<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<lg>
  <l>ई॒शा वा॒स्य॒मि॒दꣳ सर्वं॒ यत्किंच॒ जग॑त्यां॒ जग॑त् ।</l>
  <l>तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द्धन॑म् ॥ १ ॥</l>
</lg>
<pb n="2" />
<lg>
  <l>कु॒र्वन्ने॒वेह॒ कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑ ।</l>
  <l>ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥ २ ॥</l>
</lg>
<pb n="3" />
<lg>
  <l>अ॒सु॒र्या नाम॒ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।</l>
  <l>तांस्ते प्रेत्यापि॑गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥ ३ ॥</l>
</lg>
<pb n="4" />
<p>अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वा आ॑प्नुव॒न्पू-
र्व॒मर्स्श॑त् । तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो
मा॑त॒रिश्वा॑ दधाति ॥ ४ ॥</p>
<pb n="5" />
<p>तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒रे तद्व्॑न्ति॒के । तद॒न्तर॑स्य॒
सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ ५ ॥</p>
<pb n="6" />
<p>यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति । स॒र्व॒-
भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न विचि॑कित्सति ॥ ६ ॥</p>
<pb n="7" />
<p>यस्मि॒न्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः । तत्र॒
को मोहः॒ कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥ ७ ॥</p>
<pb n="8" />
<p>स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रꣳ शु॒द्धमपा॑-
पविद्धम् । क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या॑थातथ्य॒तो-
ऽर्था॒न्व्य॒दधाच्छाश्व॒तीभ्यः॒ स॒मा॑भ्यः ॥ ८ ॥</p>
<pb n="9" />
<p>अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते । ततो॒
भूय॑ इव॒ ते तमो॒ य उ॒ संभू॑त्याꣳ र॒ताः ॥ ९ ॥</p>
<pb n="10" />
<p>अ॒न्यदे॒वाहुः सं॑भ॒वाद॒न्यदा॑हु॒रसं॑भवात् । इति
शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्ष॒रे ॥ १० ॥</p>
<pb n="11" />
<lg>
  <l>संभू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह ।</l>
  <l>वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू॑त्या॒मृत॑मश्नुते ॥ ११ ॥</l>
</lg>
<pb n="12" />
<p>अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते । ततो॒
भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ꣳ र॒ताः ॥ १२ ॥</p>
<pb n="13" />
<p>अ॒न्यदे॒वाहुर्वि॒द्याया॑ अ॒न्यदा॑हु॒रवि॑द्यायाः । इति॑
शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्ष॒रे ॥ १३ ॥</p>
<pb n="14" />
<p>वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह । अवि॑-
द्यया मृत्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते ॥ १४ ॥</p>
<pb n="15" />
<lg>
  <l>वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ꣳ शरी॑रम् ।</l>
  <l>ओ३म् क्रतो॑ स्मर क्लि॒बे स्म॑र कृ॒तꣳ स्मर॑ ॥ १५ ॥</l>
</lg>
<pb n="16" />
<p>अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव
व॒युना॑नि वि॒द्वान् । यु॒योध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां
ते॒ नम॑उक्तिं विधेम ॥ १६ ॥</p>
<pb n="17" />
<p>हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । यो॒ऽसा-
वा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम् ॥ १७ ॥</p>
</body>
</text>
</TEI>