]G. पर्वतकेषु. [^९]G. कदाचिद्वनलताग्रथितमौलिर्नक्तमालकुसुमस्तबकरचित- शेखरः शुकपक्षरागमधरयता नलिनीदलकोमलेन हरितकञ्चु- केनावच्छिन्नशरीरावयवः कोदण्डदण्डसनाथीकृतवाभेतरांसदेशः पुरः प्रधावितानेकश्वगणिवागुरिकैरुपदिश्यमानवर्त्मानेकपक्षिजाति- समालम्बनव्यग्रपाणिभिः परिहासपेशलं सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु परिबभ्राम । कदाचिन्नीलपटकृतावगुण्ठन:. [^१०]G. पटावगुण्ठनः पटरचितावगुण्ठन:. [^११]G. बहुलनिशाप्रदोष. [^१२]G. कदाचिद्विघटित. [^१३]G. कपाटप्रकट. टवातायनेष्वनवरतदह्यमानकृष्णागुरुधूमरक्तैरिव [^१]पारावतै [^२]रधिष्ठितविटङ्केषु [^३]प्रासादकुक्षिषु कतिपयाप्तसुहृत्परिवृतो वीणावेणुमुरज [^४]मनोहरमवरोधसंगीतकं ददर्श । किं [^५]ब- हुना यद्यतिरमणी [^६]यमविरुद्ध [^७]मायत्यां तदात्वे च तत्तद- नाक्षिप्तचेता: परिसमाप्तत्वादन्येषां पृथिवीव्यापाराणां सिषेवे, [^८]नत्वतिव्यसनितया । प्रमुदि [^९]तप्रजस्य परिसमाप्तसकल- [^१०]महीप्रयोजनस्य नरपते [^११]र्विषयोपभोगलीला भूषणम् । इतरस्य तु विडम्बना । प्रजानुराग [^१२]हेतोरन्तरान्तरा दर्शनं ददौ । सिंहासनं च निमित्तेष्वारुरोह । [^१३]शुकनासोऽपि [^१४]महान्तं राज्यभारमनायासेनैव प्रज्ञाब- लेन बभार । [^१५]यथैव राजा [^१६]कार्याण्यकार्षीत्तद्वदसावपि [^१५]द्विगुणीकृतप्रजानुरागो राजकार्याणि [^१८]चक्रे । तमपि [^१९]चलितचूडामणिमरीचि [ टि ]-- गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहनकेतनस्तेन रक्तैरिव रञ्जितैरिव । एवंभूतैः पारावतैः कलरवैरधिष्ठिता आश्रिता विटङ्काः कपोतपाल्यो येषु । कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्य- यिताः । 'आप्तप्रत्ययितौ समौ' इति कोशः । एवंविधाः सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, तैर्मनोहरमतिरमणीयम् । संगीतविशे- षणम् । किं बहुनेति । किं बहुवक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्वतिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तूत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं स्यात्' इति कोशः । अविरुद्धं नीतिशास्त्राप्रतिषिद्धं तत्तत्सिषेवे सेवितवान् । अतिसुन्द- रेण वस्तुना क्षिप्तश्चेत्तदा व्यसनमेवेत्याह - अनाक्षिप्तेति । अना- क्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णीभूत- त्वात् न त्वतिव्यसनितया तदासक्ततयेत्यर्थः । एतदेवार्थान्तन्यासेन विवृणोति -- प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा तस्य । परीति । परिसमाप्तं परिपूर्णीकृतं सकलं समग्रं महीप्रयोजनं वसुधाकृत्यं यस्यैवंभूतस्य नरपतेः । विषयेति । विषयाः स्रक्चन्दनादयस्तेषामसकृदुपभुज्यन्त इत्युपभोगास्तेषां लीला क्रीडा भूषणमलंकारः । आदरातिशयाभावेनेत्यर्थः ।'असक्तः सुखमन्वभूत्' इत्युक्तत्वात् । इतरस्य त्वेतद्भिन्नस्य तु बिडम्बना राजकृत्यासाधकत्वेन व्यसनमेव । प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये दर्शनं जनानां सौधा- वलोकनं ददौ दत्तवान् । असकृद्बहिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमित्तेषु तथाविध [^1]कारणेषु सिंहासनं नृपासन- मारुरोहारूढवान् । शुकनासोऽपीति । शुकनासनामा मन्त्रैिरपि महान्तं गरिष्ठमपि राज्यभारमाधिपत्यधुरमनायासेनैव प्रयासं विना प्रज्ञाबलेन राजनीतिबलेन बभार दध्रे । यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्यकार्षीत्कृतवांस्तद्वदसौ शुकनासोऽपि । द्विगुणीति । पूर्वस्माद्विगुणीकृतोऽधिकीकृतः प्रजायाः प्रकृतेरनु- रागः स्नेहो येन स तथा राजकार्याणि स्वस्वामिकृत्यानि चक्रेऽका- र्षीत् । तमपीति । तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे । कैः । मौलिभिर्मस्तकैः कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः । [^1]F. विचारसापेक्षेषु शासनव्यापारेषु, पर्वोत्सवादिषु वा । [^2]F. मन्त्रीत्यर्थः । [^१]G. पारापतैः. [^२]G. अध्यासित. [^३]G. महाप्रासाद. [^४]G. मनोहरतममन्तः पुरसंगीतकम्; मनोहरमन्तःपुरसंगीत- कम्. [^५]G. किं च बहुना. [^६]G. अभिमतमविरुद्धम्. [^७]G. आयत्या. [^८]G. न तु व्यसनितया. [^९]G. प्रजस्य हि. [^१०]G. महीमण्डलप्रयोजनस्य. [^११]G. विषयसंभोग. [^१२]G. हेतोश्चान्तरान्तरा; हेतोश्चान्तरा. [^१३]G. शुकनासोऽपि राज्यभारम्. [^१४]G. महान्तं तम् ; महान्तमपि. [^१५]G. यथैव च. [^१६]G. सर्वकार्याणि. [^१७]G. द्विगुणीकृतः प्रजानुरागश्चक्रे. [^१८]G. चकार. [^१९]G. चावलित. मञ्जरीजालिभिर्मौलिभिरावर्जितकुसुमशेखरच्युतमधुसीकर [^१]सिक्तनृपसभं दूरावनतिप्रेङ्खो [^२]लित. मणिकुण्डलकोटिसंघट्टिताङ्गदं राजकमाननाम । तस्मिन्नपि [^३]चलिते चलितचटुलतुरंगबलमुखरखुररवबधिरीकृत [^४]भुवनान्तरालाः, [^५]बलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदान्धगन्धगजदानधारान्धकाराः, संसर्पदति [^६]बहुल [^७]धूलिपटलधूस- रित सिन्धवः [^८]प्रचलत्पदातिवल [^९]कलकलरवस्फोटित [^१०]कर्णविवराः, सरभसोद्धुष्यमाणजयशब्द [^११]निर्भरा:, प्रोद्धूयमानधवलचामरसहस्रसंछादिताः, पुञ्जितनरेन्द्रवृन्दकनक- दण्डातपत्र [^१२]संघट्टनष्टदिवसा दश दिशो बभूवुः । एवं तस्य राज्ञो [^१३]मन्त्रिविनिवेशितराज्यभारस्य यौवनसुखमनु- भवतः [^१४]कालो जगाम । भूयसा च कालेनान्येषामपि जीव- लोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु [^१५]सुतमुखदर्शनसुखं न लेभे । तथो [^१६]पभुज्यमानमपि निष्फलपुष्पदर्शनं शर- वणमिवान्तःपुर [^१७]मभूत् । [^१८]यथा यथा [ टि ]-- राजकं विशेषयन्नाह — आवर्जितो धृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्च्युताः स्रस्ता ये मधुसीकरा रसबिन्दवस्तैः सिक्ता सिञ्चिता नृपसभा राजपरिषद्येन तत् । दूरेति । दूराद्दूर- प्रदेशाद्यावनतिः प्रणामस्तत्र प्रेङ्खोलितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवंभूता दश दिशो बभूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चटुलाश्चपलास्तुरगा अश्वा यस्मिन्नेवंभूतं यद्बलं सैन्यं तस्य मुखरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन बधिरीकृतानि भुवनान्तरालानि मध्यभागा यासु ताः । बलेति । बलभरेण सैन्यभारेण प्रचलं कम्पितं यद्वसुधातलं पृथ्वी- तलं तेन दोलायमानाः कम्पा [^1]यमाना गिरयः पर्वता यासु ताः । गलदिति । गलन्तः स्रवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभा- स्तेषां दानधारा मदपङ्क्तय एवान्धकारा यासु ताः । संसर्पदिति । संसर्पदूर्ध्वं गच्छद्यतिबहुलमतिदृढं धूलिपटलं रजःसमूहस्तेन धूस- रिता धूसरवर्णीकृताः । सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद्गच्छद्यत्पदातीनां पत्तीनां बलं सैन्यं तस्य कलकलः कोलाहलस्तल्लक्षणो यो रवः शब्दस्तेन स्फोटितानि भेदं प्रापितानि कर्णविवराणि श्रवणविवराणि यासु ताः । सरभसेति । सरभसं वेगे- नोद्धुष्यमाणो यो जयजयेति शब्दस्तेन निर्भराः । भृता इत्यर्थः । प्रोद्धूयेति । प्रोद्धूयमानानि वीज्यमानानि यानि धवलचामरसह- स्राणि तैः संछादिता आच्छादिताः । पुञ्जितेति । पुञ्जितं संघीभूतं यन्नरेन्द्रवृन्दं तस्य यानि कनकदण्डान्यातपत्राणि छत्राणि तैः संघट्टो विमर्दस्तेन नष्टा दिवसा यासु ताः । एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्य- मात्ये विनिवेशितः स्थापितो राज्यभारो येन स तथा तस्य यौवनसुखं तारुण्यसौख्यमनुभवतोऽनुभवविषयीकुर्वतः कालोऽनेहा जगाम गतवान् । भूयसा भूयिष्ठेन कालेन प्रायो बाहुल्येनान्येषामपि जीव- लोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ । लोकाना- मपि सर्वविषयानुभवो जात इत्यर्थः । एकं त्विति । तु पुनरर्थे। सुत- मुखदर्शनजनितं यत्सुखं तदेकं न लेभे न प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयीक्रियमाणमपि शरवणमिवान्तः- पुरमभूत् । उभयं विशिनष्टि - निष्फलेति । निर्गतं फलं यस्मादेवं- भूतं पुष्पं प्रसूनं रजश्च स्त्रीणां तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यमतिचक्रामातिक्रमितवान् । [^1]F. कम्पमाना इत्याशयः । [^2]F. कनकनिर्मिता दण्डा येषां तानीत्यर्थः । [^१]G. सिक्तनृपसभदूरावनतिम्; सिक्तसभं दूरावनति. [^२]G. प्रेङ्खित. [^३]G. चलति चटुलतुरंग. [^४]G. भुवनाः. [^५]G. बलप्रचल. [^६]G. बहल. [^७]G. धूलिप्रबलपदातिबल. [^८]G. प्रबलपदाति. [^९]G. कलकलस्फोठित. [^१०]G. श्रवणविवराः. [^११]G. निरन्तरा:. [^१२]G. संघट्टन. [^१३]G. मन्त्रिनिवेशित. [^१४]G. कश्चित्कालो. [^१५]G. तनय; तोक. [^१६]G. संभुज्यमानम्. [^१७]G. अभवत्. [^१८]G. यथा यथा यौवनम्. च यौवनमतिचक्राम, तथा तथा [^१]विफलमनोरथस्यानपत्यता [^२]जन्मावर्धतास्य भोगसुखेच्छाभिश्च मनो [^३]विजघ्ने । नरपति- सहस्रपरिवृतमध्यसहायमिव, [^४]भुवनालम्बनमपि [^५]निराल- म्बमिवात्मानम [^६]मन्यत । अथ [^७]तस्य चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, वनमालेव मुसलायुधस्य, वेलेव सागरस्य, मदलेखेव दिग्गजस्य, लतेव पोदपस्य, पुष्पोद्गतिरिव सुरभिमासस्य, चन्द्रिकेव चन्द्रमसः कमलिनीव सरसः तीरापङ्किरिव नभसः, • हंसमालेव मानसस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषणमभूत्रिभुवन विस्मयजननी जननीव वनिताविभ्रमाणां सकलान्तःपुरप्रधानभूता महिषी विलासवती नाम । एकदा चे से तदावासगतस्तां चिन्तास्तिमितेंदृष्टिना शोकमूकेन परिजनेन परिवृताम् आदरावस्थितैश्च ध्यानानिमिषलोचनैः कश्च किभिरुपास्यमानाम् अनतिदू, १ १३५ संतापः । विषयोपचक्षुष्मन्त मध्यन्धतथा तथा तेन तेन प्रकारेण । विफलेति । विफलो निष्फलो मनोरथो यस्य स तथा तस्यास्य तारापीडस्य राज्ञः संतापो मानसी व्यथाऽवर्धत वृद्धिं प्राप । संतापं विशिनष्टि - अनपत्येति । अनपत्यताऽसंतानत्वं तस्माज्जन्मोत्पत्तिर्यस्य स तथा । विषयेति । विषयाणां स्रक्चन्दनादीनां य उपभोगोऽसकृद्भोगस्त ज्ज नितं यत्सुखं सातं तस्येच्छा अभिलाषास्ताभिर्मनश्चित्तं विजघ्ने विरक्तं बभूव । नरेति । नरपतीनां राज्ञां यत्सहस्रं तेन परिवृतं सहितमप्य सहायमद्वितीयमिव चक्षुष्मन्तं सनेत्रमण्यन्धमिव गताक्षमिव भुवनालम्बनमपि निरालम्बमिव निराधार मिवात्मानं स राजामन्यताज्ञासिष्ट । अथेति । तस्य राज्ञो विलासवती नाम महिषी पट्टराज्ञी भूषणमलंकृतिरभूदित्यन्वयः । कस्य केव । हरजटाकलापस्य शंभुजटाजूटस्य चन्द्रलेखेव शशिकलेव । कैटभेति । कैटभारातिर्विष्णुस्तस्य वक्षस्थलं भुजान्तरं तस्य कौस्तुभो मणिस्तस्य प्रभा कान्तिस्तयैव । मुसलायुधय बलभद्रस्य वनमालाभरणवि. शेषः सेव । सागरस्य समुद्रस्य वेलेव जलवृद्धिरिव । दिग्गजस्य दिङागस्य मदलेखेव दानराजिरिव । पादपस्य वृक्षस्य लतेव वल्लीव । सुरभिमासस्य वसन्तमासस्य पुष्पोद्गतिरिव कुसुमोद्गम इव । चन्द्रमसः शशिनश्चन्द्रिकेव ज्योत्स्नेव । सरसः कासारस्य कमलिनीव नलिनीव । नभस आकाशस्य तारापङ्किरिव नक्षत्रश्रेणिरिव । मानसस्य मानसाभिघसरसो हंसमालेव चक्राङ्गपङ्किरिव । मलयस्य मलयाद्रेश्चन्दनवनराजिरिव मलयजव श्रेणिरिव । शेषस्य नागाधिपस्य फणामणिशिंखेव स्फुटरत्नज्वालेव । त्रिभुवनेति । त्रिभुवनस्य विष्टपत्र यस्य यो विस्मय आश्चर्यं तस्य जननी कारिणी । वनितेति । वनिताः स्त्रियस्तासां विभ्रमाणां भ्रूसमुद्भवानां जननीव मातेव । सकलेति । सकलं समग्रं यदन्तःपुरमवरोधस्तस्मिन्प्रधानभूता मुख्या । एक देति । एकदा एकस्मिन्समये स तारापीडस्तस्या विलासवत्या आवास निवासस्थलं तत्र गतः संस्तां ददर्शाद्राक्षीत् । अथ च तस्या विशेषणानि - चिन्तेति । चिन्ता मानसी व्यथा तथा स्तिमिता निश्चला दृष्टिग्यस्य स तेन । शोकेन शुचा मूकेन जडेनैवंभूतेन परिजनेन परिच्छदेने परिवृतां सहिताम् । आरादिति । आराद्दूरादवस्थितैः कृतावस्थानैर्ध्यानेन चिन्तया निमिषरहिते लोचने येषां तैरेवंभूतैः कञ्चुकिभिः सौविदल्लैरुपास्यमानां सेव्यमानाम् । अनतीति । नातिदूरवर्तिनीभिरन्तःपुरवृद्धाभिरवरोधवृद्धस्त्रीभिराश्वास्यमानां भाविटिप्प० - 1 द्वितीयेन सहायकेन शून्यम्, 'शून्यमपुत्रस्य गृहम्' इति न्यायादित्यर्थः । इति तात्पर्यम् । 3 विलासानामित्याज्ञयः । 4 परिवारजनेन । 2 सेव, पाठा० -१ निष्फल. २ महानवर्धत ३ विजहे, विजगाहे. ४ भुवनावलम्बनम् ; भुवनालम्बनम्. ५ निरालम्बनम्. ६ अनपत्यममन्यत. ७ अस्य. ८ कैटभारि . ९ कल्पपादपस्य. १० कुसुमोद्गतिः; कुसुमोन्नतिः : ११ तारका. १२ च तदावासमुपगत; च तदावासगत १३ राजा राशीमिव समुपागतः• १४ दीनदृष्टिना. रवर्तिनीभिश्चान्तःपुरवृद्धाभिराश्वास्यमानाम् अवि [^१]रलाश्रुपाता- र्दीकृतदुकूलाम्, अनलंकृताम्, वामकरतलविनिहितमुखकमलाम्, असंयताकुलालकाम्, [^२]सुनिबिडपर्यङ्किकोपविष्टाम्, [^३]रुद- तीं ददर्श । [^४]कृताभ्युत्थानां च तां तस्यामेव पर्यङ्कि [^५]काया- मुपवेश्य स्वयं चोपविष्याविज्ञात [^६]बष्पकारणो भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलौ [^७]भूपालस्तामवा- दीत्--- 'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्दं रुद्यते । ग्रथ्नन्ति हि मुक्ताफेलजालकमिव बाष्पबिन्दुनिकरमेता [^८]स्तव पक्ष्मपङ्क्तयः । किमर्थं च कृशोदरि, नालंकृतासि । बालातप इव रक्तारविन्द [^९]कोशेयोः किमिति न पाति [^१०]तश्चरणयोरय- मलक्तकरसः । कुसुमशरसरः कलहंसकौ कस्मात्पादपङ्कजस्पर्शेन नानुगृहीतौ मणिनूपुरौ । [^११]किंनिमित्तमयमपगतमेखला कलापमूको मध्यभागः । [ टि ]-- फलप्रशंसया विश्वास्यमानाम् । अविरलेति । अविरला निबिडा येऽश्रुपाता नेत्रजलपातास्तैर्दीकृतं क्लिन्नीकृतं दुकूलं दुगूलं यया सा ताम् । अनलंकृतामविभूषितां वामकरतलेऽपसव्यपाणि- तले विनिहितं स्थापितं मुखकमलमाननपद्मं यया सा ताम् । अनेन खेदातिशयद्योतकः स्त्रीजातिस्वभावोऽभिहितः । असंयतेति । असंयता असंबद्धा आकुला इतस्ततः पर्यस्ता अलकाः कचा यस्यास्ताम् । क्षुद्रः पर्यङ्कः पर्यङ्किका । सुनिबिडा दृढा या पर्यङ्कि- कोपवेशनमञ्चिका तस्यामुपविष्टामासेदुर्वीं रुदतीं रुदनं कुर्वाणाम् । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतं विहितमभ्युत्थानं संमाननं यया सा ताम् । तां विलासवतीं तस्यामेव पूर्वोक्तायामेव पर्यङ्किका- यामुपवेश्य संस्थाप्य स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंसोरेकत्रा- वस्थितेरयोग्यत्वात् । तदनन्तरं च भूपालस्तामवादीदित्यन्वयः । स्वयं चेत्यनेन विलासवत्या उपवेशानन्तरं स्वस्योपवेशनेन शोक- निवारक आदरातिशयः सूचितः । अविज्ञातेति । अविज्ञातमविदितं बाष्पस्याश्रुपातस्य कारणं [^1]नियामकं येन स तथेति राज्ञो विशेषणम् । भीतभीत इव त्रस्त्रत्रस्त इव । स्नेहातिशयद्योतनार्थं वीप्सा । कर- तलेन पाणितलेन विगतौ दूरीभूतौ बाष्पाम्भसो नेत्रजलस्य कणौ ययोरेवंभूतौ कपोलो कुर्वन्निति राजविशेषणम् । अन्वयस्तु प्रागेवोक्तः । किं तदित्याह- देवीति । हे देवि, किमर्थं किंप्रयोजनम् । अन्तरिति । अन्तर्गतो गूढपथगतो यो गुरुशोको गरिष्ठशुक्तस्य भारो भरस्तेन मन्थरमनुद्भटमशब्दं शब्दवर्जितं रुद्यते रोदनं क्रियते । अत्राशब्दमित्यनेन धीरायाः स्वभावः प्रद- र्शितः । [^2]अधीरायास्तु सशब्दं रोदनं स्यादिति भावः । श्वेतवर्तु- लत्वसाम्यात्तदुपमानमाह - ग्रथ्नन्तीति । एतास्तव पक्षमपङ्क्तयो नेत्ररोमराजयो मुक्ताफलजालकमिव मुक्ताकलापमिव बाष्पबिन्दु- निकरमकणसमूहं ग्रथ्नन्ति ग्रथनं कुर्वन्ति । हे कृशोदरि क्षामकुक्षि, किमर्थं किंनिमित्तं नालंकृतासि न भूषितासि । 'किमिति प्रश्ने ।रक्तारविन्दकोशयोर्लोहितकमलमुकुलयोर्बालातप इव तत्कालो- दितसूर्यालोक इव चरणयोः पादयोरयमलक्तकरसो यावकद्रवो न पातितो न न्यस्तः । कोमलमुकुलाकारसाम्याच्चरणयोः कोशसा- म्यम् । आरक्तसाम्यादलक्तकरसे बालातपसाम्यम् । कुसुमेति । कुसुमशरस्य मदनस्य यत्सरः कासारस्तस्त्र कलहंसाविव कल- हंसावनुरणनसाम्यान्मणिनूपुरौ पादकटके कस्माद्धेतोः पादपङ्कज- स्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीतौ न प्रसादपात्रीकृतौ । किंनिमित्तमिति । किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः समूहस्तेन मूको [^3]जडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किङ्किण्यपेक्षया कलापेत्युक्तं विवि [^1]F. हेतुरित्यर्थः । [^2]F. अत्र धीराऽधीरादिभेदगवेषणं साहित्यज्ञताऽभिनयमात्रं टीकाकारस्य । प्रणयकोपे एव धीराधीरादिभेदानां प्रयोगदर्शनात् । किञ्च -मानेऽपि सशब्दं रोदनं न अधीरायाः स्वभावः, अपि तु धीराऽधीराया एव । यथा हि साहित्यदर्पणे – 'प्रियं सोत्प्रासवक्रो- त्त्या मध्या धीरा दहेद्रुष। धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ॥' [^3]F. निःशब्द इत्यर्थः । [^१]G. अश्रुबिन्दु. [^२]G. निबिड. [^३]G. देवीम्; रुदतीं देवीम्. [^४]G. कृतप्रत्युत्थानाम्; कृतप्रत्यभ्युत्थानाम्. [^५]G. उपविश्य. [^६]G. बाष्पवेग. [^७]G. भूमिपाल:. [^८]G. तवायता:. [^९]G. कोशयोरयम्. [^१०]G. चरणयोरलक्तक. [^११]G. किंनिमित्रमपगत. [^१]किमिति च हरिण इव हरिणलाञ्छने न [^२]लिखितः कृष्णा- गुरुपत्र [^३]भङ्गः पयोधरभारे । केन कारणेन तन्वीयं [^४]हर- मुकुटचन्द्रलेखेव गङ्गास्रोतसा न [^५]विभूषिता हारेण [^६]वरोरु, शिरो [^७]धरा । किं वृथा वहसि विलासिनि सवदशुजललव- [^८]धौतपत्रलतं [^९]कपोलयुगम् । इदं च [^१०]कोमलाङ्गलिदलनिकरं रक्तोत्पलमिव करतलं किमिति कर्णपूरतामारोपितम् । [^११]इमां च केन हेतुना मानिनि, धारयस्यनुपरचितगोरोचनाबिन्दुतिल[^१२]कामसंयमितालकिनीं, ललाटरेखाम् । अयं [^१३]च ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे [^१४]'दृष्टिखेदमतिबहुलतिमिरपट [^१५]लान्धकारः कुसुमरहितः केशपाशः । प्रसीद, [^१६]निवेदय देवि, दुःखनिमित्तम् । एते हि पल्लवमिव सरागं [^१७]मे [^१८]हृदयमाकम्पयन्ति तरलीकृत- स्तनां [^१९]शुकास्तवायताः [^२०]श्वासमरुतः । [^२१]कच्चिन्मयापरा [ टि ]-- धमणिद्युतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे इव पयोधरभारे स्तनाभोगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न लिखितो न लिपीकृतः । अत्र गौरत्ववर्तुलत्व- किंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् । गौरकृष्णत्वसाम्याच्च हरिणकृष्णागुर्वो: साम्यम् । केनेति । हे वरोरु, केन कारणेनेयं तन्वीं शिरोधरा ग्रीवा हारेण मुक्ताकलापेन न विभूषिता नालंकृता । केनेव गङ्गास्रोतसा स्वर्धुनीप्रवाहेण हरमुकुटो जटा- जूटस्तस्मिन्या चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, स्रवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा बिन्दवस्तैर्धौता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवंभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । हृदं चेति । कोमलानि मृदूनि यान्यङ्गुलिदलानि तेषां निकर: समूहो यस्मिन्नेवंभूतं करतलं हस्ततलं रक्तोत्पलमिव कोकनदमिव । किमिति हेतोः कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे मानिनि हे गर्वयुक्ते, केन हेतुना केन कारणेन इमां प्रत्यक्षगतां ललाटरेखामलिकराजीं धारयसि धत्से । तां विशेषयन्नाह –अन्विति । अनुपरचितमविहितं गोरोचना प्रसिद्धा तस्या बिन्दुभिस्तिलकं पुण्ड्रं यस्याः सा ताम्, असंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः । क इव । बहुलपक्षप्रदोष इव बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनी मुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्रलेखादर्शनाद्बहुलग्रहणम् । बहुलपक्षेऽपि पश्चिमरात्रौ चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्रलेखा शशि- कला तया विरहितः । प्रदोषं विशेषयन्नाह - अतीति । अतिबहुला- न्यतिदृढानि यानि तिमिरपटलानि तमोमण्डलानि तैरन्धकारो नेत्र- रश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुमचन्द्रलेखयोः साम्यम् । कृष्णत्वसाधर्म्यात्केशकलापप्रदोषयोः साम्यम् । सान्त्वनोपक्रमेण चाटुवचनविस्तारमुपसंहरन्नाह — देवीति । हे देवि हे राज्ञि, प्रसीद प्रसन्ना भव । दुःखनिमित्तं मानसिकव्यथा- कारणं निवेदय कथय । एते हीति । हि निश्चितम् । एते दृश्यमाना- स्तवायता विस्तीर्णाः श्वासमरुतो निःश्वासाः पल्लवमिव किसलय- मिव सरागम् । राग आरुण्यं प्रीतिश्च तेन सह वर्तमानमित्यर्थः । एतेन पल्लवसाम्यता सूचिता । मे मम हृदयं चित्तमाकम्पयन्ति धूनयन्ति । श्वासमरुतो विशिनष्टि - तरलीति । तरलीकृतं चञ्चली- कृतं [^1]F. अतिबहुलेत्यादिकं विशेषणं केशपाशेऽप्यन्वेति । कुसुमरहितः अत एव अतिबहुल तिमिरपटलवत् अन्धकारः केवलकृष्णवर्णः, इति तद्व्याख्या । [^१]G. किमिति हरिण. [^२]G. आलिखित:. [^३]G. पङ्कपत्रभङ्गः. [^४]G. मुकुटे. [^५]G. भूषिता. [^६]G. वरारोहे. [^७]G. कंधरा. [^८]G. धौतकुङ्कुमपत्रलतम्. [^९]G. युगलम्. [^१०]G. कोमलाङ्गुलिनिकरम्. [^११]G. केन हेतुना. [^१२]G. असंस्कृतालकिनीमलिकलेखाम्. [^१३]G. च बहुल. [^१४]G. दृष्टिवेदनाम्. [^१५]G. अन्धकार : केशपाश:. [^१६]G. आवेदय. [^१७]G. मम. [^१८]G. कम्पयन्ति. [^१९]G. तवाधिजा:. [^२०]G. निःश्वासमारुता:. [^२१]G. क्वचित्. १८ का० द्धमन्येन वा केनचिदस्म [^१]दनुजीविना परिजनेन ? [^२]अति- निपुणमपि चिन्तयन्न पश्यामि खलु [^३]स्खलितमध्यात्मनस्त्व- द्विषये । त्वदायत्तं हि मे [^४]जीवितं राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम्' इत्ये [^५]वमभिधीयमाना विलासवती यदा न [^६]किंचित्प्रतिवचः [^७]प्रतिपेदे तदा विवृद्धबाष्पहेतुमस्याः परिजनमपृच्छत् । अथ तस्यास्ताम्बू [^८]लकरङ्क [^९]वाहिनी सततप्रत्यासन्ना मक- रिका नाम राजानमुवाच -'देव, कुतो देवादल्पमपि परिस्खलितम् । अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य वा कस्यचिदपरा- द्धुम् । [^१०]किंतु महाग्रहग्रस्ते व विफल [^११]राजसमागमास्मीत्ययमस्या देव्याः संतापः । [^१२]महांश्च कालः संतप्यमानायाः। प्रथममपि स्वामिनी दानवश्रीरिव सततनिन्दितसुरता [^१३]शयन- स्नानभोजनभूषणपरिग्रहादिषु [^१४]समुचितेष्वपि दिवसव्यापारेषु कथंकथ [ टि ]--- स्तनांशुकं पयोधरवस्त्रं यैस्ते तथा । कच्चिदिति । कच्चि- त्प्रश्ने । मयास्मदनुजीविनास्मत्सेवकेन परिजनेन परिच्छदेनान्येन केनचिद्वापराद्धमपराधः कृतः । अतीति । अतिनिपुणमतिचतुरं चिन्तयन्नपि विचारयन्नपि त्वद्विषये । खलु निश्चयेन । आत्मनः स्वकीयस्य [^1]स्खलितमपि वैगुण्यमपि न पश्यामि नावलोक- यामि । त्वदिति । हि निश्चितम् । मे मम जीवितं प्राणितं राज्यं च त्वदायत्तम् । त्वदधीनमित्यर्थः । हे सुन्दरि, शुच: शोकस्य कारणं नियामकं कथ्यतां प्रतिपाद्यताम् । इतीति । इत्येवं पूर्वोक्तप्रकारे- णाभिधीयमाना पृच्छ्यमाना विलासवती राजपत्नी यदा न किंचित्प्र- तिवचः प्रत्युत्तरं प्रतिपेदे प्रतिपन्नवती । तदेति । तदा तेन प्रका- रेणास्या विलासवत्या विवृद्धो वृद्धिं प्राप्तो यो बाष्पो नेत्राम्बु तस्य हेतुं कारणं परिजनमपृच्छदप्राक्षीत्। धातोर्द्विकर्मकत्वात्कर्मद्वयम् । अथेति । नृपप्रश्नानन्तरं तस्यास्ताम्बूलकरङ्कः स्थगी तद्वाहिका मकरिकेति नाम यस्याः । अनुकरणशब्दत्वान्न ङीप् । राजानं तारापीडमुवाचाब्रवीदित्यन्वयः । कीदृशी । सततं निरन्तरं प्रत्या- सन्ना निकटस्थायिनी । किंमुवाचेत्याह – देवेति । हे देव हे स्वामिन् देवात्तारापीडादधिपतेरल्पमपि स्वल्पमपि परिस्खलितं कुतः स्यात् । एतस्याः प्रीतिविषयेऽत्यन्तं सावधानत्वादिति भावः । अत- श्चाभिमुख एतद्विषये लोकेनानुकूले ज्ञाते देवे राज्ञि परिजनस्यान्यस्य कस्यचित्तद्भिन्नस्यापराद्धुमपराधं कर्तुं का शक्तिः सामर्थ्यम् । न कापीत्यर्थः । तर्हि किमस्तीत्याशयेनाह - किं त्विति । महाग्रहो भूतादिग्रहस्तद्ग्रस्तेव तद्गृहीतेव । विफलेति । विगतं फलं पुत्रादिरूपं यस्मादेवंभूतो राजसमागमो राजसंभोगो यस्याः सा तथा । या महाग्रहग्रस्तास्यात्सापि विफलराजसमागमा स्यात् । राज [^2]रङ्कयोर्विभेदं न जानातीत्यर्थः । अहमस्मीत्यस्या देव्या अयं संतापश्चित्तोद्वेगः । संतप्यमानायाः संतापं कुर्वत्या महान्कालो भूयाननेहा । गत इत्यध्याहार्यम् । प्रथममपि पूर्वमपि स्वामिनीयं सशोकेवासीदित्यन्वयः । तामेव विशिनष्टि - दानवेति । दानव- स्यासुरस्य श्रीरिव लक्ष्मीरिव । उभयं विशिनष्टि-- सततं निन्दितं सुरतं मैथुनं यया सा । पक्षे सुराणां समूहः सुरता । शेषं पूर्ववत् । शयनेति । शयनं स्वापः, स्नानमाप्लवः भोजनमशनम्, भूषणपरिग्रह आभरणस्वीकारः, इत्यादिषु समुाचितेष्वपि [^1]F. 'स्खलितमल्पमप्यात्मनः' इत्येव समुचितः पाठः । अल्पमपि आत्मनः स्खलितमिति अपिपदस्वारस्यात् । [^2]F. न किञ्चित्स्वारस्यमस्मिन्नर्थे । वास्तवे तु 'विफलनरेन्द्रसमा- गमा' इत्येवोचितः पाठः । महाग्रहेण पूतनादिना उत्कटभूतेन ग्रस्ता (आविष्टा ) नारी विफलो नरेन्द्रस्य ( भूत चिकित्सकस्य ) समागम उपस्थितिर्यस्यास्तादृशी भवति ( भूतापसारणस्याशक्यत्वात् ) । इयं तु पुत्रजननाभावाद्विफलो राज्ञः समागमो यस्यास्तादृशीत्यर्थः । [^१]G. उपजीविना. [^२]G. अतिनिपुणं चिन्तयन्. [^३]G. स्खलितमल्पमपि. [^४]G. जीवितं च राज्यं च. [^५]G. अभिधीयमानापि यदा. [^६]G. प्रतिवचनम्. [^७]G. प्रपेदे. [^८]G. करण्डक. [^९]G. वाहिनी मकरिका. [^१०]G. महाग्रह. [^११]G. नरेन्द्र. [^१२]G. सुमहांश्च. [^१३]G. शयनाशनस्नान; शयनासनस्नान. [^१४]G. समुचितेषु दिवसव्यापारेषु. मपि परिजनप्रयत्नात्प्र [^१]वर्त्यमाना सशोकेवासीत् । देवहृदय- पीडा [^२]परिजिहीर्षया च न दर्शितवती विकारम् । [^३]अद्य तु चतुर्दशीति भगवन्तं [^४]महाकालमर्चितुमितो गतया तंत्र महाभारते वाच्यमाने श्रुतम् – [^५]'अपुत्राणां किल न सन्ति लोकाः शुभाः । पुंनाम्नो नरकात्त्रायत इति पुत्रः' इत्येतच्छ्रुत्वा भवनमागत्य परि- जनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहारमभिनन्दति, न भूषण- परिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलम [^६]विरलबाष्प- दुर्दिनान्धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' [^७]इत्येतदभिधाय विरराम । विरतवचनायां [^८]तस्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद – 'देवि, किमत्र क्रियतां दैवायत्ते वस्तुनि । [^९]अलमतिमात्रं रुदितेन । [^१०]न वयमनुग्राह्याः प्रायो देवतानाम् । आत्मज परिष्वङ्गामृतास्वादसुखस्य नूनमभाज- नमस्माकं हृदयम् । अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तर [^११]कृतं हि कर्म फलमुपनयति पुरुषस्येह [ टि ]-- योग्येष्वपि दिवसव्यापारेषु दिनकृत्येषु कथंकथमपि महता कष्टेन परिजनः परिच्छदस्तस्य प्रयत्न आग्रहस्तेन प्रवर्त्यमाना प्रेर्यमाणा । अन्वयस्तु प्रागेवोक्तः । तर्हि मया कथं न ज्ञातेत्याशयेनाह – देवेति । देवो भवांस्तस्य या हृदयपीडा चेतसोऽस्वास्थ्यं तस्याः परिजिहीर्षा परिहर्तुमिच्छा तया च विकारं शोकज्ञप्तिलक्षणं न दर्शितवती न ज्ञापितवती । तर्ह्यद्य कथं तत् (स) प्रदर्शित इत्याशयेनाह — अद्येति । तु पुनरर्थे । अद्य चतुर्दशीति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद्गतया तत्र महाकालप्रासादे महाभारते शास्त्रे वाच्यमाने पम्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां सुतवर्जितानाम् । किलेति सत्ये । शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्तिं प्रदर्शयन्नाह – पुंनाम्न इति । पुंनाम्नो नरकात्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति ज्ञापितम् । इत्येतदिति । इति पूर्वोक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागत्य परिजनेन परिच्छदलोकेन सशिरःप्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति नाभिलषति । भूषणानामाभरणानां परिग्रहं स्वीकारं नाचरति न करोति । उत्तरं प्रतिवचो न प्रतिपद्यते । न ददातीत्यर्थः । तर्हि किं करोतीत्याशयेनाह – केवलेति । केवलं रोदिति रोदनमेव करोति । नान्यत्किमपीति भावः । कीदृशी । अविरलो घनो बाष्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तनान्धकारितं संजातान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति । देवो भवान्यदाज्ञापयिष्यति तदेव सर्वैर्वेदवाक्यवत्स्वीकरिष्यत इति भावः । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा विरराम विरता बभूव । विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमात्रं तूष्णीं मौनं स्थित्वा । तदवस्थतयास्थायेत्यर्थः । दीर्घ लम्बायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् । हे देवि । किमत्रेति । दैवायत्ते दैवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तु शक्यम् । अत एवातिमात्रं रुदितेनात्यन्तरोदनेनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषया । नूनम् अस्माकं हृदयं वक्ष आत्मजस्य पुत्रस्य यः परिष्वङ्ग उपगूहनं तदेवामृतं पीयूषं तस्यास्वादसुखमुपभोगसुखं तस्याभाजनमनाधारस्थलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिजन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न कृतं न विहितम् । हि निश्चये । जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्रापयति पाठा० - १ प्रवर्तमाना. २ परिजिहीर्षया न. ३ अथ चतुर्दशी; अद्य चतुर्दशी ४ महाकालाभिधानम्, ५ अपुत्राणां न सन्ति; अपुत्राणां किल गतिर्नास्ति न वा सन्ति ६ बाष्पबिन्दु ७ इत्याभधाय ८ च तस्याम्. ९ अतिमात्रमलं रुदितेन; अलमतिरुदितेन. १० वयमननुग्रायाः • ११ विहितम्, जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि।[^१]यावन्मा- नुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, [^२]गुरुषु भक्तिम् । द्विगुणामुपपादय [^३]देवतासु पूजाम्। ऋषिजन [^४]सपर्यासु दर्शितादरा भव । परं हि दैवतमृषयो यत्नेनाराधिता यथासमीहितफलानां [^५]दुर्लभानामपि वराणां दातारो भवन्ति । [^६]श्रूयन्ते हि पुरा [^७]चण्ड [^८]कौशिकंप्रभावा- [^९]न्मगधेषु बृहद्रथो नाम राजा [^१०]जनार्दनस्य जेतार[^११]म- तुलभुजबलमप्रतिरथं जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणत [^१२]वया विभाण्डकमहामुनिसुतस्यर्ष्यशृङ्गस्य प्रसादा- न्नारायणभुजानिवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृत [^१३]स्वादसुख- भाजी बभूवुः । अमोघफला हि [^१४]महामुनिसेवा भवन्ति । अहमपि [^१५]खलु देवि, कदा समुपारूढगर्भभराल [^१६]सामापाण्डुमुखी [ टि ]-- पुरुषस्य मनुष्यस्य । अत इहजन्मन्यस्मिन्भवे दैवमदृष्ट- मन्यथाकर्तुमनिष्टफलदं इष्टफलदं कर्तुमेव न शक्यमभियुक्तेनापि पण्डितेनापि । किं पुनर्मन्दमेधसा । अत्र दैवं द्विविधम् । प्रतिबन्ध- कमप्रतिबन्धकं च । प्रतिबन्धकं तदपि द्विविधम् । स्वतः प्रतिषेध- रूपं वन्ध्यस्त्रीपुंयोगादौ । द्वितीयं तु सहकारिविघटनद्वारा राज्य- प्राप्त्यादौ कार्योत्पत्तिप्रतिबन्धकम् । अप्रतिबन्धकं तदपि द्विविधम्। स्नानदानादिसामग्रीसमवधानेन प्रतिबन्धकं न भवति । तदभावे तु प्रतिबन्धकम् । अतोऽदृष्टस्याप्रत्यक्षत्वेन विविच्य ज्ञातुमशक्यत्वात्। द्वितीयसंभावनां चेतसिकृत्याह - यावदिति । मानुष्यके मनुष्यजन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुप- पाद्यतां क्रियताम् । एतदेव दर्शयति — अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारो गुरवस्तेषु पूर्वावस्थातोऽधिका- माधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि । देवतासु हरिहरा- दिषु द्विगुणां द्विगुणितां पूजामर्चामुपपादय निष्पादय । ऋषिजन- सपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यया सैवंभूता भव । हि निश्चितम् । ऋषयो मुनयः परमुत्कृष्टं दैवतं भाग्यम् । एतदेव प्रपञ्चयन्नाह - यत्नेति । यत्नेन प्रयत्नेन । मनःशुद्ध्येत्यर्थः । आराधिताः प्रीणिता सुनयो यथासमीहितानि यथा- भिलषितानि फलानि येष्वेवंभूतानां दुर्लभानामपि वराणां मार्गि- [^1]तानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह -- [^2]श्रूयन्ते हीति । हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते । ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्वं चण्डकौशिको मुनिस्तस्य प्रभावान्माहात्म्याद्बृहद्रथो राजा । नामेति कोमला- मन्त्रणे । जनार्दनस्य कृष्णस्य जेतारं जयनशीलमतुलं निरुपमं भुजबलं बाहुबलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरा- सन्धाभिधं तनयं पुत्रं लेभे प्राप्तवान् । दशरथेति । चकारः पूर्वोक्त- समुच्चयार्थः । दशरथो राजा परिणतं पक्वं वयो यस्यैवंभूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्यर्ष्यशृङ्गस्य प्रसा- दान्माहात्म्यान्नारायणभुजानिव कृष्णबाहूनिवाप्रतिहतानपराजि- तानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये चेति । पूर्वोक्तव्यतिरिक्ता राजर्षयस्तपोधनां- स्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यद्दर्शनमवलोकनं तदेवामृतं तस्यास्वाद उपभोगस्तज्जनितं यत्सुखं सातं तद्भाजो बभूवु- र्जज्ञिरे । अत्रार्थे हेतुं प्रदर्शयन्नाह - अमोघेति । हि निश्चितम् । अमोघं निश्चितं फलं यासां ता महामुनिसेवाः महातपस्विसपर्या भवन्ति । हे देवि, खलु निश्चयेन । अहमपि कदा कस्मिन्काले देवीं त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिनष्टि - समुपेति । समुपारूढः प्राप्तो यो गर्भो भ्रूणस्तस्य भरो भारस्तेनालसां मन्थ- रामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः [^1]F. अभिलाषाणामित्यर्थः । [^2]F. समग्रस्य वक्ष्यमाणवाक्यार्थस्य कर्मत्वादेकत्वमेव समुचित मिति 'श्रूयते' इत्येव पाठः । [^१]G. यावत्तु. [^२]G. गुरुभक्तिम्. [^३]G. देवतापूजाम्. [^४]G. परिचर्यासु. [^५]G. अतिदुर्लभानाम्. [^६]G. श्रूयते. [^७]G. कौशिका. [^८]G. प्रसादात्. प्रसादप्रभावात्. [^९]G. मगधेशो. [^१०]G. जनार्दनप्रतिमम्. [^११]G. अतुलबलपराक्रमम्; अमरतुल्यभुजबलम्. [^१२]G. यया अपि. [^१३]G. आस्वाद. [^१४]G. हि महामुनिजनसेवा; हि महामुनिसेवा भवति. [^१५]G. खलु कदा. [^१६]G. आपाण्डुर. [^१]मासन्नपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवीं [^२]द्रक्ष्यामि ? कदा मे तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परि- जन:? कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गाद्यौरिवोदित- [^३]रविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वौषधि [^४]पिञ्जरजटिलकेशो निहित [^५]रक्षावृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपो [^६]न्मिश्रभूतिलेशो गोरोचना [^७]चि- त्रकण्ठसूत्रग्रन्थिरुत्तानशयो दशनशून्यस्मिताननः पुत्रको जनयिष्य- ति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिरन्तःपुरिकाकर- तलपरम्परासंचार्यमाणमूर्तिरशेष [^८]जनवन्दितो मङ्गलप्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षिति [^९]रेणु- धूसरो मण्डयिष्यति [ टि ]-- सा ताम् । कामिव । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासीनिशामिव राकारात्रिमिव। कदेति । मे मम तनयजन्म महोत्सवः पुत्रजननलक्षणस्तस्मिन्य आनन्दः प्रमोदस्तेन निर्भरः संभृतः परिजनः पूर्णपात्रं पूर्णानकं हरिष्यति ग्रहीष्यति । [^1]'उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते । वस्त्रं माल्यं च तत्पूर्णपात्रं पूर्णानकं च' इति कोशः । कदेति । देवी विलासवती कदा मामानन्दयिष्यति मोदं जनयिष्यति । तामेव विशेषयन्नाह - हारिद्रेति । हरिद्रया रजन्या रक्तं हारिद्रं यद्वसनं तस्य धारिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः क्रोडो यस्याः सा । केव । द्यौरिवाकाशमिव । तां विशिनष्टि - उदितेति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यबिम्बं यस्यां सा । सह बालातपेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वा- द्बालातपसाम्यम् । सूर्यबिम्बपुत्रयोश्च साम्यम् । कदेति । पुत्रकः सुतो मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेषयन्नाह - सर्वेति । सर्वाश्च [^2]ता ओषधयस्ताभिः पिञ्जराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशाः कचा यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतबिन्दुर्यस्मिन्नेवभूते तालुनि काकुदे विन्यस्तः स्थापितो गौरसर्षपेणोन्मिश्रः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः । गोरोचनेति । गोरोचना तया चित्रो विचित्रः कण्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति । उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैर्दन्तैः शून्यं रहितमेतादृशं स्मितं विकसितमाननं मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुषोर्नेत्रयोर्मङ्गल- प्रदीप इव मङ्गलदीप इव शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् । गोरोचनावत्कपिला पिङ्गला द्युतिः कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तःपुरिकाः पटाद्यन्तरिताः स्त्रियस्तासां करतला- नि हस्ततलानि तेषां परम्परा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समग्रैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदा चेति । कति पूर्ववत् । क्षित्याः पृथिव्या यो रेणुर्धूलिस्तेन धूसरो मलिनो मम हृदयेन चित्तेन दृष्ट्या [^1]F. 'वर्धापकं यदानन्दादलंकारादिकं पुनः । आाकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥' इति हारावलीपाठः । [^2]F. 'कुष्ठमांसी हरिद्राभिर्वचाशैलेय चन्दनैः । सुराचन्दनकर्पूरै- र्मुस्तः सर्वौषधिः स्मृतः ॥ इति राजनिघंट: । [^3]F. अन्तःपुरनिवासिन्य इत्यर्थः । [^4]F. एकस्या हस्तादपरस्या हस्ते नीयमानेत्याशयः । [^१]G. आसन्नचन्द्रोदयाम्. [^२]G. प्रद्रक्ष्यामि. [^३]G. उद्यत. [^४]G. पिञ्जरित. [^५]G. घृतमधुबिन्दुतालु. [^६]G. लेखः. [^७]G. चित्रित. [^८]G. जनाभिनन्दिता. [^९]G. क्षितितलरेणु. मम हृदयेन दृष्ट्या च सह परिभ्रमन्भवनाङ्गणम् । कदा केसरि- [^१]किशोरक इव संजातजानु [^२]चङ्क्रमणावस्थः संचरि- ष्यतीतस्ततः स्फटि [^३]कमणिभित्त्यन्तरितान्भवनमृगशावका[^४]ञ्जिघृक्षुः । [^५]कदान्तःपुरनूपुरनिनाद सङ्गता [^६]न्गृह- कलहंसकाननुसर [^७]न्कक्षान्तरप्र [^८]धावितः कनकमेखला- घण्टिकारवानुसारिणीमायासयिष्यति धात्रीम् । कदा कृष्णागुरु- पङ्कलिखितमदलेखालंकृत [^९]गण्डस्थलक:[^१०]मुखडिण्डिम- ध्वनि [^११]जनितप्रीतिरूर्ध्वकरविप्रकीर्णचन्दनचूर्णधूलिधूसरः कुञ्चिताङ्गुलिशिखराङ्कुशाकर्षणविधूतशिराः करिष्यति [^१२]मत्तगजराजलीलाक्रीडाः । कदा मातुश्चरण [^१३]युगल- रागोपयुक्तशेषेण पिण्डालक्तकरसेन [^१४]वृद्धकञ्चुकिनां विडम्बयिष्यति मुखानि । कदा कुतूहल [^१५]चञ्चललोचनो मणिकुट्टिमेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः [^१६]प्रतिबिम्बानि । [ टि ]-- च लोचनेन सह सार्धं परिभ्रमन्नितस्ततः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूषयिष्यति । एतेन राज्ञश्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् । कदेति । कदेति पूर्ववत् । इतस्ततः संच- रिष्यति संचरणं करिष्यति । क इव । केसरी सिंहस्तस्य किशो- रकः शिशुस्तद्वदिव । संजातेति । संजाता समुत्पन्ना जातु कदाचित् चङ्क्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या भित्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भ- वनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्यमान- मूर्तीञ्जिघृक्षुर्गृहीतुमिच्छुः । कदेति । कदा कस्मिन्काले धात्रीमुप- मातरमायासयिष्यति प्रयासं जनयिष्यति । कीदृक् । कक्षान्तरे गृह [^1]कोणान्तरे प्रधावित उच्चलितः । दर्शनविषयत्वाभावादाह —– कनकेति । कनकस्य सुवर्णस्य या मेखला रसना तस्या घण्टिकाः किङ्किण्यस्तासां यो रवः शब्दस्तमनुसर्तुं शीलं यस्याः सा ताम् । किं कुर्वन् । अनुसरन्ननु लक्ष्यीकृत्य गच्छन् । कान् । गृह- कलहंसकान्भवनसितच्छदान् । कीदृशान् । अन्तःपुरेऽवरोधे यो नूपुरस्य पादकटकस्य निनादः शब्दस्तेन संगतान्मिलितान् । कदेति । कदेति पूर्ववत् । मत्तो यो गजराजो हस्ती तस्य लीला विलासो यस्यामेवंविधाः क्रीडाः खेलनं करिष्यति रचयिष्यति । उभयोः साम्यप्रतिपादनार्थमाह - कृष्णेति । कृष्णागुरुः काकतुण्ड- स्तस्य पङ्को द्रवस्तेन लिखिता लिपीकृता या मदलेखावल्लेखा तयालंकृतं विभूषितं गण्डस्थलं यस्य स तथा । 'शेषाद्विभाषा' इति कप्प्रत्ययः । पक्षे कृष्णागुरुपङ्कवन्मदलेखा दानपद्धतिः । मुखेति । धात्र्यादीनां लालनार्थं मुखेन यो डिण्डिमध्वनिः, अथ चानुरक्तहस्तिपकानां मुखेन समाधानार्थं यो डिण्डिमध्वनिस्तेन जनितोत्पा- दिता प्रीतिर्यस्य स तथा । ऊर्ध्वेति । ऊर्ध्वकरेणोर्ध्वीकृतहस्तेन, तादृशशुण्डया च विप्रकीर्णा विक्षिप्ता चन्दनचूर्णस्य मलयजक्षो- दस्य धूलिस्तया, च चन्दनचूर्णवद्धूलिः पांसुः तया धूसरो मलिनः । कुञ्चितेति । कुञ्चिता वक्रीकृता याङ्गुली तस्याः शिखरमग्रम् । 'शिखरं पुलकाप्रयोः' इत्यनेकार्थः । तदेवाङ्कुश: सृणिः । गजपक्षे कुञ्चितागुलिशिखरवदङ्कुशस्तेनाकर्षणं पृष्ठे पुरतो वा चालनं तेन विधूतं कम्पितं शिरो मस्तकं येन स तथा । कदेति । मातुरिति । माता जननी तस्याश्चरणयुगलं पादद्वन्द्वं तस्य रागो रञ्जनं तत्रोप- युक्तः सन् यः शेष उर्वरितस्तेन पिण्डालक्तकः पिण्डीकृतो यो लाक्षाद्रवस्तस्य यो रसः तेन वृद्धकञ्चुकिनां स्थविरसौविदल्लानां मुखानि वदनानि विडम्बयिष्यति । तद्रसाश्लेषेण विरूपाणि करि- ष्यतीति भावः । कदेति । कदेति पूर्ववत् । कुतूहलेन कौतुकेन चञ्चले चपले लोचने नेत्रे यस्य स तथा । मणिकुट्टिमेषु रत्नबद्ध- भूमिषु संक्रान्तमात्मीयमुखारविन्दं द्रष्टुमधोदत्ता दृष्टियेन स तथा तदलाभखेदात्स्खलन्ती गतिर्यस्यैवंभूत आत्मनः स्वकीयस्य प्रति [^1]F. एकस्याः कक्षाया राजहर्म्यप्रावरणात् ('डेउढी' तः ) अन्यस्यां कक्षायामित्यर्थः । [^१]G. किशोर. [^२]G. चङ्क्रमणारम्भः. [^३]G. मणिमय. [^४]G. आजिघृक्षु:. [^५]G. अन्तःपुरिकानूपुर. [^६]G. गृहहंसकान्. [^७]G. पक्षान्तर. [^८]G. प्रधाविताम्. [^९]G. गण्डस्थल: कोमल. [^१०]G. मुखरवडिण्डिम. [^११]G. जात. [^१२]G. मदमत्तगजराजलीलाम्; मत्तगजक्रीडाम्; मत्तगजराज- लीलाम्; मत्तगजराजलील: क्रीडाम्; मत्तगजराजलीला:. [^१३]G. चरणरागोपयुक्त. [^१४]G. कञ्चुकिनाम्. [^१५]G. लोक. [^१६]G. प्रतिबिम्बितानि. कदा नरेन्द्रसहस्रप्रसारितभुजयुगलाभिनन्द्यमानागमनो भूषणमणि- [^१]मयूखाकुलीक्रियमाणलोलदृष्टिरास्थानस्थितस्य [^२]मे पुरः [^३]सर्पिष्यति सभान्तरेषु । [^४]इत्येतानि मनोरथशतानि चिन्त- यतोऽन्तःसंतप्यमानस्य [^५]प्रयान्ति रजन्यः । मामपि दहत्येवाय- महर्निशमनल इवानपत्यतासमुद्भवः [^६]शोक: । शून्यमिव मे प्रतिभाति जगत् । अफल [^७]मिव पश्यामि [^९]राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि। [^१०]तन्मुच्यतामयं देवि, शोकानुबन्धः । आधीयतां धैर्ये धर्मे च धीः। धर्मपरायणानां हि समीपसंचारिण्यः कल्याणसंपदो भवन्ति' [^११]इत्येवमभिधाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव विकचक [^१२]म- लोपमानमाननमस्याः साश्रुलेखं ममार्ज । पुनःपुनश्च प्रियशतमधु- राभिः [^१३]शोकापनोदनिपुणाभिर्धर्मोपदेशगर्भाभिर्वाग्भिराश्वास्य [^१४]सुचिरं स्थित्वा नरेन्द्रो निर्जगाम । निर्गते च तस्मिन्मन्दीभूत [^१५]शोका विलासवती [^१६]यथा- क्रियमाणाभरण [^१७]परिग्रहादिकमुचितं [ टि ]-- बिम्बानि प्रतिरूपाण्यनुसरिष्यति तद्ग्रहणार्थमनुगमिष्यति।कदेति। कदेति पूर्ववत्। नरेन्द्राणां यत्सहस्रं तेन प्रसारितं विस्ता- रितं यद्भुजयुगलम् । जात्येकवचनम् । तेनाभिनन्द्यमानमपेक्ष्य- माणमागमनं यस्य स तथा । भूषणेति । भूषणानां ये मणयो रत्नानि तेषां मयूखाः किरणास्तैराकुलीक्रियमाणा लोला दृष्टिर्यस्य स तथा । आस्थानस्थितस्य सभोपविष्टस्य मे मम पुरोऽग्रे सभान्तरेषु परि- षन्मध्यप्रदेशेषु सर्पिष्यति पुनः पर्यटनं करिष्यति । संतापनिवेद- कानि चिन्तावाक्यानि त्रयोदशोपसंहरन्नाह - इत्येतानीति । एतानि पूर्वोक्तानि रथशतानि मनोविकल्पितशतानि चिन्तयतो ध्यायतो राज्ञोऽन्तर्मध्ये संतप्यमानस्य प्रज्वल्यमानस्य रजन्यो रात्रयः प्रयान्ति गच्छन्ति । ममापीति । अनपत्यताऽसंतानता ततः समुद्भवः समुत्पन्नः शोकः शुगनल इव वह्निरिवाहर्निशं प्रतिदिनं मामपि दहत्येव ज्वालयत्येव । शून्येति । मे मम शून्यमिवोद्वसितमिव जगद्विश्वं प्रतिभाति प्रतिभासते । अफलेति । राज्यमाधिपत्यमफल- मिव निरर्थकमिव पश्याम्यवलोकयामि । अप्रतीति । न विद्यते प्रतिविधेयमस्मान्प्रति यस्य विधातुस्तस्मिन्नप्रतिविधेये प्रतीकारानर्हे वा विधातरि किं करोमि किमनुतिष्ठामि । तदिति । तत् तस्मात्पूर्वो- क्ताद्धेतोः । हे देवि, अयं शोकानुबन्धः शोकपरम्परा मुच्यतां त्यज्यताम् । धैर्ये धीरतायां धर्मे च धीर्बुद्धिसधीयतां स्थाप्यताम् । अत्रार्थे हेतुमाह - धर्मेति । हि निश्चितम् । धर्मपरायणानां सुकृत- तत्पराणां कल्याणसंपदः श्रेयोविभूतयः सदा सर्वकालं समीपसंचा- रिण्यः पार्श्ववर्तिन्यो भवन्ति संजायन्ते । इत्येवं पूर्वोक्तप्रकारेणा- भिधायोक्त्वा । सलिलमिति । सलिलं पानीयमादाय गृहीत्वा स्वय- मात्मनः करतलेन पाणितलेनाभिनवपल्लवेनेव प्रत्यग्रकिसलयेनेव विकचं विकस्वरं यत्कमलं नलिनं तदेवोपमानं यस्यैवंभूतमस्या विलासवत्याः साश्रुलेखमश्रुराज्या सहवर्तमानमाननं मुखं ममार्ज । शुद्धं चकारेत्यर्थः । 'मृजूष् शुद्धौ' इति धातोर्लिटि रूपम् । पुनरिति । पुनः पुनर्वारंवारम् । प्रियेति । प्रियमिष्टं तस्य शतं तेन मधुराभि- र्मिष्टाभिः शोकस्य शुचो योऽपनोदो दूरीकरणं तत्र निपुणाभिः पण्डिताभिर्धर्मस्य पुण्यस्य य उपदेशः प्रतिपादनं स एव गर्भेऽ- भ्यन्तरे यासां ताभिरेवंभूताभिर्वाग्भिर्वचोभिराश्वास्याश्वासनां कृत्वा सुचिरं चिरकालं यावत्स्थित्वा नरेन्द्रो नृपो निर्जगाम गृहाद्बहिर्ययौ । निर्गते बहिर्गते च तस्मिन्मन्दीभूतशोका मन्दीभूतः क्षीणतां प्राप्तः शोको यस्याः सर्वभूता विलासवत्युचितं योग्यम् । यथेति । यथा पूर्वोक्तप्रकारेण क्रियमाणो विधीयमानो य आभरणपरिग्रहो विभूषणस्वीकारः स एवादौ [^१]G. मयूखलेखाकुली. [^२]G. मम. [^३]G. पर्यटिष्यति. [^४]G. इत्येतानि चान्यानि; इत्येतानि च. [^५]G. यान्ति. [^६]G. संतापः. [^७]G. शून्यमेव. [^८]G. इवाखिलं पश्यामि. [^९]G. जीवितं राज्यं च. [^१०]G. मुच्यतां देवि. [^१]G.१ इत्थम् ; एवम्. [^१२]G. कमलतुल्यम्. [^१३]G. अपनोदन. [^१४]G. सुचिरं नरेन्द्र:. [^१५]G. शोकावेगा. [^१६]G. यथाक्रियमाणम्. [^१७]G. परिग्रहादिकं समुचितम् ; परिग्रहादिकसमुचितम्. [^१]दिवसव्यापारमन्वतिष्ठत् । ततःप्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजन [^२]सपर्या [^३]स्वादरवती बभूव । यद्यच्च किंचित्कुत [^४]श्चिच्छुश्राव [^५]गर्भतृष्णया तत्तत्सर्वं चकार । न महान्तमपि क्लेशमजीगणत्।अनवरतदह्यमान [^६]गुग्गु [^७]लु- बहुलधूमा [^८]न्धकारितेषु चण्डिकागृहेषु [^९]धवलाम्बरेण शुचिमूर्तिरुपोषिता [^१०]हरितकुशो [^११]पच्छदेषु [^१२]मुसल- शयनेषु सुष्वाप । पुण्यसलि [^१३]लपूर्णैर्विविधकुसुमफलोपेतै: क्षीरतरुपल्लवलान्छनैः सर्वरत्नगर्भै: शातकुम्भकुम्भैर्गोकुलेषु वृद्ध- गोपवनिताकृत [^१४]मङ्गलानां लक्षणसंपन्नानां गवामधः सस्नौ । प्रतिदिवसमुत्थायोत्थाय सर्वरत्नोपेतानि हैमानि [^१५]तिलपत्राणि ब्राह्मणेभ्यो ददौ। महानरेन्द्रलिखितमण्डलमध्यवर्तिनी विविधबलि- दानानन्दितदिग्देवतानि [^१६]बहुलचतुर्दशीनिशासु [^१७]चतु- ष्पथे [^१८]स्नपनमङ्गलानि भेजे । सिद्धायतनानि [ टि ]-- यस्मिन्नेवंभूतं दिवसव्यापारं दिनकृत्यमन्वतिष्ठदकरोत् । तत इति । ततःप्रभृति तद्दिनादारभ्य सुतरामत्यर्थं देवताराधनेषु देवतानां देवीनामाराधनानि प्रसन्नीकरणानि तेषु, ब्राह्मणास्त्रयी- मुखास्तेषां पूजा अर्चास्तासु, गुरुजनानां पूज्यजनानां सपर्या: सेवास्तास्वादरवत्यतिबहुमानवती बभूव जज्ञे । यद्यच्चेति । यद्यदश्रुतपूर्वकृतपूर्वं च किंचिद्वस्तु कुतश्चिदनिर्दिष्टनामकेभ्यो जनेभ्यः शुश्रावाकर्णितवती गर्भतृष्णया भ्रूणलोभेन तत्तसर्वं कृतवती । न महेति । महान्तं महीयांसमपि क्लेशं कष्टं नाजीगणन्मनसि न गणितवती । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यो गुग्गुलुः पलङ्कद्रवस्तस्य बहुलो निबिडो यो धूमस्तेनान्धकारः संजातो येष्वेवंविधेषु चण्डिका चामुण्डा तस्या गृहेषु सद्मसु । धवलेति । धवलाम्बरेण शुभ्रवाससा शुचिः पवित्रा मूर्तिः शरीरं यस्याः सा तथोपोषिता कृतोपवासा । हरितेति । हरिता नीला ये कुशा दर्भास्त एवोपच्छद उत्तरपटो येष्वेवंभूतेषु मुसलान्ययोग्राणि तेषां शयनेषु [^1]तलिनेषु सुष्वाप शयनं चकार । पुण्येति । पुण्यानि पवित्राणि यानि सलिलानि जलानि तैः पूर्णैर्भूतैर्विविधानि विचित्राणि यानि कुसुमफलानि तैरुपेतैः सहितैः । क्षीरतरवो वटादयस्तेषां पल्लवाः किसलयानि । क्वचित् 'क्षीरपल्लव -' इति पाठः । तत्र क्षीरपल्लवः कोमलपल्लव इति व्याख्येयम् । त एव लाञ्छनं चिह्नं येषां तैः । सर्वाणि समग्राणि रत्नानि गर्भे मध्यभागे येषां तैः शातकुम्भं सुवर्णं तस्य कुम्भैर्निपै (?) र्गोकुलेषु व्रजेषु । वृद्धेति । वृद्धगोपस्य मुख्य- बल्लवस्य या वनिता स्त्री तया कृतं विहितं मङ्गलं तिलकादि याभिस्तासाम् । लक्षणैर्मषीतिलकादिभिः संपन्नानां सहितानां गवां धेनूनामधोऽधोभागे सस्नौ स्नानं कृतवती । प्रतीति । प्रतिदिवस- महर्निशमुत्थायोत्थायोत्थानं कृत्वोत्थानं कृत्वेत्यर्थः । सर्वरत्नैः समग्र- मणिभिरुपेतानि खचितानि हैमानि स्वर्णनिष्पन्नानि तिलपत्राणि तिलपर्णाकृतिरूपाणि ब्राह्मणेभ्यो विप्रेभ्यो ददौ दत्तवती । अत्र संप्रदाने चतुर्थी । महेति । महानरेन्द्रेण स्वकीयभर्त्रा लिखितमा- लिखितं यन्मण्डलं लोकप्रसिद्धं तन्मध्यवर्तिनी तदन्तस्थायिनी । विविधेति । विविधमनेकप्रकारं यद्बलिदानं तेनानन्दिताः प्रमोदं प्राप्ता दिग्देवता येषु तानि । बहुलेति । बहुलस्य कृष्णपक्षस्य याश्चतुर्दश्यस्तासां निशासु रात्रिषु चतुष्पथे चत्वरे स्नपनमङ्गलानि स्नानभद्राणि भेजेऽभजत् । सिद्धायतनानीति । सिद्धा योगिन- स्तेषामायतनानि चैत्यानि सिषेवे सेवितवती । कीदृशानि । [^1]F. मुसलशयनेषु श्रेणीभावेन पातितमुसलशय्यासु, इत्याशयः । पुत्रार्थिनीभिरेवंविधानि तन्त्रमन्त्रानुष्ठानादीनि क्रियन्ते । [^2]F. यासामित्युचितमाभाति । [^3]F. तिलपात्राणीव पाठः । सर्वरत्नोपेत(पूर्ण) त्वं पात्रेष्वेव घटते, रत्नखचितत्वार्थे तु नास्य स्वारस्यम् । [^4]F. धन्यष्टीकाकार: ! महानरेन्द्रोऽत्र प्रधानभूतो भूतोपचारकर्ता मान्त्रिकः । [^१]G. वासरव्यापारमकरोत्. [^२]G. परिचर्यासु च. [^३]G. अधिकमादरवती. [^४]G. शुश्राव व्रतम्. [^५]G. अर्भक. [^६]G. गुग्गुलु. [^७]G. बहल. [^८]G. धूपान्धकारितेषु. [^९]G. धवलाम्बरा; धवलाम्बर. [^१०]G. हरित्कुश. [^११]G. उपच्छन्नेषु. [^१२]G. भूतल. [^१३]G. पूरितैः; पूर्तै:. [^१४]G. मङ्गला. [^१५]G. तिलपात्राणि. [^१६]G. बहुलपक्षचतुर्दशी. [^१७]G. चतुष्पथेषु. [^१८]G. स्नान. कृत [^१]विचित्रवतोपयाचितकानि सिषेवे । दर्शि [^२]तप्रत्ययानि [^३]संनिधानमातृकाभवनानि जगाम । प्रसिद्धेषु नागकुलह्रदेषु ममज्ज । अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृतप्रदक्षिणा ववन्दे । [^४]दोलायमानवलयेन पाणियुगलेन [^५]स्नाता स्वयम- [^६]खण्ड [^७]सिक्थसंपादितं रजत [^८]पात्रपरिगृहीतं वाय- सेभ्यो दध्योदनबलिमदात् । [^९]अपरिमितकुसुमधूपविलेपापूप- पललपायस [^१०]बलिलाजकलितामहरहर [^११]म्बादेवीसपर्या- माततान । स्वयमु [^१२]पहृतपिण्डपात्रान्भक्तिप्रवणेन मनसा सिद्धादेशान्नग्नक्षपणकान्पप्रच्छ । विप्रश्निकादेशवचनानि बहु मेने । निमित्तज्ञानुपचचार । शकुनज्ञानविदामादरमदर्शयत् । अनेकवृद्ध- परम्परा [^१३]गमागतानि रह[^१४]स्यान्यङ्गीचकार । [^१५]दर्श- नागतं [ टि ]-- कृतेति । कृतानि विहितानि विचित्राणि देवतानां प्रतिमा- नामुपयाचितकानि [^1]भैक्ष्यचर्याणि येषु तानि । अथ च संनि- धना[^2]नि समवर्तीनि यानि मातृकाभवनानि माहेश्वरीप्रभृति- देवीनां गृहाणि जगाम गतवती । कीदृशानि । दर्शितः प्रकाशितः प्रत्ययो विश्वासो यैस्तानि प्रत्ययोऽनुष्ठानानुरूपं देवतावचनमिति वा । यद्वा मातृगृहाण्यभिमतमातॄणां भवनानि । प्रसिद्धति । प्रसि- द्धेषु जगद्विख्यातेषु नागकुलानि तेषां ह्रदा द्रहास्तेषु ममज्ज मज्जनं चकार । अश्वत्थः पिप्पलः प्रभृतिरादौ येषां तान्महावनस्पतीन्महा- वृक्षानुपपादिता विहिता पूजार्चा येषां तान्कृता विहिता प्रदक्षिणा यया सैवंभूता ववन्दे वन्दनं कृतवती । तथा दोलायमानं कम्पमानं वलयं कङ्कणं यस्य तत्तथा तेन पाणियुगलेन हस्तयुग्मेन दध्योदन- बलिं दधियुक्तो य ओदनस्तल्लक्षणो यो बलिस्तं वायसेभ्यः काकेभ्यः स्वयमात्मना स्नाता कृतस्नाना सत्यदाद्दत्तवती । बलिं विशिनष्टि - अखण्डेति । अखण्डास्फुटितो [^3]दनरूपेण पक्वै: सिक्थैरन्नकणैः संपादितं निष्पादितं यत्पात्रं भजनं तस्मिन्परिगृही- तमात्तम् । अहरहरिति प्रतिदिनमम्बादेवी दुर्गा तस्याः सपर्यां सेवामातनान विस्तारयामास । तामेव विशेषयन्नाह – अपरिमि- तेति। अपरिमितानि बहूनि कुसुमानि पुष्पाणि, धूपो गन्धपिशा- चिका, विलेपो विलेपनम्, अपूपः पिष्टकः, पिष्टतिलयोजितमन्नं पललम्, पायसं परमान्नम् । बलिलाजा बल्यर्थमक्षताः, एतैः कलितां व्याप्ताम् । स्वयमिति । स्वयमात्मना भक्तिः पूर्वं व्याख्याता, तया प्रवणेन युक्तेन मनसा स्वान्तेनोपहृतान्युपढौकितानि पिण्डपात्राणि येभ्यस्तान्सिद्धादेशा [^5]न्सिद्धसंज्ञितान्नग्ना वस्त्ररहिता ये क्षपणका दिगम्बरास्तान्पप्रच्छाप्राक्षीत् । विप्रश्निकेति । शुभाशुभप्रकाशिकाः स्त्रियो विप्र [^5]श्निकास्तासामादेशवचनान्याज्ञावचनानि बहु मेन आदरविशेषेणाङ्गीचकार । निमित्तेति । निमित्तं भौमाद्यष्टविधं जानन्तीति निमित्तज्ञास्तानुपचचार तेषां समीपे ययौ । शकुनज्ञान- विदां वसन्तराजादिशास्त्रज्ञानविदामादरं बहुमानमदर्शयद्दर्शित- वती। अनेकेति । अनेके ये वृद्धाः स्थविरास्तेषां परम्परा परिपाटी तस्यां य आगमः प्रसिद्धिस्तदागतानि यानि रहस्यानि तत्त्वान्यङ्गी- चकार स्वीचक्रे । परिपाट्यां य आगमो मन्त्रशास्त्रं तदागतानि रहस्यानि वा । दर्शनेति । दर्शनार्थमागतं प्राप्तमेवंभूतं द्विजजनं ब्राह्मणलोकमात्मजः [^1]F. इदमप्यशुद्धम् । 'यदि मे पुत्रलाभ: स्यात्तदा पुनरप्येवमेव समर्पयेयम्' इत्यङ्गीकारपूर्वमुपहारदानमुपयाचितकम् । 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्विदुर्बुधाः' जटाधरः । [^2]F. 'संनिहितमातृकाभवनानि' इत्येव पाठः । संनिहितानि मातृणाम् (ब्राह्मीत्यादीनाम्) भवनानीति तदर्थः । [^3]F.अखण्डैः अक्षतैः सिक्थैः धान्यकणैः संपादितम् ( दध्योद- नम्) इति व्याख्यानमुचितम् । [^4]F. अन्नभाजनानि । [^5]F. सिद्धः सत्यः आदेशः आज्ञावाक्यं येषां तानित्यर्थः । [^6]F. 'विप्रश्निका वीक्षणका दैवज्ञा' इत्यमरः । [^१]G. विविध. [^२]G. प्रत्यादेशानि. [^३]G. संनिहितमातृभवनान्याजगाम; संनिधमातृभवनानि जगाम. [^४]G. मणिवलयेन. [^५]G. कृतस्नाना. [^६]G. अखण्डित. [^७]G. सिक्थकुसुमसंपादितम्. [^८]G. पात्रे. [^९]G. अपरिमितधूपविलेपं पललपायसबलिम्. [^१०]G. सलाज. [^११]G. ज्येष्ठादेवी. [^१२]G. उपाहित; उपाहृत, [^१३]G. समागतानि; गतानि. [^१४]G. चकार; अङ्गीकरोति स्म. [^१५]G. दर्शनागतम्. १९ का० [^१]द्विजजनमात्मजदर्शनोत्सुका वेदश्रुतीरकारयत् । [^२]अन- वरतवाच्यमानाः [^३]पुण्यकथाः शुश्राव । गोरोचनालिखितभूर्जपत्रगर्भान्म [^४]न्त्रकरण्डकानुवाह । [^५]रक्षाप्रतिसरोपेतान्यो- षधीसूत्राणि बबन्ध । परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम । तन्निमित्तानि च जग्राह । शिवाभ्यो मांसबलिपिण्डमनुदिनं [^७]निश्युत्ससर्ज । स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे । चत्वरेषु [^८]शिवबलिमुपजहार । [^९]एवं च गच्छति काले कदाचिद्राजा क्षीणभूयिष्ठायां रज- [^१०]न्यामल्पावशेषपाण्डुतारके जरत्पा [^११]सवतपक्ष- [^१२]धूम्रे नभसि स्वप्ने [^१३]सितप्रासादशिखस्थिताया विलास- वत्याः करिण्या इव [^१४]बिसवलयमानने सकलकलापूर्ण [^१५]मण्डलं शशिनं [^१६]प्रविशन्तमद्राक्षीत् । प्रबुद्धश्चोत्थाय हर्षविकाशस्फीततरेण चक्षुषा धवलीकृतवासभवनस्तस्मिन्नेव क्षणे [^१७]शुकनासं समाहूय स्वप्नमकथयत् । [ टि ]-- पुत्रस्तस्य दर्शनमवलोकनं तत्रोत्सुकोत्कण्ठिता [^1]वेद- स्य श्रुतीः श्रवणमकारयद्ब्राह्मणद्वारा कारयामास । अकायदिति 'हृक्रोरन्यतरस्याम्' इत्यण्यन्तस्य कर्ता द्विजजनः कर्मसंज्ञः । अन- वरतेति । अनवरतं निरन्तरं वाच्यमाना उच्यमानाः पुण्यकथाः पवित्रकथाः शुश्रावाश्रौषीत् । गोरोचनेति । गोरोचनालिखितं भूर्जपत्रं गर्भे मध्ये यस्यैवंभूतान्मन्त्रकरण्डकान्पिटकानुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । रक्षेति । रक्षायाः प्रतिसरः कङ्कणं तेनोपेतान्योषधीसूत्राणि बबन्ध बन्धनं कृतवती । अस्या विलासवत्याः परिजनोऽपि परिच्छदोऽप्युपश्रुत्यै [^2]रजकादिवाक्यार्थं विलोकयितुं निर्जगाम बहिर्ययौ । 'देवप्रश्न उपश्रुतिः' इति कोशः । तदिति । तन्निमित्तानि तदुक्तशकुनानि जग्राहाग्रहीत् । शिवेति । शिवाभ्यः शृगालीभ्योऽनुदिनं प्रतिदिनं मांसबलिपिण्डं निशि रात्रावुत्ससर्जोत्सृष्टवती । स्वप्नदर्शनाश्चर्याणि स्वप्नालोकनकुतूहलान्याचार्याणां गुरूणामाचचक्षे कथितवती चत्वरेषु [^3]शिवबलिनुपजहाराहृतवती । एवं चेति । एवं पूर्वोक्तप्रकारेण गच्छति व्रजति कालेऽनेहसि कदाचित्कस्मिंश्चित्समये स्वप्ने राजा विलासवत्या आनने मुखे शशिनं विशन्तं प्रविशन्तमद्राक्षीद्ददर्श । कस्याम् । रजन्यां रात्रौ । किंविशिष्टायाम् । क्षीणं भूयिष्ठं यस्याः सा तस्याम् । स्तोकरात्रा- वित्यर्थः । कस्मिन्सति । नभस्याकाशे सति । आकाशं विशेषयन्नाह - अल्पेति । अल्पाः स्वल्पा एव शेषा अवशिष्टाः पाण्डुतारकाः श्वेत- नक्षत्राणि यस्मिन् । जरीयान्यः पारावतः कपोतस्तस्य पक्षो वाज- स्तद्वद्धूम्रे धूम्रवर्णे । विलासवतीं विशेषयन्नाह - सितेति । सितः शुभ्रो यः प्रासादस्तस्य शिखरमग्रं तत्र स्थिताया उपविष्टायाः ।कस्याः किमिव । करिण्या हस्तिन्या आनने बिसवलयमिव मृणा- लवलयमिव । शशिनं विशिनष्टि - सकलेति । सकलाः समग्रा याः कलास्ताभिः पूर्णं मण्डलं यस्य स तथा तम् । प्रबुद्धो विगतनिद्रः सन्नुत्थायोत्थानं कृत्वा हर्षात्प्रमोदाद्यो विकाशो विमुद्रता तेन स्फीततरेणातिगरिष्ठेन विस्तारितेन चक्षुषा लोचनेन धवलीकृतं शुभ्रीकृतं वासभवनं निवासगृहं येन [^1]F. वेदानां श्रुतीः पाठानिति यावत् । [^2]F. देवप्रश्नाय, देवं मनुष्यादिद्वारा कीदृशं वचनं श्रावयतीति जिज्ञासायै 'नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः । श्रूयते तद्विदुर्धीरा देवप्रश्नमुपश्रुतिम् ॥' हारावली । [^3]F. 'शिवाबलिम्' इत्येव पाठः । अयमुपहारो दिवसे इति पूर्वेण न पौनरुक्त्यमाशङ्क्यम् । [^१]G. द्विजगणान्. [^२]G. अनवरतम्. [^३]G. पुण्या: कथा:. [^४]G. गण्डकान्; दण्डकान्. [^५]G. परिसरो. [^६]G. औषधि; औषधी. [^७]G. समुत्ससर्ज. [^८]G. शिवाबलिम्. [^९]G. एवं गच्छति. [^१०]G. अल्पशेष. [^११]G. पारापत. [^१२]G. धूसरे. [^१३]G. सौधशिखर. [^१४]G. बिसपल्लवम् ; किसलयम्. [^१५]G. परिपूर्ण. [^१६]F. विशन्तम्. [^१७]G. सबहुमानं शुकनासमाहूय तम् ; समाहूय शुकनासमाहूय तम्. स तं समुपजातहर्षः प्रत्युवाच - 'देव, संपन्ना: सुचिरा [^१]दस्माकं प्रजानां च मनोरथाः। कतिपयैरेवाहो [^२]भिरसंदेहमनुभवति स्वामी सुतमुखकमलावलोकनसुखम् । अद्य खलु मयापि निशि स्वप्ने [^३]धौतसकलवाससा [^४]शान्तमूर्तिना दिव्याकृतिना द्विजेन [^५]विकचचन्द्रकलावदातवलशतमालोलकेसरसह- [^६]स्रजटालमकरन्द्र [^७]बिन्दुसी [^८]करवर्षि [^९]पुण्ड- रीकमुत्सङ्गे देव्या मनोरमाया निहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नमानन्द [^१०]मग्रेपातीनि [^११]शुभानि निमित्तानि । [^१२]किं चान्यदानन्दकारणमतो [^१३]भविष्यति । अवितथफला [^१४]हि " प्रायो निशावसान [^१५]समयदृष्टा भवन्ति स्वप्नाः । सर्वथा [^१६]नचिरेण मान्धातारमिव धौरेयं [^१७]सर्वराजर्षीणां भुवनानन्दहेतुमात्मजं जनयिष्यति देवी । शर [^१८]त्कालकमलि- नीवाभिनवकमलोद्गमेन गन्धगजमाह्लादयिष्यति देवम् । [ टि ]-- स तथा तस्मिन्नेव क्षणे समये ।अत्रैवकारोऽन्ययोगव्यवच्छे- दार्थः । शुकनासं समाहूयाह्वानं कृत्वा स्वप्नं निशादृष्टमकथयदुक्त- वान् । 'कथ वाक्यप्रबन्धे' इत्यस्य लङि रूपम् । स इति । स शुकनासस्तं नृपं समुपजातः समुत्पन्नो हर्षः प्रमोदो यस्य स तथा प्रत्युवाच प्रत्यब्रवीत् । हे देव हे स्वामिन्, सुचिरादतिचिरकालेना- स्माकं प्रजानां च मनोरथाश्चिन्तितानि संपन्ना निष्पन्नाः । कतीति । कतिपयैरेव स्तोकैरेवाहोभिः दिवसैरसंदेहं निःसंदेहं स्वामी भवान्सुतस्यात्मजस्य यन्मुखकमलावलोकनमाननपद्मवीक्षणं तस्माद्यत्सुखं सातमनुभवति । अनुभविष्यतीत्यर्थः । 'वर्तमान- सामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । अद्येति । खलु निश्चयेन । अद्यास्यां निशायामेव मयापि निशि: रात्रौ स्वप्ने धौतानि क्षालितानि सकलानि समग्राणि वासांसि वस्त्राणि येन स तथा तेन । शान्ता निरुपद्रवा मूर्तिः शरीरं यस्य स तथा तेन। दिव्या मनोहारिण्याकृतिराकारो यस्य स तथा तेन । द्विजेन ब्राह्मणेन विकचं विकस्वरं चन्द्रकलावदवदातं शुभ्रं दलशतं पत्रशतं यस्मिं- स्तत् । 'पर्णं पत्रं छदं दलम्' इति कोशः । आलोलं चञ्चलं यत्केस- रसहस्रं किञ्जल्कसहस्रं तेन जटालं जटिलम् । 'प्राणिस्थादात - ' इति मत्वर्थ आलच् । मकरन्दो मरन्दस्तस्य बिन्दवः पृषतास्त एव सीकरा वातास्तवारिकणास्तद्वर्षणकार्ये तादृशं यत्पुण्डरीकं सिताम्भोजं देव्या मनोरमाया [^1]श्चित्तहारिण्या उत्सङ्गे क्रोडे निहितं स्थापितं दृष्टमवलोकितम् । मयेति पूर्वप्रतिपादितम् । अग्रेपातीनि पुरोजातानि शुभानि शिवानि निमित्तान्यक्षिस्फुरणादीनि प्रत्यासन्नं समीपवर्तिनमानन्दं प्रमोदमावेदयन्ति निवेदयन्ति । किं चेति [^2]युक्त्यन्तरे । अतः पूर्वोक्तादन्यदधिकमानन्दकारणं प्रमोदनिदानं भविष्यति । अत्रार्थे हेतुमाह - अवितथेति । प्रायो बाहुल्येन निशावसानसमयदृष्टा रात्रिप्रान्तक्षणावलोकिताः स्वप्ना अवितथफलाः सत्यफला भवन्ति संपद्यन्ते । सर्वथेति । सर्वप्रकारेण नचिरेणेति स्वल्पकालेन मान्धातारमिव युवनाश्वजमिव सर्व- राजर्षीणां समग्रराज्ञां मध्ये धौरेयं धुरीणम् । एतेनाधिपत्येऽपि सदाचारवत्वं सूचितम् । भुवनानन्दहेतुं जगत्प्रमोदकारणमात्मजं सुतं देवी जनयिष्यति प्रसविष्यति । शरदिति । शरत्कालकमलि- नीव घनात्ययसमयनलिनीवाभिनवकमलोद्गमेन प्रत्यग्रनलिनप्रादु [^1]F. पर्यायकरणं भ्रामकमिदं टीकाकर्तुः, मनोरमेति तन्नाम । [^2]F. अत्रापि बभ्राम टीकाकारः । 'अतः अन्यत् आनन्दकारणं किं भविष्यति' इत्यन्वयः (पुत्रमुखदर्शनानन्दादन्यत् किं स्यादिति तदर्थः) । [^१]G. अस्माकं मनोरथाः. [^२]G. असंशयमनुभविष्यति. [^३]G. धौतधवल; धौतसकलधवल. [^४]G. प्रशान्त. [^५]G. विकचम्. [^६]G. जटिल; जटालम्. [^७]G. मधु. [^८]G. संदेह. [^९]G. सितपुण्डरीक. [^१०]G. अग्रेजातानि; आनन्दपातीनि; अग्रपातीनि. [^११]G. शुभनिमित्तानि. [^१२]G. किं वान्यत्प्रियतरं परमानन्द; किं चान्यत्प्रियतरमधिक- मानन्द; किं चान्यत्प्रियतरमधिकानन्द; किं चान्यत्प्रियतरमपरमधि- कमानन्द. [^१३]G. विद्यते. [^१४]G. च. [^१५]G. समये दृष्टा. [^१६]G. नचिरेणैव; अचिरेण. [^१७]G. राजर्षीणाम्. [^१८]G. शरत्. येनेयं दिग्गजमदलेखेवाविच्छिन्नसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः स्वामिनः' इत्येवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताभ्यां स्वप्नाभ्यां विलासवती [^१]मानन्दयांचकार । कतिपयदिवसापगमे च देवताप्रसादात्सरसीमिव प्रतिमाशशी विवेश गर्भो विलासवतीम् । [^२]येन [^३]नन्दनराजिरिव पारिजातेन मधुसूदनवक्षःस्थलीव कौस्तुभमणिना सुतरामराजत [^४]सा । दर्पणश्री [^५]रिव गर्भच्छलेन संक्रान्तमवनिपालप्रति- बिम्बमुवाह । [^६]सा शनैः शनैश्च[^७]प्रतिदिनमुपचीयमानगर्भा निर्भरपरिपीतसागरसलिलभरमन्थरेव [^८]मेघमाला मन्दं मन्दं संचचार । [^९]मुहुरनु [^१०]बद्धजृम्भिकमाजिह्मित [^११]लोचना सालसं निशश्वास । तथा [^१२]वस्थां तामह [^१३]रह: स्वय [ टि ]-- र्भावेन [^1]गन्धगजं देवं भवन्तमाह्लादयिष्यति प्रमोद- यिष्यति । पक्षेऽभिनवा कमला पुत्रसंपत् । अत एव देव्याः कमलि- नीसाम्यं राज्ञो गन्धगजसाम्यं चेति भावः । येनेति । येन कारणेन इयं दि [^2]ग्गजमदलेखेवाविच्छिन्नमत्रुटितं [^3]संतानं पुत्रपौत्रा- दिप्रवाहरूपं च यस्याः सैवंभूता स्वामिनो राज्ञः कुलसंततिः क्षितिः पृथ्वी तस्या भारो वीवधस्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं ब्रुवाणमेव तं करेण गृहीत्वा हस्तेना- दाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्या- मुभाभ्यामपि स्वप्नाभ्यां विलासवतीमानन्दयांचकार प्रमोदयां- चकार। कतीति । कतिपये कियन्तो ये दिवसास्तेषामपगमेऽतिक्रमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवतीं गर्भो विवेश प्रविष्टो बभूव । अत्रार्थ उपमानं प्रदर्शयन्नाह - सरसीमिति । सरसीं कासारं प्रतिमाशशीव प्रतिबिम्बरूपश्चन्द्र इव । येनेति । येन गर्भेण सा सुतरामतिशयेनाराजताशोभत । केनेव केव । पारिजातेन कल्प- द्रुमेण । 'मन्दारः पारिजातकः' इति कोशः । नन्दनेतीन्द्रस्य कान- नम् । 'नन्दनं वनम्' इति कोशः । तस्य राजिः श्रेणिरिव । यथा कल्पपादपेन वनमतितरां शोभां प्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तरं प्रदर्शयन्नाह – कौस्तुभेति । कौस्तुभमणिना प्रसिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थलीव । अति- विस्तृतत्वेन गौरत्वेन च स्थल्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाशरूपा सेव गर्भो भ्रूणस्तस्य छलेनोपधिना संक्रान्तमन्तःप्रविष्टमवनिपालो भूनेता तस्य प्रतिबिम्बं प्रतिरूप- मुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । अयं भावः - यथा दर्पणः संक्रान्तं प्रतिबिम्बं वहति तथेयमपि राजप्रतिबिम्बमुवाह । अनेन राजराजसुतयोः सर्वथाऽभेदो दर्शितः । सेति । सा विलासवती मन्दं मन्दं संचचार चचालेत्यन्वयः । तामेव विशेषयन्नाह - प्रतीति । प्रतिदिनं प्रत्यहं शनैः शनैः । [^4]स्वल्प- प्रयासेनेत्यर्थः। स्तोकं स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो यस्याः सा । निर्भरेति । निर्भरमतिशयं परि- पीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भारस्तेन मन्थरालसा मेघमालेव कादम्बिनीव । समुद्राज्जलमादाय मेघो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः । मुहुरिति । मुहुर्वारं- वारमनुबद्धा कर्तुमारब्धा जृम्भा एव जृम्भिका । स्वार्थे कप्रत्ययः । यत्र यस्यां क्रियायां वा [^1]F. 'शरत्कालकमलिनी गन्धगजमिव देवमाह्लादयिष्यति' इति इवस्य गन्धगजोत्तरमन्वयो योग्यः । [^2]F. दिग्गजस्य मदलेखा दानजलधारा इव । [^3]F. न विच्छिन्न: संतानः ( वंशः पुत्रपौत्रादिरूपः, इति संततिपक्षे ), प्रवाहः ( इति मदलेखापक्षे ) यस्याः एवंभूता सती स्वामिनः कुल- संततिः क्षितिभारधारणे उचिता भविष्यतीत्युभयपक्षे व्याख्या । [^4]F. कालक्रमेणेत्यर्थः । [^१]G. विनोदयांचकार. [^२]G. येन च. [^३]G. नन्दनवनराजि:. [^४]G. देवी. [^५]G. श्रीरिव च. [^६]G. शनैः. [^७]G. प्रतिदिवसमुपचीयमानगर्भा; प्रतिदिनमुग्धा द्विप्रमाणगर्भा. [^८]G. घनमाला. [^९]G. मुहुर्मुहु. [^१०]G. विजृम्भिक. [^११]G. लोचनम्. [^१२]G. स तथावस्थां च. [^१३]G. तामनभिनन्दितपान. मनेकरसवाञ्छितपानभोजनां प्रावृषमिव श्यामायमानपयोधरमुखीं केतकीमिव [^१]गर्भच्छविपाण्डुरामालोक्येङ्गितकुशल: [^२]परि- जनो विज्ञातवान् । अथ तस्याः [^३]सर्वसेवकवर्गप्रधानभूता, सदा राजकुलसंवास- चतुरा, [^४]सदा च राजसंनिकर्षप्रगल्भा, सर्वमङ्गलकुशला कुल- वर्धना नाम [^५]महत्तरिका प्रशस्ते दिवसे प्रदोषोत्तरवेलाया- मभ्यन्तरास्थानमण्डपगतम्, गन्ध [^६]तैलावसेकज्वलितदीपि- का [^७]सहस्रपरिवारम्, उडुनिकरमध्यवर्तिनमिव पौर्णमासी- शशिनम्, उरग [^८]राजफणामणिसहस्रान्तरालस्थितमिव नारा [ टि ]-- यथा भवति तथा । आ समन्ताज्जिह्मितं जडीकृतं विकृतं वा निमेषोन्मेषाभ्यां लोचनं यस्याः सा । अनेन गर्भवतीस्वभावः सूचितः । सालसमालस्यसहितं यथा स्यात्तथा निशश्वास निश्वासं मुक्तवती । गर्भानुभावान्निश्वासग्रहणेऽपि तादृशसामर्थ्याभावादिति भावः । निपूर्वस्य 'श्वस प्राणधारणे' इत्यस्य लिटि रूपम् । तथेति । तथा पूर्वोक्ता एवावस्था दशा यस्यास्तां विलासवतीमालोक्य वीक्ष्ये- ङ्गितेष्वन्तर्गतभावावेदकचेष्टितेषु कुशलोऽभिज्ञः चेष्टितज्ञानवानि- त्यर्थः । परिजनः संनिहितस्त्रीसौविदल्लजनो विज्ञातवान् । अन्त- र्वत्नीरूपतया तां निश्चितवान् । तामेव विशेषयन्नाह – अहरिति । अहरहः प्रतिदिनम् । स्वयमित्यात्मनिर्देशः । अनेके बहवस्तिक्ता- दयो रसा अन्ने स्वादहेतवो यस्मिन्नेवंभूतं वाञ्छितमीप्सितं पानं द्राक्षापानकादि, भोजनमशनं च यस्याः सा ताम् । श्यामायमानं कृष्णतां प्राप्यमाणं पयोधरयोः स्तनयोर्मुखं चूचुकं यस्याः सा ताम् । कामिव । प्रावृषमिव वर्षासमयमिव । सापि पयोधरैर्मेघैः श्याम- मुखी स्यात् । केतकीति । गर्भजनिता या छविर्देहदीप्तिस्तया पाण्डुरां शुक्लाम् । कामिव । केतकीमिव । सापि गर्भो मध्य- भागस्तस्य छविः कान्तिस्तया पाण्डुरा स्यात् । अथ तस्याः कुलवर्धना नाम स्त्री भूमिपालं राजानमुपसृत्य समीपे गत्वा प्रशस्ते शोभने दिवसे रह एकान्ते कर्णमूले विलासवतीगर्भ- वृत्तं तस्या गर्भोदन्तं विदितं ज्ञातमकार्षीदकरोदित्यन्वयः । कुल- वर्धनां विशेषयन्नाह – सर्वेति । सर्वेषु सेवकवर्गेषु प्रधानभूता श्रेष्ठा । नीचस्य तादृशप्रवेशाभावाच्छ्रेष्ठत्वेऽप्यवसरानभिज्ञस्य तदभावा- दित्यत आह - सदेति । सदा सर्वदा राजकुले नृपपरम्परायां संवासोऽवस्थानं तत्र चतुरा दक्षा । तद्वत्त्वेऽप्यदृष्टस्य तदभावा- दित्याह -- सदेति । सदा सर्वकालं च राज्ञा यः संनिकर्षः संबन्धस्तत्र प्रगल्भा पण्डिता । सर्वेति । सर्वाणि यानि मङ्गलानि श्रेयांसि तत्र कुशला । तत्कृत्यकरणेऽभिज्ञेत्यर्थः । वयसातिशयिता महती [^1]महत्तरिका । स्वार्थे कः । प्रदोषेति । प्रदोषोत्तरवेलायाम् । प्रदोषे सर्वनिषेधात् । अथवा प्रदोषो न संध्याकालः । वृत्तान्तस्य गोप्यकथनत्वाद्दिवसे तदभावादिति भावः । भूमिपालं विशेषयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्ये य आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । बाह्ये तथाविधजनसंसर्गादिति भावः । गन्धेति । गन्धतैलं सुगन्धतैलं तस्यावसेकः संपातस्तेन ज्वलितं दीपिकानां सहस्रं यस्मिन्नेतादृशः परिवारो मण्डपस्थपरिच्छदो यस्य स तम् । दीपिकासहस्रमेव परिवारो यस्येति वा । तद्दीप्त्या लोकानां तिरो- धानादिति भावः । तादृशतैलसंपर्काद्दीपिकाप्रभया नक्षत्रप्रभया अवशिष्टनियुक्तपरिकरस्योडुसाम्यं राज्ञश्चन्द्रसाम्यं च प्रतिपादय- न्नाह – उड्विति । उडूनां नक्षत्राणां निकरः समूहस्तन्मध्यवर्तिनं तदन्तःपातिनं पौर्णमासीशशिनमिव राकाचन्द्रमिव । अन्यत्र दिने चन्द्रस्यासंपूर्णत्वात्पौर्णमासीग्रहणम् । तादृशपरिकरत्वादेवोपमा- नान्तरमाह - उरगेति । उरगराजो नागाधिपतिस्तस्य सहस्रमुखत्वात्फणामणिसहस्र [^1]F.शूद्रजातीया स्त्री, 'शूद्रः स्यात्पादजो दासो ग्रामकूटो मह- त्तर:'। इति त्रिकाण्डशेषः ( इति केचित् ) । वस्तुतस्तु 'कुलवर्द्धना नाम महत्तरिका' इति महत्तरिकापदेन राजान्तःपुरप्रधानप्रबन्ध- कर्त्री सूच्यते, 'वडारन' इति राजस्थानभाषायाम् । [^१]G. गर्भपाण्डुरान्. [^२]G. अन्तःपुरिकाजनः. [^३]G. सर्वपरिजनप्रधान. [^४]G. सर्वदा. [^५]G. महान्तःपुरिका सा. [^६]G. तैलाभिषेक. [^७]G. परिवृतम्. [^८]G. फण. यणम्, मूर्धावसिक्तैः प्रधा [^१]ननरेन्द्रैः परिमितैः परिवृतम्, अनतिदूरावस्थितपरिजनम्, अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन धौतधव- लाम्बरपरिधाने [^२]नानुल्बणवेषेण जलनिधिनेवागाधगाम्भीर्येण समुपारूढविश्रम्भनिर्भरास्तास्ताः कथाः [^३]शुकनासेन कुर्वाणं भूमिपालमुपसृत्य रह कर्णमूले [^४]विदितं विलासवतीगर्भवृत्तान्त- मकार्षीत् । तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्ग- स्य सद्यः [^५]प्ररूढ [^६]रोमाञ्चनिकरकण्टकिततनोरानन्द- रसेन विह्वलीक्रियमाणस्य स्मितविकसितकपोल [^७]स्थलस्य परिपूरितहृदयातिरि [^८]क्तहर्षमिव दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोलतारकमानन्दजलबिन्दुक्लिन्न- पक्ष्ममालं तत्क्षणं पपात चक्षुः । [^९]अनालोकितपूर्वं [^१०]तु हर्षप्रकर्ष [^११]मभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसित- मुखीमागतां दृष्ट्वा तस्य चार्थस्य सततं मनसि [^१२]विपरिवर्त- मानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारण [ टि ]-- तस्यान्तरालं मध्यप्रदेशस्तत्र स्थितमासीनं नारायणमिव जनार्दनमिव । मूर्धेति । मूर्धावसिक्तैः कृताभिषेकैः प्रधाननरेन्द्रैः प्रकृष्टराजभिः परिमितैः स्तोकैः परिवृतं सहितम् । अभ्यन्तरे तादृशजनानामेव प्रवेशसंभवात् । अनतीति । न अति नातिदविष्ठ- प्रदेशेऽवस्थितः परिजनो यस्य स तम् । 'अञ्खरे' इति नजोऽना- देशः (?) । पुनः कीदृशम् । शुकनासेन मन्त्रिणा तास्ताः कथाः कुर्वाणं तास्ता अनिर्वचनीयाः कथाः किंवदन्तीः कुर्वाणं विदधानम्। अथ शुकनासं विशेषयन्नाह – अनन्तरमिति । राज्ञः सिंहासनाद- नन्तरं यथा स्यात्तथोत्तुङ्गमुच्चं यद्वेत्रासनमासनविशेषस्तत्रोपविष्टेन स्थितेन । धौतेति । धौतं क्षालितं यद्धवलाम्बरं तदेव परिधानमधोंशुकं यस्य स तथा तेन । 'परिधानं त्वधोंशुकम्' इति कोशः । अन्विति । अनुल्बणोऽनुत्कटो वेषो नेपथ्यं यस्य स तेन । जल- निधिनेव समुद्रेणेवागाधमलब्धमध्यं गाम्भीर्यं गम्भीरतागुणो यस्य स तेन । अथ कथां विशिनष्टि - समुपेति । समुपारूढः सम्यक्प्रकारे- णोपारूढः प्राप्तो यो विश्रम्भो विश्वासः स निर्भरोऽतिशयो यासु ताः । अन्वयस्तु प्रागेवोक्तः । तेनेति । तु पुनरर्थे । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्तप्रति- पादितेन राज्ञो नृपस्य चक्षुर्नेत्रं शुकनासमुखे तत्क्षणं पपातापतदि- त्यन्वयः । वचनं विशेषयन्नाह - अश्रुतेति ।अश्रुतपूर्वेणानाकर्णित- पूर्वेण । संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्यं तेन । कीदृशस्य राज्ञः । सिक्तं सिञ्चितं सर्वाङ्गं समग्रं शरीरं यस्य स तथा तस्य । केनेव । अमृतरसेनेव पीयूषद्रवेणेव । मनोभीष्टत्वाद्दु:ख- निवारकत्वाच्च वचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादु- र्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तेन कण्टकिता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य । आनन्देति । आनन्दः प्रमोद स रसस्तेन विह्वलीक्रियमाणस्य व्याकुलीक्रियमाणस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्य । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति । परिपूरितं पूर्णीकृतं हृदयं तस्मादतिरिक्त- मुर्वरितं हर्षमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूहमिषेण विकिरतो बहिः क्षिपतः चक्षुर्विशिनष्टि - लोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलबिन्दुभिः प्रमोद- जनितनेत्रजलपृषतैः क्लिन्नं स्विन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिं- स्तत्तथा । अनालोकितेति । भूपते राज्ञोऽनालोकितपूर्वमवीक्षितपूर्वं हर्षप्रकर्षं प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य । च पुनरर्थे । कुल- वर्धनां स्मितेन विकसितं विकस्वरं मुखमाननं यस्या एतादृशी- मागतां समागतां दृष्ट्वा विलोक्य । तस्येति । तस्य [^१]G. नरेन्द्रैः परिवृतम्. [^२]G. नात्युल्बण. [^३]G. शुकनासेन सह. [^४]G. संवाससंचारचतुरा विदित. [^५]G. प्रकट. [^६]G. रोमाङ्कर. [^७]G. मूलस्य. [^८]G. रिक्तम्. [^९]G. अनालोचितः. [^१०]G. तु तम्. [^११]G. अभिसंवीक्ष्य. [^१२]G. वर्तमानत्वात् ; परिवर्तमानत्वात्. मपश्यञ्छुकनासः स्वयमुत्प्रेक्ष्य समुत्सर्पितासनः समीपतरमुपसृत्य नाति [^१]प्रकटमाबभाषे- 'देव, [^२]अस्ति [^३]किंचित्तस्मिन्स्व- प्नदर्शने सत्यम् ? [^४]अत्यन्तमुत्फुल्ललोचना हि कुलवर्धना दृश्यते । देवस्यापीदं प्रियवचनश्रवणकुतूहलादिव श्रवणमूलमुप- सर्पदुपरचयदिव नीलकुवलयकर्णपूरशोभामानन्दजलपरि [^५]प्लुतं तरलतारकं विकसदावेदयति महत्प्र [^६]कर्षकारण- मीक्षणयुगलम् । उपारूढमहोत्सवश्रवणकुतूहलमुत्सु [^७]कोत्सु- कं काम्यति मे मनः । तदावेदयतु देवः किमिदम्' इत्युक्तवति तस्मिन्राजा विहस्याब्रवीत् – 'यदि सत्यमनया यथा कथितं तथा सर्वमवितथं स्वप्नदर्शनम् । अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं हि वयमीदृशानां प्रियवचनश्रवणानाम् । अवितथवादिनीमध्यहं कुलवर्धनामेवंविधानां कल्याणानामसंभा- वितमात्मानं मन्यमानो विपरीतामिवाद्य पश्यामि । तदुत्तिष्ठ । स्वय- मेव गत्वा किमत्र सत्यमिति देवीं पृष्ट्वा ज्ञास्यामि' इत्यभिधाय विसृ- ज्य सकलनरेन्द्रलोक [^१०]मुन्मुच्य [ टि ]-- विलासवत्या समाचीर्णानि व्रतानि तन्महिम्नावश्यमेतस्या गर्भो भविष्यतीत्येतादृशस्यार्थस्य सततं निरन्तरं मनसि चित्ते विपरिवर्तमानत्वादृढं स्मर्यमाणत्वादविदितोऽज्ञातो वृत्तान्तो गर्भधारणरूपो येन स तथैवंविधोऽपि शुकनासस्तत्कालोचितं तत्समययोग्यमपरमन्यदतिमहतोऽत्युत्कृष्टस्य हर्षस्य प्रमोदस्य कारणं नियामकमपश्यंन्ननवलोकयन्वयमात्मनोत्प्रेक्ष्य विचार्य समुत्सर्पित [^1]मूर्ध्वीकृतमासनमवस्थितिबन्धो येन स तथा । समीपतरमतिनिकटमुपसृत्य गत्वा । राज्ञ इति शेषः । नातिप्रकटं सुगोप्यं यथा स्यात्तथा बभाषेऽवोचत् । किं तदित्याह - देवेति । हे देव हे स्वामिन्, तस्मिन्पूर्वोक्तस्वरूपे स्वप्नदर्शने किंचित्सत्यमस्ति तद्देवो भवानावेदयतु निवेदयतु । कुत इत्यत आह - अत्यन्तेति । हि यस्मात्कारणादियं कुलवर्धनासन्तमुत्फुल्ललोचनोत्प्राबल्येन विकसितनेत्रा दृश्यतेऽक्लोक्यते । देवस्यापि स्वामिनोऽपीदमीक्ष- णयुगलं नेत्रयुग्मं महत्प्रकर्षकारणम् । प्रमोदस्येति शेषः । आवेद- यति निवेदयति । किं कुर्वत् । विकसद्विकासं प्राप्नुवत् । तदेव विशिनष्टि - प्रियेति । प्रियमिष्टं यद्वचनं वचस्तस्य श्रवणमाकर्णनं तस्य कुतूहलं कौतुकं तस्मादिव श्रवणमूलं कर्णमूलमुपसर्पद्गच्छत् । नीलं यत्कुवलयं कुवेलं तल्लक्षणं यत्कर्णपूरं कर्णाभरणं तस्य शोभां कान्तिमुपरचयदिव निष्पादयदिव । आनन्देति । आनन्दजलं प्रमोदबाष्पस्तेन परिश्रुता व्याप्ता तरला चपला तारका कनीनिका यस्य तत् । उपारूढं प्राप्तं महोत्सवस्य महामहस्य श्रवणकुतूहलं येन तत् । उत्सुकोत्सुकम् । अत्युत्सुकमित्यर्थः । मे मम मनश्चित्तं क्लाम्यति खेदं प्राप्नोति । अन्वयस्तु प्रागेवोक्तः । किमिदं प्रमोद- नियामकम् । इति पूर्वोक्तप्रकारेण तस्मिञ्छुकनास उक्तवति कथितवति सति राजा नृपो विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । यदीति । यद्यनया यथा कथितं सत्यं तथा सर्वमवितथं यथार्हं स्वप्नदर्शनम् । धीरोदात्तत्वादाह — अहमिति । अहमित्यात्मनि- र्देशः । न श्रद्दधे न विश्वासं करोमि । तन्नियासकमाह - कुत इति । अस्माकमियत्येतावती भाग्यस्य भागधेयस्य संपत्संपत्तिः कुतः स्यात् । ममेति शेषः । हि निश्चितम् । ईदृशानां पूर्वोक्तानां प्रियमिष्टं यद्वचनं तस्य श्रवणान्याकर्णनानि तेषां वयमभाजनमपात्रम् । अथ चाहमवितथवादिनीमपि सत्य [^2]प्रलापिनीमपि कुलवर्धनाम्, विपरीतामिवासत्यवादिनीमिवाद्यास्मिन्दिने पश्याम्यवलोकयामि । कीदृशोऽहम् । एवंविधानां पूर्वव्यावर्णितस्वरूपाणां कल्याणानां निःश्रेयसानामसंभावितमयोग्यमात्मानं मन्यमानो ज्ञायमानः। तदिति हेत्वर्थे । हे शुकनास, उत्तिष्ठोत्थानं कुरु । स्वयमेवात्मनैव गत्या। अन्तःपुर इति शेषः । किमत्र सत्यमिति देवीं विलासवतीं पृष्ट्वा- पृच्छ्य ज्ञास्यामि निर्णेष्यामीत्यभिधायेत्युक्त्वान्तःपुरमयासीत् । लुढि 'या प्रापणे' एतस्यानिट्धातो रूपम् । सकलनरेन्द्रलोकं समग्रराज- समूहं विसृज्य गृहाय गम्यतामित्यनुज्ञाप्य स्वाङ्गेभ्यःस्वकीयहस्तपा [^1]F. समुत्सर्पितम् निकटे आकृष्टम् वेत्रासनं (राज्ञः कर्णे वार्ता- कथनार्थम्) येनेति स्पष्टोऽर्थः । [^2]F. सत्यसंलापिनीम् । प्रलापस्तु प्रलाप एव टीकाकर्तुः । [^१]G. प्रकाशम्. [^२]G. किमस्ति. [^३]G. किचित्स्वप्न. [^४]G. अत्यन्तोत्फुल्ल; उत्फुल्ल. [^५]G. प्लुततरल. [^६]G. प्रहर्ष. [^७]G. उत्सुकम्. [^८]G. तदा. [^९]G. विसर्ज्य. [^१०]G. उन्मुच्य च. स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा तया च दत्तप्रसादानन्तर- मवनितलाश्लिष्टललाटरेखया शिरः प्रणामेनाभ्यर्चितः सह शुक- नासेनोत्थाय हर्षविशेषनिर्भरेण [^१]त्वर्यमाणो मनसा पवनच-लितनीलकुवलयदललीलाविडम्बकेन दक्षिणेनाक्ष्णा परिस्फुर- [^२]ताभिनन्द्यमानस्तत्काल सेवासमुचितेन विरलविरलेन परि- जनेनानुगम्यमानः पुरःसंसर्पिणीनामनिललो [^३]लस्थूलशिखानां [^४]प्रदीपिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरसंहति- [^५]रन्तःपुरमयासीत् । [^६]तंत्र च सुकृतरक्षासंविधाने, नव [^७]सुधानुलेपनधवलिते, प्रज्वलितमङ्गल [^८]प्रदीपे, पूर्णकलशा [^९]धिष्ठित [^१०]पक्षके, प्रत्यग्रलिखितमङ्ग [^११]ल्यालेख्यो [^१२]ज्ज्वलितभिर्त्ति [^१३]भा गमनोहारिणि, [^१४]उपरचित [^१५]सितविताने, वितान- [^१६]पर्यन्तावबद्ध [^१७]मुक्तागुणे, मणिप्रदीप [^१८]प्रहत- तिमिरे वास [^१९]भवने [^२०]भूतिलिखि [ टि ]-- दादिभ्यो भूषणान्याभरणान्युन्मुच्योत्तार्य कुलवर्धनायै मह- त्तरिकायै दत्त्वा वितीर्य । कीदृशो नृपः । तथाचेति । तया कुल- वर्धनयाभ्यर्चितः पूजितः । केन । शिरःप्रणामेनोत्तमाङ्गप्रणमनेन। तां विशिनष्टि--- दत्तेति । दत्तो यः प्रीत्या प्रसादो वस्त्रपात्रादिरूप- स्तस्यानन्तरं पश्चादवनितले वसुधातले श्लिष्टा संयोजिता ललाट- रेखालिकरेखा यया सा तया । अनेन राज्ञोऽतिवदान्यत्वं स्वस्मिन्न- भिनवोक्त्त्या राज्ञः संतोषकरणनिमित्तकोऽभिनिवेशश्च सूचितः । पुनः किं कृतवानित्याह – सहेति । सह समानकालं शुकनासेन उत्थाय उत्थानं कृत्वा हर्षविशेषस्य प्रमोदातिशयस्य निर्भरो यस्मि- न्नेवंविधेन मनसा चित्तेन त्वर्यमाणस्त्वरां क्रियमाणः । पवनेति । पवनेन वायुना चलितं यन्नीलकुवलयं तस्य दलस्य या लीला तस्या विडम्बकेन तिरस्कारिणा दक्षिणेनापसव्येनाक्ष्णा चक्षुषा परि- स्फुरता स्पन्दताभिनन्द्यमान आनन्द्यमानस्तत्कालीना या सेवा सपर्या तस्यां समुचितेन योग्येन । विरलेति । विरलविरलेन वीप्सया द्वित्त्वम् । यथा यथा वासभवनाभ्यन्तरगमनं राज्ञस्तथा तथा विरल- विरलत्वं बोध्यम् । एवंविधेन परिजनेन परिच्छदेनानुगम्यमानोऽनु- व्रज्यमानः । पुर इति। पुरोऽग्रे संसर्पिणीनां व्रजन्तीनाम् । अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा यासां तास्तासाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका । स्वार्थे कः । 'प्रत्ययस्थात्का- त्पूर्वस्यात इदाप्यसुपः ' इति कात्पूर्वमिकारः । तासां प्रदीपिका- नामालोकेन प्रकाशेन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरोत्तरप्रदेशे तिमिरसंहतिर्ध्वान्तसमूहो यस्येति राज्ञो विशेषणम् । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र तस्मिन्नन्तःपुरे वासभवने शयनतलमधिशयानां विलासवतीं ददर्शेति दूरेणान्वयः । वासभवनं विशेषयन्नाह – सुकृतेति । सुष्टु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकि- नीडाकिनीप्रभृतीनां प्रवेशप्रतिबन्धकर्मणि मन्त्राद्यौषधप्रकारो यस्मिन् । नवा प्रत्यग्रा या सुधा तस्या अनुलेपनेन धवलिते शुभ्रीकृते । प्रज्वलितो मङ्गलाभिधः प्रदीपो यस्मिन् । पूर्णकलशैर्भृत- कुम्भैरधिष्ठितं पक्षकं पक्षद्वारं यस्मिन् । 'पक्षद्वारं तु पक्षक' इति कोशः । प्रत्यग्रेति । प्रत्यग्रलिखितानि नूतनलिपीकृतानि यानि मङ्गल्यानि मङ्गले हितान्यालेख्यानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कुड्यप्रदेशस्तेन मनोहारिण्यभिरामे । उपेति । उपरचितं निष्पादितं सितवितानं श्वेतकन्दको यस्मिन् । वितानेति । वितानमुल्लोचस्तत्पर्यन्तं तत्प्रान्तं यावदवबद्धो मुक्तागुणो मुक्ताजालं यस्मिन् । मणीति । मणय एव प्रदीपास्तैः प्रहतं ध्वस्तं तिमिरं तमो यस्मिन् । इतः परमेकादशभिः शयनतलं विशेषयन्नाह - भूतीति । भूत्या ऐश्वर्यार्थं लिखिता या पत्रलता पत्रफलान्विता लता कल्पलता तया कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दार्ढ्यं यस्मिन् । [^1]F. त्वरां कर्तुं प्रेर्यमाण इत्यर्थः । [^१]G. पूर्यमाण:. [^२]G. अभिवन्द्यमान. [^३]G. लोलोच्छलच्छिखानाम्. [^४]G. प्रदीपकानाम्. [^५]G. तिमिरमन्त:पुरम्. [^६]G. तत्र वसुकृत; तत्र बहुकृत. [^७]G. सुधालेप. [^८]G. दीपे. [^९]G. अधिष्ठिते. [^१०]G. द्वारपक्षके; द्वारपक्षक. [^११]G. मङ्गल्यलेख्य. [^१२]G. उज्ज्वल. [^१३]G. भागे. [^१४]G. समुपरचित. [^१५]G. सितवितान. [^१६]G. पर्यन्तस्थित. [^१७]G. मुक्तागणे. [^१८]G. प्रतिहत. [^१९]G. भुवने. [^२०]G. भूमि; भित्ति. तपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्य [^१]स्तधवल- निद्रा [^२]मङ्गलकलशम् आबद्धविविधौषधिमूल [^३]यन्त्र- पवित्रम्, अवस्थापितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौर- सर्षपम्, [^४]अवलम्बित [^५]बालयोक्त्रप्रथित [^६]लोल- पिप्पलपत्रम्, आसक्तहरितारिष्टपल्लवम्, उत्तुङ्ग [^७]पादपीठ- प्रतिष्ठितम्, इन्दुदीधितिधवलप्रच्छदपटम्, अचलराजशिलातल- विशालम्, गर्भोचितं शयनतलमधिशयानाम्, कनकपात्रपरिगृहीतै- रविच्छि [^९]न्नविरलावस्थितदधिलवैर्जलतरङ्गतरल [^१०]श्वेत- शालिसिक्थनिकरैरग्र [^११]ग्रथितकुसुमसनाथैः पूर्णभाजनैर- खण्डिताननमत्स्यपटलैश्च प्रत्यग्रपिशितपिण्डमिश्रै [ टि ]-- दृश्यते हि देशविशेषे सद्यो गर्भसंभूत्यर्थं प्रथमर्तौ नवो- ढायाः फलपत्रान्वितकदलिकथा क्रियते । गर्भानन्तरं च पर्यङ्क उत्तरच्छदे शयनीयगृहभित्तौ वा फलपत्रान्विता लिखिता कल्पलता गर्भस्य पुष्ट्यर्थं वृद्ध्यर्थं च क्रियते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो यस्मिन् । इयं च देशरीतिः । यदुक्तमन्यत्र – 'निद्राकलशो रूप्य-- मयः सर्वश्वेतः शिरोभागेऽहर्निशं पूर्णजलः स्थाप्यते' इति । आब- द्धेति । आबद्धानि संयतानि विविधानामनेकप्रकाराणामोषधीनां मूलानि यन्त्राणि चक्रव्यूहप्रभृतीनि पवित्राणि मन्त्रपूतगोरोचना- प्रभृतीनि यस्मिंस्तत् । अवेति । अवस्थापितानि पार्श्वे रक्षितानि रक्षार्थं शक्तीनां कात्यायन्यादीनां वलयानि बर्हनिर्मितानि यस्मिं- स्तथा । इतस्तत इति । इतस्ततः समन्ताद्विप्रकीर्णा विक्षिप्ता गौर- सर्षपाः श्वेतसिद्धार्था यस्मिन् । अवेति । अवलम्बितानि बालानां केशानां यो मुखबन्धनं तेन ग्रथितानि गुम्फितानि लोलानि चञ्चलानि पिप्पलपत्राण्यश्वत्थदलानि यस्मिन् । आसक्ता अन्योन्यं संलग्ना हरिता नीला अरिष्टपल्लवा निम्बकिसलया यस्मिन् । उत्तुङ्गेति । उत्तुङ्गान्युच्चानि यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्ठ- विशेषाणि तेषु प्रतिष्ठितम् । इन्द्विति । इन्दोश्चन्द्रस्य या दीधितिः कान्ति [^1]स्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् । अचलेति । अचलराज्ये हिमाचलस्त [^2]स्मिञ्छिलातलं तद्वद्वि- शालं विस्तीर्णम् । गर्भेति । गर्भवत्यवस्थायामुचितं योग्यमेवंविधं शयनतलं शयनीयतलमधिशयानां विहितस्वापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसक्ता या जरत्यो वृद्धा योषित- स्तासां जनेन समुदायेन क्रियमाणं विधीयमानम [^3]वतरणकम- ङ्गलं यस्यास्ताम् । अवतरणकमङ्गलमुत्तारणमिति देशाचारव्यव- स्थया प्रसिद्धम्। कीदृशेन। आचारः कुलाचारस्तत्र कुशलेनाभि- ज्ञेन। तानेवाह - कनकेति । कनकस्य सुवर्णस्य पात्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता विरलावस्थिता अनि- बिडतया स्थिता ये दध्नो लवाः खण्डास्तैः । जलेति । जलतरङ्गाः पानीयकल्लोलास्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्वौदनानां शालिलाजानां वा निकराः समूहास्तैः । अग्रथितेति । अग्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः, पूर्णानि भृतानि भाजनानि तैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवंविधैर्मत्स्यपटलैर्मीनसमूहैः । कीदृशैः । प्रत्यग्रं तत्कालीनं यत्पिशितं मांसं तस्य पिण्डाः प्रसिद्धास्तैर्मिश्रितैः । पुनः कैः । शीतलप्रदीपैः [^1]F. तद्वद् धवलः शुभ्र इत्युचितम् । [^2]F. तस्येत्युचितम् । [^3]F. 'अवतारणकमङ्गलाम्' इत्येवोचितः पाठः । दधिलव-शाल्योदनादिभृतैः पात्रैः भूताद्यपसारणार्थं कृतम् अवतारणकरूपं नीराजनरूपेण पात्रपरिभ्रमणरूपं मङ्गलं यस्यास्ताम् । 'उतारा' इति देशभाषा।'भवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्चने' इति मेदिनी। [^१]G. विन्यस्तरत्न. [^२]G. मङ्गलम्. [^३]G. मन्त्रपवित्रम् ; पत्रम्. [^४]G. अवलम्बि. [^५]G. बालयोक्त्रुद्ग्रथित. [^६]G. लोह; लोहित. [^७]G. दलम्. [^८]G. पादपीठी. [^९]G. अविच्छन्न. [^१०]G. सित. [^११]G. कुसुमाञ्जलि. २० का० रविच्छिन्नसलिल [^१]धारानुगम्यमानमार्गैः [^२]पटलकप्रज्वलि- तैश्च [^३]शीतलप्रदीपैर्गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभि- [^४]श्चाचारकुशलेनान्तःपुरजरतीजनेन क्रियमाणा [^५]वतरणक- मङ्गलाम्, धवलाम्बरविविक्तवेषेण प्रमुदितेन [^६]प्रस्तुतमङ्गल- प्रायालापेन परिजनेनोपास्यमानाम्, उपारूढगर्भतयान्तर्गतकुल- शैलामिव क्षितिम्, सलिलनिमग्नैरावतामिव मन्दाकिनीम्, गुहा- गतसिंहामिव गिरिराजमे [^७]खलाम्, जलधरपटलान्तरितदिन- करामिव [^८]दिवसश्रियम्, उदयगिरितिरोहितशशिमण्डलामिव विभावरीम्; अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आसन्नागस्त्योदयामिव दक्षिणाशाम्, फेनावृतामृतकलशामिव क्षीरोदवेलाम्, [^९]गोरोचनाचित्रितदशमनुप [^१०]हतमतिधवलं दुकूलयुगलं वसानां विलासवतीं ददर्श । [ टि ]-- कर्पूरप्रदीपैः । कीदृशैः । पटलके रक्तवस्त्रनिर्मित [^1]गृहे मण्डलके वा प्रज्वलितैरुद्दीपितैः । अविच्छिन्नेति । अवि- च्छिन्नाऽत्रुटिता या सलिलधारा जलधारा [^2]तथा अनुगम्यमा- नोऽनुष्ठी- यमानो मार्गो यैस्ते तथा तैः । गोरेति । गोरोचना प्रसिद्धा तया मिश्रैः संयुक्तैर्गौरसर्षपैः श्वेतसिद्धार्थैः । पुनः कैः । सलिलस्य जलस्याञ्जलयस्तैः । पुनर्विलासवतीं विशेषयन्नाह - धवलेति । धव- लाम्बरस्य श्वेतवाससो विविक्तो निश्चलो वेषो नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपक्रान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप आलापः संलापो [^3]यस्यैवंविधेन परिजनेन परिच्छदजनेनोपास्यमानां सेव्यमानाम् । अथोपमानान्तरेण तां विशेषयन्नाह - उपेति । उपारूढः प्राप्तो यो गर्भस्तस्य भावस्तत्ता तया हेतुभूतयान्तर्गतः कुलशैलो यस्यामेवंभूतां क्षितिमिव वसुधा- मिव । सर्वेषामाधारभूतत्वेन कुलशैलसुतयोः साम्यम् । सलिले पानीये निमग्नो ब्रुडित ऐरावतोऽभ्रमातङ्गो यस्यामेतादृशीं मन्दाकिनीं गङ्गामिव । गुहागतः कन्दराप्राप्तः सिंहो मृगारिर्यस्यामेवं विशि- ष्टां गिरिराजमेखलामिव हिमाचलमध्यमिव । जलधरपटलमभ्रवृन्दं तेनान्तरितो व्यवहितो दिनकरो दिवसकरो यस्यामेतादृशीं दिवस- श्रियमिव वासरलक्ष्मीमिव । उदयगिरिणोदयाचलेन तिरोहितमा- च्छादितं शशिमण्डलं यस्यामेवंभूतां विभावरी रजनीमिव । अभ्यर्णं समीपे ब्रह्मकमलस्य धातृ [^4]रूपनलिनस्य विनिर्गमो बहिर्भावो यस्या- मेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसन्नः समी- पवर्त्यगस्त्यस्य पीताब्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणा- शामिवावाचीमिव । फेनेन डिण्डीरेणावृता आच्छादिता अमृत- [^5]कलशाः पीयूषकुम्भा यस्मामेतादृशीं क्षीरोदवेलामिव दुग्धो- दधिजलवृद्धिमिव । गोरोचनया चित्रिता पिञ्जरीकृता दशाः प्रान्ता यस्यैवंभूतमनुपहतमच्छिद्रमतिधवलमतिशुभ्रं दुकूलयुगलं दुकूल- युग्मं वसानां दधानाम् । अन्वयस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येव- मभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के तया सह समुपाविश- दासेदिवान् । केचित्तु स्त्रीपुरुषयोरेकत्रावस्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयनसंब [^1]F. वस्त्रनिर्मिते दीपाधारे 'कन्दील' 'ढोल' इति भाषाख्याते । [^2]F. केनचिज्जरतीजनेन पश्चात् पश्चात् क्रियमाणा अविच्छिन्ना जलधारा येषु तानित्यर्थः । [^3]F. येनेत्युचितम् । [^4]F. विरिञ्चिजन्मस्थानीभूतपद्मस्येत्युचितम् । [^5]F. अमृतकलश इत्येकवचनमेवोचितम्, उपमायां बिम्बभूतस्य सुतस्यैकत्वात् । [^१]G. गम्यमान. [^२]G. पटलप्र. [^३]G. शीतलप्रदीपैश्च. [^४]G. अभिचार. [^५]G. अवतारणक. [^६]G. मङ्गल्य. [^७]G. मेखलामिव. [^८]G. दिनश्रियम्. [^९]G. गोरोचनातिलक. [^१०]G. मणिधवलम्. ससंभ्रमपरिजनप्रसारितकरत [^१]लालम्बनावष्टम्मैन वामजानु- विन्यस्तहस्तपल्लवां [^२]प्रचलितभूषणमणिरवमुखरमुत्तिष्ठन्तीं विलासवतीम् 'अलमलमत्यादरेण । देवि, नोत्थातव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत्। प्रमृष्टचामीकर- [^३]चारुपादे धवलोपच्छदे [^४]चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् । अथ तामुपारूढगर्भामालोक्य हर्षभरमन्थरेण मनसा प्रस्तुत परि- हासो राजा 'देवि, शुकनासः पृच्छति – यदाह कुलवर्धना किमपि तत्किं तथैव' इत्युवाच । [^५]अथाव्यक्तस्मितच्छुरितकपोलाधर- लोचना लज्जया [^६]दशनांशुजालकव्याजेनांशुकेनेव मुखमाच्छा- दयन्ती विलासवती तत्क्षणमधोमुखी तस्थौ । पुनःपुश्चा [^७]नुबध्य- माना '[^८]किं मामतिमात्रं त्रपापरवशां करोषि । नाहं किंचिदपि वेद्मि' इत्यभिधाना तिर्यग्वलिततारकेण चक्षुषावनतमुखी राजानं साभ्यसूयमिवापश्यत् । अपरिस्फुटहासज्योत्स्नाविशदेन मुखशशि- ना भूभुजां [^९]पतिरेनांभूयो बभाषे- 'सुतनु, यदि [^१०]मदीयेन वचसा तव त्रपा वितन्यते तदयमहं स्थितो निभृ [ टि ]-- न्धिगृहे पृथगासने राजोपाविशदित्यर्थमाहुः । तामेव विशिनष्टि - ससंभ्रमेति । ससंभ्रमं सचकितं सविलासं वा, परिजनेन सेवकजनेन प्रसारितं विस्तारितं यत्करतलं हस्ततलं तदेवालम्बन- माधारस्तस्यावष्टम्भेन सहायेन वामेऽपसव्ये जानौ नलकीले विन्य- स्तः स्थापितो हस्त एव पल्लवो ययेति गर्भवतीज्ञापकं लक्षणम् । प्रचलितानि भूषणानि तेषां मणिरवेण मुखरं वाचालं यथा स्यात्तथेति क्रियाविशेषणम् । अलमित्यनेनादरातिशयः सूचितः । ततश्च शुक- नासोऽपि शयनान्तर आसनान्तरे न्यषीददुपविष्टवान् । तदेव विशेषयन्नाह - प्रमृष्टेति । प्रमृष्टमुज्ज्वलीकृतं यत् चामीकरं सुवर्णं तस्य चारवो मनोहराः पादा यस्मिन् ( यस्य ) । क्वचित् 'चारुपट्टे' इति पाठः । तत्र चारुः सुन्दरः पट्टो दृढबन्धो यस्मिन्नित्यर्थः । धवलः श्वेत उपच्छद उत्तरपटो यस्मिन् । आसन्ने समीपवर्तिनि । अथेत्या- नन्तर्ये । तां विलासवतीमुपारूढः प्राप्तो गर्भो ययैवंभूतामालोक्य निरीक्ष्य राजा पार्थिव इत्युवाचेत्यब्रवीत् । कीदृक् । प्रस्तुतः प्रारब्धः परिहासो नर्मवचनविन्यासो येन सः । केन । मनसा चित्तेन । कीदृ- शेन । हर्षस्य प्रमोदस्य यो भरः संभारस्तेन मन्थरेणालसेन, प्रस्तुतो गर्भधारणरूपो वृत्तान्तस्तत्र परिहासो हास्यमिति वा । एतदेव स्पष्टीकुर्वन्नाह- देवीति । हे देवि, शुकनासः पृच्छति । कुलवर्धना किमपि यदाह तत्किं तथैवेति सव्यङ्ग्यः प्रश्नः । अथेति । अथ प्रश्नानन्तरमव्यक्तमस्फुटं यत्स्मितं हास्यं तेन छुरितानि विकसि- तानि कपोलाधरलोचनानि यस्याः सा । लज्जया त्रपया दशना दन्तास्तेषामंशवः किरणास्तेषां जालकं समूहस्तस्य व्याजेन मिषे- णांशुकेनेव वस्त्रेणेव मुखमाननमाच्छादयन्ती प्रच्छादनं कुर्वती विलासवती तत्क्षणं तस्मिन्समयेऽधोमुख्यवाङ्मुखी तस्थौ स्थिता । पुनरिति । अपश्यदित्यन्वयः । किं क्रियमाणा । पुनः पुनर्वार्रवार- मनुबध्यमाना सनिर्बन्धं पृच्छ्यमाना । पुनः किं कुर्वाणा । इत्यभि- दधानेतिब्रुवाणा । इतिवाच्यमाह -- किमिति । किमिति हेतुना मामतिमात्रमतिसंकटं त्रपापरवशां लज्जायतां करोषि निर्मासि । नेति प्रतिषेधे । अहमित्यात्मनिर्देशः । किंचिदपि स्वल्पमात्रमपि वेद्मि जानामि । तिर्यगिति । तिर्यग्वलिता तारका कनीनिका यस्मि- न्नेवंभूतेन चक्षुषा नेत्रेणावनतमुख्यानम्रवदना राजानं नृपं साभ्य- सूयमिव सहेर्ष्यया वर्तमानमिवापश्यदिति प्रागुक्तमेव । पतिव्रताया धीरायास्तादृशप्रश्नस्यनुचितत्वात्साभ्यसूयमिति भावः । अपरिस्फु- टोऽप्रकटो यो हासः स एव ज्योत्स्ना चन्द्रिका तथा विशदेन निर्मलेन मुखशशिना वदनचन्द्रेणोपलक्षितो भूभुजां पती राजैनां विलासवतीं भूयः पुनरपि बभाष उवाच । किं तदित्याह - सुतन्विति । सुष्नु शोभना तनुः शरीरं यस्याः सेति संबोधनपदम् । यदिति यत्तदोः संबन्धः । [^1]F. छुरितं कपोलाधरलोचनं यस्या इत्येकवचनमेवोचितम्, प्राण्यङ्गत्वात् । [^१]G. अवलम्बना. [^२]G. प्रचल. [^३]G. चारुपदे. [^४]G. चासन्नशयनान्तरे. [^५]G. अव्यक्तच्छुरित. [^६]G. दशनांशुकजाल. [^७]G. अनुरुध्यमाना. [^८]G. किं नाम माम्. [^९]G. पतिर्भूयो. [^१०]G. मदीयवचसा. तम् । अस्य तु किं प्रतिविधास्यसि विघटमानदलकोशविशदचम्प- कद्युतेः सवर्णतया परिमलानुमी [^१]यमानस्य कुङ्कुमाङ्गरागस्य कुङ्कुमरागस्य [^२]पाण्डुरतामापद्यमान [^३]स्य, अनयोश्च गर्भ [^४]संभवामृतावसेकनिर्वाप्यमाण [^५]शोकानलप्रभवं धूम- मिव [^६]वमतोर्गृहीतनीलोत्पलयोरिव चक्रवाकयोस्तमालपल्लवा- वलाञ्छितमुखयोरिव कनक [^७]कलशयोः सकृदि [^८]वालि- खितकृष्णागुरुपङ्कपत्रलतयो: श्यामायमानचूचुकयोः पयोधरयोः, अस्य च प्रति [^९]दिनमतिगाढतरता [^१०]मापद्यमानेन काञ्ची- कलापेन दूयमानस्य नश्यत्त्रिवलि [^११]रेषावलयस्य क्रशिमान- [^१२]मुज्झतो मध्यभागस्य' इत्येवं ब्रुवाणमवनिपालमन्त [^१२]र्मु- खहासः शुकनासः 'देव, किमायासयसि देवीम् । [ टि ] -- मदीयेन मदुक्तेन वचसा वाक्येन यदि तव त्रपा लज्जा वितन्यते विस्तार्यते । तदिति हेत्वर्थे । अयमहमिति सोऽहमिति यदिदन्ताविषयेणाहमित्यस्याभेदप्रत्यभिज्ञानम् । निभृतमत्यर्थं तूष्णींस्थितः । अस्येति । अस्य कुङ्कुमाङ्गरागस्येत्यन्वितम् । किमिति प्रश्न प्रकारार्थे वा । प्रतिविधास्यसि । तस्य गोपनं कथं करिष्यसीत्याशयः । विघटेति । विघटमानानि भिद्यमानानि दलानि यस्यैवंभूतः कोशो मुकुलस्तेन विशदो निर्मलो यश्चम्पको हेमपुष्प- कस्तस्य द्युतिः कान्तिस्तस्याः सवर्णतया सरूपतया । अत एव विशेषाज्ञाने परिमलानुमीयमानस्येत्युक्तम् । तथा च चम्पकपरि- मलो न्यूनोऽङ्गरागपरिमलस्त्वधिक इति विशेषाद्विशिष्यानुमानं भवत्येवेत्याशयः। कुङ्कुमं काश्मीरं तेनाङ्गराग उद्वर्तनं [^1]त- स्य । अन्तर्वत्नीत्वनियता पाण्डुरता तामापद्यमानस्य प्राप्यमाणस्ये- त्यर्थः । अथ चानयोः पयोधरयोरिति संबन्धः । कीदृशयोः । गर्भ- संभव एवामृतं तस्यावसेकः सिञ्चनं तेन निर्वाप्यमाणो विलुप्यमान श्चिरकालीनपुत्रानुत्पत्तिनिमित्तकः शोक एवानलो वह्निस्तस्मात्प्रभव उत्पत्तिर्यस्यैवंभूतं स्तनवृन्तोपरिश्यामतालक्षणधूममिव वम- तोस्त्यजतोः । पुनरुत्प्रेक्षां कुर्वन्नाह- गृहीतेति । गृहीतमात्तं नीलो- त्पलं कुवलयं याभ्यामेवंभूतयोश्चक्रवाकयोरिव रथाङ्गाह्वययोरिव । पुनरुत्प्रेक्षां कुर्वन्नाह - तमालेति । तमालस्तापिच्छस्तस्य पल्लवाः किसलयास्तैर्लाञ्छितं चिह्नितं मुखं ययोरेवंभूतयोः कनककलशयो- रिव सुवर्णकुम्भयोरिव । पुनः प्रकारान्तरेणोत्प्रेक्षां कुर्वन्नाह- सकृ- दिति । सकृदेकवारमालिखिता कृष्णागुरुपङ्केन पत्रलता पत्रवल्ली ययोरेतादृशयोरिव श्यामायमानं श्यामतामापद्यमानं चूचुकं स्तनवृन्तं ययोः पयोधरयोस्तयोर्गोपनं कथं करिष्यसि । स्तनाग्रश्यामता गर्भव्यतिरेकेणानुपपद्यमाना तद्भावमाविष्करोतीति भावः । अस्य चेति । मध्यभागस्येत्यनेनान्वितम् । प्रतिदिनं प्रत्यहमतिगाढतरता- मतिदृढतामापद्यमानेन प्राप्यमाणेन काञ्चीकलापेन रशनाकलापेन दूयमानस्य पीड्यमानस्य । नश्यदिति । नश्यनश्यद्भ्रश्यत्त्रिवल्या- स्त्रिक [^2]स्य रेषावलयं यस्मिन्स तथा तस्य । कृशस्य भावः क्र- शिमा कृशत्वमुज्झतस्त्यजतो मध्यभागस्य मध्यप्रदेशस्येत्येवमिति पूर्वोक्तप्रकारेण ब्रुवाणं वदन्तं अवनिपालं नृपं शुकनास इत्यब्रवी- दित्यन्वयः । कीदृक् । अन्तर्मुखे मुखमध्ये हासो यस्य सः । एतेन महापुरुषत्वं सूचितम् । इतिशब्दार्थमाह --- देवेति । [^1]F. अज्ञानं टीकाकारस्य । 'परिमलानुमीयमानकुङ्कुमराग- स्य पाण्डुरतामापद्यमानस्य वर्णस्य', इत्येव पाठः । चम्पकपुष्प- कान्तेस्तुल्यवर्णतया परिमलेन ( सुगन्धेन) अनुमीयमानः काश्मीर- जाङ्गरागो यमिन् तादृशस्य वर्णस्य तव शरीरकान्तेः किं प्रतिविधा- स्यसीत्यन्वयः । कुङ्कुमाङ्गरागः । शरीरवर्णश्चेत्युभयमपि चम्पक- सवर्णमिति पृथक्तया अनुपलक्ष्यमाणत्वात् परिमलेन केशरानुलेप- नमनुमीयते इति भावः । उन्मीलितमलंकारः । [^2]F. नश्यत् विलुप्यमानं त्रिवलिलेखानां वलयं मण्डलं यस्मि- न्नित्यर्थः । [^१]G. मानस्य कुङ्कुमरागस्य; मानकुङ्कुमाङ्गरागस्य. [^२]G. पाण्डुतामापाद्यमानस्य। [^३]G. मानस्य वर्णस्य. [^४]G. संभवावसेक. [^५]G. हृदयशोका. [^६]G. वसतोरन्तर्गृहीत; वहतोराननगृहीत. [^७]G. कलशयोरिव. [^८]G. लिखित. [^९]G. अतिगाढताम्. [^१०]G. आपाद्यमानेन. [^११]G. लेखा. [^१२]G. उद्वहत:. [^१३]G. मुखविनिगूढहासः; मुङ्मुखनिगूढहास:. इय [^१]मनया कथयापि लज्जते। त्यज कुलवर्धनाकथितवार्ता- संबद्धमालाप [^२]कम्' इत्यब्रवीत् । एवंविधाभिश्च नर्मप्रायाभिः कथाभिः सुचिरं स्थित्वा शुकनासः स्वभवनमयासीत् । नरेन्द्रोऽपि तस्मिन्नेव [^३]वासगृहे तया सह तां निशामत्यवाहयत् । ततः क्रमेण [^४]समीहितगर्भदोहदसंपादनप्रमुदिता [^५]पूर्णे प्रसवसमये पुण्येऽहन्यनवरतगलन्नाडिकाकलित [^६]कालकल- र्बहिरागृहीतच्छायैर्गणकैर्गृहीते लग्ने प्रशस्तायां वेलायामिरंमदमिव मेघमाला सकललोकहृदयानन्दकारिणं विलासवतीं सुतमसूत । तस्मिञ्जाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशत- संक्षोभचलितक्षितितलो भूपालाभिमुखप्रसृतस्खल [ टि ] -- हे देव स्वामिन्, देवीं विलासवतीं किमायासयसि खेद- यसि। इयं देव्यनया पूर्वोक्तया कथया वार्तयापि लज्जते त्रपां प्राप्नो- ति । त्यज दूरीकुरु । कुलवर्धना पूर्वोक्ता तथा कथिता प्रोक्ता या वार्ता प्रवृत्तिस्तत्संबद्धमालापकं ज्ञातस्याप्यर्थस्यावेदने लज्जाकारि- वाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रायाभिः परिहासबाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभवनं स्वगृहमयासीदाययौ । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां रात्रिं तया सह विलासवत्या सममत्यवाहयदनैषीत् । तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जन- नस्य समय: कालस्तस्मिन्पूर्णे परिपक्वे सति गणकैर्ज्योतिर्विद्भि- र्गृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्तर्वर्तिहोरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी । समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो मनोरथः। नानारसविषयकोऽभिलाष इति यावत् । तत्य संपादनं परिपूर्णता- पादनं तया प्रमुदिता संतुष्टः। अथ गणकान्विशिनष्टि - आगृहीतेति। बहिरङ्गणादावागृहीता पूर्वपश्चिमादि [^1]देशविशेषेण निश्चिता छाया यैः। अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका [^2]घटिका। नाडिकाशब्दस्य समयवाचित्वेऽपि नाडी- बोधकं पात्रविशेषं लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः। नित्यं चलन्ती या नाडिका मुहूर्तार्धं तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला कादम्बिनीरंमद- मिव मेघवह्निमिव । 'मेघवह्निरिरंमदः' इति हैमः । सुतं विशेषयन्नाह -- सकलेति । सकलाः समग्रा ये लोकास्तेषां हृदयानि चित्तानि तेषामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिजनस्य बाह्याभ्यन्तर सेवकजनस्य राजकुले राज्ञां समुदाये राजगृहे वा दिष्टिरानन्दस्तस्य या वृद्धिस्तस्याः संभ्रमः सोत्साहकर्माविमहान- भूदित्यन्वयः । परिजनं विशेषयन्नाह - सरभसमिति । सरभसं त्वरितमितस्ततः समन्तात्प्रधावितस्योच्चलितस्य । दिष्टिसंभ्रमं विशेषयन्नाह-चरणेति । चरणानां पादानां शतं तस्माद्यः संक्षोभः प्रधातस्तेन चलितं कम्पितं क्षितितलं यस्मात्स तथा । भूपालेति । भूपालाभिमुखं नृपसंमुख [^1]F. बहिः आगृहीता पादच्छाया शङ्कुच्छाया वा यैः । पाद- च्छायाग्रहणेन पूर्वं समयनिरूपणमक्रियत । यथा – 'पच्छायां द्विगुणीकृत्य चतुर्दशसमन्विताम् । पक्षग्रहकराद्भागलब्धं दण्डादिकं भवेत् ॥ इति । [^2]F. समयनिरूपकयन्त्रविशेषः । सार्धद्वादशपलपरिमितताम्र- निर्मितः सार्धद्वादशपलपरिमितजलपूरणीयः पञ्चरत्तिकापरिमित- स्वर्णनिर्मितशलाकया अधश्छिद्रसंयुक्तो यन्त्रविशेष इत्यर्थः । तया च शलाकया जलबिन्दुपतनात्तज्जले च चिह्नविशेषोपगते समय- निरूपणं पूर्वमक्रियत । [^१]G. अनयापि कथया. [^२]G. आलापम् ; आलापमपि. [^३]G. वासगृहे ताम्. [^४]G. यथासमीहित समुचित. [^५]G. पूर्णप्रसवः. [^६]G. कले; कले. [^७]G. जलधरमाला. [^१]द्गतिशून्यकञ्चुकिसहस्रो जनसंमर्दनिष्पिष्यमाणपतितकुब्ज- वामनकिरातगणो [^२]विस्फार्यमाणान्तःपुरजनाभरणझङ्कार- मनोहरः पूर्णपात्राहरणवि [^३]लुप्यमानवसनभूषणः संक्षोभित- नगरो राजकुले दिष्टिवृद्धिसंभ्रमोऽतिमहानभूत् । अनन्तरं [^४]च [^५]मन्दरमथ्यमान [^६]जलधिघोषगम्भीरदुन्दुभि [^७]ध्वान- पुरःसरेण [^८]प्रहतमृदुमृदङ्गशङ्खकाहलानक [^९]निवहनिर्भरेण मङ्गलपटहपटुरवसंवर्धितेनानेकजनसहस्रकलकल- बहुलेन त्रिभुवनमापूरयतोत्सवकोलाहलेन ससामन्ताः [^१०]सान्तःपुराः सप्रकृतयः सराजलोकाः सवेश्यायुवतयः सबालवृद्धा ननृतु [^११]रागोपालमुन्मत्ता इव हर्षनिर्भराः प्रजा:। [^१२]प्रतिदिनमवर्धत चन्द्रोदयेनेव [^१३]जलधिः कलकलमुखरो राजसूनोर्जन्म [^१४]महोत्सव:। [ टि ]-- प्रसृता विस्तृतास्तेषां हर्षोद्रेकात्स्खलन्ती या गतिर्गमनं [^1]तया शून्यं कञ्चुकिनां सौविदल्लानां सहस्रं यस्मिन्सः । अनेन सुतोत्पत्तिज्ञापनार्थं सर्वतः कञ्चुकिनः प्रवृत्ता इति ध्वनितम् । जने- ति । जनानां संमर्देन समुदायेन निष्पिष्यमाणाः पीड्यमाना अत एव पतिताः स्रस्ताः । येषां शिरः शिरोधिपृष्ठिपादं लक्षणोपेतं न भवति पृष्ठ्युदरहृदयं च सुलक्षणं स्यात्ते कुब्जाः । एतद्विपरीतास्तु वामनाः । केवलं स्वल्पतनवः किराताः । 'किरातः स्यादल्पतनौ भूनिम्बे म्लेच्छभिल्लयोः' इत्यनेकार्थः । तेषां गणः समुदायो यस्मिन् सः । विस्फार्येति । विस्फार्यमाणो वृद्धिं प्राप्यमाणो योऽन्तःपुर- जनानामाभरणझङ्कारोऽलंकारनिनादस्तेन मनोहरो हृदयहारी । पूर्णेति । उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते तत्पूर्णपात्रं तस्या- हरणं ग्रहणं तेन विलुप्यमानानि गृह्यमाणानि बलादाकृष्यमाणानि वसनभूषणानि यस्मिन् सः । संक्षोभितं क्षोभं प्रापितं नगरं येन स तथा । अनन्तरं चेति । अनन्तरं सुतोत्पत्त्यनन्तरमुत्सवकोलाहलेन हर्षस्य निर्भरोऽतिशयो यास्वेवंविधाः प्रजा ननृतुर्नत्यं चक्रुरित्यन्वयः । प्रजा विशिनष्टि - ससामन्ता इति । सामन्ताः स्वदेशपार्श्ववर्तिनो राजानस्तैः सहवर्तमानाः, सान्तःपुरा अन्तःपुरेण सहिताः सप्रकृतयः प्रकृतिः पौरलोकस्तया सहवर्तमानाः, सराजलोकाः राजलोको नृप- संबन्धिजनस्तेन सहिताः सवेश्यायुवतयो वेश्यायुवतिभिर्वाराङ्गनाभिरुपेताः, सबालवृद्धा बालवृद्धैः सहिताः । आगोपालमिति । आ गोपालं बल्लवं मर्यादीकृत्य यथा स्यात्तथेति क्रियाविशेषणम् । क इव । उन्मत्ता इव क्षीबा इव उत्सवकोलाहलेन किं कुर्वता । आपू- रयता पूर्णीकुर्वता । किम् । त्रिभुवनं त्रिविष्टपम् । उत्सवकोलाहलं विशिनष्टि - मन्दरेति । मन्दरेण मेरुणा मथ्यमानो विलोड्यमानो यो जलधिः क्षीराब्धिस्तस्य घोषस्तद्वद्गम्भीरो यो मृदुर्मृदङ्गो मुरजः, शङ्खः कम्बु, काहलो वाद्यविशेषः, आनको दुन्दुभिः तेषां निवहः समूहस्तेन निर्भरेण पूर्णेन । मङ्गलार्थं वाद्यते यः स मङ्गलपटहश्चर्म- वाद्यं तस्य यः पटुरवः स्पष्टः शब्दस्तेन संवर्धितेन वृद्धिं प्रापितेन, अनेके ये जनास्तेषां सहस्रं तस्य यः कलकलः कोलाहलस्तेन बहुलेन दृढेन । अधिकोभूतेनेत्यर्थः । प्रतीति । प्रतिदिनं प्रत्यहं राज- सूनोर्नृपात्मजस्य जन्ममहोत्सवो जनिक्षणोऽवर्धत वृद्धिं प्राप । केनेव । चन्द्रोदयेन कुमुदबान्धवोद्गमनेन जलधिरिव समुद्र इव । कीदृग्जन्ममहोत्सवः । [^1]F. भूपालाभिमुखं प्रसृतं चलितं स्खलद्गतिशून्यम् ( अन्यस्मिन् समये वार्धक्येन स्खलद्गतियुक्तमपि संप्रति हर्षोद्रेकवशात् तच्छू- न्यमित्यर्थः ) । वस्तुतस्तु – 'भूपालाभिमुखप्रसृतस्खलद्गतिविकल- कञ्चुकिसहस्र:' इत्येव पाठ: । भूपालाभिमुखं प्रसृतं, स्खलद्गति ( स्खलन्ती गतिर्यस्य तत्), विकलम् आनन्दव्याकुलं च कञ्चु-किनां सहस्रं यसिन् स इति तदर्थः । [^१]G. गतिकञ्चुकि; गतिविकलकञ्चुकि. [^२]G. घूर्णमान. [^३]G. विलुठ्यमान. [^४]G. च मथ्यमान. [^५]G. मन्दराराध्यमान. [^६]G. जलनिधि. [^७]G. स्वान. [^८]G. प्रहतमृदङ्ग. [^९]G. निवहनिनादनिर्भरेण. [^१०]G. सान्तःपुरजनाः. [^११]G. आगोपम्. [^१२]G. प्रतिक्षणम्. [^१३]G. जलनिधिः. [^१४]G. जन्मनो महोत्सवः. पार्थिवस्तु तनया [^१]ननदर्शनमहोत्सवहृतहृदयोऽपि दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्ते निवारितनिखिलपरिजन: शुक- नासद्वितीयो [^२]मणिमयमङ्गल [^३]कलशयुगलाशून्येनासक्त- बहु [^४]पुत्रिकालंकृतेन विविधनव [^५]पल्लवनिवहनिरन्तरनिचितेन संनिहितकनकमयहलमुस [^६]युगेन विरलग्रथितसित- कुसुममिश्रदूर्वाप्रवालमालालंकृते [^७]नावलम्बिताविकलव्याघ्र- चर्मणा [^८]वन्दनमालिकान्तरालघटितघण्टागणेन [^९]द्वारेण विराजमानम्, उभयतश्च द्वारपक्षकयोर्मर्यादानिपुणेन गोमयमयी- भित्तानविनिहित [^१०]वराटकदन्तुराभिरन्तरान्तराबद्धविविध- वर्णरागरुचिर [^११]कूर्पासकुसुमले [ टि ]-- कलकलेन कोलाहलेन मुखरो वाचालः । तदनन्तरं नृपतिर्यच्चकार तदाह - पार्थिवस्त्विति । पार्थिवो राजापि सूतिका- गृहमरिष्टगृहमदर्शदिति दूरेणान्वयः । अथ राजानं विशिनष्टि-तनयेति । तनयः सुतस्तस्याननं मुखं तस्य दर्शनेनावलोकनेन यो महोत्सवस्तेन हृतं गृहीतं हृदयं चित्तं यस्यैवंभूतोऽपि । कदा दद- र्शेत्यत आह - दिवेति । दिवसवशेन । शुभदिना [^1]नुसारेणेत्यर्थः । मौहूर्तिकानां ज्योतिर्विदां गणस्तेनोपदिष्टे प्रशस्त उत्कटफल- सूचके मुहूर्ते । निवारितो दूरीकृतो निखिलः समग्रः परिजनः परि- च्छदो येनेति राज्ञो विशेषणम् । शुकनास एव द्वितीयो यस्य स तथा । गृहं विशेषयन्नाह - द्वारेति । द्वारेण प्रतीहारेण विराजमानं शोभ- मानम् । द्वारे विशेषयन्नाह - मणीति । मणिमयं रत्नमयं यन्मङ्गल- कलशयुगलं तेनाशून्येन । सर्वदा तत्संयुक्तनेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपणं क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपुत्रिका मषीलिखितास्ताभिरलं [^2]कृत- मिति गृहविशेषणम् । यस्मिन्गृहे प्रसूतिर्जायते तद्वारदेशे क्रम- व्युत्क्रमाभ्यां मषीलिखिते संश्लिष्टे पुत्रिके क्रियते इति वृद्धाचारः । कैश्चित्तु बहुपुत्रिकानाम श्लक्ष्णफलैरुपेतो विटपिविशेषः कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपल्लवा नवकिस- लयास्तेषां निवहः समूहस्तेन निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसलमयोग्रम्, युगमीशान्तबन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद्देशाचारः । हलमुसलयोर्युगमिति समासो वा । विरलेति । विरलानि ग्रथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवाल- मालया पल्लवश्रेण्यालंकृतं भूषितं तेनं । अवेति । अवलम्बित- मविकलं संपूर्णं व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन । वन्दनेति । मङ्गल्यं पुष्पदाम वन्दनमालिका । 'तोरणार्थे तु मङ्गल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः । तस्या अन्तराले मध्यविभागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह - उभयतश्चेति । पुरंध्रिवर्गेण । ' पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः । किं कुर्वता । पुरंध्रिवर्गेण । आलिखितो लिपीकृतः स्वस्तिकः प्रसिद्धो यस्मिन्ने- वंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः । द्वार- पक्षकयोः । उभयत उभयपार्श्वयोः । 'पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन मर्यादा स्थितिस्तत्र निपुणे- नाभिज्ञेनेति पुरंध्रिवर्गस्य विशेषणम् । काभिः । लेखाभिर्वर्तिभिः । अथ लेखा विशेषयन्नाह- गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आब- द्धा नियमिता विविधवर्णा नीलपीतादिधातवस्तेषां रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाश्छेदास्तैर्लाञ्छिताभिश्चिह्निताभिः । [^1]F. शुभसमयानुरोधेनेत्यर्थः । [^2]F. आसक्ताभिः परस्पराश्लिष्टाभिः संमिलिताभिर्वा बहुपुत्रिकाभिः बहुपुत्रशालिनीभिर्नारीभिः अलंकृतेन इत्यर्थः । संतानरक्षा- शकुनार्थं ता द्वारोपरि उपस्थिता भवन्तीत्याचारः । [^१]G. दर्शनोत्सव. [^२]G. कनकमय. [^३]G. कलशाशून्येन. [^४]G. पुत्रिकाप्रतानेन. [^५]G. वन. [^६]G. युगलेन. [^७]G. आलम्बिताविरल; आलम्बिताविकट. [^८]G. माला. [^९]G. द्वारदशेन. [^१०]G. वराटकप्रकारदन्तुराभिः. [^११]G. कार्पास; कर्पास. शलाञ्छिताभिः कुसुम्भकेसरलवाश्लेषलोहिताभिर्लेखाभिरालि- खितस्वस्तिकभक्तिजालमुपरचयता [^१]हारिद्रद्रावविच्छुरणपि [^२]ञ्जरिताम्बरधारिणीं भगवतीं षष्ठीं देवीं कुर्वता विकचपक्ष- पुटविकट [^३]शिखण्डिपृष्ठमण्डलाधिरूढमालोललोहितपट- घटितपताकमुल्लसितशक्तिदण्डप्रचण्डं कार्तिकेयं [^४]संघटयता विन्यस्तालक्तकपटलपाटलमध्यभागौ सूर्याचन्द्रमसाबाबध्नताकुटु- मपकपिञ्जरीकतामूर्ध्वप्रोतकनकमययवनिकरकण्टकितामविर- ललग्नगौरसिद्धार्थक [^५]प्रकारतया काञ्चनरसखचितामिव मृन्म- यगुटिकाकदम्बमालां विन्यस्यता चन्दनजलधवलितेषु भित्तिशिखरभागेषु पञ्चरागविचित्रचेलचीरकलापचिह्नामापीत [^६]पिष्टपङ्का- ङ्कितां [^७]वर्धमानपरम्परामन्यानि च [^८]सूतिकागृहमण्डन- मङ्गलानि संपादयता पुरंध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयत- विविधगन्धकुसुम [ टि ]-- कुसुम्मेति । कुसुम्भं [^1]कमलोत्तरं तस्य केसरलवाः किञ्जल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहिताभी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं तेन पिञ्जरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणीं भगवतीं षष्ठीं देवीम् । पुनः किं कुर्वता । संघटयता रचयता । कम् । उल्लसितावुल्लासं प्राप्तौ यौ शक्तिदण्डौ, तत्र शक्तिरायुधविशेषः, दण्डो लगुडः, ताभ्यां प्रचण्डो भीषणो यः कार्तिकेयो गुहस्तम् । तमेव विशेषयन्नाह - विकचेति । विकच- पक्षपुटाभ्यां विस्तीर्णवाजपुटाभ्यां विकटो विपुलो यः शिखण्डी मयूरस्तस्य पृष्ठमण्डलं तत्राधिरूढमुपविष्टम् । आलोलाश्चञ्चला लोहितपटघटिता रक्तवस्त्रनिर्मिताः पताका वैजयन्त्यो यस्मिन्स तम् । पुनः किं कुर्वता । आबध्नता [^2]बन्धनविषयीकुर्वता । कौ । सूर्याचन्द्रमसौ पुष्पवन्तौ । देवताद्वन्द्वत्वात्पूर्वपदस्य दीर्घता । तौ विशेषयन्नाह - विन्यस्तेति । विन्यस्तं रचितं यदलक्तकपटलं तेन पाटलौ श्वेतरक्तौ मध्यभागौ ययोस्तौ । पुनः किं कुर्वता । विन्य- स्यता स्थापयता । काम् । मृन्मयगुटिकाकदम्बमालां मृन्मय्यो मृत्तिकाभिर्निष्पन्ना या गुटिका गुलिका [^3]स्तासां कदम्ब: समूहस्तस्य माला स्रक् ताम् । मालां विशेषयन्नाह - कुङ्कुमेति । कुङ्कुमस्य केशरस्य यः पङ्कस्तेन पिञ्जरीकृतां पीतरक्तीकृताम् । ऊर्ध्वप्रोताः स्यूतां ये कनकमययवाः सुवर्ण [^4]हयप्रियास्तेषां निकरः समूहस्तेन कण्टकितां संजातकण्टकाम् । अविरलं निबिडं लग्नाः संबद्धा ये गौसिद्धार्थका गौरसर्षपास्तेषां प्रका [^5]रस्तस्य भाव- स्तत्ता तया हेतुभूतया । काञ्चनस्य सुवर्णस्य यो रसस्तेन खचितामिव संबद्धामिव । अनेन सुवर्णसर्षपयोः साम्यं प्रदर्शितम् । चन्दनेति । चन्दनं मलयजं तस्य जलं द्रवस्तेन धवलितेषु शुभ्री- कृतेषु भित्तिशिखरभागेषु कुड्यप्रान्तप्रदेशेषु वर्धमानपरम्परां शरावश्रेणीमन्यानि च सूतिकागृहमरिष्टगृहं तस्य मण्डनमङ्गलानि शोभाकारिरचना विशेषास्तानि संपादयता निष्पादयता । वर्धमान- परम्परां विशेषयन्नाह – पञ्चेति । पञ्चरागैर्विचित्रा ये चेलचीरा वस्त्रखण्डास्तेषां कलापः समूहः स एव चिह्नं यस्यां सा ताम् । आ ईषत्पीतो यः पिष्टपङ्कस्तेनाङ्कितां चिह्निताम् । पुनः प्रकारान्तरेण गृहं विशिनष्टि - उपेति । उपद्वारे द्वारसमीपे संयता बद्धा विविधो गन्धो यास्वेवंविधाः कुसुममालाः पुष्पस्रजस्ताभिरलंकृतो भूषितो जरच्छागो वृद्धोऽजो यस्मिं [^1]F. महारजनपुष्पं 'कसूंभा' इति भाषा । [^2]F. तण्डुलपिष्टद्वारा निर्मिमाणेन । [^3]F. अथवा गुलिका एव कदम्बानि कदम्बकुसुमानि तेषां मालामित्यर्थः । [^4]F. सुवर्णनिर्मिता यवा ( यवधान्यानि )। सुवर्णघटितयवग्रथनेन कण्टकितत्वं प्रतीयत इत्याशयः । [^5]F. 'प्रकरतया' इत्येव पाठः । अविरलं यथा स्यात्तथा संसक्तः श्वेतसर्षपाणां प्रकरः समूहो यस्मिन् तद्भावः, तत्तथा । सा माला गौरसर्षपयुक्ता, अत एव सुवर्णलेपखचितेव प्रतीयत इत्याशयः । [^१]G. हरिद्र. [^२]G. परिपिञ्जराम्बर. [^३]G. शिखण्डिमण्डल, शिखिपृष्ठमण्डल. [^४]G. संघट्टयता. [^५]G. प्रकरतया. [^६]G. पिष्टक; पिष्टातक. [6७]G. वर्धमानक. [^८]G. प्रसवगृह. मालालंकृतजरच्छागम्, अखिलव्रीहि [^१]मध्यावस्थापितार्यवृद्धा- ध्यासित [^२]शयनीयशिरोभागम्, अनवरतदह्यमानाज्यमिश्रभुजगनिर्मोकमेषविषाणक्षोदम्,अनलप्लुष्यमाणारिष्ट [^३]तरुपल्लवो- ल्लसितरक्षाधूमगन्धम्, अध्ययनमुखरद्विजगणविप्रकीर्यमाणशान्त्यु- दकलवम्, अभिनवलिखितमातृपदपूजाव्यग्रधात्रीजनम्, अनेक- वृद्धाङ्गनारब्धसूतिकामङ्गलगीतिकामनोहरम्, उपपाद्यमानस्वस्त्य- यनम्, क्रियमाणशिशुरक्षाबलिविधानम्, आबद्ध्यमानधवलकुसुम- दामशतम्, अविच्छिन्नपठ्यमाननारायणनामसहस्रम्, अमलहाटकयष्टिप्रतिष्ठापितैरन्तःशुभशतानीव निश्चलशिखैर्ध्यायद्भिर्मङ्गल- प्रदीपैरुद्भासितम्, [^४]उत्खातासिलतासनाथपाणिभिः सर्वतो रक्षापुरुषैः परिवृत्तं सूतिकागृह [^५]मदर्शत् । अम्भः पावकं च स्पृष्ट्वा विवेश । प्रविश्य च प्रसवपरिक्षामपाण्डु- मूर्तेरुत्सङ्गगतं विलासवत्या:, स्वप्रभासमुदयोपहतगर्भगृह [^६]प्र- दीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डलमिव सवितारम्, [^७]अपरसंध्यालोहितबिम्बमिव चन्द्रमसम्, अनुप- जातकाठिन्यमिव कल्पतरु [ टि ]-- स्तत् । अखिलेति । 'क्षेत्राद्यप्रहितं खिलम्' इति कोशः । न विद्यते खिलं येषां तेऽखिलाः क्षेत्रोत्पन्ना ये व्रीहयो धान्यानि तन्म- ध्येऽवस्थापिता यार्यवृद्धा तयाध्यासितः शयनीयशिरोभागो यस्मिन् । 'आयुर्वृद्ध' इति पाठ आयुर्वृद्धा गोमयपुत्तलिका । शेषं पूर्ववत् । अनवरतेति । अनवरतं निरन्तरं दह्यमानः प्रज्वलमान आज्येन सर्पिषा मिश्रः संयुक्तो भुजगस्य सर्पस्य निर्मोकः कञ्चुकः, मेष- स्योरणस्य विषाणं शृङ्गं तयोः क्षोदचूर्णं यस्मिन् । अनलेति । अन-लेन वह्निना प्लुष्यमाणा दह्यमाना येऽरिष्टतरुपल्लवा निम्बवृक्ष- किसलयास्तेषामुल्लसितो विकसितो रक्षार्थं धूमगन्धो यस्मिन् । अध्ययनेति । अध्ययनेन मुखरा वाचाला ये द्विजगणा विप्रसमूहा स्तैर्विप्रकीर्यमाणा इतस्ततो विक्षिप्यमाणाः शान्त्यर्थमुदकलवा: पानीयपृषता यस्मिन् । अभिनवेति । अभिनवो नूतनो लिखितो यो मातॄणां पटो मातरो बालरक्षाकारिण्यो देव्यो यस्मिन्पटे लिख्यन्ते तस्य पूजायां व्यग्रो धात्रीजनो यस्मिन् । सूतिकेति । सूतिकामुद्दिश्य अनेकवृद्धाङ्गनाभिर्जरत्स्त्रीभिरारब्धा या सूतिकामङ्गलगीतिका तया मनोहरम् । उपपाद्यमानं क्रियमाणं स्वस्त्ययनमरिष्टनिवृत्त्युपायो यस्मिन्, क्रियते क्रियमाणं विधीयमानं शिशोर्बालस्य रक्षार्थं बलिविधानं यस्मिन् । आबद्ध्येति । आबध्यमानं धवलकुसुमानां श्वेतपुष्पाणां दामशतं स्रक्शतं यस्मिन् । अवीति । अविच्छिन्नं निरन्तरं पठ्यमानं नारायणस्य कृष्णस्य नामसहस्रं यस्मिन् । अम- लेति । अमलं निर्मलं यद्धाटकं सुवर्णं तस्य यष्टयो दण्डास्तेषु प्रति- ष्ठापितैः सम्यक्तया स्थापितैः । निश्चलेति । निश्चला अकम्प्रा शिखा- र्चिर्येषां ते तथा तैः। अत एवान्तर्मध्ये शुभशतानि ध्यायद्भिरिव। एवंविधैर्मङ्गलप्रदीपैरुद्भासितं शोभितम् । उत्खातेति । उत्खाताः कोशाद्बहिः कर्षिता असिलताः खड्गलतास्ताभिः सनाथाः सहिताः पाणयो हस्ता येषामेवंविधैः सर्वतश्चतुर्दिक्षु रक्षार्थं नियुक्तसुभटैः परिवृतं परिवेष्टितम् । अन्वयस्तु प्रागेवोक्तः । अम्भ इति । अम्भो जलं पावकं वह्निं च स्पृष्ट्वा तत्स्पर्शं विधाय विवेश गृहे प्रवेशं कृतवान् । बालकनिरीक्षणे दृष्टिदोषनिवारक- मेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शेत्यन्वयः । अथात्मजं विशेषयन्नाह - प्रसवेति । प्रसवेन वैजननेन परिक्षामा कृशा पाण्ड्वी च मूर्तिः शरीरं यस्या एवंविधाया विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति । स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता दूरं ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो रक्तिमा तस्य भावस्तत्त्वं तस्मात् । उदयेनोद्गमनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव । अपरसंध्या पश्चिमसायंकालस्तया लोहितमा ईषद्रक्तं बिम्बं यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुपेति । [^१]G. अवस्थित. [^२]G. शयन. [^३]G. निम्नतरु. [^४]G. उद्यत. [^५]G. अपश्यत्. [^६]G. प्रदीपक. [^७]G. संध्यालोहित. २१ का० पल्लवम्, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मराग- रश्मिभिरिव [^१]रचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव महा- सेनम्, सुरवनिता [^२]कर [^३]परिभ्रष्टमिवामरपति [^४]कुमा- रकम्, उत्तप्तकल्याणकार्तस्वरभा [^५]स्वरया स्वदेहप्रभया पूर- यन्तमिव वासभवनम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्ष- णैरुपेतम्, आगामिकालपालन [^६]प्रहृष्टयेव श्रिया समालिङ्गितम्, आह्लादहेतुमात्मजं ददर्श । विगतनिमेषनिश्च [^७]लपक्ष्मणा च मुहुर्मुहुः [^८]प्रमृष्टसंघटितानन्दबा [^९]ष्पपटलप्लुततारकेण [^१०]दूरविस्फारितेन स्निग्धेन चक्षुषा पिबन्निवालपन्निव स्पृशन्निव मनोरथसहस्रप्राप्तदर्शनं सस्पृहं निरी [^११]क्षमाणस्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने । समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्ग [^१२]प्रत्यङ्गान्यस्य निरूपयन्प्रीतिवि [^१३]स्तारितलोचनं भूमिपालमवादीत्– 'देव, [^१४]पश्य पश्यास्य कुमारस्य गर्भसंपीडनवशाद [^१५]स्फुटा- वयवशोभस्यापि [ टि ]-- अनुपजातमनुत्पन्नं काठिन्यं जरठता यस्मिन्नेवंभूतं कल्प- तरुपल्लवमिव पारिजातकिसलयमिव । उत्फुल्लं विकसितं रक्ता- रविन्दराशिमिव कोकनदसमूहमिव लोहिताङ्गं मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवतीर्णमागतमिव । विद्रुमेत्यादि । विद्रु- माणां हेम [^1]कन्दलानां यानि किसलयदलानि तैरिव, बाला- तपस्य नवीनातपस्य छेदैः खण्डैरिव, पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव, रचिता निष्पादिता अवयवा अपघना यस्य स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति । सुरवनिता देवयोषितस्तासां कराद्ध- स्तात्परिभ्रष्टममरपतिरिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं यत्कल्याणकारि कार्तस्वरं स्वर्णं तद्वद्भास्वरया दीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं पूरयन्तमिव परिपूर्णी- कुर्वन्तमिव । उद्भासेति । उद्भासमानैः शोभमानैः सहजभूषणैरिव स्वाभाविकालंकारैरिव महापुरुषाश्चक्रवर्त्यादयस्तेषां लक्षणैश्चिह्नै- रुपेतं सहितम् । आगामीति । आगामिकाले भविष्यत्काले यत्पा- लनं रक्षणं तस्मात्प्रहृष्टया हर्षितयेव श्रिया लक्ष्म्या समालिङ्गितमुप- गूहितम् । आह्लादस्य प्रमोदस्य हेतुं कारणम् । अन्वयस्तु प्रागे- वोक्तः । विगतेति । स राजा चक्षुषा तनयाननं निरीक्षमाणो मुमुदे संतोषमवाप । अथ चक्षुर्विशेषयन्नाह — विगतो निमेषो यस्मादत एव निश्चलं स्थिरं पक्ष्म यस्य तत्तेन मुहुर्मुहुर्वारंवारं प्रसृष्टः प्रमार्जितः संघटितः प्रादुर्भूतो य आनन्दबाष्पः प्रमोदाश्रु तस्य पटलं तेन प्लुता क्लिन्ना तारका कनीनिका यस्मिंस्तत्तेन दूरमत्यर्थं विस्फारितेन विस्तारितेन स्निग्धेन चिक्कणेन । एतेनानन्दस्वरूपरसाभिव्यक्तिः सूचिता । पिबन्निव । अत्यादरेणावलोकनं पानमुच्यते। आलपन्नि- वालापं कुर्वन्निव । स्पृशन्निव स्पर्शं कुर्वन्निव । मन इति । मनो- रथानां वाञ्छितानां यत्सहस्रं तेन प्राप्तं दर्शनं यस्य स तम् । सस्पृहं स्पृहासंयुक्तं यथा स्यात्तथेति क्रियाविशेषणम् । कृतेति । आत्मानं च कृतकृत्यं कृतार्थं मेने ज्ञातवान् । शुकनासस्तु समृद्धः संपन्नो मनोरथो यस्यैवंभूतः शनैः शनैरस्य कुमारस्याङ्गं शरीरं प्रत्यङ्गानि हस्तपादादीनि निरूपयन्विलोकयन् । प्रीतीति । प्रीत्या स्नेहेन विस्तारिते लोचने नेत्रे येनैवंभूतं भूमिपालं नृपतिमवादीदभ्यधात् । देवेति । हे देव हे स्वामिन् पश्य पश्य विलोकय विलोकय अस्य कुमारस्य गर्भे यत्संपीडनं तद्वशा [^1]F. प्रवालानां वा । [^2]F. धन्यष्टीकाकारः । शुकनासस्य समृद्धमनोरथताहर्षसूचनाय प्रीतिविस्फारितलोचनं यथा स्यात्तथा निरूपयन्निति क्रियाविशेषण- मिदम् । [^१]G. विरचित. [^२]G. करतल. [^३]G. भ्रष्ट. [^४]G. अमरपतिकुमारम्; अमरकुमारकम्. [^५]G. भास्वरतया. [^६]G. प्रहृष्टया श्रिया. [^७]G. पक्ष्मणा मुहुर्मुहु:. [^८]G. संघट्टिता. [^९]G. बाष्पबिन्दु. [^१०]G. दूरम्. [^११]G. ईक्षमाण:. [^१२]G. बालस्य. [^१३]G. विस्फारितलोचनम्; विस्फारिताक्षः; विस्फारितलोचनः. [^१४]G. पश्यास्य. [^१५]G. अपरिस्फुट. माहा [^१]त्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि तथा हि । अस्य [^२]संध्यांशुकरक्तबालशशिकलाकारे [^३]ललाटपट्टे [^४]नलि- ननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । एतद्विकचपुण्डरीकधवलं कर्णान्तायतं मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचनयुगलम् । [^५]विजृम्भमाणकमलकोशपरिमलमनोहरमिय- मस्य सहजमाननामोदमाजिघ्रतीव [^६]दूरायता कनकलेखेव नासिका । [^७]रक्तोत्पलकलिकाकारमुद्वहती [^८]व [^९]चा- स्याधररुचकम् । रक्तोत्पल [^१०]कलिकालोहिततलौ भगवतो विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । अभिनवकल्पतरुपल्लवकोमलं लेखामयैर्ध्वजरथतुरगातपत्रकमलैरलंकृतमनेकनरेन्द्रसहस्रचूडामणिचक्रचुम्बनो चितं चरण [ टि ] -- [^1]दस्फुटानामव्यक्तानामवयवानामपघनानां शोभा यस्यैवंभूतस्यापि चक्रवर्ती सार्वभौमस्तद्वच्चिह्नानि सामुद्रिक शास्त्रोक्तानि माहात्म्यं महापुरुषत्वमाविर्भावयन्ति प्रकटीकुर्वन्ति । तदेव दर्शयन्नाह - तथा हीति । 'अस्य' इत्यारभ्य 'रुदतः श्रूयते' इतिपर्यन्तं प्रघट्टकः । संध्यांशव एव संध्यां [^2]शुकाः । स्वार्थे कः । तै रक्ता लोहिता या बालशशिनः प्रतिपच्चन्द्रस्य कला तस्या आकार आकृतिर्यस्यैवंविधे ललाटपट्टे भालस्थले नलिननालं मृणालं तस्य भङ्गाच्छेदा दन्तस्तन्तुर्निःसरति तद्वत्तन्वी सूक्ष्मा इयं[^3]ऊर्णा रोमपद्धतिः परिस्फुरति । एतल्लक्षणद्वयं चक्रवर्तिन एव स्यादिति भावः । अरालं वक्रं पक्ष्म नेत्ररोम [^4]यस्मिन्नेवंभूतमेतल्लोच युगलं मुहुर्मुहुरुन्मिषितैर्निमेषोन्मेषैर्वासभवनं धवलयतीव शुभ्री- कुर्वन्नि( करोती )व कीदृशम् । विकचं यत्पुण्डरीकं सिताम्भोजं तद्वद्धवलम् । कर्णान्तं यावदायतं विस्तृतम् । विजृम्भेति । विजृम्भ- माणः सर्वतः प्रसृतो यः कमलकोशस्तस्य परिमलस्तद्वन्मनोहरं चार्वस्था- ननामोदं सहज स्वारसि ( भावि ) कमियं नासिका नासा जिघ्रतीव गन्धोपादानं कुर्व ( करो ) तीव दूरायता दूरमत्यर्थमुच्छ्रिता । केव कनकलेखेव सुवर्णलेखेव रक्तोत्पलं कोकनदं तस्य या कलिका तस्या आकारो यैस्मिन्नेवंभूतमधररुचकमधरलक्षणं रुचकं मङ्गल-द्रव्यं मणिविशेषं वोद्वतीवोद्वहनं कुर्व ( करो ) तीव । 'रुचकं मङ्गलद्रव्ये बीजपूरे ससैन्धवे' इत्यनेकार्थः । चिह्नान्तरमाह -रक्तेति । रक्तोत्पलस्य कलिकावल्लोहितौ रक्तौ तलौ ययोस्तौ भगवतो माहात्म्यवतो विष्टरश्रवस इवे [^5]न्द्रस्येव शङ्खः कम्बुः, चक्रं प्रसिद्धम्, एतयोश्चिह्नं ययोरेतादृशौ करौ हस्तौ । इन्द्रस्यापि करौ शङ्खचक्रलाञ्छितौ भवतः । विष्णोरनुजत्वादिति भावः । कर- योरेव द्वितीयं चिह्नमाह - प्रशस्तेति । प्रशस्ता लक्षणोपेता या लेखा [^6]रेखा तथा लाञ्छितौ चिह्नितौ करौ हस्तौ । चरणयोरप्याह – अभिनवेति। अभिनवाः प्रत्यग्रा ये कल्पतरुपल्लवाः पारिजातकिस- लयास्तद्वत्कोमलं मृदु । इत्येकं लक्षणम् । पञ्चभिर्द्वितीयमाह - लेखेति । लेखामयै रेखानिष्पन्नैः । ध्वजरथतुरगातपत्रकमलैरिति । ध्वजः पताका, रथः स्यन्दनः, तुरगो ययुः, आतपत्रं छत्रम्, कमलं नलिनम्, एतैरलंकृतं भूषितम् । वैभवमाह - अनेकेति । अनेके ये नरेन्द्रा राजानस्तेषां सहस्रं तस्य चूडामणीनां चक्रं समूहस्तेन चुम्बनं [^1]F. पीडनवशादस्फुटा सर्वतोभावेन अव्यक्ता अवयवशोभा यस्य तादृशस्यापि । इत्युचितम् । [^2]F. ' सन्ध्यांशुरक्त' इत्येव पाठः, निरर्थक'क' प्रत्ययस्य कवेर- नभिमतत्वात् । [^3]F. भ्रूयुगलमध्यवर्तिनी 'ऊर्जा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः' इत्यमरः । [^4]F. अस्य अधरो रुचकमिव अधररुचकम् ( बिम्बाकारं मङ्गलद्रव्यम् ) रक्तोत्पलस्य या कलिका तस्या आकारमुद्वहतीव, इति व्याख्योचिता । [^5]F. ' वैकुण्ठो विष्टरश्रवाः' इति विष्णुरेवार्थः । भगवत इति विशेषणस्वारस्यात्, शङ्खचक्रयोर्विष्णौ प्रसिद्धत्वाच्च, इन्द्रस्य विष्टरश्रवःपदेनाप्रयुक्तत्वाच्च सोयं प्रमाद एव । [^6]F. प्रशस्ताः याः अङ्कुशादिरेखा : ताभिरिति बहुवचनमुचि- तम् । [^१]G. आविर्भावयन्तीव. [^२]G. संध्यांशुरक्त. [^३]G. ललाटपट्टे च. [^४]G. नवनलिन. [^५]G. विजृम्भमाणकोश. [^६]G. दूरादायता. [^७]G. रक्तोत्पलनिकरम्; रक्तोत्पलकलिकानुरागम्. [^८]G. इवास्य; एतस्य. [^९]G. चास्याधरकम् ; चास्याधरपुटकम्. [^१०]G. कलिकाकारलोहित. युगलम्। एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते।' इत्येवं कथयत्येव तस्मिन्ससंभ्रमापसृतेन राजलोकेन [^१]द्वारि- स्थितेन दत्तमार्गस्त्वरितगतिरागत्य प्रहर्षोद्गमपुलकिततनुः स्फारी- भवल्लोचनो [^२]मङ्गलकनामा प्रहृष्ट [^३]वदनः पुरुषः पादयोः प्रणम्य राजानं व्यजिज्ञपत् - 'देव, दिष्ट्या वर्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव। [^३]जय [^४]पृथिवीम्। त्वत्प्रसादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्राह्मण्यां मनोरमाभिधानायां राम इव रेणुकायां तनयो जात:, श्रुत्वा देवः प्रमाणम्' इति । अथ [^६]नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतिविस्फारिताक्षः प्रत्यवदत् - 'अहो कल्याणपरम्परा । सत्योऽयं [^७]लोकप्रवा- दो यद्विपद्विपदं संपत्संपद [^८]मनुबध्नातीति । सर्वथा समानसुख- दु:खतां दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमालिङ्ग्य विहसन्स्वयमेव शुकनास- स्योत्तरीयं पूर्णपात्रं जहार । तस्मै च प्रीतमनाः प्रियवचनानुरूपं पुरुषायापरिमितं पारितोषिकमादिदेश । उत्थाय च तथैव तेन चरणवि [^१०]कुट्टुनक्वणि [^११]तनू [ टि ] -- संश्लेषस्तत्रोचितं योग्यमेवंविधं चरणयुगलं पादद्वितयम् । चिह्नान्तरमाह - एष चेति । अस्य बालस्य रुदत एष समीपतरवर्ती दुन्दुभेरिव पटहस्येवातिगम्भीरोऽतिमन्द्रः स्वरयोगो ध्वनिसंबन्धः श्रूयत आकर्ण्यते । इत्येवं पूर्वोक्तप्रकारेण कथयत्येवेति क्रियासंगतनैवकारेण सामानाधिकरण्यमुच्यत इति । तस्मिञ्शुकनाशे कथ- यत्येव ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्चरणयोः प्रणम्य व्यजिज्ञपद्विज्ञापनां चकार । मङ्गलकं विशेषयन्नाह - दत्तेति । दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारि स्थितेन प्रतीहारस्थितेन । पुनः कीदृशेन । ससंभ्रमं सत्वर- मपसृतेन दूरीभूतेन । त्वरितं ( ता ) शीघ्रं ( घ्रा ) गतिर्गमनं यस्य स तथा । प्रहर्षेति । प्रहर्षोद्गमेन प्रमोदोद्गमेन पुलकित ( ता ) कण्ट- कितं ( ता ) तनुर्यस्य सः । स्फारी [^1]भवती विस्तीर्णतां प्राप्य- माणे लोचने यस्य सः । प्रहृष्टं सहर्षं वदनं यस्य सः । देव स्वामिन्, त्वं दिष्ट्या भाग्येन वर्धस एधसे । ते शत्रवः प्रतिहताः क्षयं प्राप्ताः। चिरं बहुकालं जीव प्राणिहि । पृथिवीं वसुंधरां जय गृहाण। त्वत्प्र- सादात्तव माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठायां ब्राह्मण्याम् । इत्यनेन हर्षातिशयः सूचितः। शूद्रायां त्वनौचित्यात् 'तत्रायं जायते स्वतः' इत्युक्तत्वात् । मनोरमेत्यभिधानं नाम यस्याः सा तस्याम् । कस्यां क इव । रेणुकायां तुलजायां राम इव परशु- राम इव तनयः पुत्रो जातः समुत्पन्नः । श्रुत्वेति । श्रुत्वा एतदाकर्ण्य देवो भवान्प्रमाणमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः । अथेति । अथ एतदाकर्णनानन्तरं नृपती राजाऽमृतस्य पीयूषस्य या वृष्टिर्वर्षणं तत्प्रतिमं तुल्यं तद्वचनं मङ्गलकवच आकर्ण्य श्रुत्वा । प्रीतीति । प्रीत्या स्नेहेन विस्फारिते विस्तारिते अक्षिणी येनेति बहु- व्रीहिः । ततो डः समासान्तः डित्वाट्टिलोपः प्रत्यवदत्प्रत्यवोचत् । अहो इत्याश्चर्ये । कल्याणपरम्परा श्रेयःसंततिः । अतो ज्ञायत इति । सत्योऽयमवितथोऽयं लोकप्रवादो जनानां चिरंतनो वचनव्यापारः । इतिवाच्यं दर्शयन्नाह -यदिति । यत् यस्माद्धेतोर्विपदं विपत्, सम्पदं सम्पदनुबध्नात्यनुगच्छति । सर्वथा सर्वप्रकारेण समानं सुखदुःखं ययोस्तयोर्भावस्तत्ता तां दर्शयता ज्ञापयता विधिनापि भवतेव वयमनुवर्तिताः पुत्रोत्पत्तिभ्यां निर्मिताः, यथा पुत्रप्राप्त्या मत्साम्यं तव, तथा भवतेव ममापि साम्यमिति भावः । इत्यभिधायेत्युक्त्वा प्रीत्याभ्यन्तरस्नेहेन विकसितं विमुद्रं मुखं यस्य सः । सरभसं वेगेनालिङ्ग्योपगूहनं कृत्वा विहसन्स्मितं कुर्वन्स्वयमेवात्मनैव शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्वं व्याख्यातस्वरूपं जहार हृतवान् । तस्मै शुभशंसिने पुरुषाय नराय प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमितं संख्यातीतं पारि- तोषिकं संतोषप्रयुक्तं दातुमादिदेशाज्ञां दत्तवान् । उत्थाय चेति । तथैव तेनैव प्रकारेण उत्थायोत्थानं कृत्वा शुकनासभवनं गत्वा द्विगुणतर [^1]F. भवन्ती इत्येवोचितम्, शप्श्यनोर्नित्यं नुम्शासनात् । [^१]G. द्वारस्थितेन. [^२]G. मङ्गल. [^३]G. वदनपुरुषः. [^४]G. जय च. [^५]G. पृथिवीं प्रतिपालय. [^६]G. भूपतिः. [^७]G. जनप्रवाद:. [^८]G. अनुबध्नाति. [^९]G. प्रियवचनश्रवणानुरूपम्. [^१०]G. विघट्टन; कुट्टन. [^११]G. मणिनूपुर. पुरसहस्रमुखरितदिगन्तरेणसम्भसोत्क्षेप [^१]चालितमणिवलया- वलीवाचालित [^२]भुजलतेनोर्ध्वीकृतैरुत्तानतलैःकरपुटैरनिल- [^३]लुलिता [^४]माकाशकमलिनीमिव दर्शयता पर्यस्तमृदित- कर्णपल्लवेन परस्पराङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रम- जलधौताङ्गरागरञ्जित [^५]नवीनवाससा किंचिदवशिष्टतमाल- पत्रेण विलसद्वारविलासिनीहसितैरुन्निद्रकैरववनानुकारं प्रथयता सरभस [^६]वल्गनस्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूरतिलक [^७]लुलितालकलेखेन विप्रकीर्णपिष्टा [^८]तक- पांसुपुञ्जपिञ्जरितकेशपाशेन [^९]प्रनृत्तकलमूककुब्जकिरातवामनबधिरजडजनपुरःसरेणोत्तरीयांशुकग्रीवाबद्धावकृष्ट [^१०]विड- म्बितजरत्कञ्चुकि [^११]कदम्बकेन वीणावेणुमुरजकांस्यताललयानुगतेन कल [ टि ]-- मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा । अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं गन्तुं योग्य इत्यर्थः । अथ चान्तःपुरिकाजनं विशेषयन्नाह –चरणेति । चरणानां पादानां प्रमोदातिरेकाद्यद्विकुट्टनमास्फालनं तेन क्वणितं शब्दितं यन्नूपुरसहस्रं पादकटकसहस्रं तेन मुखरितं वाचालितं दिगन्तरं दिङ्मध्यं येन स तेन । सरभसेति । सरभसे [^1]न वेगेन य उत्क्षेपो भुजानां चालनं तेन चालिता कम्पिता या मणिवलयावली रत्न- कङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य सः तथा तेन । हर्षवशादूर्ध्वीकृतैरुच्चैर्विहितैरुत्तानतलैः संमुखतलैः करपुटैर्हस्तपुटैरनिललुलितां वायुना विलुठितामाकाशकमलिनीं व्योमपद्मिनीमिव दर्श [^2]यता प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिताश्चूर्णिताः कर्णपल्लवा येन स तथा तेन । परस्परेति । परस्परमन्योन्यमङ्गदानां बाहुवलयानां या कोटिरग्रभागस्त- स्याः संघट्टोऽभिघातस्तेने [^3]व दष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघट्टवशाच्छ्रमजलेन धौतः क्षालितो योऽङ्गरागो विलेपनं तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमाल [^4]पत्रं यस्य स तेन । इतरेषां भूषणानां वस्त्राणां च संमर्दवशान्निपतनमभूत् । तमालपत्रं तु महता क्लेशेन सौभाग्यमण्डननिमित्तकत्वाव्यवस्था- पितमिति भावः । विलसन्त्यो या वारविलासिन्यो वारयोषितस्तासां हसितैर्हास्यैः । उन्निद्रेति । उन्निद्राणि विकसितानि यानि कैरववना- नि तेषामनुकारं सादृश्यं प्रथयता विस्तारयता । सरभसेति। सरभसं सवेगं यद्वल्गनं परस्परमङ्गानामामोटनं तेन स्ख [^5]लन्तीर्लोला- श्चपला या हारलता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन । सिन्दूरेति । सिन्दूरं नागजं तेन जनितं यत्तिलकं पुण्ड्रं तत्र श्रमवशाल्लुलिता लुठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन कियतामलकानां तत्रावस्थितिर्न तु सर्वेषामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टातकः । स्वार्थे कः पटवासकस्तस्य पांसुपुञ्जो धूलिसमूहस्तेन पिञ्जरितः पीतरक्ततां प्राप्तः केशपाशो यस्य स तेन । प्रनृत्तेति । प्रवृत्ताः स्वयमेवारब्धताण्डवाः कला मनोज्ञाः, मूका अस्फुटवाचः, कुब्जा: पूर्वोक्तलक्षणाः; किराताः स्वल्पतनवः, वामनाः पूर्वव्याख्या- ताः, बधिरा अकर्णाः, जडा मूर्खाः, एवंविधा जनाः पुरःसरा अग्रगा- मिनो यस्य स तेन । उत्तरीयेति । उत्तरीयांशुकेन प्रच्छादनवस्त्रेण ग्रीवायां कन्धरायां बद्धं संयमितमवकृष्टमाकृष्टमत एव विडम्बितं विडम्बनां प्रापितं जरत्कञ्चुकिकदम्बकं येन स तेन । वीणेति । वीणा वल्लकी, [^1]F. सरभसं वेगेन इत्युचितम् । [^2]F. संमुखतलानां हस्तानामुपरि उत्थापनात् आकाशकमलिनी ( कमलपुष्पयुक्ता कमलिनी, वृक्षः ) दर्शितेत्यर्थः । [^3]F. संघट्टेन पूर्व दष्टानि विद्धानि ततः पाटितानि उत्तरीयांशु- कानि यस्य तेनेत्यर्थ उचितः । [^4]F. तिलकम् । 'तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च' इति हैमः । [^5]F. स्स्वलन्त्य इत्यर्थः। [^6]F. असौष्ठवं टीकाकृतः । 'प्रवृत्यविकल' इति पाठः । 'विशेषनर्तनेन विह्वला मूकाः, इति तदर्थः । [^१]G. चलित; वलित. [^२]G. भुजवलयेन. [^३]G. लुण्ठिताम्. [^४]G. आकाशगङ्गा. [^५]G. चीन; स्वच्छचीन; चीर. [^६]G. चलन. [^७]G. लोलित. [^८]G. पांसुपिञ्जरित. [^९]G. प्रणत्यविकल; प्रनृत्तकल; प्रवृत्तकल. [^१०]G. विलम्बित. [^११]G. कदम्बेन. [^१२]G. अनुयातेन. मधुरमुद्गायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेने [^१]वापगतवाच्यावाच्य [^२]विवेकेन [^३]नृत्तक्रीडाप्रसक्तेनान्तः पुरि- काजनेन [^४]प्रचलमणिकुण्डलाहत [^५]कपोलभित्तिना च विघू- र्णमानकर्णोत्पलेनाधो [^६]विगलितविलोलशेखरेण दोलायमानवै- [^७]कक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गमर्दलपटहनिनादा- नुगत [^८]काहलाशङ्खरवजनितरभसेन चरणसंनिपातर्दा- [^९]यतेव [^१०]वसुधां राजपरिजनेन [^११]प्रवृत्तनृत्येन च चारणगणेन [^१२]विविधमुखवाद्यकृतकोलाहलेन पठता [^१३]गायता चानुगम्यमानः शुकनासभवनं गत्वा द्विगुणतरमुत्सव- मकारचत् । अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्ण च [^१४]कोटिशो ब्राह्मणसात्कृत्वा 'मातुरस्य मया परिपूर्णमण्डल- श्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः' इति स्वप्नानुरूपमेव राजा [^१५]स्वसूनोश्चन्द्रापीड इति नाम चकार । अपरेद्युः शुकना- सोऽपि कृत्वा ब्राह्मणोचिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे । [ टि ] -- वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं प्रसिद्धम्, एतेषां यो लयः साम्यावस्था तदनुगतेन कलं मधुरं यथा स्यात्तथोद्गायता गानं कुर्वता, हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तया मत्तेनेव क्षीबेणेवोन्मत्तेनेव वातग्रस्तेनेव ग्रहगृहीतेनेव ग्रथिलेने [^1]व । अपेति । अपगतो दूरीभूतो वाच्यावाच्ययोर्विवेकः पृथगात्मता यस्मात्स तेन । नृत्तेति । नृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रस- क्तेन लग्नेन । अथ च राजपरिजनेन नृपपरिवारेणानुगम्यमानः । परिजनं विशेषयन्नाह – प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तैराहता कपोलभित्तिर्यस्य स तेन । विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अध इति । अधो विगलितो विलोलश्चञ्चलः शेखरोऽवतंसो यस्य स तेन । दोलायमाना कम्पमाना वैकक्षकीकृतोत्तरासङ्गीकृता कुसुममाला यस्य स तेन । निर्दयमिति । निर्दयमतिशयेन प्रहता वादिता भेर्यो दुन्दुभयः, मृदङ्गा वाद्यविशेषाः, मर्दला मुरजाः, पटहाः प्रसिद्धाः एतेषां यो निनादः शब्दस्तदनुगतस्तन्मिश्रितः काहला वाद्यविशेषः, शङ्खः प्रसिद्धः, तयो रवः शब्दस्तेन जनितो निष्पादितो रभसो [^2]वेगो यस्य स तेन । चरणसंनिपातैः पादविक्षेपैर्वसुधां पृथ्वीं दारयतेव विदीर्णां कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । चारणगणेन कुशीलवसमुदायेन । कीदृशेन । विविधं यन्मुखमे- [^3]व वाद्यं तेन कृतो विहितः कोलाहलः कलकलो येन स तेन । पठतोच्चैः स्वरेण राजस्तुतिं गायता गानं कुर्वता च अनुगम्यमान इत्यस्य सर्वत्रानुषङ्गः । अतीति । अतिक्रान्ते व्यतीते षष्ठीजागरे षष्ठदिवसकृत्ये च सति दशमेऽहनि दशमे दिवसे प्राप्ते सति पुण्ये पवित्रे मुहूर्ते वेलायां गाः सुरभी: कोटिशः सुवर्ण कनकं ब्राह्मणसाद्ब्राह्मणाधीनं कृत्वा विधाय, मया स्वप्ने परिपूर्णमण्डलश्चन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमाविशन्प्रविशन्दृष्टोऽवलोकित इति स्वप्नानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसूनोः स्वपुत्रस्य चन्द्रापीड इति नाम चकार निर्ममे । अपरेद्युरन्यस्मिन्दिने शुकनासोऽपि ब्राह्मणोचिता विप्रकुलयोग्याः सकलाः समग्राः क्रियाः कृत्वा विधाय राजानुमतं नृपेणानुज्ञातमात्मजस्य पुत्रस्य विप्रजनोचितं ब्राह्मणजनयोग्यं वैशम्पायन इति नाम चक्रे कृतवान् । [^1]F. भूताविष्टेनेवेत्युचितम् । [^2]F. आनन्दो यस्य स इत्यर्थः । [^3]F. विविधं यन्मुखवाद्यम् ( मुखद्वारा नानाविधाव्यक्तध्वनिनि:सा रणम् ) । [^१]G. व्यपगत. [^२]G.. विवेकेनेव. [^३]G. नृत्यगीतक्रीडा. [^४]G. प्रचलितमणि. [^५]G. उद्घट्टितकपोल. [^६]G. गलित. [^७]G. वैकक्षिक; वैकक्ष. [^८]G. काहल. [^९]G. विदारयता. [^१०]G. वसुंधराम्. [^११]G. प्रवृत्तनृत्तेन; नृत्ते प्रवृत्त. [^१२]G. विविधवाद्य. [^१३]G. गायता बलगता च. [^१४]G. कोटिशो दत्त्वा. [^१५]G. सूनो:. . क्रमेण कृतचूडाकरणादि [^१]क्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य । तारापीडो [^२]व्यासङ्गविघातार्थं बहिर्नगराद [^३]नुसिप्रमर्धक्रोशमात्रायामम्, अतिमहता तुहिन गिरि [^४]शि- खरमालानुकारिणा सुधा [^५]धवलितेन प्राकारमण्डलेन परि- वृतम्, अनुप्राकारमाहितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाटसंपुटम्, उद्घाटितैकद्वारप्रवेशम्, एकान्तोपरचित- [^६]तुरङ्गवाह्यालीविभागम्, अधःकल्पितव्यायामशालम्, अमरा- गाराकारं [^७]विद्यामन्दिरमकारयत् । सर्वविद्याचार्याणां च संग्रहे यत्नमतिमहान्तमन्वतिष्ठत् । तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा प्रतिषिद्धनिर्गमम्, आचार्यकुलपुत्रप्रायपरिजन- परिवारम्, अपनीताशेष [^८]शिशुजनक्रीडाव्यासङ्गम्, अनन्य- मनसम्, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयांबभूव । प्रतिदिनं चो [^९]त्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनमालोकयामास राजा । [ टि ]-- क्रमेणेति । क्रमेण परिपाट्या कृतो निष्पादितः चूडाकरणं चौलकर्म तदादिकाः क्रियास्तासां कलापो यस्य स तथा तस्य चन्द्रापीडस्य शैशवं बाल्यमतिचक्राम । कौमारं प्राप्तवानित्यर्थः । तारापीडस्तस्य पिता व्यासङ्गश्चित्तस्यान्यत्र गमनं तस्य विघातार्थं दूरीकरणार्थं नगराद्बहिर्विद्यामन्दिरमकारयदित्यन्वयः । अनुसिप्रं सिप्रासमीपवर्ति । कीदृशम् । अर्धक्रोशमात्रमायामो विस्तारो यस्य तत् । अतिमहतात्युच्चेन तुहिनगिरिहिमगिरिस्तस्य या शिखरमाला सानुश्रेणिस्तदनुकारिणा तत्सादृश्यधारिणा, सुधा पूर्वोक्ता तथा धवलितेन शुभ्रीकृतेन प्राकारमण्डलेन वप्रवलयेन परितं वेष्टितम् अनुप्राकारमाहितेन स्थापितेन महता परिखावलयेन परिवेष्टितम् । अतिदृढं [^1]कपाटसंपुटं यस्य तत् । उद्घाटितं यदेकद्वारं तत्र ( तेन ) प्रवेशो यस्मिंस्तत् । एकान्तेति । एकान्ते निर्जनस्थल उपर- चितस्तुरङ्गाणामश्वानां वाह्यालीनां शिबिकादीनां व्यवस्थापनविभा- गो यस्मिंस्तत् । अध इति । अधोभागे कल्पिता व्यायामशाला बाहुयुद्धाभ्यासादियोग्यं स्थलं यस्मिंस्तत् । अमरेति । अमरागारं देवगृहं तद्वदाकारो यस्य तत् । सर्वेति । सर्वविद्याचार्याणां समग्र- विद्याध्यापकानां संग्रहे स्वीकारेऽतिमहान्तमत्युत्कृष्टं यत्नमन्वतिष्ठ- दकरोत् । तत्रेति । तत्रस्थं तन्निवासिनं तं चन्द्रापीडं पञ्जरगतं केसरिकिशोरकमिव कृत्वा विधाय प्रतिषिद्धो निर्गमो बहिर्गमनं यस्य स तम् । आचार्येति । आचार्यस्य कुलं वैशम्पा [^2]यनकुलं तस्य पुत्रप्रायो यः परिजनः स एव परिवारो यस्य स तम् । अपेति । अप- नीतो दूरीकृतोऽशेषायाः समग्रायाः शिशुजनक्रीडाया बालजन- लीलायाः व्यासङ्गो विद्या प्रतिबन्धकं यस्य स तम् । न विद्यतेऽन्य- स्मिन्मनो यस्य स तम् । एकाग्रचित्तमित्यर्थः। अखिलेति । अखिलाः समग्रा या विद्यास्तासां यदुपादानं ग्रहणं तदर्थमाचार्येभ्यः पाठकेभ्यः शोभने प्रशस्ते दिवसे दिने वैशम्पायनो मन्त्रिसुतः स एव द्वितीयो विद्याभ्यसने सहायो यस्यैवंभूतं चन्द्रा- पीडमाचार्येभ्योऽर्पयांबभूवार्पितवान् । अथ च राजा प्रतिदिनं प्रत्यहमुत्थायोत्थायोत्थानं कृत्वा । स्वगृहादिति शेषः । वीप्सायां द्वित्वम् । सह विलासवत्या विरलपरिजनः स्वल्पपरिच्छदस्तत्रैव गत्वैनं चन्द्रापीडमालोकयामास व्यलोकयत् । [^1]F. अतिदृढाभ्यां कपाटाभ्यां संपुटम् पिधानं यस्य तत् । [^2]F. अहो प्रलापष्टीकाकारस्य । आचार्याः अध्यापकाः, कुल- पुत्राः सद्वंशजाताः समानवयसः कुमाराः, एतत्प्रायः ( एतबहुल: ) परिजनो यस्य तम्, इत्यर्थः । [^१]G. बालक्रिया. [^२]G. क्रीडाव्यासङ्ग. [^३]G. अनुक्षिप्रम्. [^४]G. शिखरानुकारिणा. [^५]G. धवलेन; प्राकारधवलेन चन्द्रशालावलयेन विलसितं प्राकार. [^६]G. तुरग [^७]G. विद्यागृहम्. [^८]G. शिशुक्रीडन; शिशुजनक्रीडन. [^९]G. चोत्थाय सह. चन्द्रापीडोऽप्यनन्यहृदयतया तथा [^१]यन्त्रितो [^२]राज्ञाऽचिरेणैव [^३]यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैरा- चार्यै [^४]रुपदिश्यमानाः [^५]सर्वा विद्या जग्राह । मणिदर्पण इवातिनिर्मले तस्मिन्संचक्राम सकल: कलाकलापः । तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, राजनीतिषु, व्यायाम विद्यासु, चाप- चक्र [^६]चर्मकृपाणशक्तितोमरपरशुगदाप्रभृतिषु सर्वेष्वायुध- विशेषेषु, रथचर्यासु, [^७]गजपृष्ठेषु, वीणावेणुमुरजकांस्यतालदर्दु- रपुटप्रभृतिषु वाद्येषु, भरतादिप्रणीतेषु [^८]नृत्तशास्त्रेषु, नारदीय- प्रभृतिषु गान्धर्ववेदविशेषेषु, हस्तिशिक्षायाम्, [^९]तुरङ्गवयोज्ञाने, पुरुषलक्षणे, चित्रकर्मणि, [^१०]पत्रच्छेद्ये, पुस्तकव्यापारे, लेख्य- कर्मणि, सर्वासु [^११]द्यूतकलासु, शकुनिरुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, [^१२]यन्त्र [ टि ]-- 'चन्द्रापीडोऽपि राज्ञा तारापीडेन तथेति तेन प्रकारेण यन्त्रितो नियमितो [^1]यथाऽचिरेणैव स्वल्पकालेनैवानन्यहृदय- तयैकाग्रचित्ततयाचार्यैर्गुरुभिरुपदिश्यमाना अध्याप्यमानाः सर्वाः समग्रा विद्या द्वासप्ततिकला जग्राह गृहीतवान् । आचार्यैः किं कु- र्वद्भिः । स्वं स्वकीयमात्मकौशलं निजचातुर्यं प्रकटयद्भिराविष्कु- र्वद्भिः, पात्रवशादत्युत्कृष्टविद्याग्राहकवशादुपजातः समुत्पन्न उत्सा- हः प्रगल्भता येषां तैः । आचार्यविशेषणम् । मणिदर्पणे रत्नादर्शइवातिनिर्मलेऽतिस्वच्छे तस्मिन्सकलः कलाकलापः संचक्राम संक्रमं कृतवान् । तमेव दर्शयन्नाह - तथा हीति । पदेति । पदं व्याकरणशास्त्रं तस्मिन् । वाक्येति । वाक्यं मीमांसे पूर्वोत्तरे तस्मिन् । प्रमाणं न्यायवैशेषिकसांख्यपातञ्जलरूपं तस्मिन् । धर्मशास्त्रं मन्वादिप्रणीतो ग्रन्थस्तस्मिन् । इतः परं चतुःषष्टिकला आहराजेति । राजनीतयः कामन्दकी प्रभृतिशास्त्राणि तेषु । व्यायामः श्रमस्तदर्थं या विद्या मल्लयुद्धादिकास्तासु । चापेति । चापं धनुः, चक्रं प्रसिद्धम्, चर्म संनाहः, कृपाण: खड्गम्, शक्तिः शस्त्रविशेषः, तोमरः प्रहरणविशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुधविशेषेषु । रथचर्यासु रथपरिवर्तने [^2]षु । गजपृष्ठेषु हस्तिशिरोदेशेषु । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्य- तालं वाद्यविशेषः, दर्दुरपुटं दर्दुरशब्दाकारशब्द वाद्यम्, एतत्प्रभृ- तिषु वाद्येष्वातोद्येषु । भरतादयो विद्वांसस्तैः प्रणीतानि विहितानि नृत्तशास्त्राणि ताण्डवविधानप्रतिपादकग्रन्थास्तेषु। नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुरगस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने । पुरुषाणां नराणां लक्षणेषु सामु- द्रिकप्रतिपादितेषु माषतिलकादिलक्षणेषु । चित्रकर्मण्य।लेख्य- विद्यायाम् । पत्रच्छेद्ये केतकादिपत्र [^3]च्छेदने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे । लेख्यकर्मणि लेखनविद्यायाम् । सर्वासु समग्रासु द्यूतकलासु । शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहग- णिते ज्योतिः शास्त्रे । रत्नपरीक्षासु रत्नानां मण्यादीनां शुद्धाशुद्ध- ज्ञाने । दारुकर्मणि। काष्टकर्मणि दन्ता गजानां रदनास्तेषां व्यापारो व्या(व्यव) हृतिस्तस्मिन् । वास्तुविद्यासु गृहनिर्मितिविद्यासु । आयु- र्वेदे वैद्यकशास्त्रे । यन्त्राणां सूर्यप्रतापादीनां प्रयोगो व्यापारणं तस्मिन् । विषाणां स्थावरजंगमप्रभृतीनामपहरणं दूरीकरणं तस्मिन् । सुर [^4]ङ्गाऽसंधिशिला तस्या उपभेदो भेदनं तस्मिन् । तरणे नद्यादितरणे । लङ्घने कूपकाद्युमल्लङ्घने । प्लुतो व्याघ्रादिवत् [^1]F. पुनः पपात टीकाकारः । तथा तेन प्रकारेण नियन्त्रितः नियमितश्चन्द्रापीडः यथास्वम्यथार्थम् 'यथास्वं तु यथायथम्'इत्यमरः । आत्मकौशलं प्रकटयद्भिः आचार्यै: उपदिश्यमानाः सर्वा विद्या अचिरेणैव जग्राह, इति योजना । [^2]F. रथचालनेषु, आरोहणेषु वा, इत्यर्थ उचितः । [^3]F. यन्त्रच्छेद्ये इति पाठे तु यन्त्रेण दूरवीक्षणादियन्त्रेण परि- च्छेत्तुं शक्ये ग्रहनक्षत्रादिनिर्णये इत्यर्थः । [^4]F. 'सुरङ्ग' इति ख्यातो गुप्तदीर्घपथस्तस्य खनने निर्माणे चेत्यर्थः । [^१]G. नियन्त्रितः. [^२]G. अचिरेणैव कालेन. [^३]G. यथास्वम्. [^४]G. उपदिश्यमानः. [^५]G. सर्वविद्याः. [^६]G. वर्म. [^७]G. गजपृष्ठेषु तुरंगमेषु; गजपृष्ठेषु तुरंगेषु. [^८]G. नृत्य. [^९]G. तुरगवयोज्ञानेषु. [^१०]G. यन्त्रच्छेद्ये. [^११]G. द्यूतकलासु गन्धर्वशास्त्रेषु; द्यूतकलासु गान्धर्वशास्त्रेषु. [^१२]G. मन्त्रप्रयोगे. प्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, [^१]प्लुतिषु इन्द्र- जाले, कथासु, नाटकेषु,आख्यायिकासु, काव्येषु, महाभारतपुराणे- तिहासरामायणेषु, सर्वलिपिषु सर्वदेशभाषासु,सर्वसंज्ञासु, [^२]स- र्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परंकौशलमवा- [^३]प । सहजा [^४]चाजस्रमभ्य [^५]स्यतो वृकोदरस्येव [^६]शैशव एवाविर्बभूव [^७]लोकविस्मयजननी महाप्राणता । यदृच्छया क्रीडताप्यनेन करतला [^८]वलम्बितकर्णपल्लवावनताङ्गाः सिंह- [^९]किशोरकक्रमाक्रान्ता इव गजकलभकाश्चलितुमपि न शेकुः । एकैकेन कृपाणप्रहारेण [^१०]तालतरून्मृणालदण्डानिव लुलाव । सकलराजन्यवंशवनदावानलस्य परशुरामस्येवास्य नाराचाःशिख- रिशिलातलभिदो बभूवुः । दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः [^११]सर्वाभिरन्याभिः कला- भिरनुचकार तं वैशम्पायनः । चन्द्रापीडस्य तु सकलकलाकलाप- परिचयबहुमानेन शुक [ टि ]-- सङ्क्रामादिषु व्युत्क [^1]रणादिरूपास्तासु । इन्द्रजालं मायाकूटनिर्मितं तस्मिन् । कथासु बृहत्कथाप्रभृतिषु । नाटकेष्वभिनयात्मकेषु । आख्यायिकासु वासवदत्ताप्रभृतिषु । काव्यं कविकर्म तेषु । महाभारतं प्रसिद्धम् । तदुक्तम् --- 'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु । तरणं सर्वतीर्थानां तेन भारतमुच्यते' । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु । सर्वलिपिष्वष्टादशविधाक्षरविन्यासेषु । सर्वेषां देशानां भाषासु वचनव्यापारेषु । सर्वा याः संज्ञाः परिभाषास्तासु । सर्वेषु शिल्पेषु विज्ञानेषु । छन्दः [^2]स्वाम्नायेषु । अन्येष्वप्येतव्यतिरि- क्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यमवाप प्राप्तवान् । अस्य कुमारस्याजस्रं निरन्तरमभ्यस्यतो विद्यापरिश्रमं कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एवं सहजा नौपाधिकी लोकानां जनानां विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाहसशक्तिराविर्बभूव प्रकटीबभूव । एतदेव विवृणोति - यदृच्छयेति । यदृच्छया स्वेच्छया क्रीडतापि केलिं कुर्वताप्यनेन कुमारेण गजा- नामनेकपानां कलभा एवं कलभकाः । स्वार्थे कः । 'कलभस्त्रि- शदब्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको बालस्तस्य [^3]क्रमौ पादौ ताभ्यामाक्रान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः। कीदृशाः । अनेन करतलेनावलम्बिता गृहीता ये कर्णपल्लनास्तैरवनतान्यङ्गानि येषां ते तथा । कर्णे धृत्वैव नम्रीकृता इति भावः । अन्यदप्याह - एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलिनदण्डानिव लुलाव चिच्छेद । सकलेति । अस्य नाराचा बाणाः शिखरिशिलातलभिदो बभूवुः । अस्य किंविशिष्टस्य । सकलाः समग्रा राजन्या राजान- स्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य । वनवह्निसदृशस्येत्यर्थः । कस्येव । परशुरामो जामदग्न्यस्तस्येव । यथा तस्य बाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयोग्येनोत्थापनोचितेन । अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोहदण्डेन श्रममकरोत्परिश्रममकार्षीत् । ऋते चेति । 'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनान्यशब्दार्थयुक्तायाः पञ्चम्या न विरोधः । महाप्राणताया ऋतेऽन्याभिः सर्वाभिः कलाभि- र्वैशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राह्मणपुत्रत्वात्तस्मिन्नापेक्षिता साहसशक्तिरिति भावः । चन्द्रेति । चन्द्रापीडस्य वैशम्पायनः परं मित्रमासीदित्यन्वयः । तत्र हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानैकदेशास्तासां कलापः समूहस्तदर्थ यः परिचयः [^1]F. व्याघ्रदुल्लम्फनम् । [^2]F. पिङ्गलादिप्रणीतछन्द:शास्त्रेषु च । [^3]F. क्रम आक्रमण तेनाक्रान्ता इत्येवार्थ:। [^१]G. प्लुतिषु आरोहणे, रतितन्त्रे; प्लुतिषु आरोहणावरोहणे, रतितन्त्रेषु. [^२]G. शिल्पेषु सर्वशिल्पिषु. [^३]G. सर्वकौशलम्. [^४]G. श्रमम्; अस्य श्रमम् ; चाजस्रश्रमम्. [^५]G. अभ्यस्यतो वृकोदरस्य. [^६]G. शैशवमेन. [^७]G. सर्वलोक. [^८]G. आवलम्बितः; आकुञ्चित. [^९]G. किशोर. [^१०]G. बाल एव तालतरून्. [^११]G. सर्वविद्याभिः. २२ का० नासगौरवेण सहपांसुक्रीडनतया सहसंवृद्धतया च सर्वविश्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि तमुष्णकरमिव वासरोऽ [^१]नुगच्छन्न क्षणमपि विरहयांचकार । एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनी- योऽमृतरस इव सागरस्य, सकललोक [^२]हृदयानन्दजननश्चन्द्रो- दय इव प्रदोषस्य, बहुविधरागविकारभङ्गुरः सुरधनु:कलाप इव जलधरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इवकल्पपाद- पस्य, अभिनवाभिव्यज्यमानरागरमणीयः सूर्योदय इव कमल- वनस्य, विविधलास्य विलासयोग्यः कलाप इव शिखण्डिनो यौवना- रम्भः प्रादुर्भवन्रमणीयस्यापि द्विगुणां रमणीयतां पुपोष । लब्धाव- सरः [^३]सेवक इव निकटीबभूवास्य मन्मथः । लक्ष्म्या सह वितस्तार वक्षःस्थलम् । बन्धुजनमनो [ टि ]-- संस्तवस्तत्कृतबहुमानेन संमानेन, शुकनासस्य गौरवेण पूज्यत्वेन, सह सार्धं यत्पांसुना धूल्या क्रीडनं खेलनं तस्य भावस्तत्ता तया, सह सार्धं संवृद्धः संवर्धितस्तस्य भावस्तत्ता तया । चकारो हेतुसमुच्चयार्थः । मित्रं विशेषयन्नाह- सर्वेति । सर्वो यो विश्रम्भो विश्वासस्तस्य स्थानमाश्रयो द्वितीयं हृदयमिव । एतेन सर्वथाभेदो दर्शितः । निमेषमप्यभिचलनमात्रमप्येकाकी तेन वैशम्पायनेन विना स्थातुं न शशाक न समर्थो बभूव । वैशम्पायनोऽप्युष्णकरं सूर्यं वासर इव दिवस इव तं चन्द्रापीडमनुगच्छन्पश्चाद्वजन्क्षणम- प्यक्षिस्पन्दनमात्रमपि न विरहयांचकार न [^1]विरक्तो बभूव । एवमिति । एवं पूर्वोक्तप्रकारेण तस्य चन्द्रापीडस्य सर्वविद्यापरिचयं कलादिकाभ्यासमाचरतः कुर्वतः । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य विलोभनीयो लोभजनको यौवनारम्भो यौवनं बाल्यात्परं वयस्तस्यारम्भः प्रादुर्भवन्प्रकटीभवन् रमणीय- स्यापि मनोहरस्यापि द्विगुणां पूर्वतो द्विभागाधिकां रमणीयतां शोभातिरे [^2]कतां पुपोष । कीदृशः सकललोकानां समग्रजनानां हृदयस्य स्वान्तस्यानन्दजननः प्रमोदोत्पादकः । कस्येव । सागरस्य समुद्रस्यामृतरस इव पीयूषद्रव इव । प्रदोषस्य यामिनीमुखस्य चन्द्रोदय इव । जलधरसमयस्य मेघकालस्य सुरधनुःकलाप इन्द्र- चापसमूह इव, बहुविधा अनेकप्रकारा ये [^3]रागास्तेषां ये विका- रा विकृतयस्तैर्भङ्गुरो वक्र: । उभयोर्विशेषणम्, यौवनारम्भस्या- प्येतादृशरूपत्वात् । कल्पपादपस्य पारिजातस्य कुसुमप्रसव इव पुष्पोद्गम इव मकरध्वजस्य कंदर्पस्यायुधभूतः। शस्त्रभूतः। उभयो- र्विशेषणम्, द्वयोरपि कामोद्दीपकत्वात् । अभीति । अभिनवो नूत- नोऽभिव्यज्यमानः प्रकटीक्रियमाणो यो रागस्तेन रमणीयो मनोहरः इदमपि द्वयोर्विशेषणम् । उभयत्र रागोदयसद्भावात् । कमलवनस्य सूर्योदय इव । विविधो यो लास्यविलासो नृत्यविलासस्तस्य योग्य उचितः । उभयोर्विशेषणम् । शिखण्डिनो मयूरस्य कलाप इव प्रचलाक इव । अस्य चन्द्रापीडस्य लब्धावसरः प्राप्त प्रस्तावः सेवक इव भृत्य इव मन्मथः कंदर्पो निकटीबभूव समीपवर्त्यभूत् । इत्यनेन चन्द्रापीडस्य मन्मथाधीनत्वं नास्तीति सूचितम् । एतदेव विवृणोति - लक्ष्म्येति । लक्ष्म्या सह श्रिया सह वक्षःस्थलं भुजान्त- रस्थलं वितस्तार विस्तीर्ण बभूव । बन्धुजनानां कुटुम्बजनानां मनो-रथैर्वाञ्छितैः सहोरुदण्डद्वयं सक्थियुगलमापूर्यत पूर्णं बभूव । सातिशयमजनिष्टेति भावः । अरिजनेन शत्रुजनेन सह मध्यभागोऽवलग्नप्रदेशस्तनिमानं कृशत्वमभजताश्रयत् । त्यागेन दानेन सह नितम्बभाग आरोहप्रदेशः प्रथिमानं [^1]F. न तत्याज इत्यर्थः । 'न वियुक्तो बभूव' इति फलितार्थो वा उचितः । [^2]F. शोभातिरेकमित्यर्थः । [^3]F. रागा विषयाभिलाषाः, नीलपीतादिवर्णाश्च । [^4]F. 'रमणीयस्यापि रमणीयतां पुपोष', इत्यत्र सर्वेषां वाक्यानामन्वयः । [^१]G. गच्छन्क्षणमपि. [^२]G. हृदयनयनानन्द. [^३]G. नवसेवकः; अनुसेवकः. रथैः सहापूर्यतोरुदण्डद्वयम् । अरिजनेन सह तनिमानमभजत मध्यभागः । त्यागेन सह प्रथिमानमाततान नितम्बभागः । प्रतापेन सहारुरोह रोमराजिः । अहितकलनालकलताभिः सह प्रलम्बता- मुपययौ भुजयुगलम् । चरितेन सह धवलतामभजत लोचनयुगलम् । आज्ञया सह गुरुर्बभूव [^१]भुजशिखरदेशः । स्वरेण सह गम्भी- रतामाजगाम हृदयम् । [^२]एवं च क्रमेण समारूढ यौवनारम्भं परिसमाप्त [^३]समग्र- कलाविज्ञानमधीताशेषविद्यं चावगम्यानुमोदितमाचार्यैश्चन्द्रापीडमा- नेतुं राजा बलाधिकृतं बलाहकनामानमाहूय [^४]बहुतुरगबलपदा- तिपरिवृतमतिप्रशस्तेऽहनि प्राहिणोत्। स गत्वा विद्यागृहं [^५]द्वाः- स्थैः स [^६]मावेदितः प्रविश्य क्षितितला [^७]वलम्बितचूडामणि- ना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्तमात्रं बलाहकश्चन्द्रापीड- मुपसृत्य दर्शितविनयो व्यजिज्ञपत् – "कुमार, महाराज: समाज्ञाप- यति- 'पूर्णा नो मनोरथाः । अधीतानि शास्त्राणि । [ टि ]-- महत्त्वमाततान विस्तारमवाप । 'तनु विस्तारे' लिटि रूपम् । प्रतापेन कोशदण्डप्रसवतेजसा सह रोमराजिस्तनूरुहश्रेणिरारु- रोहारूढा बभूव । 'रुह जन्मनि' इत्यस्य लिटि रूपम् । अहितेति । अहितकलत्राणां शत्रुस्त्रीणामलकलताभिः केशलताभिः सह भुज- युगलं बाहुयुग्मं [^1]प्रलम्बतां दीर्घतामुपययौ प्राप । चरितेनाचारेण सह लोचनयुगलं नेत्रयुग्मं धवलतां [^2]शुभ्रतामभजत प्रा- पत् । आज्ञया निर्देशेन सह भुजशिखरदेशः स्कन्धप्रदेशः । 'अंसो भुजशिरः स्कन्धे' इति कोशः । [^3]गुरुर्महान्बभूवाभूत् । स्वरेण शब्देन सह गम्भीरतां गाम्भीर्यतां हृदयं स्वान्तमाजगामागमत् यद्य- पि लक्ष्म्या विस्तारस्य मनोरथेषु पूर्णत्वस्यैवमरिजने कृशत्वादेः स्वस्ववाक्यादेव लाभेऽपि सातिशयत्वं व्यङ्ग्यम् । एवमिति । एवं पूर्वोक्तप्रकारेण समारूढः प्राप्तो यौवनारम्भो येन स तम् । परिसमाप्तं समग्रकलाविज्ञानं यस्य स तम् । अधीता अशेषविद्या येनैवंभूतं चन्द्रापीडमवगम्य ज्ञात्वाचार्यैरध्यापकैरनु- मोदितं श्लाघितम् । अथ राजा चन्द्रापीडमानेतुं बलेन [^4]धाम्ना- धिकृतं सहितं बलाहकनामानं पुरुषभृत्यमाहूयाह्वानं कृत्वा बहवो ये तुरगा अश्वास्तेषां बलं साधनं पदातिः ( तयः ) पत्ति (त्तय) स्ताभ्यां परिवृतं सहितमतिप्रशस्तेऽतिशोभनेऽहनि दिने प्राहिणोत्प्रेषयामास । सेति। स बलाहको विद्यागृहं गत्वा द्वाःस्थैर्द्वारपालकैः समावेदितो निवेदितः प्रविश्य प्रवेशं कृत्वा क्षितितले वसुधापीठेऽवलम्बित आश्रितः चूडामणिः शिरोमणिर्यस्यैवंविधेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य स्वभूमिसमुचिते [^5]स्वस्य भूमौ यत्समुचितं योग्यं तस्मिन्नासने विष्टरे राजपुत्रेण नृपपुत्रेणानुमतोऽनुज्ञातो राजसमीप इव नृपसंनिधाविव सविनयं यथा स्यात्तथा न्यषीदत्तस्थौ । स्थित्वा चेति । मुहूर्तमात्रं स्थित्वावस्थानं कृत्वा बलाहकश्चन्द्रापीडमुपसृत्य समीपे गत्वा दर्शितः प्रकटीकृतो विनयः सेवकार्थो येनैवंभूतो व्यजिज्ञपद्विज्ञापनां चकार । हे कुमार, महाराजस्तारापीड: समा- ज्ञापयत्याज्ञां ददाति । तदेवाह - पूर्णेति । नोऽस्माकं मनोरथा- श्चिन्तितानि पूर्णाः संपूर्णाः जाता इति शेषः । अधीतानि पठितानि [^1]F. बाहुयुग्मं प्रलम्बतां दीर्घताम्, शत्रुस्त्रीणाम् अलकलता लतावल्लम्बमानाः केशाश्च प्रलम्बतां लम्बितताम् (भाविभर्तृविरहेण असंयमनात् ) उपययौ , इत्यर्थः । [^2]F. नेत्रयुग्मं धवलताम्, भाचारश्च बाल्यचापल्यदोषराहित्यरूपं स्वच्छत्वमभजत । [^3]F. अंसदेशो विशालः, श्राज्ञा च गुरुः गौरववाहिनी सर्वेषां शिरोधार्येत्यर्थः । [^4]F. बलाधिकृतं सेनाध्यक्षमित्यर्थः । अहो टीकाकारस्य बुद्धिः ! । [^5]F. स्वोचिता या भूमि: ( स्थानम्, राजपुत्रस्य वामपार्श्वम्) तत्र समुचिते इत्यर्थः । [^१]G. शिखरदेशे. [^२]G. एवं क्रमेण. [^३]G. सकल. [^४]G. बृहत्तुरग. [^५]G. द्वारपैः. [^६]G. प्रवेशितः. [^७]G. विलम्बित; चुम्बित. [^८]G. व्यजिज्ञापयत्. शिक्षिताः सकला: कलाः । [^१]गतः सर्वा [^२]स्वायुधविद्यासु परां प्रतिष्ठाम् अनुमतोऽसि [^३]विनिर्गमाय विद्यागृहात्सर्वाचार्यैः । उप- गृहीतशिक्षं गन्धगजकुमारकमिव [^४]वारिविनिर्गतमवगतसकलकला [^५]कलापं पौर्णमासीशशिनमिव [^६]नवोद्गतं पश्यतु त्वां जनः । व्रजन्तु सफलतामतिचिरदर्शनोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अय [^७]म- त्र भवतो दशमः [^८]संवत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपि [^९]ण्डिते [^१०]नामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा [^११]दर्शनम [^१२]खिलमातृभ्योSभिवाद्य च [^१३]गुरूणामपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च । संमानय राजलोकम् । [^१४]पूजय द्विजातीन् । परिपालय प्रजाः । आनन्द-य बन्धुवर्गम् । अयं [^१४]च त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । [ टि ]-- शास्त्राणि कामन्दकीप्रभृतीनि । सकलाः समग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वास्वायुधविद्यासु धनुरादिविद्यासु पराम- निर्वचनीयस्वरूपां प्रतिष्ठां महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्य- सनमन्दिराद्विनिर्गमाय निःसरणायानुमतोऽनुज्ञातः । न केवलं महा- राजस्यानुज्ञामात्रं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्यैरप्य- नुमतोऽसि। उपगृहीतशिक्षमुपगृहीता गुरोः सकाशाच्छिक्षा शास्त्रा- भ्यासादिरूपा येनैवंभूतं त्वां जनो लोकः पश्यतु विलोकयतु क- स्मात्कमिव । वारी गजबन्धनी तस्माद्विनिर्गतं बहिरागतं गन्धगजकुमारकमिव । अत्र गन्धशब्दोपादानेन हस्तिनो मुख्यत्वं सूचि- तम् । पुनरुपमानान्तरं प्रदर्शयन्नाह - सकलेति । [^1]अवगता ज्ञाताः प्राप्ताश्च सकलाः समग्रा याः कलाः षोडश द्वासप्ततिर्वा तासां कलापः समूहो येन स तम् । नवोद्गतं नूतनोदितं पौर्णमासी- शशिनमिव राकाचन्द्रमिव । अतिचिरेण कालेन यद्दर्शनमीक्षणं तत्रोत्कण्ठितानि सोत्कलिकानि लोकलोचनानि जननेत्राणि सफ- लतां साफल्यं व्रजन्तु । गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वाण्यन्तःपुराण्यतीव समुत्सुकान्यतिसोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः । संवत्सरो वर्षो भवतस्तव विद्यागृहमधि- वसतोऽधितिष्ठतः । अत्र 'अधिशीङ्स्थासाम्—' इत्याधारे द्वितीया । अथ च षष्ठं वर्षमनुभवंस्त्वं प्रविष्टोऽसि । विद्यागृहमिति शेषः । एव- मनेन प्रकारेण संपिण्डितेन संकलितेनामुना षोडशेन वर्षेण त्वं प्रवर्धसे वृद्धिं गच्छसि । तदिति हेत्वर्थे । कृतकृत्यत्वादिति भावः । अद्यप्रभृतीतो निर्गत्य दर्शनोत्सुकाभ्योऽखिलमातृभ्यो दर्शनं दत्वा- भिवाद्य च पादग्रहणं कृत्वा गुरूणामपगतं नियन्त्रणं निरोधो यस्यैवंभूतो यथासुखं राज्यसुखानि नवयौवनललितानि च विलसितान्यनुभव साक्षात्कुरु । संमानय राजलोकम् । यथायोग्यं संमानदानेन राजलोकं वशीकुर्वित्यर्थः । द्विजातीन्ब्राह्मणान्पूजय । वस्त्रादिप्रदा- नेनाराधयेत्यर्थः । प्रजाः प्रकृतीन् (तीः) परिपालय रक्षां कुरु । बन्धुवर्गं स्वजनवर्गमानन्दय प्रमोदय । अयं चेति । अयं प्रत्यक्षोप- लभ्यमानस्त्रिभुवने त्रिविष्टप एकमद्वितीयं रत्नम् । स्वजातिषु सर्वो- त्कृष्टमित्यर्थः । आविष्टलिङ्गत्वान्नपुंसकत्वम् 'वेदाः प्रमाणम्' इतिवत् । अनिलो वायुः गरुडो गरुत्मान्, तयोः समः सदृशो जवो वेगो यस्य स तथा । इन्द्रायुध इति नाम यस्यैवंविधस्तुरङ्गमोऽश्वो महाराजेन स्वामिना प्रेषितः प्रहितो द्वारि विद्यागृह [^1]F. 'अधिगतसकलकलाकलापम्' इत्येव पाठः । अधिगतः सकलानां ( षोडशानाम् ) कलानां कलापो येन तादृशः पूर्णमासी- चन्द्रः । अधिगतः सकलानां चतुःषष्टिकलानां कलापो येन तादृशचन्द्रापीड इति च व्याख्या। अवगत इति ज्ञातार्थपाठस्तु चन्द्रापीड- पक्ष एव समन्वयेत् । [^१]G. गतोसि. [^२]G. सर्वायुध. [^३]G. निर्गमाय. [^४]G.वारिबन्दाद्विनिर्गतसकल; वारिबन्धाद्विनिर्गतमधिगतसकल. [^५]G. कलापकम्. [^६]G. उद्गतं. [^७]G. अत्रभवतः. [^८]G. वत्सर:. [^९]G. आपीडितेन. [^१०]G. अधुना. [^११]G. अखिलाभ्यो मातृभ्यः. [^१२]G. मातृकाभ्य:. [^१३]G. गुरुनपगत. [^१४]G. परिपूजय. [^१५]G. च ते. एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा [^१]'जलधिजलादुत्थितमेयोनिजमिदमश्वरत्नमासादितं मया महा- राजाधिरोहणयोग्यम्' इति संदिश्य [^२]प्रहितः । दृष्ट्वा [^३]च निवेदितं लक्षणविद्भिः– 'देव, यान्युच्चैःश्रवसः श्रूयन्ते लक्षणानि तैर- यमुपेतः । नैवंविधो भूतो भावी वा तुरङ्गमः' इति। तदयमनुगृह्यतामधिरोहणेन । इदं च [^४]मूर्धाभिषिक्तपार्थिवकुलप्रसूतानां विन- योपपन्नानां शूराणामभिरूपाणां [^५]कलावतां च कुलक्रमागतानां राजपुत्राणां सहस्रं [^६]परिचारार्थमनुप्रेषितं तुरङ्ग [^७]मारूढं द्वारि प्रणामलालसं प्रतिपालयति" । [^८]इत्यभिधाय विरतवचसि बलाहके चन्द्रापीड: पितुराज्ञां शिरसि कृत्वा नवजलधरध्वानगम्भी- रया गिरा 'प्रवेश्यतामिन्द्रायुधः' इति निर्जिगमिषुरादिदेश । अथ [^९]वचनानन्तरमेव प्रवेशितम्, उभयतः [^१०]खलीनककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामव- कृष्यमाणम्, अतिप्रमाणम्, ऊर्ध्वकरपुरुषप्राप्यपृष्ठभागम्, [ टि ]-- प्रतोल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसीकाधिपतिना यवनाधीशेन देवस्य स्वामिनस्त्रिभुवनाश्चर्यमिति कृत्वे- ति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इतिवाच्यमाह - इद- मश्वरत्नं मयासादितं प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरो- हण आरोहणे योग्यं समुचितम् । अस्मिन्नर्थे हेतुमाह - जलधीति। जलधिजलात्समुद्रोदकादुत्थितमत एवायोनिजं पुंस्त्रीसंबन्धादनुत्प- न्नम् । दृष्ट्वा चेति । लक्षणविद्भिः शालिहोत्रशास्त्रज्ञैर्दृष्ट्वा निरीक्ष्य । तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन्, यान्युच्चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः । एवंविध एतादृ- शस्तुरङ्गमो न भूतः पूर्वं नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणेनानुगृह्यतामनुग्रहविषयीक्रियताम्। इदं राजपुत्राणां सहस्रं परिचारार्थं सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणा- नन्तरं पश्चात्प्रेषितमिति भावः । एतदेव विशिनष्टि - मूर्धाभिषि [^1]क्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्तत्र प्रसृतानामुत्पन्नानां, विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभि- रूपाणां मण्डितानाम्, कलावतां विज्ञानवताम्, कुलक्रमा- गतानां परम्परयागतानाम्, तुरङ्गमारूढमश्वाधिरूढं द्वारि प्रतोल्यां प्रणामलालसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा बलाहके विरतवचसि सति चन्द्रापीडः पितुराज्ञां जनकनिदेशं शिरसि मस्तके कृत्वारोप्य । नवेति । नवो यो जलधरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः प्रवेश्य- तामानीयतामित्यादिदेशाज्ञां दत्तवान् । अथ एतद्वचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामानमश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्य यथासंभवं द्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह-खलीनेति । खलीनकं मुखयन्त्रणं तस्या कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपदं कृतं विहितमाकुञ्चन आकर्षणे प्रयत्नो याभ्यामेवंविधाभ्यां पुरुषाभ्यामुभयतोऽवकृष्यमाणमितस्ततो विक्षिप्यमाणम् । अतिप्रमाण- मतिमहान्तम् । ऊर्ध्वमुच्चैः करो यस्यैवंभूतेन पुरुषेण प्राप्यः स्प्रष्टुं योग्यः पृष्ठभागो यस्य स तम् । अस्य व्यादानस्वभावमाह [^1]F. ब्राह्मणेभ्यः क्षत्रियासु जाता मूर्धाभिषिक्ताः । यथाविधि राज्यासनेऽभिषिक्ता वा मूर्धाभिषिक्ता इत्यपि संप्रदायः । [^१]G. जलनिधि. [^२]G. प्रहितम्. [^३]G. निवेदितं च. [^४]G. मूर्धाभिषिक्तानाम्. [^५]G. कुलवताम्. [^६]G. परिवारार्धम्. [^७]G. अधिरूढम्. [^८]G. अभिधाय विरराम. [^९]G. वचनान्तम्. [^१०]G. खलीनकथनक. आपिबन्तमिव संमुखागतमखिलमाकाशम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण द्वेषारवेण पूरितभुवनोदरविवरेण निर्भर्त्सयन्त- मिवालीकवेगदुर्विदग्धं गरुत्मन्तम्, अति [^१]दूरमुन्नमता जवनि- रोधस्फीतरोषघुरघुरायमाण [^२]घोरघोणेन शिरो [^३]भागेन [^४]निजदर्पवशादुल्लङ्घनार्थमाकलयन्तमिव त्रिभुवनम्, असित- पीतहरितपाटलाभिराखण्डलचापानुकारिणीभिर्लेखाभिः [^५]क- ल्माषितशरीरम्, आस्तीर्ण [^६]विविधवर्णकम्बलमिव कुञ्जरकल- भम्, कैलासतटाघातधातुधूलिपाटलमिव हरवृषभम्, असुररुधिर- पङ्कलेखालोहित सटमिव पार्वतीसिंहम्, रंहःसंघातमिव मूर्तिमन्तम्, अनवरतपरिस्फुरत्प्रोथ [^७]पुटोन्मुक्तसूत्कारेणातिजवापीतमनि- लमिव नासिकाविवरेणोद्वमन्तम् अन्तःस्खलितमुखरखली नखर- शिखरक्षोभजन्मनो लालाजलभुवः [^८]फेनपल्लवानुदधिनिवास- परिपीतामृतरसगण्डूषानिवोद्गिरन्तम्, अत्यायत [^९]मतिनिर्मांस- तया समुत्कीर्णमिव वदनमुद्वहन्तम्, [^१०]आननमण्डलनिहिता- रुणमणिसमुद्गतैरंशुकलापैरुपेतेनावसक्तरक्तचामरेणेव निश्च [ टि ]-- आपिबेति । संमुखागतमभिमुखागतमखिलं समग्रमाकाशं व्योमापिबन्तमिवास्वादयन्तमिव । निजजवेनेत्यध्याहारः । अतीति । अतिनिष्ठुरेणातिकठिनेन मुहुर्मुहुः प्रकम्पितमुदररन्ध्रं जठरविवरं येनैवंभूतेन हेषारवेण हेषाशब्देन । कीदृशेन । पूरितेति । पूरितं व्याप्तं भुवनोदरविवरं येन स तेन । अलीको वितथो यो वेगो जय- स्तेन दुर्विदग्धं मिथ्याभिमानिनं गरुत्मन्तं सौपर्णेयं निर्भर्त्सयन्तमिव तिरस्कारं कुर्वन्तमिव । क्रियास्वभावमाह - अतीति । अतिदूर- मतिशयेनोन्नमतोर्ध्वं [^1]कुर्वता शिरोभागेनोत्तमाङ्गप्रदेशेन । कीदृशेन । जवस्य वेगस्य यो निरोधः स्खलना तेन स्फीतो बहुलो रोषः क्रोध- स्तेन घुरघुरायमाणा घुरघुरेतिशब्दं कुर्वाणा घोरा क्रूरा घोणा नासि- का य(स्य ) स्मिन् स तेन। निजः स्वकीयो यो दर्पोऽहं- कारः तद्वशात् उल्लङ्घनार्थमतिक्रमणार्थं त्रिभुवनं त्रिविष्टपमाकल- यन्तमिव विचारयन्तमिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - असितेति । आखण्डलस्येन्द्रस्य यच्चापं धनुस्तदनुकारिणीभि- रसितपीतहरितपाटलाभिर्लेखाभिः कल्माषितं कर्बुरितं शरीरं देहो यस्य स तम् । कर्बुरशरीरादेवोत्प्रेक्षामाह - आस्तीर्णेति । आस्तीर्ण आच्छादितो विविधवर्णो विचित्ररागः कम्बलो रल्लको यस्मिन्नेता- दृशं कुञ्जरकलभमिव । कैलासस्य रजताद्रेर्यस्तटाघातो वप्रप्रघात- स्तस्य या धातुधूलिगैरिकक्षोदस्तया पाटलं श्वेतरक्तं हरवृषभमिवे- श्वरधवलमिव । असुरस्य यो रुधिरपङ्को रक्तकर्दमस्तस्य या लेखा ततिस्तया लोहिता रक्ताः सटाः केसरा यस्यैवंविधं पार्वतीसिंहमिव । रंहो वेगस्तस्य संघात समूहमिव मूर्तिमन्तं देहधारिणम् । क्रिया- स्वभावमाह - अनवरतेति । अनवरतं निरन्तरं परिस्फुरदितस्ततः प्रसरत्प्रोथो मुखाग्रं तस्य पुटादुन्मुक्तो यः सूत्कारोऽव्यक्तः शब्द- स्तेनातिजवेन वेगेनापीतमास्वादितमनिलमिव वायुमिव नासिका- विवरेण नासारन्ध्रेणोद्वमन्तं बहिर्निष्कासयन्तम् । द्रव्यस्वभावमाहअन्तरिति । अन्तर्मध्ये स्खलितं स्खलनां प्राप्तं मुखरं वाचालं यत्ख- लीनं [^2]कवीयं तस्य खरं लोहकण्टकयुक्तं यच्छिखरमग्रं तस्मा- द्यः क्षोभः परिश्रमस्त [^3]ज्जन्मोत्पत्तिर्येषां ताँल्लालाजल [^4]भू- रुपादानं येषां तान्फेनपल्लवान्फेनो मुखकफ उदधौ समुद्रे यो निवासोऽवस्थानं तत्र परिपीतो योऽमृतरसः पीयूषरसस्तस्य गण्डूषानिव चुलुकानिवोद्गिरन्तं वमन्तम् । अत्यायतमतिविस्तीर्णम् । जातिस्वभावमाह - अतीति । अतिनिर्मांसतया सर्वथा [^1]F. उन्नमता ऊर्ध्वं गच्छता इत्येव व्याख्योचिता । सघुरघुरशब्दं शिरोभागस्योर्ध्वोनमनेन गर्वास्त्रिभुवनमुल्लङ्घयितुं वितर्कयन्तमिवे- त्युत्प्रेक्षा । [^2]F. कविका, इत्यर्थः । [^3]F. तस्मात् जन्म उत्पत्तिर्येषां तानिति व्याख्योचिता । [^4]F. लालाजलात् मुखस्रावजलात् भवन्ति ते लालाजलभुवः तानिति व्याख्या । [^१]G. उन्नमता च; अवनमता प्रतिक्षणमतिदूरमुन्नमता च; अवनमता प्रदक्षिणमतिदूरमुन्नमता च. [^२]G. माणघोणेन. [^३]G. मुखेन. [^४]G. निजजवदर्पवशात् ; निजजवदर्पावेशात्. [^५]G. कल्मिषित; कल्मषित. [^६]G. आस्तीर्णविचित्रवर्णकम्बलम्; आस्तीर्णकम्बलम्. [^७]G. प्रोथोन्मुक्तफूत्कारेण; पुटोन्मुक्तफूत्कारेण. [^८]G. फेनलवानुदधीनिवासय. [^९]G. निर्मांसतया. [^१०]G. गण्ड. लशिखरेण कर्णयुगलेन विराजमानम्, उज्वलकनक [^१]शृङ्ला- रचितरश्मिकलापकलितया लाक्षालोहितलम्बलोलसटासंतानया जलनिधिसंचरणलग्नविद्रुमपल्लवयेव शिरोधरयोपशोभितम्, अति- कुटिलकनकपत्रलताप्रतानभङ्गुरेण पदे पदे रणितरत्नमालेन स्थू- लमुक्ताफलप्रायेण तारागणे [^२]नेव संध्या [^३]रागमरुणेनाश्वा- लंकारेणालंकृतम्, अश्वालंकारनिहितमरकतरत्नप्रभाश्यामायमान- देहतया गगनतलनिपतितदिवसकररथ [^४]तुरङ्गम [^५]शङ्का- मिवोपजनयन्तम्, अतितेजस्वितया जवनिरोधरोषवशात्प्रति [^६]रोमकूपमुद्रतानि सागर [^७]परिचयलग्नानि मुक्ताफलानीव [^८]स्वेदलवजालकानि वर्षन्तम्, [^९]इन्द्रनीलमणिपादपीठानुकारिभिरञ्जनशिलाघटितैरिवानवरतपतनोत्पतनज [ टि ]-- विगतमांसतया समुत्कीर्णमिव यन्त्रकर्षितमिव वदनमान- नमुद्वहन्तं धारयन्तम् । आननमण्डलं मुखमण्डलं तत्र निहिताः स्थापिता येऽरुणमणयः पद्मरागरत्नानि तेभ्यः समुद्गतैर्निःसृतैरंशु- कलापैर्दीप्तिसमूहैरुपेतेन सहितेनावसक्तानि लग्नानि रक्तचाम- राणि लोहितवालव्यजनानि यस्मिन्नेवंभूतेनेव निश्चलं स्थिरं शिखर- मग्रं यस्य तेन कुर्णयुगलेन श्रवणद्वितयेन विराजमानं शोभमानम् । तस्य शृंङ्गारवर्णनद्वारा विशेषयन्नाह - उज्ज्वलेति। उज्ज्वला निर्मला या कनकश्रृङ्खला सुवर्णशृङ्खला तया रचिता निर्मिता ये रश्म- योऽश्वानां संयमनाधोरज्जवस्तेषां कलापस्तेन कलितया सहितया । लाक्षेति । लाक्षा जतु तल्लोहिता रक्ता लम्बा विस्तीर्णा लोलाश्चपला या सटाः स्कन्धकेसरा [^1]स्तस्याः संतानं यस्याः सा तया । जल- निधौ समुद्रे यत्संचरणं भ्रमणं तत्र लग्ना आसक्ता विद्रुमपल्लवा: प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अलंकारद्वारा विशेषयन्नाह - अतीति । अतिकुटिला- तिवक्रा या कनकपत्रलता सुवर्णपत्रभङ्गिस्तस्याः प्रतानं समूहस्तेन [^2]भङ्गुरेण वक्रेण, पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन । स्थूलमुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंभूतेनारु- णेन रक्तेनाश्वालंकारेणालंकृतं भूषितम् । अलंकारस्यारुणत्वान्मु- क्ताफलानां च श्वेतत्वादुत्प्रेक्षामाह - तारेति । तारागणेन विभूषितं संध्यारागमिव । संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते रक्तिमा । पुनरुपमानान्तरमाह - अश्वेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यश्मगर्भानि तेषां प्रभा कान्तिस्तया श्यामायमा- नः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तया गगनतलादाकाशतलान्निपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दनं हयस्तस्य शङ्कामारेकामुपजनयन्तमिवोत्पादयन्तमिव । सूर्यरथाश्वानां हरितत्वादिति भावः । अतितेजस्विनो भावोऽतितेज- स्विता तया जवस्य वेगस्य यो निरोधोऽन्तरान्तरा [^3]रुन्धनं तस्माद्यो रोषः क्रोधस्तद्वशाच्चेति हेतु [^4]द्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्गतानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्वेदबिन्दु- समूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । श्वेतत्वसाम्यादुपमा [^५]नान्तर- माह - सागरेति । सागरपरिचयात्समुद्रोत्पन्नत्वाल्लग्नानि मुक्ता- फलानीव रसोद्भवानीव । शालिहोत्रोक्ताः खुरपुटेषु गुणाः । तद्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्सादृश्यधारिभिः । अतोऽञ्जनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्प्लुत्यो- त्प्लुत्य [^1]F. लाक्षावत् लोहितः लम्बो लोलश्च सटासंतान: ( केसरसमूहः) यस्या इति व्याख्योचिता । [^2]F. अश्वाभरणे अतिकुटिलानां स्वर्णनिर्मितपत्राकाराणां लतानां समूहो लग्नः, अत एव वक्राणां लतानां समूहवशात्तदाभरणमपि भङ्गुरं वक्रमस्तीत्याशयः । [^3]F. रोधनमित्यर्थः । [^4]F. अयमपि प्रमादः । अतितेजस्विता स्वेदोद्गमे न हेतुः । किन्त्वयमर्थः - अतितेजस्वितावशात् यो जवनिरोधे रोषः (तेज- स्विनो वेगरोधे कृते रोष: स्वाभाविक एव ) तस्मात्प्रतिरोमकूपम् ( प्रतिरोमकूपात्) उद्गतानि । [^5]F. अन्नोपमैव नास्ति, उपमानान्तरं कीदृक् ? । स्वेदलवजाल- कानि मुक्ताफलानीव वर्षन्तमित्युत्प्रेक्षा । [^१]G. रुचिर. [^२]G. इव च. [^३]G. रागानुरागेण. [^४]G. तुरग. [^५]G. शङ्काम्. [^६]G. कूपात्समुद्गता; कूपात्समुद्गतानिः. [^७]G. परिचयाल्लग्नानि. [^८]G. स्वेदजललव. [^९]G. इन्द्रनीलपाद. नितविषम [^१]खरमुखरवैः पृथुभिः खुरपुटैर्जर्ज रितवसुंधरैर्मुरज- वाद्यमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, [^२]जवप्रतिपक्षमिव गरु- त्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोच्चैः- श्रवसः, [^३]वेगसब्रह्मचारिणमिव मनसः, हरिचरणमिव सकलवसुंधरोल्लङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदि- वसमिव [^४]विकसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्ड्र- काङ्कितमुखम्, कमलवनमिव मधुपङ्कपिङ्गकेसरम्, भीष्मदिवस- मिव महायाम [^५]मुग्रतेजसं च, भुजङ्गमिव सदागत्यभिमुखम्, उदधिपुलिनमिव [ टि ]-- गमनं तस्माजनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो [^1]मुखरवो येषां तैः । पृथुभिर्विस्तीर्णैर्जर्जरिता जर्जरीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्यमिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् । पुनरप्यस्य शालिहोत्र- प्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितु- मस्य विशेषणान्याह- उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमिव प्रसारितमिवोरसि हृदये। श्ल‍- क्ष्णीकृतमिव सौन्दर्यविशेषमापादितमिव मुखे वदने । प्रसारितमिव विस्तीर्णीकृतमिव कंधरायां ग्रीवायाम् । उल्लिखितमिवोत्कीर्णमिव पार्श्वयोः प्रसिद्धयोः । नानागुणव्यञ्जकरेखोप रेखावत्त्वादित्युपमानम् । द्विगुणीकृतमिव द्विगुणतामापादितमिव जघनभागेऽग्रभागे। जय- प्रतिपक्षमिव वेग [^2]दस्युमिव गरुत्मतो गरुडस्य । त्रैलोक्यसंच- रणसहायमिव त्रिविष्टपगमनसखायमिव मारुतस्य वायोः । उच्चैः- श्रवस इति । उच्चैःश्रवा अमृतमथनसमुत्पन्नोऽश्वो देवराजस्येतस्यां- शावतारमिवांशेनावतरणमिव । मनसो वेगस्य सब्रह्मचारिणं सती- र्थ्यमिव । ऋद्धस्य राजमातङ्ग इतिवन्मनसोऽभिन्नत्वेऽपि संबन्धः । सकलवसुंधरोल्लङ्घनक्षमं हरिचरणमिव जनार्दनपादमिव । वरु- णस्य प्रचेतसो यो हंसस्तमिव । इत उभयविशेषणानि - मानस- प्रचारं मानसं मनस्तद्वत्प्रचारो गमनं यस्य स तम् । पक्षे मानस- सरसि प्रचारो यस्येति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशय- प्रतिपादनार्थम् । मध्विति । मधुमासो वसन्तमासस्तस्य यो दिवसो दिनं चैत्रमासदिनं तद्वदिव विकसितो योऽशोकः कङ्केतिद्वत्पाटलं श्वेतरक्तम् । पक्षे विकसितानि विनिद्राण्यशोकानि कङ्केलिपुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशोकैः पाटल इति वा भालस्थश्वेतपट्टाभिप्रायेणाह- व्रतिनमिति । व्रतिनं संन्यासिनमिव भस्मवत्सितं शुक्लं यत्पुण्ड्रकं तिलकं तेनाङ्कितं चिह्नितं मुखं यस्य स तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य नलिनस्य यद्वनं तदिव । मधुयुक्तो यः पङ्को वचाकर्दमस्तेन पिङ्गानि बभ्रूणि रक्तपीतानीत्यर्थः। केसराणि स्कन्धरोमाणि यस्मिन् । उक्तं हि वैद्यके ———'अश्वस्य वातादिदोषशान्तये मधुयुक्त- वचादिचूर्णस्य पङ्कस्तेन तनुलेपनम्' । पक्षे मधु पुष्परसस्तस्य पङ्कः कर्दमस्तेन पिङ्गानि केसराणि यस्मिन् । ग्रीष्मस्य निदाघस्य दिवसो वासरस्तमिव महायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् । उग्रतेजसं च। विशेषणमुभयत्र समानम् । भुजंगः सर्पस्तद्वदिव सदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् । पक्षे सदागतिवायुस्तस्याभिमुखम् । वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिनं सैकतं तद्वदिव शङ्खाः कम्बवस्तेषां मालिका पङ्क्तिः सैवाभरणं भूषणं यस्येत्यभङ्गश्लेषः । अश्वानां गले शङ्खमालिकाबन्धनस्य सर्वत्र प्रसिद्धत्वात्समुद्रपुलिनोपमा- नम् । भीतं भयाकुलं तद्वदिव स्तब्धौ निश्चलौ कर्णौ श्रोत्रे यस्येत्य- भङ्गश्लेषः । विद्याधरा व्योमचारिणस्तेषां राज्यमाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहन उद्वहनं उचितं योग्यम् । [^1]F. अग्रभागध्वनिः । [^2]F. वेगे प्रतिस्पर्धिनमित्यर्थः । [^१]G. विषमस्वरमुख, विषममुख. [^२]G. जय. [^३]G. वेगरथ. [^४]G. विकासित. [^५]G. उग्रतेजसा भुजगम्. शङ्खमालिकाभरणम्, भीतमिव स्तब्धकर्णम्, विद्याधरराध्यमिव चक्रवर्तिनरवाहनोचितम्, सूर्योदयमिव सकल [^१]भुवनार्घार्हम्, अश्वातिशयमिन्द्रायुधमद्राक्षीत् । दृष्ट्वा च तमदृष्टपूर्वममानुषलोकोचिताकारसखिलत्रिभुवनराज्यो- चितमशेषलक्षणोपपन्नमश्वरूपातिशयमतिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श [^२]विस्मयं हृदयम् । आसीच्चास्य मनसि -'सरभस [^३]परिवर्तन [^४]वलितवासुकिभ्रमितमन्दरेण मथ्नता [^५]जलधिजलमिदमश्व [^६]रत्नमनभ्युद्धरता किं नाम रत्नमुद्धृ- तं [^७]सुरासुरलोकेन । अनारोहता च मेरुशिलातलविशालमस्य पृष्ठमाखण्डलेन किमासादितं त्रैलोक्यराज्यफलम् । उचैःश्रवसा विस्मितहृदयो वञ्चितः खलु जलनिधिना शतमखः । मन्ये च भग- वतो नारायणस्य चक्षुर्गोचर [^८]मियता कालेन नायमुपगतो येनाद्यापि [^९]तां गरुडारोहणव्यसनितां न [^१०]त्यजति । अहो खल्वति[^११] शयितत्रिदश [^१२]राज्यसमृद्धिरियं तातस्य [ टि ]-- पक्षे चक्रवर्ती यो नरवाहनो वत्सराजसुतो विद्या [^1]धर- स्तस्योचितं योग्यम् । विद्याधरादिषु नरवाहनराजकीयत्वस्य प्रसि- द्धत्वादित्युपमानम् । सूर्योदयमिव सकलं समग्रं भुवनं जगदेवार्घो मूल्यं तस्याहं योग्यम् । सर्वोत्कृष्टमित्यर्थः । पक्षे सकलभुवनस्यार्घः पूजा तस्यार्हम् । योग्यमित्यर्थः । 'सकलभुवननाथार्हम्' इति कुत्र- चित्पाठः । तत्र समग्रभुवनस्य नाथः स्वामी तस्यार्हं योग्यम् । पक्षे सकलभुवनस्य नाथ आशीस्तस्या अर्हं योग्यम् । ध्वान्तध्वंसकत्वेन त्रिभुवनेन मङ्गलशंसनमस्य क्रियत इति भावः । अश्वेषु तुरङ्गमेष्व- तिशयमत्युत्कृष्टमेवंविधमिन्द्रायुधमद्राक्षीदपश्यदिति । अन्वयस्तु प्रागेवोक्तः । तमदृष्टपूर्वमनवेक्षितपूर्वं दृष्ट्वा विलोक्यातिधीरप्रकृतेरप्यतिसाहस- भावस्यापि चन्द्रापीडस्य हृदयं विस्मयमाश्चर्यं पस्पर्श स्पृष्टवदि- त्यन्वयः । तमेव विशेषयन्नाह- अमान्विति । अमानुषो यो लोको देवलोकस्तस्योचितो योग्य आकार आकृतिर्यस्य स तम् । अखिलं समयं त्रिभुवनराज्यं यस्य, अखिलं त्रिभुवनराज्यं वा तस्योचितं योग्यम् । अशेषलक्षणैरुपपन्नं सहितम् अश्वस्य यद्रूपं तदे [^2]वा- तिशयमत्युत्कृष्टं यस्मिन् । अस्य चन्द्रापीडस्य मनसि चित्त इदमा- सीद्बभूव। तदेवाह - सरभसेति। सरभसं वेगवत्तरं परिवर्त [^3]ना- र्थं वलितो बद्धो यो वासुकिः सर्पस्तेन भ्रमितो यो मन्दरो मेरुस्तेन जलधिजलं समुद्रपानीयं मथ्नता विलोडयतेदमश्वरत्नमनभ्युद्धरता- गृह्णता सुरासुरलोकेन । किमिति प्रश्ने । नामेति कोमलामन्त्रणे । रत्नं वसूद्धृतम् न किंचिदुद्धृतमिति भावः । अनेति । मेरुशिला- तलवद्विशालं विस्तीर्णमस्य पृष्ठं पृष्ठप्रदेशमनारोहतानधिरोहता- खण्डलेनेन्द्रेण त्रैलोक्यराज्यफलं किमासादितम् । न किमपीत्यर्थः । उच्चैरिति । खलु निश्चयेन उच्चैःश्रवसा कृत्वा विस्मितहृदयो हर्षि- तहृदयो जलनिधिना समुद्रेण शतमख इन्द्रो वञ्चितो विप्रतारितः गुणातिशयं प्रतिपादयितुं वितर्कमाह - मन्ये चेति । अहमिति मन्य इति जाने । इयता कालेन भगवतो नारायणस्य चक्षुर्गोचरं नेत्रविषयमयं नोपगतो न प्राप्तः । हेतुमाह - येनेति । येन हेतुनाप्येताव- त्कालपर्यन्तमपि । तां गरुडारोहणव्यसनितां वैनतेयाधिरोहणा- सक्ततां न त्यजति न जहाति । अहो इत्याश्चर्ये । खलु निश्चयेन तातस्य मत्पितुरियं राज्यलक्ष्मीराधिपत्यश्रीरतिशयि [^1]F. नरवाहनो न विद्याधर:। किन्तु उदयनाभिधानाद्वत्सराजाद्वासवदत्तानाम्न्यां महिष्याां नरवाहनदत्तख्य: पुत्रो बभूव यो हि विद्याधरराज्यमधितिष्ठाविति कथासरित्सागरे कथा। [^2]F. अश्वरूपो यः अतिशयः लोकातीतः कश्चिदतिरेकः ( अद्भुतः पदार्थः ) तम् । [^3]F. सरभसं यत्परिवर्तनं मथनं तत्र चलितो वेष्टितः । [^१]G. भुवनाभ्यर्हम्. [^२]G. विस्मयः. [^३]G. विवर्तन. [^४]G. चलित. [^५]G. जलनिधि. [^६]G. अभ्युद्धरता; अनुद्धरता पूर्वम्. [^७]G. सुरलोकेन. [^८]G. इयतापि. [^९]G. तं गरुडाधिरोहणव्यसनिता. [^१०]G. परित्यजति. [^११]G. अतिशय. [^१२]G. राज. २३ का० राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरण- तामागच्छन्ति । अतितेजस्वितया महाप्राणतया च [^१]सदैवतेवेय- मस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । न हि सामान्य- वाजिनाममानुषलोकोचिताः सकलत्रिभुवनविस्मयजनन्य ईदृश्यो भवन्त्याकृतयः । दैवतान्यपि हि मुनिशापवशादुज्झित [^२]निज- शरीराणि [^३]शापवचनोपनीतान्येतानि शरीरान्तराण्यध्यासत एव । श्रयते हि [^५]पुरा किल स्थूलशिरा नाम महातपा मुनिरखिल- [^६]त्रिभुवनललामभूतामप्सरसं रम्भाभिधानां शशाप । सा सुर- लोकमपहायाश्वहृदये निवेश्यात्मानमश्वहृदयेति विख्याता [^७]व- डवा [^८]मृत्तिकावत्यां शतधन्वानं नाम राजानमुपसेवमाना मर्त्य- लोके महान्तं कालमुवास । अन्ये च महात्मानो मुनिजनशापपरि- पीतप्रभावा नानाकारा भूत्वा बभ्रमुरिमं लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मद [ टि ]-- तातिक्रान्ता त्रिदशराज्यसमृद्धिर्देवाधिपत्यश्रीर्ययैवंविधा वर्तते । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति । एवंविधान्यपि पूर्वो- क्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगद्दुःप्राप्याणि रत्नान्युपकरणतां परिभोग्यतामागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासाहसपराक्रमतया । चकारः समुच्चयार्थः । अस्य अश्वस्येयमाकृतिराकारः सदैवता स्व [^1]र्वा- सिना सहवर्तमाना । अधिष्ठितेति यावत् सत्यमेतद्यस्मादारोहणे- धिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवता- नधिष्ठिततुरङ्गमाणाममानुषलोकोचिताः सुरलोकयोग्याः सकलं समग्रं यत्त्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपा- न्तरग्रहणं संभवतीत्याशयेनाह- दैवतेति । हीति निश्चितार्थे । दैव- तान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहबला- दुज्झितानि व्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनी- तानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीराद्भिन्नेन्द्रियायत- नान्यध्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये । हि निश्चये । श्रूयते आकर्ण्यते। पुरा पूर्वं स्थूलशिरा नाम महातपा मुनि- रखिलं समग्रं यत्त्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभरणभूतामप्सरसं स्वर्वधूम् । क्वचिदेकवचनान्तोऽप्ययम् । तदुक्तम् — स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा इति' इति । रम्भाभिधानां रम्भा- नाम्नीं शशाप शापं दत्तवान् । सा सुरलोकं देवलोकमपहाय विहा- याश्वहृदये तुरङ्गमोरस्यात्मानं निवेश्य संस्थाप्य । अश्वशरीरं परि- गृह्येत्यर्थः । अत एवाश्वहृदयेति विख्याता वडवा मृत्तिकावत्यां मृत्तिकावती नगरी तस्यां भवं शतधन्वानं नाम राजानमुपसेवमाना भजमाना मर्त्यलोके नृलोके महान्तं भूयांसं कालं समयमुवासो- षितवती । अत्र कथा – 'स्थूलशिरा नाम महर्षिः कुशसमिदर्थं पर्यटन् महति श्वभ्रान्तरे पताम: 'परित्रायस्व परित्रायस्व' इत्युच्चतरं ध्वनिमशृणोत् । गत्वा च तत्र क्षामशरीरान्पुरुषांस्तत्र लग्नान्प्रलम्बमानानपश्यत् । पृष्टाश्च 'के यूयम्' इति । ते च पितर इत्यवोचन्'त्वया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्वदुपरमे पुंनाम्नि नरके पतिष्यामः' इति । तच्छ्रुत्वा महर्षीं रम्भाभिधानामेव योषितमिद- मुक्तवान् – 'त्वां कामयामः' इति । तया चोक्तम्-'यथाज्ञापयसि । किंतु देवकार्यं कृत्वागच्छामि । क्षम्यतां तावत्' इति । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'वडवा भव' इति सा शप्ता 'नरनारायणविग्रहावधिश्च शापो भविष्यति' इति x x अन्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनानां तप- स्विनां शापेनानुग्रहेण परिपीत [^1]F. सदैवता कयाचिद्देवतयेव अधिष्ठिता। [^१]G. सर्वदैवतेयम्. [^२]G. शरीरकाणि. [^३]G. शापवचनबलोपनीतानि. [^४]G. शरीराणि. [^५]G. पुरा स्थूलशिराः. [^६]G. भुवन. [^७]G. वडवा भूत्वा. [^८]G. मूर्तिकावत्याम्. न्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्नेवारुरुक्षुरासनादुदतिष्ठत् । मनसा च तं तुरङ्गम [^१]मनुपसृत्य 'महात्मन्नर्वन्, योऽसि सोऽसि । नमोस्तु ते । [^२]सर्वथा मर्पणीयोऽयमारोहणातिक्र- मोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभवभाञ्जि भवन्ति इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुल- शिरः केसरसटाहति [^३]कूणिताकेकरतारकेण तिर्यक्चक्षुषा विलोक्य मुहुर्मुहुस्ताडयता क्षितितलमुत्खातधूलिधूसरितक्रोडरोम- राजिना दक्षिणखुरेणारो [^४]हणायाह्वयन्निव स्फुरितघ्राणविवर घर्घरध्वनिमिश्रं मधुरम [^५]परुषहुंकारपरम्परानुबद्धमतिमनोहरं हेषारवमकरोत् । अथानेन मधुरहेषिते [^६]न दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारोह चन्द्रापीड:। समारुह्य तं प्रादेशमात्रमिव [^७]त्रैलोक्यमखिलं मन्यमानो निर्गत्य [^८]जलधरविमुक्तो [^९]पलासारपरुषेण जर्जर [ टि ]-- आस्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्येमं लोकं बभ्रुमुर्भ्रमितवन्तः । असं- शयं निःसंशयमनेनापि केनापि महात्मना महापुषेण शापभाजा भवितव्यम् । मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्व- मावेदयतीव ज्ञापयतीव । इति विचिन्तयन्नेवेति ध्यायन्नेव आरुरुक्षु- रारोढुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो बभूव । तं तुरङ्गमम- नुपसृत्य तत्समीपेऽनागत्य मनसैव महात्मन् हे अर्वन् हे अश्व, योऽसि सोऽसि यत्तद्भवसि। अतोऽलक्ष्यस्वरूपायानाकलनीयात्मने ते तुभ्यं नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्षणीयः सहनीयः । अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाञ्जि भवन्तीति हेतोरामन्त्रयांबभूवामन्त्रणं चकार । स इन्द्रायुधोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्रायं स्वाङ्गक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेषावं हेपाशब्दमकरोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह – स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्ध्रं तस्य यो घर्घरध्वनिरव्यक्तः शब्दस्तेन मिश्रं संयुक्तं मधुरं कर्णसुखदमत एवापरुषमकठोरं हुंकारस्य हुंकृतेर्या परम्परा संतानं तयानुबद्धं सहितमत एवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमाङ्गं तस्य या केसरलक्षणा सटा जटा तस्या आहतिराघात- स्तया कूणिता किंचिन्निम्ना आकेकरा किंचिद्वक्रा तारका कनीनिका यस्मिन्नेवंभूतेन चक्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहु- र्मुहुर्वारंवार क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातोत्खनिता या धूलि: पांसुस्तया धूसरिता धूम्रा क्रोडरोमराजिर्भुजान्तरालक- पङ्क्तिर्यस्मिन्नेवंविधेन दक्षिणखुरेणापसव्यशफेनारोहणायाधि- रोहणायाह्वयन्निवाह्वानं कुर्वन्निव । अथेत्यानन्तर्ये । अनेन मधुर- हेषितेन दत्तारोहणाभ्यनुज्ञ इव दत्तारोहणेऽभ्यनुज्ञा यस्यैवविध इव चन्द्रापीड इन्द्रायुधमारुरोहाधिरूढः । तमिति । तमिन्द्रायुधं समारुह्यारोहणं कृत्वाखिलं समग्रं त्रैलोक्यं त्रिविष्टपं प्रादेशमात्र- मिति तर्जन्यङ्गुष्ठे वितते सति यन्मानं तत्प्रादेशः कथ्यते । यदाह -- 'प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्ण- वितस्तयो यथाक्रमम्' इत्यभिधानचिन्तामणिः । तद्वदिव मन्यमानो ज्ञाय [^1]मानः ( ? ) । निर्गत्येति । निर्गत्य ततो बहिरागत्य स चन्द्रापीडोऽश्वसैन्यमपश्यदित्यन्वयः । अश्वसैन्यं विशिनष्टि- इन्द्रा- युधं वा । बधिरीकृतमकर्णतां प्रापितं सकलत्रिभुवनविवरं येन तत् । केन । जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्व- त्परुषेण रूक्षेण [^1]F. जानन्नित्यर्थः । [^१]G. उपसृत्य समुपसृत्य. [^२]G. सर्वथा स्थितेन. [^३]G. कूणित. [^४]G. रोहणाय. [^५]G. अपरुषम्. [^६]G. हेषितेन. [^७]G. त्रैलोक्यं मन्यमानः. [^८]G. प्रलयजलधर. [^९]G. उपलसारपातपरुषेण. यतेव रसातलमतिनिष्ठुरेण खुरपुटानां रवेण [^१]रजोनिरुद्धघ्राण- घोरघोषेण च हेषिते [^२]न बधिरीकृतसकलत्रिभुवन [^३]विवरम्, [^४]अशिशिरदीधितिसंस्पर्शरफुरितविमलफलकेनो [^५]र्ध्वीकृ- तेन कुन्तलतावनेनोन्नालनीलोत्पलकलिकावनगहनं सर इव गगन- तलमलंकुर्वाणम्, उद्दण्डमायूरातपत्र [^६]सहस्रान्धकारिताष्टदि- ङ्मुखतया स्फुरितशतमन्युचापकला [^७]पकल्माषमिव जलधर- वृन्दम्, उद्वमत्फेनपुञ्जधवलितमुखतयानवरतवल्गनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव समुद्गतम्, [^८]अदृष्टपर्यन्त- [^९]मश्वसैन्यमपश्यत् । तच्च सागरजलमिव [^१०]चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव संचचालाश्वीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्य [ टि ]-- रसातलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वतेवाति- निष्ठुरेणातिकठिनेन खुरपुटानां शफपुटानां रवेण ध्वनिना । पुनः केन । रजसा निरुद्धमावृतं यद्घ्राणं घोणा तस्य यो घोरघोषो घोर- ध्वनिस्तेन हेषितेन शब्दितेन । चकारः समुच्चयार्थः । पुनः प्रका- रान्तरेण विशेषयन्नाह – अशिशिरेति । अशिशिरदीधितिः सूर्यस्य यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलकं निर्म- लावरणं यस्मिंस्तनोर्ध्वीकृतेनोर्ध्वं स्थापितेन । कुन्तलताः । कुन्तः प्रासः । सरलत्वाल्लतोपमानम् । तासां वनं तेनोर्ध्वं नालानि मृणा- लानि यास्वेवंविधा या नीलोत्पलकलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव [^1]तटाक इव गगनतलमाकाशतलमलंकुर्वाणं शोभां विदधानम् । अत्र लोहफलकस्य नीलत्वसाम्यान्नीलोत्पलोप- मानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम् नीलत्वसाम्याद्गग- नतलस्य सरस उपमानम् । उर्ध्वं दण्डा येष्वेवंविधानि यानि मायू- रातपत्राणि मयूरपिच्छनिर्मितानि छत्राणि तेषां सहस्रं तेनान्धकारि- ता अन्धकारं प्रापिता अष्टौ [^2]दिङ्मुखास्तेषां भावस्तत्ता तया स्फुरितो दीप्यमानः शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदायस्तेन कल्मषं कर्बुरं जलधरवृन्दमिव मेघसमूहमिव । उद्वमद्बहि- र्निःसरद्यः फेनोऽश्वमुखकफस्तस्य पुञ्जस्तेन धवलितानि शुभ्रीकृता- नि यानि मुखानि तेषां भावस्तत्ता तयाऽनवरतं निरन्तरं यद्वल्गन- मन्योन्यसंघट्टस्तेन या चटुलता चञ्चलता तया च प्रलयकालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषां संघा- तमिव समूहमिव समुद्गतं प्रादुर्भूतम् । फेनचटुलत्वसाम्येन सागरो- पमानमिति । अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्। सोऽश्व- सैन्यमपश्यदित्यन्वयस्तु प्रागेवोक्तः । तश्चेति । तच्च सकलमेव समग्रमेवाश्वीयं सैन्यं चन्द्रापीडनिर्गमेन संचचालाचालीत् । केन किमिव । चन्द्रोदयेन सागरजलमिव समुद्रपानीयमिव । अहंपूर्व- महंपूर्वमित्यहमहमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृतौ लालसा लोलुपा राजपुत्रा नृपसुतास्तं चन्द्रापीडं पर्यवार- यन्त परिवेष्टनमकुर्वत । राजसुतान्विशेषयन्नाह –सरभसेति । सर- भसं सवेगमपनी [^1]F. इदमपि सर्वं भ्रामकम् । अशिशिरदीधितेः सूर्यस्य संस्पर्शेन स्फुरितं देदीप्यमानम् ( चमत्कुर्वत् ) विमलं फलकम् अग्रदेशः ( तीक्ष्णाग्रलोहमुखम् ) यस्य तेन, ऊर्ध्वीकृतेन ऊर्ध्वमुखं स्थापितेन, कुन्ता: भल्लाः एव लताः ( लतावल्लम्बाकारत्वात् ) तासां वनेन समूहेन ( करणभूतेन ), उच्चालानां नीलोत्पलकलिकानां वनेन काननेन गहनं नीरन्ध्रं सरः सरोवरमिव गगनतलम् अलंकु- र्वाणं शोभयत् । नीलोत्पलवनेन यथा सरोवरमलंक्रियते तथा कुन्त- समूहेन गगनमलंकृतमित्याशयः । [^2]F. छत्रसहस्रेण अन्धकारितानि ( अन्धकारयुक्तानि कृतानि ) अष्टदिङ्मुखानि येन स मायूरातपत्रसहसान्धकारिताष्टदिङ्मुख- स्तत्तया इन्द्रधनुश्चित्रितं मेघवृन्दमिव स्थितमित्यर्थो बोध्यः। [^3]F. शुभ्रीकृतानि वदनानि यस्मिन्तद्भावः तत्ता तया । इत्यर्थ उचितः । [^१]G. खुररजो; प्रचुररजो. [^२]G. हेषितेन. [^३]G. भुवनं. [^४]G. अशिशिरकिरणदीधितिपरामर्श. [^५]G. ऊर्ध्वीकृत. [^६]G. अन्धकारित. [^७]G. कल्माषितम्. [^८]G. पूर्वं तम्. [^९]G. अश्वीयं सैन्यम्; अप्रमेयमश्वसैन्यम्. [^१०]G. चन्द्रोदयेनेव. शिरसः परस्परोत्पीडनकुपिततुरङ्गम [^१]निवारणायस्ता राज- पुत्रास्तं पर्यवारयन्त । एकैकशश्च प्रतिनाम [^२]ग्राहमावेद्यमाना बलाहकेन विचलितमुकुटपद्मरागकिरणोद्गमच्छलेनानुरागमिवोद्वमद्भिः संघटि [^३]तसेवाञ्जलिमुकुलतया यौवरा [^४]ज्याभिषेककलशावर्जितसलिललग्नकमलैरिव दूरावनतैः शिरोभिः प्रणेमुः । चन्द्रापीडस्तु तान्सर्वा [^५]न्मानयित्वा यथोचितमनन्तरं तुरङ्गमाधिरूढेनानुगम्यमानो वैशम्पायनेन राज्यलक्ष्मी [^६]निवासपुण्ड- रीकाकृतिना सकलराजन्यकुलकुमुदखण्डचन्द्रमण्डलेनेव तुरङ्ग- मसेनास्रवन्तीपुलिनायमानेन क्षीरोदफेनधवलितवासुकिफणामण्डलच्छविना स्थूल [^७]मुक्ताकलापजाल [^८]कावृतेनोपरि चिह्नीकृतं केसरिणमुद्वहतातिमहता [^९]कार्तस्वरदण्डेन प्रियमा- णेनातपत्रेण निवारितातपः, उभयतः समुद्भूयमानचामरकलाप- पवननर्तित [ टि ]-- तानि दूरीकृतानि यान्यातपत्राणि छत्राणि तैः शून्यानि रिक्तानि शिरांसि येषां ते तथा । परस्परेति परस्परमन्योन्यं यत्पी- डनं तेन कुपिताः कोपं प्राप्ता ये तुरङ्गमा अश्वास्तेषां निवारणं निषे- धनं तत्रायस्त उद्यताः । अथ च बलाहकेन नाम [^1]निवेदननियु- क्तपुरुषेण प्रतिनामग्राहं यथा स्यात्तथैकश आवेद्यमाना निवेद्यमा- नाः नामग्रहणे नामग्रहणनियुक्ते वा । 'बलाहकोऽम्बुदे गिरौ' इत्य- नेकार्थः । शिरोभिः प्रणेमुर्नमस्कार: चक्रुः । तमिति शेषः । शिरांसि विशेषयन्नाह — विचलितेति । विशेषेण चलिताः कम्पिता मुकुटाः कोटीराणि तेषां पद्मरागा लोहितमणयस्तेषां किरणानां प्रभाणा- मुद्गमो बहिः प्रचारस्तस्य छलेन मिषेणानुरागं रक्तिमान मुद्वमद्भि- रिवोद्गिरद्भिरिव । संघटीति । संघटितः संगतो यः सेवाया अञ्जलिः स एव मुकुलः कुड्मलस्तस्य भावस्तत्ता तया। शिरसां वर्तुलसम्या- दालिमुकुलस्य कमलमुकुलसाम्याच्छिरःस्थिताञ्जलिमुकुलोत्प्रेक्षा- माह- यौवराज्येति । यौवराज्यस्य योऽभिषेकस्तदर्थं ये कलशाः कुम्भास्तैरावर्जितं गृहीतं यत्सलिलं तत्र लग्नानि यानि कमलानि तैरिव दूरावनतैर्दूरतोऽवनतैर्नम्रीभूतै [^2]श्चन्द्रापीडं पर्यवारयन्ते- त्यन्वयस्तु प्रागेवोक्त: । चन्द्रापीडस्तु नगराभिमुखं प्रतस्थ इत्यन्वयः । तान्सर्वान्राजपुत्रान्यथोचितं यथायोग्यं मानयित्वा संमानं दत्त्वा-नन्तरं पश्चाद्भागेनैव तुरङ्गमाधिरूढेनानुगम्यमानः समनुयायमानः । पुनः कीदृशः । आतपत्रेण छत्रेण निवारितो दूरीकृत आतपो दिन- करप्रकाशो यस्य सः । छत्रं विशेषयन्नाह - राज्येति । राज्यस्याधि- पत्यस्य या लक्ष्मीः श्रीस्तस्य यन्निवासार्थं पुण्डरीकं कमलं तद्वदा- कृतिराकारो यस्य स तेन । सकलानि समग्राणि यानि राजन्यकुला- नि नृपकुलानि तान्येव कुमुदानि कैरवाणि तेषां खण्डं वनं तत्र चन्द्रमण्डलेनेव शशिबिम्बेनेव । छत्रेण राजचिह्नेन राजन्या विक-सितमुखा भवन्तीति भावः । तुरङ्गमसेनाश्ववाहिनी सैव स्रवन्ती तटिनी तस्याः पुलिनायामाने सैकतायमानेन । अत्र विततगहन- गाम्भीर्यादिगुणवत्त्वादश्वसेनाया नद्युपमानम् । क्षीरोदस्य दुग्ध- समुद्रस्य य फेनोऽब्धिकफस्तेन धवलितो यो वासुकिर्नागराजः । वासुकेर्नील [^3]त्वप्रसिद्ध्या एतद्विशेषणम् । तस्य यत्फणामण्डलं तद्वच्छविर्या स तथा तेन । स्थूलमुक्तानाकलापैर्निर्मितजालकैर्गुच्छैरावृतेनाच्छादितेन । उपरीति । उपरि ऊर्ध्वं चिह्नीकृतं लाञ्छनीकृतं केसरिणं सिंहमु [^४]द्वहता धारयतातिमहताति- महीयसा कार्तस्वरदण्डेन सुवर्णदण्डेन कृत्वा ध्रियमाणेन धार्यमाणेन उभयत इति । उभयत उभयपार्श्वयोः समुद्धूयमानो वीज्यमानो यश्चामरकलापो वालव्यजनसमूहस्तस्य यः पवनः समीरणस्तेन नर्तिता लास्यं कारिताः कर्णपल्लवा यस्य स तथा । [^1]F. सेनाध्यक्षेणेत्युचितम् । [^2]F. अयमपि प्रमादः । दूरावनतैः शिरोभिः प्रणेमुरित्येवान्वयः । [^3]F. शेषस्य श्वेतत्वं सुप्रसिद्धम् । अत एव श्वेतच्छत्रस्य वासकि- (शेष) फणामण्डलेन साम्यम् । क्षीरोदफेनैस्तस्य ततोप्यतिशयित- शुभ्रत्वमित्यर्थः । [^4]F. छत्रे सिंहमूर्तिः राजचिह्नत्वेनाङ्कितेत्यर्थः । [^१]G. निवारणायस्ता; निवारणयासितहस्ताः, निवारणयायासि:. [^२]G. ग्रहणम्. [^३]G. संघट्टित. [^४]G. अभिषेकतया. [^५]G. संमानयित्वा. [^६]G. निवासयोग्य. [^७]G. मुक्ताफलककलाप. [^८]G. परिवृतेन. [^९]G. कार्तस्वरेण दण्डेन. कर्णपल्लवः, पुरः प्रधावता [^१]तरुणवीरपुरुषप्रायेणानेकसहस्र- संख्येन पदातिपरिजनेन जय जीवेति च मधुरवचसा [^२]मङ्गल- प्रायमनवरतमुचैः पठता बन्दिजनेन स्तूयमानः, [^३]नगराभिमुखं प्रतस्थे । क्रमेण च तं समासादितविग्रहमनङ्गमिवावतीर्णं नगरमार्गमनुप्राप्त- मवलोक्य सर्व एव परित्यक्तसकलव्यापारो रजनिकरोदयपरि- बुध्यमान [^४]कुमुदवनानुकारी जनः समजनि। [^५]'सत्य[^६]स्मिन्मुखकुमुदकदम्बकविकृताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमतिपुण्यभाजो [^७]यदमानुषोमस्या- कृतिमन्तःसमारूढप्रीतिरसनिःस्यन्दविस्तारितेन कुतूहलोत्तानितेन लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै रूपान्तरधारिणे भगवते चन्द्रापीडच्छद्मने पुण्ड- रीकेक्षणाय' इति वदन्नारचित [^८]प्रणामाञ्जलिर्नगरलोकः प्रणनाम । सर्वतश्च [^९]समुपावृत्त [^१०]कपाटपुटप्रकटवातायनसहस्रतया चन्द्रापीडदर्शनकुतूहलान्नगरमपि समुन्मीलितलोचननिवहमिवाभ- वत् । [ टि ]-- पुर इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण त [^1]त्तुल्येनानेकेषां सहस्रणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः बन्दिजनेन याचकजनेन स्तूयमानो नूयमानः । अनवरतं निरन्तरं मधुरवचसा मिष्टवाक्येन जय जीवेति मङ्गलप्रायं मङ्गलात्मकमुच्चैः पठता पाठं कुर्वता । अन्वयस्तु प्रागेवोक्तः । क्रमेणेति । क्रमेण परिपाट्या तं चन्द्रापीडं नगरमार्गं पुरीपद्धति- मनुप्राप्तमागतमवलोक्य निरीक्ष्य रजनीकरश्चन्द्रस्तस्योदयेनोद्गमेन परिबुध्यमानं विकासं प्राप्यमाणं यत्कुमुदवनं तस्यानुकारी सादृ- श्यकरणशीलः सर्व एव जनो लोकः समजनि बभूव । तमेव विशि- नष्टि – समेति । समासादितः प्राप्तो विग्रहः शरीरं येनैवंभूतमनङ्गं काममिवावतीर्णं गृहीतावतारम् । पूर्वमीश्वरेण शरीरस्य दग्धत्वा त्समासांदितेत्युक्तम् । कीदृशो जनः । परित्यक्तो दूरीकृतः सकल- व्यापारः समग्रव्यापृतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति कार्तिकेयो गुहः कुमारशब्दं [^2]विडम्बयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं विशेषणमाह – मुखेति । मुखान्येव कुमुदानि । विकाससाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता बीभत्साकृतिराकारी यस्य स तथा । अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे । अस्य कुमारस्यामानुषीं देवसंबन्धिनीमाकृतिमाकारं लोच- नयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम इत्यन्वयः । लोचनयुगलं विशिनष्टि - अन्त इति । अन्तः वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहरसरतस्य निःस्यन्दः सारस्तेन विस्ता- रितेन विस्तीर्णीकृतेन । कुतूहलमाश्चर्यं तेनोत्तानितेनोर्ध्वमुखेन । नोऽस्माकमद्य जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वथेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडच्छद्मने पुण्डरीके- क्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदन्निति ब्रुवन्ना- रचितो विहितः प्रणामार्थमञ्जलिर्येनैवंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समु [^3]पावृत्तं समुद्घाटितं कपाटपुटमररसंपुटं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहस्रं गवाक्षसहस्रं तस्य भावरतत्ता तया चन्द्रापीडस्य यद्दर्शनकुतूहलं दर्शनाश्चर्यं तस्मान्नगरमपि [^4]द्रङ्गमपि समुन्मी- लितं विकसितं लोचननिवहं यस्मिन्नेतादृशमिवाभवद्बभूव । अत्रा- वलोकननिमित्तत्वसाम्याद्वातायनसहस्रस्य विकसितनेत्रोपमानम् । [^1]F. तद्बहुलेनेत्यर्थः । [^2]F. स्ववाचकत्वेन स्वीकृत्य कुमारशब्दं कदर्थयतीत्यर्थः । यतो हि मुखानि षड् वदनानि कुमुदानीव तेषां कदम्बकं समूहः, तथा च अस्वाभाविकमुखबाहुल्यात् विकृताकारे कार्तिकेये कुमारशब्दो विडम्बनायै । अस्मिंस्तु कुत्सितो मारो यस्मादिति कुमार इति व्युत्पत्त्या कामादप्यधिकदर्शनीयेऽसिन्कुमारशब्द उपयुज्यत इत्याशयः । [^3]F. समपावृतम् इत्येव पाठः । [^4]F. पुरमिति प्रसिद्धा व्याख्योचिता । [^१]G. वीरप्रायेण. [^२]G. प्रायालापम्. [^३]G. नगराभिमुख. [^४]G. पुष्पककुमुद. [^५]G. सत्यस्मिन्संप्रति मुख. [^६]G. मुखकलपबिडम्बन; मुखकमल. [^७]G. यदि माम् ; यत इमाम्. [^८]G. प्रणामाञ्जलि. [^९]G. समपावृत; समुपावृत. [^१०]G. कषाटप्रकट. अनन्तरं च 'समाप्तसकलविद्यो विद्यागृहान्निर्गतोऽयं [^१]चन्द्रा- पीड: - इति समाकर्ण्यालोकनकुतूहलिन्यः [^२]सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टार्धपरिसमाप्तप्रसाधनव्यापाराः, काश्चिद्वामकरतल- गतदर्पणाः स्फुरितसकलरजनिकरमण्डला इव पौर्णमासीरजन्यः काश्चिदार्द्रालिक्तकरसपाटलितचरणपुटा: कमलपरिपीतबालातपा इव नलिन्यः काश्चित्ससंभ्रमगतिविगलितमेखलाकलापाकुलितचरणकिसलयाः शृङ्खलासंदानमन्दसंचारिण्य इव करिण्यः, काश्चिज्जलधरसमयदिवसश्रिय इवेन्द्रायुधरागरुचिराम्बरधारिण्यः, कश्चिदुल्लसितधवलनखमयूखपल्लवान्नूपुररवाकृष्टगृहकलहंसकानिव चरणपुटानुद्वहन्त्यः काश्चित्करतलस्थित [^३]स्थूलहारयष्टयो रति- मिव मदनविनाशशोकगृहीतस्फटिकाक्षवलयां विडम्बयन्त्यः, काश्चित्पयोधरान्तरालगलितमुक्ता [^४]लतास्तनु विमलस्रोतो- जलान्तरितचक्रवाकमिथुना इव प्रदोषश्रियः, काश्चिन्नूपुरमणिस [ टि ]-- अनन्तरमिति । अनन्तरम् । चन्द्रापीडदर्शनोत्कण्ठया गवाक्षकपाटोद्घाटनानन्तरमित्यर्थः । समाप्ता पारं प्राप्ता सकला समग्रा विद्या यस्य स तथा । विद्यागृहादयं चन्द्रापीडो निर्गत इति समाकर्ण्य श्रुत्वालोकने विलोकने कुतूहलं यासां ता आलोकनकुतू- हलिन्यो ललनाः स्त्रियो हर्म्यतलानि समारुरुहुरारोहणं चक्रुः। सर्व- स्मिन्नेव नगरे ससंभ्रममुत्सृष्टस्त्यक्तोऽर्धपरिसमाप्तः प्रसाधनं प्रति- कर्म तस्य व्यापारो याभिस्ताः। काश्चिद्वामकरतले सव्यपाणितले गतः प्राप्तो दर्पणो मुकुरो याभिस्ताः पौर्णमासीरजन्यः राकात्रिया- मा इव । कीदृश्यः । स्फुरितं स्फुटितं सकलं समग्रं‌ रजनिकर- मण्डलं शशाङ्कबिम्बं यासु ताः । निर्मलत्ववर्तुलत्वसाम्याद्दर्पणस्य चन्द्रोपमानम् । काश्चिदिति । काश्चना योऽलक्तकरसो यावकरस- स्तेन पाटलितं श्वेतरक्तीकृतं चरणपुटं यासां ताः । का इव । नलिन्य इव पद्मिन्य इव । कीदृश्यः । कमलेन परिपीतो बालातपो याभिस्ताः । अत्रालक्तकस्य बालातपसाम्यं चरणपुटानां च कमलेन साम्यं सूचितम् । काश्चिदिति । काश्चन स्त्रियः संभ्रमेण या गतिर्गमनं तया विगलितः स्रस्तो यो मेखलाकलापो रसनाकलापस्तेना- कुलिता व्याकुलीभूताश्चरणकिसलयाः पादपल्लवा यासां ताः । का इव । करिण्य इव हस्तिन्य इव । कीदृश्यः । शृङ्खला प्रसिद्धा तस्याः संदानं बन्धनं तेन मन्दमन्दसंचारिण्यो मन्दमन्दगामिन्यः । अत्र गतिप्रतिबन्धसाम्यान्मेखलायाः शृङ्खलोपमानम् । काश्चिदिति । काश्चनेन्द्रायुधमिन्द्रधनुस्तस्य राग इव रागो येष्वेवंविधानि रुचिरा- ण्यम्बराणि धारयन्तीत्येवंशीलास्तास्तथा । का इव । जलधरसमय- स्य यो दिवसो दिनं तस्य श्रियस्ता इव । इन्द्रायुधं तस्य रागो रक्ति- मा तेन रुचिरं यदम्बरमाकाशं तद्धारिण्यः । काश्चिदिति । काश्चन किं कुर्वत्यः । उद्वहन्त्य उद्वहनं कुर्वत्यः । कान् । चरणपुटान् । तानेव विशिनष्टि-- उल्लसिता उल्लासं प्राप्ता धवला नखमयूखा एव पल्लवा येषु तान्नूपुरवेण पादकटकध्वनिनाकृष्टानाकर्षितान्गृह- कलहंसकान्सद्महंसानिव । काश्चिदिति । काश्चन करतले स्थिता स्थूलहारयष्टिर्यासां ताः किं कुर्वत्यः । रतिं मदनस्त्रियं विडम्बयन्त्यो निराकुर्वत्यः । तामेव विशिनष्टि – मदनेति । मदनस्य कन्दर्पस्य यो विनाशोऽभावस्तस्माद्यः शोकस्तेन गृहीतं स्फटिकाक्षवलयं यया सा ताम् । अतिस्वच्छत्वात्स्फटिकाक्षवलयेन समं मुक्ताफलसाम्यं दर्शितम् । काश्चिदिति । काश्चन स्त्रियः पयोधराणामन्तरालं मध्य- भागस्तत्र गलिता स्रस्ता मुक्तालता यासां ताः । तनु स्तोकं विमलं निर्मलं यत्स्रोतोजलं प्रवाह पानीयं तेनान्तरितं व्यवधानं प्रापितं चक्रवाकमिथुनं रथाङ्गाह्वमिथुनं यास्स्वेवंविधाः । प्रदोषो रजनीमुखं तस्य श्रिय इव शोभा इव । काश्चिदिति । काश्चन योषितो नूपुरमणि- भ्यः समुत्थितं प्रकटीभूतं यदिन्द्रायुधं शक्रधनुस्तस्य भावस्तत्ता तया । परिचयेन संबन्धेन वात्सल्येन वा । अनुगताः पश्चादागता गृहमयू- रिका इव सदन [^१]G. आगच्छति चन्द्रापीड:. [^२]G. सर्वमिन्नगरे. [^३]G. मुक्ताहार. [^४]G. कता विमल. मुत्थितेन्द्रायुधतया [^१]परिचयानुगतगृहमयूरिका इव [^२]विरा- जन्त्य:, [^३]काश्चिदर्धपीतोज्झितमणिचषकाः स्फुरितरागैर्मधुरस- मिवाधरपल्लवैः क्षरन्त्यो हर्म्यतलानि ललनाः समारुरुहुः । अन्याश्च मरकतवातायनविवरविनिर्गतमुखमण्डला विकच कमलकोश- [^४]पुटामम्बरवलसंचारिणीं कमलिनीमिव दर्शयन्त्यो ददृशुः । उदपादि च सहसा सरभससंचलनजन्मा, मधुर [^५]सारणास्फालितवीणारव [^६]कोलाहलबहलः, रसनारबाहूत [^७]सारसरसि- तसंभिन्नः, स्खलित [^८]चरणतलताडित [^९]सोपानजातगम्भीर- ध्वनि [^१०]प्रहृष्टानामवरोधशिखण्डिनां केकारवैरनुगम्यमानः, नवजलधररवभयचकितकल [^११]हंसकोलाहलकोमलः, मकर- ध्वजविजयघोषणानुकारी, परस्परविघट्टनारणित [^१२]तारतरहारमणीनां रमणीनां श्रोत्रहारी, हर्म्यकुक्षिषु प्रतिरवनिर्ह्रादी भूषण- निनादः । [ टि ]-- मयूर्य इव विराजन्त्यः । पूर्वनायिकानामिन्द्रायुधरागरुचिराम्बरपरिधानव स्ववर्णनादेतदुपनानम् । काधि दिति । अर्ध पीतं पानविषयीकृतं येष्वेवंविधा उज्झितास्यक्ता मणिचषका रत्ननिर्मितपानभाजनानि याभिरताः । स्फुरितो देदीप्यमानो रागो रक्तिमा येष्वेवंविधैरधरपल्लवैर्दन्तच्छद किसलयैर्मधुरसमिव कादम्बरीरसमिव क्षरन्त्यः क्षरणं कुर्वव्यः । रक्तत्वसाम्यादधररागस्य मधुरसोपमानमिति भावः । ललना हर्म्यतलानि समारुरुहुरित्यन्वयस्तु प्रागेवोक्तः । अन्याश्चेति । अन्याः काश्चन स्त्रियश्चन्द्रापीडं ददृशुरद्राक्षुः । कीदृश्यः । मरकतस्याश्मगर्भस्य ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिर्गतं बहिरागतं मुखमण्डलं यासां ताः । कमिव । विकचं स्फीतं कमलकोशपुटं यस्यामेवंविधामम्बरतलसंचारिणी व्योमतलगामिनी कमलिनीमिव दर्शयन्त्य आत्मानं प्रकाशयन्त्यः । अत्र नीलत्वसाम्यान्मरकताम्बरयोः साम्यं वर्तुलत्वसाम्यान्मुखकमलयोः सार्म्य च प्रदर्शितम् । ततो भूषणनिनादोऽङ्गाभरणध्वनिः सहसा सद्य उदपाद्युत्पन्नः । अथ ध्वनिं विशेषयन्नाह - सरभसेति । सरभसं सत्वरं यत्संचलनं गमनं तस्माजन्मोत्पत्तिर्यस्य स तथा । मधुरं यथा स्यात्तथा सारणासु तन्त्रीष्वास्फालिता या वीणा वलक्यस्तासां खः शब्दस्तजनितो यः कोलाहलः कलकलस्तेन बहलो दृढः । रसना काञ्ची तस्या रवेण शब्देनाहूता आमन्त्रिता ये सारसा लक्ष्मणास्तेषां रसितं शब्दितं तेन संभिन्नो मिश्रितः । स्खलिताः स्खलनां प्राप्ता ये चरणाः पादास्तेषां तलेन ताडितं हतं यत्सोपानजातमारोहणसमूहं ततो यो गम्भीर ध्वनिर्मन्द्रध्वनिस्तेन प्रहृष्टानां हर्षितानामवरोधशिखण्डिनामन्तःपुरमयूराणां केकारवैरनुगम्यमानः । नवो नवीनोऽकालसंभवो यो जलधरो मेघस्तस्य यो रवः शब्दस्तस्माद्यद्भयं तेन चकितास्त्रस्ता ये कलहंसा: कादम्बास्तेषां कोलाहलस्तेन कोमलो मधुरः । हर्षप्रकर्षाद्वाद्यमान पटहध्वनेर्नवजलधरध्वनिसाम्यम् । मकरध्वजस्य कन्दर्पस्य या विजयघोषणा त्रैलोक्यं मया जितमित्युद्घोषणं तस्या अनुकारी सादृश्यकरणशीलः । परस्परं यद्विशेषेण घट्टनं संश्लेषस्तेनारणिताः शब्दितास्तारैतरा आकारशुद्धोद्भवा अतिमनोहरा हारमणयो यासामेवंविधानां रमणीनां स्त्रीणां श्रोत्रहारी कर्णमनोहरः । हर्म्यकुक्षिषु गृहकोणेषु प्रतिरवनिर्ह्रादः प्रतिच्छन्दध्वनिर्विद्यते । य॑स्य स तथा । ततो भूषणध्वनिरुदपादीत्यन्वयस्तु प्रागेवोक्तः । टिप्प० - 1 अज्ञानं टीकाकारस्य । नूपुरमणिभ्यः समुत्थितानि उद्गतानि इन्द्रायुधानि इन्द्रधनु:वड य , र चू य त इ। थ নनवण पक्षल तथा नणप वव वङशलतयैव अनुगतर षकण यभ इथ उचत: । वष RT । मण ध: । 2 अधपन प थमयेপ্ত क्षण । 3 अन :ि मor ( खण्ड) स्थानीयाः, तन्मुखानि च विकचकमलपुष्पस्थानीयानीत्याशयः । 4 हन्त पदे पदे टीकाकारस्व प्रमादः । स्खलित चरणतलताडनेनैव सोपानश्रेण्या त्रेधगम्भीरो ध्वनिः तेनैव मयूराणां हंसानां व र । 5 tबहु अ व । १ पाठ० ---१ परिचर्या. २ विराजयन्त्य: ६ दीर्घ ४ पुदाम्बर ५. साधारण ८ चरणताडित १ मणिसोपान. १० प्रहृष्टतान. ११ हंसकुल, १९ तारदार. O ६ कोलाहल: ७ गृहसारस. मुहूर्तादिव युवतिजननिरन्तरतया नारीमया इव प्रासादाः, सालक्त- कपदकमलविन्यासैः पल्लवमयमिव क्षितितलम्, [^१]अङ्गनाङ्गप्रभाप्रवाहेण लावण्यमयमिव नगरम्, आननमण्डलनिवहेन चन्द्र- बिम्बमयमिव गगनतलम् आतपनिवारणायो [^२]त्तानितकरतल- जालकेन कमलवनमयमिव दिक्चक्रवालम्, [^३]आभरणांशुक- लापेनेन्द्रायुधमय इवातपः, [^४]लोचनमयूखलेखासंतानेन नीलो- त्पलदलमय इव दिवसो बभूव । कौतुकप्रसारितनिश्चललोचनानां च पश्यन्तीनां तासामादर्शमयानीव सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापीडाकृतिः । आविर्भूतमदनरसानां [^५]चा- न्योन्यं सपरिहासाः सविश्रम्भाः ससंभ्रमाः सेर्ष्याः सोत्प्रासा: साभ्य- सूयाः सविलासाः समन्मथा: सस्पृहाश्च तत्क्षणं [^६]रमणीयाः प्रस- स्रुरालापाः । तथा हि 'त्वरितगमने, मामपि प्रतिपालय । दर्शनोन्मत्ते, गृहाणोत्त- रीयम् । [^७]उल्लासयालकलतामाननावलम्बिनीम् । [^८]मूढे, चन्द्रलेखा [^९]मुपाहर । [^१०]उपहारकुसुमस्खलितचरणा पतसि [ टि ]-- मुहूर्तादिव मुहूर्तानन्तरं युवतिजनैः स्त्रीजनैर्निरन्तरतया निबिडतया प्रासादा भूपसद्मानि नारीमया इन स्त्रीभिर्निष्पन्ना इव बभूवुः । सालक्तकं सयावकं यत्पदकमलं चरणपद्मं तस्य विन्यासैः स्थापनैः क्षितितलं वसुधातलं पल्लवमयमिव किसलयमयमिवासीत् । अङ्गनानां योषितामङ्गस्य शरीरस्य प्रभाप्रवाहेण कान्तिधारया नगरं द्रङ्गं लावण्यमयमिव चातुर्य [^1]मयमिवासीत् । आननं मुखं तस्य मण्डलम् । वर्तुलाकृतित्वात् । तेषां निवहेन समूहेन गगनतलं व्योमतलं चन्द्रबिम्बमयमिवासीत् । आतपनिवारणाय सूर्यालोकदू- रीकरणायोत्तानितान्यूर्ध्वीकृतानि यानि करतलानि तेषां जालकेन समूहेन दिक्चक्रवालं दिशां चक्रं कमलवनमग्रमिवासीत् । आभ- रणानां भूषणानामंशवः किरणास्तेषां कलापेन समूहेनातप इन्द्रा- युधमय इवासीत् । लोचनानां नेत्राणां या मयूखलेखाः कान्तिराजय- स्तासां संतानेन परंपरया दिवसो नीलोत्पलदलमय इव बभूव।नीलनलिनदलैर्निष्पन्न इवेत्यर्थः । कौतुकेन कुतूहलेन प्रसारितानि विस्तारितान्यत एव निश्चलानि स्थिराणि लोचनानि नेत्राणि यासा- मेवंविधानां पश्यन्तीनां विलोकयन्तीनां तांसां योषितां हृदयानि चन्द्रापीडाकृतिर्विवेश प्रविष्टा । हृदयानि विशेषयन्नाह- आदर्शेति । आदर्शो मुकुरस्तन्मयानीव तद्रूपाणीव । सलिलं जलं तन्मयानीव । स्फटिकः प्रसिद्धस्तन्मयानीव । प्रतिबिम्बसाधर्म्यादेतेषामुपमानम् । आविरिति । आविर्भूतः प्रकटीभूतो मदनरसः कामरसो यासामेवंविधानां कामिनीनामन्योन्यं परस्परं तत्क्षणं तस्मिन्समये रमणी- या मनोहरा आलापा: संलापाः प्रसस्रुर्विस्तारं प्रापुः । आलापान्वि- शिनष्टि - सपरीति । सह परिहासेन नर्मवचनेन वर्तमानाः सपरि- हासाः । सह विश्रम्मेण विश्वासेन वर्तमानाः सविश्रम्भाः । सह संभ्र- मेण भयेन वर्तमानाः ससंभ्रमाः । सहेर्ष्यया परासहनलक्षणया वर्त- मानाः सेर्ष्या: । सहोत्प्रासेन [^2]वितर्केण वर्तमानाः सोत्प्रासाः । सहाभ्यसूययान्यगुणासहनात्मिकया वर्तमानाः साभ्यसूयाः । सह विलासेन नेत्रजेन वर्तमानाः सविलासाः । सह मन्मथेनानङ्गेन वर्तमानाः समन्मथाः । सह स्पृहया वान्छया वर्तमानाः सस्पृहाः । तानेव प्रदर्शयन्नाह - तथा हीति । त्वरितं शीघ्रं गमनं यस्यास्तस्याः संबोधनं हे त्वरितगमने । मां सखीमपि प्रतिपालय । गृहीत्वा गच्छेत्यर्थः । दर्शनेऽवलोकन उन्मत्ता ग्रथिला तस्याः संबोधनं हे दर्शनोन्मत्ते । उत्तरीयमुपरिवस्त्रं गृहाण । पतन्तं निवारयेत्यर्थः । हे [^3]मूढेऽनभिज्ञे । आननावलम्बिनीं मुखोपरि स्रस्तामलक [^1]F. सौन्दर्यमयमित्युचितम् । [^2]F. उत्प्रासेन मन्दहासेन सहिताः, 'उत्प्रासः स मनाक् स्मितम्' अमरः । [^3]F. उल्लासय इतः पूर्वं 'चपले' इति संबोधनं ग्रन्थोचितम् । इदं त्वग्रेतनम् । [^१]G. अङ्गप्रभा; अङ्गनानामङ्गप्रभा. [^२]G. उत्तानितेन. [^३]G. आभरणांशुकलापेन. [^४]G. साभ्यसूयालोचन. [^५]G. अन्योन्यतः. [^६]G. अतिरमणीयाः; अभिरमणीयाः. [^७]G. चपले उल्लासय. [^८]G. चन्द्रलेखे किमुपहार. [^९]G. मुहुरुपाहर. [^१०]G. समुपाहर. २४ का० मदनान्धे । संयमय मदनिश्चेतने, केशपाशम् । उत्क्षिप चन्द्रापीड- दर्शनव्यसनिनि, काञ्चीदामकम् । उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् । अहृदये, गृहाण निपतितं दन्तपत्रम् । यौवनोन्मत्ते, विलोक्यसे जनेन, स्थगय पयोधर [^१]भारम् । अपगतलज्जे, शिथिलीभूतमाकलय दुकूलम् । अलीकमुग्धे, द्रुततरमागम्यताम् । कुतूहलिनि, देहि [^२]नृपदर्शनान्तरम् । असंतुष्टे, कियदालोकयसे । तरलहृदये, परिजनमपेक्षस्व । [^३]पिशाचि, [^४]गलितोत्तरीया [^५]हस्यसे जनेन । रागावृतनयने, पश्यसि न सखीजनम्।अनेक- भङ्गिविकारपूर्णे, दुःखमकारणायासितहृदया जीवसि । मिथ्यावि- नीते, किं व्यपदेशवीक्षितैः, विश्रब्धं [^६]विलोकय । यौवनशालिनि, किं पीडयसि पयोधरभारेण । अतिकोपने, पुरतो भव । मत्सरिणि, किमेकाकिनी रुणत्सि वातायनम् । अनङ्गपरवशे मदीयमुत्तरीयां- शुकमुत्तरीयतां नयसि । [^८]रागासवमत्ते, निवारयात्मानम्। उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् । उल्लसत्स्वभावे, किमे- वमाकु [ टि ]-- लतां केशलतामुल्लासयोर्ध्वीकुरु । हे मदनान्धे, चन्द्रले- खामलिकाभरण [^1]मुपाहर दूरीकुरु । उपहारार्थं पूजार्थं यानि कुसुमानि तैः, स्खलितचरणा पतसि । पतिष्यसीत्यर्थः । 'वर्तमान- सामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । हे मदनिश्चेतने, केशपाशमलकसमूहं संयमय सम्यग्बन्धनं कुरु। हे चन्द्रापीडद- र्शनव्यसनिनि, काञ्चीदामकं रसनादामोत्क्षिपोच्चैर्नय । हे पापे, कपोलदोलायितं कपोलावलम्बि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु । हे अहृदये हृदयवर्जिते । निपतितं स्रस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु हे यौवनोन्मत्ते,यौवनं तारुण्यं तेनोन्मत्ते,पयोधरभारं स्थग- याच्छादय । अनेन विलोक्यस आगन्तुकलोकेन दृग्विषयीक्रियसे । हे अपगतलज्जे, अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्लथीभूतं दुकूलं दुकूलमाकलय संयमय । हे अली- कमुग्धे त्वं मुग्धा नासि । किंतु मिथ्यामुग्धत्वं प्रतिपन्नासि । द्रुततरं शीघ्रतरमागम्यताम् । किमर्थं बिलम्बं करोषि । हे कुतूहलिनि, कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम्, नृपदर्शनार्थमन्तरं विचालं देहि । ' विचालं मध्यमन्तरे' इति कोशः हे असंतुष्टे संतोष- वर्जिते, कियत्कियन्मात्रमालोकयसे वीक्षसे । हे तरलहृदये चञ्चल- चित्ते, परिजनं परिच्छदमपेक्षस्वापेक्षां कुरु । हे पिशाचि हे राक्षसि, गलितं स्वस्थानात्स्रस्तमुत्तरीयं संव्यानं यस्या एवंविधा त्वं जनेन लोकेन हस्यसे। हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने लोचने यस्यास्तस्याः संबोधनम्, सखीजनमालिजनं न पश्य- सि न विलोकयसि । अनेकेति । अनेके ये भङ्गिविकाराः कौटिल्य- विकारास्तैः पूर्णे भृते हे सखि, अकारणेन निमित्तव्यतिरेकेणायासि- तं खेदितं [^3]हृदयं ययैवंभूता सती दुःखं दुःखरूपमेव । न सुखे- नेत्यर्थः । जीवसि प्राणान्धत्से । हे मिथ्याविनीते हे [^4]असत्येन विनयकारिणि, व्यपदेशवीक्षितैः कपटावलोकितैः किम् । विश्रब्धं सविश्वासं यथा स्यात्तथा विलोकय पश्य । हे यौवनशालिनि हे तारु- ण्यशोभिनि, पयोधरभारेण स्तनभारेण किं पीडयसि किं पीडां जनयसि । मदुपरि पतनेनेति भावः । अतिकोपने हे चण्डि, पुर- तोऽग्रतो भव । हे मत्सरिणि हे अमर्षिणि, एकाकिनी वातयनं गवा- क्षं किं रुणत्सि रोधनं कुरुषे । हे अनङ्गपरवशे हे मदनायत्ते, मदी- यमुत्तरीयांशुकमुत्तरीयतामुपरिवस्त्रतां नयसि प्रापयसि । हे रागा- सवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीबे, आत्मानं निवारय वारणां कुरु । अतिरागवशान्मरणं भविष्यतीति भावः । हे उज्झितधैर्ये त्यक्तसाहसे, गुरुजनसमक्षं [^1]F. पतितां चन्द्रलेखाम् ('चाँद' 'बैदा' ) उपाहर उत्थापय, गृहाणेत्यर्थः । टीकाकारस्तु भ्रान्तः । [^2]F. अवकाशम् मह्यमपि दर्शनाय स्थानं देहीत्याशयः । [^3]F.चन्द्रापीडलाभासंभवादकारणमेव हृदयस्यायासः दुःखमयं च जीवनमित्याशयः । [^4]F. मिथ्यैव विनयाऽभिनयं प्रदर्शयसीत्यर्थः । [^१]G. भागम्. [^२]G. दर्शनान्तरम्. [^३]G. पिशाचिके. [^४]G. वलित. [^५]G. विहस्यसे. [^६]G. आलोकय. [^७]G. रागमत्ते. लीभवसि । मुग्धे, निगूहस्व मदनज्वरजनितपुलकजालकम् । [^१]असाध्वाचरणे, किमेवमुत्ताम्यसि । बहुविकारे, [^२]अङ्गभङ्ग- वलनायासितमध्यभागा वृथा खिद्यसे । शून्यहृदये, स्वभवनान्निर्गत- मपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितम्, अन्तःसंकल्परचित [^३]रतसमागमसुखरसनिमीलितलोचने, समु- न्मीलय लोचनयुगलम्, अतिक्रामत्ययम् । अनङ्गशरप्रहारमूर्च्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम् । अयि सतीव्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती वञ्चयसि लोचनयुगलम् । [^४]अधन्ये, हतासि परपुरुषादर्शन [^५]व्रतेन । प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीतमकरध्वजं मकरध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव शशिकरकलापो मालतीकुसुमशेख- रोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकतप्रभाशयामायितमुप- रचित विकचशिरीषकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्तर्निविष्टारु [ टि ]-- गुरुजना: पूज्यजनास्तेषां समक्षं प्रत्यक्षं किं धावसि किं प्रधावनं करोषि । हे उल्लसत्स्वाभावे प्रवर्धमानाशये किमिति प्रश्ने । एवममुना प्रकारेणाकुलीभवसि व्याकुलतां भजसे । हे मुग्धे ग्रथिले, मदनज्वरेण कामज्वरेण जनितं यत्पुलकजालकं रोमाञ्चसमूहं निगूहस्व संवृतं कुरु । हे असाध्याचरणे अशुभचरिते । किमेवमु- त्ताम्यसि कथं ग्लानिं भजसि । हे बहुविकारे हे अनेकविकारवति, अङ्गानां भङ्गाः संस्थानविशेषास्तेषां वलनं संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा [^1]मुधा ‌खिद्यसे खेदं प्राप्नोषि । शून्यहृदये शून्यचित्ते । स्वभवनान्निजगृहादात्मानं निर्गतमपि बहिरागतमपि नावगच्छसि न जानासि । हे कौतुकाविष्टे हे कुतूहलगृहीते । निःश्वसितुं निःश्वासं ग्रहीतुं विस्मृतासि । कौतुके- नैवं व्याक्षिप्तचित्ताभूर्यथोच्छ्वासमपि न गृह्णासीति भावः।अन्तःसंक- ल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुनप्राप्तिस्ततो यत्सुखं सातं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम्, लोचनयुगलं समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रामति गच्छति । हे अनङ्गशरप्रहारमूर्च्छिते हे का- मबाणाघातनिश्चेतने, रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरीयांशुकपल्लवं शिरसि मस्तके कुरु विधेहि। अयीति कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रतं पातिव्रत्यं तल्लक्षणो यो ग्रहस्तेन गृहीते, ग्रथिले इत्यर्थः । द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्यन्त्यनवलोकयन्ती लोचनयुगलं वञ्चयसि वञ्चनां करोषि । हे अधन्ये हे अभाग्ये, परपुरुषाणां यददर्शनव्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो येन दर्शनादेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव । हे सखि, उत्तिष्ठोत्थानं कुरु । रतिविर- हितं रतिरहितमगृहीतो मकरचिह्नितो ध्वजो येनैवंभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमिति । अस्य चन्द्रा- पीडस्य सितं यदातपत्रं छत्रं तस्यान्तरेणान्तराऽलिकुलं भ्रमरकुलं तद्वन्नीले हरिते शिरसि मस्तकेऽयं मालतीकुसुमशेखरस्तिमिरस्य या शङ्का शङ्कनं तेन निपतितः शशिकरकलाप इव चन्द्ररश्मिसमूह इवाभिलक्ष्यते जनैर्ज्ञायते । तिमिरस्य शशिकरबाध्यत्वात्तच्छङ्कया तद्घातयितुं निपतित इवेत्युत्प्रेक्षा । श्वेतत्वसाम्यान्मालतीकुसुमशेखरस्य चन्द्रकरकलापोपमानम् । एतदिति । अस्य कुमारस्यै- तत्कपोलतलं गल्लात्परो भाग आभाति शोभते । कीदृशं कपोल- स्थलम् । कर्णाभरणस्य या मरकतप्रभा तथा श्यामायितं श्यामवदाचरितम् । किमिव । उपरचितो निर्मितो विकचशिरीषकुसुमस्य कर्णपूरो यस्मिन्नेवंभूतमिव । मरकतप्रभायाः श्यामत्वात्तयालंकृत- स्य कपोलस्य [^1]F. चन्द्रापीडालाभादित्यर्थः । [^१]G. अंसावरणे. [^२]G. विविधाङ्गवलन; विविधाङ्गभङ्गवलन; विविधाङ्गभङ्गचल- चलन. [^३]G. सुरत; रति. [^४]G. अधमे [^५]G. परिहारव्रतेन. णमणिकिरणकलापच्छलेन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एत [^१]दनेन चामरकलापान्तरैरित एव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामन्त्र्य दशन- मयूखलेखा [^२]धवलीकृत दिक्चक्रवालं हसितम् । एषोऽस्य शुकपक्षतिहरितरागेणोत्तरीयांशुकप्रान्तेन बलाहकस्तुरगखुर- चलनजन्मानं [^३]लग्नमग्रकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकरकमलकोमलतलः समुत्क्षिप्य तिर्यक् तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लव: सलीलम् । अयमनेन च ताम्बूलयाचनार्थ [^४]मुत्तानिततलो [^५]दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवाल [^६]कवलग्रासलालसः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुंधरासपत्नी ग्रहीष्यति । धन्या च देवी विलासवती सकलमही [^७]मण्डलभारधारणक्षमः ककुभा दिग्गज [ टि ]-- शिरीषकुसुमकर्णपूरीभावेऽपि तद्वत्त्वं बोध्यमिति भावः । एतस्येति विषये षष्ठी । फलस्येच्छेतिवत् । एतद्विषये योऽभिनव- यौवनेनाभिनवतारुण्येन योऽ [^1]स्माकं रागः स हारा मुक्ता- कलापास्तेष्वन्तर्निविष्टा अन्तःप्रविष्टा येऽरुणमणयः पद्मरागास्तेषां किरणास्त्विषस्तेषां कलापच्छलेन बहिः परिस्फुरति हृदयं चित्तं विविक्षुः प्रवेष्टुमिच्छुरिव बहिः परिस्फुरति बहिः प्रसर्पति । यद्वा- भिनवयौवनरागो हृदयं विविक्षुरिव पूर्वोक्तच्छलेन बहिः परिस्फुरति । एतदिति । एत [^2]द्वस्त्वभिनवमनेन चन्द्रापीडेन चामरकला- पान्तरैर्मध्यैरित एवेतः प्रदेश एव वीक्षितमवलोकितम् । अनेन किमप्येतदज्ञातस्वरूपं वैशम्पायनेन सह समामन्त्र्य संभाषणं कृत्वा दशनमयूखलेखाधवलीकृतदिक्चक्रवालं यथा स्यात्तथा हसि- तम् । एषोऽस्येति । एष बलाहकोऽस्य [^3]राज्ञः शुकः कीरस्तस्य पक्षतिः पक्षस्तद्वद्धरितरागो नीलरागो यस्मिन्नेवंभूतेनोत्तरीयां शुक- प्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरचलनजन्मानमिति । तुरगा अश्वास्तेषां खुराः शफास्तेषां चलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्यै- वंविधं रेणुं धूलिमग्रकेशेषु लग्नमपहरति दूरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकमलं तद्वत्कोमलं मृदु तलं यस्य स तथा चरणपल्लवस्तुरङ्गमस्कन्धे तिर्यक्समुत्क्षिप्य [^4]तिर्यगु- त्पाद्य सलीलं यथा स्यात्तथा निक्षिप्तः स्थापितः । अयमिति । अनेन चन्द्रापीडेन ताम्बूलं नागवल्लीदलं तद्याचनार्थंमयं करो हस्तः शुण्डा च गजेनेव प्रसारितो विस्तारितः । करं विशिनष्टि - उत्तानि- तेति । उत्तानितं तलं यस्य स तथा । दीर्घा अङ्गुलयो यस्य स तथा । आ ईषत्ताम्रो रक्तवर्णः पुष्करकोशः कमलकोशस्तद्वच्छोभत इत्येवंशीलः स तथा । पक्षे पुष्करं शुण्डाग्रम् । ताम्बूलपत्राणां तत्साम्येनाह - शैवेति । शैवालं शेवालं तस्य कवलो गुडस्तस्य ग्रासो भक्षणं तत्र लालसो लोलुपः । धन्येति । सा स्त्री धन्या भाग्यवती यास्य निर्जितकमलं करतलं लक्ष्मीरिव ग्रहीष्यति । अत एव वसुंधरायाः सपत्नीत्युक्तम् । धन्या चेति । चकारः पुनरर्थे । देवी विलासवती धन्या महाभाग्यवती । एतदर्थं स्पष्टयन्नाह - सकलेति । यथा विलासवत्या सकलं यन्महीमण्डलं तस्य यो भारो वीवधस्तस्य [^1]F. पुरन्ध्रीणामेवं वर्णनानौचित्यात्कवेरनभिप्रेतोयमर्थः । अस्य वक्षसि हारान्तर्गतरक्तमणीनामवं रक्तिमा नास्ति किन्तु अभिनवो यौवनरागोऽस्य हृदयं प्रवेष्टुमिच्छति परं नाद्यापि प्रवेशं लब्धवान्, अत एव स बहिः स्फुरति । शैशवं पराजित्य नाद्यापि यौवनस्य पूर्णाधिकारोभूदिति सन्धिविशेषो व्यङ्ग्यः । [^2]F. एतद्वस्तु वीक्षितमिति तु टीकाकारस्य घोरमज्ञानम् । अनेन ( चन्द्रापीडेन ) चामर कलापस्य अन्तरैः मध्यप्रदेशैः इत एव मां प्रत्येव एतद् वीक्षितम् । एतदिति दर्शनक्रियायाः परामर्शः । सेयं सविलासमन्मथा कस्याश्चिदुक्तिः । [^3]F. राजकुमारस्य ( चन्द्रापीडस्य ) इत्यर्थः । [^4]F. उत्थाप्य । [^१]G. अलकचामरकलापान्तरेरितविरलवीक्षितम्. अनेकचामर- कलापान्तरितमस्य वीक्षितम्. [^२]G. धवलित. [^३]G. आलग्न. [^४]G. करतल. [^५]G. कोमलदीर्घाङ्गुलि:. [^६]G. कवललालसः; कवलमासवाञ्छया. [^७]G. मण्डलधारण. इव [^१]गर्भेण [^२]यथा व्यूढः । इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवै:, अनुगम्यमान इव हृदयै:, अनुबध्यमान इवाभरणरत्न- रश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनबलिभिः,[^४]शिथिलभुजलताविगलितधवलवलय [^५]निकरे पदे पदे विवाहानल इव कुसुममिश्रै [^६]र्लाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुलसमीपमाससाद । क्रमेण च यामावस्थिताभिरनवरतकरटस्थल [^७]गलित [^८]म- दमषीकरीभिरञ्जनगिरिमालामलिनाभिः कुञ्जरघटाभिरन्धकारित- दिङ्मुखतया जलघरदिवसायमानमुद्दण्डधवलातपत्रसहस्रसंकट- मनेकद्वीपान्तरागतदूतशत [^९]संकुलं राजद्वारमासाद्य तुरङ्गमा- दवततार । अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन बलाहकेनोपदिश्यमानमार्गस्त्रिभुवनमिव पुञ्जी- भूतम्, आगृहीतकनकवेत्रलतैः सितवार [^१०]बाणैः सितकुसुम- शेखरैः सितो [^११]ष्णीषैः [ टि ]-- धारणे निर्वहणे क्षमः समर्थो गर्भेण गर्भत्वेन [^1]व्यूढो वर्धितः । कः कयेव । ककुभा दिशा गर्भेण मध्यभागेन दिग्गज इव व्यूढो धृतः । सोऽपि समग्रमहीभारधारणक्षमः । उपसंहरन्नाह - इत्येवमिति । इति समाप्तौ एवंविधानि पूर्वोक्तस्वरूपाण्यन्यानि चैभ्योऽनुक्तानि वचनानि च वदन्तीनां जल्पन्तीनां तासां स्त्रीणां लोचनपुटैरापीयमान इव । अत्यादरेण वीक्षणं पानमुच्यते। भूषण- रवैराभरणध्वनिभिराहूयमान इव निमन्त्र्यमाण इव । हृदयश्चित्तैरनु- गम्यमान इवानुयायमान इव । आभरणरत्नानां रश्मयः किरणास्त एव रज्जवस्ताभिरनुबध्यमान इव । नवयौवनान्येव बलयस्तैरुपह्रि- यमाणः पूज्यमान इव। शिथिलाः लथा या भुजलता बाहुलतास्ताभ्यो विगलितानि च्युतानि धवलवलयनिकरः श्वेतकटकसमूहो यस्मिन्ने- वं [^2]विधे पदे पदे प्रतिपदं विवाहानल इवोद्वाहवह्निरिव कुसुम- मिश्रैः पुष्पसंपृक्तैर्लाजाञ्जलिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप। क्रमेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्वादवततारो- त्तीर्णः। अथ राजद्वारं विशिनष्टि- यामेति । यामावस्थिताभिः सेवा- वसरस्थिताभिः । अनवरतं निरन्तरं करटस्थलागण्डस्थलाद्गलितो यो मदो दानं स एव मषी [^3]नामाम्बुकर्दमस्तं कुर्वन्तीति कार्य- स्ताभिः । अञ्जनगिरीणां या माला पङ्क्तिस्तद्वन्मलिनाभिर्मलीमसाभिः कुञ्जरघटाभिर्हस्तिसंहतिभिरन्धकारितानि यानि दिङ्मु- खानि तेषां भावस्तत्ता तथा जलभरदिवसायमानं मेघदिनमिवाचर- माणमुद्दण्डं प्रचण्डं यद्धवलातपत्राणां श्वेतच्छत्राणां सहस्रं तेन संकटं संकुलम्। अनेके द्वीपान्तराद्देशान्तरादागता ये दूताः संदेश- हारकास्तेषां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्तः । च पुनरर्थे। अवतीर्याश्वादुत्तीर्य करतलेन हस्ततलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमवलम्ब्यावलनीकृत्य पुरोऽग्रे सविनयं विनय- सहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाकेनोपदिश्यमानो निवेद्यमानो [^1]F. 'गर्भेण ययाऽयमूढः' । इत्येव पाठः । अयम् ऊढो धारितः। [^2]F. निकरैरित्येव पाठः । वासनोद्रेकात् शिथिलाभ्यो भुजलता- भ्यो विगलितो धवलवलय (हीरकादिकङ्कण ) समूहो येषु तादृशैः कुसुममिश्रैर्लाजाञ्जलिभिर्विवाहानल इवाऽवकीर्यमाणः। पाणिग्रहणसमयेपि अग्नेरुपरि लाजाक्षेपः, राजागमनेपि लाजाक्षेप इति द्वयोः साम्यम् । तथा च कालिदासोपि- 'अवाकिरन् बाललताः प्रसूनैरा- चारलाजैरिव पौरकन्याः' । [^3]F. मदमसीपङ्ककरीभिः । इत्येव पाठः । मदा एव मसीपङ्काः तेषां करीभिः कारिणीभिः [^१]G. गर्भेणायमूढ:. [^२]G. यया च. [^३]G. निबध्यमानः. [^४]G. शिथिलित. [^५]G. निकरैः. [^६]G. मिश्र. [^७]G. विगलित. [^८]G. मषीपङ्ककरीभिः; मषीपट्टधराभिः. [^९]G. समाकुलम्. [^१०]G. बाणधारिमि:. [^११]G. सिताङ्गरागैः. सितवेषपरिग्रहतया श्वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमाणैर्दिवानिशमालिखितैरिवोत्कीर्णैरिव तोरणस्तम्भनिषण्णै र्द्वारपालै- रनुज्झितद्वारदेशम्, अनेकसं [^१]यवनचन्द्र [^२]शालाविटङ्कवे- दिकासंकटशिखरैरभ्रंकषै [^३]रपहसितसितकैलासशोभैरमल- सुधावदातैः सप्राले [^४]यशैलमिव महाप्रासादैरनेकवातायनविवरविनि [^५]र्गतयुवतिकिरणसहस्रतया कनक [^६]शृङ्खलाजालकेनेवोपरि विस्तीर्णेन विराजमानम्, अन्तर्गतायुधनिवहाभिराशी- विषकुलसंकुलाभिः पातालगुहाभिरिवातिगम्भीराभिरायुधशालाभि- रुपेतम्, अबलाचरणालक्तकरसरक्तमणिशकलैः शिखरनिलीन- शिखिकुलकृतकेकारवकलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठितकनकपर्याणाभिः [^७]प्रलम्बचामर- [^८]कलापचुम्बितचलकर्णपल्लवाभिः कुलयुवतिभिरिवो [^९]पा- रूढशिक्षावि [^१०]नयनिभृता [ टि ]-- मार्गः पन्था यस्यैवंभूतो राजकुलं विवेशेति दूरेणान्वयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुबेरे चैव कुण्डले' इत्य- नेकार्थः । पुञ्जीभूतमिव राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता वेत्रयष्टिर्यैः । सितः शुक्रो वारबाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः श्वेत उष्णीषो मूर्धवेष्टनं येषां तैः । सितो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । श्वेतद्वीपसंभवैरिव । श्वेता- भिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः । कृतयुगपुरुषै- रिव कृतयुगः सत्ययुगस्तत्रोत्पन्नैः पुरुषैर्नरैरिव । महाप्रमाणैरत्युच्चै- र्दिवानिशमहर्निशं मालिखितैरिव चित्रितरिव । उत्कीर्णैरिवोत्कीर्य कर्षितैरिव । तोरणं प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्तदवष्टम्भेनावस्थितैरेवंभूतैर्द्वारपालैर्दौवारिकैरनुज्झितोऽपरित्यक्तो द्वारदेशो यस्य तत् । पुनः कीदृशम् । विराजमानं शोभमानम् । कैः कैः। प्रासादैर्दैवभूपानां गृहैः । कीदृशैः। अनेकेति। अनेकानि संय- [^1]वनानि, चतुःशालानि, चन्द्रशालाः शिरोगृहाणि विटकः कपोतपालिका स चोन्नतप्रदेशः, वेदिकाः प्रसिद्धाः, ताभिः संकटानि संकीर्णानि शिखराणि गृहप्रान्ताप्राणि येषां तैरभ्रंकषैव्यामव्यापि- भिरपहसितापहासास्पदीकृता सितकैलासस्य शोभा दीप्तिर्यैः। अमला निर्मला या सुधा तयावदातेः शुभैरेवंभूतैर्महाप्रासादैर्देव- भूपानां गृहैः सप्रालेयशैलमिव हिमोप [^2]युक्तगिरिमिव सुधा- धवलितत्वनोच्चत्वेन च द्वारदेशस्य शैलसाम्यम् । अनेके ये वाता- यना गवाक्षास्तेषां विवराणि रन्ध्राणि तेषु विनिर्गतं यद्युवतीनां [^3]स्त्रीणां किरणसहस्रं तस्य भावस्तत्ता तया । कनकशृङ्खला- जालकेनेवोपरिधिस्तीर्णेन विस्तृतेन विराजमानमित्यर्थः। पुनः कीदृ- शम् । अतिगम्भीराभिरलब्धमध्याभिरायुधशालाभिः शस्त्रशालाभि- रुपेतं सहितम् । कीदृशीभिः । अन्तर्गतो मध्यगत आयुध निवहः शस्त्रसमूहो यासु ताभिः । काभिरिव । आशीविषाः सर्पास्तेषां कुलानि तैः संकुलाभिर्व्याप्ताभिः पातालगुहाभिरिव बलिवेश्म- कन्दराभिरिव । पुनः प्रकारान्तरेण तदेव विशेषयन्नाह-- अबलेति । अबलाचरणानां वनितापादानां योऽलक्तकरसो यावकरसस्तेन रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः शिखरनिलीनैः सानु- मध्यवर्तिभिः शिखिकुलैर्मयूरसमूहैः कृतस्य विहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतैः क्रीडापर्वतकैः क्रीडाचलैरुप- शोभितम् । उज्ज्वलेति । उज्ज्वलवर्णो यः कम्बलो रहकस्तेनाव- गुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यासु ताभिः प्रल- म्बानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिता- श्चलाः कर्णपल्लवा यासां ताभिः । [^1]F. 'संजवन' इत्येव पाठ: 'संजवनं त्विदम् । चतुःशालम्' इत्यमरः । [^2]F. हिमशैलैः सहितमिव। [^3]F. भूषणानां यस्किरणसहस्रमिति बोध्यम् । न किल युवतयो रवयः। [^4]F. अयमपि भ्रमः । विनिर्गतं युवतिभूषणकिरणसहस्रं यस्मिन् तत्, तत्तया, इति बहुव्रीह्युत्तरं तल्प्रत्यय उचितः । राजभवनस्य गवाक्षविवरेभ्यो भूषणकिरणा निर्गच्छन्ति, ते च कनकशृङ्खला- वत्प्रतीयन्त इत्युत्प्रेक्षाशयः । [^१]F. संयमन; संजवन. [^२]F. शालिका. [^३]F. अपहसितकैलासशैलशोभैः, उपहसितकैलासशिखरशोभैः. [^४]F. शैलमिव. [^५]F. युवतिभूषणकिरण. [^६]F. वितानेन; विततेन; वितानेन. [^७]F. प्रचल; लम्ब. [^८]F. कलापचल. [^९]F.उपरूढ. उपगूढ. [^१०]F. विनयेन निभृताभिः. [^१]भिर्यामकरेणुकाभिरशून्यकक्षान्तरम्, आलानस्तम्भनिषण्णेन च नव [^२]जलधरघोषगम्भीरमनु [^३]गतवीणावेणुरवरम्यमा- स्फालितघर्घरिकाघर्घर [^४]मनवरतसंगी [^५]तकमृदङ्ग- [^६]ध्वनिमामीलितलोचनत्रिभागेण वामदशनकोटिनिषण्णहस्तेन निश्चलकर्णतालेनाकर्णयता सलीलमुभय [^७]पार्श्वावलम्बिवर्ण- कम्बलतया विन्ध्यगिरिणेवाविष्कृतधातुवि चि [^८]त्रितपक्षसंपुटे- नाधोरणगीतानन्दकृतमन्द्रकण्ठगर्जितेन मदजलशबलशङ्ख- शोभितश्रवणपुटेन रजनिकरबिम्ब [^९]चुम्बिसंवर्तका [^१०]म्बुद- वृन्दविडम्बकेन [^११]कर्णावलम्बिना काञ्चनमयेन कृतकर्णपूर- मिवाङ्कुशेन मुखमुद्वहता मदजलमलिनेव द्वितीयेनेव कर्णचामरे- ण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदग्रतया पूर्व [ टि ]-- उपारूढी प्राप्तौ यौ शिक्षाविनयौ ताभ्यां निभृताभिर्भूताभिः तत्र शिक्षा संज्ञादि [^1]ज्ञानम्, विनयो नम्रता । अत एव कुलयुव- तिभिरिव ता अपि शिक्षाविनयाभ्यां निभृताः स्युः। एवंविधाभिर्याम- करेणुकाभिश्चतुष्कि [^२]काहस्तिनीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति । आलानस्तम्भो गजबन्धनस्तम्भस्तत्र निष- ण्णेन स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दूरेणान्वयः । अथ गजं विशेषयन्नाह - नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् । अनुगतः सहितो यो वीणावेणुरवस्तेन रम्यं मनोहरम् । आस्फालिता वादिता या घर्घ- रिका वाद्यविशेषस्तस्या घर्घरम् । घर्घरशब्दमिश्रमित्यर्थः। अनवतं निरन्तरम् । गीतनृत्यवाद्यत्रयं प्रेक्षणार्थे प्रयुक्तं संगीतकमुच्यते । तस्य यो मृदङ्गध्वनिर्मुरजरवस्तं सलीलं यथा स्यात्तथाकर्णयता शृण्वतात एवामीलितो निमीलितो लोचनत्रिभागो नेत्रत्रिभागो येन स तथा तेन। यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति। वाम- दशनकोटावपसव्यदन्ताग्रे निषण्णः स्थितो हस्तो येन ( यस्य ) तथा । अयमपि गजस्य स्वभावः। निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन, केवलमेतद्गीतश्रवणमाहात्म्यम् । उभयेति । उभयपार्श्वेऽवल- म्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावस्तत्ता तया विन्ध्यगिरिणेव जलबालकेनेव । आविष्कृतेति । आविष्कृतो यो धातुर्गैरिकं तेन विचित्रितं पक्षसंपुटं यस्य । गजस्यापि कुथेनाच्छा- दितत्वेन तस्योपमानम् । विचित्रितपक्षसंपुटत्वादिति भावः। आधो- रणेति । आधोरणा हस्तिपकास्तेषां गीतं गानं तस्माद्य आनन्दः प्रमोदस्तेन कृतं विहितं मन्द्रं मधुरं कण्ठगर्जितं येन स तथा तेन । मदेति । मदजलं दानजलं तेन शबलः कर्बुरो यः शङ्खो भालभ्रुवोरन्तरं तेन शोभितं विराजितं श्रवणपुटं कर्णसंपुटं यस्य स तथा तेन । 'शङ्खो निधौ ललाटास्थ्नि कम्बौ' इत्यमरः । रजनीति । रजनिकरबिम्बं चन्द्रबिम्बं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेघास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुकरोति यः स तथा तेन । 'शेषाद्विभाषा' इति कप्प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्रसादृश्यं हस्तिनो जलधर-साम्यं च स्पष्टीकृतम् । कर्णेति । कर्णावलम्बिना काञ्चनमयेन स्वर्णनिष्पन्नेनाङ्कुशेन सृणिना कृतकर्णपूरमिव विहितश्रोत्राभरण- मिव मुखमाननमुद्वहता धारयता । पुनः कीदृशेन । मधुकरकुलेन भ्रमरसमूहेन कृत्वालंक्रियमाणेन । विभूष्यमाणेन । भ्रमरकुलं विशिनष्टि- कपोलेति । कपोलतलं गल्लात्परो भागस्तत्र दोलाय- मानेनेतस्ततो भ्रममाणेन। चञ्चलत्वसाम्यादुपमानान्तरमाह-कर्णेति । द्वितीयेनापरेण कर्णचामरेणेव । शुक्लत्वशङ्कां निराकर्तुमाह - मदेति । मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्यु- पमानस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह - पूर्वेति । अत्युदग्रतयात्युच्चतया पूर्वकायस्य [^1]F. कुलयुवतीनां पक्षे शिक्षा गार्हस्थ्यपरिचालनचातुर्यानुकूला बोध्या । [^2]F. प्रतिप्रहरं रक्षाप्राहरिकरूपेण बन्धनीयाः करेणुका यामक- रेणुकाः । [^१]G. यामक. [^२]G. जलघरगर्जितघोष. [^३]G. अतनु। [^४]G. अनवरतमृदुमृदङ्गध्वनिमामीलित; अनवरत संगीतमृदुमृदङ्गध्वनिमतिमनोहरं किञ्चिदामीलित. [^५]G. संगीत. [^६]G. ध्वानम् [^७]G. पार्श्वप्रलम्बित. [^८]G. विचित्र. [^९]G. चुम्बितावर्तक; चुम्बिनावर्तक; चुम्बितसंवर्तक. [^१०]G. अम्बुदविडम्बकेन. [^११]G. कर्णान्तलम्बिना. कायस्य [^१]वामनतया च जघनभागस्य [^२]पातालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धचन्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपदीविलासेन स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन प्रसाधितेनेवालो [^३]ल- कर्णपल्लवाहतमुखेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतै- कदेशम्, उज्ज्वलपट्टकम्बलपट [^४]प्रावारितपृष्ठैश्च रसितमधुरघण्टिकारवमुखरकण्ठैर्मञ्जिष्ठालोहितस्कन्धकेसर [^५]बालैर्वनगज- रुधिरपाटलसटैरिव केसरिभिः पुरोनिहितयवसराशिशिखरोपविष्ट- मन्दुरापालैरासन्नमङ्गलगीतध्वनिवृत्तकर्णैरन्तःकपोलधृतमधु [ टि ]-- पुरोभागस्य जघनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया ह्रस्वतया जघनभागस्य पश्चाद्भागस्य। एतन्निमित्तादेवोत्प्रेक्षामाह- पातालेति । पातालाद्रसातलाद्वडवामुखादु- त्तिष्ठता प्रादुर्भवता । निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमीचन्द्रस्तदाकृतिनां मध्यमणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मि [^1]न्स तेन ।पक्षे सार्धचन्द्रा नक्षत्रमाला तारापङ्किर्यस्मिन्नितिविग्रहः। पुनस्तमेव विशिनष्टि-- प्रकटितेति । प्रकटितमाविष्कृतमरुणं रक्तमत एव चारु मनोहरं पुष्करं शुण्डाग्रं येन स तथा तेन । केनेव । शरदारम्भेणेव। घनात्य- यप्रारम्भेणेव तत्पक्षे पुष्कराणि कमलानि । 'राजीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह -वासनेति । वामनरूपेणेव वामनावतारेणेव । उभयसाम्यमाह - त्रिपदीति । कृतो विहित एकं पादमुत्क्षिप्य पादत्रयेऽज्ञावस्थानं [^2]त्रिपदी तस्या विलासो विभ्रमो येन स तथा तेन । पक्षे त्रिपक्षीति स्वर्गमृत्यु- पाताल [^3]लक्षणा तस्यां विलासो विलसनं येनेतिभावः । स्फटि- केति । स्फटिकगिरिः स्फटिकाचलस्तस्य तटेनेव वप्रेणेव । उभयं विशिनष्टि - लग्नेति ]। लग्ना सिंहमुखा प्रतिमा गजस्य दन्त[^4]ब- न्धो यस्य स तेन । 'प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च' इत्यनेकार्थः । पक्षे लग्ना प्रतिबिम्बिता सिंहमुखस्य प्रतिमा प्रति- रूपकं यस्मिन्स तेन । [^5]अत एव प्रसाधितेनेव स्वीकृतभूषणपरिग्रहेणेव । लोलौ चपलौ यौ कर्णपल्लवौ ताभ्यामाहतं मुखं येन ( यस्य ) स तेन । पक्षे कर्णपल्लवः । शेषं पूर्ववत् । अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाह - उज्ज्वलेति । उज्ज्वलाः श्वेता ये पट्टकम्बलाः पट्टसूत्रनिर्मिताः । 'षट् ' (?) इति प्रसिद्धा वा । तेषां पटास्तैः प्रावरितान्याच्छादितानि पृष्ठानि येषां तैः । रसितेति । रसितानां रणितानां मधुरः श्रोत्रसुखदो यो घण्टिकानां लघुकिङ्किणीनां रवः स्वरस्तेन मुखरो वाचालः कण्ठो येषां तैः । मञ्जिष्ठेति । मञ्जिष्ठया प्रसिद्धया लोहिता रक्तीकृताः स्कन्धकेस- राणां बाला येषां तैः । रक्तबालसाम्यादाह-वनेति । वनगजाना- मरण्यहस्तिनां रुधिरेण पाटलाः श्वेतरक्ताः सटा येषामेवंभूतैः केसरिभिरिव हर्यक्षैरिव । पुरो निहितोऽग्रे न्यस्तो यो यवसराशिस्तृण- समूहस्तस्य शिखरमग्रं तत्रोपविष्टा मन्दुरापाला वाजिशालारक्षका येषां तैः । 'वाजिशाला तु मन्दुरा' इति कोषः । आसन्नेति । आसन्नः समीपवर्ती यो [^1]F. अयमपि भ्रममार्गः । परिस्फुरन्ती शोभमाना सार्धचन्द्रा ( अर्धचन्द्राकारललाटभूषणसहिता ) नक्षत्रमाला सप्तविंशतिमहा- मौक्तिकमाला यस्य तेन, ( इति गजपक्षे ) स्पष्टोऽर्थः । 'सैव नक्षत्र- माला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । [^2]F. वस्तुतस्तु 'त्रिपदी पादबन्धनम्' । 'त्रिपदीच्छेदिनामपि' इति कालिदासः। तथा च कृतः त्रिपद्या (पादबन्धनशुङ्खलया ) विलासः क्रीडा येन इत्यर्थः । [^3]F. लेखनप्रकारोऽनुचितः । तात्पर्यं ग्राह्यम् । [^4]F. लग्ना सिंहस्येव मुखम् अग्रभागो यस्याः ईदृशी प्रतिमा दन्तबन्धनशृङ्खला यस्य तेनेति बोध्यम् । [^5]F. भ्रामकमिदम् । प्रसाधितः कृतशृङ्गारो हि प्रसाधनार्थं धृताभ्याम् आलोलाभ्यां कर्णस्थपल्लवाभ्यां आहतं (वायुवशात् ) मुखं यस्य, ईदृशो भवति । अयं तु-- आहतं गजस्वभावात् भ्रमरापसा- रणनिमित्तं वा आलोलाभ्यां दीर्घकर्णाभ्यां मुखं येन स इत्यर्थः । [^6]F. रसितानामिति विशेषणं यदा घंटिकानां तदा मध्ये मधुर इति स्वरस्य कथं विशेषणं स्यात् । अतः -रसितानां शब्दायमाना- नां मधुर ( मनोहर ) घंटिकानां यो रव इति समासो विधेयः । [^१]G. अतिवामनतया. [^२]G. पातालतलादिव. [^३]G. लोध्र. [^४]G. प्रावृतः प्रावरित. [^५]G. वालपल्लवैर्निहतगज. रसर [^१]सलुलितलाज [^२]कवलैर्भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैश्चार्यवेषैरत्युच्चवेत्रासनो- पविष्टैर्धर्मभयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम्, अधिगत- सकल [^3]ग्रामनगरनामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखित सकलभुवनव्यापारतया धर्मराजनगरव्यतिकरमिव दर्शयद्भि [^४]रधिकरणलेखकैरालिख्यमानशासनसहस्रम्, अभ्य- न्तरावस्थितनरपतिनिर्ग [^५]मप्रतीक्षण [^६]परेण च स्थानस्थानेषु बद्धमण्डलेन कनकमयार्ध [^७]चन्द्रतारागणशबलचर्मफलकैर्नि- शासमयमिव दर्शयता स्फुरितनिशितकरवालकरप्ररोहकरालिता- तपेनैकश्रवण [^८]पुटघटितधवलदन्तपत्रेणोर्ध्वबद्धमौलिकलापेन धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धा [ टि ]-- मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णा यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृताः स्थापिता मधुरा मिष्टाः सरसा [^1]रसोपे- ता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्र- तण्डुलाः' इति कोशः । तेषां कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानस्तेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशाला- प्राप्तैरेवंविधैस्तुरङ्गमैरश्वैरुद्भासितं शोभितम् । अधीति । अधि- क्रियते जनोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युच्चं यद्वेत्रासनं तत्रोपविष्टैः स्थितैर्धर्म- मयैरिव धर्मनिष्पन्नैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् । यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखका- स्तैरालिख्यमानं लिपीक्रियमाणं शासनसहस्रमाज्ञापत्राणां दशशतं यस्मिन् । अथ लेखकान्विशिष्टि - अधीति । अधिगतं ज्ञातं सकल- ग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमि- वाखिलं समयं जगद्विष्टपमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो व्यवहारस्तस्य भावस्तत्ता तथा । धर्मराजो यमस्तस्य नगरं संयमि- नीति ख्यातं तस्माव्यतिकरमति [^2]शयं दर्शयद्भिः । एतेन चित्रगुप्त- लिखितोत्कृष्टलिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचि- तमिति भावः । पुनः कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिना- धिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्यन्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थान0 स्थानानीति कर्मधारयस्तेषु बद्धं मण्डलं येन स तेन । कनकेति । कनकमयः सुवर्णनिष्पन्नो योऽर्धचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च श्वेतबिन्दुचित्रं ताभ्यां शबलानि कर्बुराणि चर्मफलकानि तैः । चन्द्र- तारका निमित्तवत्त्वादाह — निशेति । निशासमयमिव रात्रिकाल- मिव दर्शयतान्येभ्यो ज्ञापयता । स्फुरितेति । स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं खङ्गं तस्य ये कराः किरणास्तेषां प्ररोहा अङ्कुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा तेन । एकश्रवणपुट एककर्णपुटे घटितं संयोजितं धवलं दन्त- पत्रं येन स तथा तेन । देशाचारोऽयं यदेककर्णे दन्तपत्रपरिधानम् । ऊर्ध्वं बद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन । धवलेति । धवलं यच्चन्दनं तस्य स्थासका आभरण [^3]विशेषास्तैः खचिता नद्धा भुजोरुदण्डा बाहुदण्डा यस्य स तेन । बद्धासीति । [^1]F. गुडेन आर्द्रीकृताः इत्यर्थो बोध्यः । गुडमिश्रिता लाजग्रासा: चाञ्चल्यवशान्मा निपातयन्त्विति सेवकैर्मुखे ध्रियन्त इति तुरगस्वभावः । [^2]F. आलिखितसकलभुवनव्यापारत्वरूपं द्वयोः समानधर्मत्व- मेवेति नातिशयः । तस्मात् धर्मराजनगरस्य व्यतिकरं व्यापारं संबन्धं वेत्यर्थः । यमनगरलेखकैः सह अधिकरण ( कचहरी ) लेखकानां साम्येन एतेषां क्रूरतोपहासश्चातुर्येण ध्वनितो ग्रन्थकृता । [^3]F. इदमप्यज्ञानं टीकाकृतः । चन्दनलिप्तहस्तस्य प्रतिच्छन्दः स्थासकः । 'थापा' इति भाषा । [^१]G. लवलुलित; लवविलुलित. [^२]G. जम्बाल. [^३]G. ग्रामखर्वटनगर; नगरखेटखर्वट; खेटखर्वट. [^४]G. अधिकार. [^५]G. निर्गमन. [^६]G. परेण स्थाने स्थाने. [^७]G. तारागणशतशबलै:. [^८]G. घटितानेकदन्त. का० २५. सिधेनुकेनान्धद्रविडसिंहलप्रायेण सेवकजनेनास्थानमण्डपगतेन च यथोचितासनोपविष्टेन प्रसारयता दुरोदरक्रीडामभ्यस्यताष्टापदव्या- पारमास्फालयता परिवादिनीमालिखता चित्रफलके भूमिपालप्रति- बिम्बमाबध्नता काव्यगोष्ठीमातन्वता परिहासकथां विन्दता बिन्दु मतीं चिन्तयता प्रहेलिकां भावयता नरपतिकृतकाव्यसुभाषितानि पठता [^१]द्विपदीं गृह्णता कविगुणा [^२]नुत्किरता पत्रभङ्गानाल- पता वारविलासिनीजनमाकर्णयता वैतालिक [^३]गीतमनेकसहस्रसंख्येन धवलोष्णीषपटाश्लिष्टविकटकिरीटसंकटशिरसा सनि- र्झरशिख [^४]रलग्नबालातपमण्डलेनेव कुलपर्वतचक्रवालेन मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम्, आस्थानोत्थितभूमिपालसंवर्तितानां च कुथानां रत्नासनानां च राशिभिरनेकवर्णैरिन्द्रायुध- पुञ्जैरिव विराजितसभा [ टि ]-- बद्धा। कट्यामिति शेषः। असिधेनुका क्षुरिका येन। नाना- देशपरिग्रहादाह —आन्ध्रेति । आन्ध्रस्त्रिलिङ्गः,द्रविडो द्राविडदेशः, सिंहल: सिंहलद्वीपम्, तत्प्रायेण तत्सदृशेन । एतद्देशोद्भवाः प्रायो बाहुल्येन सन्ति यस्मिन्निति वा। स तेन सेवकजनेन । सेवकसेवके- नेत्यर्थः । इतः परं सामन्तविशेषणानि – आस्थानमण्डपो मध्य- मण्डपस्तत्र गतेन प्राप्तेन यथोचितानि यथायोग्यानि यान्यासनानि विष्टराः तेषूपविष्टेनासेदुषा । किं कुर्वता । दुरोदरक्रीडां द्यूतक्रीडां प्रसारयता विस्तारतया। अष्टापदमभ्यस्यताभ्यासं कुर्वता । [^1]अष्टापदं शारिफलम् । नयपिटकमित्यन्ये । तस्य व्यापारम् । आस्फालयता वादयता परिवादिनीं वीणाम्। चित्रफलक आलेख्य- पट्टके भूमिपालो राजा तस्य प्रतिबिम्बं प्रतिरूपमालिखता लिपी- कुर्वता । काव्येति । काव्यगोष्ठीमाबध्नता । काव्यश्रवणार्थं स्वस्यो- पवेशनेन जनबन्धं कुर्वतेत्यर्थः । परिहासकथामुपहासकारिवचन- रचनामातन्वता विस्तारयता । बिन्दुमतीं विचित्रां [^2]लिपिं विन्द- ता प्राप्नुवता । प्रहेलिकां पूर्वोक्तां चिन्तयता ध्यायता । नरपतिना राज्ञा कृतानि विरचितानि यानि काव्यसुभाषितानि काव्यसूक्तानि तानि भावयता चेतसि भावनां कुर्वता । द्विपदीं पद [^3]द्वयात्मिकां पठता पाठं कुर्वता । कविगुणान्नवीनकाव्यकर्तॄणां गुणांस्तत्काल- काव्यकरणादिरूपान्गृह्णता ग्रहणं कुर्वता । पत्राणि केतकीसंबन्धी- नि तेषां भङ्गान्रचनाविशेषानुत्किरतोत्कीर्णं [^4]कुर्वता। वारविलासिनी-जनं वारयोषिज्जनमालापयता संभाषयता । वैतालिका बोधिजनाः सुभाषितपाठका बन्दिनो वा तेषां गीतं गानमाकर्णयता शृण्वता । अनेकेति । अनेकानि सहस्राणि संख्या परिमाणं यस्य स तेन । धवलेति । धवलः श्वेतो य उष्णीषपटो मूर्धवेष्टनपटस्तेनाश्लिष्टान्या- लिङ्गितानि विकटानि विपुलानि किरीटानि कोटीराणि तैः संकटंसंकीर्णं शिरो यस्य स तेन । उष्णीषस्य श्वेतत्वात्किरीटस्य मणिप्रभया रक्तत्वाच्च श्वेतरक्तत्वसाम्यादुत्प्रेक्षामाह - सेति । सनिर्झरं निर्झरैः सहवर्तमानं यच्छिखरं शृङ्गं तत्र लग्नं बालातपस्य मण्डलं यस्मिन्नेवंभूतेन कुलपर्वतचक्रवालेनेवेदृशेन मूर्धाभिषेकेण कृतपट्टा- भिषेकेण सामन्तलोकेन स्वदेशसमीपवर्तिराजसमूहेनाधिष्ठितमिति प्रागुक्तमेव । आस्थानेति । आस्थानादुपवेशनस्थलादुत्थितो यो भूमिपालो [^5]नृपतिस्तस्मात्संवर्तितानां समूहैरिवेन्द्रायुधपुञ्जै- रिवेन्द्रधनुः समूहैरिव विराजितः शोभितः सभापर्यन्तः संसत्प्रान्तो यस्य तत् । पुनः कीदृशम् । अनवरतं निरन्तरं वारविलासिनीनां जनेनागच्छता निर्गच्छता चाकुलितं व्याकुलीभूतम् । अथ [^1]F. 'चौपड' इति भाषा । [^2]F. पद्यवर्णसंख्यया बिन्दवो लिख्यन्ते तैः पथस्य परिज्ञानं बिन्दुमती । यथा -०००००००: (वागर्थाविव संपृक्तौ ) । [^3]F. पदद्वयात्मिकां गाथाम्, इति वाच्यम् । [^4]F. अग्रसंबन्धेन - वारविलासिनीनां कपोलादिषु चन्दनादिना पत्ररचनां कुर्वतेत्यर्थो वा । [^5]F. इदमपि भ्रामकम् । आस्थानादुत्थितेषु भूमिपालेषु ( सामन्तेषु ) संवर्तितानां भृत्यैः संकोचितानाम् ('तह' 'घडी' किये हिन्दी) कुथानां रत्नासनानां च समूहः, अनेकवर्णैः इन्द्रधनुःसमूहै- रिव शोभितः सभापर्यन्तो यस्य तत् । [^१]G. द्विपदी:. [^२]G. उत्कीर्यता. [^३]G. गीतिम्. [^४]G. आलग्न. पर्यन्तम्, [^१]अमलभूमिसंक्रान्तमुखनिवहप्रतिबिम्बतया विकच- कमलपुष्पप्रकरमिव संपादयता गतिवशरणितनूपुर [^२]पारिहार्यरशना [^३]स्वनमुखरेण [^४]स्कन्धावसक्तकनकदण्डचामरेण निर्गच्छता प्रविशता चानवरतं [^५]वारविलासिनीजनेनाकुलितम्, एकदेशनिषण्णचामीकरशृङ्खलासंयत [^६]श्वगणम्, इतस्ततः प्रचलितपरिचि [^७]तमितकस्तूरिकाकुरङ्गपरिमल वासितदिङ्मु- खम्, अनेककुब्जकिरात [^८]वर्षवरबधिर [^९]वामनमूकसंकुल- म्, उपाहृकिंनरमिथुनम् आनीतवनमानुषम्, आबद्धमेषकुक्कुट- कुररकपिञ्जललावकवर्तिकायुद्धम्, उत्कूजितचकोरकादम्बहारीतकोकिलम्, [^१०]आलप्यमानशुकसारिकम्, इभप [^११]तिपरि- मलामर्षजृम्भितैश्च निःकूजद्भिः शिखरिणां जीवितैरिव गिरिगुहा- निवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भास्यमानम्, उत्त्रास्यमानैः काञ्चनभवनप्रभा-जनितदावानलशङ्कर्लोलतारकैर्भ्रमद्भिर्भवन- हरिणकदम्बकैर्लोचनप्रभया शबलीकृत दिगन्तरम्, [ टि ]-- च वारविलासिनीजनं विशेषयन्नाह – अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य प्रतिबिम्बस्तस्य भावस्तत्ता तया । तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते - विकचेति । विकचो विकस्वरः कमललक्षणपुष्पाणां प्रकरः समूहो यस्मिन्नेवंभूतमिव संपादयता कुर्वता । गतिवशेन गमनवशेन रणि- तानि शब्दितानि नूपुराणि पादकटकानि पारिहार्याणि कङ्कणानि रशनाश्च कटिमेखलास्तासां स्वनः शब्दस्तेन मुखरेण वाचालेन । स्कन्धेऽवसक्तं स्थापितं कनकदण्डयुक्तं चामरं येन स तथा तेन एकस्मिन्देशे निषण्ण आसीनश्चामीकरस्य सुवर्णस्य शृङ्खलान्दु- कस्तया संयतो नद्धः शुनां गणो यस्मिन् । इतस्तत इति । इतस्ततः समन्तात्प्रचलिताः परिचिता विश्वस्ता अमिता अनेके ये कस्तूरिका- कुरङ्गाः कस्तूरिकामृगास्तेषां परिमल आमोदस्तेन वासितं सुरभीकृतं दिड्मुखं यस्य तत् । अनेकेति । प्रत्येकमभिसंबन्धः । कुब्जाः पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवराः षण्ढाः, बधिराः प्रसिद्धाः, वामनाः पूर्वव्यावर्णितस्वरूपाः, मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहृतेति । उपाहृतमा- नीतं किंनरमिथुनं यस्मिंस्तत् । आनीतं वनमानुष [^1]मरण्यमनु- ष्यरूपवनचरं यस्मिन् । आबद्धेति । [^2]आबद्धाः संयता ये मेषा हुडाः, कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिञ्जला गणे- शाः, लावकाः प्रसिद्धाः, वर्तिकाः पक्षिविशेषाः, युद्धं यस्मिन् । उदिति । उत्प्राबल्येन कूजितं येषामेवंविधाश्चकोरा विषसूचकाः, कादम्बाः कलहंसाः, ताः पक्षिविशेषाः, कोकिलाः पिकाः यस्मिन् । आलप्येति । आलप्यमानाः संभाष्यमाणाः शुकसारिका यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जरप्राप्तहर्यक्षैरुद्भास्यमानमु- त्प्राबल्येन शोभमानम् । अथ केसरिणं ( णो) विशेषयन्नाह - इभ- पतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्माद्योऽमर्षः क्रोध- संभवस्तेन जृम्भितैर्घूर्णितैरत एव निःकूजद्भिर्नितरां गुञ्जद्भिर्गुञ्जारवं कुर्वद्भिः । शिखरिणां पर्वतानां केसरिसारवत्त्वादाह - जीवितैरिति । [^3]जीवितैरिव प्राणितैरिव । गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिर्गृहीतैर्बलाद्वनानीतैरित्यर्थः । पुनः प्रकारा- न्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्बकैर्गृहमृगसमूहै- र्लोचनप्रभया नेत्रदीप्त्या शबलीकृतं कर्बुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः । काञ्चनभवनं सुवर्णगृहं तस्य प्रभा कान्तिस्तया जनितोत्पादिता दावानलशङ्का वनवह्निद्वापरो येषां तैः अत एवोत्त्रास्यमानैरुत्प्राबल्येन त्रासं प्राप्यमाणैः । लोला [^1]F. आनीताः वनमानुषा यस्मिन्निति समासो बोध्यः । [^2]F. इदमप्यज्ञानम् - आबद्धं संघटितं मेषादीनां युद्धं यस्मि- न्नित्यर्थ: । [^3]F. सिंहा न गृहीता मन्ये पर्वतानां जीवा एव गृहीताः, इति भावार्थः । अत्र सिंहविषये निष्कूजद्भिरित्यसमञ्जसमेव, 'गर्जद्भिः' इति स्यात् । [^१]G. अमलमणिभूमि. [^२]G. परिहार्य. [^३]G. रव. [^४]G. स्कन्धसक्त. [^५]G. वारविलासिनीनां जनेन. [^६]G. संयताश्वगणम्. [^७]G. अपरिमितसितिकस्तूरिक. [^८]G. वर्षधर; बर्बरवर्षवर. [^९]G. वामनक. [^१०]G. लालप्यमान. [^११]G. पतिमद. उद्दामकेकारवानुमीयमानमरकतकुट्टिमस्थितशिखण्डिमण्डलम्, अतिशिशिरचन्दनविटपिच्छायानिषण्णनिद्रायमाणगृहसारसम्, अन्तःपुरेण च बालिकाजनप्रस्तुतकन्दुकपञ्चालिकाक्रीडे [^१]नान- वरतसं [^२]वाह्यमानदोलाशिखरक्वणितघण्टाटङ्कारपूरिताशामुखे- न भुजंगनिर्मोकशङ्कितमयूरह्रियमाणहारेण सौधशिखरावतीर्णप्रच- लितपारावतकुलतया स्थलोत्पलिनी [^३]वनेनेवान्तःपुरिकाजन- प्रस्तुतनरपतिचरितविडम्बनक्रीडेनाश्वमन्दुरापरिभ्रष्टागतैरवलुप्त- भवनदाडिमीफलैराखण्डिताङ्गणसहकारपल्लवैरभिभूतकुब्जवा- मनकिरातकरतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभि [^४]रा- कुलीभूतेन शुकसारिकाप्रकाशितसुरतविश्रम्भालापलज्जितावरोध- जनेन प्रासादसोपानसमारोहणचलितैरबलानां चरणावसक्तैर्मणि- [^५]मयैः पदे पदे रणद्भिस्तुलाकोटिवलयैर्द्विगुणी [ टि ]-- स्तारकाः कनीनिका येषां तैर्भ्रमद्भिरितस्ततः पर्यटद्भिः । उद्दामेति । उद्दाम उद्धतो यः केकारवस्तेनानुमीयमानमनुमान- विषयीक्रियमाणं मरकतकुहिमस्थितमामगर्भबद्धभूमिस्थितमुपविष्टं शिखण्डिमण्डलं मयूरसमूहो यस्मिन्। अतीति। अतिशिशिरोऽति- शीतलो यश्चन्दनविटपिर्मलयजतरुस्तस्य छाया आतपाभावस्तत्र निषण्णा उपविष्टा निद्रायमाणाः प्रमीलां कुर्वन्तो गृहसारसा यस्मिन् । अथ चान्तःपुरेण शुके [^1]त्यारभ्यावरोधजनेन भवनेत्यारभ्य गणेनाधिष्ठितेन समुपेतं सहितमभ्यन्तरं मध्यं यस्येति दूरेणान्वयः । क्रमेण कीदृशेत्यादि । बालिकेति । बालिकाजनेन कन्याजनेन प्रस्तुता प्रारब्धा कन्दुकस्य गेन्दुकस्य पाञ्चालिका, पञ्चभिर्मृदादि- मयीभिः स्वल्प [^2]गुलिकाभिर्द्यूतं पञ्चालिकोच्यते । तस्याः क्रीडा येन स तेन । अनवरतेति । अनवरतं निरन्तरं संवाह्यमाना- रुह्यमाणा या दोला प्रेङ्खा तस्याः शिखरमग्रं तस्मिन्क्वणिता या घण्टास्तासां टङ्कारस्तेन पूरितं भृतमाशामुखं येन । भुजगेति । भुजंगस्य सर्पस्य यो निर्मोकः कञ्चुकस्तेन शङ्कितः शङ्कां प्राप्तो यो मयूरः केकी तेन ह्रियमाणो गृह्यमाणो हारो मुक्ताकलापो यस्य स तेन । सौधेति । सौधशिखरादवतीर्णं प्रचलितं यत्पारावतकुलं रक्तलोचनकुलं तस्य भावस्तत्ता तया । स्थलेति । स्थलस्य या उत्पलिन्यः कमलिन्यस्तासां वनेनेव काननेनेव । पारावतानां नील- त्वसाम्यात्तदुत्प्रेक्षा । अन्तःपुरेति । अन्तः पुरिकाजनेन प्रस्तुता प्रारब्धान्यनरपतिचरितानां विडम्बनक्रीडा यस्मिन्स तेन । पुनः किंविशिष्टेन । कपिभिर्वानरैराकुलीभूतेन । अश्वानां दृष्टिदोषबाध- नार्थमश्वशालायां कपयः स्थाप्यन्त इति राज्ञामाचारः । अत उक्तम् । अश्वमन्दुरातः परिभ्रष्टा बन्धनाद्विमुक्ता अत एवागतास्तैः । अवेति । अवलुप्तानि मर्दितानि भवनदाडिमीफलानि यैः। आखण्डितेति । आखण्डिताः शकलीकृता अङ्गणं गृहाङ्गणं तस्य सहकारपल्लवा- श्चूतकिसलया यैः । अभीति । अभिभूताः पराभूता ये कुब्जवामन- किरातास्तेषां करतलाद्धस्ततलादाच्छिन्नानि बलाद्गृहीतानि भूष- णानि विकिरद्भिर्विक्षिपद्भिरेवंभूतैः कपिभिर्वानरैराकुलीभूतेन व्याकुलीभूतेन । शुकेति । शुकः कीरः, सारिका पीतपादा, ताभिः प्रकाशितः प्रकटीकृतो यः सुरते मैथुने विश्रम्भालापो विश्वासालाप- स्तेन लज्जितस्त्रपितोऽवरोधजनो यस्मिन्स तेन। प्रासादेति। प्रासा- दस्य गृहस्य यानि सोपानान्यारोहणानि तत्र यत्समारोहणमुपरिष्टाद्गमनं तेन चलितैः कम्पितैरबलानां स्त्रीणां चरणावसक्तैः पादाव- लग्नर्मणिमयै रत्नविकारैः पदे पदे । प्रतिचरणविन्यासमित्यर्थः। रण- द्भिः शब्दं कुर्वद्भिस्तुलाकोटिवलयैः पादाङ्गदवलयैर्द्विगुणीकृतं द्विगुणतामापादितं कूजितलक्षणं रुतं शब्दितं यासां ताभिरेवंभूता- भिर्हंसमालिकाभिः कलहंसपङ्क्तिर्धवलितं शुश्रीकृतमङ्गणं चत्वरं यस्य [^1]F. इदमपि प्रलापमात्रम् । 'ईदृशेन अन्तःपुरेण समुपेताभ्यन्त- रम्' इति दूरेणान्वय इति वक्तव्यम् । [^2]F. पुनः प्रलापोऽयम् । कन्दुकैः पाञ्चालिकाभिः वस्त्रनिर्मित- पुत्तलिकाभिश्च क्रीडा यस्मिन्नित्यर्थः । 'पञ्चालिका स्त्रियां वस्त्रपुत्रि- का गीतिभेदयोः' इति मेदिनी । [^१]G. अविरत. [^२]G. वाह्यमानतोली. [^३]G. वनशोभितेनेव. [^४]G. आकुलीकृतेन. [^५]G. मणिमयैर्विभूषणैः पदे पदे. कृतकूजितरुताभिर्भवन [^१]हंसमालिकाभि [^२]र्धवलिताङ्गणेन धृतधौतधवलदुकूलोत्तरीयैः कलधौतदण्डावलम्बिभिः [^३]पलित- पाण्डुरमौलि [^४]भिराधारमयैरिव [^५]मर्यादामयैरिव मङ्गलमयैरिव गम्भीराकृतिभिः स्वभावधीरैरुष्णीषिभिर्वयःपरिणामेऽपि [^६]जरत्सिंहैरिवापरित्यक्तसत्त्वावष्टम्भैः, कञ्चुकिभिरधिष्ठितेन समुपेताभ्यन्तरम्, [^७]जलधरसनाथमिव कृष्णागुरुधूमपटलैः, सनीहारमिव यामकुञ्जरघटाकरसीकरैः, सनिशामिव तमालवीथि- कान्धकारैः, सबालातपमिव रक्ताशोकैः, सतारागणमिव मुक्ता- कलापैः, सवर्षासमयमिव धारागृहै:, सतडिल्लतमिव हेममयीभि- र्मयूरयष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितदण्डपाणिप्रतीहारगणम्, उत्कृष्ट [^८]कविगद्यमिव विविधवर्णश्रेणि [^९]प्रतिपाद्यमा [^१०]नाभिनवार्थसंचयम्, अप्स- रोगणमिव [ टि ]-- स.तेन । धृतेति । धृतं धारितं धौतं क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौतस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः । अतिवृद्धत्वाद्दण्डमव- लम्ब्य स्थायिभिरित्यर्थः। पलितेति । पलितं पाण्डुराः कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयैरिव तद्वि- कारैरिव, मर्यादा स्थितिस्तन्मयैरिव, मङ्गलं श्रेयस्तन्मयैरिव गम्भी- राऽलब्धमध्याकृतिराकारो येषां तैः । अत एव स्वभावेनानुपाधिकेन धीरा धैर्यवन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुष्णीषिभिः । वयः परिणामेऽप्यतिवृद्धत्वेऽपि जरत्सिंहैरिव वृद्धहर्यक्षैरिवापरित्य- क्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं तस्यावष्टम्भ आधारो यैरेवंविधैः कञ्चुकिभिः सौविदल्लैरधिष्ठितेनानि। अङ्गण[^1]विशे- षेणम् । एवंविधेनान्तःपुरेण समुपेतं सहितमभ्यन्तरं मध्यभागो यस्येति गृहविशेषणमिति भावः । प्रकारान्तरेण गृहं वर्णयन्नाह -जलेति । जलधरसनाथमिव मेघ [^2]सदृशमिव । कैः । कृष्णा- गुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः । सनीति । नीहारेण हिमेन सह वर्तमानमिव यामकुञ्जराश्चतुष्किका [^3]गत- हस्तिनस्तेषां घटाः समूहास्तेषां कराः शुण्डास्तेषां शीकराः पृषता- स्तैः सनीति । निशा रात्रिस्तया सह वर्तमानमिव तमालानां तापिच्छानां वीथिका पङ्क्तिस्तस्या अन्धकारैस्तिमिरैः । सेति । सह बालातपेन तरुणालोकेन वर्तमानमिव रक्ता येऽशोकाः कङ्केल्लयस्तैः । सेति । सह तारागणेन नक्षत्रसमूहेन वर्तमानमिव । कैः । मुक्ताकलापैर्मुक्ताप्रालम्बैः । सवर्षेति । सह वर्षासमयेन प्रावृट्समयेन वर्तमानमिव । कैः । धारागृहैर्यन्त्रगृहैः । सेति । सह तडिल्लतया विद्युल्लतया वर्तमानमिव । काभिः । हेममयीभिः सुवर्णनिर्मितैर्मयूरयष्टिभिः कलापिसमूहोपवेशनदण्डैः । सेति । सह गृहदैवतेन वर्तमानमिव । काभिः । शालभञ्जिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येश्वरस्य भवनं गृहं तद्वदिव द्वारावस्थिता दण्डपा- णयः प्रतीहारगणा यस्मिन् । ईश्वरपक्षे कूष्माण्डका [^4]दयो गणाः। उत्कृष्टमलंकाराद्युपेतं यत्कविगद्यम [^5]च्छन्दं तद्वदिव । उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ये वर्णा ब्राह्मणादयः, एकमुख्यसजातीयसमूहश्रेणिः, ताभिः प्रतिपाद्यमान [^6]उत्पाद्यमानोऽभिनवः प्रत्यग्रोऽर्थसंचयो द्रव्यसमूहो यस्मिन् । पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपङ्क्तिभिः प्रतिपाद्यमानः कथ्य- मानोऽभिनवोऽश्रुतपूर्वोऽर्थसंचयोऽभिधेयसमूहो यस्मिन् । अप्सर- सां तिलोत्तमादीनां गणः समुदायस्तमिव । प्रकटः स्पष्टो मनसो [^7]रमाणां सुन्दराणा [^1]F. अयमपि प्रलापः । न किञ्चिदेतत् । अधिष्ठितेन अन्तःपुरेण समुपेताभ्यन्तरमित्यन्वयो बोध्यः । [^2]F. मेघसहितमिति बोध्यम् । [^3]F. अयमप्यस्पष्टोऽर्थः । प्रतिप्रहरं यामिकरूपेण परिवर्तनीयाः कुञ्जरा यामकुञ्जरा इत्यर्थः । [^4]F. द्वारावस्थिता दण्डपाणिः ( भैरवः ) गणाः प्रमथांश्च यस्य तत् इति शिवभवनपक्षेऽर्थः । [^5]F. छन्दोरहितं गद्यकाव्यमिवेत्यर्थो वाच्यः । [^6]F. उपहाररूपेण दीयमान इत्यर्थ उचितः । [^7]F. प्रलापोयम्, प्रकटः ( सर्वविदितः ) मनोरमः आरम्भः कार्यो- पक्रमो यस्मिन् तदित्यर्थः । [^१]G. कलहंसमालाभिः . [^२]G. धवलीकृताजिरेण धौत. [^३]G. पलितपाकपाण्डुर; पलितपाण्डु. [^४]G. आचारमयैः. [^५]G. विनयमयैरिव मर्यादा. [^६]G. जरीजरत्. [^७]G. सजलजलधर. [^८]G. कविकाव्यम्. [^९]G. श्रेणी. [^१०]G. अनेकाभिनव. प्रकटमनो [^१]रमारम्भम्, दिवसकरोदयमिवोल्लसत्पद्माकरकम- लामोदम्, उष्णकिरणमिव निजलक्ष्मीकृतकमलोपकारम्, नाटक- मिव [^२]पताकाङ्कशोभितम्, शोणितपुरमिव बाणयोग्यावासोपे- तम्, पुराणमिव [^३]विभागा [^४]वस्थापितसकलभुवनकोशम्, [^५]संपूर्णचन्द्रोदयमिव मृदुकरसहस्रसंवर्धितरत्नालयम्, दिग्गज- मिवाविच्छिन्नमहादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकव्यवहारकारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमिव महाभोगिमण्डल- सह [^६]स्राधिष्ठितप्रकोष्ठम्,महाभारतमिवानन्तगीताकर्णनानन्दि- तनरम्, यदुवंशमिव कुलक्रमागतशूभीमपुरुषोत्तमबल [^७]परिपालितम्, व्याकरणमिव प्रथममध्यमोत्तमपुरुषविभक्तिस्थितानेका देशकारकाख्यात [ टि ]-- मारम्भः प्रारम्भो यस्मिन्, पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्य सूर्यस्योदय उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेषामा- मोदः परिमलो यस्मिन्नित्यभङ्गश्लेषः । यद्वोल्लसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेषास्तेषामामोदः परिमलो यस्मिन् । उष्णकिरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कम [^1]लवज्जलजवत्कमलैर्वोपकार उपकृतिः पूजा वा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशरूपो येन तम् । नाटकं ताण्डवं तद्वदिव पताका वैजयन्ती तस्या अङ्को मध्यं तेन शोभितम् । पक्षे पताका हस्तविन्यासः, अको नाटकैकदेशः ताभ्यां शोभितं विराजितम् । शोणितपुरं बाणनाम्नो दैत्यस्य नगरं तच्च 'देवीकोट' इति प्रसिद्धं तद्वदिव बाणाः शरास्ते- षां योग्यो य आवासस्तेनोपेतं सहितम् । पक्षे बाणो दैत्यस्तदावासो- पेतमित्यर्थः । पुराणेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्न- तयावस्थापितो रक्षितः सकलभुवनस्य समग्रविष्टपस्य कोशो द्रव्य- समूहो यस्मिन् । पक्षे विभागेनावस्थापितो ज्ञापितः सकलभुवन- कोशः समप्रभुवनमण्डलं येन । संपूर्णेति । संपूर्ण: समग्रो यश्चन्द्र- स्तस्योदयस्तद्वदिव मृदवः स्वल्पा ये करा राजदेयद्रव्याणि तेषां सहस्रं तेन संवर्धितानि वृद्धिं प्राप्तानि यानि [^2]रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहस्रं तेन संवर्धितो वेलां ग्राहितो रत्नालयः समुद्रो येन स तम् । दिगिति । दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्नमत्रुटितं महादानस्य [^3]महद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतानं मदसंततिः । शेषं पूर्ववत् । ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समग्रविष्टपस्य व्यवहारो व्यवहरणं तस्य कारणं निदानं तदर्थमुत्पन्नं यद्धिरण्यं सुवर्णं तदेव गर्भे मध्ये यस्य तत् । पक्षे हिरण्यगर्भो विश्वरेताः । शेषं पूर्ववत् । ईशानेति । ईशान ईश्वरस्तस्य बाहुवनं भुजवनम् । सरलत्वाद्बाहुत्वाच्च नृत्यारम्भ उर्वीकृतत्वेन च वनोपमानम् । तद्वदिव । महेति । महाभोगिनां नृणां मण्डलसहस्रैरधिष्ठित आश्रितः प्रकोष्ठो गृहैकदेशे यस्मिन् (स्य)। पक्षे महाभोगिनां महासर्पाणां मण्डलसहस्रैरधिष्ठितः प्रकोष्ठः कलाचिका यस्मिन् (स्य ) । महानाभोगो विद्यते येषामेवंविधानां मण्डलानां खड्गानां सहस्रं तेनाधिष्ठितौ प्रकोष्ठौ यस्येति वा। महेति । महाभारतं शास्त्रं तदिवानन्तान्यसंख्यानि गीतानि गानानि तेषा- माकर्णनं श्रवणं तेनानन्दिता हर्षिता नरा मानवा यस्मिन् । पक्षे ऽनन्तः परमेश्वरस्तस्य [^4]गीतं स्तुतिस्तदाकर्णनेनानन्दितो नरो- ऽर्जुनो यस्मिन् । यदुवंशमिव यदुर्नृपतिस्तस्य वंशः संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरुषेषु मुख्याः, तेषां बलेन सैन्येन परि- पालितं रक्षितम् । रजन्यां चतुष्किका प्रदानेन तद्रक्षां कुर्वन्तीति [^1]F. हन्त धिक् । निजलक्ष्म्या निजशोभया कृतः कमलाया: ( राजलक्ष्म्याः ) वृद्धिरूपः शोभारूपो वा उपकारो येन तत्। ईदृ- शेन राजभवनेन राजलक्ष्म्याः शोभा भवतीति भवनेनोपकारकृतः । [^2]F. करसहस्रैः संवर्धिताः रत्नालयाः धनागाराणि यस्मिन्निति स्पष्टोऽर्थः। [^3]F. महावितरणस्येत्युचितम् । [^4]F. अनन्तस्य कृष्णस्य या गीता (अष्टादशाध्यायात्मिका ) तथा आनन्दित इत्यर्थो वक्तव्यः । [^१]G. रम्भाभोगम्. [^२]G. प्रकटपताका. [^३]G. यथाविभाग. [^४]G. अवस्थित. [^५]G. पूर्ण. [^६]G. अध्यासित प्रकोष्ठमिव. [^७]G. पालितम्. [^१]संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव [^२]भयान्तः- प्रविष्टसपक्ष [^३]भूभृत्सहस्रसंकुलम्, उषानिरुद्धसमागममिव [^४]चित्रलेखादर्शितविचित्रसकलत्रिभुवनाकारम्, बलियज्ञमिव पुराणपुरुषवामनाधिष्ठिताभ्यन्तरम्, शुक्लपक्षप्रदोषमिव विततशशिकिरणकलाप [^५]धवलाम्बरवितानम्, [^६]नरवाहनदन्तकथे- वान्तःसंवर्धितप्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थ- मिव सद्योऽनेकपुरुषप्राप्ताभिषेकफलम्, प्राग्वंशमिव नानासवपात्रसंकुलम्, निशासमयमिवानेक [ टि ]-- भावः । पक्षे शूरी नाम विष्णोः पितामहः, भीमो नाम कश्चि- त्, पुरुषोत्तमो विष्णुः, बलो बलदेवः एभिः परिपालितं लालितम् । जरासिन्धोरिति शेषः । व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आद्यः, अयं मध्यमोऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेक आदेशकारकाः आज्ञाका- रकास्तैराख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदानक्रिया तस्यां यो व्ययस्तस्य प्रपञ्चो विस्तारस्तत्र सुस्थितम् । सुखेनावस्थि- मित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशा- स्तिसृचतसृप्रभृतयः, कारकाणि कर्त्रादीन्याख्यातानि नव दश वा, संप्रदानं चतुर्थीकारकम् क्रिया भ्वादिः, अव्ययान्युच्चैरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो यस्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तःप्रविष्टं मध्ये समागतं यत्सपक्षाणां परि [^1]च्छदोपे- तानां भूभृतां राज्ञां सहस्रं तेन संकुलम् । पक्षे सपक्षाः पक्षयुक्ता भूभृतः पर्वताः । शेषं पूर्ववत् । उषेति । उषा बाणासुरपुत्री, अनि- रुद्धः प्रद्युम्नतनयः, तयोः समागमः संबन्धस्तदिव । तस्याः सखी- भूता चित्रलेखा तयानिरुद्धोत्कण्ठितामुषां प्रज्ञानाय चित्रे त्रिभुवन- मालिख्य दर्शितमिति पौराणिकी कथा । तामधिकृयाह – चित्रेति चित्रलेखाभिरालेख्यपङ्क्तिभिर्दर्शितः प्रकाशितो विचित्रो नाना- विधः सकलः समग्रस्त्रिभुवनस्य त्रिविष्टपस्याकार आकृतिर्येन तत् । पक्षे चित्रलेखा सखी । शेषं पूर्ववत् । बलिर्नृपस्तेन कृतो यज्ञो याग- स्तमिव पुराणपुरुषे र्वृद्धपुरुषैर्वामनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्य- भागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनावतारः। शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । विततो विस्तीर्णो यः शशिकिरणकलापस्तद्वद्धवलं यद- म्बरं वस्त्रं तस्य वितानमुल्लोचो यस्मिन् । पक्षे शशिकिरणकलापेन धवलाम्बरमेव वितानं यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तःसंवर्धिता अन्तःपुरे वृद्धिं प्राप्ता याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः । स्वार्थे कः । 'काम्यच्च' इति पूर्वस्येकारः। ताभिर्गन्धर्वाणां देवगायकानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तःसंवर्धिता प्रियदर्शनानाम्नी राजदारि- का नरवा [^2]हनपुत्री गन्धर्वदत्तश्च तस्या गान्धर्वशिक्षकोपाध्याय- स्तयोश्चिरविरहितयोः समागमोत्कण्ठा यस्मिन् । महातीर्थं वाराण- स्यादि तद्वदिव सद्यस्तत्कालमनेकैः पुरुषैः प्राप्तं लब्धमभिषेकेण फलं शरीर [^3]शुद्धिलक्षणं यस्मिन् । पक्षेऽनेकपुरुषैः प्राप्तमभि- षेकात्स्नानात्स्वर्गादिपदबन्धफलं यस्मात् । प्रागिति । प्राग्वंशो हवि- र्गृहात्प्राग्गृहम् । यज्ञगृहमित्यर्थः । तमिव नानाविधो य [^4]आसवः सोमवल्ल्यासवस्तेषां पात्राणि भाजनानि तैः संकुलं व्याप्तम् । [^1]F. भयेन शत्रुभयेन अन्तःप्रविष्टानां स्वपक्षीयजनसहितानां भूभृतां राज्ञां सहस्रेण संकुलमिति राजभवनपक्षेऽर्थः । [^2]F. इदमप्यज्ञानम्, अन्तःसंवर्धिता प्रियदर्शना ( परमसुन्दरी ) गन्धर्वदत्ताख्याया (सागरदत्तस्य कन्या ) तस्या उत्कण्ठा(नरवाहन- दत्तस्य कृते ) यस्याम् इत्यर्थः । तथाहि कथासरित्सागर: - 'राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः । तस्य गन्धर्वदत्ताख्या सुता- स्ति न्यक्कृताप्सराः ॥' सा हि बन्दिमुखान्नरवाहनदत्तस्य गुणान् श्रुत्वा तस्मिनुत्कुण्ठिता बभूव । पाठोऽपि - 'नरवाहनदत्तकथेव' इत्येवोचितः । [^3]F. अनेकपुरुषैर्नानादेशीयैः राजपुरुषैः प्राप्तम्, अभिषेक (राज्याभिषेक ) रूपं फलं यस्मात् । अर्थात् यस्माद्राजभवनात् बहुभिः राजभिः राजत्वं प्राप्तम् । [^4]F. नानाविधैः सवस्य यज्ञस्य पात्रैः स्रुक्स्रुवादिभिः संकुल [^१]G. संप्रदानापादान. [^२]G. भयात्प्रविष्ट. [^३]G. भूमिभृत्. [^४]G. विचित्रलेखा. [^५]G. धवलित. [^६]G. नरवाहनदत्तचरितमिव. नक्षत्रमालालंकृतम्, प्रभातसमयमिव पूर्वदिग्भागरागानुमेयमित्रो- दयम्, [^१]गन्धिकभवनमिवस्नानधूपविले [^२]पवर्णकोज्ज्वलम्, ताम्बूलिकभवनमिव कृतलवलील [^३]विङ्गैलकङ्कोलपत्रसंचयम्, [^४]प्रथमवेश्यासमागममिवाविदितहृदयाभिप्रायचेष्टाविकारम्, कामुकजनमिव बहुचाटुसंलापसुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशतसहस्रालंकरणकृतलेख्यपत्रसंच- यम्, धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमिव [^५]श्वा- पदद्विजोपघुष्टम्, रामायणमिव [^६]कपिकथासमाकुलम्, माद्री- कुलमिव नकुलालंकृतम्, संगीतभवनमिवानेकस्थानावस्थापित- मृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्, ज्यौतिषमिव ग्रहमोक्षकलाभागनिपुणम्, [ टि ]-- पक्ष आसवपात्राणि मद्यपात्राणि । 'मध्वासवो माधवको मैरेये सीधुरासवः' इति कोशः । निशा रात्रिस्तस्याः समयः काल- स्तमिव सप्तविंशप्तिभिर्मुक्ताफलैः रचिता नक्षत्रमालास्ताभिरनेकाभिरलंकृतं विभूषितम् । पक्षेऽनेका नक्षत्रमाला ग्रहश्रेणिर्यस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीत्या भागेनैकदेशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उद- योऽभ्युन्नतिर्यस्मिन् । स्तोकसंबन्धेन समागतानामपि सुहृदामति- गौरवम् का कथा बहुसंबन्धेनागतानामिति भावः । पक्षे पूर्वदिग्भागे प्राच्येकदेशे यो रागस्तेनानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक [^1]औषधादिविकृत्तस्य भवनं गृहं तद्वदिव स्नानानन्तरं केशानां धूपः, विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्ज्वलं निर्मलमित्यभङ्गश्लेषः । ताम्बूलिकानां नागवल्लीदल- विक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवल्ली विशेषः लविङ्गं देवकुसुमम्, एला चन्द्रवाला, कङ्कोलः कोशफलम् [^2]पत्रं जातिफलपत्रम्, एतेषां संचयः संनिधिर्यस्मिन्नित्यभङ्गश्लेषः। प्रथम आद्यो यो वेश्ययां वारयोषिता समागमस्तमिव । अतिगाम्भीर्यादवि- दितोऽज्ञातो हृदयाभिप्रायश्चित्ता: यो यस्यैवंविधस्य । अर्थाद्राज्ञः । चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतिर्यस्मिन्नित्य- भङ्गश्लेषः । कामुकः कामयिता यो जनस्तमिव बहूनि चाटूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परस्परालापाः सुभाषितानां सूक्तानां रसास्वादास्तेषु दत्तास्तालशब्दा अभीष्टावबोधनेन परस्परकरतालाहतयो यस्मिन् । पक्षे यैरिति तृतीयाबहुव्रीहिः। धूर्तो द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशतसहस्रालंकरणमलंकृतिस्तत्र कृतो लेख्यपत्रसंचयो यस्मिन् अवरोधजनस्य मध्ये यदलंकारादिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीक्रियत इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति। धूर्तैरपि [^3]सर्वं पत्रलेख्यपूर्वकं गृह्यत इति तदुपमानम् । धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनकमित्यभङ्गश्लेषः। महच्च तद्वनं च महावनं तदिव श्वापदा वने व्याघ्रादयो गृहे मृगयार्थं संरक्षिताश्च द्विजाः पक्षिणो ब्राह्मणाश्च तैरुपघुष्टं शब्दितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षितानां कपीनां वानराणां कथा वार्तास्ताभिः समाकुलम् । पक्षे कपिकथा हनूमत्कथा । माद्रीकुलं माद्री पाण्डु- पत्नी तस्याः कुलं तद्वदिव नकुलः सर्पहा तेनालंकृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः। संगीत- प्रेक्षणार्थं प्रयुक्तस्य गीतनृत्यवाद्यत्रयस्य भवनमिवानेकस्थानेष्वव- स्थापितं न्यस्तं मृदां मृत्तिकानामङ्गं यस्मिन् । पक्षे मृदङ्गानि मुर- जानि । रघुकुलं दशरथकुलं तद्वदिव । भरतः शैलूषस्तस्य गुणेन कलाकौशलेनानन्दितम् । पक्षे भरतस्य दाशरथेर्गुणो व्रतपालन- लक्षणः । ज्यौतिषमिव ज्योतिःशास्त्रमिव ग्रह उद्धतनृपाणां ग्रहणं, मोक्षस्तेषामेव [^1]F. गन्धद्रव्याणि विक्रीणीते स गान्धिकः ( गन्धी 'सुगन्धी' इति ख्यातः) । [^2]F. पर्णम् ( नागवल्लीदलम् ) इत्यर्थः । [^3]F. दीयमानाय ( दातव्याय ) मणिशतसहस्राय अलंकरणाय च कृतः लेख्यपत्रसंचय: 'एतावत्काले दास्यामि' इति ऋणलेख्यपत्र- समूहो यस्मिन्नित्यर्थः । [^१]G. गान्धिक. [^२]G. लेपन. [^३]G. लवङ्गैलाकङ्कोलि; लवङ्गैलाकक्कोल. [^४]G. प्रधान. [^५]G. विविधश्वापद. [^६]G. कविकथा. [^७]G.कुल. नारदीयमिव वर्ण्यमानराजधर्मम्, यन्त्रमिव विविधशब्दरसलब्धा- स्वादम्, मृदुकाव्यमि [^१]वान्यचिन्तितस्वभावाभिप्रा [^३]या- वेदकम्, महानदीप्रवाहमिव सर्व [^३]दुरितापहरम्, धनमिव न कस्यचि [^४]न्नाकाङ्क्षणीयम्, संध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षस्थलमिव श्रीरत्नप्रभाभासितदिगन्तम्, बलभद्रमिव कादम्बरीरसविशेषवर्णनाकुल [^५]मतिम्, ब्राह्मणमिव पद्मासनोपदेशदर्शितभूमण्डलम्, स्कन्दमिव शिखिक्रीडारम्भ- चञ्चलम्, कुलाङ्गनाप्रचारमिव सर्वदोपजातशङ्कम्, वेश्याजन- मिवोपचारचतुरम्, दुर्जनमिवापगतपरलोकभयम्, [^७]अन्त्यजजनमिवागम्यविषयाभिलाषम्, अगम्यविषयासक्तमपि प्रशंसनीय- म्, अन्तकभटगणमिव [ टि ]-- दण्डादिना मोचनम्, कलाभागा विज्ञानैकदेशाः तेषु निपु- णा यस्मिन् । पक्षे अर्केन्द्रो: ग्रहो मोक्षश्च, कला षोडशो भागः, तासां भागा विभागास्तेषु निपुणम् । एतज्ज्ञापकमित्यर्थः । नारदीयं पुराणं तद्वदिवासमन्ताद्वर्ण्यमानः स्तूयमानो राजधर्मोयस्मिन्नित्यभङ्गश्ले- षः। यन्त्रं वीणा तद्वदिव विविधाः शब्दा मनोज्ञशब्दाः, रसाः शृङ्गा- रादयः तेषां लब्ध आस्वादश्चर्वणं येन तत् । पक्षे विविधशब्दरसैर्ना- नाविधरागरसैलब्धास्वादा जना यस्मात् । मृदु सुकुमारं यत्काव्यं कविकर्म तद्वदिवान्यचिन्तितानि स्वभावाः प्रकृतयः, अध्यवसाया मनोगताभिप्रायाः, तेषामावेदकं कथकम् । पक्षेऽन्ये [^1]न कविना चिन्तितो विचारितो यः स्वभावाभिप्रायः सहजोऽभिप्रायः। तात्पर्य- विषयीभूतोऽर्थ इति यावत् । तस्यावेदकं ज्ञापकम् । महानया बृह- त्तटिन्याः प्रवाह ओघस्तमिव सर्वं यद्दुरितं दुश्चरितं तस्यापहरम् । पक्षे सर्व दुरितं पापम् । धनं द्रव्यं तद्वदिव न कस्यचिदपि नाका- ङ्क्षणीयं नाभिलषणीयम् । अपि तु सर्वस्यापि स्पहणीयमित्यर्थः । इत्यभङ्गश्लेषः । संध्यायाः सायंकालस्य समयः क्षणस्तमिव दृश्य- मानः प्रेक्ष्यमाणश्चन्द्रापीडस्य सुतस्योदयोऽभ्युन्नतिर्यस्मिन् । पक्षे चन्द्रापीड ईश्वरः । सर्वदा संध्यायां नृत्यविधानादिति भावः। नारा- यणो विष्णुस्तस्य वक्षस्थलं भुजान्तरं तद्वदिव श्रीः शोभा तया युक्तानि रत्नानि तेषां प्रभाः कान्तयस्ताभिर्भासितं प्रकाशितं दिगन्तं यस्मिन् । पक्षे श्रीलक्ष्मीः रत्नं कौस्तुभम् । शेषं पूर्ववत् । बलभद्रो रामस्तमिव कादम्बरी वक्ष्यमा [^2]णा स्त्री तस्या रसविशेषवर्णन आकुला मतिर्यस्मिन् । पक्षे कादम्बरी कापिशायनम् । ब्राह्मणमिव द्विजमिव पद्मासनोपदेशे [^3]न दर्शितं भूमण्डलं यस्मिन् । पक्षे पद्मासनो ब्रह्मा तस्योपदेशो वेदस्तेन दर्शितमन्येभ्यः प्रकाशितं भूमण्डलं येन स तम् । स्कन्दः स्वामी तमिव शिखी मयूरस्तस्य यः क्रीडारम्भस्तेन चञ्चलं चटुलमित्यभङ्गश्लेषः । कुलाङ्गनायाः कुलवध्वाः प्रचारः संचरणं तमिव सर्वं ददातीति सर्व [^4]दः परमेश्वरस्तस्मादुपजाता शङ्का भयं यस्मिन् । पक्षे सर्वदा सर्व- कालम् । वेश्याजनो वाराङ्गनाजनस्तमिवोपचारः सेवा तत्र चतुर- मित्यभङ्गश्लेषः । दुर्जनः खलस्तमिवापगतं परे लोकाः शत्रवस्तेभ्यो भयं यस्मिन् । पक्षे परलोको भवान्तरम् । अन्त्यजजनो दिवाकीर्ति- जनस्तमिवागम्यः परैरग्राह्य एवंविधो विषयो देशस्तमिवो [^5]प- चारो यस्मिन् । पक्षेऽगम्यानां विषयाभिलाषो यस्मिन्निति बहुव्रीहि: । अगम्यविषयासक्तमपि [^1]F. अन्यैः (वक्तर्भिन्नैः ) चिन्तितः श्रवणमात्रेणाऽवगतः स्वभावः ( स्वोऽर्थः ) अभिप्रायः कवेराशयश्च तयोरावेदकम् । प्रसादगुण- विशिष्टं काव्यमन्ये श्रवणमात्रेण आशयतोऽवबुध्यन्त इत्यर्थः । [^2]F. कादम्बर्या सांप्रतं परिचयाभावान्नोचितोयमर्थः । उभयत्रापि मद्यमेवार्थ: । राजकुलपक्षे 'आकुलमति' इति लिङ्गव्यत्ययः कार्यः । [^3]F. पद्मायाः आसनाथ ( स्थितये ) य उपदेशो ( गुरुभिदत्तः ) तेन दर्शितं भूमण्डलं ( भूमण्डलव्यवहारः ) यस्मिन् । [^4]F. सर्वदा उपजाता शङ्का यस्मात्, साधारणजना राजभवनाद् बिभ्यति । [^5]F. टीका भ्रष्टाक्षरेवाऽऽभाति । परैः अगम्यः अज्ञेयः विषयाणां देशानामभिलाषो यस्मिन्, कदा कीदृशो देश: आक्रम्य ग्रहीष्यते इति गुप्तमन्त्रत्वाद् न ज्ञायते इत्यर्थो योग्यः । [^१]G. अनन्य. [^२]G. वेदकम् [^३]G. दुरिततापहरम्. [^४]G. काङ्क्षणीयम्; काङ्क्षणीयं फलम्, [^५]G. मति, [^६]G. ब्रह्माणम्. [^७]G. अन्यजन. २६ का० कृताकृतसुकृतविचारनिपुणम्,सुकृतमिवादिमध्यावसानकल्याण- करम्, वासरारम्भमिव [^१]पद्मरागारुणीक्रियमाणनिशान्तम्, दिव्यमुनिगणमिव [^२]कलापिसनाथश्वेतकेतुशो [6३]भितम्, भारतसमरमिव कृतवर्म [^४]बाणचक्रसंभारभीषणम्, पातालमिव महाक [^५]ञ्चुक्यध्यासितम्, वर्षपर्वतसमूहमिवान्तः [^६]स्थिता- परिमित [^७]शृङ्गिहेमकूटम् महाद्वारमपि दुष्प्रवेशम्; अवन्ति विषयगतमपि मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नग्नलोकं राज- कुलं विवेश ससंभ्रमोपगतैश्च कृतप्रणामै : प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च [ टि ]-- प्रशंसनीयमिति विरोधः तत्परिहारस्त्वगम्यः परैरग्राह्यो विषयो देशस्तदासक्तमित्यर्थात् । अन्तको यमस्तस्य भटगणः सुभटसमूहस्तमिव कृताकृतं यत्सुकृतं शोभनं कृत्यं तस्य यो विचारस्तत्र निपुणं चतुरम् [^1]पक्षे.......सुकृतं पुण्यं तद्वदिवादिमध्यावसानेषु कल्याणकरं शुभकारकमित्यभङ्गश्लेषः । वासरस्य दिवसस्यारम्भस्तमिव पद्मरागै रक्तमणिभिररुणीक्रियमाणं रक्ती- क्रियमाणं निशान्तं गृहं यत्र तत् । 'धामागारं निशान्तम्' इति कोशः । पक्षे पद्मानां रागैररुणीक्रियमाणो निशान्तो रात्रिप्रान्तो यस्मिन् दिव्यो मुनिगणो वसिष्ठादिस्तमिव कलापिनो मयूरास्तैः सनाथाः सहिता ये श्वेतकेतवः सितध्वजास्तैः शोभितम्। पक्षे कलापी सनाथः श्वेतकेतुश्च त्रयोऽप्येते देवर्षयस्तैः शोभितं विराजितम्। भारतशा- स्त्रोक्तसमरमिव कृतो विहितो वर्मकवचम्, बाणाः शराः, चक्राणि प्रसिद्धानि, एतेषां संभार: समूहस्तेन भीषणं भयजनकम् । पक्षे कृतवर्मा हृदीकपुत्रः, बाणा: शिलीमुखाः, तेषां चक्रेषु परदलेषु संभारस्तेन भीषणम् । पातालं वडवामुखं तदिव महाकञ्चुकिनः सौविदल्लास्तैरध्यासितमाश्रितम् । पक्षे महाकञ्चुकिन: सर्पाः । वर्षपर्वताः क्षेत्रसीमाकारिणोऽचलाः सप्तैव । तदुक्तम् – 'हिमवान् हेमकूटश्च निषधो मेरुरेव च । श्वेतः कृष्णश्च शृङ्गी च सप्तैते वर्षपर्व- ताः'। तेषां समूहमिवान्तःस्थितानि मध्यस्थितान्यपरिमितान्य संख्ये- यानि शृङ्गीहेमानि । 'अलंकाराय यत्स्वर्गं तच्छृङ्गीकनकं विदुः'। तेषां कूटानि यस्मिंस्तत्संबन्धस्तैरपरिमितत्वे [^2]न शृङ्गं प्राधान्यं येषामेवंभूतानि हेमकूटानि सुवर्णसमूहा यस्मिन् । 'प्राधान्यसान्वोश्च' इत्यनेकार्थः । पक्षेऽपरिमितशृङ्गी हेमकूटाचलो यस्मिन् । महाद्वार- मपि दुःप्रवेशमित्यति [^3]शयोक्तिः । अवन्तिविषयो मालवदेश- स्तत्र गतमपि प्राप्तमपि मागधजनैर्जरासन्धदेशोद्भवजनैरधिष्ठित- मिति विरोधः । तत्परिहारस्तु मागधा युद्धान्निवर्तिनो गायनास्तैर- धिष्ठितमित्यर्थात् । स्फीतमपि ऋद्धिमदपि भ्रमन्तो नग्ना लोका यस्मिन्निति विरोधः । तत्परिहारस्तु भ्रमन्तो देशान्तरादागता नग्न- लोकाः स्तुतिव्रता नग्नाचार्याश्च यस्मिन्नियर्थात् । ससंभ्रमं सवेगमुपगतैः प्राप्तैः कृतः प्रणामो येनैवंभूतैः प्रतीहार- मण्डलैर्द्वारपालसमूहरुपदिश्यमान उपदर्श्यमानो मार्गः पन्था यस्य स तथा । बहुभिर्वषैर्विद्याभ्यासं विधाय गृहागतत्वेन तादृशगृहज्ञाना- भावाद्वारपालैर्मार्गः प्रदशर्यत इति भावः । यद्वा पितुराह्वानजनित- प्रमोदातिरेकेण विस्मृतान्यव्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति भावः। राजगृहप्रवेशानन्तरं स चन्द्रापीडो भुवनान्तराणीव सप्तकक्षान्तर- राण्यतिक्रम्य पितरं तारापीडमपश्यदित्यन्वयः । पुनः कीदृशः। राजलोकेन प्रणम्यमानो नमस्क्रियमाणः । अथ राजलोकं विशिनष्टि - सर्वत इति । सर्वतः [^1]F. प्रजाभिः कृतस्य अकृतस्य सुन्दररूपेण कृतस्य च ( कार्य- स्य ) विचारे इति राजकुलपक्षे । कृतयोः आकृत (पाप) सुकृत ( पुण्य ) योर्विचारे इति यमभटपक्षे । [^2]F. अस्पष्टमिदम् । अन्तःस्थितः अपरिमितानां शृङ्गिणां (गवादीनाम् ) हेम्नां च कूटो ( समूहः ) यस्मिन्निति राजकुलम् । अन्तःस्थितौ अपरिमितौ (महान्तौ ) शृङ्ग-हेमकूटी तान्नामकौ पर्व- तौ यस्य इति वर्षपर्वतसमूह इत्यर्थः । [^3]F. अज्ञानमिदम्, विरोधालंकारोऽत्र । महाद्वारत्वे दुःप्रवेशत्वं विरुद्धम् । राज्ञः प्रतापात् साधारणैः दुःप्रवेशत्वमिति तत्परिहारः । [^१]G. परिस्फुरत्पन्न. [^२]G. चित्रकलापि. [^३]G. उपशोभितन्. [^४]G. शिलीमुख. [^५]G. कञ्चुकिसहस्राध्यासितम्. [^६]G. परिमाण. [^७]G. शृङ्ग; श्रुङ्गि. पूर्वकृतावस्थानेन दूरपर्यस्तमौलिशिथिलि [^१]तचूडामणिमरीचि- चुम्बितवसुधातलेन राजलोकेन प्रत्येकशः प्रतीहारनिवे [^२]द्यमा- नेन सादरं प्रणम्यमानः, पदे पदे चाभ्यन्तरविनिर्गताभिराचारकुश- लाभिरन्त: पुरवृद्धाभिः क्रियमा [^३]णावतरणमङ्गलः, भुवनान्तरा- णीव विविधप्राणिसहस्रसंकुलानि सप्तकक्षान्तराण्यतिक्रम्याभ्यन्त- रावस्थितम्, अनवरत [^४]शस्त्रग्रहणश्यामिकालीढकरतलैः कर- चरणलो [^५]चनवर्जमसितलोहजा [^६]लकावृतशरीरैरालानस्त- म्भैरिव गजमदपरिमललो [^७]भनिरन्तरनिलीनमधुकरपटलजटि- लैः कुलक्रमागतरुदात्तान्वयैरनुरक्तै [^८]र्महाप्राणतयातिकर्कश- तया च दानवैरिवा [^९]शयाकारसंभाव्यमानपराक्रमैः सर्वतः शरीररक्षाधिकारनियुक्तैः पुरुषैः परिवृतम्, उभयतो वारविलासि- नीभिश्चानवरतमुद्धूमानधवलचामरम्, अमलपुलिनतलशोभिनि सुरकुञ्जरमिव मन्दाकिनीवारिणि हंस [^१०]धवलशयनतले निष- ण्णं पितरमपश्यत् । आलोकयेति च प्रतीहारवचनानन्तरमतिदूरा- वनतेन चलितचूडामणिना शिरसा कृतप्रणाममेह्येही [^११]त्यभि- धानो दूरादेव प्रसारितभुजयुगलः शयनतलादीष [^१२]दुच्छ्वसित- मूर्तिरानन्दजलपूर्यमाणलोचन: समुद्गत [ टि ]-- समन्तात् प्रचलितेनोत्थितेन कुमारागमनप्रतीक्षया पूर्वं कृतं विहितमवस्थानमनस्थितिर्येन । दूरादेव पर्यस्ता नम्रा ये मौलयः शिरांसि मुकुटानि वा तेभ्यः श्लथिलिताः श्लथीभूता ये चूडामणय- स्तेषां मरीचिभिश्चुम्बितमाश्लिष्टं वसुधातलं येन । प्रत्येकशः प्रत्येकं प्रतीहारो द्वारपालस्तेन निवेद्यमानेन निवेदनां क्रियमाणेन सादरं यथा स्यात्तथेति क्रियाविशेषणम् । पदे पदे प्रतिपदमभ्यन्तरान्मध्य- प्रदेशाद्विनिर्गताभिर्बहिर्निःसृताभिराचारे राजस्थितौ कुशलाभि र्निपुणाभिरन्तःपुरवृद्धाभिर्महत्तरिकाभिः क्रियमाणमवतरणमङ्गलं यस्य सः । अथं राजानं विशेषयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्यगृहेऽवस्थितं कृतावस्थानम् । पुनः कीदृशम् । पुरुषैः परिवृतं आवृतम् । पुरुषान्विशेषयन्नाह – अनवरतेति । अनवरतं निरन्तरं यच्छस्त्रग्रहणं तेन या श्यामिका तयालीढमाश्लिष्टं करतलं हस्ततलं येषां तैः । करचरणलोचनवर्जम् । एतान्विहायेत्यर्थः। तेषामप्यावर- णे शस्त्रग्रहणगतिप्रेक्षणानामेवाभावः स्यादित्यर्थः । असितं यल्लो- हजालकं तेनावृतमाच्छादितं शरीरं येषां तैः । कैरिव। आलानस्त-म्भैरिव गजबन्धनस्तम्भैरिव । असितत्वसाम्यादाह - गजेति । गज- स्य हस्तिनो यो मदो दानं तस्य यः परिमलस्तस्य लोभेन निरन्तरं निलीना ये मधुकरा भ्रमरास्तेषां पटलानि तैर्जटिलैर्व्याप्तैः। कुलक- मागतैः परम्परायातैः। उदात्तो महानन्वयो वंशो येषां तैः। अनुरक्तैः प्रीतिमद्भिः । महाप्राणतया महापराक्रमतयातिकर्कशतयातिनिष्ठु- रतया च दानवैरिव दनुजैरिवाशयश्चित्ताभिप्रायः आकार आकृतिः, ताभ्यां संभाव्यमानः पराक्रमः साहसं येषु तैरेवंभूतैः सर्वतश्चतुर्दिक्षु शरीररक्षाधिकारनियुक्तैरात्मरक्षकैः पुरुषैः परिवृतं परिवेष्टितम् । उभयतः पार्श्वद्वये वारविलासिनीभिर्वारयोषिद्भिरनवरतमुद्धूमानं वीज्यमानं धवलचामरं यस्य स तम् । पुनः कीदृशम् । हंसवद्धवलं यच्छयनतलं शय्यातलं तत्र निषण्णं स्थितम् । कमिव । मन्दाकिनी गङ्गा तस्या वारिणि जले सुरकुञ्जरमिवैरावणमिव । शयनं विशि- नष्टि – अमलेति । अमलं निर्मलं यत्पुलिनं सैकतं तस्य तलं तद्व- च्छोभिनि विराजिनि । अन्वयस्तु प्रागेवोक्तः । आलोकय विलोक- येति प्रतीहारवचनानन्तरं द्वारपालोक्तेः पश्चादतिदूरादतिदविष्ठदे- शादवनतेन नम्रेण चलितः कम्पितश्चूडामणिः शिरोमणिर्यस्यैवंभूतेन शिरसा मस्तकेन कृतः प्रणामो येन तम् । एह्येहि । वीप्सायां द्वित्वम् । आगच्छागच्छेत्यभिदधान इति ब्रुवाण: दूरादेव प्रसारितं विस्ता- रितं भुजयुगलं बाहुयुग्मं येन सः । शयनतलादीषत्किंचिदुच्छ्वसितोर्ध्वीभूता मूर्तिः शरीरं यस्य सः । आनन्दजलेन प्रमोदबाष्पेणपूर्य माणे भ्रियमाणे लोचने नेत्रे यस्य सः। आनन्दरूपमभिव्यञ्जयन्नाह - समुद्गतेति । समुद्गतः प्रादुर्भूतो यः [^१]G. चलित. [^२]G. निवेद्यमाननाम्ना. [^३]G. अवतारण; अवतरणक. [^४]G. शस्त्रग्रह. [^५]G. विलोचन. [^६]G. जालावृत. [^७]G. लोभनिलीन. [^८]G. महाप्रमाणतया. [^९]G. अतिशयाकारम्; आशयाकारम्; अतिशयाकारैः; अतिशयाकार. [^१०]G. हंसधवले. [^११]G. आदरेणामिदधानः. [^१२]G. उल्लसित. [^१३]G. आपूर्यमाण. [^१]पुलकतया सीव्यन्निवैकी [^२]कुर्वन्निव पिबन्निव तं पिता विन- यावनतमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृतमुत्तरीय [^३]मात्मीयं ताम्बूल [^४]करङ्कवाहिन्या सत्व- रमासनीकृतमपनयेति शनैर्वदन्नग्रचरणेन [^५]समुत्सार्य चन्द्रा- पीड: क्षितितल एव निषसाद । [^६]अनन्तरं निहिते चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत्। मुहूर्तमिव विस्मृ- तचामत्क्षेपनिश्चलानां वारविलासिनीनां साभिलाषैरनिलचलित [^७]कुवलयदामदीर्घै [^८]राजिह्म [^९]तरलतारसारैरवलुप्यमा- न इव दृष्टिपातैः स्थित्वा 'गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य [^१०]दर्शनलालसां यथाक्रमं सर्वा जननीर्दर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमुत्थाय निवारितपरिजनो वैशम्पायन द्वितीयोऽन्तःपुरप्रवेशयोग्येन [^११]राजपरिजनेनोपदिश्यमान- वर्त्मान्तःपुर माययौ । तत्र धवलकञ्चुकावच्छन्नशरीरै [^१२]रनेकशतसंख्यैः श्रियमिव क्षीरोदकल्लोलैः समन्तात्परिवृतां [ टि ]-- पुलको रोमाञ्चस्तस्य भावस्तत्ता तया सीव्यन्निव सीवनं कुर्वन्निवैकीकुर्वन्निव तन्मयीकुर्वन्निव पिबन्निवात्यादरेण पानं कुर्व- न्निव । पितुर्निकटे विनयातिशयं व्यञ्जयन्नाह - विनयेति । विनया- द्वैनयिकगुणेनावनतं नम्रीभूतं पिता तारापीडस्तं चन्द्रापीडमालि- लिङ्ग परिषस्वजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितु- स्तारपीडस्य चरणयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरीयं सत्वरं शीघ्रमासनीकृतं विष्टरीकृतम् अपनय दूरीकुर्विति शनैः शनैर्वद- न्ब्रुवन्नग्रचरणेन तत्समुत्सार्य दूरीकृत्य चन्द्रापीड: क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्विशेषं यथा स्यात्तथोपगूढ आलिङ्गितो वैशम्पा- यनो निहिते स्थापितेऽस्यासने [^1]चन्द्रापीडासने न्यषीददुपावि- शत् । विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलानां वारविलासिनीनां वारा- ङ्गनानां दृष्टिपातैर्नेत्रप्रान्तैरवलुप्यमान इवाच्छाद्यमान इव । दृष्टिपातं विशेषयन्नाह - सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः । सहस्य सादेशः । अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम कमल- माला तद्वद्दीर्घैरायतैराजिह्माकुटिला तरला चञ्चला तारा कनीनिका सैव [^2]सारं प्रधानं येषु तैः। मुहूर्तमिदं कियत्कालं तत्र राजसमीपे स्थित्वा स्थानं कृत्वा । हे वत्स हे पुत्र, गच्छ व्रज । पुत्रवत्सलां पुत्र- हितां मातरं जननीं दर्शनलालसां त्वद्दर्शनोत्कण्ठितामभिवाद्य पाद- ग्रहणं कृत्वा यथाक्रमं यथानुक्रमं सर्वा जननीरुपमातॄ र्दर्शनेनानन्दय प्रमोदय । इति हेत्वर्थे । पित्रा तारापीडेन विसर्जितो विसृष्टः सविनयं यथा स्यात्तथोत्थायोत्थानं कृत्वा निवारितस्तत्रैव रक्षितः परिजनः परिच्छदो येनैवंभूतो वैशम्पायनद्वितीयोऽन्तःपुरप्रवेश- योग्येन राजपरिजनेनोपदिश्यमानवर्त्मान्तःपुरमाययौ समागमत् । तत्रेति । तत्र अन्तःपुरे मातरं जननीं प्रणनाम नमश्चक्र इति दूरे- णान्वयः । अथ मातुर्विशेषणानि - धवलकञ्चुकैरवच्छन्नान्याच्छादितानि शरीराणि येषों तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तर्वंशि- कैः शुद्धोऽन्तर्वंशश्चान्तःपुरं तत्र नियुक्ता आन्तर्वंशिकाः कञ्चुक्या- दयस्तैः समन्तात्सर्वतः परिवृतां परिवेष्टिताम् । कैः कामिव । [^1]F. इदमनुचितम् । किन्तु – अस्य ( चन्द्रापीडस्य ) अनन्तरं ( पश्चात् ) निहिते आसने, इत्यर्थः । ब्राह्मणत्वेन वैशम्पायनायासन- दानं नानुचितम् । [^2]F. 'आजिह्मतरलतरतारैः' इत्येव पाठः । तरलतराः ताराः येष्वित्यर्थः । सारैरिति पाठेऽपि तालव्यादिः 'शारैः' इति पाठः । आजिह्माः तरलतराश्च यास्ताराः ताभिः शारैश्चित्रितैः । इति तदर्थः । [^१]G. पुलककण्टकतया. [^२]G. एकीकुर्वन्निव तम्. [^३]G. आत्मीयम्. [^४]G. करण्ड. [^५]G. समुत्सार्य क्षितितले. [^६]G. अनन्तरनिहिते; अनन्तरविनिहिते. [^७]G. कुवलयदल. [^८]G. जिह्मित. [^९]G. तरलतरतार. [^१०]G. दर्शनलालसाः. [^११]G. परिजनेन. [^१२]G. नैकशत. [^१]शुद्धान्तर्वंशिकैः, अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणीभिः संध्याभिरिव सकललोकवन्द्याभिः प्रलम्बश्रवणपाशाभिर्विदितानेक [^२]कथावृत्तान्ताभिर्भूतपूर्वाः पुण्याः कथाः कथयन्तीभिरिति [^५]हासान्वाचयन्तीभिः पुस्तकान्दधतीभिर्धर्मोपदेशान्निवेद [^६]यन्तीभिः जरत्प्रव्रजिताभिर्विनोद्यमानाम्, उपरचित- स्त्रीवेष [^७]भाषेण गृहीतविकटप्रसाधनेन वर्ष [^८]वरजनेनोप- से [^९]व्यमानाम्, अनवर [^१०]ताभिधूयमानवालव्यजनकला- पाम्, अङ्गनाजनेन च वसनाभरणकुसुमपटवा [^११]सताम्बूल- तालवृन्ताङ्गरागभृङ्गारधारिणा मण्डलोपविष्टेनोपास्यमानाम्, पयोध [^१२]रावलम्बिमुक्तागुणाम् [^१३]अचलमध्यस्रवद्गङ्गाप्रवाहा- मिव मेदिनीम्, आसन्नदर्पणपतितमुखप्रतिबिम्बाम् अर्क [ टि ]-- क्षीरोदकल्लोलैः क्षीरसमुद्रतरः परिवृतां श्रियमिव लक्ष्मी- मिव । पुनः कीदृशीम् । जरत्प्रव्रजिताभिर्वृद्धतापसीभिर्विनोद्यमानां विनोदविषयीक्रियमाणाम् । अथ च तापसीनां विशेषणानि--अति- प्रशान्तोऽतिशान्त आकारो यासां ताभिः । कषायेण रक्तं यदम्बरं वस्त्रं तद्धारयन्तीत्येवंशीलास्ताभिः । सकलाः समग्रा ये लोकास्तै- र्वन्द्याभिर्वन्दनीयाभिः । रक्ताम्बर साम्यादाह - [^1]संध्याभिरिव । प्रलम्बा लम्बायमानाः श्रवणपाशाः कर्णपाल्यो यासां ताभिः । विदि- ता ज्ञाता अनेकाः कथाः प्रबन्धास्तासां वृत्तान्तो वार्ता याभिस्तास्ता- भिः । पूर्वं भूता भूतपूर्वा एवंविधाः पुण्याः पवित्राः कथाः संबन्धान्क- थयन्तीभिः प्रतिपादयन्तीभिः । इतिहासान्पूर्वंवृत्तान्तान्वाचयन्तीभिः पठन्तीभिः । पुस्तका [^2]ञ्छास्त्रान्दधतीभिर्धारयन्तीभिः। धर्मोप- देशान्निवेदयन्तीभिर्ज्ञापयन्तीभिः । पुनस्तामेव विशेषयन्नाह – उप- रचितेति । उपरचितो विहितः स्त्रीणां वेषो नेपथ्यं भाषा च येन स तथा तेन । गृहीतमात्तं विकटं विपुलं प्रसाधनं प्रतिकर्म येनैवंविधेन वर्षवरजनेन षण्ढजनेनोपसेव्यमानां पर्युपास्यमानाम् । कामन्दक्यां तेषां लक्षणं यथा – 'ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जाया न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः' इति। अनवरतं निर- न्तरमभिधूयमानो वीज्यमानो वालव्यजनकलापश्चामरसमूहो यस्याः सा ताम् । अङ्गनाजनेन स्त्रीजनेन चोपास्यमानां सेव्यमानाम् ।अङ्गनाञ्जनं विशेषयन्नाह – वसनेति । वसनानि वस्त्राणि; आभर- णानि भूषणानि; कुसुमानि पुष्पाणि, पटवासः पिष्टातः, ताम्बूलं नागवल्लीदलानि, तालवृन्तं व्यजनम्, अङ्गरागो विलेपनम्, भृङ्गारः कनकालुका, एतान्धरतीति धारी तेन धारिणा । कीदृशेन। मण्ड- ल्योपविष्टेन स्थितेन । अन्वयस्तु प्रागेवोक्तः । पुनरपि विशेषतस्ता- मेव विशेषयन्नाह - पयोधरेति । पयोधरयोः कुचयोरवलम्बी मुक्ता- गुणो हारो यस्यास्ताम् । स्तनानामत्युच्चत्वेन मुक्तानां चात्युज्वल- त्वेनोपमान्तरं प्रदर्शयन्नाह - अचलेति । अचलयोः पर्वतयोर्मध्येऽन्तरे स्रवन् वहमानो गङ्गाप्रवाहो यस्यामेवंभूता मेदिनीमिव वसुंधरामिव । सर्वंसहत्वात्तस्याः पृथिव्या उपमानम् । आसन्नेति । आसन्नः समीपवर्ती यो दर्पण आदर्शस्तत्र पतितो मुखप्रतिबिम्बो यस्यास्ताम् । अत्रार्थ उपमानान्तरं दर्शयन्नाह – अर्केति। अर्कबिम्बे सूर्यमण्डले प्रविष्टुं शशिमण्डलं यस्यामेवंभूतां दिवमिवाकाशमिव । तस्यामेव शशिबिम्बस्यार्कबिम्बे प्रवेशात् । अत्रादर्शस्य सूर्यबि- म्बोपमानम् । मुखस्य शशिभ्रण्डलोपमानम् । [^]F.1 अतिप्रशान्ताकाराभिरित्यादि विशेषणत्रयं प्रव्रजितासु सन्ध्यासु च योज्यते । अतिप्रशान्ताकाराभिः सकललोकवन्द्या- भिरिति तूभयत्र समानं स्पष्टं च । सन्ध्यापक्षे - कषायेण रक्तमिव यदम्बरम् ( आकाशम् ) तद् धारयन्तीभिरित्यर्थो बोध्य: । [^2]G. पुस्तक-शास्त्रयोः क्लीबत्वमेवोचितम् । [^१]G. शुद्धान्तान्तर्वंशिकै:. [^२]G. कथालाप. [^३]G. श्रुतपूर्वा:. [^४]G. कथा:. [^५]G. वाचयन्तीभिरितिहासपुस्तकानि ददतीभिः; इतिहासान्वाचयन्तीभिः पुस्तकानि दधतीभिः. [^६]G. निवेदयन्तीभिः पुण्याः कथा जरत्. [^७]G. भारेण. [^८]G. वर्षधर. [^९]G. संसेव्यमानाम्. [^१०]G. विधूयमानाम्. [^११]G. ताम्बूलवृन्त. [^१२]G. अवलम्बित; अन्तरावलम्बित. [^१३]G. अचलद्वयप्रवृत्तगङ्गा; अचलद्वयमध्यप्रवृत्तगङ्गा. बिम्बप्रविष्टशशिमण्डलामिव [^१]दिवं समुपसृत्य मातरं [^२]प्रण- नाम । सा [^३]तु तं ससंभ्रममुत्थाप्य सत्यप्याज्ञासंपादनदक्षे पार्श्व- परिवर्तिनि परिजने स्वयमेव [^४]कृतावतरणका [^५]प्रस्नुतपयो- धरक्षरत्पयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन नि [^६]र्गच्छतेव हृदयेनान्तःशुभ [^७]शतानीव ध्यायन्ती मूर्धन्युपाघ्राय तं सुचिर- माशिश्लेष । अनन्तरं च तथैव कृतयथोचितसमुपचारमाविष्टवैश- म्पायना स्वयमुपविश्य विनयादवनितले [^८]समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गमारोपितवती। [^९]ससंभ्रम- परिजनोपनीतायामासन्द्यामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनः पुनरालिङ्ग्य ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत् – 'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरी [^१०]दृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमि- यन्तं कालं लम्भिता । [^११]कथमसि सोढवानतिदीर्घामिमां [^१२]गुरुजनयत्रणाम् । अहो, बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो, वि [^१३]गलितशिशुजनक्रीडाकौतुकलाघव [^१४]मर्भके ते हृदयम् । अहो, गुरुजनस्योपरि भक्ति- [^१५]रसाधारणा सर्वा । यथा पितुःप्रसादा. [ टि ]-- राज्ञ्या अमावास्योपमानमिति भावः। समुपसृत्य पार्श्वे समागत्य । अन्वयस्तु प्रागेवोक्तः । तु पुनरर्थे । सा विलासवत तं तं संभ्रमं सवेगं पादपतितमुत्थाप्य पार्श्वपरिवर्तिनी निकटस्थायिनि परिजने परिच्छद आज्ञासंपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्सा [^1]हकर्मविशेषो यया सा । हृदयेन चेतसान्तर्मध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती । अथ हृदयविशेषणानि - प्रस्रु ( प्रस्नु )तेति । प्रस्नुतौ पयःपूर्णौ यौ पयोधरौ ताभ्यां क्षरन्तो ये पयोबिन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय निर्गच्छतेव बहिःप्रसर्पतेव स्नेह आभ्यन्तर- प्रीतिस्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वा तं सुचिरं चिरकालमाशिलेषालिलिङ्ग । अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् । कृतमिति । कृतो यथोचितो यथायोग्यः समुपचारः प्रियवाग्व्यापारो यथा स्यात्तथाश्लिष्ट आलि- ङ्गितो वैशम्पायनो यया सा स्वयमुपविश्य विनयादवनितले समु- पविशन्तमासेदिवांसमाकृष्य बलादाकर्षणं कृत्वानिच्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्सङ्गं क्रोडमारोपितवत्यारोपया- मास । ससंभ्रमं सवेगं परिजनेन परिच्छदेनोपनीतायामानीताया- मासन्द्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनः पुनर्वारंवारमालिङ्ग्योपगूहनं विधाय ललाटदेशेऽलिकप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुर्वारंवारं करतलेन स्वपाणितलेन परामृशन्ती परामर्शनं कुर्वती विलासवती तमवादी- दवोचत् । किमुवाचेत्याह-वत्सेति। हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीयमाकृतिराकार- स्त्रिभुवने लालनीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्त- मेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा चिरकाल- मिमां गुरुजनयन्त्रणां पूज्यजननियन्त्रणां कथं सोढवानसि । अहो इत्याश्चर्ये । ते तव बालस्यापि ततः कठोरस्यैव महद्धैर्यम् । अहो इति पूर्ववत् । [^2]अर्भके बालके त्वयि विगलितं दूरीभूतं शिशु- जना बालजनास्तेषां क्रीडाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत् । गुरुजनस्योपर्यसाधार [^3]णा सर्वा भक्तिः । यथा पितुर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्या- भिरुपेतः सहित आलोकितोऽसि वीक्षितोऽसि । [^1]F.यानावतरणकालिकं धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणम्। [^2]F.'अर्भकस्यापि ते हृदयम्' इत्येव ग्रन्थकारानुमतः पाठः । [^3]F. 'असाधारणी भक्तिः सर्वथा' इत्येव पाठः । 'सर्वा' इति विशेषणस्याऽसमर्पकत्वात् । [^१]G. दिवसमुपसृत्य; दिवसश्रियं समुपसृत्य. [^२]G. ननाम. [^३]G. तु ससंभ्रममुत्थाय. [^४]G. कृतावतरणकापस्नुतपयोधर; कृतावतरणकमङ्गला प्रस्नु- तपयोधर. [^५]G. प्रस्तुत. [^६]G. निर्गतेन. [^७]G. शतान्यभिध्यायन्ती; शतानीवाभिध्यायन्ती. [^८]G. समुपाविशन्तम् ; उपविशन्तम्. [^९]G. ससंभ्रमम्. [^१०]G. ईदृश. [^११]G. कथमपि. [^१२]G. गुरुयन्त्रणाम्. [^१३]G. विगत. [^१४]G. अर्भकत्वे त्वयि; अर्भकस्यापि ते; अर्भके ते. [^१५]G. असाधारणी सर्वथा. त्समस्ताभिरुपेतो विद्याभि [^१]रालोकितोऽस्येवमचिरेणैव काले- नानुरूपाभिर्वधूभिरुपेतमालोकयिष्यामि' इत्येवमभिधाय लज्जास्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवावतंस इव कपोले पर्यचुम्बदेनम् । एवं च तत्रापि [^२]नातिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शने [^३]नानन्दयामास । निर्गत्य च राजकुल [^४]द्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमान: शुकनासं द्रष्टुमयासीत् । यामाव- स्थितविवि [^५]धगजघटासंकटम्, अनेकतुरङ्गसहस्रसंबाधम्, अपरिमितजन [^६]समूहसहस्रसंमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निबद्धचक्रवालैरनेककार्यागतैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनो [^७]न्मीलितप्रतिभैरवरच्छद्मना विनयानुरा [ टि ]-- एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानु- रूपाभियोग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय एवं कुमारं पर्यचुम्बच्चुम्बनं कृतवती । कीदृशम् लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्परभागे । कीदृशे ।'आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह - विकचेति । विकचैर्विकस्वरैः [^1]कमलैः कृतो विहितः कर्ण- पल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्यवरो [^2]धानि दर्शनेनानन्द- यामास प्रमोदयामास । राजकुल [^3]द्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थित- मिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्र- लोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्रष्टुं विलोकयितुमयासीदि- त्यन्वयः । 'या प्रापणे' लुङि रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं निवेशेत्यन्वयः। अथ गृहद्वारं विशेषयन्नाह - यामेति । यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूह- स्तया संकटं संबाधं प्रवेष्टुसशक्यम् । अनेके ये तुरङ्गास्तुरङ्गमा- स्तेषां सहस्रं तेन [^4]सबाधं बाधासहितम् । अपरीति । अपरि- मिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजातीयनर- गणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम्। एक- देश एकान्त उपविष्टैः स्थितैः सहस्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तैः । दर्शनार्थमवलोक- नार्थमुत्सुकैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाजनं नेत्रौषधं तेनोन्मीलितानि विकासं प्रापितानि प्रति [^5]भानि चक्षूंषि येषां तैः । अवरेति अवरच्छ [^6]द्मना सेवक [^1]F. विकस्वरेण कमलेन, इत्येकवचनमेवोचितम् । प्रतिबिम्बस्य ( उपमानकोटिस्थस्य, मुखप्रतिबिम्बस्य ) एकत्वात् । [^2]F. अवरोधान्, पुंस्त्वात् । [^3]F. 'राजकुलद्वारावस्थितम्' इत्येव ग्रन्थशैल्यनुकूलः पाठः । [^4]F. संकीर्णम् । 'संकटं ना तु संबाध: कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे' इत्यमरः । [^5]F. पुनरज्ञानं टीकाकृतः । उन्मीलितानि बुद्धिरूपलोचनानि येषामिति पाठे सोयमर्थः शोभते । शास्त्रेष्वञ्जनत्वारोपो हि प्रति- भासु लोचनत्वारोपमपेक्षते । [^6]F. अत्रापि ग्रन्थस्य सर्वथा अंशः कृतः । 'चीवरच्छद्मना' इत्येव पाठः । तथा च - चीवराणि बौद्धभिक्षुप्रावरणानि तेषां व्याजेन - विनये धर्मशिक्षायामनुराग एव अनुरागः ( रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव बौद्धाचारसिद्धवसन विशेषैरिव (येषु पटेषु धर्मशासनान्युलिख्य शिष्येभ्यः प्रदश्यन्ते ) अवगुण्ठितै: बौद्धशासनमार्गनिपुणैः (बौद्धभिक्षुभिः) । अयं भावः - बौद्धभिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु धर्मपटत्वमुत्प्रेक्ष्यते । अर्थात् चीवराणां तु व्याजो वर्तते, वास्तवे तु धर्मपटैरेव ते आच्छादिताः । अनुराग इति श्लिष्टम्, ततश्च श्लेषोत्थापिता सापह्नवोत्प्रेक्षाऽलङ्कारः । [^१]G. अवलोकसे एवम्. [^२]G. नातिचिरं स्थित्वा. [^३]G. नन्दयामास. [^४]G. द्वारावस्थितम्. [^५]G. गन्धगण. [^६]G. समूहसंमर्दं. [^७]G. उन्मीलितबुद्धिलोचनैश्चीवर. [^८]G. रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः. गिभिर्धर्मपरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरैयै [^१]रक्तपटैः पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानां च सा- मन्तानां जघनो[^२]पविष्टपुरुषो [^३]त्सङ्गावस्थितद्वि [^४]गुणकुथाभिरतिचिरावस्थाननिर्वेदप्रसुप्ताधो [^५]रणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायिताभिः शतसहस्रशः करिणी- भिराकीर्णं शुकनासगृहद्वारमासाद्य सत्वरप्रधावितैर्द्वारदेशावस्थितै: प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो [^६]बाह्या- ङ्गण एव [^७]तुरगादवतसार द्वारदेशा [^८]वस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारितपरिजनै [^९]स्तत्प्र- तीहारमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिर्नरेन्द्र- वृन्दैः सेवासमुपस्थितैरुत्थायोत्थाय प्रणम्यमान [^१०]स्तथैव च प्रचण्डप्रतीहारहुंकारभयमूकीभवत्परिजनानि प्रचलितवेत्रल[^११]ताचकितसामन्तचक्रचरणशतचलितवसुंधराणि कक्षान्तराणि निरीक्षमाण [^१२]स्तथैव च नवनव [ टि ]-- मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूतैरित्यर्थः । धर्मपटैरिवावगुण्ठितैराच्छादितैः शाक्यमुनीनामर्कबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गस्तत्र धौरेयैर्धुरंधरैस्तथा रक्तपटै: रक्ताम्बरैः पाशुपतैः शैवै- द्विजैर्ब्राह्मणैश्च दिवानिशमहर्निशमासेव्यमानमुपास्यमानम् । अभ्य- न्तरप्रविष्टानां मध्यगतानां सामन्तानां स्वदेशपार्श्ववर्तिराज्ञां च शत- सहस्रशः करिणीभिर्धेनुकाभिराकीर्णं व्याप्तम् । अथ करिणीविशे- षणानि - जघनेति । कट्या अग्रिमो भागो जघनं तत्रोपविष्टाः स्थिता ये सामन्तीयाः पुरुषास्तेषामुत्सङ्गाः क्रोडास्तेष्ववस्थिता [^1]द्विगु- णाः कुथा वर्णपरिस्तोमा यासु ताभिः । अतीति । अतिचिरं बहुकालं यदवस्थानं तस्माद्यो निर्वेदः स्वावमाननं तेन प्रसुप्ता निद्रां प्राप्ता आधोरणा हस्तिपका यासु ताभिः । सह पर्याणेन पल्ययनेन वर्त- मानास्ताभिर्निश्चलं चेष्टारहितं यदवस्थानं तेन प्रचलायिताभिः संजा- त [^2]निद्राभिरेतादृशं शुकनासगृहद्वारमासाद्य प्राप्य सत्वरं सवेगं प्रभावितैरतित्वराकृतगमनैर्द्वारदेशावस्थितैः प्रतीहारपुरुषैर्द्वारपाल- कैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इव बाह्याङ्गण एव राजपुत्रस्तुरगादश्वादवततारोत्तीर्णवान् । द्वारेति । द्वारदेशे प्रतोल्या- मवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलम्ब्यालम्ब्य पुरः प्रधावि- तैरग्रतः शीघ्रप्रचलितैः । समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् । प्रतीहारमण्डलैरुपदिश्यमान उपदेशविषयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् । चलिताः कम्पिता मुकु- टानां कोटयो येषां तैः नरेन्द्रवृन्दै राजसमूहैः सेवार्थं सपर्यार्थं समु- पस्थितैरागतैरुत्थायोत्थायेति । उत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्य- मानो नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्डा ये प्रतीहारा द्वार- पालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भीतिस्तेन मूकीभवन्मौ- नतां समाश्रयन्परिजनो येषु तानि । प्रचलितेति । प्रचलिता इतस्ततो विक्षिप्ता या वेत्रलता वेतसयष्टयस्ताभिश्चकितं शङ्कितं यत्सामन्त- चक्रं तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृह [^3]प्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काव्यां मध्येभबन्धने' इति विश्वः । निरीक्षमाणो विलोकमानः । नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्ज्वला ये प्रासादास्तैर्निरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुकनाभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा । [^1]F. सामन्तानां शुकनाससविधे गमनोत्तरं तद्भृत्याः करिणीनां कटिदेशे उपविष्टाः सन्ति तेषामङ्के च द्विगुणीकृताः (अपसार्य द्विगुणभागे संकोचिताः 'तहकिए' ) कुथाः स्थिताः सन्तीत्याशयः । [^2]F. निद्रावेशेन घूर्णिताभिरित्यर्थो बोध्य: 'घूर्णितं प्रचलायितम्' अमरः । [^3]F. गृहप्रदेशान्, इत्यर्थः । [^१]G. रक्तपादै:. [^२]G. स्थानोपविष्टपुरुषावस्थित. [^३]G. सङ्गस्थित. [^४]G. द्विगुणित. [^५]G. धोरणाभिः सपर्याणाभिः. [^६]G. बाह्याङ्गे. [^७]G. तुरङ्गात्. [^८]G. अवस्थित. [^९]G. तथैव प्रतीकार; तथैव च प्रतीहार. [^१०]G. तथैव प्रचण्ड. [^११]G. त्रासनचकित. [^१२]G. तथैव नव. सुधा [^१]वदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनास- भवनं विवेश । प्रविश्य चानेकनरेन्द्रसहस्रमध्यो [^२]पस्थितम- परमिव पितरमुपदर्शित विनयो दूरावनतेन मौलिना शुकनासं ववन्दे । शुक्रनामस्तं स [^3]संभ्रमं [^४]समुत्थाया [^५]नुपूर्वेणोणोत्थित-राज [^६]लोक: सादरमभिमुखदत्ताविरल पदः [^७]प्रहर्षविस्फा- रितविलो [^८]चनागतानन्दजलकणः [^९]समं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग। आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासन- मवनावेव राजपुत्रः समुपाविशत्, तदनु च वैशम्पायनः। [^१०]उप- विष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनि-जासनमवनितलमभजत । स्थित्वा च तूष्णीं [^११]क्षणमिव शुक- नासः समुद्रतप्रीतिपुलकैरङ्गैरावेद्यमान [^१२]हर्षप्रकर्षस्तमब्रवीत् – [^१३]'तात, अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारूढ- यौवनमालोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अथ समृद्धाः सर्वा गुरुजनाशिष:। अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः । [^१४]न ह्यपुण्यभाजां भवादृशा [^१५]स्त्रिभुवनविस्मय [^१६]जनकाः पुत्रतां प्रतिपद्यन्ते । क्वेदं वयः । क्वेयममानुषी शक्तिः । क्व [ टि ]-- अनेकेति। अनेकेषां नरेन्द्राणां यत्सहस्रं तन्मध्य उपस्थित- मपरमिवान्यमिव पितरं जनकम् । उपेति । उपदर्शितो विनयो येन स तथा दूरादविष्ठादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चक्रे । शुक्रनासस्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गोपगूहनं चक्रे । ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा वैशम्पायनेन स्वसुतेन समं सार्धम् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह - आन्विति । आनुपूर्व्यानुक्रमेणोत्थितो राजलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुखं दत्तान्यविरला- न्यनवच्छिन्नानि पदानि येन स तथा । प्रहर्षेति । प्रहर्षेण प्रमोदेन विस्फारिते विस्तारिते ये विलोचने तयोरागता आनन्दजलकणा यस्य स तथा । पूर्वमालिङ्गितः पश्चादुन्मुक्तश्च सादरं उपनीतमानीतं रत्नासनं सिंहासनमपहाय त्यक्त्वावनावेव पृथिव्यामेव राजपुत्र- श्चन्द्रापीड : समुपाविशदुपाविशत् । तदनु पश्चाद्वैशम्पायन उपा- विशत् । उपविष्टे च राजपुत्रे शुकनासवर्जमेकं शुकनासं विहाया- खिलं समग्रमन्यदवनिपालचक्रं राजसमूहमुज्झितं त्यक्तं निजासन- मात्मीयासनं येन तत् । अवनितलं पृथ्वीतलमभजदशियित । क्षण- मिति । क्षणमिव क्षणमात्रं तूष्णीं मौनं स्थित्वा च शुकनासः समुद्गतः प्रादुर्भूतः प्रीत्या स्नेहेन पुलको रोमाञ्चो येष्वेवंविधैरङ्गैरावेद्यमानो हर्षप्रकर्ष उत्कर्ष [^1]प्रमोदो यस्य स तथा तं चन्द्रापीडमब्रवीत् । हे तात हे पुत्र । 'तातस्तु पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अद्यास्मिन्दिने देवस्य तारापी [^2]डस्य समाप्तविद्यं परिपूर्णीकृता विद्या येनैवंविधमुपारूढयौवनं संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराच्चिरकालेन भुवनराज्यफलप्राप्तिस्त्रिभुवनाधिपत्यफलोप- लब्धिरुपजाता प्रादुर्भूता । अद्य गुरुजनानां पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संपत्तिभाजो बभूवुः। अद्यानेकजन्मा- न्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलितं फलवज्जज्ञे । अद्य कुलदेवताः कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः। न हि अपुण्य- भाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्टपस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । क्वेति महदन्तरे । इयं वयोवस्था [^1]F. प्रमोदोत्कर्ष इति वाच्यम् । [^2]F. 'समाप्तविद्यं भवन्तमालोक्य देवस्य तारापीडस्य भुवनराज्यफलप्राप्तिरुपजाता' इत्यन्वयो वाच्यः । [^१]G प्रासादमहस्र. [^२]G. उपविष्टम्. [^३]G. ससंभ्रम. [^४]G. उत्थाय. [^५]G. अनुपूर्वेण. [^६]G. लोकैः. [^७]G. संघर्ष. [^८]G. लोचन. [^९]G. सह. [^१०]G. समुपविष्टे. [^११]G. क्षणमपि. [^१२]G. हृदयहर्ष. [^१३]G. तात चन्द्रापीड. [^१४]G. तत्पुण्यभाजाम्. [^१५]G. सकलत्रिभुवन. [^१६]G. हेतवः. २७ का० चेदमशेषविद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजा यासां भरत- भगीरथप्रतिमो भवानुत्पन्नपालयिता । किं खलु कृतमवदातं कर्म वसुंधरया ययासि भर्ता समासादितः । हरिवक्षस्थःलनिवासासद्गृ- ह [^१]व्यसनितया हता खलु लक्ष्मीः, या विग्रहवती भवन्तं नोप- सर्पति । सर्वथा कल्पकोटीमहावराह इव [^२]दंष्ट्रावलयेन वह बाहुना वसुंधराभारं वह पित्रा' इत्यभिधाय च स्वयमाभरणवसन- कुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार। विसर्जितश्चोत्थायान्तः- पुरं प्रविश्य [^३]दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितम्, प्रतिच्छन्दकमिव राजकुलस्य द्वारावस्थितसितपूर्णकलशम्, आबद्धरित [^४]चन्दनमालम्, उल्लसितसितपताकासहस्रम्, अभ्याहतमङ्गलतूर्यरवपरिपूरित- दिगन्तरम्, उपरचितविकचकमलकुसुमप्रकरम्, अचिरकृताग्नि- कार्यम्, उज्ज्वलविविक्तपरिजनम्, उपपादिताशेषग्रहावेशमङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुप- विश्य सह [ टि ]-- क्व । इयं परिदृश्यमानाऽमानुषी मनुष्येष्वसंभाव्यमानैता- दृशी शक्तिः पराक्रमः क्व । इदमशेषविद्याग्रहणसामर्थ्यं च क्व । अहो इत्याश्चर्ये । धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः, ताभ्यां प्रतिमः सदृशो भवांस्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्ने । खलु निश्चयेन । वसुंधरया पृथिव्यावदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समा- सादितः प्राप्तः असि। हरिवक्षस्थले विष्णुभुजान्तरे यो निवासोऽव- स्थितिस्तलक्षणो योऽसङ्ग्रहो हठस्तद्व्यसनितया तदासक्ततया । खलु निश्चयेन लक्ष्मीः श्रीर्हता । दैवेनेति शेषः । या श्रीर्भवन्तं त्वां विग्रहवती शरीरधारिणी नोपसर्पति नाभ्युपैति । अमूर्तरूपेण यद्य- प्यनुसरति तथापि न मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटीर्यावद्बाहुना भुजेन वसुंधराभारं पित्रा सह जनकेन समं वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महांवराह इव । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा । चकारः समुच्चयार्थः । स्वय- मात्मनैव । आभरणेति । आभरणानि भूषणानि वसनानि वस्त्राणि कुसुमानि पुष्पाणि, अङ्गरागो विलेपनम्, एतत्प्रभृतिभिर्वस्तुभिरभ्य- र्च्यार्चयित्वा विसर्जयांचकार विसर्जितवान् । विसर्जितो गृहायानुज्ञा- त उत्थायोत्थानं कृत्वान्तःपुरमवरोधं प्रविश्य मध्ये गत्वा मनोरमा- भिधानां मनोरमेति नाम्नीं वैशम्पायनमातरं दृष्ट्वा विलोक्य तदनन्तरं बहिर्निर्गत्येन्द्रायुधं समारुह्यारोहणं कृत्वा कुमारो भवनं जगामे- त्यन्वयः । अथ भवनं विशेषयन्नाह – पित्रेति । पित्रा जनकेन पूर्व पूर्वस्मिन्काले कल्पितम् । कारितमित्यर्थः । राजकुलस्य राजसमू- हस्य प्रतिच्छन्दकमिव प्रतिबिम्बमिव । द्वारेऽवस्थिताः सिताः श्वेताः पूर्णाः कलशाः कुम्भा यस्मिन् । आबद्धाः संदानिता हरिता नीला- [^1]श्चन्दनमाला यस्मिन् । उल्लसितमुच्छ्रितं सितपताकानां श्वेतवैजय- न्तीनां सहस्रं यस्मिन् । अभ्याहतानि वादितानि यानि मङ्गलतूर्याणि कल्याणहेतुकातोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो निर्मितो विकचानां विकस्वराणां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् । अचिरं कृतमग्निकार्यं होमादिकं यस्मिन् । उज्ज्वलो निर्मलो विविक्तो भिन्नभिन्नस्वरूपः परिजनः परिवारो यस्मिन् । उपपादितं विहितमशेषं समग्रं गृह- प्रवेशमङ्गलं धात्वालेख्यादि यस्मिन् । अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप आस्थानमण्डपस्तत्राव- स्थिते स्थापिते शयने शय्यायां मुहूर्तं नाडिकाद्वयमात्रमुपविश्या- वस्थानं कृत्वा तेन राज [^1]F. 'वन्दनमाला' इत्येव पाठः, टीकाकारस्य तु पदे पदे बुद्धिरेवालौकिकी । [^१]G. व्यसनिनी. [^२]G. दंष्ट्राबलेन. [^३]G. दृष्ट्वा च. [^४]G. हरिचन्दन. तेन राजपुत्रलोके [^१]नाभिषेकादिमशनावसानमकरोद्दिवस विधिम्। अभ्यन्तरे च [^२]शयनीयगृह एवेन्द्रायुधस्थावस्थान- मकल्पयत् । एवंप्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ । गगनतलादवतर- न्त्या दिवसश्रियः पद्मरागनूपुरमिव स्वप्रभापिहितरन्ध्रं रविमण्डल- मुन्मुक्तपादं पपात ।[^३] जलप्रवाह इव रथचक्रमार्गानुसारेण दिवसकरस्य वाससलोकः प्रतीचीं [^४]ककुभ [^५]मगात् । अभिनव [^६]पल्लवलोहिततलेन करेणेवाधोमुखप्रसृतेन [^७]र- विबिम्बेन वासरः कमलरागमशेषं ममार्ज । कमलिनीपरिमलपरिचयागतालिमालाकुलितकण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृ- ष्यमाणं विजघटे । [^८]करपुटैरादिवसान्तमापीतमरविन्दमधुरस- मिव रक्तातपच्छलेन गगनगमनखेदादिव दिवसकरबिम्बं ववाम । क्रमेण च प्रतीचीकर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, स [ टि ]-- पुत्रलोकेन सह सार्धमभिषेकः स्नानमादिर्यस्य तम्। अशनं भोजनमवसानेऽन्ते यस्यैवंभूतं दिवसविधिं दिवसकर्माकरोदकार्षी- त् । अभ्यन्तरे मध्ये यच्छयनीयगृहं सुषुप्तिगृहं तस्मिन्नेवेन्द्रायुधस्य स्वकीयाश्वस्यावस्थानमकल्पयदन्वतिष्ठत् । एवमिति । अस्य राज्ञ एवंप्रायेणोदन्तेन वृत्तान्तेन तदहस्तद्दिनम् । परिणतिस्त्रयोदशमुहूर्तपर्यन्तदिवसावस्था परिणतिस्तामुपयया- वगमत् । रविमण्डलं सूर्यबिम्बमुदूर्ध्वं मुक्ताः पादाः किरणा येनैवंभूतं पपात स्रस्तम् । अन्योऽप्युपरिप्रदेशाद्यः पतति स ऊर्ध्वपाद एव स्यात् । स्वभाववर्णवर्तुलत्वसाम्यादुपमानान्तरं दर्शयन्नाह – गगनेति । गगनतलादाकाशतलादवतरन्त्या आगच्छन्त्या दिवसश्रियो दिनलक्ष्म्याः पद्मरागनूपुरमिव लोहित- कपादकटकमिव । नूपुरं प्रायेण सच्छिद्रम् । छिद्रोपलब्धय आह – स्वेति । स्वस्य या प्रभा कान्तिस्तया पिहितान्याच्छादितानि रन्ध्राणि छिद्राणि यस्य तत् । दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण वासरालोको दिवसप्रकाशः प्रतीचीं पश्चिमां ककुभं दिशमगात्प्रययौ । क इव । जलप्रवाह इव पानीयपूर इव । सोऽपि रथमार्गानुगामी स्यादिति भावः । वासरो दिवसोऽधोमुखं प्रसृतेन विस्तृतेन रवि- बिम्बेन सूर्यबिम्बेनाभिनवाः प्रत्यग्रा ये पल्लवास्तद्वल्लोहितं रक्तं तलं यस्यैवंभूतेन करेणेव करतलेनेव कमलरागमशेषं सम ममार्ज दूरीचकारेत्यन्वयः । अत्र वर्तुलत्वरक्तत्वसाम्याद्रविबिम्बस्य हस्त- तलोपमानम् । कमलानां संकोच [^१]त्वादेव रागनिवृत्तिरिति । कमलिनीति । कमलिन्या नलिन्या यः परिमलस्तस्य परिचयात्सं- बन्धादागता प्राप्तालिमाला भ्रमर श्रेणिस्तयाकुलितो व्याप्तः कण्ठो यस्य । अत एव हेतुनाह — कालेति । [^२]कालपाशै: कृष्णबन्ध- नैराकृष्यमाणमिव चक्रवाकमिथुनं द्वन्द्वचरमिथुनं विजघटे विघट- यां[^३]चकार । दिवसकरेति । दिवसकरबिम्बं सूर्यबिम्बं गगनग- मनखेदादिव व्योमसंचरणप्रयासादिव करपुटै: किरणसंपुटैरा दिव- सान्तमादिनपर्यन्तमापीतो योऽरविन्दमधुरसस्तमिव रक्तातपच्छ- लेन लोहितप्रकाशमिषेण ववामोद्गिरयांचकार । अस्तावस्थामाह प्रतीचीति । प्रतीची पश्चिमा तस्याः कर्णपूरं तदेव रक्तोत्पलं तद्रूपे लोकान्तरं क्षेत्रान्तरमुपगते प्राप्ते भगवति माहात्म्यवति गभस्ति- मालिनि श्रीसूर्ये सति । अथ च संध्यायां समुल्लसितायामुल्लासं प्राप्तायाम् । [^1]F. संकोचादेवेति तात्पर्यम् । [^2]F. रात्रौ चक्रद्वन्द्वस्य तथा विघटनमभूद् यथा काल ( मृत्यु )पाशैराकृष्टस्य मुमूर्षो: प्रियजनसकाशाद्वियोगो भवतीति शब्द- शक्त्या ध्वन्यते । मृत्युवद्दुःखसूचनेन प्रेमातिवायश्चरमं व्यङ्ग्यम् । [^3]F. वियुक्तं बभूवेति व्याख्यानमुचितम् । [^4]F. उज्जगारेत्यर्थः । मार्गगमनखेदातिशयाद् यथा श्रान्तस्य निपीतपदार्थस्य वमनं भवति तथाऽत्र सूर्यस्य वमनमित्याशयः । [^१]G. अभिषेकादिकम्. [^२]G. स्वशयनीय. [^३]G. सलिलप्रवाह:. [^४]G. दिशम्. [^५]G. अगमत्. [^६]G. पल्लवदललोहितकरेण. [^७]G. दिवसकर. [^८]G. करपुटैर्दिवसान्तम्. मुल्लसिता [^१]यामम्बरत [^२]टाकविकचकमलिन्यां संध्यायाम्, कृष्णागुरुपङ्कपत्रलतास्विव तिमिरलेखासु स्फुरन्तीषु दिशा [^३]मु खेषु, [^४]अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे ति- मिरेणो [^५]त्सार्यमाणे संध्यारागे, कमलिनीनिपीतमातपमुन्मूलयि- तुमन्ध [^६]कारपल्लवेष्विव [^७]प्रविशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैःशनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे, [^८]दिक्षु विक्षिप्तेषु संध्यादेवतार्चनबलिपिण्डेषु, शिख- रदेशलग्नतिमिरास्वनारूढमयूरास्वपि मयूराधिष्ठितास्विव मयूर- यष्टिषु, गवाक्षविवरनिलीनेषु प्राप्तादलक्ष्मी [^१०]कर्णोत्पलेषु पारावतेषु, विगतविलासिनीसंवाहननिश्च [^११]लकाञ्चन [^१२]पी- ठासु मूकीभूतघण्टास्वरास्वन्तः पुरदोलासु, भवनसहका [ टि ]-- अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह – अम्बरेति । अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात्, तदेव तटाकः सरस्त- स्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्याति- शयो व्यङ्ग्यः । पुनः केषु सत्सु । दिशामुखेषु दिग्वदनेषु तिमिर- [^1]लेखासु भूच्छायराजिषु स्फुरन्तीषु देदीप्यमानासु । कृष्णत्वसा म्यादाह — कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पङ्कः कर्दम- स्तस्य पत्रलतास्विव पत्रभङ्गेष्विव । दिशां [^2]मुखं तन्मुखमेव । अत एव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्ध- कारेण संध्याराग उत्सार्यमाणे दूरीक्रियमाणे सति । केनेव । अलिकुलं भ्रमरसमूह [^3]स्तेन मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्मसमूहे । तथा च रागतिमिरयोः कुमुदकमलयोर्विरुद्धातिशयवत्वेनैतदुपमानम् । कमलिनीति । कमलिन्या पद्मिन्या निपीतमास्वादितमातपं सूर्यालोकमुन्मूलयितुं मूलतोऽपि दूरीकर्तुं रक्तकमलोदराणि मधुकरकुलेषु शनैः शनैः प्रविशत्सु प्रवेशं कुर्वत्सु । कृष्णत्वसाम्यादाह – अन्धेति । अन्धकार [^4]प- ल्लवेष्विव तमोभागेष्विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशैव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं तस्या- वतंसपल्लवे शेखरकिसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संध्यादेवतार्चनार्थं बलिपिण्डेषु विक्षिप्तेषु विकीर्णेषु सत्सु । अर्धजलाञ्जलिभिरित्यपि बोध्यम् । तमसो नीलत्वात्तदेव मयूरसा- म्यमित्याशयेनाह– मयूरेति । शिखरदेशे प्रान्तप्रदेशे लग्नं तिमिरं तमो या स्वेवंविधास्वनारूढमयूरास्वप्यनाश्रितनीलकण्ठास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु सतीषु । पारावतानां रात्रौ विवरे निवासः प्रसिद्ध इति तदाह - गवाक्षेति । गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु । कृष्णत्वसाम्यादाहप्रासादेति । प्रासादस्य राजसदनस्य या लक्ष्मीस्तस्याः कर्णोत्पलेषु पारावतेषु कपोतेषु सत्सु । पुनः कासु । अन्तःपुरदोलास्ववरोध- प्रेङ्खासु सतीषु । ता विशेषयन्नाह - विगतेति । विगतं दूरीभूतं विलासिनीनां संवाहनमुद्वहनं तेन निश्चलानि स्थिराणि काञ्चन- पीठानि सुवर्णफलकानि यासु । मूकीति । मूकीभूता दोलासंबन्धिघण्टास्ताभिरस्वरासु शब्दरहितासु । आन्दोलनाभावादिति भावः । तदभावस्तु कस्यचिदारोहणाभावात् । भवनेति । भवनस्य गृहस्य यः सहकारश्चूतस्तस्य शाखावलम्बीनि पञ्जराणि येषां तेषु विगता- लापेषु संलापवर्जि [^1]F. अन्धकारपरम्परास्वित्यर्थः । [^2]F. दिशां यः प्राग्भागः स एव मुखं ( वदनम् ), अत एव तिमिरलेखास्तत्र कृष्णागुरुपत्रभङ्गायिता इति टीकाकर्तुस्तात्पर्यम्। [^3]F. भ्रमरसमूहाच्छादिततया मलिनेन कुवलय ( नीलोत्पल )- वनेन रक्तपद्मसरोवरे इव तिमिरेण सन्ध्यारागे उत्सार्यमाणे ( सति ) इत्यन्वयो बोध्यः । [^4]F. अत्रापि टीकाकारस्याज्ञानम्, नहि अन्धकारो वृक्षो यस्य पल्लवाः । अत एव 'अन्धकारकरपल्लवेष्विव' इत्येव पाठः । अन्तःप्रविष्टपदार्थस्य निःसारणाय हस्तः प्रवेश्यते, अत एव मधुक- रेषु अन्धकारकरपल्लवत्वोत्प्रेक्षेत्यर्थः । एवं 'तमोभागेष्विव' 'अति- शयत्वम्' इति लेखोऽप्यज्ञानम् । [^१]G. अम्बरतल. [^२]G. तडाग. [^३]G. दिशां मुखेषु. [^४]G. अलिकुलेन मलिनेषु. [^५]G. तिमिरनिकरेण. [^६]G. अन्धकारकरपल्लवेषु. [^७]G. विशत्सु. [^८]G. दिक्षु दिक्षु. [^९]G. अर्चना. [^१०]G. कर्णोत्पलेष्विव. [^११]G. निश्चलासु. [^१२]G. पीठिकासु. [^१३]G. घण्टारवासु; घण्टासु. रशाखा [^१]वलम्बिपञ्जरेषु विगतालापेषु शुकसारिकानिवहेषु, संगी [^२]तविरामविश्रान्तरवासूत्सार्यमाणासु वीणासु, युवतिनूपुर- शब्दोपशमनिभृतेषु भवनकलहंसेषु, अपनीयमानकर्णशङ्खचामरनक्षत्रमाला [^३]मण्डनेषु मधुकरकुलशून्यकपोलभित्तिषु मत्त- वारणेषु, प्रदीप्यमानेषु राजवल्लभतुर [^४]ङ्गममन्दुराप्रदीपेषु, प्रविशन्तीषु प्रथमयामकुञ्जरघटासु, [^५]कृतस्वस्त्ययनेषु निष्क्रा- मत्सु पुरोहितेषु, विसर्जितराजलोकविरलपरिजनेषु विस्तारितेष्विव राजकुलकक्षान्तरेषु, प्रज्वलितदीपिकासहस्रप्रतिबिम्बचुम्बितेषु [^६]कृतविकचचम्पकदलोपहारेष्विव मणिभूमिकुट्टिमेषु, निपतितदीपालोकासु रविविरहार्तनलिनीविनोदनागतबालातपास्विव भवनदीर्घिकासु, निद्रालसेषु पञ्जरकेसरिषु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकरकेतौ, अवतंसपल्ल- वेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, [^७]सूर्यका- न्तमणिभ्य इव संक्रान्ता [ टि ]-- तेषु । शुकः कीरः, सारिका पीतपादा, तयोर्निवहेषु सत्सु । संगीतेति । संगीतस्य यो विरामोऽवसानं तेन विश्रान्तः स्थितो रवः शब्दो यासां तासूत्सार्यमाणासु दूरीक्रियमाणासु वीणासु वल्लकीषु सतीषु । युवतीति । युवतीनां यानि नूपुराणि पादकटकानि तेषां यः शब्दस्तस्योपशमो निवृत्तिस्तेन निभृतेषु निश्चलेषु भवनकलहंसेषु गृहराजहंसेषु सत्सु । नूपुरशब्दोपशमस्य सजातीयरव [^1]शङ्का- कारित्वाभावेन तेऽपि सुखेन सुप्ता इति भावः । अपनीति । अप- नीयमानानि दूरीक्रियमाणानि दृष्टिदोषशमार्थं कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला नक्षत्रसंख्यमौक्तिकरचि- ताभरणविशेषः, एवंविधानि मण्डनानि भूषणानि येषु । मधुकरेति । मधुकरा भ्रमरास्तेषां कुलं समूहस्तेन शून्या रिक्ता कपोलभित्ति- र्येषां तेषु एवंविधेषु मत्तवारणेपु मत्तगजेषु सत्सु । प्रदीति । प्रदीप्य- मानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरङ्गमा अश्वास्तेषां मन्दुरा शाला तस्यां प्रदीपेषु स्नेहप्रियेषु । प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीषु प्रथमयामसक्ता याः कुञ्जरघटास्तासु । कृतेति । कृतं विहितं स्वस्त्ययनं विघ्नोपशमनविधिर्यैरेवंभूतेषु पुरो- हितेषु पुरोधस्सु निष्क्रामत्सु बहिर्गच्छत्सु । पुनः केषु सत्सु । मणि- भूमिकुट्टिमेषु स्फटिकमणिना बद्धानि यानि भूमौ कुट्टिमानि तेषु सत्सु । तानि विशेषयन्नाह -- विसर्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येषु । अत एव विस्तारिते- ष्विव विस्तारं प्राप्तेष्विव । स्तोकजनापेक्षया स्थानं महद्दृश्यते रजन्यामिति भावः । राजेति । राजकुलस्य यानि कक्षान्तराणि प्रकोष्ठान्तराणि तेषु । प्रज्वलितं यद्दीपिकासहस्रं तस्य प्रतिबिम्बानि प्रतिच्छायास्तैश्चुम्बितेषु सहितेषु । दीपकप्रतिबिम्बानां पीतत्वा- दुपमानान्तरं दर्शयन्नाह — कृतेति । कृतो विहितो विकचचम्पक- दलैरुपहारः पूजा येष्वेवंविधेष्विव । चम्पकदलानां पीतत्वादेव तदुपमानमिति भावः । निपतितेति । निपतितः पतितो दीपालोको गृहमणि [^2]प्रकाशो यासु । रवीति । रविविरहेण सूर्यविरहेणार्ता या नैलिन्यस्तासां विनोदनं क्रीडनं तदर्थमागतो बालातपो यास्वेवं- विधास्विव भवनदीर्घिकासु गृहवापीषु तीषु पञ्जरस्थकेसरिषु सिंहेषु निद्रया प्रमीलयालसेषु मन्थरेषु सत्सु । समारोपितेति। समारोपितमधिज्यं कृतं कार्मुकं येन स तस्मिन् । गृहीताः सायका बाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तःपुरप्रविष्टे मकरकेतौ कंदर्पे सति । सुरतेति । सुरते मैथुने यानि दूतीवचनानि तेषु कर्णे श्रोत्रे क्रियमाणेषु श्रूयमाणेषु सत्सु । सरागेषु अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंस- पल्लवेष्विव । मानि [^1]F. हंसरवानुकारी नूपुरशब्दः । ततश्च नूपुरशब्दे जाते हंसा: सजातीयस्य विरावभ्रमेण शब्दायन्ते, किन्तु नूपुरशब्दोपरामेण रात्रौ तेपि निभृताः स्थिता इति ग्रन्थकर्तुराशयः । [^2]F. दीपालोको दीपकानां प्रकाशः । [^3]F. पुं- स्त्रीलिङ्गाभ्यां रविनलिन्योर्नायकनायिकाव्यवहारसूच- नात् समासोक्तिः । [^१]G. अवलम्बित. [^२]G. संगीतक. [^३]G. मण्डलपिण्डेषु; मण्डलेषु. [^४]G. तुरङ्ग. [^५]G. कृतराज. [^६]G. विकच. [^७]G. सूर्यमणिभ्यः. नलेषु [^१]प्रज्वलत्सु मानिनीनां शोकविधुरेषु हृदयेषु, प्रवृत्ते प्रदो- षसमये चन्द्रापीडः प्रज्वलितदीपिकाचक्रवालपरिवारश्चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे [^२]मुहूर्तं स्थित्वा दृष्ट्वा च विलासवती मागत्य स्वभवनमनेकरत्नप्रभाशबलमुरगराजफणामण्डलमिव हृषीकेशः शयनतलमधिशिश्ये । प्रभातायां च निशीथिन्यां समुत्थाय [^३]समभ्यनुज्ञातः पित्राभिनव- मृगया कौतुका [^४]कृष्यमाणहृदयो भगवत्यनुदित एव सहस्र- रश्मावारुह्येन्द्रायुधममतो [^५]बालेयप्रमाणा [^६]नाकर्षयद्भिश्चा- मीकरशृङ्खलाभिः कौलेयकाञ्जरद्व्याघ्रचर्मश [^७]बलवसनक- ञ्चुकधारिभिरनेकवर्णपट्टचीरिको [^८]द्बद्धमौलिभिरुपचितश्मश्रु- गहनमुखैरेककर्णावसक्तहेमतालीपुटैराबद्धनिबिडकक्षैरनवरतश्र- मोपचितोरुपि [^९]ण्डेिकैः [^१०]कोर्दण्डपाणिभिः श्वपोषकैरन- वरतकृतकोलाहलैः प्रधावद्भिर्द्विगुणीक्रियमाण [^११]मनोत्साहो [ टि ]-- नीति । मानिनीनां शोकविधुरेषु शुक्पीडितेषु हृदयेषु मनस्सु मानादेव प्रज्वलत्सु दह्यमानेषु सत्सु । अत एवाह - सूर्येति । सूर्यकान्ता ये मणयस्तेभ्य इव संक्रान्तः प्रतिबिम्बितोऽनलो वह्नि- र्येषु । उपसंहरन्नाह - एवंविधे प्रदोषसमये यामिनीमुखसमये प्रवृत्ते सति प्रसृते सति चन्द्रापीडः । प्रज्वलितेति । प्रज्वलितमुद्दीपितं यद्दीपिकाचक्रवालं तदेव परिवारः परिच्छदो यस्यैवंभूतः। चरणा- भ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्तं स्थित्वा दृष्ट्वा च विलास- वतीमागत्य स्वभवनं शयनतलं शयनीयतलमधिशिश्ये शयनं चक्रे । शयनतलमित्यत्र 'अधिशीङ्स्थासाम्-' इत्यधिकरणे द्वितीया । शयनतलं विशेषयन्नाह - अनेकेति । अनेकेषां रत्नानां मणीनां या प्रभा तया शबलं कर्बुरम् । कृष्ण [^1]त्वसाम्यादुपमानान्तरमाह - उरगेति । उरगराजः शेषनागस्तस्य यत्फणामण्डलं तत्र हृषीकेश इव । प्रभातायामिति । प्रभातायां विभातायां निशीथिन्यां रजन्यां च समु- त्थायोत्थानं कृत्वा पित्रा जनकेन समभ्यनुज्ञातः प्रदत्तानुज्ञोऽभिनवा प्रत्यग्रा या मृगयाखेटकं तस्य यत्कौतुकमाश्चर्यं तेनाकृष्यमाणं हृदयं यस्य सः । भगवत्यनुदित उदयमप्राप्त एव सहस्ररश्मौ सूर्य इन्द्रा- युधमश्वमारुह्य बहुगजतुरगपदातिपरिवृतो वनं ययावित्यन्वयः । कीदृशो राजकुमारः। द्विगुणेति । द्विगुणीक्रियमाणो मनो [^2]त्सा- हो यस्य सः । कैः । श्वपोषकैः कौलेयरक्षकैः । तानेव विशिनष्टि – अग्रत इति । अग्रतः पुरतो बालेयो रासभस्तत्प्रमाणांश्चामीकर- शृङ्खलाभिः सुवर्णशृङ्खलाभिः कौलेयकाञ्शुन आकर्षय[^३]द्भि राकर्षणं कुर्वद्भिः । जरदिति । जरञ्जरीयान्यो व्याघ्रो द्वीपी तस्य चर्म त्वक्तद्वत्तदिव शबलं कर्बुरं यद्वसनं वस्त्रं तस्य यः कञ्चुको- ऽङ्गिका तद्धारिभिः । अनेकेति । अनेकवर्णा या पट्टचीरि [^4]का तयोद्बद्धाः संयता मौलयः केशा यैः । उपेति । उपचितानि वर्धिता- नि यानि श्मश्रूण्यास्यलोमानि तैर्गहनानि संकीर्णानि मुखानि येषां तैः । एकेति । एकस्मिन्कर्णेऽवसक्तं क्षिप्तं हेम [^5]तालीपुटं यैः । आबद्धेति । आबद्धा नद्धा निबिडं दृढं कक्षा मध्यप्रदेशो यैः । अनवरतेति । अनवरतं यः श्रमस्तेनोपचिते पुष्टे ऊरुपिण्डिके जङ्घापिचिण्डिके येषां तैः। पिण्डिका च गुल्फोपरिजानोरधःप्रदेशः। कोदण्डो धनुः पाणौ येषां तैः। अनवरतेति। अनवरतं निरन्तरं कृतः कोलाहलो यैः । [^1]F. धन्यष्टीकाकारः । न खलु कृष्णवर्णे शयनीये सुष्वाप चन्द्रा- पीडः, न च तस्य शोभैव । शेषोपि च श्वेत एव । अत एव श्वेतत्वसा- म्यादित्युचितम् । [^2]F. द्विगुणीक्रियमाणो गमनोत्साहो यस्येत्येव पाठः। मनोत्साह इति पाठस्वीकारस्तु सर्वथाऽव्युत्पत्तिष्टीकाकृतः । [^3]F. आकर्षद्भिरित्येव पाठः, णिचोऽनावश्यकत्वात् । [^4]F. अनेकवर्णाः याः पट्ट (क्षौम) वस्त्रस्य चीरिकाः क्षुद्रखण्डा- स्तैः उत् उपरि बद्धाः जटीभूताः केशा यैरिति व्याख्योचिता । [^5]F. स्वर्णघटितोऽलंकारविशेषः । [^१]G. ज्वलत्सु. [^२]G. मुहूर्तकम्. [^३]G. अभ्यनुज्ञात:. [^४]G. अवकृष्यमाण. [^५]G. बालेयद्वीपिप्रमाणान्. [^६]G. आकर्षद्भिः. [^७]G. शबलकञ्चक. [^८]G. अवबद्ध; उर्ध्वबद्ध. [^९]G. पिण्डकै. [^१०]G. दण्डपाणिभिः. [^११]G. उत्साहः; गमनोत्साहः. .. बहुगज [^१]तुरगपदातिपरिवृतो [^२]वनं ययौ । तत्र चाकर्णा- [^३]न्ताकृष्टमुक्तैर्विकचकुवलयपलाशकान्तिभिर्भल्लैर्मदकलकलभकुम्भभित्तिभिदु [^३]रैश्च नाराचैश्चापट [^४]ङ्कारभयचकित- वनदेवतार्धाक्षवीक्षितो वन [^५]वराहान्केसरिणः शरभां [^६]श्चा- मराननेकुरङ्गकांश्च सहस्रशो जघान । अन्यांश्च जीवत एव महाप्रा- णतया स्फुरतो जग्राह । समारूढे च मध्यमह्न: सवितरि वनात्स्ना- [^७]नोत्थितेनेव श्रमसलिलबिन्दुवर्षमनवरतमुज्झता मुहर्मुहुर्दशनविघट्टनै: खणखणायि [^८]तस्वरखलीनेन श्रमशिथिलमुखविग- [^९]लितफेनिलरुधिरलवेन पर्याणपट्ट [^१०]कांनुसरणोत्थितफेन- राजिना कर्णावतंसीकृतमुत्फुल्लकुसुमशबलमलिपटल [^११]झ- ङ्काररवमुखरं वनगमनचिह्नं पल्लवस्तबकमुद्वहतेन्द्रायुधेनोद्यमानः, समुद्गतस्वेदतया [^१२]न्तराकृतमण्डलेन मृगरुधिरलवशतशबलेन वारबाणेन द्विगुणतरमुप [^१३]जात [ टि ]-- प्रधावद्भि: शीघ्रं गच्छद्भिः । तत्रेति । तत्र तस्मिन्वने सह- स्रशोऽनेकशो वनवराहानरण्यक्रोडान्, केसरिणः सिंहान्, शरभा- नष्टापदान्, चामराश्चमरीः अनेककुरङ्गकानसंख्यमृगांश्च जघान हतवानित्यन्वयः । कैः। नाराचैर्लोहनिर्मितैर्बाणैः । 'सर्वलोहो नाराच एषणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्तेति । आकर्णान्तमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति। मदेन कला मनोहराः । अनेन कलभस्य त्रिंशदब्दकत्वा- न्मदावस्था सूचिता । अत एव कलभशब्दप्रयोगः । एवंविधा ये कलभा हस्तिशावकारतेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिदुरैर्भेदकैः । पुनः कैः । भल्लैः कुन्तैः। तानेव विशिनष्टि — विकचेति । विकचानि विकस्वराणि यानि कुवलया- न्युत्पलानि तेषां पलाशानि पत्राणि तद्वत्कान्तिदीप्तिर्येषां तैः। उत्ते- जितानां भल्लानामपि तदुपमानम् । चापेति । चापस्य धनुषो यष्ट- ङ्कारष्टङ्काररवोऽनुकरणशब्दस्तस्माद्यद्भयं तेन चकिता त्रस्ता या वनदेवता वनाधिष्ठात्र्यस्ताभिरर्धाक्षेण वीक्षितः। अन्यांश्चेति । अन्या- नेतद्भिन्नाजीवत एव प्राणान्दधत एव स्फुरतो दीप्यमानान्महाप्राण- तया महासाहसतया जग्राह गृहीतवान् । समेति । अहो दिवसस्य मध्यं समारूढे प्राप्ते सवितरि सूर्ये सति वनादरण्यात्कुमारः स्वभ- वनं स्वगृहमाजगामाययावित्यन्वयः । अथ कुमारं विशिनष्टि-इन्द्रेति । इन्द्रायुधेनाश्वेनोह्यमानः [^1]वहमानः । अश्वं तुरंगमं विशेषयन्नाह - स्नानेति । अनवरतं श्रमसलिलानां स्वेदोत्थजलानां ये बिन्दवः पृषतास्तेषां वर्षं वृष्टिमुज्झता त्यजता । अत एवाह - स्नानोत्थितेने- वाप्लवानन्तरमेव कृताभ्युत्थानेनेव । मुहुरिति । मुहुर्मुहुर्वारंवारं दशनविघट्टनैर्दन्तघर्षणैः खणखणायितं खणखणेत्याचरितं खरं कठिनं खलीनं मुखयन्त्रणं येन । श्रमेति । श्रमेण खेदेन शिथिलं श्लथं यन्मुखं तस्माद्विगलिताः स्रस्ताः फेनि [^2]लयुक्ताः कफ- सहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याणं पल्ययनं तस्य पट्टकः काष्ठपीठं तद्यावदनुसरणं यस्या एवंविधोत्थिता फेनराजिः कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं कृतम्। उत्फुल्लानि विकचानि यानि कुसुमानि तैः शबलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्कारो झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्नं लक्ष्मैवंविधं पल्लव- स्तबकं किसलयगुच्छकमुद्वहता धारयता । पुनः कीदृशः । समुद्ग- तः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तरार्द्रीकृतं मण्डलं यस्य स तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्तांशास्तेषां शतं तेन शबलेन कर्बुरेणैवंभूतेन वारबाणेन कञ्चुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारबाणेन महती दीप्तिर्भवत्येवेति विश्वविदितम् । [^1]F. अशुद्धमिदम् । पृष्ठे स्थाप्यमान इत्युचितम् । [^2]F. इलच्प्रत्ययः स्वयं मत्वर्थे। अत एव फेनयुक्ता इस्युचितम् । [^१]G. पादातिभिः. [^२]G. धनं वनम्. [^३]G. अवकृष्ट. [^४]G. टङ्काररव. [^५]G. वनवराहकेसरिण: [^६]G. चामराननेकविधः. [^७]G. स्नानोत्थितेन. [^८]G. खररवाभीतेन. [^९]G. गलित. [^१०]G. अनुसारोत्थितः. [^११]G. झङ्कारमुखरम्. [^१२]G. अन्तरान्तरा. [^१३]G. उपजनित. कान्तिः, अनेकरूपा [^१]नुसरणसंभ्रमपरिभ्रष्ट [^२]च्छत्रधरतया छत्रीकृतेन [^३]नवपल्लवेन निवार्यमाणातपः, विविधवनलताकुसु- मरेणुधूसरो वसन्त इव विग्रहवान्, अश्वखुररजोमलिनललाटाभिव्य- क्तावदातस्वेदलेखः, दूरविच्छिन्नेन पदातिपरि [^४]जनेन शून्यीकृ- तपुरोभागः, प्रजवितुरङ्गमाधिरूढैरल्पावशिष्टैः सह राजपुत्रैः 'एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः, एवं हरिणः' इति तमेव मृगयावृत्तान्तमुच्चारयन्स्वभवनमाजगाम । [^६]उत्तीर्य, च तुरङ्गमात्ससंभ्रमप्रधावितपरिजनोपनीत [^७]उप- विश्यासने वारबाणमवतार्य, अपनीय चाशेषं [^८]तुरङ्गाधिरोहणो- चितं वेषपरिग्रहमितस्ततः प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्तं विशश्राम । विश्रम्य च मणिरजतकनककलशशतसनाथा- मन्तर्विन्यस्तकाञ्चनपीठां स्नानभूमिमगात् । निर्व [^९]र्तिताभिषेक- व्यापारस्य च विविक्तवसनपरिमृष्टवपुषः स्वच्छदुकूल पल्लवा[^१०]कलितमौलेर्गृही [^११]तवाससः कृतदे [^१२]वार्चनस्याङ्ग- रागभूमौ समुपविष्टस्य राज्ञा विसर्जिता महा [ टि ]-- अनेकेति । अनेके ये रूपाः पशवस्तेषामनुसरणं गवेषणं तत्र यः संभ्रमश्चेतसो वैक्लव्यं तेन परिभ्रष्टा दूरीभूता ये छत्रधरास्ते- षां भावस्तत्ता तया । 'रूपं तु श्लोकशब्दयोः । पशौ' इत्यनेकार्थः। छत्रीकृतेनातपवारणीकृतेन नवपल्लवेन प्रत्यग्रकिसलयेन निवार्य- माणो दूरीक्रियमाण आतपो यस्य सः । विविधेति । विविधा अनेक- प्रकारा या वनलता अरण्यव्रतत्यस्तासां कुसुमरेणुः पुष्परागस्तेन धूसर ईषत्पाण्डुः । क इव । विग्रहवान्सशरीरो वसन्त इव इष्य इव । अश्वखुरस्य यद्रजस्तेन मलिनं कश्मलं यल्ललाटं तत्राभिव्यक्ता प्रकटावदाता निर्मला खेदलेखा यस्य सः । दूरविच्छिन्नेन दूरान्तरि- तेन पदातिपरिजनेन पत्तिपरिच्छदेन शून्यः कृतो विहितः पुरोभागो- ऽग्रभागो यस्य सः । प्रजविनो जवयुक्ता ये तुरङ्गमा अश्वास्तेष्वधि- रूढैरारूढैरल्पावशिष्टैः स्तोकैः राजपुत्रैर्नृपसुतैः सह । इति तमेव मृगयावृत्तान्तमाखेटकोदन्तमुच्चारयन्नन्योन्यं ब्रुवन् । इतिशब्दार्थ- माह - एवमिति । एवं पूर्वोक्तप्रकारेण मृगपतिः सिंहः, एवं वराहो वनक्रोड:, एवं महिषो रक्ताक्षः, एवं शरभोऽष्टापदः, एवं हरिणो मृगः । व्यापादित इति शेषः । अन्वयस्तु प्रागेवोक्तः । स्वभवनगमनानन्तरं च तुरङ्गमादश्वादुत्तीर्यावरोहं कृत्वा ससंभ्रमं सवेगं प्रधावितो यः परिजनः परिच्छदस्तेनोपनीत आनीत आसने विष्टर उपविश्योपवेशनं कृत्वा वारबाणं कवचमवतार्य तस्यावतरणं कृत्वा तुरङ्गाधिरोहणोचितमशेषं समग्रं वेषपरिग्रहणमपनीय दूरी- कृत्य । इतस्ततः प्रचलितं यत्तालवृन्तं व्यजनं तस्य यः पवनो वायु- स्तेनापनीयमानो दूरीक्रियमाणः श्रमः क्लमो यस्य स तथा मुहूर्तं घटिकाद्वयं विशश्राम विश्रामं गृहीतवान् । विश्रमय चेति । विश्रामं गृहीत्वा । मणीति । मणयश्चन्द्रकान्तायाः, रजतं रौप्यम्, कनकं सुवर्णम्, एतेषां यत्कलशशतं कुम्भशतं तेन सनाथां सहिताम् । अन्तर्मध्ये विन्यस्तं स्थापितं काञ्चनपीठं स्वर्णपीठं यस्यामेवंभूतां स्नानभूमिमगाज्जगाम । निर्वर्तितेति । निर्वर्तितो निष्पादितोऽभिषे- कव्यापारो यस्य स तस्य । विविक्ते [^1]विजने वसनं वस्त्रं तेन परिमृष्टं शुष्कीकृतं वपुर्येन स तस्य । स्वच्छेति । स्वच्छो निर्मलो यो दुकूलपल्लवस्तेनाकलितो वेष्टितो मौलिः शिरो यस्य स तस्य। गृही- तं स्वीकृतं वासो वस्त्रं येन स तथा तस्य । कृतं देवार्चनं देवपूजा येन स तस्य । अङ्गरागभूमौ विलेपनभूमौ समुपविष्टस्य राज्ञा तारा- पीडेन विसर्जिता विसृष्टा महाप्रतीहारेण महाद्वारपालकेनाधिष्ठिता आश्रिता राजकुलपरिचारिका नृपकुलसेवाकारिण्यः कुलवर्धना [^1]F. विविक्तेन पवित्रेण वसनेनेत्यर्थ उचितः । [^१]G. अनुसार. [^२]G. छत्रधारतया. [^३]G. वनपल्लवेन. [^४]G. जनेन. [^५]G. वनमहिष:. [^६]G. अवतीर्य. [^७]G. समुपविश्य. [^८]G. तुरङ्गम. [^९]G. निवर्तित. [^१०]G. आकुलित. [^११]G. गृहीतधौतवासस:. [^१२]G. देवता. प्रतीहाराधिष्ठिता राजकुल [^१]परिचारिकाः कुलवर्धनासनाथाश्च विलासवतीदास्यः सर्वान्तःपुरप्रेषिताश्चान्तःपुरपरिचारिकाः पटल- कविनिहितानि विविधान्याभरणानि [^३]माल्यान्यङ्गरागान्वासांसि चादाय पुरतस्तस्योपतस्थु [^४]रुपनिन्युश्च । यथाक्रममादाय च ताभ्यः प्रथमं स्वयमुपलिप्य वैशम्पायन [^४]मुपरचिताङ्गरागो दत्त्वा च समीपवर्तिभ्यो यथार्हमाभरणवसनाङ्गरागकुसुमानि विविधमणिभाजनसहस्रसारं शारद [^५]मम्बरतलमिव स्फुरितता- रागणमाहारमण्डपमगच्छत् । तत्र च [^६]द्विगुणितकुथासनोप- विष्टः समीपोपविष्टेन तद्गुणो [^७]पवर्णनपरेण वैशम्पायनेन [^९]यथार्हं भूमिभागोपवेशितेन [^१०]राजपुत्रलोकेन 'इदमस्मै [^११]दीयताम्, इद [^१२]मस्मै दी [^१३]यताम्' इति प्रसाद- [^१४]विशेषदर्शनसंवर्धित सेवारसेन च सहाहारविधिमकरोत् । उपस्पृश्य च गृहीतताम्बूलस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीप- [^१५]मगमत् । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्रायालापा: कथाः कृत्वा सत्यप्या [^१६]ज्ञाप्रतीक्षणोन्मुखे पार्श्वपरिवर्तिनि परिजने त [^१७]द्गुणहृतहृदयः स्वय [ टि ]-- प्रगल्भा दासी तथा सनाथा: सहिता विलासवती कुमारज- ननी तस्या दास्यः कूटहारिकाः (१) । सर्वान्तःपुरप्रेषिता इति । सर्वं यदन्तःपुरं तेन प्रेषिता अन्तःपुरपरिचारिकाश्चावरोधसेवाविधायिन्यः पटलकं [^1]वङ्गेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि माल्यानि पुष्पदामानि, अङ्गरागा- न्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः । उपनिन्युश्च । आनीतं वस्तूप- ढौकयामासुरित्यर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुर- परिचारिकाभ्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुपलि- प्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहारमण्डपं भोजनमण्डपमगच्छदित्यन्वयः । किं कृत्वा । यथार्हं यथायोग्य- माभरणवसनाङ्गरागकुसुमानि समीपवर्तिभ्यः पार्श्वस्थायिभ्यो दत्त्वा वितीर्य । भोजनमण्डपं विशेषयन्नाह - विविधेति । विविधानि विचित्राणि यानि मणिभाजनानि रत्नपात्राणि तेषां सहस्रं तेन [^2]सारं प्रधानम् । भाजनानां वर्तुलत्वादिसाम्यादुपमानान्तरमाह - शारदेति । स्फुरिततारागणं शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहार विधिभोजन विधिमकरोदित्यन्वयः । द्विगुणितं परावर्तितं यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्श्वं तत्रोपविष्टेन स्थितेन । तदिति । तस्य तारा [^3]पीडस्य ये गुणाः शौर्यादयस्तेषामुपवर्णनं श्लाघनं तत्र परेणासक्तेन वैशम्पा- यनेन यथार्हं यथायोग्यम् । भूमिभागेति । यस्य योचिता योग्या भूस्तस्यामुपवेशितेन स्थापितेन । राजपुत्रलोकस्य विशेषणम् । राजपुत्रलोकेन 'अस्मा इदं दीयताम्' 'अस्मा इदं दीयताम्' इति पूर्वोक्तप्रकारेण प्रसादः प्रसन्नता तस्य विशेष आधिक्यं तस्य दर्शनं प्रकटीकरणं तेन संवर्धितो वृद्धिं प्रापितः सेवारसः सपर्या स्वादो यस्य स तेन। अन्वयस्तु प्रागेवोक्तः। भोजनानन्तरमुपस्पृश्याचमनं कृत्व। गृहीतं ताम्बूलं नागवल्लीदलं येन सः। तस्मिन्मण्डपे मुहूर्त- मिव नाडिकाद्वयमिव स्थित्वेन्द्रयुधसमीपमगमद्ययौ । तत्र चेति । तत्र तस्मिन्स्थलेऽनुपविष्ट एवोर्ध्वस्थित एव तस्येन्द्रायुधस्य ये गुणा मुखमण्डले निर्मांसत्वादयस्तेषामुपवर्णनं प्रायो बाहुल्यं येषु एवंविधा आलापाः संलापा यास्वेवंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समयावेक्षणं तत्रोन्मुखे सावधाने पार्श्वपरिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये [^4]गुणाः शालिहोत्रप्रसिद्धास्तैर्हृतमा [^1]F. पेटिका इत्यर्थः। [^2]F. 'भाजनसहस्रशारम्' इत्येव पाठः । मणिभाजनसहस्रैः शारं विचित्रमिति तदर्थः। [^3]F. चन्द्रापीडस्येत्युचितम्, संनिधानात्। [^4]F. वेगेन गमनं, मनोभावानुसारं स्थित्यादिकाः । [^१]G. प्रतिचारिका:. [^२]G. माल्याङ्गरागान्. [^३]G. उपनिन्युश्चोपनीतानि च. [^४]G. रचित. [6५]G. शाराम्बर. [^६]G. द्विगुणीकृत. [^७]G. वर्णन. [^८]G. वैशम्पायनेन सह. [^९]G. यथार्हं. [^१०]G. सह राज. [^११]G. प्रदीयताम्. [^१२]G. तस्मै. [^१३]G. प्रदीयताम्. [^१४]G. विशेषसंवर्धितसेवारसेनाहार. [^१५]G. अगात्. [^१६]G. आज्ञां प्रतीक्षमाणोन्मुखे. [^१७]G. अपहृत. २८ का० मेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकुलमयासीत् । तेनैव च क्रमेणावलोक्य राजानमागत्य निशामनैषीत् । [^१]अपरेद्युश्च प्रभातसमय एव सर्वान्तःपुराधि [^२]कृतम्, अव- निपतेः परमसंमतम्, अनुमार्ग [^३]गतया च, प्रथमे वयसि वर्तमा- नया, राजकुलसंवासप्रगल्भयाप्यनुज्झितविनयया, किंचिदुपारूढ- यौवनया, शक्रगोप [^४]कालोहितरागेणांशुकेन रचितावगुण्ठनया सबालातपयेव पूर्वया ककुभा प्रत्यग्रदलितमनः शिला[^५]वर्णेनाङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूरयन्त्या, ज्यो- त्स्नयेव [^६]राहुग्रहग्रासभयादपहाय रजनिकरम [^७]ण्डलं गाम- वतीर्णया, राज [^८]कुलगृहदेवतयेव मूर्तिमत्या क्वणितमणिनूपुरा- [^९]कुलचरणयुग [^१०]लया कूजत्कलहंसाकुलितकमलयेव कमलिन्या, महार्हहेममेखला [^११]कलापकलितजघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, [^१२]मन्दं मन्दं [ टि ]-- कर्षितं हृदयं चेतो यस्यैवंभूतः । स्वयमेवात्मनैव, अत्रैव- कारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस्याश्वस्य पुरोऽग्रे यवसं तृणमाकीर्य प्रकीर्य प्रक्षिप्य तदनन्तरं निर्गत्य राजकुलमयासीदवा- जीत् । तेनैव क्रमेण पूर्वोक्तपरिपाट्या राजानं तारापीडमवलोक्य निरीक्ष्य पुनरागत्यैत्य । स्वगृहमिति शेषः । निशां रात्रिमनैषीत्परि- कलितवान् । अपरेद्युरिति । अपरस्मिन्दिने प्रभातसमय एव कन्ययानुगम्यमानं कैलासनामानं कञ्चुकिनमायान्तमागच्छन्तमपश्यदित्यन्वयः । कञ्चुकिनं विशिनष्टि - सर्वेति । सर्वं समग्रं यदन्तःपुरं तत्राधिकृतं नियुक्तम् ।स्वस्वामिनेति शेषः । अवनिपते राज्ञः परमसंमतं परं विश्वस्तम् । अथ च सहागतकन्यां विशेषयन्नाह- अन्विति ।अनुलक्षीकृत्य मार्गमागता प्राप्ता तया । प्रथमवयः कौमारवयस्तस्मिन्व- र्तमानया स्थितया । राजेति । राजकुले नृपकुले संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो विनयो मर्यादा यया सा तथा । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधिक्यमित्याश्चर्यमिति भावः । किंचिदिति । किंचिदीषदुपारूढमाश्रितं यौवनं तारुण्यं यया सा तथा । शक्रेति । शक्रगोप एव शक्रगोपकः । स्वार्थे कः । आरक्तः प्रावृट्कीट- स्तद्वदालोहितो रक्तो रागो यस्मिन्नेतादृशेनांशुकेन वस्त्रेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यया सा तया । अंशुकस्यातिरक्तत्वा- दुपमानं प्रदर्शयन्नाह - सबालेति । सह बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव । प्रत्यग्रदलिता तत्काल मर्दिता या मनः [^1]शिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्यं तस्य प्रभा कान्तिस्तस्याः प्रवाहो रयस्तेन भवनं गृहमापूरयन्त्या परिपूर्णं कुर्वत्या । केनेव । अमृतरसस्य या नदी तस्याः पूरेणेव । राहुः सैंहिकेयः स चासौ ग्रहस्तेन ग्रासो भक्षणं तस्माद्यद्भयं तस्माद्रजनिकरमण्डलं चन्द्रबिम्बमपहाय त्यक्त्वा गां पृथ्वीमवतीर्णयागतया ज्योत्स्नयेव कौमुद्येव । मूर्तिमत्या शरीर- धारिण्या राजकुलदेवतयेव नृपकुलाधिष्ठात्र्येव । क्वणितं शब्दितं यन्मणिनूपुरं रत्नपादकटकं तेनाकुलं व्याप्तं चरणयुगलं पादद्वितयं यस्याः सा तया । नूपुरस्य श्वेतत्वाच्चरणयोश्चारक्तत्वादुत्प्रेक्षामाह- कूजदिति । कूजन्यः कलहंसः कादम्बस्तेनाकुलितं कमलं यस्या एवं विधया कमलिन्येव । महार्हो महार्घौ यो हेममेखलाकलापः सुवर्णरशना कलापस्तेन कलितं जघनस्थलं कठ्या अग्रप्रदेशो यस्याः सा तथा । नातीति। नातिनिर्भरं नातिबाहुल्येनोद्भिनौ प्रकाशं प्राप्तौ पयोधरौ स्तनौ यस्याः सा तया । मन्दमिति । मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवल्ल्या विक्षेप इतस्ततश्चालनं तेन प्रेङ्खिता धूता ये नखमयूखा नखरदीप्तयस्तेषां छलेन मिषेणानव- रतं निरन्तरं लावण्यरसं तारु [^1]F. 'मैनसिल' इांत ख्यातो धातुविशेषः । [^१]G. परेद्युश्च. [^२]G. अधिकृततया. [^३]G. गतया प्रथमे. [^४]G. लोहित. [^५]G. चूर्णवर्णेन. [^६]G. राहुग्रास; राहुग्रसन. [^७]G. भूमण्डलम्. [^८]G. कुलदेवतया. [^९]G. आकुलित; आकलित. [^१०]G. चरणया रुचिररेणुचर्चितचञ्चरीकचक्रवालावाचालितरक्तकमलयुगलयेव स्थलकमलिन्या. [^११]G. आकलित. [^१२]G. मन्दमन्द. भुजलताविक्षेपप्रेङ्खितखमयूखच्छलेन धाराभिरिव लावण्यरस मनवरतं क्षरन्त्या, दिङ्मुखविसर्पिहारलतानां रश्मिजाले निमग्न- शरीरतया क्षीरसागरोन्मन्नवदनयेव लक्ष्म्या, बहुलताम्बूल [^१]कृ- ष्णिकान्धकारिताधरलेखया [^२]समसुवृत्ततुङ्गनासिकया, विकसि- तपुण्डरीक [^३]लोचनया, मणिकुण्डल-[^४]मकरपत्रभङ्गकोटि- किरणातपाहत [^५]कपोलतया सकर्णपल्लवमिव मुखमुद्वहन्त्या, पर्युषितधूसरचन्दनरसतिलकालंकृतललाटपट्टया, मुक्ताफलप्राया- लंकारया, राधेयराज्यलक्ष्म्येवोपपादिताङ्गरागया, [^६]नववनलेख- येव कोमलतनुलतया, त्रय्येव सुप्रतिष्ठितचरणया, मखशालयेव वेदिमध्यया, मेरुवनलतयेव कनकपत्रालंकृतया, महानुभावाकार- यानुगम्यमानं [^७]कन्यया कैलासनामानं कञ्चुकिनमायान्तमप- श्यत् । स कृतप्रणामः समुपसृत्य क्षितितलनिहितदक्षिणकरो विज्ञापया- मास - 'कुमार, महादेवी [ टि ]-- ण्यरसं धाराभिः क्षरन्त्येव । दिगिति । दिङ्मुखविसर्पि- [^1]ण्यो दिङ्मुखप्रसरणशीला या हारलतास्तासां रश्मिजाले कान्तिसमूहे निमग्नं ब्रुडितं यच्छरीरं तस्य भावस्तत्ता तथा क्षीरसा- गरात् दुग्धाम्भोधेरुन्मग्नं वदनं यस्या एवंविधया लक्ष्म्येव । बहलेति । बहलो निबिडो यस्ताम्बूलस्तस्य कृष्णिका श्यामता तयान्धकारि- तान्धकार इवाचरिताधरलेखा दन्तच्छदरेखा यस्याः सा तथा। समे- ति । समाऽविषमा, सुवृत्ता वर्तुला, तुङ्गोच्चा नासिका नासा यस्याः सा तया । विकेति । विकसितं यत्पुण्डरीकं तद्वल्लोचने यस्याः सा तया । मणीति । मणिकुण्डलयो रत्नभूषणयोर्मकरपत्रभङ्गः कोटी- रपत्रेषु मकराकृतिस्तस्याः किरणानामातपः प्रकाशस्तस्या[^2]हतं प्रतिबिम्बितं ययोरेवंविधकपोलौ तस्य भावस्तत्ता तया । सह कर्ण- पल्लवेन श्रोत्रावतंसेन वर्तमानं मुखमिवोद्वहन्त्या धारयन्त्या । पर्यु- षीति । पर्युषितो गतदिनोद्भवोऽत एव धूसरो यश्चन्दनरसस्तस्य तिलकेनालङ्कृतं भूषितं ललाटपट्टं यस्याः सा तया । मुक्तेति । मुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंविधा अलंकारा यस्याः सा तया । राधेयेति । राधेयः कर्णस्तस्य या राज्यलक्ष्मीराधि- पत्यश्रीस्तयेव । उभयं विशिनष्टि – उपेति । उपपादितो विहितो- ऽङ्गरागो यया । पक्षेऽङ्गनाम्नो देशस्य रागः प्रीतिः । नवा प्रत्यग्रा या वनलेखारण्यश्रेणिस्तयेव । उभयं विशेषयन्नाह – कोमलेति । कोमला सुकुमारा तनुलता शरीरलता यस्याः सा तया । पक्षे कोमलास्तन्व्यो लता व्रतत्यो यस्याम् । त्रयी वेदत्रयी तयेव । सुप्र- तीति । सुप्रतिष्ठिताः शोभनतया स्थापिताश्चर [^2]णाः पादा यया सा तया । पक्षे सुप्रतिष्ठिताः सर्वत्र प्रसिद्धाश्चरणाः शाखाः पदानि यस्याः सा तया । मखेति । मखो यज्ञस्तस्य शालयेव । उभयोः साम्यमाह - वेदीति । वेदिवमध्यं यस्याः सा तया । तनुमध्ययेत्यर्थः । पक्षे वेदिः परिष्कृता भूमिर्मध्ये यस्याः । [^4]मेरुर्मन्दरस्तस्य या वनलता तयेव । कनकपत्रैः कर्णाभरणैरलंकृतया भूषितया । पक्षे कनकः नागकेसरश्चम्पको वा तस्य पत्राणि दलानि । 'कनको नाग- केसरे । धत्तरे चम्पके काञ्चनारकिंशुकयोरपि' इत्यनेकार्थः। महा- ननुभावो माहात्म्यं तदनुरूप आकार आकृतिर्यस्याः सा तया । अन्वयस्तु प्रागेवोक्तः । आगमनानन्तरं स कञ्चुकी कृतः प्रणामो येनैवंभूतो विज्ञापयामास विज्ञप्तिमकरोत् । किं कृत्वा । समुपसुत्य समीपमागत्य क्षितितले निहितः स्थापितो दक्षिणकरो येन सः । इयं दक्षिणदेशरीतिः - क्षितौ दक्षिणकरं व्यव [^1]F. धन्यष्टीकाकारः । दिङ्मुखेषु ( सर्वतः ) प्रसरणंहारलता- रश्मिजालानां, न हारलतानाम् । अत एव 'दिङ्मुखविसर्पिणि हारलतानां रश्मिजाले' इत्येव पाठः । अनेन टीकाकारस्य ग्रन्थमार्मिकत्वमपि परिचेयम् । [^2]F. आतपेन आहतौ ( संस्पृष्टौ ) कपोलौ यस्यास्तत्तयेति सरलोऽर्थः । [^3]F. पादावितिद्विवचनमेवोचितम् । [^4]F. मेरुः सुमेरुरित्यर्थः, अत एव कनकपत्रपदस्वारस्यम् । [^१]G. कृष्णिमा. [^२]G. समुपवृत्त. [^३]G. धवललोचनया. [^४]G. मरकतमकर. [^५]G. कपोलतलतया. [^६]G. नवनव. [^७]G. कम्यकया. विलासवती समाज्ञापयति - इयं खलु [^१]कन्यका महाराजेन पूर्वं [^२]कुलूतराजधानीमजित्य [^३]कुलूतेश्वरदुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिकामध्यमुपनीता । सा मया विगतनाथा राजदुहिते [^४]ति च समुपजातस्नेहया दुहितृनिर्विशेषमियन्तं कालमुपलालिता संवर्धिता च । तदियमिदा- नीमुचिता भवतस्ताम्बूल [^५]करङ्कवा[^६] हिनीति कृत्वा मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । बालेव लालनीया । स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया । शिष्येव [^७]द्रष्टव्या । सुहृदिव सर्ववि [^८]श्रम्भेष्वभ्यन्तरीकर- णीया । दीर्घकालसंवर्धितस्नेहतया स्वसुतायामिव हृदयमस्यामस्ति मे । [^९]महाभिजनराजवंशप्रसूता चार्हतीयमेवंवि [^१०]धानि कर्माणि । [^११]नियतं स्वयमेवेय [^१२]मतिविनीततया कतिपयै- रेव दिवसैः कुमारमाराधयिष्यति । केवलमतिचिरकालोपचिता बलवती मे प्रेमप्रवृत्तिरस्याम् । अविदितशीलश्चास्याः कुमार इति संदिश्यते । सर्वथा तथा कल्याणिना प्रयतितव्यं यथेयमतिचिरमु- चिता परिचारिका ते [^१३]भवति' इत्यभिधाय विरतवचसि कैलासे [^१४]कृता [ टि ]-- स्थाप्य विज्ञप्तिं कुर्वन्तीति भावः । हे कुमार, महादेवी विलासवती समाज्ञापयति भवन्तं ज्ञापनां करोति । इयमिति । खलु निश्चयेन । इयं कन्यका महाराराजेन त्वत्पित्रा पूर्वं कुलूतनाम्नी राजधानीमवजित्य स्वायत्तीकृत्य कुलूते [^1]श्वरस्य हिमवद्द्रोण्या ईश्वरस्य दुहिता पुत्री पत्रालेखेत्यभिधानं यस्याः सा बालिका सती बन्दीजनेन सहानीयान्तःपुरस्य याः परिचारिकाः सेवाकारिण्यस्ता- सां मध्यमुपनीता प्रापिता सती सा मया विगतनाथा राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यामेवंविधा मया सा पत्रलेखा दुहितृनिर्विशेषं दुहिता पुत्री तस्याः सकाशान्निर्गतो विशेषोऽस्यां यथा स्यात्तथेयन्तं कालमेतावत्पर्यन्तमुपलालिता पालिता संवर्धिता च वृद्धिं प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रतमियमुचिता योग्या भवतस्तव ताम्बूलस्य करङ्कः [^2]स्थगीतद्वाहिनीति कृत्वा मया प्रेषिता । न चेति । अस्यां पत्रलेखायामायुष्मता भवता परिजने परिच्छदे सामान्या सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च भवि- तव्यम् । बालेव बालिकेव लालनीया पालनीया । स्वस्य चित्तवृत्तिर्मनोवृत्तिस्तद्वदिव चापलेभ्योऽनवस्थितिभ्यो निवारणीया वर्जनीया । शिष्या शिष्यि [^3]णी सेव द्रष्टव्या विलोकनीया । सुहृदिव मित्र- मिव सर्वविश्वम्भेषु समग्रविश्वासस्थानेष्वभ्यन्तरा मध्यवर्तिनी कर- णीया कार्या । दीर्घकालेन संवर्धितो वृद्धिं प्राप्तो यः स्नेहः प्रीतिस्त- स्य भावस्तत्ता तथा स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति । महानभिजनः कुलं यस्मिन्नेवंभूतो यो राजवंशस्तत्र प्रसृतोत्पन्नैवंविधानि कर्माणि ताम्बूलकरङ्कधारणप्रभृतीनीयमेवा- र्हति योग्या । नियतमिति । नियतं निश्चितमियं स्वयमेवाति विनीत- तयातिविनयवत्तया कतिपयैरेव कियद्भिरेव दिवसैर्घस्रैः कुमारं त्वामाराधयिष्यति स्ववशीकरिष्यति । केवलं परमस्यामतिचिरका- लेन भूयसानेहसोपचिता पुष्टिं प्राप्ता मे मम बलवती प्रेमप्रवृत्तिः स्नेहप्रवृत्तिः । अस्या अविदितमज्ञातं शीलं येनैवंविधः कुमार इति संदिश्यते कथ्यते। सर्वथेति । सर्वथा सर्वप्रकारेण तथा कल्याणिना श्रेयोवता प्रयतितव्यं प्रयत्नः कर्तव्यः । यथातिचिरं चिरकालं यावत् । ते तवोचिता योग्येयं परिचारिका भवतीत्यभिधायेत्युक्त्वा विरत- वचस्यपास्तवचने कैलासे सति कृतोऽभिजातः कुलीनस्तद्वत्प्रणामो यया तां पत्रलेखामनिमिषलोचनं यथा स्यात्तथा सुचिरं [^1]F. हिमालयसमीपे 'कुल्लू' इति साम्प्रतं प्रसिद्धा राजधानी, तस्या ईश्वरः । [^2]F. ताम्बूलपात्रमित्यर्थः । [^3]F. शासनीया ( यथा छात्रा ) । शि‍ष्यिणी त्वपशब्दः । [^१]G. कन्या. [^२]G. कलूत; कुन्तल. [^३]G. कलूतलेश्वर; कुन्तलेश्वर. [^४]G. इति समुपजात. [^५]G. करण्डक. [^६]G. इति मया. [^७]G. उपदेष्टव्या. [^८]G. विश्वासेषु . [^९]G. बलवानस्यां पक्षपातो महा. [^१०]G. एवंविधानि नियतम्. [^११]G. नियतं च. [^१२]G. अभिविनीत. [^१३]G. भवतीतीत्यभिधाय. [^१४]G. अभिज्ञात. भिजातप्रणामां पत्रलेखामनिमि [^१]षलोचनं सुचिरमालोक्य चन्द्रापीड: 'यथाज्ञापयत्यम्बा' [ ^२]एवमुक्त्वा कञ्चुकिनं प्रेष- यामास । पत्रलेखा तु ततःप्रभृति दर्शनेनैव समुपजातसेवारसा न दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न राज- कुलगतस्य छायेव राजसूनोः पार्श्वं मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती प्रीतिरासीत् । अभ्यधि- कं च [^३]प्रतिदिनमस्य प्रसादमकरोत् । आत्महृदयाव्यतिरिक्ता- मिव चैनां सर्वविश्रम्भेष्वमन्यत । एवं समतिक्रामत्सु दि [^४]वसेषु राजा चन्द्रापीडस्य यौवराज्याभि- षेकं चिकीर्षुः प्रतीहारा [^५]नुपकरणसंभारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकं च तं कदाचिद्दर्शनार्थमागतमारूढ- विनयमपि विनीततरमि [^६]च्छञ्शुकनासः सविस्तरमुवाच- 'तात चन्द्रापीड, विदितवेदि [^७]तव्यस्याधीतसर्वशास्त्रस्य ते नाल्प- मप्युपदेष्टव्यमस्ति । केवलं [^८]च निसर्गत एवाभानुभेद्यमरत्ना- लोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अप- रिणामोपशमो दारुणो [ टि ]-- चिरकालमालोक्य निरीक्ष्य चन्द्रापीडो यथाज्ञापयत्यादेशं दत्तेऽम्बा मातैवमुक्त्वा कञ्चुकिनं प्रेषयामास विसर्जितवान् । तु पुनरर्थे । पत्रलेखा ततः प्रभृति तद्दिनादारभ्य दर्शनेनैव तदवलोक- नेनैव समुपजातः समुत्पन्नः सेवायां रसो यस्याः सा । न दिवेति । न दिवा दिवसे, न रात्रौ त्रियामायाम्, न सुप्तस्य शयनं कृतवतः, नासीनस्योपविष्टस्य, नोत्थितस्योत्थानं कृतवतः, न भ्रमत इतस्ततो गच्छतः, न राजकुलगतस्य छायेव स्वप्रतिबिम्बमिव राजसूनोश्चन्द्रा- पीडस्य पार्श्वं मुमोचेत्यस्य सर्वत्र नकारेणान्वयः । चन्द्रापीडस्यापि तस्यां पत्रलेखायां दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धिं प्राप्यमाणा महती प्रीतिर्महान्स्नेह आसीदभूत् । [^1]अस्य प्रतिदिनं प्रत्यहमभ्यधिक्रमधिकाधिकं प्रसादं सद्वस्तु- प्रत्यर्पणरूपमकरोत् । सर्वविश्रम्भेषु समग्रविश्वासस्थलेष्वेनां पत्रले- खामात्महृदयादव्यतिरिक्तामिव स्वस्वान्तादभिन्नामिवामन्यत ज्ञात- वान् । एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गच्छत्सु दिवसेषु राजा तारा- पीडश्चन्द्रापीडस्य यौवराज्ये योऽभिषेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभार: समूह- स्तस्य संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति । समु- पस्थितः संजातो यौवराज्याभिषेको यस्य स तम् । कदाचित्कस्मिं-श्चित्समये दर्शनार्थमवलोकनार्थंमागतं प्राप्तमारूढविनयमपि संप्रा- प्तविनयमपि । किंचिन्निगूढाभिप्रायः । विनीततरं विनम्रतरमिच्छ- न्वाञ्छशुकनासः सविस्तरं सव्यासमुवाचाब्रवीत् । तदेवाह --तातेति संबोधनम् । हे पुत्र चन्द्रापीड, ते तवाल्पमपि स्तोकमप्युप- देष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह - अधीतेति । अधीतानि पठि- तानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः । अधीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्यं शास्त्राभिप्रायो येन तस्य । आशयमुद्धाटयति– केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्योच्छेद्यम् । अरत्नेति । न रत्नानां मणीनामालो- केनोच्छेद्यं दूरीकर्तुं योग्यम् । अप्रदीति । न प्रदीपप्रभया गृहमणि- कान्त्यापनेयं दूरीकरणीयम् । अतीति । अतिशयेन निरवधिकतया गहनमलब्ध [^2]मध्यं यौवनं तारुण्यं ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामेनोपशमो यस्य सः । अयं भावः -- परिणामेनोपशम ओष- ध्यादिषु प्रसिद्धः । विपरीतमत्र वयःपरिणामेऽपि [^1]F. ( अस्थाः ) इति पाठ उचितः । [^2]F. यौवनजनितं तमः अतिदुर्दमनीयमित्यर्थः । [^१]G. लोचनः. [^२]G. इत्येवम्. [^३]G. प्रतिदिवसमस्याः. [^४]G. केषुचिद्दिवसेषु. [^५]G. उपसंभार. [^६]G. कर्तुम्. [^७]G. वेद्यस्य. [^८]G. तु. लक्ष्मीमदः । कष्टमनञ्जनवर्तिसाध्यम [^१]परमैश्वर्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽति [^२]तीव्रो दर्पदाहज्वरोष्मा । सततम- [^३]मूलमन्त्र [^४]गम्यो विषमो विषयविषास्वादमोहः । नित्यम- स्नानशौच [^५]वध्यो रागमलावलेपः । अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा [^६]भवतीति विस्तरे [^७]णाभि- धीयसे । गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति [^८]महतीयं खल्वनर्थपरंपरा सर्वा । अविनयानामेकैकमप्ये- षामायतनम्, किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजलप्र- क्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधव [^९]ल- तापि [^१०]सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्क- पत्रं समुद्भूतरजो भ्रान्ति [^११]र [ टि ]- नोपशमः । दारुणो भयावहः। कष्टं दुःखरूपमपरं [^1]तृ- तीयमैश्वर्यमेव तिमिरमन्धकारं तेनान्धत्वं गताक्षत्वम् । अनञ्जनेति । अञ्जनवर्तिर्बिडालादिवसाञ्जनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् – 'अन्धकारे महाघोरे रात्रौ पठति पुस्तकम्' इति । पदं वाञ्जनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशिशिरेति । न शिशिरैः शीतलैरुपचारैश्चन्दनादिभिर्हार्यः परिहर्तुं योग्यः । अत्यन्तमतिशयेन तीव्रः कठिनो दर्पोऽभिमानः स एव दाहज्वर- स्तीव्रतापस्तस्योष्मा घर्मः । सततेति । सततं निरन्तरं मूलमन्त्रैर- गम्यो निवर्तयितुमशक्यः । मूलमन्त्रेत्युपलक्षणम् । तेन मणिमधु- करादिविषोत्तारणहेतूनां सर्वेषामपि संग्रहः । विषमः कठिनो विषयाः स्रक्चन्दनादयस्त एव विषं गरलं तस्यास्वादो भक्षणं तस्मा- द्यो मोहो मूर्च्छा । नित्यमिति । नित्यं सर्वदा स्नानमाप्लवः, शौचं शुचिक्रिया, ताभ्यां न [^2]वध्यो न विनाश्य एवंविधो रागो विषया- भिलाषः स एव मलः पङ्कस्तस्यावलेपः संपर्कः । अजस्रमिति । अजस्रं निरन्तरं न विद्यते क्षपावसाने रात्र्यन्ते प्रबोधो विनिद्रत्वं यस्यामेतादृशी घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनि- पातः संघातः स एव निद्रा प्रमीला भवतीति हेतोर्विस्तरेण वारंवार- मभिधीयसे । वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थपरंपरां प्रदर्शय- न्नाह - गर्भेश्वरेति । गर्भेश्वरत्वं बाल्यावधिकमीश्वरत्वम्, अभिनव- यौवनत्वं, सर्वाधिकं तारुण्यम्, अप्रतिमं प्रतिनिधिशून्यं रूपं सौन्द- र्यम्, अमानुषशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्यं यस्मिंस्तस्य भावस्तत्वम् । चकारः समुच्चयार्थ: । इति समाप्तौ । खलु निश्चये । इयं महती गरीयसी सर्वा समग्रानर्थपरंपरा कष्टपरंपरा । एषां पूर्वोक्तानामेकैकमप्यविनयानां दुर्बुद्धीनामायत- नमास्थानम्, किमुत समवायः । एतेषां समुदायस्य दुर्बुद्धिजनकत्वे किं पुनर्भण्यते । तदुक्तम्- 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं पुनस्तचतुष्टयम्' । अथ यौवनस्यापि दुर्बुद्धि- जनकत्वं प्रदर्शयन्नाह -- यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे प्रायो बाहुल्येन शास्त्रमेव जलं पानीयं तेन प्रक्षालनं तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः कालुष्यं बुद्धिवैपरीत्य- मुपयाति प्राप्नोति । अन्विति । अनुज्झिताऽपरित्यक्ता धवलता श्वेतता ययैवंविधापि यूनां तरुणानां दृष्टिः । सरागैवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया स्वेच्छया यौवनसमये तारुण्यक्षणे प्रकृतिः पुरुषं दूरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थ उपमानमाह - शुष्कमिति । वातानां समूहो वात्या वात- कलिकोच्यते । शुष्कपत्रं यथापहरति । उभयोः साम्यमाह - समुद्भूतेति । समुद्भूता [^1 ]F.अपरम्, प्रसिद्धात् अन्धत्वाद्भिन्नमित्यर्थो वक्तव्यः । [^2]F. ' नियतमस्नानशौचबाध्यः' इत्येव ग्रन्थोचितः पाठः । स्नानजनितशौचेन ( शुद्धया ) न बाध्यः ( अपनेयः ) इति तदर्थ: । अस्मिन् विषये 'वध' शब्दप्रयोगस्तु स्थूलबुद्धेरपि उपहसनीयः । [^3]F. अभिनवतया दुर्दमनीयवेगं तारुण्यमित्यर्थो वक्तव्यः । [^4]F. अनुज्झितधवलताऽपि सरागा ( रक्तिना सह वर्तमाना ) इति विरोधः, तत्परिहारस्तु-- रागेण रमण्यादिषु प्रेम्णा सहवर्त- मानेति कर्तव्यः । [^१]G. अपटलम्. [^२]G. अत्यन्ततीव्रः. [^३]G. मूल. [^४]G. शम्या:. [^५]G. वध्यो बलवान्; बाध्यो बलवान्. [^६]G. इत्यतः. [^७]G. अभिधीयते. [^८]G. महती. [^९]G. धवलापि. [^१०]G. सरागेव. [^११]G. अदूरम्; दूरम्. तिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । [^१]इन्द्रियहरिण- हारिणी च [^२]सततदुरन्तेयमुपभोगमृगतृष्णिका । नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्मोह इवोन्मार्गप्रवर्त- कः पुरुषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति [^३]भाजमा- न्युपदेशानाम् । अपगतमले हि स्फटिकमणाविव रजनिकरगभ- स्तयो विशन्ति [^४]सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलि- लमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य [^५]तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति । [^६]हर [^७]त्यतिमलिनमन्धकारमिव दोषजातं प्रदोषसमय निशाकर इव । गुरूपदेश: प्रशमहेतु [^८]र्वय: परिणाम इव पलितरूपेण शिरसिजजालमीकुर्वन्गुरूपेण तदेव परिणमयति । अयमेव चानास्वादित विषयरसस्य ते काल उपदेशस्य । [^९]कुसुमशरशर [ टि ]-- रजोगुणेन भ्रान्तिर्भ्रमो यस्याम् । पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येव करणान्येव हरिणाः कुरङ्गास्ते- षां हारिणी हरणशीलैतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णि- का मरुमरीचिकेयं सततं निरन्तरम् । सुखाभिमानोत्पादनाद्दुरन्ता दुःखावसाना । नवेति । नवयौवनेन प्रत्यग्रतारुण्येन कषायितं विप- रिवर्तितमात्मान्तःकरणं यस्यैवंभूतस्य पुरुषस्यास्वाद्यमानानि ता- न्येव विषयस्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति । मधुरा- ण्येव भवन्तीत्यर्थः । अत्रैव दृष्टान्तमाह - सलिलेति । यथा कषाय- द्रव्येण हरीतक्यादिना मधुराण्यपि 'जलानि मधु (रत ) राणि स्युः । 'आत्मानः' इति प्रामादिकः पाठः । विषयेषु स्रक्चन्दनवनितादिष्व- त्यासङ्गोऽत्यासक्तिः पुरुषमात्मानं नाशयति । क इव । दिङ्मोहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह - उन्मार्ग इति । उन्मार्गोऽपथो विरुद्धाचारश्च तत्र प्रवर्तकः प्रेरकः । ततः किमित्यत आह - भवादृशा इति । उपदेशानां शिक्षाणां भाजनानि पात्राणि भवादृशा भवत्सदृशा एव भवन्ति नान्य इति भावः । उपदेशफलमाह - अपगतेति । अपगतो दूरीभूतः कालुष्यलक्षणो मलो यस्मादेवंभूते मनसि चित्त उपदेशगुणाः शिक्षागुणा: सुखेनानायासेन विशन्ति प्रवेशं कुर्वन्ति । कस्मिन्क इव । स्फटीति । स्फटिकमणौ रजनि- करश्चन्द्रस्तस्य गभस्तयः किरणास्तद्वदिव । दोषे सति किं स्यादि- त्याह - गुरुवचनमिति । गुरुवचनं हिताहितप्राप्तिपरिहारोपदेष्टा गुरुस्तस्यवचनं वाक्यममलमपि निर्मलमप्यभव्यस्यासाधोः श्रवण- स्थितं कर्णकोटरगतं सन्महच्छूलमुपजनयत्युत्पादयतीत्यर्थः। अत्रा- र्थेऽनुभवसिद्धं दृष्टान्तमाह - सलिलेति । यथा सलिलं पानीयमति- स्वच्छमपि कर्णगतं महाव्यथाजनकं स्यात् । दोषाभावे त्वाह - इतरस्य त्वधिकतरमानन [^1]शोभासमुदयमुपजनयति विदधाति । क इव । शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति लोकरीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकार- मिव तिमिरमिव हरति दूरीकरोति । क इव, प्रदोषसमयनिशाकर इव यामिनीमुखचन्द्रोदय इव । प्रकारान्तरेणाह- प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रहस्तद्धेतुर्गुरूपदेशः शिरसिजजालं शिरोरुहभारममलीकुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं नयति । क इव । वयःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिर- सिजजालं केशसमूहं पलितरूपेणालीकुर्वन्स्तदेव शिरसिजजालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेने- त्यत आह - अयमिति । अयमेव नापरस्ते तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शयन्नाह - अनास्वादीति । न विद्यत आस्वादोऽनुभवो यस्यैवंविधो विषयरसो यस्य तथा तस्य । आस्वादितविषयस्य तूपदेशो निरर्थकः स्यादित्याह– कुसुमेति । [^1]F. कर्णगतशङ्खाभरणेन यथा हस्तिनो मुखशोभा, तथा गुरु- वचनेन साधोर्मुखशोभा, रुचिपूर्वकं श्रवणेन आनने उल्लासोदयात् । [^१]G. इन्द्रियहरिणहरती च. [^२]G. सततमतिदुरन्तेयमुपभोग ; सततमतिदुरन्ते इयं दूरं नयत्युपभोग. [^३]G. भाजनम्. [^४]G. सुखम्. [^५]G. च. [^६]G. अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम्. [^७]G. अतिमलिनमपि. [^८]G. परिणामः. [^९]G. कुसुमशरप्रहार. [^१]प्रहारजर्जरिते [^२]हि हृदि जलमिव गलत्युपदिष्टम् । अकार- णं च भवति दुष्प्रकृतेरन्वयः श्रुतं [^३]चाविनयस्य । चन्दन [^४]प्र- भवो न दहति किमनल: ? किं वा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा ? गुरूपदेशश्च नाम पुरुषाणामखिलमलप्र- क्षालन [^५]क्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरंवृ- द्धत्वम्, अनारोपि [^६]तमेदोदोषं गुरूकरणम्, असुवर्णवि [^७]र चनमग्राम्यं कर्णाभरणम्, [^८]अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः । विशेषेण [^९]राज्ञाम् । विरला हि तेषामुपदेष्टारः। प्रति- शब्दक [^१०]इव राजवचनमनुगच्छति जनो भयात् । उद्दाम [ टि ]-- हि निश्चितम् । कुसुमशरः कंदर्पस्तस्य शरा बाणास्तेषां प्रहारा अभिघातास्तैर्जर्जरिते शिथिलीभूते हृद्युपदिष्टमुपदेशविष- यीकृतं जलमिव गलति क्षरति विनश्यति । निरर्थकं भवतीत्यर्थः । दोषान्तरमाह - अकारणं चेति । उपशमादिकार्यजनकं न भवती- त्यर्थः । ननु मदनशरप्रहारजर्जरितहृदयस्योपदेशाभावेऽप्युपदेश- कार्यं प्रशमादिकं सर्वमन्वयो वंशः, श्रुतं च शास्त्रम्, ताभ्यामेव भविष्यतीत्याशयेनाह - दुष्प्रकृतेरिति । दुष्प्रकृतेर्दुरात्मनस्तादृश- हृदयस्यान्वयः श्रुतं चावि [^1]नेयस्य हेतोर्भवति । न तु विनयाये- त्यर्थः । ननु सुवंशजस्य कथमविनये प्रवृत्तिरित्यत आह – चन्दनेति । चन्दनं मलयजं तस्मात्प्रभवो यस्यैवंभूतोऽनलो वह्निः किं न दहति न भस्मीकरोति । परस्परसंघर्षं दोषे सति चन्दनात्समुत्थितोऽग्निर्दहत्येवेति । ननु प्रशमहेतुभूताच्छ्रुतात्कथमविनयोत्पत्तिरित्यत आह - किं वेति । प्रथमहेतुनापि वारिणा किं वडवानलो वाडवाग्निस्तो- [^2]यधेः प्रादुर्भवति, सर्वलोकविनाशाय सर्वदा महासमुद्रे तिष्ठति; यस्य वाडवामुख इति प्रसिद्धिः । न प्रचण्डतरीभवति प्रबलतरो न स्यात् । अथ प्रकारान्तरेण गुरुवचनमाहात्म्यं वर्णयन्नाह– गुर्विति । नामेति कोमलामन्त्रणे । गुरूणां हिताहितप्राप्तिपरिहारोपदेष्टृणामुपदेशः शिक्षा । पुरुषाणाम् अजलं जलव्यतिरेकेणापि स्नानमालवः । कीदृशम् । अखिलः समग्रो यो मलः कालुष्यं तस्य प्रक्षालनं झुचीकरणं तत्र क्षमं समर्थम् । अन्विति । अनुपजातमनुत्पन्नं पलितं पाण्डुरः कचस्तदादिवैरूप्यं यस्मिन्नेतादृशम् । अजरमिति । जराव्यतिरेकेण वृद्धत्वं स्थविरत्वम् । अनेति । नारोपितः स्वीकृतो मैदोदोषो येनैवंभूतं गुरुकरणं स्थूलीभवनम् । मेदोदोषेण स्थूलता भवतीति सर्वत्र प्रसिद्धम् । तथायं न भवतीत्यर्थः । असुवेति । न विद्यते सुवर्णस्य कनकस्य विरचनं यस्मिन्नेवंभूतमग्राम्यं प्रशंसनीयं कर्णाभरणं श्रवणविभूषणम् । अतीतेति । अतीतो गतो ज्योतिः प्रकाशो यस्मादेवंभूत आलोक उद्योतः । न उद्वेगकरो न संतापजनकः प्रजागरो जागरणम् । केवलं तवैव नायमुपदेश इत्यत आह विशेषेणेति । राज्ञां भूभुजामयमुपदेशो विशेषेणाधिक्येन प्रदातव्य इति भावः । राज्ञामनेक उपदेष्टारः किं तवोपदेशेनेत्यत आह - विरलेति । हि निश्चितम् । तेषां राज्ञामुपदेष्टार उपदेशदातारो विरलाः स्तोकाः । यतो राज्ञामुपदेशसमर्थोऽत्युत्कृष्टो विवक्षितोऽस्मदादिः, न त्वन्यो जनः । तदेव प्रदर्शयन्नाह - प्रतिशब्दक इवेति । जनो लोको भयाद्भीते राजवचनं नृपवचोऽनुगच्छति नृपवचनानुगो भवति । न तु प्रत्युत्तरं दातुं समर्थ इति भावः क इव प्रतिशब्दक इव प्रतिध्वनिरिक । यथा सोऽपि मूलशब्दसाम्येनानुगच्छति । केषांचिदुपदेशश्रवणमेव नास्तीत्यत आह - उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषां ते च । पृथु यथा स्यात्तथा स्थगितान्या । टिप्प० - 1 धिगीदृशीं टीकाम् । दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य अकारणं (कारणं न) भवतीत्येव पाठः, तदर्थश्च । अविनयस्येति पाठे तु अकारणमित्यनेन सह कथं योगः ? 2 अस्पष्टान्त्रापि टीका । प्रशमहेतुना वारिणा वाडवाग्निः किं न चण्डतरो भवति ? अपि तु भवत्येवेति स्पष्टोऽर्थः । 3 हन्त ग्रन्थस्वारस्यकृते धूमकेतुरवसे टीका । 'उद्दामदर्पश्वप्रथुस्थगितश्श्रवणविवराश्च' इत्येव पाठः । उद्दामदर्प एव श्वयथुः (शोधः ) तेन रुद्धं श्रवणविवरं येषाम् । शोथेन कर्णविवररोधे श्रवणाभावो यथा भवति तथा गर्वेण तेषामुपदेशगिरः श्रवणे न गच्छन्तीत्याशयः । पृथुस्थगितेत्यत्र पृथुपदेन कोऽर्थपरिपोष इति सहृदयाः प्रमाणम् । पाठा० -१ संप्रहार. २ हि हृदये; हृदये. ३ वा विनयस्य ४ प्रभवोऽपि ५ क्षमजलम् ६ मददोषम्. ७ विरचनाग्राह्यम्. ८ अपनीत ९ तु राज्ञाम्. १० एव. . [^१]दर्पाश्च पृथुस्थगितश्रवणविवराश्चो [^२]पदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गजनिमीलिते [^३]नावधीरयन्तः खेद- यन्ति हितोपदेशदायिनो गुरुन् । अहंकारदाहज्वरमूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीणि धनानि, राज्यवि [^४]षविकारतन्द्राप्रदा [^५]राजलक्ष्मीः । आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि [^६]खङ्गमण्डलोत्पलवनवि [^४]श्रमभ्रमरी लक्ष्मीः क्षीरसागरा- त्पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः- श्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौ- स्तुभ [^८]मणेर्नैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनो- दचिह्नानि गृहीत्वैवो [^९]द्गता । न ह्येवं [^१०]विधमपरिचितमिह जगति किंचि [^११]दस्ति यथे [^१२]यमनार्या । लब्धापि खलु दुःखेन परिपाल्यते । दृढ [^१३]गुणसंदाननिस्प [ टि ]-- च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उपदिश्यमानमपि कथ्यमानमपि हितोपदेशमपि न शृण्वन्ति नाकर्णयन्ति । कदाचि- च्छृण्वन्तोऽप्याकर्णयन्तोऽपि गजो हस्ती तस्य यन्निमीलितं नेत्रसं- कोचरतद्वन्निमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदा- यिनः शिक्षाकथकान्गुरून्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी राज- प्रकृती राज्ञां स्वभावो विह्वला व्याकुला । अहमिति । अहंकार एव दाहज्वरस्तीव्रतापस्तद्धेतुका या मूर्च्छा मोहस्तयान्धकारितान्धकार इवाचरिता । धनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह – अलीकेति । अलीकोऽवास्तवो योऽभिमानोऽहंकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्रव्याणि । राज्यमिति । राज्यमेव विषं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राजश्रीः । नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह - आलोकयत्विति । कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यैवंभूतस्त्वं तावदादौ लक्ष्मीमेव प्रथम- मालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति । हि निश्चितम् । इयं प्रत्यक्षोपलभ्यमाना खड्गानां कौक्षेयकाणां यन्मण्डलं संघा- तस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र [^1]विश्रमोऽवस्थितिस्तस्मिं- श्चञ्चलत्वसाम्याद्भ्रमरी मधुकरी लक्ष्मीः । पुनर्दोषान्तरं प्रदर्शयन्ना - क्षीरेति । यदा कश्चिद्दूरदेशान्तरं गन्तुमीहते तदासौ च सहवासि- स्मृतिहेतोस्तदीयं किंचिद्वस्त्वादायैव गच्छति, तथेयमपि सहवास- जनितो यः परिचयः संबन्धविशेषस्तद्वशात्सहवासिपारिजातादीना- मित्येतानि वस्तूनि गृहीत्वैवादायैव क्षीरसागराद्दुग्धाम्बुधेरुद्गता- प्रादुर्भूता । कीदृशानि । विरहः सहवासिभिरसंबन्धस्तस्मिन्विनोद- चिह्नानि चित्तालम्बनलक्षणानि। एतानि कानीत्यपेक्षायामाह - पारी- ति । पारिजातपल्लवेभ्यो मन्दारकिसलयेभ्यो रागं विषयलिप्सामा- रुण्यं च । इन्दुशकलाच्चन्द्रलेखा(याः ) देकान्तवक्रतां कुटिलतां प्रातिकूल्यं च । उच्चैःश्रवस इन्द्राश्वाच्चञ्चलतां चित्तास्थैर्यं चाञ्चल्यं च । कालकूटात्कालकूटनाम्नो विषान्मोहनशक्तिं मूर्च्छत्पादकशक्ति- मन्यवशीकरणशक्तिं च । मदिरायाः कादम्बर्या मदमुन्मादकत्वमु- न्मोहसंभेदलक्षणं च । कौस्तुभमणेर्नैष्ठुर्यं काठिन्यं निर्दयत्वं चेति । अथ लक्ष्म्यास्तत्सहितस्यापि राज्ञो निन्दां कुर्वन्नाह - नहीति । इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति यथेयमना- र्याऽश्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लब्धापि महता कष्टेन प्राप्तापि दुःखेन खलु परिपाल्यते परिपालनविषयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तलक्षणं यत्संदानं बन्धनं तेन निस्पन्दी- कृतापि निश्च [^1]F. विभ्रमभ्रमरीत्येव ग्रन्थानुकूलः पाठः । भ्रमणमेव भ्रमरस्व- भावो, विश्रमस्तु सर्वेषामेव । [^१]G. दर्पश्वयथुस्थगित; दर्पाश्चर्यसंस्थगित. [^२]G. उपदिश्यम्. [^३]G. अवधारयन्तः. [^४]G. विषविकारतन्द्री; विषतन्द्री; विषयविकारतन्द्रा. [^५]G. राज्यलक्ष्मीः. [^६]G. सुभटखड्ग. [^७]G. विभ्रम. [^८]G. अतिनैष्ठुर्यम्. [^९]G. इव. [^१०]G. अपरमपरिचितम्. [^११]G. किंचिन्नास्ति. [^१२]G. अनार्या दुःखेन लभ्यते लब्धापि. [^१३]G. गुणपाश. २९ का० न्द्रीकृतापि नश्यति । उद्दामदर्पभटसहस्रो [^१]ल्लासितासिलता- पञ्जरविधृताप्यपक्रामति। मदजलदुर्दिनान्धकारगज [^२]घटितघन [^३]घटापरिपालितापि प्रपलायते । न परिचयं रक्षति । नाभि- जनमीक्षते । न [^४]रूपमालोकयते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमाकर्णयति । न धर्म- मनुरुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । नाचारं पालयति । न सत्यम [^५]नुबुध्यते । न लक्षणं प्रमाणीकरोति । [^६]गन्धर्वनगरलेखेव पश्यत एव नश्यति । अद्याप्यारूढ मन्दर- परिवर्तावर्तभ्रान्तिजनितसंस्कारेव परि [^७]भ्रमति । कमलिनी [^८]संचरणव्यतिकरलग्ननलिनना [^९]लकण्टकेव न [^१०]क्व- चिदपि निर्भरमाबध्नाति पदम् । अति [ टि ]-- लीकृतापि नश्यति प्रपलायते । उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषामेवंभूता ये भटा योद्धारस्तेषां सहस्रं तेन उल्ला- सिता ऊर्ध्वीकृता या असिलतांस्ता एव पञ्जरं तत्र विधृतापि स्थापि- ताप्यपक्रामत्यपसरति । मदेति । मदजलं दानवारि तदेव श्याम- त्वसाधर्म्याद्दुर्दिनान्धकारस्तद्युक्ता ये गजा हस्तिनस्तैर्घटिता निष्पादिता या [^1]घना निबिडा घटा समूहस्तया परिपालितापि रक्षितापि प्रपलायते पलायनं करोति । नेति । परिचयं संस्तवं न रक्षति न पालयति । नेति । अभिजनं कुलं नेक्षते नावलोकयति । नेति । रूपं सौन्दर्यं न आलोकयतेऽवलोकयति । नेति । कुलक्रमं कुलपरिपाटीं नानुवर्तते नानुगच्छति। नेति । शीलमाचारं न पश्यति नावलोकयति । नेति । वैदग्ध्यं पाण्डित्यं न गणयति न विचारयति । नेति । श्रुतं शास्त्रं नाकर्णयति न शृणोति। नेति । धर्मं वृषं नानु- रुध्यते धर्मानुरोधेनैव न प्रवर्तते । अधर्मवतामपि गृहे तद्दर्शनात् । नेति । त्यागं दानं प्रति नाद्रियते नादरं करोति । कृपणसद्मन्यपि दर्शनात् । नेति । विशेषज्ञतां विशेषेण सर्वार्थवेदितां न विचारयति न विचारणां करोति । यत एव विद्वांसो दरिद्रोपद्रुताः स्युरिति प्रसिद्धिः । नेति । आचारं शिष्टानुचरितं मार्गं न पालयति न रक्षति । लक्ष्मीवतोऽपि प्रायः ( अ ) शिष्टाचरणदर्शनात् नेति । सत्यमवितथं नानुबुध्यते न जानाति । असत्यवतोऽपि गृहे बाहुल्येन दर्शनात् । नेति । लक्षणं मषीतिलकादि सामुद्रिकशास्त्रप्रतिपादितं न प्रमा- णीकरोति । लक्षणसत्त्वेऽपि तस्या अभावदर्शनात् । गन्धर्वेति । गन्धर्व [^2]नगरलेखा हरिश्चन्द्रपुरीति यस्याः प्रसिद्धिः । असद्वस्तु- भ्रमो वा । तद्वदेव पश्यत एवावलोकयत एव पुरुषस्य नश्यति विनश्यति । अद्यापीति । अद्यापि इदानीमप्यारूढः प्राप्तो यो मन्दरेण मेरुणा परिवर्तः परिभ्रमस्तज्जनितो य आवर्तः पयसां भ्रमस्तस्माद्या भ्रान्तिर्भ्रमिस्तज्जनितः संस्कारो वेगाख्यो यस्या एवं- विधेव परिभ्रमति परिभ्रमणं करोति । क्वचिदपीति । क्वापि स्थले निर्भरं निश्चलं पदं नावबध्नाति न निदधाति । अत एवोत्प्रेक्षते – लक्ष्म्याः कमलवासस्य प्रसिद्धत्वात्कमलिनीषु संचरणव्यतिकरः संबन्धस्तेन लग्ना नलिननालकण्टकां यस्याः सैवंविधेव । यथा भग्नकण्टका भूमौ निश्चलपदं न दत्ते तथेयमपीत्यर्थः । अतिप्रयत्ने- नातिप्रयासेन विधूतापि स्थिरीकृतापि परमेश्वरगृहेषूत्कृष्टे [^3]भ्य- सद्मसु परिस्खलति स्खलनां प्राप्नोति । विविधा ये गन्धगजा गन्धेभास्तेषां गण्डाः कटास्तेषां मधु मदस्तस्य पानमास्वादस्तेन मत्तेव क्षीबेव । ननु परमेश्वरगृहे गजास्तिष्ठ [^1]F. इदमपि रूपकालंकारविध्वंसित्वादशुद्धम् । मदजलरूपै- र्दुर्दिनैः ( वृष्टिभिः ) अन्धकारिणो ये गजास्त एव घनघटा मेघसमू- हास्तैः परिपालितेत्यर्थ उचितः । दुर्दिनत्वारोपो गजेषु मेघत्वारोपे कारणमिति परम्परितरूपकम् । परिपालितापि पलायते इति विभावना - विशेषोक्त्त्योः संदेहसंकरश्चेति द्वयोरङ्गाङ्गिभावसंकरः । [^2]F. भूतयोनिविशेषाणां रात्रावेव दृश्यमानं यद् नगरं तत्पतिः । दृष्टिभ्रमाद् गगने दृश्यमाना नगराकारा रेखा वा । यथा बृहत्संहि- ता-'गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम्' इति । [^3]F. अतिधनिकगृहेषु । 'इभ्य आढ्यो धनी स्वामी' । [^१]G. उल्लसित. [^२]G. गन्धगज. [^३]G. घटाटोप. [^४]G. आलोकयति. [^५]G. अवबुध्यते. [^६]G. गन्धर्वलेखेव. [^७]G. भ्रमति. [^८]G. संचार. [^९]G. कण्टकक्षतेव; कण्टकेत्येव. [^१०]G. क्वचिन्निर्भरम्. प्रयत्नविधृतापि परमेश्वरगृहेषु विविधगन्धगजगण्डमधुपानमत्तेव परिस्खलति । पारुष्यमिवोपशिक्षितुमसिधारासु निवसति । विश्व- रूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम् । अप्रत्ययबहुला च [^१]दिवसान्तकमलमिव समुपचितमूलदण्डकोशमण्डलमपि मुञ्चति भूभुजम् । लतेव विटपकानध्यारोहति । गङ्गेव वसुजनन्यपि तरंगबुद्बुदचञ्चला। दिवसकरगतिरिव प्रकटितविविधसंक्रान्तिः । पातालगुहेव तमोबहुला । [^२]हिडम्बेव भीमसाहसैकहार्यहृदया। प्रावृडिवाचिरद्युतिकारिणी । दुष्टपिशाचीव दर्शितानेकपुरुषोच्छ्रा- या स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीतमीर्ष्येयेव नालि- ङ्गति । जनं गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्वम [ टि ]-- न्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं भवतु परं साधुगृ- हेष्वपरिस्खलिता कुतो न तिष्ठतीत्यत आह - पारुष्यमिति । पारुष्यं क्रूरत्वमिवोपशिक्षितुमभ्यसितुमसिधारासु खड्गधारासु निवसति निवासं करोति । ययासिधारासु क्रौर्यशिक्षणं कृतं सा क्रूरा साधु- गृहेषु कथं तिष्ठतीति भावः । विश्वं प्रविष्टं यस्मिन्रूपे तत् । अथवा विश्वेन रूप्यते निरूप्यते यद्रूपं तद्विश्वरूपं तस्य भावस्तत्त्वं तदिव ग्रहीतुं नारायणमूर्तिं जनार्दनशरीरमाश्रिताधिगता । अप्रत्ययेति । अप्रत्ययोऽविश्वासो बहुलो यस्यामेवंभूता सती । दिवसान्ते यथा कमलं स्वाश्रयं मुञ्चति तथा स्वाश्रयीभूतं भूभुजमपि । तत्रोभयोः साम्यमाह - समिति । सम्यक्प्रकारेणोपचितानि वृद्धिं प्राप्तानि । अथ च समुपचितं वर्धमानं मूलं मित्रादिमूलकन्दः, दण्डो नालम्, कोशः कमलाभ्यन्तरम्, मण्डलं पारिमाण्डल्यम्, एतानि यस्येति विग्रहः । दण्डः करः, कोशो भाण्डागारः, मण्डलं देशो यस्य । 'मण्डलं द्वादशराजकम्' इत्येकस्य । 'विजिगीषुरुदासीनो मध्यम- श्चेति राजकम् । गुणानां विषयं वृद्धा जगुः प्रकृतिमण्डलम् । पाणि- राक्रन्द आसारः' इत्यपि । 'तदेवं शक्रमित्यादिभेदा द्वादश इष्यते । मण्डलं द्वादशराजकम्' इत्यन्ये । लता वल्ली सेव विटा भण्डादय- स्तान्पान्तीति विटपाः । विटपा एव विटपकाः । स्वार्थे कप्रत्ययः । पक्षे विटपा वृक्षाः । विटपानध्यारोहत्याश्रयणं करोति । गङ्गा स्वर्धु- नी सेव वसु द्रव्यं तज्जनन्यपि तरंगा भङ्गाः बुद्बुदः स्थासकस्तद्व- च्चञ्चला चपला । पक्षे वसोर्भीष्मस्य (जननी) तरंगबुद्बुदाभ्यां चाञ्चल्यवती च । दिवसकर: सूर्यस्तस्य या गतिर्गमनं सेव प्रक- टिताविष्कृता विविधानेकप्रकारा संक्रान्तिर्वस्तुने [^2]च्छासंबन्धो यया सा । पक्षे राशिषु सूर्यसंबन्धः । पातालं वडवामुखं तस्य गुहा कन्दरा सेव तमोगुणस्तेन बहुला दृढा पक्षे तमोऽन्धकारः। हिडम्बेव घटोत्कच प्रसूरिव भीमसाहसेनाति कठिनकर्मणैकमद्वितीयं हार्द ( ) हृदयं यस्याः । पक्षे भीमस्य वृकोदरस्य यः साहसगुणः । प्रावृडिति । प्रावृर्षाकाल: सेवाचिरा स्वल्पकालीना या द्युतिः प्रकाशस्तत्कारिणी । पक्षेऽचिरद्युतिर्विद्युत् । दुष्टेति । दुष्टा क्रूरा या पिशाची राक्षसी सेव दर्शितः प्रकटीकृतोऽनेकपुरुषाणामुच्छ्रायोऽभ्युँन्नतिर्यया सा । पक्ष ऊर्ध्वंकृतभुजपाणिनरमानं पुरुषः । अनेक पुरुषाणामुच्छ्राय उच्चता । एवंभूता लक्ष्मीः स्वल्पसत्त्व मल्पसाहसं नरमुन्मत्तीकरोत्युन्मत्ततां नयति । सरस्वतीति । सरस्वती भारती तया परिगृहीतं स्वीकृतं नरमीर्ष्ययेव मत्सरेणेव नालिङ्गति नाश्लिष्यति । गुणवन्तं शौर्यादिगुणोपयुक्तं जनं नरमपवित्रमिवापावनमिव न स्पृशति न स्पर्श करोति । उदारेति । उदारं स्फारं सत्त्वं यस्यैवंविधं पुरुषममङ्ग लमिव न बहु मन्यते नादरं करोति । सुजनं शुभजननिमित्तमिवै निष्फलमिव न पश्यति नावलोकयति । टिप्प० - 1 कदाचिद्वयापारिणां गृहे वाणिज्यलक्ष्मीरूपेण, कदाचिद्वीराणां राज्ञां राजलक्ष्मीरूपेणेत्यादिनानारूपधारणं विश्वरूपधारकस्य विष्णोः सकाशाद् गृहीतमित्युत्प्रेक्षा । 2 प्रकटिता विविधेषु ( जनेषु ) संक्रान्ति: संचारो यया सेति स्पष्टोर्थोपि प्रहेलिकायां परिणमितः । 3 अनेकेषां पुरुषाणामभ्यु. दयो दर्शितः (लक्ष्म्या), अनेक पुरुषपरिमिता उच्चता दर्शिता (पिशाच्या) इति स्फुटोऽर्थः । 4 उल्कापातादि दुर्लक्षणमित्यर्थो वक्तव्यः । पाठा० - १ दिवसावसानकमलम्. २ हिडिम्बेव. मङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमिव न पश्यति । अभि- जातमहिमिव लक्ष्यति । शूरं कण्टकमिव परिहरति । दातारं [^२]दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नो [^३]पसर्पति । मनस्विनमुन्मत्तमिवोप [^४]हसति । परस्परविरुद्धं चेन्द्र- जालमिव दर्शयन्ती [^५]प्रकटयति जगति निजं चरितम् । तथाहि । [^६]संततमूष्माणमुपज [^७]नयन्त्यपि जाड्यमुपजनयति। उन्नतिमादधानापि नीचस्वभावतामाविष्करोति । [^८]तोयराशि- संभवापि तृष्णां संवर्धयति । ईश्वरतां दधानाप्यशिवप्रकृतित्वमात- नोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतसहोद- रापि [^९]कटुकविपाका। विग्रहवत्यप्यप्रत्यक्षदर्शना। पुरुषोत्तम- रतापि खलजनप्रिया । रेणुमयीव स्वच्छमपि कलुषीकरोति। यथा- यथा चेयं चपला दीप्यते तथातथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्रमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषव- ल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरित- चित्राणाम्, विभ्रमशय्या मोहदीर्घ [ टि ]-- अभिजातं कुलीनमहिमिव सर्पमिव लङ्घयत्युत्क्रामयति । शूरमिति । शूरं शौर्यगुणोपेतं कण्टकमिव परिहरति दूरतस्त्यजति। दातारमिति । दातारं बहुप्रदं दुःस्वप्नमिवाशुभस्वप्नमिव न स्मरति न स्मृतिविषयीकरोति। विनीतमिति । विनीतं विनयगुणोपेतं पातकि- नमिव पापकारिणमिव नोपसर्पति न पार्श्वे प्रयाति । मन इति । मनस्विनं पण्डितमुन्मत्तमिव ग्रथिलमिवोपहसत्युपहास्यं करोति । इन्द्रेति । इन्द्रजालमिव कुहकमिव परस्परविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकट- यत्याविष्करोति । तदेव दर्शयति — तथाहीति । संततं निरन्तरमू- ष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्यमुपजनयतीति विरोधः शाब्दः । तत्परिहारस्तूष्माणं दर्प [^1]शैत्यं जाड्यमित्य- र्थात् । उन्नतिमादधानापि धारयन्त्यपि नीचस्वभावतामाविष्करोती- ति विरोधः । तत्परिहारस्तून्नतिमुत्कर्षं नीचस्वभावोऽकर्तव्यं कर्मे- त्यर्थात् । तोयराशिः समुद्रस्तस्मात्संभ [^2]वापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ध्यमित्यर्थात् । ईश्वर- तां दधानाप्यशिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः। तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभमित्यर्थात् । बलोपचयमा- हरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्य समूहं लघिमानं कार्पण्यमित्यर्थात् । अमृतसहोद- राप्यमृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति विरोधः । तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् । विग्रहवत्यपि मूर्तिमत्य- प्यप्रत्यक्षमगम्यं दर्शनं यस्या इति विरोधः। तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति विरोधः। तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवंविधापि खलजनानां प्रिया वल्लभेत्यर्थात् । रेणुमयीव रजोगुण- मयीव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति। यथेति । यथायथेयं लक्ष्मीश्चपला चञ्चला दीप्यते दीप्ता भवति तथातथा केवलं दीपशिखेव कज्जलवन्मलिनं कश्मलं कर्मोद्वमत्युद्गिरति । दीपशिखापि कज्जललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शयति — तथाहीति । तृष्णा लोभस्तलक्षणानां विषवल्लीनां संव- र्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धिहेतुत्वे- न साम्यम् । छेदयोग्यतया तृष्णावल्लयोः साम्यम्। व्याधेति। व्याध- गीतिर्मृगवधजीविगानमिन्द्रियमृगाणामक्षहरिणानाम्। अत्र नाशक- त्वसाम्याच्छ्रीगीत्योः साम्यम्। नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् । गानलुब्धाश्च मृगा हन्यन्त इति सर्वप्रसिद्धम् । सच्चरितानि सदाच- रणानि तान्येव चित्राणि तेषां परामर्श [^3]आमर्शनं तदर्थं या धूम- लेखा धूमपङ्क्ति: । [^1]F. टीकाकारस्यापि जाड्यम् । जाड्यम् ( जडत्वम् ) सदसद्वि- वेकराहित्यरूपं मौढ्यमित्यर्थो वाच्यः । [^2]F. समुद्रः संभवः ( उत्पत्तिस्थानं ) यस्याः इत्युचितोर्थः । [^3]F. प्रोञ्छनम्, आवरणमित्यादिरर्थं उचितः । [^१]G. इव पश्यति. [^२]G. दुःखस्वप्नम्. [^३]G. नापसर्पति. [^४]G. हसति. [^५]G. प्रकटयति निजम्. [^६]G. सततम्. [^७]G. आरोपयन्त्यपि. [^८]G. राशिरिव. [^९]G. कटुविपाका. निद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम्, [^१]पुर:पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, [^२]आपानभूमिर्विषयमधूनाम्, संगीतशाला भ्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्र- लता सत्पुरु [^३]षव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूमिर्लोकापवादवि [^४]स्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य । न हि तं पश्यामि यो [^५]ह्यपरिचित- यानया न निर्भरमुपगूढः, यो वा न विप्रलब्धः। नियतमियमालेख्य- गतापि चलति, [^६]पुस्तकमय्यपीन्द्रजालमाचरति, उत्कीर्णापि [ टि ]-- लोकैः कफनिवृत्त्यर्थं [^1]द्रव्यान्तरस्य धूम्रपानं कृत्वा पश्चात्स एवोदीर्यते तत्स्पर्शादेवालेख्यं विनश्यतीति भावः। मोह इति । मोहो मौढ्यम्, दीर्घनिद्रा [^2]निमीलितानि (?), तासां विभ्रमश- य्या विलासशयनम् । धनेति । धनानि द्रव्याणि, [^3]मदो मुन्मो- हसंभेदः त एव पिशाचिन्यस्तासां निवासार्थं जीर्णा प्राचीना वलभी गृहोपरिभागः । तिमिरेति । शास्त्राण्येव दृष्टयस्तासां तिमिरस्य नेत्ररोगविशेषस्योद्गतिः प्रादुर्भावः । पुर इति । सर्वेषामविनयानां दुर्बुद्धीनां पुरःपताकाग्रेवैजयन्ती । उत्पत्तीति । क्रोधस्य कोपस्य ये आवेगाः संभ्रमास्त एव ग्राहा जलजन्तवस्तेषामुत्पत्तिनिम्नगा तटिनी । आपानेति । [^4]विषया गोचरा एव मधूनि मद्यानि तेषामापानभूमिः पानगोष्टिकास्थलम् । संगीतेति । भ्रुवां विकारा विकृतयस्त एव नाट्यानि तेषां संगीतशाला रङ्गशाला । आवासेति । दोषा एव दूषणान्येव आशीविषा आशी दंष्ट्रा तस्यां विषं येषां त आशीविषाः सर्पास्तेषामा वासार्थं दरी गुहा । उत्सारणेति । सत्पुरुषाः शिष्टा- स्तेषां व्यवहारा आचरणानि तेषामुत्सारणं दूरीकरणं तद्धेतुका वेत्रलता वेत्रयष्टिः अकालेति । गुणा एव कलहंसाः कादम्बास्तेषा- मकालप्रावृट्समयो वर्षाकालः । प्रावृषि हंसा नश्यन्ति । इयं तु सर्वगुणानां विनाशहेतुरित्यपकर्षस्तु प्रसिद्धः । विसर्पणेति । लोकेषु येऽपवादा विरोधोक्तयस्त एव विस्फोटकाः [^5]शिलीन्द्राणि तेषां विसर्पणभूमिर्विस्तरणस्थलम् । प्रस्तावनेति । कपटनाटकस्य कैतवनृत्यस्य प्रस्तावना प्रारम्भः सूत्रधारादिप्रवेशः । कदलिकेति । कामकरिणो मदनगजस्य कदलिका [^6]रम्भा । वध्येति । साधु- भावस्य शोभनाध्यवसायस्य वध्यशाला सूनास्थानम् । राहुजिह्वेति । धर्मः सदाचारः निर्मल(त्व )साम्यात्स एवेन्दुमण्डलं चन्द्रबिम्बं तस्य राहुजिह्वा सैंहिकेयरसना । न हीति । हि निश्चितम् । तं पुरुषं न पश्यामि नावलोकयामि, यत्तदोर्नित्याभिसंबन्धात् । यः पुमानपरि- चितयासंनिहि [^7]ताया निर्भरमतिशयं नोपगूढो [^8]नाश्लिष्टः । यो वा न विप्रलब्धो न च विप्रतारितः । नियतं निश्चितम् । इयं लक्ष्मीरालेख्यगता चित्रलिखितापि चलति न स्थिरा भवति । अन्येषां चित्तानि चालयतीति वा । पुस्तकेति । पुस्तक [^9]मय्यपि ज्ञान- मय्यपीन्द्रजालवजालमाचरति । उत्कीर्णेति । उत्कीर्णाप्युत्कीरिता- पि विप्रलभते विप्रतारणां [^1]F. प्रलापमात्रमिदम्, धूममात्रेण चित्राणि विकृत्य आव्रियन्ते यथा महानसभित्तौ। [^2]F. इदमपि मौढ्यम्, सर्वत्रापि परम्परितरूपकम्। तद्विच्छेदो मा भूदिति- मोहा: विवेकाभावा एव दीर्घनिद्रास्तासामित्यर्थो वाच्यः। [^3]F. धनमदा एव पिशाचिका इत्यर्थ उचितः । [^4]F. स्रक्चन्दनादय इन्द्रियभोग्यपदार्था इत्यर्थ उचितः । [^5]F. व्रणविशेषा इत्यर्थ उचितः । [^6]F. कदलीसमूहे गजः स्वैरं विहरतीत्यर्थः । [^7]F. परस्परपरिज्ञानरहितया इत्यर्थ उचितः । [^8]F. लक्ष्म्यां कार्यद्वारा कुलटाया वेश्याया वा व्यवहारसमारोपा- त्समासोक्तिर्बोध्या । [^9]F. अज्ञानराशिष्टीकाकारः, 'पुस्तमय्यपि ' इति पाठः । पुस्तमयी मृत्काष्ठादिनिर्मितपुत्तलिका रूपापि इन्द्रजालमारचयति, अकस्मात् लक्ष्म्या विलोपात् । इति तदर्थः। 'पुस्त स्त्री हस्तनिर्यत् ०' इत्यादि वाग्भटः । [^१]G. पुरःसर. [^२]G. आवास. [^३]G. व्याहाराणाम्. [^४]G. विस्फोटानाम्. [^५]G. अपरिचितया न निर्भरम्; अपरिचितयानया न निर्भरम्. [^६]G. पुस्तमय्यपि. विप्रलभते, श्रुताप्यभिसंधत्ते, चिन्तितापि वञ्चयति । एवंविधयापि चानया दुराचारया कथमपि [^१]दैववशेन परिगृहीता [^२]विक्ल- वा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि --अभिषेकसमय [^३]एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव [^४]मलिनीक्रियते हृदयम्, पुरोहित- कुशाग्रसंमार्जनीभिरिवा [^५]पह्रियते क्षान्तिः, उष्णीष [^६]पट्ट- बन्धेने [^७]वाच्छाद्यते जरागमनस्मरणम्, आतपत्त्रमण्डलेने [^८]वापसार्यते परलोकदर्शनम्, चामरपवनैरिवापह्रियते सत्यवा- दिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्द [^९]कलकलरवैरिव तिरस्क्रियन्ते साधुवादाः। ध्वजपटपल्लवैरिव परामृश्यते यशः । तथाहि – के [^१०]चि [^११]च्छ्रमवशशिथिलशकुनि [^१२]गलपुटचटुलाभिः खद्योतोन्मेषमुहूर्तमनोहराभिर्मनस्विजनगर्हिताभिः संपद्भिः प्रलोभ्यमाना धनलवलाभावलेपविस्मृतजन्मानोऽनेकदोषो- पचितेन [^१३]दोषासृजेव रागावेशेन [ टि ]-- करोति । श्रुताप्याकर्णिताप्यभिसंधत्ते [^1]संशयं करोति । चिन्तितापि वञ्चयति वञ्चनां करोति । एवंविधयापि पूर्वोक्तलक्ष- णलक्षितयाप्यनया श्रिया दुराचारया दुष्टाचरणया कथमपि महता कष्टेन दैववशेन भाग्यवशेन परिगृहीताः स्वीकृता राजानो विक्लवा विह्वला भवन्ति । सर्वेषामविनयानां दुर्बुद्धीनामधिष्ठानतामधिकर- णतां च गच्छन्ति प्राप्नुवन्ति । चकारः समुच्चयार्थः । तदेव दर्शयति - तथाहीति । अभिषेकसमये राज्याभिषेकक्षण एवैतेषां राज्ञां मङ्गलकलशजलैरिव कल्याणकुम्भाम्भोभिरिव दाक्षिण्यमनुकूलता प्रक्षाल्यते धावनविषयीक्रियते । अग्नीति । अभिषेकानन्तरं होमस्य सद्भावादग्नीत्युक्तम् । अग्निकार्यं होमादि तस्य धूमेन हृदयं स्वान्तं मलिनीक्रियते । राज्ञामिति शेषः । पुरोहितेति । पुरोहितः पुरोधा- स्तस्य कुशाग्राणि दर्भाग्राण्येव संमार्जन्यो बहुकार्यस्ताभिरिव क्षान्तिः क्षमापहियते दूरीक्रियते । उष्णीषेति । उष्णीषं मूर्धवेष्टनं तदेव पट्टबन्धस्तेनेव जरा विससा तस्याः आगमनमागमस्तस्य स्मरणं स्मृतिराच्छाद्यत आव्रियते । आतपत्रेति । आतपत्रं छत्रं तस्य मण्डलेन निस्तलेन परलोकस्य भवान्तरस्य दर्शनमवलोकनमप- सार्यते दूरीक्रियते । चामरेति । चामरं वालव्यजनं तस्य पवनै र्वीजनैरिव सत्यमवितथं वदतीत्येवंशीलः सत्यवादी तस्य भावस्तत्ता सा अपह्रियतेऽपहरणविषयीक्रियते । वेत्रेति । वेत्रदण्डैर्वैतस- यष्टिभिरिव गुणाः शौर्यादय उत्सार्यन्ते दूरीक्रियन्ते । जयेति । जय- शब्दस्य ये कलकलरवाः कोलाहलशब्दास्तैरिव साधुवादाः ख्यात- यस्तिरस्क्रियन्ते न्यक्क्रियन्ते । ध्वजेति । ध्वजा वैजयन्त्यस्तेषां पटा वस्त्राणि तेषां पल्लवैः प्रान्तैरिव यशः श्लोकः परामृश्यते परामर्शो लोपः स क्रियते । तदेव दर्शयति- तथाहीति । केचिन्म [^2]नुष्याः । श्रमेति । श्रमवशेन यासाधिक्येन शिथिल श्लथोऽदृढः शकुने- र्मयूरस्य अन्यस्य वा पक्षिविशेषस्य यो गलः कण्ठस्तस्य यत्पुटं तद्वच्चपलाभिः । मयूरस्य कण्ठः श्रमवशेन चात्यन्तं चपलः स्या- दिति तदुपमानम् । खद्योत इति । खद्योतो ज्योतिरिङ्गणस्तस्य य उन्मेषोऽवभासस्तद्वन्मुहूर्तं मनोहराभिश्चित्तहारिणीभिः । मनस्वीति । मनस्विजनाः पण्डितलोकास्तैर्गर्हिताभिर्निन्दिताभिरेवंविधाभिः संपद्भिः समृद्धिभिः प्रलोभ्यमाना लोभं प्राप्यमाणाः। धनेति । धनस्य द्रव्यस्य यो लवो लेशस्तस्य लाभः प्राप्तिस्तस्माद्योऽवलेपोऽहंकार- स्तेन विस्मृतं विस्मरणं प्राप्तं जन्म येषां ते तथानेके [^3]दोषा दूषणानि तैरुपचितेन व्याप्तेन । रागावेशेनेति । राग इच्छारुण्यं च तेषामावेशस्तन्मयीभावस्तेन बाध्यमानाः पीड्यमानाः । [^1]F. कपटव्यवहारं करोति । [^2]F. राज्ञां प्रसङ्गे 'मनुष्याः' इति व्याख्या प्रमाद: । राजान इत्युचितम् । [^3]F. दोषैः वातपित्तकफविकारैः उपचितेन वृद्धिंगतेन दुष्टेन असृजा ( रक्तेन ) यथा पीड्यमाना भवन्ति तथादोषैः कामक्रोधा- दिभिः प्रवृद्धेन रागावेशेन विषयासक्तिरूपेणाभिनिवेशेन अधरीक्रियमाणा इति व्याख्योचिता । इदं सर्वं भ्रममात्रम् । अत एव 'दुष्टासृजेव' इत्येव पाठः, 'दोषोपचितेन' इति पूर्वमुक्तत्वेन पौनरु- क्त्यप्रसङ्गात् । [^१]G. दैवपरिगृहीता. [^२]G. विक्लवीभवन्ति. [^३]G. एवैषाम्; एव चैषाम्. [^४]G. मलिनीभवति. [^५]G. अपनीयते. [^६]G. पद. [^७]G. अवच्छाद्यते. [^८]G. अपवार्य; अपवार्यते. [^९]G. कलकलैः. [^१०]G. क्वचित्. [^११]G. श्रमशिथिल. [^१२]G. पक्षपुट. [^१३]G. दुष्टासृजेव. बाध्यमानाः, विविध [^१]विषयग्रासलालसैः पञ्चभिरप्यनेकसहस्र- संख्यैरिवेन्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया [^२]लब्धप्रसरेणै-केनापि शतसहस्रतामिवोपगतेन मनसाकुलीक्रियमाणा विह्वलतामुपयान्ति । ग्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मद- नशरैर्मर्मा [^३]हता इव मुखभङ्गसहस्राणि कुर्वते, धनोष्मणा पच्य माना इव विचेष्टन्ते, गाढ [^४]प्रहाराहता इवाङ्गानि न धारयन्ति, कुलीरा इव तिर्यक्परिभ्रमन्ति, अधर्मभन्नगतयः पङ्गव इव परेण संचार्यन्ते, मृषावाद [^५]विपाकसंजातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारैः [^६]पार्श्ववर्तिनां शिरः-शूलमुत्पादयन्ति, आसन्नमृत्यव इव [^७]बन्धुजनमपि नाभि- जानन्ति, [^८]उत्कम्पितलोचना इव [ टि ]-- केनेव । दोषेति । दोषं दुष्टं यदसृग्रक्तं तेनेव । तत्रापि रागो भवत्येवेति साम्यम् । विविधेति । विविधा येऽनेके विषया गोचरास्त एव ग्रासा गुडेरकास्तत्र लालसैलम्पटैः । पञ्चभिरिति । पञ्चभिरपि प्राणप्रमितसंख्यैरपि चक्षुरादिभिरपि शतसहस्रतां लक्षतामुपगते- [^1]न प्राप्तेन अनेकसहस्रसंख्यैरिन्द्रियैः करणैरायास्यमानाः परिक्लिश्यमानाः । प्रकृतीति । प्रकृत्या स्वभावेन चञ्चलश्चपलस्तस्य भावस्तत्ता तया लब्धः प्रसरोऽवकाशो येनैवं भूतेनैकेन मनसा चित्तेनाकुलीक्रियमाणा विह्वलतामुत्पिञ्जलतामुपयान्ति गच्छन्ति । ग्रहैरिति । ग्रहैः शनैश्चरादिभिरिव गृह्यन्ते ग्रहणविषयीक्रियन्ते। भूतैः पिशाचैरिवाभिभूयन्ते । मन्त्रैरिति । मन्त्रा देवाधिष्ठातृकास्तैरिवावे- श्यन्ते । मन्त्रेणान्यत्रावेशः क्रियते । यथा भूतमन्यत्र प्रवेश्यते। सत्त्वैरिव दुष्टप्राणिभिरिवावष्टभ्यन्ते हठेन गृह्यन्ते । वायुनेव पवने- नेव विडम्ब्यन्त इतस्ततो विक्षिप्यन्ते । पिशाचैरिव राक्षसैरिव ग्रस्य- न्ते भक्ष्यन्ते । मदनेति । मदनशरैः कामबाणैर्मर्मस्थलं आहतास्ता- डिता इव मुखभङ्गसहस्राण्याननविकृतिसहस्राणि कुर्वते घटयन्ति । धनेति । धनस्य द्रव्यस्योष्मा तापस्तेन पच्यमानाः पाकविषयी- क्रियमाणा इव विचेष्टन्ते । विविधां चेष्टां कुर्वन्तीत्यर्थः । गाढेति । गाढस्तीव्रो यः प्रहारो लगुडादिना कुल्लण्टनं तेनाहता इवाङ्गानि हस्तपादादीनि न धारयन्ति न धर्तुं शक्नुवन्तीत्यर्थः । कुलीरेति । कुलीरा इव कर्कटा इव तिर्यक्तिर [^2]श्चीना एव परिभ्रमन्ति परिभ्रमणं कुर्वन्ति । अधर्मेति । अधर्मेणासदाचरणेन भग्ना भङ्गं प्राप्ता गतिर्गमनं सत्कर्मणि वृत्तिश्च येषामेवंभूताः पङ्गव इव खञ्जा इव परेणान्येन संचार्यन्ते संचरणशीलाः क्रियन्ते । मृषेति । मृषा- वादोऽसत्यभाषणं तस्य विपाकः परिणामस्तेन संजातः समुत्पन्नो मुखरोगो येषामेतादृश इवातिकृच्छ्रेणातिकष्टेन जल्पन्ति ब्रुवन्ति । सप्तेति । सप्तच्छदतरव इव विषमच्छदवृक्षा इव कुसुमानि नेत्राणि तेषां ये रजोभिर्गुणैर्विकारा [^3]विकृतयस्तैः । पक्षे कुसुमरजो- विकारैः पुष्परागविकृतिभिः । 'कुसुमं स्त्रीरजो नेत्रे' इत्यनेकार्थः । पार्श्ववर्तिनां समीपस्थायिनां शिरःशूलं मस्तकव्यथामुत्पादयन्ति जनयन्ति । सप्तपर्णकुसुमरजसः शिरःशूलोत्पादकत्वं वैद्यके प्रसिद्धम् । आसन्नेति । आसन्नः समीपवर्ती मृत्युर्येषां त एवंविधा इव बन्धुजनमपि स्वजनमपि नाभिजानन्ति नोपलक्षयन्ति । उदिति । उत्प्राबल्येन [^4]कम्पितं धूतं लोचनं नेत्रं येषामेवंविधा इव [^1]F. उपगतैरिति वाच्यम् । [^2]F. सर्वैः सह कौटिल्यमाचरन्तीत्यर्थः । [^3]F. कुसुमरजसां विकारैः ( तत्संपर्कजनितवायुविकारैः ) सप्त- पर्णतरवो यथा शिरोवेदनामुत्पादयन्ति, तथा इमे कुसुमानि ( नेत्ररोगाः ) एव रजोविकारा रजोगुणपरिणामास्तैः आसन्नवर्तिनां शिरः- शूलजन्यपीडामिवोत्पादयन्तीति तात्पर्यम् । टीकातो व्याख्यामात्र- मवगन्तव्यम् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ।' इति हैमस्य शुद्धः पाठः । [^4]F. इदमपि घोरमज्ञानम् । 'उत्कुपितलोचना इव' इत्येव पाठः । उत्कुपितलोचना रुग्णनेत्रा इति तदर्थः । यस्य नेत्रपीडा भवति स तेजस्विपदार्थं न शक्नोति वीक्षितुम् । [^१]G. विषयरसग्रास. [^२]G. प्रसारेण. [^३]G. अभिहताः [^४]G. राभिहता: [^५]G. विषपाक [^६]G. आसन्नवर्तिनाम्. [^७]G. पुरःस्थितं बन्धुजनम् [^८]G. उत्कुपित. तेजस्विनो नेक्षन्ते, कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते, जातु- [^१]षाभरणानीव सोष्माणं न सहन्ते, दुष्टवारणा इव [^२]महामानस्तम्भनिश्चली [^३]कृता न गृह्णन्त्युपदेशम्, [^४]तृष्णाविषमूर्च्छिताः कनकमयमिव सर्वं पश्यन्ति, [^५]इषव इव पानवर्धिततै[^६]क्ष्ण्याः परप्रेरिता विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डविक्षेपैर्महाकुलानि शातयन्ति, अकालकुसुमप्रसवा इव मनो- हराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इवातिरौद्रभूतयः, तैमिरिका इवादूरदर्शिनः, उपसृष्टा इव क्षुद्राधिष्ठितभवनाः, श्रूयमा- णा अपि प्रेतपटहा इवोद्वेजयन्ति, चिन्त्यमाना अपि महापातकाध्य- वसाया इवोपद्रवमुपजनयन्ति। अनुदिवसमापूर्यमाणाः पापेने [ टि ]-- तेजस्विनः प्रतापवन्तः पुरुषान्निःस्पृहान्नेक्षन्ते नावलोकय- न्ति । पक्षे तेजस्विनः सूर्यादिकान् । कालदष्टेति । निषिद्धकाले संध्यादिरूपे दष्टा भक्षिताः। सर्पेणेति शेषः। एवंविधा इव महामन्त्रै- र्जाङ्गलीप्रभृतिभिः षाड्गुण्यादिभिरपि न प्रतिबुध्यन्ते न बोधं प्राप्नु- वन्ति । जातुषेति । जातुषाभरणानि लाक्षानिष्पन्नभूषणानीव सोष्मा- णं तेज [^1]स्विनं पुरुषं न सहन्ते न मृष्यन्ति । दुष्टेति। दुष्टवारणा इव मदोन्मत्तगजा इव महानत्युत्कृष्टो यो मानोऽहंकारस्तल्लक्षणो यः स्तम्भः स्थूणा तेन निश्चलीकृताः स्तब्धतां प्रापिताः सन्त उपदेशं शिक्षां न गृह्णन्ति नाददत। 'गजपक्षे महन्मानं यस्यैवंविधो यः स्तम्भ आलानस्तम्भस्तेन निश्चलीकृता नद्धाः सन्त उपदेशं हस्तिपकवाक्यं न गृह्णन्ति । अवगणयन्तीत्यर्थः । तृष्णेति । तृष्णैव विषं गरलं तेन मूर्च्छिता भ्रान्ताः कनकमयं सुवर्णमयमिव सर्वं पश्यन्ति विलोक- यन्ति । इषव इति । पानं मधुपानं निशानघर्षणं च ताभ्यां वर्धितं तैक्ष्ण्यं मदक्रौर्यं प्रहारशक्तिश्च येषामेवंविधा इषव इव बाणा इव परोऽन्यो मन्त्री च ताभ्यां प्रेरिता नोदिता विनाशयन्ति विनाशं जनयन्ति । दण्डो यष्टिर्भागधेय [^2]श्च तयोर्विक्षेपाः प्रहारा दुर्दिना- नि च तैर्दूरस्थितान्यपि दविष्ठदेशवर्तीन्यपि फलानीव सस्यानीव महाकुलानि महाभिजनानि शातयन्ति पीडयन्ति पातयन्त्यपि च । अकालेति । मनोहराश्चित्तहारिण्य आकृतय आकारा येषामेवंविधा अपि राजानो लोकविनाशहेतवो भवन्ति । सदाकृतिसाम्यादुपमानान्तरमाह - अकालेति । अकालेऽऋतौ कुसुमप्रसवा इव। तदु- क्तम् –'द्रुमौषधिविशेषाणामकाले कुसुमोद्गमः । फलप्रसवयोर्बन्धं महोत्पातं विदुर्बुधाः । श्मशानाग्नय इति । श्मशानं प्रेतवनं तस्या- नय इवातिरौद्रा अन्येषां भयोत्पादिका भूतिः संपयेषां ते तथा । पक्षेऽक्रूरा भूतिर्भस्म येषु । तैमिरिकेति । तिमिरं नेत्ररोगः स संजा- तो येषां ते तैमिरिकास्त इवादूरदर्शिनः । भाविनं दोषं न पश्यन्ती- त्यर्थः । दूरं परलोकं न पश्यन्तीत्यर्थो वा । पक्षेऽदूरदर्शिनः समीप- स्थितवस्तुविलोकिनः । उपसृष्टेति । [^3]उपसृष्टा बहिःकृता इव क्षुद्रै- र्विटैरधिष्ठितमाश्रितं भवनं गृहं येषां ते तथा । श्रूयमाणा इति । श्रूय- माणा आकर्ण्यमाना उद्वेजयन्त्युद्वेगं जनयन्ति । क इव । प्रेतपटहा इव यथा मृतकवाद्यानि निर्वेदमन्येषां समुत्पादयन्तीत्यर्थः । कस्मिं- श्चिद्देशे मृतकानां पुरस्ताद्वाद्यानि वाद्यन्त इति देशाचारः । चिन्त्येति । चिन्त्यमाना अपि चेतसि स्मर्यमाणा अपि महापातकं स्त्रीहत्यादि तदध्यवसाया इव तदभिप्राया इवोपद्रवं वञ्चकादि [^4]दु:खमुप- जनयन्ति निष्पादयन्ति । अन्विति । अनुदिवसं प्रतिदिवसं पापेनै- नसापूर्यमाणा [^1]F. भूषणपक्षे अग्निम् । राजपक्षे - ईर्ष्यावशादसहनम् । जातुषपक्षे -- विगलनवशादित्यर्थः [^2]F. सामदानभेददण्डा इति चतुर्थोपाय इति व्याख्योचिता । 3 रति-संलग्ना वाराङ्गना इव क्षुद्रै: नीचैर्लौकै:, पक्षे विटैरधिष्ठितानि भवनानि येषां ते । 'उपसृष्टं तु मैथुनम्' इति त्रिकाण्डशेषः । [^4]F. चित्तस्याऽशान्तिम् । [^१]G. जातुषा इव. [^२]G. महालान; महानाल. [^३]G. कृता अपि न. [^४]G. अतितृष्णाविषवेग; तृष्णावेश. [^५]G. असयः; अग्नयः, असवः. [^६]G. पारुष्या:. वाष्मातमूर्तयो भवन्ति, तदवस्थाश्च व्यसनशतसख्यतामुपगता वस्मीक [^१]तृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति । अपरे तु स्वार्थनिष्पादनपरैर्धनपिशितग्रासगृध्रैरास्थान [^२]नलिनी- धूर्तबकैर्द्यूतं विनोद इति, परदाराभिगमनं वैदग्ध्यमिति, [^३]मृग- यां श्रम इति, पानं विलास इति, [^४]प्रमत्ततां शौर्यमिति, [^५]स्व- दारपरित्यागमव्यसनितेति, गुरुवचनावधीरणमपरप्रणेयत्वमिति, अजित [^६]भृत्यतां सुखोपसेव्यत्वमिति, [^७]नृत्यगीतवाद्य- [^७]वश्याभिसक्तिरेसिकतेति, महापराधावकर्णनं महानुभावतेति, [ टि ]-- भ्रियमाणा इवाध्मातमूर्तयः स्थूलदेहा भवन्ति । तदिति । सैवावस्था येषां ते तदवस्थाः । चः समुच्चयार्थः । एवंविधा व्यसना- नां द्यूतादीनां शतं तस्य सख्यतां मित्रतामुपगताः प्राप्ताः। 'शरव्य- ताम्' इति पाठे तु शरव्यं लक्ष्यं तस्य भावस्तत्त्वमुपगता इत्यर्थः। वल्मीकेति । वल्मीकमुपदेहि [^1]कागृहं तस्य तृष्णानि नडादीनि तेषामग्राणि प्रान्तानि तेष्ववस्थिता ये जलबिन्दवस्त इव पतितमपि मनुष्यजन्मनः स्रस्तमप्यात्मानं नावगच्छन्ति न जानन्ति । अपरे- त्विति । अपरेऽन्ये । तु पुनरर्थे । राजानः । श्रीमतां दोषान्तरमप्याह - अपरे त्विति । इति दोषानपि गुणपक्षमध्यारोपयद्भिधूर्तै र्विप्रता- रकैः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपहासयोग्यतामुपयान्ति प्राप्नुवन्तीत्यर्थ: । कीदृशैर्धूर्तेः । स्वेति । स्वस्यात्मनो योऽर्थः प्रयोजनं तस्य निष्पादनं करणं तत्र परैस्तत्परैः । धनमिति । धनं द्रव्यं तदेव पिशितं मांस तस्य ग्रासो ग्रहणं तस्मिन् गृधैर्दूरदृग्भि र्यथा तथा द्रव्यार्जनपरैरित्यर्थः । आस्थानेति । आस्थानं नृपोपवेश- नस्थलं तदेव नलिनी कमलिनी तस्यां बकैर्धूर्तै: । यथा बका नलि- नीमाश्रित्य तदाश्रयबलेन स्वात्मानमाच्छाद्य येन केन प्रकारेण परा- न्वञ्चयित्वाकस्मादेव परान्भक्षयन्ति तद्वदास्थानबलेन परान्वञ्चयि- त्वा स्वानि भक्षयन्ति । इतिशब्दार्थमाह -- द्यूतमिति । द्यूतं दुरोदरं विनोदः क्रीडामात्रम् । न चैतद्विहिते किंचित्पातकमस्तीति भावः । परेति । परदाराः परस्त्रियस्तेषामभिगमनं संभोगो वैग्ध्य- मिति चातुर्यमित्यर्थः । मृगयेति । मृगयां मृगव्यां श्रम इति । 'अभ्यासः खुरलीति श्रमो योगाभ्यासः' इति कोशः । न तु परप्राण- व्यापादनजनितं किमपि पातकमस्तीति भावः। पानमिति । पानं मद्यादीनां । विलास इति । विलसितमित्यर्थः । प्रमत्ततामिति । प्रमत्ततां क्षीबतां शौर्यं सुभटकृत्यमिति । खेति । स्वस्य दाराः स्त्री तस्याः परित्यागं त्यजनमव्यसनितानासक्तिता इति । नतु धर्माधिक्यम् । गुरुरिति । गुरुर्हिताहितप्राप्तिपरिहारोपदेष्टा तस्य वचनं वचस्तस्यावधीरणमुहद्धनमपैरप्रणेयत्वमन्यवश्यत्वम् । 'वश्यः प्रणेयः' इति कोशः । गुरुवचनावधीरणेन क्रूरोऽयं प्रभुरिति भियापरे साम•न्तादयो वश्यत्वं प्रतिपद्यन्त इति तेषामाशयः । अजितेति । शिक्षार्थं ताडिता भृत्या यस्य राज्ञः सम्यक् सेवां कुर्वन्ति स जितभृत्योऽन्यस्त्वजितभृत्यस्तस्य भावस्तत्ता ताम् । इदं च नृपतेर्दूषणम् । वैगुण्ये भृत्यानामवश्यं शिक्षा प्रदातव्येति राजचिह्नम् । तदुक्तम्- 'शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि' इति । तस्मिन्सुखोपसेव्यत्वं सुखेनोपसेवितुं योग्यः सुखोपसेव्यस्तस्य भावस्तत्त्वम् । सुखोपसेव्योऽयं नृप इति लोके ख्याति मात्रं गुण आरोप्यते । नृत्येति । नृत्यं नाट्यम्, गीतं गानम्, वाद्यमातोद्यम्, वेश्या बारवध्वः, तास्वभिसक्तिमत्यासक्तचित्ततां रसिकता रसाभिज्ञता इति । महेति । महापराधानां कौरवयुद्धादीनामवकर्णनं श्रवणं महानु। टिप्प० – 1 उयीकाकृतमृत्तिकास्तूपः ( कीटविशेषेण निःसारितमृत्तिकाराशि:) तन्त्रोत्पन्नतृणामे स्थिता जलबिन्दव इव । पातित्येन युक्तमात्मानं मोहान जानन्ति । वल्मीके पतिता जलबिन्दवस्तु शुष्क स्वाज प्रतीयन्त इत्याशयः । 2 धर्मादअंश इति वक्तव्यम् । 3 न परप्रणेय (चश्य) त्वम्, स्वाधीनता. सूचनारस्वास प्रयमित्यर्थः । 4 'महापराधानाकर्णनम्' इत्येव पाठः । महतोऽप्यपराधस्य 'अकिञ्चित्करमिवम्' इति उपेक्षावशादनाकर्णनम् । वस्तुतस्त्वयमविचारो दोष एव । पाठा-१ गुणाग्रस्मिताः २ नलिनीवकैः ३ मृगया. ४ प्रमत्तता. ५ स्खदारपरित्यागः; स्खदारपरित्यागेवु. ६ मुलता. ७ नृत्त. ८ अभिसक्ति: • ९ रसिकतामिति १० अनाकर्णनम् : अनबकर्णनम्. ३० का० [^१]पराभवसहत्वं क्षमेति, [^२]स्वच्छन्दतां प्रभुत्वमिति, देवावमा- ननं महासत्त्वतेति, बन्दिजन [^३]ख्यातिं यश इति, [^४]तरलता- मुत्साह इति, [^५]अविशेषज्ञतामपक्षपातित्वमिति दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्ते[^६]र मानुषलोकोचिताभिः स्तुतिभिः प्रतार्यमाणा वित्तमद [^७]मत्तचित्ता निश्चेतनतया [^८]तथैवे [^९]त्यात्मन्यारोपितालीकाभिमाना मर्त्य- धर्माणोऽपि दिव्यांशावतीर्णमिव सदैवतमि [^१०]वातिमानुषमा- त्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचितचेष्टानुभावाः सर्वजनस्योपहा- स्यतामुपयान्ति । आत्मविडम्बनां चानुजीविना जनेन क्रियमाणा- मभिनन्दन्ति । मनसा देवताभ्यारोपण [^११]विप्रतारणादसद्भूत- संभावनोपहताश्चान्तःप्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं संभाव- यन्ति । त्वगन्तरिततृतीय लोचनं स्वललाटमाशङ्कन्ते । [ टि ]-- भावता महाधर्मिष्ठता । अदातृत्ववशात् मागधादिभिर्विहि- तस्य गालिप्रदानादिपराभवस्य तिरस्कृतेः सहत्वं क्षमेति क्षान्तिः । स्वच्छन्दतां निरवग्रहतां प्रभुत्वमैश्वर्यम् । देवेति । देवा अर्हदादय- स्तेषामवमाननमवगणनं महासत्त्वता महाधैर्यता । बन्दीति । बन्दि- जना मागधादयस्तेषां ख्यातिं प्रसिद्धिम् । यशःश्लोक ( ? ) इति । एतेन पण्डितजनप्रदानं न श्लोकजनकमिति भावः। तरलतां चप- लतामुत्साहः प्रगल्भता इति । अवीति । अविशेषज्ञतां विशेषाविशे- षानभिज्ञतामपक्षपातित्वं माध्यस्थ्यमिति । अत्र 'द्यूतम्' इत्यारभ्य पूर्वपूर्वस्योद्देश्यतयोत्तरोत्तरस्य बाध्यमानतया पूर्वस्मिन्दोष उत्तरस्य गुणस्यारोपः प्रशंसनमेवाध्यारोपः । अत्राध्यारोपकलक्षणे रूपक- व्यासङ्गजनकत्वं सातिशयसुखजनकत्वादिकं साम्यं स्वयमूहनीयम् । अथ धूर्तान्विशेषयन्नाह-अन्त इति । अन्तर्मध्ये स्वयमप्यात्मनापि विहसद्भिर्हास्यं कुर्वद्भिः । अस्मद्विप्रतारणानभिज्ञ इति हास्यनिया- मकम् । प्रतारणा वञ्चना तत्र कुशलैरभिज्ञैः। किं क्रियमाणा धनिनः । अमानुषलोको देवलोकस्तस्योचिताभिर्योग्याभिः । स्तुतेर्विशेषण- म् । वित्तेति । वित्तस्य द्रव्यस्य मदस्तेन मत्तं चित्तं येषां ते तथा। अत एव निश्चेतनतया निर्गता चेतना ज्ञानं यस्मात्तस्य भावस्तत्ता तया । तथैवेति । यथा यथा प्रतार्यमाणास्तथैवेत्यर्थः। आत्मन्यारोपि- तं स्थापितमलीकं मिथ्याभिमानं, यैस्ते तथा मर्त्यधर्माणोऽपि मर्त्य- स्य मनुष्यस्य धर्मा गमनादयो येषामेवंविधा अपि । दिव्येति । दिव्या देवसंबन्धिनो येंऽशा भागास्तैरवतीर्णमुत्पन्नमिव सदैवतमिव देवताधिष्ठितमिवातिमानुषं कर्मातिक्रम्य वर्तमानमात्मानमुत्प्रेक्षमा- णा मन्यमानाः । प्रारब्धेति । प्रारब्धा या दिव्योचिता देवजनयोग्याश्रेष्ठाः क्रियास्ताभिरनुभावो माहात्म्यं येषां ते तथा । अन्वयस्तु प्रागे- वोक्तः । अनुजीविना जनेन सेवकजनेन क्रियमाणां विधीयमाना- मात्मविडम्बनाम [^1]सद्गुणारोपलक्षणामभिनन्दन्ति प्रशंसन्ति । चकारः पूर्वोक्तसमुच्चयार्थः । विभूतिमतां राज्ञां पुनर्दोषान्तरमाह- मनसेति । देवताया हरिहरादेरध्यारोपणं [^2]आरोपणं तेन विप्र- तारणं वञ्चनं तस्मादिति । असदिति । असद्भूतासद्रूपा या संभा- वना देवरूपत्वेन निश्चयस्तेनोपहता विनष्टबुद्धयः । देवत्वाध्यारोप- त्वनिमित्तमूलानि प्रदर्शयन्नाह - अन्तरिति । अन्तर्मध्ये प्रविष्टमपर- मन्यद्भुजद्वयं यस्मिन्नेवंविधमिवात्मनो बाहुगुगलं स्वकीयं भुजयुगं संभावयन्ति संभावनाविषयीकुर्वन्ति । एतेन स्वस्मिंश्चतुर्भुजत्वं ख्यापितम् । त्रिनेत्रत्वमप्याह - त्वगिति । त्वक्कृत्तिस्तयान्तरितं पिहितं तृतीयं लौचनं यस्मिन्नेतादृशं [^1]F. आस्मनि अविद्यमाना अपि ये गुणास्तदारोपणरूपां विड- म्बनाम् । [^2]F. धूर्ते: कृतं देवत्वाऽप्यारोपणमेव प्रतारणं तस्मात् असद्भूता मिथ्याभूता या संभावना आत्मनो देवत्वेन निश्चयस्तेन उपहता नाशितबुद्धय इति व्याख्या । 'वस्तुतस्तु अध्यारोपप्रतारणाऽसंभूत' इत्येव पाठः । देवस्वारोप एव प्रतारणा तयाऽसंभूता या संभावना आत्मनि देवत्वभानं तेन उपहता इति तत्र व्याख्या । [^१]G. परभवसत्वम् ; परिभवसत्वम्. [^२]G. खच्छन्दता. [^३]G. आख्यातिम्; ख्यातिः. [^४]G. तदलतां. [^५]G. अविशेषशता. [^६]G. अमानुषोचिताभिः. [^७]G. मत्तनिश्चयेन. [^८]G. तथेति; यथेति. [^९]G. आत्मारोपित. [^१०]G. अतिमानुष्यकम्. [^११]G. प्रतारणादसद्भूत; प्रतारणासंभूतः प्रतारणासद्भुत. दर्शन [^१]प्रदानमप्यनुग्रहं गणयन्ति। दृष्टिपातमप्युपकारपक्षे स्था- पयन्ति । संभाषणमपि संविभागमध्ये कुर्वन्ति । आज्ञामपि वरप्रदा- नं मन्यन्ते । [^२]स्पर्शमपि पावनमाकलयन्ति । मिथ्यामाहात्म्य- गर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति [^३]द्विजातीन्, न मानयन्ति मान्यान् नार्चयन्त्यर्चनीयान्, नांभिवादयन्त्यभिवादनान्, नाभ्युत्तिष्ठन्ति गुरून् । अनर्थकाया सान्तरितो [^४]पभोगसुखमि- त्युपहसन्ति विद्व [^५]ज्जनम्, जरावैक्लव्यप्रलपितमिति [^६]पश्य न्ति [^७]वृद्धोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदे- शाय, कुप्यन्ति हितवादिने । सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते, तस्मै ददति, [^८]'तं मित्रता [^९]मुपजनयन्ति, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते, तमाप्ततामापाद [^१०]यन्ति, योऽहर्निश- मनवरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्य कर्तव्यः [ टि ]-- स्वललाटं निजालिकमाशङ्कन्त आरेकाविषयीकुर्वते । दर्शेति । लोकानां दर्शनप्रदानं स्वात्मप्रकटनमनुग्रहं प्रसादं गण- यन्ति मन्यन्ते । दृष्टीति । दृष्ट्याश्चक्षुषः पातमवलोकनं तदप्युपका- रपक्ष उपकृतिपक्षे स्थापयन्ति निक्षिपन्ति । संभाषेति । संभाषणं जल्पनं तदपि संविभागः पारितोषिकं दानं तन्मध्ये कुर्वन्ति । पारितोषिकतुल्यं गणयन्तीत्यर्थः । आज्ञामिति । आज्ञामपि निदेश- मपि वरप्रदानं समीहितप्रदानं मन्यन्ते जानन्ति । स्पर्श: संश्लेष- स्तदपि पावनं पूतं पवित्रमाकलयन्ति विचारयन्ति । मिथ्येति । मिथ्या वृथा यो माहात्म्यगर्वो माहात्म्याभिमानस्तेन निर्भरा भृता देवताभ्योऽर्ह [^1]भ्द्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजेति । द्विजातींस्त्रयीमुखान्न पूजयन्ति वस्त्रपात्रादिप्रदानेन न सत्कुर्वन्ती- त्यर्थः । मान्यानिति । मान्यान्माननीयान्नमानयन्ति न संमानं ददते । नेति । अर्चनीयानर्चायोग्यानार्चयन्ति नार्चां कुर्वन्ति । नेति । अभिवादनार्हानुपसंग्रहयोग्यान्नाभिवादयन्ति न पादग्रहणं कुर्वन्ति । नेति । गुरून्हिताहितप्राप्तिपरिहारोपदेष्टॄन् न अभ्युत्तिष्ठन्ति नाभ्युत्थानं कुर्वन्ति । अनर्थकेति । अनर्थको निष्फलो य आयासः प्रयासः श्रौतस्मार्तकर्मणि क्लेशस्तेनान्तरितं व्यवहितमुपभोगोऽङ्गनादिक- स्तज्जनितं सुखं सातं यस्येति कृत्वा विद्वज्जनं विबुधजनमुपहसन्त्यु- पहासं कुर्वन्ति । जरेति । जरा विस्रसा तस्या वैक्लव्यं विकलता तेन प्रलपितं जल्पितमिति कृत्वा वृद्धानां स्थविराणामुपदेशं शिक्षां पश्यन्ति । जानन्तीत्यर्थः। आत्मेति । आत्मनः स्वस्य या प्रज्ञा बुद्धि- स्तस्याः परिभवः पराभव इति कृत्वा सचिवोपदेशाय प्रधानशिक्षाया असूयन्त्यसूयां कुर्वन्ति । हितेति । हितवादिने यथास्थितवादिने कुप्यन्ति कोपं कुर्वन्ति । सचिवोपदेशाय हितवादिन इति चतुर्थीद्वयमपि 'कुधद्रुह' इत्यादिना संप्रदानसंज्ञायां सत्यां ज्ञेयम् । एतादृशं पुरुषं सर्वथा स्तुवन्तीत्याशयेनाह - तमिति । तं पुरुषं सर्वथा सर्व- प्रकारेणाभिनन्दन्ति प्रशंसन्ति । तमालपन्त्यालापं कुर्वन्ति । तं पुरुषं पार्श्वे समीपे कुर्वन्ति रक्षन्ति । तं संवर्धयन्ति वृद्धिं प्रापयन्ति । तेनेति । तेन पुरुषेण सह सुखं यथा स्यात्तथावतिष्ठन्तेऽवस्थानं कुर्वन्ति । तस्मायिति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तमिति । तं [^2]पुरुषं प्रति मित्रतां सुहृद्भावतामुपजनयन्ति निष्पादयन्ति । तस्येति । तस्य पुरुषस्य वचनं वाक्यं शृण्वन्ति । तत्रेति । तस्मिन्पुं- सि वर्षन्ति पुनःपुनः प्रदानं कुर्वन्ति । तं पुरुषं बहु मन्यन्ते । अत्यु- त्कृष्टतया जानन्तीत्यर्थः । तमिति । तं प्रत्याप्ततां शिष्टतामापादय- न्ति प्रतिपादयन्ति । तच्छब्दस्य यच्छन्दसापेक्षत्वादाह - य इति । यः पुमानहर्निशमहोरात्रं अनवरतं निरन्तरं विगतमन्यकर्तव्यं यस्यैवंभूत उपरचिताञ्जलिः संयोजितकरपुटोऽधिदैवतमिवेष्टदेवता [^1]F. इति तु टीकाकारस्य कृपा हरिहरादिदेवेभ्य इत्यर्थः । [^2]F. वस्तुतस्तु 'तं मित्रतामुपनयन्ति' तं जनं मित्रत्वं प्रापयन्तीति पाठः, तदर्थश्च । [^१]G. प्रदाने. [^२]G. संस्पर्शनम्. [^३]G. द्विजान्. [^४]G. विषयोपभोग. [^५]G. विद्वज्जनशीलम्. [^६]G. न पश्यन्ति. [^७]G. वृद्धजनोपदेशम्. [^८]G. तस्य मन्त्रिताम्. [^९]G. उपनयन्ति. [^१०]G. तमात्मनापादयन्ति तस्माद्बिभ्यति. स्तौति, यो वा माहात्म्यमुद्भावयति । किं वा तेषां [^१]सांप्रतं येषा- मतिनृशंस [^२]प्रायोपदेशनिर्घृणं कौटिल्यशास्त्रं प्रमाणम्, अभि- चारक्रियाः क्रूरैकप्रकृतयः पुरोधसो गुरवः, पराभिसंधानपरा मन्त्रि- ण उपदेष्टारः, नरपतिसहस्रभुक्तोज्झितायां लक्ष्म्यामासक्तिः, मार- णात्मकेषु [^३]शस्त्रेष्वभियोगः, सहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः । तदेव [^४]प्रायाति [^५]कुटिलकष्टचेष्टासहस्रदारुणे राज्यतन्त्रे- ऽस्मिन्महा [^६]मोहकारिणि चं यौवने कुमार ! [^७]तथा प्रयतेथा [^८]यथा नोपहस्यसे [^९]जनैः, न निन्द्यसे साधुभिः, न धिक्क्रिय- से गुरुभिः, [^१०]नोपलभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः, यथा च न प्रकाश्यसे विटैः, न [^११]प्रतार्यसेऽकुशलैः, नास्वाद्यसे भुजङ्गैः, नावलुप्यसे सेवकवृकैः, न वञ्च्यसे धूर्तै:, न प्रलोभ्यसे [^१२]वनिताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे [ टि ]-- मिव स्तौति नीति । यो वेति । यो माहात्म्यं तद्गुणवर्णना- लक्षणमुद्भावयत्युद्भावनां करोति । विभूतिमतां पुनर्दोषान्तरमाह - किं वेति । तेषां विभूतिमतां वाथवा किं सांप्रतं युक्तं येषां विभूति- मतामतिनृशंसप्रायोऽतिनिस्त्रिंशबहुल उपदेशः शिक्षा निर्गता घृणा दया यस्मादेतादृशं कौटिल्यशास्त्रं याम [^1]लादि प्रमाणमिति । अभिचार [^2]क्रिया कृत्याप्रतिकृत्यादिरूपक्रिया । क्रूरेति । क्रूरा निस्त्रिंशैकाद्वितीया प्रकृतिः स्वभावो येषामेवंविधाः पुरोधसः पुरो- हिता गुरवो धर्मोपदेशकाः । परेषामितरेषामभिसंधानं निरो [^3]ध स्तत्र परास्तत्परा मन्त्रिणः सचिवा उपदेष्टारः शिक्षादायकाः। नरेति । नरपतीनां यत्सहस्रं तेन भुक्ता चासावुज्झिता त्यक्ता चेति कर्म- धारयः । एवंविधायां लक्ष्म्यामासक्तिः प्रेमाधिक्यम् । मारणेति । मारणं व्यापादनं तदेवात्मा स्वरूपं येषां तथाविधेषु शास्त्रेष्वभियोग उद्यमः । सहेति । सहजं स्वारसिकं यत्प्रेम तेनार्द्रं स्विन्नं हृदयं येषामत एवानुरक्ता एतादृशा भ्रातरः सहोदरा उच्छेद्या मूलत उन्मूलनीयाः । प्रकृतमुपसंहरन्नाह - तदेवमिति । तदिति हेत्वर्थे । एवंप्राये पूर्वो- क्तस्वरूपबहुले । अतीति । अतिकुटिला अतिवक्राः कष्टदायिन्य- श्चेष्टाः कायव्यापारास्तासां सहस्रं तेन दारुणे भीषणे । राज्यतन्त्र इति । राज्यस्य तन्त्रं इतिकर्तव्यता । 'इतिकर्तव्यता तन्त्रे' इत्यने- कार्थः । अस्मिन्ननुभूयमाने यौवने तारुण्ये च महामोहकारिणि महामौढ्यजनके । कुमारेति संबोधनम् । तथेति । तेनैव प्रकारेण प्रयतेथाः प्रयत्नं कृथाः । यथा येन प्रकारेण जनैर्लोकैर्भवांस्त्वं नोप- हस्यसे न उपहासविषयीक्रियसे । साधुभिः सज्जनैर्न निन्द्यसे न निन्दाविषयीक्रियसे । गुरुभिर्धर्माचार्यैर्न धिक्क्रियसे न धिग्जीवित- मित्यादिवाक्यगोचरीक्रियसे । सुहृद्भिर्मित्रैर्नोपालभ्यसे नोपलभ्भविषयीक्रियसे । विद्वद्भिः पण्डितैर्न शोच्यसे न शोकविषयीक्रियसे । यथा विटैरसदाचरणकारिभिर्न प्रका [^4]श्यसे न प्रकटीक्रियसे । अकुशलैर [^5]नाचारादिभिर्न प्रतार्यसे न प्रतारणाविषयीक्रियसे । भुजङ्गैर्गणिकापतिभिर्नास्वाद्यसे गणिकार्थं द्रव्यवितरणद्वारा नोप भोज्यसे । सेवकाः सपर्याकारिण एव वृकाईहामृगास्तैर्नावलुप्यसे नानिष्टे प्रसज्यसे । नाकुलीक्रियस इत्यर्थः । धूर्तेः शरैर्न वञ्च्यसे न प्रतार्यसे । वनिताभिः स्त्रीभिर्न प्रलोभ्यसे न प्रलोभनाविषयः क्रियसे । लक्ष्म्या श्रिया न विडम्ब्यसे न विडम्बनायुक्तः क्रियसे । न परि- त्यज्यस इत्यर्थः । मदेनाधिपत्यजनिताहंकारेण न नर्त्यसे न नृत्यं कार्यसे । मदनेन मनोभवेन न उन्मत्तीक्रियसे न चित्तविलवतामा- पाद्यसे । विषयैरिन्द्रियार्थैर्नाक्षिप्यसे न प्रेर्यसे । रागेण स्नेहादिना न विकृष्यसे नाकृष्यसे । सुखेन सातेन नापह्रियसे न [^1]F. चाणक्यादिप्रणीतं नीतिशास्त्रम् । [^2]F. श्येनयागादिरूपपरवधजनकक्रूरकृत्यम् । [^3]F. प्रतारणम् । [^4]F. विटै: स्वसमानतया जनसमाजे न प्रकटीक्रियसे इति तात्प- र्यम् । [^5]F. 'न प्रहस्यसे कुशलैः' इत्येव पाठः । अकुशलानां प्रतारण- सामर्थ्यमेव कथमिति नास्मिन्पाठे स्वारस्यम् । [^१]G. असांप्रतम्. [^२]G. प्रायोपदेश. [^३]G. शास्त्रेषु. [^४]G. एवंप्राये. [^५]G. कुटिलकुचेष्टा; कुटिलचेष्टा. [^६]G. मोहान्धकारिणि. [^७]G. तथातथा. [^८]G. यथायथा. [^९]G. जनेन. [^१०]G. उपलभ्यसे. [^११]G. प्रहस्यसे. [^१२]G. सर्ववनिताभिः. विषयैः, [^१]नावकृष्यसे [^२]रागेण, [^३]नापह्रियसे सुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा [^४]च समारोपितसंस्कारः, तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि, तथापि भवद्गुणसंतोषो [^५]मामेवं मुखरीकृतवान् । इदमेव च पुनःपुनरभिधीयसे । विद्वां- समपि सचेतनमपि महासत्वमप्यभिजातमपि धीरमपि प्रयत्नवन्त- मपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति। सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवा [^६]न्नवयौवराज्याभिषेकम [^७]ङ्ग लम् । कुलक्रमागतामुद्वह पूर्वपुरुषैरूढां धुरम् । अवनमय द्विषतां शिरांसि । उन्नमय [^८]स्वबन्धुवर्गम् । अभिषेकानन्तरं च प्रारब्ध- दिग्विजय: परिभ्रमन्विजितामपि [^९]तव पित्रा सप्तद्वीप [^१०]भू- षणां पुनर्विजयस्व वसुंधराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरूढप्रतापो [^११]राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति' इत्येतावदभिधायोपशशाम । उपशान्त [^१२]वचसि शुकनासे चन्द्रापी [ टि ]-- परित्यज्यसे । काममत्यर्थं सकलशास्त्रवेत्तृभिः शिक्षिते त्वय्युपदेशो व्यर्थ इत्यर्थः । पुनराह - प्रत्येति । प्रकृत्या स्वभावेन धीरो धैर्यवान् । यद्यपीति पूरणीयम् । कीदृक् । पित्रा चेति । पित्रा चकारान्मयापि समारोपिता विहिताः [^1]संस्कारो जातकर्मादयः । अथ च तत्तद्गुणविशेषाश्च यस्यैवंभूतः । अथवान्यदप्याह - तरलेति । तरलं चञ्चलं हृदयं चेतो यस्य स तमप्रतिबुद्धं बोधरहितं च पुरुषं धनानि द्रव्याणि मदयन्ति मदं जनयन्ति । अहं तु न तथानुन- यामीति । येनोपदेशः सार्थकः स्यादिति तदभिप्रायमाशङ्कयोत्तरमा- ह -तथापीति । अनुपदेश्यत्वेऽपि भवद्गुणैः शौर्यादिभिर्यः संतोषो मनसस्तुष्टिर्मा शुकनासमेवं पूर्वोक्तप्रकारेण मुखरीकृतवांस्तादृग्वा- ग्व्यापारे प्रवर्तितवान्। अहार्यविपरीतशङ्कानिवृत्तयेऽयमुपदेश इत्य त आह - इदमेवेति। इदं पूर्वोक्तं पुनःपुनर्वारंवारमभिधीयसे कथ्य- से । अहार्यशङ्कामुद्घाटयती – विद्वांसमिति । विद्वांसमपि पण्डि- तमपि सचेतनमपि ज्ञानवन्तमपि महासत्त्वमपि महासाहसमप्यभि- जातमपि कुलीनमपि धीरमपि धैर्यवन्तमपि प्रयत्नवन्तमप्युद्योगयु- क्तमपि पुरुषं लक्ष्मीः श्रीः खलीकरोति सन्मार्गात्स्खलनां प्रापयति । अत्र सर्वत्रापिशब्दः कैमुतिकन्यायपरः । अयमप्येवं करोति। अन्य- स्य का वार्तेत्यर्थः । तत्र हेतुमाह - यत इयं दुर्विनीता । अपगतविनयेत्यर्थः । भवांस्त्वं पित्रा जनकेन कल्याणैर्मङ्गलैः क्रियमाणं विधीयमानं नवयौवनस्य यो राज्याभिषेकस्तल्लक्षणं यन्मङ्गलं श्रेयोऽनुभवत्वनुभवविषयीकरोतु । पूर्वं पुरुषैरूढां कुलक्रमागतां परंपरायातां धुरं राज्यभारमुद्वहोद्वहनं कुरु । अवेति । द्विषतां शत्रूणां शिरांस्युत्तमाङ्गान्यवनमय नम्राणि कुरु । स्वबन्धुवर्ग स्वजनसमुदायमुन्नमयोर्ध्वीकुरु । अभीति । अभिषेकानन्तरं यौवराज्या- भिषेकादनु । प्रारब्धेति । प्रारब्धः प्रस्तुतो दिग्विजयो येन सः परि- भ्रमन्प्रतिदिशं दिशं दिशं प्रति गच्छंस्तव पित्रा त्वज्जनकेन विजिता मपि स्वायत्तीकृतामपि सप्तद्वीपभूषणां सप्तसंख्याका द्वीपा जम्बू- प्रभृतयो भूषणं यस्या एवंविधां वसुंधरां पुनर्द्वितीयवारं विजयस्व स्वायत्तीकुरु । यमिति । प्रतापं कोशदण्डजं तेज आरोपयितुं लब्धास्पदं कर्तुं ते तवायं कालः समयः । समागत इति शेषः । तस्य फलं प्रदर्शयन्नाह - आरूढेति । आरूढो लब्धास्पदः प्रतापो यस्यै- वंभूतो राजा त्रैलोक्यदर्शीव योगीव सिद्धो निष्पन्न आदेश आज्ञा यस्य स तथा त्रिलोक्यदर्शीव सिद्धादेशो भवति । यथा वदति तथैव भवतीत्यर्थः । इतीति । इति परिसमाप्तौ । एतावन्मात्रमभिधायो क्त्वोपशशाम विरता बभूव । उपेति । उपशान्तवचस्युपरतवाग्व्या- पारे तस्मिञ्शुकनासे सति चन्द्रापीडस्ताभिः पूर्वोक्ताभिरुपदेश [^1]F. समारोपितः शिक्षार्पणैः संस्थापितः संस्कारः सर्वविषयज्ञानं यस्य सः । इत्यर्थ उचितः । [^१]G. विकृष्यसे; रज्यसे; आकृष्यसे. [^२]G. राग:. [^३]G. उपह्रियसे. [^४]G. च महता प्रयत्नेन. [^५]G. एव. [^६]G. नवयौवन; यौवन. [^७]G. अनेकमङ्गलम्. [^८]G. बन्धुवर्गम्. [^९]G. भवत्. [^१०]G. द्वीपसमुद्रभूषणाम्. [^११]G. हि राजा. [^१२]G. वचने. उ [^१]स्ताभिरुपदेशवाग्भिः प्रक्षालित इव, उम्मीलित इव, [^२]स्व च्छीकृत इव, निर्मृष्ट इव, अभिषिक्त इव, अभिलिप्त इव, अलंकृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो मुहूर्तं स्थित्वा स्वभ- वनमाजगाम । ततः कतिपयदिवसापगमे च राजा स्वयमुत्क्षिप्तमङ्गलकलशः सह शुकनासेन पुण्येऽहनि पुरोधसा संपादिताशेषराज्याभिषेकमङ्गल- मनेकनरपतिसहस्रपरिवृतः सर्वेभ्यस्तीर्थेभ्यः सर्वाभ्यो नदीभ्यः सर्वे- भ्यश्च सागरेभ्यः समाहृतेन [^३]सर्वौषधिभिः सर्वफलैः सर्वमृद्भिः सर्वरत्नैश्च परिगृहीतेनानन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुतमभिषिषेच। अभिषेकसलिलार्द्रदेहं च तं लतेव पाद[^४]पा- न्तरं निजपादपममुञ्चत्यपि तारापीडं तत्क्षणमेव संचक्राम राज्य- लक्ष्मीः । अनन्तरमखिलान्तःपुरपरिवृतया च प्रेमार्द्रहृदयया विला- सवत्या स्वयमापादतलादामोदिना चन्द्रातपधवलेन चन्दनेनानुलिप्तमूर्तिः, अभिनव [^५]विकसितसितकुसुमकृतशेखरः, गोरोचना- च्छुरितदेहः, दूर्वाप्र [ टि]-- वाग्भिः शिक्षावचनैः प्रक्षालित इव धौत इव, उन्मीलित इव विकसित इव, स्वच्छीकृत इव स्वच्छतां प्रापित इव, निर्मृष्ट इव मसृणीकृत इव, अभिषिक्त इव स्नपित इव, अभिलिप्त इव प्रलिप्त इव, अलंकृत इव भूषित इव, पवित्रीकृत इव पावनीकृत इव, उद्भा सित इवोद्दीपित इव । प्रीतेति । प्रीतं संतुष्टं हृदयं चेतो यस्यैवंभूतो मुहूर्तं घटिकाद्वयं स्थित्वावस्थानं कृत्वा स्वभवनं निजसद्माजगामाययौ । तत इति । ततस्तदनन्तरं कतिपयदिवसापगमे कियद्वासरातिक्रमे च राजा नृपः सुतं तनयं वारिणा जलेनाभिषिषेच स्नपयांचकार । राजानं विशिनष्टि-- स्वयमिति । स्वयमात्मनोत्क्षिप्त ऊर्ध्वं नीतो मङ्गलाभिधानः कलशो येन स तथा । शुकनासेन मन्त्रिणा सह पुण्येऽहनि पवित्रे वासरे । सुतं विशेषयन्नाह -पुरोधसेति । पुरोधसा पुरोहितेन संपादितं विहितमशेषं समग्रं राज्याभिषेकलक्षणं मङ्गलं यस्य स तम् । राजानं विशिनष्टि --- अनेकेति। अनेके भिन्नभिन्न देशोद्भवा ये नरपतयो राजानस्तेषां सहस्रं तेन परिवृतः सहितः । जलं विशिनष्टि - सर्वेभ्य इत्यादि । सर्वेभ्यः समग्रेभ्यस्तीर्थेभ्यो माग- धादिभ्यः । सर्वाभ्यो नदीभ्यस्तटिनीभ्यः । सर्वेभ्यः सागरेभ्यः। समु- द्रान्तर्वर्तिस्थलेभ्य इत्यर्थः । अन्यथा सागरस्यै [^1]क्याद्बहुवचनम- नर्थकं स्यात् । समाहृतेनैकीकृतेन । पुनस्तदेव विशिनष्टि - सर्वौष- धीति । सर्वाः समग्रा ओषधयः फलपाकान्तास्ताभिः सर्वफलैः सम- ग्रसस्यैः सर्वमृद्भिः समग्रतीर्थोद्भवमृत्तिकाभिः सर्वरत्नै: समग्रमणि- भिः परिगृहीतेन स्वीकृतेन । आनन्देति । आनन्दः प्रमोदस्तज्जनितं यद्बाष्पजलं तेन मिश्रेण संपृक्तेनेति जलविशेषणम् । मन्त्रेति । मन्त्रो देवाधिष्ठातृकस्तेन पूतेन पवित्रेणेति तस्यैव विशेषणम् । अभीति । अभिषेकस्य यौवराज्याभिषेकस्य यत्सलिलं पानीयं तेनार्द्रः स्विन्नो देहो यस्यैवंभूतं तं चन्द्रापीडं राज्यलक्ष्मीराधिपत्यश्रीः अन्यं पादपं पादपान्तरं लतेव वल्लीव निजपादपं स्वकीयवृक्षममु- ञ्चप्त्यप्यत्यज्य (ज) न्त्यपि तारापीडं तत्क्षणमेव तत्कालमेव संचक्रा- म प्रविष्टा बभूव । अनन्तरमिति । अनन्तरं यौवराज्याभिषेकानन्त- रम् । अखिलेति । अखिलं यदन्तःपुरमवरोधस्तेन परिवृतया सहि- तया प्रेम्णा स्नेहेनार्द्रं हृदयं यस्याः सा तया विलासवत्या स्वकीय- जनन्या स्वयमात्मनामोदिनामोदः परिमलः स विद्यते यस्मिन्नेतादृ- शेन चन्द्रातपश्चन्द्रगोलि [^2]का तद्वद्धवलेन शुभ्रेण चन्दनेन मलयजेनापादतलात् पादतलं मर्यादीकृत्यानुलिप्ता कृताङ्गरागा मूर्तिर्यस्य सः । अभीति । अभिनवानि प्रत्यग्राणि विकसितानि विनिद्राणि सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तेषां कृतो विहितः शेखरोऽवतंसो यस्य सः । गोरेति । गोरोचनेनाच्छुरित- [^3]श्छुटितो देहो यस्य सः । दूर्वेति । दूर्वा शतपर्विका तस्याः प्रवालैः [^1]F. विरुद्धमिदम् । सप्त सागरा इति प्रसिद्धेः । 'सिन्धु' संज्ञया सप्तसंख्या प्रसिद्धैव । [^2]F. चन्द्रकिरणाः, चन्द्रिका । [^3]F. लिप्तः, रञ्जितः । [^१]G. ताभिरमलाभिरुपदेश. [^२]G. स्वस्थीकृतः. [^३]G. सर्वौषधीभिः. [^४]G. निजपादपं पादपान्तरम्; पादपं निजपादपान्तरम्. [^५]G. विकसितकुसुम. [^६]G. गोरचना. बालरचितकर्णपूरः, दीर्घदशमनुपहतमिन्दुधवलं दुकूलयुगलं वसा- नः, पुरोहितप्रतिबद्धप्रतिसरप्रसाधितपाणिः, [^१]नवराजलक्ष्मी- कमलिनीमृणालेनाभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेव हारेणालिङ्गितवक्षस्थलः,सितकुसुमग्रथिताभिराजानुलम्बिनीभिरिन्दुकर [^२]कलाभिर्वै [^३]कक्षस्रग्भिर्निरन्तरनिचितशरीरतया धवल- वेषपरिग्रहतया च नरसिंह इव [^४]विधूतकेसरनिकरः, कैलास इव स्रवत्स्रोतस्विनीस्रोतोराशिः, ऐरावत इव मन्दाकिनीमृणालजा- लजटिलः, क्षीरोद इव स्फुरितफे [^५]नलवाकुलस्तत्कालप्रतिपन्न- वेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारण: सभामण्डपमु [^६]प- गम्य काञ्चनमयं शशीव मेरुशृङ्गं चन्द्रापीडः सिंहासनमारुरोह । आरूढस्य चास्य कृतयथोचितसकलराज [^७]लोकसंमानस्य मुहूर्तं स्थित्वा दिग्विजयप्रयाणा [ टि ]-- किसलयै रचितो निर्मितः कर्णपूरः कर्णावतंसो येन सः । दीर्घेति । दीर्घा आयता दशा [^1]वर्तयो यस्यैवंभूतमनुपहतमख- ण्डमिन्दुश्चन्द्रस्तद्वद्धवलं श्वेतं दुकूलयुगलं दुगूलयुग्मं वसानो दधानः । पुरो इति । पुरोहितेन पुरोधसा प्रतिबद्धो यः प्रतिसरो हस्तसूत्रं तेन प्रसाधितोऽलंकृतः पाणिर्यस्य सः । राजानं विशिनष्टि - नवेति । नवा प्रत्यग्रा या राजलक्ष्मीराधिपत्यश्रीः सैवोल्लसत्त्वसाम्यात्कमलि- नी नलिनी तस्या आयतत्वसाम्यान्मृणालेनेव बिसेनेव । मुक्तासु संक्रा [^2]न्तमुखत्वेनोपमानान्तरमाविःकर्तुमाह - अभीति। अभि- षेकदर्शनार्थं यौवराज्याभिषेकावलोकनार्थमागतेन प्राप्तेन सप्तर्षि- मण्डलेनेव मरीचिप्रभृतिमुनिसमुदायेनैवंविधेन हारेण मुक्ताप्राल- म्बेनालिङ्गितमाश्लिष्टं वक्षस्थलं भुजान्तरं यस्य स तथा । सितेति । सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तैर्ग्रथिताभिर्गुम्फिताभिरा- जान्वानलकीलं यावल्लम्बन्त इत्येवंशीला आजानुलम्बिन्यस्ताभिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य कराः किरणास्तद्वत्कला मनोहरास्ताभिः । वैकक्षेति । वैकक्षमुत्तरीयकं तद्वत्स्थापिताभिः स्रग्भिर्मालाभिर्निर- न्तरं निचितं व्याप्तं शरीरं यस्य तस्य भावस्तत्ता तया । धवलेति । धवलः शुभ्रो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारो यस्य तस्य भावस्तत्ता तया । चेति । चकार उभयसमुच्चयार्थः । उभयसमुच्च- येन द्वयोरुत्प्रे [^3]क्षामाह - नरेति । नरसिंह इव नृसिंहावतार इव । कीदृक् । विधूतः कम्पितः केसरनिकरः सटासमूहो येन सः । अत्र केसरस्रजोः साम्यम्, वेषशरीरचर्मणोः साम्यं चेति भावः । कैलासेति । कैलास इव रजताद्रिरिव । एनं विशिनष्टि - स्रवदिति । स्रवन्त्याः क्षरन्त्याः स्रोतस्विन्या गङ्गायाः स्रोतोराशि: प्रवाहसमूहो यस्मिन् । अत्र कैलासवेषयोः साम्यम्, सक्स्रोतस्विन्योः साम्यं च दर्शितम् । ऐरावतेति । ऐरावत इव हस्तिमल्ल इव । एनं विशिनष्टि - मन्दाकिनीति । मन्दाकिन्या गङ्गाया यन्मृणालजालं बिससमूह- स्तेन जटिलो व्याप्तः । पुनर्धवलवेषसाम्यनिमित्तक मुत्प्रेक्षा [^4]न्त रमाह- क्षीरोदेति । क्षीरोदः क्षीरसमुद्रस्तद्वदिव । एनं विशेषयन्नाह – स्फुरितेति । स्फुरिता दीप्यमाना ये फेनलवा डिण्डीरांशास्तैरा- कुलो व्याप्तः । तदिति । तत्काले तदात्वे प्रतिपन्नः स्वीकृतो वेत्र- दण्डो वेतसयष्टिर्येनैवंविधेन पित्रा जनकेन स्वयमात्मना पुरोऽग्रे प्रारब्धं प्रस्तुतं समुत्सारणं जननिवारणं येन सः । सभामण्डपमा- स्थानमण्डपमुपगम्य समीपे गत्वा काञ्चनमयं मेरुश्शृङ्गं स्वर्णा- द्रिशिखरं शशीव हिमद्युतिरिव चन्द्रापीडो युवराट् काञ्चनमयं सिंहासनं नृपासनमारुरोहारूढवान् । आरूढस्य च तदुपविष्टस्य च । अत्र चकारः पुनरर्थकः । अस्य चन्द्रापीडस्य कृतो विहितो यथोचितं यथायोग्यं सकलराजलोकस्य समग्रनृपजनस्य संमानः सत्कारो येन स तस्य । मुहूर्तं घटिकाद्वयं स्थित्वोप [^1]F. प्राञ्चलवर्तिन्य: सूत्रवार्तिकाः । [^2]F. शुक्लत्वसाम्यादेव सप्तर्षीणामुपमानता । [^3]F. अग्रवर्तिन्यः सर्वा उपमाः। [^4]F. क्षीरोद इवेत्यप्युपमैव । यदा पूर्वोक्ताः उपमा एकत्रोपमेये संघटितास्तदा सेयं मालोपमा । [^१]G. अभिनव. [^२]G. कोमलाभिः; कलापकोमलाभि:. [^३]G. वैकक्षक. [^४]G. विधृत; विधुत:. [^५]G. फेनतला. [^६]G. आगम्य. [^७]G. संधानस्य. शंसी प्रलयघनघटाघोषघर्घरध्वनिरुदधिरिव [^१]मन्दरपातैः, वसुं- धरा [^२]पीठमिव युगान्तनिर्घातैः, उत्पातजलधर इव तडि [^३]द्द ण्डपातैः, पातालकुक्षिरिव महावराहघोणाभिघातैः [^४]कनकको- णैरभिहन्यमानः प्रस्थानदुन्दुभिरामन्थरं दध्वान । [^५]येन ध्वनता समाध्मातानीवो [^६]न्मीलितानीव पृथक्कृतानीव विस्तारितानीव गर्भीकृतानीव प्रदक्षिणीकृतानीव बधिरीकृतानीव रवेण भुवना न्तराणि विश्लेषिता इव दिशामन्योन्यबन्धसंधयः । यस्य च भयव- शविषम [^७]चलितोत्तानफणासहस्रेणालिङ्ग्यमान इव रसातले शेषेण, मुहुर्मुहुरभि [^८]मुखदन्तोर्ध्वघातैराहूयमान इव दिक्षु दिक्कुञ्जरैः, संत्रासरचितरेचकमण्डलैः प्रदक्षिणीक्रियमाण इव नभसि दिवसकर [^९]रथतुरङ्गमैः, अपूर्वशर्वाट्टहासशङ्का [^१०] हर्षहुंकृतेनाश्रुतपूर्व आभाष्यमाण इव कैलासशिखरिणि त्र्यम्बकवृषभेण, [ टि ]-- विश्य तदनन्तरं दिग्विजयार्थं यत्प्रयाणं गमनं तस्याशंसी कथकः प्रस्थानदुन्दुभिर्यात्रापटह आमन्थरं ना [^1]त्युच्चं यथा स्यात्तथा दध्वान शब्दं चकार । अथ दुन्दुभिं विशेषयन्नाह-प्रलयेति । प्रलयकालानां लीना कल्पान्तसमयोद्भवा या घनघटा कादम्बिनी तस्या घोषो गर्जितं तद्वद्घर्घरः कठिनो ध्वनिः शब्दो यस्य सः । किंक्रियमाणः । अभिहन्यमानः । कैः । कनकस्य सुवर्णस्य कोणाः पटहवादनदण्डास्तैः । 'कोणो वीणादिवादनम्' इति कोशः । क इव । उदधिः समुद्रस्तद्वदिव मन्दरो मेरुस्तस्य [^2]पातैः पुनःपुनः पतनैः । वसुंधरेति । वसुंधरा पृथ्वी तस्याः पीठं मूलभागस्तद्वदिव युगान्ते कल्पान्ते निर्घाता दिशां महान्तः [^3]शब्दा: श्रूयन्ते तैः । उत्पातेति । उत्पातो जन्यं तज्जनितो यो जलधरो मेघस्तद्वदिव तडिद्दण्डा विद्युद्दण्डास्तेषां पातैः प्रपतनैः । पातालेति । पातालं बलिवेश्म तस्य कुक्षिर्मध्यप्रदेशस्तद्वदिव । महेति । महावराहः कृष्णावताररूपस्तस्य घोणा विकूणिका तस्य अभिघातै: प्रहारैः । येनेति । येन दुन्दुभिना । कर्तरि तृतीया । ध्वनता शब्दं कुर्वता रवेण शब्देन भुवनान्तरराणि विश्वविवराणि समाध्मातानीवापूरि- तानीवोन्मीलितानीव विकसितानीव पृथक्कृतानीव भिन्नीकृतानीव विस्तारितानीव विपुलीकृतानीव गर्भीकृतानीवान्तर्हितानीव प्रदक्षि- णीकृतानीवावर्तीकृतानीव बधिरीकृतानीवाकर्णीकृतानीव जाता- नीति सप्तभिः समाध्मातादिभिः संबध्यते । विश्लेषिता इति । दिशां ककुभामन्योन्यं परस्परं बन्धस्य बन्धविशेषस्य संधयः संश्लेषा विश्लेषिता विघटिता इव । यस्य चेति । दुन्दुभिना संबध्यते। निना- दापेक्षया षष्ठी । यस्य दुन्दुभेर्निनादः शब्दस्त्रिभुवनं विष्टपत्रयं बभ्राम भ्रमणं चकार । अत्रोत्प्रेक्षते - भयेति । भयवशेन भीतिवशेन विषमं स्थपुटं चलितं पश्चादागतमुत्तानमूर्ध्वमुखं फणासहस्त्रं यस्यै-वंविधेन शेषेण नागाधिपेन रसातले वडवामुख आलिङ्ग्यमान इवाश्लिष्यमाण इव मुहुर्मुहुर्वारं वारं दिक्षु दिशासु दिक्कुञ्जरैर्दि- ङ्नागैराहूयमान इव निमन्त्र्यमाण इवाभिमुखं संमुखं ये दन्तानां रदानामूर्ध्वधाता ऊर्ध्वप्रहारास्तैः । संत्रासेति । संत्रासेन भयेन रचितं रेचकमण्डलं तिर्यग्भ्रमणमण्डलं यैरेवंविधैर्दिवसकररथ- तुरङ्गमैः सूर्यरथसप्तसप्तिभिर्नभसि विहायसि प्रदक्षिणीक्रियमाण आवर्तीक्रियमाण इव । अपूर्वेति । अपूर्वोऽश्रुतपूर्वो यः शर्वस्य भवानीपतेरट्टहासो महान्हासस्तस्य शङ्कारेका तया हर्षः प्रमोद- स्तस्माद्यद्धुकृतं तेन हुंकारेण कैलासशिखरिणि रजताद्रिसानुनि त्र्यम्बकवृषभेणेश्वरबलीवर्देनाभाष्यमाण इवो [^4]च्यमान इव । [^1]F. अतिस्थूलमिदम् । यदा प्रलयघनघटादिघोरशब्दैः साम्यं ततोपि नात्युच्चता ? अतः आमन्थरम् अतीव विशालमिति व्याख्यानमुचितम् । 'मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यात्' इति हेमः । [^2]F.. 'मन्दरघातैः' इत्येव पाठः । मध्यमानतादशायां विलोड- नकृतो घात एव भवति न पुनः पातः । [^3]F. इदमपि स्थूलतमम् । उत्पातसमये आकाशादभिपतिता वायुविशेषा निर्घाताः 'वायुनाभिहतो वायुर्गगनात्पतितः क्षितौ । यदा दीप्तः स्वगुरुतः स निर्घातोतिदोषकृत् ॥' नारदसंहिता । [^4]F. आलप्यमान इवेत्युचितम् । [^१]G. घातै:. [^२]G. पीठ:. [^३]G. चण्डपातैः. [^४]G. कनककणै:, कणकणैः. [^५]G. येन च. [^६]G. उन्मीलितानीव मुखरीकृतानीव पृथक्कृतानीव. [^७]G. वलित. [^८]G. दत्तदन्त. [^९]G. तुरगै. [^१०]G. हुंकृतेनाभाष्यमाणः. कृतगम्भीरकण्ठगर्जितेन प्रत्युद्गम्यमान [^१]इव [^२]मेरावैराव- तेन, अश्रुतपूर्व [^३]रवरोषावेशतिर्यगवनमितविषाणमण्डलेन प्रण- म्यमान इव विबुधस [^४]द्मनि कृतान्तमहिषेण, संत्रस्तलोकपाला कर्णितो बभ्राम [^५]त्रिभुवनं निनादः । ततो दुन्दुभिरवमाकर्ण्य जयजयेति च सर्वतः समुद्घुष्यमाणजयशब्द: सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीडः । समन्तात्ससंभ्रमोत्थितैश्च पर- स्परसंघट्ट [^६]विघटितहारसूत्रविगलिताननवरतमाशाविजयप्र- स्थान [^७]मङ्गललीलालाजानिव मुक्ताफलप्रकरान्क्षरद्भिः, पारि- जात इव सितकुसुममुकुलपातिभिः कल्पपादपैः, ऐरावत इव विमु- क्तकरशीकरैराशागजैः, गगनाभोग इव तारागणवर्षिभिर्दिगन्तरैः, जलदकाल इव स्थूलजललवासारस्यन्दिभिर्जलधरैरनुगम्यमानो नरपतिसहस्रैरास्थानमण्डपान्निरगात् । निर्गत्य च पूर्वारूढया पत्रलेखया [^८]ध्यासितान्तरासनामुपपादितप्रस्थानसमुचितमङ्गल्यालं [ टि ]-- कृतेति । कृतं विहितं गम्भीरमत्युच्चं कण्ठगर्जितं येनैवंविधेनैरावतेनाभ्रमुप्रियेण प्रत्युद्गम्यमा [^1]न इवाभिमुखं मानव । अश्रुतेति । अश्रुतपूर्वोऽनाकर्णितपूर्वो यो रवः शब्दस्तेन जनितो रोषो रुट् तस्यावेशोऽपस्मारस्तेन तिर्यगवनमितं नम्रीभूतं विषाणमण्डलं शृङ्गमण्डलं यस्यैवंविधेन विबु [^2]धसद्मनि देव- लोके कृतान्तमहिषेण यमकासरेण प्रणम्यमान इव नमस्क्रियमाण इव । संत्रस्तेति । संत्रस्ताश्चकिता ये लोकपालाः [^3]सोमाद्यास्तै- राकर्णितः श्रवणविषयीकृतः । ततस्तदनन्तरं दुन्दुभिरवं पटहरवं जयजयेति च शब्दम् । चकारः पुनरर्थकः । आकर्ण्य निशम्य सर्वतः सर्वत्र समुद्घुष्यमाण उद्घोषणाविषयीक्रियमाणो जयशब्दो यस्य स तथा । एवंविधश्चन्द्रापीडो द्विषतां शत्रूणां श्रिया लक्ष्म्या सह सिंहासनात् संचचाल चलितो बभूव । क्रमेणास्थानमण्डपान्निरगा- न्निर्गतो बभूवेत्यन्वयः । किंविशिष्टः । नरपतिसहस्रैर्भूमिपतिदशश- तैरनुगम्यमानोऽनुव्रज्यमानः । अथ नरपतीनां विशेषणानि - सम- न्तादिति । समन्तादेकवारं ससंभ्रमं त्वरितमुत्थितैः कृतोत्थानैः । किं कुर्वद्भिः । मुक्ताफलप्रकरान्मौक्तिकसमूहान्क्षरद्भिर्विकिरद्भिः । किंविशिष्टान् । परस्परं अन्योन्यं यः संघट्टः संमर्दस्तेन विघटितं त्रुटितं यद्धारसूत्रं तेन विगलितांच्युतान् । कानिव । अनवरतं निरन्तरमाशाविजयो दिग्विजयस्तदर्थं प्रस्थानं गमनं तस्मिन्मङ्ग- लस्य विघ्नवारकस्य या लीला विलासस्तस्य लाजानिवाक्षतानिव । मङ्गलनिमित्तं लीलया लाजाः प्रक्षिप्यन्त इति भावः । कैः क इवा- नुगतः । पारीति । कल्पपादपैर्देववृक्षैरनुगतः पारिजात इव मन्दार इव । एतान् विशिनष्टि - सितेति । सितकुसुमानां श्वेतपुष्पाणां यानि मुकु [^4]लानि गुच्छानि तानि पातयन्त्येवंशीलास्तैः । ऐरा- वतेति । आशागजैर्दिग्गजैरनुगत ऐरावत इव श्वेतगज इव । किंवि- शिष्टैः । विमुक्तेति । विमुक्तास्त्यक्ताः करेभ्यः शुण्डादण्डेभ्यः शीकराः पृषता यैः । गगनेति । दिगन्तरैर्दिशां विचालैरनुगतो गग- नाभोग इव व्योमविस्तार इव । कीदृशैः । तारेति । ताराणां नक्ष- त्राणां गणः समूहस्तं वर्षन्तीत्येवंशीलास्तैः । जलदेति । जलधरै र्मेघैरनुगतो जलदकाल इव प्रावृट्समय इव । कीदृशैः । स्थूलेति । स्थूलाः स्थविष्टा ये जललवाः पानीयबिन्दवस्तेषामासारो वेगवा- [^5]न्वृष्टिस्तं स्यन्दन्तीत्येवंशीलास्तैः । अत्र श्वेतत्वानुगत्वाभ्यां त्रिभिरप्य [^6]नमानं बोध्यम् । अन्वयस्तु प्रागेवोक्तः । ततो निर्गत्य बहिरागत्य । चकारः पुनरर्थे । निर्गन्तुमिति । नितरा- मतिशयेन गन्तुं यातुमारेभ आरम्भं चकार । किं कृत्वा । ससंभ्रमेण वेगेनाधोरणा हस्तिपकास्तैरुपनीतामानीतां करेणुकांवशामारुह्यारोहणं कृत्वा । अथ करेणुकां विशिनष्टि— पूर्वेति । पूर्वारूढेति पूर्वं प्रथममारूढयोपरिस्थितया पत्रलेखया ताम्बूलकरङ्कवाहिन्याध्या- सितमाश्रितमन्तरासनं नृपासनात्पृथगासनं यस्याः सा ताम् । उपेति । उपपादितो विहितः प्रस्थानसमुचितः [^1]F. 'मेरावैरावतेन' इति यदा पाठः स्वीकृतस्तदा 'मेरौ सुमेरु- पर्वते ऐरावतेन गौरवसूचनार्थं प्रत्युद्गम्यमान इव' इति व्याख्यानमुचितम् । [^2]F. 'यमसद्मनि' इत्येव पाठः, तत्रैव कृतान्तमहिषौचित्यात् । [^3]F. इन्द्राद्या इत्युचितम् । न हि सोमो लोकपालः । उमया सहितः सोम इति शिवग्रहणं तु इन्द्रस्य टीका बिडौजा इव । [^4]F. कुड्मलानीत्युचितम् । [^5]F. वेगवतीति तात्पर्यम् । [^6]F. उपमानमित्यर्थः । [^१]G. इवैरावतेन. [^२]G. विबुधसद्मनि. [^३]G. रवजनितरोषः; इव रोष. [^४]G. यमसद्मनि. [^५]G. त्रिभुवनमखिलम्. [^६]G. विघट्टित. [^७]G. मङ्गललीलाबीजानीव; मङ्गललाजानीव; मङ्गललाजानिव. [^८]G. कुलूतेश्वरपुत्र्या समध्यासित. ३१ का० कारां ससंभ्रमाधोरणोपनीतां करेणु [^१]कामारुह्याचलरेचक- [^२]चक्रीकृतक्षीरोदावर्तपाण्डुरेण दशवदनबाहुदण्डावस्थितकै- लासकान्तिना मुक्ताफलजालिना शतशलाकेनातपत्रेण निवार्य- माणातपो निर्गन्तुमारेभे । निर्गच्छंचाभ्यन्तरावस्थित एव [^३]प्रा- कारान्तरितदर्शनानां [^४]प्रतिपालयतां राज्ञामुन्मयूखानां चूडाम- णीनाम [^५]लक्तकद्रवद्युतिमुषा बहलेनालोकबालातपेन राज्या- भिषेकानन्तरप्रसृतेन स्वप्रतापवहिनेवात्यर्थं पिञ्जरी [^६]क्रियमाणा दश दिशो यौवराज्याभिषेकजन्मना निजानुरागेणेव रज्यमानमव- नितलमासन्न रिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणम- म्बरतलमभिमुखागतभुवनतललक्ष्मीचरणालक्तकरसेनेव लोहिता- यमानातपं दिवसं ददर्श । विनिर्गतश्च ससंभ्रमप्रचलित [^७]गन्ध- गजघटासहस्रैरन्योन्यसंघट्टजर्जरितातपत्रमण्डलै [^८]रादरावन- तमौलिशिथिलमणिमुकुटपङ्क्तिभिरावर्जित [^९]कर्णपूरैः कपो- लस्थलस्खलित [^१०]कुण्डलै [^११]राजाप्तसेनापतिनि [^१२]र्दि- श्य [ टि ]-- प्रयाणयोग्यो मङ्गलं यातीति मङ्गल्योऽलंकारो भूषा यस्यां (स्याः) सा ताम् । अचलेति । अचलरेचको मन्दरभ्रमणं तेन चक्री- कृतश्चक्रतां प्रापितो यः क्षीरोदः क्षीरसमुद्रस्तस्यावर्ताः पयसां भ्रमा- स्तद्वत्पाण्डुरेण शुभ्रेण । दशेति । दशवदनो लङ्काधिपतिस्तस्य बाहुदण्डा भुजदण्डास्तत्रावस्थितः कृतावस्थानो यः कैलासो रज- ताद्रिस्तद्वत्कान्तिः प्रभा यस्य स तेन । मुक्तति । मुक्ताफलानां जालानि विद्यन्ते यस्मिन्स तेन । शतेति । शतसंख्याः शलाकाः स्वर्णनिर्मिता ईषिका यस्मिन्स तेनैवंविधेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपः सूर्यालोको यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । निरिति । निर्गच्छन्व्रजन्नभ्यन्तरावस्थित एव चन्द्रापीड: प्राकारान्तरितदर्शनानां वप्रव्यवहितदर्शनानां प्रतिपालयतां प्रतीक्षां कुर्वाणानां राज्ञां नृपाणामुदूर्ध्वं मयूखाः किरणा येषामेवंविधानां चूडामणीनां शिरोमणीनामालोकलक्षणो यो बालातपस्तेन दृढेन बहुलेनालक्तकद्रवद्युतिमुषालक्तकरसहा- रिणात्यर्थमतिशयेन पिञ्जरीक्रियमाणाः पीतरक्तीक्रियमाणा दश दिशः (कर्म) ददर्शालोकयामासेत्यन्वयः । अत्रोत्प्रेक्षते - राज्येति । राज्यस्य यौवराज्यस्य योऽभिषेकः स्नानं तस्यानन्तरं प्रसृतेन विस्तृ- तेन स्वप्रतापवह्निनेव स्वस्य स्वकीयस्य यः प्रतापः कोशदण्डजं तेजः स एव वह्निरग्निस्तेनेव । प्रतापस्य रक्तत्वात्तदनुमानम् । अथ च यौवराज्याभिषेकजन्मना यौवराज्यस्नानसमुद्भवेन निजानुरागेणे- वात्मीयस्नेहेन रज्यमानं रक्तीक्रियमाणमवनितलं वसुधातलम् । अथ चासन्नः समीपवर्ती यो रिपुविनाश: शत्रुक्षयस्तस्य पिशुनेन सूचकेन दिग्दाहेनेव पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणं अम्बर- तलं व्योमतलम् । अभीति । अभिमुखा संमुखागता या भुवनतल- लक्ष्मीस्त्रिविष्टपश्रीस्तस्याश्चरणालक्तकः पादयावकस्तस्य रसेनेव लोहितायमानो रक्तवदाचरमाण आतप आलोको यस्यैवंभूतं दिवसं वासरं ददर्शति पूर्वं क्रियया संबन्धः । विनीति । विशेषेण निर्गतो बहिरागतः । च पुनरर्थकः । अवनिभुजां राज्ञां चक्रवालैः समूहैः प्रणम्यमानो नमस्क्रियमाणः । अथ राजकविशेषणानि - ससंभ्रमेति । ससंभ्रमं सवेगं प्रचलितं प्रस्थितं गन्धगजानां गन्धेभानां घटासहस्रं येषां तैः । अन्योन्येति । अन्योन्यं परस्परं यः संघट्टः संमर्दस्तेन जर्जरितानि शिथिलीभूतान्यातपत्रमण्डलानि छत्रसमूहा येषां तैः । आदरेति । आदरेण गौरवेणावनता नम्रा ये मौलयः शिरांसि तेन शिथिलाः श्लथा मणिमुकुटानां रत्नकिरीटानां पतयः श्रेणयो येषां तैः । आवर्जितेति । आवर्जितान्यानमितानि कर्णपूराणि कर्णाभरणानि येषां तैः । कपोलेति । कपोलस्थलाद्गल्लात्परप्रदेशात्स्खलितानि स्खलनां प्राप्तानि कुण्डलानि कर्णभूषणानि येषां तैः । राजेति । राज्ञो य आप्तः प्रत्ययितः सेनापतिः सैन्याध्यक्षस्तेन निर्दिश्यमानानि निवेद्यमानानि नामानि येषां तैः । पुनः कीदृशः । गन्धमादननाम्ना गजे [^१]G. अधिरुह्य. [^२]G. वक्रीकृत. [^३]G. धवलप्राकार. [^४]G. द्वारावस्थितानां प्रत्यपालयताम्. [^५]G. अलक्तक इव. [^६]G. क्रियमाणदशदिशः. [^७]G. गज. [^८]G. आदरादनवरतप्रणामशिथिलित. [^९]G. रत्नकर्णपूरे, रत्नकर्णपूरैः. [^१०]G. रत्नकुण्डलैः. [^११]G. आज्ञप्त, अज्ञात. [^१२]G. निर्दिश्यमानानामवनि. माननामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दूररेणुपा- टलेन क्षितितलदोलायमान [^१]मुक्ताकलापावचूलेन सितकुसुम- मालाजालशबलशिरसा संलग्नसंध्यातपेन तिर्यगावर्जितश्वेतगङ्गाप्र- वाहेण तारागणदन्तुरित [^२]शिलातलेन मेरुगिरिणेव गन्धमादने- नानुगम्यमानः; कनकालंकार [^३]प्रभाकल्माषितावयवेन [^४]च दत्तकुङ्कुमस्था [^५]स केने [^६]वाकृष्यमाणेनेन्द्रायुधेन सना- थीकृत [^७]पुरोभागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभि- प्रतस्थे । [^८]अथ चलितगजघटाकम्पि [^९]तातपत्रवनमनेककल्लोल- परम्परापतित चन्द्रमण्डलप्रतिबिम्बसहस्रं महाप्रलयजलधिज- लमिव प्लावितमहीतलमद्भुतोद्भूतकलक [^१०]लमखिलं संचचाल बलम् । उच्चलि [ टि ]-- न्द्रेणानु गम्यमानोऽनुव्रज्यमानः । अथ गजं विशेषयन्नाह - बहलेति । बहलो निबिडो यः सिन्दूररेणुः शृङ्गारभूषणधूलिस्तेन पाटलेन श्वेतरक्तेन । गजस्य सिन्दूरभूषणमिति सर्वप्रसिद्धिः। गज- शोभान्तरमाह- क्षितीति । क्षितितलं पृथ्वीतलं यावद्दोलायमानः कम्पमानो यो मुक्ताकलापो मौक्तिकप्रकरस्तदेवावलं कर्णाभरणं यस्य स तथा । प्रस्थानसमये सर्वत्र गजस्येष्टत्वात् । अलंकारान्त- रमाह - सितेति । सितं यत्कुसुममालाजालं पुष्पस्रक्समूहस्तेन शबलं कर्बुरं शिरो यस्य स तेन । अत्रोत्प्रेक्षते- मेर्विति । मेरुर्मन्दरः स चासौ गिरिश्चेति कर्मधारयः । तत्सदृशेनेव । उच्चत्वसाम्यादस्य मेरुसाम्यमित्यर्थः । विशेषणत्रयेण मेरोरपि गन्धमादनसाम्यं प्रद- र्शयन्नाह - संलग्नेति । संलग्नः संश्लिष्टः संध्यातपो यस्मिन् । एतेन सिन्दूरसादृश्यम् । तिर्यगिति । तिर्यगावर्जितः प्रवर्तितः श्वेतगङ्गा- प्रवाहो यस्मिन् । एतेन मुक्ताकलापसाम्यम् । तारेति । तारागणेन नक्षत्रवृन्देन दन्तुरितं विषमितं शिलातलं यस्मिन्। एतेन स्रक्साम्यम् । पुना राजानं विशेषयन्नाह - इन्द्रायुधेति। इन्द्रायुधेनाश्वरत्नेन सना- थीकृतः सहितः पुरोभागोऽग्रभागो यस्य स तथा । अथाश्वं विशेषय- न्नाह -- कनकेति । कनकस्य सुवर्णस्य योऽलंकारस्तस्य प्रभा कान्तिस्तया कल्माषिताः कर्बुरिता अवयवा अपघना यस्य तेन । अत्रोत्प्रेक्षते - दत्तेति । दत्ताः कुङ्कुमस्य किञ्जल्कस्य स्थासका हस्तबिम्बा यस्यैवंविधेनेव । कीदृशेन इन्द्रायुधेनाकृष्यमाणेन । अश्वपालकेनेति शेषः । एतेनास्याग्रयानत्वं सूचितमिति भाषः । शनैः शनैर्मन्द मन्दं प्रथममेवादावेव शातक्रतवीं शतक्रतोरियं शातक्र- तवी तां प्राचीमभिप्रतस्थे । तस्या अभिमुखं चचालेत्यर्थः तदनन्तरं बलं सैन्यं संचचाल । सम्यक्प्रकारेण चलितं बभूवेत्यर्थः । अथ बलं विशेषयन्नाह – चलितेति । चलिता गन्तुं प्रवृत्ता या गज- घटा हस्तिसमुदायस्तस्या कम्पितानि धूतान्यातपत्राणि छत्राणि यस्मिंस्तत् । कीदृशम् । प्लावितेति । प्लावितं प्रलयं नीतं महीतलं येन तत् । गजानकृष्णत्वसाम्यात्समन्ततः प्रसरणसाम्याच्चोपमाना- न्तरमाह - महेति । महाप्रलयो महाकल्पान्तस्तस्मिन्ये जलधिः समुद्रस्तस्य जलं पानीयं तद्वदिव। अथ जलं विशिनष्टि - अनेकेति । अनेके संख्यातीता ये कल्लोलास्तरङ्गास्तेषां परम्पराः पङ्क्ति- विस्तारास्तासु पतितं प्रतिबिम्बितं संक्रान्तं चन्द्रमण्डलस्य शशि- मण्डलस्य प्रतिबिम्बसहस्रं प्रतिच्छायसहस्रं यस्मिन् । अत्रातपत्राणां वर्तुलत्वस्वच्छत्वसाम्याच्चन्द्रप्रतिबिम्बसाम्यम् । एतदपि प्लावितं महीतलम् । अद्भुतेति । अद्भुतोद्भूत [^1]अश्वादप्याश्चर्यकारी कलकलः कोलाहलो यस्मिन् । एतच्चोभयत्र साम्यम् उच्चेेति । अथोत्प्राबल्येन चलितस्य कृतप्रयाणस्यास्य राज्ञश्चन्द्रापीडस्य । अत्र चकारोऽधिकारान्तरसूचकः वैशम्पायनः समीपं पार्श्वमाजगामाययौ । कया त्वरितपदसंचारिण्या शीघ्रचरणगामिन्या करिण्या हस्त [^1]F. अद्भुतः आश्चर्यकारी उद्भूतः उत्पन्नः कलकलरवो यस्मिंस्तत् । अश्वादित्युक्तिस्तु वृथा प्रायैव। [^१]G. स्थूलमुक्ता. [^२]G. शिखरशिलातलेन. [^३]G. प्रभाप्रतान, घटप्रतान. [^४]G. परार्धेन. [^५]G. स्थानकेन. [^६]G. आकृष्यमाणेनेव. [^७]G. पुरोभाग: प्रथमम्. [^८]G. चलित. [^९]G. धवलातपत्रममेक. [^१०]G. सकलम्. तस्य चास्य स्वभवनादुपपादितप्रस्थानमङ्गलो [^१]धवलदुकूलवा- साः सितकुसुमाङ्गरागो महता बलसमूहेन नरेन्द्रवृन्दै[^२]श्चानुग- म्यमानो धृतधवलातपत्रो द्वितीय इव युवराजस्त्वरितपदसंचारिण्या करिण्या वैशम्पायन: [^३]समीपमाजगाम । आगत्य च [^४]श- शिकर इव रवेरासन्नवर्ती बभूव । अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति समाकर्ण्य प्रधावतां बलानां भरेण चलितकुलशै [^५]लकीलितजलधिजलतरङ्गगतेव तत्क्षणमाचकम्पे मेदिनी संमुखा [^६]गतैरन्यैश्चान्यैश्च प्रणमद्भिर्भूमिपालैः । अंशुलताजाल- जटिलचूलिकानां मणिमुकुटानामालोकेनोन्मिषितबहुलरोचिषां च पत्र [^७]भङ्गिनीनां केयूरमण्डलीनां प्रभासंतानेन कचिद्विकीर्य- माणचाषपक्षक्षोदा इव, क्वचिदुत्पतितशिखिकुलचलच्चन्द्रकशतशारा इव, क्वचिदकालजलधरतडित्तरला इव, क्वचित्सकल्पतरु- पल्लवा इव, क्वचि [^८]त्सशतक्रतुचापा इव, कचित्सबालातपा इव [ टि ]-- करणभूतयेत्यर्थः । स्वेति । स्वभवनान्निजगृहादुपपादितं विहितं प्रस्थानमङ्गलं गमनमङ्गलं येन सः । धवलेति । धवलं श्वेतं दुकूलमेव वासो वस्त्रं यस्य सः । सितेति । सितकुसुमैः श्वेतपुष्पै- रङ्गरागः शरीरशोभा यस्य स तथा। सितकुसुमवदङ्गरागो विलेपनं यस्येति वा । महता महीयसा बलसमूहेन सैन्यसंघातेन नरेन्द्रवृन्दैश्च राजसमूहैश्चानुगम्यमानोऽनुव्रज्यमानः । धृतेति । धृतं शिरसि धारि- तं धवलं श्वेतमातपत्रं छत्रं येन सः । द्वितीय इवापर इव युवराजः । आगत्याभ्येत्य । चकारः पुनरर्थकः । आसन्नवर्ती समीपवर्ती बभूव संजज्ञे । कस्य क इव । यथा रवेः सूर्यस्य शशिकर [^1]श्चन्द्रः समीपगो भवति । अत्र शशिकर इवेति कथनाद्वैशम्पायनस्य कु- मारापेक्षया शोभायामपकर्षः सूचितः । युक्तोऽयमर्थः । अमावा- स्यायां सूर्यनिकटे चन्द्रस्य न्यूनतैव भवतीति भावः । अथवेतश्चेतश्च निर्गतो युवराज इति लोकोक्त्या समाकर्ण्य श्रवणविषयीकृत्य प्रधा- वतां धावनं कुर्वतां बलानां सैन्यानां भरेण समुदायेन संमुखागतै- रभिमुखायातैः प्रणमद्भिः प्रणामं कुर्वद्भिः अन्यैश्चान्यैश्च भिन्नभिन्न- देशोद्भवैश्च भूमिपालैर्नृपतिभिः कृत्वा तत्क्षणं तत्कालं मेदिनी पृथ्व्याचकम्पे चचाल । कीदृशीव । चलितेति । चलिताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकारिणो नगास्तैः कलितो यन्त्रितो यो जलधिः समुद्रस्तस्य जलं पानीयं तस्य तरङ्गाः कल्लोलास्तत्र गतेव प्राप्तेव । अंशुलतेति । अंशुलतानां किरणश्रेणीनां जालं समूहस्तेन जटिला व्याप्ता चूलिका प्रान्तभागो येषामेवंविधानां मणिमुकुटानां रत्नकि- रीटानामालोकेन प्रकाशेन । उन्मिषितेति । उन्मिषिता विकासं प्राप्ता बहुला दृढा रोचिषः कान्तयो यासु तासाम् । पत्रेति । पत्रभगा रचनाविशेषाविद्यन्ते यास्वेवंविधानां केयूरमण्डलीनामङ्गद- श्रेणीनां प्रभासंतानेन च कान्तिसमूहेन चैवंविधा दश दिशो दश ककुभः [^2]क्रियन्ते विधीयन्त इत्यन्वयः । तदाह — क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे विकीर्यमाणा विक्षिप्यमाणाश्चाषाणां किकी- दिवीनां पक्षक्षोदाः पिच्छचूर्णानि यास्खेवंविधे [^3]षु। क्वचिदिति। क्वचित् उत्पतितमुड्डीनं यच्छिखिकुलं नीलकण्ठसमुदायस्तस्य ये चलन्तो दीप्यमानाश्चन्द्रका मेचकास्तेषां शतं तेन शाराः कर्बुरा इव । 'शार: शबलवातयोः' इत्यनेकार्थः । क्वचिदिति । क्वचित् अका- लेऽनवसरे यो जलधरो मेघस्तस्य तडिद्विद्युत्तया तरला इव पारि- प्लवा इव । क्वचिदिति । क्वचित् कल्पतरूणां देववृक्षाणां पल्लवाः किसलयास्तैः सह वर्तमानव । क्वचिदिति । क्वचित् शतक्रतुरिन्द्र- स्तस्य चापं धनुस्तेन सह वर्तमाने [^4]व । क्वचिदिति । क्वचित् बालातपः प्रभातकालीनसूर्यालोकस्तेन सह वर्तमानेव । तथा राज्ञां धवला [^1]F. शशिकरस्य चन्द्र इत्यर्थः प्रमादः । अतः 'रजनिकरः' इति पाठः । अग्रेऽपि शशिकर इत्येवं पदं गृहीत्वा व्याख्यानं तु टीका- कारस्य चिरप्रसिद्धः प्रमादस्वभाव एव । [^2]F. 'इवाऽक्रियन्त' इत्येव पाठः । प्रमाणं च सहृदयहृदयम् । [^3]F. एवंविधा इत्येवोचितम् । [^4]F. वर्तमाना इव इत्युचितम् । एवऽमग्रेपि । [^१]G. दुकूलवासा : ; धवलवासाः. [^२]G. अनुरज्यमान. [^३]G. समाजगाम. [^४]G. रजनिकर:. [^५]G. शैलकैलासजलधितरङ्ग. [^६]G. अन्यैश्च. [^७]G. पत्रभङ्गीनाम्. [^८]G. सशतयज्ञ; शतयज्ञ. [^१]क्रियन्ते दश दिशः । धवलान्यपि विविधमणिनिकरकल्माषै- रुत्सर्पिभिचूडामणिमरीचिभिर्मायूराणीव [^२]राजन्ते राज्ञामात- पत्राणि । क्षणेन च तुरगमयमिव महीतलम्, कुञ्जरमयमिव दिक्च- क्रवालम्, आतपत्रमण्डलमयमिवान्तरिक्षम्, ध्वजवनमयमिवाम्बर- तलम्, इभमदगन्धमय इव समीरणः, भूपालमयीव प्रजासृष्टिः आभ रणांशुमयीव दृष्टि:, किरीटमय इव [^४]दिवसः, जयशब्दमयमिव त्रिभुवनमभवत् । सर्वतश्च कुलपर्वताकारैः प्रचलद्भिर्मत्तवारणैः, उत्पातचन्द्रमण्डल- निभैश्च [^५]प्रेङ्खद्भिरातपत्रैः,संवर्तकाम्भोदगम्भीरभीमनादेन च ध्वनता दुन्दुभिना, तारकावर्षसदृशेन विसर्पता गजसीकरनिकरेण, धूमकेतुधूसरैश्चोल्लसद्भिरवनिरजोदण्डकैः, निर्घातपातपरुषगम्भी- रघोषैश्च करिकण्ठगर्जितैः, क्षतजकणवर्षबभ्रुणा च भ्रमता मतङ्ग- जकुम्भसिन्दूररेणुना, संक्षुभितजलधिजलकल्लोलचञ्चलाभिश्च [^६]प्रविसर्पन्तीभिस्तुर [^७]ङ्गममालाभिः, अन्धकारितदि [ टि ]-- न्यपि श्वेतान्यप्यातपत्राणि । विविधेति । विविधानामनेक- प्रकाराणां मणीनां निकराः समूहास्तैः कल्माषैः शबलैरुत्सर्पिभिः प्रसरद्भिश्चूडामणिमरीचिभिः शिरोमणिकान्तिभिर्मायूराणीव मयूर- पिच्छनिर्मितानीव [^1]राजन्ते शोभन्ते । क्षणेन समयमात्रेणैता- दृशमभवदजायत । तदेवाह - तुरगेति । तुरगा अश्वास्तन्मयमिव महीतलं पृथ्वीतलम् । कुञ्जरा हस्तिनस्तन्मयमिव दिक्चक्रवालं ककुभां मण्डलम् । आतपत्राणि छत्राणि तेषां मण्डलं तन्मयमिवा- न्तरिक्षमाकाशम् । ध्वजा वैजयन्त्यस्ता एव वनमरण्यं तन्मयमिवा- म्बरतलमाकाशतलम् । इभा हस्तिनस्तेषां मदगन्धो दानवारिपरि- मलस्तन्मय इव समीरणो वायुः । भूपाला राजानस्तन्मयीव प्रजा सृष्टिः प्रकृतिसृष्टिः । आभरणानि तेषामंशवः किरणास्तन्मयीव दृष्टिश्चक्षुः । किरीटानि कोटी [^2]राणि तन्मय इव दिवसो वासरः । जयशब्दो मागधानां शुभसूचकः शब्दस्तन्मयमिव त्रिभुवनं त्रिविष्टपम् । सर्वतश्च वक्ष्यमाणेन प्रकारेण महाप्रलयकाल इव कल्पान्तसमय इव संजज्ञे समभूत् । तदेव दर्शयन्नाह – कुलपर्वतेति । सर्वतः सर्वदिक्षु प्रचलद्भिर्गच्छद्भिर्मत्तवारणैर्मदकलैर्हस्तिभिः । कीदृशैः । कुलपर्वताः सप्तकुलाचलास्तद्वदाकार आकृतिर्येषां तैः । अत्युच्चत्वसाम्यात्कल्पान्ते कुलाचलानामपि चलनसद्भावाच्च समग्रसाम्यमिति भावः । तथा । उत्पातेति । उत्पातकाले बहूनि चन्द्रमण्डलानि भवन्ति क्षतजकणवर्षाश्चेत्यत आह - तत्समयेति । तत्समयवतींनि यानि चन्द्रमण्डलानि शशिमण्डलानि तन्निभैस्तत्स- दृशैरेवंविधैः प्रेङ्खद्भिः प्रचलद्भिरातपत्रैश्छत्रैश्च । तथा संवर्तका- म्भोदो लोकक्षयकारी मेघस्तद्वद्गम्भीरो भीमश्च नादो यस्यैवंविधेन ध्वनता शब्दं कुर्वता दुन्दुभिना पटहेन च । तथा तारकावर्षो नक्षत्र- वृष्टिस्तत्सदृशेन तदनुकारिणा विसर्पता प्रसरणशीलेन गजानां हस्तिनां सीकरनिकरेण शुण्डानिःसृतजलपृषत्समूहेन । तथा धूमकेतुर्ग्रहविशेषस्तद्वद्धूसरैर्धूम्रैरुल्लसद्भिरुल्लासं गच्छद्भिरव- निरजोदण्डकैरवनेर्वसुंधराया रजोदण्डैर्धूलिदण्डैः । आयतत्व- वर्तुलत्वाभ्यां दण्डसाम्यम् । निर्घातो वज्रं तस्य पातः पतनं तद्वत्प- रुषः कठोरो गम्भीरो बहुकालस्थायी घोषः शब्दो येषामेवंविधैः करिकण्ठगर्जितैर्गजशब्दैश्च । क्षतजं रुधिरं तस्य कणा बिन्दवस्तेषां वर्षो वृष्टिस्तद्वद्बभ्रुणा कडारेण मतङ्गजा हस्तिनस्तेषां कुम्भाः शिरसः पिण्डास्तेषां यः सिन्दूररेणुर्नागजधूलिस्तेन भ्रमता प्रसर्पता च । तथा संक्षुभितः क्षोभं प्राप्तो यो जलधिः समुद्रस्तस्य जलं पानी- यं तस्य कल्लोलास्तरङ्गास्तद्वच्चञ्चलाभिस्तरलाभिः प्रविसर्पन्तीभिः प्रकर्षेण विस्तारं प्राप्नुवतीभिस्तुरङ्गममालाभिः । तथान्धकारितं संजातान्धकारं दिगन्तरं [^1]F. अराजन्त इत्येव पाठः, भूतकालक्रियया 'त्रिभुवनमभवत्' इत्यनया सह सामञ्जस्यात् । [^2]F. 'चामरमय इव' इत्येव ग्रन्थोचितः पाठः । ऊर्ध्वं प्रस्फुर- द्भिश्चामरैरेव दिवसस्य तन्मयतौचित्यात् । [^१]G. अक्रियन्त. [^२]G. अरज्यन्त. [^३]G. वृष्टि:. [^४]G. आतपः; चामरमय इव दिवस. [^५]G. शतसितातपत्रैः. [^६]G. विसर्पन्तीभिः. [^७]G. तुरङ्ग. गन्तरेण [^१]चानवरतं क्षरता [^२]मदजलधारादुर्दिनेन, कलकले- न च भुवनान्तरव्यापिना महाप्रलयकाल इव संजज्ञे । [^३]बलको- लाहलभीता इव धवलध्वजनिवहनिरन्तरावृता ययुः क्वापि दश दिशः । [^४]मलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटा- वचूलसहस्रसंरुद्धमतिदूर [^५]मम्बरतलमपससार । [^६]प्रबल- वेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजो [^७]धूसरताभीतार्ककिरणा मुमुचुः पुरोभागम् । इभकरसीक [^८]रनिर्वापणत्रस्तइवा- तपत्रसंच्छादितातपो दिवसो ननाश । [^९]बलभरजर्जरीकृता मदकलकरि [^१०]चरणशत [^११]खण्डिता द्वितीयेव प्रयाणभेरी भैरवं भूमी ररास । गुल्फद्वयसे च तुरङ्गमुखविनिःसृतसितफेन- पल्लविते मदपयसि मदश्रुतां क [ टि ]-- येनैवंविधेनानवरतं निरन्तरं क्षरता स्रवता मदजलधारा दानवारिधारा तदेव दुर्दिनं मेघजं तमस्तेन । तथा भुवनान्तरव्यापि- ना विष्टपविवरप्रसरशीलेन । महाप्रलयेऽप्येतद्धर्माणां सद्भावात् । कलकलेन । सैन्येऽपि तद्दर्शनादुपमानोपमेयभावः । बलेति । बल- स्य सैन्यस्य यः कोलाहलः कलकलस्तेन भीता इव त्रस्ता इव दशसंख्याका दिशः ककुभः क्वाप्यनिर्दिष्टस्थले ययुर्गताः । किंविशिष्टाः । धवलाः श्वेता ये ध्वजनिवहा वैजयन्तीगणास्तैर्निरन्तरं सर्वदावृता आच्छादिताः दिग्गमनेऽयमेव हेतुरिति भावः । मलिनेति । मलिनं यदवनिरजस्तस्य यः संस्पर्श: संश्लेषस्तस्माच्छङ्कितमिवारेकीकृत- मिवातिदूरमतिदविष्टमम्बरतलं व्योमतलमपससारापसृतं बभूव । अत्रार्थे हेतुगर्भितं विशेषणमाह - समुदेति । मदेन सह वर्तमाना या गजघटानेकपसमूहस्तस्य अवचूलसहस्रं कर्णाभरणसहस्रं तेन संरुद्धं संच्छन्नम् । अत्र गजातिशयत्वं व्यङ्ग्यम् । प्रबलेति । प्रब- लाः प्रकृष्टबलयुक्ता ये वेत्रिणो द्वारपालकास्तेषां वेत्रलता वेतसयष्ट- यस्ताभिः समुत्सार्यमाणा इव दूरीक्रियमाणा इव । तुरगेति । तुर- गाणामश्वानां खररजः शफधूलिस्तेन या धूसरतेषत्पाण्डुता तया [^1]भीता इवार्ककिरणाः सूर्यरश्मयः पुरोभागमभागं मुमुचुस्त- त्यजुः । अनेन तुरङ्गाणां भूयस्त्वं वेगातिशयः खुरनिक्षेपशक्तिविशे- षश्च व्यज्यते । इभेति । इभा हस्तिनस्तेषां करसीकरा: झुण्डादण्डो द्गतजलपृषतास्तैर्निर्वापणमपनयनं तेन त्रस्त इव [^2]चकित इव । आतपत्रेति । आतपत्रैश्छत्रै: संच्छादित आतपो रविप्रकाशो यस्मि- न्नेवंभूतो दिवसो ननाश नाशं प्राप्तवान् । बलेति । बलभरेण सैन्य- भारेण जर्जरीकृताः श्लथीकृता मदेन कला मनोहरा ये करिणो हस्तिनस्तेषां चरणशतमङ्घ्रिशतं तेन खण्डिता भिन्ना द्वितीयापरा प्रयाणभेरीव प्रस्थानदुन्दुभि [^3]रिव भैरवं कठोरं भूमिर्वसुधा रास शब्दं चकार । शब्दविशेषजनकत्वसाम्यादुत्प्रेक्षा । 'रस शब्दे' इति धातोर्लिटि रूपम् । मदेति । मदतां दानवारि क्षरतां करिणां गजा- नां मदपयसि पदे पदे पदातयः पत्तयः प्रचस्खलुः प्रस्खलनं प्रापुः । अथ मदपयो विशिनष्टि–गुल्फ [^4]द्वयसे चरणग्रन्थिपरिमिते । अत्र प्रमाणे द्वयसच् । तुरङ्गेति । तुरङ्गमुखेभ्योऽश्वव [^1]F. 'समुत्सार्यमाणा इव' इति पूर्वमुत्प्रेक्षितत्वात्पुनरियमुक्ति- रज्ञानमेव । तस्मात् 'रजोधूसरमर्ककिरणाः' इत्येव पाठः । वेत्रलतासमुत्सार्यमाणा इव रजोधूसरं पुरोभागम् (अर्ककिरणाः ) मुमुचुः । अर्ककिरणेषु अपसार्यमाणत्वरूपक्रियाया उत्प्रेक्षा। किञ्च परित्यागे तुरङ्गखुररजोधूसरपदस्यार्थी हेतुरिति पदार्थहेतुकं काव्य लिङ्गं च । कार्येण अर्ककिरणेषु राजपुरोभागपरित्यागरूपसाधा- रणजनव्यवहारसमारोपात् समासोक्तिरिति त्रयाणामेषामङ्गाङ्गि- भावसंकरः । [^2]F. भीत इव । जलबिन्दुभिर्यथा वह्नर्निर्वापणं तथा दिवसेऽपि संभावनमित्युत्प्रेक्षा । अत्रापि दिवसनाशे आतपत्राच्छादनं पदार्थो हेतुरिति पदार्थहेतुकं काव्यलिङ्गम् । दिवसे अदृश्यमानताया असंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिरिति त्रयाणामङ्गाङ्गितया संकरः । [^3]F. भूमौ भेरीस्वरूपस्योत्प्रेक्षा । अत्रापि शब्दकरणे बलभर० मदकल० इत्यादि विशेषणद्वयार्थी हेतुरिति काव्यलिङ्गं चेत्यङ्गा- ङ्गिभावसंकरः । [^4]F. गुल्फद्वयसत्वस्यासंबन्धेपि संबन्धवर्णनादतिशयोक्तिः । [^१]G. अनवरत. [^२]G. गजमद. [^३]G. बलहबल; वहलबल. [^४]G. मलिनीकृतमिव. [^५]G. अम्बरम्. [^६]G. प्रचलितवेत्र; प्रचुरवेत्र. [^७]G. धूसरमर्कः; धूसरताभीता इवार्क. [^८]G. सीकरनिकर. [^९]G. बहलवल. [^१०]G. संचरण. [^११]G. संताडिता; ताडिता. [^१२]G. पल्वले. रिणां प्रचस्खलुः पदे पदे पदातयः । हरितालपरिमलनिभेन चाति- पटुना गजमदामोदनानुलिप्तस्य सामजस्येव [^१]समुपययौ निखिलान्यगन्धग्रहणसामर्थ्यं घ्राणेन्द्रियस्य । क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जनकदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुररवविमिश्रेण च वाजिनां [^२]हर्षह्रेषा- रवेण, अनवरतकर्णतालस्व [^३]रसंपृक्तेन च दन्तिनामाडम्बर- रवेण, ग्रैवेयककिङ्किणीक्वणि [^४]तानुसृतेन च गतिषशा[^५]- द्विषमविरागिणीनां घण्टानां टङ्कृतेन, मङ्गलशङ्खशब्दसंवर्धि- तध्वनीनां च प्रयाणपटहानां निमादेन, मुहुर्मुहुरितस्ततस्ताड्यमा- नानां च [^६]डिण्डिमानां निस्वनेन जर्जरीकृतश्रवणपुटस्य मूर्च्छे- वाभज्जनस्य । शनैः शनैश्च बलसंक्षोभजन्मा क्षितेरनेकवर्णतया क्वचिज्जीर्णशफ- रक्रोड [^७]धूम्र:, कचित्क्रमेलक [ टि ]-- दनेभ्यो विनिःसृता बहिरागताः सितफेनाः श्वेतकफास्तैः पल्लविते विस्तारं प्राप्ते । हरीति । हरितालस्य पिञ्जरस्य यः परि- मलो गन्धस्तस्य निभेन सदृशेनातिपटुनातिस्पष्टेन गजमदामोदेन करिदानवारिपरिमलेन चानुलिप्तस्य व्याप्तस्य घ्राणेन्द्रियस्य नासिकाकरणस्य निखिलान्यग्रहणसामर्थ्यं समग्रापरग्रहणशक्तिः [^1]समुपययौ । दूरीभूतमित्यर्थः । कस्येव । सामजस्येव [^2]म- तङ्गजस्येव । यथा तदनुलिप्तत्वेन तस्यान्यग्रहणसामर्थ्यं न भवति तथेत्यर्थः । यथा नानारसशष्कुल्यादिस्थले सकलसमुदायवशान्नै- कस्यापि रसविशेषस्य ग्रहो रसनेनैवं तादृशसमुदायद्वन्व्द्युत्कृष्टार्द्रकनिम्बूफलरसमवधाने च रसनेन सकलान्यरसग्रहो भवत्यय- मुत्कर्षः । आर्द्रकरसादेस्तथैव घ्राणेन्द्रियस्य नानासुगन्धद्रव्यसंनि- धानदोषवशान्नैकस्यापि गन्धविशेषस्य धूपग्रहणसामर्थ्यम् । एवं तादृशोक्तगजमदामोदेनानुलिप्तस्य घ्राणस्यातीतान्यगन्धग्रहण- सामर्थ्यमभवदित्यर्थः । अथ चैतैः कृत्वा जनस्य लोकस्य मूर्छेव मोह इवाभवदित्यन्वयः । तानेवाह - क्रमेति । क्रमेण परिपाट्या प्रसर्पतो गच्छतो बलस्य सैन्यस्य पुरोऽग्रे प्रधावतां शीघ्रं प्रचलतां जनकदम्बकानां लोकसमुदायानां कोलाहलेन कलकलेन । तथा तारतरदीर्घेणोत्तरमधिकतां प्राप्तेन काहलानां वाद्यविशेषाणां निनादेन शब्देन तथा खुरवाः शफस्वनास्तैर्विमिश्रेण संपृक्तेन वाजिनां तुरगाणां हर्षह्रेषारवेण हर्षः प्रमोदस्तेन या हेषा ह्रेषा तस्या रवः शब्दस्तेन । तथा अनवरतं निरन्तरं कर्णतालस्य यः स्वरः शब्दस्तेन संपृक्तेन दन्तिनां हस्तिनामाडम्ब [^3]ररवेण । पृष्ठे मुखे दन्तयोश्च नानाशृङ्गारभूषणरवेणेत्यर्थः । दन्तिनं विशेषयन्नाह — ग्रैवेयकेति । ग्रैवेयकं कण्ठाभरणं तस्य किङ्किण्यः क्षुद्रघण्टिकास्तासां क्वणितं शब्दितं तेनानुसृतेनानुगतेन । तथा । गतीति । गतिवशाद्गमनवशाद्विषमोऽसदृशो विरावः शब्दो यासामेवंविधानां घण्टानां भूषणविशेषाणां टङ्कृतेन टणत्कारशब्देन तथा । मङ्ग- लेति । मङ्गलार्थ श्रेयोऽर्थं ये शङ्खशब्दास्तैः संवर्धिता वृद्धिं प्राप्तां ध्वनयो येषामेवंविधानां प्रयाणपटहानां प्रस्थानदुन्दुभीनां निनादेन निर्घोषेण । तथा मुहुर्मुहुर्वारंवारमितस्ततस्ताङ्यमानानां डिण्डिमा- नां पटहविशेषाणां निःस्वनेन शब्देन । कीदृशस्य जनस्य। पूर्वोक्तै- र्जर्जरीकृतं श्लथीकृतं श्रवणयोः कर्णयोः पुटं यस्य स तथा तस्य । अन्वयस्तु प्रागेवोक्तः । शनैःशनैर्मन्दं मन्दम् । बलेति । बलेन सैन्येन यः संक्षोभः संमर्दस्तस्माजन्मोत्पत्तिर्यस्यैवंभूतो रेणू रज उत्पपातोर्ध्वं जगाम । क्षितेरिति । क्षितेः पृथिव्या अनेके ये वर्णाः श्वेतादयस्तेषां भावस्तथा तया । रेणोरप्यनेकवर्णतां प्रदर्शयन्नाह - क्वचिदिति । क्वचित् क्वचित्प्रदेशे जीर्णो जरीयान्य: शफरो मत्स्यस्तस्य क्रोड उपरिभागस्तद्वद्धूम्रो धूसरः । क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे क्रमेलक [^1]F. प्रबलगन्धाकृष्टस्य घ्राणस्य तदपेक्षया दुर्बलगन्धानां ग्रहणं न भवतीत्याशयः । ततश्च नानारसशकुल्यादि० इति टीकाकृतो विस्तरो व्यर्थप्राय एव । [^2]F. ' सामजस्तु गजे पुंसि सामोत्थे पुनरन्यवत्' इति मेदिनी । [^3]F. विशालेन बृंहितध्वनिना । [^१]G. अपययौ; उपययौ ; समाययौ. [^२]G. हेषारवेण. [^३]G. स्वन; रव. [^४]G. अनुगृहीतेन. [^५]G. वशविषम. [^६]G. द्विरदडिण्डिमानाम्. [^७]G. सदृशाः. २४८ कादम्बरी । [ कथायाम्9. सटासंनिभः, क्वचित्परिणतरल्लकरोमपल्लवमलिनः, कचिदुत्पेन्नोर्णा तन्तुपाण्डुरः, कचिंजरठमृणालदण्डघवलः, क्वचिज्जरत्क पिकेर्शेकपिलः, कचिंद्वरवृर्षंभरोमन्थ फेन पिण्डपाण्डुरः, त्रिपथगाप्रवाह इव हरिचरणप्रभवः, कुपित इव मुञ्चन्क्षमाम् आरब्धपरिहास इवं रुन्धन्नय-: नानि, तृषित इव पिबन्करिकरसीकरजलानि, पक्षवानिवोत्पतन्गगनंतलम् अलिनिवह इव चुम्बन्मदलेखाम्, मृगपतिरिव रचयन्करिकुम्भस्थलीषु पदम्, उपात्तविजय इव गृह्णन्पताकाम्, जरागम इव पाण्डुरीकुर्वन्शिरांसि, मुद्रयन्निव पक्ष्माग्रसंस्थितो दृष्टिम्, आजिघ्नन्निव मकरन्दमधुबिन्दुपङ्कलनः कर्णोत्पलानि, मदकलकरिकर्णतालताडनत्रस्त इव विशन्कर्णशङ्कोदरविवराणि, पीयमान इवोन्मुखीभिरवनिपतिमुकुटमणिपत्रभङ्गमकरिकाभिः, अभ्यर्च्यमान , उष्ट्रस्तस्य सटा जटास्ताभिः संनिभः सदृशः । कचिदिति । क्वचित् परिणतः पक्कवया यो रहेको हुण्डस्तस्य रोमपलवस्तनूरुह किसलयस्तद्वन्म लिनः कृष्णः । क्वचिदिति । क्वचित् उत्पन्नः समुद्भूतो य ऊर्णातन्तुर्जालकारकस्तद्वत्पाण्डुरः श्वेतरक्तः । क्वन्चिदिति । क्वचित् जरठो दीर्घकालीनो यो मृणालदण्डो बिसदण्डस्तद्वद्धवलः शुभ्रः । क्वचिदिति । जरञ्जरीयान्यः कपिर्वनौकास्तस्य केशा अलकास्तद्वत्कपिलः पिङ्गलः । क्वचिदिति । क्वचित् वरः प्रधानो यो वृषभो बलीवर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्मिन्यः फेनपिण्डः कफपुञ्जस्तद्वत्पाण्डुरः श्वेतरक्तः । कीदृशः । त्रिपथगा गङ्गा तस्याः प्रवाहः स्रोतस्तद्वदिव हरिचरणप्रभवः । हरयोऽश्व विष्णुश्च । कुपित इव कोपं प्राप्त इव । किं कुर्वन् । क्षमां पृथ्वीं मुञ्चंस्त्यजन् । पक्षे क्षमां क्षान्तिम् । आरब्धेति । आरब्धः प्रस्तुतः परिहासो हास्यं येनैवंविध इव । किं कुर्वन् । नयनानि लोचनानि रुन्धन्नाच्छादयन्, उपहासकारिणो लोचनाच्छादनं लोकेऽपि प्रसिद्धम् । तृषित इव पिपासित इव करिणां हस्तिनां करसीकरजलानि शुण्डादण्डोद्गतवातास्तवारीणि पिबन्पानं कुर्वन् । अदृश्यतां प्रापयन्नित्यर्थः । पक्षेति । पक्षवानिव गरुत्मानिव । तत्कृत्यमाह - उदिति । गगनतलमाकाशतलमुत्पतन्गच्छन् । उभयोरेकधर्मत्वात्तदुपमानम् । अलीति । अलीनां भ्रमराणां निवहः समूहस्तद्वदिव । किं कुर्वन् । मदलेखां दानरेखां चुम्ब॑श्च॒म्बनं कुर्वन् । चुम्बनस्य संस्पर्श विशेषत्वात्तदुपमानम् । मृगेति । मृगपतिः सिंहस्तद्वदिव । किं कुर्वन् । करिकुम्भस्थलीषु गजशिरसः पिण्डस्थलीषु पदं स्थानं चरणं वा रचयन्विदधत् । उपात्तेति । उपात्तः खीकृतो विजयो दस्युक्षयरूपो येन स तद्वदिव पताकां वैजयन्तीं गृह्णन्नाददत् । जरेति । जरा विस्रसा तस्या आगमस्तद्वदिव । तत्कृत्यमाह - शिरांस्युत्तमाङ्गानि पाण्डुरीकुर्वन्श्वेतीकुर्वन् । शुक्लतापादनसाधर्म्याज्जराया उपमानम् । मुद्रयन्निति । पक्ष्म नेत्ररोम तदग्रसंस्थितस्तत्पुरोवतीं दृष्टिं मुद्रयन्निव संकोचयन्निव । मकरन्देति । मकरन्दो मरन्दस्तस्य मधु रसस्तस्य बिन्दुपकः पृषत्कर्दमस्तत्र लग्नः संयुक्तः कर्णोत्पलानि श्रोत्रकुवलयान्याजिघ्रन्निव गन्धं गृह्णन्निव । मदेति । मदेन दानवारिणा कला मनोज्ञा ये करिणो हस्तिनस्तेषां कर्णतालास्तैस्ताडनं प्रहार प्रदानं तेन त्रस्त इव भीत इव । कर्णाः श्रोत्राः, शङ्खो भालश्रवोन्तरम् तेषामुदरविवराणि मध्यच्छिद्राणि विशन्प्रविशन् । उन्मुखीभिरिति । उन्मुखीभिरूर्ध्वमुखीभिरवनिपतयो राजानस्तेषां मुकुटाः । टिप्प० - 1 हरिणविशेषः । "रलकः कम्बले स्मृतः । तथैव कम्बलमृगे" इति हैमः । 2 वस्तुतस्तु 'पत्रोर्णतन्तुपाण्डुरः' इत्येव पाठः । पत्रसंबन्धिनी ( लकुवादिपत्रेषु ऊर्णाया उत्पन्नत्वात् ) ऊर्जा यन्त्र तत्पत्रोर्णम्, परिष्कृत कौशेयवस्त्रं तस्य तन्तुवत् पाण्डुरः । 'पत्रोर्ण धौतकौषेयम्' इत्यमरः । पाठा० -१ घटा. २ पत्रोर्णतन्तुपाण्डुर: ३ जरठवत् ४ केशर ५ हर ६ वृषाभरणां शुकेन. ७ पताका: • ८ पाण्डरी. ९ बिन्दुलग्न: १० आविशन्. ११ करिकर्ण. १२ मणिभङ्ग. दिग्विजयप्रस्थानम् ] पूर्वभागः । , इव तुरगमुख विक्षेपवितै: फेनपलवकुसुमस्तबकैः अनुगम्यमान इव मत्तगजघटाकुम्भभित्तिसंभवेन धातुधूलिवलयेन, आलिङ्ग्यमान इव चलवामरकलापविधुतेन पटवासपांसुना, प्रोत्साह्यमान इव नरपतिशेखर सहस्रपरिच्युतैः कुसुमकेशररजोभिः, उत्पातराहुरिव दिवसकरमण्डलमकाण्ड एव पिबन्, नृपप्रस्थानमंङ्गलप्रेतिसरवलयमालिकासु गोरोचनाचूर्णायमानः, ऋकचकृतचन्दनक्षोदधूसरो रेणुरुत्पपात । २४९ अपरिमाणबल संघट्टसमुपचीयमानश्च शनैः शनैः संहरन्निव विश्वमशेष मकालकालमेघपटलमेदुरो विस्तारमुपगन्तुमारेभे । तेन च क्रमेणोपचीयमानबहलमूर्तिना, दिग्विजयमङ्गलध्वजेन रिपुकुलकमलप्रलयनीहारेण, राजलक्ष्मीविलासपटवासचूर्णेन, अहितातपत्रपुण्डरीकखण्डनकिरीटानि तेषां मणयश्चन्द्रकान्तावास्तत्र पत्रभङ्गमकरिकास्ताभिः पीयमाने इव । तुरगेति । तुरगाणां वाजिनां मुखान्याननानि तेषां विक्षेपाः प्रसारणक्रियाविशेषास्तेभ्यो विलुतैर्गलितैः फेनो मुखकफस्तस्य पल्लवाः मस्ताः पुष्पगुच्छास्तैरभ्यर्च्यमांन इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता ये गजा हस्तिनस्तेषां घटाः समूहास्तासां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तेभ्यः संभव उत्पत्तिर्यस्यैवंविधन धातुर्गैरिकादि: कुम्भस्थलशोभार्थमनुलिप्यते तस्य धूलिवलयेन रजोवलयेनानुगम्यमान इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन विधुतेन कम्पितेन पटवासः पिष्टातस्तस्य पांसुर्धूलिस्तेनालिङ्ग्यमान इवाश्लिष्यमाण इव । नरेति । नरपतीनां राज्ञां शेखरसहस्रमवतंससहस्रं तस्मापरिच्युतैः स्ररतैः कुसुमानां पुष्पाणां केसराणि किजल्काः तेषां रजांसि परागास्तैः प्रोत्साह्यमान इव प्रोत्साहं प्राप्यमाण इव । उत्पातैः उड्डीयमानो राहुः सैंहिकेयस्तद्वदिवाकाण्ड एवाप्रस्ताव एव दिवसकरभण्डलं सूर्यबिम्बं पिबन्मसन् । नृपेति । नृपाणां राज्ञां प्रस्थानमङ्गलेषु याः प्रतिसरा हस्तसूत्राणि तेषां वलयमालिका वलयश्रेण्यस्तासु गोरोचनाचूर्णायमानो गोरोचनं प्रसिद्धं तत्क्षोदवदाचरमाणः । ऋकचेति । ऋकचं करपत्रकं तेन कृतो यश्चन्दनक्षोदो मलयजचूर्ण तद्वद्धूसरः । अन्वयस्तु प्रागेवोक्तः । । अपेति । अपरिमाणमसंख्यं यद्वलं सैन्यं तस्य संघट्टः संमर्दस्तेन समुपचीयमानः उपचयं प्राप्य माणः । चकारः पुनरर्थंकः । शनैः शनैर्मन्दमन्दमशेषं समग्रं विश्वं संहरन्भिव तिरोधानं कुर्वशिव । अकालेति । अकालेऽप्रस्तावे यत्कालं कृष्णं मेघपटलमभ्रवृन्दं तद्वन्मेदुरः पुष्टो विस्तारमुपसरणमुपगन्तुं प्राप्तुमारेभे । प्रारम्भं चकारेत्यर्थः । तेनेति । तेन पूर्वोक्तेन रेणुना । चकारः पुनरर्थः । ऋमेति । क्रमेण परिपाट्योपचीयमाना पुष्टिं प्राप्यमाणा बहला दृढा मूर्तिर्देहो यस्य स तेन । दिगिति । दिशां ककुभां यो विजय आत्मसात्करणं तत्र यन्मङ्गलं विघ्ननिवारक दधिदूर्वादि तस्य ध्वजेन केतुना । मुख्यमङ्गलेनेत्यर्थः । रिपुरिति । रिपवो दस्यवस्तेषां कुलानि गोत्राणि तान्येव कमलानि नलिनानि तेषां प्रलयः क्षयस्तस्मिन्नीहारेण । हिमप्रतिमेनेत्यर्थः । राजेति । राजलक्ष्मीनृपश्रीस्तस्या विलासो विलसनं तदर्थं पटवासचूर्णेन पिष्टातक्षोदेन । अहितेति । अहितानां विपक्षाणां यान्यातपत्राणि छत्राणि तान्येव पुण्डरीकाणि कमलानि पाठा 4 टिप्प० - 1 तदुभ्यन्तरगतत्वात् । 2 परागरजसामपि तत्पृष्ठगामित्वात्प्रकृष्ट मुत्साहं प्राप्यमाण हवेव्युत्प्रेक्षा । 3 असमये उदयात् उत्पातसूचको यो राहुरित्यर्थो वक्तव्यः । 4 धिक् । दधिदूर्वादेः काऽन्त्र कथा ? किन्तु-दिग्विजयस्य मङ्गलध्वजेन माङ्गलिक केतुदण्डस्वरूपेण । ध्वजेवदुत्थानसादृश्यात् रजसि ध्वजत्वरूपणमित्यर्थः । -१ विधूतेन. २ प्रसार्यमाण: ; प्रोत्सार्यमाण: ३ मङ्गलवलय. ४ प्रतिसरमालिकासु. ५ खण्ड. ३२ का० २५० कादम्बरी । [.कथायाम्तुषारेण, सैन्यभरपीडित महीतलमूर्च्छान्धकारेण, चलद्वैलजलदकाल कदम्बकुसुमोद्गमेन, दिवसकरकरकमलवनोद्दलन द्विपयूथेन, गगनमहीतलप्लावनप्रलयपयोधिपूरेण, त्रिभुवनलक्ष्मीशिरोवगुण्ठनपटेन, महावराहकेसरनिकरकर्बुरेण, प्रलयानलघूमराजिमांसलेन, पातालतलादिवोत्तिष्ठता, चरणेभ्य इव निर्गच्छता, लोचनेभ्य इव निष्पतता, दिग्भ्य इवागच्छता, नभस्तलादिव पतता, पवनादिवोल्लसता, रविकिरणेभ्य इव संभवता, अनपहृतचेतनेन निद्रागमेन, अनत्रगणितसूर्येणान्धकारेण अधर्मकालोपस्थितेन भूमिगृहेण, अनुदित तारागणनिवहेन बहुलनिशाप्रदोषेण, पैतितसलिलेन जलधरसमयेन, अभ्रान्तभुजं१ $ तेषां खण्डनं कर्तनं तस्मिंस्तुषारेण नीहारेण । कमलानां विध्वंसन एतस्यैव सामर्थ्यात् । सैन्येति । सैन्यभरेण बलभरेण पीडितमाकान्तं यन्महीतलं पृथ्वीतलं तस्य मूर्च्छा निश्चेष्टता तत्रान्धकारेण तिमिरेण । चलदिति । चलद्गच्छद्वलं सैन्यं तदेव जलदकाल: मेघसमयस्तत्र कदम्बकुसुमोद्गमेन नीपपुष्पोद्गमेन । दिवसेति । दिवसकरः सूर्यस्तस्य कराः किरणास्त एव कमलवनं नलिनखण्डं तस्योद्दलनं मूलत उच्छेदनं तस्मिन्द्विपयूथेन हस्तिसमूहेन । गगनेति । गगनमेव महीतलं पृथ्वीतलं तस्य प्लावनमाक्रमणं तस्मिन्प्रलयः कल्पान्तस्तस्य यः पयोधिः समुद्रस्तस्य पूरेण लवेन । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य या लक्ष्मीः श्रीरतस्याः शिरोचगुण्ठन पटेनोत्तमालाच्छादन वस्त्रेण । महेति । महावराह आदिवराहस्तस्य केसरनिकरः सटासमूहस्तद्वत्कर्बुरेण मलिनेन । प्रलयेति । प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य या धूमराजिर्दहन केतनपङ्किस्तद्वन्मांसलेन पुष्टेन । पातालेति । पातालतलाद्वडवामुखतलादुत्तिष्ठतेवोत्थानं कुर्वतेव । चरणेति । चरणेभ्यः पादेभ्यो निर्गच्छतेव निर्गमनं कुर्वतेव । लोचनेति । लोचनेभ्यो नेत्रेभ्यो निष्पततेव पतनं कुर्वतेव । दिग्भ्य ऐन्यादिभ्य आगच्छतेवागमनं कुर्वतेव । नभ इति । नभस्तलाब्योमतलात्पततेव पतनं कुर्वतेव । पवनेति । पवनात्समीरणादुल्लसतेवोल्लासं प्राप्नुवतेव । रवीति । रविकिरणेभ्यः सूर्यरश्मिभ्यः संभवतेव प्रादुर्भवतेव । अनेति । निद्रायाः प्रमीलाया आगमः समागमस्तेन । अत्र तु स्वप्नादिविलक्षणं बाह्यं ज्ञानं तस्त्रादित्यत आह - अनेति । अनपहृतमगृहीतं चेतनं चैतन्यं येनैवंविधेनेत्यर्थः । अत एवालौकिक एवेति भावः । अनवेति । अनवगणितोऽनिराकृतः सूर्यो भानुर्येनैवंभूतेनान्धकारेणेव तमिस्रेणेव । अघर्मेति । अधर्मकाल उपस्थितेन प्राप्तेन भूमिगृहेण वसुधामध्यसदनेन । घर्मकाले तु तदीप्सितं स्यादत एवोक्तम्- -अघर्मकालेति । 'अधर्मकालोपस्थितेन' इति पाठे धर्मकालस्तपस्याचरणादौ तस्येष्टत्वात् । अत एवो. कमधर्मकालेति । अनुदितेति । अनुदित उदयं न प्राप्तस्तारागणनिवहो नक्षत्रसमूहो यस्मिन्नेवंभूतेन बहुलनिशा कृष्णपक्षरात्रिस्तस्याः प्रदोषेण यामिनीमुखेन । पतितेति । पैतितं त्रस्तं सलिलं पानीयं यस्मिन्नेवंभूतेन जलधर समयेन वर्षाकालेन । अञ्चेति । अभ्रान्ता अप्रचलिता भुजंगमाः सर्पा यस्मिन्नेवं विधेन 9 टिप्प० - 1 गगनरूपमहीतलस्य प्लावने ( जलद्वारा तिरोधाने ) प्रलयपयोधेः पूरः ( प्रवाहः ) तेन, इति सरलोप्यर्थः कठिनीकृतष्टीकयेति धन्यासौ । 2 प्रत्येकचरणलग्नतया एनमुत्प्रेक्षा । एवमग्रेऽपि सर्वत्र बोध्यम् । 3 निद्रा चेतनामपहरति, किन्तु इदं रजश्वेतनां न हरति अन्यत्सर्व निद्रातादात्म्यमिति, अधिकाभेदरूपकट । प्राचां मते-अधिकारूढ वैशिष्ट्य रूपकम् । प्राचीनतराणां (वामनादीनाम्) मते तु- एकगुणहानिकल्पनायां समग्रगुणदार्ढ्य विशेषोक्तिरिति विशेषोक्तिः । एवम सर्वत्र । 4 'अपतितसलिलेन' इत्येव पाठः । न पतितं वृष्टं वर्षाजलं यत्रेति तदर्थः । सर्वत्र नजूसमासप्रसङ्गे स्पष्टेपि उत्पाठाsपरिज्ञानं मौढ्यमेव टीकाकृतः । पाठा० -१ सेनाभर; सैन्यतुरग. २ बहलबद्दल ३ दिवसकरकमल; दिवसकरकिरणकमल, ४ अनपहृतलोचनेना • नवगणित, ५ अपतित ६ भुजङ्गेन. दिग्विजयप्रस्थानम् ] पूर्वभागः । २५१ गमेन रसातलेन, हरिचरणेनेव संवर्धमानेन त्रिभुवनमलङ्घयत रजसा । विकचकुवलयवनमिव नवोदकेन गगनतलमवष्टभ्यमानमलक्ष्यत क्षीरोदपाण्डुना क्षितिक्षोदेन । बहुलरजोधूसरितमशिशिर किरण बिम्बमवचूलचामरमिव निष्प्रभमभवत् । दुकूलपेटघवला कदलिकेव कलुषतामाजगाम गगनापगा। नरपालबलभारमसहमाना पुनरिव भारावतारणार्थममरलोकमारुरोह रैजोमिषेण मही । निःशेषपीता तपमन्तर्दह्यमानमिव जलंधिजलेषु धूसरितरविरथध्वजपटमपतद वनिरजः । मुहूर्तेन च गर्भवासमिव संहारसागरजलमिव कृतान्तजठरमिव, महाकालमुखमिव, नारायणोदरमिव, ब्रह्माण्डमिव विवेश पृथिवी । मृन्मय इव बभूव दिवसः । पुंस्तमथ्य इव चकाशिरे ककुभ: । रेणुरूपेणेव परिणतमबरतलम् । एकमहाभूतमैयमिव त्रैलोक्यमासीत् । , , रसातलेन पृथ्वीतलेन । संवर्ध ( मा ) नेन वृद्धि प्राप्यमाणेन । केनेव । हरिचरणेनेव विष्णुपादेनेव । यथा हरिचरणो बलिध्वंसनार्थ क्रमेण वृद्धि प्राप्तस्तथायमपीत्यर्थः । एवं विधेन रजसा रेणुना त्रिभुवनं त्रिविष्टपमलयत । क्षीरोदः क्षीरसमुद्रस्तद्वत्पाण्डुना श्वेतरक्तेने क्षितिक्षोदेन वसुधाचूर्णेन गगनतलं व्योमतलमवष्टभ्यमानं व्याप्यमानमलक्ष्यतादृश्यत । केन किमिव । नवोदकेन नवीनपानीयेन विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां वनमिव । अत्र गगनस्य कृष्णत्वसाम्यात्तदुपमानम् । क्षितिक्षोदस्य शुक्लत्वसाम्यानवोदकोपमानमिति भावः । बहुलेति । बहुलं निबिडं यद्रजस्तेन धूसरितं कर्बुरी कृतम शिशिर किरणबिम्बं चन्द्रसूर्यबिम्बमण्डलमव चूलचामरमिव हस्तिकर्णाभरण जनमिव निष्प्रभं विगतद्युत्यभवज्जज्ञे । दुक्कू लेति । दुकूलं क्षौमं तदेव पटो वस्त्रं तद्वद्धवला श्वेता गगनापगा स्वर्धुनी कलुषतां मलिनतामाजगामागतवती । केव । कदलिकेव रम्भेव । यथा रम्भा रजोभिः कृत्वा कृष्णत्वं याति तथैयमित्यर्थः । नरेति । नरपालो नृपस्तस्य बलं सैन्यं तस्य भरं वीवधमसहमानेवाक्षममाणेव पुनर्भारावतारणार्थं भारं कुत्रचित्स्थापयितुममरलोकं स्वर्लोकं रजोमिषेण रेणुच्छलेन मही पृथ्व्यारुरोहावरोहणं चकार । एकवारं गोरूपेण गताभूत् । इदानीं त्वेतद्रूपेणेत्यर्थः । अत एव पुनःशब्दोपादानम् । निःशेषेति । तदवनिरजो जलधिजलेषु सामुद्रपानीयेष्वपतत्पपातेत्यर्थः । कीदृशम् । निःशेषः समग्रः पीत आखादित आतपः सूर्यालोको येन तदत एवान्तर्दह्यमानमिवान्तर्मध्ये प्रज्वलमानमिव । अनेन जलपाते हेतुर्दर्शितः । पुनः कीदृशम् । धूसरितेति । धूसरितो धूम्रवर्णीकृतो रविरथस्य सूर्यस्यन्दनस्य ध्वजपटो येन तत् । मुहूर्तेनेति । मुहूर्तमात्रेण । सर्वत्र सबाह्याभ्यन्तरव्यायोपमानान्याह -- गर्भेत्यादि । गर्भवासमिव भ्रूणवासमिव । संसारसागरजलमिव कल्पान्तजलधिपानीयमिव । कृतान्तजठरमिव यमोदरमिव । महाकालमुखमिवाखण्डदण्डायमानो यः कालो महाकालस्तस्य मुखमिव । नारायणोदरमिव जनार्दनोदरमिव । ब्रह्माण्डमिव । पृथिवी वसुंधरा विवेश सर्वत्र प्रविष्टवतीति । सैन्यमिति शेषः । गर्भवासादिकमिव रजोरूपेण पृथिवी सैन्यं प्रविष्टेत्यर्थः । अत्र गर्भवासादिभिरुपमानैः सैन्यस्यात्युत्कृष्टतायनेक धर्मावच्छिन्नत्वं सूचितम् । तदन्तःप्रवेशाच रजसोऽपि ततोऽप्याधिक्यमिति भावः । मृदिति । मृन्मय इव मृदो विकार इव । अन्न विकारार्थे मयद । तद्वदिव दिवसो दिनं बभूव । पुस्त इति । पुस्तं लेप्यादिकर्म तन्मय्य इव विलिप्ता इव ककुभो दिशश्रकाशिरे शुशुभिरे । रेणु · रूपेणेति । रेणुरूपेण रजोमयत्वेनेवाम्बरतलं व्योमतलं परिणतं तन्मयतां गतम् । एकमिति । एकं महा भूतं पृथिवीलक्षणं तन्मयमिव त्रैलोक्यं त्रिविष्टपमासीद्वभूव । e टिप्प० - 1 श्वेतेन, इत्येव वक्तव्यम् । कः प्रसङ्गो रक्तत्वस्येति धिक् ! 2 चन्द्रपददानं केवलमज्ञानम् । पाठा० -१ क्षणात्क्षीरोदफेनपाण्डुना २ पट्ट ३ भरमतिगुरुम् ४ रजोनिसेन. ५ निपीत ६ प्रस्थमय्यः • ७ दिश: ८ अम्बरम्. ९ 2 २५२ कादम्बरी । [ कथायाम्अथ निजमदोष्मसंतप्तानां दन्तिनां दिशि दिशि करविवरनिःसृतैः क्षरद्भिः क्षीरोदधवलैः शीकरासारैः, कर्णपल्लवप्रहतिविसृतेन च विसर्पता दानजलबिन्दुदुर्दिनेन, हेषार व विप्रकीर्णैश्च वाजिनां लालाजललवजालकैरुपशमिते रजसि, पुनरपि जातालोकासु दिक्षु, सागरादिवोन्मन्नमालोक्य तदपरिमाणं बलमुपजातविस्मयः सर्वतोद्त्तदृष्टिर्वैशम्पायनश्चन्द्रा पीडमाबभाषे'युवराज, किं न जितं देवेन महाराजाधिराजेन तारापीडेन यज्ञेष्यसि, का दिशो न वशीकृता या वशीकरिष्यसि, कानि दुर्गाणि न प्रसाधितानि यानि प्रसाधयिष्यसि, कानि द्वीपान्तराणि नात्मीकृतानि यान्यात्मीकरिष्यसि, कानि रत्नानि नोपार्जितानि यान्युपार्जयिष्यसि, के वा न प्रणता राजानः, कैर्न विरचितः शिरसि बालकमलकुकालकोमलः सेवा जलिः, कैर्न मसृणीकृताः प्रतिबद्धद्देमपट्टेलेलाटै: सभाभुवः, कैर्न घृष्टाः पादपीठे चूडामणयः, कैर्न प्रतिपन्ना वेत्र..... अथेति । तदनन्तरं वैशम्पायनश्चन्द्रापीडमाबभाषेऽभिदधावित्यन्वयः । कस्मिन्सति । रजस्युपशमिते शान्ति प्राप्ते सति । कैः । निजेति । निजमदस्यात्मीयदानस्य य ऊष्मा तापस्तेन संतप्तानां प्रज्वलितानां दन्तिनां हस्तिनां दिशि दिशि शंकराः झुण्डादण्डास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिःसृतैर्बहिरागतैरत एव क्षरद्भिः सवद्भिः । क्षीरोदः क्षीरसमुद्रस्तद्वद्धवलैः शुः । शीकरा वातास्तवारिविप्रुषस्तेषामासारा वेगवत्यो वृष्टयस्तैस्तथा । कर्णा एव पलवास्तेषां प्रहतिः प्रकर्षण हननं तया विसृतेनेतस्ततो विक्षिप्तेन । अत एव विसर्पता प्रसरता दानजलबिन्दुदुर्दिनेन मदवारिपृषन्मेघजनिततमसा । तथा वाजिनां तुराणां हेषारवा हेषाशब्दास्तैर्विप्रकीर्णैर्विक्षिप्तैः । 'हेषा हेषा तुरङ्गाणां गजानाम्' इति कोशः । एवंविधैः । लालाजलं मुखनिष्ठचूतजलं तस्य लवाः खण्डांस्तेषां जालकैः समूहैः । 'समवायो निकुरम्बं जालं निवहसंच यौ' इति हैमः । पुनरपीति । रजःशमनानन्तरं जातः प्रकटीभूत आलोकः प्रकाशो याखेवंभूतासु दिक्षु ककुप्सु । कृष्णत्वसाम्यादाह - सागरेति । सागरात्समुद्रादुन्मनमिवोपर्यागत मिवापरिमाणमसंख्यं बलं सैन्यमालोक्य निरीक्ष्य । अथ वैशम्पायनं विशेषयन्नाह - उपेति । उपजातः समुत्पन्नो विस्मयश्चित्रं यस्य सः । सर्वत इति । सर्वतोऽभितो दत्ता प्रेरिता दृष्टिर्येन सः । अन्वयस्तु प्रागेवोक्तः । किमुवाचेलाहयुवराजेति । हे युवराज, देवेन पूज्येन तारापीडेन महाराजाधिराजेन किमिति प्रश्ने । न जितं वशीकृतम् । सर्वमेव जितमित्यर्थः । यद्भवांस्त्वं जेष्यसि वशीकरिष्यसि । तथा का दिशः ककुभो न वशीकृता नात्मसात्कृता यास्त्वं वंशी करिष्यसि स्वायत्तीकरिष्यसि । कानि दुर्गाणि कोट्टानि न प्रसाधितानि न गृहीतानि यानि त्वं प्रसाधयिष्यसि ग्रहीष्यसि । तथा कानि द्वीपान्तराण्यन्तरीपान्तराणि नात्मीकृतानि यानि. त्वमात्मीकरिष्यसि । तथा कान्यनिर्दिष्टाभिधेयानि रत्नानि स्वस्वजातावत्युत्कृष्टवस्तूनि नोपार्जितानि नोपार्जनाविषयीकृतानि यानि त्वमुपार्जयिष्यस्युपार्जनां करिष्यसि । अथ च के राजानो नृपा न प्रणता न नमस्कारं कृतवन्तः । तथा कैर्नृपै राजभिर्न विरचितो न विहितः शिरस्युत्तमाङ्गे बालकमलस्य नवीननलिनस्य कुलो मुकुलं तद्वत्कोमलो मृदुरेताहक्सेवाञ्जलिः सपर्यानियामकं पाणियोजनम् । तथा कैर्भूपतिभिः प्रतिबद्धाः संनद्धा हेमपट्टाः कनकपट्टा येष्वेवं भूतैर्ललाटैर्भालैः सभाभुवः समाजक्षोण्यो न मसृणीकृता न लक्षणीकृताः । तथा कै राजभिर्नृपैः पादपीठे पदासने चूडामणयः शिरोमणयो न घृष्टा न घर्षणं प्रापिताः । तथा कैर्नृपैचैत्रलता वेतसयष्टयो न प्रतिपन्ना न स्वीकृताः । एतेन सर्वे प्रतीहारतां प्राप्ता इति सूचितम् । तथा कैर्भूपति५ सागरसलिलादिव. पाठा० -१ संतप्तानां दिशि दिशि २ क्षीरोदक्षोद, ३ विलुतेन, ४ पुनरुपजात. किमजितम्. ७ के न. ८ वेत्रयष्टयः दिग्विजयप्रस्थानम् ] पूर्वभागः । २५३ ताः, कैनोंडूतानि चामराणि, कैर्नोच्चारिता जयशब्दाः, केषां न पीताः किरीटपत्रमकरैः सलिल धारा इव निर्मलास्त चरणनखमयूखराजयः । एते हिँ चतुरुदधिजलावगाहदुर्ललितबलमदाबलिप्ता दशरथभगीरथभरत दिलीपालर्कमान्धातृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो • मूर्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षाभूतिमिवाभिषेकपयःपात पुतैश्च डामणिपल्लवै रुद्वहन्ति मङ्गल्यां भवचरणरजः संहतिम् । एभिरियमादिपर्वतैरिवापरैर्वृता धरित्री । एतानि चाप्यमीबामालावितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथाहि । पश्य पश्य वस्यां यस्यां दिशि विक्षिप्यते चक्षुस्तस्यां तस्यां रसातलंमिवोद्भिरति, वसुधैव सूते, ककुम इव वमन्ति, गँगनमिव वर्षति, दिवस इव सृजति बलानि । अपरिमितबलभराकान्ता मन्ये स्मरति महाभारतसमरसंक्षोभस्याद्य क्षितिः । एष शिखरदेशेषु स्खलित मण्डलो ध्वजान्गणयन्निव कुतूहलाभिश्चाभराणि वालव्यजनानि नोडूतानि न वीजितानि । एतेनास्य सर्वेऽपि राजानश्वामरग्राहिणोऽभूवन्निति ध्वनितम् । तथा कैर्नृपतिभिर्जयशब्दा मङ्गलशब्दा नोच्चारिता नोदीरिताः । तथा केषां राज्ञां किरीटानां मुकुटानां पत्रमकराः पत्रेषु मकराकारा विवृतमुखास्तैः सलिलधारा इव पतत्पानीयपचय इव निर्मला: स्वच्छास्तस्य तारापीडस्य यौ चरणौ पादौ तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां राजयः श्रेणयो न पीताः न पानविषयीकृताः । एतेन सर्वेऽपि क्षितिभुजस्तारापीडस्य महाराजस्य चरणसपर्या कृतवन्त इति ध्वनितम् । अथ राज्ञां स्वरूपं वर्णयन्नाह - एते हीति । हि नितम् । पृथिव्यां रत्नगर्भायामेते प्रत्यक्षोपलभ्यमाना ये सर्वपार्थिवाः समग्रराजानो रक्षाभूतिमिव रक्षाभस्मैमिवाभिषेकस्य यौवराज्याभिषेकस्य यः पयःपातः सलिलपातस्तेन पूतैः पवित्रैश्चूडामणयः शिरोरत्नानि त एव पलवास्तैर्मङ्गल्यां मङ्गले हितां भवचरणयोस्त्वत्पादयो रजःसंहतिं रेणुसमूहमुद्वहन्ति धारयन्ति । कीदृशा राजानः । चतुरिति । चतुरुदधयश्चतुःसमुद्र।स्तेषां जलानामवगाहः तत्संबन्धी महाप्रलयस्तद्वद्दुर्ललितं दुश्चेष्टितं रिपुक्षयकृलक्षणं यस्मिन्नेताहरां बलं सैन्यं तस्य मदोऽहंकारस्तेनावलिप्ता व्याप्ताः । दशरथो रामपिता, भगीरथः सगरपौत्रः, भरत आर्षभिः, दिलीपो रघुपिता, अलर्कः प्रसिद्धः, मान्धाता युवनाश्वतनयः एतैः प्रतिमाः सदृशाः कुलस्य गोत्रस्य योऽभिमानोऽहंकारस्तेन शालिनः शोभिनः । सोमपायिन: सोमेष्टिकारिणो मूर्धन्यभिषिक्ताः कृताभिषेकाः । इयमिति । एभिः पूर्वोक्तव्यावर्णितस्वरूपै राजभिरियं धरित्री वसुधा धृता धारिता । कैरिव । अपरैभिन्नैरादिपर्वतैरिव कुलपर्वतैरिव । एतानीति । अमीषां राज्ञामेतानि सैन्यानि भवन्तं त्वामुपासते सेवन्ते । की। आलावतान्यवगाहितानि दशदिशामन्तरालानि मध्यभागा यैतानि । एतदेव दर्शयति – तथाहीति । पश्य पश्य विलोकय विलोकय । यस्यां यस्यां दिशि चक्षुर्नेत्रं विक्षिप्यते प्रेर्यते तस्यां तस्यां दिशि रसातलमिव पृथ्वीतलमिवोद्गिरति वमति । बलानि सैन्यानीति सर्वत्र संबध्यते । वसुधेव वसुंधरेव सूते जनयति । ककुभ इव दिश इव वमन्त्युद्गिरन्ति । गगनमिवान्तरिक्षमिव वर्षति वृष्टिं करोति । दिवस इव दिनमिव सृजति प्रणयति । अहमिति मन्ये जानेऽद्य क्षितिर्वसुधाऽपरिमितं यद्वलं सैन्यं तस्य भरोऽतिशयस्तेनीकान्ता भरिता सती । महेति । महाभारते प्रतिपादितो व्याख्यातो यः समरसंक्षोभः सङ्ग्रामसंमर्दस्तस्य स्मरति स्मरणं करोति । अत्र स्मृत्यर्थधातुभिर्योगे 'मातुः स्मरति' इतिवत्कर्मणि षष्ठी । एष इति । एष समीप । 2 टिप्प० - 1 भस्सेवेत्यर्थः । 2 नेदमुचितम् । चतुरुदधिजलेषु योऽवगाहः विजययात्रार्थमवतरणं तेन दुर्ललितानां टष्टमनोहराणां बलानां सैन्यानां मदेनावलिप्ताः ( गर्विताः ) इत्यर्थः । 3 व्याज्ञानीत्यर्थः । पाठा-१ उद्धृतानि. २ त्वच्चरण. ३ हि ते ४ दुर्ललितवद. ५ माङ्गल्याम्; मङ्गलदाम्. ६ पश्य यस्याम्. ७ गगनतलम्. ८ महाभारतसंक्षोगस्य; महाभारत बलसमर संक्षोभस्य ९ मत्तभकरटशिखरदेशेषु. १० परिस्खलित २५४ कादम्बरी । [ कथायाम्। द्धमति कदलिकावनान्तरेषु मयूखमाली । सर्वतश्च मदजलमुचां करिणामेलापरिमलसुरभिणि वेणिकावाहिनि मैदवारिणि निरन्तरममा निपतितमधुकर कुलके लकलकलिला कालिन्दीजलकल्लोलकलितेव भाति भूतधात्री । सैन्यभरसंक्षोभभयात्सरित इव गेगनतलमुत्पतिता आच्छादयन्त्येता दिक्चऋवालमिन्दुधवला ध्वजपचयः । सर्वथा चित्रं यन्नाद्य विघटितसकलकुलशैलसंधिबन्धा सहस्रशः शकलीभवति बलभरेण धरित्री, यद्वा बलभरपीडितवसुधाधारणविधुरा न चलन्ति फणिनां पत्युः फणाभित्तयः' इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेकतोरणां 'तृणमय प्राकार मन्दिरसहस्रसंबाधामुल्लासितघवलपटमण्डपशतशोभिनीमावासभूमिमवाप । तरवर्ती कदलिकावनान्तरेषु रम्भाकाननान्तरेषु मयूखमाली सूर्यः शिखरदेशेषु ध्वजाग्रभागेषु स्खलितं स्खलनां प्राप्तं मण्डलं बिम्बं यस्यैवंभूतः प्रतिरोधनिवृत्यर्थं ध्वजान्गणयन्निव संख्यां कुर्वन्निव कुतूहलामतीत्युत्प्रेक्षा । ध्वजानामुच्चतोत्कर्षो व्यङ्ग्यः । कदलिकावन मिति सूर्यप्रदर्शनोपलक्षणमात्रं न त्वन्यत् । करिमदोत्कर्षमाह -- सर्वतश्चेति । मदजलमुचां मदस्राविणां करिणां हस्तिनामेलायाश्चन्द्रबालाया यः परिमल आमोदस्तद्वत्सुरभिणि सौरभ्ययुक्ते । वेणिकावाहिनीति । वेणिका प्रवेणी तया वहति गच्छतीत्येवंशीलं तस्मिनेवंभूते मदवारिणि दानजले निरन्तरं मना । समन्ततो जलक्लिन्नेत्यर्थः । एवंभूता भूतधात्री पृथ्वी । तामेव विशिनष्टि—निपतितेति । निपतितं पर्यस्तं यन्मधुकरकुलं भ्रमरसमूहस्तस्य यः कलकलः कोलाहलस्तेन कलिला गहना । 'कलिलं गहनं' इति कोशः । अत्र च श्यामताद्रवत्वाभ्यां मदवारिणः, शब्दविशेषैः श्यामतापरिमाणविशेषैश्च भ्रमरकुलस्य साम्येनोत्प्रेक्षते - कालिन्दीति । कालिन्दी यमुना तस्या जलकल्लोल्लैः पानी • यतरङ्गैः कलितेन भाति शोभते । सैन्येति । सैन्यस्य बलस्य यो भरस्तजनितो यः संक्षोभः क्षुब्धता तल्लक्षणं यज्ञ्यं त्रासस्तस्माद्गगनतलं व्योमतलमुत्पतिताः स्वच्छत्वनैर्भल्यसाधर्म्यात्सरित इव नद्य इव एताः प्रत्यक्षोपलक्ष्यमाणा इन्दुव चन्द्रवद्धवलाः शुभ्रा ध्वजपङ्कयो वैजयन्ती श्रेण्यो दिक्चक्रवालं ककुप्समूहमाच्छादयन्त्यावृण्वन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणैतच्चित्रं महदाश्चर्यम् । एतत्किमित्याह - यदिति । यदद्य विधटिता विशेष प्राप्ताः सकलाः समग्रा ये कुलशैलास्त एव संधिबन्धा अस्थिबन्धा यस्या एवंभूता धरित्री वसुं धरा बलभरेण सैन्यसंमर्देन सहस्रशः सहस्रधा न शकलीभवति । न सहस्रधा जायत इत्यर्थः । एतदाश्चर्य मि. व्यर्थः । एतच्छङ्कां दूरीकर्तुं पक्षान्तरमाह - यद्वेति । यद्वा बलभरेण सैन्यभरेण पीडिता या वसुधा तस्या धारणं तेन विधुराः पीडिताः फणिनां पत्युः शेषनागस्य फणाभित्तयः फणकुड्यानि न चलन्ति । अत एवेयं तदाघारेण तिष्ठतीत्यर्थः । इत्येवं पूर्वोक्त प्रकारेण तस्य वैशम्पायनस्य वदतो ब्रुवत एव युवराजश्चन्द्रापीड आवा. सभूमिं निवासभूमिमवाप प्रापॆत्यन्वयः । अथ तां विशेषयचाह-समुच्छ्रितेति । समुच्छ्रितान्युच्चान्यनेका नि तोरणाने बहिराणि यस्यां ताम् । 'बहिर्द्वारं तु तोरणम्' इति कोशः । तृणेति । तृणमयो यवसमयो यः प्राकारी प्रस्तरिमन्यन्मन्दिरस गृहदशशतं तेन विद्यते संबाधः सांकर्यं यस्याम् । उल्लासितेति । उल्लासित मुलासं प्राप्तं यद्धवलंपटस्य श्वेतवस्त्रस्य मण्डपशतं जनाश्रयशतं तेन शोभिनीं शोभायुक्ताम् । टिप्प० -1 पताकाममूहान्तरालेषु, इत्यर्थोऽयमत्र, कदलिका ( रम्भा) कानन स्याऽप्रसक्तत्वात् । व्याख्यातं च पूर्वम्- 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति । 2 विघटिताः सकलानां कुलशैलानां सन्धिबन्धाः ( संयोगबन्धनानि ) यस्याः सा, इति व्याख्योचिता । 3 पृथिव्याः शकलीभवनासंबन्धेऽपि, कणानां स्खलना संबन्धेपि, तत्संबन्धवर्णनादतिशयोक्तिः । 4 विपरीतमिदम् । मन्दिरसहस्रेण संबाधां गहनां ( व्याशाम् ) इत्यर्थ: । 'संकटं ना तु संबाधः कलिलं गहनं समे' इत्यमरः । घाटा०-१ सदवारिणि ममा निरन्तरनिंपतित २ कलकलकलिता; कलकलालिका; कलकलललिता. ३ कलिकाकवलिता ४ सैन्य संक्षोभ ५ घरणिमपहाय गगन ६ संच्छादयन्ति ७ द्विजपचय: ० ८ शैलबन्धा. ९ दलन्ति. १० मन्दिरसंबाधा. ११ संशोभिनी. दिग्विजय: ] पूर्वभागः । तस्यां चावतीर्य राजवत्सर्वाः क्रियाञ्चकार । सर्वेश्च तैः समेत्य नरपतिभिरमायैश्च विविधाभि कथाभिर्विनोयमानस्तं दिवसमशेषमभिनव पितृवियोगजन्मना शोकावेगेनायास्यमानहृदया दुःखेनात्यवाहयत् । अतिवाहित दिवसश्च यामिनीमपि स्वशयनीयस्य नातिदूरे निहिंतशयन निषण्णेन वैशम्पायनेन, अन्यता समीपे क्षितितले विन्यस्तकुथप्रसुप्तया पत्रलेखया सह, अन्तरा पितृसक्तम्, अन्तरा मातृसंबद्धम्, अन्तरा शुकनासमयं कुर्वन्नालापं नातिजातनिद्रः प्रायेण जामदेव निन्ये । प्रत्यूषे चोत्थाय तेनैव क्रमेणानवरतप्रयाणकैः प्रतिप्रयाणकमुपचीयमानेन सेनासमुदायेन जर्जरयन्वसुंधराम्, आकम्पयन्गिरीन्, उर्सिंञ्चसरितः, रिक्तीकुर्वन्सरांसि, चूर्णयन्काननानि, समीकुर्वन्विषमाणि, दुलषन्दुर्गाणि, पूरयन्निम्नानि, निम्नयन्स्थलानि प्रतिष्ठता शनैः शनैश्च स्वेच्छया परिभ्रमन्, नमयन्नुन्नतान्, उन्नमयन्नवर्नतान्, आश्वासयन्सीतान, रंक्षन्शरणागतान्, उन्मूलयन्विटपकान, उत्सादयन्कण्टकान, अभि १ 2 G तस्यामावासभूमाववतीर्यावतरणं कृत्वा । चकारः पुनरर्थकः । राजवत्तारापीडवत्सर्वाः क्रियाः समप्रकृत्यानि चकार कल्पयामास । सर्वैश्चेति । तैः पूर्वोक्तैः सर्वैः समर्नरपतिभिरमायैश्च । अत्र चकारः समुच्चयार्थः । समेत्य नृपान्तिकमागत्य विविधाभिरनेकप्रकाराभिः कथाभिर्वार्ताभिर्विनोद्यमानः क्रीडाविषयी क्रियमाणोऽशेष समग्रं तं दिवसं दिनमत्यवाहयदत्यामत् । केन । दुःखेन कृच्छ्रेण । अथ युवराजं विशिनटि -- अभीति । 'अभिनवः प्रत्यग्रो यः पितृवियोगोऽननुभूतजनकविरहस्तस्माज्जन्मोत्पत्तिर्यस्य स तथैवं विधेन शोकावेगेन शोच•तीवेशनायास्यमानमायासं प्राप्यमाणं हृदयं चित्तं यस्य स तथा । रात्रिं कथमतिक्रमितवा नित्याह- अतीति । अतिवाहितोऽतिक्रमितो दिवसो येनैषंभूतो यामिनीमपि त्रियामामपि स्वशयनीयस्य स्वीय शय्यायाः । नातीति । नातिदूरे नातिदवीयसि प्रदेशे निहितं स्थापितं यच्छयनं शयनीयं तत्र निषण्णेनोपविष्टेन वैशम्पायनेन । अन्यत चान्यस्मिन् वैशम्पायन निषीदनव्यतिरिक्त समीपे पार्श्ववर्तिनि क्षितितले पृथ्वीतले विन्यस्ता स्थापिता या कुथा परिस्तो मस्तत्र प्रसुप्तया कृतशयनया पत्रलेखाभिधानया करङ्कवाहिन्या सह सार्धम् । अन्तरा मध्ये पितृसक्तं जनकसंबन्धि अन्तरा मातृसंबद्धम् । अन्तरा शुक्रनासो वैशम्पायनपिता तद्वार्ता भिर्निष्पन्नमालापमन्योन्यं प्रीतिभाषणं कुर्वन्विदधन्नातिजाता न बाहुल्येन समागता निद्रा प्रमीला यस्य स तथा । प्रायेण बाहुल्येन जाग्रदेव निद्राभाववानेव निन्ये निनाय । प्रत्यूषे चेति । प्रत्यूषे प्रभाते चोत्थायोत्थानं कृत्वा तेनैव क्रमेण पूर्वोतपरिपाट्यानवरत प्रयाणकैर्निरन्तरगमनैः । प्रतीति । प्रतिप्रयाणकं प्रयाणं प्रयाणं प्रत्युपचीयमानेन पुष्टतां प्राप्यमाणेन सेनासमुदायेन सैन्यसंघातेन प्रतिष्ठता चलता वसुंधरां धात्रीं जर्जरयञ्छिथिलतामापादयन् । गिरी पर्वताना कम्पयंस्तरलतां नयन् । सरितो नदीः उत्सिञ्चजलं दूरीकुर्वन् । सरांसि तटाकानि रिक्तीकुर्वञ्छू न्यीकुर्वन् । जलेनेति शेषः । काननानि चनानि चूर्णयन्क्षोदी कुर्वन्विषमाणि कठिनानि समीकुर्वन्सरलीकुर्वन् । दुर्गाणि कोट्टानि दलयन्खण्डयन् । निम्नानि गभीराणि पूरयन्पूर्णांकुर्वन् । स्थलानि स्थलप्रदेशान् निम्नयन्सगम्भीरतामापादयन् । शनैः शनैर्मन्दं मन्दं स्खेच्छया खातन्त्र्येण परिभ्रमन्पर्यटन् । उच्चतानुचान् नमयज्ञ•म्रतामापादयन् । अवनतान्प्रणतान् उन्नमयनुच्चतां प्रापयन् । भीतांस्त्रस्ताना श्वासयन्नाश्वासनां कुर्वन् । शरणागतांस्त्राणार्थं प्राप्तान्रक्षन्पालयन् । विटंपकान्विटानुन्मूलयञ्जुन्मूलनां कुर्वन् । कण्टकाञ्छत्रूनुत्सादयन्दूरीटिप्प० - 1 व्यत्यगमयत् इत्यर्थ उचितः । 2 विषादभरेण, इत्यर्थो योग्यः । 3 अनावश्यक मिदम् । अत एव 'प्रातिष्ठत' इति पाठस्तत्रैव वाक्यसमाप्तिश्च 'स्थलानि निन्नय-प्रातिष्ठत (अचलत् ) इति । wwmedic पाठा० • १ नातिदूरनिषण्णेन. २ शयनीयसमीपे ३ क्षितितलविन्यस्त ४ नात्युपजात. ५ प्रत्युषसि, ६ उपसिञ्चन्. ७ प्रातिष्ठत; न्यायवर्त्मनि प्रजाः प्रतिष्ठापयन्प्रातिष्ठत्. ८ नतान्. ९ रक्षयन्. कादम्बरी [ कथायाम्विश्वस्थानस्थानेषु राजपुत्रान्, संमर्जयन्दनानि, प्रतीच्छन्नुपायनानि, गृह्णन्करान, आदिशन्देशव्यवस्थाम्, स्थापयन्स्वचिह्नानि, कुर्वन्कीर्तनानि, लेखय शासनानि, पूजयन्नग्रजन्मनः, प्रैणमन्मुनीन्, पालयन्नाश्रमान्, जनानुरागं प्रकाशयन्विक्रमम्, आरोपयन्प्रतापम्, उपचिन्वम्यशः, विस्तारयम्गुणान्, प्रख्यापयन्सच्चरितम्, आमृगश्च वेलावनानि, बलरेणुभिराधूसरीकृतसकलसागरसलिलः पृथिवीं विचचार प्रथमं प्राचीम्, ततस्त्रिशङ्कतिलकाम्, ततो वरुणलाञ्छनाम् अनन्तरं च सप्तर्षिताराशबलां दिशं जिंग्ये । वेर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं सकलमेव चतुरुंदधिखातवलयपरिखाप्रमाणं बभ्राम महीमण्डलम् । ततः क्रमेणाव जितसकलभुवनतलः प्रदक्षिणीकृत्य वसुधां परिभ्रमन्, कदाचित्कैलाससमीपचारिणां हेमजकूटनाम्नां । २५६ 19 कुर्वन् । स्थानस्थानेष्विति । स्थानानि च स्थानानि च स्थानस्थानानि तेषु राजपुत्रान्नृपसुतानभिषिञ्चन्नभिषेकं कुर्वन् । रत्नानि स्वस्वजातावुत्कृष्टवस्तूनि समर्जयन् । उपायनानि प्राभृतानि प्रतीच्छन्त्रीकुर्वन् । करान्दण्डान्गृहन्ग्रहणं कुर्वन् । देशव्यवस्थां जनपदमर्यादामादिशजाज्ञापयन् । स्खचिह्नानि खस्यागमन निमित्तानि स्थापयन्स्थापनां कुर्वन् । कीर्तनानि हरिगुणगानानि कुर्वन् । शासनानि ग्राम पट्टकादी नि लेखयंल्लिपीकारयन् । अग्रजन्मनो ब्राह्मणान्पूजयन्नर्चयन् । मुनीनुषीन्प्रणमन्नमस्कुर्वन् । आश्रमान्ब्रह्मचारि प्रभृतीन्पालयन्प्रतिपालनां कुर्वन् । जनानामनुरागो यथा स्यादेवंभूतं विक्रमं पराक्रमं प्रकाशयन्प्रकटयन् । प्रतापं कोशदण्डजं तेज आरोपयन्स्थापयन् । यशः सर्व दिग्गामुकमुपचिन्वन्पुष्टीकुर्वन् । गुणान्शौर्यादी वस्तारयन्प्रथयन् । सच्चरितं शोभनं वृत्तं लोकेषु प्रख्यापयन्प्रकटीकुर्वन् । वेलावनानि समुद्रतीरोद्भवोपवनान्यामृद्गज्ञाभञ्जयन् । किंविशिष्टः । बलरेणुभिः सैन्यधूलिभिरासमन्ताद्धूसरीकृतमीषत्पाण्डुरीकृतं सकलः समझो यः सागरः समुद्रस्तस्य सलिलं पानीयं येन सः । पृथिवीं वसुधां विचचार बभ्राम । प्रथमं क जग्मिवानित्याशयेनाह – प्रथम मिति । प्रथममादौ प्राचीं प्राग्दिशम् । तत इति । ततः तद्गमनानन्तरं त्रिशङ्कर्नृपतिरेव तिलको यस्यां सा तथा ताम् दक्षिणामित्यर्थः । इदं च पुराणे प्रसिद्धम् । ततो वरुणः प्रचेता लाञ्छनं यस्याः सा ताम् । पश्चिमामाशामित्यर्थः । अनन्तरं चेति । ततः पश्चात्सप्तर्षीणां मरीचि प्रमुखाणां तारा नक्षत्राणि तांभिः शबलां कर्बुरां दिशमुदीचीं जिये । जितवानित्यर्थः । वर्षेति । वर्षत्रये णाब्दत्रयेण । सकलेति । सकलमेव समग्रमेव महीमण्डलं वसुधावलयं वभ्राम भ्रमणं चकारेत्यन्वयः । अथ महीमण्डलं विशिनष्टि - आत्मीति । आत्मीकृतं स्वायत्तीकृतमशेषं समग्र द्वीपान्तरमन्तरीपान्तरं यस्मिंस्तत्तथा । चतुरिति । चतुरुदधयश्चतुःसमुद्रा एव खातवलयं तदेव परिखाप्रमाणं यस्य तत् । ततस्तज्जयानन्तरं क्रमेण परिपाट्या । अत्रेति । अवजितं स्वायत्तीकृतं सकलभुवनतलं समग्रवसुधातलं येन स एवंभूतः । वसुधां प्रदक्षिणीकृत्य पृथ्व्याः प्रदक्षिणां दत्त्वा परिभ्रमन्नितस्ततः पर्यटन् । कदाचित्कस्मिंश्चित्समये । कैलासेति । कैलासो रजताद्विस्तत्समीपचारिणां तत्पार्श्वगामिनां हेमजकूट इति नाम येषामेवंविधानां । । टिप्प० -1 आत्मनो विक्रम-प्रतापादेर्घोषणाः इत्यर्थ उचितः, हरिगुणगानस्य समस्यात्रायामप्रसक्तस्वात् । 2 स्पष्टं प्रक्रमभङ्गः । सर्वत्र स्वकर्मसहितं रात्रन्तमुपात्तं न क्वचित्क्रियाविशेषणम् । अत एव 'जनयन् जनानुरागम्' इत्येव पाठः । 3 जि. धातोः परस्मैपदित्वादिदमशुद्धम् । अतः 'विजिग्ये' इत्येव पाठः । 4 धन्यः ! 'हेमजकूट' इत्यपि कस्याश्चिजातेर्नाम भवतीति यस्य परिज्ञानं सोपि टीकाकरणे व्याप्रियते इति महद्भागधेयमस्माकम् । अस्तु 'हेमकूटधानाम्' इत्येव पाठः । हेमकूटो हिमालयादुत्तरस्थितः पर्वतविशेषो धाम ( निवासः ) येषां तेषामिति तदर्थः । पाठा० - १ व्यवस्था : २ पू: प्रशस्ती:. ३ प्रीणयन्. ४ जनयञ्जनानुरागम् ५ ख्यापयन् ६ सच्चरितमुइषोतयन्पौरुषम्॰ ७ आमृद्गन्वेला; आमर्दयंश्च वेला. ८ विजिग्ये. ९ एवं वर्षत्रयेणात्मी, १० अम्भोधि. ११ निर्जितं; आवर्जितं. १२ वसुंधरामु. १३ हेमकूटधाम्नाम्. हेमजानाम्नाम्. किन्नरमिथुनाऽप्राप्तौ निर्वेदः ] पूर्वभागः । २५७ किरातानां सुवर्णपुरं नाम निवासस्थानं नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च निखिलघरंणीतलपर्यटनखिन्नस्य निजबलस्य विश्रामहेतोः कतिपयान्दिवसानतिष्ठत् । एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयाँनिर्गतो विचरन्कानने शैलशिखरादवतीर्ण य दृच्छया किंनर मिथुनमद्राक्षीत् । अपूर्वतया तु समुपजातकुतूहल: कृतग्रहणाभिलापस्तत्समी पमादरादुपसर्पितरगः समुपसर्पन्, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितं च तेत्पलायमानमनुसरन्ननवरतपाणिप्रहार द्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गत्य बैलसमूहात्सुदूरमनुसेसार । 'ॲत्र गृह्यते, इदं गृहीतम् इदं गृहीतम्' इत्यतिरभसाकृष्टचेता महाजवतया तुरंगमस्य मुहूर्त मात्रेणैक पदमिवासहायस्त स्मात्प्रदेशात्पञ्चदशयोजनमात्र मध्वानं जगाम । तच्चानुबध्यमानमालो कयत एवास्य संमुखापतितमचलतुङ्गशिखर मारुरोह । आरूढे च तस्मिन्शनैः शनैस्तदनुसारिणीं निवर्स दृष्टिम्, अचलशिखर प्रस्तरप्रतिहतगतिप्रसरो विवृततुरंङ्गेश्चन्द्रापीड स्तस्मिन्काले . किरातानां भिल्लानां म्लेच्छानां वा सुवर्णपुर नाम निवासस्थानं जित्वा जयं कृत्वा जग्राह गृहीतवान् । कीदृशम् । पूर्वजलनिधेः पूर्वसमुद्रान्नातिविप्रकृष्टं नातिदूरम् । तत्र चेति । तस्मिन्स्थले निखिलं समग्रं यद्धरणीतलं पृथ्वीतलं तत्र पर्यटनं परिभ्रमणं तेन खिन्न॑स्य रीणस्य निजबलस्यात्मीय सैन्यस्य विश्रामहेतोः क्लान्ति निवृत्त्यर्थं कतिपयान्कियतो दिवसान्वासरानतिष्ठदवस्थानमकारयत् । एकदा विति । एकस्मिन्समये तंत्रस्थ एव तस्मिन्स्थाने स्थित एवेन्द्रायुधमश्वमारुह्यारोहणं कृत्वा मृगयार्थमा खेटकार्थं निर्गतः कानने वने विचरन्गच्छञ्शैलशिखरागिरिशृङ्गादवतीर्णमुत्तीर्ण यदृच्छया स्वेच्छया किंनरमिथुनं तुरवदन युग्ममद्राक्षीदवलोकयांचकार । अपूर्वतयाद्भुततया । तु पुनरर्थकः । समुपजातं समुपक्षं कुतूहलमाश्चर्यं यस्य सः । कृतेति । कृतो विहितो ग्रहणे स्वीकारेऽभिलाष इच्छाविशेषो येन सः । तदिति । तस्य किंनरमिथुनस्य समीपं पार्श्वमादराद्बहुमानादुपसर्पितस्तद्दिशं प्रति प्रेरितस्तुरगो वाहो येन स तथा समुपसर्पन्समीपे गच्छन् । अदृष्टेति । अदृष्टपूर्वमनवलोकितपूर्वं यत्पुरुषदर्शनं मानुषेक्षणं तस्माद्यस्त्रास आवस्मिकं भयं तेन प्रधावितं प्रकर्षेण प्रतिष्ठितं प्रस्थितं तत्किनरमिथुनं पलायमानं पलायनं कुर्वाणमनुसरन्ननुगच्छन् । अनेति । अनवरतं निरन्तरं यः पाणिप्रहारो हस्ताभिघातस्तेन द्विगुणीकृतो द्विभागाधिकीभूतो जवो वेगो यस्यैवंविधेनेन्द्रायुधेनाश्वेनैकाक्यसहायो बलसमूहात्सैन्यसंदोहान्निर्गत्य निर्गमनं कृत्वा सुदूरमतिविप्रकृष्टमनुससार पश्चाद्ययौ । अत्रेति । अत्रास्मिन्स्थले गृह्यते ग्रहणविषयीक्रियते । मयेति शेषः । इदं किंनरमिथुनं गृहीतम् । इदं गृहीतमिति पूर्वोक्तप्रकारेणातिरभसादतिवेगेनाकृष्टमाकर्षितं चेतो यस्य स तथा च । अथ च तुरंगमस्याश्वस्य महाजवतया महावेगतया मुहूर्तमात्रेण घटिकाद्वयेनैकपदमिवैकवारमिव । अत्र सादृश्य इवशब्दः । एक्वारसदृशमित्यर्थः । असहायोऽद्वितीयस्तस्मात्प्रदेशात्पञ्चदशयोजनमात्रं पञ्चदशयोजनपरिमितमध्वानं मार्ग जगाम ययौ । अस्य राज्ञस्तत्पूर्वोक्तमनुबध्यमान मनुबन्धविषयी क्रियमाणं किंनर मिथुनमालोकयत एव विलोकयत एव संमुखापतितमभिमुखागतम् । शिखर विशेषणम् । अचलतुङ्गशिखरं पर्वतोच्चसानुमाहरोहारोहणं चकार । आरूढेति । तस्मिन्किनरमिथुन आरूढे सति शनैः शनैमन्द मन्दं तदनुसारिणीं तत्पृष्ठगामिनीं दृष्टिं चक्षुः निवर्त्य निवर्तनविषयीकृत्य । अचलेति । अचलस्य पर्वतस्य शिखराणि सानूनि तेषां प्रस्तरा ग्रावाणस्तैः प्रतिहतः प्रतिरुद्धो गतिप्रसरो गमनप्रचारो यस्य सः । अत एव विधृतो गसनात्प्रतिषिद्धस्तुरङ्ग इन्द्रायुधाश्वो येनैवंविधश्चन्द्रापीडस्तस्मिन्काले तस्मिन्समये समुपारूढो टिप्प० - 1 परिश्रान्तस्येति सरलोऽर्थः । 2 अदृष्टपूर्वस्य पुरुषस्य दर्शनात् त्रास इत्युचितम् । पाठा० -- १ विप्रकृतम्. २ धरणि. ३ विनिर्गतः ४ काननम् ५ शिखरावतीर्णम् ६ अपूर्वदर्शनतया. ७ तुरङ्ग ८ समुपससर्प ९ पलायमानमनवरत १० पाणिप्रहार. ११ निजबल. १२ उपससार. १३ अत्र गृह्यतेऽत्र गृह्यते. १४ प्रस्तरशकल. १५ तुरंगम:. ३३ का० २५८ कादम्बरी । [ कथायाम्समुपारूढ S श्रमस्वेदार्द्रशरीरमिन्द्रायुधमात्मानं चावलोक्य क्षणमिव विचार्य स्वयमेव विह्याचिन्तयत् – 'किमिति निरर्थंकमयमात्मा मया शिशुनेवायासितः । किमनेन गृहीतेनागृहीतेन वा किंनरयुगलेन प्रयोजनम् । यदि गृहीतमिदं ततः किम्, अथ न गृहीतं ततोऽपि किम् । अहो मे मूर्खतायाः प्रकारः । अहो यत्किंचनकारितायामादरः । अहो निरर्थकव्यापारेष्वभिनिवेशः । अहो बालिशचरितेष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्य कर्तव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्यमुपपाद्यमानं नोपपन्नम् । राजधर्मः प्रवर्तितो न निष्पन्नः । गुर्वर्थ: प्रारब्धो न परिसमाप्तः । विजिगीषुव्यापार प्रयत्नो न सिद्धः । कस्मादहमाविष्ट इवोत्सृष्ट निजपरिवार एतावतीं भूमिमायातः । कस्माच्च मया निष्प्रयोजनमिदमनुसृतमश्वमुखद्वयमिति विचार्यमाणे सत्ययमात्मैव मे पर इव हासमुपजनयति । न जाने कियताध्वना विच्छिन्नमितो बलमनुयायि मे, महाजवो हीन्द्रायुधो निमेष॒मात्रेणातिदूरव्याप्तो यः श्रमस्वेदस्तेनार्द्र स्विन्नं शरीरं देहो यस्यैवंविधमिन्द्रायुधमात्मानं चावलोक्य निरीक्ष्य क्षणमिव क्षणसदृशं विचार्य विमर्शनं कृत्वा स्वयमेवात्मनैव विहस्य हास्यं विधायाचिन्तयञ्चिन्तितवान् । किमिति हेतोः । अयमात्मा मया शिशुनेव बालकेनेव निरर्थकं आयासितः प्रयासं प्रापितः । किमनेनेति । अनेन किंनर युगलेन किंनर मिथुनेन गृहीतेनागृहीतेन वा किं प्रयोजनं किं फलम् । यदीति चेदित्यर्थे । चेदिदं किंनरमिथुनं गृहीतं ततः किम् । न किमपीत्यर्थः । अथ न गृहीतं ततोऽपि किम् । न किमपीत्यर्थः । अहो इत्याश्चर्ये । मे मम मूर्खताया मूढतायाः प्रकारो भेदः । अहो इति । यत्किंचन करोतीत्येवंशीलो यत्किंचनकारी तस्य भाव स्तत्ता तस्यामादरो बहुमानः । अहो इति पूर्ववत् । निरर्थका निःप्रयोजना ये व्यापारास्तेष्वभिनिवेशो हठः । अहो इति पूर्ववत् । बालिशं निन्दितं चरितं चेष्टितं येषामेवंविधेषु कृत्येष्वासक्तिस्तन्मयत्वम् । कर्मधारयों वा । साध्विति । साधु शोभनं फलं यस्यैवंविधं कर्म क्रिया क्रियमाणं विधीयमानं वृथा जातं निष्फैलं जज्ञे । अवेति । अवश्यकर्तव्यावश्यकरणयोग्या क्रिया प्रस्तुता प्रारब्धा विफलीभूता निष्फलीभूता । सुहृदिति । सुहृत्कार्य मित्रकार्यमुपपाद्यमानं विधौयमानं नोपपन्नं न निष्पन्नम् । राजेति । राजधर्मो नीतिधर्मः प्रवर्तितः सर्वत्र विहितो न निष्पन्नो न सिद्धिं गतः । गुरोरर्थः पितुरर्थः प्रारब्धः प्रस्तुतो न परिसमाप्तो न परिपूर्णतां गतः । विजेतुमिच्छवो विजिगीषवस्तेषां व्यापारो व्यार्हतिस्तस्मिन्प्रयत्न उद्योगो न सिद्धो न निष्पन्नः । कुत एतन्न जातमिति पराभिप्रायमाशङ्ख्याह- कस्मादिति । कुतो हेतोरित्यर्थः । उत्तरं प्रदर्शयन्नाहअहमिति । अहमाविष्ट इव भूताभिभूत इवोत्सृष्ट उज्झितो निजपरिवारः स्वकीय परिच्छदो येनैवंभूतः । एतावतीमियत्प्रमाणां भूमिं वसुधामायात आगतः । कस्माद्धेतोः । मया निष्प्रयोजनं निरर्थकमिदमश्वमुखद्वयं किन्नरमिथुनमनुसृतमाश्रितमिति विचार्यमाणे सति विचिन्त्यमाने सत्ययमात्मैव स्वचेतन एव मे मम पर इवान्य इव हासं हास्यमुपजनयति निष्पादयति । न जाने नाकलयामि कियताध्वना कियन्मार्गेण विच्छिन्नं विच्छेदं प्राप्तमितो मत्सकाशाद्वलं सैन्यूमनुयाय्यनुगमनशीलमित्यर्थः । मे मम महाजवो महावेगः । हिं निश्चितम् । इन्द्रायुधो निमेषमात्रेण चक्षुषो निमीलनमात्रेणाति दूरमतिविप्रकृष्टमतिक्रामत्यतिक्रमणं . टिप्प० - 1 बालिशचरितेंषु मूढजनकर्तव्येष्वित्येवार्थ उचितः, किं बहुव्रीहिणा । 2 दिग्विजयो वृथाऽभवदित्यर्थः; :; इतः परावर्तनाभावेन तत्फलभोगासंभवात् । 3 दिग्विजयेन दुष्टनिग्रहण-शिष्टानुग्रहण. रूपा । 4 व्यवहृतिरित्याशयः । 5 मे अनुयायि ( बलम् ) इत्येवोचितम् । पाठा० - १ समारूढ. २ चालोक्य ३ अन्वचिन्तयत् ४ गृहीतम् ५ कर्तव्यक्रिया ६ व्यापार: ७ उत्सृज्य निजपरिवारम्; उत्कृष्टपरिवार एव ताक्तीम् . ८ यत्सत्यम्. ९ अन्वयायि. १० निमिष. किन्नरमिथुनाऽप्राप्तौ निर्वेदः ] पूर्वभागः । २५९ मैतिक्रामति । न चागच्छता मया तुरगवेगवशात्किन्नरमिथुने बैद्धदृष्टिनास्मिन्न विरलतरुशतशाखागुल्मलतासंतानगहने निरन्तरनिषेतितशुष्कपर्णाव कीर्णतले महावने पन्था निरूपितो येन प्रतिनिवृत्त्य यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनापि पेरिभ्रमता मया मर्त्यधर्मा कश्चिदासाद्यते यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया बहुशः कथ्यमानमुत्तरेण सुवर्णपुरं सीमन्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः परतो निर्मानुषमरण्यम्, तञ्चातिक्रम्य कैलासगिरिरिति । अयं च कैलासः । तदिदानीं प्रतिनिवृत्त्यैका किना स्वयमुत्प्रे क्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनु● भवितव्यं फलमात्मनैव' इत्यवधार्य वामकरतलचलितरश्मिपाशस्तुरंगमं व्यावर्तयामास । भगवान्भानुरधुना निवर्तिततुरंगमञ्च पुनश्चिन्तितवान् – 'अयमुद्भासितप्रभाभास्वरो दिवसश्रियो रशनामणिरिव मध्यम लंकरोति । परिश्रान्तश्चायमिन्द्रायुधः । तदेनं तावदागृहीतक करोति । न चेति । अस्मिन्महावने महाविपिन आगच्छतागमनं कुर्वता मया पन्था मार्गों न च निरूपितो न ज्ञातः । कस्मात् । तुरगस्येन्द्रायुधस्य यो वेगो रयस्तद्वशात्तदनुरोधात् । कीदृशेन मया । बद्धेति । तस्मिन्किनर मिथुने बद्धा स्थापिता दृष्टिर्येन स तथा तेन । अथ वनं विशेषयन्नाह – अविरलेति । अविरलानि निविडानि । अन्योन्य संबद्धानीत्यर्थः । यानि तरुशतानि वृक्षशतानि, शाखाः स्कन्धशाखाः, गुल्मा विटपाः, लताः, शाखाभ्यः प्रादुर्भूताः शाखाः, एतेषां संतानं परम्परा तेन गहने कलिले । निरेति । निरन्तरं प्रत्यहं निपतितानि सस्तानि यानि शुष्कपर्णानि शुष्कपत्राणि तैरवकीर्णं व्याप्तं तलमधोभागो यस्य तैस्मिन् । येन पथा प्रतिनिवृत्त्य व्याघुट्य यास्यामि गमिष्यामि । न चेति । अस्मिन्प्रदेशे प्रयत्नेनाप्युद्योगेनापि परिभ्रमता परिभ्रमणं कुर्वता मया कश्चित् मर्त्यधर्मा मनुष्यो न चासायते न प्राप्यते यः पुमान्सुवर्णपुरगामिनं पन्थानं मार्गमुपदेक्ष्यत्युपदेशं करिष्यति । मया बहुशोऽनेकवारं कथ्यमानं प्रतिपाद्यमानम् । जनैरिति शेषः । श्रुतमाकर्णितमुत्तरेण सुवर्णपुरम् । तद्विशेषयन्नाह - सर्वेति । सर्वजनपदानां समग्रदेशानां पृथिव्या वसुधायाः सीमन्तलेखा सीमन्तः केशवेशस्तस्य लेखेव लेखा । ततः परतोऽग्रतो निर्मानुषं मनुष्यरहितमरण्यं काननम् । तदरण्यमतिक्रम्योलङ्घ्य कैलासगिरिरिति । अयं चेति । अयं प्रत्यक्षः कैलासः । तदिदानीं प्रतिनिवृत्त्य व्याघुट्यैकाकिना मया स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य विलोक्य विलोक्य दक्षिणामपाचीं आशां दिशं केवलमङ्गीकृत्य स्वीकृत्य गन्तव्यं गमनीयम् । आत्मना कृतानां स्वयमाचरितानां दोषाणां दुष्कर्मणां नियतं निश्चितं फलमात्मनैव स्वयमेवानुभवितव्यमनुभवविषयीकर्तव्यम् । इत्यवधार्येति निश्चित्य । वामेति । वामकरतलेन सव्यपाणितलेन चलितः कम्पितो रश्मिपाशः खलीनं येन स तुरंगममिन्द्रायुधं •व्यावर्तयामास निवर्तयामास । निवर्तिततुरंगमश्चेति । निवर्तितः पश्चाद्वलितस्तुरंगम इन्द्रायुधो येनैवंभूतः पुनस्तदनन्तरं चिन्तित वान्ध्यातवान् । तदेव दर्शयति - अधुनेति । अधुना सांप्रतमयमुद्भासितातिप्रकटीभूता या प्रभा कान्तिस्तया भास्वरः शोभमानो यो भगवानैश्वर्यवान्भानुः सूर्यो दिवसत्रियो वासरलक्ष्म्या रशनामणिरिव मेखलारत्नमिव मध्यमवलनम् । सूर्यपक्षे मध्यं मध्यभागम् । अलंकरोति विभूषयति । परिश्रान्तः खिन्नश्चायमिन्द्रायुधः । तत्तावदादावेनमश्वम् । आगृहीतेति । आगृहीता आत्ताः कतिपये कियन्तो दूर्वायाः शतपर्वायाः प्रवालकवलाः टिप्प० -- 1 अनेन हि घोटकपदचिह्नदर्शनेन परावर्तनमध्यसंभवमिति सूचितम् । 2 सुवर्णपुरम् उत्तरेण सुवर्णपुरादुत्तर दिशि, इत्यन्वयो योग्यः । 'एनपा द्वितीया' इति एनप्योगे द्वितीया । 3 अन्नाप्यन्वये आन्तष्टीकाकारः । पृथिव्याः सर्वजनपदानां (लोक निवासस्थानानाम्) सीमान्तलेखा अवधिः । इत्यन्वयः । 4 इदमज्ञानम् । 5 वलित इत्येव पाठः । परावर्तनार्थं तिर्यकृत्य धृत इति तदर्थः । पाठा० •१ अपचक्राम. २ निबद्ध ३ तस्मिन् ४ पतित ५ परिभ्रमता मर्त्यधर्मा ६ वलित ७ व्यावर्तित• तुरङ्गश्च. ८ नभस्तलमध्यम्, कादम्बरी । [ कथायाम्तिपयदूर्वाप्रवालकवलं कस्मिंश्चित्सरसि शिलाप्रस्रवणे वा सरिदम्भसि वा स्नातपीतोदकमपनीतश्रमं कृत्वा स्वयं च सलिलं पीत्वा कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य ततो गमिघ्यामि' इति चिन्तयित्वा सलिलमन्वेषमाणो मुहुर्मुहुरितस्ततो दत्तदृष्टिः पर्यटन्नलिनीजलाबगाहोत्थितस्याचिंरादपक्रान्तस्य महतो गिरिचरस्य वनगजयूथस्य चरणोत्थापितैः पङ्कपटलैराद्रकृतम्, करावकृष्ठैश्च समृणालमूलनालै : कमलकलापैः कल्माषितम्, आर्द्रार्द्रैश्च शैवलप्रवाल : श्यामलितोद्देशम् उद्दलितैश्च कुँमुदकुवलयकहारकुडालैरन्तरान्तरा विच्छुरितम्, उत्खातैश्च सकर्दमैः शालूककन्दैराकीर्णम्, आखण्डितैश्च कुसुमस्तनकसोरैर्वनपल्लवैराच्छादितम्, आलूनाभिश्च कुँसुमोपविष्टोल्लसत्षट्पदाभिर्वनलताभिराकुलितम्, अभिनवकुसुमपरिमलवाहिना च तमालपल्लवसरेंसश्यामेन मैदजलेन सर्वतः सिक्तं मार्गमद्राक्षीत् । उपजातजलाशयशङ्कच तं प्रतीपमनुसर मुद्रीबहश्यैरुप रिच्छन्त्रमण्डलाकारैः सरलसाल२६० १ पल्लवग्रासा येन स तम् । कस्मिंश्चिदनिर्दिष्टनाम्नि सरसि कासारे शिलाप्रस्रवणे वा निर्झरे वा सरिदम्भसि वा नदीजले वा । स्नात इति । पूर्वं स्नातः पश्चात्पीतमुदकं येन स तम् । अत एवापनीतश्रमं दूरीभूतक्लमं कृत्वा विधाय स्वयं च सलिलं पानीयं पीत्वा पानं कृत्वा कस्यचित्तरोरनिर्दिष्टनाम्नो वृक्षस्याधरछायायां मुहूर्तमात्रं विश्रय विश्रामं गृहीत्वा ततः पश्चाद्गमिष्यामि गमनं करिष्यामि । इति पूर्वोक्तं चिन्तयित्वा ध्यात्वा सलिलमम्भोऽन्वेषमाणो गवेषमाणो मुहुर्मुहुर्वारंवारमितस्ततो दत्ता दृष्टिर्येनैवंभूतः पर्यटन्परिभ्रमन्मार्गमध्वानमद्राक्षीदपश्यदित्यन्वयः ॥ अथ मार्ग विशेषयन्नाह - नलिनीति । नलिनी कमलिनी तया संयुक्तं जलं नलिनीजलं तस्यावगाह आलोडनं तस्मादुत्थितस्य निःसृतस्याचिरात्स्वल्पकालादपत्रान्तस्य पश्चाद्वलितस्य महतो महीयसो गिरिचरस्य पर्वतचारिणो वनगजयूथस्य हस्तिसमूहस्य चरणोत्थापितैः क्रमोद्भूतैः पङ्कपटलैः कर्दमसमूहैराकृतं समुन्नीकृतम् । तथा करावकृष्टैः करैः शुण्डादण्डैरवकृष्टैराकर्षितैर्मृणाला बिसमूलानि च नालानि च तैः सहवर्तमानैः कमलकलापैः कल्माषितं चित्रवदाचरितमार्द्राणि चार्द्राणि चार्द्रार्द्राणि तैः शैवलप्रवालैर्जलशुककिसलयैः श्यामलितः कृष्णीभूत उद्देशः प्रदेशो यस्य स तम् । उद्दलितैरवकृष्टैः कुमुदं श्वेतोत्पलम्, कुवलयं कुवेलम्, कहारं सौगन्धिकम् तस्य कुमालानि मुकुलानि तैरन्तरान्तरा मध्ये मध्ये विच्छुरितं व्याप्तम् । उत्खातैरुत्पाटितैः सकर्दमैः सह पङ्केन वर्तमानैः शालुककन्दैरुत्पलानां कन्दैः । 'उत्पलानां तु शालूकम्' इति कोशः । आकीर्णं व्याप्तम् । आ समन्तात्खण्डितैश्छिन्नैः कुसुमानां पुष्पाणां स्तबकैर्गुच्छकैः सारैः प्रधानैर्वनपल्लवैररण्य किसलयैराच्छादितमावृतम् । आलूनाभिश्छिन्नाभिः कुसुमोपविष्टाः पुष्पमध्यवर्तिन उल्लसन्तो दीप्यमानाः षट्पदा भ्रमरा यास्वेवंविधाभिर्वनलताभिररण्यव्रततिभिराकुलितमाकीर्णम् । अभिनवेति । अभिनवः प्रत्यग्रो यः कुसुमपरिमलः पुष्पगन्धस्तद्वाहिना । तमालस्तापिच्छस्तस्य पल्लवाः किसलयास्तद्वत्सरसश्यामेन मदजलेन दानवारिणा सर्वतो विष्वविसक्तं सिञ्चितम् । अन्वयस्तु प्रागेवोक्तः । > । उपजातेति । उपजाता समुत्पन्ना जलाशयस्य जलाधारस्य शङ्कारेका यस्य स तथा तं मार्ग प्रतीपमभिमुखमनुसरन्ननुगच्छन् । उद्धीवैरूर्ध्वकंधरैः पुरुषैर्दृश्यैर्द्रष्टुं योग्यैरुपरि प्रान्ते छत्रमण्डलस्यातपवारणवलयस्याकारो येषां तैः छत्राकारैरित्यर्थः । सरलेति । सरैला अवका: साला वृक्षविशेषाः सल्लक्यो गजप्रियास्ता एव टिप्प० - 1 चरणद्वारा उत्थापितैः (ऊर्ध्व नीतैः ) इत्यर्थं उचितः । 2 ग्राम्यप्रियोयं पाठः । 'कुसुमस्तबकशारैः' इत्येवोचितः पाठः । कुसुमगुच्छ विचित्रैः, इति तदर्थः । 3 एतन्नामका वृक्षाः । पाठा०—१ अन्विषमाणः, अन्विष्यन्; अन्वेषयन्. २ अपक्रान्तस्य च ३ अतिमहता. ४ गिरिचरस्य चरण. ५ उत्सारितैः; उत्तारितैः .. ६ करिकलभकरावकृष्टैश्च मृणालनालैः ७ कमलकुमुद. ८ खण्डितैश्च ९ शारै: १० उपविष्टनि॰िपष्टोच्छ्रसत् ; उपविष्टनिष्पिष्टोच्छ्रसित; उपविष्टनिष्पिष्टोद्धमत्. ११ बकुलकुसुम १२ रसश्यामेन. १३ मदजलेन सिक्तम्. १४ उपजातजलाशङ्कश्च. १५ उद्दैव. जलान्वेषणम् ] पूर्वभागः । २६१ सल्लकी प्रायैर विरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपेतेन, स्थूलकपिलवाल केन, शिलाबहुलतया बिरलतृणोलपेन, वनद्विपदशनदलितमनःशिलाधूलि कपिलेन, आभ ङ्गिनीभिरुत्कीर्णाभिरिव पत्रभङ्गकुटिलाभिः पाषाणभेदकमञ्जरीभिर्जटिलीकृतशिलान्तरालेन, अनवरतगलगुग्गुलुगुमद्रवाकृतहषदा, शिखरस्स्रुतशिलाजतुरसपिच्छिलोपलेन, टैङ्कनहयखुरख ण्डित हरितालक्षोदपांसुलेन, आखुनखरोत्खात बिलाव कीर्णकाञ्चनचूर्णेन, सिकतानिमग्नचैमरक कस्तूरिकामृगीखुरपकिना, संशीर्णङ्करलकरोमप्रकरनिचितेन विषमशिलाच्छेदोपविष्टजीवंजीवकयुगलेन, वनमानुष मिथुनाध्यासिततटगुहा मुखेन, गन्धपाषाणपरिमलामोदिना, वेत्रलताप्रतानप्ररूढवेणुना, कैलासतलेन कंचिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागे जलभारौलसं जलधरव्यूहमिव बहुलक्षपान्धकारमिव पुञ्जीकृतमत्यायतं तैरुखण्ड । प्रायो बाहुल्येन येष्वेवंविधैरविरलैर्निबिडैरपि निःशाखतया स्कन्धशाखारहित्यतया विरलैरिवानिबिडैरिवोपलक्ष्यमाणैर्दृश्यमानैः पादपैर्वृक्षैरुपेतेन सहितेन । तथा• स्थूला स्थविष्टा कपिला पिङ्गला वालुका सिकता यस्मिंस्तेन । शिलानां बहुलता तया विरलानि स्तोकानि तृणान्युलपाश्च वल्लयो यस्मिंस्तत्तेन । वनेति । वनद्विपानामरण्यदन्तिनां दशनैर्दन्तैर्दलिता मर्दिता या मनःशिला मनोगुप्ता तस्या धूली रेणुस्तया कपिलेन पीतरक्तेन । आ समन्ताद्भङ्गिनीभिर्द्विधाभवनशीलाभिरुत्कीर्णाभिरिवोत्कीर्य कर्षिताभिरिव । पत्रभङ्गः पत्रवली तद्वत्कुटिलाभिर्वक्राभिः पाषाणभेदकनाम्यो या मञ्जय वल्लर्यस्ताभिरजटिलं जटिलं क्रियत इति जटिलीकृतं शिलयोरन्तरालं मध्यभागो यस्य तत्तेन । तथानवरतं निरन्तरं गलन्तः सवन्तो ये गुग्गुलुद्रुमाः पलङ्कषवृक्षास्तेषां द्रवो रसस्तेनाद्रकृतानि दृषन्ति प्रस्तरा यस्मिंस्तत्तेन । तथा शिखरेभ्यः सानुभ्यः स्रुतभ्युतो यः शिलाजतुरसो गिरिजद्रवरतेन पिच्छिला विजिला उपला यस्मिंस्तत्तेन । टङ्कनेति । टङ्कनं प्रस्तरदारकं तल्लक्षणो यो हयखुरोऽश्वशफस्तेन खण्डितं शकलीकृतं यद्धरितालं गोदन्तं तस्य क्षोदचूर्णं तेन पांसुलेन पांसुयुक्तेन । तथाखूनां वृषाणां नखरैर्नखैरुत्खातान्यतिखनितानि यानि बिलानि विवराणि तेभ्योऽवकीर्णमवध्वस्तं काञ्चनचूर्ण सुवर्णक्षोदो यस्मिस्तत्तेन । तथा सिकतासु वालुकासु निमग्ना बुडिताश्चमरकाश्चमर्यः, कस्तूरिकामृग्यो नेपालदेशप्रसिद्धाः, तेषां खुरपङ्कयो यस्मिंस्तत्तेन । तथा संशीर्णो विगलितो रङ्कुमृगविशेषः, रल्लैक उरभ्रः, एतयोर्यो रोमप्रकरस्तनूरुहस मूहस्तेन निचितेन व्याप्तेन । तथा विषमा असमा ये शिलाच्छेदास्तत्रोपविष्टान्यासीनानि जीवंजीवकयुगलानि विषदर्शन॒मृत्युकयुग्मानि यस्मिंस्तत्तेन । मयूराकृतयः पक्षिविशेषा जीवंजीवकाः । ते च दक्षिणदेश एतन्नाम्नैव प्रसिद्धाः । वनेति । वनमानुषमिथुनैर्मनुष्याकृतिसदृशाका रैर्वनचारिविशेषैरभ्यासितान्याश्रितानि तटगुहा मुखानि यस्मिंस्तत्तेन । गन्धपाषाण: सुगन्धद्रव्यविशेषस्तस्य परिमलो विमर्दजनितो गन्धो विद्यते यस्मिंस्तत्तेन॒ । तथा वेत्रलता वेत्रवत्र्यस्तासां प्रताने शाखापत्र प्रचये प्ररूढा उद्गता वेणवो वंशा यस्मिंस्तत्तेन । एवंविधेन कैलासत • लेन रजतायधोभागेन कंचित्कियन्मात्रमध्वानं पन्थानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भाग ईशान्यामत्यायतमतिविस्तीर्ण तरुखण्डं वृक्षसमूहं ददर्शावलोकयामास । जलभारेण पानीयवीवधेनालसं मन्थरम् । कृष्णत्वसाम्यादाह — जलेति । जलधरा मेघास्तेषां व्यूहमिव समूहमिव । बहुलेति । बहुल: कृष्णपक्षस्तस्य टिप्प० -1 'लता प्रतानिनी वीरुद् गुल्मिन्युलप इत्यपि इत्यमरः । 2 आा ( समन्तात् ) भङ्गो ( विविधभङ्गी ) स्ति यासां ताभिरित्यर्थः । 3 उन्दुरूणामित्यर्थः । 4 मृगविशेषः । 5 चकोरपक्षिणः, 'जीवंजीव: खगान्तरे । द्रुमभेदे चकोरे च ' इति हेमः । 6 गन्धक इति केचित् । पाठा० - १ शिलातल २ पाषाणभङ्ग ३ शिलान्तरेण ४ पिच्छिल ५ टङ्कनखरखुर. ६ बिलविप्रकीर्ण, ७ चमरकस्तूरिका. ८ संकीर्णजीर्णरङ्क; संकीर्णशङ्क; संकीर्णजीर्णरल्लक ९ प्रतानवता प्ररूद. १० अलसजलधर, ११ बहुलपक्षक्षपया. १२ विविधतरुखण्डम्. कादम्बरी । [ कथायाम्२६२ ददर्श । तच्च संमुखागतेन कुसुमरज : कषायामोदिना जलसंसर्गशिशिरेण शीकरिणा चन्दैनइससमस्पर्शेनालिङ्ग्यमान इव जलतरङ्गमारुतेनं कमलमधुपानमत्तानां च श्रोत्रहारिभिः कलहंसानां कोलाहलैराहूयमान इव विवेश । प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः, स्फटिकभूमिगृहमिव वसुंधरादेव्याः, जलनिर्गमनमार्गमिव सागराणाम्, निस्यन्दमिव दिशाम्, अंशावतारमिव गगनतलस्य, कैलासमिव द्रवतामापन्नम्, तुषारगिरिमिव विलीनम्, चन्द्रातप मिव रसतामुपेतम्, हरागृहासमिव जलीभूतम् त्रिभुवनपुण्यराशिमिव सरोरूपेणावस्थितम्, वैडूर्यगिरिजालमिव सलिलाकारेण परिणतम्, शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्यन्दि." , क्षपा रात्रिस्तस्याः पुञ्जीकृतं राशीकृतमन्धकारमिव ध्वान्तमिव । अत्र जलान्धकारयोर्नीलगुणसंबन्धात्साम्यं प्रदर्शितम् । तच्चति । तत्पूर्वोक्ततरुखण्डं विवेश प्रवेशं चकारेत्यन्वयः । किं क्रियमाणः । संमुखागतेनाभिमुखायातेन जलतरङ्गमारुतेन पानीयवीचिसमीरणेनालिङ्ग्यमान इवाश्लिष्यमाण इव । अथ वायुं विशिष्ट-कुसुमेति । कुसुमरजसां पुष्परागाणां कषायस्तुवर आमोदो मुखवासनो विद्यते यस्मिन्स तेन । जलेति । जलस्य पानीयस्य संसर्ग: संबन्धस्तेन शिशिरः शीतलस्तेन । शीकरो वातास्तं वारि विद्यते यस्मिन्स तेन । 'अत्रास्त्यर्थे इन् । चन्दनेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य समः सदृशः स्पर्शो यस्य स तेन । कमलस्य नलिनस्य मधु रसस्तस्य पानमास्वादरतेन मत्तानामुत्कटानां कलहंसानां कादम्बानां श्रोत्रहारिभिः कर्ण रुचिरैः कोलाहलैः कलकलैराहूयमान इवाह्वानविषयी क्रियमाण इव । । तस्य तरुखण्डस्य मध्यभागेऽन्तरालप्रदेशे प्रविश्य च प्रवेशं कृत्वाच्छोदं नाम यस्यैवंभूतं सरः कासारं दृष्टवानालोकितवान् । अथ सरो विशेषयन्नाह - मणीति । त्रैलोक्यलक्ष्पास्त्रिभुवनश्रियो मणिदर्पणमिव रत्नादर्शमिव । वसुंधरादेव्याः रत्नगर्भादेव्याः स्फटिकभूमिगृहमिव स्फटिकहर्म्यमिव । सागराणां समुद्राणां जलनिर्गमनमार्गमिव वारिबहिर्गमनपन्थानमिव । दिशां ककुभां निस्यन्दैमित्र रसक्षरणमिव । गगनतलस्य व्योमतलस्य शावतारमिव तदंशेनावतीर्णमिव । निर्मलश्वेतरूपत्वादाह — कैलासेति । कैलासमिव रजताद्रिमिव । एतस्य पाषाणमयत्वात्सरसश्च द्रवरूपतया साम्यं न संभवतीत्यत आह - द्रवेति । द्रवतां रसतामापनं प्राप्तम् । हिमजलवत्त्वादाह — तुषारेति । तुषारगिरिमिव हिमाचलमिव । तस्य दृढत्वान्नोपमानत्वमित्यत आह विलीति । विलीनम् विद्रुतमित्यर्थः । अमृतमयत्वादाह - चन्द्रेति । चन्द्रस्य शशिन आतपमिव प्रकाशमिव । तस्य तेजोरूपत्वान्न साम्यमित्याह - रसेति । रसतां जलतामुपेतं प्राप्तम् । विषवत्त्वसाम्यादाहहरेति । हरस्येश्वरस्य योऽट्टहासो महाहासस्तमिव । तस्य क्रियारूपत्वात्साम्यं न स्यादित्याशयेनाह – जलीति । जलीभूतमिव डलयोरैक्याज्जडीभूतमिव सुखजनकत्वसाम्यादाह - त्रिभिवति । त्रिभुवनस्य त्रिविष्टस्य पुण्यराशिमिव श्रेयः समूहमिव । अस्यामूर्त्वान्न साम्यमित्याशयेनाह- - सर इति । सरोरूपेण कासाररूपेणाव: स्थितम् । कृतावस्थानमित्यर्थः । नीलत्वसाम्यादाह — वैड्डिति । वैडूर्यं बालवायजं तन्मयं गिरिजालमिव । अतिकठिनत्वात्तत्तुल्यतानुपपत्तेराह - सलिलेति । सलिलाकारेण जलाकारेण परिणतं तद्रूपतामापन्नम् । उज्वलत्वसाम्यांदाह - शरद इति । शरत्कालीनं घनात्ययसमयसंभवं यदभ्रवृन्दं मेघपटलं तदिव । एतस्याकाशस्थत्वात्तत्साम्यानुपपत्तेराह - द्रवीति । द्रवीभूय रसीभूयैकत्र स्थले निस्यन्दितं निर्गलितम् । स्वच्छटिप्प० - 1 निर्गमनपथमिवेति तात्पर्यम् । 2 अतिनिर्मलत्वात्सेयमुत्प्रेक्षा । एवमप्रेऽपि । पाठा० - १ तं च. २ संमुखादागतेन. ३ कुमुद. ४ शिशिरशीकरिणा ५ रसस्पर्शन. ६ प्रविवेश ७ वसुधादेव्या निर्गमन, ८ अवतारभिव चलाकारं गगन; अंशावतारं जलाकारं गगन. अच्छोदसरः ] पूर्वभागः । २६३ तम्, आदर्शमिव प्रचेतसः, स्वच्छतया मुनिमनोभिरिव सज्जनगुणैरिव हरिणलोचनप्रभा भिरिव मुक्ताफलांशुभिरिव रिक्तमिवोपलक्ष्यमाणम्, निर्मितम् आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्टसकलवृत्तान्ततया अनिलोडूंतजलतरङ्गसीकरधूलिजन्मभिः सर्वतः संस्थितः संरक्ष्यमाणमिवेन्द्र चापसहस्रैः, प्रतिमा निभेनान्तः प्रविष्टसर्जेंलचर कान नशैलनक्षत्रग्रहचक्रवालं त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव विभ्राणम् आसन्नकैलासावतीर्णस्य च १ 3 प्रतिबिम्बसंक्रान्तिसाम्येनाह - आदर्शति । प्रचेतसो वरुणस्यादर्शमिव मुकुरमिव । खच्छतैया उपमानान्तराण्याह – मुनिरित्यादि । मुनीनां वाचंयमानां मनोभिश्चितैरिव सज्जनानामाप्तानां गुणैः शौर्यादिभिरिव, हरिणानां मृगाणां लोचनप्रभाभित्रकान्तिभिरिव, मुक्ताफलानां रसोद्भवानामंशुभिः किरणैरिव निर्मितं निष्पादितम् । चतुर्ध्वप्यति निर्मलत्वमेव नियामकमुत्प्रेक्षायाम् । पुनः कीदृशमिवोपलक्ष्यमाणमित्याह – रिक्तमिति । रिक्तमिव शून्यमिव । तत्र हेतुमाह - अन्तरिति । अन्तर्मध्ये स्पष्टं प्रकटं यथा स्यात्तथा दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो यस्य तस्य भावस्तत्ता तया । तर्हि रिक्तमेव भविष्यतीत्याशयेनाह - आपूर्णेति । विचित्रत्वम् । एतद्वयमादायैवोत्प्रेक्षते - इन्द्रेति । इन्द्रचापसहस्रैरराखण्डलधनुः सहस्रैः संरक्ष्यमाणमिव त्राय माणमिव । एतदेव विशेषयन्नाह – अनिलेति । अनिलेन वायुनोद्धता उत्क्षिप्ता ये जलतरङ्गाः पानीयकलोलास्तेषां सीकर धूलयस्ताभ्यां जन्मोत्पत्तिर्येषां तैः । कीदृशैः । सर्वतः समन्तात्संस्थितैः कृतावस्थानैः । अत्र कल्लोलानां वक्रत्वात्सीकरधूलीनामपि तदवस्थत्वाच्च शैऋचापोपमानम् । पुनः सरो विशेषयन्नाह – उद्भि नेति । उद्भिन्नानि विकसितानि पङ्कजानि कमलानि यस्मिन्नेव॑विधेनोदरेण मध्येन । यपक्ष उन्निद्रं पङ्कजं नाभिकमलं यस्मिन्नेवंभूतेनोदरेण जठरेण नारायणमिव कृष्णमिवै त्रिभुवनं त्रिविष्टपं बिभ्राणं दधानम् । अत्र त्रिभुवनं विशेषयन्नाह - प्रतिमेति । प्रतिमा प्रतिबिम्बं तस्य मिषेण व्याजेनान्तः प्रविष्टं मध्यप्रविष्टं सह जलचरेण नकचकादिना वर्तमानं यत्काननं वनम्, शैलोऽद्रिः, नक्षत्राणि ऋक्षाणि, ग्रहा मङ्गलादयः, तेषां चक्रवालं समूहो यस्मिंस्तत्तथा । पुनस्तदेव विशेषयन्नाह - आसनेति । आसन्नः समीप वर्ती यः कैलासो रजताद्रिस्तस्मादवतीर्णस्योत्तरितस्य शतशः शतवारं भगवतो माहात्म्यवतः खण्डपरशोरीश्वरस्य मज्जनोन्मज्जनाभ्यां प्रतीताभ्यां यः क्षोभचिंत्तचाञ्चल्यं तेन चलितः कम्पितो यश्चूडामणिभूतश्चन्द्रखण्ड, टिप्प० - 1 इदमध्यज्ञानम् । 'मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः' इति पूर्वमुक्ततया 'आदर्शभवनमिध इत्येव पाठः । आदर्शभवनं दर्पणमयं गृहमिति तदर्थः । 2 इदमपि टीकाकृतोऽनभिज्ञत्वसूचकम् । 'आदर्शभवनमिव प्रचेतसः' एतावत्पर्यन्तमुत्प्रेक्षाप्रक्रमो यः प्रचलितस्तदनुसारमन्त्र प्रकारपार्थक्यम् । 'स्वच्छतया' इति निमित्तेन मुनिमनउपादानक निर्माणस्योत्प्रेक्षा ( अच्छोदसरसि ) इति पृथगुत्प्रेक्षा । एवं सज्जनगुणादिष्वपि । इति चतसृणामुत्प्रेक्षाणां संसृष्टि, परस्परं निरपेक्षत्वात् । 3 आप्तानां सत्य- दयाऽऽर्जवादिगुणान् विहाय शौर्योपरि दृष्टिर्धन्यतैव टीकाकृतः । 4 इदमप्यज्ञानम् । उच्छलितेषु जलक्षोदेषु सूर्यकिरणपातेन इन्द्रधनुष इव नानावर्णानां दृश्यमानत्वमित्याशयः । 5 नारायणमिव त्रिभुवनं बिभ्रा•णमिति टीकाकृतोक्षराणि भृशं भ्रामकाणीति उद्भिन्नपङ्कजेनोदरेण त्रिभुवनं बिभ्राणम् अत एव नारायणमिव स्थितमिति सरलोऽन्वयः । व्याख्या तु टीकातो दृश्या । सरःपक्षे प्रतिबिम्बव्याजेन सकाननादेखिभुवनस्य धारणम्, नारायणस्तु बीजरूपेण स्थितं त्रिभुवनं स्वोदरे धारयत्येवेति तदाशयः । 6 चि त्तचाञ्चल्यं किं टीकाकारस्य ? अस्तु । मज्जनोन्मजनाभ्यां यः क्षोभः संचलनं ( चन्द्रखण्डस्य ) तेम चलितात् चूडामणिरूपात् चन्द्रखण्डात् गलितेन, इति स्फुटोऽर्थः । > पाठा -१ आदर्शभवनमिव; आदर्शभुवनमिव २ समुपस्थितैः ३ प्रविष्टम् ४ सकानन; संकलकानन. SONDER 9 २६४ कादम्बरी । शतशो भगवतः खण्डपरशोर्मजनोन्मज्जनक्षोभचलित [ कथायाम्जलक्षालितवामार्धकपोलगलितलावण्यप्रवाहानुकारिणा चूडामणिचन्द्रखण्डच्युतेनामृतरसेन मिश्रितजलम्, उपकूलतमालवनसलिलप्रदेशैगंभीरतरम्, दिवाप्यु प्रतिबिम्बान्धकारिताभ्यन्तरैर्दृश्यमानरसातलद्वारैरिव पजातनिशाशङ्कुश्चक्रवाक मिथुनैः परिहियमाणनीलोत्पलवनगहनम् असकृत्पितामहपरिपे्ररितकमण्डलुपैरिपूतजलम्, अनेकशो वालखिल्यकदम्बककृतसंध्योपासनम्, बहुशः सलिलावतीर्णसावित्रीभग्नदेवार्चनर्कमलसहस्रम् सहस्रशः सप्तर्षिमण्डलस्नानपवित्रीकृतम्, सर्वदा सिद्धवधूधौत कल्पलतावल्कलपुण्योदकम्, उदकक्रीडादोहदागतानां च गुह्यकेश्वरान्तः पुरकामिनीनां मकरकेतुचापचक्राकृतिभिरतिविक टैरावर्तिभिर्नाभिमण्डलैरापीतसलिलम्, , स्तस्माच्युतेन सस्तेनामृतरसेन पीयूषद्रवेण मिश्रितमेकीभूतं जलं पानीयं यस्य तत्तथा । अथ पीयूषरसं विशेषयन्नाह – जलेति । जलेन क्षालितौ धौतौ यो वामार्धकपोलो पार्वतीगलात्परप्रदेशौ ताभ्यां गलितं च्युतं यनावण्यं सौन्दर्यं तस्य य: प्रवाहो रयस्तस्यानुकारिणा । तत्सदृशेनेत्यर्थः । उपेति । उपकूल उपकण्ठे यत्तमालवनं तापिच्छवनं तस्य प्रतिबिम्बः प्रतिच्छाया तेनान्धकारवदाचरितान्यभ्यन्तराणि मध्यप्रदेशा येषां । अत्रान्धकारिताभ्यन्तरत्वसाम्येनोत्प्रेक्षते - दृश्यमानेति । दृश्यमानरैसातलद्वारैरिव वीक्ष्यमाणवडवामुखप्रतीहारैरिव । एवंभूतैः सलिल प्रदेशैः पानीयस्थलैर्गभीरतरं गम्भीरतरम् अत एव पूर्वोक्तसाम्या देवाह - दिवापीति । दिवापि दिवसेऽप्युपजाता समुत्पन्ना निशायास्त्रियामायाः शङ्कारेका येषां तैश्चक्रबाकमिथुनैः कोकद्वन्द्वैः परि सामस्त्येन ह्रियमाणं त्यज्यमानं यन्नीलोत्पलवनमिन्दीवरखण्डं तेन गहनं निबिडम् । असकृदिति । असकृन्निरन्तरं पितामहेन ब्रह्मणा परिपूरितो भृतो यः कमण्डलुः कुण्डिका तेन परि सामस्त्येन पूतं पावनं जालं जीवनं यस्य तत्तथा । अनेकश इति । अनेकशो वारंवारं वालखिल्याः सूर्यपुरःसरा मुनयस्तेषां कदम्बकं समूहस्तेन कृतं विहितं संध्योपासनं संध्यावन्दनं यस्मिंस्तत्तथा । बहुश इति । अनेकशः सलिले जलेऽवतीर्णोत्तीर्णा या सावित्री हुताशनपत्नी तया भग्नमुन्मूलितं देवार्चनार्थ कमलानां नलिनानां सहस्रं यस्मिंस्तत् । सहस्रश इति । सहस्रवारं सप्तर्षीणां मरीचिप्रभृतीनां मण्डलं समूहस्तस्य स्नानमाप्लवस्तेन पवित्रीकृतं पावनीकृतम् । सर्वदेति । सर्वदा सर्वकालं सिद्धवधूभिः सिद्धाङ्गनाभिर्धीतानि क्षालितानि यानि कल्पलताया मन्दारव्रतत्या वल्कलानि चोचानि तैः पुण्यानि पवित्राण्युदकानि जलानि यस्मिंस्तत्तथा । उदकेति । उदकस्य जलस्य या क्रीडा केलिस्तस्या दोहदोऽभि लाषस्तेनागतानां प्राप्तानां गुह्यकेश्वरस्य कुबेरस्यान्तःपुरका मिनीनामवरोधस्त्रीणां मकरकेतुः कंदर्पस्तस्य चापचक्रमारोपितं धनुस्तद्वदाकृतिराकारो येषां तैरतिविकटैरतिविपुलैरावर्ता विद्यन्ते येषु तैरावर्तिभिः । एवंभूतैर्नाभिमण्डलैस्तुन्दकूपिका समूहैरापीतं ग्रस्तं सलिलं जलं यस्य तत्तथा । इदं च नाभिपर्यन्तटिप्प० -1 एकवचनमेव ग्रन्थानुकूलम् । 2 दृश्यमानं रसातलस्य द्वारं येषु तैरिव स्थितैः । अन्धकारमाहात्म्यादस्य सलिलप्रदेशा अतीव निम्रतरा अत एव रसातलस्य द्वारमपि ( यद्धि अतीव निम्नम् ) दृश्यत इत्याशयः । पाठा ७ पुण्यीकृतोदकम् Opis •१ लावण्यानुकारिणा० २ संमिश्रित ३ गम्भीरतरम् ४ परिपूरित ५ देवतार्चन, ६ कमलमू अच्छोदसरः ] पूर्वभागः । २६५ क्वचिद्वरुणहंसोपात्तकमलवनमकरन्दम्, कचिद्दिग्गजमज्जनजर्जरित जरन्मृणालदण्डम्, कचित्र्यम्बकवृष॒भविषाणकोर्टिंखण्डित तटशिलाखण्डम्, कचिद्यममहिषशृङ्ग शिखरविक्षिप्त फेनपि ण्डम्, कचिदैरावतदशन मुसलखण्डितकुमुदखण्डम्, यौवनमिवोत्कलिकाबहुलम्, उत्कण्ठि• तमिव मृणालवलयालंकृतम्, महापुरुषमिव मीनैमकरकूर्मचक्रप्रकटलक्षणम्, षण्मुखचरितमित्र श्रयमाणक्रौञ्च वनिताप्रलापम्, भारतमिव पाण्डुधार्तराष्ट्रकुलपक्षकृतक्षोभम्, अमृत । जलक्रीडावर्णनम् । क्वचिदिति । कस्मिंश्चित्प्रदेशे वरुणस्य प्रचेतसो हंसेन गरालेनोपात्तो गृहीतः कमलवनस्य नलिनखण्डस्य मकरन्दो मरन्दो यस्मिंस्तत्तथा । क्वचिदिति । दिग्गजानां दिग्दन्तिनां मजनेनान्त विगाहनेन जर्जरिताः शिथिलीभूता जरन्मृणालदण्डा बहुकालीन बिसदण्डा यस्मिंस्तत्तथा । क्वचिदिति । त्र्यम्बकस्येश्वरस्य यो वृषभो बलीवर्दस्तस्य विषाणकोटि: शृङ्गाग्रभागस्तया खण्डिता मेदितास्तटस्य तीरस्य शिलाखण्डा यस्य तत् । क्वचिदिति । यमस्य कृतान्तस्य यो महिषः कासरस्तस्य शृङ्गं विषाणं तस्य शिखरममभागस्तेन विक्षिप्त इतस्ततः पर्यस्तः फेनपिण्डो डिण्डीरपुञ्जो यस्मिन् । क्वचिदिति । ऐरावतो हस्तिमल्लस्तस्य दशना दन्तास्त एव स्थूलत्वदृढत्वसाम्यान्मुसलान्ययोग्राणि तैः खण्डितं पाटितं कुमुदखण्डं कैरववनं यस्मिन् । अथ प्रकारान्तरेण तदेव विशेषयन्नाह - यौवेति । यौवनं तारुण्यं तद्वदिव । उभयसाम्यं प्रदर्शय नाह-उदिति । उत्कलिका तरङ्गसंततिस्तया बहुलं दृढम् । 'तरङ्गभङ्गवीच्यूयुत्कलिका' इति कोशः । पक्ष उत्कलिका हल्लेखा । 'हल्लेखोत्कलिका च' इति कोशः । विविधकामाभिलाषस्तया बहुलम् । व्याप्तमित्यर्थः । उदिति । उत्कण्ठितमुन्मनसम् । अर्थाद्विरहिजनम् । तदिव । तत्सदृशमित्यर्थः । उभयोः साम्यमाह — मृणालेति । मृणालानां तन्तुलानां वलयैः समूहैरलंकृतम् । उन्मना अपि दाहज्वरोपशमनार्थं मृणालवलयालंकृतः स्यादित्यभङ्गश्लेषः । महेति । महांश्चासौ पुरुषश्चेति कर्मधारयः । तद्वदिन । उभयोर्विशेषणमाह - मीनेति । मीना मत्स्याः, मकरा जलचरविशेषाः, कूर्माः कच्छपाः, चा जलचारिविशेषाः, प्रकटा बहिर्हश्यमाना लक्षणाः सारसाः सारस्यश्च यस्मिन् । पक्षे मकरादीनि चक्रान्तानि प्रकटानि स्पष्टानि लक्षणानि चिह्नानि यस्मिन् । महापुरुषस्य हस्तपादाद्यवयवेषु मकरादीनि चिह्नानि भवन्तीति सर्वप्रसिद्धम् । ननु 'सारसी लक्ष्मणा सानुसौमित्रौ श्रीमति त्रिषु' इति रुद्रकोषादिदर्शनात्कथमत्र लक्षणाशब्दप्रयोग इति चेन्न । 'लक्षणश्चैव सारसः' इत्यमरमालायां निर्मकारस्यापि दर्शनात् । षण्मुखेति । षण्मुखः कार्तिकेयस्तस्य चरितमाचरणं तद्वदिव । श्रूयेति । श्रयमाण आकर्ण्य मानः क्रौञ्चः पक्षिविशेषस्तस्य या वनिता स्त्री तस्याः प्रलापः प्रकर्षेण शब्दो यस्मिन् । पक्षे कार्तिकेयेन क्रौञ्च दैत्यो हतः । अत एव तस्य वनितायाः प्रलापो रुदैनं यस्मिन् । तथा भारतं व्यासप्रणीतं शास्त्रं तद्वदिव । पाण्डिति । पाण्डवः श्वेतवर्णा ये धार्तराष्ट्रा हंस विशेषास्तेषां कुलं समूहस्तस्य पक्षा वाजास्तैः कृतो विहितः क्षोभो विग्रहो यस्मिन् । पक्षे पाण्डुरम्बात्मजः धार्तराष्ट्रो दुर्योधनः तयोः कुले अन्वयौ तयोः पक्षौ ख़जनौ ताभ्यां कृतः क्षोभश्चित्तवैव्यं यस्मिन् । अमृतेति । अमृतार्थ पीयूषार्थ यन्मथनम् । समुद्रस्येति टिप्प० - 1 विरहेण उन्मनस्कमित्यर्थः । 2 चक्रवाका इति प्रसिद्धोऽर्थः । 3 रोदनमित्याशयः । 4 विपरीतमेतत् । कृष्णवर्णा इत्युचितम् । 'राजहंसास्तु ते चब्रुचरणैर्लोहितैः सिताः । मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः' इत्यमरः । पाठा० -१ हंसाक्रान्तविकचकमलवनखण्डम् ; हंसाक्रान्तकमलमकरन्दम् ; हंसाघातकमलवन मकरन्दम्. २ मृणा लजालदण्डम्. ३ धवलवृषभ, ४ कोदण्ड, ५ प्रकटमीन मकर कूर्मचक्रलक्षणम्. ३४ का० २६६ कादम्बरी । [ कथायाम्मथनसमयमिव तीरंकासाराव स्थित शितिकण्ठपीयमान विषम्, कृष्णबालचरितमिव तटकदम्बशाखाधिरूढहरिकृतजलप्रपातक्रीडम्, मदनध्वजमिव मकराधिष्ठितम् दिव्य मिवानिमिषलोचनरमणीयम्, अरण्यमिव विजृम्भमाणपुण्डरीकम्, उरगकुलमिवानन्तशतपत्र पद्मोद्धासितम्, कंसबलमिव मधुकरकुलोपगीयमानकुवलयापीडम्, केंद्रस्तनयुगलमिव नागसहस्रपीसपयोगण्डूषम्, मलयमिव चन्दनशिशिरवनम् असत्साघनमिवादृष्टान्तम्, अतिमनोहरमाहादनं दृष्टेरच्छदं नाम सरो दृष्टवान् । १ S । शेषः । तस्य यः समयः कालस्तमिव । तीरेति । तीरं तटम्, कासारं प्रान्तदेशं तत्रावस्थिता ये शितिकण्ठा बर्हिणस्तैः पीयमानमास्वाद्यमानं विषं जलं यस्मिन् । पक्षे तीरे क्षीरोदस्येति शेषः । तस्मिन्नवस्थितो यः शितिकण्ठो महेश्वरस्तेन पीयमानं भक्ष्यमाणं विषं कालकूटं यस्मिन् । 'कालकूटाम्भसोर्विषम्' इत्यनेकार्थः । तथा कृष्णेति । कृष्णस्य जनार्दनस्य यद्वालचरितं बाल्यावस्थायां क्रीडितं तद्वदिव । उभयोः साम्यमाविष्कुर्वन्नाह - तटेति । 'तटं तस्यैव सरसः' इति कोशः । तस्मिन्ये कदम्बा नीपास्तेषां शाखास्तस्यामधिरूढो यो हरिर्गोलाङ्गूलस्तेन कृता विहिता जलप्रपातलक्षणा क्रीडा यस्मिन् । पक्षे तदं यमुनायाः । हरिः कृष्णः । शेषं पूर्ववत् । मदेति । मदनस्य कन्दर्पस्य यो ध्वजः केतुस्तद्वदिव उभयोः सादृश्यमाह - मकर इति । मकरो जलजन्तुस्तेनाधिष्ठितमाश्रितम् । पक्षे मकराकृतिरूपं चिह्नम् । दिव्येति । दिवि भवं दिव्यं तद्वदिव । उभयोः साम्यार्थमाह - अनिमिषेति । अनिमिषास्तिमयस्तेषां लोचनानि नेत्राणि तै रमणीयं मनोहरम् । पक्षेऽनिमिषलोचना देवाः । शेषं पूर्ववत् । अरण्येति । अरण्यं काननं तद्वदिव । उभयोः साधर्म्यमाह - विजृम्भेति । विजृम्भमाणानि विनिद्राणि पुण्डरीकाणि सिताम्भोआनि यस्मिंस्तत्तथा । पक्षे विजृम्भमाणाः सन्त उज्झितनिद्राः पुण्डरी काश्चित्रकायाः । 'चित्रकायः पुण्डरीकः' इति कोशः । शेषं पूर्ववत् । उरगेति । उरगाः सर्पास्तेषां कुलमन्वयस्तद्वदिव । उभयोः सादृश्यमाविःकुबन्नाह - अनन्तेति । अनन्तान्यसंख्यानि यानि शतपैत्राणि पुष्पविशेषाणि, पद्मानि कमलानि, तैरुद्भासितं शोभितम् । पक्षेऽनन्तो नागाधिपः, शतपत्रो नागविशेषः, पद्मश्च । शेषं पूर्ववत् । कंस इति । कंसो दैत्यस्तस्य बलं सैन्यं तद्वदिव । उभयसाम्यार्थमाह - मध्विति । मधुकराणां भ्रमराणां कुलानि समूहाः तैरुपगीयमानानि गानविषयी क्रियमाणानि कुवलयान्युत्पलानि तान्येवापीडः शेखरो यस्मिंस्तत्तथा । पक्षे कुवलयापीडो गजः । शेषं पूर्ववत् । कद्रू इति । कदूर्नागमाता तस्याः स्तनयुगलं कुचयुग्मं तद्वदिव । उभयोः साम्यं प्रदर्शयन्नाह - नागेति । नागसहस्रैर्हस्तिसहस्रैः पीता आस्वादिताः पयसो गण्डूषालुका यस्मिंस्तत् । पक्षे नागाः सर्पाः । पयो दुग्धम् । शेषं पूर्ववत् । मलयेति । मलयो मलयाचलस्तद्वदिव । उभयोस्तुल्यतामाह - चन्दनेति । चन्दनं मलयजं तद्वच्छिशिरं शीतलं वनं जलं यस्मिन् । 'कीलालं भुवनं वनं घनरसः' इत्यभिधान चिन्तामणिः ।पक्षे चन्दनानां शिशिराणि वनानि काननानि यस्मिन् । असदिति । असत्साधनमसद्धेतुस्तद्वदिव । शब्दापेक्षया तयोः साधर्म्यमाह - नेति । न दृष्टो न वीक्षितोऽन्तोऽवसानं यस्य तत् । पक्षे न विद्यते दृष्टान्तो निश्चितसाध्यवान्यस्मिन् । तदभावादसद्धेतुत्वमिति भावः । अतिमनोहरम् । अतिसुन्दर मित्यर्थः । दृष्टेर्नेत्रस्याह्लादनम् । प्रमोदजनकमित्यर्थः । टिप्प० -- 1 अनिमिषे (निमेषरहिते) लोचने येषामित्यर्थ उचितः, मत्स्यानां नयनयोर्निमेषाभावात् । 2 ब्याघ्रा इति स्पष्टोऽर्थो वक्तव्यः । 3 शतपत्र - पद्मयोरापाततः पौनरुत्त्यभासनं पर्यन्ते च शतसंख्याकपत्र विशिष्टकमले पर्यवसानात्पुनरुक्तवदाभासोऽलंकारः । तथा च अनन्तानि यानि शतपत्रविशिष्टानि पद्मानि तैरुनासि तमित्यर्थोऽत्र बोध्यः । 4 मदजलसौरभलोभाद् मधुकरैरुपगीयमानस्तदाख्यो हस्ती यत्रे. रुपर्थः। 5 गोष्यवान् मनुष्यस्वादित्यादौ मसद्धेतौ निश्चितसाध्य (गोटव) वरस्थलं ( दृष्टान्तः ) नास्तीत्यर्थः । T: पाठा० -१ तीराबस्थित. २ बालकृष्ण. ३ शाखारूढ़ ४ उपनीयमान ५ कद्रू. अच्छोदसरः ] आलोकमात्रेणैवापगतश्रमो मिथुनानुसरणमेतदालोकयतः पूर्वभागः । २६७ मैनस्येवमकरोत् - 'अहो निष्फलमपि मे तुरङ्गमुखसर: सफलतामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्ठ व्यदर्शनफलम्, आलोकितः खलु रमणीयानामन्तः, दृष्ट आह्वादनीयानामवधिः, वीक्षिता मनोहराणां सीमान्तलेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरः सलिलममृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः । इदमपि खल्वमृतमिवं सर्वेन्द्रियाहादनसमर्थमतिविमलतया चक्षुषः प्रीतिमुपजनयति, शिशिरतया स्पर्शसुखमुपहरति, कमलसुगन्धितया घ्राणमाप्याययति, हंसमुखरतया श्रुतिमानन्दयति, स्वादुतया रसनामाह्लादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्कैलासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोहदं देवो रथाआलोकेति । आलोकमात्रेणैव निरीक्षणमात्रेणैवापगतो दूरीभूतः श्रमः क्लान्तिर्यस्यैवंविधश्चन्द्रापीडस्तदृष्ट्वा विलोक्य मनसि चित्त एवमकरोदेवमघटयत् । अहो इति । अहो इत्याश्चर्ये । निष्फलमपि निरर्थकमपि मे मम तुरङ्गमुखमिथुनस्य किंनरमिथुनस्यानुसरणमनुगमनं सफलतां कृतार्थतामुपगतम् । प्राप्तमित्यर्थः । किं कुर्वतो मम । एतत्सरः कासारमालोकयतो दृग्विषयी कुर्वतः । अद्येति । अद्यास्मिन्दिने परिसमाप्तं परिपूर्णम् । संपूर्ण जातमित्यर्थः । किं तदित्याकाङ्क्षायामाह - ईक्षणेति । ईक्षणयुगलस्य द्रष्टव्यं दर्शनीयं यद्वस्तु तस्य दर्शनमवलोकनं तस्य फलं व्युष्टिः । खल्विति । खलु निश्चितम् । रमणीयानां मनोहराणामन्तः प्रान्त आलोकितो वीक्षितः । एतदपरं रमणीयं नास्तीत्यर्थः । दृष्ट इति । आह्लादनीयानां प्रमोदकारिणामवधिर्मर्यादा दृष्टोऽवलोकितः । प्रमोदजनकमेतदन्यत्किमपि नास्तीति भावः । वीक्षितेति । मनोहराणां चित्तहारिणां सीमाया अन्तलेखा प्रान्तलेखा वीक्षिता नयनविषयीकृता । अतः परं चित्तहृत्किमपि नास्तीति भावः । प्रत्यक्षेति । प्रीतिजननानां प्रीत्युत्पादकानां परि सामस्त्येनाप्तिः प्राप्तिः परिसमाप्तिः प्रत्यक्षीकृतेन्द्रियगो चरीकृता । विलोकितेति । दर्शनीयानां द्रष्टुं योग्यानामवसानभूमिः प्रान्तभूमिश्चरमकथा वा विलोकिता वीक्षिता । इतःपरं दर्शनीयं नास्तीति भावः । इदमिति । इदममृतं पीयूषं तद्वद्रसो यस्यैवंविधं सरसस्तटाकस्य सलिलं पानीयमुत्पाद्य निर्माय वेधसा ब्रह्मणोत्पादयता जगत्सृजता स्वसृष्टिः स्वकीयनिर्मितिः पुनरुक्ततामिव नीता प्रापिता । एकमेव वस्तु नामान्तरेण विहितमिति भावः । अमृतगुणोपपादने पुनरुक्ततां स्पष्टयन्नाह - इदमिति । इदमपि । खलु निश्चितम् । इदं प्रत्यक्षोपलभ्यमानमप्यमृतमिव पीयूषमिव सर्वेषामिन्द्रियाणामाह्लादनं प्रीणनं तत्र समर्थ बलिष्ठमतिविमलतयातिस्वच्छतया चक्षुषो नेत्रस्य प्रीतिं स्नेहमुत्युत्पादयति । तथा शिशिरः शीतलस्तस्य भावस्तत्ता तथा करणभूतया स्पर्शसुखमुपहरति करोति । तथा कमलस्य नलिनस्य सुगन्धो यस्मिंस्तस्य भावस्तत्ता तया घ्राणं नासिकामाप्याययति प्रीणयति । तथा हंसैर्मरालैर्मुखरो वाचालस्तस्य भावस्तत्ता तया श्रुतिं श्रोत्रमानन्दयति प्रीणयति । तथा स्वादुतया मिष्टतया रसनां रसज्ञामाहादयति प्रीणयति । नियतमिति । नियतं निश्चितम् । अस्यैव सरस एव दर्शनतृष्णयावलोकनलोभेनोमापतिर्भगवानीश्वरः । कैलासेति । कैलासो रजताद्रिस्तत्र । यो निवासोऽवस्थानं स एव व्यसनमासक्तिस्तन्न परित्यजति न जहाति । न खल्विति । खलु निश्चितम् । रथाङ्गपाणिश्चकपा'णिर्देवः कृष्णः सांप्रेतमिदानीं जले पानीये शयनं स्वापस्तस्य दोहदम भिलाषं नाचरति न करोति । पूर्वं जलटिप्प० – 1 अधोमुखः पपात टीकाकारः । इदानीमपि समुद्रे शेत एव नारायणः, ततश्च जलशयनदोहदं नाचरतीति कथं संगच्छते । तस्मात् 'रथाङ्गपाणिर्जलशयनदोहदं सांप्रतं युक्तं नाचरति, यदिदं सरो विहाय लवणपयस्युदन्वति स्वपिति' इत्यर्थ उचितः । 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः । पाठा० -१ आलोकन २ मनस्यकरोत् ३ तुरग ४ अवलोकिता, ५ उपाहरति ६ दोहदयितः, कादम्बरी । [ कथायाम्ङ्गपाणिर्यदिदममृतरससुरभिसलिलमपहाय लवणरसपरुषपयस्युदद्भवति स्वपिति । नूनं चेदं न प्रथममासीत्सरो येन प्रलयवराहंघोणाभिघात भीती भूतधात्री कलशयोनिपानपरिकलितसकलसलिलं सागरमवतीर्णा, अन्यथा यद्यत्रागाधानेकपातालगम्भीराम्भसि निमना भवेन्महासरसि किमेकेन महावराहसहस्रैरपि नासादिता भवेत् । नूनं चास्मादेव सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्रलयदुर्दिनान्धकारितर्देश दिशः प्लावयन्ति भुवनान्तराणि । मन्ये चे यत्सृष्टेरर्वाक्सलिलमयं ब्रह्माण्डरूपमादौ भुवनमभूत्तदिदं पिण्डीभूय सरोव्यपदेशेनावस्थितम्' इति विचारयन्नेव तस्य शिलाश कलकर्कश वालुकाप्रायम्, विद्याधरो• वृतसनालकुमुद कलापार्चिता नेकचारुसैकतलिङ्गम्, अरुन्धतीदत्तार्घ पयःपर्यस्तरक्तकमलशो२६८ P शयनापेक्षाकारणमाह - यदिति । यदिति हेत्वर्थे । इदममृतवत्पीयूषवद्रसो यस्मिन्नेवंविधं यत्सुरभिसलिलं सुगन्धिपानीयं तदपहाय त्यक्त्वा लवणो यो रसस्तेन परुषं रूक्षं पयो यस्मिन्नेवंभूत उदन्वति समुद्रे स्वपिति शयनं करोति । अतो नूनं निश्चितम् । इदं प्रथममादौ नासीन्नाभूत् । एतदभावादेव कृष्णः समुद्रे शयनं करोतीति भावः । कारणान्तरमाह - येनेति । येन कारणेनेदं प्रथमतो नासीदत एव भूतधात्री भूतानां प्राणिनां धात्री धारणक्षमा । एतदपेक्षया । नूनं सागरं समुद्रमवतीर्णा मध्यप्रविष्टा । अथ तां विशेषयन्नाह - प्रलयेति । प्रलये कल्पान्ते योऽवताररूपो वराहस्तस्य या घोणा नासा । उपलक्षणं चैतत् । तेन दंष्ट्राया ग्रहणम् । तयाभिघातः प्रहारस्तस्माद्भीता त्रस्ता सती । उपर्यागतेति शेषः । सागरं विशेष यन्नाह - कलश इति । कलशयोनिरगस्तिस्तेन पानार्थं परिकलितं चिन्ताविषयीकृतं सकलं समग्र सलिलं यस्य स तम् । अनेनातिन्यूनत्वमेतस्य ध्वनितम् । यदि सरसः समुद्रो महत्तरः स्यात्तदैकवराहघोण । भिघात मात्रेण भीत उपर्यागतो न भवेदेव । अत एवाग्रे व्यतिरेकमुखेन समर्थयन्नाह -- अन्यथेति । पूर्वोक्तविप र्यये । यद्यत्र महासरसि निमना बुडिता भवेत्स्यात् । अगाध इति । अगाधमतलस्पृक् एवंविधानि यान्यनेकानि पाताला नि । वडवामुखानीति यावत् । गंभीरं गम्भीरमम्भो यस्मिन् । किमिति । एकेन वराहेण किम् । न किमपीत्यर्थः । महेति । महावराहसहस्रैरपि नासादिता न प्राप्ता भवेत् । एतेन कल्पान्तेऽप्येतस्यावस्थानं सूचितमिति भावः । नूनमिति । नूनं निश्चितम् । महाप्रलयेषु कल्पान्तेषु प्रलयपयोदाः कल्पान्तमेघा अस्मादेव सरसः सलिललेशं जललेशमादायादाय गृहीत्वा गृहीत्वा भुवनान्तराणि त्रिभुवनविवराणि प्लावयन्ति जलमयीकुर्वन्ति । अथ प्रलयमेघान्विशेषयन्नाह - प्रलयेति । प्रलयकालीनं यदुर्दिनं मेघजं तमस्तेनान्धकारिता अन्धकारवदाचरिता दश दिशो यैस्ते तथा । मन्ये चेति । अहमिति मन्ये जानामि यच्चादौ सृष्टेर्विश्वनिर्मितरर्वाक्सलिलमयं जलमयं ब्रह्माण्डरूपं भुवनं त्रिविष्टपमभूत्तदिदं पिण्डीभूयैकीभूय सरोव्यपदेशेन तटाक मिषेणावस्थितमिति विचारयन्नेव चिन्तयन्नेव चन्द्रापीड: सरसो दक्षिणतीरं दक्षिण दिग्वर्ति प्रतीरमासाद्य प्राप्य तुरगादश्वादवततारावतीर्णवान् । अथ दक्षिणतीरं विशेषयन्नाह - शिलेति । शिलाशकलवच्छिलाखण्डवकर्कशाः कठिना या वालुकाः सिकतास्ताः प्रायो बाहुल्येन यस्मितत् । विद्येति । विद्याधरैर्व्योमचारिभिरुद्धृतानि गृहीतानि यानि सनालानि कुमुदानि कैरवाणि तेषां कलापः समूहस्तेनार्चितानि पूजितान्यने कान्यसंख्यानि चारूणि मनोहराणि जलोज्झितं पुलिनं सैकतं तत्र स्थितानि लिङ्गानीश्वरसंबन्धीनि यस्मिंस्तत् । अरुन्धतीति । अरुन्धया वसिष्ठपत्न्या दत्तं यदर्घपयः पूजार्थं जलं तस्मात्पर्यस्तानि पतितानि 1 टिप्प० -- 1 शुद्धोऽयं प्रलापः । पृथिवीकथायां विवक्षितायां स्त्रीत्वं संबध्यम् । 2 अगाधपातालवत् गंभीरम् । ( अतलस्पार्शे ) अम्भः यत्र तस्मिन् । 3 अशुद्धमिदम् । कुमुदकलापेन अर्चितानि अनेकानि चारूणि सैकतलिङ्गानि ( वालुकानिर्मित शिवलिङ्गानि ) यस्मिन् तत् । इत्यर्थः । पाठा० -१ अभिभूता, २ अगाध; अनेक. ३ आदाय महा. ४ दिश: ५ यत्तत्सलिलमयम् ६ पिण्डीभूतम्. ७ अर्चितम् ८ दत्तदिनकरार्ष; दत्तदिन करार्ध्य; हस्तदत्तदिनकरार्घ ९ पर्यस्तारक्त. जरूपान-विश्रामौ ] २६९ भिंतम्, उपकूलशिलातलोपविष्टजलमानुषनिषेव्यमाणातपम् अभ्यर्णतया च कैला स्नानागतमातृमंण्डलपदपङ्किमुद्राङ्कितम्, अवकीर्ण भस्मसूचितमन्नोत्थितगणकदम्बकोडूलनम्, अवगाहावतीर्णगणपति गण्डस्थलगलितमदप्रस्रवणसिक्तम् अतिप्रमाणपादानुमीयमानतृषितकात्यायनीसिंहावतरणमार्ग दक्षिणतीरमासाद्य तुरगादवततार । , पूर्वभागः । S अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठितोत्थितं च गृहीत कतिपययवसप्रासं सरोऽवतार्य पीतसलिलमिच्छया स्नातं चोत्थाप्यान्यतमस्य समीपवतिनस्तरोर्मूलशाखायामपगतसैलीनं हस्तपाशशृङ्खलया कनकमय्या चरणौ बद्धा कृपाणिकावलूनान्क्षिप्त्वा चामतः कतिचित्सरस्ती रैदूर्वाप्रवालकवलान्पुनरपि सलिलमवततार । ततश्च प्रक्षालितर्केर युगलश्चातक इव कृत्वा जलमयमाहारम्, चक्राह्न इवास्वाद्य मृणालशकयानि रक्तकमलानि तैः शोभितं विराजितम् । उपेति । उपकूले तटसमीपे यानि शिलातलानि तत्रोपविष्टानि स्थितानि जलमानुषाणि प्रसिद्धानि तैर्निषेव्यमाण सेव्यमानः आतपः सूर्यालोको यस्मिन् । कैलासस्य रजतानेरभ्यर्णतया समीपवर्तितया स्नानार्थमागतं यन्मातृमण्डलं ब्राह्मीप्रभृतीनां सप्तदेवीनां समुदायस्तस्य पदपङ्किश्चरणवीथी तस्या मुद्रा भूमौ तत्प्रतिकृतिरूपा तयाङ्कितं चिह्नितम् । अवकीर्णेति । अवकीर्णमितस्ततः पर्यस्तं यद्भस्म भूतिस्तेन सूचितं प्रकाशितं स्नातुं मनं पश्चादुत्थितं यद्गणानां प्रमथानां कदम्बकं समुदायस्तस्य त्रिपुण्डू समय उद्भूलनं भस्मोद्धूलनं यस्मिंस्तथा । अवगाहेति । अवगाहार्थं जलक्रीडार्थमवतीर्ण उत्तरितो यो गणपतिर्गणेशस्तस्य गण्डस्थलात्करट प्रदेशाद्गलितं च्युतं यन्मदप्रस्रवणं दानक्षरणं तेन सिक्तं सिञ्चितम् । अतीति । अतिप्रमाणमैतिदीर्धम् । पादेति । पादैश्चरणन्यासैरनुमीयमानोऽनुमानविषयी क्रियमाणस्तृषितः पिपासितो यः कात्यायनीसिंहो मनैस्तालाभिधस्तस्यावतरणमार्गः सरसि समागमनपन्था यस्मिंस्तत्तथा । अवतीर्येति । अश्वादवतरणं कृत्वेन्द्रायुधनामानमश्वरत्नं व्यपनीतं दूरीकृतं पर्याणं पल्ययनं यस्मादेवंभूतमकरोदसृजत् । अथाश्वं विशेषयन्नाह - क्षितीति । पूर्व क्षितितले पृथ्वीतले लुठितमपावृत्तं पश्चादुत्थितं कृतोत्थानम् । गृहीतेति । गृहीता आत्ताः कतिपये कियन्तो यवसं तृणं तस्य ग्रांसा गुडेरका येन स तं ततः पश्चात्तमश्वं सरोऽवतार्य सरोमध्ये नीत्वा पीतं सलिलमिच्छया येन न तु बलात्कारेण स्नातं कृताप्लवं चोत्थाप्योत्थानं कारयित्वा पश्चात्तटमानीयान्यतमस्य कस्यचित्समीपवर्तिनस्तरोवृक्षस्य मूलशाखायां च स्कन्धशाखायां गले निगरणे बद्ध्वा । कीदृशम् । अपगतं दूरीभूतं खलीनं मुखयन्त्रणं यस्यैवंभूतम् । कनकमय्या सुवर्णनिर्मितया हस्तपाशशृङ्खलया हस्तबन्धनार्थं यः पाशो ग्रन्थिस्तदर्थं या शृङ्खला तया चरणौ पादौ बद्धा नियम्य कृपाणिका क्षुरिका तयावलूनान्कर्तितान्कतिचित्कियतः सरस्तीरस्य तटाकप्रतीरस्य दूर्वायाः शतपर्विकायाः प्रवालकवलान्किसलयगुडेरकानग्रतः क्षिप्त्वा पुरो निधाय अन चकारः क्रियासमुच्चयार्थः पुनरपि द्वितीयवारमपि सलिलं नीरमवततारोत्तीर्णवान् । स्वयमिति शेषः । ततश्च तदनन्तरं प्रालितं करयुगलं हस्तयुग्मं येनैवंभूतः सरः सलिलादुदगादुदतिष्ठदित्यन्वयः । चातक इव तोकक इव जलमयं पानीय मयमाहारं प्रत्यवसानं कृत्वा विधाय । चक्राह्न इव रथाङ्गनामेव मृणालशकलानि बिसखण्ड न्यावाद्याटिप्प० – 1 पुंस्त्वं योग्यम् । 2 इदमपि क्वाचित्कम् । अन्यथा अष्ट मातरः सुप्रसिद्धाः । 3 इदमध्यनुचितम् । अतिप्रमाणैः अतिदीधैः पादैः पदचिह्नः अनुमीयमान इति योजना योग्या । 4 इदमपि नवीनं श्रूयते । पाठा० - १ उपशोभितम् २ मण्डलमुद्राङ्कितम् ३ अवतीर्ण ४ वृन्द. ५ अवगाहन. ६ गण्डस्थलमद. ७ पद. ८ अवतार. ९ दक्षिणम्. १० अवतीर्य, ११ अखलीनम्. १२ चरेण १३ तीरप्ररूढदूर्वा १४ स्वयमपि, १५ करचरण. १६ जलमाहारम्. १७ चक्राह्वयः• 。 . २७० कादम्बरी । [ कथायाम्लानि, शिशिरांशुरिव करायैः स्पृष्ट्वा कुमुदानि, फणीवाभिनन्ध जलतरङ्गवातान्, अनङ्गशरप्रहारातुर इवोरसि निधाय नलिनीदलोत्तरीयम्, अरण्यगज इव शीकरार्द्रपुष्करोपशोभितकरः सैर:सलिलादुदगात् । प्रत्ययभन्न शिरैश्च समृणाल कैर्जलकणिकाचितैः कमलिनीपलाशैलतामण्डपपरिक्षिप्ते शिलातले स्वस्तरमास्तीर्य निधाय शिरसि पिण्डीकृतमुत्तरीयं निषसाद मुहूर्तं विश्रान्तश्च तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तमुन्मुक्तकवलेन निश्चलश्रवणपुटेन तन्मुखीभूतेनोद्रीवेणेन्द्रायुधेन प्रथममाकर्णितं श्रुतिसुभगं वीणातत्रीझंकार मिश्रममानुषं गीतँशब्दमशृणोत् । श्रुत्वा च कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिरिति समुपजात कौतुकः कमलिनीलसंस्तरादुत्थाय तामेव गीतसंपातसूचितां दिशं चक्षुः प्राहिणोत् । J स्वादं कृत्वा । शिशिरांशुरिव हिमांशुरिव कुमुदानि कैरवाणि करायैर्हस्तायैः स्पृष्ट्वा स्पर्श कृत्वा । फणीव भुजंग इव जलतरङ्गवातानम्भःकल्लोलसमीरानभिनन्द्य संस्तूय । अनङ्गशरप्रहारातुर इव कामबाणानुविद्ध इव नलिनीदलोत्तरीयं कमलिनीपत्रवैकक्ष्यमुरसि वक्षसि निधाय संस्थाप्य । अरण्यगज इव वनकरीव शीकरे णामुन्नं पुष्करं कमलं झुण्डाग्रं च तेनोपशोभितः करो हस्तः शुण्डा च यस्यैवंभूतश्चन्द्रापीडः । लतेति । लतार्लक्षणो यो मण्डपो जनाश्रयस्तेन परिक्षिप्ते वलयिते । 'परिक्षिप्तं वलयितम्' इति कोशः । एवंभूते शिलातले पृथुप्रस्तरोपरि सस्तर मास्तीर्यास्तरणं कृत्वा ततः पिण्डीकृतं पिण्डतां प्रापितं यदुत्तरीयं निवसनं शिरसि मस्तकस्याधोभागे निधाय संस्थाप्य निषसाद शयनं चकारेत्यन्वयः । कैः स्रस्तरं कृतवानित्याकाङ्खायामाह — कमलिनीति । कमलिनी नलिनी तस्याः पलाशैः पत्रैः । कीदृशैः । प्रत्यग्रं तत्कालं भग्नानि खण्डितानि शिरींसि प्रान्तानि येषां तैः समृणालकैः सतन्तुलैः । स्वार्थे कप्रत्ययः । जलस्य पानीयस्य याः कणिकाः सूक्ष्मविप्रुषस्ताभिराचितैर्व्याप्तैः । कियन्मात्रं सुप्त इत्याकाङ्क्षायामाह — मुहूर्तेति । मुहूर्त घट काद्वयं विश्रान्तः कृतविश्रामः । चकारः समुच्चयार्थः । अथ च तस्य सरस उत्तर उत्तरदिक्संबन्धिनि तीरप्रदेशे तटप्रदेशे चन्द्रापीडः सम्यक्प्रकारेणोत्प्राबल्येन चरन्तं प्रसरन्तं गीतशब्दं गेयध्वनिमशृणोदाकर्णयत् । एतद्विशेषयन्नाह — उन्मुक्तेति । उत्प्रावल्ये मुक्तस्त्यक्तः कवलो ग्रासो येन स तेन निश्चलं स्थिरं श्रवणपुटं कर्णपुढं यस्य स तेन तन्मुखीभूतेन तदभिमुखीभूतेनोगी वेणोर्ध्वकन्धरेणैवं विधेनेन्द्रायुधेन प्रथममादावाकर्णितं श्रुतम् । कीदृशम् । श्रुतिसुभगं कर्णमनोहरं वीणा वलकी तस्यास्तत्र्यः प्रसिद्धास्तासां झंकारोऽव्यक्तशब्दस्तेन मिश्रं संपृक्तम् । अमानुषम् । दिव्यमित्यर्थः । श्रुत्वेति । श्रुत्वाकर्ण्य । चारः पूर्ववत् । इति समुपजातं समुत्पन्नं कौतुक्रमाश्चर्य यस्य स तथा । इतिशब्दद्योत्यमाह — कुत इति । अत्र विगतमर्त्यसंपातेऽमानुषे प्रदेशे गीतध्वनेः संभूतिः प्रभवः कुतः स्यात् । कमलिनीति । कमलिनी नलिनी तस्या दलैः पत्रैर्यः संस्तरः प्रस्तरस्तस्मादुत्थायोत्थानं कृत्वा गीतसंपातेन गेयोत्पत्त्या सूचितां ज्ञापितां तामेव दिशं । टिप्प० - 1 कुमारपक्षे अङ्गुलिभिः, चन्द्रपक्षे किरणायैः । 2 संस्तुत्येति योग्यम् । 3 नलिनीदलरूपमुत्तरीयम् । 4 इदमपि भ्रामकम् । शीकरार्द्रं यत् पुष्करं ( कमलम् ) तेन उपशोभितः करः झुण्डा यस्य सः ( करी ) । उपशोभित कर: ( हस्तः ) यस्य सः ( युवराजः ) । 5 मण्डपाकाराभिलताभिः परिक्षिप्ते इत्यर्थ उचितः । 6 हम्त धिक् टीकाकारम् ! 'शिरैः' इति न तृतीयायां रूपं क्वचित्संभवति । 'प्रत्यग्रभप्नशिशिरैः' इत्येव पाठः । प्रत्यग्रं भन्नानि च तानि शिशिराणीति तदर्थः । पाठा० --१ आनन्द्या. २ पिधाय. ३ मलिलात्. ४ शिशिरैः ५ मण्डलपरिक्षिप्त शिलातले ६ संस्तरम् ; प्रस्तरम्. ७ गीतम्. ८ कुतोऽत्र. ९ उपजात. १० पत्रत्रस्तरात्. 0 शिव-सिद्धायतनम् ] पूर्वंभागः । २७१ अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्याप्तलोचनोऽपि विलोकयन्न किंचिद्ददर्श । तमेव केवलमनवरतं शब्द शुश्राव । कुतूहलवैशाच गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तप यणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवमी बैंकुलैलालवङ्गलवलीलतालोलकुसुमसुरभिपरिमलया लिकुलविरुतिमुखरितया तमालनीलया विडागमदवीथ्येव पश्चिमया वैनलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे । क्रमेण च संमुखागतैः, अच्छ निर्झर जलकणजालजनितज डिमभिः, जर्जरितभूर्जवल्कलैः, धूर्जटिवृष रोमन्थ फेन बिन्दुवाहिभिः, षण्मुखशिखण्डिशिखा चुम्बिभिः, अम्बिकाकर्णपूरपल्ल बोल्लासनदुर्ललितैः, उत्तरकुरुकामिनी कर्णोत्पलप्रेङ्खोलनदोहदिभिः, ओकम्पितककोलैः, नमे4 , ककुभं प्रति चक्षुत्रं प्राहिणोत्प्रेरयामास । तस्येति । पूर्वोक्तप्रदेशस्य गीतस्थलस्यातिदवीयस्तयातिदूरतया प्रयत्नेनात्युद्यमेन व्यापते व्यापारिते लोचने नेत्रे येनैवंभूतोऽपि विलोकयन्पश्यन्न किंचिद्ददर्शालोकयामास । केवलमनवरतं निरन्तरं तमेव शब्दं शुश्रावाकर्णयामास । कुतूहलेति । कुतूहलवशात्कौतुकवशाच गीतध्वनेः प्रभव उत्पत्तिस्तस्य जिज्ञासा ज्ञातुमिच्छा तया कृता विहिता गमने बुद्धिर्येनैवंभूतः । दत्तेति । दत्तमारोपितं पर्याणं पल्ययनं यस्मिन्नेतादृशमिन्द्रायुधमश्वमारुह्यारोहणं कृत्वा तया पश्चिमया वनलेखया । तीरस्येति शेषः । तं पूर्वोत्तं गीतध्वनिं निमित्तीकृत्य निदानीकृत्याभिप्रतस्थे संमुख जगाम । किंविशिष्टः । उपेति । उपदिश्यमानः कथ्यमानो वर्त्म मार्गो यस्य सः । कैः । अप्रार्थितैरप्ययाचितैरपि वनहरिणैररण्यमृगैः । अथ तानेव विशिष्टि - प्रियेति । प्रियं वल्लभं गीतं गानं येषां तैरत एव प्रथममादौ प्रस्थितैः प्रचलितैः । अथ वनलेखां विशेषयन्नाह – बकुलेति । बकुलः केसर: एला चन्द्रवाला । 'पृथ्वीका चन्द्रवालैला निष्कुटिर्बहुला' इत्यमरः । लवङ्गो देवकुसुमवृक्षः, लवलीनाम्नी लता वल्लीविशेषः । तासां लोलानि चञ्चलानि कुसुमानि पुष्पाणि तेषां सुरभिघ्रणतर्पणः परिमलो गन्धो यस्यां सा तया । अलीति । अलिकुलानां भ्रमरसमूहानां या विरुतिः शब्दविशेषस्तया मुखरितया वाचालितया । तमालेति । तमालास्तापिच्छास्तैनलयाऽसितया । श्यामत्वसाधर्म्यादाह - दिङ्गागेति । दिशां नागा हस्तिनस्तेषां मदवीथ्येव दानश्रेण्येव । क्रमेणेति । क्रमेण परिपाट्या चकारः पूर्ववत् । अथ चन्द्रापीडं विशिनष्टि-पुण्यैरिति । पुण्यैः पवित्रैः कैलासमारुतै रजताद्रिवायुभिरभिनन्द्यमान आनन्द्यमानः । अथ मारुतानां विशेषणानि । संमुखागतैरभिमुखागतैः । अच्छेति । अच्छानि निर्मलानि यानि निर्झरजलानि प्रस्रवणपानीयानि तेषां कणा बिन्दवस्तेषां जालं समूहस्तेन जनित उत्पादितो जडिमा जाड्यं यैस्तैः । जर्जरितेति । जर्जरितानि शिथिलीकृतानि भूर्जानां मृदुत्वचां वल्कलानि चोचानि येस्तैः । धूर्जटीति । धूर्जटिरीश्वरस्तस्य यो वृषो बली वर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्य फेनो डिण्डीरस्तस्य बिन्दून्वहतीत्येवंशीला वाहिनस्तैः । षण्मुखेति । षण्मुखस्य कार्तिकेयस्य यः शिखण्डी मयूरस्तस्य शिखा चूडा तच्चुम्बिभिस्तत्स्पर्शकारिभिः । अम्बि केति । अम्बिकायाः पार्वत्याः कर्णपूरस्य कर्णावतंसस्य यः पल्लवः किसलयं तस्योल्लासन मूवकरणं तत्र दुर्ललितं दुश्चेष्टितं येषां तैः । उत्तरेति । उत्तरदिग्वर्तिनां कुरूणां क्षेत्रविशेषाणां याः कामिन्यः स्त्रियस्तासां कर्णोत्पलानां श्रवणकुवलयानां प्रेङ्खोलने आन्दोलने दोहदोऽभिलाषो विद्यते येषां तैः । आकस्पीति । आकम्पिता आधूनिताः कक्कोलाः कोशफला यैस्ते तथा तैः । नमेर्विति । नमेरैवो वृक्षविशेषास्तेषां a टिप्प० - 1 येषां तैरित्यर्थ उचितः, मारुतानामेव शीतलत्वस्य वर्णनीयत्वात् । 2 छायावृक्षा: 'छाया• वृक्षो नमेरुः स्यात्' इति 'स्त्रिग्धच्छायातरुषु वसतिम्' इति मेघदूत टीकायां मलिनाथवतः शब्दार्णवः । पाठा० - १ गीतशब्दम् २ प्रभवाच्च ३ ध्वनित ४ सप्तच्छदबकुल ५ सरस्तीरवन ६ अनिर्जरजल. ७ वृषभ, ८ उल्लसन ९ आकम्पित कमलैर्नवकुसुममालापांसुवाहिभिः; आकम्पितकङ्कोलैः. कादम्बरी । [ कथायाम्रुकुसुमपांसुपातिभिः, पशुपतिजटाबन्धार्तवासुकि परिपीतशेषैः, आह्लादिभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानो गत्वा च तं प्रदेशं सर्वतो मरकतहरितैः, हारिहारीतरुतिरमणीयैः, भ्रमद्भृङ्गराजनैखरजर्ज रितजरैठकुड्यलैः, उन्मदकोकिलकुल कवलीकृत सहकारकोमलाप्रपल्लवैः, उन्मदषट्चरणचक्रवालवाचालितविकचचूतकलिकैः, अचकितच कोरचुम्बित मरिचाङ्कुरैः, च म्पकपरागपुञ्जपिञ्जरकपि जलजग्धपिप्पलीफलैः फलभरनिकैरपीडितदाडिमनीडप्रसूतकलविङ्कः, प्रक्रीडितर्कपिकुलकरतलताडनतरलिततोडी पुढै, अन्योन्यकुँपितकैपोतपक्षपालीपौतितकुसुमैः, कुसुमरजोराशिसारसारिकाश्रितशिखरैः, शुकशत मुख नखशिखरशतकलितफलस्फीतैः, २७२ कुसुमानि पुष्पाणि तेषां पांसवो रजांसि पातयन्तीत्येवंशीलास्तैः । पशुपतीति । पशुपतेरीश्वरस्य जटा सटा तस्या बन्धो नियन्त्रणं तेनार्तः पीडितो यो वासुकिर्नागराजस्तेन परिपीता आस्वादितास्तेभ्यः शेषा अवशिष्टास्तैराह्लादिभिः प्रमोदकारिभिः । तं प्रदेशं स्थानं गत्वा स चन्द्रापीडः पादपैर्वृक्षैः परिवृतं चन्द्रप्रभनाम्नश्चन्द्रप्रभाभिधानस्य कैलासपादस्य रजताद्रिपर्यन्तपर्वतस्य तलभागनिविष्टमधोदेशस्थितं भगवतः पाणेः शंभोः शून्यं जनवर्जितं भूतलभागे संनिविष्टं स्थापितं सिद्धायतनं चैत्यमपश्यदित्यन्वयः । अथ पादपाविशेषयन्नाह – सर्वत इति । सर्वतः समन्तान्मरकतमश्मगर्भं तद्बद्धरितैनलितैः । हारीति । हारिणो मनोहरा ये हारीता मृदङ्कुरास्तेषां रुतयः शब्दास्तै रमणीयैर्मनोहरैः । भ्रमदिति । भ्रमन्तश्चलन्तो ये भृङ्गराजा धूम्याटाः पक्षिणस्तेषां नखरा नस्त्रास्तैर्जर्जरितानि श्लथीकृतानि जरठानि कठिनानि कुलानि येषां तैः । उन्मदेति । उन्मदान्यत्युत्कृष्टमदयुक्तानि यानि कोकिलकुलानि पिकसमूहाः तैः कवलीकृता भक्षिताः सहकारस्याग्रस्य कोमला मृदवोऽग्रपल्लवाः प्रान्तकिसलयानि येषु तैः । उन्मदेति । उन्मदा ये षट्चरणा भ्रमरास्तेषां चक्रवालं समूहस्तेन वाचालिता मुखरीकृता विकचाः स्फुटाश्वतकलिकाः सहकारकोरका येषु तैः । अचकित इति । अचकिता अत्रस्ता ये चकोरा विषसूचकास्तैश्चुम्बिताश्चर्विता मरिचानां श्वेतशोभाजनानामङ्कराः प्ररोहा येषु ढैः । चम्पकेति 1 चम्पको हेमपुष्पकस्तस्य यः परागः पौष्पं रजस्तस्य पुञ्जः समूहैस्तद्वत्पिञ्जराः पीतरक्ता ये कपिञ्जलास्तित्तिरास्तैर्जग्धानि भक्षितानि पिप्पल्या वैदेयाः फलानि येषु तैः । फलेति । फलस्य भरो भारस्तस्य निकरः समूहस्तेन पीडिता बाधिता दाडिमाः करकास्तेषु ये नीडाः कुलायास्तेषु प्रसूता जनिताः कलविङ्काः कुलिङ्गका येषु तैः । प्रक्रीति । प्रक्रीडितं क्रीडया प्रवृत्तं यत्कपिकुलं गोलाङ्गूलसमूहस्तस्य करतलानि पाणितलानि तेषां ताडनेन प्रघातेन तरलितानि कम्पितानि तीडीपुटानि येषु तैः । अन्योन्येति । अन्योन्यं परस्परं कुपिताः कोपं प्राप्ता ये कपोताः पारावतास्तेषां पक्षपाल्यो गरुद्वीथ्यस्ताभिः पातितानि सस्तानि कुसुमानि प्रसूनानि येषां तैः । कुस्विति । कुसुमानि पुष्पाणि तेषां रजः परागस्तस्य राशिः समूहस्तदनुसारिण्यो याः सारिकाः पीतपादास्ताभिराश्रितानि व्याप्तानि शिखराणि वृक्षप्रान्ता येषां तैः । शुकेति । शुकानां कीराणां यच्छतं तस्य मुखान्याननानि नखा नखराश्च टिप्प० - 1 'हरियल ' इति भाषायां ख्याताः पक्षिविशेषाः । 2 भृङ्गराजा भ्रमराः 'भृङ्गराजो मधु • करे' इति हैम इति केचित् । 3 रजःपुञ्जेन ( अर्थात् तत्पतनेन ) पिञ्जरैरित्येवोचितम् । 4 चटका इव प्रायः प्रसिद्धाः । 5 तालीपत्राणि । 6 'शारसारिका' इत्येव पाठः । रजोराशिना शाराः चित्राः याः सारिका इति तदर्थः । पाठा० -१ बन्धनवासुकि. २ नख. ३ जठर ४ सहकारकोरकै: ५ चकोरचञ्चु. ६ निपीडित ७ विडदाडिमी. ८ चपलकपिलकपि. ९ नाडि, १० कलहकुपित. ११ कपोतपोतर्सहतलोललक्ष; कपोतपोतपक्ष. १२ पतित. १३ सारसिकामिश्र. १४ शिशिरैः. शिव-सिद्धायतनम् ] पूर्वभागः । जलधरजेललुब्ध विप्रलब्धमुग्धचात कध्वानमुखरितत मालखण्डैः, इभकलभकोल्हूनपल्लववेल्लितलवलीवलयैः, ओबलीयमाननवयौवनमत्तैपारावतपक्षक्षेपपर्यस्तकुसुमस्त बकैः, तनुपवनकम्पितकोमलकदलीदलवीजितैः, अविरलफलनिकरावनतना लिकेरवनैः, अकठोरपत्रपुट पूर्णेविटपिरः अनिवरितविगतुण्डखण्डितखर्जूरजालकैः, मदमुखरमयूरीमधुररवविराजिता29 न्तरैः, आकलितकलिकाकलापदन्तुरितैः, अन्तरान्तरा कैलासतरङ्गिणीतरङ्गित सिकतिलतलभूमिभागः, वनदेवताकरतलनिव हनियमलक्त कजललव सिक्तमिव किसलयनिकरमतिसुकुमारमुद्रह द्भिः, प्रन्थिपर्णप्रास मुंदितचमरीकुलनिषेवितमूलै कर्पूरागरुप्रायैः इन्द्रायुधैरिव घेना9 तेषां शिखराण्यप्राणि तैः शकलितानि खण्डितानि यानि फलानि तैः स्फीतैः स्फारैः । जलेति । जलधरो मेघस्तस्य जलं पानीयं तत्र लुब्धा आसक्ता अथ च विप्रलब्धा वञ्चिता ये मुग्धचातका बप्पीहास्तेषां ध्वानेन शब्देन मुखरितं वाचालितं तमालखण्डं तापिच्छवनं येषु तैः । एतेन तमालखण्डानां कृष्णवर्णत्वेन जलधरभ्रमान्मुग्धचातकैः प्रार्थ्यत इति ध्वनितम् । इभेति । इभानां हस्तिनां कलभास्त्रिंशद ब्दकाः । स्वार्थे कः । तैरुलूनाः खण्डिताः पवाः किसलयानि येषामेवंविधानि वेल्लितान्यान्दोलितानि लवलीवलयानि येषु तैः । आलीयेति । आ समन्तालीयमाना अन्तः प्रविश्यमाना ये नवयौवनेन प्रत्यग्रतारुण्येन मत्ता उत्कटाः पारावताः कलरवास्तेषां पक्षक्षेपेण गरुद्विक्षेपेण पर्यस्ताः पतिताः कुसुमस्तबकाः पुष्पगुच्छा येषां तैः । तन्विति । तनुपवनेन मन्दवायुना कम्पिता धूता याः कोमला मृदवः कदल्यो रम्भास्तासां दलानि पत्राणि । 'पर्ण पत्र छदं दलम्' इति कोशः । तैवजितैः कृतवालव्यजनैः । अविरलेति । अविरलान्यपेलवानि यानि फलानि तेषां निकरः समूहस्तेनावनतानि नमितानि नालिकेरवनानि लाङ्गलीखण्ड । नि येषु तैः । अकठोरेति । अकठोराणि मृदूनि पत्रपुढानि येषामेवंविधा ये पूगविटपिनः क्रमुकवृक्षास्तैः परिवृतैः परिवेष्टितैः । अनिवेति । अनिवारिता अनिषिद्धा ये विहगाः पक्षिणस्तेषां तुण्डानि मुखानि तैः खण्डितानि शकलीकृतानि पिण्डखर्जूरजालकानि प्रसिद्धानि येषु तैः । मदेति । देन गर्वेण ऋतुविशेषजनितबलभरेण वा मुखरा वाचाला या मयूर्यो नीलकण्ठयोषितस्तासां यो मधुरो मिष्टो रवः शब्दस्तेन विराजितान्यन्तराणि मध्यानि येषां तैः । आकलीति । आकलिताः प्रादुर्भूता याः कलिकाः कोरकाः । 'कलिका कोरकोऽस्त्रियाम्' इति कोशः । तस्याः कलापः संघात तुर। । रुन्नतैः । कैलासेति । कैलासस्य रजतारन्तरान्तरा । मध्ये मध्य इत्यर्थः । यास्तरङ्गिण्यो नद्यस्तासां तरँङ्गितेन भङ्गितेन सिकतिलो वालुकितस्तलभूमिभागोऽधःप्रदेशो येषां तैः । किं कुर्वद्भिः पादपैर्वृक्षैः । अतिसु कुमारमतिमृदु किसलय निकरं पल्लवसमूहमुद्वहद्भिर्धारयद्भिः । रक्तत्वसादृश्यात्तदेव विशेषयन्नाह - वनेति । वनदेवतानामरण्याधिष्ठात्रीणां करतलनिवहनिभमिव हस्ततलसमूहसदृशमिव । अलेति । अलक्तको यावकस्तस्य जललवैः सिक्तमिव च । ग्रन्थीति । ग्रन्थिपूर्ण शुकम् । 'ग्रन्थिपर्ण शुकं बर्हम्' इत्यमरः । तस्य ग्रासेन मुदितानि हर्षितानि यानि चमरीकुलानि वनोद्भवगोसमूहानि तैर्निषेवितानि सेवितानि मूलानि बुध्नानि येषां तैः । कर्पूरेति । कर्पूरा अन्तर्गर्भितघनसारवृक्षाः अगरवो राजाहर्हाः प्रायो बाहुल्येन विद्यन्ते येषु तैः । इन्द्रेति । इन्द्रायुधानीन्द्रधनूंषि तैरिव । उभयोः साम्यमाह - घनेति । घनं निबिडमव > २७३ टिप्प० - 1 इदमपि चापल्यमान्त्रम् । अविरलं ( निबिडम् ) फलनिक रेणावनतं च नारिकेलानां वनं येषु तैरित्यर्थः । 2 विषमैः इत्युचितम् । 3 कैलासतरङ्गिणीतरङ्गितः ( कैलासतरङ्गिणीनां तरङ्गाः संजाताः यस्मिन् सः ) सिकतिलश्च तलभूमिभागो येषां तैः । aallon.com पाठा० - १ जललव. २ कृतासीकमान ३ मदमत्त. ४ पर्यस्तस्तबकैः. ७ अकलित ८ दन्तुरै: ९ पर्णक. १० समुदित. ११ घनावलीस्थानैः . · ३५. का० ५पूत. ६ विरावित; रचित. २७४ कादम्बरी । [ कथायाम्वस्थानैः, कुमुदैरिवादत्तदिनंकर प्रवेश शिशिराभ्यन्तरैः, दाशरथिबलैरिवाञ्जननीलनलपरिगत'प्रान्तैः, प्रासादैरिव सपारावतैः, भवनतापसैरिव संनिहितवेनासनैः, रुद्रैरिव नागलताबद्धपरिकरैः, उदधिकूलपुलिनैरिव निरन्तरोद्भिन्न प्रवाललताङ्कुरजालकैः, अभिषेकसलिलैरिव सर्वौषधि कुसुमफल किसलयसनाथैः, आलेख्यगृहैरिव बहुवर्णचित्रपत्र शकुनिशतै संशोभितैः, कुरुभिरिव भारद्वाजद्विजोपसेवितैः, महासमरमुखैरिव पुंनागसमाकृष्टशिलीमुखैः, महाकरिस्था॒नं॑ यैषा॑ तैः । पक्षे घनो मेघः । कुमुदैरिति । कुमुदानि कैरवाणि तैरिव । उभयोः साम्यमाह - अद्त्तेति । न दत्तो यो दिनकराणां सूर्यकिरणानां प्रवेशस्तेन शिशिरं शीतलमभ्यन्तरं मध्यभागो येषां तैरित्यभङ्गश्लेषः । दाशेति । दाशरथी रामस्तस्य बलानि सैन्यानि तैरिव । अञ्जनेति । अञ्जनवन्नीलााने यानि नलानि तृणानि तैः परिगतो व्याप्तः प्रान्तो येषां तैः । पक्षेऽञ्जननीलनलाः कपयः । शेषं पूर्ववत् । प्रासादेति । प्रासादा देवगृहास्तैरिव । 'प्रासादो देवभूपानाम्' इत्यभिधानचिन्तामणिः । भङ्गश्लेषमाहसेति । सह पारावतैर्मर्कटैर्वर्तमानाः सपारावतास्तैः । 'पारावतः कलरवे गिरौ मर्कटतिन्दुके' इत्यनेकार्थः । पक्षे पारावतः कपोतः । भवनेति । भवने गृहे स्थिता ये तापसाः परिव्राजका स्तरिव । एतत्साम्यमाह - संनीति । संनिहिताः समीपवर्तिनो वेत्रा वृक्षविशेषा असनाः प्रियका येषां तैः, पक्षे संनिहितानि वेत्रासनानि विष्टरविशेषा येषामिति बहुव्रीहिः । रुद्वैरिति । रुद्रा- ईश्वरा एकादश तैरिव । एतसाम्यमाह -- नागेति । नागलता ताम्बूली । 'ताम्बूलवली ताम्बूली नागपर्यायवल्लयपि' इत्यभिधानचिन्तामणिः । तया बद्धः परिकरः परिधिर्येषां तैः । पक्षे नागाः सर्पा एव लता तया बद्धः, अर्थाजटायाः परिकरो येषामिति बहुव्रीहिः । उदधीति । उदधेः समुद्रस्य कूलं तटं तस्य पुलिनानि जलोज्झित प्रदेशास्तैरिव । 'पुलिनं तज्जलोज्झितम्' इति कोशः । उभयोः सादृश्यमाविष्कुर्वन्नाह – निरन्तरमिति । निरन्तरं सततमुद्भिन्नानि प्रकटितानि प्रवाला नत्रपलवा लताङ्कुरा वल्लीप्ररोहाश्च तेषां जालकानि वृन्दानि येषु तैः । पक्षे प्रवाललंता विद्रुमलता । शेषं पूर्ववत् । अभीति । अभिषेकार्थं यानि सलिलानि जलानि तैरिव । एतत्साम्यमाह - सर्वेति । सर्वाः समग्राश्च ता ओषध्यः फलपाकान्तास्तासां यानि कुसुमफलकिसलयानि तैः सनाथैः सहितैः । पक्षे मङ्गलकर्मणि सर्वौषधी प्रसिद्धा । आलेख्येति । आलेख्यं चित्रं तेन युक्तां गृहास्तैरिव । उभयोः सादृश्यमाह - वह्निति । बहुवर्णैरनेकरागैश्चित्राणि पत्राणि पिच्छानि येषा मेवंभूतानां शकुनीनां पक्षिणां शतं तेन संशोभितैर्विराजितैः । पक्षे बहुवर्णोपेतानि यानि चित्राण्यालेख्यानि तेषु यानि पत्रा।णि बाह्यानि । शकुनयः पक्षिणः । शेषं पूर्ववत् । कुरुभिरिति । कुरवः कुरुवंशोद्भवा राजानस्तैरिव । एतयोः सादृश्यमाह - भारेति । भारद्वाजा व्याघ्राटा ये द्विजाः पक्षिणस्तैरुपसेवितैः, पक्षे भारद्वाजो द्रोणः । महेति । महान्ति प्रकृष्टानि यानि समरमुखानि सङ्ग्राम प्रारम्भास्तैरिव । 'मुखमुपाये प्रारम्भे श्रेणिनिःसरणास्ययोः' इत्यनेकार्थः । एतयोः साम्यार्थमाह - पुंनागेति । पुंनागैरृक्षविशेषैः समाकृष्टाः समाकर्षिताः शिलीमुखा भ्रमरा येषु तैः । पक्षे पुंनागाः प्रकृष्टपुरुषाः । शिलीमुखा बाणाः । शेषं पूर्ववत् । टिप्प० - 1 अशुद्धमिदम् । परिव्राजकानामासनप्रयोजनाभावात् । अत एव भवनतापसैरिव गृहस्थतपस्विभिरिव इति व्याख्यानमुचितम् । 2 निरन्तरं उद्भिन्नं तरङ्गाघातेन उत्थितं विद्रुमलतानाम् क्षुद्रक्षुद्रखण्डसमूहो येषु तैरिति पूर्णपदस्यार्थः । 3 सुरामांसीत्यादयः पूर्वसूचिता इत्यर्थः । 4 नानारङ्गेषु चित्रेषु यानि पत्राणि वाहनानि ( हस्त्यश्वादीनि ) शकुनयः पक्षिणश्च तेषां शतेन शोभितैरित्यर्थः । पाठा० -१ दिनकरकर. २ नीलनलाञ्जन, ३ शोभितैः ४ भारद्वाजोपसेवितैः; भारद्वाजद्विजोत्तमसेवितैः. शिव-सिद्धायतनम् ] पूर्वभागः । २७५ भिरिव प्रलम्बवालपल्लव स्पृष्टभूतलैः अप्रमत्तपार्थिवैरिव पर्यन्तावस्थित बहुगुल्मकैः, दशितैरिव भ्रमरसंघातकवचावृतकायैः, प्रेमाणाभिमुखैरिव वानरकराङ्ग लिस्पृष्ठगुजैः, अवनिपालशयनैरिव सिंह पादाङ्किततरुतलैः आरब्धपश्चतपः क्रियै रिवोच्छिखशिखिमण्डल परिवृतैः, दीक्षितैरिव कृतकृष्णसारविषाणकण्डूयनैः जरगृहमुनिभिरिव जैटालवालकैमण्डलघरैः, इन्द्रजालिकैरिव दृष्टिहारिभिः पादपैः परिवृत्तं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे १ " । महान्तोऽतिस्थूला ये करिणो हस्तिनस्तैरिव । उभयोस्तुल्यतां प्रदर्शयन्नाह - प्रलम्बेति । प्रलम्बा लम्बायमाना ये बालपल्लवा नवीन किसलयानि तैः करणभूतैः स्पृष्टं संघट्टितं भूतलमधः प्रदेशो येषां तैः । पक्षे बालपल्लवाश्चमरप्रान्ताः । शेषं पूर्ववत् । शोभातिशयार्थ हस्तिनां कर्णे चामराणि बध्यन्त इति सर्वप्रसिद्धम् । अप्रमत्तेति । अप्रमत्ताः सावधाना ये पार्थिवा राजानस्तैरिव । एतयोः सादृश्यमाह - पर्यन्त इति । पर्यन्ते प्रान्तेऽवस्थिता बहवोऽनेके गुल्मका गुच्छका येषु तैः । पक्षे गुल्मका: सेनाविशेषाः । 'एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका । सेना मुखं गुल्मः' इति कोशः । दंशितेति । दंशितैर्वर्मितैरिष । 'दंशितो वर्मितः सज्जः' इति कोशः । एतयोस्तुल्यत्वमाह - भ्रमेति । भ्रमराणां शिलीमुखानां यः संघातः समूहः स एव कवचं वर्म तेनावृत आच्छादितः कायो देहो येषां तैः । पक्षे भ्रमेरा आवर्तास्तेषां संघातः समूहो येष्वेवंविधानि कवचानि संनाहाः । शेषं पूर्ववत् । प्रमाणेति । प्रमाणं तोलनं तत्राभिमुखाः संमुखास्तैरिव । उभयोः प्रकारान्तरेण भङ्गमाह - वानरेति । वानरा गोलाङ्गलास्तैः कराङ्गुलिभिः करशाखाभिः स्पृष्टा आश्लिष्टा गुञ्जा येषु तैः । पक्षे वेति विकल्पार्थः । नराङ्गुलयो मनुष्याङ्गुलयः । शेषं पूर्ववत् । सुवर्णपरिमाणे गुञ्जाया एव ग्रहणमिति लोकप्रसिद्धम् । अवनीति । अवनिपाला राजानस्तेषां शयनैस्तपैरिव । एतयोः सादृश्यं प्रदर्शयन्नाह – सिंहेति । सिंहपादैर्हर्यक्ष चरणैरङ्कितानि चिह्नितानि तरुतैलानि वृक्षाधोभागा येषां तैः । पक्षे सिंहपादेष्वकिता एतादृशानि तलानि । शेषं प्राग्वत् । आरब्धेति । आरब्धा प्रस्तुता पञ्चतपःक्रिया पञ्चाग्निसाधनकर्म यैस्तैरिव । एतयोः शब्दसादृश्यमाह - उच्छिखेति । उच्छिखमूर्ध्वचूडं यच्छिखिमण्डलं मयूरसमूहस्तेन परिवृतैः परिवेष्टितैः । पक्ष ऊर्ध्वं शिखा ज्वाला यस्यैवंभूतं शिखिमण्डलं वह्निमण्डलम् । शेषं प्राग्वत् । दीक्षिता यज्ञे गृहीतव्रतास्तैरिव । एतयोः साम्यमाविः कर्तुमाह- कृतेति । कृतं विहितं कृष्णसारैर्मृगैर्विषाणानां शृङ्गाणां कडूयनं कण्डूया येषु तैः । 'कण्डूः कण्ड्यनं खर्जूः कण्डूया' इत्यभि धानचिन्तामणिः । पक्षे कृष्णसारविषाणेन कण्डूयनम् । शेषं प्राग्वत् । दीक्षितानामयमाचारो यन्मृगविषाणैः कण्डूयनं विधीयत इति । जरेति । जरन्तो ज्यायांसो ये गृहमुनय आश्रमतापसास्तैः पञ्च(?) मुनीनामपल्यानि न भवन्तीति गृहपदं तैरिव । एतयोः सादृश्यप्रदर्शनार्थमाह - जटेति । जटाः शिफाः, आलवालक आवापः तस्य मण्डलं परिवेषस्तं धरन्तीति धरैः, पक्षे जटायुक्ता ये बालाः स्तनंधयास्त एव कैमण्डलधरा पानीयसमूहधरा येष्विति बहुव्रीहिः । इन्द्रेति । इन्द्रजालिका मायिकास्तैरिव । उभयोः सादृश्यमाहदृष्टीति । दृष्टयो नेत्राणि तेषां हारिभिर्हरणशीलैः । नेत्राभिरामै रित्यर्थः । पक्षे दृष्टिवञ्चकैः । अन्वग्रस्तु टिप्प० - 1 भ्रमरसंघात ( अमरसमूह )वत् स्थितैः (कृष्णवर्णैः ) कवचैः वर्मभिः आवृता देहा येषां तैरिव कवचयुक्तवीरपुरुषैः । इत्यर्थो वाच्यः । 2 प्रमादोयं टीकाकृतो यदयं पाठः स्वीक्रियते- तस्मात् 'सिंहपादाङ्किततलैः' इत्येव पाठ: । केसरिणां पादैश्चरणचिह्नैरङ्कितानि तलानि तरुतलानि येषु इति वृक्षपक्षे । सिंहानां पादैरिव पादै: पल्यङ्कपादकैश्चिह्नितानि तलानि शयनतलानि येषु तैरिति अवनिपालपक्षेऽर्थः । 3 घिगिदम् । जटायुक्ता ये बालकास्तेषां मण्डलं समूहं घरन्तीत्यर्थः । पाठा०-१ संपात. २ प्रयाण. ३ पादाङ्किततः ४ दीर्घजटा. ५ कमण्डलु. २७६ कादम्बरी । [ कथायाम्कैलास पादस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेशं भूतलभागसंनिविष्टं भगवतः शूलपाणे: शून्यं सिद्धायतनमपश्यत् । , सच्च पवनोद्वैतैरितस्ततः समापतद्भिः केतकीगर्भधूलिभिर्धवलीक्रियमाणकायः पशुपतिदर्शन हेतोर्बलादिव प्रतिपाद्यमानो भस्मव्रतमायतनप्रवेशपुण्यैरिव परिगृह्यमाणः प्रविश्याद्राक्षी चतुः स्तम्भस्फटिक मण्डपिकातलप्रतिष्ठितम् अचिरोद्भूतैरार्द्रार्दलशिखरगलज्जलबिन्दुभिरूविपाटित चन्द्रबिम्बदलैरिव निजागृहासावयवैरिव शेषफणाशकलैरिव पाञ्चजन्यसहोदरैरिव क्षीरोदहृदयाकारैरुपपादित मौक्तिक मुकुट विभ्रमैः शुचिभिर्मन्दाकिनी पुण्डरीकैः कृताचैनम् अमलमुक्ताशिलाघटितलिङ्गम् अशेषत्रिभुवनवन्दितचरणम्, चराचरगुरुम्, चतुर्मुखम् भगवन्तं त्र्यम्बकम् । , , • , प्रागेवोक्तः । अथ कैलासपादं विशेषयन्नाह - ज्योत्स्नेति । ज्योत्स्ना कौमुदी तद्वदवदातया शुभ्रया प्रभया कान्त्या तं प्रदेशं तत्पार्श्ववर्तिभूभागं धवलयतो धवलीकुर्वतः । तञ्चेति । तदायतनं प्रविश्य तन्त्र प्रवेशं कृत्वा भगवन्तं माहात्म्यवन्तं त्र्यम्बकं गौरीनाथमद्राक्षीद्ददर्शेत्यन्वयः । अथ चन्द्रापीडं विशेषयन्नाह - पवनेति । पवनेन वायुनोद्धूतैः कम्पितैरितस्ततः समापतद्भिर्यत्रतत्र निपतद्भिः केतक्याः प्रसिद्धाया गर्भधूलिभिर्मध्यरेणुभिर्धवली क्रियमाणेः शुश्रीक्रियमाणः कायो देहो यस्य सः । पाण्डुरत्वसाम्येनाह - पशुरिति । पशुपतेरीश्वरस्य यद्दर्शनमवलोकनं तस्य हेतोः तदर्थमित्यर्थः । बलादिव हठादिव भस्मतं विभूतिव्रतं प्रतिपाद्यमान इवाङ्गीक्रियमाण इव । धूलीनां शुचित्वात्पुण्यानामपि तथाविधत्वात् तत्साम्येनाह — आयेति । आयतनं चैत्यं तत्रः यः प्रवेशस्तस्माद्यानि पुण्यानि श्रेयांसि तैः परिगृह्यमाण इवोपादीयमान इव । अथ सिद्धायतनं विशेषयन्नाह - चतुरिति । चत्वारः स्तम्भाः स्थूणा यस्यामेतादृशी या स्फटिकमण्डपिका चन्द्रकान्तलघुमण्डपस्तस्यास्त लेऽधोभागे प्रतिष्ठितमवस्थितम् । पुनः कीदृशम् । शुचिभिः पवित्रैर्मन्दाकिनी स्वर्धुनी तस्याः पुण्डरीकैः सिताम्भोजैः कृतं विहितमर्चनं पूजनं यस्य तत् । अथ पुण्डरीकाणि विशेषयन्नाह–अचिरेति । अचिरोद्भूतैः स्वल्पकालोत्खातैरार्द्राणि चार्द्राणि चार्द्रार्द्राणि तैः । जलखिन्नैरित्यर्थः । दलेति । दलानां पत्राणां शिखराण्यग्रभागास्तेभ्यो गलन्तः स्रवन्तो जलस्याम्भसो बिन्दवो विप्रुषो येषु तैः । गलज्जलबिन्दुसाम्येनोत्प्रेक्षते - ऊर्ध्वेति । ऊर्ध्वं विपाटितं भिन्नं यच्चन्द्रबिम्बं शशिमण्डलं तस्य दलैः खण्डैरिव । तत्राप्यमृतस्य गलद्विन्दवो भवन्तीति भावः । अत्र शुक्लत्वसाम्यादाह - निजेति । निजः स्वकीयो योऽट्टहासो महान्हासस्त स्यात्र यवैरिवापघनैरिव । शेषेति । शेषस्य नागाधिपतेः फणा स्फटा तस्याः शकलैः खण्डैरिव । अर्धविकसितत्वसाम्यादाह - पाश्चेति । पञ्चजने पाताले भवः पाञ्चजन्यो जनार्दनशङ्ख स्तस्य सहोदरैरेकोदरसमुत्पन्नैरिव । हृदयस्य पुण्डरीकाकारत्वात्तत्साम्येनाह - क्षीरेति । क्षीरोदस्य यद्धृदयं स्वान्तं तद्वदाकार आकृतिर्येषां तैः । अग्रसंकुचितत्वसाम्येनाह - उपेति । उपपादितो विहितो मौक्तिकानां रसोद्भवानां मुकुटविभ्रम उष्णीषभ्रान्तिर्यैः । अथ स्थावररूपमधिकृत्य त्र्यम्बकं विशेषयन्नाह – अमलेति । अमला निर्मला या मुक्ताशिला मौक्तिकशिला तस्या घटितं निर्मितं लिङ्गं यस्य स तम् । जङ्गमरूपमधिकृ त्याह - अशेषेति । अशेषं यत्रिभुवनं त्रिविष्टपं तेन वन्दितौ नमस्कृतौ चरणौ यस्य स तम् । चरेति । चराचरस्य जीवलोकस्य गुरुं हिताहितप्राप्तिपरिहारोपदेष्टारम् । चतुरिति । चत्वारि मुखानि यस्य स टिप्प० - 1 गर्भधूलिभिरिति पाठस्वीकारः प्रामादिकः । 'पवनोद्धूतैः' इति पुंविशेषणाऽयोगात् । 'स्त्रियां धूलिः' इति कोशोक्तेः । तस्मात् 'धूलिपटलै' रिति पाठ उचितः । 2 अर्थात् केतकधूलिभिर्धवलीक्रियमाणो नास्ति किंतु सिद्धाश्रमप्रवेशजन्यैः शुचिभिः पुण्यैरेव गृहीतशरीर इत्याशयः । 3 'अचिरोद्धृतैः' इत्येव पाठ उचितः । पाठा० - १ तलभागनिविष्टम्. २ शूलपाणे: सिद्धायतनम् ३ उद्धृतैः ४ समाघट्टद्भिः ६ अचिरोद्धतैः . ७ आर्द्रार्द्रदलशिखर; आर्द्रार्द्रशिखर. G " ५ धूलिधवलैः. महाश्वेता ] पूर्वभागः । २७७ तस्य च दक्षिणां मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचितब्रह्मासनाम्, अतिविस्तारिणा सर्वदिङ्खलावकेन प्रलयविद्भुत क्षीर पयोधिपूरपाण्डुरेणातिदीर्घकालसंचितेन तपोराशिनेव सर्वतो विसर्पता पादपान्तरैत्रिस्रोतोजलनिभेन पिण्डीभूय वहतेव देहप्रभावितानेन सगिरिकाननं देन्तमयमिव तं प्रदेशं कुर्वतीम्, अन्यथैव धवलयन्त कैलासगिरिम्, अन्तर्द्रष्टुरपि लोचनपथप्रविष्टेन श्वेतिमानमिव मनोनयन्तीम्, अंतिधवलप्रभापरिगतदेहतया स्फटिकगृहगतामिव दुग्धसलिलममामिव विमलचेलांशुकान्तरितामिव आदर्शतलसंक्रान्तामिव शरद भ्रपटलतिरस्कृतामिव अंपरिस्फुटविभाव्यमानावयवाम् पञ्चमहाभूतमयमपहाय द्रव्या.) चतुर्मुखस्तम् । ननु महादेवस्य पञ्चवऋत्वात्कथमत्र चतुर्मुखोपवर्णन मिति वाच्यम् । सामान्यतस्तन्निवासिनः प्रयोजनवशाच्चतुर्मुखस्यापि संभवात् । तस्य त्र्यम्बकस्य दक्षिणामपसव्यां मूर्ति प्रतिमामाश्रित्याश्रयणं कृत्वाऽभिमुखीं संमुखीमासीनां निषण्णां प्रतिपनं स्वीकृतं पाशुपतमीश्वरसक्तं व्रतं नियमविशेषो यया तां कन्यकां महाश्वेताभिधानां ददर्शेति दूरेणान्वयः । इतः कन्यकां विशेषयन्नाह - उपेति । उपरचितं निर्मितं ब्रह्मासनं ध्यानासनं यया सा ताम् । पुनः किं कुर्वतीम् । सगिरिकाननं तं प्रदेश दन्तमयमिव गजदन्तनिर्मितमिव कुर्वतीं प्रणयन्तीम् । केन । देहप्रभावितानेन शरीरकान्तिकलापेन । अथ प्रभावितानं विशेषयन्नाह - अतीति । अतिशयेन विस्तारिणा प्रसरणशीलेन । सर्वेति । सर्वदिङ्मुखानां प्लावकेनाच्छादकेन । प्रलयेति । प्रलयः कल्पान्तस्तेन विलुतो विस्तृतो यः क्षीरपयोधिस्तस्य पूरो रयस्तद्वत्पाण्डुरेण शुभ्रेण । उज्वलत्वसाम्यादाह — अतीति । अतिदीर्वोऽत्यायतो यः कालोऽनेहा तेन संचितेनैकत्रीकृतेन विसर्पता प्रचलता तपोराशिना तपःसमूहेनेव । अतिस्वच्छत्वादाह पादपेति । पादपान्तरैर्वृक्षान्तरैः प्रतिबन्धकीभूतैः पिण्डीभूय समूहीभूय वहतेव त्रिस्रोतोजलनिभेन गङ्गाम्भःसदृशेन । कैलासस्य श्वेतत्वादेतस्य च तदतिशयवत्त्वादाह - अन्यथेति । भिन्नप्रकारेण तेनैव देहप्रभा वितानेन कैलासगिरिं रजताद्रिं धवलयन्तीं श्वेतिमानमापादयन्तीमिव । द्रष्टुरिति । तेनैव प्रभावितानेन द्रष्टुरपि विलोकयितुरप्यन्तर्लोचनपथप्रविष्टेन नेत्रमध्यमार्गगतेन मनश्चित्तं श्वेतिमानं शुक्लिमानं नयन्तीमिव प्रापयन्तीमिव । अतीति । अतिधवलातिशुभ्रा या प्रभा कान्तिस्तया परिगतो व्याप्तो देहो यस्यास्तस्या भावस्तत्ता तया । तथा च देहस्य प्रभारूपस्वच्छद्रव्यान्तरितत्वान्न परिस्फुटं विभाव्यमाना ज्ञायमाना अवयवा अपघना यस्याः । स्वच्छद्रव्यान्तरितत्वसाम्येनोत्प्रेक्षते - स्फटिकेति । स्फटिकञ्चन्द्रकान्तस्तस्य गृहं धाम तत्र गतामिव प्राप्तामिव । दुग्धेति । दुग्धसलिले क्षीरोदे मनामिव ब्रुडितामिव । विमलेति । विमलं निर्मलं यच्चेलांशुकं वस्त्रविशेषस्तेनान्तरितामिव व्यवहितामिव । आदर्शति । आदर्शतलं मुकुरतले तत्र संक्रान्तामिव प्रतिबिम्बितामिव । शरदिति । शरद्धनात्ययस्तस्या अभ्रपटलानि मेघवृन्दानि तैस्तिरस्कृतामन्तर्हितामिव । अपरिस्फुटावयवत्वादेवाशङ्कते – पञ्चेति । पञ्चमहाभूतमयं पृथिव्यायात्मकं द्रव्यरूपमङ्गनिष्पादनोपकरणकलापं शरीरजनकसामग्रीमपहाय दूरीकृत्य केवलेन धवलगुणेनैवोत्पादितां निर्मिताम् । शौक्लयातिशयवत्त्वादिति भावः । केचिदपहायेत्यस्योभयंत्र संबन्धमाहुः । तथा - धवलगुणेनेवोत्पादितायास्तस्याः पृथिव्याद्यनात्मकत्वे द्रव्यत्वमेव न स्यादित्यत आह - द्रव्येति । द्रव्यात्मकं www टिप्प० - 1 अज्ञानमेवेदम् । 'तदूर्ध्वभाग: संजातश्चतुर्वऋश्चतुर्भुजः । पद्मकेशरगौराङ्गकायो ब्रह्मा महेश्वरः ॥' इति कालिकापुराण ( द्वादशाध्याय ) वचनाचतुर्मुखी अपि शिवस्य मूर्तिः । दक्षिणाभि मुखीमित्यर्थः । 3 'चन्द्रमयमिव' इत्येव पाठः कविहृदयानुकूलः, प्रमाणं चात्र सहृदयहृदयम् । पाठा० -१ अभिमुखम् २ परिप्लुत ३ पयोधिपयःपूर ४ तपोराशिनैव विसर्पता ५ हृतमयम् ; चन्द्रमयम्. ६ लोचनपथं प्रविश्य ७ अतिबहल, ८ चीनांशुक ९ परिस्फुट २७८ कादम्बरी । [कथायाम्त्मकमङ्गे निष्पादनोपकरणकलापं धवलगुणेनेव केवलेनोत्पादिताम्, अध्वरक्रिया मिवोद्भूतगणक चमहभयोपसेवितत्र्यम्बकाम्, राधनाम्, क्षीरोदाधिदेवतामिव 9 रतिमिवै मदनदेहनिमित्तं हरप्रसादनार्थमा गृहीतहरासहवास परिचितहरचन्द्रलेखोत्कण्ठाम् इन्दुमूर्तिमिव स्वर्भानुभयकृतत्रिनयनशरणगमनाम् ऐरावतदेहच्छविमिव गजाजिनावगुण्ठनोत्कण्ठित शितिकण्ठचिन्तितोपनताम्, पशुपतिदक्षिणमुखहासच्छविमिव बहिरंगत्य कृतावस्थानाम्, ." स्वरूपमपहाय । ननु द्रव्यत्वाभावेऽङ्गानि शरीरावयवास्तन्निष्पादने या उपकरणसामध्यपेक्षिता सा न स्यात् । तस्याश्च द्रव्यात्मककार्ये जननेऽसामर्थ्यादत आह - अङ्गेति । तदप्यपहाय । न चाभाव एव दूषणम् । अलौकिक प्रसिद्धेः दूषणस्यैव भूषणत्वात् । अध्वरक्रियायाः स्त्रीत्वमाश्रित्याह- अध्र इति । अध्वरो दक्षस्य यज्ञस्तस्य किया कर्म तामिव । उभयसादृश्यमाह - उद्धतेति । उद्धता अनार्या ये गणा मनुष्यवृन्दाः पार्षदाश्च तैर्यः कचग्रहः केशग्रहस्तस्माद्यद्भयं तेनोपसेवितः सपर्याविषयीकृतरूयम्बक ईश्वरो यया सा ताम् । दक्षप्रजापतिनाध्वर ईश्वरो नाहूतः । तेन गणाः प्रेषिताः । तैरध्वरविनाशो विध्वस्त इति पुराणप्रसिद्धम् । रतिरिति । रतिर्मनोभवस्य स्त्री तामिव । उभयोः साम्यं स्पष्ट माह- मदनेति । मदनेन कंदर्पेण पीडितो यो देहः शरीरं तन्निमित्तं तदर्थम् । मदनोपशान्त्यर्थमित्यर्थः । सा च हरप्रसन्नतायां स्यादित्याशयेनाह - हर इति । हरस्येश्वरस्य प्रसादनार्थं प्रसत्त्या आगृहीता स्वीकृता हराराधनेश्वरसपर्या यया सा ताम् । मदनस्य देह इव देहो यस्यैवंविधः पुण्डरीकमुनिस्तन्निमित्तं तदर्थमित्यर्थो वा । पक्षे मदनदेहनिमित्तम् । शेषं पूर्ववत् । ईश्वरेण कंदर्पदेहो भस्मसात्कृतः, पश्चाद्रत्येश्वरं सेवया प्रसन्नीकृत्य नवीनदेहः कारित इति पुराणप्रसिद्धम् । क्षीरोदेति । क्षीरसमुद्रस्याधिदेवताधिष्ठात्री लक्ष्मीस्तामिव । उभयं विशेषयन्नाह -- सहेति । महादेवस्य निकटे कन्याया महाश्वेतायाश्चन्द्रलेखासहवासात्परिचितिविशेषतो दृष्टायां हरचन्द्रलेखा यामुत्कण्ठाद्भुतातिशयो यस्याः सा ताम् । पक्षे क्षीरोदधौ समुद्रे यः पूर्वचन्द्रेण सहवासस्तेन परिचिता निर्णीता हरस्य चन्द्रकला तस्यामुत्कंठा रणरणकं यस्या इति बहुव्रीहिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य मूर्तिः शरीरं तामित्र । उभयोः सादृश्यार्थमाह - स्वर्भानुरिति । स्वर्गतो योऽत्युचो भानुः सूर्यस्तस्यातपलक्षणं भयं तस्मात्कृतं विहितं त्रिनयनस्य शम्भोरछायावशाच्छरणे गृह आगमनं यया सा ताम् । पक्षे स्वर्भानुः सैहिकेयः । शरणार्थं त्राणार्थम् । शेषं पूर्ववत् । ऐरावतेति । ऐरावतो हस्तिमलस्तस्य देहच्छवि: शरीरत्वक् तामिव । उभयोः साम्यमाह - गजेति । गजाजिनेन हस्तिचर्मणावगुण्ठनमाच्छादनं तस्मिन्नुत्कण्ठितो यः शितिकण्ठो महादेवस्तस्य चिन्तितं समीहितमुपनतं पूरितं यया सा ताम् । पक्षे गजाजिनावगुण्ठनोत्कण्ठितेश्वरस्य चिन्तितेनापेक्षयोपनतां प्राप्ताम् । पशुपेति । पशुपतिरीश्वरस्तस्य दक्षिणमुखस्यापसव्याननस्य यो हासो हास्यं तस्य छविः शोभा तामिव । अत्र दक्षिणग्रहणं प्रायशस्तत्र हास एवेति तदर्थम् । उभयोः साम्यमाह - बहिरिति । स्वस्थानान्मुखाच्च बहिरागत्य कृतमस्थानं यये त्यभङ्गश्लेषः । श्वेतत्वपवित्रत्वसाम्यादाह — शरीरिणीं देहधारिणीं रुद्रस्येश्वरस्योद्धूलनमर्दनं तस्य भूतं टिप्प० - 1 'अध्वरक्रियामिव' इति सामान्यतः पाठाश्रयणमज्ञानम्, नहि सामान्ययज्ञे केशाकर्षणं विहितम् । तस्मात् 'दक्षाध्वरक्रियामिव' इत्येव पाठ उचितः । 2 अशुद्धमिदम्, गणाः प्रमथा इत्येवोचितम् । 3 प्रलापप्रायमिदम् । राहोर्भयेन कृतं त्रिनयनस्य शिवस्य शरणगमनं यथा ईदृशीं चन्द्रस्य मूर्तिमिव । अस्मिन्नर्थे महाश्वेतापक्षे योजनस्य काssवश्यकता ? एवमग्रेपि बोध्यम् । पाठा० •१ मङ्गल. २ एवं. ३ दक्षाध्वर. ४ उद्धृत ५ निरन्तर भस्मोलुण्ठनसिताङ्ग रतिम्. ६ क्षीरोदधि. ७ उत्कण्ठाकृष्टाम्; उत्कण्ठो कृष्टाम्. ८ शरणागमना, ९ निर्गत्य, महाश्वेता ] पूर्वभागः । , , शरीरिणीमिव रुंद्रोद्धूलनभूतिम्, णाविर्भूतां ज्योत्स्नामिव हरकण्ठान्धकार विघट्टनोद्यमप्राप्ताम्, गौरी मैनः शुद्धिमिव कृतदेहपरिग्रहाम्, कार्तिकेयकौमारव्रतक्रियामिव मूर्तिमतीम्, गिरिशेंवृषभदेहधुतिमिव पृथगवस्थिताम्, आयतनतरुकुसुमसमृद्धिमिव शंकराभ्यर्चनाय स्वयमुद्यताम्, पितामहत्तपःसिद्धिमिव महीतलमवतीर्णाम् आदियुगप्रजापतिकीर्तिमिव सप्तलोकभ्रमणखेद विश्रान्ताम् त्रयीमिव कलियुगध्वस्तधर्मशोकगृहीतवनवासाम्, आगामिकृतयुग बीजकलामिव प्रमदारूपेणावस्थिताम् देहवतीमिव मुनिजनध्यानसंपदम् अमरगजवीथीमिवाभ्रगङ्गाभ्यागमवेगपतिताम्, कैलासश्रियमिव दशमुखोन्मूलनक्षोभनिपतिताम् श्वेतद्वीपलक्ष्मीमिवान्यद्वीपावलोकनकुतूहलागताम् काशकुसुमविकासकान्तिमिव शरत्समय€ ." २७९ भस्मेव । प्रकाशरूपत्वसाम्येनाह - ज्योत्स्नेति । आविर्भूता प्रकटीभूता ज्योत्स्ना कौमुदी तामिव । हरेति । हरकण्ठे यः कृष्णत्वसाम्यादन्धकारस्तस्य विघट्टनं दूरीकरणं तत्र य उद्यमः प्रयत्नस्तेन प्राप्तां समागताम् । हरसंनिधानसाम्येनाह - गौरीति । गौरी पार्वती तस्या मनःशुद्धिश्चित्तनैर्मल्यं तामिव । अमूतया मूर्तेन कथं साम्यं स्यादित्याह- कृतेति । कृतो विहितो देहस्य परिग्रहः स्वीकारो यया सा ताम् । सातिशयत्वसाम्येनाह – कार्तीति । कार्तिकेयस्य षडाननस्य या कौमारव्रतक्रिया बाल्यावस्थायां यत्तपोनुष्ठानं तामिव । अत्रापि क्रियारूपत्वेन तदसंभवादाह - मूर्तीति । मूर्तिमतीम् । सशरीरामित्यर्थः । गिरिशेति । गिरिशो महादेवस्तस्य यो वृषभो बलीवर्दस्तस्य देहद्युतिः शरीरच्छविस्तामिव । तस्या गुणरूपत्वेन तदुपमानाभावादाह–पृथगिति । शरीराद्वहिर्निर्गय पृथगवस्थिताम् । सशरीरामित्यर्थः । आयतनेति । आयतनं चैत्यं तस्य तरवो वृक्षास्तेषां कुसुमसमृद्धिः पुष्पसंपत् तामिव । तस्या आगमने निदानमाह - शंक रेति । शंकरस्येश्वरस्याभ्यर्चनं पूजनं तदर्थं स्वयमुद्यतामुद्योगयुक्ताम् । पितेति । पितामहस्य ब्रह्मणो या तपःसिद्धिस्तामिव । तपः सिद्धेरात्मगतत्वेनोपमानाभावादाह - महीतलेऽवतीर्णां कृतावताराम् । आदीति । आदियुगे कृतयुगे यः प्रजापतिर्ब्रह्मा मरीच्यादयश्च तस्य तेषां वा कीर्तिर्यशस्तामित्र । तस्या एकत्रावस्थाने कारणमाह - सप्तेति । सप्तसु लोकेषु यद्भ्रमणं पर्यटनं तस्माद्यः खेदः श्रमस्तेन विश्रान्तामुपविष्टाम् । त्रयीति । ऋग्यजुःसामवेद स्त्रयी तामिव । एतस्यास्तत्रागमने हेतुमाह - कलीति । कलियुगेन कलिकालेन ध्वस्तो दूरीकृतो यो धर्मो वृषस्तस्माद्यः शोकः शुक् तेन गृहीतः स्वीकृतो वनवासोऽरण्यनिवासो यया सा ताम् । इयमपि ध्वस्तधर्मशोकेन गृहीतवनवासेत्युभयोः साम्यम् । धर्मातिशयवचनसाम्येनाहआगामीति । आगाम्यग्रेभावी यः कृतयुगस्तस्य या बीजकला निदानमात्रं तामिव प्रमदारूपेण स्त्रीरूपेणावस्थितामासेदुषीम् । देहेति । देहवतीं शरीरधारिणीं मुनिजना वाचंयमास्तेषां ध्यानं प्राणायामस्तस्य संपत् समृद्धि: तामिव । अमरेति । अमरा देवास्तेषां हस्तिनस्तेषां वीथी ततिस्तामिव । गजसमूहस्य तत्रागमने निदानमाह - अभ्रेति । अभ्रगङ्गाकाशगङ्गा तस्यांमभ्यागमः संमुखगमनं तत्र यो वेगस्त्वरा तेन पतितां स्रस्ताम् । कैलासेति । कैलासो रजताद्रिस्तस्य श्रीः शोभा तामिव । कीदृशीम् । दशेति । दशमुखो रावणस्तन यदुन्मूलनं तस्माद्यः क्षोभस्त्रा सस्तस्मान्निपतितां सस्ताम् । इयमपि क्षोभेण निपतिता । श्वैल्यातिशयं वर्णयन्नाह – श्वेतेति । यत्र सर्वमेव वस्तु श्वेतं तच्छ्रेतद्वीपं तस्य या लक्ष्मीः श्रीस्तामिव । सा श्वेतद्वीप एव, नास्मिन्प्रदेश इत्याह - अन्येति । इतरद्वीपानां यदवलोकनं वीक्षणं तदेव कुतूहलमाश्चर्यं तेनागतां प्राप्ताम् । काश इति । काश इति इषीका तस्य कुसुमानि पुष्पाणि तेषां विकासो विकसनं तस्य कान्तिः प्रभा तामिव । कीदृशीम् । शरत्समयं घनात्ययकालमुदीक्षमाणां प्रतीक्षमाणाम् । टिप्प० -1 अमोयम् । काशा: 'काँस' इति भाषायां ख्यातस्तृणविशेषः । पाठा० -१ हर. २ विभूतिम्, ३ तपःसिद्धिम् ४ गिरीश ५ द्वीपान्तर shematiy २८० कादम्बरी । [ कथायाम्9 मुदीक्षमाणाम् शेषशरीरच्छायामिव रसातलमपहाय निर्गताम्, मुसलायुधदेहप्रभावि मधुमद विघूर्णनायास विगलिताम्, शुक्लपक्षपरंपरामिव पुञ्जीकृताम्, सर्वहंसैरिव धवलतया कृतसंविभागाम् धर्महृदयादिव विनिर्गताम्, शङ्खादिवोत्कीर्णाम्, मुक्ताफला दिवाकृष्टाम्, मृणालैरिव विरचितावयवाम् दन्तदलैरिव घटिताम्, इन्दुकरकूर्चकैरिवाक्षालिताम् ; वर्णसुधाच्छटाभिरिवाच्छुरिताम्, अमृतफेनपिण्डैरिव पाण्डुरीकृताम्, पारदरसधाराभिरिव धौताम्, रजतद्रवेणेव निर्मृष्टाम्, चन्द्रमण्डलादिवोत्कीर्णाम्, कुटजकुन्द सिन्दुवारकुसुमकुछ विभिरिवोल्लासिताम्, इयत्तामिव धवलिम्नः, स्कन्धावलम्बिनीभिरुदयतटगतादर्कबिम्बादुद्धृत्य बालरश्मिप्रभाभिरिव निर्मिताभिरुन्मिषत्तडित्तरलतेजस्ताम्राभिरचिरस्नानावस्थित" .9 शेषेति । शेषो नागराजस्तस्य यच्छरीरं तस्य च्छाया कान्तिस्तामिव । अत्र कथं तस्या आगम इत्याकायायामाह - रसेति । रसातलं भूतलमपहाय त्यक्त्वा निर्गतां बहिरागताम् । मुसलेति । मुसलायुधो बलभद्रस्तस्य या देहप्रभा शरीरद्युतिस्तामिव । तस्या अत्रासंभवमाशङ्कयाह - मध्विति । मधुमदेन कादम्बरीमवेन यद्विघूर्णन॑' देहभ्रमस्तस्माद्य आयासः खेदस्तेन विगलितां च्युताम् । शुक्लेति । शुक्लपक्षस्तस्य परंपरा संततिस्तामिव । तस्या एकत्रावस्थितेरभावादाह - पुञ्जीति । पुञ्जीकृतामेकत्रीकृताम् । सर्वेति । धवलतया श्वेततया सर्वहंसैः समग्रसितच्छदैः कृतो विहितः संविभागः स्वश्वैत्यार्पणं यस्याः सा तामिव । धर्मेति । धर्मो वृषस्तस्य हृदयाद्वक्षसो विनिर्गतामिव । शङ्ख इति । शङ्खाजलजादुत्कीर्णामिवोत्कीर्य निर्मितामिव । मुक्तेति । मुक्ताफलाद्र सोद्भवादाकृष्टामिवाकर्षितामिव । मृणालेति । मृणालैस्तन्तुलैर्विरचिता विहिता अवयवा अपघना यस्याः सा तामिव । दन्तेति । दन्ता हस्तिमुखरदनास्तेषां दलैः खण्डैर्घटितामिव निर्मितामिव । इन्दुरिति । इन्दुश्चन्द्रस्तस्य करा अंशवस्त एव कूर्चकाः कुञ्चिकास्तैराक्षालितामिव धौतामिव । वर्णेति । वर्णा शुक्ला । 'वर्णः स्वर्णे मखे तौ । रूपे द्विजादौ शुक्लादौ 'कथायामक्षरे गुणे' इत्यनेकार्थः । एतादृशी या सुधा गृहधवलीकरणद्रव्यं तस्याश्छटाभिः पृषद्भिराच्छुरितामिवाच्छोटितामिव । अमृत इति । अमृतस्य पीयूषस्य ये फेनाः पिण्डाः डिण्डीरसमूहास्तैः पाण्डुरीकृतामिव शुक्लीकृतामिव । पारदेति । पारदो रसेन्द्रस्तस्य रसो द्रवस्तस्य धाराः पयस्ताभिर्भौतामिव क्षालितामिव । रजेति । रजतं रौप्यं तद्रवेण तद्रसेन निर्मृष्टामिव निघर्षितामिव । चन्द्र इति । चन्द्रमण्डलं शशिबिम्बं तस्मादुत्कीर्णामिवोत्कीर्य कर्षितामिव । कुटजेति । कुटजो गिरिमल्लिका, कुन्दः प्रसिद्धः, सिन्दुवारो निर्गुण्डी, एतेषां कुसुमानि तेषां छवयः कान्तयस्ताभिरुल्लासितामिव प्रगुणीकृतशोभामिव । धवलि म्नेति । धवलिम्नः श्वेतिम्न इयत्तामिवैतावत्त्वमिव । परमावधिमिवेत्यर्थः । अत्र सर्वत्र श्वेतत्वसाम्यादुपमा नोपमेयभावः । न तु व्यर्थता । पुनः प्रकारान्तरेण विशेषयन्नाह - जटाभिरिति जटा सटास्ताभिरुद्भा सित उत्प्राबल्येन शोभितः शिरोभाग उत्तमाङ्गप्रदेशो यस्याः सी ताम् । अथ जटा विशेषयन्नाह - स्क न्धेति । स्कन्धो भुजान्तरं तत्रावलम्बिनीभिरवलम्बितुं शीलं यासां ताभिः । तासामारक्तत्वं वर्णयन्नाह उदयेति । उदय उदयाचलस्तस्य तटं प्रस्थं तत्र गतात्प्राप्तादर्क बिम्बात्सूर्यमण्डलादुद्धृत्य निष्कास्य बालरशिमलातपस्तस्य प्रभाभिः कान्तिभिर्निर्मिताभिरिवोत्पादिताभिरिव । उन्मिपदिति । उन्मिषन्ती स्फुरन्ती या तडिद्विद्युत्तस्या यत्तरलं चञ्चलं तेजस्तद्वत्ताम्राभिः श्वेतरक्ताभिः । अचिरेति । अचिरं यत्स्नानमाप्लवस्तेटिप्प० - 1 पर्यन्ततो भ्रमणम्, 'धुर घूर्ण भ्रमणे' इति धातुपाठात् । 2 इदमपि पाण्डित्याभिनयमात्रम् । वर्णकारिणी सुधा वर्णसुधा ( शुक्लवर्णकारिणी सुधा 'कली' इति ख्याता ) इति स्पष्टोऽर्थः । पाठा०- - १ निर्गताम् ; उद्गताम्. २ प्रक्षालिताम् ३ छुरिताम् ४ सिन्धुवार, ५ उदयिताअ. ६ गतार्क • ७ तडित्तन्तुतरल. महाश्वेता ] पूर्वभागः । विरलवारिकणतया प्रणामलग्नपशुपति चरणभस्मचूर्णाभिरिव जटाभिरुद्भासितशिरोभागाम्, जटापाशप्रथितमुत्तमाङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वय मुद्वहन्तीम्, रविरथतुरङ्गखुरक्षुण्णनक्षत्रक्षोद विशदेन भस्मना कृतललाटपट्टिकाम्, शिखरशिलाश्लिष्टशशाङ्ककलामिव शैलराजमेखलाम्, अतुलभक्तिप्रसाधितया र्लेक्ष्यीकृतलिङ्गयापरैयेव पुण्डरीकमालया दृष्ट्या संभावयन्तीं भूतनाथम्, अनवरतगीत परिस्फुरिताधरपुटवशादतिशुचिभिः शुद्धहृदयमयूखैरव गीतगुणैरिव स्वरैरिव स्तुतिवर्णैरिव मूर्तिमद्भिर्मुखान्निष्पतद्भिर्दशनांशुभिः पुनरपि रुपयन्तीं गौरीनाथम्, अतिविमलैश्च वेदार्थैरिव साक्षात्पितामहमुखादाकृष्प्रैर्गायत्रीवर्णैरिव ग्रंथन स्फीततामुपगतै नरायणनाभिपुण्डरी कबी जै रिवोद्धृतैः सप्तर्षिभिरिव कैरस्पर्शपूतमात्मान२८१ ब नावस्थिता अभ्यन्तरे लग्ना ये विरलाः स्तोका वारिकणा जलविप्रुषस्तेषां भावस्तत्ता तया । वारिकणानां श्वेतत्वादाह — प्रणामेति । प्रणामो नमस्कारस्तत्र लग्नं पशुपतेरीश्वरस्य चरणभस्म पादविभूतिक्षोदो याखेवंभूताभिरिव । जटापाशे जटाजूटे प्रथितं गुम्फितम् । मणीति । भक्तिविशेषप्रकटनार्थं मणिनिर्मितं रत्नघटितं नाम्नो मूलबीजस्याहिं यस्मिन्नेवंभूतमीश्वरचरणद्वयं शंभुपादयुगलमुत्तमाङ्गेन शिरसोद्वहन्तीं धारयन्तीम् । रविरिति । रविरथस्य सूर्यस्यन्दनस्य ये तुरङ्गा अवास्तेषां खुराः शफास्तैः क्षुण्णानि चूर्णितानि यानि नक्षत्राणि भानि तेषां क्षोदचूर्ण तद्वद्विशदेन निर्मलेन भस्मना विभूत्या कृता विहिता ललाटपट्टिका पुण्ड्रविशेषो यया सा ताम् । ललाटस्य दृढत्वेन शिलारूपत्व ललाटपट्टिकायाश्च त्रिपुण्ड्ररूपत्वेनार्धचन्द्राकारलादाह – शिखरेति । शिखरशिलायां सानुशिलायां श्लिष्टा लग्ना शशाङ्ककला यस्यामेवंभूतां शैलराजमेखलामिव हिमाचलमध्यभागमिव । किं कुर्वतीम् । संभावयन्तीं संभावनाविषयी कुर्वतीम् । कम् । भूतनाथं महादेवम् । कया । दृष्ट्या । श्वेतत्वसाम्यादाह — अपरया भिन्नया पुण्डरीकमालयेव सिताम्भोजपङ्कथेव । अथ दृष्टिं विशेषयन्नाह — अतुलेति । अतुला निरुपमा या भक्तिराराध्यत्वेन ज्ञानं तया प्रसौधितया प्रसन्नया । लक्ष्यीति । लक्ष्यीकृतं ध्यानावलम्बनीकृतं लिङ्गं स्थावरं यया सा तया । पुनस्तामेव विशेषयन्नाह अनवेति । अनवरतं निरन्तरं यद्गीतं गानं तेन परिस्फुरितः प्रचलितो योऽधरपुट ओष्ठपुढस्तद्वशान्मुखादास्यान्निष्पतद्भिः क्षरद्भिर्दशनांशुभिर्दन्तदीप्तिभिः । पुनरपि पूजाप्रारम्भे स्त्रपितत्वाद्वितीयवारमपि गौरीनाथं महादेवं स्त्रपयन्तीं स्नपनं कुर्वतीम् । अथ दशनां शूनिवशिष्टि - अतीति । अतिशयेन सर्वाधिक्येन शुचिभिः पवित्रैः । अतिनैर्मल्यादाह - शुद्धेति । शुद्धं निर्मलं यद्धृदयं चेतस्तस्य मयूखाः किरणास्तैरिव । गीतेति । गीतानां गुणा मधुरत्वादयस्तैरिव । स्वरेति । स्वराः षड्जादयस्तैरिव । स्तुतीति । स्तुतिर्नु तिस्तस्या वर्णैरिवाक्षरैरिव । वर्णानां तावत्कालं स्थातुमशक्यत्वात्तदभावादाह - मूर्तिरिति । पुनस्तां विशेषयितुमक्षवलयगतमुक्ताफलान्यादौ विशेषयन्नाह – अतीति । अतिबिमलैरतिनिर्मलैर्वेदा ऋक्प्रभृतयस्तेषामर्थैरिवाभिधेयैरिव । तस्यां तदसंभवमाशङ्ख्याह - साक्षादिति । पितामहमुखात्प्रजापति वदनात्साक्षादव्यवधानादाकृष्टेरिवाकर्षितैरिव । गायत्रीति । गायत्री मन्त्र विशेषस्तस्या वर्णैरक्षरैरिव । वर्णानाममूर्त लात्तदसंभवादाह — ग्रथनेति । प्रथनेन रचनाविशेषेण स्फीततां पुष्टतामुपगतैः प्राप्तैः । अतिश्वेतत्वसाम्यादाह नारा इति । नारायणस्य जनार्दनस्य नाभिपुण्डरीकं नाभिकमलं तस्य बीजैरिवोत्पत्तिनिदानैरिव उद्धृतैः । सप्तर्षीति । करस्पर्शेन हस्तसं श्लेषेण पूतं पवित्रमात्मान मिच्छद्भिर्वान्छद्भिस्तारकारूपेण नक्षत्रस्वरूपेणा । टिप्प० - 1 न किल चन्दनचर्चा ललाटपट्टिका इति प्रसिद्धा । अत एव 'भस्मनालंकृतललाटपट्टिकाम्' इत्येव पाठः । भस्मना अलंकृतो ललाटपट्टो भालस्थलं यस्याः तामिति तदर्थः । 2 सभक्तिदर्शनेन आद्रियमाणाम् । 3 अलंकृतरूपेण सज्जितया । 4 'कमलगट्टा' इति भाषाख्यातः पाठा० - १तुरग. २ खुरमुख ३ अलंकृत ४ लक्ष्मीकृत ५ द्वितीययेव ६ गीतस्फुरित ७ गुणैरिव; स्तुतिवर्णैरिव॰ ८ गौरीपतिम्. ९ विमलै : १० ग्रथनताम्; ग्रथनाम् ; ग्रथिताम् ; ग्रन्थिताम्० ११ करतल. ३६ का० २८२ [ कथायाम्मिच्छद्भिस्तारका रूपेणागतैरामलकी फलस्थूलैर्मुक्ताफलैरुपरचितेनाक्षवलयेनाधिष्ठित कण्ठभागाम्, परिवेषपरिगतचन्द्रमण्डलामिव पौर्णमासीनिशाम्, अधोमुखहरशिरः कपालमण्डलाकारेण मोक्षद्वारनियुक्तकलशकान्तिना स्तनयुगलेनैकै हंसमिथुनसनाथामिव गङ्गाम्, गौरीसिंहसटामयेनेव चामररुचिराकृतिना स्तनयुगलमध्यनिबद्धग्रन्थिना कल्पतरुलतावल्कलेन कृतोत्तरीयकृत्याम्, अयुग्मलोचनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखंजालेनेव मण्डलीकृतेन ब्रह्मसूत्रेण पँवित्रीकृतकायाम्, आम्रपदीनेन च स्वभावसितेनापि ब्रह्मासनबन्धोतानाचरणतल प्रभापरिष्वङ्गालोहितायमानेन दुकूलपटेन प्रावृतनितम्बाम्, यौवनेनापि € कादम्बरी गतैः प्राप्तैः सप्तर्षिभिरिव । एतेन मुक्ताफलानां नक्षत्रसाम्यम् । परिमाणविशेषं प्रदर्शयन्नाह - आमेति । आमलकी शिवा तस्याः फलानि तद्वत्स्थूलैः स्थविष्ठेरेवंविधैर्मुक्ताफलै रसोद्भवैरुपरचितेन निर्मितेनाक्षवलयेन जपमालिकयाधिष्ठित आश्रितः कण्ठभागो निगरण प्रदेशो यस्याः सा ताम् । परीति । परिवेषः परिधिस्तेन परिगतं सहितं चन्द्रमण्डलं शशिबिम्बं यस्यामेतादृशीं पौर्णमासी निशामिव राकारात्रिमिव । मण्डलाकारत्वेनात्र वलयस्य परिवेषसाम्यम् तस्या मुखस्य च चन्द्रसाम्यम् तस्याश्च पौर्णमासीसाम्यम् । अथ पुनस्तत्कुचयुगलं तच्छ्यामत्वपीनत्ववर्णनद्वारा तामेव वर्णयन्नाह - अध इति । ऊर्ध्वमुखे कपाले श्यामता नास्तीत्यतोऽधोमुखं यद्धरशिरःकपालं तद्वन्मण्डलाकारेण वर्तुलाकृतिना । हरपददानेन स्तने धवलत्वं द्योत्यते । ईश्वरस्य॑ धवलत्वात् । मोक्ष इति । मोक्षो महानन्दस्तस्य द्वारे नियुक्तौ स्थापितौ यौ कलशौ निपौ तद्वत्कान्तिः शोभा यस्य स तेन । एवं विधेन स्तनयुगलेनोपलक्षिताम् । कामिव । एकं यद्धंस मिथुनं चक्राङ्गयुग्मं तेन सनाथां सहितां गङ्गामिव जाह्नवी मिव । पुनः किं विशिष्टाम् । कल्पतरवो मन्दारास्तेषां सरलत्वेन लतोपमानं, तस्या वल्कलेन चोचेन कृतमुत्तरीयमुपसंव्यानं तस्य कृत्यं कार्य यस्याः सा ताम् । अथ वल्कलं विशेषयन्नाह – चामरेति । चामरं वालव्यजनं तद्वद्रुचिरा मनोहराकृतिराकारो यस्य स तेन । प्रलम्बत्वेन श्वेतत्वेन च तत्साम्यमिति भावः । स्तनेति । स्तनयुगलस्य मध्ये निबद्धो ग्रन्थियः स तेन । उज्ज्वलवसाम्यादुत्प्रेक्षते — गौरीति । गौरी पार्वती तस्याः सिंहो मनस्तालस्तस्य या सटा जटा तन्मयेनेव तद्विकारेणेव । पुनः किंविशिष्टाम् । मण्डलीकृतेन वर्तुलीकृतेन ब्रह्मसूत्रेण यज्ञोपवीतेन पवित्रीकृतः पावनीकृतः कायो देहो यस्याः सा ताम् । अथ ब्रह्मसूत्रं विशिष्टि - अयुग्मेति । अयुग्मलोचन ईश्वरस्तस्य सकाशात्समीपात्प्रसादः प्रसन्नतां तेन लब्धेन प्राप्तेन । चूडेति । चूडामणीभूतो यश्चन्द्रस्तस्य मयूखाः किरणास्तेषां जालेनेव समूहेनेव । प्रकारान्तरेण तामेव विशेषयन्नाह – दुकूलेति । दुकूलपटेन क्षौमवस्त्रेण प्रावृतावाच्छादितौ नितम्बावारोहौ यस्याः सा ताम् । अथ दुकूलपटं विशेषयत्राह - आप्रपदीनेति । आपदव्यापकेन । त स्यादाप्रपदीनं व्याप्नोत्य हि यत्' इति कोशः । तेन स्वभावतः प्रकृत्या सितेनापि शुभ्रेणापि ब्रह्मासनं ध्यानासनं तस्य बन्धो रचनाविशेषस्तेनोत्तानमूर्ध्वमुखं यञ्चरणयोः पादयोस्तलं तस्य प्रभा कान्तिस्तस्याः परिष्वङ्गात्संश्लेषालोहितायमा नेनारुणायमानेन । एतेन चरणतलयोरारुण्यातिशयो व्यञ्जितः । पुनः कीदृशीम् । यौवनेनापि तारुण्येनाप्युपास्यमानां सेव्यमानाम् । केनेव । टिप्प० - 1 इदमपि टीकाकृतो मौढ्यमेव । हरशिरसि यत् कपालम् ( नरकपालम्) तत्तु स्वभावतः श्वेतमेव भवति । 2 यस्येत्युचितम् । 3 'स्यात्रिष्दाप्रपदीनं तत्' इत्यमरकोशपाठः । पाठा० -१ पौर्णमासीम् २ मोक्षद्वारकलशं; मोक्षपुरद्वारकलश ३ एकगतहंस, ४ वेतगङ्गाम, ५ चीराकृतिना. ६ पवित्रतरीकृत, ७ यौवनेनादिष्टेनोपसर्पिणा. महाश्वेता ] पूर्वभागः । २८३ स्वकालोपसर्पिणा निर्विकारेण विनीतेन शिष्येणेवोपास्यमानाम्, लावण्येनापि कृतपुण्येनेव स्वच्छात्मना परिगृहीताम्, रूपेणापि रुचिरलोचनेन विगतचापलेनायतनमृगेणेव सेविताम्, उत्सङ्गगतां च स्वसुतामिव सूक्ष्मदन्तैखण्डिकाङ्गुलीयैकापूरिताङ्गुलिना त्रिपुण्डूकावशिष्टभस्मपाण्डुरेण प्रकोष्ठबद्धशखण्डकेन नखमयूखदन्तुरतया गृहीत दन्तकोणेनेव दन्तमयीं दक्षिणकरेण वीणामास्फालयन्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, मणिमण्डपिकास्तम्भलग्नाभिरात्मा नुरूप।भिः सहचरीभिरिव सवीणाभिर्विलासवतीभिः प्रतिमाभिरुपेताम्, अपनाईलिङ्गसंक्रान्तप्रतिबिम्बतयातिप्रबलभक्त्याराधितस्य हृदयमिव प्रविष्टां हरस्य, हारलतयेव प्राप्तकण्ठयोस्वकालोपसर्पिणा निजसमयप्राप्तेन निर्विकारेण विकृतिवर्जितेन विनीतेने प्रसूतेनैवंभूतेन शिष्येणेव विनेयेनेव । यौवनस्यापि खकालोपसर्पित्वादिगुणविशिष्टत्वेन तत्साम्यमिति भावः । लावण्येति । लावण्यं चातुर्यं तेन परिगृहीतां स्वीकृताम् । केनेव । स्वच्छात्मना निर्मल चित्तेन कृतपुण्येनेन सुकृतिनेव । अत्र स्वच्छात्मत्वमेवोभयसाम्यम् । रूपेति । रूपं सौन्दर्य तेनापि सेवितामाश्रिताम् । केनेव । रुचिरलोचनेन मनोहरनेत्रेण विगतं चापलं चापल्यं यस्मादेवंभूतेनायतनमृगेणेव गृहसारङ्गेणेव । अत्र चारुलोचनलं विगतचापललं चोभयोः साम्यम् । पुनः किं कुर्वतीम् । दक्षिणकरेणापसव्यपाणिना दन्तमयीं गजदन्तप्रचुरां वीणां वल्लकीमास्फालयन्तीं वादयन्तीम् । अथ वीणां विशिष्टि - उत्सङ्गेति । उत्सङ्गगतां क्रोडप्राप्तां वसुतामिव निजात्मजामिव । अथ दक्षिणकरं विशेषयन्नाह - सूक्ष्मेति । सूक्ष्मा स्निग्धा या दन्तखण्डि कं नागदन्तशकलं तस्य यान्यङ्गुलीयकान्यङ्गुलीभूषणानि तैरापूरिता आकीर्णा व्याप्ता अङ्गुलयो यस्य स तेन । त्रिपुण्ड्रमिति । त्रिपुण्डुकात्तिलक विशेषादव शिष्टमुर्वरितं यद्भस्म तेन पाण्डुरेण श्वेतेन । प्रकोष्ठेति । प्रकोष्ठः कलाचिका तत्र बद्धो यः शङ्खस्तस्य खण्ड एव खण्डकः । स्वार्थे कः । जलजशकलं यस्मिन्स तेन । श्वेतत्वसाम्यादाह - नखेति । नखाः पुनर्भवास्तेषां मयूखाः किरणास्ते दन्तुरा उन्नता यस्मिंस्तस्य भावस्तत्ता तया गृहीत आत्तो दन्तस्य कोणो वीणादिवादनं येन स तेनेव । 'कोणो वीणादिवादनम्' इति कोशः । प्रत्यक्षेति । प्रत्यक्षामिन्द्रियगोचरां गन्धर्वविद्यामिव देवगायन विद्यामिव । मणिमण्डपिकानां स्वच्छतया तेषु प्रतिबिम्बवशादाह - मणीति । मणिमण्डपिका रत्ननिर्मिता चतुष्किका तस्याः स्तम्भलग्नाभिरात्मानुरूपाभिरात्यसदृशीभिः । 'यादृशं रूपे तादृशं प्रतिबिम्बे' इत्युक्तेः । सवीणाभिः सवल्लकीभिः प्रतिमाभिरात्मच्छायाभिः सहचरीभिरिव सपर्याकारिणीभिरिवोपेतां सहिताम् । स्नपनेति । स्नपनेन प्रक्षालनेन । एतेनागन्तुकमलनिवृत्तिः सूचिता । तेनार्द्रं यलिङ्गं तत्र संक्रान्तं प्रविष्टं यत्प्रतिबिम्बं तस्य भावस्तत्ता तथा । अतीति । अतिप्रबलत्युत्कृष्टा या भक्तिराराध्यत्वेन ज्ञानं तयाराधितस्य सेवितस्य हरस्येश्वरस्य हृदयमिव चित्तमिव प्रविष्टां प्रवेशं कृतवतीम् । पुनः किं कुर्वतीम् । विरूपाक्षं देवं गीत्या गानेनोपवीणयन्तीं स्तुवन्तीम् । अथ गीर्ति विशेषयन्नाह — हार इति । प्राप्तः कण्ठयोगो निगरणसंबन्धो रागाणामवस्थाविशेषो गीतशास्त्रप्रटिप्प० -1 शिक्षाजनित विनम्रतावाहिना । 2 सूक्ष्मा: ( अस्थूला: ) दस्तखण्डकाकुलीयकापूरिताः ( हस्तिदन्तखण्डनिर्मितानि यान्यङ्गुलीयकानि तैरापूरिताः ) अङ्गुलयो यस्य तेनेति स्पष्टोऽर्थः । 3 नखमयूखानां दन्तुरतया उन्नततया ( अर्थात् प्रसारिनखमयूखतया ) । 4 स्तम्भेषु प्रतिबिम्बिताभिरित्यर्थः । पाठा० - १ स्वकालोपसर्पिनिर्विकारविनीतेन; स्वकालोपसर्पिणा निर्विकारविनीतेन. २ निषेविताम्. ३ शङ्ख• खण्डिका; शङ्खघटित ४ पूरित; पूत. ५ अवशेष. ६ कोशेनेव. ७ सवीणाभि: प्रतिमाभिः• ८ हारलेखया, २८४ कादम्बरी । [ कथायामगया प्रहपङ्गधेव ध्रुवप्रतिबद्धया क्रुद्धयेष रोगरक्तमुखवर्णया मत्तयेव धूर्णितमैन्द्रतारयोन्मतयेवा ने ककृततालया मीमांसयेवानेकभावनानुविद्धया गीत्या देवं विरूपाक्षमुपवीणयन्तीम्, अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिनिश्चलकर्णपुटैर्मृगवराहवानरवारणशरभसिंहप्रभृतिभिर्वनचरैराबद्धमण्डलैराकर्ण्यमान गीतानुविद्धविपञ्चीनिंघोषाम्, अमरापगामिव नभसोडवतीर्णाम् दीक्षितवाचमिवाप्राकृताम्, त्रिपुरारिशरशलाकामिव टॅपोमयीम्, पीतामृतामिव वि.) ✔ तु सिद्धश्च यया सा तया । कयेव । हारलतयेव मुक्तास्रजेव । ग्रहेति । ग्रहाणां नक्षत्राणां पङ्क्तिः श्रेणिस्तयेव । उभयोः साम्यमाह—ध्रुवेति । ध्रुवो गीतशास्त्रे प्रसिद्धस्तेन प्रतिबद्धया रचितया । पक्षे ध्रुव औत्तानपादिः । क्रुद्धयेव कुपितयेव । उभयोः साम्यार्थमाह - रागरतेति । रागाः श्रीरागादयस्तै रक्ता मिश्रिता मुखे प्रारम्भे वर्णा अक्षराणि यस्यां सा तया । पक्षे रक्तो लोहितो मुख आये वर्णो यस्याः सा तया । मत्तयेव क्षीबयेव । एतयोस्तुल्यतां प्रदर्शयन्नाह - घूर्णितेति । घूर्णिता घोलनां प्राप्ता मन्द्रा उरः प्रदेशोद्भवास्ताराः शिरः समुद्भवाः स्वरा यस्यां सा तया । पक्षे घूर्णिताः प्रचलायिता मन्द्रा अलसास्तारा यस्यामिति विग्रहः । उन्मत्तेति । उन्मत्त येवोन्मादवायुग्रस्तयेव । उभयोः शब्दसादृश्यमाह - अनेकेति । अनेके बहवः कृता विहितास्तालाः कालक्रियामानरूपा यस्यां सा तया । पक्षे ताला हस्तसंयोगाः । मीमांसेति । मीमांसा विचारणा तयें । " मीमांसा तु विचारणा' इति कोशः । उभयोः सादृश्यार्थमाह - अनेकेति । अनेका विविध प्रकारा या भावना घोलनाविशेषास्तैरनुविद्धया स्थूतया । पक्षे भावना शब्दनिष्ठा, अर्थनिष्ठा, यागादिवृत्त्यनुकूलाख्यातार्थरूपा। पुनः प्रकारान्तरेण तामेव विशेषयन्नाह - आकये॑ति । आकर्ण्यमानः श्रूयमाणो गीतानुविद्धो गानसंयुक्तो विपच्या वल्लक्या निर्घोषो निनादो यस्याः सा ताम् । कैः । वनचरैररण्यचारिभिः । अथ वनचरान्विशेषयन्नाह - आवद्धेति । आबद्धं रचितं मण्डलं वलयाकारेणावस्थितियैः । अतीति । अतिमधुरं कर्णसुखदं यद्गीतं गानं तेनावकृष्टैराकृष्ठैः । निश्चलेति । निश्चलानि स्तिमितानि कर्णपुटानि येषां तैरत एव ध्यानं चित्तवृत्तिनिरोधमभ्यस्यद्भिरिवाभ्यासं कुर्वद्भिरिव । मृगेति । मृगाः कुरङ्गाः, वराहाः क्रोडाः, वानरा गोलाङ्गूलाः, वारणा हस्तिनः, शरभा अष्टपदाः, सिंहा हर्यक्षाः, एते प्रभृतय आया येषां तैः । तदा श्रितगीर्तस्य प्रवाहरूपत्वेनाह - अमरेति । अमरापगा गङ्गा तामिव । अत्र कथं तस्याः संभव इत्याशङ्ख्याहनभस इति । नभस आकाशादवतीर्णामागताम् । दीक्षितः सोमयाजी तस्य वाग् भारती तामिव । उभयोः साम्यमाह - अप्राकृतेति । अप्राकृताममानुषधर्मिणीम्, उत्तमकुलोत्पन्नां वा । पक्षेऽप्राकृतां साधुशब्दमयीम् । दीक्षितस्य प्राकृतवाङ्किषेधादिति भावः । कान्त्याधिक्यमाशाह — त्रिपुरारीति । त्रिपुरारमहादेवस्तस्य शरः शिलीमुखस्तस्य शलाकेषिका तामिव । उभयोस्तुल्यतामाह - तप इति । तपोमयीं तपसस्तेजोरूपत्वात् । पक्षे तेजोमयीं प्रकाशरूपाम् । ईश्वरबाणस्य लोहमयत्वादिति भावः । आन्तरगुणवर्णनद्वारा • तामेव विशेषयन्नाह - पीतेति । पीतमाखादितममृतं पीयूषं यया सैवंभूतामिव । एतयो: साम्यमाविष्कुर्व । टिप्प० – 1 'उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः । कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोयं मयोदितः ॥' संगीतदामोदरम् । 2 मण्डपिकायां परितो विसृताः । 3 घूर्णिते मदोद्रेकाच्चञ्चले मन्दे अलसे तारे ( कनीनिके ) यस्यास्ताम् । इत्यर्थ उचितः । 4 मूर्च्छनाः । 5 'भावनानाम भवितुर्भवनानुकूलो 'भावयित्तुर्व्यापारविशेषः, सा च द्विविधा ।' लौगाक्षिभास्करः । 6 अयमपि प्रलापः, 'कन्यकायाः श्चैत्यनिर्मलत्वाभ्यामुत्प्रेक्षामाह -' इत्युचितम् । 7 नारायणरूपेति यावत् । पाठा० --१ रक्तमुख, २ पूर्णित, ३ मन्द, ४ उन्मत्तयांनेक. ५ उपवर्णयन्तीम् ६ घोषाम् ७ तेजोमयी म्. महाश्वेता ] पूर्वभागः । गततृष्णाम्, ईशान शिरः शशिकलामिवानुपजातरागाम्, अमथितोदेधिजलसंपदमिवान्तःप्रसन्नाम्, असमस्तपदवृत्तिमिवाद्वंद्वाम्, बौद्धबुद्धिमिव निरालम्बनाम्, वैदेहीमिव प्राप्तज्योतिःप्रवेशाम् द्यूतकलाकुशलामिव वशीकृताक्षहृदयाम, महीमिव जलभृतदेहाम्, हिमसमयदिनेमुखलक्ष्मीमिव पैरिगृहीतभास्करातपाम्, आर्यामिवोपात्तयतिगणोचितमात्राम्, आलिखितामिवाचलावस्थानाम्, अंशुमयीमिव तनुच्छायानुलिप्तभूतलाम्, निर्ममाम्, निरहंका9 २८५ ca नाह - विगतेति । विगता तृष्णा लोभो यस्याः सा ताम् । पक्षे तृष्णा तृषा । ईज्ञानेति । ईशान ईश्वरः । ' शंभुः शर्वः स्थाणुरीशान ईशः' इत्यभिधानचिन्तामणिः । तस्य शिर उत्तमाङ्गं तत्र या शशिकला चन्द्रकला तामिव । उभयोः सादृश्यमाह - अन्विति । अनुपजातोऽसमुत्पन्नो रागो यस्याः सा ताम् । विरक्तामित्यर्थः । पक्षे राग आरक्तता । आरक्तामित्यर्थः । अमथीति । अमथितोऽविलोडितो य उदधिः समुद्रस्तस्य जलं पानीयं तस्य संपत्संपत्तिस्तामिव । उभयोः सदृशत्वमाह - अन्तरिति । अन्तर्मध्ये प्रसन्नां हृष्टचित्ताम् । पक्षेऽन्तैःप्रसन्नामकलुषिताम् । असमस्तेति । असमस्ताऽसमासगा या पदवृत्तिः कैशिक्यादिस्तामिव । 'कैशिक्याद्याः पदवृत्तयः' इत्यलंकारे प्रसिद्धम् । उभयोः साधर्म्यमाह - अद्वेति । द्वन्द्वो युद्धं तद्रहिताम् । 'द्वन्द्वः समाघातः' इति कोशः । पक्षे द्वन्द्वः समासः । वौद्ध इति । बौद्धः सुगतस्तस्य बुद्धिर्धिषणा तामिव । एतयोस्तुल्यतामाह - निरेति । आलम्बैनमाश्रयस्तद्रहिताम् । स्वतन्त्रामित्यर्थः । पक्षे निरालम्बनामर्थशून्याम् । तन्मतेऽर्थानां घटपटादीनामभावात् । शून्यवादित्वादित्यर्थः । वैदेहीति । वैदेही जानकी' । 'वैदेही मैथिली सीता' इत्यभिधान चिन्तामणिः । तामिव । उभयोस्तुल्यत्वं निरूपयन्नाह प्राप्तेति । प्राप्त आसादितो ज्योतिषि परमात्मनि प्रवेशो यस्याः सा ताम् । पक्षे प्राप्त ज्योतिष व प्रवेशो ययेति बहुव्रीहिः । द्यूतेति । द्यूतं दुरोदरं तस्य कला विज्ञानं तत्र कुशला प्रवीणा तामिव । उभयोः समानतां प्रदर्शयन्नाह - वशीति । वशीकृतान्यक्षाणीन्द्रियाणि हृदयं चित्तं च यथा सा ताम् । पक्षे वशीकृतमक्षैः पाशकैर्हृदयं यस्या इति बहुव्रीहिः । महीति । मही वसुंधरा तामिव । उभयोः शब्दसाम्यमाह - जलेति । जलेन नीरेण भृतो धृतो देहो यया सा ताम् । निराहारामित्यर्थः । पक्षे जलेन भृताः पोषिता देहा यस्याम् । तदुक्तम् – 'वृष्टेरोषधयः । ओषधीभ्योऽन्नम् । तद्रसरूपेण शुक्रत्वमधिगच्छति शुक्रा जरायुजा देहाः' इति । हिमेति । हिमसमयः शीतकालस्तस्य दिनमुखं प्रत्यूषस्तस्य लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - परीति । परि सामस्त्येन गृहीतो भास्करस्य सूर्यस्यातप आलोको यया सा ताम् । 'तपस्विनां सूर्यातपग्रहणं महाफलाय' इति श्रुतेः । पक्षे परिगृहीतो मुषितो भास्करस्यातपः कान्तिप्रकाशो ययेति बहुव्रीहिः । आर्येति । आर्या छन्दोविशेषस्तामिव । उभयोः साधर्म्यमाह उपात्तेति । उपात्ती स्वीकृता यतिगणानां मुनिजनानां उचिता योग्या मात्रोपव (क) रणं ययेति सा ताम् पक्ष उपात्ता यतयो विश्रामा गणा मगणादयस्तेषामुचिता मात्रा त्रुटिर्ययेति बहुव्रीहिः । आलिखितेति । आलिखिता चित्रिता तामिव । अत एवाचलं निश्चलमवस्थानं यस्याः सा ताम् । अंशुमयीति । अंशुमयीं तेजोमयी मिव । तन्विति । तनुच्छाया देहकान्तिस्तयानुलिप्तं व्याप्तं भूतलं यथा सा ताम् । अन्याप्यंशुमयी भवति । सापि कान्त्याच्छादितभूतला स्यादित्येतयोः साम्यम् । निर्ममामिति । निर्गतो ममत्वभावो यस्याः *सा ताम् । निरिति । निर्गतोऽहंकारोऽभिमानो यस्याः सा ताम् । निरिति । निर्गतो मत्सरो गुणेष्वसूया टिप्प० - 1 शिरः शशिकलाया उदयास्तमनयोरभावादारुण्यं न जायत इत्याशयः । 2 विलोडने सति तस्मिन्नाविलता जायते । 3 शीतोष्ण-सुख-दुःखादिद्वन्द्वानुभवरहितामित्यर्थः । 4 आसक्तिस्तद्रहिताम् । बौद्धबुद्धिस्तु - निर्विषया । तेषां मते ज्ञानमेव घटादिरूपेण भासते । भेदस्तु भ्रान्तिवशादिति । है पाठा०- •१ उदधिसंपदम्, २ दिवस ३ परिपीत ४ समुनगत्त. ५ निर्मलां; निर्ममाम्॰ ● २८६ कादम्बरी । [ कथायाम्राम्, निर्मत्सराम्, आमानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयः परिमाणामप्यष्टादशवर्षदेशीयामिवोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतत्रैतां कन्यकां ददर्श । ततोऽवतीर्य तरुशाखायां बद्धा तुरङ्गममुपसृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय तामेव दिव्ययोर्षित मनिमिषपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उपादि चास्य रूपसंपदा कान्त्या प्रशान्त्या चाविर्भूत विस्मयस्य मनसि - "अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तान्तराणि । तथाहि । मया मृगयायां यदृच्छया निरर्थकमनुबनता तुरङ्गमुख मिथुनमयम तिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो वीक्षितः । अत्र च सलिलमन्वेषमाणेन हृदयहारि सिद्धजनोपसृष्टजलं सरो दृष्टम् । तत्तोरलेखा विश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुपदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । न हि मे संशीतिरस्या दिव्यतां प्रति । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलोके संभूति यस्याः सा ताम् । निर्गतेर्ष्यामित्यर्थः । अमेति । न विद्यते मानुषस्य मनुष्यस्याकृतिराकारो यस्याः सा ताम् । दिव्या कारामित्यर्थः । दिव्यत्वादिति । दिव्यत्वाद्गान्धर्व पुत्रीत्वादपरिज्ञायमानमनिश्चीयमानं वयोऽवस्था विशेषस्तस्य परिमाणं मानं यस्यामित्थंभूतामप्यष्टादशवर्षदेशीयामिव किंचिच्यूनाष्टादशवर्षीया मिवोपलक्ष्यमाणां दृश्यमानाम् । अन्वयस्तु प्रागेवोक्तः । तत इति । कन्यका दर्शनानन्तरं तुरङ्गभादश्वादवतीर्यावरोहणं कृत्वा तरुशाखायां तुरङ्गममिन्द्रायुधं बद्धोपसृत्य समीपे गला भक्त्या श्रद्धया भगवते त्रिलोचनाय शंभवे प्रणम्य नमस्कृत्य तामेव पूर्वव्यावर्णित स्वरूपामेव दिव्ययोषितममानुषी स्त्रियम् । अनीति । अनिमिषं निमेषोन्मेषरहितं पक्ष्म नेत्ररोम यस्मिंस्तत्तेन । निश्चलेति । निश्चलं यथा स्तात्तथा निबद्धं लक्ष्यं वेध्यं येनैवंभूतेन चक्षुषा नेत्रेण । पुनरिति । मण्डपिकाप्रवेशानन्तरं निरूपयामास । साकल्येन ददर्शेत्यर्थः । चकारः पुनरर्थकः । अस्येति । चन्द्रापीडस्य मनस्येवमु॒दपाद्युत्पन्नं बभूव । किंविशिष्टस्य तस्य । आविर्भूतः प्रकटीभूतो विस्मय आश्चर्य यस्य स तथा तस्य । कथा । तस्या रूपसंपदा सौन्दर्यसमृद्ध्या । कान्त्या देहदीया । प्रशान्त्या प्रशमेन वा । एतदेव विस्मयजनकं प्रदर्शयनाह - अहो इति । अहो इत्याश्चर्ये । जगति विश्वस्मिन् जन्तूनां प्राणिनामसमर्थितोपनतान्यतर्कितप्राप्तानि वृत्तान्तान्तराण्युदन्तान्तरराण्यापतन्त्यागच्छन्ति । तदेव दर्शयति — तथाहीति । मया मृगयायामाखेटकवृत्तौ यदृच्छया स्वेच्छया तुरङ्गमुख मिथुनं किंनरयुग्ममनुबनतानुव्रजता । अयं प्रत्यक्षगतोऽतिमनोहरोऽतिरुचिरो मानवानां मनुष्याणामगम्योऽगोचरो दिव्यजनानां विद्याधरप्रभृतीनां संचरणं भ्रमणं तत्रोचितो योग्यः प्रदेशो भूभागो वीक्षितोऽवलोकितः । अत्रेति । अस्मिन्देशे सलिलं पानीयमन्वेषमाणेन शोध्यमानेन सरस्तटाकं दृष्टं वीक्षितम् । एतदेव विशिष्टि - हृदयेति । हृदयहारि मनोहत्सिद्धजनैरुपसृष्टं सेवितमेतादृशं जलं पानीयं यस्मिन् । तत्पार्श्वात्तस्य सरसस्तीरं प्रतीरं तस्य लेखा प्रान्तवीथी तस्यां विश्रान्तेन संस्थितेन । चकारः समुच्चयार्थः । अमानुषं दिव्यं गीतं गानमाकर्णितं श्रुतम् । तच्चेति । तद्गीतमनुसरताम (अ) नुगच्छतां (ता) मानुषाणां भूस्पृशां दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवं विधेयं दिव्यकन्यकालोकिता दृग्विषयीकृता । न हीति । हि निश्चितम् । अस्याः कन्यकाया दिव्यतां प्रति मे मम संशी तिर्नास्ति संदेहो नास्ति । अस्मिन्नर्थे हेतुमाहआकृतिरिति । आकृतिराकार एवामानुषतां देवरूपतामनुमापयति । अमानुषता विषय कानुमिर्ति जनयतीत्यर्थः । अन्यदपि कारणान्तरमाह - कुत इति । एवंविधानामेतादृशानां गन्धर्वा देवगायनास्तेषां ध्वनेर्नादस्य विशेटिप्प० - 1 उपस्पृष्टमित्येव सहृदयानुमोदितः पाठः । Bygg पाठा० -१ प्रमाणाभू. २ व्रतां च ३ तुरङ्गम्; तुरगम् ४ महाभक्त्या ५ पार्वतीपतये ६ अनिमेष. ७ विस्मयमनसि, ८ मनसि वितर्क: ९ १० वीक्षितः क्षितेः. ११ उपस्पृष्ट, महाश्वेताकृतमातिथ्यम् ] पूर्वभागः । २८७ , रेवंविधानां गान्धर्वध्वनिविशेषाणाम् । तद्यदि मे सहसा दर्शनपथान्नापयाति, नारोहति वा कैलासशिखरम्, नोत्पतति वा गगनतलम्, ततः 'का त्वम्, किमभिधाना वा किमर्थं वा प्रथमे वयसि प्रतिपन्ना व्रतम्' इति सर्वमेवैतदेनामुपसृत्य पृच्छामि । अतिमहानयमवकाश आश्चर्याणाम्" इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपं विष्टो गीतसमास्यवसर प्रतीक्षमाणस्तस्थौ । अथ गीतावसाने मूकीभूतवीणां प्रशान्तमधुकररुतेव कुमुदिनी सा कन्यका समु त्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृष्ट्या समाश्वासयन्तीव, पुण्यैरिव स्पृशन्ती, तीर्थजलैरिव प्रक्षालयन्ती, तपोभिरिव पावयन्ती, शुद्धिमिव कुर्वाणा, वरप्रदानर्मिंवोपपादयन्ती, पवित्रतामिव नयन्ती, चन्द्रापीडमाबमाषे'स्वागतमतिथये । कथमिमां भूमिमनुप्राप्तो महाभाग । तदुत्तिष्ठ । आगम्यताम् । अनुभूय। षाणां मन्द्रादीनां मर्त्यलोके मनुष्यक्षेत्रे कुतः संभूतिरुत्पत्तिः स्यात् । तदिति हेत्वर्थे । यदि यावत् । मे मम सहसाकस्माद्दर्शनपथाद्विलोकनमार्गान्नापयाति नापसरति । वेति विकल्पार्थः । तथा कैलासशिखरं रजताद्विशृङ्गं किमनारोहति नारोहणं करोति । गगनतलं व्योमतलं नोत्पतति नोर्ध्वं गच्छति । तत इति । तावत्का त्वम्, भिधाना किंनानी, किमर्थं किप्रयोजनं प्रथमे वयसि बाल्यावस्थायां पाशुपतं व्रतं प्रतिपन्ना स्वीकृतवती । सर्वत्र वाशब्दो विकल्पार्थः । इत्येतत्सर्वमेनां कन्यकामुपसृत्य समीपे गत्वा पृच्छामि प्रश्नं करोमि । अतीति । आश्चर्याणां कौतुकानामयमतिमहानवकाशोऽसंकीर्ण स्थलम् । इति पूर्वोक्तमवधार्य निर्णयं कृत्वा तस्यां पूर्वोक्तायामेव स्फटिकमण्ड पिकायामन्यतममेन्यतरं स्तम्भं स्थूणामाश्रित्याश्रयणीकृत्य समुपविष्टो निषण्णः । गीतेति । गीतं गानं तस्य समाप्तिः पर्याप्तिस्तस्या अवसर: समयस्तं प्रतीक्षमाणः प्रतीक्षां कुर्वाणस्तस्थौ स्थितवान् । अथेत्यानन्तर्ये। गीतावसाने गीतपर्यन्ते मूकीभूता मौनमाश्रिता वीणा वल्लकी यस्याः सा तथा । श्वेतत्वसादृश्यादाह - प्रशान्तेति । प्रशान्तः शान्ति प्राप्तो मधुकराणां भ्रमराणां मधुरं मिष्टं रुतं शब्दो यस्यामेवंभूता कुमुदिनीव । ततस्तस्मात्स्थलात्सा कन्यका समुत्थायोत्थानं कृत्वा प्रदक्षिणीकृत्य प्रदक्षिणां दत्वा । कृतेति । कृतो विहितो हराय प्रणामो नमस्कारो यया सा । परिवृत्त्येति । परावर्तनं कृत्वा स्वभावेन न चोपाधिना धवलया शुक्लत्वेन निर्विकारत्वात् । तप इति । तपःप्रभावस्तपोमाहात्म्यं तेन, प्रगल्भया प्रौढया दृष्ट्या लोचनेन समाश्वासयन्तीवाश्वासनां कुर्वन्तीव । पुण्यैरिति । पुण्यैः स्पृशन्तीव स्पर्श कुर्वन्तीव । तीर्थानि मागधप्रभृतीनि तेषां जलैः पानीयैः प्रक्षालयन्तीव क्षालनां कुर्वन्तीव । तपोभिरतपस्याभिः पावयन्तीव पवित्रीकुर्वन्तीव । शुद्धिं नैर्मल्यं कुर्वाणेव । वरप्रदानं वाञ्छितदानमुपपादयन्तीव जनयन्तीव । पवित्रतां पावित्र्यं नयन्तीव प्रापयन्तीव । चन्द्रापीडमाबभाषे आभाषितवती । किं तदित्याहस्वागत मिति । अतिथये प्राघूर्णकाय स्वागतं सुखेनागतम् । महेति । हे महाभाग हे महानुभाव, इमां भूमिं कथंमनुप्राप्त आगतः । तदिति । तस्मात्त्वमुत्तिष्टोत्थानं कुरु । आगम्यताम् मत्पश्व इति शेषः । अतिथिसत्कार आतिथ्यमनुभूयतामनुभवविषयीक्रियताम् । इति परिसमाप्तौ । एवं पूर्वोक्तप्रकारेण तया कन्यकयोक्तो टिप्प० – 1 एकतममित्युचितम् । 2 प्रयागप्रभृतीनीति वक्तव्ये मागधेत्युक्तिरनभिज्ञतैव धर्मस्थ, मगधस्य पुण्य देशेष्वगणनात् । पाठा० -१ विद्यानां गान्धर्वध्वनिविशेषणां च. २ पाशुपतव्रतम् ३ सर्वमेतत् ४ परिसमाप्ति, ५ दान. ६ एव. ७ पवित्रिताम्. ८ अवनयन्ती ९ महाभाग: १० अनुगम्यताम्. २८८ कादम्बरी । [ कथायाम्तामतिथिसंत्कारः' इति । एवमुक्तस्तु तथा संभाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृतप्रणाम: 'भगवति, यथाज्ञापयसि' इत्यभिधाय दर्शित विनयः शिष्य इव तां व्रजन्ती मनुवत्राज । व्रजंश्च समर्थयामास – 'हन्त, तावन्नेयं मां दृष्ट्वा तिरोभूंता । कृतं हि मे कुतूहलेन प्रभाशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्लभ दिव्यरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यते, तथा संभावयामि नियतमियमखिलमात्मोदन्तमभ्यर्थ्यमाना मया कथयिष्यति' इत्येवं च कृतमतिः पदशतमांत्रमिव गत्वा निरन्तरैर्दिवापि रँजनीसमयमिव दर्शयद्भिस्तमालतरुभिरन्धकारितपुरोभागाम् उत्फुल्लकुसुमेषु लतानिकुञ्जेषु गुञ्जतां मंन्दं मैदमत्तमधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम् अतिदूरपातिनीनां च धवलशिलातलप्रतिघातोत्पतन फेनिलानामपां प्रस्रवणैरुत्कोटिप्रावविटङ्कविपा." भाषितः संभाषणमात्रेणैवानुगृहीतं प्रसादपात्रीकृतमात्मानं मन्यमानो ज्ञायमानस्त भक्त्यान्तरप्रीत्या कृतो विहितः प्रणामो नतिर्येन स हे भगवति हे स्वामिनि, यथा येन प्रकारेणाज्ञापयस्याज्ञां करोषि तत्तथेत्यभिधायेत्युक्त्वा दर्शितः प्रकाशितो विनयो नम्रता येन स शिष्य इव विनेय इव तां कन्यकां व्रजन्तीं गच्छन्ती मनुवब्राज पश्चाज्जगाम । व्रजंश्चेति । व्रजन्गच्छन् । समर्थेति । प्रस्तुतं समर्थयामास । उद्देशस्य निश्चयं चक।रेत्यर्थः । हन्तेति । हन्तेयाश्चर्ये । तावदादौ इयं मां दृष्ट्वा निरीक्ष्य न तिरोभूता नादृश्यतां गता । हीति निश्चितम् । कुतूहलेन करणभूतेन प्रश्नाशया पृच्छाभिलाषया हृदि चित्ते परं स्थानं विहितम् । यथा चेति । यथा येन प्रकारेणास्याः प्रत्यक्षगतायाः । तपस्वीति । तपस्विजनेषु दुर्लभं दुष्प्रापं दिव्यं मनोहरं रूपं यस्या एवंभूतायाः कन्या या अपि । दाक्षिण्येति । दाक्षिण्यमनुकूलता तस्या अतिशय आधिक्यं तेन प्रतिपत्तिर्मद्विषयिण्युत्कण्ठा विशेषरूपेणेयमभिजातोत्पन्ना विभाव्यते लक्ष्यते । यत्तदोर्नित्याभिसंबन्धादाह- तथेति तथा तेन प्रकारेण संभावयामि संभावनां करोमि । नियतं निश्चि तम् । इयं कन्यका मया चन्द्रापीडेनाभ्यर्थ्यमाना प्रार्थ्यमाना खिलं समग्रमात्मनः स्वकीयस्योदन्तं वृत्तान्तं कथयिष्याते प्रतिपादयित्र्यति । इत्येवंप्रकारेण कृता मतिर्येनैवंभूतश्चन्द्रापीडः पदशतमात्रमिव गत्वा किंचिद ध्वानमतिक्रम्य गुहां दरीमद्राक्षीदपश्यत् । इतो गुहां विशेषयन्नाह - निरन्तरेति । निरन्तरैर्निबिडैर्दिवापि दिवसेऽपि रजनीसमय मित्र रात्रिकालमिव दर्शयद्भिः प्रकाशयद्भिरेतादृशैस्तमालतरुभिस्तापिच्छवृक्षैरन्ध कारितोऽन्धकारवदाचरितः पुरोभागोऽग्रप्रदेशो यस्यास्ताम् । उत्फुल्लेति । उत्फुल्लानि विकसितासि कुसुमानि पुष्पाणि येष्वेवं भूतेषु लता निकुञ्जेषु वल्लीकुटकेषु मन्द्रं गुजतां शब्दं कुर्वतां मदेन मत्ताः क्षीबा ये मधुलिहो भ्रमरास्तेषां विरुतिभिः शब्दैर्मुखरीकृतो वाचालीकृतः पर्यन्तः प्रान्तो यस्याः सा ताम् । अतीति । अतिदूरं दविष्ठं पतन्ति एवंशीला अतिदूरपतिन्यस्तासां च । धवलेति । धवलं शुभ्रं यच्छिलातलं प्रस्तरतलं तेन यः प्रतिघातः प्रतिस्खलनं तस्माद्यदुत्पतनं तेन फेनिलानां संजातडिण्डी राणामिदृशीनामपामम्भसां प्रस्रवणैर्निर्झरैराबध्यमान आबन्धविषयीक्रियमाणो नीहारो हिमं यस्यां सा ताम् । अथ प्रस्रवणं विशेषयन्नाह — उदिति । उदूर्ध्वं कोटयः कोणा येषामेवंभूता ये ग्रावाणः प्रस्तरास्तेषां विटङ्का उन्नतप्रदेशा टिप्प० -- 1 दाक्षिण्यस्य अतिशयो यस्याम् ईदृशी प्रतिपत्तिः 'स्वागतमतिथये' इत्यादिर्व्यवहारः, इत्यये उचितः । 2 हिमवर्णवत् भाबध्यमानाः ( उत्पाद्यमानाः ) नीहारा: जलबिन्दवो यस्याम् । प्रस्नवणजलक्षोदवाहिनी मित्यर्थः । पाठा -१ सत्कार एवमुक्तस्तया २ संभाषित, ३ समुत्थाय ४ अद्भूताकृतिस्तिरोभूता. ५ अतिशय. ६ आत्मोदन्तम् ७ रजनीमयम् ८ कुजताम् ९ मन्दं मन्दम्. १० मधुमत्त. ११ पातिनाम्. ! महाश्वेताकृतमातिथ्यम् ] पूर्वभागः । २८९ ट्यमानैरुञ्च रद्ध निभिरवशीर्यमाणतुषारशिशिरशीकरासारैराबध्यमाननीहाराम् हिमहारहरहासघवलैचोभयतः क्षरद्भिर्निर्झरै द्वारा वलम्बितचलच्चामर कलापामिवोपलक्ष्यमाणाम्, अन्त:स्थापित मणिकमण्डलुमण्डलाम्, एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकानि बैद्धनालिकेरीफलवल्कलमयधौतोपानद्युगोपेताम्, अवशीर्णाङ्गभस्मधूसरवल्कलशयनीयसनाथैकदेशाम्, इन्दुमण्डलेनेव टङ्कोत्कीर्णेन शमयेन भिक्षाकपालेनाधिष्ठिताम् संनिहितभस्मालाबुकां गुहा मद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टो वल्कलशयनशिरोभागविन्यस्तवीणां ततः पर्णपुटेन निर्झरादा गृहीत मर्घजलमादाय तां कन्यकां समुपस्थिताम् 'अलमतियाणया । कृतमतिप्रसादेन । भगवति, प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनमपि सर्वपापप्रशमनमघमर्षणमिव पवित्रीकरणायालम् । आस्यताम्' इत्यत्रवीत् । अनुबध्यमानश्च तया वीक्ष्यमास्तैर्विपाढ्यमानानि विदार्यमाणानि तैः । उच्चरदिति । उच्चरञ्शब्दं कुर्वन्ध्वनिः शब्दो येषां तैः । अवेति । अवशीर्यमाणो विशरारुतां प्राप्यमाणो यस्तुषारो नीहारस्तस्य शिशिराः शीतलाः शीकरा वातास्तजलविप्रुषस्तेषामासारो वेगवान्वर्षो येषु तैः । हिमेति । हिमं तुहिनम्, हारो मुक्ताकलापः, हर ईश्वरस्तस्य हासो हास्यं तद्वद्धवलैः श्वेतैः । उभयतः पार्श्वद्वये क्षरद्भिः सवद्भिर्निर्झरैः प्रस्रवणैः । द्वारेति । द्वारे प्रतीहारेऽवलम्बितो यश्चलच्चामरकलापः प्रोच्छलद्वालव्यजनसमूहो यस्यामेवंविधामिवोपलक्ष्यमाणां णाम् । अन्तरिति । अन्तर्मध्ये स्थापितं न्यस्तं मणिनिर्मितं कमण्डलुमण्डलं कुण्डिकावलयं यस्यां सा ताम् । एकान्तेति । एकान्ते रहस्यवलम्बिता स्थापिता योगपट्टिका योगसाधनोपकरणं यस्यां सा ताम् । विशेति । विशाखिका भूमिशुद्ध्यर्थमाद्रियमाणा लोहयष्टिरूपा तस्यां निबद्धं संदानितं यन्नालिकेरी लागली तस्याः फलं तस्य वल्कलैस्त्वग्भिनिष्पन्नं धौतं क्षालितमुपानद्युगं पादुकायुगलं तेनोपेतां सहिताम् । अवेति । अवशीर्ण च्युतं यदङ्गभस्म देहविभूतिस्तेन धूसरं मलिनं यद्वल्कलशयनीयं चोचशय्या तेन सनाथः सहित एकदेशो यस्याः सा ताम् । टङ्क इति । टङ्कः पाषाणदारणस्तेनोत्कीर्णेनोत्कारितेन शङ्खमयेन कम्बुदलनिर्मितेन भिक्षाकपालेन भिक्षाकर्परेणाधिष्ठितामाश्रिताम् । श्वेतत्वसाम्यादाह — इन्दुरिति । इन्दुश्चन्द्रस्तस्य मण्डले नेव । संनिहितेति । संनिहितं समीपवर्ति भस्मालावुकं विभूतितुम्बकं यस्यां ताम् । अन्वयस्तु प्रागेवोक्तः । तस्याश्चेति । तस्या गुहाया द्वारि प्रतीहारप्रदेशे यच्छिलातलं तस्मिन्नुपविष्ट आसीनश्चन्द्रापीडो वल्कलशयनं तस्य शिरोभागस्तत्र विन्यस्ता स्थापिता वीणा वलकी यया सा ताम् । तत इति । वल्लकी स्थापनानन्तरं पर्णपुटेन निर्झरात्प्रस्रवणादागृहीतं यदर्घजलं तदादाय समुपस्थितां समागतां तां प्रति चन्द्रापीड इत्यब्रवीदित्युवाच । इति शब्दार्थमाह - अलमिति । अतियन्त्रणयात्यनुरोधेनालं कृतम् । कृतमिति । अतिप्रसादेनातिप्रसन्नतया कृतं सृतम् । हे भगवति हे स्वामिनि, प्रसीद प्रसन्ना भव । अयमत्यादरोऽत्याग्रहो विमु च्यतां त्यज्यताम् । त्वदीयमालोकनमपि दर्शनमपि सर्वपापप्रशमनं सर्वेनसां प्रशमनकृत् । अघेति । सर्वैनोध्वंसि जाप्येऽघमषेणं तद्वदिव पवित्रीकरणाय पावनीकरणायालं समर्थम् । अत आस्यतामुपविश्यताम् । भवत्या दर्शनेनैव मम कार्तार्थ्यमभूत् । ततः किमातिथ्येनेति भावः । अन्विति । तया कन्यकयानुबैध्यमानो टिप्प० - 1 शिक्या, 'छींका' इतिभाषाख्याता । टीकाकृतोऽर्थस्तु मृग्यः । 2 मत्कृते अत्यन्तं क्लेशा नुभवेनेत्यर्थ उचितः । 3 'अनुरुध्यमानः ' कृतानुरोधः इत्येव पाठो ग्रन्थोचितः । पाठा० -१ धारा. २ चारुचलत्. ३ शिखरनिबद्ध ४ नारिकेल. ५ आगृहीतार्थ्यसलिलम्. ६ अलमलम्. ७ तदीयम्. ८ अध्यत्र खलु. ९ अनुरुध्यमानः. ३७ का० कादम्बरी । [ कथायाम्तां सर्वामतिथिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह । कृतातिथ्यया च तया द्वितीय शिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्टो दिग्विजयादारभ्य किंनरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा कन्यका भिक्षाकपालमादाय तेषामायतनतरूणां तलेषु विचचार । अचिरेण च तस्याः स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम् । आसीच तस्य चेतसि - 'नास्ति खल्वसाध्यं नाम तपसाम् । किमतः परमाश्चय यंत्र व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम्' इत्यधिकतरोपजातविस्मयश्रोत्थाय त मेव प्रदेशमिन्द्रायुधमांनीय व्यपनीतर्पर्याणं नातिदूरं संयम्य निर्झरजलनिवर्तितस्नानविधिस्तान्यमृतस्खाइन्युपभुज्य फलानि पीत्वा च तुषारशिशिरं प्रस्रवणजलमुपस्पृश्य चैकान्ते तावदेवतस्थे यावत्तयापि कैन्यकया कृतो जलफलमूलमयेष्वाहारेषु प्रणयः । इति परिसमापिताहारां निर्वर्तितसंध्योचिताचारां शिलातले विश्रब्धमुपविष्टां निभृतमुपसृत्य अनुरुध्यमानः । चकारः पुनरर्थकः । तां सर्वां समग्रातिथिसपर्यामभ्यागतपूजामतिदूरा विष्ठादवनतेन नमितेन शिरसोत्तमाङ्गेन सप्रश्रयं सविनयं प्रतिजग्राह गृहीतवानू । कृतेति । कृतं विहितमातिथ्यं यया सा तया । द्वितीयेति । द्वितीयं भिन्नं यच्छिलातलं तत्रोपविष्टयासीनया क्षणमिव तूष्णीं स्थित्वा मौनं कृत्वा क्रमेण परिपाट्या परिपृष्टोऽनुयुक्तो दिग्विजयादारभ्य किंनरमिथुनस्य यदनुसरणं यदनुगमनं तत्प्रसङ्गेन तद्वशेनात्मनः स्वकीयस्य सर्वमागमनमाचचक्षेऽकथयत् । विदितेति । विदितो ज्ञातः सकल: समग्रो वृत्तान्त उदन्तो यया सा । चकारः पूर्ववत् । उत्थाय सा कन्यका भिक्षाकपालं भिक्षाभाजनमादाय गृहीत्वा तेषामायतनतरूणां गुहासमीपवर्तिवृक्षाणां तलेष्वधोभागे विचचार पर्यटनं चकार । अचिरेणेति । अचिरेण स्वल्पकालेन स्वयंपतितैः स्वभावतथ्युतैः फलैरतस्या भिक्षाभाजनमपूर्यत परिपूरितमभूत् । आगत्येति । आगल्यैत्य तेषां फलानामुपयोगायोपभोगार्थं चन्द्रापीडं नियुक्तवती प्रेरितवती । तस्येति । तस्य चन्द्रापीडस्य चेतसि मनसीत्यासीदित्यभूत् । इतिशब्दवोलं प्रदर्शयन्नाह - खल्विति । खलु निश्चयेन । नामेति कोमलामन्त्रणे । तपसामसाध्यमशक्यं नास्ति तथाप्यतः परमेतदन्यत्किमाश्चर्यं चोद्यं भवेत्तदेवाह - यत्रेति । यस्मिन्प्रदेशेऽपगता दूरीभूता चेतना चैतन्यं येषामेवभूता अपि वनस्पतयो वृक्षाः सचेतना इव सचैतन्या इवास्यै भगवत्यै फलानि समतिशयेन सृजन्तो ददत आत्मानुग्रहं निजसाफल्यमुपपादयन्ति निष्पादयन्ति । चित्रमिति । अंदृष्टपूवीक्षितपूर्वमिदं चित्रमाश्चर्यमालोकितं वीक्षितम् । अधीति । अधिकतरोऽतिभूयानुपजातः समुत्पन्नो विस्मयो यस्य स उत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्याणं दूरीकृतपल्ययनं नातिदूरे समीपे संयम्य निबध्य । निर्झरेति । निर्झरजलेन प्रस्रवणपानी येन निर्वर्तितो निष्पादितः स्नानविधिरालावविधिर्येन स तान्यमृतवत्स्वादूनि मिष्टानि फलान्युपभुज्याखाद्य च तुषारस्य नीहारस्य शिशिरं शीतलं प्रस्रवणज निर्झराम्भः पीत्वा चोपस्पृश्याचमनं कृत्वैकान्ते रहसि तावदवतस्थे तावत्कालमासेदिवान्यावत्तयापि कन्यकया जलफलमूलमयेष्वाहारेषु प्रणयः स्नेहः कृतः । इतीति । इति पूर्वोक्तप्रकारेण परिसमापितः पर्याप्तिं नीत आहारो भोजनं यया सा ताम् । निर्वेति । निर्वर्तितो विहितः संध्योचिताचारः सायंकालयोग्यो विधिर्यया सा तां शिलातले विश्रब्धं सविश्वासं यथ पाठा०-१ अचिरेण तस्याः १ यदत्र; यत्र च. ३ विगत ४ पर्याणे च. ५ निवर्तित ६ अमृतरस ७ उप युज्य. ८ उपस्पृश्यैकान्ते, ९ उपतस्ये १० कन्यया. महाश्वतां प्रति प्रश्नः ] पूर्वभागः । २९१ श्री नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीड: सविनयमवादीत् - 'भगवति, त्वत्प्र सादप्राप्तिप्रोत्साहितेन कुतूहलेनाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलाद निच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । उपजनयति हि प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाध्ये कावस्थाने कालकला परिचयमुत्पादयति । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति । तद्यदि नातिखेदकरमिव ततः कथनेनात्मानमनुप्राह्यमिच्छामि । अतिमहत्खलु भवदर्शनात्प्रभृति मे कौतुकम स्मिन्विषये। कतरन्मरुतासृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थ वास्मिन्कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् । केदं "वैयः, केयमाकृतिः, क चायं लावण्यातिशयः, क्वेयमिन्द्रियाणामुपशान्तिः । तदद्भुतमिव मे प्रतिभाति । वाकसिद्धसाध्य संबद्धानि सुरलोकसुलभान्यपहाय दिव्याश्रमपदान्येकाकिनी वनमिदममानुषमधिवससि । कैश्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशं स्यात्तथोपविष्टामासीनाम् । निभृतं निश्चलं यथा स्यात्तथोपसृत्य समीपे गत्वा नातिदूरे समुपविश्यास्थाय मुहूर्तमिव क्षणमात्रमिव स्थित्वा विलम्ब्य चन्द्रापीड: सविनयं विनयसंयुक्तं यथा स्यात्तथावादीदवोचत् । हे भगवति हे स्वामिनि । त्वदिति । तव प्रसादस्य प्राप्तिर्लब्धिस्तया प्रोत्साहितेन प्रगुणीकृतेन कुतूहलेन कौतुकेनाकुलीक्रियमाणो व्याकुलतां नीयमान एवंविधो यो लघिमा तुच्छस्वभावः । कीदृशः । मानुषता मानवता तत्र सुलभः सुप्रापो मां बलाद्धठादनिच्छन्तमवाञ्छन्तमपि प्रश्नकर्मणि पृच्छाक्रियायां नियोजयति व्यापारयति । उपजनेति । हीति निश्चितम् । प्रभोः स्वामिनः प्रसादलवोऽपि प्रसन्नतालेशोऽप्यधीरप्रकृतेश्चश्चल स्वभावस्य प्रागल्भ्यं धाष्टर्यमुपजनयत्युपपादयति । स्वल्पेति । एकावस्थान एकावस्थितौ स्वल्पापि स्तोकापि कालकला पञ्चदशलवात्मिका परिचयं संस्तवमुत्पादयति जनयति । अणुरपि परमाणुरप्युपचारपरिग्रहः पूजास्वीकारः प्रणयं स्नेहमारोपयत्यारोपविषयीकरोति । तदिति । तद्यदि नातिखेदकरमिव नातिप्रयासजनकसहशमिव ततः कथनेन निवेदनेनात्मानमनुग्राह्यमभ्युपपत्तिविषयमिच्छामि समीहे । अतीति । खलु निश्चये । भवदर्शनात्प्रभृति तवालोकनादारभ्य मे समास्मिन्विषये प्रश्नविषयेऽतिमहत्कौतुकमत्याश्चर्यम् । कतरदिति । मरुतां देवानाम्, ऋषीणां मुनीनाम्, गन्धर्दाणां देवगायनानाम् गुह्यकानां यक्षाणाम्, अप्सरसां तिलोत्तमादीनां मध्ये । निर्धारणे षष्ठी । जन्मना प्रादुर्भावेन भगवत्या स्वामिन्या कतरत्कतमत्कुलमन्वयोऽनुगृ हीतमनुग्रह विषयीकृतम् । किमिति । किमर्थम् । किं प्रयोजनमिति यावत् । वेति विकल्पार्थः । अस्मिन्नवे नूतने वयस्यवस्थायां कुसुमं पुष्पं तद्वत्सुकुमारे कोमले व्रतग्रहणं नियमस्वीकारः । केति महदन्तरे । इदं प्रत्यक्षोपलभ्यमानं वयः क्व । अथ चेयमाकृतिराकार विशेष: क्व । तथा लावण्यं चातुर्यं तस्यातिशय आधिक्यं क्व । तथेन्द्रियाणां करणानामियमुपशान्तिर्विषयोपरमः क्व । तदिति । मे मम तत्सर्वं पूर्वोक्तमद्भुतमिवाश्चर्यमिव प्रतिभाति प्रतिभासते । अन्यच्च । किमिति पूर्ववत् । अनेकेति । अनेके बहवो ये सिद्धा महायोगिनस्तैः साध्या निष्पाद्याः क्रिया इत्यर्थः । ताभिः संबैद्धानि संकीर्णानि सुरलोका देवसमूहास्तेषां सुलभानि सुप्रापाण्येवंविधानि दिव्याश्रमपदानि महामुनीनां निवासस्थानान्यपहाय विमुच्यैका किन्यसहायामानुषं मनुध्यवर्जितमिदं वनमरण्यं कथं त्वं भवत्यधिवससि । 'उपान्वध्याङ्कसः' इति वनमित्यस्याधिकरणस्य कर्मसंज्ञायां द्वितीया । कश्चेति । कश्चानिर्दिष्टस्वरूपोऽयं प्रकारः प्रभेदो यत्तैरेव सर्वप्रसिद्धैरेव पञ्चभिर्महाभूतैः पृथि> टिप्प० -1 सौन्दर्यम् । 2 'अनेक सिद्ध साध्य संबाधानि' इत्येव पाठः, संबाधानि संकुलानीति तदर्थः । 3 विशेषः । पाठा० -१ जनयति २ हि न. ३ एकदेशावस्थाने, एकदेशावस्थान. ४ अनुगृह्यमाणम्. ५ वयः, केदं तपः • ६ अद्भुतम् ७ किं निमित्तम् ८ संवन्धानि; संबाधानि. ९ सुभगानि १० कवायं प्रजापतेः प्रकारो यत्तैरेव महाभूतैः पञ्चभिः. ११ ईवृशीम. २९२ कादम्बरी । [ कथायामधवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र श्रुतपूर्व वा । अपनयतु नः कौतुकम् । आवेदयतु भवती सर्वमिदम्' इत्येवमभिहिता सा किमप्यन्तर्ध्यायन्ती तूष्णीं मुहूर्तमिव स्थित्वा निःश्वस्य स्थूलस्थूलैरन्तर्गतां हृदयशुद्धिमिवादाय निर्गच्छद्भिः, इन्द्रियप्रसादमिव वर्षद्भिः, तपोरसनिःस्यन्दमिव स्रवद्भिः, लोचनविषयं धवलिमानमिव द्रवीकृत्य पातयद्भिः, अच्छाच्छेः अमलकपोलस्थल स्खलितैः अवशीर्णहारमुक्ताफलतरलपातैः अनुबद्धबिन्दुभिः वल्कलावूतक्कुच शिखरजर्ज रितसी करैरभिरामीलितलोचना निःशब्दं रोदितुमारेभे । तां च प्ररुदितां दृष्ट्वा चन्द्रापीडस्तत्क्षणमचिन्तयत् --'अहो दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमप्याकृतिमनभिभवनीयामात्मीयां कुर्वन्ति । सर्वथा न न कंचन स्पृशन्ति शरीरधर्माणमुप, व्यप्तेजोवाय्वाकाशरूपैरारब्धं रचितमीदृशं शरीरं देहः । धवेति । धवलिमानं धत्ते दधाति । नेति । इदैमेतादृशमस्माभिरैदंयुगीनैरन्यस्मिन्देशान्तरे पूर्वं न दृष्टं न वीक्षितम् । नापि पूर्व कस्यचिन्मुखाच्छ्रुतमाकर्णितम् । अपेति । नोऽस्माकं कौतुकं महदाश्चर्यमपनयतु दूरीकरोतु । आवेति । भवती स्वामिनी सर्वमिदं पूर्वोक्तमावेदयतु निवेदयतु । इतीति । इत्येवंप्रकारेणाभिहिता प्रतिपादिता सा किमप्यनिर्वचनीयमन्तश्चित्ते ध्यायन्ती चिन्तयती तूष्णीं जोषं मुहूर्तसदृशम् । अत्र सहशार्थ इवप्रयोगः । निःश्वस्य निश्वासं मुक्त्वा । पूर्वानुभूतस्य दुःखस्य स्मरणादिति भावः । अश्रुभिर्नेत्रजलैरामीलिते संकुचिते लोचने नेत्रे यस्याः सा तादृशी निःशब्दं ध्वनिवर्जितं यथा स्यात्तथा रोदितुं रोदनं कर्तुमारेभ आरम्भं चकार । अथाश्रु विशेषयन्नाह - स्थूलेति । स्थूलानि च स्थूलानि च स्थूलस्थूलानि तैः । अतिश्वेतत्वसाम्यादाह — अन्तरिति । अन्तर्गतां मध्यप्राप्तां हृदयशुद्धिं चित्तनैर्मल्यमिवादाय गृहीत्वा निर्गच्छद्भिर्बहिरागच्छद्भिः । इन्द्रियेति । इन्द्रियाणामक्षाणां प्रसादं प्रसन्नतामिव वर्षद्भिर्वर्षणं कुर्वद्भिः । तप इति । तपसां चान्द्रायणादीनां रसनिःस्यन्दमिव द्रवरहस्यमिव स्रवद्भिः क्षरद्भिः । लोचनेति । लोचनविषयं नेत्रसंबन्धिनं धवलिमानं श्वेतिमानमिव द्रवीकृत्य रसीकृत्य पातयद्भिः । अच्छेति । अच्छानि चाच्छानि चाच्छाच्छानि तैः । अतिखच्छैरित्यर्थः । अमलेति । अमलं निर्मलं यत्कपोलस्थलं तत्र स्खलितैः स्खलनां प्राप्तैः । अवशीर्णेति । अवशीर्णस्त्रटितो यो हारो मुक्ताप्रालम्बस्तस्य मुक्ताफलानि रसोद्भवानि तद्वत्तरलः कम्पनः पातो येषां तैः । एतेनोज्ज्वलत्वसाभ्यात्क्षरन्मुक्ताफलसाम्यमश्रूणां ध्वनितम् । अनुबद्धाः परस्परानुविद्धा बिन्दवो विप्रुषो येषां तैः । वल्कलेति । वल्कलावृतौ चोचाच्छादितौ यौ कुचौ पयोधरौ तयोः शिखरमग्रं तेन जर्जरिताः शिथिलतां प्राप्ताः सीकराः कणा येषां तैः । एतेन कुचयोरतिकाठिन्यं व्यजितम् । अन्वयस्तु प्रागेवोक्तः । तामिति । तां कन्यकाम् । चकारः पुनरर्थकः । प्ररुदितां कृताश्रुपातां दृष्ट्वा विलोक्य चन्द्रापीडस्तत्क्षणं तस्मिन्नवसरेऽचिन्तयच्चिन्तितवान् । चिन्ताविषयमाह - अहो इति । अहो इत्याश्चर्ये । व्यसनानि मैद्यपानादीनि तत्रोपनिपाता अत्यासक्तिरूपास्तेषां दुर्निवारता दुर्हेयता । अनल्पायासेन निवारयितुं शक्यते, न तु स्वल्पप्रयासेनेति भावः । यदिति हेत्वर्थे । अनभिभवनीयां न परैरभिभवितुं योग्यामेतादृशीमलौकिकीमप्याकृतिमाकारमात्मीयां स्वायत्तां कुर्वन्ति प्रणयन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणोपतापाः कामाभिलाषाः । टिप्प० - 1 हन्त ! न कविसूक्तीनां स्तोकोपि परिचयष्टीकाकारवराकस्य । "रारब्धमीदृशीं धवलतां धत्ते शरीरम्' इत्येव मधुरः पाठः । अर्थः स्फुटः । 2 वैलक्षण्यमित्यर्थः । 3 तपांस्येव रसाः ( द्रवाः ) तेषां निस्यन्दं धारां क्षरद्भिरिव, इत्यर्थो योग्यः । 4 हन्त धिक् टीकाकारम् । ग्रन्थकारो यां मूर्तिमतीं पवित्रतां चित्रयति तत्र मद्यपानादेः कः प्रसङ्ग ः ? अस्तु व्यसनोपनिपातानां दुःखोपस्थितीनाम् अहो दुर्निवारता अभिभवितुमशक्यता ? अर्थात् दैवोपस्थापितानि दुःखानि न केनचिद्वारयितुं शक्यानीति भावः । पाठा० -१ पूर्वम्. २ आवेदय सर्वम् ३ हारमुक्तमुक्ता, महाश्वेताया वृत्तान्तः ] पूर्वभागः । २९३ तापाः । बलवती हि द्वन्द्वानां प्रवृत्तिः । इदमपरमधिकतरं जनितमतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन । न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्तयः । न हि क्षुद्रनिर्घातपाताभिहता चलति वसुधा' इति । संवर्धित कुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिवात्मानमवगच्छन्नुत्थाय प्रस्रवणाद जलिना मुखप्रक्षालनोदकमुपनिये । सा तु तदनुरोधादै विच्छिन्न बाष्पजलधारासंतानापि किंचित्कषायितोदरे प्रक्षाल्य लोचने वल्कलोपान्तेन वदनमपमृज्य दीर्घमुष्णं च निःश्वस्य शनैः शनैः प्रत्यवादीत्'राजपुत्र, किमनेनातिनिघृणहृदयाया मम मन्दभाग्यायाः पापाया जन्मनः प्रभृति "वैराग्य वृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलं तत्कथयामि । श्रूयताम् एत त्प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयमापतितमेव यथा विबुधसद्मन्यैप्सरसेना नाम 4 कंचन शरीरधर्माण नन स्पृशन्ति न नाश्लिषन्ति । 'द्वौ नौ प्रकृतमर्थं सूचयतः' इति न्यायानिकार प्रयोगः । बलेति । हि निश्चितम् । द्वंद्वानां सुखदुःखानां प्रवृत्तिः प्रवर्तनं बलवती बलिष्टा । इदमिति । मे मम मनसि चित्त इदमपरमन्यदधिकतरं महत्कौतुकमाश्चर्य जनितमुत्पादितमस्याः कन्यकाया बाष्पसलिलमश्रुजलं तस्य पातेन पतनेन । जितेन्द्रियग्रामाया अस्या अश्रुपतनमेव महदाश्चर्यमिति भावः । ननु स्वल्पमेव शोककारणमित्याह - न हीति । हीति निश्चितम् । अल्पीयसा कनीयसा शोककारणेन खेदनिमित्तेनैवंविधा अनिर्वचनीयस्वरूपा मूर्तयः शरीराणि न क्षेत्रीक्रियन्ते नाश्रयी क्रियन्ते । अत्रैव हेतुमाह न हीति । क्षुद्रस्तुच्छो यो निर्धातः प्रहारस्तस्य पातः पतनं तेनाभिहता ताडिता वसुधा पृथ्वी । हीति निश्चितम् । न चलतिन कम्पते । संवर्धितमिति । संवर्धितं वृद्धिं प्राप्तं कुतूहलं कौतुकं यस्यैवं भूतो हं शोकस्य खेदस्य स्मरणं स्मृतिस्तस्य हेतुतां निमित्ततामुपगतं प्राप्तमत एवापराधिनं सागसमात्मानमवगच्छनिव जानन्निवोत्थाय प्रस्रवणान्निर्झरान्मुखप्रक्षालनाय वदनशुद्ध्यर्थमुदकं पानीयमजलिना पाणिपुटेनोपनिन्य आनीतवात् । सात्विति । सा कन्यका । तु पुनरर्थकः । तस्य चन्द्रापीडस्यानुरोधादाग्रहात् । अवि च्छिन्नेति । अविच्छिन्नमत्रुटितं बाष्पजलधारासंतान मश्रुपानीयधारा समूहं यस्या एवंविधापि किंचित्कंषायितं कषायगुणयुक्तमुदरं मध्यं ययोरेवंभूते लोचने नेत्रे प्रक्षाल्य धावनं कृत्वा वल्कलोपान्तेन चोचाञ्चलेन वदनं मुखमपमृज्य मार्जनं कृत्वा दीर्घमायतमुष्णं तप्तं च निःश्वस्य शनैः शनैर्मन्दं मन्दं प्रत्यवादीत्प्रत्यवोचत् । राजेति । हे राजपुत्र, अतिनिर्घृण निर्दयं हृदयं स्वान्तं यस्या एवंविधाया मन्दभाग्यायाः क्षीणभागधेयायाः पापायाः पापिष्टाया जन्मनः प्रभृत्युत्पत्तेरारभ्याश्रवणीयेनाकर्णनानर्हेण वैराग्यवृत्तान्तेन विरक्ततोदन्तेन किमनेन श्रुतेनाकर्णितेन । तथापीति । एवंसत्यपि फलाभावे विद्यमानेऽपि यदि महत्कुतूहलं महदाश्चर्य तत्तर्हि कथयामि ब्रुवे । प्रायेण बाहुल्येन कल्याणे श्रेयस्यभिनिविशर्ते इत्येवंशीलं नोऽस्माकं श्रुतिविषयं कर्णगोचरमापतितमागतम् । कुलपरम्परया श्रुतमित्यर्थः । एतदेव श्रूयतामाकर्ण्यताम् । यथेति । विबुधमन किंनरगृहेऽप्सरसेनाः । नामेति कोमलामन्त्रणे । कन्यकाः पुत्र्यः सन्ति । तासां टिप्प० – 1 प्रलाप एवायम् । संवर्धित कौतूहलः स इत्यर्थः । 2 अश्रुवर्षणात् किञ्चित् रक्तम् आविलं वा मध्यं ययोस्ते इत्यर्थ उचितः । 3 हा हन्त ईदृशोपि टीकाघार्थ्यमाचरति ! – कल्याणे अभिनिवेश: (आग्रहो) यस्य, ईडशस्य भवतः श्रुतिविषयं कर्णगोचरमागतमेव यद् विबुधसमनि स्वर्गे 'अप्सरसो' नाम कन्यकाः (अविवाहितत्वात् ) सन्तीति पाठः । टीकाकारस्य पाठो व्याख्यानं च प्रलापमात्रम् । पाठा० -१ महन्मम मनसि कौतुकम्; उपजनित मतिमहन्मनसि मे कौतुक. १ कुतूहलवास्याः ३ अवच्छिन, ४ शनैः ५ निठुर, ६ जन्मतः ७ अप्सरसो, २९४ कादम्बरी । [ कथायाम्9 कन्यकाः सन्तीति । तासां चतुर्दश कुलानि - एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम्, अन्यद्वेदेभ्यः संभूतम्, अन्यदेमेरुद्भूतम्, अन्यत्पवनात्प्रसूतम्, अन्यदमृतान्मध्यमानादुत्थितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत्सोमरश्मिभ्यो निपतितम्, अन्यद्भूमेरुद्भूतम्, अन्यत्सौदामिनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मितम् अपरं मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां कन्यैकानां मध्ये द्वे सुते मुनिररिष्टा च बभूवतुस्ताभ्यां गन्धर्वैः सह कुलद्वयं जातम् एवमेतान्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव कुलद्वयं जातम् । अत्र मुनेस्तनयानां सेनादीनां पञ्चदशानां भ्रातृणामधिको गुणैः षोडशश्चित्ररथो नाम समुत्पन्नः । स किल त्रिभुवनप्रख्यातपराक्रमो भगवता समस्तसुरमौलिमालालालितचरणन लिनेनाखण्डलेन सुहृच्छब्देनोपबृंहितप्रभावः सर्वेषां गन्धर्वाणामाधिपत्यमसिलतामरीचिनिचयमेचकितेन बाहुना समुपार्जितं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्वारतवर्षादुत्तरेणानन्तरे किंपुरुष.9 कन्यकानां चतुर्दश कुलानि । तत्रैकं कमलयोनेर्भगवतो विधातुर्ब्रह्मणो मनसः स्वान्तात्समुत्पन्नं संजातम् । अन्यद्वितीयं वेदेभ्यः श्रुतिभ्यः संभूतमुत्पन्नम् । अन्यत्तृतीयम मेर्विभावसोरुद्भूतं प्रकटितम् । अन्यच्चतुर्थ पवनाद्वायोः प्रसूतं जनितम् । अन्यत्पञ्चमममृताज्जलान्मथ्यमानाद्विलोड्यमानादुत्थितं प्रादुर्भूतम् । अन्यकुलमर्ककिरणेभ्यः निर्गतं बहिरागतम् । षष्ठं सूर्यदीधितिभ्यो जलाज्जातम् । अन्यत्सप्तमं अन्यदष्टमं सोमः कुमुदबान्धवस्तस्य रश्मिभ्यः किरणेभ्यो निपतितं च्युतम् । अन्यन्नवमं कुलं पृथिव्या वसुंधराया उद्भूतं प्रकटितम् । अन्यद्दशमं सौदामिनीभ्यो हादिनीभ्यः प्रवृत्तं प्रवर्तितम् । अन्यदेकादशं कुलं मृत्युना यमेन निर्मितं रचितम् । अपरमन्यद्वादशं मकरकेतुना मनोभवेन समुत्पादितम् । अन्यत्त्विति । दक्षस्य प्रजापतेरतिप्रभूतानाम तिबह्वीनां कन्यकानामात्मजानां मध्ये द्वे सुते द्वे कन्यके मुनिररिष्टा च बभूवतुर्जज्ञाते । ताभ्यां कन्यकाभ्यां गन्धवैर्देवगायनैः सह कुलद्वयं जातम् । एवमिति पूर्वोक्तप्रकारेण । एकत्रेति । एकन्मिन्प्रदेश एतानि चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितय सं भवं तदेव पूर्वोक्तमेव कुलद्वयम् । नाभिकमित्यर्थः । अत्रेति । अस्मिन्नेव प्रदेशे मुनेर्दक्षजात्मजायाः सेनादीनां पञ्चदशानां भ्रातॄणां मध्ये गुणैः शौर्यादिभिरधिकः षोडशश्चित्ररथो नाम तनयः समुत्पन्नः । स इति । किलेति सत्ये । स चित्ररथस्त्रिभुवने त्रिविष्टपे प्रख्यातः प्रसिद्धः पराक्रमः शौर्यवृत्तिर्यस्य सः । भगवतेति । भगवता माहात्म्यवता । समस्तति । समस्ताः समग्रा ये सुरा देवास्तेषां मौलिमालाः किरीटपतयस्ताभिर्लालितं पालितं चरणनलिनं पादपद्मं यस्य स तेन एवंविधेनाखण्ड लेनेन्द्रेण सुहृच्छब्देन मित्रशब्देनोपबृंहितः श्लाघाविषयीकृतः प्रभावः कोशदण्डजं तेजो यस्य स तथा । सर्वेषामिति । सर्वेषां समग्राणां गन्धर्वाणां देवगायनानां शैशवे बाल्य एवाधिपत्यं प्रभुत्वमाप्तवान्प्राप्तवान् । कीदृशमाधिपत्यम् । समुपार्जितमर्जितम् । केन । बाहुना भुजेन । अथ बाहुं विशेषयन्नाह — असीति । असिलता खगलता तस्या मरीचिनिचयः कान्तिसमूहस्तेन मेचकितेन श्यामलितेन । इतश्चेति । अर्थान्तरे । अस्मात्स्थानान्नातिदूरे नातिदविष्ठे तस्य राज्ञोऽस्माद्भारतवर्षाद्भरतक्षेत्रादुत्तरेणानन्तरेऽत्यासन्ने किंपुरुषनाम्नि किंपुG टिप्प० – 1 मध्यमानावस्थायाममृताजातमित्यर्थः । जलादित्युक्तेः पौनरुक्त्यम् । 2 चित्रसेनादीनामित्येव पाठः । टीकाकारस्य तु यद् यद् गर्हितं तत्तत्सर्वमनुकूलमित्याभाति । 3 सादरं परामृष्टमित्यर्थः । पाठा० -१ सन्ति २ व ३ निष्पतितम ४ सुतानाम् ५ दौ सुतौ ६ तत्र, ७ चित्रसेनादीनाम्. ८ सकलत्रिभुवन: ९ अरविन्दजेन. महाश्वेताजन्म ] पूर्वभागः । २९५ " नाम्नि वर्षे वर्ष पर्वतो हेमकूटो नाम निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितम् इदं चाच्छोदाभिधानमतिमहत्सरः खानितम्, अयं च भवानीपतिरुपरचितो भगवान् । अरिटायास्तु पुत्रस्तस्मिद्वितीये गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबल परिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु तत्सोमँपीयूषसंभूतानामप्सरसां कुलम्, तस्मात्किरणजलानुसारगलितेन सकलेनेव रजनिकरकलाकलापलावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी 'गौरीति नाम्ना हिमकिरणकिरणावदातवर्णा कन्यका प्रसूता । तां च द्वितीयकुलाधिपतिर्हंसो मन्दाकिनीमिव क्षीरसागरः प्रणयिनीमकरोत् । सा तु भगवता मकरकेतनेनेव रतिः, शरत्सम येनेव कमलिनी, हंसेन संयोजिता सहशसमागमोपजनितामतिमहतीं मुदमुपगतवती , रुषाभिधाने वर्षे क्षेत्रे वर्षपर्वतः क्षेत्रसीमाकृनगो हेमकूटो नाम हेमकूटाभिधानो निवासो वसतिस्थलं वर्तते । तत्र चेति । तस्मिन्पर्वते । तदिति । तस्य चित्ररथस्य भुजयुगं बाहुयुगं तेन परिपालितानि रक्षितान्यनेकानि गन्धर्वशतसहस्राण्यनेकलक्षाणि प्रतिवसन्ति । तस्योत्कर्षमाह - तेनैवेति । तेनैव राज्ञा चित्ररथेनेदं चैत्ररथं नामातिमनोहरमतिरमणीयं काननं वनं निर्मितं निष्पादितम् । इदमच्छोदाभिधानमतिमहत्सरः खानितं निर्मापितम् । स्थावराभिप्रायेणाह-अयं चेति । अयं प्रत्यक्षो भगवान्भवानीपतिरीश्वर उपरचितो निर्मितः । अथ चारिष्टायाः पुत्रः सुतः । तु पुनरर्थकः । तस्मिद्वितीये गन्धर्वकुले गन्धर्वराजेनैव चित्ररथेनैवाभिषिक्तो राज्याभिषेकविषयीकृतः । अत एव बाल एव शिशुरेव राज्यपदमाधिपत्यस्थलमासादितवान्प्राप्तवान् । अपेति । अपरिमितमसंख्यं यद्गन्धर्वकुलं तदेव परिवारः परिच्छदो यस्य स तथा तस्यापि स एव हेमकूटाभिधानो गिरिः पर्वतोऽधिवासो निवासस्थलम् । यत्त्विति । तस्मिन्पर्वते सोमपीयूषसंभूतानामप्सरसां कुलं तस्मात्कुलात् । किरणेति । किरणजैलममृतं तस्यानुसारोऽनुसरणं तेन गलितेन विलीनेन सकलेन समग्रेण । रजनीति । रजनिकरस्य चन्द्रस्य कलाकलापस्तस्य लावण्येनेवा. न्तर्गतसारेणेव निर्मिता रचिता । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य नयनानि लोचनानि तेषामभिरामा मनोहरा भगवती माहात्म्यवती द्वितीयेव गौरी गौरीति नाम्ना । हिमेति । हिमकिरणस्य किरणा रश्मयस्तद्वदवदातो निर्मलो वर्णो देहच्छविर्यस्याः सैवंविधा कन्यका प्रसूता जनिता । तां चेति । तां गौरीं द्वितीयकुलाधिपतिर्हंसो मन्दाकिनीं स्वर्धुनीं क्षीरसागर इव प्रणयिनीं वल्लभामकरोत् । सा त्विति । सा गौरी भगवता मकरकेतनेन कंदर्पेण रतिरिव । शरत्समयेन घनात्ययकालेन कमलिनीव । एवं हंसेन गन्धर्वाधिपतिना संयोजिता संबन्धं प्रापिता । सहशेति । सदृश उचितो यः समागमः संबन्धः उपजनितां टिप्प० - 1 टीकाकारेण अत्रापि खण्डवाक्यं विलोप्य ग्रन्थो दुरूहो विरूपश्च कृतः । अत एव 'अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणा' मित्यादिपाठं नीचैर्ऋतं संयोज्य ग्रन्थः पूरणीयः पाठकैः । 2 सोममयूख (किरण ) संभूतानामित्येव पाठः । 3 'किरणजालस्य (समूहस्य ) अनुसारेण' इत्येव पाठः। 4 निर्झरितेन ( निष्पतितेन ) । 5 'हिमकरकिरणावदातवर्णा' इत्येव ग्रन्थोचितान्यक्षराणि । 6 अत्र वाक्यभेदोषि टीकाकारस्य जाड्यम् । हंसेन सह संयोजिता (विधात्रा ) सती सदृशसमागमोपजनितां मुदमुपगतवतीत्यादिः एको वाक्यार्थः । प्रमाणं चात्र सहृदयहृदयम् । 7 तेन उपजनिताम् । पाठा० -१ युगल. २ इदम् ३ निखानितम् ४ पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णां ज्येष्ठो ( शेषो; श्रेष्ठो; हंसोनाम जगद्विदितो गन्धर्वस्तस्मिन् ). ५ कुले द्वितीयेऽस्मिन् ६ परिचारकस्यास्यापि ७ सोममयूखसंभवमप्सरसाम्. ८ जाल, ९ अनुकरण, १० गौरीपति, ११ हिमकर; रजनिकर. १२ द्वितीयगन्धर्व. १३ केतुनेव. २९६ कादम्बरी । [ कथायाम्निखिलान्तः पुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय केवलमनेकदुःखसहस्रभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेम मम जन्माभिनन्दितवान् । अवाप्ते च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादक संचरन्त्यविदितस्नेहशोकायासं शैशवमतिनीतवती । क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लब इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन नवयौवनेन पदम् । अथ विजृम्भमाणनवनलिनवनेषु, अंकठोरचूतकलिकाकलापकृत कामुकोत्कलिकेषु, कोमलमलयमारुतावतारतरङ्गितानङ्गध्वजांशुकेषु, मदकलितकामिनीगण्डूपसीधुसेक पुलकितबकुविहितामतिमहतीं गरीयसीं मुदं हर्षमुपगतवती प्राप्तवती तस्य राज्ञो निखिलं समग्र यदन्तःपुरमवरोधस्तत्र स्वामिनी मुख्या चाभवत् । तयोश्चेति । तयोर्हसगौर्योर्महात्मनोरहमीदृश्येकात्मजैका पुत्री केवलं शोकाय समुत्पन्ना । कीदृशी । विगतानि दूरीभूतानि लक्षणानि श्रेयोजनकानि मषीतिलकादीनि यस्याः सा तथा । पुनस्तामेव विशेषयन्नाह — अनेकेति । अनेकानि विविधानि यानि दुःखानि कष्टानि तेषां सहस्राणि तेषां भाजनं पात्रम् । आविष्टलिङ्गत्वात् 'वेदाः प्रमाणम्' इतिवन्नपुंसकत्वम् । तातस्त्विति । तातः पितानपत्यतयाऽसंतानत्वेन सुतजन्मातिरिक्तेन पुत्रजन्माधिकेन महोत्सवेन महामहेन मम जन्म मज्जन्माभिनन्दितवानतिस्तुतवान् । अवाप्तेति । अवाप्ते प्राप्ते दशमेऽहनि दिने । कृत इति । कृतो विहितो यथोचितो यथायोग्यः समाचारो वेदोक्तक्रियाकलापो येन सः । महाश्वेतवर्णत्वान्महाश्वेतेति यथार्थमेव नाम कृतवान् । सेति । साहं पितृभवने जनकसद्मनि बालतया शिशुत्वेन कलमधुरप्रेलापिनी कलं मनोज्ञं मधुरं मिष्टं प्रलपतीत्येवंशीला सा तथा केवलं वीणेव वल्लकीव गन्धर्वाणां देवगायनानामङ्कादक क्रोडात्कोडं संच रन्ती गच्छन्ती । अवीति । अविदितोऽज्ञातः स्नेहः प्रीतिः, शोकः शुक्, तयोरायासः प्रयासो येनैवंविधं शैशवं बाल्य मतिनीतवत्यतिक्रान्तवती । तदनन्तरं मे मम वपुषि शरीरे नवयौवनेन प्रत्यग्रतारुण्येन पदं स्थानं कृतं विहितम् । कस्मिन्क इव । वसन्ते पुष्पकाले मधुमासेनेवँ चैत्रेणेव । तथा मधुमासे नवपल्लवेनेव प्रत्यप्रकिसलयेनेव । तथा नवपल्लवे कुसुमेनेव प्रसूनेनेव । तथा कुसुमे मधुकरेणेव भ्रमरेणेव । तथा मधुकरे मदेनेव । अथेत्यानन्तर्ये । एकदेति । एकस्मिन्समयेऽहं मधुमास दिवसेषु वसन्तवासरेष्वम्बया मात्रा सहेदमच्छोदं सरः स्नातुमभ्यपतमगच्छमिति दूरेणान्वयः । अथ मधुमासदिवसान्विशेषयन्नाह - विजृम्भेति । विजृम्भमाणानि विकासमानानि नवनलिनवनानि प्रत्यग्रपद्मखण्डानि येषु । अकठोरेति । अकठोराः सुकुमारा याश्वतकलिका आम्रकोरकास्तासां कलापः समूहस्तेन कृता विहिता कामुकानां कामि• जनानामुत्कलिकोत्कण्ठा येषु । उद्दीपकत्वादिति भावः । कोमलेति । कोमलो मृदुर्यो मलयमारुतो मलयानिलस्तस्यावतार इतस्ततः प्रसरणं तेन तरङ्गितानि भङ्गितान्यनङ्गध्वजांशुकानि मदनवैजयन्तीवसनानि येषु । मलयमारुतस्योद्दीपकत्वात् अनङ्गध्वजकम्पनेनानङ्गस्य प्रोत्साहनं सूचितम् । मदेति । मदेनाहंकारेण टिप्प० - 1 'वीणेव कलमधुरप्रलापिनी अङ्कादक संचरन्ती' इति उभयत्र युज्यते । कलमस्फुटं मधुरं च भालपति वीणेति वीणापक्षे । 2 'अविदितस्त्रेहशोकायासमनोहरम्' इत्येव पाठः । अविदितैः स्नेहशोकायासैः मनोहरमिति तदर्थः । एतज्जनितव्याकुलताभावात्सुन्दरमित्याशयः। 3 मालोपमैकावल्योः संयोगेन नवीन इवालंकारः । सरस्वतीकण्ठाभरणमते तु रशनोपमा । 4 तरङ्गवत्प्रस्फुरितानि 'फहराना' । पाठा० -१ महात्मनोमैहता केशेनाभिलाषेण कालेन च केवलम्. २ विगललक्ष. ३ एकैव; अहमेकैव, ४ मज्जन्म. ५ शोकायासमनोहरम् ६ अतीतवती, ७ जृम्भमाण, ८ अनेकचूत, ९ काम्युत्कलिकेषु. महाश्वेताखानागमनवृत्तान्तः ] पूर्वभागः । लेषु, मधुकरकुलकलङ्ककालीकृतकालेय ककुसुमकुडालेषु, अशोकतरुताडनरणितरमैणीयमणिनूपुरझंकारसहस्रमुखरेषु, विकसन्मुकुलपरिमलपुञ्जितालिजालम जुशिञ्जित सुभगसहकारेषु, अविरलकुसुमधूलिवालुकापुलिनधव लितधरातलेषु, मधुमद विडम्बितमधुकेरकदम्बकसंवाह्यमानलतादोलेषु, उत्फुल्लपल्लवलवलीलीय यानमत्त कोकिलोल्ला सितमधुशीकरोद्दामदुर्दिनेषु, प्रोषितजनजायाजी वो पहारष्टमन्मथास्फालितचापरवभयस्फुटितपथिकहृदय रुधिराकृितमार्गेषु, अविरतपतत्कुसुमशरपतत्रिपत्रसूत्कारबधिरीकृत दिखेषु, दिवापि प्रवृत्तमदनरागान्धाभिसारिकासार्थसंकुलेषु, उद्वेलरतिरससागरपूरल वितेषु, सकलजीव लोक हृदयानन्ददायकेषु मधु२९७ कलिता व्याप्ता याः कामिन्यः स्त्रियस्तासां गण्डूषसीधुलुकमद्यं तेन सेकः सिञ्चनं तेन पुलकिता रोमाञ्चिता बकुला: केसरा येषु । इदं च बकुलतरुच्छायायां कामिनीनां मधुपानेवर्णनम् । मधुकरेति । मधुकरस्य भ्रमरस्य कुलानि सजातीयवृन्दानि तान्येव कलङ्कोऽभिज्ञानं तेन कालीकृतानि श्यामीकृतानि कालेयकानां जापकानां कुसुमानि पुष्पाणि कुङ्मलानि मुकुलानि च येषु । अशोकेति । अशोकः केलिर्यस्त रुक्षस्तस्य ताडने नाघातेन रणितानि शब्दितानि रमणीनां कामिनीनां मणिनूपुराणि रत्नपादकटकानि तेषां झङ्कारा अव्यक्तशब्दास्तेषां सहस्रेण मुखरी वाचाला येषु । विकसदिति । विकसन्ति स्मेरतां प्राप्नुवन्ति यानि मुकुलानि गुच्छाः । पुष्पाणामिति शेषः । तेषां यः परिमल आमोदस्तेन पुञ्जिताः समूहिता येऽलयो भ्रमरास्तेषां जालं समूहस्तस्य मञ्जु मनोहरं यत् शिजितं शब्दितं तेन सुभगाः सुन्दरा एतादृशाः सहकारा आम्रा येषु । अविरलेति । अविरलानि निबिडानि यानि कुसुमानि प्रसूनानि तेषां धूलिः परागः । श्वेतत्वसाम्यात् । सैव वालुकापुलिनं सिकताटं तेन धवलितं श्वेतीकृतं धरातलं पृथ्वीतलं येषु । मध्विति । मधु रसस्तस्य मदेन विडम्बिता विह्वलीकृता ये मधुकरा भ्रमरास्तेषां कदम्बकं समूहस्तेन संवाह्यमाना इतस्ततो विक्षिप्यमाणा या लता वल्लयस्ता एव दोलाः प्रेङ्खा येषु । उत्फुल्लेति । उत्फुल्ला विजृम्भिताः पछवाः किसलयानि यासामेवंविधा लवल्यो लताविशेषास्तासु लीयमाना अन्तर्धानतां प्राप्यमाणा या मत्तकोकिलाः पिकस्त्रियस्ताभिरुल्लासितं बहिरानीतं यन्मधु रसस्तस्य शीकराः कणास्तै रुद्दाम दुर्दिनमत्युग्रवार्दलं येषु । प्रोषितेति । प्रोषिता अन्यदेशे गता ये जना लोकास्तेषां जायाः स्त्रियस्तासां जीवा असुमन्तस्तेषामुपहार उपहरणं तेन हृष्टः प्रमुदितो यो मन्मथः कंदर्पस्तेनास्फालितमास्फोटितं यच्चापं धनुस्तस्य यो रवः शब्दस्तस्माद्यद्भयं भीतिस्तेन स्फुटितानि विभिन्नानि यानि पथिकहृदयानि पान्थजनचित्तानि तेषां रुधिरेण रक्तेनाकृतो मार्गः पन्था येषु । अविरतेति । अविरतं निरन्तरं पतन्त उपविशन्तः कुसुमशँरेषु पुष्पकाण्डेषु । 'शरःकाण्डतेजनयोः' इत्यनेकार्थः । एतादृशा ये पतत्रयः पक्षिणस्तेषां पत्रसूत्कारेण पक्षाव्यक्तशब्देन बधिरीकृतमेडीकृतं दिङ्मुखं येषु । दिवापीति । दिवसेऽपि प्रवृत्तः प्रसृतो यो मदनः कंदर्पस्तस्य रागेण तदासक्त्यान्धा उत्पश्या या अभिसारिका नायिकाविशेषास्तासां सार्थः समूहस्तेन संकुलेष्वाकीर्णेषु । उद्वेलेति । लोयो रतिरसः शृङ्गारोऽगाधत्वसाम्यात्स एव सागरः समुद्रस्तस्य पूरः लवस्तेन प्लाविते ष्वाच्छादितेषु । सकलेति । सकलानां समग्राणां जीवलोकानां हृदयानि चित्तानि तेषामानन्ददाटिप्प० - 1 इदमज्ञानम् । 'पादाघातादशोको विलसति ० ' इत्यादिः कविसमयः । 2 दारुहरिद्वा. वृक्षाणामित्यर्थः । 3 झंकारसहस्रेण मुखरेषु शब्दायमानेष्वित्यर्थः कर्तव्यः । 4 पुष्परसः । 5 जीवितानि । 6 अविरतं ( कामिलक्ष्येषु) पततां कुसुमशरपत्रिणां कामदेवबाणानां यानि पत्राणि पक्षाः (पुंखा:) तेषां सूरकारेण इत्यर्थो बोध्यः । टीकाकारस्य तु शुद्धः प्रलापः । 7 दिवसेपि प्रवृत्तो यो मदनराग इत्युचितम् । 8 बेलामुलजय गच्छन् ( उन्मर्यादः ) । पाठा. Compl -१ कालेयककुडालेषु. २ ताडनारणित ३ रमणीमणि ४ असकृम्मधु. ५ मधुकरी ६ वल्ली. ७ उनम० ८ हृष्टमन्मथेषु मन्मथा. ९ रुधिरामार्गेषु किंशुक्रसमाकीर्णेषु; रुधिराईमार्गेष्विव किंशुकसमाकीर्णमार्गेषु. १० पत्रबधिरी; पत्रफूत्कारबधिरी ११ प्रवृत्तान्त: १२ आनन्द केषु. ३८ का० २९८ कादम्बरी । [ कथायाम् मास दिवसेष्वेकदाहमम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयकहारमिदमच्छोदं सरः ज्ञातुमभ्यपतम् । अत्र च स्नानार्थमागतया भगवत्या पार्वत्या तटशि-. लावलेषु विलिखितानि सभृङ्गिरिटीनि पांसुनिमर्मक शपद मण्डलानुमितमुनिजनप्रणामप्रदक्षिणानि त्र्यम्बकप्रतिबिम्बकानि वन्दमाना, भ्रमरभरभुन्नगर्भ केसरजर्जर कुसुमोपहाररम्योऽयं लतामण्डपः, परभृतनखकोटिपाटितकुँडालनाल विवरविगलितर्मंधुनिकरधारः सुपुष्पितोऽयं सहकारतरुः, उम्मदमयूरकुलकलकलभीतभुजङ्गमुक्ततला शिशिरेयं चन्दनवीथिका, विकचकुसुमपुञ्जपातसूचितवनदेवताप्रेङ्खोलनशोभनेयं लतादोला, बहलकुसुमरजःपटलमनकलपद्लेखमतिरमणीयमिंद तीरतरुतलमिति स्निग्धमनोहरतरोदेशदर्शन लोभाक्षिप्तहृदया सह सखीजनेन व्यचरम् । यकेषु प्रमोदजनकेषु । अन्वयस्तु प्रागेवोक्तः । अथाच्छोदं सरो विशेषयन्नाह - मध्विति । मधुमासेन विस्तारिता विस्तारतां नीता शोभा कान्तिर्यस्मिंस्तत् । प्रोत्फुल्लेति । प्रोत्फुल्लानि विकसितानि नवानि प्रत्यप्राणि यानि नलिनानि कमलानि, कुमुदानि कैरवाणि, कुवलयान्युत्पलानि, कहारं सौगन्धिकम्, एतानि विद्यन्ते यस्मिंस्तत् । अत्रेति । अस्मिस्थले स्नानार्थमालवार्थमागतया प्राप्तया भगवत्या माहात्म्यवत्या पार्वत्या गौर्या । तटेति । तटं तीरं तस्मिन् यानि शिलातलानि तेषु विलिखितान्यालेखितानि यानि त्र्यम्बकस्य महादेवस्य प्रतिबिम्बकानि प्रतिच्छायानि तानि वन्दमाना नमस्कुर्वाणा । कीदृशानि । भृङ्गिरिटिगण विशेषरतेन सहितानि तत्सहवर्तमानानि । पांस्विति । पांसौ सिकतासमूहे निमानि बुडितानि कृशपदमण्डलान्यस्थूलचरणप्रतिबिम्बानि तैरनुमितेऽनुमानविषयीकृते मुनिजनानामृषिवर्गाणां प्रणामप्रदक्षिणे नमस्कृतिपरिभ्रमणक्रिये येषु तानि । इतीति । स्निग्धः सघनोऽत एव सच्छायो मनोहरतरोऽतिशयेन चित्तहारी य उद्देशो वनैकप्रदेशस्तस्य दर्शनमवलोकनं तस्य लोभस्तृष्णा तेनाक्षिप्तं हृदयं स्वान्तं यस्याः सैवंविधाहं सह सखीजनेन वयस्याभिः समं व्यचरमभ्रमम् । इतिशब्दार्थ व्याख्यानयन्नाह – भ्रमरेति । भ्रमरभरेण मधुकरसमुदायेन भुग्नो भङ्गुरो गर्भो मध्यभागो यस्यैवंभूतः । तथा केसरैः किञ्जल्कैर्जर्जरः कुसुमानां पुष्पाणामुपहारः सभूहस्तेन रम्यो मनोहरः । अयमित्यस्य प्रत्येकमभिसंबन्धः । लतेति । लता व्रततिस्तस्या मण्डपो जनाश्रयः । परेति । परभृताः कोकिलास्तेषां नखकोटया नखराग्रेण पाटितानि विदारितानि कुङ्मलानां मुकुलानां नालानि काण्डास्तेषां विवराणि छिद्राणि तेभ्यो विगलिता विद्रुता मधुनिकरधारा रससमूहलेखा यस्मिन्नेवंभूतः सुपुष्पितोऽयं सहकारतरुराम्रवृक्षः । उन्मदेति । उन्मदा मदोन्मत्ता ये मयूराः केकिनस्तेषां कुलानि सजातीयसमूहास्तेषां कलकलः कोलाहलस्तेन भीतास्त्रस्ता ये भुजङ्गा भोगिनस्तैर्मुक्तं त्यक्तं तलं यस्या एतादृशी शिशिरा शीतलें चन्दनवीथिका मलयजखण्डश्रेणी । विकचेति । विकचो विकखरो यः कुसुमानां पुष्पाणां पुञैः समूहस्तेन सूचितं ज्ञापितं यद्वनदेवतारण्याधिष्ठात्री देवी तस्याः प्रेङ्खोलनमान्दोलनं तेन शोभना मनोज्ञा इयं लतादोला वल्लीप्रेङ्खा । बहलेति । बहलानि बहूनि यानि कुसुमरजांसि तेषां पटलं वृन्दं तस्मिन्मन्नानि यानि कलहंसपदानि कादम्बचरणानि तेषां लेखा वीथी यस्मिन्नेवंभूतमतिरमणीयमतिमनोहरमिदं तीरतरुतलं तटवृक्षाधोभागः । / टिप्प० – 1 प्रतिमूर्तीिः इत्युचितम् । 2 कुसुमपुञ्जस्य यः पातस्तेन सूचितं यत् वनदेवतानां प्रेङ्खोलनम्, इत्यन्वयो योग्यः । पाठा०-१ अभ्युपगमम् ; अभ्यागमम् २ पात्रमय ३ भन. ४ जर्जरकुसुमोपहार; शाखान्तर नर्तकजर्जरकुसुमोपहार, ५ कुणालविवर. ६ मधुधारः ७ मयूरकलकल; सकलमयूरकलकल:. ८ चन्दनवनवीथिका. पुण्डरीकः ] पूर्वंभागः । एक स्मिञ्च प्रदेशे झटिति वनानिलेनोपनीतम्, निर्भरविकसितेऽपि काननेऽभिभूतान्यकुसुमपरिमलं विसर्पन्तम् अतिसुरभितयानुलिम्पन्तमिव तर्पयन्तमिव पूरयन्तमिव घ्राणेन्द्रियम्, अहमहमिकया मधुकरकुलैरनुबध्यमानम्, अनाघातपूर्वम् अमानुषलोकोचितं कुसुमगन्धमभ्यजिघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मेधुकरीवावकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजात मैणिनूपुरझङ्काराकृष्टसरः कलहंसानि कतिचित्पदानि गत्वा हरहुताशनेन्धनीकृत मदनशोकविधुरं वसन्तमिव तपस्यन्तम्, अखिलमण्डल प्राप्त्यर्थेमीशानशिरःशशाङ्कमिव धृतवतम् अयुग्मलोचनं वशीकर्तुकामं काममिव सनियमम् अतितेजस्वितया मैचलतडिल्लतापञ्जरमध्यगतमिव ग्रीष्म विवस दिवसकरमण्डJ .9 २९९ । एकस्मिंश्चेति । एकस्मिन्प्रदेशे कुसुमगन्धं पुष्पजनमनोहारिणमभ्यजिघ्रं घ्राणविषयतामनयम् । अथ च गन्धं विशेषयन्नाह ——झटिति शीघ्रं वनानिलेनारण्य पवनेनोपनीतमानीतम्, निर्भरं नितान्तं विकसिते विकखरे कानने वनेऽपि सति । अभीति । अभिभूत आत्तगन्धोऽन्यकुसुमानां विजातीयसजातीयप्रसूनानां परिमलो येन स तम् । अस्मिन्नर्थे हेतुं प्रदर्शय नाह-अतीति । अतिसुरभेर्भावस्तता तया । एतस्मादुत्कृष्टः कोऽपि परिमली नास्तीति भावः । पुनः किं कुर्वन्तम् । विसर्पन्तम् प्रसरन्तम् । अथ गन्धाधिक्य प्रदर्शयन्नाह --प्राणेति । घ्राणेन्द्रियं विकूणिकाकरणमनुलिम्पन्तमिव दृढसंबन्धं कुर्वन्तमिव । तर्पयन्तमिव तृप्तिं जनयन्तमिव । पूरयन्तमिव परिपूर्णीकुर्वन्तमिव । अहमिति । मिथो यो गर्वः साहमहमिका तया मधुकरकुलैर्भ्रमरसमूहैरनुबध्यमानमनुरुध्यमानम् । अनाघ्रातपूर्वमनाजिघ्रितपूर्वम् । अमानुष इति । अमानुषलोको देवलोकस्तस्योचितं योग्यम् । अन्वयस्तु प्रागेवोक्तः । कुत इति । कस्मात्प्रदेशादयं गन्ध इत्युपारूढं प्रादुर्भूतं कुतूहलं कौतुकं यस्याः सैवंविधाहं स्नानार्थमागतं मुनिकुमारकं तापसपुत्रमपश्यमद्राक्षमित्यन्वयः । अथैतस्था । विशेषणानि – मुकुलितेति । मुकुलितें कुङ्मलिते लोचने नेत्रे यस्याः सा । तेनेति । तेन पूर्वोक्तेन कुसुमगन्धेन पुष्पामोदन मधुकरीवदवकृष्यमाणा बलात्कारेण नीयमाना । कौतुकेति । कौतुके कुतूहलेन तरला कम्प्रा । किं कृत्वा । कतिचित्कियन्ति पदानि गत्वा । अथ पदानि विशेषयन्नाह - अभ्यधिकेति । त्वरितगमनादभ्यधिकतरः पूर्वस्मादतिशायी य उपजात उत्पन्नो मणिनुपुराणां रत्नखचिततुलाकोटीनां झङ्कारः शब्दविशेषस्तेनाकृष्टा आकर्षिताः सरः कलहंसाः कासारकादम्बा यैस्तानि । इतो मुनिकुमारं विशेषयन्नाह - हरेति । हरेणेश्वरेण हुताशने नेत्रसमुत्थिते वह्नाविन्धनीकृतो यो मदनः कामस्तस्य शोकः खेदस्तेन विधुरं व्याकुलमत एव तपस्यन्तं तपस्यां कुर्वन्तं वसन्तमिव सुरभिमासमिव । इयं च सुरभिगन्धसाम्यादुत्प्रेक्षा । अखिलमिति । अखिलं समग्रं यन्मण्डलं भूर्मंण्डलं षोडशकलात्मकं च तस्य प्राप्तिरुपलब्धिस्तदर्थं धृतं व्रतं नियमो येनैवंभूतमीशानशिरःशशाङ्कमिवेश्वरोत्तमाङ्गचन्द्र मिव । रूपातिशय साम्येनाह - अयुग्मलोचनमीश्वरं वशीकर्तुकामं सनियमं काममिव । अतीति । अतितेजो विद्यते यस्यासावतितेजस्वी तस्य भावस्तत्ता तया प्रचला चञ्चला तडिल्लता विद्युल्लता तस्याः पञ्जरं पक्षिरक्षणस्थलं तस्य मध्यगतमिव । श्रीष्मेति । ग्रीष्म टिप्प० - 1 पुष्पगन्धं जनमनोहारिणमित्यर्थः । 2 अभिभूताः अन्येषां कुसुमानां परिमलाः (अतिशोभना गन्धाः ) येन तमित्यर्थः । 3 द्रवपदार्थवत् सर्वावयवेषु व्याप्नुवन्तमिवेत्याशयः । 4 अनुगम्यमानमित्यर्थः । 5 हृयमुक्तिरज्ञानमूलिका । न ह्यत्र श्लेषो येनार्थद्वयम् । शिरःशशाङ्क: कलामात्रः, अत एव स पूर्णमण्डलप्राध्यर्थ तपस्यतीवेत्युत्प्रेक्षा । अत्र मण्डलस्य एक एवार्थः प्रकृतः । पाठा०—१ अथैकस्मिन् २ मधुकरावकृष्यमाणा; मधुकरीवाकृष्यमाणा ३ नूपुरमणि ४ हरनयनहुताशन. ५ विधुर, ६ प्रचलिततडितापअरगतमिव ७ दिवस. ८ दिनकर. कादम्बरी । [ कथायाम लोदरप्रविष्टमिव अवंलनज्वालाकलापमध्यस्थितमिव विभाव्यमानम्, उन्मिषन्त्या बहुलबहुलया दीपिकालोकपिङ्गलया देहप्रभया कपिलीकृतकाननं कनकमयमिव तं प्रदेशं कुर्वाणम्, रोचनारसलुलित प्रतिसरसमान सुकुमारपिङ्गलजटम्, पुण्यपताकायमानया सरस्वतीसमागमोत्कण्ठाकृतचन्दन रेखयेव भस्मललाटिकया बालपुलिनरेखयेव गङ्गाप्रवाहमुद्भासमानम्, अनेकशापभृकुटिभवनतोरणेन चलताद्वयेन विराजितम्, अत्यायततया लोचनमयीं मालामिव प्रथिता मुद्वहन्तम्, सर्वहरिणैरिव दत्तलोचनशोभासंविभागम्, आयतोत्तुङ्गघ्राणवंशम्, अप्राप्तहृदयप्रवेशेन नवयौवनरागेणेव सर्वात्मना पाटलीकृताधररुचक्रम्, अनुद्धिलश्मैश्रुत्वादनासादितमधुकररावली वलयपरिक्षेपविलास मिव बालकमलभाननं दधानम्, अनङ्गका दिवसस्य निदाघवासरस्य यो दिवसकरः सूर्यस्तस्य मण्डलं बिम्बं तस्योदरं मध्यभागस्तत्र प्रविष्टमिव । ज्वलनेति । ज्वलनस्य वहेर्यो ज्वालाकलापोऽर्चिषां समूहस्तस्य मध्यस्थितमिवान्तर्गतमिव विभाव्यमानं ज्ञायमानम् । देहेति । देहप्रभया शरीरकान्त्या कपिलीकृतं पिङ्गलीकृतं काननं वनं येन स तम् । अथ देहप्रभां विशेषयन्नाह - उन्मिषेति । उन्मिषन्त्या विकसन्त्या । बहुला च बहुला च बहुलबहुला तथा । दीपिकेति । दीपिकायाः प्रसिद्धाया य आलोकः प्रकाशस्तद्वरिपङ्गलया पिञ्जरया । पुनर्मुनिकुमारं विशेषयन्नाह कनकेति । कनकमयमिव सुवर्णमयमिव तं प्रदेशं कुर्वाणं विदधानम् । रोचनेति । रोचना गोरोचना तस्या रसो द्रवस्तेन लुलित एकीभूतो यः प्रतिसरी हस्तसूत्रं तत्समाना सदृशी सुकुमारा सुकोमला पिङ्गला पिजरा च जटा सटा यस्य स तम् । भस्मेति । भस्म विभूतिस्तस्य ललांटिका पुण्ड्रविशेषस्तयो•द्भासमानमुत्प्राबल्येन दीप्यमानम् । अतिश्वेतत्वसाम्येनाह - पुण्येति । पुण्यस्य धर्मस्य पताकायमानया वैजयन्तीवदाचरमाणया । रेखामधिकृत्याह - सरेति । सरस्वत्या भारत्या यः समागमः संगमस्त जनिता या उत्कण्ठोत्कलिका तया कृता विहिता चन्दनरेखा मलयजरेखा तयेव । अन्यस्यागमने गृहैंधवलीकरणं सरस्वत्यास्तु मुखमेव निवासो निलयोऽतस्तदुपरि चन्दनलेखाकरणमिति भावः । कयेव कमित्याकाङ्क्षायामाह बालेति । बालं सूक्ष्मं यत्पुलिनं जलोज्झितं तीरं तस्य रेखा लेखा तयेवोद्भाव्यमानं ज्ञाप्यमानं गङ्गाप्रवाह मिव स्वर्धुनीवेणीमिव । अनेकेति । अनेकानामसंख्यानां शाप भृकुटीनां यद्भवनं गृहं तस्य तोरणेन बहिर्द्रारेणैषंविधेन भ्रूलताद्वयेन विराजितं शोभितम् । एतेन सर्वेषां शापप्रदाने क्षम इति ध्वनितम् । अतीति । अत्यायततयातिविस्तीर्णतया लोचनमयीं नेत्रमयीं ग्रथितां गुम्फितां मालामिव जपमालिकामिवोद्वहन्तम् । सर्वेति । सर्वहरिणैः समग्रमृगैरिव दत्तो लोचनशोभायाः संविभागो यस्मै स तम् । आयत इति । आयतो विस्तीर्ण उत्तुङ्ग उच्चस्तरो घ्राणवंशो यस्य स तम् । अप्राप्त इति । अप्राप्तोऽनुपलब्धो हृदये चित्ते प्रवेशो येनैवंविधेन नवं प्रत्यग्रं यद्यौवनं तारुण्यं तस्य रागेणेव सर्वात्मना सर्वप्रकारेण पाटलीकृतः श्वेतरक्तीकृतोऽधर एव रुचकं बीजपूरो यस्य स तम् । 'रुचकं तु बीजपूरे निष्केऽसौवर्चलेऽपि च' इत्यनेकार्थः । या अधर एव रुचकं स्वस्तिकद्रव्य यस्य स तम् । 'रुचकं स्वस्तिकद्रव्ये' इति विश्वः । पुनः किं कुर्वाणम् । दधानम् । किम् । आननं मुखम् । अन्विति । अनुद्भिन्नान्यप्रकटितानि श्मश्रूणि यस्य तस्य भावस्तत्त्वं तस्मात् । अनासादीति । अनासादितोऽप्राप्तो मधुकररावल्या भृङ्गपङ्ख्या वलयाकारेण यः परिक्षेपः परिवेष्टनं तल्लक्षणो विलासो येनैवंभूतं बालकमलमिव नवीननलिनमिव । अनङ्गेति । अनङ्गस्य कंदर्पस्य यत्कार्मुक टिप्प० – 1 रक्त इत्यर्थः । 2 जटासु बहुत्वमुचितम् । 3 बहुमानसूचनाय गृहे चतुष्क ( 'चौक' ). रङ्गवल्लीत्यादिकरणं भवतीत्यर्थो बोध्यः । 4 धिक् । अनेके ये शापाः तेषां कृते भ्रुकुटि: भ्रूसंकोच एव भवनं तस्य तोरणेन ( द्वारवर्तिधनुराकारकाष्ठविशेषरूपेण )। 5 विसारित्वात् स्रजमिव । जपमालेल्युतिस्तु ग्राम्यतैव ● पाठा० -१ ज्वलनम्; ज्वलदनल; ज्वलज्ज्वलन. २ सुकुमारजटम् ३ उद्भाव्यमानम्. ४ अनुद्भूत० ५ श्मश्रु राजित्वात् ६ कार्मुकगुणेन. पुण्डरीक: ] पूर्वभागः । मुकस्य गुणेनेव कुण्डलीकृतेन तपस्तटाककमलिनीमृणालेनेव यज्ञोपवीतेनालंकृतम्, एकेन सनालबकुलफलाकारं कमण्डलुमपरेण मकरकेतुविनाशशोकरुदिताया रतेरिव बाप्पजलबिन्दुभिरारचितां रैफटिकाक्षमालिकां करेण कलयन्तम्, अनेक विद्यापगासंगमावर्तनिभया नाभिमुद्रयोपशोभमानम्, अन्तर्ज्ञान निराकृतस्य मोहान्धकारस्यापैयानपदवीमिवाञ्जनरजोलेखाश्यामलां रोमराजिमुद्रेण तनीयसीं बिभ्राणम्, आत्मतेजसा विजित्य सवितारं परिगृहीतेन परिवेषमण्डलेनेव मौजी मेखलागुणेन परिक्षिप्तजघनभागम् अभ्रगङ्गास्रोतोजलप्रक्षालितेन जरचकोरलोचनपुटपाटलकान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम्, अलंकारमिव ब्रह्मचर्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम्, संकेतस्थानमिव सर्वश्रुतीनाम्, निदाघकालमिव साषाढम् हिमसमयकाननमिव स्फुटितप्रियङ्ग-, १ धनुस्तस्य कुण्डलीकृतेन गुणेनेव ज्ययेव । तप इति । तप एव तटाकः कासारस्तस्य कमलिनी मृणालिनी तस्या मृणालेनेव बिसेनैवंभूतेन यज्ञोपवीतेन यज्ञसूत्रेणालंकृतं विभूषितम् । एकेनेति । एकेन करेण हस्तेन । सनालेति । सनालं यद्वकुलफलं केसरफलं तद्वदाकारो यस्यैवंभूतं कमण्डलुम् । अपरेण तदितरेण करेण । मकरेति । मकरकेतुः कंदर्पस्तस्य विनाशो नाशस्तस्माद्यः शोकस्तेन रुदितायाः कृताश्रुपाताया रतेर्मदनस्त्रियो बाष्पजलबिन्दुभिर्नेत्रवारिपृषद्भिरारचितामिव निर्मितामिव । स्फटिकाक्षमालिकां श्वेतजपमालिकां कलयन्तं दधानम् । अनेकेति । अनेकाश्च ता विद्याश्चानेकविद्याः । प्रसरणसाम्यात्ता एवापगा नयस्तासां संगमः संश्लेषस्तत्र य आवर्तः पयसां भ्रमस्तन्निभया तत्सदृशया नाभिमुद्रया तुन्दकूपिकयोपशोभमानं विराजमानम् । अन्तरिति । अन्तर्ज्ञानेन तत्त्वज्ञानेन निराकृतस्य दूरीकृतस्य मोहान्धकारस्याज्ञानतिमिरस्यापयानप दवीमिव निःसरणमार्गमिव । अञ्जनमिति । अञ्जनं कज्जलं तस्य रजः कणस्तस्य लेखा राजिस्तद्वच्छ्यामलां कृष्णामेतादृशीं तनीयसीमतितुच्छामुदरेण जठरेण रोमराजिं तनूरुहश्रेणिं बिभ्राणं दधानम् । आत्मेति । आत्मतेजसा स्वकीयकान्त्या सवितारं सूर्यं विजित्य पराभूय परिगृहीतेनात्तेन परिवेषमण्डलेनेव परिधिवलयेनेव । मौञ्जेति । मुञ्जस्तेजनस्तत्संबंन्धिनी मौज्जी या मेखला रशना तस्या गुणेन दवरकेण परिक्षिप्तो वलयिती जघनभागोऽग्रप्रदेशो यस्य स तम् । अभ्रेति । अभ्रगङ्गा व्योमनदी तस्याः स्रोतः प्रवाहस्तस्य जलमम्भस्तेन प्रक्षालितेन धौतेन । जरदिति । जेरञ्ज्यायान्यश्च कोरो विषसूचकस्तस्य लोचने नेन्ने तयोः पुतला श्वेतरता कान्तिर्द्युतिर्यस्य स तेनैवंभूतेन मन्दारवल्कलेन देवतरुवल्केनोपपादितं विहितम म्बरप्रयोजनं वस्त्रकृत्यं येन स तम् । अलमिति । ब्रह्मचर्यस्य सर्वथा स्त्रीपरित्यागलक्षणस्यालंकारमिव भूषणमिव । धर्मेति । धर्मस्य सुकृतस्य यौवनमिव तारुण्यमिव । सर इति । सरस्वत्या भारत्या विलासमिव विभ्रममिव । स्वयमिति । सर्वविद्यानां समग्रकलानां स्वयंवरपतिर्भर्ता तमिव । एतेन सर्वाभिर्विद्याभिरयमागत्य वृतः, न त्वनेन विद्यार्थ प्रयत्नः कृत इत्यावेदितम् । संकेतेति । सर्वश्रुतीनां समप्रशास्त्राणां संकेतस्य स्थानं पदं तद्वदिव । अन्योऽपि जनः संकेतितं स्थानं गच्छति तद्वत्सर्वं श्रुतमेतस्मिन्समागतमिति भावः । निदाघेति । निदाघो ग्रीष्मकालस्तमिव । उभयोः सादृश्यं प्रदर्शयन्नाह - सेति । सहाषाढेन पलाशदण्डेन वर्तमानम् । 'पालाशो दण्ड आषाढः' इति कोशः । पक्ष आषाढः शुचिमासः । हिमेति । हिमसमयः शीतकालस्तस्मिन्काननं वनं तद्वदिव । उभयोः सादृश्यार्थमाह - स्फुटितेति । स्फुटिता प्रफुल्ला टिप्प० – 1 वृद्धः, नेत्रारुण्यातिशयार्थम् । पाठा० -१ स्फटिकगुलिकाक्ष, २ अपनयन ३ तनीयसी; तनीयसीम् ४ आगृहीतेन. ५ सर्वश्रुतानाम्. Eri ३०२ कादम्बरी । [ कथायाम्, स्नानार्थमागतं , मञ्जरीगौरम्, मधुमासमिव कुसुमधवलतिलक भूतिविभूषितमुखम्, आत्मानुरूपेण सवयसा परेण देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतम् अतिमनोहरम् मुनिकुमारकमपश्यम् । तेन च कर्णावतंसीकृतां वसन्तदर्शनानन्दितायाः स्मितप्रभामिव वनश्रियः, मलयमारुंतागमनार्थलाजाञ्जलिमिव मधुमासस्य, यौवनलीलामिव कुसुमलक्ष्म्याः, सुरतपरिश्रमस्वेदजंलकणजालकावली मिव रतेः, ध्वजचिह्नचामरपिच्छिकामिव मनोभवगजस्य, मधुकरकामुकाभिसारिकाम्, कृत्तिकातारास्तबकानुकारिणीम् अमृतबिन्दुनिस्यन्दिनीम्, अष्टपूर्वा कुसुममञ्जरीमद्राक्षम् । 7 'अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमलः' इति मनसा निश्चित्य तं तपोधनयुवानमीक्षमाणाहमचिन्तयम्- 'अहो रूपातिशय निष्पादनोपकरणकोशस्याक्षीणता विधातु: यंत्रिया प्रियङ्गमञ्जरी फलिनीवल्लरी तद्वद्गौरं शुभ्रवर्णम् । पक्षे प्रियङ्गुमञ्जर्या गौरम् । मध्विति । मधुमासो वसन्तमासस्तमिव । उभयोः साम्यमाह -- कुसुमेति । कुसुमं पुष्पं तद्वद्धवला शुभ्रा या तिलकार्थं भूतिर्भस्म तया विभूषितमलंकृतं मुखमाननं यस्य स तम् । पक्षे कुसुमैर्धवला शुभ्रा ये तिलका वृक्षविशेषास्तेषां भूत्या समृद्ध्या विभूषितं मुखमग्रभागो यस्येति बहुव्रीहिः । वसन्तप्रारम्भ एव तिलकवृक्षाणां पुष्पोद्गमसंभवादिति भावः । अन्वयस्तु प्रागेदोकः ॥ अथ प्रकारान्तरेण तमेव मुनिकुमारकं विशेषयन्नाह - आत्मेति । आत्मरूपेणात्मसदृशेन सवयसा मित्रेण परेण भिन्नेन देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्युच्चिन्वतावचयं कुर्वता एवंविधेन तापसकुमारेण परिव्राजकबालकेनानुगतं सहितम् । अतीति । अतिमनोहरमतिरुचिरम् । स्सा लेिति । स्नानार्थमालवनार्थमागतं प्राप्तम् । तेनेति । चकारः पुनरर्थकः । तेन कुमारेण कर्णावतंसीकृतां श्रवणशेखरीकृतां कुसुममञ्जरी मद्राक्षमपश्यमित्यन्वयः । कामिव । वसन्तस्य दर्शनेनावलोकनेनानन्दितायाः प्रमुदिताया वनश्रियः काननलक्ष्म्याः स्मितं हास्यं तस्य प्रभामिव । मलयेति । मधुमावसन्तमासस्य मलयमारुतो मलयानिलस्तस्य आगमनार्थमागमनिमित्तं लाजाञ्जलिमिवाक्षताञ्जलिमिव । यौवनेति । कुसुमलक्ष्म्याः पुष्पनियो यौवनलीलामिव तारुण्यक्रीडामिव । सुरतेति । रतेः कामस्त्रियः सुरतं मैथुनं तस्य परिश्रमः खेदस्तस्माद्यत्स्वेदजलं तस्य कणोः पृषतास्तेषां जालकं समूहस्तस्यावलीमिव पङ्किमिव । ध्वजेति । मनोभवगजस्य मदनहस्तिनो ध्वजो वैजयन्ती तस्य चिह्नभूता चामरपिच्छिका तामिव । मधुकरेति । मधुकरा भ्रमरास्त एव कामुकाः कामाभिलाषिणस्तेषामभिसारिकां कामिजनानयनकर्त्रीम्, संकेतितस्थलगामिनीं वा । कृत्तिकेति । कृत्तिकाग्निदेवता तस्यास्ताराणां स्तबको गुच्छकस्तयानुकारिणीम् । तत्सदृशीमित्यर्थः । अत्र केशानामतिकृष्ण त्वेन मञ्जर्याश्च शुक्लत्वेनैतदुपमानद्वयमिति भावः । अमृतेति । अमृतं पीयूषं तस्य बिन्दवः कणास्तेषां निस्यन्दिनीं साविणीम् । अदृष्टेति । अदृष्टपूर्वामनवलो• कितपूर्वाम् । अन्वयस्तु प्रागेवोक्तः । सस्य अस्याः परीति । ननु वितर्फे । अस्या मञ्जर्या अयं परिमलः । परीति । परिभूतोऽभिभूतोऽन्यकुसुमानां खेतरपुष्पाणामामोदः परिमलो येन स इति मनसा वान्तेन निश्चित्य निर्णीय तं तपोधनयुवानमृषिकुमारकमीक्षमाणा वीक्षमाणाहमचिन्तयमध्यायम् । अहो इति । अहो इत्याश्चर्ये विधातुर्ब्रह्मणो रूपातिशयस्य सौन्दर्यातिशयस्य निष्पादने निर्माणे य उपकरणकोश उपस्करभाण्डागारसंस्थाक्षीणताऽक्षयत्वम् । 'कौशलम्' इति पाठे तु निष्पादने यदुपकरणं व्यापारविशेषस्तत्र कौशलं दक्षतां तस्याक्षीणतातादवस्थ्यमिति भावः । अतिशयपदव्यङ्ग्यमाह — यत्रिभुवनेति । यदिति हेत्वर्थे । j. पाठा० -१ कुपित. २ आगमनार्थम् ३ कौशलस्य ४ यद त्रिभुवना. तदर्शने महाश्वेताया अवस्था ] पूर्वभागः । भुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य तदाकारातिरिक्तरूपातिशयरा शिरयमपरो मुनिर्मायामयो मकरकेतुरुत्पादितः । मन्ये च सकलजगन्नयनानन्दकरं शशिबिम्बं विरचयता लक्ष्मीलीलावासभवनानि कमलानि सृजता ब्रह्मणतदाननकारण कौशल्याभ्यास एव कृतः, अन्यथा किमिव हि सदृशवस्तुविरंचनायां कारणम् । अलीकं चेदं यथा किल सकलाः कलाः कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरापिबतीति, ताः खरवस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम्' इति चिन्तयन्तीमेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवन त्रिभुवनान्त्रिविष्टपादद्भुतोऽतिशायी रूपसंभारः सौन्दर्यसमूहो यस्मिन्नेवंभूतं भगवन्तं कुसुमायुधं कंदर्पमुत्पाद्य निर्माय तदाकारात्कुसुमायुधाकृतेरतिरिक्तोऽधिको रूपातिशयः सौन्दर्योत्कर्षस्तस्य राशिः समूहो मायामयो मोहरूपो मकरकेतुरयमपरो मुनिरुत्पादितः । उत्तरोत्तरमतिशयवत्त्वादयं मकरकेतुस्तदपेक्षयाप्युत्कृष्ट इति भावः । उत्तरोत्तरमतिशयमेव भङ्गयन्तरेण निरूपयन्नाह - मन्ये इति । अहमिति मन्ये जाने । इतिशब्दार्थमाह - सकलेति । सकलं समग्रं यज्जगत्तस्य नयनानन्दकरं प्रमोदजनकमेतादृशं शशिबिम्बं चन्द्रमण्डलं विरचयता रचनां कुर्वता । लक्ष्म्याः पद्माया लीलावासभवनानि क्रीडानिवासस्थानान्येवंभूतानि कमलानि सरोजानि सृजता कुर्वता ब्रह्मणा हिरण्यगर्भेणैतस्य मुनिकुमारकस्याननं मुखं तस्याकार आकृतिस्तस्य करणं निर्माणं तत्र कौशलं चातुर्यं तदर्थमभ्यासः पौनःपुन्येन प्रवृत्तिरेव कृतो विहितः । एतत्समर्थयन्नाह अन्यथेति । अन्यथोक्तवैपरीत्ये, सदृशवस्तुविरचनायां तुल्यपदार्थोत्पादने किमिव कारणं नियामकम् । न किमपीत्यर्थः । अतो ज्ञायतेऽभ्यासार्थमेतन्निर्माणमिति भावः । अलीकं चेति । अग्रे इति वक्ष्यमाणमिदमलीकं मिथ्या । इतिशब्दार्थमाह - यथेति । किलेत्याप्तवाक्ये । बहुलपक्षे कृष्णपक्षे क्षीयमाणस्य कृशतां प्राप्यमाणस्य कलावतश्चन्द्रस्य सकलाः समग्राः कलाः षोडशांशा रविः सूर्यः सुषुम्नानाम्ना रश्मिना नाडीविशेषेणापिबति पानं करोति । तर्हि किं सत्यमित्याशयेनाह - इतीति । ताः समग्रा गभस्तयः कान्तयोऽस्य मुनेरिदं वपुः शरीरमाविशन्ति प्रविशन्ति । तथा च 'यदेकस्मान्निर्गमं तत्स्वाश्रयसदृशमुपयाति' इति न्यायेन बहुलपक्षेणोपक्षीयमाणाश्चन्द्रमसो निर्गता गभस्तयस्तपः क्लेशातिशयक्षीणे मुनौ संक्रान्ता इत्यर्थः । उक्तवैपरीत्ये दूषणमाह - कुत इति । अन्यथोक्तान्यथात्वे रूपं सौन्दर्य तस्यापहारिणि निराकारिणि । क्लेशः परिश्रमस्तेन बहुले दृढे । एवंविधे तपसि तपस्यायां वर्तमानस्य स्थितस्येदं लावण्यं सर्वोत्कृष्टं सौन्दर्य कुतः स्यात् । कारणव्यतिरेकेण कार्यानुदयादिति भावः । इति चिन्तयन्तीमेवेति ध्यायन्तीमेव मां कुसुमायुधोऽनङ्गो मधुकरीं भ्रमरीं कुसुमसमयमद इव वसन्तकालमद इवोच्छ्वसितैर्निःश्वसितैः सह परवशां पराधीनामकरोब्यधात् । अथ च कुसुमायुधं विशेषयन्नाह - अवीति । अविचारितोऽनालोचितो गुणदोषयोर्विशेषो बलाबलं येन स तथा । रूपेति । रूपस्य सौन्दर्यस्यैकोऽद्वितीयः पक्षपाती तत्पुष्टिकारी । नवेति । नवं प्रत्यग्रं यद्यौवनं तत्र सुलभः सुप्रापः । तारुण्य एव तदुत्पत्तिसंभवात् । पुनः किं कुर्वन्ती । दक्षिणेनापसव्येन चक्षुषा नेत्रेण टिप्प० - 1 पूर्वत्र अलीकत्वाऽसंबन्धेऽपि तत्संबन्धवर्णनात्, इह प्रवेशस्याऽसंबम्धेपि च संबन्धवर्णनादतिशयोक्तिः । 2 कुसुमासवमद इवेत्येव पाठः । कुसुमासवमदः पुष्पमधुपानजनिता मत्तता इति तदर्थः। 3 उच्छ्रसितैः सह परवशामकरोदिति योजनायाम् उच्च सितानामपि परवशत्वं प्रतीयते, नच तथा । तस्मात् 'परवशामकरोत्' अत्रैव वाक्यसमाप्तिः । 'उः सह विस्मृत निमेषेण' इत्यादि पृथग् वाक्यम् । उच्छ्रसितैः सह अर्थात् यथा निःश्वासाः प्रवृत्ताः तैः सह निमेषोऽपि नेत्रयोर्निमीलनमपि मया विस्मृतं तदवस्थया पश्यन्तीति तदर्थः । - १ रूपराशि:● २ मुनिमायामयः • पाठा०६ विचिन्तयन्तीम्. ३ प्रजापतिना प्रथममेतत्. ४ बिरचनायाः• ५ अमुष्य ३०४ कादम्बरी । [ कथायाम्सुलभ: कुसुमायुधः कुसुमसमयमद इव मधुकरी परवशामकरोदुच्छुसितैः सह । विस्मृत निमेषेण किंचिदामुकुलितपक्ष्मणा जिह्निततरलतरतारशारोदरेण दक्षिणेन चक्षुषा सस्पृहमा पिबन्तीव, किमपि याचमानेव, 'त्वदायत्तास्मि' इति वदन्तीव, अभिमुखं हृदयमर्पयन्तीव, सर्वात्मनानुप्रविशन्तीव, तम्मयतामिव गन्तुमीहमाना, 'मनोभवाभिभूतां त्रायस्व' इति शरणमिवोपयान्ती, 'देहि हृदयेऽवकाशम्' इत्यर्थितामिव दर्शयन्ती, 'हाहा, किमिदमसांप्रतमतिहेपणम कुलकुमारीजनोचितमिदं मया प्रस्तुतम्' इति जानानाध्यप्रभवन्ती करणानाम् स्त म्भितेव, लिखितेव, उत्कीर्णेव, संयतेव, मूच्छितेव, केनापि विधृतेव, निरपन्दसकलावयवा तत्कालाविर्भूतेनावष्टम्भेन, अकथितशिक्षितेनानाख्येयेन, स्वसंवेद्येन केवलम्, न विभाव्यते किं तद्रूपसंपदा, किं मनसा, किं मनसिजेन, किमभिनवयौवनेन, किमनुरागेणेवोपदिश्यमानं, " संस्पृहं साभिलाष यथा स्यात्तथापिबन्त्यत्यादरेण विलोकयन्तीव । अत्यादरेण विलोकनं पानमुच्यते । अथ चक्षुर्विोकयन्नाह — विस्मृतेति । विस्मृतो विस्मृति प्राप्तो निमेषो निमीलनं यस्य तत्तथा तेन । किंचि दिति । किंचिदींषदा मुकुलितमाकुङ्मलितं पक्ष्म नेत्ररोम यस्मिंस्तत्तथा तेन । जितेति । जिह्निता कुटिलिता तरलतरातिचञ्चला तारा कनीनिका यस्मिन्नेवंभूतं शारं कल्मषमुदरं मध्यभागो यस्येति चेति द्वन्द्वः । अथ च प्रकारान्तरेण तामेव विशेषयन्नाह - किमपीति । किमप्यनिर्वचनीयस्वरूपं याचमानेव प्रा. र्यमानेव । याचनाकर्तुरेतादृशा कारवत्त्वात्तदुपमानम् । स्वदिति । त्वदायत्ता त्वदधीनाहमस्मीति वदन्तीव ब्रुवन्तीव । एतेनावलोकने सातिशयत्वं सूचितम् । अभीति । अभिमुखं संमुखं हृदयं स्वान्तमर्पयन्तीव वितरणं कुर्वन्तीव । मुनीनां व्यामोहजननादिति भावः । सर्वेति । सर्वात्मना सर्वप्रकारेणानुप्रविशन्तीवानुप्रवेशं कुर्वन्तीव । तन्मयेति ! तन्मयतां तद्रूपतां गन्तुं प्राप्तमीहमानेव स्पृहमानेव । मनोभवेनेति । मनोभवेन कंदर्पणाभिभूतां भूतां त्रायस्व पाहीति हेतोः शरणं त्राणमुपयान्तीव गच्छन्तीव । देहीति । हृदये चित्तेऽवकाशं प्रवेश देहीत्यर्थितां याचकतां दर्शयन्तीवावलोकनं कारयन्तीव । विरोधिना विवेकेनाप्यभिवर्त्यमानाह – हाहेति । हाहा इति खेदे । किमिदमसांप्रतमयुक्तमतिहेपणमतिलजाकरमकुलोद्भवो यो कुमारीजनस्तस्योचितं योग्यम् । कुलवत्यास्तु सर्वथा नोचितमिति भावः । इदमेतादृशं कर्म मया प्रस्तुतं प्रारब्धमिति । जानानाप्येतादृशज्ञानवत्यपि करणानामिन्द्रियाणामवरोधनेऽप्रभवन्त्यसमर्था । व्यामोहं प्रतिपादयन्नाह – स्तम्भितेव जडीकृतेव, लिखितेव चित्रितेव, उत्कीर्णेवोत्कोरितेव, संयतेव संदानितेव, मूच्छिसेव मूर्च्छा प्राप्तेव, केनाप्यनिर्वचनीयस्वरूपेण विवृतेव गृहीतेव तत्कालाविर्भूतेन तदात्व प्रादुर्भूतेनावष्टम्भेन व्यामोहातिशयेन निस्पन्दा निश्चेष्टाः सकलावयवा यस्याः सर्वभूता सती कथंकथमिति महता कष्टेन तं मुनिकुमारकमतिचिरं बहुकालं व्यालोकयमद्राक्षमिति दूरेणान्वयः । प्रस्तुतस्य दोषरूपतया तन्निदानं दुर्जेयमिति निरूपयन्नाह - अकथितेति । यदनुचितं प्रस्तुतं कर्म तत्केन निमित्तेनोपदिश्यमानमुपदेशविषयीक्रियमाणमितिं' न विभाव्यते न निश्चीयत इत्यन्वयः । अनिश्चयं प्रदर्शयन्नाह - किं तद्रूपेति । किमिति वितर्के । तस्य मुनिकुमारस्य रूपसंपदा सौन्दर्यसमृद्ध्या । किं मनसा चित्तेन । किं वा मनसिजेन कंदर्पेण । किं वाभिनवयौवनेन प्रत्यग्रतारुण्येन । किं वानुरागेणान्तर्गतप्रीत्या । किमन्येनैव पूर्वोक्तभिन्नेनैव केनापि प्रकारेण । किमिति सर्वत्र वितर्कार्थः । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा अनुभवेनैव विभाव्यतामित्यत आह - स्वसंवेद्येनेति । 4 टिप्प० - 1 प्रकाशयन्तीव । 2 तरकालाविर्भूतेन अकथितशिक्षितेन अनाख्येयेन (आकस्मिकतया स्विरूप इति निर्वक्कुमशक्येन ) अत एव स्वसंवेद्येन अवष्टम्भेन सात्विकविकारविशेषेण फेवलं तमतिचिरं व्यलोकयामेति योजना । दरिद्रटीकाकारेण तु सर्व व्याकुलीकृतम् । एवं 'किमनुरागेणेवोपदिश्यमानम्' इति टीकाकारटतः पाठोपि भ्रष्टः । किन्तु - 'उपदिश्यमाना' इत्येव पाठः । 'न विभाव्यते वक्ष्यमाणानां मध्ये केन उपदिश्यमाना अहं तमतिचिरं व्यलोकयम्' इति तद्योजना । पाठा० -१ कुसुमासवगद २ किमयम् ३ विधृतेव. ४ कान्त्या. ५ उपदिश्यमाना. i तद्दर्शने महाश्वताया अवस्था] पूर्वभागः । ३०५ , किमन्येनैव वा केनापि प्रकारेण, अहं न जानामि कथंकथमिति तमतिचिरं व्यलोकयम् । उत्क्षिप्य नीयमानेव तत्समीप मिन्द्रियैः पुरस्तादाकृष्यमाणेव हृदयेन, पृष्ठतः प्रेर्यमाणेव पुष्पधन्वना कथमपि मुक्तप्रयत्नमात्मानमधारयम् । अनन्तरं च मेऽन्तर्मदनेनावकाशमिव दातुमाहितसंताना निरीयुः श्वासमरुतः । सांभिलाष हृदयमाख्यातुकाममिव स्फुरितमुखमभूत्कुचयुगलम् । स्वेदैलवलेखांक्षालितेवागलल्लज्जा । मकरध्वज निशितशर निपात त्रस्ते वाकम्पत गात्रयष्टिः । तद्रूपातिशयं द्रष्टुमिव कुतूहलादालिङ्गनलालसेभ्योङ्गेभ्यो निरगाद्रोमाञ्चजालकम् । अशेषतः स्वेदाम्भसा धौतश्चरणयुगलादिव हृदयमविशद्रागः आसीच मम मनसिं । स्वानुभवेत्यर्थः । तस्मिन्ननुभवेऽप्रमाणत्वं निराकरोति — अकथितेति । न कथिंतं शिक्षित वा यस्मिंन्ने वंभूतेन । कथिते शिक्षिते त्यर्थेऽसंभावना विपरीतभावना चोत्पद्यते । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा शब्दजन्य एवानुभवो भवतु, तथा संभावनात्मकेन तेन कथं निर्णय इत्यत आह - अनाख्यायेति । खमात्रसाक्षिणा तेनाप्यहं न जानामीति संबन्धः । अन्वयस्तु प्रागेवोक्तः । मुनिकुमारदर्शनानन्तरमुत्कण्ठात्यादीनि वक्तुं प्रथममुत्कण्ठातिशयमाह - उत्क्षिप्येति । तदुक्तम्'दर्शन स्पर्शनालापैर्व्यक्तास्ते सहकारिणः' इति । इन्द्रियैः करणैरुत्क्षिप्योत्पाट्य तत्समीपं मुनिसविधं नीयमाना प्राप्यमाणेव । हृदयेन स्वान्तेन पुरस्तादग्र आकृष्यमाणेव । पुष्पधन्वना मकरध्वजेन पृष्ठतः । प्रेर्यमाणा नोयमानेव । धृतिमाह — कथमपीति । एतादृश्यहं कथमपि महता क्लेशेन मुक्तप्रयत्नं यथा स्यात्तथात्मानमपि प्राणिनमध्यधारयं धारितवती । निरोधश्च धृतिकार्यम् । चिन्तामाह - अनन्तरमिति । चिन्तावशात्कुत्रचि देकान्ते सचिन्तस्तिष्ठति। एवं सति मे ममान्तरभ्यन्तरे मेदनेनावकाशं दातुमाहितसंताना रचितपरम्पराः श्वासमरुतः श्वसितवायवो निरीयुर्निष्कासिताः । तथा च श्वासावष्टम्भेन संकोचात्तन्निर्गमे सावकाशमिति भावः । अभिलाषमाह - सेति । साभिलाषम भिलाषायुक्तं हृदयं मन आख्यातुकाममिव वक्तुकाममिव कुचयुगलं स्तनयुग्मं स्फुरितमुखं स्पन्दिताननमभृद्धभूव । स्वेदेति । स्वेदः श्रमोत्थं वारि तस्य लवलेखाभिः क्षालितेव धौतेव लज्जा त्रपागलदस्रवत् । अत्र मुखस्फुरणमभिलाषकार्यं स्वेदः श्रमकार्य लज्जाच्युतिश्चोन्माद कार्यमिति यथाक्रमं ज्ञेयम् । त्रासमाह — मकरेति । मकरध्वजस्य कंदर्पस्य ये निशितास्तीक्ष्णाः शरा बाणास्तेषां निकरः समूहस्तस्य निपातः पतनं तेन त्रस्तेव भीतेव गात्रयष्टिर्देहयष्टिरकम्पत चकम्पे । कम्पस्नासकार्यम् । एवम्प्रेऽपि रोमाञ्च निर्गमसात्त्विकभावं प्रतिपादय चाह - तद्रूपेति । तस्य मुने रूपातिशयं सौन्दर्योत्कर्ष द्रष्टुमिव वीक्षितुमिव कुतूहलात्कौतुकादालिङ्गनमुपगूहनं तत्र लालसेभ्यः सस्पृहेभ्योऽङ्गेभ्यो हस्तपादादिभ्यो रोमाञ्चजालकं रोमहर्षणसमूहो निरगान्निर्गतं बभूव । स्थायिभावं प्रदर्शयन्नाह - अशेषत इति । खेदाम्भसा श्रमोत्थवारिणा चरणयुगलादङ्गियुग्मादशेषतः सामस्त्येन धौतः क्षालितो रागो रतिरारुण्यं च हृदयमिवा विशत्प्रवेशमकरोत् । आसीञ्चेति । मे मम टिप्प० - 1 धिक्टीकाकारहतकम् । मे अन्तः ( अभ्यन्तरे ) अवकाशं दातुम् (तस्य मुनिकुमारस्य निवासस्थानं संपादयितुं ) मदनेन आहितसंतानाः कृतविस्ताराः श्वासमारुता निर्जग्मुः । एकस्य निर्गमे अन्यस्थावकाशम् । ● पाठा० -१ अध्यात्मानम्; आत्मानमपि २ तन्मदनेन; ह्यन्तर्मंदनेन ३ स्वेदसलिललव. ३९ का० ३०६ कादम्बरी [ कथायाम 9 शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणास दृशमारब्धं मनसिजेन । एवं च नामातिमूढं हृदयमङ्गनाजनस्य, यदनुरागविषययोग्यतामपि विचारयितुं नालम् । केदमतिभाखरं घाम तेजसां तपसां च क च प्राकृतजनाभिनन्दितानि मन्मथपरस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदं यदहमेवमवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । अन्या अपि कन्यका विहाय स्वयमुपयाताः पतीन्, अन्या अध्यनेन दुर्बिनीतेन मन्मथेनोन्मत्ततां नीता नार्यः, न पुनरहमेका यथा । कथमनेन क्षणेनाकारमात्रालोकनाकुली भूतमेव मस्वतन्त्रतामुपैत्यन्तःकरणम् । कालो गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत् तावदेवास्मात्प्रदेशामनसि मञ्चित्त इदमासीद्वभूव । तदेव प्रकटयन्नाह - शान्तात्मनीति । अनार्येण दुष्टेन मनसिजेन कंदर्पण । शान्तारमनि दूरीकृतो दूरोज्झितः सुरतव्यतिकरो मैथुनवृत्तान्तो येनैवंभूते जनेऽस्मिन्मां निक्षिपता निक्षेपं कुर्वतासदृशमसाधुजनोचितमारब्धं प्रारब्धं पूर्वोक्तप्रकारेण । नामेति कोमलामन्त्रणे । अङ्गनाजनस्य स्त्रीज नस्यातिमूढमतिमुग्धं हृदयं चित्तम् । यदिति हेत्वर्थे । अनुरागविषययोग्यतामप्यस्मिन्स्थळेऽनुरागो युक्तः, अस्मिन्स्थले न युक्तः, इति विषयविभागमपि विचारयितुं नालं समर्थम् । वैराग्यतपः सिद्धियुक्ते मुनिजने प्रम दाजनानुस्मरणप्रयासो वृथेत्यर्थः । अतो हेतोरस्मात्प्रदेशादपसर्पणं दूरीभवनं श्रेय इति प्रत्येकवाक्यपरिसमाप्तौ बोद्धव्यम् । क्वेति महदन्तरे । तेजसां तपसां चातिभास्वरमतिशोभनं केदं धाम गृहम् । प्राकृतेति । प्रा. कृतजनैनींचज नैरभिनन्दितान्यनुमोदितानि मन्मर्थपराणि मनोभवप्रतिपाद्यानि स्पन्दितानि चेष्टितानि । नियतमिति । नियतं निश्चितं मकरलान्छनेन कंदर्पेणैवं पूर्वोक्तप्रकारेण विडम्बमानां कदर्थ्यमानां मामयं मुनिर्मनसा चित्तेनोपहसत्युपहासं करोति । त्रित्रमिति । इदम वक्ष्यमाणं चित्रमाश्चर्यम् । तदेव प्रदर्शयाह – यदिति । यद्यस्मात्कारणादहमेवं पूर्वोक्तप्रकारेणावगच्छन्त्यपि जानन्त्यप्यात्मनः स्वस्य विकारं विकृतिमुपसंहर्तुं दूरीकर्तुं न शक्नोमि न समर्था भवामि । पुनर्विचारणान्तरमाह - अन्या इति । मत्सहचरीषु मध्ये याः काश्चनातिकामुकास्त्रपां लज्जां विहाय त्यक्त्वा स्वयमात्मनान्यान्पतीनुपयाताः स्वयमेवोपगताः । यास्तु नोपयाताखासां मध्येऽम्या मध्यतिरिक्ता नार्योऽनेन दुर्विनीतेन शूकलेन मन्मथेन कंदर्पेणोन्मत्ततां सविकारतां तथा न नीता यथाहमेका । अनेनेति । अनेन क्षणेन मुनिकुमारदर्शनाविर्भूतमदनावेशलक्षणेनोन्मत्ततां प्रापिता । तदेव स्पष्टीकुर्वनाह - आकारेति । आकारमात्रस्य कृतिमात्र स्यालोकनं वीक्षणं तेनाकुलीभूतं व्याकुलीकृतमन्तःकरणमन्तरिन्द्रियमेवं पूर्वोकप्रकारेणास्वतन्त्रतां पराधीनतामुपैति प्राप्नोति । काल इति । कालो विवेककालो गुणाः कुलीनत्वादयश्च मदनस्य सर्वथा सर्वप्रकारेण दुःखेन निवारयितुं शक्यो दुर्निवारस्वस्य भावस्तत्ता तामारोपयन्ति व्यवस्थापयन्ति । अतो हेतोरपीति पूर्ववत् । पुनर्विचारणान्तरमाह-यावदिति । यावदेव यावत्कालमहं सचेतना चैतन्ययुक्तास्मि । यावदेवेति पूर्ववत् । मे ममैतन्मदुश्चेष्टितलाघवमनेन मुनिना विभाव्यते न निश्चीयते । तावदेवेति । तावत्कालम स्मात्प्रदेशादपसटिप्प० -1 'मन्मथपरिस्पन्दितानि' इत्येव पाठः । कामचेष्टितानि इति तदर्थः । 2 एतत्सर्व प्रत्यक्षतो वर्तमानमित्यर्थ उचितः । 3 कथंपदं सर्वथा परित्यजति टीकाकृत् । तस्सात् - "अनेन क्षणेन आकारमान्त्रालोकन व्याकुलीभूतम् ( अर्थात् क्षणमात्रं दर्शनमात्रेण विह्वलीभूतम्) अन्तःकरणं कथं पराधीनतामुपैति इति चित्रम्" इति पूर्वानुषङ्गेण व्याख्यातव्यम् । 4 वसन्तादिः, गुणाः सौन्दर्यादयश्च मदनस्य अप्रतीकार्यतामारोपयन्ति इति व्याख्यानमुचितम् । टीकाकारस्तु बुद्धिशून्यः । पाठा० -१ परिस्पन्दितानि २ अपहाय. . महाश्वेतादर्शने पुण्डरीकावस्था ] पूर्वभागः । २०७ दपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । 'अदूरकोपा हि मुनिजनप्रकृतिः' इत्यवधार्यापसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरितिकृत्ला तद्दनाकृष्टदृष्टिप्रसरम्, अचलितपक्ष्ममालम्, अदृष्टभूतलम्, उल्लसितकर्णपल्लवोन्मुक्तकपोलमण्डलम्, आलोलालकलतालसत्कुसुमावतंसम्, अंसदेशदोलायितमणिकुण्डलमस्मै प्रणाममकरवम् । अथ कृतप्रणामायामपि दुर्लयशासनतया मैनोभुवः, मदजननतया च मधुमासस्य, अतिरमणीयतया च तस्य प्रदेशस्य, अविनयबहुलतया चाभिनवयौवनस्य, चञ्चलप्रकृतितथा चेन्द्रियाणाम्, दुर्निवारतया च विषयाभिलाषाणाम्, चपलतया च मनोवृत्तेः, तथा१ । र्पणं दूरीभवनं श्रेयः कल्याणकृदिति भावः । अन्यथा बाधकमाह - कदाचिदिति । संभावनायामनभिमतोSनभीष्टो यः स्मरविकारो मनोभवविकृतिस्तस्य दर्शनेनावलोकनेन कुपितः कोपं प्राप्तो मां शापस्याभिज्ञामाद्यज्ञान विषयाम् । 'अभिज्ञा ज्ञानमाद्यं स्यात्' इति कोशः । करोति प्रणयति । मुनीनां कोपः कुत इत्याशयेनाह — अदूरेति । हि निश्चितम् । मुनिजनप्रकृतिस्ता पसलोकस्वभावोऽदूरे समीपे कोपो यस्या एवंविधा स्यादित्यवधार्य निश्चित्याहमपसर्पणेऽभिलाषः स्पृहा यस्या एवंभूताभवं जज्ञे । अशेषेति । अशेषैः सम र्जनैः पूजनीयार्चनीयेयं जातिः । न तु कोपनीयेति भावः । इतिकृत्वासमै प्रणामं नमस्कारमकरवमसृजम् । अथ नमस्कार विशेषयन्नाह - तद्वदनेति । तद्वदनामुनिमुखादाकृष्ट आकर्षितो दृष्टिप्रसरो यस्मिंस्तत् । क्रियाविशेषणं वा । अनेन भावातिशयो द्योतितः । एवमग्रेऽपि ज्ञेयम् । अचलितेति । अचलिताsकम्पिता पक्ष्मणां नेत्ररोग्णां माला पङ्किर्यस्सिन् । अदृष्टेति । अदृष्टमवीक्षितं भूतलं पृथ्वीतलं यस्मिन् । उल्लसितेति । उल्लेसिता उल्लासं प्राप्ताः कर्णपल्लवाः श्रवणकिसलयानि तैरुन्मुक्तं त्यक्तं कपोलमण्डलं यस्मिन् । आलोलेति । आलोला चपलालकलता केशराजिस्तस्यां लसत्कुसुमावतंसो यस्मिन् । अंसेति । अंसदेशे स्कन्धप्रदेशे दोलायितं मणिकुण्डलं यस्मिन् । अन्वयस्तु प्रागेवोक्तः । अथेति । मद्विकारेणापहृतं दूरीकृतं धैर्यं यस्यैवंभूतं मुनिकुमारकं कृतप्रणामायामपि तस्यां तमपि पवनः प्रदीपमिवानङ्गः कंदर्पस्तरलतां चञ्चलतामनयत् । तत्र हेतुमाह - दुर्लङ्घषेति । मनोभुवो मदनस्य दुर्लयं दुर्लङ्घनीय शासनमाज्ञा यस्य तस्य भावस्तत्ता तथा । मधुमासस्य वसन्तमासस्य मदजननतया मदोत्पादकत्वेन च । तस्य पूर्वोकस्य प्रदेशस्यातिरमणीयतयातिमनोहरतया । अभीति । अभिनवं नूतनं यद्यौवनं तारुण्यं तस्याविनयः शठता तद्बहुलतया तद्बाहुल्यतया । इन्द्रियेति । इन्द्रियाणां करणानां चञ्चलप्रकृतितया लोलखभावतया । विषयेति । विषया इन्द्रियार्थास्तेषामभिलाषा अध्यवसायास्तेषा दुर्निवारतया दुःखेन दूरीकर्तुं शक्यतया । मनोवृत्तेश्चित्तवृत्तेश्चपलतया चञ्चलतया । तस्य तस्य वस्तुनस्तत्तत्पदार्थस्य तथा भवति भ टिप्प० - 1 शापय परिचितां अर्थात् अभिसंपातदुःखभोगिनीं मां करोति । यद्ययं कुपितः स्यात्तर्हि शापः कीदृशो भवति इति मां स्फुटमनुभावयेदित्याशयः । टीकाकारस्तु उन्मादग्रस्तः । 2 'ईषदुल्लसित' इत्येव ग्रन्थशय्यानुकूलः पाठः । 3 इन्त ! टीकाकारस्य प्रलापं दृष्ट्वा परवशाः स्युः सहृदयाः क्रोधेन । न जाने, किं दुर्भाग्यमासीद्वाणस्य । अस्तु । 'कृतप्रणामायां मयि' इति पाठं विना ग्रन्थ एव न संगच्छते । मयि कृतप्रणामायां सत्यां कामस्य दुर्लज्यशासनस्वादिभिर्हेतुभिः पवनः प्रदीप मिच अनङ्गः तमपि (मुनिकुमारमपि) तरलतामनयत् । इति च तद्योजना । 4 हृदमप्यसंगतत्वादधिकमेव । पाठा०- १ ईषदुसित, २ ममि. ३ भगवतो मनोभुषः. कादम्बरी । [ कथायाम् भवितव्यतया च तस्य तस्य वस्तुनः, किंबहुना मम मन्दद्भाग्यदौरात्म्यादस्य चेहशस्य केशस्य विहितत्वात्तमपि मद्विकारापहृतधैर्य प्रदीपमित्र पवनस्तरलतामनयदनङ्गः । तदा तस्याप्यभिनदागतमदनं प्रत्युद्गच्छन्निव रोमोद्गमः प्रादुरभवत् । मत्सकाशमभित्रस्थितस्य मनसो गार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । पैथुगृहीता व्रतभङ्गभीतेवाकैम्पत करतलगताक्षमाला । द्वितीयेव कर्णावसक्तकुसुम मञ्जरी कपोलतलासङ्गिनी समदृश्यत स्वेदसलिलसीकरजालिका । गॅदर्शनप्रीतिविस्तारितस्य चोत्तानतारकस्य पुण्डरीकमयमिव तमु देशमुपदर्शयतो लोचनयुगलस्य विसर्पिभिरंशुसंतानैर्यदृच्छया च्छोदसलिलमपहाय विकचकु. वलयवनैरिव गगनतलसमुत्पतितैररुध्यन्त दश दिशः । तथा तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशा तत्क्षणमहमवर्णनयोग्यां कामव्यवस्थामन्वभवम् । इदं च मनस्यकरवम् – 'अनेकसुरतसमागमलास्यलीलोपदेशोपाध्यायो मकरकेतुरेव वितव्यतया तथाभाव्यतया । चकारः सर्वत्र समुच्चयार्थ: । किमिति । किं बहुक्तेन । मम गन्दभाग्यं क्षीण भागधेयं तस्य दौरात्म्याद्दुष्टत्वेनास्य मुनेरीदृशस्य क्लेशस्य वितत्वात्कृत्वात् । अन्वयस्तु प्रागेवोक्तः । तदेति । तस्मिन्काले तस्यापि मुनिकुमारस्याप्यभिनवी नूतन आगतो यो मदनः कंदर्पस्तं प्रत्युद्गच्छन्निष संमुखं व्रजन्निव रोमोद्गमो रोमाञ्चः प्रादुरभवत्प्रकटीबभूव । मदिति । मत्सकाश मस्समीपमभित्रस्थितस्य संमुखं चलितस्य मनसो हृदयस्य मार्ग पन्थानमुपदिशद्भिरिवोपदर्शयद्भिरवश्वासैः श्वः पुरो प्रस्थितम् । वेपथुरिति । व्रतस्य नियमस्य भङ्गः खण्डनं तेन भी तेव त्रस्तेच वेपथुः कम्पस्तेन गृहीता करतलगता हस्तगताक्षमाला जपमालाकम्पताचलत । द्वितीयेति । कपोलतलासङ्गिनी गल्ला स्परप्रदेशाश्लेषिणी स्वेदसलिलस्य श्रमजलस्य सीकराः कणास्तेषां जालिका समदृश्यत समालोक्यत । द्वितीयान्या कर्णासक्तकुसुममञ्जरीष श्रवणसंल्लमपुष्पवल्लरीव । एते सात्त्विका भाषा: प्रदर्शिताः । महीनेति । मद्दर्शनमालोकनं तस्मात्प्रीतिः स्नेहस्तेन विस्तारितस्य प्रसारितस्य । उसानेति । उत्तानोमुखा तारका कनीनिका यस्य स तथा तस्य तमुद्देशं तं प्रदेशं पुण्डरीकमयं सिताम्भोजनिर्मितमिवोपदर्शयतोऽन्येभ्यो ज्ञापयतो लोचनयुगलस्य नेत्रयुग्मस्य विसर्पिभिः प्रसरणशीलैरंशुसंतानैः किरणसमूहैर्दश दिशोऽरुध्यन्त रुद्धाः । कमलसादृश्यादाह -- यहच्छयेति । यदृच्छया खेच्छयाच्छोदनानः सरसः सलिलं पानीयमपहाय त्यक्त्वा गगनतलसमुत्पतितैराकाशतलोत्पातिभिर्विकच कुवलयवनैरिव विकखरोत्पलखण्डैरिव । एतेन नयनयोबाचल्यमित स्ततोऽवलोकनं च ध्वनितम् । तु पुनरर्थकः । तस्य मुनिकुमारस्यातिप्रकटयातिस्पष्टया तया विकृत्या द्विगु णीकृतो द्विगुणतां नीतो मदनस्यावेशो यस्या एवंभूताहं तत्क्षणं तत्काळमवर्णनयोग्यामकथनीयां कामप्यवस्थां दशामन्वभवमनुभूतवती । इदमिति । मनसि चित्त इदं चाकरवमत्रैणयम् । अचिन्तयमित्यर्थः । अनेकेति । अनेकेऽसंख्याः सुरतं मैथुनं तस्य समागमः संबन्धः स एव लासलीला नृत्यक्रीडा तस्यामुपदेशाः शिक्षारूपास्तत्रोपाध्यायः पाठक एवंविधो मकरकेतुरेव कंदर्प एव विलासाचेत्र विकारानुपदिशत्युपदेशं करोति । उक्तवैपरी बाधकटिप्प० - 1 पुनः पपात टीकाकारः । मुनिर्हि तत्पदेन निर्दिश्यते न हृदंपदेन । तस्मात् - अस्य ईडशस्य मम तपश्चरणात्मकक्लेशस्य विधिविहितत्वात् इत्यर्थः । 2 एका पारिजातमञ्जरी तु कर्णे कृतैव । अत एव सेयं स्वेदसीकरजालिकारूपा द्वितीया इति उत्प्रेक्षाशयः । 3 प्राणयमिति स्यात्, स्थाने स्थाने परी क्षणीयं प्रावीण्यं टीकाकृतो भगवतः । पाठा० - १ दर्शनापहृत २ आगतं. ३ प्रत्युद्गतवान् ४ वेपथुना. ५ अकम्पत गात्रयष्टि: ६ माला च. ७ मदनप्रीति. पुण्डरीकजन्मवृत्तान्तः ] पूर्वभागः । AN 4 विलासानुपदिशति, अन्यथा विविधरसासङ्गललितेष्वीदृशेषु व्यतिकरेष्व प्रविष्टबुद्धेरस्य जनस्य कुत इयमेनभ्यस्ताकृती रतिरसनिः स्यन्दमिव क्षरन्नी, अमृतमिव वर्षन्ती, मदमुकुलितेव, खेदालसेव, निद्राजडेव, आनन्दभरमन्थरतरत्तारसंचारिणी, अनिभृतलतोल्लासिनी दृष्टिः । कुतश्चेदमतिनैपुण्यम्, यञ्चक्षुपैवानक्षरमेवमन्तर्गतो हृदयाभिलाषः कथ्यते' । प्राप्तप्रसरा चोपैसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम् - 'भगवान्किमभिधानः । कस्य वायं तपोधनस्य युवा । किंनाम्नश्च तरोरियमैवतंसीकृता कुसुममञ्जरी । जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्न साधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः' इति । स तु मामीष• द्विहस्याब्रवीत् – 'बाले, किमनेन पृष्टेन प्रयोजनम् । अथ कौतुकमावेदयामि । श्रूयताम्अस्ति त्रिभुवनप्रख्यातकीर्तिरत्युदारतया सुरासुरसिद्धवृन्द वन्दितचरणयुगलो महाभयो । pahaya. माह - अन्यथेति । विविधा अनेके ये रसाः शृङ्गारादयस्तेषामासङ्गः संश्लेषस्तेन ललितेषु मनोहरेष्वीदृशेषु व्यतिकरेषु संबन्धेष्वप्रविष्टा प्रवेशमप्राप्ता बुद्धिः प्रतिभा यस्य स तथा तस्यैवंभूतस्यास्य मुनिजनस्येयं दृष्टिः कुतः स्यात् । अथ च दृष्टिं विशिष्टि - अनेति । अनभ्यस्ता परिचिताकृतिराकारो यया सा तथा । रतिरसः शृङ्गाररसस्तस्य निःस्यन्दं सारं क्षरन्तीव स्रवन्तीव । अमृतं पीयूषं वर्षन्तीव वृष्टिं कुर्वन्तीव । मदो मुन्मोहसंभेदस्तेन मुकुलितेव कुजालितेव । खेदः श्रमस्तेनालसेव मन्थरेच । निद्रा प्रमीला तया जडेव स्तम्भितेव। आनन्देति । आनन्दस्य प्रमोदस्य यो भरस्तेन मन्थरालसा, एवंविधा तरन्ती तारा कनीनिका यस्मिन्नेतादृशः संचारो विद्यते यस्याः सा तथा । अनीति । अनिभृता चञ्चला या भ्रूलता तस्या उल्लासो विद्यते यस्याः सा तथा । कुत इति । इदम तिनैपुण्य मतिशयेन दक्षत्वं कुतः स्यात् । तदेव व्यनक्ति - यदिति । यद्यस्मात्कारणादन्तर्गतो हृदयाभिलाषश्चित्ताभिप्रायोऽनक्षरं यथा स्यात्तथा चक्षुषैव नेत्रेणैव कथ्यत उच्यते । प्राप्त इति । तादृश विचारणया कुमारस्य सविकारं हृदयमिति निश्चित्य प्राप्तः प्रसरोऽवकाशो यया सैवंविधेवोपसृत्य समीपं समागत्यास्य मुनिकुमारस्य तं द्वितीयं सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छमवोचम् । किं तदित्याह - भग. वानिति । किमभिधानो भगवान् । कस्य तपोधनस्यायं युवा । इयं किंनाम्नः किमभिधानस्य तरोवृक्षस्य कुसुममञ्जर्यवतंसीकृतोत्तंसीकृता । अस्या मञ्जर्याः समुत्सर्पन्प्रसरत्नसाधारणं सौरभं यस्मिन्नेवंविधोऽनाघ्रातपूर्वो नासिकयाऽगृहीतपूर्वोऽयं गन्धो मे मम मनसि चित्ते महत्कौतुकं महदाश्चर्य जनयति निष्पादयति । स त्विति । स मां प्रतीषद्विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । बाले इति । हे बाले हे कुमारिके, अनेन पृष्टेन किं प्रयोजनं कोऽर्थः । अथेति । चेद्यद्यर्थे । कौतुकमाश्चर्यं तदावेदयामि कथयामि श्रूयतामाकर्ण्यताम् । अस्तीति । नामेति कोमलामन्त्रणे । दिव्यलोकनिवासी स्वर्गलोकवसनशीलः श्वेतकेतुर्महामुनिरस्ति । त्रिभुवनेति । त्रिभुवने त्रिविष्टपे प्रख्याता विख्याता कीर्तिर्यशो यस्य स तथा । अत्युदारेति । अत्यु दारतयात्युत्कृष्ठतया । सुरेति । सुरा देवाः, असुरा दैत्याः, सिद्धा योगमन्त्रादिसामर्थ्ययुक्तास्त्रेषां वृन्दं टिप्प० -1 आनन्दभरमन्थरतरत्तारं यथा स्यात्तथा संचरति इति आनन्द • सञ्चारिणी, इति स्पष्टोर्थः । 2 इन्त ग्रन्थस्वारस्यं पुनर्धूलिसात् करोति महाशयः । अस्तु 'भगवन् !" इति संबोधनमेवात्र मधुरमिति विदन्तु विदः । 3 अन्नापि ( कस्य वाऽयं तपोधनयुवा ) इत्येव पाठो रमणीयः । अयं तपोधनयुवा कस्य पुत्र इति तदर्थः । पाठा० - १ कुत इवेयम्, २ अनभ्यस्ता जाता. ३ तरलतर. ४ लतालासिनी, ५ वा. ६ तपोधनयुवा. ७ अनेनावतंसी. ८ खलु सकलत्रिभुवनप्रख्यात. कादम्बरी । [ कथायाम, मुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च भगवतः सुरलोकसुन्दरीहृदयानन्दकरम्, अशेषत्रिभुवनसुन्दरम् अतिशयितनलकूबरं रूपमासीत् । स कदाचिदेवतार्चनकमलाम्युद्धर्तुमैरावतमदजलबिन्दुबद्धचन्द्रकशतखचितजलां हरहसितसितस्रोतसं मन्दाकिनीमवततार । अवतरन्तं च तं तदा कमलवनेषु संततसंनिहिता विकचसहस्रपत्रपुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्त्याः प्रेममदैमुकुलितेनानन्दबाष्पभरतरङ्गतरलतारेण लोचनयुगलेन रूपमास्वादयन्त्या जृम्भिकारम्भमन्थरमुखविन्यस्तहस्त पल्लवाया मन्मथविकृतं मनं आसीत् । आलोकनमात्रेण च समासादितसुरतसमागमसुखायास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत् । तस्माच्च कुमारः समुदपादि । ततस्तमुत्सङ्ग आदाय सा 'भगवन् गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनो३१० समूहस्तेन वन्दितं नमस्कृतं चरणयुगलं पादयुग्मं यस्य स तथा । तस्येति । तस्य श्वेतकेतोर्भगवतः । सुरेति । सुरलोकस्य याः सुन्दर्यः स्त्रियस्तासां हृदयानि चित्तानि तेषामानन्दकरं प्रमोदोत्पादकम् । अशेषेति । अशेषं यत्रिभुवनं त्रिविष्टपं तस्मात्सुन्दरं हृयम् । अतीति । नलकूबरात्कुबेरपुत्रादतिशयितमतिशयितनलकूबरम्। 'सुतोऽस्य नलकूबरः' इति कोशः । 'कचिदमायन्तस्य परत्वम्' इति नलकूबर परप्रयोगः । अतिशयितोऽतिक्रान्तो नलकूबरो येनेति बहुव्रीहिर्वा । नलकूबररूपापेक्षयात्युत्कृष्टरूपमित्यर्थः । एवंविधं रूपं सौन्दर्यमासीदभूत् । स इति । कदाचित् कस्मिंश्चित्समये स श्वेतकेतुर्देवतानामर्चनं पूजनं तदर्थं कमलानि नलिनान्युद्धर्तुमुत्पाटयितुं मन्दाकिनीं स्वर्धुनीमवततारावतीर्णवान् । अथ मन्दाकिनीं विशेषयनादऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य मदजलं दानवारि तस्य बिन्दवः पृषतास्तैर्बद्धं यच्चन्द्रकशेतं मेचकशतं तेन खचितं व्याप्तं जलं यस्यां सा तथा ताम् । हरेति । हरः शंभुस्तस्य हसितं स्मितं तद्वत्सितं शुभ्रं स्रोतः अवाहो यस्याः सा ताम् । अवेति । तदा तस्मिन्कालेऽवतरन्तमम्बरादागच्छन्तं श्वेतकेतुं मुनिं कमलवनेषु नलिन खण्डेषु संततं निरन्तरं संनिहिता समीपवर्तिनी विकचानि विकस्वराणि सहस्रपत्राणि यस्मिन्नेवंभूतं पुण्डरीकं सिताम्भोजं तत्रोपविष्टासीना लक्ष्मीदेवी ददर्श दृष्टवती । तस्या इति । तस्या लक्ष्म्यास्तं मुनिमवलोकयन्त्या ईक्षणं कुर्वन्त्याः । तु पुनरर्थकः । मन्मथेन कंदर्पेण विकृतं सविकार मनश्चित्तमासीदभूत् । अथ लक्ष्मी विशेषयन्नाह - प्रेमेति । प्रेममदः प्रीतिमदस्तेन मुकुलितेन कुमलितेन । आनन्देति । आनन्देन प्रमोदेन यो बाष्पभरो हर्षनेत्राम्बुसमूहः स एव तरङ्गः कल्लोलस्तेन तरला कम्पना तारा कनी निका यस्मिन्नेवंविधेन लोचनयुगलेन नेत्रयुग्मेन रूपं सौन्दर्यमाखादयन्त्याः पिबन्त्याः । जृम्भिकेति । जृम्भिका जृम्भणं तस्या आरम्भ आरम्मणं तेन यन्मन्थरं मुखं तस्मिन्विन्यस्तः स्थापितो हस्तपल्लवो यया सा तस्याः । आलोकनेति । आलोकनमात्रेण केवलं निरीक्षणेनैव समासादितं प्राप्तं सुरतसमागमसुखं मैथुनसंगमसातं यया सा तस्याः । तस्मिन्नेवासनीकृते विष्टरतां नीते पुण्डरीके कृतार्थता सफलतासीत् । तस्मात्पुण्डरीकात्कुमारः समुदपाद्युत्पन्नः । तत इति । ततः कुमारोत्पत्तेरनन्तरं तं कुमारकमुत्सङ्गे कोड आदाय गृहीत्वा सा लक्ष्मीः हे भगवन् हे स्वामिन् गृहाणायं तवात्मजस्त्वदनज इत्युक्त्वा प्रतिपाद्य तस्मै श्वेतकेतवे तं कुमारकं ददौ दत्तवती । असावपि श्वेतकेतुरपि बालजनोचिताः शिशुजनयोग्याः सर्वाः क्रिया: प्रसवैनादिकाः CARCAS टिप्प० - 1 विविधवर्ण जाज्वल्यमानं वर्तुलाकारं चिह्नवृन्दम् (तैलादिबिन्दोः पतने यद्धि जलस्तरोपरि भवति) । 2 रमणस्य सफलता बीजपातो जात इत्याशयः । 3 सप्तमीपाठे श्रवणयोर्विसन्धिता प्रतीयत इति 'उत्सङ्गेनादाय' इति ग्रन्थोचितः पाठः । 4 तत्तु जातमेव, अत एव नामकर्मादिका हृत्युचितम् । पाठा० -१ सुरासुरलोक. २ संनिहिता ३ प्रेमममन्द ४ उत्सङ्गे. पुण्डरीकजन्मवृत्तान्तः ] पूर्वभागः । ३११ चिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया तदेव पुण्डरीक इति नाम चक्रे । प्रतिपादितव्रतं च तमागृहीत सकलविद्याकलापमकार्षीत् । सोऽयम् । इयं च सुरासुरैर्मध्यमानाक्षीरसागरादुद्गतः पारिजातनामा पादपस्तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगतमु पासितुममरलोकान्मया सह नन्दनवनसमीपेनाय मनुसरन्निर्गत्य साक्षान्मधुमासलक्ष्मीदत्तललितहस्तावलम्बया बकुलमालिका मेखलया कुसुमपल्लवप्रथिताभिराजानुलम्बिनीभिः कण्ठमा लिकाभिर्निरन्तराच्छादित विग्रहया नवचूताङ्करकर्णपूरया पुष्पासवपानमत्तया वैनदेवतया पारिजातकुसुम मञ्जरी मिमामादाय प्रणम्याभिहितः - 'भगवन, सकलत्रिभुवनदर्शनाभिरामायास्तवाकृतेरस्याः सँदृशोऽयमलंकारः क्रियैताम् । इयमवतंसविलास दुर्ललितारोप्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य' इत्येवमभिदधानां चायमात्मरूपस्तुतिबादत्रपावनमितलोचनस्तामनाहत्यैव गन्तुं प्रवृत्तः । मया तु तामनुयाम्तीमालोक्य 'को कृत्वा विधाय । तस्येति । तस्य कुमारस्य पुण्डरीकं सिताम्भोजं तस्मात्संभव उत्पत्तिस्तस्य भावसत्ता तथा तस्माद्धेतोरेव निश्चयेन पुण्डरीक इति नाम चक्रेऽभिधानं विदधे । कियत्कालानन्तरं स एव श्वेतकेतुः प्रतिपा दितव्रतं दत्तवीक्षमा गृहीत सकलविद्याकलापं च तं कुमारमकार्षीत्कृतवान् । स कुमारोऽयं पुरोवर्ती दृश्यमानः । इयं चेति । सुरासुरैर्मथ्यमानाद्विलोज्यमानात्क्षीरसागराहुग्धाम्बुधेः पारिजातनामा पादपो वृक्ष उद्नंतो निर्गतस्तस्येयं कर्णावतंसीकृता मञ्जरी । यथेति । येन प्रकारेणैषा मञ्जरी व्रतविरुद्धं नियमविरोध्यस्य श्रवणसंसर्ग कर्णसंबन्धमासादितवती प्राप्तवती तदपि वृत्तं कथयामि निवेदयामि । अद्येति । चतुर्दशी शिवतिथिरिति हेतोरमरलोकात्स्वर्गलोकात् कैलासगतं रजताद्रिस्थितं भगवन्तं माहात्म्यवन्तमम्बिकापतिं गौरीनाथमुपासितुं सेवितुं मया सह मत्सार्धम् । प्राप्तौ द्योत्यायां 'क्रोशेन क्रोशं वानुवाकोऽधीतः' इतिवत् । नन्दनवनस्य समीपं समीपेन वानुसरन्गच्छन्निर्गत्य स्वस्थानाद्वहिरागत्य साक्षाद्वनदेवतयारण्याधिष्ठात्र्येमां मञ्जरीमादाय गृहीत्वा प्रणम्य नमस्कृत्याभिहित उक्तः । अथ वनदेवतां विशिष्टि-मध्विति । मधुमासो वसन्तमा सस्तस्य लक्ष्मीः श्रीस्तया दत्तो ललितो मनोहरो हस्तस्तस्यावलम्बो यस्याः सा तया । बकुलेति । बकुलः केसरस्तस्य मालिका सक्सैव मेखला रहना यस्याः सा तया । कुसुमेति । कुसुमैश्च पल्लवैश्च प्रथिताभिर्गुम्फिताभिराजानु आनलकीलं यावल्लम्बिनीभिः कण्ठमालिकाभिर्निगरणसग्भिर्निरन्तरमाच्छादित आवृतो विग्रहो यस्याः सा तया । नवेति । नवः प्रत्यग्रो यश्वताकर आम्राङ्करस्तस्य कर्णपूरो यस्याः सा तया । पुष्पेति । पुष्पाणां कुसुमानां य आसवो माधवकस्तस्य पानं तेन मत्तया क्षीबया । किमभिहित इत्याशयेनाह - भगवन्निति । हे भगवन् स्वामिन, प्रसीद प्रसन्नो भव । सकलेति । सकलं समग्रं यत्रिभुवनं तस्य दर्शनेऽवलोकनेऽभि रामाया बन्धुराया अस्यास्तवाकृतेराकारस्य सदृशोऽनुरूपोऽलंकारः क्रियतां विधीयताम् । इयमिति । इयमवतंसविलास एव दुरधिगमं दुर्ललितं क्रीडितं यस्याः सैवंविधा मञ्जरी श्रवणशिखरं कर्णप्रान्तमारोप्यतां स्थाप्यताम् । पारिजातस्य जन्मोत्पत्तिः सफलतां सार्थकतां व्रजतु गच्छतु । इत्येवं पूर्वोक्तप्रकारेणाभिदधानां कथयन्तीम् । अयमिति । पुण्डरीकः । आत्मेति । आत्मनो यद्रूपं सौन्दर्थं तस्य स्तुतिवादः प्रशंसनं त स्माया त्रपा लज़ा तयावनमिते नम्रीकृते लोचने नेत्रे येनैवंभूतस्तामनादृत्यैवानादरं कृत्वैव गन्तुं प्रवृत्ती गमनायोद्यतोऽभूत् । मयेति । तां वनदेवतामनुय़ान्ती मनुव्रजन्तीमालोक्य निरीक्ष्य हे सखे हे मित्र, अस्या टिप्प० -1 आगृहीतः शिक्षितः सकलविद्याकलापो येन तमित्यर्थः । 2 व्याकरणशानशून्योयं वराकः । नित्यैव 'अपवर्गे तृतीया । 3 अवतंसबिलासेन दुर्ललिता ( धृष्टा, 'सिर चढी' इति भाषा ) । पाठा० -१ पारिजातकुसुम, नन्दनवन ३ सुसदृशः, तु सदृशः ० ४ प्रसादीक्रियताम्. ५ शिखरे, ६ विलोचन. 。 ३१२ कादम्बरी । [ कथायाम्• दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत्कात्सर्येन योऽयंम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा तत्सर्वमावेदितम् । इत्युक्तवति तस्मिन्स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत — 'अयि कुतूहलिनि, किमनेन प्रायासेन । यदि रुचितसुरभिपरिमला गृह्यतामियम्' इत्युक्त्वा समुपसृत्यात्मीयाच्छ्रवणादपनीय कलेर लिकुलकणितैः प्रारब्धर तिसमागम प्रार्थनामित्र मदीये श्रवणपुढे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुममवतंसस्थाने पुलकमासीत् । स च मस्कपोलस्पर्शसुखेन तरलीकृत लिजालकारकरतलादक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्ता मेव भूतलमक्षमालां गृहीत्वा सलीलं तद्भुजपाशसंदानितकण्ठ ग्रह सुखमिवानुभवन्ती दर्शितापूर्वहारलतालीलां कण्ठाभरणतामनयम् । इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामवोचत् - 'भर्तृदारिके, स्नाता देवी । प्रत्यासीदति मजर्याः को दोषः । प्रणयेन स्नेहेन परिग्रहः स्वीकारः क्रियतां विधीयतामिति मयाभिधायोक्खा निच्छतोऽप्यवाञ्छतोऽपीयं अस्य कर्णपूरीकृता श्रवणाभरणीकृता । तदिति । तस्माद्धेतोस्तदेतत्पृच्छाविषयी कृतं कार्येन साकल्येन मया सर्वमावेदितं कथितम् । तदेतत्किमित्यभिप्रायेणा—योऽयमित्यादि । योऽयं कुमारः, येयं मञ्जरी, यथा येन प्रकारेणास्य श्रवणशिखरं कर्णप्रान्तं समारूढा प्राप्ता । इतीति । तस्मिन्मुना वित्युक्तवति कथितवति सति । स इति । स पुण्डरीकस्तपोधनयुवा किंचिदीषदुपदर्शितं स्मित मदृष्टरदं हास्यं येनैवंभूतो मामवादीत्प्रत्यवोचत् । अयीति संबोधने । अयि कुतूहलिनि, अनेन प्रश्नायासेन पृच्छापरिश्रमेण किम् । यदीति । यदि रुचितो रुचिविषयीभूतः सुरभिपरिमलो यस्या एवंविधेयं तदा गृह्यतां प्रहणविषयीक्रियताम् । इति पूर्वोक्तमुक्ला समुपसृत्य समीपमागत्यात्मीयात्स्वकीयाच्छ्रवणातकर्णादपनीय दूरीकृत्य मदीये श्रवणपुढे तां मजरीमकरोदघटयत् । कलैरिति । कलैर्मनोज्ञैर लिकुलक्क णितैर्मधुकर कुलशब्दितैः । प्रारब्धेति । प्रारब्धा प्रस्तुता रतिसमागमस्य संभोगसमागमस्य प्रार्थना याचना ययैवंभूतामिव । एतेन खानुरक्तिः प्रदर्शिता । मम विति । मम तु । तु पुनरर्थकः । तस्य यत्करतलं तत्स्पर्शलोभन तत्तृष्णया तरक्षणमवर्तसंस्थाने पुलकं अपरं पारिजातकुसुममिवासीत् । एतेन द्वितीय कर्णेऽपि तच्छोभा सूचिता । स चेति । स पुण्डरीको मत्कपोलस्पर्शसुखेन गल्लात्परप्रदेशाश्लेषसातेन । तरलीकृत कम्पनीकृत मङ्गुलिजालकं यस्यैवभूतात्करतलाद्धस्ततलालज्जया त्रपया सह गलितां च्युतामप्यक्षमालां जपमालां नाज्ञासीन ज्ञातवान् । तदनुरक्तं ज्ञात्वा तस्य पुण्डरीकस्य यो भुजपाशो बाहुपाशस्तेन संदानितः संयतो यः कण्ठग्रहः कण्ठालिङ्गनं तज्जनितं यत्सुखं तत्सदृशमिव । अत्रेवशब्दः सादृश्यार्थः । तदुक्तमलंकारशेखरे – 'भवन्तीवादिशब्दाश्च साहइयप्रतिपत्तये' । अनुभवन्त्यनुभवविषयी कुर्वन्ती कण्ठाभरणतां निगरणभूषणतामनयमानीतवती । कीदृशीम् । दर्शिता प्रकटीकृतापूर्वहारलताया लीला यस्यां सा ताम् । इत्थमिति । इत्थंभूत एताहचे व्यतिकरे परस्परानुरागातिशये छत्रप्राहिण्यातपत्रधारिणी मामवोचदब्रवीत् । किमुवाचेत्याह - भर्जिति । हे भर्तृदारिके हे राजपुत्रि, स्नाता कृतस्नाना देवी त्वन्माता वर्तते । टिप्प० - 1 धिक् टीकाकारम् । न खलु मञ्जर्या दोषः प्रसक्तो यदेवमुच्येत । तस्मात् –' को दोषः अर्थात् वनदेवताया अनुरोधस्वीकारे ( मञ्जरीग्रहणे ) को दोषः' इत्यर्थः । 2 अर्थात् कर्णे । 3 इयमध्यव्युत्पत्तिः । बाहुपाशेम संदानितो यः कण्ठस्तस्य ग्रहणसुखम् ( तदा लिङ्गन सुखम् ) अनुभवन्तीव इत्यर्थ उचितः । पाठा०-१ योऽयं या चेयम्. २ श्रवणशिखरे, ३ प्रश्नाशयेन. ४ गृह्यताम्. ५ हृदयम्. पुण्डरीकाय कपिजलोपदेश: ] पूर्वभागः । ३१३ गृहगमनकालः । तत्क्रियतां मज्जनविधिः' इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छया कथंकथमपि समाकृष्यमाणा तन्मुखाल्लावण्यामृतपकमन्नामिव कपोलपुलककण्टकजालकलग्नामिव मदनशरशलाका की लिता मिव सौभाग्यगुणस्यूतामित्र अतिकृच्छ्रेण दृष्टिं समाकृष्य स्त्रातुमुदचलम् । उच्चलितायां च मयि द्वितीयो मुनिदारकस्तथाविधस्तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् - 'सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः । किं यः कश्चन प्राकृत इव विक्कुवीभवन्तमात्मानं न रुणत्सि । कुतस्तवापूर्वोऽयम द्येन्द्रियोपप्लवः, येनास्येवं कृतः । क ते तद्वैर्यम्, फासाविन्द्रियजयः क तद्वशित्वम्, चेतसः क सा प्रशान्तिः, क तरकुलक्रमागतं ब्रह्मचर्यम्, क सा सर्वविषयनिरुत्सुकता, क ते गुरूपदेशाः, तानि श्रुतानि, क ता वैराग्यबुद्धयः, व तदुपभोगविद्वेषित्वम्, कसा सुखपराड्युखता, १ अथ च गृहगमनकालः सद्मव्रजनसमयः प्रत्यासीदति विनितो भवति । अतो मज्जनविधिः स्नानविधिः क्रियतां विधीयताम् । अहं स्विति । अहं तस्याश्छत्रधारिण्यास्तेन वचनेन प्रथमाङ्कुशपातेनाद्यसृणिप्रहारेण नवः प्रत्यम्रो यस्या एवंविधा करिणी हस्तिनी तद्वदिव कथंकथमपि महता कष्टेनानिच्छयानीहया समाकृष्यमाणा दृष्टिं चक्षुरतिकृच्छ्रेणातिकष्टेन समाकृष्य स्नातुमुदचलमुदद्व्रजम् । कीदृशीमिव । लावण्यामृतमेव पङ्कः कर्दमरतत्र मनामिव । कपोलेति । कपोलयोः पुलकलक्षणा ये कण्टकास्तेषां जालकं तत्र लग्नामिव । मदनेति । मदनस्य कंदर्प शरा बाणास्तेषां शलाका ईषिकास्ताभिः कीलितामिव यन्त्रितामिद । सौभाग्येति । सुभगस्य भावः सौभाग्यं तल्लक्षणो यो गुणस्तेन स्यूतामिवान्योन्यश्लिष्टामिव । उच्चलितायामिति । मय्युचलितायां प्रचलितायां सत्याम् । चकारः समुच्चयार्थः । द्वितीयः कपिजलो मुनिदारकस्तयाविधस्तादृशस्तस्य पुण्डरीकस्य धैर्यस्खलितं सत्त्वस्खलनामालोक्य वीक्ष्य किंचिदीषत्प्रकटित आविष्कृतः प्रणयकोपः स्नेहकोपो येन तत्सदृश इवावादीदवोचत् । रोषोक्तावतीव वैरस्यं स्यादिति भावः किं तदिलाह - सखे इति । हे सखे पुण्डरीक, भवतस्तव नैतदनुरूपं योग्यम् । क्षुद्रजना नीचलोकास्तैः क्षुण्ण आचीर्ण एष मार्गः पन्थाः । भवत इत्यत्रापि संबध्यते । हि यस्मात्कारणात्साधवो मुनयो धैर्यमेव धनं द्रव्यं येषामेवंविधा भवन्ति । यः कचनानिर्दिष्टाभिधानः प्राकृतः पामरस्तद्वदिव विक्लवीभवन्तं विह्वलीभवन्तमात्मानं क्षेत्रज्ञं किं न रुणत्सि कि ननिरोधं करोषि । अपूर्वोऽननुभूत आद्यः प्रथम इन्द्रियोपलवः करणोपद्रवोऽयं प्रत्यक्षोपलभ्यमानस्तव भ वतः कुतः । किंनिमित्तक इत्यर्थः । येनेति । येनेन्द्रियोपलवेनैवं कृतः । शिथिलतां नीतोऽसि । त्वमिति शेषः । तदेव दर्शयन्नाह – क्वेत्यादि । ते तव तद्धैर्य क । तथेन्द्रियाणां करणानामसौ जयो निरोधः । तथा तदनिर्वचनीयस्वरूपं वशित्वं तन्त्रत्वं क्व । तथा चेतसश्चित्तस्य सा प्रशान्तिः क । तथा तत्कुलक्रमागतं कुलपरिपाट्यागतं ब्रह्मचर्य कामविरतिः क्व । तथा सा सर्वविषयेषु समप्रेन्द्रियार्थेषु निरुत्सुकता निरुत्साहता क्व । तथा गुरूणां हिताहितोपदेशदेष्टृणामुपदेशा हितशिक्षाः क । तथा तानि पूर्वोक्तानि श्रुतानि ज्ञानानि क्व । तथा ताः सर्वाधिका वैराग्यं विरक्तता तस्या बुद्धयः प्रतिभाः क्व । तथा तासामङ्गनानां स्त्रीणामुपभोगः पुनः पुनरासेवनं तस्मिन्विद्वेषित्वं वैरित्वं क्व । तथा सुखास्सौख्यात्पराङ्मुखता पराचीनता क्व । तथा तपसि व्रतविशेषेऽसावभिटिप्प० - 1 प्रत्यासन्नः निकटगतः अर्थात् उपस्थित इत्याशयः । 2 अक्षराणि च्युतानीति प्रतीयते । नवः ग्रहः ग्रहणं ( बन्धने आनयनम्) यस्याः सा इत्यर्थः । 3 ग्रन्थस्वारस्यानभिज्ञता सेयम् । 'तथाविधम्' इति पाठेन 'ताडशं धैर्यस्खलितम्' इति योजनमेव ग्रन्थानुकूलम् । 4 हन्त चूर्णीकृतमेव स्वर सम् ! 'अद्य' इत्येवोचितम्, अपूर्वपदेन पौनरुक्त्यात् । पाठा०-१ आकृष्य. २ तथाविषम् ३ अद्य. ४ केन. ४० का० ३१४ कादम्बरी । [ कथायाम्कासौ तपस्यभिनिवेशः, के सा भोगानामुपर्यरुचिः, क तयौवनानुशासनम्, सर्वथा निष्फला प्रज्ञा, निर्गुणो धर्मशास्त्राभ्यासः, निरर्थकः संस्कारः, निरुपकारको गुरूपदेशविवेकः, निप्रयोजना प्रबुद्धता, निःकारणं ज्ञानम्, यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते । प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगतचेतनत्व मॆपहतानामेबम् । इदमपि तावर्द्धियमाणमनयानार्थया निवार्यतां हृदयम्' इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत् – 'सखे कपिञ्जल, किं मामन्यथा संभावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयाम्यक्षमालामहणापराधमिमम्' इत्यभिधायालीककोपकान्तेन प्रथमविरचित भीषणभ्रुकुटिभूषणेन चुम्बनाभिलाषरफुरिताधरेण मुखेन्दुना मामवदत् - 'चकले, प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात्पदमपि न गन्तव्यम्' निवेश आग्रहः क । तथा भोगानां विषयाणामुपरि साऽरुचिरस्पृहा क । तथा तदनिर्वचनीयस्वरूपं यौवनस्य तारुण्यस्यानुशासनं नियन्त्रणं क । सर्वथेति । सर्वथा सर्वप्रकारेण प्रज्ञा प्रतिभा निष्फला निष्प्रयोजना । निर्गुण इति । धर्मशास्त्राणां स्मृत्यादीनामभ्यासो भूयोभूयस्तदभ्यसनं स एव निर्गुणैः । जाड्यापहारलक्षणगुणरहित इत्यथः । निरर्थकेति । संस्कारो ब्राह्मण्यापादनविधिः स एव निरर्थकः । यवुद्दिश्य क्रियते तदनाप्तेः । निरुपेति । गुरूपदेशाद्यो विवेकः पृथगात्मता स निरुपकारकः । निरर्थक इत्यर्थः । निरिति । प्रबुद्धता प्रेक्षावत्ता निःप्रयोजना निर्हेतुका । निरिति । ज्ञानं श्रुतादि निःकारणं निर्निमित्तकम् । यदत्रेति । यदिति हेत्वर्थे । अत्रेति । अस्मिन्नवसरे रागाभिषज्ञैरिच्छाभिष्वङ्गैर्भवादृशा अपि त्वत्सदृशा अपि कलुषी क्रियन्ते मलिनी क्रियन्ते । प्रमादैश्चेति । प्रमादैर्विषयादिभिरभिभूयन्ते पराभूयन्ते । चकारः समुच्चयार्थः । तदेव दर्शयति - कथमिति । करतलाद्धस्ततलाद्गलितां च्युतां तथा तयापहृतां गृहीतामक्षमालामपि कथं न लक्षयसि कथं न जानासि । अहो इत्याश्चर्ये । अपैहतानां कामपीडितानामेवं पूर्वोक्तप्रदर्शितरीत्या विगतचेतनत्वं नष्टचेतनत्वम् । इदमिति । तावदादाविदमपि हृदयं चित्तमनयानार्यया हियमाणमाकृष्यमाणं निवार्यतां दूरीक्रियतामित्येवं तेन कपिझलेनाभिधीयमानः कथ्यमानः किंचिदीषदुपजाता प्रादुर्भूता लज्जा त्रपा यस्य स इव प्रत्यवादीप्रत्यवोचत् । सखे इति । हे सखे कपिजल, किमिति प्रश्ने । मामन्यथा तन्मनस्कत्वेन संभावयसि संभावनाविषयीकरोषि परमेतस्यां मन्मनोविकृतिर्नास्ति, तथाक्षमालाग्रहणनिमित्तकरोषोऽप्यन्यथा मुनीनां समदर्शित्वं, न स्यादिति भावः । अथ चेत्कपिजल, तव शङ्कितं मनस्तदेतस्या दुर्विनीतकन्यकाया इममक्षमालाग्रहणापराधं जपमालास्वीकरणागसं नाहं मर्षयामि सहिष्ये । इति पूर्वोक्तमभिधायोक्त्वा मुखेन्दुना वऋलक्षणचन्द्रेण मामिति प्रत्यवोचत्प्रत्यब्रवीत् । अथ मुखेन्दुं विशेषयन्नाह - अलीकेति । अलीको मिथ्या न तु वास्तवः एवंविधो यः कोपः क्रोधस्तेन कान्तेन मनोहरेण । प्रयत्नेति । प्रयत्नेन बलात्कारेण । कोपाभावादिति भावः । विरचिता निर्मिता भीषणा भैरवा भ्रुकुटिः सकोपभ्रूविकृतिः सैव भूषणं यस्मिन् तेन । चुम्बनेति । चुम्बनं संबन्धविशेषस्तस्याभिलाष इच्छाविशेषस्तेन स्फुरितः कम्पितोऽधर ओष्ठो यस्मिन् । किमुव चेत्याह - चञ्चलेति । हे चञ्चले, अस्मात्प्रटिप्प० - 1 उचितानुचितपरिज्ञानरूपो यो गुणस्तेन रहित इत्यर्थ उचितः । एतरपूर्वम् ' एव' निवेशस्तु घोरमज्ञानम्, विपरीतार्थबोधकरवात् । एवमप्रेपि । 2 स्वकर्तव्यात् स्खलनरूपैः । 3 टीकाकारः सर्वथा ग्रन्थधूमकेतुः ! 'अहो विगतचेतनत्वम्, अपहृता नामेयम्' इत्येव पाठः । इयं भक्षमाला तु अमया ( कन्मया ) अपहृता नाम जलालुण्ठिता नाम, इदानीम् अनार्ययाऽनया अपहियमाणं हृदयमपि निवारय । इति व्याख्या । एकस्य अपहरणे जाते संप्रति अपहियमाणस्य रक्षणावश्यकत्वात् । पाठा० -१ क सा संयमिता क. २ सङ्गानाम्. ३ यत्र. ४ प्रमोद: ५ अपहृता नामेयम्. ६ अपहियमाण. ७ चपले. पूर्वभागः । विरहातुरा महाश्वेता ] इति। तच श्रुत्वाईमात्मकण्ठादुन्मुच्य मकरध्वजलास्यारम्भलीलापुष्पाञ्जलिमेकावलीम् 'भगबन्, गृह्यतामक्षमाला' इति मन्मुखासकदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिलखातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् । गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहविधुरा किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि किं प्रैस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किंन रोदिमि, किं दुःखमिदम्, किं सातमिदम्, किमुत्कण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्व नाबागच्छम् । अविज्ञातमदनवृत्तान्ता च क गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽख देशादिमामक्षमालामदत्त्वासमर्प्य पदात्पदमपि न गन्तव्यम् । तचेति । तत्पूर्वोकं श्रुत्वाकर्ण्यात्मकण्ठात्खकीयनिगरणादहं मकरध्वजस्य कंदर्पस्य लास्यारम्भलीला नाट्यप्रारम्भीडा तस्यां पुष्पाञ्जलिरेवंभूतामेकावलीं मुक्ताप्रालम्बमक्षमालेति कृत्वा हे भगवन्, गृह्यतामुपादीयतां इति अस्य मुनेः प्रसारिते विस्तारिते पाणी तां निधाय ( सं )स्थाप्य स्वेदसलिलेन श्रमवारिणा स्त्रातापि कृतस्नानापि पुनः पुनः स्नातुभवातरमवतीर्णवती । अथ मुनिं विशेषयनाह – शून्येति । शून्यं हृदयं चेतो यस्य स तथा तस्य । तत्र हेतुमाह - मन्मुखेति । मदानने आसक्ता लमा दृष्टिर्यस्य स तथा तस्य । उत्थायेति । उत्थानं कृत्वा कथमपि महता प्रयत्नेन सखीजनेन चयस्याजनेन बलाद्धठात्प्रतीपं पश्चान्नीयमाना प्राप्यमाणा । तत्र दृष्टान्तमाह - निगेति । यथा निम्नगा नदी महाप्रयत्नेनैव पश्चान्नीयते, एवंविधाहमम्बया जनन्या सह सार्धं तमेव मुनिकुमारकं चिन्तयन्ती ध्यायती । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । तदुतम् – 'अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः' इति । स्वभवनं निजसद्मायासिषमागतवती । गस्वेति । गत्वैत्य । स्वभवनमिति शेषः । कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा । चकारः पुनरथंकः । ततःप्रभृति तद्दिनादारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा व्याकुला सत्यहमिति सर्व नावागच्छं नावागममिति दूरेणान्वयः । इति शब्दार्थमाह - किमागतेति । किमिति सर्वत्र वितर्कार्थे । अहमागतास्मि गृहं समायातास्मि किमिति पूर्ववत् । तत्रैवाच्छोदसरस्तीरे स्थितास्मि । किमेकाकिन्यसहायास्मि । किं परिवृता परिवारान्वितास्मि । किं तूष्णीमस्मि । किं प्रस्तुतः प्रारब्ध आलापः संलापो ययैवंविधारिम । किं जागर्मि निद्राक्षययुक्तास्मि । किं सुप्तास्मि कृतनिद्रास्मि । किं रोदिमि । किं न रोदिमि । किं दुःखमिदम् । किं सातमिदं सौख्यमिदम् । किमुत्कण्ठेयम् । किमयं व्याधिरामयः । किमिदं व्यसनैमस्यासक्तिः । किमयमुत्सवो महः । किमेष दिवसो दिनम् । किमियं निशा रात्रिः । कानि वस्तूनि रम्याणि शोभनानि । कानि च तद्विपरीतानि । अर म्याणीत्यर्थः । अवीति । अविज्ञातोऽनाकलितो मदनस्य कंदर्पस्य वृत्तान्त उदन्तो यया सैवंभूताहमिति सर्व नाज्ञासिषं न ज्ञातवती । इति शब्दार्थमाह -क्वेति । व गच्छामि ब्रजामि । किं करोम्यनुतिष्ठामि । किं शृणोम्याकर्णयामि । किं पश्यामि विलोकयामि । किमालपामि किं वदामि । कस्य कथयामि निवेदयामि । कोऽस्य टिप्प० - 1 टीकाकारेण स्वाभ्यंस्तमुपात्तम् । वास्तवे तु 'सुखमिदम्' इत्येव पदशय्यानुकूलः पाठः । 2 व्यसनं विपत् इत्येव व्याख्योचिता । पाठा०१ आत्मकण्ठान्मकर. २ प्रखत, ३ सुखम्. 30 $1 ३१६ कादम्बरी । [ कथायाम्प्रतीकार इति सर्व प नाशासिषम् । केवलमारुह्य कुमारीपुरप्रासादं विसर्थ्य च सखीजनं द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्यै काकिनी मणिजालगवाक्ष निक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिषे महारत्ननिधानाधिष्ठितामिव अमृतरससारसागरपूरला वितामिव पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्त मनिलमपि वनकुसुमपरिमलमपि शकुनिष्वनिमपि तद्वार्ता प्रष्टुमीहमाना, तद्वल्लभतया तपःक्केशायापि स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तन्निवासात्सुरलोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव के प्रतीकारः प्रतिक्रिया । अथ विरहेण विप्रलम्भपुष्टिं प्रदर्शयन्नाह – केवलेति । केवलमन्यनिरपेक्षम् । कुमारीणां पुर इति । पदैकदेशे पदसमुदायोपचारादन्तः पुरप्रासादमवरोधगृहमारुह्यारोहणं कृत्वा सखीजनं आलीजनं विसर्ज्य दूरीकृत्य द्वारि प्रतोल्यां निवारितो निषिद्धोऽशेषः समग्रः परिजनस्य परिच्छदस्य प्रवेश आगमनं यया सा । तथा सर्वव्यापारान्समग्रकृत्यान्युत्सृज्य विमुच्यैका किन्यद्वितीया मणिनिर्मितानि जालानि यस्मिन्नेवंभूतो यो गवाक्षो वातायनस्तत्र निक्षिप्तं स्थापितं मुखमाननं यया सैर्वभूता । तामेव मुनिकुमारकाधिष्ठितां दिश ककुभमीक्षमाणा विलोकमाना । अथ तद्वस्तुजन्यसंतोषजनकत्वसाम्येन तामेव दिशमुत्प्रेक्षते - तत्सनाथेति । तत्सहिततयेत्यर्थः । प्रसाधितामिव । भूषितामिव । महान्ति रत्नानि यस्मिन्नेवंभूतं यन्निधानं कुनाभिस्तेनाधिष्ठितामाश्रितामिव अमृतरसेन पीयूषरसेन सौरः प्रधानो यः सागरः समुद्रस्तस्य पूरः लवस्तेन लावितामिया कीर्णामिव । पूर्णः समग्रो यश्चन्द्रः शशाङ्कस्तस्योदय उद्गमस्तेनालंकृतामिव भूषितामिव । दर्शनेऽवलोकने सुभगां मनोहराम् । कामाभिभूतस्य चेतनाचेतनसाधारण्यं प्रदर्शयन्नाह - तस्मादिति । तस्मान्मुनिकुमारकाधिष्ठिताद्द्द्दिगन्तरादा गच्छन्तमायान्तमनिलमपि, तथा वनकुसुमपरिमलमप्यरण्य पुष्पगन्धमपि, तथा शकुनिध्वनिमपि पतत्रिरुतमपि तस्य पुण्डरीकस्य वार्ता प्रवृत्ति प्रष्टुं प्रश्नविषयीकर्तुमीहमाना वाञ्छमाना तस्य मुनेर्वल्लभतया तपःक्लेशायापि स्पृहयन्ती वाञ्छन्ती । अपिशब्दः प्रातिकूल्यं निराकरोति । तदायत्ततया प्रतिकूलमप्यनुकूलम्, अनुकूलमपि न स्वतः, किंतु तदायत्तत्वादित्याह- स्मरेणेति । मुनित्वेन ज्ञातेऽपि स्मरेण कंदर्पेण जनितो विहितः पक्षपातोऽङ्गीकारो यस्यां सा तथा तैस्य मुनेः प्रीत्या स्नेहेन गृहीतमात्तं मौ यया सा, तेन मुनिना परिग्रहः स्वीकारस्तस्मान्मुनिवेषस्य तापसनेपथ्यस्याग्राम्यतां साधुताम् । स एवास्पदं यस्य तस्य भावस्तत्ता तया यौवनस्य तारुण्यस्य चारुतां मनोहरताम् । तस्य मुनेर्यः श्रवणसंपर्कः कर्णसंबन्धस्तस्मात्पारिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां मञ्जुलताम् । तस्य मुनेर्निवासस्तस्मात्सुरलोकस्य देवलोकस्य रम्यतां चारुताम् । तस्य मुनेर्या रूपसंपत्सौन्दर्य समृद्धिस्तया कुसुमायुधस्य दुर्जयतां दुर्जेयतामध्यारोपयन्त्यध्यारोपं कुर्वती । दूरस्थस्यापि दविष्ठस्यापि तस्यैव मुनिकुमारस्याभिमुखी संमुखी । कस्य केव । सवितुः सूर्यस्य कमलिनीव नलिनीव । तथा चन्द्रमसः कुमुदर्बान्धवस्य सागरवेलेव समुद्रस्याम्भसो वृद्धिरिव । तथा टिप्प० - 1 निधिः । 2 वास्तवे तु 'अमृतरससागरपूर' इत्येव पाठः । सारपदस्याऽर्थापोषकत्वात् । 3 बान्छन्तीत्यर्थः । 4 भाग्यहीनः सर्वमस्पष्टं चकार । तस्मात् तस्य प्रीत्येव गृहीत मौनत्रता अर्थातूष्णीमवस्थिता, इति पृथग्विशेषणम् । स्मरजनितपक्षपाता चेति हेतुगर्भ विशेषणम् । अर्थात् स्मरेण तत्संब न्धिषु वस्तुषु पक्षपातो जनितः, अत एव तस्य ( पुण्डरीकस्य ) परिग्रहणात् ( हेतोः ) मुनिवेषस्य अन्येषां दृष्टौ ग्राम्यत्वेपि अग्राम्यताम् (अध्यारोपयन्ती), एवं यौवनस्य चारुतामित्यादि । पाठा० -१ इन कुसुमितामिव महारत २ अमृतरससागर प्लाविताम् ३ दूरतः स्थितस्य; दूरस्था. पुण्डरीकस्य प्रवृत्तिनिवेदनम् ] पूर्वभागः । ३१७ सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलघरस्य तस्यैवाभिमुखी, तथैव तां तद्विरहातुरजीवितोद्गमरक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती तथैव च तथा प्रस्तुततद्रह स्यालापयेव कर्णलग्नया पारिजातमञ्जर्या तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्ट कितैककपोलफलका निष्पन्दमतिष्ठम् । अथ ताम्बूलकरडवाहिनी मदीया तरलिका नाम मयैव सहागता स्नातुमासीत् । सा च पञ्चाचिरादिवागत्य तथावस्थितां शनैः शनैर्मामवादीत् -- 'भर्तृदारिके, यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियं कर्णावतंसीकृता सुरतरुमञ्जरी स तस्माहितीयादात्मनो रक्षन्दर्शनमतिनिभृतपदः कुसुमितलतासंतान गहनान्तरेणोपसृत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत् - 'बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क वा गच्छति' इति । मयोक्तम् – 'एषा खलु भगवतः श्वेतभानोरंशुसंभूतायामप्सरसि गौर्या समुत्पन्ना देवस्य सकलगन्धर्वमुकुटमणिशला काशिखरो✔ जलधरस्य मेघस्य मयूरीव नीलकण्ठपत्नीव । तथैवेति । यथा तेन कुमारेण कण्ठे न्यस्ता तथैव, तस्य विरहेण वियोगेनातुरं पीडितं यज्जीवितं प्राणितं तस्योद्गमो निर्गमस्तस्य रक्षावलीमिवाक्षावलीं जपमालां कण्ठेन निगरणेनोद्वहन्ती धारयन्ती । तथैवेति । तथैव पूर्वोक्तप्रकारेण तथा कर्णलग्नया श्रवणप्राप्तया प्रस्तुतः प्रारब्धस्तस्या (स्य)रहस्यालापो ययैवंविधयैव पारिजातमञ्जर्या । तथैव च तेन पूर्वोक्तप्रकारेण तस्य यत्करतल स्पर्शस्तस्माद्यत्सुखं सातं तेन जन्मोत्पत्तिर्यस्यैवंभूतेन कदम्बस्य नीपस्य मुकुलं कुड्डालं तस्य कर्णपूरायमाणेन कर्णपूरवदाचरमाणेन रोमाञ्चजालेन रोमहर्षणसमूहेन कण्टकितं कण्टकवदाचरितमेकमद्वितीयं कपोलफलकं यस्याः सा तथा निष्पन्दं निश्चलमतिष्ठं स्थितवती । अथेत्यानन्तर्ये । मदीया तरलिका । नामेति कोमलामन्त्रणे । ताम्बूलकरङ्कवाहिनी मयैव सह स्नातुमालवं कर्तुमागता समायातासीत् । सा चेति । सा ताम्बूलकरङ्कवाहिनी पश्चान्मद्गृहागमनानन्तरं चिरादिव चिरसहशा दिवागत्यैत्य तथावस्थिताम् । विरहातुरामित्यर्थः । मां शनैः शनैर्मन्दमन्दमवादीदवोचत् । किमुवाचेत्याह - भर्त्रिति । हे भर्तृदारिके हे राजपुत्रि । ताविति । एकः -पुण्डरीकस्तत्सहानुगतश्च कपिअल इमौ द्वौ तापसकुमारकौ दिव्याकारौ मनोहराकृती अस्माभिरच्छोदसरस्तीरे यौ दृष्टाववलोकितौ, तयोर्मध्य एकः । कपिञ्जलं निराकुर्वन्नाह – येनेति । येन कुमारकेण भर्तृदुहितुर्भवत्या इयं सुरतरुमञ्जरी पारिजातवल्लरी कर्णावतंसीकृता श्रवणोत्तसीकृता । स इति । स मुनिः पुण्डरीकस्तस्मात्कपिजलादात्मनः स्वस्य दर्शनं वीक्षणं रक्षन्गोपयन्नतिनिभृतान्यतिनिश्चलानि पदानि यस्यैवंभूतः । कुसुमिताः पुष्पिता या लता वल्लयस्तासां संतानं परम्परा तेन गहनं निबिडं यदन्तरं विचालं तेन मामागच्छन्तीं पृष्ठतः पश्चाद्भाग उपसृत्य समीपमागत्य भर्तृदारिकामुद्दिश्याश्रियेत्यप्राक्षीत्प्रश्नमकार्षीत् किं प्रश्नं कृतवानित्याह - बालिके इति । हे बालिके हे कन्यके, केयं कन्यका । कस्य वापत्यं प्रजा । किमभिधाना किंनाम्नी । क्व वा गच्छति व्रजति । त्वया किमुक्तमित्याह - मयेति । मयेत्युक्तं कथितम् । इति वक्तव्यमाह - एषेति । एषा खलु निश्चयेन भगवतः श्वेतभानोर्गन्धर्वाधिपतेरंशुसंभूतायां सोममयूखसंभूतायामप्सरसि गौर्या समुत्पन्ना संजाता गन्धर्वाधिपतेर्हंसस्य दुहितात्मजा । अथ विशिनष्टि – सकलेति । सकलाः समग्रा ये गन्धर्वा देवगायनास्तेषां मुकुटेषु मणिदृढबन्धार्थ शलाकाः स्वर्णmapp टिप्प० - 1 निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव । 2 चन्द्रस्य । गन्धर्वाधिपतेरिति टीका तु प्रलापमात्रम् । एवंविधोपि मन्दभाग्यष्टीकयतीति तु दुर्दैवं बाणस्य । पाठा० -१ सुरतरुकुसुममअरी २ अंशुभूतायाम्; अंशभूतायाम्. कादम्बरी । लेखमसृणितंचरणनखचक्रस्य प्रणयप्रसुप्तगन्धर्वकामिनीकपोलपत्रलतालाञ्छितभुजतरुशिखरस्य पादपीठीकृतलक्ष्मीकरकसलस्य गन्धर्वाधिपतेर्हसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेमंकूटाचलमभिप्रस्थिता' इति, कथिते च मया किमपि चिन्तयन्मुहूर्तमिव तूष्णीं स्थित्वा विगत निमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनयमर्थितामित्र दर्शयन्पुनराह – 'बालिके, कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्यर्ध्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः - 'भगवन् कस्मादेवमभिधत्से । काहम् । महात्मानः सकलत्रिभुवन पूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्म पापहारिणीमस्मद्विधेषु दृष्टिमपि नै पातयन्ति, किं पुनराज्ञाम् । तद्विश्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इति । एवमुक्तश्च मया सस्नेहया सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्य निकटवर्तिनस्तमालपादपात्पल्लवमादाय निष्पीड्य ३१८ [ कथायाम्मध्यस्तासां शिखराण्यप्राणि तेभ्यो य उल्लेखः संघर्षस्तेन मसृणितं लक्षणीकृतं चरणयोर्न खचक्रं पुनर्भवसमूहो यस्य स तथा तस्य । प्रणयेति । प्रणयेन स्नेहेन प्रसुप्ताः कृतनिद्रा या गन्धर्वकामिन्यस्तासां कपोलपत्रलताभिर्लान्छितं चिह्नितं भुजा एव तरवो वृक्षास्तेषां शिखरममं यस्य स तथा तस्य । अनेन सुरतविशेषो योतितः । पादेति । पादपीठीकृतं पदासनीकृतं लक्ष्म्याः श्रियः करकमलं यस्य स तथा तस्य । एतेन दानशौण्डत्वं सूचितम् । तस्या यथार्थमभिधानमाह - नामेति कोमलामन्त्रणे । महाश्वेता इति । सांप्रतं क गतेति तदाशयमभिप्रेत्याह - गन्धर्वेति । गन्धर्वाणामधिवासो यस्मिन्नेवंभूतं हेमकूटाचलमभिप्रस्थिता । तदभिमुखं चलितेत्यर्थः । इति मया कथित उक्ते सति किमप्यनाकलनीयं चिन्तयन्ध्यायन्मुहूर्तमिव घटिकाद्वयसदृशामिव । अत्रापीदशब्दः सदृशार्थः । तूष्णीं जोषं स्थित्वा विगतनिमेषेण मेषोन्मेषरहितेन चक्षुषा नेत्रेण चिरं चिरकालं यावदभि संमुखं वीक्षमाणो मां प्रति सानुनयं सनेहमर्थितामिव मार्गणसदृशतामिव दर्शयन्पुनर्द्वितीयवारमित्याह । उवाचेत्यर्थः । इति वाच्यमाह - बालिके इति । हे बालिके, कल्याणिनी कल्याणं श्रेयो विद्यते यस्याः यस्यां वा सैवंभूताविसंवादिन्यव्यभिचारिणी । 'यत्राकृतिस्तत्र गुणा भवन्ति' इत्युक्तेः 1 बालभावेऽपि बालखभावेऽप्यचपला स्थिरा तवेयमाकृतिराकारः । तदिति हेत्वर्थे । अभ्यर्थ्यमाना प्रार्थ्यमानैकं मे मम वचनं करोषि प्रणयसि । तत्त इति । ततोऽनन्तरं सविनयं सप्रश्रयमुपरचितं बद्धमञ्जलिपुटं ययैवंभूतया मया दर्शितादरं यथा स्यात्तथेत्यभिहित उक्तः । इति शब्दवाच्यमाह - भगवन्निति । हे भगवन् हे स्वामिन् कस्मात्केन हेतुनैवं पूर्वोक्तप्रकारेणाभिधत्से कथयसि । काहं बालव्यजनधारिणी । सकलत्रिभुवनपूजनीयाः समग्रविश्वार्चनीया महात्मानस्त्वादृशा भवादृशाः क । पुण्यैर्विना धर्मव्यतिबेकेणास्मद्विधेष्वस्मादृशेषु निखिलकल्मषापहारिणीं दृष्टि न पातयन्ति चक्षुषा नावलोकयन्ति । किं पुनराज्ञामादेशप्रदानम् । दूरापास्तमिति भावः । तत्तस्माद्धेतोर्विश्रब्धं सविश्वासं कर्तव्यं कृत्यमादिश्यतामादेशं दीयताम् । अथ चायं मल्लक्षणो जनोऽनुगृह्यतामनुग्रह विषयीक्रियताम् । एवं पूर्वोक्तप्रकारेण सस्नेहयाँ सप्रेमया मयो तश्च स मुनिः सखीमिव वयस्यामिवोपकारिणीमिवोपकृतिकर्त्रीमिव प्राणप्रदामिव जीवितदात्रीमिव मां दृशा चक्षुषाभिनन्य प्रमोदं जनयित्वैव निकटवर्तिनः समीपस्थात्तमालपादपात्तापिच्छवृक्षात्पल्लवं किसलयमादाय गृहीत्वा तटबलातले तीरप्रस्तरे निष्पीड्य संमर्थ तेन निष्पीडनोद्भूतेन गन्धगजा गन्धेभारतेषां मदो "> टिप्प० -- 1 भुजौ एवेति द्विवचनं योग्यम् । 2 पूर्वार्जितसुकृतैर्विना इति व्याख्योचिता। 8 धि मन्दभाग्यम् । 'सस्नेहया दृष्ट्या मामभिनन्द्य' इति योजना । अपरिचितायाः स्नेहप्रकाशनं त्वस्वाभाविकमेव । पाठा०===१ नखचरण. २ हेमकूटमचलस्. ३ निपातयन्ति, पूर्वभागः । पुण्डरीकस्य प्रवृत्तिनिवेदनम ] तटशिलातले तेन गन्धगजमदसुरभिपरिमलेन रसेनोत्तरीयवस्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्त कम लकनिष्ठिकानखशिखरेणाभिलिख्य 'इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया' इत्यभिधायार्पितवान् । इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्शयत् । अहं तु तेन तत्संबन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता श्रोत्रविषये णापि रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन मदना वेशम श्रेणेवा वेश्यमामा तस्याः करतलादादाय तां वल्कलपत्रिकां तस्यामिमामभिलिखितामार्यामपश्यम्'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥' अनया च मे दृष्टया दियोहभ्रान्त्येव प्रणष्टवर्त्मनः बहुलनिशयेवान्धस्य, जिह्नोच्छिन्त्येष मूकस्य, इन्द्रजालिक पिच्छिकयेवातत्त्वदर्शिनः उवरमलापप्रवृत्त्येवासंबद्धभाषिणः, दुष्टनि g 9 दानं तद्वत्सुरभिः सुगन्धः परिमलो यस्यैवंविधेन रसेनोत्तरीयं यद्वल्कलं तस्यैकदेशादेकप्रदेशात्पट्टिकां प्रसिद्धां विपाट्य द्वैधीकृत्य खकीय आत्मीयो यो हस्तः पाणिः स एव कमलं नलिनं तस्य कनिष्ठिका कनीनिका तस्या नखशिखरेण नखरायेणेयं पत्रिकाभिलिख्य लिपीकृत्येत्यभिधायेत्युक्त्वार्पितवान्दत्तवान् । इतिशब्दाभिधेयमाहत्वयेति । त्वया भवत्या तस्यै कन्यकायै महाश्वेतायै एकाकिन्यै अद्वितीयायै प्रच्छन्नं गुप्तं देयार्पणीया । अथ सा च ताम्बूलकरङ्कवाहिनी तरलिका ताम्बूलभाजनातू तां पत्रिकामाकृष्य निष्कास्यादर्शयत् दर्शितवती । अहं त्विति । तु पुनरर्थकः । अहमित्यात्म निर्देशः । तस्यास्तरलिकायाः करतलाद्वस्ततलात्तां वल्कलपत्रिकामादाय गृहीत्वा तस्यामिमामभिलिखितामार्यामपश्यमद्राक्षमित्यन्वयः । कीदृश्यहम् । आवेश्यमानावेशविषयीक्रियमाणा । केन । तस्य पुण्डरीकस्य संबन्धिना संबद्धेनालापेन, संलापेन किं कुर्वता । शब्दमयेन शब्दात्मकेनापि स्पर्शसुखमिव संश्लेषसातसदृशमिवान्तर्मध्ये जनयता उत्पादयता । अत्रापि शब्दो विरोधयोतनार्थः । श्रोत्रविषयेणापि कर्णगोचरेणापि रोमोद्गमेन पुलकेनानुमितोऽनुमितिविषयीकृतः सर्वाष्प्रवेशो यस्य स तेन । अत्रापिशब्दः पूर्ववत् । वैलव्यसादृश्यादाह -- मदनावेशमन्त्रेणेव मदनस्य कंदर्पस्यावेशः प्रवेशस्तदुत्पादकमन्त्रेणेव । अथ तामार्यामाह- दूरमिति । मानसे मनसि जन्म यस्यैवंभूतो मनोरैथोऽभिलाषो मुक्तालतयैकावल्या विप्रलोभ्यमानो लोभं प्राप्यमाणो दर्शिताशा फलप्राप्तिर्यस्यैवंभूतस्त्वया नीतः तवैव समीपे तिष्ठति । त्वामेव विषयीकरोतीति भावः । मानसजन्मत्वसाम्यादुत्प्रेक्षते - हंस इवेति । यथा मानसजन्मा हंसो मुक्तावन्निर्मला या लता व्रतत्यस्ताभिः प्रकर्षेण लोभ्यमानो दर्शिताशा गमनार्थं दिग्यस्यैवंभूतोऽन्यत्र नीयते । अथ लतां विशेषयन्नाह - बिसेति । बिसं मृणालं तद्वच्छुभ्रया धवलयेत्युभयोर्विशेषणम् । अनयेति । अनया पत्रिकया मे मम दृष्टया विलोकितया सत्या स्मरातुरस्य मदनातुरस्य मे मम मनसो दोषविकारस्योपचयः पुष्टिः सुतरामत्यर्थमक्रियत व्यधीयतेत्यन्वयः । अत्रार्थ उपमानान्तराणि प्रदर्शयन्नाह - दिगिति । दिमोहभ्रान्त्या करणभूतया प्रणष्टवर्त्मन उत्पथगामिन इव । बहुलेति । बहुलनिशया कृष्णपक्षरात्र्यान्धस्येव गताक्षस्येव । जिह्वेति । जिह्वोच्छित्त्या रसनाकर्तनया मूकस्येव । इन्द्रेति । इन्द्रजालिकस्य मायिकस्य या पिच्छिका यया लोकानां हग्बन्धः क्रियते, तया अतत्त्वदर्शिन. W टिप्प० -- 1 इदमध्यप्रसिद्धत्वादज्ञानमेव । 2 भाग्यवता टीकाकृता सर्वोप्यर्थ चूर्णीकृतः । अत एव - बिसवत् सितया मुक्तामालया विशेषरूपेण लोभं प्रापितः, दर्शिता आशा (मनोरथपूर्ते: भाशंसा) यस्सै सः ईदृशो मानसजन्मा कामदेवः, हंस इव त्वया दूरं नीतः । हंसोऽपि - बिसवत् श्वेतया मुक्तानां कतया - लतावलम्बाकारया पक्क्या विशेषेण भक्षणलोभं प्रापितः दर्शिता लेन सह नयनार्थमभीष्टा दिह (दिशा) यस्मै सः मानसे (तदाख्य सरोवरे ) जन्म यस्य सः दूरे खनिवासाद्विप्रकर्ष प्रापित इति सारार्थः । कादम्बरी । [ कथायाम्३२० द्रयेव विषविह्वलस्य, लोकायतिकविद्ययेवाधर्मरुचेः, मदिरयेवोन्मत्तस्य, दुष्टावेश क्रिययेव पिशाचग्रहस्य, दोषविकारोपचयः सुतरामक्रियत स्मरातुरस्य मे मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामभ्यॆगमम् । तां च द्वितीयदर्शनेनः कृतमहापुण्यामिवानुभूतसुरलोकषासामिव, देवताधिष्ठितामिव, लब्धवरामिन, पीतामृतामिव समासादितत्रैलोक्यराज्याभिघेकामिव मन्यमाना, सततसंनिहितामपि दुर्लभ दर्शनामिवातिपरिचितामप्यपूर्वामिव सादरमाभाषमाणा पार्श्ववस्थितामपि सर्वलोकस्योपर्यवस्थितामिव पश्यन्ती, कपोलयोरैल कलता भङ्गेषु घ सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, 'तरलिके, कथय कथं स खया दृष्टः, किमभिहितासि तेन, कियन्तं काळमवस्थितासि तत्र कियदनुसरन्न. ¹9 , श्र्वं यथाजातस्येव । ज्वरेण तापेन यः प्रलापोऽसद्भाषणं तस्य प्रवृत्तिः प्रवर्तनं तस्या (या) संबद्धभाषिण इव कद्रदस्येव । दुष्टेति । दुष्टनिद्रयानुचितप्रमीलया विषविह्वलस्येव विषार्तस्येव । निद्राया दुष्टत्वं च दोषजनकत्वादिति भावः । लोकेति । लोकायतिका नास्तिकास्तेषां विद्यया शास्त्रेणाधर्मरुचेरिव पापस्येव । मदिरेति । मदिरया गन्धोत्तमयोन्मत्तस्येव क्षीबस्येव । दुष्टेति । दु॑ष्टो य आवेशोऽभिनिवेशस्तस्य क्रिया कर्म तया पिशाचग्रहस्येव ग्रथिलस्येव । येनेति । येन दोषोपचयेन आकुली क्रियमाणा पूरेण जलवृद्ध्या सरिदिव तटिनीवाहं विह्वलतां व्याकुलतामभ्यगममैत्रापम् । तां चेति । तां तर लिकां पुनः पुनर्भूयोभूयोऽहमिति पर्यपृच्छमित्यप्राक्षमिति दूरेणान्वयः । इतिशब्दयोत्यमाह - तरलिकेति । हे तरलिके, कथय निवेदय । स पुण्डरीकः कथं केन प्रकारेण त्वया दृष्टोऽवलोकितः किमभिहितासि कथितासि तेन पुण्डरीकेण । कियन्तं कालमवस्थितासि विलम्बितासि । तत्र तस्मिन्वने अस्माननुसरन्पृष्ठेऽनुवजन्कियत्पन्थानमसौ पुण्डरीक आगतः । कीदृश्यहम् । द्वितीय• मुनेदर्शनेनावलोकनेन कृतं महत्पुण्यं ययैतादृशीमिव । 'आन्महतः समानाधिकरणजातीययोः' इति महच्छब्दस्यात्वम् । अनुभूत इति । अनुभूतोऽनुभवविषयीकृतः सुरलोकवासः स्वर्गे निवासो यया तादृशीमिव । देवतयाधिष्ठिताश्रिता तादृशीमिव । लब्धेति । लब्धो वरो देवप्रसादो ययैतादृशीमिव । पीतमिति । पीतमाखादितममृतं पीयूषं ययैवंभूतामिव । समेति । समासादितः प्राप्तस्त्रैलोक्यस्य राज्यमाधिपत्यं तस्याभिषेकोऽभिषिञ्चनं ययैवंविधामिव तां मन्यमाना चेतसि ज्ञायमाना । पुनरहं किं कुर्वाणा । सततमिति । सततं निरन्तरं संनिहितामपि पार्श्ववर्तिनीमपि दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवंविधामिवातिपरिचितामप्यतिसंस्तवगोचरीकृतामप्यपूर्वामिवाभिनवामिव सादरमाभाषमाणा जल्पमाना । पुनः किं कुर्धन्त्यहम् । पार्श्वे समीपेऽवस्थितामप्यासीनामपि सर्वलोकस्य समप्रविश्वस्योपर्यवस्थितामिव पश्यन्त्यवलोकयन्ती । कपोलयोर्गल्लात्परप्रदेशयोरलकलताभङ्गेषु सोपग्रहं सानुकूलं यथा स्यात्तथा स्पृशन्ती स्पर्श कुर्वन्ती । विपरीतमिति । मत्समीहितकरणात्त्वं तु स्वामिनी, अहं तु तव परिजनः, इति विपरीतः संबन्धः । तमिवोपदर्शयन्ती बहिर्वृत्त्या टिप्प०-1 दुष्टा या आवेशक्रिया (जन्मसंबन्धिनाडीनक्षत्रेषु पापग्रहाणां प्रवेशकार्यम् ) तया पिशाचग्रहस्सेज ( पिशाचेन ग्रहः ग्रहणं यस्य, पिशाचप्रस्तस्येव ) । अयं भावः- पूर्वमेव पिशाचेन ग्रहणं तदुपरि यदि जन्मर्केषु पापग्रहाणां प्रवेशः स्यात्तर्हि भूयान् दोषोपचयः स्यात् । प्रोक्तं हि - 'ईहा देहाथहालिः स्याजन्मर्श उपतापिते । कर्मक्षै कर्मणां हानिः पीडा मनसि मानसे ॥' इति । टीकाकारस्य तु प्रलापमात्रम् । 2 'प्रापम्' इति बोध्यम् । अहो धन्यं टीकाकृतो व्याकरणज्ञानम् ! पाठा०-१ दूरावेशक्रियया. २ अगमम्. ३ अलकता भङ्गेषु; अल्कलतासङ्गेषु. महाश्वेताया विह्वलता ] पूर्वभागः । ३२१ स्मानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तथा सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् । अथ मदीयेनेव हृदयेन कृतरागसंविभागे लोहितायति गगनतेलावलम्बिनि रविबिम्बे, सरागदिवसकरदर्शनानुरक्तायां कृतकमलशयनायामनङ्गातुरायामिव पाण्डुतां व्रजन्त्यामातपलक्ष्म्याम्, गैरिकगिरिस लिलप्रपातपाटलेषु कमलवनेभ्य उत्थाय वनगजयूथेष्विव पुञ्जीभ वत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेपारवप्रतिशब्दकेन सह विशति मेरुगिरिगहरं वासरे, मुकुलितरक्तपङ्कजपुटप्रविष्टमधुकर्याचलीषु विरैहमूप्रकाशंयन्ती । अन्वयस्तु प्रागेवोक्तः । अनयैवेति । अनयैव पूर्वोक्तयैव कथया वार्तया तथा सह तरलि कया समं तस्मिन्नेव प्रासादे सौधे प्रतिषिद्धो निवारितोऽशेष परिजनस्य प्रवेश आगमनं ययैवंभूता दिवसं दिनमत्यवाहयमत्येक्रामम् । अथेत्यानन्तर्ये । सा छत्रग्राहिण्यागत्याकथयदित्य ग्रिमग्रन्थसंबन्धः । तत्र 'मदीय –' इत्यारभ्य 'युगलेषु' इतिपर्यन्तं सत्यन्तैः सायं समयवर्णनमाह-मदीयेति । मदीयेनेव हृदयेन कृतो रागस्य संविभागो यस्यैवंभूते लोहितायति लोहि तवदाचरति गगनतलं व्योमतलं तत्रावलम्बिनि लम्बायमाने रविबिम्बे सूर्यबिम्बे सति । पुनः कस्याम् । आतपलक्ष्म्याम् । किंविशिष्टायाम् । सरागेति । राग आरुण्यं रतिश्च तेन सहवर्तमानो यो दिवसकर: सूर्यस्तस्य दर्शनेनावलोकनेन तस्मिन्वानुरक्ता तस्यामत एव कृतं कमलानां शयनं कमलेषु शयनं वा यया सा तस्याम् । आरुण्यवशादाह - अनङ्गेति । अनङ्गेन कंदर्पेणातुरायामिव पीडितायामिव पाण्डुतां श्वेततां व्रजन्त्यामिव । पुनः केषु । भास्करकिरणेषु रविभानुषु सत्सु । तानेव विशेषयन्नाह - गैरिको घातुमयो गिरिः पर्वतस्तस्य सलिलमम्भस्तस्मिन्प्रपातः पतनं तेन पाटलेषु श्वेतरक्तेषु । कमलवनेभ्यो नलिनखण्डेभ्य उत्थायोत्थानं कृत्वा वनगर्जयूथेष्विवारण्यहस्तिसमूहेष्विव पुञ्जीभवत्स्खेकीभवत्सु । पुनः कस्मिन्सति । वासरे दिवसे मेरुगिरि गह्वरं निकुञ्ज विशति प्रविशति सति । कथं सह केनेत्यभिप्रायेणाह- - गगनेति । गगन आकाशेऽवतारः परिभ्र मणं तस्माद्यो विश्रामो विश्रान्तिस्तस्मिल्लालसानां सस्पृहाणां रविरथवाजिनां सूर्यस्यन्दनाश्वानां हर्षः प्रमोदस्तेन हेषारवस्तस्य प्रतिशब्दकः प्रतिच्छन्दस्तेन सह । सार्धमित्यर्थः । तथा च रविकिरणानामधःस्थलं परित्यज्योर्ध्वगमनान्मध्यावस्थाचरणमाह - पद्मिनीष्विति । मुकुलितानि कुङ्मलितानि यानि रक्तपङ्कजानि कोकनद नि तेषां पुटानि तत्र प्रविष्टाः कृतप्रवेशा मधुकरीणां भ्रमरीणामावल्यः श्रेण्यो यास्वेवंविधासु पद्मिनीषु नलिनीषु सत्सु । कृष्णत्वसाम्यादाह - विरहेति । विरहो वियोगः । रवेरिति शेषः । तेन या मूर्च्छा तयान्धकारितं संजातान्धकार हृदयं यासामेवंविधाविव । अत एव प्रारब्धं निमीलनं याभिस्तासु । पुनः केषु । रथाङ्गनाम्नां चक्रवाकानां युगलेषु घटमानेषु भिन्नतां प्राप्यमाणेषु । किं कृत्वा । परस्परहृदयान्यन्योन्यानुरागलक्षणान्याटिप्प० - 1 अगमयमित्यर्थः । टीकाकारस्य तु प्रलापः, णेरावश्यकत्वात् । 2 सूर्यदिम्बे कृतरागसंविभागे लोहितायति सति गगनतलावलम्बिनि च सति, इत्यर्थो योग्यः । एवमग्रिमवाक्येष्यपि, टीकाकारस्तु अलौकिकबुद्धिः । 3 वस्तुतस्तु 'सरागदिवसकरानुरक्तायाम्' इत्येव पाठः । 4 गैरिकाख्यो यो धातुविशेषस्तस्य गिरिर्गैरिकगिरिः । 5 वनगजा अपि गैरिकसलिलप्रपातेन पाटलाः सन्तः सायमेकन पुजीभवन्ति, सूर्यकिरणा अपि पाटलाः सन्तः सायं संकुचितावस्थतया पुञ्जीभवन्तीति द्वयोः साम्यादुपमा । 6 स्त्रीवं स्यात् । पाठा० - १ तलोपान्ताव, २ समुत्थाय ३ मधुकरावलीषु. ४ रह. ४१ का० कादम्बरी । [ कथायाम्छन्धकारितहृदयाविव प्रारब्धनिमीलनासु पद्मिनीषु प्रासीकृतसामान्यमृणाललता विवरसंक्रामितानीव परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु सा छत्रप्राहिण्यात्याकथयत् – 'भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति । कथयति चाक्षमाला-. मुपयाचितुमागतोऽस्मि' इति । अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं समुपज ततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् 'गच्छ । प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् । अथ मुहूर्तादिष तं तस्य रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम्, मकरकेतनस्येव वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलमनुरूपं सखायं मुनिकुमारकं कपि जलनामानं जराघवॅलितस्य कब्रु किनोऽनुमार्गेण चन्द्रातपस्येव बालातर्फे मनुयायिनमपश्यम् । अन्तिकमुपागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिवार्थिन मिर्वांनुपरताभिप्रेतमा कारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि ३२२ G दाय गृहीत्वेत्यर्थः। रक्तत्वसाम्यादुत्प्रेक्षामाह - प्रासीति । ग्रासीकृतार्धजग्धा याः सामान्यमृणाललता बिसलतास्तासां विवराणि छिद्राणि तेषु संक्रामितानीव क्षिप्तानीव । किं कथितवतीत्याशयेनाह - भर्तृ इति । हे भर्तृदारिके हे राजसुते, तयोर्मुनिकुमारयोरिति निर्धारणे षष्ठी । अन्यतर एकः कश्चिद्वारि प्रतोल्यां तिष्ठति स्थितोऽस्तीति । कथयति वक्ति च । तदेवाह - अक्षमालेति । अक्षमालां जपमालामुपयाचितुं प्रार्थितुमागतः प्राप्तोस्मि । अहं त्विति । मुनिकुमारस्य नामग्रहणादेवाभिधानमात्रश्रवणादेव । उत्कण्ठातिशयमाह -स्थानेति । स्थानस्थितापि स्वस्थानस्थापि द्वारदेशं गतेव प्रतोली प्रदेश प्राप्तेव, समुपजाता समुत्पन्ना तस्य पुण्डरीक स्यागमने आशङ्कारेका यस्या एवंभूता सत्यन्यतमं कञ्चुकिनं सौविदल्लं समाहूयाह्वानं कृत्वा गच्छ व्रज, स प्रवेइयतां मध्ये प्रवेश कार्यतामिति शेषः । इति पूर्वोक्तमादिश्य कथयित्वा प्राहिणवं प्रेषितवती । अथेति । तत्प्रेषणानन्तरं मुहूर्तादिव । अत्रेवशब्दः सदृशार्थ: । मुहूर्त सहशादित्यर्थः । तदुक्तमलंकारशेखरे – 'इवाद्यैः प्रतिमानाद्यैः समानार्थैर्निभादिभिः । बन्धबोरीदिवंशाद्यैः (?) सादृश्यप्रतिपत्तयः' इति । तमिति । तस्य पुण्डरीकस्यानुरूपं सखायं मित्रम् । अनुरूपमित्रसंबन्ध प्रदर्शनार्थमुपमानान्तराण्याह - रूपस्येति । रूपस्य सौन्दर्यस्य यौवनमिव तारुण्यमिव । यौवनस्य तारुण्यस्य मकरकेतनमिव कंदर्पमिव । मकरकेतनस्य वसन्तसमयमिव सुरभिकालमिव । वसन्तसमयस्य दक्षिणा निलमिवापाचीपवनमिव मुनिकुमारकं तापसबालकं कपिञ्जलनामानं जरा वि खसा तथा धवलितस्य शुश्रीकृतस्य कञ्चुकिनः सौविदल्लस्यानु मार्गेण पश्चाद्भागेन चन्द्रातपस्य शीतांशुप्रकाशस्यानुयायिनं पश्चाद्वामिनं बालातपमिव तमपश्यमवालोकयम् । एतेन कबुकिकपिजलयोस्तत्समीपावधि सहागमनेsपि वैलक्षण्यं द्योतितम् । अन्तिकमिति । अन्तिकं समीपमुपागतस्य प्राप्तस्य चास्य कपिजलस्य पर्याकुलमिवात्यन्तन्याकुलमिव सविषादमिव सखेदमिव शून्यमिव नष्टचैतन्यमिवार्थिनमिव मार्गणमिवानुपैरतमपरिपूर्णम भिप्रेतं वान्छितं यस्मिन्नेतादृशमाकारमाकृति मलक्षयमाकलयम् । उत्थाय च कृतः प्रणामो नमस्कारो ययैवंभूताहं टिप्प० - 1 भाग्यहीनो बहुवचनादिना पुनः सर्वस्वं ध्वंसयामास । ग्रासीकृतया सामान्यया एकया ( अर्थात् एकैव मृणाललता द्वाभ्यामपि चनुपुटेन उभयप्रान्ते धृता) मृणाललतया (कर्ज्या) विवरेण निजछिद्रपथेन ( करणेन) संक्रामितानीव । इत्यर्थः । 2 ' बन्धुचोरादिवंश्यायैः' इति पाठः स्यात् । 3 अयं पाठष्टीका कारसहशानां प्रियः । वास्तवे तु - 'अन्तर्गताकृतम्' अन्तर्गतम् आफूतम् अभिप्रायविशेषो बस्य तम् अर्थात् तस्याकार ईडशो दृश्यते का यथा कश्चिदभिप्रायोऽस्य प्रकटनीयो वर्तते परं न तं स बहिः प्रकाशयतीति । पाठा०-१ समागत्य. २ ऋषिकुमारकम् . १ धवलस्य ४ आगच्छतम् ५ उपगतस्य ६ अन्तर्गता कूतम्. कपिझलस्यागमनम् ] पूर्वभागः । ३२३ प्रक्षालय चरणावुपसृज्य चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव स तस्यां समीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु विदिताभिप्राया दृष्ट्यैव 'भगवन, अव्यतिरिक्तेयमस्मच्छरीरात् । अशतिमभिधीयताम्' इत्यवोचम् । A १ एवमुक्तश्च मया कपिञ्जल: प्रत्यवादीत् - 'राजपुत्रि, किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति नपया । क कन्दमूलाशी शान्तो वननिरतो मुनिजनः क वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो मन्मथविविधविलाससंकटो रागप्रायः प्रपश्चः । सर्वमेवानुपपन्नमालोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचितम्, किं तपसोऽनुरूपम्, आहोखिद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना केवलम् । अवश्यकथनीयमिदम् । अपर सादर सबहुमानं स्वयमात्मनाऽऽसनं विष्टरमुपाहरमनयम् । तत्रोपविष्टस्यासीनस्य च बलाद्धठाद निच्छतोऽप्यवाग्छतोऽपि चरणौ पादौ प्रक्षालय धावनं कृत्वोत्तरीयांशुकमुपसंव्यानांशुकं तस्य पल्लवेनांशुकेनोपमृज्य मार्जनं कृत्वा तस्यान्तिके तत्समीपेऽव्यवधानायां केवलायां भूमावेव समुपाविशमतिष्ठम् । अथेत्यानन्तर्ये । मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव वक्तुमिच्छुरिव स कपिञ्जलस्तस्यां समीपोपविष्टायां तरलिकायां चक्षुर्नेत्रमपातयत्पातितवान् । अहं त्विति । तु पुनरर्थकः । दृष्टथैव दृशैव विदितो ज्ञातोऽभिप्राय आशयो यया सैवंभूताहमित्यवोचमित्यकथयम् । इति वाच्यमाह - भगवन्निति । हे भगवन्, हे खामिन्, अस्मच्छरीरादियं तरलिकाऽव्यति रिक्ता अभिन्ना, अतोऽशङ्कितं शङ्कारहितं यथा स्यात्तथाभिधीयतां कथ्यताम् । एवं पूर्वोक्तप्रकारेण मयोक्तश्च कपिजलः प्रत्यवादीत्प्रत्यवोचत् । किसुवाचेत्याह- राजपुत्रीति । हे राजपुत्रि, किं ब्रवीमि किं कथयामि । वागेव वचनमेव त्रपया लज्जयाभिधेयं विषयं वाच्यगोचरं नावतरति नायाति । क्वेति । कन्दमूलाशी शान्तो वननिरतोऽरण्यासक्तो मुनिजनः क्व । अथ च रागप्रायो रागबहुलः प्रपञ्चो मायाविस्तारः क्व । प्रपञ्च विशेषयलाह - अनुपशान्तेति । अनुपशान्तो रोषाद्युपयुक्तो यो जनो मनुष्यस्तस्योचितो योग्यः, विषयः स्रक्चन्दनादिस्तस्योपभोगः पुनः पुनस्तदा सेवनं तस्याभिलाषः स्पृहा तेन कलुषो मलिनः, मन्मथस्य कंदर्पस्य ये विविधा अनेकप्रकारा विलासा विभ्रमास्तैः संकटः संकीर्णः । सर्वमेवै समप्रमेव अनुपपन्नमयुक्तमालोकय पश्य । दैवेनादृष्टेन किमकथ्य स्वरूपमारब्धं प्रारब्धम् । खलु निश्चयेन । अयत्नेनैव प्रयासं विनैवेश्वरो भगवाजनमुपहासास्पदतां परिहासधामतां नयति प्रापयति । न जाने इति । नाहं जानामि इदं किं वल्कलानां सदृशं योग्यम् । उताहो अथवा जटानां सटानां समुचितं योग्यम् । किं तपसो नियमविशेषस्यानुरूपं सदृशम् । आहोखिद्वितर्के । इदं धर्मोपदेशस्याङ्गं कारणम् । केवलमपूर्वाभिनवा विडम्बना कदर्थना । अवश्यं निश्चयेनेदं कथनीयं प्रतिपादनीयम् । एतस्मिन्नर्थे हेतुमाह - अपर इति । अपर एतव्यतिरिक्त उपायः कारणं न दृश्यते नेक्ष्यते । टिप्प० – 1 रागः ऐहिकसुखलालसैव प्रायेण बाहुल्येन यस्मिन् सः । अयं प्रपञ्चः संसारः च । 2 'अशान्तजनोचितः' इत्येव पाठः । अशान्तः शमेन इन्द्रियजयेन रहितो यो जनस्तस्य उचित इति तदर्थः । 3 दैवेन किम् अनुपपनं सर्वमारब्धमिति स्वमालोकय इति योजना । पाठा०-१ मत्समीप. २ कन्दमूलफलाशी ३ शान्तोपवनरतः; शान्तो वनवासनिरतः ३२४ कादम्बरी । [ कथायाम्उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गति • नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृ दसव इति कथयामि । 'अस्ति भवत्याः संमक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपेनाभिहितः । तथा चाभिधाय परित्यज्य तं तस्मात्प्रदेशादुपजातमन्युरुत्सृष्टकुसुमावचयोऽन्यप्रदेशमगमम् । अपयातायां च भवत्यां मुहूर्तमिव स्थित्वैकाकी किमयमिदानीमाचरतीति संजातवितर्कः प्रतिनिवृत्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् । आसीच्च मे मनस्येवम् – 'किं नु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन्गतो भवेत् । गतायां च तस्यां लब्धचेतनो लेजमानो न शक्नोति मे दर्शनपथमुपगन्तुम् । आहोखित्कुपितः परित्यज्य मां गतः । उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन्कंचित्कालमतिष्ठम् । तेन तु जन्मनः प्रभुत्यनभ्यस्तेन तस्य क्षणमध्यदर्शनेन दूयS 4 टिप्प० – 1 पुण्डरीकम् । नामादिविस्मृतिः क्षम्या भवति । व्युत्पत्तिशैथिल्येऽपि बाणोक्तिव्याख्याधानिमित्तो ग्रन्थस्वारस्य विध्वंसस्तु क्रोधेन निर्मर्यादयति माम्, क्षन्तव्यं सुजनैः । पाठा० -१ समस्तम्. २ लज्जया. 613 अन्या प्रतिक्रिया चिकित्सा नोपलभ्यते न प्राप्यते । अन्यदेतद्व्यतिरिक्तं शरणमाश्रयणस्थलं नालोक्यते न विलोक्यते । अन्यैतद्भिन्ना गतिः प्रकारान्तरं नास्तीत्यर्थः । उक्त वैपरीत्यदूषणमाह - अकथ्येति । तस्मिन्न प्रतिपाद्यमाने महाननर्धस्योपनिपातोऽकस्मात्पतनं जायते निष्पद्यते । भवतु, का नः क्षतिरित्याशयेनाह - प्राणेति । प्राणपरित्यागेनापि जीवितव्यवरोपणेनापि सुहृदां मित्राणामसवः प्राणा रक्षणीया रक्ष्या इति हेतोः कथयामि ब्रवीमि । अस्तीति । भवत्यास्तव समक्षमेव प्रत्यक्षमेव । यदा कुमारेण पारिजातमञ्जरी तव कर्णावतंसीकृता तदा त्वदायत्तत्वात्पतितामक्षमालामपि नाज्ञासीत् । तस्मिन्व्यामोहावसरे स पुण्डरीक उपदर्शितः कोपो येनैवंभूतेन मया तथा निष्ठुरं रूक्षमभिहितः कथितोऽस्ति । तथा च तेन प्रकारेण चाभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य तस्मात्प्रदेशात् । उपेति । उपजात उत्पन्नो मन्युः कोपो यस्य सः । उत्सृष्टेति । उत्सृष्टस्त्यक्तः कुसुमानां पुष्पाणामवचयो ग्रहणं येन सः । समित्कुशकुसुमावचयनिमित्तमागतं तदपि प्रयोजनं कोपेन परित्यक्तमिति भावः । एवंविधोऽहमन्यप्रदेशं तदितरवनविभागमंगममत्र॒जम् । अथ च भवत्यामपयातायां गतायां मुहूर्तमिव स्थित्वैकाक्यद्वितीयोऽयं पुण्डरीक इदानीं सांप्रत किमाचरति किमाचरणं करोतीति संजातो वितर्को विकल्पो यस्य सोऽहं प्रतिनिवृत्य व्याघुट्य विटपैर्वृक्षैरन्तरितस्तिरोहितो विग्रहो यस्यैवंभूतस्तं प्रदेशं व्यलोकयमपश्यम् । यावत्कालं तत्र तस्मिन्प्रदेशे तं' कपिजलं नाद्राक्षं न व्यलोकिषम्, तदा मे मम मनसि चित्त एवम प्रतिपाद्यमानमासीदभूत् । किं तदित्याह -- किं त्विति । अव्ययाना मनेकार्थत्वात्किं नु कदाचिन्मदनेनानङ्गेन परायत्ता पराधीना चित्तवृत्तिर्यस्यैवं भूतस्तामेव गन्धर्वकन्यकामेवानुसरन्ननुव्रजन्गतो भवेत् । तस्यां गतायां च सत्यां लब्धा चेतना चैतन्यं येन सः । विशेषेण लज्जमानस्त्रपां कुर्वाणो मे मम दर्शनपथमालोकनमार्गमुपगन्तुं प्राप्तुं न शक्नोति न समर्थो भवति । आहोस्विदिति । आहोस्विद्वितर्के । कुपितः कोपं प्राप्तः सन्मां परित्यज्य विहाय गतः प्रस्थितः । उतेति । उताथवा मामेवान्वेषमाणो वीक्षमाण इतोऽन्यं प्रदेश समाश्रितः स्यात् । इत्येवं विकल्पयन्विकल्पनां कुर्वन्कंचित्कालमतिष्ठं स्थितवान् । तेन त्विति । जन्मनः प्रभृति जन्म मर्यादीकृत्यानभ्यस्तेनापरिचितेन तस्य पुण्डरीकस्य क्षणमप्यदर्शनेनानवलोक्नेन दूयमानो दुःखं कुर्वाणः । पुनरहम चिन्तयं चिन्तितवान् । क्षणमपीत्यनेन कदाचिमदनार्तपुण्डरीकस्य दशा ] पूर्वभागः । ३२५ मानः पुनरचिन्तयम् -'स कदाचिद्धैर्य स्खलन विलक्षः किंचिदनिष्टमपि समाचरेत् । न हि किंचिन्न क्रियते हिया । तन्न युक्त मेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादरमकरवम् । अन्वेषमाणश्च यथायथा नापश्यं तं तथातथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानस्तरुलतागहनानि चन्दनवीथिकालतामण्डपान्सरःकूलानि च वीक्षमाणो निपुणमितस्ततो दत्तदृष्टि: सुचिरं व्यचरम् । 'अथै कस्मिन्सर ः समीपवर्तिनि निरन्तरतया कुसुममय इव, मधुकरमय इव, परभृतमय इव, मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम् उत्सृष्टसकलव्यापारतया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव निश्चलमपि स्वैवृत्ताचलितम्, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि पाण्डुतामावह2 9 दपि तेन सह नाहं वियुक्तः, इदानीं भूयान्कालमादाय विलम्बित इति खेदातिशयप्रदर्शन मिति भावः । कदाचिदिति । कदाचित्संभावनामात्रमेतत् । धैर्यस्य स्खलनं भ्रंशस्तेन विलक्षो वीक्षापन्नः किंचिदनिर्दिष्टनामक मनिष्टमप्यसमीहितमपि समाचरेत्समाचरणं कुर्यात् । हि निश्चितम् । हिया लज्जया किंचिन्न न क्रियते । अपि तु क्रियत एवेत्यर्थः । 'द्वौ नजौ प्रकृतमर्थ सूचयतः' इति न्यायात् । तत्तस्माद्धेतोरेका किनमद्वितीयं कर्तु विधातुं न युक्तं नोचितमिति पूर्वोक्तप्रकारेणावधार्य निश्चित्यान्वेष्टुमन्वेषणां कर्तुमादर मुद्योगमकरवम घटयम् । अहमन्वेषमाणो यथायथा तं पुण्डरीकं नापश्यं न व्यलोकयं तथातथा सुहन्मित्रं तस्य स्नेहः प्रीतिस्तेन कातरेण भीरुणा मनसा तत्तदशोभनममङ्गलमाशङ्कमान आरेक्यविषयीक्रियमाणस्तरुषु वृक्षेषु यानि लतागहनानि गह्वराणि, चन्दनवीथिकासु ये लतामण्डपा जनाश्रयास्तान्सरःकूलानि च कासारतीराणि च निपुणमेकतानं वीक्षमाणो विलोक्य (क)मान इतस्ततो दत्ता दृष्टिर्येन सोऽहं सुचिरं चिरकालं व्यचरमभ्रमम् । अथेति । इतस्ततो विचरणानन्तरमे कस्मिन्वसन्तजन्मभूमिभूते लतागहने कृतावस्थानं तं कुमारं पुण्डरीकमद्राक्षमपश्यमित्यन्वयः । लतागहनं विशेषयन्नाह - सर इति । सरसः कासारस्य समीपवर्तिनि पार्श्वस्थायिनि निरन्तरतया निबिडतया कुसुममय इव पुष्पमय इव, मधुकरमय इव भ्रमरमय इव । एतेन पुष्पाणामतिसुरभित्वं सूचितम् । तेन भ्रमराणां बाहुल्यमिति भावः । परेति । परभृताः कोकिलास्तन्मय इव । एतेन सहकारोद्रेकः सूचितः । त्वतलादीनां योगे पूर्वस्य पुंवद्भावः । यद्वा अत्र पुरुषस्यैव ग्रहणम् । मयूराः कलापिनस्तन्मय इव । एतेनातिरमणीयत्वं सूचितम् । अंत एवातिमनोहरेऽत्यभिरामे । अथ पुण्डरीकं विशेषयन्नाह - उ. तसृष्ट इति । तदायत्तत्वादुत्सृष्टस्त्यक्तः सकलव्यापारो येन तस्य भावस्तत्ता तया लिखितमिव चित्रितमिव, उत्कीर्ण मिवोत्कोरितमिव स्तम्भितमिव कीलितमिव उपरतमिव मृतमिव प्रसुप्तमिव शयितमिव । योगेति । योगस्य चित्तवृत्तिनिरोधस्य यः समाधिरर्थमात्रावभासनरूपस्तत्रस्थमिव । अत्र विरोधालंकार प्रदर्शनपूर्वकं तमेव विशेषयन्नाह - निश्चलमिति । निश्चलं निःप्रकम्पमपि स्ववृत्तात्स्खाचाराञ्चलितमिति विरोधः । तत्परिहारपक्षे चलितं भ्रष्टमित्यर्थः । एवमग्रेऽपि स्वबुद्ध्या ज्ञेयम् । एकाकिनमप्यद्वितीयमपि मन्मथेन मनोभवेनाधिष्ठितमाश्रितमिति विरोधः । द्वितीयाधिष्ठितत्वेनैका कित्वाभावात् । सानुरागमिति । अत्रानुरागो रक्तिमा रक्तत्वं तेन सहितमपि पाण्डुतां श्वेततामावहन्तमादधानमिति विरोधः । रक्तश्वेतयोः स्वारसिकविरोधात् । टिप्प० - 1 लजितः । टीकाकारस्तु धन्यः । 2 उद्वन्धनादिकमवाञ्छितममङ्गलम् । 3 'चन्दनवीथिकाः' इति पृथगेव ग्रन्थानुकूलम्, सुचिरान्वेषणार्थ बहुत्वस्यानुगुणत्वात् । टीकाकारस्तु अस्पृष्टव्युस्पत्तिकः । 4 मन्मथो न शरीरी, अत एवायमेकाक्येवेति समाधानम् । 5 सानुरागं प्रियतमायामास• क्तमिति परिहारः । पाठा०- -१ सुवृत्तः तू. ३२६ कादम्बरी । [ कथायाम्उतम्, शून्यान्तःकरणमपि हृदयनिवासिदयितम्, तूष्णीकमर्पि कथितमदनवेदनातिशयम्, शिलातलोपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन संताव्यमानम्, अतिनिः नेः स्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तः प्रविष्टैरिवासह्य संतापसंत्रासप्रलीनैरिव मनः क्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम् निःस्पन्द निमीलितेनान्तजर्वलन्मदनदहन धूमाकुलिताभ्यन्तरेणेवाक्षिपक्ष्मान्तर विवरवान्तानेकधारमनवरतमीक्षणयुग लेन बाष्पजलदुर्दिन मुत्सृजन्तम्, आलोहिनीमधरप्रभामनङ्गाग्नेः प्रदहतो हृदयादूर्ध्व संसर्पिणीं शिखामिवादाय निष्पतद्भिरुच्छा सैस्तरलीकृतासन्नलताकुसुमकेशरम्, वामकपोलशयनीकृतकरतलतया समुत्सर्पद्भिरमलैर्नखांशुभिर्विमलीकृत मच्छाच्छचन्दनरसरचितललाटिकमिव ललाटदेशमुद्रहन्तम् अचिरापनीत पारिजात कुसुमकर्णपूरतया सशेषपरिमलामोदलोभोपसर्पिणा .9 शून्येति । शून्यमन्य कर्तव्यतेच्छारहितमन्तःकरणं यस्यैवंविधमपि हृदये निवासिनी निवसनशीला दयिता यस्येति विरोधः । कस्यचित्सद्भावे शून्यत्वाभावात् । तत्परिहारस्तु शून्यं ध्यानान्तरवर्जितं केवलं तदासक्तचित्तत्वादिति भावः । तूष्णीकमिति । तूष्णीकमपि मौनावलम्बिनमपि कथितो निवेदितो मदनवेदनाया अतिशय उत्कर्षो येनेति विरोधः । मौनकथनत्वयोर्विरुद्धधर्मत्वात् । शिलेति । शिलातल उपविष्टमासीनमपि मरणे व्यवस्थितं चलितमिति विरोध: । आसीनचलितत्वयोर्विरोधात् । शापेति । शापप्रदानस्य यद्भयं भीतिस्तस्मादिवादत्तं स्वस्य दर्शनं येनैवंभूतेन कुसुमायुधेन कंदर्पेण संताप्यमानं पीड्यमानम् । अतीति । अतिशयेन यो निःस्पन्दो निःक्रियत्वं तस्य भावस्तत्ता तया हृदयनिवासिनीं प्रियां द्रष्टुं विलोकयितुमन्तः प्रविष्टैरिवान्तर्गतैरिव । असहोति । असह्यः सोढुमशक्यो यः संतापः संज्वरस्तस्य संत्रासाद्भयात्प्रलीनैरिव नष्टैरिव । मनस इति । मनसो हृदयस्य क्षोभोऽन्यथाप्रवर्तनं तेन प्रकुपितैरिव कोपं प्राप्तैरिव । अत एवोन्मुच्य त्यक्त्वा गतैरेवंभूतैरिन्द्रियैः करणैः शून्यीकृतं शरीरं यस्य स तम् । इन्द्रियाणां तत्कार्यका रित्वादेवेन्द्रियवत्ता तदभावाच्छून्यीकृतमित्यर्थः । पुनः किं कुर्वन्तम् । अनवरतं निरन्तरमीक्षणयुगलेन नेत्रयुग्मेन बाष्पजलदुर्दिनमुत्सृजन्तं त्यजन्तम् । नेत्रयुग्मं विशेषयन्नाह – अन्तरिति । अन्तर्मध्ये ज्वलन्प्रज्वलन्यो मदनदहनः कामाभिस्तस्य धूमो दहनकेतनं तेनाकुलितं व्याप्तमभ्यन्तरं मध्यं यस्यैवंभूतेनेव । अत एव निःस्पन्दं यथा स्यात्तथा निमीलितेन मुद्रितेन । अथ बाष्पजलदुर्दिनं विशेषयन्नाह - अक्षीति । अक्षिपक्ष्मणां नेत्ररोग्णां यानि विवराणि छिद्राणि तेभ्यो वान्ता उद्गीर्णा अनेकधारा यस्मिन् । आलोहिनीति । हृदयं प्रदहतोऽनङ्गानेरुर्ध्वसंसर्पिणीमुपरिगामिनीं शिखामिव ज्वालामिवालोहिनीं रक्तामधरप्रभां दन्तच्छदरुचमादाय गृहीत्वा निष्पतद्भिर्निर्गच्छद्भिरुच्छा सैराहरैस्तरलीकृतानि कम्पनीकृतान्यासन्नलताकुसुमकेसराणि समीपवल्लीपुष्पकजल्कानि येन स तथा तम् । वामेति । वामकपोलस्य शयनीकृतं तल्पीकृतं यत्करतलं हस्ततलं तस्य भावस्तत्ता तया समुत्सर्पद्भिरुर्ध्व प्रसरद्भिर्नखांशुभिर्नखमयूखैर्विमलीकृतं श्वेतीकृतमत एव । अच्छाच्छेति । निर्मलो यश्चन्दनरसस्तेन रचिता निर्मिता ललाटिका तिलकविशेषो यस्मिन्नवभूतमिव ललाटदेशम लिक प्रदेश मुद्वहन्तं धारयन्तम् । अचिरेति । अचिरापनीतं स॒द्योनीतं यत्पारिजातकुसुमं मन्दारपुष्पं तस्य यत्कर्णपूरं तस्य भावस्तत्ता तया मधुकरकुलेन भ्रमरसमूहेन सनीलोत्पलमिव सेन्दीवरमिव, सतमालपलवमिव सतापिच्छकिसलयमिव, श्रवणदेशं कर्णप्रदेशं दधानं धारयन्तम् । अथ मधुकरकुलं विशेषयन्नाह - सशेषेति । सशेषौ समग्रौ यावामोदपरिमलौ तत्र विदूरगः सुरभिरामोदो टिप्प० -1 धिङ् मूढम् । अन्यकर्तव्यानि अनिच्छत एव हृदये प्रिया निनसतीति को विरोधः ? तस्मात् हृदये दयितानिवासेऽपि तस्य शून्यत्वं विरुद्धम् । विषयान्तरविचारराहित्याच परिहारः । 2 कथितो गात्रस्तम्भादिना सूचित इति तत्परिहारः । 3 पुनरपि धि मन्दम् । यः शिलातले उपविष्टः सः मरणे कथं व्यवस्थितः, एकस्य युगपदधिष्ठानद्वयवृत्तित्वे विरोधः, व्यवस्थितं कृतनिश्चयमिति तत्परिहारः । 4 वामकपोलस्य शयनीकृतं इस्ततलं यस्य स वामकपोलशयनीकृतहस्ततलः, तद्भावस्तत्ता, तयेत्युचितम् । 5 धिङ् मन्दभाग्य किं प्रलपसि ? सशेषः तदानीमध्यवशिष्टो यः परिमलस्तस्य य आमोद ( अनुभवजनित आनन्द: ) तस्य लोभात ( हेतोः ) उपसर्पिणा, इत्यर्थो बोध्यः । मदनातपुण्डरीकस्याऽवस्था] पूर्वभागः । ३२७ कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव सतमालपल्लवमिव श्रवणदेशं दधानम्, उत्कण्ठाज्वररोमाश्वव्याजेन प्रतिरोमकूपनिपतितानां मदनशराणां कुसुमशरशल्यशकलनिकर मिवाङ्गलनं बिभ्राणम्, दक्षिणकरेण च स्फुरितनखकिर•णनिकैरां करतलस्पर्शसुखकण्ट कितामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्, मदनवशीकरणचूर्णेनेव कुसुमरेणुना तरुभिराहन्यमानम्, आत्मरागमिव संक्रमयद्भिरासन्नैरनिलचलितैरशोकपल्लवैः स्पृश्यमानम्, सुरताभिषेकसलिलैरिवाभिनव पुष्पस्त बकमधुशीकरैर्वनश्रियाभिषिच्यमानम्, अलि निवहनिपीय मानपरिमलैरुपरिपतद्भिश्चम्पककुडा लेस्तप्तशेर शल्यकैरिव सधूमैः कुसुमशरेण ताड्यमानम्, अतिबहलवनामोद मत्तमधुकरनि करझंका र निःस्वनै हुंकारैरिव विमर्दोत्थः पुनः सुरभिः परिमलः । 'स आमोदो विदूरगः । विमर्दोत्थः परिमलः' इति कोशः । तयोर्यो लोभस्तृष्णा तेनोपसर्पिणा समीपागमनशीलेन । किं कुर्वता तेन । कलं मधुरं यद्विरुतं झंकारस्तस्य छलेन मिषेण मदनस्य संमोहनमन्त्रं वशीकरणमन्त्रं जपतेव जापं कुर्वतेव । पुनः किं कुर्वन्तम् । उत्कण्ठेति । उत्कण्ठोतकलिका तया यो ज्वरस्तापस्तेन यो रोमाञ्चो रोमोद्गमस्तस्य व्याजेनापदेशेन प्रतिरोमकूपं निपतितानां लं मानां मदनशराणां कामबाणानां मध्ये कुसुमलक्षणा ये शरा बाणास्तेषां शल्यशकलानि त्रुटितबाणखण्डानि मध्ये प्रविष्टानि किंचिद्वहिर्दृश्यमानानि तेषां निकरं समूहमिवाङ्गलनं बिभ्राणं दधानम् । पुनः किं कुर्वाणम् । दक्षिणकरेणेतस्ततः पर्यस्तां मुक्तावलीमेकावलीमुरसि हृदये धारयन्तं बिभ्राणम् । कीदृशीम् । स्फुरितः प्रद्युतितो नखकिरणानां निकरः समूहो यस्याः सा ताम् । नखकिरणानां दीर्घतीक्ष्णत्वरूप कण्टकसाम्यादुत्प्रेक्षते-करतलेति । करतलस्य यत्स्पर्शसुखं तेन कष्टकितामिव । श्वेतत्वसाम्यादाह - अविनयेति । अविनयः पूज्य पूजाव्यतिक्रमस्तस्य पताकां ध्वजामिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - मदनेति । कुसुमरेणुना पुष्पधूल्या तरुभिरृक्षैराहन्यमानं ताज्यमानम् । शुक्लत्वसाम्यादाह- मदनस्य यद्वशीकरणचूर्णं तेनेव । आस्मेति । आत्मनो राग आरुण्यमनुरागरूपा रतिश्च तं संक्रामद्भिरिव संक्रमणं कारयद्भिरिवासन्नैः समीपस्थैरनिल चलितैर्वायुना कम्पितैरेवंविधैरशोकपल्लवैः स्पृश्यमानं संघट्यमानम् । वनश्रिया काननलक्ष्म्या अभिनवो नूतनो मः पुष्पाणां कुसुमानां स्वबको गुच्छकस्तस्य मधुरसस्तस्य शीकरैः कणैरभिषिच्यमानमभिषेकविषयी क्रियमाणम् । तत्रोद्दीपकत्वसाम्येनाह—सुरतेति । सुरतलक्षणं यद्राज्यं तदर्थमभिषेकसलिलैरिव । अत्राभिषेक पदसामर्थ्यादेव सुरते राज्यत्वं द्योत्यते । अलीति । अलिनिव हैमरसमूहैर्निपीयमान आखाद्यमानः परिमलो येषां तैः । उपरिपतद्भि रुपरिष्टात्क्षरद्भिरेवंभूतैश्चम्पका हेमपुष्पकास्तेषां कुडालैर्मुकुलैः कृत्वा कुमुमशरेण कंदर्पेण ताड्यमानम् । चम्पककुमलानां स्वत एव पीतत्वामराणां च कृष्णत्वादुत्प्रेक्षामाह– सधूमैस्तप्तशरशल्य कैरिव । अत्र शल्यकानि शरप्रान्तवर्तिलोहरूपाणीत्यर्थः । अतीति । अतिबहलोऽतिनिबिडो यो वनामोदो वनपरिमलस्तेनोटिप्प० -1 मदनशराणां ( संबन्धिनः ) ये कुसुमरूपाः शराः ( फलकरहिताः काण्डाः ) तेषां शल्यशकलनिकरं ( अग्रस्थलोह फल कखण्डसमूहम्) बिभ्राणमित्यर्थः । रोमाञ्चो नास्ति मन्ये प्रतिरोमकूप निपतिताः बाणास्ते निर्गताः किन्तु निमनः अग्रखण्डस्तु रोमकूपेषु लग्न इत्याशयः । इतस्ततः पर्यस्तामिति मूले नास्त्येव । दक्षिणकरेण इतस्ततः पर्यस्तामिति योजनेन टीकाकारवरा कस्तात्पर्यमपि न बुद्धवानिति ज्ञायते । दक्षिणकरेण उरसि मुक्तावलीं धारयन्तम् (अर्थात्स्वजीवनरक्षणाय प्रियां मुक्तास्त्रजं इस्तेनोरसि दधाति ) अन्यत्तु स्पष्टम् । 3 साहित्यस्य तु स्पर्शोपि नास्ति वराकस्य । आत्मनो रागः (आर. ण्यम्) एव रागः अनुरागस्तं संक्रामयद्भिः । रक्तवर्णो न संक्रामितो मन्ये अनुराग एव संचारित इत्या. वायः । भारुण्यानुरागयोर्भेदेष्यभेदाध्यवसायादतिशयोक्तिः । संक्रामयद्भिरिव, इत्यतिशयोक्तिरिति इयोरङ्गानितया संकरः । पाठा० -१ स्फुरित किरण २ मिकरम् ३ शल्यकैः. ३२८ कादम्बरी [ कथायाम्दक्षिणानिलेन निर्भर्त्स्यमानम्, मदकलकोकिलकुलको लाह लैर्वसन्तजयशब्दकलकलैरिव मधुमासेनाकुलीक्रियमाणम, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम् निदाघगङ्गाप्रवाहमिव कैशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमित्र म्लायन्तम् अन्यमिव, अदृष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमिवोपगतम्, रूपान्तरेणेव परिणतम्, आविष्टमिव, महाभूताधिष्ठितमिव, ग्रहगृहीतमिवोन्मत्तमिव, छलितमिवान्धमिव, बधिरमिव, मूकमिव, विलासमयमिव मदनमयमिव परायत्तचित्तवृत्तिं परां कोटिमधिरूढं मैदनावेशस्य, अनभिज्ञेयपूर्वाकारं तमहमद्राक्षम् । अपंगतनिमेषेण चक्षुषा तद्रवस्थं चिरमुद्रीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचिन्तयम् – 'एवं नामायमतिदुर्विषहवेगो मकरकेतुः, येनानेन क्षणेनायमीहशमवस्थान्तरप्र* न्मत्ता ये मधुकरा भ्रमरास्तेषां निकरः समूहस्तस्य झंकारलक्षणा निस्वनाः शब्दास्तैः कृत्वा दक्षिणानिलेन निर्भर्यमानं तिरस्क्रियमाणम् । शब्दत्वसाम्यादाह - हुंकारैरिव । मादृश उद्दीपके विद्यमानेऽपि तव किं सुरतप्रारम्भो न भविष्यत्येवेति साभिमानै रित्यर्थः । मदेति । मदेन हर्षेण कला मनोहरा ये कोकिलाः पिकास्तेषां कुलं तस्य कोलाहलैः कलकलैः कृत्वा मधुमासेन चैत्रमासेनाकुली क्रियमाणं व्याकुलीक्रियमाणम् । कोलाहलस्योद्दीपकत्वात्प्रोत्साहकत्वसाम्येनाह - वसन्तेति । वसन्तस्य पुष्पकालस्य जयशब्दास्तेषां कलकलैरिव । प्रभा तेति । प्रभातस्य प्रत्यूषस्य यश्चन्द्रः कुमुदबान्धवस्तमिव । उभयोः साम्यसाह - पाण्डुतेति । पाण्डुतया पाण्डुरत्वेन परिगृहीतं स्वीकृतम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्मिन्यो गङ्गाप्रवाहः । स्वर्धुनीरयस्तद्वदिव ऋशिमानं कृशत्वमागतं प्राप्तम् । अन्तरिति । अन्तर्गतो मध्यगतोऽनलो वह्निर्यस्मिन्नेवंभूतश्चन्दनविटैपो मलयजतरुस्तद्वदिव म्लान्तं म्लानतां गच्छन्तम् । पूर्वदृष्टावस्थाशून्यत्वादाह - अन्येति । अन्यमिव पूर्वस्माद्भिनमिव । असंभावितविकारवत्त्वादाह - - अदृष्टेति । अदृष्टपूर्वमिवानवलोकितपूर्वमिव । अपेति । अपरिचितमिवासंस्तवमिव । जन्मेति । जन्मान्तरं भवान्तरमुपगतमिव प्राप्तमिव । रूपेति । प्रशमलक्षणं परित्यज्य सानुरागर्लक्षणेन रूपान्तरेण परिणतमिव तन्मयतां गतमिव आविष्टमिव भूतोन्मादवातरोगाभिभूतमिव । महेति । महाभूतानि वेतालास्तैरधिष्ठितमिश्रित । हेति । ग्रहाः पिशाचादयस्तैगृहीतमिवाधिष्ठितमिव उन्मत्तमिव क्षीबमित्र, छलितमिब छलनां प्राप्तमिव अन्धमिव गताक्षमिव, बधिरमिवाकर्णमिव मूकमिवास्फुटवाचमिव, घिलांसमयमिवानन्दमयमिव, मदनमयमिव कंदर्पमयमिव । परेति । परस्यां महाश्वेतायामायत्ता लग्ना चित्तवृत्तिर्यस्यैवंभूतम् । मदनः कंदर्पस्तस्या वेशोऽध्यासस्तस्य परामुत्कृष्टां कोटिमवस्थामधिरूढमारूढम् । अनेति । अनभिज्ञेयोऽनवसेयः पूर्वाकार आद्याकृतिर्यस्य स तम् । अन्वयस्तु प्रागेवोक्तः । 2 अपेति। अपगतो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा नेत्रेण तदवस्थं पूर्वावस्थं चिरं चिरकालमुद्वीक्ष्य विलोक्य समुपजातः समुत्पन्नो विषादः खेदो यस्य सः । वेपेति । वेपमानेन कम्पमानेन हृदयेन चित्तेन अचिन्तयमध्यायम् । एवमिति । एवममुना प्रकारेण । नामेति कोमलामन्त्रणे । अयमतिशयेन दुर्विषहो दुःसहो बेगो यस्यैतादृशो मकरकेतुः कंदर्पो येन कारणेनानेनानङ्गेन क्षणेनायमीदृशमप्रतीकारमप्रतिक्रियमवस्थान्तरं प्रकारं टिप्प० - 1 तिरस्कारपूर्वकं भीष्यमाणमित्यर्थ उचितः । 2 मदकलाः मदोन्मत्ता इत्यर्थो वाच्यः । 3 चन्दनविटपो मलयजशाखेत्यर्थो वाच्यः, विटपपदस्य शाखावाचकत्वात् । 4 पूतनादय इत्यर्थो योग्यः, पौनरुत्त्यप्रसक्तेः । 5 वराको न जानाति काव्यस्वारस्यम् । अवस्थान्तरम् प्रकारश्चेत्येक एवार्थ इति नैवंविधमुदीरितं बाणस्य । अत एव - 'ईदृशमवस्थान्तरमप्रतीकारमुपनीतः' इत्येव पाठः । पाठा०-१ ऋशिमागतम्. २ मन्मथा. मदनार्तपुण्डरीकस्याऽवस्था ] पूर्वभागः । ३२९ कारमप्रतीकारमुपनीतः । कथमेवमेकपदे व्यर्थीभ वेदेवंविधो ज्ञानराशिः । अहो बत महचित्रम्, तथा नामायमाशैशवाद्धीर प्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयचरित आसीत् । अत्र वितर इव परिभूय ज्ञानमवगणय्य तपःप्रभावमुन्मूल्य गाम्भीर्य मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्' इति । उपसृत्य च तस्मिनेव शिलातलैकपार्श्व समुपविश्यांसावसक्तपाणिस्तमनुन्मीलितलोचनमेव 'सखे पुण्डरीक, कथय किमिदम्' इत्यपृच्छम् । अथ सुचिरसंमीलॅनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनवशात्समुपजातारुणभावमश्रुजलपलपूरप्लावितमुत्कम्पितमिव सवेदनमिव स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य मन्थरमन्थरया दृष्ट्या सुचिरं विलोक्य मामायततरं निःश्वस्य लज्जाविशीर्यमाणाक्षेरम् 'सखे कपिल, विदितवृत्तान्तोऽपि किं मां पृच्छसि इति कृच्छ्रेण शनैः शनैरवदत् । दशान्तरप्रकारमुपनीतः प्रापितः । उक्त विपर्यये दूषणमाह - कथमिति । एवंविधो ज्ञानराशिरेतादृशज्ञान समूह एकपदे युगपत्कथमेवं व्यर्थीभवेत् । अत्र वितर्फे प्रार्थनायां लिङ् । अहो इत्याश्चर्ये । बतेति खेदे । इदं महच्चित्रं महदाश्चर्यम् । तथा नाम तेन प्रकारेणायमाशैशवादाबाल्यान्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयमभिलषणीयं चरितं यस्यैवंविध आसीदभूत् । अथैनं विशिनष्टि - धीरेति । धीरा स्थिरा प्रकृतिः स्वभावो यस्य स तम् । अस्खलितेति । अस्खलिता अखण्डिता वृत्तिर्यस्य स तम् । अत्रै त्विति । अस्मिन्प्रदेश इतर इवान्य इव ज्ञानं परिभूय तिरस्कृत्य तपःप्रभावं तपोमाहात्म्म्यमवगणय्यावगणनां कृत्वा गाम्भीर्य गम्भीरतामुन्मूल्योच्छेद्य मन्मथेन कंदर्पेण जडीकृतो जडतां नीतः । सर्वथेति । सर्वप्रकारेणास्खलितैम खण्डितं यौवनं तारुण्यं दुर्लभं दुःप्रापम् । उपेति । उपसृत्य समीपमागत्य तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्यांसे स्कन्धेऽवसक्तः स्थापितः पाणिः करो येन स तमनुन्मीलितलोचनमेव मुद्रित नेत्र मेवेत्यपृच्छं इत्यवोचम् । इतिथोत्यमाह - सखे इति । हे सखे पुण्डरीक, कथय निवेदय किमिदम् । अथेति प्रश्नानन्तरम् । मन्थरमन्थरयालसालसया दृष्ट्या सुचिरं चिरकालं यावत् मां विलोक्य निरीक्ष्यायततरं दीर्घतरं निश्वस्य चक्षुरुन्मील्य विमुद्य कथमपि महता कष्टेन । लज्जेति । लज्जया त्रपया विशीर्यमाणानि विदीर्यमाणान्यक्षराणि यस्मिन्निति क्रियाविशेषणम् । इति शनैः शनैर्मन्दंमन्दमवददवोचदित्यन्वयः । अथ चक्षुर्विशेषयन्नाह - सुचिरेति । सुचिरं चिरकालं यत्संमीलनं निमीलनं तेनालँग्नमिवान्योन्यासंपृक्तमिव । प्रयत्नेनं बलात्कारेणानवरतं निरन्तरं यद्रोदनमश्रुपातस्तद्वशात्समुपजातः समुत्पन्नोऽरुणभावो रक्तता यस्मिन् । अश्विति । अश्रुजलस्य नेत्राम्भसो यत्पटलं वृन्दं तस्य पूरो वृद्धिस्तेन प्लावितं व्याप्तमुत्कम्पितमिवोद्धूतमिव सवेदनमिव सव्यथमिव । अश्रूणां श्वेतत्वसाम्येनाह - स्वच्छेति । स्वच्छम तिनिमैलं यदंशुकं वस्त्रं तेनान्तरितं व्यवहितं यद्रक्तकमलवनं तद्वच्छाया शोभा यस्मिन् । इतिवाच्यमाह - सखे इति । हे सखे कपिञ्जल, विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि । विकारदर्शनादिति भावः । किं मां पृच्छसि किं प्रश्नं करोषि । टिप्प० - 1 अकाण्डप्रलापोऽयं वराकस्य । वितर्कस्य न प्रार्थनमर्थः । न चात्र प्रार्थना, न किल कपिअलेन प्रार्थ्यते व्यर्थीभवेदिति । तस्मात् संभावनायां लिङ् । कथमिदं संभाव्यते इति तदाशयः । 2 'अद्य तु' इति पाठेऽधिकं स्वारस्यम्, प्रमाणमत्र सहृदयहृदयम् । 3 नास्ति स्खलितं सत्पथाद् अंशो यत्र तदस्खलितम् । 4 'संमीलनालग्नमिव' इत्येव पाठः । चिरकालपर्यन्तं मुद्रणवशात् लग्नमिव परस्परं संसकावरणद्वयमिव इति तदर्थः । 5 प्रयत्नेन उन्मील्य इत्यन्वयः । अत्रास्य योजनं तु एतट्टीकाकारोचिंतमेव । • पाठा० -१ अद्य. २ उन्मील्य ३ अनुन्मीलित; अहमसमुन्मीलित ४ सन्मीलनालग्नम् ५ उपजात, ६ वर्ष. ७ उत्कुपितम् ८ मन्थरया ९ विरलाक्षरम्. ४२ का० ३३०. कादम्बरी । [ कथायाम्: " अहं तु तदाकर्ण्य तदवस्थ्यैवाप्रतीकारविकारोऽयं तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्तितः सर्वात्मना निवारणीय इति मनसावधार्यानवम्- 'सखे पुण्डरीक, सुविदितमेतन्मम । केवलमिदमेव पृच्छामि, यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, उत स्वर्गगमनमार्गोऽयम्, उत व्रतरहस्यमिदम् उत मोक्षप्राप्तियुक्तिरियम्, आहोस्विदन्यो नियमप्रकारः । कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम् किं पुनराख्यातुमीक्षितुं वा । अप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि मदनेनायास्यते । का वा सुखाशा साधुजननिन्दितेष्वेवंविषेषु प्राकृतजनबहुमतेषु विषयेषु भवतः । स खलु धर्मबुद्ध्या विषलतां सिञ्चति, कुवलयमालेति निशिंशलता मालिङ्गति, कृष्णागुरुधूमलेखेति कृष्णसर्पभवगृहति, रेनमिति ज्वलन्तमङ्गारमभिस्पृशति, मृणालमिति दुष्टवारणदन्तमुसलमुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टांनुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषयत." अहं तु तदाकर्ण्य निशम्य तदवस्थ्यैव पूर्वोक्तरीत्यैवायं पुण्डरीकोऽप्रतीकारविकारोऽप्रतिक्रियविकृतिस्तथापि सुहृदा मित्रेणासन्मार्गप्रवृत्तोऽसाधुपथानुगः सुहृद्यावच्छक्तितो यावद्वलतः सर्वात्मना सर्वप्रकारेण निवारणीयो वर्जनीय इति मनसा चित्तेनावधार्य निश्चित्याब्रवमवोचम् । हे सखे पुण्डरीक, एतन्मम सुविदितं सुज्ञातम् । तथापि केवलमिदमेव पृच्छामि प्रश्नविषयीकरोमि । तदेवाह — यदिति । भवता त्वया यदेतदारब्धं प्रस्तुतं तत्किभिदं गुरुभिर्हिताहितप्राप्तिपरिहारोपदेशकैरुपदिष्टं कथितम् उत धर्मशास्त्रेषु स्मृत्यादिषु पठितं भणितम्, उताथवायं धर्मार्जनोपायः सुकृतोपार्जनप्रकारः, उत तपसामपरो भिन्नः प्रकारों भेदः, उत स्वर्गगमनस्यायं मार्गः पन्थाः, उसेदं व्रतस्य दीक्षाया रहस्यमुपनिषत् उत मोक्षस्य महानन्दस्येयं प्राप्तियुक्तिरधिगमसमर्थनम् । आहो इति। आहोखिद्वितर्फे । अन्यो विलक्षणो नियम प्रकारोऽभिग्रहविशेषः । भवतस्तव कथमेतद्युक्तमु चितं मनसापि चित्तेनापि चिन्तयितुं विचारयितुम् । किं पुनरिति । आख्यातुं कथयितुमीक्षितुं विलोकयितुं वा किं पुनर्भण्यते । सर्वथा न युक्तमिति भावः । अप्रेति । अप्रबुद्ध इवाज्ञानीवानेन मन्मथहतकेन पापकारिणा कंदात्मानं स्वमुपहासास्पदतां परिहासधामतां नीयमानं प्राप्यमाणं नावबुध्यसे न जानासि । हीति निश्चितम् । मूढो मन्दो मदनेन कंदर्पेणायास्यते पीड्यते । साध्विति । साधुजनाः सज्जनास्तैर्निन्दितेषु गर्हितेषु प्राकृताः पामरा ये जना लोकास्तैर्बहुमतेषु संमतेष्वेवंविधेष्वेतादृशेषु विषयेष्विन्द्रियार्थेषु भवतस्तव का सुखाशा वाञ्छा । स इति । स मूढो धर्मबुद्ध्या पुण्यमिति कृत्वा विषलतां विषवल्लीं सिञ्चति सेकं करोति । कुवलेति । कुवलयमालोत्पलस्रगिति कृत्वा निस्त्रिशलतां खगलतामा लिङ्गत्याश्लिष(ष्य)ति । कृष्णैति । कृष्णागुरुः काकतुण्डस्तस्य धूमलेखा दहनकेतनपकिरिति कृत्वा कृष्णसर्पमवगूहति परिष्वजते । रत्नेति । रत्नमिति मणिरिति कृत्वा ज्वलन्तमङ्गारं प्रसिद्धमभिस्पृशति स्पर्श करोति । मृणालेति । मृणालमिति तन्तुलमिति कृत्वा दुष्टो यो वारणो गजस्तस्य दन्तमुसलं दशनायोप्रमुन्मूलयत्युच्छिनत्ति । तच्छब्दस्य यच्छन्दसापेक्षत्वादाह-य इति । यः पुमाननिष्टानां दुःखानामनुबन्धः परम्परा विद्यते येष्वेवंविधेषु विषयोपभोगेष्विन्द्रियार्थोपभोगेषु सुखबुद्धिमिदं सुखजनकमिति धियमारोपयति स्थापयति । एतेन सर्वथा सुखजनकत्वं नास्तीति ध्वनितम् । अधीति । अधिगतं ज्ञातं विषयाणां तत्त्वं स्वरूपं येनैवंविधोऽपि कस्मात्केन हेतुना खद्योत इव ज्योतिरिङ्गण टिप्प० - 1 व्रतानुष्ठानभेदः । 2 मनसापि चिन्तयितुं भवतः कथं युक्तमित्यन्वयो बोध्यः, टीकाकारस्तु केवलं पर्यायलेखग्यग्रः । 3 साधारणाः । 4 कमलकन्दम् । पाठा० - १ युक्ति:. २ कथय किमप्रबुद्ध ३ लतावनम्. ४ अवगूहते ५ महारलम्. ६ अनुवन्धेषु. ७ यः परिणतिविरसेषु. कपिझलकृत उपदेशः ] पूर्वभागः । ३३१ त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निवार्यमिदं ज्ञानमुद्रहसि, यतो न निवारयसि प्रबलरज:प्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा क्षुभितं मनः । कोऽयमनङ्गो नाम । धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः' इत्येवं वदत एव मे वचनमाक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तवाष्पवेणिकं प्रमृज्य चक्षुः करतलेन मोमबलम्ब्याबोचत्'सखे, किंबहू केन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणामेतेषां कुसुमचापसायंकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य । परस्य यस्य चेन्द्रियाणि सन्ति, मनो वा वर्तते, यः पश्यति वा, शृणोति वा, श्रुतमवधारयति वा, यो वा शुभमिदं न शुभ मिमिति विवेक्तुमलं स खलूपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापेतम् । अवष्टम्भो ज्ञानं धैर्य प्रतिसंख्यानमित्यस्तमितैषा कथा । कथमध्येव मेऽयत्नविभूतास्तिष्ठन्त्यसवः । दूराइव ज्योतिस्तत्वज्ञानं प्रकाशश्च तेने निवार्य दूरीकरणार्ह ज्ञानमुद्रहसि धारयसि । अस्य दिवाप्रनष्टचैतभ्यत्वेन तादृशधर्मंवत्त्वसाधर्म्यात्खद्योतस्योपमानमिति भावः । एतस्मिन्नर्थे हेतुमाह - यत इति । यस्माद्धेतोः प्रलो यो रजःप्रसरः पापकर्मविस्तारो धूलिश्च तेन कलुषितानि मलिमीकृतानि स्वतोऽम्भः प्रसरणानि स्रोतांसि तामीकोन्मार्गप्रस्थितान्युत्पथवृत्तानीन्द्रियाणि करणानि न निवारयसि न निवारणं करोषि । क्षुभितं क्षोभं प्राप्तं मनश्चित्तं न नियमयसिन नियन्त्रयसि । नामेति कोमलामन्त्रणे । कोऽयमनङ्गः कामः । धैर्य धीरिमामवलम्ब्याश्रित्यायं दुराचारो दुष्टाचरणो निर्भर्त्स्यतां तिरस्क्रियताम् । इत्येवं पूर्वोक्तप्रकारेण वदत एव कथयत एव मम वचनं वच आक्षिप्यावगणय्य । प्रतीति । प्रति प्रत्येकं यत्पक्ष्मणोऽन्तरालं विचालं तत्र प्रवृत्ता बाष्पवेणिका यस्मिनेवंभूतं चक्षुः । अत्र वेणी प्रवाहः । 'वेणी धारा रयश्च सः' इति कोशः । स्वार्थे कप्रत्यये 'केऽणः' इति हखत्वम् । प्रमृज्येति । प्रमार्जनां कृत्वा करतलेन हस्त तलेन मामवलम्ब्यालम्बमीकृत्यावोचवीत् । किं तदिंत्याह-सख इति । हे सखे, बहूक्तेन बहुभाषितेन किम् । सर्वथा त्वं स्वस्थो निरुपद्रवोऽसि । तत्र हेतुमाह - आशीति । आशीविषाः सर्पास्तेषां विषवेगो गरलप्रसरस्तद्विषमाणां कठिनानामेतेषां कुसुमचा पसायकानां मन्मथबाणामां गोचरे विषये न पतितोऽसि, तेन त्वया परस्य सुखमुपदिश्यत उपदेशः क्रियते । स्वस्योपदेशानर्हत्वं प्रतिपादयन्नाह - परेति । परस्यै मध्यतिरिक्तस्य यस्य पुंस इन्द्रियाणि करणानि सन्ति । वेति सर्वत्र विकल्पार्थः । यस्य मनो वर्तते । यः पुमान्पश्यतीक्षते शृणोत्याकर्णयति वा । श्रुतमाकर्णितं चावधारयति जानाति । तदमिप्रायावधारणं करोतीत्यर्थः । यः पुमानिदं शुभमिदमशुभमिति विवेक्तुं विवेचनां कर्तुमलं समर्थः । यत्तदोर्नित्याभिसंबन्धात्स पुमानुपदेशं हितशिक्षामर्हति योग्यो भवति । मम तु सर्वमेवेदं पूर्वोक्तं दूरापेतं दुरापास्तम् । इत्येषा कथा वार्तास्तमितास्तं प्राप्ता । इतिशब्दद्योत्यमाह - अवेति । अवष्टम्भश्चित्तवृत्तिनिरोधः, ज्ञानं विवेकः, धैर्य बाह्येन्द्रियनिरोधः, प्रतिसंख्यानमध्यात्मज्ञानम् । कथमिति । मे ममासवः प्राणा अयत्नेना प्रयासेन टिप्प0 - 1 अस्मिन्पाठे-खद्योतो ज्योतिषा निवार्य किमुद्रहतीति कर्मणोऽपेक्षा । तस्मात् - " -'ज्योतिनिर्वीर्यमिदम्' इत्येव पाठः । खद्योतो यथा निर्वीर्य ज्योतिस्तथा त्वं निर्वीर्यम् ( अहितनिवारणा भावादसमर्थम्) ज्ञानमुद्वहसीति तदर्थः । 2 धर्मादिकमपि तु वराको न जानाति । प्रबलो यो रजसः रजोगुणसंभूतस्य कामस्य प्रसरः बेगस्तेन कलुषितानि । उक्तं गीतायाम् - 'काम एष क्रोध एष रजोगुणसमुद्भवः' पक्षान्तरे स्पष्टोऽर्थः । 3 समाप्तेः पूर्वमेव स्ववचनेन विच्छिद्य । टीकाकारस्तु पर्यायेन्द्रः। 4 विक्मलापिनम् । पुनः परस्येत्युके न किञ्चित्वारस्यम् । यस्येति यत्पदेनापि स एव गृह्यते यस्येन्द्रियाणि सन्तीति इन्द्रिबशुन्यात्पुण्डरीकात्पर एव स्वतो ग्रहीष्यते । प्रत्युत पौनरुक्त्येन वैरून्यम् । पाडा० -१ च. २ पाणौ मान्. ३ बहुनोक्तेन. ४ सुस्योsसि. ५ बिषते, कादम्बरी । [ कथायाम्तीतः खलुपदेशकालः । समतिक्रान्तो धैर्यावसरः । गता प्रतिसंख्यानवेला । अतीतो ज्ञानावष्टम्भसमयः । केन वान्येनास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिबारणं वा करणीयम् । कस्यान्यस्य वा वचसि मया स्थातव्यम् । को वापरस्त्वत्समो मे जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि तावदस्य कल्पान्तोदितद्वादशदिनकर किरणात पतीब्रस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छामि । पच्यन्त इव मेऽङ्गानि, उत्क्कथ्यत इव हृदयम्, प्लष्यत इन दृष्टिः, ज्वलतोय शरीरम् । अत्र यत्प्राप्तकालं तत्करोतु भवान्' इत्यभिधाय तूष्णीमभवत् । एवमुक्तेऽध्यहमेनं प्राबोधयम् । यदा पुनःपुनः शास्त्रोपदेश विशदैः सनिदर्शन: सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभिधीयमानोऽपि नाकरोत्कर्णे, तदाहम चिन्तयम् विष्टताः कथमप्येव तिष्ठन्ति । यतो दुःसहमदनबाणैराकान्तस्य मम प्राणेष्वप्युपेक्षेति भावः । अत उपदेशो हितशिक्षाप्रदानसमयः खलु निश्चयेन दूरातीतो दूरेऽतिक्रान्तः । तथा धैर्यस्य धीरिमाया अवसरः समयः समति' क्रान्तो व्यतीतः । प्रतिसंख्यानवेलाध्यात्मक्षणो गता दूरीभूता । ज्ञानेन कृत्वा योऽवष्टम्भश्चित्तवृत्तिनिरोधस्तस्य समयोऽवसरः दूरं अतीतो व्यतिक्रान्तः । केनेति । अस्मिन्समये भवन्तमपहायान्येन केन वोपदेष्टव्यमुपदेशो दातव्यः । उन्मार्गेति । वाथवोन्मार्गेऽसाधुमार्गे या प्रवृत्तिः प्रवर्तनं तस्या निवारणं करणीयं कर्तव्यम् । कस्येति । अन्यस्य त्वद्व्यतिरिक्तस्य कस्य वा वचसि वचने मया स्थातव्यम् । न कस्यापीत्यर्थः । को वेति । अपरोऽन्यः को वा त्वत्समो मे मम जगति विश्वे बन्धुभ्रता । आविष्कृतं भावमुपसंहरति - किमिति । किं करोमि किं कुर्वे । यदिति हेतौ । आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्दूरीकर्तुं न शक्नोमि न समर्थो भवामि । अनेनेति । अनेनैव क्षणेन समयेनेयं दुष्टा दुःखदायिन्यवस्था दशा भवता त्वया दृष्टावलोकिता । तदिति । तस्माद्धेतोरिदानीं सांप्रतमुपदेशकालः शिक्षाप्रदानसमयो गतो व्यतिक्रान्तः । अन्यस्मिञ्शमदमादिरूप निवृत्ति करणाभावे हेतुमाह - यावदिति । यावत्कालमहं प्राणिमि जीवामि तावत्पर्यन्तम् । कल्पेति कल्पान्तो युगान्तस्तत्रोदिता उदयं प्राप्ता ये द्वादशदिनकरकिरणास्तेषां य आतपः प्रकाशस्तद्वत्तीव्रस्य कठिनस्य । दुःसहस्येति यावत् । एवंविधस्य मदनसंतापस्य कंदर्पज्वरस्य प्रतिक्रिया चिकित्सा तल्लक्षणं क्रियां क्रियमाणां विधीयमानामिच्छामि समीहे । विवेकादिप्रतिक्रियाया अभावे प्राकृतप्रतिक्रिया तया सह संगमरूपैवेति भावः । संतापमेव प्रकटयन्नाह - पच्यन्त इति । मे ममाङ्गानि हस्तपादादीनि पच्यन्त इव पाकविषयीक्रियन्त इव । हृदयं स्वान्तमुत्क्कथ्यत इवोत्क्काथ्यत इव । दृष्टिर्लोचनं पुष्यत इव दह्यत इव । शरीरं देहं ज्वलतीव भस्मीभवतीव । प्राप्तकालं यदेतत्समयोचितम् तथा सह संगमरूपमित्यर्थः । भवांस्तत्करोत्विति पूर्वोक्तमभिधायोक्त्वा तूष्णीमभवन्मौनमकरोत् । एवमिति । एवममुना प्रकारेणोक्तेऽपि कथितेऽप्यहमेनं पुण्डरीकं प्राबोधयं प्रबोधं कृतवान् । यदेति । यदा पुनः पुनर्भूयोभूयः शास्त्रस्य धर्मप्रतिपादकस्य ग्रन्थस्योपदेशः शिक्षा तेन विशदैर्निर्मलैः सनिदर्शनैः सोदाहरणैः सेतिहासैरितिहासः पुरावृत्तं तेन सहितैर्वचोभिः सानुनयं सप्रणयम् । 'प्रणतिः प्रणिपातेऽनुनये' इति कोशः । सोपग्रहं सानुकूलनम् । 'उपग्रहोऽनुकूलने' इति विश्वः । यथा स्यात्तथाभिधीयमान उपदिश्यमानोऽपि कर्णे श्रवणे नाकरोत् । अश्रुतमिव मदुक्तमकार्षीदित्यर्थः । तदेति । तदा तस्मिन्कालेऽहमचिन्तयमध्याटिप्प० - 1 वारंवारं प्रलपत्येष महोदयः । नात्र इमनिच् स्यात् । सत्वेपि पुंस्त्वमेव स्यान स्त्रीत्व• मिति छात्रैर्न भ्रमितव्यम् । 2 अहो बुद्धिः ! 'प्र णी' धातोरथं विवृण्वन् 'प्र- णम्' धातोः प्रमाणमाह। पाठा०- १ बृष्टावस्था; अवस्था दृष्टा.. पुण्डरीकोपचारः ] पूर्वभाग । ३३३ 'अतिभूमिमयं गतः, न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतमतिरुत्थाय गत्वा तस्मात्सरसः सरसा मृणालिका: समुद्धृत्य कमलिनीपलाशानि जललवेलाञ्छितान्यादाय गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलयकमलानि गृहीत्वागत्य तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नवर्तिनां चन्दनविटैपादीनां मृदूनि किसलयानि निष्पीड्य तेन स्वभावसुरभिणा तुषारशिशिरेण रसेन ललाटिकामकल्पयम्, आ चरणतलादङ्गचर्चा चारचयम् । अभ्यर्णपादपप्रस्फुटितवल्कलविवरशीर्णेन च करसंचूर्णितेन कर्पूररेणुना स्वेदप्रॆतिक्रियामकरवम् । उरोनिहितचन्दनद्रवाईवल्कलस्य स्वच्छसलिलेसीकरनिकर स्राविणा कदलीदलेन व्यजनक्रियामन्वतिष्ठम् । एवं च मुहुर्मुहुरन्यदन्यन्नलिनी दलशयनमुपकल्पयतः, यम् । इति शब्दवाच्यमाह - अतीति । अयमतिभूमिमतिदूरं गतः प्राप्तः । कामस्य दशमीमवस्थां प्राप्त इत्यर्थः । निवर्तयितुं ततो व्यावर्तयितुं न शक्यते न पार्यते । तेनेदानीं सांप्रतम् । खलु निश्चयेन । उपदेशा निरर्थका निःप्रयोजनाः । तदिति हेत्वर्थे । तावदादावस्य पुण्डरीकस्य प्राणपरिरक्षणेऽपि जीवित परित्रा णेऽपि यत्नमुयोगमाचरामि करोमीति कृता मतिर्येन स उत्थाय गत्वा च । अच्छोदाभिधं सर इति शेषः । तस्मात्सरसः कासारात्सरसा रसयुक्ता मृणालिकाः कमलिन्यैः समुद्धृत्योत्पाट्य ताभ्यो जललवेनाम्भोलेशन लाञ्छितानि सहितानि कमलिनीपलाशानि नलिनीपत्राण्यादाय गृहीत्वा । गर्भेति । गर्भधूलिर्म ध्यपरागस्तस्य, यः कषायस्तुवरः परिमलस्तेन मनोहराणि शोभनान्येवंविधानि कुमुदानि श्वेतकमलानि कुवलयान्युत्पलानि कमलान्येभ्यो व्यतिरिक्तानि, कुमुदकुवलयानां कमलानि पुष्पाणि वा गृहीत्वादायागत्य च तस्मिन्नेव लतागृहशिलातलेऽस्य पुण्डरीकस्य शयनं शय्यामकल्पयमकरवम् । तत्र चेति । तस्मिन्नेव स्थले सुखेन निषण्णस्योपविष्टस्य प्रत्यासन्नवर्तिनां समीपस्थानां चन्दनविट पादीनां मलयजवृक्षप्रभृतीनां मृदूनि सुकुमाराणि किसलयानि किसलानि निष्पीड्य संमद्ये तेनानिर्वचनीयेन स्वभावसुरभिणा स्वारसिकसुगन्धेन तुषारो हिमं तद्वच्छिशिरेण शीतलेनैवंविधेन रसेन द्रवेण ललाटिकां लोके 'आडी' इति प्रसिद्धामकल्पयमकरवम् । चरणतलं मर्यादीकृत्याचरणतलं तस्मात् । आडादियोगे पञ्चमी । अङ्गचर्चा शरीरभूषां चाऽऽरचयं `रचितवान् । अभ्यर्णेति । अभ्यर्णा आसन्ना ये पादपा वृक्षास्तेषां स्फुटितानि स्फोटं प्राप्तानि यानि वल्कलानि चोचानि तेषां विवराणि छिद्राणि तेभ्यः शीर्णेन गलितेन च तथा करेण कृत्वा संचूर्णितेन क्षोदी कृतेन कर्पूररेणुना हिमवालुकाधूल्या स्वेदस्य घर्मजलस्य प्रतिक्रियां चिकित्साम करवमकल्पयम् । उर इति । उरसि वक्षस्थले निहितं स्थापितं चन्दनद्रवेण मलयजरसेनाई क्लिन्नं वल्कलं यस्य स तथा तस्य । स्वच्छेति । स्वच्छा निर्मलाः सलिलसीकरा वातास्तवारिकणास्तेषां निकरः समूहस्तस्यै स्राविणा स्यन्दिनै तादृशेन कदलीदलेन रम्भापत्रेण व्यजनक्रियां तालवृन्तकृत्यम् । 'व्यजनं तालवृन्तं' तत्' इति कोशः । अन्वतिष्ठमकरवम् । एवं चेति । एवममुना प्रकारेण मुहुर्मुहुर्वारंवारमन्यदन्यदन्यतरदन्यतरन्नलिनीदलशयनं कमलिनीपत्रशय्या मुपकल्पयतः कुर्वतः मुहुर्मुहुर्भूयो भूयश्चन्दनचर्चां मलयजमण्डनमारचयतो विदधतः, मुहुर्मुहुश्च वारंवारं स्वेदप्रटिप्प० - 1 कमलिनीः इत्याशयः । 2 नीलोत्पलानीति वक्तव्यम् । 3 सामान्यतः पद्मानि । 4 पुनः प्रममाद टीकाकृत् । 'चन्दनविटपिनाम्' इत्येव पाठः । 'वृक्षप्रभृतीनां किसलयानि' इति लोकोत्तरो लेखः, वृक्षादन्येषामपि किसलयानि भवन्ति ? । 5 जलबिन्दुवर्षकेणेत्यर्थः । 0 पाठा० -१ निवर्तयितुमिति २ लान्छितानि चादाय ३ विटपिनाम् ४ प्रतीकारम्. ५ शीकरस्राविणा. ६ नलिनदल. ३३४ कादम्बरी । [ कथायाम्, मुहुर्मुहुश्चन्दन चर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कैदलीदलेन चानवरतं वीजयतः समुदभून्मे मनसि चिन्ता - 'नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । कार्य हरिण इव वनवासनिरतः स्वैभावमुग्धो जनः क च विविधविलासरसराशिर्गन्धर्वराजपुत्री महा श्वेता । सर्वथा नहि किंचिदस्य दुर्घटं दुष्कर मनायत्तम कर्तव्यं वा जगति । दुरुपपादेष्वर्थेष्वप्ययमवज्ञया विचरति। नै चायं प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु, अपगतचेतनाभ्यपि संघट्टयितुमलम्, यद्यस्मै रोचते । कुमुदिन्यपि दिनकरकरांनुरागिणी भवति, कमलिन्यपि शशिकरद्वेष मुज्झति, निशापि वासरेण सह मिश्रतामेति, ज्योत्स्नाप्यन्धकारमनुवर्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, तडिदपि जलदे स्थिरतां ब्रजति, जरापि यौवनेन संचारिणी भवति । " तिक्रियां धर्मजलप्रतीकारं कुर्वतः प्रणयतः, कदलीदलेन चानवरतं निरन्तरं वीजयतः पवनं प्रक्षिपतो मे मम मनसि चिन्ता समुदभूत्प्रादुर्भूत् । यतः - नास्तीति । नामेति कोमलामन्त्रणे । खलु निश्चये । भगवतो मनोभुवः कंदर्पस्यं किमप्यसाध्यमनिष्पाद्यं नास्ति न विद्यते । एतदर्थ स्पष्टीकुर्वन्नाह - वेति महदन्तरे । अयं 'पुण्डरीको हरिण इव मृग इव वनवासेऽरण्यावस्थाने निरतस्तत्परः स्वभावेन प्रकृत्या मुग्धोऽविदग्धो जनः कं । तथा विविधानां नानाप्रकाराणां विलासानां विभ्रमादीनां यो रेसस्तात्पर्य तस्य राशिः समूह एतादृशी गन्धर्वराजपुत्री महाश्वेता व । विदग्धाविदग्धयोः संगमः कथं भविष्यतीत्याशयेनाह - सवैथेति । सर्वप्रकारेणास्य कंदर्पस्य जगति लोके दुर्घटं दुःसाध्यं तथा दुष्करं दुःखेन कर्तुं शक्यमनायत्तमनधीन मकर्तव्यं कर्तव्यविरोधि वा नहि किंचिदस्ति । अस्य सर्व सुसाध्यमित्यर्थः । दुरुपपादेष्नयोग्येष्वर्थेषु कार्येष्वप्ययं कामोऽवज्ञया बलात्कारेण विचरति प्रवर्तते । न चायं केनापि पुंसा प्रतिकूलयितुं प्रतिरोद्धुं शक्यते पार्यते । का वेति । यद्यस्मै कंदर्पाय रोचते रुचिर्भवति तदापगतचेतनानि मन्दान्तःकरणान्यपि परस्परविरुद्धान्यपि संघट्टयितुं संयोज यितुमलं समर्थः तस्य सचेतनेषु दशदशावर्तिषु संबन्धं कर्तुं का गणना । एतदेव स्पष्टयन्नाह - कुमुदिनीति । कुमुदिन्यपि कैरविण्यपि । दिनकरेति । दिनकरस्य सूर्यस्थ कराः किरणाः । तत्कार्यकारित्वाद्दिनकरत्वं चन्द्रस्य । तस्मिन्ननुरागो विद्यते यस्या एवंविधा भवति । तदुक्तम् – 'चन्द्रश्चण्डकरायते मलयजालेपः स्फुलिङ्गायते माल्यं सूचिकरायते मृदुगतिर्वातोऽपि वज्रायते' इति । कमलिनीति । कमलिन्यपि पद्मिन्यपि । शशिकर कार्यकारित्वात्सूर्यकिरणानां शशिकरत्वम् । तेषु यो द्वेषस्तमुज्झति त्यजति । तदुक्तम् – 'आतपे धृति मता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम्' इति । निशेति । निशापि रात्रिरपि दिवसका। र्यकारित्वाद्वासरेण मिश्रतामैक्यतामेति गच्छति । यथा - 'चित्रन्यस्तादपि विषधराद्भीतिभाजो निशायां किं तद्रूमस्त्वदभिसरणे साहसं नाथ तस्याः' इति । ज्योति । ज्योत्स्नापि कौमुद्यप्यन्धकारकार्यकारित्वात्तमनुवर्तते । तद्रूपतां भजतीत्यर्थः । यथा - ' -'ज्योत्स्ना श्यामलतामुपैत्ययम्' इति । छायेति । छायापि प्रदीपस्य गृहमणेरभिमुखमवतिष्ठते संतिष्ठति । अत्र प्रदीपाधोभागे छायायाः सत्त्वान्न चित्रमित्यभिमुखग्रहणम् । तदुक्तम् – 'आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते हा हन्त प्रमदावियोगसमये किं किं न दुःखायते' । तडिदिति । तडिदपि विद्युदपि जलदे स्थिरतां स्थैर्य व्रजति गच्छति । अत्र तंडित उद्दीपकत्वाद्विरहृदुःखितस्य तस्य निमेषावस्थानमपि कल्पकल्पमित्यभिसंधिः । जरेति । जरापि वित्र टिप्प० - 1अनुभवजनित भानन्दविशेष इत्युचितम् । 2 विषयेष्वित्यर्थ उचितः । 3 अचेतनान्यपीति सरलोऽर्थः । 4 प्रलापोयम् । न किल चन्द्रो दिनकरो भवतीत्युच्यते ग्रन्थकृता । अपि तु विरुद्ध मपि कामो मिथः संघट्टयतीति प्रतिज्ञाय रात्रिविकासिन्याः कुमुदिन्याः सूर्यानुकूल्यं द्योत्यते । एवमपि । परीक्षन्तां बुद्धिवैभवं सहृदयाष्टीकाकृतः । 5 सर्वथा प्रलाप एवायम् । कः प्रसङ्गोऽस्य ? 4 पाठा०-१ मुहुश्चन्दन. २ दलेनानबरतम्. ३ स्वभावविषयविमुखः ४ दुरुपपादेष्यप्यर्थेषु ५ नायम्. ६ तस्कुमुदिन्यपि, यस्तरकुमुदिन्यपि, • पुण्डरीककृते कपिञ्जलस्य चिन्ता] पूर्वभागः । ३३५ किं वा तस्य दुःसाध्यमपरम्, एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः । २ क तत्तपः, केयमवस्था । सर्वथा निष्प्रतीकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम्, कः सहायः, क किं वा चेष्टितव्यम्, कं देशं गन्तव्यम्, किं शरणम्, को वोपायः, प्रकार, का युक्तिः, कः समाश्रयो येनास्यासवो धार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, क्या वा प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पा: प्रादुरासन् । पुनश्चाचिन्तयम् 'किमनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येनकेनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तैत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासगिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमञ्चायमस्य मदनविकारः । सततमतिगर्हितेन कृत्येनापि रक्षणीयान्मन्यन्ते सापि यौवनेन तारुण्येन सह संचारिणी साधं संचरणशीला स्यात् । जराया अपि तत्कार्यकारित्वात्तदनुगामि त्वमित्यर्थः । अत्रापिशब्दः सर्वत्र विरोधद्योतकः । किं वेति । वेति विकल्पार्थः तस्य कंदर्पस्य । किमिति प्रश्ने । अपरं किं दुःसाध्यं दुष्करम् । एवमिति । येन कंदर्पेण एवंविधस्तपस्व्ययं पुण्डरीकः । अगाधेति । अगाधमलब्धतलं गाम्भीर्यं गम्भीरता तस्य सागर. समुद्रस्तृणवल्लघुतां लघीयस्त्वमुपनीतः प्रापितः । वेति । तदनिर्वचनीयस्वरूपं तपः क्व । तया चेयं परिदृश्यमानावस्था छ । सर्वथेति । सर्वप्रकारेण निष्प्रतीकारासाध्येयमापद्विपदुपस्थिता प्राप्ता । किमिति । इदानीं सांप्रतं किं कर्तव्यम् । किं वा चेष्टितव्यमाचरितव्यम् । कं देशं के स्थानं प्रति गन्तव्यं गमनीयम् । किं वा शरणं त्राणम् । को वोपायः कः प्रतीकारः । कः सहायः साहाय्यकृत् । कः प्रकारस्तदुपशामकविधिः । का युक्तिस्तत्प्रतिक्रियाबुद्धिः । कः समाश्रयः को निवासो येन कृत्वास्य मुनेरसवः प्राणा गच्छन्तो धार्यन्ते रक्ष्यन्ते । केन वा कौशलेन चातुर्येण, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेना लम्बनेन, कया वा प्रज्ञया प्रतिभया, कतमेन वा समाश्वासनेन सान्त्वनेन वायं जीवेदिति । एते चेति । विषण्णहृदयस्य खिन्नचित्तस्य मे ममैते चान्ये च संकल्पा विकल्पाः प्रादुरासन्प्रकटीबभूवुः । पुनश्चेति । पुनस्तदनन्तरमहमचिन्तयं चिन्तितवान् । किं तदित्याहकिमनयेति । अनया निष्प्रयोजनया निरर्थकया चिन्तया ध्यातया किम् । तावदादौ अस्य पुण्डरीक शुभेनाशुभेन वा येन केनचिदुपायेन प्राणा असवो रक्षणीयाः । तेषां चेति । तेषां प्राणानामेकं तस्याः समागममपहाय विहायापरो भिन्नः संरक्षणोपायो नारित । बालभावाच्छिशुखभावादप्रगल्भतयाप्रतिभान्विततया च तपोविरुद्धं व्रतविरोध्यनुचित मन्योन्यमात्मनः स्वस्योपहासमिव मदनव्यतिकरं कंदर्पवृत्तान्तं मन्यमानो ज्ञायमानो नियतं निश्चितमेक एवोच्छ्वासः श्वासोऽवशेषोऽवशिष्टो यस्मिन्नेव तादृशं जीवितं प्राणितं यस्यैवंभूतोऽप्ययं पूर्वोक्तानौचित्यवशात्तस्या महाश्वेतायाः स्वयमभिगमनेनात्मनागमनेन मनोरथं चित्ताभिलाषं न पूरयति न पूर यिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानता । यथाश्रुतमेव वा किं त्वन्यस्य गमनेन तस्याः संगमो भविष्यति, तथाप्यन्यस्याप्यभिगमनेन का त्वरेत्यत आह — अकालेति । तस्य पुण्डरीकस्यायं मदनविकारो न कालान्तरं क्षमते । चिरकालं न तिष्ठतीत्यर्थः । अन्यस्य तदभिगमनप्रयासेन न प्रयोजनमित्यत आह - सततमिति । सततं निरन्तरमतिगर्हितेन निन्दितेन कृत्येनापि कार्येणापि साधनः सन्तः सुहृटिप्प० - 1 किमित्याशयः । 2 साधनाय उपपत्तिः Koma पाठा० - १ तृणलवलघुताम् २ किमाचेष्टितव्यम्. ३ वां दिशम् ४ च ५ अनयात्यायतया; अनयात्यन्तायतया. ६ त्वत्समांग ७ अनुचितमुपनतम्. ८ अकृत्येन. ३३६ कादम्बरी । [ कथायाम्सुहृदसून्साधवः । तदतिहेपणमकर्तव्यमध्येतदस्माकमवश्यकर्तव्यतामापतितम् । किं चान्यक्रियते । का चान्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम्' इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलजो निवारयेदित्यनिवेचैव तस्मै तत्प्रदेशात्सव्याजमुत्थायागतोऽहम्, तदेवमवस्थिते यदनावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्रभवती प्रभवति' इत्यभिधाय किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् । अहं तु तदाकर्ण्य सुखामृतमये ह्रद इव निमन्ना, रतिरसमयमुदधिमिवावतीर्णा, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामप्रमिवाधिरूढा, सर्वोत्सवानामतिभूमिमिवाधिशयाना, तत्कालोपजातया लज्जया किंचिदवनम्यमानवदनत्वादस्पृष्टक पोलोदरैः प्रथितैरिवोपर्युपरिपतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतयोपजातप्रथिमभरैरमलैरानन्दबाष्पजलबिन्दुभिः सवद्भिरावेद्यमान प्रहर्षमैसरा तत्क्षणमचिन्तयम् । दिष्ट्या तावदयमनङ्गो दसून्मित्रप्राणान्रक्षणीयान्मन्यन्ते जानन्ति । तदतीति । तदेतदतिद्वेपणमप्यतिलज्जावहमप्यकर्तव्यमप्यनाचरणीयमप्यस्माकं पुण्डरीकमार्गानुवर्तिनामवश्यकर्तव्यतां नियतविधेयतामापतितमुपस्थितम् । चिन्तितमुपसंहरन्नाह — किंचेति । एतव्यतिरिक्तमन्यत्किं क्रियत इत्यर्थः । अन्या एतव्यतिरिक्ता का गतिः । न कापीत्यर्थः । अतः:- सर्वथैव । सर्वप्रकारेण तरया महाश्वेतायाः सकाशं समीपं प्रयामि गच्छामि । एतां प्रत्यक्षामवस्थां दशामावेदयामि कथयामि । इति चिन्तयित्वेति विचिन्त्य । इतिशब्दद्योत्यमाह - कदाचिदिति । अनुचितोऽयोग्यो यो व्यापारो व्यापृतिस्तत्र प्रवृत्तं विज्ञाय संजातलज्जः समुत्पन्नत्रपः कदाचिजातुचिन्मां निवारयेत्प्रतिषेधयेत्तस्मै पुण्डरीकायेति पूर्वोत्तम निवेद्यैवाकथयित्वैव तत्प्रदेशात्तत्स्थानात्सव्याजं समिषमुत्थायाहमागतः । तत्तस्मात्कारणादेवममुना प्रकारेणावस्थिते सति यदत्रावसरप्राप्तं प्रस्तावागतम् ईदृशस्य अनुरागस्य स्नेहस्य च सदृशं तुल्यम्, अस्मदागमनस्य च मदीयागमनस्य चानुरूपमनुकूलम् आत्मनो भवत्याः समुचितं योग्यं तत्र भवती प्रभवति समर्था भवतीत्यभिधायोक्त्वेयं किं वक्ष्यति किं कथयिष्यतीति कृत्वा मन्मुख आसक्ता दृष्टिर्यस्य स तूष्णीमासीत् । > > अहं तु तत्पूर्वोत्तमाकर्ण्य श्रुत्वा सुखमेवामृतं पीयूषं तन्मये हदे डोहे निमना बुडितेव रतिरसः शृङ्गाररसस्तन्मय मुदधिं समुद्रमवतीर्णेव मध्यप्रविष्टेव सर्वानन्दानां समग्रप्रभोदानामुपरि वर्तमाना सर्वमनोरथानां सकल चिन्तिताना मग्रप्रान्तमधिरूढेवोपर्याश्रितेव, सर्वोत्सवानां समग्रक्षणानामतिभूमिमंधित्यकामधिशयानेव प्रसुप्तेव, तत्कालोपजातया तत्समयोत्पन्नया लज्जया त्रपया किंचिदीषदवनम्यमानं प्रह्वीभूयमानं यद्वदनमाननं तस्य भावस्तत्त्वं तस्मात् । अत एवास्पृष्टः कपोलयोर्गल्लात्पर प्रदेशयोरुदरं यैरेवंविधैः आनन्दबाष्पजलबिन्दुभिः अश्रुभिः स्रवद्भिः क्षरद्भिरावेद्यमानो निवेद्यमानः प्रहर्षस्य प्रमोदस्य प्रसरः प्रसङ्गो यस्यां सैवंविधाहं तत्क्षणं तत्कालमचिन्तयमध्यायमित्यन्वयः । अथाश्रु विशेषयन्नाह - अमलैरिति । अमलैर्निर्मलैरञ्जनाभावात् । ग्रथितैरिव गुम्फितैरिव । अविच्छिन्न पतनादिति भावः । उपर्युपरि यत्पतनं तस्य योऽनुबन्धः परम्परा तेन दर्शितः प्रकाशितो मालाक्रमः स्रक्परिपाटी यैः । अप्राप्तेति । अप्राप्तोऽमिलितो यः पक्षमसंश्लेषो नेत्ररोमसंबन्धस्तस्य भावस्तत्ता तयोपजातः समुत्पन्नः प्रथिमभरः पृथुत्वभरो येषु तैः । दिष्ट्या भाग्येन तावदादावयमनङ्गो मामिव टिप्प० – 1 यस्या इत्युचितम् । 2 अधोमुखतया नेत्रजलं सरलमध एव पतति, नोभयभागयोः पक्ष्मसु जलसंबन्धो भवति । अत एव निष्पतज्जलमितस्ततोऽसंबन्धादेकपूरवाहित्वाद् गुरु इत्याशयः । पाठा०-१ वा. २ वा ३ प्रसङ्गा. महाश्वेताया स्वकर्तव्यविचारः ] पूर्वभागः । मामिव तमप्यनुषन्नाति, यत्सत्यमेतेनं मे संतापयतोप्यंशेन दर्शितानुकूलता। यदि च सत्यमेव तस्येदृशी दशा वर्तते, ततः किंमिव नोपकृतमनेन, किं वा नोपपादितम्, को वानेनापरः , , १ १ समानो बन्धुः कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निक्रामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम् तस्य वा पुरः किमभिधातव्यम्' इत्येवं विचारयन्त्येव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् - 'भर्तृदारिके, त्वमॅस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता' इति । तथ श्रुत्वा कपिञ्जलो महाजनसंमभीरुः सत्वरमुत्थाय 'राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमुपगच्छति दिवसकरः । तद्गच्छामि। सर्वथाभिमसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोयायिनाम्बायाः प्रविशता कनकवेत्रलताकरेण प्रतीहारिजनेन कबुकिलोकेनागृहीतताम्बूलकुसुमपटवासाङ्गरागेण चा। तमपि पुण्डरीकमप्यनुर्बध्नाति पीडयति । यत्सत्यमिति । तदेतेन मदनेन मां संतापयतापि अंशेन तत्संतापेन मे मम सत्यमनुकूलता दर्शिता । एवं सति मदनेन ममार्थ कुमारस्य संतापः क्रियत इत्यर्थः । कुमारस्यानुकूलत्वं विशदयन्नाह – यदि चेति । यदि सत्यमेव तस्येदृशी दशा वर्तते, तसोऽनेन मदनेन किमिव नोपकृतं किमुपकारो न कृतः । किं वा नोपपादितं किं वा न निष्पादितम् । को वेति । अनेन समानोऽपरः को वा बन्धुः । कपिलवचसि सत्यतां दृढीकुर्वन्नाह - कथं वेति । प्रशान्ताकृतेः कपिञ्जलस्यास्माद्वदनात्कथं वितथाऽसत्या भारती स्वप्नेऽपि निष्कामति । इत्थंभूते सति किं मयापि प्रतिपत्तव्यं किमङ्गीकर्तव्यम् । तस्य कपिजलस्य वा पुरोऽग्रे किमभिधातव्यं किमु कथनीयम् । एवं विचारयन्त्येव ससंभ्रमा प्रतीहारी प्रविश्य प्रवेशं कृत्वा । गृहमिति शेषः । ममेत्यकथयदवोचत् । किं तदित्याह – भर्त्रिति । हे भर्तृदा रिके, लमस्वैस्थमपाटवं शरीरं यस्याः सेति परिजनात्परिच्छदलोकादुपलभ्य प्राप्य महादेवी गौर्यभिधाना लदम्बा प्राप्तागता । तच्चेति । तत्पूर्वोक्तं श्रुत्वाकर्ण्य कपिञ्जलो महानत्युत्कृष्टो यो जनानां संमर्दोऽन्योन्यसंघट्टस्तस्माद्भीरुः सत्वरं शीघ्रमुत्थाय । हे राजपुत्रि, अयं कालातिपातः कालविलम्बो महान्भूयानुपस्थितः प्राप्तः । भगवांश्चेति । भुवनत्रयस्य विष्टपत्रयस्य चूडामणिरिव चूडामणिः शोभाकारित्वाद्भगवान्दिवसकरः श्रीसूर्योऽस्तमुपगच्छत्यस्तमनं प्रयाति । तदिति । तत्तस्मात्कारणाद्वच्छामि व्रजामि । सर्वथेति । सर्वप्रकारेणाभिमतो वाञ्छितो यः सुहृन्मित्रं तस्य प्राणा असवस्तेषां रक्षा त्राणं सैव दक्षिणा मदागमनपूजा तदर्थमयमञ्जलिः पाणिसंयोजनरूप उपरचितो निबद्धः । एष इति । एष सुहृत्प्राण रक्षात्मको मम मे परम उत्कृष्टो विभव ऐश्वर्यमित्यभिधाय प्रतिवचनकालं प्रत्युत्तरसमयमप्रतीक्ष्यैव प्रतीक्षामकृत्वैवाम्बाया गौर्यभिधानायाः पुरोयायिनाप्रगामिना प्रविशता प्रवेशं कुर्वता परिजनेन परिच्छदेन सर्वतः समन्तात्संरुद्धे आवृते द्वारदेशे प्रतोलीदेशे कथमपि महता कष्टेनावाप्त निर्गमः प्राप्तबहिर्गमनः प्रययावित्यन्वयः । अथ॒ परिजनं विशिष्टि प्रतीति । प्रतीहारिणी द्वारनियुक्तस्त्रीणां जनो लोको यस्मिन्स तेन । कनकेति । कनकस्य सुवर्णस्य वेत्रलता यष्टिविशेषः सा करे पाणौ यस्य स तेन । पद्मपाणिरित्यादिप्रयोगदर्शनात् 'न बहुव्रीहौ' इत्यनेन सप्तम्यन्तस्य पूर्वनिपातः । कञ्चुकीति । कचुकिनां सौविदलानां लोको जनो यस्मिन्स तेन । 'लोको विश्वजनः' इत्यनेकार्थः । । । टिप्प० - 1 अनुगच्छति, तदुपर्यपि स्वाऽऽवेशं स्थापयतीत्याशयः । 2 अपरिसीमं मौढ्यम् । नेढुं प्रतिहारी विचारयति । अतः 'विचारयन्त्यामेव' इति पाठः । 'मयि' इति शेषः । 3 अप्रकृतिस्थमित्युचितम् । 4 हन्त धिग्वैधेयम् । एष प्रणामाञ्जलिरेव मे परमो विभवः, नेतः परं मे ऐश्वर्यं यत्समर्प्य त्वां प्रसादयेयमित्यर्थः । 5 पूर्व स्त्रीलिङ्ग उपक्रान्तः - ('ससंभ्रमा प्रतीहारी' इति), अत एव अत्रापि 'प्रतीहारीजनेन' इत्येव पाठः । 6 न जाने क्वत्यं चिन्तयति । पाणिनीये तु - 'सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपातः । 。 पाठा० - १ अनेन. २ कियताप्यंशेन, अपि कियताप्यंशेन ३ दशा, ततः ४ प्रतिकर्तव्यम् ५ असुरस्य, ६ गृहीत, ४३ का० कादम्बरी । [ कथायाम्मरव्यग्रपाणिना कुब्जकिरातबैधिरवामनवर्षवर कलमूकानुवीतेन परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमध्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभ वनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमाचेष्टितमिति शून्यहृदया सर्वे नालक्षयम् । गतायां च सैत्यामस्तमुपगते भगवति हारीतहरितवाजिनि सरोजिनीजी वितेश्वरे चक्रबाकसुहृदि सवितरि, लोहितायमाने पश्चिमाशामुखे, हरितायमानेषु कमलवनेषु, नीलायमाने पूर्वदिग्भागे, पातालपङ्ककलुषेण महाप्रलयजलधिपयःपूरेणेव तिमिरेणावष्टभ्यमाने जीवलोके किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् – 'अयि तैरलिके, कथं न पश्यसि दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविहलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमैस्मिज्ञातुम् । उपदिशतु मे भवती यदत्र सांप्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः आगृहीतेति । आ समन्ताद्गृहीता आत्तास्तोम्बूलकुसुमपटवासाङ्गरागा येन स तेन । तत्र ताम्बूलं नागवल्ली, कुसुमानि पुष्पाणि, पटवासः पिष्टातः, अङ्गरागो विलेपनम् । चामर इति । चामरैर्वालव्यजनैर्व्यप्र आकुलः पाणिर्हस्तो यस्य स तेन । कुन इति । कुन्जः खर्वः, किरातः स्वल्पतनुः, बधिरोऽकर्णः, वामनः प्रसिद्धः, वर्षवरः षण्ढः । 'कलमूकोऽवाक्श्रुतिः' इति हलायुधः । एतैरनुवीतेनावृतेन । 'संवीते रुद्धमाटते' इति कोशः, क्वचित् 'अनुमत' इति पाठः । तत्रानुमतेनेत्यभिमतेनेत्यर्थः । अम्बा त्विति । अम्बा तु जननी तु मत्स मीपं मदन्तिकमागत्यैत्य सुचिरं चिरकालं स्थित्वा स्वभवनं निजगृहमयासीदगात् । तया तु मज्जनन्या तु तत्र मद्गृह आगत्य किं कृतं विहितम्, किमभिहितं किं कथितम् किमाचेष्टितं किमाचरितम् इति सर्वमहं शून्यहृदयोद्विग्नचित्ता नालक्षयं न ज्ञातवती । 2 > तस्यामम्बायां गतायां च सत्यां भगवति माहात्म्यवति सवितरि सूर्येऽस्तमुपगते प्राप्ते सति किंकर्तव्यतामूढाहं तामेव तरलिकामपृच्छं पृष्टवतीत्यन्वयः । अथ सूर्य विशेषयमाह - हारीतेति । हारीतो मृदङ्कुरः 'हारिल' इति लोकप्रसिद्धः तद्वद्धरिता नीला वाजिनोऽश्वा यस्य स तस्मिन् । सर इति । सरोजिनी कमलिनी तस्या जीवितेश्वरः प्राणनाथस्वस्मिन् । चक्रेति । चक्रवाकस्य द्वन्द्वचरस्य सुहृदि । पुनः कस्मिसति । पश्चिमाशामुखे लोहितायमाने रक्तायमाने सति । पुनः केषु सत्सु । कमलवनेषु नलिनकाननेषु हरितायमानेषु नीलायमानेषु सत्सु । पुनः कस्मिन् । पूर्वदिग्भागे नीलायमाने सति । पुनः कस्मिन् । तिमि रेणान्धकारेण जीवलोकेऽवष्टभ्यमान आश्विष्यमाने । केनेव । महाप्रलयस्य यो जलधिः समुद्रस्तस्य पयःपूरेणेव । पयःपूरस्य श्वेतत्वादुत्प्रेक्षा न संभवतीयाह - पातालेति । पातालं वडवामुखं तस्य पङ्कः कर्दम स्तेन कलुषेण मलिनीकृतेन । अन्वयस्तु प्रागेवोक्तः । अयीति कोमलामन्त्रणे । हे तरलिके, मे मम हृदयं कथं न पश्यसि नावलोकयसि । कीदृशम् । दृढमत्यर्थमाकुलं व्याकुलम् । तथाप्रतिपत्तिः सर्वस्मिन्विषयेऽरुचिरनिश्चयो वा तेन विह्वलानि व्याकुलानि चेन्द्रियाणि करणानि । अतोऽस्मिँन्विषये पुण्डरीक विषयेऽण्वपि कर्तव्यं कृत्यं स्वयं ज्ञातुमहं नालं न समर्था । यतोऽयं कपिजलस्त्वत्समक्षमेव त्वत्प्रत्यक्षमेवैवममुना प्रकारेणाभिधाय कथयित्वा गतः । अतोऽस्मिन्नर्थे यत्सांप्रतं योग्यं तद्भवत्युपदिशतु कथयतु । अथोपदेशप्रकारमाहटिप्प० - 1 वस्तुतस्तु 'विकल - मूक' इति पाठः । 2 सर्वमिदमव्युत्पत्तिकृतम् । 'अनुगतेन' इत्येव पाठो मनोहरः, प्रमाणं च हृदयम् । 3 'अस्मिन्' इति केवलेन न बुध्यते प्रकृतो विषयः, न चानुकूल नि अन्थबन्धाक्षराणि । अतः 'नालमस्मि' इत्येव पाठः । ज्ञातुं न समर्थाऽस्मि इति तदर्थः । पाठा०-१ बर्षरकलमूक; वर्लरविकलमूक. २ अनुगतेन. ३ तस्याम्. ४ तरलिके न पश्यसि ५ शून्यानि, ६ अस्ति, चन्द्रोदयः ] पूर्वभागः । ३३९ कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अंवमुच्य विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घय शीलम्, अवगणय्य कुलम्, अशी कृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम्, एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गीकरोम्येवमंपि प्रथमं तावत्स्वयमागेतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत्, इत्येवमुच्चारयन्त्यामेव मयि चन्द्रोदयजन्मना विरलविरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा धूसरतां वासवी दिगयासीत् । ततः शशिकेसैरिविदार्यमाणतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमा• यदीति । यदि तावत्स्वयमेव । कुमारानुसरणमननुसरणं चेति कोटिद्वयम्, तृतीयं पुनरपरमिति किंचिद् द्वारमाश्रित्य गूढाभिसंधिः । आये त्वाह - इतरेति । इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय, धैर्य साहसमुत्सृज्य दूरीकृत्य, विनयं यथोचितव्यापारमवमुच्य त्यक्त्वा, जनापैवादं कौली नमचिन्तयित्वाऽध्यात्वा सदाचारं शोभनानुष्ठानमतिकम्योल्लवय, शीलं परपुरुषेष्वनभिरतिस्वभावम् । 'शीलं साधुवृत्तस्वभावयोः' इत्यनेकार्थः । तदुल्लङ्ख्यातिक्रम्य, कुलमभिजनस्तदवगणय्यावगणनां कृत्वा, अयशोऽकीर्तिमङ्गीकृत्य स्वीकृत्य, रागेण कामरागेणान्धा वृत्तिर्वर्तनं यस्याः सैवंविधाहं पित्रा जनकेनाननुज्ञाताऽदत्तानुशासना, मात्रा चाननुमोदिताऽश्लाघिता खयमात्मनोपगम्य समीपे गत्वा पाणि ग्राहयामि हस्तग्रहणं करोमि । एवममुना प्रकारेण गुरुजनाः पूज्यजना मातृपित्रादयस्तेषामतिक्रमादुल्लङ्घनान्महानधर्मः स्यात् । स त्वनुचित इति शेषः । अननुसरणमभिप्रेत्याहअथेति । अथ धर्मानुरोधादितर: पक्षोऽननुसरणात्मकस्तस्यावलम्बनमाश्रयणं तद्वारेण प्रथमं मृत्युं व्यवरोपणमङ्गीकरोमि स्वीकरोमि । एवमपि प्राणविमोचनेऽपि तावदादौ स्वयमागतस्य प्रथमप्रणयिन आद्य स्नेहवतस्तत्रभवतः पूज्यस्य कपिजलस्य प्रणयप्रसरस्य स्नेहवृद्धेर्भङ्गो नाशः स्यात् । पुनरपरमपि दूषणं वक्तुमाह - यदीति । यदि कदाचित्तस्य जनस्य पुण्डरीकस्य मत्कृतादाशाभङ्गात्प्राण विपत्तिर्जीवितनाश उपजायते भवेत, मुनिजनवधजनितं तदपि महदेनः पातकं भवेदित्येवमुच्चारयन्त्यां वदन्त्यामेव मयि चन्द्रस्य शशाङ्कस्योदय उद्गमस्तस्माजन्मोत्पत्तिर्यस्य स तेन । विरलं च विरलं च विरलविरलं तेन । तुच्छतुच्छेनेत्यर्थः । एवंविधेनालोकेन प्रकाशेन । केन कॆव । कुसुमेति । कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननलेखेव वासवी दिक्प्राककुब्धूसरतामीषत्पाण्डुताम् । 'ईषत्पाण्डस्तु धूसरः' इति कोशः । अयासीदप्रापत् । तत इति । ततो दिखधूसरणानन्तरमिन शशाङ्कतेजसा पाण्डतां श्वेततामापाद्यमानं विधीयमानं पश्चिमेर दिगन्तरं पौर्व दिग्विभागमदृश्यतालोक्यत । जनैरिति शेषः । पाण्डुत्वसाम्येनाह - शशीति । शश्येव विदारणकर्तृत्वात्केसरी' तेन विदार्यमाणो भिद्यमानो यः कृष्णत्वसाम्यात्तम एव करी तस्य कुम्भौ शिरसः पिण्डौ तयोः संभव उत्पत्तिर्यस्यैवंभूतेन मुक्ताफलानां मौक्तिकानां क्षोदेनेव चूर्णेनेव धवलतो शुभ्रतामुपनीयमानं प्राप्यमाणम् । उदयगिरिसंबन्धिनो ये सिद्धा गन्धर्व विशेषा विद्यासिद्धा वा द्वेषां याः सुन्दर्यः टिप्प० - 1 लोककृतां निन्दामिति सरलोऽर्थः । 2 पुनः सैव भापत् ! प्रापत् इत्येवोचितम् । 3 अव्युत्पन्नोचितमिदम् । 'इतरत्' इत्येव पाठः । 4 टीकाकारबुद्धिसहशोयं पाठः । वास्तवे तु - 'केसरिकरनखरविदार्यमाण' इत्येव पाठः । पाठा० १-१ उन्मुच्य. २ आगत्य, ३ मय्यासन्न, ४ केसरिकर, ३४० कादम्बरी । [ कथायाम्नम्, उदयगिरिसिद्धसुन्दरीकुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजलधिजलकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दुधान्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रमेव ज्योत्सा निःपतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलाद वनी मे वीर्योद्गच्छता शेषफणामण्डलेनेव रेंजनीकरबिम्बेनाराजत रजनी । क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्लभेन किंचिदुन्मुक्तबालभावेन मकरध्वजबन्धुभूतेन समुपारूढ रागेण सुरतोत्सवोपभोगकयोग्येनामृतमयेन यौवनेनेवारोहता शशिना रमणीयतामनीयत यामिनी । अथ तं प्रत्यासन्नसमुद्रविद्रुमप्रभापाटलितमिव, उदयगिरि सिंहकरतलाह तहॅरिणशोणितशोस्त्रियस्तासां कुचाः पयोधरास्तेभ्यश्व्युतेन गलितेन चन्दनचूर्ण राशिनेव मलयजक्षोदसमूहेनेव पाण्डुरी क्रियमाणं शुभ्रतामापाद्यमानम् । चलितेति । चलितं कम्पितं यज्जलधिजलं समुद्राम्भस्तस्य कल्लोलानिलैस्तरङ्गवायुभि रुल्लासितेनोल्लासं प्रापितेन वेलाम्भसो वृद्धिस्तस्याः पुलिनं जलोज्झितं तटं तस्य सिकता वालुका तस्या उद्गमेनेव प्रकटनेनेव । शनैः शनैर्मन्दमन्दं ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । विशदत्वसाम्येनाहदशनेति । चन्द्रदर्शनात्स्व की यनाथ निरीक्षणान्मन्दं मन्दं स्मिताया दशनप्रभेव दन्तकान्तिरिव । तदन्विति । तदनु पश्चाद्रसातला नागलोकादवनीं पृथ्वीमवैदीर्य विदारणं कृत्वोद्गच्छता प्रादुर्भवता । श्वेतत्ववर्तुलत्वसाम्येनाह - शेषेति । शेषस्य नागाधिपतेः फणामण्डलेनेव फणासमूहेनेव रजनीकरबिम्बेन रजनी त्रियामाऽराजताशोभत । अत्र रजनीकरबिम्बमात्र ग्रहणेन चन्द्रस्य बालभावप्रकटीकरणात्समुपारूढातिरागेणेति पूरणीयम् । ततश्च चन्द्रोदयकालेऽतीवारुण्यं बालत्वात् । तदनन्तरं च तरुणावस्थायामारुण्यमात्रम् । अत एव समुपारूढ रागेणेत्येवाग्रे विशेषणम् । तथा शेषफणेत्यत्रानवरतकमलाकरकमलतललालित हरिपदाम्बुजप्रभारुणाभेति पूरणीयम् । तेन सर्वं साम्यमुपपद्यते । ततः क्रमेण परिपाट्या शशिना चन्द्रेण यामिनी रात्री रमणीयतां शोभनीय तामनीयत प्रापिताभूत् । 'नी प्रापणे' धातुः । अथ च शशिनं विशेषयनाह - सकलेति । सकलः समग्रो यो जीवलोको मनुष्यलोकस्तस्यानन्दकेन प्रमोदोत्पादकेन कामिनीजनः स्त्रीलोकस्तस्य वल्लभेन प्रियेण । किंचिदिति । किंचिदीषदुन्मुक्तस्त्यक्तो बालभावः शिशुत्वं येन स तेन । मकरेति । मकरध्वजस्य कंदर्पस्य बन्धुभूतेन स्वजनभूतेन । समिति । समुपारुढोऽध्यासितो रागो रक्तता येन स तेन । सुरतेति । सुरतोत्सवे निधुवनक्षणे य उपभोगस्तत्रैकयोग्येन । सर्वथोचितेनेत्यर्थः । अमृतमयेन पीयूषात्मकेन । किं कुर्वता । आरोहतारोहणं कुर्वता । गगनमिति शेषः । सकलानन्दकारित्वादिसाधर्म्यादुत्प्रेक्षते - यौवनेनेव तारुण्येनेव । अथ चन्द्रस्य तरुणभावं वर्णयन्नाह - अथेति । आरोहणानन्तरं तं रजनीकरं चन्द्रमुदितं विलोक्य निरीक्ष्याहं तत्क्षणं तत्कालमचिन्तयं चिन्तितंवतीत्यन्वयः । अथ रजनीकरं विशिनष्टि - अभीति । अभिनवः प्रत्यमो य उदयरागस्तेन लोहितं रक्तम् । अत एव कीदृशामिव । प्रत्यासन्नः समीपवर्ती यः समुद्रः पयोधिस्तस्मिन्विमा रक्तकन्दास्तेषां प्रभाः कान्तयस्ताभिः पाटलितमिव श्वेतरक्तीकृतमिव । उदयेति । उदयगिरेः पूर्वाद्रेः टिप्प० -- 1 तरङ्गवायुभि: पुलिनस्थः सिकतासमूह एव उड्डीय उपरिगतो भवेत्तेनेव इन्दुधाम्ना इत्युत्प्रेक्षा । प्रकटनेन इति टीकार्थस्तु भ्रष्टः । 2 मन्दमन्दं स्मितं यस्यास्तस्या इत्यर्थं उचितः । 3 व्याकरणविरुद्ध भ्रष्टार्थश्चायं टीकामतः पाठः । 'अवदार्य' इत्युचितः । 4 हन्त धिग्वैधेयम् । 'अत्र रजनिकरबिम्बमात्रग्रहणेन ० ' इत्यादि निरर्थकं प्रालपत, आवश्यकं द्वयोः साधर्म्य चापालपत् । सकलजीवलोकानन्दजनकत्वादिविशेषणकृतं साधर्म्य प्रायः उभयत्र साम्येन । यौवने बालभावस्य उन्मोको जायत एव । एकत्र रागः आरुण्यम्, यौवनपक्षे अनुरागः । अमृतं प्रमोदः ( यौवनपक्षे ), आरोहता ( शरीरे विजृम्भमाणेन, इति यौवनपक्षे ), अन्यत् टीकया बोद्धव्यम् । पाठा० -१ पश्चिमेतरत्, २ अवदार्य, ३ फण, ४ रजनिकर, ५ निजहरिण. a महाश्वेताया अमिसार: ] पूर्वभागः । ३४१ णीकृतमिव, रतिकलहकुपितरोहिणीचरणालक्तरसलाञ्छितमिवाभिनवोदयरागलोहितं रजनीकरमुदितं विलोक्यान्तर्ज्वलितमदनान लाप्यन्धकारितहृदया तरलिकोत्सङ्ग विधृतशरीरापि मन्मथहस्तवर्तिनी चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणमचिन्तयम्, – 'एकत्र खलु मेधुमासमलयमारुतप्रभृतयः समस्ताः, एकत्र चायं पापकारी चन्द्रहतको न शक्यते सोदुम् । इदमतिदुर्विषहं मे हृदयम् । अस्य चोद्गमनमिदं सदाहज्वरमस्तस्याङ्गारवर्षः, शीतार्तस्य तुषारपातः, विषैविस्फोटमूर्च्छितस्य कृष्णसर्पदंशः इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमलवनम्लानिनिद्रेव मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीताभिश्चन्दनचर्चाभिस्तालवृन्तानिलैचोपलब्धसंज्ञा तामेवाकुलाकुलां मूर्तेनेवाधिष्ठितां विषादेन मल्ललाट विघृत स्रवचन्द्रकान्तमणिशला काम विच्छिन्नबाष्पजलधारान्धकारितमुखीं रुदन्तीं तर, सिंहो हर्यक्षस्तस्य करतलेन चपेटयाहतस्ताडितो यो हरिणः तस्य शोणितं रुधिरं तेन शोणीकृतमिव रक्तीकृतमिव । रतिकलहेन कामकलहेन कुपिता कोपं प्राप्ता या रोहिणी चन्द्रस्त्री तस्याश्चरणौ पादौ तयोरलक्तरसो याव कद्रवस्तेन लाञ्छितमिव चिह्नितमिव । अथ महाश्वेतां विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलितो मदनानलः कामवह्निर्यस्यामेवंविधाप्यन्धकारितं हृदयं यस्या इति । अन्धकारप्रज्वलनयोर्मिथो विरोधात् । तरलि केति । तरलिकाया उत्सङ्गः क्रोडस्तत्र विधृतं स्थापितं शरीरं देहो यया एवंविधापि मन्मथहस्तवर्तिनी कंदर्पकरगतेति विरोधः । चन्द्रेति । चन्द्रे शशाङ्के गते प्राप्ते नयने लोचने यस्याः एवंविधापि मृत्युं मरण मालोक यन्तीति विरोधः । अत्र सर्वत्रापिशब्दो विरोधालंकारद्योतकः । एतत्परिहारश्चार्थभेदेन स्वयमूह्यः । स्वस्य संकटप्रविष्टतामावेदयन्त्याह - एकत्रेति । खलु निश्चयेन । एकत्रैकस्मिन्स्थले मधुमासमलयमारुतप्रभृतयः समस्ताः ॥ एतेषामुद्दीपकत्वादेवोपादानम् । एकत्रेति । एकस्मिन्स्थले पापकारी पापिष्ठश्चन्द्र एव हतको हत्याकृत्सोढुं न शक्यते न पार्यते । विरहिणीहृदयस्य दुःखासहिष्णुत्वमा विः कुर्वन्नाह - इदमिति । अतिदुःखेन विषहत इति दुर्विषहं हृदयं तथा । अस्य चन्द्रस्येदमुद्गमनं सदाहेन वर्तमानो ज्वरस्तापस्तेन प्रस्तस्य । अङ्गारेति । अङ्गारवर्ष उल्कवृष्टिः । अङ्गारः साग्निर्निरग्निश्च द्विविधो वर्ण्यते । सानौ यथा -'अङ्गारचुम्बितमिव व्यथमानमास्ते'; निरनौ यथा - 'कलङ्कस्तत्रयो व्रजति मलिनाङ्गारतुलनाम्' इत्यादि प्रयोगः । शीतेति । शीतार्तस्य शीतपीडितस्य तुषारो हिमं तस्य पातः पतनम् । विषेति । विषं गरलं तस्य विस्फोटकेन मूर्दिछतस्य मूर्च्छा प्राप्तस्य कृष्णसर्पस्य दंशो दशनम् । एतादृशमुद्गमनम् । इत्येवं चिन्तयन्तीं ध्यायन्तीमेव मूर्च्छा मां निमीलिते लोचने नेत्रे यस्या एवंविधामकार्षीत् । केव । चन्द्रोदयेन शशाङ्कोद्गमनेनोपनीता प्रापिता कमलवनस्य म्लानिः संकोचस्तस्मिन्या निद्रा सेव । अचिरेणेति । अल्पकालेन संभ्रान्ता व्यामोहं प्राप्ता या तर लिका तयोपनीताभिरानीता भिश्चन्दनचर्चाभिर्मलयजसमालम्बनैस्तालवृन्ता निलैश्च व्यजनवातैश्चोपलब्धा संज्ञा चैतन्यं यया सा तामेव तरलिकामा कुलाकुलामुत्पिञ्जलां मूर्तेनेव विषादेनाधिष्ठितामाश्रिताम् । मदिति । मम ललाटे मदली के विधृता स्थापिता स्रवन्ती जलं क्षरन्ती चन्द्रकान्तमणिशलाका यया सा ताम् । अस्या जलस्यातिशीतलत्वात्तत्स्थापनमुचितमेवेति भावः । अवीति । अविच्छिन्नात्रुटिता बाष्पजलधारा नेत्रवारिसंतति स्त टिप्प० – 1 अन्धकारो विरहेण प्रमोदराहित्यमिति समाधानम् । 2 मन्मथवशीभूतेति समाधानम् । 3 प्रियसमागमाभावे स्मरतापात्संमुख स्थं मरणं संभावयन्तीति समाधानम् । 4 उद्दीपन कार्ये मलयमारुतादीनां बहूनां प्रातिद्वन्द्व्ये अयमेक एव चन्द्रस्तुल्य इति 'एकत्रायम्' इत्यादेस्तात्पर्यम् । 5 प्रलापोयम् । अत एव 'इदमतिदुर्विषहमदनवेदनातुरं च' इत्येव पाठः । अतिदुःसहया मदनवेदनया भातुरं विह्वलमिति तदर्थ: । 6 अन्त्र व्याख्या मूका। विषवज्वालाजनकेन व्रणविशेषेण । इत्यर्थो बोध्यः । 7 म्लानिरेव निद्रा । -१ लोहितं. २ मदनमधु ३ चापकारी, ४ दुर्विषमदनवेदनातुरं च दुर्विषहहृदयम्. ५ विषस्फोट. पाठा० lentes 。 ६ विचिन्तयन्तीम्. ७ ग्लानि. ३४२ कादम्बरी । [ कथायाम् लिकामपश्यम्, उन्मीलितलोचनां च मां सा कृतपादप्रणामा चन्दनपकार्द्रेण करयुगलेन बद्धाञ्जलिरवादीत् – 'भर्तृदारिके, किं लजया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ । स्वयं वा तत्र गम्यताम् । अतः परमसमर्थासि सोढुमिमं प्रबलचन्द्रोदय विजृम्भमाणोत्कलिकाशतमुद्धिमिव मकरचिह्नम्' इत्येवंवादिनीं तामवोचम् – 'उन्मत्ते, किं मन्मथेन । नन्वयं सर्वविकल्पानपाहरन्, सर्वोपायदर्शनान्युत्सारयन्, अन्तरायानन्तरयन्, सर्वसंदेहानपनयन्, सर्वशङ्कास्तिरस्कुर्वन् लज्जामुन्मूलयन्, स्वयमभिगमनलाघवदोषमावृण्वन्, कालातिपातं परिहरन् आगत एव मृत्योस्तस्यैव वा सकाशं नेता कुमुदबान्धवः । तदुत्तिष्ठ । यथाकथंचिदॆनुगमनेन जीविता संभावयामि हृदय। । यान्धकारितं विच्छायितं मुखं यस्याः सा तां रुदन्तीं रोदनं कुर्वन्तीं तामेव तरलिकामपश्यमव (वा) लोकयम् । उन्मीलितेति । उन्मीलिते विकसिते लोचने नेत्रे यस्याः सा ताम् । एवंविधां मां सा तरलिका । कृतेति । कृतो विहितः पादयोश्चरणयोः प्रणामो नतिर्यया सा । चन्दनेति । चन्दनस्य मलयजस्य पङ्कः कर्दमस्तेनाद्रेण क्लिन्जेन करयुगलेन हस्तयुग्मेन बद्धोऽञ्जलिर्यया सैवंविधावादीदवोचत् । किं तदित्याह - भर्त्रिति । हे भर्तृ दारिके, किं लज्जया त्रपया । गुरुजनानां मातृपित्रादीनामपेक्षया वा किम् । प्रसीद प्रसन्ना भव । मां तत्र प्रेषय प्रेषणं कुरु । ते तव हृदयदयितं प्राणप्रियमेतादृशं जनमानयाम्यानयनं करोमि । वेति पक्षान्तरे । उत्तिष्टोत्थानं कुरु । तत्र तस्मिन्स्थले गम्यतां गमनं क्रियताम् । इतः परं मकरचिह्नं मन्मथं सोढुमसमर्थाक्षमासि । कमिव । उदधिमिव समुद्रमिव । तत्र मकरा मत्स्याश्विानि यस्य । एतादृशसाम्येऽपि साम्यान्तरमाह - प्रब लेति । प्रबल: प्रकृष्टो यश्चन्द्रोदयस्तेन विजृम्भमाणा वृद्धिं प्राप्ता उत्कलिका उत्कण्ठास्तासां शतं यस्मात् । अथ तरङ्गाणामुत्कलिका आरोहावरोहरूपास्तासां शतं यस्मिन्नित्येवंवादिनीं तां तरलिकामवोचमवदम् । किं तदित्याह - उन्मत्ते इति । हे उन्मत्ते परवेदनायाः स्वानुभववदनभिज्ञे तरलिके, मन्मथेन कंदर्पेणैकेन कि स्यात् । नन्वाक्षेपे । अयं मृत्योर्मरणस्य तस्यैव वा कुमारस्य सकाशं समीपं नेता प्रापकः कुमुदबान्धवश्चन्द्र आगत एव प्राप्त एव । एतेन चन्द्रस्योद्दीपकत्वाद्विरह वेदनायास्तीत्वात्कुमार निकटेऽपि समागमनमशक्यमित्युत्कण्ठातिशयो दर्शितः । किं कुर्वन् । सर्वेति । सर्वविकल्पान्समप्रचिन्तिता नपाहरन्नपहरणं कुर्वन् । सर्वेति । सर्वे समग्रा ये उपायाश्चन्दनवासप्रक्षेपादयस्तेषां दर्शनानि सारयन्दूरीकुर्वन् । अन्तरायेति । अन्तराया अयं मुनिकुमारोऽहं च राजकुलोत्पन्नेत्युभयोर्विलक्षण कुलशील स्वभावलोकगर्हारूपास्तानन्तरयन्व्यवधानं कुर्वन् । सर्वेति । एतदनुसरणे किंचिदनिष्टं स्यादित्येवंरूपाः सर्वे ये संदेहा द्वापरास्तानपनयन्दूरीकुर्वन् । सर्वेति । सर्वाश्च ताः शङ्का मातृपितृवर्गात्समुद्भूता आरेकास्तास्तिरस्कुर्वन्यकुर्वन् । लज्जेति । लज्जां त्रपामुन्मूलयन (न् छि)च्छिन्दन् । स्वयमिति । स्वयमात्मनाभिगमने तदनुसरणे लाघवदोषं लघुतादूषणमातृण्वनाच्छादयन् । कालेति । कालस्य समयस्यातिपातमविलम्बं परिहरन्परित्यजन् । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुरु । अतित्वरयेति शेषः । एतेनानुसरणे आदरातिशयः सूचितः । अनुगमनेन यथाकथंचिद्यदि जीविता श्वसिता तदा यन्निमित्तमायासोऽनुभूयते तमायासकारिणं हृदयदयितं जनं संभावयामि । अनुसरणफलीभूतेन सह टिप्प० - 1 विजृम्भमाणम् तरङ्गशतं यस्मिन् इत्यर्थः । टीकाकारस्य तु प्रलापः । 2 'इदं वा कर्तव्यम्, इदं वा' इत्यादिवितर्कान् । 3 दृश्यते अयमुपायो जीवरक्षणाय, इति दर्शनानि ज्ञानानि । 4 'सर्वानन्तरायान्' इत्येव प्रक्रमानुकूलः पाठः । टीकाकारस्तु सर्वथा शून्यः । 5 बिलम्बमित्युचितम् । २ उन्मत्तिके. ३ अपहरम्. ४ सर्वानन्तरायान्. ५ अनुगमनजीवना; पाठा० - १ तामहमवोचम्. अनुगतजीविता. महाश्वेताया अभिसारः ] पूर्वभागः । दयितमायासकारिणं जनम्' इत्यभिदधाना मदनमूर्च्छा स्वेद विहलैरङ्गैः कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम् – 'इदमपरं किमप्युपक्षिप्तं दैवेन' इति । अथ नातिदूरोद्गतेन त्रिभुवनप्रासाद महाप्रणालानुकारिणा सुधासलिलप्रवानिव वहता चन्दनरस निर्झर निकरानिव क्षरतामृतसागरपूरानवोद्भिरता श्वेतगङ्गाप्रवाह सहस्राणीव वमता चन्द्रमण्डलेन है।व्यमाने ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोकदर्शन सुखमिवानुभवति जने, महावराहदंष्ट्रामण्डलनिभेन शशिना क्षीरसागरोदरादिवोद्भियमाणे मही मण्डले, प्रतिभवनमङ्गनाजनेन विकचकुमुदगन्धैश्चन्दनोद कैरुपहियमाणेषु चन्द्रोदयार्घेषु, कामिनीप्रहित सुरतदूतीसहस्र संकुलेषु राजमार्गेषु, नीलांशुकरचितावगुण्ठनासु चन्द्रालोकभसंगमरूपेण समाधानं करिष्यामीत्याशयः । इत्यभिदधातिब्रुवाणा । मदनेति । मदनमूर्च्छया जनितो यः खेदस्तेन विह्वलैर्व्याकुलैरङ्गैर्हस्तपादादिभिः कथंचिन्महता कष्टेन तामेव तरलिकामवलम्ब्यालम्बनीकृत्योदतिष्ठं मुत्थितवती । उच्चेति । उच्चलिताया उत्प्राबल्येन प्रस्थिताया मे मम दुर्निमित्तं कुमारस्य विगतजी वितत्वादिकं तस्य निवेदकं ज्ञापकं दक्षिणं सव्येतरं लोचनं नयनमस्पन्दतास्फुरत् । उपेति । उपजाता समुत्पन्ना शङ्कानिष्टोत्प्रेक्षणं यस्या एवंविधा चाहमित्यचिन्तयमित्यध्यायम् । इति प्रतिपाद्यमाह - इदमिति । दैवेन विधिनापरमिदं किमुपक्षिप्तं निक्षिप्तम् । . अथेति । दुर्निमित्तोपागमानन्तरं प्रदोषसमय एव यामिनीमुख एव तस्मात्प्रासादशिखरात्पूर्वोक्त सौधप्रान्तादवातरमुत्तीर्णां । उत्तीर्य च प्रमदवनपक्षद्वारेण पक्षकेण निर्गत्य निर्गमनं कृत्वाहं महाश्वेता एव तत्समीपं पुण्डरीका भ्यर्णमुदचलमुद्गच्छमिति दूरेणान्वयः । कस्मिन्सति । चन्द्रमण्डलेन शशिबिम्बेन ज्योत्स्नया कौमुद्या भुवनान्तराले विष्टैपविशाले प्लाव्यमाने पूर्यमाणे सतीत्यर्थः । कीदृशेन चन्द्रमण्डलेन । नातिदूरोद्गतेनाति विप्रशेदितेन । अत्र च ज्योत्स्नायाः श्वेतत्वसंतोषजनकत्वस्वभावतया सुधासाम्येन तां वर्णयितुं चन्द्रमण्डलविशेषणमाह - सुधेति । सुधा पीयूषं तृषोपशामकत्वात् तदेव सलिलं तस्य लवाः पूरास्तानिव वहता दघता । सलिलं गेहप्रणालेन गच्छतीत्याशयेनाह – त्रिभुवनेति । त्रिभुवनमेव प्रासादो देवगृहं तस्य महा प्रणालानुकारिणा जलमार्ग सादृश्यधारिणा । पुनस्तेनैव साम्येन द्विधा वर्णयशाह - चन्दनेति । चन्दनरसस्य मलयजद्रवस्य यो निर्झरो झरस्तस्य निकरानिव समूहानिव क्षरता क्षरणं कुर्वता । अमृतेति । अमृतस्य यः सागरः समुद्रस्तस्य पूरानिव लवानिवोद्गिरता वमता । श्वेतेति । श्वेतगङ्गायाः श्वेतजाहव्याः प्रवाहाणामोघानां सहस्राणीव वमतोद्गिरता । श्वेतेति । श्वेतद्वीपे यो निवासस्तमिव सोमलोकस्य यद्दर्शनमुख तदिव जनेऽनुभवति साक्षात्कुर्वति सति । महेति । महावराहस्यादिवराहस्य यद्दंष्ट्रामण्डलं तस्य निभेन सदृशेन शशिना चन्द्रेण । इदं च शशिनः किंचित्कलाहीनत्वमादायेयुक्तम् । अन्यथा दंष्ट्राया वक्रत्वेन चन्द्रमण्डलस्य गर्तुलत्वेन साम्यं न स्यात् । क्षीरेति । क्षीरसागरोदराहुग्धोदधिमध्यान्महीमण्डल उद्धियमाण इन बहिर्निष्काश्यमान इब । परमेश्वरेण महावराहरूपं धृत्वा मही समुद्रे मज्जन्ती दंष्ट्रायां धृतेति पुराणप्रसिद्धिः । प्रतीति । प्रतिभवनं प्रतिगृहमङ्गनाजनेन स्रीजनेन विकचकुमुदानां विकस्वरकैरवाणां गन्धो येष्वेवंविधैश्चन्दनोदकैश्चन्द्रोदयार्घेषु शशाङ्कोद्गमनपूजासूपहियमाणेषु क्रियमाणेषु सत्सु । कामिनीति । कामिनीभिः जीभिः प्रहिताः प्रेषिता याः सुरतार्थ दूत्यः संचारिका स्तासां सहस्रं तेन संकुलेषु व्याप्तेषु राजमार्गेषु श्रीपथेषु टिप्प० -1 मदमस मूर्च्छया वृद्ध्या । वस्तुतस्तु - मदनेन, मूर्च्छया ( या हि पूर्व वर्णिता कविना), स्वेदेन एतैलिमिः ( हेतुभिः) बिहलैः मातुरैः, इत्यर्थः । 2 विष्टपमध्ये इत्यर्थ उचितः । पाडा० -१ खेद. २ पुरान्. ३ आठाव्यमाने. ३४४ कादम्बरी । यचकितासु कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितास्वितस्ततः रिकासु, प्रतिकुमुदद्माबद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिकाकुमुदिनीषु, स्फुटित-. कुमुदवनबहलधूलिधवलितोदरे निशानदी पुलिनायमानेऽन्तरिक्षे, चन्द्रोदयानन्दनिर्भरे महोधाविव रतिरसमय इव उत्सवमय इव विलासमय इव प्रीतिमय इव जीवलोके, शशिमणिप्रणालनिर्झरे प्रमोदमुखरमयूररवरम्ये प्रदोषसमये, गृहीत विविधकुसुमताम्बूलाङ्गरागपटवासचूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्च्छानिहितेन किंचिदाश्यानचन्दनललाटिकालमधूसराकुलालकेन चन्दनरसचर्चाङ्गरागवेषेणार्द्रेण तथैव च तया कण्ठस्थितयाक्षमालया [ कथायामपलायमानास्वमिसा4 MOD सेत्सु । पुनः कासु । अभिसारिकासु सत्सु । संकेतितं स्थानं या अभिगच्छम्ति ता अभिसारिकाः स्त्रियः कॅथ्यन्ते । अथ चाभिसारिकां विशेषयन्नाह - नीलेति । नीलांशुकेन श्यामवस्त्रेण रचितं निर्मितमवगुण्ठनं शिरो॑शुकं यासां तासु । नीलवस्त्रावृतत्वेन कैश्चिज्ज्ञातुं न शक्यन्त इति भावः । चन्द्रेति । चन्द्रस्य शशिनो ये आलोकः प्रकाशस्तस्माद्यद्भयं तेन चकितासु त्रस्तासु । नीलावगुण्ठन विशिष्टाभिसारिकोपमानमाह - कम लेति । कमलवनानां नलिनखण्डानां लक्ष्म्यः श्रियस्ताखिव । कीदृशीषु । नीलेति । नीलोत्पलानामिनंदीवराणां प्रभाः कान्तयस्ताभिः पिहितासु स्थगितासु । भयचकितत्वादाह — इतेति । इतस्ततः समन्तात्पलायमानासु धावमानासु । प्रबुध्येति । प्रबुध्यमानासु प्रबोधं प्राप्यमाणासु । पुनः कस्मिन्सति । अन्तरिक्ष आकाशे सति । अथाकाशं विशिष्ट – स्फुटितेति । स्फुटितं विकसितं यत्कुमुदवनं कैरवखण्डं तस्य बहला निबिडा या धूलि: परागस्तया धवलितं शुभ्रतमुदरं मध्यं यस्य स तथा तस्मिन् । अन्तरिक्षस्य धवलितत्वसाम्येनाह — निशा रात्रिरेव नदी तटिनी तस्याः पुलिनायमाने जलोज्झितप्रतीरायमाणे । पुनः कस्मिन्सति । जीवलोके सति विश्वे सति । कीदृशे । चन्द्रोदयलक्षणो य आनन्दः प्रमोदस्तस्य निर्भरोऽतिशयो यस्मिन् । तस्य निरवधित्वा दुत्प्रेक्षते – महोदधाविव महाम्भोधाविव । रसादीनां चतुर्णां जनकत्वाच्चतुर्भिरुत्प्रेक्षते - रतीति । रतिरसः शृङ्गारस्तन्मय इव । उत्सवो महस्तन्मय इव, विलासो लीला तन्मय इव, स्नेहस्तन्मय इव । सर्वत्र यकारलोपः । समयाद्यनुसरणमाह - प्रदोषेति । प्रदोषो यामिनीमुखं स एव समय: प्रीतिः क्षणस्तस्मिन् । प्रदोषलक्षणं विशेषयन्नाह - शशीति । शशिमणयश्चन्द्रकान्तास्तैर्निबद्धाः प्रणाला जलमार्गास्तेषां निर्झरा घनगर्जनानुकारिणस्तेभ्यो यः प्रमोदस्तेन मुखरा काचाला ये मयूरा बर्हिणस्तेषां रवः शब्दस्तेन रम्ये मनोहरे । गृहीतेति । गृहीतान्यात्तानि विविधकुसुमताम्बूलाङ्गरागपटवासचूर्णानि ययैवंविधया तरलिकया पूर्वोक्तयानुगम्यमानानुव्रज्यमाना । पुनः कीदृशी । तेनैवेति । तेनैव मूर्च्छाकालनिहितेन स्थापितेन चन्दनरसेन चर्चा मण्डनमङ्गरागो विलेपनं यस्मिन्नेवंविधो यो वेषो नेपथ्यं तेन । कीदृशेन । किंचिदाश्यानाशुष्का चन्दनललाटिका तिलक विशेषस्तस्यां लग्ना धूसराः किंचित्पाण्डुरा आकुला विकीर्णा अलकाः केशा यस्मिंस्तेन । पुनः कीदृशेन । आर्द्रेण । अशुध्केणेत्यर्थः । तथेति । तथैव पूर्वोक्तप्रकारेणैव कण्ठस्थितया निगरण। टिप्प० – 1 पदे पदे स्खलनं महापण्डितस्य । 'पूर्व क्रियमाणेषु सत्सु' इति स्वयं व्याख्यायाऽपि, अत्र 'राजमार्गेषु सत्सु ' इत्युच्यते । राजमार्गेषु दूतीसहस्र संकुलेषु सत्सु ' इत्युचितम् । एवमप्रेपि । 2 व्याख्या विस्मृता भ्रष्टा वा अतः भवनस्य या दीर्घिकाः वाप्यस्तत्संबन्धिनीषु कुमुदिनीषु प्रबुध्यमा नासु सतीषु । कीदृशीषु । प्रतिकुमुदं प्रत्येककुमुदपुष्पेषु आबद्धं धृतं मधुकरमण्डलं याभिस्तासु । 3 चन्द्रकरस्पर्शेन द्रवन्तः शशिमणय एव प्रणालाः जलनिर्गमनालानि तेषां निर्झरो यस्मिन्, अत एव वर्षा भ्रमेण प्रमोदमुखरा ये मयूरास्तेषां रवेण रम्ये । टीकार्थस्तु प्रलापः । पाठा०—१ सनीलोत्पलप्रभासु. २ प्रीतिमय इष मवनमय इव विलासमय इव. महाश्वेताया अभिसार: ] पूर्वभागः । ३४५ श्रवणशिखर चुम्बिन्या व पारिजातमञ्जर्या पद्मरागरत्नरश्मि विनिर्मितेनेवं रक्तांशुकेन कृतशिरोवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम् । अवतीर्य च पारिजातकुसुममञ्जरीपरिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुदवनान्यपहाय धावता मधुकरजालेन नीलपटावगुण्ठनविग्रॅममिव संपादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गत्य तत्समीपमुदचलम् । प्रयान्ती च तरलिकाद्वितीय परिजनमात्मानमवलोक्याचिन्तयम्- 'प्रियतमाभिसरणप्रवृत्तस्य जनस्य किमिव कृत्यं बाह्येन परिजनेन । नन्वेत एव परिजनलीलामुपदर्शयन्ति । तथा हि- समारोपितशरासनासक्तसायकोऽनुसरति कुसुमायुधः । दूरप्रसारितकर: करमिव कर्षति शशी । प्रस्खलनभयास्पदे पदेऽवलम्बते रागः । लज्जां पृष्ठतः कृत्वा पुरः सहेन्द्रियैर्धावति हृदयम् । निश्चयमारोप्य नयत्युत्कण्ठा' इति । प्रकाशं चावंदम् --'अयि तरलिके, - स्थापितयाक्षमालया जपमालया तथा. पारिजातमन्जर्या च । कीदृश्या । श्रवणयोः कर्णयोः शिखरमप्रं चुम्बतीत्येवंशीला सा तया । एतेन विरहव्याकुलतया नवीनं किंचिन्न कृतमिति सूचितम् । पुनः कीदृशी । रक्तेति । रक्तांशुकेन लोहितवस्त्रेण कृतं शिरोवगुण्ठनं यया सा। रक्तत्वसाम्यादाह - पद्मेति । पद्मरागो लोहितकरत्ने तस्य रश्मिभिः कान्तिभिर्विनिर्मितेनेव रचितेनेव । केनेति । केनचिदात्मीयेनापि स्वकीयेनापि परिजनेन परिच्छदेनानुपलक्ष्यमाणाज्ञायमाना । प्रकारान्तरेण तामेव विशेषयन्नाह - मध्विति । मधुकरा अमरास्तेषां जालेन समूहेनानुबध्यमाना निरुध्यमाना । अथ मधुकरसमूहं वर्णयन्नाह - पारीति । पारिजातस्य मन्दारस्य या कुसुममञ्जरी तस्याः परिमलस्तेनाकृष्टेनाकर्षितेन । अत एव रिक्तीकृतोपत्रनेन । सर्वस्य मधुकरस्य तत्रैव गमनादुपवनं रिक्तीभूतमिति भावः । किं कुर्वता मधुकरकुलेन । कुमुदवनानि कैरवखण्डान्यपहाय त्यक्त्वा धावता त्वरया गच्छता । पुनः किं कुर्वता । नीलेति । नीलपट: कृष्णांशुकं तस्यावगुण्ठनविभ्रममिव शिरोवेष्टन विलासमिव संपादयता निष्पादयता । अन्वयस्तु प्रागेवोक्तः । FO प्रयान्तीति । प्रयान्ती गच्छन्ती । तर इति । तरलिकैव द्वितीयः परिजनो यस्यैवंभूतमात्मानमवलोक्य निरीक्ष्याहं महाश्वेताचिन्तयमध्यायम् । किं तदित्याह - प्रियेति । अतिशयेन प्रियः प्रियतमस्तस्याभिसरणमनुगमनं तत्र प्रवृत्तस्योद्युतस्य जनस्य बाह्येन बहिर्भूतेन परिजनेन किमिव कृत्यम् । न किमपीत्यर्थः । प्रस्तुतस्य कुमारेण सह संगमरूपस्य कार्यस्य स्वनिकटवर्तिपरिचारिका स्वप्यन्तरङ्गत्वात्तरलिकायास्ततोऽपि संगोप्यमानत्वादिति भावः । परिजनराहित्येऽपि तद्युक्ततां प्रदर्शयन्नाह - नन्विति । ननु निश्चयेन । एत एवाग्रे वक्ष्यमाण परिजनलीलामुपदर्शयन्ति । तत्कृत्यतां प्रकटीकुर्वन्तीत्यर्थः । तदेव प्रकटयन्नाह - तथा हीति । समारोपितमधिज्यीकृतं यच्छरासनं धनुस्तनासक्त आयुक्तः सायको बाणो येनैवंभूतः कुसुमायुधो मदनोऽनुसरत्यनुगच्छति । उद्दीपकत्वात् । दूरं प्रसारिता विस्तारिताः करा हस्ता येनैवंविधः शशी चन्द्रः करमिव हस्तमित्र मां कर्षत्याकर्षणं करोति । प्रस्खलनेति । प्रस्खलनभयात्पतनभीतेः पदे पदे रागोऽवलम्बतेऽवलम्बनं करोति । अथ चान्योऽपि सेवकः प्रस्खलनभयात्स्वामिनो॒ऽवलम्बनं करोति । लज्जामिति । लज्जां त्रपां पृष्ठतः पश्चामागे कृत्वेन्द्रियैः करणैः सह हृदयं चेतः पुरोऽग्रे धावति त्वरया व्रजति । निश्चयमिति । कुमारविषयिण्युत्कण्ठो. त्कलिका निश्चयमारोप्यायं निश्चयेन प्रियसंगमो भविष्यतीति कृत्वा मां नयति प्रापयति । अन्योऽपि सेवको निश्चयमध्यवसायमारोप्यायं मदीयस्वामीति निश्चित्य नयति । अभिलषितस्थलमिति शेषः । प्रकाशं प्रकटं यथा स्यात्तथाहमित्यवदमवोचम् । किं तदित्याह - अयीति । अयि कोमलामन्त्रणे । हे तरलिके, अपिनाम प्रश्ने । टिप्प० - 1 प्रियसंबन्धि तदिदं मण्डनमिति शरीरात्पृथकर्तु नाशाकि इति तु न स्मृतं वराकेण । 2 ममेत्युचितम् । पाठा० -१ निर्मितेन, १ बिअमाम् १ द्वितीयमपरिजनम् ४ भालोक्य ५ दूरम, ६ करः कर्षति, ४४ का ० कादम्बरी "1 [ कथायाम ३४६ इत्येवंवादिनीं च Cikari अपि नाम मामिवायमिन्दुहतकस्तमपि किरणकचग्रहाकृष्टमभिमुखमानयेत्' मामसौ विहस्याब्रवीत् – 'भर्तृदारिके, मुग्धासि । किमस्य तेन जनेन । अयमात्मनैव तावन्मदनातुर इव भर्तृदारिकायास्तास्ताश्चेष्टाः करोति । तथा हि - प्रतिबिम्बच्छलेन वेदसलिलेकणिकाश्चितं चुम्बति कपोलयुगलम् । लावण्यवति पयोधरभारे निपतति प्रस्फुरितकरः । स्पृशति रशनामणीन् । निर्मलनखलप्रमूर्तिः पादयोः पतति । किं चास्य मदमातुरस्येव वपुंतापाच्छुष्कचन्दनानुलेपपाण्डुतां वहँति । मृणालवलयधवलान्करान्धत्ते । प्रतिमाव्याजेन स्फटिकमणिकट्टिमेषु निपतति । केतकीगर्भकेसरधूलिधूसरपादः कुमुदसरांस्यवगाहते । सलिल रूसी करार्द्रान्श शिमणीन्करैरामृशति । द्वेष्टि विघटितचक्रव कमिथुनानि कमलवनानि । एतैमान्यैध तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजो अयमिन्दुहतको मामिव तमपि पुण्डरीकमप्यभिमुखं संमुखमा नयेत्प्रापयेत् । कीदृशम् । किरेणैः पादैर्यः कचप्रहः केशसहस्तेनाकृष्टमाकर्षितम् । एवंवादिनीमेवंब्रुवाणां च मामसौ तरलिका विहस्य हास्यं कृत्वाब्रवीदवोचत् । हें भर्तृदारिके, त्वं मुग्धासि । अस्य चन्द्रहतकस्य तेन जनेन पुण्डरीकाख्येन किम् । कृत्यमिति शेषः । अयं चन्द्रहतक आत्मनैव स्वयमेव मदनातुर इव कंदर्पपीडित इव भर्तृदारिकाया भवत्यास्तास्ताश्चेष्टाः कायन्यापारान्करोति विदधाति । एतदेव दर्शयति – तथा हीति । प्रतीति । प्रतिबिम्बच्छलेन प्रतिच्छायामिषेण कपोलयुगलं चुम्बैति चुम्बनं करोति । तदेव विशिष्टि - स्वेदेति । स्वेदसलिलस्य घर्मजलस्य कणिका विप्रुषस्ताभिरचितं व्याप्तम् । एतेन कपोलयोः स्वच्छता विरहतप्तिश्च व्यज्यते । लावण्येति । लावण्यं लवणिमा विद्यते यस्मिन्नेवभूते पयोधरभारे प्रस्फुरितः प्रकम्पितः करो येनैवंविधो निपतति । एतेन पयोधरयोर्जडत्वं परिणाहविशेषश्च द्योत्येते । स्पृशतीति । रशना कटिमेखला तस्या मणीन्स्लानि स्पृशत्याश्लिषति । निर्मलेति । निर्मलाः खच्छा ये नखास्तत्र लग्ना मूर्तिर्यस्यैवंभूतः सन् पादयोः पतति । चन्द्रस्य कामुकत्वाभिव्यञ्जकत्वमाह - किं चेति । अस्य चन्द्रस्य मदनातुरस्येव वपुः शरीरं तापाच्छुष्को यश्चन्दनानुलेपस्तद्वत्पाण्डुतां शुभ्रतां वहति । मृणालेति । मृणालानि बिसानि तेषां वलयानि तद्वद्धवलान्करौन्हस्तान्धत्ते धारयति । प्रतिमेति । प्रतिमाव्याजेन प्रतिबिम्बच्छलेन स्फटिकमणीनां कुट्टिमानि तेषु निपतति । केतकीति । केतक्याः प्रसिद्धाया या गर्भकेसरधूलिस्तद्वद्धूसरौ पादौ यस्यैवंभूतः कुमुदसरांसि कैरवोपलक्षिततडागान्यवगाहते । सलिलेति । सलिलस्य जलस्य सीकरा वाताहतकणास्तै रार्द्राञ्शशिमणींश्चन्द्रकान्तान्करैर्हस्तैर्मृशति परामृशति । विघटितेति । विघटितानि भिन्नीभूतानि चक्रवाकमिथुनानि येभ्य एतादृशानि कमलवनानि द्वेष्टि द्वेषं. करोति । तयेति । तया तरलिकया सहैतैः पूर्वोक्तैरन्यैश्चैतद्भिनैस्तत्कालोचितैस्तत्समययोग्यैराला पैः संभाषणैः करणभूतैस्तमुद्देशं पूर्वोक्तभूविभागमभ्युपागमं समागमम् । तत्र चेति । तत्र तस्मिन् प्रदेशे कैलासतटाद्रजताद्रिशिखराचन्द्रोदयेन शशिप्रकाशेन प्रसृतं च्युतं यच्चन्द्रकान्तमणिप्रस्रवणं चन्द्राश्मनिर्झरणं तस्मिन् । मार्गेति । मार्गटिप्प० - 1 अव्युत्पन्नस्यायं पाठः । 'करेण कन्चग्रहाकृष्टम्' इत्येव सुपाठः । करेण (किरणेन ) तद्रूपेण पाणिना, केशेषु यो ग्रहः तेनाकृष्टं सर्फ ममामिमुखमानवेत् । इति तदर्थः । 2 चुम्बतीव इत्य र्थेन प्रतीयमानोस्प्रेक्षा । एवमग्रेऽपि । कामुकसंबन्धिकार्यद्वारा कामुकव्यवहारसमारोपात्समासोक्तिस्तु न शया, अप्रस्तुतेन प्रस्तुतपरिस्फूत तस्वीकृतेः । भन्न तु- 'अयमात्मनैव तावत् ०' इत्यादिना चन्द्रस्यापि प्रस्तुतत्ववर्णनात् । 3 किरणानित्यर्थ उचितः । 4 तथा धूसरः पादः ( किरण: ) एव पादः ( चरणः ) यस्य सः, इत्यर्थ उचितः । 5 कमलवनस्यान्वरायेण चऋद्वन्द्व विघटितं भवतीति दम्पत्योर्वियोगसंपादकं कमलवनं वियोगतप्तश्चन्द्रो न सहत इत्यर्थः । पाठा.. Sexede • १ मन्दु. २ करेण. ३ सा. ४ भर्तुदारिकायाम्. ५ कणिकात्चितम् १ चम्दनालेप ७ उहति ८ केतकि महाश्वेताया अभिसारः ] पूर्वभागः । धूसरं चरणयुगलं कैलासतटाञ्चन्द्रोदयप्रेसृतचन्द्रकान्तमणिप्रेस्रवणे झालयन्ती यस्मिन्प्रदेशे स आस्ते तस्मिन्नेव चास्य सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिं विप्रकर्षान्नातिव्य कमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का तेन सुतरां विदीर्णहृदयेव किमप्यनिष्टमन्तःकथयतेष विषण्णेनान्तरात्मना 'तरलिके, किमिदम्' इति सभयमभिधाना वेपमानगात्रयष्टिरैभिमुख मतित्वरितमगच्छम् । जैथ निशीथप्रभाषाहूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् ' हा हतोऽस्मि । हा दग्धोSस्मि । हा वचितोऽस्मि । हा किमिदमापतितम् । किं वृत्तम् । उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणि दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्र चाण्डाल, कृतार्थोऽसि । इदानीमपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः । कृतं यत्कर्तव्यम् वहेदानीं यथेष्टम् । हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् । हा धर्म, निष्परिग्रहो. १ लतानामध्ववल्लीनां कुसुमरजोभिः पुष्परागैर्धूसरमीषत्पाण्डुरं चरणयुगलं पादयुग्मं क्षालयन्ती धावनं कुर्वन्ती यस्मिन्प्रदेशे स कपिञ्जलः आस्ते तिष्ठति तस्मिन्नेव स्थलेऽस्याच्छोदाभिधानस्य सरसः पश्चिमे तटे पश्चिमदिग्वर्तितीरे पुरुषस्येव पुरुष सदृशस्य विप्रकर्षाद्दूरान्नातिव्यक्तं नातिस्पष्टं रुदितध्वनिं ऋन्दितशब्दमुपालक्षयमुपलक्षितवती । दक्षिणेति । दक्षिणमपसव्यमीक्षणं लोचनं तस्य स्फुरणं स्पन्दनं तेन च प्रथममेवादावेव मनसि चित्त आहिता स्थापिता शङ्कारेका यया सैवंविधाहं तदुपलक्षणानन्तरं तेन रुदितेन सुतरामतिशयेन विदीर्णहृदयेव विशीर्णस्वान्तेव किमप्यनिष्टमशुभमन्तर्मध्ये कथयतेव ब्रुवतेव विषण्णेन विषादवतान्तरात्मना सेता हे तरलिके, सभयं यथास्यात्तथा किमिदमित्यभिदधाना ब्रुवाणा वेपमाना गात्रयष्टिः शरीरयष्टिः ( यस्याः ) सैवंविधातित्वरितमतिशीघ्रमभिमुखं संमुखमगच्छमत्रजम् । अथेति । आगमनानन्तरमित्येतान्यन्यानि वाक्यानि च विलपन्तं विलापं कुर्वन्तं कपिञ्जलमश्रौषमा कर्णयं ताशविलापवाक्येनायं कपिजल एवेति निश्चितवती । इति शब्दार्थमाह - निशीथेति । निशीथोऽर्धरात्रं तस्य प्रभावान्माहात्म्याहूरादेव विप्रकृष्टादेव विभाव्यमानो ज्ञायमानः स्वरो यस्य स तम् । दिवा कोलाहलेन शब्दाः श्रोतुं न शक्यन्त इति भावः । पुनः कीदृशम् । उन्मुक्तेति । उन्मुक्त आर्तनादो येन स तम् । अथातैखरान्विविच्य प्रदर्शयन्नाह - हा हत इति । हा इति खेदे । अहं हतस्ताडितोऽस्मि । हेति पूर्ववत् । दग्धो ज्वलितोऽस्मि । हा वञ्चितो विप्रतारितोऽस्मि । हेति । किमिदमतर्कितमापतितम् । मच्छिरसीति शेषः । किमिदं वृत्तं निष्पन्नम् । उत्सन्नो मूलादुत्पाटितोऽस्मि । अहमिति शेषः । हे दुरात्मन् हे मदनपिशाच, हे पाप हे पापिन्, हे निर्घृण हे निर्दय, किमिदमकृत्यमनुष्ठितमाचरितम् । आः पापे दुष्कृतकारिणि, दुर्विनीते शूलके हे हे महाश्वेते, ते तवानेन पुण्डरीकेण किमपकृतम् । कोऽयमनुपकारः कृतः । आः आक्रोशे । हे पाप पाप्मन्, बुधरित दुराचार, हे चन्द्र चाण्डाल, त्वं कृतार्थः कृतकृत्योऽसि । इदानीं सांप्रतं हे अपगतदाक्षिण्य दूरीभूतानुकूल्य, हे दक्षिणानिलहतक, ते तव मनोरथाः पूर्णाः परिपूर्णीभूताः । हतक इति हीनोक्तिः । यदिति । यत्कर्तव्यं तत्कृतम् । इदानीं सांप्रतं यथेष्टं यथेच्छया वह संचर । हा भगवन् हा स्वामिन् श्वेतकेतो, पुत्रवत्सल सुतहितकारक, आत्मानं स्वं मुषितमपहृतसर्वस्वं न वेत्सि न जानासि । हेति पूर्ववत् । हे धर्म हे वृष, त्वं. टिप्प० – 1 घोरमज्ञानं टीकाकृतः । अन्तरात्मना ( करणेन) इदमभिदधानाऽगच्छम्, इत्युचितम् । पाठा० -१ प्रसुत; सुत. २ प्रस्रवणेन. ३ प्रक्षालयन्ती. ४ अवदीर्ण. ५ तदभिमुखम् ६ अति ७ उच्छिन्नोऽस्मि, ८ चण्डाल. ९ कृतं कर्तव्यम्. 0 कादम्बरी । [ कथायाम्, । । ऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि हा संय, अनाथमसि । हा सुरलोक, शून्योऽसि । सखे प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि भ॑वन्तं विना क्षणमध्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाय मामेकपदे उत्सृज्य प्रयासि । कुतस्तवेयमतिनिष्ठुरता । कथय बहते व गच्छामि । कं याचे । कं शरणमुपैमि । अन्धोऽस्मि संवृत्तः । शून्या मे दिशो जाताः । निरर्थकं जीवितम्, अप्रयोजनं तपः, निःसुखाश्च लोकाः । केन सह परिभ्रमामि । कैमालपामि । केन वार्ता करोमि । उत्तिष्ठ त्वम् । देहि मे प्रतिवचनम् । क्व तन्ममोपरि सुहृत्प्रेम क सा स्मैितपूर्वाभिभाषिता च' इत्येतानि चान्यानि च विलपन्तं कपिञ्जलमश्रौषम् । । तंच श्रुत्वा पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सँरस्तीरलतासक्तित्रुट्यमानांशुकोसरीया, यथाशक्ति त्वरितैरज्ञात सम विषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पढ़े पढ़े, निर्गतः परिग्रहः स्वीकारो यस्यैवंभूतोऽसि । अस्य कामविह्वलत्वे तव स्वीकारो नास्तीत्यर्थः । यद्वायमेव तव स्थानपरिग्रहस्तस्य कामेव्याकुलत्वे तव स्थानं नास्तीत्यर्थः । हा तपः, त्वं निराश्रयं निर्गतस्थानमसि । हा सरस्वति हा भारति, त्वं विधवा मृतभर्तृकासि । हा सत्य हा तथ्य, त्वमनाथं स्वामिरहितमसि । हा सुरलोक हा सुरालय, त्वं शून्य उद्वसोऽसि । तेन विनेत्यर्थः । हे सखे पुण्डरीक, मां कपिञ्जलं प्रतिपालय प्रतिपालनां कुरु । अहमिति ! अहमपि भवन्तं त्वामनुयास्याम्यनुगमिष्यामि । न शक्नोमि न समर्थो भवामि भवन्तं त्वां विनैका क्यसहायः क्षणमपि क्षणमात्रमप्यवस्थातुम् । अपरिचित इवासंजातसंस्तव इव, अदृष्टपूर्व इवानवलोकितपूर्व इव, अद्य मां. कपिञ्जलमेकपदे सहसोत्सृज्य व्यक्त्वा कथं प्रयासि गच्छसि । तवेयमति निष्ठुरतातिकठिनता कुतः । त्वं कथय प्रतिपादय । त्वदृते त्वब्यतिरेकेण व गच्छामि व व्रजामि । कं याचे कं प्रार्थये । कं शरणं त्राणमुपैमि गच्छामि । अहंमन्धः संवृत्तोऽस्मि चक्षुर्विकलो जातोऽस्मि । मे मम दिशः ककुभः शून्या उद्वसिता जाताः । त्वां विनेति शेषः । निरिति । निरर्थकं निष्फलं जीवितं प्राणधारणम् । तपोऽप्रयोजनं कृत्यरहितम् । लोका इति । लोका भुवनानि निःसुखाः सातवर्जिताः । केनेति । केन सह परिभ्रमामि परिभ्रमणं करोमि । कमिति । कं पुमांसम निर्दिष्ट नामकमालपाम्यालापं करोमि । केनेति । केन सह वार्ता प्रवृत्तिं करोमि । त्वमिति । त्वं भवानुत्तिष्ठोत्थानं कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि । हे सुहृत् हे मित्र, ममोपरि तत्पूर्वसंबन्धि प्रेम स्नेहः क्व । स्मितपूर्वा हास्यपूर्विकाभिंभाषिताभिवादिता सा क्व । अन्वयस्तु प्रागेवोक्तः । तञ्चेति । तत्पूर्वोक्तं विलपितं श्रुत्वाकर्ण्य तं प्रदेशं गत्वाहं पापकारिणी मन्दभाग्या तं पुण्डरीकं महाभागमद्राक्षमपश्यमिति दूरेणान्वयः । अथ तां विशेषयन्नाह — दूरेति । दूरादेव दविष्ठादेव मुक्त एकतारोऽत्युच आक्रन्दः पूत्कारो यया सा । सर इति । सरसोऽच्छोदनाम्नो यास्तीरलताः प्रतीरवल्लयस्तासु सक्तिः संबन्धस्तया त्रुद्व्यमानमंशुकेषूत्तरीयं निवसनं यस्याः सा तथा । पुनः किं कुर्वन्ती । पदे पदे पादप्रक्षेपैरङ्गिन्यासैः करण भूतैः प्रस्खलन्ती स्वलनां प्राप्नुवन्ती । कैरिव । पतितैः प्राणैरिव । कीदृशैः । शक्तिमनतिक्रम्य यथाशक्ति । तेन त्वरितैस्त्वरायुक्तैः । अज्ञेति । अज्ञातोऽविदितो यः समविषमभूमिभागो भूप्रदेशस्तत्र विन्यस्तैः स्थापितैः । टिप्प० - 1 तस्य प्राणशून्यस्वे इति व्याख्यातव्यम् । 2 स्मितपूर्वम् अभिभाषते तच्छीलः स्मित पूर्वाभिभाषी तद्भावः स्मितपूर्वाभिभाषिता, इति व्याख्यानमुचितम् टीकाकारस्तु अविवेकी । 3 जुल मानम् अंधुकं परिधानवस्त्रम् उत्तरीयम् उपर्यावरणवस्त्रं च यस्याः सा । पाठा०-१ सत्यत्वम्. २ भवता. ३ कमालपामि । उत्तिष्ठ देहि ४ मे विलपत: ५ पूर्वाभिभाषिता. ६ तं च. ७ सरस्तीरलतानुषज्यमान. ८ विषमभाग. Wi उपरतः पुण्डरीकः ] पूर्वभागः । केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा सरस्तीरसमीपवर्तिनि शिशिरशीकैरासारस्राविणि शशिमणिशिलातले विरचितं कुमुदकुवलयकमलविविधवनकुसुमसुकुमारमालामयमिव मृणालमयम्, कुसुमशरसायकमय मेव शयनमधिशयानम्, अतिनिष्पन्दतया मत्पदशब्दमिवाकर्णयन्तम्, अन्तः क्रोधशमितमदनसंतापतया तेत्क्षणलब्ध सुखप्रसुप्तमिव मुनिक्षोभप्राय श्चित्तप्राणायामावस्थितमिव, अतिप्रस्फुरितप्रमेण त्वत्कृते ममेयमवस्थेति कथयन्तमिवाधरेण, इन्दुद्वेषपरिवर्तितदेहतया पृष्ठभागनिपतितैर्मदनदहन विह्वलहृदयन्यस्तहस्तन खमयूखच्छन छिद्रितमिण शशिकिरणैः, उच्छुष्कपाण्डुरया स्वविनाशोत्पातोत्पन्नया मदनचन्द्रकलयेव १ ३४९ OLE तामेव विशेषयन्नाह - केनेति । केनाप्यनिर्दिष्ट नाम्नोत्क्षिप्योत्पाट्य नीयमानेव प्राप्यमाणेव सरसोऽच्छोदनाम्नस्तीरं प्रतीरं तस्य समीपवर्तिनि निकटस्थायिनि । शिशिरेति । शिशिराः शीतला ये शीकरास्तेषामासारो वेगवान्वृष्टिस्तस्य स्राविणि प्रक्षारिणि । एवंविधे शशिमणिशिलातले चन्द्रकान्तप्रस्तरे विरचितं निर्मितम् । कुमुदेति । कुमुदानि श्वेतकमलानि, कुवलयान्युत्पलानि, कमलानि नलिनानि, विविधान्यनेकप्रकाराणि वनकुसुमान्यरण्यपुष्पाणि तेषां या सुकुमारा माला सक्तन्मयमिव मृणालमयं बिसनिष्पन्नम् । उद्दीपकत्वा दाह - कुसुमेति । कुसुमशरः कंदर्पस्तस्य सायका बाणास्तन्मयमिव । एवंविधं शयनं शयनीयमधियान शयनं कुर्वाणम् । मम पदे मत्पदे तयोः शब्दमाकर्णयन्तमिव शृण्वन्तमिव । यतः स मद्विषय उत्कण्ठित हेतुमाह — अतीति । अतिनिष्पन्दतयातिनिश्चलतया । इयं नागतेति ममोपर्यन्तःक्रोधस्तेन शमितो मदनसंतापो यस्य तस्य भावस्तत्ता तया तत्क्षणं लब्धं यत्सुखं तेन प्रसुप्तमिव । ममोपरि क्रोधकरणात् मदनेन संतापो दूरीकृत इति भावः । मुनेर्ममं क्षोभस्त्वनुचित इत्यतस्तत्प्रायश्चित्तरूपो यः प्राणायामः प्राणयमस्तत्रावस्थितमिव कृतावस्थानमिव । स चातिनिःस्पन्दतया क्रियत इति भावः । अतीति । अतिप्रस्फुरिता दीप्ता प्रभा कान्ति यस्यैवं विधेनाधरेण रदनच्छदेन त्वत्कृते त्वन्निमित्तं ममेयं प्रत्यक्षोपलभ्यमानावस्था दशा जाता इति कथयन्त मिव प्रतिपादयन्तमिव । इन्द्विति । इन्दुद्वेषेण चन्द्रद्विषा परिवर्तितः प्रत्यमुखीकृतो यो देहस्तस्य भावस्तत्ता तया पृष्ठभागे पश्चाद्भागे निपतितैः शशिकिरणैश्चन्द्रालोकैः पृष्ठं भित्त्वा हृदयभागे गमनाभावेऽपि मदनलक्षणो यो दहनो वहिस्तेन विह्वलं यद्धृदयं खान्तं तत्र न्यस्तः स्थापितो यो हस्तः पाणिस्तस्य नखमयूखाः पुनर्भवकिरणास्तेषां छलेन मिषेण छिद्रितमिव संजातविवरमिव । अनेन देहस्य खच्छत्वं नखकिरणानामुदितारुणचन्द्र किरणसादृश्यं व्यज्यते । मुनिकुमारं विशेषयन्नाह - उच्छुष्केति । चन्दनलेखिकया मलयजलेखया रचिता निर्मिता ललाटिका यस्य स तम् । कीदृशया । उच्छुष्का चासौ पाण्डुरा चोच्छुष्कपाण्डुरा तया । अत एवं शुष्कत्वव क्रत्वसाम्या दाह - मदनेति । मदनो यन्मथः स एव चन्द्रस्तस्य कलयेव । कीदृश्या । स्वस्य यो टिप्प० - 1 मनसि यदा क्रोधोदयस्तदा मदनकृत उत्तापः शिथिलीभूतः, कामो हि मनोभूः । अत एव मनसि स्वस्थ एव तस्योदयः । 2 धिग् ग्रन्थधूमकेतुम् । 'मनःक्षोभ' इत्येव पाठः । मनःक्षोभक मदनवेगोत्पन्नचित्तोहेलनस्य ( तत्प्रयुक्तपापस्येत्याशयः ) प्रायश्चित्तरूपो यः त्राणायाम इति तदर्थः 3 वक्षसि स्थापितस्य करस्य नखकिरणास्तथा प्रसरन्ति यथा चन्द्रं प्रति पृष्ठं कृत्वा शयानस्यास्य पृष्ठं भिवा चन्द्रकिरणा एव वक्षस्थलाइहिर्निःसृताः स्युरित्युत्प्रेक्षाशयः । 4 चन्द्रकलाकारा चन्दन रेखा तथा प्रतीयते यथा स्वस्य ( पुण्डरीकस्य ) विनाशकारकोत्पाताय मदनसम्बन्धिनी चन्द्रकलैव उदिता भवेत् असमये ग्रहादीनामुदय उत्पाताय भवतीत्याशयः । पदानामर्थबोधष्टीकातो निर्वाह्यः । पाठा० - १ शीकरस्राविणि २ कुवलय विविध ३ सुकुमारम्; मालामयम् ४ अन्तःकृत । तोपशामित; अन्तः कोपशमित; अन्तः क्षोभशमित, ५ क्षण, ६ मनःक्षोभ ७ पाण्डुतया ८ स्वविनाशोत्पन्नया; स्वदेह विनाशोत्षन्नया. ३५० [ कथायाम्चन्दनलेखिकया रचितललाटिकम्, ईषदालक्ष्यपरिवृत्ततारकेणानवरतरोदनताम्रेण प्राणोहंसर्गोपजातानुक्षयतया रुधिरमिव क्षरता मंदनशरशल्यवेदनाकूणितत्रिभागेन नाति निमीलितेन लोचनयुगलेन 'मैत्तोऽतिप्रियतरस्तवापरो जनो जात; ' इति कुपितेनेव जींवितेन परित्यक्तम्, मन्मथव्यथया सहैतानसून्स्वयमिवोत्सृज्य निश्चेतनासुखमनुभवन्तम्, अनङ्गयोगविद्यामिव ध्यायन्तम् अपूर्वप्राणायाममिवाभ्यस्यन्तम् उपपादितास्मदागमनेन प्रणयादिषापहृतप्राणपूर्णपात्रमनङ्गेन, रँचितचन्दनललाटिकात्रिपुण्डूकम्, धुतसरस बिससूत्रयज्ञोपवीतम् अंसावसक्तकदलीगर्भपत्रचारुचीरम्, एकावलीविशालाक्षमालम्, अविर" कादम्बरी । 9 विनाशस्तलक्षण उत्पातस्तेनोत्पन्नया प्रकटीभूतया । पुनः कीदृशम् । एवंविधेन लोचनयुगलेन नेत्रयुग्मेन । उपेलक्षितमिति शेषः । अथ च लोचनयुगलं विशेषयन्नाह - ईषदिति । ईषत्किंचिदालक्ष्या दृश्याः परिवृत्ता अमन्त्यस्तारकाः कनीनिका यस्मिन् । अनवरतं निरन्तरं रोदनमश्रुपातस्तेनाताम्रेणेषत्ताम्रवर्णेन । प्राणेति । प्राणस्य य उत्सर्गः परित्यागस्तत्रोपजातः समुत्पन्नो योऽश्रुक्षयस्तस्य भावस्तत्ता तया रुधिरमिव रक्तमिव क्षरता प्रखवता । मदनेति । मदनशराणां कंदर्पबाणानां शल्यमन्तःस्थितशराग्रभागस्तस्य या वेदमा पीडा तया कूणित ईषद्वक्रीकृतस्त्रि भागो यस्मिन् । नेत्रस्येति शेषः । नेति । नातिनिमीलितेन नातिमुद्रितेन । मत्त इति । मदिति मत्तः । सार्वविभक्तिकस्तस् । जीवितादपि तव कुमारस्यापरो जनो महाश्वेतारूपोऽतिप्रियतरोऽतिवल्लभो आंत इति हेतोः कुपितेन कोपं प्राप्तेन जीवितेन प्राणितेन परित्यक्तमुज्झितम् । मन्मथेति । मन्मथस्य कैदर्पस्य या व्यथा पीडा तथा सह स्वयमिवाकस्मादिवैतानसून्प्राणानुत्सृज्य त्यक्त्वा निश्चेतना सुखं सातं तदनुभवन्तमनुभवविषयीकुर्वन्तम् । अनङ्गेति । अनङ्गस्य मनोभुवो जयार्थं या योगविद्या तां ध्यायन्तमिव ध्यानविषयीकुर्वन्तमिव । अर्वेति । पूरकाभावादिति भावः । एवंविधं प्राणायामं प्राणनियमनमभ्यस्यन्तमिवाभ्यासं कुर्वन्तमिव । पूर्वं निःशब्दतया प्राणायामावस्थितत्वम् इदानीं तु पूरकाभावादिति भेदः । उपेति । उपपादितं निष्पादितमस्मदागमनं येनैवंभूतेनानङ्गेन प्रणयादिव स्नेहादिवापहृतमाकर्षितं प्राणलक्षणं पूर्णपात्रं यस्मात्स तम् । 'उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते । तत्पूर्णपात्रम्' इति वृद्धाः । रचितेति । रचितं निर्मितं चन्दनेन ललाटिकासु त्रिपुण्ड्रकं येन तम् । पूर्वमर्धचन्द्राकारललाटिकावर्णनम् इदानीमर्धचन्द्रोपर त्रिपुण्डूवर्णन मिति भेदः । धृतेति । धृतं धारितं सरसबिससूत्ररूपं यज्ञोपवीतं यज्ञसूत्रं येन स तम् । अंसेति । अंसे स्कन्धेऽवसक्तं स्थापितं कदलीगर्भपत्र वच्चारु मनोहरं चीरं येन स तमू । विशालेति । एकावल्येष विशाला विस्तीर्णाक्षमाला जपमाला यस्य स तम् । अविरलेति । अविरलो घनोऽमलो निर्मल > .. टिप्प० - 1 पुण्डरीकस्य द्वे विशेषणे एकीकृत्य पिण्डीकृतोऽयं पाठः । अत एव 'लोचनयुगलेन' इत्य. तोऽग्रे 'मामसूययेव विलोकयन्तम्' इति पाठं संयोज्य एकं पुण्डरीकविशेषणं पूरणीयम् । अर्थस्स्वस्य स्पष्टः । 'मत्तोऽतिप्रियतर ०' इत्यादिविशेषणं तु पृथक् स्पष्टं च । अनिच्छायामपि प्रकाशकानामनुरोधेन - मूल. खारयमनवबुध्यमानस्य टीकाकारस्य च्छन्दानुकूलोऽपि ग्रस्थाननुकूलः पाठ उपरिस्थापनीयो भवतीति, स्थाने स्थाने खेदाबसरः । 2 'निश्चेतनतासुखम्' इत्येव पाठः । चेतनायां जातायां नानाविधानि दुःखायुपतिष्ठन्त इति तदाशयः । उपरिभृतः पाठस्तु टीकानुकूल: । 3 पूरण-रेचनयोरभावः केवलं कुम्भकमेवेति प्रचलितप्राणायामापेक्षयाऽपूर्वत्वम् । 4 मदनेन मम ( महाश्वेतायाः) भागमनरूपं प्रियकार्य संपाथ प्राणरूपं पूर्णपानं पुण्डरीकेण सह स्नेहवशाद पहृतम् । मदन-पुण्डरीकयोः नेहस्तु समानलावण्येन । हत्याशयो मोध्यः । 5 गर्भपन्नमेव चीरमिति समासो योग्यः, पूर्वापरयोस्तथैव वेषवर्णनात् । टीकाकारस्तु प्रज्ञाचक्षुः । पाठा -१ क्षरता नाति. २ लोचनयुगलेन मामसूययेव विलोकयन्तं १ मत्तः प्रियतरः ४ मन्मथन्यथासहामल, ५ निश्चेतनतासुखम् ६ रचितललाटिका ७ विकास. उपरतः पुण्डरीकः ] पूर्वभागः । लामलकर्पूरक्षोदभस्मधवलम्, आवद्धमृणालरक्षाप्रतिसरमनोहरम् मनोभवत्रतवेषमात्याय मत्समागममत्रमिव साधयन्तम्, 'भोः कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयमनुगतो जनः' इति सप्रणयं मामुपलभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपहर्तुमन्तः प्रविष्टैरिवेन्दु किरणैर्निर्गच्छद्भिर्दशनांशुभिर्धवलितपुरोभागम्, मन्मथव्यथाविघटमानहृदयनिहितेन वामेन पाणिना 'प्रसीद । प्राणैः समं प्राणसमे, न गन्तव्यम्' इति हृदयस्थितां मामिव धारयन्तम् इतरेण च नखमयूखदन्तुरतया चन्दनमिव स्रवतोत्तानीकृतेन चन्द्रातपमिव निवारयन्तम्, अन्तिकस्थितेन चाचिरोगतजीवितमार्गमिवोद्रीवेण विलोकयता तपःलु. हृदा कमण्डलुना समुपेतम्, कण्ठाभरणीकृतेन च मृणालवलयेन रेंजनीकरकिरणपाशेनेव संयम्य लोकान्तरं नीयॆमानम्, कपिञ्जलेन मद्दर्शनात् 'अब्रह्मण्यम्' इत्यूर्वहस्तेन द्विगुणीभूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दुभाग्या 4 महाभागमद्राक्षम् । एवंविधो यः कर्पूरक्षोदो घनसारचूर्ण तदेव भस्म विभूतिस्तेन धवलं शुभ्रम् । आबद्धेति । आबद्धो मृणालस्य तन्तुलस्य रक्षार्थ प्रतिसरो हस्तसूत्रं तेन मनोहरं शोभनम् । मनो इति । मनोभवव्रतवेषमास्थाय परिगृहां मदीयो यः समागमस्तत्साधको मन्त्रस्तं साधयन्तमिवाराधयन्तमिव । इति मां सप्रणयं सस्नेहम् । चक्षुषा इति । उपालभमानमिवोपालम्भं ददानमिव । इतिशब्दयोत्यमाह -- भो इति । भोः कठिनहृदये, दर्शनमात्र • केणाप्ययमनुगतोऽनुरक्तो जनो न पुनरनुगृहीतो न स्वीकृतः । किंचिदिति । किंचिद्विवृतो योऽधर ओइ स्तस्य भावस्तत्ता तया जीवितमपहर्तुं दूरीकर्तुमन्तः प्रविष्टैरिन्दुकिरणैश्चन्द्रकरैरिव निर्गच्छद्भिर्बहिरागच्छद्भि र्दशनांशुभिर्दन्तकिरणैर्धवलितपुरोभागं शुभ्रीकृताम्रप्रदेशम् । मन्मथेति । मन्मथस्य कंदर्पस्य व्यथा पीडा तया विघटमानं भिद्यमानं यद्धृदयं तत्र निहितेन स्थापितेन वामेन सव्येन पाणिना हस्तेन कृत्वा इति हृदयस्थितां मामिव धारयन्तं रक्षन्तम् । इतिवाच्यमाह - प्रसीदेति । हे प्राणसमे, त्वं प्रसीद प्रसन्ना भव । अथ च प्राणैः समं न गन्तव्यम् । प्राणा गच्छन्तु, परं त्वया न गन्तव्यमिति भावः । एतेन प्राणेभ्योऽप्यतिवल्लभा त्वमसीति ध्वनितम् । इतरेणेति । इतरेण दक्षिणपाणिनोत्तानीकृतेनोवकृतेन चन्द्रातपं कौमुदी निवारयन्तमिव निषेधयन्तमिव । किं कुर्वता । चन्दनं मलयजं स्रवतेव क्षरतेव । कया । नखानां मयूखाः किरणास्तैर्दन्तुरतया विषमोन्नततया । अन्तिकेति । अन्तिकस्थितेन समीपवर्तिनोद्रीवेणाचिरोद्गतमचिरं तत्कालं गतं यज्जीवितं तस्य मार्ग पन्थानं विलोकयतेव• पश्यतेव एवंविधेन तपः सुहृदा तपस्यामित्रेण कमण्डलुना कुण्डिकया समुपेतं सहितम् । कण्ठे आभरणीकृतेन च विभूषणीभूतेन च मृणालवलयेन बिसकटकेन । श्वेतत्वसाम्यादाह - रजनीति । रजनीकरश्चन्द्रस्तस्य किरणास्तल्लक्षणः पाशो बन्धनप्रन्थिस्तेनेव संयम्य बढा लोकान्तरमन्यलोकं नीयमानं प्राप्यमाणम् । अत्रान्यः प्राकृतो जनो यमेन पाशेन बद्धा लोकान्तरं नीयते । अयं मुनिकुमार इति तदसंभवात्कण्ठेत्युक्तमिति भावः । मदिति । तदानीं मदर्शनादब्रह्मण्य मनुचितमित्यूर्ध्वहस्तेन कपिञ्जलेनाकोशता पूत्कुर्वता कण्ठे परिष्वक्तमालिङ्गितम् । कीदृशेन कपिञ्जलेन । द्विगु णीभूतः पूर्वस्मादधिकीभूतो बाष्पस्य रोदनस्योद्गमः प्रादुर्भावो यस्मिन्स तेन । पुनः कीदृशम् । तत्क्षणे तत्काले विगतं प्रनष्टं जीवितं प्राणितं यस्य स तम् । अन्वयस्तु प्रागेवोक्तः । W टिप्प० - 1 किञ्चिद्विवृतः अधरो यस्य तद्भावस्तत्तया, इति व्याख्यानमुचितम् । पाठा० -- १ रक्षापरिसरमनोहरम्; रक्षाप्रतिसरतयातिमनोहरम् २ साधयन्तं मदनशरशल्यवेदनाकूणित त्रिभागेन कठिन, ३ विघटमान, ४ रजनिकर, ५ उपनीयमानम् ६ व्यस्तहस्तेन. ७ अपक्रान्त. y ३५१ . कादम्बरी । उद्भूतमूर्च्छान्धकारा च पातालतलमिवावतीर्णा तदा काहमगमम् किमकरवम्, किं व्यलपम्, इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहस्रसहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञातवती केवलमतिचिराल्लब्धचेतना दुःखभागिनी वह्नाविव पतितमसहाशोकदयमानमात्मानमवनौ विष्टमानमपश्यम् । अश्रद्दधानं चासंभावनीयं तत्तस्य मैरणमात्मनश्च जीवितमुत्थाय, 'है, किमिदमुपनतम्' इति मुक्तार्तनादा, 'हो अम्ब, हा तात, हा सख्यः' इति व्याहरन्ती ' हा नाथ जीवित निर्बंन्धन, आचश्व क मामेकाकिनीमशरणामकरुणं विमुच्य यासि । पृच्छ तरलिकां स्वत्कृते मया यानुभूतावस्था । युगसहस्रायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदण्यालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि । ૧૨ [ कथायाम्PRIS तदेति । तदा तस्मिन्क्षणे सर्वमेवेति नाज्ञासिषं नाबोधिषम् । इतिथोत्यमाह - उद्भूतेति । क्वाहमगममत्रजम्, किमकरवमघटयम्, किं व्यलपं किमवोचम् । कीदृश्यहम् । उद्भूतं प्रकटीभूत मूर्च्छा एवान्धकार यस्यां सां तथा पातालतलं रसातलमवतीर्णेव । असवश्चेति । तस्मिन्क्षणे मे ममासवः प्राणा अस्य मूढहदयस्य किमतिकठिनतयाति काठिन्यतया । किं ह्तशरीरकस्य निःप्रयोजन देहत्यानेकानां दुःखसहस्राणां सहिष्णुतया सहनतया । किं दीर्घशोकस्य चिरकालीनशुचो विहिततयावश्यभोक्तव्यतया । कि जन्मान्तरोपात्तस्यान्यभवार्जितस्य दुष्कृतस्य पापस्य भाजदया पात्रतया । किं दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाने कृच्छ्रप्रदाने निपुण तया दक्षतया । किं दुरात्मनः पापिष्ठस्य मन्मथहतकस्यैकान्तवामतयात्यन्तप्रतिकूल > हेतुना नोद्गच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती । केवलम तिचिराचिरकालेन लब्धा प्राप्ता चेतना चैतन्यं यया सैवंविधः दुःखभागिनी वहा विवानाविव पतितमसह्यो यः शोकः शुक् तेन दह्यमानं ज्वलन्तमवनौ पृथिव्यां विचेष्टमानं लुठमानमात्मानम पश्यमवालोकयम् । तस्य मुनिकुमारस्य तन्मरणमात्मनश्च स्वकीयस्य च जीवितमसंभावनीयमश्रधानमश्रद्धाविषयीकुर्वाणमुत्थाय । हेति खेदे । किमिदमुपनतमागतमिति मुक्त आर्तनाद आक्रन्दशब्दो यया सा तथा । हा अम्ब मातः, हा तात हा पितः, हा सख्यः हा आल्यः इति पूर्वोक्त व्याहरन्ती कथयन्ती । हा नाथ हा स्वामिन, जीवितनिबन्धनं जीवितकारैणमाचक्ष्व कथय । मामेकाकिनीमसहायामशरण मत्राणामकरुणं निर्दयं यथा स्यात्तथा विमुच्य त्यक्त्वा व यासि क व्रजसि । तरलिकां पृच्छ प्रश्नं कुरु, त्वत्कृते स्वदर्थं मया महाश्वेताभिधानया यानिर्वचनीयावस्था दशानुभूतानुभवविषयीकृता । युगसहस्रवदाचरमाणो दिवसो वासरः कृच्छ्रेण कष्टेन नीतः प्रापितः । प्रसीद प्रसन्नो भव । सकृदप्येकवारमप्यालप ब्रूहि । भक्तवत्सलतां हितकारितां दर्शय प्रकाशय । ईषदपि किंचिदपि विलोकय निरीक्षणं टिप्प० - 1 मौढयं टीकाकारस्य । काठिन्य मिति भावप्रत्ययान्तान पुनर्भावार्थकप्रत्ययः । नानुक्रियतां विद्यार्थिभिः । 2 इदमप्यननुकूलम् । अभिन्नहृदया महाश्वेतैव पुण्डरीकेण सह आत्मनो मरणं च जीवितं च वक्तुं शक्ता । अतएव 'अश्रद्दधाना' इति स्त्रीलिङ्गपाठ एवोचितः । 'अयं भृतः स्यात् अहं च जीवे यभू' इत्येव न विश्वसनीय मिति तदाकूतम् । 3 ' जीवित निबन्धनमाचक्ष्न' इति पाठो विवक्षितष्टीकाकारस्य । किन्तु मूले शोधितः पाठो दृश्यते । नाहमिमं लेखन्या चिच्छित्सामि । .. · पाठा० --- १ पाता उमिव. २ अश्रद्दधानाम् ; अश्रद्दधाना ३ मरणकारणम् ४ हा हा. ५ अम्ब हा मातः. ६ निमन्धनमाचक्ष्व. ७ भकरण.. महाश्वेताविलापः ] पूर्वभागः । ३५३ अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कैथय किमपराद्धम्, किंवा नानुष्ठितं मया, कस्यां वा नाज्ञायामादृतम्, कस्मिन्वा त्वदनुकूले नाभिरतम् येन कुपितोऽसि, दासजनमकारणात्परित्यज्य व्रजन्न बिभेषि कौलीनात् । अलीकानुराग विप्रतारणकुशलया किं वा मया वामया पापया । आः, अहमद्यापि प्राणिमि । हा, हतास्मि मन्दभागिनी । कैथं न त्वं जातः, न विनयः, न बन्धुवर्गः, न परलोकः । धिङ्मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीहशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहेण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन । हा कमुपयामि शरणम् । मैयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् । देहि दयितदक्षिणां भगवति भवितव्यते । कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदेवताः, प्रसीदत । प्रयच्छतास्य प्राणान् । अव वसुंधरे, सकललोकानुग्रहजननि । रजनि, नानुकम्पसे । तात कैलास, शरणागतीस्मि ते । दर्शय दयालुताम्' इत्येतानि चाकुरु । मे मम मनोरथं चिन्तितं पूरय पूर्णांकुरु । अहमार्तास्मि दुःखितास्मीति स्पष्टम् । अनम्येति । न विद्यतेऽन्यं शरणं त्राणं यस्याः सैवंविधास्मि । मदनेन कन्दर्पेण परिभूता पराजितास्मि । किमिति हेतोः । त्वं दयां कृपां न करोषि न प्रणयसि । कथय ब्रूहि । किमपराद्धं कोऽयमपराधः कृतः । मयेति शेषः । किं मया नानुष्ठितं नाचरितं वा । कस्यां वाज्ञायां निर्देशे नादृतं नादरः कृतः । त्वदनुकूले कस्मिन्वा मया नाभिरतं रागो न कृतः, येन कारणेन कुपितः कोपं प्राप्तः । अकारणान्निमित्तमन्तरेण दासजनं भृत्यलोकं परित्यज्य विहाय ब्रजन्गच्छन्कौलीनाज्जनापवादान्न बिभेषि भयं प्राप्नोषि । अलीकेति । अलीको मिथ्या योऽनुरागस्तेन यद्विप्रतारणं वञ्चनं तत्र कुशलया दक्षया वामया प्रतिकूल या पापया दुष्टकर्मकारिण्या मया किंवा स्यात् । आः इति ज्ञातम् । अहमद्याप्येतावत्कालमपि प्राणिमि जीवामि । हा हतास्मि । दैवेन ताडितास्मीति भावः । अत एव मन्दभागिनी । तदेव दर्शयति - कथमिति । न त्वं भवान् जातः । पतिरिति शेषः । अतश्च न विनयो न मर्यादा, न वा बन्धुवर्गो न स्वजनलोकः, न परलोको न प्रेत्यभावः । मां धिगस्तु धिक्कारोऽस्तु । मां कीदृशीम् । दुष्कृतकारिणीं दुष्कर्मकरणशीलाम् । यस्याः पापकारिण्याः कृते तव भवत इयं परित्यक्तजीवितरूपा दशावस्था वर्तते । मत्सदृशी मत्समा नृशंसहृदया क्रूरचित्ता नास्ति न विद्यते, याहमेवंविधं भवन्तमुत्सृज्य व्यक्त्वा गृहं धाम गतवती । मे मम किं गृहेण सदनेन, किमम्बया मात्रा, किं वा तातेन पित्रा, किं वा बन्धुभिः स्वजनैः, किं परिजनेन परिच्छदेन । हेति खेदे । कं शरणमुपयामि गच्छामि । हे दैव हे भाग्य, मयि विषये दयां कृपां दर्शय । त्वां प्रति विज्ञापयामि विज्ञप्तिं करोमि । हे भवितव्यते भगवति, दयितदक्षिणां देहि । कृपां दयां कुरु । अनाथां वनितां स्त्रियं पाहि रक्ष । हे भगवत्यो वनदेवताः, यूयं प्रसीदत प्रसन्ना भवत । अस्य भुनिकुमारस्य प्राणान्प्रयच्छत दैत । हे सकललोकानुग्रहजननि वसुंधरे, अव रक्ष । हे रजनि हे रात्रि, नानुकम्पसे नानुकम्पां करोषि । हे तात कैलास, ते तव शरणागतास्मि । दयालुतां कृपालुतां दर्शय टिप्प० - 1 अन्यदित्युचितम् । सोयमपपाठः । 'कथं मे न त्वम्, न तातः' इत्येव पाठः । स्वं मे मम ( संबन्धी ) न जातः, कुतः ? मरणात् । तातोपि न, अर्थात् पितापि मे पक्षपोषको न स्यात् अभिसरणेन कुलमर्यादोल्लङ्घनातू । विनय-बन्धुवर्ग - परलोका अपि मम न भवेयुः । अभिसरणेन तत्प्रतीपाचरणात्, इति तदाशयः । 3 दत्तेति बोध्यम् । पाठा० -१ किमपराद्धम्. २ कुपितः ३ दासीजनम् ४ प्रतारण ५ याहम् ६ कथं मे न त्वं, न तातः. ७ अयि. ८ दक्षिणाम् ९ अम्ब १० किमर्थं नानु. ११ अस्मि ४५ का० ३५४ कादम्बरी । [ कथायाम्न्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवाविष्टेवोन्मत्तेव भूतोपहतेव व्यलपम् । उपर्युपरिपति तैनयन जलधारा निकरच्छलेन विलीयमानेव, द्रवतामिव नीयमाना, जलाकारेणेवात्मीक्रियमाणा, प्रलापाक्षरैरपि देशनमयूखशिखानुगततया साश्रुधारैरिव निष्पतद्भिः शिरोरुहेरप्यविरलविगैलरकुसुमतया मुक्तबाष्पजलबिन्दुभिरिवाभरणैरपि प्रसूतविमलमणिकिरणाश्रुतया प्ररुदितैरिवोपेता, तेज्जीवितायेवात्ममरणाय स्पृहयन्ती, मृतस्यापि सर्वात्मना हृदयं प्रवेष्टुसिवेच्छन्ती, करतलेन कपोलयोराश्यानचन्दनश्वेतजटामूले च ललाटे निहितसरसबिसयोश्वांसयोर्मलयजरसलबलुलित कमलिनीपलाशावगुण्ठिते च हृदये स्पृशन्ती, 'पुण्डरीक, निष्ठुरोऽसि । एवमप्यातां न गणयसि माम्' इत्युपालभमाना मुँहुरेनमन्वनयम्, मुहुः पर्यचुम्बम् मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । 'आः पापे, त्वयापि मत्प्रत्यागमनकालं यावदस्यासवो न रक्षिताः' इति तामेकावलीमगर्हयम्, 'अयि भगवन्, प्रसीद । प्रत्युज्जीवयैनम्' .9 प्रकटय । इत्येतानि च ग्रन्थकर्त्रा प्रदर्शितान्यन्यानि चाप्रदर्शितानि च वचनानि व्याक्रोशन्ती पूरकुर्वन्ती । कियद्वेति । कियन्मात्रं परिदेवनं स्मरामि स्मरणविषयी कुर्वे । ग्रहगृहीतेव ग्रथिलेव, आविष्टेवावेशविषयी कृतेव, उन्मत्तेवोन्मत्तवायुव्यथितेव, भूतेन व्यन्तरेणोपहतेव व्यलपं विलापमकरवम् । अथ नयनाश्रुधाराणां सान्द्रातिशयं वर्णयितुं त्रिभिरुत्प्रेक्षते - उपरीति । उपर्युपरि पतिता या नयनजलधारा अश्रुश्रेण्यस्तासां निकरच्छलेन समूहव्याजेन विलीयमानेव द्रुततामापद्यमानेव । द्रवतां द्रवगुणोपयुक्ततां नीयमानेव प्राप्यमाणेव । द्रवत्ववत्त्वात्तदेवाह — जलाकारेणेति । जलाकारेण जलस्वभावेनात्मीक्रियमाणेव । अथ च रोदनाश्रुमुखेन शोकातिशयं व्यञ्जयितुमश्रुवर्णनं त्रिभिरुत्प्रेक्षाभिराह - प्रेति । दशना दन्तास्तेषां मयूखाः किरणास्तेषां शिखा प्रान्तभागस्तत्रानुगततया प्राप्ततया प्रलापाक्षरैरपि परिदेवनवर्णैरपि साश्रुधारैर्निष्पतद्भिरिव सवद्भिरिव । अत्र श्वेतत्वसाम्याद्दशनमयूखनेत्रजलयोरुपमानोपमेयभावः । अविरलेति । अविरलानि घनानि विगलन्ति क्षरन्ति कुसुमपुष्पाणि येषु तेषां भावस्तत्ता तया शिरोरुहैरपि केशैरपि । मुक्तेति । मुक्ता बाष्पजलबिन्दवो यैरेव॑विधैरिव । अत्रापि पुष्पनेत्रजलयोः श्वेतत्वसाम्यादुपमानोपमेयभावः । प्रविति । प्रसूतानि जनितानि विमलानि निर्मलानि मणिकिरण न्येवाश्रूणि येषु तेषां भावस्तत्ता तया आभरणैरपि विभूषणैरपि प्ररुदितैरिव कृताश्रुपातैरिव । उपेतेति । तत्रिभिरन्विता । तज्जीवितेति । तस्य मुनिकुमारस्य जीवितं तद्वदिवात्ममरणाय स्वनिधनाय स्पृहयन्ती वाञ्छां कुर्वन्ती । मृतस्यापि गतप्राणस्यापि सर्वात्मना सर्वप्रकारेण हृदयं प्रवेष्टुं प्रवेशं कर्तुमिच्छन्तीव । करतलेन पाणितलेन स्वेन मुनिकपोलयोर्गल्लात्परप्रदेशयोर्ललाटे च कीदृशे । आश्यानं शुष्कं चन्दनं मलयजं तेन श्वेतं शुभ्रं जटामूलं सटापीठं यस्मिन् । अंसयोश्च स्कन्धयोश्च कीदृशयोः । निहितेति । निहितानि स्थापितानि सरसानि रसो जलं तद्युक्तानि बिसानि तन्तुलानि ययोः । अथ हृदयं विशेषयन्नाह - मलयेति । मलयजस्य चन्दनस्य रसो द्रवस्तस्य लवो लेशस्तेन लुलितानि मिलितानि यानि कमलिनीपलाशानि पत्राणि तैरवगुण्ठिते व्याप्ते स्पृशन्ती स्पर्श कुर्वन्ती । पुण्डरीकेति । हे पुण्डरीक, त्वं निष्ठुरः क्रूरोऽसि । एवमपि पूर्वोक्तप्रकारेणापि मामार्तां न गणयसि न गणनां करोषि । इत्युपालभमानोपालम्भं ददाना मुहुर्वारंवार मेनमन्वनयमनुनीतवती । मुहुर्वारंवारं पर्यचुम्बं चुम्बितवती । मुहुर्वारंवारं कण्ठे गृहीत्वा व्याक्रोशमाक्रोशितवती । आः पापे त्वयापि भवत्यापि मम प्रत्यागमनकालं मदीयागमन समयं यावत् । अस्य पुण्डरीकस्यासवः प्राणा न रक्षिता न त्राताः । इति तामेकावलीमगर्हयं गर्हितवती । अयीति । अयि कोमलामन्त्रणे । हे भगवन् प्रसीद प्रसन्नो टिप्प० – 1 तिसुभिरित्युचितम् । 2 अत्र नोपमा । अपि तु उत्प्रेक्षा, अत एव भ्रामकमिदम् । 3 विद्यार्थिभिस्तु किरणस्य पुंस्त्वमेव बोध्यम् । टीकाकारस्तु लोकबहिर्भूतः । > पाठा० - १ निपतित २ दशनशिखा ३ विगलित ४ प्रसृत ५ तज्जीवितायैव, तज्जीविताय च ६ परामृशन्ती. ७ मुहुर्मुहुः, ८ मुहुर्मुहुः, ९ मुहुः महाश्वताया विलापः ] पूर्वभागः । इति मुहुः कपिञ्जलस्य पादयोरपतम्, मुहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् । अद्यापि चिन्तयन्ती न जानामि तस्मिन्काले कुतस्तान्यचिन्तितान्यशिक्षितान्यनुपदिष्टान्यदृष्टपूर्वाणि मे हतपुण्यायाः कृपणानि चाटुसहस्राणि प्रादुरभवन्, कुतस्ते संलापाः, कुतस्तान्यतिकरुणानि बैक्कुव्यरुदितानि । अन्य एव स प्रकार । प्रलयोर्मय इवोदतिष्ठन्नन्तर्वाष्पवेगानाम्, जलयत्राणीवा मुच्यन्ताश्रुप्रवाहाणाम्, प्ररोहा इव निरगच्छन्प्रलापानाम्, शिखरशतानीवावर्धन्त दुःखानाम्, प्रसूतय इवोद्पाद्यन्त मूर्च्छानाम्' । इत्येवमात्मवृत्तान्तं नियन्त्या एैव तस्याः समतिकान्तं कथमप्यतिकष्टमवस्थान्तरमनुभवन्त्या इव चेतनां जहार मूर्च्छा । मूर्च्छावेगान्निष्पतन्तीं च शिलातले तां संसंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाप्पसलिलोत्पीडनेन प्रक्षाल्यमानकँपोलो लब्धचेतनामवादीत् - 'भगवति, मया पापेन तवायं पुँनरभिमवतां नीतः शोकः, येमेहशीं दशामुपनीतासि । तदलमनया कथया । संहियतामियम् । अहमध्य 9 सम्यक्तयावकलभव । एनं पुण्डरीकं प्रत्युज्जीवय संजीवितं कुरु । इति मुहुर्वारंवारं कपिजलस्य मुनेः पादयोश्चरणयोरपंतं पतितवती । मुहुश्चेति । वारंवारं तरलिकां कण्ठे गृहीत्वा प्रारुदं रुदनमकार्षम् । तस्मिन्निति । तस्मिन्काले रोदनदशायां यान्यचिन्तितान्यतर्कितानि, अशिक्षितान्यपठितानि, अनुपदिष्टानि केनापि नोपदेशीकृतानि, अदृष्टपूर्वाण्यनवलोकितपूर्वाणि, हतपुण्यायाः मे मम कृपणानि दीनानि चाटुसहस्राणि प्रियप्रायवचनसहस्राणि कुतः प्रादुरभवन्कुतः प्रकटीबभूवुरित्यद्याप्येतद्दिनपर्यन्तं चिन्तयन्ती न जानामि न यामि । कुतस्ते पूर्वोक्ताः संलापाः । कुतस्तानि हृदिस्थान्यतिकरुणान्यतिदीनानि विक्लवो विह्वलस्तस्य भावो वैक्लव्यं तस्य रुदितानि ऋन्दितानि । अन्य एव भिन्न एव स प्रकारो मेदः । तान्युत्प्रेक्षते चतुर्भिः- प्रलयेति । अन्तर्बाष्पस्य मध्यनेत्राम्बुनो वेगानां रहसां प्रलयोर्मय इव कल्पान्ततरंगा इवोदतिष्ठन्नुत्थिता बभूवुः । अश्रुप्रवाहाणां नेत्राम्बुधाराणां जलयन्त्राणीवामुच्यन्त मुक्ताः । नेत्रैरिति शेषः । प्रलापानां विलापानां प्ररोहा इवाङ्कुरा इव निरगच्छन्निर्गता बभूवुः । दुःखानां कृच्छ्राणां शिखरशतानीव शृङ्गशतानीवावर्धन्तैधन्त । मूर्च्छानां मोहानां प्रसूतय इवानवरतसंतानानीवोदपाद्यन्ताक्रियन्त । इत्येवं पूर्वोक्तप्रकारेणात्मवृत्तान्तं स्वकीयोदन्तं निवेदयन्त्या एव कथयन्त्या एव तस्या महाश्वेतायाः । अतिकान्तारिष्टहेतोस्तथा वेदना नास्तीत्यत आह - समतीति । कथमपि महता कष्टेन समतिकान्तं व्यतीतमतिकष्टं यस्मिन्नेवंभूतमवस्थान्तरं मुनिकुमारमृत्युलक्षणमनुभवन्त्या इवानुभवविषयीकुर्वन्त्या इव तस्या महाश्वेताया मूर्च्छा मोहश्चेतनां चैतन्यं जहाराहरत् । मूर्च्छावेगान्मोहरंहसः शिलातले निष्पतन्तीमधः संयोगफलिकां क्रियां कुर्वन्तीं तां महाश्वेतां ससंभ्रमं प्रसारितो विस्तारितः करो येनैवंभूतो जातपीडश्चन्द्रापीड: परिजन इव परिच्छद इन विधृतवान्धारितवान् । अश्रुजलार्द्रेण नेत्रवारिक्लिन्नेन च तदीयेनैव महाश्वेतास्त्रीकृतेनैवेत्यर्थः । उत्तरीयं यद्वल्कलं तस्य प्रान्तेन शनैः शनैर्मन्दमन्दं वीजयन्वातं कुर्वन्संज्ञां चेतनां ग्राहितवान् । आनीतवानित्यर्थः । उपेति । उपजातं समुत्पन्नं कारुण्यं यस्य सः । बाष्पसलिलस्योत्पीडनं प्रवाहस्तेन प्रक्षाल्यमानौ कपोलौ यस्य स लब्धचेतनां प्राप्तचैतन्यामवादीदवोचत् । हे भगवति महाश्वेते, मया पापेन पापात्मना तवायं शोकः पुनर्द्वितीयवारमभिनवतां प्रत्यग्रतां नीतः प्रापितः येन कारणेनेदृशीं दशामवस्थामुपनीतासि प्रापितासि । तदिति । तस्माद्धेतोरनया कथयालं कृतम् । इयं कथा संहियतां संक्षिप्यताम् । हि यस्मादतिक्रान्तान्यपि व्यतीतान्यपि संकीर्त्यमानानि टिप्प० -- 1 उदपधन्त, इत्येव पाठः । मूर्च्छानां प्रसूतयः संताना इवोदपथन्त अजायन्तेति तदर्थः । • पाठा०-१ मुहुर्मुहु:. २ आवेदयन्त्यः ३ एव च तस्याः ४ ससंभ्रमप्रसारित ५ उत्पीडेन. ६ कपीलयुगकः; कपोलयुगलाम्. ७ पुनरपि नवसाम्. ८ उपनीतः # १५६ कादम्बरी । [ कथायाम्समर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथंकथमपि विधृतानिमानसुलभानसूपुनः शोकानल इन्धनतामुपनेतुम्' इत्येवमुक्ता दीर्घमुष्णं च निःश्वस्य बाष्पायमाणलोचना सनिर्वेदमवादीत् – 'राजपुत्र, या तदा तस्यामैतिदारुणायां हतनिशाया मेभिरतिनृशं सैर सुभिर्न पॅरित्यक्ता ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनहृदयायाः शोकः । सर्वमिदमलीकमस्य शहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामप्रेसरीकृता । यया चाविष्कृतमद्नया वज्रमध्येवेदमनुभूतम् का वा गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्य यदभूत्तदावेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि । ." वाच्यमानानि प्रियजनस्येष्टलोकस्य विश्वासवचनानि विश्रम्भभाषितान्यहमपि श्रोतुमसमर्थोऽक्षमः । तत्र हेतुमाह - अनुभवेति । सुहृज्जनस्य मित्रलोकस्य दुःखान्यनुभवसमां विपाकतुल्यां वेदनां व्यथामुपजनयन्ति निष्पादयन्ति । तदिति हेत्वर्थे । कथंकथमपि महता कष्टेन विधृतानिमान सुलभान्दुःप्रापानसून्प्राणान्पुनः शोकार्नैले शुग्वह्नाविन्धनतामिध्मतामुपनेतुं प्रापयितुं त्वं नार्हसि न योग्या भवसि । इत्येवं पूर्वोक्तप्रकारेणोक्ता बीर्घमायतमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा बाप्पायमाणे लोचने नेत्रे यस्याः सैवंविधा निर्वेदः खावमाननं तत्सहितं यथा स्यात्तथावादीदवोचत् । किं तदित्याह - हे राजेति । हे राजपुत्र हे नृपसूनो, याहं तदा तस्मिन्काले तस्यामतिदारुणायामतिभीषणायां हतनिशायामशुभरजन्यामेभिरतिभृशंसैरतिक्रूरैरसुभिः प्राणैर्न परित्यक्ता नोज्झिता तेऽसव इदानीं सांप्रतं मां परित्यजन्ति मुञ्चन्तीति दूरापेतं दूरे स्थितम् । नूनं निश्चितमपुप्योपहताया अधर्मोपहतायाः पापायाः पापिष्ठाया मम दर्शनं निरीक्षणं भगवानन्तकोऽपि यमोऽपि परिहरति परित्यजति । कुतश्चेति । मे मम कठिनहृदयायाः शोकः शुक् कुतः स्यात् । अस्य शठहृदयस्य सर्व पूर्वोक्तमिदमलीकं मिथ्या । सर्वथेति । सर्वप्रकारेणाहमनेन हृदयेन त्यक्तत्र पेणोज्झितलज्जागुणेन निरपत्राणां निर्लज्जा. नामग्रेसरी पुरोगामिनी कृता विहिता । यया चेति । यया मयाविष्कृतैमदनया प्रकटितकंदर्पया वज्रमय्येव शतकोटिमय्येवेदं पूर्वोक्तमनुभूतमनुभवविषयीकृतम् । का गणना कथनं प्रति, चेदनुभूतं वर्तते तर्हि कथने किं काठिन्यमिति भावः । वेति पक्षान्तरे । अतः परमस्मादन्यत्कष्ट तर म तिकृच्छ्रमाख्येयं कथनीयम् । अन्यत्किं भविष्यति यच्छ्रोतुमा कर्णयितुमाख्यातुं कथयितुं वा न शक्यते न पार्यते । केवलेति । केवलमसहायमेकमस्य वज्रपातसदृशदुःखस्यानन्तरं पश्चात् यत् आश्चर्य चित्रमभूत्तदावेदयामि कथयामि । आत्मनश्चेति । आत्मनः स्वस्य च प्राणधारणं तंत्र कारणलव इव हेतुलेश सदृशमव्यक्तोऽस्फुटो यः समुत्पन्नः प्रादुर्भूतस्तं च कथटिप्प० - 1 एवंविधो दूरादाकर्षो ग्रन्थसरणिविरुद्धः । पाठश्चायं टीकाकारमहोदयसंमतः । वस्तुतस्तु 'प्रियजनविश्वासवचनानि' इति वाक्ये नास्त्येव । सदभावे — 'अतिक्रान्तान्यपि दुःखानि संकीर्यमानानि (सन्ति) सुहृज्जनस्य अनुभवसमां वेदनां जनयन्ति' इत्यन्वयः । 2 'स्मरणशोकानलेम्धनताम्' इति समस्तमेव मनोरमम्, विरूपसन्धिकमश्रव्यमिदम् । 3 धिक्, अतिविरूपोयं पाठः । 'अधिगतमदनवेदनया' इत्येव पाठः । अधिगता साक्षादनुभूता मदनवेदना यया तादृश्या, इति तदर्थः। मदनाविष्करणे त्वनौचित्यम् । पाठा० - १ अनुभवसमयवेदनाम् ; अनुभवसमवेदनाम् २ पुनःपुनः स्मरणशोकानलेन्धनताम्. ३ या तस्याम्.. ४ परित्यक्तास्मि तदिदानीं परित्यजन्ति दूरापेतम्; परित्यक्ता सेदानी परित्यजत इति दूरापेतमेतत् ५ दुरात्मनः शठहृदयस्य ६ आविष्कृतमन्दवेदनथा; अभिगत मदनवेदनया ७ तस्याः ८ का दुःखगणना, कथं प्रीतिः ं पुण्डरीकशरीरस्य गगने नयनम् ] पूर्वभागः । यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञ च हेतशरीरं वहामि, तदलं श्रयताम् । ततश्च तथाभूते तस्मिन्नवैस्थान्तरे मरणैकनिश्चयात्तत्तद्वहु विलप्य तरलिकामनवम्'अयि उत्तिष्ठ निष्ठुरहृदये, कियेद्रोदिषि । काष्ठान्याहत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम्' इति । अत्रान्तरे झटिति चन्द्रमण्डलनिर्गतो गगनादवतीर्य केयूरकोटिलनममृत्त फेन पिण्डपाण्डुरं पवनतरलमंशुकोत्तरीयमाकर्षन्, उभयकर्णान्दोलितकुण्डलमणिप्रभानुरक्तगण्डस्थलः, स्थूलमुक्ताफलतया तारागणमिव ग्रथितमतितारं हारमुरसा दधानः, धवलदुकूलपल्लवर्कल्पितोष्णीषग्रन्थिः, अलिकुलनीलकुटिलकुन्तल नि कर विकेट मौलिः, उत्फुल्लकुमुदकर्णपूरः, कामिनीकुचकुङ्कुमपत्रलतालाञ्छितांसदेशः, कुमुद्धवलदेह, महाप्रमाणः पुरुषो महापुरुषलक्षणोपेतः, ३५७ यामि ब्रवीमि । ययेति । यया दुराशैव मृगतृष्णिका मरुमरीचिका तथा गृहीता स्वीकृताहं महाश्वेता इदमुपरत. कैल्पमवस्तुप्रायम् । अवस्तुत्वादेव न स्वसत्ताकमित्याह - परेति । परकीयमिवान्यदीयमिवात एव भारभूतमप्रयोजनं निरर्थकं न कृतं जानातीत्यकृतज्ञं हतशरीरं दुःशरीरं वहामि धारयामि । तत्पूर्वोक्तमलं कृतमेतद्व्यतिरिक्तं श्रूयतामाकर्ण्यताम् । ततश्चेति । तदनन्तरं तथाभूते तादृशे तस्मिन्पूर्वप्रतिपादितेऽवस्थान्तरे दशान्तरे मरणस्य निमीलन स्यैकनिश्चयाद द्वितीय निर्णयात्तत्तत्पूर्वोक्तं बहु प्रचुरं विलप्य विलप्य बहुविलापान्कृत्वा तर लिका मित्यनवमकथयम् । इतिशब्दद्योत्यमाह — अयीति । अयि कोमलामन्त्रणे । निष्ठुरहृदये कठिनचित्ते, उत्तिष्ठोत्थानं कुरु । कियद्रोदिषि कियदपरिमितं रोदनं लोकप्रसिद्धं करोषि प्रणयसि । काष्ठान्येधांस्याहत्यानीय चितां चित्यां विरचय निष्पादय । जीवितेश्वरं प्राणनाथमनुसराम्यनुगच्छामि । अत्रान्तरेऽस्मिन्समये झटिति शीघ्रं चन्द्रमण्डलाच्छशिबिम्बाद्विनिर्गतो निःसृतो गगनादाकाशादवतीर्योतीर्य केयूरकोटिलग्नं किरीटाश्रिविलग्नममृतस्य पीयूषस्य फेनपिण्डो डिण्डीरचयस्तद्वत्पाण्डुरं श्वेतम् । पवनेन वायुना तरलं कम्पमानमुत्तरीयं च तदंशुकं चांशुकोत्तरीयम् । राजदन्तादिषु पाठात्पूर्वप्रयोगः । आकर्षनाकर्षणं कुर्वन् । इतो द्विजमण्डलविनिर्गत नरविशेषणानि । उभयेति । उभौ च तौ कर्णो चेति कर्मधारयः । वृत्तिविशेष उभशब्दस्योभयादेशः । तयोरान्दोलिते वेल्लिते कुण्डले कर्णभूषणे तयोर्मणिप्रभा रत्नकान्तिस्तयांनुर गण्डस्थलं यस्य सः । स्थूलेति । स्थूलानि मुक्ताफलानि यत्र तस्य भावस्तत्ता तया । श्वेतत्ववर्तुलत्वसाम्या दाह - तारेति । प्रथितं गुम्फितं तारागणमिव नक्षत्रवृन्दमिवातितारमतिमनोहरं हारं मुक्ताप्रालम्बमुरसा वक्षःस्थलेन दधानो बिभ्राणः । धवलेति । धवलं श्वेतं यद्दुकूलं दुगूलं तस्य पल्लवेन प्रान्तदेशेन कल्पितो विहित उष्णीषग्रन्थिर्मूर्धवेष्टनग्रन्थिर्येन सः । अलीति । अलिकुलवद्भ्रमर समूहवन्नीलाः श्यामाः कुटिला बक्राः कुन्तलाः केशास्तेषां निकरः समूहस्तेन विकटो विपुलो मौलिर्यस्य सः । उत्फुल्लेति । उत्फुल्लं विकसित यत्कुमुदं कैरवं तस्य कर्णपूर कर्णाभरणं यस्य सः । कामिनीति । कामिन्या योषितः कुचयोः स्तनयोः कुमपत्रलता केसरपत्रभङ्गिस्तया लाञ्छितश्चिह्निततो॑ऽसंदेशः स्कन्धप्रदेशो यस्य सः । कुमुदेति । कुमुदव च्वेतकमलवद्धवलः शुभ्रो देहः शरीरं यस्य सः । महाप्रमाणोऽतिदीर्घ एवंविधः पुरुषो नरः । महेति । टिप्प० - 1 मृतप्रायम् । 2 गाढालिङ्गनपूर्वकं पार्श्वशयनावस्थायामंसे कुङ्कुमसंक्रान्तिरित्याशयः । पाठा० - १ हतशरीरकम् २ अवस्थान्ते. ३ निश्चया. ४ तत्. ५ रोदिमि. ६ अनतीर्य च. ७ अतितारहारम् ८ कम्पित ९ मित्चित. ३५८ कादम्बरी । दिव्याकृतिः, स्वच्छवारिधवलेन देहप्रभावितानेन क्षालयन्निव दिगन्तराणि, आमोदिना च शरीरतः क्षरता शिशिरेण शीतज्वरमिव जनयतामृतशीकरवर्षेण तुषारपटलेनेवानुलिम्पन्, गोशीर्षचन्दनरसच्छटाभिरिवासिञ्चन्, ऐरावतकरपीवराभ्यां बाहुभ्यां मृणालघवलाङ्गुलिभ्यां शीतलस्पर्शाभ्यां तमुपरतैमुत्क्षिपन्, दुन्दुभिगम्भीरेण खरेण 'वत्से महाश्वेते, न त्याज्यास्त्वया प्राणाः । पुनरपि तवानेन सह भविष्यति समागमः' इत्येवं पितेवाभिधाय सहैवानेन गगनतलमुदपतत् । अहं तु तेन व्यतिकरेण सभया सविस्मया सकौतुका चोन्मुखी किमिदमिति कपिञ्जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तर मुदतिष्ठत् । 'दुरात्मन्, क मे वयस्यमपहृत्य गच्छसि' इत्यभिधायोन्मुखः संजातकोपो बन्नन्सावेगमुत्तरीयवस्कलेन परिकरम् उत्पत्योसंपतन्तं तमेवानुसरन्नन्तरिक्षमुद्गात् । पश्यन्त्या एव च मे सर्व एव ते तारागणमध्यमविशन् । मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिजलगमनेन द्विगुणीकृतशोकायाः सुतरामदी[ कथायामGyaa महांपुरुषा उत्तमपुमांसस्तेषां लक्षणैः सामुद्रिकशास्त्रोक्तैर्ध्वजादिभिश्चि हैरुपेतः सहितः । दिव्येति । दिव्या मनोहराकृतिराकारो यस्य सः । स्वच्छेति । स्वच्छं निर्मलं यद्वारि जलं तद्वत्रलेन शुभ्रेण । देहेति । देहप्रभायाः शरीरघुतेर्वितानेन समूहेन दिगन्तराणि दिग्विवराणि क्षालयन्निव निर्मलानि कुर्वन्निव । आमोदीति । आमोदिना परिमळवता तस्य देवस्यामृतमयत्वात् शरीरतो देहतः क्षरता प्रस्रवता । शिशिरेति । शिशिरेण शीतलेन शीतज्वरमिव जनयतोत्पादयता एवंविधेनामृतशीकरवर्षेण पीयूषशीकरवृष्ट्या तुषारपटलेनेव हिमसमूहेनेवानुलिम्पन्विलेपयन् । दिगन्तराणीति शेषः । गोशीर्षेति । गोशीर्षाभिधानं यच्चन्दनं तस्य रसो द्रवस्तस्य छटाभिरिवासिञ्चन्नासेकं कुर्वन् । ऐरावतेति । ऐरावतो हस्ति मल्लस्तस्य करः शुण्डा दण्डस्तद्वत्पीवराभ्यां पुष्टाभ्यां बाहुभ्यां भुजाभ्याम् । मृणालेति । मृणालं बिसं तद्वद्धषलाः श्वेता अङ्गुल्यः करशाखा ययोः । शीतलेति । शीतलः शिशिरः स्पर्शो ययोस्ताभ्यां बाहुभ्यां तमुपरतं मृतमुत्क्षिपन्नुत्पाटयन् । इत्येवं प्रकारेण पितेव जनक इवाभिधायेत्युक्त्वानेन मृतकेन सहैव गगनतलमाकाशतलमुदपतदुत्पपात । इतिद्योत्यमाह - दुन्दुभीति । दुन्दुभिः पटहस्तद्वद्गम्भीरेण खरेण शब्देन । हे वत्से महाश्वेते, त्वया प्राणा असवो न त्याज्या न हेयाः । अनेन पुण्डरीकेण सह पुनरपि तव समागमो भविष्यति । अहं विति । अहं तु तेन व्यतिकरेण तेन वृत्तान्तेन सभया सातङ्का, सविस्मया साश्चर्या, सकौतुका सकुतूहला चोन्मुख्यूर्ध्ववदना किमिदमिति कपिञ्जलमपृच्छमप्राक्षम् । असौ कपिञ्जलोऽदत्त्वैवानुक्त्वैवोत्तरं प्रतिवचः ससंभ्रमं सत्वरम् । 'संभ्रमस्त्वरिते भये' इति कोशः । उदतिष्ठदुत्थितो बभूव । हे दुरात्मन्, मे मम वयस्यं मित्रमपहृत्याप हरणं कृत्वा व गच्छसीत्यभिधायोक्त्वोन्मुख ऊर्ध्ववदनः संजातकोपः समुत्पन्नरोषः सावेगमुत्तरीयवल्कलेन परिकरं कटिभागं वध्रन्बन्धनं कुर्वन् । उत्पत्योत्पतनं कृत्वा तमेवोत्पतन्तं शशिमण्डलविनिर्गतपुरुषमेवानुसरभनुगच्छन्नन्तरिक्षमाकाशमुदगादूर्ध्वमगात् । मे मम पश्यन्त्या विलोकयन्त्या एव च सर्व एव तारागणमध्यं नक्षत्रवृन्दमध्यम विशन्प्रवेशं चक्रुः । मम स्विति । तेन कपिअलगमनेन द्वितीयेन द्वितीयप्रियतममरणेनेव द्विगुणीकृतः शोको यस्या एवंविधाया मम सुतरामत्यर्थ हृदयमवीर्यंत विदीर्ण बभूव । किंकर्तव्यतामूढाहं महाश्वेता तरलिकामनवम् । किं टिप्प० -1 गोशीर्षाकारे मलयपर्मतैकदेशे जातश्चन्दनोपि तनाना व्यपदिश्यते । अतितमां सुरभिः शीतलवायम् । पाठा० -- १ शीकरनिकर. २ गोशीर्षक ३ अतिशीतल. ४ उत्क्षिप्य ५ दुन्दुभिनाद. ६ परित्याज्या: ७ इत्येवमाढतः पितेव. ८ दुरात्मनन्तक ९ सवेगम्. १० उपेत्य. ♥ पुण्डरीकशरीरस्य गगने नयनम् ] पूर्वभागः । ३५९ र्यंत हृदयम् । किंकर्तव्यतामूढा च तरलिकामब्रवम् – 'अयि, न जानासि । कथय किमेतत् ' इति । सा तु तदवलोक्य स्त्रीस्वभावकातरा तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता वेपमानाङ्गायष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत् – 'भर्तृदारिके, न जानामि पापकारिणी। किंतु महदिदमाश्चर्यम् । अमानुषाकृतिरेष पुरुषः । समाश्वासिता चानेन गच्छता सानुकम्पं पित्रेव भर्तृदारिका । प्रायेण चैवंविधा दिव्याः स्वप्नेऽप्यविसंवादिन्यो भवन्त्याकृतयः, किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ्याभिधाने पश्यामि । अतो युक्तं विचार्यात्मानमस्मात्प्राणपरित्यागव्यवसायान्निवर्तयितुम् । अतिमहत्त्व ल्विद मै। श्वासस्थानमस्यामवस्थायाम् । अपि च तमनुसरन्गत एव कपिञ्जलः । तस्माच 'कुतोऽयम्, को वायम्, किमर्थं वाँनेनायमपगतासुरुत्क्षिप्य नीतः, व वा नीतः, कस्माच्चासंभावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता' इति सर्वमुपलभ्य जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरण मंध्यासितम् । पश्चादप्येतद्भविब्यति । नच जीवन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति, तेन तत्प्रत्यागमनकालावधयोऽपि तदित्याह - अयीति । अयि कोमलामन्त्रणे । ने जानासि नावबुध्यसे । एतत्पूर्वोक्तं किमिति कथय निवेदय । ममेति शेषः । सा त्विति । सा तरलिका तत् पूर्वोक्तमवलोक्य निरीक्ष्य स्त्रीस्वभावेन कातरा भीरुस्तस्मिक्षणे शोकाभिभाविना शुङ्गाशिना शोकमभिभवतीत्येवंशीलेनेति भयविशेषणं वा । भयेन भीत्याभिभूता पराभूता वेपमाना कम्पमानाङ्गयष्टिर्यस्याः सैवंविधा मम मरणशङ्कया च विषण्णहृदया खेदखिन्नचित्ता वराकी दीना सकरुणं सदयमित्यवादीदवोचत् । इतिशब्दाभिधेयमाह - भर्त्रिति । हे भर्तृदारिके, अहं पापकारिणी न जानामि । अपि तु जानामि । किं त्विदं महदाश्चर्यं महत्कौतुकम् । एष पुरुषोऽमानुषाकृतिर्दिव्याकृतिः । अनेन पुरुषेण गच्छता व्रजता पित्रेव जनकेनेव सानुकम्पं सदयं भर्तृदारिका राजदुहिता समाश्वासिता स्वस्थीकृता । प्रायेण बाहुल्येनैवंविधा दिव्या आकृतयः स्वप्नेऽप्यविसंवादिन्योऽव्यभिचारिण्यो भवन्ति । साक्षात्प्रत्यक्षेण किमुत भण्यते । अस्य पुरुषस्य मिथ्याभिधानेऽसत्यभाषणे विचारयन्ती विमर्श कुर्वन्त्यल्पमपि स्तोकमपि कारणं निदानमहं न च पश्यामि नावलोकयामि । अतो हेतोर्विचार्य विमृश्यात्मानमस्मात्प्राणपरित्यागलक्षणो यो व्यवसायो व्यापारस्तस्मान्निवर्तयितुं युक्तं न्याय्यम् । अतीति । खलु निश्चयेन । अतिमहदिदं पूर्वोक्तमाश्वासस्थानमाश्वासंनस्थलमस्यामवस्थायाम् । अपि च तं पुण्डरीकमनुसरन्ननुगच्छन्गत एव कपिजलः । तस्माञ्चेति । तस्माद्धेतोः कुतः स्थानादयं समागतः, को वायम्, किमर्थमनेन पुंसायमपगतासुर्गतप्राण उत्क्षिप्योत्पाट्य नीतः, क्क वा कस्मिन्स्थाने वा नीतः प्रापितः, कस्माच्चासंभावनीयेनाचिन्तनीयेन समागमस्याशा तस्याः प्रदानेन पुनरमुना पुरुषेण भर्तृदारिका समाश्वासिता । इति समुपलभ्य प्राप्य जीवितं मरणं वा समाचरिष्य विधास्यसि । हीति निश्चये । अध्यासितं चिन्तितं मरणमदुर्लभं सुलभम् । स्वायत्तत्वादिति भावः । पश्चादपि वृत्तान्तोपलब्ध्यनन्तरमप्येतन्मरणं भविष्यति । न चेति । जीवन्सन्कपिजलो भर्तृदारिकामदृष्ट्वा न वीक्ष्य न च स्थास्यति, तेन कारणेन तस्य कपिजलस्य यावत्प्रत्यागमनकालस्यावधयो मर्यादास्तावदमी प्राणा ध्रिटिप्प० - 1 'अयि जानासि' इत्येव पाठः । नकारपाठे योजनाकेशः प्रकृताऽपरिपोषश्च । 'अयि जानासि' अत्र तु काकुः । अर्थात् जानासि किमित्याशयः । 2 अहो प्रमादः ! नात्र काकुः । अहं न जानामीति निषेध एव बिनक्षितः । 3 अध्यवसितमित्येव मनोरमम् । अध्यवसितं कर्तुमभिप्रेतमिति तदर्थः । 4 मौर्यमिदम् । प्रत्यागमनकालः भवधिर्येषां ते इति व्याख्योषिता । पाठा-१ न जानासि किमेतत् २ दिव्या भारत्यः• ३ साक्षात्कृताः. ४ युक्तमिवात्मानम्. ५ आश्वासनस्थानमू. ६ तसात् ७ च ८ सर्वमिदमुपलभ्य ९ न दुर्लभम्. १० अध्यवसितम्. कादम्बरी । [ कथायाम् तावद्भियन्ताममी प्राणाः' इत्यभिधाना पादयोर्मे न्यपतत् । अहं तु सकललोकदुर्लङ्घयतया जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशामृगतृष्णिकथा, कपिञ्जलस्य प्रत्यागमनकाङ्क्षया च, तस्मिन्काले तदेव युक्तं मन्यमाना नोत्सृष्टवती जीवि तम् । आशया हि किमिव न क्रियते । तां च पापकारिणी कालरात्रिप्रतिमां वर्षसहस्रायमाणां यातनामयीमिव दुःखमयीमिव नरकमयीमिवाग्निमयीमिवोत्सन्न निद्रा तथैव क्षितितले विचेष्टमाना रेणुकणधूसरैर श्रुजलाई कपोलसंदा नितैर्विमुक्तव्याकुलैः शिरोरुहैरुप रुद्रमुखी निर्दयाक्रन्दजर्जर स्वरक्षयक्षामेण कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती । प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेवाक्षमालां गृहीत्वा, बुद्धा निःसारतां संसारस्य, ज्ञात्वा च मन्दपुण्यतामात्मनः निरूप्य चाप्रतीकारदारुणतां व्यसनोपनिपातानाम्, आकलय्य दुर्निवारतां यन्तां धार्यन्ताम् । तत्प्रत्यागमनकाल एवावधिर्येषामिति प्राणविशेषणं वा । इत्यभिधानेतिब्रुवाणा मे मम पादयोश्चरणयोर्न्यपतत्पपात । अहं त्विति । तस्मिन्काले तदेव तरलिकोक्तमेव युक्तं न्याय्यं मन्यमाना ज्ञायमाना जीवितं प्राणितं नोत्सृष्टवती न व्यक्तवती । तत्र हेतुचतुष्टयं प्रदर्शयजाह - सकलेति । जीविततृष्णायाः प्राणधारणगर्धायाः सकललोकैः समग्रजनैर्दुर्लज्जयतया दुरतिक्रम्यतया । स्त्रीस्वभावस्य प्रमदानिसर्गस्य क्षुद्रतया तुच्छतया च । तया चेति । तया पूर्वोक्तया तस्य महापुरुषस्य वचनेनोपनीतया प्राप्तया दुराशा दुष्टा स्पृहा सैव मृगतृष्णिका मरीचिका तया । तथा कपिञ्जलस्य प्रत्यागमनं पश्चादागमनं तस्य काङ्क्षा वाञ्छा तया । आशाया बलीयस्त्वं प्रदर्शयन्नाह - आशया हीति । हि निश्चितम् । आशया स्पृहया किमिव न क्रियते किं न विधीयते । ततश्च तस्मिन्नेव सरस्तीरे तरलिका द्वितीया यस्या एवंविधा पापकारिण्यहं तां क्षपां रजनी क्षपितवती क्षयं नीतवती । इतो रात्रेर्षिशेषणानि - प्रतिकूलकारित्वात्कालरात्रिस्तत्प्रतिमां तत्सदृशीम् । दुःखस्य दुःसहत्वाद्वर्षाणां सहस्रं तद्वदाचरमाणामित्यर्थः । यातनेति । यातना तीव्रवेदना तन्मयीमिव अत्यन्तदुःखजनकत्वात् । दुःखेति । दुःखं उच्छ्रं तन्मयीमिव । स्वजनविरहेण शरीरदुःखस्यैवानुभूयमानत्वात् । नरकेति । नरकं दुर्गतिस्तन्मयीमिव । निन्दितात्यन्तदुःखोत्पादकत्वात् । अग्नीति । अग्निर्वह्निस्तन्मयीमिव । तीव्रदीर्घज्वराक्रान्तत्वात् । पुनः कीदृशी । उत्सन्नेति । उत्सन्ना मूलत उच्छिन्ना निद्रा प्रमीला यस्याः सा । तथैवेति । तथैव पूर्वोक्तप्रकारेणैव क्षितितले पृथ्वीतले विचेष्टमाना विलुठमाना । रेण्विति । रेणूनां रजसां कणास्तैर्धूसरैरीषत्पाण्डुरैरश्रुजलैनैत्रवारिभिरा स्विन्नौ कपोलौ तत्र संदानितैः संयतैः विरहवशात् । विमुक्तत्वे नानियन्त्रितत्वेन व्याकुलैर्विसंस्थुलैः शिरोरुहैः केशैरुपरुद्धमाच्छादितं मुखमास्यं यस्याः सा । निर्दयमिति । निर्दयं निःकरुणं य आक्रन्दः पूत्कारस्तेन जर्जरः शिथिलो यः खरो ध्वनिस्तस्य क्षयो विनाशस्तेन क्षामेण कृशेनैवंविधेन कण्ठेन करणभूतेन निर्दयाक्रन्देनैव क्षपां क्षपितवतीति भावः । । प्रत्युषसीति । प्रत्युषसि प्रभात उत्थाय तस्मिन्नेव सरसि कासारे स्नात्वाप्लवं विधाय कृतो विहितो निश्चयो यया सा । तत्प्रीत्या तत्स्नेहेन तमेव कमण्डलुं तत्करकुण्डिकामादाय गृहीत्वा तान्येव तद्देहलग्नान्येव वल्कलानि चोचानि, तामेव तदीयामेवाक्षमालां जपमालां गृहीत्वा । संसारस्य संसृतेर्नि: सारतामसारतां बुवावगम्य । आत्मनः स्वस्य मन्दपुण्यतां ज्ञात्वा च । व्यसनोपनिपातानां कष्टोपनिपातानामप्रतीकारं च तद्दारुणं चाप्रतीकारदारुणं तस्य भावस्तत्ता तां निरूप्य च कथंयित्वा । शोकस्य शुचो दुर्निवारतामाकल याकलनां कृत्वा । दैवस्य टिप्प० - 1 अस्फुटप्रलाप इव । अश्रुजलाईयोः कपोलयोः संदानिनैः संलमैरित्यर्थः । 2 नास्ति प्रतीकारः प्रतिविधानं येषां ते च दारुणाश्चेति सरलोऽर्थः । 3 दृष्ट्वा निर्णीय वा, इत्यर्थ उचितः । पाठा० -१ पादयोरपतत् २ स्त्रीस्वभावतायाः ३ दुराशया. ४ पोपकारिणीम् ५ उत्पन्ननिश ५ ६ विमुक्तैरव्याकुलै :. ७ मुखा. ८ क्षयितवती ९ अस्मिन् १० उपतापानाम्. महाश्वेतावृत्तान्तौ पसंहारः ] पूर्वभागः । शोकस्य, दृष्ट्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चौतिबहुलदुःखतां स्नेहस्य, भावयित्वा चानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि गृहीतब्रह्मचर्या देवं त्रैलोक्यनाथमनाथशरणमिमं शरणार्थिनी स्थाणुमाश्रिता । अपरेच कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सह बन्धुवर्गेणागत्य सुचिरं कृताक्रन्दस्तैस्तै रुपायैः, अभ्यर्थनाभिश्च बहीभिः, उपदेशैचाने कप्रकारैः, सान्त्वनैश्च नानाविधैः, गृहागमनाय मे महान्तं यत्नमकरोत् । यदा च नेयमस्मा व्यवसायात्कथंचिदपि शक्यते व्यावर्त यितुमिति निश्चयमधिगतवान् तदा निराशोऽपि दुस्त्यजतया दुहितृस्नेहस्य पुनःपुनर्मया विसृ व्यमानोऽपि बहून्दिवसान्स्थित्वा सशोक एवान्तर्दामानहृदयो गृहानयासीत् । गते च ताते ततः प्रभृति तस्य जैनस्याश्रमोक्षमात्रेण कृतज्ञतां दर्शयन्ती, तदनुराग कशमिदमपुण्यबहुलमस्तमितलज्जममङ्गलभूतमनेक क्लेशायास सहस्रनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती भाग्यस्य निष्ठुरतां कर्कशतां दृष्ट्वा विलोक्य । स्नेहस्य प्रेम्णोऽतिबहुलमतिदृढं दुःखं यस्मिंस्तस्य भावस्तता तां चिन्तयित्वा विचार्य । सर्वभावानां समग्रपदार्थानाम नित्यतां विनाशितां भावयित्वा भावनाविषयीकृत्य च । सर्वसुखानां समग्र सौख्यानामकाण्डेऽनवसरे भङ्गुरतां भङ्गशीलतामवधार्य निश्चित्य । तातं पितरम विगणय्यानादृत्य । परिजनेन परिवारेण सह सकलं समयं बन्धुवर्ग खजनलोकं परित्यज्य दूरीकृत्य । विषयसुखेभ्य इन्द्रिय सातेभ्यो मनश्चित्तं निवर्त्य परामुखीकृत्य । इन्द्रियाणि करणानि संयम्य नियन्त्र्य । गृहीतं स्वीकृतं ब्रह्मचर्यं यया सा देवं त्रैलोक्यनाथ मिममनाथानां शरणं स्थाणुमीश्वरं शरणार्थिनी त्राणाभिलाषिण्यमाश्रिताश्रयणं कृतवती । अपरेधुरिति । अपरेधुरन्येद्युः कुतोऽपि कस्मादपि समुपलब्धः प्राप्तो वृत्तान्त उदन्तो येनैवंभूतस्तातः पिताम्बया मात्रा च सह तथा बन्धुवर्गेण सहागत्यैत्य सुचिरं चिरकालं यावत्कृतो विहित आक्रन्दो येन स तैरतेरुपायैः प्रपश्चैः, ताभिर्बह्वीभिरभ्यर्थनाभिः प्रार्थनाभिः, अनेकैरुपदेशैर्हितवाक्यैः, नानाविधैः सान्त्वनैः सामभिः, एभिः कृत्वा मे मम गृहागमनाय महान्तं यत्नमुद्योगमकरोदसृजत् । यदा चेति । यदा यस्मिन्काल इयं महाश्वेतास्माद्व्यवसायाच्याटतेः कथंचिदपि कष्टेनापि व्यावर्तयितुं निवर्तयितुं न शक्यते न पार्यत इति निश्चयं निर्णयमधिगतवाञ्ज्ञातवान् । तदेति । तस्मिन्काले निराशोऽपि निर्गतसभी हितोऽपि गृहं न गत इति । अत्र हेतुमाह - दुहित्रिति । दुहिता पुत्री तस्याः स्नेहस्य प्रेम्णो दुस्त्यजतया दुर्निवारतया । स्नेहाधिक्यं प्रदर्शयन्नाह पुनरिति । पुनःपुनर्वारंवारं मया विसृज्यमानोऽपि गृहे गम्यतामिति कथ्यमानोऽपि बहूननेकान्दिवसान्दि नान्स्थित्वा सशोकः शुचा सह वर्तमानोऽन्तर्मध्ये दह्यमानं प्रज्वलमानं हृदयं चेतो यस्यैवंविध एव गृहानयासीदगमत् । 'गृहाः पुंसि' इति पुंस्त्वम् । गते चेति । ताते पितरि गते च सति ततः प्रभृति तद्दिनादारभ्य तस्य जनस्य पुण्डरीकस्याश्रमोक्षमात्रेण नेत्रवारिमोचनेनैव कृतं जानातीति कृतज्ञस्तस्य भावस्तत्ता तां दर्शयन्ती प्रकाशयन्ती । पुनः किं कुर्वन्ती । दग्धशरीरमेव दग्धशरीरकम् । स्वार्थे कः । तच्छोषयन्ती कृशतो प्रापयन्ती । अथ शरीरकं विशेषयन्नाह - तदिति । तस्मिन्कुमारे पुण्डरीके योऽनुरागः स्नेहस्तेन कृशं सूक्ष्मम पुण्यबहुले पापदृढम् । अस्तेति । अस्तमितास्तं प्राप्ता लज्जा त्रपा यस्मिंस्तदमङ्गलभूतम शिवरूपम् । अनेकेति । अनेकेऽसंख्या ये क्लेशा दुःखानि तेषामायासाः परिश्रमास्तेषां सहस्रं तस्य निवासो गृहस्तम् । कैः । टिप्प० – 1 गृहगमनाय इत्येव पाठो मनोरमः । 2 अपुण्यानि (पापानि) बहुलानि यति, इति व्याख्यानमुचितम् । पाठा०-१ दुःखबहुलताम् २ परिजनेन मनसा संकल. ३ निगृह्य गृहीत. ४ त्रैलोक्यनाथशरणम्. ५ आश्रितवत्यस्मि. ६ बहुभिः. ७ परिसान्त्वनैः ८ गृहगमनाय ९ यदा तु न कथंचिदप्यस्मादध्यवसायाच्या वर्तयितुं शक्यत इति १० दुश्लेबतया ११ गृहम् १२ जनस्याश्रमोक्षमात्रेण किल; देवस्य कृतेऽनुमोक्षमात्रेण, १३ बहुलमपि, १४ क्षपयन्सी. ४६ का० ३६२ कादम्बरी । [ कथायाम्, वन्यैश्च फलमूलवारिभिर्वर्तमाना जपव्याजेन तद्गुणगणानिव गणयन्ती, त्रिसंध्यमन्त्र सरसि स्नानमुपस्पृशन्ती, प्रतिदिनमर्चयन्ती देवं त्र्यम्बकम् अस्यामेव गुहायां तैरलिकया सह * दीर्घ शोकमनुभवन्त्यवैसम् । साहमेवंविधा पापकारिणी निर्लक्षणा निर्लज्जा क्रूरा निःस्नेहा नृशंसा गर्हणीया निःप्रयोजनोत्पन्ना निःफलजीविता निरंवलम्बना निःसुखा च । किं या दृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः' इत्युक्त्वा पाण्डुना वल्क लोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाय बदनं दुर्निवारबाष्पवेगमपारयन्ती निवारयितुमुन्मुक्तकण्ठमतिचिरमुचैः प्रारोदीत् । । चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन मधुरालापतया निःसङ्गतया तैपस्थितया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपारूढ बहुविधैः नाना प्रकारैर्नियमशतैर्वतशतैः । चन्यैश्चेति । वनसंबन्धिभिः । फलेति । फलानि सस्यानि, मूलानि बुध्नाः, वारीणि जलानि, तैः कृत्वा वर्तमाना प्रवर्तमाना । कृतप्राणधारणेत्यर्थः । जप इति । जपो जापस्तस्य व्याजेन मिषेण तस्य पुण्डरीकस्य गुणाः शौर्यादयस्तेषां गणाः समूहास्तानिव गणयन्ती गणनां कुर्वन्ती त्रिसंध्यं त्रिसायम् । अत्र सरस्यच्छोदनाम्नि तटांके स्नानमा प्लवमुपस्पृशन्ती कुर्वन्ती । प्रतीति । प्रतिदिनं प्रतिवासरं त्र्यम्बकं देवमीश्वरमर्चयन्ती पूजयन्ती । अस्यामिति । अस्यां प्रत्यक्षगतायामेव गुहायां कंदरायां तरलिकया सह दीर्घं शोकमनुभवन्ती साक्षात्कुर्वन्त्यवसं निवासमकरवम् । यत्तदोर्नित्याभिसंबन्धाद्या पूर्वोका सैवंविधाहं नान्या । इतस्तस्याः कियन्ति विशेषणानि प्रदर्शयन्नाह - पापेति । पापं कलुषं करोतीत्येवंशीला सा, निर्लक्षणा पाण्डरपृष्ठा, निर्लज्जा नित्रपा, क्रूरा दुष्टा, निःस्नेहा निःप्रेमा, नृशंसा निर्बिशा, गर्हणीया निन्दनीया, निःप्रयोजनं निरर्थकमुत्पन्ना प्रादुर्भूता, निःफलमवकेशि जीवितं प्राणितं यस्याः सा तथा, निर्गसमवलम्बनमाश्रयो यस्याः सा तथा निर्गतं सुखं सातं यस्याः सा तथा । चकारः समुञ्चयार्थः । खस्य निन्दां कुर्वन्त्याह - किमिति । हे महाभाग हे सत्पुरुष, कृतं ब्राह्मणवघलक्षणं महापातकं ययैवंविधया दृष्टयावलोकितया पृष्टया पृच्छाविषयीकृतथा वा मया किं करोति किं करिष्यति । अत्र भविष्यंत्यर्थे वर्तमाना । इति पूर्वोक्तमुक्त्वा कथयित्वा पाण्डुना शुभ्रूण वल्कलोपान्तेन चोचाश्चलेन वदनं मुखमाच्छाय। अत्र शुक्लत्वसाध● यिदुत्प्रेक्षते - शरदिति । शरद्वनात्ययस्तस्या मेघशकलेन जलधरखण्डेन शशिनमिव चन्द्रमिव । अत्र वदनस्य चन्द्रसादृश्यम्, वल्कलोपान्तस्य च शरन्मेघशकलसादृदयमिति भावः । दुरिति । दुर्निवारो बाष्पो नेत्राम्बु तस्य वेगं रंहो निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवत्युन्मुक्तकण्ठं थथा स्यात्तथातिचिरं चिरकालमुच्चैस्वारस्वरेण प्रारोदीदनमकार्षीत् । चन्द्रापीडस्त्विति । प्रथममेवादावेव तस्या महाश्वताया रूपेण सौन्दर्येण, विनयेन प्रणिपातादिना, दाक्षि प्येनानुकूल्येन, मधुरो मिष्टो य आलापः संलापस्तस्य भावसत्ता तथा, तथा निर्गतो यः सङ्गोऽभिष्वङ्गस्तस्य भावस्तत्ता तया । तपेति । तपस्विन्या भावस्तत्ता तया । तथा प्रशान्तत्वेन सौम्यप्रकृतित्वेन च । तथा निरभिमानतया निरहंकारतया च । तथा महानुभावत्वेन महाप्रभावत्वेन । तथा शुचितया पवित्रतया चोपारूढमाटिप्प० - 1 वृत्तिं कुर्वाणा, इत्यर्थ उचितः । 2 धम्या बुद्धिः ! मुनिकुमारस्य किं शौर्य दृष्टम् ? अस्तु । कोह- सौन्दर्यादय इस्युषितम् । 3 लक्षणैः शुभलक्षणैः रहिता, इत्ययों योग्यः । 'पाण्डरपृष्ठा' इत्यर्थस्तु भवा क्रमनसगोचरः, धन्यष्टीकाकारः । पाठा० --१ कन्द २ लात्वा. ३ तथा तरलिकया. ४ दीर्घशोकम्. ५ चिरगवसम्. ६ क्रूरा च ७ निःखेहा च. ८ नृशंसा च; अतिनुशंसा च कृतशा च. ९ निरर्था निरवलम्बना. १० मया तथाभूतया ११ अतिकण्ठम्, १२ चातितपस्वितया. . चन्द्रापीडस्य महाश्वेतासान्त्वनम् ] पूर्वभागः । .9 गौरवोऽभूत् तदानीं तु तेनापरेण दुर्शितसद्भावेन स्ववृत्तान्तकथनेन तथा च कृतज्ञतया हृतहृदयः सुतरामारोपितप्रीतिरभवत् । आर्द्रीकृतहृदयश्च शनैः शनैरेनामभाषत – 'भगवति, क्लेशमी रुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण नेहमुपदर्शयन्रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमा चेष्टि तम् येन रोदिषि । तदर्थमाजन्मतः प्रभृति समुचित्तपरिचयः प्रेयानसंस्तुत इन परित्यक्तो १ बान्धवजनः । संनिहिता अपि तृणावशयावधीरिता विषयाः । मुक्तान्यतिशयितशुनासीरसमृद्धीन्यैश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमैनुचितैः संक्लेशरुपनीता तनुः । गृहीतं ब्रह्मचर्यम् । आयोजितरूपसि महत्यात्मा । वनिताजनदुष्करमपि कृतमरण्यावस्थानम् । अपि चानायासेनैवात्मा दुःखाभिभूतैः परित्यज्यते । महीयसा न तु यत्नेन गरी1 श्रिंतं गौरवं यस्मिन्नेवंविधश्चन्द्रापीडोऽभूत । तदानीं विति । तदानीं तस्मिन्कालेऽपरेण दर्शितः प्रकटितः सद्भावः स्वभावो येनैवंविधेन स्ववृत्तान्तकथनेन निजोदन्तनिषेदनेन तथा च कृतज्ञतया कृतवेत्तृतया च हृतं हृदयं चित्तं यस्य स सुतरामत्यर्थमारोपिता स्थापिता प्रीतिर्यस्या मे विधश्चन्द्रा पीडोऽभवदासीत् । आति । आकृतं हृदयं यस्य स शनैः शनैर्मन्दमन्दमेनां महाश्वेतामभावतातोचत । तदेवाह - भगवतीति । हे भगवति हे स्वामिनि, अन्यो लोकः क्लेशभीरुरकृतज्ञः सुखार्थ य आसङ्गः रूयादीनामभिषास्तत्र लुब्धो लिप्सुः स्नेहसदृशं प्रीतियोग्यं कर्म तत्सुखेन सुखं तदुःखेन दुःखमनुष्ठातुं विधातुमशक्तोऽसमर्थो निष्फलेन निष्प्रयोजनेनाश्रुपातमात्रेण स्नेहं प्रीतिमुपदर्शयन्बाह्यवृत्त्या प्रकाशयन्रोदिति रोदनं करोति । लोकेभ्यस्तस्या वैपरीत्यं प्रदशेयजाह - त्वया त्विति । त्वयां भवत्या कर्मणैव कर्तव्यरूपेणैव सर्व समग्रमाचरन्त्या कुर्वन्त्या प्रेमोचितं स्नेहयोग्यं किमिव नाचेष्टितम् । अपि तु सर्वमेव विहितमिति भावः । येन कारणेन त्वं रोदिष्यश्रुपातं करोषि । तदर्थ पुण्डरीकार्थमाजन्मतः प्रभृति जन्म मर्यादीकृत्य समुचि॑ितो योग्यः परिचयः संगतिर्यस्यैवंविधः प्रेयानतिप्रियोऽसंस्तुत इवास॑स्तुतोऽपरिचितस्तद्वदिव बान्धवजनः स्वजनवर्गः परित्यक्त उज्झितः । संनिहितेति । संनिहिता अपि समीपवर्तिनोऽपि तृणवद्यावज्ञावगणना तथा विषया इन्द्रियार्था अवधीरिता अवगणिताः । अतीति । अतिशयिता तिरस्कृता शुनासीरस्येन्द्रस्य समृद्धिः संपद्यैरेवंविधान्यैश्वर्यसुखानि विभवसौख्या नि मुक्तानि त्यक्तानि । मृणालिनीति । अतितनीयस्यप्यतिकृशापि तनुः शरीरमनुचितैरयोग्यैः संक्लेशव्रतग्रहणरूपैर्नितरामत्यर्थं तनिमानं कृशत्वमुपनीता प्रापिता । केव । मृणालिनीव कमलिनीव । गृहीतेति । गृहीतं स्वीकृतं ब्रह्मचर्यं ब्रह्मव्रतम् । आयोजितेति । महति गरिष्ठे तपस्यात्मा आयोजितः स्थापितः । वनितेति । अत्रापिशब्दो भिन्नक्रमः । तेन वनिताजनस्य स्नौजनस्य दुष्करमैपि दुःसाध्यमप्यरण्यावस्थानं कृतं विहितम् । अनेति । दुःखाभिभूतैरनायासेनैव परिश्रममन्त रेणैवात्मा परित्यज्यते । शरीरत्यागः क्रियत इति भावः । न त्विति । तु पुनरर्थकः । न केवलं परं महीयसा गरिष्ठेन यत्नेन प्रयासेन गरीयसि महीयसि क्लेशे पूर्वोक्तखरूपे टिप्प० - 1 'समुपचितपरिचयः' इत्येव पाठः । समुपचितो वृद्धि प्राप्त इति तदर्थः । 2 टीकाकारटतोऽयमपपाठः । 'वनिताजनदुष्करमप्यङ्गीकृतम्' इमान्येवाक्षराणि पदशय्यानुकूलानि । 3 हन्त प्रहेलिका चकार भाग्यवान् । दुःखितैः अनायासेन आत्मघातः क्रियते, महीयसा (अतिमहता) यलेन गरीयसि ( अति, गुरुतमे) केशे ( तपस्यादौ ) आत्मा न निक्षिप्यते । इति व्याख्यातव्यम् । किन्तु सोयमप्य पपाठः । 'महीयसा तु' इति नविरहित एव पाठः । दुःखितैः आत्मा अनायासेन त्यक्तुं शक्यते ( वधोद्वन्धनोपायानां स्वाधीनत्वात् ), गरीयसि क्लेशे (तपस्या दौ) तु महीयसा यत्लेन आत्मा निक्षिप्यते इति तदर्थः । -१ आसीत्. २ तेनानेनापरेण ३ सुतरामतिदूरम् ४ जन्मन. ५ विमुक्तानि ६ उचितैः. ७ दुष्करमध्यङ्गीकृतम; दुष्करमतिकष्टमङ्गीकृतम् ८ दुःखाभिइतः परित्यज्यते लषीयसा; दुःखाभिः परित्यज्यन्ते महीयसा. पाठा०. ३६४ कादम्बरी । [ कथायाम्, -यसि केशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम तैदतिनिष्फलम् । अविद्वजनाचरित एष मार्ग: । मोहविलसितमेतत् अज्ञानपद्धतिरियम्, रभसाचरितमिदम्, क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयम्, मौर्य स्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते । स्वयं चेन्न जति न परित्याव्याः । अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरि. त्यागोऽयम् । असह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु न कमपि गुणमावहति । नँ तावत्तस्यायं प्रत्युज्जीवनोपायः, ने धर्मोपचयकारणम्, न शुभलोकोपार्जन हेतुः, न निर्रयपातप्रतीकारः, न दर्शनोपायः, न परस्परसमागमनिमित्तम् । अभ्यामेव स्वकर्मफल पाकोपचितामसाववशो नीयते भूमिम् । असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जला१ 0 A निक्षिप्यते । एतेन प्राणप्रियवियोग आत्मपरित्यागात्तस्यात्मनो गरिष्ठक्लेशे परिक्षेपो महीयानिति ध्वनितम् । यदेतदिति । नामेति कोमलामन्त्रणे । यदेतदनुमरणमन्वारोहणं तदतिनिष्फलं निरर्थंकम् । यतः कुमारः प्रियः नतु विहितः पतिर्येनान्वारोहणं किं तु मृतानुमरणमात्रं तदति निष्प्रयोजनमिति भावः । अथ च निष्फलत्वं प्रदर्शयन्नाह – अविद्वज्जनेति । एषोऽन्वारोहलक्षणो मार्गः पन्था अविद्वज्जना अपण्डितलोकास्तैराचरितः सेवितः । एतदिति । पूर्वोक्तं मोहविलसितमज्ञानविजृम्भितम् । अज्ञानेति । इयमन्चारोहणे प्रवृत्ति रज्ञानपद्धतिरज्ञानमार्गः । रभसेति । इदमन्वारोहणं रभसाचरितम विचारपूर्वकमा चरितम् । क्षुद्रेति । एषाम्नारोहणलक्षणा प्रवृत्तिः क्षुद्रास्तुच्छबुद्धयस्तेषां दृष्टिर्ज्ञानम् अतीति । अयमनुमरणलक्षणोऽतिप्रमादोऽतिशयेनानवधानता । मौर्यमिति । इदं पूर्वोक्तं मौख्र्यस्खलितं विहितच्युतिः । यत्तदोर्नित्याभिसंबन्धादाह - यदिति । यत्पितरि ताते, भ्रातरि सहोदरे, सुहृदि मित्रे, भर्तरि प्राणनाथे वोपरते मृते सति प्राणाः परित्यज्यन्ते परिमुच्यन्त इति कर्मकर्मुक्तिः । तस्या लक्षणम् – 'यत्र कर्मैव कर्तृत्वं याति कर्ता तु नोच्यते । सुकरैः स्वैर्गुणैर्योगात्कर्मकर्तेति तद्विदुः' इति । स्वयमिति । चेयदि स्वयं न जहति न परित्यजन्ति तदा प्राणा न परित्याज्याः । बलान्न निष्कासनीया इत्यर्थः । किमर्थं तर्हि लोकानां मरणे प्रवृत्तिरित्यत आह अत्र हीति । ही।ते निश्चये । अस्मिन्ननुमरणे विचार्यमाणे विचारणाविषयीक्रियमाणेऽयं प्राणपरित्यागः स्वार्थ एवात्मीयँकृत्यमेव । तत्र हेतुमाह - असह्येति । आत्मनो जीवस्थ न सोढुमशक्या सह्या या शोकवेदना शुग्व्यथा तस्याः प्रतीकारो निवृत्त्युपायरतस्य भावस्तत्त्वं तस्मात् । उपेति । उपरतस्य मृतस्य तु न कमपि गुणं हितमावहत्यादधाति । एतदर्थं स्पष्टयन्नाह - न तावदित्ति । तावदादौ तस्योपरतस्य प्रत्युज्जीवनोपायः पुनः प्राणधारणप्रतिक्रिया न भवति । नेति । धर्मस्य पुण्यस्योपचयः पुष्टिस्तस्य कारणं निमित्तं न भवति । नेति । शुभलोकस्य स्वर्गलोकस्योपार्जनमर्जनं तस्य हेतुर्निदानम् । निरयेति । निरये दुर्गतौ पातः पतनं तस्य प्रतीकारः प्रतिक्रिया न । नेति । दर्शनस्यावलोकनस्याप्युपायो न । नेति । परस्परमन्योन्यं यः समागमः संबन्धस्तस्य निमित्तं कारणं न भवति । तत्र हेतुमाह - अन्यामिति । असौ मृतोऽवशः पराधीनः स्वस्य कर्मणोः स्वकृतपापपुण्ययोर्यः फलपाकस्तेनोपचितां पुष्टामन्यामेव कर्ममूमिं नीयते प्राप्यते । अन्यदप्यनुमरणेनानिष्टमाह - अ साविति । असौ पूर्वं मृत आत्मघातिनोऽनुमृतस्यैनसा पापेन केवलं संयुज्यते संयुक्तो भवति । अनुमरणाभावे गुणानाह – जीवंस्त्विति । जीवञ्श्वसनुपरतस्य मृतस्यात्मनो जीवस्य जलाञ्जलिदानादिना बहुपकरोटिप्प० -1 अविचारोयम् 'अनायासेन परित्यज्यते' इत्यादिना दुःखिजनकर्तृकस्त्याग एवोपक्रान्तः । तथा च कर्मणि प्रत्यये एवोचिता संगतिः न तु कर्मकर्तरि, तत्र प्राणानां स्वयं कर्तृत्वात् । 2 स्वार्थ : स्वनिमित्त एव, इति व्याख्योचिता । www..comm . पाठा० - १ अपि निष्फलम् २ कुदृष्टि: ३ प्रेम. ४ ते ५ असह्यवेदना, ६ आपतित: ७ न तस्यायम्. ८ योगः, ६ नच. १० नरकपतन. ११ फलपरिपाकोपचिताम्; फलपाकोपनीताम्. १२ कर्मभूमिम् १३ आत्मघाती, चन्द्रापीडस्य महाश्वेतासान्त्वनम् ] पूर्वभागः । खलिदानादिना बहुपकरोत्युपरतस्यात्मनश्च, मृतस्तु नोभयस्यापि । स्मर तावत्प्रियामेकपन रति भगवति भर्तरि मकरकेतौ सकलाबलाज हृदयहारिणि हरे हुतभुग्दग्धेऽप्यविरहितामसुभिः । पृथां च वार्ष्णेयीं शूरसेनसुतामभिरूपे सावज्ञविजिससकलराजकमौलिकुसुमवासि ताशेषपापीठे पत्यावखिलभुवनबलिभागभुजि पाण्डौ किंदममुनिशापानलेन्धनतामुपगतेऽध्यपरित्यक्तजीविताम् । उत्तरां च विराटदुहितरं बालां बालशशिनीव नेयनानन्दुहेती विनयवति विकान्ते च पञ्चत्वमभिमन्या वागतेऽपि घृतदेहाम्। 'दुःशलां च धृतराष्ट्रदुहितरं भ्रातृशतोत्सङ्गलालितामतिमनोहरे हरवरप्रदानवर्धितम हिनि सिन्धुराजे जयद्रथेऽर्जुनेन लोकान्तरमु.. पनीतेऽप्यकृतप्राण परित्यागाम् । अन्याश्च रक्षः सुरासुरमुनिमनुज सिद्धगन्धर्वकन्यका भर्तृरहिताः श्रूयन्ते सहस्रशो विधृतजीविताः । प्रोन्मुच्येतापि जीवितं संदिग्धोऽप्यस्य समागमो यदि स्यात्, त्यनेकामुपकृतिं कुरुते । मृतस्तूभयस्यापि स्वस्य परस्य च न किमप्युपकरोति । दृष्टान्तद्वारा एनमर्थं दृढीकुर्ननाह - स्मरेति । तावदादौ सकलः समग्रो योऽबलाजनः स्त्रीलोकस्तस्य हृदयहारिणि चित्तापहारिणि भगवति माहात्म्यवति भर्तरि प्राणवल्लभे मकरकेतौ श्रीमदने हरस्य महादेवस्य यो हुतभुनेत्राग्निस्तेन दग्घे भ स्मीभूते सत्यपि, एक एव पतिर्यस्यारतामेकपत्नीं प्रियां वल्लभां रतिमसुभिः प्राणैरविरहितां संयुक्तां स्मर स्मृतिगोचरीकुरु । यथा तथा प्राणा नोज्झिताः, स्वभर्तुः, कृत्यं च कृतम्, तथा त्वयापि विधेयमिति भावः । अ न्यासामपि निदर्शनद्वारा पूर्वोत्तमर्थं दृढीकुर्वाह - पृथामिति । पाण्डौ भर्तरि किंदैम इत्यभिधया प्रसिद्धो यो मुनिस्तस्य शाप एवानलो वहिस्तस्मिन्निन्धनता मिध्मतामुपगतेऽपि प्राप्तेऽप्यपरित्यक्तजी वितामनुज्शितप्राणां वार्ष्णेयी मन्धकवृष्णिकुलोत्पन्नां शूरसेनस्य राज्ञः सुतां पुत्रीं पृथां कुन्तीम् । स्मरेत्यस्य सर्वत्रापि संबन्धः । अथ भर्तारं विशेषयन्नाह – सावज्ञयेति । सावज्ञयैवानिच्छ्यैन विजितं स्वायत्तीकृतं यत्सकलं समप्रं राज्ञां समूहो राजकं तस्य मौलयः शिरांसि तेषां कुसुमानि पुष्पाणि तैर्वासितं भावितमशेषं पादपीठं समप्रपदासनं यस्य स तस्मिन् । अखिलेति । अखिलं समयं यद्भुवनं विश्वं तस्य यो बलिभागो भागधेयस्तं भुनक्तीति स तस्मिन् । अभिरूपे पण्डिते । तथा बालशशिनीव नवोदितचन्द्र इव नयनानन्दहेतौ नेत्राहादनिमित्त विनयवति मर्या, दावति विकान्ते रेऽभिमन्यावर्जुनसुते पञ्चत्वमागतेऽपि प्राप्तेऽपि धृतो देहो ययैवंभूतां बालामप्राप्तयौवनां विराटराज्ञो दुहितरं पुत्रीमुत्तरामुत्तरानाम्नीं स्मरेति संबन्धः । तथातिमनोहरेत्यभिरामे । हरेणेश्वरेण वरप्रदानेन वर्धितो वृद्धिं नीतो महिमा माहात्म्यं यस्य स तस्मिन् । सिन्धुराजे सिन्धुदेशनाथे जयप्रथाभिधानेऽर्जुनेन पार्थेन लोकान्तरं भवान्तरमुपनीते प्रापितेऽपि धृतराष्ट्रस्य राज्ञो दुहितरं सुतां भ्रातॄणां यच्छतं तस्योत्सङ्गः क्रोडस्तेन लालितां पालितामकृतप्राणपरित्यागामेवंविधां दुःशलां स्मरेति संबन्धः । अभुमेवार्थं पुनर्द्रढयन्नाह -- अन्याचे ति । रक्षांसि राक्षसाः, सुरा देवाः, असुरा दैत्याः, मुनयस्तापसाः, मनुजा मनुष्याः, सिद्धा विद्यासिद्धाः, ग न्धर्वा देवगायनाः, एतेषां कन्यकाः पुत्र्यो भर्तृरहिताः सत्यो विधुतजीविता अकृतप्राण परित्यागा अन्याः पूर्वोत व्यतिरिक्ताः सहस्रशः श्रूयन्त आकर्ण्यन्ते । यदनुमरणेनापि न प्राप्यते तदपीष्टं त्वया प्राप्तव्यमेवेत्याहप्रोन्मुच्येतापीति । तदा जीवितं प्रोन्मुच्येत त्यज्येत यद्यस्य मृतस्य संदिग्धोऽपि समागमः स्यात् । तच्च टिप्प० - 1 मृगरूपं धृत्वा मृगीभिर्विपिने रममाणः किंदमो नाम मुनिर्मृगयार्थिना पाण्डुना मृगबुद्ध्या निहतः शशाप-'रममाणं मां संहृतवांस्त्वमपि रममाण एव मरिष्यसि । ततः कदाचिद्वसन्तप्रभावादुद्दीसमदनः पाण्डुमन रमयन्ममार । मायामनुस्मृतायामपि जीवन्ती कुन्ती युधिष्ठिरादीन् जनयामासेति महाभारतम् । (आ. प.) 2 सावज्ञम् (अवज्ञया सहितम्, सहेलमित्यर्थः) जितमित्यर्थ उचितः । 3 वास्तवे स्वपपाठ एवायम् । 'वासितपादपीठे' इत्येव पाठः । 4 सुन्दरे इत्यर्थ उचितः । पाठा -१ मकरध्वजे २ हरनयनद्रुतभुजा दग्धे; हरहुंकारहुतभुजा दग्धे ३ तथा ४ सावशावजित ५ वासितपाप ६ वलयभुजि. ७ उपागते. ८ अपरियुक्त ९ जननयना १० उपगते. ११ दुःशीलाम्. १२ बह्वयः. १३ विधुर, १४ संदिग्धो यदि समागम: स्यात्. ३६६ कादम्बरी । [ कथायाम् भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्प: ? कथं च तादृशानाम प्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् । उपरतेन च सह जीवन्त्याः कीदृशी समागतिः ? अतो निःसंशयमसावुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थ मे वैनमुत्क्षिप्य सुरलोकं नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारँवृत्तयः । चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अनेकविधाध कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशयेत जीवितप्रदानाहते। न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरैप्रवृत्त एष पन्थाः । तथा हि । निश्वावसुना गन्धर्वरराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यकामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य च्यवनस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुनाम स्वायुषोऽर्धेन योजिनास्त्येवेति भावः । प्राप्तव्यमिष्टं कथं स्यादित्याह - भगवत्येति । भगवत्या त्वया ततस्तस्मान्महापुरुषात्पुनः स्वयमेवात्मनैव समागमः कुमारेण सह संगतिस्तस्प्रतिपादिका सरस्वती वाणी समाकर्णिता श्रुता । तथापि तदर्थं न निश्चिनोमीत्यत आह - अन्विति । अनुभवेऽनुभूते वस्तुनि को विकल्पः कः संदेहः । अत्रोपपादकमाह - कथं चेति । तादृशानां न विद्यते प्राकृता इतरजनसाधारणाकृतिराकारो येषामेवंविधानामवितथगिरां यथार्थवचर: महात्मनां महापुरुषाणां गरीयसापि कारणेनोत्कृष्टेनापि हेतुना गिरि वाण्यां कथं वैतथ्यमनृतत्वमापदं स्थानं कुर्यात् । नन्वियं सरस्वती वितथैव, मृतकुमारेण सह समागमस्य बाधितलादियत आह --- उपरतेति । उपरतेन मृतेन सह जीवन्त्याः कीदृशी समागतिः संगतिः । तर्हि सरस्वती वितथैवेत्यत आह --अत इति । अतः कारणात् । निःसंशयं निश्चितमुपजातं समुत्पन्नं कारुण्यं घृणा यस्मिन्नेवंविधो महात्मासौ पुरुषः पुनः प्रत्युज्जीवनार्थं पुनःसजीकरणार्थमेवैनं पुण्डरीकमुत्क्षिप्योत्पाट्य सुरलोकं देवलोकं नीतवान्प्रापितवान् । अत्रानुकूलमाह - अचिन्त्य इति । हीति निश्चितम् । महात्मनां महानुभावानी प्रभावो महिमाचिन्त्योऽनाकलनीयः । नन्वश्रुतपूर्वमिदं कथं स्वादित्यत आह - बह्निति । संसारवृत्तयः संसृतेः प्रवृत्तयो बहुप्रकारा अनेक भेद भिन्नाश्चेत्यर्थः । एतादृशं मम भाग्यं व स्यादित्याह - चित्रं चेति । दैवं भाग्यं चित्रं विविधप्रकारम् । नैनु सर्वेषामेकविधम् । ननु तस्य कुमारप्रत्युज्जीवने कुतः सामर्थ्यमित्यत आह --- आध येति । आश्चर्यमद्भुतं तस्यातिशय आधिक्यं तेन युक्ताः सहितास्तपः सिद्धयो भवन्ति । ननु पुण्डरीकस्यैतादृशं कर्म कथं स्यात् येन प्रत्युज्जीवनं स्यादित्याह - अनेकेति । कर्मणां पूर्वोपार्जित शुभाशुभानां शक्तयः सामर्थ्यान्यने कविधा असंख्य प्रकाराः । युक्त्यन्तरं प्रदर्शय शाह-अपि चेति । अपि च युक्त्यन्तरे । सुनिपुणं सुदक्षं यथा स्यात्तथा विमृशद्भिर्विचार यद्भिस्तदपहरणे मृतकुमारापहरणे जीवितप्रदानादृतेऽन्यत्किमिव कारणं निमितमाशयत आशङ्काविषयी क्रियते । न च सर्वथा मृतस्य पुनर्जीवनं क्कापि दृष्टमियत आह - न चेति । भगवत्या त्वयेदं प्रत्युज्जीवनमसंभाव्यमघटमानमिति न चावगन्तव्यं न ज्ञातव्यम् । अस्य प्राचीनत्वं प्रदर्शय नाह चिरमिति । एष प्रत्युज्जीवनलक्षणः पन्था मार्गश्चिरप्रवृत्तो बहुकालीनः । तदेव दर्शयति - तथा हीति । विश्वावसुनाम्ना गन्धर्वराजेन करणभूतेन मेनकायामुत्पन्नां प्रादुर्भूतां प्रमद्वरेति नाम्नीं कन्यकामाशीविषेण सर्पेण विलुप्तं ध्वस्तं जीवितं श्वसितं यस्या एवंविधां स्थूलकेशमुनेराश्रमे मठे भार्गवस्य भृगुवंशोत्पन्नस्य च्यवननाम्नो मुनेर्नता प्रपौत्रः प्रमतेस्तनयः पुत्रो मुनिकुमारको रुरुः खायुषः खजीवितस्यार्धेन योजितवान्संबन्धितवान् । " TEYZACK टिप्प० -1 पुनः प्राणाssधानार्थमिति व्याख्यानमुचितम् । 2 'न' 'नतु' वा इति स्यात् । 3 पौन इत्येवावगन्तव्यम् । पाठा० - १ स्वयमेव तत्पुनः समागमवचः श्रुतम् २ तम ३ प्रवृत्तयः, प्रकृतयः ४ तज्जीवित ५ सर्वथा घिर. ६ भार्गवस्य नप्ता० महाश्वेतायाः सान्त्वनम् ] पूर्वभागः । तवान् । अर्जुनं चाश्वमेधतुरगानुगामिनम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नागकन्यका सोच्छ्वासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामा खपावकपरिप्लष्टम्, उदरादुपरतमेव विनिर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्बासुदेवो दुर्लभामसून्प्रापितवान् । उज्जयिन्यांच संदीपेंनिद्विजतनयमन्तकपुरादपहृत्य त्रिभुवनवन्दितचरणः स एवानीतवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि । किं' क्रियते । किं वा लभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्वसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । न क्षमते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च अर्जुनं चेति । अश्वमेधस्य यस्तुरगोऽश्वस्तदनुगामिनं तत्पृष्ठयायिनं बभ्रुवाहननाम्नात्मजेन सुतेन समरशिरसि सङ्क्रामशिरसि शरेण बाणेनापहृता आकर्षिताः प्राणा यस्यैवंविधमर्जुनं पार्थम् । नामेति कोमलामन्त्रणे । उलू पीनाम्नी नागकन्यका सोच्छ्वासं सजीवितमकरोदसृजत् । अभीति । अश्वत्थाम्नो द्रोणाचार्यसुतस्य योऽस्त्रपावकः शस्त्राग्निस्तेन परिष्लुष्टं दग्धम् । उदति । उदराद्गर्भाशयादुपरतमेव मृतमेव विनिर्गतं निःसृतम् । ईदृशमभिमन्युतनयमर्जुनपौत्रं परीक्षिताभिधानमुत्तरायाः प्रलापेन विलापेनोपजनितोत्पादिता कृपा करुणा यस्यैवंविधो भगवान्वासुदेवो नारायणो दुर्लभान्दुष्प्रापानसून्प्राणान्प्रापितवान्प्रदत्तवान् । उज्जयिन्यां चेति । उज्जयिन्यां विशालायां संदीप निनाम्नो द्विजस्य तनयं सूतमन्तकपुरात्संयमिन्या अपहृत्यापहरणं कृत्वा त्रिभुवनेन वन्दितौ नमस्कृतौ चरणौ यस्यैवंभूतः स एव भगवान्वासुदेव आनीतवानानयनं कृतवान् । अत्रापीति । कथंचित्प्रकारेणैवमेव पुनर्जीवनवजीवनं भविष्यति । अनेनोत्कटकोटि: प्रदर्शिता, संभावनारूपत्वात् । अनुत्कटकोटावत्रतिकार्यत्वं स्वस्याह - तथापीति । अपि अनास्थायाम् । तथापि तव शोकमात्रेण किं जीवितं क्रियते किमथवा लभ्यते प्राप्यते । तत्र हेतुमाह -- प्रभवतीति । भगवान्विधिः प्रभवति समर्थो भवति । नियतिर्भाव्यर्थः, अदृष्टविशेषो ब्रह्मलिखितपद्धतिर्वा बलवती वीर्यवती । उपसंहरति - आत्मेच्छेति । आत्मेच्छया स्वेच्छयोच्छ्वसितुमपि न शक्यम् । उच्छ्वासः स्वायत्तः सोऽपि स्वेच्छया कर्तुं न शक्यते । किमुतान्यदित्यर्थः । एवं सति सर्वं देवाधीनं प्रेममैत्र्यादिकम् । तद्विहीनस्य तन्नास्त्येवेत्याह - अतीति । अस्यैकान्तनिष्ठुरस्यायन्तनिर्दयस्य दैवहतकस्य विलसितानि चेष्टितान्यतिपिशुनान्यतिदुःखकारीणि भवन्ति । अव्याजेति । अन्याजं निष्कपटं तेन रमणीयं मनोहरं प्रेम दीर्घकालं चिरकालं न क्षमते न सहते । भवतु । तर्हि दैववशादेवानवरतं जन्मान्तरपर्यन्तं क्षेम कुतो न निर्वहतीत्यत आह - प्रायेणेति । प्रायेण बाहुल्येन निसर्गत एव स्वभावत एवानायतस्वभावभकुराणि सुखानि, आयतस्वभावानि च दुःखानि । अत्रायं भावः - कार्येण कारणानुमानम्, कार्य च दैवादैवयोः सुखदुःखे । तत्र सुखस्यानायतस्वभावो विसृतिस्वभाव; क्षणभङ्गुरत्वं च दुःखस्य स्वायतस्वभावो विस्तरणप्रकृतिः । तद्विपर्ययादभरत्वमपि । तत्कारणयोरध्येवमेवेति । यावत्पर्यन्तं दैवं तावत्पर्यन्तमेव येन केन चिद्वस्तुना प्रीतिरुपभोगो मैत्री तस्माद्विषयलाभस्तदनुबन्धादयः । एतद्विपर्यये प्रीत्याद्यभावः । टिप्प० -1 अधिगतविधयो राम-कृष्णयोरनुरोधेन गुरुः सान्दीपतिः पञ्चजनापहृतं निजपुत्रं गुरुदक्षिणारूपेणेयेष । भगवान्वासुदेवस्तु समुद्राभ्यन्तरे पञ्चजन विनाशोत्तरमप्यलब्धं गुरुतनयं यमपुरादाहृत्य गु. रुदक्षिणी चकारेति पुराणकथा । 2 अब्याजम् अत एव रमणीयमित्यर्थं उचितः । 3 अनायतस्वभावालि ( भवीर्षाणि, संक्षिप्तानीत्यर्थः) च तानि भनुराणि नश्वराणि । पाठा० •१ अनुसारिणम् २ उलूपी ३ परिक्षितम् ४ निर्गतम्. ५ भगवांश्चराचरगुरुर्वासुदेवो दुर्लभैरसुभियोजितबान्. ६ सांदीपनि ७ पुरात्रिभुवनवन्दितचरणः स एवापहृतवान्. ८ कथंत्चिदेवमेवेदं तवापि भविष्यति. ९ किमुपालभ्यते १० क्षमन्ते. ३६८. कादम्बरी । [ कथायाम्दुःखानि । तथा हि । कथमप्येक स्मिञ्जन्मनि समागमः, जन्मान्तरसहस्राणि च विरहः प्राणिनाम् । अतो नार्हस्यनिन्धमात्मानं निन्दितुम् । आपतन्ति हि संसारपथमतिगहनमवती. र्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् । ॲत्रान्तरे च श्रुतमहाश्वेतावृत्तान्तोपजातशोक इंव समुत्सृष्टदिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे दिवसे, परिणतप्रियङ्गुमञ्जरीरजोनिंभे पिञ्जरिम्गा रेंज्यमाने विलम्बिनि नभ्रमण्डले, अविरलकुसुम्भकुसुमरसरक्तदुकूलकोमलेन चास्तात पेन मुध्यमानेषु दिब्यु खेषु, चॅकोरनयनतारकाकान्तिना च पिङ्गलिना विलिप्यमाने तिरोहितनीलिम्नि व्योनि, GAL एतदेव विवृणोति - तथा हीति । प्राणिनां संसारवर्तिनां कथमपि महता कष्टेनैकस्मिञ्जन्मनि समागमः संबन्धः । जन्मान्तरसहस्राणि च यावद्विरहो वियोगः । प्रकृतमुपसंहरति – अत इति । अतो हेतोर निन्द्यं रूपमात्मानं क्षेत्रज्ञं निन्दितुं गर्हितुं नार्हसि न योग्या भवसि । यतो धीराः सर्वमेवेदं दैवकृतं मन्यन्ते, न खात्मकृतम्, एवं च धीरत्वेऽवलम्बिते नात्मानं निन्दन्तीत्यर्थः । अधीरत्वेऽनिष्ठतामाह - आपतन्तीति । अतिगहनमतिघोरं संसारपथं संसृतिमार्गमवतीर्णानां गृहीतावताराणामेते वृत्तान्ता उदन्ता आपद्रूपा आपत व्यापद्यन्ते । लमा भवन्तीत्यर्थः । धीरत्वे इष्टमाह - धीरा इति । धीराः सत्त्विकाः पुरुषाः । हीति निश्चितम् । आपदं कष्टं तरन्ति पार प्राप्नुवन्ति । इत्येवमिति । इति पूर्वोक्तप्रकारेणैवं विधैर पूर्व प्रतिपादितैरन्यैश्च मृदुभिः सुकुमारपसान्त्वनैर्दृष्टान्तोपदर्शनैरतां संस्थाप्य स्वस्थी कृत्य पुनरपि द्वितीयवारमप्यञ्ज लिपुटोपनी तेज निर्झर जलेनानिच्छन्तीमस्पृहयन्तीमपि बलाद्धठात्प्रक्षालितमुखी धौतवक्रामकारयव्यधापयत् । अत्रान्तरे घेति । अस्मिन्नवसरे । श्रुतेति । श्रुत आकर्णितो यो महाश्वेताया वृत्तान्त उदन्तस्तेनोपजातः समुत्पन्नः शोको यस्यैतादृश इव समुत्सृष्ट उज्झितो दिवसव्यापारो येनैवंविधो भगवान्रविरपि सहस्रांशुरप्यधोमुखतामया खतामयासीदगात् । अथेति । त्रियामाभुखे सा महाश्वेता मन्दमन्दं शनैः शनैरुत्थाय पश्चिमां भगबतीं संध्यामुपास्योपासनां कृत्वा कमण्डलुजलेन कृत्वा कुण्डिकानीरेण प्रक्षालितचरणा धौताङ्घिर्वल्कलशयनीये बल्कलशय्यायां सखेदमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा निषसाद तस्थाविति दूरेणान्वयः । कस्मिन्सति । दिवसे वासरे क्षीणे सति । पुनः कस्मिन् । दिक्प्रान्ते विलम्बिनि विलम्बायमाने ब्रघ्नमण्डले सूर्यबिम्बे सति । कीदृशे । परिणतेति । परिणता पक्का या प्रियकुमञ्जरी फलिनीवल्लरी तस्या रजः परागस्तेर्न निभे सदृशे । पिञ्जरिम्णेति । पीतरक्तस्तु पिजरस्तस्य भावः पिजरिमा तेन रज्यमाने पिञ्जरतां नीयमाने । पुनः केषु सत्सु । अस्तीतपेन दिव्युखेषु मुच्यमानेषु सत्सु । अस्तातपं विशेषयन्नाह – अविरलेति । अविरलानि निविडानि कुसुम्भानां कमलोत्तराणां कुसुमानि तेषां रसस्तेन रक्तं यहुकूलं तद्वत्कोमलेन मृदुना । पुनः कस्मिन्सति ध्योऽयाकाशे सति । अथ व्योम विशेषयमाह-विलिप्येति । पिङ्गलिना पिञ्जरिम्णा विलिप्यमाने विलेपनविषयी क्रियमाणे । कीदृशेन पिङ्गलिना । चकोरो विषसूचकस्तस्य नयनयोस्तारका तद्वतकान्तिर्यस्मिन्स तेन । तिरोहितेति । तिरोहित आच्छादितो नीलिमा यस्मिन्निति व्योमविशेषणम् । पुनः कस्मिन्स ति सांध्ये सायंकालसंबन्धिन्यचिषि दीधितौ भुवनं विष्टपमरुणयति रक्ततां नयति सति । अर्चिषं विशेषयन्नाहटिप्प० -1 आत्मानं स्वम् इति सरलोऽर्थः । 2 सांसारिकजनानाम् । 3 सर्वतः प्रकाशकरण रूपः । 4 सूर्यबिम्मे विलम्बिनि सति, इत्येवान्वयः प्रसिद्धः समुचितश्च । 5 सूर्यस्य न रज उपमानम्, अपि 'रजोनिभेन' इति पाठः, ततश्च प्रियङ्गुरजःसहशेन पिअरिम्णा ( अर्थात् पीतेन वर्णेन ) सूर्यमण्डले राज्यमाने सतीत्यर्थः । 6 अस्तकालि कसूर्यातपेन । पाठा०-१ एकजन्मसमागमो बहूनि जन्मान्तरसहस्राणि तु विग्रहः २ अत्रान्तरे महा. ३ निभेन. ४ विराज्यमानेsपि ५ अलिकुसुम ६ विमुच्यमानेषु. ७ चकोरतारकाकारकान्तिना. • महाश्वेता चन्द्रापीडयो: सान्ध्यविधिः ] पूर्वभागः । ३६९ कोकिलविलोचनच्छविबभ्रूण चारुणयति सांध्ये भुवनमर्चिषि, यथाप्रधानमुन्मिपत्सु ग्रहग्रामेषु, वनमहिषमलीमसवपुषि च मुषिततारकापथप्रथिम्नि कालिमानमातन्वति शार्वरे तमसि, अतनुतिमिरतिरोहित हरिवतासु गहनतां यान्तीषु वैनराजिषु, रजनिजलजालबिन्दुजनितजडिनि बहलवनकुसुमपरिमलानुमितगमने चलितलता विटपगहने प्रवृत्ते च पवने, निद्रानिभृतपतत्रिणि त्रियामामुखे महाश्वेता मन्दमन्दमुत्थाय भगवतीमुपास्य पश्चिमां संध्यां कमण्डलुजलेन प्रक्षालितचरणा वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद् । चन्द्रापीडोऽप्युत्थाय सकुसुमं प्रस्रवणजलाञ्जलि मैवकीर्य कृतसंध्याप्रणामस्तस्मिद्वितीये शिलातले मृदुभिर्हतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्यां पुनस्तमेव मनसा महाश्वेतावृत्तान्तमन्वभावयत् । आसीचास्य मनस्येवम् – 'अयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः 03 कोकिलेति । कोकिला वनप्रियास्तेषां विलोचनानि नेत्राणि तेषां छविः कान्तिस्तद्वद्ववणि पिलानि । पुनः केषु । ग्रहग्रामेषूडसमूहेषु यथाप्रधानं यथामुख्यमुन्मिषत्सु विकसत्सु । पुनः कस्मिन् । शार्वरे शर्वरीसंबन्धिनि तमस्यन्धकारे कालिमानं श्यामलिमानमातन्वति विस्तारयति सति । अथ तमो विशिष्टि - वनेति । वनस्यारण्यस्य यो महिषो रक्ताक्षस्तद्वन्मलीमसं वपुर्यस्य तत्तस्मिन् । अत एव मुषितस्तारकापथस्याकाशमार्गस्य प्रथिमा विस्तारो येन तत्तस्मिन् । पुनः कासु । वनराजिष्वरण्यश्रेणीषु गहनतीमकलनीयतां यान्तीषु गच्छन्तीषु सैत्सु । अतनु यत्तिमिरं तमस्तेन तिरोहिताच्छादिता हरितता नीलिमा यासु । पुनः कस्मिन् । पवने वायौ प्रवृत्ते वहमाने च सति । अथ पवनस्य शीतत्वमन्दत्वसुगन्धित्वानि वर्णयितुमाह - रजनीति । रजन्येवानवरतप्रचलनरूपप्रवाहवत्त्वाज्जलजालं समूहस्तस्य बिन्दुभिः पृषतैरित्यर्थो वा जनितो जडिमा यस्य स तस्मिम् । बहलेति । बहलान्यविरलानि यानि वनकुसुमानि तेषां परिमलेनानुमितमनुमानविषयःकृतं गमनं यस्य स तस्मिन् । चलितेति । चलितं कम्तिं लतोपयुक्ता विटपा वृक्षास्तेषां गहनं येन स तस्मिन् । अथ त्रियामामुखं विशेषयनाह - निद्रेति । निद्रा प्रमीला तया निभृता निश्चलाः पतत्रिणः पक्षिणो यस्मिन् । तदनन्तरं चन्द्रापीडोऽप्युत्थाय सकुसुमं कुसुमैः सह वर्तमानं प्रस्रवणस्य निर्झरस्य जलाञ्जलिमवकीर्य विक्षिप्य । कृतेति । कृतो विहितः संध्याप्रणामो येन स तस्मिन्मण्ड पिकास्थले द्वितीये तदङ्गीकृतादन्यस्मिन्शिलातले मृदुभिः सुकुमारैलतापल्लवैर्वल्लीप्रवालैः शय्यां शयनीयमकल्पयदकरोत् । उपविष्टश्चेति । तस्यां शिलायामुपविष्ट आसेदिवान्पुनस्तमेव पूर्वोक्तमेव महाश्वेतावृत्तान्तं मनसा चित्तेनान्वभावयत्पुनरचिन्तयत् । आसीश्चेति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासीत् । एवंपदार्थमाह - अयमिति । अयं कुसुमायुधः कंदर्पः कष्टोऽनर्थकृत् । अंथ कुसुमायुधं विशिष्टि - अप्रतीति । अप्रतीकारेणाप्रतिक्रियया दारुणो भीषणः । दुरिति । दुःखेन विषहः सोढुं शक्यो वेगो यस्य सः । यदिति हेत्वर्थे । अनेन कंदर्पेणाभिर्भूतोऽन्यानपेक्षितः कालक्रमो टिप्प० -- 1 विक्षित एवं टीकाकार: । 'अर्चेिष विशेषयन्नाह' इति लिखन्नपि सतम्यन्तस्य अर्चिषो विशेषणं बभ्रूणीयाह । अत एव 'बभ्रुणि' इत्येव पाठ: । कोकिललोचनच्छविरित्र बभ्रु पिङ्गलं तस्मिन् सान्ध्ये अर्चिषि भुवनमरुणयति सतीति तदर्थः । प्रकाशकानुरोधेन टीकाकारशिरोमणिमनुसरन् 'बभ्रुणि' इति ग्रन्थघातकं पाठमेव स्थापयामीति ग्लानिरात्मनि । 2 निविडतामिति सरलोर्थः । 3 सतीषु इत्युचि तम् । 4 'रजनिजलबिन्दुजालजनितजडिनि' इत्येव पाठः । रजनिजलबिन्दुजालं तुषारकणसमूहस्तेन शीतले इति तदर्थः । 5 चलितं कम्पितं लताविटपानां वल्लरीपल्लवानां गहनं समूहो येन तस्मिन्नित्यर्थ उचितः । अनपे6 हन्त चूर्णयामास ग्रन्थम् । अनेन ( कुसुमायुधेन ) अभिभूताः आक्रान्ताः महान्तोपि जनाः, क्षितकालक्रमाः असोढसमयक्षेपाः इत्याद्यर्थ उचितः । पाठा० - १ ग्रहग्रामणीषु २ च लोचनमुषि ३ तिरोहित हरितासु; हरितभासु. ४ तरुराजिषु; तारवीषु; राजिषु.. ५ वने प्रवृत्ते निद्रा. ६ अवकीर्य संध्यां प्रणनाम । कृत ७ पुनः पुनः ८ नामायम्. D ४७ का० Ix ३७० कादम्बरी । [ कथायाम्कुसुमायुधः, यदनेनाभिभूता महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहति । सर्वथा नमो भगवते त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाय' इति । पुनः पप्रच्छ चैनाम् – 'भगवति, सा तैव परिचारिका वनवासव्यसनमित्रं दुःखसब्रह्मचारिणी तरलिका क गता' इति । अथ साकथयत् – 'महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलं तस्मान्मदिरेति नाम्ना मंदिरायत्तेक्षणा कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्वकुलमुकुटकुडा लपीठप्रतिष्ठितचरणो देवश्चित्ररथः पाणिमग्रहीत् । अपरिमित गुणाकृष्टहृदयश्च वॅनितादुर्लभेनाधः कृताशेषान्तः पुरेण हेमपट्टलाञ्छनेन छत्रवेत्रचामरचिह्वेन महादेवीशब्देन परं प्रीतः प्रसादमकरोत् । अन्योन्यप्रेमसंवर्धन परयोश्च तयोर्यौवनसुखानि सेवमानयोः कालेनाश्चर्यभूतमेकजी वितमिव पित्रोः, अथवा सर्वत्यैव गन्धर्वकुलस्य वा जीवलोकस्य, दुहितरत्नमुद्पादि कादम्बरीति नाम्ना । देहविसर्जनक्रमो यैस्ते, तथा समुत्सारितं धैर्यं येषामेवंविधा महान्तोऽपि पुण्डरीकप्रभृतयः सद्यस्तत्कालं जीवितं जहति त्यजन्ति । अतः सर्वथा सर्वप्रकारेण भगवते त्रिभुवनेनाभ्यर्चित पूजितं शासनमाज्ञा यस्य स तस्मै मकरकेतनायानङ्गाय नमोऽस्तु । एनामिति । एनां महाश्वेतामिति पुनः पप्रच्छ प्रश्नमकार्षीत् । इतिवाच्यमाह - हे भगवति, सा तव परिचारिका सपर्याकारिणी । कीदृशी वनवासलक्षणं यत् व्यसनं कष्टं तत्र मित्रं सुहृत् । आविष्टलिङ्गत्वान्नपुंसकत्वम् । दुःखेति । दुःखे कृच्छ्रे सब्रह्मचारिणी । 'एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः' इति कोषः । एवंविधा सा तरलिका क गता । > अथेति । तत्प्रश्नानन्तरं सा महाश्वेताकथयदवोचत् । किं तदित्याह - महाभागेति । हे सत्पुरुष, अमृतसंभवमप्सरसां कुलं यच्च मया पूर्वमुक्तम् तस्मात्कुलात् । मदिरेति । मदिरा इति नाम्ना कन्यकाभूत् । तां विशिनष्टि - मदिरेति । मदिरांयत्ते घूर्णिते लोचने यस्याः सा तथा । मदिरया नयनयोः कश्चन विस्तारो जायत इति । विस्तीर्णनयनेति यावत् । तस्याश्चेति । तस्या मदिराया देवोऽसौ चित्ररथः पाणिं हस्तमग्रहीत् । पाणिपीडनमकरोदित्यर्थः । चित्ररथं विशेषयन्नाह - सकलेति । सकलं समग्रं यद्गन्धर्वकुलं देवगायनवंशस्तस्य मुकुटानि किरीटानि तान्येव कुमलाकारं पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ येन सः । अपरीति । अपरिमिता असंख्या ये गुणा लज्जादयस्तैराकृटमाकर्षितं हृदयं चेतो यस्य स प्रीतः संतुष्टो महादेवीशब्देन पर मुत्कृष्टं प्रसादमनुग्रहमकरोदन्वतिष्ठत् । अथ च महादेवीशब्द विशेषयन्नाह - वनितेति । वनितायाः स्त्रि दुर्लभेन दुष्प्रापेण । अध इति । अधःकृतमधरीकृतमशेषं समग्रमन्तः पुरं येन स तेन । हेमेति । हेमपट्टस्य सुवर्णपट्टस्य लाञ्छनं चिह्नं यस्मिन्स तेन । छत्रेति । छत्रमातपत्रम्, वेत्रं यष्टिः, चामरं वालव्यजनम्, एतानि चिह्नानि यस्मिन् । अन्योन्येति । अन्योन्यं मिथो यत्प्रेमसंवर्धनं स्नेहोत्पादकं तत्र परयोः सप्रयत्नयोश्च तयोयौवनसुखानि तारुण्यसातानि सेवमानयोर्भुजानयोः कालेनानुक्रमेणाश्चर्यभूतं चित्रभूतं पित्रोर्मातृजनकयोरेकजीवितमद्वितीयप्राणितमिव । अथवा सर्वस्यैव गन्धर्वकुलस्य जीवलोकस्य वैकजीवितं कादम्बरीनाम्ना दुहितृरत्नमुदपाटिप्प० - 1 समानदुःखभोगिनीत्यर्थः । 2 घोरग्राम्यः कुलमर्यादानुचितश्चायं पाठः । 'मदिरायतेक्षणा' इत्येव पाठः । मदिरे मादनानुकूलदर्शनप्रकारशालिनी, भायते च ईक्षणे यस्यास्तत्संबुद्धौ । "मविरावत् मत्तखञ्जनवत् आयते दीर्घे चक्षुषी यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः, ... मद्यम्'-" इति हरिदासटीका । 3 अन्योन्यं यत् प्रेम्णः संवर्धनं मिथ: आनुकूल्याचरणं तत्र तत्परयोरित्यर्थः । पाठा० -१ समवधीरित २ जहाति ३ सकलत्रिभुवन, ४ त्वत्परिचारिका ५ मदिरायतेक्षणा ६ गुणगणाकृष्ट. ७ अन्यवनिता. ८ अनुभवतो: ९ सकलस्यैव. कादम्बरीजन्मादिकथा ] पूर्वभागः । ३७१ सा च मे जन्मनः प्रभृत्येकाशनशयनपानासना परं प्रेमस्थानमखिलविसम्भधाम द्वितीयमिव हृदयं बालमित्रम् । एकत्र तया मया च गीतनृत्यकलासु कृताः परिचयाः । शिशुजनोचिताभित्र क्रीडाभिरनियन्त्रण निर्भरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् - 'नाहं कथंचिदपि सशोकायां महाश्वेतायामात्मनः पाणिं ग्राहयिष्यामि' इति । सखीजनस्य पुरतः सशपथमभिहितवती च – 'यदि कथमपि मामनिच्छन्तीमपि बलातातः कदाचित्कस्मैचिद्दातुमिच्छति तैदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्त्रक्ष्यामि' इति । सर्वं च तदात्मदुहितुः कृतनिश्चलभाषितं कर्णपरम्परया परिजनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति काले समुपारूढनिर्भरयौवनामालोक्य से तां बलवदुपतापपरवशः क्षणमपि न धृतिमलभत । एकापत्यतया चातिप्रियतया च न शक्त: किंचिदपि तामभिधातुमित्यपइयंञ्चान्यदुपायान्तरम् इदमत्र प्राप्तकालमिति मत्वा तया 2 द्युत्पन्नमभूत् । सा चेति । सा कादम्बरी मे मम जन्मनः प्रभृत्युत्पत्तिदिनादारभ्यैकान्य भिन्नान्यशन शयनपानासनानि यस्याः सा । तत्राशनं भोजनम्, शयनं शय्या, पानं मद्यादि, आसनं चतुष्किकादि । एतेन प्रीत्युत्कर्षः सूचितः । परमुत्कृष्टं प्रेमस्थानं स्नेहस्थानम खिलानां समग्राणां विसम्भाणां विश्वासानां धाम द्वितीयमपरं हृदय.. मिव स्वान्तमिव बालमित्रम् । एकत्रेति । एकस्मिन्स्थले तया मया च गीतनृत्यकलासु कृताः परिचया अभ्या:साः । शिश्विति । शिशुजनोचिताभिर्बालजनयोग्याभिः क्रीडाभिरनियन्त्रणं खेच्छाविचरणं तेन निर्भरं यथा स्यात्तथा बालभावः शिशुभावोऽपनीतो दूरीकृतः । सा चेति । सा कादम्बर्यमुनैव मदीयेन हतवृत्तान्तेन समुपजातः शोको यस्याः सा तथा । इति निश्चयं निर्णयमकार्षीत् । सखीजनस्यालीजनस्य पुरतोऽग्रतः सशपथं शपथपूर्व क मित्यभिहितवती कथितवती च । इतिद्योत्यमाह - नाहमिति । कथंचिदपि केनचित्प्रकारेणापि सशोकायां महाश्वेतायामात्मनः स्वस्य पाणिं नाहं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । यदीति । यदि कथमपि महता कष्टेन मामनिच्छन्तीमप्यवाञ्छन्तीमपि बलाद्धठात्तातः पिता कदा चित्कस्मैचित्पुरुषाय दातुमिच्छति वाञ्छति तदाहमनशनेन प्रायसा वा, हुताशनेन वह्निना वा, रज्ज्वा रश्मिना वा, विषेण गरलेन वा । सर्वत्र वाशब्दो विकल्पार्थः । नियतं निश्चिमात्मानमुत्स्रक्ष्यामि त्यजिष्यामि । इति तदात्मदुहितुर्निजसुतायाः सर्व समयं कृतो निश्चयो यस्मिन्नेतादृशं निश्चलभाषितं स्थिरजल्पितं परिजनसकाशात्परिच्छद समीपात्कर्ण परम्परया' श्रोत्रप्रणालिकया गन्धर्वराजश्चित्ररथः स्वयमशृणोदाकर्णयत् । गच्छति व्रजति काले समये सति स चित्ररथः समुपारूढं प्राप्तं निर्भरमतिशायि यौवनं तारुण्यं यस्यामेतादृशीं तां कादम्बरीमालोक्य निरीक्ष्य बलवानुपतापः संतापस्तेन परवशः परायत्तः क्षणमपि धृतिं संतोषं नालभत नाप्तवान् । एकेति । एकापत्यतयै कसंततितयातिप्रियतया च किंचिदपि तां कादम्बरीमभिधातुं कथयितुं न शक्तो न समर्थ इति हेतोरन्यदुपायान्तरं कार्यसाधकप्रकारान्तरमपश्यन्नैनवलोकयंश्च । इदं कुमारीलक्षणमत्र प्राप्तकालं प्राप्तसमयमिति मत्वा ज्ञात्वा तया मदिरया महादेव्या सहावधार्य निश्चित्य क्षीरोदनामानं कञ्चकिनं सौविदल्लमिति संदिश्येत्युक्त्वा मत्समीपं मदुटिप्प० - 1 भोजनपरित्यागेन । 2 त्यक्ष्यामि इत्येव विवेकिभिर्वाच्यम् । 3 वस्तुतस्तु ... तामभि धातुम् । अपश्यंश्चान्यदुपायान्तरम्, इत्येव पाठः । पाठा० -१ मज्जन्मनः २ एकासनशयनपानाशना; एकासनपानाशना ३ नृत्यगीतादिकला/सु; गीतनृत्यादिकासु कलासु. ४ समुत्पन्न. ५ इच्छेत् ६ ततः ७ कृतनिश्चयं निश्चलं भाषितम्; कृतनिश्चयनिश्चलभाषितम् ८ अतिप्रेमतया गच्छति. ९ सुताम्; स संतापेन बळवददूयत न क्षणमपि धृतिमलभत १० शक्नोति. ३७२ कादम्बरी । [ कथायाम्, महादेव्या मदिरया सहावधार्य क्षीरोदनामानं कचुकिनम् 'वत्से महाश्वेते, त्वैव्यतिरेकेणैव दग्धहृयाणामिदमपरमस्माकमुपस्थितम् 'इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम्' इति संदिरैय मत्समीपं प्रत्युषसि प्रेषितवान् । तँतो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं सा तरलिका 'सखि कादम्बरी, कं दुःखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति संदिश्य विसर्जिता । नातिचिरं गतायां च तस्यामनन्तरमेवे मां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् । अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्नित्र शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद् इन्निव मुनिकुमारवधमहापातकम्, दर्शयन्निव चिरकाललनं दक्षशापानलदाहचिह्नम्, अविरलभस्माङ्गरागधवलो भृंगाजिनप्रावृतार्थो वामस्तन इवाम्बिकायाः, धूर्जटिजटामण्डल चूडामणिर्भगवानुदगात्तारकाराज: । क्रमेण चोगते गगनमहापयोधिपुलिने सेप्तलोकनिद्रामङ्गलपान्तं प्रत्युषसि प्रभाते प्रेषितवान्प्राहिणोत् । इतियोत्यमाह - वत्से इति । हे वत्से महाश्वेते, त्वयतिरेके णैव त्वद्वृत्तान्तेनैव दग्धं ज्वलितं हृदयं येषामेवंविधानामस्माकमिदं कादम्बरीसक्तमपरं दुःखमुपस्थितं प्रादुर्भूतम् । इदानीं तु सांप्रतं कादम्बरीमनुनेतुमनुनयं कर्तुं त्वं शरणं त्वमेवाश्रयः । ततो मया गुरुवचनं पूज्यवचस्तस्य गौरवेणानुल्लङ्घयतया सखी आली तस्याः प्रेम्णा स्नेहेन च क्षीरोदेन कञ्चुकिना सार्धं सा तरलिका इति संदिश्य कथयित्वा विसर्जिता प्रहिता । इतिद्योत्यमाह -- हे सखि कादम्बरि, कं दुःखितमपि पीडितमपि जनमतितरामतिशयेन दुःखयस्यतितरां पीडयसि । चेन्मां जीवन्तीं श्वसन्तीमिच्छसि वाञ्छसि । तदिति हेत्वर्थे वचनम् । गुरुवचनं अवितथं सत्यं कुरु विधेहि । तस्यां नातिचिरंगतायां स्तोककालप्रस्थितायां च सत्यामनन्तरमेवेमां भूमिं महाभागः सत्पुरुषः त्वमनुप्राप्तोऽन्वागतः इत्यभिधायेत्युक्त्वा तूष्णीं जोषमभवत् । अत्रान्तरेऽस्मिन्समये शोकानलेन शुग्वहिना दग्धं मध्यं यस्यैतादृशं महाश्वेताहृदयं लाञ्छनच्छलेनाङ्कमिषेण विडम्बयन्निव सादृश्यं कुर्वन्निव । धर्म उज्ज्वलः, पातकं श्याममिति तेनैव साम्येनाह - उद्वहन्निव धारयन्निव मुनिकुमारवधलक्षणं महापातकं महापापम् । दक्षेति । दक्षप्रजापतेर्यः शापानल: शापवह्निस्तेन दाहस्तस्य चिह्नं चिरकाललनं चिरकालीनं दर्शयन्निव प्रकटयन्निव । पाण्डुरत्वकृष्णत्वसाम्येनोपमानान्तरमाह - अविर लेति । अविरलो निबिडो भस्माङ्गरागरतेन धवलः शुभः । तथा मृगस्याजिनं चर्म तेन प्रावृतमाच्छादितमर्ध यस्यैवंविधोऽम्बिकायाः पार्त्रया वामो दक्षिणेतरः स्तनः कुच इव । धूर्ज टिरिति । धूर्जटिरीश्वरस्तस्य जटामण्डलं तस्य चूडामणिर्भगवान्माहात्म्यवांस्तारकाराजश्चन्द्र उदगादुदितवान् । क्रमेण परिपाट्या शशाङ्कमण्डल उद्गत उदिते सति चन्द्रापीडो महाश्वेतां सुप्तां शयितामालोक्य निरीक्ष्य शनैः शनैर्मन्दं मन्दं पल्लवशयने किसलयशव्यायां समुपाविशदधितस्थौ । अथ च शशाङ्कमण्डलं विशेषयन्नाह - गगनेति । गगनमपारत्वामहापयोधिर्जलधिस्तस्य पाण्डुरत्वसाम्यात्पुलिन इव पुलिने जलोज्झितसैकतरूपे, सप्तलोकेषु निद्रायाः प्रमीटिप्प० - 1 अहो अनभिज्ञता ! व्यतिरेकस्य विरहः कदाचिदर्थ: स्यात्परं न कदाचिद्वृत्तान्त इत्यर्थः । तस्मात् 'त्वद्व्यतिकरेण' इत्येव पाठः । 2 लेखकप्रमादमेव जाने । यदि च न तथा, तर्हेि नातः परं मूर्खत्वम् । 'किं दुःखितमपि ' इत्येव पाठः सर्वबोध्यश्वार्थः । पाठा०—१ ब्रूहे गत्वा वचः वत्से. २ त्वद्व्यतिरेकेणैकेनैव. ३ इदानीं कादम्बरीव्यतिकरे, ४ संदिश्य तदनु: नयार्थ. ५ अद्यैव प्रत्युषसि ६ अतः ७ अश्चिान्तरे, ८ कृष्णमृगाजिन ९ समस्त. केयूरकेण सह तरलिकाया आगमनन् ] पूर्वभागः । कलशे कुमुदवान्धवे विघटितकुमुदवने धवलितदशदिशि शश्वेते श्वेतिमानमातन्वति मानिनीमानदस्यौ शशाङ्कमण्डले, शशिकर कैलापकलितास्वातन्त्रतीषु ऋशिमानमौडवीषु प्रभासु, प्रस्रवत्सु च कैलासशशिमणिशिलानां सर्वतः स्रोतःस्राविषु प्रस्रवणेषु, मृणालकन्दलिनि चावस्कन्द पतितचन्द्रकर इव विलुप्तकमलबनशोभे भात्यच्छोदसरः पयसि, समुपोढमोहनिद्रे च द्राधीयोवीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचकवाले, निवृत्त च चन्द्रोदये, विद्रुते हर्षनयनजलकणनीहारिणि चियद्विहारिणि मनोहारिणि विद्याधराभिसारिकाजने, चन्द्रापीड : सुप्तामालोक्य महाश्वेतां पल्लवशयने शनैः शनैः समुपाविशत् । 'अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोक ' इति चिन्तयन्नेव निद्रां ययौ । लाया मङ्गलकलश इव । कुमुदस्य कैरवस्य बान्धवे बन्धुसदृशे । विघटितेति । विघटितानि विमुद्रितानि कुमुदवनानि येन स तस्मिन् । धवलितेति । धवलिताः शुभीकृता दशदिशो येन स तस्मिन् । शङ्खवज्जलजवच्छ्छ्रेते शुभ्रे । किं कुर्वति । श्वेतिमानं श्वेतातिशयमातन्वति विस्तारयति सति । अथवा शङ्खस्य श्वेतो गुणस्तस्मिञ्श्वेतिमानं चाकचक्यरूपं यथादर्शे विस्तारयति सति । इदं च शङ्खे चन्द्रकिरणसंपर्कवशाद्विलक्षणा पाण्डुरता दृश्यत इत्यभिप्रायेण सूर्यकरसंपर्कवशाद्विलक्षण स्वच्छता दृश्यते तद्वदिवेति केचित् । मानिनीति । मानिन्या मानवत्याः स्त्रियो यो मानः स्मयस्तस्य दस्यौ विपक्षे । मानिनीमानापहारकत्वाद्दस्यु सादृश्यमिति । पुनः कासु । शशिकराणां चन्द्रकिरणानां कलापेन समूहेन कलितासु सहिताखौ डवीषु नक्षत्रसंपन्धिनीषु प्रभासु कान्तिषु ऋशिमानं कृशत्वमातन्वतीषु विस्तारयन्तीषु । पुनः केषु । कैलासस्य शिलामणेयश्चन्द्रकान्तास्तेषां शिलास्तासां सर्वतोऽभितः स्वतोऽम्भःसरणं स्रोतस्तरस्रवन्तीत्येवंशीलेषु प्रस्रवणेषूत्रेषु प्रस्रवत्सु क्षरत्सु । पुनः कस्मिन्सति । अच्छोदाभिधानस्य सरसः पयसि पानीये भाति राजति सति । कीदृशे । मृणालानां कन्दला विद्यन्ते यस्मिन् । विलुप्तेति । विलुप्ता विलोपं प्राप्ता कमलवनस्य पद्मखण्डस्य शोभा श्रीर्यस्मिन् । अत एव श्वेतत्वसाम्येनोत्प्रेक्षते - अवेति । अवस्कन्दार्थ हननार्थ पतिताः प्रविष्टाश्चन्द्रकरा यस्मिन्नेवविध इव । पुनः कस्मिन्सति । विरहिणि विप्रलम्भिनि चक्रवाका द्वन्द्व चरास्तेषां चक्रवाले समूहे विरुवति शब्दं कुर्वति सति । अथ चक्रवाकसमूहं विशेषयन्नाह - समुपोढेति । समुपोढा समागता विरहवशान्मोहनिद्रा यस्मिन् । द्वाघीय इति । द्राघीयोभिरतिदीर्घाभिर्वाचिभिः कलोलैर्विचलितं कम्पितं वपुर्यस्य स तस्मिन् । पुनः कस्मिन् । चन्द्रोदये च निर्वृत्ते सति । विद्याधराणां व्योमचारिणामभिसारिकाजने संकेतितस्त्रीजने विद्वते विशकलिते जाते सति । अभिसारिकाजनं विशेषयन्नाह हर्ष इति । हर्षजनिता ये नयनजलकणा एव प्रमोदबाष्पपृषता एव नीहारं तुहिनं हिमं यस्मिन् । वियद्विहारिणि व्योमचारिणि मनोहारिण्यभिरामे । अस्यामिति । अस्यां पूर्वोक्तायां वेलायां समयविशेषे । खलु निश्चयेन । मामन्तरेण मध्यतिरेकेण वैशम्पायनः । अथ च वराकी पत्रलेखा । अथ च राजपुत्रलोको नृपसुतसमूहः किं चिन्तयति किं चिन्तयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति वर्तमानता । इति चिन्तयन्नेवेति ध्यायन्नेव निद्रां ययौ प्रमीलां प्राप्तवान् । 1 टिप्प० - 1 शशिमणय इत्युचितम् । 2 अवस्कन्दार्थ कमलानामाक्रमणार्थमित्युचितोर्थः । यतो हि करा: (हस्ताः) कस्यचिन्निर्दयग्रहणार्थ कुत्रचित्पतन्ति । 3 निर्वृत्ते इत्येव पाठः । चन्द्रोदये निष्पन्ने हुति तदर्थः । 4 चन्द्रोदयेन तिमिरापगमाल्लोकानां दर्शनपथादतिक्रान्ते सतीत्याशयः । पाठा० -१ शङ्खश्वेते श्वेतात त्रामाणे; शङ्ख श्वेतायमाने. २ शत्रौ० ३ शुचिशोचिषि शशाङ्कमण्डले; शशाङ्के. ४ रोचिष्णुराशि ५ कलितासु, कवलितासु. ६ जन्तीषु ७ अवश्याय ८ पवनवशालमुपोढ, ९ निवृत्ते. १० शनैः . ३७४ कादम्बरी । [ कथायाम्अथ क्षीणायां क्षपायामुषसि संध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायां निर्वर्तितप्राभातिकविधौ चन्द्रापीडे तरलिका पोडशवर्षवयसा, सावष्टम्भाकृतिना, मदखेदालसगजगमनगुरूणि पदानि निक्षिपता, पर्युषितचन्दनाङ्गरागधूसरोरुदण्डद्वयेन, कुङ्कुमरागपिञ्जरारुणेन, चामीकरशृङ्खलाकला पनिविडनियमितं कक्षाबन्धातिरिक्तप्रेसत्पल्लवमधरवास एव केवलं वसानेन, निरुदंरतया विभेक्तमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपीनबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणमणेर्विप्रकीर्यमाणमधोमुखकिरणेन्द्रायुधजालवर्णांशुकोत्तरीय मिवैकस्कन्धंक्षिप्तमुद्वहता, चूतपल्लवकोमलमनवरतताम्बूलबद्धरागान्धकारमघरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव दिगन्तरराणि, कुमुदवनानीव वर्षता, पुण्डरीकमयमिव दिवसं कुर्वता, कनकपट्टपृथुललादेन, S अथेति । क्षीणायां क्षपायामुषसि प्रभाते संध्यामुपास्य शिलातलोपविष्टायां पवित्राणि पूतान्यघमर्षणान्यापोदेवतास्तुतिरूपाणि महाश्वेतायां जपन्त्यां स्मरन्त्यां सत्यां, निर्वर्तितो विहितः प्राभातिकः प्रत्यूषसंबन्धी विधिर्येनैवंविधे चन्द्रापीडे सा तरलिका प्रत्यूषस्येव प्रादुरासीत्प्रकटीबभूवेत्यन्वयः । कीदृशी । केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना । अथ केयूरकं विशेषयन्नाह – षोडशेति । षोडशवर्षाणि हायनानि तैः परिमितं वयो यस्य स तथा तेन । तावन्मात्र प्रमाणेनेत्यर्थः । सहावष्टम्भेनाभिमानेन वर्तमाना सावष्टम्भाकृतिराकारो यस्य स तेन । किं कुर्वता । मदखेदेनालसो मन्थरो यो गजो हस्ती तस्य गमनवद्गुरूणि पदानि चरणन्यासान् । निक्षिपता स्थापयता । पर्युषितो गतदिनसक्तो यो चन्दनाङ्गरागस्तेन धूसरमीषत्पाण्डुरमूरुदण्डद्वयं सक्थिदण्डद्वितयं यस्य स तेन । कुङ्कुमेति । कुङ्कुमं केसरं तस्य रागेण पिञ्जरः पीतरक्तोऽरुणो देहस्थरागो यस्य स तेन । किं कुर्वता । केवलमधरवासोऽधोंशुकमेव वसानेन परिधानीकुर्वता । अथाधरवासो विशेयन्नाह – चामीति । चामीकरस्य सुवर्णस्य शृङ्खलाकलापस्तेन निबिडं यथा स्यात्तथा नियमितं बद्धम् । कक्षेति । कक्षाबन्धात्कटिबन्धादतिरिक्तस्य वस्त्रस्य प्रेमन्त उल्लसन्तः पल्लवा अञ्चला यस्य तत् । निर्गतं यंदुदर तस्य भावस्तत्ता तथा विभक्तो विभागीकृतो मध्यो भागो यस्य स तेन । अनेन सामुद्रिकसुलक्षणत्वमुक्तम् । विपुलेति । विपुलं बृहद्वक्षो. भुजान्तरं यस्य स तेन । दीर्घेति । दीर्घावायतावनुवृत्तपीनौ परम्परया पुष्टौ बाहू भुजौ यस्य स तेन । वामेति । वामप्रकोष्ठे दक्षिणेतरकलाचिकायां दोलायमानं कम्पमानं माणिक्यवलयं रत्नकङ्कणं यस्य स तेन । कर्णेति । कर्णाभरणमणेः श्रोत्रभूषणरत्नस्य विप्रकीर्यमाणं विक्षिप्यमाणमधोमुखकिरणानामिन्द्रायुधजालवर्णं शक्रचापसमूहरागं यदंशुकोत्तरीयमुत्तरानं चित्रवस्त्रमेक स्कन्धक्षिप्तमिवै कांसन्यस्तमिवोद्वहता धारयता । पुनः किं कुर्वता । अधरं दन्तच्छदमोष्ठं दधता । अधरं विशेषयन्नाह - चूतेति । चूतपल्लववदाम्रकिसलयवत्कोमलं सुकुमारम् । अनवरतेति । अनवरतं निरन्तरं ताम्बूलस्य नागवल्लया दलस्य बद्धो रागान्धकारो यस्मिन् । कर्णेति । कर्णान्तायतस्य श्रोत्रप्रान्तप्राप्तस्य स्वभावेन धवलस्य शुभ्रस्य लोचन युगलस्य नेत्रयुग्मस्य धवलिम्ना शुभ्रत्वेन दिगन्तराणि धवलयतेव शुभ्रीकुर्वतेव । कुमुदवनानीव कैरवखण्डानीव वर्षता वृष्टिं कुर्वता । पुण्डरीकमयमिव सिताम्भोजमयमिव दिवसं वासरं कुर्वता सृजता । कनकेति । टिप्प० - 1 सावष्टम्भा सबला आकृतिर्यस्येत्युचितोर्थः । 2 अनुदरा कन्येतिवत् ईषदर्थे निःशब्दः । 3 एकस्कन्धक्षितम् उत्तरीयमिव किं वहति ? न किञ्चित्तीयते, सर्व भ्रष्टीचकार महाभागः । ..किरणेन्द्रायुधजालं वर्णाशुकोत्तरीय मिव' इति पाठः । कर्णाभरणरतस्य नीचैर्विकीर्यमाणाः (प्रसरन्तः) अधोमुखाः किरणाः नानावर्णशालितया इन्द्रधनूंषीव तेषाम् (किरणानाम्) जालमेकस्कन्धसक्तं वर्णांशुकमिव ( रक्तवर्णरंजितम् अंशुकमिव वस्त्रमिव:) उद्वहता, इति तदर्थः । 4 दिगन्तरे नेत्रप्रेरणस्य कुमुदवनवर्षणत्वेन, दिवसस्य पुण्डरीकमय करणत्वेन चोत्प्रेक्षेत्याशयः । पाठा- •१ गजराज, २ विभक्तमध्येन. ३ मणिर्विप्रकीर्य. कादम्बर्याः प्रतिसंदेशः ] पूर्वभागः । अलिकुलनीलसरैल शिरसिजेन, अप्राम्याकृतिना, राजकुल संपर्कचतुरेण, गन्धर्वदारकेण केयूर कनाम्नानुगम्यमाना प्रत्यूषस्येव प्रादुरासीत् । आगत्य च कोऽयमित्युपजातकुतूहला चन्द्रापीडं सुचिरमवैलोक्य महाश्वेतायाः समीपमुपसृत्य कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिलातलं भेजे । उपविष्टश्च तमदृष्टपूर्वमधः कृतकुसुमायुधमुपहसित सुरासुरगन्धर्वविद्याधररूपं रूपातिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमापेदे । परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम् 'किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम्' इति । .) अथ सा तरलिका विनयावनतमौलिरीषदेवलम्बितकर्णपाशमतिमधुरया गिरा। व्यजिज्ञपत्'भर्तृदारिके, दृष्टा खलु मया भर्तृदारिका कादम्बरी सर्वतः कुशलिनी । विज्ञापिता' च निखिलं भर्तृदुहितुः संदेशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसंदिष्टम्, तदेष तथैव विसर्जितस्तस्या एव वीणावादकः केयूरकः कथयिष्यति' इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत् - 'भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढकनकपट्टवत्सुवर्णपट्टवत्पृथु विस्तीर्ण ललाटमलिकं यस्य स तेन । अलीति । अलिकुलवन्नीलाः सरला अवकाः शिरसिजा: केशा यस्य स तेन । अग्राम्येति । आग्राम्या नागरीयाकृतिराकारो यस्य स तेन । राजेति । राजकुलेन यः संपर्कः संबन्धस्तत्र चतुरेण चातुर्ययुक्तेन । आगत्य चेति । आगत्य चैत्य च । कोऽयमित्युपजातं समुत्पन्नं कुतूइलं यस्याः सा तया । सुचिरं चिरकालं यावत् चन्द्रापीडमवलोक्य निरीक्ष्य महाश्वेतायाः समीपमुपसृत्यागय कृतो विहितः प्रणामो यया सा सविनयमुपाविशदुपविष्टा । अनन्तरमिति । तरलिकावस्थानानन्तरमतिदूरादानतेन नम्रेणोत्तमाङ्गेन शिरसा प्रणम्य नमस्कृत्य केयूरकोऽपि महाश्वेतया दृष्ट्या निसृष्टं दर्शितं नातिसमीपवर्ति नातिनिकटवर्ति शिलातलं भेजेऽधितस्थौ । उपविष्टश्चेति । तत्रोपविष्ट आसीनश्च स तमदृष्टपूर्वमनवलोकितपूर्वमधः कृतः कुसुमायुधो येन स तमुपहसितं न्यकृतं सुरासुरगन्धर्वविद्याधराणां रूपं सौन्दर्य येन स तमेवंविधं चन्द्रापीडस्य रूपातिशयं सौन्दर्याधिक्यं दृष्ट्वा चावलोक्य च विस्मयमाश्चर्यमापेदे प्रातवान् । परीति । परिसमाप्तः पूर्णीभूतो जपो जापो यस्याः सैवंविधा महाश्वेता तरलिकामिति पप्रच्छेत्यप्राक्षीत् । इतिद्योत्यमाह- कादम्बरीति । कादम्बरी प्रियसखी वल्लभवयस्या कुशलिनी कल्याणवती त्वया किं दृष्टावलोकिता । वा अथवा तत्पूर्वोक्तमस्मद्वचनं करिष्यति । अथेति । तत्प्रश्नानन्तरं सा तरलिका विनयेनावनतो मौलिर्यया सा ईषत्किंचिदवलम्बितकर्णपाशं यथा भवति तथा व्यजिज्ञपद्विज्ञापनां चकार । कया । अतिमधुरयातिमिष्टया गिरा वाण्या, हे भर्तृदारिके, खलु निश्चयेन । कादम्बरी भर्तृदारिका सर्वतः सर्वप्रकारेण कुशलिनी कल्याणवती दृष्टावलोकिता । विज्ञापिता च निखिलं समग्रं भर्तृदुहितुर्भवत्याः संदेशमुदन्तम् । आकर्ण्य चेति । तच्छ्रुत्वा च यत्तया कादम्बर्या संततं निरन्तरं मुक्ताः स्थूला येऽश्रुबिन्दवस्तेषां वर्षो यस्मिन्नेतादृशं यथा स्यात्तथा रुदित्वा रुदनं कृत्वा प्रतिसंदिष्टं प्रत्युत्तरं कृतं, तदेष तयैव कादम्बर्यैव विसर्जितस्त्वन्निकटे प्रेषितस्तस्या एव कादम्बर्या एव वीणावादकः केयूरकः कथयिष्यति निवेदयिष्यति । इत्युक्त्वा विरराम विरता बभूव । अथ विरतवचसि तस्यां केयूरकोऽब्रवीदवोचत् । हे भर्तृदारिके टिप्प० - 1 संततं मुक्तावत्स्थूलानाम् अश्रुबिन्दूनां वर्ष: (वर्षणम्) यस्मिन्कर्मणि यथा स्यात्तथा इति स्पष्टोर्थः । 2 वीणावाहक इत्येवोचितः पाठः । पाठा० -१ कुटिल, २ आलोक्य ३ समुपविष्टश्च सत्र : आलम्बित ५ सतत ६ वीणाबाहकः. ३७६ कादम्बरी [ कथायाम दत्तकण्ठग्रहा त्वां विज्ञापयति - 'यदि यमागत्य मामवदत्तरलिका तत्कथय किमयं गुरुजनानुरोध:, किमिदं मचित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोशलम्भः, किं प्रेमविच्छेदाभिलापः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्द निर्भरं हृदयम्, एवमतिनिष्ठुरं संदिशन्ती कथमसि न लजिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृदुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः कीदृशाः संभोगाः, कानि वा हसितानि । येनेदृशीं दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमैयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमा• गमसुखानि त्यजति, किमुत नार्यः । यंत्र भर्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेजनः । यत्र च भर्तृविरहविधुरा , € M महाश्वेते, देवी कादम्बरी दृढ़ दत्तः कण्ठग्रहो यया सा । कृतालिङ्गनेत्यर्थः । त्वां विज्ञापयति विज्ञप्तिं करोति । किं विक्षप्तिं कृतवतीत्याह - यदियमिति । इयं तर लिका मामागत्यैत्य यदवददवोचत्तत्कथय ब्रूहि – किमयं गुरुजनानुरोधः किं गुरुजनपारवश्यम् । किमिदं मचित्तस्य मन्मनसः परीक्षणं परीक्षाकरणम् । किं गृहनिवासलक्षणो योऽपराध आगस्तस्य निपुणो योग्योऽयमुपालम्भः । किं प्रेमविच्छेदार्थ स्नेह निवृत्त्यै अयमभिलापः संलापः । किं भक्तजनस्थ सेवकजनस्य परित्याग उपायः प्रपञ्चः । किंवा प्रकोपः प्रतिघा । सहजं स्वाभाविकं यत्प्रेम तस्य निस्यन्दो रसस्तेन निर्भरं हृदयं मे मम जानास्येव ज्ञास्यस्येव । एवं अतिनिष्ठुरमतिपरुषं संदिशन्ती कथयन्ती कथं न लज्जितासि । तथा त्वं मधुरभाषिणी सत्यप्रियमनिष्टं वक्तुं जल्पितुं परुषं कठिनमभिधातुं कथयितुं केन पुंसा त्वं शिक्षितासि हितोपदेशविषयीकृतासि । स्वास्थ्यवशादेतादृशी मतिरुत्पद्यत इत्यभिप्रायेणाह - स्वस्थोऽ. पीति । स्वास्थ्यवानपि तावदादौ सहृदयः पण्डितः कनीयसि लघीयसीदृशेऽवसान विरसे प्रान्तदुःखदे कर्मणि क्रियायां क इव को जनो मतिं बुद्धिमुपसर्पयेत् । अस्वस्थानां तु दूरत आस्थेत्याह -- किमुतेति । अतिदुःखेनाभिहतं हृदयं यस्यैवंभूतोऽस्मद्विधो जनः किमुत कथ्यते । सर्वथा तत्कर्मणि न प्रवर्तत इत्यर्थः । हीति निश्चि तम् । सुहृद्दुःखखेदिते मित्रदुःखाभिभूते मनसि कैव सुखाशा कः सौख्याभिलाषः कैव निर्वृतिर्मनःसंतुष्टिः । संभोगा इन्द्रियार्थाः कीदृशाः किंस्वरूपाः । हसितानि स्मितानि कानि च कीदृशानि । येन कामेन प्रियसखी दृशीं दशामवस्थामुपनीता प्रापिता तं विषमिवाप्रियकारिणमनिष्ट विधायिनमतिदारुणमतिभीषणं कथं कामं सकामं साभिलाषं कुर्याम् । प्रणयसखीदुःखेन खस्मिन्दुःखवत्त्वं निदर्शयन्नाह - दिवसेति । दिवसकरस्य सूर्यस्यास्तमयेन परद्वीपान्तरगमनेन विधुरासु दुःखितासु नलिनीषु कमलिनीषु सैत्सु सहवासपरिचयाञ्चक्रवाकयुवतिरपि द्वन्द्वचरवनितापि पतिसमागमसुखानि भर्तृसंयोगसौख्यानि त्यजति जहाति, तर्हि नाऽपि योषितोऽपि किमुत वाच्याः । न किमपि कथनीया इत्यर्थः । यत्रेति । यत्र हृदये भर्तृविरहेण विधुरा दुःखिता परिहृतं परित्यक्तं परपुरुषाणामपरपुंसां दर्शन वीक्षणं यया सैर्वविधा प्रियसखी महाश्वेता दिवानिशमहोरात्रं निवसत्यधितिष्ठति तन्मम हृदयमपर इतरः प्राकृतो जनः कथमिव प्रविशेत्कथं प्रवेशं कुर्यात् । यत्र चेति । यत्र यस्मिन्समये भर्तुः पत्युर्विरहेण वियोगेन विधुरा दुःखिता व्रतेन नियमेन कर्शित कृशतां नीतमङ्गं शरीरं यया सैवंविधा प्रियटिप्प० ---1 वेत्स्येवेत्युचितम् । 2 कामं कथं सकामं कुर्यामित्यन्वयः । 3 सतीषु, इति तात्पर्यम् । 4 अनधिकारी भाषायाम् । नार्यस्तु इत्युचितम् । पाठा -१ गुरुजनवचनानुरोध: २ अभिलाष: ३ अस्तमन ४ समागम, ५ परित्यजति, ६ अपि च यत्र. 9 कादम्बर्या: प्रतिसंदेश: ] पूर्वभागः । ३७७ 2 1 व्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति तत्राहमवगणय्यैतत्कथमात्मसुखार्थिनी पाणि ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन्वस्तुनि कुमारिकाजनविरुद्धं] [स्वातंत्र्यमालम्ब्याङ्गीकृतमपैयशः समवधीरितो विनयः, गुरुबचनमतिक्रामितम्, न गणितो लोकांपवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, सा कथय कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम् इदं च पादग्रहणम्, अनुगृहाण माम्, वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्रेऽपि पुनरिममर्थ मनसि' इत्यभिधाय तूष्णीमभूत् । महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य, 'गच्छ स्वयमेवाहमागत्य यथार्हमाचरिष्यामि' इत्युक्त्वा केयूरकं ग्राहिणोत् । 3 " • गते च केयूरके चन्द्रापीडमुवाच -- 'राजपुत्र, रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहल: किंपुरुषविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम् अह J सखी महत्कृच्छ्रं काष्टमनुभवत्यनुभवविषयीकरोति, तत्र तस्मिन् समयेऽहं प्रियसख्येतद्दुःखमवगणय्यावगणनां कृत्वा त्मसुखार्थिनी स्वस्य सुखाभिलाषिणी कथं पाणि करं ग्राहयिष्यामि ग्रहणं कारयिष्यामि । एवं सत्यनुष्टिते पाणि ग्रहे न खेष्टसिद्धिरित्यत आह - कथमिति । वेति पक्षान्तरे । कथं मम सुखं भविष्यति । इष्टविरहव्याकुलचित्तत्वे न सुखमिति भावः । अथ त्वया साकं यत्प्रेम तदपि न भविष्यति । 'ईषिते ईषितं चेत्स्यात्तदा प्रेम प्रवर्तते' इति न्यायात् । अतस्त्वत्प्रेम्णा त्वत्स्त्रेहेनास्मिन्वस्तुनि पाणिग्रहणविषये मया कुमारिकाजनविरुद्धं स्वातन्त्र्यं स्वेच्छाचारित्वमालम्ब्यापयशोऽपकीर्तिरङ्गीकृतं स्वीकृतम् । पित्रादिभिः पाणिग्रहण कार्यमाणापि पितुराज्ञाऽकरणमित्यपयशः । समवधीरितस्तिरस्कृतो विनयः । गुरुवचनं पित्रादीनां वचोऽतिकामितमुल्लङ्घितम् । तथा लोकापवादो जनापवादो न गणितो न विचारितः । वनिताजनस्य स्त्रीजनस्य सहजं स्वाभाविकमाभरणं भूषणं लज्जा नपा सा चोत्सृष्टा त्यक्ता । कथय प्रतिपादय एतादृशो जनः कथमिव पुनरत्रास्मिन्कर्मणि प्रवर्तते प्रवृत्तिं करोति । उपसंहरति - तदिति हेत्वर्थे । अयमञ्जलिरुपरचितो निबद्धः । अयं च प्रणामो नमस्कारः । इदं च पादग्रहणमभिवादनम् । इति हेतोर्मामनुगृहाणानुग्रहं कुरु । इतो मत्समीपान्मे मम जीवितेन प्राणितेन सह वनं गतासि प्राप्तासि इति स्वप्नेऽपि स्वप्नावस्थायामपि पुनर्द्वितीयवारमिमं पूर्वोक्तमर्थं मनसि चित्ते मा कृथा मा व्यधिष्ठाः । इत्यभिधायेत्युक्त्वा तूष्णीमभून्मौनं कृतवती । महाश्वेता तु तत्पूर्वोक्तं श्रुत्वाकर्ण्य सुचिरं चिरकालं यावत् विचार्य विमृश्य त्वं गच्छ व्रज स्वयमेवात्मनैव । अहमागत्य यथार्हं यथायोग्यमाचरिष्यामीत्युक्त्वा केयूरकं ग्राहिणोत्प्रेषितवती । गते केयूरके चन्द्रापीडमुवाचाब्रवीत् । किं तदित्याह -- राजपुत्रेति । हे राजपुत्र नृपसूनो, अयं हेमकूटो रमणीयो मनोहरः चित्ररथो गन्धर्वनाथस्तस्य राजधानी नृपनिवासनगरी चित्रा विविधाश्चर्ययुक्ता । बहून्यनेकानि कुतूहलान्याश्चर्याणि यस्मिन्नेवंविधः किंपुरुषाणां किंनराणां विषयो देशः । गन्धर्वलोको देवगायनजन: पेशल: सुन्दर: । 'पेशलं हृद्यसुन्दरे' इति कोषः । सरलहृदयाऽकुटिलचित्ता महानुभावा च कादम्बरी भर्तृदारिका । यदीति प्रत्येकमभिसंबध्यते । नातिखेदकरमिव नातिप्रयासजनकमिव गमनं यानं कलयसि जानासि । वेति विकल्पार्थे । गुरुप्रयोजनं महानर्थो नावसीदति न विलम्बितो भवति । वेति पूर्ववत् । । टिप्प० -- 1 अतिक्रान्तमित्येव पाठः । 2 आवश्यक कार्यमित्याशयः । पाठा -१ तीव्रव्रत. १ वस्तुनि मया. ३ अयशः. ४८ का० ३७८ कादम्बरी । [ कथायाम्ष्टचरविषयकुतूहलि वा चेतः, मद्वेचनमनुरुध्यते वा भवान, अतिसुखदायि वाश्चैयदर्शनम्, अर्हसि वा प्रणयम्, इममप्रत्याख्यानयोग्यं वा जनं मन्यसे, समारूढो वा परिचयलेशः, अनुप्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । ईतो मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्टा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः कुँमतिमनोमोहविलसितम्, एकमहो विश्रम्य श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छुसितमिव चेतसा । श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः' इत्युक्तवतीं चैनां चन्द्रापीडोऽत्रवीत् – 'भगवति, दर्शनात्प्रभृति परवानयं जनः कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्' इत्यभिधाय तथा सहैवोदचलत् । अदृष्टचरोऽनवलोकितपूर्वो यो विषयो देशस्तत्र कुतूहलं विद्यते यस्यैवंभूतं यदि चेतः । वाथवा भवान्मद्वचनं मद्वाक्यमनुरुध्यते समीहते । अनुपूर्वको रुधू दिवादिरिच्छार्थः । वेति पक्षान्तरे । यद्यतिसुखैदाव्यतिशयेन सौख्यप्रदमाश्चर्यदर्शनं कुतूहलावलोकनम् । वेति पूर्ववत् । अर्हसि वाञ्छसि यदि प्रणयं स्नेहम् । इमं मल्लक्षणं जनमप्रत्याख्यानयोग्यमनिराकरणयोग्यं वा मन्यसे जानासि । समारूढः प्राप्तो वा परिचयलेशः संस्तवलवः । अनुप्रात्यो वानुग्रहयोग्यो वायं जनः । ततस्तस्माद्धेतोर्निष्फलां रिक्तामिमामभ्यर्थनां कर्तुं विधातुं नार्हसि न योग्यो भवसि । इतोऽस्मात्स्थानान्मयैव सह अतिरमणीयतानिधानं चारुताशेवधिं हेमकूटं गत्वा । तत्रेति । तस्मिन्स्थले मत्तो निर्गतो विशेषो यस्याम् । मत्सदृशीमित्यर्थः एतादृशीं कादम्बरीं दृष्ट्वा विलोक्य च । तस्याः कादम्बर्याः कुत्सिता मतिर्यस्मादेवंविधो यो मनोमोहश्चेतसोऽज्ञानं तस्य विलसितं चेष्टितमपनीय दूरीकृत्यैकमहर्दिनं विश्रम्य विश्रामं गृहीत्वा । श्वोभूत इति । श्व आगामिदिने तस्मिन्भूते जाते सति प्रागमिष्यसि पश्चादायास्यसि । ममेति । हीति निश्चितम् । मम निष्कारणबान्धवं निमित्तव्यतिरेकेण स्वजनं भ्रातरं वा भवन्तं त्वामालोक्यैव निरीक्ष्यैव दुःखमेवान्धकारं तिमिरं तस्य भारो वीवधस्तेनाकान्तेन व्याप्तेन चेतसा चित्तेन महतः कालाच्चिरसमयादुच्छ्रसितमिव गृहीतंश्वासमिव । इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयित्वा । सोढुं शक्यः सत्यस्तस्य भावस्तत्ता तामिव गतः प्राप्तः शोकः । श्रावणेन स शोको जीर्णतां प्राप्त इत्यर्थः । तत्रोपपादकमाह - दुःखितमपीति । सज्जनसमागमाः दुःखितमपि जनं रमयन्ति विनोदयन्ति । अत्रार्थे हेतुमाह - परेति । परस्यान्यस्य यत्सुखं तस्य यदुपपादनं तत्र पराधीनः परायत्तः । तन्निमित्तक इति यावत् । भवादृशां त्वत्सदृशानां गुणोदैयो गुणाः शौर्यादयस्तेषामभ्युदय इति पूर्वोक्तप्रकारेणोक्तवतीं कथितवतीं चन्द्रापीडोऽब्रवीदवोचत् हे भगवति, दर्शनात्प्रभृत्यवलोकन दिनादारभ्य परवान्परराधीनः । त्वदायत्त इति यावत् । अयं जनः । कर्तव्येषु कार्येषु यथेष्टमशङ्किततया शङ्काराहित्यतया भवत्या नियुज्यतां प्रेर्यतामित्यभिधायेत्युक्त्वा तया महाश्वेतया सहोद चलत्प्रस्थानमकरोत् । टिप्प० -1 रक्षितुमिच्छति, इत्यर्थ उचितः । 2 यदि आश्चर्यदर्शनम् अतिसुखदायि (अस्ति), इत्यन्वयो योग्यः । 3 चित्तेन गृहीतश्वासमिवेति योजयतो धिक् टीकाकृतो जाड्यम् । चित्तेन उच्छ्रसितमिव चित्तेन प्राणितमिव । एतावत्कालं चित्तं मृतमिवासीत्, इदानीं तेन उच्छासो गृहीत इति तात्पर्यम् । चित्तमुच्छ्रसित मिवेति प्रकारान्तरम् । 4 चन्द्रा पीडस्स रूंपादिगुणानालोक्य कादम्बरी मुग्धा स्यादिति तद्विवाहेन तस्याः सुखं स्यादिति निगूढसूचना । पाठा०-१ अस्मद्वचनम् २ भवन्मतिरतिदुःखदायि; भवन्मतिः सुखदायि, ३ वास्मञ्चिरदर्शनम् ४ अर्हामि. ५ योग्यां वा मन्यसे माम्. ६ मयैव. ७ कुमतिमिमाम्. ८ च. कादम्बरीभवनप्राप्तिः ] पूर्वभागः । ३७९ क्रमेण च गत्वा हेमकूटमासाथ गन्धर्वराजकुलं समतीत्य काचनतोरणानि सप्तकक्षान्तराणि कन्यान्तः पुरद्वारभवाप । महाश्वतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कमकवेत्रलताहस्तेन प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्या संख्येय नारीशतसहस्रसंबाधं श्रीमयम परमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यत्रैणमिव संहृतम्, अपुरुषमिव सर्गान्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम्, अपरमिव पुरुषद्वेषिप्रजापति निर्माणम्, अनेक कल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावित दिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमा कुर्वतेव भुवनान्तरालं बहुलप्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव चन्द्रक्रमेण परिपाट्या गत्वा च हेमकूटं गन्धर्वराजकुलम साद्य प्राप्य काञ्चनस्य सुवर्णस्य तोरणानि बहिर्द्वाराणि येष्वेवंविधानि सप्तकक्षान्तराणि गृहान्तराणि समतीत्य व्यतिक्रम्य कन्यानां यदन्तःपुरं तस्य द्वारमवाप प्राप्तवान् । तदनन्तरं कुमारः कुमारीपुराभ्यन्तरं ददर्शेक्षांचके । किंविशिष्टः कुमारः । महाश्वेताया दर्शनार्थमवलोकनार्थं प्रधावितेनोचलितेन दूरादेव कृतप्रणामेन कनकवेत्रलता हस्ते यस्यैवंभूतेन प्रतीहारजनेन द्वारपालकलोकेनोपदिश्यमानो वचनव्यक्त्या प्रोच्यमानो मार्गः पन्था यस्य सः । किं कृत्वा । प्रविश्य प्रवेशं कृत्वा । इतः कुमारीपुराभ्यन्तरं विशेषयन्नाह - असंख्येति । असंख्येयानि गणनावर्जितानि नारीणां स्त्रीणां शतसहस्राणि लक्षाणि तैः संबाधं संकीर्ण स्त्रीमयमपरं भिन्नं जीवलोकमिव । इयत्तेति । इयत्तामेतावत्यो नार्यः सन्तीति संख्यां ग्रहीतुं त्रैलोक्यस्त्रैणं त्रिभुवनस्त्रीवृन्दमेकस्मिन्स्थले संहृतमिव संगृहीतमिव । केवलाङ्गनानामेव सद्भावं प्रदर्शयन्नाह – अपुरुषेति । अपुरुषं पुरुषवर्जितं सर्गान्तरमिव सृष्ट्यन्तरमिव । तासामेव विपुलाश्रयत्वादानारीप्रधानं यधुगं ह - अङ्गनेति । अपूर्वमभिनवमुत्पन्नमङ्गनाद्वीपमिव स्त्रीणामन्तरीपमिव । पञ्चममिति तस्य पञ्चमेमवतारमिव । अपरमिति । पुरुषे द्वेषो विद्यते यस्यैवंभूतो यः प्रजापतिर्ब्रह्मा तस्थापरमन्यन्निर्माणमिव । पुरुषद्वेषिविशेषणेन केवलं स्त्रीनिर्माणकर्तृत्वमेव सूचितम् । अनेकेति । अनेके ये कल्पा युगान्तास्तत्र कल्पना रचना । स्त्रीणामिति शेषः । तदर्थमङ्गनाकोशं स्त्रीभाण्डागारमुत्पाद्य विधाय स्थापितमिव रक्षितमिव । एतेन युगान्तरे स्त्रीनिर्माणप्रयासाभाव इति सूचितम् । पुनः कीदृशम् । अतिविस्तारिणा युवतिजनानां लावण्यं सौन्दर्यातिशयस्तस्य या प्रभा कान्तिस्तस्याः पूर उत्कर्षस्तेन । अथ च बहुला या प्रभा कान्तिस्तद्वर्षिणा मरकतमणिमयेनाश्मगर्भमणिप्रचुरेण अर्थान्निर्माणेन सर्वतः समन्तात्परिगततया व्याप्ततया तेजोमयमिव कान्तिसमूहमयमिव । अथ युवतिलावण्यं विशेषयन्नाह – अमृतेति । अमृतरसस्य पीयूषद्रवस्य यो विसरः समूहस्तेन दिवसं दिनं सिञ्चतेव सेकक्रियां कुर्वतेव, प्लावितं क्षालितं दिगन्तरं येन तेन । किं कुर्वता । लावण्यप्रभापूरेण भुवनान्तरालं विष्टपान्तरालमा कुर्वतेवाशुष्कतां विदधतेव । अत्र च मरकतमणे: श्यामत्वे लावण्यप्रभापू रस्य च पाण्डुरत्वे क्रमं विहाय यथोचितमुत्प्रेक्षते – चन्द्रेति । चन्द्रमण्डलसहस्रैर्निर्मितं रचितं संस्थानमा टिप्प० - 1 धिगज्ञानम् । सत्यादीनि चत्वारि युगानि तु सन्त्येव येषामवतारः ( प्रवर्तनम् ) सुपरि चितः, किन्तु अभिनवः सोयं पञ्चमो नारीयुगावतार इत्याशयः । 2 'युवतिजनलावण्यं विशेषयन्नाह' इति प्रतिज्ञाय पुनस्तत्र 'लावण्यप्रभापूरेणे'त्यादि विशेषयन् सर्वमस्पष्टीचकार । अतः सेयं योजना - अतिविस्तारिणा प्लावितदिगन्तरेण, ( अत एव ) अमृतरसविसरेण ( करणेन) अर्थात् पीयूषद्रवप्रवाहद्वारा दिवसं सिञ्चतेव तथा अमृतरसप्रवाहद्वारा भुवनान्तरालमा कुर्वतेव ईदृशेन युवतिजनलावण्यप्रभापूरे ( कर्जा ), तथा बहुलप्रभावर्षिणा मरकतमणिमयेन (आभरणेन, कर्त्रा) सर्वतः परिगततया तेजोमय मिव । अयं भावः - कन्यान्तःपुरम् अतिविस्तार्यादिविशेषण विशिष्टेन युवतिजनलावण्यप्रभापूरेण व्यासं तथा मरकतमयभूषणेन च व्याप्तम् । अत एव तेजोमयमिवेत्युत्प्रेक्षा । पाठा० -१ द्वारपालप्रतीहारी. २ संबाध: ३ संगृहीतम् ४ बहल. ५ भूषणेनेव सर्वतः. ३८० कादम्बरी । [ कथायाम्मण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्सयेव घटितसंनिवेशम्, आभरणप्रभाभिरिव निष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रैचितसंचयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसक-. लजनप्रेबेशम्, शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमित्र, सौकुमार्यमय मित्र, कुमारः कुमारीपुराभ्यन्तरं ददर्श । अतिबहलतया च तस्य कन्यकाजनस्य समन्तादानन द्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्च लितकुवलयवनमयीमिव क्रियमाणामवनीम्, अत्तिनिभृतभूलताविभ्रमैः कामकार्मुकबलानीव प्रचलितानि, शिरसिजकलापान्ध कारैर्बहुलपक्षप्रदोष सार्थानिव संबन्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान्संचरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः कपोलमण्डलालोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि, करतलरागेण १ १ कृतिविशेषो यस्यैतादृशमिव । श्यामतासाम्यादिति भावः । पाण्डुरत्वेनाह -- ज्योत्स्नयेति । ज्योत्स्नया चन्द्रि कया घटितो निर्मितः संनिवेशः संस्थानं यस्य स एतादृशामिव । अमृतरसविश्रुतेर्वा साम्यम् । आभरणेति । आभरणप्रभाभिभूषणकान्तिभिर्निष्पादितं दिगन्तरं दिगवकाशं यस्मिन्नेतादृशमिव । एतेनाभरणानामतिशयो योतितः । विभ्रमैरिति । विभ्रुमैर्भूसमुद्भवैः कृतं सर्वोपकरणं सर्वा सामग्री यस्मिन्नेतादृशमिव । यौवनेति । यौवनविलासैस्तारुण्यविलसितैरुत्पादिता अवयवा यस्मिन्नेतादृशमिव । रतीति । रतिः कामयोषित्तद्विलसितै रचितः संचयः समूहो यस्मिन्नेतादृशामिव । मन्मथेति । मन्मथाचरितैः कंदर्पाचरणैः कल्पितोऽवकाशोऽवगाहो यस्मिन्नेतादृशमिव । अन्विति । अनुरागेण प्रीत्यानुलिप्तः सकलजनैप्रवेशो यस्मिन्नेवंभूतमिव । शृङ्गारमयमिव संभोगमयमिव सौन्दर्यमयमिव सुरूपतामयमिव । सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव । कुसुमशरमयमिव कंदर्पबाणमयमिव । कुतूहलमयमिघ कौतुकमयमिव । सौकुमार्यमयमिव मार्दवमयमिव । चन्द्रापीडस्तस्मिन्कुमारीपुराभ्यन्तर एतान्यद्राक्षीत् तान्येवाह - अतीति । तस्य कन्यकाजनस्यांतिबहलतयातिबाहुल्यतया समन्तादान नद्युतिभिर्मुखकान्तिभिः कृत्वा पतन्तीं क्षरन्तीमिन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव । अत्र मुखे तत्तदतिशयो व्यङ्ग्यः । अपाङ्गेति । अपाङ्गविक्षेपैः कटाक्षैश्चलितं कम्पितं यत्कुवलयवनमुत्पल खण्डं तन्मयीमवनीं पृथ्वीं क्रियमाणामिव । प्रबलेन दुर्बलस्योचालनं संभवतीति कुमुदातिशयोऽपाङ्गेषु द्योत्यते । अतीति । अतिनिभृता निश्चला ये भ्रूलताविभ्रमास्तैः प्रचलितानि गन्तुं प्रवृत्तानि कामकार्मुकरय कन्दर्पचापस्य बलानीवोत्कंर्षरूपाणीव । अत्र वक्रत्वसाम्यादुपमानोपमेयभावः । शिरसीति । शिरसिजाः केशास्तेषां कलापाः समुदायास्तद्रूपाण्यन्धकाराणि तंर्बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थान्यामिनीमुखसमूहान्संबध्नत इव संग्रघ्नत इव । एतेन केशकलापेषु श्यामतातिशयो द्योत्यते । स्मितेति । स्मितं हास्यं तस्य प्रभाभिः कान्तिभिरुत्पु लकुसुमधवलान्वसन्तदिवसान्संचरत इव व्रजत इव । श्वसतेति । श्वसितानिलस्य श्वासवायोः परिमलैरामोदैर्मलयमारुतान्परिभ्रमत इव संचरत इव । कपोलेति । गल्लात्परप्रदेशाः कपोलास्तेषां मण्डलं समूहस्तस्यालोकैः प्रकाशैः स्फुरितानि माणिक्यदर्पणसहस्राणीव रत्नादर्शदशशतानीव । एतेन कपोलयोः खच्छतातिशयो दर्शितः । करेति । करतलरागेण रक्तकमलवनवर्षिणं जीवलोकमिव । कररुहा नखारतेषां स्फुरणेन टिप्प० -1 विलासैः । 2 अविचारितार्थोयं पाठः । 'अनुलिप्तसकलजनप्रदेशम्' इत्येव पाठः । प्रदेशस्यैव अनुलेपार्हस्वात् । 3 बलानीति पाठोऽज्ञानम् । 'कामकार्मुकविलासशतानि' इत्येव पाठः । भ्रुकुटीनामेव कार्मुकेण साकं तुलनौचित्यात् । पाठा० -१ विरचित, २ प्रदेशम् ३ प्रेममयमिव कुमार: ४ अनिभृत ५ शतानि; विलासशता. ६ केशनि, . कुमारीपुरस्य वृत्तान्तः ] पूर्वभागः । ३८१ रक्तकमलवन वर्षिणमिव जीवलोकम्, केररुहरफुरणेन कुसुमायुधशरसहस्रैरिव संच्छादितदिगन्तराणि, आभरणकिरैणेन्द्रायुधजालकैरुड्डीयमानानीव भवनमयूरवृन्दानि, यौवनविकारैरुत्पाद्यमानांनीव मन्मथसहस्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखीहस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कैन्दुकक्रीडासु करतलप्रहारान्, भुवनलतासेककलशकण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलासु नितम्बन प्रेङ्गितानि ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, भकुलविटपेषु मधुगण्डूषप्रचारान, अशोकतरुताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारानतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् । " O यत्र च कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासा एवाधिवासगन्धयुक्तयः, अधरधुतिरेव कुंकुममुखानुविद्योतनेन कुसुमायुधशरसहस्रैः संच्छादित दिगन्तराण्याच्छादितककुबन्तराणि । आभरणेति । आभरणकिरणान्येवेन्द्रायुधजालकानि तैरुड्डीयमानानीत्र व्योम्नि व्रजमानानीव भवनमयूरवृन्दानि गृहकलापिमण्डलानि । यौवनेति । यौवनविकारस्ता रुण्य विकृतिभिरुत्पाद्यमानानीव विधीयमानानीव मन्मथसहस्राणि मनोभवसहत्राणि । उचितेति । उचितो योग्यो यो व्यापारस्तव्यपदेशेन तन्मिषेण कुमारिकाणामतिरिक्तमद्भुतं सुरतं मैथुनमभ्यस्यन्तीनामिवाभ्यासं कुर्वन्तीनामिव तत्तदपश्यत् । तत्र सुरतसाधर्म्यमाह - सखीति । सखीनामालीनां हस्तावलम्बेषु करावलम्बेषु पाणिग्रहणानि हस्तगूहनानि । वेणुवाद्येषु वंशातोद्येषु चुम्बनव्यतिकरान्मुखस्पर्शनवृत्तान्तान् । वीणासु वल्लकीषु कररुहव्यापारान्नखरव्यवहारान् । कन्दुकक्रीडा स्खन्दुकलीलासु करतलप्रहारान्हस्त तलप्रघातान् । भुवनेति । भुवनैलतानां गृहवल्लीनां सेकार्थं कलशकण्ठेषु कुम्भनिगरणेषु भुजलतापरिष्वङ्गान्बाहुवलयालिङ्गनान् । लीलादोलासु क्रीडाप्रेमासु नितम्ब आरोहः स्तनाः कुचास्तेषां प्रेहितानि धुतानि । ताम्बूलेति । ताम्बूलस्य नागवलयावीटिकाः प्रसिद्धास्तासां अवखण्डनेषु शकलीकरणेषु दशनोपचारान्दन्तक्षतान् । बकुलेति । बकुलविटपेषु केसरवृक्षेषु मधु मद्यं तस्य गण्डूषप्रचारांबुलुकप्रवृत्तीः । अशोकेति । अशोकतरूणां कलिवृक्षाणां ताडनेषु चरणाभिघातान्पादप्रहारान् । उपेति । मुक्तादीनां हारः, पुष्पादीनामुपहारः, तस्मात्कुसुमादीनां स्खलनानि पतनानि तेषु सीत्कारान्सूक्ष्मध्वनि विशेषाञ्शब्दान् । दृश्यते हि हैारात्पुष्पच्युतिसमये तथा ध्वनिः । अथवोपहारकुसुमानां स्खलितानि कुमारीशरीरावयवेषु सीत्कारों वेदनातिशयद्योतको दृढदन्तसंयोगनिमित्तो ध्वनिः । अनेन कुमारीणां कुसुमपातमात्रेण सीत्कार इति सौकु· . मार्यातिशयो व्यज्यते । यत्र चेति । यत्र कन्यान्तः पुरे कन्यकाजनस्य कपोलतलस्यालोक एव प्रकाश एव मुखं वकं तस्य प्रक्षालनं धावनम् । अत्र स्वच्छत्वकरणसाम्येन जलालोकयोरुपमानोपमेयभावः । कर्णान्तत्वरूपव्यङ्ग्यसाभ्येनाह - लोचनेति । लोचनान्येव नेत्राण्येव कर्णोत्पलानि कर्णावतंसानि । पाण्डुरत्वसाम्येनाह - हसितेति । हसितं स्मितं तस्य छवयः कान्तय एवाङ्गरागा विलेपनानि । निश्वासेति । निश्वासाः पवनात एवाधिवासे वस्त्रादीनां संस्कारकरणे गन्धयुक्तयः सुगन्धीकरणप्रकाराः रक्तत्व साम्येनाह - अधरेति । टिप्प० - 1 'संछादितानि दिगन्तराणि' इत्येव पाठः । 2 भवनलतानामित्येव पाठ उचितः । ३ मलापप्रायमिदं सर्वम् । उपहाराय गृहभूतलानां शोभासंपादनाय यानि पुष्पाणि ( रचनारूपेण विन्यस्तानि) तेषु स्खलनेषु, अर्थात् पुष्पमध्ये चरणस्खलनेन स्त्रियो भूतलपातभयात् 'सीत्कारान्' कुर्वन्तीति तासां सौन्दर्यातिशयो द्योत्यते । पाठा०-१ करम्हकिरण २ संच्छादितमष्टदिगन्तरम्. ३ किरणनिकर. ४ क्रीडासु, ५ भवन, ६ स्थल, ७ वीटिकाखण्डनेषु. ८ बकुलकुसुमदोहदेषु सीधुगण्डूषप्रदानानि. ९ कुङ्कुमानुलेपनम्. ३८२ कादम्बरी । [ कथायाम्लेपनम्, आलापा एव तत्रीनिनादाः भुजलता एव चम्पकैवैकक्ष्यमालाः, करतलाम्येव लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम् जघनस्थलान्येव विलासमणिशिलातलानि, कोमलाङ्गुलिराग एव चरणालक्तकरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः। यत्र चालक्तरसोऽपि चरणातिभारः, बकुलमालिका मेखला कलनमपि गमन विघ्नकरम् अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरकमलतरलमधुकरपक्षपवनोऽप्यायासकरः । तथा च यत्र सखीदर्शनेष्वकृतहस्ता वलम्बनमुत्थानमतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कइयप्रभावः, कुसुमावचयेषु द्वितीय पुष्प." १ 2 S अधरो दन्तच्छदस्य तिरेव कुडमं तेन मुखस्य वक्त्रस्यानुलेपनम् । मञ्जुलत्वसाम्येनाह -- आलापा इति । आप एव संभाषणान्येव तन्त्रीनिनादा वीणाध्वनयः । मृदुत्वसाम्येनाह - भुजेति । भुजलता एव चम्पको हेमपुष्पकस्तस्य वैकक्ष्यमाला उत्तरासङ्गसजः । करेति । करतलान्येव लीलाकमलानि क्रीडापङ्कजानि । निर्मलत्वसाम्येनाह - स्तनेति । स्तना एव दर्पणा मुकुराः । निचितत्व साम्येनाह - निजेति । निजदेहप्रभैव स्वशरीरदीप्तिरेवांशुकेन वस्त्रेणावगुण्ठनमाच्छादनम् । विस्तारातिशयादाह - जघनेति । जघनस्थलान्येन कट्याः पुरोभागप्रदेशा एव विलासा लीलाविशेषास्तेषां मणिशिलातलानि । कोमलेति । कोमला या अङ्गुल्यस्तासां राग एव चरणयोः पादयोरलककरसो यावकरसः । नखेति । नखा एव मणयः, नखनिष्ठाभरणमणयो वा तेषां मरीचय एवं दीघितय एव कुट्टिमेषु बद्धभूमिषूपहारकुसुमानां प्रकराः समूहाः । यत्र चेति । यत्र कन्यकासमुदायेऽलफरसोऽपि यावकरसोऽपि चरणयोः पादयोरतिभारो व्यर्थः । स्वत एव चरणयोरारुण्यादिति भावः । बकुलेति । बकुलमालिकाः केसरस्रजो मेखला रसना तस्या आकलनमपि धारणमपि गमनविघ्नकरं गतिप्रतिबन्धकम् । सौकुमार्यातिशयादिति भावः । अङ्गेति । अङ्गरागो विलेपनं रस्य गौरवमप्यधिकश्वासनिमित्तमतिप्रयासकारणम् । अङ्गरागेभ्यैः शरीररागस्य सातिशयत्वात् । अंशुकेति । अंशुकभारोऽपि वस्त्रभारोऽपि ग्लानिकारणम् । सातिशयदेहप्रभावरणरूपत्वात् । मङ्गलेति । मङ्गलार्थ प्रतिसरवलयं हस्तसूत्रवलयं तस्य विधृतिरपि धारणमपि करतलस्य हस्ततलस्य विधुतिः कम्पनं तन्मात्रहेतुः । स्वतःसुन्दरत्वाच्छ्रेयस्करत्वाच मणिबन्धस्य । अवेति । अवतंसकुसुमानां धारणमपि श्रमः क्लमः । कर्णेति । कर्णपूरकमलेषु तरलाञ्चञ्चला ये मधुकरा भ्रमरास्तेषां पक्षेभ्यः समुद्भवः पवनोऽपि वायुरप्यायासकरः प्रयासकरः । तथा चेति । यत्राभिनवसखीप्रत्यागमदर्शनेषु कदाचिदपि परिचारिका (याः) अकृतं हस्तावलम्बनं यस्मिन्नेवादृशं यदुत्थानं तदप्यतिसाहसमित्यर्थः । सौभाग्यातिशयो लीलाविलासातिशयश्च द्योत्यते । प्रसाधनेष्विति । प्रसाधनेषु भूषणग्रहेषु या हारभारसहिष्णुता मुक्ताप्रालम्बवीवध सहनशीलता सापि शरीरावयवेषु मध्ये स्तनयोः कुचयोः कार्कश्यं काठिन्यं तस्य प्रभावो माहात्म्यम् । सामर्थ्यमिति यावत् । नेतरेषामवयवानाम् । अत्र स्तनयोः काठिन्यातिशयः, अन्यत्र मृदुत्वादिकं कर्कशपददाना व्यज्यते । तथा कुसुमावचयेषु पुष्पखुण्ठनेषु द्वितीय पुष्पग्रहणमप्ययुवतिजनोचितम् । पुरुषयोग्यमित्यर्थः । एतेनैतावत्प्रयासयोग्यः पुरुष एवेति । टिप्प० - 1 धिक् । न व्यर्थः, अपि तु सौकुमार्यातिशयात्पादरागोपि भारायित इत्याशयः । 2 बकुलमालैब मेखला इत्यर्थो योग्यः । 3 शरीररागस्य सातिशयत्वे अधिकश्वासानां कोऽवसरः । अत एव अङ्गरामकृतभारबोधेन श्वासप्रवृत्तिरित्यर्थो बोध्यः । एवं सर्वत्र सौकुमार्यसूचनायोक्तिः । टीकाकारस्य तु सर्वत्र वृथामायं जल्पितम्, विपरीतार्थत्वात् । 4 एकपुष्पग्रहणमेव तस्याः पर्याप्तम्, द्वितीयस्य पुष्पस्य ग्रहणं सु कठिनत्वात्पुरुषस्यैव योग्यमित्यर्थः । पाठा० -१ चम्पकमालाः. २ अलक्तक, ३ वातोऽपि ४ दर्शनेपि ५ अभ्युत्थानम्. कुमारीपुरकौतुकानि ] पूर्वभागः । ३८३ ग्रहणमध्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रन्थनमसुकुमारजन व्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः । तस्य चैवंविधस्य किंचिदैभ्यन्तरमतिक्रम्ये तश्चेतश्च परिभ्रमतः कादम्बरी प्रत्यासन्नस्य परिजनस्य शुश्राव तांस्तानति मनोहरानालापान् । तथाहि — 'लवलिके, कल्पय केतकी धूलिभिलेवलीलतालवाल मण्डलानि । सांगैरिके, गन्धोदकदीर्घिकासु विकिर रत्नवालुकाम् । मृणालिके, कृत्रिमकमलिनीपु कुमरेणुमुष्टिमिशहुरय यत्रचक्रवाक मिथुनानि । मकरिके, कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके, तंमालवीथिकान्धकारेषु निधेहि मणिप्रदीपान् । कुमुदिके, स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानि । निपुणिके, लिखै मणिशौल भन्जिकास्तनेषु कुमरसपत्रभङ्गान् । उत्पलिके, परामृश कनकसंमार्जनीभिः कदलीगृहमरकतवेदिकाम् । केसरिके, सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि । मालतिके, पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् । नलिनिके, पायय कमलमधुरसं भवनकलहंसान् । कदलिके, नय धारागृहं गृहमयूरान् । कमलिनिके, प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् । चूँतलतिके, देहि पञ्जरपुंस्कोकिलेभ्यश्चतकलिकाङ्कुराहारम् । पल्लविके, । ध्वनितम् । पुनः सौकुमार्यातिशयमाह - कन्यकेति । कन्यकाविज्ञानेषु कुमारिकाणां कलासु माल्यप्रथममसुकु मारजनव्यापारः । अतिकर्कशजन विधेयमित्यर्थः । एतेन माल्यापेक्षयापि सौकुमार्य व्यज्यते । देवतेति । देवतानां प्रणामेषु नमस्क्रियासु मध्यभागस्यातिसूक्ष्मत्वात् भङ्गो द्वैधीभावो न भवति सोऽतिविस्मयकर आश्चर्यकरः । एतेन मध्यभागस्य खारसिकं कृशत्वं व्यज्यते । तदनन्तरं स चन्द्रापीडः किंचिदभ्यन्तरं मध्यभागमतिक्रम्येतश्चेतश्च परिभ्रमतः पर्यटत एवंविधस्य तस्य कादम्बरी प्रत्यासन्नस्य कुमारिकासमीपवर्तिनः परिजनस्य परिवारस्यातिमनोहरांस्तांस्तानालापान्संलापाशुश्रावाकर्णयामास । एतदेव दर्शयति - तथा हीति । हे लवलिके, केतकीधूलिभिः केतकीपरागैर्लवलीलताया आलवालमण्डलान्या चालमण्डलानि कल्पय प्रणय । हे सागरिके, गन्धोदकं सुगन्धजलं तस्य दीर्घिकासु वापीषु रत्नवालुकां विकिर विक्षिप । हे मृणालिके, कृत्रिमकमलिनीषु यन्त्रचक्रवाकमिथुनानि कुङ्कुमरेणुमुष्टिभिश्छु तमालवीथिरयाच्छोटय । हे मकरिके, कर्पूरपल्लवरसेन गन्धपात्राण्यधिवासय सुगन्धीकुरु । हे रजनिके, कानामन्धकारेषु मणिप्रदीपान्निधेहि स्थापय । हे कुमुदिके, शकुनिकुलरक्षणाय पक्षिसमूहनिवारणाय मुताजालैर्दाडिमीफलानि स्थगयाच्छादय । हे निपुणिके, मणिशालभञ्जिकास्तनेषु रत्नपुत्रिकाकुचेषु कुङ्कुमरसपत्रभज्ञांल्लिख लिपीकुरु । हे उत्पलिके, कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहमरकतवेदिकां परामृश संमार्जय । हे केसरिके, मदिरारसेन कादम्बरीद्रवेण बकुलकुसुममालागृहाणि सिञ्च सेकं कुरु । हे मालतिके, सिन्दूररेणुना नागभूषणधूल्या कामदेवगृहदन्तवलभिकां पाटलय श्वेतरक्तीकुरु । हे नलिनिके, कमलमधुरसं भवनकलहंसान्पायय पानं कारय । हे कदलिके, गृहमयूरान्भवनकलापिनो धारागृहं यन्त्रगृहं नय प्रापय । हे कमलिनिके, मृणालक्षीररसं चक्रवाकशावकेभ्यो स्थानापाकेभ्यः प्रयच्छ प्रदेहि । चूतलतिके, पजरपुंस्को• किलेभ्यश्चतकलिकाङ्कराहारमाम्रकोरकप्ररोहाशनं देहि प्रयच्छ । हे पल्लविके, भवनहारीतान्गृहमृदङ्कुरान्मरि 7 टिप्प० - 1 रञ्जयेति तात्पर्यम् । पाठा० -१ कुसुम २ असुकुमार. ३ अन्तरमवक्रम्य ४ सारसिके. ५ कनकदीर्घिकासु; नदिकासु. ६ क्षोद. ७ युगलानि. ८ मन्दारिके. ९ भवनवी धिंकातमाल १० रक्षणार्धम् ११ लेखय. १२ मणिस्तम्भ १३ संमार्जनीभिः• १४ वेदिकाः, १५ कुसुमिके. १६ चक्रवाकेभ्यः १७ चूतकलिके, ३८४ कादम्बरी । [ कथायाम्भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके, निचिक्षिप चकोरपञ्जरेषु पिप्पलीदैलशकलानि । मधुकरिके, विरचय कुसुमाभरणकानि । मयूरिके, संगीतशालायां विसर्जय किंनरमिथुनानि । कन्दलिके, समारोहय क्रीडा पर्वतशिखरं जीवंजीव मिथुनानि । हरिणिके, देहि पञ्जरशुकसारिकाणामुपदेशम्' इत्येतान्यन्यानि च परिहासजल्पिताम्यश्रौषीत् । तथाहि — 'चामरिके, मिथ्यामुग्धतां प्रकटयन्ती कमभिसंधातुमिच्छसि । अयि यौवनविलासैरुन्मत्तीकृते; विज्ञातासि या त्वं स्तनकलशभारावनम्यमानमूर्तिर्मणिस्तम्भेमयूरानालम्बसे । परिहासकाङ्क्षणि, रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि । पवनहृतोत्तरीयांशुके, हारप्रभामायासितकरतलार्कलयसि । मणिकुट्टिमेषूपहारकमलस्खलनभीते; निजमुखप्रतिबिम्बकानि परिहरसि । जालवातायनपतितपश्चरागालोकं प्रति बालाप करतलमतपत्रीकरोषि । + चानां श्वेतशोभाजनानामपदलानि मुख्यकिसलयखण्डानि भोजय भोजनं कारय । हे लवङ्गिके, चकोरपञ्जरेषु विषसूचकवंशदलेषु पिप्पलीदलशकलानि मागधीपत्रखण्डानि निचिक्षिप निक्षेपं कुरु । अनेन चकोराणां पिप्पलीदलानि प्रियाणीति ध्वनितम् । हे मधुकरिके, कुसुमानाभरणकानि विभूषणानि विरचय रचनां कुरु । हे मयूरिके, संगीतशालायां नृत्यशालायां किंनर मिथुनानि तुरगवदनद्वन्द्वानि विसर्जय प्रेषय । हे कन्दलिके, क्रीडापर्वतशिखरं लीलाशिखारेसानुं जीवजीवमिथुनानि विषदर्शनमृत्युकयुगलानि समारोहयारोहणं कारय । हे हरिणिके, पअरशुकसारिकाणामुपदेशं हितशिक्षां देहि प्रयच्छ । इत्येतानि पूर्वोक्तान्यन्यानि चाग्रे वक्ष्यमाणानि परिहासजल्पितानि वचनान्य श्रौषीदाकर्णितवान् । एतदेव दर्शयति – तथाहीति । हे चामरिके, मिथ्या वृथा मुग्धतां मुग्धभावं (कटयन्ती प्रकाशयन्ती कमभिसंधातुं मिलितुमिच्छसि वाञ्छसि । बाह्यमुग्धत्व प्रकटनेन स्वकीयं कार्य कर्तुकामेत्यर्थः । अयीति कोमलामन्त्रणे । हे यौवन विलासैस्ता रुण्यविभ्रमै रुन्मत्तीकृते प्रथि लीकृते, सा त्वं विज्ञाता विदितासि या स्तनकलशभारेणावनम्यमाना मूर्तिः शरीरं यस्या एवंविधा मणिभिर्निर्मिंता रचिता ये स्तम्भाः स्थूणास्तेषां मयूरान्कलापिन आलम्बस आलम्बनविषयीकरोषि । परीति । हे परिहासकाङ्क्षिणि, रत्नभित्तिपतितं मणिकुड्यसंक्रान्तमात्मप्रतिबिम्बं स्वकीयं प्रतिरूपमालपसि परिभाषसे । एतेन स्वयमेव स्वस्य भाषणमुपहास हेतुरिति ध्वनितम् । पवनेति । पवनेन वायुनाहृतं गृहीतमुत्तरीयांशुकमुपरि वस्त्रं यस्यास्तस्याः संबोधनं हे पवनहृतोत्तरीयांशुके, लजावशादतिशुभ्रत्वसाम्याद्धारप्रभामेवाकलयस्युत्तरीयांशुकत्वेन जानासि । अतएवायासितकरतला पुनः पुनस्तद्ब्रहणप्रयासेन परिश्रान्तहस्ततलेत्यर्थः । मणिकुट्टिमेति । मणिकुट्टिमेषूपहारार्थमुपचारार्थ कमलानि नलिनानि तेभ्यः स्खलनं चरणाभिघातस्तस्माद्भीता त्रस्ता तस्याः संबोधनं हे उपहारकमलस्खलनभीते, निजमुखप्रतिबिम्बवानि स्वाननप्रतिच्छायानि परिहरसि त्यजसि । एतेन निजात्मप्रतिबिम्बान्येव कमलभ्रान्त्या त्यजसीति ध्वनितम् । जालेति । जालरूपो यो वातायनो गवाक्षस्तत्र पतितं लनं पद्मरागो लोहितकमणिस्तस्यालोकं प्रकाशं प्रति वालो नवीनो य आतपः सूर्यालोकस्तस्य शङ्कया भ्रान्त्या करतलं हस्ततलमातपत्रीकरोषि छत्रीकुरुषे । एतेन पद्मरागालोके बालातपभ्रान्तिरिति ध्वनितम् । टिप्प० -- 1 अद्भुतं व्याकरणं टीकाकर्तुः ! हन्त । 'निक्षिप' इत्येव पाठः । 2 हन्त केयं व्याख्या, 'इन्द्रस्य टीका बिडौजाः' इतोऽपि गुरुतरा । 3 प्रतारयितुमित्युचितम् । 4 स्तनकण्ड्यानिवृत्तये एवं करोषीति परिहासः । 5 सर्वत्र वाक्यादौ संबोधन मिति प्रक्रमभङ्गष्टीकाकारेण न ज्ञातः । अत एव "निजसौकुमार्यगर्वखर्वित बिस प्रसून सौभाग्ये !' इति संबोधनमुचितम् । बिसवसूनादपि ते सौकुमार्यमधिकं येन हि बालातपशङ्कयापि भातपत्रकरणस्यापेक्षेति परिहासः । पाठा० - १ विक्षिप. २ तण्डुल ३ वृथामुग्धताम्. ४ ज्ञाता. ५ मयूखान्. ६ अवलम्बसे, ७ प्रतिमामालपयसि. ८ संकलयसि. ९ निजसौकुमार्यगर्वखर्वित निसप्रसून सौभाग्ये जाल. १० अवलोकम् ११ आशकिनी० ११ आतपत्रं करोषि.. कुमारीपुरवृत्तान्तः ] पूर्वभागः । खेदसस्तहस्तगलित चामरा नखमणिमयूखकलापमाधुनोषि' इत्येताम्यन्यानि च शृण्वन्नेव कादम्बरीभवनमुपययौ । पुलिनायमानमुपंवनलतागलितकुसुमरेणुपटलैः, दुर्दिनायमानमनिभृतपरभृतनखक्षताङ्गसहकारफलरसवर्षैः, नीहारायमाणमनिल विप्र की र्णैर्व कुल से कसी धुधाराधूलिभिः काञ्चनद्वीपायमानं चम्पकदलोपहारैः लीलाशोकवनायमानं कुसुमप्रकरपतितमधुकरवृन्दान्धकारैः, तथा च संचरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्र लोकायमानं दन्तपेत्रप्रभामण्डलै:, प्रियङ्गुलतीयमानं कृष्णागुरुपत्रभङ्गैः, लोहितायमानं कर्णाशोकपल्लवैः, धवलायमानं चन्दनरस विलेपनैः, हरितायमानं १ 9 खेदेति । खेदेन स्रस्तः कम्पितो यो हस्तः करस्तस्माद्गलितं च्युतं चामरं बालव्यजनं यस्या एवंविधा सती नखा एव मणयस्तेषां मयूखकलापं कान्तिसमूहमाधुनोषि कम्पयसि । एतेन नखकान्तिकलापे चामरत्वं व्यज्यते । इत्येतानि पूर्वोक्तान्यन्यानि च वाक्यानि शृश्वन्नाकर्णेयन्कादम्बरी राजपुत्री तस्या भवनं गृहमुपययौ जगाम । Com अथेति । सेवार्थमागतेन सपर्यार्थ समायातेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन । ऊर्ध्वत्वसाम्येनाह -- लावण्यमयेन प्राकारेणेव वप्रेणेव । उभयतः संवृतत्वसाम्येनाह- कृत इति । कृतो विहितो दीर्घाया रथ्यायाः लोके 'गल्ली' इति प्रसिद्धायाः मुखवदाकारी यस्मिन्नेतादृशं मार्गमध्वान मद्राक्षीदालो कितवान् । इतो मार्गविशेषजानि प्रदर्शयन्नाह - पुलिनेति । उपवनं गृहसमीपवर्ति काननं तस्य लता वल्लयस्ताभ्यो गलितानि कुसुमानि पुष्पाणि तेषां रेणुपटलैः परागपुः पुलिनायमानं जलोज्झिततटायमानम् । श्वेतत्वातिशयात्परागोपेतमार्गस्थ पुलिनोपमानता । अनिभृतेति । अनिभृताश्चञ्चला ये परभृताः पिकास्तेषां नखाः पुनर्भवास्तैः क्षतानि खण्डितान्यङ्गणमजिरं तत्र ये सहकारा आम्रास्तेषां फलानि सस्यानि तेषां रसवर्वैर्मधुवर्षणैर्दुर्दिनायमान मेघजनि ततमोवदाचरमाणम् । एतेन सर्वत्र तत्तदतिशयो व्यज्यते । अनिलेति । अनिलेन वायुना विप्रकीर्णैर्विक्षिमैर्बकुला: केसरास्तेषां सेकार्थं याः सीधुधारा मद्यधारास्तासां धूलिमिः कणैः । श्वेतत्वसाम्यात् । नीहारायमाणं हिमवदाचरमाणम् । काञ्चनेति । चम्पकदलानि गन्धफलीशकलानि तेषामुपहारैरुपचारैः काञ्चनद्वीपायमानं स्वर्णान्तरी पवदाचरमाणम् । एतेन पीतत्वातिशयो व्यज्यते । कुसुमेति । कुसुमप्रकरेषु पुष्पसमूहेषु पतितमु पविष्टं यन्मधुकरवृन्दं भ्रमर समूहस्तस्यान्धकारैश्छायारूपैललाशोकवनायमानम् । अन्धकारस्य नीलवादशोकवनसाम्यमित्यर्थः । तथा चेति । तेनैव प्रकारेण संचरतो गच्छतः स्त्रीजनस्य वनितालोकस्य चरणालक्तकरसः पादरजनार्थयावकरसस्तस्य विसरैः समूहै: रागसागरायमाणं रागसमुद्रवदाचरमाणम् । एतेन रक्तत्वातिशयो योयते । अङ्गेति । अङ्गरागस्य विलेपनस्यामोदैः परिमलैरमृतस्य पीयूषस्य य उत्पत्तिदिवसस्तद्वदाचरमाणम् । तहिनेऽमृतामोदस्य प्रचुरत्वादिति भावः । श्वेतत्वसाम्येनाह - दन्तेति । दन्तपत्रैः कर्णाभरणैश्चन्द्रलोकायमानं चन्द्रलोकवदाचरमाणम् । एतेन दन्तपत्राणां भूयस्त्वं व्यज्यते । प्रियङ्गुलतेति । कृष्णागुरुः काकतुण्डस्तस्य पत्रभङ्गैः पत्रलताभिः । प्रियङ्गुः फलिनीलक्षणा या लता वही तद्वदाचरमाणम् । नीलत्वातिशयादिति भावः । रक्तत्वसाम्ये नाह- लोहितेति । कर्णाशोकपल्लवैः श्रवणनिक्षिप्त केल्लिकिसलयैर्लोहितायमानं रक्तवदाचरमाणम् । धवलेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य विलेपनैरङ्गरागैर्धवलायमानं श्वेतवदानरमाणम् । हरितेति । शिरीषः कपीतनस्तस्य कुसुमाभरणैः पुष्पविभूषणैर्हरितायमानं पीतनीलयदाचरमाणम् । टिप्प० - 1 प्रकरणानुकूलम् 'खेदखस्तहस्तगलित चामरे " इति संबोधनमेनोचितम् । 2 कृतो दीर्घस्थ्यामुखवदाकारी याय, ग्राम्यदीर्घरथ्याया मुखभागे उभयतो वृतिः मध्ये च स्वल्पायामो दीर्घो मार्गो दृश्यत इत्याशयः । ♡ पाठा० -१ ग्रस्त. २ कलित. ३ चामरै: ४ किरण ५ भवनसमीपसुपययौ; भवनमुपसत्य ययौ ६ चम्पकोष● हारै: ७ नीलाशोक. ८ संचरन्. ९ पत्रमण्डलै: ० १० बनायमानं रोचनातिलकसक्तिमिनीलायमानम्. ११ कर्णपूरा शोक. 。 ४९ का० कादम्बरी । [ कथायाम्शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्या मुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतन्तमाभरणकिरणालोकं संपिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारिमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श । ३८६ तत्र च मध्यभागे पर्यन्तरचितमेण्डलेनाध उपविष्टेन चानेकसहस्रसंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृत्तस्य नातिमहतः पर्यङ्कस्याश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेनावस्थितां महावराहदंष्ट्रावलम्बिनीमिव महीम्, विस्तारिणि देहप्रभाजालजले भुजलता विक्षेपपरिभ्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिबिम्बतयाधस्तान्मणिकुट्टिमेषु नागैरिवापहि20 A अन्वयस्तु प्रागेवोक्तः । तेनेति । तेन मार्गेणान्तर्मध्ये निपतन्तं प्रविशन्तं संपिण्डितं नानाभूषणप्रभामिश्रितमाभरण किरणालोकं विभूषणप्रभाप्रकाशम् । प्रसरणसाम्येनाह - नदीति । नयाः सरितो वेणिका रेयस्तत्र यो जलप्रवाहस्तद्वदिव वहन्तं प्रसरन्तमपश्यत् । तन्मध्य इति । आभरणकिरणालोकमध्ये महाश्वेतया सह प्रतिस्रोत इव प्रतिरय इव गत्वा प्रतीहारिमण्डलेनाधिष्ठित आश्रितः पुरोभागोऽप्रभागो यस्यैवंविधं श्रीमण्डपं ददर्श दृष्टवान् । अत्रालोकस्याभ्यन्तरावधि निपतनात् एतस्य प्रत्यभिमुखगमनात्, गमनमात्र एव दृष्टान्तस्तस्मिन्नेव दृष्टान्तस्योचितत्त्रात्, न तु दर्शन क्रियायामिति । > तत्र श्रीमण्डपे मध्यभागे कादम्बरीं ददर्शेत्यन्वयः । इतो दूर कादम्बरी विशेषयन्नाह - पर्यन्तेति । म. ण्डपपर्यन्तं रचितं निर्मितं मण्डलं येन स तेन । अंध इति । कुमारिकासनापेक्षयाध उपविष्टेन स्थितेनानेकेषां सहस्राणां संख्या गणना यस्मिन्स तेन । परीति । परिस्फुरद्देदीप्यमान आभरणानां भूषणानां समूहो यस्मि न्स तेन । मनोहरत्वसाम्येनाह - कल्पेति । कल्पलता मन्दारवल्लयस्तासां निवहेनेव समूहेनेव कन्यकाजनेन परिवृताम् । नीलेति । नीलं यदंशुक्रं तस्य यः प्रच्छदपट उत्तरच्छदस्तेन प्रावृतस्याच्छादितस्य नातिमहतो नातिमहीयसः । परिमाणोपेतस्येत्यर्थः । पर्यङ्करस्य पल्यङ्कस्याश्रयेऽधिकरणे धवलं शुभ्रं यदुपधानमुच्छीर्षकं तत्र न्यस्ता स्थापिता या द्विगुणा भुजलता तदवष्टम्भेन तदाश्रयेणावस्थिताम् । अत्र भुजाया वक्रीकरैणत्वेन द्विगु. णत्वं बोध्यम् । धवलालम्बनावस्थितत्वमात्रेणोपमानमाह - महावराहेति । महावराह आदिनोडस्तस्य दंष्ट्रा दाढा तत्रावलम्बिनीमाश्रितां महीमिव वसुधामिव । विस्तारिणि प्रसरणशीले देहप्रभाजालमेव जलं पानीयं तस्मिन्भुजलतानां बाहुवल्लीनां विक्षेपरूपा ये परिभ्रमास्तैः प्रतरन्तीभिरिव जलावगाहनं कुर्वन्तीभिरिव चामरप्राहिणीभिरुपवीज्यमानाम् । निपतितेति । मणि कुट्टिमेष्वधस्तान्निपतितं यत्प्रतिबिम्बं प्रतिच्छाया तस्या टिप्प० – 1 अन्वयोऽर्थश्चापि भ्रामकः । वहन्तं, नथाः वेणिकावत केशपाशवेणीवत ( अर्थात् सरलः) यो जलप्रवाहस्तमिव तेन (मार्गेण) निपतम्तम् ( अभ्यन्तरादागच्छन्तम्) भाभरणकिरणालोकमपश्यत् । 2 कल्पलता अपि अर्थिजनमनोरथपूरणाय नानाविधाभरणयुक्ता इति द्वयोः साम्यम् । 3 फोष्टि भुज ऊर्ध्वमुखीकृतः, अत एव कफोण्यूर्ध्व भागे द्विगुणत्वमित्यर्थः । 4 सर्व अमजनकमापादितम् । धवलोपधानन्यस्तभुजलता कादम्बरी महीव इत्युपमा, भुजलतोपष्टम्भस्य वराहदंष्ट्रासादृश्यादिति सेयमुपमा पृथक् । परितः प्रसारिणि कादम्बर्या देहप्रभारूपे जले तरन्तीभिरिव चामरग्राहिणीभिर्वीज्यमानामिति द्वितीया उत्प्रेक्षा ( चामरचालनार्थ इस्तौ न कम्प्येते, अपि तु जले हस्तक्षेपेण तास्तरन्ति इत्याशयः) । पाठा०-१ निपतित. २ मण्डलोपविष्टेन; मण्डलेनोवेंणोपविष्टेन च ३ अतिमहतः ४ उपाश्रये; अपाश्रये. कादम्बरीवर्णनम् ] पूर्वभागः । , .9 19 यमाणाम् उपान्ते च रत्नभित्तिषु दिक्पालैरिव नीयमानाम् उपरि मणिमण्डपेष्वमरैरियोत्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम्, चित्रकर्मच्छलेनावलो. कनकुतूहलसंपुञ्जितेन त्रिभुवनेनेव परिवृताम् भूषणरवप्रनृत्तशिखिशर्तविततचित्रचन्द्रकेण भवनेनापि कौतुकोत्पादितलोचन सहस्रेणेव दृश्यमानाम्, आत्मपरिजनेनापि दर्शनलोभादुपार्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि रागाविष्टैरिवाधिष्ठित सर्वाङ्गाम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तामपि मन्मथावेशपरवशेनेव गृह्यमाणां यौवनेन, अविचलित चरणरागदीधितिभिरिव निर्गताभिरलक्तकरसपाटलितलावण्य जलवेणिकाभिरिव गालिताभिर्निवसितांशुफदेशा शिखाभिरिवावलम्बिताभिः पादाभरणरत्नांशुलेखा संदेहदायिनी३८७ B भावस्तत्ता तया । नागैः सर्वैरपहियमाणामिवान्यत्र नीयमानामिव । तथोपान्ते समीपे च रत्नभित्तिषु तत एव दिक्पालैः सोमादिभिनयमानामिव प्राप्यमाणामिव । तथोपरि मणिमण्डपेषु रत्नजनाश्रयेषु तत एवामरैर्देवेरुत्क्षिप्यमाणामिवोत्पाट्यमानामिव । तत एव महामणिस्तम्भैर्हृदयमिव प्रवेशितां चित्तान्तर्निहिताम् । तत एव भवनदर्पणैगृहादशैरापीतामिव पानविषयीकृतामिव । श्रीमण्डपमध्योत्कीर्णेनाधोमुखेन विद्याधरलोकेन गगनतलं व्योमतलमारोप्यमाणामिव तत्र स्थाप्यमानामिव । एतेनोल्लिखित विद्याधररूपाणामतिस्वच्छता दर्शिता । चि त्रेति । चित्रकर्मालेख्य कर्म तस्य छलेन मिषेणावलोकनलक्षणं यत्कुतूहलं कौतुकं तेन संपुजितेन पिण्डीभूतेन त्रिभुवनेन परिवृतामिव सहितामिव । भूषणरवेण प्रवृत्तं ताण्डवितं यच्छिखिशतं मयूरशतं तस्य वितता विस्तीर्णाश्चित्रा विविधवर्णाश्चन्द्रका मेचका यस्मिन् । कौतुकेन कुतूहलेनोत्पादितं विहितं लोचनसहस्रं येनैवं विधेन भवनेनापि दृश्यमानामिव प्रेक्ष्यमाणामिव । अन्यथा भवनस्य लोचनाभावात्कादम्बरीप्रेक्षणं न स्यादिति भावः । आत्मेति । दर्शनलोभादवलोकन तृष्णातोऽनिमिषनयनेन निर्वर्ण्यमानामालोक्यमानाम् । के (ने)व । उपार्जितम जिंतं दिव्यं चक्षुर्येनैवंविधेनेव । यौवनातिशयमाह - लक्षणैरिति । लक्षणैरपि कपोलद्युतिकुचकाठिन्यादिभिरधिष्ठितमाश्रितं सर्वाङ्गं यस्याः सा ताम् । कैरिव । रागाविष्टैरिव दृष्टिरागिभिरिव । किं कुर्वन्तीम् । बालभावं मुञ्चन्तीं त्यजन्तीम् । कमिव, अकृतपुण्यमिव निर्भाग्यमिव । अदत्तामिति । अदत्तामैप्यनर्पितामपि मन्मथस्य कंदर्पस्यावेश आवेगस्तस्य परवशेन पराधीनेन यौवनेन गृह्यमाणामिव स्वीक्रियमाणामिव । पुनः कीदृशीम् । चरणाभ्यां पादाभ्यां विद्रुमरसनदी मिव हेमकन्दलरसतटिनीमिव प्रवर्तयन्ती विस्तारयन्तीम् । कीदृशाभ्यां चरणाभ्याम् । अङ्गुलीभिः करशाखाभिरुपेताभ्यां सहिताभ्याम् । कीदृशीभिरङ्गुलीभिः । अविचलि तेति । अविचलितो निश्चलो यश्चरणयो रागस्तस्य दीधितिभिरिव प्रभाभिरिव निर्गताभिः प्रत्युद्गताभिः । अलक्तेति । अलक्तकरसो यावकरसस्तेन पाटलितं श्वेतरक्तीकृतं यल्लावण्यजलं तस्य गलिताभिः क्षरिताभिवैणिकाभिरिव धाराभिरिव । वस्त्रप्रान्तात्रलम्बनसाम्येनाह - निवसितेति । निवसितं परिधानीकृतं यदंशुकं रत्नांशुकं तरय दशाशिखाभिरिव वस्त्रप्रान्तायैरिवावलम्बिताभिर्दृढताभिः । पादेति । अतिकोमलतयातिनदुतया पादाभरणानां या रत्नांशुलेखा मणिकान्तिरेखास्तासां संदेहदायिनीभिः संशय वितरणकर्त्रीभिः । नखटिप्प० - 1 निपतितप्रतिबिम्बतया इत्यनुषङ्गः । एवम् उपरिमण्डपेष्वित्यत्रापि । महामणिस्तम्भदर्पणादिष्वपि निपतितप्रतिबिम्बतया इत्यस्यानुषङ्गो बोध्यः । 2 धिक् टीकाकृतो जाड्यम् । ध्वज-वज्रादिचिह्नानि यानि तस्यास्तत्तदङ्गेषु वर्तन्ते, तान्यपि कादम्बर्यामासक्तिवशादाश्रितानि इत्युत्प्रेक्ष्यते । 3 पित्रादिभिरसमर्पिताऽपि सरावेशपरवशतया हव यौवनेन स्वयं गृह्यमाणां स्वीक्रियमाणाम् । कामावेशपरवंशो हि पित्रादिसमर्पणस्य प्रतीक्षां न कुरुते । परमार्थतस्तु यौवनं कामावेशपरवशं भवत्येव स्वाभाव्यात, अहो कवयितुश्चातुर्यम् । टीकाकारस्तु वराको दूरादपि न स्पृशति स्वारस्यम्, अत एव अस्थाने 'इव' शब्दयोगः कृतः । पाठा० -१ शतचित्र, २ सर्वाङ्गीम्; सर्वावयवाम् ३ विनतचरण, ४ रक्तांशुक. ३८८ कादम्बरी । [ कथायाम्भरतिकोमलतया नखविवरेण वर्षन्तीसिरिव रुधिरधारावर्षमहुली मिरुपेताभ्यां क्षितितलतासंगणमिव नखमणिमण्डलमुहद्भ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, नूपुरमणिकेरणचक्रवालेन गुरुनितम्बभर खिन्नोरुयुगल सहायतामिव कर्तुमुद्रच्छता स्पृश्यमानजघनभाम्, प्रजापतिदृढ निष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघातालावण्यस्रोत इव द्वेधागतमूरुद्वयं दधानाम्, सर्वतः प्रसारितदीर्घमयूखमण्डलेने यया परपुरुषदर्शन मिव रुँन्धता कुतूहलेन विस्तार मिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाना नितम्बविम्बस्य वेरचितपरिवेषाम्, निपतितसकललोकहृदयभरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरितमुखदुर्शनदुःखेनेव क्षीयमाणमध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्याद ङ्गुलिमुद्रामिव निमशां वेवरेण नखान्तरेण रुधिरधारावर्षं वर्षन्तीभिरिव । किं कुर्वद्भ्यां पादाभ्याम् । क्षितितलतारागणमिव नखमणिअण्डलमुद्रहव्यासुद्दहनं कुर्वद्भ्याम् । अत्र वर्तुलत्वप्रकाशकत्वसाधर्म्यान्नखतारागणयोः साम्यं प्रदर्शितम् । विद्रुमं हेमकन्दलस्तस्य यो रसस्तस्य नहीं तटिनीं चरणाभ्यां पादाभ्यां प्रवर्तयन्तीमिव विस्तारयन्तीमिव । नूपुऐति । स्पृश्यमानः स्पर्शविषयीक्रियमाणो जघनभागो यस्याः सा ताम् । केन । नूपुरमणीनां पादकटकर लानां किरणा दीधितयस्तेषां चक्रवालेन समूहेन । गुरुर्यो नितम्ब आरोहस्तस्य भरेण भारेण खिन्नं यदूरुयुगलं सक्थिद्वन्द्वं तस्य सहायं साहाय्यं कर्तुमिवोद्गच्छतोर्ध्वं व्रजता । प्रजेति । प्रजापतिना ब्रह्मणा निर्माण व्याजेन दृढं निष्पीडितो मर्दितो मध्यभागो मध्यप्रदेशस्तस्माद्गलितं च्युतं लावण्यस्रोत इव जघनशिलातलप्रतिघाताद्विधागतमूरुद्वयं दधानां धारयन्तीम् । एतेन मध्यभागे कार्य शिलातलपदेन च जघने दृढलमगूढं व्यज्यते । पुनः कीदृशीम् । काञ्चीदाना रशनादाना नितम्वबिम्बस्यारोहमण्डलस्य विरचितो निर्मितः परिवेषः परिधिर्यस्याः सा ताम् । इतः काञ्चीदाम विशेषयवाह- सर्वत इति । सर्वतः समन्तात्प्रसारितं विस्तारितं दीर्घमायतं मयूखमण्डल किरणसमूहो येन स तेन ईर्ष्यया स्पर्धया परपुरुषदर्शनमन्यनरा वलोकनं रुन्धतेवावरोधं कुर्वतेव । अदृष्टपूर्यत्वात् । कुतूहलेन कौतुकेन विस्तारं विस्तीर्णतां तन्वतेव विस्ता रयतेव । स्पर्श इति । स्पर्शसुखेन संश्लेषसातेन रोमाञ्चमिव रोमोद्गमिव मुञ्चता त्यजता । निपति • तेति । हृद्यत्वान्निपतितानि सकललोकानां समग्रजनानां हृदयानि मानसानि तेषां भरेणेवातिगुरुर्गरी यात्रितम्बो यस्याः सा ताम् । उन्नतेति । उन्नतावुचौ यौ कुचौ स्तनौ ताभ्यामन्तरितं व्यवहितं यन्मुखदर्शनमाननवीक्षणं तस्य दुःखेनेव कृच्छ्रेणेव क्षीयमाणः क्षीणतां प्राप्यमाणो मध्यभागो यस्याः सा ताम् । मध्यभागस्या धरतान्मुखस्योपरिष्टात्तन्मध्ये कुचांन्तरालस्य विद्यमानत्वात्तथा दर्शनं न भवति, अङ्कुरितयौवनत्वात् । पूर्णे तु यौवने सर्वथा दर्शनं न भविष्यतीत्यतो दुःखेनेवेत्युक्तमिति भावः । प्रजापतेरिति । अतिसौकुमार्यात्स्पृशतः स्पर्श कुर्वतः प्रजापतेर्ब्रहह्मणोऽङ्गुलिमुद्रामिवावर्तिनीं निम्नगां नाभिमण्डल (न्तुं ) दकू टिप्प० -1 कोमल रक्तयोश्चरणयोररुणा प्रभा परितः प्रसरति अत एव तन्त्र विद्रुमरसनदीप्रवर्तनस्योत्प्रेक्षा । चरणौ च अङ्गुलीभिर्युतौ, षङ्गुलयश्च चरणरागदीधितय इव, लावण्यंजलवेणिका इव, इत्यादिभिः उत्प्रेक्षाभिर्वर्णिता इति 'चरणाभ्यां विद्रुमरसनदीमित्र प्रवर्तयन्तीम्' इति विशेषणवाक्यस्य निर्गलितोऽर्थः । 2 भ्रमो वाsबोधो वा टीकाकृतः । काञ्चीदानः परितः प्रकाशकिरणाः प्रसृताः । अत एव तत्रोत्प्रेक्षा क्रियते परपुरुषाणां दर्शनरोधार्थम् । किरणैरावरणे सति दर्शनं न भवति । 3 नाभिमण्डली मित्येव पाठः, आवर्तिनी मिति स्त्रीविशेषणानुरोधात । आवर्तिनीमियस्य आवर्तवत् मध्यगर्तो यस्याखाहशीमित्यर्थः । पाठा • १ वमन्तीभिः २ अङ्गुलिभि: है सहायभू; सहायिताम् ४ प्रजापतिकरदृढ ५ लावण्यजलस्रोत. ६ निरुन्धता. पूर्वभागः । ब ] नाभि॑मण्डलमावर्तिनीमुहहन्तीम्, त्रिभुवन विजयप्रशस्ति वर्णावलीमिव लिखितां मन्मथेन रोमेराजिमञ्जरी विभ्राणाम् अन्तःप्रविष्टकर्णपल्लवप्रतिबिम्वेनातिभर खिद्यमान हृदयकरतल. प्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुख कर्णाभरणमयूखास्यामिव प्रसृताभ्याममललावण्यचलमृणालाभ्यां बाहुभ्यां नखकिरणविसरवर्पिणा च माणिक्यवलयगौरव श्रमव शात्स्वेदजलधाराजालकसिव मुञ्चता करयुगलेन समुद्भासिताम्, स्तनभारावनभ्यमानमाननमिवोन्नमयता हारेणोचैः करैर्गृहीतचिबुकदेशाम्, अभिनवयौवन, पिका मुद्दहन्तीं धारयन्तीम् । त्रिभुवनेति । मन्मथेन कंदर्पण लिखितां लिपीकृतां त्रिभुवनस्य यो विजयो जयस्तस्य प्रशस्तिवर्णाः श्लाघाक्षराणि तेषामावलीमिव रोमराजिगञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । अन्तरिति । अन्तः प्रविष्ट एवंभूतः कर्णपलवस्य यः प्रतिबिम्बस्तेन तन्मेिषेणातिभरेण अर्थात् का मभारेण खियमानं पीड्यमानं यद्धृदयं तस्य मृदुत्वरक्तत्वसाम्यात् । अत्र च प्रतिबिम्बरूपेण करतलेनेव प्रेर्यमाणं नोदनाविषयी क्रियमाणमेवंभूतम् । अत एव निष्पतता बहिर्निःसरता दृढत्वान्मकरकेतोर्मंदनस्य पादपीठेनेव पदासनेनेव स्तनमरेण भूषितां मण्डिताम् । अधोमुखेति । बाहुभ्यां भुजाभ्यां करयुगलेनेव समु द्भासितां विभ्राजिताम् । बाहुमुत्प्रेक्षय नाह - अधो इति । अधोमुखेऽवाङ्मुखे ये कर्णाभरणे श्रवणभूषणे तयोर्मयूखाभ्यो किरणाभ्यां प्रसृताभ्यामत्यन्तप्रवृद्धाभ्यामिव । अतिकोमलसाधर्म्यात् उपमान्तरं प्रदर्शयन्नाह -- अमलेति । अमलं निर्मलं यल्लावण्यजलं पानीयं तस्य मृणालंकाभ्यामिव तन्तुलाध्यामिव । करयुगलं विशेषयन्नाह - नखेति । नखाः पुनर्भवास्तेषां किरणास्तेषां विसरः समूहस्तद्वर्षिणा तदृष्टिकारिणा । किरणविसरस्य श्वेतत्वसाम्यादाह - माणिक्येति । माणिक्यवलयानां रत्नकटकानामप्युद्वहनगौरवेण श्रम इति सौकुमार्य ध्वन्यते । तद्वशात्स्वेदः प्रस्वेदस्तस्य जलधाराजालकमिव मुञ्चता त्यजता । पुनः कीदृशीम् । स्तनेति हारेण मुक्ताकलापेनोच्चैः करैः स्वकिरणैस्तैरेव वा करैर्गृहीतश्चिवुकदेशो नासिकाधः प्रदेशो यस्याः सा ताम् । किं कुर्वता हारेण । स्तनभारेणावनम्यमानं नम्रतां नीयमानमाननं मुखमुन्नमयतेवोन्चैः कुर्वतेव । अभीति । अभिनवं नूतनं ययौवनं तारुण्यं तदेव न्यञ्चलवात्पवनस्तेन क्षोभितस्य क्षोभं प्रापितस्य रागरागरस्य रागसमु टिप्प०-1 साहित्यसारभृताया: कादम्बरीकथाया लोकोत्तरलावण्यवती नायिका तुन्दकूपीपदेन (उपस्थापयति हि तुन्दपदं प्रचण्डनाभी गर्तान्धकारितं वाताध्यातमुदरम्) अभ्यर्यत इति धन्या टीका । •2 सौन्दर्येणानया त्रिभुवनं विजितमिति कामदेवसदृशेन (निर्णायकेन) लिखितामित्याशयः । 'मन्मथेन भात्मनस्त्रिभुवनविजयस्य प्रशस्तिः स्वयं लिखितेत्यर्थस्तु' मन्ये न तथा मनोरम: स्यात्, स्वयं स्वप्रशस्तिलेखस्यानुचितत्वात् । 3 स्वच्छतया भन्तःप्रविष्टं कर्णपल्लवप्रतिबिम्बं यस्य तादृशेन अतिसरखिद्यमानेन हृदयेन ( कर्जा) करवलेन ( हृदयपतितमेतद्विम्बमेव हृदयस्य करतलं तेन, 'करणेन' ) प्रेर्यमाणेनेत्यर्थः । श्रयं भावः - कोमलं हृदयं कामपीठायितस्तनभारेणात्यन्तं खिन्नम् । अत एवं कर्णपल्लवप्रतिबिम्ब रूपेण स्वस्य ( हृदयस्य ) करतलेन तत् ( स्तनरूपं कामपादपीठम्) खेदभरासहनतया बहिर्निस्सार्यमाणमस्ति, अत एव तु क्रमशो निर्गच्छतीत्याशयः । टीकाकारः सर्वमस्पष्टीचकार । 4 मयूखाभ्यामिव इति ग्रन्थकतोऽक्षराणि स्पष्टं पश्यनू, द्वितीयस्य इवशब्दस्य च संबन्ध 'जालकमिवे' ति उत्प्रेक्षान्तरे वीक्षमाणोपि यत्किञ्चिद्वदन् धन्यष्टीकाकारः । बाहुभ्यां तथा करयुगलेन च समुद्भासितामिति वाक्यार्थः । तत्र बाहुभ्यामि यत्र कर्णाभरणसंबन्धिस्थूलकिरणत्वं मृणालत्वं चोस्प्रेक्ष्यते । करयुगलसंबन्धिनखकिरणप्रसरणे च स्वेदजलधारावर्षणमुत्प्रेक्ष्यते, इति विवेकिभिराशयो बोध्यः । 5 हस्तैः । यथा हस्तैस्तथा किरणैश्चिबुकप्रदेश: स्पृष्टः । उन्नामयता इवेत्युत्प्रेक्षा, करशब्द श्लेषमूलकेन चिबुककर्मकस्पर्श-ग्रहणयोरभेदाध्यवसायेनाति शयोक्तिश्चेत्यनयोः संकरः । 3 पाठा ०१ मण्डलीम्; स्थलीम्. २ रोमराजी, ३ मृणालकाण्डाभ्याम् ४ वहनश्रमात् ५ ऊर्ध्वे : , कादम्बरी। [ कथायाम३९० पवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरिवादिनीरत्नकोणचारुणा नासावंशेन च विराजमानाम्, गतिप्रसरनिरोधि श्रवणकोपादिव किं. चिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवास दुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भूलताभ्यां मनःशिलापङ्कलिखितेन च रौंगाविष्टेन मन्मथहृदयेनेव वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टद्देमतालीपट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारा संदेहकारिणं कर्णपाशं दोलायमानपत्रमरकतमाणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेम सीमन्तचुम्बिनचूडामणेः क्षरतांशुजालेन मदिरारसेनेव प्रक्षाल्यमानदीर्घ केशकलापाम्, देहार्धप्रविष्टहरगर्वित गौरीविजिगीषयेव सर्वाङ्गानुप्रविद्रस्योद्द्वताभ्यां प्रादुर्भूताभ्यां तरङ्गाभ्यामिव । विद्रुमेति । विद्रुमलतावलोहिताभ्यां रक्ताभ्यामधराभ्यां दन्तच्छदाभ्यां तथा रक्तावदातेन खच्छा निर्मला कान्तिर्यस्यैवं विधेन । मदिरेति । मदिरारसः कापिशायनद्रवस्तेन पूर्ण भृतं माणिक्यशुक्तिसंपुटं तद्वच्छविः कान्तिर्यस्यैवंविधेन कंपोलयुगलेन । तथा रतेः परिवादिनी सप्तत स्त्रीभिर्युक्ता वीणा तस्या रत्नमयो यः कोणो 'वीणादिवादनं तद्वच्चारुणा मनोहरेण नासावंशेन च नासिकावेणुना च विराजमानां शोभमानाम् । गतीति । गतिर्गमनं तस्य प्रसरो विस्तारस्तस्य निरोधि प्रतिद्वन्द्विं यच्छ्रवणं तस्य यः कोपस्तस्मादिव किंचिदारक्तेऽपाने निर्याणे यस्य स तेन । निजेति । निजमात्मीयं यन्मुखं तस्य या लक्ष्मीः श्रीस्तस्या निवासार्थ दुग्धोदधिना क्षीरसमुद्रेणैवंविधेन लोचनयुगलेन नेत्रयुग्मेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम् । कपोलावधिश्याम लेखाद्वयसाम्येनाह -- उन्मदेति । उद्गतो मदो यस्मादेवंभूतं ययौवनं स एवानिवार्यत्वात्कुञ्जरस्तस्य मदो दानं तस्य राजीव राजी ताभ्यां भ्रूलताभ्याम् । तथा रागोऽनुरागस्तेनाविष्टेन व्याप्तेन । अथ च राग आरुण्यम् । तिलकारुण्यमिति यावत् । एवं विधेन मन्मथहृदयेनेव कंदर्पखान्तेनेव वदनलग्नेन मनःशिलापङ्कलिखितेन तिलकबिन्दुना विथोतितं प्रकाशितं ललाटपट्टं यस्याः सा ताम्। केचित्तु — मन्मथो हृदये यस्मात् तिलकारुण्यं दृष्ट्वा यूनां हृदये मन्मथावेश एवं विधेनेवेति व्याख्यानयन्ति । पुनः किं कुर्वन्तीम् । दधतीं धारयन्तीम् । कर्णपाशं कर्णाभरैण विशेषम् । दोलायमानं पत्रं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्यनिर्मितं कुण्डलं च आद्यं विशेषयन्नाह - उत्कृष्टेति । उत्कृष्टा अत्यद्भुता या हेमताली स्वर्णताली तस्याः पट्टाभरणेन निर्मितम् । तस्य च पिङ्गवर्णत्वात्कमलमकरन्दस्याप्येवंभूतत्वातत्साम्येनाह - आमुक्तेति । आमुक्तं परिधानीकृतं यत्कर्णोत्पलं श्रवणकुवलयं तस्माच्युता स्रस्ता या मधुधारा तस्याः संदेहकारिणमारेकाजनकम् । पाटलीति । पाटलीकृतं श्वेतरक्तीकृतं ललाटमलिकं येनैवंविधेन सीमन्तचुम्बिनः केशवर्त्मचुम्बिनश्चडामणेः शिरोमणेरंशुजालेन किरणसमूहेन । क्षरता स्रवता अनेकवर्णत्वसाम्यादाह — मदिरार सेनेव प्रक्षाल्य मोनो दीर्घ आयतः केशकलापोऽलकसमूहो यस्याः सा ताम् । देहेति । देहा शरीरार्धे प्रविष्टो यो हर ईश्वरस्तेन गर्निता गर्व प्राप्ता या गौरी तद्विजिगीषयेव विजेतुमिच्छयेव । सर्वाङ्गेष्वनुप्रविष्टो हरविरोधी मन्मथस्तेन दर्शितः सौभाग्यविशेषो यस्याः सा ताम् । एतेन सर्वाज्ञानङ्गप्रवेशेन गौर्याः सका > टिप्प० - 1 'मिजराफ' इति प्रसिद्धः । 2 कर्णपाशनामको नाद्यावधि श्रुतो भूषणविशेषः । पाशाकारं ( शकुल्याकारं ) कर्णमित्यर्थः । उत्कृष्टहेम निर्मिततालीपत्राकार (भूषणविशेष ) व्याप्तम्, दोलायमानं स्वर्णपत्रं यस्मितादृशं मरकतमाणिक्याभ्यां निर्मितं कुण्डलं यस्मिन् (बहुव्रीहिगर्भो बहुव्रीहिः) एवंविधं कर्णपाशम् ( प्रशस्तं कर्णम्) दधतीमिति तदर्थः । कर्णे कुण्डलं कुण्डले च तदवयवभूतं स्वर्णपत्रम् ( 'पीपलपत्ता' इत्यादि भाषाख्यातम् ) इति बहुव्रीहिद्वयार्थः । पाठा०—१ नयनमयम्, २ रागाविष्ट, ३ एकमाटिहेमताटी पुराभरणमपरम् ४ चुम्बितचूडामणे, ५ रागेण, कादम्बरीवर्णनम् ] पूर्वभागः । ३९१ ष्टमन्मथदर्शित सौभाग्यविशेषाम् उरःसमारोपितलक्ष्मीमुदितनारायणावलेपहरणाय प्रतिबिम्बकैर्निजरूपतो लक्ष्मीशतानीव सृजन्तीम्, उत्तमाङ्गनि हितैक चन्द्र विस्मितहराभिमाननाशाय विलास स्मितैश्चन्द्र सहस्राणीव दिक्षु क्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनीजागर खिन्नस्य परिचित चक्रवा कमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्वाल पुलिनानि कारयन्तीम्, 'परिजननूपुरवप्रैस्थितं दुर्लभं च हंसमिथुनं मृणालनिगडकेन नद्धानय इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखांल्लिहते हेरिणशावकाय सखीश्रवणादपनीय यवाङ्करप्रसवं प्रयच्छन्तीम्, आत्मवैर्धितलताकुसुमनिर्गमनिवेदनागता मुद्यानपालीम शेषाभरणदानेन संमानयन्तीम् उपनीतविविधवनकुसुमफलपूर्ण.9 शादस्याः सौभाग्यातिशयो व्यज्यते । उर इति । उरःस्थले समारोपिताऽवस्थापिता या लक्ष्मीस्तया मुदितो हर्ष प्राप्तो यो नारायणस्तस्य योऽवलेपोऽहंकारो मत्सदृशः कोऽपि नास्ति, अन्येषां लक्ष्मीर्वर्तते सा बहिःसंयोगवियोगमात्रेण परं न शरीरान्तर्गतेत्येवंरूपस्तस्य हरणाय निवृत्तेर्निजरूपत आत्मीयदेहस्य । सार्वविभक्तिकस्तस् । तस्य प्रतिबिम्बकैः प्रतिच्छायैर्लक्ष्मीशतानीव सृजन्तीं कुर्वन्तीम् । उत्तमाङ्गे शिरसि निहितः स्थापितो य एकोऽद्वितीयश्चन्द्रः शशी तेन विस्मितो हर ईश्वरस्तस्याभिमानोऽहंकारः एका चन्द्रस्य कला, सापि खोत्तमाने एव, नान्यस्य कस्यचित्, स्वतन्ववयवे बहिर्वा, इत्येवंरूपस्तद्वै परीत्येन तदभि (मान) नाशाय विशदाहादकत्वसाम्येन विलासम्मितैर्दिक्षु चन्द्रसहस्राणीव क्षिपन्तीम् । तादृशस्मितान्येव चन्द्रसहस्ररूपतां प्राप्तानीत्यर्थः । निर्दयद्ग्धेति । निर्दयं निष्करुणं दग्धो ज्वालित एकोऽद्वितीयो मन्मथः कंदर्पो येनैवंभूतो यः प्रमथनाथ ईश्वरस्त स्मिन्यो रोषः क्रोधस्तेनेव प्रतिहृदयं मन्मथस्यायुतानि संख्या विशेषाण्युत्पादयन्तीं निर्माणं कुर्वन्तीम् । रजनीति । रजन्यां यो जागरो जागरणं तेन खिन्नस्यैवंविधस्य परिचितं स्ववशमानीतं यच्चक्रवाकमिथुनं द्वन्द्वचरयुग्मं तस्य स्वप्तुं शयनं कर्तुं क्रीडानदिकासु क्रीडातटिनीषु कमलानां नलिनानां धूलयः परागा ता एव वालुकाः सिकतास्ता भिर्बाल पुलिनानि स्वसैकतानि कारयन्तीम् । अत्र पूर्वोक्तेषु वक्ष्यमाणेषु वा यंत्र यत्र द्रव्यगुणक्रियाभिः प्रस्तुतप्रशंसा तत्र सर्वत्र यथोचितं तत्तदतिशया एव व्यङ्ग्याः स्वयं बोद्धव्याः । यथा निजरूपतः प्रतिबिम्बैरित्यत्र रूपातिशयः । यथा वा रजनीत्यत्र कमलातिशयः पुंलिनक्रियातिशयश्च । परिअनेति । परिजनः परिच्छदलोकस्तस्य नूपुराणि पादकटकानि तेषां रवः शब्दस्तेन प्रस्थितं चलितं दुर्लभं दुष्प्रापं च हंसमिथुनं चक्राङ्गयुग्मं मृणालं तन्तुलं तदेव निगडकमन्दुकस्तेन बद्धा नियम्यानय मत्समीपं प्रापय । इति हंसपाली हंसरक्षानियुक्तामादिशन्तीं कथयन्तीम् । पुनः किं कुर्वन्तीम् । आभरणानां भूषणानां मरकतान्यइमगर्भाणि तेषां मयूखान्किरणल्लिहत आस्वादयते हरिणशावकाय मृगशिरावे सखीश्रवणाद्वयस्या कर्णायवाकर प्रसवं हयप्रियोगमपुष्पमपनीय दूरीकृत्य प्रयच्छन्तीं ददतीम् । आत्मेति । आत्मवर्धिता स्वयं वृद्धिं प्रापिता या लता वली तस्यां कुसुम निर्गमः पुष्पप्रादुर्भावस्तस्य निवेदनाय कथनायागतां प्राप्तामुयानपालीं वनरक्षा नियुक्तामशेषाभरणदानेन समग्रभूषणप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् । उपेति । उपनीतान्यानीतानि विविधा न्यनेकप्रकाराणि वनकुसुमफलानि तैः पूर्ण भृतं पत्रपुटं यया सा ताम् । अविज्ञायमानो यं आलापः संलापस्तस्य भावस्तत्ता तया हास हेतुं परिहासनिमित्तं पुनः पुनर्भूयोभूयः क्रीडापर्वतस्य पत्रशबरीं पुलिन्दपत्नीम् । टिप्प० - 1 लघुसैकतानि । 2 'पुलिन्दः पत्रशबरः' इति रखकोशकल्पनं धौर्त्यमेव टीकाकृतः । 'क्रीडापर्वत कपातृशबरीम्' इत्येव पाठः । क्रीडापर्वतस्य पात्री रक्षिका या शबरीति तदर्थः । हंसपालीउद्यानपालीति प्रकरणेन पर्वतपालिकायाश्च स्पष्टं प्रतिभासनात् । प्राकृतपर्वते निवसन्ती शबरी मनुष्यभाषां न जानाति । किन्तु कृत्रिमक्रीडा पर्वतरक्षिकाऽपि स्वस्वामिनो भाषां न बुध्यत इति अतिशय कल्पनमेव त्राणस्य । Chungbplet पाठा- •१ एकलक्ष्मी २ स्विन्नस्य ३ प्रस्थितं वल्लभं च हंसमिथुनम् ; प्रस्थितं च वल्लभहंस मिथुनम् ४ लिहसे हरित तृणसुचीलोमेन, ५ भवनहरिण, ६ संवर्धितलताप्रथमकुसुम, क़ादम्बरी । [ कथायाम्पत्रपुटामविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वतपत्रशबरीमालपन्तीम्, करतलविनिहितैर्मुहुर्मुहुरुत्पतद्भिश्च मुखपरिमलान्धैर्नीलकञ्चुकैरिव मधुकरैः क्रीडन्तीम्, पञ्जरहॉरीतक रुतश्रवणकृतदुष्टस्मितां चामरग्राहिणीं विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ताफल खचितचन्द्रलेखिकासंक्रान्तप्रतिमां स्वेदजलबिन्दुजालॅचितनखपदाभिप्रायेण ताम्बूलकरङ्कवाहिनीं पयोधरे पटवासमुष्टिना ताडयन्तीम्, रत्नकुण्डलप्रेतिबिम्बसान्द्रदत्तन वनखपदमण्डलाशङ्ख्या चामरमाहिणीं विहस्य कपोले प्रसाद व्याजेन दत्तेनात्मकर्णपूरपल्लवेनाच्छादयन्तीम् पृथिवीमिव समुत्सारितमहाकुलभूभृव्यतिकरां शेषभोगनिषण्णाम्, मधुमासलक्ष्मीमिव षट्पदपटलापहियमाणकुसुमरजोधूसरपादपरागाम्, शरदमिवोत्पादितमानसजन्म३९२ १ 'पुलिन्दः पत्रशबरः' इति रत्नकोशः । आलपन्तीं जल्पन्तीम् । करोति । करतले हस्ततले विनिहितैः स्थापितैर्मुहुर्मुहुर्वारंवारमुत्तद्भिपतनं कुर्वद्भिर्मुखस्य यः परिमलस्तेनान्धैः । नीलत्वसाम्यादाह - नीलेति । नीलककैरिव मधुकरैर्भमरैः क्रीडन्तीं क्रीडां कुर्वन्तीम् । पञ्जरेति । पञ्जरे वंशदल निर्मिते पात्रे यो हारीतको मृदङ्कुरस्तस्य रुतश्रवणेन कृतं दुष्टं गूढं स्मितं यया सा ताम् । एवंविधां चामरग्राहिणीं विहस्य शिरसि मस्तके लीलाकमलेन विघट्टयन्तीं ताडयन्तीम् । मुक्तेति । मुक्ताफलानि रसोद्भवानि तैः खचिता या चन्द्रलेखिका चन्द्रलेखाकृतिराभरण विशेषस्तस्याः संक्रान्ता प्रतिविम्विता प्रतिमा यस्यां सैवंविधां ताम्बूल करकवाहिनीं खेदजलबिन्दुजालेन चितं व्याप्तं यन्त्रखपदं तस्याभिप्रायेण पयोधरे कुचे पटवासः पिष्टातस्तस्य मुष्टिना ता. डयन्तीम् । अत्रायमभिप्रायः -- मुक्ताफलानां जलविन्द्वनुकारित्वाच्चन्द्रलेखिकायाश्च वऋत्वेन नखक्षतानुकारित्वात्ताम्वूलकरङ्कवाहिनीवक्षसि गौर रूपातिशयवति मुक्ताचन्द्रिकायाः प्रतिबिम्बसंक्रान्त्या चौर्यरतपिशुनं स्वेदधिन्दुजालचिते नखपदं वस्येदमित्यभिप्रायेण यत्र तद्दर्शनं तत्रैव चूर्णक्षेपः । एतेन रतगोपनं व्यज्यते । रत्नेति । रत्नकुण्डलस्य यः प्रतिबिम्ब: प्रतिच्छायस्तेन सान्द्रं दत्तं यन्नवनखपदमण्डलं तस्याशङ्कयारेकया वा चामरग्राहिणीं वालव्यजनधारिणीं विहस्य कपोले प्रसादः प्रसन्नता तच्याजेन तन्मिषेण दत्तेनार्पितेनात्मनः स्वकीयस्य यः कर्णपूरपलवस्तेनाच्छादयन्तीमाच्छादनं कुर्वन्तीम् । एतेन रत्नकुण्डलस्य वकलोहितातिशय वन्नखक्षतिसाम्यं प्रदर्शयन्नाह - समुत्सारितेति । समुत्सारितो दूरीकृतो महाकुलानां भूभृतां राज्ञां व्यतिकरो वृत्तान्तो यया सा ताम् । कादम्बर्याः पितुरंपेक्षयान्येषां राज्ञां न्यूनत्वादिति भावः । पक्षे महाकुलभूभृतां कुलाचलानां व्यतिकरः सामर्थ्य यया सा ताम् । शेषा उर्वरिता अन्यजनैरस्पृष्टा ये भोगास्तत्र निषण्णामुपविष्टाम् । पक्षे शेषस्य नागाधिपस्य यो भोगोऽहिकायस्तत्र निषण्णां स्थिताम् । मधुमासेति । मधुमास श्चैत्रमासस्तस्य लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - षट्पदेति । षट्पदानां भ्रमराणां पटलैरपहियमाणं यत्कुसुमरजस्तेन धूसर ईषत्पाण्डुः पादयोश्चरणयोः पराग उपरागो यस्याः । 'पराग: ख्यात्युपरागयोः' इति विश्वः । पक्षे पादपानां वृक्षाणां राग आरुण्यं यस्याम् । शरदिति । शरद्धनात्ययस्तामिव । उभयोः साम्यमाह - उत्पादितेति । उत्पादितो जनितो मानसं मनस्तस्माजन्म यस्य स मानसजन्मा कंदर्पस्तस्य पक्षो टिप्प० - 1 सर्वथा मूढ एव टीकाकार.: । 'भूभृद्व्यतिकरशेषभोगनिषण्णाम्' इत्येव पाठः । 'महाश्वेतायां सशोकायां नाहं पाणि ग्राहयिष्यामि' इति प्रतिज्ञानुसारं दूरीकृतः महाकुलानां भूभृतां (राज्ञाम्) व्यतिकरः संसर्गसुखं तस्मात् शेषेषु ( अवशिष्टेषु ) सुखेषु चन्दन थापा'न्तरे तु ज्ञात एवार्थ:, अर्थात् समुत्सारितः स्वसमीपं प्रापितः कुलशैलानां व्यतिकरः सम्बन्धो यया तादृशी च शेषस्य शरीरे निषण्णा चेति । पाठा० -१ पर्वतकशबरीम् ; पर्वतकपातृशवरीम्. २ आलापयन्तीग्. ३ विनिहतैः; अभिह्तैर्मुहुरपसर्पद्भिरुप. सर्पद्भिश्च. ४ कन्दुकैः ५ हारीतकलरुत ६ लेखिकाप्रतिम. ७ जालाचित ८ स्तनतटे ९ प्रतिबिम्बमार्द्रदन्तव्रणअण्डल, १० व्याज, ११ भूभृद्वरव्यतिकर. १२ शेषभोगेषु निषण्णां च १३ सखीम्, कादम्बरीवर्णनम् ] पूर्वभागः । ३९३ पक्षिरवापनीत नीलकण्ठमदाम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम्, उदधिवेलावनलेखामिव मधुकरकुलनीलतमालकाननाम्, इन्दुमूर्तिमिवोद्दाम मन्मथ विलासगृहीतगुरुकलत्राम्, वनराजिमिव पाण्डुश्यामलवलीलतालंकृतमभ्याम्, दिनमुखमिव भास्वन्मुक्तांशुभिनपद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरहश्यमान मृणाल कोमलोरुमूलाम्, मयूरावलीमिव नितम्बचुम्बिशिखण्ड भारविस्फुरचन्द्रकान्ताम्, कल्पतरुलतामिव कामफलविद्यते येषां मानसजन्मपक्षिणां रव उपभोगानुकूल: शब्दो यया सा । कामिनामुपभोगविषयकलाप उद्दीपकत्वात्कादम्बर्येवोत्पादित इत्यर्थः । ततोऽपनीतो दूरीकृतो नीलकण्ठो मदनदाहको महादेवस्तस्य मदः । मदन सहस्रोत्पादकत्वस्य पूर्वमुक्तत्वात्पश्चात्कर्मधारयः । ताम् । पक्षे मानसजन्मानो ये पक्षिणस्तेषां रवेण शब्देनापनीतो दूरीकृतो नीलकण्ठस्य मयूरस्य मदो यया सा ताम् । गौरीति । गौरी पार्वती तामिव श्वेतमंशुकं वस्त्रं यस्याः सा । विरचितान्युत्तमाङ्गावष्याभरणानि भूषणानि यया सा । पश्चात्कर्मधारयः । ताम् । पक्षे श्वेता अंशवः किरणा यस्यैवंभूतः श्वेतांशुकश्चन्द्रः स एव रचित उत्तमाङ्ग आभरणं यया । हारस्येति शेषः । उद्धीति । उदधिः समुद्रस्तस्य वेलावनं समीपवर्ति काननं तस्या लेखा राजिस्तामिव । मध्विति । मधुकराणां भ्रमराणां कुलं समुदायस्तद्वन्नीलतमा अतिशयेन हरिता अलकाः केशा आपने मुखे यस्याः सा ताम् । पक्षे मधुकरकुलयुक्तं नीलतमालकाननं यस्याम् । इन्दुमूर्तीति । इन्दुश्चन्द्रस्तस्य मूर्तिस्तामिवोहामा उत्कटा ये मन्मथविलासाः कंदर्प विभ्रमास्तैगृहीतं स्वीकृतं गुरु महत्कलत्रम् । 'कलत्रं श्रोणिभार्ययोः' इति विश्वः । पक्षे उद्दाममन्मथविला सैर्गृहीतमात्तं गुरोर्बृहस्पतेः कलत्रं भार्या यया सा ताम् । कामव्याकुलचेतसा चन्द्रेण बृहस्पतेस्तारापहृतेति पुराणप्रसिद्धम् । वनेति । वनस्य राजिर्लेखा तामिव । उभयोः शब्दसाम्यमाह - पाण्डित । अङ्कुरितयौवनत्वाच्छ्यामलाः कृष्णा वल्लयस्त्रिवल्लयस्ता एव सरलत्वसाम्याल्लता वल्लयस्ताभिरलंकृतो मध्यः कटिप्रदेशो यस्याः सा ताम् । पक्षे लवली लताः ताभिरलंकृतो भूषितो मध्यो मध्यप्रदेशो यस्याः सा ताम् । दिनमिति । दिनस्य वासरस्य मुखमाननं तद्वदिव । भास्वदिति । भास्वन्त्यो दीप्यन्त्यो या मुक्ता मुक्ताफलानि तेषामंशुभिः किरणैर्भिन्नानि मिश्रितानि पद्मरागाणां प्रसाधनानि भूषणानि यस्याः सा ताम् । पक्षे भावता सूर्येण मुक्ता येंऽशवः किरणास्तैर्भिन्नानि विकसितानि यानि पद्माण कसलानि तेषां रागो रङ्गः स एव प्रसाधनं यस्याः सा ताम् । आकाशेति । आकाशं व्योम तस्य कमलिनी स्वर्गीयनलिनी तामिव । स्वच्छेति । स्वच्छं निर्मलं यदम्बरं तस्मिन्दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे खच्छेऽम्बर आकाशे मृणालस्य तन्तुलस्य कोमलं सुकुमारमुरु विस्तीर्ण मूलं बुधं यस्याम् । मयूरेति । मयूराणां कलापिनामावली श्रेणी तामिव । नितम्बेति । नितम्बः कटकस्तञ्चुम्बिनि, अर्थाद्वैस्त्रे, शिखण्ड भारवत्कलापिपिच्छसमूहवच्चन्द्रकाश्चन्द्राकृतयो बिन्दवोऽन्ते प्रान्ते यस्याः सा ताम् । पक्षे नितम्ब चुम्बि शिखण्डभार स्तस्मिन्विस्फुरिता देदीप्यमानाश्चन्द्रका मेचका अन्ते यस्याः सा ताम् । कल्पेति । कल्पतरुर्मन्दारः सरलत्वात्स एव लता तामिव । उभयोः सादृश्यमाह - कामेति । कामं वाञ्छितं यत्फलं तस्य प्रदामित्यभङ्गटिप्प० - 1 सर्वथानधिकारी टीकाकारः । उत्पादितस्य स्व भावविलासेन जनितस्य मानसजन्मनः ( कामस्य ) पक्षिणां कङ्कपक्षयुक्तानां बाणानां रवेण अपनीतो नीलकण्ठस्य ( शिवस्य ) मदः ( ते कामो दग्धः, कादम्बर्या तु स्वसामर्थ्यनोस्पादितः ) यया तामित्यर्थः । अन्योर्थः स्फुटः । 2 उपमायां लिङ्गभेदो दोषायेति 'दिनमुखलक्ष्मीमिव' इत्येव पाठः । प्रभातलक्ष्मीः ( शोभा ) इति तदर्थः । 3 धिक्टीकाम् । नितम्बचुम्बी शिखण्डभारः ( केशपाशः ) यस्याः सा चासौ च विस्फुरन् ( शोभमानः ) चन्द्र इव कान्ता (कमनीया) चेति स्फुटोर्थः । 4 धिक् । कादम्बरीपक्षे कामफलं मदनविकाररूपं फलं प्रददातीत्यर्थः । पाठा० -१ विरचित. २ मुखलक्ष्मीम्. ५० का० ३९४ कादम्बरी । [कथायाम्, प्रदाम्, पुरः समीपे संमुखोपविष्टाम् कोऽसौ, कस्य वापत्यम्, किमभिधानो वा, कीदृशमस्य रूपम्, कियद्वा वयः, किमभिधत्ते, भवता किमभिहितः, कियच्चिरं दृष्टस्त्वया, कथं चास्य महाश्वेतया सह परिचय उपजातः, किमयमंत्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीड संबद्ध मे वालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श । तस्य तु दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीचास्य मनसि– 'शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा यदनिवारितमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादभुजल बिन्दवस्तेभ्य एतानि जगति कुमुदकमलकुवलय सौगन्धिकवनान्युत्पन्नानि' इत्येवं चिन्तयत एवास्य तस्या नँयनयुगले निप पात चक्षुः । तदा तस्या अपि नूनमयं स केयूरकेणावेदित इति चिन्तयन्त्या रूपातिशयविलोश्लेषः । पुर इति । पुरोऽग्रे समीपे सविध उपविष्टमासीनं कोऽसौ चन्द्रापीडः, कस्य च राज्ञोऽपत्यं प्रजाः, किमभिधानो वा किंनामा, कीदृशमस्य रूपं सौन्दर्यम्, कियद्वा कियत्प्रमाणं वयोऽवस्थाविशेषः, किमभिधत्ते किं कथयति, भवता किमभिहितः किं कथितः, त्वया कियच्चिरं कियत्कालं दृष्टः । कथं चेति । केन प्रकारेणास्य पुरोवर्तिपुरुषस्य महाश्वेतया सह परिचयः संस्तव उपजातः । किमयमन्त्रागमिष्यतीति मुहुर्मुहुश्चन्द्रापीडसंबद्धं चन्द्रापीड विषयक मेवालापं वार्ता तस्य चन्द्रापीडस्य या वर्णनाप्रशंसा तत्र मुखरं वाचालं केयूरकं पृच्छन्तीं प्रश्नविषयीकुर्वन्तीं कादम्बरी ददर्शति प्रागुक्त एवान्वयः । तस्य त्विति । तस्य चन्द्रापीडस्य हृदयं चेत उल्ललासोच्छ्वसितं बभूव । कीदृशस्य । दृष्टा वीक्षिता कादम्बरीवदनचन्द्रलेखामा लक्ष्मीर्येन स तस्य । कस्येव । सागरस्येवामृतं पानीयं यथा चन्द्रलेखा दर्शनादुल्लसति । आसीदिति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासीद्वभूव । वेधसा ब्रह्मणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरिक्तान्यपि करणानि किमिति हेतोर्लोचनमयान्येव न कृतानि न विहितानि । किं वेति । अनेन चक्षुषा लोचनेन किमिति प्रश्ने । अवदातं शुद्धं कर्म कृतं विहितम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यद्यस्माद्धेतोरनिवारितं यथा स्यात्तथैतां कादम्बरीं पश्यति विलोकयति अहो चित्रमाश्चर्यमेतत् । यद्वेधसा सर्वरमणीयानां समग्रमनोहरा णामेकमद्वितीयं धाम गृहमुत्पादितं निर्मितम् । एते इति । एते रूपातिशयपरमाणवो वेधसा कुतः समासादिताः कुतः प्राप्ताः । तन्नूनं निश्चितमेनां कादम्बरीमुत्पादयतो विधेर्ब्रह्मणः करतलस्य हस्त तल स्य परामर्शः संबन्धस्तस्माद्यः क्लेशस्तेन ये विगलित (ः सस्ता लोचनयुगलान्नेत्रयुग्मादश्रुजलबिन्दवस्तेभ्यः [ कर्मकठिनाभ्यां करतलाभ्यां परामर्श: सर्वावयवैः संपूर्णो देहः सिद्ध इत्याशयेन सर्वाङ्गेषु स्पर्शनं तन्निमित्तकः क्लेशः श्रमः अतिसौकुमार्यात् तेन ये नयनजलबिन्दवस्तेभ्यो बिन्दुभ्यो] जगति लोके कुमुदानि कैरवाणि कमलानि नलिनानि कुवलयान्युत्पलानि सौगन्धिकानि कहाराण्येतेषां वनान्युत्पन्नानि समुद्भूतानि । 'कारणगुणा हि कार्यगुणमारभन्ते' इत्यतिश्वेतसुकुमारावयवजनितानि कुमुदानीत्यर्थः । इत्येवं चिन्तयतो ध्यायत एवास्य चन्द्रापीडस्य तु तस्याः कादम्बर्या नयनयुगले चक्षुर्निपपात दृढसंलग्मं बभूव । तदेति । तस्मिन्काले तस्या अपि कादम्बर्या अपि नूनं निश्चितं पूर्व केयूरकेण मदनुचरेणावेदितो निवेदितः सोऽयमिति चिन्तयन्त्या ध्यायन्त्या रूपातिशयविलोकने यो विस्मयश्चित्रं तेन स्मेरं विनिद्रं निश्चलं निबद्धं लक्षं येनैवंविधं चक्षुस्तस्मिंश्चन्द्रापीडे टिप्प० - 1 प्रकोष्ठमध्यगतो भागः पुनरुक्तप्रायः । इतस्तात्पर्य मात्रं ब्राह्यम् । 2 लक्ष्यमित्युचितम् । पाठा० -१ पुरःशयनसमीपे २ भवतां च ३ अमिहितम् ४ संबद्धालापम्; संबद्धालापरूप. ५ कादम्बरी. ● ६ आनने. कादम्बरी - चन्द्रापीडयोर्मिथोभावावेशः ] पूर्वभागः । ३९५ कनविस्मयस्मेरं निश्चलनिषलक्षं चक्षुस्तस्मिन्सुचिरं पपात । लोचनप्रभाधवलितस्तु कादम्बरीदर्शन विह्वलोऽचल इव तैत्क्षणमराजत चन्द्रापीड: । दृड्डा चे प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ । अथ तस्याः कुसुमायुध एव स्वेदमजनयत्, ससंभ्रमोत्थानश्रमो व्यपदेशोऽभवत् । ऊरुकम्प एव गतिं रुरोध, नूपुररवाकृष्टहंसमण्डलमपँयशो लेभे । 'निःश्वासप्रवृत्तिरेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तःप्रविष्टेचन्द्रापीड स्पर्शलोभनव निपपात हृदये हस्तः, स एव करः स्तनावरणव्याजो बभूव । आनन्द एवाश्रुजलमपातयत्, चलितकर्णावतंसकुसुमरजो व्याजमासीत् । लज्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालिवृन्दं द्वारतामगात् । मदनशरप्रथमप्रहारवेदनैव सीत्कारमकरोत् कुसुमप्रकरकेतकीकण्टकक्षतिः साधासुचिरं पपात । लोचनेति । लोचनप्रभा नेत्रकान्तिः । कादम्बर्या इति शेषः । तया धवलितः शुश्रीकृतः कादम्बर्या दर्शन सम्यक्तया विलोकनं तत्र विह्वलो व्याकुलोऽचल इव पर्वत इव तत्क्षणं तस्मिन्समये चन्द्रापीडोडराजताशोभत । तत्र निश्चलत्वसाम्यात्पर्वतानुमानमित्यर्थः । एवमुभयोर्लोचनविषयतां प्राप्तयोर्विशेषोत्तया विभावना वा व्यभिचारिभावा अनुभावाश्च वक्तुमुपक्रमते - हृष्ट्वेति । दृष्ट्वा विलोक्य प्रथममादी रोमोद्गमो रोमाञ्चः समभूत् । तदुक्तमन्यत्र – 'अपूर्वप्रियदर्शने । बभन्नङ्गेषु रोमाञ्चः' इति । ततो भूषणरव आभरणसिजि तम् । तदनु तदनन्तरं कादम्बरी समुत्तस्थावुत्थितवती । अधेति समुस्थानानन्तरं तस्याः कादम्बर्याः कुसुमायुध एव वेदमजनयत् । सर्वोऽप्ययं प्रपञ्चञ्चन्द्रापीडविष यकः कादम्बर्या मनस्युत्कण्ठानिवृत्त्यतिशय प्रतिपादनपरश्च । एतदेव स्पष्टयन्नाह - ससंभ्रमेति । संभ्रमेण सहवर्तमानं ससंभ्रमं यदुत्थानं तस्माद्यः श्रमः खेदः स एव व्यपदेशो मिषं तत्राभवत् । ससंभ्रमोत्थानश्रमादेव मम खेदोऽभूदिति व्याजं कृतवतीत्यर्थः । ऊरुकम्प एवं गतिं गमनं रुरोध रुन्धितवान् । नूपुरे पादकटके तयो रवः शब्दस्तेनाकृष्टमाकर्षितं यद्धंसमण्डलं तदपयशोऽपकीर्ति लेभे प्राप । मगतिनिरोधकृत् हंसमण्डलमिति सखीजने प्वपभ्राजन्यं कृतवतीत्यर्थः । निःश्वासेति । निःश्वासानामेतनानां प्रवृत्तिरेव प्रवर्तनमेवांशुकं वस्त्रं चलं कम्प्रे चकार । चामरेति । चामरानिलो वालव्यजनपदनो निमित्ततां कारणतां ययौ । चामरानिलेन मदंशुकं चालितमित्युक्तवतीत्यर्थः । अन्तरिति । अन्तःप्रविष्टो यश्चन्द्रापीडस्तस्य स्पर्शलोभेनैव हृदये हस्तः करो निपपात निपतितो बभूव । स एवेति । स एव कैरो हस्तः स्तनावरणस्य कुचाच्छादनस्य व्याजो मिषं बभूव । स्तनावरणार्थं हस्तो दत्त इत्यन्येषां चेष्टया ज्ञापितवतीत्यर्थः । आनन्द एवेति । आनन्द एव प्रमोद एवाश्रुजलं नेत्रजलमपातयत्पातितवान् । चलितेति । चलितं कम्पितं यत्कर्णावतंसकुसुमं तस्य रजः परागस्तदेव व्याजो मिषमासीत् । कर्णावतंसरजः पातान्मम नेत्रयोर्जलच्युतिरभूदिति ज्ञापितवतीत्यर्थः । लजैवेति । लज्जैव त्रपैव वक्तुं कथयितुं न ददौ । मुखेति । मुखमेव कमलं तस्य यः परिमलस्तस्मादागतं प्राप्तं यदलिवृन्दं भ्रमरसमै हपटलं द्वारतामगादगमत् । भ्रमरैर्निरुद्धवदना मौनं कृतवतीति सख्या ज्ञातव्या । मदनेति । मदनशरस्य यः प्रथमप्रहार आद्याभिघातस्तस्य वेदनैव व्यथैव सीत्कारं शब्दविशेषमकरोत् । कुसुमेति । कुसुमप्रकरेषु यः केतकीकण्टकस्तस्माद्या क्षतिः प्रघातः सा साधारणतां निमित्ततामवाप प्राप । केतकीकण्टकाभिघातेना नया टिप्प० - 1 द्वितीयया तात्पर्यम् । 2 ' स एव स्तनावरणग्याजः' इत्येव पाठः, सर्वनाम्न्ना परामृष्टत्वे पुनरुक्तिर्न बाणोचिता । 3 अनयोरेकतर एव प्रयोज्य आसीत् । ● पाठा० - १ नयनम्. २ बल. ३ क्षणम्. ४ च तं प्रथमम्. ५ व्यपदेशेन ६ स्तम्भ ७ अयशः. एव; निश्वासप्रवृद्धिरेव. ९ चन्द्रापीडस्य १० स्तनावरणम्. १९ ग्याज आसीत् ; व्यपदेशतामयासीत्. ८ निश्वास ३९६ कादम्बरी । [ कथायाम्रणतामवाप । वेपथुरेव करतलमकम्पयत् निवेदनोद्यतप्रतीहारी निवारणं कपटमभूत् । तदां च कादम्बरी विज्ञतो मन्मथस्यापि मन्मथ इवाभूद्वितीयः, तया सह यो विवेश चन्द्रापीडहृदयम् । तथा हिं, असावपि तस्या रत्नाभरणयुतिमपि तिरोधानममंस्त, हृदयप्रवेशमपि परिग्रहमगणयत्, भूषणरवमपि संभाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसादमचिन्तयत्, देहप्रभासंपर्कमपि सुरतसमागमसुखमकल्पयत् । S कादम्बरी तु कृच्छ्रादिव दत्तकतिपयदा महाश्वेतां स्नेहनिर्भरं चिरदर्शन जातोत्कण्ठा सोत्कंठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत् - 'सखि कादम्बर, भारते वर्षे राजानेकवर तुरग खुरमुखोल्लेखदत्तचतुःसमुद्रमुद्रो रक्षितप्रजापीडस्तार।पीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रान्त विश्वविश्वंभरापीडश्चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः । परित्यक्तसकलासीत्कारो विहित इति सख्यो मेनिरे । वेपथुरेव कम्प एव करतलं हस्ततलमकम्पयत् । निवेदनेति । निवेदने ज्ञापन उद्यता या प्रतीहारी तस्या निवारणं कपटं कैतवमभूत् । प्रतीहारीनिवेदितवस्तुप्रतिषेधद्वारा करकम्पनमाचरितमिति सखीभिरज्ञायीति भावः । नायिकाक्रमेण तानुक्त्वा नायकक्रमेणाप्याह - तदा चेति । यदा कादम्बरी चन्द्रापीडविषयको मन्मथः प्रविष्टस्तदा तस्य चन्द्रापीडविषयकस्य कादम्बरीहृदयप्रविष्टस्य मन्मथस्यापि प्रत्यर्थीभूतो द्वितीय इव मन्मथोऽभूत् । यथा कादम्बर्यां चन्द्रापीडविषयको मन्मथः प्रविष्टस्तथैव कादम्बरीविषयकोsपि मन्मथश्चन्द्रापीडहृदयं प्रविवेशेत्यर्थः । तदेवाह — तथा सहेति । यस्तस्य कादम्बर्या सह चन्द्रापीडहृदयं विवेश प्रविष्टवान् । तदेव दर्शयति - तथा हीति । असावपि चन्द्रापीडोsपि तस्याः कादम्बर्या रत्नाभरणानां मणिखचितभूषणानां द्युतिमपि कान्तिमपि तिरोधानमन्तर्धानं साकल्येनावलोकन प्रतिबन्धकममंस्त ज्ञातवान् । अयमप्युत्कण्ठा निर्वृत्त्यतिशयप्रतिपादनपरः प्रपञ्चः । हृदयप्रवेशमपि परिग्रहमावासस्थानमगणयत् । तस्या भूषणरवमपि संभाषणं जल्पनममन्यत । सर्वेन्द्रियाहरणमपि समग्रकरणाकर्षणमपि प्रसादमचिन्तयत् । देहप्रभायाः शरीरकान्तेः संपर्कमपि संबन्धमपि सुरतसमागमसुखमकल्पयन्मैथुनसुख सदृशमगणयत् । कादम्बरी त्विति । कादम्बरी तु कृच्छ्रादिव कष्टादिव दत्तानि कतिपयानि कियन्ति पदानि यया सा महाश्वेतां चिरकालेन यद्दर्शनं तेन जातोत्कण्ठा यस्याः सा तां स्नेहनिर्भरं यथा स्यात्तथा सोत्कण्ठं कण्ठे जग्राह कण्ठग्राहं गृहीतवती । महाश्वेतापि दृढतरं दत्तः कण्ठग्रहो यया सैवंविधा तां कादम्बरीमवादीदवोचत् । किमुवाचेत्याह – सखीति । हे सखि कादम्बरि भारते वर्षे भरतक्षेत्रेऽनेके ये वराः श्रेष्ठास्तुरगा अश्वास्तेषां खरमुखानामुल्लेखा उत्कर्षास्तैर्दत्ताश्चतुः समुद्रावधिमुद्रा अङ्को येन सः । रक्षिता प्रजायाः पीडा बाधा येनैवंभूतस्तारापीडो नाम राजास्ति । तस्य राज्ञः । निजेति । निजावात्मीयौ यौ भुजौ तावेव दृढत्वाच्छिलास्तम्भौ तत्र विश्रान्ता सुखेन स्थिता या विश्वविश्वंभरा समग्रवसुधा सैवापीड उत्तंसो भूषणं यस्य सः । 'पीडार्तिर्मदनोत्तंसकृ पासु' इत्यनेकार्थः । एतादृशश्चन्द्रापीडो नाम सूनुर्दिग्विंजयप्रसङ्गेनेमां भूमिमनुगतः प्राप्तः । एष चेति । एष चन्द्रापीडो दर्शनात्प्रभृत्यवलोकनादारभ्य प्रकृत्या मे मम निष्कारणबन्धुतां गतः प्राप्तः । तन्निमित्तमाह - परीति । परित्यक्त उज्झितो यः सकलः समग्र आसङ्गः सुहृत्संबन्धस्तेन निष्ठुररामपि कठिनामपि सविशेषैर्विशेषसहितैः टिप्प० – 1 कादम्बर्याः यो हृदये प्रवेशस्तमपि 'पतित्वेन ममाऽनया परिग्रहः कृतः' इति कामुकस्वभावानुकूलमकलयत् । पाठा० - १ जातोस्कण्डम् २ विश्ववन्धः ३ आगतः चन्द्रापीडदर्शने कादम्बर्या भावावेश: ] पूर्वभागः । ३९७ 9 सङ्ग निष्ठुरामपि मे सविशेषस्वभावसरलैगुणैरोकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्य परवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । यतो दृष्ट्वा चेममहमिव त्वमपि निर्माण कौशल प्रजापतेः, नि:सपत्नतां च रूपस्य, स्थानाभिनिवेशित्वं च लक्ष्म्याः, सद्भर्तृतासुखं च पृथिव्याः; सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषीलोचनानाम्, एकस्थानसमागमं च सर्वकलानाम्, ऐश्वर्यं च सौभाग्यस्य, अग्राम्यतां च मनुष्याणां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य सया बहुवार प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्याविश्रम्भताम् अविज्ञातशील इत्यपहाय शङ्कां यथा मयि तथात्रापि प्रेवर्तितव्यम् । एष ते मित्रं च बान्धवश्च परिजनश्च' इत्यावेदिते तया चन्द्रापीड: प्रणाममकरोत् । " कृतप्रणामं च तं तदा कादम्बर्यास्तिर्यग्विलोकयन्त्याः सस्नेहमतिदीर्घलोचनयोरपाङ्गभागं गच्छतस्तारतारकस्य लोचनस्य श्रमसलिललवविसर इबानन्द बाष्पजलबिन्दुनिकरो निपपात । स्वभावसरलैः स्वारसिकऋजुभिर्गुणैर्मे मम चित्तवृत्तिमाकृष्यायं वर्तते । ततः किमित्यत आह - दुर्लभ इति । सतोऽयं जनो विदग्धजनः । हीति निश्चये । सर्वथा दुर्लभो दुःप्रापः एनं विशेषयन्नाह - दाक्षिण्येति । दाक्षि ण्यमनुकूलता तेन परवशः पराधीनो निर्निमित्तं निष्कारणं मित्रं सुहृदकृत्रिमं स्वाभाविकं हृदयं चेतो यस्य सः । मायानिर्मुक्त इत्यर्थः । मायया च चेतोवैपरीत्यं जायत इति भावः । इमं जनं दृष्ट्वा चाहमिव त्वमप्येतत्सर्व ज्ञास्यसीत्यन्वयः । एतदेव प्रदर्शयन्नाह - निर्माणति । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचनाचातुर्यम् । रूपस्य चेति । रूपस्य सौन्दर्यस्य निःसपत्नतां निर्विपक्षताम् । लक्ष्म्या; श्रियः स्थाने योग्यस्थलेऽभिनिवेशित्वं स्थायि त्वम् । पृथिव्या वसुधायाः सञ्छोभनो भर्ता पतिस्तस्य भावस्तत्ता तस्याः सुखं सातम् । मर्त्यलोकस्य मनुष्यलोकस्य, सुरलोकादतिरिक्ततामाधिक्यताम् । मानुषीलोचनानां स्त्रीनेत्राणां सफलतां साफल्यं च । सर्वकलानां समप्रविज्ञानानामेकस्मिन् स्थाने समागमं संबन्धं च । सौभाग्यस्य सुभगताया ऐश्वर्य प्रभुत्वम् । तथा मनुष्याणां मानुषाणामग्राम्यतां नागरिकतां ज्ञास्यसि इति हेतोर्मया बलादानीतः अयम् । कथितेति । अस्य चन्द्रापीडस् मया बहुवारमनेकवारं प्रियसखी कथिता निवेदिता । तदिति हेत्वर्थे । अपूर्वमभिनवं दर्शन यस्यैवंविधोऽयमितिकृत्वा लज्जां त्रपां विमुच्य विहाय । अन्विति । अनुपजातः परिचयो यस्यैवंविध इतिकृत्वाऽविश्रम्भतामविश्वासतामुत्सृज्य व्यक्त्वा । अविज्ञातमविदितं शीलं स्वभावो यस्येतिकृत्वा शङ्कामपहाय दूरीकृत्य यथा मयि तथा त्राप्यस्मिन्नपि प्रवर्तितव्यम् । एष चन्द्रापीडस्ते तव मित्रं च बान्धवः परिजनश्च । तया महाश्वेतयेत्या वेदितेः निवेदिते सति चन्द्रापीडः प्रणामं नमस्कारमकरोत् । तदा कृतप्रणामं विहितनमस्कारं च तं विलोकयन्त्याः पश्यन्त्याः कादम्बर्याः सस्नेहं यथा स्यात्तथातिदीर्घयोर्लोचनयोरपाङ्गभागं निर्याणदेशं गच्छतो व्रजतस्तारा मनोहरा तारका कनीनिका यस्मिन्नेतादृशस्य लोचनैस्य श्रमसलिलस्य स्वेदप्रभवपानीयस्य लवास्तेषां विसर इव समूह इव । आनन्दः प्रमोदस्तस्माद्यद्वाष्पटिप्प० - 1 सौन्दर्ये अस्य कोपि प्रतिद्वन्द्वी नास्तीत्यर्थः । 2 अस्य लाभाद् भाग्यवत्ताया महासमृद्धिं मंस्यस इत्याशयः । 3 'लोचनयोरपाङ्गभाग गच्छतो लोचनस्य'; लोचनयोर्लो चनस्येति किमिदमसंबद्धं प्रलपितम् ? सर्वथा विचार शून्यष्टीकाकारः। 'सस्नेहमतिदीर्घलोचनापाङ्गभांगं गच्छतस्तारकस्य श्रमसलिल' इत्येव पाठः । अतिदीर्घस्य लोचनस्य अपाङ्गभागं पर्यन्तभागं गच्छतस्तारकस्य । तिर्थग्विलोकनसमये नेत्रकनीनिका दीर्घस्य लोचनस्य प्रान्तभागे गता। प्राप्तभागश्च दूरवर्ती, यतो हि सुदीर्घ लोचनम् । अत एव दीर्घलोचनमध्ये दूरगमनात् तारकस्य श्रमो जातः । अत एव श्रमस्त्रेदविन्दुवत् अश्रु पपातेत्याशयः । विशालनेत्रतया मायकस्य सौन्दर्यातिशयो व्यङ्ग्यः । 'कनीमिकायां नक्षत्रे तारकं तारकेति च ' इति विश्वः । पाठा० -१ सबिशेषै:. २ आक्रम्य ३ विदग्धो जनः ४ बहुप्रकारम् ५ वर्तितव्यम् ६ लोचनापाङ्ग; लोचनाया अपाङ्गः . ७ तारकंस्य अम. .. . कादम्बरी । [ कथायाम्1 त्वरितमभिप्रस्थितस्य हृदयस्य धूलिरिव सुधाधवला स्मितज्योत्सा विससार संमान्यतामयं हृदयरुचिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका भ्रूलता समुन्ननाम । अङ्गुलिविवरविनिःसृतमरकताङ्गुलीयकलेखो विभ्रमगृहीतताम्बूलवीटिक इष करो जृम्भारम्भमन्थरं मुखमुत्ससर्प । स्रवत्स्वेदजलधौतलावण्य निर्मलेषु चास्याः स्तम्भसंक्रान्तप्रतिबिम्बतया संचरन्मूर्तिर्मकरकेतुरिवावयवेष्वदृश्यत चन्द्र पीडः । तथा हि । सिजन्मणिनूपुरपुटेन भुवमालिखतानाहूत इव चरणनखेषु निपपात । दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत इव स्तनाभ्यन्तरे समदृश्यत । विकचकुवलयदामदीर्घया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यत । सर्वासामेव च तदा तासां कन्यकानां तिर्यक्पश्यन्तीनां तं कुतूहलापानचुम्बिन्या दृङ्ख्या निर्गन्तुकामा इब कर्णपूरमधुकरैः समं बभ्रुमुस्तरलास्तारकाः । 4 १९८ जलं तस्य बिन्दुनिकरो निपपातापतत् । त्वरितमिति । त्वरितं शीघ्रमभिप्रस्थितस्य चलितस्य हृदयस्य धूलिरिव रेणुरिव सुधामृतं तद्वद्धवला शुभ्रा स्मितमीषद्धसितं तस्य ज्योत्स्ना चन्द्रिका विससार प्रसृता बभूव । अत्र शुभ्रत्वसाम्यात्स्मितस्य धूलिसाम्यमित्यर्थः । अयं हृदयरुचिरो जनः संमान्यतां सक्रियताम् । प्रतिनणामेनेति । अनुनमस्करणेन । इति शिर उत्तमानं वक्तुमिव कथयितुमिव एका भ्रूलता समुन्ननामोच्चीबभूव । अङ्गुलीति । अङ्गुल्यः करशाखास्तासां विवरेभ्यो विनिःसृता मरकताङ्गुलीयकलेखा यस्मात्सः । नै यसाभ्यादाह — विभ्रम इति । विभ्रमेण विलासेन गृहीता ताम्बूलवीटिका येनैवंविधः करो हस्तः । जृम्भेति । जृम्भणं तथा आरम्भस्तेन मन्थरमलसं मुखमुत्ससर्प विस्तीर्ण बभूव । अस्या इति । अस्याः कादम्बर्या अषयनेष्वपघनेषु संचरन्ती व्रजन्ती मूर्तिः शरीरं यस्यैवभूतश्चन्द्रापीडः । क इव । मकरकेतुरिवादृश्यताबालोक्यत। जनैरिति शेषः । कीदृशेष्ववयवेषु । स्रवत्क्षरद्यत्स्वेदजलं तेन धौतं क्षालितं लावण्यं लवणिमा तेन निर्मलेषु विमलेषु । कया । स्तम्भेति । स्तम्मेषु स्थूणासु संक्रान्तानि प्रतिबिम्बितानि यानि प्रतिबिम्बानि तस्य भावस्तत्ता तया । एतदेव दर्शयन्नाह - तथा हीति । तिजन्शब्दं कुर्वन्यन्मणिनपुरपुटं तेन भुवं पृथ्वीमालिखतालेखं कुर्वताङ्गुष्ठेनाहूत इव निमन्त्रित इव चरणनखेषु निपपात । दर्शनेति । दर्शनार्थमतिरभराप्रधावितेनातिबेगोच्चलितेन हृदयेन गत्वा स्तनाभ्यन्तरे कुचयोर्मध्य आनीत इव समदृश्यत समवालोक्यत । जनैरिति शेषः । विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां दाम सक्तद्वदीर्घयायतया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यतादृश्यत । तत्तदवयवेषु तत्तत्प्रतिबिम्बमाश्रित्यैतदुक्तम् । तासामिति । अपाङ्गचुम्बिन्या दृष्ट्या कुतूहलात्तं तिर्यक् पश्यन्तीनां सर्वासामेव तदा तासां कन्यकानां निर्गन्तुकामा इव बहिर्गमनोत्सुका इव तरलाः कम्प्रास्तारकाः कनीनिकाः कर्णपूरमधुकरैः समं बभ्रमभ्रमणं चक्रुः । टिप्प० - 1 जडेनात्रापि ग्रन्थो अंशितः । 'विनिःसृतमरकताङ्गुलीयकमयूखले खो इत्येव पाठः । अङ्गुलिविवरेभ्यो विनिःसृता मरकताङ्गुलीयकस्य किरणराजिर्यस्य स इत्यर्थः । 2 हन्त कियपरिशोध्यसां टीकाकारः ! कोर्थो वाक्यस्यास्य ? अस्तु । भुवम् आलिखता (कर्षता, किञ्चित्खनता) अत एव शिअत् मणिनूपुर पुटं यत्र (भूलेखनसमये नूपुरचलनेन शब्दो जात इत्यर्थः) ईडशेन अङ्गुष्ठेन आहूत इव नखेषु निपपात । चरणाङ्गुष्ठनखेषु प्रतिबिम्बपतने सेयमुत्प्रेक्षेत्याशयः । ॐ चन्द्रापीडस्य दर्शनार्थं प्रधावितेन कादम्वर्या हृदयेन आनीत इषेत्याशयः । 4 अत्रापि महाभागः सर्व ग्रन्थं धूलिसाञ्चकार । 'कुतूहलादपाङ्गबुम्बिन्यो निर्गन्तुकामा इव...' इति पाठः । तम् ( चन्द्रापीडम्) तिर्यक्पश्यन्तीनां कन्यकानां कुतूहलवशात् अपाङ्गचुम्बिन्यः अर्थात् अपाङ्गपर्यन्तागताः तरलाः ( चञ्चलाः तारका (नेत्रकनीनिकाः ) नेत्रावहिर्निर्गन्तुकामा हव बभ्रमुः । यथा मधुकराश्चञ्चलास्तथा तारका अपि चावल्यमभजन्नित्यर्थः । पाठा० - १ मयूखलेखो; मयूखलेखा २ संक्रान्त, ३ माणिक्यनूपुर, ४ मणिभुवम् ५ चुम्बिन्यो; चुम्बिन्यां. ● * चन्द्रापीडदर्शने कादम्बर्या भावावेश: ] पूर्वभागः । ३९९ कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रमं परिजनोपनीतायां च शयनशिरोभागनिवेशितायां धवलांशुक प्रच्छदपटायां हेमपादातियां पीठिकार्या चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्त दत्तशब्दनिवारणसंज्ञाः प्रतीहार्यो वेणुरवान्वीणाघोषान्गीतध्वनीन्मागधी जयशब्दांश्च सर्वतो निवारयांचक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्यङ्कमारुरोह, चन्द्रापीडस्यापि कादम्बर्या: सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविश्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावर्षिण्यपाङ्गदेशे सप्रेम पाणिना स्पृशन्ती, मधुकरभरपर्यस्तं च कर्णावतंसं समुत्क्षेपयन्ती, चामरपवन विघूँतिपर्यस्तालकवल्लरी मनुष्वञ्ज माना कादम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापरा घेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । तैदा समुपजातशोकापि च महाश्वेतामुख निरीक्षण च कादम्बरीति । कादम्बरी तु सविभ्रमं सविलासं कृतः प्रणामो यया सैवंविधा महाश्वेतया सह पर्यंङ्के पल्यंके निषसादोपविवेश । ससंभ्रममिति । ससंभ्रमं यथा स्यात्तथा परिजनेन परिच्छदेनोपनीतायां प्रापितायां शयनस्य पल्यङ्कस्य शिरोभागे निवेशितायां स्थापितायां धवलांशुकस्य प्रच्छदपट उत्तरपटो यस्यामेवंविधाय हेमपादाङ्कितायां सुवर्णपादचिह्नितायां पीठिकायां चन्द्रापीड: समुपाविशदासेदिवान् । महेति । महाश्वेतायां अनुरोधेन प्रतिबन्धेन । विदितेति । विदितो ज्ञातः कादम्बर्याश्चित्ताभिप्रायो याभिस्ताः । संवृतेति ! संवृतं पिहितं यन्मुखं तत्र न्यस्तो यो हस्तस्तेन दत्ता ज्ञापिताः शब्दनिवारणसंज्ञा याभिरेवंविधाः प्रतीहार्यो द्वाररक्षाविधायिन्यो वेणुरवान्वंशशब्दान्वीणाघोषान्वल्लकी शब्दान्गीतध्वनीन्गेयनादान्मागधीनां मागधपत्नीनां जयशब्दांश्च जयजयेति रवांश्च सर्वतो निवारयांचनुर्निवारितवत्यः । त्वरितेति । त्वरितं शीघ्रं परिजनोपनीतेन सलिलेन पानीयेन कादम्बरी स्वयमात्मनोत्थायोत्थानं कृत्वा महाश्वेतायाश्चरणौ पादौ प्रक्षाल्योत्तरीयांशुकेनोपरिवस्त्रेणापमृज्य मार्जनं कृत्वा पुनः पर्यकं पल्यङ्कमारुरोहोपविष्टवती । चन्द्रापीडेति । कादम्बर्यांः सखी मदलेखेति नाम्नानिच्छतोऽप्यवाञ्छतोऽपि बलाञ्चन्द्रापीडस्यापि चरणौ प्रक्षालितवती । सखीं विशेषयन्नाह – रूपेति । रूपेण सौन्दर्येण चानुरूपा सदृशी जीवितान्निर्गतो विशेषो यस्याः सा जीवितनिर्विशेषा। सर्वेषां विश्रम्भाणां विश्वासानां भूमिः स्थानम् । महेति । महाश्वेता तु कादम्बरीमनामयं कुशलं पप्रच्छ प्रश्न कृतवती । किं कुर्बन्ती । कर्णेति । कर्णाभरणस्य श्रवणभूषणस्य प्रभा कान्तिस्तस्या वर्षिणि । एवंभूतेऽपानदेशे नेत्रप्रान्तदेशें सप्रेम प्रेमसहितं यथा स्यात्तथा पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती । मधुकरेति । मधुकरंभरेण भ्रमरभरेण पर्यस्तं पतितं च कर्णावतंसं समुत्क्षेपयन्त्युच्चभागे (न) नयन्ती । चामरेति । चामरं वालव्यजनं तस्य॑ पवनेन वातेन या विधूतिः कम्पनं तेन पर्यस्ता पतिता यालकवल्लरी केशवल्लरी तामनुष्वैञ्जमाना स्थाने त स्थापयन्ती । सा त्विति । सा तु कादम्बरी सखीप्रेम्णा महता स्नेहेन गृहनिवासेन कृतापराधेवानामयेनैव कुशल प्रश्नेनैव लजमाना त्रपां कुर्वाणा कृच्छ्रादिव कुशलमाचचक्ष आचख्यौ । तदेति । तस्मिन्कालें महाश्वेता दुःखेन समुपजातः शोको यस्या एवंविधापि कादम्बरी महाश्वेताया मुखं तस्य निरीक्षणं तस्मिंस्तां । टिप्प० - 1 धिङ्क् मन्दभाग्यम् । सखीसमागमे न सख्या अपाङ्गदेशः स्पृश्यते, न च शक्यतेऽपि । कर्णकुण्डलप्रभाभिर्भूषिते 'अंसदेशे ( स्कन्धभागे ) स्टशन्ती इति पाठः । 2 समुत्क्षिपन्तीत्येव पाठः । 3 व्याकरणविमुखता सेयम् । 'अनुष्यजमाना' इत्येव पाठः । पाठा० -१ ससंभ्रमपरि, २ अंसदेशे. ३ उत्क्षिपन्ती ४ विधुतिपर्यस्खां च ५ समुपजातशोकापि च तसिन्काले ४०० [कथयाम्चक्षुर्मण्डलितचापेन भगवता तत्परापि मुहुर्मुहुरपाङ्गविक्षेपप्रचलिततरलतरतारसारोदरं कुसुमधन्वना बलान्नीयमानं चन्द्रापीडपीडनयेव न शशाक निवारयितुम् । तेनैव क्षणेन तेनासन्नसखी कपोलसंक्रान्तेनेर्यया रोमाञ्चभिद्यमान कुँचतटनश्यत्प्रतिबिम्बेन विरहव्यथास्वेदार्द्रवक्षःस्थलघटितशालभञ्जिकाप्रतिमेन सपत्नीरोपोन्निमिषता दौर्भाग्यशोकमानन्दजलतिरोहितेनान्धता दुःखमभजत सा । कादम्बरी Qua मुहूर्तापगमे च ताम्बूलदानोद्यतां मैहाश्वेता तामभाषत – 'सखि कादम्बरि, संप्रति पन्नमेव सर्वाभिरस्माभिरयमभिनवागतश्चन्द्रापीड आराधनीयः । तदस्मै तावद्दीयताम्' 2 परापि सोद्यमापि मुहुर्मुहुः । अपाङ्गेति । अपाङ्गस्य नेत्रप्रान्तस्य यो विक्षेपस्तेन प्रचलिता या तरलतरतारा तयार कश्मलमुदरं मध्यं यस्यैवंविधं चक्षुर्मण्डलितचापेनारोपितकोदण्डेन भगवता कुसुमधन्वना कंदर्पण चन्द्रापीडस्य पीडनयेवै बलान्नीयमानं निवारयितुं न शशाक न समर्था बभूव । तेनैवेति । यस्मिन्क्षणे चक्षुर्निवारयितुं न समर्था तेनैव क्षणेन सा कादम्बरी तेन चन्द्रापीडेन कृत्वा यः सपत्नीरोषस्तस्मात्तथा निमिषता पक्ष्मपातस्तदेव दौर्भाग्यं तेन यः शोकः अथ चानन्दजलं हर्षाश्रुजलं तेन तिरोहितेनाच्छादितेनान्धतादुःखमभजदप्रापत् । कीदृशेन तेन । आसन्नेति । आसन्ना समीपवर्तिनी या सखी तस्याः कपोलो गल्लापरप्रदेशस्तत्र संक्रान्तेन प्रतिबिम्बितेन । इदं च सपत्नीरोषनिमित्तम् । यद्यस्यां संक्रान्तस्तहीयमेव सपत्नी भविष्यतीति शङ्क.. पनीरोषः सपत्नीविषयको रोषस्तस्मात् । पुनः कीदृशेन । मय्यासक्तः क्वान्यत्र संक्रान्त इर्ष्यया ये रोमार्भिद्यमानं यत्कुचटं तस्मिन्रोमाञ्च प्रतिबन्धवशादेव नश्यत्प्रतिबिम्बो यस्य स तेन इदं शोकोत्पत्तिकारणम् । विरहेति । विरहस्य वियोगस्य या व्यथा तया यः स्वेदः श्रमजलं तेनार्द्र यद्वक्षःस्थलं भुजान्तरं तत्र घटिता शालभजिकायाः प्रतिमा प्रतिबिम्बं यस्मिन्स तेन । इदं चानन्दाश्रुनिपाते कारणम् । सेति । सा महाश्वेता मुहूतांपगमे घटिकाद्वयानन्तरं ताम्बूलदानोद्यतां नागवल्लीदलवितरणे विहितोद्यमां कादम्बरीमभाषतावोचत । किमुवाचेत्याह– सखीति । हे सखि कादम्बर, सर्वाभिरेवास्माभिः संप्रति . प प्राप्तमेव । अहं तु तव सखी नापूर्वा, मह्यमदत्तमपि ताम्बूलं दत्तमेव, अयं त्वपूर्व इत्याशयेनाहअयमिति । अयमभिनवो नूतन आगतः प्राप्तश्चन्द्रापीड आराधनीयः पूजनीयः । तस्माद्धेतोस्तावदादावस्मै चन्द्रापीडाय दीयतां वितीर्यताम् । इत्युक्ता भाषिता सती तदनन्तरं सा कादम्बरी तां महाश्वेतां शनैर्मन्दमटिप्प० – 1 'पीडनायेव' इत्येव पाठः । कामेन चन्द्रा पीडपीडनायेव कादम्बरीचक्षुः ( चन्द्रापीडाभिमुखम् ) नीतम् ( नायकस्य अभिलाषप्राबल्ये नायिकाकटाक्षैः पीडोद्गमात् ), कादम्बरी तु न तन्निवारयितुमशकदित्यर्थः । 2 मन्दमतिः पुनः सर्वं स्वारस्यं कवली चकार । विस्तरभयाद् व्याख्याद्वारैव समुग्रिन्थपाठः सूच्यते यः पाठान्तरेषु नीचैः परितः । 'ईर्ष्याम्, व्यथाम्,...' इत्यादिद्वितीयान्तपाठ एव ग्रन्थस्थः । सखीकंपोलसंक्रान्तेन तेन ( चन्द्रापीडेन) ईर्ष्यामभजत, अन्यनायिकागामित्वात् । रोमाञ्चोद्गमेनोज़म्भमाणे कुचतटे नश्यन् ( रोमभिरुच्चावचतया) प्रतिबिम्बो यस्य ईदृशेन तेन ( चन्द्रा० ) विरहव्यथामभजत, प्रतिबिम्बविरहात् स्वेदा वक्षःस्थले ( अर्थात् चन्द्रापीडस्य ) प्रतिबिम्बिता शालभजिकायाः प्रतिच्छाया यस्य ईदृशेन तेन सपत्नीरोषमभजत् । निमिषता ( स्वदर्शने नेत्रयोरुन्मीलन निमीलने कुर्वता ) तेन दौर्भाग्यशोकमभजत, दर्शने औत्सुक्ये तु निमेषो नाभविष्यदित्यर्थः । नेत्रयोरानन्दाश्रुभिस्तिरोहितेन तेन अन्धतादुःखमभजत् । पाठा० -१ चन्द्रापीडपीडनादेव, चन्द्रापीडं प्रति. २ ईर्ष्याम् ; ईर्ष्या ३ कुचनश्यत् ४ व्यथाभू. ५ रोषम्. ६ तां महाश्वेतां समभाषत ७ सर्वाभिरेषास्माभिरभिनष, ८ वीयतां ताम्बूलमित्युक्ता. चन्द्रापीडदर्शने कादम्बर्या भावावेशः ] पूर्वभागः । इत्युक्ता च किंचिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव 'प्रियसखि लज्जेऽहम् । अनुपजातपरिचयाप्रागल्भ्येनानेन, गृहाण । त्वमेवासमै प्रयच्छ' इत्युवाच सा ताम् । पुनःपुनरभिधीयमाना च तथा कथमपि प्राम्येव चिंरादानाभिमुखं अनश्चक्रे । महाश्वेतामुखौदनाकर्षितदृष्टिरेव वेपमानाङ्गयष्टि: आकुललोचना, स्थूलस्थूलं निःश्वसन्ती, निजशरप्रहारमूच्छिता मन्मथेन स्नपितेव स्खेदजलविसरैः स्वेदजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव ' याचमाना, साध्वसपरवशा, पतामीति लगितुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भ हस्तपल्लवम् । चन्द्रापीड़स्तु जयकुञ्जरकुम्भस्थलास्फालन संक्रान्तसिन्दूरमिव स्वभावपाटलम्, धनुर्गुणाकर्षणकृतकिणश्यामलं, कचग्रहाकृष्टिरुदिता रिलक्ष्मीलोचनपरामर्शनलग्नाञ्जनबिन्दुमिव विसर्पन्नखकिणतयातिरभसेन प्रधाविताभिरिव विवर्धिताभिरिव प्रहसिताभिरिवाङ्गलीभिरुपेतम्, स्पर्शलोभाच तत्कालकृतसंनिवेशाः सरागाः पश्चापीन्द्रियवृत्तीरंपराजुली रुद्वहन्तं अथ व्यक्तमिवास्फुटमिवेत्युवाचावोचत् । इतिथोत्यमाह - किंचिदिति । किंचिदीषद्विवर्तितं परिवर्तितम्, चावनमितं मुखं यया सैवंविधाहं हे प्रियसखि, लज्जे त्रपे । तत्र हेतुमाह - अनुपजातेति । अनेन सममनुपजातोऽनुत्पन्नः परिचयो यस्याः सा । प्रगल्भानां तत्क्षणादेव परिचय इत्यत आह -- अप्रागेति । अप्रागल्भ्येनाधाष्टर्येन । गृहाण । त्वमेवास्मै प्रयच्छ देहि । पुनः पुनर्वारंवारमभिधीयमाना कथ्यमाना तथा महाश्वेतया । त्रासवितर्कमूर्च्छादिव्यभिचारिभावावस्थान्तरमाह - कथमपीति । कथमपि महता कष्टेन ग्राम्येव ग्रामीणेव चिराच्चिरकालेन दानाभिमुखं मनश्चित्तं चक्रे विदधे । महाश्वेतामुख दनाकर्षिता दृष्टिर्यया सैर्वविधैव वेपमाना कम्पमानाङ्गयष्टिर्यस्याः । आकुले व्याकुले लोचने नेत्रे यस्याः सा । किं कुर्वन्ती । स्थूलस्थूलं यथा स्यात् तथा निःश्वसन्ती एतनं गृह्णन्ती । मन्मथेन कंदर्पेण निजशरप्रहारेणात्मीयबाणाभिघातेन मूच्छिता मूर्च्छा प्रापिता । स्वेदजलविसरैर्घर्मपानीयसमूहैः स्त्रपितेव स्नानं कारितेव । स्वेदजलविसरैर्निमज्जनभयं तेन च हस्तावलम्बनमिव याचमाना । साध्वसं भयं तेन परवशा पराधीना । पतामीति कृत्वा लगितुंमिव कृतः प्रयत्नो यया । सा ताम्बूलगर्भं हस्तपल्लवं प्रसारयामास विस्तारितवती । अथ नायकानुरक्तिविशेषं प्रदर्शयन्नाह - चन्द्रेति । चन्द्रापीड: । तु पुनरर्थे । पाणिं करं प्रसारितवान्विस्तारितवान् । अथ पाणिनिष्ठमारुण्यातिशयं विशेषयन्नाह - जयेति । जयार्थं यः कुञ्जरो गजस्तस्य कुम्भस्थलं तस्यास्फालनेन तादृक्संयोगविशेषेण संक्रान्तं लग्नं सिन्दूरं नागजं यस्मिनेतादृशामिव स्वभावेन स्वारसिकेन पाटलं श्वेतरक्तम् । धनुरिति । धनुषश्चापस्य यो गुणः प्रत्यञ्चा तस्याकर्षणमाकृष्टिस्तेन कृतो विहितः किणो रूढवणपदं तेन श्यामलं कृष्णम् । कन्चेति । कचग्रहेण कृष्टिस्तया रुदिता या अरिलक्ष्मीः शत्रुरमा तस्या लोचनपरामर्शनेन लग्ना अजनबिन्दवो अस्मिन्नेतादृशमिव किणस्य कृष्णत्वात्तदुपमानमित्यर्थः । विसर्पन्तः प्रसरन्तो ये नखकिरणास्तेषां भावस्तत्ता तयातिरभसेनातिवेगेन प्रधाविताभिरिवोच्चलिताभिरिव, विवर्धिताभिरिव वृद्धिं प्राप्ताभिरिव, प्रहसिताभिरिव हास्यं कुर्वाणाभिरिवाङ्गुलिभिः करशाखाभिरुपेतं सहितम् । स्पर्शलोभाच्चेति । स्पर्शस्य लोभो गर्धस्तस्मात्तत्कालं तस्मिन्क्षणे कृतः संनिवेशः प्रवेशो याभिस्ताः । सरागा रागेण सहवर्तमानाः । पञ्चापीन्द्रियवृत्तीरपराङ्गुली: पूर्वोक्तभिन्नाः करशाखा उद्वहन्तं टिप्प० - 1 मन्दभाग्यः पुनः प्रलपति । 'अनुपजातपरिचया प्रागल्भ्येनानेन' इति पाठः । पूर्वतः परिचयाभावेऽपि अनेन प्रागल्भ्येन ताम्बूलदानरूपधायैन लज्जे इति तदर्थः । 2 मूच्छितो हि जनः स्वीयैजनैरम्बुना नाप्यते । 3 चन्द्रापीडदेहे संसक्तुम् । 4 अत्रापि चस्खाल मन्दमतिः । 'अपरा इवाङ्गुलीरुद्वहन्तम्' इत्येव पाठः । कादम्बरीस्पर्शलोभात् तत्कालं कृतः संनिवेशः ( उपस्थितिः ) याभिः ईदृशीः पञ्चापि इन्द्रियवृत्ती: ( तद्दर्शनतद्वार्ताश्रवणादिव्यापारान् ) अपरा: अङ्गुलीः इव उद्दहन्तमित्यर्थः । पाठा०-१ कादम्बरी २ चिरेण. ३ अनाकृष्ट ४ आकुलित; आमुकुलित ५ निश्वसन्ती. ६ विगलितुम्; लापितुम् ७ प्रभावितामिः; प्रसारिताभिः ८ अपरा हवाङ्गुली: इवाङ्गुलीः. ५१ का० कादम्बरी । [ कथायाम्प्रसारितवान्पाणिम् । तत्र च सा तत्कालसुलभविलासदर्शनकुतूह लिभिरिव कुतोऽप्यागत्य सर्वर सैरधिष्ठिता, तेनानिबद्धलक्ष्यतया शून्यप्रसारितेन चन्द्रापीडहस्तान्वेषणायेव पुरःप्रवर्तितनखांशुनिवहेन वेपथुचलितवलयावलीवाचालेन संभाषणमिव कुर्वता हस्तेन स्वेदसलिल पातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, 'अद्यप्रभृति भवतो हस्ते वर्तते' इति जीवितमिव स्थापयन्ती ताम्बूलमदांत् । आकर्षन्ती च करकिसलयं भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् । अथ सहसैव त्वरितगतिः त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमा४०२ धारयन्तम् । शृङ्गारं पोषयद्गान्धर्वविषाहन्या येन पाणिग्रहणमप्याह – तत्र चेति । तस्मिन्काले सा कादम्बरी तस्मै चन्द्रापीडाय हस्तेन ताम्बूलमदात् । कीदृशी । सर्वरैसैः शृङ्गारादिभिः कुतोऽप्यनिर्दिष्टस्थानादप्यागत्याधि ष्ठिताश्रिता। क़ीदृशै रसैः । तत्कालेति । तस्मिन्काले सुलभाः सुप्रापा विलासास्तेषां दर्शनं तत्र कुतूहलिभिरिव कौतुकभिरिव । हस्तं विशेषयन्नाह - तेनेति । हस्तेनानिबद्धं न दृग्विषयीकृतं यलक्ष्यं वेध्यं तेन शून्यं प्रसारितेन विस्तारितेन चन्द्रापीडस्य यो हस्तस्तस्यान्वेषणं गवेषणं तदर्थमिव पुरोऽग्रे प्रवर्तितः प्रचलितो मखानां पुनर्भवानामंशुनिवहो यस्य तेन । वेपथुरिति । वेपथुः कम्पस्तेन चलिता कम्पिता या वलयानां पारिहार्याणामावली श्रेणी तया वाचालेन मुखरेण । शब्दसाम्यमाह - संभाषणमिव जल्पनमिव कुर्वत । विदध॑ता। स्वेदेति। स्वेदसलिलं घर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथेति क्रियाविशेषणम् । किं कुर्वन्ती । इत्यात्मानमिव प्रतिग्राहयन्ती ग्रहणं कारयन्ती । इतिशब्दद्योत्यमाह - - गृह्यतामिति । अयं मल्लक्षणो दासजनो मन्मथेन कंदर्पेण दत्तोऽर्पितो गृह्यतां स्वीक्रियताम् । पुनः किं कुर्वन्ती । इति जीवितमिव प्राणितमिव स्थापयन्ती । इतिशब्दद्योत्यमाह - अद्येति । अद्यप्रभृत्यद्य दिनादारभ्य भवतस्तव हस्ते वर्तते । त्वदैधीनेत्यर्थः । अन्वयस्तु प्रागेवोक्तः । पुनः किं कुर्वन्ती । ताम्बूलप्रदानानन्तरं करकिसलयं हस्तपल्लवमाकर्षन्त्याकर्षणं कुर्वन्ती च पतितमपि स्रस्तमपि रत्नवलयं मणिकटकं नाज्ञासीन्न ज्ञातवती । एतेन तन्मयत्वं सूचितम् । घलयस्य लोहितमणिनिर्मितत्वसाम्यादाह - भुजेति । भुजलता बाहुलता तदनुसारेण तन्मार्गेण स्पर्शतृष्णा तयागतं प्राप्तमनङ्गशरेण कंदर्पबाणेन भिन्नं मध्यं यस्यैवंविधं हृदयमिव । गृहीत्वेति । अपरं तद्व्यतिरिक्तं ताम्बूलं नागवल्लीदलं महाश्वेतायै प्रायच्छददात् । अथेति । ताम्बूलप्रदानानन्तरं सहसैवागत्य सारिका पीतपादा सक्रोधं यथा स्यात्तथावादीदवोचत् । कीदृशी । त्वरिता शीघ्रा गतिर्यस्याः सा । पुनः कीदृशी । शुकेन कीरेणानुबध्यमाना निरुध्यमाना । अथ शुकं विशेषयन्नाह – वहतेति । कण्ठेन निगरणेन वहता धारयता । कम् । त्रिवर्णरागम् । किमिव । इन्द्रायुधमिवाखण्डलधनुरिव कुण्डलीकृतं वर्तुलीकृतम्। जातिवर्णनमेतत् । एतदेव विवृणोति - विद्रुमेति । चखुपुटेन टिप्प० – 1 कादम्बरीदर्शन कौतुकिभिः सर्वर सैः सर्वविघैरानन्दैराश्रित्यर्थः ( ताम्बूलदानसमये न केवलं स्पर्शविषयक एवानन्दः, मनःप्रमदप्रसूता अन्येऽप्यानन्दा आसन्नित्याशयः ) । शृङ्गारादिभिरिति ध्याख्यानं तु जाड्यमेव, तस्मिन्क्षणे नायिकायां रौद्रबीभत्सा दिसंबन्धस्यासंभवात्, अनौचित्यात्, रसस्य स्वशब्देनोक्तिदोषस्य बाणसदृशे दुरापास्तत्वाच्च । 2 लजावशात् चन्द्रापीडहस्तस्य लक्ष्यमबध्वा तच्छ्रन्ये स्थाने प्रसारितेन ( हस्तेन ) । 3 स्वदधीनम् ( जीवितम् ) इत्यर्थः । 4 प्रसारितां भुजलतामनुसृत्य, तया सहेत्यर्थः । पाठा० -१ तत्कालविलास, २ अधिष्ठितेनान्यनिबद्धलक्षशून्य ३ आकर्षयन्ती. शुकसारिकामुखेन कौतुकारम्भः ] पूर्वभागः । ४०३ Kn डुरानुकारिणा चक्षुपुटेन मरकतद्युतिपक्षतिना मैन्थरगतेन शुकेनानुबध्यमाना, कुमुदकेसरपिञ्जरतया चरणयुगलस्य चम्पककलिकाकारतया च मुखस्य कुवलयदलनीलतया च पक्षधुतीनां कुसुममयीवागत्य सारिका सक्रोधमवादीत् – 'भर्तृदारिके कादम्बरि, कस्मान्न निवारयस्येनमलीकसुभगाभिमानिनं दुर्विनीतं मामनुबघ्नन्तं विहंगापदम् । यदि मामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतमात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन' इत्येबमभिहिता च तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमियं वदति' इति मदलेखां पप्रच्छ । सा चौकथयत्— 'एषा भर्तृदुहितुः सखी कादम्बर्या: कालि म्दीति नान्ना सारिका, ऎतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्यूपसि कादम्बर्यास्ताम्बूलकरङ्क वाहिनी मिमां तैंमालिकामेकाकिनी किमपि पाठयन्दृष्टो यतः ततःप्रभृति संजातेय कोपपराखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति' इति । एतदाकर्ण्य स्फुटस्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् -- 'अस्त्येषा कथा, ✔ A * " त्रोटिसंपुटेन कृत्वा विद्रुमाङ्कुरं प्रवालप्ररोहमनुकरोतीत्येवंशीलः स तेन । मरकतेति । मरकतस्य द्युतिरिव द्युतिर्ययोरेवंविधे पक्षती पक्षमूले यस्य सः । तेन मन्थरं सालसं गतं यस्य स तेन । अथ सारिकां विशिनष्टि कुमुदेति । कुमुदानां केसरं तेन पिञ्जरः पीतरक्तस्तस्य भावस्तत्ता तया चरणयुगलस्याङ्घ्रियुग्मस्य । चम्पकेति । चम्पकस्य हेमपुष्पकस्य कलिका कोरकस्तस्या आकार आकृतिर्यस्य तस्य भावस्तत्ता तया मुखस्याननस्य, कुवलयदलान्युत्पैलखण्डास्तद्वन्नीलस्तस्य भावस्तत्ता तया, पक्षद्युतीनां छदकिरणानाम् । अत एवाह - कु सुममयीव पुष्पमयीव । अन्वयस्तु प्रागेवोक्तः । किमुवाचेत्याह - भर्तृदेति । हे भर्तृदारिके कादम्बरि, कस्माद्धेतोरेनं शुकं न निवारयसि न निराकरोषि । अलीकं मिथ्या सुभगस्य सौभाग्यस्याभिमानोऽहंकारो विद्यते यस्य स तम् । दुर्विनीतं शूकलम् । किं कुर्वन्तम् । मामनुबघ्नन्तमनुरोधं कुर्वन्तम् । तथा विहंगेषु पक्षिष्वपसदमधमम् । यदीति । यदि मामनेन शुकेन परिभूयमानां पराजितामुपेक्षस उपेक्षां करोषि ततोऽहं नियतमात्मानमुत्सृजामि । भविष्यति वर्तमाना । त्यक्ष्यामीत्यर्थः । सत्यं स्यात्तथा शपामि शपथं करोमि । केन । ते तव पादपङ्कजस्पर्शेन । तवाङ्गिस्पर्शपूर्वकमित्यर्थः । तयेत्येवमभिहितोक्ता कादम्बरी स्मितमकरोत् । अविदितेति । अविदितोऽज्ञातो वृत्तान्त उदन्तो यस्याः सैवंविधा तु महाश्वेता किमियं सारिका वदतीति मदलेखां पप्रच्छ । सा चेति । सा मदलेखा इत्यकथयदित्यवोचत् किमुवाचेत्याह - एषेति । एषा भर्तृदुहितुः कादम्बर्याः कालिन्दीति नाम्ना सखी सारिका एतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता स्त्रीत्वं प्रापिता । अद्य चेति । अद्य दिने चानया सारिका ( कथा ) प्रत्यूषसि प्रभाते कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमेकाकिनीमिमां तमालिकां किमपि पाठयन्दृष्टः । ततःप्रभृति तद्दिनादारभ्य संजातेय यस्याः सा कोपपराङ्मुखी क्रोधावाङ्मुखी नैनं शुकमुपसर्पति समीपे न गच्छति, नालपति न ब्रवीति, न स्पृशति न स्पर्श करोति, न विलोकयति नेक्षते, सर्वाभिरस्माभिः प्रसाद्यमानापि प्रसन्नीक्रियमाणापि न प्रसीदति न प्रसन्नीभवति । इत्येतदाकर्ण्य श्रुत्वा । स्फुटमिति । स्फुटं स्पष्टं स्फुरितं स्पन्दितं कपोलयोरुदरं यस्यैवंविधश्चन्द्रापीडो मन्दं मन्दं विहस्य । स्थितं कृत्वेत्यर्थः । इत्यब्रवीदित्यवोचत् । अस्तीति । एषा कथास्ति । एतद्राजकुले श्रूयते एवमाकर्ण्यते टिप्प० – 1 "नुकारिचञ्जुपुटेन' इत्येव पाठः सुन्दरः । 2 धिङ् मन्दम् । कुमुदकेसरवत् पीततया । 3 उत्पलं श्वेतवर्ण प्रसिद्धम् अत एव नीलकमलेति वाच्यम् । 4 हास्योदयात् । " पाठाD 4 - १ अनुकारिचञ्च. २ मन्थरगमनेन शुकेनानुगम्यमाना. ३ अतिदुर्विनीतम् ४ विहंगमापसदम् ५ तु. ६ इदमस्य च ७ तरलिकाम् . कादम्बरी । [ कथायाम्श्रूयत एवैतद्राजकुले, कर्णपरम्परया परिजनोऽध्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दिगन्तरेष्वप्ययमालापो वर्तत ऐव, अस्माभिरण्येतदाकर्णितमेव, यथा किल देव्याः कादम्बर्यास्ताम्बूलदायिनीं तैमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निक्षेपोऽनया सह, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं यन्न निवारयतीमां चपलां दुष्टदासीम्, अथवा देव्यापि कथ निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या । किमिदानीमियं करोतु, यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं ता नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । नोर्कमपरमस्ति योषितां लघिम्नः कारणम्, यदि चेयमीहशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरैस्या, क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति' इत्येवमभिहितवति तस्मिन्सर्वास्ताः सह कादम्बर्या क्रीडालापभाषिता जहसुरङ्गनाः । परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद – 'धूर्त , १४०४ कर्णपरम्परया परिजनोऽपि सेवकजनोऽप्येवमामन्त्रयते । एवं कथयतीत्यर्थः । बहिरपि जना एवं कथयन्ति । दिगन्तरेष्वपि परदेशेष्वप्ययमालापो वर्तत एव । अस्माभिरप्येतत्पूर्वोक्तमाकर्णितमेव श्रुतमेव । तदेव दर्शयन्नाह यथेति । किलेति सत्ये । देव्याः कादम्बर्यास्ताम्बूलदायिनीं तमालिकां कामयमानः प्रार्थयमा परिहासनामा शुको मदनपरवशो गतान्यतीतान्यपि दिनान्यहानि न वेत्ति न जानाति । तद्यमिति । तदिति हेत्वर्थे । अयं वामाचारो विरुद्धाचरणः परित्यक्तनिजकलत्रो नित्रपो निर्लज्जस्तया सह तावदास्तां तिष्ठतु, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं न्याय्यम् । इमां चपलां चञ्चलां दुष्टदासीं यन्न निवारयति न निषेधति । अथवेति पक्षान्तरे देव्यापि प्रथममेव निःस्नेहता निष्प्रेमता कथितैवोक्तैव । किं कुर्वन्त्या देव्या । इमां वराकीं कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या प्रददत्या । किमिदानीमियं करोतु । न किमपि कर्तुं समर्था । यद्यस्माद्धेतोरेतत्सापत्नयकरणं नारीणां स्त्रीणां प्रधानं मुख्यं कोपकारणम् । अग्रणीर्मुख्यो विरागस्य विरक्तताया हेतुः । परं परिभवस्थानं मुख्यं पराभवगृहम् । इयमेव कालिन्द्येव केवलमतिधीरा । अस्मिन्नर्थे हेतुमाह - यदिति । यद्यस्मात्कारणादनया कालिन्या अनेन दौर्भाग्यगरिम्णा शुकेन कृत्वा जातमुत्पन्नं वैराग्यं यस्याः सैवंविधया विषं नास्वादितं न भक्षितम् । अनलो वह्निर्वा नासादितो न गृहीतः । अनशनं प्रायो वा नाङ्गीकृतम् । योषितां लघिम्नः कारणं नह्येकैमपरमस्ति । यदि चेति इयं कालिन्दीदृशेऽप्यनुनीयमाना प्रसन्नीक्रियमाणा । अनेन शुकेन प्रत्यासतिं संबन्धमेष्यति गमिष्यति तदेमां धिक् । अनयालं कृतम् । दूरतो वर्जनीया त्याज्येयम् । अभिभवेन निरस्या दूरीकरणीया । क एनां पुनरालापयिष्यति । को वावलोकयिष्यति । को वास्याः कालिया नामाभिधानं ग्रहीष्यतीत्येवं पूर्वोक्तप्रकारेणाभिहितवति कथितवति तस्मिन्राज्ञि सर्वास्ता अङ्गनाः कादम्बर्या सह जहसुर्हसितवत्यः । कीदृश्यः । क्रीडालापेन नर्मालापेन भाषितौ वासिताः । परीति । परिहासः शुकस्तु तस्य चन्द्रापीडस्य नर्मभाषितमाकर्ण्य श्रुत्वा जगादोवाच । हे धूर्त राजपुत्र, निपुणाभिज्ञेयम् । 2 टिप्प0 – 1 अनेन दौर्भाग्यस्य गरिम्णा ( गुरुतया ), शुकविशेषणं तु प्रमादः । 2 ' एवंविधम्' इत्येव पाठः । एवंविधमपरं नास्तीति तदर्थः । 3 'भाविताः' इत्येव । नर्मालापेन भाविताः संजाततदनुगुणभावोदया इत्यर्थः । पाठा०- १ अप्येवं मन्त्रयति एवम्॰; अपि मन्त्रयते बहि;. २ एवम् ३ वाहिनीं. ४ तरलिकाम् ५ नित्रपया. ६ अतिनि: स्नेहता. ७ इयं तपस्विनी ८ एवंविधम् ; एवम् ९ तेन सह. १० निरस्याम् ११ भाविता. . D . कादम्बर्याः स्वविकारजा चिन्ता ] पूर्वभागः । a राजपुत्र, निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम्, इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः' इति । अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत्— 'आयुष्मति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयते' इति । एवमभिहिता च गन्तुकामा 'सखि, चन्द्रापीड: वास्ताम्' इति कादम्बरीमपृच्छत् । असौ तु ननु पर्याप्त मेवानेक स्त्री हृदय सहस्रावस्थानमनेनेति मनसा विहस्य, प्रकाशमयदत् - 'सखि महाश्वेते, किं त्वमेवमभिद्धासि । दर्शनादारभ्य शरीरस्याप्यहं न विभुः, किमुत भवनस्य परिजनस्य वा । यत्रासौ रोचते प्रियसखीहृदयाय वा तत्रायमास्ताम्' इति । तच्छ्रुत्वा मेहाश्वेतावदत् - 'अत्रैर्वं त्वत्प्रासादसमीपवर्तिनि प्रमदवने क्रीडापर्वतकमणिवेशमन्यास्ताम्, ' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तँयैव सह त्वयान्येन वा त्वब्यतिरिक्तपुंसा लोलापि चपलापि प्रतारयितुं न शक्यते न पार्यते । एषेति । एतावतीर्वक्रोक्तीरेषापि बुध्यते जानाति । इयमपि परिहासजल्पितानि जानात्येव । अस्या अपि राजकुलेन संपर्कः संबन्धस्तेन चतुरा चार्थयुक्ता मतिर्बुद्धिः । अतो विरम्यतां मौनं क्रियताम् । नर्मालापभाषणादिति शेषः । भुजंगाः कामिनस्तेषां भङ्गिभाषितानां बक्रोक्तीनामेषाऽभूमिरस्थानम् । इयमेव हि मञ्जुभाषिणी मनोज्ञालापिनी कोपप्रसादयोः कालं समयं कारणं निमित्तं प्रमाणं तद्व्यवस्थापकं पञ्चावयवं वाक्यं विषयं गोचरं प्रस्तावमवसरं च वेत्ति जानातीति । अत्रान्तरे चेति । अस्मिन्समये कञ्चुक्यागय महाश्वेतामित्यवोचदित्यब्रवीत् । इतिशब्दवाच्यमाह आयुष्मतीति । हे आयुष्मति, देवः पूज्यश्चित्ररथाभिधो नृपो देवी च राज्ञी मदिराभिधा त्वां भवतीं द्रष्टुं विलोकयितुमाह्वयत आह्वानं करोति । एवंप्रकारेणाभिहितोक्ता सती गन्तुकामा इति कादम्बरीमपृच्छत् । इतीति किम् । हे सखि कादम्बरि, चन्द्रापीडः क्कास्तां क्व तिष्ठतु । असौ त्विति । असौ कादम्बरी मनसा विहस्येति प्रकाश प्रकटमवदत् । इतिद्योत्यमाह -- पर्याप्तेति । अनेनं कृत्वा पर्याप्तमेव परिपूर्णमेव । स्वेर्ष्या प्रकटयन्त्याह — अनेकेति । अनेका याः स्त्रियस्तासां हृदयानि चेतांसि तेषां सहस्रं तल्लक्षणमवस्थानमावासः । अवस्थानावस्थितिभावस्य समानत्वादेतन्मनोऽन्यासु लग्नमिति भावः । नवकपोलप्रतिबिम्बसंक्रान्तिवशात्प्रागेव दर्शितमित्यनुनयमाह - किं त्विति । त्वं किमभिदधासि किं कथयसि । दर्शनादारभ्यावलोकनात्प्रभृति शरीरस्यापि देहस्याप्यहं न विभुः । देहं धारयितुं न समर्थ इत्यर्थः । स भवनस्य परिजनस्य वा किमुत भण्यते । यत्रेति । यस्मिन्स्थळेऽसौ चन्द्रापीड: । पुनरार्यामाह - प्रियेति । प्रियसखीहृदयाय रोचते रुचिविषयीभवति तत्रायमास्तां तिष्ठतु । एतत्पूर्वोक्तं श्रुत्वाकर्ण्य महाश्वेतावददवोचत् । अत्रैव त्वत्प्रासादसमीपवर्तिनि प्रम दवनेऽन्तः पुरोपबने क्रीडापर्वतकस्य मणिवेश्मनि रत्ननिर्मितगृह आस्तां तिष्ठत्वित्यभिधायेत्युक्त्वा गन्धर्वराजं द्रष्टुं ययौ गतवती । चन्द्रापीडोऽपि तयैव महाश्वेतयैव सह निर्गत्य बहिरागत्य कादम्बर्या समादिष्टा या प्रतीहारी टिप्प० 1 स्त्रीत्वेन अगभीरबुद्धिरपि। 2 वस्तुतस्तु - 'न पर्याप्तमनेक स्त्रीहृदयसहस्रावस्थानेन ?" इत्येव पाठः । स्त्रीहृदयसहस्ररूपेण अवस्थितिस्थानेन किम् न पर्याप्तम् ? अर्थात् हृदयसहस्ररूपं स्थानमस्य किं न मभेष्टं जातमिति काकुः । भावे प्रत्ययः । 3 समर्भेत्याबागः । B पाढा० -१ न पर्याप्तमनेक स्त्री हृदयसहस्त्रावस्थानेन. २ अध्ययमेव प्रभु: ३ भवनस्य. तदत्रैव. ६ च ७ तया सहैव. ४ अस्मै ५ महाश्वेता ४०६ कादम्बरी । [ कथायाम् निर्गत्य विनोदनार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदरक्रीडारागिणीभिश्चाष्टापद परिचयचतुराभिश्च चित्रकर्मकृतश्रमाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्ग: क्रीडापर्वतमणिमेन्दिरमगात् । च गते च तस्मिन्गन्धर्वराजपुत्री विसर्ज्य सकलसखीजनं परिजनं च परिमितपरिचारिकाभिरनुगम्यमाना प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः पँरिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले 'चपले, किमिद्मारब्धम्' इति निगृहीतेव लज्जया, 'गन्धर्वराजपुत्रि, कथमेतद्युक्तम्' इत्युपालब्धेव विनयेन, 'अयमसावव्युत्पन्नो बालभावः क गतः' इत्युपहसितेव मुग्धतया, 'स्वैरिणि, मा कुरु यथेष्टमेकाकिन्यविनयम्' इत्यामन्त्रितेव कुमारभावेन, 'भीरु, नायं कुलकन्यकानां क्रमः' इति गार्हतेव महत्त्वेन, 'दुर्बिनीते, रक्षाविनयम्' इति तर्जितेवाचारेण, 'मूढे, मंदनेन लघुतां नीतासि' इत्यनुशासितेवाभिजात्येन, 'कुतस्तवेयं तैरलहृदयता' इति धिकृतेव धैर्येण, 'स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्यातिगुर्वी लज्जामुवाह । द्वाररक्षानियुक्ता तथा प्रेषिताभिः प्रतीताभिर्वीणावादिनी भिर्वेणुवाद्यं वंशवाद्यं तत्र निपुणाभिर्दक्षाभिगतं गानं त लक्षणा या कला विज्ञानं तत्र कुशलाभिर्दक्षाभिः । दुरोदरेति । दुरोदरक्रीडा द्यूतक्रीडा तस्यां राग अनुरागो विद्यते यासां ताभिः । अष्टापदः शारिफलं तत्र यः परिचयस्तस्मिंश्चतुराभिः । चित्रेति । चित्रकर्मालेख्यकर्म तन्न कृतो विहितः श्रमो याभिः । सुभाषितानि सूक्तानि तेषां पाठिकाभिः । एवंविधाभिः कन्यकाभिरनुगम्यमानः । अत्र कलानां भिन्नभिन्नाश्रयत्वसूचनार्थं चकारः । कीदृशो नृपश्चन्द्रापीडः । पूर्वदृष्टेन केयूरकेणोपदिश्यमानः प्रदर्श्यमानो मार्गः पन्था यस्य सः क्रीडापर्वतमणिमन्दिरमगाद्गतवान् । भावशबलानि व्यञ्जयन्नाह - गते चेति । तस्मिंश्चन्द्रापीडे गते सति गन्धर्वराजपुत्री कादम्बरी सकलसखीजनं समप्रवयस्याजनं परिजनं परिच्छदलोकं च विसर्ज्य गृहे गम्यतामित्यादिश्य परिमितपरिचारिकाभिः स्तोकपरिच्छदस्त्रीभिरनुगम्यमाना प्रासादो देवभूपानां गृहं तमारुरोहारूढवती । तत्र मणिमन्दिरे शयनीये शय्यायां निपल्य पतनं कृत्वा विरहव्याकुलचित्तत्वेन शयनाभावाद्दूरस्थिताभिर्दविष्ठदेशावस्थायिनीभिर्विनयनिभूताभिर्मर्यादावतीभिः एवंविधाभिः परिचारिकाभिर्विनोद्यमाना विनोदविषयीक्रियमाणा कुतोऽपि प्रत्यागता पश्चादागता चेतना यस्याः सा । चन्द्रापीडदर्शनान्मन्मथेन चैतन्यमपहृतं तत्प्रयागतमिति भावः । सैवंविधैका किनी तस्मिन्काले स्वात्मानं संबुद्ध्याह – चपलेति । हे चपले चञ्चले, किमिदमारब्धं प्रस्तुतमिति लज्जया त्रपया निगृहीतेव निरुत्तरीकृतेव । हे गन्धर्वराजपुत्रि, कथमेतत्पूर्वोक्तं युक्तं न्याय्यमित्युपालब्धेव विनयेन । उपालम्भस्तिरस्कारविशेषः । अयमसौ अव्युत्पन्नो बालभावः शिशुभावः क गत इत्युपहसितेव हास्यगोचरीकृतेव मुग्धतया। हे खैरिणि स्वेच्छाचारिणि, एकाकिनी यथेष्टमविनयं मा कुर्वित्यामन्त्रितेव निमंत्रितेव कुमारभावेन बालभावेन । हे मीरु, कुलकन्यकानामयं न क्रम इति गर्हितेव निन्दितेव महत्त्वेन गरिम्णा । दुर्विनीते, अविनयं रक्षेति तर्जितेवाचारेण । हे मूढे, मदनेन कंदर्पेण लघुतां तुच्छतां नीतासि प्रापितासीत्यनुशासितेवानुशिक्षितेवाभिजात्यने॑ भूमिकानुसारितया । कुतस्तवेयं तरलहृदयतेति धिक्कृतेव धैर्येण । हे स्वच्छन्दचारिणि, अहं त्वयाऽप्रमाणीटिप्प० -1 अबोधः, यौवनकालिकशृङ्गारविषयकभावानभिज्ञः । 2 धिङ् मन्दम् ! आमन्त्रणपूर्वकमुपदिष्टेव, इत्यर्थः । 3 कौलीन्येन । पाठा०—१ विनोदार्थम् २ गृहम् ३ सकलं. ४ ततः ५ अदूरस्थिताभिः ६ विधृताभिः ७ परिचयचतुराभिरुपास्यमानापि ८ लघुतां नीतासि मदनेनेति शापितेव. ९ तरलता. ४०७ कादम्बर्याः स्वविकारैर्मनश्चिन्ता ] पूर्वभागः । समचिन्तयञ्चैवम् – 'अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहान्धया। तथा हि, अदृष्टपूर्वोऽयमिति साहसिकतया मया न शङ्कितम् । लघुहृदयां मामयं कलयिष्यतीति निकया नाकलितम् । कास्य चित्तवृत्तिरिति मैया न परीक्षितम् । दर्शनानुकूलाहमस्य नेति वा तैरलया न कृतो विचारक्रमः । प्रत्याख्यान वैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यया नापे क्षितम् । आसन्नवर्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम् । पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसंचारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयो न लजाकरं जीवितम् । श्रुत्वैतद्वृत्तान्तं किं वक्ष्यत्यम्बा, तातो वा गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छायामि । कस्य वा चापलमिदमेतेषां दुर्बिनीताना मिन्द्रियाणां कथयामि । क वानेन कृतेति निन्दितेव कुलस्थित्यातिगुवमतिमहतीं लज्जां त्रपामुवाह धारयामास । समिति । एवम वक्ष्यमाणं समचिन्तयदध्यायत् । एवंशब्दवाच्यमाह — अगणितेति । अगणिताः सर्वाः समग्राः शङ्का यया सा तया । किं कुर्वन्त्या । तरलहृदयतां चञ्चलचित्ततां दर्शयन्त्या प्रकाशयन्त्या अद्य मोहान्धया मयेदं किं कृतं किं विहितम् । तदेव दर्शयति — तथा हीति । अदृष्टपूर्वोऽनवलोकितपूर्वोऽयं चन्द्रापीड इति साहसिकतया साहस क्तया मया न शङ्कितम् । तथा मां लघुहृदयां तुच्छचित्तागयं कलयिष्यतीति निकया निर्लज्जया नाकलितम् । तथा कास्य चित्तवृत्तिरिति मया ने परीक्षितं परीक्षा न कृता । तथा दर्शनानुकूला दर्शनयोग्याहमस्य नेत वा मया तरलया चपलया विचारक्रमो न कृतो न विहितः । तथा प्रत्याख्यानं प्रतिषेधस्तज्जनितं यद्वैलेक्ष्यं तस्मान्न भीतं न त्रस्तम् । तथा गुरुजनात्पूज्यजनान्न त्रस्तं चकितम् । तथा लोकापवादाजनप्रवादान्नोद्विमं नोद्वेगं प्राप्तम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यैया गतानुकूलतया नापेक्षितमपेक्षा न कृता । तथासन्नवर्ती समीपवर्ती सखीजनोऽप्यालीजनोप्युपलक्षयति ज्ञास्यति । भविष्यति वर्तमानः । इति मन्दया मूर्खया न लक्षित न ज्ञातम् । तथा पार्श्वस्थितः समीपस्थः परिजनः परिच्छदः पश्यत्यवलोकयतीति नष्टचेतनया मया न दृष्टम् । तथा स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं संभावयेयुः विभावनां कुर्युः । अनुभूतोऽनुभवं नीतो मदनवृत्तान्तो यया सैवंविधा महाश्वेता सकलकलाकुशलास्तस्याः सख्यो वयस्या वा राजकुले संचारः संचरणं तत्र चतुरो sभिज्ञो नित्यमिङ्गितज्ञ इङ्गित शरीरचेष्टा तदभिज्ञः परिजनो वा । ईदृशेषु कार्येष्वतिनिपुणतरा दृष्टयो यासां ता अन्तःपुरदास्यः । एतासां किमुत भण्यते । एताः पराभिप्रायं विदन्त्येवेति भावः । अतः सर्वथा मन्दपुण्याहं हतास्मि । मे मम मरणमद्य श्रेयः । लजाकरं त्रपाजनकं जीवितं न श्रेयः । एतद्वृत्तान्तमुदन्तं श्रुत्वाकर्ण्याम्बा माता, तातः पिता वा गन्धर्वलोकः स्वजनवर्गो वा किं वक्ष्यति कथयिष्यति । अहं किं करोमि किमनुतिष्ठामि । कोऽत्रास्मिन्विषये प्रतीकारः प्रतिक्रिया । केनोपायेन प्रपञ्चेनेदं स्खलितं दुश्चेष्टितं प्रच्छादयाम्यावृणोमि । एतेषां दुर्विनीतानामिन्द्रियाणां करणानां चापलं चाञ्चल्यं कस्य वा कथयामि निवेदयामि । व वानेन टिप्प० - 1 लज्जा, वैयाकुली वा । 2 पुंस्त्वमुचितम् । 3 पुनः पपात मन्दभाग्यः । 'निर्दाक्षिण्यया' दाक्षिण्य (औदार्य ) रहितया मया, इत्यर्थः । पाठा० -१ अगणितसर्वशङ्काम् २ मोहान्धया हताशया. ३ मां लोकः• ४ मूढया. तरलतया. ६ दुःखिता. ७ निर्दाशिष्यायाः ८ निपुणदृष्टय. ९ एतम्. १०८ कादम्बरी । [ फकथायाम्, दग्धहृदया पञ्चबाणेन गच्छामि तथा महाश्वताव्यतिकरेण प्रतिज्ञा कृता, तथा प्रियसखीनां पुरो मन्त्रितम्, तथा च केयूरकस्य हस्ते संदिष्टम्, न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यसंचयेन वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीड: । कोऽपि वा न कदाचिद्दृष्टः, नानुभूतः, न च श्रुतः, न चिन्तितः, नोत्प्रेक्षितः, मां विडम्बयितुमुपागतः । यस्य दर्शनमात्रेणैव संयम्य दत्तेव, इन्द्रियैः शरपञ्जरे निक्षिप्य समर्पितेव, मन्मथेन दासीकृत्योपनीतेव, अनुरागेण निर्यातितेव, गृहीतमूल्येन गुणगणेन विक्रीतेव, हृदयेनोपकरणीभूतास्मि । न मे कार्य तेन चपलेन' इति क्षणमिव संकल्पमकरोत् । कृतसंकल्पा चान्तर्गतेन 'मिथ्याविनीते, यदि मया न कृत्यम्, एष गच्छामि इति हृदयो कम्पचलितेन परिहसितेव पञ्चबाणेन कंदर्पण दग्धहृदया गच्छामि व्रजामि । तथा महाश्वेताया व्यतिकरेण वृत्तान्तेन मया प्रतिज्ञा संगरः कृता पत्थुर्न सेवनीय इति तथापि प्रियसखीनामतिवल्लभवयस्यान पुरः पुरतो मन्त्रितमालोचितम् । तथा. केयूरकस्य हस्ते महाश्वेतायै संदिष्टं संदेशः प्रेषितः तत्रोत्तरभाव्यनर्थापरिज्ञान निमित्तमित्याह - न खल्विति । न खलु निश्चयेनाहं मन्दभागिनी एतन्न जानामि नाकलयामि । किं तदित्याह – शठेति । शठो मूर्खो यो विधिर्ब्रह्मा तेन वा, उत्सन्नो दृप्तो मन्मथः कंदर्पस्तेन वा, पूर्व कृतो योऽपुण्यसंचयः पापभरस्तेन वा, मृत्युलक्षणो यो हतको हत्याकृत्तेन वा, अन्येनानिर्दिष्टनाम्ना केनापि वा मम विप्रलम्भको वियोगरूपोऽयं चन्द्रापीड आनीतः प्रापितः । पूर्वपरिचिन्तितं निरस्यन्नाह — कोऽपीति । कोऽप्ययं न कदाचिदृष्टः, नानुभूतः न च श्रुत आकर्णितः, न चिन्तितो ध्यातः नोत्प्रेक्षितः पुनःपुनर्विलोकितो यन्मां विडम्बयितुं कदर्थनां कर्तुमुपागतः प्राप्तः । यस्येति । यस्य चन्द्रापीडस्य दर्शनमात्रेण कारणभूतेन हृदयेन कर्तृभूतेन संयम्य बद्धा दत्तेव समर्पितेवेन्द्रियैः करणैः करणभूतैः शरपञ्जरे काशघटितगृहे निक्षिप्य हृदयेन समर्पितेव । तथा मन्मथेन कंदर्पेण करणभूतेन दासीकृत्य हृदयेनोपनीतेव प्रापितेव । तथानुरागेण चन्द्रापीडविषयकेण कृत्वा हृदयेन निर्यातितेव निःसारितेव । तथा गृहीतमूल्येनात्तवेतनेन गुणगणेन करणभूतेन हृदयेन विक्रीतेव विक्रयीकृतेव । अतोऽहमुपकरणीभूतोंपस्करभूतास्मि । यथा गृहोपकरणं यत्र तत्रोपयोगि न तथाहमित्यर्थः । भावशबलत्वं पोषयन्नाह -- नेति । तेन चपलेन न मे कार्य प्रयोजनमिति क्षणमिव क्षणसदृशं संकल्पमकरोदप्रणयत् । इयं निर्वेदावस्था । तामुपमर्थ · पुनरपि रतिभावावस्थामाह- कृतेति । कृतसंकल्पा च विहितसंकल्पा च । अन्तर्गतेनेति चन्द्रा पीडेत्यादि त्रिष्वपि संबध्यते । त्रयाणामेव हृदये स्थितत्वात्परिहासप्रश्नाभिहितत्वान्नियुक्तानि । तान्येवाह - हृद्येति । हृदये य उत्कम्पो ग्लानिविशेषस्तेन चलितेन कम्पितेन चन्द्रापीडेन हे मिथ्याविनीते, यदि मया न कृत्यं तदैषोऽहं गच्छामि व्रजामीति कृत्वा परिहसितेव कृतहास्येव । तथा तस्य चन्द्रापीडस्य यः परित्यागस्तस्य संटिप्प० - 1 प्रतारकः । पुनः सर्व ग्रन्थमाधुर्यं चूर्णीकृतवान् दैवहतकः । क्वात्र 'हृदयेन' इति कर्तृपदम् ? न खलु एकस्य हृदयस्य संयमनकार्ये स्वारस्यम् । अविचारशीलोयमाह - 'इन्द्रियैः शरपञ्जरे निक्षिप्य समर्पितेव' । इन्द्रियवराकाणां सविधे कीदृशाः शराः ? अत एव सर्वोयं मोहप्रपञ्चः । टीकानुरोधेन-कविहृदयाभिमतः पाठो निरस्यते, मन्दमतिना कल्पितो दुष्पाठस्तु उपरि स्थाप्यत इति इन्त महान्मेऽपराधः । अस्तु. सहृदयाः एवं किल मूलं पठेयु:- "मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, वारपञ्जरे निक्षिप्य समर्पितेव मन्मथेन, दासीकृत्योपनीतेवानुरागेण, गृहीतगुणपणेन विक्रीतेव हृदयेन, उपकरणीभूतास्मि । " गुणरूपं पणम् (मूल्यम्) गृहीत्वा हृदयेन विक्रीतेव । अत एव उपकरणीभूतास्मि विक्रेय द्रव्यीभूतास्मि, इत्यर्थः । अन्यत्स्पष्टम् । पाठा० - १ दग्धहृदयेन गृहीता गच्छामि; दग्धहृदयेन पञ्चबाणेन न खलु जानामि गृहीता गच्छामि. २ केयूर कहस्ते. ३ उपन्यस्तः; उपनतः ४ दर्शनमात्रकेण ५ अनुरागेण गृहीतगुणगणेन विक्रीतेव. ६ अशरणीभूतासि. चन्द्रापीडस्य मनसि विचाराः ] पूर्वभागः । ४०९ चंन्द्रापीडेन तत्परित्यागसंकल्पसमकालप्रस्थितेन कण्ठलमेन पृष्टेव जीवितेन, 'अविशेषज्ञे, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः, प्रत्याख्यानयोग्यो न वा' इति तत्कालागतेनाभिहितेव बाष्पेण, 'अपनयामि ते सहासुभिधैर्यावलेपमिति निर्भसितेष मनोभुवा पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेवमस्तमितप्रतिसमाधानबेला त्प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडा पर्वतकमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विमेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलित खेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया। रोमात्रतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा । तत्संगमकालातिपातासहेव मनो गमाय नियुक्तवती, न परिजनम् । चन्द्र पीडोऽपि प्रविश्य स्वैच्छन्दं कादम्बरीहृदयमिव द्वितीयं कल्पस्तदध्यवसाय स्तत्समकालं प्रस्थितेन चलितेन कण्ठलमैन जीवितेन पृष्टेव प्रश्नविषयीकृतेव । अन्योऽपि यः प्रस्थानं करोति सोऽपि कण्ठे लगिला गच्छामीति प्रश्नपूर्वकं व्रजति । तत्कालागतेन तत्समयावच्छेदेन प्रा. दुर्भूतेन बाष्पेन नेत्राम्बुनेत्यभिहितेवेति कथितेव । इतिवाच्यमाह - अविशेषेति । हे अविशेषज्ञे, पुनरपि प्रक्षालितलोचनया त्वयासौ जनो दृश्यतामालोक्यताम् । न चाप्रत्याख्यानयोग्यो निराकरणयोग्यः । इतीति । इति मनोभुवा कंदर्पेण निर्भसितेवाधिक्षिप्तेव । इतियोलमाह - अपेति । ते तवासुभिः प्राणैः सह धैर्यावलेपं धीरिमाहंकारमपनयामि दूरीकरोमि । पुनरपीति । तथैव पूर्वोकप्रकारेणैव चन्द्रापीङस्याभिमुखं हृदयं यस्या एवंभूता पुनरपि बभूव जज्ञे । उत्कण्ठाविशयेन रतिभावं पुनः मो ( पो ) षयन्नाह - तदेवमिति । तदेवं पूर्वोक्तप्रकारेणास्तमितमस्ततां प्राप्तं सत्समाधानं किमनेन चपलेन कार्यमित्यादि निर्वेदरूपं तदेव बलं तस्मात्प्रेमा चन्द्रापीड विषयकः स्मृतिरूपस्तस्यावेशेन प्रवेशेना स्वतन्त्रीकृता परायत्तीकृता परवशेव पराधीनेवोत्थायोत्थानं कृत्वा जालवातायनेन जालगवाक्षेपण तमेव क्रीडापर्वतकमवलोकयन्ती पश्यन्त्यविष्ठदासीत् । पुनर्भावानेवाह-तत्र स्थेति । तत्रस्था वातायनोपविष्टा सा तं चन्द्रापीडमानन्दजलेन हर्षाश्रुणा यद्यवधानं तेनोद्विग्नेषोद्वेगं प्राप्तेव स्मृत्यानुभवव्यतिरिक्तज्ञानेन ददशलोकयांचकार न चक्षुषा । अङ्गुलिभ्यो गलितो यः खेदस्तस्य परामर्शः संश्लेषस्तेन भीतेव त्रस्तेव चिन्तया लिलेख, न चित्रतूलिकया । तदाकृतिं भावनया भावितवती, न कूर्चिकया लिखितवतीत्यर्थः । रोमाश्च इति । रोमाञ्चो रोमोद्गमस्तेन तिरोधानमाच्छादनं तेन शङ्कितेव हृदयेन चित्तेनालिलिङ्गा श्लेषं कृतवती । न वक्षसा भुजान्तरेण । तस्येति । तस्य चन्द्रापीडस्य यः संगमः संश्लेषस्तन्त्र कालातिपातः कालविलम्बस्तं सोडमसंहेवाशक्तेव गमाय तदालिङ्गनाय मनो नियुक्तवती प्रेषितवती । न परिजनम् । अत्रायमभिप्रायः – आनन्दजलं व्यवधायकमिति न चक्षुषा तथा दर्शनमित्युद्वेगः । अङ्गुलीगलितस्वेदेन चित्रतूलिका विलिखनस्य विलोपो भयहेतुवक्षसालिङ्गनेन च रोमाञ्च एव व्यवधायक इति सर्वथा नानन्तरितालिङ्गनमिति शङ्काहेतुः । मनसः सत्वरगतिं मत्वा तस्य परिजनस्य तथात्वाभावात्कालातिपातः । अत्र चानन्दजलादीनां स्मृत्यादीनां चातिशया व्यङ्ग्याः । नायिकामालम्ब्य भावशबलवमुक्त्वा नायकमाश्रित्य भावशबलत्वमाह - चन्द्रापीडोऽपीति । खच्छन्दं यत्कादम्बरीहृदयं तद्वदिव द्वितीयं मणिगृहं प्रविश्य शिलातल आस्तीर्णायां विस्तारितायामुभयतः पार्श्वद्वय टिप्प० - 1 पुनरपि ग्रन्थाक्षराणां दुर्दशा क्रियते । 'तदेवम स्तमित प्रतिसमाधानबला बलात्प्रेमावे इत्येव पाठः । अस्तमितं प्रतिसमाधानबलं धैर्यावलम्बनसामर्थ्य यस्याः, अत एव प्रेमावेशेन बलात् अस्त्रतत्रीकृता, अत एव परवशेव उत्थाय, इति तदर्थः । 2 'गमागमाय' इत्येन पाठः । चन्द्रापीडान्तिके यातायाताय मनो नियुयोज, मनसो द्रुतगामित्वात् । पाठा० - १ चन्द्रापीडेन तत्परित्याग २ बलावलात् ३ पर्वतम् ४ गमागमाय; गमनागमने ५ स्वच्छम्, ५२ का० कादम्बरी । [ कथायाम्मणिगृहं शिलातलास्तीर्णायामुभयत उपर्युपरि निवेशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्संङ्गेन गृहीतचरणयुगलस्ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतो दोलायमानेन चेतसा चिन्तां विवेश । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते. विलासा एवेदृशाः सकललोकहृदयहारिणः, आहोखिदनाराधितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ता, येन मां सात्रेण सरागेणांकूणित त्रिभागेण हृदयान्तः पतत्स्मरशरकुसुमरजोरूषितेनेव चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । मल्लज्जाविवर्तमानवदना च प्रतिबिम्ब प्रवेशलोमेनेव कपोलदर्पणमर्पयति । मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ताम्बूलंषीटिकोपनयनखेदविधूतेन रक्तोत्पलग्रॅम मरवृन्देन करतलेन स्विन्नं मुखमिव गृहीततमालउपर्युपरि निवेशितानि स्थापितानि बहून्युपधानान्युच्छीर्षकाणि यस्यामेवंविधायां कुथायां प्रवेण्यां निपत्य केंयूरकेणोत्सङ्गेन गृहीतमात्तं चरणयुगलमङ्गियुग्मं यस्य सः, ताभिर्यथादिष्टेषु यथायोग्यं कथितेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतः सहितो दोलायमानेन कम्पमानेन चेतसा कृत्वा चिन्तां विवेश । चिन्तामनो बभूवेत्यर्थः । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुवः स्वाभाविकाः सकललोकहृदयहारिण ईदृशा एते विलासा एव । आहोस्विद्वितर्के । अनाराधितश्चासौ प्रसन्नश्चैवंविधेन भगवता मकरकेतुनेति सावधारणं तेन मकरकेतुनैव मयि कादम्बरी नियुक्ता नियोजिता, येन मन्मथनियोगेन सास्रेणास्रं रुधिरं तेन, सरागेण स्नेहयुक्तनाकूणितो वक्रीकृतस्त्रिभागो यस्मिन् । हृदयेति । हृदयान्तः पतन्तो ये स्मरशराः कंदर्पबाणास्त एव कुसुमानि. तेषां रजः परागस्तेन रूषितेनेव चक्षुषा नेत्रेण तिर्यग्विलोकयति । इदं चिन्ताधिरूढामधिकृत्योक्तम् । अन्यथा प्रासादाधिरूढायास्तस्या विलोकनासंभवात् । एवमन्यानपि तव्यापारान्खानुकूलानेव चिन्तयन्नाह मदिति । मद्विलोकिता सती लज्जया धवलेन स्मितालोकेन शुभ्रवसाम्यादाह – दुकूलेति । दुकूलेनेवात्मानमावृणोत्याच्छादयति । प्रतिबिम्ब मधिकृत्याह – मदिति । मज्जया विवर्तमानं वदनं यस्या एवंविधापि प्रतिबिम्बस्य यः प्रवेशस्तस्य लोभेनेव कपोलदर्पणमर्पयति । मुखविवर्तनेऽपि कपोलस्य तदभिमुखत्वादिति भावः । नखकर्षणचेष्टामधिकृत्याह- मदिति । ममावकाशदायिनो हृदयस्य प्रथमामायामविनयलेखामिव कररुहेण पुनर्भवेण शयनस्यै पल्यङ्कस्याङ्क उत्सङ्गे लिखति । ताम्बूलप्रदानसमये तस्याः करकम्पक्रियामधिकृत्याहममेति । मम ताम्बूलवीटिकाया यदुपनयनं प्रापणं तस्माद्यः खेदः प्रयासस्तेन विधूतेन कम्पितेन, रक्तोत्पलं कोकनदं तस्य यो भ्रमस्तेन भ्रममरवृन्दं मधुकरपटलं यस्मिन्नेतादृशेन करतलेन गृहीततमालपल्लवेन(नेव) भ्रमराणां तत्सादृश्यादिति भावः । मदिति । मद्विलोकनात्प्रेम्णा स्विन्नं मुखमिव वीजयति । d टिप्प० - 1 अन्वयोऽशुद्धः पाठश्चापि । कादम्बर्या एते विलासाः सहजाः सकललोकहृदयहारिणः, उत मकरकेतुना नियुक्ताः, इत्यन्वयः । टीकाकारहतकस्तु 'कादम्बर्या: विलासाः स्वाभाविकाः, उत इयं कादम्बरी कामेन नियुक्ता,' इति विलासानां स्वाभाविकाऽस्वाभाविकत्वकोटिद्वये कादम्बरीमवतारयति । विलासानां कोटिद्वयप्रसङ्गे कादम्बर्याः संकथा सर्वथा मन्दमतित्वमेवेति स्थूलप्रज्ञोपि जानीयादित्यलम् । 2 मन्दहास्यप्रभया दुकूलेनेव आत्मानमाच्छादयति । 3 कपोल एव दर्पण: । परावर्तितवदनापि मम प्रतिबिम्बपतनलोभन निजकपोलमभिमुखीकरोतीत्यर्थः । 4 शयनीयस्य मध्यभागे कामाकूतवशाद्यो नखैरुल्लेखस्तन्त्र कल्पयति यत् मह्यमवकाशदायिनों हृदयस्य अविनयरेखामिव कर्षति । 5 पुनरधोमुखः पपात - रक्तोत्पलभ्रमेण पतन्तो भ्रमरा यस्मिन्नीदृशेन अत एव गृहीततमालपल्लवेनेव करेण, दानपरिश्रमेण स्विन्नं मुखं वीजयतीव । श्रमवशाद्विधुते हस्ते मुखवीजनस्य, भ्रमरपाते तमालपल्लवस्य चेत्युत्प्रेक्षाद्वयम् । करे रक्तोत्पलभ्रम इति भ्रान्तिरिति त्रयाणां संकरः । पाठा०—१ उत्सङ्गे. २ कूणित ३ लोभभ्रान्तभ्रमर, ४ खिन्नं, • 49 चन्द्रापीडस्य मनसि विचाराः ] पूर्वभागः । ४११ पल्लवेनेव वीजयति । पुनश्चचिन्तयत् - 'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहैखैरेवं मां विप्रलभते, लुप्तविवेको यौवनमदो मदयति, मदनो वा । यतस्तिमिरोपह्तेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । स्वयमुत्पादिताने क चिन्ताशताकुला कविमतिरिव तरलता न किंचिन्नोत्प्रेक्षते । निपुणमदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्ना लिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न कचिन्नात्मानमर्पयति । स्वप्न ईवानुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थापयति । भूयश्च चिन्तितवान् – 'किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवलेक्षणा मय्येवंजातचित्तवृत्तिस्तदा नचिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य छेत्ता भविष्यति' इत्यवधा यथायोपविश्य च ताभिः कन्यकाभिः सहा क्षैयैश्च, विपञ्चीवाद्यैश्च, पाणविकैश्च स्वरसंदेहविवादैश्व, सुभाषितगोष्ठीभिश्चान्यैश्च तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासांचक्रे । मुहूर्त च स्थित्वा निर्गम्योपवनालोकन कुतूहलाक्षिप्तचित्तः क्रीडापर्वतशिखरमारुरोह । १ • पुनरिति 1 पुनरचिन्तयचिन्तितवान् । किं तदित्याह - प्रायेणेति । प्रायेण बाहुल्येन मानुष्यके भवे सुलभा सुप्रापा लघुता मिथ्या मुधा संकल्पसह सहस्रैर्मनोरथसहस्रैरेवं पूर्वोक्तप्रकारेण । मामित्यात्म निर्देशः । विप्रलभते वञ्चयतीत्यर्थः । तथा लुप्तो विवेको येनैतादृशो यौवनमदस्तारुण्यगर्वो मदयति मदं जनयति । एवं मदनोऽपि । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । अल्पापि योषितां चित्तविकृति र्बहुत्वेन जानातीत्यर्थः । स्नेहलवोऽपि प्रीतिलेशोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते दूरं नीयते । स्वयमिति । स्वयमात्मनोत्पादिता अनेकेषामभिलषणीय वस्तूनां चिन्तास्तत्तद्विषयक मनोवृत्तयस्तासां शतं तेनाकुला व्याकुला तरलता तृष्णाविशेष: किंचिन्न नोत्प्रेक्षतेऽभिलषते अपि तु सर्वमेवोत्प्रेक्षत इति भावः । केव कविमतिरिव । सापि स्वयमुत्पादितानेकेषां वर्णनीयानां या चिन्ता स्मृतिस्तस्याः शतं तेनाकुला व्याप्ता सती किंचिन्न नोत्प्रेक्षते । अपि तु सर्वमेवोत्प्रेक्षालंकारविषयीकरोतीत्यर्थः । निपुणेति । निपुणोऽभिज्ञो यो मदनः कंदर्पस्तेन गृहीता स्वीकृता तरुणचित्तत्रत्तिश्चित्रवर्तिकेव किंचिन्न नालिखति । अपि तु सर्वमेवालिखतीत्यर्थः । संजातेति । संजातं रूपस्य सौन्दर्यस्याभिमानोऽहंकारो यस्या एवंविधात्मसंभावना कुलटेव क्वचिन्न नात्मानमर्पयति । अपि तु सर्वत्रात्मानं दत्त इत्यर्थः । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । प्रत्याशा दुराशेन्द्रजालपिच्छिकेवासंभाव्यमपि पुरोऽग्रे स्थापयति प्रतिष्ठितं करोति । भूयश्चेति । पुनरप्यन्यचिन्तितवान् । धृतिमाह - किमनेनेति । अनेन पूर्वोदन्तेन वृथैव मुधैव मनसा खेदितेन किम्, यदि सत्यमेव धवलेक्षणा कादम्बरी मय्येवं जातचित्तवृत्तिस्तदा नचिरात्स्तोककालेनाप्रार्थित एवानुकूलो दाक्षिण्यवान्मन्मथः स एवैनां चित्तवृत्तिं प्रकटीकरिष्यति । स एवेति । स एव कंदर्प एव । अस्येति । अस्याश्चित्तवृत्तिर्मयि वर्तते न वेत्येवरूपस्यास्य संशयस्य छेत्ता दूरीकर्ता भविष्यति । इत्य वधार्य निश्चयं कृत्वोत्थायोपविश्य च ताभिः पूर्वोक्ताभिः कन्यकाभिः सहाक्षैः पाशकैयैर्गनिश्च । विपञ्ची वाद्यं येषां तैश्च । पणवो वादिनविशेषो विद्यते येषां ते पाणविकास्तैश्च । स्वराणां षड्जादीनां ये संदेहास्तषां विवादैश्च । सुभाषितानि सूक्तानि तेषां गोष्ठीभिश्च । अन्यैश्च पूर्वोक्तव्यतिरिक्तस्तैस्तैराला पैश्च सुकुमारैः कलाविलासैः क्रीडन्क्रीडां कुर्वन्नासांचक्रेऽधितस्थौ । मुहूर्त च स्थित्वा तत्रावस्थानं विधाय तदनन्तरं निर्गम्य बहिरागत्योपवनस्यालोकनं तस्य कुतूहलं कौतुकं तेनाक्षिप्तं चित्तं यस्य सः क्रीडापर्वतशिखरमा रुरोहारूढवान् । टिप्प० - 1 अल्पामपि विकृतिं बहुतरां जानातीत्यर्थः । 2 आत्मश्लाघा । 3 अननुभूतमपीत्येव पाठः । स्वम इव यूनां मनोरथः अननुभूतमपि द्रव्यादिकं नायिकानुरागादिकं च दर्शयतीत्यर्थः । पाठा० -१ एवमायास्य मामू. २ विसार्यते. ३ मन्मथ ४ अननुभूतम्. ५ पर्वतक. ४१२ कादम्बरी । [ कथायाम्कादम्बरी तु तं दृष्ट्वा चिरयतीति महाश्वेतायाः किल वर्मावलोकयितुं विमुच्यतां गवाक्षमित्युक्त्वानङ्गक्षिप्तचित्ता साँधस्योपरितनं शिखरमा रुरोइ । तत्र च विरलपरिजना, सैकलशशिमण्डलपाण्डुरेणातपत्रेण हेर्मंदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, शिरसि कुसुमगन्धलुब्धेन भ्रमता भ्रमरकुलेन दिवापि नीलावगुण्ठनेनेव चन्द्रापीडाभिसरणवेषमँभ्यस्यन्ती, मुहुश्चामरशिखां समासज्य, मुहुश्छन्नदण्डमवलम्ब्य, मुद्दुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदैलेखां परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलोक्य, मुहुरावलितत्रिवलीवलया परिवृत्य, मुहुः प्रतीहारीवेत्रलताशिखरे कपोलं निधाय, मुहुर्निश्चलकर विवृतामघरपल्लवे वीटिकां निवेश्य, मुहुरुद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा विहस्य तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य न प्रतीहार्या निवेदितमहाश्वेताप्रव्यागमना तस्मादवततार। स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । , टिप्प० - 1 भन्नापि निपतति टीकाकारः । महाश्वेतामार्गदर्शनार्थ गवाक्षोद्धाटने भाज्ञापिते पुनः सौधष्पृष्ठारोहणस्याप्रसक्तत्वात् । तस्मात् - तं (क्रीडापर्वतकस्थं चन्द्रापीडम्) दृष्ट्वा 'महाश्वेता चिरयति' इति तस्या आगमनमार्गमवलोकयितुम् ( सोयं व्याजः, वास्तवे, तु चन्द्रापीड दर्शनार्थम्) 'विमुच्य तं गवाक्षम्' अधिष्ठितं गवाक्षं त्यक्वा प्रासादस्य शिखरमारुरोह । इति पाठः, तदर्थश्च । । । कादम्बरी तु तं चन्द्रापीडं दृष्ट्वा विलोक्य चिरयति विलम्बते इति महाश्वेतायाः किल वर्त्म मार्गमवलोकयितुं वीक्षितुं गवाक्षं वातायनं विमुच्यतामुद्धाट्यतामित्युक्त्वानङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोहारूढवती । तत्र चेति । तस्मिन्स्थले । इतः कादम्बरी विशेषयन्नाह - विरलेति । विरलः स्वल्पः परिजनो यस्याः सा । सकलेति । सकलं समग्रं यच्छशिमण्डलं चन्द्रबिम्बं तद्वत्पाण्डुरेण श्वेतेन हेमदण्डेन सुवर्णदण्डेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपो यस्याः सा । उद्धूयमानैः कम्पमानैः फेनः कफस्तद्वच्छुचिभिर्निर्मलैश्चतुर्भिर्वालव्यजनैश्चामरैश्चोपवीज्यमाना । शिरसीति । शिरसि मस्तके कुसुमानां पुष्पाणां गन्धस्तत्र लुब्धेन गर्धेन भ्रमरकुलेन मधुकरवृन्देन भ्रमता पर्यटता । दिवापि भ्रमरकुलस्य नीलत्वात्तत्साम्येनाह नीलेति । नीलं यदवगुण्ठनं शिरोवेष्टनं तेनेव । अभिसारिका वेषमधिकृत्याह – चन्द्रेति । चन्द्रापीडस्याभिसरणं तत्र यो वेषस्तमभ्यस्यन्त्यभ्यासं कुर्वन्ती उत्कण्ठिताचेष्टितान्याह- मुहुरिति । मुहुः क्षणमात्रं चामरशिखां वालव्यजनप्रान्तं समासज्यालम्ब्य । मुहुश्छत्रदण्डमवलम्ब्यालम्ब नी कृत्य । मुहुस्तमालिकास्कन्धे करौ हस्तौ विन्यस्य संस्थाप्य । मुहुर्मंदलेखां परिष्वज्याक्षिप्य । मुहुः परिजनेनान्तरितो व्यवहितः सकलदेहो यस्या एवंविधा सती नेत्रत्रिभागेणावलोक्य निरीक्ष्य । मुहुरावलितं त्रिवल्या वलयं मण्डलं यस्याः सा परिवृत्य परावर्तनं कृत्वा । मुहुः प्रतीहारी द्वाररक्षानियुक्ता स्त्री तस्या वेत्रलता यष्टिविशेषस्तस्याः शिखरे प्रान्ते कपोलं गल्लात्परप्रदेशं निधाय । मुहुर्निश्चलो निष्कम्पो यः करो हस्तस्तेन विधृतां वीटिकामधरपल्लव ओष्ठकिसलये निवेश्य स्थापयित्वा । मुहुरुद्गीर्ण क्षिप्तं यदुत्पलं तस्य प्रहारस्तेन पलायमानो यः परिजनस्तस्मिन्ननुसरणं तत्र दत्तानि कतिपयपदानि यया सा विहस्य हास्यं कृत्वा तं विलोकयन्ती तेन च चन्द्रापीडेन विलोक्यमानातिक्रान्तं व्यतीतं महान्तमपि कालं समयं नाज्ञासीन्न ज्ञातवती । इतवारुह्य चारोहणं कृत्वैव प्रतीहार्या द्वारपालिकया निवेदितं ज्ञापितं महाश्वेताप्रत्यागमनं यथा सैवंविधा तस्मात्सौधादवततारोत्तीर्णा । स्नानादिषु मन्दादरापि शिथिलोद्यमापि महाश्वेतानुरोधेन दिवसव्यापार दिनकृत्यम करोयदधात् । चन्द्रापीडोsपि तस्मात्क्रीडापर्वतशिखरापाठा० -१ तातम्. २ अवलोकयितुमुद्यता. ३ विमुच्य तं गवाक्षमनङ्ग ४ तलं कैलासशिखर मिव गौर्यारुरोह. ५ शशि. ६ विरत्वितहेमदण्डेन. ७ वेषाभ्यासं कुर्वती मुहुः, वेषाभ्यासमिव कुर्वती कैलासशिखर इव गौरी मुद्दुः० ८ मंदलेखां सखीम्. ९ त्रिभागेण मुहुः १० विनिवेशय. ११ उद्गीर्णकर्णोत्पल; उद्धूर्णकर्णोत्पल. कादम्बरीप्रहितमदलेखाऽऽगमनम् ] पूर्वभागः । ४१३ - चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनेव कादम्बरीपरिजनेन निर्वर्तितस्त्रान विधिर्निरुपहत शिलार्चिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहः कर्म चक्रे । क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हरिणरोमन्थफेनशीकरासारे सीरायुध हलभयनिश्चलकालिन्दी जलत्विषि, तरुणीचरणालक्तकरसशोणशोचिषि, कुसुमरजःसिकतिलतले, लतामण्डपोपगूढे, शिखण्डिताण्डवसंगीतगृहे, मरकतशिलातल उपविष्टो दृष्टवान्सहसैवातिबहलधाम्ना धवलेनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालॅवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लाव्यमानां महीम्, चन्दनरसवर्षेणेव सिध्यमानान्दिगन्तान्, सुधयेव विलिप्यमानमम्बरतलम् । आसीच्चास्य मनसि — 'किंमु खलु भँगवानोषधिपतिरकाण्ड एव शीतांशुरुदितो भवेत् उत यन्त्रविक्षेपविशीर्यमाण, दवतीयत्तीर्य प्रथम विसर्जितेने वाद्यप्र हितेनेव कादेम्बरीजनेन निर्वर्तितो विहितः स्नानविधिर्यस्य सः । निरुपहताखण्डा या शिला तस्यामर्चिता पूजिताभिगतदेवता येन सः क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे । क्रमेणेति । क्रमेणानुक्रमेण कृत आहारो भोजनं येन सः मरकतशिलातल उपविष्ट आसीनोऽतिबहलं धाम तेजो यस्मिन्नविन धवलेन शुभ्रेणालोकेन जलेनेव निर्वाप्यमाणं विलुप्यमानं दिवसं दृष्टवानित्यन्वयः । मरकतशिलातलं विशेषयन्नाह - क्रीडेति । क्रीडापर्वतकस्य प्राग्भागभाजि पूर्वप्रदेशवर्तिनि मनोहारिणि चित्तक्षोभजनके । मरकतानां नीलवादाह - हारीतेति । हारीतः पक्षिविशेषो मृदङ्कुरस्तद्वद्धरिते नीले । हरिणेति । हरिणानां मृगाणां यो रोमन्थश्चर्वितस्य चर्वणं तस्य फेनः कफस्तस्य शीकराणां वातास्तविप्रुषामासारो वेगवान्वर्षो यस्मिन् । सीरेति । सीरायुधो रामो हलं सीरं तस्माद्यद्भयं तेन निश्चला कालिन्दी यमुना तस्या जलं पानीयं तद्वत्त्विद् कान्तिर्यस्मिन् । तरुणीति । तरुणीनां मानिनीनां यश्चरणालक्तकः पादरञ्जनार्थं यावकरसस्तेन शोणा रक्ता शोचिः कान्तिर्यस्मिन् । कुसुमानां पुष्पाणां रजो धूलिस्तेन सिकतिलं सिकतायुक्तं तलं यस्मिन् । लतामण्डपैरुपगूढे व्याप्ते । शिखण्डितेति । शिखण्डिनां मयूराणां यत्ताण्डवं नृत्यं तस्य संगीतगृहं तस्मिन् । अथ चातपं सूर्यालोकं दृष्टवान् । कीदृशम् । मृणालवलयेनेव पीर्य॑मानमाखाद्यमानम् । नायं सूर्यस्यातपः किंतु मृणालवलयस्येत्यर्थः । पुनर्महीं वसुधां दृष्टवान् । कीदृशीम् । क्षीरोदेनेव क्षीरसमुद्रेणेव प्लाव्यमानां वाह्यमानाम् । पुनर्दिगन्तरान्दृष्टवान् । कीदृशान् । चन्दनरसवर्षेणेव सिच्यमानानभिषेकविषयी क्रियमाणान् । तदनन्तरमम्बरतलं व्योमतलं दृष्टवान् । कीदृशम् । सुधया गृहधवलीकरणद्रव्येण विलिप्यमानं विलेपन विषयी क्रियमाणम् । आसीञ्चेति । अस्य चन्द्रापीडस्य मनस्येवमासीत् । खलु निश्चयेन । किमु भगवानोषधिपतिः शीतांशुश्चन्द्रोऽकाण्ड एवाप्रस्ताव एवोदितो भवेदुद्गतः स्यात् । उत यन्त्रस्य विक्षेपः प्रपातस्तेन विशीर्यमाणानि टिप्प० – 1 'प्रथम विसर्जितेनैव कादम्बरीपरिजनेन' इत्येत्र पाठः । पूर्वतः प्रेरितेन कादम्बरीपरिजनेन निर्वर्तितः स्नानव्यापारो यस्य सः, इत्यर्थः । 2 अन्तर्गतीक्रियमाणम् । 3 मरकतशिलातलोपविष्टश्चन्द्रापीड : अकस्मात् गगनधरण्यादिषु परितो व्याप्तमद्भुतं धवलिमानमपश्यत् येन हि अकाण्डे चन्द्रोदयादेराशङ्काऽस्य समभवदिति प्रघट्टकस्यास्य सारः । [ कादम्बर्या प्रेषितस्य हारस्याचं प्रकाश इति कविना कृती भूमिकातिशयः । ] पाठा० - १ निवर्तित. २ हरिणी ३ समुपविष्ट: ४ वनेनेव; धवलेन. ५ दिगन्तरान्, ६ भगवानौषधिपतिः; केतकीगर्भपत्रपाण्डुरो भगवानोषधिपतिः कादम्बरी । [ कथायामपाण्डुरधारासहस्राणि भारागृहाणि मुक्तानि, आहोस्विदनिलविकीर्यमाणसी करधवलित्तभुवना म्बरसिन्धुः कुतूहलाद्धरातलमवतीर्णा इति । ४१४ आलोकानुसार प्रहितचक्षुरद्राक्षीदनल्पकन्यका कदम्बपरिवृतां श्रियमाणधवलातपत्रामुडूयमानचामरद्वयां कादम्बरी प्रतीहार्या वामपाणिनां वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नॉलिकेरसमुद्गकमुद्रहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निःश्वासहार्ये निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखाम्, तस्याश्च समीपे तरलिकाम्, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवसिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्डरीकस्य, मन्दरक्षोभ विक्षिप्तमिवामृतविशरारुतां प्राप्यमाणानि पाण्डेरधाराणां सहस्राणि येष्वेवंविधानि धारागृहाणि मुक्ता नि । आहोखिदिति वितर्के । अनिलेन वायुना विकीर्यमाणा विक्षिप्यमाणा ये सीकरा वातास्तवारीणि तैर्धवलितं शुभ्रीकृतं भुवनं यया सैवंविधाम्वर सिन्धुर्गङ्गा कुतूहलाद्धरातलं पृथ्वीतलमवतीर्णांगता । आलोकस्यानुसारेण प्रहितं प्रेषितं चक्षुर्येनैवंभूतश्चन्द्रापीड: कादम्बैरीम्, अथ चागच्छतीं मदलेखाम्, अथ च तस्याः समीपे तरलिकाम् तथा च सितांशुकं श्वेतवस्त्रमुपच्छदं यस्मिन्नेतादृशे पटलके पात्रविशेषे गृहीतं हारं चाद्राक्षीत् । अप कादम्बरी विशिनष्टि - अनपेति । अनल्पा बहुधो याः कन्यकाः कुमार्य स्तासां कदम्ब: समूहस्तेन परिवृतां सहिताम् । त्रियमाणेति । ध्रियमाणं धवलं शुभ्रमातपत्रं छत्रं यस्याः सा ताम् । उहूदगानं वीज्यमानं चामरद्वयं यस्याः सा ताम् । प्रतीहार्या द्वारागतजननिवेदनकारिण्या । वामेति । वेत्रला गर्ने मध्ये यस्यैवंविधेन वामपाणिनापसव्यहस्तेन कृत्वा यद्वस्त्रं तस्य शकलं खण्डं तेनावच्छन्नमाच्छादितं मुखं यस्यैवंभूतं चन्दनस्यानुलेपनेन सनाथं सहितं नालिकेरसमुंद्रकं श्रीफलमध्यवर्तिगोलकमुद्वद्दन्त्या दक्षिणेन करेणापसव्यपाणिना दत्तो हस्तावलम्बो यस्याः सा ताम् । केयूरकेणेति । निःश्वासेन श्वासवातेन हार्ये हर्तुं योग्ये निर्मोकः कञ्चुस्तद्वच्छुचिनी निर्मले धौते क्षालिते कल्पलतादुकूले दधता धारयतैवंविधेन केयूरकेण च निवेद्यमानो मार्गो यस्याः सा ताम् । अथ मदलेखां विशेषयन्नाह मालतीति । मालती जाती तस्याः कुसुमानि पुष्पाणि तेषां दाम सक् तेन अधिष्ठितं अधिश्रितं करतलं यस्या एतादृश्या तमालिकया भुजिष्ययानुगम्यमानाम् । अथ हारस्य श्वेतत्वप्रकर्षमाश्रित्योत्प्रेक्षते - धवलतेति । क्षीरोदस्य क्षीरसमुद्रस्य या धवलता शुभ्रता तस्याः कारणमिव निमित्तमिव । एतेन क्षीरोदस्य स्वाभाविकी धवलता न, किं तु तद्धवलताया हेतुरेवायम् । क्षीरोदस्य हारगर्भत्वस्य वक्ष्यमाणत्वादन्तर्गतस्य हारस्येत्यर्थः । चन्द्रमसः शशिनः सहभुवमिव सहसमुत्पन्नमिव । नारायणेति । नारायणो विष्णुस्तस्य नाभिपुण्डरीकस्य तुन्दकूपिका सिताम्भोजस्य मृणालदण्डमिव । मन्दरो मेरुस्तस्य क्षोभेण विक्षिप्तं दूरीकृतममृतस्य पीयूषस्य फेनपिण्डो टिप्प० - 1 पाण्डुरवर्णानां जलधाराणाम् । 2 जलयन्त्र ( 'कुँहारा' इति भाषा ) गृहाणि । 3 हन्त कोहग्दौर्भाग्य बाणस्य यत्सर्वथा बोधलेशरहितोपि टीकयितुं धायैमाचरति । हारोपहरणाय न स्वयं फादम्बर्यागच्छत्, न 'वेदमनुरूपमपि । हारपरिचये प्रोच्यते – 'गन्धर्वराजेनापि कादम्बर्यै' ( दत्तः ) । अपि कादम्बरी स्वयमेवं वदेत् ? अस्तु. वाचयतां स्पष्टम भवेद्यत् सतरलिका मदलेखैवानुप्रेषिताऽत्र । तस्मात् - 'कादम्बरीप्रतीहार्या' इत्येव पाठः । वेत्रलतागर्भेण वामपाणिना नारिकेलसमुद्रकमुद्वहन्त्या कादम्बरीप्रतिहार्या दत्तहस्तावलम्बामित्यर्थः । 4 अज्ञानमेवेदम् । मदलेखां विशिनष्टीति बोध्यम् । पाठा०-१ पारदरसधारा, जलधाराः. २ सिन्धुर्धरातलमवतीर्णा कुतूहलाच्चालोक. ३ कादम्बरीप्रतीहार्या. ४ नारिकेल, कादम्बरीप्रहितहारदर्शनम् ] पूर्वभागः । फेनपिण्डनिकरम्, वासुकिनिर्मोकमिव मन्थनश्रमोज्झितम्, हासमिव कुलगृहवियोगगलितम्, मन्दरमथनविखण्डिताशेषशशिकला खण्डसंचयमिव संहृतम्, प्रतिमागततारागणमिव जलनिधिजलादुद्धृतम्, दिग्गजकरसीकरासारमिव पुँजीभूतम्, नक्षत्रमालाभरणमिव मदनद्विपस्य, शेरच्छकलैरिव कल्पितम्, कादम्बरीरूपवशीकृत मुनिजनहृदयैरिव निर्मितम्, गुरुमिव सर्वरखानाम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, प्रतिपक्षमिव चन्द्रमसः जीवितमिव ज्योनिकायाः, लक्ष्मीहृदयमिव नलिनीदलगलज्जलबिन्दुविलासंतरलम्, उत्कण्ठितमिव मृणालवलयधवलकरम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, मँन्दाकिनीमिव सुरयुवतिकुचपरिमलवाहिनम्, प्रभावर्षिणमतितारं हारम् । दृष्ट्वा चायमस्य चन्द्रापीड४१५ डिण्डीर पिण्डस्तस्य निकरमिव । मन्थनेति । मन्थनस्य श्रमः खेदस्तेनोज्झितं व्यक्तं वासुकिर्नागराजस्तस्य निर्मोकमिव कञ्चुकमिव । कुलेति । कुलगृहं पितृगृहं तस्य यो वियोगो भर्तृगृह आगमनं तस्मिन्नवसरे गलितं स्रस्तं हासमिवै । दृश्यते हि पितृगृहाद्भगृहे व्रजन्त्याः पितृवात्सल्यवशाद्धासो गलितो भवति किं पुनरुद्वेग एव भवतीति । मन्दरमथनेन विखण्डिता या अशेषाः समग्राः शशिकलास्तासां संहृतं खण्डसंचयमिव । जलनिधिजलादुद्धृतं प्रतिमागतं प्रतिरूपागतं तारागणमिव नक्षत्रसमूहमिव पुञ्जीभूतम् । दिगिति । दिग्गजा दिग्दन्तिनस्तेषां कराः शुण्डादण्डास्तषां सीकराणां सारमिव रहस्यमिव । मदनेति । मदनद्विपस्य कंदर्प हस्तिनो नक्षत्रमालासंज्ञितमाभरणमिव विभूषणमिव । शरदिति । शरद्धनात्ययस्तस्य शकलैरिव खण्डेरिव निर्मितं हृदयनिर्मलत्वात् । तदभिप्रायेणाह- कादमिति । कादम्बरी राजसुता तरया रूपं सौन्दर्य तेन वशीकृतानि यानि मुनिजनहृदयानि तर्निर्मितमिव । सर्बरत्नानां समग्रमणीनां गुरुमिव श्रेष्ठमिव । सर्वसागराणां समग्रसमुद्राणामेकत्र घटितं यशोराशिमिव । चन्द्रमसः शशिनः प्रतिपक्षमिव । ज्योनिकायाश्चन्द्रिकाया जीवितमिव । नलिनीति । नलिनी पद्मिनी तस्या दलानि पत्राणि तेभ्यो गलन्तः क्षरन्तो ये जलबिन्दवस्तेषां विलासस्तद्वत्तरलं चञ्चलम् उत्कण्ठितं लक्ष्मीहृदैयमिव । मृणालेति । मृणालानि बिसानि तेषां बलयं तद्वद्धवलाः करा यस्य स तम् । घनमुक्तो योंऽशुनिवहः किरणसमूहस्तेन धवलितं दिङ्मुखं येनैवंभूतं शरच्छशिनमिव । सुरयुवतिकुचानां यः परिमल आमोदस्तवाहिनं मन्दाकिनी मिवैतादृशं प्रभावर्षिणमतितारमतिमनोहरं हारम् । दृष्ट्वा चेति । दृष्ट्वा विलोक्य चन्द्रापीडः । चन्द्रेति । चन्द्रातपद्युतिवद्दयुतिर्यस्यै> टिप्प० -1 'हासमिव श्रियः कुलगृह ० ' इत्येव पाठः । लक्ष्मीहासत्वेनैथोत्प्रेक्षणेऽतिशयात् । 2 यज्ञविंशतिमौक्तिकैः है: कृता माला । 3 लक्ष्मीहृदयमिवेत्यादयश्चतस्रः श्लेषोत्थापिता उपमाः, अत एवार्थद्वयम् । टीकाकारघरॉकस्य तु नास्य परिचयोऽपि । अत एव उत्कण्ठितमिवेति पृथगुपमामपि लक्ष्मीहृदयस्य विशेषणीचकार । अतः सर्वासामप्युपमानाममुक्तोऽर्थो निम्न सूच्यते । लक्ष्मीहृद० - नलिनी दलगलज्जलबिन्दुबिलास इष विलासः ( दीप्तिः ) यस्य ईदृशः तरलः (मध्यमणिः ) यस्य तम् (हारम् ) । पक्षे टीकायां स्पष्टम् । उत्कण्ठितमिव मृणाल० - उत्सुकम् ( विरहिणम्) इव मृणालवलयेन धवलौ करौ ( संतापशान्त्यर्थम्) यस्य तम् । पक्षे टीकायाम् । शशिनमिव० – घनो निबिडो यो मुक्तानां ( मौक्तिकानाम्) अंशुनिवहस्तेन धवलितदिङ्मुखम् (हारम् ) । पक्षे टीकायाम् । मन्दाकिनी मिवेति टीकाकारहतकस्याज्ञानम् । 'मन्दाकिनीप्रवाहमिव' इति पाठः । धारणात्परिमलवाहिनम् (हारम्) अवगाहनाच मन्दाकिनीप्रवाहम् । पाठा० – १ हासमिव श्रियः २ प्रतिमातारा. ३ दिग्गजशीकरासरपुञ्जीभूतम् ४ पुञ्जीकृतम् ५ शरन्मेषशकलैः● ६ ज्योत्स्नायाः ७ मन्दाकिनीप्रवाहम्. 1 ४१६ कादम्बरी । [ कथायाम्चन्द्रातपशुतिमुखो धवलिनः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण मदलेखामापतन्ती जग्राह । mo सा तु तस्मिन्नेव मरकतप्रावणि मुहूर्तमुपविश्य स्वयंमुत्थाय तेन चन्दनाङ्गरागेणानुलिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालती कुसुमदामभिरारचितशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच - 'कुमार, तवेयैमपहस्तिताहंकारकान्ता पेशलता प्रीतिपरवशं जनं कमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेषंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य बन्धुत्वमध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति । कस्य याद रोमाश्वासयन्समी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वम्मूर्ति रेवात्रोपीलम्भ्रमर्हति, या प्रथमदर्शन एव विश्रम्भमुपजनयति । इतस्था हि त्वद्विषे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथा हि-संभाघणमध्यधःकरणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । सुतिरप्यात्मो. वंविधं मुखं यस्य सः । धवलिनो विशेषणं वा । पूर्वोपवर्णितमयं हार इवास्य धवलिनः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुश्वितेन योग्येनोपचारक्रमेणापतन्तीमागच्छन्तीं मदलेखां जप्राह प्रत्युइमेन तामासादितवान् । साविति । सातु मदलेखा तस्मिन्नेव मरकतभावण्यश्मगर्भशिलायां मुहूर्त क्षणमात्रमुपविश्यावस्थानं कृत्वा स्वयमात्मनोत्थाय तेन चन्दनाङ्गरागेण मलयत विलेषनेनानुलिप्य ते च पूर्वोक्ते द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदाम भिर्जातीपुष्प सम्भिरारचितशेखरं विरचितावतंसं कृत्वा तं हारमादाय गृहीत्वा चन्द्रापीडमुवाचोक्तवती । किमुवाचेत्याहकुमारेति । हे कुमार हे चन्द्रापीड, तवेयमपहस्तितो दूरीकृतोऽहंकारो ययैवंविधा कान्ता मनोहरा पेशलता सुन्दरता कमिव प्रीतिपरवशं जनं न कारयति । ते तव प्रश्रय एव विनय एवावकाशमवगाहं ददात्येवंविधानां पुरुषाणाम् । अनया चाकृत्याकारविशेषेण त्वं कस्य जीवितस्वामी • नासि । अपि तु सर्वेषामित्यर्थः । अनेन चाकारणेनानिमित्तेनाविष्कृतं प्रकटीकृतं यद्वात्सल्यं हितं यस्मिन्नेवंविधेन चरितेन समाचरणेन कस्य बन्धुत्वं नाध्यारोपयसि । एषा च ते तव प्रकृत्या स्वभावेन मधुरा मिष्टा व्यवहृतिर्व्यापारः कस्य न वयस्यतां मित्रतामुत्पादयति । स्वभावेन सुकुमारा वृत्तिर्येषामेवंविधा अमी भवद्गुणाः कस्य न समाश्वासयन्ति समाश्वासनां कुर्वन्ति । त्वदिति । अत्रार्थे त्वन्मूर्तिरेवोपलैम्भमनुभवमर्हति साक्षात्कारयोग्या भवति । या प्रथमदर्शन एव प्रथमावलोकन एव विश्रम्भं विश्वासमुपजनयति । अतस्त्वद्विधे त्वत्सदृशे पुरुषे सकलभुवने प्रथितः प्रख्यातो महिमा माहात्म्यं यस्मिन्नव प्रयुज्यमानं कथ्यमानं सर्वमनुचितमिवायोग्यमिवाभाति । तदेव दर्शयति — तथा हीति । संभाषणमपि जल्पनमप्यधःकरणमिवा-पतति । अनुचितेन सर्वोचितस्य संभाषणमनुचितमेव करोतीति न्यायादिति भावः । आदर इति । आदरोऽपि बहुमानोऽपि प्रभुताया ऐश्वर्यस्याभिमानमिवानुमापयति ज्ञापयति । स्तुतिरपि नुतिरप्यात्मन उत्सेक टिप्प० ---1 हन्त हन्त किं प्रलपति वैधेयः । 'चन्द्रातपद्युतिमुषो धवलिनः' इति पाठः । अयं हारः चन्द्रातपद्युतिं मुष्णाति तादृशस्य अस्य धवलिन्नः कारणमिति तदर्थः । 2 न बुद्धवान् वराकोर्थम् । प्रीतिकरणे भवन्मूर्तिः ( भवदाकृतिः) एव उपालम्भं प्रतिक्षेपवचनम् (ओलंभा, उलहना, इति भाषा) नईतीत्यर्थः । पाठा०१ मुषो. २ समुचितेन. ३ आयान्तीम् ४ प्रतिजग्राह ५ अपहसित ६ परवश किमिव ७ स्यताम्. ८ क्रं. ९ समानासयन्ति १० उपलम्भम्. कादम्बरीप्रहितोपहारसमर्पणम् ] पूर्वभागः । ४१७ त्सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रागल्भ्यमिव जीयते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इब भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते । प्रथमकृतागमनमद्दोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्त जीवितफलस्य सफलम गमनं केन से क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः, भवादशस्य दास्यमध्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दस्वात्मानमपि वञ्चिता न भवति । जीवितमध्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानां यादृशी ददतां लज्जा यत्तु सत्यममुना व्यतिकरेण कृतापराधमिव 1 उत्कर्षस्तमिव सूचयति । उपचारोऽप्यभ्युत्थानादिरूपोऽपि चपलतामिव प्रकाशयति प्रकटीकरोति । प्रीतिरपि स्नेहोऽप्यनात्मज्ञतां स्वस्वरूपानभिज्ञतां ज्ञापयति । विज्ञापनापि विज्ञप्तिरपि प्रागल्भ्यमिव पाण्डित्यमिव जायते । सेवापि सपर्यापि चापलमिव दृश्यते । दानमपि परिभव इव पराभव इव भवति । प्रथितमहिमवत्त्वादितिभावः । अपि चेति युक्त्यन्तरे, स्वयं गृहीतं हृदयं येनैवंविधाय किं दीयते । अथ च जीवितेश्वराय किं प्रतिपाद्यते किं कथ्यते । अयं भावः – हृदयाधीनं जीवितं, हृदयं चेद्गृहीतं तदा जीवितेश्वर एव जातः । एवं सति तस्मै जीविताभिधानं किं वस्तु नेयम् । सर्वेषां वस्तूनां जीवितार्थत्वात् । एतदपरं किं प्रतिपाद्यम् । प्रतिपाद्यानां जीवितावधित्वात् । प्रथमं कृतं यदागमनं तदेव महोपकारो यस्यैवंविधस्य ते भवतः का प्रत्युपक्रिया । न कापीत्यर्थः । दर्शनेन दत्त जीवितफलं येनैवंविधस्य ते तव सफलमागमनं केन क्रियते । अयं भावःसर्वापेक्षयोत्कृष्टं जीवितफलं त्वयैव दत्तम् । इतः परं त्वत्सदृशमस्माकं किमपि नास्ति, येन त्वदागमनसाफल्यं क्रियते कादम्बर्यनेन व्यपदेशेन हारानयनमिषेण प्रणयितां स्नेहवत्तां त्वयि दर्शयति । न विभवमैश्वर्यम् । तवै· तादृशं वस्तु नास्ति यादृशं मम वर्तत इत्येवम् । नन्वत्युत्तममुक्ताकलापस्य स्वविभवत्वप्रदर्शने कोऽयमस्वरस् इत्यत आह - अप्रतीति । हीति निश्चितम् । सज्जनविभवानां परस्वता स्वीयपरकीय भावोऽप्रतिपाद्या वर्तते सतां प्रवृत्तेः परोपकारनिमित्तकत्वेन तद्विभवस्यापि तथात्वादिति भावः । अथ यद्यपरितोषस्तदा विभवो हारा दिरूपः खोत्कर्षहेतुस्तावदास्तां तिष्ठतु । किं तु भवादृशस्य दास्यमङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते नात्यविधायिनीति व्यपदिश्यते । दत्त्वेति । आत्मानमपि दत्त्वा त्वदधीनं कृत्वा वञ्चिता न भवति विप्रतारिता न स्यात् । जीवितमप्यर्पयित्वा न पश्चात्तप्यते न पश्चात्तापं करोति । ( यत् ) सतां सत्पुरुषाण महत्ता गुरुता प्रणयो विद्यते यस्मिन्नेवंभूतो यो जनस्तस्य प्रत्याख्यानं निराकरणं तत्र पराखी प्रणयिजनाभीष्टप्रदान निराकरणशीला न भवतीत्यर्थः । तत्र हेतुमाह - दाक्षिण्येति । दाक्षिण्य मनुकूलता तस्या परवती । तदधीनेत्यर्थः । दाक्षिण्यं लज्जाधीनं स्यादित्यत आह - न चेति । ददतां वितरणं कुर्वतां यादृर्श लज्जा त्रपा स्यात्तादृशी यांचमानानां नीचानां च न स्यात् । यत्त्विति । तु पुनरर्थे । यत्पूर्वोक्तं तत्सत्यम् ततः किमित्यत आह — अमुनेति । अमुना व्यतिकरेग त्वदागमनसंवन्धेन त्वयि कृतापराधं विहितागसमि टिप्प० -1 सतां महत्त्वं तद्वर्तते यद्धि प्रणयिजनानां (द्रव्योपहारदानस्य ) प्रत्याख्याने प्रतिषेध परामुखम्, अर्थात् न कदाचित् प्रत्याख्यानं कुर्वन्ति; यतो हि दाक्षिण्यस्वाधीना सा महत्ता । 2 पुन स्वारस्यं चूर्णीचकार चपलः । सज्जनानां हि ददतां लज्जा, न जाने स्वरूपयोग्यं दत्तं न वेति । याचकान तु पूर्वमेन लाघवस्वीकारान्न सा । अत एव -धमुना हारसमर्पणव्यतिकरेण कृतापराधमिवात्मानं जानाति यत्व स्वरूपयोग्यदानाऽभावेपि दातृत्वं स्वीकृत मिति । पाठा०१ ज्ञायते. २ गृह्यते ३ परवशा. ५३ का० कादम्बरी । [ कथायाम्स्वय्यात्मानमवमच्छति कादम्बरी। तद्यममृतमथन समुद्भूतानां सर्वरत्नानामेकॅशेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसांपत्या गृहमुपागताय प्रचेतसे दत्तः । पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै, तथापि त्वद्वपुर स्यानुरूपमाभरणस्येति विभावयन्त्या नभःस्थलमेवोचितं सुधनतो धान्नोन धरेत्यवधार्यानुप्रेषितः । यद्यपि गुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः केशहेतुमितरजन बहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभि धानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना । नँ च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाण्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रीतिप्रसरस्य । नियतं च भवता लग्नप्रणया महाश्वतोपालम्भसहस्रैः खेदयित्वा स्वात्मानमुत्स। । ४१८ वात्मानं कादम्बर्यवगच्छति जानाति । तदयममृतमथनात्समुद्भूतानां प्रकटितानां सर्वरत्नानामे कशेषोऽवशि ष्टोऽतः शेषनामायं हारोऽमुनैव हेतुनैकशेषत्वेनाम्भसांपत्या भगवता समुद्रेण बहुमतो गृहमुपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तोऽर्पितः । पाशमृतापि वरुणेनापि गन्धर्वराजाय दत्तः । गन्धर्वराजेनापि कादम्बर्यै दत्तः । तयाप्यस्याभरणस्य त्वद्वपुस्त्वदीयं शरीरमनुरूपं योग्यमिति विभावयन्त्या मनसि विभावनां कुर्वन्त्या । एतस्मिनर्थे दृष्टान्तं प्रदर्शयन्नाह – नभ इति । सुधालुतेश्चन्द्रस्य धाम्नस्तेजसो नभस्थल मेवोचितं योग्यं न धरा पृथ्वीत्यवधार्य निश्चित्यानुप्रेषितोऽनुप्रहितः । यद्यपीति । यद्यपि भवादृशा भवत्सदृशाः पुरुषा गुणाः शौर्यादयस्तेषां गणाः समुदायास्त एवाभरणानि तैर्भूषिता शोभिताङ्गयष्टिर्येषां ते तथा क्लेशहेतुः परिश्रमकारणमितरजनाः प्राकृतजनास्तैर्बहुमतमादरपूर्वकं स्वीकृतमाभरणभारं विभूषणवीवधमङ्गेषु हस्तपादादिषु नारोपयन्ति न स्थापयन्ति । तथापीति । यद्यप्येवमस्ति तथापि कादम्बरीप्रीतिरत्र हारधारणे कारणं नियामकम् । प्रीत्यान्यैरपि तथा कृतमियाह - किं न कृतमिति । लक्ष्म्याः श्रियः सहजं सार्धं समुत्पन्न मिति कृत्वा बहुमानं सत्कारमाविष्कुर्वता प्रकटीकुर्वता भगवता शार्ङ्गपाणिना कौस्तुभाभिधानं शिलाशकलमुरसि किं न कृतं किं न ' विहितम् । न च नारायणस्तथा करोतु नाम । अहं तु तादृशो न भवामीत्यत आह - न चेति । नारायणः कृष्णोऽत्रभवन्तं त्वां न चातिरिच्यते नाधिको भवति । तथा च खानुरक्तप्रीतिसंरक्षणस्वभावसाम्येन त्वमपि स एवेत्यर्थः । न च हारोऽपि कौस्तुभापेक्षया न्यून इत्याह - नापीति । कौस्तुभमणिरणुनापि गुणलवेन शेषं शेषनामानं हारं नाप्यतिशेतेऽतिशयितो न भवति एवं लक्ष्मीसादृश्यं कादम्बर्यामानयति - न चेति । लक्ष्मीः पद्माकारस्यानुकृतिरनुकरणं तस्य कलांशस्तयाप्यल्पीयस्यापि कादम्बरीमनुगन्तुं सादृश्यं कर्तुं नालं न समर्था । अतो हेतोरियं त्वत्तो भवत इयं बहुमानमर्हति योग्या भवति । न चेयं प्रीतिर्न भवतीत्याह – न च प्रीतिप्रसरस्य प्रीत्युत्कर्षस्यैषाऽभूमिरस्थानम् अपि तु स्थानमेव । वैपरी बाधकमाह - नियतेति । नियतं निश्चितं भवता त्वया लग्नैः प्रणयः स्नेहो यस्यां एवंविधा महाश्वेता उपालम्भसहस्रैः खेदयित्वा खेदमुत्पाद्य खात्मानं , > टिप्प० - 1 ग्राम्यप्रियोयं पाठः । 'नभःस्थल मेवोचितं सुधासूतेः (चन्द्रस्य ) धाम' इति पाठः, प्रमाण च सहृदयाः । 2 एषा (कादम्बरी) प्रीतिप्रसरस्य अपात्रं न अपि तु पात्र मेवेत्यर्थः । 3 हन्त धिगविचारम् । 'त्वया भग्नप्रणया ( भग्नः प्रणयो यस्याः ईदृशी कादम्बरी ) महाश्वेतामुपालम्भसहस्रैः ( ईदृशेन अदक्षिणेन त्वया सद्भावो विहितः, अत्र चानीतः इति ) खेदयित्वा आत्मानं नियतमुत्स्रक्ष्यति' इत्येव पाठः । पाठा०- -१ उद्धृतानाम् २ एक: शेष: ३ लब्धनामा ४ सुधासूतेम ५ निजगुण ६ शाङ्गिणा. ७ नापि. ८ महाश्वेताम्. ९ आत्मानम्. कादम्बरी प्रहितोपहार समर्पणम् ] पूर्वभागः । ४१९ क्ष्यति । अत एव महाश्वेता तैरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेष – 'न खलु महाभागेन मनसापि कार्य: कादम्बर्याः प्रथमप्रणयप्रसर भङ्गः' इत्युक्त्वा च ताराचऋमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध । G त्मनः, चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् - 'मदलेखे, किमुच्यते । निपुणासि जानासि प्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमाके वा वयं ग्रहणाग्रहणस्य वा । आगता खल्वियमस्तं कथा । सौजन्यशालिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेध्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अतिदक्षिणायाः खलु देव्याः कादम्बर्या निर्देर्दाक्षिण्या गुणा न कंचिन्न दासीकुर्वन्ती'त्युक्त्वा च कादम्बरीसंबद्धाभिरेव कथाभि: सुचिरं स्थित्वा विसर्जयांबभूव मदलेखाम् । अनतिदूरं गतायां च तस्यां क्रीडापर्वतगत मुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निषिद्धाशेष परिजना तमालिकाद्वितीयाB निजात्मानमुत्स्रक्ष्यति त्यक्ष्यति । अत एवातो हेतोर्महाश्वेतेमं हारमादाय गृहीत्वा त्वत्सकाश भवत्समीपं तरलिकां प्रेषितवती प्रहितवती । तयापि महाश्वेतयापि कुमारस्य संदिष्टं कथितमेव । महाभागेन सत्पुरुषेण त्वया कादम्बर्याः प्रथमप्रणयप्रसरभङ्गो मनसापि न कार्यो न विधेयः । कायवाग्भ्यां तु सर्वथा निषेध एव सूचितः । इत्युक्त्वेत्यभिधाय चामीकराचलस्य मेरोस्तटे ताराचऋमिव नक्षत्रसमूहमिव तं हारं तस्य वक्षस्थले बबन्ध । चन्द्रापीडस्तु विस्मयमानो विस्मयं कुर्वाणः प्रत्यवादीत्प्रत्यवोचत् । हे मदलेखे, त्वया किमुच्यते । त्वं निपुणासि पण्डितासि । अत एव ग्राहयितुं स्वीकारयितुं जानासि । उत्तरस्य प्रतिवचसोऽवकाशं प्रवेशयोग्यतामपहरन्त्या दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतम् । अयीति कोमलामन्त्रणे । हे मुग्धे, आत्मनो भवद पेक्षया के वयम् । युष्माकं देवयोनित्वादिति भावः । अथ च के वा वयं ग्रहणाग्रहणस्य वा । आगता खलु निश्चितम् इयमस्तं कथा । सौजन्यशालिनीभिः सुजनताशोभिनीभिर्भवतीभिरुपकरणीकृतोऽयं जो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यतां प्रेर्यताम् । खलु निश्चितम् । अतिदक्षिणाया अत्युदारायाः । 'दक्षिणे सरलोदारौ' इति कोशः । कादम्बर्या निर्दाक्षिण्याः सर्वत्र भ्रमणशीला गुणाः कंचित्पुरुषं न दासी कुर्वन्ति । अपि तु सर्वानेव । इत्युक्त्वा चेत्यभिधाय च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा तां मदलेखां विसर्जयांबभूव गृहे गमनायानुज्ञापितवान् । तदनन्तरं तस्यां मदलेखायामनतिदूरं गतायां नातिदूरं प्राप्तायां चित्ररथसुता कादम्बरी पुनरपि द्वितीयवारमपि तदेव सौधशिखरमारुरोहारूढा । अत्र सौधशिखरं विशेषयन्नाह - क्रीडेति । क्रीडार्थं यः पर्वतः शैलस्तत्र गतम् । कमिव् । उदयगिरिरुदयाचलस्तत्र गतमिव चन्द्रमसम् । चन्दनं मलयजम्, दुकूलं क्षौमम्, हारः शेषाभिधानः एतैर्धवलं शुभ्रं चन्द्रापीडं द्रष्टुं वीक्षितुं समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामरचिह्नानि यया सा । निषिद्धो वर्जितोऽशेषः समग्रः परिजनः परिच्छदो टिप्प० - 1 आत्मनः के वयम् ? वयमात्मनोपि न प्रभवः, किमुतान्यस्येत्यर्थः । 2 इमं पाठत्वेनोल्लि ए: ? अत एव -' -'निर्दाक्षिण्य खैष्टीकाकार एव निर्दाक्षिण्यः । कादम्बरीगुणान् निर्दाक्षिण्यान्वदेद् ग्रन्थकारः मपि' इति पाठः । कादम्बर्या गुणा निर्दाक्षिण्यम् ( अनुदारमपि, मादृशम् ) अपि कं न दासीकुर्वन्ति, अपि तु सर्वमेवेत्यर्थः । पाठा० -१ महाश्वेतया २ तरलिका. ३ अनुप्रेषिता. ४ उच्यते. ५ कथयितुम् ६ ग्रहणस्याग्रहणस्य ७ गता. ८ अनिविष्टेषु. ९ निर्दाक्षिण्यमपि १० अनतिचिरम् ११ पर्वतक. १२ उदयगताम्. १३ उत्सारित, १४ परिजनानुगमना. ४२० कादम्बरी । [ कथायाम्६ चित्ररथसुता पुनरपि तदेव सौषशिखरमारोह । तत्रस्था च पुनस्तथैव विविधविलासतरैङ्गितैर्विकारिविलोकितैर्जहारास्य मनः । तथाहि मुहुर्मुहुर्नितम्बबिम्बन्यस्तवामहस्त पल्लवा प्रावृतांशुकानुसार प्रसारितदक्षिणकरा निश्चलतारका लिखितेव, मुहुजृम्भिकारम्भदत्तोत्तानकरतलतया तेंद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुक पल्लवताडित निःश्वासा मोदलुब्धमधुकरमुखरतया प्रस्तुताहानेव, मुहुरनिलगलितांशुकसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्टकुसुमपूरिताञ्जलिसमाधाणलीलया कृतनमस्कारेव, मुहुरुभयतर्जनीभ्रमितमुक्ताप्रार्लेम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलनविधुत करतलतया कथितकुसुमायुधशरप्रहारवेदनेव, मुहुर्गलितरशनानिगडपतितचरणतया संयम्यार्पितेव मन्मथेन, मुंहुश्चलितोरुबिघृतशिथिलदुकूला, क्षितितल दोलायमानांशुकैकदेशाच्छायया सा । तमालिका एव द्वितीया यस्याः सा च । तत्रस्था च सौधशिखरगता च पुनस्तथैव पूर्वोक्तरीत्यैव विविधा अनेकप्रकारा ये विलासा भ्रूसमुद्भवास्तैस्तरङ्गितैर्विका रिविलोकितैरस्य चन्द्रापीडस्य मनो जहार हृतवती । तदेव दर्शयति — तथाहीति । मुहुर्मुहुर्वारंवारं नितम्बबिम्बे आरोहबिम्बे न्यस्तः स्थापितो वामहस्तपल्लवो यया सा । प्रावृतं परिधानीकृतं यदंशुकं तदनुसारेण प्रसारितो दक्षिणकरो यया सा । निश्चलेति । निश्चला स्थिरा तारका कनीनिका यस्याः सा । अत एव लिखितेव चित्रितेव । मुहुरिति । जृम्भिकारम्भे जृम्भायाः प्रारम्भे दत्तं यदुत्तानं करतलं तस्य भावस्तत्ता तया । तस्य चन्द्रापीडस्य गोत्रमभिधानं तस्य स्खलनं तस्माद्या भी: भीतिस्तया निरुँद्धवदनेव । मुहुरिति । अंशुकपल्लवेन ताडितो यो निःश्वासामोदस्तत्र लुब्धा ये मधुकरा भ्रमरास्तैर्मुखरो वाचालस्तस्य भावस्तत्ता तथा प्रस्तुतं प्रारब्धमाह्वानं यया सैवंविधेव । मुहुरिति । अनिलेन गलितानि यान्यंशुकान्युत्तरीयाणि तेषां संभ्रमो विलासस्तेन द्विगुणीकृतं यद्भुजयुगलं तदेव प्रावृतमुत्तरीयं ययोः पयोधरयोस्तयोर्भावस्तत्ता तया दत्तालिङ्गनसंज्ञा संकेतो यया सैवंविधेव । मुहुरिति । केशपाशादाकृष्टानि यानि कुसुमानि तेन पूरितो योऽञ्जलिस्तस्य समाघ्राणलीलया कृत्वा कृतनमस्कारेवं विहितप्रणामेव । पुनः करयोरलीकप्रदेशाभिमुखीकरणेन तदुत्प्रेक्षा । मुहुरिति । उभयतर्जनीभ्रमितो यो मुक्ताप्रालम्बो मुक्तालता तस्य भावस्तत्ता तया निवेदितो ज्ञापितो हृदयस्योत्कलिका हल्लेखा तस्या उद्गमः प्रादुर्भावो यया सैवंविधेव । यथा हारो मया भ्राम्यते तथोत्कलिकया मञ्चित्तमिति भावः । मुहुरिति । उपहारस्योपचारस्य यानि कुसुमानि तेभ्यः स्खलनेन विधुतं कम्पितं यत्करतलं तस्य भावस्तत्ता तया कथिता कुसुमायुधो मदनस्तस्य शरप्रहारवेदना पीडा यया सैवंभूतेव । मुहुरिति । गलिता सस्ता या रशना कटिमेखला सैव निगडोऽन्दुकस्तत्र पतितौ यौ चरणौ तयोर्भावस्तत्ता तया संयम्य बद्ध्वा मन्मथेनार्पितेव । मुहुरिति । चलिटिप्प० - 1 वायुनाऽपसारितो योंऽशुकस्तदनुसारेण तत्सजीकरणव्याजेनेत्यर्थः । 2 मदनजागरणेन या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यो हस्त आवरणीकृतः स मन्ये प्रेमवशाञ्चन्द्रापीडस्य नाम निःसरणभयेन मुखस्यावरणीकृत इत्याशयः । 3 दृश्यतां बुद्धिष्टीकयितुः । अंशुकपल्लवेन ताडिताः निःश्वा'ससौरभलुब्धा ये मधुकररास्तैर्मुखरतया शब्दायमानतया, इत्यर्थो वाच्यः । 4 अंशुकानां किमु भारो धृतस्तया ! अस्तु. अनिलेन गलिते अंशुके संभ्रमवशाद् द्विगुणीकृतेन भुजयुगलेन एकस्योत्तरं द्वितीयेन भुजेन प्रावृतौ पयोधरौ यया अर्थाद् भुजद्वयवेष्टितकुच्चा । 5 अञ्जल्युपरि भाघ्राणाय नमिते शिरसि नमस्कारचेष्टा जातेत्यांशयः । 6 उत्कलिका उत्कण्ठा । पाठा०—१ तरङ्गिभिः २ विलोकितैः; बिकारि मिविलोकितैः ३ मुहुः ४ असमावृत ५ गोत्रस्खलनभयनिरुद्धबदनेव. ६ संभ्रमद्विगुणितभुजलतावृतपयोधरतया; संवरणसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया ७ प्रलम्ब. ८ करतया ९ निबिड १० नियमित ११ मुहुर्मुहुर्निचलित. , सन्ध्यावर्णनम् ] पूर्वभागः । ४२१ दितकुचा, चकितपरिवर्तन ट्यविलीलता, समस्त चिकुरकलापसंकलनाकुलकैरतला, कटाक्षक्षेपघवलीकृतकर्णोत्पलं विलक्ष्यमाणस्मितसुधाधूलिधूसरितकपोलं साचीकृत्य वदनमनेकर भनिभरं विलोकयन्ती, तावदवतस्थे यावदुपसंहतालोको लोहितो दिवसो बभूव । अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे सकललोकचक्रवालचक्रवतिनि भगवति पूष्णेि, क्रमेण च दिनपरिलम्बनरोषरक्ताभिः कामिनीदृष्टिभिरिव संक्रामितशोणिन्नि व्योम्नि, संहृतशोचिषि जाते जरठहारीतहरितवाजिनि, रविविरंहमीलितसरोजसंहतिषु हरितायमानेषु कैमलवनेषु, श्वेतायमानेषु कुमुदखण्डेषु, लोहितायमानेषु दिड्युखेषु, 0 ताभ्यामूरुभ्यां यथाकथंचिद्विवृतमपि शिथिलं दुकूलं यस्याः सां । क्षितितले दोलायमानोंऽशुकस्योत्तरीयस्यैकदेशस्तेनाच्छादितौ कुचौ यया सा । चकितं ससंभ्रमं यत्परिवर्तनं तेन त्रुट्यन्ती त्रिवलीलता यस्याः सा । समस्ताः समग्रा ये चिकुराः कुन्तलास्तेषां कलापः समूहस्तस्य संकलनं स्वकीयस्थले स्थापनं तेनाकुलं व्याक्षिप्तं करतलं यस्याः सा । किं कुर्वती । वदनं मुखं साचीकृत्य वक्रीकृत्यानेके रसास्तेषां भङ्गी रचनाविशेषस्तेन भङ्गुरं वक्रं यथा स्यात्तथा विलोकयन्ती । अथ वदनं विशेषयन्नाह – कटाक्षेति । कटाक्षाणां क्षेपस्तेन धवलीकृतं कर्णोत्पलं यस्मिन् । विलक्ष्यमाणं यत्स्मितं तदेव सुधा तस्या धूलिस्तया धूसरितौ कपोलौ यस्मिन् । तावदवतस्थे यावदुपसंहत एकीभूत आलोको यस्मिन्नेवंविधो लोहितो रक्तो दिवसो बभूव । एतेन संध्यासमयो जात इति ज्ञापितम् । अथ प्रदोषसमयं वर्णयन्नाह - अथेति । जातायामदर्शनक्षमायां वेलायां कादम्बरी सौधशिखराक्क्रीडापबैतकनितम्बाच्च चन्द्रापीडोऽवततारेत्यन्वयः । कस्मिन्सति । रागेणानुरज्यमाने सति रक्ततां प्राप्यमाणे सति । रक्तत्वसाम्यादाह — हृदयस्थितो यः कमलिनीरागस्तेनेव राजीवानां कमलानां जीवितं तस्येश्वरः स्वामी तस्मिन्सकलः समग्रो यो लोकस्तस्य चक्रवालं मण्डलं तस्य चक्रवर्तिनि सार्वभौमे भगवति माहात्म्यवति । जरठः परिणत एवंविधो यो हारीतो मृदङ्कुरस्तद्वद्धरिता नीला वाजिनो यस्य स तस्मिन् । पुनः कीदृशे । संहृतशोचिष्यात्तदीधितौ एवंविधे पूँणि सूर्ये जाते सति । तथा क्रमेण च परिपाट्या दिनस्य सूर्यस्य परिलम्बनमस्तसमयस्तेन रोषो नायको दत्तसंकेतोऽद्यापि नागत इत्येवंरूपस्तेन रक्ताभिः कामिनीदृष्टिभिरिव संक्रामितः शोणिमा रक्तिमा यस्मिन्नेवँविधे व्योम्याकाशे सति । पुनः केषु । रविरिति । रविः सूर्यस्तस्य विरहो वियोगस्तेन मीलिताः संकुचिता याः सरोजसंहतयः कमलराजयस्तासु । पुनः केषु । कमलवनेषु नलिनखण्डेषु हरितायमानेषु नीलायमानेषु सत्सु । तथा कुमुदखण्डेषु कैरववनेषु श्वेतायमानेषु गौरपदाचरमाणेषु । प्रफुल्लितत्वादिति भावः । तथा लोहितायमानेषु रक्तायमानेषु दिङ्मुखेषु सत्सु । तथा नीलायमाने हरितायमाने शर्वरीमुखे प्रदोषे । टिप्प० -1 विभ्रमवशादुत्तरीयांशुकः स्वस्थानादपसल भूमौ लम्बित: पुनश्च सविलासं स्वस्थानं स्थापित स्तनाच्छादितकुचा । 2 'विलक्षस्मित' इत्येव पाठः । सलजं यत्स्मितमित्यर्थः । 3 हन्त कियद्वा जर्जरा सेयं टीकाकन्था प्रथ्यताम् । दैवहतक: सोयं 'जरठहारीत०' पर्यन्तमेक विशेषणीचकार । किन्तु राजीवजीवितेश्वरे सकल.. . चक्रवर्तिनि भगवति पूष्णि (सूर्ये) कमलिनीरागेणेव रज्यमाने सति ( स्वाभाविके रक्तवर्णे कमलिन्यनुरागस्योत्प्रेक्षा ) । इति पृथगन्वयः । संक्रामितशोणिन्नि व्योम्नि इति पृथक् । जरठहारीतहरितवाजिनि ( सूर्ये ) संहृतशोचिषि संकोचितप्रकाशे जाते सति, इति पृथक् । 4 हन्त ! रविविरहेण मीलिताः सरोजसंहतयो येषु ईदृशेषु कमलवनेषु हरितायमानेषु सत्सु इत्यर्थः । ...... पाठा०-१ असंत्रस्त. २ कारकमला. ३ कर्णोत्पल ४ विलक्ष्यमाणस्मितधूलिधूसरकपोलम्; विलक्षस्मितसुधाधूलिधूसरितैककपोला; विलक्ष्यस्मितसुधाधूलिधूसरितकपोलम्, विलक्ष्य चास्मितसुधाधूलिधूसरित कपोलम् ५ साचीकृत. ६ भ्रूभङ्गि. ७ उपसंहृत. ८ सकलचक्रवाकचक्रवालचित्तवर्तिनि ९ उष्णदीधितौ १० जनित. ११ कमलवनेषु निजसुहृदमृतमूर्तिसमालोकनाशया हर्षप्रकर्षसंदर्शितस्मितेष्विवोन्मुखेषु धवलायमानेषु कुमुदखण्डेषु, ४२२ कादम्बरी [ कथायाम् नीलायमाने शर्वरीमुखे, शनैः शनैश्च पुनर्दिन श्रीसमागमाशाभिरिवानुरागिणीभिः सहैव दीधितिभिरदर्शनतामुपगते भगवति गभस्तिमालिनि, तत्कालविजृम्भितेन च कादम्बरीहृदयरोगसागरेणेवापूरिते संध्यारागेण जीवलोके, कुसुमायुधानलदह्यमान हृदयसहस्रधूम इव जनितमानिनीनयनवारिणि विस्तीर्यमाणे तरुणतमालत्विधि तिमिरे, दिक्करिकरौवकीर्णसीकरासार इव श्वेतायमानतारागणे गैंगने जातायां चादर्शनक्षमायां वेलायां सौधशिखरादवततार कादम्बरी क्रीडापर्वतकनितम्बाच चन्द्रापीडः । ततोऽचिरादिव गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखी: कुपिता इव प्रसादयन्नाशाः, प्रबोधाशङ्कयेव परिहरन्सुप्ता: कमलिनी:, लाञ्छनच्छलेन निशामिव हृदयेन समुद्रहन्, रोहिणीचरणताडनलग्नमलक्तकरस मिवोदयरागं दधानः, तिमिरनीलाम्बरां दिवमभिसारिका मिवोपसर्पन्, अतिवल्लभतया विकिरन्निव सौभाग्यमुद्गाद्भगवानीक्षणोत्सवः सुधासूतिः । उच्छ्रितेच कुसुमायुधाधिराज्यै कातपत्रे कुमुदिनीवधूवरे विभावरीविलासदन्तपत्रे श्वेतभानौ धवलितदिशि, शनैः शनैः पुनर्दिनश्रियां यः समागमस्तस्याशाभिरिवानुरागिणीभिदीधितिभिः सह भगवति गभस्तिमा लिनि सूर्येऽदर्शनतामदृश्यतामुपगते प्राप्ते सति । पुनः संध्यारागेण जीवलोक आपूरिते सति । केनेव । तत्कालविजूम्भितेन तदात्वप्रसृतेन कादम्बर्या हृदयरागस्तल्लक्षणो यः सागरः समुद्रस्तेनेव । पुनः कस्मिन् । विस्त । विस्तारं प्राप्यमाणे । तरुणो नवीनो यस्तमालस्तापिच्छः तस्य विडिव त्विद्र यस्मिन्नेवं विधे तिमिरेऽन्धकारे सति । तस्य नीलत्वेन साम्यादाह — कुसुमेति । कुसुमायुध एवानलो वह्निस्तेन दह्यमानं ज्वलमानं यद्धृदयसहस्रं तस्य धूम इव । कीदृशे । जनितमुत्पादितं मानिनीनां नयनेषु वारि येन तस्मिन् । अद्यापि पतिगृहे नागत इति दुःखेन मानिनीनयनेष्वश्रुसद्भाव इत्यर्थः । एतेन धूमसादृश्यं ध्वनितम् । दिगिति । दिक्करिणां दिग्गजानां ये कराः शुण्डादण्डास्तैरव कीर्णोऽवध्वस्तो यः सीकरासारस्त स्मिन्निव श्वेतायमाने दीप्यमाने तारागणे नक्षत्रसमूहे गगने व्योम्नि जाते सति । अन्वयस्तु प्रागुक्तः । ततस्तदनन्तरमचिरादिव स्तोकका लेनेव सुधासूतिश्चन्द्र उदगादुदयं प्राप्तवान् । गृहीतेति । गृहीताः पादा यस्य सः प्रसाद्यमान इव । काभिः । कुमुदिनीभिः कैरविणीभिः । कलुषमुखीः कुपिता इव आशा दिशः प्रसादयन्प्रसन्नीकुर्वन् । सुप्तानां कमलिनीनां प्रबोधो मा भूदित्याशङ्कया परिहरंस्त्यजन् । लाञ्छनच्छलेनाङ्कमिषेण निशामिव हृदयेन समुद्वहन्धारयन् । पुनः किं कुर्वाणः । उदयरागं दधानः । कमिव । रोहिण्याश्चरणेन रतिकलहेन यत्ताडनं तेन लग्नं अलक्तकरसमिव पार्नैकद्रवमिव । तिमिरमेव नीलमम्बरं वस्त्रमेतादृशीं दिवं नीलावगुण्ठनसाम्याद भिसारिका मिवोपसर्पन्गच्छन् । अतिवल्लभस्य भावोऽतिवल्लभता तया सौभाग्यं विकिरन्निव विक्षिपन्निव । कीदृशः । भगवान्माहात्म्यवान् । पुनः किंविशिष्टः। ईक्षणानां नेत्राणामुत्सव इव । उच्छ्रिते च वृद्धिं प्राप्ते च कुसुमायुधः कंदर्पस्तस्याधिराज्यं साम्राज्यं तस्य एकमद्वितीयमातपत्रं तस्मिन् । कुमुदिनी कैरविणी सैव वधूस्तस्या वरः प्राणनाथस्तस्मिन् । पाण्डुरत्वसाम्येनाह — विभावरीति । विभावर्यास्त्रियामाया विलासार्थं दन्तपत्रं कर्णाभरणं तस्मिञ्श्वेताः शुभ्रा भानवः किरणा यस्मिन् । धवलिताः शुश्रीकृता दिशो येन स तस्मिन् । चन्द्रालोकेन टिप्प० -- 1 श्वेतायमानास्तारागणा यस्मिन्नित्यर्थः । 2 यावकद्रवमिवेत्युचितम् । 3 लोकानामति प्रीतिपात्रतया तेषु सौभाग्यं प्रीतिं वर्षन्निव । 4 एवं विशिष्टे श्वेतभानौ उदिते सतीत्यन्वयः । पाठा० - १ तत्कालनि नर्तिषोपात्तभुज सहस्र विस्तारितसर्व पुरस्कृत गजचर्मणेव नीलायमाने. २ रागरस. ३ चक्रवा कहृदय. ४ नयनासारवारिणि ५ आकीर्ण ६ गगने जाते. ७ नचिरात् ८ नीलाम्बरवराम्. ९ उदिते. काद० चन्द्रापी० प्रीतिवर्धक उपचार: ] पूर्वभागः । ४२३ दन्तादिवोत्कीर्णे भुवने, चन्द्रापीडश्चन्द्रातपनिरन्तरतयैव कुमुदमय्या इव गृहकुमुदिन्या: कल्लोलधौत सुधाधवलसोपाने तनुतरङ्गतालवृन्तवातवाहिनि सुप्तहंसमिथुने विरहवाचालचक्रबाकयुगले तीरे, कुमुददलावलीभिः पर्यन्तलिखितपत्रलतादन्तुरमवदात सिन्दुवारदामोपहारं हरिचन्दनरसः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्टं चन्द्रशीतलमधिशिइये । तत्रस्थस्य चास्याऽऽगत्याकथयत्केयूरक : 'देवी कादम्बरी देवं द्रष्टुमागता' इति । i अथ चन्द्रापीड: ससंभ्रम मुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम् अपनीताशेषराजचिहाम्, इतरामिवकावलीमात्राभरणाम् अच्छाच्छेन चन्दनरसेन धवलीकृततनुलताम्, एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुददलं दधानाम्, ज्योत्स्नाशुचिनी कल्पद्रुमदुकूले विभ्रतीम्, तत्काल रमणीयेन वेषेण साक्षादिव चन्द्रोदयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती प्राकृते परिजनोचिते भूतले समुपाविशत् । चन्द्रापीडोsपि 'कुमार, अध्यास्यतां शिलातलमेव' , ." .9 भुवनस्य व्याप्तत्वादाह – दन्तेति । दन्तादिवोत्कीर्णे भुवने विष्टपे जाते सति । चन्द्रापीडश्चन्द्रातपस्य चन्द्रालोकस्य निरन्तरता सर्वस्मिन्नभिव्याप्तिस्तया हेतुभूतया । एवं विरलकुमुदवत्या अपि । गृहकुमुदिन्याः कुमुद मय्याः कुमुदप्रकर्षवत्या इव ये कल्लोलाः श्वेतिमोत्कर्षास्तैधत निर्मलीकृतं सुधया धवलं सोपानं यस्मिन् । तनवः सूक्ष्मा ये तरङ्गाः कल्लोलास्त एव वातहेतुत्वात्तालवृन्तानि व्यजनानि तेषां वातं वहत्येवंशीलं तस्मिन् । सुप्तानि हंसानां मिथुनानि यस्मिन् । विरहेण वियोगेन वाचालानि मुखराणि चक्रवाकयुगलानि यस्मिन्नेवंविधे तीरे । गृहदीर्घिकाया इति शेषः । कुमुदानां कैरवाणां दलावलीभिः पत्रश्रेणीभिः पर्यन्ते प्रान्ते लिखिताः पत्रलताः पत्रभनयस्ताभिर्दन्तुरम् । तद्वदवदातानि सिन्दुवारदामानि निर्गुण्डीस्रजस्तेषामुपहारो यस्मिंस्तद्वंद्धरि चन्दनं गोशीर्षचन्दनं तस्य रसैः प्रक्षालितं धौतम् । कादम्बर्याः परिजनः परिच्छदस्तेनोपदिष्टं कथितं मुक्तावद्धवलं शुभ्रं शिलापट्टं चन्द्रेण शीतलमधिशिश्ये । शयनं चकारेत्यर्थः । तत्रस्थस्यास्य चन्द्रापीडस्य केयूरक आगयेत्यकथयत् । इतिशब्दयोलमाह - कादम्बरीति । कादम्बरी देवी देवं भवन्तं द्रष्टुमागता । अथेति । तत्कथनानन्तरं ससंभ्रममुत्थाय स चन्द्रापीड: कादम्बरीमपश्यत् । अथ कादम्बरीं विशेषयनाह — आगच्छन्तीमिति । आगच्छन्तीमायान्तीम् । अल्पेति । अल्पः स्तोको यः सखीजनस्तेन परिवृताम् । अपनीतं दूरीकृतमशेषं समग्र राजचिह्नं यया सा ताम् । अत एवेतरामिव पूर्वव्यावर्णित स्वरूपाऽभिन्नामिवैकावलीमात्रमाभरणं विभूषणं यस्याः सा ताम् । अच्छं चाच्छं चाच्छाच्छं तेन । अतिनिर्मलेनेत्यर्थः । एतादृशेन चन्दनरसेन धवलीकृता तनुलता यया सा ताम् । एककर्णेऽवसक्तं क्षिप्तं दन्तपत्रं यया सा ताम् । तथाविधदेशाचारत्वादिति भावः । पुनः किं कुर्वाणाम् । कर्णपूरीकृतं कुमुददलं कैरवपत्रं दधानाम् । कीदृशम् । इन्दुकला चन्द्रकला सैव कलिका तद्वत्कोमलं सुकुमारम् । पुनः किं कुर्वन्तीम् । ज्योत्स्नावच्युचिनी पवित्रे कल्पद्रुमस्य दुकूले बिभ्रतीं दधानाम् । तत्कालरमणीयेन तत्समयमनोहरेण वेषेण नेपथ्येन साक्षाचन्द्रोदयदेवतामिव । मदलेखया दत्तो हस्तावलम्बः करावलम्बो यस्याः सा ताम् । अन्वयस्तु प्रागुक्तः । आगत्य च प्रीतिपेशलतां स्नेहसुन्दरतां दर्शयन्ती प्रकटयन्ती प्राकृते नीचे परिजनस्य सेवकजनस्योचिते योग्ये भूतले टिप्प० - 1 विरलकुमुदापि गृहकुमुदिनी (सरसी) चन्द्रातपव्याप्ततया कुमुदमयी जाता, चन्द्रिकै कुमुदस्थानीया जातेत्यर्थः । ईदृश्या गृहकुमुदिन्याः कल्लोलधौत• इत्यादि विशेषिते तीरे शिलापट्टे चन्द्रापीडोsधिशिश्ये इति योजना । 2 पूर्ववर्णित स्वरूपकादम्बरीतो भिन्नमिवेति वाच्यम् । 3 'प्राकृतेव' इत्येव पाठः । साधारणस्त्रीव, इति तदर्थः । स्थानस्य प्राकृतमिति विशेषणं तु बाणसदृशस्य प्रतीपमेव । । पाठा० -१ दन्तिदन्ताम् २ कुमुद इव ३ धूत ४ पत्रलतादन्तुरम् दन्तपत्रलतम् ५ प्राकृतेव. कादम्बरी । [ कथायाम्इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासी वासु तासु मुहूर्तमिव स्थित्वा वक्तुमुपचक्रमे चन्द्रापीड:- 'देवि, दृष्टिमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुर्ण तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुप्रहातिरेकः । अतिसरला तवेयमपगताभिमानमधुरा च सुजनता यद॒द्भिनव सेवकज ने ऽध्ये व मनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिण देवी मन्यते । धन्यः खलु परिजनः, ते यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिंते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम्, तृणलवलघु च जीवितम् । अपनपे त्वत्प्र तिपत्तिभिरुपायनीकर्तुभागतायास्ते वयमेते शरीरमिदमेतज्जीवित मेतानीन्द्रियाणि एतेषामैन्यतरदारोपय परिग्रहेण गरीयस्त्वम्' इति । ४२४ , अथैववादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् – 'कुमार, भवतु । अतियन्त्रणया खिद्यते खलु सखी कादस्वरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचन। पृथिव्यां समुपाविशत्समुपविष्टः । चन्द्रापीडोऽपि हे कुमार, शिलातलसेवाध्यास्यतामिति मदलेखयाऽसकृद्वारंवारमनुबध्यमानोऽपि कथ्यमानोऽपि भूमिमेव वसुधामेवाभजताश्रितवान् । सर्वासु तावासी नासू पविष्टासु सत्सु मुहूर्त मिच स्थित्वा चन्द्रापीडो वक्तुं कथयितुमुपचक्रम उपक्रमं कृतवान् । किं तदित्याह - देवीति । हे देवि, दृष्टिमात्रेण प्रीते दासजने संभाषणादिकस्य जत्नप्रभृतिकस्य प्रसादस्यानुग्रहस्यावकाशोऽवगाहो नास्ति । दृष्टिमात्रसमुद्भूतप्रीत्या तावन्मम हृदयं मृतं यावदस्य प्रवेशो नास्तीत्यर्थः । एतावतोऽनुग्रहस्य किमुत भण्यते । सर्वथा प्रवेशो नास्तीत्यर्थः । न खल्विति । निपुणं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नप्यात्मनो गुणलवमवलोकयामि पश्यामि । यस्य गुणलवस्यायमनुरूपो योग्योऽनुग्रहातिरेकः प्रसादोत्कर्षः । अतिसरलाऽतिऋज्वी तवेयमपगतो दूरीभूतो योऽभिमानोऽहंकारस्तेन मधुरा मिष्टा सुजनता सौजन्यम् । अत्रार्थे हेतुं प्रदर्शयन्नाह – यदिति । यदभिनवे सेवकजनेऽपि नूतनभृत्येऽप्येवमनुरुध्यतेऽनुग्रहविषयीक्रियते । प्रायेणेति । प्रायेण बाहुल्येनोपचारेण बाह्यविनयेन हार्यं वशीकर्तुं योग्यमत एवादक्षिणमनुदारं मां देवी मन्यते जानाति । खलु निश्चयेन । स एव परिजनो धन्यः कृतपुण्यः, यस्योपरि ते तव नियन्त्रणाज्ञा स्यात् । आज्ञालक्षणो यः संविभागो विभज्य किंचिदर्पणं तस्य करणं तत्रोचिते योग्ये मृत्यजने क इवादरो बहुमानाधिक्यम् । परेति । परस्य य उपकार उपकृतिस्तस्योपकरणं साधकं शरीरम्, तृणस्यार्जुनस्य यो लवो लेशस्तद्वल्लघु च जीवितम् । अत आगतायास्ते तव त्वत्प्रतिपत्तिभिस्त्व-द्भक्तिभिरुपायनी कर्तुमुपढौकनीकर्तुमहमपत्रपे लज्जे । एते वयम् इदं शरीरम् एतज्जीवितम् एतानीन्द्रियाणि, एतेषां मध्यादन्यतरत्परिग्रहेण स्वीकारेण कृत्वा गरीयस्त्वमारोपय स्थापयेति । अन्यस्योपायनस्याभावात् । इदमेव तत्रोपायनम् । 9 > .) अथैवंवादिनोऽस्य चन्द्रापीडस्य वचनमाक्षिप्य निराकृत्य मदलेखा सस्मितमवादीदवोचत् । हे कुमार, भवतु यत्त्वयोक्तं तत्तथैवास्तु । परमतियन्त्रणयातिकथनेन खलु निश्चयेन । कादम्बरी खिद्यते खेदं प्राप्नोति । अतः किमर्थं चैवमुच्यते कथ्यते । वचनमन्तरेणापि कथनं विनैव सर्वमिदं पूर्वोक्तमनया कादम्बर्या पैरिगृहीतटिप्प० -1 एवमनुरोधः (प्रीत्युपचारः ) क्रियते । 2 शरीरस्य स्वभावत एव अन्योपयोगित्वाज्जीवितस्य लघुत्वेन च भगतां त्वां प्रति भक्तिभिः एतयोरुपायने अहं लज्जे इत्याशयः । 3 पतित्वेन मनसि स्वीकृतो भवानिति गूढं ध्वन्यते । पाठा० - १ अथ सर्वासु चासीनासु मुहूर्तमिव २ दृष्टिपातमात्र. ३ प्रायेण च ४ शरीरकम्. ५ अपि त्रपे तव प्रतिपत्तावुपायनीकर्तुम्; अत्र ये त्वत्प्रतिपत्तिभिरुपायनीकर्तुम् ६ एवमागतायाः, ७ अन्यतरम्, काद० चन्द्रापी ● प्रीतिवर्धक उपचार: ] पूर्वभागः । ४२५ , मनया परिगृहीतम्, किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते' इति । स्थित्वा च कंचित्कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोजयिनी, कियत्यध्वनि सा च कीटम्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्व कथाभि: सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीड समीपशायिनं समादिश्य परिजनं च शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्ण शयनीयमलंचकार चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामति गम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् । > अथ क्रमेण कादम्बरीदर्शनजागरखिन्नः स्वप्नुमिव तालतमालतालीकदलीकन्दलिनीं प्रेविरलकल्लोलानिलशीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरह विधुरस्य च कामिनीजनस्य निःश्वसितैरिवोष्णैम्लनिमनीयत चन्द्रिका । चन्द्रापीडविलोकनारूढमदनेव * मात्तम् । किं पुनरमुनोपचारेण फल्गुना निरर्थकेन वचसा कि वचनव्यापारेण संदेहदोलामारोप्यते । मन इति शेषः । इत्युक्त प्रकारेण कंचित्कालं स्थित्वा विलम्ब्य च कृतो विहितः अर्थात् प्रश्नस्य प्रस्तावोऽवसरो यया सैवंविधा सती शेषं समग्र पप्रच्छापृच्छत् । इतिशब्दद्योत्यमाह - कथमिति । कथं केन प्रकारेण राजा तारापीडः । देवी विलासवती कथम् । कथं आर्य : शुकनासः । कीदृशी चोज्जयिनी विशाला । सा चौजयिनीतः कियत्यध्वनि मार्गे । कीदृग्भारतं वर्ष क्षेत्रम् । रमणीयो वा मनोहरो वा मर्त्यलोको मनुष्यलोकः । एवमिति । एवंविधाभिरेवंप्रकाराभिः कथाभिर्वार्ताभिः सुचिरं बहुकालं स्थित्वावस्थानं कृत्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं परिजनं च समादिश्यादेशं दत्त्वा शयनयोग्यं यत्सौधशिखरं तदारुरोहारूढवती । तत्रेति । तत्र तस्मिन्सौधतले सितं शुभ्रं यद्दुकूलं दुगूलं तस्य वितानं चन्द्रोदयस्तस्य तलमधोभागरतत्रास्तीर्ण स्थापितं शयनीयं शय्यामलंचकारालंकृतवती । चन्द्रापीडोsपि तस्मिन्नेव शिलातले निरभिमानतां निर्गर्वतामभिरूपतां विचक्षणतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च निर्हेतुकहितकारितां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां मनोहरतां च किंपुरुषदेशस्य मनसा भावयंश्चिन्तयन्केयूरकेण संवाह्यमानौ लाल्यमानौ चरण पादौ यस्यैवंभूतः क्षणादिव क्षणमात्रेणेव क्षणदां त्रियामां क्षपितवान्क्षयं नीतवान् । इदानीं रात्रिशेषं चन्द्रास्तं सूर्योदयं च वर्णयंश्चन्द्रापीडकर्तव्यतामाह - अथेति । क्षणदाक्षयानन्तरं कादम्बर्या यत् दर्शनं अवलोकनं तेन जागरणं तेन खिन्नो रीणः स्वतुमिव शयनं कर्तुमिव तारापतिश्चन्द्रः । वेलेति । वेलाम्भसां वृद्धिस्तस्या वनराजिं कान्तारश्रेणिमवततारावतीर्णवान् । अथ वनराजिं वर्णयन्नाह तालेति । तालस्तालवृक्षः, तमालस्तापिच्छः, ताली वृक्षविशेषः, कदली रम्भा, आसां कन्दलो विद्यते यस्यां सा ताम् । प्रविरलेति । प्रविरलाः स्तोका ये कल्लोलास्तरङ्गास्तेषामनिलो वायुस्तेन शीतलां सुशीताम् । अभ्यर्णेति । अभ्यर्णस्तत्कालीनो यो विरंहो वियोगस्तेन विधुरस्य दुःखितस्य कामिनीजनस्योष्णैर्निःश्वसितैर्निःश्वासैरिव म्लानिं मलिनतां चन्द्रिका चन्द्रगोलिकांनीयत प्राप्यत । चन्द्रेति । चन्द्रापीडविलोक्नेन आरूढः प्राप्तो मनो टिप्प० – 1 धन्या बुद्धिः ! इतः किथहूरे वर्तत इति तात्पर्यम् । 2 समूहः । 3 रात्रि माझ्या कामिनोर्विच्छेदो जात इत्याशयः । पाठा० - १ प्रजागर १ अविरल. ५४ का० कादम्बरी । [ कथायाम् कुमुददलोपनीतनिशा पङ्कजेषु निपपात लक्ष्मी: । क्षणदापगमे च स्मृत्वा कामिनीकर्णोत्पलप्रेहारानुत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु गृहप्रदीपेषु, अनवरतशरक्षेपखिन्नानङ्ग नि:श्वासविभ्रमेषु वॅहत्सु लेताकुसुमपरिमलेषु प्रभातमातरिश्वसु, सुमन्दरलतागृहगहनानि च भियेव भजन्तीष्वरुणोदयोपविनीषु तारकासु, क्रमेण च समुद्रते चक्रवाक हृदयनिवासलआनुरागमिव लोहितं मण्डलमुद्रहति सवितरि, शिलातलादुत्थाय चन्द्रापीड: प्रक्षालितमुख• कमलः कृतसंध्यानमस्कृतिर्गृहीतताम्बूल: 'केयूरक, विलोकय देवी कादम्बरी अबुद्धा न वा, क वा तिष्ठति' इत्यवोचत् । गतप्रतिनिवृत्तेन च तेन 'देव, मन्दरप्रासादस्याधस्तादङ्गणसौधवेदिकायां महाश्वेतया सहा'वैतिष्ठते' इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च धवलभैस्मललाटिकाभिरक्षमाल/परिवर्तनप्रचलकरतलाभिः पाशुपतव्रतधारिणीभिर्घातुरागारुणाम्बराभिश्च परि४२६ यस्या एवंभूते॒व । आरूढमदनतापायास्तु शीतलस्थानावस्थितिः प्रजागरश्च स्यादित्याशयेनाह - कुमुदेति । कुमुददलानां कैरवपत्राणां उदरे मध्ये नीता परिकलिता निशा रात्रिर्यया सा । तेषां विकसितत्वात् । तदनन्तरमेव पङ्कजेषु कमलेषु लक्ष्मीर्निपपात । क्षणदेति । क्षणदाया निशाया अपगमे कामिनीनां रते यान्कर्णोत्पलप्रहारान् अथ वान्यानपि क्रीडाविलासान्स्मृत्वा स्मरणं कृत्वा पुनद्रष्टुमुत्कण्ठितेष्विवात एवोत्कण्ठापरिपूर्त्या क्षामतां कृशतां व्रजत्सु गच्छत्सु तत एव पाण्डतनुषु गृहदीपकेषु सत्सु अनवरतेति । अनवरतं निरन्तरं यः शरक्षेपो बाणप्रक्षेपस्तेन खिन्नो रीणो योऽनङ्गः कंदर्पस्तस्य निःश्वासास्तेषां विभ्रंमेषु, लता वल्लयस्तासां कुसुमानां पुष्पाणां परिमलो येष्वेवंविधेषु प्रभातमातरिश्वसु प्रत्यूषसमीरेषु वहत्सु । अरुणोदयेन उपलव, उपद्रवो विद्यते यासामेवंविधासु तारकासु तारासु भियेव भीत्येव सुमन्दरो मेरुस्तस्य लता वीरुधरता इव ( एव ) गृहस्तेषां गहनान्यरण्यानि च भजन्तीष्वाश्रयन्तीषु । क्रमेण परिपाट्या चक्रवाको रथाङ्गाह्वयस्तस्य हृदयं तेन सह निवासस्तत्र लग्नोऽनुरागो यस्यैवंविधमिव लोहितं मण्डलं बिम्बमुहति धारयति सवितरि सूर्ये च समुद्गत उदिते सति । शिलातलादुत्थाय प्रक्षालितं मुखकमलं येन सः, कृता संध्याया नमस्कृतिर्येन सः, गृहीतं भक्षितं ताम्बूलं येन सः, हे केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठतीत्यवोचत् । गतप्रतिनिवृत्तेन च तेन केयूरकेण हे देव, मन्दरप्रासादस्याधस्तादङ्गणं तत्र वत्सौधं तस्य वेदिकायां महाश्वेतया सहावतिष्ठते इत्यावेदिते कथिते सति गन्धर्बराजतनयामालोकयितुं वीक्षितुमाजगाम । तदनन्तरं महाश्वेतां कादम्बरीं च ददर्शावलोकयामास । अथ महाश्वेतां विशिनष्टि - साक्षादिति । साक्षान्मन्त्र देवताभिरिव परित्राजिकाभिस्तापसीभिरुपास्यमानाम् । ता विशिष्टि - धवलेति । धवलं शुभ्रं यद्भस्म भूतिस्तस्य ललाटिका यासां ताभिः । अक्षेति । अक्षमाला जपमालास्तासां परिवर्तनं तेन प्रचलानि कम्प्राणि करतलानि यासां ताभिः । पशुपतेरीश्वरस्येदं पाशुपतं यद्रतं नियम विशेषस्तद्धारयन्तीत्येवंशीलास्ताभिर्धातुरागेण गैरिकेणारुणान्यम्बराणि यासां ताभिः । परिणता ये तालफलास्तेषां वल्कलानि तान्येव लोहितानि रक्तानि वस्त्राणि यासां C टिप्प० -1 रतार्थमपनीयमाने वस्त्रे प्रदीपोपशमार्थ कामिन्यः कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा पुनस्तारशप्रहारमाध्यर्थमुस्कण्ठा प्रदीपानामित्याशयः । 2 धिङ् मन्दभाग्यम् । कंदर्पनिःश्वासानां विभ्रमा इव विभ्रमाः ( विलासाः ) येषां तादृशेषु । कामनिःश्वासायितेष्विति यावत् । 3 परिणतं यत्तालफलं तस्य यद्द्वल्कलं ( त्वक् ) तहत् लोहितानि । " पाठा०-१ • स्मृतकामिनी कर्णोत्पलप्रहारेषु. २ प्रहाराणाम् ३ वासगृह. ४ भ्रमत्सु. ५ तरुलता. ६ आमोदिषु. ७ मन्दरगिरिलतां. ८ समुद्गतचक्रवाक. ९ आलोहितम्. १० अवतिष्ठति ११ भस्मकृत्. १२ मालिका. १३ चारिणीभिः० चन्द्रापीडस्य कादम्बर्युपगमनम् । पूर्वभागः । . ब्राजिकाभिः परिणतना लफलवल्कललोहितवस्त्राभित्र रक्तपव्रतवाहिनीभिः सितवसननिबिडनिबद्धस्तनपरिकराभिश्च श्वेतपटव्यजन। भर्जट जिनवैलालापाढधारिणीभिर्वर्णिचिह्नाभि तापसीभिः, साक्षादिव देवताभिः पठन्तीभिर्भर्गवतरूयम्बकस्याम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्यार्य विलोकितेश्वरस्याईतो विरिवस्य पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपु राभ्याताश्च सादर नमस्कारैरा भाषणैरभ्युत्थानै सन्नवेत्र । सनदानैश्च गन्धर्व राजबान्धववृद्धाः संमानयन्तीं महाश्वेताम्, पृष्ठतञ्च समुपविष्टेन किंनर मिथुनेन मँधुकरमधुराभ्यां वंशाभ्यां दत्ते ताने कलगिरा गायन्त्या नारददुहित्र्या पठ्याने सर्वमङ्गलमहीयसि महाभारते दत्तावघानां पुँरो धृते च 'दर्पणे ताम्बूलरागबद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्ना सिक्तमुत्सृष्टमधू च्छिष्टपट्टपाण्डुरमधरं विलोकयन्तीं शैवलतृष्णया कर्णपूरशिरीषप्रेषितोत्तानवि१ ४२७ } ताभिः । रक्तेति । रक्तो यः पटस्तस्य यद्रतं तद्वाहिनी भिस्तन्निर्वाहकारिणीभिः । अथ तापसीं विशिष्टि। सितेति । सितवसनेन श्वेतवस्त्रेण निबिडं यथा स्यात्तथा निबद्धः स्तनपरिकरः कुचाभोगो याभिः । श्वेतपस्य व्यजनानि तालवृन्तानि यासां ताभिः । जटेति । जटा: सटाः, अजिनं मृगचर्म, वल्कलं चोचम्, आषाढ़: पालाशः, एतान्धारयन्तीत्येवंशीलास्ताभिः । वर्णां ब्रह्मचारी तस्य चिह्नं यासां ताभिः । किं कुर्वन्तीभिरेताभिः । पठन्तीभिरुच्चारयन्तीभिः । काः । भगवतत्र्यम्बकस्येश्वरस्य, अम्बिकाया गौर्याः कार्तिकेयस्य स्कन्दस्य विश्रवणस्य विश्रवसः, कृष्ण॑स्य जिनस्य, आर्यविलोकितेश्वरस्य बौद्धस्य अर्हतस्तीर्थंकरस्य, विरिञ्चस्य ब्रह्मणः पुण्याः पवित्राः स्तुतीर्नुतीः । पुनः किं कुर्वन्तीम् । अन्तःपुरेऽभ्यर्हिताः श्रेष्ठा गन्धर्वराजस्य बान्धवाः स्वजनास्तेषां वृद्धाः स्थविराः सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैराभाषणैर्जल्पनैरभ्युत्थानैरुत्तिष्ठनैराउन्ने समीपे नेत्रासनस्यासन्धा दानैश्च कृत्वा संमानयन्तीं सत्कारं कुर्वन्तीं महाश्वेताम् । पुनः कीदृशीं कादम्बरीम् । पृष्ठतः समुपविष्टेन पश्चाद्भागस्थितेन किंनरमिथुनेन किंपुरुषयुग्मेन मधुकरवन्मधुराभ्यां वंशाभ्यामुपाङ्गाभ्यां ताने स्वरे दत्ते सति । नारदो देवब्रह्मा तस्य दुहित्र्या पुत्र्या मद्राभिधानया कलगिरा मनोज्ञवाण्या गायन्त्या गानं कुर्नन्त्या । पठ्यमाने गानद्वारा कथ्यमाने च सर्वमङ्गलैः समग्रश्रेयोभिर्महीयसि महाभारते दत्तावधानां न्यस्तचित्ताम् । पुनः किं कुर्वन्तीम् । पुरो धृतेऽग्रे स्थापिते दर्पणेऽधरं दन्तच्छदं विलोकयन्तीं पश्यन्तीम् । अथाधरं विशेषयन्नाह -- ताम्बूलेति । ताम्बूलं नागवल्लीदलं तस्य रागस्तेन बद्धा या कृष्णिा श्यामता तयान्धकारितमन्धकारवदाचरितमभ्यन्तरं मध्यभागो यस्य तत् । दशनेति । दशनानां दन्तानां या ज्योत्स्ना चन्द्रिका तया सिक्तं सिञ्चितम् । उत्सृष्टेति । उत्सृष्टमुज्झितं मधु क्षौद्रं येनैवंविधो य उच्छिष्टपट्टो मदनैपिण्डस्तद्वत्पाण्डुरं श्वेतरक्तम् । बद्धेति । बद्धमण्डलं यथा स्यात्तथा भ्रमता भ्रमणं कुर्वता भवनकलहंसेन गृहकलहंसेन प्रभातकालीनो यः शशी चन्द्रस्तेनेव क्रियमाणा विधीयमाना गमनसमये प्रणामयुक्ता प्रदक्षिणा यस्याः सा ताम् । कलहंसान्विशेषयन्नाह --शैवलेति । शैवलं शैवालं तस्य तृष्णया गर्धेन कर्णपूरीकृतं यच्छिरीषपुष्पं तस्मिन्प्रेषित उत्तान ऊर्ध्वमुखे mapa टिप्प० - 1 बाणनिर्मिती कृष्णपदस्य ( वासुदेवार्थस्य ) जिनार्थकरणं बुद्धिमत्वमेव टीकाकर्तुः । 2 धन्या बुद्धिः ! उत्थानैरियेव भवति, न उत्तिष्ठलैरिति बोध्यं छात्रैः । एवंविधो टीकां कर्तुं प्रगल्भत इत्यहो साहसम् । 3 वेणुभ्याम्, 'बंसी' इति भाषा । 4 'मोम' इात ख्यातस्य पिण्डः । 5 अशुद्धमिदम् । भवनकलहंसेन क्रियमाणाः गमनं प्रणामः प्रदक्षि गाश्च यस्यास्ताम् । हंसः समीपे गमनं प्रणामं प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः । 6 कलहंसमित्येकवचनमेव योग्यम् । पाठा० -१ मौजीवल्कल. २ शौद्धोदने. ३ विष्टरश्रवसो जिनस्यार्य ४ अर्हतो वैश्वदेवस्य मार्तण्डस्य ५ दर्शनागतगन्धर्व. ६ मिथुनकेन. ७ मधुराभ्याम् ८ स्थानके; ताले ९ नारददुहित्रा च सावित्र्या. १० पुरोविधृते परिजनेन, ११ मणिदर्पणे. १२ उत्सृष्ट. १३ पाटलम्. ४२८ कादम्बरी । [ कथायाम्तु लोचनेन बद्धमण्डलं भ्रमता भवनकलहंसेन प्रभातशशिनेव क्रियमाणगमनप्रणाम प्रदक्षिणां कादम्बरी च समुपसृत्य कृतनमस्कारस्तस्यामेव वेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कंचित्कालं महाश्वेताया बदनं विलोक्य स्कुरितक्रपोलोरं मन्दस्मितमकरोत् । असौ तु ताव तैव विदिताभिप्राया कादम्बरीमब्रवीत् - 'सखि, भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैराकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । पृष्ठतो दुःखम विदितवृत्तान्तं राजचक्रमास्ते । अपि च युवयोर्दूर स्थितयोरपि स्थितेयमिदानीं कमलिनीकमलयान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातु भवती' इति । , अथ कादम्बरी 'सखि, महाश्वेते, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य व इवान्तरात्मा । क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय 'प्रापयत कुमार स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेतां ततः कादम्बरी तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाण: 'देवि, किं ब्रवीमि । बहुभाषिणे न श्रद्दधाति लोकः । स्पर्तव्योSस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तः पुरान्निर्जगाम । कादम्बरीवर्जोऽशेषः कन्यकात्रिलोचने नेत्रे यस्य स तेनैवंविधां कादम्बरीं च । समुपसृत्य निकटे गत्वा कृतो नमस्कारो येनैवंभूतो यस्यां सा समुपविष्टारित तस्यामेव वेदिकायां विन्यस्तं स्थापितमासनं विष्टरं भेजेऽभजत् । तत्र कंचित्कालं स्थित्वा स्थितिं विधाय महाश्वेताया वदनं विलोक्य निरीक्ष्य स्फुरितं चलितं कपोलयोम्दरं मध्यप्रदेशो यस्मिन्नेतादृशं मन्दस्मितमीषद्धास्यमकरोत् । असौ महाश्वेता तु तावतैव स्मितमात्रेणैव विदितो ज्ञातोऽभिप्रायो यया सैवविधा सती कादम्बरीमित्यब्रवीत् । इतिशब्दद्योत्यमाह - सखीति । हे सखि आलि, भवत्या गुणैः कारण भूतैश्चन्द्रापीडश्चन्द्रमयूखैः शशिकिरणैश्चन्द्रकान्त इव चन्द्रोपल इवाकृतो वक्तुं कथयितुं न शक्नोति न समर्थो भवति । खलु निश्चयेन कुमारो जिगमिषति विचलिष्यति । पृष्ठतो मद्गमनानन्तरमविदितवृत्तान्तमज्ञातोदन्त मत एव दुःखं दुःखिंतराजचक्रं नृपसमूह आस्ते वर्तते । अपि चेति युक्त्यन्तरे । युवयोः कादम्बरीचन्द्रापीडयोर्दूरस्थितयोरपीदानीं सांगतं कमलिनीकमलबान्धवयोरिव पद्मिनीसूर्ययोरिव कुमुदिनी कुमुदनाथयो कैरविणीचन्द्रमसोरिन प्रीतिः स्नेह आ प्रलयात्प्रलयं मर्यादीकृत्य आकल्पान्तादियं स्थिता । अतो हेतोर्भवत्यभ्यनुजानातु । गमनाज्ञां ददात्वित्यर्थः । अथेति । एतच्छ्रवणानन्तरं कादम्बरी गन्धर्वकुमारानाहूयाह्वानं कृत्वेत्यादिदेशेत्यादिष्टवती । इतिशब्दवाच्यमाह - कुमारेति । कुमारं चन्द्रापीडं खां भूमिं प्रापयत आपयत यूयम् । किं कृत्वा । इत्यभिधायेत्यु क्त्वा । इतिशब्दार्थमाह - हे सखि महाश्वेते, अयं मल्लक्षणः सपरिवारो जनः कुमारस्य स्वान्तरात्मेव स्वाधीनः खवशः । अतः कोऽत्रानुरोधः संकोचः । चन्द्रापीडोऽप्युत्थायोत्थानं कृत्वा प्रथममादौ महाश्वेतां प्रणम्य नमस्कृत्य ततस्तदनन्तरं कादम्बरी प्रणम्य नमस्कृत्य तस्याः कादम्बर्याः प्रेमस्निग्धेन स्नेहचिक्कणेन चक्षुषा नेत्रेण मनसा च गृह्यमाण इत्यभिधायोक्त्वा कन्यकान्तः पुरान्निर्जगाम निर्गतो बभूव । इतिशब्दार्थमाह देवीति । हे देवि कादम्बर; किं ब्रवीमि किं कथयामि । 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति # न्यायात् । अत्र हेतुमाह -- यतो बहु भषिणे वाचालाय लोको जनो न श्रद्दधाति न विवसिति । अत उपसंहरतिपरीति । परिजनकथासु निजसेवकवार्तासु स्मर्तव्यः स्मरणीयोऽस्मि । अहमिति शेषः । तदन्तरं कादम्बरीटिप्प०-1 गन्तुमिच्छति । 2 राजचक्रं दुःखमास्ते दुःखाकुलं यथा स्यात्तथा वर्तते । 3 वशीक्रियमाण इत्यर्थः । पाठा० -१ सुधावेदिकायाम् २ अनुजानातु, ३ सखि स्वाधीन: ४ वर्जमशेषकन्यकाजनः; वर्जमशेषस्तु कन्याजनः . चन्द्रापीडस् गृहप्रस्थानम् ] पूर्वभागः । ४२९ Coope जनो गुणगौरवाष्टः परवश इष तं ब्रजन्तमा बहिस्तोरणादनुवब्राण । निवृत्ते च कन्यकाजने केयूरकेणोपनीतं वाजिनमारुह्य गन्धर्वकुमार कैस्तैरनुगम्यमानो हेमकूटात्प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, बहिरपि सैव सर्वाशानिबन्धनमासीत् । तथा हितन्मयेन मानसेनासह्यविरहदुःखानुशयलग्नामिव पृष्ठतः कृतमार्गगमननिरोधामिव पुरस्तात्, वियोगाकुलहृदयोत्कलि का वेशात्क्षिप्तामिव नेभसि सम्यगालोकयितुं वदनम्, विरहातुरमानसामियाबस्थितामुरःस्थले, तामेव ददर्श क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे संनिविष्टमिन्द्रायुखुरपुटानुसारेणैवागतमात्मस्कन्धावारमपश्यत् । 9 । निवर्तिताशेषगन्धर्वकुमार सानन्देन सकुतूहलेन सविस्मयेन व स्कन्धावारवर्तिमा जनेन प्रणम्यमानः स्वभवनं चिवेश । संमानिताशेषराजलोकश्च वैशम्पायनेन पत्रलेखया च सह ' एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः' इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादम्बरीरूपदर्शनविद्विष्टेव नास्य पुरे प्रीतिमकरोद्राजलक्ष्मीः । तामेव च वर्जोऽशेषः समग्रः कन्यकाजनो गुणगौरवेणाकृष्ट आकर्षितः परवश इव परायत्त इव तं चन्द्रापीडं व्रजन्तं गच्छन्तमा बहिस्तोरणाद्वहिर्द्वारं मर्यादीकृत्यानुवव्राज पृष्ठतो जगाम । तदनन्तरं निवृत्ते च पश्चाद्वलिते च कन्यकाजने केयूरकेणोपनीतमानीतं वाजिनमारुह्यारोहणं कृत्वा तैः पूर्वोक्तर्गन्धर्म कुमारकैरनु गम्यमानो हेम कूटाद्गन्तुं प्रवृत्तः । गच्छतो व्रजतोऽस्य चन्द्रापीडस्य चित्ररथतनया कादम्बरी न केवलमन्तर्बहिरपि सैव कादम्बरी सर्वाशा निबन्धनं समग्राभिलाषाणां कारणमासीद्वभूव । एतदेव दर्शयति- तथा हीति । तन्मयेन कादम्बरीमयेन मानसेन चित्तेन कृत्वासह्यं न सोढुं शक्यं यद्विरहदुःखं तस्यानुशयः संतापस्तेन पृष्ठतो लनामिव, पुरस्तादग्रे कृतो मार्गगमनस्य निरोधो यया सैवंविधामिव वियोगेन विरहेणाकुलं यद्धृदयं चित्तं तस्मिन्नुत्कलिका हृल्लेखस्तस्या आवेशात्प्रवेशात्सम्यग्वदनमालोकयितुं वीक्षितुं नभसि व्योनि क्षिप्तामिव पर्यस्तामिव । विरहेण वियोगेनातुरं पीडयितुं (पीडितम् ) मानसं यस्या एवंविधामिवोरःस्थलेऽवस्थिताम् । तामेव कादम्बरीमेव ददर्श क्षांचक्रे । क्रमेण परिपाट्या च महाश्वेताश्रमं प्राप्यासाद्याच्छोदसरस्तीरे संनिविष्टं स्थापितमिन्द्रायुधखुरपुटानुसारेणैवागतं प्राप्तमात्मनः स्वस्य स्कन्धावारं सैन्यनिवेशमपश्यदैक्षत । निवर्तितेति । निवर्तिताः पश्चाद्वलिता अशेषाः समग्रा गन्धर्वकुमारा येनैवंभूतश्च । सानन्देन सप्रमोदेन । सैव प्रभुदर्शनादिति भावः । सकुतूहलेन कौतुकसहितेन । अत्यद्भुतगन्धर्वजनदर्शनात् । सविस्मयेन साश्चर्येण । तादृशमुक्ताप्रालम्बदर्शनात् । एवं विधेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानो नमस्क्रियमाणः स्वभवनं स्वगृहं विवेश प्रवेशं कृतवान् । संमानितः संस्तुतोऽशेषः समग्रो राजलोको येनैवंभूतश्च वैशम्पायनेन पत्रलेखया च सहैवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, इत्यनयैव कथया वार्तया प्रायो बाहुल्येन दिवसं वासरमनैषीत् । परिपूर्णांचकारेत्यर्थः । कादम्बर्या रूपदर्शनं तेन विद्विष्टेव विद्वेषं प्राप्तेव राजलक्ष्मीर्नास्य पुरेऽस्य टिप्प० - 1 टीकाकारः सर्व स्वारस्यं अंशयामास । गमनस्य पश्चात् यद्वियोगदुःखं तस्यानुशयास्पृष्ठतो लग्नाम् [इति पृष्ठनिरोधः पृथक, तन्मयेन मानसेन कृताग्रगमन निशेधाम् [इति संमुखतो निरोधः पृथक्], तन्मयमानसेन उत्कण्ठावेशात नभसि क्षिप्तामिव [इति उपरितोनिरोधः पृथक् ], आत्मनः (कादम्बर्या::) मुखं सम्यग् दर्शयितुं आत्मनो वक्षसिसिताम् [पृथक् ] । 2 धन्यधन्यष्टीकाकारः, ब्राणशब्द शय्यायां 'पुर' शब्दस्य शरीरमर्थ: स्यात् ? अस्तु 'पुरेव' इत्येव पाठः । राजलक्ष्मी पुरेव पूर्वमिव नास्य प्रीतिमकरोत्, कादम्बरीद्वेषात् । एतेन राजलक्ष्म्याः सपत्नी भावसूचनेन चन्द्रापीडस्य प्रभात्रातिशयो ध्वन्यते । पाठा०० – १ अधिरुह्य. २ आवेशोत्क्षिप्ताम् ; आवेशविक्षिप्ताम् ३ तामेव मृगलोचनाम् ४ संभावितप्रत्यक्षीकृतराजलोकः, संमानितराजलोक: ५ द्विष्टयेव. कादम्बरी । [ कथायाम् धवलेक्षणामाबद्धरणरणकेन चेतसा चिन्तयतो जायत एवास्य जगाम रात्रिः । अपरेच समु त्थिते भगवति रवावास्थानमण्डपगतस्तद्गतेनैव मनमा सहसैव प्रतीहारेण सह संप्रे विशन्तं केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् 'एह्येहि' इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्भुजाभ्यां प्रधावितः पैथि तमा लिलिङ्ग गाढम् । उपावेशयच्चैनमात्मनः समीप एवं । पप्रच्छ च स्मितंसुधाधवलीकृताक्षरं क्षरत्प्रीतिद्रवमयमिव वचनमादृतः - 'केयूरक, कथय कुशलिनी देवी ससखीजना सपरिजना कादम्बरी भगवती महाश्वेता च ?? इति । असौ तु तेन राजसूनो: प्रीतिप्रकर्षजन्मना स्मितेनैव स्त्रपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरम वोचत्- 'अद्य कुशलिनी, यामेवं देवः पृच्छति।' इत्यभिधायापनीयाई वस्त्रावगुण्ठितं विससूत्रसंयतमुखमाई चन्दनपङ्कन्यस्तबालमृणालवलयमुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा-मरकतह रिन्ति व्यपनीतत्वचि चारुमञ्जरीभाजि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबद्दल ४३० , शरीरे । 'घनो बन्धः पुरं पिण्ड : ' इति कोशः । प्रीतिमकरोत् । तामेव धवलेक्षणां कादम्बरीमाबद्धरणरणकेन निबद्धौत्कण्ठ्येन चेतसा चिन्तयतो ध्यायतो जाग्रत एव अस्य चन्द्रापीडस्य रात्रिर्जगाम । अपरेधुश्चेति । अपर स्मिन्दिने भगवति रवौ समुत्थिते सति तद्गतेनैव कादम्बरीगतेनैव मनसास्थानमण्डपगतः सहसैवातर्कित एव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्शाद्राक्षीत् । दूरादेवेति । दूरादेव दर्शनमात्रादेव क्षितितलं स्पृशती त्येवंशीलेन मौलिना मस्तकेन कृतं पादपतनं येन तम्, एह्येहीत्युक्त्वेत्यभिधाय । इदं प्रीत्यतिशयनिवेदकम् । प्रथममादावपाङ्गविसर्पिणा नेत्रप्रान्तचारिणा चक्षुषा नेत्रेण, ततस्तदनन्तरं हृदयेन वान्तेन, ततस्तदनन्तरं रोमोगमेन रोमाञ्चोद्भवेन, ततः पश्चाद्भुजाभ्यां बाहुभ्यां प्रधावित उच्चलितः प्रथितं विख्यातं गाढमत्यर्थमालिलिङ्गोपगूहितवान् । एनं केयूरकं आत्मनः समीप एव आत्मीयासनाभ्यर्ण एवोपावेशयदस्थापयच्च । पुनः स्मितसुधाधवलीकृतान्यक्षराणि यस्मिंस्तत्क्षरत्सवद्यः प्रीतिद्रवस्तन्मयमिव तन्निर्मितमिवैतादृशं वचनमादृत आदरवान्पप्रच्छ । प्रश्नं चकारेत्यर्थः । किं तदियाह -- केयूरकेति । हे केयूरक, कथय ब्रूहि । शालिनी क्षेमवती देवी ससखीजना सपरिजना कादम्बरी वर्तते । तथा महाश्वेता भगवती च । असौ त्विति । असौ केयूरकस्तु तेनानिर्वचनीयेन राजसूनोश्चन्द्रापीडस्य ग्रीव्याः प्रकर्षस्तस्माजन्मोत्पत्तिर्यस्यैवंभूतेन स्मितेनैव स्त्रपित इव स्नानं कारित इव, अनुलिप्त इव विलित इव सद्य एव तत्कालमेवापगतोऽध्वखेदः पथ (थि )श्रमो यस्य स प्रणम्य नमस्कृत्यादृततरमत्यादरपूर्वकमवोचदब्रवीत् । अद्य कुशलिनी सा वर्तते, यामेवं देवः पृच्छतीयभिधायेत्युक्त्वापनीय दूरीकृत्यार्द्रवस्त्रेण स्तिमिताशुकेनावगुण्ठितमाच्छादितं बिससूत्रेण मृणालतन्तुना संयतं बद्धं मुखं यस्य तत् । आर्द्रचन्दनपको न्यस्तो यस्मिन्नेतादृशं वालमृणालवलयं नवीनतन्तुलकटकं तस्य मुद्रा यस्मिन्नेतादृशं नलिनीपत्रपुट दर्शय दीक्षण विषयमकारयत् । उद्धाट्योन्मुद्र्य तत्र तस्मिन्कादम्बरीप्रहितानि राजपुत्रीप्रेषितान्यभिज्ञानानि चिह्नान्यदर्श दवलोकनमकारयत् । तदेव दोयति – तद्यथेति । मरकतमश्मगर्भ तद्वद्धरिन्ति नीलानि व्यपनीतत्वञ्च दूरीकृतत्वग्भागानि चावी या मञ्जरी तद्भाजि क्षीरीणि क्षीरयुक्तान्ये तादृशानि पूगीफलानि क्रमुकफलानि । तथा शुककामिनी कीरपत्नी तस्याः कपोलो तद्वत्पाण्डूनि श्वेतानि ताम्बूटिप्प० - 1 आई चन्दनपङ्के न्यस्ता बाणमृणालवलयस्य मुद्रा ( चिह्नम्, भन्यो नोद्घाटयितुं शक्नुयादिति ) यस्मिन् तदित्यर्थः । पाठा० •१ सा. २ प्रविशन्तम् ३ निभृतम् ; प्रसृतम् ४ तमालिलिङ्ग ५ समुपावेशयत् ६ वस्त्रकर्पट. : 22 201 CHAN N कादम्बर्याः संवादप्रेषणम् ] पूर्वभागः । ४३१ मृगमदामोदमनोहरं च मलयविलेपनम । अब्रवीच्च – 'चूडामणिचुम्बिना कोमलाङ्गुलि विर्निर्गत लोहितांशुजालेनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशल वचसा, पर्यस्तशिखण्ड माणिक्यज्योत्स्त्रास्त्रपितललाटेन च नमस्कारेण मदलेखा, क्षितितल घटित सीमन्तम करिकाकोटिकोणेन सकलकन्यालोकञ्च, सचरणरजः स्पर्शेन च पादप्रणामेन तमालिका । संदिष्टं च तव महाश्वेतया - 'धन्या खलु ते येषां न गतोऽसि चक्षुषोरंविषयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव वृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायामृतोत्पत्तिवासरायेवातीत दिवसाय त्वया वियुक्तं निवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च बलवदस्वस्थशरीरा कादम्बरी । स्मरति च स्पेराननं स्मरकल्पं त्वाम् । अतः पुनरालीदलानि नागवल्लीपत्राणि । तथा हरस्येश्वरस्य यश्चन्द्रखण्डस्तद्वत्स्थूलं शकलं खण्डं यस्यैतादृशं कर्पूर हिमवालुका । तथातिबहलोऽतिनिबिडो. यो मृगमदामोद: कस्तूरीपरिमलस्तेन मनोहरं रुचिरं यन्मलयजविलेपनं चन्दनाङ्गरागः । एतद्दर्शनानन्तरमब्रवीदवोचत् । चकारः समुच्चयार्थः । कादम्बरी देव्यञ्जलिना बद्धपाणिपुटेन देवं भगवन्तमर्चयति पूजयति । अथाञ्जलिं विशिष्टि - चूडेति । चूडामणिः शिरोमणिस्त चुम्बिना स्पर्शा कोमलाङ्गुलिभ्यो मृदुकरशाखाभ्यो विनिर्गमो यस्यैवंभूतं लोहितं रक्तमंशुजालं किरणसमूहो यस्मिन्स तेन । महाश्वेता च सकण्ठग्रहेण निगरणसहितेन कुशलवचसा मङ्गलवाक्येन देवमर्चयतीत्यस्य सर्वत्र संबन्धः । तथा मदलेखा नमस्कारेण प्रणामेन । कीदृशेन । पर्यस्तति । पर्यस्तं पतितं यच्छिखण्डमाणिक्यं शिखारलं तस्य ज्योत्स्ना कान्तिस्तया स्त्रपितं क्षालितं ललाटमलिकं यस्मिन्स तेन । सकलकन्यालोकश्च क्षितितले घटितो लग्नः सीमन्तः केशवेशवर्त्म तस्य मकरिकाभरणविशेषस्तस्याः कोटेरग्रभागस्य कोणोऽश्रिर्यस्मिन्नेवविधेन चरणरजःस्पर्शेन सहवर्तमानेन पादप्रणामेन तमालिका । तथा तव महाश्वेतया संदिष्टं कथितं वर्तते । तदेव दर्शयति धन्या इति । खलु निश्चयेन । ते धन्या जनाः यत्तदोर्नित्याभिसंबन्धादाह - येषामिति । येषां नृणां चक्षुषोर्नेत्रयोरविषयमगोचरं न गतोऽसि । तथा नाम भवतः समक्षं तत्प्रत्यक्षं ते तव गुणा औदार्यादयस्तुहिनं हिमं तद्वच्छीतलाः सुशीताश्चन्द्रमया इव विरहे त्वद्वियोगे दिवस्वन्मया इव दाहजनकत्वात्सूर्यमया इव वृत्ताः संपन्नाः । एतेन विरहाधिक्यं सूचितम् । खलु निश्चयेन जनास्तन्नगरनिवासिनो लोकाः कथमपि महता कष्टेन दैवेन भाग्येनोपपादिताय विहिताया मृतोत्पत्तिवासरायेव । यद्दिनेऽमृतं समुत्पन्न समुद्राद्वहिर्निर्गतं तस्मिन्दिने त्रिभुवन आनन्दः समभूत् । अतोऽमृतोत्पत्तिवासरोपमा । अतीतदिवसाय पूर्वं यद्दिने त्वया सह संबन्धः समभूत्तद्वासराय स्पृहयन्ति वाञ्छन्ति । त्वया वियुक्तं विरहितं, निवृत्तो दूरीभूतो यो महोत्सवः क्षणस्तेनालसमिवालस्योपेतमिव गन्धर्वराजनगरं वर्तते समस्ति । कृत इति । कृतो विहितः सकलवस्तुनः परित्यागो ययैवंविधां मां महाश्वेतां च त्वं जानासि, तथाप्यकारणेनानिमित्तेन पक्षपातिनं साहाय्यकारिणं भवन्तं त्वां द्रष्टुं वीक्षितुमनिच्छन्त्या अप्यवाञ्छन्त्या अपि मे मम हृदयं बलादिव हठादिवेच्छति स्पृहयति । अपित हेत्वन्तरे । बलवदतिशयेनास्वस्थं पीडायुक्तं शरीरं देहो यस्याः सैवंविधा कादम्बरी स्पेराननं विनिद्रमुखं टिप्प० – 1 प्रमादोयं टीकाकर्तुः । येषां नेत्रयोर्गोचरं न गतोसि त एव धन्याः, येषां गतोसि ते तु ता: वियोगेन तथ्यन्त इत्यर्थः । पाठा० -१ विवरविनिर्गत २ विषयम् ३ संवृत्ता:. ४ विनिवृत्त ० ५ महोत्सवानन्दम्. p कादम्बरी । [ कथायाम्गमनगौरवेणाईसीमां गुणवदभिमानिनीं कर्तुम् । उदारजनादरो हि बहुमानमारोपयत्यवश्यम् । सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण भवरसुजनतेव जनयत्यनुचितसंदेशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हीरः' इत्युत्तरीय पटान्तसंयतं सूक्ष्मसूत्रविवरनिःसृतैरंशुसंतानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् । १ अथ चन्द्रापीड: 'महाश्वेताचरणाराधनतपः फलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्व शिरसि कृत्वा स्वयमेव जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव रसतामुपनीतेन, हृदयेनेव द्रुतेन, गुणगणेनेव विस्यैन्दितेन, स्पर्शयता हादिना सुरक्षिणा च विलेपनेन विलिय तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलध मुहूर्तादिवोत्थाय वामबाहुना स्कन्ध देशेऽर्वेलम्थ्य केयूरकमूर्ध्वस्थित एव कृतयथाक्रियमाणसंमानमुदितं प्रधानराजलोकं विसृज्य शनैः ४३२ स्मरकल्पं कंदर्पतुल्यं त्वां स्मरति गोचरीकरोति अतो हेतोः पुनर्द्वितीयवारं यदागमनगौरवं तेन कृत्वेमा कादम्बरी गुणवत्स्वभिमानो विद्यते यस्या एवंविधां कर्तुमर्हसि योग्यो भवसि । हि निश्चितम् । उदारजनेघ्वादरोऽवश्यं बहुमानं सत्कारमारोपयति । इयमस्मद्विधजनपरिचयजनिता या कदर्थना संकोचलक्षणा सा च कुमारेण सोढव्या सहनीया । संदेशानौचित्यदोषं परिहरन्नाह - भवदिति । भवतस्तव सुजनतैव सज्जनतैवानुचितोऽयोग्यो यः संदेशस्तत्र प्रागल्भ्यं पाण्डित्यं जनयति निष्पादयति । एष देवस्य शयनीये शय्यायां विस्मृतो· विस्मरणं प्राप्तः शेषाभिधानो हार इत्युत्तरीयपटः संव्यानपटस्तस्यान्तेन प्रान्ताञ्चलेन संयत बद्धं सूक्ष्म यत्सूत्रं तेषां विवराणि रोकाणि तेभ्यो निःसृतैर्विनिर्गतैरंशुसंतानैः किरणसमूहैः संसूच्यमानमभिव्यज्यमानं चामरग्राहिण्याः करे विमुच्य समर्पितवान्प्रदत्तवान् । अथेति । हारप्रदानानन्तरं चन्द्रापीडस्तत्पूर्व प्रतिपादितं सर्वं शिरसि कृत्वा मस्तक आरोग्य स्वयमेवात्मनैव जग्राह गृहीतवान् । इतिशब्दार्थमाह - महाश्वेतेति । इदं महाश्वेतायाश्चरणयोराराधनं सेवनं तल्लक्षणं यतपस्तस्य फलं तस्माद्धेतोरेवममुना प्रकारेण परिजनेऽपि सत्यप्यनुस्मरण: दिकमतिमहान्तं प्रसादभारमारोपयति देवी कादम्बरी । इत्युक्त्वेत्यभिधाय तत्पूर्वोक्त शिरसि कृत्वा मस्तक आरोग्य जग्राह गृहीतवान् । तेनेति । तेनानिर्वचनीयस्वरूपेण स्पर्शवता ह्रादिना प्रमोदकारिणा सुरभिणा सुगन्धेन विलंपनेन विलिप्य कण्ठे तमेव हारमकरोदघटयत् । अथ श्वेतत्वसाम्याद्विलेपनमुत्प्रेक्षय नाह- कादम्बर्या इति । कादम्बर्या गलितेनच युतेन कपोललावण्येन ( इव) च, तथा रसतामुपनीतेन द्रवतां प्रापितेन स्मितालो के नेवादृष्टरदहास्यप्रकाशेनेव, द्रुतेन विलीनेन हृदयेनेव चित्तेनेव, विस्यन्दितेन प्रस्रवितेन गुणगणेनेव । अन्वयस्तु प्रागेवोक्तः । आगृहीतेति । आगृहीतं ताम्बूलं येन स तथा मुहूर्तादिवोत्थाय वामबाहुना केयूरकं स्कन्धदेशेऽवलम्ब्यालम्बनं विधायोर्ध्वस्थित एव कृतं विहितं यथाक्रियमाणं पूर्वपरम्परया विधीयमानं संमानं तेन मुदितं हर्षितमेवंविधं प्रधानं प्रकृष्टं राजलोकं सामन्तादिसेषकवर्ग विसृज्य गृहे गम्यतामित्युक्त्वा शनैः शनैर्मन्दमन्दं गन्धमादननामानं टिप्प० -1 आत्मानं गुणवन्तमभिमन्यते सा, चन्द्रापीडसहशोपि ममान्तिकमागच्छतीति गुणवत्यह मित्यात्मन्यभिमान इत्याशयः । 2 लेशमपि स्वारस्यस्य न स्पृशति वराकः ! अस्मद्विधानां गुणशून्यजनानां परिचयेन या कदर्थमा ( आश्मनोऽवमानः ) सा सौजन्यवशाकुमारेण सोढन्येत्यर्थ: । 3 अनुपनिष्ट एव, 'दण्डायमान एव' । पाठा० • १ हारः प्रहितः २ अवलोकेन. ३ निःस्पन्दितेन. ४ समवलम्ब्य. कादम्बरीविषयक: प्रश्नः ] पूर्वभागः । ४३३ शनैर्गन्धमादनं करणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निजनखांशुजालजटिलं समृणालमिव शष्पकवलमवकीर्य बहमतुरगमन्दुराभिमुखः प्रतस्थे । गच्छंधोभयतः किंचित्किंचिदिव तिर्यग्वलितबदनः परिजनं विलोकयांबभूव । । अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिळे समुत्स। रिते परिजने केयूरकद्वितीय एव मन्दुरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्या पसृतेषु मन्दुरापालेषु, ईन्द्रायुधष्पृष्ठावगुण्ठनपटं किंचिदेकपाँचै गलितं समीकुर्वन्नुत्सारगंश्च कूणित नेत्रत्रिभागस्य दृष्टिनिरोधिनीं कुङ्कु मकपिलां केसरसटां खुरधारणीविन्यस्तचरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुजाच- 'केयूरक, कथय मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले, केन वा व्यापारेणावैसरमतिनीतवती गन्धर्वराजपुत्री, किं वाकरोन्महाश्वेता, किमभावत वा मदलेखा, के वाऽभवनालापाः, परिजनस्य भवतो वा को व्यापार आसीत् आसीद्वा काचिदस्मदाश्रयिणी कथा' । केयूरकन्तु सर्वमाचचक्षे --'देव, श्रूयताम् । निर्गते त्वयि हृदय सहस्र नयाणपटहकलकल मित्र नूपुरनैवफणितेन कन्यकान्तः पुरे कुँर्वन्ती देवी कादम्बरी सपरिजना सौधशिखरमारुह्य 9 करिणं हस्तिनं द्रष्टुमीक्षितुमयासीदगमत् । तत्र चेति । गन्धमादनसमीपे क्षणमिव समयसदृशं स्थित्वा तस्मै हस्तिने स्वयमेवात्मनैव निजमात्मीयं यन्त्रखानामंशुजालं किरणपटलं तेन जटिलं व्याप्तम् । पाटलत्व साम्या दाह - समृणालमिव बिसैः सहवर्तमानमिव शष्पकवलं नवतृणगुडे रकमवकीर्य पुरोऽवक्षिप्य वल्लभः प्रियो यस्तुरगोऽश्वस्तस्य मन्दुरा वाजिशाला तस्या अभिमुखः संमुखः प्रतस्थे चचाल । गच्छश्व ब्रजंश्चोभयतो द्वयोः पार्श्वयोः किंचित्तिर्यक् साचि विवलितं वदनं यस्य सः । परिजनं परिच्छदलोकं विलोकयांबभूवेक्षांचक्रे । अथेति । तन्निकटगमनानन्तरं चित्तज्ञैः प्रभोरभिप्रायविद्भिः प्रतीहारैर्द्वारपालेः प्रतिषिद्धं निवारितमनुगमनमनुयानं यस्यैवंविधे निखिले समग्रे परिजने सेवकजने समुत्सारिते दूरीकृते सति केयूरक एत्र द्वितीयो यस्यैवंभूतश्चन्द्रापीडो मन्दुरां वाजिशालां प्रविवेश प्रवेशं चकार । उत्सारणं दूरीकरणं तस्माद्यद्भयं तेन संभ्रान्तानि त्रस्तानि लोचनानि येषां तेषु मन्दुरापालेषु प्रणम्यापसृतेषु दूरीभूतेषु सत्सु, इन्द्रायुधपृष्ठस्यावगुण्ठनपटमाच्छादनवस्त्रं किंचिदेकपार्श्वे गलितं त्रस्तं समीकुर्वन् स्वस्थाने नयन्कूणित नेत्र त्रिभागस्येन्द्रा धस्य दृष्टिनिरोधिनीं दृष्टिबाधाकारिणी कुङ्कुमवत्कपिलां पिङ्गलां केसरसटां स्कन्ध केशश्रेणीमुत्सारयं चोच्चैः कु बैन्खुरधारिण्यां खुरबन्धनशङ्कौ विन्यस्तो स्थापितौ चरणौ येन सः लीलामन्दं यथा स्यात्तथा मन्दुराद्वारौ दत्तो देहभरो येन सः । सकुतूहलं सकौतुकं यथा स्यात्तथोवाचाब्रवीत् । हे केयूरक, कथय ब्रूहि मन्निर्गमा न्मदीय चलनादारभ्य गन्धर्व राजकुले को वा वृत्तान्त उदन्तः । केन व्यापारेणावसरं समयं गन्धर्व राजपुत्री कादम्बर्यतिनी तवत्यतिक्रान्तवती । किंवा महाश्वेताकरोदन्वतिष्ठत् । वेति विकल्पार्थः सर्वत्र । मदलेखा किमभाषत किमवोचत् । के वालापा वचनव्यापारा अभवन् । परिजनस्य परिच्छदस्य भवतो वा को व्यापारो व्याकृ (g) तिरासीदभवत् । काचिदस्मदाश्रयिणी कथा वार्तासीत् । केयूरकस्तु सर्व प्राणविषयी कृतमाचचक्षे कथयामास । देवेति । हे देव, श्रूयतामाकर्ण्यताम् । त्वयि निर्गते चलिते सति नूपुराणां पादकटकानां नवक्कणितेनाभिनवशब्दितेन हृदयानां सहस्राणि तेषां प्रयाणं प्रस्थानं तत्र यः परहस्य कलकल: कोलाहलस्तमिव कन्यकान्तः पुरे कुर्वन्ती सृजन्ती देवी कादम्बरी सपरिजना सपरिटिप्प० -- 1 हन्त पुनः सर्व ग्रन्थहृदयं चूर्णयति चन्दिलः ! 'कुर्वति' इति सप्तम्यन्त एव पाठः । कन्यकान्तःपुरे नूपुरनवक्कणितेन हृदयसहस्राणां यत्प्रयागम् ( गृहं प्रत्यागच्छता त्वया सह प्रस्थानम्) तस्य पटहकलकलमिव कुर्वति सति । नूपुरशब्दा नासन्, मन्ये त्वया सह प्रस्थितानां कन्यका हृदय सहत्राणां प्रयाणे पटहध्वनय एवाभूवन्नित्याशयः । इदानीं टीकाकारमहाशयस्यार्थेन तुलयन्तु मार्मिका: । पाठा०-१ तुरङ्गम० २ इन्द्रायुधस्य, ३ पार्श्व, ४ खुरवारणी; खुरधोरणी ५ वासरम्. ६ चक्रक्कणितेन. ७ कुर्वती. ५५ का० कादम्बरी । [ कथायामतुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं दुग्धोदविधवलैः लावयन्तीव दृष्टिपात: सितातपत्रापदे शेन शशिनेर्ष्यया निवार्यमाणरविकिरणस्पर्शा सुचिरं तत्रैव स्थितवती । तस्माच कथमपि सखेदमवतीर्य क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमशब्दायमानैर्मधुकरैः, जलधाराघवलन खमयूखोन्मुखानामनुगलं गलद्भिवलयैः कण्ठबन्धानिवोपपादयन्ती केकारवोद्विमा भवनशिखण्डिनाम्, पढ़े पदे च कुसुमधवलान्करेण लेतापल्लवान्मनसा च देवस्य गुणगणानवलम्बमाना तमेव क्रीडापर्वतकमागतवती यत्र स्थितवान्देवः । तमुपेत्य च ' देवेनात्र मरकतशिलाम करिकाप्रणालप्रस्रवणसिध्यमानलैतामण्डपे सीक रिणि शिलातले स्थितम् अत्र गन्धोदकपरिमलली नालिजालजटिलशिलाप्रदेशे स्नातम्, अत्र ." च्छदा सौधशिखरं गृहाधित्यकामारुह्यारोहणं कृत्वा तुरगस्याश्वस्य धूलिरेखा रजःपङ्किस्तया धूसरं मलिनं देवस्यैव भवत एव गमनमार्गमालोकितवती । तिरोहितमदृश्यीभूतं दर्शनं वीक्षणं यस्यैवंभूते च देवे मदलेखायाः स्कन्धोंऽसरतत्र निक्षिप्तं स्थापितं मुखमाननं यया सैवंविधा प्रीत्या स्नेहेन दुग्धोदधिः क्षीरोदधिस्तद्वद्धवलैः शुम्रैर्दृष्टिपातैस्तं दिगन्तं प्लावयन्तीव क्षालयन्तीव सितं शुभ्रं यच्चातपत्रं छत्रं तस्यापदेशेन व्याजेन । शुक्लत्ववर्तु2 लत्वसाम्यादाह - शशीति । शशी चन्द्रस्तेनेर्यया स्पर्धया निवार्यमाणो दूरीक्रियमाणो रविकिरणानां सूर्यकिरणानां स्पर्शो यस्याः सर्वभूता सती सुचिरं चिरकालं तत्रैव सौधशिखरे स्थितवत्यवस्थानं कृतवती । तस्माच सौधशिखरात्सखेदं यथा स्यात्तथावतीर्यावतरणं कृत्वा क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव पतनभयेनेवोपहारस्य कुसुमानि तेष्वासमन्ताच्छब्दायमानैः शब्दं कुर्वाणैर्मधुकरैर्भ्रमरैर्निवेद्यमानेव विज्ञप्तिविषयीक्रियमाणेव । जलधारावद्धवलानां शुभ्राणां नखमयूखानां पुनर्भवकान्तीनामुन्मुखानां संमुखानामनुगलं निगरणमनुलक्षीकृत्य गलद्भिः पतलियैः कटकैः करणभूतैर्भवन शिखण्डिनां गृहमयूराणां केकार वेणोद्विग्नोद्वेगं प्राप्ता सती कण्ठबन्धानुपपाईंयन्तीव रचयन्तीव । करेण हस्तेन पदे पदे च कुसुमधवलान्पुष्पवच्छुभ्रांल्लताप ल्लवान्वल्ली किसलयानि मनसा च देवस्य भवतो गुणगणान्गुणसमूहानवलम्बैमानावलम्बनं कुर्वाणा तमेव पूर्वोत मेव क्रीडापर्वतकमागतवती । यत्रेति । यस्मिन्स्थले देवो भवान्पूर्वं स्थितवान् । तं क्रीडाचलमुपेत्यागत्य च, अत्र सीकरा विद्यन्ते यस्मिन्नेवंविधे शिलातले देवेन स्थितमासितम् । कीदृशे । मरकतस्य शिला तस्या मकरिकाप्रणाली मकरमुखो जलमार्गस्तस्य प्रस्रवणेन सिच्यमानो लतामण्डपो यस्य ( यस्मिन् ) तत्तस्मिन् । अत्रेति । अस्मिन्गन्धोदकस्य सुगन्धजलस्य यः परिमलस्तेन लीना लग्ना येऽलयो भ्रमरास्तैर्जटिलो व्याप्तः शिलाप्रदेशस्तस्मिन्स्नातं कृताप्लम् । अत्रेति । अस्मिन्कुसुमनां धूल्य परागेण सिकतिले सितायुक्ते गिरिनदिकात टे 7 टिप्प० - 1 सूर्येण सह चन्द्रस्य स्पर्धा 'त्वं कादम्बरीं यदि तापयेस्तहं त्वत्तापं निवार्य शीतलयेयम्' इति । अत एव सितातपत्रस्य तु व्याजमात्रं, शुक्लष-प्रकाशशा लित्वादिगुणैश्चन्द्र एव सः । अत एव तेन निवार्यमाणातपेत्यर्थः । छत्रस्यापहृवात्कैतवापह्नुतिरलंकारः । 2 अशुद्धमिदम् । 'निवेद्यमानोपहारकुसुमा' इत्येव पाठः । विरहविचित्ता सेयमुपहार सुमेषु स्खलिष्यतीति भयात् उपाहारकुसुमोपरिशब्दायमानैर्मधुकरैः निवेद्यमानानि ( स्वशब्दैः सूच्यमानानि 'पुष्पाण्यत्र, न स्खलितव्यम् इति) उपहार• कुसुमानि यस्यै सा; इति तदर्थः । 3 भवद्विरहिता सा गृहशिखिनां रवैर्दुःखिता भवतीति कण्ठेषु वलययोजनेन तान्मूकीकर्तुमिच्छति परं वलयप्रदानसमये तस्या नखमयूखेषु जलधाराभ्रमेण तद्ग्रहणाय ते उन्मुखा भवन्ति । अत एव समर्पणसमय एव ते वलयास्तेषां कण्डादधः पतन्ति इत्याशयः । नखमयूखेष्वित्यत्र अन्तिमान् व्यङ्ग्यः । कण्ठबन्धानुपपादयन्तीवेत्युत्प्रेक्षा तु स्फुटैव । 4 धारयन्तीत्यर्थः । 5 आठवः कृत इत्यर्थः । पाठा० - १ करस्पर्शा. २ आस्थान. १ अनुपलम् ४ गृहलता ५ हरितलता. चन्द्रापीडस्य पुनः कादम्बरीभवने प्रयाणम् ] पूर्वभागः । 9 कुसुमधूलिसिकैतिले गिरिनैदिकानटे भगवानर्चितः शूलपाणिः, अत्र हेपितशशधररोचिषि स्फटिकशिलातले भुक्तम् अत्र संक्रान्त चन्दनरसलान्छने मुक्ताशैलशिलापट्टे सुतम्' इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती क्षपितवती दिवसम् । दिवसावसाने व कथमपि महाश्वेताप्रयत्नादन भिमतमपि तस्मिन्नेव स्फटिकमणिशिला वेश्मन्याहारम• करोत् । अस्तमुपगते च भगवति रवावुदिते चन्द्रमसि, तत्रैव कंचित्कालं स्थित्वा चन्द्रका न्तमयीव चन्द्रोदये प्रत्याकृततनुश्चन्द्रबिम्बप्रवेशभयेनेव करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती मुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमलनखनिपतितशशिप्रतिमाभरगुरुणीव कृच्छ्रादुत्क्षिपन्ती लीलामन्थरगमनपटूनि पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रयष्टिश्च ततःप्रभृति प्रबलया शिरोवेदनया विचेष्टमाना दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना केनाप्याधिना मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उपसि च मामाहूय देवस्य वार्ताव्यतिकरोपालम्भाय सोपालम्भमादिष्टवती' । ४३५ भगवान्शुलपाणिरचिंतः पूजितः । अत्रेति । अस्मिन्हेपिता लजिता शशधरस्य रोचिर्येन तस्मिन्स्फटिकशिलातले भुक्तम् । अत्रेति । अस्मिन्संक्रान्तः प्रतिबिम्बितो यश्चन्दनरसः स एव लाञ्छनं चिह्नं यस्मिन्नेवंविधे मुक्ताशैलशिलापट्टे सुप्तमिति परिजनेन पार्श्ववर्तिसेवकलोकेन देवस्य भवत एव स्थान चिहानि । पुनरुक्तं पृथक्पृथनिवेदनादिति भावः । निवेद्यमानानि कथ्यमानानि पश्यन्ती विलोकयन्ती दिवसं वासरं क्षपितवती क्षयं नीतवती । दिवसावसाने च दिनप्रान्ते च कथमपि महता कष्टेन महाश्वेताप्रयत्नादन भिमतमप्यसमीहितमपि तस्मिन्नेव स्फटिक्रमणिशिला वेशमन्याहारं भोजनमकरोदकल्पयत् । अस्तमिति । अस्तमुपगते प्राप्ते च भगवति माहात्म्यनति रवौ सूर्ये, चन्द्रमसि कुमुदबान्धव उदित उदयं प्राप्ते सति, तत्रैव तास्मन् प्रदेशे कंचित्कालं स्थित्वावस्थानं कृत्वा चन्द्रकान्तश्चन्द्रमणिस्तन्मयीन अत एव चन्द्रोदये प्रत्यार्दीकृता तनुर्यस्याः सा तथा चन्द्रनिम्नस्य यः प्रवेशस्तस्य भयं तेनेव कपोलयोः करौ कृत्वा किमपि चिन्तयन्ती ध्यायन्ती मुकुलितेक्षणा कुालितलोचना क्षणमात्रं स्थित्वा तत उत्थाय । विमलेति । विमला निर्मला ये नखास्तेषु निपतिता याः शशिप्रतिमाश्चन्द्रप्रतिबिम्बानि तासां भरस्तेन गुरुणीव लीलामन्थन् यद्गमनं तत्र पनि पदानि चरणन्यासानि कृच्छ्रात्कष्टादु त्क्षिपन्त्युत्क्षेपं कुर्वन्ती शय्यागृहं शयनसद्मागाद्गमत् । शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिर्यया सैवंविधा च । ततःप्रभृति तहिनादारभ्य प्रवल्या तीव्रया शिरोवेदनया विचेष्टमाना व्याकुलीक्रियमाणा दाहरूपिणा दारू णेन तीव्रेणं च ज्वरेण तापेनाभिभूयमाना पराभूयमाना केनाप्याधिना मानसीव्यथया मङ्गलप्रदीपैः कुमुदाकरैचक्रवाकैश्च सार्धमनिमीलितेऽमुद्रिते लोचने यस्त्राः सा तथा । अथ कुमुदानां रात्रों विकासाच्चक्रवाकानां च वियोगवशाद निमीलनमिति भावः । दुःखदुःखेन । अतिदुःखेनेति भावः । क्षणदां रत्रिमनैषीदयापयद्गमयामास । उषसि च प्रभाते मामाहूयाहानं कृत्वा देवस्य वार्ताव्यतिकरेण भवद्वृत्तान्तसमूहेन हेतुभूतेन उपालम्भाय सोपालम्भं यथा स्यात्तथादिष्टवती कथितवती । टिप्प० -- 1 तत्कालादारभ्य । दिनादिति तु अविचार एव लेखकस्य । 2 टीकाकारारका प्रत्याशा स्वारस्यस्य ? 'व्यतिकशेपलम्भाय' इत्येव पाठः, वृत्तान्त व्यापारप्राप्तये सोपालम्अं सप्रतिक्षेपम् ('उचित कुशलप्रवृत्तिमानेतुं न गच्छति' इति ) आादिष्टवतीति ज्ञोऽपि संभावित महोदारखातिथे: राजकुमार तदर्थः । पाठा० -१ सिकताकर्दमिलगिरि २ नदीकाननतटे ३ शिलापट्टायनीये. ४ क्षिप्त. ५ व्याधिना. कादम्बरी । १ चन्द्रापीडस्तदाकर्ण्य जिगमिपुः 'अश्वोऽश्वः' इति वेदम्भवनान्निर्ययौ । आरोपितपर्याण च स्वरिततुंरगपरिचारकोपनीतमिन्द्रायुधमारुह्य पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे संस्थापयित्वा वैशम्पायनम, अशेषपरिजनं निवर्त्य च, अन्यतुंरगारूढेनैव केयूर केणानुगम्यमानो हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य द्वारपालार्पिततुरङ्गः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क देवी कादम्बरी तिष्ठति' इति संमुखागतमन्यतमं वर्षधरमप्राक्षीत् । कृतप्रणामेन च तेन 'देव, मत्तमयूरैस्य क्रीडापर्वतकस्याधस्तारकमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किंचिदध्वानम्, मरकतरितानां कदलीवेनानां प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श । तेषां च मध्ये निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमाशुकच्छले नाच्छोदजलेनेव संवीतम्, बाहुलताविवृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभिश्चैकश्रवणाश्रयैस्वाडकीकृतैः केतकीगर्भद्लैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारवि४३६ , १ [ कथायाम्चन्द्रापीडस्तदा कर्ण्य श्रुत्वा जिगमिषुर्गन्तुमिच्छुरश्वोऽश्व इति वदन्ब्रुवन्भवनाद्गृहानिर्ययौ निर्जगाम । आरो पितं स्थापितं पर्याणं पल्ययनं यस्मिन्नतादृशं त्वरितं शीघ्रं तुरगपरिचारकेणोपनीतमानी तमिन्द्रायुधमारुह्यारोहणं कृत्वा पत्रलेखां पश्चात्पृष्ठभाग आरोग्य स्थायित्वा स्कन्धावारे सैन्यवेशे वैशम्पायनं संस्थापयित्वाशेषपरिजनं समग्रपरिच्छदं निवर्त्य पश्चाद्याघुट्यान्यतुरगाढेनेव केयूरकेणानुगम्यमानो हेमकूटं ययौ । कादम्बरीभवनद्वारमासाद्य प्राप्यावततारोत्तीर्णवांश्च । अश्वादिति शेषः । अवतीर्य च द्वारपालस्यार्पितस्तुरङ्गो येन स तथा कादम्बर्या यत्प्रथमदर्शनं तत्र कुतूहलं विद्यते यस्या एवंविधया पत्रलेखयानुगम्यमानः प्रविश्य क्व देवी कादम्बरी तिष्ठतीति संमुखागत मन्यतमं वर्षधरं कञ्चुकिनमप्राक्षीत्पप्रच्छ । तेन कृतप्रणामेन चेत्या वेदिते कथिते सति । इति शब्दयोत्यमाह — देवेति । हे देव, मत्तमयूरकाभिधानस्य क्रीडा पर्वतकस्याधस्तादधोभागवर्तिनि कमलवनदीर्धिका तीरे विरचितं हिमगृहमध्यास्तेऽधितिष्ठति । 'उपान्वध्याङ्वसः' इत्यधिकरणे द्वितीया । केयूरकेणोपदिश्यमानः प्रदर्श्यमानो वर्त्म मार्गो यस्य स तथा प्रमदवनमध्येन किंचिदध्वानं मार्ग गत्वा मरकतवद्धरितानां नीलानां कदलीवनानां रम्भाकाननानां प्रभया कान्त्या शष्पीकृतानि बालतृणीकृतानि रविकिरैणानि सूर्यरश्मयो यस्मिन्चत एव हरितायमानं नीलायमानं दिवसं दिनं ददशैक्षांचक्रे । तेषां च कदलीवनानां मध्ये निरन्तरं नलिनीदलैः कमलिनी पत्रैश्छन्नमाच्छादितं हिमगृहमपश्यदक्षत । तस्माच्च गृहान्निष्पतन्तं बहिर्गच्छन्तं कादम्बर्याः शरीरपरिचारकं परिजनमद्राक्षीदृष्टवान् । अथ तस्याः परिचार कं विशेषयन्नाह - आर्द्रेति । आर्द्रं स्तिमितं यदंशुकं वस्त्रं तस्य च्छलेन श्वेताह्लादकत्वसाम्यादाह - अच्छोदेति । अच्छोदजलेनेव संवीतं रुँद्धम् । 'संवीतं रुद्ध मावृतम्' इति कोशः । बाहुलतावितैर्भुजलता स्थापित मृणालवलयैस्तन्तुलकट कैराभरणकैरिव विभूषणैरिव धवलीकृताः शुश्रीकृता अवयवा अपघना यस्य स तम् । आपाण्डुभिरीषच्छ्रेतैरेकश्रवण एवैककर्ण एवाश्रयोऽधि करणं येषां तैखाडङ्कीकृतैस्ताडपत्रीकृतैरेवंविधैः केतकीगर्भदलैरुपहसितानि दन्तपत्राणि येन स तम् । पुनः किं कुर्वाणम् । दधानं बिभ्राणम् । कानि । मुखान्येवार जिन्दा नि कमलानि । कीदृशानि । आलिखिता टिप्प० - 1 संस्थाप्येति स्थाने मूलेोप च्युतसंस्कृति पदं टीकाकारहस्तलाघवमेव । 2 विकिरणा इत्यर्थ: । 3 आवृतदेहमित्यर्थ उचितः । Cas पाठा०-१ अथ चन्द्रापीड:. २ वदन्पूर्ववृत्तचमत्कृतचेताः ३ त्वरितपरिचारक ४ नृत्यमयूरस्य. ५ दलानाम्. ६ ताटकीकृतैः; तालकीकृतैः. कादम्बरीभवने शीतोपचारसज्ज ] पूर्वभागः । ४३७ , म्दानि बद्धसौभाग्यपट्टानीव दधानम्, कृतचन्दनबिन्दु विशेषकांश्च दिवापि स्पर्शलोभस्थिते न्दुप्रतिबिम्बानिव कंपोलानुद्वइन्तम् अपहृताशेष शिरीष सौभाग्याभिः शैवलमञ्जरीभिः कृतकर्णपूरम, कर्पूरधूलिधूसरेषु मलयजर मलबलुलितेषु बैंकलावलीवलयेषु स्तनेषु न्यस्तनलिनीपत्रप्रावरणम्, अनवरतचन्दनचर्चाप्रणयनपाण्डुरे: संतापरोष॑मृदितारक्त चन्द्रकरैरव करैः कल्पितमृणालदण्डानि बिसतंन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमुदेः कुवलयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुसुमस्त बकैश्चात पत्रीकृतैर्निवारितातपम्, जलदेवतानामिव समूहम्, वरुणश्रियामिव समागमम् शरदामिव समाजम्, सरसीनामिब गोष्ठीबन्धम् शिशिरोपचारनिपुर्ण कादम्बर्याः शरीरपरिचारकं शरीरप्राय परिजनमद्राक्षीत् । तेन च प्रणम्यमानः पादनखपतनमयादिव त्वरितापसृतेन दीयमानमार्गश्चन्दनप , १ १ चन्दनस्य मलयजस्य ललाटिका पुण्ड्रविशेषो येषु तानि । विविधवर्णसांम्याद्वद्धसौभाग्यपट्टानीव । कृतेति । कृता विहिता चन्दनबिन्दुभिर्विशेषेका येषु तान् । 'चित्रं पुण्ड्रविशेषकाः' इति कोशः । दिवापि दिवसेऽपि स्पर्शलोभेन स्थित इन्दुप्रतिबिम्बो ये वैवंविधानिव कपोलानुद्रहन्तम् । अपेति । अपहृतं दूरीकृतमशेषं समग्र शिरीषस्य वृक्षविशेषस्य सौभाग्यं याभिरेवंभूताभिः शैवलमञ्जरी भिजलशुकवल्लरीभिः कृतः कर्णपूरो येन स तम् । रखनेषु कुचेषु न्यस्तं स्थापितं नलिनी पत्राणां प्रावरणमुत्तरीयकं येन स तम् । अथ च स्तनं विशेषयन्नाह -- कर्पू. ऐति । कर्पूरस्य घनसारस्य धूली रजस्तया धूसरेष्वीषत्पाण्डषु, मलयजरसलवैश्चन्दनद्रव लेशळुलि तेष्वे की भूतेषु । बकुलावलीनां केसरराजीनां वलयानि येषु ते तथा तेषु । पुनः कीदृशम् । करैः करणभूतश्चामराणि बिभ्राणम् । कीदृशैः करैः । प्रियविरहेण संतापरोषाभ्यां मृदिता मर्दिता आरका नवोदिताश्चन्द्रकर स्तैरिवानवरतं निरन्तरं चन्दनचर्चा तस्याः प्रणयनं प्रापणं तेन पाण्डुरैः । कीदृशानि चामराणि । कल्पित इति । कल्पितो विहितो मृणालानां दण्डो येषु तानि । पुनः किं विशिष्टानि । बिसानां तन्तवस्तन्मयानि तन्निर्मिंतानि । उन्नालैः कमलैः कुमुदैः कैरवैः, कुवलयैरुत्पलैः, किसलयैः पल्लवैः, कदलीदलै रम्भापत्रैः, कमलिनी पलाशैः पद्मिनीपत्रैः । 'पत्रं पलाशं छदनम्' इति कोशः । कुसुमस्तबकैः पुष्पगुच्छेः । 'गुच्छस्तबकगुच्छकाः" इति कोशः । एतैश्चातपत्री कृतैरछत्री कृतैर्निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तम् । जलदेवतानां जलाधिष्ठात्रीणां समूह मिव । सर्वदा जलक्लिन्नदेहत्वादिति भावः । वरुणः प्रचेतास्तस्य श्रियां समागममेकी भवनमिव । वरुणस्यापि जलाधीशत्वेन तस्य श्रियामप्यतिशीतलत्वात्तदुपमानम् । शरदां घनात्ययानां समाजमिव परिषदमिव । तासामपि शीतललात्तदुपमानम् । सरसीनां सरतां गोष्ठीबन्धमिव । एकत्रीभूयोपवेशन गोष्ठीबन्धः । कीदृशम् । शिशिरोपचाराः शीतलोपचारास्तत्र निपुणं दक्षं शरीरप्रायमित्यन्तरं गत्वा चोकं कादम्बरीपरिजनमद्राक्षीदित्यन्वयस्तु प्रागेत्रोक्तः । इदानीं समयोद्यानाद्दुद्दीपन विभावान्वर्णयन्नाह - तेन चेति । तेन परिजनेन प्रणम्यमानो नमस्क्रिय माणः । कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिरिदं वक्ष्यमाणं सर्व दृष्टवानित्यन्वयः । कीदृशः । प्रणामेन पादनखस्यैव कोमलत्वात्पतन भविष्यतीति शङ्कया त्वरितमपसृतः परिजनस्तेन दीयमानो मार्गों यस्य सः । इतः कदलीतोरणं विशेषयन्नाह - चन्दनेति । चन्दनपङ्केन मलयजकर्दमेन कृता वेदिका येषाम् । टिप्प० -- 1 कृताश्चन्दनबिन्दव एव विशेष कास्तिलका येषु तानू । अत एव दिवापि स्पर्शलोभेन स्थिता इन्दोश्चन्द्रस्य प्रतिबिम्बा येषु तान् ( कपोलान् ) । रात्रौ तु चन्द्रोदयादिन्दुप्रतिबिम्बाः संभवन्त्येव, परं चन्दनबिन्दवस्तथा प्रतीयन्ते यथा स्पर्शलोभवशाद्दिनेऽपि चन्द्रस्य प्रतिबिम्बाः स्थिता इत्यर्थ: । मण्ड लाकाराणां चन्दन बिन्दूनां चन्द्रबिम्बेन साम्यादियमुत्प्रेक्षा । 2 चन्दनपङ्गेन लिसीकृता वेदिकाः परिष्कृतभूमयः (बद्धतलभूमयः ) येषां तेषाम् (तोरणानाम् ) । पाग० -१ पदानि. २ कपोलफलकाम् ३ ललितेषु ४ बकुलावलयिषु; कुवलयावलिपु; ललितकुवलयेपु. ५ पयोधरेषु. ६ प्रणय. ७ प्रकटितचन्द्रकरैः; मृदितचन्द्रकरैः ८ शरीर परिचारिकाप्रायम् ९ पादतलः पादनखतपनदाह, 0 कादम्बरी । , [ कथायाम्G तवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितमिन्दुवारकुसुममञ्जरीचामराणां ल म्बितस्थूलमल्लिकामुकुलहागणामाबद्धलवङ्गपल्लत्रचन्दन मालिकानां दोलायमान कुमुददामध्वजानां मृणाल वेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव द्वारपालिकाभिरधिष्ठितानां कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिदृष्टवान्कचिदुभयतट निखात तमालपल्लवकृतवनलेखाः कुमुदधूलि वालुकापुलिनमालिनीश्चन्दनरसेन प्रवर्समाना गृहनविकाः, क्वचिन्निचुल मञ्जरीरचितरक्तचामराणां जैलार्द्रवितानकानां तलेषु सिन्दूरकुट्टिमेष्वास्तीर्यमाणानि रक्तपंङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभित्तीनि स्फटिकमवनानि, कचिच्छिरीषपक्ष्मकृतशाद्वलानां मृणालधारागृहाणां शिखरमारोप्यमाणानां धाराकदम्बधूलिधूसरितानि यन्त्रमयूरकाणां कदम्बकानि, कचित्सहकाररँस सि कैर्जम्बूपल्लवैराच्छाच मानाभ्यन्तराः पर्णशालाः कचित्क्रीडितकृत्रिमकरिकलभ यूथकाकुली क्रियमाणाः काझनक* AFU कलिकानां वायघण्टिकानुकारादाह - पुण्डरीकेति । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकामिर्धटिता निर्मिता घण्टिकाः किङ्किण्यो येषाम् । विकसितानि विमुद्राणि सितानि सिन्दुवारस्य निर्गुण्डया: कुसुमानि तेषां मञ्जरीणां चामराण्यातपत्राणि येषाम् । लम्बिताः स्थूलमल्लिकामुकुलानां हारिणो हारा येषाम् । भाबद्धा लवङ्गं देवकुसुमं तस्य पहवा येष्वेवंविधा चन्दनमालिका तोरणार्थे मङ्गल्यं दाम येषाम् । 'तोरणार्थे तु मङ्गलयं दाम चन्दनमालिका' इति कोशः । दोलेति । दोलायमानाः कम्पमानाः कुसुमदासँध्वजा येषाम् । मृणालेति । भृणालानां तन्तुलानां वेत्रं हस्ते यासां ताभिगृहीतानि स्वीकृतानि रुचिराणि मनोहराणि कुसुमाभरणानि पुष्पविभूषणानि याभिः । मध्विति । मधुलदम्या चसन्तश्रियः प्रतिकृतिभिः प्रतिरूपाभिरेवंविधाभिर्द्वारपालिकाभिरधिष्ठितानामाश्रितानाम् । सर्वं दृष्टवानिति पूर्वोकं स्पष्टीकुर्ववाह-- कचिदिति ! कस्मिंश्चित्प्रदेश उभयतटे निखाता आरोपिता ये तमालपलवारतापिच्छकिसलयास्तैः कृता वनलेखा काननवीथी यासां ताः । कुमुदानां धूलि: पराग: सैव वालुका सिकता तस्याः पुलिनं जलोज्झितं सैकतं मौलत इत्येवंशी लाश्चन्दनरसेन मलयजद्रवेण प्रवर्त्यमाना विस्तार्यमाणा गृहनदिका भवनसरितः । कन्तिदिति । निचुलमजरी हिजलवल्लरी तथा रचितानि रक्तचामराणि येषामेतादृशानां जलार्द्रवितानकानामम्भः क्लिजोल्लोचानां तलेषु सिन्दूरं नागजं तेन सहवर्तमानेषु कुट्टिमेष्वास्तीर्यमाणानि विस्तीर्यमाणानि रक्तपङ्कजरायनानि लोहितकमलशयनानि । क्वचिदिति । एळा चन्द्रवाला तस्या रसेन सिच्यमानानि सेन्चन क्रियाविषयी क्रियमाणानि स्पर्शेन करसंस्पर्शेनानुमेयी अनुमातुं योग्या रम्या मनोहरा भित्तयः कुड्यानि येषामेवंविधानि स्फाटिकसवनानि । क्वचिदिति । कस्मिंश्चित्प्रदेशे शिरीषः कपीतनस्तस्य पक्ष्मभिः कोमलकेसरैः कृतशाद्वलानां विहितशादहरितानां मृणालघारागृहाणां विसयन्त्रसझनां शिखरं प्रान्तमारोष्यमाणानामुपरिटान्त्रीयमानानां धाराका• दम्बानां धूलिभी रजोभिर्धूसरितानि यन्त्रगृहवर्तिमयूरकाणां कदम्बकानि मण्डलानि । कचिदिति । सहपपo-1 ख व । य ( ) a थন। टथमालिकाः ( तोहणलम्बिवानि पुष्पदामानि ) येषु तेषाम् । 2 कुसुमदामान्येव ध्वजा येषाम् । 3 पिठ् मन्दम् । कुमुदानां धूलिदेव वालुका तस्याः (अर्थात्तनिर्मिता) पुलिनमाला सैकतश्रेणिर्यातां ता इति सरलोऽर्थः 1 4 जलार्द्राणां चन्द्रातपानाम् 'चंदोवा' । 5 स्फटिकानां पारदर्शकत्वासनित्तयो न दुष्टुं शक्याः [ : । 6 मण ( यजमणम) । शृणजलसगृ शख ( ) पtचर जम (थे: । पाठा० --- १ प्रकृतिभि. २ जलाद्रीकृत ३ ससिन्दूर ४ स्पर्शानुमेयभित्तीनि; स्पर्शानुमेयरम्यस्थितिप्रदेशानि, ५ अन; अनक. ६ धूसराणाम्; धूसरितानाम्. ७ तरुसक्तैः● कादम्बरीभवने शीतोपचारसज्जा ] पूर्वभागः । मलिनिकाः, कचिद्गन्धोदककूपेषु बद्धकाञ्चनसुधापङ्ककामपीठेषु स्थूलबिसलतादण्डघंटितारकाणि कृतकेतकदलद्रोणिकानि कुबलचावली रज्जुभिर्मध्यमानानि पत्रपुटघटीयन्त्रकाणि, कचि त्स्फटिक बलाका वली वान्तवारिधाग लिखितेन्द्रायुधाः संचार्यमाणा मायामेघमालाः कचिदुपान्तरूढैयाङ्कुरासु तैरत्तरुणमालती कुङ्मलदन्तुरिततरङ्गासु हरिचन्दनद्रववापिकासु शिशिरीक्रियमाणा हारयष्टीः कचिन्मुक्ताफलक्षोदरचितालवालकानंनवरतस्थूलजलबिन्दुदुर्दिनमुत्सृजतो यंत्रवृक्षकान, कचिद्विधुतपक्षनिक्षिप्तसी करानीतनीहारा भ्रमन्तीर्यत्रमयी: पत्रशकुनिश्रेणी: कचिन्मधुकरकिङ्किणीपङ्किपटुतराबध्यमानाः कुसुमदामदोलाः कचिदुदरारूढ़ निर्गतोत्तोलनलिनीच्छदाच्छादितमुखान्प्रवेश्यमानाञ्शातकुम्भान्, क्वचिद्घटितकदलीगर्भस्तम्भ, , " कारा आम्रास्तेषां रसैः सिक्तैः सिञ्चितैर्जम्बूपलवैराच्छायमाना अभ्यन्तराः पर्णशाला उटजाः । क्वचिदिति । क्रीडितुं यत्कृत्रिमं निर्मितं करिकलभयूथकं तेनाकुलीक्रियमाणाः काञ्चनकमलिनिकाः सुवर्णनलिन्यः । कप्रत्यये च सर्वत्र हस्वत्वम् । गन्धोदकस्य सगन्धजलस्य कूपेषूदपानेषु । कीदृशेषु । बद्धः काञ्चनस्य सुवर्णस्य सुधा गृहधवलीकरणद्रव्यं तस्य पङ्कः कर्दमस्तेन काममत्यर्थं पीठं येषु, स्थूलो यो बिसलताया दण्डस्तेन घटिता अरेका येषु, कृतानि केतकदलानां द्रोणिकानि भाजनविशेषाणि येषु, कुवलयानामुत्पलानामावल्यः पयस्ता एव रजवस्तैर्ग्रध्यमानानि बध्यमानान्येवंविधानि पत्रपुटलक्षणानि घटीयन्त्रकाण्युद्धाटकानि । क्वचिदिति । स्फटिकस्य बलाका बिसकण्ठिकास्ता सामावलीभिर्वान्ता मुक्ता वारिधारा जलधारा यासु, लिखितानीन्द्रायुधानि शऋचापानि यासु, एवंविधाः संचार्यमाणाः प्रेर्यमाणा मायामेघमालाः कृत्रिमजल (द) पयः । क्वचि दिति । उपान्ते समीपे रूढा यवाङ्कुरा यासु, तरन्ति तरुणमालती कुजालानि तैर्दन्तुरितास्तरंगा: कल्लोला यासु, हरिचन्दनस्य तैलपर्णिकस्य द्रवस्तस्य वापिकासु क्षुद्रकृपिकासु शिशिरीक्रियमाणाः शीतली क्रियमाणा हारयष्टीर्मुक्ताकलापान् । एतेन विरहाधिक्यं वर्णितम् । क्वचिदिति । मुक्ताफलं रसोद्भवं तस्य क्षादेन चूर्णेन रचितं निर्मितमालवालकमावापस्थानकं येषां ताननवरतं निरन्तरं स्थूला जलबिन्दवस्तेषां दुर्दिनमुत्सृजत उत्प्राबल्येन मुञ्चतः कुर्वतः एवंविधान्यन्त्र वृक्षकान्कृत्रिममहीसहान् । क्वचिदिति । विधुताः कम्पिता ये पक्षास्तैर्निक्षिप्ता ये सीकरास्तैरानीतो नीहारो हिमं याभिस्ता भ्रमन्तीभ्रमणं कुर्वन्तीः । एवंविधा यामयीः पत्रशकुनिश्रेणी: । क्वचिदिति । मधुकरा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकारतासां पङ्किः श्रेणी तथा पटुतैरं स्पष्टं यथा स्यात्तथा बाध्यमाना निरुध्यमाना कुसुमदामदोलाः पुष्पसकप्रेङ्खाः । कचिदिति । उदरे मध्य आरूढा निर्गता उद्गताः सुवर्णकलशादुत्तालोर्ध्वमुखी या नलिनी तस्याश्तैच्छादितं पिहितं मुखं येषां तान्प्रवेश्यमानान्गृहान्तनीयमानाञ्शातकुम्भान् । क्वचिदिति । घटिता कदलीगभेस्तम्भा एव टिप्प० 19 - 1 चक्रान्तर्गतानि काष्ठनिर्मितान्यव वानि, 'अरा' इति भाषा । 2 'कृतकानि' इत्येव पाठः । कृत्रिमाणि केतकदलानि (केतकपत्र । णि ) एव जलद्रोणिका जलाधारविशेषा येषु तानि । शिशिरोपचारवर्णनेऽस्मिन् सुगन्धिजलभृताः कूपा अपि तथा कृता येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यत्राणि ('अरहट'), जलाधारा अपि केतकपत्रैः कृतानीत्याद्यर्थो बोध्यः । 3 निर्माणकौशलेनैव परिचाल्यमानाः । 4 'क्वचिन्मधुकर किङ्किणीपङ्किपटुतरेरवा बध्यमानाः' इत्येव पाठः । मधुकरा एव किङ्किण्यास्तासां पङ्क्तेः पटुतरो रवः (शब्दः ) यासु ताः । परिचारिकाभिर्बध्यमानाः (कुसुमदामनिर्मिता दोला:) । 5 ज्ञातकुम्भानित्येव पाठं स्वीकृत्य तदर्थ करणसमये पलायांचत्रे मन्दः । अस्तु, 'ज्ञातकुम्भकुम्भान्' इत्येव पाठ: । शासकुम्भस्य सुवर्णस्य कलशानू, येषामुदरेषु नलिन्यः उत्पन्नास्ततश्च मुखेभ्यो बहि. उन्नालास्ता निर्गताः, : कुम्भमुखमाच्छन्नम् । शेत्यार्थ शोमार्थ च वृक्षाधार विशेषः । पाठा०-१ घटितदण्डारकाणि २ कृतक; कनक ३ जलद्रोणिकानि ४ कमलपत्रपुट ५ बलाकावलीः ६ क्र रूढ ७ पाण्डुरासु. ८ सितरत. ९ अनवरतचन्दनरसस्थू. १० पत्रवृक्षकान्. ११ पटुरवबोध्यमानाः; पद्धतरखाबोध्यमानाः १२ उन्नाल, १३ शतिकुम्भकुम्भान्. ४४० कादम्बरी । [ कथायाम्दण्डानि बध्यमानानि चारुवंशाकृतीनि कुसुमस्तबकातपत्राणि, क्वचित्करमृदितकर्पूरपल्लवरसेनाधिवास्यमानानि बिसतन्तुमयान्यंशुकानि, कचिल्लवलीफलद्रवेणाक्रियमाणांस्तृणशूकमञ्जरीकर्णपूरान्, क्वचिदम्भोजिनीदलव्यजनैर्वीज्यमानानुपलभाजनभाजः शीतोषधिरसानन्यांश्चैवं प्रकाशिशिरोपचारोपकरणकल्पनात्र्यापारम्परिजनेन कृतान्क्रियमाणांश्च वीक्षमाणो हिमगृहकस्य मध्यभाग हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्मभूमिमिव सर्वचन्द्रकलानाम्, कुलगृह मिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणीनाम, निवासमिव सर्वमाघमासयामिनीनाम्, संकेतसदनमिव सर्वप्रावृषाम् ग्रीष्मोष्मापनोदोद्देश मिव सर्व निम्नगानाम्, वडवानल संतापापनोद ननिवासमिव सर्वसागराणाम्, वैद्युतदहनदाहप्रतीकारस्थानमिव सर्वजलधराणाम् इन्दुविरहदु:सहदिवसातिवाहनस्थानमिव कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव मकरध्वजस्य, दिनकरकरैरपि सर्वतो जलयत्रधारासहस्र समुत्सारितैरतिशीतस्पर्श भयनिवृत्तैरिव परिहृतम्, अनिलैरपि कदम्बकेसरोत्करवाहिभिः कण्ट कितैरिवानुगतम्, कदलीवनैरपि पवनचलितद् लैजड्यजनितवेपथुभिरिव परिदण्डा येष्वेवंविधानि बध्यमानानि चारुर्मनोहरो यो वंशो वेणुस्तद्वदाकृतिराकारो येषां तानि कुसुमस्तबकान्येवा तपत्राणि छत्राणि । क्वचिदिति । करेण मृदितो यः कर्पूरपलवस्तस्य रसेनाधिवास्यमानानि सुगन्धीक्रियमापाणि बिसतन्तुमयानि तन्तुलतन्तु निर्मितान्यंशुकानि वस्त्राणि । क्वचिदिति । लवली वल्ली विशेषस्तस्याः फलद्रवेणााँक्रियमाणान् । तृणानां शूकं किंशारुस्तस्य मञ्जर्य एव कर्णपूरान्कर्णाभरणा । क्वचिदिति । अम्भोजिनी कमलिनी तया दलान्येव व्यजनानि तालवृन्तानि तैर्वीज्यमानानुपलभाजनभाजो दृषत्पास्थिताशीतोषधिरसान्, अन्यांश्चैवंप्रकाराशिशिरोपचारोप करणकल्पनाव्यापारान्परिजनन परिच्छदेन कृतान्विहितान्क्रियमाणांश्च विधीयमानांश्च वीक्षमाणो हिमवतो गौरीगुरोर्हृदयमिव स्वान्तमिव प्रचेतसो वरुणस्य जलक्रीडागृहमिव सर्वाः ममग्रा याश्चन्द्रकलास्तासां जन्मभूमिमिव सर्वं यश्चन्दनवनं गन्धसारकाननं तस्य देवतानामधिष्ठात्रीणां कुलगृहमिव पितृसद्मेव; सर्वचन्द्रमणयश्चन्द्रकान्ताद्यास्तेषां प्रभवमिवोत्पत्तिमिव, सर्वे ये माघमासास्तपोमासास्तेषां यामिनीनां रात्रीणां निवासमिव वसतिस्थलमिव सर्वप्रावृषां समग्रतपाय या संकेतसदन मित्र, सर्वनिम्नगानां समस्ततटिनीनां ग्रीष्मस्योष्णागमस्य ऊष्मा तापस्तस्यापनोदो दूरीकरण तस्योद्देशमिव प्रदेशमिव सर्वसागराणां समस्तसमुद्राणां वडवानलो वाडवस्तस्य यः संतापस्तस्यापनोदना दूरी करणं तस्या निवास मित्र वसतिमित्र, सर्वजलधराणां समग्रमेघानां वैद्युतो यो दहन इरंमदस्तेन दाहस्तस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव कुमुदिनीनां कैरविणीनामिन्दुविरहेण दुःसहमसह्यं दिवसस्यातिवाहनमुल्लङ्घनं तस्य स्थान मिव, मकरध्वजस्य कंदर्पस्य हरस्येश्वरस्य यो हुताशनस्तृतीय नेत्रजो वह्निस्तस्य निर्वापण निर्यातनं तस्य क्षेत्रमिव स्थानमिव, दिनकरस्य सूर्यस्य करैरपि सर्वतः समन्ताज्जलयन्त्रधारासह स्राणि तैः समुत्सारितैर्दूरीकृतैरतिशयेन यः शीतः स्पर्शः तस्माद्यद्भयं तेन निवृत्तैरिव परिहृतं परित्यक्तम् । अनिलरपि पवनैरपि कदम्बस्य कादम्बस्य यः केसरोत्करस्तद्वाहिभिरत एवं कुण्टकितैरिने रोमाञ्चितैरिवानुगतं सहितम् । कदलीवनैरपि रम्भाकाननरपि पवनेन चलितानि कम्पितानि दलानि येषां > a PERMA ०१ मकरध्वजस्य सदनमिन मनदेवताजाम्. J टिप्प० - 1 पवनानामपि शैत्यं प्रतीतमभूदत एव तेपि कदम्बकुसुमकेसरग्याजेन रोमाञ्चमवहनि. व्युस्प्रेक्षाशयः । पाठा कादम्बरीभवमे शीतोपचाराः ] पूर्वभागः । ४४१ वारितम्, अलिभिरपि कुसुमामोदमदमुखरैराबद्धदन्तवीगैरिव वाचालितम्, लतामिरपि मधुकरपटलजदिलाभिर्गृहीतनीलप्रावरणकाभिरिव विराजितमाससाद । क्रमेण च तत्रान्तबेहिचातिबहलेन पिण्डहार्येणेवोपलिप्यमानो ऽतिशीतलेन स्पर्शेनाऽमन्यतात्मनो मनश्चन्द्रमयं कुमुदमयानीन्द्रियाणि ज्योत्स्नामयान्यङ्गानि मृणालिकामयीं धियम् । अगणयच होरमयानककिरणांश्चन्दमयमातपं कर्पूरमयं पवनमुद्रकमयं कालं तुषारमयं त्रिभुवनम् । एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, अशेषसरित्परिवारामिव भगवर्ती गां हिमवतो गृहाचलगताम्, कुल्या भ्रमिभ्रमितेन कर्पूररसस्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गदवलयरसनानू पुरैर्मृणालमयैर्निगडैरिव संयतामीर्ष्यया मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलान्छनेन, बाष्पवारिवाहिनि चुम्बितामिव चक्षुषि वरुणेन, वर्धितनिःश्वासमरुति वैष्टामिव मुखे मातरिश्वना, संतापप्रतप्ते1 वेपथुः कम्पो येषामेतादृशैरिव परिवारितम् । अलिभिरपि भ्रमरैरपि कुसुमानामामोदः परिमलस्तजनितो मदस्तेन मुखरैर्वाचालैरत एवाबद्धा दन्तेवीणा यैरेवंविधैरिव वाचालितं मुखरितम् । लताभिरपि वल्लीभिरपि मधुकंराणां पटलं तेन जटिलाभिर्व्याप्ताभिगृहीतं स्वीकृतं नीलं प्रावरणं प्रच्छादनं याभिरेवंविधाभिरिव विराजित शोभितमेतादृशं हिमगृहकस्य मध्यभागमाससाद प्राप्तवान् । क्रमेणेति । क्रमेण परिपाट्यान्तर्बहिश्यातिशीत लेन स्पर्शेनोपलिप्यमानः । ननु मूर्तव्यतिरेकेणोपदिग्धक्रिया न संभवतीत्याशयेनाह - अतीति । अतिबहलेनातिदृढेन पिण्डहार्येणेव पिण्डरूपेणाहर्तुं शक्यं पिण्डहार्यं तेनेव, एतेनातिशीतलस्पर्शस्य बाहुल्यतया हस्तप्रात्यत्वं सूचि तम् । तथातिशीतलेन स्पर्शेनात्मनः स्वस्य मनश्चित्तं चन्द्रमयममन्यताऽजानात् । तथा कुमुदमयानि कैरवमयानी • न्द्रियाणि करणानि, ज्योत्स्नामयानि चन्द्रिकामयान्यङ्गानि हस्तपादादीनि, मृणालिकामयीं बिसमयीं धियं बुद्धिम् । अमन्यतेत्यस्य सर्वत्र संबन्धः । तथार्ककिरणान्सूर्यकरान् । शुभ्रत्वायतत्व साम्यादाह-हारमयान्मुक्ताप्रालम्बमयानगणयत् । अप्रेऽप्येतस्य संबन्धः । आतपं सूर्यालोकं चन्दनमयं मलयजमयम् । अतिशीतलत्वादिति भावः । तथा पवनं समीरं कर्पूरमयं घनसारमयम् । तद्गन्धयुक्तत्वात् । तथा कालं समयमुदकमयं जलमयम् । त्रिभुवनं त्रिविष्टपं तुषारमयं हिममयम् । अतिशीतलस्य शेषाधिवशात्किरणरूपतया सत्त्वेऽपि हाररूपतयागणयदित्यर्थः । एवंविधस्य तस्य हिमगृहस्य एकदेश एकस्मिन्प्रदेशे सखी कदम्बकेन वयस्यासमूहेन परिवृताम् । अशेषसरित्परिवारां समप्रतटिनीपरिच्छदां हिमवतः पर्वतात् गृहाचलगतां गृहशिलागतां भगवतीं गज्ञामिन जाहवीमिव, विरहजनितपाण्डुरत्वसाम्यात्तदुपमानम् । अन्यासां च नधुपमानम् । कुल्या सारणी तस्या भ्रमिभ्रमणं तया भ्रमितेन कर्पूररसस्रोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिधिर्यस्या एवंविधाया मृणालदण्डमण्डपिकाया बिसदण्डमण्डपस्य तलेऽधोभागे कुसुमशयनं पुष्पशय्यामधिशयानां कृतखापाम् । हारेति । द्वारो मुक्ताप्रालम्बः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुराणि पादकटकानि, एतैर्मृणालमयैर्विसमयैर्निगडैरिवान्दुकैरिवेर्ष्यया स्पर्धया मन्मथेन कंदर्पेण संयतां बद्धाम् चन्दनेन धवले शुश्रीकृते ललाटेऽलिके शशलाञ्छनेन चन्द्रेण स्पृष्टामिवालिङ्गितामिव । शुभ्रत्ववक्रत्वसाम्याम्चन्द्रोपमानम् । बाष्पवारि नेत्राम्बु तद्वाहिनि चक्षुषि नेत्रे वरुणेन प्रचेतसा चुम्बितामिव । जलच्युतिसाम्याद्वरुणेनेत्युतम् । वर्धितो वृद्धिं प्राप्तो निःश्वासमरुदेतनवायुर्यस्मिन्नेव॑विधे मुखे । वायुबाहुल्यादाह – मातरिश्वना वायुना दष्टामिव भक्षितामिन । संतापः संज्वरa टिप्प० – 1 शैत्यातिशयेन मुखवेपथुसमये उपर्यधोभागदन्तानां, परस्परसंघट्टनजनित: शब्दो दन्तबीणा 12 ग्रन्थगौरवघातकं धिङ् मन्दम् ! 'गुहातलगताम्' इत्येव पाठः । हिमवतः हिमाचलस्य गुहातलस्थितां भगवतीं गङ्गामिव, इति स्फुटोऽर्थः । 3 चन्द्रमस्य चन्द्र उपमानमित्याशयः । पाठा ३===-१ निरन्तरमधुकर. २ नीहारमयान् ३ ग्रहातलगताम् ; महीतले पतिताम् ४ दृष्टाय. ५६ का० कादम्बरी [ कथायाम, ध्वध्यासितामिवाङ्गेष्वनङ्गेन, कंदर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, खेदिनि परिष्वतामिव वपुषि जलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमसमी पोपगतैरङ्गै रुपजनितदौर्बल्याम् आश्यानचन्दनपाण्डुरं च रोमाञ्चमनवरतहार स्पर्शलग्नं मुक्ताफल किरणपुञ्जमिवोद्वहन्तीं स्वेदसीकरिणीं च कपोलपालीम्, पक्षपवनेन वीजयद्भिर कम्प्यमानामिवावतंसमधुकरैः अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्ग निर्गतेनाश्रुस्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुणो निर्वाहप्रणालिका मिव कर्पूरकेतकी कलिकां कर्णे कलयन्तीम्, आयतश्वास विधुतितरलितेन च संतापभयपलायमानेन देहप्रभाविता नेवांशु विमुच्यमानकुचकलशाम्, आपतत्प्रचलचामरप्रतिबिम्बं च कुचकलशयुगलं प्रियान्तिकगमनौसुक्यकृतपक्षमिव करतलेन निरुन्धन्तीम् मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम् मुहुश्चरणारविन्देन चन्दन, , ." ." स्तैन प्रतप्तेषूष्णेष्वङ्गेष्वनङ्गेन कंदर्पेणाध्यासितामाश्रितामिव । कुत्रचित् 'पतङ्गेन' इति पाठः । तत्र पतङ्गः सूर्यस्तापजनकत्वात् । तदाश्रितामित्यर्थः । कंदर्पदाहदीपिते मदनदाहज्वलिते हृदये । दाहजनकत्वसाम्यादाह-हुतभुजेति । हुतभुजा वह्निना गृहीतामिव स्वीकृतामिव । स्वेदिनि प्रस्वेदवति वपुषि जलेन नीरेण परिष्वक्तामिवाश्लिष्टामिव । एतेन वेदबाहुल्यं सूचितम् । दैवतैरप्यदृष्टैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं लोपमाप्यमानं सौभाग्यं यस्याः सा तामिव । हृदयेनं चित्तेन सह सार्धं प्रियतमसमीपं प्राणप्रियनिकटमिवोपगतैरङ्गैः कस्बोपजनितं बिहितं दौर्बल्यं कृशत्वं यस्या एतादृशीम् । आश्यानमिति । आश्यानं शुष्कं यच्चन्दनं मलयजं तेन पाण्डुरं शुभ्रं रोमाञ्चं चानवरतं निरन्तरं हारस्पर्शेन लग्नं मिलितं मुक्ताफलानां किरणा दीधितयस्तेषां पुञ्जः समूहस्तमिवोद्वहन्तीं धारयन्तीम् । अत्र चन्दनघवलीकृतस्य रोमोद्गमस्य मुक्ताकिरणसमूहोपमानम् । तथा स्वदस्य घर्मजलस्य सीकरा विद्यन्ते यस्यामेतादृशीं कपोलपालीमुद्वहन्तीम् । चकारः समुच्चयार्थः । अवेति । अवतंस उत्तंसस्तस्य मधुकरैर्भमरः पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवानुकम्पाविषयी क्रियमाणामिव । अवतंसमधुकराणां रवः शब्दः स एव दाहकत्वाहनो वह्निस्तेन दग्धमिम ज्वलितमिव । श्रोत्रं श्रवणमपाङ्गनिर्गतेनाक्षिबाह्यायातेनाश्रुस्रोतसा नेत्रजलप्रवाहेण करणभूतेन सिञ्चतीं सेकं कुर्वन्तीम् । अतिप्रवृत्तस्यातिप्रसृतस्याश्रुणो नेत्रजलस्य निर्वाहार्थ सुखेन गमनार्थ प्रणालिकामिव जलमार्गमिव कर्पूरकेतकीकलिकां कर्पूरेषूक्ता या केतकी तस्याः कलिका कोरकः तां कर्णे कलयन्तीं कलनां कुर्वन्तीं धारयन्तीम् । आयतो विस्तीर्णो यः श्वासः श्वसितं तस्माद्या विधुतिः कम्पस्तेन तरलितेन कम्पितेन संतापभयात्पलायमानेन धावता । अतिशुभ्रत्वसचिक्कणत्वसाम्यादाह– देहेति । देहप्रभावितानेनेव शरीरदीप्तिसमूहेनेवांशुकेन वस्त्रेण विमुच्यमानौ कुचावेव कलशौ यस्याः सा ताम् । आपतत्प्रचलचामरयोः प्रतिबिम्बं यस्मिन्नेतादृशं कुचकलशयुगलं प्रियस्थ वल्लभस्यान्तिकं समीपं तत्र गमने याने यदौत्सुक्यं रणरणकता तेन कृताः पक्षा येनैतादृशमिव करतलेन निरुन्धन्तीं निरोधं कुर्षन्तीम् । मुहुर्मुहुर्भुजलतया बाहुवल्लया तुषारशिला तस्याः शालभञ्जिकां पाञ्चालिकाभालिङ्गन्तीमाश्लेषं कुर्वन्तीम् । मुहुः कपोलफलकेन कर्पूर पुत्रिकां घनसारपाञ्चालिकामाश्लिष्यन्तीमालिङ्गन्तीम् । मुहु श्चरणारविन्देनाङ्गिकमलेन चन्दनपङ्कस्य मलयजकर्दमस्य प्रतियातनां प्रतिमाम् । 'प्रतिमा यातनाविधिः । छायः टिप्प० - 1 सौन्दर्य मुग्धत्वाद्देवा अपि तस्या भर्तृप्रियत्वम् ('सुहाग') न्यूनीकृत्य आत्मनि तदासक्ति कामयन्त इत्याशयः । 2 दूरगमनश्रमेण दौर्बल्यं भवत्येवेत्याशयः । 3 विरहोद्दीपनेन इत्यर्थः। 4 कर्पूरवत् (शुभ्रा) केतकीकलिका, कर्पूरवासिता केतकीकलिका वा । पाठा०-१ जळदेन. २ अवतंसकुसुम. उत्कण्ठिता कादम्बरी ] पूर्वभागः । पकप्रतियातनामामृशन्तीम्, स्तनसंकान्तेनात्ममुखेनापि कुतूह लिनेव परिवृत्य विलोक्यमानाघ्, कर्णपूर पल्लवेनापि स्वैप्रतिबिम्बशायिना सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकाम्, हारैरपि मुक्तात्मभिर्मदनपरवशैरिव प्रसारित करैरालिङ्गथमानाम्, मणिदर्पणमुरसि निहितं विनोदि-' तव्यमेतदिति जीवितैस्पर्शमयं शपथं शशिनमिव कारयन्तीम्, करिणीमिव संमुखागतप्रमदवनगन्धवारणप्रसारित कराम्, प्रस्थितामिवान भीष्टदक्षिणवातमृगागमनाम्, मदनाभिषेकवैदिकामिव कमलावृतचन्दनधवलपयोधरकलशावष्टब्धपार्श्वाम् आकाशकमलिनीमिव 7 छन्दः कायो रूपं बिम्बं मानकृती अपि इति कोशः । आमृशन्तीं परामर्श कुर्वन्तीम् । स्तनेति । स्तनयोः कुचयोः संक्रान्तेन प्रतिबिम्बितेनात्मसुखेनापि स्वकीयवदनेनापि कुतूहलिनेव कौतुकिनेव परिवृत्य । उत्तानीकृत्येत्यर्थः । विलोक्यमानां वीक्ष्यमाणाम् । एतेन सौन्दर्यातिशयः सूचितः । एवं कर्णपूरपल्लवेनापि खप्रतिबिम्बरूपेण शायिना शयनकारिणा । एतेनायतत्वं सूचितम् । सोत्कण्ठेनेव सोत्कलिकेनेव चुम्ब्यमानं चुम्बनविषयीक्रियमाणं कपोलफलकं यस्याः सा ताम् । हारैरपि मुक्ताकलापैरपि मुक्तात्मभिर्मुक्तास्वरूपैर्मदन परवशरिवानज्ञायतैरिव प्रसारितकरैर्विस्तारितपाणिभिरालिङ्ग्यमानामाश्लिष्यमाणाम् । अत्र मुक्तात्मभिरालिङ्ग्यमानामित्यनेन तस्या अभिनवं सौभाग्यं वर्णितम् । उरसि निहितं वक्षसि स्थापितं मणिदर्पणं रत्नादर्शम् । वर्तुलत्वतादृशधुति मत्त्वसाधर्म्यात् । जीवितस्य स्पर्शो दानं तन्मयं शशिनमिव चन्द्रमिव । 'स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि' इति कोशः । इति शपथं कारयन्तीम् । इतिशब्दयोत्यमाह - विनोदेति । अद्य त्वया विनोदितव्यम् । अन्यस्तु शशी शोकप्रदः, त्वया तु विनोदितव्यमेतदिति भावः । अत एव जीवितस्पर्शमयमिति विशेषणम् । करिणीति । हस्तिनीमिव । उभयोः शब्देन साम्यं प्रदर्शयन्नाह -- संमुखेति । संमुखागतो यः प्रमदवनगन्धस्तस्य वारणं दूरीकरणं तत्र प्रसारितौ करौ यया सा । विरहाकुलितत्वेन प्रमदवनस्य गन्धस्य दुःखदायित्वात्तनिवारणं युक्तमेवेति भावः । पक्षे संमुखागतः प्रमदो मदोत्कटो वनगन्धवारणो वनप्रभवो गन्धहस्ती तं प्रति प्रीत्या प्रसारितः करः शुण्डा यया सा ताम् । प्रस्थितामिव चलितामिव । उभयसाम्यं प्रदर्शयनाह - अनभीष्टेति । अनभीष्टमनीप्सितं दक्षिणो यो वातः स एव शीघ्रगामित्वान्मृगो हरिणस्तस्यागमनं यस्याः सा ताम् । विरहिण्या दक्षिणो वायुरतीव दुःखदो भवतीति सर्वत्र प्रसिद्धम् । पक्षेऽनभीष्टो दक्षिणो वामतोऽपसव्यगो वातमृणो वातप्रमीर्यस्याः सा ताम् । स्त्रीणां प्रयाणे दक्षिणो मृगोऽपशकुनमिति वसन्तराजादौ प्रसिद्धम् । मदनेति । मदनस्य कंदर्पस्याभिषेकार्थं वेदिका संस्कृता भूमिस्तामिव । उभयोः साम्यमाह - कमलेति । कमलया शोभयावृतौ चन्दनेन धवलौ पयोधरावेव कुचावेव पीनत्ववर्तुलत्वसाम्यात्कलशौ ताभ्यामवष्टन्धाषाश्रिती, पार्श्वे यस्याः । आकाशेति । आकाशं व्योम तस्य कमलिनी पद्मिनी तामिव । उभयोः साम्यमाह । expertis मौक्तिकानि आत्मा टिप्प० – 1 मुक्त आत्मा येषां जीवन्मुक्तैरपि मदनपरवक्षैरिति विरोधः । मुक्ताः स्वरूपं येषामिति विरोधपरिहारः । 2 एवमर्थे 'विनोदयितव्यम्' इति स्यात् । अतः 'नोदितव्यमद्य' इति पाठः । विरहोद्दीपकेन त्वया अद्य न उदेतव्यमिति चन्द्रं शपथं कारयन्तीमिति तदर्थः । शपथश्च जीवनस्पर्शरूप इति भावः । अन्यत्स्पष्टप्रायम् । 3 वातस्य दुःखदत्वेपि मृगरूपके कि स्वारस्यं ( विरहिणीपक्षे ) ?, अत एव अनभीष्टं दक्षिणवातस्य मलयवायोः मृगस्य ( मृगमदसौरभस्य, लक्षणया) च भागमनं यस्या इति व्याख्यातव्यम् । 4 उभयपक्षेपि नास्मिन्नर्थे स्वारस्यम् । शैत्यार्थ कमलदलैरावृतौ चन्दनधवलौ यौ पयोधररूपौ कलशौ ताभ्यामाकान्तपार्श्वामिति ( नायिकापसे), माझ्ल्यार्थ कमलैराख्छादि तमुखाश्चन्दनघवलीकृता ये पयोभृताः कलशास्तैराक्रान्तपार्श्वभूमिभागामिति ( वेदिकापक्षे ) । पाठा० -१ आस्पृशन्तीम् २ स्वप्रतिबिम्बपछवशायिना ३ नोदेतब्यमचेति. ४ स्याज, ५ जीवनस समय शशिनन्; जीवमस्पर्शसमयं शशिनन्, ४४४ कादम्बरी । [ कथायाम्स्वच्छाम्बरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दनविलेपनामनङ्गरागिणीं च बोलां मन्मथजननीं च मृणालिनीमभ्यर्थिततुषारपशां च कादम्बरीं व्यलोकयत् । अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा विलोक्य 'कथय । किं' सत्यमागतो दृष्टस्त्वया । कियत्यध्वनि कासौ' इति प्रतिमुखं निक्षिप्तेनामाक्षरं पप्रच्छ । प्रवर्धमानधवलिन्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तं दूरादेव वरारोहा, नवग्रहा करिणीवोरुस्तम्भविवृता, विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवशामुखरै" खच्छेति । खच्छं निर्मलं यदम्बरं वस्त्रं तस्य तलमधोभागस्तत्र दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छं रजोरहितं यदम्बरतलं व्योमतलं तत्र दृश्यमानं मृणाललक्षणं कोमल सुकुमारमुरु विस्तीर्ण मूलं बुनो यस्याः । कुसुमेति । कुसुमचापः पुष्पधनुस्तस्य लेखामिव । उभयसाम्यमाविः कर्तुमाह - मदनेति । मदनेन यौवनावस्थयारोपिता स्थापिता या गुणकोटिस्तया कान्ततरां मनोज्ञतराम् । प मदनेन कंदर्पेणारोपितोऽधिज्यीकृतो गुणकोटिमौवींप्रान्तस्तया कान्ततराम् । मध्विति । मधुमासो वसन्तमासस्तस्य देवतामिवाधिष्ठात्रीमिव । उभयसादृश्यमाह - शिशिरेति । शिशिरेण शीतलोपचारेण हारिणीं रुचिराम् । पक्षे शिविरस्य ऋतुविशेषस्यापहारिणीम् । शिशिरापगमे हि मधुमासः प्रवर्तते । मधुकरीमिव भ्रमरीमिव । उभयसादृश्यमाह —– कुसुमेति । कुसुमान्येव विरहवशान्मार्गणा बाणास्तैराकुलाम् ।पक्षे कुसुमानां मार्गणमन्वेषणं तेनाकुलां व्यप्राम् । अथ च चन्दनस्य विलेपनमङ्गरागो यस्या एवंविधामपि न विद्यतेSङ्गरागो यस्यामिति विरोधः । तत्परिहारस्तु —– अनङ्गः कंदर्पस्तस्मिन्रागिणीमनुरागवतीमित्यर्थात् । बालामनाविष्कृतमन्मथाम्, अथ च मन्मथजननीमिति विरोधः । तत्परिहारस्तु - बालामनुद्वाहितामित्यर्थात् । मृणालि नीमू, अथ चाभ्यर्थितो वाञ्छितस्तुषारस्पर्शो ययेति विरोधः । कमलिन्यास्तुषारस्पर्शः सर्वथानिष्ट इति लोके प्रसिद्धम् । तत्परिहारस्तु - विरहतापोपशान्त्यर्थं मृणालं विद्यते यस्या इत्यर्थात् । एवंविधां कादम्बरी ब्यलोकयदपश्यत् । B अथ सा कादम्बरी यथादर्शनं यथावसरमागत्यागत्य चन्द्रापीडस्यागमनमावेदयन्तं कथयन्तं परिजनमुत्प्राबल्येन तरला चञ्चला तारका यस्मिन्नेतादृशेन चक्षुषा विलोक्य वीक्ष्य प्रतिमुखं निक्षिप्तानि स्थापितानि नामाक्षराणि यथा स्यात्तथा । प्रत्येकं प्रत्येकं नाम गृहीत्वेत्यर्थः । इति पप्रच्छेत्यप्राक्षीत् । इति द्योत्यमाह - कथयेति । कथय ब्रूहि । किं सत्यमागतस्त्वया दृष्टः । कियत्यध्वनि । क्कासौ चन्द्रापीडः । तदनन्तरं प्रवर्धमानः प्रतिदिन मुपचीयमामो धवलस्य भावो धवलिमा यस्मिन्नेतादृशेन चक्षुषा नेत्रेण संमुखमापतन्तमागच्छन्तं तं दृष्ट्वा विलोक्य च कुसुमशयनादुत्तस्थावुत्थिता बभूवेत्यन्वयः । अथ कादम्बर्या विशेषणानि – वरेति । वरः श्रेष्ठः आरोहो नितम्बो यस्याः सा । 'नितम्बारोहौ स्त्रीकट्याः पश्चाजघनपार्श्वतः' इति कोशः । उर्वावेवं स्तम्भौ ताभ्यां विधृता धृता । केव । नवः प्रत्यग्रो ग्रहो ग्रहणं यस्या एवंविधा करिणीव हस्तिनीव । सापि उरुर्विस्तीर्णो यः स्तम्भस्तत्र विटता बद्धा स्यात् । विचेष्टमानानि चेष्टाविशेषं प्राप्यमाणान्यज्ञानि यस्याः कुसुमशयनस्य टिप्प० -1 गुणः- आरोप्यते, म सु कोटि: । अत एव, आरोपितः गुणो ययोः ईडशीभ्यां कोटिभ्याम् ( प्रान्याभ्याम् ) कान्तवरा, इति व्याख्यातव्यम् । 2 दर्शनमनतिक्रम्य यथादर्शनम्, यस्यां यस्यामव त्यायां खां तामवस्थामित्याशयः । 3 धिक । ऊर्वोः स्तम्भेन सात्विक भावजातेन निश्चलत्वेन विता निस्पंदा, इत्यर्थः । पाठा- -१ कुझुमचापचापलेखाम्. २ कान्ताम् ३ तारकेण कथय. ४ कथं सम्यक् ५ निक्षिप्तनानाक्षरम्; मिलिसेन नपानक्षरम् ३ वर्षमान. उत्कण्ठिता कादम्बरी ] पूर्वभागः : र्मधुकरकुलरिवाच्छाद्यमाना, संभ्रमच्युतोत्तरीयका हारकिरणानुरसि कर्तुमिच्छन्ती, मणिकुट्टिम निहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमासिव याचमाना, सस्तकेशकलापसंयमनश्रमितेन गलत्स्खेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चलितत्रिकताम्रत्रिवलीतरङ्गितरोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्तःप्रविष्टललाटिकाचन्दनरैसमिश्रमिव चक्षुषा क्षरन्ती शिशिरमानन्दजळम्, आनन्दवारिबिन्दुवेणिकया चलितावतंसधूलिधूसरं प्रियप्रतिमाप्रवेशलोमेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिकाचन्दनभरेणेव किंचिदधोमुखी, तत्क्षणमपाङ्गभागयुंजिततारकया तन्मुखलग्नयेव दीर्घया दृष्ट्याकृष्यमाणा कुसुमशयनादुत्तस्थौ । परिमलस्तेनोपनतैः प्राप्तैरत एव परवशैरासमन्तान्मुखरैर्वा चालैरेवंविधैर्मधुकरकुलैर्भ्रमरसमूहैराच्छाबमानेव । संभ्रमेण सहसा च्युतमुत्तरीयकं प्रावरणं वस्त्रं यस्याः सर्वभूता सती हारकिरणानुरसि कर्तुमिच्छन्ती वाञ्छन्ती । एतेन हारकिरणोत्तरीयांशुकयोरतिस्वच्छत्वसाम्या द्भेदो न ज्ञात इति भावः । मणिकुहिमे निहितेन स्थापितेन वामकरतलेन निजप्रतिमां प्रति हस्तावलम्बनं याचमानेव प्रार्थ्यमानेव । एतेन स्वतः खशरीरधारणे न क्षमेति प्रदर्शितम् । स्रस्तो यः केशकलापोऽलक समूहस्तस्य संयमनं बन्धनं तेन श्रमितेन श्रमं प्राप्तेन गलत्खेदसलिलेन क्षरद्धर्मवारिणा दक्षिणकरेण समभ्युक्ष्य । यस्यकस्यचिदर्पणं क्रियते तत्तु करेण प्रोक्षितस्यैवेत्यर्थः । आत्मानमर्पयन्त्यर्पणं कुर्वन्ती । चलितं यत्रिकं वंशाधरस्तस्य ताम्रा खच्छा या त्रिवली तया तरशिता रोमराजिलया भावस्तत्ता तया हेतुभूतयानङ्गेन कंदर्पेण सर्वरसान्निष्पीड्यमानेव मर्यमानेव । एतेन चलितत्रिकस्य पीडनयन्त्रसाम्यता प्रदर्शिता । किं कुर्वती । चक्षुषा नेत्रेण शिशिरं शीतलमानन्दजलं क्षरन्ती स्रवन्ती । शिशिरत्वे हेतुं प्रदर्शयन्नाह - अन्तरिति । अन्तःप्रविष्टो यो ललाटिकाचन्दनरसस्तेन मिश्रमिन संपृक्तमिव । पुनः किं कुर्वन्ती । आनन्दवारिणो बिन्दवो विप्रुषस्तेषां वेणिकया प्रवाहेण । 'धारा वेणी रयश्च सः' इत्यमरः । चलितः स्वस्थानाच्युतो योऽवतंसस्तस्य धूलिः परागस्तेन धूसरं मलिनं कपोलफलकं प्रियप्रतिमाप्रवेशलोभेन प्राणप्रियप्रतिबिम्बसंक्रान्तितृष्णयेव प्रक्षालयन्ती धावनं कुर्वन्ती । ललाटिकाया यश्चन्दनभरस्तनेव किंचि इधोमुख्यवा सुखी, तत्क्षणमपाङ्गभागोऽक्षिबाह्यान्तःप्रदेशस्तत्र युझिंता प्रेरिता तारका कनीनिका ययैवंविधया तस्य चन्द्रापीडस्य मुखमाननं तत्र लमयेन दीर्घया दृष्ट्याकृष्यमाणाकर्षणं क्रियमाणा । अन्वयस्तु प्रागेवोचः । टिप्प० - 1 मधुकरेषु परवशविशेषणं न स्वारस्याय । अत एव, 'परवशा' खम्भारूयसाविकभावेन स्वयमुस्थातुमसमर्था । अत एव मधुकरैः उत्थाप्यमानेव, इत्यर्थः । एवं च 'उत्थाप्यमाना' इत्येव पाठः । 2 को बंशाधरः ? तस्य का त्रिवली ? अस्तु चलितं यत्रिकं पृष्ठवंशस अधरात्रि, तेन ताम्यन्ती या त्रिवली (उदरस्थरेखात्रयम्) तथा तरङ्गिता रोमरा जियस्यास्तद्भावस्तत्ता, तया । 3 युजवातो: 'युजिते' ति रूपं कदापि न दृष्टं स्यात्, दृश्यतां टीकाकारकृपया !! अस्तु. सर्वमिदमज्ञानविजृम्भितम् । तत्क्षणम् ( चन्द्रापी उदर्शनक्षणे ) अपाङ्गभागे पुजिता ( सर्वा शक्तिं गृहीत्वा पुञ्जभावेन स्थिता) तारका यस्था मीडश्या; तन्मुख ( चन्द्रापीडमुख) लग्नया अत एव दीर्घया दृष्ट्या (चक्षुषा) बाकृष्यमाणेव । दृष्टिस्तन्मुखे दृढसंबद्धा पुनश्च भाकृष्यमाणा अत एव सा दीर्घीभूता । पाठा० -१ जालै:. २ उत्थाप्यमाना ३ उत्तरीयांशुका० ४ वलित ५ तरङ्गिणी० ६ रसम्; रसमिश्रान् ७ चक्षुर्म्याम्. ८ च चलित; घटित ९ पुजित. कादम्बरी । [ कथायाम्चन्द्रापीडस्तु समुपसृत्य पूर्वषदेव तां महाश्वेताप्रणामपुरःसरं, दर्शितविनयः अणनाम । कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने उपविष्ठायां प्रतीहार्योपनीतां जाम्बूनदमयीमासन्दिकां रोचिष्णुरत्नप्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् । अथ केयूरकः 'देवि, देवस्य चन्द्रापीडस्य प्रसाद भूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् 'अहो, मानुषीषु पक्षपातः प्रजापतेः' इति चिन्तयांबभूव । कृतप्रणामां च तां सादरम् 'एह्येहि' इत्यभिधायात्मनः समीपं सकुतूहलपरिजन दृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारूढप्रीत्यतिशया व मुहुर्मुहुरेनां सोपग्रहं कर किसलयेन पस्पर्श । चन्द्रापीडस्तु सपदि कृतसकलागमनोपचितोपचारस्तदवस्थां चित्ररथ तनयामालोक्याचिन्तयत् - 'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु । पृच्छामि तावदेनाम्' इति निपुणालापेनातिप्रे काशमब्रवीत् - 'देवि, जानामि कामरतिं निमित्तीकृत्य प्रवृत्तोऽग्रॅम४४६ तदनन्तरं चन्द्रापीडस्तु समुपसृत्योपसर्पणं कृत्वा पूर्ववदेव महाश्वेताप्रणामपुरःसरं तां कादम्बरी दर्शित विनयः प्रणनाम नमश्चक्रे । तदनन्तरं कृतो विहितः प्रतिप्रणामोऽनुनमस्कारो ययैवंविधायां च तस्यां पुनरतस्मि शेव कुसुमशयन उपविष्टायामासेदुष्यां प्रतीहार्या द्वारपालिकयोपनीतामानीतां जाम्बूनदमयीमासन्दिकां वेत्रासनम् । 'स्याद्वेत्रासनमासन्दी' इत्यभिधानकोशः । कीदृशैः । रोचिष्णुरत्नैः प्रत्युप्ताः पादा यस्याः सा तां पादेनैव चरणेनैवोत्सार्य दूरीकृल क्षितावेव पृथिव्यामेवोपाविशदुपविष्टः । अथेति । उपवेशनानन्तरं केयूरको हे देवि, देवस्य पूज्यस्य चन्द्रापीडस्य प्रसादभूमिः प्रसन्नताधरित्र्येषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीत्यभिधायेत्यु. क्त्वा पत्रलेखामदर्शयद्दग्विषयतामप्रापयत । अथेति । दृग्विषयीकरणानन्तरं कादम्बरी तां दृष्ट्वा विलोक्य चिन्तयांबभूवेति चिन्तितवती । इतिशब्दयोत्यमाह - अहो इति । प्रजापतेर्धिधातुरहो मानुषीषु पक्षपातीSङ्गीकारः । कृतः प्रणामो नमस्कारो ययैवंभूतां च सादरं सबहुमान एहि एहि इत्यभिधायात्मनः समीपे स्वकीयनिकटे सह कुतूहलेन वर्तमानो यः परिजनः परिवारजनस्तेन दृश्यमानां विलोक्यमानां पृष्ठतः समुपावेशयनिवेशितवती । अथ दर्शनादेव विलोकनादेवोपांरूढः प्रादुर्भूतः प्रीतेरतिशय आधिक्यं यस्यां (स्याः) सा मुहुर्मुहुर्वारंवारमेनां पत्रलेखां सोपहं सानुकूलनं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पर्श चकार । चन्द्रापीडस्तु सपदि शीघ्रं कृतो विहितः सकल: समग्र आगमनस्यागमने वोचितो योग्य उपचारो विनयो येन स तदवस्थां विर इविक्लवां चित्ररथतनयां कादम्बरीमालोक्य वीक्ष्याचिन्तयदध्यायत् । हीति निश्चितम् । मे मम हृदयं चेतोऽ तिदुर्विदग्धमतिजडं यदद्यापि न श्रद्दधाति न निश्चयं करोति । इयमीदृश्यवस्था किं कामात, अन्यप्रियनिमित्ताद्वेति प्रकारान्तरस्यासंभवात् । कामनिमित्तकत्वेऽवगतेऽपि विपरीतसंभावनेति दुर्विदग्धपदव्यङ्ग्यम्, अत एव निश्चयानुरोधेनाह - भवत्विति । कामनिमित्तक एवास्तु, परं तावदादावेनां पृच्छामीति कृत्वा निपुणालापेन नातिप्रकाश नातिस्पष्टमब्रवीदवोचत् । हे देवि कादम्बरि, अहं जानामि कामनिर्वचनीयस्वरूपामरति निमित्तीt टिप्प० - 1 प्रापयदिति बोध्यम् । 2 सस्नेहम् । 3 नातिरुचिरमिदम् । वस्तुतस्तु 'पृच्छामि तावदेनां मिभुणालापेनेति' भचिन्तयदित्यस्य कर्मभूतो वाक्यार्थः । निपुणालापेन चतुरजनोचितालापेन (व्यङ्ग्वार्थपूर्णेनेत्यर्थ: ) एनां पुच्छामीति नायकोऽचिन्तयन्मनसि । तदनन्तरं 'प्रकाशमब्रवीत्' इति पाठः । अर्थ: स्पष्टः ! पाढा० -१ समुपविष्टायाम् २ समुपनीताम् ३ सुकुतूहलं परिजनेन दृश्यमानाम् ४ मुद्दु: ५ इति प्रकाशं बाचम्. ६ जानासि. ७ अबिरकसंतापतीत्रः. 0 द्वयोः समझि भाषणम् ] पूर्वभागः । ४४७ विचलसंतापतत्रो व्याधिः । सुतनु, सत्यं न तथा त्वामेष व्यथयति यथास्मान् । इच्छामि देहेदानेनापि स्वस्थामन्त्रभवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषुपीडया पतितामवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते गाढसंतापतया च दृष्टया वहसि स्थलकमलिनीमिव रक्ततामरसांम् । दुःखितायां च त्वयि परिजनोऽपि चानवरतकृताश्शुबि कृत्यायमविचलो यः संतापस्तस्य तन्त्र आधीन एवंविधोऽपि व्याधिः प्रवृत्तः । हे सुतनु हे कादम्बरि, सत्य मिदं नौपचारिकं वचः, त्वामेष व्याधिर्न तथा व्यथयति पीडयति यथास्मान् । देहदानेनाप्यत्रभवतीं पूज्यां स्वस्थां सज्जां कर्तुमिच्छाम्यभिलषामि । उत्कम्पिनीं त्वां प्रत्यनुकम्पमानस्यानुकम्पां कुर्वाणस्य कुसुमेषुः कंदर्पस्तस्य पीडया पतितां स्रस्तामवेक्षमाणस्य पश्यतो मे मम हृदयं चेतः पततीव । कादम्बर्या विरहकार्यं प्रकटय नाह -- अनङ्गदे इति । गाढसंतापतया तनुभूते ते भुजलते अनङ्गदे बाहुभूषणवर्जिते दृष्ट्या कृत्वा रक्ततामरसां स्थलकमलिनीमिव त्वं वहसि । अत्र कृशभुजलतयोर्मृणालसाम्यम्, नेत्रयो रक्ततामरससाम्यमिति भावः । त्वयि दुःखितायां सत्यां परिजनोऽप्यनवरतं निरन्तरं कृतो योऽश्रुबिन्दुपातस्तेन वर्तते प्रवृत्तो भवती 7 टिप्प० - 1 धिग ग्रन्थघातिनम् ! सर्वथा अनुचितोऽत्र 'अपि:' । ग्रन्थस्य मेरुदण्डस्वरूपो व्यङ्ग्यचमत्कारपूर्णोऽप्ययं भागष्टीकाकारेण न तस्वतः परिज्ञातः । सत्यं केवलं बालकवत् पर्यायशब्दान्वेषण एवाभिज्ञः सोयम् । अस्तु. वाक्संदर्भस्यास्य व्यङ्ग्योऽर्थः प्रकाश्यते । काम् ( अनिर्वचनीयाम् ) अरविं निमित्तीकृत्येति प्रकटोऽर्थः । कामरति मदनानुरागमिति व्यङ्ग्योऽर्थः । देहदानेन शरीरावसामं कृत्वापि त्वां सुस्थां कर्तुमिच्छामीति प्रकटोऽर्थः । रतिकाले देहार्पणेनेति व्यङ्ग्योर्थः । अत्र 'सुतनु' इति संबोधनमपि रतकालिकं सर्वावयवसौन्दर्य हृदयाकर्षकमभिव्यनक्ति । उत्कम्पिनीं व्याधिवशादत्यन्तकम्पवत त्वाम् अनु ( लक्ष्यीकृत्य) कम्पमानस्य तव कम्पं दृष्ट्वा कम्पयुक्तस्येत्यर्थः । तथा पीडया कुसुमेषु पुष्पेषु पतितां शयितामवलोकमानस्य मे हृदयं पततीव तब कष्टं दृष्ट्वा बहिर्निर्गच्छतीव । इति प्रकटोऽर्थः । उत्कम्पिन प्रबलकामोदयात्कम्प (साविकभाव) वर्ती त्वाम् अनुकम्पमानस्य रमणद्वारा दयापात्रं कर्तुमिच्छतः, कुसुमेषु (काम) पीडया पतितां शिथिलतनुम् अवेक्षमाणस्य मे हृदयं पततीव रमणाय धावतीवेति व्यङ्गयोर्थः । अनङ्गदे इत्यादेः प्रकटोर्थो यथाकथंचित्प्रकटीकृत एव । हे अनङ्गदे ( कामवर्धिके!) ते भुजलते काम पीडया तनु (कृशी) भूते, गाढसंतापया दृष्ट्या च स्थले ( पद्मिनी चित्रिणीत्यादिनायिकाकीर्णस्थले ) कमलिनी पद्मिनीनायिका रूपमात्मानं वहसीव, तथा भरसां (शृङ्गाररहिताम्, रमणरूपशृङ्गारप्रयोजनरहिताम्) रक्तता अनुरक्ततां वहसीव । तीव्रमदनसंतापसूचिकया दृष्ट्या पद्मिनीभूतस्यात्मनो रमणफलवञ्चितं मदनानुरागं सूचयसीवेति व्यङ्ग्योर्थः । 2 'पातेन वर्तते' इतोप्रे सर्वोपि पाठष्टीकाकारेण अंशितः । अत एष 'अश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयंवरार्हाणि मङ्गलप्रसाधनानि । सकुसुमशिलीमुखा हि शोभते नवा लता' इति पाठः । टीकासाहाय्येन प्रकटोर्थो ज्ञायेत । अश्रुबिन्दुपातेन तासु (सखीषु) मुक्तानामाभरणयुक्तता, अर्थात् अश्रुद्वारा मुक्ताभूषणभूषिताः सन्तीति । व्यङ्ग्योर्थस्तु तव दुःखेन परिजने व्यक्त भूषणता ( निराभरणता ), अत एव त्वं स्वयंवर (विवाह) योग्यानि मङ्गलाभरणानि गृहाण, नवा लता नास्ति बालता ( शैशवम् ) यत्र सा नवालता ( अर्थात् युवतिः, श्लेषे बनयोरभेदः ) सकुसुमशिलीमुखा कुसुमशिलीमुखेन ( पुष्पारेण, कामेन ) सहिता शोभते, न पुनः कामेन रहिता । इति द्वयोः पाठयोस्तारतम्यं सहृदयैस्तुलनीयम् । पाठा० - १ तामयं व्यथयति यथा माम् २ देहप्रदानेन. ३ अनङ्गतनुभूते; अनङ्गदेवतनुभूते. ४ गाढसंतापया. ५ दुःखितायामपि जयि; अपि चानवरत ६ परिजनेऽपि वा. कादम्बरी । [कथायाम्४४८ न्दुपातेन वर्तते । मुक्ताभरणतां गृहाण । स्वयंवरार्हाणि प्रसाधनानि । कुसुमशिलीमुखान्तहिता शोभते यथा लता' इति । अथ कादम्बरी बालतया स्वभावमुग्धापि कंदर्पणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थ मनसा जगाह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती शालीनतां चावलम्बमाना तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमाननामोदमधुकरपटलान्धकारितं मुखं द्रष्टुमिव स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत्-'कुमार, किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च कुमारभावोपेताया: किमि बास्या यन्न संतापाय । तथा हि । मृणालिन्याः शिशिरकिसलयमपि हुताशनायते । ज्योत्नाण्यातपायते । मनु किसलयतालवृन्तवातैर्मनसि जायमानं किं न पेश्यति भवाखेदम् । श्रीरत्वमेव प्राणसंधारणहेतुरखाः' इति । कादम्बरी तु हृदयेन तमेव मदलेखालाप 1 त्यर्थः । एतेनाश्रुपातस्य नैरन्तर्य सूचितम् । मुक्तानामाभरणानि तेषां भावो मुक्ताभरणता तां गृहाण स्वीकुरु । स्वयमात्मना वराणि प्रधानान्यर्हाणि योग्यानि प्रसाधनानि प्रतिकर्माणि । कुर्विति क्रियाध्याहारः । कुसुमानि पुष्पाणि, शिलीमुखा भ्रमराः; ताभ्यामन्तर्हिताच्छादिता यथा लता वल्ली शोभते राजते तथा त्वमपीति भावः । शुक्लत्वसाम्यान्मुक्तानां कुसुमसाम्यम्, नेत्राञ्जनस्य कृष्णत्वसाम्यामरसाम्यमिति भावः । अथेति । तदनन्तरं कादम्बरी बालतया शिशुतया स्वभावेन मुग्धापि सरलाशयापि कंदर्पेण मदनॊपदिष्टयेव दर्शितयेव प्रज्ञया तमशेषं सगग्रमव्यक्तव्याहारोऽस्फुटभाषितं तेन सूचितं ज्ञापितमुपभोगविषयकं रहःसंगमरूपं वार्थ मनसा जग्राह गृहीतवती । मनोरथानां त्वभिलाषाणां तु तावतीं भूमिं संगमरूपलक्षणामसंभावयन्त्यवितर्कयन्ती शालीनतां दृष्टतां चावलम्बमाना । 'दृष्टेः शालीनशारदौं' इति कोशः । तूष्णीमेवासीत् । केवलमुत्पादितोऽन्यन्यपदेशो मिषं ययैवंभूता तत्क्षणमाननस्यामोदस्तस्माद्यन्मधुकरपटलं तेनान्धकारितमन्धकाखदाचरितं मुखमाननं द्रष्टुमिव स्मितालोकं स्मितलक्षणमालोकं प्रकाशमकरोत् । स्मितेन दन्तज्योत्स्नाया बहिर्निर्गमेन प्रकाशसंभवात् । ततो मदलेखा प्रत्यवादीत् । कुमार, किं कथयामि किं ब्रवीमि । अयं दारुणस्तीब्रोऽकथनीयो वक्तुमशक्यः खलु निश्चयेन संतापः । अपि चेति युक्त्यन्तरे । कुमारभावोपेताया अस्याः किमिन यक्ष संतापाय भवति । तदेव दर्शयति — तथा हीति । मृणालिन्याः कमलिन्याः शिशिर किसलयमपि हुताशनायते वह्निवदाचरति । ज्योत्स्नापि चन्द्रिकाप्यातपायते सूर्यालोकायते । नन्विति वितकें । किसलयानि पलवास्त एव तालवृन्तानि तेषां वातैः पवनैर्मनसि जायमानं खेदं भवान्कि न पश्यति । अतोऽस्याः कादम्बर्या धीरत्वमेव प्राणसंधारणे जीवितधारणे हेतुर्निमित्तमिति । कादम्बरी तु हृदयेन तमेव पूर्वोतमेव मदलेखालापं मदलेखाजल्पितमस्य चन्द्रापीडस्य प्रत्युत्तरीचकार । प्रतिवचः प्रादादित्यर्थः । ' टिप्प०- 1 शालीनंपदस्य अष्टष्टः ( विनीतः ) इत्यर्थः, 'स्यादष्टे तु शालीनः' इत्यमरः । अग्रे शैकाकारशिरोमणेरिच्छा !! 2 अस्मिन्नर्थे 'तमाननामोद' इति 'तम्' अनन्वितं भवति । वस्तुतस्तुं "मुरूम्' इति नास्त्येव । मधुकरपटलान्धकारितं तम् ( चन्द्रापीडम्) द्रष्टुमिव स्मितालोकमकरोदिति पाठेऽजिन्स्पष्टोऽर्थः । 3 अत्रापि तत्याज सारमेवार्थम् । कुमारभावोपेतायाः (कौमार्ययुक्ततया सुकुमारायाः ) भयोः सर्व संतापायेति प्रकटोऽर्थः । कुमारे (अर्थात् त्वयि ) भावोपेताया अनुरक्तायाः अथवा कुलितो मारो यस्मादीडशे त्वयि, किं वा कुत्सितो यो मारः तस्य भावोपेताया आवेशक्रियां प्राप्तायाः अस्याः विरडोद्दीपकतया सर्वमपि वस्तुजातं तापायेति व्यङ्ग्योर्थः । 4 हे धीर ! त्वमेव संप्रति अस्याः प्राणसंधारणे हेतुः, स्वां प्राध्यैव सेयं जीवितुं शक्नुयादिति गूढोऽर्थः । पाठा० -१ मङ्गलप्रसाधनानि २ सकुसुमशिलीमुखा हि शोभते नवा लता. ३ सुकुमार. ४ ननु किसलय. ५ पश्यसि. ६ कादम्बरीहृदयेन. पूर्वभागः । ४४९ स्कन्धावारे तारापीडस्य पत्रप्राप्तिः ] मस्य प्रत्युत्तरीचकार । चन्द्रापीडो ऽप्युभयथा घटमानार्थतया संदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कैथा भिर्महान्तं कालं स्थित्वा तथैव महता यत्नेन मोचयित्वात्मानं स्कैन्धावारगमनाय कादम्बरीभवनाभिर्ययौ । निर्गतं च तुरङ्गममारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान-मदलेखा विज्ञापयति- 'देवी कादम्बरी खलु प्रथमदर्शनजं नितप्रीतिः पत्रलेखां निवर्व्यमानामिण पायास्यति' इति श्रुत्वा देवः प्रमाणम् ।" इत्याकर्ण्य चन्द्रापीडः 'केयूरक, धन्या स्पृहणीया पत्रलेखा यामेवमनुषत्राति दुर्लभो देवीप्रसादः । प्रवेश्यताम् ।' इत्यभिधाय पुनः स्कन्धावारमेवाँ जगाम । प्रविशन्भेष पितुः समीपादागतमैभिज्ञाततरमालेखहारकमद्राक्षीत् । धृततुरङ्गमथ प्रीतिविस्फारितेन चक्षुषा दूरादेवाP पृच्छत् – 'अङ्ग, कचित्कुशली तातः सह सर्वेण परिजनेन ? अम्बा च सर्वान्तः पुरैः ?' इति । अथासावुपसृत्य प्रणामानन्तरम् 'देव, यथाज्ञापयसि' इत्यभिभाय डेसद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा स्वयमेव च तदुन्मुच्य क्रमशः पपाठसकलराजन्यशिखण्डशेखरीकृतचरणारविन्दः परममाहेश्वरो महाराजाधिराजो देवस्तारापीड: सर्वसंपदामायतनं चन्द्रापीडमुदञ्चच्चारुचूडामणिमरीचिचक्र'स्वस्त्युज्जयिनीतः एतत्कृतो मम विरहो मत्कृतश्चास्या इत्युभयथोघटमानार्थतया विरहतापः सोढुं शक्यो न वेति संदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयो रसपुष्टिस्तत्र चतुराभिर्दक्षाभिः कथाभिर्वार्ताभिर्महान्तं स्थित्वावस्थानं श्वस्य कालं च मुक्ति विधाय कृत्वा तथैव पूर्वप्रकारेणैव महता यत्नेनात्मानं मोचयित्वा स्कन्धावारगमनाय खसैन्यनिवेशगमनाय । 'स्कन्धावारोऽस्य तु स्थितिः' इति कोशः । चन्द्रापीडोऽपि कादम्बरीभवनान्निर्ययौ निर्जगाम । निर्गत च तुरङ्गममश्वमारुरुक्षन्तमारोदुमिच्छन्तं पश्चादागत्यैत्य केयूरकोऽभिहितवान् । किं तदित्याह- देवेति । हे देव, मदलेखा विज्ञापयति विज्ञप्तिं करोति । एतदेव दर्शयति — देवेति । खलु निश्चयेन देवी कादम्बरी प्रथमदर्शनेन जनिता प्रीतिर्यस्या एवंभूता पत्रलेखां निवर्त्यमानामिच्छति समीहते । पश्चाद्यास्यति गमिष्यति । इति श्रुत्वा देवः प्रमाणम् । इत्याकर्ण्य चन्द्रापीडः प्रवेश्यतां गृहीत्वा गम्यतामित्यभिधायेत्युक्त्वा पुनः स्कन्धावारमेवाजगाम । इति शब्दयोत्यमाह केयूरकेति । हे केयूरक, धन्या स्पृहणीया च पत्रलेखा यां पत्रलेखां दुर्लभो दुःप्रापो देवीप्रसादः कादम्बरीप्रसन्नता एवं अनुबधात्यनुबन्धं करोति । स्कन्धावार प्रविशन्नेव पितुः समीपाजनकपार्श्वादभिज्ञाततरमतिशयेन ज्ञातपूर्वमासमन्ताल्लेखैहारकमुदन्तहारकमद्राक्षीत् । धृततुरङ्गश्च स्थापिताश्वश्च प्रीत्या नेहेन विस्फारितेन विस्तीर्णीकृतेन चक्षुषा दूरादेवापृच्छत् । हे अङ्ग । कञ्चिदिति प्रश्ने । तातः पिता कुशली वर्तते । सर्वेण परिजनेन सह । तथा सर्वान्तःपुरैः सहाम्बा माता च कुशलिनीति । अथेति प्रश्नानन्तरम सावुपसृत्योपसरणं कृत्वा प्रणामानन्तरं नमस्कृतेरनु हे देव, यथाज्ञापयति यथा कथयसि तथास्तीति भावः । इत्यभिधाय लेखद्वितयमर्पयांबभूवार्पितवान्। युवराजस्तु चन्द्रापीडस्तु शिरसि कृत्षा मस्तके निधाय खयमेवात्मनैव तल्लेखद्वयमुन्मुच्योन्मुद्य क्रमशः पपाठ पठितवात् । . . किं तदित्याह – स्वस्तीति । स्वस्ति यथा स्यात्तथोजयिनीतो विशालातः सकलराजन्यानां समग्रभूपानां शिखण्डैश्चूडाभिः शेखरीकृतं चरणारविन्दं यस्य स परममाहेश्वरोत्युत्कृष्टशैवो महाराजाधिराजो महतां राज्ञामधीशस्तारापीडः सर्वसंपदां समप्रसमृद्धीनामायतनं गृहमेवंभूतं चन्द्रापीडमुददुलस चारु मनोहारि यचूडामणि टिप्प० -1 'कुमारभाव' शब्दस्य कौमार्य स्खमित्रनुरागवेति प्रकारहबेन घडितलया । 2 घन्मः ! आलेखहारकः पत्रवाहकः । पाठा० -१ मधुरालापगर्भाभिः कथाभिः, १ निजस्कन्धावार. ३ अभिजगाम; जगाम ४ अभिजाततरम्. ५७ का० कादम्बरी । [ कथायाम्चुम्बिन्युत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किं नु कियानपि कालो भ॑वतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तः पुरैम्लनिमुपनीता । अतो लेख वाचनविरैतिरेव प्रेयाणकारणतां नेतँव्या' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थ लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयत् । अथ 'यथाज्ञापयति तातः' इत्युक्त्वा तथैव च तुरगाधिरूढः प्रयाणपटहमदापयत् । समीपे स्थितं च महेताश्वीयेन परिवृतं महाबलाधिकृतं बलाहकपुत्रं मेघनादनामानमादिदेश – "भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावतीं भूमिमागमिष्यतीति, तन्मुखेन विज्ञाप्या प्रणम्य देवी कादम्बरी - 'नन्वियं सां त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानां येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेह कपटकूटजालिकमरीचिचक्रं शिरोमणिदीप्तिपटलं तचुम्बिन्युत्तमाङ्गे शिरसि चुम्बंश्चुम्बनं कुर्वन्नन्दयति प्रमोदयति । प्रजाः प्रकृतयः कुशलिन्यो मङ्गलवत्यः सन्ति । किं न्विति । किं नु भवतो दृष्टस्य कियानपि कालः समयो गतो व्यतीतः तेन नोऽस्माकं बलवत्युत्कण्ठोत्कलिका जाता यस्मिन्नेतादृशं हृदयमस्ति । देवी च तवाम्बा सहान्तः पुरैम्लनिमु बनीता प्रापिता । अत्र सहान्तः पुरैरित्यनेनोपमातरोऽपि त्वां समीहन्त इति सौजन्यातिशयः सूचितः । अतो हैतोर्लेखवाचनस्य विरतिरेवावसानमेव प्रयाणकारणतां प्रस्थाननिमित्ततां नेतव्या प्रापणीया । शुकनासेन प्रेषिते द्वितीयेऽपि लेखेऽमुमेवार्थं लिखितं लिपीकृतमवाचयदपठत् । अस्मिन्नेवावसरे समये समुपसृत्य समीपमागत्य वैशम्पायनोऽप्यपरमात्मीयं लेखद्वितयमस्मात्स्वकीयलेखादभिन्नार्थमेकाभिधेयमेव, अदर्शयद्दर्शितवान् । अथेति । तद्वाचनानन्तरं यथाज्ञापयति यथाज्ञां दत्ते तातः पिता । इत्युक्त्वा तथैव पूर्ववदेव तुरगाधिरूढः प्रयाणपटहं प्रयाणभेरीमदापयद्दापितवान् । समीपे स्थितं महताश्वीयेन बलेन परिवृतं महाबलं सैन्यं तत्राधिकृतं नियुक्तं बलाहकस्य पुत्रं मेघनादनामानमादिदेशादिष्टवान् । भवता त्वया पत्रलेखया सहागन्तव्यं समेसव्यम् । नियतं निश्चितं केयूरकस्तां पत्रलेखामादाय गृहीत्वैतावतीं भूमिमागमिष्यतीति तन्मुखेन केयूरकमुखेन प्रणम्य देवी कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकरणीया । नन्विति वितकें । तेषां मर्त्यानां या निरनुरोधा निर्गतः कस्याप्यनुरोधः स्वकार्यप्रतिबन्धो यस्यां, निर्गतः परिचयः संख्यानुवृत्तिर्यस्याम् । दुर्ब्रहेति । दुर्दुष्टो ग्रह आग्रहो हठो यस्यामेवंविधा प्रकृतिः स्वभावः सा प्रकृतिस्त्रिभुवन निन्दनीया स्यात् यत्तदोर्नित्याभिसंबन्धाद्वेषां मर्त्याना मकाण्डे प्रस्तावे विसंवादिन्यो व्यभिचारिण्यः त्रीतयो निष्कारणवत्सलतां निर्निमित्तहितकारितां न गणयन्ति न मनस्यानयन्ति । एवममुना प्रकारेण गच्छता व्रजता मयात्मनः स्नेहः स्वकीया प्रीतिः कपटं कैतवं तस्य कूटजालिका मिथ्या प्रपञ्चस्तद्रूपतां नीतः प्रापितः । भक्तिराराध्यत्वेन ज्ञानं वा साप्यलीका मिथ्या या टिप्प० – 1 परमवाहेश्वरष्टीकाकारो न जानाति यत् ' किं नु' इत्यस्य किं स्वारस्यम् । अस्तु 'किन्तु' इत्येव पाठः । 'सर्व कुशलं किन्तु...' इति तदर्थः । 2 वाचनावलानं न कारणम्, अतः 'प्रयाणकालताम्' इत्येव पाठः । 3 इति शब्दोत्र नोचितः । 4 परिज्ञानम् । 5 कपट: ( कपटकारी ) यः कूटजालिकः असत्यव्यवहारवान् तद्भावस्ताम् । पाठा० -१ भवतोत्कृष्टस्य गतः; भवतो गतस्य. २ देवीसमेतं नो हृदयम् ३ यतस्ततः ४ अविरतिरेव. ५ प्रयाण काळताम् ; प्रयाणकालता. ६ कल्याणिना नेतव्या. ७ अवादग्रत् ८ समीपस्थितम्, समीपावस्थितम्. ९ महता श्वेताश्रीयेन.. पूर्वभागः । चन्द्रापीडस्योज्जयिनीप्रस्थानम् ] ४५१ ताम्, प्रापिता भक्तिरलीककाकुकरणकुशलताम्, पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम्, प्रकटितं वायनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता। जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतदृष्टयो महताम् । न खलु तथा देवीं प्रति प्रबललज्जातिभारमन्थरं मे हृदयं यथा महाश्वेतां प्रति । नियत मेनामली काथ्यारोपणवर्णितास्मद्गुणसंभारामस्थान पक्षपातिनीमसकृदुपालप्स्यते देवी । तत्कि करोमि ? गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं देव्या हस्ते न दत्तमस्याः । दविकगौलिमकेनेव देवीप्रसादेन गन्तुं सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतो काकुर्वक्रोक्तिस्तस्याः करणे कुशलतां दक्षतां प्रापिता । उपचारो बाह्यविनयस्तन्मात्रेण मधुरं मिष्टमात्मार्पणं भवबीयोऽहमिति स्वस्यार्पणं धूर्ततायां पातितं क्षिप्तम् । वायनसयोरिति । 'अचतुर - ' इत्यादिना निपातः । भिन्नार्थत्वं विसंवादित्वं प्रकटितमाविष्कृतम् । तावदादावात्मास्तां तिष्ठतु । ममेति शेषः । अस्थानेऽयोग्य आहितः स्थापितः प्रसादो ययात एवाह - दिव्यानां योग्योचितैवंविधा देव्यपि कादम्बर्यपि दूरदेशागतेन चन्द्रापीडेन कारणं विना कथं सख्यं प्राप्तेति वक्तव्यतां वचनीयतां नीता प्रापिता । मयेति शेषः । हि यस्मात्कारणादभूमि पातिता अस्थानपातिता व्यर्था निष्फलाः प्रसादामृतदृष्टयः प्रसन्नतापीयूषदृशः पश्चान्महतां वैलेक्ष्यं जनयन्त्युत्पादयन्ति । स्थानविशेषे प्रीतिविशेषं प्रदर्शयन्नाह – न खल्विति । खलु निश्चये । न तथा देवीं प्रति कादम्बरीं प्रति प्रबला प्रकृष्टा या लज्जा त्रपा तस्या अतिभारोऽतिवीवधस्तेन मन्थरमलर्स मे मम हृदयं चेतो यथा महाश्वेतां प्रति वर्तते । नियतं निश्चितमलीकाध्यारोपेण वर्णितः स्तुतोऽस्मद्गुणसंभारो यया तामस्थानेऽनुचितस्थळे पक्षपातो विद्यते यस्या एवंविधामेनां महाश्वेतां देवी कादम्बर्यसकृद्वारंवारमुपालप्स्यते । उपालम्भ दास्यतीत्यर्थः । तकि करोमि । कोप्युपायो नास्तीत्यर्थः । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - गरीयसीति । देहमात्रकस्य शरीरैमात्रधारिणो गुरोराज्ञा निदेशो गरीयसी गरिष्ठा प्रभवति जायते । हेमेति । हेमकूटे निवासस्तव्यसनिना हृदयेन चित्तेन जन्मान्तरसहस्रस्य दास्यपत्रं लिखितमस्या देव्या हस्तेन दत्तम् । पितुरादेशाजनकनियोगा दुजयिनीं गन्तुं सर्वथाहं गतोऽस्मि । केन । देवीप्रसादेन । कादम्बर्या माहात्म्येनेत्यर्थः । देवयोनित्वात्तस्या इति भावः केनेव । दविकगौल्मिकेनेव वनेचरसमूहेनेव । सोऽपि देवी उपोदकी तदनुरोधेनैव C टिप्प० - 1 लजाम् । 2 पुनः सर्वं मूलपाठं विनाश्य विरूपीकृतो ग्रन्थः । कियत्परिशोच्यता मनधिकारी । अस्तु, भत्रयं मूलं विलिख्य आवश्यकोर्थः सूच्यते । 'हृदयेन तु हेमकूटनिवासव्यसनिना लिखितंसर्वथा जन्मान्तरसहस्रस्य दास्यपत्रं देव्याः । न दत्तमस्याटविकस्य गौमिकेनेव देवीप्रसादेन गन्तुम्, गतोसि पितुरादेशादुजयिनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्पर्तव्यश्चन्द्रापीडचण्डालः । मा चैवं संख्या : - इति पाठः । टीका - तर्हि किं देवीं (कादम्बरीम्) सर्वथा विस्मृतवानेव, अत आह-गुरोः ( पितुः ) आज्ञा देहमात्रकस्य केवलं देहस्य प्रभवति, तज्जनितत्वात् । अत एव हि कुत्सासूचकः कप्रत्ययः । अतः केवलं देहमुजयिनीं नयामि । हृदयस्य तु हेमकूटनिवासो व्यसनतया परिणतः । अत एतादृशेन हृदयेन तु ( कर्त्रा) नास्यैव जन्मनः कृते, अपि तु जन्मान्तरसहस्रस्य दास्यपत्र लिखित्वा देव्याः समीपे दत्तम् ( अतो हृदयं तन्निकटे स्थास्यति ) । विस्मरणाभावे अन्यदपि कारणमाह-गौल्मिकेन सेनाधिकृतेन आटविकस्य वनचरस्येव, देव्याः (कादम्बर्या: ) प्रसादेन अस्य ( अर्थात् मद्रूपय जमस्य ) गन्तुं न दत्तम्, सेनाध्यक्षो यथा चपलं वनेचरं नियमयति तथा देव्या अनुग्रहो मामपीत्यर्थः । किन्तु केवलं पितुरादेशादेहमात्रेणोजयिनीं गतोस्मि । पाठा० -१ पातितमुपचारमधुरम्; प्रकाशितमुपचारमात्र मधुरम् २ धूर्ततयात्मार्पणम् ३ वृष्टयः ४ देवमात्रस्य, हि देवमात्रकस्य ५ देव्या न मस्याटविकस्य गौल्मिकेनेव. ६ असंगत. ४५२ कादम्बरी । [ कथायाम् जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडः । चण्डालो मा चैवं मंस्थाः, यथा जीवन्पुनदेवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्र दक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाच कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः। गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः, रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति । एवमादिश्य तम्, 'सुहृदादिसाधनमकेशयता शनैः शनैर्गन्तव्यम्' इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्ग । स्वयमपि च तथारूढ एव गमनहेलाहर्षहेषारवकम्पितकैलासेन खुरताण्डवखण्डितभुवा कान्तकुन्तलतावनवाहिना तरुणतुरगप्रायेणाश्व सैन्येनानुगम्यमानस्तमेव लेखहारकं पर्याणलग्नमभिनवकादम्बरीवियोगशुन्येनापि हृदयेनोज्जयिनीमार्ग पृच्छन्प्रतस्थे । क्रमेण यातिप्रवृद्धप्रकाण्ड पादपप्रायया, मालिनीलतामण्डपैर्मण्डलितत रुखण्डया, वनगजगच्छति । तथा प्रसङ्गतो जनकथा सौन (सेव्य) सेवककथा तस्यां कीर्तनेषु नामोच्चारणेषु खलु निश्चयेन चन्द्रापीलः स्मर्तव्यः स्मरणीयः । अयं चण्डालः कृतघ्रत्वादेवं मा मंस्था मा जानीयाः यथा जीवन्पुनश्चन्द्रापीडो देव्याः कादम्बर्याश्चरणारविन्दस्याङ्घ्रिपद्मस्य वन्दनं नमस्करणं तस्माद्य आनन्दः प्रमोदस्तमननुभूयानुभवविषयीकृत्य स्थास्यति । अत्र काकुः न स्थास्यतीत्यर्थः । इति महाश्वेतायाश्च सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा शिरसा, मस्तकेन पादौ वन्दनीयौ नमस्करणीयौ । तथा मदलेखायाश्च प्रणामो नमस्कारस्तत्पूर्वकमशिथिलः कण्ठग्रहः कथनीयो वाच्यः । तथा गोढमत्यर्थमालिङ्गनीया परिरम्भणीया च तमालिका । अशेषः समग्रः कादम्बरीपरिजनोऽस्मद्वचनात्कुशलं श्रेयः प्रष्टव्यः । रचिताञ्जलिना च त्वया भगवान्हेमकूटा ना (आ) मन्त्रणीय आमन्त्रणीय इति पूर्वोक्तया दिशादिश्यादेशं दत्त्वा तं मेघनादम, सुहृदादिसाधनं मित्रादिसैन्यमक्लेशयताऽखेदयता त्वया शनैः शनैर्गन्तव्यमित्युक्त्वा वैशम्पायन न्धावारभरे न्ययुत नियोजितवान् । स्वयमपि च तथा पूर्वो'कप्रकारेणारूढ एव गमनलक्षणा या हेला तया हर्षः तस्य हेषारवस्तेन कम्पितः कैलासो येन । खुरेति । खुरताण्डवेन खण्डिता भूर्येन स तेन । कान्तेति । कान्ता मनोहरा ये कुन्ता भल्लाः सरलत्वसाम्यात्त एव लतास्तासां वनं तद्वाहिना । तरुण इति । तरुणा नव्या स्तुरगाः प्रायेण बाहुल्येन यस्मिन्नेवं विधेनाश्व सैन्येनानुगम्यमानस्तमेव पूर्वोक्तमेव लेखहारकं पर्याणं पल्ययनं तत्र लग्नम् । अभीति । अभिनवः प्रत्ययो यः कादम्बरीवियोगस्तेन शून्येनापि हृदयेनोज्जयिनीमार्ग पृच्छन्प्रतस्थे चचाल । . क्रमेण चेति । स चन्द्रापीड: क्रमेण परिपाट्या शून्ययाऽटव्या दिवसं गत्वा वासरमतिक्रम्य । परीति । परिणतं रक्तं रविबिम्बं यस्मिन्नेवंभूते वासरे सायंसमयेऽटवी क्षेत्रैर्विरलीकृतो यो वनप्रदेशस्तस्मिन् । चिरेति । चिरप्ररूढस्य । बहुकालीनस्येत्यर्थः । रक्तचन्दनतरोः पत्राज्ञवृक्षस्योपरि महान्तं रक्तध्वजं पुरत एव ददर्शेत्यन्वयः । इतोऽटव्या विशेषणानि–अतीति । अतिप्रवृद्धोऽतिवृद्धिं प्राप्तः प्रकाण्डः स्कन्धो येषामेतादृशाः पादपा वृक्षाः प्रायो बाहुल्येन यस्यां सा तया । मालीति । मालिनीसंज्ञिता या लता वल्लयस्तासां मण्डपैर्मण्डलिताश्चक्रवालितास्तरुखण्डा वृक्षसमूहा यस्यां सा तया । वनेति । वनस्य यो गजपतिर्यूथनाथस्तेन पातिता भग्ना ये पादपा वृक्षास्तेषां परिहारो वर्जनं तन्निमित्तकप्रतिबन्धवशाद्वक्रीकृतो मार्गः पन्था ५ भूमण्डलेन. पाठा०-१ असज्जन. २ चन्द्रापीडचण्डाल... ३ सुहृदापि साधनम् . ४ आगन्तब्यम्. ६ वार्ताम्. ४५३ पूर्वभागः । भार्गे शून्याटवी ] पतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्ण काष्ठकोटिकूटप्रकटितवीरेपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, तृषितपथिकखण्डितदलोज्झितामलकीफलनिकरया, विकसित कैरञ्जमञ्जरीरजोविच्छुरितत टैस्तट त रुबद्धपर्टेच रकर्पटध्वज चिह्रैरिष्टिकास्थितशुष्क पल्लव विष्टरानुमितपथिकविश्रामैर्विश्रान्तका र्पटिकैविस्फोटितधूलिधूसर किसलयलान्छितोपकण्ठैः पत्रसंकरासुरभीकृताशिशिरपङ्किलविवर्णाखा दुजलैव्रततिप्रन्थिग्रथितपर्ण पुटतृणपूलीचिहानुमेयै जरत्कान्तारकूपैर सुलभ सलिलतयानभिलषितोद्देशया, मधुबिन्दुस्यन्दि सिन्दुवारवनराजिरजोधूसरिततीराभिश्च कुञ्जकलताजालकैर्जटिलीकृत सैकताभिरध्वगोत्खातवालुकाकूपयस्यां सा तया। जनेनेति । जनेन लोकेन जनितं निष्पादितं यत्तृणं पर्णकाष्ठानां कोटी तस्याः कूटं शिखरं तादृशचिहेन प्रकटितं वीरपुरुषाणां घातस्थानं यस्यां सा तया । सांप्रतमपि तथा कुर्वन्तीति सर्वलोके प्रसि द्धम् । महेति । महापादपानामुच्चैस्तरवृक्षाणां मूलानि प्रसिद्धान्युत्कीर्णानि यस्मिन्जेवंभूतं कान्तारं वनं तदेव विषमत्वाद्दुर्गं यस्यां सा तया । कान्तारं विशेषरूपम्, अटवी तु सामान्यरूपेति न पुनरुक्तदोषः । तृषितेति । तृषिताः पिपासिता ये पथिकजनास्तैः खण्डितानि द्वैधीकृतानि दलानि पत्राणि येषामेवंविधान्युज्झितानि रसास्वादानन्तरं त्यक्तान्यामलकीफलानि तेषां निकरः समूहो यस्यां सा तया । जरमिति । जरन्तो जीर्णा ये कान्तारकूपास्तैः कृत्वा न सुलभं सलिलं जलं यस्यां तस्या भावस्तत्ता तयानभिलषितो नेप्सितः । पान्थेनेति शेषः । उद्देशः प्रदेशो यस्याः सा तया । अथ कान्तारकूपान्विशिनष्टि — विकसितेति । विकसिता विनिद्रा ये करजा नक्तमालास्तेषां मञ्जर्यस्तासां रजोभिः परागैर्विच्छुरितानि धूसरितानि तटानि कूपोपकण्ठा येषां तैः । तटेति । तटतरुषु कूपोपकण्ठसमुद्भवत्रक्षेषु बद्धाः पटैच्चरैश्चारैः कर्पटध्वजः स एव कूपाभिव्यञ्जकं चिह्नं येषां तैः । इष्टिकेति । इष्टिकाः स्थिता येषु, शुष्कपल्लव विष्टराः संस्तारकास्तैरनुमिताः पथिकानां विश्रामा येषु तैः । विश्रान्तेति । विश्रान्ताः स्थिता ये कार्पटिकास्तैर्विस्फोटिता दूरीकृता या धूली रजस्तया धूसराणि मलिनानि किसलयानि पल्लवास्तैर्लाञ्छितश्चिह्नित उपकण्ठो येषां तैः । पत्रेति । पत्रसंकरैः पर्णसमूहैरसुरभीकृतान्यत एवाशिशिराण्यशीतलानि पङ्किलानि कर्दमयुक्तानि विवर्णान्य शुभवर्णान्य स्वादूनि खादु (द ) रहितानि जलानियेषां तैः । व्रततीति । व्रततीनां वल्लीनां प्रन्थिभिर्मथिताः पर्णपुटयुक्तास्तृणपूल्यस्ता एव चिह्नानि तैरनुमातुं योग्यैः । शुष्केति । शुष्का गिरीणां नद्य एव नदिकाः । स्वार्थे कः । 'केऽणः' इति हवः । ताभिर्विषमीकृतं स्थपुटीकृतमन्तरालं मध्यं यस्याः सा तया । अथ नदिं विशेषयन्नाह - मध्विति मधुबिन्दुस्यन्दीनि यानि सिन्दुवारवनानि निर्गुण्डीकाननानि तेषां राजिः पङ्किस्तस्या रजः परागस्तेन धूसरितानि तीराणि तटानि यासां ताभिः । कुञ्जकेति । कुञ्जकलताः प्रसिद्धास्तासां जालकैर्जटिलीकृतानि सैकतानि जलोज्झित पुलिनानि यासां ताभिः अध्वगैरिति । अध्वगैः पथिकैरुत्खाताः खनिता वालुकासु कूपका विदारकास्तेषूपलभ्यमानं प्राप्यमाणं कलुष टिप्प० - 1 तृण- पर्ण-काष्ठानां कोटिसंख्यका ये कूटाः तैः प्रकटितं वीरपुरुषाणामपि घातस्थानं यस्य ला । वीरायिता अपि पान्थजनाः हिंस्रजन्तुभ्यो निजरक्षणार्थ तृणकाष्ठादीनां कूटं कृत्वा तन्मध्ये प्रविश्य निशि निवसन्तीति भयङ्करत्वं सूच्यते । 2 'मूलेषु उत्कीर्णाः निस्तक्ष्य निर्मिताः कान्तारदुर्गा वनदुर्गाम र्तयो यस्याम्' इति केचित् । 3 बद्धा ये पटच्चराणां जीर्णवस्त्राणां कर्पटा वस्त्रखण्डास्त एव ध्वजचिह्नं येषामित्यर्थ: । 'पटच्चरं जीर्णवस्त्र' मित्यमरः । 4 इष्टकासु स्थिता ये शुष्कपल्लवानां विष्टरा: ( उपवेशनार्थमा स्तरणानि ) तैः अनुमिताः । 5 तृषिताः पथिका रजत्राः पात्रस्य चाभावे, तृणैर्गुरुभारां पूल निर्माय तन्त्र च पत्रपुटकं दृढमाधाय दीर्घलताभिर्बध्वा पत्रपुटकै जेलमुदञ्चन्तीति युक्तिः । 6 उच्चावचीकृतम्, प्रावृहजलप्रवाहे तलदेशो नतोन्नतो भवतीत्यर्थः । 7 क्षुद्रकुञ्जरूपेण जटिलीभूता लताः । पाठा० -१ पथया. २ वीरपुरुषहृदयघात. ३ कपिकच्छूच्छुरितमञ्जरी ४ जरत्कर्पट ५ इष्टकास्थित, इष्टकचित. ६ प्रस्फोटितचरण; प्रस्फुटित ७ तृणपुली; तृणोलुपपुलाक• ८ अनुमितप्रमेयैः• ९ कुब्जक. ४५४ कादम्बरी । [ कथायामकुकुटकुलकौकोपलभ्यमा नकलुषस्वरूपसलिलाभिः शुष्कगिरिनदिकासिर्विषमीकृतान्तरालया, लेयकरटितानुमीयमानगुल्मगहन प्रामटिकया, शून्यया दिवसमटव्या गत्वा, पेरिणतर विविम्बे बिम्बारुणातपविसरे वासरे, निःशाखीकृतकदम्बशाल्मलीपलाशबहुलैः शिखरशेषैकपल्लवविडम्बितातपत्रैः पादपैरूर्ध्वस्थितप्ररोह स्थूलस्थाणुमूलप्रन्थिजटिलैश्च हरितालकपिलपक्कवेणुविद पर चितवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाक पाण्डुभिः फैलिनैः प्रियकुप्रायैरटनी क्षेत्रैर्विरलीकृतवन प्रदेशे चित्र प्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम् सरसपिशित पिण्डनिभैरलक्तकैर भिनवशोणितारुणेन रक्तचन्दनरसेन चांद्रम्, जिद्दालतालोहिनीभी रक्तपताकाभिः केशकलापकान्तिना च कृष्णचामरावचूलेन प्रत्यप्रविशसितानां जीवानामिवावयवैरुपचितदण्डमण्डनम्, मलिनं स्वल्पं स्तोकं सलिलं जलं यासु ताभिः । कुक्कुटेति । कुक्कुटकुलं ताम्रचूडवंशः, कौलेयकाः श्वानः तेषां रटितं शब्दितं तेनानुमीयमाना संभाव्यमाना गुल्मगहने ग्रामटिका क्षुद्रग्रामो यस्यां सा तया । अथ वासरं विशिनष्टि—बिम्बेति। बिम्बसंबन्धी योऽरुणो रक्त आतपः सूर्यालोकस्तस्य विसरः समूहो यस्मिन् । 'समुदायराशिविसरत्राताः कलापो व्रजः' इति कोशः । तथैवंविधैः पादपैरटवीक्षेत्रैश्च विरलीकृतोऽनिबिडीकृतो यो वनप्रदेशो वनैकदेशस्तस्मिन् । अथ पादपान्विशिनष्टि - निःशाखीति । निःशाखीकृता निःशालीकृताः । वने.. चरैरिति शेषः । एवंविधाः कादम्बा नीपाः शाल्मल्यो वृक्षविशेषाः, पलाशा ब्रह्मपादपा बहुला "बाहुल्येन येषु तैः । अनेन सरलत्वाद्दण्डरूपत्वं सूचितम् । शिखरेति । शिखरं वृक्षाग्रं तत्र शेषोऽवैशिष्ट एकः पल्लवः किसलयं तेन विडम्बितान्यातपत्राणि छत्राणि यैः । अथ क्षेत्राणि विशेषयन्नाह - ऊर्ध्वेति । ऊर्ध्वस्थिताः प्ररोहा नवीना ङ्कुरौः स्थूलाः स्थाणवः शङ्कवश्च तेषां मूलग्रन्थिभिरप्रिन्थिभिर्जटिलैर्व्याप्तैः । हरितालं नटमण्डनं तद्वत्कपिलाः पिङ्गला ये पक्कवेणुविर्टपाः परिणतवंशवृक्षास्तेषां रचिता वृतिः सुगहना येषां तैः । मृगेति । मृगा हरिणास्तेभ्यो भयं भीतिस्तस्मात्कृतास्तृणपुरुषाश्चञ्चापुरुषा येषु तैः । विपाकेति । विपाकेन परिणत्या पाण्डुभिः पाण्डुरैः । फलिनैः फलवद्भिः । 'फलवान्फलिनः फली' इति कोशः । प्रियङ्गुः श्यामा प्रायो बाहुल्येन येषु तैः । सरसेति । सरसोऽशुष्को यः पिशितपिण्डो मांसपिण्डस्तस्य निभैः सदृशैरलक्तकैर्यावकैः । तथाभिनवं प्रत्यग्रं यच्छोणितं रक्तं तद्वदरुणेन लोहितेन रक्तचन्दनं पत्राङ्गं तस्य रसेन चार्द्र समुन्नम् । जिह्वेति । जिह्वा एंव लता तद्वल्लोहिनीभी रक्ताभी रक्तपताकाभिहितवैजयन्तीभिः । केशेति । केशकलापवत्कान्तिर्यस्यैवंभूतेन कृष्णचामरस्य .श्यामवालव्यजनस्यावचूलेनाधोमुखकूर्चकेन, प्रत्यग्रं तत्कालं विशसितानां हतानां जीवानामवयवैरपघनैरिवोपटिप्प० -- 1 वासरे, बिम्ब फलवत् अरुण आतप विसरो यस्मिन् एवंविधे सति । 2 शेषा एकैके (अर्थात् विरलीभूताः, गुच्छकी भूताः ) ये पल्लवाः तैर्विडम्बितानि । कदम्बादीनामेकपत्रेणातपत्रत्वं न सिध्यति । 3 ऊर्ध्वस्थिता नवीनाङ्कुरा येषां ते, तादृशा ये स्थूलाः स्थाणवः निःशाखास्त रुस्तम्बाः तेषां मूलग्रन्थिभिः । 4 शाखाः । शाखार्थके विटपपदे सर्वत्र 'विटपि' भ्रमं तनुते भाग्यशाली । 5 तेषां भयाय ( मृगाः-रक्षापुरुषान् ज्ञात्वा भयेन नागच्छेयुरिति ) । 6 जिह्वा लता इव तद्द्वल्लोहिनीभिरिति उपमितसमास एवोचितः, जिह्वाप्राधान्ये एव तासां लोहितत्वं वक्तुं शक्यम् । 7 जीवानामवयवैः उपरचितं दण्डस्य (केतु. दण्डस्य ) मण्डनं भूषणं यस्य तमिव, इत्येवम् ' इव' शब्दस्यान्वयो योग्यः, पताकानां जिह्वातुल्यत्वात् कृष्णचामरस्य केशसहशत्वादित्याशयः । पाठा० -१ ग्रामया; ग्रामकिया. २ परिणते रविबिम्बे ३ संध्यारुणा. ४ निःशाखीकृतैः ५ ऊवींकृत प्ररोहस्थूलस्थितस्थाणुमूलग्रन्थिजटिलैः; अर्धोद्धृतप्ररोहन्मूलस्थूलस्थाणुग्रन्थिजटिलैः ६ विटपिदलरचित; विटपदलविरचित; चिटपपटलरचित, ७ फलितैः ८ दूरत एवाचिरप्ररूढस्य ९ रक्तचन्दनस्य तरो:० १० आर्द्रजिहा. रक्तध्वजस्य दर्शनम् ] पूर्वभागः । परिणतवराटकघटितबुदु दार्धचन्द्रखण्डखचितम् सुतमहिषरक्षणावतीर्णदिनकरावतारितशशि-: नेव विराजितशिखरम्, दोलायितटङ्गसङ्गिलोहशृङ्खलावलम्बमानघर्घरस्वघोरघण्टया च. घटितकेसरिसटारुचिरचामरया काञ्चनत्रिशूलिकया लिखितनभस्तलम् इतस्ततः पथिकपु रुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श । ४५५ १ · 2 तभिमुखश्च किंचिदध्वानं गत्वा केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तवाटेन परिवृताम्, लोहतोरणेन नवारक्तचामरावलिपरिकरां कालाय सदर्पणमण्डलमालां शबरमुखमालामिष कपिलकेशभीषणां बिभ्राणेन सनाथीकृतंद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहित रक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालितेनेव शोणित नवलोभलोलशिँवा विलिहा42 चितो व्याप्तो यो दण्डः स एव मण्डनं यस्य स तम् । परीति । परिणताः पक्का ये वराटकाः कपर्दकास्तेषां (तैः) घटिता निर्मिता ये बुद्बुदाः स्थासका अर्धचन्द्राकृतिखण्डाश्च तैः खचितं व्याप्तम् । वर्तुलत्ववऋत्व साम्यादुत्प्रेक्ष ते - सुतेति । सुतो यमस्तस्य महिषो रक्ताक्षस्तस्य रक्षणं त्राणं तदर्थमवतीर्णो यो दिनकरः सूर्यस्तेनावतारितो यः शशी तेनेव विराजितं शोभितं शिखरमग्रभागो यस्य स तम् । दोलेति । दोलायिता या शृङ्गसङ्गिनी लोहश्शृङ्खला तत्रावलम्बमाना घर्घररवा काहलखरा घोरा भीषणा घण्टा यस्यां सा तया । घटितेति । घटिता या केसरिसटा तद्वद्रुचिराणि मनोहराणि चामराणि यस्यामेवंविधया काञ्चनत्रिशूलिकया लिखितं नभस्तलं येन स तम् । इतस्तत इति । इतस्ततः पथिकपुरुषाणामध्वनीनपुंसामुपहारमार्गमिव बलिपन्थानमिवालोकयन्तं पश्यन्तम् । अन्वयस्तु प्रागेवोक्तः । 2 तदिति । तस्याभिमुखस्तत्संमुखः किंचिदध्वानं मार्ग गत्वाऽकारण क्रोधादयो द्रविडधर्मास्तद्वता जरी यसा पुरुषेणाधिष्ठितामाश्रितां चण्डिकामपश्यदित्यन्वयः । अथ चण्डिकां विशिनष्टि - केतकीति । केतक्या या सूचित्रिपत्रकम् । 'त्रिपत्रकः सूचिरित्यभिधीयते' इत्यमरः । तस्य खण्डास्तद्वत्पाण्ड शुभ्रेण, वनद्विरदा अरण्यहस्तिनस्तेषां दन्ता रदनास्तेषां कपाटेन लोकभाषया कटहरेण दन्तनिर्मितकपाटेन वा चतुर्दिक्षु परिवृताम् । आवृतामित्यर्थः । लोहिते । लोहमयं यत्तोरणं तेन सनाथीकृतो द्वारदेशो यस्यास्ताम् । किं कुर्वता तोरणेन । बिभ्राणेन दधता । काम् । कालायसं लोहविशेषस्तस्य यानि दर्पणमण्डलानि तन्मयी या माला वन्दनमाला ताम् । कीदृशम् । नवेति । नवानि यान्यारक्तचामराणि तेषामावलिः पतिः सैव परिकरो यस्याम् । अत्र कालायसदर्पणस्यातिश्यामत्वाञ्चामरस्यातिरक्तत्वाच तत्साम्येनोत्प्रेक्षते - शबरेति । कपिलकेशभीषणां शबरमुखमालामिव । तेषां तु मुखानि श्यामानि, केशाश्च पिङ्गाः । अत उपमानोपमेयसाम्यम् । अभीति । अभिमुखं संमुखम् । चण्डिकाया इति शेषः । प्रतिष्ठितेन स्थापितेन लोहमहिषेणाध्यासिताश्रिताञ्जनशिलावेदिका यस्याः सा ताम् । विनीति । विनिहिता दत्ता ये रक्तचन्दन हस्त का स्तेषां भावस्तत्ता तया रुधिरेणारुणं यद्यमकरतलं युग्मपाणितलं तेनास्फालितेनेव, लोचनयोरतिलौहित्यवशात्रुधिर भ्रमेणाह – शोणितेति । शोणितस्य रुधिरस्य नवः प्रत्यग्रो लोभस्तेन लोला या शिवा जम्बुकप्रिया तया टिप्प० -1 वस्तुतस्तु बुहुदवत् ( बुद्बुदसमानः पीनो मध्यभागो यस्य) यः अर्धचन्द्रखण्डः (अर्ध चन्द्राकारं भूषणम्) तेम खचितम् । चन्द्रखण्डे एकत्वमेवोचितं यतो ह्यमे उत्प्रेक्षते - सुतमहिषस्य रक्षणार्थमवतीर्णेन दिनकरेण स्वसहचरश्चन्द्रोग्यवतारित इति । चण्डिकागृहे प्रत्यहं पशुबलयो दीयन्ते तदर्थं यमः संनिहितः । एवं बालव्याकुलदायां पशुबुद्ध्या मा फेनचित् यममहिषो विहन्यतामिति सुत मेहेन सूर्योऽवतीर्ण इत्युत्प्रेक्षाशयः । 2 त्रिशूलिकाया एव एक शृङ्गम् तद्वद्वा । 3 घटितं संयोजित केसरि सटावत् चामरं यन्त्र तथा । मौलिकलशलम्बिते त्रिशूले चामरोपि लम्ब्यते । 4 'शोणितलवलोभ' इत्येव कबेरभीष्टः पाठः । शोणितलव ( लेश ) स्थ लोभ इति तदर्थः । पाठा० -१ परिणद्ध; हाटकघटितबुद्बुदपुटार्धचन्द्र २ लोहशृङ्गलमाला, ३ केतकीसन्चितखण्डपाण्डुना च ४ कपाटेन. ५ रक्तचन्दननिहित ६ शोणितलवलोभ; शोणितलोभ, ७ शिवालिपमान. ४५६ कादम्बरी । [ कथायाम् कचिद्रक्तोत्पलैः शबरनिपातिमानलोहितलो चनेन लोहम हिषेणाध्यासिताञ्जनशिलावेदिकाम्, तानां वनमहिषाणामिव लोचनैः कचिदंगस्तिकुडलैः केसरिणामिव करजैः कचित्किंशुककुसुमकुङ्मलैः शार्दूलानामिव सरुधिरैर्नखरैः कृतपुण्यपुष्पप्रकराम्, अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वा च्छेदशतैः कुसुमितामिव रक्तनयनसहस्रैः फलितामिव मुण्डमण्डलैः उपहारहिंसां दर्शयन्तीम्, शाखान्तरालर्निलीनरक्तकुक्कुटकुलैः श्वभयादकालदर्शित कुसुमस्त बकैरिव रक्ताश्मेक विट पैर्विभूषिताङ्गणाम्, बलिरुधिर पानतृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्का ज्वरकम्पितैरिव कदलिकाव नैर्मयोत्कण्ट कितैरिव श्रीफलतरुखण्डैखा सोर्ध्वकेशैरिव खर्जूरवनैः समन्ताद्गहनीकृताम्, वनकरिकुम्भविदलितरक्तमुक्ताफलानि रुधिरारुणानि बलिसिक्थलुब्धमुग्धकृकवाकुप्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीडद्भिः केसरिकिशोर कैरशून्योद्देशाम्, प्रभूतरुधिरदर्शनोद्भूतमूर्च्छापबिलिह्यमाने आखायमाने लोहिते लोचने नेत्रे यस्य स तेन । क्वचिदिति । कास्मंश्चितप्रदेशे शबरनिपातितानां भिल्लव्यापादितानां वनमहिषाणां लोचनैरिव नेत्रैरिव रक्तोत्पलैः कोकनदैः । क्वचित्केसरिणां कण्ठीरवाणां करजैर्नखैरिवागस्तिक का लैर्मुनिवृक्षमुकुलैः । क्वचिदिति । कचिच्छार्दूलानां द्वीपिनां सरुधिरैर्नखरैरिव किंशुको ब्रह्मपादपस्तस्य कुसुमकुजालैः कृतो विहितः पुण्यः पवित्रः पुष्पप्रकरो यस्यां सा ताम् । अन्यत्रेति । अन्यस्मिन्स्थले कुटिलानि वक्राणि हरिणविषाणानि मृगशृङ्गाणि तेषां कोटयस्तासां कूटैः समूहैरङ्कुरितामिव प्ररोहितामिव । सरसेति । सरसा या जिह्वा रसनास्तासां छेदशतैः पल्लवितामिव किसलयितामिव । रक्तेति । रक्तानि नयनसहस्राणि तैः कुसुमितामिव पुष्पितामिव । मुण्डमण्डलैः फलितामिव संजात फलामिव । उपेति । उपहारहिंसां बलिप्रमथनं दर्शयन्तीं प्रकटयन्तीम् । चण्डिकायाः संमुखवेदिकां वर्णयित्वाजणं वर्णयन्नाह~~ शाखेति । श्वभयात्कौलेयकभीतेः शाखान्तराले शाखाविचाले निलीनानि मध्यप्रविष्टानि यानि रक्तकुटकुलानि लोहितताम्रचूडपटलानि येष्वेवंविधैरकाले दर्शितकुसुम स्तब कैरिव रक्ताशोकविटपैहितकडेलिवृक्षैर्विभूषितं शोभितमङ्गणमजिरं यस्याः सा ताम् । बलेरुपहारस्य रुधिरपानं रक्तास्वादनं तस्य तृष्णया गर्धेन समागतैः तालैः । उच्चत्वसाम्येनाह-वेतालैरिति । तालफलानां मस्तकसाम्येनाहदीयमानेति । बीयमानानि फलान्येव मुण्डानि शिरांसि तान्येवोपहारो बलिर्यस्यै सा ताम् । कदलिकावने कम्पातिशयं बिल्वखण्डे कण्टकातिशयं खर्जूरीवन ऊर्ध्वपत्रातिशयं व्यञ्जयिनुमुत्प्रेक्षते - शङ्केति । शङ्कापशुवधदर्शनजनिता तस्या यो ज्वरस्तापस्तेन कम्पितैरिव कदलिकावनै रम्भाकाननैः, भयेन भीत्योत्कण्ट कितैरिव संजातरोमाञ्चैरिव श्रीफलतरुखण्डै:, त्रासेन भयेनोर्ध्वं केशा येषामेवंविधैरिव खर्जूरवनैः समन्ताद्गहनीकृताम् । सर्व॑तो व्याप्तामित्यर्थः । पुनः प्रकारान्तरेण तामेव विशेषयन्नाह – वनेति । वनकरिणां काननहस्तिनां कुम्भेभ्यो विदलितानि विनिर्गतानि रक्तमुक्ताफलानि । कीदृशानि । रुधिरेण रक्तेनारुणानि लोहितानि । पुनः कीदृशानि । बलिसिक्थेषूपहारकणेषु लुब्धा आसक्ता मुग्धा ये कृकवाकवस्ताम्रचूडास्तैः पूर्वं ग्रस्तानि गृहीतानि पश्चान्मुक्तानितानि विकिद्भिरितस्ततो विक्षिपद्भिः । अम्बिकायाः भैरव्याः परिग्रहेण स्वीकारेण दुर्दुष्टं ललितं चेष्टितं येषां तैः क्रीडद्भिः क्रीडां कुर्वद्भिः केसरिकिशोर कैर्नखरायुधबालकैरशन्य उद्देशः प्रदेशो यस्याः सा ताम् । टिप्प० - 1 रुधिरपानतृष्णया समागतैस्तालै रित्यम्वयोऽशुद्धः । समागतैर्वेता लैरिव तालैरित्युचितम् । 2 'रक्त' इति विशेषणयोजनं टीकाकर्तुरेव लाघवम्, 'रुधिरारुणानि' इत्यनुपदं दत्ततया पौनकत्त्यात् । 3 रुधिराक्कतथा पूर्व गृह्णद्भिस्ततो मांसाद्यभावास्परित्यजद्भिरित्याशयः । 4 चण्डिकायाः । पाठा०-१ लोहित. २ अगस्त्यतरुकुबालैः; अगस्तिकुसुमकुझल.. ३ प्रकरोपहाराम्. ४ निरन्तरनिलीन. ५ तृष्णासमागतैः . ६ खर्जूर, खजुर, ७ विदलितवनकरिकुलकुम्भविदलित मुक्ताफलानि ८ नवरुधिरारुणन लि. चण्डिकावर्णनम् ] पूर्वभागः । ४५७ तितेनेव प्रतिबिम्बिते नास्ततात्रेण सवित्रान्तरीकृतैः जवाः पिच्छिलीकृताजिराम्, अवलम्बमानदीपँधूमरकांशुकेन प्रथितशिखिगलवलयावलिना पिष्टपाण्डुरितघनघण्टामालाभारिणा ब्रापुषसिंहमुख मध्य स्थितस्थूललोहँ कण्टकं दत्तदन्तदण्डार्गलं गलत्पीत नीललोहितदेर्पणस्फुरितबुइदमालं कपाटपटद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, अन्तः पिण्डिकापीठेपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरैलेक्तक पटेर विरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबिएतेन सिंहबाहुल्यं वर्णितम् । तद्र्णनाञ्च महाविपिनवासित्वं व्यङ्ग्यम् । क्षतजानि रुधिराणि तेषां प्रवाहैरोघैः पिच्छिलीकृतं विजिली कृतमजिरमङ्गणं यस्याः सा ताम् । कीदृशैः क्षतजप्रवाहैः । प्रतीति । प्रतिबिम्बितेन संक्रान्तेनास्त ताम्रेणास्त समयक्तेन सवित्रा सूर्येणान्तरीकृतैर्व्यवधानीकृतैः । पतनसाम्येनाह– प्रभूतेति । प्रभूतं भूयिष्ठं यदुधिरं रक्तं तस्य दर्शनमवलोकनं तेनोद्भूता संजाता या मूर्च्छा तया पतितेनेव । स्रस्तेनेव । गर्भेति । गर्भगृहमपवर करतस्य द्वारदेशेन प्रतीहारप्रदेशेन दीप (ध्य ) मानां शोभमानाम् । अथ द्वारदेशं विशेषयन्नाह अवलम्बेति । अवलम्बमाना ये दीपा गृहमणयस्तेषां धूमै रक्तानि रक्षितान्यंशुकानि यस्मिन् । एतेन दीपकबाहुल्यं वर्णितम् । अवलम्बमाना दीपा धूमा उत्क्षिप्यमाणकृष्णा गुरुसंबन्धिनो रक्तांशुकानि च यस्मिन्निति वा । द्वारदेशातिशयवर्णनमेतम् । ग्रथितेति । प्रथिता गुम्फिताः शिखिनो मयूरास्तेषां गलवलयानां बिगरणकण्टकानामावलयः श्रेणयो यस्मिन्स तेन । पिष्टेति । पिष्टवैत्पाण्डुरिता धूसंरवर्णा घना निबिडा या घण्टास्तासां माला श्रेणिस्तां बिभर्तीत्येवंशीलेन भारिणा । किं कुर्वता द्वारदेशेन । दधानेन बिभ्रता । किम् । कपाटस्याररस्य पटद्वयम् । तदेव विशिष्टि - त्रापुषेति । त्रापुषः श्वेतरूप्यनिर्मितो यः सिंहो हर्यक्षस्य मुखम ध्यस्थितं स्थूलं लोहकण्टकं यस्मिन् । दत्ता दन्तदण्डस्यार्गला यस्मिन् । गलदिति । गर्लन्तः सवन्तः पीतनीललोहिता इति त्रयोपादानं विविधवर्णोपलक्षणम् । तेषां दर्पणेभ्यः स्फुरिता विद्योतिता बुद्बुदाकृतयो द्युतिपुजास्तेषां माला यस्मिन् । पुनः कीदृशीम् । अन्तरिति । अलक्तकपटैर्यावकरसरक्तवस्त्रैर विरहितं चरणयो र्मूलं यस्याः सा ताम् । चरणमूलेऽपि रक्तवस्त्राणि शोभातिशयार्थ घ्रियन्ते । तत्र हिंसितपशुजीवितानां रुधिरसंबन्धवशाक्तपटा रुण्य साम्येनोत्प्रेक्षते । अन्तर्मंध्यवर्तिनी या पिण्डिकी तस्याः पीठं तत्र पातिभिः पतनशीलैः है: आरुण्यव्यञ्जकमुक्त्वा चरणमूलसंबन्धनियामकमाह - शरणेति । शरणमुपागतः सर्वपशुजीवितैरिव । रुधिरस्यापि जीवितेन सह गमनादुपमानोपमेयभावः । पतितेति । पतितानि कृष्णचामराणां प्रतिबिम्बानि येष्वेवंविधानां परशुः परश्वधः, पट्टिशः शस्त्रविशेषः, एतत्प्रभृतीनां जीव विशसनशस्त्राणाम् । नीलातिशय टिप्प० - 1 'ताम्रतरीकृतै रिति रुचिरः पाठः । क्षतजप्रवाहाः पूर्वमेव रक्तवर्णाः, ततस्तु अस्तकालिकसूर्यप्रभया अत्यन्तमरुणीकृता इति तदाशयः । 2 दीपा न अवलम्बन्ते अपि तु वस्त्राणि, तस्मात् भवलम्बमानानि दीपधूमै रक्षितान्यंशुकानि यस्मिन्निति वक्तव्यम् । 3 पिष्टेन पाण्डुरिताः [ पित्तलघण्टाः ] । 4 धनां घण्टामालां बिभर्ति तच्छीलेन घनघण्टामालभारिणा । 'इष्टकेषकेत्यनेन' हस्वः । तस्मात् 'मालभारिणा' इत्येव पाठो युक्तः । 5 'लसत्पी तनीले 'त्यादिरेव पाठो युक्तः । लसत्सु संमुखे शोभमानेषु पीतनील-लोहितवर्णेषु दर्पणेषु स्फुरिता ( प्रतिबिम्बिता ) बुदबुदमाल । बुद्बुदसमानाकारलोहश हुश्रेणियस्मिन् तत् । कणटद्वये ये लोहकीलका जटितांस्ते 'जगन्मोहन' । निजमन्दिरम्याप्रभागः । स्थदर्पणेषु प्रतिबिम्बिता इत्याशयः । 6 वेदिः तत्र यस्पीठम् मूर्तिस्थापनाय सिंहासनम् । 7 अज्ञानमिदम् । कृष्णानां चामराणां तेषु प्रतिबिम्बः पतितः, अत एव शिरश्छेदे सति लग्नं केशजालं येषु ईदृशानि दृश्यन्ते शस्त्राणि । पाठा -१ तात्रतरीकृतै. २ क्षतजजल ३ दीपंधूपधूसर ४ वलयावलम्बिना. ५ पिष्टपिण्डपाण्डुरित. ६ माला धारिणा; मालभारिणा. ७ लोहकण्टकदत्तदन्तदण्डार्गलगलत्पीत, ८ लसत्. ९ तर्पण. १० पट्टा; पट्टक. ११ पट्ट १२ अलक्तक पुटः, अलक्तकरसरक्रूपुटैः." ५८ का० ४५८ कादम्बरी । न्वानां च शिरश्छेदलमकेशजालकानामिव पेरशुपट्टिशप्रभृतीनां जीष विशसनश स्राणां प्रभाभिबद्धबहलान्धकारतया पातालगृहवासिनीमिवोपलक्ष्यमाणाम, रक्तचन्दनखचितरफुरत्फलपल्लबकलितैश्च बिल्वपत्रदामभिर्बालकसुण्डप्रालम्बैरित्र कृतमण्डनाम्, शोणिततात्र कदम्बस्तबककृतार्चनैश्च पेशूपहारपट इपटुरटितर सोल्लसित रोमारिवाङ्गैः क्रतामुद्रहन्तीम्, चारुचामीकरपट्टप्रावृतेन च लड़ाटेन शबरसुन्दरीरचितसिन्दूर तिलकविन्दुना दांडिमकुसुमकर्णपूरप्रभासेकलोहितायमानकपोलभित्तिना रुधिरताम्बूलारुणिताधरपुटेन भृकुटिकुटिलबभ्रुणा रक्तनयनेन मुखेन कुसुम्मैपाटलितदुकूलकलितया च देहलतया महाकालाभिसारिकावेशविभ्रमं विवतीम्, संपिण्डितनीलगुग्गुलधूपधूमाहणी कृताभिश्च प्रचलन्तीभिर्गर्भगृहदीपिकालताभिरवशादाह --शिरश्छेदेति । शिरश्छेदानन्तरं लमं केशानां जालकं समूहो येष्वेतादृशानामिव प्रभाभिः कान्तिभिर्बद्धो बहलो निबिडो योऽन्धंकार स्वस्थ भावस्तत्ता तथा पातालगृहवासिनीमिवोपलक्ष्यआणां दृश्यमानाम । रक्तेति । रक्तचन्दनेन पत्राङ्गेन खचिता व्याप्ताः स्फुरन्तो दीप्यमाना फलपल्लवा स्यैः (स्तैः) कलितैः सहितैर्बिल्वाः श्रीफलास्तेषां पत्रदामभिः । वर्तुलत्व साम्यादाह - बालकेति । बालकाः शिशवस्तेषां सुण्डानां शिरसां प्रालम्बंरित्र ऋजुलम्बिपुष्पदामभिरिव कृतं मण्डनं यया सा ताम् । स्वाभाविकं तु कदम्ब केसरं कपिशमत आह-शोणितेति । शोणितेन ताम्रा रका ये कदम्बस्तबका नीपगुच्छकास्तैः कृतमर्चेनं पूजनं येषां तैरङ्गैर्हस्खपादादिभिः । शोणितरक्तनी पगुच्छस्य रोमोद्गमसादृश्यं वर्णयन्नाह पशुपहारेति । पशूनामुपहारे बलिविधाने पटहानां दुन्दुमीनां यत्पटुरटितं स्पष्टशब्दितं तेन यो रसः । श्रोतुरिति शेषः । तेनोल्लसिता उल्लासं प्राप्ता रोमाचा रोमहर्षणानि येषां तैरिव क्रूरतां रौद्रतामुद्वहन्तीं धारयन्तीम् । एतदर्थस्पष्टीकरणाय हेतुनाह -- चार्विति । चारुमनोहरो यश्वामीकरपट्टः सुवर्णपट्टतेन प्रावृतेनाच्छादितेन ललाटेनालीकेन । कीदृशेन । शबरेति । शबरसुन्दरीभिभिल्लव निताभी रचिता विहिताः । सिन्दूरस्य नागजस्य तिलकबिन्दवो गस्तित्तेन । तथा मुखेन वदनेन । अथ मुखं विशिनटि -- दाडिमेति । दाडिमः करकस्वस्य कुसुमं पुष्पं तस्य कर्णपूर तस्य प्रभा कान्तिस्तस्याः ऐक संपर्कखेन लोहितायमाना कपोलभित्तिर्यसिंखत्तेन । रुधिरेति । रुधिरपानलक्षणं यत्ताम्बूलं तेनारुणितोऽधरपुटो यसिंस्तत्तेन । भृकुटीति । भृकुटिर्मुकुटिस्तया कुटिले बके बभ्रुणी यस्मितत्तेन । रतेति । रक्त लोहिते नयने नेत्रे यमितत्तेन । पुनः कया । देहलतया । सरलत्वाल्लतासाम्यम् । यद्वा एतेन सौकुमार्यातिशयो वर्णितः । कीदृश्या । कुसुम्भेन कमलोत्तरेण पा टलितं श्वेतरक्कीभूतं यदुकूलं क्षौमं तेन कलितया सहितया देहलतया । महाकालो मुद्रस्तस्याभिसारिकाया वेषविभ्रमं नेपथ्यविलासं बिभ्रतीं धारयन्तीम्। संपिण्डितेति । संपिण्डितः पुञ्जीकृतो यो नीलगुग्गुलुः पलंकषत स्थ 43 टिप्प० - 1 बिल्वपत्राणां मालासु मध्ये मध्ये रक्तचन्दनरञ्जिवानि बिल्व फलान्यपि प्रोतानि, यस एवं प्रतीयते यद् बालकमुण्डानां माला परिहिता स्यादित्याशयः । 2 बणी अर्थात् पिङ्गलवर्णे, के ? इति विशेष्याभावादच्छुद्धोयं पाठः । 'अकुटिकुटिलबभ्रुनयनेन' इत्येव पाठः । भ्रूभङ्गेन कुटिले, बभ्रुणी पिङ्गल वर्णे च नयने यस्मिन् इति तदर्थः । 3. गुग्गुल - धूपधूमेन अरुणवर्णीकृता गर्भगृहस्थ दीपिकालताः ( दीपशिखा वायुवशालम्बाकारा भवन्ति, अब एक लतायिताः ता भङ्गुलय इव दृश्यन्त इत्युत्प्रेक्षा ) वायुवशारकम्पन्ते वाश्चैवसुस्प्रेक्ष्यन्ते यत् शोमतलवोहिताभिरङ्गुलिभिषेनमहिषं तर्जयतीव भगवती चण्डिका । तर्जनं हि कम्पमनासिर बुलिभिर्भवत्येव । दोषश्च वनमहिषस्थ - त्रिशूलदण्डे स्व (महिष) कण्ठपीठस्य कण्डूयनमिति सर्वस्वाशयः । नीलस्थापि गुग्गुलु धूपयो धूमस्य दीपिकाभिः संयोगे अयणनणों जायते, संयोगवैचित्र्यात् । चूर्णहरिद्रयोः संयोगे यथाऽरुणवर्णः । पाठा०-१ कलापानाम् २ असिपरशु. ३ बहलबद्ध. ४ पातालगुहा. ५ स्फुरत्फलक. ६ बिखदामभिः ७ कृतमण्डलाम्. ८ आताम्र 3 अविरत पशूपहार पटहपटुरचितर सोन्नम्भितरोमान्चेः. १० दाडिमी, ११ अकुटिकुटिलभ्रूणा रक्तनयनेन; अकुटिकुटिलन अनयनेन. १२ पाटलितमुखद्कूल. चण्डिकावर्णनम् ] पूर्वभागः । ङ्गुलीभिरिव महिषासुरशोणितलवालोहिनीभिः स्कन्धपीठकण्डूयनचलित त्रिशूलदण्डकृतापराधं 'वनमहिषमिव तर्जयन्तीम्, प्रेबलकूर्चधरैश्छागैरपि धृतव्रतैरिव स्फुरदधरपुटै खुभिरपि जपपरैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयनैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पेरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम्, सर्वतः कठोरवायसगणेन च रटता स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूल: शिरोजालकैर्गोधागोलिकाककलासकुलैरिव दग्धस्था समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटकत्रणबिन्दुभिः कल्माषितसकलशरीरेण, कर्णावतंस संस्थापितया च चूडया रुद्राक्षमालिकामिव दधानेन, अम्बिकापादपतनश्यामललाटवर्धमानर्बुदुदेन, कुँवादिदत्तसिद्धाञ्जनदानस्फोटितैकलोचनतया त्रिकालमि· ४५९ धूपधूमस्ते नारुणीकृताभी रक्तीकृताभिः प्रचलन्तीभिर्गर्भगृहस्थापवरकस्य दीपिकालताभिर्दशेन्धनवल्लीभिः । अत एव किंचिदारतकृष्णतया तत्साम्यप्रदर्शनार्थमाह - अङ्गुलीति । कीदृशीभिः । महिषासुरो दैत्यस्तस्य शोणितं तस्य लवस्तेनालोहिनी भिर्वन महिषमरण्यरक्ताक्षं तर्जयन्तीं न्यक्कुर्वन्तीम् । कीदृशम् । स्कन्धपीठस्य य त्कण्डयनं तेन चलितः कम्पितो यस्त्रिशुलदण्डः स एव कृतोऽपराधो येनैवंभूतम् । सजातीयकृतमहिषापराधाद्व नमहिषस्याप्यपराधः । प्रबलेति । प्रबलानि प्रकृष्टानि कूर्चानि चिबुकाधःस्थलवर्तिरोमाणि धरन्तीति धरै इछागैरपि नस्तैरपि धृतवतैरिव स्वीकृत नियमैरिवा खुभिरप्युन्दुरैरपि स्फुरन्त्यधरपुटानि येषां तैः । जातिखभावोऽयम् । अत एव जपपरैरिव जापतत्परैरिव । कृष्णेति । कृष्णाजिनेन श्यामचर्मणा प्रावृतमङ्गं येषां तैः कुरङ्गैरपि सारङ्गैरपि प्रतिशयनैरिव प्रतितल्पैरिव । ज्वलितेति । ज्वलिता दीप्यमाना लोहिता रक्ता मूर्धनि शिरसि रत्नानां मणीनां रहमयो रोचिषो येषां तैरेवंविधः कृष्णसपैरपि भुजङ्गैरपि शिरोधृतमणिदीपकैरिव मस्त+ कन्यस्तग्रहमणिभिरिव । एतैराराध्यमानामुपास्यमानाम् । सर्वत इति । सर्वतः समन्ताद्रता शब्दं कुर्वता कठोरवायसगणेन सकृत्प्रजासमूहेन च स्तुतिपरेण स्तूयमानां नूयमानाम् । अथ द्राविडधार्मिकं विशेषय नाहस्थूल इति । स्थूलानि स्थूलानि च स्थूलस्थूलानि तैः शिराजालकैर्नाडीसमूहैर्गवाक्षितेन सर्वत्र जालकमयीभूतेन । तत्र शिराजालकस्य पीनस्थूलरूपतया तत्साम्येनाह - गोघेति । नीलत्वसाम्यात् । दग्धो ज्वलितो यः स्थाणुः कीलकस्तस्याशङ्कारेका तया । गोधा प्रसिद्धा, गोलिका पल्ली, कृकलासः सरटः एतेषां कुलैरिव समूहै रिव समारूढैराश्रितैः । अलक्ष्मीति । अलक्ष्म्या अश्रिया समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रकशास्त्रोकानि तेषां स्थानैरिव, विस्फोटकाः प्रसिद्धास्तेषां व्रणबिन्दुभिः कत्माषितं चित्रितं सकलं समधं शरीर यस्य स तेन । कर्णेति । कर्णावतंसे संस्थापितया न्यस्तथा चूडया शिखया रुद्राक्षमालिकामिव दधानेन धारयता । अम्बिकेति । अम्बिकायाः पावत्याः पादपतनेन श्यामं कृष्णं यल्ललाटमलिकं तत्र वर्धमानो बुहुँदः स्थासको यस्य स तेन । शरीरं कदर्यरूपमुक्त्वा तत्प्रसङ्गेनेन्द्रियाणां दन्तादीनां कदर्यत्वं कपटक्रियासाधनानां त्रातिशयत्वं व्यञ्जयन्पुनस्तमेव विशेषयवाह- कुवादीति । कुवादी मिथ्यावादी तेन दत्तं सिद्धाजनं नेत्रौषधं दस्य दानं नेत्रयोः प्रक्षेपस्तेन स्फोटितं नाशितमेकं लोचनं यस्य तस्य भावखत्ता तथा । त्रिकालमिति । Gegn Porgele EXTR टिप्प० -1 न बुद्धोऽर्थो महाशयेन । 'प्रतिशयितैरिव' इति पाठः । थमीटप्राप्तये दिनमासादिनियं भोजनादिपरित्यागपूर्व देवताप्रे शयदं 'अतिशयनम्' । कृष्णचर्मधारिणो मृगा अपि कृतप्रतिशयना इष । 2 स्थूण: ( शाखापत्ररहितो वृक्ष: ) । 3 'बर्धमानार्बुदेन' इत्येव पाठः । श्यामे ललाटे घर्षणजन्यः 'अर्बुद:' कृष्णवर्णः किणः (शुष्कं व्रणचिह्नम् ) संजात इत्यर्थः । पाठा० -१ विरचिताङ्गुलीभि: ० २ प्रलम्ब ६ प्रतिशायितै: • ४ रुवता. ५ शिराजालैः, ६ गोषागृहगोधिका; गोधारगोधिका ७ लक्ष्मी. ८ विस्फोट. ९ अर्बुदैन. १० कुवादित० ११ स्फुटित. कादम्बरी । [ कथायाम्तरलोचनाञ्जनदानादरलक्ष्णीकृत दामशलाकेन, प्रत्यहं कटुकालाबुवेदप्रारब्धदंतुरताप्रतीकारेण कथंचिदस्थानदत्तेष्टका प्रहारतया शुष्कैकभुजोपशान्तमर्दन व्यसनेन, उपर्युपर्यविश्रान्त कटुवर्तिप्रयोगवर्धित तिमिरेण, अश्मभेदसंगृहीतबराहदंष्ट्रेण इङ्गुदीकोषकृतौषधाञ्जनसंग्रहेण सूचिस्यूतशिरा संकोचित वामकराङ्गुलिन, कौशेयककोशावरणक्षतित्रणितचरणाङ्गुष्ठकेन, असम्यकृतरसायना नीताकालवण, जरां रातेनापि दक्षिणापथाधिराज्यवरप्रार्थनाकदर्शितदुर्गेण, दुःशिक्षित श्रवणादिष्टतिलकाबद्ध विभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना पट्टिकालिखित दुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्र१६० 9 a 3 त्रिकालं कालत्रये इतरस्मिन् एकस्मिल्लोचने यदजनदानं तदर्थमादर आग्रहस्तेन ऋणीकृता दारुशलाका येन ।' पुनः पुनर्नेत्राञ्जनसंबन्धेन दारुशलाकापि लक्ष्णीकृतात्यन्तमृदुतामापादितेत्यर्थः । एतेन निरवधिकदेवानां प्रियता दर्शिता । प्रत्यहमिति । प्रत्यहं निरन्तरं कटुकं यदलाबु तुम्बीफलं तस्य सः स्वेदस्त निःसृतं जलं तेन प्रारब्धा दन्तुरतोन्नतदन्तता तस्याः प्रतीकारश्चिकित्सा येन । आमवातजडीकृतदेहस्य तैलवि शेषमर्दनानन्तरं कारञ्जभितप्तेष्टिकानां प्रहारः क्रियते । तमधिकृत्याह- अस्थानेति । यत्राभितप्तेष्टिकाप्रहार उक्तो नास्ति तस्मिन्नने, अत एवास्थाने दत्तो य इष्टिकाप्रहारस्तस्य भावस्तत्ता तया । शुष्केति । अचिकि त्सित एकस्मिन्भुज उपशान्तं निष्ठाप्राप्तं मर्दनव्यसनं यस्य स तेन । कुत्सिततैलप्रयोगवशाद्दीपालोके सत्यप्यन्धकार एवेत्यधिकृत्याह – उपर्युपरीति । उपर्युपर्यविश्रान्तं निरन्तरं कटुकवर्तिप्रयोगेण वर्धितं तिमिरं येन । अश्मेति । अश्मभेदार्थं प्रस्तरखण्डार्थ संगृहीता आत्ता वराहाणां वनक्रीडानां दंष्ट्रा येन । इङ्गुदीति । इङ्गुदी तापसद्रुमस्तस्य कोषः फलं तन्मध्ये कृत औषधाअनयोः संग्रहो येन । तत्र स्थापितस्योषधाजनादेविशेषगुण• कारित्वादि युक्तं । महासाहसिकत्वमप्याह- सूचीति । सूच्या सीनन्या स्यूता प्रोता या शिरा । प्रकोष्ठसंबन्धिनीति शेषः । तया संकोचं प्रापिता वामकराडुल्यो येनैतादृशविकृताङ्ग प्रदर्शनेन लोकानामद्भुतमिदमिति बुद्धिजननात्पुनरपि तदेवाह -- कौशेयकेति । कौशेयकस्य कृमिकोशोत्थस्य कोशः कृमिगृहं तस्यावरणमावेष्टनं तस्माद्या क्षतिः संघृष्टिस्तया व्रणितश्चरणागुष्ठो यस्य स तेन । असम्यगिति । न सम्यकृतमनभिज्ञत्वाद्रसायनं पारदकलङ्कादिकम् । बहुद्रव्यव्ययेनापि कार्यसिद्धेरभावात् । तेनानीतः प्रापितः कालज्वरो मरणपर्यवसा यितापो यस्य स तेन । अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति लोभातिशयो व्यन्यते । जरेति । जरां गतेनापि वित्र सां प्राप्तेनापि दक्षिणापथस्य यदधिराज्यमाधिपत्यं तस्य वरप्रार्थना तथा कदर्थितोद्विग्नीकृता दुर्गा भवानी येन । दुःशिक्षितेति । दुर्दुष्टं शिक्षितं तस्य श्रवणादाकर्णनादिष्टेऽभिमतस्थान वर्तिनि तिलके कालके । 'तिलकः कालकः पिलुजेडुलस्तिल कालकः' इति कोशः । तस्मिन्नाबद्धा मनसि निश्चिता विभवस्यैश्वर्यस्य प्रत्याशा प्राप्तिवाञ्छा येन । हरितेति । हरितपत्राणां नीलपलाशानां रसेन कृत्वा योऽङ्गारस्य मणी मस्री तथा मलिनो यः शम्बूकः शस्तद्वाहिना । एतेन यत्किचिल्लिखनव्यसनता सूचिता । पट्टिकेति । पट्टिकायां लिखितं लिपीकृतं दुर्गास्तोत्रं यस्य येन वा स तेन । धूमेति । धूमवद्रकान्यलक्तस्य यावकस्याक्षराणि येष्वेवंविधानि तालपत्राणि टिप्प० - 1 एकं नेत्र तु सिद्धासनाभासेन लुप्तमेव, उन्मीलिते द्विनाये लोचने तु शोभायै तन्त्रनिय मादा साधारणकजलम् (न तु सिद्धाअनम्) इथद्दीयते येन प्रत्यक्ष घर्षणात दारुशलाका ('सलाई')पि लक्षणा जातेति सर्वस्याशयः । 2 नामाकृतजाख्यवशादनेन अग्नि तसेटकाप्रहारः प्रारब्धः, परंस ह्यस्थाने जातः । अत एवं स हस्तः शुष्को जातः । अत एव वालो विनष्ट इति मत्वा अनेन तैलमर्दनाग्रहस्त्यक इत्याशयः । 3 नेत्ररोग विशेषः । आन्ध्यनाशाय कटुवर्तिप्रयोगः इयत्कृतो येन नेत्रसन्दत्वमधिकं जातमित्यर्थः । 4 'श्रमणाssदिष्ट' इत्येव पाठः । दुःशिक्षिसेन शतकुशिक्षेण श्रमणेन संन्यासिविशेषेण आादिष्टे तिलके (सिद्धौषधिजनिते ललाटबिन्दौ ) हाल तदर्थः । 5 धूमेन रञ्जितानि अरुसकलिखितान्यक्षराणि येषु । पाठा०-१ आरब्ध. २ कथंचिच्छुष्क ३ कोशक, ४ रक्षित. ५ श्रमण० ६ कृतकुहकतत्रयन्त्रमन्त्र. ४६१ जरद्रविडधार्मिकवर्णनम् ] पूर्वभागः । पुस्तिकासंग्राहिणा, जीर्णपाशुपंतोपदेश लिखितमहाकालमतेन, आविर्भूतनिधिवादद्व्याधिना संजातधातुवादवायुना, लग्नासुरविवर प्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्व मनोरथ व्या मोहेन, वर्धितान्तर्धानमैत्रसंग्रहेण, श्रीपर्वताश्चर्य वार्ता सहस्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थ काहँतिधावितैः पिशाचगृहीतकै: करतलतार्डेन निबिडीकृतश्रेवणपुटेन, अवमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावाद नोद्वे जितपथिक परिहृतेन, दिवसमेव मशककणितानुकारि किमपि... कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्य देशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषण : येषामेतादृशा ये कुहका ज ( जा ) लिकास्तेषां तन्त्रा औषधप्रयोगाः, मन्त्राः शाबरमन्त्राः, तेषां पुस्तिकास्तस्याः संग्राहिणा संग्रहकारिणा । जीर्णेति । जीर्णश्चिरकालीनो यः पाशुपतोपदेशो मनुष्यरुधिरेण होमप्रतिपादक शिक्षा तेन लिखितं लिपीकृतं महाकालमतमीश्वरमतं येन । एतेन केवलं वाममार्गोत्वं सूचितम् । र्भूतेति । आविर्भूतः प्रकटीभूतः सर्वे मे मम निधय इति वादः स एव व्याधिर्यस्य स तेन । अत एवाहसंजातेति । संजातः समुत्पन्नो धातुवादस्य ताम्रादेः सुवर्णादिकरणस्य स एव वायुर्विक्रिया यस्य स तेन । लग्न इति । लग्नोऽसुराणां पातालवा सिदेवानां विवरप्रवेशलक्षणः पिशाचो यस्य स तेन । प्रवृत्तेति । प्रवृत्तः प्रसृतो यक्षकन्यका गन्धर्वपुत्र्यस्तासां यः कामित्वमनोरथो भोगेच्छा विशेषस्तद्विषये व्यामोहो यय स तेन । वर्धितेति । वर्धितो वृद्धिं नीतोऽन्तर्धानमदृश्यता तस्मिन्कर्तव्ये मन्त्रसंग्रहो यस्यैवंविधेन । श्रीपर्वतेति । श्रीपर्वतः श्रीशेलस्तस्याश्चर्य वार्ताश्चित्रकारिण्यः किंवदन्त्यस्तासां सहस्रं तस्मिन्नभिज्ञेन कुशलेन, तस्य शाम्भवत्वाइविड धार्मिकस्य जंगमत्वाच्चेति भावः । असकृदिति । असकृन्निरन्तरमभिमन्त्रिता ये सिद्धार्थकाः सर्षपास्तेषामाहतिः प्रक्षेपस्तया धावितैस्त्वरया प्रचलितः पिशाचगृहीतकैः पिशाचाविष्टैः करतलताडनेन हस्ततलास्फोटनेन निबिडीकृतं दृढीकृतं श्रवणपुटं कर्णकोटरं यस्य स तेन । एतेन पिशाचावेशविद्यावत्वं सूचितम् । अवेति । अवैमुक्तस्त्यक्तः शैवाभिमानोऽहमेव शैवो नान्य इति भावो येन । दुरिति । दुःखेन गृहीता यालाबुवीणा तस्या वादनेनोद्वेजिता उद्वेगं प्रापिता ये पथिका अध्वगास्तैः परिहृतेन त्यक्तेन । दिवसेति । दिवस एव न तु रात्रौ मशकानां क्वणितं शब्दितं तदनुकारि किमप्यनिर्वचनीयं कम्पितोत्तमाङ्गं यथा स्यात्तथा गायता गानं कुर्वता । खदेशेति । खदेशस्य सौवजनपदस्य या भाषा वाणी तथा निबद्धं गुम्फितं यागीरथी गङ्गा तस्या भक्तिस्तोत्रं तेन नर्तकेन नृत्यकारिणा । स्तोत्रं पठन्नेव नृत्यतीत्यर्थः । गृहीतेति । गृहीतं स्वीकृतं तुरगाणां ब्रह्मचर्यम् । प्रतिबन्धवशात् । न तु वैराग्येणेति । तस्य भावस्तत्ता तयान्येभ्यो देशेभ्यो जनपदेभ्य आगताः प्राप्ता उषिताश्च तासु जरन्त्योऽपि याः प्रत्रजिता आत्तव्रतास्तासु बहुकृत्वो बहुवारं संप्रयुक्तं स्त्रीवशीकरणस्य चूर्ण येन । एतेन महाकामुकत्वं सूचितम् । अतीति । अतिरोषणस्य भावस्वत्ता तथा कदाचिद्दुर्न्यस्ता विषमस्थापिता याष्टपुष्पिका सोलिका तस्याः पातेनोत्पादितः क्रोधो यस्य स तेन । निःशटिप्प० -1 संजातो धातुवादः ( ताम्रादीनां सुवर्णादिकरणव्यतिकरः ) एव वायुरोगो यस्य । 2 चिपिटीकृतम् । 3 विवक्षितविपरीतोऽयं पाठः, जरद्रविडस्य दुर्गुणपूर्णत्वप्रसङ्गे निरहङ्कारत्वगुणवर्णनस्यानुचितत्वात् । अत एव 'अविमुक्त' इत्येव पाठः, न विमुक्तः न त्यतः अहंकारो येनेति तदर्थः । 4 दुर्गृहीता वादनकालिकग्रहणप्रकारं विरहय्य परिवता । 5 द्रविडदेशस्य । पाठा०- -१ महापाशुपत. २ मन्त्रसाधनसंग्रहेण. ३ प्रहतिप्रभावितैः ४ चिपिटीकृत. ५ श्रवणनासापुटेना घ्ययुक्त. ६ दिवसमशककणितानुकारिणा स्वरेण ७ आगतासु. ८ प्रब्राजिकासु, "( ४६२ [ कथायाम्चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहयुद्धपातभन्नपृष्ठ केन, कदाचित्कृतापनिपातोपलस्फुटित शिरः कपालभुप्रग्रीवेण, तया कदाचिहुर्न्यस्ताष्ट॑पुष्पिकापातोत्पादितक्रोधेन सता, केदाचिन्निवार्यमाणावासरुषिताध्वगारब्धबहुबाहु राघवालकपलायनामर्षपश्चात्प्रधावितस्खलिताघोमुख कदाचिजनपद कृतनवागतपरमधार्मिकादरमत्सरोइडात्मना, निःसंस्कारतया यत्किंचनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, राज्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्वितनासापुटेन, बहुशः कुसुमाव चयचलित भ्रमरसहसदंशशीणरृितशरीरेण, सहस्रशः शयनी कृतासंस्कृत शून्यदेव कुलकालसर्पदष्टेन, शतशः श्रीफलतरुशिखरच्युतिम्चूर्णितोत्तमाङ्गेन, अस अदुत्सन्नदेवमातृगृहवास्यृक्ष नखजर्जरितकपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखकादम्बरी । त्वाच्चण्डिकामपि मुखभङ्गिविकारैर्भृशमत्यर्थमुपहेसता हास्यं कुर्वता । कदाचिदिति । कदाचित्कसिं चित्समये निवार्यमाणो य आवासो निवासस्तेन रुषिताः क्रोधं प्राप्ता येऽध्वगाः पान्थास्तैरारब्धं यद्वहुबाहुयुद्धं तेन पातः पतनं तस्माद्भनं स्फुटितं पृष्ठकं यस्य स तेन । कदाचिदिति । कृतापराधा विहितागसो ये बालकाः स्तनंधयास्तेषां पलायनं तस्मादमर्षः क्रोधसंभवस्तेन पश्चात्पृष्ठे प्रधावितः सन्खलितस्तेनाधोमुखनिपातस्तेनोपलेऽश्मनि स्फुटितं स्फोटं प्राप्तं शिरः कपालं भुना वका ग्रीवा च यस्य स तेन । कदाचिदिति । जनपदेनाधाराधेययोरैक्याजनपदस्थलोकेन कृतो नवागतपरमधार्मिक स्यादर स्तस्मिन्मत्स रस्त 'त्रोद्वद्ध आत्मा येन । निःसंस्कारेति । निर्गतो दूरीभूतो वर्णसंस्कारो यस्मिंस्तस्य भावस्तत्ता तथा । यत्किं चनकारिणा । अविहितकृत्यकारिणेत्यर्थः । खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं यथा स्यात्तथा संचारिणा संचरणशीलेन । बधिरेति । बधिरतयाडकर्णतया संज्ञया हस्तचालनादिकया व्यवहारिणा व्यवहरणशीलेन । राज्येति । रात्र्यन्धतया रजन्यामनवीक्षकत्वेन दिवाविहारिणा दिवससंचारिणा । लम्बेति । लम्बोदरतया प्रलम्बोदरतया प्रभूताहारिणा प्रचुराननक्षकेण । अनेकश इति । अनेकोपायैर्वृक्षान्दोलनाद्युपायैः फलपातनं तेन कुपिताः प्राप्ता ये वानराः शाखामृगास्तेषां नखोल्लेखस्तेन छिद्रितं नासापुटं येन । बहुश इति । बहुशो बहुप्रकारेण कुसुमानां स्खभोगार्थमवचयश्रुण्टनं तेन चलिता भ्रमरा भृङ्गास्तेषां सहस्रं तस्य दंशा भक्षणानि तैः शीणकृतं जीणकृतं शरीरं यस्य स तेन । सहस्रश इति । सहस्रशः सहस्रवारं शयनीकृतान्यसंस्कृतान्यशोधितानि शून्यानि जनरहितानि देवकुलानि तेषु ये कालसर्पाः कृष्णनागास्तैर्दष्टेन भक्षितेन । शतश इति । श्रीफलतरुर्बिल्व तरुस्तस्य शिखरमग्रं तस्माच्युतिः पातः । फलस्येति शेषः । तेन चूर्णितमुत्तमाङ्गं शिरो यस्य स तेन । असकृदिति । असकृद्वारंवारमुत्सन्न मुद्वसं यद्देवमातृगृहं तद्वासिनो ये ऋक्षा भल्लकारतेषां नखैर्जर्जरितो कपोलौ यस्य स तेन । सर्वदेति । सर्वदा सर्वकालं वसन्तक्रीडिना सुरभि क्रीडाकारिणा जनेनोत्क्षिप्ता या खण्डा भञा खट्रा पल्यङ्कस्तस्यामारोपिता स्थापिता या वृद्धा जीर्णा दासी कूटहारिका तया सह यो टिप्प०1-अष्टानां पुष्पाणां समाहारः अष्टपुष्पी, धज्ञाता अष्टपुष्पी भष्टपुष्पिका ( 'क' प्रत्ययः ) । शतानि यानि कानिचिदष्टौ पुष्पाणि चण्डिकायाः पौठे दुःप्रकारेण विहितानि । तानि पुष्पाणि दैवात्प तिवाल, कौतुकाय केनचित्पातितानि वा । ततस्तदुपरि इन्डिस्ल क्रोधथण्डिकाया उपरि भवति यरवं उपयप र न:, अ एव ख खा हसतयय: । 2 नयमनs । शिक्षा-सत्सङ्गादिजनितसाधुवासनाहीनत्वेन अकार्येष्वपि प्रवृत्तेनेत्युचितोऽर्थः । 3 फलादिग्रहणार्थमास्टल स्वत्यैव । लोलुपस्वातिशयस्य विवक्षणात् । 4 हन्त बराकः पर्यायान्वेषण एव व्यग्रः । वसन्तक्रीडा 'होलिका'महोत्सवः । तत्र होवंविधविरूप रूपकाणि ( 'स्वाँग' ) कौतुकिभिर्निस्सार्यन्ते । पाठा० - १ आखुपुष्पिका. २ कदाचिन्निवार्यमाणावासिता ध्वगार ग्धबहुबाहुयुद्धपात भनपृष्ठेन कदाचिद नवरतभुज-शिखरकोहिना शिरः कम्पनबकितीवेण. ३ जानपद. ४ असारीकृत. ५ क्षतज. द्रविडधार्मिकपरिचयः ] पूर्वभागः । द्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, दौस्थित्यमपि विविधज्याधिपरिवृतं स्वकुटुम्बमिबोहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्रोधमध्यनेक दण्डाभिघात निर्मितबहुगात्रगण्डकं फलितमिव प्रकाशयता, हेशमपि सर्वावयवध्वलितदीपिका दाहव्रण विभावित बहुमुखमिव प्रकटयता, परिभवमपि निष्कारणाकृष्टजनपददत्तपदाकृष्टिशतं प्रवाहमिद दधानेन, शुष्कवनलता विनिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्प पातना डुशिकेन, क्षणमध्येमुक्तकालकम्बलखण्डखोलेन जरहूविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वॉसमरचर्यत् । अथावतीर्य तुरगालाविश्य भक्तिप्रवणेन चेतसा वां गणनाम । कृतप्रदक्षिणञ्च पुनः विवाह उद्वाहस्तेन प्राप्तं विडम्बनं कदर्शनं यस्य स तेन । अनेकेलि । अनेकेष्वायतनेषु चैत्येषु प्रतिशयितं किंचित्फलप्राप्तिबुद्ध्या खापः कृतस्तेन तस्माद्वा निष्फेलमुत्थानं जागरणं यस्य स तेन । एतेन वार्धकेऽप्यसन्तमुयोगः सूचितः । दुःस्थितेति । दुःस्थितस्य भावो दौः स्थित्यमध्यसद्वृत्तमपि विविधा अनेकप्रकारा के व्याधयः पीडास्तैः परिवृतम् । अनेनासद्वृत्तपरम्परा सर्वदा वर्तमानैवेति सूचितम् । यथा व्याधिरपि व्याप्य न्तरेण परिवृतो वृद्धिमेव जनयति तद्वद्दौः स्थित्यवृद्धिदेव सूचिता । अत एव ता विच्छेद एव नास्तीलाहस्त्रकुटुम्बेति । खकीयं कुटुम्ममिवात्मीयखजनविद्रोहनं कुर्यंता । मूर्खतेति । मूर्खस भावो मूर्खता तामपि बहुभिर्व्यसनैरासक्तिभिरनुगतां सहिताम् । अत एव मूर्खताया व्यसनजनकत्वादाह - प्रस्तुतेति । प्रसूतानि जनितान्यनेकान्यपत्यांनि ययैवंविधामिव दर्शयतान्येभ्यः प्रकाशयता । क्रोधमिति । क्रोधं कोपमप्यने के दण्डास्तेषां कलहावसरे योऽभिघातखैर्निर्मितो बहुगात्राणां गण्डूक: पिटको येन स तम् । अत एवाह-~~फलितमिव प्रकाशयताविष्कुर्वता । क्लेशमिति । क्लेश परिश्रमस्तमपि सर्वेध्वनयनेषु ज्वलि ता या दीपिका स्वासां दाह इन यो दाहस्तस्माद्यानि त्रणानि देहविकृतिरूपाणि तैर्विभावितं लक्षितम् । अंत एव बहुच्छिद्रवत्त्वाद्वहुमुखमिव प्रकटयता प्रकाशयता । परीति । परिभवमपि तिरस्कारमपि निष्कारणं निष्प्रयोजनमाकृष्ट आकर्षितो यो जना पदोऽङ्गिस्तेन दत्तं पदाकृटिशतं चरणप्रहारशतं यस्मिन् । अविच्छिणमतिमत्त्वात्प्रवाहमिव दधानेन विभ्रता । शुष्केति । शुष्का या ननलता तथा विनिर्मितो निष्पादितो बृहत्कुझुमकरण्ड: पुष्पसंस्थापनस्थलं येन । वेण्विति । वेणुलतया रचिताः पुष्पपातनार्थमङ्गशिका येन । क्षणेति । क्षणमध्यमुक्तोऽत्यक्तः कालकम्बलखण्डस कृष्णरल्लकप्रदेशस्य खोलो येन । अन्वयस्तु प्रागेवोक्तः । तस्याः मिति । तस्यामेव भूमौ वासं निवासमरचयद्रचितवान् । 6 अथेति । तदनन्तरं तुरगादश्वादवतीर्यं प्रविश्य च । चण्डिकायतनमिति शेषः । भक्तिप्रवणेन चेतसा तां प्रणनाम नमके । कृतेति । कृता विहिता प्रदक्षिणा येनैवंविधश्च पुनरपि प्रणम्य नमस्कारं कृत्वा प्रप0 - 1 नेकव भोज देव शयनसहस कृतं कतु तवफव जतयथ: यव: पूर्व न ो महr । 2 उयसनयव य : । 3 बह. चितं न हानेकदण्डाभिघातै रेकगण्डकोत्पांदने स्वारस्थम् । 'मात्रगण्डक' मिलेव च पाठः । गण्डका नामण ( 'ग') वशेष: । गडक एव to फ इ । 4 वोडनस्तदङ्गेषु प्रज्वालिताः ( दाहार्थम्) । 5 'आकृष्ट' इत्येव पाठ उचितः । निष्कारणम् आाकूड: शापादित य जन । 6 णवरण, '' इ जयगभष । ' पाकवल्मी कपूगको पशिरसके' इति विश्वः । पाठा- -१ घात. २ गण्डकम्. ३ बहुसुखम् ४ सप्रवाहमिव; शतसंप्रवाहमिव ५ आमुक्त, ६ खण्डलोलेन, ७ आवासम्. ८ अरोचयत्. कादम्बरी । [ कथायाम्१६४ प्रणम्य प्रशान्तोद्देशदर्शनकुतूहलेन परिभ्रमन्नु चैरारटन्तमाकोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयब तेन सार्थ प्रारब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय क्रमेण जन्मभूमिं जातिं विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्या याच कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्य रूप विभवचर्णनवाचालेन तेन सुतरामयत राजपुत्रः । विरहातुरहृदयस्य विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् । अस्तमुपगते च भगवति सप्तसप्तौ, आवासितेषु यथासंपन्न पादपतलेषु राजसूनुषु, शाखावसक्ततेपनीयपर्याणेषु क्षितितललुठनपांसुलसटावधूननानुमितोत्साहेषु गृहीतकतिपयशष्पकवलेषु पीतोदकेषु सानार्द्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीपविरचितपर्णस्तरे च दिवसगमन खिन्नपरि शान्तो य उद्देशस्तस्य दर्शनस्य यत्कुतूहलं तेन परिभ्रम चितस्ततः संचरन् । उच्चैरुच्चस्व रेणारटन्तं पूरकुर्वन्त माकोशन्तं च कुपितं द्रविडधार्मिकमेकदेश एकस्मिन्प्रदेशे ददर्शेक्षांचके । दृष्ट्वा विलोक्य । कादम्बरीति । कादम्बर्या विरहे योत्कण्ठा तज्जनितो य उद्वेगस्तेन दूयमानोऽपि पीड्यमानोऽपि सुचिरं चिरकालं यावज्जहास हास्यं चक्रे । न्यवारयच निवारणं कृतवांश्च । तेनेति । द्रविडधार्मिकेण सार्ध प्रारब्धकलहान्स्वसैनिकानुपहसतः । उपेति । उपसान्त्वनैः सामभिः प्रियालापानामिष्टवचनानां शतेनानुनयैरनुकूलनैश्च कथमपि महता कष्टेन प्रशमं शान्तभावमुपनीय प्राप्य जन्मभूमिमुत्पत्तिस्थलम्, जातिं ब्राह्मणत्वादिकाम्, वियां वेदाध्यग्रनादिरूपाम्, कलत्रं स्त्री, अपत्यानि पुत्रपुत्रीरूपाणि, विभवमैश्वर्यम्, वयःप्रमाणं वर्षपरिमाणम्, प्रव्रज्या याच दीक्षायाश्च कारणं निदानम् एतानि स्वयमेव पप्रच्छ प्रश्नविषयीचक्रे । पृष्टश्चासौ द्रविडधार्मिक आत्मानं स्वमवर्णयद्वर्णितवान् । अतीति । अतीतं व्यतिक्रान्तं यत्स्वकीयं शौर्य पराक्रमः, रूपं सौन्दर्यम्, विभव ऐश्वर्य, तेषां वर्णनं तत्र वाचालेन वाचाटेन तेन द्रविडधार्मिकेण राजपुत्रश्चन्द्रापीड: सुतरामतिशयेनारज्यतानुरको बभूव । विरहेति । विरहेणारं हृदयं यस्यैवंभूतस्य राज्ञो विनोदनस्य भावो विनोदनता तामिव सोऽगात् । राज्ञश्चित्तविश्रान्ति स्थान (ग) तां जगामेत्यर्थः । उपेति । उपजातः प्राप्त परिचयो यस्यैवंविधोऽसौ द्रविडधार्मिकाय ताम्बूलं नागवल्लीदलमदापयापितवान् । अथ च भगवति सप्तसप्तौ सूर्येऽस्तमुपगते सति चन्द्रापीड: परिजनेन सेवकजनेनैकदेश एकत्रस्थले संयतस्य बद्धस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारेण निवेदितं ज्ञापितं शयनीयं तल्पमंगादित्यन्वयः । केषु सत्सु । राजसूनुषु नृपपुत्रेषु यथासंपन्नाः पुष्पफलसमृद्धा ये पादपा वृक्षास्तेषां तलेष्वावासितेषु वसतिं प्रापितेषु सत्सु । पुनः केषु सत्सु । वाजिषु तुरङ्गमेषु संयतेषु बद्धेषु सत्सु । अथ वाजिविशेषणानि - शाखेति । शाखायामवसक्ता"न्यवलम्बितानि तपनीयस्य सुवर्णस्य पर्याणानि पल्ययनानि येषां तेषु । क्षितीति । क्षितितलं पृथ्वीतलं तत्र लठनेन पांसुला याः सटा: केशसंहतयस्तासामवधूननेन कम्पेनानुमित उत्साहो येषां तेषु । गृहीतेति । • गृहीताः कतिपये कियन्तः शष्पकवला. बालतृणप्रासा यैस्तेषु । पीतान्युदकानि यैस्तेषु । खानेति । सानेनाई पृष्ठं येषां तेषां भावस्तत्ता तथा विगतो दूरीभूतः श्रमो येषां तेषु । पुर इति । पुरोनिखाता अग्रे स्थापिताः . कुन्तयष्टयो येषां तेषु । पुनः कस्मिन्सति । वाजिसमीपेऽश्वसविधे विरचितः कल्पितः पर्णानां पत्राणां प्रस्तरः . संस्तरो येन तस्मिन् । दिवसं यावगमनेन खिक्षा पदातिजना: परिकस्पैिताः प्रथमप्रहरक्रमेण संस्थापिता टिप्प० - 1 यथा प्राप्ता इत्यर्थः । 2 अविचारितोयं पाठः । 'परिवर्तितयामिके' इत्युचितम् । गमनेन केचित्खिला अत एवान्ये परिवर्तिता ग्रामिका येन तस्मिमिति तदर्थः । पाठा० -१ प्रशस्तदेवादर्शन. २ संरब्धः समारब्ध. ३ अतीतस्वसौन्दर्यरूपविभववर्णनावाचालेन. ४ तच्चरितं विनोदनताम् ५ अपनीत ६ स्रस्तरे, ७ खिन्ने. उज्जयिनीप्रवेशः ] पूर्वभागः । ४६५. कल्पितयामिके सुषुप्सति सैनिकजने, कृतबहुपावकप्रभापीततमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमेकूटस्य । निष्कारणबान्धव तामचिन्तयन्महाश्वेतापादानाम् । जीवितै फलमभिललाप पुनः पुनः कादम्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रेक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध बान्धवेभ्यश्चधिकां प्रीतिं शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उपसि चोत्थाय तस्य जरद्रविडधार्मिकस्येच्छया निसृष्टनविसरैः पूरयित्वा मनोरथमभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नल्पैरेवाहोभिरुज्जयिनीमाA यामिका यस्मिन्नविधे सैनिकजने सुषुप्सति स्वपितुमिच्छति सति । कृतो विहितो यो बहुपावकः प्रभूताग्निस्तस्य प्रभया पीतं तमो यस्मिन्नेवं विधे दिनावसाने दिवस इव विराजमाने सेनानिवेशे सति । निषण्णस्य चेति । अस्य चन्द्रापीडस्य निषण्णस्योपविष्टस्य तत्क्षणमेव दुःखमासतेऽस्यामिति दुःखासिकानुर तिर्हृदयं पस्पर्श स्पृष्टवती । अरतीति । अरत्योद्वेगेन गृहीत आकान्तश्च राजलोकं विसर्जयांबभूव शयनायानुज्ञां प्रदत्तवान् । अतीति । अतिवल्लभानप्यतिप्रियानपि पार्श्वस्थान्समीपवर्तिनो नाललाप न बभाषे । निमीलिते लोचने यस्यैवंभूतो मुहुर्मुहुः किंपुरुषविषयं मनसा चेतसा कृत्वा जगाम गतवात् । अनन्येति । न विद्यतेऽन्यस्मिन् चेतः चित्तं यस्यैवंभूतो हेमकूटस्य सस्मार सरणं चकार । 'मातुः स्मरति' इतिवत् हेमकूटस्येति षष्ठी । निष्कारजेति । महाश्वेतापादानां निष्कारणबान्धवतां निर्हेतुक स्वजनतामचिन्तयत् । पुनःपुनर्वारंवार कादम्बरी दर्शनमभिललाष वाञ्छयामास । कीदृशम् । जीवितस्य फलमिव फलम् । अपगतेति । अपगतो दूरीभूतो योऽभिमानो गर्वस्तेन पेशलाय हृद्याय । 'पेशलं हृद्यं सुन्दरम्' इति कोशः । मदेति । मदलेखया सह यःः परिचयः संस्तवस्तस्मै नितरां अस्पृहयत्स्पृहां चकार । तमालिकां द्रष्टुं विलोकयितुमाचकाङ्क्षा भिललाष । केयूर कस्यागमनमुत्प्रेक्षतोङ्ग्यत । हिमगृहकमपश्यत् । उष्णमुष्णमायतं विस्तीर्ण पुनरुक्तं वारंवार निशश्वास निश्वासान्मुमोच । बान्धवेभ्यः स्वजनेभ्योधिकां प्रीतिं शेषाभिधाने हारे बबन्ध बन्धितवान् । तदर्पितत्वेन समाधिक्यमिति भावः । पश्चादिति । पश्चात्स्थितां पुण्यभागिनीं पत्रलेखाममन्यत ज्ञातवान् । एवं चेति । एवममुना प्रकारेण अनुपजातानागता निद्रा प्रमीला यस्यैवंभूत एव निशां रात्रिमनयद्यापितवान् । उपसि न्च प्रभात उत्थाय तस्य पूर्वव्यावर्णितस्वरूपस्य जरद्रविडधार्मिकस्येच्छया निसृष्टैर्दत्तैर्धन विसरैर्द्रव्य समूहै नोरथमभिलाषं पूरयित्वाभिरमणीयेषु प्रदेशेषु निवसन्निवासं कुर्वन्नल्पैरहोभिरेव स्तोकैरेव दिनैरुज्जयिनीं विशा4 टिप्प० - 1 भरतिरिति स्यात् । वस्तुतस्तु दुःखस्य आसनम् जासिका अर्थात् दुःखप्राप्तिरित्यर्थः, 'पर्यायाहत्पत्तिषु ण्वच्' इति वुच् । 2 तपस्वितया गौरववशा पादशब्दयोगो बहुत्वं च । वस्तुतस्तु 'प्रसादानाम्' इत्युचित इव प्रतिभाति । 3 नवान्छेलेवोचितम्, किमु स्वार्थे णिच् ? 4 स्वस्य दशया कादम्बर्या अपि दशां कल्पयित्वा तत् ( काद ० ) द्वारा तत्प्रेषणं स्वमनसैव समभावयदित्यर्थः । टीकाकारस्तु विचार्यः । • पाठा०-१. प्रभाप्रणाशिततमसि दिवसायमाने सेनानिवेशे २ हेमकूटं; हेमकूटस्य रम्यताम् ३ उत्कण्ठितोऽचिन्तयत्. ४ प्रसादानांम्. ५ जीवित भिव. च मुहुर्निशश्वास. ७ खेच्छाविसृष्ट: ८ मनोरथान भिमतेष्वतिरमणीयेषु; मनोरथमभिमतेष्वतिर मणीयेषु. ५९ का० कादम्बरी । [ कथायाम्जगाम । आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणामर्धकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्नतर्कित एव विवेश नगरीम् । अहमहमिकया व प्रधावितानतिरभसहर्षविहलाम्परिजनान् 'द्वारि देव, चन्द्रापीडो वर्तते' इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुक ममलमागलितमाकर्षन्, प्रहर्षनेत्रजलबिन्दुवर्षी मुक्तमुक्ताफलासार इव कल्पपादपः, प्रत्यासन्नवर्तिभिर्जरापाण्डुमौलिभिश्चन्दन विलेपनैरनुपहतक्षौमधारिभिः केयूरिभिरुष्णीषिभिः किरीटिभि: शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्शयद्धिः प्रतिपन्नासिवेत्रच्छत्र केतु चामरैरनु गम्यमानो राजसहस्रैश्चरणाभ्यामेव प्रत्युजगाम । हैा च पितरं दूरान देगावतीर्य वाजिनम्बूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन. 'पोहि' इत्याहूय पित्रा गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसंनिहितानां च माननीयानां लामाजगामाययौ । आकस्मिकेति । आकस्मिकमसंभावितं यदागमनं तेन प्रहृष्टाः प्रमुदिताः संत्रान्ताश्च में पौरास्तेषामर्धकमलानीव नमस्काराजलिसहस्राणि प्रतीच्छन्गृहन्नतर्कित एवासंभावित एव नगरीमुज्जयिनीं विवेश प्रवेशं चकार । sha अहं पूर्वमहं पूर्वमित्यहमहमिका तया प्रधावितानुचलितामतिरभसैन जनितो यो हर्षः प्रमोदस्तेन विहला व्याकुलान्परिंजनान्परिच्छदान्द्वारि द्वारदेशे हे देव, चन्द्रापीडो वर्तते इत्युपलभ्य प्राप्यास्य चन्द्रापीडस्य पिता तारापीडो निर्भरानन्छेम निबिडप्रमोवेन मन्द गमनं यस्यैवंभूतोऽसलं निर्मलमागलितमीषत्स्वस्थाना द्रष्टभुत्तरीयां शुकमुपसंव्या नवरात्र माकर्षैयन्स्वस्थानं नयन् । राज्ञो गौरत्वसाम्यादुत्तरीयांशुकस्य शुभ्रत्वसाम्यादाह - मन्द ऐति । मन्दर इव मेरुरिव क्षीरोदजलम् । प्रहर्षेति । प्रहर्षात्प्रमोदाक्षेत्रजलबिन्दून्वर्षतीत्येवंशीलः स तथा । जलबिन्दूनां शुचित्वे मुक्ताफलसाम्यमाह - मुक्तेति । मुक्तो मुक्ताफलानामासारो येनैवंविध इन कल्पपादपों मम्वरतरुः । प्रत्यासन्नवर्तिभिर्जरा विससा तया पाण्डवः श्वेता मौलयो येषां तैश्चन्दनानां विलेपनान्यङ्गरागा येषा तैः । अन्विति । अनुपहतमच्छिन्नं यत्क्षौमं दुकूलं तद्धारिभिः, केयूरमजदं विद्यते येषां तैः, उष्णीषं पुष्पवास बिद्यते येषां तैः, किरीटं कोटीरं विद्यते येषां तैः, शेखर आपीडो विद्यते येषां तैः । अत एवं बहुकैलासानिव । शेखराणां शुभ्रत्वादिति भावः । बहुक्षीरोदामिव । क्षौमादीनामतिशुभ्रत्वेन क्षीरोदसादृश्यात् । इत्येतादृशीं क्षितिं सुधां दर्शयद्भिः प्रकाशयद्भिः । प्रतीति । प्रतिपन्नानि स्वीकृतानि वेत्रच्छत्रकेतु चामराणि यैरेवंविधै राजस हखैरनुगम्यमामः वरणाभ्यां पादाभ्यामेव प्रत्युज्जगामाभिमुखं प्रतस्थे । दृष्ट्वा च पितरं जनकं दूरादेव वाजिनोऽश्वादवतीर्य चूडामणिः शिरोमणिस्तस्य मरीचयः कान्तयस्ता मलति धारयतीत्येवंशीलेन मौलिना मस्तकेन महीं वसुधामगच्छत् । पञ्चाङ्गं प्रणाममकरोदित्यर्थः । अथेति । प्रणामानन्तरं प्रसारितभुजेन विस्तारितवाहुमा पित्रा एहि एहि इत्याहूय गाढमत्यर्थमुपगूढ आलिङ्गितः सुचिरं बहुकालं परिष्वज्यालिङ्ग्य तस्मिन्काले संनिहितानां समीपगतानां च माननीयानां पूज्यानां कृतो विहितो नमस्कारो येनैवंभूतश्चन्द्रापीड: करे गृहीत्वा बिलाटिप्प०-1 सविशेषणः 'परिजनान्' इति द्वितीयान्तपाठी लेखकदोषः स्यान्मन्ये, अन्यथा टीकाकर्तु निस्सीममज्ञानं सिध्येत् । अस्तु । 'परिजनात्' इति पाठः । परिजनात उपलभ्य संवाद प्राप्य । 2 कह पादप इव इत्यम्बयो बोध्यः । 3 चूडामणेर्मरीचिमाला भस्यस्य ताशेन, इत्येवार्थ उचितः । पाठा० -१ आविवेश. २ धारिसिहरिभिः ३ चन्द्रापीडोऽपि दृष्ट्राच. ४ आदरादाहूय ५ सुचिरं गाढमुप गूढ:. ६ माननीयानाममालानां महीपतीनां च क्रमेण i पत्रलेखाया आगमनम् ] कृतनमस्कारः करे गृहीत्वा विलासक्तीभवनमनीयत राज्ञा तयापि तथैव सर्वान्तःपुर परिवारया प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गलाचारो दिग्विजयसंबद्धाभिरेव कथाभि: कंचित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्यसुनैव क्रमेण सुचिरं स्थित्वा निवेध वैशम्पायनं स्कन्थावारवर्तिन कुशलिनमालोक्य च मनोरमामागत्य विलासवतीभवन एव सर्वाः सानादिकाः परवश हैद किया निरवर्तयत् । अपराहे निजमेव भैवनमयासीत् । तत्र च रणरणकविद्यमानमानसः कादम्बर्या बिना न केवलमात्मानं स्वभवनमवन्तीनगर वा सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्री वार्ताश्रवणोत्सुका महोत्सवागिने प्सितबरप्राप्तिकालमियामोत्पत्तिसमयमिव पत्रलेखागमनं प्रत्यपालयत् । .7 ततः कतिपय दिवसापगमे मेघनादः पत्रलेखामादायागच्छत् उपानयबैनाम् । कृतनम, Fi शश: hit कबसादलब्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्रलेखाम्, मेचनादं च प्रणतं पृष्ठे कर किसलयेन पस्पर्श । समुपविष्टश्चानवीत् – 'पत्रलेखे कथय तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याच कुशलम् । कुशली ना सक पूर्वभागः । 3 सवतीभवनं राज्ञानीयत प्राप्यत । तयापि विलासवत्यापि तथैव पूर्वोक्तरीत्यैव सर्वान्तः पुरस्य परिवारो यस्याः सा तथा प्रत्युद्गम्याभिमुखमागत्याभिनन्दितं श्लाघितमागमनं यस्य सः । कृतो विहित आगमनस्य मङ्गलाचारः क्रियाविशेषो यस्य सः । दिशां विजयः स्वायत्तीकरणं तत्संबद्धाभिस्तद्विषयिकाभिः कथाभिर्वार्ताभिः कंचित्कालं मातुर्गृहे स्थित्वा झुकनासं द्रष्टुं विलोकितुमाययावाजगाम । तत्राप्यमुनैव क्रमेण पूर्वोक्तन्यायेन सुचिरं बहुकालं स्थित्वा स्कन्धावारवर्तिनं कुशलिनं वैशम्पायनं निवेद्य विज्ञाप्यालोक्य निरीक्ष्य च मनोरमां वैशम्पायनजननीमागय विलासवतीभवन एव सर्वाः समग्राः स्नानादिकाः क्रियाः परवंश इव परायत्त इव निरवर्तयनिवर्तितवान् । अपराहे मध्याहात्परतो निजमात्मीयमेव भवनं कुमारोऽयासीदगात् तत्र च रणरणकेनोत्कण्ठया खिद्यमानं पीज्यमानं मानसं यस्यैवंविध: कादम्बर्या विना न केवलमात्मानं स्वभवनं स्वगृहमवन्तीनगरं सकलमेव महीमण्डलं शून्य॒ममन्यतागण्यत । ततस्तदनन्तरं गन्धर्वराजपुत्र्या या वार्ता किंवदन्ती तस्याः श्रवणमाकर्णनं तत्रोत्सुक उत्कण्ठितश्च महोत्सवमिवोत्सवमिवेप्सितोऽभिलषितो यो वरस्तस्य प्राप्तिकालो लब्धिसमयस्तमिवामृतस्य पीयूषस्योत्पत्तिसमयस्तमिव पत्रलेखागमनं प्रत्यपालयत्प्रत्यपेक्षांचक्रे । न ततस्तदनन्तरं कतिपय दिवसापगमे कियत्कालातिकमे मेघनादः पत्रलेखामादाय गृहीत्बागच्छदाययौ । एनां पत्रलेखामुपानयच राज्ञः समीपे प्रापयच । कृतनमस्कारां च तां दूरादेव स्मितेनेषद्धसितेन च प्रकाशिताविष्कृता प्रीतिर्येनैवंभूतश्चन्द्रापीड: प्रकृत्या स्वभावेन वल्लभामपि कादम्बरी सकाशात्प्रसादेन लब्धमपरं सौभाग्यं ययैवंविधामिवात एव वल्लभतरतामतिवल्लभतामुपागतां प्राप्तवतीमुत्थायातिशयदर्शितादरं यथा स्यात्तथा पत्रलेखामालिलिङ्गो पगूहनं चकार । मेघनादं च प्रणतं पृष्ठे करकिसलयेन हस्तपल्लवेन पस्पर्श स्पर्श चकार । तदनन्तरं समुपविष्टश्चेत्यब्रवीदित्यवोचत् । इतिशब्दयो समाह - पत्रलेखे इति । हे पत्रलेखे, क्रथय निवेदय तत्रभवत्याः पूज्याया महाश्वेताया मदलेखया सहवर्तमानाया देव्याः कादम्बर्याश्च कुशलं वर्तते । कुशली वा सकलः समस्तटिप्प० -1 सर्वाप्यन्तःपुराणि परिवारो यस्य इत्यर्थो नोध्यः । 2 भगणयत् इति स्यात् । पाठा० । -१ प्रत्युम ३ एव. ३ कुमारभवनम् ४ समुपविष्टां चः समुपविष्टा च तामू. ५ कुशली वा बाह्यः सकल:; कुशलवानन्यः सकळ:. कादम्बरी । [ कथायामलस्त मालिका केथ्रूरका दिपरिजन: ?' इति । साब्रवीत् -- 'देव, यथाज्ञापयसि भद्रम् । त्वामर्चप्रति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी' इति । एवमुक्तवती पत्रलेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुम पारयन्कुतूहलमतिप्रीत्या दूरमुत्सारितपरिजनः प्रविश्यागारम चिरप्ररूढायाः स्थलकम लिन्याः पृथुभिरुन्नालैः पलाशैर्विरचितात पत्रकृत्याया अध्यास्य मध्यभागमभ्यतरस्य मरकतपता कायमानस्य पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंस मिथुनमुपवि श्याप्राक्षीत्– 'पत्रलेखे, कैथय कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो था देवीप्रसादः ? का वा गोष्ठ्यः समभवन ? कीदृश्यो वा कथा: समजायन्त ? को वातिशयेना, उमान्स्मरति ? कस्य वा गरीयसि प्रीतिः ?" इति । एवं पृष्टा च व्यजिज्ञपत् - 'देव, दत्तावधानेन ध्यताम्, यथा स्थितास्मि, याबन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा वा गोष्ठ्यः सम 9. 2 , स्तमालिका केयूरकादिपरिजनः । साब्रवीदवोचत् । हे देव, यथाज्ञापयस्याज्ञां करोषि तथा भद्रं कुशलं वर्तते । शेखरीकृतो योऽञ्जलिस्तन कृत्वा ससखीजना सवयस्या सपरिजना सपरिच्छदा च देवी कादम्बरी त्वां भवन्त मर्चयति पूजयति । इत्येवमुक्तक्तीं कथितवतीं पत्रलेखामादाय गृहीत्वा । विसर्जितेति । विसर्जितो राजलोको येनैवंभूतो मन्दिराभ्यन्तरं विवेश प्रविष्टवान् । तत्र चेति । तस्मिन्नेव स्थल उत्ताम्यता विरहेणोत्तपता मनसा चेतसा कुतूहलमाश्चर्यं धारयितुं सम्यक्तया ज्ञातुमपारयन्नशक्नुवन अतिप्रीत्यातिनेहेन दूरमुत्सारितो विसर्जितः परिजनो येनैवंभूतोऽगारं गृहं प्रविश्य प्रवेशं कृत्वा पृथुभिर्विस्तीर्णैरुन्नालैः पलाशैः पत्रैर्विरचितं विहितमातपत्रकृत्यं छत्रकार्य ययैवंविधायाः स्थलकमलिन्या मध्यभागमध्यास्याश्रित्यान्यतरस्य पूर्वोक्तस्य भिन्नस्य मेरकतस्याश्म गर्भस्य या पताका वैजयन्ती तद्वदाचरमाणस्य पत्रमण्डपस्य तले सुखप्रसुप्तं हंसमिथुनं चरणारवि न्द्रेन समुत्सार्थ दूरीकृत्य तत्रोपविश्या प्राक्षीत्प्रश्नमकार्षीत् । हे पत्रलेखे, कथय प्रतिपादय । कथं केन प्रकारेण स्थितासि । कियन्ति वा दिनानि वासराणि । स्थितेति शेषः । कीदृशः पूर्वस्मादधिको न्यूनो वा देव्याः कादम्बर्याः प्रसादः प्रसन्नता । का वा गोष्ठयोऽन्योन्यसंलापाः समभवन्संजाताः । कीदृश्यो वा कथाः सखीनां वार्ता: समजायन्त समभवन् । को वातिशयेन बाहुल्येनास्मान्स्मरति स्मरणविषयीकरोति । कस्य वा गरीयसि महीयसि मंयि विषये प्रीतिः स्नेहः । इत्येवममुना प्रकारेण पृष्टा प्रश्नविषयीकृता च व्यजिज्ञपचयवेदयत् । तदेवाह — देवेति । हे देव, दत्तावधानेन चित्तैकाध्येण श्रूयतामाकर्ण्यताम् । तदेव दर्शयति-- यथेति । यावन्ति दिनान्यहं स्थितारिम, यादृशो वा देवीप्रसादः, यथा गोष्ठ्यः समभवन, याद्दश्यश्च कथाः समजायन्त, 'टिप्प० – 1 संवरीतुमशक्नुवन्नित्यर्थो वक्तव्यः । 2 अत्रापि मन्ये लेखकदोष एवं स्यात् । अन्यथा पामराल्पामरोपि 'महीयसि मयि' इति स्वमुखेन म विकस्थेत । किञ्चैवं लेखकष्टीकाकारस्तु किम्, अक्षरमुखोपि न स्त्रीकर्तुमिष्यते । अस्तु. 'गरीयसी' इति दीर्घ प्रपठ्य 'मयि मद्विषये कस्य (कादम्बरीमहावे. तादीनां मध्ये कस्य) गरीयसी अत्यधिका प्रीतिः अस्ति' इत्यर्थः कर्तव्यः । किन्तु 'गरीयसी' इति दीर्घपाठो बुद्धिपूर्वकमेव नीचैः (पाठान्तरेषु ) पातित इति लिङ्गेन तु टीकाकारस्यैव तदिदं हस्तलाघवमनुमेयं भवति । टीकायां सोयं पाठः पूर्वमुद्रितो दृष्ट इति मूलटीकयोः संवादाय हन्त ममापि 'गरीयसी' इत तिरस्कार्यः, 'गरीयसि मयि' इति तु उपरिस्थाप्योऽभवदिति कथं वा निष्कृतिः कर्तव्या ? बिनाssi टीकाकर्तुरक्षराणि वा कथं छिन्याम् ? 7 पाठा० -१ केयूरकादिः; केयूरकादिकः; २ त्वामेव. ३ अजिर; अगाररूढाया:. ४ उपर चितः ५ कृत्यस्य... : · ६ शयनमण्डपस्य तालस्य तले. ७ आगते मयि कथय. ८ यो वातिशयेन तन मरति यस्य वा त्वयि गरीयसी प्रीतिरस्तीति, ९ मयि गरीयसी. पत्रलेखातः कादम्बरीवृत्तश्रवणम् ] पूर्वभागः । ७६९ भवन्, यादृश्यम्य कथाः समजायन्त। ततः खल्वागते देने केयूरकेण सह प्रतिनिवृत्त्याहं तथैव कुसुमशयनीय समीपे समुपाविशम्। अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किंबहुना प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपलेवम्, नामाक्षरेषु वाणी, प्रीतौ हृदयं देव्याः सकलमेव तं दिवसमभवत् । अपराहे च मामेवाबलम्ब्य निष्क्रम्य हिमगृहकात्संचरन्ती यह च्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र च सुधाधवलां कालिन्दीजलतरङ्गमय्येव मरकतसोपानमालया प्रमदवनवेदिका मध्यारोहत् । तस्यां च मैणिस्तम्भावष्टम्भस्थिता स्थित्वा च मुहूर्तमिव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्तुमिच्छन्ती निश्चलवृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् । विलोकयन्त्येव च कृतसंकल्पा मद1 नाभि प्रवेष्टुमिच्छन्ती सनाविव स्वेदाम्भःस्रोतसि । स्रोतसेव तरलीकृता समकम्पत । कम्पिताङ्गी च पतनभियेबागृह्यत विषादेन । अथ मया विदिताभिप्रायया तन्मुख विनिवेशित निष्कम्पनयनदत्तावधानया 'आज्ञापय ' एतत्सर्वं श्रूयतामित्यनेनान्वितम् । तत इति । तस्मात्स्थानात्खलु निश्चयेन देवे त्वय्यागते सति केयूरकेण सह प्रतिनिवृत्य पश्चागता तथैव पूर्वोत्तरीत्यैव कुसुमशेयनीयसमीपे समुपाविशं समुपविष्टा । नवनवान्देवीप्रसादाननुभवन्त्यहं सुखमतिष्ठम् । किं बहुना जल्पितेन । प्रायेण बाहुल्येन मम चक्षुषि देवीचक्षुरिति देवीपदं प्रत्येकमभिसंबध्यते । चक्षुरियनेन संमुखमद्विषयकप्रेक्षणातिशयः । वपुषि वपुरित्यवियोगातिशयः । करे करपल्लव मिति मद्विषयकः कश्चिञ्चमत्कारातिशयः । नामाक्षरेषु दाणीत्यनेन प्रश्नातिशयः । प्रीतौ हृदयमिति रहस्यप्रीत्यतिशयश्च व्यज्यते । देव्याः पूर्वोकं सकलमेव तं दिवसमभवत् । अपराहे च मामेवावलम्ब्यालम्ब तीकृत्य हिमगृहकान्निष्कम्य निर्गय यदृच्छया खेच्छया संचरन्ती व्रजन्ती निषिद्धपरिजना वहभं बालोद्यानं ज़गाम गतवती । तत्र चेति । तस्मिन्बालोद्याने सुधया पूर्वोक्तया धवलां शुभ्रां प्रमदवनवेदिकामध्यारोहदधिरोहणं कृतवती । मरकतस्य या सोपानमाला तया कालिन्दी यमुना तस्या जलतरङ्गाः प्रचुरा यस्या एवंविधयेवँ । तस्यां चेति । प्रमदवनवेदिकायां मणिस्तम्भलक्षणो योऽवष्टम्भस्तस्मिन्स्थिता तदाधारेणासेदुषी । विरहाति शयं व्यञ्जयनाह - स्थित्वा चेति । मुहूर्तमिव स्थित्वावस्थितिं कृत्वा हृदयेन मनसा सह दीर्घकालमवधार्य निश्चित्य किमपि व्याहर्तुं कथयितुमिच्छन्त्यभिलषन्ती निश्चलं घृता तारका कनीनिका यस्मिन्, निष्पन्द निश्चलं पक्ष्म नेत्ररोम यस्मिन्नेवभूतेन चक्षुषा नेत्रेण मे मम मुर्ख सुचिरं बहुकालं व्यलोकयदपश्यत् । विलोकयन्त्येव पश्यन्त्येव कृतः संकल्पो यया सा संकल्पकार्यमाह - मदनेति । मदन एवाग्निर्वहस्तं प्रवेष्टुं प्रवेश कर्तुमिच्छन्ती वाञ्छन्ती। एतेन मदनदाहस्यासत्यतातिशयो द्योत्यते । अग्निप्रवेशस्य स्नानपूर्वकत्वादाहसस्ताविवेति । खेदाम्भसो घर्मंजलस्य स्रोतसि प्रवाहे सनाविव स्नानं कृतवतीन । एतेन खेदातिशयश्च व्यज्यते । स्रोतसा तरलीकृतेव समकम्पताचलत् । कम्पितमङ्गं यस्या एवंविधा च पतनभियेव विषादेनागृह्यतोपादीयत । अथेत्यानन्तर्ये । विदितो ज्ञातोऽभिप्रायो यस्याः सैवंविधया मया तस्या कादम्बर्या मुखे विनिवेशिते स्थापिते निष्कम्पे नयने ताभ्यां कृत्वा दत्तमवधानं यया सा तया 'देवि, मामाज्ञापयाज्ञां देही ति विज्ञापिते टिप्प० – 1 कादम्बर्याः पुष्पशय्येत्यर्थः । 2 तस्मिन् समग्रेपि दिने, देव्या मय्येव एकचित्तताभवदित्याशयः। 3 एवंविधयेत्र सोपानमालया प्रमदवनवेदिकामध्यारोहदिति योजना । पाठा० -१ प्रतिनिवृत्ता. पल्लव:. ३ आरोह. ४ मणिस्थूणावष्टम्भास्थिताः ५ आलोकयन्ती ६ स्वेदाम्भ:स्रोतसेव. 9 ब ४७० कादम्बरी । व इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयारंमप्रतिभामपि लिखितमणिकुट्टिमेन चरणाङ्गुष्ठेनापक्रमाये वामृशन्ती भवनकलहंसान्फुट्टिीमोल्लेखमुखरितनूपुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि विद्यद्वद नव्यजैनीकृतेनांशुकपल्लवेनोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचमिव दस्तखण्डित शिखण्डिने ददती, वनदेवताश्रवणशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तकामापि न शक्नोति स्म किंचिदपि ज्जाकलितगद्दा गदितुं प्रयत्नतोऽपि चैं सां निःशेषम् । श्वलता मदनानलेनेव दुग्धा, अजस्रं प्रवहता नयनोदकेनेवोढा, प्रविशद्भिर्दुःखैरिषाकान्ता, पतद्भिः कुसुमचापशरैरिव शकलीकृता, निष्पतद्भिः श्वसितैरिव निर्वासिता, हृदयवर्तिभिश्चिन्ताशतैरिव विवेता, निःश्वस9 [ कथायाम बड़ सति सा कादम्बरी वक्तुकामापि किंचिदपि न शक्नोति स्म न समर्था बभूव गदितुं वक्तु प्रयत्नतोऽपि च सा निःशेषं समग्रम् । अथेतः कादम्बरी विशेषयन्नाह - निजेति । वेपथुमद्भिः कम्पवद्भिर्निजावयवैरात्मीयापघनैर्निवार्यमाणैव । अन्योऽपि हस्तचालनादिना निवार्यते । रहस्येति । रहस्यस्य गुह्यस्य श्रवणमाकर्णीनं तस्माया लज्जा त्रपा तयात्मप्रतिमामपि स्वकीयप्रतियातनामपि लिखितं कर्षित मणिकुटिमं येनैंभूतेन चरणा ङ्गुष्ठेनापत्रैमायेव तन्निवृत्तय इवामृशन्त्यामर्श कुर्वन्ती । भवनकलेति । कुहिमं बद्धभूमिकं तस्योल्लेख उत्क-र्षणं तेन मुखरितं वाचालं नूपुरं यस्यैवंभूतेन चरणारविन्देन भवनकलहंसानपि गृहकादम्बानपि विसर्जयन्ती मानसगमनायाज्ञां प्रयच्छन्ती । विरहवशात्सचिन्तायाः स्त्रियोऽङ्गुष्ठेन भूमिकर्षणं स्त्रीजातिस्वभावः । दिसर्जय न्तीत्यनेन हंसापेक्षयापि गत्या शब्देन चरणारविन्दस्याधिक्य मिति व्यज्यते । कर्णेति । खिवत्स्वेदं प्राप्नुव यद्वदनं मुखं तत्र व्यजनीकृतो योंऽशुकपलवस्तेन कर्णोत्पलमधुकरानप्युत्सारयन्ती दूरीकुर्वन्ती । अनेन कर्णो त्पले सौगन्ध्यातिशयो द्योत्यते । ताम्बूलेति । ताम्बूलस्य नागवल्लीदलस्य वीटिका प्रसिद्धा तस्याः शकलं खण्ड दन्तखण्डितं रदनचर्वितमुत्को चमिव लजामिव शिखण्डिने कलापिने ददती प्रदानं कुनैती । वनेति । वनस्यारण्यस्य देवताधिष्ठात्री तथा श्रवणमाकर्णनं तेन शङ्कितेवेतस्ततश्चतुर्दिक्षु मुहुर्मुहुर्वारंवार विलोकयन्ती पश्यन्ती । ज्वलतेति । दीप्तिमता मदनरूपोऽनलो वहिस्तेन दग्धेव ज्वलितेव। अजस्रं निरन्तरं प्रबहला चलता जयनोदकेन नेत्राम्भसोढेव वाहितेव । प्रविशद्धिरिति । प्रविशद्भिः प्रवेशं कुर्वद्भिः । हृदय इति शेषः । एवंविधैर्दुः खैर सुखैराकान्तेव व्याप्तेव । पतद्भिरिवोपरिपतनं कुर्वद्भिः कुसुमचापः कन्दर्पस्तस्य शरैर्बाणैः शकलीकृतेद खण्डीकृतेव । निष्पतद्भिरिति । निष्पत हर्निर्गच्छद्भिः श्वसितैः श्वासैर्निर्वासिते व हृदयाहूरी तेव । हृदयेति । हृदयवर्तिनिश्चिन्ता रातैर्विवतेव रक्षितेव । निःश्वासेति । निःश्वासं वदनानिलं पिबन्ती वयव ज पव योज ककयु वेन । 'अयत टिप्प० -1 'न शक्नोति स्म किश्चिदपि लज्जाकलितगद्दा गदितुम्' सत्रैव वाक्यपूर्तिः । 'प्रथम' तोप चय नोष वल।' इগ্রम 'न:शेष' इrror on T, एध ट म : । 3 aतप वभवयत : । 2 व त नवरने, कं : ानयव तय: । 4 त्रापि संबद्ध्यते, तत्तश्च लजावशाभवनहंसानपि सशब्देन चरणेन ततो विसर्जयन्ती । चरणे नूपुरशब्दो नास्ति मन्ये तस्मात्स्थानादपसरणस्यैव स शब्द इत्याशयः । 'हंसापेक्षयापि ... ' इत्यादिटीकाकारोक्तिस्त्व काण्ड एव । एवं सर्वत्र 'लजया? इखस्य संबन्धो पोथ्य: 5 अपसरणार्थ गुप्त द्रव्यदानम् 'रिश्वत' इति यवनभाषा । अन्योप्यर्थी स्वाभीष्टस्थानादपसर्तु कस्मैचिद् द्रव्यं ददाति । टीकाकारस्य त्वगाधं पाण्डित्यम् । '' नमथहयनदणलयपाठा० - १ सतप्रतिमाम् २. संविषदन; स्विचद्ददन ३ व्यजनक्षिप्तेन. ४ उपवन ५ लज्जाकुलितगद्गदतया, ६ चास्याः• ७ दग्ध्वा प्रवहता. ८ कीलिता ९ आवृता. १० विश्वासपातिभिः, कादम्बरीवृत्तश्रवणम् ] पूर्वभागः । ४७१ पायिभिर्मधुकरकुलैरिव निपीता न प्रावर्तत वाणी । केवलं दुःखसहलगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्धिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुर्दि नमदर्शयत् । तदा च तस्याः सकाशाद शिक्षतेव लजापि लज्जालीलाम्, विनयोऽपि विनयातिशयम् । मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्रमोऽपि विमिताम्, विषादोऽपि विषादिताम्, विलासोऽपि विलासम् । तथाभूता व 'देवि, किमिदम्' इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षेणात्मनः समुद्रधनायेव मृणालकोमल्या बाहुलतया वेदिकाकुसुमपालिकाप्रथितकुसुममालाम येवंशीला निःश्वासपायिनस्तै रैवंभूतैर्मधुकर कुलैर्भ्रमर समूहैर्निपीतेव पानविषयीकृतेव । अतोऽस्या वाणी वाङ् न प्रवर्तत न प्रवृत्ता बभूव केवलं साऽधोमुख्य वाङ्मुखी दुःखानां सहस्रं तगणनाय पृथक्संख्यां कर्तुम् । शुचिवर्तुलत्वसाम्यादाह -- मुक्केति । मुक्तानामक्षमालिकां जपमालामिव कल्पयन्ती रचयन्ती । गलद्भिः स्रवद्भिरस्पृष्टमस्पर्शित कपोलस्थलं अधोमुखत्वाद्गल्लात्परप्रदेशो यैरेवंविधैः शुचिभिर्नयनजलबिन्दुभिः कृत्वा दुर्दिनं मेघजं तमोऽदर्श यद्दर्शितवती । मया पृष्टा केवलं रुदनमेव चक्रे इति भावः । तदा चेति । तस्मिन्काले तस्याः कादम्बर्याः सकाशात्समीपालजापि त्रपापि लजया लीला स्वभावः संकोचरूपस्तामशिक्षत शिक्षितवती । अशिक्षतेत्यस्य सर्वत्र संबन्धः । तथा च स्वाश्रयं संकुचितं करोतीति लज्जास्वभावः । लजाया अपि चेल्लज्जा. स्वभावोऽभ्यस्तस्वाई लज्जायाः संकोच एवेति न्यूनत्वमेव सूचितं भवति । तथा विनयोऽपि शरीरावनतिरूपोऽपिं विनयातिशयमनधिकताम् । एतेन विनयस्यापि न्यूनत्वं सूचितम् । तथा मुग्धतापि विशेषावगत्यभावरू पापि मुग्धतामभावरूपाम् । एवं सति मुग्धताया अभाव एव प्रौढत्वं सिद्धम् । अभावाभावे भावरूपा विशेषा वगतिः प्रौढता । वैदग्ध्यमपि भावाभिव्यञ्जकक्रियावृद्धिरूपमपि वैदग्ध्यमेव वर्तत इति सूचितम् । तथा भयमपि किया मिनिवेशनिवृत्तिरूपमपि भीरुताम् । एतेन भयमपि निवृत्तं सोत्साहरूपं मनो जातमिति सूचितम् । तथा विद्यमोऽपि चित्तपरिवृत्तिलक्षणोऽपि विश्रमिताम् । एतेनात्यन्तचित्तास्थैर्यं सूचितम् । तथा विषाद इष्टविषयेषु प्रातिकूल्यरूपोऽपि विषादिताम् । एतेनेष्टेष्वनुकूलतालक्षण उत्साह एव प्रसिद्ध इति ध्वनितम् । विलासोऽपि परव्यामोहनानुकूलव्यापाररूपोऽपि विलासम् । एतेन विचित्रैव चेष्टा स्वीकृतेति व्यज्यते । तथाभूता येति । एवंरूपा सा कादम्बरी हे देवि, किमिदमिति मया विज्ञापिता पृष्टा सती लोहितायमानमारक्तमुदरं मध्यं ययोरेवंविधे लोचने प्रमृज्य प्रमार्जनं कृत्वा दुःखप्रकर्षेणात्मनः खस्य समुद्वन्धनायेव मृणालवत्कोमलया बाहुलतया कारणभूतया वेदिकाया या कुसुमपालिका तया ग्रथिता या कुसुममाला सक्तामवलम्ब्याश्रित्य 'अस्याः" इति पदं कुत भाकृष्टं टीकाकारशिरोमणिना ? दूरदूरतोषि तन्नात्र दृश्यते । अस्तु, पाउरुमहाभागा विदग्ध्वेतस्य रहत्यम् -- 'महदा गदितुम्' अन पूर्वनाक्यसमातिः । 'प्रजलतोपि बाला विशेष उपलता इत्यादि चासिवाक्यम् । अस्याः (कादम्बय: ) वाणी निःशेषं संपूर्णानयवं थ I aा मननन द सत, मवहत नयनोद ऊ टिप्प० त...नतो न घ इ । न ल ज । 2 ज ( जात, अर्थात श संय । यद ब शप चदण: पाचा प्रकटोक्रियेत ? किंतु विश्वम्भवशात्तत्वा न्यूनत्वे सति प्रणयप्रकटनं बभूवेति तात्पर्यम् । वस्तु---तकई त य । । : : शिक्षणतमेव पाडा०===१ लज्जापि लज्जां लीलापि लीला विनयोऽपि विनयोपदेशम्, Âર્ कादम्बरी । [ कथायाम् समुन्नतैक भ्रूलता मृत्युमार्गमिवालोकयन्ती दीर्घमुष्णं च निश्वसितवती । तंदुःखकारणमुत्प्रे क्षमाणया च कथनाय पुनःपुनरनुबध्यमाना मया ब्रीडया नखमुख विलिखित केतकी दलानि लिखित्वेव वक्तव्यमर्पयन्ती विषक्षास्फुरिताधरा निश्वासमधुकरानिवोपांशु संदिशन्ती क्षितितलनिहित निश्चलनयना सुचिरमतिष्ठत् । क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनः पुनरैथापूर्यमाणलोचनच्युतैर्मद नानलधूमधूसरां बाचमिव क्षालयन्ती बाप्पजलबिन्दुभिः बाष्पजलबिन्दुव्याजेन च विलॆक्ष स्मितस्फुरितैर्दशनांशुभिः साध्वस विस्मृतानपूर्वानभिधेयवर्णानिव प्रभृती कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच माम्-'पत्रलेखे, वल्लभतया सॅस्मिन्स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम् यत्र में भवती दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य १ " समुन्नतैका भ्रूलता यया सेवंविधा मृत्युमार्गमिवालोकयन्ती पश्यन्ती दीर्घ लम्बायमानमुष्णं तप्तं च निश्वसितवती निश्वासं मुक्तवती । तस्य निश्वासमोचनस्य दुःखस्य कारणं नियामकमुत्प्रेक्षमाणया ज्ञातुमिच्छया मया कथनाथ पुनः पुनरनुबध्यमाना वीडया लजया नखमुखेन नखरामेण विलिखितानि केतकीदलानि । अक्षरसाम्येनाहलिखित्वे वक्तव्यमभिधेयमर्पयन्ती । वक्तुमिच्छा विषक्षा तया स्फुरितावधरौ यस्याः सा । अधरकम्पमिषादुत्त्रेक्षते — निश्वासेति । निश्वासमधुकरानुपांशु रहसि संदिशन्तीव कथयन्तीव क्षितितले निहिते स्थापिते निश्चले नयने यया सा सुचिरं चिरकालं यावदतिष्ठत्स्थिता । P क्रमेण परिपाट्या भूयो मन्मुखे दृष्टिं निधाय स्थापयित्वा पुनः पुनर्वारंवारम् । अंथेत्यामन्तर्ये । आपूर्यमाणे लोचने ताभ्यां च्युतैर्गलितैर्बाष्पजलबिन्दुभिर्मंदनानलस्य यो धूमस्तद्वद्धूसरां मलिनां वाचं वाचालतां क्षालयन्तीव । बाष्पेति । बाष्पजलबिन्दुव्याजेन विलक्षमैभिनवं यस्मितं तेन स्फुरितैदापितैर्दशनांशुभिर्दन्तमयूखैः साध्वसेन भयेन विस्मृतानपूर्वानभिधेयवर्णान्वाच्याक्षरान्तीव । अत्र बाष्पबिन्दूनां वर्तुलतयाक्षरसाम्यं दशनांशूनां वितततया गुणसाम्येन ग्रन्थनमित्यर्थः । कथमपि महता कष्टेन व्याहाराभिमुख भाषिताभिमुखमात्मानमकरोदन्वतिष्ठत् । मां प्रत्यब्रवीच्चावादीत् । हे पत्रलेखे, वल्लभस्य भावो वल्लभता तया तस्मिन्स्थाने न तातो न पिता, नाम्बा माता, न महाश्वेता, न मदलेखा, न जीवितम् । यत्र स्थाने मे मम भवती दर्शनात्प्रमृत्यवलोकनादारभ्य प्रिया वल्लभासि । अहं न जाने नाकलयामि केनापि कारणेन हेतुनापहस्तितो दूरीकृतः सकल: सखीजनो येनैवं मे मम हृदयं चेतस्त्वयि विषये विश्वसिति विश्वासं करोति । अपरं कमन्यं कमुपालभे । उपालम्भं ददामीत्यर्थः । अटिप्प० -- 1 स्वबुद्ध्या संभावयन्त्या (मया) इत्यर्थ उचितः । 2 यया सा, इति मन्ये स्यात् । लेख कंदोषाद्विभ्रष्टः स पाठः । अस्तु 'नखमुख विलिखितकेतकीदला' इत्येव पाठः । नखमुखेन केतकीदलं. तथा लज्जास्त्रभावात्संगृहम्, तत्र कविरुत्प्रेक्षते स्ववक्तव्यं लिखित्वा अर्पयन्तीव । एवमधरस्फुरणेपि । 3 अमार्मिकता सेयम् । पुनः पुनरण्यापूर्यमाणेयेव पाठः । 4 मदनानलधूमेन धूसरां मलिनाम् अस्पष्टामित्येवार्थ: । न हि वाणी मूर्ता यन्त्र मालिन्येनोपमा स्यात् । 5 विलक्ष स्मितेन सलज्ज-मन्दहास्येनेत्यर्थः । इदं तु महापाण्डित्यम् । C पाठा० - १ मृत्युपाशमिवावलोकयन्ती २ ततो दुःखकारणम्; तदुःखम् ३ केतकीदला. ४ अध्यापूर्यमाण. ५ लक्ष:. ६ पूर्वाम्. ७ न तस्सिन्स्थाने. ४७३ पत्रलेखातः कादम्बरीवृत्तश्रवणम् ] पूर्वभागः । कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यारत्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिहेमि, किमुतापरहृदयेन । कथमपि मादृशी रजनिकरकिरणावदात कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जां परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा, न दत्ता मात्रा, नानुमोदिता गुरुभिः, न किंचिसंदिशामि, न किंचित्प्रेषयामि, नाकारं दर्शयामि। कैातरा चानाथेव बँलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय महतां किमयमाचार: ? किं परिचयस्येदं फलम् यदेवमभिनव बिस किसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि वदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । नहि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् । इत्य भिधाय तूष्णीमभूत् । ? 1 न्यस्य कस्य वा परिभवं कथयामि निवेदयामि । केन वान्येन सह दुःखं साधारणीकरोमि । असह्यं सोढुमशक्यमिमं दुःखभारं भवत्या निवेद्य कथयित्वा जीवितं त्यक्ष्यामि दूरीकरिष्यामि । ते तव पुरस्ताज्जीवितेनैव शपामि शपथं करोमि । एतस्मादधिकः कोऽपि शपथो नास्तीति भावः । विदितवृत्तान्तेन ज्ञातस्त्ररूपेणामुना स्वहृदयेनापि जिहेमि लजां प्राप्नोमि । किमुतापरहृदयेन भण्यते । मादृशी स्त्री कथमिव रजनिकरश्चन्द्रस्तस्य किरणा गभस्तयस्तद्वदवदातं निर्मलं कुलं वंशः(तम्) कौलीनेन जनापवादेन कलङ्कयिष्यति मलिनयिष्यति । कुलक्रमागतां परम्परायातां च लज्जां त्रपां परित्यक्ष्यति परिहरिष्यति । अथवाऽकन्यको चिते कन्यका जनस्यानुचितेऽयोग्ये वा चापले चपलतायां चेतः प्रवर्तयिष्यति प्रवृत्तिं कारयिष्यति । साहं कादम्बरी न संकल्पिता पित्रा जनकेनोद्वाहार्थं न कसचित्संकल्पविषयीकृता । तथा न मात्राम्बया दत्तार्पिता । इदं सुष्टु कृतमित्येवंत्रकारेण गुरुभिर्वृद्धैः नानुमोदिता । न किंचित्संदिशामि कथयामि । न किंचित्प्रेषयामि प्रेषणं करोमि । नाकारं देहविकृतिं दर्शयामि प्रकटयामि । कातरा चानाथेवाहं बलाद्धठेनावलिप्तेन दर्पितेन कुमारेण चन्द्रापीडेन गुरुगुर्वी या गर्हणीयता निन्द्यता तां नीता प्रापिता । त्वं कथय निवेदय, महतां सत्पुरुषाणाम् । किमिति प्रश्ने । अयमाचारः कुलक्रमागत व्यवहारः ? किं वा परिचयस्य संस्तवस्येदं फलम्, यदेवंप्रकारेणाभिनवो यो बिसकिसलयस्य तन्तुस्तद्वत्सुकुमारं कोमलं मे मम मनोऽनेन परिभूयते पराभवविषयीक्रियते । हि यस्मात्कारणात्कुमारिकाजनोऽपरिभवनीयो यूनां पराभवितुं न योग्यः । प्रायेणेति । प्रायेण बाहुल्येन प्रथमं मदनानलो लज्जां त्रपां दहति भस्मीकरोति । ततो हृदयं चेतो दहति । तथा कुसुमेषुः कंदर्पस्तस्य शरा आदौ प्रथमं विनयादिकं खण्डयन्ति शकलीकुर्वन्ति । पश्चान्मर्माणि मर्मस्थानानि खण्डयन्ति । तदहं पुनर्जन्मान्तरे यः समागमः संबन्धस्तदर्थं भवतीमामाये आमन्त्रणं कुर्वे । मर्मविच्छेदेऽवश्यमरणसंभवादिति भावः । अत्रार्थे हेतुं प्रदर्शयन्नाह – नहीति । नहि मे मम त्वत्तोऽन्या प्रियतरा वल्लभतरा । प्राणपरित्यागलक्षणं यत्प्रायश्चित्तं तदाचरणेन तदासेवनेनात्मनः स्वस्य कलङ्क प्रक्षालयामि पवित्रीकरोमि । इत्यभिधायेत्युक्त्वा तूष्णीमभूत् । मौनं चकारेत्यर्थः । टिप्प० – 1 गुरुभिर्महद्भिर्गर्हणीयतामित्यर्थ उचितः । · पाठा० - १ असयमब. २ कालीनेन, ३ अन्य कन्यको चिते; अन्यकन्यकाजनोचिते. ४ सा चाहमसंकल्पिता मात्रा पित्रा न दत्ता. ५ कातरेव इतरेव ६ अनाथेन नीचेव. ७ अबलिप्तेव. ८ गुर्वीं गर्हणीयताम्. ९ अनभिभवनीयः; परिभवनीयः. ६० का० ४७४ कादम्बरी । [ कथायाम्CO अहं तु यत्सत्यमविदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती – 'देवि, श्रोतुमिच्छामि । आज्ञापय किं कृतं देवेन चन्द्रापीडेन ? को वापराधः समजनि ? केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः ? श्रुत्वा प्रथममु. त्सृष्टजीवितायां मयि पश्चात्समुत्स्रक्ष्यसि जीवितम्' इति । एवमभिहिता च पुनरवदत् 'आवेदयामि ते । अवहिता शृणु । स्वप्रेषु प्रतिवसमागदित्यागत्य मे रहस्य संदेशेषु निपुणधूर्तः पैञ्जरशुकसारिका दूती: करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः संकेतस्थानानि लिखति । स्वेदप्रक्षालिसाक्षरानपि निपतितसाञ्जना श्रुबिन्दुपङ्क्तिकथितात्मावस्थानान्मनोहरान्संमोहाशानुवर्तिनो मदनलेखान्प्रेषयति । र्निजानुरागेण बलादरं जयदलक्तILLA अहं तु यत्त्वं वदसि तत्सत्यमवितथमविदितवृत्तान्ततया हीतेव लजितेव, भीतेव त्रस्तेव, विलक्षेत्र वीक्षापन्नेव, विसंज्ञेव विगतचेतनेव, सविषादं यथा स्यात्तथा विज्ञापितवती । हे देवि कादम्बरि, श्रोतुं श्रवणविषयीकर्तुमिच्छाम्यभिलषामि । आज्ञापय प्रतिपादय । देवेन चन्द्रापीडेन किं कृतं किं विहितम् । को वापराध B आगः समजनि समभूत् । खल । निश्चितम् । केन वाऽविनयेन देव्याः कादम्बर्या अखेदनीयं कुमुदवत्कोमलं सुकुमारं मनः खेदितं खेदं प्रापितम् । एतच्छ्रुत्वाकर्ण्याहं प्रथममुत्सृष्टजीवितायां व्यक्तप्राणितायां मयि त्यां पश्चात्तदनन्तरं जीवितं त्वं समुत्स्रक्ष्यसि त्यक्ष्यसि । इत्येवं मयाभिहिता कथिता पुनर्भूयोऽवददवोचत् । आवेदयामि कथयामि ते तव । अवहिता दत्तावधाना त्वं शृण्वाकर्णय । स्वस्यैव विरहावस्थाविलासान्कुमाराध्यासवशात्तदनुबन्धित्वेन खप्नेषु पश्यन्नाह - स्वप्नेविति । स्वप्नेषु प्रतिदिवसं प्रत्यहमागत्यागत्य निपुणो धू मे मम रहस्य संदेशेषूपांशुसंदिष्टेषु । तत्र च कुमाराध्यासवशाच्छुकसारिकानां शब्दमधिकृत्याह – पञ्जरेति । पञ्जरस्थाः शुकाः कीराः सारिकाः पीतपादा दूतीः करोति । तन्मुखेनैव संदिष्टसंदेशान्कथापयतीत्यर्थः । श्रवणदैन्तपत्रयोर्मुद्रारेखामधिकृत्याह- सुप्ताया इति । सुप्तायाः श्रवणदन्तपत्राणामुदरेषु व्यर्थः संगमाविषयो यो मनोरथोऽभिलाषस्तेन मोहितं मानसं यस्य सः । संकेतस्थानानि लिखति लिपीकरोति । कपोलयोः पत्रवल्लीलेखामधिकृत्याह– स्वेदेति । स्वेदेन घर्मवारिणा प्रक्षालितानि धौतानि अक्षराणि येषु तान् । निपतितेति । निपतिता ये साजना अश्रुविन्दवस्तेषां पङ्ख्या कथितमात्मावस्थानं येषु तान्मनोहरान्संमोहानुवर्तिनः संमोहकारिणो मदनलेखान्प्रेषयति प्रेषणं करोति । खाभाविकचरणयोरारुण्यमधिकृत्याह - निजेति । निजानुरागेण बलाद्धठादार्द्रालिक्तकरसेनेवाशुष्क यावकद्रवेणेव चरणावरञ्जयत् । नखानां स्वच्छतां व्यञ्जयंस्तेषु टिप्प० - 1 भूमण्डलेऽद्वितीयष्टीकाकारमहाशयः, यस्य व्युत्पच्या स्वल्पोपि संबन्ध: सोपि जानीयात्(-'अविदितवृत्तान्ततया सत्यम् ( निश्चितम्) लजितेव अहम्' इत्यर्थो न तु यवं वदसि तत्सत्यम् । 2 लज्जावशात्किंकर्तव्यविमूढेव । 3 'पश्यन्त्याह' इति मन्ये स्यात् । 4 श्रषणस्थे ये दन्तपत्रे ( गजदन्तनिर्मित- पत्राकारावलंकारौ ) तयोः । 5 अन्त्राप्यस्पष्टा व्याख्या । स्वेदेन अक्षराणि प्रक्षालितानि, तथापि विरहजातरोदनेन या साजना अश्रुबिन्दुपकिस्तया कथिता ( सूचिता ) आत्मावस्था (कामार्तदशा) येषु तान्, संमोहेन ( चित्तभ्रमेण ) या मत्संगमस्याऽऽशा तदनुसारिणः मदन लेखान् ( प्रेमपत्राणि ) प्रेषयतीत्यर्थः । 6 अत्राप्यपतट्टीकाकारः 'निजानुरागेणेव बलाद्रअयत्यलक्तकरसेन चरणौ' इत्येव पाठः । सर्वत्र वर्तमानकालेनैव निर्देशात् । निजानुरागवत् रक्तेन यावकेन इति तदर्थः । @ पाठा० - १ प्रतिदिनम्. २ निपुणो धूर्त: ३ परशुकं सारिकां च दूतीकरोति, ४ अश्रुबद्ध: ५ आत्मावस्थानम्. ६ निजानुरागेणेव. ७ रञ्जयन्; रञ्जयति. कादम्बरीवृत्तश्रवणम् ] पूर्बभागः । ४७५ करसेनेव चरणौ । अविनयनिश्चेतनो नखप्रतिबिम्बितमात्मानं बहु मन्यते । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्मांशुकदशाप्रतिहतगमनाया गृहीत्वेव सखीभिरपिंताया मिथ्या प्रगल्भः पैराङ्मुखाया: परिष्वङ्गमाचरति । स्तनस्थले मे लिखन्पेत्रलेखां कुटिलतामिवानृजुप्रकृतिः प्रकृतिमुग्धं मनः शिक्षयति । हृदयोत्कलिकातरङ्गवातैरिव शीतलैर्मुखमरुद्भिः श्रमजलशीकरतार कितावली कचाटुकारः कपोलौ वीजयति । स्वेदसलिलशिथिलितग्रहणगलितोत्पलशून्येनापि करेण वाङ्कुरानिव नैखकिरणा-शुद्धादुर्विदग्धः कर्णपूरी करोति । बल्लभतरबालबकुलसेकका लकवलीकृतान्सुरागण्डूषान्सकचग्रहमसकृद्धृष्टो मां पाययति । भवमाशोकताडनोद्यतान्पादमहारादुर्बुद्धिविडन्वितः शिरसा प्रतीच्छति। मन्मथमूढमानसञ्च • > प्रतिबिम्बमधिकृत्याह - अविनयेति । मां मुक्त्वा गत इला विनयस्तेन निश्चेतनो नखेषु प्रतिविम्बितमात्मानं बहुमन्यते । अधिकं जानातीत्यर्थः । यद्यपि नखेषु यः कश्चन प्रतिबिम्बस्तथापि तदध्यासवशात्तस्यैवेत्यर्थः । उप वनेषु सर्वतः कोमलपल्लवानामा श्लेषमधिकृत्याह-उपवनेविति । उपवनेष्वेका किन्या असहायायाः केनचित्पुरुषेण ग्रहणं तस्माद्भयं तेन पलायमानाया गच्छन्त्याः पहनेषु लगा या अंयुकदशा तया प्रतिहतं गमनं यस्या अत एव पराङ्मुखायाः सखीमिर्गृहीत्वेवार्पिताया मिथ्या प्रगल्भ मिथ्यैव विदग्धचरितश्चन्द्रापीड : परिष्वङ्गमाचरत्यालिङ्गनं करोति । बहिरुपवन पल्लवा श्लेषमनुभूतम् तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह- स्तनेति । मे मम स्तनस्थले पत्रलेखां लिखन्ननृजुप्रकृतिः कुटिलस्वभावः कुटिलतामिव प्रकृतिमुग्धं मनः शिक्षयति । सखेदजलकणिकयोः कपोलयोर्व्यजनवातवीजितयोस्तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह- हृदयेति । अलीकचाटुकारो मिथ्यैव चटुकृच्छ्रमजलशीकरैः श्वेतत्वसाम्येन तारकिताविव कपाली शीतलैर्मुखमरुद्भिवज यति पवनं करोति । कीदृशैरिव । हृदये योत्कलिका रणरणकता सैवास्थिरत्वात्तरंगाः कल्लोलास्तेषां वातैरिव । स्वदसलिलेन शिथिलीकृतं यदुत्पलं तत्संरक्षणार्थं न्यस्तं यत्करतलं तन्नखप्रभायां तत्कृतयावाङ्कुर कर्णपूर बुद्धिम धिकृत्याह – स्वेदेति । स दुर्विदग्धः करेण शुद्धान्नखकिरणान्पाण्डुरत्वसाम्याद्यत्राङ्कुरानिव कर्णपूरी करोति । कीदृशेन करेण । स्वेदसलिलेन शिथिलितं तस्यै ग्रहणे गलितं यदुत्पलं तेन शून्येनापि । अत्रापिशब्देन कर्णपूरीकृतोत्पलाभावेऽपि कर्णपूरकार्यं करोतीत्यर्थः । वल्लभतरेति । वल्लभतरा ये बालबकुला लघुकेसरास्तेषां सेककालस्तत्र कवलीकृतान्सुरागण्डूषान्मान्तुलुका नसकृन्निरन्तरम् । अलीनां नीलँत्वादाह — सकचेति । सकचग्रहं धृष्टो मां पाययति पानं कारयति । भवनाशोकेति । अशोकस्य गृहक वृक्षस्य ताडनं तत्रोद्यतान्पाद प्रहारांश्चरणाभिघातान्दुर्बुद्ध्या बिडम्बितः शिरसोत्तमाङ्गेन प्रतीच्छति वाञ्छति । अत्र तदध्यासवशादशोकस्यापि तद्रूपत्वेन चिन्तनमित्यर्थः । विरहेण मूढतां प्रदर्शयन्नाह - मन्मथेति । मन्मथेन मूढं मानसं । टिप्प० - 1 अन्न कीडश्यः सख्यः सन्ति ? अस्तु. 'लतासखीभिः' इत्येव पाठः । अर्थोपि वराकेण टीकाकारेण न बुद्धः । केनचित्पुरुषेण ग्रहणं न, चन्द्रापीडेन ग्रहणभयात्पलायमानायाः पल्लवासक्ताञ्चलतथा लतारूपाभिः सखीभिः गृहीत्वा दत्ताया इव लज्जावशाद्विवृत्तवदनाया मे आलिङ्गनं करोतीत्यर्थः । 2 तस्य कस्य ग्रहणे ? अस्पष्टं सर्वम् । स्वेदसलिलेन लथीकृतं यद् ग्रहणं ( धारणम् धारणसामर्थ्यम्) तेन गलितं यदुत्पलं तच्छ्रन्येन (तद्रहितेन ) अपि स्वकरेण यवाङ्कुरानिव शुद्धान् (केवलान् ) स्वनखकिरणानेव कर्णपूरीकरोतीत्यर्थः । 3 स्वप्नप्रलपितमिवासंबद्ध मिदम् । बकुलसेककाले अयं चन्द्रापीड: स्वमुखेन मद्यगण्डूषान् कवलीकृत्य कचग्रहणपूर्वकं तान् मां बलास्पाययतीति तात्पर्यम् । पाठा० - १ रसेन. २ नखेषु प्रतिबिम्बितम् ३ लतासखीभिः ४ पराङ्मुखापरिष्वङ्गम् ५ लताम्. ६ यवाकर विकरानि, ७ ख ८ सकचग्रहमगणितचेष्टः पातुं प्रार्थयते. ४७६ कादम्बरी । [कथायाम्कथय हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीयां संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोष संकी तैनमपि स्मरणो-. पायमवगच्छति । अवज्ञानमध्यनियन्त्रणं प्रणयमुत्प्रेक्षते । लोकापवादद्मपि यशो गणयति' इति । तामेववादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम्- 'अहो चन्द्रापीडमुद्दिश्य सुदूरमाकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेव कादम्बरीव्याजेन साक्षान्मनोभवचित्तवृत्तिः प्रसन्ना देवस्य, ततः सहजैः सादरं संवर्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः, यौवनेन रतिरससागरतरङ्गैः पातिता रत्नवृष्टिः, यौवेन विलासैलिखितं नाम शशिनि, सौभाग्येन प्रकाशिता निजश्रीः, लावण्येनैन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिरालब्धः कालो मलयालेन, समासादितोऽवसरश्चन्द्रोदयेन, आप्तमनुरूपं फलं मधुमासकुसुमसमुख्या गतो मंदिरारसदोषो गुणताम्, दर्शितं मुखं मन्मथयुगावतारेण' इति । अथाहं प्रकाशं विहस्यानवम् –'देवि, यद्येवमुत्सृज कोपम् । प्रसीद । नार्हसि कौमा• Com Ap यस्यैवंविधः । स्वव्यामोहं तत्रैवारोपयन्नाह निश्चेतन इति । त्वं कथय केन प्रकारेण निषिध्यते प्रतिषिद्धोऽप्युत्कटरागवशाद्भुयेव तिष्ठति । प्रत्याख्यानेति। प्रत्याख्यान निराकरणमीर्ष्यामसूयां संभावयति संभावनां करोति। आक्रोशमपि निष्ठुरोक्तिमपि परिहास हास्यमात्रमाकलयति चिन्तयति । असंभाषणमप्यजत्पनमपि मानं मन्यते जानाति । दोषसंकीर्तनमपि स्मरणोपायत्वेनावगच्छति जानाति । अवज्ञानमप्यवगणनमपि स्नेहस्य चाटूनि नियन्त्रणानि तद्रहितमनियन्त्रणं प्रणयं स्नेहमुत्प्रेक्षते । लोकापवादमपि यशो गणयत्याकलयति । इदं च सर्वं तद्विषयकोत्कटाण्यांसवशाज्ञेयम् । das इत्येवंवादिनीं तामाकर्ण्य प्रकृष्टो यो हर्षस्तल्लक्षणो यो रसस्तेन निर्भरा संपूर्णा मनस्येवमकरवमकल्पयम् । अहो इति । अहो इत्याश्चर्यम् । खलु निश्चितम् । चन्द्रापीडमुद्दिश्येयं कादम्बरी मकरकेतुना सुदूरमतिदूरमाकृष्टाकर्षिता । यदि च सत्यमेवावितथमेतदेव तदा देवस्य चन्द्रापीडस्योपरि मनोभवचित्तवृत्तिः कादम्बरीव्याजेन साक्षात्प्रसन्ना । तत इति । अस्य चन्द्रापीडस्य सहजैः स्वभावजनितैः सादरं संवर्धितैर्वृद्धिं प्रापि तैर्गुणैः प्रत्युपकृतं प्रत्युपकारः कृतः । यशसा कीर्त्या ककुभो दिशो धवलिताः शुभ्रताः । यौवनेति । यौवनेन तारुण्येन रतिरसः शृङ्गाररसः स एव सागरः समुद्रस्तस्य तरंगैः कल्लोलैः कृत्वा रत्नवृष्टिः पातिता । तथा यौवनविलासैस्तारुण्यविभ्रभैः शशिनि चन्द्रे चन्द्रापीडेति नाम लिखितम् । सौभाग्येति । सौभाग्येन सुभगतया निजा श्रीरात्मशोभा प्रकाशिता प्रकटीकृता । लावण्येति । लावण्येन चातुर्येणैन्दवी भिश्चन्द्रसंबन्धिनीभिः कलाभिरिवामृतं पीयूषं वृष्टम् । पीयूषवृष्टिः कृतेत्यर्थः । तथा मलयानिलेन मलयवायुना चिराद्बहुकालात्कालः प्रस्तावो लब्धः । तथा चन्द्रोदयेनावसरः समासादितः । तथा मधुमासः सुरभिमासस्तस्य कुसुमसमृद्ध्यानुरूपं योग्यं फलं प्राप्तम् । मदिरेति । मदिरा कापिशायनं तस्य रसदोषो गुणतां गतः । मन्मथयुगावतारेण मुखं दर्शितम् । कादम्बर्यनुकूलतायां सत्यामेतत्सर्वमनुकूलं जातमित्यर्थः । अथेति । तच्चिन्तनानन्तरं प्रकाश प्रकटं विहस्याहमब्रवमवोचम् । हे देवि, यद्येवं तर्हि कोपमुत्सृज यज । टिप्प० - 1 हन्त विपरीता बुद्धिर्महाशयस्य, यद्यस्मिन् वाक्य एवोद्देश्य - विधेयभावः पूर्येत तदा 'ततः' इत्यग्रिमवाक्यस्यासंबन्ध: स्यात् । तस्मात् कादम्बरीं व्याजीकृत्य ( उद्दिश्य ) मनोभवस्य चित्तवृत्तिर्यदि सत्यं प्रसन्ना, ततः सहजैः अस्य गुणैरुपकृतमित्यर्थः । पाठा० • १ एवं तदा . २ विलासैः. ३ प्राप्तमनुरूपफलम् ; प्राप्तरूपं फलम्. ४ मदिरामदे. ५ कामापराधे. कादम्बरीवृत्तश्रवणम् ] पूर्वभागः । 800 . पराधैर्देवं दूषयितुम् । एतानि खेलु कुसुमचापस्य चापलानि शठस्य, न देवस्य' इत्येवमुक्तवतीं मां पुनः सकुतूहला सा प्रत्यभाषत ———'योऽयं कामः कोऽपि वा, कथय कानि कान्यस्य रूपाणि' इति । तामहं व्यजिज्ञपम्- 'देवि, कुतोऽस्य रूपम् । अतनुरेष हुताशनः । तथा हि । अप्रैकाशयकुवालावली: संतापं जनयति, अप्रकटयन्धूमपटलमश्रु पातयति, अदर्शयन्मस्मरजोनिकरं पाण्डुतामाविर्भावयति । न च तद्भूतमेतावति त्रिभुवनेऽस्य शरशरव्यतां यन्त्र यातं याति यास्यति वा । को वास्मान्न त्रसति । गृहीतकुसुम कार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिंन्ताप्रियमुखसहस्रसंकटमम्बरतलम् लिखन्तीनां दयिताकारानविस्तीर्ण महीमण्डलम्, गणयन्तीनां वल्लभगु, , श्र प्रसीद प्रसन्ना भव । कामापराधैर्देवं दूषयितुं नार्हसि न योग्या भवसि ॥ एतानीति । एतानि पूर्वोकानि खलु निश्चितं कुसुमचापस्य कंदर्पस्य चापलानि चेष्टितानि शठस्य, न देवस्य चन्द्रापीडस्य । इत्येवमुक्तवतीं मां पुनर्भूयः सकुतूहला सकौतुका सा इति प्रत्यभाषत प्रत्यवोचत् । इतिशब्दयोत्यमाह - योऽयमिति । कोऽपि वा योऽयं कामः कथय प्रतिपादय, कानि कान्यस्य रूपाणि । ततोऽहं तां कादम्बरीं व्यजिज्ञपं विज्ञप्तिमकरवम् । कुतोऽस्य रूपम् । एषोऽतनुर्महान्दृश्यमानवहेर्विलक्षणो हुताशनः । तदेव दर्शयति- तथा हीति । ज्वालावली: शिखाश्रेणी र प्रकाशयन्नप्रकटीकुर्वन्संतापं जनयति । अप्रकटयन्न प्रकाशयन्धूमपटलमञ्जु पातयत्यश्रुपातं करोति । अदर्शयन्नप्रकटयन्भस्मलक्षणं रजोनिकरं पाण्डुतां पाण्डुरतामाविर्भावयति प्रकटयति । एतानति त्रिभुवने तन्न भूतम् । यत्तदोर्नित्याभिसंबन्धादाह – यदिति । यदस्य मदनस्य शराणां बाणानां शरव्यतां वेध्यतां न यातं प्राप्तम् । न कोऽपि सांप्रतं शरव्यतां याति । कोऽप्यमे यास्यति । कोऽपि नास्मांस्त्रसति । गृहीतेति । गृहीतमात्तं कुसुमानां कार्मुकं धनुर्येनैवंविधो मदनो बाणैः शरैर्बलवन्तमपि विध्यति । अपि चेति युक्त्यन्तरे । अनेनेति । अनेन कंदर्पेणाधिष्ठितानामाश्रितानां कामिनीनां हृदयस्य हँसीयान्हासकृत्काल आपतति । अकस्मादागच्छतीत्यर्थः । अथ कामिनीनां विशेषणानि–किंकुर्वन्तीनाम् । चिन्ताजनितं यत्प्रियमु खसहस्रं तेन संकटं संकीर्ण यदम्बरतलं तत्पश्यन्तीनां विलोकयन्तीनाम् । दयितस्य भर्तुर्य आकार आकृतिस्ते • नाविस्तीर्ण संकुचितं यन्महीमण्डलं तल्लिखन्तीनाम् । तथासंख्यानने कान्वल्लभगुणान्गणयन्तीनां गणनां विदधसं टिप्प० – 1 तद् भूतं न, स प्राणी नास्तीत्यर्थः । 2 विपरीतः प्रलापः, अस्मात् को वा न त्रस्पति, अपितु सर्वस्वस्यति । 3 हन्त कथमात्मानं संवृणुमः, अनधिकारिणा सर्व धूलिसात्कृतम् ! इसीयान् काल इति न सर्ववाक्यान्वयि । किञ्च 'चिन्तया प्रियमुखचन्द्रसहस्राणि' इति पाठः । प्रियगतचिन्तया ( चिन्तावशात् ) प्रियमुख चन्द्रसहस्राणि पश्यन्तीनां कामिनीनां कृते अम्बरतलं संकटं संबाधं ( मुखचन्द्रसहस्रसंकीर्णतया) । 'लिखन्तीनां दयिताकारान विस्तीर्ण महीमण्डलम्', [ अनेनाधिष्ठितानाम् अत एव विनोदार्थ दयितस्य प्रतिकृतीलिखन्तीनाम् ( कामिनीनाम् हृदये) महीमण्डलमविशालम्, यतो हि तचित्रिता दयिताssकारास्तत्र न मान्ति।] 'वल्लभगुणान् गणयन्तीना मल्पीयसी संख्या' [गुणगणनाकाले परार्धान्तापि संख्या अपर्याप्ता भवतीत्यर्थः । ] 'शृण्वतीनां प्रियतमकथामबहुभाषिणी सरस्वती', [प्रियतमकथ शृण्वतीनां कामिनीनां कृते वाग्देवतात्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि कथया तासां श्रवणाशा न पूर्यत इत्यर्थः । ] 'ध्यायन्तीनां प्राणसमसमागमसुखानि हसीयान् कालो हृदयस्थापतति' [ ध्यानवेलायां कालः सहसैव समाध्यत इत्यर्थः ।] पाठा०-१ खलु खलस्य.. २ कामो वा; कामोऽपि. ३ प्रकाशयन्० ४ शरख्यताम्. ५ वास्य अश्यति. ६ चिन्तया प्रिया. ७ चन्द्रसहस्राणि ८ वहभगुणानल्पीयसी संख्या. कादम्बरी [ कथायाम्णानसंख्यान, शृण्वन्तीनां प्रियतमकथामबहुभाषिणीं सरस्वतीम्, ध्यायन्तीनां प्राणसमसमागमसुखानि हसीयान्कालो हृदयस्यापतति' इति । ४७८ एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत् - 'पत्रलेखे, यथा कथयसि तथा जनोऽयं कारित: कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्तन्ते । हृदयाव्यतिरिक्तासीदानीं भवतीमेव पृच्छामि । उपदिश त्वं यदन मे सांप्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अँपि च मे गुरुजनवक्तव्यतां नीताया नितरां लजिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम्' इति । एवंवादिनीं भूयस्ता महमेवमवोचम्- 'अलमलमिदानीं देवि, किमनेनाकारणमरणानुबन्धेन । बरोरु, अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरो दत्तः । का वात्र गुरुजनवक्तब्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः संकल्पयति मातेवानुमोदते, पितेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । किमिव कथयामि ते याः स्वयं वृावत्यः पतीन् । यदि च नैवम् अनर्थक एवं तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः । 9 , तीनाम् । तथा प्रियतमकथा अबहुभाषत इत्येवंशीलां सरस्वतीं शृण्वन्तीनामाकर्णयन्तीनाम् । तथा प्राणसमस्य भर्तुर्यः समागमस्तस्य सुखानि ध्यायन्तीनां चिन्तयन्तीनाम् । इत्येतदा कर्ण्य च क्षणं विचिन्त्य प्रत्यवादी व्यवोचत् । किं तदित्याह — पत्र लेखेति । हे पत्रलेखे, यथा त्वं कथयसि तथायं जनः पण कंदर्पेण कुमारे पक्षपातं कारितः । तदेव स्पष्टीकरोति - यानीति । यानि त्वया कथितान्यस्य कंदर्पय तदपेक्षया समधिकानि मयि कादम्बर्या वर्तन्त इत्यर्थः । अतिनिगूढत्वं यन्मम हृदि वर्तते तदपि भतीमेव पृच्छामीत्याशयेनाह - भवतीमिति । भवतीं त्वामेव वा पृच्छामि प्रश्नं करोमि । अत्रार्थे हेतुमाह - हृदयेति । इदानीं सांप्रतं मम हृदयात्त्वमव्यतिरिक्ताऽभिन्नासि । अत एव त्वां पृच्छामीत्यर्थः । ततो यदत्र मे मम सांप्रतं युक्तं तदुपदिश कथय । अत्र हेतुमाह - एवमिति । एवंविधानां पूर्वोद्दिष्टानां वृत्तान्ताना महमनभिज्ञास्म्यकुशला । तस्मात्त्वदीयोपदेशस्यैव प्रतीक्षा क्रियते । मम त्वेतदेव प्रतिभातमित्याह – गुरुजनेति । गुरुजनेन मातृपित्रादिजनेन वक्तव्यतां वचनीयतां नीतायाः प्रापिताया नितरामत्यर्थं लजिताया मे मम मरणमेव श्रेय इति हृदयं चेतः पश्यति । जानातीत्यर्थः । 4 इत्येवंवादिनीं भूयस्ता महमेवमवोचमब्रवम् । हे देवि, अलमलं कृतम् । किमनेन व्यर्थेनाकारणमरणानुबन्धेन निष्प्रयोजनमृत्युप्रयासेन । वरेति । हे वरोरु, भगवता कुसुमशरेण ते तव वरो भर्ता दत्तः । भगबान्देव आराधित एव प्रसन्नः स्यात् । अयं तु न तथेत्याह – अनाराधितेति । अनाराधितप्रसन्नेन । का वेति । अत्र गुरुजने का वक्तव्यता का वचनीयता । यदेति । खलु निश्चितम् । यदा गुरुरिव पञ्चशरः कंदर्पः कन्यकां संकल्पयति दानेच्छाविषयीकरोति । मातेव जननीवानुमोदते एतत्सुष्ठु विहितमिति श्लाघते । पितेव जनक इव ददाति प्रयच्छति । सखीव वयस्येवोत्कण्ठामुत्कलिकां जनयत्युत्पादयति । धात्रीवोपमातेव तरुणतायां तारुण्यविषये रतिविषयको य उपचारो विभ्रमादिस्तं शिक्षयत्यभ्यासं कारयति । न च काश्चन खे. विरणं कुर्वन्तीत्याशयेना - या इति । याः पतीन्स्वयं वृतवत्यस्ता अपि कन्यकाः सन्ति । अतस्ते तव किमिव कथयामि किं ब्रवीमि । इदं त्वयापि समाचरणीयमिति ध्वनितम् । न चेदमाचरणीयमित्याशयेनाह–चा चेति । यदीदं पत्युः स्वयंवरणं न कर्तव्यं तर्हि धर्मशास्त्रे स्मृत्यादावुपदिष्टः कथितः टिप्प०-1 सन्तापजनकत्वादीनि ( पूर्वोक्तानि ) । 2 'भ्रातेव ददाति' इत्येव पाठः, गुरुरिवेति पूर्व● जुतात् । 3 'कति वा कथयामि' इत्येव पाठः अन्यथा 'याः' इत्यस्य समन्वयो यथावत्न्न भवति । याः स्वयंवृतवत्यस्ताः कति कथयामि, बह्वयः सन्तीति तदर्थः । Ter पाठा० - १ कुमारपक्षपातिना पञ्चशरेण, २ मे, ३ इदमपि च ४ भ्रातेव. ५ तरुणतारत्युपचारम्. ६ च; कति वा. कादम्बरीवृत्तश्रवणम् ] पूर्वभागः । ४७९ तत्प्रसीद देवि, अलममुना मरणानुबन्धेन । शपे ते पादपङ्कजस्पर्शेन । संदिश । प्रेषय माम् । यामि । आनयामि देवि, ते हृदयदयितम् ।' इत्येवमुक्ते मया प्रीतिद्रवार्द्रया दृष्ट्या पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशरजर्जरितां भित्त्वेव लज्जां लब्धान्तरैर्निष्पतद्भिरनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवणप्रीत्या च स्वेदाश्लिष्टमुत्क्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेत्कुण्डलमाणिक्यपत्रमकरकोटिलमं च शशिकिरणमयं मरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोचयन्ती, महर्षविहलान्तःकरणापि कन्यकाजनसहजां लज्जामिना लेम्ब्य शनैः शनैरवदत् - 'जानामि ते गरीयसीं प्रीतिम् । केवलमकठोरशिरीषपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । साहसकारिण्यस्ता याः स्वयं संदिशन्ति, समुपसर्पन्ति वा स्वयम्, साहसं संदिशन्ति । बाला जिमि । किं वा संदिशामि अतिप्रियो स्वयंवर विधिरनर्थक एव निष्प्रयोजन एव । अतस्त्वं प्रसीद प्रसन्ना भव । हे देवि । अलमिति । अमुना मरणानुबन्धेनालं कृतम् । ते तव पादपङ्कजस्पर्शेन पे शपथं कुर्वे । संदिशाज्ञापय । मां प्रेषय प्रेषणं कुरु । अहं यामि । ते हृदयदयितं देवं चन्द्रापीडमानयामि । त्वदन्तिक इति शेषः । han इत्येवं पूर्वोक्तप्रकारेण मयोक्ते कथिते सति सा कादम्बरी शनैरवंदत् । अथ कादम्बरीं विशेषयन्नाहप्रीतीति । प्रीतिः स्नेहस्तस्य द्रवः पङ्कस्तेनार्द्रयोन्नया दृष्ट्या मो. पिबन्तीव पानं कुर्वन्तीव लज्जां त्रपां भित्त्वा भेदं कृत्वा निरुध्यमानैरपि संध्रियमाणैरपि लब्धान्तरैः प्राप्तावकारौनिष्पतद्भिर्बहिनिः सरद्भिरनुरागविभ्रमैरान्तरप्रीतिविलासैराकुलीक्रियमाणा व्याकुलतां नीयमाना । कीदृशी । मकरकेतुशरैः कंदर्पबाणैर्जर्जरता । प्रियेति । प्रियं यद्वचनं तस्य श्रवणमाकर्णनं तस्माद्या प्रीतिस्तया यः खेदस्तेनालिष्टम् । आर्द्रमित्यर्थः । एवंविधमुत्तरीयां शुकमुपसंव्यानवस्त्रं रोमाञ्चजालकेन रोमोद्गमसमूहेनोत्क्षिप्योन्नतं कृत्वा दधती धारयन्ती । किंविशिष्टमुत्तरीर्य॑शु॒कम् । प्रेङ्खदिति । प्रेङ्खञ्चञ्चत्कुण्डलं कर्णभूषणं तस्य माणिक्यपत्रं तत्र या मकरकोटिस्तस्यां लमं विलम् । पुनः किं कुर्वन्ती । कण्ठे गले हारं मुक्ताकलापमुन्मोचयन्ती । कीदृशं हारम् । शशिकिरण मयम् । अत्युज्वलत्वाच्छशिप्रभाभिर्निष्पन्नमित्यर्थः । अत एव विरहमूर्च्छाजनकत्वान्मकरकेतुना निहितं स्थापितं मरणपाशमिव । प्रहर्षेति । प्रहर्षेण प्रमोदेन विह्वलमन्तःकरणं यस्याः सा । तथा कन्यकाजनस्य सहजां सहोत्पन्नां लज्जां त्रपामालम्ब्येवालम्बनी कृत्येव शनैः शनैर्मन्दं मन्दमवददवोचत् । ते तव माय विषये गरीयसीं प्रीतिं स्नेहं जानामि । परं केवलमकठोरं सुकुमारं यच्छिरीषपुष्पं तद्वन्मृद्वी प्रकृतिर्यस्यैवंविधस्य नारीजनस्यैतावत्प्रागल्भ्यं कुतः स्यात् । तत्रापि बालभावभाजः कुमारीलोकस्य विशेषतस्तन्न स्यात् । कथं तर्हि रुक्मिण्यादेः श्रीकृष्णविषये रहःसंदेशदूतप्रेषणादि वेत्यत आह - साहसेति । साहसकारिण्यो याः स्वयं संदिशन्ति संदेशं प्रेषयन्ति । स्वयं समुपसर्पन्ति समीपे गच्छन्ति । साहसं सत्त्ववृत्तिं संदिर्शन्ति कथयन्ति । मायाशक्तिवशाद्गृहीतशरीराः । तास्त्विति । दिव्या एवेत्यर्थः । अहं तु तथाविधा न भवामीत्यत आह बाला इति । अहं बालाऽप्राप्तयौवना, अतो जिमि त्रपापना भवामि । बालत्वात्किमपि न स्फुरतीत्याहकिं वेति पक्षान्तरे । किं संदिशामि किं कथयामि । प्रियसंदेशविषयार्थस्य स्फुरणमेव प्रकटयति — अतीति । टिप्प० - 1 द्वितीयान्तमिदं लजाया विशेषणम् । अत एव 'कीदृशीं लज्जाम् ?' कामबाणैर्जर्जरिताम् । अत एव सा लज्जा भेदने सुकरेत्यर्थः । 2 प्रेम कुण्डलेति नांशुकस्य विशेषणम्, अपि तु हारस्य । 3 हृदमप्यशोमनम्। 'समुपसर्पन्ति वा ।' अत्रैव वाक्यसमाप्तिः । स्वयं संदिशन्ति' इति पूर्वमुक्तत्वात् भत्र 'स्वयं साहसं संदिशन्ती' इति प्रथमान्तपाठः । साहसरूपं स्वयं संदिशन्ती ( संदेशं प्रेषयन्ती ) बालाऽहं जिगि, इति संगतिः । पाठा० - १ शपामि ते २ जर्जरिता. ३ मरणाय पाशमिव ४ एव. ५ अवलम्ब्य ६ पक्षम. ७ संदिशन्ती; विरान्ती. ● १८० कादम्बरी । [ कथायाम्, ऽसीति पौनरुक्त्यम्, तवाहं प्रियात्मेति जडप्रश्नः त्वयि गरीयाननुराग इति वेश्यालापः, त्वया विना न जीवामीत्यनुभव विरोधः, परिभवति मामनङ्ग इत्यात्मदोषोपालम्भः, मनोभवेनाहं भवते दत्तेत्युपसर्पणोपायः, बलातोऽसि मयेति बन्धकीधाष्टम् अवश्यमागन्तव्यमिति सौभाग्यगर्वः, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तोऽयं परिजन इति स्वभक्तिनिवेदनलाघवम् प्रत्याख्यानशङ्कया न संदिशामीत्यैप्रबुद्धबोधनम्, अनपेक्षितानुजीवितदुःखदारुणा स्यामित्यतिप्रणयिता, ज्ञास्यसि मरणेन प्रीतिमित्यसंभाव्यम्, इति । ." सर्वजनस्य प्रियत्वेऽनुभवसिद्धे त्वमतिप्रियोऽसीत्यग्निरुष्ण इतिवत्पुनरुक्तता । तवेति । तवाहं प्रियात्मा । प्रियो वल्लभ आत्मा यस्येति बहुव्रीहिः । इत्यपि जडस्य प्रश्नः । स्वविषयकप्रियत्वख्यापनाज्जडत्वमित्यर्थः । तदु- क्तम् – 'खरूपं वा प्रियो वापि वृत्तं पौरुषमेव वा । प्रकाशयन्स्वयं यस्तु स वै जडतरः स्मृतः' इति । त्वयि भवति गरीयाननुराग इत्यपि न, स्वकीयानां नायिकानां व्यङ्ग्यरूपतयैवानुरागप्रकाशनम् । सामान्यवनितानां तु वाच्य वृत्त्येवाह – वेश्येति । वेश्या गणिका तस्या आलापः, न तु कुलवत्याः । त्वयेति । त्वया विना भव - यतिरेकेणाहं न जीवामि न प्राणान्धारयामि । इत्यपि अनुभवविरोधात् । जीवन्नपि न जीवामीति स्पष्ट एव विरोधः । परीति । मामनङ्गः कंदर्पः परिभवति पीडयति । इत्यपि न । आत्मनः कामुकत्वप्रकाशनेन कुलवधूनामनुचितदोषोपालम्भात् । मनोभवेति । मनोभवेन कंदर्पेणाहं भवते दत्ता समर्पिता । इत्यपि न । कामुकत्व प्रकाशनरूपतया कुलखीणामनुचितोपसर्पणोपायत्वात् । बलादिति । बलाद्धठान्मया त्वं धृतोऽसि । इत्यपि न । तस्य बन्धकी कुल तस्या धाटर्यरूपत्वात् । अवश्येति । अवश्यं निश्चितमगन्तव्यम् । इत्यपि न अस्य स्वसौभाग्यगर्वरूपत्वात् । स्वयमागच्छामि । इत्यपि न । स्त्रीचापलत्वात् । अनन्येति । अयं प्रत्य- क्षोपलभ्यमानः परिजनः सेवकजनोऽनन्यरक्तस्त्वय्येवानुरक्तः । इत्यपि न । स्वयं स्वभक्तिनिवेदनस्य लाघव- त्वात् । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणं तस्य शङ्कयारेकया संदिशामि न संदेशप्रेक्षणं करोमि । इत्यपि न । इदं हि प्रसु॒प्तासंहोत्थापनवदंप्रवुद्धबोधनम् । अज्ञातज्ञापनमित्यर्थः । अनेति । अनपेक्षितमसमी- हितं त्वद्गमनानन्तरमनुजीवितं यस्मिन्नेतादृशं यद्दुःखं तेन दारुणा भीषणाहं स्याम् । इत्यपि न । इयं ह्यतिप्र- णयितात्युत्कटस्नेहवत्ता । ज्ञास्यसीति । मरणेन मृत्युना त्वं प्रीति ज्ञास्यसि अग्रेऽवबोधो भविष्यति । इ न । इदं हि असंभाव्यम् । तव्यतिरेकेणापि प्रीतेर्ज्ञायमानत्वादिति ॥ इति श्रीमत्तपोगणगगनाङ्गणगगन मणिभट्टारकसार्वभौमभट्टारकश्रीविजय सेनसूरीश्वराणां विजयराज्ये पातशाहश्रीअ कब्बरप्रदापितोपाध्यायपदधारक श्रीशत्रुंजयकरमोचनायनेक सुकृतका रकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां कादम्बरी निरन्तर व्याख्यायां प्रथमः परिच्छेदः । G हिप्प ० -- 1 कामुकतारूपस्य आत्मदोषस्य उपालम्भः निन्दा करणीया, न तु तन्निवृत्तये संदेशप्रेषणमिलर्थः । 2 स प्रत्याख्यानं नाद्यावधि जानाति, 'प्रत्याख्यानशङ्कया न संदिशामि' इति वाचिकप्रेषणे २२ स्वयमेव तौ प्रत्याख्यानप्रबोधनमिति भावः । 3 एवंविधदुःखान्यनुभवन्त्या मन्दभाग्याया मे बहपेक्षितस्य मरणयैवासंभवादित्याशयः । पाठा •१ प्रिया नेति. २ अनुरक्तः ३ स्वयं भक्ति, ४ निवेदनालापलाघवम् ५ बोधनम्; उद्धतप्रतिबोधनम्. ६ अमुजीवि. ७ असंभाव्यम्; असंभाव्यमेन. .. चषकपूर्वार्धपूर्तिः ] पूर्वभागः । विश्वाभिनन्द्यबुधवन्द्यगुणा ह्युदारा कादम्बरी नरवरैरुपलालनीया । दैवादिगम्बेरकरोपनता त्विदानीमानीयतां हि 'चषैकेण' निजोपयोगम् ॥ १ ॥ रसगङ्गाधरटीका सरला, साहित्यवैभवं रुचिरम् । जयपुरवैभव-गाथासप्तशतीत्यादि यत्कृतिस्तेन ॥ २ ॥ • जयपुरन रेन्द्रपूजिततैलङ्गाग्रण्य - कविशिरोमणिना । शरनन्दनन्दचन्द्रप्रमितसमायामिदं रचितम् ॥ ३॥ सन्मञ्जुनाथनामश्रीमथुरानाथ शर्म निर्मितिषु । कादम्बरी विचिन्तनचतुरां 'चषकं' चकासयतु ॥ ४ ॥ इति श्रीजयपुरमहाराजाधिराजसंमानित - तैलङ्गभट्टान्ववायसंभूत-मञ्जुनाथोपनामक कविशिरोमणिदेवर्षिभट्टश्रीमथुरानाथशाश्विसाहित्याचार्य निर्मितं कादम्बरीचषक पूर्वार्धमपूर्यत । Ar समाप्तं पूर्वार्धम् । ४८१ FOLY पाठा०वर्ध्या नायिका, एतन्नाम्नी कंथा, हाला चेति त्रिष्वपि सुयोजमिदम् । हालाया अपि वैद्यदुधैः प्रशस्यगुणत्वात् । २ अकिञ्चनः, जैनसंप्रदायी एतट्टीकाकारश्च । ३ एतन्नाम्ना अनेन टिप्पणेन, पानपात्रेण च । ४ रसगङ्गाथरः, सटीका गाथासप्तशती च 'निर्णयसागर'तः प्राप्या । ५ वैभवद्वयमिदं 'मथुरानाथशास्त्री - रेजिडेन्सी रोड जयपुर' तः प्राप्यम् । ६१ का० ! 1 कादम्बरी उत्तरभागः । देहद्रयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसंधिभेदम् । बन्दे सुदुर्घटकथा परिशेषसिद्ध्यै सृष्टेर्गुरू गिरिसुतापरमेश्वरौ तौ ॥ १ ॥ मेरुः स्नानभवैः सकुङ्कुमपयः पूरैः परीतोऽभवत्पीतखेन सुवर्णपर्वत इति ख्यातिं जगाम क्षितौ । देवीनृत्य विशीर्णहारमणिभिस्तारो गतस्तारकाधारोऽसाविति यजनिव्यतिकरः सोऽव्याद्वृषाङ्कः प्रभुः ॥ श्रीमान्शान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा यं राजश्रीः सुभगमभजत्किं नु यस्य प्रभोर्न । तागोऽन्तःकरणमविशड्युष्टचेष्टा विशिष्टं वार्धिस्यन्दतटमित्र विषं भोगिचूडामणीवत् ॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान्सिद्धार्द्रैः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्र देशे स्फुटं श्रीमत्पाठकपुंगवः स जयताच्छ्रीभानुचन्द्राभिधः ॥ तच्छिष्यः सुकृतै कभूर्मतिमतामग्रेसरः केसरी शाहिस्वान्त विनोद नै कर सिकः श्री सिद्धिचन्द्राभिधः । पूर्व श्री विमलाद्विचैत्यरचनां दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥ यावन्या किल भाषया प्रगुणितान्प्रन्थानशेषांश्च तान्विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छा हिराट् । दृष्ट्वा नेकविधानवैभवकलां चेतश्चमत्कारिणीं चक्रेषु स्पृहमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ प्रोच्चैः पञ्चसहस्रतुङ्गतुरगाञ्श्रीसिन्धुरान्दुर्धरा. न्दत्त्वा प्राग्भवसंभवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतित्यक्त्वा व्रतं दुष्करं श्रीमत्संयमया मिनीशवसुधाधीशोऽधुना त्वं भव ॥ साक्षात्कंदर्परूपः क्षितितलविदितो वाचकत्रातशत्रः स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वान गर्वात् । धीमान्षद्शास्त्रवेत्ता रचयति रुचिरां सजनैः श्लाघनीयां टीकां कादम्बरीयां निजगुरुघटितां किंचिदूनस्थितां सः ॥ स्वयं करिष्यमाणोत्तर प्रबन्ध निष्प्रत्यूह समाप्तयेऽभीष्ट समाचार प्राप्त स्वाभीष्टदेवता प्रणतिरूपं कृतं मङ्गलं शिष्याशिक्षमितुमादावुपनिबध्नाति - देहेत्यादिना । तौ गिरिसुतापरमेश्वरौ वन्दे इति संबन्धः । तौ निरु० कादम्बरी । [ कथायाम् व्याधूतकेसरसटाविकरालवयं हस्ताप्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ २ ॥ आर्य यमर्चति गृहे गृह एव लोकः पुण्यैः कृतस्य यत एव मेमात्मलाभः । न्च - पाधिकसकललो काभीष्टार्थदायकत्वेन प्रसिद्धावम्बाशंकरौ नमस्कुर्वे इत्यर्थः । अन्यतरनमस्कारेणैवाभीष्टसिद्धा- बुभयोपादानं शक्तेर्वागात्मकत्वाद्भगवतोऽर्थात्मकत्वादवि कलशब्दार्थ परिस्फूर्त्यर्थमिति बोध्यम् । अहमित्यप्रयुञ्जा- नेन व्यनषार्थ एव प्राधान्येन निरूप्यत इति ध्वनितम् । निर्गुणस्य वस्तुनो नमस्काराययोग्यतया परमेश्वरपदो- पादानेनैव तत्सिद्धे निगरणार्थ कगिरिपुत्री साहित्येन कारणगुणा हीति न्यायेन तस्या अपि तथात्वातदाराधकस्या- नायासेनैव वाणीबिगरणं भवतीति सूचितम् । तच्छब्दसंबन्धिभूतं यच्छब्दार्थमाह - ययोदेंहद्वयार्धघटना रचि. तमेकं शरीरम् । अस्तीति शेषः । ययोः पार्वतीपरमेश्वर योदेंहद्व यस्य स्त्री पुरुषरूपदेहद्वयस्याधं खीरेहाधं पुरुष- देहाधं च तयोर्घटना संघट्टस्ताभ्यां वा घटना निर्माणं तेन रचितम् । स्वयं निष्पादितमित्यर्थः । ननु विजाती- योत्पन्नत्वेन कथमेकत्वमित्यत आह - अन्विति । अनुपलक्षितोऽप्रतीयमानः संधिः परस्परसंधानम् । संयो जनमिति यावत् । तत्कृतो भेदः स्त्रीत्वपुंस्त्वरूपो यस्येति समासार्थः । द्यणुकादिप्रक्रमेणारम्भे स्यादयं दोषः । अस्य चार्धनारीश्वरलीलाविग्रह स्यै कस्यैवोपलम्भा-द्भेदप्रत्यया भावादिति भावः । एतेनोत्तरमात्मकृत्या संधितायाः पितृ पूर्वकृतेरर्धनारीश्वरविग्रहवदभेदः संदर्भशुद्ध्या सूचितः । तेनालौकिकचमत्कारिता च । नतिफलं दर्शय- ति - सुदुर्घटेति । सुदुर्घट: कादम्बरीप्रत्यागतपत्रलेखाकथिततत्संदेशानां किंचिद्रथनकाल एव दैवात्परं लोकं गते बाणेऽन्येन केनापि कविना तथा विरचयितुमशक्यः कथापरिशेषः । 'कृदभिहिते' इति न्यायेन परिशिष्यमाणा कथेत्यर्थः । तत्सिद्ध्यै खरूपनिष्पत्त्यै । अयं भावः - पितुरुपरमे तत्कृतावुत्तरकथाविच्छेददर्शना- दसमाप्तिरूप कलङ्कदूरी करणाय पितृप्रसादप्राप्तवाग्वैभवस्तत्पुत्रस्तत्समात्यै स्वयं यत्नं कृतवान् । स च तादृश पुरु षधौरेयाराधनं विना न सिद्ध्यतीति । एवंविधाम्बेश्वरसद्भावे प्रमाणमाह - सृष्टेरिति । सृष्टेर्जगतो गुरू पितरौ । उत्पत्तिम निमित्त कारणभूतादित्यर्थः । नन्वीश्वरस्यैव निमित्तत्वं श्रुतं नाम्बाया इति चेत्, न तनीयांसमित्याधु- त्यवष्टम्भेन शक्तिरहितस्य तत्रासामर्थ्यावधारणादिति दिकू ॥ १ ॥ विघ्न समसंख्य मङ्गलस्य कारणत्वावधारणाद्बहुविघ्नशङ्कया कृतं नतिरूपं मङ्गलान्तरमुपनिबध्नाति - व्याधू. तेसि । तं नारायणमपि नमामीत्यन्वयः । तमङ्गीकृतमत्स्यायवतारं निरस्त समस्तदुःखं नारायणमपि क्षीरशा. यिनमपि । एतेन स्वस्य तत्रागम्यत्वं सूचयति । नमामि । प्रह्वीभवामीत्यर्थः । नन्वगम्यत्वे कथं नमस्करणी- यतेत्यत आह - येनेत्यादि । क्षीरशायिना स्वसेवार्थ नृसिंहरूपं परस्परविरुद्धजात्याश्रयं सगुणस्वरूपमा विकृ- तम् । प्रकटीकृतमित्यर्थः । एतेन कर्मारब्धत्वं निवारयति । ध्यानार्थं तत्स्वरूपं विशेषणद्वाराह-व्याधूतेत्या- दिना । व्याधूतानां कम्पितानां केसराणां स्कन्धवालानां सटाश्रेणयोऽप्रभागा वा ताभिरभक्तानां विशेषेण करालं भीषणं वक्रं मुखं यस्येति समासार्थः । तथा हस्ताग्रेषु विस्फुरितानि देदीप्यमानानि शङ्खगदा सिचक्राणि पाञ्चजन्य कौमोदकी नन्दकसुदर्शनानि यस्य स इत्यर्थः । चतुर्भुजत्वमनेनोक्तम् । अज्ञान हिरण्यकशिपुध्वंस आय- विशेषणेन, द्वितीयेन चासे: प्रत्यासन्नवघोपायत्वादित रेषाम प्रत्यासन्नवधोपायत्वात्तादृश विघ्नध्वंसः सूचितः । प्रमाणमाह - विश्वेति । सर्वोत्पत्तिमन्निमित्तमित्यर्थः ॥ २ ॥ आर्यमिति । तं पितरमेवान तोऽस्मीत्यन्वयः । तं प्रसिद्धं पातीति व्युत्पत्त्या सर्वापद्रक्षकं जनकं बाणमानतोऽस्मि । नमस्कारेणाभिमुखीकरोमीत्यर्थः । एवकारेण नेदं पितृत्वमन्यत्रेति सूचयति । तच्छब्दसंबन्धिनमाह - लोक आर्य यं गृहे गृह एवार्चतीति । लोकते गुणानिति व्यत्पत्त्या गुणग्राहको जनो गृहे गृह एव एवकारः प्रातिविकतामाह । स्वस्वगृहे आर्य कर्णपथप्राप्त मर्चति । स्तौती व्यर्थः । श्लेषोपबृंहिता मेतद्द्ववीमाकर्ण्य श्रवणहृदयाहाददायितया मौलिमण्डलान्दोलनविरचनेन 'हृदि लग्नेन बाणेन' इत्यादिना । अंद्य यावत्सहृदयहृदयः को वा तन्नोररीकरोतीति भावः । अन्यच्च पुण्यैरेव कृतस्य मम यत आत्मलाभः पुण्यैरेव धर्मैरेव । एतेन धर्म मा । पाठा ०१. मयां कथारम्भप्रस्तावना ] उत्तरभागः । ४८५ सृष्टैव येन च कथेयमनन्यशक्यां वागीश्वरं पितरमेव तमानतोऽस्मि ॥ ३ ॥ याते दिवं पितरि तद्वयसैव सार्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः । दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एव स मया न कवित्वदर्पात् ॥ ४ ॥ गद्ये कृतेऽपि गुरुणा तु तथाक्षराणि यन्निर्गतानि पितुरेव स मेऽनुभावः । एकलवामृतरसास्पदचन्द्र पौदसंपर्क एव हि मृगाकमवाय ॥ ५ ॥ गङ्गां प्रविश्य भुवि तन्मयतामुपेत्य स्फीताः समुद्रमितरा अपि यान्ति नद्यः । त्रारब्धत्वेनात्मनो देवांशेत्वं प्रतिपादयति । कृतस्य निष्पादितस्त्र मम यतो बाणादात्मलाभो देहसंबन्धो जात इति शेषः । एतत्पुत्रत्वमेव मे धर्ममात्रारब्धत्वं सूचयति । येन च बाणेनानन्यशक्या तदितरजनेन कर्तुम- शक्येयं प्रसिद्धा कथैव । एवकारोऽप्यर्थे । कादम्बरीविषयिणी कथापीत्यर्थः । सृष्टा । कल्पितेत्यर्थः । पुरा णेतिहासादिष्वदृष्टापीयं कथा स्वयं निर्मिता निबद्धा चेति भावः । स्वयं निर्माणे हेतुगर्भ विशेषणमाह - वागी- श्वरमिति । वाचां वाणीनामीश्वरं नियन्तारम् । वायत्तीकृतवाक्प्रपञ्चरय किमशक्यमिति भावः ॥ ३ ॥ कविरिदानीं स्वमौद्धत्यं परिहरति - यात इत्यादिना श्लोकद्वयेन । पितरि कथारब्धके बाणे दिवं स्वर्गं याते प्राप्ते सति तद्वचसैव तस्य बाणस्य वचसा । वचोभिरित्यर्थः । यः कथाप्रबन्धश्चरितगोष्ठी विस्तारो भुवि भूमण्डले विच्छेदं विनाशमाप प्राप्तवान् । ततः सतां सहृदयानां तदसमाप्तिकृतं तस्याः कथाया असमा• प्तिरसंपूर्णता तत्कृतं तत्प्रयुक्तं दुःखम् 'हा, बाणारब्ध एतादृशः प्रबन्धो न समाप्तिमगात्' इत्याकारमधर्म फलं विलोक्य दृष्ट्वा तद्दुःखपरिहारार्थं मया प्रारब्ध एव । मया तत्पुत्रेण 'आत्मा वै पुत्रनामासि' इत्युक्तेस्तेनैन मया प्रारब्ध एवाविच्छेदेन समाप्तिं नीत एव । कवित्वदर्पान्न लोकोत्तरवर्णनानिपुणतर कवि कर्मगर्वान । तथा च सहृदयान्तस्तापनिरासायैवायमारभ्भः, न पुनः स्वकविताप्रौढिदर्पादिति भावः । गुरुणा पित्रा गये कृते । जातावेकवचनम् । गयेषु कृतेष्वित्यर्थः । यत्तथा पितृकृतगद्याक्षरतुल्यान्यक्षराण्य ज्झसमुदायात्म कान्यक्षराणि निर्गतानि प्रादुर्भूतानि स मे पितुरेव बाणस्यैवानुभावः, सामर्थ्यम् । खशरीरमोच- नसमये तथा तेनानुगृहीतो यथा नूतनकथापूरकगद्यावली तत्समाना कारवाविरभूदिति भावः । उक्तमर्थमर्थान्तर- न्यासेन द्रढयति – एको मुख्यः प्लव: प्रवाहो यस्मिंस्तादृशो योऽमृतरसः पीयूषद्रवस्तदास्पदं स्थानं यश्चन्द्रख- त्पादसंपर्क एव तत्किरणसंबन्ध एव मृगाकमणेश्चन्द्रकान्ताश्मनो द्रवाय नवाय भवतीति शेषः । यथा चन्द्र- कान्तमणिश्चन्द्र किरणसंपर्काद्रवीभवति तथा मद्वाण्यपि पितृवाक्संबन्धेनामृतस्राविणी भविष्यतीति भावः ॥५॥ अर्थान्तरन्यासं पद्यान्तरेण दर्शयति - गङ्गामिति । यथेतरा नद्यो यमुनाद्या भागीरथीसंभेदं कृत्या पृथिव्यां तद्रूपतामेत्योद्दण्डाः सागरं गच्छन्ति एवमासमुद्रगे मत्तातवाणीस्रोतस्याख्यानसंधानार्थं पतिता • टिप्प० -1 गणनाथमचीयेत्वा कादम्बर्याः सनाथयंश्चषकम् । • सन्मञ्जुनाथनामा मथुरानाथः कृतार्थोऽस्तु ॥ १ ॥ 'स मया न कवित्वदर्पात्', 'तान्येव तस्य तनयेन तु संहृतानि', इत्यादिवचनैर्यः स्वस्य विनयमाख्याति तस्यैव मुखात् 'आत्मनो देवांशत्वोक्तिः' कियत्संगता स्यात् ? अत एव सोयं पाठः प्रमाद एव टीकाकर्तुः । 'पुण्यैः कृतश्च यत एव मयात्मलाभः' इत्येव पाठः । मया पुण्यैः (पूर्वजन्मकृतैः सुकृतैः) यतः यस्मात् (पितुः) आत्मलाभः कृतः, जन्म लब्धमिति तदर्थः । 2 कथा तन्नामकं गद्यकाव्यम् । कादम्बरीकथानकस्य तु बृहत्कथा मूलकत्वात् 'पुराणेतिहासादिष्वदृष्टे' त्यादिकथनं न स्वारस्याय । बृहत्कथामूलकत्वसाधनं मत्कृतभूमिकायां सहृदयैर्द्रष्टुं शक्यम् । पाठा०-१ एष च. २ एक: प्लव ३ पादै: संपर्क. कादम्बरी । [ कथायाम्- आसिन्धुगामिनि पितुर्वचनप्रवाहे क्षिप्ता कथानुघटनाय मयापि वाणी ॥ ६ ॥ कादम्बरीरसभरेण समस्त एव मत्तो न किंचिदपि चेतयते जनोऽयम् । भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेषमात्मवचसाप्यनुसंदधानः ॥ ७ ॥ बीजानि गर्भितफलानि विकाशभाञ्जि वन्त्रैव यान्युचितकर्मबलात्कृतानि । उत्कृष्टभूमिविततानि च यान्ति पुष्टिं तान्येव तस्य तनयेन तु संहृतानि ॥ ८ ॥ अपि चेदानीमानीतस्यापि कुमारस्य न ददाति तैरलतालजिता लज्जैव दर्शनम् । मनो- मद्गवी सिन्धुगामिनी भविष्यतीत्यर्थः । यथा यमुनादीनां परप्रवाहसंबन्धेन सिन्धुग्रामित्वम् तथा मद्वचनप्र- घाहोऽपि तातवाक्प्रवाहमिलित आसमुद्रं गमिष्यतीति भावः ॥ ६ ॥ 9 'ननूद्भटपितृवाण्या स्ववाणीं संयोजयतः कथं न भयं तत्राह – कादम्बरी । कादम्बरी कथा मद्यं च, तस्या रसः शृङ्गारादिः पानीयं च तस्य भरेणाधिक्येन समस्त एव जनो जन्तुमात्रं मत्तः क्षीबः किंचिदपि न चेतयते । कर्तव्याकर्तव्यविधुरः सन्नानुसंधत्त इत्यर्थः । तथा च ममापि वान्तः पातित्वेन मत्ततया विवेका- ननुसंधानान्न भी तिरिति भावः । एवं सति रसवर्ण विवर्जितेन, रसः शृङ्गारादिस्त द्घटिताक्षरमालिकार हितमद्वाण्या पितृकृतग्रन्थशेषसंधानकर्ता भयं न प्राप्तोऽस्मि । तदनुसंधानाभावादित्यर्थः । रसेत्यादिना भीतिहेतुरुक्तः ॥७॥ मम पुनरेतन्निर्माणे न कोऽपि प्रयासलेश इत्याह – बीजानीति । तस्य बाणस्य तनयेन पुत्रेण न्यायेन बीजानि संहृतानि कथाविषयीकृतानि पुष्टि फलोद्रेकतां यान्ति । प्राप्नुवन्तीत्यर्थः । यानि बीजानि गर्भितफला- न्यङ्कुरोत्पादनानुकूशलशक्तिमन्ति वस्त्रैव वापकेनैव बाणेनोत्कृष्टभूमौ सर्वतोऽप्यधिककादम्बरीलक्षणांव विततानि गद्यादिरूपेण सर्वतः स्थापितानि उचितं कर्म रससेकादि तस्य बलात्सामर्थ्यात्कृतानि निष्पादितानि । "विकाशः श्लेषाभिव्यक्तिस्तद्भाजि तत्संपादकानि कृतानि । केनचिद्वापकेन गुल्मादिरहितंभूम्युप्तानि शाल्यादि- बीजानि जलसेकादिक्रियाबलादकरावस्थां प्रापितानि फलादिसंपन्नान्युपसंहियन्त इति श्लेषार्थः ॥ ८ ॥ अत्र च पूर्वकादम्बर्यां विभावानुभावव्यभिचारिसंयोगात्पुष्टो विप्रलम्भस्तत्र स्मृतिव्यभिचारिभावोदयात् 'आ नयामि तं देवम्' इति पत्रलेखोक्तिस्मृतावुत्तरार्धे उत्तरितं कादम्बर्या निवेदयति पत्रलेखा चन्द्रापीडाय -अपि चेत्यादिना । अपि च । अन्यदपि श्रृण्वित्यर्थः । इदानीमपि तद्दर्शनं विना जीवितावसान कालेऽप्यानीतस्य मल्लोचनगोचरं प्रापितस्य कुमारस्य पृथिव्यां कंदर्पमूर्तेर्दर्शनं साक्षात्कारं प्रतिकूलादृष्टवशात्कुमारीखभावो लज्जैवेन्द्रियादिवृत्तीनां खच्छन्दचारसंकोचिका त्रपैव न ददाति । वर्तमानसामीप्ये लट्, न दास्यतीत्यर्थः । यद्वा वर्तमान एव वा लट् । प्रथमदर्शनवल्लज्जया तथाकृतमनुभूतमिदानीमपि सैवानुवर्तत इति पूर्वोत्तरावधिशून्यता निषेधस्य द्योत्यते । ननूत्कण्ठा लज्जां दूरीकरिष्यतीत्यत आह - तरलतेति । तरलता दर्शनोत्कण्ठारूपं चाञ्चयं चक्षुषोस्तेन लज्जिता लज्जां प्राप्ता । मयि विद्यमानायां दर्शनोत्कण्ठा जातेति लज्जाया लज्जोदयातत्र लज्जाव्याप्तिर्भूयसीति भावः । तस्यां च सत्यां प्रत्यय निर्निमेषावलोकनं च कथं स्यादिति पुनरपि दिदृक्षा दैन्यं च व्यभिचारि व्यज्यते । लजितेयं दृष्टिः । तल्लक्षणं तु – 'मनागञ्चितपक्ष्मा च किंचित्स्तब्धकनीनिका । टिप्प० -1 अस्मिन् पूर्वपद्ये च प्रकृताप्रकृतयोबिंम्बप्रतिबिम्बभावाद् दृष्टान्तालंकार: 2 असंबद्ध मिवेदम् । वप्ना वपनकत्रैव उचितानां कर्मणां कर्षणादीनां बलात् यानि बीजानि उत्कृष्टभूमिषु विततानि प्रक्षिप्तानि, गर्भितफलानि गर्भितं (गर्भस्थितं ) फलं येषां तानि (फलोन्मुखानीति भावः ), अत एव विकासभाञ्जि कृतानि सन्ति वृद्धिं गच्छन्ति । तस्य ( वसुः) पुत्रेण तु तान्येव फलोन्मुखानि वर्धमानानि च बीजानि संहृतानि नाशितानि । सुरसानि पितुर्वचनानि विरसैर्वचनैः संयोज्य नाशितानि मयेति स्ववि नयः सूच्यते । टीकाकारकृता व्याख्या सहृदयैस्तुलया बोद्धव्या । पाठा०-=-=-१ वप्त्रेव, २ गतातिपोषम्, च यान्ति पोषम् ३ सुतरां लज्जितेव लज्जा, ४ दर्शनं दातुम्. पत्रलेखाद्वारा कादम्बर्याः संदेश:] उत्तरभागः । ४८७ भवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडा जडतैव नोप G TH संस्रस्ताऽर्धपुटा दृष्टिलेजिता लजिते स्त्रिया ॥ इति । यद्वा चिन्तासंतत्युपनीतं भवन्तं विभाव्य 'काकार्यम्' इत्यादिवदुन्मादव्यभिचारिभावाकान्ताहेत्याह- अपि चेति । इदानीं भावनासमये । आ ईषद । ईषत्कार लमल्पकालं नीतस्य भावनया पुरः प्रापितस्य तरलतोन्मादो लज्जा वेत्येवकार एवार्थे । संकल्पसमागमेष्वाभिमुख्यं प्राप्तस्य तरलतौत्सुक्यं दर्शनं न ददाति । अपि तु ददातीत्यर्थ इति वा । ननु तर्हि किमर्थं ताम्यसीत्यत आह - लजितेति । क्षणमात्र स्थायितया लजां प्राप्ता । तिरोभूतेत्यर्थः । औत्सुक्यस्य क्षणिकत्वेन संपूर्णदर्शनफलालाभादिति भावः । यद्वा पत्रलेखां प्रत्युपालम्भोक्तिः कादम्बर्या: । अस्मिन्काले सामस्त्येन नीतस्य देशान्तरं प्रापितस्य । त्वयेति शेषः । कुमारस्य कुत्सितमारस्य । दुर्बलमारस्येति यावत् । अन्यथा मां विहाय देशान्तरं कथं गच्छेदिति भावः । तत्संबन्धिनी तरलता लज्जिता दृष्टिलेजैव । एवकारश्चार्थे । लज्जा च समु चयो दर्शनं न ददाति । तरलतागमनानन्तरं पुनरागमरूपा चञ्चलता तस्या एवाभावादिति भावः । लज्जिता. दृष्टि: । दृष्टेलेजात्वमस्थिरत्वेन फलालाभादिति भावः । कथं निरपत्र पस्तस्यै मुखं प्रदर्शयामीति त्रपापि दर्शनप्रतिबन्धकीभूता जातेति भावः । तथा च तस्य पुनरागमनमसंभावितमिति भावः । औत्सुक्य चिन्ताहर्षादीनां शबलता । तत्र स्थितस्यापि तस्य स्वप्नादिसाक्षात्कारेण चक्षुःफललाभेन पुनरपि दिदृक्षा दैन्यं च व्यभिचारी, व्यज्यते । नन्वसन्तमपि भावमतिचतुराः स्त्रियः स्वाधीनसहज सिद्धचेष्टा विशेषैरा विर्भावयन्तीति कथं तर लतादीनां तादृगाशयवत्वं निर्णेयमिति मयाक्षिप्ते सैवमाहेत्याह - मनोभवेति । मनोभवोऽतिविवेकि प्र-. भवः कामस्तस्य तत्कर्तृको विकारः कार्यपाण्डिमादिस्तजनिता वेदनाः संतापादिरूपास्ता भिर्विलक्षं विगत.. लक्षणम् । अप्रतिसंधीयमान मिति यावत् । वैलक्ष्यम् । 'लक्ष्यं वेध्ये च भावे च' इत्यभिधाना द्विविधभावभावो न पुरस्तिष्ठति । न पुरः स्थास्यतीत्यर्थः । तथा च काम विकार की लिताया मे सहजचेष्टा विर्भावात्तरलतादीनामति • प्राबल्यादिति भावः । विकारपदं च सहजसिद्धस्नेहावलोकनन्यूनतां व्यनक्ति । मनोभवपदं च कामवेदनाबात्येन्द्रियाविषयत्वं व्यनक्ति । ज्ञानार्थप्रकृतिकवेदना पदेनाज्ञायमानदुःखध्वंसाभावं व्यक्ति । अत्रापि भविष्यदर्थे लट् । यद्वा दर्शनफलमाह - मनोभवेति । वैलक्ष्यदर्शनजनित कार्यपाण्डिमा दिवैलक्षण्यं तदेव पुरः । प्रथम मिति यावत् । न स्थास्यतीत्यर्थः । एतेन तस्य दुःसहतोक्ता । दुःमहत्वे हेतुगभ विशेषणमाह - मनोभवेति । उक्त एवार्थः । यद्वा संतापादिविकारवेदनास्थिरत्वेन निर्विण्णाह । वैलक्ष्यं संतापादिकृतं कार्यमोहादिकं न बहुकालं स्थास्यतीत्यर्थः । मध्ये स्वप्नसंकल्प समागमेष्वाश्वासात् । अन्यथा तत्स्थैर्येऽस्पेनैव कालेन मरणसंभवात् । दुःखविमोकादिति भावः । एतदप्यकृतपुण्याया मे कुत इति निर्वेदध्वनिः । तदेव · विशेषणद्वाराह - मनोभवेति । कंदर्पकृता विकाराः स्वप्न संकल्प समागमादयस्वत्कृता वेदना तथा समागमस्यास्थिरत्वेन पुनर्विरहदुःखानुसंधानं तेन विलक्षं मरणलक्षणविगमं प्राप्तमित्यर्थः । ननु गाढान्धकाराभिसरणशीलानां कामिनीचक्षुर्विषयाभावेऽपि लगिन्द्रियस्य स्पर्शः केन वा वारणीय इति मयोक्ते सैवमुत्तरितवतीत्या ह - अप्रतिपत्तीति । जडता स्पर्शजन्यः स्तम्भाख्यः सात्त्विकभावः स एव नोपसर्पति । न यास्यतीत्यर्थः । अत्रापि भविष्यदर्थे लट् । यथाकथंचित्त्वयानीतस्यापि गाढान्धकारे दर्शनायोग्यस्य त्वगिन्द्रियस्पर्शसुखानुभवे प्रथम स्पर्शजन्य जडता प्रतिबन्धेन चुम्बनायननुष्ठाने स्पर्शस्य निष्फलत्वेन तत्रापि दैववैमुख्येन विरहज्वरोपशान्तिमलभमानायाः स्पर्शो वृथैव भविष्यतीति भावः । ननु शारीरा भावाः क्षणस्थायिनो भवन्ति, उत्पन्नापि जडता न स्थास्थतीत्यत आह - अप्रतिपत्तीति । अप्रतिपत्तिः स्पर्शो ज्ञानं साध्वसं भयं मा कदाचित्क श्चिन्मा दशति ताभ्यां जडा भावान्तरानुत्पादेन पदात्पदं दातुमसमर्था गाढान्धकारसंजात स्पर्शजायमानस्तम्भेन चुम्बनायनुष्ठानेऽसामर्थ्यात्तथा क्रियमाणे दुःखानपगमादिति भावः । यद्वा जडता व्यभिचारिभावोऽपि दैवप्रातिकूल्यान्नापयास्यति । तत्र कारणमाह - अप्रतिपत्तिर्मोहः, साध्वसं भयम्, ताभ्यां जडा । स्थिरेत्यर्थः । तथा च जडतामोहभयव्य भिचारिणां शबलतयान्यापगम एव मया गन्तव्यमिति स्थिरेति भावः । यद्वा नास्ति प्रतिपत्तिर्ज्ञानं यस्यां साऽप्रतिपत्तिर्मूर्च्छा व्यभिचारिभावः । यावदेव त्वं तमानेष्यसि तावदेव मे मूर्च्छाभिभविष्यति । तदानयनसंभ्रमोत्थिताया मे मूर्च्छापगमानन्तरं यद्भयं बहुकालं स्थित्वा लोको ज्ञास्यतीति ताभ्यां जडा स्तब्धा । आवि• र्भवितुमशक्येति यावत् । जडता डलयोरैक्याजलता । स्वेदसात्त्विकभावो नाविर्भविष्यतीत्यर्थः । मूर्च्छा भयाभ्यां ४८८ कादम्बरी । [ कथायाम्सर्पति । स्वयमुपसर्पणलघु लाघवमेव तत्प्रतिपत्तिस्थैर्य नावलम्बते । बलात्तदानयनापराधमीता भीतिरेव न संमुखीभवति । अथ कथंचिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा, ." स्थातुमसमर्थया त्वया मयैव सह कुतो नागम्यत इति मयोदिते सैवमाहेत्याह - स्वयमिति । स्वयमुपसर्पणं तदननुमत्या स्वयं गमनं तेन लघु लाघवमेव तुच्छलाघवमेव तत्प्रतिपत्तिस्त्वयैवागन्तव्यमित्युपदेशज्ञानं तत्स्थैर्य तत्स्थिरतां नावलम्बते । नावलम्बनं करोतीत्यर्थः । अन्यत्र ज्ञानस्य त्रिक्षणावस्थायित्वेऽपि युक्त्यनुपष्टम्भोपहितमिदं ज्ञानं क्षणमात्रमपि न तिष्ठतीति भावः । स्त्रीर्णा स्वयमुपसर्पणं लघुतापादकं नितरामननुमत्या कृतं नितरां राजकन्यानाम् । किंचैव मौत्सुक्य तिरेकेण कृतेऽपि तेनापि मदीयां निःसारतामाकलथ्य विद्या.. धनसौन्दर्यादिगर्वेणानादरे कृते तव का प्रतिष्ठा, ममापि किं गौरवम् तदुत्तरकालं च प्रयत्नाभावेन मम मरणमेव शरणं स्यादिति तुषकण्डनमेव फलितमिति शब्दशक्तयुद्भवो ध्वनिः । इह तु वर्तमान एव लट् । तेन पूर्वोत्तर रावधिशून्यतां प्रत्यक्ष प्रमाणगोचरतां च व्यनक्ति । यद्वा स्वयमुपसर्पणं स्वयं गमनं तेन लघुस्तूलादपि नि:साराहं तस्या मे लाघवमेव लघुभावमेव । दृष्ट्वेति शेषः । तत्प्रतिपत्तिस्तस्य चन्द्रापीडस्य प्रतिपत्तिर्मयि सर्वोत्कृष्ट ताबुद्धिः स्थैर्य स्थिरत्वं नावलम्बते । न स्थिरतां यास्यतीत्यर्थः । अस्मिन्पक्षे भविष्यदर्थ एव लट् । तेन फलितमिदं भविष्यतीति ध्वन्यते । ननु सर्हि मयैव यथाकथंचिदयमानेय इति मयोदिते सैवमाहेत्याह – बलेति । बलात्तदरुच्या यत्तदानयनं त्वत्कृतं चन्द्रापीडानयनं स एवापराधस्तेन भीताया में भीतिरेव न संमुखीभवति । एतदनुमोदनसांमुख्यं न करोतीत्यर्थः । इदमपि मया कथं वक्तव्यं त्वयानेय इति कदाचित्वया मदीयां दशामालोक्य पादपतमादिना बलादानीतस्य तथैव स्थितस्य मदपराधं गृह्णतोऽसन्मुखस्यानयनफलालाभेन लोकोपहास्यता परितापाधिक्यं च मे भवेदिति भावः । तस्मादेते सर्व एव पक्षाः प्रकृतानुपयुक्तत्वादनादरणीयाः । केवलं मनोवा कायकर्मभिस्तत्स्वीकार एव मध्यनुग्रहो गतागतेन च तदभावनिश्चयात्त्वया तथा यतनीयं मदनुग्रहे विलम्बालस्योपेक्षास्तस्य न भवन्ति । भवत्याश्च मत्प्राणत्राणसुकृतादिहलोकः परलोकश्च भवेत् । सख्यादीनामुप हासपात्रतां न यायाम्, जन्मसाफल्यं च यायां मित्रादिपारवश्यतां च न लभेयम् । गौरवसंरक्षणं भवेत् । नान्यं शरणमुपयायामित्याद्यत्यन्ततिरस्कृतवाच्याभिधाभिन्नमूलध्वनिः । तेन च प्रबन्धस्योत्तमता सूचिता । तेन चालौकिकर साखादनसामग्रीदार्थं च सूचितम् । अत्र सर्वत्र काव्यलिङ्गं विभावना चालंकारः । यद्वा भीतिरेव बलात्संमुखीभवतीति संबन्धः । एतत्प्राप्तौ पित्रादिभ्यो भयं त्यक्तमित्यर्थः । भीतिप्राप्तौ हेतुमाह - बलादिति । बलादरुच्या तदानयनं चन्द्रापीडानयनं स एवापराधो महासाहसिकत्वादिरूपस्तत्र भीता । भयहेतूनुत्प्रेक्षमाणेत्यर्थः । तथा चोत्प्रेक्षाया आरोपविषयत्वेनाहार्यभीतेरङ्गीकारादिति भावः । पूर्वोक्तं सर्वमप्यन्यथयन्त्याहअथेति । अथशब्दः पूर्वापरितोषे इति प्रकरणालभ्यते । मयि मद्विषये स्नेहात्प्रेम्णो हेतोः । हेतौ पञ्चमी । कृता विहिता यत्ना आनयनोपाया यया सा तया । प्रिया प्रियकर्त्री चासौ सखी चेति तथा पत्रलेखयापि यदा यथानेतुमानयनाय न पारितो न शक्तः, तदा तर्हि सुतरामेवातिशयेनैव न किंचित् लघुतोत्कर्षः । तदा मम जीवितेन न किंचित्प्रयोजनमिति भावः । आनयनप्रकारमाह-पादपतनेनापीति । करणे तृतीया । पादयोश्चरणयोः पतनेन । दण्डवत्प्रणामेनापीत्यर्थः । आनयनाशक्तौ पूर्वपूर्वापरितोषेण तृतीयान्तान्हेतूनाह-कथंचिदिति । एतत्पदं सर्वतृतीयान्तेन संबध्यते । गुरुजनाः पितृमातृप्रभृतयस्तेषां त्रपा लज्जा तथा . टिप्प० -1 'अथ' इति पक्षान्तरात्पूर्वम्, पत्रलेखाद्वारक-कादम्बरीसंदेशेऽस्मिन्- यदि कुमारोऽन्नानीतसहि लज्जा - वैलक्ष्य-जडतादिभिस्तत्सांमुख्यं न भविष्यतीति सर्वस्य तात्पर्यम् । तरलतया ( चापबयेन ) लजिता लजैव दर्शनं न ददाति ( अन्तर्भावितण्यर्थः ), लज्जापि लजिता जाता, अत एष सा कुमारस्य दर्शनं मे न दापयतीति वाक्यस्यार्थः । भविष्यत्सामीप्ये लट् । एवमेव - मनोभववेदनया विलक्षम् ( अप्रतिभम् ) चैलक्ष्यमेव ( अप्रतिभत्वमेव ) अग्रतो न तिष्ठति ( अयमध्यन्तर्भावितण्यर्थः ), वैलक्ष्यमेव मामग्रतो न स्थापयति, न स्थातुमवसरं ददातीत्यर्थः । जडतैव नोपसर्पति, नोपसर्पयतीत्येवंरूपेण सर्ववाक्येषु ण्यर्थ लक्षणयाऽन्तर्भाव्य वाक्यार्थः परिकरुप्यते । टीकाकारदर्शितं पाण्डित्यं तु सीमातिगामि मार्मिकैः स्वयमवगन्तव्यम् । ४८९ कादम्बर्याः संदेशः ] चिरावलोकित सह संवर्धितबन्धुजनोत्कण्ठया वा, सुहन्मुखकमलदर्शनेन वा, पुनरागमनखेदपरिजिहीर्षया वा, निजगृहावस्थानरुच्या वा, जन्मभूमिलेहेन वा, अनिच्छया वास्य जनस्योपरि पादपतनेनापि नानेतुमेव पारितो यदा मयि त्रेहात्कृतयत्नयापि प्रियसख्या पत्रलेखया तथा सुतरामेव न किंचित् । किं चाधुनाप्यधिक मुँपजातम् । सैवाहं कादम्बरी याऽनेन कुमारेण मंत्तमदमुखरमधुकरकुलकलकोलाहलाकुलिते कोकका मिनी करुणकूजिते विरहिजनमनोदुःखे विकवा । वाशब्दः पूर्वापरितोषे । राजकार्य संधिविग्रहादि तस्यानुरोधोऽनुसरणं तेन वा । चिरेण बहुकालेनावलोकितो दृष्टो यः सहसंवर्धितः पांसुक्रीडनादिभिः सहवृद्धि प्रापितो बन्धुजनो बान्धवलो कस्तस्योत्कण्ठया विरहासहनेन वा । सुहृदो मित्राणि । 'सुहृद्दुर्हदौ मित्रामित्रयोः' इति निपातः । तेषां मुखानि कमलानीवेत्युपमितसमासः । तेषां दर्शनेन सादरावलोकनेन वा । पुनरागमनं पुनरत्रागमः तेन यः खेद आयासस्तस्य परिहर्तुमिच्छा त्यागस्पृहा तयेति वा । पुनरपि यातायातमी मा भूदितिविधयेत्यर्थः । निजं स्वकीयं गृहं तत्रावस्थानं सुखवासस्तत्र रुचिः प्रीतिस्तयेति वा । जन्मभूमिर्जन्मस्थानं तत्र स्नेहः प्रेमा तेन वा । सर्वमेतत्संभावनामात्रेणोक्तम् । वस्तुतस्त्वस्य मल्लक्षणस्य जनस्य जन्तुमात्रस्योपर्यनिच्छाऽरुचिः । अप्रीतिरिति यावत् । तया वा । किंचेति पक्षान्तरे । सैवाहं कादम्बरी यानेन कुमारेण चन्द्रापीडेन । कुमुदानि विद्यन्ते यस्यां सा कुमुदिनी तस्याः कुमुदिन्याश्चतुरस्रजलक्रीडासरस्याः । पुष्करिण्या इति यावत् । तटे तीरे । सामीप्ये सप्तमी । हिमप्रचुरं गृहं हिमगृहं तस्मिन्मुक्तावन्निर्मलो मुक्ता खचितो वा यः शिलायाः पट्टः स एव शयनं शय्या तस्मिन्कुसुमानां त्रस्तरस्तमवलम्बत इत्येवंशीला तन्मात्रावलम्बिनी वीक्षिता दृष्टा । अधुना किमधिकमुपजातम् । इतः सप्तम्यन्तानि हिमगृह विशेषणानि - मत्तेति । मत्ताः क्षीबा अत एव मद्देन मुखरा वाचाला ये मधुकरा भ्रम मरास्तेषां कुलानि सजातीयवृन्दानि तेषां कलो मनोज्ञो यः कोलाहलः कलकलरतेनाकुलिते घ्याप्ते । फोकेति । कोकाश्चक्रवाकास्तेषां कामिन्यो योषितस्तासां करुणानि दीनानि कूजितानि विरुतानि यस्मिन् । कीदृशे कूजिते । विरहीति । विरहिण्यश्च विरहिणश्चैकशेषे विरहिणस्तेषां जनः समुदायः । विरहिणश्च से जनाश्चेति वा । तेषां सिखान्त उत्पादितं दुःखं येन तस्मिन् । विकन्चेति । विकचानि विकस्वराणि दलानि , टिप्प० - 1 अथेत्यारभ्य 'न किञ्चित् ' पर्यन्तस्य 'यदि गुरुजनत्रपादिकारणैः कुमारो नानेतुं शक्येत तदापि न हानिः, मम जीवितमेव न रक्षणीयम् । किं तदा कुमारस्याऽनागमेन मे' इत्याशयः । 2 नेदं पदं दृश्यते मूले । तस्मात् 'जनितविरहिजनमनोदुःखे' इत्येव पाठः । किञ्च- 'मत्तमदमुखर मधुकर इत्यारभ्य 'वीक्षिता' एतावत्पर्यन्ते मूले भूयान् पाठभेदः, अन्वयव्यत्यासश्च कृतष्टीकाकारेण । कियत्परिशोधयितुं शक्येत ? न किल बाणस्य पुत्रोपि 'मत्त' इत्युक्तौ पुनः 'मदमुखर' इति विशेषणं प्रयुञ्जीत । 'मधुमदमुखर' इति हि तत्र पाठः । एवं स्थाने स्थाने । भूयानंशः पाठान्तरेषु धृतः । ततो विवेकिभिः स्वबुद्ध्यैव सर्व समायोज्य ग्रन्थोद्धारकाय टीकाकारायाशीर्वादो देयः । पाठा० -१ चिरावलोकितवन्धुजनदर्शनोत्कण्ठया वा. पुनरागमनचिरावलोकितसहसंवर्धितवम्धुजनदर्शनमुखेन वा सुहन्मुखकमलावलोकनोत्कण्ठया वा. २ स्वजनस्य ३ महास्नेहान्मदलेखया पादपतनेनापि गच्छन्. ४ अनुनेतुम्. ५ पारितः कृतयलयापि प्रियसख्या तदा ६ अभ्यधिकम ७ उपयातमु. ८ मधुमद. ९ कुलकोलाहलाकुलित. १० कूजितजनित; कूजितेन जनित. ६२ का० ४९० कादम्बरी । [ कथायाम् चदलारविन्द निस्यन्द सुगन्ध मन्दगन्ध वाहानन्दितदशदिशि प्रदोषसमये, विकसितकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनहस्ते कुसुमायुधे, कर्पूर विशद करनिकर निर्भरावर्जितज्योनाजलासारवर्षिणि चन्द्रमसि, दूरविक्षिप्तदलनिवहकुमुद काननामोदवासित दिगंन्तायाः कुमुदिन्यास्तटे, चन्द्रकरस्पर्शप्रवृत्तशशिमणिशिखरनिर्झरझंकारिणि क्रीडा पर्वत नितम्बके, हृद्यहरिचन्दनरस कणिकाजाल कच्छलेन तत्करतलस्पर्शसुखसंभव स्खेदजल निव हमिव वहति तत्काल हारिणि मुक्ताशिलापट्टशयने, कुसुमामोदसुरभितदशदिशि तुषारकणनिकर हैारिण्यपि बहिरेव देहँदाहमात्रकायहारिणि सर्वरमणीयानां संदोहभूते हिमगृहे कुसुमस्रस्तरावलम्बिनी वीक्षिता । ममापि चौपुनरुक्ततदर्शनस्पृहे ते एवैते लोचने, ययोरालोकनपथमसौ यातः । तदेव चेदमपत्राणि येषामेवंविधानि यान्यरविन्दानि कमलानि तेषां निस्यन्दो रसो यस्मिन्नेवंभूतः सुगन्धः सुपरिमलो मन्दो मृदुर्यो गन्धवाहो वायुस्तेनानन्दिता वासिता दश दिशो यस्मिन् । सर्वाणीति । सर्वाणि समग्राणि यानि रमणीयानि मनोहराणि तेषां संदोहो दोहनं तस्माद्भूते निष्पन्ने तस्मिन् । पुनः कस्मिन्सति । कुसुमायुधे कंदर्पे सति । कीदृशे । विकसितानां विनिद्राणां कुसुमानां पुष्पाणामामोदः परिमलस्तेन करणभूतेन मुकुलित एकीभूतो यो मानिनीनां मनस्विनीनां मानग्रहोऽहंकारग्रन्थिस्तस्योन्मोचनं दूरीकरणं तस्मिन्हस्त इव हस्तस्तस्मिन् । पुनः कस्मिन्सति । चन्द्रमसि शशिनि सति कीदृशे कर्पूरो हिमवालुका तद्वद्विशदो निर्मलो यः करनिकरः किरणसमूहस्तेन निर्भरं यथा स्यात्तथाऽऽवर्जिता मुक्ता या ज्योत्स्ना चन्द्रिका सैव जलासारोऽम्भसां कणस्तं वर्षतीत्येवंशीलस्तस्मिन् । 'आसारोऽम्भसां कणः' इत्यभिधानाजलपदं पुनरुक्तम् । तच्चादोषाय, शाब्दपु नरुक्तित्वात् । तदुक्तं वृद्धकविभिः— 'द्विरदबृंहितकरिकलभाश्वहेषाकरकङ्कणकरिहस्तेत्यादौ पुनरुक्तेरदोषत्वम्' । कथंभूतायाः कुमुदिन्याः । दूरं विक्षिप्तो दलनिवहः पत्रसमूहो यैरेवंविधानि यानि कुमुदकाननानि कैरववनानि तेषामामोदः परिमलस्तेन वासिताः सुगन्धं प्रापिता दिगन्ता यया सा तस्याः । पुनः कस्मिन्सति । क्रीडार्थ पर्वतः शैलस्तस्य नितम्बके कटके सति । 'मेखला मध्यभागोऽद्वेर्नितम्बः कटकश्च सः' इति हैमः । कीदृशे नितम्बे । चन्द्रकरणां स्पर्शस्तेन प्रवृत्तः प्रवृद्धो यः शशिमणिशिखरनिर्झरश्चन्द्रकान्त सानुझरस्तस्य झंकारो विद्यते यस्मिन्स तथा तस्मिन् । कीदृशे मुक्ताशिलापट्टयने । हृद्यं मनोहरं यद्धरिचन्दनं तस्य रसस्य कणिकाः सूक्ष्माः कणास्तासां जालकानि तेषां छलं मिषं तेन । तस्य चन्द्रापीडस्य करस्तस्य तलस्तस्य स्पर्शस्तस्मात्मुखं सातं तस्मात्संभवा समुत्पत्तिर्यस्यैवंभूतो यः स्वेदजलनिवहस्तमिव वहतीति वहनं तत्तस्मिन् । एतेन सात्विक भावः सूचितः । पुनः कीदृशे शिलापट्टके । तत्कालं सद्यो हरत्याकर्षति जनानां चेत इत्येवंशीलः स तथा तस्मिन् । पुनः किंविशिष्टे । कुसुमानां पुष्पाणामामोदः परिमलस्तेन सुरभिता सुगन्धीकृता दशदिशो येन तत्तथा तस्मिन् । कीदृशे हिमगृहे । तुषारकणा हिमविप्रुषस्तेषां निकरेण समूहेन हारिण्यपि मनोहरत्वेऽपि बहिरेव बाह्यवृत्त्या देहदाहमात्रेण केवलं शरीरदाहज्वरोत्पादकत्वेन कायं देहं हरतीत्येवंशीलं तत्तथा तस्मिन् । अच्छीतलं तत्कथं दाहकमिति विरोधः । विरहित्वेन तत्परिहारः । अत एव विरोधाभासोऽलंकारः । ममापि च कादम्बर्या अप्यपुनरुक्ता प्रथमा तस्य चन्द्रापीडस्य दर्शनस्पृहावलोकनेच्छा ययोस्त एवैते लोचने नेत्रे । यत्तदोर्नित्याभिसंबन्धात् । ते के । ययोर्नेत्रयोरालोकनपथं विलोकनमार्गमसौ चन्द्रापीडो यातः प्राप्तः । च पुनपाठा० --- १ वृन्दनिष्यन्दानन्दितमन्दगन्धवहसुगन्धदशदिशि विकसित विविधकुसुमामोदमुकुलितमानिनीमानग्रहो#मोचनदक्षकुसुमायुधि कर्पूरक्षोदभिश्रचन्दनपकपिण्डे कुपितकामिनीविनोद दक्षगेयमुखरपरिजने पुनरुक्तदर्शनाभ्युत्थानवीडितकञ्चुकिजने प्रदोषसमये जरठशरकाण्डविपाण्डुनिविड कुण्डलोद्धृष्ट लडह युवतिगण्डस्थलान्यखण्डमण्डले मण्डयति गंगनं चानवरत विस्फुरद्विशद करनिर्भरावर्जित ज्योत्स्नाजलसारवर्षिणि चन्द्रमसि, २ पर्वतकनितम्बे ३ नीहारिण्यपि. ४ दाहमात्र कापहारिणि ५ पुनरुक्त, ६ आलोचन. कादम्बर्या : संदेशश्रवणम् ] उत्तरभागः । ४९१ प्रतिपत्तिशून्यं हृतहृदयम् येनान्तःप्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरं येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिः, योऽलीकै गुरुजनापेक्षी नात्मानं परिमाहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽन्न वारद्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया वाकिंचित्करोऽन्यत्र पञ्चरोऽपि स एव यस्त्वयावेदितो मे । 4 ." प्रतिज्ञातं च मया महाश्वेतायाः – 'त्वयि दुःखितायां नाहमात्मनः पाणिं ग्राहयिष्यामि' इति । तामहं पुनरव्यवदम् । सा तु 'देवि, "मैवं स्म मनसि करोः । कुमतिरियम् । अतिदारुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमध्यपहरति' इत्यब्रवीत् । तदपि नास्त्येव मे । मदनेन वा, दैवेन वा, विरहेण वा, यौवनेन वा, रथें । इदं प्रत्यक्षं तदेव हतहृदयं दैवेन हतं ताडितं हृदयं चेतः । कीदृशम् । अप्रतिपत्तिरज्ञानं तेन शून्यम् । किम् । येन हृदयेनान्तः प्रविष्टोऽपि मध्यगतोऽपि धारयितुं ग्रहीतुं न पारितः । च पुनरर्थे । एतच्छरीरं तदेव । तत्किम् । येन शरीरेण तत्समीपे चन्द्रापीडसंनिधौ चिरं बहुकालमुदासीनेन तटस्थेन स्थितम् । स एवायं पाणिर्हस्तः । स कः । योऽलीकोऽसत्यो गुरुजनो मातृपित्रादिस्तमपेक्षते इत्येवंशीलः स तथात्मानं स न परिग्राहितवान् । अनपेक्षिता परस्य अर्थान्मम पीडा येनैवंविधश्चन्द्रापीडोऽपि स एव नान्यः । स कः । योऽत्र * मत्पार्श्वे वारद्वयं द्विवारमागत्यागमनं कृत्वा प्रतिगतो निवृत्तः । मध्येव मयि विषय एव । नान्यत्रेत्यर्थः । उपक्षीणा नष्टा मार्गणा बाणा: शरा यस्य स उपक्षीणमार्गणस्तस्य भावस्तत्ता तया । वाशब्द इवार्थे । तथा चोपक्षीणमार्गणतया इव । अन्यत्र चन्द्रापीडादौ न किंचिद्दुःखादिकं करोतीत्य किंचित्करः पञ्चशरोऽपि कामोsपि स एव । स कः । यस्त्वया सख्या मे ममावेदितस्तत्स्वरूपज्ञापनपूर्वकं निवेदितः । महाश्वेताया मयेदं प्रतिज्ञातं च पुनरहं तां महाश्वेतामित्यवदमवादिषम् । इतीति किम् । तदेवाह - प्रतिज्ञातमिति । अङ्गीकृतं च । तदेव दर्शयन्नाह - त्वयीति । त्वयि महाश्वेतायां दुःखितायां नाहं कादम्बर्यात्मनः स्वपाणि करं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । सौ तु महाश्वेतेत्यब्रवीत् । इतीति किम् । हे देवि, एवं मनसि चित्ते त्वं माकरोर्मा कार्षीः । 'मेऽटि' इत्यो लोपः । तदकरणे हेतुं प्रदर्शयन्नाह - कुमतिरिति । कुत्सिता मतिः कुमतिरियं न सम्यम्बुद्धिः । कथमित्याह -- अतीति । अयं पापकार्यधर्मजनको मकरकेतुः कंदर्पोऽतिदारुणोऽतितरां भीषणः कदाचिन्न सर्वदा दृश्यमानेऽवलोक्यमाने प्रियजने वल्लभजने जनितहृदयानुरागादुत्पादितमान सिकस्नेहाज्जीवितमपि जीवनमप्यपहरत्यपाकरोति । प्रियजनस्या दृश्यमानत्वं नास्तीत्याशङ्ख्याह - तद्पीति । तदपि प्रियजनादृश्यमानत्वं मे मम नास्त्येव न विद्यत एव । एतदेव स्पष्टीकुर्वन्नाह – दैवेनेत्यादि । मदनेन वा, कंदर्पेण वा, दैवेनादृष्टेन वा । विरहेण वियोगेन वा, यौवनेन तारुण्येन वा, अनुरागेण स्नेहेन वा, टिप्प० - 1 'किंचाधुनाप्यधिकमुपयातम्' इत्यारभ्य एतावत्पर्यन्तस्य — 'न किञ्चिन्नवीनं जातम् । अहं कुमारादि च सर्व तदेव । किञ्च महाश्वेतासविधे प्रतिज्ञावशाद्विवाहेऽप्यहं विवशा । अत एव कुमारागम नेन किं मे' इति प्रणयकोपसूचने तात्पर्यम् । 2 'हरति । एतावत्पर्यन्ता पत्रलेखाया उक्तिः । एतदमे "सानु अब्रवीत्' इति पाठः । ततश्च 'सा तु अब्रवीत् ' एतदमे 'तदपि नास्त्येव मे' एतदारभ्य 'तदानयनकथया' इति कादम्बर्युक्तिः । 3 'सा तु' इति मध्ये प्रक्षेपष्टीकाकारस्य पाण्डित्यम् । न हि सेयं महाश्वेया उक्ति: । सा किल देवीति न तां संबोधयेत् । "तामहं पुनरप्यवदम् – 'देवि'." इत्यादिका पत्रले'खाया उक्तिः । अत एवं मध्ये 'सा तु' इति प्रक्षेपो ग्रन्थभ्रंशाय । पाठा० - १ चिरतत्समीपेऽपि २ उदासीनं स्थितम् ३ अलीकगुरुजनापेक्षणात् ४ इति । सा तु. ५ मैतन्मनस्यकरो. ६ जनितहृदयानुरागः, हृदयानुरागात् ७ हरति ८ एतदपि, ४९२ कादम्बरी । [ कथायाम्अनुरागेण वा, मदेन वा हृदयेन वा, अनेन वा केनापि दत्तः संकल्पमयः कुमारी जनसंनिधावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि चासाविव नाय मकाण्डपरित्यागनिष्ठुरहृदयः । अयमेवास्मद्विरहकातरः । नायं नक्तंदिवं लक्ष्म्या समाकुलः । न पृथिव्याः पतिः । न सरस्वतीमपेक्षते । न कीर्तिशब्दं वर्धयति । पश्यामि चाहर्निशमासीनोत्थिता ग्राम्यन्ती शयाना जायती निमीलितलोचना चलन्ती स्वप्नायमाना शयने श्रीमण्डपे गृहकमलिनीषूद्यानेषु लीलादीर्घिकासु क्रीडापर्वत के बालगिरिनदिकासु च यथा तमज्ञजनविडम्बनैकहेतुं विप्रलम्भकं कुमारं ते तथा कथितमेव मया । तदलमनया तदानयनकथया' इत्यभिधानाऽतर्कितागतमूर्च्छव निमीलिताक्षी पक्ष्माग्रसंपिण्डितनयनजलवर्षिणी विलीयमानेवोत्पीड्यमानेवान्तर्जातमन्युवेगेन तथैव वेदिकाविताननाभिदामांशुकावलम्बिन्यां मदेन मत्ततया वा, हृदयेनान्तःकरणेन वा । अत्र वाशब्दः सर्वत्र विकल्पार्थः । किं विकल्पान्तरेण । अने नानुद्दिष्टनाम्ना वा केनापि दत्तोऽर्पितः संकल्पमयः कल्पनात्मकः कुमारश्चन्द्रापीडो जनानां लोकानां संनिधावपि समीपेऽपि केनचिदविभाव्यमानोऽज्ञायमानागमनः सिद्ध इवाणिमाद्यष्टगुणोपेत इव मे मम सर्वदा दर्शनं "ददाति वितरति । अपि चेति प्रकारान्तरे । असाविन चन्द्रापीड इवायं संकल्पककुमारोऽकाण्डेऽप्रस्तावे यः परित्यागो मोचनं तस्मिन्निष्ठुरं निर्दयं हृदयं यस्यैवंभूतो न । अयमेव संकल्पकुमार एवास्माकं विरहे वियोगे कातरो भीरुः । एतदर्थमन्यासक्तिप्रतिषेधद्वारा स्पष्टीकुर्वन्नाह - नायमिति । अयं पूर्वोक्तो नक्तंदिवमहर्निशं लक्ष्म्या रमया समाकुलो व्याकुलीभूतो न । तथा पृथिव्या वसुंधरायाः पतिः स्वाभी न । तथा सरस्वतीं वाणीं नापेक्षते नेहते । तथा कीर्तिशब्दं यशोवादं न वर्धयति न वृद्धिं नयति । सर्वदा तत्स्वरूपमहं पश्यामीत्याशयेनाह – पश्यामीति । यथा येन प्रकारेण तं चन्द्रापीडाभिधमज्ञजनो मूर्खजनस्तस्य विडम्बनायां विरहादिरूपायामेकस द्वितीयं हेतुं कारणं बिप्रलम्भकं वञ्चकं कुमारमहं कादम्बर्यासीनोपविष्टा, उत्थितोवींभूता, भ्राम्यन्तीतस्ततः पर्यटन्ती । विरहादिति शेषः । शयाना वापं कुर्वाणा, जाग्रत्यशयाना, निमीलितलोचना मुद्रितनयना, चलन्ती स्वेच्छया गच्छन्ती स्वप्नायमाना खप्नं पश्यन्ती, शयने शय्यायाम्, श्रीमण्डपे श्रियोपलक्षितजनाश्रये, गृहकमलिनीषु सदनपद्मिनीषु उद्यानेषूपवनेषु लीलादीर्घिकासु क्रीडावापीषु, क्रीडा पर्वतके क्रीडाशैले, बालगिरिः क्रीडार्थ निर्मितः शैलस्तस्य नदिकासु खल्पतटिनीषु चाहर्निशमहोरात्रं पश्याम्यवलोकयामि । तथा तेन प्रकारेण मया कादम्बर्या कथितमेव पूर्व निवेदितमेव । तदिति पूर्वोक्तहेतोरनया मानसिकप्रत्यक्षया । 'इदमः प्रत्यक्षगतम्' इत्युक्तेः । तस्य कुमारस्यानयनम् । उज्जयिन्या मत्समीपानयनमित्यर्थः । तस्य कथा वार्ता तया अलं भृतम् । इत्यभिदधानेति जल्पन्त्यतर्किताऽसंभाविता मूर्च्छा मोहो यस्याः सेव । सहसा प्राप्तमूर्चेनेयर्थः । निमीलिते मुद्रिते अक्षिणी लोचने यया साइत एव पक्ष्मणां नेत्ररोम्णामग्रेषूपरिभागेषु संपिण्डितं पिण्डीभूतं यज्ञयनयोर्जलं तद्वर्षतीत्येवंशीला । तथान्तर्मध्ये जातो मिथ्या कि जीवितेनेत्यादिप्रभवो यो मन्युवेगः क्रोधरयस्तेन विलीयमानेव द्रुततां गच्छन्तीव, उत्पीड्यमानेवोत्प्राबल्येन पीडां प्राप्यमाणेव, तथैव तथावस्थैव वेदिका बद्धभूमिस्तस्या वितानमुल्लोचस्तस्य नाभिर्मध्यप्रदेशस्तत्र यद्दाम तन्निष्ठं यदंशुकं हस्तक्षतनिवारणार्थ वस्त्रं निबन्तीति सार्वत्रिकी प्रसिद्धिस्तदवलम्बत इत्येवंशीलायां बाहुलतिकायां भुजलतायामाननं मुखमुपावेश्य संस्थाप्य तूष्णीं मौनेन तस्थौ स्थितवती । अत एवोत्कीर्णेव लोह (श) लाकाक्षोदितेव । पाठा -१ अन्येन. २ आदाविवासौ. ३ तस्मादस्मदिरहमरण नयहर: ४ लक्ष्मीसमाकुल: ५ उच्छ्रिता. ६ च गृहशयने, ७ गृहे कमलिनीपुः गृहदीर्षिकाकमलिनीषु. ८ अभिदधाना गुरुमन्युभारवेगा. कादम्बर्याः संदेशश्रवणम् ] उत्तरभागः । बाहुलतिकायामच्छ सलिलप्रसूतायां मृणालिकायामिव जलाइतिश्यामारुणतामरसमिवाननमुपावेश्य तूष्णीमुत्कीर्णेव तस्थौ । MURCHISSED अहं तु तच्छ्रुत्वा समचिन्तयम् – 'सत्यमेव गरीयः खलु जीवितालम्बनमिदं वियोगिनीनाम्, यदुक्तं संकल्पमयः प्रियो नितरां कुलाङ्गनानां विशेषतः कुंमारीणाम् । तथा हि । अनेन सार्धमकृतदूतिका पादपतनदैन्यान्यन्यानि च प्रतिक्षणं समागमशतान्यकालरमणीयानि खेच्छाभिसरण सौख्यान्यत्यन्तादूषित कन्यकाभावानि सुरतानि, सुरतेषु चाकृतस्तन व्यवधानदु:खान्यालिङ्गनानि, अजनितत्रणदर्शनत्रीडानि नखदैन्तपदानि, अनाकुलितकेशपाशाः कचग्रहमहोत्सवाः, शब्दविहीनानि निधुवेनानि, अनुत्पादितगुरुजनविभावितक्षतवैलक्ष्याण्यधरखबाहुलतिकानने उत्प्रेक्षयन्नाह - अच्छेति । अच्छं निर्मलं यत्सलिलं पानीयं तस्मिन्प्रसूतोरपन्ना या मृणालिनी कमलिनी तस्यामिव, जलस्य पानीयस्याहतिराघातस्तया श्यामं कृष्णं यदरुणं रक्तं तामरसं कमलमिव । सरलसुकु मारत्वसाधर्म्यावाहुलतिकाया मृणालिन्युपमानम् । वर्तुलत्वरक्तसादृश्यत्वेन मुखरय तामरसोपमानत्वमिति भावः । अहं त्विति । तु पुनरर्थे । अहं पत्रलेखा तत्पूर्वोक्तसंकल्पमयः कुमारो जनसंनिधावपि ददाति दर्शनमिति श्रुत्वाकर्ण्य समचिन्तयमभृशम् । इदं सत्यमेवावितथमेव । इदं किम् । यदुक्तसंकल्पमयः संकल्पविशेरूपः प्रियः, खलु निश्चयेन, वियोगिनीनां विप्रलम्भवतीनां नितरामतिशयेन कुलाङ्गनानां कुलवधूनाम्, षतो विशेषात्कुमारीणाम् । कुमारीति पदमनूढायां रूढम् । अतिशयेन गुरुर्गरीयः अतिशयार्थे ईयप्रत्ययः । जीवितस्य जीवनस्यालम्बनमाधारभूतम् । तदेव दर्शयति - तथा हीति । अनेन कुमारेण सार्धं समं न कृतानि विहितानि दूतिकायाः संचारिकायाः पादपतनादिदैन्यानि येभ्यस्तान्येवंविधान्य न्यानि च प्रतिक्षणं प्रतिसमयं समागमस्य संयोगस्य शतानि । केचित्तु समागमस्य संभोगस्येति व्याख्यां कुर्वन्ति । तदसत् । एकक्षणे संभोगशतस्यासंभवात् । तथा कालो विरहदिवसस्तेन रमणीयानि मनोहराण्येवंविधानि स्वस्यात्मन इच्छेहा तया भिसरणं समीहितस्थले गमनम्, अभिरमणं वा, तजनितानि सौख्यानि सुखान्यत्यन्तं परज्ञानाभावेनादूषितो ऽदुष्टो कन्यकाभावो येष्वेवंभूतानि सुरतानि मैथुनानि । सुरतेषु च संभोगेषु च न कृतं न विहितं स्तनानां व्यवधानं तस्माद्दुःखं यैस्तान्येवंभूतान्यालिङ्गनान्युपगूहनानि । अजनिताऽनुत्पादिता व्रणदर्शनात्क्षतावलोकनाद्रीडा लज्जा यैस्तान्येतादृशानि नखदन्तयोः पदानि लक्ष्माणि । अनाकुलितः संबद्धः । विप्रकीर्ण इति यावत् । केशपाशः केशकलापो येष्वेवंविधाः कचानां केशानां ग्रहा एव महान्त उत्सवाः । शब्दैः सीत्कारैर्विहीनानि रहि तानि निधुवनानि सुरैतानि । अनुत्पादितं न निर्मितं गुरुजनैर्मातृपित्रादिभिर्विभावितं ज्ञातं क्षतं व्रणं यैरेताशान्यत एव विलक्षणानि वैलक्ष्याणि भिन्नान्यधरस्यौष्ठस्य खण्डनान्येव विलसितानि क्रीडितानि । एतेन चन्द्रापीडसंभोगादप्यस्य संभोगस्य सर्वदा विलक्षणत्वमिति ध्वनितम् । एवमिति । एवम वक्ष्यमाणं चिन्तयन्त्या विचारयन्त्या एव मे ममानुरागस्य स्नेहस्य कथा वार्ता सैव रसस्तेन प्लावः रुपनं तेनैव दिवसो मे टिप्प० - 1 'अन्यानि' इति निष्प्रयोजनमेव । 'अन्यान्येव' प्रसिद्ध संभोगशतेभ्यः अन्यविधान्येव ( विलक्षणान्येव ) इति यदि स्यात्तर्हि समुचितमपि । 2 'सुरतेषु च' इत्यारभ्य 'निधुवनानि' इत्युक्तिः 'सुरतेषु सुरतानि' इति पर्यवसायिका स्यात्, अत एव 'शब्दविहीनाति चुम्बनानि' इत्येव पाठः । 3 प्रलपितमेतत्, न उत्पादितं गुरुजनैः विभावितेन ( लक्षितेन ) क्षतेन (व्रणेन ) वैलक्ष्यम् ( लज्जा ) येषु तानि, इति स्पष्टोऽर्थः । पाठा० - १ सलिलस्रोतसि. २ जलसंहति. ३ तरुण. ४ अवाद निवेश्य. ५ विनोदश्च वियोगिनीनाम्. ६ यदु, अन्तः. ७ प्रियजनः; प्रियतरः• ८ सुतराम्. ९ कुमारिकाणाम् १० अन्यान्येव. ११ अन्यत्राकालनीयानि रमणीयानि, १२ दूषित १३ भावचिह्नानि १४ दन्तक्षतमुखानि १५ चुम्बनानि, कादम्बरी । [ कथायाम्ण्डनविलसितानि । नैनमन्धकार राशिरन्तरयति, न जलधरधारापातः स्थगयति, न नीहारनिकरस्तिरोदधाति' इत्येवं चिन्तयन्त्या एव मेऽनुरागकथारस लावेनेव रक्ततामगादिवसः । तत्क्षणं प्रकटितरागं हृदयमिव कादम्बर्यास्त्रपया पलायमानमदृश्यत रविमण्डलम् । पल्लवशयनमिव संध्यारागमरचयद्यामिनी । परिचारक इव चन्द्रमणिशिलातलेतल्पमकल्पयत्प्रदोषः । अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्ध तैलावसिक्कसुरभिगन्धोद्गारिणीभिर्दीपिकाभिर्विरचितचक्रवालिका बालिकाः पर्यवारयन् । अथ निर्मल'लावण्यलक्षितानि दीपिकाप्रतिबिम्बानि ज्वैलितानि मदनसायकस्य शल्यकानी वाङ्गलग्नानि समुद्रहन्तीं नवनिरन्तर कलिकाचितां चम्पकलतामिव तथास्थितां तां पुनर्व्यजिज्ञपम्-'देवि' वासरो रक्ततामरुणतामगाजगाम । किमित्याकाङ्क्षायामाह - नैनमिति । अन्धकारस्य ध्वान्तस्य राशिः समूह एनं सूर्य नान्तरयति । नान्तरायीकरोतीत्यर्थः । तथा जलधरस्य मेघस्य धारापातो जलासार एनं न स्थगयति । न स्तम्भयतीत्यर्थः । नीहारस्य हिमस्य निकरः समूह एनं सूर्यं न तिरोदधाति न च्छादयति । तत्क्षणमिति । मद्रागो न्यून इति त्रपया लज्जया पलायमानं नश्यमानं रविमण्डलं सूर्यबिम्बमदृश्यतावीक्ष्यत । जनैरिति शेषः । कीदृशम् । तत्क्षणं तत्कालं प्रकटित आविष्कृतो रागो येन तत्तथा । रक्तत्वसाम्यादाह — कादम्बर्या हृदयमिव स्वान्तमिव । यामिनीति । यामिनी रात्रिः संध्यारागमरचयदकरोत् । रक्तत्वसाम्यादाह -- पं. लवेति । पलवानां किसलयानां शयनं शय्या तदिव । परिचारक इवेति । परिचारक इव सेवक इंव प्रदोषो यामिनीमुखं चन्द्रं शशिनं मणेः शिलातलं मणिशिलातलं तल्पं शय्यामकल्पयदरचयत् । अत्रान्तर एवंविधसमये दूरतो दीपिकाधारिण्यो बालिका आगत्य पर्यवारयन्दूरीचक्रुः । अन्धकारमिति शेषः । एकीबभूवुरिति वा । किं कुर्वन्त्यः । निरन्तरं दीपिकाः कर्तव्या इति स्वं स्वं खकीयं स्वकीयं नियोगमादेशमशून्यमवन्ध्यं कुर्वाणा विदधानाः । किंविशिष्टाः । विरचितेति । विरचिता निष्पादिताश्चकवालिका मण्डलं याभिस्ताः । काभिः । दीपिकाभिः 'दीवी' इति जनप्रसिद्धाभिः । दीपिकाभिः कीदृशीभिः गन्धतैलं सुगन्धस्नेहस्तेनावसिक्ताः सिञ्चिताः सुरभिगन्धमुद्गिरन्तीत्येवंशीलाभिः । अथेति । दीपिकानमनानन्तरमहं ताम् । पत्रलेखामिति शेषः । पुनर्व्यजिज्ञपं विज्ञप्तिमकार्षम् । कीदृशीं ताम् । समुद्वहन्तीं धारयन्तीम् । कानि । दीपिकानां प्रतिबिम्बानि ' प्रतिच्छायारूपाणि प्रतिबिम्बानि । कीदृशानि । निर्मलं स्वच्छं यल्लावण्यं लवणिमा तेन लक्षितानि ज्ञातानि । अति• सुन्दरलावण्ये प्रतिबिम्बितार्नीत्यर्थः । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' उत्प्रेक्षते - मदनसायकस्य कामबाणस्य ज्वलितानि घुषितान्यङ्गलग्नानि शल्यकानीवानिःसृताप्राणि बाणानीव । पुनः कीदृशीं ताम् । चम्पकस्य हेमपुष्पकस्य लतामिव शाखामिव तथास्थिताम् । चम्पकलतां कीदृशीम् । नवाः प्रत्यग्रा निरन्तरा व्यवधानरहिता याः कलिकाः कोरकास्ताभिश्चितां व्याप्ताम् । अत्र सरलत्व• सादृश्याच्छरीरस्य चम्पकलतोपमानम् । दीपिकाप्रतिबिम्बानां कोरकाकृतित्वेन कलिकोपमानम् । कां विज्ञप्तिं कृतवतीत्याशयेनाह — देवति । हे देवि कादम्बर, त्वं प्रसीद प्रसन्ना भव । तथा खेदाभावोऽखेदस्तस्मै अर्हा टिप्प० - 1 धन्यष्टीकाकारः कः प्रसङ्गोऽत्र सूर्यस्य ? तस्मात् - 'एनं संकल्पमयं प्रियमित्यर्थो बोध्यः । 2 हन्त हन्त सुप्रभातं काव्यस्यास्य, यदेवं विधष्टीकाकारः । बालिकाः कादम्बरीं पर्यवेष्टयन् इति स्पष्टोर्थः । 3 विरचितं चक्रवालं याभिस्ताः, बहुव्रीह्यवयवः कप् । 4 प्रतिपदं प्रस्खलन्दयनीय एव दिगम्बर सोयम् । तां कादम्बरीमिति बोध्यम् । पाठा० -- १ प्लवेन परेण. २ तलम् ३ स्वनियोगम् ४ अवसेकसुरभिधूम ५ ज्वलन्ति ६ सायकशल्यानि. ७ तथावस्थिताम्. कादम्बर्या वृत्तान्त श्रवणम् ] उत्तरभागः । ४९५ प्रसीद । नार्हस्यखेदार्हा हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय चन्द्रापीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेण विषमूच्छितेव झटित्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् । अथ धवलवसनोल्लासितगात्रयष्टयः द्वारप्रदेशसंपिण्डिताङ्गन्यः, परशुरामशरविवरविनिर्गता इव राजहंस पङ्कयः, कलहंसे कलालापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिर्नूपुरै: पतत्कर्णपूरपल्लवोल्लासितैयाज्ञा श्रवणाय धावद्भिरिव श्रवणमौक्तिककुण्डलांशुजालकानि स्कन्धदेशनिक्षितानि चामराणीव वहन्त्यः समाहतकपोलस्थलैः कुण्डलैर्बलादिव वाह्यमानाः, वाचालैः कर्णो• त्पलमधुकरैः 'समाज्ञापय' इति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखकयोग्या त्वं हृदये स्वान्ते खेदं करोतीत्येवंशीलं संतापमङ्गीकर्तुं स्वीकर्तुं नार्हसि न योग्या भवसि । तथा मन्युः क्रोधस्तस्य वेगं रयं संहर त्यज । कोपवृद्धिं मा कुर्वित्यर्थः । एषाहं पत्रलेखाख्या सखी चन्द्रापीडमादाय गृहीत्षागतैव । अथेति । तच्छ्रवणानन्तरं विषमूच्छिता विषापहरणमन्त्रेणेव । अनेन देवनाम भवन्नामग्रहणं गर्भे यस्मिन्नेवंविधेन मम पत्रलेखाया वचसा वाक्येन झटिति शीघ्रं नयने नेत्रे उन्मील्योद्धाट्य सस्पृहं स्पृहायुक्तं यथा स्यात्तथा मां पत्रलेखामवलोक्य निरीक्ष्येति परिजनं सेवकलोकमपृच्छत्पप्रच्छ । इतीति किम् । अस्मिन्नासन्न प्रदेशे समीपस्थले कः तिष्ठतीति शेषः । अथेति । तदनन्तरं कन्यकाः कुमार्यः समधावस्त्वरितं चेलुः । कन्यका विशेषयन्नाह - धवलेति । धवलैः शुभ्रैर्वसनैर्वस्त्रैरुहासिताः शोभिता गात्रयष्टयो देहलता यासां ताः । द्वारेति । द्वारप्रदेशे प्रतोलीदेशे संपिण्डितानि संकोचितान्यङ्गानि शरीराणि याभिस्ताः । उत्प्रेक्षते – परशुरामस्य जामदम्यस्य शेरविवरेण बाणच्छिद्रेण विनिर्गता राजहंसानां पङ्कय इव । शुभ्रवस्त्रावृतत्वेन तासां हंसपङ्किसाम्यं । तदुक्तं काव्यप्रकाशे'साधर्म्यमुपमाभेदे' इति । किंविशिष्टाः कन्यकाः । नूपुरैश्चरणभूषणैरुपलक्षिता ज्ञाताः । उपलक्षणे तृतीया । नूपुराणि विशेषयन्नाह — कलेति । कलहंसानां कादम्बानाम् । 'कादम्बास्तु कलहंसाः' इति हैमः । तेषां कला मनोहरा य आलापाः शब्दास्त इव मधुरा मिष्टा ये रवाः शब्दास्तैः प्रतिवाचं प्रत्युत्तरं प्रयच्छद्भिर्ददद्भिरिव । च पुनरर्थे । पुनः किंविशिष्टाः । श्रवणैः कर्णैरुपर्लक्षिताः । किंविशिष्टैः श्रवणैः । पतन्तो भ्रश्यन्तो ये कर्णपूर य कर्णाभरणस्य पल्लवाः किसलयास्तैरुल्लासितैरुद्भासितैः । अत एवोत्प्रेक्षते - श्रवणैः कीदृशैरिव । आज्ञाया निदेशस्य श्रवणं श्रुतिस्तदर्थं धावद्भिरिव त्वरितं गच्छद्भिरिव । पुनः किं कुर्वग्त्यः । वहन्त्यो धारयन्त्यः । कानि । मौक्तिकैर्मुक्ताफलैः खचितानि कुण्डलानि कर्णभूषणानि तेषामंशवः किरणास्तेषां जालकानि समूहाः । स्वार्थे कः । 'जालं समूह आनायगवाक्षक्षारकावपि' इत्यमरः । उत्प्रेक्षते - स्कन्धदेशे भुजशिरःप्रदेशे निक्षिप्तानि स्थापितानि चामराणीव वालव्यजनानीव । पुनः किंविशिष्टाः । समाहतानि ताडितानि कपोलस्थलानि गल्लात्परप्रदेशा यैरेवंविधैः कुण्डलैर्बलाद्धठाद्वायमाना इवोत्पाद्यमाना इव । पुनः किं कुर्वन्त्यः । कर्णोत्पलानां श्रवणकुवलयानां चाचा लैर्मधुकरैर्भ्रमरैरिति व्याहरन्त्य इवेति वदन्त्य इव । इतीति किम् । समाज्ञापय । आज्ञां देहीत्यर्थः । आज्ञेति । कादम्बरी मरकतशिलातलेऽश्मगर्भदृषदुपरि न्यषीदत् । अतिष्ठदिति क्रियासंटङ्कः । किं कुर्वन्ती । । टिप्प० - 1 कार्तिकेयस्य स्पर्धया, शरेण कौञ्च पर्वत विवरं विधाय सहारेण अवरुद्धा हंसपङ्कयो मिः सारिता जामदयेनेति महाभारतकथाऽनुसंधेया । 2 कर्णैः (करणैः ) मौक्तिककुण्डलांशुजालकानि वहन्त्य इति स्पष्टोऽर्थः । अस्तु. स्वातत्र्यं टीकाकारशिरोमणेः । 3 बलपूर्वकं गमनाय प्रेर्यमाणा इत्यर्थः । ४ कलहंस. पाठा० - १ बहुलसित २ समुलसित ३ द्वारदेशसंदण्डिताः; द्वारप्रदेशप्रवेशसंपिण्डिताङ्ग्यः. ५ कलमपमधुराकापैः ६ समन्तात्समधावन्. ७ आशां प्रतीक्षमाणासु. कादम्बरी । [ कथायाम्Food मलावलोकिनीषु च नासु क्रमेण दृष्टिं पातयन्ती मंरकतशिलातले न्यषीदत्, अनवीच - 'पत्रलेखे, न खलु प्रियमिति ब्रवीमि त्वामेव पश्यन्ती संधारयाम्येव जीवितमहम् । तथापि यद्ययं ते ग्रहस्तत्साघय समीहितम्' इत्यभिधायाङ्गस्पृष्टनिवसनाभरणताम्बूलप्रदानप्रदर्शितप्रसादातिशयां मां व्यसर्जयत् ।" इत्यावेद्य च किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत्– 'देव, ग्रंत्यप्रदेवीप्रसादातिशयाहितप्रागल्भ्या दुःखिता च विज्ञापयामि । देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिदमापन्न वत्सलायाः स्वप्रकृतेरनुरूपं कृतम् ?' इति । चन्द्रापीडस्तु तथोपालम्भगर्भ विज्ञप्तः पत्रलेखया पातयन्ती क्षिपन्ती । काम् । दृष्टिं दृशम् । कासु । तासु कन्यकासु । कथम् । क्रमेणानुपूर्व्या । कथंभूतासु तासु । आज्ञाया निदेशस्य प्रतीक्षा प्रतीक्षणम् । प्रतिपालनमिति यावत् । यासां तास्तथा तासु । पुनः कीदृशीषु । मुखमेव कमलं पद्मम् । स्वामिन्या इति शेषः । तदेवावलोकितुं शीलं यासां तास्तथा तासु । अब्रवीञ्चेत्युपवेशनानन्तरमित्यवोचत् । च पुनरर्थे । किमुवाचेत्याह-पत्रेति । हे पत्रलेखे । खलु निश्चयेन त्वद्गमनं प्रियमिटमितिहेतोरहं त्वां न ब्रवीमि न कथयामि । यतोऽहं त्वामेव न त्वदन्यमित्यर्थः । पश्यन्ती विलोकयन्ती जीवितं जीवनं संधारयाम्येव दधाम्येव । अतः सर्वथा त्वद्गमनं मम नेष्टम् । तथापि यद्ययं कुमारानयनलक्षणस्ते तव ग्रहो हठः; तत्तर्हि समीहितं वाञ्छितं साधय विधेहि । इत्यभिधाय प्रतिपाय मां पत्रलेखां व्यसर्जयदप्रेष यत् । किंलक्षणां माम् । अङ्गस्पृष्टानि शरीरैलग्नानि यानि निवसनाभरणताम्बूलानि सुचनालंकारनागवल्लीदलानि तेषां प्रदानेन वितरणेन प्रदर्शितोऽन्येभ्यो ज्ञापितः प्रसादातिशयः प्रसन्नताधिक्यं यस्याः सा ताम् । .) इति पूर्वोत्तमावेद्य निवेद्य च किंचिदिवेषञ्चमितं नम्रीकृतं मुखमास्यं यया सवंविधा पत्रलेखा शनैर्मन्दं मन्दं पुनर्व्यजिज्ञपद्विज्ञप्तिमा । देवेति । हे देव हे स्वामिन् अहं विज्ञापयामि विज्ञप्तिं करोमि । किन् लक्षणाहम् । प्रत्यग्रो नवीनो यो देव्याः प्रसादः प्रसन्नता तस्यातिशय आधिक्यं तेनाहितमारोपितं प्रागल्भ्यं महत्त्वं यस्याः सा । परं दुःखिता च संजातदुःखा च सती । अथ विज्ञापनां विशदयति - देवेनापीति । देनेनापि स्वामिनापीदं स्वप्रकृतेः स्वस्वभावस्यानुरूपं सहयं कृतं विहितम् । कथंभूतायाः स्वप्रकृतेः । आपनं प्राप्तं वत्सलैत्वं हितकारित्वं यया सा तस्याः । किं कुर्वता देवेन । दूरीकुर्वता त्यजता । काम् । देवीं कादम्बरीम् । कीशम् । एषानन्तरोदितावस्था यस्याः सा ताम् । चन्द्रापीड इति । चन्द्रापीडस्तु पत्रलेखयोपालम्भग र्भमुपालम्भो गर्भे मध्ये यत्र क्रियायां स्यात्तथा विज्ञप्तो नितरामत्यन्तं पर्याकुलो व्याकुलोऽभवदिति क्रियासंटङ्कः । किंलक्षणः । स्वभावेन निसर्गेण धीरा स्थिरा प्रकृतिः स्वभावो यस्यैवंविधोऽपि । किं कृत्वा । कादम्बर्या देव्यास्तमालापमाकर्ण्य श्रुत्वा । किंलक्षणमालापम् । स्नेहोक्तिः स्नेहस्य प्रीतेरुक्तिः पुरःसरा मुख्या यत्र तम् । चेयपरम् । किं कृत्वा । स्तिमिते निश्चले पक्षमणी नेत्ररोमराजी ययोस्तयोर्भावस्तत्ता तया दुर्विषहमसत्यं दुःखं तेन यो बाप्पोऽस्रं तेनोपते व्याप्ते आयते विशाले अक्षिणी यस्य तत्तन्मुखं तस्याः पत्रलेखाया मुखमुत्प्रेक्ष्योMO टिप्प० - 1. प्रयासपूर्वकं गत्वा सदानयनं मम नाभीष्टमिति विन्वोकः । सोयम् । 'दिग्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः' इति तल्लक्षणम् । स्वद्गमनं प्रियमिति तु न केनचिदाशङ्कितमासीत् । 2 अर्थात् निजशरीरटतानां निवसनाभरणानां तथा ताम्बूलस्य च प्रदानेन । ताम्बूलपर्यन्तस्य शरीरलग्नत्व विशेषणं तूपहासायैव । 3 'आपन्नवत्सलायाः' इत्युक्तौ वत्सलत्वं कुत आविर्भूतम् ? हस्त धिक् टीकाकारम् । आपनेषु विपद्ग्रस्तजनेषु वत्सलायाः स्नेहबयाः (प्रकृतेः ) इति सुप्रसिद्धोऽर्थः । पाठा -१ खिग्धामिन्दीवर स्रवमिव मरकत. २ प्रत्यहं. ४९७ उत्तरभागः । चन्द्रापीडस्यानुतापः ] तं च कादम्बर्याः स्नेहोक्तिपुरःसरं च गम्भीरं च संतापं व सपरिहास च, साभ्यर्थनं च साभिमानं च, सावलेहं च सप्रसादं च, सनिर्वेदं च सानुरागं च, संकोपं च सनिविशेषं च सावष्टम्भं च, सात्मार्पणं च सोत्प्रासं च, सोपालम्भं च सानुक्रोशं च सस्पृहं च सावधारणं च, मधुरमपि दुःश्रवम्, सरसमपि शोषहेतुम् कोमलमपि कठोरम्, नम्रमप्युन्नतम्, पेशलमप्यहंकृतम्, ललितमपि प्रौढमालापमार्केयत्प्रेक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्मतया दुर्विषहदुःखबाष्पोपतायताक्षं तन्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् । , प्रेक्ष्य दृष्ट्वा दृष्ट्वा । आदरार्थे वीप्सा । अथो आलापं विशेषयनाह-गम्भीरमित्यादि । अत्र सर्वत्र चकारो वाक्यालंकारार्थः । गम्भीरं महार्थम् । सतापं तापेन सहवर्तमानम् । सपरिहास परिहासेन सह वर्तमानम् । साभ्यर्थनमभ्यर्थना प्रार्थना तया सहवर्तमानम् । साभिमानं साहंकारम् । सावलेहमवलियत आखा. द्यत इत्यंवलेहो रसस्तेन सहवर्तमानम् । अवज्ञया सहवर्तमानं वा । प्रसादोऽनुग्रहः, गुणो वा, तेन सहवर्तमा नम् । निर्वेदः स्वावमाननं तेन सहवर्तमानम् । अनुरागो भक्तिस्तेन सहवर्तमानम् । कोपः क्रोधस्तेन सहवर्तमानम् । सनिर्विशेषं नितरां विशेष उत्कृष्ट विशेषस्तेन सहवर्तमानम् । सावष्टम्भमवष्टम्भः स्तब्धता तेन सहवर्तमानम्, सात्मार्पणं सहात्मार्पणेन वर्तते यः स तम् । सोत्प्रासं सहोत्प्रासेनोत्कण्ठया वर्तमानम् । सोपालम्भं सहोपालम्भेन वर्तमानम् । सानुक्रोशं सहानुक्रोशेनामर्षेण वर्तमानम् । सस्पृहं सह स्पृहया वाञ्छया वर्तमानम् । सावधारणं विमर्शपूर्वकं च । विरोधाभासेन तमेव विशेषय नाह- मधुरमित्यादि । अत्र सर्वत्रापि शब्दो विरोधाभासालंकारद्योतनार्थः । मधुरमपि मिष्टमपि दुःखेन श्रूयत इति दुःश्रवमिति विरोधः । आभासस्तु शृङ्गाराद्युपयुक्तार्थप्रदत्वलक्षणमाधुर्यस्य विवक्षणात् । सह रसेन वर्तमानमपि शोषस्य हेतुर्निदानमिति विरोधः । आभासस्तु सरसमिति शृङ्गारादिरसोपयुक्तमित्यर्थात् । कोमलं मृदुमपि कठोरमिति विरोधः । आभासस्तु कोमलमनिष्ठुराक्षरत्वमित्यर्थात् । नम्रं नमनशीलमप्युन्नतमुञ्चैस्तर मिति विरोधः । आभासस्तु नम्रं पतत्प्रक षैमित्यर्थात् । पेशलं सुकुमारमप्यहंकृतमिति विरोधः । आभासस्तु हृद्यमित्यर्थात् । ललितं लध्वपि प्रौढं मह दिति विरोधः । आभासस्तु ललितं सुकोमलबन्धमित्यर्थात् । टिप्प०-1 सेहोक्ति पुरस्सरं च गंभीरं च, ससंतापं च सपरिहारं च, साभ्यर्थनं च साभिमानं च, हत्यादिरूपेण परस्परविसंवादिविशेषणद्वयस्य एकत्रसंनिवेशेन कादंबर्या आलापस्य साधारणतोऽतिशयः सूच्यते । यथा हि-तन्त्र नेहोक्तिकातर्ये सत्यपि गाम्भीर्यमस्ति, विरहसंतापे सत्यपि कुमारसमागमप्रत्याशया तस्य विरहस्य परिहारोप्यस्ति ( 'सपरिहासं' च इति कल्पनं तु टीकाकारस्य गभीरा बुद्धिः ) । अभ्यर्थनालाघवं यद्यस्ति तर्हि आत्माभिमानोऽप्यस्ति इति अन्थकारस्य गुम्फनचातुर्यम् । 'मधुरमपि दुःश्रवम्, सरसमपि शोषहेतुम्', इत्यादिना अग्रे तु सोयमर्थः स्वयमेव स्पष्टीकृतः । किन्तु अक्षिणी निमील्य पर्यायशब्दान्वेषणमात्रे व्याकुलस्य टीकाकारशिरोमणेः कृपया मूलपाठस्य तदेतत्स्वारस्यं सर्व कथाशेषम् । 'सकोपं च सात्मार्पणं च, ससद्भावं च सोत्प्रासं च,' टीकाकारेण तदेतन्निर्वासितम् । हन्त कियत्परिशोध्यतां टिप्पणेन ? । 2 हन्त अस्थानेऽयमवलेह स्नेहः ! धिक् । 'सावहेलं च सप्रसादं च,' इत्येव पाठः । अर्थात् तस्मिन्नालापे भवज्ञा यदि प्रकाशिता, तर्हेि प्रसादोऽध्याविष्कृत इति तत्तात्पर्यम् । पाठा० - १ ससंतापम्. २ सावहेलम्, ३ च. ससद्भावं च. ४ आकर्ण्याकर्ण्य ० ५ अभूत्. ६३ का० १९८ कादम्बरी [ कथायाम्अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपगृहीतो हृदये मन्युना, कण्ठे जीवितेन, अधरपल्लवे वेपथुना, मुखे श्वसितेन, नासाग्रे स्फुरितेन, चक्षुषि बाष्पेण तुल्यवृत्तिर्भूत्वा कादम्बर्याः क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुचैः प्रत्युवाच -- 'पत्रलेखे, किं करोमि । अनेन दुःशिक्षितेन ज्ञानाभिमानिना पण्डितंमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतं मिथ्याविकल्पशतसहस्रभरितेनाश्रद्दधानेन मूढहृदयेन यद्यदेवानेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्गतविकारावेदनाय मामुद्दिश्य बाला बलात्कार्यते, तत्तदेवा दृष्टपूर्वत्वाद्धि दिव्यकन्यकानां रूपानुरूपलीलासंभावनया च तावतो मैनोरथानध्यात्मन उपर्यसंभावनया च सर्व सहजमेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयतैवमीदृशस्य देव्या दुःखस्य तव अथेति । पर्याकुलतानन्तरं चन्द्रापीडः क्षरन्यो बाप्पो नेत्राम्बु तस्य विक्षेप इतस्ततः पातनं पर्याकुलानि व्याप्तान्यक्षराणि यत्रेति क्रियाविशेषणम् । उच्चैर्बाढखरेण । पत्रलेखामिति शेषः । प्रत्युवाच प्रत्यब्रवीदिति क्रियासंटङ्कः । किं कृत्वा । कादम्बर्याः समं तुल्या सदृशी वृत्तिर्यस्य सैवंविधो भूत्वा । किंलक्षणः । उत्प्रेक्षते कादम्बरीशरीरादिवालापपदैर्दुः खवचन पदैरेव सहागत्य । एभिरेतेष्वित्यध्याहारः युगपदेकसमये गृहीतः । एभिः कैः, एतेषु केषु इत्यपेक्षायामाह - हृदय इत्यादि । हृदये चित्ते मन्युना क्रोधेन । गृहीत इति पूर्वोक्त सर्वत्र संबध्यते । कण्ठे निगरणे जीवितेन प्राणितेन । वेपथुना कम्पेनाधर एव पल्लव इति रूपकं तस्मिन् । श्वसितेन निःश्वासेन मुख आनने । स्फुरितेन स्फुरणेन नासाग्रे नासिकान्ते । बाष्पेण रोदनेन चक्षुषि । जातावेकवचनम्। किमुवाचेत्याह - पत्रलेखे इति । हे पत्रलेखे, अहं किं करोमि । किंचित्कर्तुं न समर्थ इत्यर्थः । शृङ्गारश्च नृत्तं च तयोरुज्वलदृक्चालनाथ आचार्य उपदेष्टा तेन । शृङ्गारस्य नृत्याचार्येण रङ्गाचार्येणेति वा । भगो माहात्म्यमस्यास्तीति भगवांस्तेन । 'भगोऽर्कज्ञानमाहात्म्यवैराग्यादिषु' इति वैजयन्ती । मनोभवेन कामेन यद्यदनेकप्रकारं मन्युजीवितवेपथुश्वसित परितापादिकं बाला योषितो ( तू ) मामुद्दिश्य मदुद्देशेन बलाद्धठात्कार्यते निष्पाद्यते । किमर्थमित्याह - अन्तरिति । अन्तर्गतो यो विकारस्तस्यावेदनं ज्ञापनं तस्तै । तादर्थ्ये चतुर्थी । तत्तदनेन प्रत्यक्षेण मूढमज्ञानावृतं यहृदयं चित्तं तेन स्वयं कृतमात्मना विहितम् । न तु मयेत्यर्थः । इतो मूढहृदयं विशेषयन्नाह - दुःशिक्षितेनेत्यादि । दुर्दुष्टं शिक्षितमभ्यसितं यस्य तत्तथा तेन । ज्ञाने ज्ञानविषयेऽभिमानोऽहंकारो विद्यते यस्य तत्तथा तेन । पण्डितमात्मानं मन्यते यत्तत्तथा तेन । दुर्दुष्टं विदग्धत्वं छेकत्वं यस्य तत्तथा तेन । दुर्दुष्टा बुद्धिः प्रतिभा यस्य तत्तथा तेन । अलीकेन मिथ्याभिमानेन । धीरं साहसगुणोपेतं तेन मिथ्या विकल्पानामलीकमनोरथानां शतसहस्राणि लक्षास्तैर्भरितमाकीर्ण तेन । न श्रद्दधातीति शास्त्रोक्तं नावधारयतीत्यश्रद्दधानं तेन । कया । अदृष्टपूर्वत्वादनवलोकितपूर्वत्वाद्दिव्या मनोहरा याः कन्यकास्तासां रूपं सौन्दर्य तस्यानुरूपा योग्या या लीला विलासस्तस्याः संभावनोत्कटकोटिकः संदेहस्तया । पुनः कया । आत्मनः स्खस्यो पर्येषा मामिच्छत्येतादृशस्य मनोरथानप्यसंभावनया च । किं कुर्वता मूढहृदयेन । मामेवं ग्राहयता । ग्राहयतिर्द्वि कर्मकः । एवं किम् । अस्याः कादम्बर्या एतत्परितापादिकं सर्वं सहजमेव स्वाभाविकमेव । किंलक्षणं माम् । विकल्पसंशययोर्दोलामधिरूढमाश्रितं तथा । तेनैवेति शेषः । मूढहृदयेनैवेदृशस्य पूर्ववर्णितस्य देव्या कादम्बर्या दुःखस्य तवोपालम्भस्य च हेतुतां नीतः प्रापितोऽस्मि । सर्वं यदसम्यक्तन्मूढहृदयेनैव कृतम् । न मयेति Stav पाठा०—१ अनेन दुरात्मना, २ स्वयंकृत ३ नृत्याचार्येण ४ पूर्वत्वाद्दिव्य ५ मनोरथस्याप्यात्मना; मनोरथानामध्यात्मना. चन्द्रापीडस्यामुताप:] उत्तरभागः । ४९९ चोपालम्भस्य हेतुतां नीतोऽस्मि । मन्ये च ममापि मनोव्यामोहकारी कोऽपि शाप एवायम् । अन्यथाऽप्रबुद्धबुद्धेरपयेषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु मदनचित्रेषु कथं मे धीर्व्यामुह्येत । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकित कथितविहृतलीलालज्जायितानि, यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममकृतपुण्यस्य मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् ? अपि च हिमगृहकवृत्तान्तस्तु तवापि प्रत्यक्ष एव । तत्किमन्त्र प्रणयकोपाक्षिप्तयाध्यन्यथा व्याहतं देव्या ? सर्व एवायं विपर्ययान्मम दोषः । तदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि यथा नेहशमेकान्तनिष्ठुरहृदयं जानाति मां भावः । विचारणान्तर प्रदर्शयन्नाह - मन्य इति । अहमिति मन्ये संभावयामि । इतीति किम् । ममायं कोऽप्यनिर्वचनीयो मनसश्चित्तस्य व्यामोहं वैचित्त्यं करोतीत्येवंशीलः शाप एव विरुद्धाशीर्वचनमेव । उक्तवैपरीये आह - अन्यथेति । शापाभावेऽप्रबुद्धाऽजाग्रद्रूपा बुद्धिः प्रतिभा यस्यैवंविधस्य । मूर्खस्यापीत्यर्थः । येषु स्फुटेषु विशदेषु मदन चिह्नेषु कामलक्षणेषु संदेहो द्वापरो नोपपद्यते न जायते । एतानि दुःखजनकान्येवेति निश्चय एवोत्पद्यत इति भावः । तेष्वपि मदनचिह्नेष्वपीत्यर्थः । कथं मे मम धीर्बुद्धिर्व्यामुह्येत व्यामोहं व्रजेत । तिष्ठन्त्विति । तावदिदानीं तानि स्मितमीषद्धास्यम्, अवलोकितं वीक्षितम्, कथितं जल्पितम्, विहृतमितस्ततो गतम्, लीलया विलासेन लजायितानि त्रपयाचरितानि । एतान्यतिसूक्ष्मतया निकृष्टतया । अत एव दुर्विभावा दुर्जेया वृत्तिर्येषामेवंभूतानि तिष्ठन्तु । एतादृशनिकृष्टचिन्तयाऽलमित्यर्थः । तानि कानीत्याह-या नीति । यानि पूर्वोक्तानि । अन्यथापि स्नेहव्यतिरेकेणापि संभवन्ति । उपपद्यन्त इत्यर्थः । स्वस्मिंस्तस्याः स्नेहं प्रदर्शयन्नाह – चिरेति । चिरं चिरकालमनुभूतः प्राप्तो य आत्मनः स्वस्य । अर्थात्कादम्बर्याः । कण्ठसंसर्गो निगरणसंपर्कस्तेन सुभगं मनोहरमिमं प्रत्यक्षगतं हारं मुक्ताप्रालम्बं तत्क्षणमेव तस्मिन्समय एवाकृतमविहितं पुण्यं सुकृतं येनैवंविधस्य मे मम कण्ठे गले कारयन्त्या प्रक्षेपयन्त्या । सखिद्वारेति शेषः । किमिव नावेदितं किं न ज्ञापितम् । अहं त्वदर्थिनीति तदैव ज्ञापितमिति भावः । अपि चेति । अपि च प्रकारान्तरे । हिमगृहस्य नीहारवच्छीतलसझनो वृत्तान्त उदन्तस्तवापि भवत्या अपि प्रत्यक्ष एव विदित एव । न केवलं ममैवेति भावः । तदिति हेत्वर्थे । अत्रेति । अस्मिञ्जने प्रणयः स्नेहस्तेन तस्माद्वा यः कोपः क्रोधस्तेनाक्षिप्तया प्रेरितया देव्या कादम्बर्या किमन्यथा व्याहृतम् । तदलमनया तदानयनकथयेत्यात्मकमित्यर्थः । सर्व इति । अयं सर्व एव समग्र एव विपर्ययादज्ञानान्मम दोषो वैगुण्यम्, न तु तत्त्वतः । तदिति । तत्तस्माद्धेतोरघुनाहं तथा करोमि रचयामि यथा देवी कादम्बरीदृशमेकान्तेनातिशयेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधं मां न जानाति । । टिप्प० - 1 'अनेन दुःशिक्षितेन' इत्यारभ्य 'नीतोस्मि' इति पर्यन्तस्य दुरूहवाक्यस्य अन्वयानुसारि णीयं व्याख्या - अन्तर्गत विकारस्य (कामवासनायाः) आवेदनाय भगवता मनोभवेन मामुद्दिश्य बाला (कादम्बरी) अनेकप्रकारं यद्यदेव (चेष्टादिकम् ) बलात् कार्यते, तत्तदेव अदृष्टपूर्वत्वात्, दिव्यकन्यकानां रूपस्यानुरूपा सेयं लीलास्तीति संभावनया, एतावतो मनोरथस्य आत्मन उपर्यसंभावनया (कादम्बर्या एतावानभिलाषो मदुपरि स्यादिति न मे संभावनेत्याशयः ), च विकल्प संशययोर्दोलामधिरूढं माम् 'सर्वमेव एतत् अस्याः सहजमेव (मनोबेदना विक्रमादिकं वा यद्यत् प्रकाशित तत्तत् स्वाभाविकमेव, न तु मद्विषयकम् ) ' इति ग्राहयता ( बोधयता) दुःशिक्षितादिविशेषणविशिष्टेन मूढहृदयेन एवमीहशस्य देव्याः (काद०) दुःखस्य तव चोपालम्भस्य हेतुतां नीतोऽस्मि । कामप्रणोदिता या याश्चेष्टा मयि कादम्बर्या कृतास्ताः सर्वा न मामुद्दिश्य, इति मूढहृदयेन मह्यं बोधितम् । अत एव देव्या दुःखं तब चायमुपालम्भो जात इति सर्वस्वाशयः । एतदनुसारेणैव मूलपाठो ज्ञेयः । टीका चानुसंधेया । - १ तेष्वतिस्फुटेषु २ वियुज्यमाना.. पाठा० ५०० कादम्बरी । [ कथायाम्देवी' इत्येवं वदत्येव चन्द्रापीडेऽश्रावितैव प्रविश्य नेत्रहस्ता प्रतीहारी कृतप्रणामा व्यज्ञापयत्- "- 'युवराज, एवं समादिशति देवी विलासवती, कृतजल्पात्परिजनतः श्रुतं मया, यथा किल पृष्टतः स्थिताऽद्य पत्रलेखात्र पुनः परागता' इति । न च मे त्वथ्यस्यां च कश्चिदपि स्नेहस्य विशेषो विलसतीति मयैवेयं संवर्धिता । अपि च तवापि कापि महती बेला वर्तते दृष्टस्य । तदनया सहित एवागच्छ । मनोरथशतलब्धमतिदुर्लभं ते मुखकमलावलोकनम्" इति । चन्द्रापीडस्तु तदाकर्ण्य चेतस्यकरोत् - 'अहो संदेहदोलाधिरूढं मे जीवितम् । एवमम्बा निमेषमपि मामपश्यन्ती दुःखमास्ते । पत्रलेखामुखेन चैवमाज्ञापितमागमनाय मे निष्कारणवत्सलेन देवीप्रसादेन । ओजन्मक्रमाहितो बलवाञ्जननीस्त्रेहः, वाञ्छाव्याकुलं हृदयम्, अमोच्यं तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतकः, हारिणी गुरुजनलालना, दुःसहान्युत्कण्ठितानि, अनुबन्धिनी बान्धवप्रीतिः, कुतूहलिन्यभिनवप्रार्थना, मुखावलोकिनः कुलक- किं कुर्वाणः प्राणैरप्युपयुज्यमानस्तदीप्सितं कुर्वाणः । इत्येवं चन्द्रापीडे वदत्येव कथयत्येव प्रतीहारी द्वारपालिका कृतः प्रणामो ययैवंभूता मातृपरिजनत्वेन कुमारप्रतीहार्यऽश्रावितैवानिवेदितैव प्रविश्य प्रवेशं कृत्वा व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कीदृशी । वेत्रं हस्ते यस्याः सा । हे युवराज, देवी विलासवत्येवं समादिशत्याज्ञापयति । एवं किमित्याह - कृतेति । कृतो विहितो जल्पोऽन्योन्यालापो येनैवंविधात्परिजनतः सेवकवर्गान्मयेति श्रुतमित्याकर्णितम् । इतीति किम् । तदेव दर्शयति - यथेति । किलेति सत्ये । पृष्ठ इति पृष्ठतः । तस्प्रत्ययस्य सार्वविभक्तिकत्वात् । स्थिता विलम्बिता पत्रलेखाद्यास्मिन्नहन्यत्रास्मिन्प्रदेशे पुनः परागता प्रत्यावृत्य समागता । पुनः किं समादिशतीत्याह – न चेति । मे मम त्वयि भवत्यस्यां पत्रलेखायां चेति हेतोः प्रेम्णः कश्चिदपि विशेषो न विलसति । न वर्तत इत्यर्थः इतीति किम् । यत इयं पत्रलेखा मयैव संवर्धिता वृद्धिं प्रापिता । एतेनोभयोरपि मयैव प्रवर्धनात्त्वयि तस्यां च मम स्नेहः समान एवास्तीति ध्वन्यते । पुनः किं समादिशतीत्याह – अपि चेति । अपि च प्रकारान्तरे । तवापि भवतोऽपि दृष्टस्यावलोकितस्य कापि महती गुर्वी वेला कालविशेषो वर्तते । तत्तस्माद्धेतोरनया पत्रलेखया सहित एव समन्वित एवागच्छेहि । त्वमिति शेषः । यतस्ते तव मुखमेव कमलं तस्यावलोकनं वीक्षणमतिदुर्लभमतिदुःप्रापम् । कीदृशम् । मनोरथानां समीहितानां शतैर्लब्धं प्राप्तम् । । तु पुनश्चन्द्रापीड स्तत्पूर्वोक्तमाकर्ण्य श्रुत्वा चेतस्यकरोदचिन्तयत् । एवं किमित्यत आह - अहो इति । अहो इत्याश्चर्ये । मे मम जीवितं प्राणितं कादम्बरीसमीपे व्रजामि उत मातुः संनिधाविति संशयो द्वापरः स एव दोला दोलनं तामधिरूढमाश्रितम् । कथमित्याह -- अम्बेति । एवं अम्बा विलासवती निमेषमपि निमीलितमात्रमपि मां चन्द्रापीडमपश्यन्त्यनवलोकयन्ती दुःखं यथा स्यात्तथास्ते तिष्ठति । तथा निष्कारणं निर्निमित्तं वत्सलेन हितकारिणा देव्याः कादम्बर्याः प्रसादेनानुग्रहेण पत्रलेखामुखेन च पत्रलेखावाक्येन च मे ममागमनायैवमाज्ञापितम् । आजन्मक्रमेति । जनन्या मातुः स्नेहो बलवान्बलिष्ठः । कीदृक् । आजन्मतो जन्म मर्यादीकृत्य क्रमेण मर्यादयाहित आरोपितः । जन्ममर्यादयारोपितत्वमेवास्य विशेषः । विशेषादत्रैव स्थातुमुचित मित्याशयः । हृदयं चेतो वाञ्छाभिरिच्छाभिर्व्याकुलम् । तातस्य पितुश्चरणौ पादौ तयोः शुश्रूषा सपर्या तस्याः सुखभमोच्यं न मोक्तुं योग्यम् । मन्मथहतकः कंदर्पहतकः प्रम नातीत्येवंशीलः प्रमाथी । चित्तोद्वेगकृदित्यर्थः । गुरुजनस्य मात्रादेर्लालना प्रतिपालना हारिणी मनोहरा । दुःसहानि सोढुमशक्यान्युत्कण्ठितान्युत्कण्ठाविषयीभूतांनि । बान्धवानां वजनानां प्रीतिः स्नेहोऽनुबध्नातीत्येवंशीलानुबन्धिनी । गमनविघ्नकारिणीत्यर्थः । अभि नवस्यादृष्टपूर्वस्य वस्तुनः प्रार्थना वाञ्छा कुतूहलिन्याश्चर्यकारिणी । कुलक्रमेण पट्टपरम्परया आगताः प्राप्ता पाठा० -१ श्रावितैव. २ अदृष्टस्य ३ सहैव. ४ खन्मुख ५ जन्म ६ आकुलय; अनुकूल्य. 0 चन्द्रापीडस्य मनसि विचारः] उत्तरभागः । ५०१ मागता राजानः, जीवितफलं प्रियतमामुखावलोकनम्, अनुरक्ताः प्रजाः, गरीयान्गन्धर्वराजसुतानुरागः, दुस्त्यजा जन्मभूमिः, परिग्राह्या देवी कादम्बरी, कालातिपातासहं मनः, विप्रकृष्टमन्तरं हेमकूटविन्ध्याचलयोः' इत्येवं चिन्तयन्त्रेव प्रतीहार्योपदिश्यमानमार्गः पत्रलेखाकरावलम्बी जननीसमीपमगात् । तत्रैव च तमनेकप्रकारजननीलालन सुखाचिन्तितदुर्विषहहृदयोत्कण्ठं दिवसमनयत् । उपनतायां चात्मचिन्तायामिवान्धकारितदशदिशि शर्वर्याम्, अनिवार्य विरह वेदनोन्मध्यमानमानसाकुलेषु कलकरुणमुचैर्व्याहरत्सु चक्रवाकयुगलेषु, उत्तेजित स्मरेशरं समुत्सर्पमाणेषु चन्द्रमसोऽकोल्लधूलिधूसरालोकेष्वप्रमयूखेषु, विजृम्भमाणकुमुदिनीश्वासपरिमलग्राहिणि मँन्द राजानो भूभुजो मुखमाननमवलोकयन्तीत्येवंशीला मुखावलोकिनो वक्रवीक्षकाः । प्रियतमाः स्त्रियस्तासां मुखाबलोकनं वक्रवीक्षणं जीवितस्य प्राणितस्य फलं साध्यम् । प्रजा जनपदवासिनो जना अनुरक्ता अनुरागिणः । गन्धर्वराजसुता कादम्बरी तस्यां तस्या वानुरागः स्नेहो गरीयानतिशयेन गुरुः । दुस्त्यजा दुःखेन मोक्तुं शक्या जन्मभूमिर्जन्मनः खोत्पत्तेर्भूमिः स्थलम् । तदुक्तमन्यत्र - 'जणणी जम्मुप्पत्ती पच्छिमनिद्दा सुभासियं वयणं । मणइठ्ठ माणुस्सं पंच वि दुक्खेहिं मुचंति ॥' जननी जन्मोत्पत्तिः पश्चिमनिद्रा सुभाषितं वचनम् । मनसेष्टो मनुष्यः पञ्चापि दुःखाद्विमुच्यन्ते इति । कादम्बरी देवी परिग्राह्या परिणेतुं योग्या । कालस्यानेहसोऽतिपातो विलम्बस्तं न सहतीत्येवंशीलं मनः खान्तम् । तदीय मिति शेषः । हेमकूटविन्ध्याचलयोरन्तरं विचालं विप्रकृष्टं दूरम् । इत्येवं चिन्तयन्नेव विमृशन्नेव प्रतीहार्या द्वारनियुक्तयोपदिश्यमानः कथ्यमानो मार्गः पन्था यस्यैवंभूतः पत्रलेखायाः करं हस्तमवलम्बत इत्येवंशीलः स तथा जनन्या मातुः समीपमभ्यर्णमगादगमत् । तत्रैव मातुः समीपे तं दिवसं वासरमनयन्निनाय । कीदृशं दिवसम् । अनेकप्रकारं बहुविधं जनन्या मातुर्लालनसुखं तेनाचिन्तिताविज्ञाता दुर्विषहहृदयोत्कण्ठा यस्मिन्स तथा । । रात्रौ विशेषं प्रदर्शयन्नाह - उपेति । उपनतायां च प्राप्तायां च शर्वर्या रजन्याम् । कृष्णत्वसाम्यादाह आत्मचिन्तायामिव चन्द्रापीडो मनसा मनोव्यापारेण स्परस्य कंदर्पस्यायतनभूतं सतां गतं प्राप्तं यत्कादम्बरी रूपं तस्य सस्मार । 'स्मृतौ च' इति सूत्रेण कर्मणि षष्ठी । शर्वरीं विशेषयन्नाह - अन्धकारितेति । अन्धकारिता अन्धकार प्रापिता दशदिशो यस्यां सा तस्याम् । केषु सत्सु । चक्रवाकयुगलेषु द्वन्द्वचरमिथुनेषु सत्सु । किंकलं मधुरं करुणं दीनं यथा स्यात्तथोचैरुच्चस्वरेण व्याहरत्सु ब्रुवत्सु । कीदृशेषु । अनिवार्या निवारयितुमशक्या या विरहवेदना वियोगपीडा तयोन्मथ्यमानानि पीड्यमानानि मानसानि चेतांसि येषां तानि तत्तथा तेषु । पुनः केषु सत्सु । उत्तेजिता निशिताः स्मरशराः कंदर्पवाणा यैरिति क्रियाविशेषणम् । चन्द्रमसः शशिनोकोल्लस्य वृक्षविशेषस्य धूलिः परागस्तद्वद्धूसर ईषत्पाण्डुर आलोकः प्रकाशो येषां ते तथा तेषु । एवंविधेषु समुत्सर्पमाणेषु विस्तरत्वग्रमयूखेषु प्रधानकिरणेषु । पुनः कस्मिन्सति । प्रदोषो यामिनीमुखं तस्यानिले वायौ मन्दं मन्दं शनैः शनैरावातुं प्रचलितुमारब्धे सति । किंलक्षणे प्रदोषानिले । विजृम्भमाणा विकसन्त्यो याः कुमुदिन्यतासां श्वास्येव यः परिमलस्तं गृह्णातीत्येवंशीलः स तथा तस्मिन् । किंलक्षणश्चन्द्रापीडः । टिप्प० -1 प्रियतमायाः (कादम्बर्याः) मुखावलोकनमित्युचितम् । 2 मदीय मित्येवोचितम्, स्वस्यैव कथायाः प्रक्रान्तत्वात् । 3 उन्मध्यमानमानसाश्च ते आकुलाश्च तेषु, अथवा विरहवेदनया उन्मथ्यमानेन मानसेन आकुलेष्वित्युचितम् । 4 'उत्तेजितस्मरशरसमुत्सर्पणेषु' इत्येव पाठो मनोरमः । न हि टीकाकार हवाऽवैयाकरणो मूलकारः । 'गम्ल सृष्ल गतौ' इति धातुपाठात् परस्मैपद्येव 'सृप्' धातुः । उत्तेजिताः स्मरशरा येन तादृशं समुत्सर्पणम् (समुदयः) येषां तेषु सत्सु इति तदर्थः । 5 विकासस्येव, इति तास्पर्यम् । पाठा०-१ अनुरक्ता प्रजा. २ भूमी. ३ वर्मा० ४ अचेतितम् ५ शर. ६ मन्दमन्द, ૧૦૨ कादम्बरी। [ कथायाममन्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलित लोचनोऽप्यप्राप्त निंद्रा विनोदो हेमकूटागमनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम, जानुरोधरोहिणा लग्नेनेव संहतेयोरूर्वोः, उल्लिखितेनेव विस्तारिणि नितम्बफलके, मनेनेव नाभिमुद्रायाम् उल्लसितेनेव रोमराव्याम्, आरूढेनेव त्रिवलिसोपानहारिणि मध्यभागे, कृतपदेनेवोन्नतिविस्तारशालिनि तनतटे, मुक्तात्मनेव बाह्रोः कृतावलम्बनेनेव हस्तयोः, आलिष्टेनेव कण्ठे, प्रविष्टेनेव कपोलयोः, उत्कीर्णेनेवाधरपुढे, प्रथिनेतेव नासिकासूत्रे, समुन्मीलितेनेव लोचनगोः, स्थितेनेव ललाटशालायाम् अन्वितेनेव चिकुरभारान्धकारे, लवमानेनेव सर्वदिक्पथप्लाविनि लावण्यपूरलवे मनसा सस्मार स्मरायतनभूतस्य कादम्बरीरूपस्य । , .9 उत्पन्नात्मीयबुद्धिश्च निर्भरस्नेहार्द्रचेतास्तत एव वासरादारभ्य तां प्रति गृहीतरक्षापरिकर इव यतो यत एव मण्डलितकुसुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत शयने शय्यायां वर्तत इत्येवंशीलः स तथा । पुनः कीदृक् । निमीलिते मुद्रिते लोचने नेत्रे येन स तथा । एवंविधोऽप्यप्राप्तोऽलब्धो निद्रायाः प्रमीलाया विनोदः सुखं येन स तथा । इतो मनो विशेषयन्नाह - हेमकूट इति । हेमकूटादागमनं तस्माद्यः खेदः परिश्रमस्तस्मान्निपत्य पादावेव पल्लवौ तयोरछायातपाभावस्तस्यां विश्रा न्तेनेव गृहीतविश्रामेणेव । जङ्घा नलकीलिनी तामनुरुणद्धीत्येवंशीलो जङ्घानुरोधी जङ्घानलकीलस्तं रोहतीत्येवंशीलं तत्तथा तेन संहतयोर्मिलितयोरूर्वोः सक्नोलनेनेव मिलितेनेव । विस्तारिण्यायते नितम्बावेव फलकं तस्मिन्नुलिखितेनेव चित्रितेनेव । नाभिस्तुन्दकूपिका तस्य मुद्राकृतिविशेषस्तस्यां मनेनेव ब्रुडितेनेव । रोमराज्यां तनूरुहश्रेण्यामुल्लसितेनेवोच्छ्रसितेनेव । तथा त्रिवलिरेव सोपानानि तैर्हारिणि मनोहरे मध्यभागे बलमप्रदेश आरूढेनेवोपविष्टेनेव । उन्नतिरुच्चता, विस्तारो विस्तीर्णता, ताभ्यां शालत इत्येवंशीलं यत्स्तनतटं कुच एंव तटं तस्मिन्कृतपदेनेव विहितस्थानेनेव । बाह्वोर्भुजयोर्मुक्तात्मनेव संस्थापितजीवेनेव । हस्तयोः करयोः कृतावलम्बनेनेव विहितालम्बनेनेव । कण्ठे निगरण आश्लिष्टेनेवालिङ्गितेनेव । कपोलयोर्गल्लात्पर प्रदेशयोः प्रविटेनेव कृतप्रवेशेनेव । अधरपुट ओष्ठपुट उत्कीर्णेनेवोल्लिखितेनेव । नासिका नासैव सूत्रं तस्मिन्प्रथितेनेव गुम्फितेनेव । लोचनयोर्नेत्रयोः समुन्मीलितेनेव विकसितेनेव । ललाटशालायामलिक गृहैकदेशे स्थितेनेवोपवि ेनेव । कृतावस्थानेनेवेत्यर्थः । चिकुरभारः केशकलापः स एवान्धकार तिमिरं तस्मिन्नन्वितेनेव सहितेनेव । सर्वदिक्पथानि प्लावयतीत्येवंशीले लावण्यपूरलवे चातुर्यपूरप्रवाहे लवमानेनेव स्नानं कुर्वाणेनेव । उत्पन्न इति । च पुनस्तत एव वासराद्दिवसादारभ्य मर्यादीकृत्योत्पन्ना संजातात्मीया मदीयत्वलक्षणा. बुद्धिर्यरयां सा तथा । निर्भरः प्रबलो यः स्नेहः प्रेमा तेनार्द्र चेतो यस्यैवंभूतः कुमारस्तां प्रति कादम्बरीं प्रति गृहीत आत्तो रक्षार्थं परिकरः परिच्छदो येनैवंभूत इव । यतो हेतोर्यत एव यस्मादेव मण्डलितं वक्रीकृतं कुसुमकाकिं पुष्पचापं येनैवंभूतं मकरध्वजं कंदर्पमस्या कादम्बर्या प्रहरन्तं ताडयन्तमालोकितवान्दृष्टवान् । ततो हेतो टिप्प० - 1 मुक्तः आत्मा स्वस्वरूपं येन तेनेव । बाह्वोर्मध्ये मनः स्वं मुक्तवदित्यर्थः । मनसो विकल्पनाऽनुचिता । 2 'यतो यतः, ततस्ततः' इति वीप्साया हदमेव तात्पर्य यत् यस्मिन् स्थाने वकाशे वा दृष्टवान् तस्मिन्नेव, अर्थात सर्वत्रैवेति । टीकाकारचूडामणिस्तु तदिदमस्पृशन्नेव विस्वरं लिपति । अहो धन्यं साहसं टीकाकरणे ! । पाठा० -- १ अनुरोधरोहिणा; अनुसाराधिरोहिणा, २ सुसंहतयो: ३ लिखितेनेव ४ सर्वतः ५ लावण्य पयः पूर.. I समुत्पन्न. चन्द्रापीडस्य विरहावस्था ] उत्तरभागः । ५०३ एवात्मानमन्तरेऽर्पितवान् । 'एवमम्लानमालतीकुसुमकोमलतेनौ निर्घृणं प्रहरन्न लज्जसे' इत्यु पालभमान इव दिवसमुत्तरलतारयान्तर्बाप्पया दृष्ट्या कुसुमचापम्, पुनः स्मरशरप्रहारमूच्छितां संज्ञामिव लम्भयितुं तामवयवैरुवाह स्वेदजललैवानुत्ससर्ज च दीर्घदीर्घान्निःश्वासमारुतान् । तचेतनालम्भमुदित इव च सर्वाङ्गीणं क्षणमपि न मुमोच रोमाञ्चम् । सह्यते हृदयेन वेदना न वेति तद्वार्ता प्रष्टुमिव नियुक्तेन मनसा शून्यतामधार्षीत् । तत्प्रतिवार्ताकर्णनायेव च गृहीतमौनः सर्वदैवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् । चन्द्रबिम्बेऽपि नास्य दृष्टिररमत । तदालापपूरितश्रोत्रेन्द्रिय इव न किंचिदंपरमन्तःकर्णं कृतवान् । वीणाध्वनयोध्यस्य बहिरेवासन् । सुभाषितान्यपि न प्रवेशमलभन्त । सुहृद्वाचोऽपि परुपा इवाभवन् । बान्धवजनजल्पितान्यपि नासुखायन्त । भावावगमभीत्येव यथापूर्वं न कस्यचिदर्शन स्तल एव तद्दिवसादेवात्मानमन्तरे मध्येऽर्पितवान्दत्तवान् । एवमिति । अम्लानं सवस्कं यन्मालयाः कुसुमं पुष्पं तद्वत्कोमला सुकुमारा या तनुः शरीरं तस्यां निर्घृणं निष्कृपमेवममुना प्रकारेण । दिवसमित्युपलक्षणमहोरात्रस्य । तेनाहोरात्रं प्रहरंस्ताडयन्न लजसे न त्रपां प्राप्नोषि । उत्प्राबल्येन तरला चञ्चला तारा कनीनिका यस्यां सा तया । अन्तर्मंध्ये बाष्पोऽश्रु यस्यामेवंविधया दृष्ट्या नेत्रेण कुसुमचापं कंदर्पमित्युपालभमान इवोपालम्भ ददान इव । एतेनात्यन्तदैन्यमाविष्कृतम् । स्वेदो घर्मस्तदेव जल तस्य लवा विप्रुषस्तानवयवैरुपघ्नैरुवाहावहत् । च पुनरर्थे । अतिशयेन दीर्घा दीर्घदीर्घास्तानेवंभूतान्निःश्वासमारुतानुत्ससर्जोन्मुमोच । किं कर्तुम् । उत्प्रेक्षते – पुनर्वारंवारं स्मरस्य शरा बाणास्तैः प्रहारस्ताडनं तेन मूच्छितां मोहप्राप्तां तां कादम्बरी संज्ञां चेतनां लम्भयितुमिव प्रापयितुमिव । यथान्यः कश्चिन्मूच्छितस्य स्वेदजललववत्स्वल्पजलं निःश्वाससमानमारुतांश्च मुञ्चतीति वस्तुगतिः । स चन्द्रापीडः सर्वाङ्गे भवः सर्वाङ्गीणस्तं रोमाञ्चं रोमोद्गमं क्षणमपि न मुमोच । क्षणमात्रं तद्विरहितो नाभूदित्यर्थः । उत्प्रेक्षते - तस्याः कादम्बर्याश्चेतना चैतन्यं तस्या आलम्भः प्राप्तिस्तेन मुदित इव हर्षित इव । सह्यत इति । स मनसा शून्यतामधार्षद्वभार । किंलक्षणेन मनसा । तस्यै कादम्वर्यै इति वार्ता प्रष्टुं नियुक्तेनेव प्रेषितेनेव । इतीति किम् । हृदयेन वेदना पीडा सह्यते न वेति । तदिति । गृहीतं मौनमभाषणं येनैवंविधः सर्वदा निरन्तरमतिष्ठदस्थात् । उत्प्रेक्षते - तस्याः कादम्बर्याः प्रतिवार्ता प्रत्युत्तरं तस्या आकर्णनायेव । श्रवणायेवेत्यर्थः । तदाननेति । स सर्वमेव नाद्राक्षीन्नापश्यत् । किंलक्षणं सर्वम् । उत्प्रेक्षते—तस्या आननं मुखं तस्यालोकनं वीक्षणं तेनान्तरितमिव व्यवहितमिव । चन्द्रबिस्व इति । चन्द्रविम्बेsपि शशिमण्डलेऽप्यस्य चन्द्रापीडस्य दृष्टिश्चक्षुर्नारमत न चिरमस्थात् । विरहोत्कर्षे तापकारित्वात् । तदालापेति । स चन्द्रापीड: किंचिदप्यपरं शब्दजातं कर्णस्यान्तरन्तःकर्ण न कृतवान् । द्विकर्मकोऽयं धातुः । उत्प्रे क्षते1- तस्याः कादम्बर्या आलापस्तेन पूरितं भृतं श्रोत्रेन्द्रियं यस्यैवविध इव । कर्णानां करणत्वं दर्शयन्नाह वीणेति । वीणानां वल्लकीनां ध्वनयः शब्दा अस्य चन्द्रापीडस्य बहिरेव बाह्यभूता एवासन्नभूवन् । सुभाषितानीति । सुभाषितानि समीचीनोक्तयस्तान्यपि प्रवेशं मध्यगमनावकाशं नालभन्त न प्राप्नुवन् । सुहृदिति । सुहृदां मित्राणां वाचो वाण्योऽपि परुषा इव कठिना इवाभवन् । बान्धवेति । बान्धवजनस्य बन्धुलोकस्य जल्पितान्यपि कथितान्यपि नासुखायन्त । सुखमिवाचरन्ति सुखायन्ते अद्यतन्यामात्मनेपदेऽसुखायन्त इति रूपम् । भाव इति । यथा येन प्रकारेण पूर्व विरहदशाया अर्वाग्दर्शनं नादानं ददौ तथेदानीमपि । तत्रोटिप्प० - 1 विभिन्नवचनयोः कोयमुपमानोपमेयभावः ? कश्चार्थ : ? अस्तु. सुखं वेदयन्ते सुखायन्ते इति विग्रह उचितः । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । अद्यतन्यामित्यपि प्रलापः, शुकोक्तौ कृवेरुक्तौ वा नेयमद्यतनी घटना । 2 धन्या बुद्धिः ! विरहदशायाः पूर्व यथा दर्शनमदात् तथा इदानीं म ददाविसर्थः । पाठा० - १ तनो:. २ अन्तर्वापाया; खुतबाष्पार्द्रया. ३ लवम् ४ हृदयवेदना ५ चास्य दृष्टिर्नारमत. ६ परिपूरित ७ किंचिदपि. ५०४ कादम्बरी । [ कथाबाम्मदात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्यमानोऽपि गुरुजनत्रपया न सद्यः समुद्धृताद्वारविन्दशयनमभजत । न सरसंबिसलताजा लकानि गात्रेध्वकरोत् । न जललवमौक्तिकक्षोदतार कितान्यजरठपद्मिनीपत्राणि पार्श्वेऽप्यकारयत् । न कुसुमपल्लवस्त्रस्तररचनामादिदेश । नानवरतधारापातोल्लसितशिशिरसीकराबद्धदुर्दिनं ददर्शापि धारागृहम् । न मैकरन्दसंततसंपातशीतलाभ्यन्तराणि हयद्यानलताभवनान्यप्यसेवत । न मलयजजलललितपृष्ठेषु मणिकुट्टिमेष्वप्यलुठदिच्छया । न तुहिनकर करनिकरसंक्रान्तियेषु ललनाकरकलित चन्द्रकान्तमणिदर्पणेष्वप्यसंऋामयदात्मसंपातम् । किं बहुना, नाश्यानहरिचन्दनरसचर्चामप्याचरणाददापयत् । त्प्रेक्षते- -भावस्य चित्ताभिप्रायस्यावगमो ज्ञानं तस्माद्भीतिर्भयं तयेव, यदि कश्चिद्विलोकयिष्यति तदा ज्ञास्यत्येष विरहादेवंभूत इति भीत्येवेत्यर्थः । स चन्द्रापीडः सद्यस्तत्क्षणं समुद्धृतान्युत्खातान्यार्द्राणि जलक्लिन्नानि यान्यरविन्दानि कमलानि तेषां शयनं शय्यां नाभजत नाशेरत । कया । गुरुजना मातृपित्रादयस्तेषां त्रपा लज्जा तयेति सर्वत्र वक्ष्यमाणेषु संबन्धनीयम् । भृशं तापो न भविष्यतीत्याह – अनेति । किंकुर्वाणोऽपि । दयमानोऽपि । कथम् । अन्तर्मध्ये । केन । मदनहुतभुजा कंदर्पवहिना । कीदृशेन । अनवरतं मुक्ता ज्वाला येनैवंभूतेत्यर्थः । नेति । सरसानि जलार्द्राणि बिसानि मृणालानि तेषां लता वल्लयस्तेषां जालकानि समूहा गात्रेध्वङ्गेषु नाकरोन्नान्वतिष्ठत् । पूर्वोक्तहेतोरेवेति भावः । नेति । जललवा अम्भो (द) बिन्दवस्त एव मौक्तिकक्षोदास्तैतारकतानि तारावंदाचरितानि यान्यजरठानि कोमलानि पद्मिनीपत्राणि नलिनीदलान्यपि । व्यस्तक्रमोऽत्रापिशब्दः । पार्श्वे पृष्ठे नाकारयत् । सेवकैरिति शेषः । नेति । कुसुमानां पलवाः प्रत्यप्रदलानि, कुसुमानि च पल्लवाश्चेति द्वन्द्वसमासो वा, तेषां स्रस्तरस्तस्य रचनां नादिदेश नादिष्टवान् । नेति । स चन्द्रापीडो धारागृहमपि न ददर्श नाद्राक्षीत् । किंलक्षणं धारागृहम् । अनवरतं निरन्तरं धारापातेनोल्लसिता ये शिशिराः शीतलाः सीकरा घातास्तजलविप्रुषस्तराबद्धं दुर्दिनं भेघजं तमो यस्मिंस्तत्तथा । नेति । स चन्द्रापीडो हर्म्येषु गृहेषु यदुद्यानं तस्य लता वल्लयस्ता एव भवनानि गृहाण्यपि नासेवत नाभजत । किंलक्षणानि । मकरन्दस्य मरन्दस्य संतत निरन्तरं संपातः संपतनं तेन शीतलानि शिराण्यभ्यन्तराणि मध्यभागा येषां तानि । न मलयजेति । स मणीनां कुट्टिमानि बद्धभूमिकानि । 'कुट्टिमं त्वस्य बद्धभूः' इमि हैमः । तेष्वपीच्छयेहया नालुठन्नाशेरत । किंलक्षणेषु । मलयजस्य चन्दनस्य जलं पानीयं तेन लुलितान्याद्रकृतानि पृष्ठानि येषां तेषु । नेति । स ललनानां योषितां करास्तैः कलिता धृता ये चन्द्रकान्तमणिभिः खचिता दर्पणा आदर्शास्तेष्वप्यात्मनः खस्य संपातं प्रतिबिम्बं न संक्रामयन्न संक्रामणमकारयत् । किंलक्षणेषु । तुहिनकरश्चन्द्रस्तस्य करनिकरः किरणसमूहस्तस्य संक्रान्तिः संक्रमस्तया हृद्या मनोहरास्तेषु । किं बहुनेति । किंबहुना किं बहुजल्पितेन । चरणौ मर्यादी कृत्याचरणं तस्मादाश्यानमीषच्छुष्कं यद्धरिचन्दनं तस्य रसस्तेन चर्चा पूजा तामपि नादापयद्दातुं न प्रेरयति स्म । टिप्प० – 1 समूहान् इत्याशयः । 2 पद्मिनीपत्राणि न तारावदाचरितानि । अत एव जललवमौक्तिकक्षोदै: तारकितानि ( संजाताः तारका येषु तानि ) इतच् । 3 समीपे इत्युचितम् । 4 आत्मनः संतापं तेषु न संक्रामयामासेति 'संतापम्' इति पाठ उचितः प्रतिभाति । चन्द्रकान्तसान्निध्यात्तापस्य लाघवमिति । 'असंक्रामयत्' इति तु मन्ये लेखकदोष: स्यात्, अन्यथा 'समक्रामयत्' इत्युचितम् । पाठा० -१ जालानि, २ अजठर; जरठ. ३ निपात ४ मकरन्दसंपात, ५ तुहिनकरनिकर ६ संतापम्. ५०५ बिरहावस्था ] उत्तरभागः । एवमेव केवलं रात्रौ दिवा चाकृतंनिर्वृतिराज्वलताध्यदहनात्मकेन दहताव्यक्षतस्त्रेहेन्धनेन दुःखानुभवनायैव भस्मसाद कुर्वता मदनदहनेनान्तर्बहिश्च काथ्यमानदेहः शोषमगात्, आतां पुनः प्रतिक्षणाधीयमानवृद्धिं नात्याक्षीत् । एवं च निष्प्रतिक्रियतया दुस्त्यजतया वौतिविसंस्थुलेनोपास्य मानोऽपि मनसिजेनाकारमेव लोकलोचनेभ्योऽरक्षत्, न कुसुमशरसायकेभ्यो जीवितम् । तनोरेव तानबमङ्गीचकार, न लज्जाया: । शरीरस्थितावेवानादरं कृतवान्, न कुलस्थितौ । प्रजा एवान्वरुध्यत, न मन्मथोत्कलिकाः । सुखमेवावधीरयामास, न धैर्यम् । एवं चास्य पुरः कादंबरीरूपगुणावष्टम्भाहितप्राणेन बलवतानुरागेणाकृष्यमाणस्य, पश्चागुरुजनप्रतिबन्धहढतरेण महीयसा सेहेन च वार्यमाणस्य, गम्भीरप्रकृतेः सरिस्पतेरिव चन्द्रमसा सुदूS एवमिति । स चन्द्रापीडो मदन एव दहनो वह्निस्तेनान्तर्हृदये बहिरवयवादौ क्वाथ्यमान उत्काल्यमानो देहः शरीरं यस्यैवंविधः शोषं क्षीणत्वमगात्प्राप । किलक्षणः । एवमेव पूर्ववत् । रात्रौ निश्यपरं दिवा दिवसेऽकृताsविहिता निर्वृतिमैनःस्वास्थ्यं येन सः । किंलक्षणेन मदनदहनेन । आ समन्ताज्वलता प्रज्वलता । पुनः कीदृशेन । अदहनात्मकेनावहिस्वरूपेणापि दहता भस्मीकुर्वता । पुनः कीदृशेन । न क्षतमक्षीणं स्नेहलक्षणमिन्धनमेधो येन स तथा सेन । पुनः किं कुर्वता । दुःखस्यासातस्यानुभवनं साक्षात्करणं तस्मै तदर्थमेव । तादर्थ्ये चतुर्थी । सर्वं भस्म भस्मसादकुर्वताऽघटयता । शरीरव्यतिरेकेण दुःखानुभवाभावादिति भावः । शरीरशोष आर्द्रता न भवतीत्याशयेनाह - न पुनरिति । न पुनरार्द्रतां मृदुतां स्नेहवत्तां वाऽत्याक्षीत्तत्याज । आर्द्रतां विशेषयाह-प्रतीति । प्रतिक्षणं प्रतिसमयमाधीयमानारोष्यमाणा वृद्धिर्यस्याः सा ताम् । एवं चेति । स लोकानां जनानां लोचनानि नेत्राणि तेभ्य आकार मिङ्गितमरक्षक्षयामास । परं कुसुमशरः कामस्तस्य सायका बाणासेभ्यो जीवितं प्राणितं नारक्षत् । किंविशिष्टः सः । उपास्य मानोऽपि सेव्यमानोऽपि । केन । मनसिजेन कामेन । किंलक्षणेन । अतिविसंस्थुलेनातिव्याकुलेन । वीक्षापनेनेति यावत् । तन्निदानमाह - नि प्रतीति । निर्गता प्रतिक्रिया प्रतीकारो यस्यां क्रियायां तस्या भावस्वत्ता तथा । दुःखेन त्यज्यत इति दुस्त्यजस्तस्य भावस्तत्ता तया वा । तनोरेवेति । तनोः शरीरस्य तानवं कृशत्वमङ्गीचकार स्वीचक्रे । न लजायाखपायाः । लज्जाधिक्यमेवाङ्गीकृतवानिति भावः । शरीरेति । शरीरस्य देहस्य स्थितिर्धारणं तस्यामेवानादरणमनाग्रहं कृतवान् । न कुलस्याभिजनस्य स्थितौ मर्यादायाम् । प्रजा इति । प्रजा एव प्रकृतिरेवान्वरुध्यत न्यवार्यत । न मन्मथस्य कंदर्पस्योत्कलिका उत्कण्ठाः । सुखमिति । स चन्द्रापीडः सुखमेव सौख्यमेवावधीरयामासावगणयामास । न धैर्यं न साहसम् । एवं चेति । एवं पूर्वोक्तप्रकारेणास्य चन्द्रापीडस्य कादम्बर्या रूप सौन्दर्य गुणो गाम्भीर्यादिस्तयोरवष्टम्भेनावलम्बे नाहिताः स्थापिताः प्राणा येनैवंभूतेन बलवता बलिष्ठेनानुरागेगाभ्यन्तरलेहेन पुरोऽम आकृष्यमाणस्य हठान्नीयमानस्य, गुरुजनो मातृपित्रादिस्तस्य प्रतिबन्धः प्रतिरोधस्तेन दृढतरेणातिनिबिडेन महीयसातिमहता स्नेहेन प्रीत्या च पश्चात् पृष्ठे वार्यमाणस्य पृष्ठे निषिध्यमानस्य । केन कस्येव चन्द्रमसा शशिना सुदूरमति विप्रकृष्ट मुल्ला स्यमानस्यापि गम्भीरप्रकृतेरलब्धमध्यस्य । राजपक्षे गम्भीर स्वभावCom टिप्प० -1 आकारम् भाकृतिम् विरहसूचिकामाकृतिं न प्रकटयामासेति तात्पर्यम् । 2 सेयं ठीकाकारस्य बुद्धिः । न किल विरहिणां सेवकभावमङ्गीकरोति कामः । अत एव 'आयास्यमानः' इत्येव पाठः । खेद्यमान इति तदर्थः । 3 अतिविषमेण ( दारुणेन ) इत्यर्थः । 4 न बराकोऽर्थमबुध्यत । कर्मणि प्रत्ययः अत एव 'अन्वरुध्यन्त' इत्येव पाठः । चन्द्रापीडेन प्रजा एव अम्वरुध्यन्त अकाम्यन्त अर्थात् प्रजानामेवाऽनुरोधः कृतः, न मन्मथोत्कण्ठानामिति सदाशयः । पाठा० - १ निर्वृतिना. २ दुःखानुभावनायेव. ३ चाति ४ आयास्यमानोऽपि, ५ कुलक्रमस्थितौ ६ अन्वरुध्यन्त. ७ कृष्यमाणस्य. ८ गम्भीर, ६४ का० ५०६ कादम्बरी । [ कथायामर मुलायमानस्यापि मर्यादावशादात्मानं स्तम्भयतः कथंकथमपि कतिपयेष्वपि सहस्रंसंख्यायमानेष्वतिक्रान्तेषु वासरेषु, एकदा र्यास्तरसङ्गशीतशीकरांसारमहन्ति रणरणकसकाशादिवान्तरलब्धावस्थानो निर्गत्य बहिर्नग कलकणितकलहंस चक्रवाकचक्रवालाक्रान्तसरससुकुमारसैकतानि सिप्रातटान्यनुसरन्, युज्यमानांश्च विरलीभवतश्च संघट्टमानांश्च विश्लिष्यतःचो. तसहमानांश्च लम्बमानांश्च परापततश्च विच्छिन्नपेवस्थानान्स्खलतोऽपि पततोऽव्यवसीदतोऽपि च यथाशक्ति सादिभिरुत्पीडितान्निः सहतया दूरागमनखेदमतित्वरया बागमनकार्यगौरबमावेदयतो दूरादेवातिबहूनिव तुरंगमानद्राक्षीत् । दृष्ट्वा चोत्सन्नकुतूहलतेषां परिज्ञानायान्यतमं पुरुषं प्राहिणोत् । आत्मनाप्यूरुद्नेन पयसोस्य । एवंभूतस्य सरित्पतेः समुद्रस्येव मर्यादावशात् । राजपक्षे कुलक्रमागत स्थितिः । समुद्रपक्षे जलागमनलक्षणा च मर्यादा तद्वशादात्मानं स्वं स्तम्भयतो रक्षतः कथंकथमपि महता कष्टेन कतिपयेषु कियत्सु सहस्रसंख्यायमानेषु सहस्रसंख्या मिवाचरमाणेषु वासरेषु दिवसेष्वतिक्रान्तेषु गतेषु सत्सु एकदा एकस्मिन्समये रण रणकै सकाशादिवौत्सुक्य पार्श्वोदिवान्तर्मध्येऽलब्धमप्राप्तमवस्थानमवस्थितिर्येनैवंभूतो नगर्या अवन्त्या बहिर्नि गेय बहिरागत्य दूरादेव दूरत एवातिबहूनिव तुरंगमानश्वानद्राक्षीदपश्यत् । किं कुर्वन् । तरङ्गाणां वीचीनां सङ्गः संस्पर्शस्तन शीताः शीतला ये शीकरा बातास्तवारीणि तेषामासारा वर्षणं येष्वेवंविधा मरुतो वायवो येषु तानि । कचित् 'सीकरसाराणि' इति पाठः । कलानि मनोहराणि क्वणितानि शब्दितानि येषामेवंविधा ये कलहंसाः कादम्बाश्चक्रवाका द्वन्द्वचरास्तेषां चक्रवालं समूहस्तेनाकान्तानि व्याप्तानि सरसानि सजलानि सुकुमाराणि कोमलानि सैकतानि सिकतामयानि सिप्रानयात्रटानि तीराण्यनुसरजाश्रयन् । तुरंगमान्विशेषयन्नाह - युज्येति । युज्यमानान्परस्परं योगं प्राप्नुवतः । अविरला विरलाः संपद्यन्त इति विरलीभवतस्तान् । एकीभवत इत्यर्थः । संघट्टन्ते संयुज्यन्त इति संघट्टमानास्तान् । आस्फाल्य माना नित्यर्थः । विश्लि ध्यत इति । विश्लिष्यतः । भिनीभवत इत्यर्थः । तान् । उत्सहन्त इत्युत्सहमानास्तान् । उत्साहयुक्तानित्यर्थः । लम्बन्त इति लम्बमानास्तान् । खशरीरं दीर्घीकुर्वतः । परा सामस्त्येनापतन्त आगच्छन्तस्तान् । विच्छिन्नं विच्छेदं प्राप्त पङ्ख्या लेखयावस्थानं येषां ते तथा तान् । धावतां पङ्किविच्छेदः प्रत्यक्षसिद्ध एव । स्खलत इति स्खलतस्तान्स्खलनां प्राप्नुवतः । अत एव पततोऽपि गिरैतोऽपि । अत एवावसीदतोऽप्यवसादनं प्राप्नुवतोऽपि । शक्तिमनतिक्रम्य यथाशक्ति सादिभिरश्ववारैरुत्पीडितानुत्प्राबल्येन पीडितांस्ताडितान् । सहनं सहः निर्गतः सहो येभ्यस्ते निःसहास्तेषां भावस्तत्ता तया । असमर्थतयेत्यर्थः । दूरादागमनं तज्जनितो यः खे प्रयासस्तमतित्वरयातिशीघेणागमनं तेन यत्कार्यस्य कृत्यस्य गौरवं गुरुत्वं चावेदयतः परेभ्यो ज्ञापयतः । C दृष्ट्वा चेति । दृष्ट्वा विलोक्योत्पनं प्रकटीभूतं कुतूहलमाश्चर्य यस्यैवंभूतस्तेषां तुरंगमाणां परिज्ञानाय कस्येमे इति ज्ञानार्थमन्यतमं पुरुषं प्राहिणोहितवान् । ऊरु परिमाणं यस्यैवंभूतेन पयसा जलेनात्मनापि सिप्रानदीमुत्तीर्य तस्मिन्नेव स्थले भगवतो माहात्म्यवतः कार्तिकेयस्य षण्मुखस्यायतने चैले तस्य प्रहितपुरुषस्य टिप्प० - 1. टीकाकारस्य बुद्धिवैभवमेतत् । 'रणरणकव शादिवान्तरलब्धावस्थानः' इत्येव पाठः । उत्कण्ठावशादिव अन्तः राजभवन स्याभ्यन्तरे न लब्धमवस्थानं येन । राजभवने स्थातु मशक्नुवनित्याशयः । 2 धन्या भाषा ! सत्यावश्यकत्वे अश्यमानानिति वक्तव्यम् । पाठा •१ अन्तरलब्ध. २ तरङ्गशीत ३ आकारमरुन्ति; असाराणि ४ नातिदूरमिव चरणाम्यामेव बभ्रामं । आम्यंश्च रुद्रतनया (सुता) यतनं रयेणागच्छतः सावष्टम्भया गत्या त्वरितखुरसंचारान्युज्यमानांश्च ५ पङ्किव्यवस्थानम् ; शिव्यवस्थितान्. ६ दूरगमन. ● 1 आगच्छतः केयूरकस्यावलोकनम् ] उत्तरभागः । २५०७ BA तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रतिवार्ता प्रतिपालयन्नतिष्ठत् । तत्रस्थश्च कुतूहलात्तस्मिन्नेव वाजिवृन्दे निक्षिप्तदृष्टिः पार्श्वस्थितां हस्तेनाकृष्य पत्रलेखामवादीत् - 'पत्रलेखे, पश्य। ये एष पुर एवार्ककिरणनिवारणोल्लासितया प्रेङ्खदालोललम्बशिखया मयूरपिच्छमय्या वढिकया दुर्विभाव्यवदनोऽश्ववारो ज्ञायते, केयूरकोऽयम्' इति । यावत्तया सहैव निरूपयत्येव, तावत्तस्मात्प्रहित पुरुषादुपलब्धात्मावस्थानं दृष्टिपथ एवावतीर्य तुरंगमादापतन्तं दूराहुतागमन धूलिधूसरश्यामीकृतशरीरं परिवर्तित मिवेतर कारेणोज्झिताङ्गराग संस्कारमलिनेन. वपुषा विषादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एवार्पेष्टामपि कष्टां का दम्बरीसमामवस्थामनक्षरमावेदयन्तं केयूरकमद्राक्षीत् । bo दृष्ट्वा च दर्शितप्रीतिरेयेहीत्याहूय सैसंभ्रमप्रणतोपसृतमतिदूरप्रसारिताभ्यां दोय पर्यप्रतिवार्ता प्रत्युत्तरं प्रतिपालयन्विलोकयनतिष्ठत्तस्थौ । तत्रस्थ इति । तत्र चैले स्थितथ कुतूहलात्कौ तुकात्तस्मिन्नेव पूर्व प्रतिपादित एव वाजिवृन्देऽश्वसमूहे निक्षिप्ता स्थापिता दृष्टिर्हग्येनैवंभूतः पार्श्वस्थितां समीपस्थां पत्रलेखां हस्तेन करेणाकृष्याकर्षणं कृत्वावादीदवोचत् । किमवादीदित्याह – पत्र लेखे इति । हे पत्रलेखे, पश्यावलोकय । य एष पुरोऽग्र एवार्ककिरणाः सूर्यरश्मयस्तेषां निवारणे दूरीकरण उल्लासितयोल्लासं प्राप्तया प्रेङ्खन्ती दीप्यन्ती आलोला चञ्चला लम्बायता शिखाग्रं यस्याः सा तथा तया । मयूरपिच्छेः कलापिबर्निष्पना मयूरपिच्छमयी । 'प्राचुर्यविकारायें' इति मयद । तयैवंविधया वङ्ककया शीकरिण्या दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं वदनमाननं यस्यैवंभूतोऽश्ववारोयं केयूरक इति ज्ञायते संभाव्यते । स यावद्यावत्का लं तया सह पत्रलेखया सममेवं निरूपयत्येव कथयत्येव, तावत्कालं तस्मात्प्रहित पुरुषात्प्रेषितनरादुपलब्धं ज्ञातमात्मनः स्वस्यावस्थानमुपवेशनं येनैवंभूतं केयूरकं कादम्बर्या अनुचरमद्राक्षीदपश्यदिति दूरेणान्वयः । किं कुर्वन्तं केयूरकम् । दूरादापतन्तमागच्छन्तम् । किं कृत्वा । अंवतीर्यावरोहणं कृत्वा । कस्मात् । तुरंगमाद श्वात् । कस्मिन् । दृष्टिपथ एव दृग्विलोकन एव । चन्द्रापीडस्येति शेषः । दृष्टेः पन्था दृष्टिपथः । 'ऋक्पूरब्धूःपथामानक्षे' इत्यच् । इतः केयूरकं विशेषयनाह - द्रुत इति । द्रुतं शीघ्रं यदागमनं तेन धूल्या रजसा धूसरमीषत्पाण्डुरमत एव श्यामीकृतं शरीरं यस्य सः । उत्प्रेक्षते - इतरो भिन्नो य आकार आकृतिस्तेन परिवर्तितमिव विनिमयीकृतमिव । उज्झितो दूरीकृतो योऽङ्गरागो विलेपनं संस्कारश्चाधिवासनं ताभ्यां मलिनेन कश्मलेन वपुषा शरीरेण विषादो हर्षा भावस्तेन कृत्वा शून्येन निस्तेजसा मुखेनाननेन चान्तर्मध्ये यद्दुःखमसातं तस्य संभार: समूहस्तस्य पिशुनया ज्ञापिकया दृष्ट्या च चक्षुषा च दूरत एव दूरप्रदेशादेवापृष्टा मध्य प्रश्न विषयीकृतामपि कष्टं बिद्यते यस्यां सा कष्टा ताम् । अस्त्यर्थेऽप्रत्ययः । एवंविधां कादम्बर्याः समां अवस्थां दशामनक्षरं वाग्व्यापाररहितं यथा स्यात्तथावेदयन्तं ज्ञापयन्तमद्राक्षीदिति । अन्वयस्तु पूर्वमेवोक्तः । दृष्ट्वा चेति । दृष्ट्वा च विलोक्य च तं केयूरकं दर्शिता प्रकटिता प्रीतिः स्नेहो येनैवंभूतो दोर्भ्यां भुजाभ्यां पर्यप्वजताश्लिष्यत् । किं कृत्वा । एत्येत्यागच्छेत्याहूयाह्वानं कृत्वा । कीदृशं केयूरकम् । ससंभ्रमेणादरेण प्रणतश्वासावुपसृतश्च तम् । न त्वपसरन्तमित्यर्थः । कथंभूताभ्यां दोर्भ्याम् । अतिदूरं प्रसारिते विस्तारिते ताभ्याम् । टिप्प० - 1 छत्रिकया । स्वल्पं छन्त्रम् । 2 ' कादम्बरीसमवस्थाम्' इत्येव पाठः । कादम्बर्याः समव.. स्थाम् (अवस्थितिम्) इति तदर्थः । .3 संभ्रमेण मादरेण, इत्येवो चिंतम् । पाठा -१ य एव पुरुषः पुरः २ छत्रिकया. ३ अवस्थानम्. ४ अपृष्टम् ५ ससंभ्रमप्रणयप्रणत. 1 ५०८ कादम्बरी । [ कथायामध्वजत तम् । अपसृत्य पुनः कृतनमस्कारे तस्मिन्ननामयप्रश्नवचसा संवर्ग्य सर्वानेव तत्सहायान्पुरः स्थितं पुनः पुनः सस्पृहमालोक्य केयूरकसवादीत् - 'केयूरक, त्वदर्शनेनैव भद्रं देव्याः सपरिवारायाः कादम्बर्या इत्येतदावेदितम् । आगमनकारणमपि विश्रान्तः सुखितः कथयिष्यसि' इत्युक्त्वा संभ्रान्तागतारोहकढौकितां करिणीमारुहा 'कुतोऽस्य जनस्य सुखिता' इत्यभिदधानमेव केयूरकं पृष्ठतः कृत्वा पत्रलेखां चारोग्य स्वभवनमयासीत् । तत्र च निषिद्धाशेषराजलोकप्रवेशः प्रविश्य बल्लभोद्यानं सपरिवारेण केयूरकेण सहोत्ताम्यता चेतसाऽचेतितमेव दिवसकरणीयं निर्वर्तयामास । निर्वर्यै च पत्रलेखाद्वितीयः सुदूरोत्सारितपरिजनः केयूरकमाहूयाब्रवीत् – 'केयूरक, कथय देव्याः कादम्बर्याः समदलेखाया महाश्वेतायाश्च संदेशम्' इत्यभिहितवति चन्द्रापीडे पुरः सप्रश्रयमुपविश्य केयूरकोऽध्येवादीत् - Ca 'देव, किं विज्ञापयामि नास्ति मयि संदेशलवोऽपि देव्याः कादम्बर्याः समदलेखाया अपसुत्येति । अपसरणं कृत्वा पुनः कृतो विहितो नमस्कारो नतिर्येनैवंभूते तस्मिन्केयूरके सत्यनामयस्य प्रश्नः पृच्छा तस्य वचस्तेन सर्वानेव समधानेव तस्य केयूरकस्य सहायान्सहागतासंवर्ग्य संतोष्यं पुरः स्थितमप्रतः स्थितं पुनः पुनः सस्पृहं साभिलाषमालोक्य समीक्ष्य चन्द्रापीडः केयूरकमवादीदवोचत् । किमवादीदित्याश। हे केयूरक, तव मालोकनं तेनैव सपरिवारायाः सपरिच्छदाया देव्याः कादम्बर्या भद्रं कल्याणमित्येतदावेदितं कथितम् । आगमनेति । स चन्द्रापीड: स्वस्थ भवनं गृहमयासीदगच्छदित्यन्वयः । किं कृत्वा । आगमनकारणं निदानं तदपि विश्रान्तः कृतविश्रामः सुखितः संजातसुखः स स्वं कथयिष्यसि निवेदयिष्यसीत्युक्त्वा प्रोच्य । कचित् 'सुखी नः कथयिष्यसि' इति पाठो दृश्यते । तेन नः अस्माकमिति तस्यार्थः । पुनः किं कृत्वा । संभ्रान्तः ससंभ्रम आगतो य आरोहको हस्तिपकस्तेन ढौकितामा• नीतां करिणीं हस्तिनी मारुयारोहणं कृत्वा अस्य केयूरकलक्षणस्य जनस्य कुतः कस्मात्सुखिता इत्यभिदधानमिति ब्रुवन्तमेव केयूरकं पृष्ठतः पृष्ठप्रदेशे पत्रलेखां चारोप्यारोपणं कृत्वेत्यर्थः । स्वभवन मयासीदित्यन्वयस्तु प्रागेवोक्तः । तत्र चेति । स चन्द्रापीडो दिवसकरणीयं वासरकृत्यं निर्वर्तयामास कृतवान् । किं कृत्वा । सह परिवारॆण परिच्छदेन वर्तते यः स सपरिवारः एवंभूतेन केयूरकेण सह समं वलभमुद्यानमारामं प्रविश्य प्रवेशं कृत्वा । किलक्षणः सः । निषिद्धो निवारितोऽशेषाणां समग्राणां राजलोकानां प्रवेशो येन सः । कीदृशं दिवसकरणीयम् । उत्ताम्यतातिव्याकुलेम चेतसाऽचेतितमेवाज्ञातमेव । निर्वर्त्य चेति । स चन्द्रापीडः केयूरकमाहुयाह्वानं कृत्वानवीदवोचत् । किं कृत्वा । निर्वर्त्य विधाय । दिवसकरणीयमिति शेषः । चन्द्रापीडं विशेषयनाह-पत्रलेखेति । पत्रलेखेव द्वितीया यस्य सः सुदूर दूर उत्सारितो दूरीकृतः परिजन: सेवकवर्गो येन सः । किमजवी दिव्याशयेनाह - केयूरक इति । है केथूरक, देव्याः कादम्बर्याः समदलेखाया मदलेखया सह वर्तमानाचाः । कादम्बर्या विशेषणम् । महाश्वेतायाश्च संदेशं वाचिकं कथय निवेदयेति चन्द्रापीडेऽभिहित ति कथितवति सति पुरोऽये सप्रश्रयं सविनयमुपविश्य निषद्य । केयूरकोऽप्यवादी दुवाच । किसुवाचेयाह -- देव इति । देव, किं विज्ञापयामि कि विज्ञप्तिं करोमि । यदादिष्टं तदेव वदेत्याहनास्तीति । मयि विषये देव्याः कादम्बर्याः समददेखाया महाश्वेताया वा संदेशलवोऽपि वाचिकादेशोऽपि टिप्प०-11 नेयं गुस्फनशय्या कवेः । अव एवं 'संवर्ध्य' (समाहत्य) इत्येव पाठः । -१ संवर्ध्य; समावर्ज्य. २ विश्रान्तमुखितः ३ निबर्तयामास ४ निवर्त्य ५ अगादीत्. ·0 कादम्बरीदशानिवेदनम् ] उत्तरभागः । 9 महाश्वेताया वा । यदैव पत्रलेखां मेघनादाय समर्थ्य प्रतिनिवृत्य मयाथं देवस्योज्जयिनीगमनवृत्तान्तो निवेदितः, तदैवोर्ध्वं विलोक्य दीर्घमुष्णं च निःश्वस्य सनिर्वेदम् ' एवमेतत् ' इत्युक्त्वोत्थाय महाश्वेता पुनस्तपसे स्वमेवाश्रमपदमाजगाम । देव्यपि कादम्बरी झटिति हृदये दुषणेनेवाभिहता ह्यतर्कतापतिताशनिनेव मूर्ध्नि ताडिता, अन्तःपीडाकूणन निमीलितेन चक्षुषा मूर्च्छितेव, मुषितेव, परभूतेष वश्विदेव च उन्मुक्तेव चान्तःकरणेन, अविदितमहाश्वेतागमनवृत्तान्ता, चिरमिव स्थित्वोन्मील्य नयने, विलक्षेव, लजिंतेव, विस्मृतेष, विस्मयस्तब्धदृष्टि: 'महाश्वेतायाः कथय' इति सासूयमिव मामादिश्य, मदलेखायां पुनर्वलितमुखी सविलक्षस्मितम् 'मदलेखे' अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा यत्कुमारेण चन्द्रापीडेन इत्येवमभिदधत्युत्थाय निवारिताशेषपरिजनप्रवेशा शयनीये निपत्योत्तरवाससोत्तमाङ्गमवगुण्ठ्य निर्विशेषहृदयवेदनां मदलेखामध्यनालपन्ती सकलमेव तं दिषसमस्यात् । परेच प्रातरेवोपसृतं माम् ' एवं दृढतरशरीरेषु त्रियमाणेष्विव भवत्स्वहमीदृशीमव। नास्ति न विद्यते । तन्निदान माह - य दैवेति । यदैव यस्मिन्नेव क्षणे पत्रलेखां मेघनादाय समर्प्य समर्पणं कृत्वा प्रतिनिवृत्य परावृत्य मया केयूरकेण देवस्य भवत उज्जयिन्यामवन्त्यां यद्गमनं तस्य वृत्तान्त उदन्तो निवेदितः कथितः, तदैव तस्मिन्नेव क्षण ऊर्ध्वं विलोक्य निरीक्ष्य दीर्घमायतमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा सनिर्वेद स्वावमाननसहितं यथा स्यात्तथा । एतदेवमेव निश्चयेन चन्द्रापीडो गत इत्युक्त्वोत्थानं कृत्वा महाश्वेता पुनस्तपसे तपोऽर्थ स्वमेवात्मीयमेवाश्रमपदं स्थानमाजगामाययौ । कादम्बर्यपि सकलमेव तं दिवसमस्थादतिष्ठदिति दूरेणान्वयः । इतः कादम्बरीं विशेषयन्नाह – झटिति तत्कालं हृदये खान्ते द्रुघणेन घनेनाभिहतेव ताडितेव । अतर्कितम चिन्तितमापतितो योऽशनिर्वज्रं तेन मूर्ध्नि मस्तके ताडितेवाभिहतेव । अन्तःपीडा मानसी व्यथा तया कूणनं क्रन्दनं तेन निमीलितेन मुद्रितेन चक्षुषा त्रेत्रेण मूर्चिछतेव मोहं प्राप्तेव । मुषिलेव गृहीतसर्वस्खेव । परिभूतेव पराभवं प्रापितेव । वञ्चितेव वञ्चनाविषयीकृतेव । अन्तःकरणेन चित्तेनोन्मुक्तेव त्यक्तेव । अविदितोऽज्ञातो महाश्वेताया गमनवृत्तान्तो यया सर्वभूता कादम्बरी चिरमिव बहुकालमिव स्थित्वा नयने नेत्रे उन्मील्योन्मुद्य, विलक्षेत्र वीक्षापन्नेव लज्जितेव, त्रपितेव, विस्मृतेव विस्मरणं प्राप्तेव, विस्मय आश्चर्यं तेन स्तब्धा दृष्टियेस्या एवंभूता महाश्वेतायाः कथय निवेदय । चन्द्रापीडो गत इति शेषः । इति सासूयं सेर्घ्यं मामादिश्य प्रतिपाद्य, मदलेखायां विषये पुनर्वलितं मुखं यस्या एवंविधा सती विलक्षं यत्स्मितं तेन सह वर्तमानं यथा या मदलेखे, केनचिदनिर्दिष्टनाम्ना परेणैतद्गमनलक्षणं कृतमस्ति । करिष्यते वा यत्कुमारेण चन्द्रापीडेन कृतमिति । एवमभिदधती कथयन्त्युत्थायोत्थानं कृत्वा निवारितो दूरीकृतोऽशेषपरिजनस्य समग्रसेवकलोकस्य प्रवेशो यया सा शयनीये शय्यायां निपत्य पतनं कृत्वोत्तरवाससोत्तरीयवस्त्रेणोत्तमा शिरोऽवगुण्ठ्याच्छाव निर्गतो विशेषो यस्या एवंविधा हृदयवेदना चित्तपीडा यस्यास्ताम् । समानदुःखामित्यर्थः । एवंभूतां मदलेखामप्यनालपन्त्यभाषयन्ती सकलमेव तं दिवसमस्थादित्यन्वयस्तु प्रागेवोक्तः । परेधुश्चेति । अपर दिने प्रातरेव प्रभात एवोपसृतमागतं मामित्युपालभमानेवोपालम्भं ददानेव । इतीति किम् । एवं पूर्वोक्तप्रकारेण दृढतरमतिशयेन कठिनं शरीरं येषामेवंभूतेषु भवत्सु केयूरकप्रभृतिषु । उत्प्रेक्षते -म्रियमाणेष्विव मरणं प्राप्यमाणेष्विवाहं कादम्बरीदृशीमवस्थां दशामनुभवाम्यनुभव विषयीकरोमि । पार्श्ववर्तिभिः टिप्प० - 1 अप्रतिभेव । 2 महाश्वेतायाः कारणादेव ममेयं दशा, यतस्तयैव कुमारोऽत्रानीतः । अत एव तस्यै ममेमां दशां निवेदयेति सासूयमुच्यते । टीकाकारस्तु न बुद्धवानाशयम् । 3 ग्राम्यप्रियोयं पाठः । न हि कविरेवमीलं लपेत् । अतो 'प्रियमाणेष्वेव' इत्येव पाठः । अर्थात् भवत्सु वर्तमानेष्वेव । •१ समयगतेन. २ प्रतिनिवर्त्य ३ अयोधनेन. ४ शुष्काशना. ५ मिलितेन. ६ उन्मत्ता ७ लक्षितेव. ८ अपरेधुः ९ दृढशरीरेषु. १० म्रियमाणेष्विव. पाठा०0 ५१० कादम्बरी । स्थामनुभवामि' इत्युपालभमानेव, 'न मे भवद्भिः पार्श्ववर्तिभिः कार्यम्' इति निर्भर्त्सयन्तीव 'किं मे पुरस्तिष्ठसि' इत्यन्तर्मन्युवेगेन तर्जयन्तीव च बाष्पपूरोद्रेको कम्पपर्याकुलया दृष्या चिरमालोकितवती । तया दृष्टश्च तथादुःखितया देव्यादिष्टमेव गमनायात्मानं मण्यमानोऽहमनिवेद्यैव देव्यै देवपादमूलमुपागतोऽस्मि । तच देवैकशरणजनजीवित परित्राणाकुलमतेः केयूरकस्य विज्ञापनाकर्णनावधानदानेन प्रसादं कर्तुमर्हसि [ कथायाम्- देव, श्रूयताम् । यदैव ते प्रथमागमनेनामोदिना मलयानिलेनेव चलितं समस्तमेव तत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं भवन्तमालोक्य वसन्तमिव, रक्ताशोकतरुलता मिवारूढ वाम्मकरकेतनस्ताम् । इदानीं तु महान्तमायासमनुभवति त्वदर्थे कादम्बरी । तैस्या हि दिनकरोदयादारभ्य दिवसकरकान्तोपलानलस्येव निःशब्दस्थापवनेरितस्याधूमस्याभस्मनः प्रज्वलतो मकरध्वजहुतभुजो न परिजनकरकमलकलित कोमलपल्लवसमीपस्थायिभिर्भवद्भिर्मे मम न कार्य न कृत्यमिति निर्भर्त्सयन्तीव निर्भर्त्सनां कुर्वन्तीव । मे मम पुरोऽने किं तिष्ठसीत्यन्तर्मन्युवेगेनान्तःको धरयेण तर्जयन्तीव तर्जनां कुर्वन्तीव । तथा बाष्पो नेत्राम्बु तस्य पूर: प्रवाहस्तस्योद्रेक आधिक्यं तेन य उत्प्राबल्येन कम्पो वेपथुस्तेन पर्याकुला व्याप्ता तया दृष्टया दृशा चिरं बहुकालमालोकितवती निरीक्षितवती । तथादुःखितया तेन प्रकारेण दुःखं प्राप्तया देव्या कादम्बर्या दृष्टोऽवलोकित आत्मानं गमनायादिष्टमेवाज्ञापितमेव मन्यमानोऽहं देव्यै कादम्बर्यै अनिवेद्यैवाननुज्ञाप्यैव देवस्य भवतः पादमूलं चरणसमीपमुपागतोऽस्म्यायातोऽस्मि । तञ्चेति । तत्तस्मात्कारणाद्देव एव भवानेवैकः शरणं यस्यैवंविधो यो जनः कादम्बरीलक्षणरतस्य जीवितं प्राणितं तस्य परित्राणं रक्षणं तस्मै आकुला मतिर्यस्यैवंभूतस्य केयूरकस्य विज्ञापना विज्ञप्तिस्तस्या आकर्णनं श्रवणं तस्मिन्नवधानदानेन चित्तप्रदानेन प्रसादं कर्तुं त्वं देवोऽर्हसि योग्यो भवसि । > हे देव, श्रूयतामाकर्ण्यताम् । विज्ञयन्त र मिति शेषः । यदैव यस्मिन्नेव क्षणे ते तव प्रथमागमनेनाद्यागमनेन । उत्प्रेक्षते - आमोदिना सुगन्धिना मलयानिलेनेव मलयमारुतेनेव समस्तमेव समग्रमेव तत्कन्यकालतावनं कन्यका एव लतास्तासां वनं चलितं क्षुब्धम् तदैव तस्मिन्नेव क्षणे सकलं यद्भुवनं जगत्तस्य मनोभिरामं चेतोरुचिरं वसन्तमिव भवन्तं त्वामालोक्य निरीक्ष्य रक्ता याऽशोकतरुलता तामिव तां कादम्बरी मकरकेतनः कंदर्प आरूढवान्प्रविष्टवान् । इदानीं त्विति । सांप्रतं तु तवार्थः प्रयोजनं तस्मिन् । निमित्ते सप्तमी । तथा च त्वन्निमित्तं कादम्बरी महान्तमायासं श्रममनुभवति । करोतीत्यर्थः । तस्या इति । हीति निश्चये । तस्याः कादम्बर्या दिनकरस्य सूर्यस्योदय उद्गमनं तस्मादारभ्य । तन्मर्यादी कृत्येत्यर्थः । दिवसकरकान्तोपलो. हर्षंत्तस्यानलो वहिस्तस्येव मकरध्वज एव हुतभुग्वहिस्तस्य प्रज्वलतो दीप्तिमतः परिजनः सेवकवर्गस्तस्य करा एव कमैलानि तैः कलिता घृता ये कोमलपलवा मृदुकिसलयानि तेषां लायलीला नृत्यक्रीडा तथा न प्रसरभङ्गो न प्रचारहानिः । उभयानलयोः साम्यं प्रदर्शयन्नाह - निःशब्दस्येति । निर्गतः शब्दो ध्वनि विशेषो यस्मात्स तस्य, अपवनेरितस्य न पवनेन वायुनेरितः प्रेरितस्तस्य, अधूमस्य न विद्यते धूमो दहनकेतनो यस्मिन्स तस्य । अभस्मनो न विद्यते भस्म भूतिर्यस्मिन्स तस्य । एतेन सूर्यकान्तानलेन निःशब्दत्वादिधर्मैः सायं टिप्प० -1 मलयानिलेन आमोदिना सुगन्धिना, भवदागमनेन भामोदिना हर्षजनकेन, 'प्रमोदामोदसंमदाः' इत्यमरः । 2 सूर्यस्पर्शेनाभिजनकः सूर्यकान्तमणिः । 3 परिजनहस्तेषु कमलत्वारोपणं बाण पुत्रस्य स्थूलतैव । पाठा०===१ दृष्टश्च तथा दुःखितया; दृष्टश्च दुःखितया . २ अर्हति देवः । देव श्रूयताम्. ३ तथाहि. कादम्बर्मा विरहावया ] उत्तरभागः । लास्यलीलया प्रसरभङ्गः । व्युपरमः । नानुत्तालतालवृन्तवान्तजलजङकणिकासारसेकेन निवृत्तिः । न सरसहरिचन्दनपच्छटाच्छुरणेन छेदः । न विदलितमुक्ताफलवालुकापटलोलनेन नोत्कीलितय त्रमयकलहंसपकिमुताम्बुधारेण धायगृहेण प्रशमः । यथा यथा बलितजलयण विगलिताभिरतिशिशिर शीकरनिकरतारकिताभिरम्बुधाराभिराहन्यते तथा तथा वैद्युतानलसहोदर इव स्फुरति मदनपावकः । सुतरां च शिशिरः कुन्दकलिकाकलापमञ्जरीमिव विकासयति स्वेदजललवजालकसंततिमुपचारः । चित्रं चेदम् । मकरकेतुहुतभुजा दयमानमध्यनिशौच मंशुकमिव नितरां निर्मलीभवति लावण्यम् । मन्ये च बदुखभावमपि जलमिव मुक्ताफलतामुपगतं कठिनीभवत्युत्कण्ठितं हृदयमबलाजनस्य, यत्तादृशेनातिसंतापेनापि न विलीयते । बलवती खलु वल्लभजनसंगमाशा, यत्तथाविधमध्यनुभववेदनाविहलितप्राणमतिशीतलद्रव्यादिना तदितरवहेरेतस्य भिन्नत्वमाविष्कृतमिति भावः । नानुत्तालानि यानि तालवृन्तानि व्यजनानि तेभ्यो या वान्ताः पतिता जलस्य जडाः शीतलाः कणिकास्त्रासामासारो वर्षणं तेन सेकः सिश्चनं तेन निवृत्तिर्नाश: ः । अस्य मकरध्वजहुतभुज इति पूर्वेणान्वयः । न सरसेति । सरसो यों हरिचन्दनपको घर्षितश्चन्दनद्रवस्तस्य छटया धारया छुरणं सिञ्चनं तेन न छेदो विनाशः । विदलित इति । नत्र बिदलितानि स्फोटितानि यानि मुक्ताफलानि मौक्तिकानि तेषां वालुकाः सिकतास्तासां पटलानि समूहास्तै रुबूलन मुद्वर्तनं तेन व्युपरमो निवृत्तिः । नो कीलित इति । न चोत्कीलिता उत्कोरिता या यन्त्रमया यत्रनिष्पन्चाः कलहंसपङ्ख्यः कादम्बश्रेणयस्ताभिर्मुक्ता अम्बुधारा यस्मिन्नवंभूतेन धारागृहेणं यत्रधारासदनेन प्रशमः प्रशमनम् यथा यथेति । इयं कादम्बरी यथा यथा अम्बुनोऽम्भसो धाराभिराहन्यत आच्छोट्यते, तथा तथा मदनपावकः कंदर्पवह्निः स्फुरति दीप्तिमान्भवति । किंलक्षणो मदनवह्निः । उत्प्रेक्षते - विद्युतोऽयं वैद्युतः स चासावनलश्च तस्य सहोदर इव बन्धुरिव । किंलक्षणाभिरम्बुधाराभिः । चलितं कम्पितं यजलयां ततो विगलिताभिः पतिताभिः । पुनः किंलक्षणाभिः । अत्यन्तं शिशिरः शीतलो यः शीकरनिकरो वाताक्षिप्तजलकणसमूहस्तेन तार किताभिर्नक्षत्रिताभिः । सुतरां चेति । उपचारः प्रतिक्रिया खेदस्य धर्मस्य जललवा अम्भः कणास्तेषां जालकानि युगपदनेकेषां पातलक्षणानि तेषां संततिः समूहस्तां विकासयति प्रगुणीकरोति । तर्धुष्णो भविष्यतीत्याशयेनाह - सुतरां चेति । सुतरामतिशयेन शिशिरः शीतलः । अधिकविरहिणो विधुरपि सवितरतीत्यादिवदेतस्याः शिशिरोऽप्युपचारोऽधिकतर उष्णो बभूवेत्यर्थः । कीदृशीं संततिम् । कुन्दस्यं कुसुमं कुन्दः पुष्पवृक्षो वा तस्य कलिकाः कोरकास्तासां कलापः समूहस्तस्य मञ्जरीमिव । वर्णनीयाया जललवसंततेः कुन्दकलिकाकलापमञ्जरीसदृशसंभावनयोत्प्रेक्षालंकारः । तदुक्तम् – 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति काव्यप्रकाशे । चित्रमिति । इदं चित्रमाश्चर्यम् । इदं किम् । मकरकेतुरेव हुतभुग्वहिस्तेम दह्यते ज्वाल्यत इति दयमानं ज्वाल्यमानमपि लावण्यं सौन्दर्य नितरामतिशयेन निर्मलीभवति विशदीभवति । कीदृशं लावण्यम् । उत्प्रेक्षते – अभिना शौचं शुद्धमंशुकं वस्त्रमिव । मन्य इति । अहमिति मन्ये जाने । इतीति किम् । अबलाजनस्य स्त्रीजनस्य मृदुखभावमपि कोमलमप्युत्कण्ठितं हृदयं मुक्ताफकतामुपगतं मौक्तिकत्वं प्राप्तं जलमिव पानीयमित्र कठिनीभवति । दृढीभवति । यदिति हेत्वर्थे । यतो हेतोस्तादृशेनातिसंतापेनापि न विलीयते न बिलयं गच्छति । बलवतीति । खलु निश्चचैन वल्लभः प्रियो यो जनस्तस्य संगमो मेलापकस्तस्याशा वाञ्छा बलवती बलीयसी । यद्यस्मात्कारणात्तथाविधो योऽनुभवः साक्षात्कारस्तेन या वेदना पीडा तया विह्वटिप्प० – 1 अग्निना शौचं शुद्धिर्यस्य ईडशमिति वाच्यम् । पाठा७-१ निवृत्तिः, निर्वृति: २ उजूननेन. ३ दन्त. ४ कापि ५ प्राणाम् S ५१२ कादम्बरी । [कथायाम्कष्टं प्राण्यते । किं करोमि, कथय कथं कथ्यते, कया वृत्त्या वर्ण्यते, कीदृशेनोपायेन प्रदर्श्यते, केन प्रकारेणावेद्यते, कथा युक्त्या प्रकाशयते, कतमया वेदनयोपनीयते । तदुत्कण्ठास्वप्नेषु विगैलितवेदनाः स्फुटं प्राणिनः, प्रतिदिवसं दृश्यमानोऽपि यन पश्यसि तामीहशीमवस्थाम् । प्रचण्ड किर्रणसहस्रातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि निर्जिता तथा निजोष्मणा । निष्करुणेन चाकारणवामेन कामेन मध्यमानास्तास्ताश्चेष्टाः करोति । तथा हि । सासोढमदनवेदने त्वमतिकठिने मनसि निवससि' इति मृदुनि कुसुमशयने कथमपि सखीW लिताः प्राणा यत्रेति क्रियाविशेषणम् । अतिकष्टं मया प्राण्यते जीव्यते । किं करोमीति । प्रतिदिवसं प्रतिवासरं दृश्यमानोऽपि साक्षात्क्रियमाणोऽपि तामीदृशीं पूर्वव्यावर्णितामवस्थां दशां यन पश्यसि यन्न जानासि तत्कथय ब्रूहि किं करोमि किं कुर्वे । कथं कथ्यते केन प्रकारेण भण्यते । कया वृत्त्या आरभट्यादिकया वर्ण्यते वर्णनाविषयीक्रियते । कीदृशेनोपायेन सामादिना प्रदर्श्यते हग्विषयीक्रियते । केन प्रकारेणावेद्यते निवेद्यते । कया युक्त्या युक्तिरुपपत्तिस्तया केन हेतुना वा प्रकाश्यते प्रकटीक्रियते । कतमया कतरया वेदनया ज्ञानेनोपनीयते प्राप्यते । निश्चयकोटिमिति शेषः । यदा तु 'उपमीयते' इति पाठस्तदा कतमया वेदनया पीडयोपमां प्राप्यत इत्यर्थः । दृश्यमानोऽपि न पश्यसीति तस्य वैगुण्यं परिजिहीर्षुराह- तदुरकण्ठेति । तदुरकण्ठै।लक्षणेषु स्वप्नेषु निद्रादृष्टान्तःकरणजन्येषु ज्ञानेषु विगलितवेदना विगतदुःखाः स्फुटं प्रकटं प्राणिनोऽसुमन्तः स्युः । तेन त्वमप्युत्कण्ठा निद्रां प्राप्तो विगतवेदनो जानन्नपि न जानासीति फलतीत्यर्थः । प्रचण्डेति । प्रचण्डानि तीव्राणि यानि किरणसहस्राणि तेषामातपो वर्चस्तं सहन्त इत्येवंभूतानि शयनीकृतानि शय्यीकृतानि कमलानि पद्मानि म्लानिं ग्लानिमुपनयन्त्या प्रापयन्त्या तया कादम्बर्या निजोष्मणा स्वकीयतापेन दिवसकरमूर्तिरपि दिवसकरबिम्बमपि निर्जिता तिरस्कृता । तथा निष्करुणेन निर्दयेनाकारणवामेन निर्हेतुकप्रतिकूलेन । अर्थात्कामेन मध्यमाना विलोड्यमानास्तास्ताश्वेष्टाः कायव्यापाररूपाः करोति निर्मिमीते । तदेव दर्शयति — तथा हीति । सासोढा मदनस्य कंदर्पस्य वेदना पीडा यया तस्याः संबोधनं हे सांसोढमदनवेदने । अतिकठिनेऽतिकर्कशे मनसि चित्ते । चन्द्रापीडस्येति शेषः । त्वं निवसस्यवतिष्ठसीति कृत्वा मृदुनि सुकुमारे कुसुमशयने पुष्पशय्यायां सखीजनेन कथमपि महता कष्टेन टिप्प० - 1 पुनः प्रमाद: । केयूरकस्य सेयमुक्तिः, अत एव 'तया' इत्युचितम् । 2 'उपमीयते' इत्येव पाठः । 'उपनीयते' इति तु श्रवणेध्यसमञ्जसम् । 3 हन्त ! किमकाण्डे प्रलपति महाभागः । उत्कण्ठालक्षणः स्त्रप्तः ? कोऽस्यार्थ: ? अस्तु. सर्वमिदमज्ञानम् 'कतमया वेदनयोपमीयते । बलवती सदु: त्कण्ठा । स्त्रप्तेषु विगलितचेतनाः स्फुटं प्राणिनः ।' इति पाठः । 'स्वप्ने दृश्यमानोपि तद्वेदनां न दूरीकर्तुमिच्छसि' । इति शङ्कायाः परिहारार्थ माह – स्वभेषु ( दृश्यमानाः ) प्राणिनः स्फुटं विगलितचेतनाः चैतन्य विहीना भवन्ति । यतो हि प्रतिदिनं दृश्यमानोपि तस्यास्तादृशीमवस्थां न पश्यसि । यदि चैतन्यं स्वात्तर्हि अवश्यं तस्या दुर्दशां पश्ये: इत्यर्थः । किन्तु टीकाकारचूडामणिः 'बलवती तदुत्कण्ठा' एतद्धडितमुत्कण्ठा पदं 'स्वप्नेषु विग०' इत्यग्रिमवाक्यस्थेन 'स्वमेषु' इत्यनेन संयोज्य 'उत्कण्ठास्त्रमेषु' इति पदमाविष्कुर्बनलौकिकं तद्व्याख्यानमाह भाग्यं नः ? 4 सासोढेति प्रलापस्य कोर्थ: ? अस्तु अत्रापि ग्रन्थचूर्णीकर. णम् । सोढा मदनवेदना येन तादृशे । अत एव अतिकठिने मनसि ( चन्द्रापीडस्य) वससि । ततश्च कठिनस्थले निपतितत्वात्ते पीडा स्यादिति सखीभिः सा मृदुनि कुसुमशयने पात्यते । सोढमदनवेदने (सप्तम्येकवचनम् ) सा इत्यनयोर्योोगेन 'सासोढमदनवेदने !' इति संबोधनजन्म ! १ Q पाठा -१ उपमीयते. २ बलवती तदुत्कण्ठा स्वप्नेषु. ३ बिगलितचेतनाः ४ प्रतिदिनम् ५ तादृशीम्. ६ दिनकरकिरण ७ वामनेन. ८ कथ्यमानाः • कादम्बर्या बिरहदशा ] उत्तरभागः । ५१३ जनेन पात्यते । कुसुमशयनगता च संतापगलितचरणतलाल क्तकलव पाटलितैश्च शय्याकुसुमैः कुसुमंशरेण सरतामुपनीतैः सरुधिरैरिव हृदयात्पतितैर्भयमुपजनयति । सर्वाङ्गीणमनङ्गशरनिवारणाय कवचमिव भवदनुस्मरणरोमाञ्चमुहति । रोमाञ्चिनि कुचयुगले श्वासगलितमंशुकं निदधाना त्वत्पाणिग्रहण तृष्णया कण्टकशयनत्रवलीलामिष दक्षिणकरकमलमैनुमावयति । वामं तु वामकपोलभैरजडाङ्गुलिमुल्लसत्पद्मरागवलयप्रभांशुरज्यमानं ज्वलितमदनहुताशनविष्ठष्यमाणमिव हस्तकमलं विधुनाति । नलिनीदलव्यजनपवनविक्षिप्यमाण कर्णकुँवलयं वदनमजस्रस्रवदनुभयपलायमानलोललोचनमिव विभर्ति । प्रतिक्षणं क्षामतां व्रजन्ती न केवलं मङ्गलवलयम्, पतनभयेन दोलायमानं हृदयमपि मुहुर्मुहुः पाणिपल्लवेनारुणद्धि । शिशिरवारिक्षोदक्षरिण्या लीलाकमलमालिकयेव वपुषि निहितया सखीजनहस्तपरम्परया परिक्ला । । पात्यते शयनं कार्यते । च पुनरर्थे । कुसुमशयनंगता पुष्पशव्यां प्राप्ता कादम्बरी तस्याः संतापेन गलितो यश्च रणतलालक्तकः पादतलयानकरसस्तस्य लवो लेशस्तेन पाटलितैः श्वेतरक्तीभूतैः शय्याकुसुमैः शयनीयपुष्पैः कुसुमशरेण कामेन शरतां बाणतामुपनीतैः प्रापितैः सरुधिरैः सशोणितैर्हृदयात्पतितैरिव स्रस्तैरिव भयं भीतिमुपजनयत्युत्पादयति । सर्वाङ्गीणमिति । सर्वाङ्गीणं समप्रदेहव्यापिनं भवतस्तवानुस्मरणमनुचिन्तनं तस्माद्यो रोमाञ्चो रोमोद्गमस्तमनङ्गस्य कंदर्पस्य शरा बाणास्तेषां निवारणं दूरीकरणं तदर्थ कवचमिव संनाहमिवोहति धारयति । या रोमाञ्चिनि रोमोद्गमवति कुचयुगले पयोधरयुगे श्वासेन निःश्वासेन गलितं स्रस्तं यदंशुकं वस्त्रं निदधाना स्थापयन्ती तव पाणिग्रहणस्य तृष्णया वाञ्छया कण्टकशयनमेव व्रतं तस्य लीलामिव दक्षिणकरकमलमपसव्यपाणिपद्ममनुभावयत्यनुभवविषयीकरोति । वामं त्विति । वामभागवत यः कपोलो गल्लात्परप्रदेशस्तस्य भरो भारस्तेन जडाः स्तब्धा जाता अङ्गुलयो यस्यैवंभूतमुल्लसद्विकसत्पद्मरागवलयं लोहितककटकं तस्य प्रभाया अंशवः किरणास्तै रज्यमानं रक्तीक्रियमाणं । ज्वलितो यो मदन एव हुताशनो वह्निस्तेन विलष्यमाणमिव प्रज्वा ल्यमानमिव वामं हस्तकमलं करकमलं विधुनाति कम्पयति । 'धूञ् कम्पने' स्वादिः त्रयादिश्च । एतेन सात्विक भाव उक्तः । स्वभावोक्तिं वर्णयन्नाह - नलिनीति । नलिन्याः कमलिन्या दलानि पत्राणि तेषां व्यजनं तालवृत्तं तस्य पवनो वायुस्तेन विक्षिप्यमाणमितस्ततः क्रियमाणं कर्णयोः श्रवणयोः कुवलयं कुवलयपत्रं यस्मिन्नेवंभूतं बदनं मुखमजस्रं निरन्तरं सवत्क्षरददश्रु नेत्राम्बु तस्माद्यद्भयं भीतिस्तेन पलायमानं नश्यमानं लोललोचनमिव तरलनयनमिव बिभर्ति धारयति । प्रतिक्षणं अनुक्षणं क्षामतां शरीरकृशतां व्रजन्ती कादम्बरी, तव विरहेणेव्यर्थः । न केवलं मङ्गलवलयं सौभाग्यकटकं पतनभयेन हस्ताच्युतिभीत्या दोलावचंचलत्वमाचरन्तं किन्तु हृदयमपि स्वान्तमपि मुहुर्मुहुर्वारंवार पाणिपलवेन करकिसलयेनारुणद्ध्यावरणं करोति । करपल्लवे मुखस्य हृदये च करस्य व्यवस्थापनम् । विरहिजनस्वभावोऽयमिति भावः । शिशिरेति । शिशिरं शीतलं यद्वारि जलं तस्य क्षोदः पृषत्तं क्षरतीत्येवंशीलया वपुषि शरीरे निहितया स्थापितया संखीजनस्य हस्तपरम्परया पाणिश्रेण्या । क्षरद्वारिसाम्यादुत्प्रेक्षते – लीलायै क्रीडार्थ कमलानां पद्मानां मालिकयेव परिक्लाम्यति । ग्लानिं प्राप्नोतीत्यर्थः । टिप्प० -1 अश्रुभयेन पलायमाने अर्थात् पलायनोद्यते अत एव लोले चञ्चले लोचने यस्मिन् तारशम् । लोलतायां अश्रुभयस्य हेतुत्वमुत्प्रेक्ष्यते । अयमाशयो ज्ञेयः । पाठा०- -१ सखीनां सर्वाङ्गीणम्. २ तृप्तया ३ दक्षिणं. ४ अनुभवति ५ भरसजलाङ्गुलिम्. ६ विधुनोति. ७ कुवलयदलं. ८ रुणद्धि. ६५ का० ५११ कादम्बरी । [ कथायाम्, क्यति । तथा च चरणयुगलेन रसनाकलापम्, नितम्ब विस्तारेण मध्यम्, संगमाशया हृद यम्, हृदयेन भवन्तम्, उरसा बिसिनीपलाशप्रावरणम् कण्डेन जीवितम्, करकमलेन कपोलपालीम्, त्वदालापेनाश्रुपातम्, ललाटफलकेन चन्दनलेखिकाम्, अंसेन वेणीमधुना धारयति । त्वरिक्षया विघटमानं हृदयमभिवाञ्छति । गोत्रस्खलनेनेव जीवितेन लज्जते । प्रियसख्येन मूर्च्छया मनसि मुहुर्मुहुः स्पृश्यते। परिजनेनेव च रणरणकेन मदनपैरवशा कुसुमशयनादुत्थाप्यते । परिचारिकयेवार्त्या स्रस्ताङ्गी संचार्यते । मुहुः पवनप्रेङ्गोलितमुस्कपठाव्यजनपल्लवभङ्गभयकम्पितमिव लतामण्डपमधिवसति । मुहुः सत्कोशकलिकं बिसवलयसंरक्षणरचिताञ्जलि पुदमिव स्थलकमेलिनीवनमधिशेते । मुहुरुद्वन्धनभयादिव निरन्तर किस4 (9 a एतेन विरहाधिक्यमाविष्कृतम् । तदेव प्रपञ्चयन्नाह - तथा चेति । अधुना सांप्रतं चरणयुगलेन पादयोर्युग्मेन रसनाकलापं कटिमेखलां धारयति धत्ते । एतेन कटि प्रदेशस्य कृशत्वमाविष्कृतम् । नितम्बेति । नितम्ब आरोहस्तस्य विस्तारेण विष्कम्भेन मध्यं बिलग्नम् । धारयतीत्यस्य सर्वत्रानुषङ्गः । संगमेति । संगमस्य मेलापकस्याशा वाञ्छा तयैव हृदयं स्तनान्तरम् । धारयतीत्यर्थः । तदुक्तम् – 'आशाबन्धः कुसुमसदृशं प्रायशो .यजनानां सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि' इति । हृदयेनेति । हृदयेन 'सर्व वाक्यं सावधारणमि त्युक्तेर्भवन्तमेव त्वामेव धत्ते । नान्यमित्यर्थः । उरसेति । उरसा वक्षस्थलेन बिसिन्या नलिन्याः पलाशानि पत्राणि तेषां प्रावरणमुत्तरीयकं धारयति । विरहजनितदाहोपशामकत्वेन तद्धारणमिति भावः । कण्डेन निगरणेन जीवितं प्राणितम् । एतेन कण्ठगतप्राणा सांप्रतं समस्तीति ध्वनितम् । करेति । करकमलेन पाणिपद्मेन कपोलपालीं गल्लात्परप्रदेशलेखां धत्ते । विरहिजनस्वभावोक्तिरियम् । त्वदिति । तव संबन्धी य आलापस्त्वत्किवदन्ती तेनाश्रुपातं रोदनम् । ललाटेति । ललाटफलकेन भालपट्टेन चन्दनलेखिकां मलयजरचनाम् । एतेन तदितरालंकृतिशून्यत्वं सूचितम् । अंसेनेति । अंसेन स्कन्धेन वेणीं प्रवेणीम् । एतेन केशानामनियन्त्रितत्वमाविष्कृतम् । त्वदिति । तव दिदृक्षा द्रष्टुमिच्छा तथा हृदयं स्तनान्तरं विघटमानं भेदमापद्यमानमप्यभिवाञ्छति समीहते । हृदयविघटनेन तदन्तस्थायिनस्तव चक्षुषा दर्शनं स्यादिति भावः । गोत्रेति । सा कादम्बरी जीवितेन प्राणितेन लज्जते त्रपते । केनेव । गोत्रस्य नानः स्खलनं विपर्ययेण ग्रहणं तेनेव । प्रिय सख्येवेति । मुहुर्मुहुर्वारं वारं मूर्च्छया मोहेन मनसि चित्ते स्पृश्यत आलष्यते । कयेव । प्रियसख्येव वल्लभवयस्ययेव । परीति । रणरणकेनोत्कण्ठया मदनपरवशा कामपराधीना कुसुमशयनात्पुष्पशयनीयादुत्थाप्यत उत्थानं कार्यते । केनेव । परिजनेनेव । परिच्छदजनेनेव । परीति । आर्या मानसीव्यथया स्रस्तं पतितमङ्गं यस्याः सैवविधा सती संचार्यते संचरणं कार्यते । कयेव । परिचारिकयेव दूत्येव । मुहुरिति । मुहुर्वारं वारं पवनेन वायुना प्रेङ्गोलितं कम्पितम् । उत्प्रेक्षते - उत्कण्ठयोत्कलिकया व्यजनार्थं पल्लवभङ्गः किसलय ध्वंसस्तस्माद्यद्भयं तेन कम्पितमिव धूतमिव । एवंविधं लतामण्डपं वल्लीजनाश्रय मंधिवसत्यधितिष्ठति । मुहुरिति । मुहुर्वारंवारं सच्छोभना कोशकलिका बीजोत्पत्तिस्थलकोरको यस्मिन् । अत एवोत्प्रेक्षते - बिसानां तन्तूनां यद्वलयं कटकं तस्य संरक्षणं तदर्थ रचितमैञ्जलिपुटं येनैवंभूतमिव स्थलकमलिनीवनमधिशेते शयनं करोति । 'अधिशीस्थासां इत्यनेनाधिकरणस्य कर्मत्वम् । मुहुरिति । उद्वन्धनभयादिव गलपाशविधानभीतेरिव निरन्तरमव्यवहितं किसल। । . टिप्प० - 1 पूर्वत एव कृशः कटिप्रदेशो विरहेणातिकार्य नीतः, अत एव तस्मात्स्थानात्स्खलित्वा काजीकलापः पादयोः प्राप्तः । 2 विश्लिष्यत्, निर्गत्य भवत्समीपे गच्छत् इति तात्पर्यम् । 3 वारं वारं पार्श्वपरिवर्तनं कार्यत इत्यर्थः । दूत्येव इति टीकाकारबुद्धिस्तु लाध्यैव । परिचारिकया सेविकया इव । 4 मृणालानि मे रक्षणीयानि इति प्रार्थनार्थ मन्ये मंअलिपुटमेव रचितमित्युत्प्रेक्षा । पाठा० - १ मध्यभागम् २ स्खलितेनेव. ३ परवशा• ४ उत्क्रोश; सत्क्रोश, ५ नलिनी• कादम्बर्या विरहदशा ] उत्तरभागः । ५१५ लयाच्छादितलतापाशमुद्यानमासेवते । मुहुर्निष्पतदविरतरोदना ताम्रनयनप्रतिबिम्बं सस्तरास्तरणत्रासनिमज्जत्कमलमिवोपवनसरोजलमवगाहते । तस्मादुत्थाय तमालवीथीमुपैति । तस्यां शाखावलम्बोर्ध्वभुजलतानि हित निमीलितलोचनवदना चम्पकदलमालिकोद्वद्धदेहाशङ्कामुत्पादयन्ती मुहूर्त विश्रम्य संगीतकगृहमाविशति । ततो मधुरमुरजरवलयललितलास्थलीलयोद्वेज्यमाना मयूरीव मुक्तधारं धारागृहमभिपतति । ततोऽपि घर्नेजलधारासीकरपुलकितकाया कादम्बकलिकेव कम्पमाना शुद्धान्तकमलिनीतीरमुपसर्पति । तस्माच भवनकलहंसरवमसहमाना प्रस्थिता तत्कालावतारितनूपुरैयुगला निपुणप्रेक्षामिव क्षामतामभिनन्दति । वलयरचनाम्लायितमृणालकुपितैरिव भवनवापीचक्रवाकमिथुनैः कूजितेन खेद्यते । शय्याविलासमृदितकुसुमसंचयामर्पितैरिव प्रमदवनमधुकरैर्विरुतेयैर्नवीन पल्लवैराच्छादितस्तिरोहितो लता एव पाशो यस्मिानारामं मुहुरंवारमासेवते । आश्रयतीत्यर्थः । मुहुरिति । निष्पतदन्तः प्रविशदविरतं निरन्तरं यद्रोदने परिदेवनं तेनाताम्र ईषद्रक्ते ये नयने नेत्रे `तयोः प्रतिबिम्बं प्रतिच्छाया यस्मिन् । अत एवोत्प्रेक्षते - संस्तरे संस्तारके यदास्तरणमुपरिस्थापनं तस्माद्यस्त्रासो भयं तेन विमज्जह्रुडत्कमलं पद्मं यस्मिन्नेवंभूतमिवोपवनं समीपवर्ति काननं तस्य सरोजलं पानीयं मुहुर्वारंवारम वगाहते । अवगाहनं करोतीत्यर्थः । तस्मादिति । तस्मात्सरोजलादुत्थायोस्थानं कृत्वा बहिर्निगवेत्यर्थः । तमालवीथी तापिच्छलेखामुपेत्यागच्छति । तस्यामिति । वीथ्यां शाखावलम्बिनी योर्ध्वभुजलता बाहुवल्ली तस्यां निहितं स्थापितं निमीलिते मुद्रिते लोचने नेत्रे यस्मिन्नेतादृशं वदनमाननं यया सा । चम्पको हेमपुष्पकस्तस्य पुष्पाणि चम्पकानि तेषां दलानि पृथकृता अवयवास्तेषां मालिका सक्तया उद्धद्धो नियन्त्रितो यो देहो लक्षणया गलप्रदेशस्तस्याशङ्कामा रेकामुत्पादयन्ती जनयन्ती मुहूर्त क्षणमात्रं विश्रम्य विश्रान्ति गृहीत्वा संगीतकगृहं नाट्यसदनमाविशति प्रविशति । ततस्तस्माद्गृहान्मधुरो मिष्टो यो मुरजरवो मृदङ्गशब्दस्तस्य लयस्तान विशेषस्तेन ललिता मनोहरा या लास्यलीला नृत्यविनोदस्तया मयूरीव शिखण्डिनीवोद्वेज्यमानोद्वेगं प्राप्यमाणा मुक्तधारं पतज्जलं धारागृहम भ पतत्यभिगच्छति । ततोऽपीति । तस्मादपि गृहाद्वना निबिडा या जलधारा तस्याः सीकरो वातास्तवारि तेन पुलकितः संजातरोमाञ्चः कायो यस्याः सा । कादम्बस्य वृक्षविशेषस्य कलिका कोरकः सेव कम्पमाना वेपथुं प्राप्यमाणा शुद्धान्तस्यान्तःपुरस्य याः कमलिन्यस्तासां तीरं प्रतीरमुपसर्पति गच्छति । तस्माञ्चेति । तस्माच्छुद्धान्तकमलिनीतीराद्भवनं गृहं तत्रस्था ये कलहंसाः कादम्बास्तेषां रवं शब्दमसहमाना सोढुमसमर्था प्रस्थिता चलिता तत्कालं तदानीभवतारितं दूरीकृतम् । चरणादिति शेषः । नूपुरयुगलं पादकटकद्वन्द्वं यया सैवंभूता । निपुणप्रेक्षामिव विबुद्धबुद्धिमिव । क्षामतां कृशतामभिनन्दति स्तौति । पण्डितं प्रेक्ष्य सुतरां सूक्ष्मा भवतीति भावः । चेत्क्षामता जायते तदा नपुरयुगलं पादयोरन्तरेणान्तरेव पततीति व्यङ्ग्यम् । वलयेति । बलयस्य कटकस्य रचना निर्माणं तेन म्लायितं म्लानतां प्रापितं यन्मृणालं तन्तुलं तेन कुपितैः कोपं प्राप्तैरिव । भवनस्य वाप्यो दीर्घिकास्तासां चक्रवाकमिथुनानि द्वन्द्व चरद्वन्द्वानि तैः कूजितेन शब्दितेन सा खेद्यते खेदं प्राप्यते । शय्येति । शय्याविलासैन शयनीयविभ्रमेण मृदितो मर्दितो यः कुसुमसंचयः पुष्प प्रकरस्तेनामर्षितैरिवामर्ष प्राप्तैरिव । अन्तःपुरोचितं वनं प्रमदवनं तस्य मधुकरैमरैर्विरुतेन कूजितेनोद्वेज्यसे उद्वेगं टिप्प० – 1 कदम्बकलिकेत्येव पाठः । 2 'म्लापित' इति पाठः शुद्धः । कादम्बर्या स्ववलयरचनय । मृणालानि ( चक्रवाकभोज्यानि ) म्लानि नीतानि, अत एव कुपितास्ते कूजितेन तां खेदयन्तीत्याशयः । पाठा० -१ निपतित २ शाखाबलम्ब्यूर्ध्व. ३ मुक्तवारिधार ४ ततो नवजलधरधारा ५ कदम्ब ६ युगलम् ७ आम्लापित ८ मधुकरकुलै: कादम्बरी । नोद्वेज्यते । निर्भरोत्कण्ठागीतनिर्जितरवरोषितैरिवाङ्गणसहकारपिकवृन्दैः यते । मदनपाण्डुगण्डपरिभूतगर्भपत्रकान्तिभिर्विद्धेवोद्यान एवं प्रायैश्च मदनदुश्चेष्टितायासैः परिणाममुपैति दिवसः । [ कथायाम्कलकलेनाकुलीक्रिकेतकी सूचिभिरुद्भूतवेदना भवति । चन्द्रोदये चास्यास्तिमिरमयी वापैति वृतिः, कमलमयमिव दूयते हृदयम्, कुमुदमय इव विजृम्भते मकरकेतनः, चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम्, उदधिजलमयानीव प्रैवर्धन्ते श्वसितानि, चक्रवाकमया इव विघटन्ते मनोरथाः, शीतज्वरातुरेव मणिकुट्टिमोदरसंक्रान्तस्य तुषारकिरणमण्डलस्योपरि वेपथुलुलिततरलाङ्गुलीनिकरं करयुगलं प्रसारयन्ती शशिसंतापमनक्षरं कथयति । सीत्कारेषु दशनांशुव्याजेन मन्मथशरजर्जरितहृदयप्रविष्टा निन्दु किरणानिवोद्भिरति । वेपथुषु व्यजनीकृतकदलीदलकम्पोपदेशमिव गृह्णाति । विजृम्भिका सु प्राप्यते । निर्भरेति । निर्भरं यथा स्यात्तथोत्कण्ठया यद्गीतं तेन निर्जितौ यो रवः शब्दस्तेन रोषितैरिव रोष प्राप्तैरिवाङ्गणमजिरं तत्र यः सहकारश्वतस्तत्रस्थाः पिकाः कोकिलास्तेषां वृन्दैः समूहै: कलकलेन कोलाहलेनाकुलीक्रियते व्याकुलीक्रियते । मदनेति । मदनेन कंदर्पेण पाण्डुः शुभ्रो यो गण्डः कपोलात्परप्रदेशस्तेन परिभूता न्यकृता गर्भपत्रकान्तिर्मध्यदलरु॑ग्यैरेवंविधैरुद्यानस्य केतक्यस्तासां सूचयस्त्रिपत्रक रूपाः । 'त्रिपत्रकः सूचिरभिधीयते' इति वैजयन्तीकारः । अग्राणि वा । तैर्विद्धेव भिन्नेवोद्भूतवेदना प्रादुर्भूतपीडा भवति जायत एव । एवमिति । एवंप्रायैरेवंप्रकारैर्मदनस्य कंदर्पस्य दुश्चेष्टितानि दुर्विलसितानि तेषामायासैः प्रयासैः परिणामं परिपक्कताम् । अवसानमिति यावत् । दिवसो वासर उपैति गच्छति । चन्द्रोदये चेति । च पुनरर्थे । चन्द्रोदये शशाङ्कोदयेऽस्याः कादम्बर्या धृतिः संतोषः । 'धृतिः स्थैर्यम्' इति भूपालः । अपैति गच्छति । अत एवोत्प्रेक्षते - तिमिरमयीव तिमिरात्मिकेव । तिमिरस्य चन्द्रोदये नाशातत्साम्यं वृतेः । कमलेति । हृदयं मानसं दूयते संकुचितं भवति । अत एवोत्प्रेक्षते - कमलमयमिव पद्मघटितमिव । कमलानामेव चन्द्रोदये संकोचसंभवाद्धृदयस्य तत्तुल्यता । कुमुदेति । मकरकेतनः कंदर्पो विजृम्भते उज्वलो भवति । अत एवोत्प्रेक्षते - कुमुदमय इव कैरवात्मक इव । चन्द्रोदये कैरवाणामेव विजृम्भणात्तत्तुल्यता । चद्रकान्तेति । नयनयुगलं नेत्रयुग्मं प्रक्षरति । अश्रुपातं करोतीत्यर्थः । अत एवोत्प्रेक्षते - चन्द्रकान्तश्चन्द्रमणिस्तन्मयमिव तद्घटितमिव । चन्द्रोदये चन्द्रोपलस्यैव प्रक्षरणादिति भावः । उदधीति । श्वसितानि श्वासाः प्रवर्धन्ते । वृद्धिं गच्छन्तीत्यर्थः । अत एवोत्प्रेक्षते - उदधिजलं समुद्रपानीयं तन्मयानीव । तत्स्वरूपाणीव । चन्द्रोदय उदधिजलस्यैव प्रवर्धनादिति भावः । चक्रवाकेति । मनोरथा अभिलाषा विघटन्ते वियुज्यन्ते । अत एवोत्प्रेक्षते -- चक्रवाका रथाङ्गाह्वयास्तन्मया इव तद्घटिता इव । शीतेति । शीतज्वरेणातुरा पीडितेव मणिकुट्टिमस्य रत्नबद्धभूमेरुदरं मध्यं तत्र संक्रान्तस्य प्रतिबिम्वितस्य तुषारकिरणश्चन्द्रस्तस्य मण्डलं बिम्बं तस्योपर्युपरि ष्टाद्वेपथुः कम्पस्तेन लुलितः कम्पितस्तरको मनोहरोऽङ्गुलिनिकरः करशाखा समूहो यस्मिन्नेवंभूतं करयुगलं पाणियुग्मं प्रसारयन्ती विस्तारयन्ती अक्षरं यथा स्यात्तथा शशिसंतापं चन्द्रसंतापं कथयति । करकम्पनेनैव तन्निवेदनादिति भावः । सीत्कारेष्विति । सीत्कारेषु सीत्कृतेषु दशना दन्तास्तेषामंशवः किरणास्तेषां व्याजेन मिषेण मन्मथशरेण कंदर्पबाणेन जर्जरितं शिथिलीकृतं यद्धृदयं खान्तं तत्र प्रविष्टान्संक्रमितानिन्दुकरणानिव चन्द्रकरानिवोद्गिरति यमति । वेपथुध्विति । वेपथुषु कम्पेषु व्यजनीकृतानि तालवृन्तीकृतानि यानि कदली दलानि रम्भापत्राणि तेभ्यः कम्परतस्योपदेशमिव शिक्षामिव गृह्णाति । विजृम्भिका स्विति । विजृम्भिकासु टिप्प० - 1 येषामित्युचितम् । पाठा० - १ उत्कर्ष. २ चन्द्रकान्तमणिमयम् ३ वर्धन्ते. ४ शशिनः संतापम्. ५ निर्जित कादम्बर्या विरहावस्था ] उत्तरंभागः । कंण्ठागत जीवित निर्गममार्गमिवोपदिशति । गोत्रस्खलितविलक्ष स्मितेषु हृदयनिपतितमदनशरपुष्परज इव वमति । बाष्पमोक्षेषु स्थूलाश्रुसंतानवेणिकावाहिनी विलीयत इव । शशिम णिदर्पणेषु विस्फुरितानेकप्रतिबिम्बनिभेन शतधेव विदलति । कुसुमशयनेषु परिमललालसागतालिमालाकुलिता धूमाप्त इव । अमलकमल त्रस्तरेषु किञ्जत्करजःपुञ्जपिञ्जरिता ज्वेलतीव । स्वेदप्रतीकारेषु विशदकर्पूरशोधूलीधवलिता भस्मीभवतीव । न विज्ञायते किं मुग्धतथा. किं विलासेन, किमुन्मादेन, संगीतमृदङ्गध्वनितेषु केकाशङ्कया धारागृहमरकतमणिमयूरमुखानि स्थगयति । दिवसावसानेषु विश्लेषभीता मृणालसूत्रैश्चित्रभित्तिविलिखितानि चक्रवाकमिथुनानि संघटयति । चिन्तारतारम्भेषु मणिप्रदीपानवतंसोत्पलैस्ताडयति । उत्कण्ठालेखेषु संकल्पसमागमाभिज्ञानानि लिखति । दूतीसंप्रेषणेषु स्वप्नापराधोपालम्भान्संदिशति । ५१७ विजृम्भणेषु कण्ठागतं निगरण प्राप्तं यज्जीवितं तस्य निर्गममार्गमिव निःसरणपन्थानमिवोपदिशति कथयति । गोत्रेति । गोत्रस्खलितानि पूर्वव्यावर्णितानि तेषु यानि विलक्षस्मितानि तेषु हृदयनिपतिताः खान्तान्तःप्रविष्टा ये मदनशराः कंदपबाणास्तेषां पुष्परज इव कुसुमपराग ईव वमत्युद्गिरति । बाष्पमोक्षेष्विति । बाष्पो नेत्राम्वु तस्य मोक्षेषु मोचनेषु स्थूलानि यान्यऋणि तेषां संतानं परम्परा तस्य वेणिका प्रवाहस्तां वहतीत्येवंशीला सती विलीयत इव द्रषीभवतीव । शशीति । शशिमणिदर्पणेषु चन्द्रकान्तादर्शेसु विस्फुरितानि चमकितान्यनेकप्रतिबिम्बानि तेषां निभेन मिषेण शतधा शतप्रकारेण विदलतीव खण्डीभवतीव । कुसुमशयनेष्विति । कुसुमशयनेषु पुष्पशयनीयेषु परिमले लालसा लम्पटा या गतालिभाला भ्रमरपङ्किस्तयाकुलिताकुलीकृता सती धूमायत इव धूमवदाचरतीव । अमलेति । अमलानि निर्मलानि यानि कमलानि नलिनानि तेषां त्रस्तरेषु संस्तारकेषु किञ्जल्कं केसरं तस्य रजःपुजः कणिकानिकरस्तेन पिञ्जरिता पीतरक्तीकृता सती ज्वलतीवोद्भुषतीव । स्वेदेति । स्वेदो घर्मस्तस्य प्रतीकाराः प्रतिक्रियास्तेषु विशदः शुचिर्यः कर्पूरक्षोदो हिमवालुकाचूर्ण तस्य धूली रजस्तया धवलिता शुश्रीकृता सती भस्मीभवतीव भूतिभावं भजतीव । नेति । न विज्ञायते नावबुध्यते । मयेति शेषः । किं तदित्याह - किमिति । किं मुग्धतयाऽप्रगल्भतया, किंवा विलासेन विभ्रमेण, किंवोन्मादेन चित्तविप्लवेन, संगीतार्थं यानि मृदङ्गध्वनितानि मुरजशब्दितानि तेषु केका मयूरवाण्यस्तासां शङ्कया आरेकया धारागृहे गृहे मरकतमणिर्नीलमणिस्तेन निर्मितानि मयूरमुखानि शिखण्डिवदनानि स्थगयत्याच्छादयति । दिवसेति । दिवसावसानेषु वासरप्रान्तेषु । बहुदिवसापेक्षं चैतत् । अन्यथैकदिवसस्यैकमेवावसानं स्यात् । विश्लेषभीता वियोगमीता मृणालसूत्रैस्तन्तुलतन्तु भिश्चित्रभित्तावालेख्योपलक्षितकुड्ये विलिखितानि चित्रितानि यानि चक्रवाकमिथुनानि द्वन्द्वचरद्वन्द्वानि संघटयति संयोजयति । चिन्तेति । चिन्तया संकल्पमात्रेण ये रतारम्भा मैथुनारम्भास्तेषु मणिप्रदीपरत्न गृहमणीनवतंसः शेखरस्तस्योत्पलानि कुवलयानि तैस्ताडयति ताडनां करोति । उत्कण्ठेति । उत्कण्ठयोत्कलिकया ये लेखाः पत्राणि तेषु संकल्पेन कल्पनामात्रेण ये समागमा मेलापास्तेषामभिज्ञानानि मनःप्रत्यायकचिह्नानि लिखति लिपीकरोति । दूतीति । दूत्यः संचारिकास्तासां संप्रेषणेषु स्वप्ने स्वप्नावस्थायामपराध आगस्तस्योपालम्भा उपालम्भा इति लोकप्रसिद्धास्ता संदिशति कथयति । टिप्प० - 1 परागमिव इति वक्तव्यम् । स्मितं नास्ति, मन्ये कंदर्पबाणभूतानां कुसुमानाम् ( हृदयप्रविष्टानाम् ) रज एवास्तीत्युत्प्रेक्ष्यते । स्मितस्य श्वैत्यवर्णनात् । 2 परिमललालसया (इच्छया) भागता या अलिमाला, इति स्पष्टोऽर्थः । 3 उत्लुष्यत इव । पाठा०- •१ कण्ठनाल. २ निष्पतित ३ प्रस्तरे; संस्तरेषु. ४ जर्जरिता ५ उज्वलति. ६ धूलि. ७ संगीतक. ८ संवट्टयति. ५१८ कादम्बरी । [ कथायाम्अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । चक्राह्वशाप इव निशया सहापतति प्रजागरत्रासः । प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणिकेव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलमणिदर्पणमणिकुट्टिमतलेषु दृश्यते । नलिनीव शशिकरस्पर्शेन ग्लायति । हंसीव सरसमृणालिकाहार व्यतिकरेण जीवति । शरदिव कुमुदकुवै लयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजृम्भते । चन्द्रमूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिरणकृतजागरा दिवसमलीकनिद्रयातिवायति । मुररिपुजलशयनलीलेव मन्दोच्छुसितशेषा अपि चेति युक्त्यन्तरे । तस्याः कादम्बर्याश्चन्दनपरिमल इव मलयजामोद इव दक्षिणानिलेनावाची मारुतेन सह मोहो मूर्च्छा समागच्छति । चक्राह्वेति । निशया त्रियामिन्या सह चक्राहो रथाङ्गाह्वयस्तस्य शापः पृथग्भवनलक्षणस्तद्वदिव प्रजागरत्रासो जागरणभयमापतत्यागच्छति । प्रतीति । वलभी गृहोपरिभागस्तस्यां कपोताः पारावतास्तेषां कूजितै रटितैः सह प्रतिरुतानीव प्रतिश्रुतानीव दुःखान्यसुखान्याविर्भवन्ति प्रकटीभवन्ति । मधुकर इति । उपवनस्य कुसुमानि पुष्पाणि तेषामामोदो दूरगामी गन्धस्तेन सह मधुकर इव । जात्येकवचनम् । मरणाभिलाषो मृत्युवाञ्छोपसर्पति समीपमायाति । प्रकारान्तरेण तां वर्णयन्नाह तथा चेति । पद्मिनी कमलिनी तस्याः पलाशानि पत्राणि तेषु स्थिता जलकणिकाऽम्भोबिन्दुरिव कम्पते चलते । एतेनोभयोः साधर्म्यमाविष्कृतमिति भावः । प्रतीति । स्फटिकोपलश्च सलिलं च मणिदर्पणश्च मणि कुट्टिमतलानि च तेषु प्रतिच्छायेव प्रतिबिम्बमिर्वं दृश्यते । जनैरिति शेषः । नलिनीति । शशिकराश्चन्द्रकिरणास्तेषां स्पर्शः संयोगविशेषस्तेन नलिनीव म्लायति म्लानिं प्राप्नोति । नलिन्याः सूर्यविकासित्वेन, अस्याश्च विरहव्याकुलितचित्तत्वेन शशिकरस्पर्शादेव म्लानिरिति भावः । हंसीवेति । सरसा रसोपयुक्ता या मृणालिन्यः कमलिन्यस्तासां हारा मुक्ताप्रालम्बास्तेषां व्यतिकरेण संबन्धेन हंसीव वरटेव जीवति प्राणिति । हंसीपक्षे मृणालिकाया आहारो भोजनं तेन प्राणवृत्तिं करोतीत्यर्थः । शरदिवेति । कुमुदं श्वेतकमलं सूर्यवि कासि, कुवलयं चन्द्रविकासि, एतेषां संपर्कः संबन्धस्तस्माद्यो मनोहरगन्धस्तं वहतीति वही । सकुसुमबाणा चेति । सह कुसुमेन पुष्पेण वर्तमाना बाणा वृक्षविशेषा यस्याः यस्यां वा । एवंविधा सती शरदिव घनात्यय इव सा विजृम्भते । इतस्ततः प्रसरतीत्यर्थः । चन्द्रमूर्तिरिति । कमलानां नलिनानां प्रकरः समूहस्तस्मिन्स्खलिताः स्खलनां प्राप्ताः पादा अजयः किरणा वा त एव पल्लवा यस्याः सैर्वविधा चन्द्रमूर्तिरिव संचरन्ती व्रजन्ती निशां नयति । रात्रिं गमयतीत्यर्थः । कुमुदिनीति । रजनिकरश्चन्द्रस्तस्य किरणैरंशुभिः कृतो विहितो जागरो जागरणं यस्याः सैवंविधा कुमुदिनीव कैरविणीवालीकनिद्रया दिवसमतिवाहयति । गमयतीत्यर्थः । अत्रालीकनिद्रत्वं नेत्रकुमुदिन्योर्निद्राभावेन संकोचमात्रापेक्षया मन्तव्यम् । मुररिपुरिति । मुररिपुः कृष्णस्तस्य जलशयनलीलेव मन्दं मन्दमुच्छ्रसितमेव शेषो यस्याः सा कादम्बरी किमप्यनिर्वचनीयस्वरूपं चिन्तयति ध्यायति । जलशयनलीलापक्षे मन्दं मन्दमुच्छ्वासित उच्छ्वासं प्राप्तः । संजातोच्छ्वास इति यावत् । टिप्प० - 1 पारावतकूजितैः सह यथा तेषां प्रतिरुतान्याविर्भवन्ति तथा तस्या दुःखानि प्रकटीभवन्तीत्याशयः । टीकाकारेण तु मन्ये 'प्रतिश्रुत्' शब्दस्य दुर्दशा कृता । 2 कार्यातिशयात् सा प्रतिच्छायेव दृश्यते । अथवा विरहतापवशांदेतेषु पदार्थेषु सा निपतति, अत एव प्रतिच्छायेव । शरत्पक्षे कुमु दादिसंपर्केण मनोहरो गन्धवहो यस्याम् । 4 कादम्बरी तु सकुसुमबाणा कुसुमबाणेन कामेन सहिता । 5 कुमुदिन्याः किरणैर्जागर: विकासो भवतीति ज्ञेयम् । पाठा - १ दर्पणकुट्टिम दर्पणतलकुट्टिम २ कुवलयकमल ३ प्रजागार. कादम्बर्या विरहदशा ] उत्तरभागः । निमीलितलीचना किमपि चिन्तयति । मलयनिम्नगेव सरसहरिचन्दनकिसलयलाञ्छितेषु शिलातलेष्वभिपतति । कुन्दकलिकेव तुषारसिक्तपल्लववर्तिनी बनानिलेनायास्यते । भुजंगीवाससंतापालिङ्गितचन्दना शिखिकुलकोलाहलेन ताम्यति । हरिणीव केसरिकाननं परिहरति । कुसुमघटितशिलीमुखमनोहरान्मदनचापादिव प्रमदवनात्रस्यति । जानकीव पीतरक्तेभ्यो रजनिचरेभ्य हैव चम्पकाशोकेभ्यो बिभेति । उषेव स्वप्नसमागमेनापि कृतार्थतामेति । ग्रीष्मलक्ष्मीरिवानुदिनमैतिक्षामा श्यामा भवति । सर्वथा तस्याः कंदर्पवेदनयाङ्गानि, दिवसैर्जीवितसंधारणवस्तूनि, वलयरचनया गृहकमलिनीमृणालानि, उपदेशैः सखीजनवचनानि, शय्यापरिकल्पनेनोपवनकुसुमानि, अनवरतशेषः शेषनागो यस्यां सा तथेत्यर्थः । मलयेति । मलयनिम्नगेव दक्षिणाचलसरिदिव सरसो निबिडरसो यो हरिचन्दन श्चन्दनद्भुमस्तस्य किसलयानि पटवास्तैर्लाञ्छितेषु चिह्नितेषु शिलातलेष्वभिपतति । शेत इत्यर्थः । कुन्देति । कुन्दः पुष्पविशेषस्तस्य कलिकेव कोरक इव तुषारेण हिमेन सिक्तो यः पल्लवः किसलयस्तस्मिन्व तत इत्येवंशीला विरहव्याकुलितत्वेन हिमसिक्तपल्लवोपरि कृतशय नेत्यर्थः । वनानिलेन वनवायुनायास्यत आयासं प्राप्यते । कुन्दकलिकापक्षे तुषारसिक्तपल्लववर्तिनीति कण्ठ्यम् । भुजंगीति । प्रबलविरहस्य धर्मस्य वाऽसह्यः सोढुमंशक्यो यः संतापस्तप्तिस्तेनालिङ्गितं चन्दनं चन्दनद्रुमो वा यया सैवंविधा सती भुजङ्गीव सर्पिणीव शिखी मयूरस्तस्य कुलं समूहस्तस्य कोलाहल: कलकलस्तेन ताम्यति खेदं प्राप्नोति । हरिणीति । केसरी बकुलो विद्यते यस्मिन्नेवविधं केसरिणोपलक्षितं वा यत्काननं वनं हरिणीवैणीव परिहरति त्यजति । कुसुमेति । कुसुमेषु पुष्पेषु घटिता लग्ना ये शिलीमुखा भ्रमराः, पक्षे कुसुमान्ये घटता रचिताः मुखा वा, तैर्मनोहराब्रुचिरान्मदनचापादिव कंदर्पधनुष इव प्रमदवनादन्तः पुरोचितवनान्त्रस्यति त्रासं प्राप्नोति । जानकीति । पीताश्च रक्ताश्च पीतरक्तास्तेभ्यश्चम्पकाशोकेभ्यः पीतं रक्तं रुधिरं यैस्तेभ्यो रजनिचरेभ्य इव निशाचरेभ्य इव जानकीव सीतेव बिभेति भयं प्राप्नोति । उपेवेति । स्वप्ने निद्रावस्थायां समागमो मेलापकस्तेनापि कृतार्थतां कृतकृत्यतामेति गच्छति । केव । उषेव । यथोषा बाणसुता स्वप्नदशायां प्रद्युम्नसमागमे कृतार्था जाता तथेयमपीत्यर्थः । ग्रीष्मेति । ग्रीष्मलक्ष्मीरिव निदाघश्रीरिवानुदिनं प्रतिदिनमतिक्षामातिकृशा श्यामा कृष्णा भवति जायते । पक्षेऽतिक्षामा श्यामा रात्रिर्यस्यामिति समासः । 'रजनीव मतिः श्यामा' इत्यभिधानचिन्तामणिः [: 1 सर्वथेति । सर्वप्रकारेण तस्याः कादम्बर्याः कंदर्पवेदनया कामव्यथयाङ्गानि हस्तपादादीनि । दिवसैरिति बहुवचनं बहुत्वोपलक्षकम्। बहुभिर्वासरैजीवितस्य प्राणितस्य संधारणवस्तूनि प्राणाधारभूताः पदार्थाः निःशेषमत्यन्तं क्षीणानि स्तोकानि जातानीत्यर्थः । तदेव दर्शयन्नाह - वलयेति । दाघज्वरोपशमार्थं वलयानां कटकान रचना निर्माण तथा गृहकमलिन्याः सदननलिन्या मृणालानि बिसानि । उपदेशैरिति । उपदेशैरुपदेशः शिक्षा तस्य प्रदानैः सखीजनस्यालीजनस्य वचनानि । शय्येति । शय्यायाः शयनीयस्य परिकल्पनेन विरचनेनोपटिप्प० – 1 बहुव्रीहौ कृते 'अतिक्षामइयामा' इति स्यादिति न ज्ञातं वराकेण । अत एव अतिक्षामइयामेत्येव साधु । कादम्बरी तु-अतिक्षामा चासौ श्यामा चेति । 'ग्रीष्मनिशालक्ष्मीरिवानुदिनमतिक्षामा भवति' इति पाठे तु उभयत्र अतिक्षामत्वं ( कृशत्वम्, लघुत्वं च ) वर्तत एव । -१ चन्दनशाखा २ शिखिशकुन्त ३ अपि ४ ग्रीष्मनिशा ५ अतिक्षामा भवति, ६ साधारम्. पाठाक ५२० कादम्बरी । [ कथायाम् मोक्षेण मदनायुधानि निःशेष क्षीणानि । किं बहुना, संप्रति तस्यास्त्वन्नामा सर्वसखीजनः, त्वत्संबद्धानि सर्वरहस्यानि, स्वरसमागमोपाया न्वेषिणः सर्वसमवायाः, त्वद्वार्तोपलम्भनपरा: सर्वप्रभाः, त्वद्वृत्तान्तमुखरः परिजनः, त्वदालापनिर्मिताः सर्वविनोदाः, त्वदाकारमयश्चित्रकलाभ्यासः, त्वदुपालम्भगर्भा मागधीमङ्गलगीतयः, त्वद्दर्शनपुनरुक्ताः स्वप्नाः, त्वत्परिहासप्राया मदनज्वरदाहविप्रलापाः, त्वन्नामग्रहणैकोपायगम्यप्रबोधा मोहमहावेगाः' इत्यावेदयन्तं च केयूरकम् ' भवेतु । संप्रति न शक्कोम्यतः परं श्रोतुम्' इत्याँमी नदत्तसंज्ञेव कादम्वरीव्यथाश्रवणवेदनासंभवानुकम्पयेव चन्द्रापीमाक्रमन्ती मूर्च्छा न्यवारयत्, न तु पुनरवस्था निवेदन परिसमाप्तिः 2 तथामूर्च्छानिमीलितश्च तामेवानुध्यायन्निव ससंभ्रमप्रतिपन्नशरीरेण केयूरकेण संभावित तालवृन्तया च पत्रलेखयानुंभाव्यार्थसजया च नियत्या संज्ञां लम्भितश्चन्द्रापीड: स्वकृतपीडा। वनकुसुमानि । अनवरतं निरन्तरं मोक्षेण मोचनेन मदनायुधानि कंदर्पशस्त्राणि । किं बहुनेति । किं बहुवक्तव्येनेत्यर्थः । संप्रतीति । संप्रतीदानीं तस्याः कादम्बर्याः । तवैव नाम विद्यते यस्य स त्वन्नामा । एवंविधः सर्वसखीजनो वयस्याजनः । त्वदिति । त्वय्येव संबद्धानि लग्नानि सर्वरहस्यानि सर्वगुह्यानि । त्वदितैरसमागमो मेलापस्तस्योपायः कारणं तमन्वेषयन्तीत्येवंशीला अन्वेषिणः सर्वसमवायाः समग्रजनसमूहाः । तव वार्तं कुशलं तस्योपलम्भनमुपलब्धिस्तस्मिन्परास्तत्पराः सर्वप्रश्नाः सर्वाण्यनुयोजनानि । त्वदिति । तव वृत्तान्तः प्रवृत्तिस्तत्र मुखरो वाचाल एवंविधः परिजनः परिच्छदः । त्वदिति । तव आलापः संभाषस्तेन निर्मिता रचिताः सर्वविनोदाः समग्रक्रीडाविलासाः । त्वदिति । तवाकार आकृतिस्तेन निष्पन्नस्त्वदाकारमयश्चित्रकलाया आलेख्यविज्ञानस्याभ्यासः पुनः पुनर्वारंवारम् । त्वदिति । तबोपालम्भो गर्भे मध्ये यासां ता मागधीनां मङ्गलपाठिकानां मङ्गलगीतयः कल्याणार्थगानानि । त्वदिति । त्वदर्शनेन त्वदवलोकनेन पुनरुक्ताः पुनर्भाषिताः स्वप्नाः । तव परिहासप्राया उपहाससदृशा मदनज्वरदाहाद्विप्रलापा विरुद्धोक्तयः । 'विप्रलापो विरुद्धोक्तिः' इत्यमरः । त्वन्नामेति । तव नाम्नो ग्रहणमेवैकोऽद्वितीयो य उपायः प्रपञ्चस्तेन गम्याः प्रबोधा बोधनानि येषामेवंभूता मोहमहावेगा मौढ्यमहारयाः इति पूर्वोक्त प्रकारेणावेदयन्तं कथयन्तम् । केयूरकमिति । नेत्रयोरामीलनान्मुद्रणाद्दत्तसंज्ञेव दत्ता संज्ञा संकेता यया सा या हितचेष्टेव । कयेव। कादम्बर्या व्यथा श्रवणमाकर्णनं तस्माद्वेदनायाः संभवस्तस्मिन्ननुकम्पा दया तयेव चन्द्रापीडमाक्रमन्ती मूर्च्छा न्यवारयच्यषेधयत् । इतीति किम् । यत्त्वया प्रोक्तं तद्भवत्वस्तु । संप्रतीदानीमतः परं श्रोतुमाकर्णयितुं न शक्नोमि न समर्थो भवामि । न तु पुनरवस्थाया निवेदनं तस्य वेदनायाः परिसमाप्तिः पर्यन्तः । . " तथेति । तेन प्रकारेण मूर्च्छानिमीलितो मौढ्येन. मुद्रितश्च तामेव कादम्बरीमेवानुध्यायन्स्मरन्निव सह संभ्रमेण त्वरया प्रतिपन्नं विघृतं स्वीकृतं शरीरं यस्यैवंभूतेन केयूरकेण, संभावितं संगृहीतं तालवृन्तं व्यजनं ययैवंभूतया पत्रलेखयानुभाव्यो योऽर्थस्तत्र सज्जया समर्थया च नियत्याऽदृष्टविशेषेण संज्ञां चेतनां लम्भितः टिप्प० - 1 संखीजनोपि त्वन्नामसहितः । 2 धिक टीकाम् । इतरस्य का कथः ? त्वत्समागमोपायस्य अन्वेषिणः समवायाः समूहाः । वस्तुतस्तु व्यापाराः । 3 त्वदर्शनेन पुनरुक्तं येषु । अर्थात् पूर्व दृष्टस्य तव स्वप्मसंदर्शनेन पुनरुक्तिः (आवृत्तिः ) भवतीत्याशयः । 4 त्वन्नामग्रहणरूपेण एकमात्रोपायेन गम्यः प्राध्यः प्रबोधो मोहापगमो येषु एवंविधा महान्तो मूर्च्छावेगाः । टीकाकारस्य तु मौढ्य महारयाः उचिता एव । 5 अनुभावयितुम् ( अनुभवविषयी कारयितुम् ) योग्यः । . पाठा०-१ सर्वः सर्वतः• २ सर्वे. ३ अपालम्भे; उपालम्भ. ४ तत्परा:. ५ भवति. ७ आक्रामन्ती. ८ निवेदनवेदन; वेदन ९ अध्यायन्. १० अनुभाब्यार्थम्. ६ आमीलनादत्त. चन्द्रापीडस्य प्रतिवचनम् ] उत्तरभागः । Ge पराधेन मीतमिव लजितमिव विलक्षमिव निभृतस्थितं केयूरक मन्तर्वाष्पोपरुध्यमानकण्ठः कैथमपि स्खलिताक्षरं प्रत्युवाच – 'केयूरक, येन प्रकारेणैव मे कान्तनिष्ठुर हृदयमात्मन्यनुत्पन्नरागमेव मां संभाव्य देव्या कादम्बर्या दूरीकृतपुनर्मदागमनसंभावनया न त्वमागमनायादिष्टः, •न संदिष्टं वा किंचिन्महाश्वेतया समुपहृतानुबन्धया, मदलेखया वा त्वन्मुखेन नोपालब्धोऽस्मि, तैथा मयि पत्रलेखया सर्वमाख्यातम्, तदभिजाततया महानुभावत्वादुदारतया समानशीलतथा दक्षिणतया चैकान्तपेशलतया च स्वभावस्यात्मानमात्मना न कलयति देवी कादम्बरी । चन्द्रमूर्तेरॉलोकेनैव निश्चेतनस्य चन्द्रकान्तारूयस्य पाषाणखण्डस्यार्द्रभावोपगमनमेवायत्तम्, न पुनस्तत्कराकर्षणम् । नितरां पक्षपातिनोऽपि न मधुकरस्याभिगमनमेवाधीनम्, मकरन्द लाभे कलिकाश्रयिणी जृम्भैव प्रभवति । दिवससंतापकान्तेन चोन्मुखता कुमुदाकरेण करणीया, विकासयति पुनस्तं ज्योत्नाभिरामा रजन्येव । निर्भरमन्तः सरसतायां सत्या, ५२१ प्रापितश्चन्द्रापीडः स्वयं कृता या पीडा तस्या अपराध आगस्तेन भीतमिव त्रस्तमिव, लजितमिव त्रपितमिन, बिलक्षमिव वीक्षापनमिव, निभृतस्थितं निश्चलस्थितं केयूरकमन्तर्बाष्पेणोपरुध्यमानः कण्ठो यस्यवंविधश्चन्द्रापीडः कथमपि महता कष्टेन स्खलिताक्षरं यथा स्यात्तथा प्रत्युवाच प्रोक्तवान् । किमुवाचेत्याह–केयूरक इति । हे केयूरक, येन प्रकारेणैवमेकान्तेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधमात्मनि कादम्बरीविषयेऽनु त्पञ्चरागमजनितस्नेहं मामेव संभाव्य ज्ञात्वा देव्या कादम्बर्या दूरीकृतः पुनद्वितीयवारं यन्मदागमनं तस्य संभावना तया त्वमागमनाय नादिष्टो न कथितः । तथा महाश्वेतया किंचिन्न संदिष्टं न कथितम् । कीदृशया । समु पहृतो दूरीकृतोऽनुबन्धोऽत्याग्रहो यया सैवंविधया । मदलेखया वा त्वन्मुखेन त्वदाननेन नोपालब्धोऽस्मि नोपालम्भं प्रापितोऽस्मि । तथा मयीति । मद्विषयकं सर्व पत्रलेखयाख्यातं कथितम् । तदिति । तत्पूर्वीतमभिजाततया कुलीनतया महाननुभावो माहात्म्यं यस्यास्तस्या भावस्तत्त्वं तस्मादुदारतया रूपानुगुणत्वेन समानं शीलं स्वभावो यस्यास्तस्या भावस्तत्ता तथा दक्षिणतया सरलतया । 'दक्षिणे सरलोदारों' इत्यमरः । स्वभावस्य प्रकृतेरेकान्तेने निश्चयेन पैशलतया हृद्यतया । अत्रात्मशब्दः स्वरूपवाची तेनात्मानं स्वं रूपं देवीं कादम्बर्यात्मना खेनैव न कलयति न जानाति । यादृशं भगया भणितं वेश्ययावबुध्यते, न तादृशं कुलस्त्रियेति भावः । तदेव दर्शयन्पुनः प्रकारान्तरेणात्मदोषं दूरीकुर्वन्नाह – चन्द्रेति । चन्द्रमूर्तेः शशाङ्कबिम्बस्यालोके नैव प्रकाशेनैव निश्चेतनस्य चेतनारहितस्य चन्द्रकान्ताख्यस्य शशिमण्यभिधानस्य पाषाण खण्डस्य दृषच्छकलस्याईभावस्य द्रवीभावस्योपगमनं प्रापणमेव आयत्तं स्वाधीनम् । न पुनस्तत्कराकर्षणं तत्किरणाक्षेपः । नितरामिति । नितरामत्यर्थं पक्षपातिनोऽपि वाजगामिनोऽपि, पक्षे पक्षपातिनोऽपि पक्षकारिणोऽपि, मधुकरस्य भ्रमरस्याभिगमनमेव संमुखागमन मेवाधीनमायत्तम् । तु पुनरर्थे । मकरन्दलाभे तु मकरन्दप्राप्तौ तु कलिका कोरकस्तामाश्रयतीत्येवंशीला जृम्भैव जृम्भणमेव प्रभवति समर्थांभवति । दिवसेति । दिवसस्य वासरस्य संतापस्तप्तिस्तेन क्लान्तेन पीडितेन कुमुदाकरेण कैरवसमुदायेनोन्मुखता संमुखता करणीया कार्या तं पुनर्विकासयति विकखरतां नयति ज्योत्स्ना कौमुदी तयाभिरामा मनोहरा रजन्येव निशैव । निर्भरमिति । निर्भरं यथा स्यात्तथान्तर्मध्ये सरसस्य भावः सरसता तस्यां सत्यामपि मधुमासो वसन्तस्तस्य लक्ष्मीः श्रीस्तस्याः । टिप्प० - 1 एकान्तपेशलतया अत्यन्तमार्दवेन, अतिधीरतया वा । 2 द्वयर्थान्वेषणं व्यर्थायितम् । अत्यन्तमनुकूलस्य, भृशं पक्षपोषकस्य वा, इत्येवार्थः । 3 विकासः । पाठा०-१ किमपि. २ अनुरागम् ३ पुनर्दूरीकृतमदागमन ४ समुपाहृत ५ तथानया ६ आत्मना च. ७ आलोकेनापिं. ८ जृम्भिका ९ विकासयति न पुनस्तम्. ५२२ कादम्बरी [ कथायाम , मपि मधुमासलक्ष्मीपरिग्रहाद्विना पल्लवानुरागदर्शनस्य कृते किं करोतु पादपः ? तत्र देव्याः कादम्बर्या एवाज्ञापराधिनी, ययाऽधरस्पन्दितमात्रप्रतीक्षे पुरःस्थायिनि दासजने निष्करुणतयात्मानमव्यापारयन्त्या सुखप्रेतिपन्थिनी दुःखदानैकनिपुणा परहृदयपीडानपेक्षिणी लज्जापेक्षिता, न जीवितसंदेहदायिनी देव्याः सँमाचष्ट । अथवा देव्याः परिजनंस्यापि कोऽयमेवंविधो व्यामोहः, येदनिच्छन्त्यपि बलादसौ न व्यापारिता । कीदृशी चरणतलप्रतिबद्धस्य दासजनस्योपरि लज्जा, कीदृशं वा गौरवम्, को बानुरोधः, अविश्वस्तचित्तता वा केयमीदृशी, यदेवमात्मनः शिरीषपुष्पकोमलस्येयमतिदारुणा पीडाऽङ्गीकृता, न कृतार्थितो मे मनोरथः । अथवा क्रमागत मन्तर्धानं वामलोचनानाम्, विशेषतोऽपरित्यक्तनिः शेषबालभावाना मैनतिप्रबु द्धमुग्धमनसिशयानां कन्यकानाम्, यल्लज्जा न पारिता नामास्मिञ्जने स्वयं परित्यक्तुं देव्या । परिग्रहः स्वीकारस्तस्माद्विना पल्लवस्य किसलयस्यानुरागदर्शनं तस्य कृते तदर्थ पादपो वृक्षः किं करोतु । किं कुर्यादित्यर्थः । तत्रेति । तस्मिन्प्रदेशे देव्याः कादम्बर्या आज्ञेव निदेश एवापराधिन्यपराधवती, ययाज्ञया केवलमधरस्पन्दितमधरस्पन्दितमात्रं तस्मिन्प्रतीक्षा विलम्बो यस्य स तस्मिन् । ओष्ठस्फुरणानन्तरमेव कार्यकारिणीत्यर्थः । पुरःस्थायिन्यत्रे दासजने सेवकजने निष्करुणतया निर्दयतयात्मानं 'स्वमव्यापारयन्त्याऽनियोजयन्त्या सुखस्य सौख्यस्य प्रतिपन्थिनी वैरिणी, दुःखस्या सुखस्य दानं वितरणं तत्रैकाऽद्वितीया निपुणाभिज्ञा, परहृदयस्यान्यचित्तस्य पीडा वेदना तामनपेक्षतेऽसमीहत इत्येवंशीला लज्जा त्रपाऽपेक्षितेहितेयं जीवितसंदेह दायिनी प्राणितसंदेहकारिणीति देव्याः कादम्बर्या न समाचष्ट नाख्यातवती । अथवेति प्रकारान्तरे । देव्याः कादम्बर्या अस्य परिजनस्यापि परिच्छदस्यापि कोऽयमनिर्वचनीयस्वरूप एवंविध एतादृशो व्यामोहो मूढता यदसौ कादम्बर्यनिच्छन्त्यप्यनभिलषन्त्यपि बलाद्धठान्न व्यापारिता न प्रेरिता । कीदृशीति । चरणतले प्रतिबद्धस्य लग्नस्य दासजनस्य सेवकलोकस्योपर्युपरिष्टात्कीदृशी लजा त्रपा । वाथवा गौरवं गुरुत्वं कीदृशम् । को वानुरोधः प्रतिबन्धः । केयमीदृश्यविश्वस्त चित्तताऽविश्रम्भमनस्कता यस्माद्धेतोरेवममुना प्रकारेणात्मनः स्वस्य शिरीषपुष्पवत्कोमलस्य सुकुमारस्येयमतिदारुणात्युग्रा पीडाङ्गीकृता स्वीकृता । मे मम मनोरथोऽभिलाषो न कृतार्थितो न सफलीकृतः । अथवेति युक्त्यन्तरे । वामलोचनानां मनस्विनीनामन्तर्धानं तिरोधानं क्रमागतं परिपाव्या समागतमेव । विशेषतो विशेषादेवापरित्यक्तो निःशेषो बालभावो यांभिस्तासाम् । अन तीति । नातिप्रबुद्धं यन्मुग्धं मर्नेस्तस्मिन्शयानां स्थितानां कन्यकानां कुमारीणाम् । नामेति कोमलामन्त्रणे । यदस्मिञ्जने चन्द्रापीडलक्षणे स्वयमात्मना देव्या कादम्बर्या लज्जा त्रपा परित्यक्तुं विमोक्तुं न पारिता न शक्ता, टिप्प० - 1 'चन्द्रमूर्तेरालोकेन' इत्यारभ्य 'किं करोतु पादपः' एतत्पर्यन्तं सहशेन अप्रस्तुतेन वाथ्यार्थेन सहशस्य प्रस्तुतस्य कादम्बरीचन्द्रापीडयोर्व्यवहारस्य गम्यत्वादप्रस्तुतप्रशंसा ( सामान्यात् सामान्यस्य गम्यतारूपा, पञ्चमी ) । केषांचिन्मते प्रतिवस्तुपमा । 2 सर्वथा ग्रन्थस्वारस्यं न स्पृशति दूरतोपि । 'देव्याः समवस्था' इत्येव पाठः । देव्याः कादम्बर्याः आज्ञाया एवाऽपराधो चया हि माइशे दासजने संमुखस्थितेऽपि (अहं तु आज्ञानुकूल एवासम्, पुनः किं कारणमा सीद्विरहसंतापानुभवस्येतिभावः) आत्मानम् ( अर्थात्स्वम् भाज्ञाम्) अव्यापारयन्त्या अप्रदिशन्त्या लज्जाया अपेक्षा कृता, देव्याः कादम्बर्याः समवस्यायाः परिस्थितेः (बिरहविकलतायाः) अपेक्षा न कृता, या हि लज्जा देण्या जीवितसंदेहदायिनीति स्पष्टस्वार्थः । 3 आत्ममनोभावल गोपनमिति यावत् । 4 धिङ् मौज्यम् । जनतिप्रबुद्धः (न अतिवृद्धि गतः ) मनसिशयः कामो यासां वासामित्यर्थः । पाठा०. ७-१ प्रतीक्ष्ये. २ परिपन्थिनी ३ समवस्था ४ अथवास्य परिजनस्यापि देव्या अपि; अथवा जनस्यास्योपरि देव्या अपि ५ अनेच्छन्त्यापि बहादसौ न व्यापारित: ६ प्रतिबद्धदासजनस्स. ७ अनमिवुद्ध ८ ब्जां न पारितम्. चन्द्रापीडस्य प्रतिवचनम् ] उत्तरभागः । मदलेखा तु द्वितीयं हृदयमस्याः । तथा किमेवमहार्य संयम धनैर्मुनिभिरण्यरक्षितर्हृदयापहारेणानिग्राह्यचौरेण शुचिभिरध्यपरिहार्य रैपर्शेना बहिष्कार्य चाण्डालेन भस्मीकृतापर्यवसानप्राणिसहस्रेणानिर्वाण्यश्मशानामिना सर्वदोषाश्रयेणाशरीरव्याधिना रूपापहारिणा कॉण्डव्यावेन मर्मभेदिनालीकधनुर्धरेण सद्यःप्राणापहारक्षमेणाकालमृत्युनाऽनिरूपित स्थाना स्थान प्रवर्तिना परापकारकृतार्थेन हृदयवासिनाऽपरप्रत्ययेन स्वयोनिना कामेन दुरात्मनाऽऽयास्यमानं देवीशरीरमुपेक्षितम् । किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् ? अधुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि किं करोमि ? मलयानिलाइ तलताकुसुमपातस्याप्यसहं देवीशरीरम् । वज्रसार कठिनहुँदयैरस्मद्विधैरपि दुर्विषहाः स्मरेषवः । न ज्ञायते निमेषैमात्रेणैव किं वा भवतीति । प्रायेण च देव्या। ५२३ तर्ह्यस्या देव्या मदलेखा तु द्वितीयं हृदयम् । तया मदलेखया किमेवं पूर्वोक्तप्रकारेण दुरात्मना कामेनायास्यमानं पीड्यमानं देवीशरीरमुपेक्षितमुपेक्षा विषयीकृतम् । इतः कामं विशेषयन्नाह - अहार्येति । न हार्य हर्तु योग्यं संयमधनं व्रतधनं येषामेवंविधैर्मुनिभिरपि वाचंयमैरप्यरक्षितो हृदयापहारः प्राणापहरणं यस्मात्स तेन । अनीति । न निग्रहीतुं योग्योऽनिग्राह्य एवंविधश्चौरस्तस्कर स्तेन । शुचिभिरिति । शुचिभिरपि पवित्रैरप्यपरिहार्यः परिहर्तुमशक्यः स्पर्शो यस्य स तेन । अबहिरिति । अबहिष्कार्याण्याभ्यन्तरकृत्यानि तेषु चाण्डालेन मातङ्गेन । भस्मीति । भस्मीकृतमपर्यवसानमनन्तं प्राणिसहस्रं येन स तेन । अनिति । अनिर्वाप्यमविध्मातं यच्छ्रशानं पितृवनं तस्याग्निरिवाग्निस्तेन । सर्वेति । सर्वदोषाणां समग्रदूषणानामाश्रयेणाधारभूतेन । अशरीरेति । न विद्यते शरीरं यस्मिन्नेवंभूतो व्याधिरामयस्तेन । रूपेति । रूपं सौन्दर्यमर्पहरतीत्येवंशीलेन रूपापहारिणा । काण्डेति । काण्डेन बाणेन विध्यतीति काण्डव्याधस्तेन । मर्मेति । मर्मभेदिनाsवेध्यस्थलघातकेन । अलीकेति । अलीको मिथ्या धनुर्धरो धनुष्मांस्तेन । सद्य इति । सद्यस्तत्कालं यः प्राणापहारोऽनुग्रहणं तत्र क्षमेण समर्थेन । अकालेति । अकालेना प्रस्तावेन मृत्युना मरणेन । अनिरूपितेति । अनिरूपितेऽदर्शिते ये स्थानास्थाने योग्यायोग्यस्थले तत्र प्रवर्तिना प्रवर्तनशीलेन । परेति । परस्य योऽपकारोऽपकृतिस्तेन कृतार्थेन कृतकृत्येन । हृदयेति । हृदये चित्ते वसतीत्येवंशीलेन । अपरेति । अपर मि ञ्शत्रावपि प्रत्ययो विश्वासो यस्य स तेन । स्वयोनिनात्मयोनिना । किमितीति । तत्रस्थस्यैव हेमकूटस्थस्यैव मे मम कर्णे श्रोत्रे । जात्येकवचनम् । किमिति केन हेतुना नावेदितं न कथितम् । अधुनेति । सांप्रतं श्रुत्वा याकर्ण्यापि दिवसानां वासराणां क्रमः परिपाटी तेन गम्ये गन्तुं योग्येऽध्वनि मार्गेऽहं किं करोमि । न किमपि कर्तुं समर्थ इत्यर्थः । मलयेति । मलयानिलेन मलयवायुनाहतं ताडितं यल्लताकुसुमं तस्य यः पातः पतनं तस्याप्यसहं सोढुमसमर्थं देव्याः कादम्बर्याः शरीरं देहम् । लतापुष्पपातेनापि ग्लानिं प्राप्नोतीत्यर्थः । वज्रेति । वज्रं हीरकस्तस्य सारो मध्यं तद्वत्कठिनं हृदयं चेतो येषामेवंविधैरपि स्मरेषवः कंदर्पबाणा दुर्विषहा दुःखेन सोढुं शक्या इति न ज्ञायते नावबुध्यते । इतीति किम् । निमेषमात्रेणैव निमीलनमात्रेणैव किं भवति किं जायते । प्रायेणेति । प्रायेण बाहुल्येन देव्यापि कादम्बर्याप्ययमर्थो दुःखलक्षणोऽनुभवनीय टिप्प० – 1 अबहिष्कार्यश्वासौ चाण्डालश्च । अन्यश्चाण्डालः समीपादितो बहिष्कर्तुं शक्यः कामस्तु न तथेति स्पष्टोर्थ ! । 2 निर्वापण विशेषणमग्ने रेवोचितं न श्मशानस्येति न निर्वाप्यो यः श्मशाना निस्तेने त्येवार्थः । 3 अशरीरोपि विध्यति इति । तथा च यस्य शरीरं नास्ति तथापि वेधनकारिणेति सुन्दरोऽर्थः । 4 कामो न सौन्दर्यमपहरति । अत एव सौन्दर्येण (परकीयेण) अरहरांत धैर्यादपनयतीति रूपापहारीत्यर्थः । अथवा अरूपश्चासौ अपहारी चेत्यर्थः । 5 अकाण्डे विध्यतीत्येवोचितोऽर्थः । 6 अकाले मृत्युस्तेन । 7 नास्ति परेण प्रत्ययो यस्य, स्वसंवेद्य इत्यर्थः । पाठा० - १ असंरक्षित २ प्राणहृदय ३ स्पर्शनचाण्डालेन. ४ अकाण्ड, ५ कृतान्तेन ६ हृदयैरपि, ७ निमे षेणैव किं भवतीति. ५२४ कादम्बरी । [ कथायाम्प्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किंचनकारिणो निष्कारणकुपितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नैताबता स्थास्थतीति । अन्यथा क निष्प्रयोजनाश्वमुखानुसरणेनामानुषभूमिगमनम्, क च तंत्र तृषितस्याच्छोददर्शनम्, क तंत्र तीरे विश्रान्तस्यामानुषंगीतध्वनेरा कर्णनम्, क तजिज्ञासागतस्य महाश्वतावलोकनम्, क तत्र तरलिकया सह तवाभिगमनेन मद्गमन प्रस्तावः, क. महाश्वेतया सह हेमकूटगमनम्, क तत्र देवीवदनदर्शनम्, क्क रोगोत्पत्तिरस्मिञ्जने देव्याः, वाऽपरिपूर्ण मनोरथस्य मे पितुरलङ्गनीयाऽऽगमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणास्मत्कर्म बलनियोगदक्षेण दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे ।' इत्यभिदधयेव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापितः, तर्किमपर• महमेनमात्मतेजसा संतापयामि' इत्युत्पन्नदय इव भगवांस्तिग्मदीधितिरुत्तप्त कन कद्रवस्फुलिङ्गपिङ्गलद्युति दिग्विकीर्णधूर्जटिजटामण्डलानुकारि संजहार करसहस्रम् । अस्तानुसारेण च रखेएवानुभव विषयीकरणीय एव । यथा चेति । दुःखस्यैकम द्वितीयं दानं तत्र व्यसनमासक्तिर्विद्यते यस्य स तस्य । दुर्घटेति । दुःखेन घटितुं योग्या दुर्घटा एवंविधा या घटना पदार्थानामन्योन्यं संबन्धरतत्र पण्डितस्य विबुधस्य । यत्किंचन यदेव तदेव करोतीत्येवंशीलस्य यत्किंचनकारिणः । निष्कारणं निर्निमित्तं कुपितस्य कोपं प्राप्तस्यास्य हतविधेर्दुष्टविधातुर्यथा सर्वतः सर्वत्र विसंस्थुलं विसदृशं समारम्भं निर्माणं पश्याम्यवलोकयामि । तथेति । तेन प्रकारेणेति जानाम्याकलयामि । इतीति किम् । नेति । एतावतैतावत्कालं न स्थास्यति नावस्थानं करिष्यति । अन्यथेत्युक्तविपर्यये । निष्प्रयोजनेन निष्कारणेनाश्वमुखाः किंनरास्तेषामनुसरणेनानुगभनेनामानुषभूमिगमनं मनुष्यरहितक्षितौ यानम् । क्व केति महदन्तरे । तत्रामानुषभूमौ तृषितस्य पिपासितस्याच्छोददर्शनं क्व । तत्रेति । तत्राच्छोदनाम्नस्तीरे विश्रान्तस्य गृहीतविश्रामस्यामानुषाः किंनरास्तेषां गीतध्वनेर्गेयशब्दस्याकर्णनं श्रवणं क्व । तस्य ज्ञातुमिच्छा तज्जिज्ञासा तयागतस्य प्राप्तस्य महाश्वेताया अवलोकनं निरीक्षणं क्व । तत्र महाश्वेतावलोकनस्थले तरलिकया सह तव केयूरकस्याभिगमनेनागमनेन मद्गमनप्रस्तावो मदीययानावसरः क्व । महाश्वेतया सह सार्धं हेमकूटगमनं क्व । तत्र हेमकूटे देवीवदनदर्शनं कादम्बरीमुखावलोकनं क्व । अस्मिन् जने देव्याः कादम्बर्या रागोत्पत्तिः क्व । अपरिपूर्णमनोरथस्यापरिपूर्णाभिलाषस्य मे मम पितुर्जनकस्यालङ्घनीयानतिक्रमणीयागमनाज्ञागमन नियोगः क्व । तदिति । तत्तस्माद्धेतोः सुदूरमत्युच्चैरारोप्यारोहणं कारयित्वा अनेनाकार्यकारिणाऽकृत्यकारिणास्माकं यत्कर्मबलं तस्य नियोगो व्यापारणं तत्र दक्षेण विबुधेन दग्धनेवसा ज्वलितधात्रा । खलु निश्चयेन वयं पातिता अधःस्थलं प्रापिताः । तथापीति । तथाप्येवं सत्यपि देवीं संभावयितुमाश्वासयितुं प्रयतामहे प्रयत्नं कुर्महे । 1 इत्यभिदधत्येवेति कथयत्लेव चन्द्रापीडे नितरामतिशयेनायं चन्द्रापीडोऽनेन पूर्वोक्तेनैव कादम्बरीवृत्तान्तेन कुमारिकोदन्तेन संतापितः संतापं प्रापितः । तत्किमेनं चन्द्रापीडमात्मतेजसा स्वकीयवर्चसा परं संतापयामि । इत्युत्पन्नदय इवेति संजातकृप इव भगवांस्तिग्मदीधितिः सूर्यः करसहस्रं संजहारापसेसार । करसहस्रं विशेषयवाह- उत्ततेति । उत्तप्तमुष्णीकृतं यत्कनकं सुवर्ण तस्य द्रवो रसस्तस्य स्फुलिङ्गः कणस्तद्वत्पिङ्गला कपिला द्युतिः कान्तियस्मिंस्तत्तथा । दिग्विकीर्णा विक्षिप्ता या धूर्जटिजटा ईश्वरसटास्तासां मण्डलं तदनुकारि तत्सादृत्रयकरणशीलम् । अस्तेति । रवेः सूर्यस्यास्तानुसारेणास्तसमयानुसरणेन च वासरोऽपि दिवसोऽपि टिप्प० – 1 अपसारयामासेत्युचितम् । पाठा०-१ विसंस्थुळं २ नैवाय मेतावता. ३ अश्वमुखमिथुन ४ तत्तीरे ५ अनुराग ६ पर. ७ पिङ्गलगलहृयुति, ८ मण्डलाकारी, केयूरकेण सह संलाप: ] ५२५ 7 र्वासरोऽपि यथोच्छ्रिततरुशिखरावलम्बिनो रक्तातपच्छेदानाकर्षन्नपससार । क्रमेण च संजातकरुणानुबन्धयेव संध्ययाप्युपरि जलार्द्रपट इव प्रसार्यमाणे स्वरागपटले, निशागमेनाप्येवम् 'अस्य शून्यताविकृवस्य मा भूदर्शनम्' इत्याप्तेनेव सर्वतो नीली परिलम्बमानायामिव भ्राम्यमाणायां तिमिरलेखायाम्, कमलेष्वपि दुःसहत्वाच्छोषकारिणः संतापस्य तल्पकल्पनाभीतेष्विव संकुचत्सु, कुमुदेष्वपि शुचिस्वभावतयार्द्रार्द्रेषु शयनसंपादनायेवाहमहमिकयोहलत्सु, चक्रवा केष्वपि सहचरीविरहविधुरेषु कादम्बरीसमीपगमनोपदेशदानायेव कलकरुणमुच्चैर्मुहुर्मुहुव्र्याहरत्सु, चन्द्रमस्यपि भगवति सकलभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्वधूवदन चन्दनतिलके गगनतललक्ष्मीलावण्यमहाहदे सकललोकाहादकारिणि सुधालिप्तैः करैरिव स्प्रष्टुम्, उच्व हेतुनातं ज्योत्लाजलेन च सेक्तुम्, उदयगिरिशिखरमा रूढे, प्रौढे प्रदोषसमये चन्द्रापीडस्तस्मिन्नेव वल्लभोद्याने, चन्द्रातपस्पर्शदर्शित विशदजललवोद्भेदहारिणि चन्द्रमणिशिलाउत्तरभागः । यथोच्छ्रितं अत्युच्चं यथा स्यात्तथा तरूणां वृक्षाणां शिखराण्यग्राणि तेष्ववलम्बिनो गृहीतावलम्बनो (ना) रक्तो य आतपस्तस्य छेदाः खण्डास्तानाकर्षन्ना कृष्टिं कुर्वन्नपससारापसृतवान् । क्रमेण चेति । क्रमेण च परिपाट्या च संजातः समुत्पन्नः करुणायाः कृपाया अनुबन्धः संबन्धो यस्यामेवंविधयेव संध्ययाप्युपर्युपरिष्टाजलेनाईः विनो यः पटस्तस्मिन्निव खरागपटले व्योमरागसमूहे प्रसार्यमाणे विस्तार्यमाणे । निशेति । एवं निशागमेनापि शून्यता विमनस्कता तया विक्लवस्य विह्वलस्यास्य राज्ञो मा भूद्दर्शनमवलोकनमित्याप्तेनेव शिष्टेनेव सर्वतः सर्वत्र नीली शैवलं तद्वत्सामस्त्येन परिलम्बमानायां प्रसृतायामिव तिमिरलेखायां तमिस्रवीथ्यां भ्राम्यमाणायामिनस्ततो विक्षिप्यमाणायां सत्याम् । कमलेष्वपीति । शोषकारिणः शोषकर्तुः संतापस्य क्लेशस्य दुःसहत्वाद्दुःखेन सोढुं शक्यत्वाद्धेतोर्या तल्पकल्पना शयनीयकल्पना तया भीतेष्विव भयं प्राप्तेष्विव कमलेष्वपि संकुचत्सु संकोचं प्राप्यमाणेषु सत्सु । कुमुदेष्वपीति । कुमुदेष्वपि कैरवेष्वपि शुचिस्वभावतया निर्मलप्रकृतितया । आर्द्राश्चंद्रश्च आर्द्राद्विस्तेिष्वत्यन्तं जलसमुन्नेषु । अहं पूर्वमहं पूर्वमित्यहमहमिका तथा शयनसंपादनायेव तल्पकल्पनायेवोद्दलत्सून्मिषत्सु सत्सु । चक्रवाकेष्वपि सहचरेष्वपि सहचारिण्यश्चक्रवाक्यस्तासां विरहो वियोगस्तेन विधुरेषु पीडितेषु सत्सु । कादम्बर्या: समीपमभ्यर्ण गमनं यानं तस्योपदेशस्तस्य दानायेव कलं करुणं यथा स्यात्तथोच्चै रुच्चस्वरेण मुहुर्मुहुर्वारंवारं व्याहरत्सु ब्रुवत्सु सत्सु । चन्द्रमस्यपीति । भगवति माहात्म्यवति सकलभुवनस्य समस्तलोकस्यैकम द्वितीयमातपत्रं छत्रं तस्मिन्सुधाया रजतकलशे रौप्यकुम्भे । पूर्वदिगेव वधूः स्त्री तस्या वदनं मुखं तस्मिंश्चन्दन तिलके मलयजपुण्ड्रे । गगनतलमाकाशतलं तस्य लक्ष्मीः शोभा तस्या लावण्यं चातुर्यं तस्य महाहदे । सकललोकस्य समस्तभुवनस्याह्लादं प्रमोदं करोतीत्येवंशीलः स तथा तस्मिन् । सुधालिप्तैरमृतस्निग्धैः करैर्हस्तैः स्प्रष्टुं स्पर्श कर्तुमिव तथोच्छ्वासहेतुनादरकारणेन तं चन्द्रापीडं ज्योत्स्ना कौमुदी सैव जलं पानीयं तेन च सेक्तुं सिञ्चनं कर्तुमिव । उदयगिरिरुदयाचलस्तस्य शिखरं सानुमारूढ आरोहिते सति । प्रौढे महति प्रदोषसमये यामिनीमुखलक्षणे चन्द्रापीडस्तस्मिन्नेव पूर्वोक्त एष वल्लभोद्याने वल्लभाभिधाने वने । चन्द्रातपेति । चन्द्रातपस्य चन्द्रालोकस्य यः स्पर्शः संबन्धस्तेन दर्शितः प्रकटीकृतो विशदं निर्मलं यज्जलं तस्य लवोंऽशस्तस्योद्भेदः प्राकट्यं तेन हारिणि मनोहर एवंविधे चन्द्रमणेश्चन्द्रकान्तरत्नस्य शिलातलेऽङ्गानि टिप्प० -1 वस्तुतस्तु 'नीली परिलम्बनायामिव' इति पाठः । नीली नीलवर्णयुक्ता या परिलम्बना दिरस्करिणी तस्यामिव तिमिरलेखायां भ्राम्यमाणायाम् । 2 आर्द्राणीति कीब सैवोचिता, कुमुदानां नपुं सकलिङ्गत्वात् । 3 उच्छ्रासहेतुना जीवनकारणेन । पाठा० •१ क्रमेणैव. २ प्राप्तेनेव. ३ मुहुः ४ समस्त ५ ज्योत्लाजलेनेव. ५२६ कादम्बरी । [ कथायाम्तले विमुच्याङ्गानि चरणसंवाहनोपसृतं केयूरकमवादीत् – 'केयूरक, किमाकलयसि, यावद्वर्य परापतामस्तावत्प्राणान्धारयिष्यति देवी कादम्बरी ? पारयिष्यति वा तां विनोदयितुं मदलेखा ? आगमिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता ? मत्परिचयोद्वेजिता प्रतिपत्स्यते वा शरीरस्थितये तयोरैभ्यर्थनाम् ? द्रक्ष्यामि वा पुनस्तस्याः स्मेरसृक्कोपान्तमालोलतारकमुत्रतहरिणशाव काय तेक्षणं मुखम् ? इति । स तु व्यज्ञपयत् – 'देव, धैर्यमॅबलम्ब्य गमनाय यत्नः क्रियताम् । तिष्ठतु तावदासन्नवर्ती सखीजनः परिजनो वा तस्या हि त्वदालोकनेच्छेव स्वेच्छया निमैषितुमपि न ददाति । समागमाशयैवावष्टव्धं हृदयम् । श्वसितमेव मुखे वैहितम् । रोमाञ्ज एव क्षणमपि शरीरं न मुञ्चति । दिवानिशं बाप्प एव लोचनपथस्थायी प्रजागर एव रात्रावपि दत्तहस्तपादादीनि विमुच्य संस्थाप्य । एतेन गात्रस्यातिशैथिल्यं सूचितम् । चरणस्य संवाहनं मर्दनं तस्मिन्नुपसृतं समीपागतं केयूरकमवादीदब्रवीत् हे केयूरक, किं त्वमाकलयस्याकलनां करोषि । यावत् यावता कालेन वयं परापतामस्तत्र गच्छामस्तावत्कालं देवी कादम्बरी प्राणानसून्धारयिष्यति प्राणधारणां करिष्यति । अथवा तां कादम्बरीं विनोदयितुं मदलेखा पारयिष्यति समर्था भविष्यति । वेति विकल्पार्थे । महाश्वेता पुनद्वितीय वारं तस्याः कादम्बर्याः समाश्वासनायाश्वासनां कर्तुमागमिष्यति यास्यति न वा । मदिति । मया सार्धं यः परिचयः परिचितिस्तेनोद्वेजिता उद्विग्ना तयोर्महाश्वेतामदलेखयोरभ्यर्थनां प्रार्थनां शरीरस्थितये देहधारणाय प्रतिपत्स्यते न वाङ्गीकरिष्यति न वा । अङ्गीकरिष्यतीत्यर्थः । द्रक्ष्यामीति । वेति पूर्ववत् । पुनर्द्वितीयवारं तस्याः कादम्बर्या मुखमाननं द्रक्ष्यामि दृग्विषयीकरिष्यामि वा । मुखं विशेषयन्नाह – स्मेरेति । स्मेरं विनिद्रं सृक्कयोरोष्ठप्रान्तयोरुपान्तं समीपं यस्मिन् । आलोलेति । आलोला चञ्चला तारका कनीनिका यास्मंस्तथा । उन्नस्तेति । उत्रस्तश्चकितो यो हरिणशावको मृगशिशुस्तद्वदायते विस्तीर्णे अक्षिणी यस्मिंस्तत्तथा । सत्विति । स केयूरको व्यज्ञपय द्विज्ञप्तिमकरोत् । किं तदित्याह - देवेति । हे देव हे खामिन्, धैर्य सत्त्वमवलम्ब्यावलम्बनीकृत्य गमनाय यानाय यत्न उद्यमः क्रियतां विधीयताम् । तिष्ठत्विति । तावदादावासन्नवर्ती समीपस्थायी सखीजन आलिवर्गः परिजनो वा परिच्छदो वा तिष्ठतु । अत्रावस्थानं करोत्वित्यर्थः । तस्या हीति । हि निश्चितम् । तस्याः कादम्बर्यास्त्वदालोकनेच्छेव त्वनिरीक्षणवाञ्चैव खेच्छया खात येण निमेषितुमपि निमेषं कर्तुमपि न ददाति न दत्ते । सर्वदा निमेषरहितैव तिष्ठतीति भावः । समागमो मेलापकस्तस्याशा वान्छा तयैवावष्टब्धं स्तब्धनां प्राप्तं हृदयं चेतः । अन्यथा स्फुटितं स्यादिति भावः । श्वसित. मिति । मुख आनने श्वसितमुच्छ्रसितमेव वैहितं प्रवाहरूपतया चलितम् । रोमाञ्चेति । रोमाञ्च एव रोमोद्गम एव क्षणमपि क्षणमात्रमपि शरीरं देहं न मुञ्चति न त्यजति । सर्वदी तस्या रोमाञ्चलक्षणः सात्त्विकभाव एव तिष्ठतीति भावः । दिवेति । दिवानिशमहर्निशं बाष्प एव लोचनपथस्थायी नेत्रमार्गस्थायी । अहोरात्रं रुदन मेव करोतीति भावः । प्रजागर इति । प्रजागरणमेव रात्रावपि निशायामपि दत्तदृष्टिर्न्यस्त हवर्तते । रात्राटिप्प० - 1 मूलकारेण जिज्ञासार्थ प्रश्न एव कृतः, एवंस्थले निश्चयकरणमनुचितमेव । 2 न खलु हरिणशिशुनंबनयोरुपमानम्, अपि तु तक्षयने । अत एत्र हरिणशावकत्येव जायते दक्षिणी यस्येति विग्रह उचितः । 3 सर्वत्र 'समागमाशयैव' इत्यस्यानुषङ्गः, अत एव समागमाशया मुखे श्वसितमेव अवहितम्, समागमप्रत्याशया सर्वदा मुखे निश्वासो दत्तावधानोस्तीति भावः । टीकांकारस्यार्थः संप्रति तुलनीयः । पाठा० -१ मां कलयसि; मामालपसि. २ संधारयिष्यति ३ अभ्यर्थना; अभ्यर्धनात्. ४ आयताक्षं, ५ समबलम्ब्य. ६ आसन्नसखीजन: ७ विहितम् ; अवहितम्. केयूरकेण सह संलापः ] उसरभागः । ५२७ दृष्टि: । अरतिरेव नैकाकिन्याः क्षाम्यत्यवस्थानम् । जीवितमेव कण्ठस्थानान्नापसरति' । .9 एवं वदन्तं तैमादिदेश विभान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्राविशत् । यदि तावदकथयित्वानभिपत्य चरणयोरनाघ्रातः शिरस्यगृहीताशी: सहसानुत्संकलित ईव तातेनाम्बैयोक्तमपक्रम्य गच्छामि, ततो गतस्यापि मम कुतः सुखम् कुतः श्रेयः, कुँतो वोशफैलावाप्तिः, कीदृशी वा हृदय निर्वृतिः । अथवा तिष्ठतु ताव दियमुत्तरकालागामिनी चिन्ता । अपक्रम्य गेत एवं कथमहम्, यत्तातेन दुस्तराहवार्णवोत्तरण महासेतुबन्धोदवन्ध्यवाञ्छितफलप्रदान कल्पद्रुमा दहितविक्रान्तियशोनिष्क्रान्तिद्वारा र्गलदण्डौर्देशेषभुवनभवनोत्तम्भनस्तम्भात्स्वभुजादबारोष्य मय्येव राज्यभार आरोपितः, तदनाख्याय पदमपि निर्याते मय्यबश्यमपरिमितकरितुरगरथगमनसंक्षोभितधरातलैः, आलोलकदलिका कामनाकुलीकृतभास्वद्गभस्तिबपि निद्रां न गच्छतीति भावः । अरतिरिति । एकाकिन्या अद्वितीयाया अवस्थानमरतिरेवाधृतिरेव में क्षाम्यति न सहते। अरतिरेवैकाकिनी न मुञ्चतीति भावः । जीवितमेवेति । कण्ठस्थानान्निगरणस्थलाजीवितमेव प्राणितमेव नापसरति न दूरीभवति । प्राणाः कण्ठगता एव वर्तन्त इति भावः । एवं वदन्तं जल्पन्तं तं केयूरकं विश्रान्तये विश्रामायादिदेशादेशं दत्तवान् । आत्मनापि स्वेनापि गमनचिन्तां प्राविशत्प्रवेशं कृतवान् । तच्चिन्तां प्रदर्शयन्नाह – यदीति चेदर्थे । तावदादावकथयित्वानापृच्छ्य चरणयोरनभिपत्यापतित्वा प्रणाममकृत्वा शिरस्युत्तमाङ्गेऽनाघ्रातो न चुम्बितोऽगृहीताशीरनात्ताशीर्वादः सहसैकऽनुत्त इव स्वेच्छा प्रवृत्तपुरुष इव तातेन पित्रा, अम्बया जनन्या उक्त प्रतिपादितमपक्रम्योल्लङ्घष गच्छामि ब्रजामि । ततो हेत्वर्थे । तस्माद्गतस्यापि मम कुतः सुखं सौख्यम्, कुतः श्रेयः कल्याणम्, कुतो वोच्चं महद्यत्फलं साध्यं तस्यावाप्तिः प्राप्तिः । कीदृशी हृदयस्य चित्तस्य निर्वृतिः संतुष्टिः । अथवेति पक्षान्तरे । उत्तरकाल आयतिस्तत्रागमिन्यागमनशीला येयं मानसिकी प्रत्यक्षा चिन्तार्तिस्तावत्सांप्रतं तिष्ठत्वास्ताम् । अपक्रम्येति । अपक्रम्यै व्यावृत्य गत एव कथमहम्, तातेन पित्रा दुःखेन तीर्यत इति दुस्तर एतादृशो य आहवार्णवः संग्राम समुद्रस्तस्योत्तरण उल्लङ्घने महान्सेतुबन्धःपालिबन्धस्तस्मात् । अवन्ध्यं योग्यं यद्वाञ्छितफलं समीहितसाध्यं तस्य प्रदाने वितरणे कल्पद्रुमः कल्पवृक्षस्तस्मात् । अहितेति । अहितस्य शत्रोर्यद्विक्रान्तियशः पराक्रमाभिख्या तस्य निष्कान्तिद्वारं निर्गमप्रतोली तस्मिन्नर्गलादण्डः प्रतिषेधकाष्टं तस्मात् । अशेषाणि समप्राणि यानि भुवनानि विष्टपानि तान्येव भवनं गृहं तस्योत्तम्भनं धारणं तत्र स्तम्भः स्थूणा तस्मात् । एवं विधात्स्वभुजात्स्वकीयबाहोरवारोप्योत्तार्य मय्येव मद्विषय एव राज्यभार आधिनत्यवीवध आरोपितो न्यस्तः, तत्तस्माद्धेतोरनाख्यायानापृच्छ्य पदमपि क्रममात्रमपि मयि निर्याते निर्गते सत्यवश्यं निश्चितमपरिमिता असंख्या ये करितुरगरथा गजाश्वस्यन्दनास्तेषां गमनं यानं तेन संक्षोभितं क्षोभं प्रापितं धरातलं वसुधातलं यैस्ते तथा तैः । आलोलानि चबलानि यानि कदलिका पताका एव काननानि वनानि तैराकुलीकृता भाखद्गभस्तयो र विकिरणा यैस्ते तथा तैः । ऊर्ध्वं रतिस्तामेकाकिनी टिप्प० - 1 धिङ् मूढताम् । किं तर्हि मदलेखादयः सख्यस्तां मुञ्चन्ति ? अत एव भर न त्यजति । सर्वदा तिष्ठतीत्यर्थः । 2 अप्रे आगामित्वात्परोक्षेति वक्तव्यम् । 3 अपक्रम्य स्वेच्या पलाय्य कथमहं गतः अर्थात् गतः स्याम् गच्छेयम्, यतो हि मदुपरि पित्रा स्वभुजादवतार्य भार भारोपित इत्य. प्रेण संबन्धः । पाठा० -१ एवंच. २ एनम्. ३ अनिपत्य. ४ उत्संकलित; उच्छृङ्गलित. ५ एव. ६ अम्बया वाक्रम्य; अम्बया वक्तव्यमपक्रम्य. ७ किं श्रेयः ८ वा फलावाप्तिः ९ गम्यत एव कथमयम् १० तातेन. ११ दुस्त दुःखार्णव. १२ अवध्य. १३ अहितजन. १४ अशेषभवन. १५ समारोपितः १६ गज. ૨૮ [ कथायाम् मिः, ऊर्ध्वधियमाणधवलातपत्रमण्डलच्छायान्तरित वासरव्यतिकरैः, अतिबहलरेणूगमाविच्छेदापूरितभुवनकुहरैः, पुरःप्रसृतजवनवाजिभिः, अनुसंतानलमवेतण्डप्रायसाधनैः, श्रान्तैरपि बुभुक्षितैरव्यकृतगतिविलम्बैरापयोधेरैष्टाभ्यो दिग्थ्यो राजभिरनुधावितव्यम् । तिष्ठन्तु तावत्सेवापरा राजानः । सुखपरिभुक्ताः प्रजा अपि तातस्नेहात्परित्यक्तपुत्रदाराः पृष्ठतो लग न्तीति मे चेतसि । अपि च तातस्यापि कोऽपरोऽस्ति, यस्मिन्मदीयं स्नेहं संक्रमय्य मय्यपक्रान्ते, 'यातु किमनेन गँतेनागतेन वा' इत्यविनयकोपितोऽवष्टम्भं कृत्वा स्थास्यति । कस्य चौपरस्य मुखमालोकयन्ती सुखायमानहृदया मत्प्रत्यानयनाय कृतार्तप्रलापा न तातमेवाकुली करोत्यम्बा । ताते च पृष्ठतो लग्नेऽष्टादशद्वीपमालिनी मेदिन्येव लग्ना भवतीति । तदा मया क गतम्, चँ स्थितम्, क विश्रान्तम्, कं यातम्, क भुक्तम्, कापसृतम्, कात्मा मया गोपांयितव्यः, कादम्बरी । प्रियमाणं यद्धवलातपत्रं श्वेतच्छत्रं तस्य मण्डलं वृत्तं तस्य छायातपाभावस्तेनान्तरितस्तिरोहितो वासरव्यतिकरो दिवसवृत्तान्तो यैस्ते तथा तैः । अतिबहला अतिनिबिडा ये रेणवो धूलयस्तेषामुद्गमः प्रादुर्भावस्तस्याविच्छेदेन संतानेनापूरितानि भरितानि भुवनकुहराणि त्रिविष्टपच्छिद्राणि यैस्ते तथा तैः । पुरोऽग्रे प्रसृताः प्रसरणं प्राप्ता जवेनदेशोत्पन्ना वाजिनो हया येषां ते तथा तैः । अनुसंतानमनुसैन्यसमूहं लग्नाः संबद्धा ये वेतण्डा गजास्तेषां प्रायो बाहुल्येन साधनं सैन्यं येषां तैः । कृष्णत्वसाधर्म्यात् । अत एवोत्प्रेक्षते - आ समन्तात्पयोदैरिव मेघैरिव श्रान्तैरपि खिन्नैरपि बुभुक्षितैरपि क्षुधितैरप्यकृतोऽविहितो गतौ गमनविषये विलम्बो मन्दता यैरेवंविधैः पयोधिं समुद्रं मर्यादीकृत्याष्टाभ्यः पूर्वादिदिग्भ्यो राजभिर्नृपैरनुधावितव्यं मत्पृष्ठे त्वरितगत्या समेतव्यम् । एतेन राज्ञां स्वामिकार्योद्यतत्वं सूचितम् । तिष्ठन्त्विति । सेवापराः सपर्यायां तत्परा राजानो भूभुजस्तावत्सांप्रतं तिष्ठन्त्वास्ताम् । सुखेति । सुखेन प्रतिबन्धकाभावेन परिभुक्तमुपभोगादिकं यासां ता एवंविधाः प्रजा अपि प्रकृतयोऽपि तातस्नेहात्पितुः प्रीतेः परित्यक्तपुत्रदारा उज्झितसुतयोषितः सत्यः पृष्ठतः पृष्ठं लगन्ति लगिष्यन्ति । भविष्यदर्थे वर्तमाना । इति मे मम चेतास मनसि । वर्तत इति शेषः । अपि चेति विचारान्तरे । तातस्यापीति । तातस्यापि मत्पितुरपि कोऽपरोऽन्योऽस्ति । यस्मिन्मद्भिन्ने जने मदीयं मद्विषयकं स्नेहं प्रीतिं संक्रमय्य संक्रमणं कृत्वा मय्यपक्रान्ते गते सति, 'यातु व्रजतु । अनेन गतेन आगतेन घा, किम्' इत्यवनयेन पितृनियोगाकरणलक्षणेन कोपितः क्रोधं प्रापितोऽवष्टम्भं स्थैर्य कृत्वा स्थास्यव्यव स्थानं करिष्यति । कस्य चेति । च पुनरर्थे । अपरस्य मद्भिन्नस्य कस्यचिदनिर्दिष्ट नाम्नो मुखं वदनमालोक यन्ती पश्यन्ती सुखं करोतीति सुखायते सुखायत इति सुखायमानं हृदयं चेतो यरयाः सा, तथा मम प्रत्या• नयनं पश्चादानयनं तदर्थं कृतो विहित आर्तः प्रलापः पीडितरोदनं यया सैवंविधाम्बा माता न तातमेव न पितरमेवाकुलीकरोति ? भविष्यदर्थे वर्तमाना ।व्याकुलीकरिष्यतीत्यर्थः । ताते चेति । ताते पितरि । पृष्ठत इति सार्वविभक्तिकस्तस् । पृष्ठे लम्रे प्राप्ते सत्यष्टादशसंख्याकानि द्वीपान्यन्तरीपाणि मलति धारयतीत्येवंशीला मालिनी मेदिन्येव वसुधैव लभा भवतीति । पृष्ठसंचारिणी भविष्यतीत्यर्थः । तदै तस्मिन्काले मया व गतं क राम्यम्, क स्थितं क स्थातव्यम्, व विश्रान्तं क्व विश्रमितव्यम्, क्व यातं क्व गन्तव्यम्, क्व भुक्तं क्व भोजनं कर्तव्यम्, क्वापसृतं क्वापसरितव्यम्, मयात्मा क गोपायितव्यो रक्षितव्यः । टिप्प० -1 यवनदेशः प्रसिद्धो न जवनदेशः अतः जवना: जव (वेग) शालिनो ये वाजिन इत्येवार्थ: । 2 जासतामित्युचितम् । पाठा० --१ अष्टाभ्योऽपि २ अवश्यमनुधावितव्यम् ३ लगिष्यन्ति ४ गतेन वा. ५ वापरस्य ६ मेदिनीव. ७ भवति, ८ प्रस्थितम्. ९ क वा खादितं क्व पीतं क्व सुप्तं क्वापसृतमित्यनुयुञ्जनेभ्यः कथं कात्मा १० गोपयितव्यः• यात्रार्थ चन्द्रापीडय विचार: ] उत्तरभागः । ५२९ समासादितेन चात्र कथं मया बदनं दर्शयितव्यम्, पृष्टेन वा किमुत्तरं दातव्यम् ? अथापि कथंचि हैवनियोगानिःसृतोऽस्मि, तथाप्यनायासनीयं तातमेवं महीयस्यायासे, तातप्रसादाददृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता ? अपि च सुबेहुदिवस प्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति तेनापरसंविधानादर्धपथादेव निवृत्य पुनः प्रधावितव्यम् । अथावेच तातस्याम्बायाश्च ताभ्यां च विसर्जितः संविधानेन गच्छामि, तत्रापि किमिति कथयामि -- 'मम लेहेंदु:खिता गन्धर्वराजपुत्री कादम्बरी मामुद्दिश्य मकरकेतुनायास्यमाना दुःखं तिष्ठतीति ।' 'किं वा बलवान्मे तस्यामनुरागः । नै तया विनाहं प्राणान्संधारयामीति ।' 'किं तस्या मम च द्वयोरपि जीवितनियँन्धन हेतुभूतया महाश्वेतया तत्परिणयनाय मे संदिष्टमिति ।' 'किंवा तदुःखमपारयन्सोदुमयं केयूरक स्तन्द्वक्त्या मामानेतुमागत इति ।' 'अपरोऽपि वा कश्चिद्रवपदेशो न शक्यत एव पुनर्गमनाथ कर्तुम् । संप्रत्येव समधिकाद्वर्षत्रयात्प्रसाध्य समासादितेन च पुनः प्राप्तेन च मया कथं वदनं दर्शयितव्यमन्येभ्यः प्रकाशयितव्यम् । पृष्टेन वा प्रश्नविषयीकृतेन मया किमुत्तरं प्रतिवचो दातव्यं प्रदेयम् । अथापीति । अथेति विचारणान्तरे । कथंचिदपि महता कष्टेनापि दैवनियोगाद्विधिनिदेशान्निःसृतोऽस्मि निर्गतोऽस्मि । तथापि निःसृतेनाप्येवमनायासनीय मखेदनीयं तातं पितरं महीयस्यत्यन्तदीर्घ आयासे प्रयासे, तातप्रसादात्पितुरनुप्रहाददृष्टदुःखामनवलो कि तकृच्छ्रामम्बां मातरं वा निजस्य खस्यापक्रमणं निर्गमनं तस्माद्यः शोकः शुक्र स एवार्णवः समुद्रस्तस्मिन्पातयताक्षेपयताऽपुण्यबता पापिना मया कि कृतं भवति किमाचरितं स्यात् । अपि चेति । अपि च युक्त्यन्तरे । सुबहवश्च ते दिवसाच सुबहुदिवसास्तान्यावत्प्रवासो देशान्तरे स्थितिस्तेनोपतप्तो व्याकुलीकृत एतादृशो मे मम स्कन्धाबारोऽपि सैन्यनिवेशोऽप्यद्यापीदानीमपि न परापतति नागच्छति । तेन हेतुनार्धपथादर्धमार्गानिवृत्य व्याघुट्यापर संविधानादेपर सैन्यग्रहणाद्धेतोः पुनः कालान्तरे मया प्रधावितव्यम् । त्वरितगत्या गन्तव्यमिति भावः । . अथेति विचारान्तरे । तातस्य पितुः, अम्बायाश्च मातुः, आवेद्य निवेद्य ताभ्यां च मातृपितृभ्यां विसजितो गमनाय दत्ताज्ञः संविधानेनोत्तमप्रकारेण गच्छामि व्रजामि । तत्रापीति । तत्राप्यावेदने । किं किमिति कथयामीति ब्रवीमि । इति वाच्यमाह - मभेति । मम स्नेहेन मत्प्रीत्या दुःखिता दुःखं प्राप्ता गन्धर्वराजपुत्री देवगायननृपाङ्गजा कादम्बरी मां चन्द्रापीडमुद्दिश्याश्रित्य मकरकेतुना कंदर्पेणायास्यमाना खेदं प्राप्यमाणा दुःखं यथा स्यात्तथा तिष्ठति निषीदति । 'किंवा बलवान्' इत्यारभ्य 'महाश्वेतया तत्परिणयनाय मे संदिष्टम्' इत्यन्तं स्पष्टम् । किं वेति । किंवा इति कथयामीति पूर्वेण संबन्धः । इति किम् । तद्दुःखं कादम्बर्या दुःखं सोढुं तितिक्षितुमपारयन्त्रशक्नुवन् । अयं प्रत्यक्षः केयूरकरतस्या गन्धर्वपुत्र्या भक्त्यान्तरस्नेहेन मां चन्द्रापीडमानेतुं तत्र प्रापयितुमागतः समायातः । अपरोऽपीति । अपरोऽप्येतद्भिन्नोऽपि कश्चिदन्यो व्यपदेशो मिषं पुनर्गमनाय कर्तुं न शक्यत एव न पार्यत एव । संप्रत्येति । सांप्रतमेव समधिकात्किचिदधिकवर्षत्रयात्संवटिप्प० – 1 स्वयंकृतप्रसङ्गमपि विस्मरति वराकः । सकलराजकसैन्यानुधावनस्य कारणं चन्द्रापीडपलायनमुक्तम् । ततश्च मम पुनः प्रवासे सति अपरसंविधानात अपरस्सान्नवीनाद् मम गमनरूपघटनाविशेषात् अर्धमार्गादेव परावर्तमानेन मम स्कन्धावारेण पुनः प्रधावितव्यमित्यर्थः । टीकाकारस्याक्षराणि तु स एव बुद्धताम् । पाठा०-१ पातयसि २ स बहु. ३ धावितव्यम्. ४ लेहेन. ५ नानया. ६ किं च ७ विबन्ध. ६७ का० ५३० कादम्बरी । [ कथायाम्वसुधां प्रत्यागतोऽस्मि । अद्यापि साधनमेव न परापतति । अकथयित्वा च गमनकारणं कथमात्मानं मोचयामि ? कैथं वा मुञ्चतु तातोऽम्बा वा ? तत्सुहृत्साध्येऽस्मिन्नर्थेऽर्नर्थपतितः किं करोम्येकाकी ? वैशम्पायनोऽप्यसंनिहितः पार्श्वे मे । ॐ पृच्छामि ? केन सह निरूपयामि ? को मे समुपदिशतु ? को वापरो मे निश्चयाधानं करोतु ? कस्यापरस्य वा विवेकिनी प्रज्ञा ? कस्य वान्यस्य श्रुतं 'श्रोतव्यम् ? को वापरो वेत्ति वक्तुम् ? कस्य वापरस्य मध्यसाधारणस्नेहः ? केन बापरेण सह समानदुःखो भवामि ? को वापरो मयि दुःखिते दुःखी, सुखिते सुखी ? को वापरो रहस्यावेदनस्थानम् ? कस्यापरस्योपरि कर्तव्यभारमवक्षिप्य निर्वृतात्मा तिष्ठामि ? कस्य वापरस्य मत्कार्ये पर्याकुलता ? को वापरो मया कोपितं तातमम्बां च परिबोध्य मामानेतुं समर्थः ?' इत्येवं चिन्तयत एवास्य सा क्षेपा दुःखदीर्घापि क्षयमगमत् । प्रातरेव च किंवदन्ती शुश्राव, यथा किल 'देशपुरं यावत्परागतः स्कन्धावारः' इति । तां च सरत्रितयात् । हेत्वर्थे पञ्चमी । वसुधां पृथ्वी प्रसाध्यात्मसात्कृत्वा प्रत्यागतः पश्चाद्व्यावृत्तोऽस्मि । अद्यापि सांप्रतमपि साधनमेव सैन्यमेव न परापतति न विश्रामं गृह्णाति । अकथयित्वेति । गमनकारणं यात्रा निदानमकथयित्वा चा विनिवेद्यात्मानं कथं केन प्रकारेण मोचयामि मोचनविषयीकरोमि । कथमिति । तातो. ऽम्बा माता वा कथं वा मुञ्चतु त्यजतु । मामिति शेषः । तदिति । तस्मात्कारणात्सुहृत् साध्ये मित्रनिष्पाद्येऽस्मिन्नर्थेऽहमनर्थंपतितः कष्टगतः सन्नेकाक्यद्वितीयः । किं करोमि कि कुर्वे । वैशम्पायनोऽपि शुकनासपु. त्रोऽपि मे मम पार्श्वेऽसंनिहितोऽनिकटवर्ती। अतः कं जनं पृच्छामि प्रश्नविषयीकरोमि । केन पुंसा सह निरूपयाम्यात्मस्वरूपं कथयामि । कः पुमान्मे मम समुपदिशतु कथयतु । को वापरोऽन्यो मे मम निश्चयाधानं निर्णयोत्पत्तिं करोतु सृजतु । कस्य वा अपरस्य जनस्य विवेकिनी विवेकवती प्रज्ञा प्रतिभा । अन्यस्य कस्य वा जनस्य श्रुतं शास्त्रं श्रोतव्यमाकर्णनीयम् । 'श्रुतं शास्त्रावतयोः' इत्यमरः । अपरः को वा पुमान्वक्तुं जल्पितुं वेत्ति जानाति । कस्य वापरस्य मय्यसाधारणस्नेहो निरुपमप्रीतिः । अपरेण केन सहाहं समानदुःखो भवामि । सदृशवेदनः स्यामित्यर्थः । अपरः को वा मयि दुःखिते दुःखी दुःखवान्, मयि सुखिते सुखी सुखदान्स्यात् । अपरः को वा रहस्यावेदनस्थानं गुह्यनिवेदनस्थलम् । कस्यांपरस्य जनस्योपरि कर्तव्यभारं कृत्यवीवधमवक्षिप्यारोप्य निर्वृतात्मा सुखितात्मा तिष्ठामि निषीदामि । अपरस्य कस्य वा पुंसो मत्कार्ये मत्कृत्ये पर्याकुलता व्याकुलता । अपरः को वा मया कोपितं क्रोधं प्रापितं तातमम्बां च परिबोध्य प्रतिबोध्य प्रतिबोधं दत्त्वा मामानेतुं समर्थः । क्षपेति । एवममुना प्रकारेणास्य चन्द्रापीडस्य चिन्तयत एव ध्यायत एव सा क्षपा रात्रिदुःखेन कृत्वा दीर्घाप्यायतापि क्षयं नाशमगमजगाम । प्रातरिति । प्रातरेव प्रभात एव च । इतीति किंवदन्तीं जनश्रुतिं शुश्राव श्रुतवान् । इतिथोत्यमाह - य. थेति । किलेति सत्ये । दशपुरं यावत्स्कन्धावारः सैन्यं परागतः समायातः । तां चेति । तां किंवदन्तीं । ' टिप्प०-1 न गृहं परावर्तते । 2 सुष्टु शोभनम् ( चतुर्दिग्भवप्रतिबन्धरहितम्) य साध्ये अमिनर्थे प्रियाप्राप्तिरूपे अर्थे, अनर्थः पतितः व्याघातः समुपस्थित इति केचित् । तत् पतितः' इत्येव पाठः । 3 'मां नेतुं समर्थः इत्येवोचितः पाठः । नेतुं कादम्बर्याः समीपे प्राग येतुनिति तदर्थः । 3 तेन पाठा०-१ माम्. २ अनर्थ:. ३ किं करोमि कम्. ४ श्रोतव्यं वा. ५ वेत्ता. ६ सुखी वा. ७ अनुकोपितं. ८ नेतुम्. ९ निशा. १० किंवदन्तीम्. ११ दशपुरीम्. वैशम्पायनस्यागमनश्रवणम् ] उत्तरभागः । ५३१ .9 श्रुत्वा समुच्छ्रसितचेताञ्चकार चेतसि - 'अहो धन्योऽस्मि । अहोविधेर्भगवतो ऽनुग्राह्योऽस्मि, यस्य मेऽनुष्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । ग्रहर्ष परवशश्च प्रविशन्तमालोक्य दूरत एव कृतप्रणामं केयूरकमवादीत्- 'केयूरक, करतलवर्तिनीं सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः' इति । स तु तदाकर्ण्य गमेनपरिलम्बकृतया चिन्तयान्तःशून्य एव 'भद्रकमापतितम् महती हृदयनिर्वृतिर्देवस्य जाता' इत्यभिद्धदेवोपसृत्योपविश्य पार्श्वे, वैशम्पायनागमनालाप मेवानुबध्य मुहूर्तमिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञपयत् - 'देव, सर्वतो विस्फुरन्ती तडिदिव बलाहको न्नाहम्, उपारूढश्यामिका मेघलेखेव सलिलागमनम्, उपदर्शितपाण्डुच्छवि: प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव वसन्तमासावतारम्, समुच्छुसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम्, उल्हसितैरागा पल्लवोद्गतिरिव कुसुमनिर्गमम् विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवेथमावेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राध्या भवितव्यम् । केन कदा .9 १ श्रुत्वाकर्ण्य समुच्युसितमुहसितं चेतः खान्तं यस्यैवंविधश्वेतसि चित्ते चकार कृतवान् । इतीति शेषः । तदेव दर्शय नाह- अहो इति । अहो इत्याश्चर्ये । अहं धन्यः कृतपुण्योऽस्मि । अहो इति पूर्ववत् । भगवतो माहारम्यवतो विधेर्विधातुरनुप्रायोऽनुग्रह विषयी करणयोग्योस्मि । तन्निदानमाह - यस्येति । यस्य मे मम चन्द्रापीडस्यानुध्यानानन्तर मेवानुस्मरणानन्तरमेव द्वितीयं हृदयं वैशम्पायनो मन्त्रिपुत्रः परागतः समायातः । अमुना प्रकारेण प्रहर्षपरवशः प्रमोदपरतन्त्रः । च पुनरर्थे । प्रविशन्तं प्रवेशं कुर्वन्तं दूरत एव दविष्ठप्रदेशादेव कृतप्रणामं विहितनमस्कार केथूर कमालोक्य निरीक्ष्येत्यवादी दिदमब्रवीत् । इतिवाच्यमाह- केयूरक इति । हे केयूरक, अधुना सांप्रतं करतलवर्तिनीं हस्ततलगतां सिद्धिं कार्यनिष्पत्तिमवधारय जानीहि । यतो वैशम्पायनः प्राप्तः समागतः । स त्विति । स केयूरकस्तत्पूर्वोत्तमाकर्ण्य निशम्य गमनस्य यात्रायाः परिलम्बो विलम्बस्तेन कृतयोत्पादितया चिन्तयार्त्यान्तःशून्य एव 'भद्रकं कल्याणमापतितं संजातम् । देवस्य भवतो महत्यव्यायता हृदयनिर्वृतिश्चित्तसंतुष्टिजा।' इत्यभिदधदेवेति कथयन्नेवोपसृत्योपसरणं कृत्वा पार्श्वेऽन्तिक उपविश्यास्थाय मुहूर्तमिव मुहूर्तमात्रं वैशम्पायनस्यागमनमर्थादभिमुखयानमालापं संलापमनुबध्यारभ्य संज्ञयोत्सारितो दूरीकृतः समस्त परिजनः समप्रसेवकजनो येनैवंभूतं चद्रापीडं व्यज्ञपयद्विज्ञप्तिविषयीचत्रे । देव इति । हे देव हे खामिन, इयमवस्थैव निःसंशयं निरारेकं देवस्य भवतो गमनं यानमावेदयति कथयतीति दूरेणान्वयः । केवेत्यपेक्षायामाह - सर्वत इति । बलाहकस्य मेघस्योनाहमागमनं सर्वतोऽभितो विस्फुरन्ती देवीप्यमाना तडिदिव विद्युदिव । आवेदयतीत्यस्य सर्वत्र संबन्धः । तथा सलिलस्याम्भस आगमनमुपारूढा प्राप्ता श्यामिका ययैवंविधा मेघस्य लेखा पङ्किरिव । तथा चन्द्रस्य शशिन उदयमुद्गमनमुपदर्शिता पाण्ड्डी छविः कान्तिर्ययैवंविधा प्राचीव पूर्वदिगिव । तथा वसन्तमासस्य मधुमासस्यावतारं प्रादुर्भावं परिमलमामोदं गृहातीत्येवंशीला मलयानिलस्य मलयाचलवायोराग तिरिवागमनमिव । तथा पल्लवस्य किसलय स्योद्भेदमुद्गमनं समुच्छ्रसितो वृद्धिं प्राप्तो मकरध्वजो मदनो यस्यामेतादृशी मधुमासलक्ष्मीरिव वसन्तमासश्रीरिव । तथा कुसुमस्य पुष्पस्य निर्गम निःसरणमुल्लसित उल्लासं प्राप्तो. रागो रक्तता यस्यामेतादृशी पल्लवोद्गतिरिव किसलयोद्भेद इव । तथा शरदारम्भं घनात्ययप्रारम्भं विकलिता विनिद्रिता काशकुसुममञ्जरीव । इयमवस्थैव देवस्य गमनं यानमावेदयतीत्यन्वयस्तु प्रागेवोक्तः । अवश्यं चेति । देवस्य खामिनोऽवश्यं निश्चये देवीप्रात्या भवितव्यम अत्रार्थ उपपत्तिमाह - केनेति । केन पुरुषेण कदा वा कस्मिन्काले ज्योत्नारहित चन्द्रावर्जितश्चन्द्रमाः कुमुदबापाठा० == १ प्राप्तो हि, २ गगन, ३ उन्नादम्, ४ अभ्युच्छ्रित, ५ रागपडव. ६ आनेदयति देवस. 3 कादम्बरी । [ कथायामवावलोकितो ज्योत्स्नारहितश्चन्द्रमाः, कमलाकरो वा मृणालिकया विना, उद्यानभागो बा लताशून्यः । अपि च न राजत एव सहकारकुसुममञ्जरीपरिग्रहमन्तरेण सर्वजनसुभगोऽपि कुसुममासः, असंभावितदानलेखालक्ष्मीकं वा वदनं यूथाधिपतेः । किंतु यावद्वैशम्पायनः परापतति, यावचैतेन सह गमनसंविधानं निरूपयति देवः, तावदवश्यं कालक्षेपेण भाव्यम् । यादृशी चौकालक्षमा देव्याः शरीरावस्था तादृशी निवेदितैव मया । सर्वोऽपि प्रत्याशया धार्यते । देव्यास्तु पुनर्देव दर्शने ना यया व निष्प्रत्याशमेव हृदयं केनाश्वासनेन वर्तताम् । मट्टार्तोपलम्भादेतदुपँपत्स्यते चेतसि - 'यथास्ति कार्य मे जीवितेन, दुःखान्यपि सहन्ती धारयाम्येतदिति । अतो विज्ञापयामि, चेतसा त्वग्रतो गत एव देवः, शरीरेणाप्यनुपदमुञ्चलित एव । किमपरं मयात्र स्थितेन साधनीयम् । तद्देवागमनोत्सवावेदनाय गमनानुज्ञया प्रसादं क्रियमा णमिच्छति मे प्रणयप्रसाददुर्ललितं हृदयमिदानीमेव ' इति विज्ञापिते केयूरकेणान्तः परितोषविकसितया विकचनीलोत्पलपुखमालिकयेव दृष्ट्या न्धवोऽवलोकितो निरीक्षितः । नाथवा मृणालिकया कमलिन्या विना कमलाकरस्तडागः । वाथवोद्यानभागो बनप्रदेशो लताशून्यो वल्लीरहितः । अपि चेति युक्त्यन्तरे । सहकारस्याग्रस्य कुसुममञ्जरी तस्याः परिग्रहम न्तरेण स्वीकारव्यतिरेकेण सर्वजनसुभगोऽपि समप्रलोकप्रियोऽपि कुसुममासो वसन्तमासो न राजत एव न शोभत एव । असंभाविता(न) संभावनाविषयीकृता दान लेखाया मदवीध्या लक्ष्मीः श्रीर्यस्मिन्नेवंविधं यूथाधिपसेर्यूथनाथस्य वदनम् । न राजत इत्यस्य सर्वत्र संबन्धः । किंत्विति । किंतु यावद्यावता कालेन वैशम्पायनो मन्त्रिसुतः परापतत्यागच्छति, यावचैतेन सह वैशम्पायनेन साकं गमन संविधानं यात्राप्रकारं देवो भवान्निरूपयति प्रकाशयति, तावदवश्यं निश्चितं कालक्षेपेण दिनगम निकया भाव्यं भवितव्यम् । यादृशीति । यादृशी च देव्याः कादम्बर्याः शरीरावस्था देहदशाsकालक्षमा समयासहा वर्तते तादृशी मया निवेदितैव विज्ञप्ति विषयीकृतैन । सर्व इति । सर्वोऽपि पदार्थः प्रत्याशया प्रतिवाञ्छया धार्यते घ्रियते । देव्यास्त्विति । तु पुनरर्थे । देव्याः कादम्बर्याः पुनर्द्वितीयवार देवदर्शनेन भवदवलोकनेन अय यावदेतद्दिवसमारभ्य हृदयं चित्तं निष्प्रत्याशमेव निराशमेव वर्तते, तर्हि केनाश्वासनेन वर्तताम् । मदिति । मद्वार्ताया मत्प्रवृत्तेरुपलम्भा त्प्राप्तेरेतच्चेतसि चित्त उपपत्स्यते प्रादुर्भविष्यति । तदेव दर्शयन्नाह - यथेति । मे मम जीवितेन प्राणितेन कार्यं कृत्यमस्तीति हेतोर्दुःखान्यपि कृच्छ्राण्यपि सहन्ती सहमानैतच्छरीरं धारयामि । अत इति । अतःकारणादहं विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह - चेतसा त्विति । देवो भवांश्चेतसा खान्तेनाग्रतः पुरतो गत एव, तथा शरीरेणापि देहेनाप्यनुपदं पश्चात्त्वरितमेव । 'अनुपदं क्लीबमव्ययम्' इत्यमरः । उच्चलित एव प्रचलित एव । किमिति । मया केयूरकेणात्र स्थितेन भवत्समीपावस्थितेनापि किमपरं पूर्वोक्तादन्यत्साधनीयं करणीयम् । तदिति । तत्तस्माद्धेतोर्देवस्य खामिनो गर्मनं यानं तदेवोंत्सवो महस्तस्यावेदनं ज्ञापनं तस्मै गमनस्य प्रयाणस्थानुज्ञादेशस्तया क्रियमाणं विधीयमानं प्रसादमिदानीमेव सांप्रतमेव मे मम प्रणयेन नेहेन यः प्रसादः प्रसन्नता तेन दुर्ललितमुच्छृङ्खलं हृदयमिच्छत्यभिलषति । केयूरकेणेति विज्ञापिते विज्ञप्तिविषयीकृते सति, अन्तर्मध्ये यः परितोषः संतुष्टिस्तेन विकसितया विनिद्रया दृष्ट्या दृशा । अत एवोत्प्रेक्षते - विकचा विकखरा या नीलोत्पलपुजमालिका नीलकुवलयस्रक्तयेव दर्शितः टिप्प० - 1 भागमनमित्युचितम् । पाठा- १ तेन. २ विधानम् ३ वा. ४ दशनेऽद्य ५ आश्वासेन. ६ उपालम्भात् ७ उत्पत्स्यते ८ स्थितेनापि. पत्रलेखया सह केयूरकलामतो विसर्जनम् ] उत्तरभागः । । दर्शितप्रसादचन्द्रापीडः प्रत्युवाच - 'किमुच्यते ? कस्या परस्येदृशोऽस्मद्दुःखासहिष्णुरनपेक्षितखशरीरशक्तिरुत्साहः ? कस्यापरस्येशी देशकालज्ञता ? को वापरोऽस्माखेवं निर्व्याजभक्तिः १ तत्साधु चिन्तितम् । गम्यतां देव्याः प्राणसंधारणाय, भैमागमनप्रत्ययार्थं च पत्रलेखाप्यप्रतस्त्वयैव सह यातु देवीपादमूलम् । इयमपि प्रसादभूमिरेव देव्याः । इमामप्यालोक्य कियत्यपि धृतिरवश्यमुत्पर्यंत इति मे चेतसि । अपि चास्या अपि देव्यामस्येव नेहो भक्तिश्च' इत्यभिधाय पृष्ठत उपविष्टामेव तां पत्रलेखामद्राक्षीत् । सा तु किंचिदवनतमुखी 'निजाज्ञाक्षराणि प्रयच्छतु देवः' इति व्यज्ञपयत्। कृतप्रस्थिति निश्चयायां च तस्यां मेघनादाहानाय प्रतीहारीमादिदेश । ५३३ आदेशानन्तरमेव चागतं दूरतः प्रणतमाज्ञाप्रतीक्षं स्वयमे वाहूय सोपग्रहमादिदेश - 'मेघनाद, यस्यां भूमौ पत्रलेखानयनाय मया त्वं प्रस्थापितरतां भूमिमेव पत्रलेखामादाय केयूरकेण सहायतो गच्छ । अहमपि वैशम्पायनमालोक्यानुपदमेव ते सुरङ्गमैः परागतः' इत्या प्रकाशितः प्रसादः प्रसन्नता येनैवंभूतश्चन्द्रापीडः प्रत्युवाच प्रत्यब्रवीत् । किं तदित्याह - किमिति । किमुच्यते किं कथ्यते । कस्येति । कस्यापरस्यान्यस्येदृश एतादृगस्माकं यहुःखं तस्यासहिष्णुर सहनशीलोऽनपेक्षिताडवान्छिता खशरीरस्य निजदेहस्य शक्तिः सामर्थ्य यस्मिन्नेवंविध उत्साहः प्रगल्भता । कस्येति । कस्यानि र्दिष्टनाम्न ईदृश्य निर्वचनीया देशः प्रदेशः कालः समयस्तयोज्ञता ज्ञातृता । को वेति । को वापरो जनोऽस्म खाद्विषयेष्वेवं पूर्वोकप्रकारेण निर्व्याजं निर्दम्भं यथा स्यात्तथा भक्तिर्यस्य स तथोक्तः । तदिति हेत्वर्थे । तस्माद्धेतोः साधु यथा स्यात्तथा चिन्तितमालोचितम् । चिन्तितस्य विशेषणं वा । साधु शुभं चिन्तितम् । चिन्ताविषयी कृतमिसर्थः । गम्यतामिति । देव्याः कादम्बर्याः प्राणसंधारणायासुधृतये । ममागमनं तत्र यानं तस्य प्रत्ययो विश्वासस्तदर्थं च त्वया गम्यतां व्रज्यताम् । देव्याः कादम्बर्याः पादमूलं चरणसमीपं पत्रलेखापि त्वयैव सहाप्रतः, पुरतो यातु व्रजतु । इयमिति । इयमपि पत्रलेखापि देव्याः कादम्बर्याः प्रसादभूमिरेवानुग्रहस्थानमेव । इमामिति । इमां पत्रलेखामप्यालोक्य निरीक्ष्य कियत्यपि कियन्मात्रा नतु समग्रा धृतिः संतुष्टिरवश्यं निश्चयेन । कादम्बर्या भाविनीति शेषः । इति मे मम चेतसि चित्त उत्पद्यत उद्भाव्यते । बुद्ध्येति शेषः । अपि चेति । अपि चेति प्रकारान्तरे । अस्याः पत्रलेखाया अपि देव्यां कादम्बर्या स्नेह आभ्यन्तरप्रीति क्तिबाराध्यत्वेन ज्ञानमस्त्येव । एवकारोऽयोगव्यवच्छेदार्थः । इति पूर्वोक्तमभिधाय कथयित्वा पृष्ठतः पृष्ठे । सार्वविभक्तिकरतस् । उपविष्टां स्थितामेव पत्रलेखामद्राक्षी व्यलोकयत् । सात्विति । सा पत्रलेखा । तु पुनरर्थे । विलोकनानन्तरमित्यर्थः । किंचित्खल्पमवनतं नम्रं मुखमाननं यस्या एवंविधा सती निजाया आत्मीयाया आज्ञाया निदेशत्याक्षराणि वचनानि देवो भवान्प्रयच्छतु ददातु । त्वं व्रजेति खमुखेन कथयेत्यर्थ: । इति व्यज्ञपयद्विज्ञ प्तिमकार्षीत् । कृतेति । कृतो विहितः प्रस्थितेर्गमनस्य निश्चयो यस्या एवंविधायां च तस्यां पत्रलेखायां सत्यां मेघनादस्यात्म सेवक स्याहानमाहूतिस्तस्मै प्रतीहारीं द्वारपालिकामादिदेशादिष्टवान् । + आदेशानन्तरमेव नियोगाव्यवहितमेवागतं च दूरतः प्रणतं प्रविष्टप्रदेशात्रतमाज्ञां यावत्प्रतीक्षा विलम्बो यस्यैवंभूतं स्वयमेवात्मनैवाहूयाहानं कृत्वा सोपग्रहं सादरमादिदेशादिष्टवान् । हे मेघनाद, यस्यां भूमौ पत्र• लेखाया आनयनायानयनकृते मगा त्वं पूर्वं स्थापितो न्यस्तस्तां भूमिं यावत्पत्रलेखामादाय गृहीत्वा केयूरकेण सह सार्धममतो गच्छ ब्रज । अहमपि वैशम्पायनमालोक्य निरीक्ष्य ते तवानुपदमेवानुचरणन्यासमेव तुरङ्गमैपाठा० -१ चन्द्रप्रसार: २ मदागमन. ३ प्रयातु. ४ उत्पत्स्यते ५ समुपविष्टम् ६ एवं नेति पत्रलेखामप्राक्षीत्. ७ आगतं च ८ स्थापितः• ९ भूमि यावत्पत्र. ५३४ कादम्बरी । [ कथायाम्, दिश्य, 'यदाज्ञापयति देवः' इति कृतनमस्कृतौ त्वरितगमन संविधानाय निष्क्रान्ते मेघनादे 'देव' किमतः परं विलम्बेन' इत्यभिधाय, मेघनाद निर्गमानन्तरं गमनप्रणामोत्थितं केयूरकं सस्नेहमाहूय, सवाष्पया दृष्ट्या पुनःपुनरालोक्य, परिष्वज्य च सपुलकाभ्यां दोर्भ्याम्, आत्मकर्णादपनीयानेकवर्णरुचिरं संदेशमिव कर्णाभरणमस्य कर्णे कृत्वा कण्ठागतबाष्पगद्गदिकागृह्यमाणाक्षरमवादीत् – 'केयूरक, त्वया तु मे देवीसंदेशो नानीत एव । तत्किं तव हस्ते तदनुरूपं 'संदिशाम्यपूर्वम् ? विज्ञापयितव्या देवी । तत्रापि किमलीकलज्जाजालभारोद्वहनेन त्वामायासयामि । यात्येव पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति' इत्यभिधदेवातर्कितोपनतात्मविरहपीडाम्, अमङ्गलशङ्कया कृतयत्नामपि बाष्पवेगमपारयन्तीं संधारयितुम् उत्सुताबद्धलक्षशून्य दृष्टिसंचारणां चरणपाताभिमुखीं पत्रलेखां प्रणयेनाभिमुखो भूत्वा बद्धाञ्जलिरभाषत - 'पत्रलेखे, साञ्जलिबन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या .9 र्वाजिभिः । करणे तृतीया । परागतः समागत इति । यदाज्ञापयत्याज्ञां ददाति देव इत्यादिश्य कथयित्वा कृता नमस्कृतिः प्रणामो येनैवंभूते त्वरितं शीघ्रं यद्गमनं यानं तस्य संविधानं करणं तस्मै निष्कान्ते बहिर्निर्गते मेघनादे, हे देव, अतःपरं विलम्बेन किमित्यभिधायोक्त्वा मेघनाद निर्गमादनन्तरमव्यवहितं गमनाय यात्रायै यः प्रणामः प्रणतिस्तस्मा उत्थितं केयूरकं सस्नेहं सप्रीति यथा स्यात्तथाहूयाह्वानं कृत्वा सबाष्पया सरोदनजलया दृष्ट्या दृशा पुनःपुनर्वारंवारमालोक्य निरीक्ष्य सपुलकाभ्यां सरोमांञ्चाभ्यां दोय भुजाभ्यां परिष्वज्य चालिङ्ग्य चात्मकर्णात्स्वकीय श्रवणादपनीय दूरीकृत्यानेकवर्णै रक्तपीतादिभी रुचिरं मनोहरम् । अत एवोस्प्रेक्षते—विविधवर्णैरक्षरै रुचिरं संदेशमिव वाचिकमिव । एवंविधं कर्णाभरणं श्रवणभूषणमस्य केयूरकस्य कर्णे श्रोत्रे कृत्वा कण्ठागतो यो बाष्पो रोदनं तस्माद्या गद्गदिका गद्गदेत्यव्यक्तध्वनिस्तया गृह्यमाणान्युच्चार्यमाणान्यक्षराणि यथा स्यात्तथावादीदवोचत् । किं तदित्याह – केयूरक इति । हे केयूरक, त्वया भवता । तु पुनरर्थे । मे मम देव्याः कादम्बर्याः संदेश उदन्तो नानीत एव न प्रापित एव । तत्तस्माद्धेतोस्तव हस्ते तस्याः कादम्बर्या अनुरूपं योग्यमपूर्वं नवीनं किं संदिशामि प्रतिवाचकं यच्छामि । देवी कादम्बरी त्वया विज्ञापयितव्या विज्ञप्तिविषयी कार्या। तत्राप्यपूर्व विज्ञापनेऽलीका या लज्जा त्रपा तस्या जालं समूहस्तस्य भारो वीवधस्तस्योद्वहनेन त्वामायासयामि परिश्रममुत्पादयामि । पत्रलेखा देवीपादमूलं कादम्बरीचरणसमीपं यात्येव व्रजत्येव । अत इयमेव विज्ञापयिष्यति विज्ञप्तिं करिष्यति । इत्यभिदधदेवेति कथयन्नेव प्रणयेन स्नेहेनाभिमुखो भूत्वा संमुखीभूय बद्धाअलिः पत्रलेखामभाषताब्रवीदित्यन्वयः । पत्रलेखां विशेषयन्नाह —-अतर्कितेति । अतर्किताऽचिन्तितोपनता प्राप्तात्मनः खस्य विरहपीड़ा वियोगव्यथा यस्याः सा ताम् । पुनः किं कुर्वन्तीम् । अमङ्गलशङ्कयाऽशुभारेकया कृतयत्नामपि विहितोद्यमामपि बाष्पवेगं नेत्राम्बुप्रवाहं संधारयितुं संस्थापयितुमपारयन्तीमशक्नुवन्तीम् । उत्प्लुताबद्धलक्षाऽविषयीकृतविषयात एव शून्या या दृष्टिईकू तस्याः संचारणं यस्याः सा ताम् । चरणपातोऽभिवादनं तं प्रत्यभिमुख संमुखीम् । किमुवाचेत्याह - पत्र लेखे इति । हे पत्रलेखे, मदीयेन मामकीनेन साञ्जलिबन्धेनाञ्जलिबन्धेन सहवर्तमानेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य देवी टिप्प० – 1 'अनुत्फुलाबद्धलक्ष्य ० ' इति पाठः । अनुत्फुल्लम् अविकस्वरम् [ अविशदप्रकटनपरत्वादिति भावः ], तथा अबद्धलक्ष्यं विषयमलक्ष्यीकृत्य प्रवृत्तम् ( विरहदुःखस्यात्यन्त मुत्पीडनात्), अत एवं शून्यं निर्विषयं दृष्टिसंचारणं यस्यास्तामिति तदर्थः । पाठा:- १ यथा. २ निर्गमन ३ गद्गदिकाक्षरम् ४ प्रतिसंदिशानि. ५ उत्फुल्ल • कादम्बर्यर्थ पत्रलेखायै संदेश: ] उत्तरभागः । देवी कादम्बरी, येन सर्वखलानां धुरि लेखनीयेन तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवीं प्रणामेनाव्यसंभाव्य गच्छता प्रज्ञा जडतया, ज्ञानं मौढ्येन, धीरता तरलत्वेन, स्नेहलता रौक्ष्येण, गौरवं लघुतया, प्रियंवदता पारुष्येण, मृदुहृदयता नैष्टुर्येण, स्थैर्य चञ्चलतया, दयालुता निविंशत्वेन, आर्जवं मायाजालेन, सत्यवादितालीककाकुसंपादनेन, दृढभक्तिताबज्ञानेन, पेशलता कौटिल्येन, लज्जा घाटर्थेन, औदार्य क्षुद्रतया, दाक्षिण्यममहानुभावतया, प्रश्रयोऽभिमानेन, कृतज्ञता कृतन्नतया, शीलं पौरोभाग्यतया, सर्वगुणा एवं दोषैः परिवृताः । स कमिवापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु । केन चाङ्गीकरोतु देवी। किमुपदर्शितालीकात्मार्पणेन न प्रतारितं देव्या हृदयमिति, किं प्रकृतिपेशलं हृदयमपहृत्य नापकान्तोऽस्मीति, किमियं प्राणसंदेहकारिणी निष्करुणेन शरीरावस्था नोपेक्षितेति, किमहमस्या न कारणमित्येतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधि५३५ कादम्बरी विज्ञाप्या विज्ञप्तिविषयी कार्या । किं तदित्याह - येनेति । स्वभावस्य प्रकृतेर्वत्सलत्वाद्धितकारित्वात्प्र थमदर्शनेऽप्याद्यावलोकनेऽपि तथा तेन प्रकारेण दर्शितः प्रकाशितः प्रसादातिशयः प्रसन्नताधिक्यं ययैवंविधां देवीं कादम्बरी प्रणामेनापि नमस्कृत्याप्यसंभाव्यासंभावना विषयी कृत्य गच्छता व्रजता येन सर्वखलानां समप्रदुर्जनानां धुर्यादौ लेखनीयेन गणनीयेन मया सर्वगुणा ऐश्वर्यादयो दोषैर्वैगुण्यैः परिवृ॑ताः । स्वस्वरूपमापादिता इत्यर्थः । तदेव दर्शयन्नाह - प्रज्ञेति । प्रज्ञा प्रतिभा जडतया मूर्खतया, ज्ञानं मौढ्येन मूढतया, धीरता धैर्य तरलत्वेन तरलतया, स्नेहलता रौक्ष्येण रूक्षतया, गौरवं गुरुंता लघुतया लघुत्वेन, प्रियंवदता मिष्टभाषित्वं पारुष्येण काठिन्येन, मृदुहृदयता सुकुमारचित्तता नैष्टुर्येण निष्ठुरत्वेन, स्थैर्य स्थिरता चञ्चलतया चाञ्चल्येन, दयालुता कृपालुता निस्त्रिंशत्वेन निष्कृपत्वेन, आर्जवमृजुत्वं मायाजालैन निकृतेर्जालतया, सत्यवादिता अलीकभाषित्वमली का सत्या या काकुर्वक्रोकिस्तस्याः संपादनेन निष्पादजेन, दृढभक्तिता स्थिराराध्यताऽवज्ञानेंनावगणनेन, पेशलता हृद्यता कौटिल्येन कुटिलतया, लज्जा त्रपा धाटन धृष्टतया, औदार्यमुदारता क्षुद्रतया तुच्छतया, दाक्षिण्यं सरलत्वममहानुभावतयाऽमाहात्म्यतया प्रश्रयो विनयोऽभिमानेनाहंकृत्या, कृतज्ञता कृतविश्वता कृतघ्नतयाऽकृतज्ञतया, शीलमाचारः पौरोभाग्यतया दोषैकदृक्तया । 'दोषैकदृक्पुरोभागी निकतस्त्वनृजुः शठः' इत्यमरः । सर्वगुणा एव दोषैः परिवृता इत्यन्वयस्तु प्रोगेवोक्तः । स इति । स चन्द्रापीड: कमिव कथमिव कथमपरं पूर्वोत्तगुणेभ्यो भिन्नं गुणमवलम्ब्यावलम्बनीकृत्य पुनर्द्वितीयवारं परिग्रहाय स्वीकाराय विज्ञापयतु विज्ञप्तिं कारयतु । केन च गुणेन देवी कादम्बर्यङ्गीकरोतु स्वीकरोतु । मामिति शेषः । किमिति । उपदर्शितं यन्मिथ्यात्मार्पणमलीकं मिथ्यात्मनोऽर्पणं प्रदानं तेन देव्याः कादम्बर्या हृदयं चेतः किं न प्रतारितं न वञ्चितमिति । प्रकृत्या स्वभावेन पेशलं हृद्यं हृदयमपहृत्याहृत्य किं नापकान्तोऽस्मिन गतोऽस्मीति । इयं प्राणसंदेहकारिणी शरीरावस्था देहदशा निष्करुणेन निष्कृपेण किं नोपेक्षितोपेक्षा विषयीकृता । अहं किमस्या अवस्थाया न कारणं न निदानमित्येतत्सर्वदोषाश्रयेणापि सर्ववैगुण्याधारभूतेनाप्यनुवृ. 'त्यानुकूल्येन चरणौ पादावाराधितौ सेविताविति वा । तदेवमात्मना सर्वप्रकारेण सर्वगुणहीनस्यापि समग्रगुणटिप्प० - I 'परिवर्तिताः' इत्येव पाठः । प्रज्ञा जडतया परिवर्तिता, ज्ञानं मौढ्येन परिवर्तितम्, इत्यादि लिङ्गवचन व्यत्ययेन योजनीयम् । यस्मिन् स्थिता प्रतिभा पर्यवसाने जडता रूपेण परिणतेत्येव सर्वत्र तात्पर्य बोध्यम् । 2 स्नेहं लातीति स्नेहलः तद्भावः स्नेहलता, स्निग्धता । 3 देव्याः कादम्बर्या इत्यर्थः । पाठा० - १ येन सर्वाभिलाषणीयेन तथा २ प्रथमदर्शनेन. ३ असंभाव्यागच्छतां सर्वखलानां धुरि लेखनीयेनं प्रशा. ४ तारल्येन. ५ धैर्य भीरुतया दयालुता. ६ मायामन्त्रेण ७ पौरोभाग्येन. ८ एवम् ९ परिवर्तिताः; परावृत्ता: • १० वा. ११ अस्याः संदिशामि न कारणम् १२ अन्तर कादम्बरी । [ कथायाम् . ताविति वा । तदेवमात्मना सर्वगुणहीनेस्थापि मे देवीगुणा एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थमपि मदनहुतभुजा दह्यमानं रक्षयेव सरलता, मुहुर्मुहुराहयत्येव स्नेहलता, आनयत्येव स्थिरप्रतिज्ञता, ढौकयोब दक्षिणता, अभिपद्यत एव वत्सलता, चरणपतितं न निर्भर्त्सयत्येव मृदुहृदयता, उत्थाध्य संभावयत्येव महानुभावता, आलपत्येव प्रियवादिता, ददात्येव हृदयेऽवकाशमत्युदारता यञ्च तथापि गत्वा निर्लजहदगः पुनर्वदनदर्शनदानसाहसमङ्गीकरोमि अत्रापि सत्प्रकृतयो देवीप्रसादा एव कारणम् । एते हि विशदत्वादुदारभावारसंगतत्वाच क्षणपरिचिता अपि समारोपित्तजीवितप्रत्याशा न किंचिन्न कारयन्ति । स्मारयन्ति सेव्यताम्, देव्याश्चरणपरिचर्यायै समुत्साहयन्ति, शिक्षयन्ति सेवाचातुर्यम्, उपदिशन्त्याराधनोपायान, चाटुकारो भवेत्यसकृदाज्ञापयन्ति, एवं स्थीयतामिति स्वयमेवोपदर्शयन्ति, मुखावलोकिनाम कालोपसर्पर्णैकोपेऽनुनयन्ति, परितोषावसरेऽनुगृह्णन्ति गुणानुवादेन, लज्जापसृतं इठादाकृष्योपसर्पयन्ति नान्यत्र क्षणमपि ददत्यवस्थातुम् । , १ रहितस्यापि मे मम देवीगुणा एव कादम्बरीगुणा एवावलम्बनमाश्रयः । इयमिति । इयमेव ते तव सभा. वेन प्रकृत्या सरसा स्निग्धा दूरस्थमपि दविष्ठमपि मदनहुतभुजा कंदर्पग्निना दह्यमानं ज्वलमानं सरलता ऋजुता रक्षत्येव पालयत्येव । मुहुर्मुहुर्वारंवारं स्नेहलता स्नेहलस्य भावः स्नेहलताहयत्येव निमन्त्रयत्येव । स्थिरप्रतिज्ञता दृढसंकरतानयत्येव प्रापयत्येव । दक्षिणता चातुर्यता ढौकयत्येव प्राभृतीकरोत्येव । वत्सलता हितकारिताऽभिपयत एवाजीकरोत्येव । मृदुहृदयतार्जवचित्तता चरणपतितं पादप्रणतं जनं न निर्भर्त्सयत्येव न तिरस्करोत्येव । महानुभावता साधुस्वभावतोत्थाप्योंस्थानं कारयित्वा संभावयत्येव प्रीणयत्येव । प्रियवादिता मिटवक्तृताऽऽलपत्येव संभाषयत्येव । अत्युदारैतातिवितरणता हृदये चित्तेऽवकाशमन्तरं ददात्येव प्रयच्छत्येव । यश्चेति । यत्तथा गत्वापि निर्लजहृदयो नित्रपचेताः पुनर्द्वितीयवारं वदनदर्शनस्य दानं तस्मिन्साहसं धैर्यमङ्गीकरोमि स्वीकरोमि । अत्रापि वदनदर्शनेऽपि सत्प्रकृतयः शोभनस्वभावा देव्या गन्धर्वपुत्र्याः प्रसन्नता लक्ष्येणानुग्रहा एव कारणं निमित्तम् । एते हीति । हीति निश्चितम् । एते प्रसादा विशदत्वान्निर्मकत्वादुदारभावात्सरलत्वेन संगतलाच मिलितत्वाच क्षण समयमात्रं परिचिता अपि परिचितविषयीभूता अपि समारोपिताः स्थापिताः जीवितस्य प्राणितस्य प्रत्याशा वाञ्छा यैरेवंविधाः किंचिन्न कारयन्तीति न, अपि तु कारयन्त्येव । तदेवाह हमारययन्तीति । सेव्यतां सपर्यायोग्यताभावं स्मारयन्ति र रणविषयीकारयन्ति । देव्याः कादम्बर्याश्चरणपरिचर्यायै क्रमसेवायै समुत्साहयन्त्युत्साहं कारयन्ति । सेवाचातुर्यं सपर्यादक्षतां शिक्षयन्ति पाठयन्ति । आरा. धनोपायान्समाराधन हेतूनुपदिशन्ति कथयन्ति । चाटुकारश्चटुकृत्त्वं भवेत्यसकृद्वारंवारमाशापयन्त्याज्ञां ददति । एवममुना प्रकारेण स्थीयतामास्यतामिति स्वयमेवात्मनैवोपदर्शयन्ति प्रकाशयन्ति । मुखावलोकिनामास्यनिरीक्षकाणामकालेऽप्रस्तावे उपसर्पणमागमनं तज्जनितो यः कोपरूस्मिन्ननुनयन्ति प्रसादयन्ति । परितोषावसरे संतुष्टिक्षणे गुणानुवादेन गुणकथनेनानुगृहन्त्यनुग्रहं कुर्वन्ति . लज्जया त्रपयापसृतं पश्चाद्वतं हठाद्वलादुपसर्पयन्ति समीप आनयन्ति । अन्यत्रान्यस्मिन्स्थले क्षणमप्यवस्थातुमवस्थानं कर्तुं न ददति न टिप्प० - 1 ते स्वभावसरसा सरलता दूरस्थमपि मदनहुतभुजा दह्यमाने (मामू) रक्षयेवेत्यन्त्रयो बोद्धव्यः । 2 चतुरता, ( भाववाचिनः पुनर्भावप्रत्ययो नोचित इति चातुर्यताऽचातुर्यमेव ) । 3 महाहृदयता । वितरणकथा तु क्षुद्रा । 4 मुखावलोकितमिति पाठे तु– मुखावलोकित मुखावलोको जातो यस्मिन् ( मुखावलोकजनितम् ) मम दुर्जनस्येति शेषः । मम मुखदर्शनजनितमकालोपसर्पणप्रभवं कोप अनुनयन्ति उपशमयन्ति, इत्यर्थः । पाठा -१ एव. २ विहीन. ३ अपि माम्. ४ स्थिर प्रकृतिता; स्थिरप्रज्ञता. ५ अभ्युपपद्यते ६ प्रियंवादिता; प्रियवेदिता. ७ स्मरयति; स्मरयन्ति ८ चाटुकारा भवन्तु ९ मुखायलोकितम्. १० कोपम्. ११ अनुतपन्ति पत्रलेखाया अभिनन्दनं विसर्जन च ] उत्तरभागः । अपि चैतेऽनुप्राहकत्वादेवापरित्याज्याः, गुरुत्वादेव कृतावष्टम्भाः, विस्तीर्णत्वादेवालङ्घनीयाः, प्रभूतत्वादेवापरिहार्याः । तदेभिरहं विनाप्यागमनाज्ञया सुदूरमपक्रान्तोऽपि बलादेवाकृष्य देवीपादमूलमानीये' इति । यया वानपेक्षितगमनाज्ञया निर्यश्रणत्वागतोऽहमिति विशेसम्, सैव वाणी विज्ञापयति- 'यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम्, तथा देव्याऽऽत्मसंधारणायात्मनैव यत्नः कार्यः' इति संदिश्य पुनराह'पत्रलेखे, त्वयापि यान्त्याध्वनि व मद्विरहपीडा भावनीया, न शरीरसंस्कारेऽनादरः कर णीयः, नाहारवेलातिक्रमणीया, न येनकेन चिदज्ञातेन पथा यातव्यम्, न यत्रतत्रैवानिरूप्यावस्थातव्यम्, उषितव्यं वा । न यस्यकस्यचिद परिज्ञायमानस्यान्तरं दातव्यम्, सर्वदा शरीरेऽप्रमादिन्या भाव्यम् । किं करोमि। त्वत्तोऽपि मे वल्लभतरा देवीप्राणाः, येनैवमेकाकिनी तेषां संधारणाय विसर्जितासि । अपि च मम जीवितमपि तवैव हस्ते वर्तते । तैन्नियतं त्वयात्मा यत्नेन परिरक्षणीयः' इत्युक्त्वा सस्नेहं परिष्वज्य केयूरकं पुनस्तदवधानदानाय संविधाय 'महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्नयनायागन्तव्यम्' इत्यादिश्य व्यसर्जयत् । प्रयच्छन्ति । अपि चेति । अपि च प्रकारान्तरेण एते देवीप्रसादा अनुग्राहकत्वादेवा नुग्रहका रित्वा देवापरित्याज्या अपरिमोच्याः । गुरुत्वादेव गरीयस्त्वादेव कृतो विहितोऽवष्टम्भ आधारो यैस्ते तथोक्ताः । विस्तीर्णत्वादेव विशालत्वादेवालङ्घनीया अनतिक्रमणीयाः । प्रभूतत्वादेव बाहुल्यादेवापरिहार्या अत्याज्याः । एतेषां द्वितीयोऽर्थः स्वयमूह्यः । तदिति हेत्वर्थे । एभिः प्रसादैरहमागमनस्याज्ञा निदेशस्तां विनापि सुदूरं दविष्ठमपकान्तोऽपि गतोऽपि बलाद्धठादेवाकृष्याकर्षणं कृत्वा देव्याः कादम्बर्याः पादमूलं चरणसमीपमानीय इति । ययेति । अनपेक्षिताऽनीहिता गमनस्य यात्राया आज्ञा नियोगो ययैवंविधया वाण्या निर्यन्त्रणत्वादहं गत इति विज्ञप्तं कथितम् । सैव वाणी विज्ञापयति विज्ञप्तिं करोति । किं तदित्याह - यथेति । तथा मे ममागमनं निष्फलं निष्प्रयोजनं न भवति । जगद्वा शून्यमुद्रसितं न स्यात् । तथा देव्या कादम्बर्यात्मसंधारणायात्मरक्षणायात्मनैव खेनैष यत्नः परिश्रमः कार्यः । इति संदिश्य कथयित्वा पुनर्द्वितीयवारमाहहे पत्रलेखे, त्वयापि भवत्यापि यान्त्या व्रजन्त्याध्वनि मार्गे मम विरहो वियोगस्तस्य पीडा व्याधिने भाष नीया न भावनाविषयीकार्या । न विचारणीयेत्यर्थः । शरीरस्य संस्कारे परिकर्मणि नानादरोऽनुद्यमः करणीयो विधातव्यः । आहारवेला भोजनसमयो नातिक्रमणीया नोल्लङ्गनीया । अज्ञातेनानांकलितेन येनकेनचित्पथा मार्गेण न यातव्यं न गन्तव्यम् । यत्रतत्रैव यस्मिंस्तस्मा स्थलेऽतिगम्यं नानिरूप्यानवलोक्यावस्थातव्यमासितव्यमुषितव्यं वा वैसितव्यं वा । न यस्यकस्यचिदपरिज्ञायमानस्यानुपलक्षितस्यान्तरमवकाशो हार्द वा दातव्यं प्रदेयम् । सर्वदा सर्वप्रकारेण शरीरे तनावप्रमादिन्यानालसिन्या भाव्यं भवितव्यम् । अहं किं करोमि किं कुर्वे । त्वत्तोऽपि भवत्या अपि मे मम देवीप्राणाः कादम्बर्यसवो वल्लभतरा अतिशयेन प्रियाः । येनैवमिति । येन कारणेनैवममुना प्रकारेण तेषां प्राणानां संधारणाय रक्षणाय त्वमेकाकिन्यसहाया विसर्जिता प्रहितासि । अपि च युक्त्यन्तरे । मम जीवितं प्राणितमपि तवैव भवत्या एवं हस्ते वर्तते नान्यस्येत्यर्थः । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । तत्तस्मान्नियतं त्वयात्मा प्राणो यत्नेनोद्यमेन परिरक्षणीयो रक्षितव्यः । इत्युक्त्वा कथयित्वासहं सहार्द परिष्वज्यालिङ्ग्य केयूरकं पुनस्तस्याः पत्रलेखाया अवधानं समाधानं तस्य दानं बितरणं तदर्थ संविधाय कृत्वा महाश्वेताया आश्रमं मुनिस्थानं यावत् अनया पत्रलेखया त्वयैवं भवतैव सह मन्नयनाय मदाकारणायागन्तव्यं समेतव्यमित्यादिश्येत्युक्त्वा व्यसर्जयदप्रैषीत् । टिप्प० - 1 भानयतेः कर्मणि, लट उत्तमपुरुषैकवचनम् । मानीतोस्मि, इत्यर्थः । 2 विवाहद्वाराऽहं सनाथी कर्तव्य इति गूढमाकृतम् । 3 वस्तव्यमिति तात्पर्यम् । 4 अनया सह स्वयैवागन्तव्यमिति तात्पर्यम् । केयूरकस्य प्राधान्यं पत्रलेखायाश्याप्राधान्यमित्याशयः । • · पाठा० -१ च. १ विशतः ३ विसर्जितण्या ४ तदारमा ५ च पुनः ६ वयानयैव सह. ६८ का० ५३८ कादम्बरी । [ कथायामनिर्गतायां च केयूरकेण सह पत्रलेखायाम् 'किं शीघ्रमेते यास्यन्ति न वेति, अन्तरा वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव चिन्तया शून्यहृदयः क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्ग्य बहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युगमनायात्मानं मोचयितुं पितुः पादमूलमयात् । तत्रै चोभयतः ससंभ्रमापसृत प्रतीहारमण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्यजानुकरतलावलम्बितविमलमणिकुट्टिमोदरसंक्रान्तप्रतिमो द्विगुणायमानायत कुन्तलकलापः पितुः प्रणाममकरोत् । अथ तार पीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य निर्भरस्नेहगर्भेण सलिलभरमन्थरेणेव जलधरध्वानेनिभेन स्वरेण सधीरम् 'एह्येहि' इत्याहूय ससंभ्रमप्रधावितमपि संभावितशुकनासप्रणाममुपसृत्य पार्श्वे भूमावुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्यापरिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौवनभराभिरामतराण्यङ्गप्रत्यकेयूरकेण सह पत्रलेखायां निर्गतायां सत्यां किमेते केयूरकप्रभृतयः शीघ्रमाशु यास्यन्ति गमिष्यन्ति न वा । अथवा गच्छतां व्रजतामन्तरा मध्ये परिलम्बो विलम्ब उत्पत्स्यते भविष्यति न वा । कियद्भिः कियन्मात्रैर्दिवसैर्वासरैः परापतिष्यन्त्या गमिष्यन्ति । अनयैव चिन्तया शून्यं मूढं हृदयं यस्यैवंभूतः क्षणमिव क्षणमात्र स्थित्वा स्कन्धावारस्य सैन्यस्य वार्ता प्रवृत्तिस्तस्याः स्फुटीकरणं प्रकटीकरणं तस्मै वार्ताहर संदेशहारकं विसर्ज्य गमनायादेशं दत्त्वा बहुदिवसैरन्तरितं व्यवधानीकृतं दर्शनमवलोकनं यस्यैवंविधस्य वैशम्पायनस्य प्रत्युद्गमनाया भिमुखयानायात्मानं स्वं मोचयितुमुत्कलीकर्तुं पितुस्तारापीडस्य पादमूलं चरणसमीपमयागतवान् । तत्रेति । उभयत उभयपार्श्वे ससंभ्रमेणापसृतं किंचित्पश्चागतं यत्प्रतीहारमण्डलं द्वारपालसमूहं तेन वितीर्णो दत्तो विस्तीर्णो विशाल आलोकनमार्गो निरीक्षणपन्था यस्य सः । दूरादेवेति । दूरादेव दविष्ठादेवापसव्यो दक्षिणो जानुर्नलकीलकः करतलं हस्ततलं ताभ्यामवलम्बितमालम्बनीकृतं विमलं निर्मलं यन्मणिकुहिमस्य मणिबद्ध भूमेरुंदरं मध्यं तत्र संक्रान्ता प्रतिबिम्बिता प्रतिमा मूर्तिर्यस्य सः, अतं एवोभयत्र दृश्यमानत्वाद्विगुणायमानो द्विगुणवदाचरमाण आयतो विस्तीर्णः कुन्तलकलापः केशसमूहो यस्यैवंभूतश्चन्द्रापीड : पितुस्तारापीडस्य प्रणामं नमस्कारमकरोदसृजत् । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । अथेति । प्रणामानन्तरं तारापीडस्तथा तेन प्रकारेण दूरत एव दविष्ठादेव कृतप्रणामं विहितनमस्कारं चन्द्रापीडमालोक्य निरीक्ष्य निर्भरं यथा स्यात्तथा स्नेहो हार्द गर्ने मध्ये यस्मिन्नेतादृशेन सलिलभरः पानीयभरस्तेन मन्थरेंणेव स्त्रिग्धेनेव जलधरस्य मेघस्य ध्वानो ध्वनिस्तस्य निभेन सदृशेन खरेण शब्देन सधीरं यथा स्यात्तथा एह्येह्यागच्छागच्छेत्याहूयाह्वानं कृत्वा ससंभ्रमं सादरं सचकितं वा प्रधावितमपि त्वरितगत्या चलितमपि संभावितः संभावनाविषयीकृतः शुकनासस्य प्रणामो नमस्कारो येन स तमुपसृत्योपसरणं कृत्वा पार्श्वे भूमौ पृथिव्यामुपविशन्तं निषीदन्तं हृठादाकृष्याकर्षणं कृत्वा पादपीठे पदासने समुपवेश्योपवेशनं कारयित्वाऽपरिसमाप्ताऽपरिपूर्णाऽवलोकनस्य निरीक्षणस्य स्पृहा वाञ्छा यस्यैवंविधेन चक्षुषा नेत्रेण सुचिरं चिरकालं यावत्, आलोक्य निरीक्ष्या चन्द्रापीडस्योपारूढं प्राप्तं ययौवनं तारुण्यं तस्य भरः संभारस्तेनाभिरामतराण्यतिमनोहराण्यङ्गप्रत्यङ्गानि हस्ताटिप्प० - 1 ससंभ्रमम् संभ्रमेण सहितम् अपसृतमित्यर्थः । पाठा० -१ बिलम्ब: २ अगात् ३ तत्रैव ४ एव; नव ५ ध्वनिना ध्वनिगम्भीरण ६ धीरम्. ७ उपसृज्य ८ अङ्गोपाङ्गानि. परिणयप्रस्तावः ] उत्तरभागः । ङ्गानि पाणिना स्पृष्ट्वा दर्शयशुकनासमवादीत् - 'शुकनास, पश्येयमायुष्मतश्चन्द्रापीडस्योत्सर्पिणी महानीलमणिप्रभेव कनकशिखरिणः, गण्डमण्डलोद्भासिनी मदलेखेव गन्धद्विपस्य, उपहितकान्तिपतिपरभागा लक्ष्मच्छांयेव चन्द्रमसः, विकासशोभापेक्षिणी मधुकरावलीव कमलाकरस्य, रूपालेख्योन्मीलन कालाञ्जनवर्तिका, तारुण्यभरजलधरोत्तानश्यामिका, उज्वलत्कन्दर्पदीपकज्जल शिखा, स्फुरत्प्रतापानलधूमराजी, मकरध्वजोपवनतमालवल्ली, मैनोभवदोषारम्भबालतिमिरोद्गतिः, उद्वाहमङ्गलभ्रूसंज्ञा इमथुरा जिलेखा समन्तात्समुद्भिन्ना। विवाहमङ्गलयोग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह समेत्याभिजनरूपा निरूप्यतां काचिजैगति राजकन्यका । दृष्टं हि दुर्लभदर्शनं वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्शनेनानन्दयाम आत्मानम्' इत्युक्तवति तारापीडे शुकनासः प्रत्युवाच , 4 डुलिप्रभृतीनि पाणिना हस्तेन स्पृष्ट्वा स्पर्श कृत्वा शुकनासं मन्त्रिमुख्यं दर्शयन्नवलोकनं कारयन्नवादी दब्रवीत् । हे शुकनास, पश्यावलोकय । आयुष्मतो जीवितवतः चन्द्रा पीडस्येयं प्रत्यक्षोपलभ्या श्मश्रुराजिः कूर्चश्रेणिस्तस्या लेखा रेखा समन्तात्सर्वतः समुद्भिन्ना प्रकटिता । श्यामत्वसाधर्म्यादुत्प्रेक्षते -- कनकशिखरिणः सुवर्णाचलस्योत्सर्पिण्यूर्ध्वगामिनी महानीलमणीनां स्थूलेन्द्रनीलरत्नानां प्रभेव कान्तिरिव । गन्धद्विपस्य गन्धेभस्य गण्डमण्डल उद्भासितुं शीलं यस्या एवंविधा मदलेखेव दानलेखेव । उपहित आच्छादितः कान्तिपतिना सूर्येण परभागो गुणोत्कर्षो यस्याः सैवंविधा चन्द्रमसः कुमुदबान्धवस्य लक्ष्मच्छायेव कलङ्कप्रभेव । 'पर भागो गुणोत्कर्षः' इत्यमरः । विकासशोभां विकस्वरलक्ष्मीमपेक्षत इत्येवंशीला कमलाकरस्य मधुकरावलीव भ्रमरपङ्किरिव । रूपालेख्यस्य रूपचित्रस्योन्मीलनं प्रकाशनं तत्र कालाञ्जनस्य कृष्णकज्जलस्य वर्तिकेव वर्तिका लेखिनी । तारुण्यभरो यौवनातिशयः स एव जलधरो मेघस्तस्योत्ताना अतिशायिनी श्यामिकेव श्यामिका । उज्ज्वलन्दीप्यन्यः कन्दर्पः कामः स एव प्रदीपः स्नेह प्रियस्तस्य कज्जलमञ्जनं तस्य शिखेव शिखा । स्फुरन्नुल्लसन्यः प्रतापः कोशदण्डजं तेजः स एवानलो वह्निस्तस्य धूमराजीव धूमराजी । मकरध्वजस्य मनोभवस्योपवनमरण्यं तस्य तमालवल्लीव तमालवल्ली । मनोभवः कंदर्पः स एव दोषारम्भो यामिनीप्रारम्भस्तस्य बालान्यपरिपक्कानि यानि तिमिराण्यन्धकाराणि तेषामुद्गतिरिवोद्गतिः । उद्वाहस्य पाणिपीडनस्य मङ्गलं शुभक्रिया तस्य भ्रूसंज्ञेव भ्रूसंज्ञा । हे शुकनास, त्वं पश्येत्यन्वयस्तु प्रागेनोक्तः । तत्तस्माद्धेतोर्विवाहमङ्गलयोग्यामुद्वाहक्रियायोग्यदशामारूढोऽयम् । चन्द्रापीड इत्यर्थः । तत्तस्मात्कारणादभिजनैरूपा प्रशस्ताकृतिः काचिदनिर्दिष्टनाम्नी जगति पृथिव्यां राजकन्यका राजकुमारिका विलासवत्या देव्या सह समेत्य मिलित्वा निरूप्यतां कथ्यताम् । दृष्टमिति । हीति निश्चयेन । दुर्लभं दुष्प्रापं दर्शनमवलोकनं यस्यैवंविधं वत्सस्य सूनोर्वदनमाननं दृष्टम लोकितम् । संप्रतीदानीं वध्वा मुखकमलं तस्य दर्शनेन निरीक्षणेनात्मानं स्वमानन्दयामः प्रीणयामः । इति तारापीढ उक्तवति कथितवति सति शुक्नासः प्रत्युवाच प्रत्यब्रवीत् । टिप्प० – 1 पुनः प्रमादान्मार्ग परित्यजति । 'उपहितकान्तिपरभागा' इत्येव पाठः । उपहितो जनितः कान्तेः परभाग उत्कर्षो यस्या इति तदर्थः । सूर्यो वराकश्चन्द्रकलङ्कस्य गुणोत्कर्ष कदाऽऽच्छादयति ? सतष्टीकाकृतोऽर्थः शशशृङ्गायितः । 2 विकासस्य लक्ष्मीः शोभा इत्येवोचितम् । 3 'उद्दामझ्यामिका' इत्येव रुचिराक्षरम् । उद्दामा उत्कटा । 4 'अतिजनरूपा' इति पाठे जनानू अतिक्रान्तं रूपं यस्या इत्यर्थः । 5 दृश्यताम्, अन्विष्यतामित्यर्थ उचितः । पाठा० -१ कान्तिपुर २ उन्नाम; उद्दाम ३ मनोभवविकार ४ संध्य ५ जगतीराज; जगतीपति, ६ आनन्द्रय मे. कादम्बरी । [ कथायाम्.. 'साधु चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एवं सर्वविद्याः, संभा बिता एव सर्वाः कलाः, स्वीकृता एव सर्वप्रजाः, गृहीता एवं सर्वदिग्वधूनां कराः, स्थापितैब मिश्रला कुटुम्बिनीपदे राजलक्ष्मीः, ऊढैव चतुरुदधिमेखलाकलापभूषणा भूः । किमतः परमवशिष्यते, येनानेन न परिणीयते' इत्यभिहितबति शुकनासे लज्जाव नम्रवदनश्चन्द्रापीडधकार चेतसि — 'अहो संवादः, येन मे कादम्बरी समागमोपायचिन्ता समकालमेवेहशी सातस्य बुद्धिरुत्पन्ना। तदुच्यते - अन्धकारे प्रविष्टस्यालोकः, बनगहनप्रविष्टस्य देशिकदर्शनम्, महार्णवपतितस्य यामपात्राध्यागमनम् त्रियमाणस्योपर्यमृतवृष्टिरिति, तदेतदापतितं मयि । सर्वथा वैशम्पायनदर्शनमात्रकान्तरिता वर्तते मे कादम्बरीप्राप्तिः' इत्येवं चिन्तयत्येव चन्द्रापीडे क्षितिपतिरुत्तस्थौ । उत्थाय च तमेब विनयावनर्तपूर्वकायं समवलम्ब्यांसदेशे सकलमेदिनीभारोद्वहनगुरुणा दोर्दण्डेन शनैः शनैः संचरकशुकनासेनानुगम्यमानो विलासवतीभवनमगमत् । गत्वा च ससंभ्रमकृताभ्युत्थानामिन्दूदयावलोकन विलोला मिव समुद्रवेलां " 9 किमुवाचेत्याह- साध्विति । साधु शोभनं चिन्तितं विचारितं देवेन स्वामिना । सहृदयेन सज्जनेनानेन तु चन्द्रापीडेन हृदये सर्वविद्याः कलादिकाः समारोपिता एव प्राप्ता एव । सर्वाः कला विज्ञानानि संभाविता एव ज्ञाता एव । सर्वप्रजाः समप्रप्रकृतयः स्वीकृता एवाजीकृता एव । सर्वदिग्वधूनां समग्रककुन्नारीणां कराः पाणयो गृहीता एव ग्रहणविषयीकृता एव । कुटुम्बिनीपदे जायास्थाने राज्यलक्ष्मीर्निश्चला स्थिरा स्थापितैय न्यस्तैव । चतुरुदधयश्चतुःसमुद्रास्त एव मेखलाकलापो भूषणं यस्यामेवंविधा भूः पृथ्वी ऊढैव परिणीतैन 1 अतोऽपरमन्यत्किमवशिष्यत उर्वरितं भवति, येमानेन न परिणीयते न पाणिग्रहणं क्रियते । इत्यभिहितवतीत्युक्तवति शुकनासे लज्जया त्रपया अवनम्रं नतं वदनं यस्यैवंविधश्चन्द्रापीडश्चेतसि चित्ते चकाराकरोत् । अहो संवादो विसंवादाभावः । येन कारणेन मे मम कादम्बर्याः समागमोपायचिन्तासमकालमेव तातस्य पितुरीदृशी बुद्धिरुत्पन्ना । तद्यदुच्यते प्रतिपाद्यते जनैस्तदेतन्मय्यापतितमागतम् । तत्किमित्याह – अन्धकार इति । अन्धकारे तिमिरे प्रविष्टस्य निविष्टस्यालोकः प्रकाशः । वनस्यारण्यस्य गहनं गह्वरं तत्र प्रविष्टस्य देशिकदर्शनं स्वदेशोत्पन्नजनावलोकनम् । महार्णवः समुद्रस्तस्मिन्पतितस्य यानपात्रस्य पोतस्याभ्यागमनं प्राप्तिः । म्रियमाणस्य मरणं व्रजत उपर्यमृतवृष्टिः सुधासेक इति सर्वथा सर्व प्रकारेण वैशम्पायनस्य दर्शनमात्रकमवलोकन मात्रकं तेनान्तरिता व्यवहिता मे मम कादम्बरीप्राप्तिर्वर्तते इत्येवं चिन्तयत्येव विचारयत्येव चन्द्रापीडे क्षितिपतिस्तारापीड उत्तस्थावुत्थितवान् । उत्थाय चोत्थानं कृत्वा । तमेवेति । सकला समग्रा या मेदिनी वसुधा तस्या भारो वीवधस्तस्योद्वहनेन धारणेन गुरुणा गरिष्ठेन दोर्दण्डेन भुजदण्डेन विनयेनावनतो नम्रीभूतः पूर्वकायो देहादिभागो यस्यैवंभूतं तमेव चन्द्रापीडमेवांसदेशे स्कन्धप्रदेशे समवलम्ब्यालम्बनीकृत्य शनैः शनैर्मन्दं मन्दं संचरन्त्रजब्युकनासेनानु गम्यमानोऽनुयायमानो विलासवतीभवनं पट्टराज्ञीसदनमगमज्जगाम । गत्वा चेति । गत्वा च गमनं कृत्वा च ससंभ्रमं संभ्रमेण सह कृतं विहितमभ्युत्थानमुत्थानं ययैवंविधाम् । अत एवोत्प्रेक्षते इन्दूदयस्य चन्द्रोदयस्यावलोकनं निरीक्षणं तेन विलोलां चञ्चलां समुद्रस्य जलधेर्वेलामिवाम्भसो वृद्धिमिव विलाटिप्प० – 1 'आदेश कदर्शनम्' इति पाठे मार्गप्रदर्शकस्य दर्शनमित्यर्थः । पाठा० - १ सर्वाः प्रजा: २ एव दिग्व. ३ वदनेन. ४ तदुच्यते ५ अन्धकार. ६ अभ्यागमः ७ त्रियमाणस्यैवान चोपरि. ८ एव. ९ अवनम्र चन्द्रपीडस्पौत्सुक्यम् ] उत्तरभागः । ५४१ विलासवतीमूर्ध्वस्थित एवावादीत-- 'देवि, पश्यैषा त्वमपि वधूमुखाबलोकनसुखस्य कृते न ताम्यसीत्युपालभमानेव देवीम्, वत्सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलेसितनिवर्तनाज्ञा, विजृम्भमाणा इमञ्जुरींगशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमाविशसीति प्रष्टव्या । तदादिशतु देवी कथ्यमानेऽपि किमपरम् । अद्याव्यपहरसि वदनमन्यतो श्रीडया । पृष्ठा वा कर्तव्यं नाज्ञापयसि । बरमातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा, यदेवमेतत्कार्येष्वनादरोऽवधीरणा च' इत्येवंविधैर्नर्मप्रायैरालापैः सुखायमानचेताश्चिरमिव स्थित्वा शरीरस्थितिसंपादनाय निरँगमत् । चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा जननीभवन एव निर्वर्तितशरीर स्थितिर्वैशम्पायन प्रत्युगमन संविधानविनोदेनैव तं दिवसमनयत् । अबतीर्णायां च तस्यां यामिन्यां सुहृदर्शनोत्सुक्येन शयनगतोऽपि जामदेव समधिकमिव यामद्वयं समतीमूर्ध्वस्थित एव शुकनासोऽवादीदब्रवीत् । किमवादीदित्याह - देवीति । हे देवि हे खामिनि, पश्य विलोकय । एषा विलासवती त्वमपि भवत्यपि वधूमुखस्यावलोकन सुखं निरीक्षणसौख्यं तस्य कृते न ताम्यसि नखेदं करोषि । इति देवीं विलासवतीमुपालभमानेवोपालम्भं ददानेव वत्सस्य चन्द्रापीडस्य यौवनारम्भस्य सूत्रपातरेखेव रेखा । नवीनप्रारम्भे शिल्पिभिः सूत्रपातरेखा क्रियत इति सर्वसंमतम् । आवयोः शुकनासराज्ञोस्तारुण्यस्य यौवनस्य दुर्विलसितानि दुश्चेष्टितानि तेभ्यो निवर्तनस्य दूरीभवनस्याज्ञेव आज्ञा । अत्र सर्वत्र रूपकम् । एवंविधा विजृम्भमाणा विस्तारं प्राप्यमाणा श्मश्रुरागशोभा कूर्चरागच्छ विर्विवाहलक्षणं यन्मङ्गलं शुभक्रिया तस्य संपादनाय करणायादिशति कथयति । त्वं विलासवत्यपरमन्यत्किमादिशसि कथयसीति प्रष्टव्या पृच्छाविषयीकार्या । तत्तस्माद्धेतोः कथ्यमानेऽऽप्युच्यमानेऽपि किमप्यपरमन्यद्देवी किमादिशतु किं कथयतु । अद्यापि व्रीडया लज्जयान्यतो वदनं मुखमपहरसि तिर्यग्मुखं स्थापयसि । पृष्टा वा पृच्छाविषयीकृता वा कर्तव्यं कृत्यं नाज्ञापयसि नाज्ञां ददासि । त्वं वरमाता संवृत्ता जातासि । अहं जानाम्याकलयाम्येषा चन्द्रापीडस्योपर्यप्रीतिररुचिः, यदेवमेतत् कार्येषु पूर्वोक्तकृत्येष्वनादरोऽनुत्साहोऽवधीरणावज्ञा च । एवंविधैरेताहरौनप्रायैबर्करसदृशैः । 'बर्कर: पशुनर्मणोः' इति हैमानेकार्थः । आलापैः संभाषणैः सुखायमानं सुखकृञ्चेतो यस्यैवंविधश्चिरमिव चिरसदृशं स्थित्वा शरीरस्थितेर्दे हस्थितेः संपादनं करणं तस्मै निरगमन्निर्ययौ ' · चन्द्रापीडोऽपि शुकनासमुखेनैव, न तु स्वमुखेन, वैशम्पायनस्य प्रत्युद्गमनमभिमुखयानं तस्मा आत्मानं स्वं मोचयित्वा मोक्षणं कारयित्वा जननीभवन एव मातृगृह एव निर्वर्तिता निष्पादिता शरीर स्थितिर्देहधारणात्मिका येन स वैशम्पायन प्रत्युद्गमनस्य संविधानं करणं तदेव विनोदः क्रीडा तेनैव तं दिवसमनयत्प्रापयत् । अव तीर्णायामागतायां तस्यां यामिन्यां रात्रौ सुहृदो मित्रस्य । 'सुहृहुर्हृदौ मित्रामित्रयोः' इति निपातः । तस्य दर्शनमवलोकनं तत्रौत्सुक्यमुत्सुकत्वं तेन शयनगतोऽपि शय्याप्राप्तोऽपि जाग्रदेव जागरूक एव समधिकमिव समधिकसदृशं यामद्वयं प्रहरयुग्मं स्थित्वावस्थानं कृत्वा चन्द्रपादैः शशिकिरणैर्द्विगुणीकृतो द्विगुणतां नीतो मन्मथस्य कन्दर्पस्योत्साहः प्रगल्भता यस्यैवंविधश्चन्द्रापीड़ो गमनस्य संज्ञा ज्ञापनं तदर्थं यः शङ्खनादो जलजध्वनिटिप्प० – 1 पुनर्भ्रान्तः । आवयोः तव (राज्ञ्याः) मम चेत्यर्थः । 2 परिहासबहुलैरियेनार्थः समु चितः। वर्करपर्यावस्तु इन्द्रस्य टीका बिडौजाः। परिह। सरस्वत्र – चन्द्र पीडस्योपरि तवाऽमीतिरित्युक्त्वा उभयोः प्रणयकलहोत्पादनरूपः । 3 अगमय दित्यर्थ उचितः । 4 किञ्चिदधिकं यामद्वयमित्याशयः । पाठा० - १ देव. २ त्वमपि च ३ उत्ताम्यसि. ४ एव. ५ विलसितेच्छाविनिवर्त, ६ राजि, ७ निरगात्. ५४२ कादम्बरी । [ कथायाम9 , १ स्थित्वा परिवर्तयद्भिरिव स्वकान्त्या नीलिमानमम्बरतलस्य अपहरद्भिरिव हरिततां तरुगहनानाम्, अधस्तादपि छिद्रयित्व प्रविशद्भिः निर्वासयद्भिरिव तरुतलच्छायाम्, दंरीकुहरकुञ्जोदरेष्वपि निलीनं तिमिरमक्षान्त्येव प्रविइयोत्पाटयद्भिः विवरप्रवेशव्याजेन च रसातलमिव प्रवेष्टमारब्धैः, अन्यथा पुनर्धवलयद्भिरिव धवलतां सौधानाम्, उद्लयद्भिरिव कर्पूररेणुना दिड्युखानि, लिम्पद्भिरिव सान्द्रचन्द नद्रवेण यामिनीम्, उन्नामयद्भिरिव मेदिनीम्, उपनयद्भिरिव द्याम्, संक्षिपद्भिरिव तारकाग्रहनक्षत्रमण्डलानि, विस्तारयद्भिरिव सरित्पुलिनानि, पृथक्पृथक्कमलवनान्युत्पीड्येवं धारयद्भिः, उद्दलितद्लविकासाने की कुर्वद्भिरिव कुमुदाकरान्, अपि च पर्यस्तैरिव शिखरिशिखैरेषु, आवर्जितैरिव प्रासादमूर्धसु, तरद्भिरिव जलतरङ्गेषु, पिण्डीभूय वहद्भिरिव रथ्यामुखेषु प्रसारितैरिव सैकतस्थलेषु, हंससार्थैः सहैकी भूतैरिव, संविभक्तैरिव चन्द्राश्रय प्रसुप्तकामिनी कपोललावण्येन, क्षालितैरिव चन्द्रकान्त . स्तस्मा आदिदेशानुज्ञां दत्तवान् । इतश्चन्द्रपादान्विशेषयन्नाह - परिवर्तयद्भिरित्यादि । स्वकान्त्या स्वकीयदीधित्याम्बरतलस्याका शतलस्य नीलिमानं नीलतां परिवर्तयद्भिरिव परावर्त कुर्वद्भिरिव, नीलिमानं गृहीत्वा श्वेतिमानं ददद्भिरिवेत्यर्थः । तरुगहनानां तरुगहराणां हरिततां पीतनीलतामपहरद्भिरिव गृहद्भिरिव । दूरीकुर्वद्भिरिवेत्यर्थः । अधस्तादप्यधोभागमपि प्रविशद्भिः प्रवेशं कुर्वद्भिः । अत एवोत्प्रेक्षते-छिद्रयित्वेव छिद्राणि कृत्वेव तरुतलानां छाया तपाभावस्तां निर्वासयद्भिरिव बहिः कुर्वद्भिरिव । निर्विषयी कुर्वद्भिरिवेत्यर्थः । दरी गुहा कुहराणि सुषिराणि कुञ्जोदराणि वृक्षैर्वृतान्तरस्थानमध्यभागास्तेष्वपि प्रविश्य निलीनं गुप्ततया स्थितं तिमिरं तमोऽक्षान्त्येव क्रुधेवोत्पाटयद्भिरिवोत्पाटनं कुर्वद्भिरिव । विवराणि सुषिराणि तेषु प्रवेशोऽन्तर्गमनं तस्य व्याजो मिषं तेन च रसातलं पृथ्वीतलं प्रवेष्टुं प्रवेशं कर्तुमारब्धैः कृतप्रारम्भैः । अन्यथान्यप्रकारेण सौधानां गृहाणां ववलतां शुभ्रतां पुनर्द्वितीयवारं धवलयद्भिरिव धवलीकुर्वद्भिरिव । कर्पूररेणुना हिमवालुकाक्षोदेन दिङ्मुखानि दिशां वदनान्युद्धूलैयद्भिरिवोद्वर्तयद्भिरिव । सान्द्रः स्निधो यश्चन्दनद्रवो मलयजरसस्तेन यामिनीं त्रियामां लिम्पद्भिरिव लिम्पनं कुर्वद्भिरिव । मेदिनीं वसुधामुन्नाम रिवोच्चैः कुर्वद्भिरिव । यां दिवमुपनयद्भिरिव । तारकास्ताराः, ग्रहाः शुक्रादयः, नक्षत्राण्यश्विन्य (दीनि, तेषां मण्डलानि बिम्बानि संक्षिपेंद्भिरिव संक्षेपं कुर्वद्भिरिव । सरित्पुलिनानि नदीजलोज्झितप्रदेश स्तानि विस्तारयद्भिरिव विस्तारं प्रापयद्भिरिव । पृथक्पृथगन्यद.. न्यत्कमलवनानि पङ्कजारण्यान्युत्पीड्य संमर्थ धारयद्भिरिव कुमुदाकरान्कैरवसमूहानुद्दलितो दूरीकृतो दलानां पत्राणां विकासो येषां तानेकी कुर्वद्भिरिवा पृथैग्भावं कुर्वद्भिरिव । अपि च शिखरिणां पर्वतानां शिखरेषु पर्यस्तैरिव पतितैरिव । प्रासादा देवभूपान हास्तेषां मूर्धान उपरितन प्रदेशास्तेष्वावर्जितैरिव विस्तारितैरिव । 'हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्' इत्यमरः । जलतरङ्गेष्वम्भःकल्लोलेषु तरद्भिरिव । पिण्डीभूय पिण्डतां प्राप्य वहद्भिरिव प्रवहद्भिरिव रथ्यामुखेषु । सैकतस्थलेषु पुलिनस्थलेषु प्रसारितैरिव प्रसरणं प्राप्तैरिव । हंसानां सितच्छदानां साथैः संघातैः सहेकीभूतैरिवैकभावतां गतैरिव । चन्द्राश्रये शिरोगृहे प्रसुप्ता या कामिनी कंदर्पवती स्त्री तस्याः कपोलो गल्लात्परप्रदेशस्तस्य लावण्यं मुक्ताफलस्य छायेव तरलत्वं तेन संविभक्तैरिव संविभागीकृतैरिव । 'कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्' इत्यमरः । चन्द्रटिप्प० - 1 धूल्या विच्छुरयद्भिः । 2 चन्द्रिकायां जृम्भमाणायां तारकादीनि न्यूनप्रकाशतया संक्षि तानि भवन्तीत्याशयः । 3 चन्द्रकिरणैः श्वेतेषु कुमुदाकरेषु मिथः पृथग्भावो न प्रतीयत इत्याशयः । पाठा० - १ दरीगहन, २ एत्र धारयद्भिरिव ३ शेखरेषु. अपररात्रे यात्राशङ्खध्वनिः ] उत्तरभागः । च्युतजलधारासहस्रैः । तथा च गर्भगृहेष्वप्यविहितप्रवेशैः, दन्तवलभीभ्योऽपि लब्धपरभागः, पद्मिनीपत्र खण्डेष्वप्यखण्डितघवलिमभिः, आरामेष्वपि दिवसबुद्धिमुत्पादयद्भिः परस्परोद्विन्त्रक्रमेणोद्भिरद्भिरिव आवर्जयद्भिरिव, विक्षिपद्भिरिव, विस्तारद्भिरिव, वर्षद्भिरिव सर्वतो ज्योत्स्ना प्रवाहम्, कादम्बरीसमागमत्वरादानाय स्मरसर्वालमोक्षमिव कुर्वद्भिश्चन्द्रपार्द्वगुणीकृतमन्मथोत्साहो गर्मेनसंज्ञाशङ्खनादायादिदेश । १ अथ गगनतललब्धविस्तारः, विजृम्भमाण इव दिकुञ्जेषु, आवर्तमान इवाभ्रंलिहनगरीप्राकारमण्डलाभ्यन्तरे, समारोहन्निवोत्तुङ्गगोपुराट्टालकशिखराणि, चलन्निव हर्म्यान्तरालेषु, विकसन्निव चतुष्कचत्वरेषु, प्रसरन्निव राजमार्गेषु, परिभ्रमन्निव भवनसंकटेषु, प्रविशन्निवोद्याननेगवनगहरेषु, संमूर्च्छन्निव प्रासादकुक्षिषु, तत्क्षणप्रतिबोधितानां गृहसरोजिनीसारसानामनुवर्तमान इव तारतरदीर्घेण रणितेन, विच्छिद्यमान इव मुहुर्मुहुः स्वभावगद्गदेन १ १ 4 कान्तेभ्यश्च्युताः पतिता या जलधारास्तासां सहस्रैः क्षालितैरिव धौतैरिव । तथा च गर्भगृहेष्वपवर्गेष्वप्यविहतो ऽप्रतिषिद्धः प्रवेशो येषां तैः । दन्तवैलभीभ्योऽपि रदनच्छदाधारेभ्योऽपि लब्धः प्राप्तः परभागो गुणोत्कर्षो यैः । पद्मिन्या नलिन्याः पत्रखण्डेष्वपि दलसमूहेष्वप्यखण्डिताऽत्रुटिता धवलिमा श्वेतता येषां तैः । किं कुर्वद्भिः। आरामेष्वपि कृत्रिमवनेष्वपि दिवसबुद्धिं वासरधियमुत्पादयद्भिर्निष्पादयद्भिः । परस्परमन्योन्यमुत्प्राबल्येन भिन्नो विद्धोऽयमनेन भिन्नोऽनेनायमित्यादिक्रमेणोद्भिरद्भिरिवरद्भिरिव आवर्जयद्भिरिव मुञ्चद्भिरिव, विक्षिपद्भिरिवेतस्ततो विक्षेपं कुर्वद्भिरिव, विस्तारयद्भिरिव प्रसारयद्भिरिव: वर्षद्भिरिव वृष्टिं कुर्वद्भिरिव सर्वतः समन्ततो ज्योत्स्नाभरप्रवाहम्, कादम्बर्या: समागमो मेलापस्तस्य त्वरादानाय स्परस्य कंदर्पस्य सर्वास्त्राणि तेषां मोक्षं कुर्वद्भिरिव सृजद्भिरिव । 2 अथेति । शङ्खनादादेशानन्तरं शङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्थितो बभूव । इतः शङ्खनिनादं विशेषयन्नाह - गगनतलेति । गगनतले व्योमतले लब्धः प्राप्तो विस्तारो येन सः । दिक्कुञ्जेषु ककुन्निकुञ्जेषु विजृम्भमाण इव कोशं प्राप्यमाण इव । अभ्रंलिहो व्योमव्यापी यो नगर्याः प्राकारमण्डलो वत्रपरिधिस्तस्या भ्यन्तरे मध्य आवर्तमान इव भ्रममाण इव । उत्तुङ्गान्यत्युच्चानि यानि गोपुराणां प्रतोलीनामट्टालकानि तदुपरिवर्तिसदनानि तेषां शिखराणि शृङ्गाणि तानि समारोहन्निव समारोहणं कुर्वन्निव । हर्म्याणि भवनानि तेषामन्तरालेषु विचालेषु चलन्निव गच्छन्निव । चतुष्काणि संजवनानि चत्वराङ्गनानि चतुर्मार्गाणि वा तेषु विकसन्निव विकास प्राप्नुवन्निव । राजमार्गेषु श्रीपथेषु प्रसरन्निव विस्तरन्निव । भवनसंकटेषु गृहसंकीर्णस्थानेषु परिभ्रमन्निव भ्रमणं कुर्वन्निव । उद्यानस्य वनस्य नगाः पर्वतास्तेषां वनान्यरण्यानि तेषां गहराणि गहनान्युयानानि च नगाश्च गहराणि च । इतरेतरद्वन्द्वो वा । तेषु प्रविशन्निव प्रवेशं कुर्वन्निव प्रासादानां देवभूपसद्मनां कुक्षिष्वभ्यन्तरप्रदेशेषु संमूर्च्छन्निव समर्थीभवन्निव । तत्क्षणं तत्कालं प्रतिबोधितानां जागरितानां गृहसरोजिन्यः सदननलिन्यस्तासां सारसा लक्ष्मणास्तेषामतिशयेन तारोऽत्युच्चध्वनिस्तारतरस्तेन दीर्घेणायतेन रणितेन टिप्प० -1 गर्भगृहाः अभ्यन्तरगृहाः । 2 गजदन्तनिर्मिता उपरिगृहा: । 'नमछलीका वलभीर्युवानः ' इति माघः । 3 इमनिच्प्रत्ययान्तस्य सर्वत्र स्त्रीत्वं प्रयुक्त इति तु क्षेत्रियो व्याधिः । पुंस्त्वमुचितम् । 4 परस्परंम् उद्भिन्नम् ( उद्भेदो विकासः ) तस्य क्रमेण । पाठा० - १ प्रवर्तयद्भिरिव वर्षद्भिरिव २ गमन. ३ अभ्यन्तरेषु. ४ वलयन वलनू ५ नगगहरेष. कादम्बरी । [ कथायाम्५४ भवनहंसानां कलरवेण, निर्धार्यमाण इवे च श्रोत्रप्रवेशिना गमनवेला प्रणामसंभ्रान्तस्य वाराअनाजनस्य चलवलयनूपुररसनाकलकलेन, तारदीर्घतरः शङ्ख बनिरुदतिष्ठत् । अनन्तरं चोत्थाप्यमानैश्श्रोत्थितैःश्चाकृष्यमाणैश्या कष्टैचा रोप्यमाणपर्याणश्च पर्याणितैश्च नीयमानैश्चानीयमानैश्च विलेभ्यमानैश्वाच्छिद्यमानैश्चागच्छद्भिश्चागतैश्च पूज्यमानैश्च पूजितैश्च पँङ्किस्थितैश्च बाह्यमानैश्च तिष्ठद्भिश्च प्रतिपालयद्भिश्च पर्याप्तराजद्वाराङ्गणैरै प्रभूतचत्वरैर्निस्तु षितसकलरथ्यान्तरतयान्तर्बहिश्च संकटायमाननगरीविस्तारैस्तुरङ्गमसहस्रैस्तत्क्षणं कुन्तवनमयमिवान्तरिक्षम्, खुररवमयींव मेदिनी, हेषारवमयानीव श्रोत्रविवराणि, फेनपिण्डस्तवकमयमिव युवराजभवनद्वाराङ्गणम्, खलीनरवमथ्य इव दशदिशः, अश्वालंकाररत्नप्रभामयां इवाभवन्शशाङ्करश्मयः । अचिराच गृहीतसमायोगोऽङ्गणात्तमिन्द्रायुधमारुह्य पुरस्ताचलितेशब्दितेनानुवर्यमान, इवानुगम्यमान इव । स्वभावेन प्रकृत्या गद्गदेन गद्गदरूपेण भवनहंसानां 'गृहसितच्छ: दानां कलरवेण मनोज्ञशब्देन मुहुर्मुहुर्वारंवारं विच्छिद्यमान इव विच्छेदं प्राप्यमाण इव । श्रोत्रप्रवेशिनां कर्णचारिणां गमनवेला यात्रावसरस्तस्यां प्रणामो नमस्कारस्त संभ्रान्तस्य सादरस्य वाराङ्गनाजनस्य वेश्याजनस्य चलानि चञ्चलानि वलयानि कटकानि, नूपुराणि पादकटकानि, रसनाः काव्यः, तासां कलकलेन कोलाहलेन निर्धार्यमाण इव निश्चीयमान इव । तारोऽत्युच्चध्वनिस्तेन दीर्घसरोऽत्यायतः । अनन्तरं चेति । ध्वनेरुत्थानानन्तरंमुत्थाप्यमानैश्चोत्थानं क्रियमाणैः उत्थितैरुघ्वांभूतैः, आकृष्यमाणै. राकर्षणं क्रियमाणैः, आकृष्टैराकर्षितैश्च, आरोप्यमाणं प्रियमाणं पर्याणं पल्ययनं येषु तैः पर्याणितैर्घृतपल्ययनैश्च, नीयमानैः प्राप्यमाणैः, आनीयमानैरानयनं क्रियमाणैश्च, विलभ्यैमानैर्विलम्भनं क्रियमाणैः, आच्छिंयमानैश्च, आगच्छद्भिरागमनं कुर्वद्भिः आगतैः समायातैश्च, पूज्यमानैरभ्यर्च्यमानैः पूजितैरर्चितैश्च, पङ्किस्थितैश्च पङ्ख्या श्रेण्या स्थितैः, वाह्यमानैर्भारोद्वहनं कार्यमाणैर्वहद्भिश्च तिष्ठद्भिरवस्थानं कुर्वद्भिः प्रतिपालयद्भिः प्रतिपालनां कुर्वद्भिश्च, पर्याप्तं परिपूर्ण राजद्वाराङ्गणं नृपप्रतोल्या अजिरं यैः । 'गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे' इत्यमरः । अप्रभूतमसमर्थ चत्वरं बहुमार्ग येषां तैः । निस्तुषितानि निःशेषं भृतानि सकलरथ्यान्तराणि समग्रवीथी विवराणि यैस्तेषां भावस्तत्ता तयान्तर्मध्ये बहिश्च संकटायमानः संकीर्णायमानो नगयी अवन्त्या विस्तारो यैरेवंविधैस्तुरङ्गमसहस्रैस्तत्क्षणं तत्कालं कुन्तवनमयमिव भल्लकानननिर्मित मिवान्तरिक्षमाकाशम् । खुराः शफास्त्रेषां रखः शब्दस्तन्मयीव मेदिनी पृथ्वी, हेषा हेषाः तासां रखस्तन्मयानीव श्रोत्रविवराणि कर्णच्छिद्राणि । 'हेषा हेषा तुरङ्गाणाम्' इति हैमः । फेनपिण्डः कफपुञ्जस्तस्य स्तबकैर्गुच्छेर्निमिर्तमिव युवराजभवनद्वाराङ्गणम् । खलीनानां कविकानां रवाः शब्दास्तन्मय्य इव दशदिशो दशककुभः । अश्वालंकर तुरंगमालंकृते रत्नानि मणयस्तेषां प्रभास्त्विषस्ता सां प्राचुर्यात्तन्मया इव शशाङ्करश्मयश्चन्द्रकिरणा अभवन् । अचिरात्स्तोककालं यावत् गृहीत आत्तः समायोगः संबन्धो येनैतादृशं यदङ्गणमजिरं तस्मात्तमिन्द्रायुधं पूर्वव्यावर्णितस्वरूपमारुयारोहणं कृत्वा पुरस्तादप्रतश्चलितेन प्रस्थितेनालोकहेतोः प्रकाशनिमित्तम् । टिप्प० - 1 निर्वार्यमाण इति पाठः । निःशेषेण वार्यमाण इति तदर्थः । 2 उत्थानं कार्यमाणैः इत्युचितम् । 3 विलोभ्यमानैरिति पाठे, केनापि विलोभनद्रव्येण लोभमुत्पाद्य आनीयमानैरित्यर्थः । 4 अन्यहस्सात् आकृष्य नीयमानैरित्यर्थः । 5 घोटकोपरि भल्लानामुल्लसितस्वास्कुन्तवन प्रचुरमिवेत्यर्थः । 6 प्राचुर्ये मयद । विकारार्थे निर्देशस्तु अज्ञानमेवास्य । 7 प्रकाशस्य कारणात् चन्द्रमण्डलसहशेन, छत्रस्य प्रकाशशालित्वात् । पाठा० - १ भवनकलहंसानाम्. २ इव श्रोत्र. ३ चलचपल, ४ कणत्कलकलेन; गुणस्कल कलेन. ५ विलस्त्रमानैः, ६ अपरिस्थितैश्च ७ अप्रतिपातयन्निध; निष्पतद्भिश्व ८ अपर्याप्त ९ निस्तुच्छित. १० अङ्गणगतम्. चन्द्रापीडस्य यात्रासमारोहः ] उत्तरंभागः । ५४५ नालोकहेतोद्वितीय चन्द्र मण्डलेनेव हंसधान्ना मङ्गलातपत्रेणावेद्यमान निर्गमो यथादर्शन मितस्ततः तुरङ्गमगतैरेव प्रणम्यमानो राजपुत्रसहस्रैः, प्रसुप्तपुरजनतयाऽसंबाधेनापि राजवर्त्मना बहुत्वात्तुरङ्गमनलस्य कृच्छ्रलब्धसंचारः कथंकथमपि निर्जगाम नगर्याः । निर्गतस्य चादूरत एव निर्भरत्वाज्योत्स्नापूरस्यांच्छतया च दुर्विभाव्यपानीयामुपैरि कलकूजितानुमीयमानोत्रस्तहंससार्थोत्पतनव्यतिकराङ्गुलिनानीयमानामिव सर्वतो जेडतरतरङ्गानिलस्पर्शमात्रोपलक्ष्यसलिलसंनिधिमुत्तीर्य शिर्माम्, अतिप्रहतत्वादसंकटत्वाच्च वर्धयतेव गमनोत्साहमति विस्तीर्णेनापि पुरोविस्तारितेनेव चन्द्रपादैर्दशपुरगामिना मार्गेण प्रावर्तत गन्तुम् । अथोमानैरिव रयवाहिना सकल दिड्युखप्रसृतेन ज्योत्स्नाजलस्रोतसा वैशम्पायनालोकनत्वरितस्य चन्द्रापीडमेनस इव तुल्यं वहतो जङ्घानिलेनेन्द्रायुधस्याकृष्यमाणैरिव वाजिभिअत एवोत्प्रेक्षते - द्वितीय चन्द्रमण्डलेनेव द्वितीयशशाङ्कबिम्बेनेव हंसवद्धाम कान्तिर्यस्यैवंभूतेन मङ्गलातपत्रेण शुभसूचकच्छत्रेणावेद्यमानो ज्ञायमानो निर्गमो यस्यैवंविधश्चन्द्रापीडो यथा दर्शनं स्यात्तथेतस्ततस्तुरङ्गभगतैरश्वारूढैरेव राजपुत्रसहस्रैर्नृपसुतसहस्रैः प्रणम्यमानो नमस्क्रियमाणः, प्रसुप्तो यः पुरजनस्तस्य भावस्तत्ता तयाऽसंबाधेनाप्यसंकटेनापि राजवर्त्मना राजमार्गेण तुरङ्गमबलस्याश्वसाधनस्य बहुत्वात्कथंकथमपि कृच्छ्रेण कष्टेन लब्धः प्राप्तः संचारः संचरणं येनैवंभूतो नगर्या अवन्त्या निर्जगाम निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चादूरत एवादविष्ठ एव ज्योत्स्नायाश्चन्द्रिकायाः पूरस्य प्रवाहस्य निर्भरत्वाद्बहुलत्वादच्छतया स्वच्छतया च दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं पानीयं जलं यस्याः सा ताम्, उपर्युपरिष्टात्कलकूजितेन मनोहरध्वनितेनानुमीयमानोऽनुमानविषयीक्रियमाण उन्त्रस्तश्चकितो यो हंससार्थः सितच्छदसमुदायस्तस्योत्पतनमुड्डयनं तस्य व्यतिकरो वृत्तान्तस्तेन । पङ्क्षिसाम्यादुत्प्रेक्षते - अङ्गुलिना करशाखया नीयमानामिव प्राप्यमाणामिव । सर्वतः सर्वत्र जडतरोऽतिशीतलो यस्तरङ्गः कल्लोलस्तस्यानिलः पवनस्तस्य स्पर्शमात्रेण संयोगमात्रेणोपलक्ष्यो ज्ञातुं शक्यः सलिलसंनिधिः पानीयसमीपं यस्याः सा तामेवंविधां शिप्रां नदीमुत्तीर्योत्तरणं कृत्वा ) अतिप्रहतत्वादतिक्षुण्णअतिविस्तीर्णेनाप्यतित्वादसंकटत्वादसंबाधत्वाञ्च, गमनस्य यात्राया उत्साहमुद्योगं वर्धयता वृद्धिं प्रापयतेव, विस्तृतेनापि पुरोऽग्रे चन्द्रपादैः शशिकिरणैर्विस्तारितेनेव विस्तीर्णांकृतेन, एवंविधेन दशपुरगामिना दशपुरानु यायिना मार्गेणाध्वना गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । # अथ रयवाहिना रयसा वेगेन वहति स तथा तेन सकलदिब्युखप्रसृतेन सकलदिङ्मुखानि समग्रककुबाननानि तेषु प्रसृतेन विस्तृतेन ज्योत्स्नैव जलं पानीयं तस्य स्रोतः प्रवाहस्तेनोद्यमानैरिव वहनं प्राप्यमाणैरिव वैशम्पायनस्यालोकनं निरीक्षणं तत्र त्वरितस्योत्सुकस्य चन्द्रापीडमनस इवेन्द्रायुधस्य तुल्यं सदृशं बहुतचलतोऽस्य जङ्घानिलेनाकृष्यमाणैरिवाष्टैरिव वाजिभिरश्वैः । योऽत्युत्कृष्टगामी भवति स मन्दचारिणमाकर्षटिप्प० – 1 पुनः पाठअंशेन ग्रन्थं चूर्णीकृतवांष्टीकाकारः । 'उपरि कलकूजितानुमीयमानोबस्तहंससार्थोत्पलव्यतिकरां पुलिनायमानामिव' इति पाठः । उपरि कलकूजितेन अनुमीयमानः उम्रस्तः उच्चैखासं गतः (सैन्याश्वानां खुररवादिति भावः) हंससार्थ: ( हंससमूहः) यस्मिन् ईडशः उत्पलव्यतिकरः उत्पल संचयो यस्यां तथाभूताम्, अत एव पुलिनायमानामिव जलपरित्यक्तसैकतायितामिव स्थितां (शिप्राम्) । अयं भावः - शिप्राया उत्पलसंचये श्वेतवर्णा हंससमूहास्तथा मिश्रिता यथा कलकूजितेन तेषामनुमानं भवति [ उन्मीलितालंकारः, साइझ्या द्वयोर्भेदस्थगनेपि यदि कुतोपि हेतोर्भेदस्फूर्तिः ] । ज्योत्स्नापूर चखच्छ. तथा जलं पृथग् न विभाग्यते अत एव सा शिप्रा पुलिनायमाना दृश्यत इत्यर्थः । 2 रयः अकारान्तः, अतो रयेणेत्येव स्यात् । 3 चन्द्रापीडमनसस्तुल्यं वहता इन्द्रायुधस्य जङ्घारवेण आकृष्यमाणैरित्यन्वयः । -१ समागतै:. २ अच्छतया ३ अप्युपरि ४ उत्पन्नव्यतिकर पुलिनायमानामिव; उत्पलव्यतिकरां पुलि नायमानामिव ५ जलतरङ्ग ६ अतिप्रभूतत्वात् ७ गमनोत्साहविस्तीर्णेन. ८ पुनः ९ मानसस्यैव; मानसोऽस्य. पाठा६९ का० ५४६ कादम्बरी । [ कथायाम्स्तावत्येवा पररात्रवेलया योजनत्रितयमेवालङ्घयत् । अथाध्वश्रमापहरणायेव प्रवृत्ते वातुमाह्लादकारिणि निर्भरज्योत्स्नाजलावगाहादाद्रार्द्रस्पर्शेऽवश्यायशीकरवर्षिणि रेजोलुलित विविधवनपल्लवानिलवीजिते विनिद्रकुमुदिनी पैरिमलनलग्नपरिमले परिमलांहितजडिम्नि रैजनीविरामपिशुने मातरिश्वनि, क्रमेण चापर दिग्वधूवदनचुम्बिनि तैदा कल्पकाले च दुर्विषहशर्वरीविरहचिन्तये वासन्नदिनकरोदयविषादेनेवाप्रदोषादुत्तानितमुखैः कुमुदराशिभिः पीयमानस्य धाम्नः परिक्षयेणेव सर्वाम्बरसरः पयःपायिपयोविभ्रमाश्वरजः संघातोपघातेनेव पाण्डुतां गंतवति , चन्द्र बिम्बे, प्रत्यग्रगगनलक्ष्मीवियोगसंतापोज्झिते धवलोत्तरीयांशुक इव शशाङ्कलने गलति चन्द्रिकालोके, अपरजलधिपातिना ज्योत्स्नाजलप्रवाहेणेव सहसा फेनबुद्बुदावलिष्विव नैश्यत्येव तावत्या एवापररात्रवेलयापररात्र उच्चन्द्रस्तस्या वेलावसरस्तया योजनत्रितयमेव द्वादशक्रोशानेवालङ्घयदुलङ्क्षितवान् । अथेति । योजनन्त्रितयोलङ्घनानन्तरमध्वश्रमो मार्गक्लमस्तस्यापहरणायेव दूरीकरणायेव मातरिश्वनि वायौ वातुमितस्ततश्चलितुं प्रवृत्ते सति । इतो वायुं विशेषयन्नाह - आह्लादेति । आह्लादः प्रमोदस्तं करोतीत्येवंशीलः स तथा तस्मिन् । निर्भरं यो ज्योत्स्नाजलस्यावगाहोऽवगाहनं तेनार्द्राऽतिशयेनाईः क्लिन्नः स्पर्शो यस्य स तथा तस्मिन् । 'आई : क्लिन्नेऽभिधेयवत्' इति विश्वः । अवश्यायस्तुहिनं तस्य शीकरा वातास्तकणा स्तान्वर्षतीत्येवंशीलः स तथा तस्मिन् । रजोलुलिता धूलीमिश्रिता विविधा अनेकप्रकारा ये वनपल्लवा अरण्य किसलयानि तेषामनिलो बायुरतेन वीजिते प्रेरिते । विनिद्रा विमुद्रा या कुमुदिनी कैरविणी तस्याः परिमलनं विमर्दनं तेन लग्नः परिमलो यस्य स तथा तस्मिन् । परिमलेनाहिता स्थापिता जडिमा यस्मिन्स तस्मिन् । रजन्या विरामोऽवसानं तस्य पिशुने सूचके । क्रमेण चेति । क्रमेण परिपाट्या तदा तस्मिन्कल्पेकाले प्रभाते सति च पाण्डुतां शुक्लतां चन्द्रबिम्बे शशिमण्डले गतवति प्राप्तवति (सति । कथंभूते । अपरदिगेव पश्चिमदिगेव वधूः वनिता तस्या वदनं मुखं चुम्बतीत्येवंशीलः स तस्मिन् । पाण्डुतानिदानं प्रदर्शयन्नाह - दुर्विषति । दुर्विषहा दुःखेन सोढुं शक्या या शर्वरी रात्रिस्तस्या विरहो वियोगस्तस्य चिन्तयेवार्लेव, आसन्नः समीपवर्ती यो दिनकरोदयः सूर्योद्गमस्तस्माद्यो विषादः खेदस्तेनेव, आप्रदोष।त्प्रदोषं।भावादुत्तानितमु खैरूवकृताननैरेतादृशैः कुमुद शिभिः कैरवश्रेणिभिः पीयमानस्यास्वाद्यमानस्य धाम्न आलोकस्य परिक्षयेणेव विनाशेनेव । सर्वं यदम्बरमेव सरस्तटाकं तस्य पयःपायिनो ये पयोदा मेघास्तेषां विभ्रमो यस्मिन्नेतादृशो योऽश्वरजः संघातस्तेन य उपघातस्तेनेव । पुनश्चन्द्रं विशेषयन्नाह - प्रत्यति । प्रत्यग्रा नवीना या गगनलक्ष्मीयम श्रीस्तस्या वियोगसंतापो विरहज्वरस्तेनोज्झिते विमुक्ते । धवलोत्तरीयांशुकस्येदं विशेषणम् । शशाङ्कलने चन्द्रसंबद्धे चन्द्रिकालोके चन्द्रकलिकाप्रकाशे गलति क्षरति सति । अङ्गलग्नशुक्लत्वसाम्यादुत्प्रेक्षते - धवलं शुक्लं यदुत्तरीयांशुकमुपरिवस्त्रं तदिवेत्युत्प्रेक्षा । अपरेति । अपर जलधिपातिना पश्चिमसमुद्रावगाहिना ज्योत्स्नाजलप्रवाहेणेव सहसा तारकापतिषु नक्षत्रश्रेणिषु नश्यन्तीषु विलयं गच्छन्तीषु सत्सु । वर्तुलत्वश्वेतत्वसादृश्यादुत्प्रेक्षते - फेनबुद्बुदावलिष्विव कफयुक्तस्थासकश्रेणिष्विव । - टिप्प० – 1 'तदाकल्पकेनेव' इति पाठः । तस्याः (अपर दिग्वध्वाः) आकल्प एव आकल्पकः (वेषरचना, प्रसाधनम् ) तेनेव, चन्द्रेण अपरदिग्वध्वा वदनचुम्बनं कृतम् अत एव तत्रस्थचन्दनाद्यङ्गरागेणेवेत्याशयः । काले इति पाठे तु 'कल्यकाले' प्रत्यूषकाले इति स्यात् । 'प्रत्यूषोहर्मुखं कल्यः' इत्यमरः । 2 आप्रदोषात् प्रदोषमभिव्याप्य । 3 चन्द्रस्य पाण्डुतागमने तदाकल्पकेनेव इत्यादीनि पञ्च कारणान्युप्रेक्षितानि । संतप्ते भङ्गे वस्त्रधारणमशक्यम्, अत एवोज्झिते अंशुके इव चन्द्रालोके ( प्रकाशे ) गलति निपतति सति । पाठा०—१ इव. २ रयललिता: ३ परिमिलन ४ लग्नपरिमलाहित ५ रजनि. ६ तदाकल्पकेनेव. ७ कुमुद शशिभिः• ८ आपीयमानस्य ९ संघातेनेव. १० उपगतवति, ११ न स्पृशन्तीषु. . ५४७ मार्गे प्रातःकाल: ] उत्तरभागः । न्तीषु तारकापङ्किषु; गलदवईयायक्षालनादिव शनैः शनैर्दलितेमुक्ताँगौरज्योत्स्नानुभावमुत्सृजन्तीष्वाशासु पुनर्विभाव्यमानसहजश्यामकान्तिषु सलिलादिवोन्मज्जत्सु तरुलताविटपेषु; समुल्लसति पूर्वदिग्वधूकर्णपूररक्ताशोकपल्लवेऽम्बरसरस्तामरसे दिवसमुखकरिकुम्भसिन्दूररेणौ तरणिरथरक्तध्वजांशु के संध्यारागे, संध्यातपरेचितान्तेष्वालग्नदावानलेष्विव वयःसंघातर्जनितीशिवमुत्सृज्यमानेषु निवासपादपेषु, सशेषनिद्रालसैश्चिरप्रसारणाविशदजङ्घातिभिहँठ।कृष्टदीर्घपदसंचारिभिर्मृगकदम्ब कै रुन्मुच्यमानासूषरशय्यासु, इच्छावखण्डितोत्खातपस्वलोपान्तरूंढमुस्ताग्रन्थिष्वरण्यगह्वराभिमुखेषु वराहयूथेषु, निशावसानप्रचारनिर्गतैर्गोधनैरितस्ततो धवलायमानासु ग्रामसीमान्तारण्यस्थलीषु, आलोक्यमानजनपद विनिर्गमेषु, प्रसूयमानेष्विव ग्रामेषु, यथार्क किरणावलोकोद्गमं चोन्नाम्यमान इव पूर्व दिग्भागे; समुत्सार्यमाणास्विवाशासु, । गलदिति । गलन्क्षरन्योऽवश्यायो हिमं तेन क्षालनादिव धावनादिव शनैर्मन्दं मन्दं दलितमुक्ताव द्वारा या ज्योत्स्ना चन्द्रकलिका तस्या अनुभावो माहात्म्यं तमुत्सृजन्तीषु त्यजन्तीष्वाशासु दिक्षु । 'ज्योत्स्नावितानम्' इति पाठो दृश्यते तत्र ज्योत्स्नालक्षणं वितानमुल्लोच इत्यर्थो ज्ञेयः । पुनरिति । पुनर्विभाव्यमाना पुनर्ज्ञायमाना सहजा स्वभावजा श्यामा कान्तिर्येषामेवंभूतेषु तरुलताविटपेषून्मजत्सूपर्यागच्छत्सु । अत उत्प्रेक्षते - सलिलादिव जलादिव । पुनः कस्मिन्सति । संध्यारागे समुल्लसत्युल्लासं प्राप्ते सति । संध्यारागं विशेषयन्नाह – पूर्वेति । पूर्वदिक्शकदिक्सैव वधूः स्त्रीस्तस्याः कर्णपूराय रक्ताशोकपल्लवेऽरुणकङ्केल्लिकिसलये, अम्बर एव सरस्तटाकस्तस्मिंस्तामर से महोत्पले, दिवसमुखमेव करिकुम्भस्तत्र सिन्दूररेणौ नागजक्षोदे । तरणेः सूर्यस्य रथः स्यन्दनस्तस्य रक्तध्वजांशु केऽरुणवैजयन्तीवस्त्रे । वयःसंघातैः पक्षिसमूहैर्जनिता शिवमुत्पन्नाशुभं यथा स्यात्तथा निवासपादपेष्ववस्थानवृक्षेषूत्सृज्यमानेषु त्यज्यमानेषु सत्सु । कीदृशेषु । संध्यातपेनं रचिता व्याप्ता अन्ता येषां तेषु । अत एव रक्तपीतत्वसाम्या दुत्प्रेक्षते - आलग्नदावानलेष्विवासंबद्धवनवह्निष्विव । सह शेषेण वर्तते या सा सशेषा सावशेषा एवंविधा निद्रा प्रमीला तया अलसैर्मन्दैश्विरप्रसारणेनाविशदा अस्फुटा जङ्घामयो येषां तैः । हठेनाकृष्टो यो दीर्घपदस्तेन संचारिभिः संचरणशीलैरेवंविधैर्मृगकदम्बकैर्हरिणसमूहैरूषरशय्यासु कठिनशयनीयासू मुच्यमानासु त्यज्यमानासु सत्सु । इच्छेति । इच्छया स्वातत्र्येणावखण्डिता द्वैधीकृता उत्खाता मूलत उत्पाटिताः पल्वलोत्खातं सरस्तस्योपान्ते समीपे रूढानां मुस्तानां ग्रन्थयो यैरेवंविधेषु वराहयूथेषु क्रोडसंघातेष्वरण्यगह्वराभिमुखेष्वटवीगहरसंमुखेषु सत्सु । निशाया अवसानं प्रान्तस्तस्मिन्प्रचारार्थं गोचरार्थं निर्गतैरितस्ततो गोधनैर्गोयूथैर्धवलायमानासु श्वेतायमानासु ग्रामसीमोपशल्यं तस्यान्ते या अरण्यस्थल्यस्तासु सत्सु । 'ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे' इत्यमरः । आलोक्येति । आलोक्यमानो निरीक्ष्यमाणो जनानां पदविनिर्गमो येष्वेव॑विधेषु ग्रामेषु सत्सु । पद विनिर्गमसाम्यादुत्प्रेक्षतेप्रसूयमानेष्विव प्रसूतिं कुर्वाणेष्विव । प्रसूतावपि प्रथमं पदविनिर्गम एव भवतीति भावः । अर्ककिरणानां सूर्यरश्मीनामवलोकः प्रकाशस्तस्योद्गममनतिक्रम्य कैरोतीति यथार्ककिरणावलोकोद्गममित्यव्ययीभावः । तेन चोन्नाम्यमान उच्चैः क्रियमाणे पूर्व दिग्भागे शऋदिक्प्रदेशे सति । आशासु दिशासु समुत्सार्यमाणासु दूरीकिटिप्प० – 1 हन्त ! अशिवः स्वयं टीकाकारः । अन्यथा सर्वमङ्गले प्रातःकाले का अशिवकथा ! 'जनितारवम्' इति पाठः । पक्षिणः कोलाहलं कृत्वा उड्डीयन्ते । 2 'सन्ध्यातपपरिगतेषु' इत्येव सत्पाठः । 3 कः प्रलाप इति न ज्ञायते । अवलोकस्य स्थाने आलोकेति पाठः । अर्ककिरणानामालोकोद्गमम् अन तिक्रम्य ( सूर्यप्रकाशेन सहेति भावः ) पूर्वदिग्भागे उन्नाम्यमाने इव । अर्कप्रकाशो यथा यथा भवति तथा तथा प्रतीयते यत् केनचित् पूर्वदिग्भागः उत्क्षिप्य प्रियमाग इवास्तीति । पाठा० - १ अवश्यायसलिल २ गलित; शीलित ३ गौरम् ४ ज्योत्स्नानुभवम् ५ परिगतेषु. ६ आरावन्. ७ हठादाकृष्ट; दूराकृष्ट. ८ प्ररूढ. कादम्बरी । [ कथायामअपसर्पत्खिवारण्येषु, विस्तार्यमाणाखिव ग्रामसीमासु, उत्तानीभवत्खिव सलिलाशयेषु, अव च्छिद्यमानेष्विव शिखरिषु, उद्धियमाणायामिव मेदिन्याम्, अदृश्यतामिव योन्तीषु कुमुदिनीषु, तिरोधानकारिणीं नीलतिरस्करिणीमिव करैरुत्सार्य तिमिरमालां विरहविधुरां कमलिनीमिवालोकयितुमुदयगिरिशिखरमारूढे भगवति सप्तैलोकैकचक्षुषि सप्तवाद्दे, विहायस्तलमुद्भास्य दिगन्त राण्युद्धासयन्तीषु सकलजगद्दीपिकासु दिवसकरदीधितिषु दृष्टिप्रसरक्षमायां वेलायां सहसैवाग्रतोऽर्धगव्यूतिमात्र इव रात्रिप्रयाणकायातम्, अन्तः क्षोभभीतेन रसातलेनेवोद्गीर्यमाणम्, असोढसंघातभरया मेदिन्येव विक्षिप्यमाणम्, अपर्याप्त प्रमाणाभिर्दिग्भिरिव संहियैमाणम्, अपरिमाणरजोनिरोधाशङ्कितेन गीर्वाणवर्त्मनेवावकीर्यमाणम्, अंर्कावलोकेनेव सह विस्तीर्यमाणम्, आयासितायततरदृष्टिभिरप्यदृष्टपर्यन्तम्, अनुजीविभूभृच्छतसहस्रकेल्पिता५४८ यमाणाविव । तज्ज्ञापकनक्षत्राणां तिरोधानादिति भावः । ग्रामसीमासूपशल्येषु विस्तार्यमाणासु । अरण्येषु वनेष्वपसर्पत्स्विवापसरणीक्रियमाणेष्विव । सलिलाशयेषु जलाश्रयेषूत्तानीभवत्स्विवोध्वींभवत्स्खिव । शिखरिष्वद्विष्ववच्छिद्यमानेष्व खण्डशः क्रियमाणेष्विव । मेदिन्यां वसुधायामुद्धियमाणायामिवोत्पाद्यमानायामिव । कुमु दिनीषु कैरविणीष्वदृश्यतामचाक्षुषतां यान्तीष्विव गच्छन्तीष्विव । करैः किरणैस्तिमिरमालामन्धकारश्रेणीमुत्सार्य दूरीकृत्य । कृष्णसाधर्म्यादुत्प्रेक्षते-तिरोधानकारिणीमन्तर्धानजनिकां नीलतिरस्करिणीमिव नीलजवनिकामिव । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । विरहविधुरां वियोगविह्वलां कमलिनीं पद्मिनीमालोकयितुं विलोकयितुमिवोदयगिरेः पूर्वाद्रेः शिखरं सानुमारूढे प्राप्ते भगवति माहात्म्यवति सप्तलोकस्यैकचक्षुरिव चक्षुस्तम्मिन्सप्त वाहास्तुरंगा यस्य स तस्मिन् । सहस्रकिरण इत्यर्थः । विहायस्तलं व्योन्नस्तल मुद्भास्य प्रकाश्य दिगन्तराणि दिशां विचालान्युद्भासयन्तीषु प्रकाशयन्तीषु सकलजगतां सकलविश्वानां दीपिकास प्रकाशिकासु दिवसकरस्य सूर्यस्य दीधितिषु कान्तिषु सत्सु । दृष्टिप्रसंरे क्षमायां समर्थयां वेलायामवसरे सहसैवैकपद एव । अग्रेति । अग्रतः पुरोऽर्धगव्यूतिमात्रेऽर्धकोशमात्र इव स्कन्धावारं सैन्य मद्राक्षी ड्यलोकयत् । 'वरूथिनी चमूश्चक्रं स्कन्धावारोऽस्य तु स्थितिः' इति हैमः । इतः स्कन्धावारं विशेषयन्नाह - रात्रीति । रात्रिप्रयाणकेन निशागमनेन आयातमागतम् । अन्तर्मध्ये यैः क्षोभस्त्रासस्तेन भीतं चकितमेवंविधेन रसातलेन वडवामुखेनोद्गीर्यमाणमिवोद्गम्यमानमिव । असोढोऽक्षमितः संघातस्य समुदायस्य भरो ययैवंविधया मेदिन्या वसुधया विक्षिप्यमाणमिवेतस्ततः क्रियमाणमिव । यदि वासोढसंघातभरया मेदिन्येव संक्षिप्यमाणं समासीक्रियमाणम् । अपर्याप्तप्रमाणाभिरप्राप्तेयत्ताभिर्दिग्भिः ककुब्भिः संहियमाणमिव संगृह्यमाणमिव । अपरिमाणमसंख्यं यद्रजस्तेन निरोधोऽवकाशरोधस्तेनाशङ्कितेनारे कितेन गीर्वाणवर्त्म नेवाकाशेने वावकीर्यमाणं विक्षिप्यमाणम् । अर्कावलोकेनेव सूर्यावलोकेनेव सह विस्तीर्यमाणं विस्तारं प्राप्यमाणम् । आयासिता आयासं प्रापिता आयततरा दीर्घतरा या दृष्टयस्ताभिरग्यदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्तथा । अनुजीविनां सपर्याकारिणां टिप्प० - 1 इयत्तया गृह्यमाणेष्विव । 2 रसातलेन स्कन्धावारः पूर्व स्वान्तर्हतः, परम् बलानामन्त:श्रोभेन भीतत्वात्स स्कन्धावारस्तेन उद्गीर्ण: ( उद्वान्तः ) इत्याशयः । पाठा० -१ चावसर्पसु; अपसार्यमाणेषु २ उपयान्तीपु. 3 सप्तलोकचक्षुषि ४ पर्याप्त ५ संम्रियमाणम्. ६ अर्ककिरणावलोकेन; अर्ककिरणालोकेन. ७ विस्तीर्णम् ८ अतिजीव; अनिर्जीव ९ कलित. स्कन्धावारदर्शनम् ] उत्तरभागः ● ५४९ वष्टम्भं संचारिणं द्वितीयमिव मेदिनीसंनिवेशम्, अजलवाहिनीप्रवेशगम्भीरं प्राणिमयमपरपारमष्टममिव महासमुद्रम्, उद्विक्तरजःसंततिदूरतया चापरिस्फुटविभाव्यसर्ववृत्तान्तमपीतस्ततो वलितधवलकदलि कोद्भासिता ने ककरिघटा सहस्रसंकुलम् अविरलॅबला कावलीविभ्राजिताम्भोदसंघातं मूर्तिमन्तमिव मेघसमयारम्भम्, आवासभूमिग्रहणसंभ्रमभिप्रभावितासंख्यकरितुरगनरपरम्परोर्मिसंबाधतया मैन्दमन्दरास्फालनलुलितकल्लोलजालाकुलस्य महाजलधेललया निविशमानं स्कन्धावारमद्राक्षीत् । - चाकरोञ्चेतसि — 'अहो भद्रकं भवति, यद्यचिन्तितागमन एव प्रविश्य वैशम्पादृष्ट्वा यनं पश्यामि' इति । एवं चिन्तयित्वा छत्रचामरादिभिः स्वचिहैः सह निवारिताशेषराज पुत्रलोको जवविशेषमाहिभित्रिचतुरैस्तुरङ्गमैरनुगम्यमानो मूर्धानमावृत्योत्तरीयेण, रयविशेपग्राहिणेन्द्रायुधेन नानाव्यापारव्यप्रसकललोकमचिन्तित एव स्कन्धावारमाससाद। प्रविशंश्च — भूभृतां राज्ञां पर्वतानां च यच्छतसहस्रं लक्षं तेन कल्पितोऽवष्टम्भ आश्रयो यस्य तत्तथा । संचारिणं संचरणशीलं द्वितीयमपरं मेदिन्या वसुधायाः संनिवेशमिव रचनाविशेषमिव । न विद्यते जलं यस्यामेवंविधा वाहिनी सेना तस्याः प्रवेशेनागमनेन गम्भीरं गभीरं प्राणिमयं प्राणिभिर्निष्पन्नम् । न विद्यते परः पारो यस्य तत्तथा । अत एवोत्प्रेक्षते - अष्टमं महासमुद्रमिव महाजलधिमिव । उद्रेकाद्रजःसंततेदूरस्य भावो दूरता तया चापरिस्फुटोऽप्रकटो विभाव्यो ज्ञेयः सर्ववृत्तान्तोऽखिलोदन्तो यस्मिंस्तत्तथा । एवंविधमपीतस्ततो वलिता वायुना पश्चा• द्वलिता या धवलकदलिकाः श्वेतवैजयन्त्यः । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । ताभिरुद्भासिताः शोभिता एतादृशा अनेके ये करिणो हस्तिनस्तेषां घटाः समुदायास्तासां सहस्रं तेन संकुलं संकीर्णम् । श्वेतकदलिकासाम्यादुत्प्रेक्षते - अविरला निबिडा या बलाकावली बिसकण्ठिका श्रेणिस्तया विभ्राजितः शोभितोऽम्भोदसंघातो जलदसमूहो यस्मिन्नेवंभूतं मूर्तिमन्तं मेघसमयारम्भमिव जलदकालप्रारम्भमिव । आवासार्थ यद्भूमिग्रहणं तत्र संभ्रमेणाभिप्रधावितास्त्वरितगत्या चलिता असंख्याः संख्यातुमयोग्या ये करितुरगनरा हस्त्यश्वमनुष्यास्तेषां परस्परं मिथ ऊर्मिवत्कल्लोलकवत्संबाध आघातो यस्मिंस्तस्य भावस्तत्ता तया मन्दं शनैर्यन्मन्दरस्य मेरोरास्फालनमासमन्तामणं तेन लुलितमेकीभूतं कल्लोलजालं तरंगपटलं तेनाकुलस्य व्याकुलीभूतस्य महाजलधेर्महासमुद्रस्य लीलया क्रीडया निविशमानं स्थाप्यमानं सैन्य मद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः । दृष्ट्वा च विलोक्य च चेतसि चित्तेऽकरोत् । अहो इत्याश्चर्ये । भद्रकं क्षेमं भवति जायते, यद्यचिन्तित मतर्कितमागमनं यस्यैवंभूतोऽहं प्रविश्य प्रवेशं कृत्वा वैशम्पायनं पश्याम्यवलोकयामि । एवममुना प्रकारेण चिन्तयित्वा मनसि कृत्वा छत्रचामरादिभिरातपवारणवालव्यजनप्रमुखैः स्खचिह्रै राजलक्ष्मभिः सह सार्धं निवारितः प्रतिषिद्धोऽशेषराजपुत्रलोको येनैवंभूतो जवविशेषप्राहिभिर्गतिविशेषगामिभिस्त्रयश्च चत्वारथ त्रिचतुरास्तैस्तुरङ्गमैरश्वैरनु गम्यमानोऽनुयायमान उत्तरीयेणोपरिवस्त्रेण मूर्धानमुत्तमाङ्गमा नृत्याच्छाद्य रयविशेषप्राहिणा जवविशेषगामिनेन्द्रायुधेनाश्वेन नानाव्यापारेण व्यवहारेण व्यग्रो व्याकुलः सकललोको यस्मिन्नेवंभूतं स्कन्धावारं सैन्यनिवेशमचिन्तित एवाससाद प्राप्तवान् । प्रविशंश्च प्रवेशं कुर्वश्च प्रत्यावासकं प्रत्यावासं वहन्नेव व्रजन्नेव कस्मिटिप्प० -1 भ्रष्टोयं पाठः । 'उद्विक्तरजःसंततिपूरतया' इत्येव पाठः । उद्विक्तः ( अतिशयितः ) रजःसंततीनां ( धूलिनिवहानाम् ) पूर: प्रवाहो यस्मिन् तत्तया, इति तदर्थः । 2 मन्दरास्फालनेऽपि 'मन्दम्' इति कथनं मन्दतैव । 'अमन्दम्' ( अतिमात्रम्) इत्युचितम् । -१ जल. २ अपरम्; अपरमपारम् ३ संततेः पूरतया; संततिपूरतया ४ बलबलाक. ५ अभिषावित. पाठा० ६ अमन्द. ५५० कादम्बरी [ कथायाम् 'भद्र, किं १ प्रत्यावासकं वहन्नेव 'कस्मिन्प्रदेशे वैशम्पायनावासः' इति पप्रच्छ । ततस्तत्संनिहिताभिः स्त्रीभिरितरत्वादप्रत्यभिज्ञाय यथारब्धकर्मव्यग्राभिरेवोद्वाष्पशून्यवदनाभिः पृच्छसि । कुतोऽत्र वैशम्पायनः' इत्यावेद्यमाने 'आ: पापाः किमेवमसंबद्धं प्रेलपथ' इति. शून्यहृदय एव ताः प्रतारयन्, अन्तर्भिन्नहृदयत्वान्नापराः पृच्छन्नेवोत्रस्त इव हरिणशावकः, यूथपरिभ्रंशविलोल इव करिकलभः धेनुविरहादुत्कर्ण इव तर्णकः, ने किंचिद्वदन् नै किंचिदाकर्णयन्, न किंचिन्निरूपयन्, न कचित्तिष्ठन्, न कंचिदाह्रयन्, कागतोऽस्मि, किमर्थमागतोऽस्मि, क्व चलितोऽस्मि, क गच्छामि, किं पश्यामि, किमारब्धं मया, किं वा करोमि, इति सर्वमेवाचेतयमानोऽन्ध इव, बधिर इव, मूक इव, जड इव, आविष्ट इव, कटकमध्यदेशं यावत्तादृशेनैव वेगेनावहत् । , अथेन्द्रायुधप्रत्यभिज्ञानाद्वार्तयैवानुप्रधावितराजेपुत्रदर्शनाच देवश्चन्द्रापीड इति समन्तात्ससंभ्रमप्रधावितानामचेतितोत्तरीय स्खलनाना मुद्वाष्पशून्यदृष्टीनां दूरादेव लज्जया प्रणामक्रियया च सममेवावनमतां राजन्यसहस्राणां मुखान्यवलोक्य 'क वैशम्पायनः' इत्यपृच्छत् । न्प्रदेशे वैशम्पायनावास इति पप्रच्छेति पृष्टवान् । ततस्तदनन्तरं यथारब्धं यत्कर्म क्रिया तेन व्यग्राभिरेवोद्वाष्पेण शून्यं वदनं यासां ताभिस्तस्य वैशम्पायनावासस्य संनिहिताभिः समीपवर्तिनीभिः स्त्रीभिरितरत्वाद्भिन्नत्वादप्रत्यभिज्ञायानुपलक्ष्य हे भद्र हे शुभवन्, किं पृच्छसि किं प्रश्नं करोषि । अत्र वैशम्पायनः कुतः । इत्यावेद्यमान इति ज्ञाप्यमाने आः पापा: पापिष्ठाः किमसंबद्धमसमञ्जसं प्रलपथेति शून्यहृदय एव विमनस्कचित्त एव ताः स्त्रियः प्रतारैयन्वञ्चयन्नन्तर्मध्ये भिन्नं हृदयं यस्य तस्य भावस्तत्त्वं तस्मादपरा अन्या न पृच्छन्न पृच्छां कुर्वनेवोत्रस्तश्चकितो हरिणशावक इव मृगबाल इव । यूथात्स्वजातिसमुदायाद्यः परिभ्रंशो भिन्नीभावस्तेन विलोलश्चञ्चलः करिकलभ इव हस्तिन स्त्रिंशदब्दकरिपोत इव । 'कलभस्त्रिशदब्दकः' इति हैमः । धेनुविरहात्सुरभिवियोगादुत्कर्ण उच्चश्रवणस्तर्णक इव वत्सक इव । न किंचिद्वदन्नब्रुवन्, न किंचिदाकर्णय शृण्वन्, न किंचिनिरूपयन्कथयन्, न क्वचित्तिष्ठन्गतिनिवृत्तिं कुर्वन्, न कंचिदाह्वयन्नाह्वानं कुर्वन् क्वागतोऽस्म्यायातोऽस्मि, किमर्थ किंप्रयोजनमागतोऽस्मि, क्व कुत्र चलितोऽस्मि, व गच्छामि व्रजामि, किं पश्यामि किमवलोकयामि, किं मयारब्धं प्रारब्धम्, किं वा करोमि सृजामीति पूर्वोक्तं सर्वमेवाचे तयमानोऽज्ञायमानः, अन्ध इव गताक्ष इव, बधिर इवाकर्ण इच, मूक इवावागिव, जड इव चेतनारहित इव, आविष्ट इव भूतग्रस्त इव, कटकमध्यदेशं यावत्, तादृशेनैव वेगेन जवेनावहद्वश्राम । 2 अथेति । सैन्यान्तःप्रवेशानन्तरमिन्द्रायुधस्य प्रत्यभिज्ञानाच्चिाद्वार्तयैव किंवदन्त्यैवानुप्रधाविताः पृष्ठे त्वरितगत्या चलिता एवंविधा राजपुत्रा नृपसूनवस्तेषां दर्शनाच्चावलोकनाच्च देवश्चन्द्रापीड इति कृत्वा समन्ताद्युगपत्ससंभ्रमेणादरेण प्रधावितानां त्वरितगत्या चलितानाम् अचेतितमज्ञातमुत्तरीय स्खलन मुपरिवस्त्रपतनं यैस्तेषाम्, उद्बाष्पेण रोदनेन शून्या रिक्ता दृष्टयो येषाम्, तैर्दू देव दविष्ठादेव लज्जया त्रपया प्रणामक्रियया नमस्क्रियया च सममेव युगपदेवावनमतां प्रणामं कुर्वतां राजन्यसहस्राणां क्षत्रियसहस्राणां मुखान्याननान्य> टिप्प० - 1 उद्बाष्पम् ( उद्गता ) अत एव हर्षशून्यं वदनं यासां ताभिरित्यर्थं उचितः । 22 तिरस्कुर्वन् असारयन् । पाठा० - १ तत्संनिहित २ प्रलपयन्ति; प्रलपत ३ एवमेव. ४ कलभकः ५ न किंचित्पश्यन्न ६ न किंचि दालपन्न, ७ का दिग्गन्तव्या मया किम्. ८ अचिन्तय ९ राजपुत्रलोकदर्शनात् वैशम्पायनार्थ प्रश्नः ] उत्तरभागः । ५५१ तैतच ते सर्वे सममेव 'अस्मिंस्तरुतलेऽवतरतु तावदेवः । ततो यथावस्थितं विज्ञपयाम:' इति न्यवेदयन् । चन्द्रापीडस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वचसान्तःशल्यगर्भ स्फुटितमिव हृदयमासीत् । केवलं तत्कालप्रणयिनी मूर्च्छा सा धारणमकरोत् । तुरगादवतारितं च कुथोपविष्टं च पितुः समवयोभिरनतिक्रमणीयैर्मूर्धाभिषिक्तपार्थिवैधृतमात्मानं न वेदितैवान् । उपलब्धसंज्ञोऽपि च वैशम्पायनस्या देशनात्– 'किमेतत् । काहं वर्ते । किं वा मयैतच्चरितम्' इति भ्रमारूढ इव मुह्यद्भिरिवेन्द्रियैः सर्वमेवानुत्प्रेक्षमाणः केवल स्कन्धावारागमनेनैव तस्याभावादन्यदसंभावयन्, दुर्विषहपीडाभिहतेनेव चेतसा 'किमारटामि, किं हृदयमवष्टभ्यं तूष्णीमासे, किमात्मानमार्हत्य हृदयात्प्राणैर्वियोजयामि, किमेकाकी कांचिद्दिशं गृहीत्वा प्रजामि' इति कर्तव्यमेव नांध्यगच्छत् । अन्तर्द्रवन्निव दह्यमान इव स्फुटन्निव सहस्रधा दुःखेन चकार चेतसि - 'अहो मे रम्येऽप्यरमणीयः संवृत्तो जीवलोकः । वैसन्त्यपि वलोक्य निरीक्ष्य व वैशम्पायन इत्यपृच्छदिति प्रश्नमकार्षीत् । ततः पृच्छानन्तरं ते च सर्वे जनाः सममेव युगपदेव विचार्य विमर्यास्मिंस्तरुतले वृक्षाधोऽवतरतूत्तरतु तावद्देवो भवान् । तत उत्तरणानन्तरं यथावस्थितं यथाभूतं विज्ञपयामो निवेदयाम इति न्यवेदयन्कथयामासुः । चन्द्रापीडस्य तेषां जनानां स्फुटं प्रकटमाख्यानं कथनं तस्मादपि तेन कष्टतरेणातिकृच्छ्रेण वचसा वाक्ये नान्तः शल्यं गर्भे यस्यैतादृशं हृदयं स्फुटितमिव विघटितमिवासीदभवत् । तत्काले तदात्वे प्रणयः स्नेहो विद्यते यस्या एवंविधा सा मूर्च्छा केवलं धारणमकरोत् । तुरगादश्वादवतारितमुत्तारितं च कुथोपविष्टं परिस्तोमोपविष्टम् । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । पितुः समं सदृशं वयोऽवस्था येषां तैरनतिक्रमणीयैरनुल्लङ्घनीयैर्मूर्धाभिषिक्तपार्थिवैः कृतराज्याभिषेकनृपैर्घृतमात्मानं स्वं न वेदितवान्न ज्ञातवान् । उपलब्धा प्राप्ता संज्ञा संज्ञानं चेतना येनैवंभूतोऽपि वैशम्पायनस्यादर्शनादनवलोकनात् ( आत्मतत्त्वं स्वखरूपं तस्य दर्शनान्निरीक्षणात् ) किमेतत् क्काहं वर्ते, कुत्र स्थलेऽहमस्मि, किं वा मयैतच्चरितमेतच्चेष्टितमिति मारूढ इव संशयापन इव मुह्यद्भिरिव मोहं प्राप्नुवद्भिरिवेन्द्रियैः करणैः सर्वमेव समग्रमेवानुत्प्रेक्षमाणोऽनालोकमानः केवलं स्कन्धावारागमनेनैव केवलं सैन्यस्यैवागमनेन तस्य वैशम्पायनस्याभावादन्यत्तद्भिन्नमसंभाव्यन्नसंभावनाविषयी कुर्वन्दुर्विषहा दुःसहा या पीडा तयाभिहतेनेव ताडितेनेव चेतसा मनसा किमारटामि पूत्करोमि, किं हृदयं चेतोऽवष्टभ्यावष्टम्भनं कृत्वा तूष्णीमासे मौनेन तिष्ठामि, किमात्मानं स्वमाह त्याहननं कृत्वा हृदयात्प्राणैरसुभिर्वियोजयामि विभिन्नो भवामि । किमहमेकाक्यसहायः कांचिद्दिशं ककुभं गृहीत्वा समादाय प्रव्रजामि गच्छामीति कर्तव्यमेव कृत्यमेव नाध्यगच्छन्न प्राप्तवान् । अन्तर्मध्ये द्रवन्निव द्रवीभवन्निव, दह्यमान इव प्रज्वाल्यमान इव, सहस्रधा सहस्रप्रकारेण दुःखेन स्फुटन्निव द्विधाभवन्निव, चेतसि चित्ते चकार कृतवात् । अहो इत्याश्चर्ये । मे मम रम्योऽपि रुचिरोऽपि जीवलोको जीवाधारक्षेत्रमरमणीयोs> टिप्प० -- 1 अयं भागष्टीकायामसंबद्धः, उपरितो भ्रमेण पतितः स्यात् । 2 'केवलस्कन्धावार' इत्येव पाठ: । वैशम्पायनशून्यस्य केवलस्य स्कन्धावारस्याऽऽगमनेन वैशम्पायनस्याभावात् विनाशात् अन्यत् किंचिदप्यसंभावयन् ( मरणमेव तर्कयन्नित्यर्थः ) । GAS पाठा० - १ ततः सर्वे; ततस्ते सर्वे. २ चेतितवान्. ३ आत्मनश्च दर्शनात् ४ अनुत्प्रेक्ष्यमाणः ५ केवल. ६ स्कन्धावारानुगमननिवासादसावन्यत् ७ हतेन चेतसा. ८ आहत्य हठात्; आहन्मि हृदयात् . ९ इतिकर्तव्यताम्. १० नाधिगच्छत्; अत्यगच्छत्. ११ वसन्ती. ५५२ कादम्बरी । [ कथायाम्. शून्यीभूता पृथिवी । सचक्षुषोऽप्यन्धाः ककुभो जाता॥ सुनिष्पन्नमपि हृतं जन्म । सुरक्षितमपि मुषितं जीवितफलम् । के परं पश्यामि । कमालपामि । कस्मै विश्रम्भं कथयामि । केन सह सुखमासे । किमद्यापि मे जीवितेन कादम्बर्यापि च । वैशम्पायनस्य कृते के कं पृच्छामि । कमभ्यर्थये । को मे ददातु पुनस्तादृशं मित्ररत्नम् । कथं मया तातस्य शुकनासस्य चात्मा वैशम्पायनेन विना दर्शयितव्यः । किमभिधाय च तनयशोकविहलाम्बा मनोरमा वा संस्थापयितव्या । किं भूमिः काचिदसिद्धा तां साधयितुं पश्चात्स्थितः । उत नरपतिः कश्चिदसंघटितस्तत्संघटनाय पश्चात्परिलम्थितः । आहोखित्काचिद्विद्याऽगृहीता तां ग्रहीतुं मयोत्संकलितः' इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख एव विकल्प्य हृदयास्फुटनार्द्विलक्ष्यमिवापराधिनमिव महापात किनमिवात्मानं मन्यमानो वदनमदर्शयशनैः शनैः कृच्छ्रादिव तानप्राक्षीत् -- 'मय्यागते किं कश्चिदेवंविधोऽन्तरे सङ्घाम उत्पन्नः, व्याधिर्वा कश्चिदाशुकार्यसाध्यरूपः समुपजातः, येनैतदतर्कितमेव महावज्रपतनमुपनतम्' इति । ते स्वेवं पृष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन्– 'देव, शान्तं पापम् । , मनोहरः संवृत्तो निष्पन्नः । वसन्त्यपि लोकसमाकुलापि पृथिवी वसुधा शून्यीभूतोद्वसीभूता । सचक्षुषोऽपि सनेत्रस्यापि ककुभो दिशोऽन्धा गतचक्षुषो जाताः । सुष्ठु निष्पन्नमपि संजातमपि जन्म हतं व्यापादितम् । निरर्थकं जातमित्यर्थः । सुष्टु यथा स्यात्तथा रक्षितमपि गोपितमपि जीवितस्य फलं साध्यं मुषितं लुण्ठितम् । कं परं पश्यामि कमन्यमवलोकयामि । कमालपामि कं व्याहरामि । कस्मै विस्रम्भमाशयं कथयामि निवेदयामि । केन सह सुखं यथा स्यात्तथा समुपविशामि । अहमिति शेषः । किमद्याप्यद्यप्रभृति मे मम जीवितेन प्राणितेन कादम्बर्यापि च । वैशम्पायनस्य कृतेऽहं क्व कं पृच्छामि कं प्रश्नं करोमि । कं पुरुषमभ्यर्थये प्रार्थये । कः पुरुषः पुनस्तादृशं मित्ररत्नं सुहृन्माण मे ददातु प्रयच्छतु । मया चन्द्रापीडेन तातस्य पितुः शुकनासस्य मन्त्रि मुख्यस्य च वैशम्पायनेन विना कथमात्मा दर्शयितव्यो दर्शनीयः । तनयशोकविह्वला सुत शोचनविधुराम्बा माता मनोरमा वा मन्त्रिपत्नी वा किमभिधाय किं कथयित्वा संस्थापयितव्या संस्थाप्या । किं भूमिः काचिदनिर्दिष्टनाम्न्यसिद्धाऽसाधिता तां साधयितुमात्मसात्कर्तु पश्चात् पृष्ठे स्थितः । उतेति पक्षान्तरे । कश्चिन्नरपतिर्भूधनोऽसंघटितोऽमिलितस्तस्य संघटनाय मेलापककृते पश्चात्पृष्ठे परिलम्बितो विलम्बितः । आहोखिदिति वितर्के । काचिद्विद्या मन्त्रतन्त्रादिरूपाऽगृहीता न स्वीकृता तां ग्रहीतुं स्वीकर्तु मया सहोत्संकलितो दूरीभूतः । इत्येतानि पूर्वोक्तान्यन्यानि चान्तरा मध्य आत्मना मनसा चिरं बहुकालमधोमुख एव नीचैर्मुख एंव विकल्प्य विकल्पनां कृत्वा हृदयस्य वक्षसोऽस्फुटनादद्वैधीभावाद्विलक्ष्यमिवावीक्षापञ्चमिवापराधिनमिव सागसमिव महापातकिनमिव महापापकारिणमिवात्मानं स्वं मन्यमानो ज्ञायमानो वदनं मुखमदर्शयनप्रकाशयञ्शनैः शनैर्मन्दं मन्दं कृच्छ्रादिव कष्टादिव ताञ्जनानप्राक्षीदपृच्छत् । मध्यागतेऽत्रायाते कञ्चिदेवंविधोऽन्तरे विचाले सङ्क्रामः समितिः किमुत्पन्नः संजातः । अथवा कश्चिदनिर्दिष्टनामा स व्याधिरामय आशु शीघ्रमर्थादन्तं करोतीत्येवंशीलः स तथा भेषजादिभिः साधयितुं निवारयितुमशक्यमसाध्यं रूपं स्वरूपं यस्य स तथा समुपजातः समुत्पन्नः । येन कारणेनैतदतर्कित मेवाविचारितमेव महावज्रपतनं पविपतनमुपनतं प्राप्तमिति । ते तु जना एवममुना प्रकारेण पृष्टाः कृतप्रश्नाः सममेव युगपत्सर्वे करद्वयेन हस्तद्वयेनापिहिता आच्छा, दिताः श्रुतयः श्रोत्राणि यैरेवंभूता व्यज्ञपयन्विज्ञप्तिं चक्रुः । देवेति । हे देव, पापममङ्गलं शान्तं विलयं गतम् । पाठा० - १ कं पश्यामि २ वा० ३ क गच्छामि कम्. ४ वा. ५ मनोरमाम्बा ६ कञ्चिद्विद्या काचिदगृहीतां. 19 अगृहीता. ८ विलक्षं. ९ शनैः . १० महाव्याधिः ११ अपिहित. एकम्बा वारलोकेभ्यो वैशम्पायनवृत्तान्त श्रवणम् ] उत्तरंभागः । देवशरीरमिव सायं वर्षशतं प्रियते वैशम्पायनः । इत्येतदाकर्ण्य चोजीवित इवानन्दबाष्पनिर्भरः संभाव्य तान्सर्वानेव कण्ठप्रहेणावादीत्—'जीवतो वैशम्पायनस्यान्यत्र क्षणम व्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तस्तज्जीवतीत्येतानि तु तावत्कर्णे कृतान्यक्षराणि । अधुना किं वृत्तमस्य येनासौ नागतः, क वा स्थितः, केन वा प्रसङ्गेन, कथं वा तमेकाकि नमुत्सृज्यायाता भवन्तः, कथं वा भवद्भिर्बलादपि नानीतोऽसावित्येतदवगन्तुमुत्ताम्यति मे हृदयम्' इति । 1 61 ते चैवं पुष्टा व्यज्ञपयन्– "देव, श्रूयतां यथावृत्तम् । पृष्ठतः स्कन्धावारमनुपालयद्भिः शनैः शनैर्वैशम्पायनेन सह भवद्भिरागन्तव्यमित्यादिश्य गैतवति देवे तस्मिन्दिवसे सुहीतत्वाद्धा सेन्धनादिकस्योपकरणजातस्य न दत्तमेव प्रयाणं स्कन्धावारेण । अन्यस्मिन्नहन्याहतायां प्रयाणभेयां सजीक्रियमाणे साधने प्रातरेवास्मान्वैशम्पायनोऽभ्यधात् - 'अतिपुण्यं ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्त्रात्वा प्रणम्य चास्यैव तीरभाजि सिद्धा भगवन्तं भवानीप्रभुं महेश्वर शशाङ्कशकलशेखरं ब्रजामः । दिव्यजमसेविता केन कदा पुनः वैशम्पायनः सायं वर्षशतं पञ्चविंशत्यधिकहायनशतं प्रियते । आयुः कर्मणेति शेषः । किंमिव । देवशरीरमिव । इत्येतत्पूर्वोत्तमाकर्ण्य श्रुत्वा चोज्जीवित इवोत्प्राणित इवानन्दस्य हर्षस्य बाप्पो नेत्राम्बुं तस्य निर्भरो यस्मिन्नेबंभूतस्तान्सर्वानेव कण्ठग्रहेण गलालिङ्गितेन संभाव्य संतुष्टान्कृत्वावादी दब्रवीत् । किमवादी दित्याशयेनाह जीवत इति । जीवतः प्राणान्धरतो वैशम्पायनस्यान्यत्रान्यस्मिन्प्रदेशे क्षणमप्यवस्थानम संभावयता सं भावनां कुर्वता मया चन्द्रापीडेनैवं पूर्वोकप्रकारेण भवन्तो जनाः पृष्टाः प्रनितास्त जीवती येतानि त्वक्षणि वर्णांस्तावदादौ कर्णे श्रोत्रे कृतानि । अधुना सांप्रतमस्य वैशम्पायनस्य कि वृत्तं जातम् येन हेतुना सौं बैशम्पायनो नागतो नायातः । व वेति । कुत्र वा स्थितोऽवस्थानं कृतवान्, केन वा प्रसङ्गेन संबन्धेन स्थितः, कथं वा केन प्रकारेण तं वैशम्पायन मेकाकिन मुत्सृज्यं त्यक्त्वा भवन्त आयाता आगताः । कथं वा भवद्भिर्युष्माभिर्बलादपि हठात्कारेणासौ मन्त्रिसुतो नानीतः । इत्येतदवगन्तुं ज्ञातुं मे मम हृदयमुत्ताम्यति । उत्पीडयतीत्यर्थः 2 Galle से चैवममुना प्रकारेण पृष्टाः प्रश्नविषयकृताः सन्त इति व्यज्ञापयनिति विज्ञप्तिं चक्रुः । एतद्दर्शयन्नाह है देव हे स्वामिन्, यथावृत्तं यथाभूतं श्रूयतामाकर्ण्यताम् । पृष्ठतः पश्चाद्धागे स्कन्धावारं सैन्यं शनैः शनैर्मन्दं मन्दमनुपालयद्भिरनुरक्षद्भिवैशम्पायनेन सह भवद्भिर्युष्माभिरागन्तव्यमित्यादिश्य कथयित्वा देवे चन्द्रापीडे गतवति चलिते सति तस्मिन्दिवसे देवप्रयाणकदिने घासो यवसमिन्धनमिध्य । आदिशब्दाद्धस्त्यश्वादीनां भक्ष्यम् । एतत्प्रमृत्युपकरणजातस्य सामग्रीसमूहस्य सुगृहीतत्वात्सुलभत्वात्स्कन्धावारेण न दत्तंमेव न कृतमेव प्रयाणं चलनम् । अन्यस्मिन्नहनि तथ्यतिरिक्त दिने प्रयाणभेर्या गमन दुन्दुभावाहतायां ताड़ितायामश्वादिके साधनें सज्जीक्रियमाणे सति आरोहणार्थमारोप्यमाणपर्याणादिके सति, प्रातरेव प्रत्यूष एवास्मान्वैशम्पायन इत्यभ्यधा दित्यून्चिवान् । इतिद्योत्यमाह - अतीति । अतिपुण्यम तिपवित्रं यच्छोंदा ख्यमच्छोदाभिधान सरस्तटाकं पुराणे श्रूयत आकर्ण्यते । तस्माद्धेतोरस्मिन्सरसि खात्वा लानं कृत्वास्यैव सरसस्तीरभाजि तटभाजि सिद्धायतने चैले शशाङ्कस्य चन्द्रस्य शकलं खण्डं तदेव शिखरों मुकुटी यस्यैवंभूतं भगवन्तं माहात्म्यवन्तं भवान्याः पार्वत्याः प्रभुं स्वामिनम् । क्वचित् 'भवाभवप्रभुम्' इति पाठोऽपि दृश्यते । तेन तत्र नित्यानित्यवामिनामित्यर्थः । महेश्वरं पाठा० -१ साग्र. २. तु. ३. प्रसङ्गेन-स्थितः ४ ते पृष्टा, ५ आगतवति ६ तसिस्तु दिवसे, बास. ८ तदच्छोदसरः ९ वा. ७० का० कादम्बरी । [ कथायाम स्वप्नेऽपि भूमिरियमालोकिता' इत्यभिधा चरणाभ्यामेवाच्छो दूसरस्तीरमयासीत् । तत्र चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्, अमरकामिनी श्रोत्र शिखरारोहणप्रणयोचितैस्तरज्ञानिलाहति विलोलवृत्तिभिः किसलयैर विरलकुसुम मकरन्दलोभपुजितानां च मत्तमधुलिहां मंजुना सिञ्जितरवेण दूरादाह्वयन्त मित्र, मरकतमणिश्यामया प्रभयानुलिम्पन्तमिव समं दशदिग्भागान, अदत्तदिवसकर किरणप्रवेशतया दिवाप्यन्तर्निशीथिनीमिव बिभ्राणम्, चिरपरिचितैरपि मेघोद्गमाशङ्कया मुहुर्मुहुरुन्मुक्तमधुरकेकारवैर्वन शिखण्डिभिरुत्कंघरैरवलोक्यमानम्, पदमिव जलदकालस्य, प्रतिपक्षमिव सर्वसंतापानाम् निजावासमिव जडिनः, निर्गममार्गमिव सुरभिमासस्य, आश्रयमिव मकरध्वजस्य, उत्कण्ठाविनोदस्थानमिव रतेः, आस्पदमिव सर्वरमणीयानाम्, अनंवरतवॅलितसुरभिशीतलाच्छोद सरस्तरङ्ग मारुताभिवीजि ताभ्यन्तरशिलातलमन्यतमं तटलतामण्डपमद्राक्षीत् । दृष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिविस्मृत 1सं प्रणम्य नमस्कृत्य च व्रजामो गच्छामः । दिव्यजनसेविता केना स्मरपक्षपातिना स्वप्नेऽपि खापदशायामपि कक्षा कस्मिन्काले पुनः 'पुनर्विशेषयोः' इयं भूमिरियं वसुधाऽऽलो कितावलोकितेत्यभिधा येत्युक्त्वा चरणाभ्यामेव पादचारेणेत्यर्थः । अच्छोद सरस्तीरमयासीदाययौ । तत्र च तस्मिन्नच्छोद सरस्य तिरम्यतया तिमनोहरतयैव सर्वतो दत्ता न्यस्ता दृष्टिरृग्येनैवंभूतो वैशम्पायनः संचरन्गच्छन्नन्यतमं यत्तटं तीरं तत्र लता मण्डप मद्राक्षी द्व्य लोक दिति दूरेणान्वयः । इतो लतामण्डपं विशेषयन्नाह - अमरेति । अमराणां देवानां कामिन्यः स्त्रियस्तासां श्रोत्र शिख राणि कर्णाप्राणि तेष्वारोहणे यः प्रणयः स्नेहस्तत्रोचितैर्योग्यैस्तरंगाणां कल्लोलानामनिलो वायुस्तस्याहत्या आह ननेन विलोला चञ्चला वृत्तिर्येषां तैरेवंभूतैः किसलयैः पल्लवैरविरलो, निबिडो यः कुसुमानां पुष्पाणां मकरन्दो मरन्दस्तस्य लोभस्तृष्णा तेन पुजिताना मेकीभूतानां च मत्तमधुलिहां क्षीबभ्रमराणां मञ्जुना रुचिरेण सिञ्जितं ध्वनितं तस्य रवेण शब्देन करणभूतेन दूरादाह्वयन्तमिवाहूतिं कुर्वन्तमिव । मरकतेति । मरकतमणिरश्म: गर्भरत्नं तद्वच्छ्यामया श्यामलया प्रभया कान्त्या सममेक पदे दशदिग्भागान्दशककुर्भा प्रदेशाननुलिम्प (य)न्त मित्रानुलिम्पनं कुर्वन्तमिव । न दत्तो दिवसकरस्य सूर्यस्य किरणप्रवेशः करप्रवेशो येन तस्य भावस्तत्ता तथा दिवापि दिवसेऽप्यन्तर्मध्ये निशीथिनी मिव रात्रिमिव बिभ्राणं धारयन्तम् । 'निशा निशीथिनी रात्रिः' इति हैमः ! चिरपरिचितैरिति । चिरपरिचितैरपि चिरपरिशीलितैरपि मेघस्योद्गम उदय स्तस्याशङ्का रे का तथा मुहुर्मुहुवारंवारमुन्मुक्तो मधुरो मिष्टः केकारवो यैरेवंभूतैर्वन शिखण्डिभिररण्यमयूरै रुटकं धरै रुद्रीवैरवलोक्यमानं निरीक्ष्य माणम्, जलदकालस्य प्रावृट्समयस्य पदमिव स्थानमिव सर्वसंतापानां समग्रतापानां प्रतिपक्षमिव शत्रुमित्र, जडिनः शैत्यस्य निजाव समिव स्वाश्रय मित्र, सुरभिमासस्य वसन्तमासस्य निर्गममार्गमिव निर्गमनपन्थानमिव, मकरध्वजस्य कंदर्पस्याश्रयमिव निवासमिव, रते: कंदर्पस्त्रिय उत्कण्ठाविनोदस्थान मिवोत्कलि का विलासपदमिन, सर्वरमणीयानां सम्ममनोहराणामास्पदमिव गृहमिव, अनवरतं निरंतरं वलिताः पश्चादायाता ये सुरभयः सुगन्धाः श्रीतलाः शिशिरा अच्छोदसरसस्तरंगाः कल्लोलास्तेषां मारुतेन वायुनाभिवी जितमभ्यन्तरशिलातलं यस स तमन्यतमं तटलता मण्डपमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः । चेति । अतिथिरकालेनान्तरितं व्यवहितं दर्शनमवलोकनं यस्यैवंभूतं तं लतामण्डपं दृष्ट्वा विलोक्य च भ्रातरमिव सहोदरमिव, तनयमिव सुतमिव, सुहृदमिव मित्रमिव, न विद्यतेऽन्यस्मिन्दृष्टिर्यस्यैवभूतो विस्मृतो पाठा०-१ निशीथम्. २ चलित. 2 वैशम्पायनवृत्तान्तः ] उत्तरभागः । निमेषेण चक्षुषा विलोकयन्, स्तम्भित इव, मूर्च्छयोन्मुध्यमान इवेन्द्रियैः, झगित्युन्मुक्ताङ्गः; समुपविश्य भूमौ किमप्यन्तरात्मना स्मरन्निव, अनुष्यायन्निव निर्विकारवदनो गलितलोचन पयोधारासंतानस्तूष्णीमधोमुखस्तस्थौ । तैथावस्थितं तमवलोक्यास्माकमुदपादि चेतसि चिन्ता – येन केनचिदपहियन्त एव रसिकहृदया: परिणामधीरमतयोऽपि, किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाः । तस्मान्नियतमियमस्येमामतिमनोहरां भूमिमालोक्य भावयतो हृदयविकृतिरीदृशी जातेति । नैचिराच तमेवमवदाम वयम् - 'दृष्टा दर्शनीयानामवधिरेषा । तदुत्तिष्ठ । संप्रति निर्वर्तयामः स्नानविधिम् । अतिमहती वेला । सज्जीभूतं साधनम् । प्रयाणाभिमुखः सकल: स्कन्धावारस्त्वां प्रतिपालयन्नास्ते । किमद्यापि विलम्बितेन' इति । स त्वेवमुकोऽव्यस्माभिरश्रुता स्मदीयालाप इव, जड इव, मूक इव, अशिक्षित 1 विस्मरणं प्राप्तो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा विलोकयन्पश्यन्खम्भित इव स्तब्धतां नीत इव, मूर्च्छया मोहेनेन्द्रियैः करणैरुन्मुच्यमान इवोत्प्राबल्येन त्यज्यमान, इव, झगिति शीघ्रमुन्मुक्तान्यज्ञानि येन सः । अतिशैथिल्यादिति भावः । भूमौ पृथिव्यां समुपविश्योपवेशनं कृत्वान्तरात्मना मनसा किमप्यनिर्वचनीयं स्मरचिव स्मृतिगोचरीकुर्वनिव, अनुध्यायन्निवानुचिन्तयन्निव निर्विकारं निर्विकृतिकं वदनमाननं यस्य सः । गलिता खस्ता लोचनाभ्यां या पयोधाराश्रुधारा तस्याः संतानं यस्मिन्नेवभूतस्तूष्णीं मौनेनाधोमुखो नीचर्मुखस्तस्थौ स्थितवान् । तथा वस्थितं तदवस्थाप्राप्तं च तं वैशम्पायनमवलोक्य निरीक्ष्यास्माकं चेतसि चित्ते चिन्तार्तिरुदपायुत्पन्न परिणामेऽवसाने धीरा स्थिरा: मतिर्बुद्धिर्येषां ते तथा एवंविधा अपि रसिकहृदयाः का मिजना येन केन चित्प्रकारेणापहियन्त एव वशी क्रियन्त एव । किं पुनः कुतूहलास्पदे कौतुकस्थाने प्रथम आद्ये वयस्यवस्थायां वर्तमानाः स्थिताः । जना इति शेषः । तस्मादिति हेत्वर्थे । नियतं निश्चितमि मामतिमनोहरामतिरमणीयां भूमिं वसुधामालोक्य निरीक्ष्यास्य वैशम्पायनस्येति भावयतश्चिन्तयत ईदृशी हृदय विकृति श्चित्त विलुतिर्जातो पन्नाः । नचिराचाचिरकालेन तं वैशम्पायनमेवं वयमवदाम जल्पाम । दर्शनीयानां विलोकनीयानामेषा भूरवधिः सीमा दृष्टावलोकिता तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । संप्रतीदानीं स्नानविधिमालवनविधि निर्वर्तयामो निष्पादयामः । अतिमहत्यति गरीयसी वेळा वारा जातेति शेषः ॥ साधनं सैन्यं सज्जीभूतं सज्जं जातम् । सकल: समग्रः स्कन्धावारः सैन्यलोकः प्रयाणा भ मुखो गमनाभिमुखस्त्वां वैशम्पायनं प्रतिपालयन्निरीक्षनास्ते तिष्ठति । अद्यापि सांप्रतमपि किं विलम्बि तेन । किं कालक्षेपणेनेत्यर्थः । स तु वैशम्पायन एवं पूर्वोक्तप्रकारेणा स्माभिरुक्तोऽपि कथितोऽश्रुतोऽनाकर्णि तोऽस्मदीय आलापो येन स इव जड इवाचेतन इव, मूक इव एड एव, अशिक्षित इवापाठितः एव, (न.) वक्तुं टिप्प0 - 1 अत्र पाठो विच्छिन्नः । अत एव विच्छिन्नस्य मध्यभागस्य अन्तमात्रावशेषेण 'मूर्च्छया' इत्यनेन सह 'उन्मुच्यमान इव' इत्यस्य संबन्धो बलादेव टीकाकारेणाऽऽकृष्टः । ' लिखित इव, सुचिरमूर्ध्व एव स्थित्वा अपारयनङ्गानि धारयितुम् (आवेशवशादङ्गानि धारयितुमशक्नुवन्), भाक्रम्यमाण हव मूर्च्छया' इति मध्ये पाठः । एतदमे 'उन्मुच्यमान इवेन्द्रियैः' इति पाठः । टीकाकार महाशयेन तु ध्वंसावशेषेण 'मूर्च्छया' इति पदेन सह बलात्कारेण 'उन्मुच्यमानः' इत्यस्य संबन्धः कृतः । 2 'जाता' इति मूल एव पाठः । न परिशेषस्यावश्यकता । पाठा० -१ इव लिखित इव सुचिरमूर्ध्व एव स्थित्वापारयन्निवाङ्गानि धारयितुमाक्रम्यमाण इव मूर्च्छया; इवोत्कीर्ण इव पुस्तमय इव सुचिरम् २ झगिति ३ हृदयो, ४ अवस्थितं च ५ अचिरात् ६ वेला जावा. ७ अस्मदालाप:. ५५६ कादम्बरी । इव, वक्तुं न किंचिदपि प्रत्युत्तरमदात् । तमेव केवलमनिमेषपक्ष्मणा संतता श्रुस्रोतसा लिखितेनेव चक्षुषा लतामण्डपमालोकितवान् । . [ कथायाम्निश्चलस्तब्धतारकेण पुनः पुनश्चास्माभिरागमनायानुरुध्यमानस्तद्वथितदृष्टिरेवास्मान्परिच्छेद निष्ठुरमाह स्म-मया तु न यातव्यमस्मात्प्रदेशात् । गच्छन्तु भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रापीडभुजबळपरिरक्षितं गते तस्मिन्महासाधनं गृहीत्वास्यां भूमौ क्षणमध्यवस्थानं कर्तुम् इत्युक्तवन्तं च तमकस्मान्नाम किंचिदस्य दैवादेव वैराग्यकारणमुत्पन्नमित्याशङ्कय सानुनयमागमनाय पुनःपुनः प्रतिबोध्य तादृशासंबद्धानुष्ठानेन जातपीडा निष्ठुरमप्यभिहितवन्तो वयम् - 'एवं न युक्तमस्माकं स्थातुम् । भवतः पुनर्देवस्य तारापीडस्यानन्तरादार्यशुकनासाल्लब्धजन्मनो देव्या विलासवत्याङ्कलालितस्य देवेन चन्द्रापीडेन सह्रैकत्र संवृद्धस्य तथा विद्यागृहे महता यत्नेनैव शिक्षितस्य युक्तमिदम् ?, यज्येष्ठे भ्रातरि सुहृदि वत्सले भर्तरि जगन्नाथे च गुणवति च भवति सर्वमर्पयित्वा गते तत्परित्यागेनात्रावस्थानम् । कस्यापरस्येदृशो युक्तायुक्तपरिच्छेदः ? तिष्ठतु तावदस्माकं तवोपरि नेहो भक्तिर्वा अस्मिंस्तु शून्याजल्पितुं किमपि प्रत्युत्तरं प्रतिवचोऽदाद्ददौ । तमेव लतामण्डपमेव केवलमेकम निमेषं निमीलनरहितं पक्षम यस्मिंस्तत्तेन, निश्चला स्थिराडत एव स्तब्धा तारका कनीनिका यस्मिंस्तत्तेन, संततं निरन्तरमभुस्रोतो नेत्राम्बुप्रवाहो यस्मिंस्तत्तेन, लिखितेनेव चित्रितेनेव चक्षुषा नेत्रेण लतामण्डपमालोकितवान्निरीक्षितवान् । पुनः पुनश्चास्माभिरागमनायाऽत्रानयन कृतेऽनुरुध्यमानोऽनुरोधं क्रियमाणः । तस्मिल्लतामण्डपे प्रथिता लग्ना दृष्टिर्यस्यैवंभूत एवास्मान्परिच्छेद निष्ठुरं निश्चयपरुषमाह स्म कथयामास । मया त्वस्मात्प्रदेशान यातव्यं न गन्तव्यम् । भवन्तो यूयं स्कन्धावारं सैन्यमादाय गृहीत्वा गच्छन्तु व्रजन्तु । तस्मिंश्चन्द्रापीडे गते सति चन्द्रापीडस्य राज्ञो भुजबलेन बाहुवीर्येण परिरक्षितं महासाधनं महासैन्यं गृहीत्वादायास्या भूमौ क्षणमप्यवस्थानं कर्तुं भवतां युष्माकं न युक्तं न न्याय्यम् । इति पूर्वोक्तप्रकारेणोक्तवन्तं कथितवन्तं च तं वैशम्पायनम् । नामेति कोमलामन्त्रणे । अकस्मानिष्कारणतोऽस्य वैशम्पायनस्य दैवादेव विधेरेव वैराग्यकारणं विरक्ततानिदानं किंचिदुत्पन्नं संजातम् । इत्याशयेत्या रेक्य सानुनयं सविनयं पुनः पुनरागमनायाऽत्रानयनकृते प्रतिबोध्य प्रतिबोधं दत्त्वा तादृशं तथाविधं यदसंबद्धानुष्ठान मनुचिताचरणं तेन जातपीडा उत्पन्नबाधा वयं निष्ठुरमपि परुषमप्यभिहितवन्तः कथितषन्तः । एवमस्माकं स्थातुं न युक्तं न युक्तिमत् । तारापीडस्य राज्ञोऽनन्तराद व्यवहितात् । तस्सदृशादित्यर्थः । आर्यशुकनासाल्लब्धं प्राप्तं जन्मोत्पत्तिर्येन स तस्य देव्या विलासवत्या अङ्कः क्रोडस्तेन लालितस्य पालितस्य, देवेन चन्द्रापीडेन सह्रैकत्रै कस्मिन्स्थले संवृद्धस्य वृद्धि प्राप्तस्य, तथा विद्यागृहे विद्याभ्यसनस महता यत्नेनैव गरीयसा प्रयासेनैव शिक्षितस्य शिक्षां ग्राहितस्य भवतस्तव न्याध्यमिदं युक्तम् ? यद्यस्मात्कारणाज्येष्ठे वृद्धे भ्रातरि सहोदरे सुहृदि मित्रे वत्सले हितकारके भर्तरि पोषके जगनाथे विश्वनायके गुणवति च भवति बैशम्पायने सर्व समग्रमर्पयित्वा वितीर्य गते सति तत्परित्यागेन तद्राहित्येनात्राच्छोद सरस्यवस्थानम् कस्यापरस्य त्वद्भिजस्येदृशो युक्तायुयोर्म्याथ्यान्याय्ययोः परिच्छेदो (निर्मीयते) । अस्माकं तवोपरि स्नेहः प्रीतिर्भकिर्वा आराध्यत्वेन ज्ञानं तावत्तिष्ठत्वास्ताम् । आस्मंस्तु शून्यारण्ये जनरहिताटव्या मे का किनमसहायं भवन्तमु टिप्प० -1 काकुः । अस्माकं तु अनावस्थानं न युक्तम्, भवतस्तु इदम् ( अवस्थानम्) युक्तम् ? अपि तु न युक्तमित्यर्थः । १ अनुबुध्यमानः; अनुबध्यमानः २ तम्. वैशम्पायनवृत्तान्तः ] उत्तरभागः । रण्ये भवन्तमेकाकिनमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्राफीडेनैव किं बक्तव्या वयम् ? किमन्यो देवञ्चन्द्रापीडः, अन्यो वा भवान् ? तदुन्मुच्यतामयं संमोहः । गमनाय धीराधीयताम्' । इत्यभिहितोऽस्माभिरीष दिव विलक्षहासेन वचनेनास्मानवादीत् - किमहमेतावदपि न वेझि, यद्गमनाय मां भवन्तः प्रबोधयन्ति । अपि च चन्द्रापीडेन विना क्षणमप्यहमन्यन्त्र न पारयामि स्थातुम् । एषैव मे गरीयसी परिबोधना। तथापि किं करोमि । अनेनैव क्षणेन सर्वत्र विगलितं मे प्रभुत्वम् । तथाहि - स्मरन्निव किमपि मनो नान्यत्र प्रवर्तते, पश्यन्तीव किमपि न दृष्टिरन्यतो वलति, आसक्तमिव कापि हृदयं किमपि न जानाति, निगड़िताविव पदमपि दातुं न चरणावुत्सहेते । कीलितेव चास्मिन्नेव स्थाने तनुः । तदात्मना त्वमस मर्थो यातुम् । अथ बलाद्रवन्तो मां निनीषवः तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवितधारणं न संभावयामि । अत्र तु पुनस्तिष्ठतो यदेतदन्तर्हदये किमयनवसीयमानं विपरिवर्तते मे येनैव विधृतोऽस्मि, तेनैवावश्यं धार्यन्ते प्राणा इति चेतेसि मे । तदलं निर्बन्धेन । तन्मे गच्छन्तु भवन्तः । भवतु यावज्जीवमातृप्तेश्चन्द्रापीडदर्शनसुखम् । अल्पपुण्यस्य तु , त्सृज्य त्यक्त्वा गताः सन्तो वयं चन्द्रवच्छीतलप्रकृतिना शिशिरस्खभावेन देवेन चन्द्रापीडेनैव किं वक्तव्याः कि कथनीयाः ? किमन्यस्त्वदितरो देवश्चन्द्रापीड़ोऽन्यो वा चन्द्र पीडाद्भिनो भवांस्त्वम् ? तदिति हेत्वर्थे । अयं संमोहोऽज्ञानमुन्मुच्यतां त्यज्यताम् । गमनाय धीर्बुद्धिराधीयतां स्वीक्रियताम् । इति पूर्वोकप्रकारेणास्माभिरभिहितः कथित ईषदिव मनागिव विलेक्षं वीक्षापन्नं हासो हास्यं यस्मिन्नेवंविभेन वचनेनास्मानवादीदब्रवीत् । अहमेतावदप्येतावन्मात्रमपि किं न वेद्मि न जानामि, यद्यस्मात्कारणाद्भवन्तो मां गमनाय प्रबोधयन्ति प्रबोधं कुर्वन्ति । अपि चेति प्रकारान्तरे । चन्द्रापीडेन विनान्यत्रान्यस्मिन्प्रदेशेऽहं क्षणमपि स्थातुं न पारयामि न समर्थो भवामि । एषैव पूर्वोक्तैव मे मम गरीयसी गरिष्ठा परिबोधना प्रतिबोधः । तथा पीति । अहं किं करोमि किं कुर्वे । अनेनैव क्षणेन समयेन मे मम प्रभुत्वं सामर्थ्य सर्वत्र सर्वस्मिन्स्थले विगक्रितं विनष्टम् । तदेव दर्शयन्नाह - तथाहीति । मनोऽन्यत्र किमपि न प्रवर्तते । अत उत्प्रेक्षते - स्मरै शिव स्मृतिं कुर्वचिव + दृष्टिर्हक्किमप्यन्यतो न वलति न पश्चानिवर्तते । अत उत्प्रेक्षते - पश्यन्तीव विलोकयन्तीव । हृदयं चेतः कापि कुत्रापि किमपि न जानाति नावकलयति । अत उत्प्रेक्षते -आसकमिवालममिव । चरणौ पादौ पदमपि दातुं नोत्सहेते नोत्साहं कुर्वाते । अत उत्प्रेक्षते - निगडिताविव नियन्त्रिताविव । अस्मिनम स्थाने मे तनुः शरीरं कीलितेव कील्या नियन्त्रितेव । तत्तस्मात्कारणादात्मना तु खेन वहं यातुमितो गन्तुम समर्थोऽक्षमः । अथेति प्रकारान्तरे । भवन्तो यूयं बलाद्धठान्मां वैशम्पायनं निनीषवो नेतुमिच्छवः । तत्रापि तस्मिन्चपि प्रदेशेऽस्मात्प्रदेशाचलितस्य गंतुं प्रवृत्तस्यात्मनः स्वस्य जीवितधारणं न संभावयामि । नावकलयामि । अत्र त्विति । अस्मिन्स्थले पुनस्तिष्ठतो मे यदेतदन्तर्हृदये चेतसि किमप्य निर्दिष्टना म कमन वड़ीयमानमज्ञायमानं विपरिवर्तते विपरिभ्रमति । येनैवाहं वितोऽस्मि । इति मे मम चेतस्यस्ति । इति योल्यमाह - तेने बेति । तेनैव हृदयान्तर्वर्तिना प्राणा असवोऽवश्यं निश्चयेन धार्यन्ते प्रियन्ते । तत्तस्माद्धेतोर्निर्बन्धेनात्यामहे णालं कृतम् 1 भवतो यूयं गच्छन्तु वजन्तु, चन्द्रापीडस्य दर्शनमवलोकनं तदेव तस्माद्वा सुखं यावज्जीवं टिप्प०-1 विलक्षहासेन सलज्जस्मितेन । 2 'स्मरदिव' इति पाठः । ममसो नपुंसकत्वात् । पांडा० -१ बदनेन. २ श्वान्यत्र. १ अस्मिन्नेव ४ अवसीयमानम्; अवस्थीयमानम्. ५ चेतसि X भवन्तु, ७ चन्द्रापीडमुखदर्शन. ● ५५८ कादम्बरी । [ कथायाम्9 प्राप्तमपि करतलादेवैवमाच्छिद्य दैवेन नीतम्' इत्यभिदधानश्च कौतुकात्, 'किमेतत् येनैव आपसे । नायासि देवस्य चन्द्रापीडस्य समीपम्' इत्यस्माभिः पुनःपुनः पृष्टोऽध्यभ्यधात्'लज्जेऽहमेवं वक्तुम् । तथापि शपामि वयस्य चन्द्रा पीडस्यैव जीवितेन, यदि किंचिदपि जानामि, यत्केन कारणेन न शक्नोम्यतो गन्तुमिति । अपि च भवतामपि प्रत्यक्ष एवायं वृत्तान्तः । तद् व्रजन्तु भवन्तः' इत्युक्त्वा तूष्णीमभूत् । मुहूर्तादिव चोत्थाय तेषु तेषु रम्यतरेषु तरुतलेषु लतागहनेषु सरस्तीरेषु तस्मिंश्च देवायतने किमपि नष्टमिवान्विष्यन्ननन्यदृष्टिर्बभ्रामा चिरमिव खिन्नान्तरात्मा . सनिर्वेदमूर्ध्वं निःश्वस्य तस्मल्लतागहने पुनरुपविश्य तस्थौ । वयमपि कृतवीरुत्संनिधानास्त प्रतिबोधनप्रत्याशया स्थिता एव । गतवति समधिक इव यामद्वये शरीरस्थितिकरणायास्माभिरभ्यर्थितः प्रत्युवाच - 'वयस्य चन्द्रपीडस्य खल्वमी स्वजीवितादपि वल्लभतराः प्राणाः । तद्यदि बलादपि परित्यज्य मां गच्छन्ति, तथाप्येषां, संधारणे मया यंत्रः कार्य: । किं पुनरगच्छतामेव । चन्द्रापीडदर्शनेनैव चाहमर्थी । न मृत्युना । तदभ्यर्थनैवात्र निष्फला' इत्ययावत्प्राणघारणं तावदातृप्तेर्भवतु संपद्यताम् । अल्पपुण्यस्य तु मे मम तद्दर्शनसुख प्राप्तमपि लब्धमपि करतलादेव हस्ततलादेव । एवं पूर्वोकन्यायेनाच्छिद्याक्षिप्य दैवेन विधिना नीतं गृहीतमित्यभिदधान इति ब्रुवाणश्च, कौतुकात्कुतूहलेनैतरिक वर्तते, येन हेतुना त्वमेवं भाषस एवं वदसि । देवस्य चन्द्रपीडस्य समीपमभ्यर्ण नायासि नागच्छसि । इत्यस्माभिः पुनः पुनर्वारंवारं पृष्टोऽप्यनुयुक्तोऽप्यभ्यधादवोचत् । अहमेवं वक्तुं कथयितुं लज्जे पामि । तथापि लज्जावत्त्वेऽपि वयस्य चन्द्रापीडस्यैव जीवितेन प्राणितेन शपामि शपथं करोमि, यद्यहं किमपि जानाम्यवकलयामि । केन कारणेनातो गन्तुं यन शक्नोमि न समर्थो भवामीति । अपि च युक्त्यन्तरे । भव तामपि युष्माकमध्ययं वृत्तान्त उदन्तः प्रत्यक्ष एवानुभवसिद्ध एव । तत्तस्माद्धेतोर्भवन्तो व्रजन्तु गच्छन्तु । इत्युक्त्वा तूष्णीमभूत् । मौनेन स्थितवानित्यर्थः । 7 मुहूर्तादिवोत्थाय चोत्थानं कृत्वा च तेषु तेषु रम्यतरेष्वतिमनोहरेषु तरुतलेषु वृक्षतलेषु लतागहनेषु वल्लीगहरेषु सरस्तीरेषु तटाकतटेषु तस्मिंश्च देवायतने चैत्ये किमपि किंचिदपि नष्टमिव गतमिवान्विष्यञ्शोधयन् नं अन्यस्मिन्दृष्टिर्यस्यैवंभूतो बभ्रम भ्रमणं चकार । चिरमिव चिरकालसदृशं भ्रान्त्वा च भ्रमणं कृत्वा खिन्नः खेदं प्राप्तोऽन्तरात्मा मनो यस्य स सनिर्वेद सखावमाननमूर्ध्व भुपरिष्टान्निःश्वस्य निःश्वासं मुक्त्वा तस्मिन्पूर्वोक्ते लताहने पुनर्द्वितीयवारमुपवियोपवेशनं कृत्वा तस्थौ स्थितवान् । कृतं विहितं वीरुधां वल्लीनां संनिधानं सा मीप्यं येरेवंविधा वयमपि तस्य वैशम्पायनस्य प्रतिबोधनं तस्य प्रत्याशा वाञ्छा तया स्थिता एव । समधिके किंचिदधिके यामद्वये प्रहरद्वितये गतवति व्यतीते सति शरीरस्थितिकरणाय देहधारणाकृतेऽरमाभिरभ्यर्थितः प्रार्थितः प्रत्युवाच प्रत्यब्रवीत् । वयस्यस्य मित्रस्य चन्द्रापीडस्य खलु निश्चयेनामी प्राणाः स्खजीवितादपि स्वकीयंजीवितव्यादपि वल्लभतराः । अतिशयेन प्रिया इत्यर्थः । तत्तस्माद्धेतोर्बलादपि हठादपि यदि मां परित्यज्य मुक्त्वा गच्छन्ति व्रजन्ति, तथाप्येषां प्राणानां संधारणे रक्षणे मया यत्नः प्रयासः कार्यः । अगच्छतामव्रजतामेवैषां किं • पुनर्भयते । चन्द्रापी उदर्श मेनैव चन्द्रापीडावलोकनेनेवा हमथ प्रयोजनधान्न । न मृत्युमा न कालधर्मेण । तस्माi टिप्प० -1 'ऊर्ध्वं च निःश्वस्य' इत्येवोषितः पाठः । पाठा०-१ शक्लोमि०. २ अभवत् ३ तागृहेषु. ४ ऊर्ध्व: च. ५ अन्यतरस्मिन्; अन्यतमसिन्; ६ प्रतिबोधना. ७ प्रयतः. वैशम्पायनस्थावस्थाश्रवणम् ] भिधायोत्थाय स्नात्वा कन्दमूलफलैर्वनवासोचितां शरीरस्थितिमकरोत् । निर्वर्तित शरीर स्थितौ तस्मिन्वयमपि कृतवन्तः । अनेनैव च क्रमेण विस्मितान्तरात्मानो रात्रौ च दिवा च किमेतदिति तर्हेत्तान्तमेवानुभावयन्तो दिनत्रयं स्थित्वा निष्प्रत्याशास्तदागमनानयनयोः सुक्कतशम्बेलसंविधानं तत्परिकरं तन्त्र स्थापयित्वा चागता वयम् । यचायतो न प्रेषितः संवादकस्तदेकं तावदन्तरा गच्छतो देवस्थासौं न परापतत्येव । अपरमपि चिराप्रविष्टमात्रस्यैव देवस्य मा पुनरागमनकेशोऽभूत्' इति । उत्तरभागः । चन्द्रापीडस्य तु तं स्वप्नेऽप्यनुत्प्रेक्षणीयं वैशम्पायनवृत्तान्तमाकर्ण्य युगपदुद्वेग विस्मयाभ्या माक्रान्तहृदयस्योदपादि चेतसि – 'किं पुनरीदृशस्य सर्वपरित्यागकारिणो वनवासैकशरणस्थ वैराग्यस्य कारणं भवेत् । स्वयं च न पश्यामि किंचित्स्खलितम् । तातप्रसादानु मामिव समपि चरणतळलुलितचूडामणयोऽर्चयन्त्येव राजानः । ममेव तस्यापि चेच्छोधिकेषु सर्वोपभोगेषु न किंचिदपि हीयते । ममेव तस्याप्याज्ञा न विहन्यत एव । अहमिव सोऽपि प्रसाद्वैतोरत्र निष्फलैवांभ्यर्थना प्रार्थना । इत्यभिधायेत्युक्त्वोत्थायोत्थानं कृत्वा स्नात्वा च कन्दमूलफलैः कृत्वा वन बासस्योचितां योग्यां शरीर स्थितिं देहंसाधन मकरोदकल्पयत् । निर्वर्तिता निष्पादिता शरीरस्थितिर्येनैवं विधे तरिम ग्वैशम्पायने सत्यपि वयमपि कृतवन्तो निष्पादितवन्तः । शरीर स्थिति मिति शेषः । अनेनैव क्रमेण परिपाच्य विस्मितो विस्मयं प्राप्तोऽन्तरात्मा येषामेवंभूता वयं रात्रौ निशायां च दिवा वासरे च किमेतदिति तद्वृत्तान्त सदुदन्तमनुभावयन्तोऽनुचिन्तयन्तो दिनत्रयं स्थित्वावस्थानं कृत्वा तस्य वैशम्पायनस्यागमनमानयनं च तयोग निष्प्रत्याशा निराशाः सन्तः सुकृतमेव शम्बलं पाथेयं तस्य संविधानं करणं तस्य तदेव च परिकर परिच्छद तत्र तस्मिन्प्रदेशे स्थापयित्वा च वयमागता आयाताः । यच्चेति । यदप्रतः संवादक: संदेशहारको न प्रेषितो न प्रहितः । तत्र नियामकद्वयम् । तदेव दर्शयन्नाह - तदेक मिति । एकं तावद्देवस्य गच्छतोऽन्तरा मध्ये ऽसौ न परापतत्येव न मिलितुं शक्नोलेव । अपरमप्यन्यदपि नियामकम् । चिराद्वहुकालेन प्रविष्टमात्रस्यागतमा शस्य देवस्य पुनर्द्वितीयवारमागमनक्लेशो माभूत् । माब्योगे लुङ् । • चन्द्रापीडस्य तु स्वप्नेऽपि स्वप्नदशायामप्यनुत्प्रेक्षणीयमवितर्कणीयं वैशम्पायनवृत्तातं मन्त्रिसुतोदन्तमाकर्ण्य श्रुत्वा युगपत्सम कालमुद्वेगोऽरतिर्विस्मय आश्चर्य च ताभ्यामाकान्तं व्याप्तं हृदयं चेतो यस्यैवंभूतस्य चन्द्रापीडस्येति चेतस्युदपाद्युत्पन्नम् । ईदृशस्या निर्वचनीयस्य सर्ववस्तुनः परित्यागं करोतीत्येवंशीलस्य वनवास एवैक मद्वितीयं शरणं यस्यैवंभूतस्य वैराग्यस्य कारणं निदानं किं पुनर्भवेत् । स्वीयमात्मीयं च स्खलितं वैगुण्यं किंचि• न्मनाङ् न पश्यामि नावलोकयामि । तातप्रसादात्पितुरनुग्रहात् तु मामिव चन्द्रापीडमिव तमपि वैशम्पायनमपि चरणतलेऽङ्गितले लुलिता लुठिताचूडामणयः शिरोमणयो येषामेतादृशो राजानो भूभुजोऽर्चयन्त्येष पूजयन्त्येव । ममेव चन्द्रापीडस्येव तस्यापि वैशम्पायनस्यापीच्छाधिकेषु समीहाभ्यधिकेषु सर्वेषूपभोगेष्वना दिषु न किंचिदपि मनागपि हीयते । न्यूनं न भवतीत्यर्थः । हीयत इति कर्तरिप्रयोगः । ममेव तस्यापि वैशम्पायनस्याप्याज्ञा निदेशोऽन्यैर्न विहन्यत एव न खण्ड्यत एव । अहमिव चन्द्रापीड इव सोऽपि वैशम्पायटिप्प० -1 मत्र अपिप्रयोगः प्रमादः । 2 विरूपी कृतवान् ग्रन्थमिह । 'सुकृतबलसंविधानम्' इति पाठः । सुष्टुकृतं बलस्य (सैन्यादेः ) संविधानं यस्मिन् तथोक्तं तत्परिकरम् (वैशम्पायनस्य परिकर परिजनादिकम् ) तत्रैव स्थापयित्वा इति तदर्थः । 3 'संवाद' इत्येव पाठः । 2 पाठा० -१ निवर्तित. २ अनेन चैव. ३ आत्मनो ४ तम्. ५ बल ६ संदेशकः; संवादः ७ एवम्. ८ प्रविष्टकायमात्रस्य ९ स्मय. १० चिन्ता. ११ लुठित. १२ वाञ्छाषिकेषु १३ अहमपि ० १४ प्रसादात्करोति. .. ५६० [ कथामाम्दाम्करोत्येव । मत्त इव तस्मादपि बिभेत्येवापराधिजनः । मयीव तस्मिन्नपि सर्वाः संपदः । तमप्यालोक्य मामिवोत्पद्यते स्पृहा लोकस्य । अथागच्छंस्तातेनाम्बया वाऽऽर्यशुकनासेन मनो. रमया च तनयस्नेहोचितेन सौहार्देन न संभावितः ? विनयाधिक्येच्छुना तातेन शुकमासेन वा किंचित्पीडा करमभिहितम् ? ताडितो वा ? तत्रापि नैवासावेवं स्नेहतः पिशुनस्वभावो वा, गुरुजनाभक्तो वा, गुणोपादाम विमुखो वा, तरलचित्तो वा, यत्किंचनकारी यः कश्चिदिव क्षुद्रप्रकृतिरौढ्यपुत्रतागर्वितो दुःशिक्षितो दुर्विनीतो वा, पुत्रैकतादुर्ललितो वा, यो जम्मनः प्रभृति सर्वप्रकारोपकारिणो गुरुजनस्योपरि खेद्मेवं कुर्यादनुबन्धाद्विरमेद्वा । प्रशमस्यापीहशस्य नैष कालः । अद्याप्यसौ विद्वजनोचिते गार्हस्थ्य एव न निवेशितः, देवपितृमनुष्याणामानृण्यमेव नोपगतः, अगत्वा चानृण्यमृणत्रयेण बद्धः क गतः ? न तेन पुत्रपौत्रसंतत्या वंशः प्रतिष्ठां नीतः । नानन्तदक्षिणैर्महाऋतुभिरिष्टम् । न सत्रकूपप्रपा प्रासादतटाकारामादिभिः कीर्तनोऽपि प्रसादान्वस्त्रादिप्रदानरूपान्करोत्येव सृजत्येव । मत्त इव मदिव तस्मादपि वैशम्पायनादप्यपराधिजनो बिभेत्यव भीतिं प्राप्नोत्येव । मयीन मदिव तस्मिन्नपि वैशम्पायनेऽपि सर्वाः समप्राः संपदों विभूतयः । तमपि वैशम्पायनमप्यालोक्य निरीक्ष्य मामिव चन्द्रापीडमिव लोकस्य जनस्यापि स्पृहा बाञ्छोत्पद्यते जायते । आगच्छन्नसौ तातेनाम्बयां वार्यशुकनासेन मनोरमया वा तनयः पुत्रस्तस्मिन्स्लेहः श्री तिस्तस्यो चितेन योग्येन सौहार्देन प्रीत्या न संभावितो नालोचितः ? विनयः प्रश्रयस्तस्याधिक्यमधिकता तदिच्छतीत्येवंशीलेन तातेन शुकनासेन वा किंचिन्मनाक्पीडाकर पीडाजनकमभिहितं कथितम् । ताडितो वा प्रहतो वा : तत्रापि ताडनादिष्वप्यसौ वैशम्पायनो मद्विषये स्नेहेतः स्नेहान्नैव पिशुनस्वभावः खलप्रकृति: । गुरुजनानां पित्रादीनां वाऽभक्तोऽनाराधकः । गुणानामुपादानं ग्रहणं तत्र विमुखः परायुखो वा । तरलं चित्तं यस्य स तथा चञ्चलहृदयो वा । यत्किंचन यत्तत्करोतीत्येवंशीलः स तथा यः कश्चिदिन क्षुद्रप्रकृतिस्तुच्छखभाव आढ्यपुत्रतया वा, गर्वितः स्मयं प्राप्तो दुःशिक्षितो दुरध्यापितो दुर्विनीतो वा प्रश्रयरहितः, पुत्रस्यैकतैक्यं तया दुर्ललितो दुश्चेष्टितो वा यो जन्मनः प्रभृत्युत्पत्तिमाय सर्वप्रकारेणोपकारिण उपकृतिविधायिनो गुरुजनस्य मातृप्रभृतिलोकस्योपर्येवं खेदं कुर्याद्विदभ्यात् । अनुबन्धात्संबन्धाद्वा विरमेन्निवर्तेत । ईदृशस्यैता दशस्य प्रशमस्यापि नैष कालो नायं समयः । अत्र सर्वत्र वाशब्दो विकल्पार्थः । अद्याप्यय यावत्, स वैशम्पायनो विद्वज्जनोचिते पण्डितलोकयोग्ये गार्हस्थ्ये गृहस्थाश्रम एव न निवेशितो न स्थापितः । देवाश्च पितरच मनुघ्याच तेषामानृण्यम नृणभावमेव नौपगतो न प्राप्तः । सुतोत्पादकत्वाभावादिति भावः । आनृण्यमगत्वा प्राप्य च ऋणत्रयेण पूर्वोक्तेन बद्धो नियन्त्रितः क्व गतः क्व प्राप्तः । तेन वैशम्पायनेन पुत्रपौत्रसंतत्या वंशोऽन्वयो न प्रतिष्ठां नीतो न प्रौढिमारोपितः । अनन्ता अपरिमिता दक्षिणा यज्ञसमाप्तेरनन्तरं दानं येष्वेवंविधैर्महातुभिर्महायज्ञैर्नेष्टं न यज्ञाः कृताः । संत्रेति । सत्राणि दानशालाः, कूपा अवटाः, प्रपाः पानीमशालाः, प्रासादा देवभूपानां सद्मानि, तटाकानि सरांसि आरामाः कृत्रिमवनानि, एतत्प्रभृतिभिः कीर्तनैर्नामभिर्मेदिनी वसुधा टिप्प० -1 'नैवासापेवं वञ्चन-पिशुनस्वभावो वा' इत्यपि पाठः । असौ (वैशम्पायनः) एवं वञ्चनः प्रतारकः पिशुनः खलः स्वभावो यस्य तथाभूतो नास्तीत्यन्वयः । 2 अनु पश्चाद् बन्धः अनुगत्यं तस्मात् । 3 ' नापूर्तैः कीर्तनैः' इति पाठः । आसमन्तात् विश्वजनानां तृप्तिसाधनैः कर्मभिः, कीर्तनैः कीर्तनीयैः कायैः । पाठा० -१ अध्यागच्छन्. २ च. ३ एवमखेहलः; एव वञ्चना; एव मम लेहस्य ४ राजपुत्रता. ५ अपूर्वैः कीर्तनैः. चन्द्रापीडस्य चेतसि चिन्ता ] उत्तरभागः । ५६१ नैरलंकृता मेदिनी । नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः । न स्निग्धबन्धूनामुपकृतम् । न प्रणयिनो निर्विशेष विभवतां नीताः । न साधवः परिवर्धिताः । नानुजीविनः संविभक्ताः । न दृष्टाः श्रुता वाऽङ्गनाः । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामे कोऽपि हि प्राप्तः । किमेतत्तेन कृतम् ?' इत्याक्षिप्तंचेताश्चिन्तयंश्रिम तस्मिन्नेव तरुतले स्थित्वा शून्यहृदयोऽपि यथाक्रियमाणप्रसादसंमानसंभावनासंभावित विसंसर्ज सकलमेव राजकम् । उत्थाय तत्क्षणकृतमुत्तम्भित तुङ्गतरतोरणाबद्धचन्दनमाल मुभयपार्श्वे स्थापितोत्पलत्र मुखपूर्ण हेमकलशम्, द्वारात्प्रभृति सिक्तमृष्टभूविभागम् अन्तर्बहिश्च प्रकीर्णसुरभिकुसुमप्रकरम् इतस्ततः संचरता कर्मान्तिकलोकेन गृहीत विविधभृङ्गारम्, मणिचामरतालवृन्तरत्नपादुकापकरणपाणिभिर्वारवनिताभिश्चाकीर्णम्, वितानतलवर्तिना मदामोदाधिवासित दिगाननेन राजहस्तिना गन्धमादनेन सनाथीक१ " 7 न > नालंकृता न विभूषिता । आकल्पस्थाध्यायुगान्तस्थायि दिशोयायि दिग्गमनशीलं च यशः श्लोको न विप्रकीर्णं न विस्तारितम् । गुरवो हिताहितोपदेष्टारोऽनुवृत्त्यानुकूल्येन सुखं यथा स्यात्तथा न स्थापिता नैकत्र स्थितिं कारिताः : स्निग्धाः स्नेहवन्तो ये बन्धवो भ्रातरस्तेषां नोपकृतमुपकृतिर्न कृता । प्रणयिनः सुहृदो निर्विशेष विभवतामशेषैश्वर्यतां न नीता न प्रापिताः । साधवः सज्जना न परिवर्धिता न वृद्धिं प्रापिताः । अनुजीविनः सेवका न संविभेक्ता न संविभागीकृताः । नै कामुकतया दृष्टा वीक्षिताः श्रुता आकर्णिता वाङ्गनाः स्त्रियः । जातेनोत्पन्नेन सता जीवलोकसुखानि सांसारिकसौख्यानि नानुभूतानि । न भुक्तानीत्यर्थः । तेन वैशम्पायमेन पुरुषार्थसाधनानां पुरुषार्थकरणानां धर्मार्थकामानां मध्य एकोऽप्यन्यतरोऽपि न प्राप्तः । तेन वैशम्पायनेनैतत्किं कृतं किं विहितम् । इति पूर्वोक्त प्रकारेणाक्षिप्तचेता व्याकुलहृदयश्चिरमिव बहुकालसदृशं चिन्तयन्ध्यायंस्तस्मिन्नेव पूर्वोक्त एव तरुतले वृक्षतले स्थित्वा शून्यं हृदयं चेतो यस्यैवंभूतोऽपि यथायोग्यं क्रियमाणा विधीयमाना प्रसादो वस्त्रादिप्रदानम्, संमानमत्यादरः तयोः संभावना चिन्तना तया संभावित संस्कृतं सकलमेव समग्रभेव राजकं राजसमूहं विससर्ज गृहगमनाय निदेशं दत्तवान् । उत्थायोत्थानं कृत्वा तत्क्षणं तत्कालं कृतं विहितमुत्तम्भितं नियन्त्रितं तुङ्गतरमुच्चैस्तरं यत्तोरणं तत्राबद्धा चन्दनमाला यस्मिन् । उभयेति । उभयपार्श्वयोर्वामदक्षिणयोः स्थापितो विन्यस्त उदूर्ध्वं पल्लवो मुखे यस्यैवंभूतः पूर्णहेमकलशो यस्मिन् । द्वाराप्रभृति प्रोल्या आरभ्य सिक्तः सिञ्चितो मृष्टः शोधितो भूमिभागो यस्मिन् । अन्तर्बहिश्च प्रकीर्णोऽवध्वस्तः सुरभिकुसुमानां सुगन्धपुष्पाणां प्रकरः समूहो यस्मिन् । इतस्ततः संचरता भ्रमता कर्मान्तिकलोकेन गृहीतो विविधोऽनेकविधो भृङ्गारः कनकालुका यस्मिन् । मणीति । मणिखचिता एताः चामराणि वालव्यजनानि, तालवृत्तानि व्यजंनानि, रत्नानां मणीनां पादुका 'पावडी' इति प्रसिद्धा आदौ यस्मिन्नेतादृशमुपकरणमुपस्करः पाणौ हस्ते यासामेवंविधाभिर्वारवनिताभिर्वैश्याभिराकीर्णं मृतम् । वितानेति । विता'नमुल्लोचस्तस्य तलमधोभागस्तत्र वर्तिना मदस्य दानस्य य आमोदः परिमलस्तेन अधिवासितं सुरभीकृतं दिशै आननं येनैवंभूतेन राजहस्तिना नृपकरिणा गन्धमादनेन सनाथीकृतं सहित मेकपार्श्व यस्मिन् । अपर्पापि तदितरपापि कल्पितं विरचितमिन्द्रायुधस्याश्वस्यावस्थानमुपवेशनस्थलं यस्मिन् । उपवाहयितुं टिप्प० – 1 सम्यक् स्वधनांशदानेन परितोषिताः । 2 एतस्मात्पूर्व 'नाभ्यागताः कृता निस्तृषः' इति पाठोऽप्यावश्यकः । अभ्यागताः याचका मनोरथपूरणेन निस्तृषो निर्लालसा न कृता इत्यर्थः । 3 दिशामिति बहुवचनं युक्तम् । पाठा०- -१ विशेष. २ न दृष्टश्रुताभ्यागताः कृताः निस्तुषः नः नाम्यागताः कृता निस्तृषः न. ३ काममोक्षाणाम्. ४ चिरमेव. ५ विसर्ज्य ६ संमृष्ट. ७ दिङ्मण्डलेन. ७१ का० ' तैकपार्श्वम्, अपरपार्श्वेऽपि कल्पितेन्द्रायुधावस्थानम्, उपवाह्यकरे- णुकाक्रान्तबाह्याङ्गणम्, अशेष [^१]द्वारावहितबहुवेत्तृलोकम्, महत्त्वाद्गम्भीरतयानेकसत्त्वशरणतया च महाजलनिधिमनुकुर्वाणम्- -तथा हि सवेलावनमिव [^२]यामावस्थितानेककरिघटा- परिकरेण, अन्तः प्रविष्टमहाशैलमिव गन्धमादनेन, सकल्लोलमिव संचरत्संभ्रान्तकर्मान्तिकलोकोर्मिपरम्पराभिः, सावर्तमिव प्राहरिकजनमण्डलावस्थानैः, सलक्ष्मीकमिव वराङ्गनाभिः, सरत्नमिव महापुरुषैः, सहंसमालमिव सितपताकाभिः, सफेनपटलमिव कुसुमप्रकरैः, हरिमिवानन्तभोगपरिकरं कायमानमविशत् । प्रविश्य चागृहीतप्रतिकर्मतया मलिनवेशाभिरुद्विग्नदीनमुखीभि- रितस्ततो [^३]वराङ्गनाभिर्यामिकलोकेन कर्मान्तिकैश्च प्रणम्य- मानस्तूष्णीमिवालोककारकेणे [^४]व मदामोदेना वेदिते निसृष्ट [ टि ]-- योग्या उपवाह्या याः करेणुका हस्तिन्यस्ताभिराक्रान्तं व्याप्तं बाह्याङ्गणं यस्मिन् । अशेषेति । अशेषाणि समग्राणि यानि द्वाराणि तेष्ववहितः स्थापितो बहुवे [^1]तृलोको यस्मिन्। महत्त्वा- दायतत्वाद्गम्भीरतयाऽलब्धमध्यतयानेके ये सत्त्वाः प्राणिनस्तेषां शरणतयाश्रयतया च महाजलनिधिं महासमुद्रमनुकुर्वाणं विडम्ब- मानम् । तत्सादृश्यादिति भावः । तदेव दर्शयन्नाह-- तथा हीति । सह वेलावनेन वर्तमानमिव । केन । यामावस्थिताश्चतुष्किकास्थिता या अनेककरिघटास्तासां परिकरेणोपस्करेण । उच्चैस्त्वसाम्यात्क- रिघटानां वनसाम्यम्; परिकरस्य श्वेतत्वसाम्याद्वेलायाः सादृश्यम् । अन्तः प्रविष्टो मध्यगतो महाशैलो महान्पर्वतो यस्मिन्नेवंभूतमिव । केन । गन्धमादनेन । गन्धमादननाम्ना गजेनेत्यर्थः । उच्चत्वकृष्ण- त्वसाम्याद्गन्धमादनस्य पर्वतोपमानम् । सह कल्लोलेन तरङ्गेण वर्तमानमिव । काभिः । संचरन्त इतस्ततो भ्रमन्तः संभ्रान्ताश्चकिता ये कर्मान्तिकलोकाः सेवकजनास्त एवोर्मिपरम्पराः ताभिः । सहा- वर्तेन पयसां भ्रमेण वर्तमानमिव । कैः । प्राहरिका ये जनास्तेषां मण्डलेनावस्थानैरुपवेशनैः । सह लक्ष्म्या वर्तमानमिव । काभिः । वराङ्गनाभिरयोषिद्भिः । एतेन तासां लक्ष्मीतुल्यता सूचिता । सह रत्नेन मणिना वर्तमानमिव । कैः । महापुरुषैः सत्पुरुषैः । एतेन महापुरुषाणां रत्नसादृश्यमाविष्कृतम् । सह हंसमालया सितच्छद- पङ्क्त्या वर्तमानमिव । काभिः । सितपताकाभिः श्वेतवैजयन्तीभिः । तासां हंसपङ्क्तिसादृश्यादिति भावः । सह फेनपटलेन वर्तमानमिव । कैः । कुसुमानां पुष्पाणां प्रकरैः समूहै: । हरि [^2]मिव कृष्णमिव । अनन्तः संख्यातुमयोग्यो यो भोगस्तस्य परिकरः परिवारो यस्मिन् । हरिपक्षेऽनन्तस्य शेषनागस्य भोगः शरीरं तदेव परिकरो यस्येत्यर्थः । एवंविधं [^3]कायमानमविशत् । प्रवेशं चकारेत्यर्थः । प्रविश्य च प्रवेशं कृत्वा चागृहीतमनात्तं प्रतिकर्माङ्गसंस्कृतं याभि- स्तासां भावस्तत्ता तथा मलिनः श्यामो वेषो नेपथ्यं यासां ताभिः । उद्विग्नमुद्वेगं प्राप्तमत एव दीनं स्वल्पतया दृश्यमानं मुखं यासा- मेवंविधाभिः । इतस्ततः संचरद्भिरिति शेषः । वराङ्गनाभिर्वरयोषि- द्भिर्यामिकलोकेन चतुष्किकास्थितजनेन कर्मान्तिकैश्च दासादिभि- श्च प्रणम्यमानो नमस्क्रियमाणस्तूष्णीमिव जोषमिवालोककार- [^4]केण जनोत्सारकवेत्रिणा मदो दानं तस्यामोदेन परिमलेन चावेदिते ज्ञापिते गन्धमादने गजविशेषे निसृष्टा दत्ता शून्योपयोग- रहिता दृष्टिर्दृग्येनैवंभूतः [^1]F. अयं लेखकदोषः स्याद् यत् 'वेत्रिलोक' इति स्थाने 'वेत्तृ' इति दृश्यते । अस्तु, वेत्री राजप्रासादे वेत्रदण्डधारी । [^2]F. 'सहरिमिवानन्तभोगपरिकरैः' इत्येव पाठो योग्यः । पूर्वं महाजलनिधिसाम्यस्य प्रक्रान्तत्वात् 'हरिमिव' इत्युक्तौ स्वातन्त्र्येण हरेः साम्ये सिद्धे पूर्वप्रक्रान्तस्य तस्य स्पष्टमसंगतिः । अनन्तैः भोग्यवस्तूनां परिकरैः समारम्भैः सहरिमिव ( इरिणा शयानेन नारायणेन सहितमिव) । पक्षेऽर्थष्टीकायाम् । [^3]F. पटमण्डपम् । [^4]F. राज्ञां समीपे 'आलोकय' इति आलोकं दर्शनं जनयति स आलोककारकः तेनेव हस्तिनो मदामोदेन आवेद्यमाने सूच्यमाने । [^१]G. अवस्थित [^२]G. यामकस्थित [^३]G. वाराङ्गनाभिः [^४]G. च. शून्यदृष्टिर्गन्धमादने शनैः शनैर्वासभवनमयासीत् । तत्र चापनीत- समायोगो विमुच्यापि शयनीये [^१]तरुतालवृन्तानिलेन संवी [^२]ज्य मानोऽङ्गसंवाहकारिभिश्च शनैः शनैरपनीयमानागमनखेदः सकलरजनीप्रजागरखिन्नोऽपि चाप्राप्तनिद्रासुखो दुःखासिकया पुनरपि दुःखान्तर हेतुं चिन्तामेवाविशत्- 'यदि तावदप्रतिमुक्तस्ता- तेनाम्बया वा, महति शोकार्णवे नि [^३]क्षिप्य तौ, तनयविरहशोक- विक्लवं तातं शुकनासमम्बां च मनोरमामनाश्वास्यास्मादेव प्रदेशा- द्गच्छामि तदा मयापि वैशम्पायनस्यानुकृतं भवति । निवृत्त्य पुन- र्गमने चामुक्तिपक्षमाशङ्कते मे हृदयम् । तत्किं करोमि ? [^४]अ- थवाऽस्थान एवाप्रतिमुक्तिशङ्का मे, प्रियसुहृदात्मानं मां च परित्य- जताप्यपरेण प्रकारेण [^५]गमनमुत्पादयता कादम्बरीसमीपगम- नोपायचिन्तापर्याकुलमतेरुपकृतमेव । तदधुना वैशम्पायनप्रत्या- नयनाय यान्तं न तातो नाम्वापि नार्यशुकनासोऽपि निवारयितुं शक्नोति माम् । गतश्च वैशम्पायनसहितस्तेनैव पार्श्वे [^६]न पुर- स्ताद्गमिष्यामि ।' इति निश्चित्य तत्कालकृतं [ टि ]-- शनैः शनैर्मन्दं मन्दं वासभवनं वासगृहमयासीदगमत् । तत्रेति । तस्मिन्वासभवनेऽपनीतो दूरीकृतः समा [^1]योगः संबन्धः । अन्येषामिति शेषः । येनैवंभूतोऽङ्गानि हस्तपादादीनि विमुच्य । तत्प्रयोजकप्रयत्नाभावादिति भावः । शयनीये शय्यायां तरूणां वृक्षाणां तालवृन्तानि व्यञ्जनानि तेषामनिलेन वायुना संवीज्यमान उद्धूयमानोऽङ्गस्य शरीरस्य संवाहः संमर्दस्तत्कारिभिस्तत्करण- शीलैश्च । शनैः शनैर्मन्दमन्दमपनीयमानो दूरी क्रियमाण आगम- नखेदो यस्यैवंभूतः । सकला समग्रा या रजनी तस्यां प्रजागरो जागरणं तेन खिन्नोऽपि खेदं प्राप्तोऽपि दुःखेन कृच्छ्रेणासिकाव- स्थानं तयाऽप्राप्तं निद्रासुखं येनैवंविधः पुनरपि द्वितीयवारमप्येक- स्माद्दुःखादन्यानि दुःखानि दुःखान्तराणि तेषां हेतुं निदानभूतां चिन्तां मानसीव्यथामविशत्प्रविष्टोऽभूत् । यदिति । तावदादौ तातेन तारापीडेनाम्बया विलासवत्या वाऽप्रतिमुक्तोऽवि [^2]सृ- ष्टस्तौ मातृपितरौ महति गरिष्ठे शोकार्णवे शुक्समुद्रे निक्षिप्य पात- यित्वा । तनयेति । तनयस्य वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकस्तेन विक्लवं विधुरं तातं शुकनासमम्बां च मनोरमामनाश्वा- स्याश्वासनामकृत्वास्मादेव प्रदेशात्स्थानायदि गच्छामि व्रजामि, तदा मयापि चन्द्रापीडेनापि वैशम्पायनस्यानुकृतं भवति सादृश्यं कृतं स्यात् । निवृत्त्य व्याघुट्य पुनर्गमने च मे मम हृदयं चेतोऽमुक्ति- [^3]पक्षमाशङ्कत आरेकते । तदिति हेत्वर्थे । अहं किं करोमि किं कुर्वे । अथवेति पक्षान्तरे मे ममाप्रतिमुक्तिशङ्का ततो मोचनं स्यान्न वेति संदेहः अस्थान एवानवसर एव । अयुक्तैवेत्यर्थः । यतः प्रियसुहृदा वल्लभमित्रेण वैशम्पायनेनात्मानं स्वं मां च चन्द्रापीडं परि- त्यजता त्यागं कुर्वताप्यपरेणान्येन प्रकारेण विधानेन गमनं यात्रामु- त्पादयतोत्पत्तिं कुर्वता कादम्बर्या गन्धर्वसुतायाः समीपेऽभ्यर्णे गमनं यानं तस्योपायचिन्तया पर्याकुला व्याकुला मतिर्यस्यैवंभूतस्य ममो- पकृतमेव । उपकारः कृत इत्यर्थः । एतन्मिषेण तत्र गमनं सुखेन भविष्यतीत्यर्थः । तत्तस्माद्धेतोवैशम्पायनस्य प्रत्यानयनं पश्चादान- यनं तस्मै यान्तं व्रजन्तं न तातस्तारापीडो नाम्बापि विलासवत्यपि नार्यशुकनासोऽपि मां चन्द्रापीडं निवारयितुं प्रतिषेधयितुं शक्नोति समर्थो भवति । गतश्चेति । तत्र प्राप्तश्च वैशम्पायनसहितस्तेनैव पूर्वपरिशीलितेन पार्श्वेन वामदक्षिणयोरन्यतरेण पुरस्तादग्रे गमि- ष्यामि व्रजिष्यामि इति निश्चित्य निश्चयं कृत्वा तत्कालकृतं तदात्व- विहितं वैश [^1]F. गात्रात् अपनीतः समायोगः परिच्छदो येन । [^2]F. अननुमत इति यावत् । [^3]F. पितृभ्यामविसर्जनपक्षम् । [^१]G. तनु. [^२]G. वीज्यमानो. [^३]G. निःक्षिप्य. [^४]G. अस्थानप्रतिमुक्ति. [^५]G. गमनमप्युत्पादयता. [^६]G. अग्रतो. "वैशम्पायनवियोगदुःखं परिणामसुखमौषधमिव बहु मन्यमानो मुहूर्तमिव [^१]स्थित्वा विश्रान्तः सुखितैरङ्गैरापूरिते तृतीयार्धया- मशङ्खे शरीरस्थितिकरणायोतिष्ठत् । उत्थाय च यत्रैव कादम्बरी तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरा- त्मा पुनरेव [^२]संवर्गिताशेषराजलोकः शरीरस्थितिमकरोत् । कृताहारश्चान्तर्ज्वलतो मदनानलस्य वैशम्पायनविरहशोकाग्नेश्च बहिरपि संतापदानाय साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टा- स्वपि दिक्षु युगपत्प्रसारितकर: करोम्ययत्नेनैव संतापमित्याकलय्ये- व गगनतलमध्यमारूढे सवितरि, आतपव्याजेन रजतद्रवमिवोत्त- प्तमुद्गिरति रश्मिजाले निर्भिद्य विशन्तीष्विव शरीरमातपकणिका- सु, [^३]पुञ्ज्यमानप्राणिसंघातासु तलप्रवेशात्संकटायमानासु पादपच्छायासु, बहिरालोकयितुं चाप्यपारयन्तीषु [^४]दृष्टिषु, [^५]ज्वलत्स्विव दिङ्युखेषु, दुःस्पर्शासु भूमिषु, निःसंचारेषु पथिषु, [^६]संकटप्रपाकुटीरोदरोदपीतिपुञ्जितेष्वध्वन्येषु, [^७]नाडिंधम- श्वासातुरेषु स्वनीडावस्थायिषु पत्ररथेषु, पल्वलान्तर्जलप्रवेशितेषु महिष [ टि ]-- म्पायनस्य वियोगदुःखं विरहकृच्छ्रमौषधमिव, अर्थात्कटु- कभैषज्यमिव परिणामे प्रान्ते सुखं सौख्यकृद्बहु यथा स्यात्तथा मन्यमानो जानानो मुहूर्तमिव घटिकाद्वयसदृशमिव स्थित्वा विश्रा- न्तो विश्रामं गतः सुखितैः सुखं प्राप्तैरङ्गैस्तृतीयोऽर्धो यस्मिन्नेवंविधो यो यामः प्रहरस्तस्य शङ्खे जलज आपूरिते वादिते सति शरीर- स्थितिकरणायोदतिष्ठदुत्थितो बभूव । उत्थाय चोत्थानं कृत्वा यत्रैव यस्मिन्नेव स्थले कादम्बरी तत्रैव तस्मिन्नेव प्रदेशे वैशम्पायन इति स्वधैर्यावष्टम्भेनैव स्वकीयसत्त्वावलम्बनेनैव हृदयं चेतः संस्तभ्य संस्तम्भनं कृत्वा शून्योऽन्तरात्मा चेतो यस्य स तथा पुनरेव द्वितीय- वारमेव [^1]संवर्गित एकीभूतोऽशेषः समग्रो राजलोको यस्यैवंभू- तः शरीरस्थितिं देहपालनामकरोदकल्पयत् । कृतो विहित आहारो भोजनं येनैवंविधश्च सन्मदनानलस्य कामवह्ने- रन्तर्मध्ये ज्वलतः प्रज्वलतः सतो वैशम्पायनस्य विरहो वियोगस्त- स्माद्यः शोकः शुक् स एवाग्निर्वह्निस्तस्य च बहिरपि ज्वलतः सतः संतापदानाय तप्तिवितरणाय साहायकमिव साहाय्यमिव कर्तुं विधातुमुपरिस्थितश्चातिकष्टमतिकृच्छ्रमष्टास्वपि दिक्षु युगपदेकवारं प्रसारितकरो विस्तारितकिरणोऽयत्नेनैवाप्रयासेनैवाहं संतापं करो- मीत्याकलय्येवाकलनां कृत्वेव गगनतलमध्यं सवितरि सूर्य आरूढे प्राप्ते सति, आतपव्याजेनालोकमिषेणोत्तप्तमुष्णीकृतं रजतद्रवमिव रूप्यरसमिव रश्मिजाले किरणसमूह उद्गिरत्युद्वमति सति, शरीरं देहं निर्भिद्य द्विधा कृत्वा विशन्तीष्विव प्रवेशं कुर्वन्तीष्विवातपक- णिकासु सत्सु । पुञ्जयमानः संघातीक्रियमाणः प्राणिसंघातो जीवस- मूहो यास्वेवंविधासु पादपच्छायासु तलप्रवेशादधोगमनात्। किर- णानामिति शेषः । संकटायमानासु संकीर्यमाणासु सत्सु। बहिर- प्यालोकयितुं वीक्षितुं दृष्टिषु नेत्रेष्वपारयन्तीष्वशक्नुवतीषु सत्सु । ज्वलत्स्त्रिव दह्यमानेष्विव दिखेष्वाशाननेषु सत्सु । दुर्दुःखेन स्पर्शो यासामेवंविधासु भूमिषु सत्सु, निःसंचारेषु संचरणरहितेषु पथिषु मार्गेषु सत्सु । संकटा अविस्तीर्णा याः प्रपाः पानीयशालास्तासां कुटीराणि तेषामुदरेषु मध्येषूदकस्य पानमुदपीतिस्तदर्थं पुञ्जितेषु संघीभूतेष्वध्वन्येष्वध्वनीनेषु सत्सु । नाडिं धमतीति नाडिंधम एवं- विधो यः श्वासो निःश्वासस्तेनातुरेषु पीडितेषु स्वनीडानि स्वकीय- कुलायास्तेष्ववस्थायिष्ववस्थानकारिषु पत्ररथेषु पक्षिषु सत्सु । पल्वलान्यखातसरांसि तेषामन्तर्जले प्रवेशितेषु प्रवेश कारि [^1]F. 'संवर्जितराजलोकः' इत्येव पाठः । विसर्जितो राजन्यगणो येन सः, शरीरस्थितिकरणे विसर्जनस्यैवौचित्यात् । [^१]G. निद्राविश्रान्तसुखितैः; स्थित्वा विश्रान्तसुखितै:. [^२]G. संवर्जितराजलोकः. [^३]G. पुञ्जमान. [^४]G. दृष्टिषु आलोकेषु, दुरालोकेषु. [^५]G. दिङ्मुखेषु ज्वलत्स्विव. [^६]G. निःसंकट. [^७]G. नाडिंघम. वृन्देषु, अरविन्ददलशकलकिंजल्कविच्छुरितमिच्छाविलोडितो- [^१]त्रुटितबिसकाण्डच्छेददन्तुरं निपानसरःपङ्कमारोहत्सु करि- यूथेषु, रक्ततामरसकान्तिषु ललनाकपोलोपान्तेषु दलितमुक्ताक्षोदानुकारिणीषु विराजमानासु घर्मजलकणिकावलीषु, [^२]स्म- र्यमाणायां ज्योत्स्नायाम्, गृह्यमाणेषु तुषारगुणेषु [^३]वाञ्छ्यमाने पयोदकालाभ्यागमे, अभ्यर्थ्यमाने दिवसपरिणामे, प्रदोषदर्शनाकाङ्क्षिषु हृदयेषु, उत्थाय सरस्तीरकल्पितमनवरतापतज्जलासार- सेकनिवारितोष्णकरकिरणसंतापम्, एकसंतानावली [^४]धारा- वर्षवेगवाहिन्या निर्झरिण्येव फुल्यया परिक्षिप्तम्, अन्तरालम्बित- जलजम्बूप्रवालसहितान्धकारम्, आमुक्तकुसुमपल्लवलतावृता- खिलस्तम्भसं [^५]चयम्, आमोदमानसरसस्फुटितारविन्दराशि- दत्तप्रकरम्, आकीर्णसरसबिस [^६]काण्डम्, अकाण्डकल्पितप्रावृट्कालमितस्ततो वर्षन्तीभिः शैवलप्रवालमञ्जरीभिः, जलदेव- ताभिरिव सद्यः स्नानार्द्र [ टि ]-- तेषु महिषवृन्देषु रक्ताक्षसमूहेषु सत्सु । अरविन्देति । अरविन्दस्य कुशेशयस्य दलशकलानि पत्रखण्डानि किंजल्कं च केसरं ताभ्यां विच्छुरितं कर्बुरितमिच्छया विलोडितेन मथनेनोत्त्रुटि- तानि यानि बिसकाण्डानि तेषां छेदा तैर्दन्तुरं मनोहरमेतादृशं निपानसरो 'निवाण' इति लोके प्रसिद्धं यत्सरस्तटाकं तस्य पङ्कं कर्दमं करियूथेषु हस्तिवृन्देष्वारोहत्सु प्रविशत्सु सत्सु । रक्तं यत्तामरसं कमलं तद्वत्कान्तिर्येषामेवंविधेषु ललनानां कपोलानामुपान्तेषु समीपेषु [^1]सत्सु । दलितेति । दलिता म्रदिता या मुक्ता मौक्ति- कानि तासां क्षोदश्चूर्णं तदनुकारिणीषु तत्सादृश्यकरणशीलासु धर्मजलस्य प्रस्वेदस्य कणिकानामावलीषु श्रेणिषु विराजमानासु शोभमानासु सत्सु । ज्योत्स्नायां चन्द्रिकायां स्मर्यमाणायां स्मृति- गोचरीक्रियमाणायां सत्याम्, तुषारगुणेषु हिमगुणेषु गृह्यमाणेषु सत्सु । पयोदकालस्य प्रावट्समयस्याभ्यागम आगमने वाञ्छ्यमान ईप्स्यमाने सति । दिवसस्य वासरस्य रामेऽवसानेऽभ्यर्थ्यमाने प्रार्थ्यमाने सति । प्रदोषो यामिनीमुखं तस्याकाङ्क्षिषु वाञ्छकेषु हृदयेषु मनःसु सत्सु, उत्थायोत्थानं कृत्वा जलमण्डपमयासीदिति दूरेणान्वयः । जलमण्डपं विशेषयन्नाह - सर इति। सरसस्तटाकस्य तीरं तटं तस्मिन्कल्पितं विहितमनवरतं निरन्तरमापतन्क्षरन्यो जलासारो वेगवद्धृष्टिस्तेन सेकः सिञ्चनं तेन निवारितो दूरीकृत उष्णकरस्य सूर्यस्य किरणसंतापो येन स तम् । एकसंतानानामेक- परम्पराणामावलीभिर्यो धारावर्षस्तस्य वेगं वहतीत्येवंशीलया निर्झ- रिण्येव नद्येव कुल्यया सारिण्या परिक्षिप्तं वलयतम् । अन्तरेण । अन्तरा मध्य आल [^2]म्बितानि जलजम्बूप्रवालानि वेतसकिस- लयानि तैराहितः स्थापितोऽन्धकारो यस्मिन् । आमुक्तेति। [^3]आमुक्ता मुकुलकुसुमपल्लवा याभिरेवंविधा या लता वयस्ता- भिरावृत आच्छादितोऽखिलस्तम्भसंचयः समग्रस्थूणासमूहो यस्मैिन् । आमोदेति । आमोदमानानि विदूरगगन्धवन्ति सरसानि रसोपयु- क्तानि स्फुटितानि विकसितानि यान्यरविन्दानि कमलानि तेषां राशिः समूहस्तस्य दत्तः प्रकरो निवहो [^4]यस्मिन् । आकीर्णेति । आंकीर्णानि व्याक्षिप्तानि सरसबिसकाण्डानि मृणालसमूहा यस्मिन् ॥ अकाण्डेऽप्रस्तावे कल्पितः कृतः प्रावृट्कालो वर्षासमयस्तमिव । काभिः । शैवलानि तेषां प्रवालमञ्जर्यः किसलयवल्लर्यस्ताभिः । किं कुर्वन्तीभिः । इतस्ततो वर्षन्तीभिर्यत्र तत्र निपतन्तीभिः । पुनः कीदृशं जलमण्डपम् । बह्वीभिर्वाराङ्गनाभिर्वारयोषिद्भिरुपेतं सहितम् । कथंभूताभिः । सद्यस्तत्कालं यत्स्नानं तेनार्द्र: समुन्नश्चिक [^1]F. इयमव्युत्पन्नता तु चिरानुवृत्तैव टीकाकारस्य । ललनाकपो- लेषु इति न स्वतन्त्रम्, अपि तु रक्ततामरससदृशेषु ललना कपोलेषु (अधिकरणेषु ) धर्मजलकणिकावलीषु विराजमानासु सतीष्वित्य- न्वयः । [^2]F. अन्तरा मध्ये आलम्बितानि लम्बनेन गृहीतानि जलानि यैः तादृशा ये जम्बूनां प्रवालाः पल्लवाः तैः, जम्बूपल्लवानां हारित्याधि- क्याच्छ्यामतेत्याशयः । [^3]F. आमुक्ताभिस्तस्मिन्स्थाने न्यस्ताभिः कुसुमपल्लवलताभिरावृत इति सरलोऽर्थः । [^4]F. पाठान्तरेषु नीचैर्विधृतं विशेषणद्वयमपि ग्रन्थस्थं रसिकैरा- योज्यमेतन्मध्ये । [^१]G. त्रुटित. [^२]G. स्मर्यमाणायां च. [^३]G. आवाञ्छ्यमाने. [^४]G. धारावेग. [^५]G. संचयमतनुहरिचन्दनचर्चार्द्रमरकतश्यामपद्मिनीपलाशा- स्तीर्णसमस्तभूतलमामोद. [^६]G. काण्डाकाण्डकल्पित. चिकुरहस्ताभिरुपगृहीतसुरभिकोमलजलार्दकाभिरनाश्यानचन्द- नाङ्गरागहारिणीभिर्हारवलयमात्राभरणाभिरवतंसितबालशैवलप्रवा-लाभिर्मृणालतालवृन्तकर्पूरपटवासहरिचन्दनचन्द्रकान्तमणिदर्पणा- द्यपकरणपाणिभिर्बह्वीभिर्वाराङ्गनाभिरुपेतम्, परिभवस्थानमिव निदाघसमयस्य, निदानमिव शीतकालस्य, निवे [^१]शमिव वारि- वाहानाम्, तिरस्कारमिव [^२]रविकिरणानाम्, हृदयमिव सरसः, सहायमिव [^३]हिमगिरेः, स्वरूपमिव जडिम्नः, आवासमिव विभावरीणाम्, प्रत्याघातमिव दिवसस्य जलमण्डपमयासीत् । तत्र चातिरभ्यतया क्षुभितमकरध्वजोत्कलिकासहस्रविषमं जला- सारशिशिरतया संधुक्षि [^४]तसुहृद्वि [^५]योगानलं महासमुद्र- मिव गम्भीरं तं दिवसमेकाकी [^६]कथंकथमपि स्वधैर्ययानपा- त्रेणालङ्घयत् । लोहितायमानातपे च सायाह्ने निर्गत्य बहुलगोम- योपलेपहरिते मन्दमन्दमारुता [ टि ]-- रहस्तः केशकलापो यासां ताभिः । आर्द्रत्वसाम्यादुत्प्रेक्षते- जलदेवताभिरिव जलाधिष्ठात्रीभिरिव । उपेति । उपगृहीता; स्वीकृ- त सुरभयः कोमला मृदवो जलार्द्रका [^1]क्लिन्नवासांसि याभि- स्तास्ताभिः । 'जलार्द्रा क्लिन्नवाससि' इत्यभिधानचिन्तामणिः।अनेति । अनाश्यानोऽशुष्को यश्चन्दनाङ्गरागश्चन्दनविलेपनं तेन हारिणीभी रुचिराभिः । हारेति । हारश्च वलये चेति द्वन्द्वः । केवले हारवलये हारवलयमात्रमाभरणमलंकारो । यासां ताभिः ॥ अवेति । अवतंसिताः शेखरीकृता । बाला नव्या: शैवलप्रवाला: शैवलकि- सलयानि याभिः। मृणालेति ॥ मृणालानि बिसानि, तालवृत्तानि व्य- जनानि, कर्पूरो हिमवालुका, पटवासः पिष्टातः,हरिचन्दनं चन्दनम् चन्द्रकान्तमणयश्चन्द्रमणयः दर्पणे मुकुर:, एत आदौ येषामेतादृश- मुपकरणमुपस्करः पाणौ हस्ते यासांताभिः ॥ परीति ॥ निदाघ- समयस्योष्णकालस्य परिभवस्थानमिव पराभव स्थलमिव । शीत- कालस्य शिशिरसमस्य निदानमिव कारणमिव ॥ वारिवाहानां मेघानां निवेशमिवाश्रममिव । रविकराणां सूर्यकिरणानां तिरस्का- रमिव न्यक्कारमिव । हृदयमिति ॥ सरसस्तटाकस्य हृदयमिव मध्यमिव । सहायमिव सखायमिव हिमगिरेस्तुहिनाचलस्य ॥ क्व- चित् 'सहोदरमिव'' इति पाठः ॥ तत्र भ्रातरमिवेत्यर्थः । जडिम्नो जडतायाः स्वरूपमिव स्वलक्षणमिव । विभावरीणां रजनीनामावा- समिव गृहमिव । दिवसस्य वासरस्य प्रत्याघातमिव प्रहारमिव जलमण्डपमयासीदित्यन्वयस्तु प्रागेवोक्तः ॥ तत्र चेति ॥ तस्मिन्स्थलेऽतिरम्यतयातिमनोहरतयैकाक्यसहायस्तं दिवसं कथंकथमपि महता कष्टेन स्वकीयं यद्धैर्यं तदेव यानपात्रं वाहनं तेनालङ्घयदुल्लङ्घितवान् । दिवसं विशेषयन्नाह-- क्षुभितेति । क्षुभितं क्षुब्धं यन्मकरध्वजस्य कंदर्पस्योत्कलिका सहसमुत्कण्ठा- सहस्रं तेन विषमं विकट जलस्याम्भस आसारो वेगवद्दृष्टिस्तेन शिशिरतया शीतलतया संधुक्षितः प्रकटीकर्तुमारब्ध, सुहृद्वियो- [^2]गानलो मित्रविरहानलो येन स तम् । महासमुद्रमिव महा- जलधिमिव गम्भीरं गभीरम् । विरहाकुलितचेतस्कत्वादप्राप्तप्रा- न्तमित्यर्थः । लोहितायमानो रक्तायमान आतप आलोको यस्मिन्ने- तादृशे च सायाह्ने संध्यायां निर्गत्य गृहाद्बहिरागत्य बहुलं दृढं यद्गोमयं छगणं तेनोपलेप उपलिम्पनं तेन हरिते नीले नीलवर्णे, मन्दं मन्दं यथा स्यात्तथा मारुतेन वायुनाहतस्ताडितोऽत [^1]F. ग्राम्योयमर्थः। उपगृहीताः जलार्द्रिका: (जलार्द्राः) पद्म- पत्रतालवृन्तानि याभिरित्यर्थः।' तथा जलार्द्रापिवनैर्न निर्ववौ' इति माघः । [^2]F. 'सुहृद्वियोगौर्वानलम्' इत्येव पाठः । जलासारेण और्वः ( वाडवः ) अनल एव संधुक्ष्यते, न साधारणः । [^१]G. निवेशनम्. [^२]G. रविकराणाम्. [^३]G. हिमगिरेः स्वरूपमिव. [^४]G. हृदय. [^५]G. वियोगौर्वानलम्. [^६]G. कथमपि. हतोत्तरलायमानधवलकुसुमप्रकरशोभिनि वासभवनाङ्गणे क्षणमि- वास्थाने समासन्नपार्थिवैः सह वैशम्पायनालापेनैव 'स्थित्वा द्वितीय एंव यामे चलितव्यम् । सज्जीकुरुत साधनम्' इत्यादिश्य बलाध्य- क्षमृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयिनी दर्शनोत्सुको विनापि प्रयाणनान्द्या सकल एव कटकलोकः [^१]संवृत्य प्रावर्तत गन्तुम् । आत्मना- प्यलब्धनिद्रा [^२]विनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्रायवाहनेनानतिबहुना राजलोकेन सह विरलकटकसंमर्देन वर्त्मनाऽ- वहत् । अथाध्वनैव सह क्षीणायां यामवत्याम्, रसातलादिवोन्मज्ज- त्सु सर्वभावेषु उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जी- वलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुत्स्विव तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे एव [^३]बहु- ललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकान्नवपल्लव इवोद्भि- द्यमाने पूर्वाशालतायाः, [^४]कमलिनीरागदायिनि दिवसकरबिम्बे विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम्। [ टि ]-- एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवनागणे निवास- गृहाजिर आस्थान आस्थानसभायां समासन्नाः पार्श्ववर्तिनो ये पार्थि- वा राजानस्तैः सह वैशम्पायनस्यालापेन किंवदन्त्या क्षणमिव क्षण- सदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साधनं सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्षं सेनापतिमित्यादि- श्येत्यादेश दत्त्वा ऋक्षोदय एव नक्षत्रो [^1]दय एव विसर्जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवंभूतो वासभव- नमध्यमवसदध्यतिष्ठत् । अथेति प्रकारान्तरे ॥ अतिचिरकालेना- न्तरितं तिरोहितं यदुज्जयि [^2]न्याः पुष्पकरण्डिकाया दर्शनमव- लोकनं तेनोत्सुक उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सज्जीभूयेत्यर्थः । विनापि प्रयाणनान्द्या यात्रा: पट- हवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आ मनापि स्वेनाप्य- लब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो विलासो येनैवंभूतः। तृती- ये तार्तीयके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्या, ता एवं प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूतेनानतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कटकस्य सैन्यस्य संमः संबाधो यस्मिन्नेतादृशेन वर्त्मना मार्गेणावहद- गमतः ॥ अथेति प्रकारान्तरे । अध्वनैव मार्गेण सह यामवत्यां त्रियामायां क्षीणायां सत्यां सर्वभावेषु समग्रपदार्थेषु रसातलादिवः पातालादिवोन्मज्जतसूपर्यागच्छत्सु, दृष्टिषु दृक्षून्मीलन्तीष्विव विकसन्तीष्विव पुनरिव द्वितीयवार मिव जीवलोकेऽन्यथान्येन प्रकाररेण सृज्यमाने निष्पाद्यमाने, निम्नानि चोन्नतानि च निम्नोन्न- तानि तेषु [^3]भावेषु विभज्यमानेषु पृथक्क्रियमाणेषु सत्सु, वनगहनेष्वरण्यगह्वरेषु विरलायमानेष्विवाऽनिबिडायमानेष्विव सत्सु, तरवो वृक्षाः, लता वल्लयः,गुच्छाः, तेषु संकुचत्विव संकोचं प्राप्नुवत्स्विव, दिवसश्रियो वासरलक्ष्म्या गगनतलं व्योमतलमारो- हन्त्या आरोहणं कुर्वन्त्या बहुषु निबिडो यो लाक्षारसो जतुद्रवस्ते- नालोहित ईषद्रक्ते पदे [^4]इव चरणन्यासे इव, पूर्वाशालतायाः प्राचीवल्ल्या अवश्यायो हिमं तस्य सेकात्सिञ्चना नवपल्लवे इव नवीनकिसलये इवोद्भिद्यमान उद्भेदं प्राप्यमाणे कमलिन्या मृणा- लिन्या रागदायिनि प्रीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यूषक्षणे कटकलोकेनैव सैन्यजनेनैव सहोज्जयिनीं विशालां परापतितवान्प्राप्तवान् । [^1]F. रजनीप्रारम्भ एवेत्यर्थः । [^2]F. संज्ञाया एवं पर्यायकरणं महापाण्डित्यं टीकाकर्तुः । [^3]F. निम्नोन्नतेषु भागेषु प्रकाशोदयात्स्पष्टदर्शनेन विभज्यमानेषु पृथग्रूपेण दृश्यमानेषु सत्सु । [64]F. सूर्यबिम्बस्य वासरलक्ष्मीपदत्वेन,आशालतापल्लवत्वेन चोत्प्रेक्षा। [^१]G. सज्जीभूय. [^२]G. सद्योऽवतरन्नेव. [^३]G. लाक्षारस. [^४]G. कमलिनीराग. अथ दूरत एव [^१]प्रसृतिद्वन्द्वसंस्थितैश्च पुञ्ज्यमानैश्च [^२]पुञ्जितै- श्चाबद्धम [^३]ण्डलेश्चोपविष्टैः [^४]वलितैश्च दत्तकतिपयशून्यपदैश्च निर्वर्त्यमानैश्चागच्छद्भिश्चोन्मुखैश्चाधोमुखैश्चोद्बाष्पदृष्टिभिश्च विवर्ण- दीनवदनैश्च महाकष्टशब्दमुखरैश्च [^५]दुःखाधिक्याहितमौनैश्च मुनिभिरपि मुमुक्षुभिरपि [^६]वीतरागैरपि [^७]नि:स्पृहैरप्युदा- सीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुद्भिरिव स्निग्धबन्धुभिरिव च नगरी निर्गतैरार्त्यापृच्छ्यमानं कथ्यमानं च [^८]विचार्य- माणं चानुभाव्यमानं [^९]च वैशम्पायनवृत्तान्तमेव समन्ताच्छुश्राव । शृण्वंश्च चकार चेतसि- 'बाह्यस्य तावज्जनस्येयमीदृशी समवस्था किं पुनर्ये [^१०]नासावङ्केन लालितः संवर्धितो [^११]वा बालचाट- वोऽस्यानुभूताः । तदतिकष्टं मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा दर्शनम्' इत्येवं चिन्त [^१२]यन्नासानि- हितोद्बाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोज्जयिनीम् । अवतीर्य च स राजकुलद्वारि प्रविशन्नेवार्यशुकनासभवनं सह देव्या विलासवत्या गतो [ टि ]-- अथेति । उज्जयिनीगमनानन्तरं दूरत एव दविष्टादेव [^1]प्रसृतः पाणिः प्रकृतिस्तस्य द्वन्द्वेन संस्थितैरूर्ध्वदमैर्नियो- जिताञ्जलिभिरित्यर्थः । पुञ्ज्यमानैः संधीक्रियमाणैश्च पुञ्जितैः संधी- कृतैश्चाबद्धं कृतं मण्डलं यैरेवंविधैश्चोपविष्टैर्निषण्णैश्च वलितैर्गतैश्च दत्तानि कतिपयानि कियन्ति शून्यपदानि यैरेवंभूतैश्च निर्वर्त्य[^2]मा नैः पश्चादागच्छद्भिश्चागच्छद्भिः समागच्छद्भिश्चोन्मुखैरूर्ध्वाननैश्च, अधोमुखैर्नीचैर्मुखैश्च, उदूर्ध्वं बाष्पो यास्वेवंविधा दृष्टयो येषामेवं- विधैश्च, विवर्णानि विच्छायानि दीनानि करुणानि वदनानि मुखानि येषामेतादृशैश्च, महान्तो ये कष्टशब्दा हाहाप्रभृतयस्तैमुखरैर्वाचा लैश्च, दुःखाधिक्येनाहितं विहितं मौनं यैरेवंविधैश्च मुनिभिरपि मुमुक्षु- भिरपि वाचंयमैरपि वीतरागै रागरहितैराप्तैरपि निःस्पृहैर्निरीहैरपि, उदासीनैर्मध्यस्थैरपि, दुर्जनैः खलैरपि, स्नेहपरवशैः प्रीतिपराधीनैः, पितृभिरिव जनकैरिव, सुहृद्भिरिव मित्रैरिव, स्निग्धबन्धुभिरिव हित- कृद्भ्रातृभिरिव च नगर्या उज्जयिन्या निर्गतैर्बहिरागतैः पूर्वोक्तजनै- रार्त्या पीडयापृच्छ्यमानं पृच्छाविषयीक्रियमाणं कथ्यमानमुच्यमानं च विचार्यमाणं च विचारविषयीक्रियमाणं चानुभाव्यमानं भावना- विषयीक्रियमाणं च वैशंपायनस्य वृत्तान्तमुदन्तमेव समन्तात्सर्वत्र शुश्रावाकर्णयामास । शृण्वंश्चेति चेतसि चित्ते चकार । बाह्यस्य बहिःस्थस्य तावज्जनस्य लोकस्येदृशी समवस्था दशा येनासौ वैशम्पायनोऽङ्केन क्रोडेन लालितः पालितः संवर्धितो वृद्धिं प्रापितः । अस्य वैशम्पायनस्य बालचाटवः शिशुचाटवः । 'चटु चाटु प्रिय- प्रायम्' इति हैमः । अनुभूता अनुभवविषयीकृतास्तेषां किं पुन- र्भण्यते । तत्तस्माद्धेतो मम वैशम्पायनेन विना तातस्य शुकनासस्य अम्बाया मनोरमाया वा दर्शनमवलोकनमतिकष्टमतिकृच्छ्रम् । इत्येवं पूर्वोक्तप्रकारेण चिन्तयन्ध्यायन्नासायां गन्धज्ञायां निहिता स्थापितोद्वाष्पा दृष्टिर्येन । अदृष्टोऽनिरीक्षितः सर्ववृत्तान्तो येनैवंभूत एवोज्जयिनीं विशालां विवेश प्रविष्टवान् । अवतीर्यावरोहणं कृत्वा च स चन्द्रापीडो राजकुलद्वारि नृपकुल- प्रतोल्यां प्रविशन्नेव प्रवेशं कुर्वन्नेवार्यशुकना [^1]F. भ्रमोयं टीकाकृतः । 'दूरत एव प्रभृति द्वन्द्व स्थितैश्च' पुञ्जितैश्च इत्यादिः पाठः । वैशम्पायनवृत्तान्तचर्चायै लोकानां नानाविधाऽवस्थितिः । दूरत एव प्रभृति दूरादेव धारभ्य केचिद् द्वन्द्व स्थिता द्वाभ्यां मिलित्वा स्थिताः, केचित् पुञ्जिताः, इत्याद्याशयः । [^2]F. अशुद्धमिदम् । 'निवर्तमानैः, आगत्य परावर्तमानैः, सहसा अनिष्टवार्ताश्रवणशङ्कयेत्यर्थः । [^१]G. प्रभृतिद्वन्द्वस्थितैः. [^२]G. पुञ्जितैश्च, पुञ्ज्यमानैश्च. [^३]G. मण्डलैश्चोर्ध्वैश्च. [^४]G. चलितैश्च वलितैश्च. [^५]G. अधिक. [^६]G. निःसङ्गैरपि. [^७]G. निस्पृहैः. [^८]G. चाकर्ण्यमानं च. [^९]G. चानुवर्ण्यमानं च. [^१०]G. यैः. [^११]G. बाल. [^१२]G. नासाग्र. राजेति शुश्राव । श्रुत्वा च [^१]निर्वर्त्य [^२]तत्रैव जगाम । गच्छंश्च समीपवर्ती ' हा वत्स वैशम्पायन, अद्यापि मदङ्कलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहस्रभीषणे निर्मानुषे तस्मि- न्शून्यारण्ये स्थितः । [^३]केन तत्रापि सर्वसत्त्वव्याघातकारिणी शरीररक्षा कृता । [^४]केन वैषम्यप्रतिपन्थिनी शरीरस्थितिः संपा- दिता । केन निद्रासुखदायि शयनीयमुपकल्पितम् । कस्त्वयि बुभु- क्षिते तृषिते सुषुप्सति वा दुःखितो ममोत्सङ्गमुत्सृज्य । समानसुख- दुःखा वधूरपि न पुत्रक, त्वयोपात्ता । आगतमात्रस्यैव ते पितर [^५]मनुज्ञाप्यात्यर्थ वधूमुखमालोकयिष्यामीति यन्मया चिन्तितं केवलं तन्मे मन्दपुण्याया न संपन्नम् । अपरं तवापि [^६]दर्शनं [^७]दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरुचितं नयस्व [^८]त त्रैव मामपि पितरं विज्ञप्य । स्वामपश्यन्ती न जीवामि। तात, त्वयाहं शैशवेऽपि नावमानिता, कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता। आ जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम् तस्य ते कुतोयमेवं [ टि ]-- सभवनं विलासवत्या सह राजा तारापीडो गत इति शुश्रा- वाकर्णयामास । श्रुत्वाकर्ण्य च [^1]निर्वृत्य तत्रैवार्यशुकनासभवन एव जगाम गतवान् । गच्छन्व्रजंश्च समीपवर्ती निकटस्थो विलास- वत्या देव्या स्वयं संस्थाप्यमानां निवार्यमाणामपि मनोरमामेतान्य- न्यानि च वचनानि विप्रलपन्तीं ब्रुवन्तीमश्रौषीदिति दूरेणान्वयः। इतिद्योत्यमाह - हा वत्सेति । हा इति खेदे । हे वत्स वैशम्पायन, अद्यापि सांप्रतमपि मदङ्के क्रोडे लालनं तत्रोचितो योग्यो बाल एवासि । कथं त्वमेकाक्यसहायो व्यालानां सर्पाणां शतसहस्रं लक्षं तेन भीषणे भैरवे निर्मानुषे मनुष्यवर्जिते तस्मिन्पूर्वोक्ते शून्यारण्ये ग्रामादिरहितकान्तारे स्थितः । केन तत्रापि शून्यारण्येऽपि सर्व- सत्त्वानां समग्रप्राणिनां व्याघातं प्रतिबन्धं करोतीत्येवंशीला शरीर- रक्षा कृता विहिता । केन विषमस्य भावो वैषम्यं तस्य प्रति [^1]प- न्थिनी शत्रुभूता शरीरस्थितिः संपादिता निष्पादिता । केन निद्रायाः सुखं सौख्यं ददातीत्येवंशीलं यच्छयनीयं शयनस्थलमुपकल्पितम् । त्वयि वैशम्पायने बुभुक्षिते क्षुधिते, तृषिते पिपासिते, सुषुप्सति वा स्वापं कर्तुमिच्छति वा । मम मनोरमाया उत्सङ्गमङ्कमुत्सृ- [^3]ज्य त्यक्त्वा को दुःखितो दुःखवान् । समाने सदृशे सुखदुःखे यस्या एवंविधा वधूरपि, हे पुत्रक हे सूनो, त्वया नोपात्ता नाङ्गीकृता । आगतमात्रस्यैव समागतमात्रस्यैव ते तव पितरं शुकनासमनुज्ञा- प्यानुज्ञां गृहीत्वात्यर्थं भृशं वधूमुखं पत्नीवदनमालोकयिष्यामीति यन्मया चिन्तितं विचारितं केवलं तन्मे मम मन्दपुण्यायाः स्वल्पसु- कृताया न संपन्नं न जातम् । अपरं तवापि च भवतोऽपि दर्शनमव- लोकनं दुर्लभं दुष्प्रापं भूतं जातम् । यदि वत्स, यत्र तेऽवस्थातुमव- स्थानं कर्तुमभिरुचितं रुचिविषयीभूतम्, तर्हि पितरं जनकं विज्ञप्य विज्ञप्तिं कृत्वा तत्रैव सरस्तीर एव मामपि मनोरमां नयस्व प्रापय । अन्यथा त्वामपश्यन्त्यनवलोकयन्ती न जीवामि न प्राणिमि । 'तातः पितरि पुत्रेऽपि' इत्युक्तत्वात् हे तात पुत्र, त्वया भवताहं मनोरमा शैशवेऽपि शिशुत्वेऽपि नावमानिता नावगणिता । तव भवत इय- मेकपद एव सहसैव कुतो निष्ठुरता कठिनता जाता प्रादुर्भूता । यस्य भवतः कुपितं कोपं प्राप्तमाननं मुख [^4]मा जन्मनः प्रभृति जन्म [^1]F. 'निवृत्त्य' राजभवनात्परावृत्य इत्येव पाठो योग्यः । [^2]F. वैषम्यस्य प्रतिपन्थिनी अर्थात् अस्वास्थ्यविघातिनी ते शरीरस्थितिः कृता । [^3]F. न सम्यक् संबन्धः । 'त्वयि बुभुक्षिते तृषिते सुषुप्सति वा को दुःखितः ? ममोत्सङ्गमृत्सृज्य (गतेन) समानसुखदुःखा वधूरपि त्वया नोपात्ता' इत्यन्वय उचितः । [^4]F. 'आ' इत्यधिकम् । 'जन्मनः प्रभृति' इत्येव पाठः । [^१]G. निर्वर्त्य; निःसृत्य; निवृत्त्य. [^२]G. तत्रैव च. [^३]G. केन तेन ते तत्रापि. [^४]G. केन वा. [^५]G. अभ्यर्थ्य. [^६]G. वदनदर्शनम्. [^७]G. दुर्लभीभूतम्. [^८]G. मामपि तत्रैव. ७२ का० विधो मय्यकस्मादेव कोपो यदेव परित्यज्य स्थितोऽसि ? गतोऽप्या- गच्छ । शिरसा प्रसादयामि त्वाम् । कोऽपरोऽस्ति मे ? देशान्तरप- रिचयान्मुक्तो नामास्मासु स्नेह : ? क्षणमप्यनन्तरितदर्शनस्य चन्द्रा- पीडस्योपरि कथं तवेदृशी निःस्नेहता जाता ? तात, न भद्रकं त [^१]आपतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्तव्यम् । एतानि चान्यानि चान्तर्भवनगतां प्रत्यग्रतनय [^२]विरहविह्वलां स्वयं देव्या विला- सवत्या संस्थाप्यमानामपि मनोरमां विप्रलपन्तीमश्रौषीत्। तेन चातिकरुणेन तत्प्रलापविषेण विह्वल एव निद्रागमेनेव घूर्णमानो निश्चेतनतामनीयत । कथंकथमपि सहजसत्त्वावष्टम्भेनैव संस्तम्भि- तात्मा प्रविश्य पितुरपि लज्जमानो वदनमुपदर्शयितुमधोमुख एव निस्पन्दसर्वाङ्गेण मन्दराद्रिणेव शुकनासेन सह मथनावसान [^३]स्तिमितमिव महार्णवं प्रणम्य पितरं दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्तर्बाष्पभर [^४]गद्गदेन ध्वनि- नाभ्यर्णवर्ष इव जलधरोऽभ्यधात्— 'वत्स चन्द्रापीड, जानामि ते स्वजीवितादपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैक- हेतोर्वल्लभजनादेवासंभाव्याया [^५]समु [ टि ]-- दिनादारभ्य न दृष्टमेव न निरीक्षितमेव, तस्य ते तवाक- स्मादेव निर्निमित्तादेव मयि विषय एवंविध एतादृशोऽयं कोपः कुतः । यद्यस्माद्धेतोरेवं पूर्वोक्तप्रकारेण परित्यज्य विहाय स्थितोऽसि । त्वं गतोऽपि सन्नागच्छैहि । त्वां भवन्तं शिरसा मस्तकेन। पादपत- नेनेत्यर्थः । प्रसादयामि प्रसन्नीकरोमि । अपरोऽन्यः को मे ममास्ति । नामेति कोमलामन्त्रणे । एकस्माद्देशादन्यो देशो देशान्तरं तस्य परिचयः संस्तवस्तस्मादस्मासु मनोरमाप्रभृतिषु स्नेहः प्रेममुक्तस्त्य- क्तः । क्षणमपि समयमप्यनन्तरितमव्यवहितं दर्शनं यस्यैवंविधस्य चन्द्रापीडस्योपरीदृशी कथं तव निःस्नेहता निःप्रेमता जाता प्रादुर्भूता । तात पुत्र, ते तव भद्रकं कल्याणं नापतितं न जातम् । सर्व एव दुःखं स्थापितो गुरुजनः सुखं स्थापनीयः । एवं कृत्वैवं विधाय किं त्वया प्राप्तव्यं प्रापणीयम् एवमहं न जानामि नाकलयामि । अन्त- र्भवनं मध्यगृहं तत्र गतां प्राप्तां प्रत्यग्रो नवीनो यस्तनयविरहः सुत- वियोगस्तेन विह्वलां विधुराम् । मनोरमाया विशेषणे । मनोरमां विप्रलपन्तीमश्रौषीदित्यन्वयस्तु प्रागेवोक्तः । तेनेति । तेन पूर्वोक्तेनातिकरुणेनातिदीनेन तस्य मनोरमायाः प्रला- पविषेण विलापरूपगरलेन विह्वल इव विधुर इव निद्रागमेनेव प्रमीलागमेनेव घूर्णमानो निश्चेतनतामनीयताप्राप्यत । कथंकथमपि महता कष्टेन सहजं निसर्गजं यत्सत्त्वं धैर्यं तस्यावष्टम्भेनैवाश्रयणेनैव संस्तम्भित आत्मा येनैवंभूतः प्रविश्य प्रवेशं कृत्वा पितुरपि जन- कादपि वदनमाननमुपदर्शयितुमवलोकनं कारयितुं लज्जमानत्रपमानोऽधोमुख एवं नीचैर्मुख एव निस्पन्दं निश्चेष्टं सर्वाङ्गं समग्रं शरीरं यस्यैवंविधेन मन्दराद्रिणेव स्वर्गिगिरिणेव शुकनासेन सह मथनस्यावसानं प्रान्तस्तेन स्तिमितो निश्चलो यो महार्णवः समुद्रस्तं रूपकमेवंभूतं पितरं जनकं प्रणम्य नमस्कृत्य दूरत एवोपाविशन्निषण्णो बभूव । उपविष्टं निषण्णं च तं क्षणमिव समयसदृशं दृष्ट्वा विलोक्यान्तर्बाष्पो मध्यनेत्राम्बु तस्य भरस्तेन गद्गदेन ध्वनिमा शब्देनाभ्य समीपे वर्षो यस्यैवंभूतो जलधरो मेघ इव राजा तारापीडोऽभ्यधादवादीत् । हे वत्स हे चन्द्रापीड, अहं जानाम्याकलयामि ते तव स्वजीवितादपि स्वप्राणितादपि भ्रातुर्वैशम्पायनस्योपरि समभ्यधिकामुत्कृष्टां प्रीतिम् । पीडा च सुखस्यैकोऽद्वितीयो हेतुनिंदानभेवंविधाद्वल्लभजनादेवा संभाव्यायासमतर्कित टिप्प०-1 समुद्रस्तत्सरशमित्यर्थः । 2 सर्वोयमविचारः । 'वल्लभजनादेवाऽसंभाग्या समुत्पद्यते, तयैव हि न किञ्चिन्न क्रियते ?' इति पाठः । सुखहेतोर्वल्लभजनात् असंभावनीया या पीडा समुत्पद्यते तयैव किञ्चिन क्रियते इति न, अपि तु सर्व क्रियते (जनेन) इति तदर्थः । पाठा०-१ समापतितम् २ विरहशोकविह्वलम् ३ स्तिमितमहार्णवम्. ४ गद्गद, ५ संभवति, पद्यते । [^१]तथैव हि न किंचिन्न क्रियते । तजन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गुरुजनानुशासनस्य विनयाधानस्य च सर्वस्यैवानु- चितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य त्वद्दोषमाशङ्कते मे हृद- यम् । इत्येवंवादिनो नरपते [^२]र्वचनमाक्षिप्य युगपच्छोकामर्षा- भ्यामन्धकारिताननः प्रावृडारम्भ [^३]इव तडिल्लता दुष्प्रेक्ष्यो विस्फूर्जितेनेव स्फुरिताधरेण शुकनासोऽब्रवीत् 'देव, यदि चन्द्रमस्यूष्मा, दहने चातिशीतलत्वम्, अंशुमालिनि [^४]वा तमः, तमस्विन्यां [^५]वा दिवसः, [^६]महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननिर्गमो वा [^७]स्वजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः । तत्किमेवमे- वानिरूप्य तस्यानात्मज्ञस्य मूढप्रकृतेर्दुर्जातस्य [^८]राजापथ्यका- रिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्म [^९]चण्डालस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्यु- दारचरितं चन्द्रापीडमेवं संभावयति देवः । न ह्यतः परमपरं [^१०]कष्टतमं किंचिदपि पीडाकारणम्; यद्गुणेषु वर्तमानो [ टि ]-- प्रयासं यथा स्यात्तथोत्पद्यते संजायते । तथैव तेन प्रका- रेणैव । हीति निश्चितम् । किंचिन्न क्रियते । अपि तु सर्वं क्रियत एव । यथैव प्रीतिस्तथैव दुःखमपि वल्लभजनादेवातर्कित जायत इति भावः । तत्तस्माद्धेतोस्ते तव भ्रातुर्बान्धवस्य सुहृदो मित्रस्य च वृत्ता- न्तमुदन्तमाकर्ण्य श्रुत्वा त्वद्दोषं त्वद्वैगुण्यं मे मम हृदयं चेत आश- ङ्कत आरेकते । कीदृशं त्वद्दोषम् । जन्मन उत्पत्तेः, स्नेहस्य प्रेम्णः, वयसोऽवस्थायाः, शीलस्य स्वभावस्य, श्रुतस्य ज्ञानस्य, गुरुजनानु- शासनस्य गुरुशिक्षायाः, विनयाधानस्य प्रश्रयस्थापनस्य सर्वस्यैव समग्रस्यैवेममनुचितमयोग्यम् । इत्येवंवादिनो ब्रुवतो नरपते राज्ञो वचनं वाक्यमाक्षिप्य निराकृत्य युगपत्समकालं शोकः शुक्, अमर्ष ईर्ष्या, ताभ्यामन्धकारितमन्धकारवदाचरितमाननं मुखं यस्यैवंभूतो विस्फूर्जिते [^1]न दीप्तिमता स्फुरितः कम्पितो योऽधर ओष्ठस्तेन शुकनासोऽब्रवीदवोचत् । स्फुरितसाधर्म्यादाह -- तडिल्लता विद्युल्लता तया दुष्प्रेक्ष्यो दुरालोकनीयः प्रावृडारम्भ इव वर्षाप्रारम्भ इव । किमुवाचेत्याह – देवेति । हे देव, यदि चन्द्रमसि चन्द्र ऊष्मा तापः, दहनेऽग्नावतिशीतलत्वमतिशिशिरत्वम्, अंशुमालिनि सूर्ये वा तमोऽन्धकारम्, तमस्विन्यां त्रियामायां वा दिवसः, महोदधौ समुद्रे वा शोषो जलनाशः, शेषेऽनन्ते क्षितेः पृथिव्या अधारणमवहनम्, साधोः सज्जनाद्वा परस्यान्यस्यार्थः कृत्यं तत्रानुद्यमोऽनुद्योगः, स्वजनमुखादात्मीयलोकवदनादप्रियवचनस्यानिष्टवाक्यस्य निर्गमो निःसरणम् । एतेभ्यो यद्येतानि संभाव्यन्ते संभावनाविषयीक्रियन्ते ततो युवराजेऽपि चन्द्रापीडेऽपि दोषः संभाव्यते । तत्किमेवमेवा- निरूप्याज्ञात्वा नात्मानं जानातीत्यनात्मज्ञस्तस्य, मूढा प्रकृतिः स्वभावो यस्य स तस्य, दुर्जातस्य दुर्भवस्य, राज्ञो नृपस्यापथ्यका- रिणो हितविघातिनो मातृपितृघातिनो जननीजनकविध्वंसिनो मित्र- द्रुहः सुहृद्धातिनः कृतं हन्तीति कृतघ्नस्तस्य कर्मणैव चण्डालः श्वपचस्तस्य महापातकिनो महापापकारिण एवंभूतस्य वैशम्पा- यनस्य कृते कृतयुगे योऽवतारोऽवतरणं तस्य योग्यमुचितमात्म- नोऽपि भवतोऽपि गुणवन्तमौदार्यादिगुणयुक्तमत्युदारचरितमत्यु- त्कृष्टचरित्रं चन्द्रापीडं देव एवं संभावयति संभावनां करोति । न हीति । अतोऽदोषेषु दोषोद्भावनतः परमन्यदपरं किंचिदपि वस्तु कष्टतमं पीडाकारणं न । तदेव दर्शयन्नाह - यदिति । यद्गुणेषु वर्तमान इतरजनेनापि पाम [^1]F. धिङ् मन्दम्। 'तडिल्लतादुष्प्रेक्ष्यः प्रावृडारम्भ इव ( स्थितः) विस्फूर्जितेनेव वज्रनिर्घोषेणेव स्फुरिताधरेण ( स्वरेण ) शुकनासो- ऽब्रवीत् ।' इत्यर्थः । 'स्फूर्जथुर्वज्रनिर्घोष' इत्यमरः । [^2]F. नार्थो बुद्धः । अतःपरं न किंचिदपि पीडाकारणं यद् गुणेषु वर्तमानो ( जनः ) इतरजनेनापि दोषेषु संभाव्यते ( दोषसंबद्धत्वेन तर्क्यते ), गुरुजनेन तु संभाव्येतैव इति स्पष्टम् । [^१]G. तया. [^२]G. युगपदाक्षिप्य वचनम्. [^३]G. एव. [^४]G. वा शीतलत्वम्. [^५]G. च. [^६]G. महोदन्वति. [^७]G. सज्जन. [^८]G. अराजपथ्यकारिण:. [^९]G. चाण्डालस्य. [^१०]G. कष्टतरम्. दोषेषु संभाव्यत इतरजनेनापि, किं पुनर्गुरुजनेन ? यो गुणी गुणैरे- [^१]वाराधनीयः । कस्यापरस्यात्मा गुणवाननेन ज्ञापनीयः ? अपि च जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्कलालनया यो न गृहीतस्तस्य मरुत इव दुर्ग्रहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु ? स्वयमेवोत्पद्यन्त एवंविधाः [^२]शरीरसंभवा महाकृमयः, सर्व- दोषाश्रया महाव्याधयः, अन्तर्विषा महाव्यालाः, विनाशहेतवो महोत्पाताः, भुजङ्गवृत्तयो महावातिकाः, वक्रचारिणो महाग्रहाः, तमोमयाः प्रदोषाः, मलिनात्मका: कुलपांसवः, निःस्नेहा: खलाः, निर्लज्जा: [^३]कृपणकाः, निःसंज्ञाः पशवोऽपि च, अकाष्ठा दहनाः, निर्गुणा जालिनः, अतीर्था जलाशयाः, निर्गौरवाः स्वरप्रकृतयः, अशिवमूर्तयो महाविनायकाधिष्ठिताः, ये सकलङ्काः कृपाणा इव स्नेहेनैव पारुष्यं लभन्ते । मलिनस्वभावाः, करिकपोला इव दानेनैव मलिनतरतामापद्यन्ते । निर्वर्तयो मणि [ टि ]-- रलोकेनापि दोषेषु संभाव्यते । गुरुजनेनापि पितृलोके- नापि तु तत्संभावने किं पुनर्भण्यते किं पुनः कथ्यते । कर्तव्योप- देशमाह - य इति । यो गुणी गुणवान्स गुणैरेवाराधनीयः सेवनीयः । अनेन गुणिजनेन कस्यापरस्यात्मा स्वयं गुणवाञ्ज्ञापनीयः प्रकाश- नीयः । अपि चेति । अपि च युक्त्यन्तरे । जन्मनः प्रभृत्युत्पत्तेरारभ्य देवस्य तारापीडस्य देव्या विलासवत्याश्चाङ्कलालनया क्रोडपरिपा- लनया यो न गृहीतो न स्वायत्तीकृतस्तस्य वैशम्पायनस्य मरुत इव वायोरिव दुर्ग्रहा प्रकृतिः स्वरूपं यस्यैवंभूतस्य चन्द्रापीडोऽपि किं करोतु । किं कुर्यादित्यर्थः । अथ वैशम्पायनोत्पत्तिवैगुण्यमाविष्कु- र्वन्नाह - स्वयमेवेति । एवंविधा एतादृशाः शरीरसंभवा देहोत्पन्ना महाकृमयः क्षुद्रजन्तवः सर्वदोषाणामाधारभूता महाव्याधयो महा- रोगाः, अन्तर्मध्ये विषं येषामेवंविधा व्यालाः सर्पाः, विनाशस्य विध्वंसस्य हेतवः कारणानि महोत्पाताः क्षितिकम्पनादिरूपाः, भुजङ्गवत्सर्पवद्वृत्तिर्वर्तनं येषामेवंविधा महावाता एव महावातिकाः स्वार्थे कः । वक्रगामित्वेन भुजङ्गसादृश्यम् । वक्रचारिणः कुटिलगामिनो महाग्रहा राहुप्रभृतयः तमोमया अन्धकारप्रचुरा: प्रदोषा यामिनीमुखानि, मलिना: कश्मला आत्मानो येषां ते कुलस्यान्वयस्य पांसवो रेणवो दोषजनकाः, निस्नेहा: प्रीतिवर्जिताः खलाः, निर्लज्जा निस्त्रपाः कृपणका निष्कृपाः, निःसंज्ञा हेयोपादेयादिज्ञानविकलाः पशवोऽपि च तिर्यञ्चोऽपि च, अकाष्ठा दहना वह्नयः, [^1]निर्गुणा औदा- र्यादिगुणरहिता जालिनो वागुरिकाः, अतीर्था उत्तरणमार्ग- विकला जलाशयाः पानीयस्थानानि, निर्गौरवा महत्त्ववर्जिताः खर- प्रकृतयः कठिनस्वभावाः, अशिवमूर्तयोऽकल्याणमूर्तयो महाविना- यकैर्महाविघ्नैरधिष्ठिताः । इयं विरोधोक्तिः । येऽशिव [^2]मूर्तयो भवन्ति ते महाविनायकाधिष्ठिता न भवन्तीति महाविरोधः । एते सर्वेऽपि स्वयमेवात्मनैवोत्पद्यन्ते जायन्ते । तथा वैशम्पायनोऽपि, न तु मददृष्टस्य कारणतेत्यर्थः । ये जनाः कृपाणा इव खड्गा इव सकलङ्काः । जनपक्षे जनापवादाश्रयाः, खड्गपक्षे सचिह्नाः । स्नेहे- नैव प्रेम्णा तैलादिना च पारुष्यं कठिनतां भजन्त आश्रयन्ति। 'स्नेह- स्तैलादिकरसद्रव्ये स्यात्सौहृदेऽपि च ' इति विश्वः । करिकपोला इव हस्तिगल्लात्परदेशा इव मलिनस्वभावाः कश्मलप्रकृतयः। दानेनैव मदेनैव । पक्षे वितरणेनैव । 'मलिनतरतामतिकृष्णता- मापद्यन्ते प्राप्नुवन्ति । 'दानं गजमदे त्यागे' इति विश्वः। निर्वर्तयो वर्तिरहिता मणि [^1]F. न बुद्धवानर्थम् । ये निर्गुणाः [ गुण (सूत्र) रहिताः ] ते जालिन: ( जालयुक्ताः) कथं भवेयुः, जाले सूत्राणामपेक्षितत्वात् इति विरोधः। एते तु गुण ( विनयादि ) रहिताः जालिनः कपटकारिणश्च। [^2]F. शिवमूर्तिभिन्नाः । [^१]G. अवबोधनीयः. [^२]G. असंभवा:. [^३]G. क्षपणका: . प्रदीपा इव प्रसादेनैव ज्वलन्ति । अङ्गलग्ना [^१]भुजङ्गा इव दाक्षिण्यप- रिग्रहेणैवेतरे वामाः संजायन्ते। गुणमुक्ताः सायका इव सपक्षाश्रयेण फलेनैव दूरं विक्षिप्यन्ते । सरागाः पल्लवा इव दिवसारूढ्यैवा परज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुखेन सर्वं प्रतीपं गृह्णन्ति । अन्तरस्वच्छवृत्तयः सलिलाशया इव गाढावगाहनेनैव कालुष्यमुप- यान्ति । ये च स्निग्धेष्वपि रूक्षाः, ऋजुष्वपि वक्राः, साधुष्वप्यसा- धवः, गुणवत्स्वपि दुष्टप्रकृतयः, भर्तर्यप्यभृत्यात्मानः, रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मित्रेष्वपि द्रोहिणः, विश्वस्तानामपि घातकाः, भीतेष्वपि प्रहारिणः, प्रीतिपरेष्वपि द्वेषिणः, विनीतेष्व- युद्धताः दयापरेष्वपि निर्दयाः, स्त्रीष्वपि शूराः, भृत्येष्वपि क्रूराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव लघवः, [ टि ]-- प्रदीपा इव रत्नसदृशे [^1]न्धना इव प्रसादेनैव प्रसन्नतयैव ज्वलन्ति दीप्यन्ते । 'प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषु' इति विश्वः । अङ्गलग्नाः शरीरसंसृष्टा भुजङ्गा इव सर्पा इव । इतरे पामर- जना वामाः प्रतिकूला: संजायन्ते । केन । [^2]दाक्षिण्यं लज्जा तेन परि- ग्रहः स्वीकारस्तेनेव । गुणः प्रत्यञ्चा औदार्यादिश्च । 'गुणः प्रदानरूपादौ मौर्व्या सूदे वृकोदरे' इति विश्वः । ताभ्यां मुक्ता रहि- ताः सायका इव बाणा इव सह पक्षेण पिच्छेन स्वजनवर्गेण च वर्तमानः सहितः सपक्षः । स एवाश्रयो यस्यैवंभूतेन फलेन लोहादि- मयेन साध्येन च । दूरं विक्षिप्यन्ते विकीर्यन्ते । 'पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः । केशादेः परतो वृन्दे बले सखिसंहायके' इति विश्वः । रागो रक्तिमा प्रीतिश्च ताभ्यां सहव- र्तमानाः सरागा: पल्लवा इव किसलया इव दिवसारूढ्यैव दिन- वृद्ध्यैवापरज्यन्ते विरक्तीभवन्ति । 'रागोऽनुरक्ते मात्सर्ये क्लेशादौ लोहितादिषु' इति विश्वः । भूतिर्भस्म संपच्च ताभ्यां परामृष्टा आलिङ्गिता दर्पणा इवा- दर्शा इव । आभिमुख्येन संमुखत्वेन हेतुना सर्वं प्रतीपं पराड्मुखं गृह्णन्ति ग्रहणं कुर्वन्ति । 'भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि संपदि ' इति विश्वः । 'वामं प्रसव्यं प्रतीपं प्रतिलोममपष्ठु च' इति हैमः । [^3]अन्तरे विचाले खच्छा निर्मला वृत्तिर्येषामेवंविधाः सलिलाशया इव पानीयाश्रया इव गाढमत्यर्थमवगाहनेनैवावलोकनेनैवातिपरि- चयेनैव च कालुष्यं कलुषतामुपयान्ति गच्छन्ति । ये च स्निग्धेष्वपि स्नेहलेष्वपि रूक्षा अस्निग्धाः, ऋजुष्वपि सरलेष्वपि वक्रा वामाः साधुष्वपि सज्जनेष्वप्यसाधवो दुष्टाः, गुणवत्स्वपि गुणोपयुक्तेष्वपि दुष्टप्रकृतयोऽशुभस्वभावाः भर्तर्यपि स्वामिन्यप्यभृत्यात्मानोऽसेव- काः, रागिष्वपि रक्तेष्वपि क्रुद्धाः कोपवन्तः, निरीहादपि निःस्पृहा- दप्यादित्सवो ग्रहणेच्छवः, मित्रेष्वपि सुहृत्स्त्रपि द्रोहिणो द्रोहकर्ता- रः, विश्वस्तानामपि विश्वासप्रतिपन्नानामपि घातका हिंसकाः, भीते- ष्वपि त्रस्तेष्वपि प्रहारिणः प्रहारकारिणः, प्रीतिपरेष्यपि स्नेहपरेष्व- पि द्वेषिणो द्वेषवन्तः, विनीतेष्वपि विनयवत्स्वप्युद्धता दुर्विनीताः, दयापरेष्वपि कृपातत्परेष्वपि निर्दया निःकृपाः, स्त्रीष्वपि प्रमदा- स्वपि शूराः सुभटाः, भृत्येष्वपि सेवकेष्वपि क्रूराश्चण्डाः, दीनेष्वपि दुःखितेष्वपि दारुणा भीषणाः । येषां चेति । येषां विपरीतानां वाम- वृत्तीनां गुरव एव [^1]F. मणिरूपाः प्रदीपा: प्रसादेन स्वच्छतया ज्वलन्तीत्यर्थो बोध्यो विवेकिभिः । [^2]F. धिङ्मन्दम् । कोऽत्र श्लेषनिर्वाह :? 'अङ्गलग्ना भुजा इव' इत्येव पाठः । अङ्गसंबद्धा भुजा यथा एकस्य दाक्षिण्य ( दक्षिणत्व ) व्यपदेशेन तदितरे अपरे भुजाः वामा वामभागवर्तिनो जायन्ते, तथैव इतरे पामरजनाः सारल्यस्वीकारेण प्रतिकूला जायन्ते । [^3]F. तात्पर्यात्क्रोशान्दूरे । अन्तः अभ्यन्तरे अस्वच्छा कलुषा सपङ्का च वृत्तिर्येषां ते सलिलाशया इव गाढावगाहनेन अतिप्रणयेन अतिविलोडनेन च कालुण्यं मालिन्यम् आविलत्वं च भजन्त इत्यर्थः। [^१]G. भुजा:. [^२]G. निक्षिप्यन्ते. नीचा एवोच्चै:, अगम्या एव गम्याः कुदृष्टिरेव सद्दर्शनम्, अकार्यमेव कार्यम्, अन्याय एव न्यायः, अस्थितिरेव स्थितिः, अनाचार एवा- चारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या, अविनय एव विनयः, दौःशील्यमेव सुशीलता, अधर्म एव धर्मः, अनृतमेव सत्यम् । [^१]येषां च क्षुद्राणां [^२]प्रज्ञा पराभिसंधानाय न ज्ञानाय [^३]श्रुत- म्, पराक्रमः प्राणिनामुपघाताय नोपकाराय, उत्साहो धनार्जनाय न यशसे, स्थैर्यं व्यसनासङ्गाय न चिरसंगताय, धनपरित्यागः कामाय न धर्माय । किं बहुना सर्वमेव येषां दोषाय न गुणाय । तदसावपीदृश एव कोऽ [^४]प्यपुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामीति नोत्पन्नं चेतसि । एवं कृते [^५]चलितवृत्तानां शासिताऽवश्यं तारापीडो देवः पीडि- तान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं मनसा । मातु- रहमेवैको जीवितनिबन्धनम्, कथं मया विना वर्तिष्यत इत्येतस्य नृशंसस्य हृदये नापतितम् । पिण्डप्रदो वंशसंतानार्थमहमुत्पादितः [^६]पित्रा कथमननुज्ञातस्तेन सर्वपरित्यागं करोमीत्येतदपि यथा- जातस्य [ टि ]-- शास्तार एव लघवो लघिष्ठा:, नीचा एवाधोवर्तिन एवोच्चै- रुच्चाः, अगम्या एवासेव्या एव गम्याः सेव्याः, कुदृष्टिरेव कुदर्शन- मेव सद्दर्शनं शोभनतमम् अकार्यमेवाकृत्यमेव कार्यं कृत्यम्, अन्याय एवानीतिरेव न्यायो नीतिः, अस्थितिरेवामर्यादैव स्थितमर्या- दा, अनाचार एवानाचरणमेवाचार आचरणम्, अयुक्तमेवान्याय्यमेव युक्तं न्याय्यम्, अविद्यैवाज्ञानमेव या ज्ञानम् अविनय एवाप्रश्रय एव विनयः, दौःशील्यमेव दुःस्वभाव एव सुशीलता सुखभावता, अधर्म एवापुण्यमेव धर्मो वृषः, अनृतमेवासत्यमेव सत्यं सूनृतम् । येषां च क्षुद्राणां तुच्छबुद्धीनां श्रुतं ज्ञानं [^1]प्रज्ञा प्रतिभा तस्यां पर उत्कृष्ट इत्यभिसंधानाय ज्ञानाय न ज्ञापनाय तत्त्वज्ञानाय, पराक्रमो बलं प्राणिनामुपघाताय विनाशाय नोपकाराय नोपकृतये, उत्साहः प्रगल्भता धनार्जनाय द्रव्यार्जनाय न यशसे न श्लोकाय, स्थैर्यं स्थिरता व्यसनानि मद्यादीनि तेषामासङ्गायासक्तये न चिरसंगताय न चिरमैत्रीहेतवे, धनपरित्यागो धनविसर्जनं कामाय मैथुनाय न धर्माय न सुकृताय, किं बहुना किं बहूक्तेन येषां दुरात्मनां सर्वमेव दोषाय वैगुण्याय न गुणाय हिताय । तत्तस्माद्धेतोरसावपि वैशम्पायन ईदृश एव पूर्वोक्तसदृश एव कोऽप्यपुण्यवान्पापवानुत्पन्नः संजातः, यस्य वैशम्पायनस्यैवं कुर्वतश्चन्द्रापीडस्याहं मित्रं तस्य चन्द्रापीडस्य कथं द्रोहमाचरामि कुर्वे इति चेतसि नोत्पन्नं नागतम् । एवं कृते सति चलितवृत्तानां भ्रष्टाचाराणां शासिता शिक्षादायकस्तारापीडो देवोऽवश्यं पीडिता- न्तरात्मा संतापितस्वान्तो मयि विषये कोपं करिष्यति विधास्यती- त्येवमपि मनसा हृदयेन नाशङ्कितं नारेकितम् । मातुर्मनोरमाया जीवित [^2]निबन्धनं प्राणितदानमहमेक एव । कथं तर्हि मया विना मद्व्यतिरेकेण वर्तिष्यते वर्तनं करिष्यतीत्येतस्य वैशंपायनस्य नृशंसस्य निर्दयस्य हृदये चेतसि नापतितं नागतम् । वंशसंताना- र्थमन्वयपरम्परायै अहं वैशम्षायनः पित्रा जनकेनोत्पादितो निष्पा- दितस्तेन पित्राननुज्ञातोऽदत्ताज्ञः सर्वपरित्यागं ( कथम् ) करोमि प्रण [^1]F. अजानन्नपि यत्किञ्चित्प्रलपति । प्रज्ञा श्रुतं चेत्येकस्मिन्वा- क्येन संगृहीतम् । 'न ज्ञानाय', एतदुत्तरम् 'श्रुतं मायाजालाय, नोपशमाय ।' इति पाठः । शास्त्रज्ञानं कपटप्रपञ्चाय न शान्तये, इति तदर्थः । [^2]F. जीवितस्य निबन्धनं कारणमिति भावः । [^१]G. तेषाम्. [^२]G. ज्ञानं पराति. [^३]G. मायाजालाय; मालजालाय. [^४]G. अपुण्य एवानुत्पन्नः नोपशमाय. [^५]G. चलितवृत्तीनाम्. [^६]G. पित्राहम्. न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन नष्टात्मना सुदूरमुद्भ्रा- न्तेन [^१]दुर्दर्शमदृष्टं तावन्न नाम कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टं तस्याज्ञानतिमिरान्धस्य किं क्रियताम् । अपरमसौ तिर्यङ्महता यत्नेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्चाम- पि सफल एव शिक्षणायासो भवति। तेऽपि पोषिताः पोषितरि स्नेह- माबध्नन्ति । तेऽपि कृतं जानन्ति । तेऽपि परिचयमनुवर्तन्ते । तेषा- मपि [^२]सहजस्नेहो मातापित्रोरुपरि दृश्यत एव। न पुनरस्य नष्टो- भयलोकस्य पापकारिणो दुर्जातस्य, यस्य सर्वमेवाधस्ताद्गतम् । अपि चेदृशाचरितेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन तावद्दु [^३]रात्मना जातेन केवलं [^४]सुखं न स्थापिताः सर्व एव वयम्, [^५]अपरमेवं दुःखार्णवे [^६]निपातिताः । सर्व एव ह्यनाक्षिप्तचेताः [^७]प्रवर्तते स्वहिताय परहिताय [^८]च । तस्य तु पुनरस्मानेवं दुःखं स्थापयतो न स्वहितं [^९]नापि च परहितं किम- नेनैवमात्मद्रुहा कृतमिति मति [^१०]रेतावन्न बोधपदवीमवतरति । सर्वथा दुःखायैवास्माकं [ टि ]-- यामीत्येतदपि यथाजातस्य मूर्खस्य बुद्धौ ज्ञप्तौ न संजातं नोत्पन्नम् । 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः' इत्यमरः । तत्त- स्माद्धेतोरेवममुना प्रकारेणासत्पथः कुमार्गस्तत्र प्रवृत्तेन नष्ट आत्मा यस्यैवंभूतेन सुदूरमतिदूरमुद्भ्रान्तेन प्राप्तभ्रमेण दुर्दैवं तावदादौ । नामेति कोमलामन्त्रणे । कुदृष्टिना कुत्सितज्ञानेन दुर्दुष्टा दशावस्था यस्मिन्नेतादृशमदृष्टं न दृष्टं नावलोकि [^1]तम् । येन दृष्टमप्यवलो- कितमपि न दृष्टं न निरीक्षितम् । 'दशा वर्ताववस्थायां वस्त्रान्ते स्यु- र्दशा अपि' इति विश्वः । यदि वा 'अदृष्टं वह्नितोयादि दृष्टं स्वपरच- क्रजम्' इत्यभिधानात्तदुभयमपि भयं न दृष्टमित्यर्थः । अथवाऽदृष्टं तु न दृश्यत एव । तदपि विपश्चिद्भिर्दृश्यते । अयं तु सुतरां मूर्खो येन तपस्विन्यगम्या भवतीति दृष्टमपि न दृष्टमित्यर्थः । तस्य वैश- म्पायनस्याज्ञानमेव तिमिरं तमिस्रं तेनान्धस्य गताक्षस्य किं क्रियतां किं विधीयताम् । अपरमन्यदसौ तिर्यग्विवेकविकलत्वात्पशुरूपो महता यत्नेन महोद्यमेन शुक इव कीर इव पाठितोऽध्यापितो देवेन तारापीडेन पुष्टश्च पुष्टीकृतश्च । अथवेति पक्षान्तरे । विनोददानात्क्री डावितरणात्तिरश्चामपि सफल एव सार्थक एव शिक्षणायासः शिक्षा- प्रयासो भवति । तेऽपि तिर्यञ्चोऽपि पोषिताः सन्तः पोषितरि पोषके स्नेहं प्रीतिमाबध्नन्ति । कुर्वन्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि कृतं जान- न्ति । कृतज्ञा भवन्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि परिचयं संस्तवमनु- वर्तन्तेऽनुगच्छन्ति । तेषामपि तिरश्चामपि मातापित्रोरुपरि सहज- स्नेहः स्वाभाविकप्रेमा दृश्यत एव ईक्ष्यत एव । नष्टो गत उभयलोक इहलोकपरलोकौ यस्यैवंभूतस्य पापकारिणोऽपकर्तुर्जातस्य दुष्टो- त्पन्नस्य । कु (सुम ) पुत्रस्येत्यर्थः । अस्य वैशम्पायनस्य न पुनः प्रीतिः । मातापित्रोरुपरीत्यर्थः । अस्य वैशम्पायनस्य सर्वमेव विज्ञा- नादिकमधस्तादधो गतम् । अपि चेति युक्त्यन्तरे । तेनापि वैशम्पा- यनेनापीष्टाचरितेनेदृक्समाचरितेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन वैशम्पायनेन दुरात्मना दुष्टात्मना तावज्जातेनोत्पन्नेन सर्व [^2]एव वयं सुखं न स्थापिताः । अपरमन्यदेवममुना प्रकारेण दुःखार्णवे दुःखसागरे निपातिताः । दुःखातिशयेन ब्रुडिता इति भावः । सर्व एव । जन इति शेषः । अनाक्षिप्तचेताः सुस्थिरान्तः- करणः स्वहिताय आत्महिताय, परहिताय इतरजनहितार्थं च प्रव- र्तते यत्नमातनोति । तस्य वैशम्पायनस्य तु पुनः अस्मानेवं दुःखं स्थापयतो दुःखं कुर्वतो न स्वहितं नात्महितम्, नापि च परहितं नाप्यन्यहितम् । अनेनैव वैशम्पायनेनैवात्मद्रुहात्मघातकेन किं कृतं किं विहितमिति मतिरिति बुद्धिरे [^3]तावद्बोधपदवीं ज्ञानमार्गं नावतरति [^1]F. दुःखेन द्रष्टुं शक्यम् अदृष्टं शुभाशुभकर्मजनितं भाग्यं तु येन कुदृष्टिना न दृष्टम्, किन्तु येन दृष्टम् ( दर्शनविषयभूतं सदाचा- रादिकम् ) अपि न दृष्टं नालोचितमिति भावः । [^2]F. सर्वे वयं केवलं सुखं न स्थापिता इत्येव न, अपि तु दुःखा- र्णवे पातिता इति सरलोप्यर्थः प्रहेलीकृतः । [^3]F. 'मतिरेव तावन्न' इत्येव पाठः । [^१]G. दुर्दर्शनेन; दुर्दर्शम्. [^२]G. सहजन्मस्नेह:. [^३]G. दुरात्मजातेन. [^४]G. दुःखम्. [^५]G. अपि त्वेवंविधे. [^६]G. निपतिताः. [^७]G. प्रवर्तमानः. [^८]G. वा प्रवर्तते. [^९]G. न परहितमपि. [^१०]G. एवमेतावत्; एव तावत्. तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म।' इत्युक्त्वा हेमन्तकालोत्पलि- नीमिवोद्बाष्पां दृष्टि [^१]मुद्वहन्, उद्वेपिताधर बहिरलब्धनिर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निःश्वसन्नेवावत [^२]स्थौ । तदवस्थं च तं तारापीड: प्रत्युवाच – 'एतत्खलु प्रदीपेनाग्ने: प्रकाश- नम्, वासरालोकेन भास्वत: समुद्रासनम्, अवश्यायलेशैराह्लादन- ममृतांशोः, मेघाम्बुबिन्दुभिरापूरणं पयोधेः, व्यजनानिलै [^३]रति- वर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्या- पि बहुश्रुतस्यापि विवेकनोऽपि धीरस्यापि सत्त्ववतोऽप्यवश्यं दुःखा तिपातेन विशुद्धमपि वर्षसलिलेन सर इव मानसं कलुषीक्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सममेव दर्शनं नश्यति । न चित्तमालोचयति । न बुद्धिर्बुध्यते । न विवेकोऽपि विविनक्ति । येन [^४]ब्रवीत्यदः । [^५]मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रा- न्तम् ? यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः। वयसैव सहारोहत्यभिनवा प्रीतिः । वक्षसैव सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोर्द्वये [ टि ]-- नावगच्छति । सर्वथा सर्वप्रकारेणास्माकं दुःखायैव दुःख- हेतोरेव तस्य पापकर्मणो दुष्कृतकारिणो ग्रहोपसृष्टस्य ग्रहग्रहिल- स्य जन्मोत्पत्तिः । इत्युक्त्वा हेमन्तकालस्य [^1]प्रसूनसमयस्योत्प- लिनी कमलिनीमिवोद्बाष्पां दृष्टिं दृशमुद्वहन् । हेमन्तकमलिन्यप्यु- द्बाष्पा स्यादतो दृक्साम्यम् । उद्वेपित उत्कम्पितोऽधर ओष्ठो यस्यै-वंभूतश्च बहिरलब्धो निर्गमो निर्गमनं यस्यैवंभूतेनान्तर्मध्यवर्तिमन्यु- पूरेण क्रोधसमूहेन स्फुटन्निव द्वैधीभवन्निव निःश्वसन्नेव निःश्वासं मुञ्चन्नेवाव [^2]तस्थौ। स्थितवान् । सैवावस्था दशा यस्यैतादृशं च तं शुकनासं तारापीड : प्रत्युवाच प्रत्यब्रवीत् । खल्विति निश्चयेन । एतत्प्रदीपेन गृहमणिनाग्नेर्वह्नेः प्रकाशनं प्रज्वालनम्, वासरालोकेन दिवसप्रकाशेन भास्वतः सूर्यस्य समुद्भासनमुत्तेजनम्, अमृतांशोश्चन्द्रस्यावश्यायलेशैस्तुहिन- कणैराह्लादनं प्रमोदोत्पादनम्, पयोधेः समुद्रस्य मेघाम्बु जीमूतजलं तस्य बिन्दुभिः पृषद्भिरापूरणं भरणम्, प्रभञ्जनस्य वायोर्व्यज- नानिलैस्सालवृन्तपवनैरतिवर्धनमतिवृद्धिप्रापणम्, यद्यस्माद्धेतोर- स्मद्विधैरस्मत्सदृशैरार्यस्य भवतः शुकनासस्य परिबोधनं प्रतिबोध- दानम् । तथापीति । एवं सत्यपि प्राज्ञस्यापि बहुश्रुतस्याप्यनेकशा- स्त्रज्ञस्यापि विवेकिनोऽपि पृथगात्मवतोऽपि धीरस्यापि स्थिरप्रकृतेरपि सत्त्ववतोऽपि साहसवतोऽप्यवश्यं निश्चितं दुःखातिपातेन कृच्छ्रातिपातेन विशुद्धमपि निर्मलमपि सर्वस्य मानसं वर्षसलिलेन वृष्टिपानीयेन सर इव तटाक इव कलुषीक्रियते मलिनीक्रियते । कलुषीकृते च मानसे चित्ते 'किमिदमिति सर्वमेव समग्रमेव दर्शनं सामान्यज्ञानं नश्यति । न चित्तं मन आलोचयति विचारयति । न बुद्धिर्धिषणा बुध्यते । बोधं प्रयातीत्यर्थः । न विवेकोऽपि पृथगात्म- भावोऽपि विविनक्ति पृथक्करोति । येन कारणेन । अदोऽ ॽ नपुंसकम् । ब्रवीति वक्ति । मत्तस्तारापीडाल्लोकवृत्तं जनचरित- मार्य एव पूज्य एव भवान्सुतरामतिशयेन वेत्ति जानाति । किमिति प्रश्ने । कश्चित्कोपीयति लोक एतावति भुवनेऽस्ति विद्यते, यस्य निर्विकारं विकृतिरहितं यौवनं तारुण्यमतिक्रान्तं व्यतीतम् ? यौवनावतारे हि तारुण्यप्रादुर्भावे हि शैशवेन बाल्येन सह गुरुजनेषु मातृपितृप्रीतिर्गलति क्षरति । वयसा सहावस्थया सहाभिनवा प्रत्य- ग्रा प्रीतिरारोहत्यारूढा भवति । वक्षसोरसा सह वाञ्छा स्पृहा विस्तीर्यते विस्तीर्णा स्यात् । बलेनैव पराक्रमेणैव सह मदो दर्प उपचीयत उपचयं प्राप्नोति । [^1]F. मार्ग- पौषमासात्मकः शीतकालः । [^2]F. 'अव' पूर्वकस्य तिष्ठतेरात्मनेपदित्वमिति न विज्ञातं वराकेण । अस्तु, 'अवतस्थे' इत्येव पाठः । [^१]G. उदवहत्. [^२]G. अवतस्थे. [^३]G. अभिवर्धनम्. [^४]G. ब्रवीमि. [^५]G. अन्यदा तु मत्तः, अस्मदस्मत्त:. नैव सह स्थूलतामापद्यते धी: । । मध्येनैव सह कार्यमुपयाति श्रुतम् । ऊरुयुगलेनैव सहो [^१]पचीयतेऽविनयः । श्मश्रुभिरेव सहोज्जृ- म्भते मलिनताहेतुर्मोहः। आकारेणैव सहाविर्भवन्ति हृदयाद्विकाराः । तद्यथा धवलमपि सरागं [^२]सर्वथा दीर्घाभवदपि न दीर्घ पश्य- ति चक्षुः । अनुपहतेऽपि न प्रविशति गुरूपदेशः श्रोत्रे । स्त्रीरागिण्यपि न विद्यान्तरं विन्दति हृदये । न स्थैर्यमस्थिरप्रकृतौ तरलता- याम् । परित्याज्येषु व्यसने [^३]ष्वासङ्गेषु विकाराणां च [^४]का- रणं प्राय: सरसता । सा च सर्वमेव [^५]जलप्रायं कुर्वाणा [^६]व- र्षातिवृद्ध्यैवोपजायते । अपि च दिवसो दोषागमाय, दोषागमोऽना- लोकाय, अनालोकोऽसद्दर्शनार्थम्, असद्दर्शनमविवेकाय, अविवे- कोऽसन्मार्गप्रवृत्तये, असन्मार्गप्रवृत्तं च मोहान्धं चेतो भ्राम्यदव- श्यमेव [^७]स्खलति । स्खलिते चेतसि तल्लग्ना पतत्येव लज्जा । त्रपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन्केन वा [ टि ]-- दोर्द्वयेनैव बाहुयुगलेनैव सह धीर्बुद्धिः स्थूलतां स्थविष्ठता- मापद्यते प्राप्नोति । मध्येनैव विलग्नेनैव कार्यं कृशतामुपयाति प्राप्नो- ति श्रुतं ज्ञानम् । ऊरुयुगलेनैव सक्थियुग्मेनैव सहाविनयो [^1]हृ- दयमुपचीयते पुष्टीभवति । श्मश्रुभिरेव कूर्चैरेव सह मलिनताहेतु- र्मोहो मौढ्यमुज्जृम्भते विकासं प्राप्नोति । आकारेण सहाकृत्या सह हृदयाद्विकारा विकृतय आविर्भवन्ति प्रकटीभवन्ति । तदेव दर्श- यन्नाह - तद्यथेति । धवलमपि शुभ्रमपि चक्षुनेत्रं सरागमेव सर्वथा दीर्घाभवदपि न पश्यति दीर्घम् । दीर्घदर्शित्वं न भवतीत्यर्थः। अनुपहृतेऽप्यप्रतिहतेऽपि श्रोत्रे श्रवणे गुरूपदेशो गुरूणां हिताहितोप- देष्टृणामुपदेशः सुकृताचरण निर्देशो न प्रविशति न प्रवेशं करोति । स्त्रीषु रागो विद्यते यस्यैवं भूतेऽपि हृदय एकस्या विद्यायाः सका- शा [^2]दन्या विद्या विद्यान्तरं न विन्दति न लभते । अस्थिर[^3]प्र कृतौ चलस्वभावायां तरलतायां चञ्चलतायां सत्यां न स्थैर्यं न स्थिर- ता । परित्याज्येषु वर्जनीयेषु व्यसनेषु सप्तसु, विकाराणां चानृतभा- षकत्वादिरूपाणां चासष्वासक्तिषु कारणं निदानं प्रायो बाहुल्येन [^4]सरसता रसिकत्वं स्यात् । सा च सरसता सर्वमेव समग्रमेव जलप्रायं कुर्वाणा विदधाना वर्षातिवृद्ध्यैव । वर्षा वर्षणम् । पक्षे वर्षाणां वत्सराणामतिवृद्ध्यैवोपजायत उत्पद्यते । अपि चेति । अपि च प्रकारान्तरेण । दिवसा दोषाग [^5]माय दोषागमश्चानालोका- यांनिरीक्षणायाप्रकाशाय च स्यात् । अनालोकश्चा सद्दर्शनार्थमस- म्यग्ज्ञानार्थं च स्यात् । असद्दर्शनं चाविवेकायापृथगात्मने भवति । अविवेकश्चासन्मार्गप्रवृत्तयेऽसत्पथप्रवृत्तये स्यात् । असन्मार्गप्रवृत्तं च भ्राम्यदितस्ततः परिभ्रमन्मोहेनान्धं चेतोऽवश्यमेव स्खलति निप- तति । स्खलिते च स्खलनां प्राप्ते चेतसि चित्ते सति तलग्ना चेतःसं- बद्धा लज्जा त्रपा पतत्येव यात्येव । त्रपैव लज्जैवावरणमाच्छादनं तेन [^1]F. 'अविनयः' इति यदा पाठः, तदाऽस्य "धार्ष्ट्यम्' इत्यर्थ: स्यात् । [^2]F. धिगज्ञानम् । एका विद्या यद्यायाता तर्हि का न्यूनता ? स्त्रीरागिण्यपि हृदये साधारणस्त्री एवं अन्तरम् अवकाशं लभते, विद्यारूपा स्त्री न लभते इत्यर्थः । [^3]F. अस्थिरस्य जनस्य प्रकृति ( स्वभाव ) भूतायां चञ्चलतायां स्थैर्य न भवतीत्यर्थः । [^4]F. सरसता रसिकता सजलता च । सा च सरसता सजलता सर्वं जलप्रायं कुर्वाणा वर्षाणाम् (वृष्टीनाम्) अतिप्रवृद्धता जायते । एवं सरसता अर्थात् रसिकता सर्वं जडप्रायं कुर्वाणा वर्षाणाम् ( उपभोगकालभूतानां वत्सराणाम् ) अतिप्रवृद्ध्या भवतीत्यर्थः । [^5]F. टीकाकारेण श्लेषश्चूर्णित एव । दिवसो दोषाया ( रात्रे: ) आगमाय, तथा रसिकंमन्यानां दिवसो दोषाणाम् आगमाय । दोषाणां दोषायाश्च आगम: अनालोकाय अज्ञानाय अदर्शनाय च । अनालोकः अदर्शनम् अज्ञानं च, असदर्शनार्थम् । असतां मन्दानां दुश्चरितानामिति यावत् दर्शनार्थम् असत्यदर्शनार्थं च । अविवेकः आत्मानात्मविवेकः कार्येषु विवेकाभावश्च । एवमग्रेऽनुसंधेयम् । [^१]G. अपचीयते विनयः, अपचीयते हृदयम्, उपचीयते हृदय- मविनयः. [^२]G. सर्वदा. [^३]G. आसङ्गः. [^४]G. कारणानाम्. [^५]G. जनं वशप्रायम्. [^६]G. वर्षति वृद्ध्या. [^७]G. स्खलिते च. ७३ का० विनिवारितो दुर्निवारः सर्वाविनयहेतुः [^१]कुसुमधन्वा ? विलसति च कुसुममार्गणे केन कार्येण छिद्रसहस्राणि न भवन्ति; यैः सत्त्वमे- वाधस्ताद्रजति। सत्त्वे चाधो गते किमाश्रित्य न [^२]गलति शीलम्? कि [^३]मवलम्बनं विनयस्य ? किं करोत्वनाधारं धैर्यम् । क्व पदमाधत्तां धीः । क समाधानमाबध्नात्ववष्टम्भः । केन वावष्टभ्य [^४]बलान्निश्चलीकृतं मनः । विप्रतिपद्यमानानि केन नियन्त्रितानी- न्द्रियाणि । जगन्निन्द्यानि केन निवारितानि दुश्चरितानि । केन वालो- कभूतेन तमोभिवृद्धिहेतुरुत्सारितो दोषाभिषङ्गो दृष्टेरुपहन्ता । किं वा दृश्यतामसति बहुदर्शित्वे । बहुदर्शित्वं च तावतः कालस्यैवासं- भवात्कुतो भवतु प्रथमे वयसि ? येनान्वयव्यतिरेकाभ्यां निश्चित्य वर्जयति मलिनताम् । अपि च परिणामेऽपि पुण्यवतां केषांचिदेव हि केशैः सह धवलिमानमापद्यन्ते चरितानि । तन्मो [^६]हविषय- महाहौ मदविकारगन्ध [^७]मातङ्गे दुर्विलसितैकराज्ये रतिनिद्रा- वेश्मनि नवरागपल्लवोद्गमली [^८]लान्तविशेषदुश्चरितचक्रवर्तिनि तारु [ टि ]-- शून्ये रिक्ते च हृदि हृदये प्रविश्य प्रवेशं कृत्वा पदं स्थानं कुर्वन्विदधत्केन वा पुरुषेण सर्वस्य समग्रस्याविनयस्याप्रश्रयस्य हेतुः कारणं कुसुमधन्वा कंदर्पो दुर्निवारो दुःखेन निवारयितुं शक्यो विनिवारितो निषिद्धः । कुसुममार्गणे कंदर्पे विलसति विलासं कुर्व- ति सति केन कार्येण हेतुभूतेन छिद्रसहस्राणि विवरसहस्राणि न भवन्ति न संजायन्ते, यैश्छिद्रसहस्रैः सत्त्वमेव साहसमेवाधस्तादधो व्रजति । सत्त्वे चाधो गते किमाश्रित्य किमाश्रयणं कृत्वा शीलं वृत्तं न गलति न क्षरति । [^1]विनयस्य प्रश्रयस्य किमवलम्बनं किमाधारः । अनाधारमनाश्रयं धैर्यं सत्त्वं च किं करोतु । किं कुर्यादित्यर्थः । धीर्बुद्धिः क्व कुत्र पदं स्थानमाधत्तां विदधताम् । [^2]अवष्टम्भ उद्योगः । 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि । आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः' इति विश्वः । अवलम्बनं वा क्व समा- धानं सुखमाबध्नातु निबध्नातु । केन वावष्टभ्य वशीकृत्य बलाद्धठा- न्मनश्चेतो निश्चलीकृतम् । केन विप्रतिपद्यमानान्युन्मार्गप्रवृत्तानीन्द्रि- याणि करणानि नियन्त्रितानि वशीकृतानि । केन जगन्निन्द्यानि विश्वगर्हितानि दुश्चरितानि दुश्चेष्टितानि निवारितानि दूरीकृतानि । आलोकभूतेन प्रकाशरूपेण केन वानिर्दिष्टनाम्ना दोषाणां व्यसना- दीनां रात्रेश्चाभिषङ्गः संबन्ध उत्सारितो दूरीकृतः । कीदृशो दोषा- भिषङ्गः । तमोऽज्ञानं तमिस्रं च तयोरभिवृद्धिस्तस्य हेतुः कारणम् । पुनः कीदृक् । दृष्टेर्दृशो ज्ञानस्य चोपहन्ता उपघातकः । असति बहुदर्शित्वे किं वा दृश्यतां किमवलोक्यताम् । तावतः कालस्यैवे- यतः समयस्यैवासंभवाद्वहुदर्शित्वमनेकपदार्थावलोकित्वम् । तच्च प्रथम आद्ये वयस्यवस्थायां कुतो भवतु कुतो जायताम् । येन सति सद्भावोऽन्वयः, असत्यसद्भावो व्यतिरेकः, ताभ्यां निश्चित्य निर्णयं कृत्वा मलिनतां वाच्यतां वर्जयति दूरीकरोति । अपि चेति । अपि च युक्त्यन्तरे । प्रदर्शने परिणामेऽपि । वार्धकेऽपि । हीति निश्चये । पुण्यवतां सुकृतवतां केषांचिदेव, न तु सर्वेषाम्, केशैः कचैः सह चरितानि चरित्राणि धवलिमानं श्वेतिमानमापद्यन्ते प्राप्नुवन्ति। 'सुकृ- ती पुण्यवान्धन्यः' इति हैमः । सर्वस्य स्खलितं स्यादिति प्रदर्शयन्नाह -- तन्मोहेति । तदिति हेत्वर्थे । मोहो मूर्च्छा, विषयाः शब्दस्पर्श- रूपरसगन्धाख्याः, त एव महाहयो महासर्पा यस्मिन् । मदो मुद् मोहसंभेदस्तस्य विकारा विकृतयस्त एव गन्धमातङ्गा गन्धेभा यस्मिन् । दुर्विलसितं दुश्चेष्टितं तदेवैकमद्वितीयं राज्यमाधिपत्यं यस्मिन् । रतिः कामाभिलाषः, निद्रा प्रमीला, तयोर्वैश्मनि गृहे नवरागो नवीनानुरागः स एव पल्लव: [^1]F.'गलिते च शीले' इति पाठ आवश्यक एवं प्रक्रमस्य भङ्ग- प्रसङ्गात्। [^2]F. अवष्टम्भः स्थैर्यमित्यर्थः, अन्यत्तु भ्रममात्रम् । [^१]G. मकरकेतु:. [^२]G. गलतु. [^३]G. गलिते च शीले किम्. [^४]G. बलम्. [^५]G. अतिपुण्य. [^६]G. मोहविषविषयमहाहौ; मोहविषयविषयमहाहौ. [^७]G. मातङ्ग. [^८]G. लीलातर. ण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमापतति । किमेवमार्येण [^१]लालनीयस्य पालनीयस्य शिशुजनस्योपर्यावेशो गरीयान्गृहीतः,सदनुचितमपत्यस्नेहस्याक्रोशगर्भमेवमुक्तम्। स्वप्ना- यमानानामपि यद्गुरूणां मुखेभ्यो निष्कामति शुभमशुभं [^२]वा शिशुषु तदवश्यं फलति । गुरवो हि दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथैवाक्रोशा: ज्ञापताम् । तद्वैशम्पा- यनमुद्दिश्य कोपावेशादेवमतिपरुषमभिदधत्यार्ये महती मे चेतसः पीडा समुत्पन्ना । [^३]स्वयमारोपितेषु तरुषु [^४]यावदुत्पद्यते स्नेहः, किं पुनरङ्गसंभवेष्वपत्येषु । तदुत्सृज्यतामयममर्षवेगो वैश- म्पायनस्योपरि । विरूपकं तु तेन न किंचिदप्याचरितम् । सर्व- परित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेनं दोषपक्षे [^५]निक्षिपामः । [ टि ]-- किसलयं तस्योद्गमलीलाऽन्ते पर्यवसाने येषामेतादृशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरो यो विषयमार्गः कामपन्थास्तत्र पतितस्य स्रस्तस्य सर्वस्यैव समग्र- स्यैव, अर्थाज्जनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैवंविधस्य शिशुजनस्य बाल- जनस्योपरि किमेवं किंनिमित्तं गरीयान्गरिष्ठ आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपत्यस्नेहस्य प्रसूतिप्रेम्णोऽनुचितमयोग्यमाकोशोऽभि षङ्गः स एव गर्भे मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं सर्वथा न वाच्यमित्याशयेनाह - स्वप्नायेति । स्वप्नायमानाना- मपि निद्रायमाणानामपि गुरूणां हिताहितप्राप्तिपरिहारोपदेष्टॄणां मुखेभ्यो वदनेभ्यः शिशुषु बालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं निश्चयेन फलति । तच्छब्दवाच्योऽर्थः शिशूनां संजायत इत्यर्थः । तन्नियामकमाह - गुरव इति । हीति निश्चये । बालानां शिशूनां गुरवो मातृपितरो दैवतं परममिष्टम् । अत्रार्थे दृष्टान्तं प्रतिपादयन्नाह - यथैवेति । यथैव येन प्रकारेणैव गुरुजनै- र्वितीर्णा दत्ता आशिषो मङ्गलसमेतान्याशीर्वचनानि चरतां 'वाञ्छि- तं वृणीष्वेति प्रसन्नताप्रेरितं तपस्विनां वचो वरस्तस्य भावस्तत्ता तामापद्यन्ते भजन्ते । 'तपोभिरिष्यते यत्तु देवतादेर्वरो मतः' इति कात्य: । तथैव तेन प्रकारेणैवाक्रोशास्तिरस्काराः शापतां 'तवानिष्टं भूयादिति क्रोधाविष्टतपस्विनां वचः शापस्तस्य भावस्तत्ता तां प्रतिपद्यन्ते । तत्तस्मात्कारणाद्वैशम्पायनमुद्दिश्याश्रित्य कोपस्य क्रुध आवेशादभिनिवेशादे [^1]वार्ये परुषं कठिनमभिदधति कथयति सति मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पन्ना प्रादुर्भूता । तन्निदानमाविष्कुर्वन्नाह - स्वयमिति । स्वयमात्मना रोपितेषूत्तमेषु तरुषु वृक्षेषु [^2]यावत्स्नेह उत्पद्यते प्रादुर्भवति । अङ्गसंभवेषु शरीरसमुत्पन्नेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्त- स्माद्धेतोर्वैशम्पायनस्योपर्ययं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोध- संभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषतां प्रकटयन्नाह - विरूपकमिति । तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् । सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह -- सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणं निदानमविज्ञायाज्ञात्वा किमेवमेव दोषपक्षे वैगु- ण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः । तस्य [^1]F. 'एवम्' इत्थमित्युचितम् । [^2]F. 'तावत्' इत्येव वाक्यस्यालंकारभूतः प्रयुज्यमानो दृश्यते, न ' यावत्' । इह च ' यावत्' इति केवलं वाक्यशोभायै । अत एव 'तावत्' इत्येव पाठः । [^१]G. लालनीयस्य; लालनीयपालनीयस्य. [^२]G. वा तदवश्यम्. [^३]G. स्वारोपितेषु; स्वयं रोपितेषु. [^४]G. तावत्. [^५]G. निक्षिप्तः. कदाचि [^१]द्गुणीभवत्येवमयमविनयनिष्पन्नो दोष एव । आनी- यतां तावदसौ । बुद्ध्यामहे किमर्थमयमेवंविधस्तस्य वयसोऽनुचि- तोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधास्यामः ।' इत्युक्तवति तारापीडे पुनः शुकनासोऽभ्यधात्- 'अत्युदारतया वत्सलत्वाच्चैवमादिशति देवः । [^२]अन्यदतःपरं किमिवास्य विरूपकं भवेत, [^३]यद्युवराजमुत्सृज्य क्षणमप्यन्यत्रावस्थानमात्मेच्छया चेष्टितम् ।' इत्युक्तवति शुकनासे कशयेवान्तस्ताडितो दोषसंभावनयाऽनया पितुरुद्बाष्पदृष्टिरुपविष्ट एवोपसृत्य चन्द्रापीडः शनैः शनैः शुकनास- मवादीत् - 'आर्य, यद्यपि [^४]निरुक्तितो वेद्मि न मदीयेन दोषेण नागतो वैशम्पायन इति, तथापि तातेन संभावितमेव । कस्य वापरस्य संभावना नोत्पन्ना । मिथ्यापि तत्तथा यथा गृहीतं लोकेन, विशेषतो गुरुणा । प्रसिद्धिर [ टि ]-- अपि गुणे निक्षेपमाशङ्कयन्नाह- कदाचिदिति । एवं तादृ- क्कारणमपेक्ष्यायमविनयनिष्पन्नोऽप्रश्रयजनितो दोष एव कदाचि- द्गुणीभवति । गुणः स्यादित्यर्थः । अथ कर्तव्यमाह - आनीयता- मिति । तावदादावसौ वैशम्पायन आनीयतामानयनविषयीक्रियता- मिति । बुद्ध्यामहे जानीमहे । वयमिति शेषः । अयमेवंविध ईदृशरतस्य वैशम्पायनस्य वयसोऽवस्थाया अनुचितोऽप्ययोग्योऽपि किमर्थं किंप्रयोजनाय संवेगः सर्वपरित्यागलक्षण उत्पन्नः प्रादुर्भूतः । ततस्तत्प्रयोजनं ज्ञात्वैव यथायुक्तं यथोचितं तद्विधास्यामः करिष्या- मः । इति पूर्वप्रतिपादितप्रकारेण तारापीड उक्तवति सति पुनर्द्वितीय- वारं शुकनासोऽभ्यधादब्रवीत् । किमभ्यधादित्याशयेनाह — अतीति । अत्युदारस्य भावोऽत्युदारता तयातिस्फारतया वत्सलत्वाच्च हितकारित्वाच्च देवस्तारापीड एवं पूर्वप्रतिपादित मादिशति कथयति । अनेन विरुद्धं न कृतमिति नृपोक्तं प्रतिक्षि- पन्नाह - अतः-परमिति । अतःपरमन्यद्भवदपि किमिव विरूपकं विरुद्धं भवेत् । एतदेव विशदीकुर्वन्नाह - यदिति । यद्यस्माद्धेतो- र्युवराजं चन्द्रापीडमुत्सृज्य त्यक्त्वात्मेच्छया स्वातन्त्र्येण क्षणमन्यत्रा- न्यस्मिन्स्थलेऽवस्थानमुपवेशनमाचेष्टितमाचरितम् । अतः परं विरुद्धं किं भवेदित्यर्थः । इति शुकनास उक्तवति कथितवत सत्यनया पितुर्दोषसंभावनया कशयेव चर्ममय्या रज्ज्वेवान्तर्मध्ये ताडितो व्यथित उदूर्ध्वं बाष्पो नेत्राम्बु यस्यामेवंविधा दृष्टियस्यैवंभूत उपविष्ट एवासीन एवोपसृ- त्योपसरणं कृत्वा चन्द्रापीडः शनैः शनैर्मन्दं मन्दं शुकनासमवादी- दब्रवीत् । किमवादीदित्याशयेनाह - आर्य इति । हे आर्य हे पूज्य, यद्यपि निरुक्तितस्त्वदुक्तित एवाहं वेद्मि जानामि । न मदीयेन मामकीनेन दोषेण वैगुण्येन वैशम्पायनो नागत इति, तथाप्येवं सत्यपि तातेन पित्रा संभावितमेव संभावनाविषयीकृतमेव । मद्वैगु- ण्यमिति शेषः । अपरस्य कस्य वा संभावना नोत्पन्ना । मिथ्यासंभा- वने न दोष इत्याशयेनाह - मिथ्यापीति । मिथ्याप्यसत्यमपि तत्तथा सत्यमेव । तत्रार्थे हेतुमाह - यथेति । यथा गृहीतं यथा श्रुतं लोकेन जनेन, विशेषतो गुरुणा पित्रादिना, निर्णीतेरर्वाक्तत्तथैव स्यात् । परमार्थतस्तदसत्यं जनप्रसिद्धौ किं स्यादित्याशयेनाह- प्रसिद्धिरिति । दोषो वैगुण्यम्, गुणा औदार्यादयः, त एवाश्रय आधारो यस्या एवंविधा प्रसिद्धिः प्रवादोऽ [^1]फलवती निःप्रयोजनात्रास्मिंल्लो- केऽयशसेऽकीर्तये स्यात् । ननु दोषाश्रयप्रसिद्धेरयशोजनकत्वं प्रसिद्धं परं गुणाश्रय [^1]F. हठेन ग्रन्थग्रथनकन्था, नन्विति स्वयमुत्पादितः शङ्काभासश्च निरर्थक एव । 'प्रसिद्धिरत्राऽयशसे यशसे वा दोषगुणाश्रया फलति' इत्येव पाठः । दोषगुणौ आश्रित्य उत्पन्ना प्रसिद्धिः ( कश्चित्प्रवादः ) अत्र संसारे अयशसे यशसे वा फलति कल्पते । दोषानया प्रसिद्धिः अयशसे, गुणाश्रया तु यशसे प्रभवतीति सुस्पष्ट आशयः । [^१]G. गुणो भवति. [^२]G. इतः परम्. [^३]G. यदद्य. [^४]G. निरुक्ततः. त्रायशसे यशसे वा दोषगुणाश्रया वाऽफलवती । परत्र फलदायी कुत्रोपयुज्यते परमार्थ :? तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन । नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते तु वैशम्पायने तातस्या- नया संभावनया नापगन्तव्यम् । [^१]अपगते च मयि वैशम्पायने[^२]नागन्तव्यम् । यद्यसावन्येनानेतुमेव पार्येत तदा तातस्याप्यनु- ल्लङ्घनीयवचनै [^३]रवनिपतिसहस्रैरानीत एव स्यात् । तदार्य: कारयतु मे गमना [^४]नुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे [^५]दृष्टायां भूमौ [^६]स्वल्पोऽपि गमनपरिक्लेशः । वैशम्पायन- मादायागतमेव मामवधारयत्वार्यः । अपि च बाह्यखेदादसह्योऽन्तः- खेद [^७]एवैतद्वियोगजन्मा । अनुपदमेव स्कन्धावारमादायागच्छ- तीत्यमुना हेतुना विना तेनागतोऽहम् । [^८]अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छ्व- सितं [ टि ]-- प्रसिद्धेः कथं तज्जनकत्वमिति चेन्न । अयं गुणवान्प्रसिद्धः, परमनेनेत्थं विहितम्, तर्हि महान्पापिष्ठः, इत्याद्यकीर्तिसद्भावात् । परत्र परलोके फलदायी फलप्रदः परमार्थस्तत्त्वं कुत्रोपयुज्यत्ते कुत्रोपयोगी स्यात् । न कुत्रापीत्यर्थः । दोषसंभावनाया नैर्मल्योपायं प्रदर्शयन्नाह - तदस्या इति । तदिति तत्तस्माद्धेतोरस्याः पूर्वोक्ताया दोषसंभाव [^1]नाया वैशम्पायनस्यानयनं तस्मै गमनं यानं तस्या- भ्यनुज्ञाज्ञा तां प्रायश्चित्तं प्रायः पापं तस्य चित्तं विशोधनम् । 'प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम्' इति कृष्णभट्ट्यां प्रक्रियाटी- कायाम् । तातेनार्यो दापयतु । प्रेरणे द्विकर्तृकता प्रसिद्धैवेत्यदोषः । एतद्व्यतिरेकेण न शुद्धिरित्याशयेनाह - नान्यथेति । मे मम दोषशु- द्धिर्नान्यथा नान्यप्रकारेण भवति । तत्र किं निदानमित्याह - किमि- ति । तत्र किं कारणं किं निमित्तम् । तदेव स्पष्टयन्नाह - अनागत इति । तु पुनरर्थे । अनागतेऽनायाते वैशम्पायने तातस्य पितुरनया संभावनया नापगन्तव्यं न दूरीभवितव्यम् । अपगते च याते च मयि सति वैशम्पायनेनागन्तव्यम् । आयातव्यमित्यर्थः । अन्यः कश्चित्तदानयनं करिष्यतीत्यारेकां दूरीकुर्वन्नाह – यदीति। यद्यसौ वैशम्पा- यनोऽन्येन मदितरेणानेतुमेव पार्येत शक्येत, तदा तातस्यापि तारापीडस्याप्यनुल्लङ्घनीयमनाक्रमणीयं वचनं वचो येरेवंभूतै- [^2]रवनिपतिसहस्रैरानीत एव स्यात् । तत्तस्मादाय गमनस्यानु- ज्ञयाज्ञया प्रसादं प्रसन्नतां कारयतु । तातेनेति शेषः । तव गच्छतो भूयान्क्लेशो भावीत्याशयेनाह - न चेति । दृष्टायां निरीक्षितायां भूमौ तुरंगमैरश्वैर्गच्छतो व्रजतो मे मम स्वल्पोऽपि गमनपरिक्लेशः प्रया- णखेदो न च स्यात् । आर्यो भवान्वैशम्पायनमादाय गृहीत्वागतमे- वायातमेव मामवधारयत्वाकलयतु । बाह्यखेदापेक्षयाभ्यन्तरखेदा- धिक्यं प्रदर्शयन्नाह - अपि चेति । बाह्यखेदादेतद्वियोगजन्मा वैश- म्पायनविरहोत्पन्नोऽन्तःखेद एवासह्योऽसहनीयः । तर्हि तं मुक्त्वा त्वमेकाकी कथमत्रागत इत्याशङ्कां निरस्यन्नाह - अनुपदमिति । अनुपदमनुचरणन्यासं स्कन्धवारं सैन्यमादाय गृहीत्वागच्छत्यायाति । इत्यमुना हेतुना निमित्तेन तेन वैशम्पायनेन विनाहमगात् आयातः । अन्यथेति । उक्तवैपरीत्य आजन्मनः प्रभृति जन्मदिनादारभ्य कदा वैशम्पायनेन विना मया गतं यातम्, स्थितमवस्थितम्, क्रीडितं रमितम्, हसितं हास्यं कृतम्, पीतं पानं कृतम्, अशितं भक्षितम्, सुप्तं शयितम्, [^1]F. दोषसंभावनायाः प्रायश्चित्त (शोधन) भूतां वैशम्पायनानय- नाय गमनाभ्यनुज्ञां तातेन ( पितृद्वारा ) आर्यो मे दापयतु, इति स्पष्टा योजना प्रहेलिका कृताऽत्र । [^2]F. 'एभिरवनिपतिसहस्त्रैः' इत्येव पाठ: । 'एभिः' इत्यनेन स्कन्धावारस्थितैरेतैरानेतुं शक्य एवाऽभविष्यदित्यर्थः स्फुटीभवति। टीकाकारस्तु यथाजातः । [^१]G. आगत. [^२]G. नागन्तव्यम्. [^३]G. एभिरवनिपति. [^४]G. अभ्यनुज्ञया. [^५]G. कष्टायाम् ; दुष्टायाम्. [^६]G. स्वप्नेऽपि. [^७]G. एवमेतद्वियोगजन्मा; एव मे तद्वियोगजन्मा. [^८]G. अन्यदा. वा विना वैशम्पायनेन ? [^१]यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽ- स्मि, [^२]तन्मा तेनैव तुल्योऽभूवमिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्या: । इत्यभिहितवति [^३]चन्द्रापीडेऽन्तःपीडोपरागरक्ते रक्तामरसानु- कारिणि मुखे मपक्षपातां [^४]षट्पदावलीमिव दृष्टिं [^५]निवेश्य ' एवं गमनाय विज्ञापयति युवराजः । किमाज्ञापयति देवः' इति शनैः शनैः शुकनासो राजानमप्राक्षीत् । तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीड: प्रत्यवादीत् - 'आर्य, मया ज्ञातमेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोर्ज्योत्स्नामिव करावलम्बिनीं वत्सस्य वधूं द्रक्ष्यामीति, यावदयमपरोऽन्तर्हिता- शापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो [^६]विलो- मप्रकृतिना विधात्राऽन्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम् । न च तेन विनायमत्रस्थातुम् । तदवश्य- मेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैश [ टि ]-- प्रबुद्धं जागरितम्, उच्छ्वसितं श्वसितं वा । यच्चेति । यद्वैश- म्पायनवृत्तान्तं श्रुत्वाकर्ण्य तस्मादेव प्रदेशात्तद्वृतान्तश्रवणस्थलादे- वाहं न गतोऽस्मि । तदहं मा तेनैव वैशम्पायनेन तुल्यः सदृशोऽभूवं भवेयमिति । गुरोर्निदेशव्यतिरेकेण तदवस्थाने मद्गमने चोभयोः सादृश्यं स्यादिति भावः । तत्तस्माद्धेतोरप्रतिगमनदोषात्तत्पृष्ठिप्रधा- वनाभावदूषणा [^1]दार्या मां रक्षन्तु । इत्यभिहितयतीत्युक्तवति चन्द्रापीडेऽन्तःपीडान्तर्व्याधिस्तस्या उपराग उपप्लवस्तेन रक्ते लोहितेऽत एव रक्तं यत्तामरसं कमलं तस्यानुकारिण्यनुकरणशील एवंविधे मुख आनने [^2]सह पक्ष- पातेन वाजपातेन तदङ्गीकारेण वा वर्तते या सा सपक्षपाता तामे- तादृशीं षट्पदावलीमिव भ्रमरपङ्क्तिमिव दृष्टिं दृशं निवेश्य संस्थाप्यैवं पूर्वोक्तप्रकारेण गमनाय यात्रायै युवराजश्चन्द्रापीडो विज्ञापयति विज्ञप्तिं करोति । देवो भवान्किमाज्ञापयति किमाज्ञां दत्त इति शनैःशनैर्मन्दमन्दं शुकनासो राजानं तारापीडगप्राक्षीदपृ- च्छत् । शुकनासेन तथा तेनैव प्रकारेण पृष्टश्च किंचिदिव क्षणमात्रं ध्यात्वा विमृश्य तारापीड : प्रत्यवादीत्प्रत्यब्रवीत् । किमब्रवीदित्याशयेनाह—— आर्य इति । हे आर्य हे पूज्य, इति मया यावज्ज्ञातमबुद्धम् । इतिद्योत्यमाह- एतेष्विति । एतेष्वेव वर्तमानेष्वेव दिवसेषु वासरेषु संपूर्णमण्डलस्यान्यूनबिम्बस्येन्दोश्चन्द्रस्य ज्योत्स्नामिव करा [^3]व लम्बिनीं हस्तावलम्बिनीं वत्सस्य पुत्रस्य । चन्द्रापीडस्येत्यर्थः । वधूं स्नुषां द्रक्ष्याम्यवलोकयामि । तावदयमपरो भिन्नोऽन्तर्हितस्तिरोहित आशा वाञ्छा दिक्च तस्याः पथो मार्गो येनैवंभूतो जलदकाल इव मेघसमय इव प्रत्यूहकारी विघ्नकारी विघ्नजनको वैशम्पायनवृत्तान्तो मन्त्रिसुतोदन्तो विलोमप्रकृतिना प्रतिकूलाभिप्रायेण विधात्रा विधि- नान्तरा मध्ये पातित आनीतः । विज्ञप्तिसाफल्यं दर्शयन्नाह -- यथेति । यथा येन प्रकारेण चायुष्मता भवताभिहितं प्रतिपादितं तदेतदेवमेवेत्थमेव । तदेव दर्शयति - नेति । तं वैशम्पायनोऽन्य आनेतुमानयनं कर्तुं न शक्नोति । तेन वैशम्पायनेन विनायं चन्द्रा- पीडोऽत्र स्थातुमत्रावस्थानं कर्तुं न च शक्नोति । तत्तस्माद्धेतोरमुना गमनलक्षणेन पोतेन प्रवहणेन तावदादाववश्यमेव व्यसनार्णवः कष्टसमुद्रो निस्तरितव्यो निस्तारं प्रापयितव्यः । तव प्रसूरपि गमन- प्रतिबन्धकारिणी भविष्यतीत्यपि नाशङ्कनीयमित्याह – वैशम्पा [^1]F. 'रक्षतु मामार्य:' इत्येकवचनमेव ग्रन्थशैलीसमुचितम्, पूर्व- मपि 'अवधारयत्वार्यः' इत्यादि प्रोक्तम् । [^2]F. 'सपयःपाताम्बुदावलीमिव' इत्यपि पाठो मनोरमः । पयःपातेन ( वर्षणेन ) सहिताम् मेघावलीमिव, स्रवदश्रुजलामिति यावत् । [^3]F. करेभ्यः किरणेभ्य आपातिनी ज्योत्स्ना । करे हस्ते आपा- तिनी ( कृतपाणिग्रहणा ) वधूः । [^१]G. यश्च. [^२]G. तस्मात्. [^३]G. चन्द्रापीडेऽन्तःपीडोपरागरक्ततामरसानुकारिणि; चन्द्रा- पीडेऽपि रागरक्ते रक्ततामरसानुकारिणि. [^४]G. षट्पदालीम्; अम्बुदावलीम्. [^५]G. एव. [^६]G. मे दुष्कृतिना. म्पायनप्रत्यानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यत्येवै- नमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्ग- णकै: सहादरादार्यो दिवसं लग्नं च गमनायास्य निरूपयतु, संविधानं च कारयतु' इत्येतदभिधाय शुकनासमु [^१]द्बाष्पलोचनश्चिरमि- [^२]व चन्द्रापीडमालोक्याहूय च विनयावनम्रमंसदेशे शिरसि बाह्वोश्च पाणिना स्पृशन्नाविशत्- 'वत्स, गच्छ त्वमेव प्रविश्याभ्यन्तरं मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम् ।' इत्यादिश्य चन्द्रापीडमात्मना शुकनासमादाय स्वभवनमयासीत् । चन्द्रापीडस्तु तामक्लिष्टवर्णा कादम्बरीसंवरणस्रजमिव गमनाभ्य- नुज्ञां हृदयेनोद्वहन्प्रहृष्टान्तरात्माप्यपहर्षदृष्टिः प्रविश्य कृतनमस्कारो मातुः समीपे समुपविश्यात्मदर्शनद्विगुणीभूतवैशम्पायनविरहशोक- विह्वलां मनोरमामाश्वास्यावादीत् - 'अम्ब, समाश्वसिहि । वैशम्पाय- नानयनाय तातेन मे गमनमादिष्टम्। तत्कतिपयदिवसान्तरितं वैश- म्पायनाननदर्शनोत्सवमविकल्पं त्वं मामेव विसर्जय' । सा त्वेवम- भिहिता प्रत्युवाच - 'तात, किमात्मगमनवचसा [ टि ]-- यनेति । वैशम्पायनं प्रत्यानयनाय चानेतुं विलासवती देव्यप्येनं चन्द्रापीडं विसर्जयिष्यत्येव प्रेषयिष्यत्ये वेति मे मम निश्च- यो निर्णयोऽस्ति । तद्यातु गच्छतु । किंतु वत्सेन मत्सुतेनातिदूरम- तिदविष्ठं गन्तव्यं यातव्यम् । तत्तस्माद्धेतोर्गणकैर्ज्योतिर्विद्भिः सहा- दरादार्यो भवानस्य चन्द्रापीडस्य गमनाय दिवसं दिनं लग्नं च मेषा- दिकं निरूपयतु विचारयतु । च पुनरर्थे । संविधानं गमनसामग्रीं च कारयतु विधापयतु । इत्येतत्पूर्वोक्तं शुकनासमभिधायोक्त्वा उदू- र्ध्वं बाष्पो हर्षाश्रु ययोरेतादृशे लोचने यस्यैवंभूतस्तारपीडश्चिरमिव चन्द्रपीडमालोक्य निरीक्ष्याहूय चाह्वानं कृत्वा च विनयेनावनम्रमव- नतं चन्द्रापीडमंसदेशे स्कन्धदेशे शिरस्युत्तमाङ्गे बाह्वोर्भुजयोश्च पाणिना हस्तेन स्पृशन्स्पर्शं कुर्वन्नादिशत् । हे वत्स, गच्छ व्रज त्व- मेव, मनोरमासहिताया मातु [^1]र्विलासवत्या अभ्यन्तरम् । गृह- स्येति शेषः । प्रविश्य प्रवेशं कृत्वात्मगमनवृत्तान्तमावेदय ज्ञापय । इति चन्द्रापीडमादिश्येत्याज्ञां दत्त्वात्मना स्वयं शुकनासमादाय गृहीत्वा स्वभवनं स्वगृहमयासीदगच्छत् । चन्द्रापीडस्त्वक्लिष्टः शोभनो वर्णो रक्तपीतादिरक्षरं वा यस्यामेवं- विधां कादम्बर्याः संवरणमङ्गीकरणं तस्य स्रजमिव मालामिव तां गमनाभ्यनुज्ञां यात्रानिर्देशं हृदयेन चेतसोद्वहन्धारयन्प्रहृष्टः प्रमुदि- तोऽन्तरात्मा यस्यैवंभूतोऽप्यपगतो हर्षो यस्या एतादृशी दृष्टिर्यस्यै- वंविधः प्रविश्य प्रवेशं कृत्वा कृतनमस्कारो विहितप्रणामो मातु- र्जनन्याः समीपे यथोचितप्रदेशे समुपविश्योपवेशनं कृत्वात्मनः स्वस्य दर्शनेनावलोकनेन द्विगुणीभूतो द्विगुणतां प्राप्तो वैशम्पायन- स्य विरहः शोकस्तेन विह्वलां व्याकुलामेवंभूतां मनोरमामाश्वास्याश्वासनां कृत्वावादीदवोचत् । किमुवाचेत्याह - हे अम्ब हे मातः, समाश्वसियाश्वासनां कुरु । यतो वैशम्पायनस्यानयनं तदर्थं तातेन पित्रा मे मम गमनं यानमादिष्टं कथितम् । तत्तस्माद्धेतोः कतिपये च ये दिवसा वासरास्तैरन्तरितं व्यवहितं वैशम्पायनस्याननदर्शनं वक्त्रनिरीक्षणं तत्रोत्सवमुत्सवभूतमविकल्पं कल्पनारहितं मामे- [^2]व त्वं विसर्जय गमनाज्ञां देहि । साविति । सा मनोरमैवममुना प्रकारेणाभिहिता प्रोक्ता सती प्रत्युवाच प्रत्यब्रवीत् । किमुवाचे- त्याह – तातेति । हे तात हे पुत्र, आत्मगमनवचसा स्वप्रयाणवाक्येन किं मां समाश्वासयसि समाश्वासनां करोषि । मे मम । खल्विति निश्चये । त्वयि भवति तस्मिंश्च वैशम्पायने को विशेषस्तदि [^1]F. सोयं स्थूलबुद्धेर्विलासः । अभ्यन्तरम् ( प्रासादस्य ) प्रविश्य, आत्मवृत्तान्तं मातुरावेदय इत्येव ग्रन्थाशयः । [^2]F. 'मामेव' इति निरर्थकप्रायम् । अत एव '0त्सवं मामविकल्पं विसर्जय' इत्येव पाठो मनोरमः । [^१]G. उद्वाष्पलोचनम्. [^२]G. इह. [^३]G. उत्सुकं मामविकल्पं विसर्जय त्वम्. मां समाश्वासयासे । कः खलु मे त्वयि तस्मिंश्च विशेषः । तदेकधा तमेकं न पश्यामि [^१]कठिनहृदया । त्वयि पुनर्गते [^२]च दयितस्यादर्शने जीवितप्रतिबन्धहेतुभूतं त्वद्दर्शनं तदपि दूरीभवति । तन्न गन्तव्यम् । [^३]वत्स एकेनापि हि [^४]युवयोरावां [^५]पु- त्रवत्यौ द्वे अपि । नागतो नामासौ निष्ठुरात्मा' इत्युक्तवत्यां मनोर- मायां विलासवतीं धीरमुवाच - 'प्रियसखि, तव मम चैवमेतद्यथा [^६]त्वया प्रोक्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु ? तदा- स्ताम् । किमे [^७]तन्निवारयसि । वारितेनाप्यनेन नैव स्थातव्यम् । मन्ये च पित्राप्ययमेतदेवाकलय्य गमनायानुमोदितः । तद्यातु । वर- मावाभ्यां [^८]कतिपय दिवसाननयोरप्यदर्शनकृतान्क्ले [^९]शा- ननुभूतान्न पुनरस्य [^१०]वैशम्पायनानवलोकनदुःखदीनं दिने दिने बदनमीक्षि [^११]तुम् । तदुत्तिष्ठ । गच्छावो गमनसंविधानाय वत्स- स्य चन्द्रापीडस्य । [^१२]इत्यभिदत्येव मनोरमां हस्ते गृहीत्वोत्थाय चन्द्रापीडेनानुगम्यमाना निजावासमयासीत् । [ टि ]-- तरत्वलक्षणः । तदेव स्पष्टीकुर्वन्नाह - तदिति । तत्तस्माद्धे- तोरेकधैकवारं तमेकं वैशम्पायनं कठि [^1]नहृदया न पश्यामि नावलोकयामि । त्वयि भवति पुनर्गते प्रस्थिते च दयि [^2]तस्य वैशम्पायनस्यादर्शनेऽनिरीक्षणे जीवितस्य जीवनस्य प्रतिबन्धहेतु- भूतं गमनविघ्नभूतं त्वद्दर्शनं त्वदवलोकनं तदपि तत्र गतत्वेन दूरी- भवति । तन्न गन्तव्यम् । हे वत्स हे पुत्र, एकेनापि हि युवयोश्चन्द्रा- पीडवैशम्पायनयोरावां विलासवतीमनोरमे पुत्रवत्यौ द्वे अपि। नामे- ति कोमलामन्त्रणे । असौ वैशम्पायनो निष्ठुरात्मा निर्दयप्रकृतिर्ना- गतो नायातः । इत्युक्तवत्यामिति भाषितवत्यां मनोरमायां वैशम्पा- यनजनन्यां सत्यां विलासवती चन्द्रापीडसवित्री धीरं यथा स्यात्तथो- वाचाब्रवीत् - हे प्रियसखि, तव भवत्या मम विलासवत्या एवमेतत्त- थैवेदं यथा येन प्रकारेण त्वया प्रोक्तम् । पुनरयं चन्द्रापीडो वैश- म्पायनेन विना कं पश्यत्ववलोकयतु । तत्तस्माद्धेतोरास्तां तिष्ठतु । किमेतद्गमनं निवारयसि निवारणं करोषि । वारितेनाप्यनेन चन्द्रा- पीडेन नैव स्थातव्यम् । नैवात्र स्थेय मित्यर्थः । मन्ये इति । अहं मन्ये जानामि । एतदेव पूर्वोक्तमेवाकलय्याकलनां कृत्वायं चन्द्रा- पीडो गमनाय यात्रायै अनुमोदितोऽभ्यनुज्ञातः। तत्तस्मात्कारणा- द्यातु व्रजतु । आवाभ्यां मनोरमाविलासवतीभ्यां कतिपयदिवसा- न्यावत् । अनयोरपि चन्द्रापीडवैशम्पायनयोरप्यदर्शनकृतानवलो- कनजनिता [^3]ननुभूताननुभवविषयीकृतान्क्लेशान्विषादान्वरं शुभम्, परं वैशम्पायनस्यानवलोकनमनिरीक्षणं तस्माद्यद्दुःखं कृच्छ्रं तेन दीनं सकरुणमस्य चन्द्रापीडस्य दिने दिने वदनमान- नमीक्षितुं न पुनर्वरं शुभम् । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । वत्सस्य चन्द्रापीडस्य गमनसंविधानाय प्रस्थानसामग्र्यै आवां गच्छावो व्रजाव इत्यभिदधती कथयन्त्येव मनोरमा हस्ते पाणौ गृहीत्वादायोत्थायोत्थानं कृत्वा चन्द्रापीडेनानुगम्यमानानुयायमाना निजावासं स्वभवनमयासीदगात् । [^1]F. 'कठिनहृदयम्' इत्येव पाठः। तस्मिन् गते, तं कठिनहृदयम् ( आक्रोशः, यो हि निःस्नेहतया स्थितः ) एकं न पश्यामि । [^2]F. अविचाररमणीयोयं पाठः । न हि पुत्रस्यार्थे विशेष्यरूपेण दयितप्रयोगः स्वारसिकः । तस्मात् - 'यदपि तस्यादर्शने जीवित- प्रतिबन्धभूतम्' इत्येव पाठः । अर्थस्तु टीकातो ज्ञायेतैव । [^3]F.'आवाभ्याम् अनुभूतान् क्लेशान् वरम्' इति पाठो लोकोत्तर- बुद्धिगम्यः । अत एव 'वरमावाभ्यां कतिपयदिवसाननयोरप्यदर्शन- कृताः क्लेशा अनुभूताः, न पुनरस्य वैशम्पायनाऽनवलोकनदुःख- दीनं दिने दिने मुखमीक्षितम्' इत्येव पाठः । कतिपयदिवसान् यावत् आवाभ्यामनुभूताः अनयोः अदर्शनकृताः क्लेशा अपि वरम्, वैशम्पायनानवलोकनदुःखेन दीनं दिने दिने अस्य (चन्द्रापीडस्य) मुखम् ईक्षितं न पुनर्वरम्, इति तदर्थः । [^१]G. कठिनहृदयम्. [^२]G. यदपि तस्यादर्शने. [^३]G. वत्सेन. [^४]G. पुत्रेण. [^५]G. द्वे पुत्रवत्यौ. [^६]G. त्वयोक्तम्. [^७]G. एवं निवारयसि; एनं वारयसि. [^८]G. कतिपयात्. [^९]G. कृताननुभूतान्; कृताः क्लेशा अनुभुताः. [^१०]G. वैशम्पायनाननावलोकन. [^११]G. ईक्षितम्. [^१२]G. इत्येवं. चन्द्रापीडोऽपि मातुः समीपे गमनालापेनैव क्षणमिव स्थित्वा गृह- मगात् । तत्र नापनीतसमायोगो गमनायोत्ताम्यता हृदयेन गणका- नाहूय रहस्याज्ञापितवान् - 'यथा विना [^१]परिलम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते ताताय वा दिनमावेद- नीयम्' इति । एवमादिष्टास्ते [^२]व्यज्ञापयन्- 'देव, यथा सर्व एव ग्रहाः स्थिताः, [^३]तथास्मन्मतेन देवस्य गमनमेव वर्तमानेन शस्य- ते । अपरमपि कर्मानुरोधाद्राजेच्छैव कालः । [^४]तत्रापि न कार्य- मेवाहर्निरूपणया । राजा कालस्य कारणम् । यस्यामेव वेलायां [^५]चित्तवृत्तिः सैव वेला सर्वकार्येषु' इति विज्ञापिते मौहूर्तिकैः पुनस्तानब्रवीत् - 'तातेनैवमादिष्टमिति ब्रवीमि । अन्यदा [^६]त्य- न्तिकेषु कार्येषु कार्यपराणां [^७]प्रतिक्षणोत्पादिषु च दिवसनिरू- पणैव कीदृशी । तत्तथा [^८]कथयिष्यत यथा श्व एव मे गमनं भवे- त्' इति । 'देवः प्रमाणम्' इत्यभिधाय गतेषु च तेषु शरीरस्थितिकर- णायोदतिष्ठत् । नि [^९]वर्तितशरीरस्थितिं च मौहूर्ति [^१०]कास्ते पुनः प्रविश्य शनैर्न्यवेदयन्- कृतोऽस्माभिर्देवादेशः। सिद्धश्च तनय- विरहविक्लवतया शुकनासस्य । तदतिक्रान्ते श्वस्तनेऽ [ टि ]-- चन्द्रापीडोऽपि मातुर्जनन्याः समीपे गमनालापेनैव यात्रा- वार्तयैव क्षणमिव स्थित्वा गृहमगादगमत् । तत्र तस्मिन्गृहेऽपनीतो दूरीकृतः [^1]समायोगः संबन्धो येनैवंभूतो गमनाय प्रस्थानाय हृदयेन स्वान्तेनोत्ताम्यतोत्तपता गणकाज्ज्योतिर्विद आहूयाकार्य रहस्ये- कान्त आज्ञापितवानाज्ञां दत्तवान् । किमाज्ञापितवानित्याश- येनाह - यथेति । यथा मे मम परिलम्बेन विना गमनं प्रस्थानं भव- ति, तथा भवद्भिर्युष्माभिः पृच्छत आर्यशुकनासाय ताताय वा दिनं दिवसमावेदनीयं कथनीयम् । एवमादिष्टाः प्रोक्तास्ते ज्योतिर्विदो व्यज्ञापयन्विज्ञप्तिं चक्रुः । कां विज्ञप्तिं कृतवन्त इत्याशयेनाह - देव इति । हे देव हे स्वामिन्, यथा येन प्रकारेण सर्व एव ग्रहः सूर्यादयो लग्ने स्थितास्तथा तेन प्रकारेणास्मन्मतेन देवस्य भगवतो गमनमेव प्रस्थानमेव वर्तमा [^2]नेन कालेन शस्यते श्लाध्यते । मुहूर्ताभावेऽ पि गमनप्रकारं प्रदर्शयन्नाह – अपरमपीति । कर्मानुरोधात्कार्याग्रहाद्राज्ञो नृपस्येच्छैव कालो मुहूर्तः । तत्रापीच्छामुहूर्तनिरूपणया शुभाशुभदिनगवेषणया न कार्यं न प्रयोजनम् । तत्र हेतुमाह - राजेति । राजा नृपः कालस्य मुहूर्तस्य कारणम् । यस्यामेव वेलायां समये चित्तवृत्तिर्मनः- प्रवृत्तिः सर्वकार्येषु समग्रकृत्यकरणेषु सैव वेलाऽवसरः । मौहूर्तिकर्गणकैरिति विज्ञापिते विज्ञप्ते सति पुनर्द्वि- तीयवारं तान्गणकानब्रवीदकथयत् । तातेन पित्रैवं दिवसगवेषणा- दिकमादिष्टं कथितमिति हेतोरहं ब्रवीमि कथयामि। अन्यदान्यस्मि- न्काल आत्यन्तिकेष्ववश्यकरणीयेषु तथा प्रतिक्षणं प्रतिसमयमुत्पा- दिषूत्पत्तिकरणशीलेष कार्येषु च कार्यपराणां कृत्यतत्पराणां दिवस निरूपणा दिनगवेषणैव कीदृशी । तत्तस्माद्धेतोस्तथा तेन प्रकारेण यूयमित्यक [^3]थयिष्यत न्यवेदयिष्यत । यथा श्व एवागामिदिन एव मे मम गमनं चलनं भवेदिति । देवः प्रमाणं यथा भवदनुशास- नमित्यभिधायेत्युक्त्वा तेषु गणकेषु गतेषु प्रयातेषु सत्सु च शरीर- स्थितिकरणाय देहव्यापारकृत उदतिष्ठदुत्थितो बभूव । [^4]नि- र्वर्तिता संपादिता शरीरस्थितिर्येनैवंभूतं तं पुनस्ते मौहूर्तिकाः प्रविश्य प्रवेशं कृत्वा शनैर्मन्दंमन्दं न्यवेदय [^5]न्विज्ञपयन् । अस्माभिर्ज्योतिर्विद्भिर्देवस्य भवत आदेशो निदेशः कृतो विहितः । तनयस्य वैशम्पायनस्य विरहो वियोगस्तेन विक्लवतया विह्वलतया- र्यशुकनासस्य च सिद्धो निष्पन्नः । ततस्तस्माद्धेतोरतिक्रान्ते व्यतीते श्वोभवः श्वस्तनस्तस्मिन्नहन्यागामिदिवसे रात्रौ निशायामितोऽस्मा- त्प्रदेशाद्देवेन भवता [^1]F  अपनीतसमायोगः उन्मुक्तपरिच्छदः । [^2]F. 'वर्तमाने न शस्यते' वर्तमाने काले न शस्यते इति पाठः । [^3]F. 'कथयिष्यथ' इत्येव पाठः । [^4]F. 'निर्वर्तिता' इति पाठः । [^5]F. व्यज्ञपयन् । [^१]G. विलम्बन. [^२]G. व्यज्ञपयन्. [^३]G. तस्मात्. [^४]G. तत्र न. [^५]G. चित्तनिर्वृतिः. [^६]G. आत्ययिकेषु. [^७]G. प्रतीक्षण. [^८]G. कथयथ; कथयिष्यथ. [^९]G. निर्वर्तित. [^१०]G. ते प्रविश्य. का० ७४ हनि रात्रावितः प्रस्थातव्यं देवेन' इत्यावेदिते तैः 'साधु कृतम्' इति मुदितचेतास्तानभि [^१]ष्टुत्य दृष्टिविषयवर्तिनीमेव कादम्बरीं च वैशम्पायनं च मन्यमानः, [^२]अप्रविष्टायामेव पत्रलेखायां परापता- मी [^३]त्यग्रप्रधावितेनावधारयंश्चेतसा, चतुःसमुद्रसारभूतानिन्द्रायुधरयानुगामिनस्तुरंगमानगणेयानवगणिततुरंगमगमनखेदानुत्साहि-नो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवसमेकां च यामिनीं कथं- कथमध्यस्थात् । अथानुरक्तकमलिनीसमागमाप्राप्तिसंतापादिव समं दिवसेनास्त- मुपगतवति तेजसांपतौ, तेजःपतिपतनाच्चितानलमिव संध्याराग- मपराशया सह विशति पश्चिमे [^४]गगनभागे, संध्यानलस्फुलिङ्ग- निकर इव स्फुरति तारागणे, दिवसविरामान्मूर्च्छागमेनेव तमसा निमील्यमानेषु दिङ्मुखेषु, निवासाभिमुखमुखरेषु वियद्वियोगदुः- खादिव [^५]कृतान्तप्रलापेषु वयः समूहेषु, जनितप्रकाशं जन्मे- [^६]वालोक्य दोषागमं निरालोकं गर्भमिव तमः प्रविष्टे पुनर्जीवलो- के, निजालोकाद्विकाशितपूर्वदिग्वधूवदने जन्मान्तरागत इवोदय- गिरिवर्तिनि नक्षत्रसमागमसुखमनुभवति भगवति भूयोभूयः स्वका- न्तिनिर्भरान्निष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्याम्, [^७]प्रस्थान [ टि ]-- प्रस्थातव्यं चलितव्यम् । तैर्गणकैरित्यावेदित इति ज्ञापिते साधु कृतं शुभं विहितमिति मुदितचेताः प्रमुदितमनास्ताञ्ज्योति- र्विदोऽभिष्टुत्य स्तुतिं कृत्वा दृष्टिविषयवर्तिनीमेव प्रत्यक्षगतामेव कादम्बरीं वैशम्पायनं च मन्यमानो ज्ञायमानोऽप्रविष्टायामेवाप्राप्ता- यामेव पत्रलेखायामहं परापतामि गच्छामीत्यग्रप्रधावितेन पुरस्ता- त्त्वरितगत्या चलितेन चेतसा स्वान्तेनावधारयन्निश्चिन्वंश्चतुःसमुद्रेषु चतुरम्भोनिधिषु सारभूतान्हृद्यभूतानिन्द्रायुधस्य रयो वेगस्तस्यानुगा- मिनोऽनुयायिनोऽगणेयानसंख्येयांस्तुरङ्गमानश्वानगणितोऽवमानितस्तुरंगमेनाश्वेन गमनं चलनं तस्मात्खेदो यैस्तानुत्साहिन उत्साहवतो राजपुत्रांश्च नृपसुतान्निरूपयन्पश्यन् । न विद्यतेऽन्यत्कर्म यस्य सोऽनन्यकर्मा तं दिवसमेकां च यामिनीं कथंकथमपि महता कष्टे- नास्थात्तस्थौ । अथेति प्रकारान्तरे । अनुरक्ता या कमलिनी नलिनी तस्याः समा- गमः संयोगस्तस्याप्राप्तिरलब्धिस्तया यः संतापस्तप्तिस्तस्मादिव दिवसेन समं सार्धं तेजसांपतौ श्रीसूर्येऽस्तमुपगतवति प्राप्तवति सति । तेजःपतपतनात्सूर्यपतनात् । रक्तत्वसाम्यादाह - अपरा- शया पश्चिमया सह पश्चिमे गगनभागे चिंतानलमिव चितावह्निमिव संध्यारागं विशति प्रविशति सति । संध्यानलस्य स्फुलिङ्गा अग्निक- णास्तेषां निकरे समूह इव तारागणे स्फुरति दीप्यमाने सति। दिवस स्य विरामादवसानान्मूर्च्छागमेनेव मोहागमेनेव तमसाऽन्धकारेण दिङ्मुखेषु दिशाननेषु निमील्यमानेषु संकोच्यमानेषु । निवासस्या- भिमुखाः संमुखाश्च ते मुखरा वाचालाश्च तेषु वियत आकाशस्य वि- योगस्तस्य यद्दुःखं तस्मादिव कृतो विहितोऽ [^1]न्तःप्रलापो विलापो यैरेवंभूतेषु वयःसमूहेषु पक्षिसंघातेषु । जनितो विहितः प्रकाश आलोको येनैवंभूतं जन्मेवालोक्य विलोक्य दोषागमनं त्रियामागमं निरालोकं निःप्रकाशं गर्भमिव भ्रूणमिव तमः प्रविष्टे पुनर्जीवलोके विष्टपे सति । निजालोकात्स्वप्रकाशाद्विकाशितं प्रकाशितं पूर्वदिगेव वधूस्तस्या वदनं येन स तस्मिञ्जम्मान्तरांगत इव भवान्तरागत इवोदयगिरिवर्तिन्युदयाचलस्थिते भूयोभूयो वारं- वारं स्वकान्तिनिर्भ [^2]रात्स्वदीप्तिसंभारान्निष्कलङ्के इव नक्षत्र- नाथे चन्द्रे भगवति नक्षत्रसमागमसुखं तारकामेलापकसौख्यमनु- भवत्यनुभवविषयीकुर्वति सति । निशीथिम्यां त्रियामायां विस्पष्टायां प्रकटायां [^1]F. 'कृतार्तप्रलापेषु' कृतः आर्तिप्रलापो यैस्तेषु । [^2]F. ग्रामीणष्टीकाकारः । कान्त्यतिशयान्न निष्कलकत्वम् । अत एव 'स्वकान्तिनिर्झरात्' इत्येव पाठः । [^१]G. इति ताम्. [^२]G. प्रविष्टायाम्. [^३]G. अग्रतः. [^४]G. दिग्गगनभागे. [^५]G. आर्तप्रलापेषु. [^६]G. समालोक्य. [^७]G. प्रस्थानमङ्गल. मङ्गले प्रणामायोपगतं चन्द्रापीडं पीडयान्तर्विली [^१]यमानेव बाष्पोत्पीडमपारयन्ती [^२]निवारयतुमत्यायताभ्यामपि नेत्राभ्यां कृतप्रयत्नाप्यमङ्गलशङ्कया विलासवती तं [^३]मन्युरागावेगगद्गदिकोपरुण्यमानाक्षरमवादीत्[^४]'तात, युज्यते ह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा, यस्मिन्प्रथममेवाङ्कादपैति । मम पुनर्नेदृशी प्रथमगम- नेऽपि ते पीडा समुत्पन्ना, यादृशी तव गमनेनाधुना । [^५]'दीर्यत इव मे हृदयम् । समुत्पाट्यन्त इव मर्माणि । उत्कथ्यत इव शरीरम् । [^६]उत्प्लवत इव चेतः। विघटन्त इव संधिबन्धनानि । [^७]नि- र्यान्तीव प्राणाः । न किंचित्समादधाति धीः । सर्वमेव शून्यं पश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् । धृतोऽपि बलादागच्छति मे बाष्पोत्पीडो [^८]मुहुर्मुहुः । समाहितापि मङ्गलसंपादनाय [^९]ते चलति मतिः । न जानाम्येव किमुत्पश्यामीति । किंनिमित्तं चेयमीदृशी मे" हृदयपीडेत्येतदपि न वेद्मि । किं बहुभ्यो दिवसेभ्यः कथमप्यागतो [^१०]मे वत्सो झटित्येष पुनर्गच्छतीति । किं वैश [ टि ]-- सत्यां प्रस्थानमङ्गले सति गमनश्रेयसि सति, प्रणामाय नमस्कारायोपगतमागतं चन्द्रापीडं पीडया बाधयान्तर्विलीयमानेव विलयं प्राप्यमाणेवात्यायताभ्यामतिविस्तीर्णाभ्यामपि नेत्राभ्याममङ्ग- लशङ्कयाऽश्रेयसारेकया कृतप्रयत्नमपि विहितोद्यमापि बाष्पोत्पीड- मश्रुप्रवाहं निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवती एवंविधा विलासवती तत्र स्थितत्वाद्वैशम्पायने मन्युः क्रोधो रागश्चन्द्रापीडे स्वाङ्ग- जत्वात् तयोरावेग आवेशस्तेन या गद्गदिका गद्गदध्वनिस्तयोपरु- ध्यमानान्युपरोधं प्राप्यमाणान्यक्षराणि यथा स्यात्तथेति क्रियाविशे- षणम् । अवादीदब्रवीत् । किमवादीदित्याशयेनाह - तातेति । हे तात हे पुत्र । हीति निश्चितम् । अङ्कलालितस्य क्रोडपालितस्य गर्भरूपस्य भ्रूणस्वभावस्य प्रथम गमन आद्यप्रयाणे हृदयपीडा गरीयसी युज्यते विलोक्यते, यस्मिन्प्र- थममेवाङ्कास्क्रोडादपैति गच्छति । मम विलासवत्याः पुनस्ते तव प्रथमगमनेऽपि नेदृश्येतादृशी पीडा समुत्पन्ना संजाता, यादृशी तव गमनेनाधुना सांप्रतं जायते । तदेव प्रदर्शयन्नाह — दीर्यत इति । मे मम हृदयं दीर्यत इव विदीर्णं जायत इव । मर्माणि संधिस्थानानि समुत्पाट्यन्त इवोत्खन्यन्त इव । शरीरं देहमुत्कथ्यत इवोत्काल्यत इव चेतो मम उत्प्लवत इवोत्प्लुत्योत्य गच्छतीव । संधिबन्धनानि विघटन्त इव भिद्यन्त इव । प्राणा निर्यान्तीव निःसरन्तीव। धीर्बुद्धि- र्न किंचित्समादधाति समाधानं करोति । सर्वमेव जगच्छून्यं रिक्तं पश्याम्यवलोकयामि । आत्मानमिव हृदयं स्वान्तं धारयितुं न पार- यामि न शक्नोमि । धृतोऽपि रक्षितोऽपि बलाद्धाठान्मे मम बाष्पो- त्पीडोऽश्रुप्रवाहो मुहुर्मुहुर्वारं [^1]वारमागच्छत्यायाति । ते तव मङ्गलसंपादनाय श्रेयःकरणाय समाहितापि संस्थापितापि मति- श्चलति भ्रमति । इत्यहं न जानाम्येव नावकलयाम्येव - किमुत्प- श्यामि किमवलोकयामि । किंनिमित्तं च किंकारणं चेयमीदृश्येता- दृशी मे मम हृदयपीडा चित्तार्तिरित्येतदप्यहं न वेद्मि न जानामि । किं बहुभ्यः प्रचुरेभ्यो दिवसेभ्यः कथमपि महता कष्टेन मम वत्स आगत आयातो झटित्येव शीघ्रमेव पुनर्गच्छति व्रजतीति हेतोर्महती पीडा जायत इति सर्वत्रानुषङ्गः । किं वैशम्पायनस्य वियोगाद्विरहा- दुद्विग्नस्योद्वेगं प्राप्तस्यैका किनोऽसहायस्य ते तव गमनं प्रस्थानं समुत्प्रेक्ष्य विलोक्येति ।[^2] वैशम्पायनस्य वृत्तान्ताद्वैशम्पायनो- दन्तादात्मनः [^1] 'बलादागच्छति मे बाष्पोत्पीडो मुहुः । मुहुः समाहितापि मङ्गलसंपादनाय ०' इति पाठः । मुहुः समाहितापि मतिश्चलति इति तदर्थः । [^2]F. 'उत वैशम्पायनवृत्तान्ता०' इति पाठः । 'न पुनः' इत्यस्य न युक्तत्वम् । [^१]G. निलीयमान. [^२]G. वारयितुम्; पातुम्. [^३]G. मन्यूद्गमावेग; आवेग. [^४]G. जातमात्रापि तेऽङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा. यस्मिन्प्रथमेनाङ्कादर्पिते. [^५]G. यतो दीर्यते. [^६]G. उच्च्यवते. [^७]G. उन्मध्यत इव मनः निर्यान्तीव. [^८]G. मुहु. [^९]G. चलति. [^१०]G. हृदय. [^११]G. बहुभ्यः. न्पायनवियोगादुद्विग्नस्य गमनमेकाकिनस्ते समुत्प्रेक्ष्येति । [^१]न पुनर्वैशम्पायनवृत्तान्तादात्मन एव [^२]दुःखिततयेति । न चैवंविध- या पीडया वैशम्पायनानयनाय गच्छतस्ते मे गमनं विनिवारयितुं पारयति वाणी । हृदयं पुनर्भेच्छत्येव त्वदीयं गमनम् । तदीदृशीं मे पीडां वि [^३]भाव्य यथा पुरा स्थितं न तथा क्वचि [^४दासंगमाव- ध्यतिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य कृते साञ्जलि- बन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारितावनम्रमूर्तिश्चन्द्रापीडो [^५]व्यजिज्ञपत्- 'अम्ब, तदा दिग्विजय- प्रसङ्गा [^७]त्स्थितम् । [^८]अधुना पुनरयमेव कालक्षेपो यावत्त- मुद्देशं परापतामि। तत्पुनश्चिरागमकृता [^९]न भावनीया मनागपि हृदये [^१०]पीडां त्वया' इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्यो- [^११]द्बाष्पवेगान् कथं कथमपि संस्तभ्यात्मानं निर्वर्तितगमन- [^१२]मङ्गला, गलता प्रस्रवेण सिञ्चन्ती, शिरसि चोपाघ्राय [^१३]गाढं सुचिरमालिङ्ग्य, गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच [^१४]तं माता । मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् । [ टि ]-- स्वस्यैव दुःखिततया पीडिततया पुनर्न मम हृदयपीडेत्यर्थः । एवंविधयैतादृश्या पीडया वैशम्पायमानयनाय गच्छतो व्रजतस्ते तव गमनं विनिवारयितुं निषेधयितुं न वाणी वाक्पारयति समर्था भवति । हृदयं चेतः पुनस्त्वदीयं तावकीनं गमनं नेच्छत्येव नाभि- लषत्येव तत्तस्माद्धेतोर्मे ममेदृशीं पीडां विभाव्य ज्ञात्वा यथा येन प्रकारेण पुरा पूर्वं स्थितं विलम्बितं क्वचित्कस्मिंश्चित्स्थले संगमो मेलाप [^1]स्तस्यावधिर्मर्यादा आसंगमावधेरा संगमावधि इत्यव्य- यीभावः । अतिदीर्घकालमतिचिरकालमायुष्मता भवता न तथा स्थातव्यं स्थेयम् । अस्य च पूर्वोक्तस्यार्थस्य कृतस्य कृते सहाञ्ज- लिबन्धेन वर्तमानः साञ्जलिबन्धः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । तेनैवंभूतेन शिरसोत्तमाङ्गेन वत्सं सुतमभ्यर्थयेऽभियाचे इति पूर्वोक्तमादिशन्तीं कथयन्तीं स्वमातरं स्वजननीं सुदूरं सुतरां दूरं प्रसारिताऽवनम्रावनामिता मूर्तियेनैवंभूतश्चन्द्रापीडो व्यजिज्ञपद्विज्ञप्तिमकार्षीत् । तदेवाह - हे अम्ब इति । हे मातः, तदा तस्मिन्काले दिशां विजय आत्मसात्करणं तस्य प्रसङ्गः संबन्ध- स्तस्मात्स्थितं विलम्बितम् । अधुना सांप्रतं पुनरयमेव कालक्षेपः समयविलम्बो यावद्यावता कालेन तमुद्देशं वैशम्पायनालंकृतप्रदेशं परापतामि गच्छामि । तत्तस्माद्धेतोः पुनश्चिरेण बहुकालेनागमनं तेन कृता विहिता या पीडा सा मनागपि हृदये चेतसि न भावनीया न विचारणीया । चन्द्रापीडेनेति विज्ञप्ता कथिता विलासवत्यु [^2] द्बाष्पैवेगानुदश्रुप्रवाहान्संनिरुध्यावष्टभ्य कथंकथमपि महता कष्टेना- त्मानं स्वं संस्तभ्य पतन्तं निवार्य, निर्वर्तितं विहितं गमनमङ्गलं प्रयाणश्रेयो ययैवंभूता । किं कुर्वती । गलता क्षरता प्रस्रवेण स्तनोद्गत- दुग्धेन सिञ्चन्ती सेचनं कुर्वन्ती । अनेन स्नेहाधिक्यमाविष्कृतम् । शिरसि चोपाघ्राय सुचिरं बहुकालं गाढं दृढमालिङ्ग्यालिष्य माता विलासवती गच्छद्भिर्निःसरद्भिः प्राणैरसुभिरिव कृच्छ्रात्कष्टात्तं चन्द्रापीडं मुमोच तत्याज । मुक्तश्च मात्रा जनन्या पितुस्तारापी-डस्य प्रणतये नमस्कृतये वासभवनं निवासगृहमगमदगच्छत् । [^1]F. 'आसङ्गमाबध्य दीर्घकालम्' इति पाठः । आसङ्गम् आसक्तिम् आबध्य आस्थाय दीर्घकालं न स्थातव्यमिति तदर्थः । [^2]F. 'संनिरुध्य बाष्पवेगान्' इत्येव पाठः । [^१]G. अन्तः; उत; पुनः पुनः. [^२]G. दुःखितयेति. [^३]G. विज्ञाय. [^४]G. आसंगमावध्यदीर्घकालम्. [^५]G. व्यज्ञपयत्. [^६]G. मातः; अहं च मात:. [^७]G. स्थितोऽस्मि. [^८]G. अयमेव मे; इयानेव मे. [^९]G. मनागपि हृदये न भावनीया; मनागपि न हृदये भावनीया. [^१०]G. अम्बया पीडा; त्वया पीडा. [^११]G. बाष्प. [^१२]G. मङ्गलप्रस्रवेण; मङ्गलाङ्कलताप्रस्रवेण. [^१३]G. गाढं गाढम्. [^१४]G. तम्. तत्र च 'देव, गमनाय नमस्करोति युवराजः' इत्यावेदिते द्वाररक्षिणा, प्रविश्य क्षोणीतलनिवेशि [^१]तशिरसा शयनवर्तिनो ननाम दूर- स्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य किंचिदुन्नमित- पूर्वकाय: शयनगत एवाहूय तं पिता चक्षुषा पिबन्निव, प्रेम्णा परिष्वज्य [^२]गाढमिव सहसो [^३]द्गता [^४]विरलबाष्परयपर्या- कुलाक्षोऽन्तःक्षो [^५]भावेगक्षिप्ताक्षरमवादीत्-'वत्स, [^६]पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्माभिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितो न तनयस्नेहादेव । राज्यं हि नामैत [^७]त्पृथ्वीभारेणैवातिदुरुद्वहम् महीभृत्संबाधतयै- वातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचारम्, चतु: [^८]समु- द्रव्याप्त्यैवातिमहत्, महासाधनप्रसाध्यतयैवाति [^९]दुःसाध्यम्, अपर्यवसानकार्यतन्त्रजालेनैवातिगहनम्, [ टि ]-- तत्र चेति । तत्र वासभवने । हे देव ऐश्वर्यादिगुणैर्विराजमा- न, गमनाय यात्रायै युषा चासौ राजा चेति युवराजश्चन्द्रापीडो नम- स्करोति प्रणमति । इति द्वाररक्षिणा द्वारपालेनावेदिते ज्ञापिते सति प्रविश्य प्रवेशं कृत्वा । अन्तर्वासभवनमित्यर्थः । क्षोण्याः पृथिव्या- स्तल उपरितनो भागस्तत्र निवेशितं स्थापितं यच्छिर उत्तमाङ्गं तेन करणभूतेन शयनवर्तिनः शय्यागतस्य पितुर्जनकस्य पादौ चरणौ दूरस्थित एव विप्रकृष्टगत एव ननाम प्रणतवान् । अथेति । अथानन्तरं तथा प्रणतं पूर्वोक्तरीत्या नतं युवराजमालोक्य निरीक्ष्य किंचिंदीषदुन्नमित ऊर्ध्वीकृतः पूर्वकायः प्रथमशरीरभागो येन स शयनगत शय्यास्थित एवाहूयाह्वानं कृत्वा तं युवराजं पिता जनक- श्चक्षुषा नेत्रेण पिबन्निव । आदरेणावलोकनं पानमुच्यत इति भावः । प्रेम्णा प्रीत्या गाढमिव गाढसदृशं परिष्वज्यालिङ्ग्य सहसा झटि- त्युद्गत उत्पन्नो योऽविरलो निबिडो बाष्पोऽश्रु तस्य रयो वेगस्तेन पर्याकुले व्याप्ते अक्षिणी यस्य स तथा । अन्तश्चेतसि यः क्षोभस्त- स्यावेगस्त्वरिः (त्वरा ) तेन क्षिप्ताक्षरमविस्पष्टाक्षरं यथा स्यात्तथा- वादीदब्रवीत् । तदाह -- वत्सेति । हे वत्स हे पुत्र, पित्रा जनकेनाहं दोषेष्वपराधेषु संभावितो गणित इत्येषा मनागपि किंचिदपि मनसि चित्ते वत्सेन दुःखमास्तेऽस्यामिति दुःखासिका चिन्ता न कार्या । विनयेति । विनयो गुरूणामभ्यु [^1]त्थानादिस्तस्याधानं शिक्षणं तत्प्रभृति तद्दिनादारभ्य सम्यक्प्रकारेणास्माभिः परीक्षितोऽसि परीक्षाविषयीकृतोऽसि । परीक्ष्य चेति । परीक्ष्यां कृत्वैव च गुणा गाम्भीर्यादयस्तेषां गणाः समूहास्तैरेवाधिगम्यः प्रापणीयो राज्य- भारस्त्वय्यारोपितः, न तनयस्नेहादेव नाङ्गजप्रीतेर्गुणवत्त्वादेव त्वयि राज्यभार आरोपितोऽस्ति । न पुत्रस्नेहादेवेति भावः । अथ राज्य- स्वरूपं निरूपयन्नाह - राज्यमिति । नामेति कोमलामन्त्रणे । हीति निश्चये । एतद्राज्यमाधिपत्यं पृथ्वीभारेणैव वसुधावीवधेनैवातिदुरुद्व- हं दुःखेनोद्वोढुं शक्यम् । तथा मही [^2]भृतां राज्ञां संबाधतया संघट्टतयैवातिसंकटमतिसंबाधम् । तथा कुटिला वक्रा या नीती राजस्थितिस्तस्याः प्रचारेणैव प्रसरणेनैव अतिदुःसंचारं दुःखेन संचरितुं शक्यम् । तथा चत्वारो वेदप्रमिता ये समुद्रा जलधयस्तेषु व्याप्त्यैव व्यापकतयैवातिमहदत्यायतम् । तथा महासाधनं महा- सैन्यं तेन प्रसाध्यतयैवातिदुःसाध्यमतिदुःखेन साधयितुं शक्यम् । तथाऽपर्यवसानान्यनन्तानि कार्याणि कृत्यानि यत्रैवंभूतं तन्त्रजालं स्वराष्ट्रचिन्ता समूहं तेनैवातिगहनमिति । 'निबिडं तन्त्रं स्वराष्ट्र- चिन्ता स्यात्' इति हैमः । उत्तुङ्ग उच्चो यो वंशोऽन्वंयस्तत्र प्रतिष्ठित तयैव [^1]F. विनयाधानं शिक्षादानं तत्प्रभृति तदारभ्य । [^2]F. महीभृद्भिः पर्वतैः राजभिश्च संबाधतया संकुलतया । [^3]F. उत्तुङ्गा ये वंशाः वेणवः कुलानि च तेषु प्रतिष्ठिततया, इत्युभयार्थस्वारस्यम् । [^१]G. निवेशितशिरा: [^२]G. गाढमप्रौढ. [^३]G. उद्भूत. [^४]G. बाष्पपर्याकुल, [^५]G. क्षोभविक्षिप्त [^६]G. अहं दोषेऽपि; अनर्हदोषेषु. [^७]G. पृथिवी. [^८]G. समुद्रपर्यन्तभुवनव्याप्त्यैव [^९]G. दुःसाधनम्. उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारोहम्, अहितसहस्रोद्धरणेनैवाति- [^१]दुरुद्धरम्, अपि च समवृत्तितयैवातिविषमम्, अनेकतीर्थक- ल्पनयैव दुरवतारम्, [^२]कण्टकशोधनेनैव दुर्ग्रहम्, अखिलप्रजा- पालन [^३]व्यवहारेणैव [^४]दुःपालम्, [^५]नाविक्रान्ते नामहो- त्सहे नाप्रियवादिनि नासत्यसंधे [^६]नाप्राज्ञे नाविवेकिनि [^७]ना- कृतज्ञे नानुदारव्यवहृतौ नासंविभागशीले नान्यायवर्तिनि नाधर्मरुचौ नाशास्त्रव्यवहारिणि नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्र- वत्सले नावश्यात्मनि [^८]नानिर्जितेन्द्रिये नासेवके पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्च [ टि ]-- प्रतिष्ठां प्राप्ततयैव दुःखेनारुह्यत इति दुरारोहम् । अहि- तानां शत्रूणां सहस्रं तस्योद्धरणेनैवोत्खननेनैव दुरुद्धरं दुःखेनोद्धर्तुं शक्यम् । पुनः प्रकारान्तरेण प्रतिपादयन्नाह - अपि चेति । [^1]स- माऽविषमा या वृत्तिर्वर्तनं तयैवातिविषमं कठिनम् । तस्याः कर्तुम- शक्यत्वादिति भावः इयं विशेषो [^2]क्तिः। अनेकानि यानि तीर्था- न्युपायास्तेषां कल्पनं प्रयोगस्तेनैव दुःखेनावतीर्यत इति दुरवतारम् । दुस्तरमित्यर्थः । 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति हलायुधः । 'तीर्थं योनौ जलावतारे च' इत्यमरः । अनेकजलावतर- णेनैव नद्यादि सूत्तरं भवति । इदं तु दुरुत्तरमिति विशेषोक्तिः । कण्टकाः खलास्तेषां शोधनेन दूरीकरणेन दुःर्ग्रहं दुःखेन ग्रहीतुं शक्यम् । अखिलाः समग्रा याः प्रजा जनपदवासिनो लोकास्तासां पालनं रक्षणम् । एतदेव व्यवहारो व्यवसायस्तेनैव दुःपालं दुःखेन पालयितुं [^3]योग्यं राज्यमेतादृशेषु पुरुषेषु पदं स्थानमादधाति करोतीत्यन्वयः । आङ्पूर्वस्य दधातेः करणार्थत्वादित्यर्थः । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तानेवाह - नावि- क्रान्त इत्यादि । विक्रमणं विक्रान्तिः सा विद्यते यस्मिन् स विक्रा- न्तस्तद्भिन्नोऽविक्रान्तस्तस्मिन् । पराक्रमरहित इत्यर्थः । महानुत्साहो विद्यते यस्मिन्स महोत्साहस्तद्भिन्नोऽमहोत्साहस्तस्मिन् । निरुद्यम इत्यर्थः । प्रियं वदतीत्येवंशीलः प्रियवादी तद्भिन्नोऽप्रिय- वादी तस्मिन् । कटुकभाषिणीत्यर्थः । सत्या सन्धा प्रतिज्ञा यस्येति सत्यसंधः । 'संवित्संधास्थाभ्युपायः' इति हैमः । तद्भिन्नोऽसत्यसंध- स्तस्मिन् । प्रतिज्ञाभङ्गकारिणीत्यर्थः । प्राज्ञश्चतुरस्तद्भिन्नोऽप्राज्ञस्त- स्मिन् । मूर्ख इत्यर्थः । विवेचनं विवेकः स विद्यते यस्मिन्स विवेकी तद्भिन्नोऽविवेकी तस्मिन् । सदसद्व्यत्यस्तकारिणीत्यर्थः । कृतं जा- नातीति कृतज्ञस्तद्भिन्नोऽकृतज्ञस्तस्मिन् । निर्गुण इत्यर्थः । उदारा स्फारा व्यवहतिर्व्यवसायो यस्येत्युदारव्यवहृतिस्तद्भिन्नोऽनुदारव्य- वहृतिस्तस्मिन् । कुत्सितव्यवहारकारिणीत्यर्थः । सम्यग्विभजनं संविभागस्तस्य शीलं स्वभावो यस्मिन्स संविभागशीलस्तद्भिन्नोऽसंविभागशीलस्तस्मिन् । यथोचितानर्पक इत्यर्थः । अन्यायोऽनी- तिस्तत्र वर्तत इत्येवंशीलोऽन्यायवर्ती तस्मिन् । न्यायवर्जित इत्यर्थः । न विद्यते धर्मरुचिर्यस्य सोऽधर्मरुचिस्तस्मिन् । सर्वथा पापकारि- णीत्यर्थः । न शास्त्रेण कामन्दक्यादिना व्यवहरतीत्येवंशीलोऽशास्त्रव्यवहारी तस्मिन् । स्वेच्छाव्यवहारिणीत्यर्थः। न शरणाय योग्यो- ऽशरण्यस्तस्मिन् । अत्रायक इत्यर्थः । न ब्रह्मनिष्ठोऽब्रह्मण्यस्तस्मि- न् । ब्राह्मणाहितकारिणीत्यर्थः । न विद्यते कृपा दया यस्मिन्सोऽकृ- पालुस्तस्मिन् । दयावर्जित इत्यर्थः । न विद्यते मित्रेषु वत्सलत्वं स्निग्धत्वं यस्येत्यमित्रवत्सलस्तस्मिन् । वयस्यहितवर्जित इत्यर्थः । न वश्य आत्मा यस्येति सोऽवश्यात्मा तस्मिन् । अनियन्त्रितात्मनी- त्यर्थः । अनिर्जितान्यवशीकृतानीन्द्रियाणि येन सोऽनिर्जितेन्द्रिय- स्तस्मिन् । अनिरुद्धेन्द्रिय इत्यर्थः । न सेवत इत्यसेवकस्तस्मिन् । सपर्यावर्जित इत्यर्थः । कस्मिन्राज्यं पदं दधातीत्याशयेनाह - यः खल्विति । खलु निश्चये । यः पुमान्समग्रैः सकलैर्गुणैः क्षान्त्यादिभि [^1]F. नातिमृदुर्नातितीक्ष्णा च । [^2]F. इयं प्रलापोक्तिः, तस्या असंपर्कात् । अपि तु समवृत्ति- त्वेऽपि विषमतेति विरोध: । [^3]F. 'दुष्पालम्' । इत्यस्याग्रे अविवेकिना टीकाकृता परित्यक्तः 'सर्वाशाप्राप्त्यैव' इत्यादिः पाठो यः पाठान्तरेषु धृतोऽवश्यं दृश्यः । [^१]G. दुर्धरम्. [^२]G. कटक. [^३]G. व्यापारेण. [^४]G. दुःपालनम् ; दुष्पारम्; दुष्पाल्यम्. [^५]G. सर्वांशाप्राप्त्यैव च दुष्प्रापम्, नामहासत्त्वे नास्थिरप्रकृतौ नादातरि नास्थूललक्ष्ये नाशुचौ नाविक्रान्ते नातिक्रान्ते. [^६]G. अप्रज्ञे. [^७]G. नापुरुषान्तरज्ञे. [^८]G. अनियतेन्द्रिये. लप्रकृतेः कर्तुं समर्थस्तत्रास्ते । गुरवोऽप्यपगतस्खलितभीतयस्तत्रैव समारोपयन्त्येतदालोचितपरावराः । तदनेनैव बोद्धव्यमिदं वत्सेन नास्ति मयि दोष इति । अपि च संप्रति कस्मिन्भारमवक्षिप्याणुमपि दोषमाचरसि । त्वयैव सकललोकानुरञ्जने यतितव्यम् । गतः खलु कालोऽस्माकम् । [^१]अस्माभिरस्खलितैश्चिरं पदे स्थितम् । न पीडिताः प्रजा लोभेन । नोद्वेजता गुरवो मानेन । न विमुखिताः सन्तो मदेन । नोत्त्रासिताः प्रणिनः क्रोधेन । न हासित आत्मा हर्षेण । न हृतः परलोकः कामेन । न राजधर्मोऽनिरुद्धः । स्वरुच्या वृद्धाः समासेविता न व्यसनानि । सतां चरितान्यनुवर्तितानि नेन्द्रियाणि । धनुरवनामितं न मनः । वृत्तं रक्षितं न शरीरम् । वाच्याद्भीतं न मरणात् । [^२]उपभुक्तानि [^३]सुर [ टि ]-- र्बलाद्धठादाकृष्याकर्षणं कृत्वा चञ्चलप्रकृतेरस्थिरस्वभाव- स्यास्य राज्यस्य प्रतिबन्धं प्रतिरोधं कर्तुं विधातुं समर्थः क्षमः स्यात् । तत्र तस्मिन्पुंसि राज्यमास्ते तिष्ठति । तथा परं चावरं च परावरम् । आलोचितं विमृष्टं परावरं प्रकृष्टाधमस्वरूपं यैस्त आलोचितपरा- वराः । विशेषेणापगता स्खलिताशाद्भीतिर्येषां ते व्यपगतस्खलित- भीतय एवंविधा गुरवः कुलक्रमायातसचिवमुख्यास्तत्रैव तस्मिन्नेव जन एतदाधिपत्यमारोपयन्ति स्थापयन्ति । तत्तस्माद्धेतोरनेनैव राज्यप्रदानलक्षणहेतुना वत्सेन बोद्धव्यं ज्ञातव्यम् । मयि विषये दोषो वैगुण्यं नास्ति । तत्सद्भावे राज्यप्रदानसंभावनैव ( न ) स्यादि- ति भावः । पुनः प्रकारान्तरेण शिक्षापूर्वकं वैगुण्याभावं दूरीकुर्वन्नाह - अपि चेति । सांप्रतमधुना कस्मिन्वैशम्पायनादौ राज्यभारमवक्षिप्य न्यस्य स्वयमेकाकित्वेनागमनादणुमपि दोषमाचरसि करोषि । त्वयैव भवतैव सकलानां समग्राणां लोकानां जनपदनिवासिनृणामनुरञ्जने चित्ताह्लादजनने यतितव्यं प्रवर्तितव्यम् । यद्यपि एतद्दोषाचरणे न दोषस्तथापि बृहद्दोषाचरणशङ्कासंकुचितवान्ता जनाः कदापि प्रसक्तिभाजो न स्युरिति शिक्षाप्रदानमिति भावः । तातेनैव जना- नुरञ्जनं कथं 'न क्रियत इत्याह - गत इति । खल्विति निश्चये । अस्माकं जनानुरञ्जनलक्षणः कालः समयो गतो व्यतीतः । अस्मा- भिरस्खलितैः स्खलनवर्जितैश्चिरं बहुकालं पदे राज्ये स्थितम्। लोभे- न लिप्सया प्रजाः प्रकृतयो न पीडिता न व्यथिताः [^2]मानेनाहं- कारेण गुरवो हिताहितप्राप्तिपरिहारोपदेष्टारो वा नोद्वेजिता नोद्वेगं प्रापिताः । मदेन मुन्मोहसंभेदेन सन्ताः साधवो न विशेषेण मुखि- [^3]ता दण्डिताः । क्रोधेन रोषेण प्राणिनोऽसुमन्तः न उत्त्रासिता- स्त्रासं प्रापिताः । हर्षेण प्रमोदेनात्मा न हासितो हास्यं नीतः । कामेन मनोभवेन परलोक आगामिभवो न हतो न विनाशितः । न राजधर्मो वधादिरूपोऽनिरुद्धोऽनिषेवितः । स्वरुच्या निजाभिला- षेण वृद्धा ज्यायांसः समासेविताः पर्युपासिताः, न व्यसनानि मद्यपा- नप्रभृतीनि । सतां साधूनां चरितान्याचरणाम्यनुवर्तिनान्यनुगमन- विषयीकृतानि, नेन्द्रियाणि करणानि तदनुगामित्वं न कृतम् । सर्वदा तदाज्ञावैमुख्येन स्थितमिति भावः । धनुः कोदण्डमवनामितं वक्रीकृतम्, न मनो हृदयम् । वृत्तं सदाचरणं रक्षितम्, न शरीरं देहः । शरीरानपेक्षत्वेन तदाचरितमित्यर्थः । वाच्याज्जनापवादानीतं त्रस्तम्, न मरणान्मृत्योः [^1]F. घिर मन्दभाग्यम् । राज्यभारयुक्तत्वे दोषाचरणं न संभवति । तत् स्वीकृतराज्यभारस्त्वमपि स्वीयं भारं कस्मिन्नवक्षिप्य दोष- माचरितुं शक्नुयाः ? अत एव न त्वयि आणोरपि दोषस्य संभव इत्याशयः । हन्त हन्त ! 'अणुमपि ' इति पदस्य स्वारस्यमज्ञात्वैव सोयं प्रलाप इति पीडिताः स्मः टीकाकृताऽनेन । [^2]F. मानेन गुरवः पीडिता भवन्ति, उत संतुष्टाः ? अत एव 'अवमानेन' इत्येव पाठः । [^3]F. कः संदेहः प्रलापेऽस्मिन् ? न विमुखिताःन पराङ्मुखीकृता इत्यर्थः । [^4]F. अनिरुद्धः अनिषेवितः ? इति कोयं प्रलापः ? अस्तु 'न इतः परलोकः कामेन' एतावत्पर्यन्तमेव नञप्रक्रमः । एतदग्रे - 'राजधर्मोऽनुरुद्धो न स्वरुचिः ' इति पाठः । राजधर्म- स्थानुरोधः कृतः स्वरुचेर्न इति तदर्थः । अग्रे च 'वृद्धाः समासेविता न व्यसनानि ॥ [^१]G. अस्खलितेन च चिरं पदं स्थितं; मयास्खलितेनैव चिरं पदे स्थितम्; अस्माभिरस्खलितैः पादैः. [^२]G. उपभुक्तानि च. [^३]G. सुरलोकेऽपि दुर्लभानि. लोकदुर्लभानि सर्षविषयोपभोगसुखानि । [^१]यौवनेच्छया पर्या- प्तमकार्यपरिहरात् । कार्यानुष्ठानाच्चोपार्जितः [^२]परोऽपि लोकः। चेतसि मे त्वजन्मना [^३]च कृतार्थ एवास्मि। तदयमेव मे मनोरथः, दारपरिग्रहात्प्रतिष्ठिते त्वयि सकलमेव [^४]मे राज्यभारमारोप्य जन्मनिर्वाहलघुना हृदयेन पूर्व [^५]राजर्षिगतं पन्थानमनुयास्या- मीति । अस्य च मेऽ [^६]तर्कितमेवायमग्रतः प्रतिरोधको वैशम्पा- यनवृत्तान्तः स्थितः । मन्ये च न संपत्तव्यमेवानेन । अन्यथा क्व वैश- म्पायनः, क्व चैवंविधमस्य स्वप्नेऽप्यसंभावनीयं समाचेष्टितम् ? तद्ग- तेनापि तथा कर्तव्यं वत्सेन, यथा न चिरकालमेष मे मनोरथोऽन्त- र्हृदय एव विपरिवर्तते' इत्यभिधाय किंचि [^७]दुत्तानितेन मुखेनै [^८]व संपीडित हृदयमिव ताम्बूलनर्पयित्वा व्यसर्जयत् । चन्द्रापीडस्तु तथा पितुः संभावनया सुदूरमुन्नमितोऽप्यवनम्रतर मूर्तिरुपसृत्य पुनः प्रणा [ टि ]-- जीवनादपि यशोवल्लभत्वमित्यनेन सूचितम् । सुरलोके त्रिविष्टपे दुर्लभानि दुःप्रापाणि यानि सर्वविषयाणां रूपरसगन्ध- स्पर्शशब्दरूपाणामुपभोगः प्रतिवारमासेवनं तस्य सुखानि सौख्या- न्युपभुक्तान्यावादि [^1]तानि । 'यः सकृद्भुज्यते भोग उपभोगो- ऽङ्गनादिकः' इति प्राञ्चः । अकार्यपरिहारादकृत्यत्यागाद्यौवनेच्छया तारुण्यस्पृहया पर्याप्तं भृतम् । कार्यं दानादिरूपं तस्यानुष्टानादा- चरणात्परोऽपि लोक आगामिभवोऽप्युपार्जितः स्वायत्तीकृतः। सदाचरणेनावश्यं देवायुर्बुद्धमित्यर्थः । त्वज्जन्मना च त्वदुत्प- [^2]त्त्या च कृतार्थः कृतकृत्य एवाहमस्मीति मे मम चेतसि वर्तते । तत्तस्माद्धेतोरयमेव मे मम मनोरथोऽभिलाषो वर्तते । अयमेवेति क इत्यपेक्षायामाह - दारेति । दारपरिग्रहात्स्त्रीस्वीकारात्प्रतिष्ठिते प्रतिष्ठां प्राप्ते त्वयि भवति सकलमेव समग्रमेव मे राज्यभारमाधि- पत्यधुरमारोप्य न्यस्य जन्मनो नृभव ?व निर्वाह आयुःक्षयं यावत्प- रिपालनं तेन लघुना [^3]तुच्छेन हृदयेन । केवलं जन्मपालनप्रवृत्त- त्वेन तदितरसमग्राशाविमुक्तत्वेन च चेतसो लघुत्वमिति भावः । पूर्वे राजर्षयो गताचलिता यस्मिन्नेवंविधं पन्थानं मार्गमनुयास्याम्य- नुगच्छामि । इत्यस्य मे मम मनोरथस्यातर्कितमेवाचिन्तितमेवाग्रतः पुरः प्रतिरोधकः प्रतिबन्धकृद्वैशम्पायनस्य शुकनाससुतस्य वृत्तान्त उदन्तः स्थितः । अहमिति मन्ये । अनेन मनोरथेन न संपत्तव्यं न भवितव्यम् । अन्यथेत्युक्तवैपरीत्ये । क्वेति महदन्तरे निपातः । वैशम्पायनो मनोरमाङ्गजः क्व । अस्य च वैशम्पायनस्य स्वप्नेऽपि निद्रादशायामप्यसंभावनीयमचिन्तनीयमेवंविधं समाचेष्टितं समा- चरितं क्व । तदिति हेत्वर्थे । गतेनापि चलितेनापि वत्सेन पुत्रेण भव- ता तथा कर्तव्यं तथा विधेयं यथैष पूर्वोक्तो मे मम मनोरथोऽन्तर्हृ- दये हृदयमध्ये न विपरिवर्तते न विलीनो भवति । इत्यभिधायोक्त्वा किंचिदीषदुत्तानितेनोवकृतेन मुखेनैवाननेनैव सं [^4]पीडितं चर्चितं हृदयमिव स्वान्तमिव ताम्बूलं नागवल्लीदलमर्पयित्वा वितीर्य व्यसर्जयत्प्राहिणोत् । तदनन्तरं चन्द्रापीडस्तु तथा पूर्वोक्तया पितुस्तारापीडस्य संभावन- या विचारणया सुदूरं यथा स्यात्तथोन्नमितोऽप्युच्चैर्भूतोऽप्यवनम्रतर- मूर्तिरतिशयेन नमिततनुरुपसृत्योपसरणं कृत्वा पुनः प्रणामेन नम- स्कारेणोन्नमि [^1]F. एतदारभ्य 'चेतसि ' इतिपर्यन्तो ग्रन्थष्टीकाकारेण भ्रष्टीकृतः । तस्मात् - 'उपभुक्तानि च सुरलाोकेपि दुर्लभानि सर्वविषयोपभोगसुखानि यौवने । इच्छया पर्याप्तम् । अकार्यपरिहारात् कार्यानुष्ठानाच्च उपार्जित: पारम्परोपि लोकः, इति चेतसि मे ।" इति पाठः । अर्थः स्पष्टः । इच्छया पर्याप्तम् इच्छापूर्वकं विलसितमित्यर्थः । [^2]F. 'त्वज्जन्मना कृतार्थ एवास्मि' इति पृथग् वाक्यम् । 'चेतसि मे' इति पूर्वसंबद्धम् । [^3]F. तुच्छेनापि पूर्वराजर्षिपथानुगमनम् ? धन्योसि । जन्मनो निर्वाहः समुचितकार्यसंपादनं तेन लघुना भारशून्येन । [^4]F. 'संपिण्डितम्' पिण्डीभावेनाऽऽकुञ्चितमित्येव सम्यक् । [^१]G. यौवनेनेच्छया. [^२]G. पारम्परोऽपि लोकः; परलोकः. [^३]G. च तावत्. [^४]G. इमम्. [^५]G. सेवितम्. [^६]G. अतर्कित. [^७]G. उन्नामिते मुखेनैव. [^८]G. संपिण्डितम्. [^९]G. अपसृत्य. मेनो [^१]न्नमितात्मा निर्ययौ । निर्गत्य च शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमुन्मुक्तमिवेन्द्रियैः शून्यशरीरं शुकनास- मवारिताश्रुपातोपहतमुखीं च मनोरमां [^२]प्रणम्य, तादृशाभ्यामेव ताभ्यां संभाव्याशिषा समारोपययामि [^३]व स्वदुःखभारमनुमतो निवर्तनाय, तयोर्निवर्तिताननो मुहर्मुहराद्वारनिर्गतं गत्वाग्रतो ढौकि- तमपि कृतापसर्पणमकृत [^४]हर्षहेषारवमनुत्कर्णकोश मस स्खन ममनस्क मनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणाशङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमाग- मौत्सुक्येन चाकृतपरिलम्बो मनागप्यरुह्य रयेणैव निरगान्नगर्याः । निर्गत्य च सिप्रतटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं कायमान- मप्रविश्य, बहिरेव गतो युवराज इति जनितकलकलेनातर्कितत- त्कालगमनसंभ्रान्तेन परिजनेन राजपुत्रलोकेन चेतस्ततो धावतानु- गम्यमानो गव्यूतित्रितयमिव गत्वा, सुलभपयोयवसे प्रदेशे निवास- मकल्पयत् । उत्ताम्यता हृदयेनाऽप्रभातायामे [^५]व यामिन्यामु- त्थाय पुनरवहत् । [ टि ]-- तात्मोर्ध्वीकृतात्मा निर्ययौ निरगात् । निर्गत्य च शुकनास- स्य वृद्धसचिवस्य भवनं सदनमयासीदगात् । तत्र चेति । तस्मिन्गृहे तनयस्य सुतस्य चिन्तार्तिस्तया परीतं व्याप्तमिन्द्रियैः करणैरुन्मु- क्तमिव त्यक्तमिव । अत एव शून्यशरीरं शून्यदेहं शुकनासमवा- रितोऽनिषिद्धो योऽश्रुपातस्तेनोपहतं मुखमाननं यस्या एतादृशीं च मनोरमां वैशम्पायनजननीं च प्रणम्य नमस्कृत्य तादृशाभ्यां शोका- कुलिताभ्यामेव ताभ्यां शुकनासमनोरमाभ्यामाशिषा आशी: प्रदा- नेन संभाव्य सत्कृत्य स्वस्य दुःखं सुतविरहजं तस्य भारो वीवधस्तं समारोपयद्भ्यामिव स्थापयद्भ्यामिव ताभ्यां निवर्तनाय गमनायानु- मतोऽनुज्ञातस्ततस्तयोर्विषये मुहुर्मुहुर्वारंवारं [^1]निवर्तितमभिमुखीकृतमाद्वारगतमाप्रतोलीगमनपर्यन्तमाननं मुखं येनैवंभूतोऽग्र- तो गत्वा, ढौकितमपि कृतं विहितमपसर्पणमपसरणं येनैवंभूतम् । न कृतो न विहितो हर्षहेषारवः प्रमोदध्वनिर्येन स तम् । अत्र नञो भावादन्भावः । न विद्यत उत्कर्णकोशो यस्य स तम् । अनूर्ध्वीकृत- कर्णयुगमित्यर्थः । असुखोऽसौख्यकारी स्वनः शब्दो यस्य स तम् । न विद्यते मनोऽर्थाद्गमनविषये यस्य स तम् । नाविष्कृतो न प्रकटी- कृतो गमनस्योत्साहः प्रगल्भता येन स तम् । दीनं दुःखितमेतादृश- मिन्द्रायुधमश्वमालोक्यापि वीक्ष्यापि पुनर्निवारणं पुनर्गमनप्रतिषेध- स्तस्य शङ्कयारेकया वैशम्पायनस्यावलोकनं निरीक्षणं तस्य त्वरा त्वरिस्तस्याः ( तया) कादम्बर्याः समागमः संगमस्तस्मिन्नौत्सुक्यं रणरणकस्तेन चाकृतः परिलम्बो विलम्बो येनैवंभूतश्चन्द्रापीडो मनागपि योग्यं यानमारुह्यारोहणं कृत्वा रयेणैव वेगेनैव नगर्याः पुरीतो निरगान्निर्ययौ । निर्गत्य च निर्गमनं कृत्वा सिप्रा नाम्नी नदी तस्यास्तटे तीरे तस्य चन्द्रापीडस्य यत्प्रस्थानमङ्गलार्थमवस्थानं तदर्थमुपकल्पितं कृतं कायमानं तृणौकस्तदप्रविश्य प्रवेशमकृत्वा, बहिरेव युवराजश्चन्द्रापीडो गत इति जनितकलकलेन समुत्पन्नको- लाहलेनातर्कितमचिन्तितं तत्कालं तदात्वं यद्गमनं यानं तेन संभ्रा- न्तेन चकितेन परिजनेन परिच्छदेन राजपुत्रलोकेन चेतस्ततो धावता वेगेन गच्छतानुगम्यमानोऽनुयायमानो गव्यूतित्रितयमिव सार्धयोजनमिव गत्वा गमनं विधाय सुलभानि सुप्रापाणि पयोयव- सानि जलतृणानि यत्रैवंभूते प्रदेशे निवासं वसतिमकल्पयदकरोत् । 'यवसं तृणमर्जुनम्' इति कोशः । उत्ताम्यतोत्प्राबल्येन खिद्यता हृदयेन चित्तेनाऽप्रभातायामविभातायामेव यामिन्यां रजन्यामुत्था- योत्थानं कृत्वा पुनरवहद्गमत् । [^1]F. 'तयोः निवर्तिताननः आद्वारनिर्गतम्' इति पाठस्य 'निवर्ति- तम् अभिमुखीकृतम् आद्वरगतम् आननं येन' इति समासः कथं भवेत् ? 'निवर्तिताननः' इति समासमध्ये 'आद्वारगतम्' इति कथं बलान्निपतितम् ? तस्मात् - 'मुहुराद्वारनिर्गतेः' इति पाठः। आद्वार- निर्गते: द्वारान्निर्गमनपर्यन्तं मुहुस्तयोः निवर्तितं परावर्तितं वदनं येन। [^१]G. उत्तंसित. [^२]G. प्रणिपत्य. [^३]G. इव च. [^४]G. हेषारवः. [^५]G. एवम्. ७५ का० वहंश्च तस्मादेव वासरादारभ्यैवमचेतित एव "परापत्य कृतापक्रान्तेस्त्रपया पृष्ठतोऽनुगम्य बलाद्दत्तकण्ठग्रहः 'क्व [^१]परं पलाय्यते' इति वैशम्पायनस्य वैलक्ष्यमपनयामि, एवं तत्समा गमसुखमनुभूय निष्कारणप्रसन्नामनघामतर्कितोपनतमदवलोकनोपजातहर्षविशे- षां पुरस्ताद्गमनसिद्धये पुनर्महाश्वेतां पश्यामि, एवं महाश्वेताश्रम- समीपे पुनःस्थापिताशेषतुरगसैन्यस्तया सहैव हेमकूटं गच्छामि एवं तत्र मत्प्रत्यभिज्ञानसंभ्रमधावितेनेतस्ततः कादम्बरीपरिजनेन प्रण- म्यमानः प्रविश्य मदागमननिवेदनोत्फु [^२]ल्लनयनेन सखीजने- नापह्रियमाणपूर्णपात्राम्, 'क्वासौ, केन कथितम्, कियद्दूरे वर्तते' इति तत्प्रश्नोन्मुखीम्, तत्क्षणोत्पन्नया तापोपशान्त्या त्रपया च युगप- दुरसि [^३]निहितं पद्मिनीपत्रमपनीयोत्तरीयांशुकाञ्चलं कुचावरण- तामुपनयन्तीम्, आभरणतां [^४]नीतानि [^५]कमलिनीमृणाला- न्यपास्य भूषणेभ्योऽधिकां स्वशरीरशोभामेव सर्वाभरणस्थानेषु धारयन्तीम्, तापोपशमार्पितहारमात्राभरणाम्, अत्युलबणहरिचन्दन चर्चान्तरि [ टि ]-- वहंश्च गच्छंश्च तस्मादेवात्मगमनोपलक्षितादेव वासराद्दिना- दारभ्यारम्भं कृत्वैवैतान्यग्रे वक्ष्यमाणान्यन्यानि तदितराणि च चिन्त- यन्विमर्शयन्नचेतिता अज्ञाताः क्षुत्क्षुधा, पिपासा तृट्, आतपो घर्मः, श्रम आयासः, उज्जागरो जागरः, एतेषां व्यथा पीडा येनैवंभूतो दिवारात्रा [^1]वहर्निशेवावहदगच्छदिति दूरेणान्वयः । एतानि कानीत्यपेक्षायामाह—अचेतित इति । अचेतित एवाज्ञात एव परा- पत्य गत्वा त्रपया लज्जया कृता विहितापक्रान्तिरपक्रमणं येनैवं- भूतस्य वैशम्पायनस्य पृष्ठतोऽनुगम्यानुगमनं कृत्वा बलाद्दत्तो विहि- तः कण्ठग्रहः कण्ठालिङ्गनं येनैवंभूतोऽहं परं केवलं क्व पलाय्यते कुत्र पलायनं क्रियत इति वैलक्ष्यं वैगुण्यमपनयामि दूरीकरोमि । एवं तस्य वैशम्पायनस्य समागमः संगमस्तस्मात्सुखं सौख्यमनुभू- यास्स्वाद्य, निष्कारणमनिमित्तं प्रसन्नं विकसितं मनश्चेतो यस्याः सा तामनघां निष्पापामतर्कितमविचारितमुपनतं प्राप्तं यन्मदवलोकनं मद्वीक्षणं तेनोपजात उत्पन्नो हर्षविशेषोऽतिशायिप्रमोदो यस्याः सा तां पुरस्तादग्रे यद्गमनं तस्य सिद्धये । निर्विघ्नगमनायेत्यर्थः । पुनः पूर्वविशेषयोरित्युक्तेः पूर्वं प्रथमं महाश्वेतां पश्याम्यवलोकयामि । एवंप्रकारेण महाश्वेताया आश्रमसमीपे मुनिस्थानाभ्यर्णे पुनः स्थापितं न्यस्तमशेषं समग्रं तुरगसैन्यमश्वानीकं येनैवंभूतोऽहं तया महाश्वेतया सहैव सार्धमेव हेमकूटं हेमकूटाभिधानं नगं गच्छामि व्रजामि । एवंप्रकारेण तत्र नगे सोऽयं चन्द्रापीड इति मम प्रत्यभिज्ञानं तस्माद्यः संभ्रम आदरः । 'संभ्रमस्त्वादरे भये' इति कोशः । तेन प्रधावितेनोच्चैश्चलितेनेतस्ततः कादम्बर्याः परिजनेन परिच्छदेन प्रणम्यमानो नमस्क्रियमाणः प्रविश्य प्रवेशं कृत्वा । इतः कादम्बरीं विशेषयन्नाह - मदेति । समागमनं तस्य निवेदने कथनं तेनोत्फुल्ले विकसिते नयने यस्यैवंभूतेन सखीजनेनालिसमुदायेनापह्रियमाणं गृह्यमाणं पूर्णपात्रं पूर्णानकं यस्याः सा ताम् । 'उत्सवेषु सुहृद्भिर्यद्ब- लादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्' इति हैमः । क्वासौ चन्द्रापीडः, केन जनेनेदं चन्द्रापीडसमागमनं कथि- तम्, कियद्दूरे वर्तत इति यत्तस्य जनस्य प्रश्ना नियोजनानि तत्रोन्मु- खीमूर्ध्वाननाम् । तत्क्षणं तत्कालं युगपत्समकालमुत्पन्नया संजातया तापोपशान्त्या तप्त्युपशमेन त्रपया लज्जया चोरसि हृदये निहितं स्थापितं पद्मिनीपत्रं कमलिनीदलमपनीय दूरीकृत्योत्तरीयांशुकं संव्यानवस्त्रं तस्याञ्चलं प्रान्तप्रदेशं कुचयोः स्तनयोरावरणतामा- च्छादनतामुपनयन्तीं प्रापयन्तीम् । आभरणतां भूषणतां नीतानि प्रापितानि कमलिन्याः सरोजिन्या मृणालानि बिसान्यपास्य दूरी- कृत्य भूषणेभ्य आभरणेभ्योऽधिकामतिशायिनीं स्वं स्वकीयं यच्छ- रीरं देहस्तस्य शोभा तामेव सर्वाभरणस्थानेषु समग्रभूषणस्थलेषु धारयन्तीं बिभ्रतीम् । तापोपशमार्थं तप्तिदूरीकरणार्थं अर्पितो दत्तः केवलं हारो हारमात्रमाभरणं भूषणं यस्याः सा ताम्। अत्युल्बण- मत्यु [^1]F. 'दिवारात्रौ चाऽवहत्' इत्यस्य दिवा दिने रात्रौ चेत्यर्थ उचितः । [^१]G. परिपलाय्यते. [^२]G. नयनसखी. [^३]G. निहित. [^४]G. उपनीतानि. [^५]G. मृणालानि. तलावण्यशोभान्यङ्गानि करपरामर्शप्रयत्नेन दर्शनीयतरतां नय- न्तीम्, अङ्गलग्नानि [^१]शयनीयकृतकमलकुमुद [^२]कुवलयद- लकिञ्जल्कशकलानि पुलकोद्गमेनै [^३]वापास्यन्तीम्, [^४]कपो- लसङ्गिनीं च [^५]मणिदर्पणे विलोक्याय [^६]थास्थितां करेण कबरीमंसदेशे निवेशयन्तीम्, आनन्दजन्मना नेत्रपुटावर्जितेन बाष्पसलिलेनैव मकरध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्ती म्, उत्सृष्टशेषेणाश्यानमलयजरसेनैवाङ्गलग्नेन भस्मनेव मदनहुत- भुजो निवृत्तिमावेदयन्तीम्, अभ्युत्थानप्रसङ्गेनैव कुसुमशय्यां दूरी- कुर्वन्तीम्, कादम्बरीमालोकयन्, दर्शनीयावलोकनफलेन चक्षुषी [^७]कृतार्थतां नयामि। एवं मदलेखां साञ्जलिप्रणामेन कण्ठग्रहेण [^८]संभाव्य, चरणपतितां पत्रलेखा [^९]मुत्थाप्य, केयूरकं [^१०]पुनःपुनः परिष्वज्य निर्भरम्, एवं महाश्वेतोपपादितोद्वाहमङ्ग- लस्त्वरितसखीवृन्दनिर्वर्तितवैवाहिकस्नान [^११]मङ्गलविधिर्भुव इव वर्षाभिषिक्तायाः [^१२]करग्रहणं देव्या [ टि ]-- त्कटं यद्धरिचन्दनं गोशीर्षचन्दनं तेन चर्चा पूजा तयान्त- रिता व्यवहिता लावण्यशोभा येषामेवंविधान्यङ्गानि [^1]प्रतीकाः करेण परामर्शो मार्जनं तत्र प्रयत्नः प्रयासस्तेन दर्शनीयतरतामति- शयेन विलोकनीयतां नयन्तीं प्रापयन्तीम् । 'मुक्ताफलस्य छायाया- स्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥" इति प्राचः । तथाङ्गलमानि शरीरसंबद्धानि यानि शयनीय [^2]कृ- तानि तलिनीकृतानि कमलं पद्मम्, कुमुदं श्वेतकमलम्, कुवलयमु- त्पलम् एतेषां दलानि पत्राणि किंजल्कं केसरं तस्य शकलानि खण्डानि चैतानि पुलकोद्गमेनैव रोमाञ्चोद्गमेनैवापास्यन्तीं निरा- कुर्वन्तीम् । शरीरस्याङ्कुरितत्वेन तत्पातादिति भावः । 'श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम्' इति हैमः । कपोलसङ्गिनीं च गल्लात्परप्रदेशलग्नां च कबरीं वेणीमयथास्थितामयथास्थायिनीं मणिदर्पणे रत्नादर्शे विलोक्य निरीक्ष्यांसदेशे स्कन्धप्रदेशे निवेश- यन्तीं स्थापयन्तीम् । आनन्दाज्जन्मोत्पत्तिर्यस्यैवंभूतेन नेत्रपुटाभ्यामावर्जितेनाहृतेन बाष्पसलिलेनैव नेत्राम्बुनैव मकरध्वज एवानल- स्तस्य संतापः संज्वरस्तस्मै जलाञ्जलिमिव प्रयच्छन्तीं ददतीम् । जलाञ्जलिप्रदानेनैव सर्वथा तदभावः सूचितः । उत्सृष्टशेषेण दूरी- कृतावशेषेणाश्यानः शुष्को यो मलयजरसश्चन्दनद्रवस्तेन शुक्लत्व- साम्याद्भस्मनेव भूत्येव मदनहुतभुजः कंदर्पवह्नेर्निवृत्तिमुपशममा- वेदयन्तीं कथयन्तीम् । निर्वाणवह्नेरनन्तरं भस्मैवावशिष्यत इति भावः । अभ्युत्थानमुत्थानं तस्य प्रसङ्गेनैव संबन्धेनैव कुसुमशय्यां पुष्पशयनीयं दूरीकुर्व [^3]न्तीं निराकुर्वन्तीमहमेतादृशीं कादम्ब- रीमालोकयन्पश्यन्दर्शनीयस्यावलोकनीयस्यावलोकनं निरीक्षणं तदेव फलं साध्यं तेन चक्षुषी नेत्रे कृतार्थतां साफल्यतां नयामि प्रापयामि । एवं पूर्वोक्तप्रकारेण साञ्जलिप्रणामेन पाणिसंयोजना- दिकृतनमस्कारेण कण्ठग्रहेण कण्ठाश्लेषेण मदलेखां संभाव्य सन्मान्य, पत्रलेखां चरणपतितामुत्थाप्य, केयूरकं च निर्भरं यथा स्यात्तथा पुनः पुनर्वारंवारं परिष्वज्यालिङ्ग्य एवं महाश्वेतयोपपा- दितं विहितमुद्वाहमङ्गलं पाणिग्रहणकल्याणं यस्य स त्वरितं शीघ्रं सखीवृन्देनालिसमूहेन निर्वर्तितो विहितो वैवाहिक उद्वाहसंबन्धी स्नानमङ्गलविधिर्यस्यैवंभूतो वर्षाभिषिक्ताया जलदसिञ्चिताया भुव इव पृथिव्या इव देव्याः कादम्बर्याः करग्रहणं निर्वर्तयामि करोमि । एवं पूर्वोक्तप्रकारे [^1]F. प्रतीकान् इत्युचितम् । [^2]F. ग्राम्य एव । अशयनानि (अतथाभूतान्यपि) शयनानि कृतानि इति शयनीकृतानि तल्पीकृतानि इति पाठः । [^3]F. स्वयं तु अवैयाकरणत्वात् स्थाने स्थाने 'कुर्वन्ती' इति प्रयुंक्त एव, सोढमपि च तत् । परं मूलग्रन्थे 'कुर्वतीम्' इत्येवास्ति, नान्यथेति बोध्यं विद्यार्थिभिः । [^4]F. वज्रमतिर्महोदयः । सखीपदस्वारस्येन किं न ज्ञायते यत् - 'सखीवृन्देन निर्तितो वैवाहिकस्नानमङ्गलविधिर्यस्याः तथाभूतायाः कादम्बर्याः' इति पाठानुसारी अर्थ उचितः ? । [^१]G. शयनीकृत. [^२]G. कुवलयकिञ्जल्क; किञ्जल्ककुवलयदल. [^३]G. अपश्यन्तीम्. [^४]G. कपोलसङ्गिनीम्. [^५]G. मणिदर्पणेनालोक्य. [^६]G. उपस्थिताम्. [^७]G. कृतार्थयामि . [^८]G. च संभावयामि. [^९]G. संभाव्य. [^१०]G. पुनः [^११]G. विधेः. [^१२]G. करग्रहणं निर्वर्तयामि. निर्वर्तयामि । एवमतिबहलकुङ्कुमकुसुमधू [^१]पानुलेपनामोदो- द्दीपितहृदयजन्मनि वासभवने [^२]शयनवर्तिनो मम समीपमुपवि- श्य [^३]क्षणमपि कृतनर्मालापायां निर्गतायां मदलेखायां त्रपावन- म्रमुखीमनिच्छन्तीं किल बलाद्दोर्भ्यामादाय शयनीयम्, शयनीयाद- ङ्कमङ्काच्च हृदयम्, देवीं कादम्बरीमारोपयामि । एव [^४]मुद्भट- नीवीग्र न्थिदृढतरार्पि [^५]तपाणिद्वयायास्त्रपानिमीलितलोचने [^६]चुम्बन्नवञ्चितात्मा चिराद्भवामि । एवं सुरैरपि दुर्लभं तदधरा- मृतमा तृप्तेर्निपीय सुजीवितमात्मानं करोमि । एवमतिकोमलतया- न्तर्विलीय विशन्त्या [^७]इवाङ्ग गाढालिङ्गनसुखरसभरेण मकर- ध्वजानलदग्धशेषं निर्वापयामि शरीरम् । एवं परवत्यापि स्वेच्छाप्र- वृत्तयेव निष्प्रयत्नयाप्यभियुञ्जानयेवापसर्पन्त्यापि [^८]कृतात्मार्पण- येव संगोपितसर्वा [^९]ङ्ग्याप्युपदर्शितभावयेव देव्या कादम्बर्या सह न किमपि सर्वजलसुलभमपि योगैकगम्यम्, स्पर्श [^१०]वि- षयमपि हृदयग्राहि, मोहनमपि प्रसादनमिन्द्रियाणाम्, उद्दीपनमपि मदनहुतभुजो [^११]निर्वृतिकरम्, उपाहितसर्वाङ्गस्वेदमप्या [ टि ]-- णातिबहलानि निबिडानि कुङ्कुमानि केसराणि कुसुमानि पुष्पाणि, धूपास्तुरुष्काः, अनुलेपनानि विलेपनानि, एतेषामामोदः परिमलस्तेनोद्दीपितः प्रगुणीकृतो हृदयजन्मा कामो यस्मिन्नेतादृशे वासभवने निवासगृहे शयनीयवर्तिनस्तल्पगतस्य मम समीपमभ्यर्णं क्षणमप्युपविश्यास्थाय कृतो नर्मालापो हास्यालापो ययैवंभूतायां मदलेखायां निर्गतायां बहिर्गतायां सत्यां त्रपया लज्जयावनम्रमवनतं मुखं यस्याः सर्वभूतामनिच्छन्तीमवाञ्छन्तीम् । किलेति सत्ये । बलाद्धठाद्दोर्भ्यां बाहुभ्यामादाय गृहीत्वा शयनीयं शय्याम्, शयनीयादङ्कमुत्सङ्गम्, अङ्काच्च हृदयं स्तनान्तरं देवीं कादम्बरीमारोपयाम्युपरि स्थापयामि । एवमिति । उद्भटा या [^1]नीव्युच्चयस्तस्या ग्रन्थिस्तस्यां दृढतरमतिनिबिडमर्पितं स्थापि- तं पाणिद्वयं करयुगलं यया सा तथा तस्यास्त्रपया लज्जया निमीलिते मुद्रिते लोचने नेत्रे चुम्बंश्चुम्बनं कुर्वन् । चिराद्बहुकालमवञ्चितात्मा कृतार्थीकृतात्मा भवामि । एवमिति । तदनन्तरं सुरैरपि देवैरपि दुर्लभं दुष्प्रापं तस्या अधरामृतं दन्तवस्त्रपीयूषमातृप्तेः पानेच्छानिवृत्तिपर्यन्तं निपीय पानं कृत्वा सुष्ठु जीवितं प्राणितं यस्यैवंभूतमा- त्मानं करोमि सृजामि । एवमतिकोमलतयातिमृदुतयान्तर्मध्ये विलीय द्रवीभूयाङ्गं शरीरं विशन्त्येव प्रवेशं कुर्वन्त्येव गाढं निबिडं यदालिङ्गनमुपगूहनं तस्य सुखं सौख्यं तस्य रसस्तस्य भर आधिक्यं तेन मकरध्वज एवानलो वह्निस्तेन दग्धशेषं प्रज्वलनादुर्वरितं शरीरं देहं निर्वापयामि शीतलीकरोमि । एवमिति पूर्वोक्तमिव परवत्यापि पराधीनयापि स्वेच्छा प्रवृत्तयेव यदृच्छासंचारिण्येव, यत्नयापि कृति- रहितयाप्यभियुञ्जानयेवाभिनोदयन्त्येव, अपसर्पन्त्याप्यपसरणं कुर्वन्त्यापि कृतो विहित आत्मनोऽर्पणं ययैवंभूतयेव, संगोपितानि गुप्तानि सर्वाङ्गानि ययैवंभूतयाप्युत्प्राबल्येनोपदर्शितो भावोऽभिप्रा- यो ययैवंभूतयेव देव्या कादम्बर्या सह तत्किमप्यनिर्वचनीयं सर्व- जनानां समग्रनराणां सुलभमपि सुप्रापमपि योगेन चित्तैकाग्र्यलक्ष- णेनैकं केवलं गम्यं ज्ञेयम् । 'एके मुख्यान्यकेवलाः' इति कोशः । स्पर्शस्य विषयमपि हृदयग्राहिस्तनान्तरग्रहणशीलम्, मोहनमपि वैचित्त्यजनकमपि प्रसादनं प्रसन्नकृदिन्द्रियाणां करणानाम् उद्दीप- नमप्यतिप्रकाशकमपि मदनहुतभुजः कामवह्नेर्निर्वृतिकरमुपशम- करम्, उपाहितः स्थापितः सर्वाङ्गेषु [^2]स्वेदो घर्मजलं [^1]F. नीवी अधोवस्त्रबन्धनम् । [^2]F. 'उपाहितसर्वाङ्गखेदमपि' उपाहितो जनितः सर्वेषामङ्गानां खेदः श्रमो यस्मिन् तत्, इति पाठः । [^१]G. भूपानुलेपन. [^२]G. शयनीयवर्तिनो मम समीपम्; शयनवतीं मत्समीपे समुप- विश्य. [^३]G. क्षणमिव. [^४]G. उद्गाढ. [^५]G. पाणिद्वयाम्. [^६]G. अचुम्बितात्मा. [^७]G. अङ्गमङ्गम्. [^८]G. कृतोपसर्पणया. [^९]G. उद्दर्शित. [^१०]G. विषम्. [^११]G. निवृत्ति. ह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुल- कजननम्, अनुभूयमानमप्युत्पादितानुभूयमानस्पृहम्, सहस्रवारा- नुभूतमप्यपुनरुक्तम्, अतिस्पष्टम [^१]प्यनिर्देश्य स्वरूपम्, [^२]अचिन्त्यमसमासङ्गमतुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहस्राधिगतं निर्वा [^३]णमिवापर [^४]प्रकारं सुरता- ख्यं सुखान्तरमनुभूय निमेषमप्यकृतविरह [^५]स्तया सह तेषु तेषु रम्ये [^६]षूद्देशेषु रममाणः [^७]स्वभावरम्यमपि रमणीयतरतां यौवनमुपयामि । एव [^८]मुत्पन्नविश्रम्भां देवीमेवाभ्यर्थ्य वैशम्पा- यनस्यापि मदलेखया सह घटनां कारयामि" इत्येतानि चान्यानि च चिन्तयन्नचेतितक्षुत्पिपासातपश्रमो [^९]ज्जागरव्यथो दिवारात्रौ चावहत् । एवं च वहतोऽप्यस्य दवीयस्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबल [^१०]पङ्को ग्रीष्मस्य, निशागमो गभस्तिमतः, स्वर्भानुरमृत- दीधितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो [ टि ]-- येनैवंभूतमप्याह्लादकर प्रमोदजनकम्, उपजनित उत्पा- दितो विषमो दुःसह उच्छ्वासश्रमखेदो येन तत् । तत्रोच्छ्वासः श्वासः श्रमः खेदः, खेदो घर्मजलम् एतादृशमपि ससीत्कारं ससीत्कृतं यथा स्यात्तथा पुलकजननं रोमाञ्चोत्पादकम्, अनुभूयमानमपि साक्षा- त्क्रियमाणमप्युत्पादिता जनितानुभूयमानस्य साक्षात्क्रयमाणस्य स्पृहा वाञ्छा येन तत् । सहस्रवारमनेकवारमनुभूतमपि सेवित- मप्यपुनरुक्तमनाम्रेडितम् अतिस्पष्टमप्यतिप्रकटमप्यनिर्देश्यं दर्शयितुमशक्यं स्वरूपं स्वभावो यस्य तत् । अचिन्त्यमिदमेतदिति चिन्तयितुमशक्यम् । न विद्यते समासङ्गः संबन्धो यस्य तत् । अतु- लो निरुपमः स्पर्शो यस्य तत् । अनुपमः सर्वेभ्योऽतिशायी रसो यस्य तत् । अनाख्येयां कथयितुमशक्यां प्रीतिं स्नेहं करोतीति करः । अनाख्येयप्रीतेः करोऽनाख्येयप्रीतिकरः । अन्यथा कर्मणि वृद्धौ कारः स्यात् । परममुत्कृष्टं यद्ध्यानमेकप्रत्ययसंततिस्तस्य सहस्रं तेनाधिगतं सहितमपरप्रकारमितररूपं निर्वाणमिव ब्रह्मेव । सुरते- त्याख्या यस्यैवंभूतं सुखान्तरमेकस्मात्सुखादन्यत्सुखं सुखान्तरमनु- भूयानुभवविषयीकृत्य निमेषमपि चक्षुर्निमीलनमात्रमपि तया सहा- कृतो विरहो वियोगो येनैवंभूतोऽहं तेषु तेषु रम्येषु मनोहरेषूद्देशेषु प्रदेशेषु रममाणः क्रीडां कुर्वाणः स्वभावेन निसर्गेण रम्यं रमणीय- मपि यौवनं तारुण्यमतिशयेन रमणीयं रमणीयतरं तस्य भावस्तत्ता तां उपनयामि प्रापयामि । एवमिति । पूर्वोक्तरीत्योत्पन्नः संजातो विश्रम्भो विश्वासो यस्याः सर्वविधां देवीं कादम्बरीमभ्यर्थ्य प्रार्थनां कृत्वैव वैशम्पायनस्यापि मदलेखया सह घटनां संबन्धं कारयामि विरचयामि । अवहदित्यन्वयस्तु पूर्वमुक्तः । एवमिति । पूर्वोक्तप्रकारेण वहतोऽपि गच्छतोऽप्यध्वनो मार्गस्य दवीयस्तयांतिदूरतया । 'दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम्' इत्यमरः । अर्धपथ एवार्धमार्ग एव जलदकालो वर्षासमयो बभूवा- जनिष्ट । तमेव विशेषयन्नाह - कालेत्यादि । वर्त्मनो मार्गस्य कालसर्पः कृष्णाहिः । गमनविघ्नकारित्वादुपमानम् । ग्रीष्मस्य निदाघस्य प्रब [^1]लपङ्को बहुलकर्दमः । पङ्कः कर्दमः । गभस्ति- मतः श्रीसूर्यस्य निशागमो रजन्या उद्भवः, रविकरप्रसरप्रतिरोध- कारित्वात् । अमृतदीधितेश्चन्द्रस्य स्वर्भानू राहुः । सर्वतस्तत्प्रकाश- प्रतिरोधकत्वात्। वज्रं पविस्तस्यानलो वह्निस्तस्य स्फुरितानां विस्फू र्जितानां धूमोद्गमो धूमप्रादुर्भावः । यदि वा धूमोद्गमो धूमकेतोरुदयः । यथा धूमकेतोरुदयेन सर्वसस्यानां विनाशस्तथैवानेन वज्रानलस्ये- ति भावः । मकरध्वजकुञ्जरस्य कंदर्पगजस्य मदागमो [^1]F. अविचारितमिदम् । 'प्रबलकम्पः' इति पाठः । ग्रीष्मस्य तापनिवृत्या, अथवा प्रबलशझञ्झावातात् प्रबलकम्पकरः । [^१]G. अनिर्दिश्य. [^२]G. अचिन्त्यसमागमम्. [^३]G. निर्वाणसुखम्. [^४]G. प्रकाशम्. [^५]G. तथैव. [^६]G. देशेषु. [^७]G. स्वयमेव रम्यम्. [^८]G. उत्पन्नसहस्रविश्रम्भाम्. [^९]G. जागर. [^१०]G. कम्पः. मकरध्वजकुञ्जरस्य, मरणान्धतमसप्रवेशो विरहातुराणाम्, अमोघ- काल [^१]पाशवागुरोत्कण्ठितकामिहरिणानाम्, अभेद्यलोहार्गल- दण्डो दिग्वारणानाम्, अच्छेद्यहिञ्जीरशृङ्खला वाहानाम्, अनुन्यो- च्यनिगलबन्धोऽध्वगानाम्, अलङ्घ्यकान्तारलेखा प्रोषितानाम्, कालायसपञ्जरोपरोधो जीवलोकस्य, उद्गर्ज [^२]न्नलिकुलगवलम- लिनघनघटाभोगमीषणो विषमविस्फूर्जितध्वनिर्विषमतरतडिद्गुणाकर्षी मण्डलितविकटशक्रकार्मुकोऽनव [^३]रतधाराशरासार- वर्षप्रहारी पुरोमार्ग [^४]मुपरुन्धन्विरुद्ध इवान्धकारितमुखो निस्त्रिंशशतसहस्रसंपातदुष्प्रेक्ष्योऽक्षिणी प्रतिघ्नन्निवाशुगमनविघ्न- कारी बभूव जलदकालः । [^५]तत्र च प्रथममस्य [^६]चेतनाहारिभिर्मूच्छावेगै [^७]रन्धकार- तामनीयन्त दश दिशः, ततो जड [ टि ]-- दर्पागमः । कामोद्दीपकत्वात्तस्येति भावः । विरहातुराणां वियोगपीडितानां मरणमेवान्धतमसं निबिडं तमस्त [^१]स्य प्रवेशः । विरहिजनस्य प्राणापहारित्वात् । उत्कण्ठोत्कलिका जाता येषां त उत्कण्ठिताः । इतो जातार्थे । एतादृशाः कामिन एव हरिणाः कुर- ङ्गास्तेषाममोघः सफलः कालः श्याम [^2]वर्णः पाशवागुरा बन्ध- नरज्जुः । दिग्वारणानां दिग्गजानामभेद्यो भेत्तुमशक्यो लोहस्याय- सोऽर्गलदण्डः परिघयष्टिः । तत्क [^3]राघातैर्दुर्भेद्यत्वात् । वाहा- नामश्वानामच्छेद्यश्छेत्तुमशक्यो यो हिञ्जीरः पादपाशस्तस्य [^4]शृ- ङ्खला । अध्वगानां पथिकानामनुन्मोच्यस्त्यक्तुमशक्यो निगल- बन्धो निगडबन्धः । विघ्नकारित्वात् । प्रोषितानां गतभर्तृकाणामल- ङ्घ्या लङ्घितुमशक्या कान्तारलेखा वनराजिः । जीवलोकस्य जीवाधारक्षेत्रस्य कालायसस्य लोहविशेषस्य पञ्जरं लोकप्रसिद्धं तेनोपरोधो गमनप्रतिबन्धः । जीवलोकमभितो वर्तमानत्वेन गतेः प्रतिरोधकत्वेन च पञ्जरोपमानं मेघसमयस्येति भावः । किं कुर्वन् । उत्प्राबल्येन गर्जन्गर्जितं शब्दं कुर्वन् । अलिकुलानि भ्रमरकुलानि, गवला अरण्यमहिषाः, तद्वन्मलिनाः कृष्णा घनघटा मेघपङ्क्तयस्तासामाभोगो विस्तारस्तेन भीषणो भयानकः। विषमा वक्रा वि- स्फूर्जितस्य विजृम्भितस्य ध्वनिर्यस्य स तथा । विषमतरोऽतिकठि- नो यस्तडिद्गुणो विद्युगुणस्तमाकर्षतीत्येवंशीलः स तथा । मण्ड- लितं मण्डलाकारं संजातं विकटं विपुलं शक्रकार्मुकमिन्द्रधनुर्य- स्मिन्स तथा । 'विकटं विपुलं बृहत्' इति कोशः । अनवरतं निरन्तरं धारा एव शरा बाणास्तेषामासारवर्षी वेगवदृष्टिस्तेन प्रहरतीत्येवंशी- लः स तथा । पुरोमार्गमग्रपन्थानमुपरुन्धन्प्रतिरोधं कुर्वन्विरुद्ध इव शत्रुरिवान्धकारितं संजा [^5]तान्धकारं मुखमाननं यस्य स तथा । निस्त्रिंशानां खड्गानां यच्छतसहस्रं लक्षं तस्य संपातः पतनं तद्वद्दुष्प्रेक्ष्यो दुःखेन प्रेक्षितुं [^6]शक्यः । अक्षिणी चक्षुषी प्रतिघ्नन्निव । प्रतिहन्तीति प्रतिघ्नन् । शत्रन्तः । प्रतिघातं कुर्वन्निव । आशुगम- नस्य शीघ्रगतेर्विघ्नकारी प्रतिबन्धजनको वर्षासमयो बभूवेयन्वयस्तु प्रागेवोक्तः । तत्र च जलदकाले प्रथममादावस्य चन्द्रापीडस्य चेतोहारिभिश्चित्तग्राहिभिर्मूर्च्छावेगैर्मोहसंवेगैर्दश दिशो दश ककुभोऽन्धकारं तिमिरं तस्य भावस्तत्ता तामनीयन्त [^7]प्रापितवन्तः । दश दिशोऽन्धका- रतां प्रापिता इत्यर्थः । [^1]F. तत्र, इत्युचितम् । [^2]F. कामिहरिणानाम् अमोघा कालपाश एव ( यमसंबन्धिनी गलबन्धनरज्जुरेव ) वागुरा बन्धनयन्त्रम् । [^3]F. वर्षासु पङ्किलभूमौ हस्तिनां पादाः प्रोथन्तीति तेषां गमनदु- ष्करत्वादर्गलेत्यर्थः । [^4]F. सवेगं गमनाभावात् । [^5]F. शत्रुः कथमन्धकारितमुखः ? अत एव विरुद्धः ( दस्यु: 'डाकू') परिज्ञातो मा भवेयमिति स्वरूपविलोपार्थमस्यादिना समा- च्छादितमुखो भवति । जलदकालस्तु - अन्धकारितम् अन्धकारा- च्छन्नम् ( दृष्टिशक्तिविहीनम् ) मुखम् ( लोकानाम् ) यस्मिन्तादृशः । स्थगितसूर्याचन्द्रतया अन्धकारयुक्तं वदनं लोकानामत्रेत्याशयः । [^6]F. दस्युस्तु खङ्गशतसहस्रसंपातभीषणः । [^7]F. प्राप्यन्त, इत्यर्थ उचितः । [^१]G. पाशोत्कण्ठित; पाशविरहोत्कण्ठित. [^२]G. अलिगवय; अलिगणकुवलय. [^३]G. धाससार. [^४]G. अवरुन्धन्. [^५]G. ततः. [^६]G. चेत:. [^७]G. अन्धकारम्. धरैः । अग्रतः [^१]समुत्प्लुतेन चेतसा क्वाप्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिमलिनोऽस्य निःश्वास [^२]मरुतः प्रावर्तन्त, पश्चात्कद- म्बवाताः । पूर्वं तुलितनीलोत्पलवनकान्तिनयनयुगलमस्य सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । [^३]आदावापूर्यमाण [^४]मुद्वेगेनोत्कलिकासहस्रपर्याकुलं मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् । अपि च दुस्तरैर्नदीपूरैरेव सहा [^५]वर्धन्त मन्मथोन्माथाः। [^६]वर्षाजलवि [^७]लुलितैः कमलाकरैरेव सह [^८]ममज्ज कादम्बरीसमागमप्रत्याशा । [^९]धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धाराकदम्बकुड्मलैरेव सहाकम्पतोत्कण्टकिता तनुः । अनवरतजलपतनजर्जरि- [^१०]तपक्ष्मभिः शिलीन्धैरेव सह ताम्रतामधत्त नयनयुग [^११]लम् । उत्कूलसलिलोत्खन्यमानमूलैः सरित्तटैरेव सहा [^१२]पतन्प्रा- णाः । परिमलमयैर्मालती [^१३]मुकुलैरेव सह व्य [^१४]जृम्भन्त [^१५]रणरणकाः। [^१६]तथातिगुरुनिर्घातैरेवाभज्यन्त मनोरथाः । [ टि ]-- ततस्तदनन्तरं जलधरैर्मेघैः । अग्रतः प्रथमतः समुत्प्लुतेन सम्यगुत्पतितेन चेतसा हृदयेन क्वाप्यनिर्दिष्टस्थलेऽगम्यत गमन- मकार्यत । पृष्ठतः पृष्ठभागे हंसैश्चक्राङ्गैर्गतम् । पुरस्तात्पूर्वमस्य चन्द्रापीडस्य परिमलिनः परिमलयुक्ता निःश्वासमरुतः घ्राणवायवः प्रावर्तन्त । पश्चात्कदम्बवाताः प्रवर्तितवन्तः । पूर्वं तुलिता सदृशी- कृता नीलोत्पलानां नीलकमलानां वनं काननं तस्य कान्तिर्द्युति- र्येनैवंभूतं नयनयुगलं नेत्रयुग्ममस्य चन्द्रापीडस्य सलिलं जलं समुत्ससर्जोन्मुमोच । चरमं पश्चादम्भोमुचां मेघानां वृन्दं समूहम् । आदौ च प्रथमं चास्य चन्द्रापीडस्योद्वेगेनाऽरत्याऽऽपूर्यमाणं भ्रिय- माणमुत्कलिका हृल्लेखास्तासां सहस्रं तेन पर्याकुलं व्याप्तमेतादृशं मनश्चित्तमभवत् । अवसाने प्रान्ते । पश्चादित्यर्थः । स्रोतस्विनीनां नदीनां पात्रं तीरद्वयान्तरम् । 'पात्रं च भाजने योग्ये पात्रं तीरद्वया- न्तरे' इति विश्वः । उद्वेगेनोद्बाहुलकेनापूर्यमाणम् । जलैरिति शेषः। 'उद्वेगः क्रमुकीफले । उद्वेगोऽप्युद्बाहुलकोद्वेजनोद्गमनेषु च' इति विश्वः । उत्कलिका वीचयस्तासां सहस्रं तेन पर्याकुलं चाभवत् । अपि चेति प्रकारान्तरे । दुःखेन तर्तुं शक्यन्त इति दुस्तरास्तैरेतादृ- शैर्नदीपूरैस्तटिनीप्लवैरेव सह मन्मथस्य कंदर्पस्योन्माथा उन्मथ- नान्यवर्धन्तैधिषत । वर्षाजलानि वृष्टिपानीयानि तैर्विलुलितैरितस्ततः पर्यस्तैः कमलाकरैरेव पद्मसमूहैरेव सह कादम्बर्या गन्धर्वपुत्र्याः समागमो मेलापस्तस्य प्रत्याशा वाञ्छा ममज्जाब्रुडत् । धारा वेगेन जलपातास्तासां रयो वेगस्तम [^1]सहन्त इति धारारयासहास्तैः कन्दलैरे[^2]व सह हृदयं चेतोऽभिद्यत भेदमापादितवान् ।अम्भो- दवातेन जलदवायुनाहतास्ताडिता ये धाराकदम्बा धारया ये विक- सन्ति ते धाराकदम्बास्तेषां कुड्मलैर्मुकुलैरेव सहोत्कण्टकिता सरोमाञ्चा तनुः शरीरमकम्पत कम्पयुक्ता बभूव । अनवरतं निरन्तरं यज्जलपतनमम्भोनिपतनं तेन जर्जरितं शिथिलीकृतं पक्ष्मोपरिवर्ति रोम येषामेवंभूतैः शिलीन्ध्रैर्भूमिस्फोटैः सह नयन- युगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्त बभार । उत्प्राबल्येन यानि कुलसलिलानि तैरुत्खन्यमानानि पात्यमानानि मूलान्यधोभागा येषामेवंभूतैः सरित्तटैस्तटिनीतीरैः : सह प्राणा असवोऽपतभ्रंशमापुः । परिमलप्रधानानि परिमलमयानि मालतीनां वल्लिविशेषाणां मुकुलैः कुड्मलैरेव सह रणरणका उत्कण्ठा व्यजृम्भन्त विकास- मभजन्त । तथातिगुरुनि [^3]र्घातैरेव मनोरथा [^1]F. न सहन्ते इत्युचितम् । [^2]F. रक्तवर्णैः कन्दल्याख्यलतायाः पुष्पै: 'विडम्ब्यमाना नवक न्दलैस्ते' इति कालिदासः । [^3]F. परस्परमाघ्नतोर्वातयोर्यो वेगो नीचैर्निष्पतति सशब्दः स निर्धात उच्यते । 'कुरुकुलनिधनोत्पातनिर्घातवातः' इति वेणी० । [^१]G. समुपप्लुतेन. [^२]G. निःश्वसित. [^३]G. आदावपूर्वम्. [^४]G. उद्वेग. [^५]G. अवर्धत. [^६]G. वर्ष. [^७]G. लुलितैः. [^८]G. प्राभिद्यत हृदयं कादम्बरीसमागमप्रत्याशाधारया सह रयात्कन्दलैरुद्भिद्यत नवाम्भोदवाताहतैर्धाराकादम्बकुड्मलैरेव. [^९]G. भारायासकन्दलैरेवाभिहतहृदयम्, नवाम्भोदवाताहतैः कदम्बकुड्मलैरेव सहोदकम्पोत्कण्ठिता. [^१०]G. जर्जरितैः पक्ष्मभिः. [^११]G. युगलं च, युगम्. [^१२]G. अपतन्त कामबाणा: अपतन्. [^१३]G. कुसुमैः. [^१४]G. उज्जृम्भन्त. [^१५]G. रणरणकः. [^१६]G. तथातिगुरुभिर्घातैरेव; तथापि गुरुभिर्यातैरेव; तथा गुरुभिर्घनैरेव. [^१]तीक्ष्णतरकोटिभिः केतकीसूचिभिरेवा [^२]त्रुट्यन्त मर्माणि । उच्छिखैः [^३]शिखिभिरेवादह्यन्त गात्राणि । अन्धकारितदिशा [^४]मेघतमसैवावर्धत [^५]मोहान्धकारम् । तिरस्कृध्वान्तेन तडि- दातपेनैवातन्यत संतापः । [^६]भरेणैव गम्भीरगर्जितैकसंतानोत्क- म्पित [^७]धरापीठबन्धैर्नभसि नवघनैः, [^८]घनजलधारातिपात- वाचालितचञ्चुभिरन्तराले चातकैः, उद्दाम [^९]महारावराविभिरवर्नि [^१०]मूले दर्दुरैः,अनवरत [^११]झांकाररवजर्जरितधाराम्बुभिराशासु जलदानिलैः उन्मुक्तमदकलकेकाकोलाहलैः, काननेषु कलापिभिः, असमशिखरोपलस्खलनकलकलमुखरैर्गिरिषु निर्झरैः, उल्लोलकल्लोलास्फाल [^१२]विस्फारितविषमनिर्घोष [^१३]झा- ङ्कारिभिः सरित्सु पूरैः, सर्वतश्च विततेन स्थलीषु, [^१५]संहतेन कन्दरेषु, उच्चण्डेन शिखरिषु, कलेनाम्बुषु, पटुना पर्वततटेषु, मृदुना शाद्वलेषु चारुणा [ टि ]-- अभिलाषा अभज्यन्त भङ्गमापुः । तीक्ष्णतरातिशयेन तीक्ष्णा कोटिरग्रभागो येषामेवंभूतैः केतकीसूचिभिर्वल्लीविशेष- कण्टकैरेव सह मर्माणि मर्मस्थानान्यत्रु [^1]ट्यन्ताच्छिद्यन्त । उदूर्ध्वं शिखा येषामेवंभूतैः शिखि [^2]भिर्मयूरैरेव गात्राण्यङ्गान्य- दह्यन्त प्राज्वलन् । अन्धकारितदिशा मेघतमसैव मोहान्धकारमवर्धतैधिष्ट । तिरस्कृतं न्यक्कृतं ध्वान्तं तिमिरं येनैवंभूतेन तडिदात- पेनैव विद्युदालोकेनैव संतापः संज्वरोऽतन्यत व्यस्तार्यत । भरेण चेति । भरो भारस्तेन गम्भीरं गभीरं यद्गर्जितं स्तनितं तस्यैकं प्रधानं संतानं परम्परा तेनोत्प्राबल्येन कम्पितश्चलितो धरायाः पृथ्व्याः पीठ बन्धो यैस्ते यथा तैर्नवघनैर्नवीनजलधरैर्नभसि व्योम्नि । अन्तराले विचाले चातकैर्नभोम्बुपैः । कीदृशैः । घना निबिडा या जलधारा- स्तासामतिपातोऽतिपतनं तेन वाचालिता मुखराश्चञ्चवश्चञ्चुपुटिका येषां ते तथा तैः । अवनिमूले पृथिव्यां दर्दुरैर्भेकैः । कीदृशैः । उद्दामः कठिनो यो महारावो महाध्वनिस्तस्य राविभिर्जल्पिभिः । आशासु दिशासु जलदानिलैर्मेघमारुतैः । कीदृशैः । अनवरतं निरन्तरं झांकाररवो झंझावातध्वनिस्तेन [^3]जर्जरितानि शिथि- लितानि धाराम्बूनि यैस्ते तथा तैः । काननेष्वरण्येषु कलापिभि- र्मयूरैः । कथंभूतैः । उन्मुक्तो यो मदस्तेन कलो मनोहरः केकाया मयूरवाण्याः कोलाहलः कलकलो येषां ते तथा तैः । गिरिषु पर्वतेषु निर्झरैर्झरैः । 'उत्सः प्रस्रवरणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । किंविशिष्टैः । असमा विषमा ये शिखरोपलाः सानुप्रस्तरास्तेषु स्खलनेन भ्रंशेन यः कलकलः कोलाहलस्तेन मुखरैर्वाचालैः । सरित्सु तटिनीषु पूरैः प्लवैरम्बुवृद्धिभिः । किंभूतैः । उल्लोला उत्प्राबल्येन चञ्चला ये कल्लोलास्तरंगास्तेवामास्फालोन्योन्या- घातस्तेन विस्फारितो विस्तारितो यो विषमनिर्घोषोऽसमध्वनिस्तेन झांकारिभिर्द्यौतिभिः । एवं [^४]सर्वतश्च स्थलीष्वकृत्रिमस्थलभूमिषु विततेन विस्तृतेन, कंदरेषु दरीषु संहतेन प्रतिहतेन, शिखरिषु पर्वतेषूच्चण्डेनात्युग्रेण, अम्बुषु पानीयेषु कलेन मनोहरेण, पर्वत- तटेष्वद्रिवप्रेषु पटुना स्पष्टेन, शाद्वलेषु शादहरितेषु मृदुना कोमलेन, कपोलेषु गल्लात्परप्रदेशेषु चारुणा मनोहरेण, शाखिषु वृक्षेषु सान्द्रेण निबिडेन, [^1]F. 'अतुद्यन्त' अपीड्यन्त, इत्येव पाठ उचितः । त्रुट्यतेः परस्मैपदित्वात् । [^2]F. ध्वनिर्न ज्ञातष्टीकाकारेण । शिखिभिरग्निभिरित्यपि व्यज्यते । उच्छिखैः उद्गतज्वालैरिति तत्रार्थः । [^3]F. अनवरतझांकाररवेण ( झांकाररवपूर्वकम् ) जर्जरितानि धाराजलानि यैः । [^4]F. नभसि घनैः, अन्तराले चातकैर्विततेन स्थलीषु च सर्वतो विततेन धारारवेण, इत्यन्वयः । [^१]G. तीक्ष्णान्तर. [^२]G. अतुट्यन्त. [^३]G. शिखरै:. [^४]G. निशामेघ. [^५]G. मोहान्धकार:. [^६]G. भरेण च. [^७]G. धारापीठ. [^८]G. घनजलधरधारानिपातरभसवाचालित; घनजललवा चातिरभसवाचालितं. [^९]G. महारावहारिभिः; महावारराविभिः. [^१०]G. तले. [^११]G. झंकार. १२ विस्फुटित. १३ उद्गारिभिः. १४ सरित्पूरै:. १५ संभृतेन. [^१]कपोलेषु, सान्द्रेण शाखिषु, तनुना [^२]तृणोपलेषु, उल्बणेन तालीवनेषु, [^३]यथाधाराश्मपतनमाकर्ण्यमानेन सर्वप्रकारमधु- रेण [^४]हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा न ग्रामे नारण्ये नान्तर्न बहिर्न वने नोपवने न वर्त्मनि नावासे न वहन्न तिष्ठन्न वैशम्पायनस्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न कचिदपि निर्वृतिमेवाध्यगच्छत् । अनधिगतनिर्वृतिश्चातिकष्टतया वज्रानलस्येव जलदसमयेन्धनस्य मदनहुतभुजो भस्मसात्कर्तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृति- मेवोत्ससर्ज । प्लावि [^५]तसकलधरातलैर्धाराजलैरप्यशोष्यत । द्योतितदशदिशा शतह्रदालोकेनापि मूर्च्छान्धकारेऽक्षिप्यत । आह्लादितजीवलोकैर्जलदानिलैरप्यदह्यत । पयोभारमेदुरैर्घनैरपि तनुतामानीयत । पाटलितशाद्वलैः शक्रगोपकैरपि पाण्डुतां प्रत्य- पद्यत । कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत ।[^६]तथापि सकलजगज्जी [ टि ]-- तृणाना [^1]मुपलाः समूहास्तेषु तनुना तुच्छेन, ताली- वनेषूल्बणेनोग्रेण, धारयाश्मम [^2]पतनं यथा भवति तथाकर्ण्य- मानेन श्रूयमाणेन, सर्वप्रकारैमधुरेण मिष्टेन, हृदयप्रवेशिना चित्तप्रविष्टेन, धारारवेण जलसंपातध्वनिनोत्कलिका हृल्लेखस्तेन कलितो व्याप्त एवंभूतश्चन्द्रापीडो न रात्रौ निशायाम्, न दिवा दिवसे, न ग्रामेऽवसथे, नारण्ये वने, नान्तरे मध्ये गृहस्य, न बहि- र्गृहादन्यत्र, न वने कानने, नोपवने नगराभ्यर्णवर्तिवाटिकायाम्, न वर्त्मनि मार्गे, नावासे सौधे, न वहन्गच्छन्, न तिष्ठन् स्थितिं कुर्वन्, न वैशम्पायनस्य स्मरणेन स्मृतिं कुर्वन्, न कादम्बर्याः समागमस्य मेलापकस्यानुध्यानेनानुचिन्तनेन कथंचिदपि महता कष्टेन न क्व- चिदपि न कुत्रापि निर्वृतिमेव चित्तस्वास्थ्यमेवाध्यगच्छदप्रापत् । अनधिगताऽप्राप्ता निर्वृतिश्चित्तस्वास्थ्यं यस्यैवंभूतश्चातिकष्टतया- तिकृच्छ्रतया वज्रानलस्येव भिदुराग्रेरिव जलदकालः प्रावृट् तस्य समयोऽवसरः स एवेन्धनमिध्मा यस्यैवंभूतस्य मदनहुतभुजः कामाग्नेर्भस्मसात्कर्तुमेवोद्यतस्य कृतोद्यम [^4]स्य धीरस्वभावो- ऽपि स्थैर्यप्रकृतिरपि प्रकृतिमेव स्वभावमेव चन्द्रापीड उत्ससर्ज तत्याज । तदेव दर्शयन्नाह - प्लावितेति । प्लावितं जलसात्कृतं सकलं धारातलं यैरेवंभूतैर्धाराजलैरप्यशोष्यत शोषं प्राप्तवान् । अपिशब्दः सर्वत्र विरोधालंकृतिद्योतनार्थः । द्योतिताः प्रकाशिता दश दिशो येनैवंभूतेन शतह्रदालोकेन विद्युत्प्रकाशेनापि मूर्च्छा मोहः सैवान्धकारं तमिस्रं तस्मिन्नक्षिप्त चिक्षिपे । आह्लादितः प्रमो- दितो जीवलोको यैरेवंभूतैर्जलदानिलैर्झञ्झावायुभिरप्यदह्यत प्रा- ज्वल्यत । पयोभारेण जलवीवधेन मेदुरैः पुष्टैरपि घनैर्मैघैस्तनुतां क्षीणतामानीयताप्राप्यत । पाटलितानि श्वेतरक्तीकृतानि शाद्वलानि शादहरितानि यैरीदृशैः शक्रगो [^5]पकैरप्यग्निरजोभिरपि पाण्डुतां धवलतां प्रत्यपद्यत स्वीचक्रे।'श्वेतरक्तस्तु पाटलः' इत्यमरः। कुसुमैः पुष्पैः कृत्वा धवलैः शुभ्रैरेतादृशैः कुटजैर्गिरिमल्लिकाभिरपि रागप- रवशोऽनुरक्त्यधीनोऽक्रियताकल्प्यत । [^६]तथाप्येवं सत्यपि सकल [^1]F. समूहार्थे उपलोऽप्रसिद्धः । अत एव 'तृणोलपेषु तृणेषु उलपेषु (गुल्मायितासु लतासु) 'गुल्मिन्युलप इत्यपि' इत्यमरः । [^2]F. अश्मपतने वक्ष्यमाणं माधुर्यं न भवति, अत एव 'यथाधारा- संपतनम्' इत्येव पाठः । [^3]F. न वर्त्मनि नावासे इत्यादि पूर्वं सप्तम्यन्तमुपात्तम्, अग्रेपि 'न क्वचिदपि' इति अधिकरणनिर्देशेनैवोपसंहारः कृत इति 'स्मरणेन' 'अनुध्यानेन' इति तृतीयान्तपाठः स्थूल एव । 'न वैशम्पायन- स्मरणे, न कादम्बरीसमागमानुध्याने, न कथंचिदपि ' इत्येव पाठः । [^4]F. ईदृशस्य मदनहुतभुजः अतिकष्टतया अतिक्लेशदायक- त्वेन, इत्यन्वयः प्रहेलीकृतष्टीकाकृता । [^5]F. 'बीरबहुट्टी' इति भाषाख्यातैर्वर्षाकीटै: । [^6]F. 'तथाहि' इति पाठ उचितः । [^१]G. पल्वलेषु. [^२]G. तृणोलपेषु. [^३]G. यथाधारापतन; यथाधारासंपतन. [^४]G. हृदयं प्रविशता धारा. [^५]G. सकलधाराजलैः. [^६]G. तथा च. ७३का० वनहेतुनापि जी [^१]वितसंदेहदोलामारोपितो जलदकालेन, उत्कूलगामिषु विधिविलसितेषु सरित्पूरेषु चोप्लवमानः, [^२]अनवरतवर्षाजलजनितेषु मूर्च्छागमेषु पङ्कपटलेषु च निमज्जन्, जलभरस्थगितवर्त्मनि [^३]विलोचने च [^४]स्खलन्, विकासिनीषु काद- म्बरी प्राप्तिचिन्तासु धारा कदम्बरजोवृष्टिषु [^५]चामीलयन्, अनु- बन्धिषु गमनविघ्नेषु जलधरध्वनितेषु च [^६]मुह्यन्, सुदुर्लङ्घ्यवे- गान्युत्कण्ठितानि सहस्रशः स्रोतांसि चोल्लङ्घयन्, घनो [^७]पाहितवृद्धिना कादम्बरीसमागमौत्सुक्येन पय:-प्लवरयेण चोह्यमानः, जीवितप्रत्याशामव [^८]हन्, तुरङ्गमांश्च परित्यजन्, तर्ज्यमान इव तडिद्भिः; अवष्टभ्यमान इव जलधरैः, निर्भर्त्स्यमान इव विस्फूर्जितैः शकलीक्रियमाण इव शतशो निस्त्रिंशवृत्तिभिर्धारासारैः, निरुद्धा- स्वपि जलदकालेनैवाशुगमनविघ्नभूतास्वाशासु कादम्बरीसमाग- माशा सुतरां नारुध्यतास्य, [^९]यया तादृशेऽपि यथास्थाननिग- डितसमस्तप्राणिनि प्रावृट्काले कलामप्यकृतपरिलम्बोऽनीय- [^१०]त तं पन्थानम् । धाराहतिविकूणिताक्षेण च मुहुर्मुहुर्वलि [^११]तान [ टि ]-- जगतः समग्रविश्वस्य जीवनहेतुनापि प्राणितकरेणापि जीवितस्य संदेहो द्वापरः स एव दोला प्रेङ्खा तां जलदकालेन मेघसमयेनारोपितः स्थापितः। कूलस्योर्ध्वमु [^1]त्कूलं गच्छन्ती- त्येवंशीलान्युत्कूलगामीनि तेषूत्कूलगामिषु विधेर्विधातुरेव विलसितं चेष्टितं येष्वेतादृशेषु सरित्पूरेषु च नदीप्लवेषु चोत्प्लवमानस्तरन्नन- वरतं निरन्तरं वर्षाजलैर्वृष्टिपानीयैर्जनितेषु विहितेषु मूर्च्छागमेषु मोहागमेषु पङ्कपटलेषु च कर्दमसमूहेषु च निमज्जन्ब्रुडन्, जलभरेण स्थगित आच्छादिते वर्त्मनि मार्गे लोचने नेत्रे च स्खलन्स्खल- नां प्राप्नुवन् । विकासिनीषु विनिद्रासु कादम्बरीप्राप्तिचिन्तासु,धा- राकदम्बाः येषां धारया पुष्पोद्गमो भवति ते धाराकदम्बाः, तेषां रजोवृष्टिष्वेतत्परागवर्षासु चामीलय [^2]न्नसंकुचन्।अनुबन्धोऽ- न्योन्यं सापेक्षभावः स विद्यते येष्वेवं विधेषु गमनविघ्नेषु यात्राप्रति- बन्धेषु जलधरस्य मेघस्य ध्वनितेषु गर्जितेषु च मुह्यन्मोहं प्राप्नुवन्, सुतरां दुर्लङ्घ्यो वेगो रयो येषामेवं भूतान्युत्कण्ठितानि सहस्रशः स्रोतांसि तटिन्यादीनि चोल्लङ्घयन्नतिक्रामन् । [^3]घनो मेघो जल- दस्तेनोपहिता स्थापिता वृद्धिर्येनैवंभूतेन कादम्बर्याः समागमस्यौ- त्सुक्येन रणरणकेन पयसः लवः पुरस्तस्य रयो वेगस्तेन चोह्यमानो वहमानो जीवितप्रत्याशां प्राणितसमीहा [^4]मवहन्नधारयन्। तुरं- गमानश्वश्च परित्यजन्परिहरन्, तडिद्भिर्विद्युद्भिस्तर्ज्यमान इव तिरस्क्रियमाण इव, जलधरैर्मेघैरवष्टभ्यमान इव प्रतिरुध्यमान इव, [^5]विस्फूर्जितैर्जलदचेष्टितैर्निर्भर्त्स्यमान इव मिर्भर्त्सनां क्रियमाण इव । शतशो निस्त्रिंशाः खड्गास्तेषां वृत्तिरिव वृत्तिर्वर्तनं येषामेवं भूतैर्धारासारैर्धाराया आसारैर्वेगवद्वषैः शकलीक्रियमाण इव खण्डी क्रियमाण इव, अस्य चन्द्रापीडस्य जलदकालेन मेघसमयेनैवाशुगमनस्य शीघ्रयात्राया विघ्नभूतासु प्रतिबन्धकारिणीष्वाशासु दिशासु निरुद्धास्वपि कादम्बरीसमागमाशा सुतरामत्यर्थं नारुध्यत न प्रत्यवध्यत, ययाऽऽशया तादृशेऽपि पूर्वोत्तलक्षणेऽपि यथास्थानं यथास्थलं निगडिताः संनाहिताः समस्ताः प्राणिनो येनैवंभूते प्रावृट्- काले वर्षासमये कलामपि घटिकामात्रमपि न कृतो विहितः परिलम्बो विलम्बो येनैवंभूतस्तं पन्थानमनीयत प्राप्यत । कथंभूतः । अनुगम्यमानोऽनुयायमानः । केन । वाजि सैन्येनाश्वबलेन । एतदेव विशेषयन्नाह – धारेति । धाराणामाहत्याभिघातेन विकूणितेऽर्धमी- लिते अक्षिणी [^1]F. उत्कूलं प्रतिकूलं गच्छन्ति तादृशानि विधिविलसितानि, कूलम् अतिक्रम्य गच्छन्ति तादृशाः सरित्पूराः इति बोध्यम् । [^2]F. 'आमीलन्' नेत्रे संकोचयन्, इत्येव पाठस्तदर्थश्च । टीका- कारस्तु दूरतः प्रणम्य: । [^3]F. घनं घना ( प्रचुरा ) वा उपाहिता वृद्धिर्यस्य ईदृशेन समाग- मौत्सुक्येन । [^4]F. 'जीवितप्रत्याशामनिर्वहतस्तुरङ्गमांश्च परित्यजन्', मार्गगम- नखेदेन अग्रे चलनशक्तिमवहतोऽश्वांस्तत्रैव त्यजन्निति पाठः अर्थश्च। [^5]F. वज्रनिर्घोषैरित्यर्थः, 'स्फूर्जथुर्वज्रनिर्घोषः' इत्यमरः । [^१]G. जीवनसंदेह. [^२]G. वर्ष. [^३]G. लोचने. [^४]G. स्वबलविकासिनीषु. [^५]G. अमीलन्. [^६]G. विमुह्यन्. [^७]G. उपाहृत. [^८]G. अनिर्वहंस्तुरंगमांश्च; अनिर्वहस्तुरंगमांश्च. [^९]G. आशया तया; यथा. [^१०]G. असौ. [^११]G. विवलित; चलित. मिताननेन श्च्योतदास [^१]क्तिचिसंपिण्डितकेसराग्रेणैकसंतान- कर्दमा [^२]नुमग्नखुरेणादृश्यनिम्नोन्नतस्खलद्गतिना विशीर्यमाण- पर्याणसमायोगेनोपर्युपरिवा [^३]हिनीतीरोत्तारसंतानावानपृष्ठेना- पचीयमानबलजवोत्साहेन [^४]वाजिसैन्येनानुगम्यमानो जीवित- संधारणाय यथा तथा निर्वर्ति [^५]ताशनमात्रकोऽ[^६]भ्यर्हित- राजलोकवचसाप्यप्रतिपन्नशरीरसंस्कारो दिव [^७]समेव केवल- मवहत् । वहंश्च [^८]त्रिभागमात्रावशिष्टेऽध्वनि नि [^९]वर्तमानं मेघनादमद्राक्षीत् । दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीत् - 'तिष्ठतु तावत्पु [^१०]रस्तात्पत्रलेखागमनवृत्तान्त प्रश्नः । वैशम्पायनवृत्ता- न्तमेव तावत्पृच्छामि । [^११]अयि, दृष्टस्त्वयाच्छोदसरसि वैशम्पा- यनः ? पृष्टो [^१२]वावस्थानकारणम् ? पृष्टेन वा किंचित्कथितं न ना ? पञ्चात्तापी वास्मत्परित्यागेन ? समरति वास्माकम् ? पृष्टोऽसि वानेन किंचिन्मदीयम् ॽ [^१३]उपलब्धो वाभिप्रायः ? उत्पन्नो वालापो युवयोः ? मातापित्रोर्वा संदिष्टं किंचित् ? [^१४]'प्रति- योधितो वा त्वयागमनाय ? आवेदितं वास्य [ टि ]-- येन तत्तथा । मुहुर्मुहुर्वारंवारं वलितानि परावर्तितान्यान- मितानि चाननानि मुखानि येन तत्तथा । च्योततीत च्योत [^1]त्प्र- स्वेदस्तस्यासक्तिः संपर्कस्तेन संपिण्डितानि मिलितानि केसराणां स्कन्धरोम्णामग्राणि प्रान्तानि यस्मिंस्तथा । एकं संतानं परम्परा यस्मिन्नेवंभूतः कर्दमः पङ्कस्तत्रानुमग्ना ब्रुडिताः खुराः शफा यस्य तत्तथा । अदृश्यं यन्निम्नोन्नतस्थलं तत्र स्खलन्ती गतिर्गमनं यस्य तत्तथा । विशीर्यमाणो विदीर्यमाणः पर्याणसमायोगः पल्ययन- संबन्धो यस्य तत्तथा । उपर्युपरि वाहिनीनां नदीनां तीराणां तटा- नामुत्तारस्तेषां संतानानि तैरवाना अशुष्काः पृष्ठयो यस्य तत्तथा । बलं सामर्थ्यम्, जवो वेगः, उत्साहः प्रगल्भता, एतेषां द्वन्द्व: पत्रा- दपचीयमानानि प्रतिक्षणं हीनतां प्राप्यमाणानि बलजवोत्साहादीनि यस्य [^2]तत्तथा, जीवितसंधारणाय प्राणितधारणाकृते यथा तथा येन केन प्रकारेण निर्वर्तितं विहितमशनमात्रं केवलं भोजनं येन सः । अभ्यर्हितः पूजितो यो राजलोकस्तस्य वचसापि वाक्येनाप्यप्रति- पन्नोऽनङ्गीकृतः शरीरसंस्कारो देहशुश्रूषा येनैवंभूतः। केवलं दिव- समेवावहदचलत् । वहंश्च त्रिभागमात्रमवशिष्टमुद्वरितं यस्मिन्नेवंविधेऽध्वनि मार्गे निव- र्तमानं पश्चाद्वलमानं मेघनादं स्वसपर्याकारिणमाक्षीद्व्यलोकयत् । दृष्ट्वा च विलोक्य च दूरत एव कृतो विहितो नमस्कारः प्रणामो येनैवंभूतं तमप्राक्षीदपृच्छत् । तावदादौ पुरस्तात् पत्रलेखागमन- वृत्तान्तप्रश्नस्तिष्ठतु । वैशम्पायनस्य वृत्तान्तमुदन्तमेव तावत्पृच्छामि प्रश्नविषयीकरोमि । अयीति । अयीति विषादे । 'अयि क्रोधे विषादे च संभ्रान्तस्मरणेऽपि च' इति विश्वः । अच्छोदसरस्यच्छं निर्मलमुद- कं जलं यस्मिन् । उदकस्योदादेशः । एवं विधे तटाके वैशम्पायनस्त्वया दृष्टो विलोकितः । अवस्थानकारणं तत्रावस्थाननिदानं पृष्टो वा पृच्छाविषयीकृतो वा । पृष्टेन वा तेन किंचित्कथितं प्रोक्तं न वा । अस्मत्परित्यागेन तस्य पश्चात्तापोऽनुतापोऽस्ति वा, अस्माकं स्मरति स्मृतिगोचरीकरोति वा । कर्मणि षष्ठी । अनेन वैशम्पायनेन किंचि- त्त्वं मदीयं मत्संबन्धि पृष्टोऽसि वा । उपलब्धो ज्ञातो वा तस्याभिप्राय आशयः । युवयोर्भवतोरुत्पन्नः संजातो वालापः संलापः। मातापित्रो- र्जननीजनकयोः किंचित्संदिष्टं कथितं वा । त्वया भवताऽऽगमनाय प्रतिबोधितो वा प्रतिबोधं प्रापितो वा । अस्य वैशम्पायनस्य मदीय [^1]F. प्रस्वेदपदं न दृश्यते मूले, अत एव च्योतत् स्खलत् आसक्त्या अन्योन्यसंश्लेषेण पिण्डितं घनतां गतं केसराग्रं यस्य तथोक्तेनेत्यर्थः । [^2]F. तेन, इत्यर्थः । [^१]G. पिण्डित; संपीडित. [6२]G. अनुलग्न; मग्नोन्मग्न . [^३]G. पूर. [^४]G. विशीर्यता वाजी. [^५]G. निवर्तित. [^६]G. अभ्युद्गत. [^७]G. दिवसमवहदेव केवलम्. [^८]G. त्रिभागावशिष्टे. [^९]G. वर्तमानम्. [^१०]G. परस्तात्. [^११]G. अपि. [^१२]G. च. [^१३]G. उपालब्धो वाभिप्रायो वाक्यम्; उपलक्षितो वाभिप्राय- स्त्वया. [^१४]G. परिबोधितः. [^१]मदीयमागमनम् ? नापयास्यति वा तस्मात्प्रदेशात् ? दास्यति वा दर्शनम् ? महीष्यति वास्मदनुनयम् ? आगमिष्यति वा पुनर्मया सह ? किं कुर्वन्दिवसमास्ते ? को वा विनोदोऽस्य तिष्ठतः' इति । [^२]स त्वेवं पृष्टो [^३]व्यज्ञपयत् - "देव, देवेन तु 'वैशम्पायनमालोक्यानुपदमेव तुरंगमैरागत एवाहम्' इत्यादिश्य विसर्जितोऽहम् । [^४]अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येषान्तरा वार्तैव नो- पया [^५]ता । चिरयति च देवे जलदसमयारम्भमालोक्य कदाचि- देतेषु दिवसेषु देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च कृतप्रयत्नोऽपि न [^६]मुच्यत एवागन्तुं देवश्चन्द्रापीड:। त्वया चैका किना न स्थातव्यमेवास्यां भूमौ । परागतप्रायाश्च वयम् । तन्निव[^७]र्तयास्मादेव प्रदेशादित्यभिधाय पत्रलेखया केयूरकेण च त्रिच- तुरैः प्रयाणकैरप्राप्त एवाच्छोदं यावद्बला [^८]न्निवर्तितोऽस्मि" इति एवमावेद्य विरराम । विरतवचनं च तं पुनरपृच्छत् । कि [^९]माकलयस्य [^१०]द्यतनेनाह्ना यावत्परापतिता पत्रलेखा नेति । स तु व्यज्ञपयत् - 'देव, यद्यन्तरा कश्चिदन्तरायो न [^११]भवति विलम्ब- कारी, तदा विना संदेहेन परापतितैवेत्यवगच्छति मे हृदयम् ।' [ टि ]-- 'मागमनमावेदितं निवेदितं वा तस्मात्प्रदेशात्स्थानान्नापया- स्यति न गमिष्यति वा । दर्शनं दास्यति वा । अस्माकमिति शेषः । अस्माकमनुनयं प्रणतिं ग्रहीष्यति वा । पुनर्मया सहागमिष्यति वागमनं करिष्यति वा । किं कुर्वन्कि विदधद्दिवसं दिनमास्ते तिष्ठति । अस्य वैशम्पायनस्यात्र तिष्ठतः स्थितिं कुर्वतः को विनोदः का केलिरिति । स तु मेघनाद एवं पृष्टः सव्यज्ञपयद्विज्ञप्तिं चकार । किं कथितवा नित्याशयेनाह - देव इति । हे देव हे स्वामिन्, देवेनैव भवतैव वैश- म्पायनमालोक्य निरीक्ष्यानुपदमनुचरणन्यासं तुरंगमैरश्वैरहमागत एवेत्यादिश्येत्युक्त्वाहं मेघनादाभिधो विसर्जितो गमनायानुज्ञातः । अच्छोदसरसः [^1]प्रतीपं वामं प्रदेशं वैशम्पायनो गत इत्येषा वार्तैव किंवदन्त्येवान्तरी विचाले । मार्गस्येति शेषः । नोपयाता न प्राप्ता । 'प्रतिकूलं तु विलोममपसव्यमपष्टुरम् । वामप्रसव्यप्रतीपं प्रतिलोममपष्ठु च ' इति हैमः । मया पूर्वं त्वं विसर्जितः कथमत्रा- गत इत्याकाङ्क्षायामाह - चिरयति चेति । जलदसमयारम्भं वर्षा- प्रारम्भमालोक्य निरीक्ष्य देवे चिरयति विलम्बं कुर्वति सति एतेषु दिवसेषु वर्षावासरेष्वागन्तुमागमनाय कृतप्रयत्नोऽपि विहितोद्य मोऽपि देवश्चन्द्रापीडो देवेन तारापीडेन जनकेन, देव्या विलास- वत्या मात्रा, आर्यशुकनासेन वृद्धमन्त्रिणा च कदाचिन्न मुच्यत एव । न स्वसमीपाद्दूरीक्रियत एव । त्वया चास्यां भूमावेकाकिनाऽस- हायेन न स्थातव्यमेव न स्थेयमेव । परागतप्रायाश्च प्राप्तप्रायाश्च वयं पत्रलेखाकेयूरकाख्याः । ततोऽस्मादेव प्रदेशात्त्वं निवर्त [^2]य पश्चाद्वलेत्यभिधायेत्युक्त्वा पत्रलेखया केयूरकेण च त्रिचतुरैः प्रया- णकैः प्रस्थानकैरच्छोदं यावत्, [^3]अप्राप्त एव बलाद्धठान्निवर्तितः पश्चाद्वलितोऽस्मीत्यावेद्य निवेद्य विरराम विरतो बभूव । विरतवचनं मौनावलम्बिनं च तं मेघनादं पुनरपृच्छत् । किं तदित्याह – किमि- ति । किमाकलयति किं जानासि । अद्यतनेनाह्ना दिवसेन यावत्, पत्रलेखा परापतिता प्राप्ता नेति न प्राप्ता वा । स तु मेघनादो व्यज्ञपयत् - हे देव, यद्यन्तरा मध्ये कश्चिदन्तरायः प्रत्यूहो विलम्ब कारी परिलम्बकृन्न भवति न स्यात्, तदा संदेहेन विना निःसंदेहं परापतितैव तत्र गतैव मे मम हृदयं चेत इत्यवगच्छति जानातीति । [^1]F. 'अच्छोदसरसः समीपे' इति पाठः स्पष्टः । [^2]F. 'निवर्तस्व' ( परावर्तस्व ) इत्येव पाठः । प्रेरणार्थस्तु टीका- कृतो विचारदारिद्र्यम् । [^3]F. त्रिचतुर्दिवससाध्यैः प्रयाणकैः अप्राप्तः अर्थात् यावता त्रिचतुरदिवसैरच्छोदसरः प्राप्यते ततः स्थानात्पूर्वमेवाहं परावर्तित इत्याशयः । [^१]G. आगमनम्. [^२]G. एवमापृष्टः; एवमादिष्ट:. [^३]G. विशपयेत्. [^४]G. अथाच्छोद. [^५]G. नोपयाता; चोपजाता. [^६]G. मुच्येत. [^७]G. निवर्तस्व. [^८]G. विनिर्वर्तितः. [^९]G. किमु कलयसि. [^१०]G. अद्य तेन. [^११]G. भविष्यति. इत्युक्तवति मेघनादे घनसमयवर्धिताभोगमकरध्वजार्णव [^१]म- थ्यपातिनीं स्वानुमानात्कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लवीभवतः [^२]पर्यवर्त्यन्त इवास्य जलधराः कालपुरुषैः, तडितो मदनानल- शिखाभिः, अवरस्फूर्जितं प्रेतपतिपटहस्वनैः, आसारधाराः स्मरे-षुभिः, [^३]आमन्द्रगर्जितं मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कला- पिकेकाः कालदूतालापैः, केतकामोदो विषपरिमलेन, खद्योताः प्रलयानलस्फुलिङ्ग [^४]राशिभिः, अलिवलयानि कालपाशै:, बला- काश्रेणय: प्रेतपतिपताकाभिः, आपगाः सर्वक्षयमहापूरप्लवैः, दुर्दि- नानि कालरात्र्या, कुटजतरवः कृतान्तहासैः । अपि च शरीरेऽपि सत्वं कातरतया, बलं क्षामतया, कान्तिर्वैवर्ण्येन, मतिर्मोहेन, धैर्यं विषादेन, हसितं शुचा, नयनमश्रुणा, आलपनं मौनेन, अङ्गा [^५]न्य सहतया, करणान्यपाटवेन, [^६]सर्वमे [^७]वारत्या । [ टि ]-- मेघनाद उक्तवति कथितवति सति घनसमयो वर्षाकाल- स्तेन वर्धितो वृद्धिं प्रापित आभोगो विस्तारो यस्यैवंभूतो यो मकर- ध्वज एवार्णवः समुद्रस्तस्य मध्यपातिनीं तदन्तर्गतां स्वानुमानादपि । यथा तस्या दुःखेन विरहेणाहं दुःखवान्, तथा मद्विरहेण सापि भविष्यतीत्यनुमानं तस्मादित्यर्थः । कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य हृदयवर्तिनी विलोक्य विलोक्य विक्लवीभवतो विह्वलीभवतोऽस्य चन्द्रा- पीडस्य जलधरा मेघाः कालपुरुषैर्यमकिंकरैः [^1]पर्यवर्त्यन्त इवात्मसात्क्रियन्त इव । स्वखरूपमापाद्यन्त इवेति यावत् । अतो जलधराः कालपुरुषा एव बभूवुरित्यर्थः । एवमग्रेऽपि पर्यवर्त्यन्त इवेति यथायोग्यं योज्यम् । तडितो विद्युतो मदन एवानलो वह्नि- स्तस्य शिखाभिर्ज्वालाभिः पर्यवर्त्यन्त इव । अवस्फूर्जितं कराल- गर्जितं प्रेतपतिर्यमस्तस्य पटहो ढक्का तस्य स्वनैः शब्दै: पर्यवर्त्यत इव । क्वचित् 'प्रेतपुरीपटहस्वनेन' इत्यपि पाठः । आसारधारा वेग- वद्वृष्टिधाराः स्मरस्य कंदर्पस्येषवो बाणास्तैः पर्यवर्त्यन्त इव । आमंद्रगर्जितं गम्भीरस्तनितं मकरध्वजधनुषो ज्या प्रत्यञ्चा तस्या गुञ्जितं शब्दितं तस्याभोगेन विस्तारेण पर्यवर्त्यत इव । कलापिके- का मयूरवाण्यः कालदूता यमप्रहितजनास्तेषामालापैः संभाषणैः । केतकस्य क्रकचच्छदस्यामोदः परिमलो विषं गरलं तस्य परिमलेन । खद्योता ज्योतिरिङ्गणाः प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य स्फुलिङ्गा अग्निकणास्तेषां राशिभिः समूहै: पर्यवर्त्यन्त इव । 'खद्यो- तो ज्योतिरिङ्गणः" इति हैमः । अलिवलयानि भ्रमर [^2]कटकानि कालपाशैर्यमबन्धनैः। बलाकाश्रेणयो बिसकण्ठिकासमूहाः प्रेत- पतिर्यमस्तस्य पताकाभिर्वैजयन्तीभिः । आपगा नद्यः सर्वेषां क्षयो विनाशो येभ्य एवंविधैर्महापूरस्य प्लवै: प्रवाहैः । दुर्दिनानि मेघज- निततमांसि कालरात्र्या मृत्युप्रदनिशया 'कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः' इति हैमः । कुटजतरवो गिरिमल्लिकाः कुटज- वृक्षपुष्पाणि कृतान्तस्य यमस्य हासैः स्मितैः । पर्यवर्त्यन्त इवेत्यर्थः । अपि चेति । अन्यदपि शरीरेऽपि देहेऽपि सत्त्वं साहसं कातरतया भीरुक [^3]तया, बलं स्थानं क्षामतया क्षीणतया, कान्तिर्द्युतिः । शरीरस्येति शेषः । वैवर्ण्येन कालिकया । विच्छायतयेत्यर्थः । मति- र्बुद्धिर्मोहेनाज्ञानेन, धैर्यं धीरिमा विषादेनावसादेन, हसितं हास्यं शुचा शोकेन, नयनं नेत्रमश्रुणा बाष्पेण, आलपनं जल्पनं मौनेन जोषेण, अङ्गानि प्रतीका असहतयाक्षमतया, करणानीन्द्रियाण्यपाटवेनापटुतया, सर्वमेव समग्रमेवारत्योद्वेगेन कृत्वा । [^1]F. पर्यवर्त्यन्त परस्परं विनिमयं प्राप्यन्तेव, जलधराः काल- पुरुषा अबुध्यन्तेत्याशयः । एवं तडितो मदनानलशिखा अज्ञा- यन्तेत्यादिः सर्वत्रार्थो बोद्धव्यः । [^2]F. अन्धवत् वलयस्य कटकपर्यायकरणमनिर्वचनीयां व्युत्पत्तिं सूचयति । भ्रमरसमूहा इत्यर्थः । [^3]F. पर्यवर्त्यत, साहसस्य परिवर्ते कातरत्वमभवदित्यर्थः । [^१]G. मध्यपातिनी. [^२]G. परिवर्तन्ते; परिवर्त्यन्ते. [^३]G. आमन्द्रम्. [^४]G. रश्मिभिः. [^५]G. असहितया. [^६]G. सर्वं च. [^७]G. रजन्या. दिवसैश्चोल्लिख्यमानमिवानवरत [^१]वाहिना [^२]श्रुपूरप्रवाहे- [^३]णावभज्यमानमिव । [^४]सततैर्निश्वासप्रभञ्जनैरुत्खन्यमान- मिव । संततैः सान्तर्मदनदुःखोत्कलिकासहस्रैरजस्रपातिभिरित- स्ततो जर्जरीक्रियमाणमिव । अपि च सहस्रैर्मकरध्वजशरासारै- र्वपुषैव च सह क्षीयमाणमिव स्वल्पा [^५]वशेषं संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणे [^६]व सह कण्ठलग्नं कथंकथ- मपि जीवितं धारयन्, [^७]धाराधरक्लिन्नतीरतरुतलम्, आप्लावितो [^८]पान्तहरितशाद्वलम्, [^९]अशेषतटलतावनम्, अनवरत- रोधो [^१०]जलप्रवेशकलुषितप्रान्तम्, अवशीर्यमाणोद्दण्ड- [^११]कुमुददलगहनम्, [ टि ]-- दिवसैदिनैश्चो [^1]ल्लिख्यमानमिवोत्कीर्यमाणमिव, अनवरतवाहिना निरन्तरप्रवर्तिनाश्रुपूरप्रवाहेण नेत्रजलप्लवरयेणावभज्यमानमिव, मर्द्यमानमिव, सततैर्निरन्तरैः सविस्तृतैर्वा निश्वासप्रभञ्जनैः घ्राणवायुभिरुत्खन्यमानमिवोत्पाट्यमानमिव, सततैरत एवाजस्रपातिभिर्निरन्तरपतनशीलैः सान्तर्मदनस्य कंदर्पस्य यद्दुःखमसातं तस्योत्कलिकासहस्रैर्हृल्लेखासहस्रैरितस्ततः प्रेरणेन जर्जरीक्रियमाणमिव शिथिलीक्रियमाणमिव । अपि च सहस्रैः सहस्रसंख्याकैर्मकरध्वजस्य मदनस्य शरासारै- र्बाणवेगवृष्टिभिर्वपुषा शरीरेणैव च सह क्षीयमाणमिव क्षीणतां प्राप्यमाणमिव । स्वल्पं स्तोकं यदवशेषमुर्वरितं संकल्पलिखितं कल्पनाकल्पितं तेन निर्विशेषवृत्तिना स्वरूपमात्रवर्तिना कादम्बरीशरीरेणेव सह कण्ठलग्नं निगरणासक्तं कथंकथमपि महता कष्टेन जीवितं प्राणितं धारयन्बिभ्रन् (तू) । तदेवाच्छोदं सर आससाद प्राप्तवान्। इतोऽच्छोदं विशेषयन्नाह - धारेति । धारा- धरेण क्लिनमार्द्रं तीरस्य तटस्य तरूणां वृक्षाणां तलाधोभागो यस्मिंस्ततथा । आप्लावितो जलेन धौत उपान्तः समीपवर्ती हरितो नील: शाद्वलप्रदेशो यस्य तत्तथा । 'शाद्वल: शादहरिते' इत्यमरः । [^2]अशेषे समग्रे तटे तीरे लतावनं वल्लीकाननं यस्मिंस्तथास। अनवरतं निरन्तरं रोधस्तटं तस्य जलप्रवेशेन पानीयागमेन कलु- षितो मलिनीकृतः प्रान्तः प्रदेशो यस्य तथा । अवशीर्यमाणानि भ्रश्यमानानि यान्युद्दण्डान्युन्नालानि कुमुदानि कैरवाणि तेषां [^1]F. 'दिवसै'रित्यारभ्य 'जीवितं धारयन्' एतत्पर्यन्तो ग्रंथः पर्या- यान्वेषणमात्रपाटवेन टीकाकारेण अनुचितान्वयं कृत्वा सर्वोपि भ्रष्टीकृतः । 'दिवसैः' इति 'तदेव अच्छोदमाससाद' इत्यत्रान्वेति । कतिपयैर्दिवसै चन्द्रापीडः । अच्छोदं प्रापेति स्पष्टोऽर्थः। उल्लिख्य- मानमिवानवरतवाहिनाऽश्रुपूरेण, (अश्रुप्रवाहेण उल्लिख्यमानमिव उत्कीर्यमाणमिव, इति तदर्थः ) निश्वासप्रभञ्जनैः अपभज्यमानमिव, इत्यादिरग्रेऽप्यन्वयः सुस्पष्ट एव । किन्तु दिवसैः उल्लिख्यमानमिव, अश्रुप्रवाहेणापभज्यमानमिव, इत्यादिरूपेणान्तपर्यन्तमन्वयं व्यत्य- स्य सर्वामपि कादम्बरीं गरलीचकार । शरैर्जर्जरीकरणं पामरेणापि परिज्ञातम्, किन्तु टीकाकारशिरोमणिस्तत्परिवर्त्य 'उत्कलिकासह- स्रैर्जर्जरीक्रियमाणमिव' इत्यादि व्याख्याति । अजस्रपातिभिरिति विशेषणमत्र सुन्दरतयाऽन्वेति, उत मकरध्वजशरासारैरित्यत्र इति तु सहृदयैरेव विवेक्तव्यम् । पाठकानां सौकर्याय शुद्धं पाठमुल्लि- खामि, शब्दानामर्थष्टीकातोऽपि ज्ञातुं शक्यः। "दिवसैश्चोल्लिख्यमा- नमियाsनवरतवाहिनाऽश्रुपूरेण, अवभज्यमानमिव संततैर्निश्वास- प्रभञ्जनैः, उत्खन्यमानमिव मदनदु:खोत्कलिकासहस्रै:,अजनपाति- भिरितस्ततो जर्जरीक्रियमाणमिव मकरध्वजशरासारैः, वपुषैव सह क्षीयमाणमिव स्वल्पावशेषसंकल्पलिखितेन निर्विशेषवृत्तिना काद- म्बरीशरीरेण सह कण्ठलग्नं कथंकथमपि जीवितं धारयन्', [ वपु-र्यथा क्षीणं जातं तथा जीवितमपि क्षीणम् । स्वल्पः अवशेषो यस्य तादृशेन तथा संकल्पेन मनः कल्पनया लिखितेन, निर्विशेषवृत्तिना स्वशरीरादभिन्नेन कादम्बरीशरीरेण सह, कादम्बरीशरीरं यथा भावनावशात्कण्ठालिङ्गनसक्तं तथा खेदातिशयात् जीवितमपि कण्ठागतमित्यर्थः । ] [^2]F. आसेव्यतटलतावनम् । इत्येव पाठः । [^१]G. प्रवाहिता; वाहिता रथवाहिना. [^२]G. धारा. [^३]G. अपभज्यमानम् ; विभज्यमानम्. [^४]G. संततै:. [^५]G. शेषसंकल्प. [^६]G. इव. [^७]G. धाराधरजल. [^८]G. उपान्तं. [^९]G. आसेव्य; अशेष. [^१]G. प्रवेशं. [^११]G. कुसुमकुमुद.. आमग्नकमलखण्डम्, उत्प्लवमानाश्यानकिंजल्कदलकमलम्, [^१]आजर्जरितकह्लारकुवलयम्, उद्भ्रान्तभ्रमदलिवलयम्, उड्डीन [^२]हंससार्थत्यक्तम्, अनवस्थानसारसारसितकरुणम्, अवशिष्टदलतलनिलीयमानोच्चकितचक्रवाकयुगम्, उत्कम्पितकादम्बकद- म्ब [^३]काश्रीयमाणोपकूलनड्वलम्, [^४]उत्कलवि [^५]रुतक- लापिबकबलाककलापाध्यासितोपान्तपादपम्, आहतं प्रावृषान्यदि- व, [^६]दृष्टपूर्वमप्यदृष्टपूर्वमिव, अदत्तदृष्टिसुखम्, अनुत्पादितहृद- याह्लादम्, अनुपजनितमानसप्रीति, तदेवाच्छोदमुपाहितद्विगुण- दुःखमाससाद । आसाद्य चो [^७]पसर्पन्नेव [^८]सर्वाश्ववारानादिदेश । 'कदाचिद- सौ वैलक्ष्यादस्मानालोक्यापसर्पत्येव, तच्चतुर्ष्वपि पार्श्वेष्ववाहिता भवन्तु भवन्तः' इत्यात्मनापि तुरगगत एव खिन्नोऽप्यखिन्न इव विचिन्वल्लतागहनानि वृक्षमूलानि शिलातलानि [^९]लसन्मण्डपाश्च समन्ताद्बभ्राम । भ्राम्यंश्च यदा न कचिदपि किंचिदवस्थानचिह्नम- प्यद्राक्षीत्तदा चकार चेतसि–'नियतमसौ [ टि ]-- दलानि पत्राणि तैर्गहनं निबिडम् । दुरवगाहमित्यर्थः । आमग्नं ब्रुडितं कमलखण्डं पद्मवनं यस्मिंस्तत्तथा ।उत्प्लवमानान्यु- त्प्राबल्येनोदुदूर्ध्वं तीर्यमाणान्यनाश्यानान्यशुष्काणि किंजल्कदला- नि कमलानि च यस्मिंस्तत्तथा । 'किंजल्कः केसरोऽस्त्रियाम्' इत्य- मरः । आ समन्ताज्जर्जरितानि शिथिलितानि कह्लारकुवलयानि यस्मिंस्तत्तथा । तत्र कह्लारं सौगन्धिकम् 'सौगन्धिकं तु कह्लारम्' इत्यमरः । कुवलयानि प्रतीतानि । उद्भ्रान्तं चकितं च तद्भ्रमत्क- मलाभावादलिवलयं भ्रमरसमूहो यस्मिंस्तत्तथा । [^1]उड्डीनैः संडीनैर्हंससार्थैश्चक्राङ्गसमूहैस्त्यक्तमुज्झितम् । 'प्रडीनोड्डीनसंडी- नान्येताः खगगतिक्रिया :' इत्यमरः । क्वचित् 'उड्डीनहंससार्थम्' इत्येव पाठः । तत्रोड्डीना हंसानां सार्थाः समूहा यस्मिन्नित्यर्थः । न विद्यतेऽवस्थानं मेघसद्भावाद्येषां तेऽनवस्थाना एवंविधाः सारसा लक्ष्मणास्तेषामारसितं रटितं तेन करुणं [^2]दीनम् । अवशिष्टानि यानि दलानि पत्राणि तेषां तले निलीयमानमाश्रीयमाणमुच्चकित- मुत्त्रस्तं चक्रवाकयुगलं रथाङ्गाह्वयुग्मं यस्मिंस्तत्तथा । उत्कम्पिता- स्त्रास्ता ये कादम्बानां हंसानां कदम्बकाः समूहास्तैराश्रीयमाण उपकूलस्य नड्वलः । 'नडप्रायो नडकीयोनड्वांश्च नड्वलश्च सः इति हैमः । प्रदेशो यस्मिंस्तत्तथा । उत्प्राबल्येन कलं मनोहरं विरुतं येषामेवंविधाः कलापिनो मयूरा: बका बकोटाः, बलाका बिसकण्ठिकाः, तेषां कलापाः समूहास्तैरध्यासित आश्रित उपान्तपादपः समीपवृक्षो यस्य तत्तथा प्रावृषा प्रावृट्कालेनाहतं पीडितं तेनान्य-- दिवेतरदिव । दृष्टपूर्वमपि विलोकितपूर्वमप्यदृष्टपूर्वमिवानिरीक्षित- पूर्वमिव । अदत्तं दृष्टेर्नेत्रस्य सुखं सातं येन तत्तथा । अनुत्पादितो- ऽविहितो हृदयस्य चेतस आह्लादः प्रमोदो येन तत्तथा । अनुपजनि- ताऽकृता मानसस्य स्वान्तस्य प्रीतिः स्नेहो येन तत्तथा । उपाहितं स्थापितं द्विगुणं दुःखं येन तत्तथा । आससादेत्यन्वयस्तु प्रागेवोक्त:। आसाद्य च प्राप्य चोपसर्पन्नेवोपसरन्नेव सर्वान्समग्रानश्ववारान्सादिन इत्यादिवेशाज्ञां दत्तवान् । इतिद्योत्यमाह - कदेति । कदाचिदसौ वैशम्पायनो वैलक्ष्याद्वीक्षापन्नत्वतोऽस्मानालोक्य निरीक्ष्यापसर्पत्ये- वापयात्येव । तच्चतुर्ष्वपि पार्श्वेषु भवन्तो यूयमवहिताः सावधाना भवन्तु । इत्यात्मनापि स्वेनापि तुरगगत एवाश्वाधिरूढ एव खिन्नो- ऽपि खेदं प्राप्तोऽप्यखिन्न इवाप्राप्तखेद इव विचिन्वन्विलोकयंल्ल- तागहनानि वल्लीगह्वराणि वृक्षमूलानि पादपबुध्नानि शिलातलानि प्रसिद्धानि लसन्मण्डपांश्च प्रतिदिवसवर्धमानवीरुज्जनाश्रयांश्च समन्ताद्विष्वग्बभ्राम । भ्राम्यंश्च पर्यटंश्च यदा क्वचिदपि कुत्रापि स्थले किंचिदपि स्वल्पमप्यवस्थानचिह्नं निवासाभिज्ञानं नाद्राक्षीन्न [^1]F. उड्डीनैस्त्यक्तमिति विचारदारिद्र्यम् । अत एव 'उड्डीनहंस- मालम्' इत्येव पाठः । [^2]F. 'अनवस्थानसारसात्तकरुणकूजितम्' (अनवस्थानैः सारसैः आसं स्वीकृतं करुणकूजितं यत्र तत्) । [^१]G. अजर्जरित. [^२]G. हंसमालम्. [^३]G. आश्रितमान. [^४]G. मुक्तकलविरुत; उत्कतलविङ्क. [^५]G. कलाप. [^६]G. दृष्टमप्यपूर्वमिव, अन्यदिवादृष्टपूर्वमिव. [^७]G. इव. [^८]G. सर्वान्. [^९]G. लता. पत्रलेखासकाशान्मदागमनमुपलभ्य [^१]प्रथममेवापक्रान्तो येना- वस्थानचिह्नमा [^२]त्रकमपि कथमपि नोपलक्ष्यते । [^३]निरुद्धो- द्देशं गतश्च काप्यस्माभिरसावेवान्विष्टोऽपि न दृष्टः । [^४]तत्कष्टत- रमापतितम् । वैशम्पायनमदृष्ट्वास्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते। मे मन्मथशरविक्षिप्ताश्च कादम्बरीदर्शनमात्रालम्बनाः क्षणमपि विलम्बमन्तरीकर्तुमक्षमाः [^५]क्षामतया मा यासिषुः प्राणाः । सर्वथा विनष्टोऽस्मि, न दृष्टा देवी कादम्बरी, नापि वैशम्पा- यन' इति । एवमुत्पन्ननिश्चयोऽप्यपरिच्छेद्यस्वभावत्वात्प्रत्याशायाः कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां ताव- त्पश्यामि । ततो यथायुक्तं प्रतिपत्स्य इत्यारोप्य हृदये तदाश्रमस्यैव नातिदूरे निवेशिततुरगसैन्यः सैन्यसमायोगमपनीय सर्पनिर्मोकपरि- लघुनी घनोज्झितज्योत्स्नाभिरामे परिधाय वाससी तथास्थितपर्याण- मेवेन्द्रायुधमारुह्य महाश्वेताश्रममुपाजगाम । [ टि ]-- व्यलोकयत् तदेति चेतसि चित्ते चकार निर्ममे । नियतं निश्चितमसौ वैशम्पायन: पत्रलेखायाः सकाशात्समीपान्मदागमनं चन्द्रापीडागमनमुपलभ्य प्राप्य प्रथममेवादावेवापक्रान्तो गतो येन कारणेनावस्थानचिह्नमात्रकमपि निवासज्ञापकाभिज्ञानमात्रमपि कथमपि महता कष्टेन नोपलक्ष्यते न ज्ञायते । [^1]निरुद्धद्देशं निरुद्धप्रदेशं गतश्च प्राप्तश्चासावेव वैशम्पायन [^2]एवात्माभिरन्विष्टोऽपि विलोकितोऽपि क्वापि न दृष्टो न दृक्पथमायातः। तत्त- स्माद्धेतोः कष्टतरमतिकृच्छ्रमापतितमायातम् । तदेव प्रदर्शयन्नाह – वैशम्पायनेति । वैशम्पायनमदृष्ट्वानवेक्ष्यात्मात्प्रदेशात्पदमपि गन्तुं पादादेव नोत्सहेते नोद्यमं कुर्वाते । मे [^3]मम मन्मथः कंदर्परतस्य शरैर्बाणैर्विक्षिप्ता नोदिताश्च प्राणा असवः गताः कथं नेत्या- काङ्क्षायामाह -- कादम्बरीति । केवलं कादम्बरीदर्शनमेवालम्बनं येषां ते तथा । तद्दर्शनावलम्बनेन स्थिता इत्यर्थः । अन्तरा मध्ये क्षणमपि निमेषमात्रमपि विलम्बं कर्तुं विधातुमक्षमा असमर्थाः क्षामतया क्षीणतया मा यासिषुः प्राणाः । न विलोकिता देवी काद- म्बरी न वैशम्पायन इति हेतोः सर्वथा सर्वात्मनाहं विनष्टो गतप्राय एवास्मि । एवमुत्पन्ननिश्चयोऽपि संजातनिर्णयोऽप्यपरिच्छेद्य स्वभा- वत्वाद [^4]नावेद्यप्रकृतित्वात्प्रत्याशायाः प्रतिलिप्साया अस्य पूर्वोक्तवृत्तान्तस्य कदाचिदभिज्ञा वेत्री महाश्वेतापि भवत्येव । तत्तस्मा- द्धेतोस्तावदादौ तां महाश्वेतां पश्यामि विलोकयामि । ततस्तदनन्तरं यथायुक्तं यथोचितं प्रतिपत्स्येऽङ्गीकरिष्ये हृदये चेतसीत्यारोप्येत्या- धाय तस्या महाश्वेताया आश्रमस्य गुम्फाया नातिदूरे नातिविप्रकृष्टे निवेशितं स्थापितं तुरगसैन्यमश्वबलं येनैवंभूतः सैन्यसमायोगं वाहि- न्याः संबन्धमपनीय दूरीकृत्य सर्पस्याहेर्निर्मोकः कञ्चुकः। 'फणो- ऽहिकोशे तु निर्ल्वयनी निर्मोककञ्चुकाः' इति हैमः । तद्वत्परिलघु- न्यगुरुणी, घनेन मेघेनोज्झिता त्यक्ता या ज्योत्स्ना चन्द्रिका तद्वद- भिरामे मनोहरे वाससी वस्त्रे परिधाय परिधानं कृत्वा । अत्र वस्त्र- द्वयग्रहणं देशाचारविशेषादेव मन्तव्यम् । यथा पूर्वं स्थापितं तथैव स्थितं पर्याणं पल्ययनं यस्यैवंभूतमेवेन्द्रायुधमश्वमारुह्यारोहणं कृत्वा महाश्वेताश्रममुपाजगामोपाययौ । [^1]F. न कोऽप्यस्यार्थः । अत एव 'निरुद्देशम्' (नास्ति उद्देशो यत्र तथा तत्) इत्येव पाठः । [^2]F. 'एवम्' अस्माभिः अन्विष्टोपि न दृष्टः, इत्येव पाठः । [^3]F. वाक्यादौ 'मे' इति प्रयोगोप्यवैयाकरणत्वम् । अतः मे इति पूर्वान्वयि, मे पादौ नोत्सहेते इति । [^4]F.आशायाः स्वभावो न इदंतया निश्चेतुं शक्यः, नानारूपा आज्ञा भवतीत्याशयः । [^१]G. प्रथमतरम्. [^२]G. मात्रकमपि. [^३]G. निरुद्देशम्. [^४]G. कष्टम्, कष्टतमम्. [^५]G. क्षामतयामी प्राणाः; क्षोभमयप्राणा:. [^६]G. अपहाय. [^१]तत्र च प्रविशन्नेवावतीर्य महाश्वेतावलोकनकुतूहलात्पश्चादाकृ-ष्टेने [^२]न्द्रायुधपरिजनेनानुगम्यमानो विवेश । प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसह्यमन्युवेगोकम्पितस- र्वावयवामनवरतनयनजलवर्षिणीमुच्चण्डवाताहतां लतामिवोद्वाष्प- दीनदृष्ट्या कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये-'मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत्। येनेयमीदृश्यवस्था हर्षहेतावपि मदा- गमनेऽनुभूयते महाश्वेतया ।' इत्याशङ्काभिन्नहृदयोऽयमुड्डीनैरिव प्राणैः पदे पदे स्खलन्निव पतन्निव मुह्यन्निवोपसृत्योपविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः किमेतदिति तरलिकाम- पृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकि- तवती । अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत् – "महाभाग, किमियमावेदयति वराकी । यया दुःखा- भिघातैककठिनहृदयया [^४]पुनरप्यदुःखश्रवणार्हेऽपि [ टि ]-- तत्र च तदाश्रमे प्रविशन्नेव प्रवेशं कुर्वन्नेवावतीर्यावतरणं कृत्वा । अश्वादिति शेषः । महाश्वेताया अवलोकनं निरीक्षणं तस्मिन्यत्कुतूहलमाश्चर्यं तस्मात्पश्चादाकृष्टेनाकर्षितेनेन्द्रायुधस्य परिजनः परिच्छदस्तेनानुगम्यमानोऽनुयायमानो विवेश प्रवेशं कृतवान् । प्रविश्य च प्रवेशं कृत्वा च गुहाद्वारे या धवलशिला तस्यास्तले समुपविष्टां निषण्णामधोमुखीं नीचैर्मुखीं महाश्वेता- मपश्ययलोकयत् । कीदृशीम् । असह्यो विसोढुमशक्यो यो मन्युः क्रोधः शोको वा । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । तस्य वेगो रयस्तेनोत्कम्पिता उच्चलिताः सर्वावयवाः समग्रापघना यस्याः सा ताम् । अनवरतं निरन्तरं नयनजलं नेत्राम्बु वर्षतीत्येवंशीला सा ताम् । अत एवोत्प्रेक्ष्यते - उच्चण्डोऽत्युग्रो यो वातो वायुस्तेनाहतां ताडितां लतामिव । 'उच्चण्डस्त्वतिकोपनः' इति हैमः । उद्वाष्पो- द्गताश्रुरेवंविधा दीना दुःखिता दृष्टिर्दृग्यस्या एतादृश्या तरलिकया कथंकथमपि महता कष्टेन विधृतं धारितं शरीरं यस्याः सा ताम् दृष्ट्वा च निरीक्ष्य च तादृशीं तथावस्थां महाश्वेताम् अस्य चन्द्रापीड- स्य हृदय उदपाद्युत्पन्नम् । तदेव प्रकटयन्नाह – नामेति कोमला- मन्त्रणे । देव्याः कादम्बर्या एव किमप्यनिर्दिष्टनामकमनिष्टमशिव- मुत्पन्नं प्रादुर्भूतं भवेत् । येन हेतुनेयं प्रत्यक्षोपलभ्येदृश्येतत्प्रकारा- वस्था दशा महाश्वेतया हर्षहेतावपि प्रमोदनिदानभूतेऽपि मदागमने अनुभूयतेऽनुभवविषयीक्रियते इत्याशङ्कारेका तया भिन्नं विदीर्णं हृदयं चेतो यस्यैवंभूतोऽयं चन्द्रापीड उड्डीनैरिवोड्डीयगतैरिव प्राणै- रसुभिरत एव पदे पदे स्खलन्निव स्खलनां प्राप्नुवन्निव, पतन्निव भ्रश्यन्निव, मुह्यन्निव मोहं गच्छन्निव, उपसृत्य समीप आगत्य तस्यैव शिलातलस्यैकदेश एकप्रदेश उपविश्य च [^1]प्रोद्वाष्पेण प्रकृष्टा- श्रुणा विषण्णं विलक्षं वदनमाननं यस्यैवंभूतः किमेतदितितरलिका- मपृच्छदप्रश्नयत् । सा तरलिका । तु पुनरर्थे । तथावस्थाया अपि तथाविधदुःखदग्धाया अपि महाश्वेताया एव मुखमाननमवलोकित- वती निरीक्षितवती । अथेति । तदनन्तरम् । अनुपसंहृतोऽदूरीकृतो मन्युवेगो यया सैवं- विधापि गद्गदिकया गद्गदध्वनिनावगृह्यमाणो रुध्यमानः कण्ठो यस्याः सा महाश्वेतैव प्रत्यवादीत्प्रत्यब्रवीत् । हे महाभाग, किमियं वराकी शोचना । 'वराकः संगरे शोच्ये' इति विश्वः । आवेदयति कथयति । दुःखस्याभिघातः प्रहारस्तेनैकमद्वितीयं कठिनं कठोरं हृदयं भुजान्तरं यस्या एवंविधया यया मया पुनरप्यदुःखश्रव[^2]णा र्हेऽपि दुःखं श्रोतुमयोग्येऽप्यात्मीयं [^1]F. प्रोद्वाष्पः प्रकृष्टाश्रुरित्येवोचितम् । [^2]F.'अदुःखश्रवणार्हः' इति प्रथमान्तमेवोचितम् । [^१]G. तत्र च प्रवेश एव; तत्राप्रविशन्नेव. [^२]G. इन्द्रायुधेन परिजनेन च; इन्द्रायुधेन परिजनेन राजपुत्रैश्च. [^३]G. किमिति नावेदयते; किमपि नावेदयते. [^४]G. पुनरदुःखश्रवणार्होऽप्यात्मीयदुःखं प्रापितः, पुनरध्यदुःख- श्रवणार्होऽप्यात्मीयदुःखं श्रावितः. ७७ काo दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यस- निनी निर्लज्जा [^१]निर्घृणा च दुःश्रवणमपि श्रावयामि [^२]दुःख- मिदम् । श्रूयताम् । केयूरका [^३]द्भवद्गमनमाकर्ण्य [^४]विदीर्य- माणमनसा न मया चित्ररथस्य मनोरथः पूरितः,न मदिरायाः प्रार्थना कृता, नात्मनः समीहितं संपादितम् न [^५]गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृ [^६]ता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्कादम्बरीस्नेहपाशानपि [^७]छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवाया- ता, यावदत्र महाभागस्येव [^८]तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रनष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुप- सृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि प्रत्यभिजानन्निव, असंस्तुतोऽपि चिरप रिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरन्निव, दुःखिताकारोऽपि [ टि ]-- स्वकीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसनमासक्ति- र्यस्याः सा तथा निर्लज्जा निस्त्रपा निर्घृणा निष्करुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रवणमेतादृशमपि श्रावयामि श्रुतिगोचरी- कारयामि श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थान माकर्ण्य विदीर्यमाणं मनो मानसं यस्याः तथा । स्फुटमानहृदयये- त्यर्थः । मया महाश्वेतया चित्ररथस्य [^1]पितुर्मनोरथोऽभिलाषो न पूरितो न पूर्णीकृतः । नापि मदिराया मातुः प्रार्थना याञ्चा कृता । नात्मनः स्वकीयस्य समीहितं वाञ्छितं संपादितं निष्पादितम् । न गृहाभ्यागतस्य स्वकीयसदनागतस्य चन्द्रापीडस्य प्रियमिष्टमनुष्ठितमादरितम् । न चापि हृदयस्य चेतसो वल्लभो जनस्तस्य समा- गमेन निर्वृता संजातसंतोषा, एतादृशी प्रियसखी वल्लभवयस्या कादम्बरी वीक्षिता विलोकितेति हेतोरुत्पन्नं प्रादुर्भूतं यदनेकगुण- मुत्कृष्टं वैराग्यं विरागता [^2]तस्यासमन्ताद्गा [^3]ढबन्धोऽत्युग्र- ग्रन्थिस्तस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्वितीयवारं कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य चरणायासेवना- यात्रैव गुम्फायामेव यावत् आयातागता तावत्, अत्र महाभागस्य भवतस्तुल्याकृतिं सदृशाकारमन्तःकरणेन चित्तेनोन्मुक्तमिव त्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमुखमुत्कम्प्रं मुखं यस्य स तमुत्प्लुतमुत्पति [^4]तमाबद्धं यल्लक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्ट्या दृशा प्रनष्टमिव गतमिव किमपि किंचिदितस्ततोऽपि विलोक्यन्तं पश्यन्तं ब्राह्मणयुवानमप- श्यं व्यलोकयम् । स तु मामुपसृत्य मत्समीपमागत्य नान्यस्मिन्दृष्टि- र्यस्य स तथादृष्टपूर्वोऽप्यनिरीक्षितपूर्वोऽपि प्रत्यभिजानन्निव सोऽयं देवदत्त इति प्रत्यभिज्ञानप्रत्यक्षेणावगच्छन्निव, असंस्तुतोऽप्यपरिचि- तोऽपि चिरपरिचित इव बहुकालविहितपरिचितिरिव, असंभावितो- ऽप्यसंभावनाविषयीकृतोऽप्युपारूढोऽङ्कुरितः प्रौढो महान्प्रणयः स्नेहो यस्मिन्नेतादृश इव, अस्निग्धोऽप्यवत्सलोऽपि परवानिव परा- धीन इव । 'परतन्त्रः पराधीनः परवान्नाथवानपि इत्यमरः । प्रेम्णा स्नेहेन शून्योऽपि किमप्यनुस्मरन्निव किंचित्स्मृतिगोचरीकुर्वन्निव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति [^5]सुखायते [^1]F. पूर्वकथामपि विस्मृतवान् । चित्ररथ - मदिरे कादम्बर्याः पिता च माता च । [^2]F. यस्याः सा, ईदृश्यहमिति व्याख्यातव्यम् । [^3]F. गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या बोद्धव्या । [^4]F. उत्प्लुता बाष्पाच्छन्ना, अबद्धलक्ष्या (अस्थिरा) निर्विषया या (दृष्टि: ) तथा । [^5]F. घोरमज्ञानं वशकस्य । सुखं वेदयन्निवेति सुखायमान इव, सुखं मम संजातमिति प्रकटयन्निवेत्याशयः । 'सुखादिभ्यः कर्तृवेद- नायाम्' इति क्यङ् । [^१]G. निष्करणापि. [^२]G. श्रूयताम्. [^३]G. भवती गमनम्; भवदागमनम्. [^४]G. विदीर्णमानसा. [^५]G. गृहात्प्रत्यागतस्य. [^६]G. निवृत्ता. [^७]G. भित्त्वा. [^८]G. तुल्यवयसमाकृतिमन्तम्. सुखायमान इव, तूष्णीमपि स्थितः प्रार्थयमान इव, अपृष्टोऽप्यावेद- यन्निवात्मीयामेवावस्थाम्, [^१]अभिनन्दन्निव, अनुशोचन्निव, हृष्य- न्निव, कृष्यन्निव, विषीदन्निव, बिभ्यदिव, अभिभवन्निव, हुत इव, आकाङ्क्षन्निव, अनुस्मरन्निव विस्मृतम्, अनिमेषेण निश्चलस्तब्धपक्ष्म [^२]णान्तर्बाष्पपूरार्द्रेण कर्णान्तचुम्बिना विकसितेनेवामुकु- लिततारकेण चक्षुषा मत्त इवाविष्ट इव वियुक्त इव पिबन्निवाकर्ष- न्निवान्तर्विशन्निव च सुचिरमालोक्याब्रवीत् [^३]'वरतनु, सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृश- माचरन्न वचनीयतामेति । तव पुनरेकान्तवामप्रकृते [^४]र्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः ? यदियमक्लिष्टमालतीसुकुमारा मालेव कण्ठप्रणयैकयोग्या तनुरनुचितेनामुना [^५]कष्टतरतपश्च- रणपरिक्लेशेन [^६]ग्लानिमुपनीयते । रूपवयसोरनुरूपेण सुम- नोहारिणी लतेव रसाश्रयणा फलेन कथं न संयोज्यते । जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय शोभते [^७]परत्र संबन्धी [ टि ]-- वेति सुखायमान इव । तूष्णीमपि स्थितो मौनमाधाय स्थितोऽपि प्रार्थयमान इव याञ्चां कुर्वन्निव । 'तूष्णीकं तु स्मृतं मौने मौनं शीले त्वनव्ययम्' इति विश्वः । अपृष्टोऽप्यप्रश्नीकृतोऽप्यात्मीयां स्वकीयामेवावस्थां दशामावेदयन्निव ज्ञापयन्निव, अभिनन्दन्निव श्लाघां कुर्वन्निव, अनुशोचन्निव शुचं विदधदिव, हृष्यन्निव हर्षन्निव, कृष्यन्निव विलिखन्निव, विषीदन्निव विषादं प्राप्नुवन्निव बिभ्यदिव भयं प्राप्नुवन्निव, अभिभवन्निव तिरस्कुर्वन्निव, हृत इव मुषित इव, आका- ङ्क्षन्निव वाञ्छन्निव, विस्मृतमनुस्मरन्निव, अनिमेषेण निमेषरहितेन निश्चलं निष्कम्पं स्तब्धं पक्ष्म नेत्ररोम यस्य तत्तथा तेनान्तर्बाष्पो मध्यागताश्रु । क्वचित् 'क्षरद्वाष्प' इति पाठः। तस्य पूरः समूहस्तेनार्द्रेणोन्नेन कर्णान्तं श्रोत्रान्तं चुम्बतीत्येवंशीलेन कर्णान्तचुम्बिना । अत एव विकसितेनेव विनिद्रेणेवामुकुलिता कुड्मलिता तारका कनीनिका यस्मिंस्तत्तथा तेन । एवं विधेन चक्षुषा नेत्रेण मत्त इव क्षीब इव, आविष्ट इव भूतग्रस्त इव, वियुक्त इव विभिन्न इव, पिब- न्निव पानं कुर्वन्निव । अत्यादरेणावलोकनं पानमिति प्राञ्चः । आकर्षन्निवाकर्षणं कुर्वन्निव; - अन्तर्विशन्निव मध्ये प्रवेशं विदधदिव च, सुचिरं बहुकालमालोक्य निरीक्ष्याब्रवीदवोचत् । हे वरतनु प्रशस्तदेहे, सर्व एव हि जनो जगति लोके जन्मन उत्पत्ते- र्वयसोऽवस्थाया आकृते रूपस्य वा सदृशमनुरूपमाचरन्कुर्वाणो न वचनीयतां निन्द्यतामेति गच्छति । तव भवत्याः पुनरेकान्तेन निश्चये- न वामा प्रतिकूला प्रकृतिः स्वभावो यस्यैवं [^1]भूतस्य विधेरिव विधातुरिव विसदृशानुष्ठानेऽसदृशाचरणे कोऽयं प्रयत्नः प्रयासः । यद्यस्मादियं तनुः शरीरमक्लिष्टाऽव्यथिता या मालती जातिस्तद्वत्सु- कुमारा सुकोमला मालेव स्रगिव कण्ठे यः प्रणयो रक्षणस्नेहस्तत्रै- काद्वितीया केवलं वा योग्योचिताऽमुनानुचितेनायोग्येन कष्टतरं यत्तपश्चरणं तस्य परिक्लेशः परिश्रमस्तेन ग्लानिं म्लानिमुपनीयते प्राप्यते । रूपं सौन्दर्यं वयोऽवस्थाविशेषस्तयोरनुरूपेण योग्येन रसं माधुर्यादि [^2]लक्षणमाश्रयतीत्येवंशीलेन फलेन साध्येन कथं न संयोज्यते संयुक्तीक्रियते । केव । लतेव वल्लीव । यथा लता फलेन संयोज्यते । उभयोः साम्यमाह - सुमनोहारिणी सुमनसः पुष्पाणि ताभिर्हारिणी रुचिरा तनुः । पक्षे सुमनसः सज्जनास्तेषां हारिणी मनोज्ञा । हि यस्मात्कारणाद्रूपगुणादिविहीनस्यापि सौन्दर्यगुणरहितस्यापि जातस्योत्पन्नस्य जन्तोर्जन्मन्युपनतानि प्राप्तानि जीवलोकसुखानि सांसारिकसौख्यान्यनुभूय [^1]F. यथा विधिर्वामस्वभावस्तथा स्वमपि विलास परित्यागात् वयसोननुरूपस्य तपसश्चाचरणात् वामस्वभावेत्युपमा । [^2]F. रसाश्रयिणा रसाधिष्ठानभूतेन ( रसिकेन ) फलेन यौवनोप- भोगस्य फलस्वरूपेण न संयोज्यते तनुरिति स्पष्टीकरणीयम् । [^१]G. अभिनिन्दन्. [^२]G. क्षरद्वाष्प. [^३]G. सुतनु. [^४]G. विधो:. [^५]G. कष्टतमेन तपश्चरण. [^६]G. म्लानिम्. [^७]G. फलसंबन्धी. तपश्चरणपरिक्लेशः, किं पुनराकृतिमतो जनस्य । तद्दु:खयति [^१]मामयमस्यास्ते स्वभावसरसायास्तनोर्मृणालिन्या इव तुहिन- पातस्तपःपरिक्लेशः । यदि च त्वादृशी जीवलोकसुखेभ्यः पारा- ङ्मुखी तपसा क्लेशयन्त्यात्मानं तदा वृथा वहति धनुरधिज्यं कुसुमकार्मुकः । निष्कार [^२]णमुदयति चन्द्रमाः । [^३]वृथा वसन्तमासाभ्यागमः । निष्फलानि कुमुदकुवलय कह्लारकमला- करविलसितानि । निष्फला जलदसमारम्भाडम्बराः । निरर्थका- न्युपवनानि । किं ज्योत्स्नया, किं [^४]वा लीलासरित्पुलिनैर्मलया- निलेन वा' इति । अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादपेतकौतुका [^५]सर्वथा तं वदन्तम् 'अपि कस्त्वम्, कुतो वा समायातः, किमर्थं वा मामेवमभि- दधासि' इत्यपृष्ट्वैवान्यतोऽगच्छम् । गत्वा च देवार्चनकुसुमा [^७]न्याचिन्वती तरलिकामाहूयाब्रवम् – 'तरलिके, योऽयं युवा कोऽपि ब्राह्मणाकृति [^८]र [^९]स्यावलोकयतो वदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः । तन्निवार्यतामयं यथा पुनरत्र नागच्छति । अथ निवारितोऽ [^१०]पि यद्यागमिष्यति तदावश्यमेवस्याभद्रकं भवि [ टि ]-- साक्षात्कृत्य परत्रसंबन्धी परभवसक्तस्तपश्चरणपरिक्लेशः शोभते शोभां प्राप्नोति । आकृतिमतः सौन्दर्योपेतस्य जनस्य किं पुनः । भण्यत इति शेषः । तत्तस्मात्कारणांत्ते तव स्वभावेन प्रकृत्या सरसाया रसोपयुक्ताया अस्यास्तनोदेहस्य मृणालिन्याः कमलिन्यास्तुहिनपात इव हिमनिपतनमिवायं तपःपरिक्लेशो मां दुःखयति दुःखं करोति । यदि च त्वादृश्यनन्यरूपा जीवलोकसुखेभ्यः पराङ्मुखी निवर्तिताननात्मानं तपसा क्लेशयन्ती शोषयन्ती; तदा कुसुमकार्मुकः कंदर्पोऽधिज्यं ज्यामधिरूढं धनुः कार्मुकं वृथा मुधा वहति धारयति । निष्कारणं निष्प्रयोजनं चन्द्रमाः शशाङ्क उदयत्युद्गच्छति । वृथा मुधा वसन्तमासस्य सुरभिमासस्याभ्यागम आगमनम् । कुमुदानि कैरवाणि, कुवलयानि श्वेतकंमलानि, कहारं सौगन्धिकम्, कमलानि पद्मानि, एतेषामाकराः समूहास्तेषां विकसितानि हसितानि निष्फलानि निरर्थकानि । जलदस्य समारम्भः प्रारम्भस्तस्याडम्बरा: समाटोपा निष्फला निरर्थकाः । उपवनानि आरामाणि निरर्थकानि निष्प्रयोजनानि । ज्योत्स्नया चन्द्रिकया किम् । न किमपीत्यर्थः । लीलासरित्पुलिनैः क्रीडानदीसैकतैः किम् । किं वा मलयानिलेन मलयाचलमरुता वा किमिति । 1 अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादुदन्तादपेतं गतं कौतुकं कुतूहलं यस्याः सैवंविधा सर्वथा सर्वात्मना तं वदन्तं ब्रुवन्तमपि कस्त्वं को भवान्, कुतो वा कस्मात्प्रदेशात्समायातः समागतः, किमर्थं वा किंप्रयोजनं मां महाश्वेताभिधानामेवमभिदधासि कथयसि इत्यपृष्ट्वैव प्रश्नमकृत्वैवान्यतोऽपर स्मिन्स्थ लेऽगच्छमत्रजम् । गत्वा च देवस्य महेशितुरर्चनं पूजनं तस्मै कुसुमानि पुष्पाण्याचिन्वत्यवचयं कुर्वन्ती तरलिकामाहूयाह्वायाब्रवमकथयम् । हे तरलिके, योऽयं प्रत्यक्षोपलभ्यो युवा तरुणः कोऽप्यनिर्दिष्टनामा ब्राह्मणस्य विप्रस्याकृतिराकारो यस्य स तथा । अस्य यूनोऽवलोकयतः पश्यतो वदतश्च ब्रुवतश्चान्यादृश इव कामिजनसदृश इवाभिप्राय आशयो मयोपलक्षितो ज्ञातः । तत्तस्माद्धेतोरयं निवार्यतां प्रतिषिध्यताम् यथा पुनर्द्वितीयवारमत्र मत्समीपे नागच्छति नाभ्येति । अथ निवारितोऽपि प्रतिषिद्धोऽपि यद्यागमिष्यति तदावश्यमेव निश्चितमेव > टिप्प० - 1 सर्वथा असंगतः पाठः । त्वादृशी 'आत्मानं क्लेशयति' इत्येवोचितः । 2 पाठान्तर करणेन विरूपीकृतम् । 'कोऽयं युवा ब्राह्मणाकृतिः ? कोऽप्यस्याऽवलोकयतो वदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः' इति पाठः । इदानीं यथेच्छमभिरोच्यतां सहृदयैः । पाठा० -१ अस्याः• २ उदेति ३ व्यर्थ: ० ४ च. ५ सर्वथा तथा; सर्व तथा ६ देवतार्चन, ७ अपचिन्वन्ती; उच्चिन्वन्ती, ८ कोऽप्यस्य ९ विलोकयतः; न विलोक्यता. १० यदि. ११ अस्यैव. ष्यति' इति । स तु निवार्यमाणोऽपि [^१]दुर्निवारवृत्तेर्मदनहतकस्य दोषैर्भवितव्यतया वानर्थस्य नात्याक्षीदेवानुबन्धम् । अतीतेषु केषुचिदिवसेष्वेक [^२]दा [^३]गाढायां [^४]यामिन्याम्, उद्गिरत्स्विव भरेणोद्दीपि [^५]तस्मरानलं ज्योत्स्नापूरमिन्दुमयूखेषु, लब्धनिद्रायां तरलिकायाम्, [^६]अप्राप्तसुखा [^७]संतापनिर्गत्या- स्मिन्नेव शिलातले विमुक्ताङ्गी, कह्लार [^८]सुरभिणा मन्दमन्देना- च्छोदानिलेनावी [^९]ज्यमाना, वर्णसुधाकूर्चकैरिव करैर्धवलित- दशाशामुखे चन्द्रमसि निहितदृष्टिः 'अपि नामायमेभिरमृतवर्षिभि- रखिलजगदाह्लाद [^१०]कारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेत्' इत्याशंसाप्रसङ्गेन, देवस्य सुगृहीतनाम्नः पुण्डरीकस्य स्मरन्ती, कथमभाग्यैर्मे मन्दपुण्याया [^११]स्तादृशस्यापि दिव्या कृतेर्महापुरुषस्य तस्य नभसोऽवतीर्णस्य भाषितमलीकमुपजातम्, जातानुकम्पेन वा यथाकथंचिं [^१२]ज्जीवितुमित्येव समाश्वासिता जीवितप्रिया तपस्विन्यपि येन पुनदर्शनमेव [^१३]तेन [^१४]मम न [ टि ]-- तस्य यूनोऽभद्रकमकल्याणं भविष्यतीति । स तु युवा तरलिकया निवार्यमाणोऽपि प्रतिषिध्यमानोऽपि दुर्निवारा वारयितु- मशक्या वृत्तिर्वर्तनं यस्यैवंभूतस्य मदनहतकस्य हत्याकारिणः कंदर्पस्य दोषैर्दूषणैरनर्थस्योत्पातस्य भवितव्यतया वाग्रे भावितया वा [^1]नुबन्धं स्नेहं नात्याक्षीन्न तत्याज । दिवसेषु केषुचिदतीतेषु गतेषु सत्सु, एकदैकस्मिन्समये गाढायां तीव्रायां यामिन्यामुद्दीपित उत्तेजितः स्मर एवानलो वह्निर्येनैवंभूतं ज्योत्स्नापूरं चन्द्रिकासमूहमिन्दुमयूखेषु चन्द्रकिरणेषूद्गिरत्सु विमुञ्चत्सु सत्सु, लब्धनिद्रायां प्राप्तप्रमीलायां तरलिकायामप्राप्तम- [^2]लब्धं सुखं सौख्यं यया सैवंविधाहं संतापं संज्वरं [^3]तस्य निर्गत्या निर्गमनहेतुनास्मिन्नेव शिलातले विमुक्ताङ्गी न्यस्तदेहा कह्लारं सौगन्धिकं तेन सुरभिणा सुगन्धिना मन्दमन्देनाच्छोदानिलेनाच्छोदवायुना वीज्यमानोद्धूयमाना, वर्णसुधा श्वेतसुधा तस्याः कूर्चकैः कुञ्चिकाभिरिव करैः किरणैर्धवलितं शुभ्रीकृतं दशसंख्या- का या आशा दिशस्तासां मुखं येनैवंविधे चन्द्रमसि कुमुदबान्धवे निहिता स्थापिता दृष्टिर्दृग्यया सा निहितदृष्टिः, अपि नामेति कोम- लामन्त्रणे । अयं चन्द्र एभिरमृतवर्षिभिः पीयूषस्राविभिरत एवाखिलजगतः समग्रविश्वस्याह्लादकारिभिः प्रमोदजनकैः करैः किरणैः कृत्वा चन्द्रमाः शशाङ्को मे मम तमपि हृदयवल्लभं चित्तप्रियं वर्षेद्वृष्टिं कुर्यात् । इत्येवंरूपाशंसा स्पृहा तस्याः प्रसङ्गेन संबन्धेन देवस्य पूज्यस्य सुष्ठु गृहीतं नाम यस्यैवंभूतस्य पुण्डरीकस्य स्मरन्ती स्मृतिपथमानयन्ती । 'अधीगर्थदयेशां कर्मणि' इति षष्ठी । मे मम मन्दपुण्याया हीनसुकृताया अभाग्यैर्दुदैवैस्तस्य [^4]कपि- ञ्जलस्य नभसो व्योमादवतीर्णस्योत्तरितस्य तादृशस्य दिव्याकृतेः सुन्दरा-कारस्य महापुरुषस्यापि कथं भाषितं जल्पितमलीकं मिथ्योपजातम् । वाथवा जातानुकम्पेन समुत्पन्नकरुणेन यथाकथं- चित्प्रकारेण केवलं जीवितुं प्राणितुमित्येव हेतोः ममाश्वासिताश्वासनां कारिता येन हेतुना जीवितप्रिया प्राणितवल्लभा तपस्विनी [^5]वराक्यसि तेन हेतुना मम पुनदर्शनमेव न दत्तं पुनः समीपे [^1]F. मत्प्रत्याशया अनुसरणमित्येवार्थः । [^2]F. 'अनवाप्तनिद्रासुखा' इत्येव पाठः । [^3]F. धन्या व्युत्पत्तिः ! 'निर्गत्या' इत्यनेन निःसारणरूपो णिजर्थः कथं प्रतीयेत? 'संतापानिर्गत्यास्मिन्नेव' इति पाठः । संतापवशाद् बहिर्निर्गय असिन्नेव शिलातले विमुक्ताङ्गीति तदर्थः, यस्य सेयं दुर्दशा चन्द्रमहोदयेन कृता । [^4]F. कृपासिन्धो ! व्योमात् ( अर्थात् व्योम्नः ) न कपिञ्जलोऽव- तीर्णः अपि तु स्वयं चन्द्र एवावतीर्णः । कपिञ्जलस्तु गगने निलीनः । [^5]F. शुद्ध प्रलापोयम् । 'जातानुकम्पेन वा यथाकथंचिज्जीवतु जीवितप्रिया तपस्विनी इत्येवमेव समाश्वासितास्मि' इति पाठः । अर्थः स्पष्टः । [^१]G. दुर्निवार्य. [^२]G. चैकदा. [^३]G. विगाढायाम्. [^४]G. रजन्याम्. [^५]G. उद्दीपितं. [^६]G. अप्राप्तनिद्रासुखा; अनवाप्तनिद्रासुखा. [^७]G. संतापनिर्गत्या. [^८]G. सुगन्धिना. [^९]G. वीज्यमाना. [^१०]G. कारिकरै :. [^११]G. तादृशोऽपि. [^१२]G. जीवतु जीवितप्रिया तपस्विनीत्येवमेव समाश्वासितास्मि. [^१३]G. अनेन. [^१४]G. मे. दत्तम् । किं करोतु देवः सुगृहीतनामा पुण्डरीको यः परासुरेवो- त्क्षिप्य नीतः । कपिञ्जलस्तु जीवन्गतः, कथमियता कालेन गतेनापि निष्करुणेन वार्तापि मे न संपादिता' इत्येतानि [^१]चान्यानि चाल- जालानि [^२]दुर्जीवितगृहीता चिन्तयन्ती जाग्रत्येवातिष्ठम् । अथ निभृतपदसंचरणम्, [^३]आ चरणादुत्कण्टकमनवरतनिपति- त मदनशरशल्यनिकरनिचितमिव शरीरमुद्वहन्तम्, [^४]उद्विका- सिकेतकरजःपटलधवलं प्रथमतरमेव भस्मसात्कृतमिव[^५]मदन- हुतभुजा, भुजाग्रेण कुण्डलीकृत [^६]मृणाल[^७]मुपर्युषितशास- नवलयमिवाव [^८]श्यमरणाय सकलजगदप्रतिहतशासनेन कुसुमधन्वना विसर्जितं दधानम्, उद्भूतसाध्वसोत्कम्पतरलितया केतकीगर्भसूच्या क्वं परं गम्यते हतोऽसि मयेति मन्मथप्रथमसहा- यस्य चन्द्रमसः [^९]कलयेव कर्णामतलनया तर्ज्यमानम्, उद्वेगा- वर्जितेन [^१०]नयनजलस्रोतसात्मने [^११]जलमिव प्रयच्छन्तम्, आत्मे [ टि ]-- नागतम् । देवः सुगृहीतनामा पुण्डरीकः किं करोतु कुर्यात् । यः परासुरेव मृत एवोत्क्षिप्योत्पाट्य नीतः प्रापितः । स्वर्गमिति शेषः । कपिञ्जलस्तु जीवन्गतः । कथं तेनापीयता कालेन निष्करुणेन मे मम वार्तापि किंवदन्त्यपि न संपादिता न विहिता । इत्येता- नि च पूर्वोक्तान्यन्यानि च पुरो वक्ष्यमाणान्यालजालानि स्वप्नान्त- र्गतप्रायाणि दुर्दुष्टं यज्जीवितं तेन गृहीतात्मसात्कृता चिन्तयन्ती ध्यायन्ती जाग्रती सजागरैवातिष्ठं स्थिता । अथेति तदनन्तरम् । तमेव युवानमद्राक्षं व्यलोकयमिति दूरेणान्वयः । तमेव विशेषयन्नाह – निभृतेति । निभृतमशब्दं यथा स्यात्तथा पदा[^1]नामङ्घ्रीणां संचरणं यस्य स तम् । आ चरणाच्चरणं मर्यादीकृत्य । उत्कण्टकम् । संजातरोमोद्गममित्यर्थः । एतादृशं शरीरं देहमुद्वहन्तं धारयन्तम् । अत एवोत्प्रेक्षते - अनवरतं निरन्तरं निपतिता लग्ना ये मदनशराः कंदर्पबाणास्तेषां शल्यनिकरस्तेन निचितमिव व्याप्तमिव । उद्विकास्युन्निद्रो यः केतकः क्रकचच्छद- स्तस्य रजःपटलं परागसमूहस्तद्वद्धवलं शुभ्रम् । अत एवोत्प्रेक्षते- प्रथमतरमेवादावेव मदनहुतभुजा कामाग्निना भस्मसात्कृतमिव । शुक्लत्वसाम्याद्भस्मोपमानमित्यर्थः । भुजाग्रेण बाहुप्रान्तेन कुण्ड- लीकृतं कुण्डलवदाचरितं मृणालं बिसकटकं दधानं बिभ्राणम् । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । शुक्लत्वसाम्यादुत्प्रेक्षते - सकलजगत्यप्रतिहतमनिराकृतं शासनमाज्ञा यस्यैवंविधकुसुम- धन्वना कंदर्पेणावश्यमरणाय निश्चितप्राणविमुक्तये विसर्जितं दत्तमुपर्युषितं स्थापितं शासनवलयमिवाज्ञावलयमिव । यथा कश्चि- त्सांयुगीनो राज्ञा दत्तमवश्यं सङ्ग्राममरणाय वीरवलयं भुजाग्रेण बध्नाति तथैवानेन भुजाग्रेणावश्यं मरणाय कंदर्पदत्तं शासनवलयं बद्धमिवेति भावः । मन्मथस्य कंदर्पस्य प्रथमसहायस्यादावेव साहाय्यकारिणश्चन्द्रमसः कुमुदबान्धवस्य [^2]कलया षोडशांशेन कर्णान्तलग्नया श्रोत्रान्तप्राप्तयेति तर्ज्यमानमिव तिरस्क्रियमाणमिव । इतिद्योत्यमाह - उद्भूतेति उद्भूतमुत्पन्नं यत्साध्वसं भयं तस्मा- दुत्कम्पस्तेन तरलितया चञ्चलया केतकीगर्भसूच्या क्रकचच्छद- मध्यवर्तित्रिपत्रकेण । 'त्रिपत्रकः सूचिरभिधीयते' इत्यमरः । तया, मया त्वं हतो व्यापादितोऽसि । अतः क्व परमग्रे गम्यते । उद्वेगः संतापस्तेनावर्जितेन दत्तेन नयनजलस्रोतसा नेत्राम्बुप्रवाहेणात्मने स्वस्मै [^3]जलमिव प्रयच्छन्तं ददतम्, आत्मेच्छयैव स्वकीय- वाञ्छयैव मत्करग्रहणाय मत्पाणिपीडनाय स्वेदाम्भसा घर्म [^1]F. अपि चतुष्पादयं पशुः ? पदयोः संचरणमित्युचितम् । [^2]F. तर्जनाथ 'तर्जनी' नामवाहिनी अङ्गुलिरेव व्यवह्रियते, अत एव 'करशाखया' इत्येव पाठः सम्यक् । नायिकाया अनिच्छाया- मपि तत्कालाभिसरणेन भयं जातमिति तज्जनितकम्पवती कर्णान्तलग्ना केतकीगर्भत्रिपत्री नास्ति अपि तु तर्जनाय सेयं चन्द्रमसोङ्गुलिरेवास्तीति सर्वस्याशयः । [^3]F. 'जलाञ्जलिम्' इत्येव सम्यक् । अन्तसमये तस्यैव स्वार- स्यात् । [^१]G. आलजालानि; आलापजालानि. [^२]G. यद्दुर्जीवित. [^३]G. आचरणदुत्कण्टकितम्; आपतन्तं तमुत्कण्टकिततनुम्. [^४]G. उद्विकासकेतक; उद्विकाशिकेतकी. [^५]G. मदनहतभुजाग्रेण. [^६]G. मृणालिकावलयम्. [^७]G. अपर्युषित, अपर्युषितम्. [^८]G. अवश्यम्. [^९]G. करशाखया. [^१०]G. सलिल. [^११]G. जलाञ्जलिम्. च्छयैव [^१]मत्करग्रहणाय निर्वर्तितनानमिव स्वेदाम्भसा, न युक्त- मेव ते परहृदयमविज्ञायोपगन्तुमिति पदे पदे निवार्यमाणमिव गुरुणोरुस्तम्भेन, [^२]दूरत एव मदालिङ्गनालीकाशया प्रसारित- भुजयुगलम्, उत्कलिकासहस्रविषमं रागसागरमिव प्रतरन्तम्, अनवरतप्र [^३]वृत्तैराकृष्यमाणमिव पुरस्ताद्दीघैर्निःश्वासमरुद्भिः उह्यमानमिव दिङ्मुखप्लाविना ज्योत्स्नापूरेण, [^४]रणरणक- शून्यम्, उच्छुष्काननम्, प्रोन्मुक्तं सत्वेन, प्रतिपन्नं कृपणतया, अवधीरितं धैर्येण, संगृहीतं तरलतया, विसर्जितं लज्जया, [^५]अ- धिगतं धाटन, दूरीकृतं परलोकमी [^६]त्या, वि [^७]मुक्तं युक्तायुक्तविचारेण, संकल्पजन्मन एव [^८]केवलं वशे स्थितम्, आवि- मिव मत्तमिवोन्मादादापतन्तम्, दूरतोऽपि दिवसनिर्विशेषेण चन्द्रा- तपेन विभाव्यमानं तमेव युवानमद्राक्षम् । दृष्ट्वा च तं तादृशं निःस्पृहाण्यात्मनि पर भयमुपगतवती चे [^९]त- स्यचिन्तयम्- 'अहो, [^१०]कष्टमापतितम् । [^११]यद्ययमुन्मादा- दागत्य पाणिनापि स्पृशति मां तदा मयेदमपुण्यहतकं शरीर [ टि ]-- जलेन निर्वर्तितस्नानमिव विहिताप्लवमिव परहृदयमन्य- चित्तमविज्ञायाज्ञात्वोपगन्तुं तत्समीपे यातुं ते तव न युक्तमेव न न्याय्यमेवेति गुरुणा बृहत्तरेणोरुस्तम्भेन [^१]जङ्घास्थूणया पदे पदे निवार्यमाणमिव प्रतिषिध्यमानमिव दूरत एव दविष्ठत एव मदालि- ङ्गनस्य मदीयोपगूहनस्यालीकाशया मिथ्यावाञ्छया प्रसारितं विस्तारितं भुजयुगलं बाहुयुग्मं येन स तम् । उत्कलिका [^2]हृले- खास्तासां सहस्रं तेन विषमं व्याकुलं रागसागरमिवानुरति समुद्र- मिव प्रतरन्तमुत्तरन्तम् । अनवरतप्रवृत्तैर्निरन्तरप्रवर्तितैदीर्घैरायतै- र्निःश्वासमरुद्भिः घ्राणवायुभिः पुरस्तादग्र आकृष्यमाणमिवाकृष्टिं विधीयमानमिव दिङ्मुखप्लाविना दिग्वदनक्षालकेन ज्योत्स्नापूरेण चन्द्रिकाप्रवाहेणोह्य [^३]मानमिव वहमानमिव, रणरणके- नौत्सुक्येनोत्प्राबल्येन शुष्कं रुक्षमाननं मुखं यस्य स तम् । सत्त्वेन साहसेन प्रोन्मुक्तं त्यक्तम्, कृपणतया प्रतिपन्नं दैन्यत्वेनाङ्गीकृतम्, धैर्येण धीरिम्णावधीरितमवहीलितम्, तरलतया परिप्लवनया संगृहीतं स्वीकृतम्, लज्जया त्रपया विसर्जितं दूरीकृतम्, धाष्टर्येन निर्लज्जतागुणेनाधिगतं प्राप्तम्, परलोकभीत्यागामिभवभयेन दूरी- कृतम्, युक्तायुक्तविचारेण न्याय्यान्याय्यवितर्केण विमुक्तं व्यक्तम्, केवलं संकल्पजन्मन एव मनोभवस्यैव वशे तन्त्रे स्थितम्, आविष्ट- मिव भूतगृहीतमिव, मत्तमिव क्षीबमिव उन्मादाच्चित्तविप्लवत आपतन्तमागच्छन्तम् । दूरतोऽपि दविष्ठादपि दिवसान्निर्गतो विशेषो यस्यैवंभूतेन । दिवससदृशेनेत्यर्थः । चन्द्रातपेन शशाङ्का- लोकेन विभाव्यमानं प्रकाश्यमानम् । अहं तं युवानमद्राक्षमित्यन्व- यस्तु पूर्वमुक्तः । तं वैशम्पायनं तादृशं तथावस्थं दृष्ट्वा न निरीक्ष्य च निस्पृहापि गततृष्णाप्यात्मनि परं भयमुपगतवती प्राप्तवती इति चेतसि चित्तेऽचिन्तयं चिन्तितवती । अहो इति खेदे । कष्टं कृच्छ्रमापति- तम्, यद्ययं युवोन्मादादागत्य मां पाणिना स्पृशति स्पर्शं करोति तदा मया महाश्वेतयेदमपुण्यहतकं शरीरमुत्स्रष्टव्यमुज्झितव्यम् । [^1]F. धिक् ऊर्वोः स्तम्भः सात्विकभावेन जाड्यम् ( अचलनम् ) अत्र विवक्षितम् । [^2]F. अनुरागः उत्कलिकाम् उत्कण्ठानां सहस्रेण दुस्तरः, सागरस्तु उत्कलिकानां तरङ्गाणां सहस्रेण अत एव श्लेषोत्थापितः 'रागसागरः' इति रूपकालंकारः । भुजप्रसारणे च सागरोत्तरण- स्योत्प्रेक्षा, इति सेयं प्रधानम् । [^3]F. ज्योत्स्त्नारूपेण प्रवाहेण प्लाव्यमानमिव ( तार्यमाणमिव ) । टीकाकारस्तु यथाजातः । [^१]G. मकर. [^२]G. अदूरतः. [^३]G. प्रवृत्तेः. [^४]G. रणक. [^५]G. धिक्कृतम्. [^६]G. भीषया. [^७]G. अङ्गीकृतं स्वरुच्या विमुक्तम्. [^८]G. केवलम्. [^९]G. अकरवम्. [^१०]G. कटतरम्. [^११]G. यद्ययमेवमुन्मादात; यद्ययमेत्य स्वयमुन्मादात्. मुत्स्रष्टव्यम् । [^१]तच्चिरादेवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गी [^२]कृतं व्यर्थतां मे [^३]यातं प्राणसंधारणम्' इति । स त्वेवं विचिन्तयन्तीमेव मामुपसृत्याब्रवीत् - 'चन्द्रमुखि, हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि, रक्ष मामशरणमनाथमार्त [^४]मप्रतीकारक्षममात्मना [^५]त्वदायत्तजीवितम् । शरणगतपरित्राणं हि तपस्विनामपि धर्म एव । तद्यदि मामात्म [^६]प्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशि [^७]रकराभ्याम्' इति । अहं तु तदाकर्ण्य धिगि[^८]त्युत्तमाङ्गनिर्गतज्ज्वालेन रोषानलेन निर्दहन्तीव तम्, उन्मिष- द्बाष्पस्फुलिङ्गया दृष्ट्या त [^९]दावर्जयन्तीव, आपादतलादुत्क- म्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतयमाना क्रोधावेगरूक्षा- क्षरमवदम् - [^१०]आ: पाप, कथमेवं [^११]वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम् ? अवशीर्णा वा न सहस्रधा जिह्वा ? विह्वलतां न गता वा वाणी ? नष्टानि वा नाक्षराणि ? मन्ये च न सन्त्येव तेऽस्मि- ञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं [ टि ]-- तत्तस्मात्कारणाच्चिराच्चिरकालेन देवस्य पुण्डरीकस्य पुनदर्शनप्रत्याशयां पुनरवलोकनवाञ्छ्या दुःखाद [^1]सातादुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मे मम व्यर्थतां निष्फलतां यातं प्राप्तम् । इत्येवं विचिन्तयन्तीमेव ध्याय- न्तीमेव स तु युवा मामुपसृत्य मत्समीपमागत्याब्रवीदवोचत् । किं तदित्याह - हे चन्द्रमुखि हे शशाङ्कमुखि, मामयं कुसुमशरः काम- स्तस्य सहायः साहाय्यकारी चन्द्रमाः कुमुदबान्धवो हन्तुं व्यापादयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राणमनाथमनीश्वरमार्तं प्रपीडितमप्रतीकारक्षममप्रतिक्रि- यासहं मां रक्ष त्राहि । त्वदायत्तं जीवितं [^2]प्राणितं यस्य स तम् । हि यस्मात्कारणात्तपस्विनां तपोवतामप्ययं धर्म एव यच्छरणागतस्य रक्षणं त्राणम् । तद्यदि मामात्मप्रदानेन स्वार्पणेनात्र न संभावयसि न संभावनाविषयीकरोषि तदाभ्यां कुसुमशरशिशिरकराभ्यां काम- बाणचन्द्राभ्यामहं वैशम्पायनो हतो व्यापादितोऽस्मि । इति पूर्वो- क्तमहं महाश्वेता तदाकर्ण्य श्रुत्वा धिगिति धिगस्त्विति उत्तमाङ्गा- च्छिरसो निर्गता प्रादुर्भूता ज्वालाचिर्यस्या एवंविधेव रोषानलेन क्रोधवह्निना तं वैशम्पायनं निर्दहन्तीव ज्वालयन्तीव उन्मिषन्तः प्रकटीभवन्तो बाष्पस्फुलिङ्गा अश्रुवह्निकणा यस्यामेवंभूतया दृष्ट्या दृशा । त [^3]दव्यक्ते नपुंसकम् । आतर्जयन्तीव तिरस्कुर्वन्तीव । आपादतलात्पादतलं मर्यादीकृत्योत्कम्पिता प्रचलिता गात्रयष्टिरम- यष्टिर्यस्याः सा तथा । आविष्टेव भूतगृहीतेव । आत्मानमपि स्वम- प्यचेतयमानाज्ञायमाना क्रोधस्य क्रुध आवेगस्त्वरिस्तेन रूक्षाक्षर मस्निग्धवर्णं यथा स्यात्तथावदमब्रवम् । आः पाप हे पापिष्ठ, एवं मां वदतो ब्रुवतः कथं ते तवोत्तमाङ्गे शिरसि न निपतितं वज्रं पविः, सहस्रधा सहस्रप्रकारेण जिह्वा रसना नावशीर्णा न शटिता, वाणी भाषा विह्वलतां विक्लवतां वा न गता, न नष्टानि वने प्रपलायितानि वाक्षराणि वर्णा वा । मन्येऽहं जाने च ते तवास्मिञ्शरीरे देहे सक- ललोकानां समग्रजनानां शुभाशुभयोर्वर्यावर्ययोः पुण्यपापयोः साक्षिभूतानि पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशलक्षणानि न सन्त्येव एतदर्थे हेतुमाह - येनेति । येन कारणेनैवं वदन्ब्रुवन्नग्निना [^1]F. दुःखोत्तरं दुःखबहुलं, दु:खमुत्तरं ( अनन्तरम् ) वा यस्य, ईदृशं प्राणसंधारणमङ्गीकृतमपि व्यर्थतां यातम् । [^2]F. 'त्वदायत्तं मे जीवितम् ।' इत्येव पाठः । अन्यथा 'आत्मना इति पदस्यान्वयो न घटेत । 'स्वदायत्तं मे' इति व्यस्तपाठे तु अशरणादिविशिष्टं माम् आत्मना (स्वशरीरेण ) रक्ष, इति पूर्व- वाक्यान्वयः । [^3]F. सर्वमिदमसंगतम् । 'तदातर्जनायेव ( तस्य वैशम्पा० भर्त्स- नायेव ) आपादतलात् उत्कम्पितगात्रयष्टिः,' इति पाठः । [^१]G. चिरात्. [^२]G. अङ्गीकृत्य. [^३]G. एवं, एव. [^४]G. अप्रतीकाराक्षमम्. [^५]G. त्वदायत्तं मे जीवितम्. [^६]G. प्रसादेन. [^७]G. शिशिरकिरणाभ्याम्. [^८]G. झटिति, झगिति. [^९]G. तर्जनायैव. [^१०]G. हताश. [^११]G. एवंवादिनस्तव नोत्तमाङ्गे. बदन्नाग्निना भस्मीकृतोऽसि, न वायुना [^१]धूतोऽसि, ना [^२]म्भ- सा प्लावितोऽसि, न [^३]धरित्र्या रसातलं प्रवेशितोऽसि, नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि, अव्यवस्थितो व्यवस्थितेऽस्मिं [^४]ल्लोके कुतस्त्वमुत्पन्न एवंविधः ? यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि । येनैवं खलु [^५]हतविधात्रा के- [^६]नाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपित- स्थानास्थानवादी शुक इव वक्तुमेवं शिक्षितस्तेनैव कि [^७]मुत तस्यामेव जातौ न नि [^८]क्षिप्तोऽसि, येनै [^९]का [^१०]न्त- हासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि ? [^११]त्वदुक्तेदु:खिताहं ते संविभागमिमं करोमि, येनात्मवचनानुरूपां जातिमा- पन्नो नै [^१२]वास्मद्विधाः कामयसे इत्युक्त्वा चन्द्राभिमुखी भूत्वा कृताञ्जलिः पुनरवदम् – 'भगवन्, परमेश्वर, सकलभुवनचूडामणे, लोकपाल, यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति मनसा- प्यपरः पुमान्न चिन्तितस्तदाऽनेन मे सत्यवचनेनायमलीककामी- मदुदीरितायामेव जातौ एततु' इति । [ टि ]-- वह्निना न भस्मीकृतो न भस्मसाद्विहितोऽसि । न वायुना समीरेणाधूतः कम्पितोऽसि । नाम्भसा जलेन प्लावितः प्रवाहि- तोऽसि । न धरित्र्या पृथिव्या रसातलमधोलोकं प्रवेशितोऽसि क्षिप्तोऽसि । नापि तत्क्षणमेव तस्मिन्नेव च क्षण आकाशेन नभसा- त्मनिर्विशेषतां स्वतुल्यतां नीतोऽसि प्रापितोऽसि । अव्यवस्थितो व्यवस्थामप्राप्तः पञ्चभूतात्मकतया व्यवस्थितेऽस्मिंल्लोके कुत- स्त्वमुत्पन्नः प्रादुर्भूत एवंविध एतादृशो यस्तिर्यग्जातिरिव- पशुजातिरिव कामचारी स्वैरविहारी न किंचिदपि वेत्सि जानासि । येनैवम् । खल्विति निश्चये । हतविधात्रा पापिष्ठब्रह्मणा [^1]केनापि कारणे- नोपदर्शितः प्रकटितो मुख आस्ये रागोऽनुरक्तिर्येन स तथा । स्वपक्षपातमात्रे स्पपक्षरक्षणमात्रे प्रवृत्तिः प्रवर्तनं यस्य स तथा । अनिरूपितमज्ञातं यत्स्थानास्थानं वक्तव्यावक्तव्यस्थलं तत्र वदती- त्येवंशीलः शुक इव कीर इव । सोऽपि दर्शितमुखरागः स्वपक्षपा- तनमात्रे प्रवृत्तः स्थानास्थानवादी च भवति । तद्वदेवैवं वक्तुं जल्पितुं शिक्षितः शिक्षां ग्राहितस्तेनैव हतविधात्रा किमुत कथं तस्यामेव तिर्यग्जातौ न निक्षिप्तोऽसि । एकान्तेन निश्चयेन हासस्य [^2]हेतुर्निदानमेवं वदन्नपि जल्पन्नपि क्रोधं कोपं नोत्पादितवान- सीति काकूक्तिः । अतस्त्वदुक्ते [^3]स्त्वत्कथितस्यान्यथा कर्तुमहं तं इमं संविभागं विभज्य प्रदानं करोमि । येन संविभागेनात्मवचन- स्य स्वकीयोक्तेरनुरूपां योग्यां जातिं तिर्यग्जन्म आपन्नः प्राप्तो नैवास्मद्विधा अस्मत्सदृशाः कामयसेऽभिलषसे ' इत्युक्त्वेत्यभिधाय चन्द्रस्य शशाङ्कस्याभिमुखीभूत्वा संमुखीभूय कृताञ्जलि: संयुतकर- द्वया पुनरवदमब्रवम् । 'पाणिः प्रसृतः प्रसृतिस्तौ युतौ पुनरञ्जलिः' इति हैमः । हे भगवन् हे माहात्म्यवन्, हे परमेश्वर परमैश्वर्यवन्, हे सकलभुवनचूडामणे समग्रविष्टपशिरोमणे, हे लोकपाल जगद्रक्षक, यदि मया महाश्वेतया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति तदवलो- कनदिवसादारभ्य मनसापि चित्तेनाप्यपरस्तदन्यः पुमान्न चिन्तितो न ध्यातः, तत्तस्माद्धेतोरनेन सत्यवचनेनायं पुरःस्थोऽलीककामी मिथ्याकामवान्मदुदीरितायामेव मदुक्तायामेव जातौ जन्मनि पततु गच्छत्विति । 'जाति: सामान्यजन्मनोः' इत्यमरः । [^1]F. 'केनापि' एतावन्मात्रस्य कारणेनेत्यर्थोऽसंगतः । वस्तुतस्तु – 'येनैवं खलु हतविधिना समुपदर्शितवदनरागः' इत्येव पाठः । अर्थस्तु स्पष्टः । [^2]G. 'येनैकान्तहासहेतु वदन् क्रोधमपि ' इति पाठः । एकान्तहासहेतु इति वदन्निति क्रियाया विशेषणम् । [^3]F. त्वदुक्तेः त्वत्कथनाद्दुःखिताहं ते संविभागं दण्डमिमं करोमीत्यर्थः । [^१]G. आहृतः; अपहृतः [^२]G. पयसा. [^३]G. धात्र्या रसातलम्. [^४]G. लोकत्रये. [^५]G. हतविधिना. [^६]G. समुपदर्शितवदनरागः. [^७]G. किमिति; किमु. [^८]G. क्षिप्तः. [^९]G. येन. [^१०]G. हासहेतुं वदन्. [^११]G. त्वद्दुरुक्तेस्तेऽहम्. [^१२]G. अस्मद्विधां. का० ७८ म [^१]द्वचसोऽस्थानन्तरमेव च न वेद्मि किमसह्यवृत्तेर्मदनज्वरस्यावेगात्, उत सद्योविपाकस्यात्मनो दुष्कृतस्य गौरवात्, आहो- स्विन्मद्वचसः सामर्थ्यादेव [^२]च्छिन्नमूलस्तरुरिवाचेतनः क्षिता- वपतत् । [^३]अतिक्रान्त जीवितेऽ[^४]स्मिन्कृ [^५]ताक्रन्दान्त- र्जनाच्छ्रुतवती यथासौ महाभागस्यैव मित्रं भवति" इत्युक्त्वा च त्रपावनम्रमुखी महीं महीयसा वेगे [^६]न तूष्णीमेवांप्लावितवती । चन्द्रापीडस्य तु [^७]तदाकर्ण्य कर्णान्तायतलोचनद्वयांमीलनमग्न- दृष्टेर्भ्रष्टवचनसौष्ठवस्य 'भगवति, कृतप्रयत्नायामपि भगवत्यामपुण्य- भाजास्मिञ्जन्मनि मया न प्राप्तं देव्याः कादम्बर्याश्चरणपरिचर्यासुखम्, तज्जन्मान्तरेऽपि मे भगवती संपादयित्री भूयात्' इति गदत एव कादम्बरीसमागमाप्राप्तिदुःखेनेव भेदोन्मुखं मुकुलमिव शिली- मुखाघातात्स्वभावसरसं हृदयमस्फुटत् । अथ महाश्वेतायाः शरीरमुत्सृज्य [^८]संभ्रमप्रतिपन्नचन्द्रापीडशरी- रायां 'भर्तृदारिके, किं लज्जया । पश्य तावदन्यथैव कथमप्यास्ते देव [^९]श्चन्द्रापीडोऽयम् । [^१०]मग्नेवास्य ग्रीवा न मूर्धानं [ टि ]-- अस्य [^1]मद्वचसोऽनन्तरमेव न वेद्मि न जाने । असह्या- सहनीया वृत्तिर्वर्तनं यस्यैवंविधस्य मदनज्वरस्य कामसंतापस्य वेगात् । उत इति वितर्के । सद्यस्तत्कालं विपाकोऽनुभवनं यस्यैवं- विधस्यात्मनः स्वकीयस्य दुष्कृतस्य पापस्य गौरवाद्गुरुत्वात् । आहोस्विद्वितर्के । वचस एव सामर्थ्याच्छक्तेरेव छिन्नं छेदितं मूलं बुध्नं यस्यैवंभूतस्तरुरिव वृक्ष इवाचेतनश्चेतनारहितः क्षितौ पृथिव्या- मपतत् । अस्मिन्वैशम्पायनेऽतिक्रान्तजीविते च गतप्राणिते च सति कृताक्रन्दा विहितार्तस्वरा [^2]न्तर्जनान्मध्यजना छ्रुतवत्याकर्णित- वती । यथासौ महाभागस्य महापुरुषस्य मित्रं वयस्यो भवति इत्यु- क्त्वेत्यभिधाय च त्रपया लज्जयावनम्रं मुखं यस्याः सैवंविधा महीय- सा गरीयसाश्रुवेगेन नेत्राम्बुप्रवाहेण तूष्णीमेव महीमाप्लावितवती । चन्द्रापीडस्य तु तदाकर्ण्य श्रुत्वा हृदयमस्फुटदित्यन्वयः। कीदृशस्य । कर्णं यावदायतं विस्तीर्णं यल्लोचनद्वयं तस्यामीलनं मुद्रणं तेन मग्ना दृष्टिर्यस्य स तथा तस्य । भ्रष्टुं नष्टं वचनस्य वचसः सौष्ठवं शोभनत्वं यस्य स तथा तस्य । किं कुर्वतः । इति गदत इति ब्रुवतः । इतिद्योत्यमाह - भगवतीति । हे भगवति हे देवि, कृतप्रयत्नाया- मपि विहितोद्यमायामपि भगवत्यामपुण्यभाजा पाप [^3]भाजा- स्मिञ्जन्मनीह भवे देव्याः कादम्बर्याश्चरणपरिचर्यासुखं क्रमसेवासा- तं न प्राप्तं तज्जन्मान्तरेऽप्यन्यभवेऽपि मे मम भगवती भवती संपादयित्री जनयित्री भूयादितीवो [^4]त्प्रेक्षते । कादम्बरीसमा- गमस्याप्राप्तिदुःखेनेव भेदोन्मुखं प्रस्फुटनोन्मुखं मुकुलमिव कुड्मलमिव शिलीमुखस्याघाताद्भ्रमराभिघातात् । यथा भ्रमराभिघाता- त्कुङ्मलं भेदोन्मुखं स्फुटति, तथैव चन्द्रापीडस्य तच्छ्रुत्वा स्वभावेन प्रकुत्या सरसं कोमलं हृदयमस्फुटदिति भावः । अथेति । हृदयस्फोटानन्तरं महाश्वेतायाः शरीरमुत्सृज्य विमुच्य संभ्रमेणादरेण प्रतिपन्नमङ्गीकृतं चन्द्रापीडस्य शरीरं यया सा तथा तस्याम् । इत्युक्त्वेत्यभिधाय मुक्तं परित्यक्तमार्तं पीडितं वचो यया सा तथा तस्यां तरलिकायां सत्याम् । इतिद्योत्यमाह - हे भर्तृदारिके इति । हे महाश्वेते, किं लज्जया त्रपया । तावदादौ पश्य विलोक्य । अयं देवश्चन्द्रापीडोऽन्यथैवेतरप्रकारेणैव कथमप्यास्ते तिष्ठति । अस्य चन्द्रापीडस्य ग्रीवा [^1]F. 'स तु मद्वचसोऽस्थानन्तरमेव' इति पाठः। स वैशम्पायनः। [^2]F.'कृताक्रन्दात्तत्परिजनाच्छ्रुतवती' इत्येव पाठः । [^3]F. मया । [^4]F. धन्या बुद्धिः ! भूयादिति आशीर्लिंङा भगवतस्तदिदं काम्यते । [^१]G. स च मे वचसोऽस्थानन्तरमेवः; स तु मद्वचनानन्तरम्. [^२]G. आच्छिन्नमूल:. [^३]G. अपक्रान्त. [^४]G. च. तस्मिन्. [^५]G. कृताक्रन्दात्तत्परिजनाच्छ्रुतवती; कृताक्रन्दात्तत्परिजनतः श्रुतम्. [^६]G. प्लावितेन. [^७]G. तत्तत्. [^८]G. ससंभ्रम. [^९]G. चन्द्रापीडः. [^१०]G. भग्नैव. धारयति । वि [^१]चालितोऽपि न किंचिच्चेतयते । नान्तः प्रविष्ट- तारके समुन्मीलयति विलो [^3]चने । नायं [^४]यथावस्थितानां गात्राणामावरणं [^५]करोति । नो [^६]च्छ्वसिति हृदयेन । हा देव चन्द्रापीड, चन्द्राकृते, कादम्बरीप्रिय, क्वेदानीं त्वया विना गम्यते' इत्यु [^७]क्त्वा मुक्तार्तवचसि तरलिकायाम्, तिर्यगाभुग्नचन्द्रापीड- मुखनिहित [^८]निखिलस्तब्धदृष्टिनिश्चेष्टायां महाश्वेतायाम्, 'आः पापे दुष्टतापसि, किमिदं [^९]त्वया कृतम् । [^१०]अपाकृताखिलजगत्पीडस्य तारापीडस्य [^११]कुलमुत्सारितम् । अनाथीकृताः प्रजाः सहास्माभिः । भग्ना: पन्थानो गुणानाम् । अर्गलिताः ककुभो- ऽर्थिलोकस्य । कस्य वदन [^१२]मीक्षतां लक्ष्मीः ? कोऽवलम्बनं भवतु भूमेः ? कं सेवन्तां सेवकाः ? त्वया विना संप्रति व्यसनमेव सेवा [^१३]संवृत्ता। [^१४]वृत्तं समानशीलत्वम् । अस्तमिता [^१५]च परिजनश्लाघा । लघुकृतो भृत्यादरः । दूरं गतानि प्रियालपितानि । [^१६]समाप्ताः परित्यागकथाः । स्वं कथं कथावशेषीभूतोऽसि ? भूतपूर्वाः कमुपयान्तु [^१७]संप्रति [^१८]प्रजाः ? [^१९]क्व संप्रति साधूनां [ टि ]-- कंधरा भग्नेव त्रुटितेव मूर्धानं शिरो न धारयति न धत्ते । विचालितोऽपि परावर्तितोऽपि न किंचित् चेतयते न संज्ञां लभते । अन्तर्मध्ये प्रविष्टे तारके कनीनिके यथोरेवंविधे विलोचने नेत्रे न समुन्मीलयति न विकासयति । अयं यथावस्थितानां गात्राणामङ्गानां नावरणमाच्छादनं करोति। हृदयेन भुजान्तरेण नोच्छ्वसिति नोच्छ्वासं गृह्णाति । हा इति खेदे । हे देव हे पूज्य, हे चन्द्रापीड, चन्द्रवच्छशा- ङ्कवदाकृतिराकारो यस्य तस्य संबोधनं हे चन्द्राकृते, हे कादम्बरी- प्रिय हे गन्धर्वसुताप्राणप्रिय, त्वया विना भवष्यतिरेकेण मया क्वेदा- नीं सांप्रतं गम्यत इति । तिर्यगाभुग्ना वक्रा चन्द्रापीडमुखे निहिता स्थापिता निखिला समग्रा स्तब्धा निश्चला दृग्यया सा तस्यामेवंविधा- यां निश्चेष्टा [^1]यां निर्गतशरीरव्यापारायां महाश्वेतायां सत्याम्, इति परिजने सेवकजन आरटति पूत्कुर्वति सति । इतिद्योत्यमाह — आः पापे इति। आः इति खेदे । पापे पापकारिणि दुष्टतापसि, त्वया भवस्येदं किं कृतं किं विहितम् । अपाकृता दूरीकृताखिलजगतः समग्रविश्वस्य पीडा येनैवंभूतस्य तारापीडस्य कुलं वंश उत्सारितं उच्छेदितम् । दूरीकृतमिति यावत् । अस्माभिः सह प्रजाः प्रकृत- योऽनाथीकृता विनायकीकृताः । वयमप्यनाथीभूत इत्यर्थः । गुणानां शौर्यादीनां पन्थानो मार्गा भग्ना भ्रंशं प्राप्ताः । अर्थिलोकस्य याचक- जनस्य ककुभो दिशोऽर्गलिताः कृतपरिघाः संजाताः । लक्ष्मीः पद्मा कस्य वदनमीक्षतां विलोकताम् । भूमेः पृथिव्याः को वावलम्बन- मालम्बनं भवतु । सेवकाः सपर्याकारिणः कं पुमांसं सेवन्तामुपा- सन्ताम् । [^2]त्वया विना भवद्विना सेवा सपर्यां संप्रति व्यसनमेव कष्टमेव संवृत्ता जाता । समानशीलत्वं सदृशस्वभावत्वम् । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । वृत्तमतीतम् । 'वृत्तं पद्ये चरित्रे त्रिष्व- तीते दृढनिश्चले' इत्यमरः । परिजनस्य परिच्छदस्य [^3]श्लाघा प्रशंसास्तमितास्तं प्राप्ता । भृत्यानां किंकराणामादरः सन्मानप्रदानं लघूकृतः स्वल्पीकृतः । प्रियालपितानि मिष्टभाषितानि दूरं गतानि दविष्ठदेशं प्राप्तानि । परित्यागकथा दानकिंवदन्त्यः समाप्ताः।विलयं गता इत्यर्थः । त्वमिति । चन्द्रापीडः कथं केन प्रकारेण कथावशेषीभूतः कथा एवावशेषोऽवशिष्टा यस्मिन्नेवंभूतो जातोऽसि । पूर्वं भूता भूतपूर्वाः संप्रति प्रजाः कमुपयान्तु कमाश्रयन्तु । क्व साधूनां सज्जनानां संप्रति समाधानं चित्तप्रमोदजन [^1]F. 'निश्चेष्टायामेव महाश्वेतायाम्' इत्येव पाठः । [^2]F. 'युवराज ! त्वया विना ० ' इति पाठः । [^3]F. 'अस्तमिता च परिजनकथा' इत्येव पाठः । [^१]G. विचलितः. [^२]G. किंचिदपि. [^३]G. लोचने. [^४]G. यथास्थितानाम्; यथावस्थितपतितानाम्. [^५]G. ईष्टे. [^६]G. नमनागप्युच्छ्वसित्येव. [^७]G. उक्त्वा उन्मुक्तार्तवचसि; इत्युन्मुक्तार्तवचसि. [^८]G. निश्चल. [^९]G. त्वयापकृपया. [^१०]G. अपाकृत; अकृत. [^११]G. उत्सादितम्. [^१२]G. उद्वीक्षताम्. [^१३]G. वृत्ता. [^१४]G. निवृत्तम्. [^१५]G. अश्रान्तपरिजन. [^१६]G. समाप्ता परित्यागकथा; पर्याप्ता परित्यागवार्ता. [^१७]G. सांप्रतम्. [^१८]G. प्रज्ञा:. [^१९]G. किम्. समाधानम् ? अधुना [^१]धूर्धरे त्वयि विपन्ने कः समद्वहतु देवेन तारापीडेनोढां धुरम् ? धीरस्थापि ते कथं कातरस्येव शुचा भिन्नं [^२]हृदयम् ? दयालोरपि ते केयमद्येदृशी जाता निर्दय[^३]ता- स्मासु ? देव, प्रसीद सकृदप्याज्ञापय ? [^४]देहि भक्तजनस्या- भ्यर्थनाम् । प्रतिपद्यस्व प्राणान् । न त्वया विना क्षणमपि प्राणिति पुत्रवत्सलो देवस्तारापीडः, न देवी विलासवती, [^६]नाप्यार्य: शुकनासः, न मनोरमा, न राजानः, नापि प्रजाः । परित्यज्य च सर्वानेकाकी व प्रस्थितोऽसि ? कुतस्तवेयमेकपद एवेदृशी निष्ठुर- ता जाता ? क्व सा गुरुजनस्योपरि भक्तिर्यदे [^७]वमनपेक्ष्य प्रया- सि' इत्युक्तवत्यवनितलविमुक्तात्मन्यारटति परिजने, तदाकर्णनो- त्कर्णे 'हा हा, किमेतत् [^९]इत्युद्भ्रान्तमनसि समापतति राजपुत्र- लोके, [^१०]समुत्प्लुतोत्पक्ष्मनयनदर्शिनि चन्द्रापीडवदननिवेशित- दृशि दीनतरहेषारवकृताक्रन्दे शुचेव पर्यायोत्क्षिप्तखुरचतुष्काहत- क्ष्मातले मुहुर्मुहुरात्मोन्मोचनायेवाच्छोटितखरखलीनकनकशृङ्ख- लायोगे तुरंगमतां मुमुक्षतीवेन्द्रायुधे, पत्रलेखा निवेदितचन्द्रापीडा- गमना चन्द्रोदयोल्लासिनी वेलेव महोदधेः समकरध्वजा, व्याजी- कृत्य [ टि ]-- नम् । अधुना धूर्धरे राज्यभारधरणक्षमे त्वयि भवति विपन्ने मृते देवेन तारापीडेनोढां धुरं कः समुद्वहतु को दधातु । धीरस्यापि वीरस्यापि ते कथं कातरस्येव भीरोरिव शुचा शोकेन भिन्नं स्फुटितं हृदयं भुजान्तरम् । दयालोरपि कृपालोरपिते तव केयमद्येदृशी निर्दयता निष्करुणता जातोत्पन्नास्मासु सेवकजनेषु। हे देव, प्रसीद प्रसन्नो भव । सकृदप्येकवारमप्याज्ञापयाज्ञां देहि । भक्तजनस्याभ्यर्थनां प्रार्थनां देहि वितर । प्रतिपद्यस्वाङ्गीकुरुष्व प्राणानसून् । त्वया विना भवद्व्यतिरेकेण क्षणमपि समयमात्रमपि पुत्रवत्सलस्तारापीडो न प्राणिति । न जीवतीत्यर्थः । तथा देवी विलासवती न प्राणितीत्यस्य सर्वत्र संबन्धः । नाप्यार्यः पूज्यः शुकनासः । न मनो- रमा शुकनासस्य स्त्री । नान्ये राजानः कियद्रामाधिपतयः। न प्रजाः प्रकृतयः परित्यज्य च विहाय च सर्वानेकाक्यसहायः क्व प्रस्थितः क्व चलितोऽसि । कुतः कस्मात्तवेयमेकपद एव सहसैवेद्दशी निष्ठुरता कठिनता जाता । क्व साऽनिर्वचनीयस्वरूपा गुरुजनस्योपरि पूज्य- लोकस्योपरि भक्तिराराध्यत्वेन ज्ञानं श्रद्धा वा। 'श्रद्धारचनयोर्भक्तिः' इत्यमरः । यद्यस्मादेवं ताननपेक्ष्यानादृत्य प्रयासीत्युक्तवत्यवनितले विमुक्तो न्यस्त आत्मा येन स तस्मिन्नेवंभूते परिजन आरटत्याक्रन्दं कुर्वति सति । तस्याकर्णनं श्रवणं तेनोत्कर्ण ऊर्ध्वीकृतश्रवणे । हा हा इति खेदे । किमेतदेतत्किमित्युद्भ्रान्तं व्याकुलं मनो यस्य स तस्मिन्नेवंभूते राजपुत्रलोके समापतति समागच्छति सति । समु- त्प्लुते नम्रीभूते उत्पक्ष्मणी ययोरेवंभूताभ्यां नयनाभ्यां पश्यतीत्येवं- शीलः स तथा तस्मिन् । चन्द्रापीडस्य वदने मुखे निवेशिता स्थापि- ता दृग्येन स तथा तस्मिन् । दीनतरं यथा स्यात्तथा हेषारवेण ह्रेषा- ध्वनिना कृत आक्रन्दः पूत्कृतिर्येन स तथा तस्मिन् । शुचेव शोके- नेव पर्यायेणानुक्रमेणोत्क्षिप्तमुत्पाटितं यत्खुरचतुष्कं तेन हतं क्षमातलं येन तस्मिन् । मुहुर्मुहुर्वारंवारमात्मनः स्वस्योन्मोचनाय मुक्तय इवा [^2]च्छोटितं खरं कठिनं खलीनं मुखयन्त्रणं कनक शृङ्खलायोगो येन स तस्मिन् । 'कविका तु खलीनोऽस्त्री' इत्यमरः । तुरंगमतामश्वतां मुमुक्षतीव मोक्तुमिच्छतीवेन्द्रायुधे । पत्रलेखया निवेदितं ज्ञापितमे [^3]कमद्वितीयं चन्द्रापीडागमनं यस्याः सा । चंन्द्रोदयेनोल्लसतीत्येवंशीला सा [^1]F. धन्यष्टीकाकारः । 'अवधेहि (अवधानेन शृणु) भक्तजना- भ्यर्थ नाम्' इति पाठः । [^2]F. आच्छोटितः संछिन्नः खरस्य खलीनस्य कविकायाश्च शृङ्खलायोगो येन, इत्यर्थः । [^3]F. अमूला सेयं व्याख्या । [^१]G. धीर. त्वयि; धूर्धरे त्वयि. [^२]G. शरीरम्. [^३]G. अस्मासु ते. [^४]G. अवधेहि. [^५]G. भक्तजनाभ्यर्थनाम्. [^६]G. नार्यशुकनासः. [^७]G. अनपेक्ष्य. [^८]G. तदाकर्ण्योत्कर्ण्य. [^९]G. उद्भ्रान्ते राजपुत्रलोके. [^१०]G. समुल्ललित. महा [^१]श्वेतादर्शनं मातापित्रोः पुरः प्रतिपन्न शृङ्गारवेषाभरणा, रण [^२]न्नूपुरयुगेन मुखरमेखला [^३]दान्ना रम्योज्ज्व [^४]ला- कल्पेन कल्पितानङ्गबल[^५] विभ्रान्तिना गृहीतसुरभिमाल्यानुले- पनपटवासाद्युपकरणेन नातिबहुना परिजनेनानुगम्यमाना, पुरः केयूरकेणोपदि [^६]श्यमानमार्गा, पत्रलेखाहस्तावलम्बिनी, मद- लेखया सह कृतालापा- 'मदलेखे, पत्रलेखा कथयति [^७]प्रत्य- हमहं पुनस्तस्यैकान्तनिष्ठुरहृदयस्य शठमतेर्नि [^८]र्घृणमनसो निःस्पृहागमनमेव न श्रद्दधे । किं न स्मरसि तत्तस्य मदवस्थामश्रद्दधानस्य हिमगृहके [^९]मद्धितविमर्शाय दुर्विदग्धबुद्धेर्वक्रभा- षितम्, यत्र सस्मितमालोकितया त्वयैवास्मै सुतरामेवा [^१०]संशयकारि प्रत्युत्तरं दत्तम्। तदसौ मरणेऽपि मे न श्रद्दधात्येवे[^११]मा- मव [ टि ]-- तथा महोदधेः समुद्रस्य वेलेवाम्भसो वृद्धिरिव । सह मकरध्वजेन कामेन वर्तत इति समकर [^1]ध्वजा । मातापित्रोः पुरो महाश्वेतादर्शनं व्याजीकृत्य मिषीकृत्य प्रतिपन्नेऽङ्गीकृते शृङ्गा- रवेषाभरणे उज्ज्वलनेपथ्यभूषणे यया सा तथा । रणशब्दं कुर्वन्य- न्नूपुरयुगं [^2]पादकटकयुग्मं तेन मुखरं वाचालं यन्मेखलादाम काञ्चीदाम तेन रम्यं मनोहरमुज्ज्वलं निर्मलं यदाकल्पं वेषस्तेन । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । कल्पिता घटितानङ्गबलस्य कामसैन्यस्य विभ्रान्तिर्भ्रमो येन स तथा तेन । गृहीतान्यात्तानि सुरभिमाल्यानि सुगन्धस्रजोऽनुलेपनं विलेपनम्, पटवासः पिष्टातः एते आदौ येषामेवंविधान्युपकरणानि येन स तथा तेन । नातिबहुना नातिभूयसा परिजनेन परिच्छदेनानुगम्यमानानु- यायमाना। पुरोऽग्रे केयूरकेणोपदिश्यमानः प्रदर्श्यमानो मार्गः पन्था यस्याः सा । पत्रलेखानाम्नी ताम्बूलकरण्डकवाहिनी तस्या हस्तं करमवलम्बतीत्येवंशीला मदलेखया सह कृतो विहित आलापो यया सा । तदेवाह - हे मदलेखे इति । हे मदलेखे, पत्रलेखा प्रत्यहं कथयति ब्रवीति । अहं पुनस्तस्य चन्द्रापीडस्यैकान्तेन निष्ठुरं हृदयं यस्य शठा निकृता मतिः बुद्धिर्यस्य स तस्य निर्घृणं निर्दयं मनो यस्य स तथा तस्य [^3]निःस्पृहागमनमेव केवलमदर्थागमन- मेव न श्रद्दधे न मन्ये । त्वं तत्किं न स्मरसि न स्मृतिगोचरीकरोषि । तस्य चन्द्रापीडस्य मदवस्थां मदीयदशामश्रद्दधानस्यास्थामकुर्वाण- स्य हिमगृहके मद्धि [^4]तविमर्शाय दुर्विदग्धबुद्धेरचतुरमतेर्वक्र- भाषितं वक्रोक्तिजल्पितं वि [^5]र्मशय विचारय यत्र सस्मितं सहास्यं यथा स्यात्तथालोकितया निरीक्षितया त्वयैवास्मै चन्द्रा- पीडाय सुतरामेवात्यन्तमेवा संशयकारि अनारेकाकृत्प्रत्युत्तरं प्रति- वचो दत्तम् । तदसौ [^1]F. समुद्रवेला प्रकररूपेण ध्वजेन सहिता, कादम्बरी तु सकामा । [^2]F. इमानि सर्वाणि 'परिजनेन' इत्यस्य विशेषणानि । अत एव 'रणत् नूपुरयुगं यस्य' इत्यादिर्बहुव्रीहिः सर्वत्रोचितः । टीकाकार- पुंगवेन तु यत्कृतं तत्स्वानुरूपमेव । [^3]F. हन्त ग्रन्थोपरि क्रकचधातः ! 'निस्पृहस्यागमनमेव' इति पाठः । [^4]F. 'मद्विमर्शाय' इति पाठः । मम गवेषणाय 'अहं तदनुरागिणी अस्मि न वेति' मद्विषयकनिश्चयाय दुर्विदग्धबुद्धेः शठमतेः (प्रयोजि- तकूटमतेरिति भावः) टीकाकारस्तु प्रणयकलहोपालम्भमविजानन् विस्वरं प्रलपति । [^5]F. वक्रभाषितं तत्किं न स्मरसि ? इति संबन्धः । 'विमर्शय' इति तु निर्मूलः प्रलापः । [^6]F. पाठकमहाभागाः ! टीकाकृतष्टीका सेथं गङ्गाप्रवाहयोग्या, किमधिकं वच्मि । असंशयकृदुत्तरदानं शोभते किमु विदग्ध- गोष्ठ्याम् ? 'संशयकारि' इत्येव पाठः । तत्र कविशिरोमणिना बाणेन मदलेखाया द्व्यर्थतया संशयात्मकमेवोत्तरमुपनिबद्धम् - 'कुमारभावोपेतायाः किमिवास्या यत्र संतापाय' इत्यादि । [^१]G. कादम्बरीदर्शनम्. [^२]G. नूपुरेण; नूपुरयुगा. [^३]G. दामा. [^४]G. वाससा. [^५]G. विभ्रमेण. [^६]G. अपदिश्यमान. [^७]G. अन्यत्. [^८]G. निर्घृणस्यागमनम्; निस्त्रिंशस्यागमनम्; नृशंसस्यागमनम्. [^९]G. मद्विमर्शाय. [^१०]G. संशयकारि. [^११]G. एवेमावस्थाम् एवमवस्थाम्. स्थाम् । [^१]अन्यथा यदि मदर्थे दुःखमेवमियमनुभवतीत्ये [^२]तदस्याभविष्यत्तदा तथा गमनमेव नाकरिष्यत् ।[^३]तथागतोऽप्यसौ यत्किमपि वक्तव्यस्त्वयैव । मया पुनर्दृष्टोऽपि नालपितव्यो नोपाल- ब्धव्यो न चरणपतितस्याप्यनुनयो ग्राह्यो नाहं प्रियसंख्या प्रसादनी- या' इत्यभिधानैवाचेतितागमनखेदा कादम्बरी चन्द्रापीडदर्शनायो- त्ताम्यन्ती तत्रैवाजगाम । [^४]आगम्य चोद्धृतामृतमिव रत्नाकरम्, इन्दुविरहितमिव निशा- प्रबन्धम् अस्तमिततारागणमिव गगनम्, [^५]अपचित [^६]कुसु- मशोभमिवोपवनम्, उत्खातकर्णिकमिव कमलम्, उत्खण्डितासुरमिव [^७]मृणालम्, अवलुप्ततर [^८]लमिव हारम्, उन्मुक्त- जीवितं चन्द्रपीडमद्राक्षीत् । दृष्ट्वा च तं सहसा 'हा किमिदम्' इत्यधोमुखी धरातलमुपयान्ती कथंकथमपि [^९]मुक्ताक्रन्दया मदलेखयाधार्यत । पत्रलेखा पुनरुन्मुच्य कादम्बरीकरतलमचेतना क्षिति [^१०]मुपागमत् । [^११]चिरच्च लब्धसंज्ञापि कादम्बरी तथैव मूढेव निश्चलस्तब्धदृष्टिरविष्टेव, स्तम्भितेव, निष्प्रयत्ना, निःश्वसितुमपि [^१२]विस्मृता, अन्तर्मन्युभारनिष्पन्देव चन्द्रा पीडवदनसमर्पिता- क्षी, श्यामारुणाननां ग्रहोपरक्तेन्दु [ टि ]-- मरणेऽपि मे ममेमामवस्थां न श्रद्दधात्येव न चेतस्यमबुध्यते । [^1]अन्यथोक्तविपर्यये । यदि मदर्थे चन्द्रापीडनिमित्तमेवेयं कादम्बरी दुःखमनुभवत्यनुभवविषयीकरोतीत्येतदस्य चन्द्रापीड- स्या [^2]भविष्यत्तदा तथा गमनमेव तादृशगमनमेव नाकरिष्यत् । तथागतोऽपि तेन प्रकारेणागतोऽप्यसौ चन्द्रापीडो यत्किमपि त्वयैव भवत्यैव वक्तव्यो मया पुनर्दृष्टोऽपि निरीक्षितोऽपि नालपितव्यो न संभावितव्यः । नोपालब्धव्यो नोपालम्भो दातव्यः । चरणपतितस्यापि पादप्रणतस्यानुनयः [^3]प्रणामो न ग्राह्यो न ग्रहीतव्यः । नाहं प्रियसख्या वल्लभवयस्यया प्रसादनीया प्रसन्नीकार्या । इत्य- भिदधानैवेतिब्रुवाणैवाऽचेतितागमनखेदाऽज्ञातागमनसादा काद- म्बरी चन्द्रापीडस्य दर्शनाय वीक्षणायोत्ताम्यन्त्युत्प्राबल्येन खेदं कुर्वन्ती तत्रैव महाश्वेताश्रमं आजगाम । आगम्य चागमनं कृत्वैव चोन्मुक्तजीवितं त्यक्तप्राणितं चन्द्रापीड- मद्राक्षीयलोकयत् । कः कमिवेत्यपेक्षायामाह-उद्धृतेति । उद्धृतं गृहीतममृतं पीयूषं यस्मादेवंभूतं रत्नाकरमिव समुद्रमिव । इन्दुना चन्द्रेण विरहितं वियुक्तं निशाप्रबन्धमिव रात्रिसंबन्धमिव । अस्त- मितोऽस्तंप्राप्तस्ताराणां नक्षत्राणां गणो यस्मिन्नेतादृशं गगनमिव व्योमेव अपचिता दूरीकता कुसुमशोभा पुष्पलक्ष्मीर्यस्मादेवंभूत- मुपवनमिवाराममिव । उत्खाता त्रोटिता कर्णिका बीजकोशो यस्मादेतादृशं कमलमिव पद्ममिव । उत्खण्डिता उच्छेदिता अङ्कुरा अङ्करा यस्यैवंविधं मृणालं कमलमिव । अवलुप्तो दूरीकृतस्तरलो मध्यमणिर्यस्मादेतादृशं हारमिव मुक्ताकलापमिव । 'तरलश्चञ्चले खड्गे हारमध्यमणावपि' इति विश्वः । चन्द्रापीड- मद्राक्षीदित्यन्वयंस्तु पूर्वोक्त एव । दृष्ट्वा च तं चन्द्रापीडं सहसै- कपदे । हा इति खेदे किमिदमित्यधोमुखी नीचैर्मुखी धरातलं पृथ्व्यास्तलमुपयान्ती गच्छन्ती कथंकथमपि महता कष्टेन मुक्ता- क्रन्दयापि विहितफूत्कृत्यापि मदलेखयाधार्यत धृता । पत्रलेखा पुनः कादम्बरीकरतलमुन्मुच्य त्यक्त्वा क्षितिं वसुधामुपागमत्प्रा-प्तवती । चिराच्च बहुकालेन लब्धा प्राप्ता संज्ञा चेतना यया सैवं- भूतापि कादम्बरी तथैव तस्थाविति दूरेणान्वयः । कादम्बरीं विशे- षयन्नाह – मूढेति । मूढेव मूर्च्छितेव निश्चला निमेषरहितात एव स्तब्धा दृष्टिर्यस्याः सा तथा । आविष्टेव भूतग्रस्तेव स्तम्भितेवावरु- द्धेव । अत एव निष्प्रयत्ना (पि ) निरुद्यमा निःश्वसितुमपि निःश्वासं ग्रहीतुमपि विस्मृता विस्मरणं गता । अन्तर्मन्युभारः शोकसंभार- स्तेन निष्पन्देव निश्चेष्टेव चन्द्रापीडवदने समर्पिते दत्ते [^1]F. 'अन्यच्च' इत्येव पाठ : । [^2]F. 'एतदस्य चेतस्यभविष्यत्' इति पाठः । [^3]F. अनुनयो मानवत्याः प्रसादनम् । प्रणामार्थस्तु पुंगवत्वमेव । [^१]G. अन्यच्च. [^२]G. अस्य चेतस्यभविष्यत्. [^३]G. तत्र गतः. [^४]G. आगत्य. [^५]G. अवचित. [^६]G. फलकुसुम. [^७]G. मृणालिनीम्. [^८]G. तरलमणिम्. [^९]G. संक्रन्दया. [^१०]G. उपगता. [^११]G. अचिरात्. [^१२]G. विस्मृत्यर्थ. [^१३]G. संदानिताक्षी. बिम्बेव पौर्णमासी निशा, निशितपरशुपातोत्कम्पिनी लतेव वेपिता- धरकिसलया, लिखितेव स्त्रीस्वभावविरुद्धेन चेतसा तस्थौ । [^१]तथ वस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदलेखाब्रवीत् – 'प्रियसखि, प्रसीद । उ [^२]त्सृजेमं मन्युसंभारमर [^३]टन्ती । बाष्पमोक्षेणामुच्यमानेऽस्मिन्नियत [^४]मतिभारोत्पीडितं तटाक- मिव [^५]सरसमृदु नियतं सहस्रधा स्फुटति ते [^६]हृदयमित्यपेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति' इत्युक्तवतीं मदलेखां कादम्बरी विहस्याब्रवीत्- [^७]'अय्यु [^८]न्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य स्फुटनम्, [^९]यन्नालोक्यैवं सहस्रधा स्फुटितम् । अपि च या जीवति तस्याः सर्वमिदम्, माता पिता बन्धुरात्मा सख्यः परिजन इति । मया पुनर्क्रियमाणया जीवितभूतं कथंकथमपि समासादित- मिदं प्रियतमशरीरं यज्जीवदजीवद्वा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्किमिति देवेनागच्छता मदर्थं प्राणां- श्चोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपात [ टि ]-- अक्षिणी चक्षुषी यया सा तथा शुचा श्यामं क्रोधेनारुणं रक्तमाननं मुखं यस्याः सा तथा । केव । ग्रहेण राहुणा राहुग्रासे- नोपरक्तमिन्दुबिम्बं चन्द्रमण्डलं यस्यामेवंविधा पौर्णमासीनिशेव । निशितस्तीक्ष्णो यः परशुः कुठारस्तस्य पातः पतनं तेनोत्कम्पितुं शीलं यस्याः सा तथैतादृशी लतेव वल्लीव । वेपितः कम्पितोऽधर- किसलय ओष्ठपल्लवो यस्याः सा तथा । लिखितेव चित्रितेव स्त्री- स्वभावश्चञ्चलप्रकृतिस्तस्या विरुद्धेन स्थैर्येण चेतसा चित्तेन तस्था- वित्यन्वयस्तु पूर्वमेवोक्तः । तथावस्थितां तेन प्रकारेणासेदुषीं च तां कादम्बरीमुन्मुक्त आर्तनादः करुणध्वनिर्यया सैवंभूता मदलेखा सपादपतनं यथा स्यात्तथाब्रवीदवोचत् । किं तदित्याह - प्रियेति । हे प्रियसखि, प्रसीद प्रसन्ना भव । इमं मन्युसंभारमुत्सृज त्यज । किं कुर्वन्ती । अरटन्ती रुदनमविदधती । बाष्पमोक्षेण कृत्वास्मिन्मन्यु- भारेऽमुच्यमानेऽतिभारेणातिवीवधेनोत्पीडितं दुःखितं सरसं च तन्मृदु च सरसमृदु । रसोपयुक्तं सुकुमारं चेत्यर्थः । तटाकमिव कासार इव नियतं निश्चितं ते तव हृदयं भुजान्तरं सहस्रधा स्फुटति । भविष्यद्वर्तमाना । स्फुटिष्यतीत्यर्थः । तटाकमपि रसः पानीयं तेन स्रुतं मृदु च स्यादिति तदुपमानम् । 'रसो जलं रसो हर्षः' इति कोषः । [^1]इति हेतोः । अवेक्षस्व विलोकय । देवीं मदिरां निज- जननीं देवं च चित्ररथं स्वजनकम् । त्वया विना कुलद्वयमपि मातृ- पक्षः पितृपक्षश्च नास्ति न विद्यते । इत्युक्तवतीमिति निवेदितवतीं मदलेखां कादम्बरी विहस्य स्मितं कृत्वाब्रवीत् । अयि उन्मत्तिके, मे ममास्य वज्रस्य पवेः सारं मध्यं तद्वत्कठिनस्य कठोरस्य हतहृदयस्य कुतः स्फुटनं द्वैधीभावो यन्नैवमालोक्य निरीक्ष्य सहस्रधा स्फुटितम् । अपि चेति युक्त्यन्तरे । या जीवति प्राणिति तस्याः स्त्रियो माता जननी, पिता जनकः, बन्धुः स्वजनः, आत्मा जीवः सख्यो वयस्याः, परिजनः परिच्छद इति सर्वमिदं स्यात् । मया पुनः कादम्बर्या म्रियमाणया प्राणान्परित्यजन्त्या कथं कथमपि इदं प्रियतमशरीरं जीवितभूतं प्राणभूतं समासादितं प्राप्तं यज्जीवद्वाऽजीवद्वा संभोगेन मैथुनेनानुमरणेन वा सहगमनेन द्विधा- प्युभयप्रकारेणापि सर्वदुःखानामेव समग्रकृच्छ्राणामेवोपशान्तये निवृत्तये । मदर्थं मत्कृते देवेन चन्द्रापीडेनाऽऽगच्छताऽऽगमनं कुर्वता प्राणांश्चासूंश्चोत्सृजता परित्यजता सुदूरमत्युच्चैरारोपितमा- रोहणं कारितम् । गुरुतां च नीतं महत्त्वं च प्रापितम् । [^1]F. 'इति' पदं विरूपमेवान । 'स्फुटति ते हृदयमिदम् । अपेक्षस्व ....' इत्येव पाठः । [^१]G. तथास्थितां तु. [^२]G. एनम्. [^३]G. आरटन्ती; अनारटन्ती. [^४]G. अतिजलभार. [^५]G. मृदुसरसम्. [^६]G. हृदयमिदम्. [^७]G. अपि. [^८]G. उन्मत्तके. [^९]G. आलोक्यैव यन्न. मात्रेण लघूकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदि- तेनामङ्गलं करोमि । कथं वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्ष- स्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम्। अधुना तु मे सर्व दुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थं कुलक्रमो न गणितः, गुरवो नापेक्षिताः, धर्मो नानुरुद्धः, [^१]जनवादान्न भीतम्, लज्जा परित्यक्ता, मदनोपचारैः सखीजन: खेदितः, दुःखिता मे प्रियसखी महाश्वेता, तस्याः कृते प्रतिज्ञातमन्यथा जातं [^२]मयेत्ये- तदपि वेतसि न कृतम्, तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे, प्राणा- न्प्रतिपालयन्ती त्वयैवं किमुक्ताहम् । [^३]अस्मिन्समये [^४]मर- णमेव जीवितम् । जीवितं पुनर्भरणम् । तद्यदि ममोपरि स्नेहं करो- षि मत्प्रियं हितं वा, [^५]तन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न तातोऽम्बा [^६]च मच्छोकादात्मानं परित्यजतः, यथा च मयि, [^७]वाञ्छितं मनोरथं त्वयि पूरयतः, [^८]परलोक- गताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयिभवः । यथा [^९]च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा [^१०]मद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि । [ टि ]-- ममात्मानमश्रुपातमात्रेण नेत्राम्बुनिर्गमनेन तत्किमिति किमर्थं लघूकृत्य पातयामि । स्वर्गगमन उन्मुखस्याभिमुखस्य देवस्य चन्द्रापीडस्य रुदिनाश्रुपातेन कथममङ्गलमशिवं करोमि । पादधूलिरिव चरणरज इव पादावनुगन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि एवंविधं किं मे दुःखम् । अधुना तु मे मम सर्वदुःखान्येव दूरीभूतानि । किमद्यापि मया रुचते । यदर्थं यत्कृते कुलक्रमोऽन्वयस्थितिर्न गणितो नापेक्षितः । गुरवो हिताहितप्राप्ति- परिहारोपदेष्टारो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न निय- न्त्रितः । जनवादात्कौलीनान्न भीतं न त्रस्तम् । 'स्यात्कौलीनं लोक- वादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता । मदनोपचारैः कामोपशममक्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता । तस्या महाश्वेतायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीत्येन जातं मयेत्येतदपि चेतसि न कृतम् । मदर्थं कादम्बर्या एवोज्झितप्राणे व्यक्तजीविते तस्मिंश्चन्द्रा- पीडाख्ये प्राणेश्वरे प्राणानसून्प्रतिपालयन्ती [^1]रक्षन्ती त्वयैवं भवत्या किमुक्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरण- मेव जीवितं प्राणत्यागमेव [^2]प्राणितम् । जीवितं पुनर्मरणं प्राण- त्यागः । त्रपाजनकत्वात् । तद्यदि ममोपरि स्नेहं प्रीतिं मत्प्रियं मद्वल्लभं हितमायतिसुन्दरं वा त्वं करोषि विदधासि त [^3]न्मम कादम्बर्या उपरि यः स्नेहः प्रेम तेनाबद्धया संदानितयापि प्रिय- सख्या वल्लभवयस्या ( स्यया ) तथा कर्तव्यं तथा विधेयं यथा तातश्चित्ररथोऽम्बा मदिरा च मच्छोकान्मद्विरहजनितदुःखादात्मानं न परित्यजतः प्राणमोक्षणं न कुरुतः । यथा मयि वाञ्छितं मनोरथ- मभिलषितं कामं त्वयि पूरयतः परिपूर्णांकुरुतः । परलोकगताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीयप्रदाना [^4]यायं पुत्रकस्त्वयि भवः । यथा च मे मम सखीजनः परि- जनो वा परिच्छदलोको वा दुःखाभिभूतो भृत्यजनो न स्मरति न स्मृतिगोचरीकरोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं मद [ ^1]F. मदलेखया प्राणांस्त्यजन्ती एवमुक्ता, न तु प्रतिपालयन्ती । अत एव 'स्वयैव किं वक्ष्येऽहम्' इत्येव पाठः । [^2]F. नीचैर्दत्ते पाठान्तरेऽपि सहृदयैर्देया दृष्टिः । [^3]F. तन्ममोपरीत्यस्याऽऽम्रेडनं दृष्ट्वा पाठान्तरमनुसंधेयम् । [^4]F. 'अयम्' कः ? अत एव नीचैः पाठान्तरमेव सम्यक् । [^१]G. जनापवादात्. [^२]G. मम. [^३]G. अस्मिंस्तु. [^४]G. मरणमेव श्रेयो न जीवितं मे सर्वप्रकारलज्जाकरं तु जीवितं न पुनर्भरणम्. [^५]G. तन्मदीयमप्यात्मनि स्नेहमारोप्य. [^६]G. वा. [^७]G. अवाञ्छितम्. [^८]G. येन परलोकगताया अपि मे जलाञ्जलिदायी पुत्रको भविष्यति. [^९]G. वापि. [^१०]G. भवनम्. पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मच्चिन्तयै [^१]व माधवीलतया सहोद्वाहमङ्गलं स्वय मेव निर्वर्तनी [^२]यम् । मच्च- रणतललालि [^३]तस्याशोकविटपस्य कर्णपूरार्थमपि न [^४]प- ल्लवः खण्डनीयः । मत्संवर्तिताया मालत्याः कुसुमानि देवतार्चना- यैवोच्चेयानि । वासभवने मे शिरोभागनिहितः कामदेवपटः पाट- नीयः । मया स्वयं रोपितश्चूत [^५]वृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीयाः । पञ्जरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ । मदङ्कशायिनी नकुलिका स्वाङ्क एव शाययितव्या । पुत्रको मे बालहरिणस्तरलकः [^६]कास्मिंश्चित्तपो- वने समर्पणीयः । पाणितलसंवर्धित मे [^७]जीवंजीव मिथुनं क्रीडापर्वते यथा न विपद्यते तथा [^९]कर्तव्यम् । पादसह- [^१०]सं चारी हंसको यथा न हन्यते केनचित्तथा [^११]विधेय: । अपरिचितगृह [^१२]वसतिः सा च बलाद्विधृता तपस्विनी वनमा- नुषी वन एवोत्स्रष्टव्या । क्रीडापर्वतकः कस्मैचिदुपशान्ताय तप- स्विने प्रतिपादयितव्यः । शरीरोपकरणानि मे [^१३]ब्राह्मणेभ्यः प्रतिपाद- नीयानि । वीणा पुनरात्मन एवाङ्कप्रणयिनी [^१४]कार्या। अपरमपि यत्ते रोचते तदपि स्वीकर्तव्यम् । अहं [ टि ] -- लेखा तथा करिष्यसीत्यर्थः । मे मम पुत्रकस्य भवनाङ्गणे सहकारपोतस्य त्वया भवत्या मच्चिन्तयै [^1]व मम चिन्तयैव माधवीलतयातिमुक्तकलतया सहोद्वाहमङ्गलं विवाह कल्याणं स्व- यमेवात्मनैव निर्वर्तनीयं करणीयम् । 'आम्रचूतो रसालोऽसौ सह- कारोऽतिसौरभः' इत्यमरः । मच्चरणयोर्मदङ्घ्र्योयोस्तलमधो- भागस्तेन [^2]लालितस्य पालितस्याशोकविटपस्य कङ्केल्लिवृक्षस्य कर्णपूरार्थमपि श्रवणभूषणार्थमपि न पल्लवः किसलयः खण्डनीय- श्छेदनीयः । मत्संवर्धिताया मयैव वृद्धिं नीताया मालत्या जात्याः कुसुमानि पुष्पाणि देवतार्चनायैव देवपूजार्थमेवोच्चयानि ग्राह्याणि । वासभवने निवाससद्मनि मे मम शिरोभागे मस्तकप्रदेशे निहितः स्थापितः कामदेवपटः पाटनीयः खण्डशः कार्य: । मया स्वयमा- त्मना रोपिता उप्ताश्चूतवृक्षा आम्रवृक्षा यथा फलं गृह्णन्ति तथा संव- र्धनीया वृद्धिं प्रापणीयाः । पञ्जरबन्धदुःखाद्वराक्यनाथा कालिन्दी- नाम्नी सारिका पीतपादा शुकश्च परिहासाख्यो द्वावपि मोक्तव्यौ मोचनीयौ । मदङ्कशायिनी मदीयक्रोडशयनकारिणी नकुलिका पिङ्गलिका स्वाङ्क एक स्वकीय क्रोड एव शाययितव्या शयनं कार- यितव्या । मे मम पुत्रकस्तरलकश्चञ्चलो बालहरिणः शिशुकुरङ्गः कस्मिंश्चित्तपोवने मुनिस्थाने समर्पणीयः प्रदातव्यः । मे मम पाणि- तलेन करतलेन संवर्धितं वृद्धिं प्रापितं जीवंजीवकमिथुनं विषदर्श- नमृत्युकयुग्मं चकोरयुगलं क्रीडापर्वते यथा न विपद्यते विलयं न याति तथा कर्तव्यं तथा विधेयम् । पादाभ्यां सहसंचारी हंसको यथा केनचिन्न हन्यते न व्यापाद्यते तथा विधेयः कर्तव्यः । अपरिचिता गृहवसतिः सौधावस्थानं ययैवंविधा तपस्विनी वराकी वनमानुषी बलाद्धठाद्विधृता गृहीता सा च वन एवोत्स्रष्टव्या मोच्या । क्रीडा- पर्वतकः 'पवयी' इति प्राकृतलोके । कस्मैचिदनिर्दिष्टनाम्न उप- शान्ताय शीतलप्रकृतये तपस्विने मुनीश्वराय प्रतिपादयितव्यः प्रदा- तव्यः । शरीरस्य देहस्य मे ममोपकरणानि ब्राह्मणेभ्यो विप्रेभ्यः प्रतिपादनीयानि दातव्यानि । वीणा वल्लकी पुनरात्मनः स्वस्यैवाङ्के प्रणयः स्नेहो यस्याः सैवंविधा कार्या । अपरमप्यन्यदपि यद्वस्तु ते तव रोचते रुचिविषयीभवति तदपि वस्तु स्वीकर्तव्यमङ्गीकार्यम् । अहं कादम्बरी पुनरिममात्मानमेतैः शीतलवस्तुभिः कृत्वा दग्ध- [^3]शेषं ज्वलितोर्वरितमुज्ज्वला [^1]F. न प्रसङ्गः सम्यक् । अत एव – 'मच्चित्तया' (मत्पालितया ) इति पाठः । [^2]F.पुष्पितीकृतस्य 'पादाघातादशोक :० ' इति । [^3]F.प्रियवियोगावस्थायां शीतलैरप्येभिर्वस्तुभिर्मम शरीरमदह्यत, दग्धशेषमेव तच्छरीरं संप्रति चितानले निर्वापयामीत्याशयः । [^१]G. इव. [^२]G. निवर्तनीयम्. [^३]G. बालाशोक. [^४]G. पल्लवलवः. [^५]G. वृक्षकाः. [^६]G. क्वचित्. [^७]G. जीवंजीवक. [^८]G. क्रीडापर्वतके. [^९]G. कार्यम्. [^१०]G. चारी. [^११]G. विधेयम्. [^१२]G. वसति तपस्विनी बलाद्धृता; निवासा बलाद्विधृता तपस्विनी. [^१३]G. सर्वाण्येव ब्राह्मणसात्कर्तव्यानि. [^१४]G. कर्तव्या. ७९ का० पुनरिम [^१]ममृतकिरणरश्मिभिरनाश्यानचन्दनचर्चाभिरनवरत- धारागृहासारसेकै [^२]रनेकसंतानतुहिनकिरणनिकरतारकिततारहारार्पणैर्मणिदर्पणप्रणयनेनमलयजजलार्दपद्मिनीपत्रास्तरणेन सरसबिस [^३]किसलयप्रस्तरैरकठोर [^४]मृणालतल्पकल्प- [^५]नयोगविकसितकमलकुमुदकुवलयशयनीयैश्च दग्ध [^६]शेष मुज्ज्वलचिताज्वालामालिनि विभावसौ देवस्य कण्ठलग्ना निर्वापया- म्यात्मानम्' इत्य [^७]भिधानैव कृताव [^८]धारणानुबन्धां मद- लेखा मव [^९]क्षिप्योप [^१०]सृत्य महाश्वेतां कण्ठे गृहीत्वा निर्विकार- वदनैव पुनस्तामवादीत् - 'प्रियसखि, तवास्ति कीदृश्यपि प्रत्याशा ययानुरागपरवशा पुनः समागमाकाङ्क्षिणी क्षणे क्षणे [^११]मरणाभ्यधिकानि दुःखान्यनुभवन्ती जीवितमलज्जाकर- मननुशोच्यमनुपहसनीयमवाच्यं धारयसि । मम पुनः सर्वतो हता- शायाः सापि नास्ति । तदामन्त्रये प्रियसखी [^१२]पुनर्जन्मा [ टि ]-- दीप्ताश्चितायाश्चितेर्ज्वाला अर्चिषस्ताभिर्मालत इत्येवंशीलः स तथा तस्मिन्नेवंभूते विभावसावनौ देवस्य राज्ञः । 'देवः सुरे वने राज्ञि देवमाख्यातमिन्द्रियम्' इति यादवप्रकाशः । कण्ठे निगरणे लग्नासक्ता निर्वापयामि शीतलीकरोमि । एतेन वह्नितप्तेर्विरहजनि- ततापस्याधिक्यमसूचितम्। एतैः कैरित्यपेक्षायामाह- अमृतेत्यादि । अमृतकिरणश्चन्द्रस्तस्य रश्मिभिः किरणैरनाश्यानमशुष्कं यच्चन्दनं मलयजं तस्य चर्चाभिः समालम्भनैरनवरतं निरन्तरं धारागृहाणा- मासारो वेगवदृष्टिस्तेन सेकैः सेचनैरनेकसंताना अनेकपरंपरा ते तुहिन [^1]किरणस्य चन्द्रमसः किरणास्तेषां निकरः समूहस्तेन तारकिताः संजाततारका ये तारा उज्जवला हारामुक्ताकलापास्तेषामर्पणैर्न्यसनैर्मणिदर्पणानां रत्नादर्शानां प्रणयनेन ग्रहणेन । अत्य- न्तशीतलत्वात्तेषामिति भावः । मलयजजलेन चन्दनपानीयेनार्द्राणि स्विन्नानि यानि पद्मिनी कमलिनी तस्याः पत्राणि दलानि तेषामास्त- रणेन प्रस्तरणेन सरसानि रसोपेतानि बिसकिसलयानि तन्तुलप- ल्लवास्तेषां प्रस्तरैर स्तरैरकठोराणि मृदूनि यानि मृणालानि तैः सह तल्पकल्पनयोगो विद्यते येषां तानि विकसितानि यानि कमलकुमुदकुवलयानि तेषां शयनीयैश्च । अन्वयस्तु प्रागेवोक्तः । इति पूर्वप्र- तिपादितमभिदधाना ब्रुवाणा एव कृतो [^2]विहितोऽवधारणे देहपरित्यागेऽनुबन्धो निश्चयो यया सैवंविधां मदलेखामवक्षिप्य दूरी- कृत्य महाश्वेतामुपसृत्य समीपे गत्वा कण्ठे निगरणे गृहीत्वा। कण्ठाश्लेषं विधायेत्यर्थः । निर्विकारवदना एव शुग्जनितविकृति- वर्जितानना एव पुनस्तां महाश्वेतामवादीदवोचत् । हे प्रियसखि महाश्वेते, तव भवत्याः कीदृश्यप्यनिर्दिष्टनाम्न्यपि प्रत्याशा लिप्सा वर्तते यया प्रत्याशयानुरागपरवशानुरख्याधीना पुनर्द्वितीयवारं पुण्डरीकस्य समागमस्तस्याकाङ्क्षिणी तद्वाञ्छा- विधायिनी क्षणे क्षणे मरणेभ्योऽधिकानि दुःखानि कृच्छ्राण्येवमनु- भवन्त्यनुभवविषयीकुर्वन्ती । अलज्जाकरमत्रपोत्पादकमननुशोच्य- मविमर्श्यमनुपहसनीयं परेषामनुपहसनार्हमवाच्यमवचनीयमेवंविधं जीवितं धारयसि दधासि । मम पुनः सर्वतोऽभितो हता ध्वस्ताशा वाञ्छा यस्याः सैवंविधायाः सापि प्रत्याशापि नास्ति । तत्तस्माद्धेतोरहं पुनर्जन्मान्तरे [^1]F. किरणकिरणेति ग्राम्यप्रियः पाठः। 'अनेक संतानतान- तुहिनकरकिरण०' इत्यादिरधोधृतः पाठः । अनेके संतानानाम् (विस्तृतीनाम्) तानाः ( विस्ताराः ) येषां तथाभूता ये तुहिनकर ( चन्द्र ) किरणा:, अग्रे टीकायाम् । [^2]F. ' विधारणानुबन्धाम्' इत्युचितः पाठः । कृतो विधारणे देहपरित्यागे इत्यादिस्तस्यार्थ: स्यात् । [^१]G. इयम्. [^२]G. अनेकसंतानतुहिनकरकिरण; अनन्तसंतानतुहिनकर-किरण. [^३]G. किसलयैः स्रस्तरैः; किसलयस्त्रस्तरैः. [^४]G. मृणालिनी. [^५]G. उद्विकासकमलकुमुदकुवलय; विकसितकुमुदकुवलय. [^६]G. उज्ज्वलितचितानले ज्वालामालिनि. [^७]G. अभिदधाना कृतमरणानुबन्धा. [^८]G. विदारण. [^९]G. अवच्छिद्य. [^१०]G. अपसृत्य च. [^११]G. मरणादधिकानि. [^१२]G. पुनर्जन्मान्तरे. न्तरसमागमाय' इत्यभिधायो [^१]त्पद्यमानपुलककेसरोद्भासिनी, असमसाध्वसानिलाहता, उत्कम्पोत्तरङ्ग्यमाणा, आनन्दबाष्प- वेगोर्मितरला, संगलत्स्वेदमकरन्दबिन्दुनिस्यन्दिनी, मुकुलायमान- नयनकुमुदा कुमुदिनीव चन्द्रापीडचन्द्रास्तमय विधुरा, तदवस्थेऽपि हृदयवल्लभे समागमसुखमिवानुभवन्ती सरभसमुपरि पर्यस्तचिकु- रहस्तोद्वान्तकुसुमनिवहेन मूर्ध्नार्चयित्वा चन्द्रापीडचरणौ स्रवत्स्वेदामृतार्द्राभ्यां [^२]कराभ्यामुत्क्षिप्याङ्केन धृतवती । अथ तत्करस्पर्शेनो [^३]च्छ्वसत इव चन्द्रापीडदेहाज्झटिति तुहिनमयमिव [^४]सकलमेव तं प्रदेशं [^५]कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवो [^६]ज्जगाम। अनन्तरं चा [^७]न्त- रिक्षे क्षरन्तीवामृतमशरीरिणी वागश्रूयत — 'वत्से महाश्वेते, पुनरपि त्वं मयैव [^८]समाश्वासितव्या वर्तसे । [^९]तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाप्याय्यमानमविनाशि भूयस्त्व [^१०]त्समागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्याय्यमानं [^११]चन्द्रापीडशरीरं शापदोषा- द्विमुक्तम [^१२]प्यन्तरात्मना कृतशरीरसंक्रान्तेर्योगिन इव शरीर- मत्रैव भवत्योः [ टि ]-- भवान्तरे समागमाय मेलापकाय प्रियसखी मामन्त्रये निमन्त्रये । इत्यभिधायेत्युक्त्वोत्पद्यमानः संजायमानो यः पुलको रोमाञ्चः स एव केसरं कुङ्कुमं तेनोद्भासिनी शोभमानाऽसमं विष- मं यत्साध्वसं भयं तस्मादनिलः श्वासप्रवृद्धिस्तेनाहता ताडिता, उत्कम्पेनोत्तरङ्ग्यमाणोच्चैर्नीयमाना, आनन्दबाष्पवेगोर्मिभिर्ह- र्षाश्रुरंहस्तरंगैस्तरला चञ्चला, सम्यक्प्रकारेण गलन्स्खेदो घर्मजलं स एव मकरन्दबिन्दुस्तस्य निस्यन्दिनी क्षरणशीला मुकुलायमाने संकोचं प्राप्यमाणे [^1]नयने एव कुमुदे यस्याः सा कुमुदिनीव कैरविणीव चन्द्रा [^2]पीड इव चन्द्रः शशाङ्कस्तस्यास्तमयोऽस्त- मनं तेन विधुरा दुःखिता । 'विधुरं प्रेत्यभावे स्यात्कष्टविश्लेषयोरपि' इति विश्वः । तदवस्थेऽपि तादृशरूपेपि हृदयवल्लभे प्राणप्रिये समागमसुखमिव मेलापकसातमिवानुभवन्ती साक्षात्कुर्वन्ती सरभ- समुपरि पर्यस्तो निपतितो यश्चिकुरहस्तः केशकलापस्तस्मादुद्वान्तः कुसुमानां पुष्पाणां निवहो येनैवंविधेन मूर्ध्ना शिरसा चन्द्रापीडस्य चरणौ पादावर्चयित्वा पूजां कृत्वा स्रवन्क्षरन्यः स्वेद एवामृतद्रवस्ते- नार्द्राभ्यामुन्नाभ्यां कराभ्यामुत्क्षिप्योत्थाप्याङ्केन क्रोडेन धृतवती धारितवती । अथेति चरणन्यसनानन्तरं तस्याः कादम्बर्या: करस्प- र्शेन पाणिसंश्लेषेणोच्छ्वसत इव उज्जीवत इव चन्द्रापीडदेहाज्झटि- ति शीघ्रं सकलमेव समग्रमेव तं प्रदेशं तुहिनमयमिव हिमनिर्मित- मिव कुर्वाणं विदधानमव्यक्तरूपमप्रकटस्वरूपं चन्द्रवद्धवलं शुभ्रं ज्योतिस्तेज इवोज्जगाम प्रादुर्बभूव । अनन्तरं तदनन्तरं चान्तरिक्ष आकाशेऽमृतं पीयूषं क्षरन्तीव स्रवन्तीवाशरीरिणी वाग्वाण्यश्रूयताकर्ण्यत। एतदेव स्पष्टीकुर्वन्नाह-वत्से इति । हे वत्से हे पुत्रि महाश्वेते, पुनरपि त्वं मयैव समाश्वासित- व्याश्वासनां कारितव्या वर्तसे । तत्ते तव पुण्डरीकशरीरं मल्लोके मत्तेजसा मद्धाम्नाप्याय्यमानं शीतलीक्रियमाणमत एवाविनाश्य विनश्वरं भूयः पुनरपि त्वया सह समागमो मेलापस्तस्मै तिष्ठत्येव । इदमपरमन्यन्मत्तेजसा निष्पन्नं मत्तेजोमयमतः स्वत एव स्वभावत एवाविनाश्यविनश्वरं विशेषतः कादम्बरीकरस्पर्शनाप्याय्यमानं शीतलीक्रियमाणं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमपि रहितमप्यन्तरात्म [^3]ना मध्यवर्तिना जीवेन कृता विहिता शरीरे देहान्तरे संक्रान्तिः संक्रमणं तस्य योगिन इव आपरमाणुवेदिनो योगिनस्त- स्येव भवत्योर्महाश्वेता कादम्बर्योः प्रत्ययार्थं विश्वासार्थमाशा [^1]F. 'कुमुदिनीव' इति उपमानुरोधेन 'नयने कुमुदे इव' इत्युप- मितसमास एवोचितः । [^2]F. 'चन्द्रापीडश्चन्द्र इव' इत्युचितम् । [^3]F. आत्मना कृता शरीरे ( अपरस्य पुरुषस्य शरीरे ) संक्रान्तिः प्रवेशो येन तस्य, अन्यस्मिन् शरीरे कृतप्रवेशस्य योगिनः पूर्वशरीरं यथा तिष्ठति तथेत्याशयः । [^१]G. उत्पुञ्ज्यमान. [^२]G. हस्ताभ्याम्. [^३]G. समुच्छ्वसित. [^४]G. सकलमपि. [^५]G. कुर्वत. [^६]G. एव. [^७]G. अन्तरिक्षे. [^८]G. समाश्वासिता. [^९]G. पुण्डरीक. [^१०]G. समागमाय. [^११]G. चन्द्रापीडस्य शरीरम्. [^१२]G. आत्मना. [^१]प्रत्ययार्थमा शापक्षयादास्ताम् । नैतदग्निना [^२]संस्कर्तव्यम् । [^३]नोदके प्रक्षेप्तव्यम् । नापि वा समुत्स्रष्टव्यम् । यत्नतः परिपा- लनीयमा समागमप्राप्तेः' इति । तां तु श्रुत्वा किमेतदिति [^४]वि- स्मिताक्षिप्तहृदयः सर्व [^५]एव परिजनो गगनतलनिवेशित निर्नि- मेष [^६]लोचनो लिखित इव पत्रलेखावर्जमतिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारशीतले नाह्लादहेतुना स्पर्शेन लब्धसंज्ञो- त्थायाऽऽविष्टेव वेगाद्धावित्वा [^७]परिबद्धहस्तादाच्छिद्येन्द्रायुधम् [^८]'अस्मद्विधानां यथा तथा भवतु, त्वं पुनरेवमेकाकिनि विना वाहनं दूरं प्रस्थिते देवे क्षणमध्यवस्थातुं न शोभसे' इत्यभिदधाना तेनैवेन्द्रायुधेन सहात्मानमच्छोदसरस्यक्षिपत् । अथ तयोर्निमज्जनसमयानन्तरमेव तस्मा [^९]त्सरसः सलिलाच्छैवलोत्करमिव शिरसि लग्नं गलज्जलबिन्दुसंदोह [^१०]मयथालम्बि- दीर्घशिखं मुखोपरि परस्परासक्तेरसंस्कारमलिनतया चो [^११]पसूचितचिरोर्ध्वबन्धं जटाकलापमुद्वहन्, जलार्द्रदेहासक्तेन बिस- तन्तुमयेनेव ब्रह्मसूत्रेणोद्भासमानः, [^१२]म्लाना [^१२]रविन्दनील- पलाशपृष्ठ [^१४]पाण्डुरेण जीर्णमन्दारवल्कलेनाबद्धपरिकरः, करेणानना [ टि ]-- पक्षयाच्छापक्षयं मर्यादी कृत्यात्रैवास्मिन्नेव स्थल भरतां तिष्ठतु । एतच्छरीरमग्निना वह्निना न संस्कर्तव्यं न संस्कारः कार्यः, नोदके जले प्रक्षेप्तव्यं प्रक्षेपः कार्यः, नापि वा समुत्स्रष्टव्यं त्यजनी- यम् । आसमागमप्राप्तेर्यावत्संगमं यत्नतः परिपालनीयम् । महोद्य- मेन रक्षणीयमित्यर्थः । तां तु पूर्वोक्तां वाणीं श्रुत्वाकर्ण्य किमेतदिति विस्मितेन विस्मयेनाक्षिप्तहृदयश्चमत्कृतचेताः सर्व एव परिजनो गगनतले निवेशिते स्थापिते निर्निमेषे निमेषोन्मेषरहिते लोचने नेत्रे येन सः । अत एव लिखित इव चित्रित इव पत्रलेखां वर्जयित्वा- तिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारवद्धिमवच्छीतलेना- ह्लादहेतुना प्रमोदकारकेण स्पर्शेन संश्लेषेण लब्धसंज्ञा प्राप्तचैत- न्योत्थायोत्थानं कृत्वा विष्टेव भूतग्रस्तेव वेगाज्जवाद्धावित्वा धावनं कृत्वा परिबद्धकहस्तादश्वपालककरादिन्द्रायुधमाच्छिद्य बलाद्गृ- हीत्वाप्यस्मद्विधानामस्मत्सदृशानां यथा तथा भवतु । त्वं पुन- [^1]रेकाकिनि विना वाहनं यानं विना दूरं प्रस्थिते चलिते देवे क्षणमपि समयमात्रमप्यवस्थातुमवस्थितिं कर्तुं न शोभसे न शोभां प्राप्नोषीत्यभिदधानेति ब्रुवाणा तेनैवेन्द्रायुधेन सहात्मानं स्वमच्छोद- सरस्येवाक्षिपच्चिक्षेप । अथेति । अच्छोदसरसि पातानन्तरं तयोः पत्रलेखातुरङ्गमयोर्निमज्जनसमयो ब्रुडनकालस्तस्मादनन्तरं पश्चादेव तस्मात्सरसस्तटा- कस्य सलिलादम्भसखापसकुमारको मुनिबालकः सहसैवैकपद एवोदतिष्ठदुत्थितो बभूव । किं कुर्वन् । जटाकलापं सटासमूहमुद्व- हन्धारयन् । कृष्णत्वसाम्यादुत्प्रेक्षते - शिरसि मस्तके लग्नं विलग्नं शैवलोत्करमिव शैवालसमूहमिव गलत्क्षरज्जलबिन्दूनां संदोहो यस्मिन्स तथा । न यथास्थानमालम्बत इत्येवंशीलं तत्तथा, दीर्घायता शिखा चूडा यस्य तत्तथा । मुखस्य वदनस्योपर्युपरिष्टात्परमन्योन्य- मासक्तेः संश्लेषादसंस्कारेण केशमार्जनाभावेन मलिनतया चोप- सूचितो ज्ञापितश्चिरकालीन ऊर्ध्वबन्धो यस्य तत्तथा । पुनः कीदृशः । ब्रह्मसूत्रेण यज्ञोपवीतेनोद्भासमान उत्प्राबल्येन शोभमानः । कीदृ- शेन ब्रह्मसूत्रेण । जलेनाम्भसार्द्रं उन्नो देहः शरीरं तत्रासक्तेन संब- द्धेन । अत एवोत्प्रेक्षते-बिसतन्तुमयेनेव तन्तुलतन्तुनिष्पन्नेव । पुनः कीदृक् । जीर्णं चिरकालीनं यन्मन्दारस्य वल्कलं चोच्चं तेनाबद्धः परिकरो येन सः । कीदृशेन । [^2]म्लानान्यरविन्दानि [^1]F. विना वाहनम्, एकाकिनि देवे दूरं प्रस्थिते सति, इत्यन्वयः । [^2]F. अम्लानमित्येवोचितम् । [^१]G. संप्रत्ययार्थम्. [^२]G. संस्कार्यम्. [^३]G. उदके वा क्षेप्तव्यमुत्स्रष्टव्यं प्रयत्नतः. [^४]G. विस्मय. [^५]G. एव गगन. [^६]G. दृष्टयः. [^७]G. परिवर्धक. [^८]G. अस्मिन्विध्यतां यथा ते तथा त्वं पुनरप्येवमेकाकिनि देवे विना वाहनं दूरं प्रस्थिते क्षणमध्यवस्थातुं न शोभस इत्यभिदधाना तेनैव; अस्मद्विधा तु यथा त्वं पुनरेवमेकाकी विना वाहनं दूरं प्रस्थिते देवे क्षणमपि न तिष्ठञ्शोभस इत्यभिदधाने तेनैव. [^९]G. सरःसलिलात्. [^१०]G. अयथातथालम्बि. [^११]G. उद्भासमान:. [^१२]G. अम्लान. [^१३]G. अरविन्दिनीपलाश. [^१४]G. पाण्डुना. वरोधिनीर्जटाः समुत्सारयन्, अश्रुजलच्छलेनाच्छोदसरःसलिलमिवान्तःप्रविष्ट [^१]माताम्राभ्यामुद्वहंल्लोचनाभ्याम् उद्विग्नाकृति- स्तापसकुमारकः सहसैवोदतिष्ठत् । उत्थाय च दूरत एवोद्दामबाष्पजलनिरोधपर्याकुलया [^२]प्यलब्धलक्ष्यया दृष्ट्या विलोकयन्तीं महाश्वेतामुपसृत्य शोकगद्गदमवादीत् - 'गन्धर्वराजपुत्रि, [^३]ज- न्मान्तरादिवागतोऽपि प्रत्यभिज्ञायतेऽयं जनो न वा' इति । सा त्वेवं पृष्टा शोकानन्दमध्यवर्तिनी [^४]ससंभ्रममुत्थाय कृत- [^५]पादवन्दना प्रत्यवादीत् - 'भगवन्कपिञ्जल, अहमेवंविधाऽपु- ण्यवती या [^६]भवन्तमपि न प्रत्यभिजानामि ? [^७]अथ युक्तैवेदृशी मय्यनात्मज्ञायां संभावना याहमे [^८]कान्तत [^९]एव व्या- मोहहता स्वर्गं गतेऽपि देवे पुण्डरीके जीवामि । तत्कथय केना- सावुत्क्षिप्य नीतः ? किमर्थं वा नीतः ? किं वास्य वृत्तम् ? क्व वर्तते ? किं वा तवोपजातम् ? येनैतावतापि कालेन [^१०]वार्तापि न दत्ता । [^११]कुतो वा त्वमेकाकी देवेन विना [^१२]समागतः ? स त्वेवं पृष्टो महाश्वेतया विस्मयोन्मुखेन कादम्बरीपरिजनेन चन्द्रा- पीडानुगामिना चं राजपुत्रलोकेनोपर्युपरि पातिना वीक्ष्यमाणः प्रत्य- वादीत् – "गन्धर्वराजपुत्रि, श्रूयताम् । [ टि ]-- कमलानि तेषां नीलपलाशानि पत्राणि तेषां पृष्ठं पृष्ठभाग- स्तद्वत्पाण्डुरेण श्वेतेन । किं कुर्वन् । करेण हस्तेन समुत्सारयन्दूरी- कुर्वन् । काः । जटाः। जटाः कीदृशी:। आननमवरुन्धन्तीत्येवंशीला आननाविरोधिन्यस्ताः । अश्रुजलच्छलेन नेत्राम्बुमिषेणाच्छोदसरसः सलिलं पानीयमन्तःप्रविष्टमिवाताम्राभ्यामीषद्रक्ताभ्यां लोचनाभ्यां नेत्राभ्यामुद्वहन्धारयन् । उद्विग्नोद्वेगं प्राप्ता आकृतिराकारो यस्य स तथा । अम्भसस्तापसकुमारक उदतिष्ठदित्यन्वयस्तु प्रागेवोक्तः । उत्थाय चोत्थानं कृत्वा च दूरत एवोद्दाममत्युग्रं यद्बाष्पजलमश्रुपा- नीयं तस्य निरोधः प्रतिबन्धस्तेन पर्याकुलयापि व्याकुलया [^1]प्य- लब्धमप्राप्तं लक्ष्यं वेध्यं ययैवंविधया दृष्ट्या दृशा विलोकयन्तीं पश्यन्तीं महाश्वेतामुपसृत्य समीपे गत्वा शोकेन गद्गदमव्यक्ताक्षरं यथा स्यात्तथावादीदब्रवीत् । हे गन्धर्वराजपुत्रि, जन्मान्तरादाग- तोऽप्ययं जनस्त्वया प्रत्यभिज्ञायत उपलक्ष्यते न वेति । सा तु महाश्वेता त्वेवं पृष्टा प्रश्नविषयीकृता शोकश्चानन्दश्च शोका- नन्दौ तयोर्मध्यवर्तिनी ससंभ्रमं सादरं यथा स्यात्तथोत्थाय कृतं पादवन्दनं चरणनमस्कृतिर्यया सैवंविधा प्रत्यवादीत्प्रत्यब्रवीत् । हे भगवन्कपिञ्जल, अहमेवंविधाऽपुण्यवती या भवन्तमपि त्वामपि न प्रत्यभिजानामि नोपलक्षयामि । अथ मय्यनात्मज्ञायामात्मज्ञानवर्जि- तायामीदृशी संभावना युक्तैव न्याय्यैव या महाश्वेताहमेकान्तत एव व्यामोहोऽज्ञानं तेन हता पीडिता स्वर्गं गतेऽपि देवलोकं प्राप्तेऽपि देवे पूज्ये पुण्डरीके जीवामि प्राणिमि । तदिति हेत्वर्थे । कथय प्रतिपादय केन पुंसासौ पुण्डरीक उत्क्षिप्योत्थाप्य जीतः । किमर्थं वा किंप्रयोजनं वा नीतः । किं वास्य पुण्डरीकस्य वृत्तं चरित्रम् । क्व कुत्र वर्तते । तव भवतः किं वोपजातं किं जज्ञे, येनैतावतापि काले- नानेहसा वार्तापि किंवदन्त्यपि न दत्ता । कुतो वा कस्मात्प्रदेशाद्वा त्वमेकाक्यसहायो देवेन पुण्डरीकेण विना समागतोऽत्रायातः । स तु कपिञ्जलो महाश्वेतयैवं पृष्टो नियोजित उपरि चोपरि चोपर्युपरि पतितुं शीलं यस्य स तेनेत्युभयोर्विशेषणम् । विस्मयेनाश्चर्येणोदूर्ध्वं मुखमाननं यस्यैवंभूतेन कादम्बरीपरिजनेन गन्धर्वपुत्रीपरिच्छदेन चन्द्रापीडमनुगच्छतीत्येवंशीलेन राजपुत्रलोकेन च वीक्ष्यमाणो विलोक्यमानः प्रत्यवादीत्प्रत्यब्रवीत् । हे गन्धर्वराजपुत्रि, [^1]F. लुप्तबुद्धिष्टीकाकार: । पर्याकुलत्वे अलब्धलक्ष्यत्वं स्वत एवेति, 'अपि' पदस्य न स्वारस्यम् । तस्मात् 'आबद्धलक्ष्यया ( लक्ष्यं प्रति व्यापारितया )' इत्येव पाठः । [^१]G. आताम्रायताभ्याम्. [^२]G. बद्धलक्षया. [^३]G. जन्मान्तरागत:; जन्मान्तरगतः. [^४]G. ससंभ्रमाकुलम्. [^५]G. प्रमाणा. [^६]G. त्वयाप्यात्मनः कारणादेवं संभाविता. [^७]G. अथवा. [^८]G. एकान्ते. [^९]G. इव. [^१०]G. वार्तामपि न दत्तवानसि. [^११]G. कुतोऽपि. [^१२]G. एवागतोऽसीति. अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनीं समुत्सृज्य वयस्यस्नेहादाबद्धपरिकर: 'क्व मे प्रियसुहृदमपहृत्य गच्छसि' इत्यभिधाय तं पुरुषमनुबध्नञ्जवेनोदपतम् । स तु मे प्रतिवचनमदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनैरवलोक्यमानो वैमा- निकैः, अवगुण्ठितमुखीभिरवमुच्यमानगगनमार्गो [^१]दिव्याङ्ग- नाभिः, अभिसारिकाभिरालोलतारकेक्षणाभिरितस्ततः प्रणम्यमान- स्तारकाभिः, अम्बरसरःकुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभि- रामसकललोकं चन्द्रलोकमगच्छत् । तत्र च महोदयाख्यायां सभा- यामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं स्थापयित्वा मा- मवादीत् – 'कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं [^३]खलूदयं गतो जगदनुग्रहाय स्वव्यापार [^४]मनुतिष्ठन् अनेन ते प्रियवयस्येन कामापराधाज्जीवितमुत्सृजता निरपराधः संशप्त: 'दुरात्मन्निन्दुहत- क, यथाहं त्वया करैः [^५]संतापित उत्पन्नानुरागः सन्नसंप्राप्त हृद- यवल्लभासमागमसुखः प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूते- ऽस्मिन्भारते वर्षे जन्मनि [^६]जन्म [ टि ]-- श्रूयतामाकर्ण्यताम् । अहं हि तथा तेन प्रकारेण कृतो विहित आर्तो दीनः प्रलापः प्रियाश्रितकाल्पनिकव्याहारो यया सा तामपि त्वामेकाकिनीमसहायां समुत्सृज्य त्यक्त्वा वयस्य स्नेहा- न्मित्रप्रीतेराबद्धः परिकरः कटिप्रदेशो येन सः । केति । कुत्र मे मम प्रियसुहृदं वल्लभवयस्यमिममपहत्यापहरणं कृत्वा गच्छसि प्रयासीत्यभिधायेत्युक्त्वा तं पुरुषमनुबध्नन्ननुधावञ्जवेन वेगेनोदप- तमूर्ध्वमगच्छम् । स तु पुमान्मे मम प्रतिवचनं प्रत्युत्तरमदत्त्वैवा- कथयित्वैव गीर्वाणवर्त्मन्याकाशे विस्मयेनाश्चर्येणोत्फुल्लानि विक- सितानि नयनानि नेत्राणि येषां तैर्वैमानिकैर्विमानवासिभिः सुरैरव- लोक्यमानो वीक्ष्यमाणोऽवगुण्ठितान्याच्छादितानि मुखानि यासां ताभिर्दिव्याङ्गनाभिरभिसारिकाभिर्याः स्वयमेव प्रियमभियान्ति ता अभिसारिकास्ताभिरवमुच्यमानस्त्यज्यमानो गमनमार्गो यस्य सः । आलोलाश्चञ्चलास्तारकाः कनीनिका येष्वेतादृशे ईक्षणे यासां [^1]ताभिस्तारकाभिस्ताराभिरितस्ततः प्रणम्यमानो नमस्क्रिय- माणः । अम्बरमेव सरस्तस्मिन्कुमुदाकरमिव । कुमुदसमूह- मिवेत्यर्थः । एवंविधं तारागणं तारकासमूहमतिक्रम्योल्लङ्घ्य चन्द्रिका ज्योत्स्ना तयाभिरामो रमणीयः सकललोकः समग्रजनो यस्मिन्नेतादृशं चन्द्रलोकमगच्छदगमत् । तत्र चेति । चन्द्रलोके महोदया इत्याख्या यस्याः सा तथा तस्यां सभायां संसदीन्दुकान्त- स्तेन निष्पन्न इन्दुकान्तमये महत्यायते पर्यङ्के पल्यङ्के तत्पुण्डरीक- शरीरं स्थापयित्वा न्यस्य मामवादीदवोचत् । हे कपिल, चन्द्रमसं ग्रहं मां जानीह्यवबुद्ध्यस्व । स्वव्यापारं परिभ्रमणलक्षणमनुति- ष्ठन्कुर्वञ्जगतोऽनुग्रहायाभ्युपपत्तयेऽहमुदयं गतः । अनेन ते तव प्रियवयस्येन कामापराधात्कन्दर्पागसो जीवितमुत्सृजता त्यजताहं निरपराधोऽपि निरागाः संशप्तः शापविषयीकृतः । तदेव दर्शयन्नाह - दुरात्मन्निति । हे दुरात्मन हे दुष्टात्मन्, हे इन्दुहतक, यथाहं त्वया करै: किरणैः संतापितः पीडितः उत्पन्नः संजातोऽनुरागोऽनुरति- र्यस्यैवंभूतः सन् असंप्राप्तमलब्धं हृदय [^2]वल्लभस्य समागम- सुखं येन सः, प्राणैरसुभिर्वियोजितः पृथक्कृतः, तथा त्वमपि भवा- नपि कर्मभूमितां भूते प्राप्ते 'यत्रैव क्रियते कर्म कर्मभूमिरतो मता । यत्रैव भुज्यते तद्धि भोगभूमिस्तु सापरा ॥" इत्युक्तः । अकर्मभूमिः कर्मभूमि: संपद्यत इति कर्मभूमीभूत इति वा । अस्मिन्भारते वर्षे भरतक्षेत्रे जन्मनि जन्मन्येवोत्पन्नानुरागः [^1]F. तारकाणामपि तारकाः, ता अपि आलोलाः, किं कारणमालोलत्वे ? नेदं बोद्धुमपि प्रभवति टीकाकारः । अस्तु, 'दिव्याङ्गनाभि' रित्यस्याग्रे-'त्यज्यमानोऽभिसारिकाभिरालोलतार- केक्षणाभिः', इति पाठः । मा द्राक्षीदिति भयेन विलोलतारके ईक्षणे यासामीदृशीभिः अभिसारिकाभिः परिह्रियमाण इति तदर्थः । [^2]F. वल्लभाया इत्युचितम्, मूलं विस्मृतवान् हन्त । [^१]G. दिव्याङ्गनाभिसारिकाभि:. [^२]G. चन्द्राभिराम. [^३]G. उदयगत:. [^४]G. अनुकुर्वन्. [^५]G. संताप्य. [^६]G. प्राप्त. न्येवोत्पन्नानुरागोऽप्राप्तसमागमसुखस्ती [^१]व्रतरां हृदयवेदना- मनुभूय जीवितमुत्स्र [^२]क्ष्यसि' इति । अहं तु तेनास्य शापहुत- भुजा [^३]झटिति [^४]ज्वलित इव [^५]निरगाम् । किमनेनात्म- दोषानुबन्धेन निर्विवेकबुद्धिना शप्तोऽस्मीत्युत्पन्नकोप: 'त्वमपि मत्तुल्य [^६]दुःखसुख एव भविष्यसि ' इति प्रतिशापमस्मै प्राय- च्छम् । अपगतामर्षश्च विवेकमागतया बुद्ध्या विमृशन्महाश्वेता- व्यतिकरमस्याधिगतवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभ- वादप्सरसः कुलालब्धजन्मनि गौर्यामुत्पन्ना। [^७]तया चायं भर्ता स्वयं वृतः । अनेन [^८]च स्वयंकृता देवा [^९]त्पदोषान्मया सह मर्त्यलोके वारद्वयमवश्यमुत्पत्तव्यम् । अन्यथा जन्मनि [^१०]ज- न्मन्येषा वीप्सैव न चरितार्था भवति । [^११]तद्यावदयं [^१२]शाप- दोषादपैति तावदस्यात्मना विरहितस्य शरीरस्य मा विनाशोऽभूदि- ति मयेदमुत्क्षिप्य समानीतम् । वत्सा च महाश्वेता समाश्वासिता । तदिदमत्र मत्तेज [^१३]साप्याय्यमानमा शापक्षयास्थितम् । अधुना त्वं [^१४]गत्वैनं वृत्तान्तं श्वेतकेतवे निवेदय । महाप्रभावोऽसौ कदाचिदत्र प्रतिक्रियां काञ्चिदपि करोति' इत्युक्त्वा मां व्यसर्जयत्। [ टि ]-- संजातानुरतिरप्राप्तहृदयवल्लभासमागमसुखोऽलब्धप्राण- प्रियामेलापकसौख्यस्तीव्रतरां वेदनामतिकठिनामसातामनुभूय जीवितं प्राणितमुत्स्रक्ष्यसि त्यक्ष्यसीति । अहं त्वस्य पुण्डरीकस्य तेन शापहुतभुजा शापवह्निना झटिति शीघ्रं ज्वलित इव दग्ध इव [^1]निरगां निरगच्छम् । किमनेन पुण्डरीकेण । आत्मदोषस्या- नुबन्धः संबन्धो यस्मिन्स तेन निर्विवेकबुद्धिना तत्त्वातत्त्वविचार- वियुक्तमतिना शप्तोऽहमस्मीति हेतोरुत्पन्नः प्रादुर्भूतः कोपो यस्य सोऽहं त्वमपि भवानपि मत्तुल्यदुःखसुख एव मत्सदृशकृच्छ्रसौख्य एव भविष्यसीति प्रतिशापमस्मै पुण्डरीकाय प्रायच्छमदासिषम् । अपगतो दूरीभूतोऽमर्षः क्रोधो यस्मात्स तथा । एवंविधश्चाहं [^2]विवेक: पृथगात्मता तमागतया प्राप्तया बुद्ध्या प्रतिभया विमृशन्विचारयन्नस्य पुण्डरीकस्य महाश्वेताव्यतिकरं गान्धर्वपुत्रीवृत्तान्तमधिगतवाञ्ज्ञातवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभ- वान्मदीयकान्तिसमुत्पन्नादप्सरसः स्वर्गिवध्वाः कुलादभिजनालब्ध- जन्मनि प्राप्तोद्भवायां गौर्यामुत्पन्ना संजाता । 'सजातीयगणे गोत्रे देहेऽपि कथितं कुलम्' इति विश्वः । तया च महाश्वेतया चायं भर्ता पुण्डरीकः स्वयं वृतः । अनेन च पुण्डरीकेण च स्वयंकृतादेवात्म- दोषादेव मया सह चन्द्रमसा सार्धं वारद्वयं मर्त्यलोके मनुष्यक्षेत्रेऽव- श्यमुत्पत्तव्यम् । अन्यथोक्तविपर्यये जन्मनि जन्मन्येषा वीप्सैव न चरितार्था कृतार्था भवति । तद्यावदयं पुण्डरीकः शापदोषादपैति दूरीभवति तावत्कालमस्य पुण्डरीकस्यात्मना जीवेन विरहितस्य शरीरस्य मा विनाशोऽभूदिति हेतोर्मया चन्द्रमसेदमुक्षिप्योत्पाट्य समानीतम् । वत्सा च महाश्वेता समाश्वासिता । अत्र तल्पे तदिदं शरीरं मत्तेजसा मद्धाम्नाप्याय्यमानं शीतलीक्रियमाणमा शापक्षया- च्छापक्षयपर्यन्तं स्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे मुनी- श्वराय निवेदय। असौ महाप्रभावः कदाचिदत्र कांचित्प्रतिक्रियामपि प्रतीकारमपि करोति । इत्युक्त्वा मां कपिञ्जलं व्यसर्जयद्गमनाज्ञां दत्तवान् । [^1]F. उदयं गतश्चन्द्रः कस्मिन् गर्ते पतितोऽभूद् योऽधुना 'निर- गात्' ? सर्वेयं लीला टीकाकारचूडामणे: । 'निरागाः' इति पाठः । निरागाः (निरपराध:) अहं शापाग्निना झटिति उद्दीपित इवेत्युत्पन्नकोपः प्रतिशापं प्रायच्छमित्यर्थः, एकं च वाक्यम् । [^2]F. मोहाद्विरुद्वो ( अर्थात् तात्विकः) विचार एव विवेकः । टीकाकारपुंगवस्तु - देहात्मनोः पृथक्तया परिज्ञानं वैदान्तिकविवेकं सर्वत्रोद्घोषयतीति महाभाग्यं ग्रन्थस्यास्य । [^१]G. तीव्रतमाम्. [^२]G. उत्स्रजिष्यति. [^३]G. झगिति; धगिति. [^४]G. समुद्दीपित; उद्दीपित. [^५]G. निरगात्. [^६]G. सुखदुःख. [^७]G. अनया. [^८]G. च संप्रति. [^९]G. शापदोषात्. [^१०]G. जन्मनीति. [^११]G. तत्तथा; तद्यावत्. [^१२]G. शापदीपो व्यपैति. [^१३]G. आप्यायितम्. [^१४]G. वृत्तान्तमिमम्. अहं तु [^१]विना वयस्येन [^२]शोकावेगान्धो [^३]गीर्वाणवर्त्मनि धावन्नन्यतममतिक्रोधनं वैमानिकमलङ्घयम् । स तु मां दहन्निव रोषहुतभुजा भृकुटीविकरालेन चक्षुषा निरीक्ष्याब्रवीत् - 'दुरात्मन्, मिथ्यातपोबलगर्वित, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दाम- प्रचारिणा तुरंगमेणेवो [^४]पलङ्गितस्तस्मात्तुरंगम एव भूत्वा मर्त्य- लोकेवतर' [^५]इति । अहं तु तमुद्बाष्पपक्षमा कृताञ्जलिरवदम् - 'भगवन्, वयस्यशोकान्धेन त्वं मयोल्लङ्गितो [^६]नावज्ञया । तत्प्र- सीद ।[^७] उपसंहर शापमाशु त्वमिमम्' इति । स तु मां पुनर- वादीत् - [^८]'यन्मयोक्तं तन्नान्यथा भवितुमर्हति । तदेतत्ते करोमि । कियन्तमपि कालं यस्यैव [^९]वाहनतामुपयास्यसि तस्यैवावसाने स्नात्वा विगतशापो भविष्यसि' इति । एवमुक्तस्तु पुन [^१०]स्तमहमवदम् – 'भगवन् यद्येवं ततो विज्ञा- पयामि । तेनापि [^११]मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भगवान्प्रसादं करोतु मे दिव्येन चक्षुषावलोक्य, यथा तुरङ्गमत्वेऽपि मे तेनैव प्रिय- वयस्येन सहाऽवियोगेन कालो यायात्' इति । स त्वेवमुक्तो मुहूर्त- मिव ध्यात्वा पुनर्मामवादीत् – 'अनया [ टि ]--अहं तु वयस्येन मित्रेण विना शोकस्य शुच आवेगस्तेनान्धो गताक्षो गीर्वाणवर्त्मनि देवपथि धावंस्त्वरय गच्छन्नन्यतमं वैमानि- कानां मध्येऽन्यमतिक्रोधनमत्यन्तकोपनं वैमानिकं देवमलङ्घयं व्यतिक्रमम् । स तु वैमानिको मां रोषहुतभुजा क्रोधवह्निना दहन्निव भस्मीकुर्वन्निव भृकुटिर्भ्रूकुटिस्तया विकरालेन विकृतेन । भीषणे-नेति यावत् । चक्षुषा नेत्रेण निरीक्ष्यावलोक्याब्रवीदवोचत् । हे दुरा- त्मन् दुष्टात्मन्, मिथ्या वृथा तपोबलेन तपस्तेजसा गर्वितं गर्वं प्राप्त, यदेवमतिविस्तीर्णेऽतिवितते गगनमार्गे व्योमपथि त्वया भवताह- मुद्दामप्रचारिणोद्धतगमनशीलेन तुरंगमेणेवाश्वेनेवोपलङ्घित उल्ल- ङ्घितस्तस्मात्त्वं मर्त्यलोके तुरंगम एव [^1]ययुरेव भूत्वा मर्त्यलोके मनुष्यभूमाववतरावतारं गृहाणेति । अहं तु तं वैमानिकमुदूर्ध्वं बाप्पो यस्मिन्नेतादृशं पक्ष्म यस्य स तथा कृताञ्जलिः संयोजित- पाणिरवदमब्रुवम् । हे भगवन्, वयस्यस्य मित्रस्य शोकः शुक् तेनान्धस्तेन मया त्वमुल्लङ्घितो नावज्ञयाशातनया । तदिति हेत्वर्थे । प्रसीद प्रसन्नो भव । त्वमिमं शापमाशूपसंहर निवर्तय । स तु वैमानिकः पुनर्द्वितीयवारमवादीदब्रवीत् । यन्मयोक्तं कथितं तदन्यथा कथितादन्यद्भवितुं नार्हति । तत्तस्माद्धेतोरेतत्ते तव करो- म्यनुतिष्ठामि । कियन्तमपि कालमनेहसं यस्यैव पुंसो वाहनतां युग्यतामुपयास्यस्युपगमिष्यसि तस्यैव पुंसोऽवसानेऽन्ते स्नात्वा स्नपनं कृत्वा विगतशापः शापनिर्मुक्तो भविष्यसि इति । एवमुक्तस्तु पुनस्तं वैमानिकमहमवदम् -- हे भगवन्, यद्येवं ततो हेतोर्विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह —तेनेति । तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा चन्द्रेण सह शापदोषान्मर्त्य- लोक एवोत्पात्तव्यं जन्म ग्रहीतव्यम् । तत्तस्मात्कारणादेतावन्तमपीयन्मात्रमपि भगवान्मे मम प्रसादं करोतु दिव्येन चक्षुषा ज्ञानलो- चनेनावलोक्य निरीक्ष्य यथा तुरंगमत्वेप्यश्वत्वेऽपि तेनैव प्रियवयस्ये- न सहावियोगेनं संयुक्तेन कालोऽनेहा यायाद्गच्छेदिति । स त्वेवं पूर्वोक्तप्रकारेणोक्तः कथितो मुहूर्तमिव ध्यात्वा ध्यानं कृत्वा पुनर्मा- मवादीदभ्य [^1]F. पुनः पुङ्गवत्वं प्रदर्श्यते । 'ययुरश्वोऽश्वमेधीयः' इति कोपादश्वमेधाश्व एव ययुः, न तु अश्वसामान्यम् । [^१]G. विनाकृतः. [^२]G. शोकावेशान्ध:. [^३]G. गीर्वाणवर्त्मना. [^४]G. उल्लङ्घितः. [^५]G. इति वोढव्यं त्वया. [^६]G. अवशायाः; अवज्ञानात्. [^७]G. इमं शापमुपसंहरेति. [^८]G. दत्त एव शापः संप्रति मया नान्यथा. [^९]G. बाह्यताम्. [^१०]G. तम्. [^११]G. मे प्रिय. स्नेहलतया ते [^१]ममार्द्रीकृतं हृदयम् । तदालोकितं मया। उज्ज- यिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्रो राज्ञः सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नः । त्वमपि [^२]तस्य महोपकारिणश्चन्द्रात्मनो राज- पुत्रस्य वाहनतामुपयास्यसि' इति । अहं तु तद्वचनानन्तरमे [^३]वाधः स्थिते महोदधौ न्यपतम् । तस्माच्च तुरङ्गीभूयैवोदतिष्ठम् । संज्ञा तु मे [^४]तुरंगमत्वेऽपि [^५]न व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमिमेतामानीतो [^६]देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानुराग- संस्कारादभिलषन्नजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतारः' इति । [^८]एतच्छ्रुत्वा "हा देव पुण्डरीक, जन्मान्तरेष्व विस्मृतमदनुराग, मत्प्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन्, मन्मयसकलजीव- लोक, [^९]लोकान्तरगतस्थापि तेऽहमेव राक्षसी विनाशायोपजाता । दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रधाने च प्रयोजनं निष्पन्नं यत्पुनः पुनस्ते व्यापादनम् । स्वयं हत्वा च पापकारिणी क [^१०]मुपालभे ? [^११]किं [^१२]ब्रवीमि कि [^१३]माक्रन्दा- मि, [ टि ]-- धात् । ते तवानया स्नेहलस्य भावः स्नेहलता तयानार्द्रमार्द्रं संपन्नमित्यर्दीकृतं मम हृदयं चतः । तत्तस्मादालोकितं निरीक्षितं मया । उज्जयिन्यां विशालायामपत्यहेतोः संतानार्थं तपस्यतस्तपः कुर्वतस्तारापीडनाम्नो राज्ञः सनिदर्शनं [^1]सदृष्टान्तं चन्द्रमसा चन्द्रेण तनयत्वं पुत्रत्वमुपगन्तव्यमुपयातव्यम् । ते तव वयस्येनापि पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नस्तनयत्वमुपगन्तव्यं प्राप्तव्यम् । त्वमपि भवानपि तस्य महोपकारिणो महोपकृतिकर्तु- श्चन्द्र एवात्मा यस्यैवंभूतस्य राजपुत्रस्य राजसूनोर्वाहनतामुपयास्य- स्युपगमिष्यसीति । अहं तद्वचनानन्तरमेव तद्भाषितादन्वधः- स्थिते महोदधौ समुद्रे न्यपतं पतितवान् । तस्माच्च महोदधेस्तुरङ्गीभूयैवा- श्वीभूयैवोदतिष्ठमुत्थितोऽभूवम् । तुरंगमत्वेऽपि मे मम संज्ञा नैव व्यपगता नैवापगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी एतामेतावतीं भूमिमानीतो [^2]देवचन्द्रमसोऽवतारश्चन्द्रा- पीडः। योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुरा- गोऽनुरतिस्तस्य संस्काराद्भावनारूपादभिलषन्वाञ्छन्नजानन्त्या- ज्ञायमानया त्वया शापाग्निना निर्दग्धो ज्वालितः सोऽपि मे मम वय- स्य पुण्डरीकस्यावतारः । इत्येतच्छ्रुत्वा निशम्य । हा खेदे । हे देव पुण्डरीक, [^3]जन्मा- न्तरेषु भवान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममानुरागो यस्य तस्य संबोधनम् । मय्येव प्रतिबद्धं जीवितं प्राणितं यस्य तस्य संबोधनम् । मम शरणं यस्य संबोधनम् । मन्मुखमवलोकत इत्येवंशीलस्तस्य संबोधनम् । मन्मयो मद्व्याप्तः । मत्स्वरूप इति यावत् । सकलजीवलोको यस्य तस्य संबोधनम् । ते तव लोकान्तरगतस्यापि भवान्त- रप्राप्तस्यापि विनाशाय मरणायाहमेव राक्षस्युपजाता प्रादुर्भूता । दग्धप्रजापतेर्भस्मीभूतविधातुर्मन्निर्माणे मज्जनने दीर्घजीवितप्रदाने च चिरंजीवित्ववितरणे चेयदेवैतावदेव प्रयोजनं कृत्यं निष्पन्नं संजातं यत्पुनःपुनस्ते व्यापादनं मारणम् । स्वयमात्मना हत्वा चाहं पाप- कारिणी कमुपालभे । कस्योपालम्भं ददामीत्यर्थः । किं ब्रवीमि किं वच्मि । किमाक्रन्दाम्याक्रन्दं करोमि । [^1]F. भगवन् कस्य दृष्टान्तः ? अस्तु सनिदर्शनम् निदर्शनेन अभिज्ञानेन ( अयं चन्द्र एव, यतो हि चन्द्रापीडेति नामाऽस्याभि- ज्ञानम् इति ) सहितम्, इत्यर्थः । [^2]F. 'देवस्य चन्द्रमसः' इति स्यात् । वस्तुतस्तु – 'आनीतश्चन्द्र- मसोवतार : ' इत्येव पाठः । [^3]F. बहुवचनक्षेपो निरर्थकः । 'जन्मान्तरेऽपि इत्येव पाठः । [^१]G. आर्दितम्. [^२]G. तस्यैव परमोपकारिणः. [^३]G. अधःस्थितः. [^४]G. तुरंगमत्वेन. [^५]G. नैवोपयाता. [^६]G. तदेव. [^७]G. प्राक्तनादेव. [^८]G. एतच्छ्रुत्वा महाश्वेता. [^९]G. कथं लोकान्तर. [^१०]G. किम्. [^११]G. कम्. [^१२]G. ब्रवीमि कस्यै कथयामि. [^१३]G. कम्. ८० का० क [^१]मुपयामि शरणम्, को वा करोतु मयि दयाम्, याचेऽ- [^२]हमात्मनैवाधुना । 'देव, प्रसीद । कुरु दयाम् । देहि मे प्रतिवचनम्' इत्येतान्यक्षराण्युच्चारयन्त्यपि लज्जे । मन्ये च तवाप्ये [^३]वमुत्पन्नं मन्दभाग्यायां मयि वैराग्यं येनैवमपि [^४]विप्रल- पन्त्यां न प्रतिवचनं [^५]ददासि । हा, हतास्म्यनेनैवात्मनो जीवित- स्यो [^६]पर्यनिर्वेदेन" इत्युन्मुक्तार्तनादा सोर [^७]स्ताडमवना- वात्मानमपातयत् । कपिञ्जलस्तु [^८]तथार्तकृतप्रलापां तां सानुकम्पमवादीत्-'गन्धर्व- राजपुत्रि, कस्तवात्र दोषो येनैवमनिन्दनीयमात्मानं निन्दा पदैर्योज- यसि । [^९]को नाम वाधुना [^१०]सुखपाकेऽनुभवनीये दुःखस्या- वसरः, येनै [^११]वात्मानं शुचा व्यापादयसि । [^१२]यदसह्यतरं [^१३]तत्त्वया निर्व्यूढं [^१४]हतहृदयस्यास्यैव समागमप्रत्याशया । यथा च शापदोषादिदमुप [^१५]गतं भवत्योर्द्वयोरपि दुःखं तथा मया कथितमेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव तदुन्मुच्य- तामयमात्मनो वयस्यस्य चाश्रेयस्करः [^१६]शोकानुबन्धः । द्वयो- [^१७]रेव श्रेयसे यदेव भवत्याङ्गीकृतं तदेवानुवष्यतां व्रतपरिग्रहो- चितं [ टि ]-- कं शरणं त्राणमुपयामि गच्छामि। मयि विषये दयां कृपां को वा करोतु विदधातु । अधुना सांप्रतमहमात्मनैव याचे प्रार्थये । हा देव, प्रसीद प्रसन्नो भव । दयां कृपां कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि वितर । इत्येतान्यक्षराणि वर्णानुच्चारयन्त्यपि कथ- यन्त्यपि लज्जे त्रपे । मन्ये च जाने च मन्दभाग्यायां भाग्यरहितायां मयि वैराग्यं विरक्तत्वं तवाप्येवमुत्पन्नं संजातं येनैवं विप्रलपन्त्या- मपि विलापं कुर्वन्त्यामपि प्रतिवचनं प्रत्युत्तरं न ददासि न प्रयच्छसि । हा इति खेदे । अहं हता व्यापादितास्मि । अनेनैवात्मनः स्वस्य जीवितस्य प्राणितस्योपर्यनिर्वेदेनाऽस्वावमानेनेत्युन्मुक्त आर्तनादः करुणस्वरो यया सा । 'निर्वेदः स्वावमाननम्' इति । सोरस्ताडं स वक्षस्ताडनं यथा स्यात्तथावनौ पृथिव्यामात्मानमपातयत्पातितवती । कपिञ्जलस्तु तथा तेन प्रकारे [^1]णार्तः करुणः कृतो विहितः प्रलापो यया सा तां सानुकम्पं सदयं यथा स्यातथावादीदवोचत् – हे गन्धर्वराजपुत्रि, कस्तव भवत्या अत्र दोषो दूषणम्, येनैवमनिन्द- नीयमगर्हणीयमात्मानं स्वं निन्दापदैर्गर्हावाक्यैर्योजयसि संयुक्तं करोषि । नामेति कोमलामन्त्रणे । को वाधुनेदानीं सुखपाकेऽनुभ- वनीये सति सुखफलस्य साक्षात्कारे कर्तव्ये सति दुःखस्य कृच्छ्र- स्यावसरः प्रस्तावः । येनै [^2]व येन हेतुना शुचा कृत्वात्मानं व्यापादयसि शरीरात्पृथक्करोषि । यदसह्यतरं सोढुमशक्यं तत्त्वया निर्व्यूढमतिक्रान्तं हतं [^3]हृदयं यस्यैवंभूतस्यास्य पुण्डरीकस्य समागमो मेलापस्तस्य प्रत्याशया वाञ्छया । यथा च भवत्योर्द्वयोः शापदोषादिदं दुःखमसातमुपगतं प्राप्तं मया कथितमेव निवेदि- तमेव । चन्द्रमसोऽपि चन्द्रस्यापि भारती वाणी भवतीभ्यां श्रुतैवा- कर्णितैव । तदयमात्मनो वयस्यस्य चाश्रेयस्करोऽकल्याणकृच्छो- कानुबन्धः शोचनप्रबन्ध उन्मुच्यतां त्यज्यताम् । द्वयोरेव श्रेयसे शुभार्थं यदेव भवत्यङ्गीकृतं स्वीकृतं तदेव व्रतपरिग्रह उचितं योग्यं तपोऽनुबध्यतां [^1]F. विचित्रो बहुव्रीहिष्टीकाकारकृपा । 'तथा कृतार्तप्रलापाम्' इत्येव पाठः । [^2]F. अत्र एवकारस्य किं प्रयोजनमिति टीकाकारस्य नावधानम् । 'येनैवमात्मानं शुचा व्यापादयसि' इत्येव पाठः । येनाऽवसरेण एवम् ( अनेन प्रकारेण ) आत्मानं व्यापादयसीति तदर्थः । [^3]F. टीकाकारस्त्वेवमाह । किन्तु 'यदसह्यं तत्त्वया निर्यूढम्, दृढीकृतं च हृदयं समागमप्रत्याशया' इति पाठान्तरम् । यथेच्छमुपादीयतां विज्ञैः । [^१]G. किम्. [^२]G. अपराद्धा. [^३]G. उत्पन्नमेव. [^४]G. विलपन्त्या. [^५]G. मे ददासि. [^६]G. अनिर्वेदना. [^७]G. सोरस्ताडनम्. [^८]G. तथा कृतार्तं. [^९]G. को वा. [^१०]G. सुखमात्रके. [^११]G. यदेवम्. [^१२]G. अलङ्घ्यतरम्. [^१३]G. तु. [^१४]G. दृढीकृतहृदयस्य. [^१५]G. उपनतम्. [^१६]G. शोकानुबन्धावेग:. [^१७]G. अपि. तपः । तपसो [^१]हि सम्यक्कृतस्य नास्त्यसाध्यं नाम किंचित् । देव्या हि [^२]गौर्या तपसः प्रभावादतिदुरासदं स्मरारेरपि [^३]यावदासादितं देहार्धपदम् । एवं त्वमपि [^४]नचिरात्तथैव मे वयस्यस्याङ्गे निज [^५]तपःप्रभावात्पदमवाप्स्यसि इति महाश्वेतां पर्यबोधयत् । उपशान्तमन्युवेगायां च महाश्वेतायां विषण्णदीनमुखी कादम्बरी कपिञ्जलमप्राक्षीत् – [^६]'भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन्सरसि जलप्रवेशः कृतस्तत्किं [^७]तस्याः पत्रलेखा- याः संवृत्तमित्यावेदनेन प्रसादं करोतु 'भगवान्' इति । स तु प्रत्य- वादीत् - 'राज [^८]पुत्रि, सलिल [^९]पातानन्तरं न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क्व चन्द्रात्मकस्य चन्द्रापीडस्य, [^१०]क्व [^११]पुण्डरीकात्मनो वैशम्पायनस्य जन्म, किं वास्याः पत्रलेखाया वृत्तमिति सर्वथैवास्य वृत्तान्त [^१२]स्यावगमनाय गतोऽहं प्रत्यक्षलोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्' इत्यभिदधान एव गगनमुदपतत् । अथ गते तस्मिन्विस्मयान्तरितशोक [^१३]वृतान्ता चन्द्रापीडमा- लोक्य [^१४]गलितनयनपयसि यथास्थान [^१५]मपसृत्य [^१६]स्थितवति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवा- दीत् - 'प्रियसखि, [ टि ] -- क्रियताम् । हि यस्माद्धेतो: सम्यक्प्रकारेण कृतस्य तपस- श्चान्द्रायणादेः । नामेति कोमलामन्त्रणे । किंचिदसाध्यमकर्तव्यं नास्ति । अत्रार्थे निदर्शनं प्रदर्शयन्नाह — गौर्या पार्वत्या तपसञ्चा- न्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारेपि महादेवस्यापि अतिः दुखे- नासाद्यत इति दुरासदम् । अर्धं देहस्य देहार्धः । 'अर्धं नपुंसकं' इति समासः । तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तथैव वयस्यस्य पुण्डरीकस्याङ्के क्रोडे निज- तपःप्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यबोधयत्प्रतिबोधयामास । उपशान्तः प्रशान्तो मन्युवेगः शोकरयो यस्याः सा तस्यां महाश्वेतायां च विषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखी कादम्बरी कपिञ्जलमप्राक्षीदपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चा- स्मिन् सरसि अच्छोदतटाके जलप्रवेशः पानीयावगाहः कृतः। तदि- ति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्या- वेदनेनेति प्रकथनेन भगवन्कपिञ्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीत्प्रत्यब्रवीत् । किं तदित्याह--राजपुत्रीति । हे राजपुत्रि नृपसुते, सलिलपातानन्तरं जलपतनाव्यवहितं तद्वृत्तान्तः पत्रलेखोदन्तो न कश्चिदपि मया ज्ञातोऽवगतः । तस्मादधुना सांप्रतं क्व चन्द्रात्मकस्य शशिस्वरूपस्य चन्द्रापीडस्य [^1]जन्मोत्पत्तिः, क्व पुण्डरीकात्मनो वैशम्पायनस्य जन्म, अस्याः पत्रलेखायाः किं वा वृत्तं जातमिति सर्वस्य वृत्तान्तस्यावगमनाय ज्ञानाय प्रत्यक्षलोकत्रय- स्य साक्षात्कृतत्रिविष्टपस्य श्वेतकेतुनाम्नो मत्तातस्य पादमूलं चरण- समीपमहं गतः प्राप्त इत्यभिदधान इति ब्रुवाणो गगनं व्योमोदपत- दुत्पतितो बभूव । अथेति । उत्पतनानन्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेना- श्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो यस्याः सैवंविधा कादम्बरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थि- तवति सपरिजने सपरिच्छदे राजपुत्रलोके सति । कीदृशे । चन्द्रा- पीडमालोक्य निरीक्ष्य गलितं च्युतं नयनपयो नेत्रजलं यस्य स तस्मिन् । किमवादीत्तदाह - प्रियेति । हे प्रियसखि हे वल्लभवय- स्ये, त्वया सह भवत्या सार्धं तुल्यं सदृशं दुःखं [^1]F. 'क्व चन्द्रात्मकस्य चन्द्रापीडस्यात्मा, पुण्डरीकात्मकस्य वैशम्पायनस च जन्म,' इति पाठः । [^2]F. 'प्रस्थितोहम्' इति पाठः। अयमहं प्रस्थितो भवामीत्याशयः। [^१]G. अपि. [^२]G. गौर्यास्तप:. [^३]G. समासादितम्. [^४]G. अचिरात्. [^५]G. निजतपसः. [^६]G. भगवन्. [^७]G. तस्याः संवृत्तम्. [^८]G. भगवति. [^९]G. आयात. [^१०]G. आत्मा. [^११]G. पुण्डरीकात्मकस्य. [^१२]G. अवगमाय. [^१३]G. वृत्तान्ते. [^१४]G. आलोक्यालोक्य. [^१५]G. अपसृत्यापसृत्य. [^१६]G. संस्थितवती . [^१]तुल्यदुःखितां त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा । अथ मे शिरः समुद्घाटितम् । अद्य ते वदनं दर्शयन्ती प्रियसखीति चाभाषमाणा न लज्जे । तवाव्यहमद्यैव प्रियसखी संजाता । संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया ? केन वापरेणोपदेष्टव्यम् ? तदेवं गते यत्करणीयं तदु [^२]पादिशतु मे प्रियसखी । नाहमात्मना किंचि- दपि वेद्मि, किं कृत्वा श्रेयः' इत्युक्तवतीं कादम्बरीं महाश्वेता प्रत्य- वादीत् - 'प्रियसखि, किमत्र प्रश्नेनोपदेशेन वा । यदेवेयमनतिक्रम- णीया प्रियतमसमागमप्रत्याशा कारयति, तदेव करणीयम् । पुण्ड- रीकवृत्तान्तोऽ [^३]द्य कपिञ्जलाख्यानात्स्फुटीभूतः । [^४]तत्कालं तु वाङ्मात्रकेणैव समाश्वासितया मया न पारितमन्यत्किंचिदपि [^६]वक्तुम् । [^७]तत्त्वमन्यत्किं करोषि यस्याः प्रत्ययस्थानमिदं चन्द्रापीडशरीरमङ्क एवास्ते । [^८]तदन्यथात्वेऽस्य [^९]करणीय- चिन्ता । यावत्पुनरिद [^१०]मविनाशि तिष्ठति तावदेव तस्यानुवृत्तिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां [ टि ]-- विद्यते यस्याः सा तुल्य [^1]दुःखिनी तस्या भावस्तुल्य- दुःखिता तां नयता प्रापयता भगवता विधात्रा । खलु निश्चयेन । असुखं न स्थापितास्म्यमुखे न रक्षितास्मि । अद्य मे शिरः [^2]समु- द्घाटितम् । अद्य मया शिरः कर्षितमित्यर्थः । अद्य ते तव वदनं दर्शयन्त्यवलोकनं कारयन्ती प्रियसखि इति भाषमाणेति जल्पमाना न लज्जे न त्रपे । समदुःखत्वादिति भावः । तवापि भवत्या अप्यद्यै- वाहं प्रियसखी वल्लभवयस्या संजाता । पूर्वं भवत्या एव दुःखित- त्वेन वचनमात्रेण प्रियसखित्वमभूत, सांप्रतं तु समदुःखसुखित्वेनेति भावः । संप्रतीदानीं मरणं जीवितं वा मे मम पूर्वोक्तहेतोरेव न दुःखाय दुःखहेतवे । तत्तस्माद्धेतोरपरोऽन्यः को मया प्रष्टव्यः पृच्छाविषयीकार्यः । केन वापरेणान्येनोपदेष्टव्यमुपदेशो दातव्यः । तदेवं गते प्राप्ते सति यत्करणीयं यदेव विधेयं तत्प्रियसखी मे ममोपादिशतु कथयतु । नाहमात्मना किंचिदपि वेद्मि किं कृत्वा श्रेयः कल्याणं स्यात् । इत्युक्तवतीं कादम्बरीं महाश्वेता प्रत्यवादी- त्प्रत्यब्रवीत् - हे प्रियसखि, अत्रास्मिन्नर्थे प्रश्नेन पृच्छयोपदेशेन वा किम् । यदेवेयमनतिक्रमणीयानुल्लङ्घनीया प्रियतमसमागमप्रत्या- शा वल्लभजनमेलापकसमीहा कारयति निष्पादयति तदेव करणी- यं कार्यम् । भवत्या इति शेषः । पुण्डरीकस्य वृत्तान्त उदन्तोऽद्य कपिञ्जलस्याख्यानात्कथनात्स्फुटीभूतः प्रकटीभूतः । तत्कालं तदात्वे वाङ्मात्रकेणैव वचनमात्रेणैव समाश्वासितयाश्वासनं कारितया मयान्यत्किंचिदपि वक्तुं कथयितुं न पारितं न शक्तम् । तत्तस्माद्धेतोस्त्वमन्यदितरत्किं करोषि विदधासि । यस्या भवत्याः प्रत्ययस्थानं विश्वासस्थलमिदं चन्द्रापीडशरीरमक उत्सङ्ग एवास्ते तिष्ठति । तत्तस्मात्कारणादस्य शरीरस्यान्यथात्वेऽनेक स्थायित्वे करणीयचिन्ता कर्तव्यचिन्ता । यावत्पुनरिदमविनाशि तिष्ठति तावदेव तस्य शरीरस्यानुवृत्ति सपर्या मुक्त्वा किमन्यत्करणीयं विधेयम् । हि यस्मात्कारणादप्रत्यक्षाणां परोक्षाणां देवतानां देवानां मृन्मृत्तिका, अश्मा दृषत्, टिप्प० -1 तुल्यं यथा तथा दुःखिताम् इत्यर्थ उचितः । वस्तुतस्तु - 'तुल्यदुःखताम् ( तुल्यं दुःखं ययोः ते तुल्यदुःखे, तत्ताम् ) इत्येव पाठः सम्यक् । 2 अद्य मे शिरः समुद्घाटितं समुन्नमितं ( विमात्रा ) । 3 कोर्थ इति स्वयं जानीयात् लेखे प्रमादकारी लेखको वा । कदाचित् 'अनेवस्थायित्वे करणीया चिन्ता ।' इति पाठः स्यात् । शरीरस्यैवमेव अस्थितौ ( विकारे सति ) चिन्ता कार्या, इति ह्रदर्थः । 4 सर्वत्र अस्थाने एवकारं प्रगृह्णाति महोदयः । 'तावदखाऽनुवृत्तिं मुक्त्वा' इत्येव पाठः । 19 पाठा० - १ तुल्यदुःखतां कुर्वता तेन चिरात्खल्यच सुखम् २ उपदिशतु ३ त्वद्य ४ हस्तात्. ५ तदा तु. ६ कर्तुम् ७ तत्किमन्यत्. ८ तदन्यथा त्वस्य ९ करणीया १० अविनाशि तानदेव. ● मृदश्म [^१]काष्ठमय्यः प्रतिमाः श्रेयस [^२]पूजासत्कारेणोपचर्यन्ते । किं पुनः [^३]प्रत्यक्षदेवस्य चन्द्रापीडनामान्तरितस्य चन्द्रमसो मूर्तिरनाराधि [^४]तप्रसन्ना' । इत्युक्तवत्यां [^५]महाश्वेतायां कादम्बरी [^६]तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य तामखेदार्हां चन्द्रापीडतनुम्, अन्यतरस्मिञ्छीतवातातप [^७]वर्षादिसर्वद्वन्द्वदोषरहिते शिला- तले [^८]शनैःशनैरखेदयन्ती [^९]स्थापयित्वा,अपनीतशृङ्गार- वेषाभरणा, मङ्गलमात्रकावस्थापितैककररत्नवलया, [^१०]स्नान- शुचिर्भूत्वा परिधाय धौतशुचिनी दुकूले, प्रक्षालय पुनःपुनर्गाढलग्न- मधरकिसलये ताम्बूलरागम्, उपर्युपरि निमीलितागतबाष्पवेगोत्तर- ललोचना, अन्यदेव [^११]किमप्यचिन्ति [^१२]तमनुत्प्रेक्षितमशि- क्षित [^१३]मनभ्यस्तमनुचित [^१४]मपूर्वं बाला बलाद्विलोम [^१५]प्रकृतिना कार्यपण्डितेन दग्धवेधसा कार्यमाणा, यान्येव सुरभिकुसुम [^१६]धूपानुलेपनानि सुरतोपभोगायानीतानि तैरेव देवतोचितामपचितिं संपाद्य चन्द्रापीडमूर्तौ, मूर्तिमतीव शोकवृत्ति- [^१७]रार्तरूपा रूपान्तरमिव [^१८]क्षणेनेवा [ टि ]-- काष्ठं दारु, एतैर्निष्पन्ना मृदश्मकाष्ठमय्यः प्रतिमा मूर्तयः श्रेयोहेतुत्वा [^1]च्छ्रेयसानि दधिदूर्वादीनि, पूजार्चा पुष्पादिभिः, सत्कारोऽभ्युत्थानादिः, एतेषां समाहारस्तेनोपचर्यन्ते पूज्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रा [^2]पीडनाम्नोऽन्तरितस्य व्यवहितस्य चन्द्रमसो मूर्तिः प्रतिमाऽनाराधितप्रसन्नानासेवितप्रमुदिता । इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीं मौनमेवोत्थायोत्थानं कृत्वा तरलिकया मदलेखया च तामखेदार्हां सुकुमारां चन्द्रा- पीडतनुमुत्थाप्य तत उत्थानं कारयित्वान्यतरस्मिञ्छीतं च वातश्चातपश्च वर्षा च शीतवातातपवर्षारता एवादौ येषामेवंविधाः सर्वद्वन्द्वदोषास्तै रहिते वर्जिते । एतत्प्रतिपक्षग्रहणाद्वन्द्वता बोध्या । शिलातले शनैः शनैरखेदयन्ती सादमनुत्पादयन्ती स्थापयित्वा स्थापनां कृत्वापनीतो दूरीकृतः शृङ्गारवेष आभरणं च यया सा । केवलं मङ्गलार्थं मङ्गलमात्रमवस्थापितमवस्थानं कारित [^3]मेक- करे रत्नवलयं मणिकटकं यया सा । स्नानेनाप्लवेन शुचिर्भूत्वा धौते क्षालिते शुचिनी पवित्रे दुकूले चोचे परिधाय परिधानं कृत्वा गाढलग्नमत्यन्तसंयुक्तमधरकिसलय ओष्ठपल्लवे ताम्बूलरागं पुनःपुनर्वारंवारं प्रक्षाल्य प्रक्षालनं कृत्वोपर्युपरि निमीलिते मुद्रित आगतबाष्पवेगे समागतनेत्राश्रुरये उत्तरललोचने चञ्चलनयने यस्याः सैवंविधा कादम्बरी बाला बलाद्धठाद्विलोमप्रकृतिना प्रतिकूल- स्वभावेनाकार्यपण्डितेनाकृत्यविचक्षणेन दग्धवेधसा ज्वलितविधा- त्रान्यदेव किमप्यचिन्तितमविमृष्टमनुत्प्रेक्षितमतर्कितमशिक्षितम- पठितमनभ्यस्तं पुनःपुनः कृतापरिवर्तनमनुचितमन्याय्यमपूर्वम- भिनवं कार्यमाणा विधाप्यमाना, यान्येव सुरभिकुसुमधूपानुलेपनानि सुरभिकुसुमानि सुगन्धपुष्पाणि, धूपः प्रसिद्धः, अनुलेपनं विलेपनं एतानि सुरतस्य मैथुनस्योपभोगायानीतानि तैरेव चन्द्रापीडमूर्तौ चन्द्रापीडस्य शरीरे देवतोचितां देवयोग्यामपचितिमर्चां संपाद्य विधाय । मूर्तिमती देहधारिणी शोकवृत्तिरिवार्तरूपा पीडास्वरूपा क्षणेनेव समयेनेव [^1]F. शुद्धः प्रलापः । 'प्रतिमाः श्रेयसे( कल्याणाय) पूजानमस्का- रेणोपचर्यन्ते' इति पाठः । पूजासहितेन नमस्कारेण । [^2]F. चन्द्रापीडेति नाम्ना अन्तरितस्य, वास्तवे चन्द्रमा एव नाम- मात्रस्य व्यवधानमित्याशयः । [^3]F. अवस्थापितः एकः करे रत्नवलयो यया, एकैकस्मिन् करे एकमेकं वलयमवस्थापितमित्याशयः । [^१]G. काष्ठमया:. [^२]G. पूजानमस्कारेण चन्द्रस्य. [^३]G. प्रत्यक्षदेवस्य चन्द्रस्य. [^४]G. प्रपन्ना. [^५]G. महाश्वेतायां तूष्णीम्. [^६]G. सहोत्थाय. [^७]G. वर्षादिद्वन्द्व. [^८]G. शनै:. [^९]G. स्थापितावशेषरलवलया ; स्थापयित्वापनीत शृङ्गारवेष- ग्रहणा; मङ्गलमात्रकावस्थापितैककरभूषणा. [^१०]G. स्नाता शुचिः. [^११]G. किंचिदपि. [^१२]G. अनुपक्षिप्तम्. [^१३]G. अभ्यस्तम्. [^१४]G. अपूर्वं विलोम. [^१५]G. विलोमप्रकृतिना. [^१६]G. अनुलेपनादीनि. [^१७]G. आर्तिरूपा. [^१८]G. तत्क्षणेनैवागता; तत्क्षणेनैवोपगता. गता, विगतजीवितेव शून्यमुखी, मुखावलोकिनी चन्द्रापीडस्य, [^१]पीडितोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षम्, उद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभवन्ती, तथैवाङ्के समा- रोपितचन्द्रापीडचरणद्वया, दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रति- पन्नस्नानपानभोजनेनापि मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा तमशेषं दिव [^२]समक्षिपत् । यथैव च दिवसमशेषं क्षपितवती तथैव तां गम्भीरमेघोपरोधभीमा- मनवरतगर्जितध्वानकम्पितहृदयबन्धामाबद्धकल [^३]कलापिकुलकेकाकोलाह [^४]लाकुलितचेतोवृत्तिमुद्दामदर्दुरारटितबधिरित- श्रोत्रेन्द्रियां दुर्दर्शतडित्संपातपीडि [^५]तदिश [^६]मतिनिह्रादा- पादितभुवनज्वरां ज्वलत्खद्योतनिकरजर्जरिततरु [^७]गहनतल- तमः प्रसरभीषणतमां तमस्विनीमपि दूरीकृत्याऽबलासहभुवं भी- तिम्, अपरित्यक्तचन्द्रा [^८]पीडचरणकमला, अचेतितस्वशरीर- खेदा जाग्रती समुपविष्टैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तदु- न्मीलितं चित्रमिव चन्द्रापीडशरीर [^९]मवलोक्य शनैः शनैः पाणिना [ टि ] -- रूपान्तरमाकारान्तरमागतेव । विगतजीवितेव गतप्राणे- वात एव शून्यमुखी । चन्द्रापीडस्य मुखमाननमवलोकते पश्यती- त्येवंशीला । पीडितेन पीडयोत्पीडितं व्याप्तं हृदयं वक्षो यस्या एवं- विधापि बाष्पमोक्षमश्रुपातं रक्षन्ती रुन्धन्त्युद्दामा कठिना वृत्तिर्वर्तनं यस्यैवंभूताच्छोकादपि खेदादपि मरणादपि मृत्योरपि कष्टतमाम- तिशयेन कृच्छ्रामवस्थां दशामनुभवन्ती साक्षात्कुर्वन्ती । तथैव पूर्वोक्तरीत्या अङ्क उत्सङ्गे समारोपितं स्थापितं चन्द्रापीडचरणद्वयं यया सा । दूराद्यदागमनं तेन खिन्नेनापि संजातखेदेनापि बुभुक्षिते- नापि क्षुधितेनाप्यप्रतिपन्नान्यनङ्गीकृतानि स्नानपानभोजनान्याप्लव- पानभक्षणानि येन स तथा तेन । [^1]मुक्त आत्मा येन स तथा तेनैवंविधेन राजपुत्रलोकेन स्वपरिजनेन च कादम्बरीपरिच्छदेन च सह निराहारा निर्गतभोजना तमशेषं समग्रं दिवसं दिनमक्षिपन्निर्ग- यामास । यथैव च येन प्रकारेण दिवसमशेषं क्षपितवती तथैव तेन प्रकारेण समुपविष्टैवासेदुष्येव क्षणमिव क्षपां त्रियामां क्षपितवतीति दूरेणा- न्वयः । 'शर्वरी क्षणदा क्षपा' इति हैमः । अथ तां विशेषयन्नाह – गम्भीरो यो मेघस्तेनोपरोधः प्रतिबन्धस्तेन भीमां भीषणाम् । अन- वरतं निरन्तरं यो गर्जितध्वानः स्तनितशब्दस्तेन कम्पितो हृदय- बन्धो भुजान्तरबन्धो यया सा ताम् । आबद्धं मिलितं य [^2]त्कलं मनोज्ञं कलापिकुलं मयूरान्ववायस्तस्य केकावाण्यस्तासां कोला- हलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् । उद्दामं भीषणं यद्दर्दुराणां भेकानामारटितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया ताम् । दुर्दर्शो दुर्निरीक्ष्यो यस्तडित्संपातो विद्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिर्ह्रा- देनातिगर्जितेनापादितो विहितो भुवनस्य ज्वरस्तापो यया सा ताम् । ज्वलन्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूह- स्तेन जर्जरितं शिथिलीभूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्ध- कारं तस्य प्रसरो विस्तारस्तेन भीषणतमामतिभैरवामेतादृशीं तमस्विनीं [^3]तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनुज्झितं चंन्द्रापीडचरणकमलं यया सा। अचेतितोऽविचारितः स्वशरीरखेदो यया सा । [^4]जाग्रती जागरा क्षणमिव क्षपां क्षपितवती । अन्वय- स्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्र [^1]F. त्यक्तात्मना जीवितनिरपेक्षेणेत्यर्थः । [^2]F. कुले कलशब्दस्य किं स्वारस्यम् ? आबद्धः कलः ( मधुराऽस्फुटः स्वनः ) यैः तथाविधानां कलापिकुलानां केकाकोलाहलैरित्यादिरर्थो वाच्यः । [^3]F. तमोयुक्ता रात्रिरिति विशिष्य वक्तव्यं, ज्योत्स्न्या अपि रात्रेः सत्वात् । [^4]F. जागरा किम् ? अस्वपतीत्यर्थः । [^१]G. पीडोत्पीडित. [^२]G. अक्षपयत्. [^३]G. कलापिकेका. [^४]G. आकुलीकृत. [^५]G.  दृशम्. [^६]G. अशनिनिर्घाततर्जनापादित; अशनिनिर्ह्रादतर्जनापादित. [^७]G. गहनतर. [^८]G. चरणाचेतितशरीर. [^९]G. आलोक्य. स्पृशन्ती पार्श्वस्थितां मदलेखा [^१]मवादीत्– 'प्रियसखि मदलेखे, न वेद्मि किं रुचेर्वशादुत निर्विकारतयैवेति, अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय' इति । एव- मुक्ता मदलेखा तां प्रत्यवादीत् - 'प्रियसखि, किमत्र निरूपणीयम् । अन्तरात्मनो [^२]विरहाद्व्यापरमात्रकमस्यामुपरतम् । अन्यत्ता- दृशमेवेदं [^३]व्याकोशशतपत्राकारं मनागप्यनुन्मुक्त श्रिया वदनम् । [^४]तथा च संवेल्लिताग्रभागः स्निग्ध: कुन्तलकलापः । तथैवेयमिन्दुशकलानुकारिण: कान्तिर्ललाटस्य । तादृशमेवेदमा- मुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं [^५]लोचनद्वयम् । तथैव [^६]चेमावहसतोऽपि [^७]विकसितविवोद्भासितकपोल- मूलौ सृक्कोपान्तौ । तादृश एवाभिनवकिसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखाङ्गुलीतलं पाणिपादम् । तदे [^८]वेदम- विगलितसहजलावण्य सौकुमार्याणां सौष्ठव [^९]भङ्गानाम् । तत्सत्या [^१०]सा भारती, कपिञ्जला [ टि ]-- कारालेखितमिव चन्द्रापीडशरीरमवलोक्य निरीक्ष्य शनैः शनैर्मन्दमन्दं पाणिना हस्तेन स्पृशन्ती स्पर्शं कुर्वन्ती पार्श्वस्थितां मदलेखामवादीदभ्यधात् । किमुवाचेयाह – हे प्रियसखि मदलेखे, अहं वेद्मि न जाने । किं रुचेर्वशादभिलाषवशतः, उत निर्विकारतया निर्विकृतितया चेति । अहं तु तादृशीमेव पूर्वविलोकितामेवेमां तनुमवलोकयामि पश्यामि । तत्त्वमपि तावदादरतः संभ्रमतो निरूपय विलोकयेति । एवमुक्ता प्रतिपादिता मंदलेखा तां प्रत्यवादीत्प्रत्यवोचत् -- हे प्रिसयखि कादम्बरि, किमत्र निरूपणीयं विलोकनीयम् । अन्त- रात्मनोऽन्तर्वर्तिजीवस्य विरहाद्वियोगाव्यापारमात्रकं परिस्फुरणा- दिकमस्यां चन्द्रापीडस्य तनावुपरतं स्थितम् । अन्यतादृशमेव पूर्वावलोकितसदृशमेव । एतदेवस्पष्टयन्नाह - इदमिति । व्याकोशं विकसितं यच्छतपत्रं पद्मं तस्या [^1]कार आकृतिर्यस्यैवंविधं मनागपीषदपि श्रियानुन्मुक्तमत्यक्तमिदं प्रत्यक्षगतं वदनं मुखम् । 'सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः । तथा च संवेल्लित- [^2]श्चञ्चलोऽग्रभागो यस्यैवंभूतः स्निग्धः सचि [^3]क्कणः कुन्तल- कलापः केशसमूहः । 'चिकुरः कुन्तलो वालः कचः केशः शिरो- रुहः' इत्यमरः । तथैव चेयसिन्दुशकलं चन्द्रखण्डमनुकरोत्येवंशी- लस्य ललाटस्यालिकस्य कान्तिद्युतिः । तादृशमेवेदमामुकुलित- माकुड्मलितं यन्नीलोत्पलं नीलपद्मं तस्य कान्तिं हरतीत्येवंशीलं कर्णान्तं यावदायतं विस्तीर्णं लोचनद्वयं नेत्रयुग्मम् । तथैव चाह- सतोऽपि हास्यमकुर्वतोऽपीमौ विकसिताविव विनिद्राविवोद्भासिते कपोलमूले याभ्यां तावुद्भासितकपोलमूलौ । एवंभूतौ सृक्कयोरोष्ठप्रान्तयोरुपान्तौ समीपौ । सृक्कशब्दोऽदन्तः क्लीबश्च।'प्रान्ता- वोष्ठस्य सुकिणी' इत्यमरः । तादृश एवाभिनवो नूतनो यः किसलयः पल्लवस्तद्वच्छविः कान्तिर्यस्यैवंभूतोऽधर ओष्ठः । तथैव पूर्ववदेवेदं विद्रुमं हेमकन्दलस्तद्वदालोहितं रक्तं नखा नखराः अङ्गुलयः करशाखास्तलमधोभागः । नखाश्चाङ्गुलयश्च तलं चेतीतरेतरद्वन्द्वः । एतादृशौ पाणि [^4]पादौ यस्य तत् । 'द्वन्द्वश्च प्राणि -' इत्येकव- द्भावः । तदेवेदमविगलितमच्युतं यत्सहजलावण्यं स्वाभाविकलव- णिमा तेन सौ [^5]कुमार्याणां मृदूनामङ्गानां हस्तपादानां सौष्ठवं शोभनत्वम् । तत्तस्मात्कारणात्सा भारती वाणी सत्या यथार्था, कपिञ्जलेनावेदितो निवेदितश्च शापवृत्तान्तः सत्य इति संभावयामि संभावनां [^1]F. आकार इवाकारो यस्येत्यर्थः । [^2]F. संवेल्लित आकुञ्चित इत्यर्थो बोध्य: । [^3]F. धन्यधन्यो भवान्, 'चिक्कणः' इत्येव मुखारविन्दाद्वक्तव्यम् 'चिक्कणो मसृणः स्निग्धः' इति ह्यमरः । [^4]F. स्वयमेकवद्भावः सूच्यते, तथापि 'पाणिपादौ' लिख्यते ? अस्पष्टश्च विग्रहः, तस्मात् - विद्रुमवदालोहितं नखाङ्गुलितलं यस्य तथाविधं पाणिपादमिति वक्तव्यम् । [^5]F. धिक् । न विगलितं स्वाभाविकं लावण्यस्य सौकुमार्यं येषाम् । [^१]G. आभाष्येदमब्रवीत् - मदलेखे [^२]G. विरहान्नव्यापारमात्रकमस्याः परमन्यत्. [^३]G. सकोश. [^४]G. तथायं; तयैवायम्. [^५]G. लोचनयुगलम्. [^६]G. एतौ . [^७]G. विहसितौ. [^८]G. तथैव चेदम्. [^९]G. अङ्गानां लावण्यम्. [^१०]G. असौ. वेदितश्च शापवृत्तान्त इति संभावयामि' इत्युक्तवत्यां मदलेखाया- मानन्दनिर्भरा महाश्वेतायै दर्शयित्वा चन्द्रापीडचरणतलनिबद्धजी- विताय राजपुत्रलोकायापि दर्शितवती । स तु विस्मयोत्फुल्ललोचन: सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी [^१]व्यज्ञापयत् - 'देवि, त्वत्प्रभावोऽयं यदेवास्मानपुण्यवतः परि- त्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं [^३]प्रसन्नेन्दुमण्डलद्युति हारि वीक्ष्यते वदनम् । तथैव चेदं चरणयुगल [^४]मवभाति पुरेव [^५]प्रोत्फुल्लतामरसच्छायम् । तथैव च [^६]पुनः प्रसादा- [^७]नुभवप्रत्याशालालसं हृदयम् । अन्यच्चैत [^८]न्मनुष्यलोकेषु [^९]केन कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः' इत्यभिहितवति राजलोके ससखीजना [^१०]सपरिजना चोत्थाय स्वयमे [^११]वावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रा- पीडशरीरपूजासंस्कारा शरीरस्थितिकरणायादिदेश सकलमेव राजलोकम् । निर्वर्तित [^१२]स्नानाशने च तस्मिन्नात्मनापि महा- श्वेतयोपनीतानि तयैव सह सपरिवारा फलान्यु [^१२]पभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचरणा [^१४]वङ्केनोद्वहन्ती तमपि दिवसमनयत् । [ टि ]-- करोमि । इत्युक्तवत्यामिति प्रतिपादितवत्यां मदलेखाया- मानन्देन प्रमोदेन निर्भरा कादम्बरी महाश्वेतायै दर्शयित्वा दर्शनं कारयित्वा चन्द्रापीडस्य चरणतले निबद्धं जीवितं प्राणितं यस्य स तथा तस्मै राजपुत्रलोकायापि दर्शितवती दर्शनं कारितवती । स तु राजपुत्रलोको विस्मयेऽऽचर्येणोत्फुल्ले विकसिते लोचने यस्य सः । सर्व एव समग्र एवावनितले निवेशित स्थापितं शिर उत्तमाङ्गं येन स तथा । चन्द्रापीडचरणौ प्रणम्य नमस्कृत्य रचिताञ्जलिर्नियो- जितकरो जानुद्वयेन नलकीलयुग्मेनावनौ पृथिव्यां स्थित्वा कादम्ब- रीं व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कां विज्ञप्तिं चकारेत्याशयेनाह—देवीति । हे देवि कादम्बरि, अयं त्वत्प्रभावो भवत्या एव माहात्म्यं यदेवास्मानपुण्यवतः सुकृतरहितान्परित्यज्य दूरीकृत्य दूरं दविष्टं गतस्यापि प्राप्तस्यापि देवस्य तादृशमेवेदं प्रसन्नं निर्मलं यदिन्दु- मण्डलं चन्द्रबिम्बं तस्य द्यतिं कान्तिं हरतीत्येवंशीलं वदनं मुखं वीक्ष्यतेऽवलोक्यते । तथैवेदं चरणयुगलं पादयुग्ममवभाति शोभते । कीदृशम् । पुरेव पूर्ववदेव प्रोत्फुल्लं विकसितं यत्तामरसं कमलं तद्वच्छाया कान्तिर्यस्य तत् । तथैव च पुनः प्रसादस्यानुभवप्रत्याशा- लालसं लम्पटं हृदयं चेतः । अन्यच्चैतन्मनुष्यलोकेष्वैदंयुगीनमर्त्य- लोकेषु केन वा कदा वा कस्मिन्काले वा दृष्टमवलोकितं श्रुतमाक- र्णितं यदस्माभिः पुण्यवद्भिरनुभूतं साक्षात्कृतम् । इत्यभिहितवति कथितवति राजलोके सह सखीजनेन वर्तते या सा ससखीजना, सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्यवचि- त्यावचयं कृत्वा स्नात्वा स्नानं विधाय निर्वर्तितो विहितश्चन्द्रापीड- शरीरस्य पूजासंस्कारो यया सा । तत्र पूजार्चा, संस्कारोऽधिवास- नम् । सकलमेव समग्रमेव राजलोकं शरीरस्य स्थितिर्यस्मात्तच्छ- रीर---- तस्य करणं विधानं तदर्थमादिदेशादेशं दत्तवती । निर्व- र्तिते विहिते स्नानाशने येन स तथा तस्मिन् । तस्मिंश्च राजलोके सत्यात्मनापि स्वेनापि महाश्वेतयोपनीतान्यानीतानि तथा महाश्वेतया सह तथैव सपरिवारा फलान्युपभुक्तवती । कृतो विहित आहारो ययैवंविधा च पुनस्तथैव पूर्ववदेव चन्द्रापीड चरणावङ्केनोत्सङ्गेनो- द्वहन्ती धारयन्ती तमपि दिवसमनयद्यापितवती । [^१]G. व्यज्ञपयत् ; व्यजिज्ञपत्. [^२]G. तथैव. [^३]G. प्रसन्नमिन्दुः प्रसन्नप्रभमिन्दुः. [^४]G. अविकारि. [^५]G. प्रणम्यते. [^६]G. पुनःपुनः. [^७]G. अनुभवन. [^८]G. मानुष्येषु एतन्मनुष्येषु. [^९]G. कदा वा; केन कदा. [^१०]G. सपरिवारा. [^११]G. उचितदेवतार्चनकुसुमा. [^१२]G. निवर्तित. [^१३]G. उपयुक्तवती. [^१४]G. अङ्के कृत्वोद्वहन्ती. अन्येद्युश्च संजातढतरप्रत्यया चन्द्रापीडशरीराविनाशं [^१]प्रति मदलेखामवादीत् - 'प्रिय- सखि, देवस्य शरीरमिदमुपचरन्तीभि- [^२]रवश्यमाशयाऽऽशापक्षयादस्माभिरधुनात्र स्थातव्यम् । तदि- द [^३]मत्यद्भुतं वृत्तान्तं तातस्याम्बायाश्च गत्वा निवेदय । [^४]ये- न नान्यथा मां संभावयतो दुःखेन वा मदीयेन न तिष्ठतः । यथा मामेवंविधां दुःखभागिनीमागत्य न पश्यतस्तथा करिष्यसि । न शक्नोम्यहं तातमम्बां च दृष्ट्वा शोकवेगं धारयितुम् । [^५]मया चोप[^६] रतमेव देवमालोक्य न रुदितम् । सा किमपरमधुना निःसंशयितजीविते देवे प्रतिपन्ननियमा रोदिमि' इत्यभिधाय तां व्यसर्जयत् । [^७]गत्वाऽऽगतया च तया 'प्रियसखि, सिद्धं तेऽभिवाञ्छितम् । एवं संदिष्टं तातेन चित्र रथेनाम्बया च मदिरया [^८]गाढं गाढं पुनरालिङ्ग्य शिरस्युपाघ्राय च वक्तव्यावयोर्वचनात् 'वत्से, काल- मेतावन्तं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता वत्सा द्रष्ट- व्येति । तदयमेवावयोः परमानन्दो [^९]यद्वत्सया स्वयं जामाता वृतः । तत्राप्यपरं भगवतो लोकपालस्य [ टि ]-- अन्येद्युरन्यस्मिन्काले चन्द्रापीडशरीरस्याविनाशोऽवि- नश्वरत्वं तं प्रति संजातः समुत्पन्नोऽतिशयैन दृष्टो दृढतरः प्रत्ययो विश्वासो यस्याः सा तथा मदलेखामवादीदभ्यधात् — हे प्रियसखि, देवस्य चन्द्रापीडस्येदं शरीरमुपचरन्तीभिरुपचारं कुर्वन्तीभिरा शापक्षयाच्छापक्षयं यावदस्माभिरधुना सांप्रतमवश्यं निश्चितमाशया वाञ्छयात्राच्छोदसरसोऽभ्यर्णे स्थातव्यम् । तदिदमत्यद्भुतमत्या- श्चर्यं वृत्तान्तमुदन्तं तातस्याम्बायाश्च गत्वा निवेदय कथय। येनान्यथान्यप्रकारेण मां कादम्बरी ( न ) संभावयतो विचारयतो मदीयेन दुःखेन वा तिष्ठतः [^1]स्थितवतः । यथा मामेवंविधां दुःखभागिनी- मागत्य समेत्य न पश्यतो नालोकयतः मातापितराविति शेषः । तथा त्वं करिष्यसि रचयिष्यसि । अहं तातं पितरमम्बां मातरं च दृष्ट्वा- वलोक्य शोकवेगं धारयितुं स्तम्भयितुं न शक्नोमि न समर्था भवामि । मया चोपरतमेव निवृत्तमेव देवं चन्द्रापीडमालोक्य न रुदितं न रुदनं कृतम् । निःसंशयितं निश्चितं जीवितं यस्यैवंविधे देवे चन्द्रा- पीडे न रोदिमि इति प्रतिपन्नः स्वीकृतो नियमोऽभिग्रहो यया सैवंविधा साहमधुना किमपरं रोदिमीत्यभिधायेत्युक्त्वा च तां मद- लेखां व्यसर्जयत्प्राहिणोत् । गत्वाऽऽगतया च तत्र गमनं कृत्वा प्रतिनिवृत्तया च तथा मदलेखया हे प्रियसखि, ते तवाभिवाञ्छितं सिद्धं निष्पन्नम् । तातेन चित्ररथे- नाम्बया च मदिरयैवं संदिष्टं कथितम् । एवमिति किमित्यपेक्षया- माह - गाढं गाढमिति । गाढं गाढं पुनः पुनरालिङ्ग्योपगूहनं कृत्वा शिरस्युत्तमाङ्ग उपाघ्रायावघ्राय चावयोर्वचनादस्मद्भाषिताद्वक्तव्या भाषितव्या । हे वत्से, एतावन्तं कालं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता [^2]दुहितुः पतियुक्ता वत्सा पुत्री द्रष्टव्या विलो- क्येति । तत्तस्मात्कारणादयमेवावयोः परम उत्कृष्ट आनन्दो यद्वत्सया पुत्र्या स्वयमेव जामाता वृतोऽङ्गीकृतः। तत्रापि वरणेऽप्य- परमन्यद्भगवतो लोकपालस्य चन्द्रमसोऽवतारः । [^1]F. कियप्रलापो निवार्यताम् ? मदीयेन दुःखेन दुःखितौ न तिष्ठतः (न तिष्ठेताम् ) इत्याशयः । [^2]F. कोयं प्रलापः ? दुहितुः पतियुक्ता वत्सेत्यनेन वत्साया अपि दुहिता, तस्याः पतिरित्यर्थः प्रतीयते । निजपतियुक्ता वत्सा ( पुत्री ) द्रष्टव्येति सरला व्याख्या । [^१]G. प्रतिपद्य. [^२]G. अवश्यमा. [^३]G. अत्यद्भुतं भूतम् ; अद्भुतरूपम्. [^४]G. येनान्यथा. [^५]G. यया. [^६]G. अपि. [^७]G. गतागतया. [^८]G. गाढतरमालिङ्ग्य. [^९]G. वत्सयैव. का० ८१ चन्द्रमसोऽवतारः । [^१]तत्कल्याणै: शापावसाने जामात्रा सहैवानन्द [^२]बाष्पनिर्भराननारविन्दं ते द्रक्ष्याव:' इत्यावेदिते निर्वृते [^३]नान्तरात्मना दैवतवदुपचरन्ती तच्चन्द्रापीडशरीरमति- ष्ठत् । अथापगतवति जलदसमये, घननिरोधो [^४]द्बन्धादिवोन्मुक्ते जीव- लोके, प्रसरन्तीष्विवाशासु, [^५]फलभारावनम्रकलमवन [^६]पि- ञ्जरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, सेव्यतामुप- गतेषु [^७]प्रासादतलेषु, कह्लारहारिषु पल्वलेषु, [^८]कुमुदामोद- शीतलासु यामवतीषु, [^९]शेफालिकापरिमलग्राहिषु निशावसान- मातरिश्वसु, चन्द्रप्रभाभिरामेषु प्रदोषेषु, उद्दामफुल्लेन्दीवररजोवा- ससुरभिषु [^१०]वासरेषु, [^११]सलिलापसरणक्रमतरङ्ग्यमाणासु सुकुमारतीरसैकतरेखासु, सुखोत्तारतामापन्नास्वापगासु, पङ्कपरि- हरणशुष्केष्वप्रहरूढ [^१२]तृणोलपच्छन्नेषु मन्दाश्यानकर्दमोद्भिद्यमानाभिनवपदवीकेषु पुनरपि [^१३]पार्थिवलोकेन प्रवर्तितेषु प्राञ्जलवर्त्मसु, जम्बालविगमात्स [ टि ]-- तत्कल्याणैर्मङ्गलैः शापस्यावसाने प्रान्ते जामात्रा सहैवा- नन्दबाष्पेण निर्भरं [^1]यदाननारविन्दं मुखपद्मं ते तवावां द्रक्ष्याव आलोकयिष्यावः । इत्यावेदिते कथिते निर्वृतेन स्वस्थेनान्तरात्मना दैवतवद्देववत्तच्चन्द्रापीडशरीरमुपचरन्त्युपचर्यं कुर्वन्त्यतिष्ठस्थित- वती । अथेति । कियद्दिनानन्तरं जलदसमये मेघकालेऽपगतवति व्यति- क्रान्ते सति घनस्य मेघस्य निरोधोऽवग्रहः स एव बन्धस्तस्मादि- वोन्मुक्ते पृथग्भूते जीवलोके सत्याशासु दिशासु प्रसरन्तीष्विव प्रसर्पन्तीष्विव, फलभारेण सस्यवीवधेनावनम्राण्यवनतानि यानि कलमा: शालयस्तेषां वनान्यरण्यानि तैः पिञ्जरासु पीतरक्तासु ग्रामसीमासूपशल्येषु । 'पीतरक्तस्तु पिञ्जर: ' हैमः । काशकुसुमै- र्धवलासु श्वेतास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्राप्तेषु [^2]प्रासादतलेषु सौधानामधोभागेषु, कह्लारेण सौगन्धिकेन हारिषु मनोहरेषु पल्वलेष्वखातसरःसु, कुमुदानां कैरवाणामामोदेन शीतलासु शिशिरासु यामवतीषु रात्रिषु, शेफालिका वल्लीविशेषस्तस्याः परिमलमामोदं गृह्णन्तीत्येवंशीलेषु निशाया रात्रेरवसानं प्रान्तस्तस्य मातरिश्वसु वायुषु सत्सु, चन्द्रप्रभाः शशिज्योत्स्नास्ताभिरभिरामेषु मनोहरेषु प्रदोषेषु यामिनीमुखेषु । 'प्रदोषो यामिनीमुखम्' इति हैमः । उद्दामफुल्लानि विकसितानि यानीन्दीवराणि नीलकमलानि तेषां रजः परागस्तस्य वासो गन्धस्तेन सुरभिषु सुगन्धिषु वासरेषु दिनेषु सत्सु, सलिलस्य पानीयस्यापसरणं दूरीभवनं तस्य क्रमस्तेन तरङ्ग्यमा [^3]णासूत्कलिकायमानासु सुकुमारं मृदु यत्तीरं तटं [^4]तस्य सैकतरेखासु जलोज्झितस्थलपङ्क्तिषु, सुखेनोत्तार उत्तरणं तस्य भावः सुखोत्तारता तामापन्नासु प्राप्तास्वापगासु नदीषु सत्सु, पङ्कस्य कर्दमस्य परिहरणं दूरीकरणं तेन शुष्केषु वल्लूरेषु । 'वल्लूरं स्याद्वनक्षेत्रे वाहनोषरयोरपि । वल्लूरमाहुः संशुष्कमांशूक- रमांसयोः' इति विश्वः । अप्रहतान्य [^5]विनष्टानि यानि रूढानि प्रादुर्भूतानि तृणानि यवसानि तेषामुलपा: समूहास्तैश्छन्नेष्वाच्छादि- तेषु । मन्दस्तुच्छो य आश्यानोऽशुष्कः कर्दमः पङ्कस्तेनोद्भिद्यमाना प्रादुर्भूयमानाभिनवा प्रत्यग्रा पदवी मार्गो येषु तानि तेषु । पुनरपि पार्थिव [^6]लोकेन राजलोकेन प्रव [^1]F. 'निर्भरमाननारविन्दम्' इति पाठः, समासचातुर्य टीकायाः स्यात्। [^2]F. वर्षासु किं प्रासादतलानि परित्याज्यानीति राजाज्ञा ? तस्मात् - 'सेव्यतामुपगतेषु पादपतलेषु' इति पाठः । वर्षाभयात् वृक्षाधस्तले न शक्यमवस्थातुम् । संप्रति तु न तथेत्याशयः । [^3]F. जलेऽपगतेपि वालुकासु तरङ्गचिह्नः सतरङ्गास्विवेत्याशयः। [^4]F. सुकुमाराः तीरस्य सैकतरेखा यासां तासु । [^5]F. अप्रहतेषु खिलेषु (धान्यनिवेशस्थानेषु ) रूढैः तृणोपलै: आवृतेषु । 'द्वे खिलाप्रहते समे' कोषः इति । [^6]F. 'पान्थलोकेनेत्येव पाठः । राजभिः क्षुण्णे तु मार्गे दूरदूरं पान्थपदव्येव लुप्यते । [^१]G. तत्कतिपयेनैव कालेन. [^२]G. निर्भरमानन. [^३]G. निर्वृत्तेन. [^४]G. बन्धात्. [^५]G. फलभरादवनम्र ; कणिशभरावनम्र. [^६]G. आपिञ्जरासु. [^७]G. पादपतलेषु. [^८]G. कुसुम. [^९]G. शेफाली; काली. [^१०]G. सलिलाशयेषु. [^११]G.सलिलापसरणक्रमतरंगमाणपाण्डुसुकुमारतीरसैकत रेखासु. [^१२]G. रूढोलप. [^१३]G. पान्थलोकेन. र्वतस्तुरगखुरस [^१]हासु भूमिष्वेकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मेघनादो व्यजिज्ञपत् [^२]'देवो' युवराजश्चिरयतीत्युत्ताभ्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा: प्रहिताः । ते च देव्या एव शोकशल्यघटनां परिहरद्भि [^३]र्यथावृत्तं सर्वमाख्यायास्माभि- रभिहिताः - [^४]भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसंदे- ष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा एव गत्वैवमखि- लवृत्तान्तं लो [^५]कार्तिहरायावनितल [^६]पतये देवदे [^७]वाय तारापीडायावेदयत' इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भरा: प्रत्य- वदन्- 'यथा भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृत्तिर्वा कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रे [^८]रयत्यस्मान् । यदि [^९]भवतामपि वार्तामात्रकोप- लभ्य एवायमर्थः, ततो [^११]युज्यतेऽस्माकं भवद्भ्यः समुपलभ्य प्रतिगमनम् । अथ नयनविषयगामी [^१२]तदा वयमपि नेदृशा [^१३]एवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं [^१४]चरणपरिचर्यया देवस्य पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन [^१५]प्रसादं कृत [ टि ]-- र्तितेषु क्षुण्णेषु प्राञ्जलवर्मसु सुकुमारमार्गेषु सत्सु। जम्बा- लविगमात्कर्दमापगमात्सर्वतोऽभितस्तुरगानामश्वानां खुराः शफा- स्तान्सहन्ते क्षमन्ते इति तुरगखुरसहास्तास्वेवंविधासु भूमिषु वसु- धास्वेदैकस्मिन्समये चन्द्रापीडस्य चरणयोर्मूलं समीपं तत्रोपविष्टां स्थितां कादम्बरीमुपसृत्य समीपनागत्य मेघनादो व्यजिज्ञपज्ज्ञाप- यामास । किं तदित्याह – देवेति । देवो युवराजश्चन्द्रापीडश्चिरयति विलम्बय- तीत्युत्ताम्यतोत्प्राबल्येन खेदं कुर्वता हृदयेन चेतसा देवेन तारापीडे- न देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा लेखहारकाः प्रहिताः प्रेषिताः । ते च वार्ताहरा देव्याः शोक एव शल्यं शरीरान्तर्गतलोह- खण्डस्तस्य घटनां रचनां परिहरद्भिर्वर्जयद्भिरस्माभिर्यथावृत्तं यथा- भूतं सर्वं समग्रमाख्याय कथयित्वाभिहिताः कथिताः। भवतां युष्मा- कं हस्ते देवेन चन्द्रापीडनं न किंचित्प्रतिसंदेष्टव्यं न प्रतिकथनीयम् । नापि देव्या कादम्बर्या । तत्तस्मात्कारणादकृतो विलम्बः कालक्षेपो यैरेवंविधा एव गत्वा गमनं कृत्वैवाखिलं समग्रं वृत्तान्तमुदन्तं लोकानां जनानामार्तिः पीडा तस्या हरायावनितलपतये भूतल- स्वामिने देवदेवाय राजाधिराजाय तारापीडायावेदयत [^1]न्यवेद- यत इत्येवमभिहिताः कथितास्तु तेऽस्मान्मन्योः क्रोधस्य निर्भरो येष्वेतादृशाः प्रत्यवदन्प्रत्यूचुः । किं तदित्याशयेनाह - यथेति । यथा येन प्रकारेण भवद्भिः कथितमुक्तं तत्तथा तेन प्रकारेणास्तु । क्रमा- गतः परम्परायातः स्नेहः प्रेम, भक्तिराराध्यत्वेन ज्ञानम्, अनुवृत्ति- रनुवर्तनं वा तिष्ठत्वास्ताम् । परं कार्यस्य कृत्यस्य गौरवं गुरुत्वं तेन कृतं विहितं कुतूहलमेव कौतुकमेव देवस्य चन्द्रापीडस्यावलोकनं वीक्षणं प्रत्यस्मान्बलाद्धठात्प्रेरयति नोदयति । यदि भवतामपि केवलं वार्ता वार्तामात्रकं तेन [^2]उपलभ्य प्राप्य एवायमर्थः प्रयो- जनम् । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । ततो युज्यते घटतेऽस्माकं भवद्भ्यः [^3]समुपलभ्य कथयित्वा प्रति- गमनं प्रतियानम् । अथ नयनविषयं चक्षुर्गोचरं गच्छतीत्येवंशी- लोऽर्थः, तदा वयमपि नेदृशा एवापुण्यकर्माणोऽशुभकृत्यकारिणो ये न देवं पश्यन्त्यवलोकयन्ति । अस्माभिरपि देवस्य चिरतरं चिर- कालं चरणपरिचर्यया पादसेवयात्मा पवित्रित एव । अस्माकमपि सर्वदा सर्वकालं दर्शनगोचरमवलोकनविषयं यदवस्थानमवस्थिति- स्तेन प्रसादमनुग्रहं देवः कृतवानेव विहितवानेव । अद्य [^1]F. 'निवेदयत' इत्येव । न्यवेदयतेति लेखकदोष एव स्यात् । [^2]F. अर्थात् प्रत्यक्षदर्शनस्य नावसरः, केवलं संवादप्राप्तिरेव वशः । [^3]F. प्रवृत्तिम् ( संवादम् ) प्राप्य गमनमित्यर्थ उचितः । [^१]G. सहासु संजातासु. [^२]G. देवि देवः. [^३]G. अस्माभिर्यथावृत्तं समाख्याय. [^४]G. भवता तु हस्तेन. [^५]G. अखिललोक. [^६]G. हरये. [^७]G. देवाय. [^८]G. कारयति. [^९]G. भवतां वार्ता. [^१०]G. मात्रकलभ्य:. [^११]G. युज्यत एव. [^१२]G. अपि च. [^१३]G. एव केऽप्यगुणाः. [^१४]G. देवचरणपरिचर्यया. [^१५]G. प्रसादीकृतवान्. वानेव देवः । किमद्य जातं येन देवस्य पादारविन्दवन्दनाप्रसादेना- संविभज्य [^१]विसृज्यामहे । त एव वयं पादलग्नाश्चरणरेणवः । तद्विज्ञाप्य देवीं देवस्य युवराजस्य पादप्रणामेनास्माकं सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्य- प्रत्यक्षी [^२]कृतयुवराजशरीरा गताः सन्तः किं [^३]देवदेवेन तारापीडेन वक्तव्या वयम् । किं [^४]वास्माभिर्देवो विज्ञापयितव्यः' इत्यावेदिते, 'देवी प्रमाणम्' इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे, [^५]तत्कालसमुत्प्रेक्षितानाश्वास्यश्वशुरकुलवैक्लव्या, विलीयमानेव शुचा, अन्तःसंचितं बाष्पमाकुलिततरलतारकाभ्या- मापिबन्ती लोचनाभ्याम्,[^६]उद्गदिकयावगृह्यमाणकण्ठी, कथं- कथमपि चिरात्कादम्बरी प्रत्युवाच - 'स्थान एव हि तैरगमनमङ्गी- कृतम् । अनवलोक्य [^७]देवमेवमेवयाताः सन्तः [^८]किमुच्य- न्ताम् ? अपि च [^९]वृत्तान्त एवायमेवंविधो लोकातीतो यत्रावलो- कनेनापि न संप्रत्ययः समुत्पद्यते, किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शित [^१०]प्रेमपल्लवा वल्लभ [ टि ]-- किं जातं किं जज्ञे येन देवस्य चन्द्रापीडस्य पादारविन्दस्य चरणकमलस्य वन्दना नमस्कृतिः सैव प्रसादस्तेनासंविभज्यासंवि- भागीकृत्य विसृज्यामहे। ते तव वयं पादलग्नाश्चरणरेणवः पादधूलयः । तद्विज्ञाप्य विज्ञप्तिं कृत्वा देवीं कादम्बरीं देवस्य युवराजस्य पाद- प्रणामेनास्माकमागमनपरिश्रमं भवान्मेघनादः सफलयतु सफली- करोतु । अन्यथोक्तवैपरीत्ये । एतावतीं भूमिमागत्य संभवे सति दर्शनयोग्यतायां सत्यामप्रत्यक्षीकृतं युवराजशरीरं यैस्तेऽप्रत्यक्षी- कृतयुवराजशरीरास्ते च ते गताश्चेति कर्मधारयः । एवंविधा गताः सन्तो वयं देवदेवेन तारापीडेन किं वक्तव्याः किं कथनीयाः । अस्माभिर्देवस्तारापीडः किं विज्ञापयितव्यः किं वा निवेदयितव्य इत्यावेदिते ज्ञापिते देवी प्रमाणं यदादिशति देवी तत्कर्तव्यमिति विज्ञाप्य निवेद्य तूष्णीं स्थितवति मौनं कृतवति मेघनादे, तत्कालं समुत्प्रेक्षितं वितर्कितमनाश्वास्यमाश्वसनावर्जितं श्वशुरकुलस्य स्वपतिवंशस्य वैक्लव्यं विह्वलता यया सा तथा । शुचा शोकेन विलीयमानेव विलयं प्राप्यमाणेवान्तः संचितं मध्ये संघातीकृतं बाष्पमश्र्वाकुलिते व्याकुलीभूते तरले चञ्चले तारके कनीनिके ययोरेवंभूताभ्यां लोचनाभ्यां नेत्राभ्यामापिबन्ती पानं कुर्वन्ती, उत्प्राबल्येन गद्गदिकया गद्गदस्वरेणावगृह्यमाणो निरुध्यमानः कण्ठो यस्याः सा तथा । कथंकथमपि महता कष्टेन चिराद्बहुकालेन कादम्बरी प्रत्युवाच प्रत्यब्रवीत् । हि निश्चितम् । तैर्लेखहारकै- रगमनमयाङ्गीकृतं स्वीकृतं तत्स्थान एव युक्तमेव । देवं चन्द्रापीड- मनवलोक्यानिरीक्ष्यैवमेव यथागतं तथैव याताः पश्चाद्वलिताः सन्तस्तत्र तैः किमुच्यतां किं कथ्यताम् । अपि चेति युक्त्यन्तरे । अयमेवंविधो वृत्तान्त उदन्तो लोकातीतोऽनिर्वचन स्वरूपो यत्र यस्मिन्वृत्तान्तेऽवलोकनेनापि निरीक्षणेनापि संप्रत्ययो न विश्वासः समुत्पद्यते संजायते । अनालोकनेनाप्यनिरीक्षणेनापि किं पुन- र्भण्यते । सुतरामविश्वासो भवत्येवेति भावः । कैतवमात्रेण केवलदम्भेनोपदर्शिताः प्रकटिताः प्रेम [^1]पल्लवाः स्नेहकिसलया यैस्ते तथा वल्लभतममतिशयेन [^1]F. 'कैतवमात्रोपदर्शितप्रेमफला वल्लभतमजीविता वयमपि यावत्पश्यामस्तम्' इत्येव पाठः । कपटमात्रेण प्रकटितं प्रेमफलम् ( प्रणयकार्यम् ) याभिस्ताः, अस्माभिः स्वप्रणयकार्यं दम्भरूपेणैव प्रकटितं यदि अस्माकं प्रेम सत्यमभविष्यत् तर्हि अस्माभिरपि जीवितमत्यक्ष्यत । अत एव - चन्द्रापीडादपि वल्लभतमं जीवितं यासाम् ईदृश्यो वयमिति । [^१]G. विसर्ज्यामहे. [^२]G. कृतशरीरा: [^३]G. देवेन. [^४]G. च. [^५]G. तत्कालम्. [^६]G. गद्गदिकावगृह्यमाणकण्ठा; उद्गदिकावगृह्यमाणकण्ठी. उद्गदिकयावगृह्यमाणकण्ठी. [^७]G. देवदेवम्. [^८]G. किमुच्यताम् ; किमुच्यन्तात एव. [^९]G. अयमेवंविधोलोकातीतो वृत्तान्तः. [^१०]G. फलाः. तमजीविता वयमपि यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः स्नेह [^१]सद्भावनया सद्भृत्या न पश्यन्ती [^२]त्यघटमानक- मिदम् । तद्परिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । [^३]सफ- लयित्वागमनपरिश्रमेण सार्धं लोचने ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशिता [^४]न्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गि- तमहीतलांश्चन्द्रापीढचरणवन्दनसद्भावनिहितोत्पक्ष्मनिभृतदृष्टींस्ता- ननन्यदृष्टिश्चिरमिवालोक्य कादम्बरी स्वयमेवाभाषत 'भद्रमुखाः, परित्यज्यतामयं क्रमागतस्नेहसद्भाव [^७]सुलभः शोकावेगः । [^८]यत्खलवनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोदर्कं तत्पुरः- स्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमत्र निरवकाशता शोकस्य, प्रत्युत सुदूर- भिन्नवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन, [ टि ]-- प्रियं जीवितं प्राणितं येषामेवंविधा वयमपि तं चन्द्रापीडं यावत्पश्यामोऽवलोकयामस्तर्ह्येते लेखहारका अनपेक्षिता असमी- हिताः प्राणवृत्तयो यैरेवंभूताः स्नेहस्य सद्भावो विद्यते यस्यामेवंविध- या स्नेह [^1]सद्भावनया सद्भुत्याः सदनुचरा न पश्यन्ति न विलो- कयन्तीत्यघटमानकमयुक्तमिदम् । तदपरिलम्बितमविलम्बितं प्रवे [^2]श्यतां प्रवेशं कार्यताम्। देवं चन्द्रापीडं पश्यन्त्ववलोकयन्तु। आगमनपरिश्रमेण प्रयासेन सार्धं लोचने नेत्रे सफलयित्वा कृतार्थी- कृत्य ततस्तदनन्तरं यास्यन्ति गमिष्यन्तीत्याज्ञा निदेशस्तदनन्तरं च मेघनादेन प्रवेशितान्दूरत एव दविष्ठादेव बाष्पपातेनाश्रुपातेन समं द्वे जानुनी, द्वौ करौ, उत्तमाङ्ग चेति पञ्चाङ्गैरालिङ्गितमाश्लिष्टं मही- तलं भूमितलं यैस्ते तथा तान् । चन्द्रापीडस्य चरणयोः पादयोर्वन्दनं नमस्करणं तस्य [^3]सद्भावेऽस्तित्वे निहिताः स्थापिता उदूर्ध्वं पक्षम नेत्ररोम यासामेवंविधा निभृता निश्चला दृष्टयो दृशो यैस्ते तथा तान् । न विद्यतेऽन्यस्मिन्दृष्टिर्यस्याः सैवंभूता कादम्बरी चिरमिव चिरसदृशमालोक्य निरीक्ष्य स्वयमेवात्मनैवाभाषतावोचत् । किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः क्रमागतः परम्प- रायातो यः स्नेहसद्भावः प्रेमसत्ता तेन सुलभः सुप्रापोऽयं शोकावेग: शुग्रयः परित्यज्यतां परिमुच्यताम् अनालोचितोऽविमृष्टोऽवधिर्मर्या- दा यस्य तत्तथा, दुःखमेवावसाने प्रान्ते यस्यैवं तद्दुःखमेव [^4]मर णभीरोः कातरस्य । खल्विति निश्चयेन । शोकावेगाय भवतु। यत्पुनः सुखः सुखकृदुदर्क उत्तरकालजन्यं फलं यस्यैवंभूतं दुःखं पुरःस्थितयाग्रे वर्तमानया सुखप्रत्याशयैव सौख्यलिप्सयै [^5]वान्त- रितं व्यवहितं हृदये चित्ते नापतति नागच्छति । 'आयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम्' इति हैमः । तत्तस्माद्धेतोरेष वृत्तान्त उदन्त एवंविधो येन कारणेन ( न ) केवलमत्र शोकस्य शुचो निरवकाशता निःप्रवेशता, प्रत्युत सुदूरं [^6]भिन्ना वृत्तिर्वर्तनं यस्यैवं- भूतस्य विस्मयस्याश्चर्यस्यावसरः प्रस्तावः । अत्रास्मिन्विषये परि- बोधनेन ज्ञापनेन किम् । न किमपीत्यर्थः । एतदेव विशिनष्टि - अन्यत्र मनुष्येष्वदृष्टपूर्वो [^1]F. ' स्नेहसंभावनीयाः' इति पाठः । स्नेहेन संभावनीया आदरणीया: । [^2]F. 'प्रवेश्यन्ताम्' ( ते वार्ताहरा: ) इत्येव पाठः । [^3]F. असंबद्धमिदम् । वन्दने यः सद्भावः प्रणयस्तेन निहिता उत्पक्ष्मा निभृता दृष्टिर्यैस्तानित्यर्थः । [^4]F. मरणाद्भीतस्यैव तदिदं दुःखं भोक्तव्यम्, अन्यथा तत्समये मरणमेवोचितमित्याशयः । [^5]F. सुखस्य प्रत्याशा दुःखे व्यवधानभूता भवति, अत एव दुःखं न जायत इत्यर्थः । [^6]F. अतिविरुद्धा वृत्तिर्यस्य, एवं विधस्थले विस्मयो न संभवती- त्याशयः । [^१]G. सद्भावनीया:. [^२]G. अघटमानम्. [^३]G. सफलयन्तु. [^४]G. अदूरतः. [^५]G. चिरमवलोक्य. [^६]G. अलपत्. [^७]G. सुलभ. [^८]G. न खलु. अन्यत्रादृष्टपूर्वो मनुष्येषु [^१]प्रत्यक्षीकृत एवायं वृत्तान्तो भवद्भिरपि । [^२]दृष्टं च पुरे [^३]वाक्षततनोर्देवस्य वदनम् । सं [^४]भाषणा- पि या देवेन विना न संभवति सापि संभावितैव । तद्गम्यतामधुना वार्तोत्सुकमतेर्देवस्य पादमूलम् । न चायं प्रत्यक्षदृष्टोऽप्युपरवशरीराविनाशवृतान्तः प्रकाशनीयः । दृष्टोऽस्माभिरच्छोदसरसि तिष्ठत्ये- तदेवावेदनीयम् । [^५]यतः कारणादुपरतिः खल्ववश्यंभाविनी प्राणिनां [^६]कथंचित्प्रत्ययमुत्पादयति । शरीराविनाशः पुनः प्राणै- र्विनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव । तदस्याऽऽवेदनेन सुदूर- स्थितमपि गुरुजनं मरणसंशये निक्षिप्य वर्तमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे स्वयमेवायमद्भुतभूतोऽर्थो [^७]गुरु- जनेष्वाप्रकटीभविष्यति' । इत्येवमादिष्टाश्च ते [^८]व्यज्ञापयन्–'देवि, [^९]किं' विज्ञापयामः। द्वाभ्यामेवा- परिज्ञानमस्य वस्तुनः संभवेदगमनेनास्मदीयेनाकथनेन वा । तद- स्माकं तु [^१०]हस्ते द्वयमप्येतन्नास्ति । युवराजवैशम्पा-यनयोर्वार्ता विना दुःखं तिष्ठता देवेन तारापीडेन देव्या विलासव- त्यार्यशुकनासेन [ टि ]-- ऽनवलोकितपूर्वोऽयं वृत्तान्तो भवद्भिरपि युष्माभिरपि प्रत्यक्षीकृत एष साक्षात्कृत एवेति भावः । अक्षततनोरखण्डितशरी- रस्य देवस्य चन्द्रापीडस्य वदनं पुरेव दृष्टमवलोकितम् । संभाषणा- प्यन्योन्यालापोऽपि या देवेन विना न संभवति नोपपद्यते सापि [^1]संभाषणापि संभावितैव संभावनाविषयीकृतैव । तदिति हेत्वर्थे । तत्तस्मात्कारणाद्वार्तायां प्रवृत्तौ उत्सुकोत्कण्ठिता मतिर्बुद्धिर्यस्यै- वंविधस्य देवस्य तारापीडस्य पादमूलं चरणसमीपं युष्माभिरधुना गम्यतां यायताम् । अयं प्रत्यक्षदृष्टोऽपि साक्षान्निरीक्षितोऽप्युपरतं निर्जीवं यच्छरीरं तस्याविनाशस्तथैवावस्थानं तस्य वृत्तान्त उदन्तो न च प्रकाशनीयो न प्रकटीकार्यः । तर्हि किं वाच्यमित्याशयेनाह–दृष्ट इति । अच्छोदसरसि तिष्ठति विद्यते, दृष्टो विलोकितोऽस्माभि- रेतदेवावेदनीयं कथनीयम् । यतः कारणादुपरतिर्मरणम् । खलु निश्चयेन । प्राणिनामवश्यंभाविनी कथंचित्प्रत्ययं विश्वासमुत्पादयति । प्राणैर्विनाकृतानां रहितानां शरीराविनाश: पुनर्दृश्यमानोऽपि विलोक्यमानोऽप्यश्रद्धेय एवास्थारहित एव । तदस्यावेदनेन ज्ञापनेन सुदूरस्थितमप्यतिदविष्ठस्थितमपि गुरुजनं श्वशुरजनं मरणसंशये मृत्युद्वापरे निक्षिप्य वर्तमाने प्रयोजनमेवार्थ एव नास्ति । प्रत्यागतं पश्चादागतं जीवितं यस्यैवंविधे जीवितं प्राणितं तस्य ईश्वरे चन्द्रापीडे स्वयमेवायमद्भुतोऽर्थो गुरुजनेषु श्वशुरकुले [^2]ष्वा समन्तात्प्र- कटीभविष्यति सर्वविदितं भविष्यति । इत्येवमादिष्टाः कथिताश्च ते व्यज्ञापयन्विज्ञप्तिं चक्रुः । हे देवि, किं विज्ञापयामः कां विज्ञप्तिं कुर्मः । अनिवेदनरूपस्यास्य वस्तुनो द्वाभ्यामेवापरिज्ञानं संभवेत् । एतदेव स्पष्टयन्नाह - अगमनेनेति । अस्मदीयेनाऽगमनेनाऽयानेनाऽकथनेन वाऽनिवेदनेन वा, तद्वय- मप्यस्माकं तु हस्ते पाणौ नास्ति । अस्मदधीनं न विद्यत इत्यर्थः । तत्प्रदर्शयन्नाह - युवराजेति । युवराजश्चन्द्रापीडो वैशम्पायनो मन्त्रिसुत तयोर्वार्ता प्रवृत्तिं विना दुःखं तिष्ठता कृच्छ्रेण स्थितिं कुर्वता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च [^3]संभाव्य विचार्य प्रेषि [^1]F. नीचैः पाठो द्रष्टव्यः । जीवाद्विना संभावना ( शरीरगता कान्तिः ) न संभवति, सा भवद्भिः संभावितैव दृष्टैवेत्याशयः । [^2]F. 'आङ्' निपातस्य नासीत्स्वारस्यम् । अत एव 'गुरुजने जने वा इति पाठगतस्य 'वा'पदस्य सत्तां सूचयति । [^3]F. 'संभाष्य' (सौम्याः ! गम्यतामित्यादरेण संबोध्य ) इत्येव पाठो योग्यः । [^१]G. प्रत्यक्षतः. [^२]G. च दृष्टं च; दुष्टो दुष्टं च. [^३]G. पुनरेवाक्षत; पुनरेवाविकृत. [^४]G. संभावनापि या जीवाद्विना. [^५]G. यतः कारणम्; किं कारणम्. [^६]G. न कथंचित्. [^७]G. गुरुजने जने वा प्रकटीभविष्यति. [^८]G. व्यज्ञपयन्. [^९]G. किंचिज्ज्ञापयामः. [^१०]G. हस्तात्. [^११]G. विना वार्तान्; वार्तया विना. च [^१]संभाव्य प्रेषितानामप्रोषितजीविताना [^२]मगमनं तु दूरा- पेतमेव । गत्वापि दयिततमतनयवार्ताश्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदना- नामस्माक [^३]मवस्थानमशक्यमेव इति विज्ञापिता तैः 'एवमेतत्' इत्युक्त्वा कादम्बरी मेघनादमवादीत्– 'मेघनाद, वेद्मि संस्तुतजन- स्यैतदनुचितमिति । तथापि गुरूणां चेतःपी [^४]डामवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःख [^५]मायाति । कीदृशं भवति किं पुनरिदं महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहा- परः कश्चि [^६]च्छ्रद्धेयवचाः प्रत्यक्षदृष्टसकलवृत्तान्तः सं [^७]प्रत्य- याय व्रजतु' इति । एवमादिष्टस्तु मेघनादो व्यज्ञापयत् - 'देवि, राजलोके तु का कथा । [^८]भृत्यवर्गोऽपि सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वा स्थितो यथास्माकं मध्यादेकेनापि देवपादान्विना न प्रतीपं गन्त- व्यमिति । भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति आलाप्यमाना न समालापाः संजा- यन्ते । स्तूयमाना [ टि ]--तानां प्रहितानामप्रोषितजीवितानाममृतानामगमनं तु दूरा- पेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह- गत्वेति । तत्र गत्वापि दयिततमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्ति- स्तस्याः श्रवणमाकर्णनं तत्र लालसस्य सस्पृहस्य राज्ञो देव्या आर्य- शुकनासस्य दुःखेन प्लुतानि ब्रुडितान्यक्षीणि येष्वेवंविधानि मुखानि वक्राण्युत्प्राबल्येन वीक्ष्य निरीक्ष्य निर्विकारवदनानां शोकादिविकृ- तिवर्जितानामस्माकमवस्थानमशक्यमेव दुष्करमेव । तैर्लेखहार- कैरिति विज्ञापितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा काद- म्बरी मेघनादमवादीदब्रवीत् । किं तदित्याह – मेघनादेति । हे मेघनाद, अहं वेद्मि जानामि संस्तुतजनस्य परिचितजनस्यैतदनिवे- दनरूपमनुचितमयोग्यमिति । तथापि गुरूणां श्वशुरादीनां चेतः- पीडामवेक्ष्य [^1]माणया विलोक्यमानया मयैतत्पूर्वोक्तमभिहितं कथितम् । इतरदप्येतद्भिन्नमपि दुःखमायाति [^2]तदा कीदृशं महावज्रपतनसदृशं महापविपाततुल्यं भवति । किं पुनरिदं दुःखम् । तदेतदपि 'तुष्यतु दुर्जनः' इति न्यायेन वज्रपतनोपमं दुःखमपि भवति पततु । परमेभिर्लेखहारकैः सह श्रद्धेयं मान्यं वचो यस्य स तथा प्रत्यक्षं दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो येनैवं- विधोऽपर एतद्भिन्नः कश्चित्संप्रत्ययाय विश्वासाय व्रजतु गच्छतु । एवमादिष्टस्त्वेवं प्रोक्तस्तु मेघनादो व्यज्ञापयत् । हे देवि राजलोके नृपवर्गे तु का कथा का वार्ता कथ्यते । सकल एवायं भृत्यवर्गोऽपि सेवकसमूहोऽपि कन्दमूलफलान्यश्नातीत्येवंशील इति निश्चयं निर्ण- यं कृत्वा स्थितोऽस्ति निषिद्धोऽस्ति । कोऽयं निश्चय इत्यपेक्षायामाह - यथेति । यथास्माकं मध्यादेकेनापि देवपादांश्चन्द्रापीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याघुट्य यातव्यमिति। भृत्या अपि अनुचरा अपि त एव ये संपत्तेः संपत्तितः विपत्तौ विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्यं कुर्वन्ति । समुन्नम्यमानाः समुन्नति प्राप्य- माणाः सुतरामत्यर्थमवनमन्ति नम्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सिच्यन्ते नोत्सेकं गच्छन्ति । [^1]F. 'अवेक्षमाणया' इति स्थाने अयं पाठो लेखकदोष एव। यदि तु टीकाकारकृपा तर्हि तु कोऽस्य पुरस्कार : ? [^2]F. 'इतरदपि दुःखमतर्कितं कीदृशं भवति, ( अर्थात् साधारण- प्रियवियोगजनितदुःखमेव अनिर्वाच्यं भवति ), इदं ( पुत्रवियोगजम् ) तु किं पुन: ? अयमेव पाठः । [^१]G. संभाष्य. [^२]G. अगमनं दूरत एव. [^३]G. अवस्थानमनुचितमशक्यमेव. [^४]G. अवेक्षमाणया; अपेक्षमाणया. [^५]G. आपतति; अतः. [^६]G. श्रद्धेयवाक्य:. [^७]. व्रजतु संप्रत्ययायेति. [^८]G. भृत्यवर्गेऽपि. नोत्सिच्यन्ते । शिष्यमाणा [^१]नापरागं गृह्णन्ति । उच्यमाना न प्रतीपं भाषन्ते । पृष्टा [^२]हितप्रियं विज्ञपयन्ति । अनादिष्टा: कुर्व- न्ति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते । विकथ्य [^३]माना अपि लज्जामुद्वहन्ति । महाहवेष्वमतो ध्वजभूता इव लक्ष्यन्ते । दानकाले पलाय्य पृष्ठतो निलीयन्ते । [^४]धनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छन्ति । गृहादपि स्वामिपाद- मूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम्, असंतोषो हृदयाराधने, [^५]व्यसनमाननावलोकने, वाचालता [^६]गुणग्रह- णे, कार्पण्यमपरित्यागे भर्तुः । ये च विद्यमानेऽपि [^७]स्वात्मन्य- स्वा[^८]धीनसकलेन्द्रियवृत्तयः, पश्यन्तोऽप्यन्धा इव, शृण्वन्तोऽपि बधिरा इव, वाग्मिनोऽपि मूका इव, जानन्तोऽपि जडा इव, अनुप- हतकरचरणा अपि [^९]पङ्गव इव, क्लीबा इवाकिंचित्करा:, स्वा- त्मनः [^१०]स्वामिचि [^११]न्तादर्श प्रतिबिम्बवद्वर्तन्ते । त[^१३]त्सर्वमेवंस्थितो [ टि ]-- क्षिप्यमाणास्तिरस्क्रियमाणा नापरागं विरक्ततां गृह्णन्त्या- ददते । उच्यमानाः । विरूपमिति शेषः । भाष्यमाणा न प्रतीपं प्रतिकूलं भाषन्ते ब्रुवते । पृष्टा अनुयोजिता हितं च तत्प्रियं च हित- प्रियं विज्ञपयन्ति निवेदयन्ति । अनादिष्टा अकथिताः कुर्वन्ति । कार्याणीति शेषः । कृत्वा न जल्पन्ति न कथयन्ति । पराक्रम्य पराक्रमं कृत्वा न विकत्थन्ते न श्याघ्यन्ते । विकत्थ्यमाना अपि श्लाघ्यमाना अपि लज्जां त्रपामुद्वहन्ति धारयन्ति । महाहवेषु महारणेष्वग्रतो ध्वजभूता इव केतुभूता इव लक्ष्यन्ते विलोक्यन्ते । 'अभ्यामर्द: समाघातः सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । दानकाले पलाय्य पलायनं कृत्वा पृष्ठतो निलीयन्ते निलीना भवन्ति । धनाद्द्र- व्यात्स्नेहं प्रेम बहु मन्यन्तेऽधिकं गणयन्ति । जीवितात्प्राणितात्पु- रोऽग्रे । स्वामिन इति शेषः । मरणं मृत्युमभिवाञ्छन्त्यभिलषन्ति । गृहादपि सौधादपि स्वामिपादमूले स्वकीयाधीशचरणोपान्ते सुखं यथा स्यात्तथा तिष्ठन्ति । येषां च सेवकानां चरणपरिचर्यायां पाद- सेवायां तृष्णा स्पृहा । हृदयाराधने चित्तप्रसादनेऽसंतोषः । आनना- वलोकने मुखनिरीक्षणे व्यसनमासक्तिः । वाचालता मुखरता गुण- ग्रहणे परगुणानां शौर्यादीनामादाने। भर्तुः स्वामिनोऽपरित्यागेऽमो- चने कार्पण्यं कृपणत्वम् । ये च सेवका विद्यमानेऽपि स्वात्मनि जीवति सत्यप्यस्वाधीनसकलेन्द्रियवृत्तयोऽस्वाधीना अनायत्ताः सकलेन्द्रियाणां वृत्तयो येषां ते तथा । पश्यन्तोऽपि विलोकय-न्तोऽप्यन्धा इव गताक्षा इव । परच्छिद्रान्वेषणेऽन्धत्वमिति भावः । शृण्वन्तोऽप्याकर्णयन्तोऽपि बधिरा इव । परापवादश्रवण इत्यर्थः । वाग्मिनोऽपि वचस्विनोऽपि मूका इवावाच इव । परदूषणवक्त- व्यतायामिति भावः । 'वाग्मी वाचस्पतौ पटौ' इति विश्वः । जान- न्तोऽप्यवबुद्ध्यन्तोऽपि जडा इव मूर्खा इव । प्रभुप्रतिपादिकथादिश्रवणेष्वित्यर्थः । कराश्च चरणाश्च करचरणम् । 'द्वन्द्वश्च प्राणितूर्य-' इत्येकवद्भावः । अनुपहतमखण्डितं करचरणं येषां ते तथैवंविधा अपि पङ्गव इव श्रोणा इव, क्लीबा इव षण्ढा इव, अकिंचित्करा निरर्थकाः । स्वात्मनैः स्वस्वामिनोऽधिपतेश्चिन्ता सैवादर्शो मुकुर- स्तस्मिन्प्रतिबिम्बवत्प्रतिच्छायवद्वर्तन्ते । तत्सर्वमेवाव्यक्ते [^1]F. 'अनुपहतकरचरणा अपि कुणय इव पङ्गव इव' इत्येव पाठ: । कररहितः कुणिः, विकलपादः पङ्गु:, ते तु करपदसत्ता- यामपि तद्रहिता इत्यर्थः । [^2]F. 'स्वात्मना स्वामिचित्तादर्शे प्रतिबिम्बवत्' इत्येव पाठः । स्वामिनश्चित्तरूपे आदर्शे ( दर्पणे ) स्वात्मना प्रतिबिम्बवत् वर्तन्ते, स्वामिनश्चित्ते सर्वदा येषां स्थितिर्भवतीत्याशयः । [^१]G. अपराधम्; अपरज्यन्ते. [^२]G. प्रियहितम्; प्रियं हितम्. [^३]G. कथ्यमानाः. [^४]G. नापि. [^५]G. व्यसनतानवलोकने. [^६]G. गुणाग्रहणे. [^७]G. आत्मनि. [^८]G. न स्वाधीन. [^९]G. कृपणा इव पङ्गवः; कुणप इव पङ्गवः. [^१०]G. स्वात्मना. [^११]G. चित्ता. [^१२]G. सर्वः. [^१]भृत्यलोकः । देवस्य च स्थाने देवी वर्तते । तदाज्ञापितं कृतम- वधारयतु देवी' इत्युक्त्वा मेघनाद [^२]स्त्वरितकनामानं [^३]कु- मारबालसेवकमाहूय तैः सह व्यसर्जयत् । [^४]अथ सुबहुदिवसापगमे [^५]वार्तां विनो [^६]त्ताम्यन्ती चन्द्रापीडस्यैवागमनायो [^७]पथाचितं कर्तुमवन्तीनामनगरीदेवतानामवन्तीमातॄणामायतनं निर्गता विलासवती 'देवि, दिष्ट्या वर्धसे। प्रसन्नास्तेऽवन्तिमातरः । परागता युवराज [^९]वार्ताहराः' इति सहसैव [^१०]संभ्रमप्रधाविता [^११]त्परिजनादुपश्रुत्यानन्दबाष्प- जललुलितया जलार्द्रेन्दीवरस्रजेव विक्षेपदीर्घया दृष्ट्यार्चयन्तीव चिरं दृष्ट्वा ककुभः, मृगाङ्गनेव परिभ्रष्टबालपोता, [^१२]पूत्कृत्य प्राकृतेवार्ता, 'केनेदममृतं मे वाक्छलादृष्टम् ? कस्यानुकम्पास्मिञ्जने जाता ? केन [^१३]दृष्टा: ? कियद्दूरे [^१४]वर्तन्ते ? किं वा [^१५]तैः कथितं [ टि ]-- नपुंसकम् । अयमेवं [^1]स्थितो भृत्यलोको गोप्यजनः । देवस्य च चन्द्रापीडस्य च स्थाने देवी वर्तते । तत्तस्मादाज्ञापित- [^2]मादिष्टं कृतं निष्पादितं देवी कादम्बर्यवधारयतु जानातु । इत्युक्त्वेत्यभिधाय मेघनादस्त्वरितकनामानं कुमारबालसेवकं चन्द्रापीडभृत्यमाहूयाह्वानं कृत्वा तैर्लेखहारकैः सह व्यसर्जयत्प्रा- हिणोत् । अथेति । तत्प्रेषणानन्तरं सुबहूनामनेकेषां दिवसानामपगमे सति वार्तां प्रवृत्तिं विनोत्ताम्यन्ती खेदं कुर्वन्ती चन्द्रापीडस्यैवागमनायो- प [^3]याचितं वाञ्छितं कर्तुं विधातुमवन्तीनामनगरीदेवतानां विशालापुरीदेवानामवन्तीमातॄणां ब्राह्म्याद्या मातरः सप्त तासां चायतनं गृहं निर्गता निर्याता । इतश्च हे देवि, त्वं दिष्ट्या भाग्येन वर्धसे वृद्धिं प्राप्नोषि। प्रसन्नास्ते तवावन्तिमातरः । युवराजवार्ता- हराश्चन्द्रापीडकिंवदन्तीकथकाः । संदेशहरा इत्यर्थः । परागताः समायाता इति सहसैवैकपद एव संभ्रमेणादरेण प्रधावितात्परि- जनात्सेवकजनादुपश्रुत्याकर्ण्यानन्दबाष्पजलं हर्षाश्रुपानीयं तस्मिंल्लुलितया लुठितया जलक्लिन्नया । नीलसाधर्म्यादुत्प्रेक्षते जलार्द्रेन्दीवरस्रजेव जलनुन्ननीलपद्ममालयेवार्चयन्ती पूजयन्तीव विक्षेपेण दीर्घया दृष्ट्या दृशा चिरं चिरकालं ककुभो दिशो दृष्ट्वावलोक्य । परिभ्रष्टो गतो बालो मूर्खः पोतः शिशुर्यस्याः सा तथा । 'बालोऽर्भके च मूर्खे स्यात्' इत्यमरः । एवंविधा मृगाङ्गनेव हरिणीव पूत्कृत्योच्चै रटित्वा प्राकृतेव पामरेवार्ता पीडिता केन वार्ताकेन वाक्छलाद्वचनोपधेरिदममृतं पीयूषं वृष्टम् । तेन वचन- च्छलादमृतमेव वृष्टमिति भावः । अस्मिंज्जने कस्य पुंसोऽनुकम्पा दया जाता समुत्पन्ना । केन पुंसा दृष्टा अवलोकिताः । क्व वा दृष्टाः कुत्र दृष्टाः । कियद्दूरे दविष्ठे वर्तन्ते । किं वा तैः कथितं प्रोक्तं मे मम वत्सस्य पुत्रस्य कुशलं कल्याणमितीतस्ततः पृच्छन्त्येव प्रश्नं कुर्वन्त्येव तांल्लेखहारकान्दूरत ऐवाद्राक्षीद्विलोकितवती। त्वरितक- समेतांस्तांल्लेखहारकानालोक्य निरीक्ष्य तस्मिन्नेव मातृगृहाङ्गणे स्थिता विलासवती तेषामाह्वानायाहूतायादिदेशाज्ञापितवती । कथं- भूतांल्लेखहारकान् । [^1]F. 'तत्सर्व एवायमेवं स्थितो भृत्यलोकः' इत्येव पाठः । अयं भृत्यलोकः सर्व एवम् (पूर्वोक्तरूपेण ) स्थितः । [^2]F. यदाज्ञापितं तत्तस्मिन्समये एव कृतं जानातु भवती इत्यर्थः । [^3]F. टीकाकारस्याद्भुतं साहसं यत्किञ्चिदप्यज्ञात्वा टीकाकरणे गल्भनम् । 'चन्द्रापीडो मे समागच्छेत्तर्हि एवमुपहारान्दद्याम्' इति प्रार्थना – 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्विदुर्बुधाः ॥' इति जटाधरः । [^4]F. 'अवन्तिनगरीदेवतानाम्' इत्येवोचितम् । [^१]G. भृत्यजनः. [^२]G. त्वरित:. [^३]G. कुमारसेवकम्. [^४]G. अथ सा बहु. [^५]G. वार्तया. [^६]G. उत्ताम्यती. [^७]G. उपयाचितकम्. [^८]G. अवन्तीनगरदेवतानामवन्तीमातॄणाम्. [^९]G. वार्ता. [^१०]G. ससंभ्रमप्रतिधावितात्. [^११]G. परिचारिकाजनात्. [^१२]G. फूत्कृत्य. [^१३]G. दुष्ट:. [^१४]G. वर्तते. [^१५]G. तेन; अनेन. ८२ का० कुशलं मे वत्सस्य ?' इति पृच्छन्त्येवाद्राक्षीत् । इतस्ततो [^१]यथा- दर्शनसंबन्धश: प्रधावितेन नरपतिप्रतिबद्धेनाप्रतिबद्धेन चोज्जयिनी- वासिना [^२]जनेन "आगतः युवराज:, कियद्दूरे भवद्भिः परि- त्यक्तः, दिवसेष्वेतेषु क्व वर्तते, के वा भवद्भिर्या [^३]त्वा दृष्टः, क्व वातिकष्टस्तेनातिवाहितो वाहनमात्रसाधनेन धाराधरागमः । तुरग- पृष्ठगतस्य मन्ये वहत एवास्यापक्रान्तः । त्वरितक एतद्वेत्ति, किम- नेन विदितेनापि ? एतत्कथयतु, यदर्थमयं क्लेशः कृतो युवराजेन [^४]स दृष्टो वैशम्पायनः प्रत्यानीतो वा ? [^५]मिलितोऽस्य पत्र- लेखासहितो मेघनादः ? [^६]दत्तः कथं कश्चिदपि संदेशो देव- वर्धनेन ? मे मित्रमेवासावद्यारभ्य । रामसिकतयैव [^७]विनाशं बलाद्गतस्य बलधर्मणो वत्सस्य बिभेम्येव वार्ता [^८]पृच्छन्नपि । जीवत्यसावस्य वाजी [^९]यो युवराजेन प्रसादीकृतः । [^१०]प्रसी- दत, सादिनां प्रथमस्य [^११]पृथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रे [ टि ]-- इत्येतानि चान्यानि च प्रतिपदं प्रतिचरणन्यासं पृच्छ्य- मानानपि प्रश्नविषयीक्रियमाणानप्यदत्तवचसोऽकथितप्रतिवचसः। एतानि कानीत्यपेक्षायामाह - यथादर्शनेति । यथा [^1]दर्शनं यथा- वलोकनं तस्य संबन्धशः संबन्धेभ्यः प्रधावितेनातित्वरितेन नरपति- प्रतिबद्धेन नृपसक्तेनाप्रतिबद्धेन राजसपर्यावर्जितेन चोज्जयिनी- निवासिना विशालावास्तव्येन जनेन, आगतः समायातो युवराज- श्चन्द्रापीडो भवद्भिर्युष्माभिः कियद्दूरे परित्यक्तो मुक्तः। एतेषु दिवसेषु क्व वर्तते । भवद्भिर्युष्माभिर्लेखहारकैः क्व वा कुत्र यात्वा गत्वा दृष्टोऽवलोकितः । तेन युवराजेन वाहनमात्रसाधनेन केवला- श्वसैन्येनाति [^2]कष्टोऽतिदुःखदो धाराधरागमो जलदसमयः क्व वातिवाहितः कुत्रातिक्रान्तः । अहं च मन्येऽस्य युवराजस्य तुरगपृष्ठगतस्याश्वारूढस्य वहत एव व्रजत एवापक्रान्तो गतो वर्षासमयः । त्वरितक एतत्पूर्वोक्तं वेत्ति जानाति । अनेन विदितेनापि ज्ञातेनापि किम् । एतन्मदुक्तं कथयतु ब्रूहि यदर्थं यद्धेतोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽवलो- कितः प्रत्यानीतो वा पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखा सहितो मेघनादो मिलितः संघटितः । देववर्धनेन तन्नाम्ना पुंसा कश्चिदपि संदेशो वाचिकं कथं दत्तो वितीर्ण: ? [^3]अद्यारभ्याद्य- प्रभृत्यसौ मे मम मित्रं वर्तते । राभसिकतयैवानालोचितवृत्त्यैव बलाद्धठाद्विनाशं बलात्पाथेयाद्गतस्य प्राप्तस्य बालधर्मणो वत्सस्य पुत्रस्य वार्ता किंवदन्तीं पृच्छन्नपि प्रश्नयन्नप्यहं बिभेम्येव भयं प्राप्नोम्येव । असौ [^4]जीवति प्राणित्यस्य युवराजेन चन्द्रापीडेन यो वाजी तुरंगमः प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत । सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य [^1]F. 'यथादर्शनं संघशः प्रधावितेन' इत्येव पाठः । टीकाकार- महाभागेन विचित्ररूपं कृत्वा स व्याख्यातः । यथादर्शनम् ( दर्शन- कालोत्तरमेव ) पृथक् पृथक् समूहीभूय प्रधावितेन उज्जयिनीवा- सिना जनेन 'इति... पृच्छ्यमानान्' इति तदर्थः । [^2]F. 'क्व वातिकष्टैस्तेनातिवाहितः' इत्येव पाठः । न किल जलदकालः कष्टः । अत एव पाठस्वारस्यं विचार्यम् । [^3]F. भ्रष्टीकृतोऽत्रापि पाठः । 'मे मित्रमेव असौ ( देववर्धनः ) । अद्यारभ्य राभसिकतयैवात्मना बलाद्गतस्य' इत्येव पाठः । रामसिकतया ( वेगशालितया, अनालोचितप्रवृत्ततया वा ) हठादेव स्वतः ( स्वेच्छया ) गतस्य, इति तदर्थः । [^4]F. अत्रापि पाठनिर्माणे हस्तलाघवम् । 'जीवत्यसौ, अस्य वाऽऽजीवो युवराजेन प्रसादीकृतः ? ' असौ ( बलधर्मा ) जीवति ? अस्मै युवराजेन आजीव: (जीवनोपायः, चेतनम् ) किमु प्रसादी- कृतः, इत्येव पाठः । परीक्ष्यतां तारतम्यं सहृदयैः । [^१]G. यथादर्शनं सर्वश:. [^२]G. अनुगतः; आयातः. [^३]G. गत्वा. [^४]G. दृष्टः सः. [^५]G. मिलितो वास्य; मिलितो वा तस्य. [^६]G. न दत्त:. [^७]G. आत्मना. [^८]G. प्रष्टुमपि. [^९]G. वो. [^१०]G. प्रसीदतास्य. [^११]G. पृथुवर्त्मनः. क्षामहे महानश्ववारैरनुभूतः क्लेश इति। कुशलं महाश्वपतेरश्वसेन- स्य ? श्वशुरोऽसावस्माकम् । विस्मयः कृतोऽस्मत्पि [^१]त्रापि, यच्चिह्नकमपि भवतां हस्ते न किंचित्प्रहितम् । आहितभर एवासौ युवराजभवने दृष्टो भवद्भिर्भ्राता मे भरतसेनः ? सपरिजनस्य सेना- पतेर्भद्रं भद्रसेनस्य ? सेवाव्यसनी सूनुर्मे [^२]कुमारवर्मा । [^३]त- त्र चलगति [^४]बलाधिकृतस्य का वार्तावन्तिसेनस्य ? रोषितस्ते- नासीन्नासीरार्थं युवराजः । राजकुले कः प्रसादवित्तो [^५]वर्धनो मान्यते वा ? केन वा किं लब्धमेतावद्भिर्दिवसैः ? [^६]राजनिका बहवः खल्वभिनवसेवका जाताः । यातु तावत्सर्वमेवान्यत् । येन दृष्टः स कथयतु सर्वसेनसूनोर्वीरसेनस्य वार्ताम् । पितर्युपरते प्रथ- ममेव स प्रविष्टो यात्राम् । मात्राऽस्य 'दुःखान्तरितप्रत्यग्रपतिमरण- शोकादशनक्रियैव परित्यक्ता । न विद्म [^७]एवं कथं सा जीवति' इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानान [^८]प्यदत्तवचसो नासाग्रस्थितमन्युगर्भदृष्टीनाविष्टानिवाध्वश्रमनिःसहाङ्गानपि पदा- कृष्टिसंभावितोद्यमाऽऽयासि [ टि ]-- मातृभ्रातुर्वार्तां प्रवृत्तिं कथयत उत्प्रेक्षामाह आशङ्क्या- महेऽश्ववारैः सादिभिर्महान्भूयान्क्लेशोऽनुभूत इति । महाश्वपते- र्महाश्वसाधनाधिपतेरश्वसेनस्य कुशलं भद्रं वर्तते । अस्माकमसौ श्वशुरो भवति । अस्मत्पित्राप्यस्मदीयजनकेनापि विस्मयः कृतः, भवतां हस्ते यत्किचिच्चिह्नकमप्यभिज्ञानकमपि न प्रहितं न प्रेषितम् । आहितः स्थापितो भरो भारो यस्मिन्नेवंविधोऽसौ युवराजभवने भवद्भिर्भ्राता मे भरतसेनो दृष्टोऽवलोकितः । सपरिजनस्य सपरि- च्छदस्य सेनापतेर्भद्रसेनस्य भद्रं वर्तते । सेवाव्यसनी कुमारवर्मा मे मम सूनुः पुत्रः । तत्र चलगति[^1]बलाधिकृतस्यावन्तिसेनस्य का वार्ता किंवदन्ती । तेनावन्तिसेनेन नासीरार्थमग्रयानार्थं युवराजो रोषितः कोपित आसीत् । 'नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम्' इति हैमः । राजकुले नृपकुले को वा मान्यते पूज्यते, प्रसादे प्रसन्न- तायां वित्तं यस्यैवंभूतो वर्धमानो वृद्धिं प्राप्यमाणः । एतावद्भिर्दिवसै- र्दिनैः केन वा किं लब्धं किं प्राप्तम् । अनुजीविष्विति शेषः । राज- [^2]निक राज्ञः संबन्धिनः । खलु निश्चयेन बहवोऽनेकेऽभिनवा नूतनाः सेवकाः सपर्याकारिणो जाताः संपन्नाः । यातु तिष्ठतु ताव- त्सर्वमेवान्यदितरत् । अव्यक्ते नपुंसकम् । एतेन नवीनसपर्याका- रिवार्तायां सर्वथानादरः सूचितः । येन दृष्टो वीक्षितः स कथयतु निवेदयतु सर्वसेनसूनोर्वीरसेनस्य वार्ता कुशलम् । पितरि जनक उपरते मृते सति प्रथममेवादावेव स यात्रां व्रज्यां प्रविष्टो गतः। अस्य वीरसेनस्य मात्रा जनन्या दुःखेन सूनुसक्तेनान्तरितो व्यवहितो यः प्रत्यग्रो नूतनः पतिमरणशोको भर्तृमृत्युशुक्त स्मादशनक्रियैव भोजनविधिरेव परित्यक्तोज्झिता । न विद्मो न जानीम एवममुना प्रकारेण सा कथं जीवति कथं प्राणिति । आदिदेशेत्यन्वयस्तु पूर्वमेवोक्तः । इतो लेखहारकान्विशेषयन्नाह -- नासेति । नासाग्रे नासिकाप्रान्ते संस्थितो मन्युः दैन्यं गर्भे यस्या एवंविधा [^3]दृष्टी- दृशो येषां ते तथा तान् आविष्टानिव भूतग्रस्तानिवाध्वश्रमेण निःस- हान्यसक्तान्यङ्गानि येषामेवंविधानपि पदानामाकृष्टिराकर्षस्तेन संभावितोऽनुमितो य उद्यम [^1]F. अत्रापि पाठभ्रंशः 'सेवाव्यसनी सूनुर्मे कुमार- ( कपाल ) वर्मा, तत्र अवलगति बलाधिकृत: ? ( मम सूनुविषये सेनाधिकारी सज्जते, तदनुकूलोस्ति ? ), तस्य का वार्ताऽवन्तिसेनस्य ?" इति पाठः । [^2]F. धन्यं व्याकरणं टीकाकारपुंगवस्य । 'आजीवनिकाः( ग्रासा- च्छादनमात्रभागिनः ) बहवः खल्वभिनवसेवका जाता:' ग्रासाच्छाद- नमात्रमादाय बहवः पामरा नवीनाः सेवका जाता इति तेषामा- क्रोशः। [^3]F. दृष्टय इत्युचितम् । [^१]G. पित्रा स्वचिह्नकम्. [^२]G. कलापवर्मा; कपालवर्मा. [^३]G. तत्र लगति; तत्र चलति; तत्रावलगति. [^४]G. बलाधिकृतस्तस्य. [^५]G. वर्तमाने. [^६]G. आजीवनिका. [^७]G. एवं. [^८]G. अदत्तप्रतिवचसः. तथा गत्या गच्छतश्चातिमलिनपटच्चराच्छादितानसंस्कारमलिनका- या [^१]ननेकोद्बद्धाध्वधूलिपरुषमूर्धजान्, ध्वजानिवाध्वक्लेशस्य, [^२]आश्रयानिव श्रमस्य, पदन्यासानिव दौर्मनस्यस्य, आवासानिव प्रवासस्य, संदर्भानिव सर्वदुःखानाम्, [^३]दूरत एव त्वरितकसमेतांस्ताँल्लेखहारकान् । आलोक्य च तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेषामाह्वानायादिदेश । अनन्तरं चातर्कितापतितदर्शनद्विगुणितदुःखावेगान्मुषितानिव, उन्मुक्तानिवेन्द्रियैः, दारुमयानिव शून्यशरीरान्, निर्जीवानिवोपस- र्पतः पुर [^४]स्तात्पतन्तीव बाष्पान्धा साध्वसस्खलित [^५]चरण- कमला कतिचिद्गत्वा पदानि, [^६]गद्गदतरमुच्चैरकृतप्रणामानेवा- वादीत् - 'भद्राः कथयताशु वत्सस्य मे [^७]वार्तामात्रम् । इदं त्वन्यथैव [^८]किमपि कथयति मे [^९]हृदयम्, अप्रत्ययमेवाश्रयते । वत्सो दृष्टो वा न भवद्भिः ?' इत्येवं पृष्टास्तु ते सहसागतबाष्प- वेगमवनिनिवेशितोत्तमाङ्गाः प्रणामापदेशेनो [^१०]त्सृज्य कृच्छ्रा- दिवाभिमुखमुन्नमितवदना [^११]व्यज्ञापयन्– 'देवि, दृष्टोऽस्माभि- रच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको मिवेदयिष्यति ।' इत्यभिवदत एव तानुद्बाष्पमुखी प्रत्युवाच [ टि ]-- उद्योगस्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रज- तोऽतिमलिनं यत्पटच्चरं जीर्ण [^1]वस्त्रम् । 'पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरेणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् । लग्नधूलिसाम्यादुत्प्रेक्षते - अध्वक्लेशस्य मार्ग- खेदस्य ध्वजानिव चिह्नानीव । 'ध्वजश्चिह्ने पताकायां ध्वजः शौण्डिकशेफसोः' इति विश्वः । श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्या- प्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य परदेशगमनस्यावासानिवा- लयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव । अनन्तरं चेति । तदाह्वानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखावेगो येषां ते तथा तान् । मुषितानिव चौरैर्लुण्ठितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्ता- निव, दारुमयानिव काष्ठनिर्मितानिव शून्यशरीरान्, निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव संस्रवन्तीव बाष्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्य- न्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलनां प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गत्वा गद्गदतरं यथा स्यात्तथा उच्चै- र्बाढस्वरेणाकृतप्रणामानेवाविहितनमस्कारानेव तानवादीत् । भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत । इदं तु मे मम हृदयं चेतोऽन्यथैव किमपि कथयत्यप्रत्ययमेवाविश्वासमेवाश्रयते । मे मम वत्सो दृष्टोऽवलोकितो भवद्भिर्युष्माभिर्न वेति । इत्येवं पृष्टा- स्तु ते लेखहारकाः सहसैव सद्य एवागतो बाष्पवेगो यथा स्यात्तथा- वनौ निवेशितं स्थापितमुत्तमाङ्गं शिरो यैस्ते तथा प्रणामापदेशेन नमस्कृतिमिषेणो [^2]त्सृज्य कृच्छ्रादिव कष्टादिवाभिमुखं संमुखमुन्नमितमुच्चैः कृतं वदनं यैस्ते तथा व्यज्ञापयन्विज्ञप्तिं चक्रुः । किं कथयामासुरित्याकाङ्क्षायामाह -- देवीति । हे देवि, अच्छोदसरस्तीरेऽस्माभिर्युवराजो दृष्टः । शेषमवशिष्टमेष त्वरितको युवराज- भृत्यो निवेदयिष्यति कथयिष्यति इत्यभिवदत एवेति ब्रुवत एव तानुदूर्ध्वं बाष्पो नेत्राम्बु यस्मिन्नेवंभूतं मुखमाननं यस्याः सा विलास- वती प्रत्युवाच प्रत्यब्रवीत् । [^1]F. तेन आच्छादितान् संवीतानित्यर्थो बोध्यः । [^2]F. किंम् उत्सृज्य ? अन्वये चस्खालवराकः । सहसाऽऽगतं बाष्पवेगं प्रणामापदेशेनोत्सृज्य इत्यन्वयः । [^१]G. अनेक धैवोद्बद्ध:. [^२]G. आश्रमानिव; श्रमस्यावासानिव. [^३]G. अदूरतः. [^४]G. पतन्ती. [^५]G. चरणानि. [^६]G. सगद्गदस्वरम्. [^७]G. वार्ताम्. [^८]G. कथमपि करोति मे हृदयम्. [^९]G. भियते मम वत्सो दृष्टो वा भवद्भिः. [^१०]G. उपसृत्य उपसृज्य. [^११]G. व्यज्ञापयन्. 'कि [^१]मपरमयं तपस्वी निवेदयिष्यति ? दूरतः प्रभृ [^२]त्यप- सृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेखमालिकाशून्यैः 'शिरोभिः आविष- ण्णदीनैराननैः प्रयत्नसंरक्षिताश्रुमोक्ष [^३]दुःखिताभ्यां लोचनाभ्याम्, [^४]मन्मुखसमक्षमधारणेन च दृष्टेर्यदावेदितव्यं तद्भवद्भिरेवावेदि- तम् । हा वत्स, जगदेकचन्द्र, चन्द्रापीड, चन्द्रानन, चन्द्रशीतलप्रकृ- ते, चन्द्राभिरामगुण, लोचनानन्दभूत, किंभूतं ते येन [^५]नाग- तोऽसि ? तात चन्द्रापीड ? पीडिता ब्रवीमि न कोपादुपालभमानान युक्तमेतत्तव 'अम्ब, न परिलम्बं मनागपि करोमि' इति तथा मे पुरः प्रतिज्ञायान्यत्र क्वाप्यवस्थातुम् । वत्स गच्छत एव ते मयाऽस्य हतहृदयस्य शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य पुनर्मुखावलोकनमिति । बलागतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्दभा-ग्याया ममैवैतान्यपुण्यानां विलसितानि भवन्त्य [^६]पुण्यवत्योऽपि लोके न पुनर्मया सदृशी पापकारिणी, यस्यास्त्वमेक एवमकाण्ड [^७]एवाच्छिद्य क्वापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा। वत्स, [^८]सुदूरस्यापि पादयोः पतामि ते । निवर्तस्यैकवारम्। अम्बेत्या- लपतस्ते वद [ टि ]-- किमपरमन्यदयं तपस्वी वराकः । शोच्य इति यावत् । निवेदयिष्यति । दूरतः प्रभृति दूरादारभ्यापसृतो दूरीभूतः प्रहर्षो यस्मादेवंभूतेनोपसर्पणेन समीपागमनेन प्रतिलेखानां ततः प्रहित- पत्राणां मालिकाशून्यैः स्रग्रहितैः शिरोभिरुत्तमाङ्गैरासमन्ता द्विषण्णानि विलक्षाणि च [^1]दीनानि दुःखितानि च विषण्णानि दीनान्येवंभूतैराननैर्मुखै:, प्रयत्नेनोद्यमेन संरक्षितमश्रुमोक्षणं तेन दुःखिताभ्यां लोचनाभ्यां नयनाभ्यां नेत्राभ्यां, दृष्टेर्दृशो मन्मुखसमक्षं यदधारणमस्थापनं तेन च यदावेदितव्यं निवेदनार्हं तत्सर्वं भवद्भि- रावेदितं कथितम् । हा इति खेदे । हे वत्स हे पुत्र, हे जगति लोक एकोऽद्वितीयश्चन्द्र, हे चन्द्रापीड । चन्द्रवदाननं मुखं यस्य तस्य संबोधनम् । चन्द्रवच्छीतला शिशिरा प्रकृतिः स्वभावो यस्य तस्य संबोधनम् । चन्द्रवदभिरामा उज्ज्वला गुणा यस्य तस्य संबोधनम् । लोचनानां नेत्राणामानन्दभूतः प्रमोदभूतस्तस्य संबोधनम् । ते तव किं भूतं किं [^2]जातं येन हे तात हे पुत्र, चन्दापीड, त्वं नाग- तोऽसि नायातोऽसि । 'तातः पितरि पुत्रे च' इत्यनेकार्थः । पीडि- ताऽहं ब्रवीमि । न कोपात्क्रोधादुपालभमानोपालम्भं ददाना । किं कथितवतीत्याह – न युक्तमिति । हे अम्ब हे मातः, न परिलम्बं विलम्बं मनागपि करोमीति तथा तेन प्रकारेण पुरोऽग्रे प्रतिज्ञाय प्रतिज्ञां कृत्वान्यत्रान्यस्मिन्स्थले क्वाप्येवमवस्थातुं न युक्तमेतत् । हे वत्स हे पुत्र, ते तव गच्छत एव व्रजत एव मयास्य हृतहृदयस्य हृतचेतसः शङ्कयैवारेकयैवेति ज्ञातमवगतम् । इतिज्ञाप्यमाह - दुष्करमिति । दुष्करं कठिनं मे वत्सस्य पुनर्मुखावलोकनमिति वक्रनिरीक्षणमपि । बलाद्धठात्त्वं गतोऽसि । किं करोम्यहम् । अत्र वत्सस्य पुत्रस्य को वा दोषोऽपराधः । मन्दभाग्यायाः स्वल्पदैवाया ममैवापुण्यानामश्रेयसामेतानि विलसितानि विचेष्टितानि । लोकेऽपु- ण्यवत्योऽपि [^3]भवन्ति नार्यः । न पुनर्मया सदृशी पापकारिणी । तत्रार्थे हेतुमाह - यस्या इति । यस्या विलासवत्यास्त्वमेक एवम- काण्ड एवाप्रस्ताव एवाच्छिद्योद्दाल्य काप्यनिर्वचनीयस्थले नी- तोऽसि प्रापितोऽसि । दग्धवेधसा ज्वलितविधात्राहं विप्रलब्धास्मि वञ्चितास्मि । 'विप्रलब्धस्तु वञ्चितः' इति हैमः । हे वत्स, सुदूरस्या- प्यतिदविष्ठस्यापि ते तव पादयोश्चरणयोः पतामि पतनं करोमि नमस्करोमि । एकवारं निवर्तस्व पश्चादागच्छ । अम्बेत्यालपतो [^1]F. 'आविषण्णदूनैः (दुःखितैः ), ' इति पाठः । [^2]F. ' किंभूतं ते येन नागतोसि ।' इति पृथग्वाक्यम् । 'तात चन्द्रापीड पीडिता ब्रवीमि न कोपाद्०' इत्यादि पृथग्वाक्यम् । [^3]F. 'अपुण्यवत्योऽपि भवन्तु, न पुनर्मया सदृशी' इति पाठः । [^१]G. परतरम्. [^२]G. अकृत; अनुगत. [^३]G. दुःखिताभ्याम्. [^४]G. मन्मुखसमवधारणेन. [^५]G. आयासि; आयातोऽसि. [^६]G. अपुण्यवन्त्यः. [^७]G. अवच्छिद्य. [6८]G. दूरं गतस्यापि. नमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात, दुर्लभक, न जानाम्येव किमाजन्मनः प्रभृति शैशवं ते स्मृत्वात्मानमनुशोचामि उत यौवना- [^१]भोगकारिणीं [^२]वर्तमानां रूपशोभाम्, आहोस्विदवष्टम्भ- धीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनीं प्रभुताम्' इति । एवं विलपन्तीं मामव- लोक्य हृदयस्थितो मैवं कृथाश्चेतसि पुत्र ! यथा विनापि मया जीव- त्येव विलासवती । जात, त्वया विना जीवन्त्यापि [^३]पितुरेव ते कथं मया वदनं दर्शितम् । न वेद्मि [^४]किमपि । प्रियतया ते, किमाकृतेः प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावादेव इत्यद्यापि न श्रद्दधाति मे हृदयमनिष्टं ते । येन न सहस्रधा स्फुटति । स्फुटी- कर्तुं च [^५]वार्तां भीता ते त्वरितकोपनीतामेव नेच्छामि। वरमना- कर्णैवाश्रवणीयमुपरतास्मीति । तात, किं [^६]ब्रवीषि, [^७]यथा कि [^८]ममुना सुतस्नेहानुचितेन लोकलज्जाकरेण वैक्लव्येनेति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न रोदिमि ।' इत्यभिधानै- वासन्नसखीजनावलम्बितशरीरा मोहमगमत् । अथामेकसहस्रसंख्येन प्रधावता विलासवतीपरिजनेनावेदिते तस्मिन्वृत्तान्ते, मन्दरास्फा [ टि ]-- जल्पतस्ते तव वदनं मुखमास्यमवलोकयितुं वीक्षितु मुत्कण्ठितमुत्सुकं मे मम हृदयं चेतः । जात हे पुत्र, अपत्यादिषु दुर्लभो दुःप्रापस्तस्य संबोधनं हे दुर्लभक, अहं न जानाम्येव न वेद्म्येव । किमाजन्मनः प्रभृत्युत्पत्तेरारभ्य प्रारभ्य ते तव शैशवं बाल्यं स्मृत्वा स्मरणं कृत्वा [^1]त्मानं स्वमनुशोचामि शोकविषयी- करोमि पश्चात्तापं करोमि । उतेति पक्षान्तरे । यौवनस्य तारुण्यस्याभोगो विस्तारस्तं करोतीत्येवंशीला सा तथा तां, वर्तमानां संप्रति समय- वर्तिनीं रूपशोभां सौन्दर्यश्रियं स्मृत्वानुशोचामि । तथा । आहोस्वि दिति वितर्के । [^2]अवष्टम्भः प्रारम्भस्तेन धीरां स्थिरा- मागामिनीमेष्यत्कालभाविनीं प्रभुतामैश्वर्यमुत्प्रेक्ष्य विमृश्य विमृश्या- नुशोचामि । इत्येवं विलपन्तीं विलापं कुर्वन्तीं हृदयस्थितश्चित्तान्त- र्गतो मां विलासवतीमवलोक्य निरीक्ष्य मामैवं चेतसि कृथा व्यध- त्थाः। किं तदित्याह -- यथेति । हे पुत्र, यथा मया विनापि चन्द्रा- पीडं विनापि विलासवती जीवत्येव । तर्हि मृता कथं नेत्याशङ्काया- माह - जातेति । जात हे पुत्र हे वत्स, त्वया विना भवव्यतिरेकेण जीवन्त्यापि जीवनं धारयन्त्यापि पितुरेव ते तव कथं मया वदनं मुखं दर्शितं दृग्विषयीकारितम् । अत्रार्थे हेतुमाह - न वेद्मीति । अहमत्र कारणं किमपि न वेद्मि न जाने संशयारूढत्वेन सम्यक्तया नाव- बुध्ये इत्यर्थः । एतदेव स्पष्टयन्नाह - प्रियतयेति । ते तव प्रियतया वल्लभतया किमाकृतेराकारस्य प्रत्ययाद्विश्वासादुत स्त्रीजनस्य सहभुवः सहोत्पन्नस्य मूढभावादेवाज्ञानभावादेवेत्यद्यापि सांप्रतमपि ते तवानिष्टमशुभं मे मम हृदयं न श्रद्दधाति न श्रद्धत्ते । येन कृत्वा सहस्रधा सहस्रप्रकारेण न स्फुटति न स्फोटं प्राप्नोति । अहं भीता सती ते तव त्वरितकेनोपनीतां प्रापितामेव वार्तां प्रवृत्तिं स्फुटीकर्तुं प्रकटीकर्तुं नेच्छामि नाभिलषामि । अश्रवणीयं श्रवणायोग्यमना- कर्ण्यैववमिति उपरतास्मि । हे तात, किं त्वमिति ब्रवीषि वदसि । यथा किं सुतस्नेहस्यानुचितेनायोग्येनामुना वैक्लव्येन वैक्लव्यं विह्वलत्वं तेनेति । एषा विलासवती हे वत्स, ते तन वचनात्तूष्णीं मौनं स्थितास्मि । न रोदिमि । इत्यभिदधानैवेति ब्रुवाणैवासन्नः समीप-- वर्ती यः सखीजन आलिवर्गस्तेनावलम्बितमवधृतं शरीरं यस्याः सैवंविधा मोहं मूर्च्छामगमदन्वगात् । अथेति । मूर्च्छागमनानन्तरमनेकसहस्राणि संख्या यस्यैवंभूतेन प्रधावतेतस्ततस्त्वरितगत्या गच्छता विला [^1]F. 'आत्मनाऽनुशोचामि' इति पाठः । [^2]F. अवष्टम्भो धैर्यावलम्बो लोकावलम्बो वा तेन स्थिराम्, इत्यर्थः । [^१]G. हरिणीम्. [^२]G. वर्तमानरूप, वर्तमानस्वरूप. [^३]G. पुनरेवम्. [^४]G. किमिति. [^५]G. वार्ता ते त्वरितकाद्भीतेव. [^६]G. ब्रवीमि. [^७]G. तथा. [^८]G. अनेन स्नेहानुचितेन. लनो [^१]द्वेल इव महाम्भोधिरुद्भ्रान्तचेताः ससंभ्रममुत्थायार्य शुकनासद्वितीयो यामावस्थितां प्रजविनीं करेणुकामारुह्य रयादा- पिबन्निव पुरो राजमार्गं किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावता जनपदौघे [^२]नाकर्षन्निवो [^३]दवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतोरणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य [^४]चावन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्बाष्प- वदनेन, मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्द्रेश्च पाणिपल्लवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापाद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव विलास- वतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषाप- नयनाये [^५]व सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाह्वोश्च स्पृशञ्छनैः शनैर्बाष्पगद्गद- मवादीत् - 'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रा [ टि ]-- सवती परिजनेन तस्मिन्वृत्तान्त उदन्त आवेदिते ज्ञापिते सति, मन्दरस्य मेरोरास्फालनेमोदूर्ध्वं वेला यस्य सं उद्वेलो योऽब्धिः समुद्रस्तद्वदिव । क्वचित् 'आस्फालनेनोच्छलित इव' इति पाठः । उद्घान्तं चेतो यस्य सं तथा ससंभ्रमं सभयमुत्थायोत्थानं कृत्वा आर्यशुकनासो द्वितीयो यस्य स तथा । राज्ञो विशेषणम् । यामावस्थितां चतुष्किकास्थितां प्रजविनीं प्रकृष्टवेगवतीं करेणुकां हस्तिनीमारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे राजमार्गं श्रीपथमापिबन्नि- वापानं कुर्वन्निव । किं किमेतदित्युत्क्रान्त [^1]उत्थितो य आर्त- नादकलकलः शब्दः कोलाहलस्तेन सर्वतोऽभितः प्रधावता जन- पदौघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेज्जनपदो देशे जने जनपदेऽपि च ' इति विश्वः । पृष्ठतः सगोपुराट्टालप्राकारभवन- तोरणाम् । तत्र गोपुरं प्रतोली, अट्टालकं प्राकाराग्रस्थितरणगृहम्, प्राकारो वरणः, भवनानि गृहाः, तोरणानि प्रतीतानि, एतैः सह वर्तते या सा तामुज्जयिनीं विशालामुदवासयन्निवो [^2]द्वशीकुर्वन्निवैवं- विधो नरपतिस्तारापीडो निर्जगाम निर्ययौ । नगर्या इति शेषः । अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवतीं राजापश्यद्ददर्श । अर्धोन्मीलितं लोचनयुगं नेत्रयुग्मं नयनद्वन्द्वं यया सा ताम् । अर्धोन्मीलनसाम्यादुत्प्रेक्षते - उष्णकालकमलिनीमिव ग्रीष्मसमयपद्मिनीमिव । पुनः किं क्रियमाणाम् । कथंकथमपि महता कटेन चेतनां चैतन्यं सजीवत्वमापाद्यमानामुत्पाद्यमानाम् । केन । परिजनेन परिच्छदेन परिवारेण । परिजनं विशिनष्टि - विष- ण्णेति । विषण्णानि विलक्षाण्युद्वाष्पाण्युदश्रूणि मुखान्यास्यानि यस्य स तेन । किं कुर्वता। मलयजं मलयभवं चन्दनं तस्य जलैः पानीयैश्च सिञ्चता सेकं कुर्वता । पुनः किं कुर्वता । कदल्यो रम्भास्तासां दलैः पर्णैः पत्रैर्वीजयता वातं कुर्वता । पुनः किं विदधता । जलार्द्रैः पानी- योन्नैः पाणिपल्लवैः करकिसलयैश्च संवाहनमङ्गमर्दनं कुर्वता। दृष्ट्वा च विलोक्य च सहसा सद्यः प्रवृत्तेन प्रादुर्भूतेन प्रकटीभूतेन नेत्राम्भ- सा नयनाम्भसा नेत्राश्रुणा मूर्च्छाया अवशेष उर्वरितांशस्तस्यापनय-नायेव दूरीकरणायेव सिञ्चन्पार्श्वे समीपे निकटेऽन्तिके समुपविश्या वस्थानं कृत्वा स्पर्श एवामृतं पीयूषं वर्षतीत्येवंशीलेन करेण हस्तेन पाणिना ललाटेऽलिके भालस्थले, चक्षुषि नेत्रे, कपोलयोर्गल्लात्पर- प्रदेशयोः उरसि हृदये वक्षसि बाह्वोश्च भुजयोश्च शनैः शनैः स्पृशन्स्पर्शं कुर्वन्बाष्पगद्गदं यथा स्यात्तथावादीदवोचदब्रवीत् – हे [^]F.1 वस्तुतस्तु – 'उन्मुक्तार्तनादकलकलेन' इति पाठः । उन्मुक्तः प्रकटितः आर्तनादरूपः कलकलो येन तादृशेन । [^2]F. कोऽयमुद्वशीकारः ? धिक् । जनपदौघेन सगोपुरेत्यादि- विशेषणाम् 'उज्जयिनीम् आकर्षन्निव आवर्जयन्निव उदासयन्निव विपर्यासयन्निव नरपतिर्निर्जगाम, ' इति पाठोऽन्वयश्च । तत्र आव- र्जयन्निव सहनयन्निव, उद्वासयन्निव वसतिशून्यां कारयन्निव, विपर्या- सयन्निव विपर्यस्तां कुर्वन्निवेत्यर्थः । [^१]G. उद्वेलित:. [^२]G. आवर्जयन्निव. [^३]G. उदास्यन्विपर्यासयन्निव. [^४]G. अवन्ति. [^५]G. एव. पीडस्य ततो न [^१]जीव्यन्त एव । किमर्थमयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना वैक्लव्योपगमेन तुच्छतां नीयते ।इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । [^२]नाधिकस्य भाजनं सुखस्य वयम् । [^३]अनुपात्तं हि [^४]हृदयताडन- मपि कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधिर्नामापरः कोऽप्यत्रा- स्ते । यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदप्यायत्तः । एवं च पराधीन [^५]वृत्तौ सर्वस्मिन्न किं [^६]वास्माभिर्लब्धम् । वत्सस्या- तिदुर्लभो जन्मोत्सवः संभावितः । अङ्कगतस्य मुखमवलोकितम् । उत्तानशयस्योच्चुम्ब्य चरणावुत्तमाङ्गे कृतौ । जानुसंचारिणो रेणु- धूसर [^७]शरीरस्याङ्के [^८]लुलतः स्पर्शसुखमनुभूतम् । अव्यक्त [^९]मनोहारीणि प्रथमजल्पितानि श्रोत्रे कृतानि । विचेष्टमानस्य बालचाटवो दृष्टाः । गृहीतविद्यस्य गुणवत्तयानन्दितं हृदयम् । उपा- रूढयौवनस्यामानुषी रूपशोभा शक्तिश्च प्रत्यक्षीकृता । अभिषि-क्तस्य यौवराज्ये शिरः समाघ्रातम् । दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एता [ टि ]-- देवि, यदि सत्यमेवावितथमेव किमपि वत्सस्य चन्द्रापीड- स्यान्यादृशं वैरूप्यं ततो न जीव्यन्त एव [^1]प्राणा न म्रियन्त एव । तर्हि किमर्थं निःप्रयोजनमयमात्मा जीवो वत्सस्य पुत्रस्य सूनोः कृते कार्ये सकललोकसाधारणेन प्राकृतजनानुचीर्णेन पामरजनव्याप्तेनामुनानेन प्रत्यक्षोपलभ्यमानेन वैक्लव्योपगमेन विह्वलतोपगमेन विकलभावोपनतेन तुच्छतां स्वल्पतां मीयते प्राप्यते नीचजनाचीर्ण मार्गाश्रयणादिति भावः । इयन्त्येतावन्ति शुभानि कर्माण्युपात्तानि गृहीतान्यर्जितानि । अपरं द्वितीयमन्यत्किं क्रियते अस्माभिः, नाधि- कस्य सुखस्य सौभाग्यस्य वयं भाजनमास्पदं पात्रम् । हृदयताडन- मपि कुर्वद्भिरात्मेच्छया । हि यस्मात्कारणादनुपात्तमनागृहीतमनु- पार्जितं न लभ्यत एव न प्राप्यत एव । नामेति कोमलामन्त्रणे । नाम निश्चयेन । विधिर्विधाता ब्रह्मा अपरो द्वितीयः कोऽप्यत्रास्ते । यत्तस्मै विधये प्रजापतये रोचते रुचिविषयीभवति तत्करोति विदधाति निष्पादयति । नासौ विधिर्ब्रह्मा कस्यचिदप्यायत्तः पराधीनः किन्तु स्वायत्त एव । एवं च सर्वस्मिञ्जने सर्वस्मिल्लोके पराधीनवृत्तौ [^2]सत्यामस्माभिः किं न प्राप्तं किं न लब्धम् । अपि तु सर्वमेव सर्वस्वमेव प्राप्तं लब्धम् । एतदेव प्रदर्शयन्नाह – वत्सस्येति वत्सस्य पुत्रस्य सुतस्य चन्द्रापीडस्यातिदुर्लभोऽतिदुष्प्रापो जन्मोत्सव उत्प- त्तिमहः संभावितो विहितो निष्पादितः । अङ्कगतस्य मुखमवलोकि- तं वीक्षितं निरीक्षितम् । उत्तानशयस्योर्ध्वाननस्योच्चास्यशयितस्यो- च्चुम्ब्यो चुम्बनं कृत्वा चुम्बनं विधाय पादौ चरणावुत्तमाङ्गे शिरसि कृतो विहितौ निष्पादितौ । जानुना नलकीलेन संचारिणो गमन- शीलस्य गमनस्वभावस्य, अत एव रेणुधूसरस्य धूलिमलिनस्य धूलिकर्दमितस्याङ्के क्रोड उत्सङ्गे लुलतो लुठतः स्पर्शसुखं संश्लेष- सातमालिङ्गनसुखमनुभूतम् । अव्यक्तेनाप्रकटत्वेनास्फुटत्वेन मनोहारीणि चारूणि प्रथमंजल्पितान्याद्यभाषितानि पूर्ववाक्यानि श्रोत्रे कर्णे कृतानि धारितानि । विचेष्टमानस्य क्रीडां कुर्वाणस्य बालचाटवः शिशुचाटूनि दृष्टा दृष्टिविषयीकृताः । 'चटु चाटु प्रिय- प्रायम्' इति हैमः । गृहीतविद्यस्य स्वीकृतकलाभ्यासस्य गुणवत्तया गुणस्वभावतया - हृदयमानन्दितं प्रमुदितं हर्षितम् । उपारूढयौवनस्य प्राप्ततारुण्यस्य प्राप्तयौवनस्यामानुषी मनुष्येष्वसंभाविनी रूपशोभा सौन्दर्यश्रीमनोहरश्रीः शक्तिश्च तदनुयायि सामर्थ्यं च प्रत्यक्षीकृता साक्षात्प्रत्यक्षादवलोकिता निरीक्षिता । यौवराज्ये कौमार्येऽभिषिक्तस्याभिषेकं [^1]F. कोऽयं प्रलापः ? अस्तु. 'न जीव्यत एव' इति पाठः । यदि वत्सस्य अशुभं तर्हि न जीव्यत एव, आवाभ्यामिति शेषः । [^2]F. 'सति' इति वक्तव्यम् । सत्सप्तम्यां लिङ्गवचनव्यत्ययेन सर्वत्रैवापराध्यति सोयम् । [^१]G. जीव्यते. [^२]G. नातोऽधिकस्य. [^३]G. उपात्तम्. [^४]G. हृदयस्य. [^५]G. वृत्ते. [^६]G. च. [^७]G. शरीरक. [^८]G. ललतः; लगत:. [^९]G. मनोहराणि. वदेव मनोरथशतवाञ्छितस्य वस्तुनो न संपन्नं यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने न [^१]गतम् । सर्वाभिवाञ्छितप्राप्तिस्तु महतः पुण्यराशेः फलम् । अपरमपि किं वृत्तं वत्सस्यै[^२]तदद्याप्यपरिस्फुटं केनचि [^३]देव न कथितम् । [^४]एता- वत्तु मयाऽव्यक्तमेव तदैव परिजनात्कथयतः कर्णे कृतम्, यथास्म प्रहितैलेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरितकनामा- यातः । स वेत्ति सर्ववृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । [^५]तत्तं तु तावत्पृच्छामः । ततो जीवितमरणयोरन्यतरदशीक- रिष्यामः' इत्यभिवदत्येव राजनि परिजनान्तरितं त्वरितकमाहूय प्रतीहारः 'त्वरितमारान्महीतलनिवेशितोत्तमाङ्गमालोकयतु देवः' इति दर्शितवान् । राजा तु तथा तमालोक्य, चन्द्रापीडस्नेहात् 'एह्येहि इत्याहूय, हस्तेनोत्तमाङ्गे स्पृष्ट्वाऽऽदिष्टवान् – 'भद्र, कथय किं वृत्तं [^७]वत्सस्य येनागमनाय मया तन्मा [^८]त्राऽमात्येन च [^९]लिखितेऽपि [^१०]नायातः ? अनागमनकारणं वा किंचिन्न प्रतिलेखितवान्' इति । स त्वेवमाविष्टो [^११]राजागमनतः प्रभृति [ टि ]-- कारितस्य शिरो मस्तकं समाघ्रातं चुम्बितम् । दिशा- माशानां ककुभां विजय आत्मसात्करणमात्माधीनमात्मसात्तस्मादा- गतस्य प्रणमतः प्रणामं कुर्वतो नमस्कारं [^1]क्रियमाणस्याङ्गानि परिष्वक्तान्यालिङ्गितानि संश्लेषितानि । परमेतावदेवैतदेव मनो- रथशतेनाभिलाषशतेन वाञ्छितस्य वस्तुनो न संपन्नं न जातम् । कि तदित्याह-यदिति । वधूसमेतस्यास्य निजपदे स्वपदे प्रतिष्ठां स्थाप- नां कृत्वा तपोवने मुनिजनाश्रमे न गतं न प्राप्तम् । सर्वं सकलं समग्रं यदभिवाञ्छितमभिलषितं तस्य प्राप्तिश्च महतो गरीयसः पुण्यराशेः सुकृतसमूहस्य फलं साध्यम्। अतः समग्रपुण्याभावात्तन्न प्राप्तमिति भावः । अपरमप्यन्यदप्यन्यतरदपि वत्सस्य पुत्रस्य चन्द्रापीडस्य किं वृत्तं किमाचरणं किं जातम् । एतदद्याप्यपरिस्फुटमप्रकटम् । यतः केनचिदेव पुंसा मे मम न कथितं न निवे- दितम् । तर्ह्यत्रागतं कथमित्याशयेनाह - एतावदिति । एतावत्तु मयाऽव्यक्तमेवाप्रकटमेवास्फुटमेव तदैव परिजनात्परिवारलोका- त्समस्तपरिच्छदलोकात्कथयतो निवेदयतोऽन्योन्यम् । परस्परमि- ति शेषः । कर्णे कृतं श्रवणे कृतं श्रोत्रे कृतम् । तदेव प्रदर्शयन्नाह – यथेति । अस्मत्प्रहितैर्लेखहारिभिः संदेशहारकैः सहापरोऽन्यो मे मम वत्सस्य सुतस्य बालसेवक आ बाल्यासत्यतां गतस्त्वरितक- नामायातः । सर्ववृत्तान्तं समग्रोदन्तं स वेत्ति स जानाति सोऽपि त्वया भवत्या न पृष्टो न प्रश्नित एवेति । तत् तं तु तावदादौ पृच्छामः प्रश्नयामः । ततस्तदनन्तरं जीवितमरणयोरन्यतरदङ्गीकरिष्यामः स्वीकरिष्यामः । तज्जीविते जीवितं तन्मरणे मरणमिति भावः । इत्यभिवदत्येवेति कथयत्येव राजनि तारापीडे' परिजनेन परिच्छदे- नान्तरितं व्यवहितं त्वरितकनामानं कुमारभृत्यं कुमारसेवक- माहूयाह्वानं कृत्वा निमन्त्रणं कारयित्वा प्रतीहारो द्वारपालकस्त्वरितं शीघ्रमारात्समीपात् 'आराद्दूरसमीपयोः' इति हैमः । महीतले वसुधाधोभागे निवेशितं स्थापितमुत्तमाङ्गं शिरो येनैवंभूतमालो- कयतु पश्यतु देवो भवानिति दर्शितवानवलोकनं कारितवान् । राजा तु नृपस्त्ववनीपस्तु तथा तेन प्रकारेण तं त्वरितकनामानं सेवकमालोक्य विलोक्य निरीक्ष्य चन्द्रापीडस्य स्नेहात्प्रेम्णः प्रीतेः । एह्येह्यागच्छागच्छेत्याहूयेति निमन्त्र्य हस्तेन करेणोत्तमाने मस्तके शिरसि स्पृष्ट्वा स्पर्शं कृत्वादिष्टवान्कथितवानित्याह - हे भद्र, कथय ब्रूहि । वत्सस्य पुत्रस्य सूनोः किं वृत्तं किं जातं किमाचरणं निष्पन्नं येन कारणेनागमनाय मया तन्मात्रामात्येन सचिवेन शुकनासेन मन्त्रिणा च लिखितेऽपि लिपीकृतेऽपि नायातो नागतः । अनागमनकारणं वा न किंचित्प्रतिलेखितवानिति प्रतिलेखे लिपीकृतवानिति । स त्वेवमादिष्ट [^1]F. कुर्वत इति वाच्यम् । [^१]G. गन्तव्यम्. [^२]G. इत्येतत्. [^३]G. अत्र कथितं मे. [^४]G. तावत्. [^५]G. तत्तु; तं तु. [^६]G. त्वरितकम्. [^७]G. वत्सस्य मे. [^८]G. चामात्येन च. [^९]G. लिखिते आदिष्टेऽपि. [^१०]G. स नायात:. [^११]G. राज्ञागमनतः. ८३ का० यथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदा [^१]कर्ण्यातिक्षुभितशोकार्णवाक्रान्तिविक्लवः प्रसार्य करमार्तस्वरत्वरितकमवादीत् – 'भद्र, विरम संप्रति । कथितं त्वया कथनीयम् । मयापि श्रुतं यच्छ्रोतव्यम् । पूर्णो मे प्रश्नदोहदः । निवृत्तं श्रवणकौतुकम् । कृतार्थीभूता श्रुतिः । आनन्दितं हृदयम् । उत्पन्ना प्रीतिः । सुखं स्थितोऽस्मि । हा वत्स, त्वयैकाकिना स्फुटतो हृदयस्यानुभूता वेदना । निर्व्यूढा त्वया वैशम्पायनस्योपरि प्रीतिः । वयं दुःखभागिनो निस्त्रिंशाः कर्मचाण्डालाः । येषां तवापीदं [^२]हृदयस्फुटने निर्विकारमेव । देवि वज्रसारतोऽपि कठिनतर- मेवेदमावयोर्हृदयम् यन्न स्वयं सहस्रधा स्फुटति । न चापि मरणदु:खभीरवोऽमी वत्समनुगच्छन्ति स्वयं प्राणाः । तदुत्तिष्ठ । यावदेवातिदूरं न प्रयात्येकाकी वत्सस्तावदेवानुगमनाय [^४]प्रयतामहे । [^५]सशोकं शुकनास, किमद्यापि तिष्ठसि । अयं स कालः स्नेहस्य । महाकालायतनसमीपे समादिश सपदि परिचारकांश्चितारचनाय । [^६]रचयत झटिति [ टि ]-- एवं कथितो [^1]राज्ञ आगमनं तस्मात्प्रभृति यथावृत्तं यथाचरणं यथाभूतं यज्जातं कथयितुं वक्तुमारेभे प्रारम्भं कृतवान् । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकर्ण्य सम्यङ्निशम्य श्रुत्वातिक्षुभितः क्षोभं प्राप्तो यः शोकार्णवः शोकसमुद्रश्चिन्ताजल- निधिस्तस्याक्रान्तिराक्रमणं कम्पनं तेन विक्लवो विह्वलः करं हस्तं प्रसार्य विस्तार्य हस्तप्रसारणं कृत्वार्तस्वरः करुणस्वरो दीनस्वर- स्त्वरितकं सेवकं प्रत्यवादीत् । हे भद्र, विरम विरतो भव । यत्क- थनीयं कथनार्हं वक्तुं योग्यं तत्त्वया कथितमेव निवेदितमेव। यच्छ्रो- तव्यं श्रवणार्हं श्रवणयोग्यं तन्मयापि श्रुतमेवाकर्णितमेव । मे मम प्रश्नदोहदोऽनुयोगश्रद्धा पूर्णः परिपूर्णो जात इत्यर्थः । श्रवणे श्रोत्र आकर्णने कौतुकमाश्चर्य निवृत्तं स्थितम् । श्रुतिः श्रवणं कृतार्थीभूता कृतकृत्या जाता । निष्पादितानि समग्रकृत्यानि । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । आनन्दितं प्रमुदितं प्रहर्षितं हृदयं चेतः। उत्पन्ना संजाता प्रीतिः स्नेहः प्रेम। सुखं स्थितोऽह- मस्मि। अभद्रमुखे भद्रमुख इतिवत्सर्वत्र लक्षणया विपरीतार्थो बोध्यः । हा वत्स हा पुत्र हा सूनो, त्वयैकाकिनाऽसहायेन स्फुटतो द्वैधीभवतो हृदयस्य वक्षसो वेदना पीडा बाधानुभूता सेवितानुभव- विषयीकृता । त्वया भवता वैशम्पायनस्योपरि प्रीतिः स्नेहो निर्व्यूढा निर्वाहिता । आमरणपर्यन्तं पालिता इत्यर्थः । वयं दुःखभागिनः कृच्छ्रभजनशीलाः कष्टसेवनशीला निस्त्रिंशाः क्रूराः कर्मणा चण्डालाः श्वपचाः । येषामस्माकं तवापि भवतोऽपि हृदय [^2]स्फुटनं इदमस्मद्वक्षो निर्विकार विकाररहितं निरुपद्रवम् । हे देवि हे पट्टराज्ञि, वज्रसारतः पविमध्यतोऽप्यावयोरिदं हृदयं वक्षः कठिनतरमेव परुषतरमेव यन्न स्वयमात्मना सहस्रधा सहस्रप्रका- रेण स्फुटति द्वैधीभवति । मरणदुःखाद्भीरवो भीरुका भयसहिता अभी प्राणा असवो वत्सं पुत्रं चन्द्रापीडं न स्वयं नात्मनानुगच्छन्त्य- नुव्रजन्ति । तदिति । उत्तिष्ठोत्थानं कुरु । यावदेवातिदूरमतिदविष्ठ- मनिकटं न प्रयात्येव न व्रजत्येव एकाकी वत्सस्तावदेवानुगमनाय पृष्ठे यानाय प्रयतामहे [^3]प्रयत्नं कुर्महे । सशोकं शोकेन सह- वर्तमानं संशोकं यथा स्यात्तथा शुकनास, किमद्यापि तिष्ठस्यवस्थानं करोषि । अयं स कालः स्नेहस्य प्रीतेः । स्वयमात्मना महाकालायतनसमीपे महाकालनामेश्वरचैत्यं शिवालयं तस्य समी [^1]F. राज्ञ: आगमनम् ? कीदृशस्य राज्ञः (न किल चन्द्रापीडो राजा) ? आगमनं च कीदृक् ? गमनम्, उत आगमनम् ? अस्तु. टीकाकारस्य तदिदं पुंगवस्वम् । 'स त्वेवमादिष्टो राज्ञा, गमनतः प्रभृति ( चन्द्रापीडस्य इतः प्रस्थानमारभ्य ) यथावृत्तं कथयितु- मारेभे' इति पाठः । [^2]F. वस्तुतः - 'येषां तवापि हृदयस्फुटने निर्विकारमेवेदम्' ( इदम्, हृदयम् ) इति पाठः । [^3]F. 'प्रयतावहे' इत्येव पाठः । [^4]F. 'आः (हा) शुकनास' इति पाठः । [^१]G. आक्षुभित. [^२]G. हृदयस्फोटने. [^३]G. निर्विकारत्वमेवेदम्. [^४]G. प्रयतावहे. [^५]G. हा शुकनास. [^६]G. उपनयत. काष्ठानि काष्ठकाः' । किं तिष्ठतैवं संकुचिताः ककिनः ? गत्वा निष्कामयत हुताशनप्रवेशोपकरणानि । निष्कारणरुदितेन किम- धुना ? [^१]उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्विजेभ्यः [^२]कोषम् । कस्य कृतेऽद्यापि पाल्यते ? पालनादिकं [^३]कर- णीयमधुना क्षीणं क्षीणपुण्यस्य मे । [^४]यात यथाभूमिं भूमिपतयः । [^५] उत्सृष्टाः स्थ, यथा च नाद्यै [^६]वास्य दुःखं जानन्ति प्रजास्तथा करिष्यथ । कथावशेषीभूतो मे वत्सः, [^७]कमपरं संविधाय यामि' एव [^८]मार्तप्रलापिनं तारापीडमचेतितात्मपीडया विलास- वत्यैव धृतशरीर [^९]मार्ततरस्त्वरितको [^१०]व्यज्ञापयत्[^११]'देव, स्फुटिते हृदये ध्रियते शरीरेण युवराजः । शापदोषा- द्वैशम्पायनस्य च यथा जन्म तथा निरवशेष शृणोतु तावदेवः' इति । तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाऽऽविष्ट इव दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेषं सत्सर्वमश्रौषीत् । श्रुत्वा [ टि ]-- पैऽभ्यर्णे निकटे सपदि शीघ्रं परिचारकान्मृत्यान्सेवकांश्चि- ता या रचनं करणं तदर्थमादिशाज्ञां कुरु । झटिति शीघ्रं भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्ठान्येधांसि रचयत रचनां कुरुत गृहाकारेण गृहवद्रचनां कुरुत । भोः कञ्चुकिनः । 'सौविदल्ला: कञ्चुकिनः स्थापत्याः सौविदाश्च ते' इति कोशः । एवं संकुचिताः संकोचं प्राप्ता यूयं किं तिष्ठत स्थितिं कुरुत । गत्वा गमनं कृत्वा हुताशने वह्नावग्नौ यः प्रवेशः पतनं तत्रोपकरणानि यन्त्राणि निष्कामयत बहिःकर्षणं कारयत । गृहाद्वह्ने: पूजासामग्री- मानयत समानयतेत्यर्थः । निष्कारणं निष्प्रयोजनं रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अमुनोप [^1]रोधेन यः परिलम्बो विलम्बस्तेन विनाशेषं समग्रं कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते । अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालना- दिकं रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधाधीशा राजानः, यथाभूमि [^2]मात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ । लटि परस्मैपदे मध्यमपुरुषबहुवचनम् । यथा चाद्यैवास्य चन्द्रा- पीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव वार्तैवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय कृत्वा यामि प्रजामि । एवंप्रकारेणार्तं च प्रलापिनं चार्तप्रलापिनं तारापीड- मचेतिताऽज्ञातात्मपीडा स्वपीडा ययैवंविधया विलासवत्यैव धृतं धारितं शरीरं विग्रहो यस्य स तं नृपमार्ततरोऽतिपीडितस्त्वरितकः सेवको व्यज्ञापयत् । किं तदित्याह – देवेति । हे देव, हृदये वक्षसि स्फुटितेऽपि पाटितेऽपि युवराजः [^3]शरीरेण ध्रियते धार्यते । वैशम्पायनस्य च शापदोषादाक्रोशवचनदोषाद्यथा जन्म येन प्रका- रेणान्यत्रोत्पत्तिस्तथा निरवशेषं सर्वं देवो भवांस्तावदादौ पूर्वं शृणो- त्वाकर्णयविति । तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाश्चर्येणान्तरितो व्य- वहितः शोकावेगो यस्य स तथा विगतनिमेषेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेषणम् । तेन त्वरितकेन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा [^1]F. 'पुरोध: ! (हे पुरोहित ) परिलम्बात् ( विलम्बात् ) विना' इत्येव पाठः । [^2]F. ' यात यथाभूमि (अव्ययीभावः ) भूमिपतयः' इत्येव पाठः । [^3]F. नीचैः पाठो मध्यगतोस्ति । अर्थात् -'देव यथा त्वं हृदये संभावयसि न तथा, स्फुटितेपि हृदये ध्रियते शरीरेण युवराजः'इति। [^१]G. अवरोधपटलं दापय, पुरोध:परिलम्बाद्विना प्रविश्य दापय. [^२]G. काशम्. [^३]G. करणीयमेव. [^४]G. यात यथाभूमि भूमिपालः; यात यथाभूमिपतयः. [^५]G. तथोत्सृष्टाः स्थः; दृष्टाः स्थ. [^६]G. अस्य वा दुःखम्; अनाथतादुःखम्. [^७]G. कथमपरं संविधाय यामि; कमपरं संविधापयामि. [^८]G. आर्तं प्रलपन्तं च. [^९]G. आर्त:. [^१०]G. व्यज्ञपत्. [^११]G. देव, यथा त्वं हृदये संभावयसि न तथा. च तमनेकचिह्नोत्पादितप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च विस्मयास्पदभूतं च दुःश्रवं च कौतुककरं च युवराजवैशम्पायनयो- र्वृत्तान्तमीषदिव विवर्तिताननो विमर्शस्तिमिततारकां [^१]दृष्टिं निर्विशेषावस्थे [^२]शुकनासमुखेऽ [^३]भ्यपातयत् ।[^४]सुहृद- स्तु स्वयं [^५]दुःखिता अपि [^६]निधानीकृत्यात्मदुःखं सुहृद्दुः- खापनोदायैव [^७]यतन्ते । यतः शुकनासस्तदषस्थोऽपि स्वस्थ- वदवनिपतिमुवाच 'देव, विचित्रेऽस्मिन्संसारे [^८]संचरत्सु सुखदुःखमयेषु देवासुर- तिर्यग्योनि [^९]मानुषेषु, त्रिगुणात्मनः [^१०]प्रधानस्यापि [^११]परिणामात्, परमाण्वादेर्ब्रह्माण्डपर्यन्तस्योत्पत्तिस्थितिप्रलय- कारणस्येश्वरस्येच्छया, धर्माधर्मसाधनानामिष्टानिष्टफलसंबन्धकारिणां कर्मणां वा शुभाशुभानां [^१२]विपाक [ टि ]-- त्कृतं च निरवशेषं तत्सर्वमश्रौषीदाकर्णयामास । अनेकचिह्नैरनेकाभिज्ञानैरुत्पादितो जनितो निष्पादितः प्रत्ययो विश्वासो यस्य स तम् । अश्रद्धेयं श्रद्धातुमयोग्यं च निरतिशयो भूयान्यः शोकः शुक् तस्य कारणं निदानं च विस्मयस्य कौतुक- स्याश्चर्यस्यास्पदभूतं पात्रभूतं स्थानभूतं च दुःश्रवं च दुःखेन कष्टेना- कर्णनीयं च कौतुककरं च विस्मयकरं चाश्चर्यकरं चैवंविधमेतादृशं युवराजवैशम्पायनयोर्वृत्तान्तमुदन्तं श्रुत्वा चाकर्ण्य चेषदिव विवर्तितं पराङ्मुखीकृतं पश्चान्मुखीकृतमाननं मुखं येन सः । राज्ञो विशेष- णम् । विमर्शो विचारो वितर्कस्तेन स्तिमिता निश्चला [^1]तारका कनीनिका यस्यामेवंविधामेतादृशीं दृष्टिं दृशम् । निर्गतो विशेषो यस्याः सा निर्गतविशेषा एवंविधावस्था दशा यस्य स तथा तस्मिन् । स्वसदृशावस्थ आत्मसदृशावस्थे शुकनासस्य मुख आननेऽभ्यपात- यदस्थापयत् । यतः कारणात्सुहृदस्तु स्वयं दुःखिता अप्यात्मदुःखं निधानी [^2]कृत्य सुहृदां मित्राणां दुःखस्य कष्टस्यापनोदायैव दूरीकरणायैव यतन्ते यत्नं कुर्वन्ति । अतः शुकनासस्तदवस्थोऽपि स्वस्थवन्निःशोकवदवनिपतिं राजानमुवाच । किं तदित्याह—देवेति । हे देव, विचित्रे बहुविधेऽस्मिन्संसारे संच- [^3]रन्ति परिभ्रमन्ति यानि यानि सुखदुःखानि तैर्निष्पन्नेषु तन्मयेषु देवा भवनपत्यादयः, असुरादयोऽधोवासिनः, तिर्यग्योनिकाः शुकादयः, मृत्युलोके मानवा मनुष्या नराः, एतेषां द्वंद्वः । तेषु त्रिगुणाः सत्वरजस्तमोरूपास्त एवात्मा स्वरूपं यस्यैवंभूतस्य प्रधास्यापि मूलप्रकृतेराद्यस्वभावस्यापि परिणामात्परिणमनात्पर- माणुर्निरवयवोऽवयवरहितः क्रियावान्स आदौ प्रथमं यस्यैवंभूतस्य ब्रह्माण्डपर्यन्तस्योत्पत्तिर्जन्म । 'उत्पत्तिर्जन्मजनुषी' इति हैमः स्थितिरवस्थानं स्थिरीभवनं प्रलयः क्षयो विनाश एतेषां सर्वेषां कारणस्य निदानभूतस्येश्वरस्य महादेवस्येच्छया कृत्या स्पृहया । धर्मोऽदृष्टं तद्विपरीतोऽधर्मस्तयोः साधनानां कारणानां निमित्त- भूतानामिष्टानिष्टे ईप्सितानीप्सिते वाञ्छितावाञ्छितफले साध्ये तयोर्द्वयोः संबन्धकारिणां वा शुभाशुभानां कर्मणां विपाकभावाद्वा तदुदयावस्थानुभवनाद्वा, स्वयमेवात्मा [^1]F. द्विवचनमुचितम् । [^2]F. भ्रष्टोयं पाठः । 'विस्मृत्याऽऽत्मदुःखम्' इत्येव पाठः । [^3]F. प्रलापमिमं परित्यज्य वाक्यस्याशयं लिखामि पाठं च सूचयामि-संसारे संसरत्सु (कर्मबन्धाद्भ्रमत्सु) देवादि मानुषान्तेषु प्रधानस्य ( मूलप्रकृतेः, मूलप्रकृतिरविकृति : ० इत्यादिसांख्यलक्षि- तायाः ) परिणामात् ( विवर्तात् ), परमाणुमारभ्य ब्रह्माण्डपर्यन्त- स्योत्पादयितुरीश्वरस्येच्छया, धर्माधर्मेत्यादिविशेषितानां शुभाशुभ- कर्मणां विपाकात्, स्वभावाद्वा ( निसर्गाद्वा ) [ ततश्च - 'विपाकात् स्वभावाद्वा' इति पाठः । टीकाकारेण द्वे चूर्णीकृत्य 'विपाकभावाद्वा' इति निर्मिताम्] स्वयमनेकप्रकारैः उत्पत्तिस्थितिविनाशाननुभवतः स्थावरजङ्गमस्य सर्वाऽव्यवस्था संभवति । [^१]G. दृशम्. [^२]G. शुकनासे. [^३]G. न्यपातयत्. [^४]G. च. [^५]G. दुःखं दुःखिताः. [^६]G. विस्मृत्य. [^७]G. वर्तन्ते. [^८]G. संचरत्सुखदुःखमयेषुः; चरत्सु सुखदुःखमोहमयेषु. [^९]G. मनुष्येषु. [^१०]G. प्रधानस्य. [^११]G. परिणामादात्मन. [^१२]G. विपाकाद्वा; विभावाद्वा; विपाकात्स्वभावाद्वा. भावाद्वा, स्वयमेवानेकप्रकारमुत्पद्यमानस्य तिष्ठतो विनश्यतो वाऽनियतवृत्तेः स्थावरजङ्गमस्य न कदाचिदवस्था सा या न संभवति । त [^१]त्कुतोऽयं देवस्यात्र वस्तुनि विमर्शः ? यदि [^२]युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगता [^३]न्यपि [^४]संवादीनि दृश्यन्ते । मुद्राबन्धाद्ध्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्तिः । अयस्कान्तस्य [^५]चायसः समाकर्षणे [^६]भ्रमणे वा मन्त्राणां वैदिकानामवैदिकानां वानेक- प्रकारेषु कर्मसु सिद्धौ, नानाविषद्रव्यसंयो [^७]गानां [^८]वामरणं मान्द्याद्युत्पादनापहरणवशीकरणविद्वेषणादिषु, शक्तेः समुत्पाद- नादन्येषां बहुतराणामेवं विधानां च [^९]तत्र तत्र सर्वस्मिन्नेवा- [^१०]गमः प्रमाणम् । आगमेषु सर्वेष्वेव [^११]पुराणरामायण- भारतादिषु सम्यगनेकप्रकाराः शापवार्ताः । तद्यथा । महेन्द्रपद- वर्तिनो [^१२]नहुषस्य राजर्षेरगस्त्यशापादजगरता। सौदासस्य च वसिष्ठसुतशापान्मानुषादत्वम् । असुरगुरुशापाच्च [ टि ]-- नमेवानेकप्रकारं बहुधा बहुप्रकारं बहुविधमुत्पद्यमानस्य जायमानस्य निष्पद्यमानस्य तिष्ठतः स्थितिं कुर्वतो विनश्यतो विनाशं प्राप्नुवतो वानियतवृत्तेरस्थिरवृत्तेरनिश्चिवर्तनस्यैवंभूतस्य स्थावरजङ्गमस्य चराचररूपस्य न कदाचित्कस्मिन्नपि काले सावस्था दशा या न संभवति न जायते न निष्पद्यते । तत्कुतोऽयं युक्तिविहितो देवस्य [^1]निर्जरस्यास्मिन्वस्तुनि विमर्शो विचारो वितर्कः । यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितानि तर्कवार्जितान्यागमप्रामाण्यादेवाभ्युपगतान्यप्यङ्गीकृतान्यपि संवादीन्यव्यभि- चारीणि दृश्यन्ते विलोक्यन्ते निरीक्ष्यन्ते । मुद्रा शरीरं तस्या बन्धान्मन्त्रेण बन्धप्रदानाद्ध्यानाद्वा तादृशनागमन्त्र [ सर्पमन्त्र ] चिन्तनाद्वा विषप्रसुप्तस्य गरलमूर्च्छितस्य विषधारितस्योत्थापने सज्जीकरणे निर्विषीकरणे कीदृशी युक्तिः । अयस्कान्तस्य दृषदश्चुम्बकप्रस्तरस्यायसो लोहस्य समाकर्षण आकृष्टौ भ्रमणे वा शक्तेः समुत्पादनान्निष्पादनात् । तथा वैदिकानां वेदोक्तानामवैदिकानां शाबराणां वा मन्त्राणामनेकप्रकारेषु बहुविधेषु, बहुभेदेषु कर्मसु कृत्येषु सिद्धौ निष्पत्तौ, शक्तेः समुत्पादनात् । तथा नानाविधा बहुप्रकारा बहुविधा ये द्रव्यसंयोगा द्रव्यसमुदायास्तेषां वामरणमामृत्युं मरणं मृत्युः, मदो दर्पः, अहंकारो गर्वः, मान्द्यमपाटवमकुशलमादौ यस्य स मान्द्यादिस्तस्योत्पादनं निष्पादनम्, अपहरणमपहतिः, वशीकरणं संवननम् विद्वेषणं विद्वेषोत्पादनम् एतेषां द्वन्द्वः । एतान्यादौ येषां कर्मणां तेषु शक्तेः समुत्पादनान्निष्पादनादेवंविधानामेतादृशानामेवंप्रकाराणामन्येषां बहुतराणां तत्र तत्र स्थले सर्वस्मिन्नेवागमः प्रमाणम् । पुराणरामायणमहा- भारतादिषु सर्वेष्वेवागमेषु शास्त्रेषु सम्यक्प्रकारेणानेकप्रकारा बहुभेदभिन्नाः शापवार्ताः शापप्रदानकिंवदन्त्यः । श्रूयन्त्य इति शेषः । तदेव प्रदर्शयति - तद्यथेति । महेन्द्रपदवर्तिन इन्द्रस्थानस्थायिनः शक्रस्थानस्थायिनो नहुषनाम्नो राजर्षे राज्यावस्थायां मुनिकल्पस्य साधुसदृशस्यागस्त्यमुनेः कुम्भजन्मनः शापादाक्रोशवचनादजगरता पारीन्द्रता । जातेति शेषः । 'आक्रोशाभिषङ्गाक्षेपाः शापः साक्षारणा मता' इति हैमः । सौदासस्य च वसिष्ठस्यारुन्धतीजानेः सुतस्य पुत्रस्य शापान्मानुषादत्वं मनुष्यभक्षकत्वं नरादनत्वम् । असुरगुरुः शुक्रस्तस्य शापादाक्रोशाद्ययाते राज्ञस्तारुण्य एव यौवन एव यौवनावस्थायामेव जरसा विस्र [^1]F. अहह धन्या बुद्धिः ! भवत इत्यर्थो विद्यार्थिभिर्बोध्यः । [^2]F. नानाविधद्रव्यसंयोगानां ( संयोगस्य वैचित्र्यावहत्वात् ) मरणमदमान्द्याद्युत्पादनादिषु या शक्तिः समुत्पद्यते एतस्मात् - कारणात् च, एवंविधानामन्येषां च बहुतराणामाश्चर्यकर्मणाम् तत्र तत्र स्थले आगमा: ( शास्त्राणि ) प्रमाणभूतानि सन्तीत्याशयः । [^१]G. तकिं कुतोऽयम्. [^२]G. मुक्ते:. [^३]G. एव. [^४]G. अविसंवादीनि; विसंवादरहितानि:. [^५]G. वा. [^६]G. भ्रामणे. [^७]G. संयोगद्रव्याणाम्. [^८]G. मरणामरणमदनादि; मरणमदमान्द्य. [^९]G. तत्र. [^१०]G. आगमाः. [^११]G. रामायणमहाभारतादिषु. [^१२]G. नहुषस्य. ययातेस्तारुण्ये एव जरसा भङ्गः । त्रिशङ्कोश्च पितृशापाच्चण्डाल- भावः । श्रूयते च स्वर्गवासी [^२]महाभिषो नाम राजास्मिंल्लोके [^३]शन्तनुरुत्पन्नः । तत्पत्नीत्व [^४]मुपगताया गङ्गायाः शापदोषादष्टानामपि वसूनां मनुष्येषूत्पत्तिः । तिष्ठतु तावदन्यः । अयमा- दिदेवो भगवानजः स एव [^५]जमदग्नेरात्मजता [^६]मुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्षेर्दशरथस्य तथैव मथुरायां वसुदेवस्य । तन्मनुष्येषु देवतानामुत्पत्तिर्नै [^७]वासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देवः । न चापि भगवतः कमलनाभा- दतिरिच्यते चन्द्रमाः । कि [^८]मत्रासंभावनीयम् । अपि च गर्भा- रम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः, तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोर्नास्त्येव संदेहः । विनष्टयोः शरीरस्याविनाशः [^९]कथम्, कथं वा पुन- र्जीवित [^१०]प्रतिलम्भ इत्यत्राखिललोकप्रत्या [^११]ख्यातप्रभाव- म [^१२]मृतमेवैककारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येषा- स्त्येव वार्ता । [^१३]तत्सर्वमेतदित्थमेवावगच्छतु देवः । अन्यच्च [^१४]तादृशाकारकान्तेरखिललोकाह्लादकारिणोऽन्यत्र संभव एव नास्ति । तत्कल्याणैर्नचि [^१५]राच्छापावसाने निर्वर्तित [^१६]गन्धर्वसुतोद्वाहमङ्गलस्य गलन्नयनपयसो वध्वा सह पादयोः [ टि ]-- सया कृत्वा भङ्गो हानिः । त्रिशङ्कोश्च पितृशापाच्चाण्डाल- भावः । श्रूयते चाकर्ण्यते च स्वर्गवासी देवलोकवासी महाभिषो नाम राजास्मिंल्लोक इहलोके शन्तनुर्नाम राजोत्पन्नोऽवतरितोऽव- तारं प्राप्तः । शापदोषाच्छापप्रभावात्तत्पत्नीत्वं तत्स्त्रीत्वमुपगतायाः प्राप्ताया गङ्गायाः शापदोषादष्टानामष्टसंख्यानामपि वसूनां मनुष्ये- षूत्पत्तिर्जन्म प्रादुर्भावः प्रकटीभावः । तिष्ठतु तावदन्यः । अयमादि- देवो भगवानजः स एव जमदग्नेरात्मजतां पुत्रतां पुत्रभावमुपगतः प्राप्तो जातः । श्रूयते चाकर्ण्यते च पुनरात्मानं चतुर्धा चतुःप्रकारेण विभज्य विभागीकृत्य राजर्षेर्दशरथस्य तनयत्वमुपगतः प्राप्तः । तथैव मथुरायां मधुपुरि वसुदेवस्य तनयत्वमुपागतः पुत्रत्वं प्राप्तः । तदिति हेत्वर्थे । मनुष्येषु नरेषु देवतानां देवानामुत्पत्तिर्निष्पत्तिर्नैवा- संभाविनी नासंभाव्यैव । न च पूर्वमनुष्येभ्यो देवो गुणैः परिहीयते परिहीनो भवति सामस्त्येन न्यूनो भवति । न चापि भगवतः कमलनाभात्सकाशाच्चन्द्रमाः शशाङ्कश्चन्द्रोऽतिरिच्यतेऽधिकीभवति । अतः किमत्रासंभावनीयमसंभाव्यम् । अपि चेति प्रकारान्तरे । गर्भस्यारम्भसंभवे च प्रारम्भसमये देवेन भवता देव्या विलासवत्या वदने मुखे विशन्प्रवेशं कुर्वश्चन्द्रमा एव दृष्टोऽवलोकितः । तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । ततस्तदुत्पत्तिं प्रति तयोर्द्वयोः पूर्वोक्तयोर्नास्त्येव संदेहो द्वापरः । विनष्टयोः कथं शरीर- स्याविनाशः । कथं वा पुनर्जीवितस्य प्रतिलम्भः प्राप्तिरिति । अत्रा- पीहाप्यखिललोकेषु समग्रलोकेषु [^1]प्रत्याख्यातः प्रसिद्धः प्रभावो यस्यैवंभूतममृतमेव पीयूषमेव एकं कारणं निदानमावेदितं कथितम् । तदमृतं चन्द्रमसि चन्द्रे विद्यत इत्येषा वार्ता प्रवृत्तिः किंवदन्त्यस्त्येव । तत्तस्मात्कारणादेतत्सर्वमित्थमेवेति देवोऽवगच्छतु जानातु । अन्यच्च तादृशाकारकान्तेर्द्युतेरखिललोकस्य समग्रजनस्याह्ला- दकारिणः प्रमोदजननस्यानन्द [^2]कारकस्यान्यत्र संभव एव नास्ति । तदिति हेत्वर्थे । कल्याणैर्मङ्गलैर्नचिरादल्पकालेन शाप- स्याक्षेपवचनस्यावसाने प्रान्ते सति विनिर्वर्तितं विहितं गन्धर्वसुतायाः कादम्बर्या उद्वाहमङ्गलं विवाहमाङ्गल्यं येन स तस्य गलत्क्षर [^1]F. धन्यधन्यष्टीकाकारो यत्प्रत्याख्यातस्य प्रसिद्धार्थमुपदिशति । अस्तु. 'प्रख्यात' इत्येव पाठः । [^2]F. 'संभव एव तस्य ( चन्द्रस्य )" इति पाठः । [^१]G. चण्डालभावः. [^२]G. महाधिष:. [^३]G. शान्तनुः; शान्तनुपत्नीत्वम्. [^४]G. उपागतायां च गङ्गायाम् ; उपागतायाः स्वर्गङ्गायाः, उपगतायां गङ्गायाम्. [^५]G. जामदग्ने:. [^६]G. उपागतः. [^७]G. असंभाविता. [^८]G. संभावनीयम्. [^९]G. कथम्. [^१०]G. प्रलम्भः. [^११]G. प्रख्यात. [^१२]G. अमृतमनेककारणम्; अमृतमेव कारणम्. [^१३]G. सत्यमित्थमे. [^१४]G. ईदृशस्याकारस्यकान्तेः; ईदृशाकारकान्ते:. [^१५]G. अचिरात्. [^१६]G. निवर्तित. पततः पुत्रत्वमुपगतस्य चन्द्रापीडनानान्तरितस्य लोकपाल [^१]स्येव चन्द्रमसो दर्शने [^२]नाजन्मकृतमेव संतापं परित्यक्ष्यति देवः । [^३]तयोरेवं शापोऽस्माकं पुनर्वर एव । तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्य: [^४]मङ्गला [^५]न्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिसर्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्ध्यताम् । अकुशल- मपि [^६]यमनियमकष्टव्रतोपवासादिना तपःक्लेशेन क्षयमुपनीय- ताम् । अपरमपि [^७]यद्यदेवंगते श्रेयस्कर श्रूयते ज्ञायते वा तत्त- दद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । [^९]उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता ।' इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत्– 'सर्वमेतद्य- दार्येणाभिहितं कोऽन्योऽवबुध्यते ? केन वाऽपरेण वयं परिबोध- नीया: ? कस्य वापरस्यास्माभिर्वचनं करणीयम् ? किंतु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्य[^१०]दन्तरयति । तदेव पश्यामि । तदेव शृणोमि । तदेवोत्प्रेक्षे । [^११]तदेवमप्रत्यक्षिते वत्सस्य वदने [ टि ]-- न्नयनयोर्लोचनयोः पयो जलं यस्य स तस्य वध्वा सह पादयोश्चरणयोः पततोऽभिवादनं कुर्वतः पुत्रत्वं सुततामुपगतस्य प्राप्तस्य चन्द्रापीडनाम्नान्तरितस्य व्यवहितस्य लोकपालस्येव सोम- यमवरुणकुबेरस्येव चन्द्रमसश्चन्द्रस्य दर्शनेनावलोकनेन निरीक्षणे- नाजन्मनः कृतं जन्म मर्यादीकृत्य कृतमाजन्मकृतमेव संतापहेतु- त्वात्संतापं पापं देवः परित्यक्ष्यति दूरीकरिष्यति निष्पापो भविष्यति । विगतपापो भविष्यतीत्यर्थः । तयोर्द्वयोश्चन्द्रापीडपुण्डरीकयोरेवं शापोऽस्माकं पुनर्वर एव । तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पमपि देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्यभिधार्यन्तामभिध्रियन्ताम् । युष्माभिरभि- मतदेवताया इष्टवाञ्छितदेवताया आराधनेन सेवनेन धनस्य द्रव्यस्यातिसर्जनातिवितरणेन चान्जन्मोपार्जितं परभवोपार्जितं गतभवनिष्पादितं कुशलमभिवर्ध्यताम् । यमा अहिंसासत्यास्तेयब्रह्माकिंचनतालक्षणाः । 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः' इति हैमः । कष्टव्रतं चान्द्रायणादि, उपवासा औपवस्तानि, एतान्या- दौ यस्यैवंभूतेन तपःक्लेशेन कष्टेनाकुशलमप्यकल्याणमप्यशिव- मपि क्षयं नाशमुपनीयत प्राप्यताम् । अपरमप्यन्यदपि यद्यदेवंगते श्रेयस्करं कल्याणजनकं शुभकारणं श्रूयते आकर्ण्यते ज्ञायतेऽव- बुध्यते वा, तत्तदद्यैवारभ्याद्यदिनात्प्रभृति क्रियतां विधीयताम् । कार्यतां काराय्यतां च कर्म यज्ञादि शुभकर्मादि । खल्विति निश्चयेन निर्धारणेन । नामेति कोमलामन्त्रणे । वैदिकानामवैदिकानां वा कर्मणां किंचिदपि नासाध्यं वर्तते कष्टतरं वर्तते । अपि चेति युक्त्य- न्तरे । तयोः कृच्छ्रलब्धयोः कष्टप्राप्तयोरुत्पत्तिरपीदृशेनैव प्रकारेण पूर्वोक्तहेतुना उपजातोत्पन्ना । इत्युक्तवति शुकनासे सशोक एव राजा तारापीड: प्रत्यवादीत्प्रत्य- ब्रवीत् । सर्वमेतद्यदार्येण भवताभिहितं प्रतिपादितं तत्कोऽन्योऽव- बुध्यते जानाति । केन वापरेण त्वदन्येन वयं परिबोधनीयाः परिबो- धयितुं योग्याः समर्थाः । कस्य वापरस्य द्वितीयस्यास्माभिर्वचनं वाक्यं करणीयं निष्पादनीयम् । किंत्वित्यव्ययमङ्गीकारे स्वीकारे । तन्मे मम वत्सस्य वैशम्पायनदुःखाद्हृदयस्य स्फुटनमग्रतो दृष्टिलग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं करोति । तदेव हृदयस्फुटनमेव पश्याम्यवलोकयामि । तदेव शृणोम्याकर्णयामि । तदेवोत्प्रेक्षे वितर्कयामि । तद [^१]G. एव. [^२]G. जन्म. [^३]G. तत्तयोरयम्. [^४]G. मङ्गलान्यभिध्यायन्ताम्. [^५]G. अभिवर्धताम्; अभिवर्ध्यताम्. [^६]G. उपार्जितेन कष्टतमेनोपवासादिधर्मनियमेन. [^७]G. यद्देवगते:; यद्यदवगतम्. [^८]G. कर्मणां खलु वैदिकानामवैदिकान् वासाध्यं नाम किंचिदपि नास्ति. [^९]G. चोत्पत्ति:. [^१०]G.अन्तरपतितम्. [^११]G. तदेवमप्रत्यक्षमेव मद्वत्सस्य वदनम्. संस्तम्भमेवात्मनो न शक्नोमि कर्तुम् । यत्र च ममायमीदृशः प्रकारस्तत्र देव्याः परिबोधनं दूरापेतमेव । तद्गमनादृतेऽन्य उपाय एव नास्ति जीवितसंधारणायेत्येवमवधारयत्वार्यः।' इत्युक्तवति तारापीडे चिरात्तनयपीढया [^१]तत्पुरः परित्याजितलज्जं विलास- वती कृताञ्जलिरुच्चैर्जगाद – 'आर्यपुत्र, यद्येवं तथापि किमपरं विलम्बितेन । निर्गता एव वयम् । दीयतां प्रयाणम् । उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थं स्फुटनमङ्गीकृतमासीत् [^२]तदपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि, [^३]वरं दीर्घकालमपि दुःखान्यनुभवन्ती सकृदपि वत्सस्य दर्शनाय जीवितास्मि, न पुनरसह्यदुःखोपशान्तये संप्रत्येव मृतास्मीति । तदस्य [^४]पुनराशानि [^५]बन्धनस्य सर्वात्ययनिवारणोपायस्य वत्साननावलोकनो [^६]त्सुकस्य गमनमपि हृदयस्य तावद्विनोदतां व्रजतु ।' इति [^७]वदन्तीमेव विलासवती [^८]मासाद्यान्यतमः शुकनास- स्या [^९]त्मसमः परिणतवयाः [^१०]षट्कर्मा समुपसृत्य [^११]स्वस्तिपूर्वकं [^१२]व्यज्ञापयत् – 'देवि, [^१३]सर्वत [^१४]एवापरिस्फुटेन वार्ताकलकले [^१५]नाकुलीकृतहृदया मनोरमा स्वयमेव धावन्त्यागता । राज्ञो लज्ज्माना नोपगता स्थानमिदम् । तदेषा [ टि ]-- [^1]प्रत्यक्षिते परोक्षे च वत्सस्य वदने सत्यात्मनः संस्तम्भमेव कर्तुं न शक्नोमि न समर्थो भवामि । यत्र च ममायमीदृशः प्रकारस्तत्र देव्या विलासवत्याः परिबोधनं दूरापेतमेव मय्यप्रबुद्धे तस्याः प्रबोधः कुतः स्यादित्यर्थः । जीवितसंधारणाय तत्र गमनादृतेऽन्योऽपर उपायो नास्ति । इत्येवमार्योऽवधारयतु निश्चिनोतु । इत्युक्तवति तारापीडे चिराद्बहुकालात्तनयपीडया सुतार्त्या तत्पुरस्तस्य राज्ञः पुरोऽग्रे [^2]परित्याजिता दूरीकृता लज्जा त्रपा यथा स्यात्तथा विलासवती कृताञ्जलिर्नियोजितकर- कमलोच्चैर्जगादोवाच । हे आर्यपुत्र, यद्येवं वर्तते तथापि किमपरं विलम्बितेन विलम्बकरणेन । वयं निर्गता एवेतो निःसृता एव । यतः प्रयाणं प्रस्थानं दीयताम् । वत्सस्य दर्शनायालोकनाथ मे मम हृदयं वक्ष उत्ताम्यति । उत्पत्तिदुःखस्यापनोदार्थं दूरीकरणार्थं स्फुटनमपि । हृदयस्येति शेषः । अङ्गीकृतं स्वीकृतमासीत् । तदपि संप्रति दर्शनकाङ्क्षया विलोकन लिप्सया न रोचत एव न रुचिविषयीभवति इच्छा न भवति । अहमेतद्वरं जानाम्येवावबुध्ये दीर्घकालमपि दुःखान्यनुभवन्त्यनुभवविषयीकुर्वन्ती सकृदप्येकवारमपि वत्सस्य दर्शनाय जीवितास्मि न पुनरसत्यं सोढुमशक्यं यद्दुःखं तस्योप- शान्तये निवृत्तये संप्रत्येवाधुनैव मृतास्मीति । तदिति हेत्वर्थे अस्या- शैव निर्बंन्धनं कारणं यत्र तत्तथा तस्य सर्वात्ययः सर्वविनाशस्तस्य निवारण उपायस्य कारणस्य वत्साननस्यावलोकन उत्सुकस्य निरीक्षण उत्कण्ठितस्य हृदयस्य गमनमपि तावद्विनोदतां कौतुक- तामाश्चर्यतां व्रजतु गच्छतु । इति वदन्तीमेवेति जल्पन्तीमेव विलासवतीमासाद्य प्राप्यान्यत- मोऽपरोऽनिर्दिष्टनामा शुकनासस्यात्मसम आत्मतुल्यः परिणतवयाः परिपक्ववयाः षट्कर्मा विप्रः समुपसृत्य समागत्य स्वस्तिपूर्वकं यथा स्यात्तथा व्यज्ञापयत्किं तदित्याह – देवीति । हे देवि, सर्वत एव परित एवापरिस्फुटेना प्रकटेनाव्यक्तेन वार्ताकलकलेन प्रवृत्तिकोलाहलेन किंवदन्तीकोलाहलेनाकुलीकृतं व्याकुलीभूतं हृदयं यस्याः सा तथा मनोरमा वैशम्पायनप्रसूः स्वयमेव धावन्ती त्वरितगत्या शीघ्रगत्या आगच्छन्त्यागता । राज्ञस्तारापीडाल्लजमाना त्रपां कुर्वाणेदं स्थानं नोपगता ना [^1]F. न प्रत्यक्षीकृते सति इत्याशयः । [^2]F. 'पत्युः पुरः परित्यज्य लज्जाम्' इति पाठः । [^3]F. 'दुराशानिबन्धनस्य' ( दुराशया नितरां बन्धनं स्थितिर्यस्य ) इत्येव पाठः । [^१]G. पत्युः पुरः. [^२]G. यदपि दुःखापनोदार्थं स्फुरितमस्याशंसितं हृदयमासीत्. [^३]G. चिरम्. [^४]G. दुराशा. [^५]G. अभिबन्धनस्य. [^६]G. उन्मुखस्य. [^७]G. रुदन्तीम्. [^८]G. आगत्य. [^९]G. आत्मतमः. [^१०]G. षट्कर्मवान् [^११]G. स्वस्तीत्युक्त्वा. [^१२]G. व्यतज्ञपयत्. [^१३]G. सर्वत्रैव. [^१४]G. अमुना. [^१५]G. आकुलीक्रियमाण. मातृगृहस्य पृष्ठतस्तिष्ठति । पृच्छति च देवीम् – 'किमेभि: कथितम्? जीवति मे वत्सो वैशम्पायन: ? स्वस्थशरीरो वा ? ढौकितो वा पुनर्युवराजस्य । [^१]क्व वर्तते । तावागमिष्यतो वा कियद्भिर्दिवसैः' इति । राजा तु तदुपरतिवार्ताया अपि कष्टतममाकर्ण्य दीर्ण इव शुचा, शतगुणीभूतशोको [^२]त्प्लुताङ्गी विलासवतीमवादीत् - 'देवि, न श्रुतं किंचि [^३]दपि वत्सयोः प्रियसख्या ते । अन्यतश्च श्रुत्वा कदाचिज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ । स्वयमेव धैर्यमालम्ब्य सर्ववृत्तान्तानुकथनेन [^४]संस्थापय प्रियसखीं [^५]तथा यथार्यशुकनासेन सह यातव्यम्' इत्येवमुत्थाप्य सपरिजनां विलासवतीं व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत् । अथ तथा प्रस्थिते राजनि राजानुरागाच्चन्द्रापीडस्नेहेन चाश्चर्यदर्शन- कुतूहलाय प्रथमगतपितृपुत्र भ्रातृमित्रस्वजनदर्शनाय च गृहरक्षक- वर्जमुज्जयिन्याः सकल एव लोको गन्तुमुदचलत्। राजा तु शीघ्रगमनविघातहेतून्समस्तानेव [^६]निवर्त्य प्रलघुपरिकरः पिबन्निव पन्थानम्, एक दिवसेनैव परापतितुमीहमानः स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन 'कियत्यध्वन्यद्यापि वर्तामहे, कति [ टि ]-- गता न प्राप्ता । तदेषा मनोरमा मातृगृहस्य पृष्ठतः सदनस्य पृष्ठिविभागतस्तिष्ठति स्थितास्ते । देवीं विलासवतीं च पृच्छति प्रश्नं करोति । एभिर्लेखहारिभिः किं कथितं किं प्रतिपादितं संदेशहारकैः किमुक्तम् । मे मम वत्सो वैशम्पायनो जीवति प्राणिति स्वस्थं नीरुजं शरीरं यस्यैवंभूतो वा ढौकितो वा मिलितो वा पुनर्युवराजस्य चन्द्रापीडस्य । क्व वर्तते तिष्ठति । कियद्भिर्दिवसैस्तौ द्वौ चन्द्रापीडवैशम्पायनावागमिष्यत आगमनं करिष्यत इति । राजा तु तदुपरतिवार्ताया मृत (ति) वार्तायाः किंवदन्त्या अपि [^1]कष्टतममतिकष्टं समाकर्ण्य शुचा दीर्ण इव शीर्ण इव शतगुणीभूतो यः शोकस्तेनोद्भुतं व्याप्तमङ्गं यस्याः सैवंविधां विलासवतीमवादीदब्रवीत् । हे देवि, ते तव प्रियसख्या मनोरमया वत्सयोः पुत्रयोश्चन्द्रापीडवैशम्पायनयोः किंचिदपि न श्रुतं नाकर्णि- तम् । अन्यतः परेभ्यः श्रुत्वाकर्ण्य कदाचिज्जीवितेनैव प्राणितेनैव वियुज्यते मुच्यते । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुर्वभ्युत्थानं निष्पादय । स्वयमेवात्मनैव धैर्यमालम्ब्य सर्ववृत्तान्तस्य समग्रो- दन्तस्यानुकथनेन पश्चात्कथनेन प्रियसखीं तथा संस्थापय संस्थापनां कुरु यथार्यशुकनासेन सह यातव्यं गन्तव्यं भवति । इत्येवंप्रकारे- णोत्थाप्य सपरिजनां सपरिच्छदां सपरिवारां विलासवतीं व्यसर्ज- यत्तत्र गमनायाज्ञां दत्तवान् । आत्मनापि शुकनासेन सह गमन संविधानं प्रयाणसामग्रीमकारयच्चलनविधिं व्यधापयन्निष्पादयत् । अथ तथा प्रस्थिते तेन प्रकारेण चलिते राजनि नृपे, राज्ञोऽनुरा- गात्स्नेहात्प्रीतेः, चन्द्रापीडस्य स्नेहेन प्रेम्णा चाश्चर्यस्य दर्शनमव- लोकनं तस्मिन्कुतूहलं कौतुकं तस्मै, प्रथममादौ गता ये पितरो जनकाः, पुत्राः सुताः, भ्रातरो बान्धवाः, मित्राणि सुहृदः, स्वजना ज्ञातयः, तेषां दर्शनायावलोकनाय च गृहरक्षकवर्जं सद्मरक्षकान्विहायोज्जयिन्या विशालायाः सकल एव लोको गन्तुं गमनायो- दचलदुदपतत् । राजा तु नृपोऽपि शीघ्रं यद्गमनं तस्य विघात- हेतून्गमनप्रतिबन्धकारिणः समस्तानेव सर्वानेव निवर्त्य विसर्ज्य, प्रलघुपरिकरः स्वल्पपरिवारः पन्थानं मार्गं पिबन्निव पानं कुर्वन्निव । एकदिवसेनैव परापतितुं प्राप्तमीहमानोऽभिलषमाणोऽभिवाञ्छमानः स्तोकत एवाध्वनो मार्गात्प्रभृति च हृदयेनोत्ताम्यतोत्तपता वक्षसोत्तपताद्यापि कियत्यध्वनि वर्तामहे [^1]F. मरणवार्तातोऽपि अतिकष्टकरं मनोरमाया वाक्यं समाकर्ण्येत्यर्थः । उत, न केवलं वैशम्पायनस्य मरणमेव, परं ततोपि कष्टतरं महाश्वेतोपसर्पणादिकं समाकर्ण्येत्यर्थः । [^१]G. का वार्ता क्व वा वर्तते. [^२]G. उत्प्लुताक्षीम्. [^३]G. वत्सयोः कृते किंचिदपि. [^४]G. संस्तम्भय. [^५]G. तथापि. [^६]G. निर्वर्त्य. का० ८४ पयैर्दिवसैः परापताम:' इति मुहुर्मुहुस्तुरंगगारोपितं त्वरितक [^१]माहूय पृच्छ [^२]न्नविच्छिन्नकैः प्रयाणकैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च विकल्पशतदोलाधिरोहण- दुःस्थितेनान्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्तान्वे- षणाय त्वरितकेन [^३]सार्धं प्रहितवान् । अथ तैः सार्धमागच्छन्तम्, उज्झितात्मसंस्कार [^४]मलिनकृश- शरीरम् अवनितलनिवेशितोत्तमाङ्गम्, उद्बाष्पदीनतरदृष्टिम्, जीवितलज्जया रसातलमिव प्रवेष्टुमीहमानम्, अहमहमिकया परस्परावरणेनैवात्मदर्शनमभिरक्षन्तम् अक्षतमपि हतमिव, सपरि- च्छद्मपि मुषितमिव, जीवन्तमपि मृतमिव, ससंभ्रमकृतागमनमपि प्रतीपमाकृष्यमाणचरणमिव, अङ्गैरेव सह गलितोत्साहम्, [^५]चा- पेनैव सह मुक्तात्मानम्, वैक्लव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सकलमेव चन्द्रापीडचरणतलनिबद्धजीवितं राजपुत्रलोकमालोक्यो [^६]ल्लसित [^७]नयनः शोकोर्मिवेगाक्रान्तोऽप्युच्छ्वसित इव दृढीभूतचन्द्रापीडदेहाविनाशप्रत्ययेनान्तररात्मना निवृत्य सावरण- पर्याणवर्तिनीं विलासवतीमवादीत् - 'देवि, दिष्ट्या वर्धसे । ध्रियते सत्यमेव शरीरेण वत्सः । येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्तत्पादमूलादागतः' इति । [ टि ]-- कियति मार्गे वयं स्मः, कतिपयैर्दिवसैः परापतामो गच्छाम इति च मुहुर्मुहुस्तुरंगमारोपितं न्यस्तमारूढं त्वरितकनामानं सेवकमाहूयाह्वानं कृत्वामन्त्रणं विधाय पृच्छन्प्रश्नं कुर्वन्नविच्छिन्नकै- र्निरन्तरैरन्तररहितैः प्रयाणकैर्गमनैर्वहन् चलन्नबहुभिरेव स्तोकैरेव दिवसैर्वासरैरच्छोदं सर आससाद प्राप्तवान् । आसाद्य च प्राप्य च विकल्पानां संकल्पानां शतं तदेव दोला प्रेङ्खा तदधिरोहणमव- स्थानं तेन दुःस्थितेन दुःखितेनैवविधेनान्तरात्मनान्तःकरणेन दूर- स्थितो दविष्ठस्थितः प्रथममादावाप्ततमानतिशयेन यथार्थोपदेष्टॄ- नश्ववारान्सादिनो वार्तान्वेषणाय वृत्तान्तज्ञप्त्यर्थं त्वरितकेन सार्धं प्रहितवान्प्रेषितवान् । अथेति । तैः पूर्वप्रेषितैः सार्धं समागच्छन्तमायान्तमुज्झितस्यक्त आत्मसंस्कारः क्षालनादिरूपो येन स तम् । मलिनं कश्मलं कृशं क्षामं शरीरं यस्य स तम् । अवनितले निवेशितानि स्थापितान्युत्त- माङ्गानि शिरांसि येन स तम् । उद्बाष्पेणोद्गत [^1]नेत्राश्रुणादीन- तरातिदुःखिता दृष्टिर्यस्य स तम् । जीवितलज्जया प्राणितत्रपया रसातलमिव पातालमिव प्रवेष्टुं प्रवेशं कर्तुमीहमानं स्पृहमानम् । अहमहमिकयाहं पूर्वमहं पूर्वमिति स्वरूपया । 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः' इत्यमरः । परस्परमन्योन्य- मावरणमाच्छादनं तेनात्मदर्शनं स्वावलोकनमभिरक्षन्तं रक्षां कुर्वन्तम्, अक्षतमप्यखण्डमपि इतमिव कृतक्षतमिव, सपरिच्छद- मपि सपरिवारमपि सपरिस्कन्दमपि मुषितमिव लुण्ठितमिव, जीवन्तमप्यसुमन्तमपि तमिवोपरतमिव, ससंभ्रमं सादरं दरेण भयेन सहितं सभयं वा कृतं विहितमागमनं येनैवंविधमपि प्रतीपं विलोमम् । पश्चादिति यावत् । आकृष्यमाणौ चरणौ यस्य स तम् । सहाङ्गैरेव गलितश्च्युत उत्साहो यस्य स तम् । चापेन धनुषा सह मुक्तस्त्यक्त आत्मा येन स तम् । वैक्लव्येनैव विह्वलत्वेनैव सहोपसर्पन्तं [^2]गच्छन्तम्, मेघनादः पुरःसरोऽग्रगामी यस्य स तस् । सकलमेव समस्तमेव चन्द्रापीडस्य चरणतलं तत्र निबद्धं स्थापितं जीवितं येन स त । एवंविधं राजपुत्रलोकं नृपसुतजन- मालोक्य वीक्ष्योल्लसिते नयने लोचने यस्य सः । शोकस्य शोचनस्योर्मयस्तरंगाः कल्लोलास्तेषां वेगो रयस्तेनाक्रान्तोऽपि व्याप्तोऽप्युच्छ्वसित इवोल्लसित इव दृढीभूतः कठिनीभूतो निश्चितचन्द्रापीडदेहस्याविनाशप्रत्ययो यस्यैवंभूतेनान्तरात्मना निवृत्य सावरणं यत्पर्याणं पल्ययनं तत्र वर्तिनीं विलासदतीमवादीत् । किं तदित्याह - हे देवि त्वं दिष्ट्या भाग्येनादृष्टेन वर्धस एधसे । येन कारणेन वत्स: सत्यमेव शरीरेण ध्रियते धार्यते । येन हेतुना सकल एव समग्र एवायं तस्य वत्सस्य चरणकमलं पादसरोज- मनुजीवतीत्येवंशीलो राजपुत्रलोको नृपसुतजनस्तस्य चन्द्रापीडस्य चरणमूलादागत इति । [^1]F. उद्बाष्पा दीनतरा दृष्टिर्यस्य तमित्यर्थो योग्यः । [^2]F. आगच्छन्तमित्यर्थो योग्यः । [^१]G.आहूयाहूय. [^२]G. अविच्छिनैश्च. [^३]G. सह. [^४]G. मलिनीकृत. [^५]G. बाष्पेण. [^६]G. नवीन. [^७]G. तनय. सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्चला निश्चलया दृष्ट्या चिरमि [^१]वालोक्य तनयनिर्विशेषं राजपुत्रलोक [^२]मविच्छिन्नाश्रुधारापि धैर्यमुन्मुच्योच्चैरारटितवती- ' हा वत्स, कथं सहपांसुक्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे' इति । तथा रदन्तीं तु तां समाश्वास्य, दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोत्तमाङ्गं मेघनादम् 'इतो ढौकस्व' [^३]इत्यादिश्योद्दिश्याप्राक्षीत् - 'मेघनाद, कथय को वृत्तान्तो वत्सस्य इति । स तु व्यज्ञापयत् - 'देव, चेतनाविरहाचेष्टामात्रक- मेवापगतम्, शरीरे पुनर्ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः समुपजायते' इति । राजा तु तच्छ्रुत्वा जीवितप्रतिलम्भे समुपजात- प्रत्याशः 'श्रुतं देव्या मेघनादस्य वचनम्, तदेहि, चिरात्पुनः कृतार्थ- यामो दर्शनेनात्मानम्, पश्यामो वत्सस्य वदनम्' इत्यभिधान एवाभिवर्धितगतिविशेषया करेण्वा महाश्वेताश्रममगमत् । अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरैः प्रकीर्णतार- मुक्तानुकारिनयन [^६]बिन्दु सं [ टि ]-- सा त्विति । सा विलासवती किंचिदात्मपाणिनैव स्वकीयकरेणैवोत्सारितमूर्ध्वीकृतमावरणसिचयस्याच्छादनस्य वस्त्रस्याञ्चलं प्रान्तं यया सा । 'सिचयो वसनं चीराच्छादौ सिक्चेल- वाससि । पटप्रान्ताञ्चलस्यान्ते' इति हैमः । निश्चलया निर्निमेषया मेषोन्मेषरहितया दृष्ट्या दृशा चिरमिव बहुकालसदृशं तनयनिर्वि- शेषं यथा स्यात्तथालोक्य निरीक्ष्याविच्छिन्नाऽत्रुटिताऽश्रुधारा [^1]य- स्यामेवंविधापि धैर्यं साहसमुन्मुच्य संत्यज्योच्चैर्गाढस्वरेणात्यर्थमा- रटितवती रोदनं कृतवती, तदेव दर्शयन्नाह - हा इति । हा इति खेदे । हे वत्स हे पुत्र हे सुत, सहपांसुक्रीडितस्य सार्धं रजःकालित- स्यैतावत इयतो राजपुत्रलोकस्य नृपसुतजनस्य मध्येऽन्तरा त्वमेव भवानेवैको न दृश्यसे त्वत्सदृशो न दृश्यसे न दृग्विषयीभवसि इत्यमुना प्रकारेणानेकप्रकारेण तथा रटन्तीं रुदन्तीं तु तां विलासवतीं समाश्वास्याश्वासनां कृत्वा राजा तारापीडो दूरत एव दविष्ठ एव दूरस्थ एव सर्वलोकेन समं सर्वजनेन सार्धमवनितले वसुधातले निवेशितमुत्तमाङ्गं येनैवंभूतं मेघनादमितो ढौकस्खेति [^3]आनीहीत्यादिश्येत्युक्त्वोद्दिश्य नाममात्रग्रहणं कृत्वाप्राक्षी- दपृच्छत् । तदेव दर्शयन्नाह - मेघेति । हे मेघनाद, कथय ब्रूहि वत्सस्य पुत्रस्य कः कीदृशो वृत्तान्त इति । स तु मेघनादो व्यज्ञापयद्विज्ञप्तिमकार्षीत्। हे देव हे स्वामिन्, चेतनाविरहाज्ज्ञाना- भावादज्ञानभावाच्चेष्टामात्रकमेव केवलं चलनादिक्रियामात्रं शरीरे [^5]देहे पुनरपगतं निवृत्तं ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः प्रचुरद्युतिः समुपजायते समुत्पद्यत इति । राजा तु तच्छ्रुत्वा तदाकर्ण्य जीवितप्रतिलम्भे जीवितप्राप्तौ समुपजाता प्रत्याशा स्पृहा यस्य स मेघनादस्य वचनं देव्या श्रुतमाकर्णितम् । तदेहि । चिरा- चिरकालेन प्रचुरकालेन पुनरात्मानं दर्शनेनावलोकनेन निरीक्षणेन कृतार्थयामः कृतार्थीकुर्मः । वत्सस्य वदनं पश्याम इत्यभिदधान एवेति कथयन्नेवेति वदन्नेवाभिवर्धितो वृद्धिं प्रापितो गतिविशेषो यस्याः सा तया करेण्वा हस्तिन्या कृत्वा । तामारुह्येत्यर्थः । महा- श्वेताश्रममगमत् । अथेति । तद्गमनानन्तरं सहसैवाकस्मादेव तच्चन्द्रापीडस्य गुरु- जनस्य मातृपितृजनस्यागमनमाकर्ण्य श्रुत्वा प्रकीर्णा [^6]विक्षिप्ता- स्तारा उज्ज्वलानि यानि मुक्ताफलानि ता अनुकरोतीत्येवंशीलः प्रकीर्णतारमुक्तानुकार्येवं [^1]F. 'यस्याः' इत्युचितम् । [^2]F. मार्गे गच्छतः पुनः प्रलापोयम् । सर्वे दृश्यन्ते, त्वमेवैको न दृश्यसे, इत्येवार्थः । [^3]F. ढौकस्व आगच्छ । टीकाकारस्य तु लोकान्तरगतं व्याकरणम् । [^4]F. उद्दिश्येति पाठो भ्रष्टैः परिगृहीत एव । [^5]F. चेष्टामात्रकमेवाऽपगतम्, शरीरे दिवसे दिवसेऽभ्यधिका- कान्तिः समुपजायते इति ज्ञायते । अयमन्वयो योग्यः । [^6]F. प्रकीर्णानि इत्यादि क्लीबत्वं वाच्यम्, टीकाकारबुद्ध्या लेखकदोषाद्वा अत्र प्रमादो दृश्यते । [^१]G. विलोक्य. [^२]G. अवच्छिन्न. [^३]G. उद्दिश्योद्दिश्य; इत्यादिश्य. [^४]G. व्यज्ञपयत्. [^५]G. पुनः. [^६]G. संदोहम्. दोहा 'हा, हतास्मि मन्दपुण्या दुःखैकभागिनी । न जानाम्येव विस्मृतमरणा कियद्यावदहमनेनानेक [^१]प्रकारं खलीकार- दानैकपण्डितेन दग्धवेधसा परं दग्धव्या' इत्यभिधानैव धावित्वा ह्रिया महाश्वेता [^२]गुहाभ्यन्तरमविशत्, चित्ररथतनयापि सत्वरोपसृतसखीकदम्बकावलम्बितशरीरा तूष्णीमेव मोहान्ध- कारम् । तदवस्थयोश्च तयोः शुकनासावलम्बितशरीरो राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरः प्रधावितोत्प्लु- तायततरदृष्टि: 'क्व मे वत्सः' इति पृच्छन्ती विलासवती । प्रविश्य च [^३]सह तयैव कान्त्याऽविरहितमुपरत सर्वप्रयत्नं [^४]सुप्तमिव तं [^५]पुत्रवत्सला तनयमालोक्य यावन्न परापतत्येव तारापीड- स्तावद्विलासवती विधारयन्तीं मनोरमामप्याक्षिप्य दूरत एव प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभिः प्रस्रवेण च सिञ्चन्ती महीतलम् 'एह्येहि जात दुर्लभक, चिरादृष्टोऽसि, देहि मे प्रतिवचनम् । आलोकय सकृदपि माम्, अनुचितं तात तवैतदव- स्थानम् । उत्थायाङ्कोपगमनेन मे संपादय तनयोचितं स्नेहम् । न [^६]चानाकर्णितपूर्वं बाल्येऽपि त्वया मद्वचनम्, अद्य किमेवं विलपन्त्या [ टि ]-- विधो नयनबिन्दुर्लोचनबिन्दुसंदोहो यस्याः सा तथा । हा अहं हतास्मि पीडितास्मि । कीदृशी । मन्दं स्वल्पं पुण्यं यस्याः सा । पुनः कीदृशी । दुःखमेकं केवलं भजतीत्येवंशीला सा तथा । अहं न जानाम्येव नावबुध्ये एव । विस्मृतं विस्मरणतां गतं मरणं मृत्यु- र्यस्याः सा । कियद्यावदहमनेन दग्धवेधसा ज्वलितब्रह्मणानेक- प्रकारं यथा स्यात्तथा खलीकारस्य स्खलनविधेः प्रदान एकपण्डि- तेनात्यन्तचतुरेण दग्धव्या दहनीया ज्वालनीया । इत्यभिदधानैवेति कथयन्त्येव ह्रिया त्रपया धावित्वा धावनं कृत्वा महाश्वेता गुहाभ्यन्तरमविशद्दरीमध्यमाविवेश । चित्ररथतनयापि कादम्बर्यपि सत्वरं शीघ्रमुपसृतं पार्श्वे समीप आगतं सखीकदम्बकं तेनावलम्बितं स्तम्भितं शरीरं यस्याः सा तूष्णीमेव मौनमेव मोहान्धकारमावि- शन्मूर्च्छामगमत् । तदवस्थयोस्तादृशयोश्च तयोर्महाश्वेताकादम्बर्योर्द्वयोः सत्योः, शुकनासेनावलम्बितं धृतं शरीरं यस्यैवंभूतो राजा- श्रमपदं विवेश प्राविशत्प्रवेशं चकार । तदनु पश्चान्मनोरमयाव- लम्बिता, पुरोऽग्रे प्रधाविता चञ्चलायततरातिदीर्घा दृष्टिर्यस्याः सा क्व मे मम वत्स इति पृच्छन्ती प्रश्नयन्ती विलासवती [^1]तयैव मनोरमयैव सह प्रविश्य च प्रवेशं कृत्वैव सहजया स्वाभाविकया कान्त्याऽविरहितं दीप्त्या सहितं ( कान्त्या सहित ) मुपरतो निवृत्तः सर्वः प्रयत्न [^2]उद्यमो यस्मात्स तम् । अत एवोत्प्रेक्षते । सुप्तमिव कृतनिद्रमिव निद्रावशमिव, पुत्रे सुते सूनौ वत्सला हितकारिणी तनयं पुत्रं सुतमालोक्य यावन्न परापतत्येव पश्चादागच्छत्येव तारापीडस्तावद्विलासवती विधारयन्ती देहावष्टभ्भं कारयन्तीं मनोरमामप्याक्षिप्याक्षेपणं कृत्वा दूरत एव दविष्ठत एव प्रसारितं विस्तारितं बाहुलताद्वयं भुजवल्लीयुग्मं यया सा रयेण वेगेनो- [^3]न्मुक्तात एव प्रान्ते जर्जराः शिथिलास्ताभिर्नयनयोर्जलधाराभि- रनुसंतानैः प्रस्रवेण स्तनोद्गतदुग्धेन च महीतलं सिञ्चन्ती सेकं कुर्वन्ती सेचनं कुर्वन्ती --- हे जात हे पुत्र हे वत्स, एह्येत्यागच्छा- गच्छ । हे दुर्लभक हे दुष्प्राप, चिराच्चिरकालाद्बहुकालेन दृष्टोऽस्य- वलोकितोऽसि निरीक्षितोऽसि । मे मम प्रतिवचनं प्रत्युत्तरं देहि । मां सकृदपि चैकवारमप्यालोकय दृग्विषयीकुरु दृष्ट्यावलोकनं कुरु । हे तात हे पितः, तवैतदवस्थानमनुचितमन्याय्यम् । उत्थायोत्थानं कृत्वाङ्के क्रोडे उत्सङ्गे यदुपगमनं तेन मे मम तनयोचितं पुत्रन्याय्यं तनययोग्यं स्नेहं प्रेम संपादय विधेहि । बाल्येऽपि बाल्यावस्थायामपि त्वया भवता मद्वचनं मातृवचो न चानाकर्णितपूर्वं न चाश्रुतपूर्वम् । अद्य किं जातम् । एव [^1]F. 'प्रविश्य च सहजयैव कान्त्याऽविरहितम्' इत्येव पाठः । [^2]F. निवृत्तसर्वचेष्टमित्यर्थः [^3]F. उन्मुक्ताः अत एव, इति शुद्धं बोध्यम् । [^4]F. मन्ये, टीकाकारस्य समये समये प्रमाद - वेतालावेशो भवति यत् 'तातः पितरि पुत्रे च' इति स्थाने स्थाने स्वयं लिखन्नपि, अत्र विस्वरं गायति । [^१]G. प्रकार. [^२]G. गृहा. [^३]G. सहजया. [^४]G. पुस्तमयमिव; प्रस्तरमयमिव. [^५]G. पुत्रवत्सलः. [^६]G. अनाक्रमितपूर्वम् ; अनवकर्णितपूर्वम्. अपि न शृणोषि ? जात, केन रोषितोऽसि ? एषा तोषयामि वत्सं पादयोर्निपत्य । पुत्र चन्द्रापीड, प्रणम तावत्प्रत्युद्गम्य त्वत्स्नेहादेवा- तिदूरमागतस्यापि पितुः पादौ । क्व सा गता ते गुरुभक्तिः ? क्व ते गुणाः ? क्व स स्नेहः ? क्व सा धर्मज्ञता ? क्व तत्पितृपक्षपातित्वम् ? क्व सा बन्धुप्रीतिः ? क्व सा परिजनवत्सलता ? कथमभाग्यैर्मे सर्व- मेकपद एवोत्सृज्यैवमौदासीन्यमवलम्ब्यावस्थितोऽसि । अथवा यथा ते सुखं तथा तिष्ठ । [^१]वयमुदासीनहृदयास्त्वयि' इति कृतार्तप्रलापा समुपसृत्य पुनः पुनर्गाढमालिङ्याङ्गानि, शिरः समा- घ्राय, कपोलौ चुम्बित्वा, चन्द्रापीडस्य चरणावुत्तमाङ्गे कृत्वोन्मु- क्तकण्ठमरोदीत् । तथा रुदन्तीं तु तामन्तरित निजपीडस्तारापीडश्चन्द्रापीडमपरिष्व- ज्यैव सर्वप्रजापीडापहरणक्षमाभ्यां [^२]भुजाभ्यामवलम्ब्याब्रवीत् – 'देवि, [^३]यद्यथाऽऽवयोः सुकृतै [^४]रपत्यतामुपगतस्तथापि देवतामूर्तिरेवायमशोचनीयः । त [^५]न्मुच्यतामयमिदानीं [^६]मनुष्यलोकोचितः शोचितव्यवृत्तान्तः । [^७]अस्मिञ्छोके कृते न किंचिदपि भवति । केवलं गल एव स्फुटति, रटतो न हृदयम् । [ टि ]-- ममुना प्रकारेण विलपन्त्या प्रलपन्त्या अपि न शृणोषि नाकर्णयसि । हे जात, केन रोषितः क्रोधं प्रापितोऽस्यसूयां प्रापितोऽसि । एषा विलासवती पादयोश्चरणयोर्निपत्य निपतनं कृत्वा प्रणामं कृत्वा वत्सं पुत्रं तोषयामि संतोषयामि तुष्टिमुत्पाद- यामि । हे पुत्र हे वत्स हे सूनो चन्द्रापीड, प्रत्युद्गम्य संमुखमागम्या- भिमुखमागत्य तावदादौ त्वत्स्नेहात्तव प्रेम्णस्त्वत्प्रीतेरेवातिदूर- मागतस्यातिदविष्ठमागतस्य पितुस्तारापीडस्य पादौ चरणौ प्रणम नमस्कुरु । सा ते तव गुरुभक्तिः पितर्याराध्यत्वेन ज्ञानं श्रद्धा वा वासना वा क्व गता कुत्र याता । ते तव गुणा भवद्गुणाः शौर्यादयः क्व । स प्राक्तनः स्नेहः प्रेम क्व । सानिर्वचनीया वक्तुमशक्या धर्मज्ञता वृषवेत्तृता धर्मज्ञातृता क्व । तत्सर्वप्रसिद्धं पितृपक्षपातित्वं क्व जनकमताश्रयित्वं क्व । सा बन्धुप्रीतिः क्व स्वजनेषु स्नेहः क्व स्वजनेषु प्रेम क्व । सा परिजने परिच्छदे वत्सलता हितकारिता क्व । ममाभाग्यैर्दुर्देवैर्मे ममैकपद एव सर्वमुत्सृज्यैव त्यक्त्वैव कथमौदा- सीन्यं माध्यस्थ्यमवलम्ब्यालम्बनीकृत्यावस्थितोऽसि अथवेति पक्षान्तरे । यथा ते तव सुखं तथा तेन प्रकारेण तिष्ठावस्थानं कुरु । वयं तूदासीनमुदासतां गतं हृदयं चेतो येषां ते तथोक्तास्त्वयि विषये । इति कृत आर्तप्रलापो यया सैवंविधा विलासवती समुप- सृत्य समीपे गत्वा पुनः पुनर्वारंवारमङ्गानि हस्तादीनि गाढं दृढमालिङ्ग्याश्लिष्य शिर उत्तमाङ्गं समाघ्रायाघ्राणं कृत्वा कपोलौ प्रसिद्धौ चुम्बित्वा चुम्बनं कृत्वा चन्द्रापीडस्य चरणौ पादावुत्तमाङ्गे शिरसि कृत्वोन्मुक्तकण्ठं यथा स्यात्तथारोदीद्रुदनं चकार । तथा प्रकारेण रुदन्तीं तु तामन्तरिता व्यवहिता निजपीडा [^1]येन स एवंभूतस्तारापीडश्चन्द्रापीडमपरिष्वज्यैवानालिङ्गयैव सर्वप्रजायाः समग्रलोकस्य सर्वप्रकृतेः सकलजनस्य पीडार्तिस्तस्या अपहरणे दूरीकरणे क्षमाभ्यां समर्थाभ्यां भुजाभ्यां बाहुभ्यामवलम्ब्यालम्बनी- कृत्याब्रवीदभ्यधादवोचत् । किं तदित्याह — देवेति । हे देवि, यदिति हेत्वर्थे । यथा येन [^2]प्रकारेणावयोस्तारापीडविलासवत्योः सुकृतैः पुण्यैरपत्यतां प्रसूतितामुपगतः प्राप्तः । 'सुकृती पुण्य- वान्धन्यः' इति कोशः । तथाप्ययं देवतामूर्तिरेव देवस्वरूप एवा-शोचनीयो न शोचनीयः शुचं कर्तुमयोग्यः । तत्तस्माद्धेतोरिदानीं सांप्रतमयं मुच्यतां त्यज्यताम् मनुष्यलोकस्योचितो योग्यः शोचित- व्यवृत्तान्तः [^1]F. यस्य, स्वां पीडामगणयन्नित्यर्थः । [^2]F. 'यद्यप्यावयोः सुकृतैरपत्यतामुपगतः' इति पाठो मनोरमः । [^१]G. औदासीन्य; अनुदासीन. [^२]G. दोर्भ्याम्. [^३]G. यद्यप्यावयोः. [^४]G. उपगतोऽपत्यताम्. [^५]G.. तन्मुच्यताम्. [^६]G. मनुष्यस्नेहोचितशोचितव्यवृत्तान्तस्य; मनुष्यलोकोचितः परिशोचितव्यवृत्तान्तः [^७ न शोके कृते. निरर्थकं प्रलपितमेव निर्याति [^१]वदनान्न जीवितम् । निरासङ्गं नयनजलमेव पतति न शरीरम् । अपि च वत्सस्यादर्शनमात्र- मेवावयोः पीडाकरम् । तच्चैवमालोक्यमाने मुखेऽस्य दूरापेतम् । अपरमस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भं कृत्वा मनोरमा शुकनासश्च संधारणीयौ ययोर्लोकान्तरितो वैशम्पायनः । [^२]तिष्ठ- तां तावदेतावपि । यस्याः प्रभावात्पुनरनुभवनीयो [^३]वत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः सैवैवं गन्धर्वराजतनया वधू- स्तेऽस्मदागमनशोकोर्मिसंक्रान्तिमूढा सनामप्रहणमुन्मुक्ताक्र- न्दाभिः प्रियसखीभिर्ग्रा [^४]ह्यमाणाऽद्यापि संज्ञां न प्रतिलभते । [^५]तदेनां तावदु [^६]त्थाप्याङ्के कृत्वा चेतनां लम्भय । ततो यथेच्छं रोदिष्यसि । इत्यभिहिता राज्ञा [^७]विलासवती - 'क सा मे वत्सस्य जीवित- निबन्धनं वधूः' इत्यभिदधत्येव ससंभ्रम [^८]मुपसृत्याप्रतिपन्नसंज्ञा- मेवाङ्केनादाय, कादम्बरी करेण, [^८]मूर्च्छानिमीलनाहितद्विगुणतरनयनशोभं वदनमालोक्य, अनवरतनयनसलिलस्नानार्द्रमिन्दु- शकलशीतलं स्वकपोलं कपोलयोः, [^१०]ललाटे ललाटम्, लोचनयोश्च लोचने निवेशयन्ती, चन्द्रापीडस्पर्शशिशिरेण च पाणिना [ टि ]-- शोचनाई: शोचितव्यस्तस्य वृत्तान्त उदन्तः । अस्माकं शोके कृते न किंचिदपि भवति नाधिकं किमपि जायते । केवलं रटतो रुदतो गल एव निगरण एव स्फुटति स्फोटं प्राप्नोति न हृदयम् । वदनान्मुखान्निरर्थ व्यर्थं प्रलपितं जल्पितमेव निर्यात बहिरायाति न जीवितं न प्राणितम् । निरासङ्गं निःसंबन्धं नयनजलमेवाश्रुपानीयमेव पतति स्रंसते न शरीरं न देहः । अपि चेति । वत्सस्य चन्द्रापीडस्यादर्शन मात्रमेवानवलोकनमात्रमेवानिरीक्षणमात्रमेवावयोः पीडाकरमार्तिजनकम् । अस्य चन्द्रापीडस्यैव मालोक्यमाने मुखे तद्दूरापेतं दविष्ठापेतं दूरापास्तम् । अपरमन्यदस्यामवस्थायां दशायामावाभ्यामपि दम्पतीभ्यामपि परममुत्कृष्टमवष्टम्भं प्रतिबन्धं कृत्वा मनोरमा शुकनासश्च संधारणीयौ । मृत्यो रक्षणीयावित्यर्थः । ययोर्द्वयोर्मध्ये लोकान्तरितो वर्तते वैशम्पायनः । तिष्ठतां वा तावदेतावपि मनोरमा शुकनासावपि तिष्ठतामित्यर्थः । यस्याः कादम्बर्याः प्रभावात्पुनर्वत्सस्य जीवितस्य प्रतिलम्भः प्रकर्षेण लाभस्तस्याभ्युदयस्तस्य मह उत्सवोऽनुभवनीयोऽनुभवविषयीकरणीयः । सैवेयं गन्धर्वराजतनया ते तव वधूरस्माकमागमनेन यः शोकः शुक् तस्योर्मयस्तरङ्गाः कल्लोलास्तेषां संक्रान्तिः संक्रमणं तेन मूढा अज्ञा सामग्रहणं नामग्रहणपूर्वं यथा स्यात्तथोन्मुक्त आक्रन्दो याभिरेवंविधाभिः प्रियसखीभिग्रह्यमाणा ध्रियमाणा अद्यापि सांप्रतमपि संज्ञां चेतनां न प्रतिलभते । तत्तस्माद्धेतोस्तावदादावेनामुत्थाप्याङ्क उत्सङ्गे कृत्वा चेतनां संज्ञां लम्भय प्रापय । ततो यथेच्छं इच्छा यथा स्यात्तथा रोदिष्यसि रुदनं करिष्यसि । इति राज्ञाभिहिता कथिता विलासवती मे मम वत्सस्य जीवितनिबन्धनं कारणं वधूः केत्यभिदधत्येवेति कथयन्त्येव ससंभ्रमं संभ्रमेण सहितं ससंभ्रमं सादरं सभयं वोपसृत्य समीपे निकटे गत्वाप्रतिपन्नसंज्ञामेवाप्राप्तचेतनामेवाङ्केनोत्सङ्गेनादाय कादम्बरीं मूर्च्छानिमीलनेनाहिता स्थापिता द्विगुणतरनयनशोभा यस्मिन्नेतादृशं वदनं मुखमालोक्य निभाल्यानवरतं निरन्तरं नयनसलिलेन लोचनजलेन स्नानमाप्लवस्तेनार्द्रमुन्नमत एवेन्दुशकलवञ्चन्द्रखण्डवच्छीतलं शिशिरं स्वकपोलं कपोलयोर्ललाटं ललाटे, लोचनयोश्च लोचने, निवेशयन्ती स्थापयन्ती । 'अधटिप्प० - I अपूर्वोऽयमर्थः । ययोर्वर्तमानयोः, ययोर्वैशम्पायनः ( यरपुत्रो वैशम्पायनः, तथा च संबन्धे षष्ठी ) इत्यर्थो वा योग्यः । 2 टीकाकारकरप विनिता दुस्मापाठान्नीचैर्वृतः पाठो रम्यः । व्याख्या स्पष्टा, टीकयाऽनया सुगमा च । पाठा० -१ परं वदनात्. २ तिष्ठ; तिष्ठेताम्. ३ अस्य ४ गृह्यमाणापि ५ एताम्. ६ अङ्के कृत्वोत्थाप्य ७ विलासवती तु तच्छ्रुत्वा ससंभ्रमोन्मुक्तचन्द्रापीडचरणा तत्क सा मे जीवितप्रतिलम्भहेतुर्वत्सरय वधूरिति धावमाना चोपसृत्य तदवस्थां तु तामुत्थाप्याके कृत्वा मूर्च्छानिमी लनाहितद्विगुणतरनयनशोमं वदनमालोक्य. ८ अप्रतिपत्तिसंशाम. ९ निमीलित १० ललाटेन. [^१]हृदये स्पृशन्ती 'समाश्वसिहि [^२]मातः, त्वया विनाऽद्य प्रभृति केन संधारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् ? मातः, त्वममृत- मयीव जातासि, येन वत्सस्य पुनर्वदनमालोकितम्' इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च [^३]तन्निर्विशेष- वृत्तिना विलासवतीशरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव यथाक्रममकार्यत वन्दनां गुरूणाम् । 'आयुष्मति, दीर्घकालमविधवा भव' इति कृताशीर्वादा च [^४]शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याघार्यत । अथ प्रत्यापन्नचेतनायां चित्ररथतनयायां चन्द्रापीडमेवोज्जीवितं मन्यमानो राजा चिरमिवास्य गाढ [^५]मङ्गमालिङ्ग्य चुम्बंश्च पश्यंश्च स्पृशंश्च स्थित्वा मदलेखा [^६]माहूयाहूयादिदेश-'दर्शनसुख- मात्रकमस्माकं विधीयमानम्, [^७]तच्चास्माभिरा- सादितम् । तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो नास्म [^८]दनुरोधाल्लज्जया वा मनागपि [^९]परिहरणीयः । वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा । [ टि ]-- स्तात्तु स्याच्चिबुकं स्याद्गल्लः सुकणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः' इति हैमकोशः । चन्द्रापीडस्पर्श- शिशिरेण शीतलेन च पाणिना करेण हृदये वक्षसि स्पृशन्ती स्पर्शं कुर्वन्ती । हे मातः, यथा पुत्रे तात इति प्रयोगस्तथा पुत्रीसमायां सुतातुल्यायां स्नुषायामपि मातृशब्दप्रयोगः । त्वं समाश्वसियाश्वासनां कुरु । यतस्त्वया भवत्या विनाद्यप्रभृत्येतद्दिनादारभ्य मे मम वत्सस्य सुतस्य चन्द्रापीडस्य शरीरं वर्ष्म केन संधारितं धृतम् । हे मातः, त्वममृतमयीव पीयूषनिर्मितेव संजाता । येन कारणेन वत्सस्य वदनं सुतस्य वदनं पुनर्द्वितीयवारमवलोकितं निरीक्षित- मित्यवादीदित्यब्रवीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तस्माचन्द्रापीडस्पर्शान्निर्विशेषवृत्तिना तत्सदृशेन विलासवती- शरीरस्पर्शेन ( संज्ञां [^1]चेतनां लेभे प्राप्तवती । ) लब्धसंज्ञापि प्राप्तचेतनापि लब्धा प्राप्ता संज्ञा चैतन्यं यया सैवंविधापि लज्जया- वनम्रं मुखं यस्याः सा [^2]प्रतिपत्तिः सेवा तस्यां मूढाज्ञाधोमुखी नीचैर्मुखी मदलेखयाङ्कादुत्सङ्गादवतार्यावतारणं कृत्वा परवत्येव परायत्तेव गुरूणां चन्द्रापीडमातृपितॄणां यथाक्रममनुक्रमेण वन्दनामकार्यत व्यधाप्यत । 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । हे आयुष्मति हे चिरजीविते, दीर्घकालमविधवा वैधव्यरहिता भवेति कृत आशीर्वाद आशीःप्रदानं यस्याः सा तथा कृताशीर्वादा च शनैरुत्थाप्यातिनिकटेऽतिसमीपे विलासवत्याः पृष्ठतः पश्चाद्भागे समुपवेश्य सखीजनैरधार्यत । अथेति । तदनन्तरं प्रत्यापन्नचेतनायां प्राप्तचैतन्यायां तु चित्ररथ- तनयायां कादम्बर्यां चन्द्रापीडमुज्जीवितमेव मन्यमानो जानानः । तस्या उज्जीवनादिति भावः । राजा तारापीडश्चिरमिव चिरकाल- मिवास्य चन्द्रापीडस्य गाढं दृढमङ्गमालिङ्ग्य परिष्वज्य चुम्बंश्चुम्बनं कुर्वन्पश्यन्विलोकयन्स्पृशन्स्पर्श कुर्वंश्च स्थित्वा च कियत्कालं कतिपयकालं मदलेखामाहूयाह्वानं कृत्वादिदेशा- दिष्टवान् । दर्शनसुखमात्रकं केवलमवलोकनसुखमस्माकं विधीयमानं क्रियमाणं तच्चास्माभिरासादितं प्राप्तम् । तदिति हेत्वर्थे । यादृशेन वोपचारेण प्रतिक्रिययैतावतो दिवसान्वधूः स्नुषा वत्सस्य शरीरमुपचरितवत्युपचार कृतवती स एवोपचारोऽस्मदनुरोधाद- स्मत्प्रतिबन्धाल्लज्जया त्रपया वा मनागपीषदपि न परिहरणीयो न परिहार्यः । वयं निष्प्रयोजना निरर्थकाः केवलं द्रष्टार एव विलोकयितार एव । अस्माभिरिह स्थले स्थितैरवस्थितैर्गतैर्वा किम् । यस्या भवत्याः करस्पर्शेनैतदविनाश्यविनश्वरमाप्या [^1]F. व्याख्याया अस्या मूलाक्षराणि न प्राप्यन्ते । [^2]F. प्रतिपत्तिमूढा किंकर्तव्यमिति ज्ञानविकला । [^१]G. हृदयम्. [^२]G. हेमात :. [^३]G. निर्विशेष. [^४]G. शनैः शनैस्तैरुत्थाप्य; तैरुत्थाप्यमाना; शनैरुत्थाप्यमाना. [^५]G. आलिङ्गन्. [^६]G. आहूय. [^७]G. यत्. [^८]G. उपरोधात्. [^९]G. परिहारणीयः. [^१०]G. वयं तु. यस्याः करस्पर्शेनाप्यायितमेत [^१]दविनाशि सैव वधूः पार्श्वेऽस्य तिष्ठतु ' इत्यादिश्य निर्जगाम । निर्गत्य चोपकल्पितं निजावास- मगत्वैव तपस्विवासोचितेऽन्यतमस्मिन्नासन्न एवाश्रमस्य शुचिशिलातलसनाथे तरुलतामण्डपे समुपविश्य निर्विशेषदुःखं सकल- मेव राजचक्रमाहूयाहूय सबहुमानमवादीत् 'न, भवद्भिरवगन्तव्यं यथाद्य शोकावेगादेवैतदहमङ्गीकरोमि' इति । पूर्वचिन्तित एवायमर्थो यथा वधूसमेतस्य चन्द्रापीडस्य वदनमा- लोक्य संक्रामित निजभरेण मया क्वचिदाश्रमपदे गत्वा पश्चिमं वयः क्षपयितव्यमिति । स चायं मे भगवता कृतान्तेन, पुराकृतैः कर्मभि- र्वा विरूपैरेवं समुपनमितः । किमपरं क्रियते ? अनतिक्रमणीया नियतिः । अप्रापणीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य [^२]सुखम् । प्रजापरिपालन [^३]फलं तु पुनर्भवद्भुजेष्वेवमक्षते [^४]ष्ववि- रहितमस्त्येव । [^५]अन्यथापि हि चेष्टमानेष्वस्मासु सर्वमेतेष्वेवा- वस्थितम् । तदिच्छामिचिरकाङ्क्षितं मनोरथं पूरयितुम् धन्याश्च जरा- पीत सारतनवस्तनयेष्वात्मभरमासज्य लघुशरीरा: परलोकगमनं साधयन्तिः । [^६]यच्च बलाद्गले पादमाधाय यदा तदानिच्छ- तोऽप्या [ टि ]-- यितं शीतलीभूतं सैव वधूः स्नुषास्य चन्द्रापीडस्य पार्श्वे तिष्ठत्ववस्थानं करोतु । इत्यादिश्याज्ञां दत्त्वा निर्जगाम निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चोपकल्पितं विहितं निजावासं स्वकीय- सौधमगत्वैव तत्र गमनमविधायैव तपस्विवासोचिते मुनिजन- निवासयोग्य आश्रमस्य महाश्वेताया आसन्न एव समीपवर्तिनि शुचिभिः पवित्रैः शिलातलैः सनाथे सहितेऽन्यतमस्मिंस्तरुलता- मण्डपे तरूणां लता एव वल्ली एव मण्डपाकारेण मण्डपसदृशा- कारेण व्यवस्थितास्तरवश्च लताश्च छत्राकारेण स्थिता रोहितास्तरु- लतामण्डपा वा तस्मिन्समुपविश्यास्थाय निर्गतो विशेषो यस्मादेतादृशं दुःखं यस्मिन्नेवंभूतं सकलमेव समग्रमेव राजचक्रं नृपसमूह- माहूयाहूय सबहुमानं ससत्कारमवादीदब्रवीत् । भवद्भिर्नावगन्तव्यं न ज्ञातव्यम्, यथाद्य शोकावेगादेतद्वनवासलक्षणमहमङ्गीकरोमि स्वीकुर्व इति । अयमर्थः पूर्वं चिन्तित एव प्रागालोचित एव प्रथममालोचित एव । तदेव विशदयति प्रकटयति - यथेति । यथा वधूसमेतस्य चन्द्रापीडस्य वदनमाननमास्यं आलोक्य निरीक्ष्य संक्रामितोऽन्यत्र स्थापितो निजभरो राज्यभारो येनैवंभूतेन मया क्वचिदनिर्दिष्टनामन्याश्रमपदे मुनिस्थानस्थले गत्वा पश्चिमं प्रान्तं वयः क्षपयितव्यं परिपूर्णतां नेयमिति । स चायमर्थः कृतान्तेन यमेन लोकपालत्वाद्भगवता ज्ञानवता पूज्येन, पुराकृतैः पूर्वभवाचीर्णैर्विरूपैरशुभैः कर्मभिर्वैवं पूर्वोक्तप्रकारेण समुपन- मितोऽधरीकृतः । अपरं द्वितीयं किं क्रियते, यतोऽनतिक्रमणीयानुल्लङ्घनीया नियतिर्ब्रह्मनिर्मितिरदृष्टं वा । आत्मचेष्टात्मप्रयत्नस्तेन कृतं वत्सस्य चन्द्रापीडस्य सुखमप्रापणीयं प्राप्तुमयोग्यं नानुभूतं नानुभवविषयीकृतम् । प्रजापरिपालनसुखफलं तु पुनरक्षतेष्व- खण्डितेषु भवद्भुजेष्वेव सत्स्वविरहितं न वियोगमापन्नमस्त्येव । [^1]अन्यथापि ह्यस्मासु चेष्टमानेषु क्रियमाणेषु सर्वमेतेष्वेव भवद्भुजेष्वेवावस्थितं स्थितिमापन्नम् । तदिति हेत्वर्थे । इच्छामि चिरकाङ्क्षितं चिरवाञ्छितं मनोरथं पूरयितुं परिपूर्णीकर्तुम् । धन्याश्च कृतकृत्याश्च जरया विस्रसया पीतं गृहीतं सारं बलं यासामेवंभूता- स्तनवो येषां ते तथा तनयेषु पुत्रेष्वात्मभरमासज्य न्यस्य अत एव लघुशरीराः परलोकगमनं भवान्तरगतिं साधयन्ति निष्पादयन्ति । यच्च बलाद्धठाद्गले निगरणे पादं चरणमाधाय स्थापयित्वा दत्त्वा यदा तदा यस्मिंस्तस्मिन्कालेऽनिच्छतोऽप्यनभिलषतोपि कृतान्तेन [^1]F. अस्मासु अन्यथा चेष्टमानेष्वपि (इत्थं सर्वपरित्यागेन आश्रमपदमधितिष्ठत्स्वपि ) सर्वं प्रजारक्षणादिकम् एषु ( भवद्भु- जेषु, एवावस्थितम् ) भवद्बलायत्तमिति स्पष्टोऽर्थः । [^१]G. अविनाशि शरीरम्. [^२]G. मुखम्. [^३]G. फलं बल. [^४]G. अविहृतम्. [^५]G. अन्यत्. [^६]G. तच्च. च्छिद्यत एव कृतान्तेन, तद्यदि पात्रे क्वचिदपि स्थापयित्वा निजपदं जरापरिभु [^१]क्तायुः शेषेण निष्प्रयोजनस्थितिना सर्वसुखबाह्येन [^२]मांसपिण्डेन परलोकसुखान्युपार्ज्यन्ते, लाभ एवायम् । [^३]तदस्य वस्तुनः कृते भवन्तो मया [^४]प्रत्यर्थिताः' - इत्युक्त्वा संनिहितान्यपि परित्यज्योचितानि [^५]सर्वसुखान्यनुचितान्यङ्गी- कृत्य [^६]वन्यानि । [^७]तथा हि — हर्म्यबुद्धिं वृक्षमूलेषु, अन्तः- पुरस्त्रीप्रीतिं लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरुचिं चीर- वल्कलेषु, कुन्तलरचनाभियोगं जटासु, आहारहार्दं कन्दमूलफलेषु, शस्त्रधारणव्यसन [^८]मक्षसूत्रेषु, प्रजापरिपालनशक्तिं समित्कुशकुसुमेषु, नर्मालापं धर्मसंकथासु, समररसमुपशमे, जयेच्छां [^९]परत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं तरुषु संक्रमय्य, [^१०]यास्तपस्विजनोचिताः क्रियाः कुर्वन्, गन्धर्वलोकोचितानहरहरुपचारान्कादम्बर्या कथमपि समुत्सृष्टलज्जया महाश्वेतया च क्रियमाणाननिच्छन्, अविच्छेदात्सायं प्रातश्चानुभूतचन्द्रापीडदर्शनसुखो दुःखान्यगणयन्नरपतिः सपरिवारः समं देव्या शुकनासेन च तत्रैवातिष्ठत् ।" [ टि ]-- यमेनाच्छिद्यत एवाकृष्यत एव । तत्ततो यदि पात्र आप्ते क्वचिदपि निजपदं स्वस्थानमात्मभारं स्थापयित्वा स्थापनां कृत्वा जरया परिभुक्त आयुषः शेषो यस्य स तेन, निष्प्रयोजना निरर्थका स्थितिरवस्थानं यस्य स तेन, सर्वसुखात्मग्रसौख्याद्बाह्येन बहिर्भूतेन मांसपिण्डेन पललसंघातेन परलोकसुखानि पारभविकसौख्यान्यु- पार्ज्यन्त उपार्जनाविषयीक्रियन्ते । अयमेव लाभः फलप्राप्तिः । पुरुषार्थ इति यावत् । तत्तस्मात्कारणादस्य वस्तुनः कृते भवन्तो मया प्रार्थिता अभ्यर्थिताः । इत्युक्त्वेत्यभिधाय संनिहितान्यपि समीपवर्तीन्यप्युचितानि योग्यानि सर्वसुखानि परित्यज्य विहाय त्यक्त्वानुचितान्ययोग्यानि अनर्हाणि वन्यानि वनसंबन्धीनि सुखान्यङ्गीकृत्य स्वीकृत्य च । तदेव दर्शयति-तथाहीति । तस्य राज्ञो हर्म्यबुद्धिं गृहधियं वृक्षमूलेषु पादपबुध्नेषु, अन्तःपुरस्त्रीप्रीतिमवरोधस्त्रीस्नेहं लतासु वल्लीषु, संस्तुतजनस्नेहं परिचितजनप्रीतिं हरिणेषु कुरङ्गेषु, निवसनरुचिं वस्त्राभिलाषं चीरवल्कलेषु, कुन्तलरचनाया अभियोगमुद्यमं जटासु, आहारहार्दं भोजनप्रेमाभिप्रायो वा कन्दश्च मूलं च फलानि च कन्दमूलफलानि तेषु, शस्त्रधारणव्यसनमक्षसूत्रेषु जपमालि- कासु, प्रजापरिपालनशक्तिं समिध एधांसि कुशा दर्भाः कुसुमानि पुष्पाणि तेषु, नर्मालापं क्रीडालापं हास्यालापं धर्मसंकथासु सुकृत- प्रबन्धेषु, समररसं सङ्ग्रामरसं युद्धरसमुपशमे शान्तरसे, जयेच्छां जयस्पृहां परत्र लोके परलोके, कोशस्पृहां धनभाण्डागारवाञ्छां तपसि व्रते, आज्ञामनुशासनं मौनेऽभाषणे, सर्वः समग्र: सकलो य उपभोगोऽङ्गनादिकस्तत्र रागं च वैराग्ये विरक्ततायाम् तनयस्नेहं पुत्रप्रेमसूनुस्नेहं तरुषु वृक्षेषु संक्रमय्य संक्रमणं कृत्वा, [^1]यास्त- पस्विजनोचितास्तपस्विजनयोग्याः क्रिया अनुष्ठान [^2]विशेषाः कुर्वन्विदधन्गन्धर्वलोकस्योचितान्योग्यानहरहः प्रतिदिनं कथंकथ- मपि महता कष्टेन समुत्सृ [^3]ष्टलज्जया त्यक्तत्रपया विगतलज्जया कादम्बर्या महाश्वेतया च क्रियमाणान्विधीयमानानुपचारान्भक्ति- प्रकाराननिच्छन्नवाञ्छन्ननभिलषन्नविच्छेदादव्यवधानात्सायं प्रात- श्चानुभूतं चन्द्रापीडदर्शनसुखं येनैवंभूतो नरपतिस्तारापीडो दुःखान्यगणयनजानन्सपरिवारः सपरिजनः सपरिस्कन्दः समं देव्या विलासवत्या शुकनासेन मन्त्रिणा च तत्र तस्मिन्स्थले स्थानेऽतिष्ठत्। [^1]F. 'याः' इत्यपपाठः, तत्पदसापेक्षत्वात् । तस्मात् 'तथा तपस्विजनोचिताः क्रियाः कुर्वन्' इत्येव पाठः । [^2]F. ' विशेषान्' इति द्वितीया योग्या । [^3]F. वैधेय एव टीकाकारः। 'समुत्सृष्टलज्जया' इति विशेषणं केवलं महाश्वेताया एव, 'हा हतास्मी'त्यादिना तस्या एव गुहा- प्रवेशस्य वर्णितत्वात् । [^१]G. मुक्तशेषेण. [^२]G. शरीरकेण. [^३]G. तस्य. [^४]G. प्रार्थनीया:. [^५]G. उपयोगसुखानि. [^६]G. च वन्यानि तपोवनदुःखानि च. [^७]G. तत्र. [^८]G. अक्षसूत्रे. [^९]G. परलोके. [^१०]G.यथा; तथा. ८५ का० [^१]इत्येवं च कथयित्वा [^२]भगवाञ्जाबालिर्जराभिभवविच्छायं स्मितं कृत्वा हारीतप्रमुखान्सर्वानेव [^३]तापसाञ्छ्रावकानवादीत्- 'दृष्टमायुष्मद्भिरिदमन्तःकरणापहारिणः कथारसस्याक्षेपसामर्थ्यम्, यत्कथयितुं प्रवृत्तोऽस्मि तत्परित्यज्यैव कथारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । [^४]तद्यः स कामोपहतचेताः स्वयंकृतादेवावि- नयाद्दिव्यलोकतः परिभ्रश्यन्मर्त्यलोके वैशम्पायननामा शुकनास- [^५]सूनुरभवत्, [^६]स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशान्महाश्वेताकृताच्च [^७]सत्याधिष्ठानादस्यां शुकजातौ पतितः' इत्येवं वदत्येव भगवति जाबालौ बाल्येऽपि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः समस्ता एव विद्या जिह्वाग्रेऽभवन् । सकलासु च कलासु [^८]कौशलमुपजातम् । [^९]उपदेशाय मनुजस्येव [^१०]चेयं विस्पष्टवर्णाभिधाना भारती [^११]च संवृत्ता । विज्ञानं [^१२]च सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना । मनुष्य- शरीरादृते सर्वमन्यत्तत्क्षणमेव मे [ संवृत्तम् । ] [^१३]वैशम्पायनस्य स एव चन्द्रापीडस्योपरि स्नेहः, सैव [^१४]कामपरवशता, स एव महाश्वेतायामनुरागः, [ टि ]-- इत्येवं च कथयित्वाख्याय भगवाञ्जाबालिर्जराया अभिभवेन विस्रसापराभवेन [^1]विच्छायं वैलक्ष्यं स्मितं हास्यं कृत्वा हारी- तकप्रमुखान् सर्वानेव तापसाञ्श्रावकानवादीदब्रवीत् । आयुष्मद्भि- रिदमन्तःकरणं मनोऽपहरतीत्येवंशीलः स तथा तस्य कथायाः प्रबन्धस्य रसस्तस्याक्षेप आकर्षस्तस्य सामर्थ्यं बलं दृष्टम् । यदिति हेत्वर्थे । कथयितुं वक्तुं प्रवृत्तो वक्तुमुद्युक्तोऽस्मि । तत्परित्यज्यैव विहायैव कथारसात्कथयन्ब्रुवन्नतिदूरमतिदविष्ठमतिक्रान्तोऽतिवा- हितोऽस्मि । तत्तस्मात्कारणाद्यः कामेन कन्दर्पेणोपहतं पीडितं चेतो यस्य सः स्वयंकृतादेव स्वाचीर्णादेवाविनयात्प्रातिकूल्याद्दिव्य- लोकतः सुरसद्मतः परिभ्रश्यन्निपतन्मर्त्यलोके मनुष्यलोके वैशम्पायननामा शुकनाससूनुरभवत् । स एवैष वैशम्पायनः स्वयंकृतेनात्मना विहितेनाविनयेन कोपितस्य रोषित य पितुर्जनक- [^2]स्याक्रोशादाक्षेपात्कठिनवचनान्महाश्वेता गन्धर्वपुत्री तया कृताद्विहिताच्च सत्यं सूनृतमेवा [^3]धिष्ठानमाश्रयो यस्यैवंभू- ताच्छापाच्चास्यां शुकजातौ पतितः स्रस्तः । अवतीर्ण इत्यर्थः । इत्येवं वदति ब्रुवत्येव भगवति जाबालौ बाल्येऽपि शैशवेऽपि सुप्तः शयितः पश्चात्प्रबुद्धो जागरितस्तस्येव पूर्वजन्मनि भवान्तर उपात्ता गृहीताः समस्ताः समग्रा एव विद्याः सकला एवं विद्याश्चतुर्दश जिह्वाग्रे रसनाग्रेऽभवन्बभूवुः । सकलासु समग्रासु च कलासु विज्ञानेषु कौशलं दक्षत्वमुपजातं संभूतम् । उपदेशाय कथनाय मनुजस्येव मनुष्यस्येव चेयं विस्पष्टवर्णाभिधाना प्रकटवर्णाभिधाना प्रकटा [^4]क्षरनाम्नी भारती सरस्वती च संवृत्ता संजाता । सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना कथितेन । मनुष्य- शरीरादृते मनुष्यशरीरं विहाय नरविग्रहं त्यक्त्वान्यदपरं सर्वमेव तत्क्षणमेव तत्समयमेव वैशम्पाय [^5]नस्योपनतम् । स एव चन्द्रापीडस्योपरि स्नेहश्चन्द्रापीडस्योपरि प्रेम, सैव पूर्वानुभूतैव कामपरवशता मदनायत्तता कंदर्पपरवशता, स एव पूर्वप्रतिपादित एव टिप्प० – 1 विगता छाया कान्तिर्यस्य तादृशम् । 2 शुकनासस्य, दृश्यतां चन्द्रापीडोपगमे शुकनासस्य कोपावेशो यस्तारापीडेनोपशमितः । 3 धिक्चापल्यम् । 'सत्याभिध्यानात्' इत्येव पाठः । सत्यम भिध्यानं च 'हे भगवनू, यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति मनसा नापरः पुमांश्चिन्तितस्तदाऽयमलीककामी मदुदीरितायामेव जातौ पततु' इति पूर्वोक्तम् । 4 प्रकटाक्षरेति न तस्या नाम ! प्रकटाक्षरम् ( सुस्पष्टानि अक्षराणि यस्मिन् ) अभिधानं कथनं यस्यामीहशी ( वाणी ) इत्यर्थः । 5 टीकाकारकृतः सोयं पाठअंशः । 'सर्वमन्यत्तत्क्षणमेव मे संवृत्तम्' इत्येत्र पाठः । 0 पाठा० - १ एवम्. २ जाबालि: ३ तान्. ४ तदयं सः ५ अभूत् ; उत्पन्न : ६ स एवः स एष. ७ सत्याभिध्यानात्. ८ उपदेशकौशलम् ९ मनुजस्येव. १० इयं. ११ संपन्ना. १२ नहुवस्तु; यत्सर्ववस्तु. १३ वैशम्पायनस्यैव. १४ कामपरता. 0 सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव । केवलमसंजातपक्ष- तया मे तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा नासीत् । तथा चावि- र्भूतसकलान्यजन्मवृत्तान्तः समुत्सुकान्तरात्मा किं मातापित्रो:, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य चन्द्रापीडस्य, उत प्रथमसुहृदः कपिञ्जलस्य, आहोस्विन्महाश्वेताया इति नाज्ञासिषमेवं [^१]कस्य कस्य कथं वा स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशितशिराश्चिरमिव स्थित्वा भगवन्तं जाबालिं निजाविनयश्रवणलज्जया विलीयमान इव विशन्निव पातालतलं कथमपि शनैः शनैर्व्यज्ञपयम् – 'भगवन्, त्वत्प्रसादादाविर्भूतज्ञानोऽस्मि संवृत्तः स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । मूढतायां [^२]च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि । अधुना पुनस्ता [^३]न्स्मृत्वा स्फुटतीव मे हृदयम् । न च [^४]तान्स्मृत्वापि तथा, यथा चन्द्रापीडम्, यस्य मदुपरतिश्रवण [^५]मात्रकात्स्फुटितं हृदयम् । [^६]तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् । येनायं तिर्यग्योनिवासोऽपि मे तेन सहैकत्र वसतो न पीडाकरः संजायते' इति । [ टि ]-- प्रथमप्रतिपादित एव महाश्वेतायामनुरागोऽनुरतिरनु पश्चा- त्प्रेम, सैव तस्या महाश्वेताया अवाप्तिं प्राप्तिं प्रत्युत्सु कतौत्सुक्य- मिति सकलमेव समग्रमेवोपगतं प्राप्तम् । असंजातपक्षतयाऽप्रादु- र्भूतवाजतया मे मम तस्मिन् समये पूर्वजन्मोपात्ता शरीरचेष्टा चलनादिका नासीन्नाभवत् । तथा चाविर्भूतः प्रकटीभूतः प्रादुर्भूतः सकलः समस्तोऽन्यजन्मवृत्तान्तो भवान्तरोदन्तो यस्यैवंभूतः समु- त्सुकान्तरात्मोत्कण्ठितान्तरात्मा किं शुकनासमनोरमयो र्माता- पित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य मित्रस्य, चन्द्रापीडस्य, उत प्रथमसुहृद आद्यमित्रस्य कपिञ्जलस्य आहोस्विन्महाश्वेताया इत्येवं [^1]कस्य कस्यैतन्मध्यवर्तिनः कथं वा केन प्रकारेण वा स्मृतवानस्मि स्मरणं कृतवा- नस्मीति नाज्ञासिषं नावबोधिषम् । तथा चोत्सुकान्तरात्मा महीतले पृथ्वीतले निवेशितं शिरो येन स चिरमिव बहुकालमिव स्थित्वा- स्थाय भगवन्तं जाबालिं निजस्य स्वस्याविनयस्य श्रवणमाकर्णनं तस्माद्या लज्जा त्रपा तथा विलीयमान इव लीनतामापाद्यमान इव पातालतलं रसातलं विशन्निव प्रवेशं कुर्वन्निव कथंकथमपि महता कष्टेन शनैः शनैर्व्यज्ञपयं विज्ञप्तिमकार्षम् । हे भगवन्, त्वत्प्रसादा- त्त्वदनुप्रहादाविर्भूतं प्रकटीभूतं ज्ञानं यस्यैवंभूतोऽहं संवृत्तो निष्प- न्नोऽस्मि । खलु निश्चयेन मया सर्व एव पूर्वबान्धवाः स्मृताः प्रथम- स्वजनाः स्मृताः स्मरणविषयीकृताः । मूढतायां मूर्खतायामज्ञानता- यां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि वियोगबाधापि नासीत् । अधुना पुनस्तान्पूर्वोक्तान्स्मृत्वा मे मम हृदयं वक्षः स्फुटतीव स्फोटं प्राप्नोतीव । नच तान् मत्पूर्वबान्धवान् स्मृत्वापि स्मरणविषयत्वेऽपि तथा । स्फुटतीति शेषः । यथा चन्द्रापीडं । स्मृत्वेति योज्यम् । यस्य चन्द्रापीडस्य मदुपरतिश्रवणमात्रकात् मत्संबन्धिनी या उपरतिः स्नेहो [^2]परमस्तस्याः केवलश्रवणेनैव हृदयमन्तःकरणं स्फुटितं शकलायितम् । तत्तस्मात्कारणात्तस्यापि चन्द्रापीडस्यापि जन्माख्यानेन भवान्तरकथनेन भगवान्प्रसादमनुग्रहं करोतु विदधातु । येन कारणेनायं तिर्यग्योनिवासोऽपि मे मम तेन सहैकत्रैकस्मिन्स्थले वसतो न पीडाकरो न व्यथाकृत्संजायते भवतीति । [^1]F. सर्वत्र मातुः स्मरतीतिवत् शेषे षष्ठी । [^2]F. धिक् । मम उपरतिः मृत्युः तस्य श्रवणमात्रकात्, इत्यर्थः । [^१]G. कस्य कथं वा; कस्य कस्य कथं कथं वा. [^२]G. च मे. [^३]G. स्मृत्वा स्मृत्वा. [^४]G. तथान्यत्. [^५]G. मात्रात्. [^६]G. दयां करोतु भगवांस्तस्यापि जन्माख्यानप्रसादप्रदानेन. एवं च विज्ञापितो मया सासूयमिव मामवलोक्य भगवाञ्जाबालि : सस्नेहकोपगर्भं प्रत्यवादीत् – 'दुरात्मन्, ययैतावतीं दशामुप- नीतोऽसि कथं तामेव [^१]तरलहृदयतामनुबध्नासि । अद्यापि [^२]पक्षावपि नोद्भिद्येते तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि' इत्येवमुक्ते भगवता, समुपजातकुतूहलो हारीतः पप्रच्छ – 'तात, महानयं विस्मयो मे । कथय कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता ? यया जीवितमपि न संधारयितुं पारितम् । कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम् ? इत्येवं च पृष्टः सूनुना भगवाञ्जाबालिरमलाभिः पापमलमिव [^३]प्रक्षाल- यन्दशनदीधितिसलिलधाराभिः प्रत्यवादीत् - 'स्पष्टमेवात्र कारणम् । वत्स, अयं हि कामरागमोहमयादल्पसारात्स्त्रीवीर्यादेव केवला- दुत्पन्नः। श्रुतौ च पठ्यत [^४]एतद्यादृशाद्वै जायते तादृगेव भवतीति । लोकेऽपि च प्रायः कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । तथा चै [^५]तदायुर्वेदेऽपि श्रूयते – यः किलाल्पसारात्स्त्रीवीर्यादेव केवलाज्जन्तुर्भवति स खल्वभावात्सारभूतस्य स्थैर्यहेतोः पुरुष- वीर्यस्य, [^६]यथासारं गर्भे वा विलयमापद्यते, मृतो वा जायते, जातो वा न दीर्घकालं जीवतीति । तदयमुत्पन्न एवेदृशो येनास्य तादृशी [ टि ]-- एवं च विज्ञापितो मया सासूयमिव सेर्ष्यमिव मामवलोक्य निरीक्ष्य वीक्ष्य भगवाञ्जाबालिः सह स्नेहेन वर्तते यत्तत्सस्नेहं कोपगर्भं च सस्नेहकोपगर्भं प्रत्यवादीत्प्रत्यब्रवीत् – हे दुरात्मन् हे दुष्टात्मन्, ययैतावतीं दशामवस्थां त्वमुपनीतः प्रापितोऽसि कथं तामेव तरलहृदयतां चञ्चलचित्ततामनुबध्नासि करोषि । अद्यापि पक्षावपि वाजावपि नोद्भिद्येते नोद्गच्छतः । तत्तस्मात्कारणात्संचरणक्षमस्तु गमनसमर्थस्तु तावद्भव । ततस्तदनन्तरं मां प्रक्ष्यसि प्रश्नयिष्यसि । इत्येवं भगवतोक्ते कथिते समुपजातं कुतूहलमाश्चर्यं यस्यैवंभूतो हारीतः पप्रच्छ प्रश्नमकार्षीत् । हे तात हे पितः, महानयं मे मम विस्मयो वर्तते । अस्य पुण्डरीकस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता कंदर्पपरवशता जाता । तत्कथय कथम् । यया कामपरतया जीवितमपि संधारयितुं धर्तुं न पारितं न शक्तम् । कथं च दिव्यलोके संभूतस्य तथा स्वल्पमायुः स्तोकमायुः संवृत्तम् । इत्येवं पृष्टश्च सूनुना भगवाञ्जाबालिरमलाभिर्निर्मलाभिर्दशनदीधिति- सलिलधाराभी रदनकान्तिधाराभिः पापमलमिव[^1]प्रक्षालयनुज्ज्वलीकुर्वन्प्रत्यवादीत्प्रत्यब्रवीत् । किं तदित्याह- स्पष्टमिति । अत्र कारणं निदानं स्पष्टमेव प्रकटमेव । हे वत्स हे पुत्र, अयं हि पुण्डरीकः कामरागो रताभिलाषो मोहो मौढ्यं ताभ्यां निष्पन्न- स्तन्मयस्तस्मादल्पसारादल्पबलात्स्त्रीवीर्यादेव केवलात्पुरुषवीर्या- संभिन्नादुत्पन्नः प्रादुर्भूतः प्रकटीभूतः, तत्पूर्वखण्डे व्याख्यातमेव नेहोच्यते । इत्येतच्छ्रुतौ च वेदे च पठ्यते भण्यते । तदेवाह — यादृशादिति । यादृशाद्वै निश्चयेन जायते उत्पद्यते तादृगेव तादृश एव भवत्युत्पद्यते । लोकेऽपि च प्रायो बाहुल्येन न सर्वत्र कारणं समवायिकारणमिह गृह्यते न निमित्तकारणं व्यभिचारात्तस्य गुणाः शुक्लादयस्तान्भजन्तीत्येवंशीलानि कार्याणि जन्यानि दृश्यन्तेऽवलोक्यन्ते । तथा चैतदायुर्वेदेऽपि वैद्यकशास्त्रेऽपि श्रूयत आकर्ण्यते । किलेत्याप्तवचने । योऽल्पसारात्स्त्रीवीर्यादेव केवलाज्जन्तुः प्राणी संभवत्युत्पद्यते स खल्विति पूर्ववत् निश्चये वा । सारभूतस्य बलभूतस्य स्थैर्यहेतोः स्थिरताकारणस्य पुरुषवीर्यस्याभावात् [^3]यथासारं यथाबलं स्यात् । गर्भे वा विलयं विलीनतामापद्यते, मृतो वा जायते, जातो वोत्पन्नो वा न दीर्घकालं बहुकालं जीवति प्राणिति । [^1]F. 'पापमलमिव प्रक्षालयन्मे' इत्येव पाठः । 'मे' इत्यस्याऽऽव- श्यकता च, अन्यथा कस्य तत्र पापप्रक्षालनम् ? टीकाकारपुंगवेन न दृष्टमेतत् । [^2]F. सर्वमशुद्धं, तात्पर्य मात्रं ग्राह्यं सहृदयैः । [^3]F. यथासारं सारानुसारं गर्भे विलयमापद्यत इत्यर्थः । [^१]G. हृदयतरलताम्. [^२]G. पक्षावेव. [^३]G. मे प्रक्षालयन्. [^४]G. यादृशात्. [^५]G. चेति. [^६]G. गर्भे. कामपरता जाता। मरणं च मदनवेगसंज्वरासहिष्णोस्तथो [^१]पनतम् । अधुनापि तादृश एवाल्पायुरयम् । शापावसाना- नन्तरकालं [^२]यदस्याक्षयेणायुषा योगो भविष्यति' इति । एतच्छ्रुत्वा पुनरवनितलनिवेशित शिराः प्रणम्य भगवन्तं व्यज्ञापयम् – 'भगवन्, अहमपुण्यवानस्यां तिर्यग्योनौ वर्तमानः स्वयं सर्वस्यै- वाक्षमः । वागपि मे भगवतः प्रसादात्संप्रत्येवानने संभूता । भूतपूर्वं च ज्ञानमन्तरात्मनि । शरीरं पुनरायुः [^३]संवर्धककर्मयोग्यं भगवतः प्रसादा [^४]दन्यस्मिजन्मनि यदि भवेत् तत्केन प्रकारेणाक्षयं तन्मे महाकर्मसाध्यमाविर्भविष्यतीत्येतदाज्ञापयतु भगवान्' इत्येवं विज्ञापितस्तु मया, दिक्षु विक्षिप्य चक्षुर्भगवानाज्ञापितवान् 'एतदपि यथा, तथा ज्ञास्यस्येव । [^६]तावदियं कथास्ताम् । रसाक्षेपादचे- तितैवास्माभिः प्रभातप्राया रजनी । प्रभाविरहादनु [^७]न्मृष्टरजत- [^८]कुम्भाभमिद [^९]मपरान्तावलम्बि वर्तते रजनिकरबिम्बम् । [^१०]यथायथोद्गमविस्तारिणी जरत्तामरसपत्रारणा पाण्डुच्छवि- रुल्लसति सीमन्तयन्ती तमःकेशसंघातमिव पूर्वस्याः ककुभोऽरुणाग्र [^११]करालोकततिः । इमाः सशेषतिमिरत [ टि ]-- तत्तस्मात्कारणादयमीदृश एवोत्पन्नो येन कारणेनास्य पुण्डरीकस्य तादृशी कामपरता मदनायत्तता जाता । मरणं च [^1]मृत्युं च मदनवेगात्कंदर्परयाद्यः संज्वरः संतापस्तस्या- सहिष्णोरसहनशीलस्य तथा प्रकारेणोपनतं प्राप्तम् । अधुनापि सांप्रतमपि तादृश एव तथावस्थ एवायं शुकोऽल्पायुः स्वल्पजीवितः । शापस्यावसानं प्रान्तस्तस्मादनन्तरं कालमव्यवहितकालं यदस्याक्षयेणायुषा सह योगो भविष्यतीति । एतच्छ्रुत्वा पुनरवनितलनिवेशितशिरा भगवन्तं प्रणम्य व्यज्ञापयं विज्ञप्तिं कृतवान्विज्ञप्तिं चकार अहम् । किं तदित्याह - भगवनिति । हे भगवन, अहं त्वपुण्यवान् । अस्यां तिर्यग्योनौ वर्तमानः स्वय- मात्मना सर्वस्यैव कार्यस्याक्षमोऽसमर्थः । वागपि वाचापि मे मम भगवत्प्रसादात्संप्रत्येव सांप्रतमेवानने संभूता जाता । पूर्वं भूतं भूतपूर्वं क्वचिदमान्द्यं तस्य परत्वमिति पूर्वशब्दस्य परप्रयोगः । एतादृशं ज्ञानमन्तरात्मनि संभूतम् । शरीरं पुनरायुषः संवर्धकानि यानि कर्माणि कृत्यानि तेषु योग्यं समर्थं भगवतः प्रसादान्माहात्म्या- दन्यस्मिजन्मनि यदि भवेत्स्यात्तत्तस्मात्कारणान्मे मम महाकर्मभिः साध्यं महाकर्माणि साध्यानि यस्मिन्निति वा आयुर्जीवितं केन प्रकारेणाक्षयं भविष्यतीत्येतदाज्ञापयतु कथयतु भगवान् । इत्येवं मया विज्ञापितो विज्ञप्तिविषयीकृतः । तु पुनरर्थे । दिक्षु चक्षुर्विक्षिप्य प्रेर्य भगवानाज्ञापितवान् । किं तदित्याह- एतदिति । एतदपि त्वदुक्तमपि यथा वर्तते तथा त्वं ज्ञास्यस्येवाग्रे, त्वया ज्ञातं भविष्य- त्येव । इयं कथा तावदास्तां तिष्ठतु । रसाक्षेपाद्रसाकर्षादस्माभिः प्रभातप्राया रजनी निशाऽचेतितैवाज्ञातैव । प्रभाविरहाद्द्युते- र्विरहात्कान्तेरभावादनुन्मृष्टोऽसंमार्जितो न स्फोटितो यो रजत- कुम्भो रौप्यघटस्तद्वदाभा श्रीर्यस्य तत्तथा । 'आभा राढा विभूषा श्रीः' इति हैमः । इदम [^2]परान्तावलम्बि पश्चिमान्तावलम्बि पश्चिमाशावलम्बि रजनिकरबिम्बं निशाकरप्रतिबिम्बं शशाङ्क- मण्डलं वर्तते । यथायथमिति । यथा च यथा च यथायथम् । 'नित्यवीप्सयोः' इति द्वित्वम् । यथाप्रकारमुद्गमेनोदयेन विस्तारिणी विस्तरणशीला जरत्पक्वं परिपक्वं यत्तामरसं पद्मम् । रक्तकमल- मित्यर्थः । तस्य पत्राणि दलानि पर्णानि तद्वदरुणा रक्ता आ ईषत्पाण्डुच्छवि: । 'रक्तोत्पलं तामरसम्' इति हैमः । पूर्वस्याः ककुभ ऐन्द्र्या दिशस्तमोलक्षणं केशसंघातमलकसमूहं सीमन्तयन्तीव सीमन्तं कुर्वन्तीवोल्लसत्युल्लासं प्राप्नोति । अरुणस्य रविसारथिनोऽग्रकरा [^1]F. मृत्युश्चेत्युचितम् । [^2]F. कस्य अपरान्तम् ? इति सापेक्षमेव । अतः 'अपराम्बरान्ता- वलम्बि ( पश्चिमाकाशविलम्बि ) ' इति पाठो योग्यः । [^१]G. उपगतम्. [^२]G. अस्य. [^३]G. संवर्धनीयम्. [^४]G. अस्मिन्. [^५]G. केनचित्. [^६]G. आस्तां तावदियं कथाः. [^७]G. उन्मृष्ट. [^८]G. दर्पणाभम्. [^९]G. अम्बरान्तरावलम्बि; अपराम्भरान्तावलम्बि. [^१०]G. यथायथोद्गमन. [^११]G. आलोकवर्ति, आलोकान्तरिताः. याम्बरा [^१]काण्डकलुषं भास्वत्प्रभालोकमारब्धाः क्रमेण यथासूक्ष्मं तारकाः प्रवेष्टुम् । एष पम्पासरःशायिनां प्रबोधाशंसी समुच्चरति कोलाहल: श्रोत्रहारी विहंगमानाम् । एते च निशीथिनी- [^२]परिमलशीतलाश्चलितवनकुसुमपरिमलग्राहिणो वातुं प्रवृत्ताः प्रभातपिशुना वायवः । प्रत्यासन्नाग्नि [^३]विहारवेला' इत्यभिधान एव गोष्ठीं भङ्क्त्वोदतिष्ठत् । अथोत्थिते भगवति जाबालो वीतरागापि [^४]निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव सा तपस्विपरिषत्कथारसाद्विस्मृत- गुरूचितप्रतिपत्तिः शृण्वतीवो [^४]त्कण्ठिततया विस्मयोत्फुल्ल- मुखी [ टि ]-- णामालोकः प्रकाशस्तस्य ततिः [^1]पङ्क्तिः । श्रेणि- रित्यर्थः । 'राजिर्लेखा ततिर्वीथिः' इति हैमः । इमाः प्रत्यक्षदृश्याः सह शेषेण वर्तते तत्सशेषम् । स्वल्पमित्यर्थः । एतादृशं यत्तिमिरं ध्वान्तं तस्य भावस्तत्ता तयाम्बरे व्योम्न्याकाशेऽ [^2]काण्डकलुष- मप्रस्तावमलिनमसमयमलिनं भास्वत्प्रभालोकं सूर्यदीप्तिप्रकाशं सहस्रदीधितिकान्ति उद्योतं तारकास्ताराः क्रमेण यथासूक्ष्मं सूक्ष्मं यथा स्यात्तथा प्रवेष्टुं प्रवेशं कर्तुमारब्धाः प्रारब्धा आरम्भं कृतवत्यः । एषोऽसौ पम्पाभिधानं सरः पम्पा नाम सरोवरं तत्र तस्मिञ्शायि- नां सुप्तानां विहंगमानां पक्षिणां श्रोत्रयोः कर्णयोर्हारी मनोहरः, प्रबोधो विनिद्रत्वं तदाशंसति कथयतीत्येवंशीलः स तथैवंविधः कोलाहलः कलकलः समुच्चरति सम्यक्प्रसरति विस्तरति । एते च प्रत्यक्षगम्या निशीथिन्यां त्रियामायां परिगतो मलो यस्मात्स परिमलोऽङ्गरागस्तेन शीतलाः शिशिराः । माघकाव्य उक्तमस्ति - 'नवपरिमलगन्धः केन शक्यो वरीतुम्' इत्यत्र परिमलशब्देनाङ्गराग एव विवक्षितः । अन्यथा गन्धशब्दस्य वैयर्थ्यं स्यात् । चलितानि कम्पितानि यानि वनानि तेषां कुसुमानां परिमलो गन्धस्तं गृह्णन्ती- त्येवंशीलास्ते तथा प्रभातस्य प्रत्यूषस्य पिशुनाः सूचका एवंविधा वायवः पवनाः समीरणा वातुं यातुं प्रवृत्ताः प्रवर्तितवन्तः । 'व्युष्टं विभातं प्रत्यूषम्' इति हैमः । प्रत्यासन्ना समीपवर्तिनी निकट- स्थायिनी । पदैकदेशे पदसमुदायोपचारात् अभिशब्देनाग्निहोत्रं तत्र विहारो विहरणम् । गमनमिति यावत् । लस्य वेलावसरः प्रस्ताव- समयः । 'वेला वारामवसरे' इति कोशः । इत्यभिधान एवेतिब्रुवाण एव गोष्ठीं श्रवणार्थमिलितजनसमूहात्मिकां भङ्क्त्वादूरीकृत्यो- दतिष्ठदुत्थितो बभूव । 'समज्या परिषद्गोष्ठी सभासमितिसंसदः' इत्यमरः । अथोत्थिते भगवति जाबालौ वीतरागापि नीरागापि निष्कौतुकापि विगतकुतूहलापि गताश्चर्यापि मोक्षमार्गेनिर्वाणमार्गेऽवस्थानमव- स्थितिर्यस्या एवंविधाप्येतादृश्यपि समस्तैव सर्वापि तपस्विपरि- षन्मुनिजनसभा कथाया वार्ताया रसाद्विस्मृता विस्मरणं प्राप्ता । गुरावुचिता योग्या प्रतिपत्तिः सेवा यस्याः सा तथा । शृण्वतीवाकर्ण यन्तीवोत्कण्ठिततया रणरणकतया विस्मयेनाश्चर्येणोत्फुल्लं विकसितं मुखं यस्याः सा तथा । युगपदेकवारमा [^1]F. अरुणा सूर्यस्याऽऽलोकराजिः तमोरूपं केशसंचयं सीमन्तयन्तीव ( सीमन्त ( केशपाश ) रूपे परिणमयन्तीव ) उल्लसतीत्यर्थः । वास्तवे तु भागद्वयविभाजितस्य केशपाशस्य मध्यवर्तिनी रेखा सीमन्तः । अत एव हि तन्त्रसिन्दूराहणतास्पर्शाय सामरसपत्रारुणेति विशेषणम् । एवं सत्वे - तमःकेशसंघातं सीमन्तयन्तीति कवेरुक्ति:- तमः केशपाशं ( प्रति ) सीमन्तयन्ती ( सीमन्तमिवात्मानमाचरन्ती) इति यथा कथंचित्संगमनीया स्यादिति मार्मिकैर्विमृश्यम् । [^2]F. अकाण्डे कलुषो भास्वत्प्रभालोकः ? किमिति ? अविचाररम्योयं पाठ: । 'अम्बरैककाण्डपटकलुषम्' इति पाठः । ततश्च – तिमिरावशेषसहिततया अम्बरस्य ( आकाशस्य ) एककाण्डपट ( तिरस्करिणी ) वत् कलुषो ( मलिनो ) यः सूर्यप्रभालोकः तं तारकाः यथासूक्ष्मं प्रवेष्टुमारब्धाः । किञ्चि- दन्धकारसहिते सूर्यालोके स्वल्पप्रकाशं प्रथमं ततः परमधिकप्रकाशमिति क्रमेण नक्षत्राण्यदृश्यान्यभवन्नित्याशयः । [^१]G. अङ्ककलुषम् ; एककाण्डपटकलुषम्. [^२]G. परिमलने; परिमलम्. [^३]G. विहरण. [^४]G. निष्कामुकापि. [^५]G. उत्कण्टकिततया; उत्कण्टकितकाया. युगपदागलितशोकानन्दजन्मनयनसलिला हाकष्ट [^१]शब्दा- नुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम । हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोत्क्षिप्यात्मपर्णशालां नीत्वा शनैः शनैः [^२]स्वशयनीयैकदेशे स्थापयित्वा प्राभा- तिकक्रियाकरणाय निर्ययौ । निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण [^३]तिर्यग्जातिपतनेन देहेन पीडितान्तरात्मा चिन्तां प्राविशम् । अत्र तावदनेकभव सुकृत- सहस्राधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्य [^४]परं सकलजातिविशिष्टं ब्राह्मण्यम् । [^५]ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्थापि विशेषान्तरं किमपि दिव्यलोकनिवासित्वम् तद्येनैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना सर्वक्रिया- विहीनेनास्यास्तिर्यग्जाते: समुद्धृतः स्यात् । कथं वा पूर्वजन्माहितस्नेहै: सह समागमसुखमनुभूतम् । अननुभवतश्च तन्निष्प्रयोजनेना- मुना जीवितेन किं मे परिरक्षितेन । पततु [^६]यत्र तत्र क्वापि यातनाशरीरम् । सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन । तत्परित्यजाम्येनम् । पूर्यतामस्मद्व्यसनदानैकचिन्ता दुःस्थितस्य विधेर्मनोरथः' इत्येवं च जीवि [ टि ]-- गलितं पतितं शोकानन्दाभ्यां जन्म यस्यैवंभूतं नयनसलिलं यस्याः सा तथा । हाकष्टमिति यः शब्दस्तमनुबन्धितुं शीलं यस्याः सा तथा स्तम्भितेव कीलितेव चिरमिव स्थित्वा बहुकालमिव स्थित्वा यथास्थानं यथास्थलं जगामागमत् । हारीतस्तु मां मुनिकुमारकजने तापसशिशुजने संनिहितेऽपि समीपवर्तिन्यपि सति निजकरेणैवा- त्मपाणिनैवोत्क्षिप्योत्पाट्यात्मपर्णशालां स्वकीयतृणकुटीं नीत्वा प्रापथ्य शनैः शनैर्मन्दं मन्दं शयनीयस्य शय्याया एकदेशेन्यतर- प्रदेशे स्थापयित्वा संस्थाप्य प्राभातिकक्रियाकरणाय प्रत्यूषविधि- विधानाय निर्ययौ निरगात् । तस्मिन्हारीतमुनौ निर्गते च सति तेन सर्वाणि समग्राणि यानि कार्याणि कुत्यानि तेष्वक्षमेणासमर्थेन तिर्यग्जाति [^1]पतनेन पक्षिजात्यन्तर्गतेन देहेन विग्रहेण शरीरेण पीडितोऽन्तरात्मा यस्यैवंभूतोऽहं चिन्तामार्तिं प्राविशं प्रविष्टोऽभूवम् । अत्रेति । अस्मिं- ल्लोके तावदादावनेकभवानामसंख्यजन्मनां सुकृतसहस्रैः पुण्यसहस्रैरधिगम्यं आप्यमेवंविधं मानुष्यमेव मनुजत्वमेव मनुष्यत्वं दुर्लभं दुष्प्रापम् । तत्रापि मनुष्यत्वेऽप्यपरमन्यत्सकूलजातिषु समग्रवर्णेषु विशिष्टं विशेषेणाधिकं ब्राह्मण्यं ब्राह्मणत्वं सारमधिक- तरम् । ततोऽपि ब्राह्मण्यतोऽप्यतिशयेन विशिष्टं श्रेष्ठं विशिष्टतरं किंचिदाधिक्यमासन्नं समीपवर्ति निकटवर्त्यमृतपदं मोक्षपदम्। 'महानन्दोऽमृतं सिद्धिः' इति हैमः । यस्मिन्नेतादृशं मुनित्वं यतित्वमधिकतरम् । तस्यापि मुनित्वस्यापि यतित्वस्यापि किमपि विशेषान्तरं किंचिदाधिक्यं दिव्यलोकनिवासित्वं स्वर्गलोकस्था- यित्वम् । तत्तस्मात्कारणाद्येनैतावतः पूर्वोक्तस्थानात्स्वदोषैर्निजदूषणैरात्मा पातितस्तेन मया सर्वाः समग्राः क्रियाः स्नानादिका- स्ताभिर्विहीनेन रहितेनाधुना सांप्रतमिदानीमस्यास्तिर्यग्जातेः कथमात्मा समुद्धृत उद्धारं प्रापितः । स्यादिति शेषः । पूर्वजन्मनि पूर्वभवे गतजन्मन्याहितः स्थापितः स्नेहः प्रीतिर्येषु तैः सह समागमसुखं मेलापकसौख्यं कथमनुभूतं साक्षात्कृतम् । भवतीति शेषः । तत्समागमसुखमननुभूतवतः साक्षात्कृतवतश्च मे मम निष्प्रयोजनेन निरर्थकेनामुना जीवितेन परिरक्षितेन किम् । न किंचिदित्यर्थः । यत्र तत्र क्वापीदं यातनाशरीरम् । 'यातना नरकवेदना' इति हैमः । नरकदेहम् । तीव्रवेदनाक्षममित्यर्थः । पततु पतनं करोतु । सुखं तु नानुभवितव्यममुनानेन दुःखस्य कष्टस्यैकभाजनेनैकपात्रेण शरीरेण । अत एतत् शरीरं परित्यजामि मुञ्चामि । अस्माकं व्यसनदानं कष्टप्रदानं तस्यैकाद्वितीया या चिन्ता तया दुःस्थितस्य दुःखितस्य विधेर्विधातुर्मनोरथोऽभिलाषः पूर्यतां परिपूर्णी [^3]भूयताम् । चेत्येवं इत्येवं प्रकारेण या जीवित [^1]F. महाऽनभिज्ञत्वमेतद् यत् तदिदं विशेषणीक्रियते । अतः 'तिर्यग्जातिपतितेन' इत्येव पाठः । [^2]F. 'स्वात्' इत्येव पूर्वानुषङ्गः । [^3]F. हा हन्त ! किं प्रलपति । [^१]G. अनुबन्धिनी पराधीनेव. [^२]G. वेदिदेशे. [^३]G. तीर्यग्जातिपतितेन. [^४]G. परम्. [^५]G. तत्रापि. [^६]G. तत्रापरत्र क्वापि यातु यत्र शरीरम्. तपरित्यागचिन्तानिमीलितं मां समुच्छ्वासयन्निव विकासहासिना मुखेन सहसा प्रविश्य हारीतोऽभ्यधात्—'भ्रातर्वैशम्पायन, दिष्ट्या वर्धसे । पितुस्ते भगवतः श्वेतकेतोः पादमूला-[^१]त्कपिञ्जलस्त्वा- मेवान्विष्यन्नायात' इति । अहं तु तच्छ्रुत्वा [^२]तत्क्षणेनोत्पन्नपक्ष इवोत्पत्त्य [^३]तत्समीपमेव प्राप्तुमभिवाच्छन्नुद्ग्रीवावलोकी 'क्वासौ' इति तमप्राक्षम् । स त्वकथयत् – 'एष तातपादमूले वर्तते' इति । एवंवादिनं तु तमहं पुनरवदम् - ' यद्येवं ततः प्रापयतु मां तत्रैव भगवान् । उत्ताम्यति मे हृदयं तद्दर्शनाय' इत्येवं वदन्नेवापग्रतो गगनागमन [^४]वेगादयथा- स्थितजटाकलापम्, अनिलपथ [^५]संचरणचलितैकाञ्चलोत्तरीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धत्रुटितयज्ञोपवीतसनाथास्थिशेषोरस्कम्, निःशेषसुरपथावतरणश्रमो [^६]च्छ्वसितशरीरम्, समीर- णाप [^७]हतमपि मरुत्पथो [^८]त्पतनखेदसंभृतम्, उदकप्रवे- शान्निस्यन्दमानस्वेदमाननेन [^९]मदवलोकन [^१०]दुःखोद्गतं च बाष्पजललवविसर [ टि ]-- परित्यागचिन्ता तया निमीलितं मुद्रितं मां विकासेन हसतीत्येवंशीलेन विकासहासिना मुखेनाननेन समुच्छ्वासयन्निवाश्वा- सयन्निव सहसातर्कितः प्रविश्य प्रवेशं कृत्वा हारीतकोऽभ्यधादवो- चत् । किं तदित्याह - भ्रातरिति । हे भ्रातर्हे बन्धो वैशम्पायन, त्वं दिष्ट्या भाग्येन वर्धसे । ते तव भगवतो महाश्वेतकेतोः पितुः पादमूलाज्जनकचरणसमीपात्त्वामेवान्विष्यन्गवेषयन्कपिञ्जल आयात इति । अहं तच्छ्रुत्वाकर्ण्य तत्क्षणेन तत्कालेनोत्पन्नपक्ष इव संजातवाज इवोत्पत्योड्डीय तस्य कपिञ्जलस्य समीपमभ्यर्णं निकटं प्राप्तु- मासादयितुमभिवाञ्छन्नभिलषनुद्ग्रीवः सन्नवलोकत इत्येवंशील उद्ग्रीवावलोकी क्वासाविति तं हारीतकमप्राक्षम् । स तु हारीतक एव तातस्य पादमूले वर्तत इत्यकथयदित्यभ्यधात् । एवंवादिनमेवं ब्रुवाणं तु हारीतमहं पुनरवदमकथयम् । यद्येवं वर्तते ततो भगवान्मां तत्र प्रापयतु नाययतु । तद्दर्शनाय तदवलोकनाय मे मम हृदयमुत्ताम्यत्युत्पततीत्येवं वदन्नग्रतः पुरो दुरात्माहं कपिञ्जलमद्राक्षं व्यलोकयमिति दूरेणान्वयः । इतः कपिञ्जलं विशिनष्टि-- गगनेति । गगने व्योम्नयाकाश आगमनं यानं तस्य वेगाद्रयादयथास्थितोऽस्था- नस्थितो जटाकलापो यस्य स तम् । 'जटा लग्नकचे मूले प्लक्षमांसिकयोर्जटा' इति विश्वः । अनिलपथ आकाशे संचरणं संचलनं गमनं तेन चलितः कम्पित एकोऽञ्चलो वस्त्रप्रान्तो यस्यैवंभूत- मुत्तरीयं संव्यानं यस्य स तम् । 'प्रच्छादनं प्रावरणं संव्यामं चोत्तरी- यकम्' इति हैमः । तरूणां वृक्षाणां त्वचा कृत्वा दृढ आबद्धः परिकरो येन स तम् । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोरपि ' इति विश्वः । अर्धत्रुटितं यद्य- ज्ञोपवीतं यज्ञसूत्रं तेन सनाथं सहितमस्थिशेषं कीकसावशेषमुरो यस्य स तम् । निःशेषं समग्रं यत्सुरपथमाकाशं तस्मादवतरणं तस्माद्यः श्रमः खेदस्तेनोच्छ्वसितं शरीरं यस्य तम् । 'नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्' इत्यमरः । समीरणेन वायुनापहृतमपि पीडितमपि मरुत्पथे यदुत्पतनं तस्माद्यः खेदस्तेन संभृतं निचितम् । जलप्रवेशाद्व्योमगङ्गाजलान्तर्गमनादाननेन मुखेन निस्यन्दमानः क्षरन्त्स्वेदो घर्मो [^1]यस्य स तम् । किं कुर्वन्तम् । बाष्पजलल- विसरं नेत्रजलकणस [^1]F. हा विचारशून्यम् ! 'उदकप्रवेशादिव निस्यन्दमानं स्वेदम् आननेन, बाष्पलवविसरं ईक्षणाभ्यां युगपदुत्सृजन्तम्' इति प्रत्यक्षं दृष्ट्वापि अत्र बहुव्रीहिः क्रियते । धिगीदृशं टीकाकारम् । अस्तु, अत्र 'निस्यन्दमानं स्वेदम्' इत्येव पाठो बोध्यः । [^१]G. कपिञ्जलक:. [^२]G. तत्क्षणोत्पन्न. [^३]G. तत्समीपं विहाय सहसैव प्राप्तुमभिवाञ्छन्; समीपं विहायसैव प्राप्तुमभिवान्छन्. [^४]G. उद्वेगादव्यवस्थित. [^५]G. संचरणविघटितचरणैकाञ्चलोत्तरीयं तरुत्वचा; संचरणवेग- चलितैकाञ्चलयोत्तरीयतरुत्वचा. [^६]G. आयासित. [^७]G. अपहृतम्. [^८]G. उत्पन्न. [^९]G. मद्विलोकन. [^१०]G. दुःखागतम्. मीक्षणाभ्यां युगपदुत्सृजन्तम् मुमुक्षुमपि मत्स्नेहेनामुक्तम्, वीतराग- मपि मत्प्रियहितरतम्, निःसङ्गमपि मत्समागमोत्सुकम्, निःस्पृह- मपि मदर्थसंपादनपर्याकुलम्, निर्मममप्युपारूढस्नेहम्, निरहं-कारमप्यहमेवायमिति मां मन्यमानम्, समुज्झितक्लेशमपि मदर्थे [^१]क्लिश्यन्तम्, समलोष्टकाञ्चन [^२]तासुखितमपि [^३]मद्दुःखदुःखितम्, कृतज्ञमकृतज्ञः, स्नेहलप्रकृतिं [^४]रूक्ष- चेताः, सुकृतिनमपुण्यवान्, अनुगतं वामस्वभावः, भावार्द्रहृदय- मेकान्तनिष्ठुरः, मित्रं वैरी, वचनकरमनाश्रवः, महात्मानं दुरात्मा, कपिञ्जलमहमद्राक्षम् । दृष्ट्वा च निर्भरगलितनयनपयास्तादृशोऽपि कृताभ्युद्गमनप्रयत्नः [^५]पूत्कृत्य तमवदम् - 'सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि त्वां दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन सुखमनुभविष्यामि । किं करं करेणावलम्ब्यासनपरिग्रहं कारयिष्यामि । किं सुखासीनस्य गात्रसंवाहनं कुर्वञ्छ्रममपनेष्यामि' इत्येवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करेणोत्क्षिप्य [ टि ]-- मूहमीक्षणाभ्यां लोचनाभ्यामुत्सृजन्तं त्यजन्तम् । कीदृशं जललवविसरम् । ममावलोकनं तस्माद्यदुःखं तस्मादुद्गतं प्रादुर्भूतं प्रकटीभूतम् । मोक्तुमिच्छुर्मुमुक्षुरेवंभूतमपि मत्स्नेहेन मत्प्री- त्याऽमुक्तमत्यक्तमखण्डितम् । वीतो गतो रागोऽनुरागो यस्मा- देतादृशमपि मत्प्रिय इष्टे रतमासक्तम् । निर्गतः संगोऽन्यजनसंपर्कः परजनसंयोगो यस्य स तमेतादृशमपि मम समागमो मेलापस्तत्र तस्मिन्नुत्सुकमुत्कण्ठितम् । निर्गता स्पृहा वान्छां यस्मादेवंभूतमपि ममार्थो मदर्थस्तस्य संपादनाय निष्पादनकरणाय परि सामस्त्येनाकुलं व्याकुलम् । निर्मममपि निर्गतममत्वमपि ममत्वभावो नास्ति । मयि विषय उपारूढः स्थापितः स्नेहः प्रेमा येन स तम् । निर्गतोऽहंकारो गर्वो यस्मादेतादृशमप्यहमेवायं [^1]कपिञ्जल इति मन्यमानं ज्ञायमानम् । समुज्झितस्त्यक्तः क्लेशो येनैवंभूतमपि मदर्थे मत्कृते क्लिश्यन्तं क्लेशं प्राप्नुवन्तम् । समे सदृशे तुल्ये लोष्टकाञ्चने यस्य स समलोष्टकाञ्चनस्तस्य भावस्तत्ता तथा सुखितं संजातसौख्यमेवंविधमेतादृशमपि मम दुःखेन दुःखितं संजातदुःखम् । कृतं जानातीति कृतज्ञस्तं कृतज्ञमकृतज्ञः । स्नेहला प्रकृतिः स्वभावो यस्य स तं रूक्षं स्नेहवर्जितं प्रेमरहितं चेतो यस्य स तथा । सुकृतिनं सुकृतवन्तं पुण्यवन्तं न विद्यते पुण्यं यस्य सोऽपुण्यवान् । अनुगतमनुकूलं वामः प्रतिकूलो वक्रः स्वभावो यस्य सः । भावेनाध्यवसायेनाद्रमुन्नं हृदयं चेतो यस्य स तमेकान्तेन निष्ठुरः । मित्रं सुहृद् वैरी शत्रुः । वचनं करोतीति वचनकरस्तमनाश्रवोऽवचनेस्थितः । 'वचनेस्थित आश्रवः' इत्यमरः । महात्मानं महापुरुषं दुरात्मा दुष्टात्मा । द्वितीयान्तं कपिञ्जलस्य विशेषणम् प्रथमान्तं पुण्डरीकस्येति स्वयं बोध्यम् । दृष्ट्वा च विलोक्य च निर्भरं परिपूर्णं संपूर्ण गलितं नयनयोः पयो यस्य स तादृशोऽप्यसमर्थोऽपि कृतोऽभ्युद्गमे प्रत्युत्थाने प्रयत्नो येन सः । पूरकृत्य पूत्कारं कृत्वा तं कपिञ्जल- मवदमब्रवम् । हे सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि भवान्तरव्यवहितावलोकनमपि त्वां दृष्ट्वा विलोक्य निरीक्ष्य सरभसं सवेगमुत्थायोत्थानं कृत्वा दूरत एव दविष्ठ एव प्रसारितं विस्तारितं भुजद्वयं बाहुद्वयं येन सः । गाढालिङ्गनेन तीव्रसंश्लेषेण किं सुख- मनुभविष्यामि साक्षात्प्रत्यक्षं करिष्यामि । करं हस्तं करेण पाणिना हस्तेनावलम्ब्यासनपरिग्रहं विष्टरस्वीकारं किं कारयिष्यामि किं विधापयिष्यामि किं निष्पादयिष्यामि । सुखासीनस्य सुखोपविष्टस्य गात्रसंवाहनमङ्गमर्दनं कुर्वञ्श्रमं खेदं परिश्रममपनेष्यामि दूरीकरिष्यामि । 'संवाहनं मर्दनं स्यात्' इत्यमरः । इत्येवमात्मानं स्वमनुशोचन्तमेव मां कपिञ्जलः करेण पाणिनोत्क्षिप्योत्पाट्य मम विरहो वियोगस्तेन दुर्बले कृशे वक्षसि चिरमिव निवेश्य संस्थाप्यान्तर्मध्ये [^1]F. पुनः प्रलापः । अयं पुण्डरीकोपि मदभिन्न इति मन्यमान- मित्याशयः । [^१]G. क्लिश्यमानम्. [^२]G. सुखम्. [^३]G. दुःखितम्. [^४]G. रूक्षात्मा. [^५]G. फूत्कृत्य [^६]G. गाढालिङ्गनसुखम्. ८६ का० मद्विरहदुर्बले वक्षसि निवेश्य चिरमिवान्तःप्रवेशयन्निवालिङ्गनसुखं किल तथा मेऽनुभूय भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मञ्चरणावितरवदोदीत् । तथा रुदन्तं [^१]च तं वाङ्मात्रप्रतीकारः पुनरवदम् – 'सखे कपि- ञ्जल, सकलक्लेशरिभू तस्य [^२]पापात्मनो ममेदं [^३]युज्यते यत्त्वया प्रारब्धम् । त्वं पुनर्बालोऽप्यस्पृष्ट [^४]एवामीभिः संसारबन्धात्मकैर्निर्वाणमार्गपरिपन्थिभिर्दोषैः । त [^५]त्किमधुना मूढजनगतेन वर्त्मना । समुपविश्य तावत्कथय [^६]यथावृत्तं तस्य वार्ताम् । [^७]अपि कुशलं तातस्य ? स्मरति वा माम् ? [^८]दुःखि तो वा मदीयेन दुःखेन ? मद्वृत्तान्तमाकर्ण्य किमुक्तवान् ? कुपितो न वा' इति । स त्वेवमुक्तो मया हारीतशिष्यो [^९]पनीते पल्लवासने समुपविश्याङ्के मां कृत्वा हारीतोपनीतेनाम्भसा प्रक्षालय मुखमाख्यातवान् – 'सखे, कुशलं तातस्य । अयं चास्मद्वृत्तान्तः प्रथमतरमेव तातेन दिव्येन चक्षुषा दृष्ट: । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एवं कर्मणि तुरगभावाद्विमुक्तो गतोऽस्मि तातस्य पादमूलम् । गतं च मां दूरत एवोद्बाष्पदृष्टिर्विषण्णदीनवदनं भयादनुपसर्पन्तमालोक्याहूयाज्ञापितवान् – 'वत्स कपिञ्जल, परित्यज्यतां स्वदोषशङ्का । ममैवायं [ टि ]--प्रवेशयन्निव प्रवेशं कारयन्निव मे ममालिङ्गनसुखम् । किलेति सत्ये । तथानुभूय साक्षात्कृत्य मन्युः शोकः । 'मन्युशोकौ तु शुक्स्त्रियाम्' इत्यमरः । भूयसा बहुलेन वेगेन रयेण मच्चरणौ मत्पादौ मदङ्घ्री उत्तमाङ्घे मस्तके कृत्वा इतरवत्प्राकृतजनवत् । 'इतरः प्राकृतो नीचः' इति हैमः । अरोदीद्रुदनमकार्षीत् । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । तथा रुदन्तं च तथा विलपन्तं च वाङ्मात्र एव प्रतीकारः प्रतिक्रिया यस्य सः । पुनरवदमब्रवम् । सखे कपिञ्जल, सकलक्लेशेन समग्रदुःखेन कष्टेन परिभूतस्याभिभूतस्य पराभवितस्य पापात्मनो मे ममेदं युज्यत इदं घटते यत्त्वया भवता प्रारब्धम् । रुदनमित्यर्थः । त्वं पुनर्बालोऽप्यमीभिः संसारबन्धात्मकैः संसृतिबन्धस्वरूपै र्निर्वाणमार्गस्य मोक्षमार्गस्य परिपन्थिभिः शत्रुभिर्दोषैर्दूषणैरस्पृष्ट एव । तत्तस्माद्धेतोर्मूढजनगतेन मूर्खजनाचीर्णेन वर्त्मना मार्गेण रुदनलक्षणेन । अधुना किम् । न किमपीत्यर्थः । उपविश्यास्थाय तावत्पूर्वमादौ यथावृत्तं यथोपनतं तथा तस्य वार्ता किंवदन्तीं कथय ब्रूहि । अपि तातस्य पितुः कुशलं कल्याणम् । मां पुण्डरीकं स्मरति स्मृतिगोचरीकरोति न वा । मदीयेन मामकीनेन दुःखेन दुःखितो वा । मद्वृत्तान्तं मदुदन्तमाकर्ण्य श्रुत्वा किमुक्तवान्किं कथितवान् । कुपितो न वा रोषं गतो न वा इति । स तु कपिञ्जल एवं मयोक्तः कथितः सन्हारीतस्य शिष्येण विनेयेनोपनीत आनीते समानीते पल्लवासने नवीनपत्रविष्टरे समुपविश्य मां वैशंपायनाभिधानं शुकमङ्क उत्सङ्गे क्रोडे कृत्वा हारीतोपनीतेन हारीतानीतेनाम्भसा पानीयेन जलेन मुखं वदनं प्रक्षाल्य प्रक्षालनं कृत्वा धावनं कृत्वाख्यातवान्कथितवान् । किं तदित्याह- सखे इति । हे सखे पुण्डरीक, तातस्य महाश्वेतकेतोः कुशलं वर्तते । अयं चास्मद्वृत्तान्त एतदुदन्तः प्रथमतरमेवादावेव तातेन जनकेन पित्रा दिव्यचक्षुषा ज्ञाननेत्रेण दृष्टोऽवलोकितो निरीक्षितः । दृष्ट्वा च तत् प्रतिक्रियायै कर्म प्रारब्धं कर्तुमारब्धम् । समारब्धे एव कर्मणि तुरगभावादश्वशापाद्विमुक्तोऽहं तातस्य जनकस्य पादमूलं चरणमूलं गतोऽस्मि । गतं च सां दूरत एवोद्बाष्पदृष्टिरुद्गताश्रुनयनो भयाद्भीतेर्विषण्णं विलक्षं दीनं दुःखितं वदनं मुखं यस्यैवंभूतं मा- [^1]मुपसर्पन्तमागच्छन्तमालोक्य निरीक्ष्याहूयाह्वानं कृत्वाज्ञापि- तवान्कथितवान् । हे वत्स कपि [^1]F. अनुपसर्पन्तम् (न अभिसरन्तम् ) इत्युचितम् । [^१]G. तु. [^२]G. मन्दात्मनः. [^३]G. न युज्यते. [^४]G. अमीभी रागादिभिः. [^५]G. अमुना. [^६]G. यथावृत्तम्. [^७]G. अयि. [^८]G. न दुःखितः. [^९]G. त्वरितोपनीतेन. खलु शठमतेः सर्व एव दोषः, येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमा [^१]युष्करं कर्म [^२]निर्वर्तितम् । अधुना सिद्धप्राय- मेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीयताम्' इत्येवमाज्ञापितस्तु तातेन विगतभी [^३]र्व्यज्ञापयम् 'तात यदि प्रसादोऽस्ति [^४]ततो यत्रैवासावुत्पन्नस्तत्रैव गमनाया- ज्ञापयतु मां तातः' इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान्– 'वत्स, शुकजातावसौ पतितः तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति । तत्तिष्ठतु तावत्' इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान्– 'वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ – वत्स, यावदिदं कर्म [^५]परिसमाप्यते तावत्त्वयास्मिन्नेव जाबाले: [^६]पादमूले स्थात- व्यमिति । अपि च त्वद्दुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाप्राघ्रायैतदेव पुनःपुनः संविष्टम् । एवमुक्त्वाऽकठोरशिरीषकुसुमशिखासूक्ष्मामोद्भेद- पक्ष्मलानि [^७]गात्राणि पुनःपुनः पाणिना परामृश्यान्तर्हृदये- नादूयत । तथा दूयमानहृदयं च तमवदम् [ टि ]-- ञ्जल, स्वदोषस्य निजदूषणस्य शङ्कारेका परित्यज्यतां मुख्यताम् । खल्विति निश्चयेन । शठमतेर्मूर्खबुद्धेर्ममैवायं दोषः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्ति- समय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं दीर्घजीवितकारि कर्म न निर्वर्तितं न कृतम् । अधुना सांप्रतमिदानीमिदं कार्यं सिद्धप्रायमेव संजातमेव । अतो दुःखा [^1]सिका न भावनीया । मनसि दुःखं नानेयमित्यर्थः । मत्पादमूले मच्चरणतले तावदवस्थी- यतामवस्थानं क्रियतामित्येवं तातेनाज्ञापितस्तु कथितस्तु विगत- भीरहं व्यज्ञापयं विज्ञप्तिमकरवम् । हे तात हे पितः, यदि प्रसादः प्रसन्नतास्ति ततो यत्रैव यस्मिन्स्थ- लेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले गमनाय मामाज्ञापय- त्वाज्ञां ददातु तातः इत्येवं विज्ञापितस्तु मया पुनर्मामित्याज्ञापित- वानाज्ञां दत्तवान् । इतिद्योत्यमाह - वत्स इति । हे वत्स हे पुत्र हे सूनो शुकजातावसौ पतितस्तस्माद्धेतोर्गत्वापि तत्र तमद्य त्वं नैव वेत्सि । नाप्यसौ शुकस्त्वां भवन्तं वेत्ति । तावत्सांप्रतं तद्गमनं तिष्ठत्वास्ताम् । अद्य च प्रातरेव प्रत्यूष एवाहूय मामाज्ञापितवानाज्ञां दत्तवान् । हे वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सृहृन्मित्रं ते तव प्राप्तः । अस्य शुकस्य जन्मान्तरस्य स्मरणं च भवान्तरज्ञानं चोपजातम् । संप्रतीदानीं तद्गच्छ व्रज तं शुकं द्रष्टुं विलोकयितुम् । मदीययाशिषाऽऽशीर्वादेनानुगृह्यानुग्रह विषयीकृत्यासौ शुक्र इति वक्तव्यो भणितव्यः । इतिद्योत्यमाह- हे वत्सेति । हे वत्स, यावदिदं पूर्वोक्तं कर्म परिसमाप्यते परिपूर्णक्रियते तावत्कालमस्मिन्नेव जाबालेः [^2]पादमूले त्वया स्थातव्यं स्थेयम् । अपि च तव दुःखेन दुःखिता पीडिता ते तवाम्बा माता श्रीरप्येतस्मिन्नेव कर्मणि परिचारिका सपर्याकारिणी वर्तते । तयाप्यम्बयापि शिरस्युत्तमाङ्गे मस्तक उपाघ्राय [^3]चुम्ब्यैतदेव पूर्वोक्तं पुनः पुनः संदिष्टं कथितमुक्तम् । इत्येवमुक्त्वा प्रतिपाद्याऽकठोराण्यकठिनानि कोमलानि मृदूनि यानि शिरीषकुसुमानि तेषां शिखा तस्याः सूक्ष्मोऽणुरग्रस्य य उद्भेदस्तद्वत्पक्ष्मलानि कोमलानि गात्राणि शरीराणि पुनः पुनः पाणिना हस्तेन परामृश्य परामर्शनं कृत्वा हृदयेन चेतसादूयताखिद्यत । तथा दूयमानहृदयं खिद्यमानचेतसं च [^1]F. दुःखपूर्विका आसनक्रिया ( धात्वर्थनिर्देशे ण्वुल् ), दुःखेनाऽवस्थानमित्याशयः । [^2]F. यदा 'अस्मिन्नेव' इति विशेष्यते तर्हि 'पादमूले' इति न युज्यते । अत एव 'आश्रमे' इत्येव पाठो योग्यः । [^3]F. अनुपपदात् ल्यब् न युज्यते । [^१]G. आयुःकामं कर्म. [^२]G. निवर्तितम्. [^३]G. व्यज्ञपयम्. [^४]G. तदा. [^५]G. न परिसमाप्यते. [^६]G. आश्रमे. [^७]G. गात्राणि मे. 'सखे कपिञ्जल, किं दूयसे ? त्वयापि मन्दपुण्यस्य मम कृते [^१]तुरंगमतामापन्नेन पराधीनवृत्तिना बहुतराण्येव दुःखान्य- नुभूतानि । कथं सोमपानोचितेनामुनाऽऽस्येन समुत्पादित- सफेनरक्तस्रवाः खरखलीनक्षतयो विसोढाः ? कथमयमकठोर- किसलयशयनीयै [^२]कसेवासुकुमारः सदा पर्याणितस्य न शीर्णः पृष्ठवंश: ? कथमेषु [^३]कुसुमोच्चयापतितंबालवनलतास्पर्श-[^४]मात्राक्षमेषु गात्रेषु कशाभिघाता [^५]निपतिताः ? कथं च ब्रह्मसूत्रोद्वाहिनि देहेऽ [^६]स्मिन्वध्रोत्पीडनकृता: पीडा: समुप- जाता: ?' इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्कालविस्मृततिर्यग्जाति- दुःखः [^७]सुखमतिष्ठम् । [^८]उपारोहति च मध्याहं सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयत् । कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत् — "अहं हि तातेन त्वां समाश्वासयितुम्, 'जाबालि- पादमूलादा कर्मपरिसमाप्तेर्न त्वया चलितव्यम्' इत्येतच्चादेष्टुं विसर्जितः । [^९]अन्यदहमपि तत्रैव कर्मणि व्यग्रतर एव । तद्व्र- जामि संप्रति ।" अहं तु तच्छ्रुत्वा विषण्णवदनस्तं प्रत्यवदम् – 'सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्बाया वा संदिशामि । सर्वं त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया, पुनःपुनस्तत्राव- स्थानाय मां सं [^१०]विधाय हारीतं [ टि ]-- तं कपिञ्जलमहमवदमकथयम् । किं तदित्याह — सखे इति । हे सखे कपिजल, किं दूयसे किं खिद्यसे । त्वयापि भवतापि मन्दपुण्यस्य स्वल्पसुकृतस्य मम कृते तुरंगमतामश्वतामा- पन्नेन प्राप्तेन पराधीनवृत्तिना परायत्तवृत्तिना परवशवृत्तिना बहुतराण्येवानेकान्येव दुःखानि कृच्छ्राण्यनुभूतानि साक्षात्कृतानि । कथं केन प्रकारेण सोमः सोमवल्ली तस्याः पानं तत्रोचितेन योग्येनामुनास्येन मुखेन समुत्पादितो विहितः सफेनः सडिण्डीरो रक्तस्रावो रुधिरच्युतिर्याभिरेवंविधाः खरं कठिनं यत्खलीनं कविका कवियं मुखयन्त्रणं तस्य क्षतयो व्रणा विसोढाः क्षान्ताः । कथम- कठोरं सुकुमारं यत्किसलयशयनीयं तस्यैकसेवयैकसपर्यया सुकुमारः सुकोमलः सदा पर्याणितस्य संजातपल्ययनस्यायं पृष्ठवंशो रीढकः । 'रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः' इति हैमः । न शीर्णः शटितः । कथं कुसुमानामुच्चयोऽवचयस्तस्मादा- पतिताः स्रस्ता बालवनलतास्तासां स्पर्शमात्रेणाक्षमेष्वसमर्थेष्वेषु गात्रेषु कशाभिघाता वर्मदण्डप्रहारा निपतिताः । कथं च ब्रह्मसूत्रो- द्वाहिनि यज्ञोपवीतधारकेऽस्मिन्देहे शरीरे वध्रं चर्म तेन यदुत्पीडनं बन्धनं तेन कृता विहिताः पीडा बाधाः समुपजाताः समुत्पन्नाः । इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैः प्राचीनोदन्तसंभाषणैस्तत्कालं तदात्वं विस्मृतं विस्मरणतामापन्नं तिर्यग्जातिदुःखं यस्यैवंभूतोऽहं सुख [^1]मन्वतिष्ठमस्थाम् । सवितरि सूर्ये मध्याह्नमह्नो मध्यमुपारोहत्यधिरोहणं कुर्वति सति हारीतः कपिञ्जलेन सह मां वैशम्पायनं यथोचितं योग्यमाहारं भोजनमकारयदकल्पयत् । कृताहारश्च विहितभोजनश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीदवोचत् । अहं हि कपिञ्जलस्तातेन पित्रा त्वां भवन्तं समाश्वासयितुमाश्वासनां कर्तुं जाबालिपादमूलादाकर्मपरिसमाप्तेः कृत्यपरिपूर्तिं मर्यादीकृत्य न त्वया चलितव्यं नान्यत्र गन्तव्यम् । अन्यत्र गमनं न करणीयम् । इत्येतच्चादेष्टुं कथयितुं विसर्जितो विसृष्टस्त्यक्तः । अन्यदहमपि तत्र कर्मणि पूर्वोक्तकृत्ये व्यग्रतरोऽतिशयेन व्याकुल एव । तत्तस्माद्धेतोः संप्रतीदानीं व्रजामि गच्छामि । अहं तु वैशम्पायनस्तच्छ्रुत्वा समाकर्ण्य सम्यगाकर्ण्य विषण्णवदनो विलक्षास्यस्तं कपिञ्जल- मवदमब्रवम् । हे सखे कपिञ्जल एवंगते एवं प्राप्तेऽहं किं ब्रवीमि किं वच्मि । किंच तातस्य पितुर्जनकस्याम्बाया मातुः सवितुः किं संदिशामि किं कथयामि किमाज्ञापयामि । सर्वं समस्तं त्वमेव भवानेव वेत्सि जानासीति । स तु मयैवमुक्तो भणितः पुनःपुनर्मां तत्रावस्था [^2]नाय हारीतं संवि [^1]F. अतिष्ठमित्येव मूलानुकूलः पाठः । [^2]F. तत्रावस्थानाय माम्, हारीतं च संविधाय अनुरुध्य (सावधानीकृत्य ), इत्यन्वयो योग्यः । [^१]G. तुरंगताम्. [^२]G. एकमुखसेवा. [^३]G. पातित; पतित. [^४]G. मात्रक्षमेषु. [^५]G. निपातिता:. [^६]G. बद्ध. [^७]G. अन्वतिष्ठम्. [^८]G. उपरोहति. [^९]G. अहमपि; अस्मि तदहमपि. [^१०]G. संनिधाय. च, अनुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन मुनिकुमारकजनेने- क्ष्यमाणोऽन्तरिक्षमतिक्रम्य [^१]क्वाप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्वास्य मां शारीरस्थितिकरणायोदतिष्ठत् । उत्थाय [^२]चान्यं मुनिकुमारकं मत्पार्श्वे स्थापयित्वा निरगमत् । [^३]निर्वर्तितस्नानादिक्रियाकलापश्चात्मनैव सहा [^४]पराह्णसमये पुनर्मामाहारमकारयत् । एवं [^५]चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम् – 'गमनक्षमस्तु संवृत्तोऽस्मि, तत्र [^६]नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि [^७]दु:खं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । [^८]शुष्य [^९]च्चञ्चुपुटः पिपासया, नाडिंधमे [^१०]नाकम्पितकण्ठः श्वासेन, तद [ टि ]-- धाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनवंभूतो विस्मयोन्मुखेन कौतुकोर्ध्वीकृताननेन मुनिकुमारकजनेन ताप सशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमाकाशमति- क्रम्योल्लङ्घ्य काप्यदर्शनमनवलोकनमगाद्ययौ । गते च तस्मिन्कपिञ्जले हारीतो मां समाश्वास्याश्वासनां दत्त्वा शारीर- स्थितिकरणाय स्नानादिकृत उदतिष्ठदुत्थितो बभूव । उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्श्वे मदभ्यर्णे मत्समीपे स्थापयित्वा संन्यस्य निरगमन्निर्ययो निर्जगाम । निर्वर्तितो विहितः स्नानादिकायाः क्रियायाः कलापः समुदायो येन सोऽपराह्नसमये तृतीयप्रहरे पुनरात्मनैव सह स्वेनैव समं मामाहारमशनमकारय- व्द्यधापयत् । एवं चावहितचेतसा सावधानचित्तेन हारीतेन संवर्ध्यमानो वृद्धिं प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसैः संजातौ सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति हैमः । उत्पन्नं संजातमुत्पतनस्योड्डयनस्य सामर्थ्यं बलं यस्मै एवंविधश्च चेतसीत्यकरवमरचयम् । गमने चलने क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे । चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परि [^1]ज्ञानमवबोधः। चन्द्रा- पीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्नज्ञानोऽपि संजातजातिस्मरणोऽपि तस्या दर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षि- स्पन्दमात्रमपि दुःखं स्थापयामि । भवतु जायताम् । तत्रैवा- च्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चित्य निर्णयं कृत्वैकदैकस्मिन्समये प्राप्तः प्रभाते विहारार्थं यात्रार्थं निर्गत एवोत्तरामुदीचीं ककुभं दिशं गृहीत्वावहमचलम् । अबहुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य भावस्तत्ता तया, स्तोकमेव स्वल्पमेव गत्वा मे ममाङ्गानि हस्तपादादीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव । पिपासयोदन्यया शुष्यञ्शोषं प्राप्नुवचञ्चपुटं त्रोटपुटं [^2]यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिं धमतीति नाडिंधम एवंविधेन श्वासेन श्वस [^1]F. तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ? किमग्रे विवक्षितम् ? ( उत्पत्तिपरिज्ञानं तु जातमेवास्तीति किमाधारादुच्यते, क्वोत्पत्तिरस्मै सूचिता ? ) तस्मादिदमपि टीकाकारपुंगवत्वमेव । 'तत्र न मे चन्द्रापीडोत्पत्तिपरिज्ञानम्, ( तत्र गमनक्षमावस्थायामपि चन्द्रा- पीडोत्पत्तिपरिज्ञानं न मे जातम् ), इत्येव पाठः । [^2]F. ' अवशीर्यन्त इव मेऽङ्गानि इतिरूपेण पूर्ववाक्ये यदा तत्तत्क्रियाया एव प्राधान्येन निर्देशः प्रक्रान्तस्तर्हि अग्रेपि सोयमेव प्रक्रमो निर्वाह्यः । ततश्च - - 'अशुष्यचञ्जुपुटं पिपासया, नाडिन्धमे आध्मायत कण्ठः श्वासेन, ' इत्येव पाठो प्रन्थाभिमतः । टीकाका- रस्तु केवलं पर्यायशूरः क्रूरः स्वारस्ये । [^१]G. अदर्शनपथम्. [^२]G. अन्यतमम्. [^३]G. निवर्तित. [^४]G. अपराह्नसमये; सायाह्नसमये. [^५]G. आहित. [^६]G. नाम तावत्. [^७]G. दुःखे. [^८]G. अशुष्यत्. [^९]G. चञ्चुपुटम्. [^१०]G. अकम्पत; अध्यायत. वस्थश्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति [^१]परवा- नेवान्यतमस्य तमस्विनीतिमिरसंघातस्ये [^२]वार्ककरतिर- स्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीर- तरुनिकुञ्जस्योपर्यात्मानममुञ्चम् । चिरादिवोन्मुक्ताध्वश्रम- क्लमोऽवतीर्य शीतलतरुतलच्छायास्थितो दलगहनसंरोधशिशिर- मरविन्दकिंजल्करजोवाससुरभि [^३]बिसरस [^४]कषायमापीय- मानमेवोत्पादित [^५]पुनरुत्कपानस्पृहमा तृप्तेः पयो [^६]निपीय, यथाप्राप्तैरकठोरकमलकर्णिकाबीजैर्वीर [^७]तरुपर्णाङ्क- [^८]रफलैश्च कृत्वा क्षुधः प्रतीकारम् अपराह्नसमये पुनः कियन्त- मप्यध्वानं यास्यामीति मनसि कृत्वा, अध्वश्रमनिःसहान्यङ्गानि [^९]विश्रामयितुमन्यतमामविच्छिन्नच्छायां शाखामारुह्य तरोर्मूल- भाग एवावातिष्ठम् । तथास्थितश्चाध्वश्रमसुलभां निद्रामगच्छम् ॥ चिरा [^१०]दिव च लब्धप्रबोधो बद्धमात्मानमनुम्मोचनीयैस्तन्तुपाशैरपश्यम् । अग्रतश्च पाश [ टि ]-- नेनाकम्पितः प्रचलितः कण्ठो निगरणो यस्य स तादृश्य- वस्था यस्य सः । तदवस्थश्च शिथिलायमाना श्लथायमाना पक्षतिः पक्षमूलं यस्यैवंभूतः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । अत्र पतामि अत्र पतामीति परवानेव परायत्त एव सरस्तीरे यस्तरु- निकुञ्जस्तस्योपर्यात्मानं स्वममुञ्चं मुक्तवान् । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । इतो निकुञ्जं विशेषयन्नाह - अन्येति । अन्यतमस्यानिर्दिष्टनामकस्य तमस्विनी यामिनी तस्यास्तिमिरसंघातस्येव ध्वान्तसमूहस्येवार्ककरतिरस्कारिणो रविकिरणन्यक्कृतिविधायिनो घनो निबिडो हरितो नीलो यः पल्लवभरः किसलयसंभारस्तेनावनम्रस्यावनतस्यासन्नतरस्यातिसमीपवर्तिनोऽतिनिकटवर्तिनः । चिरादिव चिरकालेन बहुवर्षे दिवसेनोन्मुक्तो गतः अध्वश्रमक्लमः प्रवासखेदो यस्य सोऽवतीर्यावरोहणं कृत्वा शीतला शिशिरा या तरोश्छाया आतपाभवस्तस्यां स्थितः कृतावस्थानः । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दलैः पत्रैर्गहनं निबिडम् । अर्था[^2]द्वनान्तरस्य संरोधेनावरणेन शिशिरं शीतलम् अरविन्दं कमलं तस्य किंजल्कं केसरं तस्य रजः परागस्तस्य वासो गन्धस्तेन सुरभि सुगन्धं बिसरसेन तन्तुलमधुना कषायं तुवररसम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । आपीयमानमेवास्वाद्यमानमेवोत्पादिता पुनरु [^3]त्कयोत्कण्ठयां पानस्पृहा वाञ्छा येन तत् । यद्वानुत्पा- दिता पुनः पानस्पृहा वाञ्छा येन तदित्यर्थः । आ तृप्तेः सौहित्य- पर्यन्तं पयो जलं निपीय पानं कृत्वा जलं पीत्वा, यथाप्राप्तैर्यथा लब्धैरकठोरा सुकुमाराऽकठिना या कमलकर्णिका वराटकस्तस्या बीजैः फलैर्वीरतरुररुष्करः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्ला- तकी त्रिषु' इत्यमरः । तस्य पर्णानि पत्राण्यङ्कुराः प्ररोहा नवाङ्कुराः फलानि सस्यानि च तैः क्षुधो बुभुक्षायाः प्रतीकारं तत्प्रशमनोपायं कृत्वा विधायापराह्नसमये तृतीयप्रहरे पुनः कियन्तमप्यध्वानं मार्गं यास्यामि गमिष्यामीति मनसि कृत्वेति चित्ते विचिन्त्य विचारयित्वाध्वश्रमेण मार्गखेदेन निःसहान्यशक्तान्य- समर्थान्यङ्गानि विश्रामयितुं विश्रामं कारयितुमन्यतमामन्यतरा- मविच्छिन्नात्रुटिता छाया यस्यां निरन्तरा छाया यस्यामेतादृशीं शाखामारुह्यारोहणं कृत्वा तरोर्मूलभाग एवावाति [^4]ष्ठमुपाविशम् । तथास्थितश्च तथावस्थश्चाध्वश्रमेण मार्गखेदेन सुलभां सुप्रापां निद्रां प्रमीलामगच्छमप्रापम् । चिरादिव च चिरकालसदृशमिव बहुकालसदृशमिव । अत्रेवशब्दः सदृशार्थे । लब्धः प्रातः प्रबोधो जागरो येन सोऽनुन्मोचनीयै- रुन्मोचयितुमशक्यैस्तन्तुपाशैरात्मानं स्वं बद्धं संयमितमपश्यं व्यलोक्यम् । अग्रतश्च पुर [^1]F. प्रलाप एव । [^2]F. न जाने किं वक्ति । दलगहन ( निबिड ) तया यः सूर्यरश्मीनां संरोधस्तेन शिशिरम्, इति स्पष्टोर्थ: । [^3]F. उत्कण्ठापर्याय उत्काशब्दो न प्रसिद्ध: (उत्कण्ठिता- पर्यायोस्ति ) तस्मात् 'पुनरुक्तपानस्पृहम् ' ( पुनरुक्ता द्विरावृत्ता ( अधिका) पानस्पृहा येन ) इति पाठः । [^4]F. अतिष्ठमित्येव ग्रन्थपाठः । 'अव' पूर्वकत्वे तु आत्मनेपदं स्यात् । [^१]G. पतन्नेवाहितगमनप्रयत्नः. [^२]G. दृष्टिहारिणां हरितघननिबिडपल्लवभरावनम्रासन्नतरस्य सरस्तीरजम्बूनिकुञ्जस्य. [^३]G. निबिड. [^४]G. कषायमधुरम्. [^५]G. अपुनरुक्त, [^६]G. निपीयमानप्राप्तै:. [^७]G. तीरतरु. [^८]G. अङ्कुरपत्रैश्च; अङ्कुरैः फलैश्च. [^९]G. विश्रमयितुम्. [^१०]G. इव. विरहितमिव कालपुरुषम्, अतिकठिनतया कालिम्ना च वपुषः कालायसपरमाणुभिरिव केवलैर्निर्मितम्, प्रेतपतिमिवापरम्, प्रतिपक्षमिव पुण्यराशेः, [^१]आशयमिव पाप्मनः, विनापि क्रोधकारणादाबद्धभीषण [^२]भृकुटिरौद्रतरेणानने [^३]नारक्तकेकरतरकनीनिकेन [^४]च चक्षुषा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तम्, आशये केशेषु चास्निग्धम्, आनने ज्ञाने चान्धकारितम्, वर्णे चरिते च कृष्णम्, निवसने कर्मणि च मलिनम्, वचसि वपुषि च [^५]परुषम्, अदृष्टाश्रुतानुरूपमध्या- क प्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् । आलोक्य च तं तादृशमात्मन उपरि निष्प्रत्याश एवापृच्छम् - 'भद्र कस्त्वम् ? किमर्थं [^६]वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया, तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं मया निरागसा बन्ध [^७]दुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् । मुञ्च मामिदानीं त्वं भद्रमुखः । मया खलु [^८]वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकालक्षेपक्षमं वर्तते [^९]मे हृदयम् । भवानपि [^१०]प्रणिधर्मे वर्तते' [^११]एवमुक्तः स मामु [^१२]क्तवान् [ टि ]-- तश्च पाशविरहितं कालपुरुषमिव यममिवातिकठिन- तयातिकठोरतया वपुषो देहस्य कालिम्ना कृष्णत्वेन च केवलैः कालायसपरमाणुभिर्लोहाणुभिरिव निर्मितं रचितमपरं प्रेतपतिं यममिव पुण्यराशेः सुकृतसङ्घातस्य प्रतिपक्षमिवासहनमिव [^1]पाप्मनः पापिष्ठस्या [^2]शयमिवाभिप्रायमिव । क्रोधकार- णाद्विनापि मन्युहेतुं विनाप्याबद्धा या भीषणा भैरवा भृकुटयस्ताभी रौद्रतरेण भीषणतरेणाननेन मुखेनारक्ता लोहिता केकरतरा अतिवक्रा कनीनिका यस्यैवंभूतेन च चक्षुषा नयनेन कृत्वा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिव भीतिमिवोपजनयन्तमुत्पादयन्तं निष्पादयन्तम्, आशयेऽभिप्राये केशेषु चालकेषु चास्निग्धं रूक्षमानने मुखे ज्ञाने चावबोधे चान्धकारितं प्राप्तान्धकारम्, वर्णे देहगुणे चरित आचरणे च कृष्णं श्यामम्, निवसने वस्त्रे कर्मणि क्रियायां च मलिनं कश्मलम्, वचसि वाचि वपुषि शरीरे च परुषं कठिनम्, अदृष्टश्रुतमनुरूपं [^3]स्वरूपं यस्यैवंभूतमप्याकार प्रत्ययादाकृतेर्ज्ञानादेवानुमीयमानमनुमानेन ज्ञायमानं क्रौर्यदोषं क्रूरतादूषणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलोकयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः स्वस्योपरि निष्प्रत्याशो निराश एवाहमपृच्छमप्रश्नयम् । हे भद्र, कस्त्वम् । किमर्थं किंप्रयोजनं वाहं बद्धोऽस्मि । यद्यामिषतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपराधिना। अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । भद्रमुखः कल्याण- कृद्वदनस्त्वमिदानीं सांप्रतं मां मुञ्च त्यज । वल्लभजने प्रणयिनि जन उत्कण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्ठं गन्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमकालक्षेपक्षमं कालविलम्बे समर्थन वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एवमुक्तः कथितो मामित्युक्त- वान्भणितवान् । [^1]F. पापस्येत्युचितम् । [^2]F. अविचार एवायम् । आश्रयमित्येव पाठः । [^3]F. अनुरूपं स्वरूपमिति नवीनम् । अस्तु. 'अदृष्टा- श्रुतानुभूतमपि आकारप्रत्ययादेवानुमीयमानक्रौर्यदोषम् इत्येव पाठः । न दृष्टं न श्रुतं न अनुभूतमपि, इति तदर्थः । [^१]G. आश्रयम्. [^२]G. भ्रुकुटी. [^३]G. आरक्तकेकरतल; रक्ततर. [^४]G. चक्षुषा च. [^५]G. अदृष्टश्रुतानुरूपम् अदृष्टश्रुतानुभूतम्. [^६]G. च. [^७]G. अनुभावितेनापि. [^८]G. जनदर्शन. [^९]G. मद्धृदयम्. [^१०]G. प्राणिधर्मे प्रवर्तते; प्राणिधर्मेषु वर्तत एषेति. [^११]G. स त्वेवमुक्तः. [^१२]G. प्रत्ववादीत्. 'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन कु [^१]तूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे [^२]मातङ्गकप्रतिबद्धायां भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो [^३]यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुक [^४]स्तिष्ठतीति । तया च श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय [^५]बहव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां [^६]प्रापयामि। [^७]बन्धमोक्षे चाधुना सा ते प्रभवति' इति । अहं तच्छ्रुत्वा [^८]मुक्ताशनिनेव ताडितः शिरसि, संविग्नान्तरात्मा चेतस्यकरवम्- 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया [^९]सुरासुरशिरः शेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन, जगत्त्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्य [^१०]लोकाश्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं [^११]प्रवेष्टव्यम् । [ टि ]-- किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । 'जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन मांसगृध्रुना कुतूहलेन [^1]कौतूहलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां भूमौ कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कण: शबरावासो घोषस्त्वाभीरपल्लिका' इति हैमः । तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्य- [^३]द्भुतरूपवत्त्वात्प्रथम आद्ये वयसि दशायां वर्तते । केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहि [^३]तायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपति- सुतया श्रुत्वाकर्योत्पन्नकौ[^४] तुकात्संजातकुतूहलात्त्वग्रहणाय त्वदानयनाथ बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे । अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्रापयामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव [^5]बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् । अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्वज्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न उद्विग्नोऽन्तरात्मा यस्यैवंभूत इति चेतसि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदैत्यानां शिरःशेखरैर्मौलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवं विधयाः श्रियो लक्ष्म्या जातेनोत्पन्नेन जगत्त्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनावस्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥' एतैर्म्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्ने- तादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र [^1]F. पूर्वं धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन )' इत्येव पाठः सम्यक् । [^2]F. अज्ञानं व्याख्यातुः, कौतुकमये कौतुकबहुले । प्रथमे वयसि ( कौमारे ) सर्वस्य किल कौतुकानि प्रतिपदं भवन्ति । [^3]F. व्याख्यातुर्यथेच्छं व्याकरणम्, विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् । [^4]F. भ्रष्टः पाठः । 'उत्पन्नकौतुकया' इत्येव पाठः । [^5]F. बन्धे मोक्षे चेत्येव पाठः । [^१]G. कुतूहलिना. [^२]G. मातङ्ग. [^३]G. यथा किल. [^४]G. तिष्ठतीति. [^५]G. बहव एवापरेऽपि; अपरिमिता. [^६]G. नयाम्यहम्. [^७]G. बन्धमोक्षे च. [^८]G. शुष्काशनिना. [^९]G. सुरासुरशिखराभ्यर्चिते चरणसरसिजया श्रिया जनित्वा. [^१०]G. आश्रय. [^११]G. द्रष्टव्यम्. चण्डालैः सहैकत्र स्थातव्यम् । [^१]जरन्मातङ्गाङ्गनाकरोपनीतैः कवलैरात्मा पोषणीयः । चण्डालबालकजनस्य क्रीडनीयेन भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते, यस्य [^२]कर्मणामयमीदृशः परिणाम:, किमर्थं प्रथमगर्भ एव न सहस्रधा शीर्णोऽसि ? मातः श्रीः, अशरणजनशरणचरण- पङ्कजेऽतिगहनभीषणाद्रक्ष मामस्मान्महानरकपातात् । तात भुवनत्रयत्राणक्षम, त्रायस्व कुलतन्तु [^३]मेकम् । त्वयैव संवर्धितोऽस्मि । वयस्य कपिञ्जल, यदि परापत्य त्वयास्मात्पापान्न मोचितोऽस्मि तदा जन्मान्तरेपि पुनर्मा कृथा मत्समागमप्रत्याशाम्' इति । एतानि चान्यानि च चेतसा विलप्य पुनस्तमभ्यर्थनादी नमवदम् - 'भद्रमुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो [^४]भवत्येवादृष्टसुखहेतुः । दृष्टेऽपि [^५]च केनचिदपरेणादृष्टस्य मन्मुक्तिकृतः प्रत्यवायो नास्त्येव । तन्मुञ्चतु मां भद्रमुखः' इत्यभिधानश्च [^६]पादयोरपतम् । स तु विहस्य मामब्रवीत् [ टि ]-- प्रवेशः कर्तव्यः । चण्डालैरन्तेवासिभिः सहैकत्रै- कस्मिन्स्थाने स्थातव्यमवस्थानं कर्तव्यम् । जरत्यश्च ता मातङ्गनामङ्गनाः स्त्रियो युवत्यश्च तासां करोपनीतैर्हस्तानीतैः कवलैर्गण्डोलकैरात्मा पोषणीयः । चण्डालबालकजनस्य क्रीडनीयेन क्रीडां कर्तुं योग्येन भवितव्यम् । हे दुरात्मन् हे पापात्मन्, हे पुण्डरीकहतक हे पुण्डरीकमारक, ते तव जन्मलाभं धिगस्तु । यस्य कर्मणामयमीदृशः परिणामो विपाकः । प्रथमगर्भे एव सहस्रधा सहस्रप्रकारेण किमर्थं न शीर्णः शटितोऽसि । हे मातः श्रीः, अशरणजनानां शरणमाश्रयं चरणपङ्कजं चरणकमलं यस्यास्तस्याः संबोधनम् । अतिगहनं दुरवगाहनं च तद्भीषणं चेति कर्मधारयः । अतिगहनं भीषणं तस्मादस्मान्महानरकपातान्महा- दुर्गनिपतनात्त्वं मां वैशम्पायनं रक्ष पाहि त्राहि । तस्मात्कारणाद्धे तात हे पितः हे जनक, भुवनत्रयस्य विष्टपस्य त्राणं रक्षणं तत्र क्षम समर्थ, एकं कुलतन्तुं कुलपांसुलं वा मां त्रायस्व रक्ष । 'पांसुलः पुंश्चले शंभोः खट्वाङ्गे पांसुला भुवि' इति विश्वः । त्वयैव भवतैव संवर्धितोऽस्मि वृद्धिं प्रापितोऽस्मि । हे वयस्य कपिञ्जल, यदि परापत्यागत्य त्वयास्मात्पापान्न मोचितोऽस्मि न त्याजितोऽस्मि तदा जन्मान्तरेऽपि भवान्तरेऽपि [^1]गतजन्मन्यपि पुनर्मत्समागम- प्रत्याशां मन्मेलापकस्पृहां मा कृथा मा व्यवस्था इत्येतानि चान्यानि च चेतसा मनसा विलप्य विलापं कृत्वा पुनस्तमभ्यर्थना प्रार्थना तथा दीनं यथा स्यात्तथावदमवोचम् । हे भद्रमुख हे कल्याणमुख, जातिस्मरो निजजातिस्मरणवानहं जात्या मुनिरस्मि जन्मना यतिरस्मि । तत्तस्मात्कारणाज्जात्या कृत्वा मामस्मात्पापसंकटात्पाप- कष्टादंहःकष्टादुद्धृत्योद्धारं कृत्वा तवाप्यदृष्टश्चासौ सुखहेतुश्चेति कर्मधारयः । एवंविधो धर्मो भवत्येव । दृष्टेऽपि दूषणं नास्तीत्या- शयेनाह - दृष्टेऽपीति । अदृष्टस्यानवलोकितस्य मन्मुक्तिकृतो मन्मोचनकर्तुरपरेण केनचि [^2]दृष्टेऽपि वीक्षितेऽपि प्रत्यवायः प्रायश्चित्तं नास्त्येव । 'धर्मः क्षरति कीर्तनात्' इति स्मृतेः । तेन दृष्टादृष्टसुकृतसमाचरणेऽपि न दोष इति ध्वनितम् । तदिति हेत्वर्थे । एष भद्रमुखो मां मुञ्चतु त्यजत्वित्यभिधान इतिब्रुवाणश्चाहं पादयोश्चरणयोरपतं पतितवान् । स तु भद्रमुखो [^1]F. आगामिजन्मन्यपीति योग्यम् । [^2]F. यत्किञ्चित्प्रलपिता सर्वथाऽनधिकारी ग्रन्थमपि स्प्रष्टुम् । अदृष्टसुखहेतुर्धर्मस्तु भवेदेव, किन्तु दृष्टेऽपि दर्शनविषयेऽस्मिन् लोकेपि, केनचिदन्येन अवीक्षितस्यगम मोचनं कुर्वतस्ते दोषो नास्ति । पूर्व मां निबद्ध्य ततो मुक्तवानिति न त्वं केनचिदृष्टः । अतो न ते स्वामिदुहितुः सविधे दोषोद्घोषः स्यादित्याशयः । 'मामुद्धृत्य ते धर्मो भवेत्' इति यदि ग्रन्थस्य यथास्थितं वाक्यं ? तर्हि समाधानसापेक्षम्, उद्धृत्य इति उद्धारस्य त्वं कर्ता, भवेत् इत्यस्य च धर्मः कर्ता क्त्वाप्रत्यये च द्वयोरेककर्तृकत्वमपेक्षित- मित्यलं पौरोभाग्येन । [^१]G. जनंगमानां करोपनीतैः; जनङ्गमाङ्गनयोपनीतैः कर्मणः. [^२]G. कर्मण: [^३]G. पांशुलम्. [^४]G. भवेत्. [^५]G. ते; च ते. [^६]G. पुनः पुनः पादयोः. का० ८७ 'रे मोहान्ध, यस्य शुभाशुभकर्मसाक्षिभूताः पञ्च लोक [^१]पालास्त वैवात्मशरीरस्थिता न पश्यन्ति सोऽ[ ^२]न्यस्य भयादकार्य नाचरति । तन्नीतोऽसि मया स्वाम्याज्ञया' इत्येवमभिधान एव मामादाय पक्कणाभिमुखमगच्छत् । अहं तु तेन तद्वचसाभिहत इव मूर्ध्नि मूकतामापन्नः केषां पुनः कर्मणामिदं मे फलमित्यन्तरात्मनाभिध्यायन्प्राणपरित्यागं प्रति कृतनिश्चयोऽभवम् । नीयमानश्च तथा तेन तन्मोचनप्रत्याशयैवाप्रतो दत्तदृष्टिराविष्टैरिव बीभेत्सविन्यासर्व्यावृत्तैश्चावर्तकानायपरिभ्रमणानिभृतैश्व मृगावपाटितजीर्णवागुरासंप्रन्थनव्यमैश्चोत्रुटितकूटपाशसंमँन्थनायस्तैश्च हस्तस्थितसकाण्डकोदण्डैश्च प्रासप्रचण्डपाणिभिश्च सेलग्राहि भिश्च नानाविध ग्राहकविहंगँवाचालविहस्य स्मितं कृत्वा मामब्रवीदभ्यधात् । किं तदित्याह - रे इति । रे मोहान्ध हे मोहेन गताक्ष, शुभाशुभकर्मणोर्धर्माधर्मयोः साक्षिभूताः स्पेयीभूता इन्द्रयमवरुणसोमकुबेराख्याः पञ्च लोकपालास्तवैवात्मशरीर स्थिता यस्य न पश्यन्ति नावलोकयन्ति स पुमानन्यस्य भयादकार्यमकृत्यं नाचरति न करोति । अहं तु पञ्चभिर्विलोक्यमानोऽप्यकृतं करोमीति भावः । अतो मम दोषो नास्तीत्या शयेनाह - तदिति । तत्तस्मात्कारणान्मया स्वामिनोऽधीशस्याज्ञया निदेशेन न स्वातन्त्र्येण नीतोऽस्यत्र प्रापितोऽसि । अतो न दूषणं ममेति भावः । इत्येवमभिदधान एवेत्येवंब्रुवाण एव मामादाय गृहीत्वा पक्कणस्य शबरावासस्याभिमुखमंगच्छदगमत् । अहं तु तेन भद्रमुखेन तद्वचसा तद्वाक्येन मूर्ध्नि शिरस्यभिहत इथ ताडित इव मूकतामापन्नो मूकभावं प्राप्तः । इदं केषां कर्मणां फलमित्यन्तरात्मनाभिध्यायन्विचारयन्प्राणपरित्यागमसुमोक्षणं प्रति कृतनिश्चयो विहितनिर्णयोऽभवम् । तथा तेन प्रकारेण तेन चाण्डालेन नीयमानश्च तस्माद्यन्मोचनं मोक्षणं तस्य प्रत्याशा वाञ्छा तयैवाग्रतः पुरो दत्ता दृष्टिर्येन सोऽहं दूरत एव पक्कणं शबरनिषेशमपश्यं व्यलोकयमिति दूरेणान्वयः । इतः पक्कणं विशिनष्टि - आवेष्ट्य मानमिति । आवेष्ट्यमानं परिवेष्टनविषयीक्रियमाणम् । कैस्तदेवाह — आविष्टैरिव भूतग्रस्तैरिव । बीभत्सो रौद्रो विन्यासो रचना येषां तैः । व्यावृत्तैश्च आखेटकान्निवृत्तैः । आवर्त एवावर्तकः । 'आवर्तः पयसां भ्रमः' इत्यमरः । तत्रानायस्य मत्स्यबन्धनस्य परिभ्रमणमितस्ततः परिक्षेपणं तेनानिभृतैश्चञ्चलैः। 'आनायो मत्स्यबन्धनम्' इत्यमरः । मृगैर्हरिणैरवपाटिता विदारिता द्विवाकृता जीर्णघागुरा मृगबन्धनी तस्याः संग्रन्थनं गुम्फनं तेन व्यग्रैर्व्याकुलैः । उत्रुटित उच्छिन्नो यः कूटपाश उन्माथस्तस्य संग्रन्थनं गुम्फनं तेनायस्तैर्व्यमैश्च । 'उन्माथ: कूटयन्त्रं स्याद्वारा मृगबन्धनी' इत्यमरः । हस्तस्थितानि सकाण्डानि सबाणानि कोदण्डानि धनूंषि येषां तैश्च । प्रासैः कुन्तैः प्रचण्डा रौद्राः पाणयो हस्ता येषां तैः । सेलं गृह्णन्तीत्येवंशीलाः सेलग्राहिणस्तैश्चै । नानाविधा अनेकप्रकारा ये ग्राहकविहंगाः शिञ्जनैकप्रमुखास्तेषां वाचाल 2 टिप्प० -1 'तवेव.. ... लन्यस्य कस्य ... ' इत्येव पाठः । तव शरीरे स्थिताः पञ्च लोकपाला यथा अकार्य न पश्यन्ति [ अत एव ध्वया दुष्कृतं कृत्वा फलमिदं भुज्यत इत्या क्षेपो ध्वन्यते ] तथा यस्य न सः अन्यस्य कस्य वा भयात् अकार्य नाचरति ? अपि तु अन्यस्य भयनिवृत्तौ अकार्यमाचरत्येव । [ मां मुञ्चन् न त्वं विलोकित इति कुतो दोष इत्यस्य प्रत्युत्तरमिदम् ] टीकाकारस्तु तदिदं चूर्णयांचकार । 2 भाषायां प्रसिद्ध स्यान्न संस्कृते, 'भल्लग्राहिभिश्च' इत्येव पाठः । 3 मध्यगतानि 'लगुडिभिश्च' इत्यादीनि विशेषणान्यपि नीचैः पाठान्तरे दृष्टव्यानि, यानि टीकाकारेण न घृतानि । १ . पाठा० - १ तथैव. २ आत्मशरीरे स्थिताः; आत्मस्थिताः ३ अन्यस्य कस्य. ४ आत्मनो मोचन. ५ बीभत्स वि. न्यासैर्व्यावृत्तैश्च वर्तकानादाय परिभ्रमणानिवृत्तैश्च; बीभत्सुविन्या सैर्व्या वृत्तैश्च वर्तकानामुपरि भ्रमणनिभृतैश्च ६ निग्रन्थन; ग्रन्थन. ७ पाशप्रचण्डदण्ड; प्रसरद्दण्डप्रचण्ड, ८ भल्लग्राहिभिश्च लगुडिभिश्च लासकग्राहि भिश्च ९ सेलग्राहक. १० बाचालकुशलैः; वाचालनाकुशलै:, नकुशलैः कौलेयकमुक्ति [^१]संचारणचतुरैश्चण्डालशिशुभि- र्वृन्दशो दिशि दिशि [^२]मृगयां क्रीडद्भिर्दूरत [^३]एवावेष्ट्य- मानम्, इतस्ततो विस्रगन्धिधूमोगमानुमीयमानसान्द्र [^४]वंशवनान्तरित वेश्मसंनिवेशम्, सर्वतः करङ्कप्रायवृत्ति [^५]वाटम् अस्थिप्रायरथ्यावकरकूटम्, उत्कृत्तमांसभेदो [^६]वसासृक्कर्दम- प्रायकुटीराजिरम्, आखेटप्रायाजीवम् पिशितप्रायाशनम्, वसाप्राय- स्नेहम्, कौशेयप्रायपरिधानम्, चर्मप्रायास्तरणम् सारमेयप्राय- परिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, असृक्प्राय- देवताबलिपूजम्, पशूपहारप्रायधर्मक्रियम्, आकारमिव सर्वनर- काणाम्, कारणमिव सर्वाकुशलानाम्, संनिवेशमिव सर्वश्मशाना- नाम्, पत्तनमिव सर्वपापानाम्, आयतनमिव सर्वयातनानाम्, स्मर्यमाणमपि भयंकरम् श्रूयमाणमप्युद्वेगकरम्, दृश्यमानमपि पापजननम्, जन्मकर्मतो मलिनतरजनम्, जनतो [^७]निस्त्रिंशतरलोकहृदयम्, [ टि ]-- नमभिवादनं तत्र कुशलैश्चतुरैः । कौलेयकानां शुनां मुक्तौ जीवोपरि मोचने संचारण इतस्ततः परिभ्रमणे चतुरैरभिज्ञैः । 'कौलेयकः सारमेयः कुक्कुरो मृगदंशकः' इत्यमरः । एतादृशै- श्चण्डालशिशुभिः श्वपचदारकैः । वृन्दैश्च वृन्दैश्च वृन्दशः । दिशि दिशि मृगया [^1]माखेटकं क्रीडद्भिः क्रीडां कुर्वद्भिः आवेष्ट्यमानमित्यनेन संबन्धः । पुनः प्रकारान्तरेण विशेषयन्नाह - इतस्तत इति । इतस्ततो यत्र तत्र विस्रगन्धिरामगन्धो यो धूमोद्गमो दह- नकेतनस्तस्योद्गमेनोर्ध्वगमनेनानुमीय [^2]मानं सान्द्रं निबिडं वंशवनं वेणुकाननं तेनान्तरितो व्यवहितो वेश्मसंनिवेशो यस्य स तम् । करङ्कप्राया शरीरास्थिबहुला या वृतिरावेष्टकस्तस्यां वाटो निःसरणमार्गो यस्मिन्स तथा । 'वाटो वृतौ च मार्गे च वाटी च गृहनिष्कुटे' इति विश्वः । अस्थीनि प्रायो बाहुल्येन यस्यामेवंविधा रथ्या मार्गस्तस्या [^3]मवकरकूटः संकरसमूहो यस्मिन् । 'संकरावकरौ तुल्यौ' इति हैमः । उत्कृत्तमुत्कल्पितं यन्मांसं पललं मेदोऽस्थिकृद्वसा शुद्धमांसस्य स्नेहोऽसुरुधिरमेतेषां कर्दमः पङ्क: प्रायो बाहुल्येन यस्मिन्नेवंभूतं कुटीराणामजिरमङ्गणं यस्मिन्स तम् । 'अजिरं चत्वराङ्गणम्' इति हैमः । आखेटकप्रायं आजीवो जीवनं यस्मिन्स तम् । 'आजीवो जीवनं वार्ता जीविका वृत्तिचेतनम्' इति कोशः । पिशितं मांसं प्रायो बाहुल्येनाशनं भोजनं यस्मिन्स तथा तम् । वसा मांसस्नेहः सैव प्रायः स्नेहो यस्मिन्स तथा तम् । कौशेयं कृमिकोशोत्थं तदेव प्रायः परिधानमधोंशुकं यस्मिन्स तथा तम् । 'कौशेयं कृमिकोशोत्थं परिधानं त्वधोंशुकम्' इति हैमः । चर्माजिनं प्रायो बाहुल्येनास्तरणं यस्मिन्स तम् । सारमेयाः कुक्कुरास्त एव प्रायः परिवारो यस्मिन्स तम् । धवली गौः सैव प्रायो वाहनं युग्यं यस्मिन्स तम् । स्त्रीमद्ये एव प्रायः पुरुषार्थः पुरुषप्रयत्नसाध्यः पदार्थो यस्मिन्स तम् । असृग्रुधिरं तदेव प्रायो देवतानां बलिपूजा यस्मिन्स तम् । पशूनामुपहारो बलिः स एव धर्मक्रिया सुकृताचरणं यस्मिन्स तम् । सर्वनरकाणां सर्वदुर्गतानामाकारमिव स्वरूपमिव। सर्वेषामकुशलानामश्रेयसां कारणमिवाकल्याणानां कारणमिव निदानमिव । सर्वेषां श्मशानानां पितृतर्पणानां संनिवेशमिव स्थानकमिव । सर्वेषां पापानामधर्माणामंहसां पत्तनमिव पुट- भेदनमिव । सर्वासां यातनानां तीव्रवेदनानामत्यन्तकष्टाना- मायतनमिव गृहमिव । स्मर्यमाणमपि स्मृतिगोचरीक्रियमाणमपि भयंकरं प्रतिभयावहम् । श्रूयमाणमप्याकर्ण्यमानमप्युद्वेगकरमरतिजनकमसुखनिष्पादकम् । दृश्यमानमप्यालोक्यमानमपि पापजननमंहसामुत्पादकम् । जन्मतः कर्मतश्चातिशयेन मलिना मलिनतरा जना यस्मिन्स तम् । जनतो नीचजनेभ्यः । 'जनो लोके [^1]F. 'क्रीड' धातुरकर्मकः । अत एव 'मृगयया' इत्येव पाठः । [^2]F. धिग्बालिशम्, धूमेन वनस्य किमनुमानम् । धूमोद्गमेन अनुमीयमानः सान्द्रवंशवनान्तरितः वेश्मसंनिवेशो यस्मिन् इत्येव विग्रहः । [^3]F. अस्थिप्रायाः (अस्थिबहुलाः ) रथ्यासु अवकरकूटा: ( संमार्जनीक्षिप्त 'जञ्जाल'राशयः ) यस्मिन् तथोक्तम् । एवं व्याख्यातव्यम् । [^१]G. संवरण. [^२]G. मृगया; मृगयया. [^३]G. आवेद्यमानम्. [^४]G. वंशी. [^५]G. वादम्. [^६]G. वसाकर्दम. [^७]G. निःस्पर्शतर. लोकहृदयेभ्योऽपि निर्घृणतरसर्व [^१]संव्यवहारसमस्तपुरुषम्, अविशेषाचारबालयुवस्थविरम्,अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मै [^२]कापणं पक्कणमपश्यम् । दृष्ट्वा च तं तादृशं [^३]नरकवासिनोऽप्युद्वेगकरं समुत्पन्नघृणोऽन्त- रात्मन्यकरवम्-'अपि नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेत् ? न जातिसदृशमाचरिष्यति ? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेषमप्यत्र पदं कुर्याम्' इत्येवं कृताशंसमेव मां नीत्वा स चण्डालस्तदा [^४]दुर्दर्शना- कारवेषायै [^५]दूरतः स्थितः प्रणम्य 'एष स मया प्राप्तः' इति तस्यै चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति तमभिधाय तत्करात्स्वकर [^६]युगेनादाय माम् 'आः पुत्रक, प्राप्तोऽसि । सांप्रतं क्वापरं गम्यते । व्यपनयामि ते सर्वमिदं कामचारित्वम्' इत्यभिधानैव धावसान [^७]चण्डालबालकोप- नीतेऽ [^८]र्धायालोमशदुर्गन्धिगोचर्मवध्रिकावनद्धे हृढबद्धदारुमयपानभोजनपात्रे मनागुद्घाटितद्वारे [ टि ]-- महर्लोकात्परलोके च पामरे' इति विश्वः । अतिशयेन निस्त्रिंशं निस्त्रिंशतरमतिक्रूरं लोकानां हृदयं यस्मिन्स तथा तम् । 'क्रूरे नृशंसनिस्त्रिंश — ' इति हैमः । लोकहृदयेभ्य इतरजन- चित्तेभ्योऽपि निर्घृणतरो निर्दयतरः सर्वः संव्यवहारो व्यवहृति- र्येषामेवंविधाः समस्ताः समग्राः पुरुषा यस्मिन्स तम् । अविशेषो विशेषवर्जित आचारो येषामेवंभूता बालयुवस्थविराः पाकतरुण- ज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्ग- नायाः सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् । अपुण्यकर्मणा- मश्रेयसकृत्यानामेकमद्वितीयमापणं हट्टमहं पक्कणमपश्यमि- त्यन्वयस्तु पूर्वमुक्तः । नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्वेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्पन्नघृणःसंजात- जुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदित्याह - अपीति । अपि नाम कोमलामन्त्रणे । सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठत एव मामालोक्योत्पन्नकरुणा संजातकारुण्या मोचयेन्मुक्तिं कुर्यात् ? जातिसदृशं कुलतुल्यं नाचरि [^1]ष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भविष्यन्ति । निमेषमप्यक्षिस्पन्दनमात्रमप्यत्र पदं स्थानं न कुर्यां न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा स्पृहा वाञ्छा येनैवंभूतमेव मां नीत्वा स चण्डालो [^2]दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्दृग्गोचरीकारितवान् । सा तु चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा, शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तस्करात्तत्पाणेस्तद्धस्तात्स्वकरयुगेनात्महस्तयुगेन स्वीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि । अतोऽस्मात्स्थानादिति गम्यम् । सांप्रतं क्वापरमग्रे गम्यते गमनं क्रियते । ते तव सर्वं कामचारित्वं स्वेच्छाविहारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमानस्त्वरितगत्या गच्छमानो यश्चण्डालबालकस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं लोमयुक्तं दुर्गन्धि विस्रगन्धि यद्गोचर्म तस्य वध्रिका नध्री तयावनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विस्त्रं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्ठम [^1]F. 'नाचरेत् ?" इत्येव पाठः, पूर्वप्रयुक्तेन लिङा समन्वयात् । सर्वत्र च आरम्भोपात्तेन अपिना सूचितः प्रश्नो वाक्यार्थः । [^2]F. स्थूलबुद्धिष्टीकाकारः । अग्रे सेयं शापभ्रष्टा लक्ष्मीः संपत्स्यते । नास्या वैरूप्यं कवेरभिप्रेतम्, अत एव 'अनुद्धततरवेषायै ( न उग्रतरः 'सौम्यः' वेषो यस्याः ) ' इति पाठः । [^१]G.व्यवहार. [^२]G. समस्तपुरुष एककारणम्. [^३]G. नरकवासिनाम्. [^४]G. अशुद्धतरवेषायै. [^५]G. दूरस्थित; दूरत एवावस्थितः. [^६]G. युगलेन. [^७]G. बहुलबालक. [^८]G. अर्धश्यान. दारुपञ्जरे समं महाश्वेतावलोकनमनोरथैराक्षिप्यार्गलित [^१]द्वारा [^२]सा मामवदत् - 'यथात्र [^३]निर्वृत: संप्रति तिष्ठ' इत्यभिधाय तूष्णीमस्थात् । अहं तु तथा [^४]संरुद्धश्चेतस्य करवम्- [^५]'महासंकटे पति- तोऽस्मि । यदि तावदावेदितात्मावस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनां तदा य एव मे गुणो दोषतामापद्य बन्धायोपजातः स एवं संवर्धितो भवति । [^६]साधु जल्पतीत्येवाहमनया ग्राहितः । [^७]कास्या मदीयया बन्धपीडया पीडा । नाहमस्यास्तनयो न भ्राता न बन्धुः । अथ मौनमालम्ब्य तिष्ठामि, [^८]तत्रापि शाठ्यप्र- [^९]कुपिता कदाचि [^१०]दतोऽप्यधिकामवस्थां प्रापयति माम् । नृशंसतमा हि जातिरियम् । अथवा वरमितोऽप्यधिक [^११]मुप- जातं न पुनश्चाण्डालैः सह वागपि विमिश्रि [^१२]ता । अपि च गृहीतमौनं निर्वेदात्कदाचिन्मुञ्चत्येव । वदंस्तु पुनर्न मोक्तव्य एवाहमनया । अपि च य [^१३]द्दिव्यलोकभ्रंशः, यन्मर्त्यलोके जन्म, यत्तिर्य [^१४]ग्जातौ पतनम्, यच्चाण्डालहस्तागमनम्, यच्चे-दमेवंविधं पञ्जरबन्धदुःखम्, सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः । तत्किमेक[^१५]या वाचा, [ टि ]-- यानि पानभोजनपात्राणि यस्मिन्मनागीषदुद्घाटित- मुन्मुद्रितं द्वारं यस्मिन्नेतादृशे दारुपञ्जरे काष्ठनिर्मितविहंगरक्षणे महाश्वेतावलोकनमनोरथैः महाश्वेतानिरीक्षणमनोरथैः सममाक्षिप्य निवेश्य स्थापयित्वार्गलितं द्वारं यया सा मामवददवोचत् । यथा अत्र स्थलेऽत्र स्थाने संप्रतीदानीमधुना निर्वृतः सुखी तिष्ठ । इत्यभिधा- येत्युक्त्वा तूष्णीं जोषं मौनमस्थात्तस्थौ । अहं तु तथाप्रकारेण संरुद्धो निरुद्धश्चेतसि मनस्यन्तःकरणेऽकरवं व्यधाम् । महासंकटे महाकष्टे पतितोऽस्मि निक्षिप्तोऽस्मि । यदि तावदादावावेदिता निवेदिता कथिता आत्मनोऽवस्था दशा येनैवंभूतोऽहं शिरसा प्रणिपत्य मस्तकेन नमस्कृत्यैनां चण्डालदारिकां विज्ञापयामि विज्ञप्तिं करोमि तदा य एव मे मम गुणो वक्तृत्वलक्षणो दोषतां दूषणतामापद्य प्राप्य बन्धाय बन्धनहेतुरुपजात उत्पन्नः प्राप्तः स एव दोषतां दूषणत्वं प्राप्तो गुणः संवर्धितो वृद्धिं नीतो भवति । तदेव दर्शयति - साध्विति । साधु जल्पति शुभं वदतीत्येवं हेतोरनयाहं ग्राहितो ग्रहणं कारितः । अस्याश्चण्डालदारिकाया मदीयया बन्धपीडनया का पीडा । एतदेव विशेषतो दर्शयन्नाह - नेति । अहमस्यास्तनयः सुतो न, न भ्राता सहोदरः, न च बन्धुः स्वजनः । अथेति प्रकारान्तरे । यदि मौनमालम्ब्य तूष्णीं भूत्वा तिष्ठामि तत्रापि तत्कृतेऽपि शाठ्येन प्रकुपिता रोषिता सती अतोऽप्यधिकां विशेषाधिकामवस्थां दशां कदाचिन्मां प्रापयति नयति । हि यस्मात्कारणादियं नृशंसतमा क्रूरतमा जातिः । अथवेति पक्षान्तरे । इतोऽप्यस्मादप्यधिकमुपजातं वरं शुभम् । तत्रार्थे हेतुमाह - न पुनरिति । चाण्डालैः सह वागपि विमिश्रिता प्रत्युत्तरप्रदानेन संसक्तीकृता । मौनावस्थायां गुणं प्रदर्शयन्नाह - अपि चेति । कदाचिदिति संभावनायाम् । निर्वेदात्वावमानाद्गृहीतमौनं स्वीकृतावचनव्यापारं मां मुञ्चत्येव मोचनं विदधात्येव । वस्तु जल्पंस्त्वहमनया चण्डालदारिकया न मोक्तव्य एव न त्यजनीय एव । अपि चेति युत्यन्तरे । यद्दिव्यलोकाभ्रंशः पातः, यन्मर्त्यलोके मनुष्यलोके जन्मोत्पत्तिः, यत्तिर्यग्जातौ पक्षिजातौ पतनं पातः, यच्चाण्डालस्य श्वपचस्य हस्ते गमनं यानम्, यदेवंविधमेतादृशं पञ्जरबन्धदुःखम् । यत्तदोर्नित्याभिसंबन्धादाह — सर्वेति । स सर्वोऽयमनियतेन्द्रियत्वस्यैवानियन्त्रितेन्द्रियस्यैव दोषो दूषणम् । तत्किमेकया वाचा स्यात् । सर्वाण्येवेन्द्रियाणि पाठा० -१ द्वारपिधाना• २ समवदत्; समावेदयत् ३ संनिवृत्ता. ४ पञ्जरे संरुद्ध: ५ अहो संकटे ६ संजल्पति. ७ कस्याः. ८ तत्रापि; तथापि ० ९ प्रकोपिता. १० अतोऽभ्यधिककष्टतरम्. ११ उपनतम् १२ मिश्रिता. १३ दिव्यलोकतो अंश: १४ तिर्यग्योनौ. १५ तर्दिक मम, 'सर्वेन्द्रियाण्येव नियमयामि' इति निश्चित्य मौनग्रहणमकरवम् । आलप्यमानोऽध्यातर्ज्यमानोऽव्याहन्यमानोऽपि त्रुट्यमानोऽपि च बलान्न किंचिदप्यवदम् । केवलमुच्चैश्चीत्कारमेवामुञ्चम् । उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यवाहयम् । [^१]अन्येद्युश्चतिक्रामत्यशनकाले मे [^२]दूयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि पक्वान्यपक्वानि च फलानि, सुरभि- शीतलं च पानीयमप्रतिपन्नतदु [^३]पभोगं मा [^४]मारोपित- लोचनास्निह्यन्तीवावोचत्—'क्षुत्पिपा [^५]सार्दितानां हि पशुपक्षिणां निर्वि [^६]चारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभवत्येव तद्यद्येवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं [^७]परिहरसि, तथापि तावद्भक्ष्याभक्ष्य विवेकरहितायां तिर्यग्जातौ वर्तमानस्य ते किं वाऽभक्ष्यं यन्न भक्षयसि ? येन चोत्कृष्टतमां जातिं प्राप्यात्मनैवेदृशं कर्म कृतं येन तिर्यग्योनौ पतितः, [^८]स किमपरं विचारयसि ? प्रथममेवात्मा न [^९]विवेके स्थापितः। अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः । [^१०]अपि च येषामपि भक्ष्याभक्ष्यनियमोऽस्ति, तेषामप्यापत्काले प्राणानां संधारणमभक्ष्योपयोगेनापि तावद्विहितम्, किं पुनस्वा [ टि ]-- करणानि नियन्त्रयामीति निश्चित्येति निर्णयं कृत्वा मौन- ग्रहणमकरवम् । आलप्यमानोऽपि संभाष्यमाणोऽप्यातर्ज्य- मानोऽपि तर्जनां क्रियमाणोऽप्याहन्यमानोऽपि ताड्यमानोऽपि बलाद्धठा [^1]त्त्र्युट्यमानोऽपि छिद्यमानोऽपि च न किंचिदप्यहम- वदमब्रुवम् । केवलमुच्चैस्तारस्वरं चीत्कारं पूत्कृतिविशेषममुञ्चम् । उपनीतेऽपि चानीतेऽपि च [^2]पानाशने जलप्राशने तं दिवसमशेषं समग्रमनशनेनैवाभोजनेनैवात्यवाहयं व्यतिक्रामम् । अन्येद्युश्चेति । अन्यस्मिन्नहन्यशनकाले भोजनकालेऽतिक्रामति सति, मे मम हृदये चित्ते दूयमाने पीड्यमाने सति च, सा चण्डालदारिका स्वपाणिना निजहस्तेनोपनीयानीय नाना- विधान्यनेकप्रकाराणि पक्वानि परिणतान्यपक्वान्यपरिणतानि च फलानि सस्यानि सुरभि सुगन्धं शीतलं शिशिरं च पानीयं जलं चाप्रतिपन्नोऽस्वीकृतस्तेषां फलजलानामुपभोगो ग्रहणं येन स तथैवंभूतं मामारोपि [^3]तलोचना संस्थापितनयना स्निह्यन्तीव स्नेहं कुर्वन्तीवावोचदब्रवीत् । किं तदित्याह- क्षुदिति । क्षुत्पिपासाभ्या- मर्दितानां पीडितानाम् । हीति निश्चितम् । पशुपक्षिणां निर्गतो विचारो वितर्को यस्या एवंविधा चित्तवृत्तिर्येषां ते तथा तेषा- मुपनतेष्वानीतेष्वाहारेष्वनुपयोगोऽनाभोगो न संभवत्येव नास्त्येव । तद्यदि त्वं भवानेवंविध एतादृशः कोऽप्यनिर्वचनीयस्वरूपो भोज्याभोज्ययोर्भक्ष्याभक्ष्ययोर्विवेकः पृथगात्मता तं करोती- त्येवंशीलः पूर्वजातिस्मरोऽस्मदीयमास्माकीनमाहारं भोज्यं परिहरसि त्यजसि, तथापि तथात्वेऽपि तावद्भक्ष्याभक्ष्यविवेकरहितायां भोज्याभोज्यविवेचनवर्जितायां तिर्यग्जातौ वर्तमानस्य स्थितवतस्ते तवाभक्ष्यमभोज्यं किं किमिव, यद्यस्मात्कारणान्न भक्षयसि नात्सि ? येन च कारणेनोत्कृष्टतमां प्रकृष्टतरामुत्कृष्टतरां जातिं प्राप्या- साद्यात्मनैवेदृशं कर्म कृतं येन कर्मणा तिर्यग्योनौ पतितः स त्वमपरमन्यकिं विचारयसि किं विमर्शयसि ? प्रथममेवादावेवात्मा न विवेके तत्त्वातत्त्वविचारे स्थापितः । अधुना सांप्रतं स्वकर्मणोपात्ता प्राप्ता या जातिस्तस्याः सदृशमनुकूलमाचरतः कुर्वतस्ते तव नास्त्येव दोषः । अपि चेति युक्त्यन्तरे । येषामपि पुरुषाणां भक्ष्याभक्ष्ययोर्भोज्याभोज्ययोर्नियमो विरतिरस्ति, तेषामपि जनानामापत्काले विपत्समये प्राणानां संधारणं रक्षणम- भोज्योपयोगेनाप्यभक्ष्यग्रहणेनापि तावद्विहितं तदा त्वादृशस्य भवत्सदृशस्य किं [^1]F. त्रुट्यतिरकर्मकः, अत एव 'तुद्यमानः' (पीड्यमानः ) इत्येव पाठः। [^2]F. पानं च अशनं च पानाशनम् ( समाहारः ) तस्मिन् । [^3]F. 'आलोहितलोचना' इति पाठः । [^१]G. अपरेद्युश्च. [^२]G. दूयमानहृदयेव. [^३]G. उपयोगम्. [^४]G. आरोपित; आरोधित. [^५]G. अर्चितानाम्. [^६]G. निर्विकार. [^७]G. परिहासी. [^८]G. त्वम्. [^९]G. विवेकेन. [^१०]G. येषां च. दृशस्य । न चेदृशं किंचिदध्या [^१]हाराय मयोपनीतं यादृशेन [^२]चाण्डालाशनशङ्का समुत्पद्यते । फलानि तु ततोऽपि प्रतिगृह्णन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति, तत्किमर्थमात्मानं क्षुधा पिपासया वा पात [^३]यसि ? यन्न भक्षयस्यमूनि मुनिजनोचितानि वनफलानि, न पिबसि वा पानीयम्' इति । अहं तु तेन तस्याश्चाण्डालजात्यनुचितेन वचसा विवेकेन च विस्मितान्तरात्मा तथेति प्रतिपद्य, शापनिघ्नो घृणां परित्यज्य जीविततृष्णया क्षुत्पिपासोपशमायाऽशनक्रिया- मङ्गीकृतवानस्मि, मौनं तु पुनर्नात्याक्षम् । एवमतिक्रामति च काले क्रमेण तरुणतामापन्ने मय्येकदा प्रभातायां च यामिन्यामुन्मीलितलोचनोऽद्राक्ष मस्मिन्कनकपञ्जरे [^४]स्थितमात्मानम्, [^५]चाण्डालदारिकामीदृशीं यादृशी देवेनापि दृष्टैव । सकलमेव तत्पक्कणममरपुरसदृशमालोक्य चापगतचाण्डालवसतिसंवेगो विस्मितान्तरात्मा किमेतदिति [^६]कुतूहलात्प्रष्टुकामो यावन्न परित्यजाम्येव मौनम्, ताषदेषा मामादाय देवपादमूलमायाता । तत्केयम् ? किमर्थमनया चाण्डालताऽऽत्मनः ख्यापिता ? किमर्थं वाऽहं बद्धः ? बद्धा वा किमर्थसिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतकुतूहल एव' इति । [ टि ]-- पुनर्भण्यते । ईदृशं किंचिदपि ते तवाहाराय भक्षणाय मया नोपनीतं नानीतम्, यादृशेन चाण्डालस्याशनशङ्का श्वपचभक्ष्यारेका समुत्पद्यते संजायते । फलानि तु ततो गृह्यन्त एवादीयन्त एव । पानीयमपि जलमपि चाण्डालं भाण्डादपि श्वपचपात्रादपि भुवि पतितं भूक्षिप्तं पवित्रं पावनमेवेत्येवं जनः कथयति वक्ति । तदिति हेत्वर्थे । किमर्थं किप्रयोजनं क्षुधा बुभुक्षया पिपासयोदन्यया वात्मानं स्वं पातयस्यात्म [^1]पातं करोषि । अमूनि मुनिजनोचितानि तापसयोग्यानि वनफलानि न भक्षयसि नात्सि । पानीयं जलं वा न पिबसि नाखादयसि । अहं तु वैशम्पायन- स्तस्याश्चाण्डलजाते रनुचितेनायोग्येन तेन पूर्वोक्तेन वचसा वाक्येन विवेकेन च विस्मितान्तरात्मा कौतुकापन्नचेतस्कः । तथेति यद्भवत्या उक्तं तत्तथेति प्रतिपद्याङ्गीकृत्याङ्गीकारं कृत्वा शापनिघ्नः शापायत्तो घृणां जुगुप्सां परित्यज्य विहाय त्यक्त्वा जीविततृष्णया प्राणितवाञ्छया क्षुत्पिपासोपशमाय क्षुत्तृषोपशमार्थमशनक्रियां भक्षणक्रियामङ्गीकृतवानस्मि । मौनं तूष्णीं पुनर्नात्याक्षं नामुचम् । एवमतिक्रामति च गच्छति च काले क्रमेण परिपाट्या तरुणतां [^2]यूनतामापन्ने प्राप्ते मय्येकदा प्रभातायां विभातायां यामिन्यां रजन्यामुन्मीलितलोचनो विकसितनयनोऽहमस्मिन्कनकपञ्जरे स्थितमात्मानमद्राक्षं व्यलोकयम् । चाण्डालदारिकामीदृशीं यादृशी देवेनापि भवता दृष्टैवावलोकितैव निरीक्षितैव । सकलमेव समग्रमेव तत्पक्कणममरपुरसदृशं देवनगरतुल्यमालोक्य निरीक्ष्य चापगतो दूरीभूतश्चाण्डालेषु वसतिर्निवासस्तस्याः संवेगः संभ्रमो यस्य स विस्मितो विस्मयं प्राप्तोऽन्तरात्मा मनो यस्य सः । किमेतदृश्यमान- मिति कुतूहलात्प्रष्टुकामः प्रश्नं कर्तुमना यावन्न परित्यजाम्येव न दूरीकरोम्येव मौनम्, तावदेषा मामादाय गृहीत्वा देवस्य पादमूलमायाता । तत्तस्मात्कारणात्केयम् । किमर्थं किंप्रयोजनम- नयात्मनः स्वस्य चाण्डालता ख्यापिता कथितोक्ता । किमर्थं वाहं बद्धः संदानितः । बद्ध्वा वा बन्धनं कृत्वा वा किमर्थंमिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतं कुतूहलं यस्मात्स एवेति । [^1]F. 'आयासयसि ( क्लेशयसि ) ' इति पाठः सम्यक् । [^2]F. युवतामापत्रे, इत्युचितम् । [^१]G. अपरिहाराय. [^२]G. चण्डालाशनेन शङ्का; चण्डालाशनाशङ्का. [^३]G. आयासयसि. [^४]G. स्थितिमापन्नमात्मानम्. [^५]G. सापि चाण्डालदारिका यादृशी तादृशी देवेनापि दृष्टैव; चाण्डालदारिकामीवदृशी सापि चाण्डालकन्यका यादृशी देवेन दृष्टैव. [^६]G. कौतुक. राजा तु तच्छ्रुत्वा समुपजाताभ्यधिककुतूहलस्तदाह्वानाय पुरःस्थितां प्रतीहारी [^१]मादिदेश । [^२]नचिरादेव तयोपदिश्यमानमार्गा प्रविश्य सा, पुरस्तादूर्ध्वस्थितैव राजान [^३]मभिभवन्ती [^४]धाम्ना, [^५]प्रागल्भ्येन बभाषे- 'भुवनभूषण, रोहिणीपते, तारारमण, कादम्बरीलोचनानन्द, चन्द्र, सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषिद्धोऽपि पित्रा, कामरागान्धः पितुराज्ञामुल्लङ्घ्य वधूसमीपं प्रस्थितव [^६]स्तथाप्यनेन स्वयमेव कथितम् । तदहमस्य दुरात्मनो जननी श्रीस्तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वाऽस्य पित्राहं समादिष्टास्मि – 'सर्व एव [^६]ह्यविनयप्रवृत्तोऽनुतापाद्विना न निवर्तते । तदयं ते तनयः कदाचिदस्या अपि तिर्यग्जातेरध- स्तान्निपतति । तद्यावदिदं कर्म न [^८]परिसमाप्यते तावदेनं मर्त्यलोक एव बद्धा धारय । यथा चानुतापोऽस्य भवति तथा प्रतिविधेयमस्य' इति । तदस्य विनयायेदं विनि [^९]र्मितं [^१०] मया । सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापावसानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजाति: ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव [ टि ]-- राजा तु नृपोऽपि तच्छ्रुत्वा समुपजातमभ्यधिकं कुतूहल- माश्चर्यं यस्य स तस्याश्चाण्डालदारिकाया आह्वानायामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामग्रस्थितां प्रतीहारीं द्वारपालिका- मादिदेशाज्ञां दत्तवान् । नचिरादेव स्तोककालेनैव तयोपदिश्य- मानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्व- स्थितैव धाम्ना तेजसा राजानमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्येन धायैन बभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण हे जगद्विभूषण हे विष्टपशृङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकाविनोदक, हे कादम्बरीलोचनानन्द हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव, सर्वः समग्रस्त्वयास्य दुर्मतेः पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्म- वृत्तान्तः पूर्वभवोदन्तः श्रुत एवाकर्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्प- रागान्धः पितुराज्ञां जनकादेशमुल्लङ्घ्यतिक्रम्य वधूसमीपं पत्नीपार्श्वं युवतीनिकटं प्रस्थितश्चलितः, तथाप्यनेन स्वयमेव कथितमात्मनैव निवेदितम् । तत्तस्मात्कारणादस्य दुरात्मनः पुण्डरीकस्य जननी माता दिव्येन चक्षुषा ज्ञानदृशा तथा प्रस्थितं तथा चलितमेनं वैशम्पायनं दृष्ट्वा विलोक्यास्य पुण्डरीकस्य पित्रा श्वेतकेतुना समादिष्टा दत्ताज्ञाहं श्रीरस्मि । सर्व एव हि जनोऽविनयेन प्रवृत्तोऽनुतापात्पश्चात्तापाद्विना न निवर्तते न निवृत्तो भवति । तत्तस्माद्धेतोरयं ते तव तनयोऽसौ भवदीयसुतः कदाचिदस्या अपि तिर्यग्जातेर्विहंगमजातेरधस्तान्निपतत्यधः प्रयाति । तद्यावदिदं कर्म न परिसमाप्यते न परिपूर्णीभवति, न संपूर्णीभवति, तावदेनं वैशम्पायनं मर्त्यलोक एव बद्धा बन्धनं कृत्वा धारयावस्थापय । यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति । तदस्य वैशम्पायनस्य विनयाय मर्यादायै [^2]इदं मया सर्वं विनिर्मितं विहितम् । अधुना सर्वं तत्कर्म तत्कृत्यं परिसमाप्तं परिपूर्णीकृतम् । शापस्यावसानसमयः प्रान्तकालो वर्तते । शापावसाने [^3]न च युवयोर्भवतोः सममेव सुखेन सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदभ्यर्णं मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथितोक्ता तल्लोकानां जनानां संपर्क: संबन्धस्तस्य परिहाराय दूरीकरणाय । तत्संप्रतीदानीं द्वावपि शुद्रकवैशम्पाय [^1]F. 'तदप्यनेन' इत्येव पाठः । [^2]F. पञ्जरबन्धनादिकम् । [^3]F. अविचारष्टीकाकृतः । 'शापावसाने' इत्येव पाठः । [^१]G. अदिशत्. [^२]G. अचिरात्. [^३]G. अभिभवन्तीव. [^४]G. स्वधाम्ना. [^५]G. प्रागल्भ्येन च. [^६]G. तदपि. [^७]G. स्वावियन. [^८]G. समाप्यते . [^९]G. च निर्मितम्. [^१०]G. मया सर्वं कृतम् ; अधुना तु तत्कर्म समाप्तम्. जन्मजराव्याधिमरणादिदुःख [^१]बहुले तनू परित्यज्य यथेष्टजन- समागमसुखम्' इत्यभिदधानैव सा [^२]झटिति रणद्भूषणारव- [^३]बधिरितान्तरिक्षमुत्फुल्ललोकलोचनोद्वीक्षिता क्षितेर्गगन- मुदपतत् । अथ राज्ञस्तद्वच [^४]नमाकर्ण्य संस्मृतजन्मान्तरस्य 'सखे वैशम्पायनाख्यपुण्डरीक, दिष्ठ्या तुल्यकालक्षयमेवावयोः शापावसानं संजातम्' इत्यभिधत एवाकर्णाकृष्टकार्मुको मकर- केतुरग्रतः परमास्त्रं कादम्बरीं कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्धसर्वांशोऽ [^५]न्तरा पदं चकार । तत्पदाक्रान्ति निर्वा- सितमिव कादम्बरीशरणमुपजगा [^६]मान्तःकरणम् । तन्मार्गणाभिहतिमीता इव देहमुत्सृज्य निर्जग्मुरजडाः श्वासमरुतः । तद्बाणपक्षवाताहतमिवाकम्पत तरलं शरीरम् । [^७]तच्छरशस्य- भरा लसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरूषितमिव नयन [ टि ]-- नावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा विस्रसा व्याधिरामयो मरणं मृत्युरेवंभूतं दुःखं तेन बहुले [^1]दृढेऽस्मिंल्लोके तनू शरीरे परित्यज्यानुभवतां यथेष्टजनानां समागमो मेलापकस्तस्मात्तस्य वा सुखं सातम् । इत्यभिदधा- नेतिब्रुवाणैव सा चाण्डालदारिका झटिति शीघ्रं रणन्ति यानि भूषणान्याभरणानि तेषां रवः शब्दस्तेन बधिरीकृतमन्तरिक्षमाकाशं यथा स्यात्तथोत्फुल्लानि विकसितानि यानि लोकलोचनानि जननयनानि तैरुत्प्राबल्येन वीक्षितावलोकिता निरीक्षिता क्षितेः पृथिव्याः सकाशाद्गगनमाकाशमुदपतदुत्पतिता बभूव । अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा तस्य । हे सखे वयस्य हे भ्रातः, वैशम्पायन इत्याख्ययेतिनाम्ना पुण्डरीक, दिष्ट्या भाग्येन पुण्येनावयोः पुण्डरीकचन्द्रमसोः तुल्यकालक्षयमेव समकालमेव युगपदेवैककालमेव शापावसानं संजातं शापमुक्तिः संजातेत्यभिधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये । अर्था हृदयस्येति बोध्यम् । पदं निवासं चकार निर्ममे । कीदृशो मकरकेतुः । आकर्णं कर्णं यावदाकृष्टं कर्षितं कार्मुकं धनुर्येन सोऽप्रतः पुरः परमास्त्रमत्युत्कृष्टशस्त्रं कादम्बरीं कृत्वा विधाय शापावसानत्वाद्यजीवितस्यापहरणं ग्रहणं तस्मै प्रतिरो [^2]धक इव प्रतिबन्धक इव निरुद्धा आवृताः सर्वे अंशा अवयवा येन सः । अथवा संरुद्धा आशा दश दिशो येनेत्यर्थः । मकरकेतुरन्तः पदं चकारेत्यन्वयस्तु प्रागेवोक्तः । तस्य कामस्य पदं स्थानं तेनाकान्तिराक्रमणं तेन निर्वासितमित्र बहिःकृतमि- वान्तःकरणं मनः का [^3]दम्बर्याः शरणं त्राणमुपजगामोपागमत् । 'शरणं गृहरक्षित्रोः' इत्यमरः । तस्य कामस्य मार्गणास्तेषामभिहति रुपघातस्तस्या भीताः त्रस्ता इव देहं शरीरमुत्सृज्य त्यक्त्वाऽजडाः सचेतनाः श्वासमरुतः श्वसितवायवो निर्जग्मुर्निर्गतवन्तः । तस्य कंदर्पस्य बाणाः शरास्तेषां पक्षवातास्तैराहतमिव ताडितमिव तरलं चञ्चलं शरीरमकम्पतावेपत । तस्य शरस्य बाणस्य शल्यं तस्य भरस्तेना [^4]लसेव मन्थरेवोत्कण्टकिनी रोमाञ्चिनी तनुरजायताभूत् । तस्य कामस्य विशिखा बाणास्तेषां रजो धूलिस्तेन रुषितमिव रुक्षमिव नयनयुगलं [^1]F. हन्त घोरमज्ञानम् । जन्म-जरादिदुःखं बहुलम् ( अधिकम् ) ययो: ईदृश्यौ नरतनू परित्यज्य, इत्यर्थः । [^2]F. प्रतिरोधकः मार्गमवरुध्य स्थितो दस्युरिव निरुद्धाः सर्वा आशा: दिशो जीवनप्रत्याशाश्च येन ईदृशो मकरकेतुरित्युभय- पक्षेऽर्थः । टीका तु भ्रमस्य । [^3]F. ' कादम्बरीं शरणमुपजगाम करणम्' इत्येव पाठः । करणं शरीरम् इन्द्रियं वा, कादम्बरीं शरणम् (रक्षकत्वेन) उपजगाम इत्यर्थः । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । [^4]F. शल्याऽऽघाते सति कस्यचिदालस्यं भवति ? अत एव - 'तच्छरशल्यनिकरकीलितेवोत्कण्टकिनी तनुरजायत' इत्येव पाठः । तस्य शराणां शल्यनिकरैः ( फलक निचयैः ) कीलितेव (संजातकीलकेव, शङ्कुनिचितेव)उत्कण्टकिनी रोमाञ्चवतीत्यर्थः। [^१]G. बहुलां तनुम्. [^२]G. झगिति; झणिति. [^३]G. रोधत. [^४]G. आकर्णयतस्तदैवाकृष्टकार्मुकः. [^५]G. अन्तः पदम्. [^६]G. करणम्. [^७]G. तच्छल्य. [^८]G. भरालसेवोत्कण्टकिनी; निकरकीलितेवोत्कण्टकिनी. ८८ का० युगलमश्रुजलमुत्ससर्ज । [^१]पाण्डुतां च [^२]वदनलावण्य- मयासीत् । तद्धनुर्गुणध्वानाकर्णनोद्वेजितमिव हृदयवेदनाकूणित- त्रिभागं नयनयुगलमभवत् । अन्तर्ज्वलिष्यतो मदनदहनस्य धूमोपहतमिव वेपमानमधरकिसलयं शोषमगात् । [^३]तत्ताप- विरसमाननान्निष्पीडितं सरागं हृदयमिव ताम्बूलमपतत् । आर्द्रस्य [^४]दारुण इव दह्यमानस्याङ्गेभ्यो निरगमत्स्वेदः । मदन शरकीलितानीव तावतैव क्षणेनाङ्गानि परवशान्यजायन्त । तथा च कादम्बरी पुरस्कृत्य [^५]कुसुमधन्वनायास्यमानस्य तदवयव- रूपशोभाविनिर्जितानि तापापहरणक्षमाण्यपि [^६]तस्या- किंचित्कराण्यभवन् । तथाहि । कमलकिसलयानि [^७]पाणिपादेन, कुवलयदलस्रजो दृष्ट्या, मणिदर्पणाः कपोलेन, मृणालानि बाहुलतिकया, शशाङ्करश्मयो नखमयूखैः, घनसारधूलि: स्मितप्रभया, मुक्तादामानि दशनकिरणैः, अमृतकरबिम्बं मुखेन, ज्योत्स्ना लावण्येन, [^८]मणिवेदिकाकुट्टिमानि नितम्बेन । [ टि ]-- नेत्रयुग्ममश्रुजलं नेत्रपानीयमुत्ससर्जोत्प्राबल्येन तत्याज । वदनलावण्यं च पाण्डुतामीषच्छुक्लतो चायासीदगात् । तस्य कामस्य धनुश्चापं तस्य गुणः शिञ्जिनी तस्य ध्वानः शब्दस्तस्या- कर्णनं श्रवणं तेनोद्वेजितमिवोद्वेगं प्रापितमिव हृदयवेदनया कूणित ईषद्वक्रीकृतस्त्रिभागस्तृतीयांशो यस्य तदेवंभूतं नयनयुगलं नेत्रयुग्ममभवद्बभूव । अन्तर्मध्ये ज्वलिष्यतः प्रज्वलिष्यतो मदनदहनस्य कामवह्नेर्धूमोपहतमिव दहनकेतनोपहतमिव वेपमानं कम्पमानमधरकिसलयं दन्तच्छदपल्लवं शोषमगाजगाम । तस्य कामस्य तापस्तेन [^1]विरसमानं विरसतां भजमान- मतिनिष्पीडितं सरागं हृदयमिव ताम्बूलमपतदस्रंसत । आर्द्रस्योन्नस्य दारुण इव काष्ठस्येव दह्यमानस्य ज्वलमानस्याङ्गेभ्यो हस्तपादादिभ्यः खेदो घर्मजलं निरगमन्निरगात् । मदनशरेण कामबाणेन कीलितानीव यन्त्रितानीव तावतैव क्षणेन स्वल्प- कालेनाङ्गानि परायत्तान्यजायन्त समपद्यन्त । तथा चेति । कादम्बरी पुरस्कृत्याग्रे कृत्वा कुसुमधन्वना कामेनायास्यमानस्य पीड्यमानस्य । [^2]तस्यावयवा हस्तपादादयस्तेषां रूपं सौन्दर्यं तस्य शोभा श्रीस्तया विनिर्जितान्यभिभूतान्यत एव तापस्य तप्तेरपहरणे दूरीकरणे क्षमाण्यपि समर्थान्यपि निर्जितत्वात्तस्याकिंचित्कराणि निष्प्रयोजनान्यभवन्नासन् । तदेव दर्शयति - तथेति । कमलकिसलयानि पद्मनवपत्राणि । पाणी च पादौ च पाणिपादम्। 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इत्येकवद्भावः । तेन निर्जितानीति सर्वत्र संबन्धः। कुवलयानामुत्पलानां दलानि पत्राणि तेषां स्रजो माला दृष्ट्या दृशा । मणिदर्पणा रत्नादर्शाः कपोलेन गल्लात्परप्रदेशेन । मृणालानि तन्तुलानि बाहुलतिकया भुजवल्ल्या। शशाङ्करश्मयश्चन्द्रकिरणा नखमयूखैः पुनर्भवरश्मिभिः । घनसारधूलिः कर्पूररजः स्मितप्रभया हास्य- कान्त्या । मुक्तादामानि मुक्ताकलापा दशनकिरणैर्दन्तरश्मिभिः । अमृतकरबिम्बं चन्द्रमण्डलं मुखेनास्येन । ज्योत्स्ना चन्द्रिका लावण्येन कान्तिविशेषेण । 'मुक्ताफलस्य छायायास्तरलत्व- मिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इत्येके । 'सद्गमनसन्निरीक्षणसज्जल्पनमिति वदन्ति लाव [^1]F. तापेन विरसं शुष्कं निष्पीडितं व्यथितं चर्वितं च सरागं सलोहितवर्णं सानुरागं च हृदयमिव ताम्बूलम् भाननात् अपतात् । इत्यर्थः । टीका तु प्रलापपरा । [^2]F. टीकाकारः स्वयं भ्रान्तो भ्रामयत्यन्यान् । अयमर्थ :- कुसुमधन्वना आयास्यमानस्य तस्य (शुद्रकरूपधारिणश्चन्द्रा- पीडस्य), तदवयवशोभाविनिर्जितानि ( तस्याः कादम्बर्याः अवयवानां रूपशोभया विनिर्जितानि ) तापापहरणक्षमाणि ( कमल - मृणालादीनि वस्तूनि ) अकिञ्चित्कराणि व्यर्थान्यभवन् । निर्जितो हि पदार्थो निष्प्रयोजनो भवति । तथा च निःसारै- रेभिस्तापप्रतिक्रियारहितः सोयं दशमीं दशामगमदित्यर्थः । केन किं निर्जितमित्याह - पाणिपादेन कमलकिसलयानि । इत्यादि । [^१]G. आपांण्डुताम्. [^२]G,. यौवनलावण्यम् [^३]G. तत्तापविरसमानमतिनिःपीडितम्; तत्तापविरसमान- निःपीडितम्. [^४]G. दारुणो द्रव इव. [^५]G. कुसुमधन्वनः [^६]G. अस्य [^७]G. पाणिना पादेन, [^८]G. मणिकुट्टिमवेदिका. एवं च विहतसर्वबाह्यप्रतिक्रियस्य हृदयेऽप्यसुखायमान- सकलान्यविनोदस्य तामेवाभिध्यायतस्तामेवोत्प्रे [^१]क्षमाणस्य तामे [^२]वाभिलषतस्तामेव पश्य [^३]तस्तामेवालपतस्तामेवा- लिङ्गतस्तया सह तिष्ठतस्तां प्रकोपयतस्तामनुनयतस्तस्याः पादयोः पततस्तया सह केलिं कुर्वतस्तां रममाणस्य मुक्तसर्वान्यक्रियस्य दिवाप्यनुन्मीलितलोचनस्य रात्रावप्यनुपजातनिद्रस्य सुहृज्जनम- [^४]प्यसंभाषयतः [^५]कार्योपगतानध्यजानतो गुरु [^६]जनमध्यनमस्यतो धर्मक्रियामप्यकुर्वाणस्य सुखादप्यनर्थिनो दुःखादप्य- नुद्विजमानस्य मरणादप्यबिभ्यतो गुरुभ्योऽप्यपेतलज्जस्यात्मन्यपि वि [^७]गलितस्नेहस्य किं बहुना कादम्बरी समागमेऽप्यनुद्यमस्य केवल [^८]मस्य मुहुर्मुहुर्मूर्च्छो [^९]पगमच्छलेन जीवितोत्सर्ग- [^१०]योग्यामिव कुर्वतो विहस्तेनापि प्रतिपन्नविविधोपकरणेन, गलित [^११]नयनपयसाप्युच्छु [ टि ]-- ण्यम्' इत्यन्ये । मणिवेदिकायाः कुट्टिमानि बद्धभूमयो नितम्बेनारोहेण । एवं चेति । एवममुना प्रकारेण विहता । निराकृता सर्वबाह्या बहिर्भूता प्रतिक्रिया प्रतीकारो यस्य स तस्य । पुनः कीदृशस्य । राज्ञो हृदयेऽपि चित्तेऽप्यसुखायमानो दुःखवदाचरमाणः सकल: समग्रोऽम्यविनोदोऽन्यक्रीडा यस्य स तस्य । तां कादम्बरीमेवाभिध्यायतश्चिन्तयतः । तामेवोत्प्रेक्षमाणस्योत्प्रेक्षा विषयी क्रियमाणस्योत्प्राबल्येन विलोकमानस्य । तामेवाभिलषतोऽभिवाञ्छतः स्पृहयतः । तामेव पश्यतो विलोकयतः । तामेबालपतः संभाषणं कुर्वतस्ता मेवालापं कुर्वतः । तामेवा । लिङ्गतः परिष्वजत आलिङ्गनं कुर्वतः । तया गन्धर्वराजपुत्र्या सह तिष्ठतः स्थितिं कुर्वतः । तो प्रकोपयतो रोषयतः । तामनुनयतः प्रसन्नीकुर्वतः । तस्या गन्धर्वपुत्र्याः पादयोः क्रमयोब्बरणयोः पततः पतनं विदधतः । तया सह केलिं रतिक्रीडां कामकेलिं प्रेमक्रीडां कुर्वतो विदधतः । तां रममाणस्य क्रीडां कुर्वतः । मुक्तास्त्यतास्त्याजिताः सर्वाः समग्रा अन्यक्रिया इतरव्यापारा मेन स तस्य मुक्तसर्वान्यक्रियस्य । दिवाणि वासरेऽपि दिवसेऽप्यनुन्मीलिते मुद्रिते लोचने यस्य स तथा तस्त्र । रात्रावपि मिशायामपि यामिन्यामध्यनुपजाताऽप्राप्ता नागता निद्रा प्रमीला यस्य स तथा तस्य । सुहृज्जनमपि मित्रजनमपि वल्लभजनमप्यसंभाषयतोऽनालापयतः । कार्यार्थ मुपगतं प्राप्तमप्यजानतोऽज्ञातवतः । गुरुजनमपि पूज्यजनमपि वृद्धजनमध्यनमस्यतो नमस्कारमकुर्वतः । धर्मक्रियामपि सुकृतकृत्यान्यपि पुण्यकृत्यान्यप्यकुर्वाणस्माविदधानस्य । सुखादपि सौख्यादप्यन र्थिनोऽनभिलाषुकस्य । दुःखादपि कृच्छ्रादपि कष्टादप्यनुद्विजमानस्यानुद्वेगं प्राप्यमाणस्य । मरणादपि मृत्योरप्यबिभ्यतो भयमकुर्वतः । गुरुभ्योऽपि धर्मोपदेशकेभ्योऽप्यपेतलज्जस्य विगतन्त्रपस्य व्यक्तलज्जस्य । आत्मन्यपि स्वस्मिन्नपि विगलितो गतः नेहो हार्द यस्य स तथा तस्य । किं बहुना कथनेन । कादम्बरीसमागमेऽप्यनुद्यमस्यानुद्यतस्य गतोद्यमस्य केवलस्य राज्ञो मुहुर्मुहुर्वारंवार मूर्च्छाया मोहस्योपगमच्छलेनागमन मिषेण जीवितस्योत्सर्गस्यास्तस्य योग्यामिव कुंर्वतो विहस्तेनापि व्याकुलेनापि प्रतिपन्नमङ्गीकृतं विविधमुपकरणं तन्त्रं येन स तेन । अत्रापिशब्दो विरोधालंकृतिद्योतनार्थः । यो विहस्तो भवति स प्रतिपन्नोपकरणो न स्यादिति विरोधः । तत्परिहारस्तु विहस्तो व्याकुल इत्यर्थात् । 'विहस्तव्याकुलो व्यग्रे' इति हैमः । गलितं त्रस्तं नयनपयो नेत्रजलं यस्यैवंभूतेनाटिप्प० - 1 व्यब्लोपे पञ्चमी । सुखजनकं प्राध्यापि अनर्थिनः अर्थमभिलाषं न वहतः, इत्यर्थः । 2 जीवितोत्सर्गयोग्यां कां कुर्वतः १ किमिदमसंबद्धमालपसि रे ? अस्तु. 'मुहुर्मूछेपगमनच्छलेन जीवतोत्सर्गयोग्यामिव तनुं कुर्वतः' इति पाठः । अस्य बाह्यस्तापप्रतीकारो विहतोभवत्, तथा आन्तरिक श्चापि लज्जा- नमनादिको व्यापारी निवृत्तः । किं बहुना, कादम्बरीप्रात्युद्यमोपि विगतः । ततश्च शून्यात्मकस्यास्य तनुः त्यागयोग्या जातेत्यर्थः । अत एव विहस्तेत्यादिविशेषितेन आप्तपरिजनेन उपचर्यमाणस्यापि देहः काष्ठमयो जातः, यस्य हि कामानलो दाहहेतुर्बभूव, कथाशेषतां जगामेति सर्वस्याशयः । पाठा० -१ उत्प्रेक्ष्यमाणस्य २ लिखत: ३ तामेव लपत: ; तामालपत: ४ असंभाषितः ५ कार्यापगतमपि, ६ गुरून्. ७ अस्नेहस्य. ८ एव० ९ उपगमन १० इव तनुम् ११ सलिलेन. ष्काननेन, [^१]मुषितवचनावकाशेनापि वैशम्पाय [^२]नक्रोशन- परेण, अनवरतमा चरणा [^३]द्विकीर्णचन्दनचर्चेन, चरणतल- निवेशितार्द्रारविन्दिनीदलेन, करार्पितकर्पूरक्षोददन्तुरतुषारखण्डेन, [^४]हृदयविनिहितहिमार्द्रहारदण्डेन, कपोलतलस्थापित- [^५]स्फटिकमणिदर्पणेन, ललाटतटघटितचन्द्रमणिना, अंसदेशावस्थापित [^६]मृणालनालेन, कदलीदलव्यजनवाहिना, आनर्तिततालवृन्तेन, जलार्द्रानिलसंचारिणा, [^७]कुसुमतल्प- कल्पनाकुलेन, धारागृहजलयन्त्रप्रवर्त [^८]नाहृतार्तिना, मणि- कुट्टिमक्षालनाग्रह [^९]स्तेन च [^१०]सजलकिञ्जल्कजलजोपचारप्रकरसंभ्रान्तेन च शि [^११]शिरभूगृहाभ्यन्तरप्रत्यवेक्षणदक्षेण चोद्यानदीर्घिकातटलतागहनमण्डपसे [^१२]कतापहारिणा च [^१३]मलयजरसचन्द्रार्द्रजलचन्द्राश्रयावधानदानोद्यतेन चाप्तपरिजनेनोपचर्यमाणस्यापि काष्ठीभूतदेहस्य [^१४]दाहक्षमो झटित्येवारुरोह परां कोटिं कामानलः । राज्ञ एव तुल्यावस्थस्य महाश्वेतोत्कण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च । [ टि ]-- प्युच्छुष्कमाननं मुखं यस्य स तेन । मुषितो गृहीतो वचनस्यावकाशोऽवगाहः प्रवेशस्थलं यस्यैवंभूतेना [^1]प्याक्रोशनं तत्र परेणासक्तेनानवरतं निरन्तरमा चरणाच्चरणौ मर्यादीकृत्य विकीर्णा विक्षिप्ता चन्दनचर्चा मलयजपूजा येन स तेन । चरणतले निवेशितानि स्थापितान्यार्द्राण्युन्नान्यरविन्दिनीनां दलानि कमलिनीनां पत्राणि येन स तथा तेन । करे हस्तेऽर्पितः प्रदत्तो वितरितः कर्पूरक्षोदेन घनसारचूर्णेन दन्तुरो विषमोन्नतस्तुषारखण्डो हिमशकलं यस्य स तथा तेन । हृदये वक्षसि विनिहितः स्थापितो हिमेनार्दो हारदण्डो येन स तथा तेन । कपोलतले स्थापितो विधृतः स्फटिकमणिदर्पणो येन स तथा तेन । ललाटतटेऽलिकतटे घटितः संघट्टितश्चन्द्रमणिश्चन्द्रकान्तो येन स तथा तेन । अंसदेशे स्कन्धप्रदेशेऽवस्थापितं न्यस्तं मृणालनालं बिसनालं येन स तथा तेन । कदलीदलानां रम्भापत्राणां व्यजनं वहतीत्येवंशीलेनानर्तितो भ्रमं नीतस्तालवृन्तो येन स तथा तेन । जलेनाम्भसा योऽनिलो वायुस्तं संचारयति प्रवर्तयतीत्येवंशीलः स तथा तेन । कुसुमैः पुष्पैर्या तल्पकल्पना शय्याविरचना तेनाकुलेन व्याकुलेन । धारागृहस्य जलयन्त्राणां प्रवर्तनात्प्रक्षरणादा ईष [^2]द्धृता दूरीकृतार्तिर्यस्य स तेन । मणिकुट्टिमस्य क्षालना धावनं तत्राग्रहस्तो यस्य स तेन । 'आयस्तेन' इति पाठ आयस्तेन खिन्नेनेत्यर्थः । सजलानि जलसहितानि किञ्जल्कजलजानि केसरोपयुक्तकमलानि तेषामुपचारः प्रकार उपचरणं तेन संभ्रान्तेन मूढेन । शिशिरं शीतलं यद्भूगृहं भूमिस्थं सदनं तस्य अभ्यन्तरं मध्यं तस्य प्रत्यवेक्षणं गवेषणं तत्र दक्षेण चतुरेण । उद्यानस्य दीर्घिका वापी तस्यास्तटं तीरं तस्य लतागहनमण्डपो जनाश्रयस्तत्र यः सेकः सिञ्चनं तेन तापमपहरतीत्येवंशीलः स्वभावः स तथा तेन । मलयजरसश्चन्दनद्रवश्चन्द्रः कर्पूर आर्द्रं जलं चन्द्रस्य शशाङ्कस्याश्रय आश्रयणमेतैरवधानदानं समाधिदानं तत्रोद्यतेनोद्युक्तेन । 'अवधानसमाधानप्रणिधानानि तु समाधौ स्युः' इति हैमः । आप्तो विश्वस्तो यः परिजनः परिच्छदस्तेनोपचर्यमाणस्योपचारविषयी- क्रियमाणस्यापि काष्ठीभूतदेहस्य दारुसादृश्यमापन्नशरीरस्य दाहे क्षमः समर्थः कामानलो मदनवह्निः क्षणेन परां कोटिं झटित्येव तत्कालमेवारुरोहारूढवान् । राज्ञ एव तुल्यावस्थस्य सदृशावस्थस्य महाश्वेताया उत्कण्ठयोत्कलिकया पुण्डरीकात्मनो वैशम्पायनस्य च । मदनानलः परां कोटिमारुरोहेत्यत्रापि संयोज्यम् । तृतीयान्तानि सर्वाण्याप्तपरिजनस्य विशेषणानि । [^1]F. वैशम्पायनस्य आक्रोशस्तिरस्कारस्तत्र तत्परेण, शुकरूपेण तेनैवागत्य कथाकीर्तने कृते अस्येयं दशा जातेति । [^2]F. धन्या बुद्धिः ! मृतस्य तापदूरीकरणे का शक्तिः ? धारागृहात् जलयन्त्रप्रवर्तनयापि आाहृता ( समन्ततः प्रवर्तिता ) आार्तिर्येन, इत्यर्थः । [^१]G. दुःखित. [^२]G. क्रोशपरेण. [^३]G. वितीर्ण. [^४]G. विनिहितार्द्र. [^५]G. स्फाटिकस्फुटित; स्फाटिक. [^६]G. मृणालेन. [^७]G. सकुसुमतल्प. [^८]G. आहत; आहित; अकृत. [^९]G. आयस्तेन. [^१०]G. सजलपङ्कजकिञ्जल्ककह्लारप्रकरप्रचारणसंभ्रान्तेन. [^११]G. अन्धकारशिशिर. [^१२]G. संतापापहारिणा; संतापकारिणा. [^१३]G. मलयजरसचन्द्रार्द्रजलार्द्रचन्द्राश्रयः; मलयजजलार्दचन्द्राश्रय. [^१४]G. दाहहेतुः तस्मिन्नेव चान्तरे [^१]तत्संधुक्षणायेव प्रवर्तयन्सरसकिसलयलता- लास्योपदेशदक्षं दक्षिणानिलम्, आलोलरक्तपल्लव [^२]प्राल- म्बान्क [^३]म्पयन्नशोकशाखिनः, [^४]वाञ्छितमुकुलमञ्जरीभरेण [^५]नम्रयन्बालसहकारान्, उत्कोरकयन्कुरुबकैः सह बकुल- तिलकचम्पकनीपान्, [^६]आपीतयन्किंकिरातैः [^७]ककुभान्, विकिरन्नतिमुक्तकामोदम्, उद्दामयन्किंशुकवनानि, निरङ्कुश- यन्कामिजनमनांसि, निर्मूलयन्मानम्, अपमार्जयँल्लज्जाम्, अप- कुर्वन्कोपम्, [^८]अपनयन्ननुनयव्यवस्थाम्, [^९]व्यवस्थापय [^१०]न्हठचुम्बनालिङ्गनरतस्थितिम्, समुल्लासयन्मकरध्वज- [^११]रक्तध्वजानिव किंशुकानि, सकलमेव महारजतमयमिव रागमयमिव [^१२]मदनमयमिवोन्मादमयमिव प्रेममयमिवोत्सव- मयमिवौत्सुक्यमयमिव जनयञ्जीवलोकम्, किसलयितसकल- कान्तारकाननोपवनतरुरुत्फुल्लचूतद्रुमामोदवासितदशाशान्तरो मधुमद [^१३]मधुरको [^१४]किलालापदुःखिताध्वगजनश्रुतिर- नवरतमकरन्दसीकरासार [ टि ]-- तस्मिन्नेव चान्तरे विचाले [^1]तस्य संधुक्षणायेव तदुद्दीपनायेव सुरभिमासो वसन्तः प्रावर्तित प्रवृत्तो बभूव । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः । सुगन्धे च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्' इति विश्वः । किं कुर्वन् । प्रवर्तयन्प्रवृत्तिं कारयन् । कम् । दक्षिणानिलं मलयमारुतम् । कीदृशम् । सरसानि रसोपयुक्तानि किसलयानि यासामेवंविधा लता वल्लयस्तासां लास्योपदेशो नृत्योपदेशस्तत्र दक्षं चतुरम् । आलोलाश्चपलाश्चञ्चला रक्तपल्लवा लोहितकिसलयास्तेषां प्रालम्बा: समूहा येषु तानशोकशाखिनः केसरवृक्षान्कम्पयन् । [^2]वाञ्छिते मुकुलमञ्जर्यौ कुड्मलवल्लर्यौ तयोर्भरेण बालसहकारान्नवीनचूतान्नम्रयन्नम्रतां नयन् । कुरबकै- र्वृक्षविशेषैः सह बकुलः केसरः, तिलको वृक्षविशेषः, चम्पको हेमपुष्पकः, नीपः कदम्बः एतानुत्प्राबल्येन कोरकयन्कलिका- मुत्पादयन् । 'कलिका कोरकः पुमान्' इत्यमरः । किंकिरातैः कुरण्टकैः सह ककुभानर्जुनवृक्षानापीतयन्पीतान्कुर्वन् । 'ककुभो वीणाप्रसवे रागभेदेऽर्जुनद्रुमे' इत्यनेकार्थः । अतिमुक्तकस्य माधवीलताया आमोदं परागं विकिरन्विक्षिपन् । किंशुका ब्रह्मपादपास्तेषां वनान्युद्दामयन्नुत्कटयन् । कामिनो जनास्तेषां मनांसि चेतांसि निरङ्कुशयन्नुच्छृङ्खलयन् । मानं गर्वं निर्मूलयन्बुध्नत उत्पाटयन् । लज्जां त्रपामपमार्जयस्फोटयन् । कोपं क्रोधम् । अर्थात् कामिजनकृतम् । अपाकुर्वन्दूरीकुर्वन्निराकुर्वन् । अनुनयव्यवस्थां प्रणिपातमर्यादा [^3]मपनयन्निराकुर्वन् । हठेन बलेन चुम्बनमास्यलेहनम्, आलिङ्गनमुपगूहनम्, रतिः संभोगः, एतासां स्थितिं मर्यादां व्यवस्थापयन्व्यवस्थां कुर्वन् । मकरध्वजस्य कामस्य रक्तध्वजानिव किंशुकानि किंशुकपुष्पाण्यरुणवैजयन्त्य इव समुल्लासयन्प्रकाशयन् । महारजतमयमिव सुवर्णमयमिव, रागमयमिवानुरागमयमिव मदनमयमिव कंदर्पमयमिव, उन्मादमयमिव वित्तविप्लवमयमिव, प्रेममयमिव स्नेहमयमिव, उत्सवमयमिव महो [^4]मयमिव, औत्सुक्यमयमिव रणरणकमयमिव, एवंविधं सकलमेव समग्रमेव जीवलोकं विष्टपं जनयन्विदधत् । किसलयिताः संजातकिसलयाः सकलाः समग्राः कान्तारकाननोपवनतरवो येन सः । तत्र कान्तारं शून्याटवी काननं निर्मानुषं वनमुपवनं नगरसमीपवर्तिवनम् । उत्फुल्लाः प्रफुल्ला ये चूतद्रुमा आम्रवृक्षास्तेषामामोदः परिमलस्तेन वासितं सुरभीकृतं दशदिशामन्तरं विचालं येन सः । मधुनो यो मदस्तेन मधुरो मिष्टो यः कोकिलालापस्तेन दुःखिता अध्वगजनाः पान्थजनास्तेषां श्रुतिः [^5]श्रवणं [^1]F. कामानलस्य । [^2]F. भ्रष्टः पाठः । 'विकसितमुकुलमञ्जरीभरेण' इत्येव । [^3]F. वसन्ते हि मानशैथिल्ये सति अनुनय ( मानमोचन ) व्यवस्था क्रियते, न त्वपनीयते । अत एव – 'उपनयन्ननय-व्यवस्थाम् ( अविनीतचेष्टाम् ) ' इति पाठः । [^4]F. उत्सववाचको 'मह' शब्द एव दृष्टः । [^5]F. दुःखिता अध्वगजनानां कर्णा यत्र । [^१]G. तत्क्षणमेव. [^२]G. प्रलम्बान्. [^३]G. स्तबकयन्. [^४]G. विकसित. [^५]G. आनम्रयन्; आनमयन्. [^६]G. आपातयम्. [^७]G. ककुभः. [^८]G. उपनयन्. [^९]G. उपस्थापयन्; आस्थापयन्. [^१०]G. दृढ. [^११]G. रक्तध्वजांशुकानि; रक्तांशुकानि. [^१२]G. रतिमयमिवोत्सवमयमिव दानमयमिव प्रेममयमिव कलिमयमिवौत्सुक्य. [^१३]G. मधुकर. [^१४]G. उल्लाप. दुर्दिनोन्मादितसकलजीवलोकहृदयो मदा [^१]कुलभ्रमद्भ्रमर- झंकार [^२]कातरितविरहातुरमनोवृत्तिरात्मसंभवैकोल्लासकारी भरात्प्रावर्तत सुरभिमासः । येन च कुसुमधन्वनः परमास्त्रेण मधुना पर्याकुलितहृदया कादम्बरी, संप्राप्ते भगवतः कामदेवस्य [^३]महे, महता प्रयत्नेन कथंकथमप्यतिवाहितदिवसा, श्यामायमानदशदिशि सांयाह्ने स्नात्वा, [^४]निर्वर्तितकामदेवपूजा तस्य पुरश्चन्द्रापीडमतिसुरभि- शीतलैः स्नापयित्वाम्भोभिरा चरणाद्विलिप्य मृगमदामोदिना हरिचन्दनेन, सुरभिकुसुमस्रग्भिरुद्ग्रथितं कुन्तलकलापं [^५]कृत्वा, एककर्णा [^६]र्पितस [^७]त्किसलयाशोकस्तबककर्णपूरं कर्पूरकुसुमप्रचुरैः प्रसाध्याभरणविशेषैः, विस्मृतनिमेषा पिबन्तीव भावार्द्रया [^८]दृशा सुचिरमालोक्य, उत्कण्ठानिर्भरा, पुनः पुनर्निश्वस्योत्कम्पमाना साध्वसेन स्विन्नसर्वाङ्गी, समुत्कण्टकित[^९]तनूरुच्छुष्यदधरवदना महाश्वेतावलोकनभयान्मुहुर्मुहुर्दिक्षु विक्षिप्तोच्चकितदृष्टि: अतिचिरमिवोपसृत्य, पुनःपुनः स्थित्वाविष्ठेव [^१०]पर [ टि ]-- यस्मिन्सः । अनवरतं निरन्तरं यो मकरन्दसीकरासारो मकरन्दवातास्तबिन्दुवेगवदृष्टिस्तदेव दुर्दिनं मेघजं तमरतनोन्मादितान्युन्मादं प्रापितानि सकलजीवलोकहृदयानि येन सः, मदाकुला ये भ्रमन्तो भ्रमराः शिलीमुखास्तेषां झंकारा झंकृतयस्तैः कातरिता कातरीकृता विरहातुरजनानां मनोवृत्तिर्येन सः । आत्मसंभवस्य कामस्यैकोऽद्वितीय उल्लासकारी प्रकाशकारी सुरभिभासः प्रावर्ततेत्यन्वयस्तु प्रागुक्त एव । येन कुसुमधन्वनः कंदर्पस्य परमात्रेणात्युत्कृष्टशस्त्रेण मधुना वसन्तेन पर्याकुलितहृदया व्याकुलितचित्ता कादम्बरी भगवतः कामदेवस्य ग्रह उत्सवे संप्राप्त समागते सति महता प्रयत्नेनोद्यमेन कथंकथमपि महता कष्टेनातिवाहित दिवसा अतिक्रान्तवासरा । श्यामायमानाः कृष्णायमानाः दशदिशो यस्मिन्नेवंभूते साया संध्यायां स्नात्वा स्नानं कृत्वा निर्वर्तिता विहिता कामदेवस्य पूजार्चा यया सा, तस्य कामदेवस्य पुरोऽग्रे चन्द्रापीडमतिसुरभिशीतलैरतिसुगन्धिशिशिरैरम्भोभिः पानीयैः स्नापयित्वा स्नानं कारयित्वा, चरणाञ्चरणाव भिव्याप्य मृगमदः कस्तूरिका तस्या आमोदः परिमलो विद्यते यस्मिन्नेवंभूतेन हरिचन्दनेन विलिप्य विलेपनं कृत्वा । 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे । ज्योत्स्नायां कुङ्कुमे च' इति विश्वः । सुरभीणि यानि कुसुमानि तेषां स्रग्भिर्मालाभिरुथित उद्बद्धः कुन्तलकलापः केशसमूहो यस्य स तं कृत्वा विधायैककर्णेऽर्पितो न्यस्तः सन्ति शोभनानि किसलयामि यस्मिन्नेवंभूतोऽशोकस्तबकः कङ्केलिगुच्छकः स एव कर्णपूरो यस्य स तम् । कर्पूरकुसुमप्रचुरैराभरणविशेषैः वैः प्रसाध्य प्रसाधनं कृत्वा विस्मृतनिमेषा त्यक्तनिमेषोन्मेषा पिबन्तीव । अत्यादरेणावलोकनं पानमुच्यते । भावेन चित्तसमुद्भवेनाईया सजलया दृशा सुचिरं बहुकालं चिरकालमालोक्य निरीक्ष्योत्कण्ठाया निर्भरोऽतिशयो यस्यां सा । पुनःपुनर्निश्वस्य निश्वासं मुक्त्वोत्प्राबल्येन कम्पमानातिवेपमाना साध्वसेन भयेन स्विनं प्रस्विन्नं सर्वाङ्गं यस्याः सा । समुत्कण्टकिता तनूः शरीरं यस्याः सा । उच्छुष्यन्ती शोषं प्राप्यमाणेऽधरवदने दन्तच्छदमुखे यस्याः सा । महाश्वेताया अवलोकनं तस्माद्भयं भीतिस्तस्मान्मुहुर्मुहुर्वारंवार दिक्षु विक्षिप्ता प्रेरितोचक तोता दृष्टिया सा । अतिचिरमिव बहुकाल मिवोपसृत्य समीपमागत्य पुनःपुनः स्थित्वावस्थानं टिप्प० - 1 उच्छुष्यन्नधरो यस्मिन्नीदृशं वदनं यस्याः सा, इति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यथा वदनस्य शोष एवाधरस्यापि शोषो निरूपितो भवेत्, अधरस्य वदनान्तर्गतत्वात् । पाठा०-१ अमयन्. २ चकित. ३ महोत्सवे. ४ निवर्तित ५ कृत्वैव कर्णा, ६ आरोपित ७ प्रसरत्किसलय; सकिसलय, ८ दृष्ट्या ९ तनु: १० परवतीव. Ⓡ वती, परित्याजिता बलाल्लजया सहाबलाजनसहजां भीतिं भगवता भुवनत्रयोन्मादकारिणा मन्मथेन, आत्मानमपारयन्ती संधारयितु- मेकान्ते निःसहा सहसा तमभिपद्य मुकुलि [^१]तनयनपङ्कजा जीवन्तमिव निर्भरं कण्ठे जग्राह । चन्द्रापीडस्य तु तेनामृतसेकाह्लादिना कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि कण्ठस्थानं पुनर्जीवितं प्रत्यपद्यत । [^२]दिवसक्ल- मामीलितं कुमुदमिव शरज्ज्योत्स्नानिपातादुच्छ्वसित [^३]मा बन्धनाद्धृदयम् । उषःपरामृष्टेन्दीवमुकुललीलयोदमीलत्कर्णान्तायतं चक्षुः । अम्भोरुहविभ्रमेण वाजृम्भत वदनम् । एवं च सुप्तप्रतिबुद्ध- इव प्रत्यापन्नसर्वाङ्गचेष्टश्चन्द्रापीडस्तथा कण्ठलग्नां कादम्बरीं चिरविरहदुर्बलाभ्यां [^४]दोर्भ्यां गाढतरं कण्ठे गृहीत्वा वाताहतां बालकदलीमिव भयोत्कम्पमानाङ्गयष्टिम्, उद्गाढतरामीलिताक्षीं वक्षस्येव प्रवेष्टुमीहमानाम्, न मोक्तुं न ग्रही [ टि ]-- कृत्वाविष्टा भूतग्रस्तेव । परवती परायत्ता बलाद्धठाल्लजया त्रपया परित्याजिता [^1]परित्यक्ता अबलाजनः स्त्रीजनस्तस्य सहजा सहोत्पन्नां भीतिं भगवता माहात्म्यवता भुवनत्रयस्योन्मादकारिणा चित्तविक्लवजनकेन मन्मथेन कंदर्पेणात्मानं संधारयितुं धारणां कर्तुमपारयन्त्यसमर्था एकान्ते विजने निःसहा परिश्रान्ता सहसा एकपदे तमभिपद्य गत्वा मुकुलिते संकुचिते नयनपङ्कजे यस्याः सा । जीवन्तमिव श्वसन्तमिव निर्भरं यथा स्यात्तथा कण्ठे निगरणे जग्राह गृहीतवती । चन्द्रापीडस्य तु तेनामृतस्य सेकः सिञ्चनं तद्वदाह्लादिना प्रमोद- जनकेनैवं विधेन कादम्बरीकण्ठग्रहेण सद्यस्तत्कालं सुदूरगतमपि दविष्ठदेशप्राप्तमपि जीवितं प्राणितं पुनः कण्ठस्थानं निगरणदेशं प्रत्यपद्यत स्वीचक्रे । दिवसक्लमं वासरसंबन्धिश्रमस्तेनामीलितं संकुचितं शरत्कालीना या ज्योत्स्ना चन्द्रिका तस्या निपातात्पतनादाबन्ध [^2]नादावृन्तात्कुमुदमिव कैरवमिवोच्छ्वसित- मुल्लसितं हृदयं भुजान्तरम् । उषसा प्रत्यूषेण परामृष्टं कृतस्पर्शं यदिन्दीवरमुकुलं नीलसरोजकुड्मलं तस्य लीलेयेवेति लुप्तोपमा । कर्णं यावदायतं विस्तीर्णं चक्षुः । जात्येकवचनम् । उदमीलद्विकस्वरं बभूव । 'व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः' इति हैमः । अम्भोरुहं कमलं तस्य विभ्रमेण विलासेनेव । अत्र वाशब्द इवार्थे । वदनमजृम्भत विकसितमभूत् । एवं चादौ सुप्तः पश्चात्प्रतिबुद्धो जागरित इव प्रत्यापन्ना सर्वाङ्गचेष्टा येनैवंभूतश्चन्द्रा- पीडस्तथा तेन प्रकारेण कण्ठलग्नां कादम्बरीं चिरकालीनो यो विरहस्तेन दुर्बलाभ्यां कृशाभ्यां दोर्भ्यां भुजाभ्यां गाढतरं कण्ठे गृहीत्वा, वाताहतां समीरान्दोलितां बालकदलीमिव भयेनोत्कम्पमाना वेपमानाङ्गयष्टिर्यस्याः [^3]सा । उत्प्राबल्येन गाढतरं दृढतरमामीलिते संकोचिते अक्षिणी यया सा । वक्षसि भुजान्तरे प्रवेष्टुं प्रवेशं कर्तुमीहमाना स्पृहमाना न मोक्तुं न ग्रहीतुमादातुमात्मना स्वेनापारयन्तीमप्रभवतीं श्रोत्रे कर्णे हृदयं भुजान्तरं ताभ्यां गृह्यत [^1]F. प्रमादोयम् । मन्मथेन लज्जया सह अबलाजनसहजां भीतिं बलात् परित्याजिता [ कादम्बरीकर्तृके भीतिकर्मकपरित्यागे मन्मथः प्रयोजकः कर्ता, मन्मथः कादम्बरीद्वारा भीतिं परित्याजि- तवान्, इति तात्पर्यम् ], अत एव आत्मानं संधारयितुमपारयन्ती । [^2]F. वस्तुतस्तु - 'उच्छ्वसितमाबबन्ध हृदयम्' इति पाठः । हृदयम् ( कर्तृ) शरज्ज्योत्स्नाऽभिपातात्कुमुदमिव, उच्छ्वासं निश्वासम् आबबन्ध तत्याज । [^3]F. पुनर्भ्रान्तष्टीकाकारः । वेपमाना अङ्गयष्टिर्यस्यास्ताम्, आमीलिते आक्षिणी यया ताम्, प्रवेष्टुम् ईहमानाम्, चन्द्रापीडं न मोक्तुम् ( उत्कण्ठावशात् ), न च ग्रहीतुम् ( लज्जावशात् ) आत्मना स्वेन पारयन्तीम्, इति सर्वत्र द्वितीया । [^१]G. लोचन, [^२]G. दिवसनिमीलितम् ; दिवसक्लमनिमीलित [^३]G. आ निषन्धनात्; आबध्नन्. [^४]G. लोचनाभ्यां पिबन्निव तुमात्मना पारयन्तीम्, श्रोत्रहृदयग्राहिणाऽनुभूतपूर्वेण स्वरेणानन्दयन्नवादीत् - 'भीरु, परित्यज्यतां भयम् । प्रत्युज्जीवि- तोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृतसंभवादप्सरसां कुलादुत्पन्ना । किं न स्मरसि तन्मे वचनमिदम् । तत्तेजोमयं वपुः स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेना- प्यायितमिति । तदेतावन्त्येव दिनानि पाणिना ते स्पृश्यमानोऽपि न यत्प्रत्युज्जीवितोऽस्मि तच्छापदोषात् । अद्य स तु मे द्वितीयवारं त्वदर्थमेवानुभूतदुःसहमदनज्वरदाहवेदनापरमदुःखस्य व्यपगतः शापः । परित्यक्ता सा मया त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना प्रतिपालिता च । तदयं लोकश्चन्द्रलोकश्च ते द्वावप्यधुना चरणतलप्रतिबद्धौ । अपि च प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतशापः।' इत्यभिदधत्येव चन्द्रापीडशरीरान्तरितवपुषि चन्द्रमसि, चन्द्रलोकावस्थानलग्नममृतपरिमल- मेव केवलमधिकमुद्वहन्,अङ्गैरन्यतमस्तादृशेनैव वेषेण यादृशेन महाश्वेतोत्कण्ठयोपरतः, तथैव कण्ठेनैकावलीं धार [ टि ]-- इत्येवंशीलेनानुभूतपूर्वेणाकर्णितपूर्वेण स्वरेण शब्देनानन्द- यन्प्रमोदयन्नवादीदवोचत् । किं तदित्याह- भीर्विति । हे भीरु हे कातरे, भयं त्रासं परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेणाहं प्रत्युज्जीवित: पुनर्जीवनं प्रापितोऽस्मि । खल्विति निश्चये । त्वममृतसंभवात्पीयूषोत्पन्नादप्सरसामुर्वशीप्रभृतीनां कुलादभिजनादुत्पन्ना संजाता। इदं [^1]तन्मे मम वचनं किं न स्मरसि न स्मृतिगोचरीकरोषि । इदं किमित्याशयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोभयं ज्योतिर्मयं स्वत एव स्वभावत एवावि- नाश्यविनश्वरम् । विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितं शीतलीकृतमिति । तत्तस्मात्कारणादेतावन्त्येव दिनानि ते तव पाणिना करेण स्पृश्यमानोऽप्याश्लिष्यमाणोऽपि कृतदर्शनोऽपि यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषादेवेति मन्तव्यम् । अद्य त्वस्मिन्नहनि द्वितीयवारं [^2]त्वदर्थमेवानुभूतं दुःसह उत्कटो यो मदनज्वरदाहस्तस्य वेदना पीडा तस्याः परमदुःखं येनैवंभूतस्य मे मम स शापो व्यपगतो नाशं गतो दूरं गतः । त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः सा मया परित्यक्तोज्झिता । तव भवत्या अस्यां चन्द्रापीडतनौ रुचिरुत्पन्ना । अत एषा मया प्रतिपन्नाङ्गी- कृता प्रतिपालिता च रक्षिता च । तदिति हेत्वर्थे । अयं लोको मर्त्यलोकश्चन्द्रलोकश्च द्वावपि लोकावधुना सांप्रतं ते तव चरणतलप्रतिबद्धौ पादतलाश्रितौ । अपि चान्यच्च ते तव प्रियसख्या वल्लभवयस्यया अपि महाश्वेतायाः प्रियतमो वल्लभो मयैव चन्द्रापीडेनैव सह विगतशापः संजात इत्यभिदधत्येव कथयत्येव चन्द्रापीडशरीरेणान्तरितं व्यवहितं वपुर्यस्य स तस्मिंश्चन्द्रमसि सति, चन्द्रलोके यदवस्थानं गतं तेन लग्नमासक्तममृतपरिमलमेव पीयूषामोदमेव केवल [^3]मधिकमुद्वहन्धारयन् । तादृशेनैव वेषेण नेपथ्येन यादृशेन वेषेण महाश्वेताया उत्कण्ठयोत्कलिकयोपरतो मृतस्तथैव पूर्वोक्तप्रकारेणैव कण्ठेन निगरणेनैकावलीमेकयष्टिकां धारय [^1]F. पुनः स्खलति टीकाकारः । 'किं न स्मरसि तत् मे ( चन्द्ररूपस्य ) वचनम् ?' 'इदं ततेजोमयं वपुः स्वतः' इति वाक्यविभागः । परोक्षे भूतकालिके चन्द्रवचने तदिति विशेषणस्यैव, तस्मिन् काले प्रत्यक्षं वर्तमानस्य चन्द्रेणाङ्गुल्या निर्दिश्यमानस्य वपुषः कृते तु ' तदिदम्' इति परामर्शस्यैवौचित्यात् । [^2]F. 'स तु मे द्वितीयवारम्' इत्यादिको भ्रान्तिजनकः पाठो नास्त्येव । 'अद्य तु स मे व्यपगतः शापः' इत्येव सुस्पष्टः पाठः । [^3]F. मूले स्वयं स्वीकृतम् 'अङ्गैः' 'अन्यतमः' इति पदद्वयं विस्मृतवांष्टीकाकारः । ततश्च --'अमृतपरिमलमेव केवलमुद्वहन्नङ्गै:, अन्यतमः ( भिन्नरूपः, पूर्वतोप्यधिकसौन्दर्यशाली ) तादृशेनैव वेषेण ०' इत्यादिरन्वयो व्याख्यार्थश्च बोध्यः । यन्, तथैवाकल्पनिःसहैरङ्गैः, तथैवापाण्डुक्षामकपोलवाहिना मुखेनाम्बरतलादवतरन्नदृश्यत कपिञ्जलकरावलम्बी [^१]पुण्डरीकः । दृष्ट्वा च तं दूरत एवोन्मुक्त चन्द्रापीडवक्षःस्थला कादम्बरी स्वयमेव धावित्वा [^२]दत्तकण्ठग्रहा महाश्वेतां पुण्डरीकागमनमहोत्सवेन यावन्न वर्धयत्येव, तावदवतीर्य पुण्डरीकः परमोपकारिणे चन्द्रापीडवपुषे शशाङ्कायाढौकत । चन्द्रापीडस्तु तं कण्ठे गृहीत्वा- ब्रवीत् – 'सखे पुण्डरीक, यद्यपि प्राग्जन्मसंबन्धाज्जामातासि तथाप्यनन्तरजन्माहृतसुहृत्स्नेहसद्भावेनैव मया सह वर्तितव्यं भवता' इत्येवं च वदत्येव चन्द्रापीडे चित्ररथहंसौ दिष्ट्या वर्धयितुं केयूरको हेमकूटमगमत् । मदलेखापि धावमाना निर्गत्य मृत्युंजयजपव्यग्रस्य तारापीडस्य विलासवत्याश्च पादयोः पतित्वा 'देव, देव्या सह दिष्ट्या वर्धसे । प्रत्युज्जीवितो युवराजः समं वैशम्पायनेन' इत्यानन्दनिर्भरमुच्चैर्जगाद । राजा तु तच्छ्रुत्वा शरीरसंस्कारविरहोद्गताविरलदीर्घपरुषपलित- लोमशप्रकोष्ठाभ्यां दोर्भ्यां [ टि ]-- न्बिभ्रत् । तथैव पूर्वोक्तप्रकारेणैव ईषत्पाण्डू शुक्लौ क्षामौ कृशौ कपोलौ वहतीत्येवंशीलेन मुखेनाननेन कपिञ्जलकरं कपिञ्जलहस्तमवलम्बत इत्येवंशीलः पुण्डरीकोऽम्बरतलाव्द्यो- मतलादाकाशतलादवतरन्नवतरणं कुर्वन्नदृश्यतावालोक्यत । जनैरिति शेषः । दूरत एव दविष्ठ एव दृष्ट्वा च निरीक्ष्य च तं पुण्डरीकमुन्मुक्तं त्यक्तं च चन्द्रापीडवक्षःस्थलं यया सैवंभूता कादम्बरी स्वयमेवात्मनैव धावित्वा धावनं कृत्वा दत्तः कण्ठग्रहो यस्या एतादृशीं महाश्वेतां पुण्डरीकस्यागमनमहोत्सवस्तेन यावन्न वर्धयत्येव वर्धापनं न करोत्येव तावत्तस्मिन्समये पुण्डरीकोऽवतीर्योत्तरणं कृत्वा परमोपकारिणे परमोपकृतिविधायिने चन्द्रापीडस्येव वपुः शरीरं यस्य स तथा तस्मै शशाङ्काय चन्द्रमसे चन्द्रायाढौ [^1]कत । चन्द्रापीडस्तु तं पुण्डरीकं कण्ठे गृहीत्वा कण्ठग्रहं कृत्वा कण्ठाश्लेषं गृहीत्वाब्रवीदवोचत् । एतदेव दर्शयन्नाह – सखे इति । हे सखे हे वयस्य पुण्डरीक, यद्यपि प्राग्जन्मसंबन्धाद्भवान्तरसंबन्धात्त्वं जामातासि । महाश्वेतायाश्चन्द्रवंशोत्पन्नत्वेन चन्द्रमसः पुत्रीत्वादस्याः पतित्वेन चास्य जामातृत्वमिति भावः । तथाप्यनन्तरजन्मनि शूद्रकभव आहृतोऽर्जितो यः सुहृत्स्नेहो मित्रप्रेम तस्य सद्भावेनैव मया सह वर्तितव्यं चलितव्यं भवता । एवं च वदति कथयति चन्द्रापीडे चित्ररथहंसौ कादम्बरी महाश्वेतापितरौ दिष्ट्या भाग्येन वर्धयितुं वर्धापनं कर्तुं केयूरको हेमकूटमगमद्ययौ । मदलेखापि निर्गत्य धावमाना धावनं कुर्वाणा मृत्युञ्जयो महाजपो जापस्तेन व्यग्रस्य व्याकुलस्य तारापीडस्य विलासवत्याश्च पादयोश्चरणयोः पतित्वाभिवादनं कृत्वा हे देव, देव्या सह दिष्ट्या वर्धसे । समं वैशम्पायनेन युवराजः प्रत्युज्जीवित इत्यानन्दनिर्भरं यथा स्यात्तथोच्चैर्गाढस्वरेण जगादात्यर्थमवोचत् । तच्छ्रुत्वाकर्ण्य शरीरस्य संस्कारविरहोऽधिवासनराहित्यं तेनो- द्गतानि प्रादुर्भूतानि प्रकटीभूतान्यविरलानि निबिडानि दीर्घाण्यायतानि परुषाणि कठिनानि यानि पलितानि तैर्लोमशौ प्रकोष्ठौ ययोरेवंभूताभ्यां दोर्भ्यां [^1]F. सर्वत्र पर्यायशब्दोद्गिरणायोच्छलन्नपि मूकोऽत्र टीकाकारमहोदयः ! ! शशाङ्काय अढौकत, शशाङ्कमुपागमत् इत्यर्थ: । 'गत्यर्थकर्मणी' त्यादिना कर्मणि चतुर्थी । [^१]G. समुत्सृष्टशुकशरीर: पुण्डरीक:. [^२]G. दत्तकण्ठग्रहम् ; दत्तकण्ठग्रहा. ८९ का० परिष्वज्य ताम्, तदनु हर्षपरवशो विलासवतीं कण्ठेऽवलम्ब्य, [^१]जराभङ्गवलिपरिशिथिलि तमूलेन बाहुनोत्क्षिप्तोत्तरीयां- शुकाञ्चलः स्वयमेवाशिक्षितलयविसंष्ठुलैः पदैर्नृत्यन्निवोत्फुल्लवदननरपतिसहस्रपरिवृतोऽम्भोजाकर इव मलयमारुतप्रेङ्खो- लनाविवर्तितः, मदलेखां 'क्वासौ क्वासौ' इति पुनःपुनः पृच्छन्पुनः पुनर्निर्विशेषहर्षवृत्तिं शुकनासं कण्ठे संभावयंस्तत्रैवागच्छत् । दृष्ट्वा च तथा पुण्डरीककण्ठे लग्नं चन्द्र पीडमानन्दनिर्भरः शुकनास- मवादीत्-'दिव्या, मया नैकाकिना तनय प्रत्युज्जीवनोत्सवसुख- मनुभूतम्' इति । चन्द्रापीडस्तु तथा हर्षपरवशं पितरमालोक्य ससंभ्रमोन्मुक्त पुण्डरीक: पुरेव पृथ्वीतलनिवेशितशिराश्चरणयोरपतत् । अथ सत्वरोपसृतस्तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्य- धात्–'पुत्र, यद्यपि पिताहं तव शापदोषात्स्वपुण्यैर्वा संजातः, तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च मय्यपि नमस्यो योंऽशः सोऽपि मया त्वय्येव संक्रामितः । तदुभयथापि त्वमेव नमस्कार्यः' इत्यभिदधदेव समं राजपुत्रलोकसहस्रैः प्रतीपमस्य पादयोरपतत् । विलासवती तु तथा पित्रा प्रणते तस्मिम्परितोषेण स्वाङ्गेष्विवा- संमान्ती, तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयो [ टि ]-- बाहुभ्यां तां परिष्वज्याश्लिष्य तदनु पश्चाद्धर्षपरवशः प्रमोदपरतन्त्रः कण्ठे विलासवतीमवलम्ब्यावलम्बनं [^1]कृत्वा ............हे पुत्र हे सुत, यद्यपि शाप [^2]दोषात्स्वपुण्यैर्वाहं तव पिता संजातः, तथाप्येवं सत्यपि त्वमेव जगतां वन्दनीयो नमस्कार्यः । यतो लोकपालस्त्वम् । अपि युक्त्यन्तरे । मय्यपि मयि विषयेऽपि नमस्यो योंऽ[^3]शः । जात्येकवचनम् । सोऽपि मया त्वय्येव संक्रामितस्तदुभयथापि लोकपालत्वेन मदंशसंक्रमणेन च त्वमेव भवानेव नमस्कार्यो नमस्करणीय इत्यभिदधदेवेति कथयन्नेव राजपुत्रलोकसहस्रैः समं प्रतीपं विलोममस्य चन्द्रापीडस्य पादयोरपतत्पतितवान् । विलासवती तु तथा तेन प्रकारेण पित्रा तारापीडेन प्रणते नते तस्मिंश्चन्द्रापीडे परितोषेण हर्षेण खाङ्गेष्विवासंमान्ती प्रवे [^4]शमलभमाना । एतेन प्रमोद तिरेकः सूचितः । तं सुतं पुनः शिरस्युत्तमाङ्गे, पुनर्ललाटेऽलिके भालस्थले, पुनः [^1]F. टीकासापेक्षोंऽशः - जरसा भङ्गेन ( अभिभवेन ) या वल्यः चर्मसंकोचलहर्यः ताभिः शिथिलितं मूलं यस्य, ईदृशेन बाहुना उत्क्षिप्तः ( स्कन्धोपरि निहितः ) उत्तरीयाञ्चलो येन सः । उत्फुल्लनयनेन नरपतिसहस्रेण परिवृतः । न शिक्षितः ( अनुवर्तितुं नाऽभ्यस्तः ) यो लयः ( वाद्यादिगत्या सह स्वरस्य साम्यम् ) तेन विसंतष्ठुलै: विषमगतिभिः पदैः (पदन्यासैः ) नृत्यन्निव, अत एव मलयमारुतद्वारा या प्रेङ्खोलना ( संचालनम् ) तेन विवर्तितः ( क्षोभं प्रापितः ) अम्भोजाकर इव कमलखण्ड इव, (नृत्यन् राजा पवनतरलजलाशयस्थानीयः, उत्फुल्लानि नरपतिमुखानि कमलस्थानीयानि इति कुमलाकरसाम्यम् ) । हर्षेण निर्विशेषा (अभिन्ना, समाना ) वृत्तिर्यस्य ईदृशं शुकनासं पुनः पुनः कण्ठालिङ्गनेन संमानयन् । दिष्ट्या ( भाग्याभिनन्दनस्यावसरः ) तनयप्रत्युज्जीवनस्य सुखं न मया एकाकिना, अपि त्वयाप्यनुभूतम् । ससंभ्रमम् उन्मुक्तः ( कण्ठग्रहात् दूरीकृतः ) पुण्डरीको येन । पुरेव पूर्वमिव (उज्जयिन्यां तारापीडं पितरं मत्वा यथा प्राणंसीत्तथा ) भूतलन्यस्तमस्तकः । सत्वरं शीघ्रम् उपसृतः (समीपमागतः ) तारापीड: अभ्यधात् अभाषत । [^2]F. तव शापदोषात्, अहं च स्वस्य पुण्यैः ( तव पिता जात: ) । [^3]F. अहं नरपाल इति यो नमनीयत्वांशः -'अष्टानां लोकपालानां मात्राभिर्निर्मितो नृपः' इति, सोपि त्वयि संक्रमितः, राज्यं दत्त मित्यर्थः । [^4]F. अवकाशमलभमाना, इत्यर्थ उचितः । [^१]G. जरामित्यारभ्य - तारापीडोऽभ्यधादित्यन्तं व्याख्यायां त्रुटितोंऽश इति ज्ञेयम्. श्चुम्बित्वा गाढतरं सुचिरमालिलिङ्ग । उन्मुक्तश्च मात्रोपसृत्य पुनःपुनः कृतनमस्कारः शुकनासं प्रणनाम । आशीः सहस्राभि- वर्धितश्च तेनात्मनोपसृत्य यथानुक्रमं पित्रो: शुकनासस्य मनोरमायाश्चैष वो वैशम्पायन इति पुण्डरीकं [^१]विनयविलक्षा- वनम्रवदनमदर्शयत् । तस्मिन्नेष च प्रस्तावे समुपसृत्य कपिञ्जलः शुकनासमवादीत्–'एवं संदिष्टमार्यस्य भगवता श्वेतकेतुना । अयं खलु पुण्डरीकः संवर्धित एव केवलं मया । आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन एवायमित्ये [^२]वमवगत्याविनयेभ्यो निवारणीयः । परोऽयमिति कृत्वा नोपेक्षणीयः । यच्चापगतशापोऽध्यात्मसमीपं नानीतस्तत्तवैवायम्, इति । अन्यच्चात्मानमस्मि [^३]न्नाचन्द्र- कालीनायुषि स्थापयित्वा कृतार्थ: । [^४]संप्रत्यस्माद्दिव्यलोका- दप्युपरिष्टागन्तुमुद्यतं मे सत्त्वाख्यं ज्योतिः' इति । शुकनासस्तु विनयावनतं पुण्डरीकं पाणिनांऽसेऽवलम्ब्य कपिञ्जलं प्रत्यवादीत् – 'कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमित्यादिष्टम् । सर्वथा स्नेहस्यायमसंतोषः' इति । एवंविधैश्च पूर्वजन्मवृत्तान्ता [^५]नुस्मरणालापैः परसरावलोकन- सुखोत्फुल्ललोचनानां सर्वेषा [ टि ]-- कपोलयोर्गल्लात्परप्रदेशयोश्चुम्बित्वा चुम्बनं कृत्वा गाढतरमतिदृढं सुचिरं बहुकालमालिलिङ्ग । आलिङ्ग्य उन्मुक्तश्च मात्रा विलासवत्या, उपसृत्य समीपे गत्वा पुनः पुनः कृतनमस्कारो विहितनमस्कृतिः शुकनासं प्रणनाम नमस्कृतिं चक्रे । तेन शुकनासेनाशीःसहस्रैर्माङ्गल्याभि [^1]वादनसहस्रैरभि- वर्धितोऽभिनन्दितश्चात्मना स्वयमुपसृत्योपसरणं कृत्वा यथानुक्रमं यथाक्रमं पित्रोः शुकनासस्य मनोरमायाश्चैष वो युष्माकं वैशम्पायन इति पुण्डरीकं विनयेन विलक्षं विस्मयान्वितम् । 'विलक्षो विस्मयान्विते' इत्यमरः । अवनम्रमवनतं वदनं यस्य स तमदर्शयद्दर्शयामास । तस्मिन्नेव प्रस्तावे समये समुपसृत्य पार्श्वे समागत्य कपिञ्जल: शुकनासमवादीदवोचत् । आर्यस्य भवतः श्वेतकेतुना भगवतैव संदिष्टं कथितं वर्तते । खल्विति निश्चये । अयं पुण्डरीकः केवलं मया संवर्धित एव वृद्धिं प्रापित एव । आत्मजः पुत्रः पुनःपुनस्तव भवतः । अस्यापि पुण्डरीकस्यापि भवत्स्वेव स्नेहो लग्न: संबद्धः । तदिति हेत्वर्थे । वैशम्पायन एवायं पुण्डरीक इत्येवमवगत्य ज्ञात्वाऽविनयेभ्यो निवारणीयो दूरीकार्यः । अयं परोऽन्य इति ज्ञात्वा नोपेक्षणीयो नोपेक्षाविषयीकर्तव्यः । यच्चापगतशापोऽप्यात्मसमीपं स्वसविधं नानीतो न प्रापितस्तस्मात्तवैव भवदीय एवायमिति । अन्यच्च चन्द्र [^2]कालश्चन्द्रापीडावस्थानलक्षणस्तत्र भवमायुस्तस्मिन् । 'आत्मा वै जायते पुत्रः' इति श्रुतेः । आत्मानं पुत्रं स्थापयित्वा यावत्कालं चन्द्रापीडः स्थास्यति तावत्कालमयमिति भावः । अत एव कृतार्थः कृतकृत्यः । संप्रतीदानीमस्माद्दिव्य- लोकादप्युपरिष्टाद्गन्तुं मे मम सत्त्वाख्यं ज्योतिरुद्यतं कृतप्रयत्नमिति । शुकनासस्तु सुष्नु विनयादवनतं नम्रीभूतं पुण्डरीकं पाणिना हस्तेनांसे स्कन्धेऽवलम्ब्य कपिञ्जलं प्रत्यवादीत्प्रत्यवोचत् । तदेव दर्शयन्नाह – कपिञ्जलेति । हे कपिजल, सकलजगतः समग्रविश्वस्याशयज्ञेनाभिप्रायवेदिना सता भगवता पूज्येन किमित्यादिष्टं कथितम् । सर्वथा स्नेहस्यायं पुण्डरीकोऽसंतो- षोऽधृति [^3]स्थानम् । कदाचिदस्मिस्नेहो न निवर्तित इति भावः । इत्येवंविधैश्च पूर्वजन्मवृत्तान्तस्य भवान्तरोदन्तस्यानुस्मरणानि तेषामालापैः संभाषणैः परस्परमन्योन्यमवलोकनं वीक्षणं तस्य सुखं तेनोत्फुल्ललोचनानां संफुलनेत्राणाम् । 'प्रफुल्लोत्फुल्लसंफुल्लव्या कोशविकचस्फुटाः' इत्यमरः । [^1]F. आशीर्वचनसहस्रै: । [^2]F. आचन्द्रकालिकम् आयुर्यस्य ईदृशे अस्मिन् ( पुण्डरीके ) आत्मानं निजस्वरूपम् (निजतत्त्वम्) स्थापयित्वा, इत्यर्थ: । [^3]F. स्नेहस्य अपरितृप्तिः । सर्वज्ञतया ममाशयं जानतापि महर्षिणा यदेतत्संदिष्टं तत् केवलमस्मासु स्नेहप्रकटनमिति भावः । [^१]G. सविनयवैलक्ष्य. [^२]G. एव. [^३]G. आचन्द्रसमकालीनायुषि. [^४]G. अस्मत्. [^५]G. संस्मरण. मेव तेषामचेतितैव सा क्षणदा [^१]प्रयाता । प्रातरेव च सकलगन्धर्वलोकानुगतौ सम [^२]मचिरागौरीभ्यां चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । आगतयोश्च तयोर्लज्जितात्मजोपगममुदितहृदययोर्जामातृदर्शनसमुत्फुल्लनयनयोस्तारापीडशुकनासाभ्यां सहानुभूतसंबन्धकोचितसंवादकथयोः सहस्रगुण इव महोत्सवः प्रावर्तत । अथ प्रवर्तमान एव तस्मिंश्चित्ररथस्तारापीडमयादीत् - 'विद्यमाने स्वभवने किमर्थमयमरण्ये महोत्सवः क्रियते ? अपि च यद्यप्यस्माकमयमेव परस्पराभिरुचिनिष्पन्नो धर्म्यो विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव । तद्गम्यतां तावदस्मदीयमवस्थान- म् । ततः स्वभूमिं चन्द्रलोकं वा गमिष्यथ ।' तारापीडस्तु तं प्रत्यवादीत् – 'गन्धर्वराज, यत्रैव निरतिशयं संपत्सुखं तदेव वनमपि भवनम् । तदीदृशं क्वापरत्र संपत्सुखं प्राप्तम् ? अन्यच्च संप्रति [^३]सर्वगृहाण्येव मया जामातरि ते संक्रामितानि । तद्वयस्य, वधूसमेतं तमेवादाय गम्यतां गृहसुखानुभवनाय' इति । चित्ररथस्तु तथाभिहित: [^४]'राजर्षे, यथा ते रोचते' इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगात् । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । पुण्डरीकायापि समं महाश्वेतया निजपदं हंसो न्यवेदयत् । तौ तु हृदयरुचितवधूलम्भ- मात्रकेणैव कृतार्थौ न किंचिदप्यपरं प्रत्यपद्येताम् । [ टि ]-- सर्वेषामेव तेषामचेतितैवाज्ञातैव सा क्षणदा रात्रिः प्रयाता गता । प्रातरेव च प्रत्यूषे च सकलगन्धर्वलोकैः समप्रदेवगायनजनैरनुगतौ सहितावचिरेरा गौरीभ्यां महाश्वेताकादम्बरीजननीभ्यां समं चित्ररथहंसौ कादम्बरीमहाश्वेतापितरौ गन्धर्वराजौ गन्धर्वनायकावपि तत्रैवाजग्मतुराय यतुः । आगतयोश्च तयोर्लज्जिते त्रपिते ये आत्मजे पुत्र्यौ तयोरुपगमः प्राप्तिस्तेन मुदितं हर्षितं हृदयं ययोस्तौ तयोर्जामातृदर्शनेन दुहितुः पत्यवलोकनेन समुत्फुल्ले विकसिते नयने ययोस्तौ तयोः । क्वचित् 'वदनयोः' इति पाठः । तारापीडशुकनासाभ्यां सहानुभूतः संजातो यः संबन्धकस्तस्योचिता योग्याः संवादकथा ययोस्तौ तयोः सहस्रगुण इव महोत्सवः प्रावर्तत प्रवृत्तोऽभूत् । अथेति । तदनन्तरं प्रवर्तमाने संजायमान एव तस्मिन्महोत्सवे चित्ररथस्तारापीडमवादी दब्रवीत् । तदेवाह - विद्यमान इति । स्वभवने स्वकीयसद्मनि विद्यमाने वर्तमानेऽयं महोत्सवः किमर्थं किंप्रयोजनमरण्ये क्रियतेऽटव्यां विधीयते । अपि च प्रकारान्तरे । यद्यप्यस्माकमयमेव परस्परमन्योन्यं याऽभिरुचिरभिलाषस्तया निष्पन्नो धर्म्मो विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव रक्षणीय एव । तदस्मदीयमास्माकीनमवस्थानमास्पदं तावद्गम्यताम् । ततस्तदनन्तरं स्वभूमिं चन्द्रलोकं वा गमिष्यथ यास्यथ । तारापीडस्तु तं चित्ररथं प्रत्यवादीत्प्रत्यवोचत् । हे गन्धर्वराज, यत्रैव निरतिशयमधिकं संपत्सुखं तदेव वनमपि भवनं गृहम् । तदीदृशमपरत्रान्यत्र क्व कुत्र मया संपत्सुखं प्राप्तं लब्धम् । अन्यच्च संप्रतीदानीं सर्वगृहाण्येव मया ते तव जामातरि दुहितुः पत्यौ संक्रामितानि संकल्पितानि । तत्तस्माद्धेतोर्हे वयस्य हे मित्र, वधूसमेतं तमेव वरमेवादाय गृहीत्वा गृहसुखस्यानुभवनं साक्षात्करणं तस्मै गम्यतां व्रज्यताम् । चित्ररथस्तु तथाभिहितस्तेन प्रकारेणोक्तः राजर्षे, यथा ते तुभ्यं रोचते इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगाद्ययौ । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव सकलमेव स्वमात्मीयं राज्यं चन्द्रापीडाय न्यवेदयन्निवेदितवान् । पुण्डरीकायापि महाश्वेतया समं निजपदं हंसो न्यवेदयत् । तौ तु चन्द्रापीडपुण्डरीकौ तु हृदये चित्ते रुचिते ईप्सिते ये वध्वौ तयोर्लम्भमात्र केणैव प्राप्तिमात्रकेणैव कृतार्थी कृतकृत्यौ न किंचिदप्यपरमन्यत्प्रत्यपद्येतां स्वीकुर्वाताम् । टिप्प० – 1 स्वयं 'मदिरा' इति नाम पूर्व लिखितवानध्येवमाह । धन्यः ! पाठा० - १ प्रभाता. २ मदिरा ३ सर्वगृहसुखान्येव. ४ राजर्षिणा. अन्यदा जम्माभिवान्छितहृदयवल्लभलाभमुदितसर्वस्वजनमध्यो- [^१]पगमननिर्वृतापि कादम्बरी बाष्पोत्तरललोचना विषण्णमुखी वासभवनागतं चन्द्रापीडमूर्तिं चन्द्रमसमप्राक्षीत् - 'आर्यपुत्र, सर्वे [^२]खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परं संघटिताश्च । सा पुनर्वराकी पत्रलेखास्माकं मध्ये न दृश्यते । न विद्मः किं तस्याः केवलाया वृत्तम् ?' इति । चन्द्रापीडमूर्तिः प्री [^३]तान्तरात्मा तां प्रत्यवादीत् – "प्रिये, कुतोऽत्र सा हि खलु म [^४]द्दुःखदुःखिनी रोहिणी शप्तं मामुपश्रुत्य 'कथं त्वमेकाकी मर्त्यलोकनिवास- दुःखमनुभवसि'- इत्यभिधाय निवार्यमाणापि मया [^५]प्रथमतरमेव मच्चरणपरिचर्यायै मर्त्यलोके जन्मामहीत् । [^६]इतश्च जन्मातरं गच्छता मया मदुपरमसममुन्मुक्तशरीरा पुनरपि मर्त्यलोकमवतरन्ती बला [^७]दावर्ज्या [^८]त्मलोकं विसर्जिता तत्र पुनस्तां द्रक्ष्यसि " इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्या [^९]स्तदोदारतया स्नेहलतया महानुभावतया [^१०]सपतिव्रततया पेशलतया च विस्मितहृदया परं लज्जिता न किंचिदपि वक्तुं शशाक । अत्रान्तरे जन्मद्वयाकाङ्क्षितं [^११]कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमिवोपपादयितुम [ टि ]-- अन्यदान्यस्मिन्काले जन्मन्यभिवाच्छितो यो हृदयवल्लभलाभस्तेन [^1]मुदिता हर्षिताः सर्वे ये स्वजनाः कुटुम्बिनस्तेषां मध्योपगमनं मध्ये समागमनं तेन निर्वृतापि सुखं प्राप्तापि च कादम्बरी बाष्पेणाश्रुणोत्प्राबल्येन तरले चञ्चले लोचने यस्याः सा । विषण्णं खेदाकुलं मुखं यस्याः सा । वासभवनागतं वसतिसद्मागतं चन्द्रापीडमूर्तिं चन्द्रापीडशरीरं चन्द्रमसं शशाङ्कमप्राक्षीत्प्रश्नं कृतवती । इतिद्योत्यमाह - आर्येति । हे आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परमन्योन्यं संघट्टिताः मिलिताश्च । सा पुनर्वराकी तपस्विनी पत्रलेखैकास्माकं मध्ये न दृश्यते न दृग्गोचरीक्रियते । न विद्मो न जानीमस्तस्याः केवलाया एकाकिन्यः किं वृत्तं किं जातम् । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा संतुष्टात्मा तां कादम्बरीं प्रत्यवादीत्प्रत्यवोचत् – हे वल्लभे, अत्र सा पत्रलेखा कुतः स्यात् । हि यस्मात्कारणात् । खल्विति निश्चये । मम दुःखेन दुःखिनी एवंविधा रोहिणी ब्राह्मी शप्तं शापग्रस्तं मामुपश्रुत्याकर्ण्य कथं त्वमेकाक्यसहायो मर्त्यलोकनिवासदुःखं मनुष्यनिवसनकष्टमनुभवस्यनुभवविषयीकरोषीत्यभिधायेत्युक्त्वा निवार्यमाणापि प्रतिषिध्यमानापि मया चन्द्रमसा प्रथमतरमेवादावेव मम चन्द्रमसश्चरणपरिचर्यायै पादसेवायै मर्त्यलोके मनुष्यक्षेत्रे जन्माग्रहीत् । इतश्च जन्मान्तरं भवान्तरं गच्छता व्रजता मया चन्द्रमसा मदुपरमेण सममुन्मुक्तं शरीरं यया सा पुनरपि द्वितीयवारमपि मर्त्यलोकमवतरन्त्यवतारं गृह्णन्ती बलाद्धठादावर्ज्यावर्जनां कृत्वात्मलोकं चन्द्रलोकं विसर्जिता । प्रेषितेत्यर्थः । तत्र संप्रति पुनस्तां द्रक्ष्यसि विलोकयिष्यसीति । कादम्बरी तु तच्छ्रुत्वा तदाकर्ण्य रोहिण्यास्तदोदारतया स्नेहलतया वत्सलतया महानुभावतया महाप्रभावतया सपतिव्रततया एकपतितया पेशलतया सहृदयतया च विस्मितहृदया चमत्कृतचित्ता परमत्यन्तं लज्जिता लज्जां प्राप्ता न किंचिदपि वक्तुं कथयितुं शशाक समर्था बभूव । अत्रान्तरेऽस्मिन्समये जन्मद्वयाकाङ्क्षितं भवान्तरद्वयाभिलषितं [^2]कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमि [^1]F. हृदयवल्लभलाभः कादम्बर्या न तु सर्वेषाम् । अत एव – 'जन्माभिवाञ्छितहृदयवल्लभलाभमुदिता सर्व- स्वजनमध्योपगमननिर्वृतापि' इत्येव पाठः । [^2]F. संभोगसुखमुपपादयितुमिव वासरः अपससार, तर्हि 'कालम्' किं कर्तुम् ? तस्मात् 'कालप्रभोः' इत्येव पाठः । कालप्रभोः कालनियन्तुश्चन्द्रमसः जन्मद्वयाकाङ्क्षितं कादम्बरीसंभोगसुखमुपपादयितुमिव वासरोऽपससारेत्यन्वयः । [^१]G. उपयमन. [^२]]G. वयं खलु. [^३]G. अर्दित. [^४]G. दुःखिता. [^५]G. प्रथमम्. [^६]G. दिवश्च. [^७]G. आतर्ज्य. [^८]G. अमरलोकम्. [^९]G. तया; तथा. [^१०]G. सपतिव्रतया; पातिव्रततया. [^११]G. कालप्रभोः. पससार वासरः । अनुरागपता [^१]कवोल्लसदपरसंध्यावधू- त्रपावरणायेव वितस्तार [^२]वासतेयी । चन्द्रोदयाभिरामं च समग्रमेव जगदभवत् । एवं च भरेणावतीर्णायां रजन्यां चन्द्रापीडश्चिराभिलषितमुन्मीलितनयनकुवलयमुत्स्रस्तनीवीप्रसृतकरनिवारणानुबन्धमनुभूतप्रत्यालिङ्गनसु [^३]खमभिप्रार्थितसुरत- परिसमाप्तित्रपासुभगं कादम्बरीप्रथमसुरतसुखमनुभूयैक- दिवसमिव दशरात्रं स्थित्वा परितुष्टहृदयाभ्यां श्वशुराभ्यां विसर्जितः पितुः पादमूलमाजगाम । आगत्य च समकालमेवानुभूतक्लेशं राजलोकमात्मसमं कृत्वा, समारोपितराज्यभारः पुण्डरीके, परित्यक्तसर्वस्वकार्ययोः पित्रोः पादावनुचरन् कदाचिदत्यद्भुतोत्फुल्लनयननैगमजनावलोकितो जन्मभूमिस्नेहादुज्जयिन्याम्,कदाचिद्गन्धर्वराजगौरवेणानुपम- [^४]रमणीयतममहिम्नि हेमकूटे, कदाचिदमृतपरिमलाधिवास- सुरभिशिशिरसर्वप्रदेशहारिणि रोहिणीबहुमाननेन चन्द्रलोके, कदाचिदहर्निशोत्फुल्लसहस्रपत्र [^५]निवेहोदवाहिनि पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि, [ टि ]-- वोपपादयितुं निष्पादयितुं वासरो दिवसोऽपससारापसृतो बभूव । अनुरागस्यानुरते: पताकेव वैजयन्तीवोल्लसन्ती यापरसंध्या पश्चिमसंध्या सैव वधूः स्त्री तस्यास्त्रपा लज्जा तस्या आवरणायाच्छादनायेव [^1]वासतेयी रात्रिर्वितस्तारप्रससार । चन्द्रोदयेन शशाङ्कप्रकाशेनाभिरामं मनोहरं च समग्रमेव सकलमेव जगदभवत्संजज्ञे । एवममुना प्रकारेण भरेण संभारेणावतीर्णायां संजातायां रजन्यां त्रियामायां चन्द्रापीडश्चिरकालं यावदभिलषितं वाञ्छितमुन्मीलितानि विकसितानि नयनकुवलयानि नेत्रो [^२]त्पलानि यत्र तत् । उत्स्रस्ता शिथिलिता श्लथीजाता या नीव्यु- च्चयस्तस्यां प्रसृतो विस्तृतो यः करो हस्तस्तस्य निवारणं दूरीकरणं तदेवानुबन्धः प्रतिबन्धो यत्र तदनुभूतं साक्षात्कृतं प्रत्यालिङ्गनसुखं तया दीयमानोपगूहनसातं यस्मिंस्तत्तथा अभिप्रार्थिताभियाचिता सुरतस्य संभोगस्य परिसमाप्तिर्यस्यामेवंविधा या त्रपा लज्जा तया सुभगं मनोहरमेतादृशं कादम्बर्याः प्रथमं सुरतस्य सुखं सातमनुभूय साक्षात्कृत्यैकदिवसमिव दशरात्रं दशदिवसं स्थित्वास्थाय परितुष्ट- हृदयाभ्यां संतुष्टचित्ताभ्यां श्वशुराभ्यां चित्ररथहंसाभ्यां विसर्जितो दत्ताज्ञः पितुस्तारापीडस्य पादमूलं चरणसमीपमाजगामाययौ । आगत्य चागमनं कृत्वा च समकालमेवैकवारमेवानुभूतः क्लेशो दुःखं यैरेवंभूतं राजलोकं नृपजनमात्मसमं निजसदृशं [^3]स्वतुल्यं कृत्वा विधाय, पुण्डरीके समारोपितो न्यस्तो राजभार आधिपत्य- धूर्येन सः । परित्यक्तमुज्झितं सर्वं स्वकार्यं सांसारिककृत्यं याभ्यां तौ माता च पिता च पितरौ । एकशेषः । तयोः पित्रोः पादौ चरणायनुचरन्सेवयन् । कदाचित्कस्मिंश्चिदवसरेऽत्यद्भुतोत्फुल्ल- नयना विकसितनेत्रा ये नैगमजना वणिग्जनास्तैरवलोकितो वीक्षितो जन्मभूमिस्नेहादुत्पत्तिवसुधाप्रीतेरुज्जयिन्यां विशालायाम् । कदाचित्कस्मिंश्चित्प्रस्तावे गन्धर्वराजस्य गौरवेणात्यादरेणानुपमो मनोहरो रमणीयतमोऽतिशयेन रन्तुं योग्यो महिमा माहात्म्यं यस्मिन्नेतादृशे हेमकूटे । कदाचिद्रोहिणीबहुमाननेन ब्राह्मी.... कारेणामृतस्य पीयूषस्य परिमल आमोदस्तस्याधिवासेन संस्कारेण सुरभिः सुगन्धो यः शिशिरः शीतलः सर्वप्रदेशः समग्रस्थलं तेन हारिणि मनोहरे चन्द्रलोके । कदाचिदहर्निशमहोरात्रमुत्फुल्लानि विस्मेराणि सहस्रपत्राणि तेषां निवहः समूहो यस्मिन्नेतादृशमुदं जलं वहतीत्येवंशीले । उदकस्योदादेशः । पुण्डरीकप्रीत्या पुण्डरीकस्नेहेन लक्ष्म्या रमाया निवाससरस्यवस्थानसरसि कासारे । क्वचित् [^1]F. वस्तुतस्तु - 'अनुरागकवोष्णतया ( अनुररागेण च अस्तकालिकलौहित्येन च, ईषदुष्णतया च ईषदविनयोन्मुखतया च ) अपरसन्ध्यावधूत्रपावरणायेव वितस्तार तमोवासो वासवी ।' इत्येव पाठ: । सन्ध्यया सह स्नेहवशात् वासवी ( प्राची ) अन्धकाररूपं वसनं विस्तारितवती । अन्धकाराविर्भावेन अविनयोन्मुखायाः सन्ध्याया लज्जां निवारयामासेत्याशयः । [^2]F. द्विवचनमुचितम् । [^3]F. प्राप्तसुखं समृद्धियुक्तं च । [^4]F. उदकं जलं वहतीत्येव वक्तव्यम्, पेषंवासेत्यादिना उदकस्योदादेशः । [^१]G. उल्लालस. [^२]G. वा रजनी; तमोवासो वासवी. [^३]G. अप्रार्थित. [^४]G. रमणीयतर; रमणीयता. [^५]G. मोद; निवहौघ. कादम्बरीरुच्या च सर्वत्रैवापरेष्वपि [^१]रम्यतरेषु तेषु तेषु स्थानेषु तया सह जन्मद्वयाकाकङ्क्षयैवापरिसमाप्तान्यपुनरुक्तानि च तानि तानि न केवलं चन्द्रमाः कादम्बर्या सह, कादम्बरी महाश्वेतया सह, महाश्वेता तु पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परावियोगेन सर्व एव सर्वकालं [^२]सुखान्यनुभवन्तः परां कोटिमानन्दस्याध्यगच्छन् ॥ [ टि ]-- 'सहस्रपत्रामोदवाहिनि' इति पाठः । कादम्बरीरुच्या च कादम्बर्याः स्पृहया चापरेष्वपीतरेष्वपि रम्यतरेष्वतिमनोहरेषु तेषु तेषु स्थानेषु प्रदेशेषु । सर्वत्रैव तया कादम्बर्या सह जन्मद्वया- काङ्क्षयैव भवान्तरद्वयवाञ्छयैवापरिसमाप्तान्यपरिपूर्णान्यपुन- रुक्तानि च कदाचिदसेवितानि । प्रतिदिननवीनानीत्यर्थः । तानि तानि च वक्तुमशक्यानि न केवलं चन्द्रमाः कादम्बर्या सह, किं तु कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परमन्योन्यमवियोगेनाप्रलम्भेन सर्व एव सर्वकालं समग्रसमयं सुखानि सातान्यनुभवन्तोऽनुभवविषयी कुर्वन्त आनन्दस्य प्रमोदस्य परां कोटिं परमामवस्थामध्य- गच्छन्प्राप्तवन्तः ॥ इति श्रीपादशाहश्रीअकब्बरजलालदीनसूर्यसहस्रनामाध्यापक- श्रीशत्रुंजयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय श्रीभानुचन्द्रगणितच्छिष्याष्टोत्तरशतावधानसाधकप्रमुदितपादशाह श्रीअकब्बरप्रदत्तषुस्युहदमापराभिधानमहोपाध्यायश्रीसिद्धचन्द्रगणिविरचितायां कादम्बरीटीकायामुत्तरखण्डटीका समाप्ता ॥ [^१]G. रम्यवनेषु तेषु तेषु. [^२]G. सुखम् ; सर्वसुखानि . कादम्बरी स्वमहसाऽन्यविजित्वरीयं दुष्पाठपांसुनिकरैस्तिमिराऽऽवृताभूत् । चन्द्र [^१]द्वयेऽपि मिलिते न चकास्ति कामं कामं प्रपूरयति त'च्चषकं' बुधानाम् ॥ १ ॥ जयपुरवैभ [^२]व - साहित्य वैभवादीनि यस्कृतिस्तेन । सन्मञ्जुनाथनामश्रीमथुरानाथशास्त्रिणा व्यरचि ॥ २ ॥ तैलङ्गान्वयमञ्जुमण्डनमणि'श्री [^३]मण्डना'ऽऽस्थानभृत् भास्वद्वंशविभूषणा [^४]म्बरपतेर्वंशक्रमादाश्रितः । गाथा [^५]सप्तशती - मुखानि कृतवान् श्रीमञ्जुनाथाऽपरा- भिख्योऽसौ रसनन्दनन्दकुमिते वर्षे व्यलेखीदिदम् ॥ ३ ॥ इति श्रीजयपुरमहाराजाधिराजसंमानित- तैलङ्गभट्टान्ववायसंभूत-मञ्जुनाथोपनामक-कविशिरो-मणिदेवर्षिभट्टश्रीमथुरानाथशास्त्रि साहित्याचार्यनिर्मितं कादम्बरीचषकोत्तरार्द्धमपूर्यत । समाप्तोऽयं ग्रन्थः । [^१]G. प्रकृतटीकाकारद्वयम् । [^२]G. नवीनैरेव छन्दोभिर्निबद्धं भारतसुप्रसिद्धैर्विद्वद्भिः प्रशस्तमनेकचित्रमनोहरमपूर्वमिदं वैभवद्वयम् - 'मथुरानाथशास्त्री, रेज़िडेन्सीरोड, जयपुर' तः प्राप्यम्। [^३]G. टिप्पणीकर्तुः पूर्वजः, एतत्परिचयः साहित्यवैभवात्प्राप्यः । [^४]G. आम्बेर (जयपुर) राज्याधिपतेः । [^५]G. सटीका 'गाथासप्तशती' ('निर्णयसागर, मुम्बई' तः प्राप्या ) एतत्प्रमुखानि काव्यानि ।