<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>120 Upanishads
A Compilation of Original Sanskrit Texts of
120 well known Upanishads
ईशादि विंशोत्तरशतोपनिषदः</p>
<pb n="2" />
<p>प
ईशादिविंशोत्तरशतोपनिषदः
[ A Compilation of well-known 120 Upanisads ]
उपनिषच्छान्ति पाठ-पाठान्तर-पिण्यादि
समलंकृताः
*
पञ्चमं संस्करण
श्रीमदिन्दिकान्तेवासित
नारायण राम आचार्य 'काव्यतीर्थ' इत्यनेन
समुपबृंह्य संस्कृतम्
शकाब्दाः १८७० : सनाब्दाः १९४८
निर्णयसागर - मुद्रणालय, मुंबई २
मूल्यम् १० रूप्यकाः</p>
<pb n="3" />
<p>[All rights reserved by the publisher]
Publisher:-Satyabhamabai Pandurang,
'Nirnaya-sagar' Press,
Printer:–Ramchandra Yesu Shedge, 26-28, Kolbhat Street, Bombay.</p>
<pb n="4" />
<p>भूमिका
अगाधेऽस्मिन्भवचक्रेऽतिकरालनिबिडान्धकारसंज्ञकेऽतिभयंकरे
परिवर्तमानानां
निज निजार्जितानुगुणमनुगतत्रिविधतापतप्ताना-
मैकान्तिकात्यन्तिकदुःखनिवृत्तिसाधनतया चतुर्विधपुरुषार्थान्यत-
मपुरुषार्थोपायमभिवाञ्छतां प्रेक्षावतां धीमतां पुरुषार्थान्वेषणा
तावदादौ भवतीति निर्विवादमेव । अत्र स्वर्गापवर्गमात्रे नैसर्गिक
मोहान्धकार विलुप्ता लोकस्य लोकस्य शास्त्रमेव प्रकाशस्तदेव च
दिव्यं चक्षुरस्मदादेरिति तदेवाधिगन्तव्यम् । तच्च कर्मब्रह्मोपासना-
दमकम् । तत्प्रतिपादका वेदाश्च सन्ति स्वतः प्रमाणभूताः । तंत्र वेद-
वाक्यानां 'उदिते जुहोति' 'अनुदिते जुहोति' इत्यादि प्रायः परस्पर-
विरुद्धार्थाभिधायकत्वेन व्यवस्थितवेदवाक्यार्थानवधारणात्तव्यव-
स्थायै वेदवाक्यार्थविचारात्मिकां पूर्वमीमांसां सुगृहीतनामधेयो
जैमिनिः सूत्रयांबभूव । तया च साक्षाद्विध्येकवाक्यतया सर्वेषां
वेदवचसां कर्मपरत्वं प्रत्यपीपदत् । तदेव च यथावदाराधितं
धर्मार्थकामरूप त्रिविधपुरुषार्थवितरणक्षम मिति निगमागमराद्धान्तः ।
आचार्यस्तु सर्वासां श्रुतिप्रमाणानां ब्रह्मणि समन्वयं कृत्वा
सर्वमिदमद्वितीयं ब्रह्म पारमार्थिकं भेददृष्टिश्वाविद्योपादाना तन्ना-
शश्चाद्वितीयात्मज्ञानेन ततश्चैकान्तिकात्यन्तदुःखनिवृत्तिश्चतुर्थपुरुषा-
र्थावाप्तिर्भवति । अयमेव पुरुषार्थो मोक्षाख्यश्चतुर्वन्तिमत्वेन
-गृहीतोऽप्यभ्यर्हितत्वाच्छ्रेष्ठ उपनिषज्ञानैकसाध्यश्च । निःश्रेयससा -
धनात्मैक्यप्रतिपत्तिहेतुतयैव ह्युपनिषदो रहस्य पदेनाभिलपन्ति
वेदान्तविज्ञानचणाः । उपनिषच्छब्द मुख्यवृत्त्या ब्रह्मविद्याम-</p>
<pb n="5" />
<p>भिदधाति । तथा हि उपनिपूर्वकस्य विशरणगत्यवसादनार्थस्य
षदुधातोः किप्प्रत्ययान्तस्येदं रूपमुपनिषदिति तत्र उप = उपगम्य
गुरूपदेशाल्लब्ध्वेति यावत् । उपस्थितत्वाद्ब्रह्मविद्यां नि निश्चयेन
तन्निष्ठतया परिशीलयन्ति ये दृष्टानुश्रविकविषय वितृष्णाः सन्त-
स्तेषामविद्यादेः संसारबीजस्य सद्= विशरणकर्त्री शिथिलयित्री,
अवसादयित्री विनाशयित्री, अथवा पूर्वोक्तविशेषणविशिष्टानां
मुमुक्षूणां ब्रह्मगमयित्रीति तत्तदवयवैरर्थसमर्पणात् । उपनिष-
च्छन्दवाच्यब्रह्मविद्याहेतुतया च तत्प्रतिपादकमन्थेऽप्युपनिषच्छन्दो
गौण्या वृत्त्या वर्तते । प्रसङ्गात्प्रपचितमीषदास्तां पल्लवितेन ।
अष्टोत्तरशतोपनिषदां महावाक्यरत्नावल्यां परिगणनं
यथा-
अथ खल्वृग्वेदादिविभागेन वेदाश्चत्वारः । तत्रैकविंशतिशाखा
ऋचः । नवाधिकशतशाखा यजुषः । सहस्रशाखाः सान्नः ।
पञ्चाशच्छाखा अथर्वणस्य । तत्रैकैकस्याः शाखाया एकैकोपनिषदि -
त्याहत्याऽशीतिसहितशताधिकसहस्र संख्याकाभिरुपनिषद्भिर्भाव्यम् ।
तासु श्रीरामचन्द्रेण रामदूताय सारतरा उपनिषदोऽष्टोत्तरशत-
संख्याका उपदिष्टाः । तथा च मुक्तिकोपनिपत्स्थाष्टोत्तरशतोप-
निषन्नामसंकलनश्लोका विलिख्यन्ते—</p>
<lg>
  <l>"ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः ।</l>
  <l>ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥ १ ॥</l>
</lg>
<lg>
  <l>कैवल्यजाबाल श्वेताश्वो हंस आरुणिः ।</l>
  <l>गर्भो नारायणो हंसो (ब्रह्म) बिन्दुनादशिरः शिखा ॥ २ ॥</l>
</lg>
<p>मैत्रायणी कौषीतकी बृहज्जाबालतापनी ।</p>
<pb n="6" />
<p>कालाभिरुद्रमैत्रेयी सुबालक्षुरिमत्रिका ॥ ३ ॥</p>
<lg>
  <l>सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।</l>
  <l>तेजोनादध्यान विद्यायोगतत्वात्मबोधकम् ॥ ४ ॥</l>
</lg>
<lg>
  <l>परिवाद त्रिशिखी सीता चूडा निर्वाणमण्डलम् ।</l>
  <l>दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥ ५ ॥</l>
</lg>
<lg>
  <l>रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।</l>
  <l>शाण्डिल्यं पैङ्गलं भिक्षं महच्छारीरकं शिखा ॥ ६ ॥</l>
</lg>
<lg>
  <l>तुर्यातीतं च संन्यासं परिव्राजाक्षमालिका ।</l>
  <l>अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ ७ ॥</l>
</lg>
<lg>
  <l>सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् ।</l>
  <l>त्रिपुरातपनं देवी त्रिपुरा कठभावना ॥ ८ ॥</l>
</lg>
<lg>
  <l>हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् ।</l>
  <l>तारसारमहावाक्यपञ्चाग्निहोत्रकम् ॥ ९॥</l>
</lg>
<p>गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ।
कलिजाबालि सौभाग्यरहस्यऋचमुक्तिका ॥ १० ॥" इति ।
तदेवं मुमुक्षूणां वेदान्तशास्त्रप्रवणानां निश्रेणिस्थानीयोऽयं प्रबन्ध
इति निःशङ्कं निर्विवादं चेति सुवचम् । नहि स्वाज्ञानकल्पिताहंममेत्या-
दिभेद कलुषीकृत भूमभावस्य निरस्त समस्तौपाधिकस्योपनिषन्निकरो-
स्थैकत्वविज्ञाने नोन्मथितः कृताकृतादिद्वैतप्रपञ्चो भूयः प्रत्यवतिष्ठते ।
'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इत्याद्य सकृत्तत्रतत्रो-</p>
<pb n="7" />
<p>दुष्टत्वात् । सर्वथापि दुःखजालावरुद्धानादिमायासुप्तजीवानुद्बोध-
यितुमुपनिषद् एव प्रभवन्ति सुगृहीतनामधेयेन भगवता बादरा-
यणेन "सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । पार्थो वत्सः
सुधीर्भोक्ता दुग्धं गीतामृतं महत्' इति रूपक विन्यासेन भगव -
गीता श्रेष्ठ्य मुपोद्यतःपनिषदमेव गोत्वेन गरीयस्त्वं प्रत्यपाद
श्रीमद्भगवद्गीतोपक्रमे । 'ज्ञानादेव तु कैवल्य' 'ते ज्ञानान्न
मोक्षः' इत्याद्याभाणकोऽपि ज्ञानजनकत्वेनोपनिषदामेव मूर्धन्यत्वं
निर्वक्ति । पूर्वनिर्दिष्टोपनिषद्भिः समेतोऽयं विंशोत्तरशतोपनिषत्स-
मुच्चयो मुमुक्षूणां विज्ञानलाभाय भूयादिति सप्रश्रयं समभिलष्यते ।
:</p>
<pb n="8" />
<p>उप०
१ ईशावास्योपनिषत्</p>
<note>२. केनोपनिषत्</note>
<p>ईशाद्युपनिषदामनुक्रमणिका ।
उप०
१ २६ कौषीतकिब्राह्मणोपनिषत् १९४
●● २०७
२७ बृहज्जाबालोपनिषत्
३ कठोपनिषत्</p>
<p>२८ नृसिंहपूर्वतापनीयोपनिषत् २१८
४ प्रश्नोपनिषत्
- ५ मुण्डकोपनिषत्</p>
<p>२९ नृसिंहोत्तरतापनीयोपनिषत् २२७
६ माण्डूक्योपनिषत्
७ तैत्तिरीयोपनिषत्
८ ऐतरेयोपनिषत्
९ छान्दोग्योपनिषत्
१० बृहदारण्यकोपनिषत्
१५ । ३० कालाग्निरुद्रोपनिषत्
२० । ३१ मैत्रेय्युपनिषत्
२१ ३२ सुबालोपनिषत्
३१ ३३ क्षुरिकोपनिषत्
३४ । ३४ मन्त्रिकोपनिषत्
૮૪
३५ सर्वसारोपनिषत्</p>
<p>•</p>
<p>***</p>
<p>... २५३
११ श्वेताश्वतरोपनिषत्
१२ ब्रह्मबिन्दुपनिषत्
●●
१३ कैवल्योपनिषत्
१७ गर्भोपनिषत्
१४ जाबालोपनिषत्
१५ हंसोपनिषत्
१६ कृषिका निषत्
१८ नारायणाथर्वशिर उपनिषत् १५१
00
...
●°</p>
<p>१४२ । ३८ वज्रसूचिकोपनिषत्
१४४ । ३९ तेजोबिन्दूपनिषत्
१४६ । ४० नादबिन्दूपनिषत्
१३४ ३६ निरालम्बोपनिषत्
३७ शुकरहस्योपनिषत्
...
-२५४</p>
<p>...</p>
<p>...</p>
<p>...</p>
<p>**</p>
<p>४१ ध्यानबिन्दूपनिषत्
•••</p>
<p>४२ ब्रह्मविद्योपनिषत्</p>
<p>४३ योगतत्त्वोपनिषत्</p>
<p>१९ महानारायणोपनिषत्
१५२ । ४४ आत्मप्रबोधोपनिषत्</p>
<p>२० परमहंसोपनिषत्
१६५ । ४५ नारदपरिव्राजकोपनिषत्</p>
<p>२१ ब्रह्मोपनिषत्
...
१६७ । ४६ त्रिशिखिब्राह्मणोपनिषत्</p>
<p>२२ अमृतनादोपनिषत्</p>
<p>४७ सीतोपनिषत्</p>
<p>२३ अथर्वशिरउपनिषत्
२४ अथर्वशिखोपनिषत्
२५ मैत्रायण्युपनिषत्
१७५ । ४९ निर्वाणोपनिषत्
१७६ । ५० मण्डलब्राह्मणोपनिषत्</p>
<p>४८ योगचूडामण्युपनिषत् ... ३३९</p>
<pb n="9" />
<p>उप०
पृष्ठ
उप०
५१ दक्षिणामूर्त्यपनिषत्</p>
<p>७७ कुण्डकोपनिषत्</p>
<p>५२ शरभोपनिषत्</p>
<p>-७८ सावित्र्युपनिषत्</p>
<p>५३ स्कन्दोपनिषत्</p>
<p>७९ आत्मोपनिषत्</p>
<p>५९ वासुदेवोपनिषत्
५४ त्रिपाद्विभूतिमहानारायणो-
पनिषत्
...
३५८ ८१ परब्रह्मोपनिषत्
-३८४८२ अवधूतोपनिषत्
५५ अद्वयतारकोपनिषत् .. ३८४
५६ रामरहस्योपनिषत्</p>
<p>५७ श्रीरामपूर्वतापिन्युपनिषत् ३९५
५८ श्रीरामोत्तरतापिन्युपनिषत् ४०१
*** ४०५
८३ त्रिपुरातापिन्युपनिषत्
८४ देव्युपनिषत्
८५ त्रिपुरोपनिषत्
006</p>
<p>पाशुपतब्रह्मोपनिषत्</p>
<p>... ५४४
८६ कठरुद्रोपनिषत्</p>
<p>६० मुद्गलोपनिषत्</p>
<p>८७ भावनोपनिषत्</p>
<p>६१ शाण्डिल्योपनिषत्</p>
<p>८८ रुद्रहृदयोपनिषत्
६२ पैङ्गलोपनिषत्
...</p>
<p>...</p>
<p>६३ भिक्षुकोपनिषत्
८९ योगकुण्डल्युपनिषत् ....</p>
<p>...</p>
<p>६४ महोपनिषत्
९० भस्मजाबालोपनिषत्</p>
<p>...</p>
<p>६५ शारीरकोपनिषत्
९१ रुद्राक्षजाबालोपनिषत्</p>
<p>...</p>
<p>६६ योगशिखोपनिषत्
९२ गणपत्युपनिषत्
...</p>
<p>६७ तुरीयातीतोपनिषत्
९३ श्रीजाबालदर्शनोपनिषत्</p>
<p>...</p>
<p>६८ संन्यासोपनिषत्
९४ तारसारोपनिषत्
...</p>
<p>000</p>
<p>६९ परमहंसपरिव्राजकोपनिषत् ४८२
९५ महावाक्योपनिषत्</p>
<p>७० अक्षमालिकोपनिषत्</p>
<p>९६ पञ्चब्रह्मोपनिषत्
co.</p>
<p>७१ अव्यक्तोपनिषत्</p>
<p>७२ एकाक्षरोपनिषत्</p>
<p>७३ अन्नपूर्णोपनिषत्</p>
<p>७४ सूर्योपनिषत्</p>
<p>९७ प्राणाग्निहोत्रोपनिषत्
९८ गोपालपूर्वतापिन्युपनिषत् ५९१
९९ गोपालोत्तरतापिन्युपनिषत् ५९४
१०० कृष्णोपनिषत्
300</p>
<p>• ५९९
७५ अक्ष्युपनिषत्</p>
<p>१०१ याज्ञवल्क्योपनिषत् ..</p>
<p>७६ अध्यात्मोपनिषत्</p>
<p>१०२ वराहोपनिषत्
290</p>
<pb n="10" />
<p>उप०
१०३ शाट्यायनीयोपनिषत्
उप०
पृष्ठं</p>
<p>११२ गोपीचन्दनोपनिषत्</p>
<p>१०४ हयग्रीवोपनिषत्
६१९ । ११३ सरखतीरहस्योपनिषत्
૬૪૪
१०५ दत्तात्रेयोपनिषत्
...</p>
<p>११४ पिण्डोपनिषत्
૬૪૮
१०६ गारुडोपनिषत्</p>
<p>११५ महोपनिषत्</p>
<p>१०७ कलिसंतरणोपनिषत्</p>
<p>१०८ जाबाल्युपनिषत्
१०९ गणेशपूर्वतापिन्युपनिषत् ६२९
११० गणेशोत्तरतापिन्युपनिषत् ६३३
१११ संन्यासोपनिषत्</p>
<p>११७ आश्रमोपनिषत्
११८ सौभाग्यलक्ष्म्युपनिषत्
११९ योगशिखोपनिषत्
१२० मुक्तिकोपनिषत्
६२७ ११६ बहुचोपनिषत्
***</p>
<p>Bea</p>
<p>समातेयमनुक्रमणिका ॥</p>
<pb n="11" />
<p>इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चकित्वांसौ
अचेतसं नयन्ति ॥ प्राजे चिन्न॒द्य गाधम॑स्ति
पारं नौ
अ॒स्य वि॑ष्पि॒तस्य॑ प॒र्षन् ॥
-
- ऋ. ४/५/२/७
इमे मित्रादयो दिवो लोकस्य पृथिव्याश्च संबन्धिनोऽ-
निमिषा अनिमिषेण सर्वदा चिकित्वांसो जानन्तः कमचेत-
समज्ञानं नयन्ति प्रापयन्ति कर्माणि प्रवाजे चित्प्रवणेऽप्य-
त्यन्तनिनेऽपि देशे नद्यो नद्या गाधमस्ति भवति युष्मत्सा-
मयते महान्तो विष्पितस्य व्यापितस्य कर्मणः पारं
पर्षन् पारयन्तु नयन्तु ॥
•सायनभाष्यम्</p>
<pb n="12" />
<p>उपनिषदारम्भीयाः शान्तयः ।
फ्र
॥ श्रीगणेशाय नमः ॥
मुक्तिकोपनिषत्स्थदशोपनिषत्क्रमः ।</p>
<lg>
  <l>ईशकेन कठप्रश्नमुण्डमाण्डूक्यतित्तिरिः ।</l>
  <l>ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश ॥ १॥</l>
</lg>
<p>महावाक्यर लावल्यामुपनिषच्छान्तिपाठक्रमः ।</p>
<lg>
  <l>वाक्पूर्णसहनाप्यायन्भकर्णेभिरेव च ।</l>
  <l>पञ्च शान्तीः पठित्वादौ पठेद्वाक्यान्यनन्तरम् ॥ २ ॥</l>
</lg>
<p>अस्य द्वितीयश्लोकस्य मुक्तिकोपनिषदनुसारतः स्पष्टीकरणम्-</p>
<lg>
  <l>ऋग्यजुःसामाथर्वाख्यवेदेषु द्विविधो मतः ।</l>
  <l>यजुर्वेदः शुक्लकृष्णविभेदेनात एव च ॥ ३ ॥</l>
</lg>
<lg>
  <l>शान्तयः पञ्चधा प्रोक्ता वेदानुक्रमणेन वै ।</l>
</lg>
<lg>
  <l>वाङो मनसि शान्त्यैव त्वैतरेयं प्रपठ्यते ॥ ४ ॥</l>
  <l>ईशं पूर्णमदेनैव बृहदारण्यकं तथा ।</l>
  <l>.</l>
</lg>
<lg>
  <l>सह नाविति शान्त्या च तैत्तिरीयं कठं च वै ॥ ५ ॥</l>
  <l>आप्यायन्त्विति शान्त्यैव केनच्छान्दोग्यसंज्ञके ।</l>
  <l>भद्रं कर्णेति मन्त्रेण प्रश्नमाण्डूक्यमुण्डकम् ॥ ६ ॥</l>
  <l>इति क्रमेण प्रत्युपनिषद आदावन्ते च शान्ति पठेत् ॥</l>
</lg>
<pb n="13" />
<p>शांकरमठसंप्रदायीयाः शान्तयः ।
ॐ तत्सत्परमात्मने नमः ॥ ॐ शं नो मित्रः शं वरुणः ॥ शं नो भव -
त्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥
नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥ त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥
ऋतं वदिष्यामि ॥ सत्यं वदिष्यामि ॥ तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु
माम् ॥ अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नाव-
धीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ २ ॥
ॐ यश्छन्दसामृषभो विश्वरूपः ॥ छन्दोभ्योऽध्यमृतात्संबभूव ॥ स
मेन्द्रो मेधया स्पृणोतु ॥ अमृतस्य देवधारणो भूयासम् ॥ शरीरं मे विचर्ष-
णम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ॥ ब्रह्मणः कोशोऽसि
मेघया पिहितः श्रुतं मे गोपाय ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ३ ॥
ॐ अहं वृक्षस्य रेरिव ॥ कीर्तिः पृष्टं गिरेरिव ॥ ऊर्ध्वपवित्रो वाजिनीव-
`स्वमृतमस्मि ॥ द्रविणं सवर्चसम् ॥ सुमेधा अमृतोक्षितः ॥ इति त्रिशङ्कोर्वे- .
दानुवचनम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ४ ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवाव
शिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ५ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरा-
करणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ६ ॥
ॐ वाक्ये मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्टितमाविरावीर्म एधि
वेदस्य म आणीस्थः श्रुतं मे माप्रहासीरनेनाधीतेनाहोरात्रात्संदधाम्यूतं वदि-
ष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ७ ॥</p>
<pb n="14" />
<lg>
  <l>शांकरमठसंप्रदायशान्तयः ।</l>
  <l>ॐ भद्रं नो अपिवातय मनः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ८ ॥</l>
</lg>
<p>ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैः
..स्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति
नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पति-
दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ९ ॥
ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ॥ तं ह
देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ १० ॥
॥ इति दश शान्तयः समाप्ताः ॥
ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशऋषिभ्यो महद्भ्यो
नमो गुरुभ्यः । सर्वोपप्लवरहितः प्रज्ञानघनः प्रत्यगर्थो ब्रह्मैवाहमस्मि ॥ १ ॥ .
ॐ नारायणं पद्मभवं वसिष्ठ शक्तिं च तत्पुत्रपराशरं च । व्यासं शुक्रं गौड़-
पदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ २ ॥ श्रीशंकराचार्यमथास्य
पद्मपादं च हस्तामलकं च शिष्यम् ॥ तं त्रोटकं वार्तिककारमन्यानस्मगुरून्संतत-
मानतोऽस्मि ॥ ३ ॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् ॥ नमामि
भगवत्पादं शंकरं लोकशंकरम् ॥ ४ ॥ शंकरं शंकराचार्य केशवं बादराय --
णम् ॥ सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ ५ ॥ ईश्वरो गुरुरात्मेति
मूर्तिभेदविभागिने ॥ व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ६ ॥
अथानध्यायमङ्गलपाठः ॥
अशुभानि निराचष्टे तनोति शुभसंततिम् । स्मृतिमात्रेण यत्पुंसां ब्रह्म
तन्मङ्गलं परम् ॥ १ ॥ अतिकल्याणरूपत्वान्नित्यकल्याणसंश्रयात् । स्मर्तॄणां
वरदत्वाश्च ब्रह्म तन्मङ्गलं विदुः ॥ २ ॥ ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मण:-
पुरा ॥ कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ ३ ॥
॥ हरिः ॐ तत्सब्रह्मार्पणमस्तु ॥</p>
<pb n="15" />
<p>श्रीचक्रमिदं त्रिपुरातापिन्युपनिषदि ५३६ पत्रे द्रष्टव्यम् ।
तान्होवाच भगवाञ्श्रीचक्रं व्याख्यास्याम इति । त्रिकोणं त्र्यसं
कृत्वा तदन्तर्मध्यवृत्तमानयष्टिरेखामाकृष्य विशालं नीत्वाऽग्रतो योनिं
कृत्वा पूर्वयोन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वोर्ध्वा नीत्वा योनिं
कृत्वाद्यं त्रिकोणं चक्रं भवति । द्वितीयमन्तरालं भवति । तृतीयमष्ट-
योन्यङ्कितं भवति । अथाष्टारचक्राद्यन्तविदिक्कोणाग्रतो रेखां नीत्वा
साध्याद्याकर्षणबद्धरेखां नीत्वेत्येवमथोर्ध्व संपुटयोन्यङ्कितं कृत्वा कक्षाभ्य
ऊर्ध्वगरेखाचतुष्टयं कृत्वा यथाक्रमेण मानयष्टिद्वयेन दशयोन्यङ्कितं
चक्रं भवति । अनेनैव प्रकारेण पुनर्दशारचकं भवति । मध्य-
त्रिकोणाग्रचतुष्टयाद्रेखाच राग्रकोणेषु संयोज्य तद्दशारांशतो नीतां
मानयष्टिरेखां योजयित्वा चतुर्दशारं चक्रं भवति । ततोऽष्टपत्रसंवृतं
चक्रं भवति । षोडशपत्रसंवृतं चक्रं चतुर्द्वारं भवति । ततः पार्थिवं
चक्रं चतुर्द्वारं भवति । एवं सृष्टियोगेन चक्रं व्याख्यातम् ॥</p>
<pb n="16" />
<p>ईशादिविंशोत्तरशतोपनिषदः</p>
<p>॥ ॐ तत्सत् ॥</p>
<p>ईशावास्योपनिषत् ॥ १ ॥</p>
<lg>
  <l>ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥</l>
  <l>पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥</l>
</lg>
<lg>
  <l>ॐ शान्तिः शान्तिः शान्तिः ॥</l>
</lg>
<lg>
  <l>ॐ ईशा वास्यमिदꣳ सर्वं यत्किंच जगत्यां जगत् ॥ तेन त्यक्तेन भुञ्जीथा मा</l>
  <l>गृधः कस्य स्विद्धनम् ॥ १ ॥ <break /> कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः॥</l>
  <l>एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ २ ॥ <break /> असूर्या नाम ते लोका</l>
  <l>अन्धेन तमसावृताः॥ ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥<break /></l>
  <l>अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वम<ref>१</ref>र्षत् ॥ तद्धावतोऽन्यानत्येति</l>
  <l>तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥<break /> तदेजति तन्नैजति तद्दूरे तद्वन्तिके ॥</l>
  <l>तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥<break /> यस्तु सर्वाणि भूतान्यात्मन्ये-</l>
  <l>वानुपश्यति ॥ सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥<break /> यस्मिन्सर्वाणि</l>
  <l>भूतान्यात्मैवाभूद्विजानतः ॥ तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥<break /></l>
  <l>स पर्यगाच्छुक्रमकायमत्रणमस्त्राविरꣳशुद्धमपापविद्धम् ॥ कविर्मनीषी परिभूः</l>
  <l>स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥<break /> अन्धन्तमः प्रवि-</l>
  <l>शन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥९॥<break /></l>
  <l>अ<ref>३</ref>न्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे</l>
  <l>॥ १०॥<break /> विद्यां चाविद्यां च यस्तद्वेदोभयꣳ स ह ॥ अविद्यया मृत्युं तीर्त्वा विंद्य-</l>
  <l>यामृतमश्नुते  ॥ ११ ॥<break /> अन्धन्तमः प्रविशन्ति येऽसंभूतिमुपासते ॥ ततो भूय</l>
  <l>इव ते तमो य उ संभूत्याꣳ रताः ॥ १२ ॥<break /> अन्यदेवाहुः संभवादन्यदाहुरसंभ-</l>
  <l>वात् ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥<break /> संभूतिं च विनाशं च</l>
  <l>यस्तद्वेदोभयꣳ सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्रुते ॥ १४ ॥<break /></l>
  <l>हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ॥ तत्त्वं पूषन्नपावृणु सत्यधर्माय</l>
  <l>दृष्टये ॥ १५ ॥<break /> पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्ते</l>
  <l>रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥</l>
</lg>
<note>१ मर्शत्</note>
<note>२ विचिकित्सति</note>
<note>३ अन्यदेवाहुर्विद्याया अन्यदाहुरविद्यायाः .</note>
<pb n="17" />
<p>ईशाधुपनिषद-
[ खण्डः २
वायुरनिलममृतमथेदं भस्मान्तर शरीरम् ॥ ॐ क्रमो स्मर कृतः स्मर ऋतो
स्मर कृत ँ स्मर ॥ १७ ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयु-
नानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ -
ॐ शान्तिः शान्तिः शान्तिः ॥
इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा ॥ १ ॥
'केनोपनिषत् ॥ २ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि
च । सर्वाणि सर्व ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्या मा मा ब्रह्म निराकरोद-
निराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्तः ॥ केनेषितां
वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥ श्रोत्रस्य श्रोत्रं
मनसो मनो यद्वाचो ह वाच स उ प्राणस्य प्राणः ॥ चक्षुषश्चक्षुरतिमुच्य
धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ न तत्र चक्षुर्गच्छति न वाग्गा-
च्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदिता-
दथो अविदितादधि ॥ इति शुश्रुम पूर्वेषां ये नस्तव्याचचक्षिरे ॥ ३ ॥
यद्वाचानभ्युदितं येन वागभ्युद्यते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपा-
सते ॥ ४ ॥ यन्मनसा न मनुते येनाहुर्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि
नेदं यदिदमुपासते ॥ ५ ॥ यच्चक्षुषा न पश्यति येन चक्षू ँषि पश्यति ॥
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यच्छ्रोत्रेण न शृणोति येन
श्रोत्रमिद ँ श्रुतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥ यत्प्राणेन
न प्राणिति येन प्राणः प्रणीयते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
इति केनोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ॥ यदस्य त्वं
यदस्य च देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ ९ ॥ १ ॥ नाहं
मन्ये सुवेदेति नो न वेदेति वेद च ॥ यो नस्तद्वेद तद्वेद नो न वेदेति वेद
च ॥ १० ॥ २ ॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः ॥ अविज्ञातं
१ सामवेदीयतलवकारोपनिषदित्यस्या अपरमभिधेयमिति केचित् ।</p>
<pb n="18" />
<p>खण्डः ३ ]
केनोपनिषत् ॥ २ ॥
विजानतां विज्ञातमविजानताम् ॥ ११ ॥ ३ ॥ प्रतिबोधविदितं मंतममृतत्वं हि
विन्दते ॥ आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् ॥ १२ ॥ ४ ॥ इह
चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ॥ भूतेषु भूतेषु विचित्य
वीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ १३ ॥ ५ ॥
इति द्वितीयः खण्डः ॥ २ ॥
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ त
ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १४ ॥
१ ॥ तद्वैषां
विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ १५ ॥ २ ॥
मिवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ १६ ॥ ३ ॥
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति
॥ १७ ॥ ४ ॥ तस्मिंस्त्वयि किं वीर्यमित्यपीद५ सर्वं दहेयं यदिदं पृथिव्या-
मिति ॥ १८ ॥ ५ ॥ तस्मै तृणं निदधावेत हेति तदुपप्रेयाय सर्वजवेन तन्न
शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १९ ॥
॥ ६ ॥ अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति
॥ २० ॥ ७ ॥ तद्भ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मा-
तरिश्वा वा अहमस्मीति ॥ २१ ॥ ८ ॥ तस्मिंस्त्वयि किं वीर्य मित्यपीद‍
सर्वमाददीय यदिदं पृथिव्यामिति ॥ २२ ॥ ९ ॥ तस्मै तृणं निदधावेतदाद-
स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एवं निववृते नैतदु-
शकं विज्ञातुं यदेतद्यक्षमिति ॥ २३ ॥ १० ॥ अथेन्द्रमब्रुवन्मघवन्ने तद्वि-
जानीहि किमेतद्यक्षमिति ॥ तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ २४ ॥ ११ ॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमार हैमवतीं ता होवाच
किमेतद्यक्षमिति ॥ २५ ॥ १२ ॥
इति तृतीयः खण्डः ॥ ३ ॥
.
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदां-
चकार ब्रह्मेति ॥ २६ ॥ १ ॥ तस्माद्वा एते देवा अतितरामिवान्यान्देवान्य-
दग्निर्वायुरिन्द्रस्तेन नन्नेदिष्ठं पस्पृशुस्ते ह्येनस्प्रथमो विदांचकार ब्रह्मेति
॥ २७ ॥ २ ॥ तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स
प्रथमो विदांचकार ब्रह्मेति ॥ २८ ॥ ३ ॥ तस्यैष आदेशो यदेतद्विद्युतो
व्यद्युतदा ३ इतीभ्यमीमिषदा ३ इत्यधिदैवतम् ॥ २९ ॥ ४ ॥ अथाध्यात्म
यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं संकल्पः ॥ ३० ॥ ५ ॥
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाऽभि हैनं सर्वाणि
भूतानि वान्छन्ति ॥ ३१ ॥ ६ ॥ उपनिषदं भो ब्रूहीत्युक्ता य उपनिषद्राह्मीं</p>
<pb n="19" />
<note>४.</note>
<p>ईशापनिषत्सु -
[ अध्या०
वाव त उपनिषदमधूमेति ॥ ३२ ॥ ७ ॥ तस्यै तपो दमः कर्मेति प्रतिष्ठा
वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ३३ ॥ ८ ॥ यो वा एतामेवं वेदापहत्य
पाप्मानम (न) न्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ३४ ॥ ९ ॥
इति चतुर्थः खण्डः ॥ ४ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च
सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोद निरा-
करणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति सामवेदीया केनोपनिषत्समाप्ता ॥ २ ॥
॥ ॐ तत्सत् ॥
कठोपनिषत् ॥ ३ ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजखिना-
वधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ ॥ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ॥ तस्य ह नचिकेता नाम
पुत्र आस ॥ १ ॥ तथूह कुमार सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश
सोऽमन्यत ॥ २ ॥ पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ॥ अनन्दा
नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥ स होवाच पितरं तत कस्मै
मां दास्यसीति ॥ द्वितीयं तृतीयं त होवाच मृत्यवे स्वा ददामीति ॥ ४ ॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः ॥ किस्विद्यमस्य कर्तव्यं यन्मयाद्य
के रिष्यति ॥ ५ ॥ अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ॥ सस्यमिव मर्त्यः
पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥ वैश्वानरः प्रविशत्यति थिर्ब्राह्मणो गृहान् ॥
तस्यैता शान्ति कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥ आशाप्रतीक्षे सङ्गत
सूनृतां चेष्टापूर्ते पुत्रपशूश्च सर्वान् ॥ एतदृङ्के पुरुषस्याल्पमेधसो यस्यान-
अन्वसति ब्राह्मणो गृहे ॥ ८ ॥ तिस्रो रात्रीर्यदवात्सीगृहे मेऽनश्नन्ब्रह्मन्नति-
थिर्नमस्यः ॥ नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व
॥ ९ ॥ शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युगौतमो माभि मृत्यो ॥ त्व-
व्यसृष्टं माभिवदेत्प्रतीत एतत्रयाणां प्रथमं वरं वृणे ॥१०॥ यथा पुरस्ताद्भविता
प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ॥ सुखरात्रीः शयिता वीतमन्युस्त्वां दह-
शिवान्मृत्युमुखात्प्रमुक्तम् ॥ ११ ॥ स्वर्गे लोके न भयं किंचनास्ति न तत्र
१ करिष्यतीति.
•</p>
<pb n="20" />
<p>वल्ली १]
कठोपनिषत् ॥ ३ ॥
न जरया बिभेति ॥ उभे तीर्त्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके
॥ १२ ॥ स त्वमग्नि स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम् ॥
स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ॥ १३ ॥ प्र ते ब्रवीमि
तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ॥ अनन्तलोकाप्तिमथो प्रतिष्ठां
विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥ लोकादिमानं तमुवाच तस्मै या इष्टका
यावतीर्वा यथा वा ॥ स चापि तव्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह
तुष्टः ॥ १५ ॥ तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ॥
तवैव नाम्ना भवितायमभिः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥ त्रिणा-
चिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू ॥ ब्रह्मजज्ञं देवमीड्यं
विदित्वा निचाय्येमा शान्तिमत्यन्तमेति ॥ १७ ॥ त्रिणाचिकेतस्त्रयमेतद्विदित्वा
य एवं विद्वाश्चिनुते नाचिकेतम् ॥ स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो
मोदते स्वर्गलोके ॥ १८ ॥ एष तेऽग्निर्नचिकेतः स्वग्यों यमवृणीथा द्वितीयेन
वरेण ॥ एतमग्निं तचैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥
विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके ॥ एतद्विद्यामनु-
शिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ २० ॥ देवैरत्रापि विचिकित्सितं पुरा न
हि सुविज्ञेयमणुरेष धर्मः ॥ अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सी रति
मा सृजैनम् ॥ २१ ॥ देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुवि-
ज्ञेयमात् ॥ वक्ता चास्य त्वागन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य
कश्चित् ॥ २२ ॥ शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् ॥
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३ ॥ एतत्तुल्यं
यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ॥ महाभूमौ नचिकेतस्त्वमेधि
कामानां त्वा कामभाजं करोमि ॥ २४ ॥ ये ये कामा दुर्लभा मर्त्यलोके
सर्वान्कामा छन्दतः प्रार्थयस्व ॥ इमा रामाः सरथाः सतूर्या न हीदृशा
लम्भनीया मनुष्यैः ॥ आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं
मानुप्राक्षीः ॥ २५ ॥ श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति
तेजः ॥ अपि सर्व जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥ न
वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा ॥ जीविष्यामो
यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥ अजीर्यताममृताना-
मुपेत्य जीर्यन्मर्त्यः कँधःस्थः प्रजानन् ॥ अभिध्यायन्वर्णरति प्रमोदानतिदीर्घे
जीविते को रमेत ॥ २८ ॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सां पराये
२ नृत्तगीते . ३ क तदास्थः .
१ सुज्ञेय .</p>
<pb n="21" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
महति ब्रूहि नस्तत् ॥ योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता
वृणीते ॥ २९ ॥
इति प्रथमेऽध्याये प्रथमा वल्ली ॥ १ ॥
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुष सिनीतः ॥ तयोः श्रेय
आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥ श्रेयश्व प्रेयश्च
. मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः ॥ श्रेयो हि धीरोऽभि प्रेयसो वृणीते
. प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २ ॥ स त्वं प्रियान्प्रियरूपाश्च कामानभि-
- ध्यायन्नचिकेतोऽत्यस्राक्षीः ॥ नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो
मनुष्याः ॥ ३ ॥ दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ॥
विद्याभीप्सिनं नचिकेतसं मन्ये न वा कामा बहवोऽलोलुपन्त ॥ ४ ॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ॥ दन्द्रम्यमाणाः
परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥ न सांपरायः प्रतिभांति
बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ॥ अयं लोको नास्ति पर इत्ति मानी पुनः
पुनर्वशमापद्यते मे ॥ ६ ॥ श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि
बहवो यं न विद्युः ॥ आश्चय वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशला-
नुशिष्टः ॥ ७ ॥ न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ॥
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥ नैषा तर्केण
तिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥ यां स्वमापः सत्यष्टतिबंतासि
वहङ्गो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥ जानाम्यह शेवधिरित्यनित्यं न ह्यध्रुवैः
प्राप्यते हि ध्रुवं तत् ॥ ततो मया नचिकेतश्चितोऽग्निरनित्यैर्द्वव्यैः प्राप्तवानस्मि
नित्यम् ॥ १० ॥ कामस्यातिं जगतः प्रतिष्ठां ऋतोरानन्त्यमभयस्य पारम् ॥
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥ तं
दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ॥ अध्यात्मयोगाधिगमेन
देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥ एतच्छ्रुत्वा संपरिगृह्य मर्त्यः
प्रवृ धर्म्यमणुमेतमाप्य ॥ स मोदते मोदनीय हि लब्ध्वा विवृतः सद्म
नचिकेतसं मन्ये ॥ १३ ॥ अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ॥
अन्यन्त्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥ सर्वे वेदा यत्पदमा -
मनन्ति तपास सर्वाणि च यद्वदन्ति ॥ यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पद‍
संग्रहेण ब्रवीम्यो मित्येतत् ॥ १५ ॥ एतच्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ॥
एतयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ एतदालम्बन‍ श्रेष्ठमे -
१ लोलुपन्तः, २ अन्वेनेव. ३ स्तोमं महदुरुयायं,</p>
<pb n="22" />
<p>वल्ली ३]
कठोपनिषत् ॥ ३ ॥
तदालम्बनं परम् ॥ एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ न
जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ॥ अजो नित्यः
शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥ हन्ता चेन्मन्यते
हन्तुं हतंश्चेन्मन्यते हतम् ॥ उभौ तौ न विजानीतो नायं हन्ति न हन्यते
॥१९॥ अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ॥ तम-
ऋतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥२०॥ आसीनो दूरं
व्रजति शयानो याति सर्वतः ॥ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥२१॥
अशरीर शरीरेष्वनवस्थेष्ववस्थितम् ॥ महान्तं विभुमात्मानं मत्वा धीरो न
शोचति ॥ २२ ॥ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ॥
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वाम् ॥ २३ ॥ नाविरतो
दुश्चरितान्नाशान्तो नासमाहितः ॥ नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्
॥ २४ ॥ यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ॥ मृत्युर्यस्योपसेचनं क
इत्था वेद यत्र सः ॥ २५ ॥
इति प्रथमेऽध्याये द्वितीया वल्ली ॥ २ ॥
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौं परमे परार्धे ॥ छायातपौ
ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥ यः सेतुरीजानाना-
मक्षरं ब्रह्म यत्परम् ॥ अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ २ ॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥ बुद्धिं तु सारथिं विद्धि मनः प्रग्रह-
मेव च ॥ ३ ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ॥ आत्मेन्द्रियमनो-
युक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥ यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ॥
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥ यस्तु विज्ञानवान्भवति युक्तेन
मनसा सदा ॥ तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ यस्त्वविज्ञान-
वान्भवत्यमनस्कः सदाऽशुचिः ॥ न स तत्पदमा मोति ससारं चाधिगच्छति
॥ ७ ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ॥ स तु तत्पदमा-
मोति यस्माद्भूयो न जायते ॥ ८ ॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ॥
सोsध्वनः पारमामोति तद्विष्णोः परमं पदम् ॥ ९ ॥ इन्द्रियेभ्यः परा ह्यर्था
अर्थेभ्यश्च परं मनः ॥ मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥ महतः
परमव्यक्तमव्यक्तात्पुरुषः परः ॥ पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः
॥ ११ ॥ एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ॥ दृश्यते त्वम्यया बुद्ध्या
सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥ यच्छेद्वाानसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ॥
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३ ॥ उत्तिष्ठत</p>
<pb n="23" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
जाग्रत प्राप्य वरान्निबोधत ॥ क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कचयो
वदन्ति ॥ १४ ॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ॥
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते ॥ १५ ॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तः सनातनम् ॥ उक्त्वा श्रुत्वा च मेधावी ब्रह्म-
लोके महीयते ॥ १६ ॥ य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि ॥ प्रयतः
श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ॥ १७ ॥
इति प्रथमाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥
द्वीरः
इति प्रथमोऽध्यायः समाप्तः ॥ १ ॥
पराचि खानि व्यतृणत्स्वयं भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् ॥ कश्चि-
प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥ पराचः कामाननु-
यन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ॥ अथ घीरा अमृतत्वं विदित्वा
ध्रुवमवेष्विह न प्रार्थयन्ते ॥ २ ॥ येन रूपं रसं गन्धं शब्दान्स्पर्शाश्व
मैथुनान् ॥ एतेनैव विजानाति किमत्र परिशिष्यते, एतद्वै तत् ॥ ३ ॥ स्वप्नान्तं
जागरितान्तं चोभौ येनानुपश्यति ॥ महान्तं विभुमात्मानं मत्वा धीरो न
शोचति ॥ ४ ॥ य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ॥ ईशानं भूतभव्यस्म
न ततो विजुगुप्ते, एतद्वै तत् ॥५॥ यः पूर्वं तपसो जातमच्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यते एतद्वै तत् ॥ ६ ॥ या प्राणेन
संभवत्यदितिर्देवतामयी ॥ गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत, एतद्वै
तत् ॥ ७ ॥ भरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ॥ दिवे
दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरभिः, एतद्वै तत् ॥ ८ ॥ यतश्चोदेति
सूर्योऽस्तं यत्र च गच्छति ॥ तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन, एतद्वै
तत् ॥ ९ ॥ यदेवेह तदमुत्र यमुत्र तदन्विह ॥ मृत्योः स मृत्युमाप्नोति य
इह नानेव पश्यति ॥ १० ॥ मनसैवेदमाप्तव्यं नेह नानास्ति किंचन ॥ मृत्योः
स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥ अङ्गुष्ठमात्रः पुरुषो मध्य
आत्मनि तिष्ठति ॥ ईशानो भूतभव्यस्य न ततो विजुगुप्सते, एतद्वै तत् ॥ १२ ॥
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ॥ ईशानो भूतभव्यस्य स एवाय स
उ श्वः, एतद्वै तत् ॥ १३ ॥ यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ॥ एवं धर्मा-
पृथक् पश्यंस्तानेवानुविधावति ॥ १४ ॥ यथोदकं शुद्धे शुद्धमा सिक्तं वाह-
गेव भवति ॥ एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥
इति द्वितीयेऽध्याये प्रथमा वल्ली समाप्ता ॥ १ ॥ (४) ।
पुरमेकादशद्वारमजस्यावक्रचेतसः ॥ अनुष्ठाय न शोचति विमुक्तश्च विभु-
१ अतो.</p>
<pb n="24" />
<p>चल्ली ३]
कठोपनिषत् ॥ ३ ॥
च्यते एतद्वै तत् ॥ १ ॥ हसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दु-
रोणसत् ॥ नृषद्वरसहतसद्योमसंदब्जा गोजा ऋतजा अद्विजा ऋतं बृहत् ॥ २ ॥
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ॥ मध्ये वामनमासीनं विश्वेदेवा उपा-
सते ॥ ३ ॥ अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ॥ देहाद्विमुच्यमानस्य
किमत्र परिशिष्यते, एतद्वै तत् ॥ ४ ॥ न प्राणेन नापानेन मर्त्यो जीवति
कश्चन ॥ इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥ हन्त त इदं प्रव
क्ष्यामि गुह्यं ब्रह्म सनातनम् ॥ यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ॥ स्थाणुमन्येऽनुसंयन्ति यथाकर्म
यथाश्रुतम् ॥७॥ य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ॥ तदेव
शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन,
एतद्वै तत् ॥ ८ ॥ अग्निर्ययैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ॥
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥ वायुर्यथैको
भुवनं प्रविष्ट रूपं रूपं प्रतिरूपो बभूव ॥ एकस्तथा सर्वभूतान्तरात्मा रूपं
रूपं प्रतिरूपो बहिश्च ॥ १० ॥ सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते
चाक्षुषैर्बाह्यदोषैः ॥ एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः
॥ ११ ॥ एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ॥
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥
'नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ॥ तमा-
मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥ तदेत-
दिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ॥ कथं नु तद्विजानीयां किमु भाति
विभाति वा ॥ १४ ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो
भान्ति कुतोऽयमग्निः ॥ तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं</p>
<lg>
  <l>विभाति ॥ १५ ॥</l>
  <l>इति द्वितीयेऽध्यायेद्वितीया वल्ली समाप्ता ॥ ॥ २ ॥ ( ५ ) ।</l>
  <l>ऊर्ध्वमूलोsवाक्शाख एषोऽश्वत्थः सनातनः ॥ तदेव शुक्रं तद्ब्रह्म तदेवा-</l>
  <l>मृतमुच्यते ॥ तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन एतद्वै तत् ॥ १ ॥</l>
</lg>
<p>यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् ॥ महद्भयं वज्रमुद्यतं य एतद्वि-
दुरमृतास्ते भवन्ति ॥ २ ॥ भयादस्याभिस्तपति भयात्तपति सूर्यः ॥ भयादि -
न्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥ इह चेदशकद्वोद्धुं प्राक् शरीरस्य
विस्रसः ॥ ततः सर्गेषु लोकेषु शरीरस्वाय कल्पते ॥ ४ ॥ यथादर्शे तथात्मनि
यथा स्वमे तथा पितृलोके ॥ यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातप-
१ नित्यो नित्यानां . २ किमु तद्भाति ३ न भाति,
•</p>
<pb n="25" />
<p>शायुपनिषत्सु -
[ प्रश्नः
-योरिव ब्रह्मलोके ॥ ५ ॥ इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ॥ पृथ-
गुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥ इन्द्रियेभ्यः परं मनो मनसः
समुत्तमम् ॥ सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥ अव्यक्तात्तु
परः पुरुषो व्यापकोsलिङ्ग एव च ॥ 'यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति
॥ ८ ॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ॥
हृदा मनीषी मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥ यदा
पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥ बुद्धिश्च न विचेष्टति तामाहुः
परमां गतिम् ॥ १० ॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ॥
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ॥ ११ ॥ नैव वाचा न
मनसा प्राप्तुं शक्यो न चक्षुषा ॥ अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते
॥ १२ ॥ अस्तीत्येवोपलब्धव्यस्तत्वभावेन चोभयोः ॥ अस्तीत्येवोपलब्धस्य
तस्वभावः प्रसीदति ॥ १३ ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ॥
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥ यदा सर्वे प्रभिद्यन्ते हृदयस्येह
ग्रन्थयः ॥ अथ मर्त्योऽमृतो भवत्येतावच्यनुशासनम् ॥ १५ ॥ शतं चैका च हृदयस्य
नाड्यस्तासां मूर्धानमभिनिःसृतैका ॥ तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्गन्या
उत्क्रमणे भवन्ति ॥ १६ ॥ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये
संनिविष्टः ॥ तं स्वाच्छरीरात्प्रवृन्मुञ्जदिवेषीकां धैर्येण ॥ तं विद्याच्छुक्रम-
'मृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥ मृत्युप्रोक्तां नेचिकेतोऽथ लब्ध्वा
विद्यामेतां योगविधिं च कृत्स्नम् ॥ ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरम्योऽप्येवं यो
विदध्यात्ममेव ॥ १८ ॥
इति द्वितीयेऽध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ (६) i
इति द्वितीयोऽध्यायः ॥ २ ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ॥ तेजस्विना-
वधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति यजुर्वेदीया कठोपनिषत्समाप्ता ॥ ३ ॥
॥ ॐ तत्सत् ॥
प्रश्नोपनिषत् ॥ ४ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तु-
टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः
१ यज्ज्ञात्वा. २ नाचिकेतो ..</p>
<pb n="26" />
<p>प्रश्नः 9]
प्रश्नोपनिषत् ॥ ४ ॥
.१.३
पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौशल्य-
श्वाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः
परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं
पिप्पलादमुपसन्नाः ॥ १ ॥ तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण
श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्व ह
वो वक्ष्याम इति ॥ २ ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो
हवा इमाः प्रजाः प्रजायन्त इति ॥ ३॥ तस्मै स होवाच प्रजाकामो वै प्रजा-
पतिः स तपोऽतप्यत स तपस्तत्वा स मिथुनमुत्पादयते ॥ रयिं च प्राण
चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥ आदित्यो ह वै प्राणो रयिरेक
चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्त चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५ ॥
अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु संनिधत्ते
यदक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रका-
शयति तेन सर्वान्प्राणानू रश्मिषु संनिधत्ते ॥ ६ ॥ स एष वैश्वानरो विश्व-
रूपः प्राणोऽग्निरुदयते ॥ तदेतदृचाभ्युक्तम् ॥७॥ विश्वरूपं हरिणं जातवेदसं
परायणं ज्योतिरेकं तपन्तम् ॥ सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजाना-
मुदयत्येष सूर्यः ॥ ८ ॥ संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ॥
त ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते ॥
त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ॥ एष ह
वैरयिर्यः पितृयाणः ॥ ९॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानम-
न्विष्यादित्यमभिजयन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेत-
स्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १० ॥ पञ्चपादं पितरं द्वाद-
शाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ॥ अथेमे अन्य उ परे विचक्षणं
सप्तचक्रे पडर आहुरर्पितमिति ॥ ११ ॥ मासो वै प्रजापतिस्तस्य कृष्णपक्ष
एव रयिः शुक्कुः प्राणस्तस्मादेते ऋषयः शुक्ल ईष्टं कुर्वन्तीतर इतरस्मिन्
॥ १२ ॥ अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते
प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्य -
न्ते ॥ १३ ॥ अन्नं वै प्रजापतिस्ततो ह वै तद्वेतस्तस्मादिमाः प्रजाः प्रजायन्त
इति ॥ १४ ॥ तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ॥ तेषां -
१ इष्टिं.</p>
<pb n="27" />
<p>ईशाद्युपनिषत्सु -
[ प्रश्नः ३
मेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥ तेषामसौ
विरजो ब्रह्मलोको न येषु जिह्यमनृतं न माया चेति ॥ १६ ॥
.
इति प्रथमः प्रश्नः ॥ १॥
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ, भगवन्कत्येव देवाः प्रजां विधारयन्ते,
कतर एतत्प्रकाशयन्ते, कः पुनरेषां वरिष्ठ इति ॥ १ ॥ तस्मै स होवाचाकाशो
ह वा एष देवो वायुरभिरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च ॥ ते प्रकाश्या-
भिवदन्ति वयमेतद्वाणमवष्टभ्य विधारयामः ॥ २ ॥ तान्वरिष्ठः प्राण
उवाच, मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधा-
रयामीति ॥ तेऽश्रद्दधाना बभूवुः ॥ ३ ॥ सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मि-
नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंश्च
प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं
स्तुवन्ति ॥ ४ ॥ एषोऽभिस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष
पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥ अरा इव रथनाभौ प्राणे सर्व
प्रतिष्ठितम् ॥ ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ६ ॥ प्रजापतिश्च-
रस गर्भे त्वमेव प्रतिजायसे ॥ तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः
प्राणैः प्रतितिष्ठसि ॥ ७ ॥ देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ॥
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥ इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि
परिरक्षिता ॥ त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥ यदा त्वम-
भिवर्षस्यथेमाः प्राणते प्रजाः ॥ आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्य-
तीति ॥ १० ॥ ब्रात्यस्त्वं प्राणकऋषिरत्ता विश्वस्य सत्पतिः ॥ वयमाद्यस्य
दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥ या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे
या च चक्षुषि ॥ या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ॥ मातेव पुत्रान्रक्षस्व श्रीश्व प्रज्ञां
च विधेहि न इति ॥ १३ ॥
इति द्वितीयः प्रश्नः ॥ २ ॥
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ ॥ भगवन्कुत एष प्राणो जायते
कथमायात्यस्मिन्छरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोस्क्रमते कथं
बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥ तस्मै स होवाचातिप्रश्नान्पृच्छसि
ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥ आत्मन एष प्राणो जायते ॥ यथैषा
पुरुषे छायैतस्मिन्नेतदाततं मैनोकृतेनायात्यस्मिन्छरीरे ॥ ३ ॥ यथा सम्राडे-
१ एवमस्मिंश्च. २ विधेहि इति ३ मनोविकृतेन.</p>
<pb n="28" />
<p>प्रश्नः ४]
प्रश्नोपनिषत् ॥ ४ ॥</p>
<p>वाधिकृतान्विनियुङ्के एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरा-
प्राणान्पृथक्पृथगेव संनिधत्ते ॥ ४ ॥ पायूपस्थेऽपानं चक्षुः श्रोत्रे मुख-
नासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः ॥ एष ह्येतद्धुतम
सेमं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥ हृदि ह्येष आत्मा ॥
अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिसप्ततिः प्रतिशा-
खानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥ अथैकयोर्ध्व उदानः पुण्येन
पुण्यं लोकं वयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७ ॥ आदित्यो
वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः ॥ पृथिव्यां या
देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः
॥ ८ ॥ तेजो ह वो उदानस्तस्मादुपशान्ततेजाः ॥ पुनर्भवमिन्द्रियैर्मनसि
संपद्यमानैः ॥ ९ ॥ यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहा-
रमना यथासंकल्पितं लोकं नयति ॥ १० ॥ य एवं विद्वान्प्राणं वेद न
हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥ उत्पत्तिमायतिं स्थानं
विभुत्वं चैव पञ्चधा ॥ अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृत-
मत इति ॥ १२ ॥ ·
इति तृतीयः प्रश्नः ॥ ३ ॥
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ॥ भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति
कान्यस्मिन् जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु
सर्वे संप्रतिष्ठिता भवन्तीति ॥ १ ॥ तस्मै स होवाच यथा गार्ग्य मरीच -
योऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनःपुन-
रुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति ॥ तेन तर्ह्येष पुरुषो
न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते
नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥ प्राणाय एवैतस्मिन्पुरे
जाग्रति ॥ गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणी-
यते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥ यदुच्छ्वासनिःश्वासावेतावाहुती समं
नयतीति स समानः ॥ मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमा-
नमहरहर्ब्रह्म गमयति ॥ ४ ॥ अत्रैष देवः स्वप्ने महिमानमनुभवति यद्दृष्टं
दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति, देशदिगन्तरैश्च प्रत्यनुभूतं पुनः
पुनः प्रत्यनुभवति, दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चा-
सच्च सर्वं पश्यति सर्वः पश्यति ॥ ५ ॥ स यदा तेजसाभिभूतो भवत्यत्रैष
,
१ समुन्नयति. २ वाव.
,</p>
<pb n="29" />
<p>ईशाद्युपनिषत्सु -
[ प्रश्नः ५
देवः स्वप्नान्न पश्यत्यथ तदैतस्मिन्छरीर एतत्सुखं भवति ॥ ६ ॥ स यथा
सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते ॥ एवं ह वै तत्सर्वं पर आत्मनि संप्र-
तिष्ठते ॥ ७ ॥ पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा
च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च
श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाकू
च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं
च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहं कर्तव्यं
च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं
च ॥ ८ ॥ एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता
विज्ञानात्मा पुरुषः ॥ स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ ९ ॥ परमेवाक्षरं प्रति-
पद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य
स सर्वज्ञः सर्वो भवति ॥ तदेष श्लोकः ॥ १० ॥ विज्ञानात्मा सह देवैश्च सर्वैः
प्राणा भूतानि संप्रतिष्ठन्ति यत्र ॥ तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः
सर्वमेवाविवेशेति ॥ ११ ॥
इति चतुर्थः प्रश्नः ॥ ४ ॥
अथ हैनं शैब्यः सत्यकामः पप्रच्छ ॥ स यो ह वै तद्भगवन्मनुष्येषु प्राय-
णान्तमोङ्कारमभिध्यायीत ॥ कतमं वाव स तेन लोकं जयतीति ॥ १ ॥
तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेते-
नैवायतनेनैकतरमन्वेति ॥ २ ॥ स यद्येकमात्रमभिध्यायीत स तेनैव
संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते ॥ तमृचो मनुष्यलोकमुपनयन्ते स तत्र
तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ ॥ अथ यदि
द्विमात्रे मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ॥ स सोम-
लोके विभूतिमनुभूय पुनरावर्तते ॥ ४ ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवा-
क्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः ॥ यथा पादोदरस्त्वचा
विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं सं
एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते ॥ तदेतौ श्लोकौ भवतः ॥ ५ ॥
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ॥ क्रियासु
बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥ ऋग्भिरेत
यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमोंकारेणैवायतनेनान्वेति
विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥
१ स सामभिर्यत्तत्कवयो.
इति पञ्चमः प्रश्नः ॥ ५ ॥</p>
<pb n="30" />
<p>मुण्डकोपनिषत् ॥ ५ ॥</p>
<p>अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ॥ भगवन्हिरण्यनाभः कौसल्यो
राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाजं पुरुषं वेत्थ,
तमहं कुमारमब्रुवं नाहमिमं वेद ॥ यद्यहमिममवेदिषं कथं ते नावक्ष्य-
मिति ॥ समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नाहम्यनृतं
वक्तुम् ॥ स तूष्णीं रथमारुह्य प्रववाज ॥ तं त्वा पृच्छामि कासौ पुरुष इति
१ ॥ तस्मै स होवाच ॥ इहैवान्तःशरीरे सोम्य स पुरुषो यस्मि-
नेताः षोडशकलाः प्रभवन्तीति ॥ २ ॥ स ईक्षांचक्रे । कस्मिन्नहमुत्कान्ते उस्का-
न्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्टास्यामीति ॥ ३ ॥ स प्राणमसृजत
प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः
कर्म लोका लोकेषु च नाम च ॥ ४ ॥ स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः
समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते ॥
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति
भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति ॥ तद्वेष
लोकः ॥ ५ ॥ अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ॥ तं वेद्यं पुरुष
वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६ ॥ तान्होवाचैतावदेवाहमेतत्परं
ब्रह्म वेद नातः परमस्तीति ॥ ७ ॥ ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकम-
विद्यायाः परं पारं तारयसीति ॥ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥
इति षष्ठः प्रश्नः ॥ ६॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गै-
स्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति
नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पति-
दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इत्यथर्ववेदीया प्रश्नोपनिषत्समाप्ता ॥
॥ ॐ तत्सत् ॥
मुण्डकोपनिषत् ॥ ५ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तु-
ष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः
पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता ॥ स ब्रह्म-</p>
<pb n="31" />
<p>ईशाद्युपनिषत्सु -
[ मुण्ड०
विद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥ अथर्वणे यां प्रव-
देत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ॥ स भारद्वाजाय सेत्यवहाय
प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥ शौनको ह वै महाशालोऽङ्गिरसं विधि-
वदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥३॥
तस्मै स होवाच ॥ द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा
चैवापरा च ॥ ४ ॥ तत्रापरा ऋग्वेदो 'यजुर्वेदः कामवेदोऽथर्ववेदः शिक्षा
कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥ अथ परा यया तदक्षरमधिग-
यते ॥ ५ ॥ यत्तदश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादं नित्यं
विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥ यथो-
र्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति ॥ यथा सतः
पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ॥ ७ ॥ तपसा चीयते ब्रह्म
adोsन्नमभिजायते ॥ अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ॥ तस्मादेतद्रा नाम रूपमन्नं च
जायते ॥ ९ ॥
इति प्रथममुण्डके प्रथमः खण्डः ॥ १ ॥
तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संत-
तानि ॥ तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ॥ तदाज्य भागावन्तरेणाहुतीः प्रति-
पादयेच्छ्रद्धया हुतम् ॥ २ ॥ यस्याग्निहोत्रमदर्श मपौर्णमासमचातुर्मास्यमनाग्र-
यणमतिथिवर्जितं च ॥ अहुतमवैश्वदेवमविधिना हुतमासतमांस्तस्य लोका-
हिनस्ति ॥३॥ काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ॥
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥ एतेषु
यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददान् ॥ तन्नयन्त्येताः सूर्यस्य
रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥ एह्येहीति तमाहुतयः सुव-
सः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ॥ प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष
वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥ प्लवा ह्येते अहढा यज्ञरूपा अष्टादशोक्त-
मवरं येषु कर्म ॥ एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि
यन्ति ॥ ७ ॥ अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ॥
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥ अविद्यायाँ
बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ॥ यत्कर्मिणो न प्रवेद-
3 सत्यवाहाय.</p>
<pb n="32" />
<p>खण्डः २]
मुण्डकोपनिषत् ॥ ५ ॥</p>
<p>यन्ति रागात्तेनातुराः क्षीणलोकाश्यवन्ते ॥ ९ ॥ इष्टापूर्त मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ॥ नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीन-
तरं वा विशन्ति ॥ १० ॥ तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष-
चर्यां चरन्तः ॥ सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो द्यव्य-
यात्मा ॥ ११ ॥ परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः
कृतेन ॥ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्
॥ १२ ॥ तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय रामान्विताय ॥
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥
इति प्रथममुण्डके द्वितीयः खण्डः ॥ २ ॥</p>
<lg>
  <l>इति प्रथममुण्डकं समाप्तम् ।</l>
  <l>तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ॥</l>
</lg>
<p>तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तंत्र चैवापियन्ति ॥ १ ॥ दिव्यों
ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ॥ अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः
परः ॥ २ ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ॥ खं वायुर्ज्योति-
रापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः
श्रोत्रे वाग्विवृताश्च वेदाः ॥ वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष
सर्वभूतान्तरात्मा ॥ ४ ॥ तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य भोष-
धयः पृथिव्याम् ॥ पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्सं-
प्रसूताः ॥५॥ तस्मादृचः साम यजुषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ॥
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ तस्माच
देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयासि ॥ प्राणापानौ
ateral पश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्व ॥ ७ ॥ सप्त प्राणाः प्रभवन्ति
तस्मात्सप्तार्चिषः समिधः सप्त होमाः ॥ सप्त इमे लोका येषु चरन्ति
प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥ अतः समुद्रा गिरयश्च सर्वेऽस्मा-
त्स्यन्दन्ते सिन्धवः सर्वरूपाः ॥ अतश्च सर्वा ओषधयो रसश्च येनैष भूतै-
स्तिष्ठते न्तरात्मा ॥ ९ ॥ पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ॥
तो वेद निहितं गुहायां सोऽविद्याग्रन्थि विकिरतीह सोम्य ॥ १० ॥
इति द्वितीयमुण्डके प्रथमः खण्डः ॥ १ ॥
:
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् ॥ एजत्प्राणन्निमिषञ्च
यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १ ॥ यदर्चिमद्य-
१ पर्जन्यौषधयः .
my -</p>
<pb n="33" />
<p>ईशाधुपनिषत्सु -
[ मुण्ड०
दभ्योऽणु च यस्मिँल्लोका निहिता लोकिनश्च ॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु
वामनः ॥ तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २ ॥ धनुर्गृहीत्वौप-
निषदं महास्त्रं शरं छुपासानिशितं 'संघयीत ॥ आयस्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल-
क्ष्यमुच्यते ॥ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥ यस्मिन्योः
पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ॥ तमेवैकं जानथ आस्मानमन्या
वाचो विभुवथामृतस्यैष सेतुः ॥५॥ अरा इव रथनाभौ संहता यत्र नाड्यः ॥
स एषोऽन्तश्चरते बहुधा जायमानः ॥ ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः
पेराय तमसः परस्तात् ॥ ६ ॥ यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ॥
दिव्ये ब्रह्मपुरे शेष व्योश्यात्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठि-
तोsने हृदयं संनिधाय ॥ तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं
यद्विभाति ॥ ७ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ॥ क्षीयन्ते चास्य
. कर्माणि तस्मिन्दृष्टे परावरे ॥ ८ ॥ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ॥
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ९ ॥ न तत्र सूर्यो भाति न
चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ॥ तमेव भान्तमनुभाति
सर्वं तस्य भासा सर्वमिदं विभाति ॥ १० ॥ ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चा-
ब्रह्म दक्षिणतश्चोत्तरेण ॥ अधश्चोर्ध्व च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्टम्
॥ ११॥
.. इति द्वितीयमुण्डके द्वितीयः खण्डः ॥ २ ॥
॥ इति द्वितीयमुण्डकं समाप्तम् ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ॥ तयोरन्यः पिप्पलं
स्वाद्वस्यनश्नन्नन्यो अभिचाकशीति ॥ १ ॥ समाने वृक्षे पुरुषो निमग्नोऽनीशया
शोचति मुह्यमानः ॥ जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः
॥ २ ॥ यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ तदा
विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥ प्राणो ह्येष यः
सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी ॥ आत्मक्रीड आत्मरतिः
क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥ सत्येन लभ्यस्तपसा ह्येष आत्मा सम्य-
ज्ञानेन ब्रह्मचर्येण नित्यम् ॥ अन्तःशरीरे ज्योतिर्मयो हि शुभ्र यं पश्यन्ति
यतयः क्षीणदोषाः ॥ ५ ॥ सत्यमेव जयति नानृतं सत्येन पन्था विततो देव-
यानः ॥ येनाक्रमन्त्यृषयो हातकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥
१ संदधीत. २ पाराय ३ संप्रतिष्ठितः. ४ जयते.</p>
<pb n="34" />
<p>खण्ड ० ३]
मुण्डकोपनिषत् ॥ ५ ॥
बृहच तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ॥ दूरात्सुदूरे तदिः
हान्ति च पश्यत्स्वि हैव निहितं गुहायाम् ॥ ७ ॥ न चक्षुषा गृह्यते नापि
वाचा नान्यैर्देवैस्तपसा कर्मणा वा ॥ ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं
पश्यते निष्कलं ध्यायमानः ॥ ८ ॥ एषोऽणुरात्मा चेतसा वेदितव्यो यमि-
प्राणः पञ्चधा संविवेश ॥ प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभ-
वत्येष आत्मा ॥ ९ ॥ यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते
यांश्च कामान् ॥ तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूति--
इति तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥
कामः ॥ १० ॥
स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ॥ उपासते पुरुष
ये कामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥ कामान्यः कामयते मन्यः
मानः स कामभिर्जायते तत्र तत्र ॥ पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे
प्रविलीयन्ति कामाः ॥ २ ॥ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना
श्रुतेन ॥ यमेवैष वृणुते तेन लभ्यस्तस्यैष भीष्मा विवृणुते तनुं स्वाम् ॥ ३॥
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाच्यलिङ्गात् ॥ एतैरुपा-
यैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥ संप्राप्यैनमृषयो
ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ॥ ते सर्वगं सर्वतः प्राप्य धीरा
युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥ वेदान्तविज्ञान सुनिश्चितार्थाः संन्यास-
योगाद्यतयः शुद्धसत्त्वाः ॥ ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति
सर्वे ॥ ६ ॥ गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रति देवतासु ॥
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥ यथा नद्यः
-स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ॥ तथा विद्वान्नामरूपाद्वि-
मुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥ स यो ह वै तत्परमं ब्रह्म वेद
ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ॥ तरति शोकं तरति पाप्मानं गुहा-
ग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥ तदेतदृचाभ्युक्तम् ॥ क्रियावन्तः
श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः ॥ तेषामेवैतां ब्रह्मविद्य
वदेत शिरोवतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥ तदेतत्सत्यमृषिरङ्गिराः
पुरोवाच नैतदचीर्णव्रतोऽधीते ॥ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥
इति तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरै-
रङ्गैस्तुष्टुवा सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्ध-
१ आत्मा वृणुते तनूं स्वाम्.</p>
<pb n="35" />
<p>श्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति
नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥</p>
<p>इत्यथर्ववेदीया मुण्डकोपनिषत्समाप्ता ॥ ५ ॥</p>
<p>॥ ॐ तत्सत् ॥</p>
<p>माण्डूक्योपनिषत् ॥ ६ ॥</p>
<p>ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गै-
स्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्ध-
श्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति
नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥</p>
<p>ओमित्येतदक्षरमिदꣳसर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार
एव ॥ यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥<break /> सर्वꣳ ह्येतद्ब्रह्मायमात्मा
ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥<break /> जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥<break /> स्वप्नस्थानोऽन्तःप्रज्ञः
सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥<break /> यत्र
सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ॥ सुषुप्तस्थान
एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः
पादः ॥ ५ ॥<break /> एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥<break /> नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न
प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ॥ अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यप-
देश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स
आत्मा स विज्ञेयः ॥ ७ ॥<break /> सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा
मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥<break /> जागरितस्थानो वैश्वान-
रोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्वाद्वाप्नोति ह वै सर्वान्कामानादिश्च
भवति य एवं वेद ॥ ९ ॥<break /> स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादु-
भयत्वाद्वोत्कर्षति ह वै ज्ञानसंततिं समानश्च भवति नास्याब्रह्मवित्कुले
भवति य एवं वेद ॥ १० ॥<break /> सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेर-
पीतेर्वा मिनोति ह वा इदꣳ सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥<break />
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संवि-
शत्यात्मनात्मानं य एवं वेद य एवं वेद ॥ १२ ॥</p>
<pb n="36" />
<p>ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरै-
रङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्ध-
श्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति
नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥</p>
<p>इति माण्डूक्योपनिषत्समाप्ता ॥ ६ ॥</p>
<p>॥ ॐ तत्सत् ॥</p>
<p>तैत्तिरीयोपनिषत् ॥ ७ ॥</p>
<p>॥ शीक्षाध्यायः ॥</p>
<p>ॐ शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा । शं न इन्द्रो बृह-
स्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव
प्रत्यक्षं ब्रह्मासि ॥ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं
वदिष्यामि ॥ तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् । अवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥</p>
<p>ॐ शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः ॥
शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं वदिष्यामि ॥ तन्मा-
मवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् ॥ अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः
शान्तिः ॥ १ ॥ सत्यं वदिष्यामि पञ्च च ॥ १ ॥</p>
<p>इति शीक्षाध्याये प्रथमोऽनुवाकः ॥ १ ॥</p>
<p>ॐ शीक्षां व्याख्यास्यामः ॥ वर्णः स्वरः ॥ मात्रा बलम् ॥ साम संतानः ॥
इत्युक्तः शीक्षाध्यायः ॥ १ ॥ ( शीक्षां पञ्च ) ॥</p>
<p>इति शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २ ॥</p>
<p>सह नौ यशः ॥ सह नौ ब्रह्मवर्चसम् ॥ अथातः सꣳहिताया उपनिषदं
व्याख्यास्यामः ॥ पञ्चस्वधिकरणेषु ॥ अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज-
मध्यात्मम् ॥ ता महासꣳहिता इत्याचक्षते । अथाधिलोकम् ॥ पृथिवी पूर्वरूपम् ॥
द्यौरुत्तररूपम् ॥ आकाशः संधिः ॥ १ ॥ वायुः संधानम् ॥ इत्यधिलोकम् ॥ अथा-
धिज्यौतिषम् ॥ अग्निः पूर्वरूपम् ॥ आदित्य उत्तररूपम् ॥ आपः संधिः ॥ वैद्युतः
संधानम् ॥ इत्यधिज्यौतिषम् ॥ aथाधिचिद्यम् ॥ आचार्यः पूर्वरूपम् ॥ २ ॥
aन्तेवास्युत्तररूपम् ॥ विद्या संधिः ॥ प्रवचन‍ꣳ संधानम् ॥ इत्यधिविद्यम् ॥
अथाधिप्रजम् ॥ माता पूर्वरूपम् ॥ पितोत्तररूपम् ॥ प्रजा संधिः ॥ प्रजनन‍ꣳ</p>
<pb n="37" />
<p>. ईशाधुपनिषत्सु -
[ शीक्षा० 9
संधानम् ॥ इत्यधिप्रजम् ॥ ३ ॥ अथाध्यात्मम् ॥ अधरा हनुः पूर्वरूपम् ॥
उत्तरा हनुरुत्तररूपम् ॥ वाकू संधिः ॥ जिह्वा संधानम् ॥ इत्यध्यात्मम् ॥
इतीमा महासहिताः ॥ य एवमेता महासरहिता व्याख्याता वेद ॥ संघीयते
प्रजया पशुभिः ॥ ब्रह्मवर्चसेनान्नाद्येन सुवर्येण लोकेन ॥ ४ ॥ ( संधिरा-
चार्यः पूर्वरूपमित्यधिप्रजं लोकेन ) ॥
इति शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
በ
यश्छन्दसामृषभो विश्वरूपः ॥ छन्दोभ्योऽध्यमृतात्संबभूव ॥ स मेन्द्रो
मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् ॥ शरीरं मे विचर्षणम् ॥
जिह्वा मे मधुमत्तमा ॥ कर्णाभ्यां भूरि विश्रुवम् ॥ ब्रह्मणः कोशोऽसि मेधया
पिहितः ॥ श्रुतं मे गोपाय ॥ आवहन्ती वितन्वाना ॥ कुर्वाणाऽचीरमात्मनः ॥
वासासि मम गावश्च ॥ अन्नपाने च सर्वदा ॥ ततो मे श्रियमावह ॥ लोमशां
पशुभिः सह स्वाहा ॥ १ ॥ आ. मा यन्तु ब्रह्मचारिणः स्वाहा ॥ वि मायन्तु
ब्रह्मचारिणः स्वाहा ॥ प्र मायन्तु ब्रह्मचारिणः स्वाहा ॥ दमायन्तु ब्रह्मचारिणः
स्वाहा ॥ शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥ यशो जनेऽसानि स्वाहा ॥
श्रेयान् वस्य सोऽसानि स्वाहा ॥ तं त्वा भग प्रविशानि स्वाहा ॥ स मा भग
प्रविश स्वाहा ॥ तस्मिन् सहस्रशाखे ॥ नि भगाहं त्वयि मृजे स्वाहा ॥
यथापः प्रवतायन्ति ॥ यथा मासा अहर्जरम् ॥ एवं मां ब्रह्मचारिणः ॥ धात-
रायन्तु सर्वतः स्वाहा ॥ प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३ ॥ वित-
न्वाना शमायन्तु ब्रह्मचारिणः स्वाहा ॥ ( धातरायन्तु सर्वतः स्वाहैकं च ) ॥
इति शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ॥ तासामु ह स्मैतां चतु-
थम् ॥ माहाचमस्यः प्रवेदयते ॥ मह इति ॥ तद्रा ॥ स आत्मा ॥ अङ्गा-
न्यन्या देवताः ॥ भूरिति वा भयं लोकः ॥ भुव इत्यन्तरिक्षम् ॥ सुवरि-
त्यसौ लोकः ॥ १ ॥ मह इत्यादित्यः ॥ आदित्येन वाव सर्वे लोका मही-
यन्ते ॥ भूरिति वा अभिः ॥ भुव इति वायुः ॥ सुवरित्यादित्यः ॥ मह इति
चन्द्रमाः ॥ चन्द्रमसा वाव सर्वाणि ज्योतीष महीयन्ते ॥ भूरिति वा
ऋचः ॥ भुव इति सामानि ॥ सुवरिति यजूंषि ॥ २ ॥ मह इति ब्रह्म ॥
ब्रह्मणा वाव सर्वे वेदा महीयन्ते ॥ भूरिति वै प्राणः ॥ भुव इत्यपानः ॥ सुवः
रिति व्यानः ॥ मह इत्यन्नम् ॥ अन्नेन वाव सर्वे प्राणा महीयन्ते ॥ ता वा
एताश्चतस्रश्चतुर्धा ॥ चतस्रश्चतस्रो व्याहृतयः ॥ ता यो वेद ॥ स वेद ब्रह्म ॥
सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥ ( असौ लोको यजुषि वेद द्वे च ) ॥
• इति शीक्षाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥</p>
<pb n="38" />
<p>अनु० ९ ]
तैत्तिरीयोपनिषत् ॥ ७ ॥</p>
<p>स य एषोऽन्तर्हृदय आकाशः ॥ तस्मिन्नयं पुरुषो मनोमयः ॥ अमृतो
हिरण्मयः ॥ अन्तरेण तालुके ॥ य एष स्तन इवावलम्बते ॥ सेन्द्रयोनिः ॥
यत्रासौ केशान्तो विवर्तते ॥ व्यपोह्य शीर्षकपाले । भूरित्यनौ प्रतितिष्ठति ॥
भुव इति वायौ ॥ १ ॥ सुवरित्यादित्ये ॥ मह इति ब्रह्मणि ॥ आमोति स्वारा-
ज्यम् ॥ आप्नोति मनसस्पतिम् ॥ वाक्पतिश्चक्षुष्पतिः ॥ श्रोत्रपतिर्विज्ञान-
प्रतिः ॥ एतत्ततो भवति ॥ आकाशशरीरं ब्रह्म ॥ सत्यात्म प्राणारामं मन-
आनन्दम् ॥ शान्तिसमृद्धममृतम् ॥ इति प्राचीनयोग्योपास्स्व ॥ २ ॥
( वायावमृतमेकं च ) ॥
इति शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ॥ अनिर्वायुरादित्यश्चन्द्रमा नक्ष-
त्राणि ॥ आप ओषधयो वनस्पतय आकाश आत्मा ॥ इत्यधिभूतम् ॥
• अथाध्यात्मम् ॥ प्राणो व्यानोऽपान उदानः समानः ॥ चक्षुः श्रोत्रं मनो
वाक् त्वक् ॥ चर्म मास स्त्रावास्थि मज्जा ॥ एतदधिविधाय ऋषिरवो-
चत् ॥ पाङ्क्ङ्कं वा इद ँ सर्वम् ॥ पाङ्केनैव पाङ्कः स्पृणोतीति ॥ १ ॥
(सर्वमेकं च ) ॥
इति शीक्षाध्याये सप्तमोऽनुवाकः ॥ ७ ॥
ओमिति ब्रह्म ॥ ओमितीद सर्वम् ॥ ओमित्येतदनुकृति ह स्म वा अप्यो
श्रावयेत्याश्रावयन्ति ॥ ओमिति सामानि गायन्ति ॥ ओ शोमिति शस्त्राणि
शन्ति ॥ ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ॥ ओमिति ब्रह्मा प्रसौति ॥
ओमित्यग्निहोत्रमनुजानाति ॥ ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपामवा-
नीति ॥ ब्रह्मैवोपप्नोति ॥ १ ॥ ( ॐ दश ) ॥
इति शीक्षाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
ऋतं च स्वाध्यायप्रवचने च ॥ सत्यं च स्वाध्यायप्रवचने च ॥ तपश्च
स्वाध्यायप्रवचने च ॥ दमश्च स्वाध्यायप्रवचने च ॥ शमश्च स्वाध्यायप्रवचने
च ॥ अग्नयश्च स्वाध्यायप्रवचने च ॥ अग्निहोत्रं च स्वाध्यायप्रवचने च ॥
अतिथयश्च स्वाध्यायप्रवचने च ॥ मानुषं च स्वाध्यायप्रवचने च ॥ प्रजा च
स्वाध्यायप्रवचने च ॥ प्रजनश्च स्वाध्यायप्रवचने च ॥ प्रजातिश्च स्वाध्याय-
प्रवचने च ॥ सत्यमिति सत्यवचा राथीतरः ॥ तप इति तपोनित्यः पौरुशिष्टिः ॥
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ॥ तद्धि तपस्तद्धि तपः ॥ ६ ॥
( प्रजा च स्वाध्यायप्रवचने च षट् च ) ॥
इति श्रीक्षाध्याये नवमोऽनुवाकः ॥ ९ ॥</p>
<pb n="39" />
<p>:: ईशाद्युपनिषत्सु -
[ शीक्षा.
अहं वृक्षस्य रेरिवा ॥ कीर्तिः पृष्ठ गिरेरिव ॥ ऊर्ध्वपवित्रो वाजिनीव
स्वमृतमस्मि ॥ द्रविण‍ सवर्चसम् ॥ सुमेधा अमृतोक्षितः ॥ इति त्रिश-
कोर्वेदानुवचनम् ॥ १ ॥ ( अह‍ पद ) ॥
इति शीक्षाध्याये दशमोऽनुवाकः ॥ १० ॥
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति ॥ सत्यं वद ॥ धर्मं चर ॥ स्वाध्या-
`यान्मा प्रमदः ॥ आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ॥
सत्यान्न प्रमदितव्यम् ॥ धर्मान्न प्रमदितव्यम् ॥ कुशलान्न प्रमदितव्यम् ॥
भूत्यै न प्रमदितव्यम् ॥ स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥ देव-
पितृकार्याभ्यां न प्रमदितव्यम् ॥ मातृदेवो भव ॥ पितृदेवो भव ॥ आचार्य-
देवो भव ॥ अथिति देवो भव ॥ यान्यनवद्यानि कर्माणि ॥ तानि सेवित-
व्यानि ॥ नो इतराणि ॥ यान्यस्माक सुचरितानि ॥ तानि त्वयोपास्यानि
॥ २ नो इतराणि ॥ ये के चास्मच्छ्रेया सो ब्राह्मणाः ॥ तेषां स्वयाssसने न
प्रश्वसितव्यम् ॥ श्रद्धया देयम् ॥ अश्रद्धयाऽदेयम् ॥ श्रिया देयम् ॥ हिया
देयम् ॥ भिया देयम् ॥ संविदा देयम् ॥ अथ यदि ते कर्मविचिकित्सा वा
वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥ ये तत्र ब्राह्मणाः संमर्शिनः ॥ युक्ता
आयुक्ताः ॥ अलूक्षा धर्मकामाः स्युः ॥ यथा ते तत्र वर्तेरन् ॥ तथा तत्र
वर्तेथाः ॥ अथाभ्याख्यातेषु ॥ ये तत्र ब्राह्मणाः संमर्शिनः ॥ युक्ता आयुक्ताः ॥
अलूक्षा धर्मकामाः स्युः ॥ यथा ते तेषु वर्तेरन् ॥ तथा तेषु वर्तेथाः ॥ एष
आदेशः ॥ एष उपदेशः ॥ एषा वेदोपनिषत् ॥ एतदनुशासनम् ॥ एवमु-
पासितव्यम् ॥ एवमु चैतदुपास्यम् ॥ ४ ॥ ( स्वाध्यायप्रवचनाभ्यां न प्रेम-
दितव्यं तानि स्वयोपास्यानि स्यात्तेषु वर्तेरन् सप्त च ) ॥
इति शीक्षाध्याये एकादशोऽनुवाकः ॥ ११ ॥
शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ॥
शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं
ब्रह्मासि ॥ स्वामेव प्रत्यक्षं ब्रह्मावादिषम् ॥ ऋतमवादिषम् ॥ सत्यमवादि-
धम् ॥ तन्मामावीत् ॥ तद्वक्तारमावीत् ॥ श्रवीन्माम् ॥ आवीद्वक्तारम्
॥ १ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ( सत्यमवादिषं पञ्च च ) ॥
इति शीक्षाध्याये द्वादशोऽनुवाकः ॥ १२ ॥
शं नः शीक्षा सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्यर्त चाहं
वेदमनूच्य शं नो द्वादश ॥ १२ ॥ शं नो मह इत्यादित्यो नो इतराणि
१ अश्रद्धया देयम्.</p>
<pb n="40" />
<p>अनु० ३]
तैत्तिरीयोपनिषत् ॥ ७ ॥</p>
<p>त्रयोविंशतिः ॥ २३ ॥ ॐ शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥
शं न इन्द्रो बृहस्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते
वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं
वदिष्यामि ॥ सत्यं वदिष्यामि ॥ तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् ॥
अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
कृष्णयजुर्वेदीय तैत्तिरीयोपनिषदि प्रथमः शीक्षाध्यायः समाप्तः ॥ १ ॥
अथ ब्रह्मवयध्यायः ॥ २ ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु । सह वीर्यं करवावहै ॥ तेजस्वि
नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ ब्रह्मविदाप्नोति परम् ॥ तदेषाऽभ्युक्ता ॥ सत्यं ज्ञानमनन्तं ब्रह्म ॥ यो
वेद निहितं गुहायां परमे व्योमन् ॥ सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा
विपश्चितेति ॥ तस्माद्वा एतस्मादात्मन आकाशः संभूतः ॥ आकाशाद्वायुः ॥
वायोरभिः ॥ अरापः ॥ अन्यः पृथिवी ॥ पृथिव्या ओषधयः ॥ ओषधी-
भ्योऽन्नम् ॥ अन्नात्पुरुषः ॥ स वा एष पुरुषोऽन्नरसमयः ॥ तस्येदमेव
शिरः ॥ भयं दक्षिणः पक्षः ॥ अयमुत्तरः पक्षः ॥ अयमात्मा ॥ इदं पुच्छं
प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥
इति ब्रह्मवयध्याये प्रथमोऽनुवाकः ॥ १ ॥
अन्नाद्वै प्रजाः प्रजायन्ते ॥ याः काश्च पृथिवी श्रिताः ॥ अथो अन्नेनैव
जीवन्ति ॥ अथैनदपि यन्त्यन्ततः ॥ अन्न हि भूतानां ज्येष्ठम् ॥ तस्मात्सव-
षधमुच्यते ॥ सर्वं वै तेऽन्नमाप्नुवन्ति ॥ येऽन्नं ब्रह्मोपासते ॥ अन्न ह
भूतानां ज्येष्ठम् ॥ तस्मात्सर्वैषधमुच्यते ॥ अन्नाद्भूतानि जायन्ते ॥ जाता-
न्यनेन वर्धन्ते ॥ भद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति ॥ तस्माद्वा
एतस्मादन्नरसमयात् ॥ अन्योऽन्तर आत्मा प्राणमयः ॥ तेनैष पूर्णः ॥ स वा
एष पुरुषविध एव ॥ तस्य पुरुषविधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य प्राण
एव शिरः ॥ व्यानो दक्षिणः पक्षः ॥ अपान उत्तरः पक्षः ॥ आकाश आत्मा ॥
पृथिवी पुच्छं प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥
इति ब्रह्मवल्लयध्याये द्वितीयोऽनुवाकः ॥ २ ॥
प्राणं देवा अनु प्राणन्ति ॥ मनुष्याः पशवश्च ये ॥ प्राणो हि भूताना-
मायुः ॥ तस्मात्सर्वायुषमुच्यते ॥ सर्वमेव त आयुर्यन्ति ॥ ये प्राणं ब्रह्मो-
पासते ॥ प्राणो हि भूतानामायुः ॥ तस्मात्सर्वायुषमुच्यत इति ॥ तस्यैष एव</p>
<pb n="41" />
<p>ईशाद्युपनिषत्सु -
[ ब्रह्म० ३
शारीर आत्मा ॥ यः पूर्वस्य ॥ तस्माद्वा एतस्मात्प्राणमयात् ॥ अन्योऽन्तर
आत्मा मनोमयः ॥ तेनैष पूर्णः ॥ स वा एष पुरुषविध एव ॥ तस्य पुरुष-
विधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य यजुरेव शिरः ॥ ऋग् दक्षिणः पक्षः ॥
सामोत्तरः पक्षः ॥ आदेश आत्मा ॥ अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ॥ तदप्येष
श्लोको भवति ॥
इति ब्रह्मवल्लयध्याये तृतीयोऽनुवाकः ॥ ३ ॥
यतो वाचो निवर्तन्ते ॥ अप्राप्य मनसा सह ॥ आनन्दं ब्रह्मणो विद्वान् ॥
न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा ॥ यः पूर्वस्य ॥ तस्माद्वा
एतस्मान्मनोमयात् ॥ अन्योऽन्तर आत्मा विज्ञानमयः ॥ तेनैष पूर्णः ॥ सवा
एष पुरुषविध एव ॥ तस्य पुरुषविधताम् ॥ अन्वयं पुरुषविधः ॥ तस्य श्रद्धैव
शिरः ॥ ऋतं दक्षिणः पक्षः ॥ सत्यमुत्तरः पक्षः ॥ योग आत्मा ॥ महः पुच्छं
प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥
इति ब्रह्मवयध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
विज्ञानं यज्ञं तनुते ॥ कर्माणि तनुतेऽपि च ॥ विज्ञानं देवाः सर्वे ॥ ब्रह्म
ज्येष्ठमुपासते ॥ विज्ञानं ब्रह्म चेद्वेद ॥ तस्माच्चेन्न प्रमाद्यति ॥ शरीरे पाप्मनो
हित्वा ॥ सर्वान्कामान्समद्भुत इति ॥ तस्यैष एव शारीर आत्मा ॥ यः
पूर्वस्य ॥ तस्माद्वा एतस्माद्विज्ञानमयात् ॥ अन्योऽन्तर आत्मानन्दमयः ॥
तेनैष पूर्णः ॥ स वा एष पुरुषविध एव ॥ तस्य पुरुषविधताम् ॥ अन्वयं
पुरुषविधः ॥ तस्य प्रियमेव शिरः ॥ मोदो दक्षिणः पक्षः ॥ प्रमोद उत्तरः
पक्षः ॥ आनन्द आत्मा ॥ ब्रह्म पुच्छं प्रतिष्ठा ॥ तदप्येष श्लोको भवति ॥
इति ब्रह्मवयध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
असन्नेव स भवति ॥ असह्मेति वेद चेत् ॥ अस्ति ब्रह्मेति चेद्वेद ॥
सन्तमेनं ततो विदुरिति ॥ तस्यैष एव शारीर आत्मा ॥ यः पूर्वस्य ॥ अथा-
तोऽनुप्रश्नाः ॥ उताविद्वानमुं लोकं प्रेत्य ॥ कश्चन गच्छती ३ ॥ आहो विद्वा-
नमुं लोकं प्रेत्य ॥ कश्चित्समश्रुता३ उ ॥ सोऽकामयत ॥ बहु स्यां प्रजाये -
येति ॥ स तपोऽतप्यत ॥ स तपस्तत्वा ॥ इदँ सर्वमसृजत ॥ यदिदं किंच ॥
तत्सृष्ट्वा ॥ तदेवानुप्राविशत् ॥ तदनु प्रविश्य ॥ सच्च त्यच्चाभवत् ॥ निरुक्तं
चानिरुक्तं च ॥ निलयनं चानिलयनं च ॥ विज्ञानं चाविज्ञानं च ॥ सत्यं
चानृतं च सत्यमभवत् ॥ यदिदं किंच ॥ तत्सत्यमित्याचक्षते ॥ तदुष्येष
लोको भवति ॥
इति ब्रह्मवयध्याये षष्ठोऽनुवाकः ॥ ६ ॥</p>
<pb n="42" />
<p>अनु० ९ ]
तैत्तिरीयोपनिषत् ॥ ७ ॥</p>
<p>असद्वा इदमग्र आसीत् ॥ ततो वै सदजायत ॥ तदात्मानः स्वयमकुरुत ॥
तस्मात्तत्सुकृतमुच्यत इति ॥ यद्वै तत्सुकृतम् ॥ रसो वै सः ॥ रस ह्येवायं
लब्ध्वानन्दी भवति ॥ को ह्येवान्यात्कः प्राण्यात् ॥ यदेष आकाश
आनन्दो न स्यात् ॥ एष ह्येवानन्दयाति ॥ यदा ह्येवैष एतस्मिन्नदृश्येऽना-
'म्येsनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते ॥ अथ सोऽभयं गतो भवति ॥ यदा
ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ॥ अथ तस्य भयं भवति ॥ तत्वेव भयं
विदुषोऽमन्वानस्य ॥ तदप्येष श्लोको भवति ॥
इति ब्रह्मवनयध्याये सप्तमोऽनुवाकः ॥ ७ ॥
भीषाऽस्माद्वातः पवते ॥ भीषोदेति सूर्यः ॥ भीषाऽस्मादग्निश्चेन्द्रश्च ॥
मृत्युर्धावति पञ्चम इति ॥ सैषाऽऽनन्दस्य मीमासा भवति ॥ युवा स्यात्साधु-
युवाध्यायकः ॥ आशिष्ठो द्रढिष्ठो बलिष्ठः ॥ तस्येयं पृथिवी सर्वा वित्तस्य
पूर्णा स्यात् ॥ स एको मानुष आनन्दः ॥ ते ये शतं मानुषा आनन्दाः ॥ सं
एक मनुष्यगन्धर्वाणामानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं
मनुष्यगन्धर्वाणामानन्दाः ॥ स एको देवगन्धर्वाणामानन्दः ॥ श्रोत्रियस्य
चाकामहतस्य ॥ ते ये शतं देवगन्धर्वाणामानन्दाः ॥ स एकः पितॄणां चिर-
लोकलोकानामानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं पितॄणां चिर-
लोकलोकानामानन्दाः ॥ स एक आजानजानां देवानामानन्दः ॥ श्रोत्रियस्य
चाकामहतस्य ॥ ते ये शतमाजानजानां देवानामानन्दाः ॥ स एकः कर्म-
देवानां देवानामानन्दः ॥ ये कर्मणा देवानपियन्ति ॥ श्रोत्रियस्य चाकाम
हतस्य ॥ ते ये शतं कर्मदेवानां देवानामानन्दाः ॥ स एको देवानामानन्दः ॥
श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं देवानामानन्दाः ॥ स एक इन्द्रस्या-
नन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतमिन्द्रस्यानन्दाः ॥ स एको
बृहस्पतेरानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं बृहस्पतेरानन्दाः ॥
स एकः प्रजापतेरानन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ ते ये शतं प्रजा-
पतेरानन्दाः ॥ स एको ब्रह्मण आनन्दः ॥ श्रोत्रियस्य चाकामहतस्य ॥ स
यश्चायं पुरुषे ॥ यश्चासावादित्ये ॥ स एकः ॥ स य एवंवित् ॥ अस्माल्लो-
कात्प्रेत्य ॥ एतमन्नमयमात्मानमुपसंक्रामति ॥ एवं प्राणमयमात्मानमुप-
संक्रामति ॥ एतं मनोमयमात्मानमुपसंक्रामति ॥ एवं विज्ञानमयमात्मानमु
पसंक्रामति ॥ एतमानन्दमयमात्मानमुपसंक्रामति ॥ तदप्येष श्लोको भवति ॥
इति ब्रह्मवत्रयध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
यतो वाचो निवर्तन्ते ॥ अप्राप्य मनसा सह ॥ आनन्दं ब्रह्मणो विद्वान् ॥
न बिभेति कुतश्चति ॥ एत ह वाव न तपति किमहरू साधु नाकरवम् ॥</p>
<pb n="43" />
<p>ईशाद्युपनिषत्सु -
[-भृगुः
3
किमहं पापमकरवमिति ॥ स य एवं विद्वानेते आत्मानः स्पृणुते ॥ उभे
वैष एते आत्मान स्पृणुते ॥ य एवं वेद ॥ इत्युपनिषत् ॥
इति ब्रह्मध्ये नवमोऽनुवाकः ॥ ९ ॥
ब्रह्मविदिदमेकविशतिरन्नादन्नरसमयायाणो व्यानोऽपान आकाशः पृथिवी
पुच्छ षड्विशतिः प्राणं यजुऋक सामादेशोऽथर्वाङ्गिरसः पुच्छं द्वावि-
शतिर्यतः श्रद्धर्त सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनन्दो
ब्रह्म पुच्छं द्वाविशति रसने वाथाष्टा विश्शतिरसत्षोडश भीषाऽस्मान्मानुषो
मनुष्यगन्धर्वाणां देवगन्धर्वाणां पितॄणां चिरलोकलोकानामाजानजानां कर्म-
देवानां ये कर्मणा देवानामिन्द्रस्य बृहस्पतेः प्रजापतेर्ब्रह्मणः । स यश्च संक्रा-
मत्येकपञ्चाशद्यतः कुतश्च नैतमेकादश नव ॥ ब्रह्मविद्य एवं वेदेत्युपनिषत् ॥
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधी-
तमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति द्वितीयो ब्रह्मवल्यध्यायः ॥ २ ॥
अथ भृगुवहयध्यायः ॥ ३ ॥
हरिः ॐ ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ॥
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
भृगुर्वै वारुणिः ॥ वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥
तस्मा एतत्प्रोवाच ॥ भन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ॥ त होवाच ॥
यतो वा इमानि भूतानि जायन्ते ॥ येन जातानि जीवन्ति ॥ यत्प्रयन्त्यभि-
संविशन्ति ॥ तद्विजिज्ञासस्व तद्ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तप्त्वा ॥
इति भृगुवलयध्याये प्रथमोऽनुवाकः ॥ १ ॥
अन्नं ब्रह्मेति व्यजानात् ॥ अन्नाज्येव खल्विमानि भूतानि जायन्ते ॥ अनेन
जातानि जीवन्ति ॥ अन्नं प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय ॥ पुनरेव वरुणं
पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ त होवाच ॥ तपसा ब्रह्म
विजिज्ञास्व ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तत्वा ॥
इति भृगुवलयध्याये द्वितीयोऽनुवाकः ॥ २ ॥
प्राणो ब्रह्मेति व्यजानात् ॥ प्राणाज्येव खल्विमानि भूतानि जायन्ते ॥ प्राणेन
जातानि जीवन्ति ॥ प्राणं प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय ॥ पुनरेव वरुणं
पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ त होवाच ॥ तपसा ब्रह्म
विजिज्ञासस्व ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तध्वा ॥
इति भृगुवलयध्याये तृतीयोऽनुवाकः ॥ ३ ॥
१ ब्रह्मविदिदमयमेक</p>
<pb n="44" />
<p>भृगु० ]
तैत्तिरीयोपनिषत् ॥ ७ ॥</p>
<p>मनो ब्रह्मेति व्यजानात् ॥ मनसो ह्येव खल्विमानि भूतानि जायन्ते ॥
मनसा जातानि जीवन्ति ॥ मनः प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय ॥
पुनरेव वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ त होवाच ॥
तपसा ब्रह्म विजिज्ञासस्त्र ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तप्त्वा ॥
इति भृगुवयध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
विज्ञानं ब्रह्मेति व्यजानात् ॥ विज्ञानाच्येव खल्विमानि भूतानि जायन्ते ॥
विज्ञानेन जातानि जीवन्ति ॥ विज्ञानं प्रयन्त्यभिसंविशन्तीति ॥ तद्विज्ञाय ॥
पुनरेव वरुणं पितरमुपससार ॥ अधीहि भगवो ब्रह्मेति ॥ त होवाच ॥
तपसा ब्रह्म विजिज्ञासस्व ॥ तपो ब्रह्मेति ॥ स तपोऽतप्यत ॥ स तपस्तप्त्वा ॥
इति भृगुवलयध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
आनन्दो ब्रह्मेति व्यजानात् ॥ आनन्दान्येव खल्विमानि भूतानि जायन्ते ॥
आनन्देन जातानि जीवन्ति ॥ आनन्दं प्रयन्त्यभिसंविशन्तीति ॥ सैषा
भार्गवी वारुणी विद्या ॥ परमे व्योमन् प्रतिष्ठिता ॥ य एवं वेद प्रतिति-
ष्ठति ॥ अन्नवान्नादो भवति ॥ महान् भवति प्रजया पशुभिब्रह्मवर्चसेन ॥
महान् कीर्त्यां ॥
इति भृगुवलयध्याये षष्टोऽनुवाकः ॥ ६ ॥
अन्नं न निन्द्यात् ॥ तद्व्रतम् ॥ प्राणो वा अन्नम् ॥ शरीरमन्नादम् ॥ प्राणे
शरीरं प्रतिष्ठितम् ॥ शरीरे प्राणः प्रतिष्ठितः ॥ तदेतदन्नमन्ने प्रतिष्ठितम् ॥ स य
एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ॥ अन्नवानन्नादो भवति ॥ महान् भवति
प्रजया पशुभिर्ब्रह्मवर्चसेन ॥ महान् कीर्त्या ॥
इति भृगुवलयध्याये सप्तमोऽनुवाकः ॥ ७ ॥
अन्नं न परिचीत ॥ तद्व्रतम् ॥ आपो वा अन्नम् ॥ ज्योतिरन्नादम् ॥
अप्सु ज्योतिः प्रतिष्ठितम् ॥ ज्योतिष्यापः प्रतिष्ठिताः ॥ तदेतदन्नमन्ने प्रति-
ष्ठितम् ॥ स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ॥ अन्नवानन्नादो
भवति ॥ महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ॥ महान्कीर्त्यां ॥
इति भृगुवल्लयध्याये अष्टमोऽनुवाकः ॥ ८ ॥
अन्नं बहु कुर्वीत ॥ तद्व्रतम् ॥ पृथिवी वा अन्नम् ॥ आकाशोऽन्नादः ॥
पृथिव्यामाकाशः प्रतिष्ठितः ॥ आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्नेः
प्रतिष्ठितम् ॥ स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ॥ अन्नवानन्नादो
भवति ॥ महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ॥ महान्कीर्त्या ॥
इति भृगुवल्लयध्याये नवमोऽनुवाकः ॥ ९ ॥</p>
<pb n="45" />
<p>ईशाद्युपनिषत्सु -
[ अनु० १०
.. न कंचन वसतौ प्रत्याचक्षीत ॥ ततम् ॥ तस्माद्यया कया च विधया
बह्वन्नं प्राप्नुयात् ॥ अराध्यस्मा अन्नमित्याचक्षते ॥ एतद्वै मुखतोऽन्नराद्धम् ॥
मुखतोऽस्मा अन राध्यते ॥ एतद्वै मध्यतोऽन्न राम् ॥ मध्यतोऽस्मा
अन्नँ राध्यते ॥ एतद्वा अन्ततोऽन्न राद्धम् ॥ अन्ततोऽस्मा अन राध्यते
॥ १ ॥ य एवं वेद ॥ क्षेम इति वाचि ॥ योगक्षेम इति प्राणापानयोः ॥
कुर्मेति हस्तयोः ॥ गतिरिति पादयोः ॥ विमुक्तिरिति पायौ ॥ इति मानुषीः
समाज्ञाः ॥ अथ दैवीः ॥ तृप्तिरिति वृष्टौ ॥ बलमिति विद्युति ॥ २ ॥ यश
इति पशुषु ॥ ज्योतिरिति नक्षत्रेषु ॥ प्रजापतिरमृतमानन्द इत्युपस्थे ॥ सर्व-
मित्याकाशे ॥ तत्प्रतिष्ठेत्युपासीत ॥ प्रतिष्ठावान् भवति ॥ तन्मह इत्युपा-
सीत ॥ महान् भवति ॥ तन्मन इत्युपासीत ॥ मानवान् भवति ॥ ३ ॥
तन्नम इत्युपासीत ॥ नम्यन्तेऽस्मै कामाः ॥ तद्ब्रह्मेत्युपासीत ॥ ब्रह्मवान्
भवति ॥ तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं त्रियन्ते द्विषन्तः सपत्नाः ॥
परि येsप्रिया भ्रातृव्याः ॥ स यश्चायं पुरुषे ॥ यश्चासावादित्ये ॥ स एकः
॥ ४ ॥ स य एवंवित् ॥ अस्माल्लोकात्प्रेत्य ॥ एतमन्नमयमात्मानमुपसंक्रम्य ॥
एतं प्राणमयमात्मानमुपसंक्रम्य ॥ एतं मनोमयमात्मानमुपसंक्रम्य ॥ एवं
विज्ञानमयमात्मानमुपसंक्रम्य ॥ एतमानन्दमयमात्मानमुपसंक्रम्य ॥ इमाँ-
लोकान्कामान्नी कामरूप्यनुसंचरन् ॥ एतत्साम गायन्नास्ते ॥ हा३वु हा ३वु
हा३वु ॥ ५ ॥ अहमन्नमहमन्नमहमन्नम् ॥ अहमन्नादोऽ३हमन्नादो ३ह-
मन्नादः ॥ भहर् श्लोककृदह श्लोककृदह लोककृत् ॥ अहमस्मि प्रथमजा
ऋता ३ स्य ॥ पूर्वं देवेभ्योऽमृतस्य ना३भायि । यो मा ददाति स इदेव-
माश्वाः ॥ अहमन्नमन्नमदन्तमा ३ झि ॥ अहं विश्वं भुवनमभ्यभवा३म् ॥
सुवर्नज्योतीः ॥ य एवं वेद ॥ इत्युपनिषत् ॥ ६ ॥ ( राध्यते विद्युति मान-
वाम्भवत्येको हा ३ वु य एवं वेदैकं च ) ॥
इति भृगुवह्नयध्याये दशमोऽनुवाकः ॥ १० ॥
भृगुस्तस्मै यतो वे विशन्ति तद्विजिज्ञासस्व तत्रयोदशान्नं प्राणं मनो
विज्ञानमिति तद्विज्ञाय तं तपसा द्वादश द्वादशानन्द इति सैषा दशान्नं न
निन्द्यात् प्राणः शरीरमन्नं न परिचक्षीतापो ज्योतिरन्नं बहु कुर्वीत पृथिव्या-
माकाश एकादशैकादश ॥ न कंचनैकषष्टिरेकान्न विशतिरेकान्नविशतिः ॥
सह नाववतु ॥ सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु
मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति भृगुवल्ल्यध्यायः समाप्तः ॥ ३ ॥</p>
<pb n="46" />
<p>खण्डः ३]
ऐतरेयोपनिषत् ॥ ७ ॥</p>
<p>शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः ॥
शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मा-
सि ॥ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं वदिष्यामि ॥
तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् ॥ अवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति तैत्तिरीयोपनिषत्संपूर्णा ॥ ७ ॥
॥ ॐ तत्सत् ॥
ऐतरेयोपनिषत् ॥ ८ ॥
वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्टितमाविरावीर्म एधि ॥
वेदस्य म भाणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं
वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
चक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् स ईक्षत लोकान्नु
सृजा इति ॥ १ ॥ स इमांल्लोकानसृजत ॥ अम्भो मरीचीर्मरमापोऽदोऽम्भः
परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः ॥ पृथिवी मरो या अधस्तात्ता
आपः ॥ २ ॥ स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ॥ सोऽय एव
पुरुषं समुद्धृत्यामूर्च्छयत् ॥ ३ ॥ तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत
यथाण्डम् ॥ मुखागाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणा-
द्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां
कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्गिरभिद्यत त्वचो लोमानि लोमभ्य ओषधि-
वनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत
नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ४ ॥
इति प्रथमः खण्डः ॥१॥ .
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्व-
चार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति
॥ १ ॥ ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ॥ ताभ्योऽश्वमानयत्ता
अब्रुवन्न वै नोऽयमलमिति ॥ २ ॥ ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं
बतेति पुरुषो वाव सुकृतम् ॥ ता अब्रवीद्यथाऽऽयतनं प्रविशतेति ॥ ३॥
निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षु-
र्भूत्वाऽक्षिणी प्राविशद्दिश: श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो</p>
<pb n="47" />
<p>[ अध्या०
लोमानि भूत्वा स्वचं प्राविशश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो
भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ॥ ४ ॥ तमशनापिपासे
अब्रूतामावाभ्यामभिप्रजानीहीति ॥ ते अब्रवीदेतास्त्रेव वां देवतास्वाभजा-
म्येतासु भागिन्यौ करोमीति ॥ तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते
भागिन्य वेवास्यामेश नापिपासे भवतः ॥ ५ ॥
इति द्वितीयः खण्डः ॥ २ ॥
स ईक्षते में नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ १ ॥ सोऽपो-
ऽभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिरजायत ॥ या वै सा मूर्तिरजायताऽन्नं वै
तत् ॥ २ ॥ तेदेनत्सृष्टं पराङत्यजिघांसत् तद्वाचाऽजिघृक्षत्तन्नाशक्नोद्वाचा ग्रही-
तुम् ॥ स यद्वैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥ ३ ॥ तत्प्राणे-
नाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुम् ॥ स यद्वैनत्प्राणेनाग्रहैष्यदभिप्राण्य
हैवान्नमत्रप्स्यत् ॥ ४ ॥ तच्चक्षुषाऽजिघृक्षत् तन्नाशनोच्चक्षुषा ग्रहीतुम् ॥ स
यद्वैनचक्षुषाऽग्रयद्दृष्ट्वा हैवान्नमत्रप्स्यत् ॥ ५ ॥ तच्छ्रोत्रेणाजिघृक्षत् तन्ना-
शक्तोच्छ्रोत्रेण ग्रहीतुम् ॥ स यनच्छ्रोत्रेणाग्रहष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्
॥ ६ ॥ तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्वचा ग्रहीतुम् ॥ स यद्वैनत्वचाऽग्रहै-
व्यरस्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥ ७ ॥ तन्मनसाऽजिघृचत् तन्नाशक्नोन्मनसा
ग्रहीतुम् ॥ स यद्वैनन्मनसाऽग्रहैन्य च्यात्वा हैवान्नमत्रप्स्यत् ॥ ८ ॥ तच्छिश्ने-
नाजिघृक्षत्तनाशक्नोच्छिश्न ग्रहीतुम् ॥ स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्न-
मंत्रप्स्यत् ॥ ९ ॥ तदुपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुर-
नायुर्वा एष यद्वायुः ॥ १० ॥ स ईक्षत कथं न्विदं मडते स्यादिति स ईक्षत
कतरेण प्रपद्या इति ॥ स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं
यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं
यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ११ ॥ स एतमेव
सीमानं विदायैतया द्वारा प्रापद्यत । सैषा विद्यतिर्नाम द्वास्तदेतन्नान्दनम् ॥ तस्य
त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ १२ ॥
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति ॥ स एतमेव पुरुषं
ब्रह्म ततममपश्यदिदमदर्शमिती ३ ॥ १३ ॥ तस्मादिदन्द्रो नामेदन्द्रो ह वै
नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण ॥ परोक्षप्रिया इव हि देवाः
परोक्षप्रिया इव हि देवाः ॥ १४ ॥
I
इति तृतीयः खण्डः ॥ ३ ॥
इत्यैतरेये द्वितीयारण्यके चतुर्थोऽध्यायः ॥ ४ ॥
१ 'मशनायापिपासे.</p>
<note>२. तदेतत्.</note>
<pb n="48" />
<p>NE: 8 ]
ऐतरेयोपनिषत् ॥ ८ ॥
उपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
पुरुषे ह वा अयमादितो गर्भो भवति ॥ यदेतदेतस्तदेतत्सर्वेभ्योऽङ्गेभ्य-
स्तेजः संभूतमात्मन्येवात्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य
प्रथमं जन्म ॥ १ ॥ तत् स्त्रिया आत्मभूयं गच्छति यथास्वमङ्गं तथा ॥
तस्मादेनां न हिनस्ति साऽस्यैतमात्मानमत्र गतं भावयति ॥ २ ॥ सा भाव-
यित्री भावयितव्या भवति तं स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽ-
विभावयति स यत्कुमारं जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भाव-
यत्येषां लोकानां सन्तत्या एवं सन्तंता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ३ ॥
सोsस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयतेऽथास्याऽयमितर आत्मा कृत-
कृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ ४ ॥
तदुक्तमृषिणा । गर्भे नु सन्नन्वेषाम वेदमहं देवानां जनिमानि विश्वा ॥ शतं
मापुर आयसीररक्षन्नधः श्येनो जनसा निरदीयमिति गर्भ एवैतच्छयानो
वामदेव एवमुवाच ॥ ५ ॥ स एवं विद्वानस्माच्छरीरभेदादूर्ध्वं उत्क्रम्यासु-
ष्मिन् स्वर्गे लोके सर्वान् कामानात्वाऽमृतः समभवत् समभवत् ॥ ६॥
इति चतुर्थः खण्डः ॥ ४ ॥
इंत्यैतरेयारण्य पञ्चमोऽध्यायः ॥ ५ ॥ उपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
aiseमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा
शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु
चास्वादु च विजानाति ॥ १ ॥ यदेतद्धृदयं मनश्चैतत् ॥ संज्ञानमाज्ञानं
विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः
कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ २ ॥
- एष ब्रह्मष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि
पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव ॥
बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिजानि
चावा गावः पुरुषा हस्तिनो यत्किचेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं
सर्वं तत्प्रज्ञानं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेनो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म
॥ ३ ॥ स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्का-
मानाश्वाऽमृतः समभवत् समभवत् ॥ इत्योम् ॥ ४ ॥
इति पञ्चमः खण्डः ॥ ५ ॥
इत्यैतरेयारण्यके षष्ठोऽध्यायः ॥ ६ ॥ उपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
अ. उ. ३</p>
<pb n="49" />
<p>- ईशाद्युपनिषत्सु -:
[ अध्यायः
वाङ्ये मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं
वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तार-
मवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इत्यैतरेयोपनिषत् संपूर्णा ॥ ८ ॥
ॐ
'तत्सत् ॥
छान्दोग्योपनिषत् ॥ ९ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदुनिरा-
- करण मस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते ममि
सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
भोमित्येतदक्षरमुद्गीथमुपासीत, ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥१॥
एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां
पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो
रसः ॥ २ ॥ स एष रसाना रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः ॥ ३ ॥
- कतमा कतमर्कत मस्कत मत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ४ ॥
• वागेव प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ तद्वा एतन्मिथुनं यद्वाकू च प्राण-
श्चर्क् च साम च ॥ ५ ॥ तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे ससृज्यते यदा चै
मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥ आपयिता ह
वैकामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥ तद्वा एतदनु-
ज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव तदा हैषो एव समृद्धिर्यदनुज्ञा समर्धयि-
ता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥ तेनेयं
त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शसत्योमित्युद्गायत्येतस्यैवाक्षर-
स्यापचित्यै महिना रसेन ॥ ९ ॥ तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ॥
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य-
वत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥
इति प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
देवासुरा ह वै यन्त्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजहुरने-</p>
<pb n="50" />
<p>छान्दोग्योपनिषत् ॥ ९॥</p>
<p>खण्डः ३.]
नैनानभिभविष्याम इति ॥ १ ॥ ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्म
ना ह्येष विद्धः ॥ २ ॥ अथ ह वाचमुद्गीथमुपासांचक्रिरे ताहासुराः पाप्मना
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं
पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विदम् ॥ ४ ॥ अथ ह श्रोत्रमु-
द्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयँ शृणोति श्रव-
णीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ ५ ॥ अथ ह मन उद्गीथमुपासां-
चक्रिरे तदासुराः पाप्मना विविधुस्तस्मात्तेनोभयः संकल्पयते संकल्पनीयं
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ ६ ॥ अथ ह य एवायं मुख्यः प्राण-
स्तमुद्गीथमुपासांचक्रिरे तहासुरा ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा
विध्वसे ॥ ७ ॥ एवं यथाऽश्मानमाखणमृत्वा विध्वसत एव हैव सं
विध्वसते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः
॥ ८ ॥ नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति
यत्पिबति तेनेतरान् प्राणानवति । एतमु एवान्ततोऽविश्वोत्क्रामति व्याददात्ये*
वान्तत इति ॥ ९ ॥ तहाङ्गिरा उद्गीथमुपासांचक एतमु एवाङ्गिरसं मन्यं-
तेऽङ्घानां यद्वसः ॥ १० ॥ तेन तरह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव
बृहस्पतिं मन्यन्ते वाग्धि बृहती तस्या एष पतिः ॥ ११ ॥ तेन तहायास्य
उद्गीथमुपासांचक एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ १२ ॥ तेन तह
बको दाल्भ्यो विदांचकार ॥ स ह 'नैमिषीयानामुद्गाता बभूव स ह सैभ्यः
कामानागायति ॥ १३ ॥ आगाता ह वै कामानां भवति य एवदेवं विद्वान -
क्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥
इति प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य
उद्गायति उद्यस्तमोभयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं
वेद ॥ १ ॥ समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते
स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति
सोऽपानः ॥ अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाकू
१ नैमिशीयानामुद्गाता.</p>
<pb n="51" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः १
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ ३ ॥ या वाक्सतस्मादप्राणन्ननपान-
चमभिव्याहरति यत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स
उद्गीथस्तस्मादप्राणन्ननपाननुद्गायति ॥ ४ ॥ अतो यान्यन्यानि वीर्यवन्ति कर्माणि
यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानस्तानि करोत्ये-
तस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ ५ ॥ अथ खलूद्रीयाक्षराण्युपासीतोद्गीथ
इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीवांची ह गिर इत्याचक्षतेनं थमने
हीद५ सर्व स्थितम् ॥ ६ ॥ द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवो-
द्वायुर्गीरग्निस्थ सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो
वाचो दोहोsनवानादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त
उद्गीथ इति ॥ ७ ॥ अथ खल्वाशीः समृद्धिरुपसरणानीत्युपासीत येन सान्ना
स्तोष्यन् स्यात्तत्सामोपधावेत् ॥ ८ ॥ यस्यामृचि तामृचं यदार्षेयं तमृषिं यां
देवतामभिष्टयेष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥ येन च्छन्दसा स्तोष्यन्स्यात्त-
च्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्त ँ स्तोममुपधावेत् ॥ १० ॥
यां दिशमभिष्टशेष्यन्स्यात्तां दिशमुपधावेत् ॥ ११ ॥ आत्मानमन्तत उपसृत्य
स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृच्येत यत्कामः
स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२ ॥
इति प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
ॐमित्येतदक्षरमुद्गीथमुपासीतोमिति छुट्टायति तस्योपव्याख्यानम् ॥ १ ॥
देवा वै मृत्योर्विभ्यतस्त्रयीं विद्यां प्राविशस्ते छन्दोभिरच्छादयन्यदेभिराच्छा-
दयस्तच्छन्दसां छन्दस्त्वम् ॥ २ ॥ तानु तन्त्र मृत्युर्यथा मत्स्यमुदके परिप-
श्येदेवं पर्यपश्यद्दचि सान्नि यजुषि । ते नुं विवोर्ध्वा ऋचः सानो यजुषः
स्वरमेव प्राविशन् ॥ ३ ॥ यदा वा ऋचमानोत्योमित्येवातिस्वरत्येव‍ सामैवं
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया
अभवन् ॥ ४ ॥ स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षर स्वरममृतमभयं
प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ ५ ॥
इति प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य
उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥ एतमु एवाहमभ्यगासिषं
तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीस्त्वं पर्यावर्तयाद्व-
हवो वै ते भविष्यन्तीत्यधिदैवतम् ॥ २ ॥ अथाध्यात्मं य एवायं मुख्यः</p>
<pb n="52" />
<p>खण्डः ७]
छान्दोग्योपनिषत् ॥ ९॥</p>
<note>३.७</note>
<p>प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरश्नेति ॥ ३ ॥ एतमु एवाहमभ्यगासि
तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणास्त्वं भूमानमभि-
गायताद्बहवो वै मे भविष्यन्तीति ॥ ४ ॥ अथ खलु य उद्गीथः स प्रणवो
यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुगीतमनुसमाहरतीत्यनुसमा -
हरतीति ॥ ५ ॥
इति प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
इयमेवर्गभिः साम तदेतदेतस्यामृच्य ध्यूढ‍ साम तस्मादृच्यध्यूढ‍ लामै
atra इयमेव साsभिरमस्तत्साम ॥ १ ॥ अन्तरिक्षमेववयुः साम तदेतदे-
तस्यामृच्यध्यूढं साम् तस्मादृच्यध्यूढ साम गीयतेऽन्तरिक्षमेव सा वायु-
रमस्तत्साम ॥ २ ॥ द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढ‍ साम तस्मा-
यूटर साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ ३ ॥ नक्षत्राण्येवं-
चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढ साम तस्मादृच्यध्यूढ साम गीयते
नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ ४ ॥ अथ यदेतदादित्यस्य शुक्लं
भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढ साम तस्मा-
हृच्यध्यूढ साम गीयते ॥ ५ ॥ अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साऽथ
- यन्नीलं परः कृष्णं तदुमस्तत्सामाऽथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ॥ ६ ॥ तस्य यथा
कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥ तस्य च साम च गेष्णौ
तस्मादुद्गीथस्तस्माच्चैवोद्गातस्य हि गाता स एष ये चामुष्मात्पराञ्चो
लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥
इति प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
अथाध्यात्मं वागेवकुं प्राणः साम तदेतदेतस्यामृच्यध्यूढ‍ साम तस्माह-
च्यध्यूढ५ साम गीयते ॥ वागेव सा प्राणोऽमस्तस्लाम ॥ १ ॥ चक्षुरेवर्गात्मा
साम तदेतदेतस्यामृच्यध्यूढं साम तस्माच्यध्यूढ‍ साम गीयते ॥ चक्षुरेव
साऽऽत्मामस्तत्साम ॥ २ ॥ श्रोत्रमेवमनः साम तदेतदेतस्यामृच्यध्यूढ‍
साम तस्मादृच्यध्यूढः साम गीयते ॥ श्रोत्रमेव सा मनोऽमस्तत्साम ॥ ३ ॥
अथ यदेतदक्षणः शुकुं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्था-
मृच्यध्यूढ‍ साम तस्मादृच्यध्यूटर साम गीयते । अथ यदेवैतदणः शुक्लं भाः
सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ ४ ॥ अथ य एषोऽन्तर क्षिणि
पुरुषो दृश्यते सैवर्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं
२ अथ य एषोऽक्षिणि पुरुषो इति पाठः ।
१ दुरुद्गीथमनु° इति पाठः ।</p>
<pb n="53" />
<p>૨૦
ईशापनिषत्सु -
[ अध्यायः :
यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥ स एष ये.
चैतस्मादर्वाचो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायाँ
गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥ अथ य एतदेवं विद्वान्साम
गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चोलोकास्ता-
श्वाप्नोति देवकामाश्च ॥ ७ ॥ अथानेनैव ये चैतस्मादवञ्चो लोकास्ता-
श्रामोति मनुष्यकामा ँश्च तस्मादु हैवंविदुद्वाता ब्रूयात् ॥ ፡ ॥ कं ते
काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम
गायति ॥ ९ ॥
इति प्रथमाध्याये सप्तमः खण्डः ॥ ७ ॥
यो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः
प्रवाहणो जैवलिरिति, ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम
इति ॥ १ ॥ तथेति ह समुपविविशुः, स ह प्रवाहणो जैवलिरुवाच भगव-
न्ताव वदतां ब्राह्मणयोर्वदतोर्वाच श्रोष्यामीति ॥ २ ॥ स ह शिलकः
शालावत्यश्चेकितानं दालभ्यमुवाच हन्त त्वा पृच्छानीति, पृच्छेति होवाच
॥ ३ ॥ का साम्नो गतिरिति, स्वर इति होवाच स्वरस्य का गतिरिति, प्राण
इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति
होवाच ॥ ४ ॥ अपां का गतिरित्यसौ लोक इति होवाचामुष्य- लोकस्य का
गतिरिति न स्वर्ग लोकमतिनयेदिति होवाच, स्वर्गं वयं लोकर सामाभिसं-
स्थापयामः स्वर्गस ँस्ताव ँ हि सामेति ॥५॥ त ह शिलकः शालावत्यश्चैकि-
तायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दारभ्य साम यस्त्वे तर्हि ब्रूयान्मूर्धा
ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ ६ ॥ हन्ताहमेतद्भगदतो
वेदानीति, विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवा -
चास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां
वयं लोक सामाभिस ँ स्थापयामः प्रतिष्ठास स्ताव हि सामेति ॥ ७ ॥
तह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि
ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो.
वेदानीति, विद्धीति होवाच ॥ ८ ॥ -
इति प्रथमाध्याऽष्टमः खण्डः ॥ ८ ॥
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि
भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्याया-</p>
<pb n="54" />
<p>खण्डः ११] ·
छान्दोग्योपनिषत् ॥ ९ ॥</p>
<p>नाकाशः परायणम् ॥ १ ॥ स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोव-
यो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीया ँ
समुद्गीथमुपास्ते ॥ २ ॥ ततमतिधन्वा शौनक उदरशाण्डिल्यायो-
क्स्वोवाच यावत्त एवं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावद मिलोके
जीवनं भविष्यति ॥ ३ ॥ तथामुष्मिँल्लोके लोक इति स य एतदेवं ...
विद्वानुपास्ते परोवरीय एवं हास्यास्मिँल्लोके जीवनं भवति तथामुष्मिँल्लोके
लोक इति लोके लोक इति ॥ ४ ॥
•
इति प्रथमाध्याये नवमः खण्डः ॥ ९ ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्वा-
णक उवास ॥ १ ॥ स हेभ्यं कुल्माषान्वादन्तं बिभिक्षे त होवाच ॥
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥ एतेषां मे देहीति
होवाच, तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीत स्यादिति होवाच
॥ ३ ॥ न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति
होवाच कामो म उदपानमिति ॥ ४ ॥ स ह खादित्वातिशेषाआयाया आज-
हार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५ ॥ स ह प्रातः
संजिहान उवाच यद्वतान्नस्य लमहि लभेमहि धनमात्रा राजासौ यक्ष्यते
स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ ६ ॥ तं जायोवाच हन्त पत इम एव कुल्माषा
इति तखादित्वा यज्ञं विततमेयाय ॥ ७ ॥ तत्रोद्गातृनास्तावे स्तोष्य-
माणानुपोपविवेश, सह प्रस्तोतारमुवाच ॥ ८ ॥ प्रस्तोतार्या देवता प्रस्ताव-
मन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ ९ ॥ एवमे-
वोद्गातारमुवाचोगातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्रास्यसि मूर्धा
ते विपतिष्यतीति ॥ १० ॥ एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति, ते ह
समारतास्तूष्णीमासांचक्रिरे ॥ ११ ॥
इति प्रथमाध्याये दशमः खण्डः ॥ १० ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीयुषस्तिरस्मि
चाक्रायण इति होवाच ॥ १ ॥ स होवाच भगवन्तं वा अहमेभिः सर्वैरा-
विज्यैः पयैषिषं भगवतो वा अहमवित्यान्यानवृषि ॥ २ ॥ भगवा
मे सर्वैर्त्विज्यैरिति तथेत्यथ तत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं
दद्यास्तावन्मम दद्या इति, तथेति ह यजमान उवाच ॥ ३ ॥ अथ हैनं प्रस्तो-
तोपससाद, प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि
१ एतमेव इति पाठः । २ उदकपानमिति पाठः ।</p>
<pb n="55" />
<p>ईशाद्युपनिषत्सु -
-[ अध्यायः १
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ ४ ॥ प्राण
इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणम-
भ्युजिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते
व्यपतिष्यत्तथोक्तस्य मयेति ॥ ५ ॥ अथ हैनमुद्गातोपससादोद्गातय देवतो -
द्वीथमन्वायत्ता तां चेदविद्वानुद्वास्यसि मूर्धां ते विपतिष्यतीति, मा भगवान -
वोचत्कतमासा देवतेति ॥ ६ ॥ आदित्य इति होवाच, सर्वाणि ह वा इमानि
भूतान्यादित्यमुचैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानु-
दगास्य मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ ७ ॥ अथ हैनं प्रतिहतों-
पससाद, प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसिं
मूर्धा ते विपतिष्यतीति, मा भगवानवोचत्कतमा सा देवतेति ॥ ८ ॥ अन्न-
मिति होवाच, सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रति हरमाणानि जीवन्ति
सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपति-
यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ९ ॥
इति प्रथमाध्याय एकादशः खण्डः ॥ ११ ॥
अथातः शौव उद्गीथस्तद्ध बको दारभ्यो ग्लावो वा मैत्रेयः स्वाध्यायामु-
द्वाज ॥ १ ॥ तस्मै श्वा श्वेतः प्रादुर्बभूव, तमन्ये श्वान उपसमेत्योचुरन्नं नो
भगवानागास्वशनायाम वा इति ॥ २ ॥ तान्होवाचेहैव मा प्रातरूपसमी-
यातेति, तद्ध बको दालभ्यो ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ ३ ॥ ते
ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सरब्धाः सर्पन्तीत्येव माससृपुस्ते
ह समुपविश्य हिंचकुः ॥ ४ ॥ ॐ ३मदा३मों३पिबा३मों३देवो वरुणः
प्रजापतिः सविता र नमिहा २ssहरदन्नपते ३ न्नमिहा २ऽऽहरा २ऽऽहरो ३ मिति ॥५॥
इति प्रथमाध्याये द्वादशः खण्डः ॥ १२ ॥
अयं वाव लोको हाउकारो वायुर्हाइकारश्चन्द्रमा अथकार आत्मेहका-
रोऽग्झिरीकारः ॥ १ ॥ आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोइकारः
प्रजापतिर्हिकारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥ अनिरुक्तस्त्रयोदशः स्तोभः
संचरो हुंकारः ॥ ३ ॥ दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो
भवति य एतामेव साम्नामुपनिषदं वेदोपनिषदं वेद इति ॥ ४ ॥
इति प्रथमाध्याये त्रयोदशः खण्डः ॥ १३ ॥
इति प्रथमोऽध्यायः ॥ १ ॥</p>
<pb n="56" />
<p>खण्डः ६ ]
छान्दोग्योपनिषत् ॥ ९ ॥
अथ द्वितीयोऽध्यायः ॥ २ ॥</p>
<p>ॐ समस्तस्य खलु सान्न उपासन साधु यत्खलु साधु तत्सामेत्याचक्षते
यदसाधु तदसामेति ॥ १ ॥ तदुताप्याहुः सान्नैनमुपागादिति साधुनैनमुपा-
गादित्येव तदाहुरसान्नैनमुपागादित्य साधुनैनमुपागादित्येव तदाहुः ॥ २ ॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु- बतेत्येव तदाहुरसाम
नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥ स य एतदेवं
विद्वान्साधु सामेत्युपास्तेऽभ्याशो ह यदेन५ साधवो धर्मा आ च गच्छेयु-
रूप च नमेयुः ॥ ४ ॥
इति द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥
लोकेषु पञ्चविध‍ सामोपासीत पृथिवी हिंकारोऽग्निः प्रस्तावोऽन्तरिक्षमु-
- द्वीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥ अथावृत्तेषु द्यौर्हिकार
आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽभिः प्रतिहारः पृथिवी निधनम् ॥ २ ॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं विद्वाँल्लोकेषु पञ्चविध
सामोपास्ते ॥ ३ ॥
इति द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥
वृष्टौ पञ्चविध सामोपासीत पुरोवातो हिंकारो मेघो जायते स प्रस्तावो
वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः ॥ १ ॥ उद्गृह्णाति तन्नि-
धनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविध सामोपास्ते ॥२॥
इति द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥
सर्वास्त्र पञ्चविध सामोपासीत मेघो यत्संप्लवते स हिंकारो यद्वर्षति स
प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः
समुद्रो निधनम् ॥ १ ॥ न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वा -
स्वप्सु पञ्चविध सामोपास्ते ॥ २ ॥
इति द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥
ऋतुषु पञ्चविध सामोपासीत वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा
उद्गीथः शरव्प्रतिहारो हेमन्तो निधनम् ॥ १ ॥ कल्पन्ते हास्मा ऋतव
ऋतुमान्भवति य एतदेवं विद्वानृतुषु पञ्चविध सामोपास्ते ॥ २ ॥
इति द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥
पशुषु पञ्चविध सामोपासीताजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः</p>
<pb n="57" />
<p>४२:
ईशाद्युपनिषत्सु -
[ अध्यायः २
प्रतिहारः पुरुषो निधनम् ॥ १ ॥ भवन्ति हास्य पशवः पशुमान्भवति य
एतदेवं विद्वान्पशुषु पञ्चविध सामोपास्ते ॥ २ ॥
.
इति द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥"
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षु-
रुद्रथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयासि वैतानि ॥ १ ॥ परो-
वरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्प्राणेषु
पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २ ॥
इति द्वितीयाध्याये सप्तमः खण्डः ॥ ७ ॥
अथ सप्तविधस्य वाचि सप्तविध सामोपासीत यत्किंच वाचो हुमिति स
हिंकारों यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ १ ॥ यदुदिति स उद्गीथो
यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २ ॥
research यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि
सप्तविध‍ सामोपास्ते ॥ ३ ॥
इति द्वितीयाध्यायेऽष्टमः खण्डः ॥ ८ ॥
अथ खल्त्रमुमादित्य सप्तविध‍ सामोपासीत सर्वदा समस्तेन साम मां
प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥ तस्मिन्निमानि सर्वाणि भूता-
न्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य पशवोऽन्वायत्तास्त-
स्मात्ते हिंकुर्वन्ति हिंकारभाजिनो ह्येतस्य साम्नः ॥ २ ॥ अथ यत्प्रथमोदिते
स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशसाकामाः
प्रस्तावभाजिनो ह्येतस्य सान्नः ॥ ३ ॥ अथ यत्सङ्गववेलाया स आदिस्त-
दुस्ख वयास्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिप-
तन्त्यादिभाजी नि ह्येतस्य साम्नः ॥ ४ ॥ अथ यत्संप्रति मध्यन्दिने सउदी -
थस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो
ह्येतस्य साम्नः ॥ ५॥ अथ यदूर्ध्व मध्यंदिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य
गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य
साम्न्नः ॥ ६ ॥ अर्थ यदूर्ध्वमपराह्नात्प्रागस्तमयात्स उपद्रवस्तदस्यारण्या
अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्ष श्वभ्रमित्युपद्रवन्त्युपद्रव भाजिनो ह्येतस्य
साम्नः ॥ ७ ॥ अथ यत्प्रथम स्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्त-
स्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यः सप्तविध‍
सामोपास्ते ॥ ८ ॥
इति द्वितीयाध्याये नवमः खण्डः ॥ ९ ॥ .</p>
<pb n="58" />
<p>खण्डः १४ ]
छान्दोग्योपनिषत् ॥ ९ ॥</p>
<p>अथ खल्वात्मसंमितमतिमृत्यु सप्तविध‍ सामोपासीत हिंकार इति
यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥ आदिरिति व्यक्षरं प्रतिहार इति
चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥ उद्गीथ इति त्र्यक्षरमुपद्रव इति चतु-
रक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥
निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविशतिरक्षराणि
॥ ४ ॥ एकविंशत्यादित्यमा मोत्ये कवि शो वा इतोऽसावादित्यो द्वाविशेन
परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥ आप्नोतीहादित्यस्य जयं परो
हास्यादित्यजयाजयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविध‍
सामोपास्ते सामोपास्ते ॥ ६ ॥
इति द्वितीयाध्याये दशमः खण्डः ॥ १० ॥
मनो हिंका वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेत-
गायत्रं प्राणेषु प्रोतम् ॥ १ ॥ स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी-
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीय
महामनाः स्यात्तद्व्रतम् ॥ २ ॥
- इति द्वितीयाध्याये एकादशः खण्डः ॥ ११ ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो ज्वलति स उद्गी-
atsङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधन सशाम्यति तन्नि-
धनमेतद्रथन्तरमनौ प्रोतम् ॥ १ ॥ स य एवमेतद्रथन्तरमनौ प्रोतं वेद ब्रह्म-
वर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महाकर्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्रतम् ॥ २ ॥
इति द्वितीयाध्याये द्वादशः खण्डः ॥ १२ ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः
प्रेति स्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्नि-
धनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥ स य एवमेतद्वामदेव्यं मिथुने प्रोतं
वेद मिथुनीभवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महा-
प्रजया पशुभिर्भवति महान्कीर्त्या न कांचन परिहरेत्तद्रतम् ॥ २ ॥
इति द्वितीयाध्याये त्रयोदशः खण्डः ॥ १३ ॥
उद्यन्हिकार उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्नः प्रतिहारोऽस्तं
यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ १ ॥ स य एवमेतद्वृहदादित्ये प्रोतं वेद
तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महा तपन्तं न निन्देत्ततम् ॥ २ ॥
इति द्वितीयाध्याये चतुर्दशः खण्डः ॥ १४ ॥
१ प्रतिस्त्रीं इति पाठः ।</p>
<pb n="59" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः २
अाणि gada fहंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो
विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तनिधनमेतद्वैरूपं पर्जन्ये प्रोतम्
॥ १ ॥ स य एवमेतद्वैरूपं पर्जन्ये 'प्रोतं वेद विरूपाश्च सुरूपाश्च पशून-
वरुन्धे सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीय
वर्षन्तं नो निन्देत्ततम् ॥ २ ॥
इति द्वितीयाध्याये पञ्चदशः खण्डः ॥ १५ ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो
निधनमेतद्वैराजमृतुषु प्रोतम् ॥ १ ॥ स य एवमेतद्वैराजमृतुषु प्रोतं वेद
विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्यतूंन निन्देत्तद्रतम् ॥ २ ॥
इति द्वितीयाध्याये षोडशः खण्डः ॥ १६ ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो
निधनमेताः शक्र्यो लोकेषु प्रोताः ॥ १ ॥ स य एवमेताः शक्कर्यो लोकेषु
प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महाकर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २ ॥
इति द्वितीयाध्याये सप्तदशः खण्डः ॥ १७ ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधन -
सेता रेवत्यः पशुषु प्रोताः ॥ १ ॥ स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महा-
की पशून्न निन्देत्तद्रतम् ॥ २ ॥
इति द्वितीयाध्यायेऽष्टादशः खण्डः ॥ १८ ॥
लोम हिंकारस्त्वक्प्रस्तावो मासमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमे-
तद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ १ ॥ स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं
वेदाऽङ्गीभवति नाङ्गेन विच्छेति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो नाभीयात्तद्रतं मज्ज्ञो नाश्नीयादिति
वा ॥ २ ॥
इति द्वितीयाध्याये एकोनविंशः खण्डः ॥ १९ ॥
अग्निर्हिकारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा
निधनमेतद्वाजनं देवतासु प्रोतम् ॥ १ ॥ स य एवमेतद्वाजनं देवतासु
प्रोतं वेदैतासामेव देवताना सलोकता ँ साष्टिता सायुज्यं गच्छति
१ विमूच्छति इति पाठः ।</p>
<pb n="60" />
<p>खण्डः २३ ]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान
निन्देत्तद्रतम् ॥ २ ॥
इति द्वितीयाध्याये विंशः खण्डः ॥ २० ॥
ret विद्या हिंकारत्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो
नक्षत्राणि वयासि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तनि-
धनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १ ॥ स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद
सर्व ह भवति ॥ २ ॥ तदेष श्लोकः ॥ यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न
ज्यायः परमन्यदस्ति ॥ ३ ॥ यस्तद्वेद स वेद सर्व५ सर्वा दिशो बलिमस्मै
हरन्ति सर्वमस्मीत्युपासीत तद्रतं तद्रतम् ॥ ४ ॥
इति द्वितीयाध्याये एकविंशः खण्डः ॥ २१ ॥
विनर्दि सानो वृणे पशव्यमित्यग्ने रुद्रीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य
मृदु लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य
तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥ अमृतत्वं देवेभ्य आगाया-
नीत्यागात्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं
यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २ ॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्यो-
रात्मानस्तं यदि स्वरेषूपालभेतेन्द्र शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यती-
त्येनं ब्रूयात् ॥ ३ ॥ अथ यद्येनमूष्मसूपालभेत प्रजापति ँ शरणं प्रपन्नोऽभूवं
सवा प्रतिपेक्ष्यतीत्येनं ब्रूयादथ यद्येन स्पर्शेषूपालभेत मृत्युः शरणं प्रपन्नो-
sभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥ सर्वे स्वरा घोषवन्तो बलवन्तो
वक्तव्य इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः
प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या
मृत्योरात्मानं परिहराणीति ॥ ५ ॥
:
इति द्वितीयाध्याये द्वाविंशः खण्डः ॥ २२ ॥
यो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति । प्रथमस्तप एव द्वितीयो ब्रह्म-
चार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते
पुण्यलोका भवन्ति ब्रह्मसस्थोऽमृतत्वमेति ॥ १ ॥ प्रजापतिर्लोकानभ्य तप-
तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्य-
क्षराणि संप्रात्रवन्त भूर्भुवः स्वरिति ॥ २ ॥ तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य
ॐकारः संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृष्णान्येवमोंकारेण सर्वा
वाकू संतृणोंकार एवेद सर्वमोंकार एवेद सर्वम् ॥ ३ ॥
इति द्वितीयाध्याये त्रयोविंशः खण्डः ॥ २३ ॥</p>
<pb n="61" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः २
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवन‍ रुद्राणां माध्यन्दिनँ सवन-
मादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ १ ॥ क्व तर्हि यजमा•
नस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ २ ॥ पुरा
प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासव
सामाभिगायति ॥ ३ ॥ लो ३कद्वारमपावा ३ र्णू ३३ पश्येम त्वा वय ँरा-
३ ३ ३ ३ ३ हुं ३ आ ३३ ज्या यो ३ आ ३२१११ इति ॥ ४ ॥ अथ
जुहोति नमोऽनये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै
यजमानस्य लोक एवास्मि ॥ ५ ॥ अत्र यजमानः परस्तादायुषः स्वाहाsप-
जहि परिधमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातः सवन संप्रयच्छन्ति ॥ ६॥
पुरा माध्यन्दिनस्य सवनस्योपा करणाज्जघनेनानी श्रीयस्योदङ्मुख उपविश्य
सरौद्र सामाभिगायति ॥ ७ ॥ लोकद्वारमपावाणू ३३ पश्येम वा
_ वयं वैरा ३३३३३ हुं ३ आ. ३३ ज्या ३. यो ३ मा ३२१११ इति
॥ ८ ॥ अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे
यजमानाय विन्देष वै यजमानस्य लोक एतास्मि ॥ ९ ॥ अत्र यजमानः
परस्तादायुषः स्वाहाsपजहि परिवमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्य-
न्दिनः सवन संप्रयच्छन्ति ॥ १० ॥ पुरा तृतीयसवनस्योपाकरणाज्जघने-
नाहवनीयस्योदङ्मुख उपविश्य स आदित्य स वैश्वदेव सामाभिगा-
यति ॥ ११ ॥ - लोकद्वारमपा वा ३ र्णू ३३ पश्येम त्वा वय ँ स्वारा
३३३३३ हुँ ३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ १२ ॥ आदि-
त्यमथ वैश्वदेवं लो३ कद्वारमपावा ३ र्ण ३३ पश्येम त्वा वय ँ साना
३३३३३ हुं ३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ १३ ॥ अथ जुहोति
नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिच्यो लोकक्षिन्यो लोकं मे
यजमानाय विन्दत ॥ १४ ॥ एष वै यजमानस्य लोक एवाऽस्म्यत्र यजमानः
परस्तादायुषः स्वाहाऽपहत परिवमित्युक्त्वोत्तिष्ठति ॥ १५ ॥ तस्मा आदित्याश्च
विश्वे च देवास्तृतीय ँ सवन संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं
वेद य एवं वेद ॥ १६॥
इति द्वितीयाध्याये चतुर्विंशः खण्डः ॥ २४ ॥
इति द्वितीयोऽध्यायः ॥ २ ॥</p>
<pb n="62" />
<p>खण्ड: ४..
1
छान्दोग्योपनिषत् ॥ ९॥
अथ तृतीयोऽध्यायः ॥ ३ ॥</p>
<p>ॐ असौ वा आदित्यो- देवमधु तस्य द्यौरेव तिरश्चीनव ँ शोऽन्तरिक्षमपूपो
मरीचयः पुत्राः ॥ १ ॥ तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः
॥ २ ॥ एवमृग्वेदमभ्यतपस्वत्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य
रसोऽजायत ॥ ३ ॥ तद्व्यचरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य
रोहित रूपम् ॥ ४ ॥
इति तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥
अथ येster दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूष्येव
मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि
यजुष्येतं यजुर्वेदमभ्यतप स्वस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य
रसोऽजायत ॥ २ ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य
शुक्र रूपम् ॥ ३ ॥
इति तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥
अथ येsts प्रत्यञ्च रश्मयस्ता एवास्य प्रतीच्यो- मधुनाड्यः सामान्येव
मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि
सामान्येत ँ सामवेदमभ्यतपस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य
रसोऽजायत ॥ २ ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य
परं कृष्ण रूपम् ॥ ३ ॥
इति तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥
अथ येsस्योदनो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव
मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥ ते वा एतेऽथर्वाङ्गिरस
एतदितिहासपुराणमभ्यतपस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य
रसोऽजायत ॥ २ ॥ तद्व्यचरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य
परं कृष्ण ँ रूपम् ॥ ३ ॥
इति तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधु-
कृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥ ते वा एते गुह्या आदेशा एत-
ह्याभ्यतपस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत ॥ २ ॥
तद्व्यचरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव</p>
<pb n="63" />
<p>ईशापनिषत्सु -
[ अध्यायः ३
॥ ३ ॥ ते वा एते रसाना रसा वेदा हि रसास्तेषामेते रसाखानि वा
एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥
इति तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा भनन्ति न
पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्मा-
पादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादु-
देति ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव ताव-
दाधिपत्यः स्वाराज्यं पर्येता ॥ ४ ॥
इति तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥
अथ द्वितीयममृतं तद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अन्ति
न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्ये-
तस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति
॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतो-
तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यः स्वाराज्यं पर्येता ॥ ४ ॥
इति तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥
अथ तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा
अन्तत पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपम-
भिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेदादित्यानामे-
वैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसं-
विशत्येतस्माद्रूपादुदेति ॥ ३ ॥ स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्त-
मेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यानामेव तावदाधिपत्य‍
स्वाराज्यं पर्येता ॥ ४ ॥
इति तृतीयाध्यायेऽष्टमः खण्डः ॥ ८ ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अनन्ति
न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्ये-
तस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद मरुतामेवैको भूत्वा
सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपा-</p>
<pb n="64" />
<p>खण्डः १२]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>दुदेति ॥ ३ ॥ स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत
उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्य स्वाराज्यं पर्येता ॥ ४ ॥
इति तृतीयाध्याये नवमः खण्डः ॥ ९ ॥
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा
अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंवि-
शन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद साध्यानामेवैको
भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येत-
स्माद्रूपादुदेति ॥ ३ ॥ स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्ता-
वदूर्ध्व उदेताऽर्वाङस्तमेता साध्यानामेव तावदाधिपत्य ँ स्वाराज्यं पर्येता ॥ ४ ॥
इति तृतीयाध्याये दशमः खण्डः ॥ १० ॥
अथ तत ऊर्ध्व उदैत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष
श्लोकः ॥ १ ॥ न वै तत्र न निम्लोच नोदियाय कदाचन ॥ देवा-
स्तेनाह ँ सत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥ न ह वा अस्मा उदेति न
निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥
तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्वैतदुद्दालका-
यारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥ इदं वाव तज्येष्ठाय
पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वाऽन्तेवासिने ॥ ५ ॥ नान्यस्मै कस्मैचन
यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्ये-
तदेव ततो भूय इति ॥ ६ ॥
इति तृतीयाध्याये एकादशः खण्डः ॥ ११ ॥
गायत्री वा इदु सर्वं भूतं यदिदं किंच वाग्वै गायत्री वाग्वा इदु सर्व
भूतं गायति च त्रायते च ॥ १ ॥ या वै सा गायत्रीयं वाव सा येयं पृथि-
व्यस्या हीद ँ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥ या वैसा
पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एव-
देव नातिशीयन्ते ॥ ३ ॥ यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः
पुरुषे हृदयमस्मिन्ही मे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥ सैषा
चतुष्पदा षड्विधा गायत्री तदेतद्वचाभ्यनूक्तम् ॥ ५ ॥ तावानस्य महिमा
ततो ज्यायाश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति
. ६ ॥ यद्वै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा
उरुषादाकाशः ॥ ७ ॥ अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै
अ. उ. ४</p>
<pb n="65" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ३
सोऽन्तः पुरुष आकाशः ॥ ८ ॥ अयं वाव स योऽयमन्तर्हृदय आकाशस्तदे-
तत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिनी श्रियं लभते य एवं वेद ॥ ९ ॥
इति तृतीयाध्याये द्वादशः खण्डः ॥ १२ ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राण-
चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं
वेद ॥ १ ॥ अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्र स चन्द्रमास्तदे-
तच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्त्री भवति य एवं वेद ॥ २ ॥ अथ
योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपा-
सीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥ अथ योऽस्योदइ सुषिः
स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टि-
मान्भवति य एवं वेद ॥ ४ ॥ अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः
स आकाशस्तदेतदोजश्च महश्वेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद
॥ ५ ॥ ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं
पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते
स्वर्ग लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु
लोकेष्विदं वा तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिर्यत्रैतदस्मिन्छरीरे
सधैँ स्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव
नदथुरिवामेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः
श्रुतो भवति य एवं वेद य एवं वेद ॥ ७ ॥
इति तृतीयाध्याये त्रयोदशः खण्डः ॥ १३ ॥
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो
यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स ऋतुं कुर्वीत ॥ १ ॥
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः
सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥ एष म आत्मा-
अन्तर्हृदयेऽणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा
एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्जयायान्दिवो ज्याया-
नेभ्यो लोकेभ्यः ॥ ३ ॥ सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व मिदम-
भ्यात्तोsवाक्यनादर एष म आत्माऽन्तर्हृदय एतद्वैतमितः प्रेत्याभिसंभविता-
स्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥४॥
इति तृतीयाध्याये चतुर्दशः खण्डः ॥ १४ ॥</p>
<pb n="66" />
<p>खण्ड: १६ ]
छान्दोग्योपनिषत् ॥ ९॥
अन्तरिक्षोदरः कोशो भूमिबुनो न जीर्यति दिशो हास्य सक्तयो द्यौर-
स्योत्तरं बिल स एष कोशो वसुधानस्तस्मिन्विश्वमिद श्रितम् ॥ १ ॥ तस्य
प्राची दिग्जहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता
नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोद-
रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोद रुदम् ॥ २ ॥ अस्टिं
कोशं प्रपद्येमुनामुनाऽमुना प्राणं प्रपद्येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुना-
सुनामुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽसुनामुनाऽमुना ॥ ३ ॥
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इद ँ सर्वं भूतं यदिदं किंच तमेव
तपसि ॥ ४ ॥ अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥ अथ यदवोचं भुवः प्रपद्य इत्यमिं
प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥ अथ यदवोच‍
स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तद्-
वोचम् ॥ ७ ॥
इति तृतीयाध्याये पञ्चदशः खण्डः ॥ १५ ॥
.
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातः सवनं चतुर्विंश-
त्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव
एते ही सर्व वासयन्ति ॥ १ ॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेल्स
ब्रूयात्प्राणा वसव इदं मे प्रातः सवनं माध्यन्दिनः सवनमनुतनुतेति माऽहं
प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥२॥
अथ यानि चतुश्चत्वारि शर्षाणि तन्माध्यन्दिनः सवनं चतुश्चत्वारिशदक्षरा
त्रिष्टुप त्रैष्टुभं माध्यन्दिनः सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुझ
एते ही सर्व रोदयन्ति ॥ ३ ॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स
ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिन‍ सवनं तृतीयसवनमनुसन्तनुतेति माऽहं
प्राणाना रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युचैव तत एत्यगदो ह भवति
॥ ४ ॥ अथ यान्यष्टाचत्वारिशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिशदक्षरा
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावाऽऽदित्या एते
हीदु ँ सर्वमाददते ॥ ५ ॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माऽहं प्राणानामादित्यानां
मध्ये यज्ञो विलोप्सीये युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥ एतद्ध स्म त्रै
तद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्या-
मीतिसह षोडशवर्षशतमजीवत् ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥
इति तृतीयाध्याये षोडशः खण्डः ॥ १६ ॥</p>
<pb n="67" />
<p>ईशायुपनिषत्सु -
[ अध्यायः ३
स यदशिशिषति यत्पिपासति यन रमते ता अस्य दीक्षा ॥ १ ॥ अथ
यदश्नाति यत्पिबति यद्रुमते तदुपसदैरेति ॥ २ ॥ अथ यद्धसति यज्जक्षति
यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥ अथ यत्तपो दानमार्जवमहि ँ सा
सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥ तस्मादाहुः सोष्यत्यसोष्टेति पुन -
रुत्पादनमेवास्य तन्मरणमेवास्थावभृथः ॥ ५ ॥ तद्वैतद्वोर आङ्गिरसः कृष्णाय
देवकीपुत्रायो क्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्रयं प्रति-
पश्येताक्षितमस्यच्युतमसि प्राणस शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६॥
आदिप्रतस्य रेवस उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तर स्वः पश्यन्त
उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥
इति तृतीयाध्याये सप्तदशः खण्डः ॥ १७ ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भव-
त्यध्यात्मं चाधिदैवतं च ॥ १ ॥ तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पाद-
श्रक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः
पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च
तपति व कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥ प्राण एव ब्रह्मण-
श्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च
कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥ चक्षुरेव ब्रह्मणश्चतुर्थः पादः
स श्रादित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥ श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिज्यों-
तिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य
एवं वेद य एवं वेद ॥ ६ ॥
इति तृतीयाध्यायेऽष्टादशः खण्डः ॥ १८ ॥
आदित्यो ब्रह्मेत्या देशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्स-
मभवत्तदण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्ड-
कपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥ तद्यद्रजत सेयं पृथिवी यत्सु-
वर्ण ँ सा द्यौर्यजरायु ते पर्वता यदुल्ब स मेघो नीहारो या धमनयस्ता
नद्यो यद्वास्तेयमुदक ँ स समुद्रः ॥ २ ॥ अथ यत्तदजायत सोऽसावादित्यस्तं
जायमानं घोषा उलूलवोऽनुदतिष्ठन्त्सर्वाणि च भूतानि च सर्वे च कामास्त-
स्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च</p>
<pb n="68" />
<p>खण्डः २]
छान्दोग्योपनिषत् ॥ ९॥</p>
<note>५३.</note>
<p>भूतानि सर्वे चैव कामाः ॥ ३ ॥ स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेs-
भ्याशो ह यदेन‍ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निब्रेडेरन् ॥ ४ ॥
इति तृतीयाध्याये एकोनविंशः खण्डः ॥ १९ ॥
इति तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ॥ ४ ॥
ॐ जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह
सर्वत आवसथान्मापयचक्रे सर्वत एव मेऽत्स्यन्तीति ॥ १ ॥ अथ ह ह ँसा
निशायामतिपेतुस्तद्वैव ँ ह ँसो ह ँ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष
जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा
प्रधाक्षीरिति ॥ २ ॥ तमु ह परः प्रत्युवाच कम्बर एनमेतत्सन्त सयुग्वान-
Thra रैकमात्थेति यो नु कथ ँ सयुग्वा रैक्व इति ॥ ३ ॥ यथा कृताय विजि-
तायाधरेयाः संयन्त्येवमेन सर्वं तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति
यस्तद्वेद यस वेद स मयैतदुक्त इति ॥ ४ ॥ तदु ह जानश्रुतिः पौत्रायण
उपशुश्राव स ह संजिहान एव क्षत्तारमुवाचाङ्गारे हे सयुग्वानमिव रैकमा-
स्थेति यो नु कथ ँ सयुग्वा रैक्व इति ॥ ५ ॥ यथा कृतायविजितायाधरेयाः
संयन्त्येवमेन सर्वं तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स
वेद स मयैतदुक्त इति ॥ ६ ॥ स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येयाय त‍
होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमच्छेति ॥ ७ ॥ सोऽधस्ताच्छकटस्य
पामानं कषमाणमुपोपविवेश त ँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्क
यह झरा ३ इति ह प्रतिजज्ञे स ह क्षत्ताऽविदमिति प्रत्येयाय ॥ ८ ॥
इति चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥
तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय
प्रतिचक्रमे तर हाभ्युवाद ॥ १ ॥ रेक्केमानि षट् शतानि गवामयं निष्कोऽय-
मश्वतरीरथो नु म एतां भगवो देवता शाधि यां देवतामुपास्त इति ॥२॥
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदुह पुन-
रेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय
प्रतिचक्रमे ॥ ३ ॥ तर् हाभ्युवाद रैक्वेद सहस्रं गवामयं निष्कोऽयमश्वतरी-
रथ इयं जायाऽयं ग्रामो यस्मिन्नास्तेऽन्वेव मा भगवः शाघीति ॥ ४ ॥ तस्मा</p>
<pb n="69" />
<p>•
ईशाद्युपनिषत्सु -
[ अध्यायः ४
हं मुखमुपोवाचाजहारेमाः शूद्रानेनैव मुखेनालापविष्यथा इति ते
हैते रैकपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ॥ ५ ॥
इति चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥
वायुर्वा संवर्गों यदा वा अनिरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति
वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥ यदाप उच्छुष्यन्ति
वायुमेवापियन्ति वायु वैतान्सर्वान्संवृत इत्यधिदैवतम् ॥ २ ॥ अथाध्यात्मं
प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणः श्रोत्रं
प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृत इति ॥ ३ ॥ तौ वा एतौ द्वौ संवर्गों वायु-
रेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ अथ ह शौनकं च कापेयमभिप्रतारिणं च
काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ हैं न ददतुः ॥ ५ ॥ स
होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय
नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न
दत्तमिति ॥ ६ ॥ तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायाssस्मा देवानां
जनिता प्रजाना हिरण्यदश्ष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरन-
द्यमानो यदन्नमन्तीति वै वयं ब्रह्मचारिभेदमुपास्महे दत्तास्मै भिक्षामिति
॥ ७ ॥ तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश संतस्तत्कृतं तस्मा -
सर्वासु दिक्ष्वन्नमेव दश कृतः सैषा विराडन्नादी तयेद‍ सर्वं दृष्टः सर्वमस्येदं
दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥
इति चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे ब्रह्मचर्यं भवति विव-
त्स्यामि किंगोत्रो न्वहमस्मीति ॥ १ ॥ सा हैनमुवाच नाहमेतद्वेद तात यो-
त्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद
गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्य-
काम एव जाबालो बुवीथा इति ॥ २ ॥ सह हारिद्रुमतं गौतममेत्योवाच
ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥ त होवाच किंगोत्रो
नु सोम्यासीति स होवाच नाहमेतद्वेद भो यगोत्रोऽहमस्म्यपृच्छं मातर ँ सा
मा प्रत्यब्रवीद्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद
यगोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽह
सत्यकाम जाबालोsस्मि भो इति ॥ ४ ॥ त होवाच नैतदब्राह्मणो
विवकुमर्हति समिध सोम्याssहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंत्रजेति ता</p>
<pb n="70" />
<p>खण्डः ८ ]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>अभिप्रस्थापयन्नुवाच नासहस्त्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
सहस्र संपेदुः ॥ ५ ॥
इति चतुर्थाध्याये चतुर्थः खण्डः ॥ ४ ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव
प्राप्ताः सोम्य सहस्र स्मः प्रापय न आचार्यकुलम् ॥ १ ॥ ब्रह्मणश्च ते पार्द
ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
दक्षिणा दिकलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवा-
नाम ॥ २ ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्यु-
पास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह लोकायति य एतमेवं
विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥
इति चतुर्थाध्याये पञ्चमः खण्डः ॥ ५ ॥
अनिष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि-
सायं बभूवुस्तत्राभिमुपसमाधाय गा उपरुध्य समिघमाधाय पश्चादनेः प्राहु-
पोपविवेश ॥ १ ॥ तमभिरभ्युवाद सत्यकाम ३ इतिं भगव इति ह प्रति-
शुश्राव ॥ २ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै
होवाच पृथिवी कलाsन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतु-
cam: पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥ स य एतमेवं विद्वाश्चतुष्कलं पार्द
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह लोकाञ्जयति
य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥
इति चतुर्थाध्याये षष्ठः खण्डः ॥ ६ ॥
सस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यन्त्राभि
सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादनेः प्राहु-
पोपविवेश ॥ १ ॥ त हप्स उपनिपत्याभ्युवाद सत्यकाम ३ इति भगव
इति ह प्रतिशुश्राव ॥ २ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे
भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै
सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥ स य एतमेवं विद्वाश्च-
तुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणो ज्योति-
●मानित्युपास्ते ॥ ४ ॥
इति चतुर्थाध्याये सप्तमः खण्डः ॥ ७ ॥
दुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यन्त्राभि सायं
बभूवुस्तन्नाग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादनेः प्राहुपोप-</p>
<pb n="71" />
<p>ईशायुपनिषत्सु -
[ अध्यायः ४
विवेश ॥ १ ॥ तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम ३ इति भगव इति ह
प्रतिशुश्राव ॥ २ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य
चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥ स य एतमेवं विद्वाश्चतु-
ष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतन-
aat ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मण आयतन-
वानित्युपास्ते ॥ ४ ॥
इति चतुर्थाध्यायेऽष्टमः खण्डः ॥ ८ ॥
प्राप हाssचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम ३ इति भगव इति ह
प्रतिशुश्राव ॥ १ ॥ ब्रह्मविदिव वै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये
मनुष्येभ्य इति ह प्रतिजज्ञे भगवास्त्वेव मे कामे ब्रूयात् ॥ २ ॥ श्रुत ँ ह्येव
मे भगवद्दृशेभ्य आचार्याचैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैत-
देवोवाचात्र ह न किंचन वीयायेति वीयायेति ॥ ३ ॥
_इति चतुर्थाध्याये नवमः खण्डः ॥ ९ ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह
द्वादशवर्षाण्यग्नीन्परिचचार स ह स्माऽन्यानन्तेवासिनः समावर्तयस्त ह
स्मैव न समावर्तयति ॥ १ ॥ तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परि-
चचारीन्मा त्वाऽभयः परिप्रवोचन्प्रब्रह्मस्मा इति तस्मै हाम्रोच्यैव प्रवासांच
॥ २ ॥ स ह व्याधिनाऽनशितुं दधे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु
नाभासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥ अथ हाप्नयः समूदिरे तप्तो ब्रह्मचारी
कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥ प्राणो ब्रह्म कं
ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म के च तु खं च न
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च
हास्मै तदाकाशं चोचुः ॥ ५ ॥
इति चतुर्थाध्याये दशमः खण्डः ॥ १० ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यन्निरन्नमादित्य इति य एष आदिले
पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानु-
पास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः
क्षीयन्त उप वयं तं भुक्षामोऽस्मिश्श्च लोकेऽमुष्मिश्च य एतमेवं विद्वानु-
पास्ते ॥ २ ॥
इति चतुर्थाध्याये एकादशः खण्डः ॥ ११ ॥</p>
<pb n="72" />
<p>खण्ड: १५]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य
एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य
एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति
नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य
एतमेवं विद्वानुपास्ते ॥ २ ॥
इति चतुर्थाध्याये द्वादशः खण्डः ॥ १२ ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति
पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानु-
पास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावर पुरुषाः
क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मि ँश्च य एतमेवं विद्वानु-
पास्ते ॥ २ ॥
इति चतुर्थाध्याये त्रयोदशः खण्डः ॥ १३ ॥
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्ते-
त्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल ३ इति ॥ १ ॥ भगव इति
ह प्रतिशुश्राव ब्रह्मविद इव सोग्य ते मुखं भाति को नु त्वाऽनुशशा सेति को
नु माऽनुशिष्यानो इतीह पेव निहुत इमे नूनमीदृशा अन्याद्दशा इतीहासीन-
भ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥ इदमिति ह प्रतिजज्ञे लोका-
वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न
श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै
होवाच ॥ ३ ॥
इति चतुर्थाध्याये चतुर्दशः खण्डः ॥ १४ ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १॥ एत संय-
द्वाम इत्याचक्षत एव हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभि-
संयन्ति य एवं वेद ॥ २ ॥ एष उ एव वामनीरेष हि सर्वाणि वामानि नयति
सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ एष उ एव भामनीरेष हि सर्वेषु
लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ अथ यदु चैवास्सिन्छव्यं
कुर्वन्ति यदि च नार्चिषमेवाभिसं भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमा पूर्य-
माणपक्षाद्यान्वडुदङ्केति मासास्तान्मासेभ्यः संवत्सर संवत्सरादादित्यमा-
दिव्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष
देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते नावर्तन्ते ॥५॥
इति चतुर्थाध्याये पञ्चदशः खण्डः ॥ १५ ॥</p>
<pb n="73" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः
एष ह वै यज्ञो योऽयं पवत एष ह यन्निदु सर्वं पुनाति यदेष यन्निद
सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥ तयोरन्यतरां
मनसा स ँस्करोति ब्रह्मा वाचा होताऽध्वर्युरुद्वातान्यतरा स यत्रोपाकृते
प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ २ ॥ अन्यतरामेव
वर्तनी स ँस्करोति हीयतेऽन्यतरा स यथैकपाद्रजत्रथो वैकेन चक्रेण वर्तमानो
रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा
पापीयान् भवति ॥ ३ ॥ अथ यत्रोपाकृते प्रातरनुवाकेन पुरा परिधानीयाया
ब्रह्मा व्यववदत्युभे एव वर्तनी सस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥
स यथोभयपाद्रजन्नथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः
प्रतितिष्ठति यज्ञं प्रति तिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ५ ॥
इति चतुर्थाध्याये षोडशः खण्डः ॥ १६ ॥
प्रजापतिलोकानभ्यतपत्तेषां तप्यमानाना रसान्प्रावृहदमिं पृथिव्या वायु-
मन्तरिक्षादादित्यं दिवः ॥ १ ॥ स एतास्तिस्रो देवता अभ्यतपत्तासां तथ्य-
मानाना रसान्प्रावृहदमेऋचो वायोर्यजुषि सामान्यादित्यात् ॥ २ ॥ स
एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति
यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥ तद्यद्युक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये
जुहुयाद्दचामेव तद्वसेनची वीर्येणर्चा यज्ञस्य विरिष्ट‍ संदधाति ॥ ४ ॥ अथ
यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणानौ जुहुयाद्यजुषामेव तद्वसेन यजुषां
वीर्येण यजुषां यज्ञस्य विरिष्ट संदधाति ॥ ५ ॥ अथ यदि सामतो रिष्ये-
त्स्वः स्वाहेत्याहवनीये जुहुयात्सान्नामेव तद्वसेन सान्नां वीर्येण सान्नां यज्ञस्य
विरिष्ट संदधाति ॥ ६ ॥ तद्यथा लवणेन सुवर्ण संदध्यात्सुवर्णेन रज-
त ँ रजतेन त्रपु त्रपुणा सीस सीसेन लोहं लोहेन दारु दारु चर्मणा ॥७॥
एवमेष लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्ट
संदधाति भेषजकृतो ह वा एष यज्ञो यन्त्रैवंविद्ब्रह्मा भवति ॥ ८ ॥ एष ह वा
उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदु ह वा एषा ब्रह्माणमनुगाथा
यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥ मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिर-
क्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमान सर्वांश्चत्विजोऽभिरक्षति तस्मादेवंविदमेव
ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥
इति चतुर्थाध्याये सप्तदशः खण्डः ॥ १७ ॥
इति चतुर्थोऽध्यायः ॥ ४॥</p>
<pb n="74" />
<p>खण्डः २]
छान्दोग्योपनिषत् ॥ ९ ॥
अथ पञ्चमोऽध्यायः ॥ ५ ॥
ॐ ॥ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो
वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति
वाग्वाव वसिष्ठः ॥ २ ॥ यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिँश्च श्लोकेऽ
मुष्मिश्च चक्षुर्वा प्रतिष्ठा ॥ ३ ॥ यो ह वै संपदं वेद सहामै कामाः
पद्यन्ते देवाश्च मानुषाश्च श्रोत्रं वाव संपत् ॥ ४ ॥ यो ह वा आयतनं
वेदाय न ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥ अथ
हं प्राणा अह ँ श्रेयसि व्यूदिरेऽह ँ श्रेयानस्म्यह ँ श्रेयानस्मीति ॥ ६ ॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच
यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति
॥ ७ ॥ सा ह वागुच्चक्राम सा संवत्सरं प्रोप्य पर्येत्योवाच कथमशकत
मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा
शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥
चक्षुचक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितु-
मिति यथाsन्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः
श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥ श्रोत्र होच्चक्राम
तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा
अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैव-
मिति प्रविवेश ह श्रोत्रम् ॥ १० ॥ मनो होच्चक्राम तत्संवत्सरं प्रोष्य पये-
त्योवाच कथमशकर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन
वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः
॥ ११ ॥ अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पङ्खीशशङ्क-संखिदे देवमि-
तरान्प्राणान्समखिदत्त हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमी-
रिति ॥ १२ ॥ अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ
हैनं चक्षुरुवाच यदहं प्रतिष्ठामि त्वं तत्प्रतिष्ठाऽसीति ॥ १३ ॥ अथ हैनं श्रोत्र-
मुवाच यदह संपदस्मि त्वं तत्संपदसीत्यथ हैनं मन उवाच यदहमायतन-
मस्मि त्वं तदायतनमसीति ॥ १४ ॥ न वै वाचो न चक्षूषि न श्रोत्राणि न
मनासीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो वैतानि सर्वाणि भवति ॥ १५ ॥
इति पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥
स होवाच किं मेनं भविष्यतीति यत्किंचिदिदमाश्वभ्य आशकुनिभ्य
इति होचुस्तद्वा एतदनस्यान्नमनो नाम प्रत्यक्षं न ह वा एवंविदि किंच-</p>
<pb n="75" />
<p>ईशाद्युपनिषत्सु -
[ अध्याय: ५
नाननं भवतीति ॥ १ ॥ स होवाच किं मे वासो भविष्यतीत्याप इति होचु-
स्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाचाद्भिः परिदधति लम्भुको ह वासो
भवत्यनग्नो ह भवति ॥ २ ॥ तद्वैतत्सत्यकाम जाबालो गोश्रुतये वैयाघ्र-
पद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूया जायेरन्नेवास्मिन्छाखाः प्ररो-
हेयुः पलाशानीति ॥ ३ ॥ अथ यदि महजिगमिषेदमावास्यायां दीक्षित्वा
पौर्णमास्या रात्रौ सर्वोषधस्य मन्थं दधिमधुनोरुपमध्य ज्येष्ठाय श्रेष्ठाय स्वाहे-
त्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ४ ॥ वसिष्ठाय स्वाहेत्यभावा-
ज्यस्य हुत्वा मन्थे संपातमवनयेत्प्रतिष्ठायै स्वाहेत्यन्नावाज्यस्य हुत्वा मन्थे
संपातमवनये संपदे स्वाहेत्यभावाज्यस्य हुंस्वा मन्थे संपातमवनयेदायतनाय
स्वाहेत्यभावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५ ॥ अथ प्रतिसृष्याञ्जलौ
मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिद स हि ज्येष्ठः श्रेष्ठो
राजाधिपतिः स मा ज्यैष्ठ्य श्रेष्ठ्य राज्यमाधिपत्यं गमयत्वहमेवेद‍ सर्व-
मसानीति ॥ ६ ॥ अथ खल्वेतयच पच्छ आचामति तत्सवितुर्वृणीमह इत्या-
चामति वयं देवस्य भोजनमित्याचामति श्रेष्ठ सर्वधातममित्याचामति तुरं
भगस्य धीमहीति सर्वं पिबति निर्णिज्य कसं चमसं वा पश्चादतेः
संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्स-
मृद्धं कर्मेति विद्यात् ॥ ७ ॥ तदेष श्लोकः ॥ यदा कर्मसु काम्येषु स्त्रिय‍
स्वमेषु पश्यति ॥ समृद्धिं तत्र जानीयात्तस्मिन्स्वम निदर्शने तस्मिन्स्वप्न निदर्शन
इति ॥ ८ ॥
इति पञ्चमाध्याये द्वितीयः खण्डः ॥ २ ॥
श्वेतकेतुर्हारुणेयः पञ्चालाना समितिमेयाय त‍ ह प्रवाहणो जैवलिरुवाच
कुमारानु त्वाऽशिषत्पितेत्यनु हि भगव इति ॥ १ ॥ वेत्थ यदितोऽधि प्रजाः
प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त ३ इति न भगव इति वेत्थ
पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥ २ ॥ वेत्थ
यथासौ लोको न संपूर्यत ३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुता-
वापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥ अथानु किमनुशिष्टोऽवो-
चथा यो हीमानि न विद्यात्कथ‍ सोऽनुशिष्टो ब्रुवीतेति स हाऽऽयस्तः पितुर-
मेयाय त होवाचाऽननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति
॥ ४ ॥ पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकं च नाशकं विवक्तुमिति
स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकं च न वेद यद्यहमिमानवे-
दिव्यं कथं ते नावक्ष्यमिति ॥ ५ ॥ स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्रासा-</p>
<pb n="76" />
<p>खण्डः ९]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>याहचकार स ह प्रातः सभाग उदेयाय त‍ होवाच मानुषस्य भगवन्गौ-
तम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव
कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कुच्छ्री बभूव ॥ ६ ॥ त
ह चिरं वसेत्याज्ञापयचकार त होवाच यथा मा त्वं गौतमावदो यथेयं न
प्राक् त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव
प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥
इति पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोsहरर्चिश्व-
न्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मिन्नन्नौ देवाः श्रद्धां
जुह्वति तस्था आहुतेः सोमो राजा संभवति ॥ २ ॥
इति पञ्चमाध्याये चतुर्थः खण्डः ॥ ४ ॥
पर्जन्यो वाव गौतमा निस्तस्य वायुरेव समिदक्षं धूमो विद्युदाचरशनिर-
द्वारा हादनयो विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मिन्नन्नौ देवाः सोम राजानं
जुह्वति तस्या आहुतेर्वर्ष ँ संभवति ॥ २ ॥
इति पञ्चमाध्याये पञ्चमः खण्डः ॥ ५ ॥
पृथिवी वाव गौतमाभिस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिर-
चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मिन्ननौ देवा
वर्षं जुह्वति तस्या आहुतेरन्न संभवति ॥ २ ॥
इति पञ्चमाध्याये षष्ठः खण्डः ॥ ६ ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वाऽचिश्चक्षुरङ्गाराः
श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मिन्नन्नौ देवा अन्नं जुह्वति तस्या आहुते
रेतः संभवति ॥ २॥
इति पञ्चमाध्याये सप्तमः खण्डः ॥ ७ ॥
योषा वाव गौतमास्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनि-
रचिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मि
नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ॥ २ ॥
:
इति पञ्चमाध्यायेऽष्टमः खण्डः ॥ ८ ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो
दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥
१ ॥ स जातो
यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः
संभूतो भवति ॥ २ ॥
इति पञ्चमाध्याये नवमः खण्डः ॥ ९ ॥</p>
<pb n="77" />
<p>ईशाद्युपनिषत्सु -
[ अध्याय: ५
इथं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्त्य-
fruiser आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदड्डेति मासास्तान् ॥ १ ॥
मासेभ्यः संवत्सर संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पु-
vatsarvaः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥ अथ य
इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति धूमाद्वात्रिं रात्रेरपर-
पक्षमपरपक्षाद्यान् इदक्षिणैति मासास्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्दे-
वानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥ तस्मिन्यावत्संपातमुषित्वाऽथैतमेवाध्वानं
पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं
भवति ॥ ५ ॥ अनं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह
व्रीहियवा भोषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपत्तरं
यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥ तद्य इह रमणीय-
चरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं
वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमाप-
- येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥ अथैतयोः पथोर्न
कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व
स्त्रियस्वेत्येततीय स्थानं तेनासौ लोको न संपूर्यते तस्माजगुप्सेत तदेष
श्लोकः ॥ ८ ॥ स्तेनो हिरण्यस्य सुरां पिबच गुरोस्तल्पमावसन्ब्रह्महा च । एते
पतन्ति चत्वारः पञ्चमश्चाचरः स्तैरिति ॥ ९ ॥ अथ ह य एतानेवं पञ्चानी-
वेद न स ह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य
एवं वेद य एवं वेद ॥ १० ॥
इति पञ्चमाध्याये दशमः खण्डः ॥ १० ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः
शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य
मीमासां चक्रुः को नु आत्मा किं ब्रह्मेति ॥ १ ॥ ते ह संपादयचक्रुरुद्दा-
mata भगवन्तोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति त हन्ताभ्या-
गच्छामेति त ँ हाभ्याजग्मुः ॥ २ ॥ स ह संपादयां चकार प्रक्ष्यन्ति मामिने
- महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुज्ञा-
सानीति ॥ ३ ॥ तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्रतीममात्मानं
'वैश्वानरमध्येति त ँ हन्ताभ्यागच्छामेति त ँ हाभ्याजग्मुः ॥ ४ ॥ तेभ्यो ह
प्राप्तेभ्यः पृथगणि कारयांचकार स ह प्रातः संजिहान उवाच न मे स्तेनो</p>
<pb n="78" />
<p>खण्डः १४ ]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान खैरी स्वैरिणी कुतो
यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि ताव-
वो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥ ते होचुर्येन हैवार्थेन पुरु-
पश्चरेत्त हैव वदेदात्मानमेवेमं वैश्वानरः संप्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे
ताम्हानुपनीयैवैतदुवाच ॥ ७ ॥
इति पञ्चमाध्याये एकादशः खण्डः ॥ ११ ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष
वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं
कुले दृश्यते ॥ १ ॥ अत्स्यन्नं पश्यसि प्रियमच्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं
'कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच
मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ २ ॥
इति पञ्चमाध्याये द्वादशः खण्डः ॥ १२ ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्त इत्या-
दित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं स्वमा-
त्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥ प्रवृत्तोऽश्वतरीरथो
Trifloristनं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं
कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुङ्केतदात्मन इति होवाचान्धोऽ-
भविष्यो यन्मां नागमिष्य इति ॥ २ ॥
इति पञ्चमाध्याये त्रयोदशः खण्डः ॥ १३
अथ होवाचेन्द्रद्युम्नं भालवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायु-
मेव भगवो राजनिति होवाचैष वै पृथग्वर्त्माssत्मा वैश्वानरो यं त्वमात्मानमु-
पास्ले तस्मात्त्वां पृथग्वलय आयन्ति पृथप्रथश्रेणयोऽनुयन्ति ॥ १ ॥ अत्स्यनं
पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं
वैश्वानरमुपास्ते प्राणस्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां
नागमिष्य इति ॥ २॥
इति पञ्चमाध्याये चतुर्दशः खण्डः ॥ १४ ॥
अथ होवाच जन‍ शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो
राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्ते तस्मात्त्वं
बहुलोsसि प्रजया च धनेन च ॥ १ ॥ अत्स्यन्नं पश्यसि प्रियमत्यन्नं</p>
<pb n="79" />
<p>ईशाद्युपनिषत्सु -
[ अध्याय: ५
पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥ २ ॥
इति पञ्चमाध्याये पञ्चदशः खण्डः ॥ १५ ॥
अथ होवाच बुडिलमाश्वतराश्वि वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप
एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से
" तस्मात्त्व ँ रयिमान्पुष्टिमानसि ॥ १ ॥ अत्स्यन्नं पश्यसि प्रियमच्यन्नं पश्यति
प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष
आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ २ ॥
इति पञ्चमाध्याये षोडशः खण्डः ॥ १६ ॥
अथ होवाचोद्दालकमारुणिं गौतम कं स्वमात्मानमुपास्स इति पृथिवीमेव
भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से
तस्माचं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥ अत्स्यन्नं पश्यसि प्रिय-
मत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानर-
मुपास्ते पादौ तावात्मन इति होवाच पादौ ते व्यग्लास्येतां यन्मां नाग-
मिष्य इति ॥ २ ॥
इति पञ्चमाध्याये सप्तदशः खण्डः ॥ १७ ॥
"तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वासोऽन्नमत्थ
यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु
सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥ तस्य ह वा एतस्यात्मनो वैश्वानरस्य
मूर्वैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव
रयिः पृथिव्येव पादावुर एव वेदिलमानि बर्हिहृदयं गार्हपत्यो मनोऽन्वाहार्य-
पचन आस्यमाहवनीयः ॥ २ ॥
इति पञ्चमाध्यायेऽष्टादशः खण्डः ॥ १८ ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीय स यां प्रथमामाहुतिं जुहुयात्तां जुहुया-
प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥ प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि
तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किंच
द्यौश्वादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन
तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति पञ्चमाध्याये एकोनविंशः खण्डः ॥ १९॥
अथ द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥</p>
<pb n="80" />
<p>खण्डः २४ ]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृष्यति
दिशस्तृप्यन्ति दिक्षु तृष्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति पञ्चमाध्याये विंशः खण्डः ॥ २० ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥
अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामभिस्तृप्यत्यग्नौ तृप्यति पृथिवी
तृष्यति पृथिव्यां तृप्यन्त्यां यत्किंच पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्या
तु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति पञ्चमाध्याय एकविंशः खण्डः ॥ २१ ॥
अथ यां चतुर्थी जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति
विद्युत्तृप्यति विद्युति तृप्यन्यां यत्किंच विद्युच पर्जन्यवाधितिष्ठतस्तत्तृप्यति
तस्यानु तृतिं तृप्यति प्रजया पशुभिरब्राद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति पञ्चमाध्याये द्वाविंशः खण्डः ॥ २२ ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥
उदाने तृप्यति त्वक् तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृष्यत्या-
काशस्तृप्यत्याकाशे तृप्यति यत्किंच वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु
तृसिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
इति पञ्चमाध्याये त्रयोविंशः खण्डः ॥ २३ ॥
स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्त-
स्यात् ॥ १ ॥ अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु
सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥ तद्यथेषीकातूलमग्नौ प्रोतं प्रदू-
येतैव हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३॥</p>
<lg>
  <l>तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे</l>
  <l>हुत स्यादिति तदेष श्लोकः ॥ ४ ॥ यथेह क्षुधिता बाला मातरं पर्युपासते ।</l>
  <l>एव ँ सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥</l>
  <l>इति पञ्चमाध्याये चतुर्विंशः खण्डः ॥ २४ ॥</l>
</lg>
<p>अ. ज ५
इति पञ्चमोऽध्यायः ॥ ५ ॥</p>
<pb n="81" />
<p>ईशाद्युपनिषत्सु -
षष्ठोऽध्यायः ॥ ६ ॥
[ अध्यायः ६
ॐ श्वेतकेतुर्हांssरुणेय आस त ह पितोवाच श्वेतकेतो वस ब्रह्मचर्ये न वै
सोम्यस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥ स ह द्वादशवर्ष
उपेत्य चतुर्विशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध
मुयाय त ह पितोवाच श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी
स्तब्धोऽस्युत तमादेशमप्रायः ॥ २ ॥ येनाश्रुतः श्रुतं भवत्यमतं मतमहि-
ज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥ यथा सोम्यै-
केन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातः स्याद्वाचारम्भणं विकारो नामधेयं मृत्ति-
. केत्येव सत्यम् ॥ ४ ॥ यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञात
स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ५ ॥ यथा सोम्यैकेन
नखनिकृन्तनेन सर्व काष्र्णायसं विज्ञातः स्वाद्वाचारम्भणं विकारो नामधेयं
कृष्णायसमित्येव सत्यमेव सोम्य स आदेशो भवतीति ॥ ६ ॥ न वै नूनं
भगवन्तस्त एतदवेदिषुर्यच्येतद वेदिष्यन् कथं मे नावक्ष्यन्निति भगवा स्त्वेव
मे तद्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥
इति षष्ठाध्याये प्रथमः खण्डः ॥ १ ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ तक आहुरसदेवेदमप्र
'आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ १ ॥ कुतस्तु खलु सोम्यैव
स्यादिति होवाच कथमसतः सज्जायेतेति ॥ सच्चैव सोम्येदमग्र आसीदेकमेवा-
द्वितीयम् ॥२॥ तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु
- त्यो प्रजायेयेति तदपोऽसृजत ॥ तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस
एव तदध्यापो जायन्ते ॥ ३ ॥ ता आप ऐक्षन्त बह्वयः स्याम प्रजाये महीति
ता अन्नम सृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यच्य एव
तदध्यन्नाद्यं जायते ॥ ४ ॥
इति षष्ठाध्याये द्वितीयः खण्डः ॥ २ ॥
तेषां खरवेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति
॥ १ ॥ सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरवाणीति ॥ २ ॥ तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं
देव मास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा नु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्रि-
वृदेकैका भवति तन्मे विजानीहीति ॥ ४ ॥
इति षष्ठाध्याये तृतीयः खण्डः ॥ ३ ॥</p>
<pb n="82" />
<p>खण्डः ६]
छान्दोग्योपनिषत् ॥ ९ ॥
यदने रोहित रूपं तेजसस्तद्रूपं यच्छुकं तदपां यत्कृष्णं तदन्नस्यापागा-
दमेरभित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥
यदादित्यस्य रोहित रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदन्नस्यापा-
गादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव
सत्यम् ॥ २ ॥ यच्चन्द्रमसो रोहित‍ रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं
तदन्नस्यापा गाञ्चन्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणी-
त्येव सत्यम् ॥३॥ यद्विद्युतो रोहित रूपं तेजसस्तद्रूपं यच्छुकं तदपां यत्कृष्ण
तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणी त्येव
सत्यम् ॥ ४ ॥ एतद्ध स्म वै तद्विद्वास आहुः पूर्वे महाशाला महाश्रोत्रिया
न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति होभ्यो विदचकुः ॥५॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदां चक्रुर्यदु शुकमिवाभूदित्य-
पारूपमिति तद्विदांचकुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः
॥ ६ ॥ यद्वविज्ञातमिवाभूदित्येतासामेव देवताना समास इति तद्विदां-
चकुर्यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेकैका
भवति तन्मे विजांनीहीति ॥ ७ ॥
इति षष्ठाध्याये चतुर्थः खण्डः ॥ ४ ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो
मध्यमस्तन्मासं योऽणिष्ठस्तन्मनः ॥ १ ॥ आपः पीतास्त्रेधा विधीयन्ते तासा
यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लो हितं योऽणिष्ठः स प्राणः
॥ २ ॥ तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति
यो मध्यमः स मज्जा योऽणिष्ठः सा वाकू ॥ ३ ॥ अन्नमय हि सोम्य
मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयस्वित्ति
'तथा सोम्येति होवाच ॥ ४ ॥
इति षष्ठाध्याये पञ्चमः खण्डः ॥ ५ ॥
दन्नः सोम्य मध्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति तत्सर्पिर्भवति
॥ १ ॥ एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति
तन्मनो भवति ॥ २ ॥ अपार सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः
समुदीषति स प्राणो भवति ॥ ३ ॥ तेजसः सोम्याश्यमानस्य योऽणिमा स
कर्ध्वः समुदीषति सा वाग्भवति ॥ ४ ॥ अन्नमय हि सोम्य मन आपोमयः
प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति
होवाच ॥ ५ ॥
इति षष्ठाध्याये षष्ठः खण्डः ॥ ६ ॥</p>
<pb n="83" />
<p>ईशानिष
[ अध्यायः ६
षोडशकलः सोम्य पुरुषः पञ्चदश । हानि माशीः काममपः पिबापोमयः
त्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥ स ह पञ्चदशाहानि नाऽऽशाथ हैन-
मुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूभूषि सामानीति स होवाच न
बैमा प्रतिभान्ति भो इति ॥ २ ॥ त५ होवाच यथा सोम्य महतोऽभ्या-
हितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेव
सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्य-
ज्ञानाथ मे विज्ञास्यसीति ॥ ३ ॥ सहाशाथ हैनमुपससाद त ह यत्किंच
पप्रच्छ सर्व ह प्रतिपेदे ॥ ४ ॥ त होवाच यथा सोम्य महतोऽभ्याहि-
तस्यैकमङ्गारं खद्योत्तमानं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि
बहु दहेत् ॥ ५ ॥ एव५ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाभू-
सान्वेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमय‍ हि सोम्य मन
आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥
इति षष्ठाध्याये सप्तमः खण्डः ॥ ७ ॥
उद्दालको हाssरुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति
यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति
तस्मादेन स्वपितीत्याचक्षते स्व हापीतो भवति ॥ १ ॥ स यथा शकुनिः
सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एव-
मैव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोप-
श्रयते प्राणबन्धन हि सोम्य मन इति ॥ २॥ अशनापिपासे मे सोम्य विजा-
नहीति यत्रैतत्पुरुषोऽशिशिषति नामांप एव तदर्शितं नयन्ते तद्यथा गोना-
गोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतित
सौम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥ तस्य क्व मूल स्यादन्यन्ना-
नादेवमेव खलु सोम्यान्नेन शुद्धेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूला ः सोम्येमाः सर्वाः
प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥४॥ अथ यन्नैतत्पुरुषः पिपासति नाम तेज एव
तपीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति
तत्रैतदेव शुङ्गमुत्पतित ँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥५॥ तस्य
क मूल स्यादन्यत्राच्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य
शुक्रेन सम्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्र-
तिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृन्निवृदेकैका
भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते</p>
<pb n="84" />
<p>खण्डः १२]
छान्दोग्योपनिषः ॥ ९ ॥
मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥ स य एषोऽणिमै-
तदास्यमिद सर्वं तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा
भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥ -
इति षष्ठाध्यायेऽष्टमः खण्डः ॥ ८ ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणा रसान्सम
चहारमेकता रसं गमयन्ति ॥ १ ॥ ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं
वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः
संति संपद्य न विदुः सति संपद्यामह इति ॥ २ ॥ त इह व्याघ्रो वा सिहो
वा वृको वा वराहो वा कीटो वा पतङ्गो वा दुशो वा मशको वा यद्यज-
वन्ति तदाभवन्ति ॥ ३ ॥ स य एषोऽणिमैतदात्म्यमिद ँ सर्वं तत्सत्य स
आत्मा तस्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा
सोम्येति होवाच ॥ ४ ॥
इति षष्ठाध्याये नवमः खण्डः ॥ ९ ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्र-
मेवापयन्ति समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति
॥ १ ॥ एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत
अगच्छामह इति त इह व्याघ्रो वा सिहो वा वृको वा वराहो वा कीटो वा
पतङ्गो वा दशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ २ ॥ स व
एषोऽणिमैतदात्म्यमिदु सर्वं तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इनि
भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
इति षष्ठाध्याये दशमः खण्डः ॥ १० ॥
: अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याजीवन् स्त्रवेद्यो मध्येऽभ्या-
हन्याज्जीवन्त्रवेद्योऽग्रेऽभ्याहन्याजीवन्त्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपी-
यमानो मोदमानस्तिष्ठति ॥ १ ॥ अस्य यदेका शाखां जीवो जहात्यथ सा
शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सव
जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्धोति होवाच ॥ २ ॥ जीवापेतं
वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽणिमैतदात्म्यमिद
सर्वं तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा भगवान्
विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
इति षष्ठाध्याय एकादशः खण्डः ॥ ११ ॥
न्यग्रोधफलमत आइरेतीदं भगव इति भिन्धीति भिन्नं भगव इति किमन्त्र</p>
<pb n="85" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः
पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव
: इति किमत्र पश्यसीति न किंचन भगव इति ॥ १ ॥ त होवाच यं वै सोम्यै-
तमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति
श्रद्धत्स्व सोम्येति ॥ २ ॥ स य एषोऽणिमैतदात्म्यमिद सर्वं तत्सत्य स
आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा
सोम्येति होवाच ॥ ३ ॥
4
इति षष्ठाध्याये द्वादशः खण्डः ॥ १२ ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीद्या इति स ह तथा चकार त
होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति
कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोप-
सीधा इति तद्धं तथा चकार तच्छश्वत्संवर्तते त होवाचात्र वाव किल
सत्सोम्य न निभालयसेऽत्रैव किलेति ॥ २ ॥ स य एषोऽणिमैतदात्म्यमिद‍
सर्वं तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा भगवान्
विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
इति षष्ठाध्याये त्रयोदशः खण्डः ॥ १३ ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षम ानीय तं ततोऽतिजने विसृजेटस
यथा तत्र प्राङ्खोदङ्काऽधराङ्का प्रत्यङ्का प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धा-
क्षों विसृष्टः ॥ १ ॥ तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एर्ता
दिश व्रजेति स ग्रामाड्रामं पृच्छन् पण्डितो मेधावी गन्धाराने वो पसंद्येतैव-
मेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य
इति ॥ २ ॥ स य एषोऽणि मैतदात्म्यमिद ँ सर्वं तत्सत्य स आत्मा तत्व -
मसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति
होवाच ॥ ३ ॥ ॥
इति षष्ठाध्याये चतुर्दशः खण्डः ॥ १४ ॥
पुरुष सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि
मांमिति तस्य यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां
देवतायां तावज्जानाति ॥ १ ॥ अथ यदास्य वाजानासे संपद्यते मनः प्राणे
प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥ स य एषोऽणि-
मैतदात्म्यमिद सर्वं तत्सत्य से आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव
मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
इति षष्ठाध्याये पञ्चदशः खण्डः ॥ १५ ॥</p>
<pb n="86" />
<p>खण्डः २]
छान्दोग्योपनिषत् ॥ ९॥
पुरुष सोम्योत हस्तगृहीतमानय न्त्य पहार्षीरस्तेयमकार्षीत्परशुमसे तप-
तेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिस-
न्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः
सत्येनात्मानमन्तर्धाय परशुं वप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥
स यथा तत्र नादाह्येतैतदात्म्यमिद सर्वं तत्सत्य स भात्मा तत्वमसि श्वेत-
केतो इति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥
इति षष्ठाध्याये षोडशः खण्डः ॥ १६ ॥
इति षष्ठोऽध्यायः ॥ ६॥
अथ सप्तमोऽध्यायः ॥ ७ ॥
होवाच
॥ अधीहि भगव इति होपससाद सनत्कुमारं नारदस्त
यस्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥ ऋग्वेदं भग-
वोsध्येमि यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां
वेदं पित्र्य राशि दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूत-
विद्यां क्षत्रविद्यां नक्षत्र विद्या सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥२॥ सोऽहं
भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुत ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्म-
विदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति
त होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥ नाम वा ऋग्वेदो यजु-
वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो
राशिदैव निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या
नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥ स यो नाम ब्रह्म-:
व्युपास्ते यावनानो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपा
स्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्त्र::
वीत्विति ॥ ५ ॥
'
इति सप्तमाध्याये प्रथमः खण्डः ॥ १ ॥
ardara नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेद सामवेद -"
माथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशि दैवं निधि
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्र विद्या
सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाश्च</p>
<pb n="87" />
<note>७२.</note>
<p>ईशायुपनिषत्सु -
[ अध्यायः ७
मनुष्याश्च पशुश्च वयासि च तृणवनस्पतीन्वापदान्या कीटपतङ्गपिपीलकं
धर्म चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च
यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापिष्यन्न सत्यं नानृतं न साधु
नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति
॥ १ ॥ स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो
भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वांव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये द्वितीयः खण्डः ॥ २ ॥
•
मनो वाव वाचों भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ
मुष्टिरनुभवत्येवं वाचंच नाम च मनोऽनुभवति स यदा मनसा मनस्यति
मानधीत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राश्च पशूचेच्छेये-
त्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको
मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥ स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो
गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मभ्युपास्तेऽस्ति भगवो
मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये तृतीयः खण्डः ॥ ३ ॥
संकल्पो वाव मनसो भूतान्यदा वै संकल्पयतेऽथ मनस्यत्यथ वाचमी-
रयति तामु नानीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
न वा तानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि
समतां द्यावापृथिवी समकल्पेतां वायुश्राकाशं च समकल्पन्तापश्च
तेजश्च तेषाः संक्रुध्यै वर्ष‍ संकल्पते वर्षस्य संक्रुध्या अन्न संकल्पतेऽन्नस्य
संहृत्यै प्राणाः संकल्पन्ते प्राणाना संकृत्यै मन्त्राः संकल्पन्ते मन्त्राणा‍
संक्कृत्यै कर्माणि संकल्पन्ते कर्मणा संक्कृत्यै लोकः संकल्पते लोकस्य
संकृत्यै सर्व संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ २॥ स यः संकल्प
ब्रह्मेत्युपास्ते क्लृप्तान्वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथ-
मानानव्यथमानोऽभिसिध्यति यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो
भवति यः संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति संकल्पाद्वाव
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
इति सप्तमाध्याये चतुर्थः खण्डः ॥ ४ ॥
चित्तं वाव संकल्पाद्भूयो यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यस्यथ
वाचमीरयति तामु नाम्नीरयति नान्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि</p>
<pb n="88" />
<p>खण्डः ८]
छान्दोग्योपनिषत् ॥ ९ ॥</p>
<p>॥ १ ॥ तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि
तस्माद्यद्यपि बहुविद चित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं
'विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्प विश्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते
चित्त ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥ स यश्चित्तं
ब्रह्मेत्युपास्ते चित्तान्वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्य-
थमानानव्यथमानोऽभिसिद्ध्यति यावन्चित्तस्य गतं तत्रास्य यथाकामचारो
भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
इति सप्तमाध्याये पञ्चमः खण्डः ॥ ५ ॥
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव
द्यौर्ध्यायन्तीवापो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्तस्माद्य इह मनु-
याणां महत्तां प्राप्नुवन्ति ध्यानापादाशा इवैव ते भवन्त्यथ येऽल्पाः कल-
हिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाशा इंवैव ते भवन्ति
ध्यानमुपास्स्वेति ॥ १ ॥ स यो ध्यानं ब्रह्मेत्युपास्ते यावच्यानस्य गतं तत्रास्य
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय
इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये षष्टः खण्डः ॥ ६ ॥
'विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद‍ सा-
मवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य‍ राशि दैवं
निधिं वाकवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्र-
विद्या सर्प देवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च
देवाश्च मनुष्याश्च पशूश्च वयासि च तृणवनस्पतीपदान्या कीटपत-
ङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाह
दयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपा-
स्वेति ॥ १ ॥ स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाज्ञान-
वतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो
विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये सप्तमः खण्डः ॥ ७ ॥
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते स
यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरनुपसत्ता</p>
<pb n="89" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता
भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्ब-
लेन पर्वता बलेन देवमनुष्या बलेन पशवश्व वयासि च तृणवनस्पतयः
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ स
यो बलं ब्रह्मेत्युपास्ते यावद्वलस्य गतं तत्रास्य यथाकामचारो भवति यो बल
ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भग-
वान्ब्रवीस्विति ॥ २ ॥
इति सप्तमाध्यायेऽष्टमः खण्डः ॥ ८ ॥
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दशरात्रीनश्रीयाद्ययु ह जीवेदथवाऽद्र-
श्रोतमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याऽऽयै द्रष्टा भवति श्रोता
भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमु गस्स्वेति
॥१॥ स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्पानवतोऽभिसिध्यति यावद-
न्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मत्युपास्तेऽस्ति भगवोऽन्नाद्भूय
इत्यन्नाह्नाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये नवमः खण्डः ॥ ९ ॥
आपो वावान्नाद्भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अनं
कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु
भविष्यतीत्याप एवेमा मूर्ती येयं पृथिवी यदन्तरिक्षं यद् द्यौर्यत्पर्वता यद्देव-
मनुष्या यत्पशवश्च वयासि च तृणवनस्पतयः श्वापदान्या कीटपतङ्गपिपीलक -
माप एवेमा मूर्ती अप उपास्स्वेति ॥ १ ॥ स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वा-
कामा स्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो
ब्रह्मेत्युपास्तेऽस्ति भगवोऽयो भूय इत्ययो वा भूयोऽस्तीति तन्मे भगवान्द्र-
वीत्विति ॥ २ ॥
इति सप्तमाध्याये दशमः खण्डः ॥ १० ॥
तेजो वावाच्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति
नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तदे-
तदूर्ध्वाभिश्च तिरश्चीभिश्व विद्युद्भिराहादाश्चरन्ति तस्मादाहुर्विद्योतते स्तन-
यति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तेज उपा-
स्वेति ॥ १ ॥ स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान्भा-
स्वतोऽपहतत मस्कानभिसि यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति</p>
<pb n="90" />
<p>खण्ड: १५
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति:
तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याय एकादशः खण्डः ॥ ११ ॥
आकाश वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्रा-
राकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आका-
शे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसंबाधानु-
रुगायवतोऽभिसिद्ध्यंति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य
आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति
तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये द्वादशः खण्डः ॥ १२ ॥
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्नस्मरन्तो नैव ते कंचन
शृणुयुर्न मन्वरन विजानीरन् या वात्र ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ
विजानीरन् सरेण वै पुत्रान्विजानाति स्मरेण पशून् स्मरमुपास्स्वेति ॥ १ ॥
स यः स्मरं ब्रह्मत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः
परं ब्रह्मे युपास्तेऽस्ति भगवः स्मराहूय इति स्मराद्वाव भूयोऽस्तीति तन्मे
भगवान्ब्रवीत्विति ॥ २ ॥
इति सप्तमाध्याये त्रयोदशः खण्डः ॥ १३ ॥
3
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राश्व
पशू श्वेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥ सय
आशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामा: समृद्ध्यन्त्यमोघा हास्याशिषो
भवन्ति यावदाशायागतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्यु-
पास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवा-
ब्रवीत्विति ॥ २ ॥
:
इति सप्तमाध्याये चतुर्दशः खण्डः ॥ १४ ॥
प्राणो वा भाशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे
सर्व समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो
ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः
॥ १ ॥ स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्य वा ब्राह्मणं
वा किंचिद् भृशमिव प्रत्याह धिक्त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि :
मातृा वै वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि</p>
<pb n="91" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ७
ब्राह्मणा वै स्वमसीति ॥ २ ॥ अथ यद्यध्येनानुत्क्रान्तप्राणान् शूलेन समासं
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहाऽसीति न भ्रातृहाऽसीति न
स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणहाऽसीति ॥ ३ ॥ प्राणो ह्येवैतानि
सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी
भवति तं चेहूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापवीत ॥ ४ ॥
इति सप्तमाध्याये पञ्चदशः खण्डः ॥ १५ ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदा-
नीति सत्यं स्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥
इति सप्तमाध्याये षोडशः खण्डः ॥ १६ ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन् सत्यं वदति विजानन्नेव
सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास
इति ॥ १ ॥
इति सप्तमाध्याये सप्तदशः खण्डः ॥ १७ ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति
मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ॥ १॥
इति सप्तमाध्यायेऽष्टादशः खण्डः ॥ १८ ॥
यदा
श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव
विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥
इति सप्तमाध्याय एकोनविंशः खण्डः ॥ १९ ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठ श्रद्दधाति निस्तिष्ठन्नेव श्रह-
धाति निष्ठा वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ १ ॥
इति सप्तमाध्याये विंशः खण्डः ॥ २० ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति
कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ॥ १ ॥
इति सप्तमाध्याय एकविंशः खण्डः ॥ २१ ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा
करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ १ ॥
इति सप्तमाध्याये द्वाविंशः खण्डः ॥ २२ ॥
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञा-
सितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १ ॥
"
इति सप्तमाध्याये त्रयोविंशः खण्डः ॥ २३ ॥</p>
<pb n="92" />
<p>खण्डः २६ ]
छान्दोग्योपनिषत् ॥ ९॥
1019
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्य-
त्पश्यत्यन्यच्छृणो त्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदपं
तन्मर्त्य स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनि यदि वा न महिन्नीवि
॥ १ ॥ गोभश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्य क्षेत्राण्यायतना-
नीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो ह्यन्यस्मिन्प्रतिष्ठित इति ॥२॥
इति सप्तमाध्याये चतुर्विंशः खण्डः ॥ २४ ॥
स एवाधस्तारस उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स
एवेद सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं
पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेद सर्वमिति ॥ १ ॥ अथात आत्मादेश
एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मो-
तर आत्मैवेद सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्ना-
त्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराद्ध भवति तस्य सर्वेषु
लोकेषु कामचारो भवति । अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका
भवन्ति तेषा ँ सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥
इति सप्तमाध्याये पञ्चविंशः खण्डः ॥ २५ ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण
आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत
आविर्भाव तिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यान-
मात्मतश्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो
मन्त्रा भात्मतः कर्माण्यात्मत एवेद सर्वमिति ॥ १ ॥ तदेष लोको न पश्यो
मृत्युं पश्यति न रोगं नोत दुःखता सर्व ह पश्यः पश्यति सर्वमाप्नोति
सर्वश इति स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुन-
चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विशतिराहारशुद्धौ सस्व
शुद्धिः सवशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्मे सर्वग्रन्थीनां विप्रमोक्षस्तस्यै सृदि-
तकषायाय तमसस्पारं दर्शयति भगवान् सनात्कुमारस्त स्कन्द इत्याच-
क्षतेत स्कन्द इत्याचक्षते ॥ २ ॥
इति सप्तमाध्याये षशिः खण्डः ॥ २६ ॥
इति सप्तमोऽध्यायः ॥ ७ ॥</p>
<pb n="93" />
<p>ईशाद्युपनिषत्सु -
अष्टमोऽध्यायः ॥ ८ ॥
[ अध्यायः ८
ॐ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं चेश्म दहरोऽस्मिन्नन्तराकाश-
स्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥ तं चेद्र्युर्यदिदम-
स्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते
यदन्वेष्टव्यं यद्वावं विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥ यावान्वा अयमाका-
शस्तावानेषोऽन्तर्हृदय. आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते
उभावझिश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति य
नास्ति सर्व तदस्मिन्समाहितमिति ॥ ३ ॥ तं चेद्रूयुरस्मि वेदिदं ब्रह्मपुरे
सर्व‍ समाहित सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाशोति प्रध्वरैं-
सते वा किं ततोऽति शिष्यत इति ॥ ४ ॥ स ब्रूयान्नास्य जरयैतज्जीर्यति न
वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्माऽपहत-
पाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो
यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति
यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥ तद्यथेह कर्मजितो लोकः
क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य नज-
न्त्येता ँश्च सत्यान् कामास्तेषा ँ सर्वेषु लोकेष्वकामचारो भवत्यथ य
हात्मानमनुविद्य व्रजन्त्येताश्च सत्यान् कामास्तेषा सर्वेषु लोकेषु
कामचारों भवति ॥ ६ ॥ .
इत्यष्टमाध्याये प्रथमः खण्डः १॥
.
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन
पितृलोकेन संपन्नो महीयते ॥ १ ॥ अथ यदि मातृलोककामो भवति संक-
ल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयते ॥ २ ॥
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन
आतृलोकेन संपन्नो महीयते ॥ ३ ॥ अथ यदि स्वसृलोककामो भवति संक-
ल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते ॥ ४ ॥
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन
सखिलोकेन संपन्नो महीयते ॥ ५ ॥ अथ यदि गन्धमाल्यलोककामो भवति
संकल्पा देवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो महीयते
॥ ६ ॥ अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठ-
तस्तेनान्नपान लोकेन संपन्नो महीयते ॥ ७ ॥ अथ यदि गीतवादितलोक-
कामो भवति संकल्पादेवास्य गीतवादिते समुत्तिष्ठतस्तेन गीतवादित लोकेन</p>
<pb n="94" />
<p>खण्डः ५:].
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>संपन्नो महीयते ॥ ८ ॥ अथ यदि स्त्रीलोककामो भवंति संकल्पादेवास्य
स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन संपन्नो महीयते ॥ ९ ॥ यं यमन्तमभि-
कामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो
महीयते ॥ १० ॥
इत्यष्टमाध्याये द्वितीयः खण्डः ॥ २ ॥
इमे सत्याः कामा अनुतापिधानास्तेषा ँ सत्याना सतामनृतमपिधानं
यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥ अथ ये चास्येह जीवा
ये च त्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः
कामा अनुतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संच-
रन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न
वेन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥ स वा एष आत्मा हृदि तस्यैतदेव निरुक्त
हृद्ययमिति तस्माद्धृदयमहरहंव एवंवित्स्वर्ग लोकमेति ॥ ३ ॥ अथ य एष
संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत
एष आत्मेति होवाचतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम
सत्यमिति ॥ ४ ॥ तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्त-
दुमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्य-
महरहर्वा एवंवित्स्वर्ग लोकमेति ॥ ५ ॥
इत्यष्टमाध्याये तृतीयः खण्डः ॥ ३ ॥
अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय नैतः सेतुमहोरात्रे
तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृत सर्वे पाप्मानोऽतो
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥ तस्माद्वा एतः सेतुं तीर्त्वाऽन्धः
सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति
तस्माद्वा एतः सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्म-
लोकः ॥ २ ॥ तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष
- ब्रह्मलोकस्तेषाः सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥
·
इत्यष्टमाध्याये चतुर्थः खण्डः ॥ ४ ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते-
इथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण होवेष्ट्वात्मानमनुविन्दते
॥ १ ॥ अथ यत्सत्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्म-
नत्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण हवामान-
अनुविद्य मनुते ॥ २ ॥ अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष</p>
<pb n="95" />
<p>.८०
ईशाद्युपनिषत्सु -
[ अध्यायः ८
हात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्म-
चर्यमेव तत्तदरश्च ह वै ण्यश्वार्णवी ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं
मदीय सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्बह्मणः प्रभुविमित‍ हिरण्म-
यम् ॥ ३ ॥ तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति
तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥
इत्यष्टमाध्याये पञ्चमः खण्डः ॥ ५ ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिनस्तिष्ठन्ति शुक्लस्य नीलल
प्रीतस्य लोहितस्येत्यसौ वा भादित्यः पिङ्गल एष शुक्ल एष नील एष पीत
एष लोहितः ॥ १ ॥ तद्यथा महापथं आतत उभौ ग्रामौ गच्छतीमं चामुं .
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादि-
त्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेsमुष्मि-
नादित्ये सृप्ताः ॥ २ ॥ तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्यासु
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा
संपन्नो भवति ॥ ३ ॥ अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना
आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्कान्तो भवति
तावजानाति ॥ ४ ॥ अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व-
माक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छ
त्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥ तदेव
श्लोकः । शतं चैका च हृदयस्य नाट्यस्तासां मूर्धानमभिनिःसृतैका । तयो-
मायनमृतत्वमेति विष्वकुन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥
इत्यष्टमाध्याये षष्ठः खण्डः ॥ ६ ॥
य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्य-
कामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाश्च लोकाना-
मोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच
॥ १ ॥ तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो
यमात्मानमन्विष्य सर्वाश्व लोकानाप्नोति सर्वांश्च कामानितीन्द्रो हैव देवा-
नामभिप्रवद्याज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजा-
पतिसकाशमाजग्मतुः ॥ २ ॥ तौह द्वात्रिशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह
प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्माऽपहतपाप्मा
विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वे-
ष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वाश्च कामान्यस्त-</p>
<pb n="96" />
<p>खण्डः ९ ]
छान्दोग्योपनिषत् ॥ ९॥</p>
<p>मात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्त-
मिति ॥ ३ ॥ तौह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चाम-
मादर्श कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥
इत्यष्टमाध्याये सप्तमः खण्डः ॥ ७ ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रभूतमिति तो
होदशरावेवेक्षांचक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूप-
मिति ॥ १ ॥ तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वो-
दारावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदरारावे-
sariचक्राते तो ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥ तौ होचतु-
यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः
साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेत-
ब्रह्मेति तौह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥ तौ हान्वीक्ष्य प्रजापतिरुवा
चानुपलभ्यात्मानमननुविद्य व्रजतो यतर. एतदुपनिषदो भविष्यन्ति देवा
वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम
तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महस्य आत्मा परिचर्य आत्मा-
नमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाशोतीमं चामुं चेति
॥ ४ ॥ तस्मादध्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणा
होषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति सस्कुर्वन्त्येतेन मुं
लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥
इत्यष्टमाध्यायेऽष्टमः खण्डः ॥ ८ ॥
अथ हेन्द्रोsप्राप्यैव देवानेतद्भयं ददर्श यथैव खत्वयमस्मिन्छरीरे साध्व-
लंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवाय-
मस्मिन्नन्धेऽन्धो भवति खामे स्वामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य
नाशमन्वेष नश्यति ॥ १ ॥ नाहमन्त्र भोग्यं पश्यामीति स समित्पाणिः पुनरे-
याय त ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः सार्धं विरोचनेन
किमिच्छन् पुनरागम इति स होवाच यथैव खत्वयं भगवोऽस्मिन्छरीरे
साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एव-
मेवायमस्मिन्नन्धेऽन्धो भवति नामे खामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य
नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥ एवमेवैष मघव-
अ. उ. ६</p>
<pb n="97" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ८
निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिशतं वर्षा -
णीति स हापराणि द्वात्रिशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥
इत्यष्टमाध्याये नवमः खण्डः ॥ ९ ॥
य एष स्वमे महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति
स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीद‍ शरी-
रमन्धं भवत्यनन्धः स भवति यदि नाममस्रामो नैवैषोऽस्य दोषेण दुष्यति
॥ १ ॥ न वधेनास्य हन्यते नास्य स्खाम्येण नामो घ्नन्ति त्वेवैनं विच्छादय-
न्तीवाप्रियवेन्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ २ ॥ स
समित्पाणिः पुनरेयाय त ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राब्राजी:
किमिच्छन् पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्य-
नम्धः स भवति यदि स्वाममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥ न
बधेनास्य हन्यते नास्य स्वाम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रिय-
वेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवा -
चैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिशतं वर्षाणीति स
हाऽपराणि द्वान्निशतं वर्षाण्युवास तस्मै होवाच ॥ ४ ॥
इत्यष्टमाध्याये दशमः खण्डः ॥ १० ॥
तद्यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचै-
तदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रववाज स हाप्राप्यैव देवानेत-
जयं ददर्श नाह खल्वयमेव संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवे-
मानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥
स समित्पाणिः पुनरेयाय त ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः
प्रात्राजी: किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एव संप्र-
त्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो
भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥ एवमेवैष मघवन्निति होवाचैतं
त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति
सहापराणि पञ्च वर्षाण्युवास तान्येकशतः संपेदुरेतत्तद्यदाहुरेकशत ह वै
वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥
इत्यष्टमाध्याय एकादशः खण्डः ॥ ११ ॥
मघवन्मयं वा इद ँ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधि-
ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोर-
पहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥ अशरीरो वायुरभ्रं</p>
<pb n="98" />
<p>खण्डः १५]
छान्दोग्योपनिषत् ॥ ९॥
૬
विद्युत्स्तनयितुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योति-
रुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥ एवमेवैष संप्रसादोऽस्मा-
च्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम-
पुरुषः स तत्र पर्येति जक्ष क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोप-
जन स्मरन्निद‍ शरीर‍ से यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिन्छ-
रीरे प्राणो युक्तः ॥ ३ ॥ अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ
यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेद‍ शृण-
वानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥ अथ यो वेदेदं मन्वानीति स
आत्मा मनोsस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतानू
कामान् पश्यन् रमते ॥ ५ ॥ य एते ब्रह्मलोके तं वा एवं देवा आत्मानमुपासते
तस्मात्तेषाँ सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वाश्च लोका-
नामोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापति-
रुवाच प्रजापतिरुवाच ॥ ६ ॥
इत्यष्टमाध्याये द्वादशः खण्डः ॥ १२ ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व इव रोमाणि विधूय पाप
चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसं-
भवामीत्यभिसंभवामीति ॥ १ ॥
I
इत्यष्टमाध्याये त्रयोदशः खण्डः ॥ १३ ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृत स
आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां
यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कम द स्क‍
श्येतं लिन्दु माऽभिगां लिन्दु माऽभिगाम् ॥ १॥
इत्यष्टमाध्याये चतुर्दशः खण्डः ॥ १४ ॥
तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुला-
द्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे
स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहि-
सन्त्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसं-
पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १ ॥
इत्यष्टमाध्याये पञ्चदशः खण्डः ॥ १५ ॥
इत्यष्टमोऽध्यायः समाप्तः ॥ ८ ॥</p>
<pb n="99" />
<p>ईशाधुपनिषत्सु -
[ अध्यायः
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि, चं
सर्वाणि सर्व ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराक-
रणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु
ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति छान्दोग्योपनिषत्संपूर्णा ॥ ९ ॥
बृहदारण्यकोपनिषत् ॥ १० ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवाव•
शिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ उषा वा अश्वस्य मेध्यस्य शिरः ॥ सूर्यश्चक्षुर्वातः प्राणो व्यात्तममि-
वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य ॥ द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी
पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च
पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मासानि । ऊवध्य
सिकताः सिन्धवो गुदा यवृच्च क्लोमानश्च पर्वता भोषधयश्च वनस्पतयश्च
लोमान्युद्यन् पूर्वार्धो निम्लोचञ्जघनार्थे तद्विजृम्भते तद्विद्योतते यद्विधूनुते
तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥ अहव अभ्रं पुरस्ता-
न्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमाऽन्वजायत
तस्यापरे समुद्रे योनिरेतौ वा अश्रं महिमानावभितः संबभूवतुः । हयो
भूत्वा देवानवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः
समुद्रो योनिः ॥ २ ॥
इति प्रथमाध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत् । अशनाययाऽशनाया हि
मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्ता-
ते वै मे कमभूदिति तदेवार्कस्यार्कवं करें हवा अस्मै भवति य एवमेत-
स्यार्कवं वेद ॥ १॥ आपो वा भर्कस्तद्यदपा शर आसीत्तत्समहन्यत । सा
पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताभिः ॥ २ ॥
सं धात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीय * स एष प्राणस्त्रेधा विहितः ।
तस्य प्राची दिक्शिरोऽसौ चासौ चेमौं । अथास्य प्रतीची दिक्पुच्छमसौ चासौ
चसक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स
१ यद्विधुनुते २ वार्यस्या'.</p>
<pb n="100" />
<p>ब्राह्मणम् ३]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥ सोऽका-
मयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनः समभवदेश-
नाया मृत्युस्तद्यद्वैत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर
आस तमेतावन्तं कालमबिंभः । यावान्संवत्सरस्तमेतावतः कालस्य परस्ता-
दसृजत तं जातमभिव्याददास भाणकरोत्सव वागभवत् ॥ ४ ॥ स ऐक्षत</p>
<lg>
  <l>यदि वा इममभिमस्ये कनीयोऽन्नं करिष्य इति स तथा वाचा तेनात्मनेदर</l>
  <l>सर्वमसृजत यदिदं किंचचों यजुषि सामानि च्छन्दा सि यज्ञान्प्रेजाः पशून् ।</l>
  <l>स यद्यदेवासृजत तत्तदत्तमधियत सर्वं वा अत्तीति तददितेरदितित्व सर्व-</l>
  <l>स्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥</l>
</lg>
<p>सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्स तपोऽतप्यत तस्य
श्रान्तस्य तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु
शरीर श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥ सोऽकामयत
मेध्यं म इदः स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्य-
मभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं
वेद । तमनवरुध्यै वामन्यत । त५ संवत्सरस्य परस्तादात्मन आलभत । पशून्दे-
चताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त ॥ एष ह वा
अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मा-
नस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति
नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥
1
इति प्रथमाध्यायेद्वितीयं ब्राह्मणम् ॥ २ ॥
द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा
असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्यया-
मेति ॥ १ ॥ ते ह वाचमूचुस्त्वं न उगायेति तथेति तेभ्यो वागुदगायत् । यो
चाचि भोगस्तं देवेभ्य आगायद्यत् कल्याणं वदति तदात्मने । ते विदुरनेन चै
न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवें-
दमप्रतिरूपं वदति स एव स पाप्मा ॥ २ ॥ अथ ह प्राणमूचुस्त्वं न उद्गा-
येति तथेति तेभ्यः प्राण उद्गायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत् कल्याणं
जिप्रति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्म-
नाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥
अथ ह चक्षुरूचुस्त्वं न उगायेति तथेति तेभ्यश्चक्षुरुद्गायत् । यश्चक्षुनि
१ दशनाया हि मृग, २ प्रजा.</p>
<pb n="101" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः १
-भोगस्तं देवेभ्य भागाय द्यटकल्याणं पश्यति तदात्मने । ते विदुरनेन वै न उद्गात्रा-
इत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं
पश्यति स एव स पाप्मा ॥ ४ ॥ अथ ह श्रोत्रमूचुस्त्वं न उगायेति तथेति
तेभ्यः श्रोत्रमुद्गायद्यः श्रोत्रे भोगस्तं देवेभ्य आगाय द्यत्कल्याण‍ शृणोति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽवि-
ध्यन्स यः स पाप्मा यदेवेदमप्रतिरूप शृणोति स एव स पाप्मा ॥ ५ ॥
अथ ह मन ऊचुस्त्वं न उगायेति तथेति तेभ्यो मन उद्गायद्यो मनसि
भोगस्तं देवेभ्य आगाय यत् कल्याण‍ संकल्पयति तदात्मने । ते विदुरनेन वै न
उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्र-
तिरूप संकल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृ-
जन्नेवमेनाः पाप्मनाऽविध्यन् ॥ ६ ॥ अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गा-
येति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति
तदभिद्रुत्य पाप्मनाविव्यत्सन्स यथाऽश्मानमृत्वा लोष्टो विध्व सेतैव हैव
विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् परासुरा भवत्यात्मना
परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥ ते होचुः क्व नु सोऽभूद्यो न
इस्थमसत्तेत्यय मास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गाना हि रसः ॥ ८ ॥
सावा एषा देवता दूर्नाम दूर ह्यस्या मृत्युर्दूर ह वा अस्मान्मृत्युर्भवति य
एवं वेद ॥ ९ ॥ सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम पहस्य
यत्रासां दिशामन्तस्तद्गमयांचकार तदासां पाप्मनो विन्यदधात्तस्मान्न जन-
मियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥ सा वा एषा देव-
तैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥ स वै
वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्सोऽयमग्निः
परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥ अथ प्राणमत्यवहत्स यदा मृत्यु-
मत्यमुच्यत स वायुरभवत्सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥
अथ चक्षुरत्यवहत्तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्सोऽसावादित्यः
परेण मृत्युमतिक्रान्तस्तपति ॥ १४ ॥ अथ श्रोत्रमत्यवहत्तद्यदा मृत्युमत्यमु-
च्यत ता दिशोऽभवस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥ अथ
मनोऽत्यवहत्तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्रः परेण
मृत्युमतिक्रान्तो भात्येव हैं वा एनमेषा देवता मृत्युमतिवहति य एवं वेद
॥ १६ ॥ अथात्मनेऽनाद्यमागायचद्धि किंचान्नमद्यतेऽनेनैव तदुद्यत इह
प्रतितिष्ठति ॥ १७ ॥ ते देवा अनुवन्नेतावद्वा द्वदुः सर्वं यदुनं तदात्मन</p>
<pb n="102" />
<p>ब्राह्मणम् ३]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>भागासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माऽभिसंविशतेति तथेति त
समन्तं परिणयविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येव ह वा एन‍
स्वा अभिसंविशन्ति भर्ता स्वाना श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं
वेद य उ हैवंविदः स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य
एवैतमनुभवति यो वैतमनु भार्यान् बुभूषति स हैवालं भार्येभ्यो भवति
॥ १८ ॥ सोऽयास्य आङ्गिरसोऽङ्गाना हि रसः प्राणो वा अङ्गाना रसः
प्राणो हि वा अङ्गाना रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव
तच्छुष्यत्येष हि वा अङ्गाना रसः ॥ १९ ॥ एष उ एव बृहस्पतिर्वाग्
वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ २० ॥ एष उ एव ब्रह्मणस्पति-
र्वा वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥ एष उ एव लाम
वागू वैसामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः हृषिणा समो
मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव
सामानुते साम्नः सायुज्य सलोकतां य एवमेतत्साम वेद ॥ २२ ॥
एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीद ँ सर्वमुत्तब्धं वागेव गीथोच्च
गीथा चेति स उद्गीथः ॥ २३ ॥ तद्धापि ब्रह्मदत्तश्चेकितानेयो राजानं भक्ष-
यन्नुवाचार्य त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनो-
दुगायदिति वाचाच ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥ तस्य हैतस्य
सानो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादाविज्यं
करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसंपन्नयात्र्त्विज्यं कुर्यात्तस्माद्यज्ञे
स्वरवन्तं दिशन्त एव । अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेत-
त्साम्नः स्वं वेद ॥ २५ ॥ तस्य हैतस्य सानो यः सुवर्णं वेद भवति हास्य
सुवर्ण तस्य वै स्वर एव सुवणं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्ण
वेद ॥ २६ ॥ तस्य हैतस्य सानो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै
वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक
आहुः ॥ २७ ॥ अथातः पवमानानामेवाभ्यारोहः स खलु प्रस्तोता साम
प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत् । असतो मा सद्गमय तमसो मा ज्यो-
तिर्गमय मृत्योर्माऽमृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा अस-
त्सदमृतं मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गम-
येति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्माऽमृतं गमयामृतं मां कुर्वित्येवैतदाह
मृत्योर्माऽमृतं गमयेति नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि
तेष्वात्मनेाद्यमागायेतस्मादु तेषु वरं वृणीत यं कामं कामयेत त स एष</p>
<pb n="103" />
<p>ઢઢ
ईशाद्युपनिषत्सु -
[ अध्यायः १
एवंविदुद्वातात्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्वैत-
लोकजिदेव न हैवालोक्यताया आशाऽस्ति य एवमेतत्साम वेद ॥ २८ ॥
इति प्रथमाध्याये तृतीयं ब्राह्मणम् ॥ ३ ॥
आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्
सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहंनामाभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्ये-
वाम उक्त्वाऽथान्यन्नाम प्रब्रूते यद्स्य भवति स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पा-
मन औषत्तस्मात्पुरुष भोषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद
॥ १ ॥ सोऽबिभेत्तस्मादेकाकी बिमेति स हायमीक्षांचक्रे यन्मदन्यश्वास्ति
कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माज्यमेष्यद्वितीयाद्वै भयं
भवति ॥ २ ॥ स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् । स
हैतावानास यथा स्त्रीपुमा सौ संपरिष्वक्तौ स इममेवात्मानं द्वेधाsपातय-
ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञ-
वल्क्यस्तस्मादयमाकाशः स्त्रिमा पूर्यत एव ता समभवत्ततो मनुष्या अजा-
यन्त ॥ ३ ॥ सा हैयमीक्षांचक्रे कथं नु माऽऽत्मन एव जनयित्वा संभवति हन्त
तिरोऽसानीति सा गौरभवदृषभ इतरस्ता समेवाभवत्ततो गावोऽजायन्त वड-
वेतराऽभवदश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्ता समेवाभवत्तत एकशफ-
मजायताऽजेतराभवद्वस्त इतरोऽविरितरा मेष इतरस्ता समेवाभवत्ततोऽजाव-
योऽजायन्तेवमेव यदिदं किंच मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४ ॥
सोऽवेदहं वाव सृष्टिरस्म्यह। हीद* सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्या हा-
स्यैतस्यां भवति य एवं वेद ॥ ५ ॥ अथेत्यभ्यमन्यत्स मुखाच्च योनेर्हस्ताम्यां
चाग्निमसृजत तस्मादेतदुभयमलो मकमन्तरतोऽलो मका हि यो निरन्तरतः । तद्य-
दिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः ।
अथ यत्किचेदमार्गं ततसोऽसृजत तदु सोम एतावद्वा इद ँ सर्वमन्नं चैवा-
नादश्च सोम एवान्नमभिरन्नादः सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृज-
ताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्या हास्यैतस्यां भवति
य एवं वेद ॥ ६ ॥ तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रिय-
तासौ नामायमिद रूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रिय-
तेsसौनामायमिदरूप इति स एष इह प्रविष्टः । अनखाप्रेभ्यो यथा क्षुरः क्षुर-
धानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये तं न पश्यन्ति । अकृत्स्रो हि स
प्राणनेव प्राणो नाम भवति । वदन् वाक् पश्यश्चक्षुः शृण्वन् श्रोत्रं मन्वानो
मंजन सैतानि कर्मनामान्येव । स मोडत एकैकसुपास्ते न स वेदाकृत्स्रो</p>
<pb n="104" />
<p>ब्राह्मणम् ४ ]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>षोत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पद-
नीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्दे-
देवं कीर्ति श्लोकं विन्दते य एवं वेद ॥ ७ ॥ तदेतत्प्रेयः पुत्रात्प्रेयो वित्ता-
स्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं
ब्रूयात् प्रिय रोल्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य
आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥ तदाहुर्य-
ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्माऽवेद्यस्मात्तत्सर्वम-
भवदिति ॥ ९ ॥ ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां
तथा मनुष्याणां तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवः सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेदाऽहं ब्रह्मास्मीति स इद सर्व भवति तस्य ह न
देवाश्चनाभूत्या ईशते । आत्मा ह्येषा ँ स भवत्यथ योऽन्यां देवतामुपास्तेऽन्यो-
सावन्योऽहमस्मीति न स वेद यथा पशुरेव स देवानाम् । यथा ह वै बहवः
पशवो मनुष्यं भुञ्जयुरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशावादी-
यमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः .
॥ १० ॥ ब्रह्म वा इदमग्र आसीदेकमेव तदेक ँ सन्न व्यभवत् । तच्छ्रेयोरूपमत्य-
सृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो
मृत्युरीशान इति । तस्मात् क्षत्रात्परं नास्ति तस्माद्राह्मणः क्षत्रियमधस्तादु-
पास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्रह्म । तस्माद्य-
पि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य उ एन
हिनस्ति स्वा ँ स योनिमृच्छति स पापीयान् भवति यथा श्रेयास हि-
सित्वा ॥ ११ ॥ स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि
Tea आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ १२ ॥ स
जैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमियं वै पूषेय हीद ँ सर्वं पुष्यति
यदिदं किंच ॥ १३ ॥ स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत्
क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो अबलीयान् बलीया समाज्ञसते
र्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वै तत्तस्मात् सत्यं वदन्तमाहुर्धम
वदतीति धर्मं वा वदन्तः सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ १४ ॥
तदेतद्ब्रह्म क्षत्रं विद शुद्धस्तदभिनैव देवेषु ब्रह्माभवद्राह्मणो मनुष्येषु क्षत्रि-
येण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादनावेव देवेषु लोकमिच्छन्ते
ब्राह्मणे मनुष्येष्वेताभ्या हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्मा-</p>
<pb n="105" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः १
लोकास्वं लोकमदृष्ट्रा प्रति स एनमविदितो न भुनक्ति यथा वेदो वाऽन-
नूक्तोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धा-
स्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते
न हास्य कर्म क्षीयते । अस्माच्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥
art अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन
देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपुणाति यत्प्रजा-
मिच्छते तेन पितॄणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनु-
व्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा
वयास्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोका-
यारिष्टिमिच्छेदेव हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं
मीमा सितम् ॥ १६ ॥ आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे
स्वादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै कामो नेच्छश्च
नातो भूयो विन्देत्तस्मादप्येतर्ह्यकाकी कामयते जाया मे स्वादथ प्रजायेयाथ
वित्तं स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्त एव
तावन्मन्यते तस्य कृत्खता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मा-
लुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं देव श्रोत्रेण हि तच्छृणोत्यात्मैवास्य
कर्मात्मना हि कर्म करोति स एष पाको यज्ञः पाङ्कः पशुः पाङ्कः पुरुषः
पामिद सर्व यदिदं किंच तदिदं सर्वमाप्नोति य एवं वेद ॥ १७ ॥
इति प्रथमाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥
यत्सप्तान्नानि मेधया तपसाऽजनयत्पिता । एकमस्य साधारणं द्वे देवान-
भाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्तस्मिन्सर्वं प्रतिष्ठित य
प्राणिति यच्च न । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा । यो वैतामक्षिति
वेद सोऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः
॥ १ ॥ यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाऽजनय-
पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एत-
दुपास्ते न स पाप्मनो व्यावर्तते मिश्र‍ ह्येतत् । द्वे देवानभाजयदिति हुतं च
प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति ।
तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवामे
मनुष्याश्च पशवश्चोपजीवन्ति तस्मात् कुमारं जातं घृतं वैवाग्रे प्रति लेहयन्ति
स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन् सर्वं प्रतिष्ठितं
यच्च प्राणिति यच्च नेति पयसि हीद सर्व प्रतिष्ठितं यक्ष प्राणिति यच न ।</p>
<pb n="106" />
<p>ब्राह्मणम् ५ ]
बृहदारण्यकोपनिषत् ॥ १० ॥
९ १
तद्यदिदमाहुः संवत्सरं पयसा जुहृदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदह-
रेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्व हि देवेभ्योऽन्नाद्यं प्रय-
च्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स
हीदमनं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स
हीदमन्नं धिया धिया जनयते । कर्मभिर्यद्वैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति
प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत्स देवानपिगच्छति स ऊर्जमुपजीवतीति
प्रशसा ॥ २ ॥ त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्य-
श्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति
मनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरष्टतिहींधीं-
भरित्येतत्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः
कश्च शब्दो वागेव सैषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः
समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाड्मयो मनोमयः
प्राणमयः ॥ ३ ॥ त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः
प्राणोऽसौ लोकः ॥ ४॥ त्रयो वेदा एत एव वागेवग्वेदो मनो यजुर्वेदः प्राणः
सामवेदः ॥ ५ ॥ देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः
प्राणो मनुष्याः ॥ ६ ॥ पिता माता प्रजैत एव मन एव पिता वाङ्माता
प्राणः प्रजा ॥ ७ ॥ विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किंच विज्ञातं
वाचस्तद्रूपं वाग्वि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ ८ ॥ यत्किंच विजिज्ञासं
मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं तद्भूत्वाऽवति ॥ ९ ॥ यत्किंचा-
विज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वाऽवति ॥ १०
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी
तावानयमभिः ॥ ११ ॥ अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्य-
स्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुन समेतां ततः प्रा
णोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपतो नास्य सपतो भवति
य एवं वेद ॥ १२ ॥ अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रस्त-
द्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽ-
नन्ताः स यो हैतानन्तवत उपास्तेऽन्तवन्त स लोकं जयत्यथ यो हैतान-
नन्तानुपास्तेऽनन्त स लोकं जयति ॥ १३ ॥ स एष संवत्सरः प्रजापतिः
षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रि-
भिरेवा च पूर्यतेऽप च क्षीयते सोमावास्या रात्रिमेतया षोडश्या कल्या</p>
<pb n="107" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः १
सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेता रात्रिं प्राणभृतः
प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥ यो
वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्त-
मेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते
तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना
चेजीवति प्रधिनाऽगादित्येवाहुः ॥ १५ ॥ अथ त्रयो वाव लोका मनुष्यलोकः
पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा
कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकाना श्रेष्ठस्तस्माद्विद्यां
प्रशसन्ति ॥ १६ ॥ अथातः संप्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह स्वं ब्रह्म
त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै
किंचानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषाँ सर्वेषां यज्ञ
इत्येकता ये वै के च लोकास्तेषा ँ सर्वेषां लोक इत्येतैतावद्वा इद ँ सर्व-
तम्मा सर्व सनयमितोऽभुनजदिति तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्त-
स्मादेनमनुशासति स यदेवं विदस्माल्लोकास्यैत्यथैभिरेव प्राणैः सह पुत्रमावि-
शति । स यद्यनेन किं चिदक्ष्णया कृतं भवति तस्मादेन सर्वस्मात्पुत्रो मुञ्चति
तस्मात्पुत्रो नाम स पुत्रेणैवास्मिँल्लोके प्रतितिष्ठत्यथैनमेते देवाः प्राणा अमृता
भाविशन्ति ॥ १७ ॥ पृथिव्यै चैनमभेश्च दैवी वागाविशति सा वै दैवी वा-
वया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥ दिवश्चैनमादित्याच्च दैवं मन आत्रि-
शति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥ अन्यचैनं चन्द्र-
ससश्च दैवः प्राण आविशति स वै दैवः प्राणो यः संचरश्चासंचरश्च न
व्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैव
स यथैतां देवता सर्वाणि भूतान्यवन्त्येव हैवंविद‍ सर्वाणि भूतान्यवन्ति ।
यदु किंचेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवानुं गच्छति न ह वै
देवान् पापं गच्छति ॥ २० ॥ अथातो व्रतमीमासा प्रजापतिर्ह कर्माणि
ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दधे द्रक्ष्या-
म्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथाकर्म तानि
मृत्युः श्रमो भूत्वोपयेमे तान्यामोत्तान्याहवा मृत्युरवारुन्द्ध तस्माच्छ्राम्यत्येव
वाक् श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नामोद्योऽयं मध्यमः प्राण-
खानि ज्ञातुं दधिरे । भयं वै नः श्रेष्ठो यः संचरश्श्चासंचरश्च न व्यथतेऽथो न
रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवस्तस्मादेव</p>
<pb n="108" />
<p>ब्राह्मणम् १ ]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति
य एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्य-
ध्यात्मम् ॥ २१ ॥ अथाधिदैवतं ज्वलिष्याम्येवाहमित्यभिदध्रे तप्स्याम्यहमि-
व्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवत स यथैष
प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुम्लोचन्ति धन्या देवता
न वायुः सैषाऽनस्तमिता देवता यद्वायुः ॥ २२ ॥ अथैष श्लोको भवति यत-
श्श्रोदेति सूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं
देवाश्चक्रिरे धर्म स एवाद्य स उ श्व इति यद्वा एतेऽमुर्ह्यप्रियन्त तदेवाप्यद्यं
कुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नु-
वदिति यद्यु चरेत्समापिपयिषेत्तेनों एतस्यै देवतायै सायुज्य सलोकतां
जयति ॥ २३ ॥
इति प्रथमाध्याये पञ्चमं ब्राह्मणम् ॥ ५ ॥
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषा मुक्थम तो हि
सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषा ँ सामैतद्धि सर्वैर्नामभिः सममेतदेष
ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥ अथ रूपाणां चक्षुरित्येतदेषामुक्थ-
मतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषा सामैतद्धि सर्वै रूपैः सममेतदेषां
ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥ अथ कर्मणामात्मेत्येतदेषामुक्थ-
तो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषा ँ सामैतद्धि सर्वैः कर्मभिः सममे-
तदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्रय सदेकमयमात्माऽऽत्मो
एकः सतत्रयं तदेतदमृत सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं
ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥
इति प्रथमाध्याये षष्ठं ब्राह्मणम् ॥ ६ ॥
इति प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ॥ २ ॥
ॐ ॥ दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म
ते वाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक
इति वै जना धावन्तीति ॥ १ ॥ स होवाच गाग्यों य एवासावादित्ये पुरुष
एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः</p>
<pb n="109" />
<p>- ईशायुपनिषत्सु -
[ अध्यायः २
सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपा-
स्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥ स होवाच गार्ग्यो य
एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतरिम-
संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य
एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यानं क्षीयते ॥ ३ ॥ स
होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-
चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एत-
मेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥ स
होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति स होवा -
चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स
य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥ स
stara गाय य एवायं वायैौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचा-
जातशत्रुर्मा मैतस्मिन्सं वदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेत-
पास इति स य एतमेवमुपास्ते जिष्णुपराजिष्णुर्भवत्यन्यतस्त्यजायी ॥६॥
स होवाच गाग्र्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवा -
चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स
य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिहस्य प्रजा भवति ॥ ७ ॥ स
होवाच गायों य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचा•
जातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य
एतमेवमुपास्ते प्रतिरूप‍ हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्मा-
जायते ॥ ८ ॥ स होवाच गार्ग्यो य एवायमादर्श पुरुष एतमेवाहं ब्रह्मोपास
इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचिष्णुरिति वा अहमेतमु-
पास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भव-
यो यैः संनिगच्छति सर्वास्तानतिरोचते ॥ ९ ॥ स होवाच गाग्र्यो य
एवायं यन्तं पश्चाच्छन्दोऽनुदेत्येतमेवाहं ब्रह्मोपास इति स होवाचाजातश-
र्मा मैतस्मिन्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमु-
पास्ते सर्व हैवास्मिँल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥
स होवाच गायों य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-
चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति
स य एतमेवमुपास्ते द्वितीयवान् ह भवति नास्माद्गुणश्छिद्यते ॥ ११ ॥ स
होवाच गायों य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवा-</p>
<pb n="110" />
<p>ब्राह्मणम् २]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>वाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य
एतमेवमुपास्ते सर्व हैवास्मिँलोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति
॥ १२ ॥ स होवाच गाग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास
इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमु
पास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा
भवति स ह तूष्णीमास गार्ग्यः ॥ १३ ॥ स होवाचाजातशत्रुरेतावन्नू ३ इत्येता-
बद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्रह्म मे वक्ष्यतीति
ब्येव वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुष सुप्तमाजग्म-
तुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ
तं पाणिना पेषं बोधयां चकार स होत्तस्थौ ॥ १५ ॥ स होवाचाजातशत्रुर्य-
त्रैष एतत्सुतोऽभूद्य एष विज्ञानमयः पुरुषः चैष तदाभूत्कुत एतदागादिति
तदु ह न मेने गार्ग्यः ॥ १६ ॥ स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य
एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्त-
हृदय आकाशस्तस्मिन्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम
गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीत श्रोत्रं गृहीतं
मनः ॥ १७ ॥ स यत्रैतत्स्वभ्यया चरति ते हास्य लोकास्तदुतेव महाराजो
भवत्युतेव महाब्राह्मण उतेवोश्चावचं निगच्छति स यथा महाराजो जानपदान्
गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे
शरीरे यथाकामं परिवर्तते ॥ १८ ॥ अथ यदा सुषुप्तो भवति यदा न कस्य-
चन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयापुरीततमभिप्रतिष्ठन्ते
ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महा-
ब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥ स यथोर्ण-
नाभिस्तन्तुनोच्चरेद्यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे
प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य
सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥
इति द्वितीयाध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
यो ह वै शिशु साधान सप्रत्याधान संस्थूण सदामं वेद सप्त ह
द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवा-
धानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ १॥ तमेताः सप्ताक्षितय उपतिष्ठन्ते</p>
<pb n="111" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः २
:
aur इमा अक्षम्लोहिन्यो राजयस्ताभिरेन‍ रुद्रोऽन्वायत्तोऽथ या अक्षन्ना-
पस्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृष्णं तेनाभिर्यच्छुकं तेने-
न्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यानं क्षीयते य एवं वेद
॥ २ ॥ तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुनस्तस्मिन्यशो निहितं
विश्वरूपम् । तस्याssसत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।
भर्वाग्बिलश्चमस ऊर्ध्वबुन इतीदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुनस्तस्मि•
न्यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्याऽसत
ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संवि
दानेति वाग्ध्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥ इमावेव गोतमभरद्वाजावयमेव
गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं
जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा
ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदनिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति
य एवं वेद ॥ ४ ॥
इति द्वितीयाध्याये द्वितीयं ब्राह्मणम् ॥ २ ॥
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च
त्यं च ॥ १ ॥ तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाञ्चैतन्मर्त्यमेतत्स्थितमेतत्सत्त-
स्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो
ह्येष रसः ॥ २ ॥ अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्स्यं तस्यैतस्या-
मूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरु
षस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥ अथाध्यात्ममिदमेव मूर्त यदन्यत्प्रा-
णाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य
मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥
अथामूर्त प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्या--
मूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य
ह्येष रसः ॥ ५ ॥ तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा
पाण्ड्वाविकं यथेन्द्रगोपो यथाऽन्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्त सकू
द्विद्युत्व ह वा अस्य श्रीर्भवति य एवं वेदाधात आदेशो नेति नेति न
ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेय सत्यस्य सत्यमिति प्राणा वै सत्यं
तेषामेष सत्यम् ॥ ६ ॥
यति दितीयाध्याये ततीयं ब्राहाणम ॥ ३ ॥</p>
<pb n="112" />
<p>श्रीह्मणम् ४]
वृहदारण्यकोपनिषत् ॥ १० ॥
10
मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा भरेऽहमस्मात्स्थानादसि इन्व
तेनया कात्यायन्याऽन्तं करवाणीति ॥ १ ॥ सा होवाच मैत्रेयी यन्नु म इयं
भगोः सर्वा पृथिवीं वित्तेन पूर्णा स्यास्कथं तेनामृता स्यामिति नेति होवाच
माज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवित स्यादमृतत्वस्य तु
बाऽऽशास्ति वित्तेनेति ॥ २ ॥ सा-होवाच मैत्रेयी येनाहं नामृता स्वां किमहं
तेन कुर्या यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३ ॥ स होवाच याज्ञवल्क्यः
प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य
तु मे निदिध्यासस्वेति ॥ ४ ॥ स होवाच न वा अरे पत्युः कामाय पतिः
प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा भरे जायायै कामाय
जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा भरे पुत्राणां
कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा
अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न
वा भरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा भरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय - क्षत्रं प्रियं
भवति । न वा भरे लोकानां कामाय लोका: प्रिया भवन्त्यात्मनस्तु कामाय
लोका: प्रिया भवन्ति । न वा भरे देवानां कामाय देवाः प्रिया भवन्त्यात्म-
नस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि
प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा
भरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं
भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो
मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेद‍ सर्व विदि-
तम् ॥ ५ 11 ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादा-
द्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं
परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद
सर्व तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा
इमानि भूतानीद‍ सर्वं यदयमात्मा ॥ ६ ॥ स यथा दुन्दुभेर्हन्यमानस्य न
बाह्याञ्छब्दाञ्छक्नुयाद्ब्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो
गृहीतः ॥ ७ ॥ स यथा शङ्खस्य धमायमानस्य न बाह्याच्छब्दान्छनुयाइह-
माय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥ स यथा वीणायै
वाद्यमानायै न बाह्यान्छब्दाञ्छन्नुयाद्ब्रहणाय वीणायै तु ग्रहणेन वीणा-
वादस्य वा शब्दो गृहीतः ॥ ९ ॥ स यथाऽऽर्द्वैधारभ्याहितात्पृथग्भूमा विनि-
अ. उ. ७</p>
<pb n="113" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः 3
श्वरन्त्येवं वा भरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवे-
दोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्या-
ख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निश्वसितानि ॥ १० ॥ स यथा
सर्वांसामपार समुद्र एकायनमेव सर्वेषा स्पर्शानां स्वगे कायनमेव सर्वेषां
गन्धानां नासिके एकायनमेव सर्वेषा रसानां जिह्वैकायनमेव सर्वेषा‍
रूपाणां चक्षुरेकायनमेव सर्वेषा शब्दाना श्रोत्रमेकायनमेव‍ सर्वेषा
संकल्पानां मन एकायनमेव सर्वासां विद्याना हृदयमेकायनमेव सर्वेषां
कर्मणा हस्तावेकायनमेव सर्वेषामानन्दानामुपस्थ एकायनमेव सर्वेषां
विसर्गाणां पायुरेकायनमेव सर्वेषामध्वनां पादावेकायनमेव सर्वेषां वेदानों
वागेकायनम् ॥ ११ ॥ स यथा सैन्धवखिल्य उदके प्राप्त उदकमेवानु
विलीयेत न हास्योह्रहणायेव स्याद्यतो यतस्त्वाददीत लवणमेवैवं वा अर इर्द
महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवाऽनु-
विनश्यति न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥ सा
होवाच मैत्रेय्यन्त्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञाऽस्तीति स होवाच याज्ञ-
वल्क्यो न वा अरेsहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३ ॥ यन्त्र
हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर
इतर शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं
विजानाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं जिघेत्तत्केन कं पश्येत्तत्केन)
करूँ शृणुयात्तत्केन कमभिवदेत्तत् केन कं मन्वीत तत् केन कं विजानीयाद्ये-
नेदर सर्व विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानी-
यादिति ॥ १४ ॥
इति द्वितीयाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चा-
यमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म ँ शारीरस्तेजोम-
योऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद ँ सर्वम् ॥ १ ॥
इमा आपः सर्वेषां भूतानां मध्वासामपा सर्वाणि भूतानि मधु यश्चायमा-
स्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ रेतसस्तेजोमयोऽमृतमयः
पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ २ ॥ अयमभिः
सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नन्नौ तेजोमयो-
ऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव
स योऽयमात्मेदममृतमिदं ब्रह्मेद ँ सर्वम् ॥ ३ ॥ अयं वायुः सर्वेषां भूतानां</p>
<pb n="114" />
<p>ब्राह्मणम् ५I
बृहदारण्यकोपनिषत् ॥ १० ॥
मैध्वस्य वायोः सर्वाणि भूतानि मधु यवीयमस्मिन्वायौ तेजोमयोऽमृतमयः
पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमा
मेदममृतमिदं ब्रह्मेद सर्वम् ॥ ४ ॥ अयमादित्यः सर्वेषां भूतानां मध्व-
स्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः
पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽय
मात्मे दममृतमिदं ब्रह्मेद५ सर्वम् ॥ ५ ॥ इमा दिशः सर्वेषां भूतानां मध्वासां
दिशा सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो
पश्चायमध्यात्मँ श्रोत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽय-
मात्मेदममृतमिदं ब्रह्मेद सर्वम् ॥ ६ ॥ अयं चन्द्रः सर्वेषां भूतानां मध्वस्थ.
चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मि श्चन्द्रे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे दु
ममृतमिदं ब्रह्मेद ँ सर्वम् ॥ ७ ॥ इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः
सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायत
मध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं
ब्रह्मेद ँ सर्वम् ॥ ८ ॥ अयः स्तनयितुः सर्वेषां भूतानां मध्वस्य स्तनयितो
सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयितौ तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्म ५ शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽय -
मदममृतमिदं ब्रह्मेद सर्वम् ॥ ९ ॥ अयमाकाशः सर्वेषां भूतानां मध्व-
याकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः
पुरुषो यश्चायमध्यात्मँ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स यो-
मादममृतमिदं ब्रह्मेद५ सर्वम् ॥ १० ॥ अयं धर्मः सर्वेषां भूतानां मध्व
स्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे दममृ-
वमिदं ब्रह्मेद ँ सर्वम् ॥ ११ ॥ इद ँ सत्य सर्वेषां भूतानां मध्वस्यु
सत्यस्य सर्वाणि भूतानि मधु यश्चाऽयमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो
यश्चाऽयमध्यात्म ँ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेद-
ममृतमिदं ब्रह्मेद ँ सर्वम् ॥ १२ ॥ इदं मानुषः सर्वेषां भूतानां मध्वस्य
मानुषस्य सर्वाणि भूतानि मधु यश्चाऽयमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुः
षोऽयमेव स योऽयमारमेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ १३ ॥ अयमात्मा
सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि
तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स
सु</p>
<pb n="115" />
<p>- रेशायुपनिक
योऽयमात्मेदममृतमिदं ब्रह्मेद सर्वम् ॥ १४ ॥ स वा अयमात्मा सर्वेषां
भूतानामधिपतिः सर्वेषां भूताना राजा तथथा रथनाभौ च रथनेमौ चाराः
सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः
सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥ इदं वै तन्मधु दध्यड्डा-
थर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दस उग्र--
कृणोमि तन्यतुर्न वृष्टिं । दध्यड् ह यन्मध्वाथर्वणो वामश्वस्य शीर्णा
यदीमुवाचेति ॥ १६ ॥ इदं वै तन्मधु दध्यङ्काथर्वणोऽश्विभ्यामुवाच तदेतदृषिः
पश्यन्नवोचदाथर्वणायाश्विना दधीचेऽश्व्य शिरः प्रत्यैरयतम् । स वां मधु
प्रवोचडतायत्वाष्ट्रं यद्दत्रावपि कक्ष्यं वामिति ॥ १७ ॥ इदं वै तन्मधु दध्य-
थर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत् । पुरश्चक्रे द्विपदः पुरश्चक्रे
चतुष्पदः पुरः स पक्षी भूत्वा पुरः पुरुष भाविशदिति । स वा भयं पुरुषः
सर्वासु पूर्षु पुरियो नैनेन किंचनानावृतं नैनेन किंचनासंवृतम् ॥ १८ ॥
इदं वै तम्मधु दध्यङ्काथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचद्रूप रूपंः
प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते
युक्ता हास्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि
चानन्तानि च तदेतद्ब्रह्मा पूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभू-
रित्यनुशासनम् ॥ १९ ॥
इति द्वितीयाध्याये पञ्चमं ब्राह्मणम् ॥ ५ ॥
: अथ वशः पौतिमाध्यो गौपवनाद्रौपवनः पौतिमाप्यात्पौतिमाच्यो गौप-
नागपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्य::
कौशिकाच्च गौतमाच्च गौतमः ॥ १ ॥ आग्निवेश्या दाग्निवेश्यः शाण्डिल्याच्चा-
नभिम्लाताच्चानभिम्लात आनभिम्लातादानभिम्लात् आनभिम्लातादानभि-
म्हातो गौतमागौतमः सैतवप्राचीन योग्याभ्या ँ सैतवप्राचीनयोग्यौ पारा-
वार्यात्पाराशर्यो भारद्वाजाद्वारद्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भारद्वा-
जाद्वारद्वाजः पाराशर्यात् पाराशर्यो बैजवापायनाद्वैजवापायनः कौशिकायने :-
कौशिकायनिः : ॥ २ ॥ घृतकौशिकाद्धृतकौशिकः पाराशर्यायणात्पाराशर्यायणः
पाराशर्यात् पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाञ्च यास्काच्चासु--
संयणचैव त्रैवणि रौपजन्धनेरौपजन्ध निरासुरेरासुरिर्भारद्वाजाद्वारद्वाज आत्रे-
यादात्रेयो माण्टेर्माण्टिगतमा गौतमी गौतमागौतमो वात्स्याद्वात्स्यः शाण्डि-
त्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहा-
रितो. गालवाङ्गालवो विदर्भी कौण्डिन्याद्विदुर्भी कौण्डिन्यो वस्सनपातो बाभ्रवा-</p>
<pb n="116" />
<p>ब्राह्मणम् १ J
बृहदारण्यकोपनिषत् ॥ १० ॥
इत्सनपाद्वाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आधि-
इस आभूतेस्वाड्रादाभूतिस्वाट्रो विश्वरूपास्वाहा द्विश्वरूपत्वाष्ट्रोऽश्रिभ्या-
मश्विनौ दधीच आथर्वणाद्दध्यङ्काथर्वणोऽथर्वणो दैवादथर्वा देवो मृत्योः
प्राध्वसनान्मृत्युः प्राध्वसनः प्रध्वर सनात्प्रध्वसन एकर्षे रेकर्षिर्विप्र-
चित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगारसनगः
परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ ३ ॥
इति द्वितीयाध्याये षष्ठं ब्राह्मणम् ॥ ६ ॥
इति द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ॥ ३ ॥
ॐ ॥ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानां
ब्राह्मण अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव
कः विदेषां ब्राह्मणानामनूचानतम इति स ह गवा सहस्रमवरुरोध दश दश
पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥ तान्होवाच ब्राह्मणा भग-
वन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते हं ब्राह्मणा न दुष्टषुस्थ
ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इति
ता होदाचकार ते ह ब्राह्मणाश्रुकुधुः कथं नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्य
वैदेहस्य होताऽश्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मि-
ठोस इति स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयँ स्म
इति तत एव प्रष्टुं दुध्रे होताऽश्वलः ॥ २ ॥ याज्ञवल्क्येति होवाच
यदिद सर्वं मृत्युनाऽऽप्त सर्व मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमति-
मुच्यत इति होत्रर्त्विजाग्निन्ा वाचा वाग्वै यज्ञस्य होता तद्येयं वाक् सोऽय-
मग्निः स होतास मुक्तिः साऽतिमुक्तिः ॥ ३ ॥ याज्ञवल्क्येति होवाच- यदिद
सर्वमहोरात्राभ्यामाप्तः सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयो-
राप्तिमतिमुच्यत इत्यध्वर्युणर्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्य-
दिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः साऽतिमुक्तिः ॥ ४ ॥ याज्ञ-
वल्क्येति होवाच यदिद सर्व पूर्वपक्षापरपक्षाभ्यामाप्तः सर्वं पूर्वपक्षापत्र
पक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्रात्र-
विजय वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स
उद्गाता स मुक्तिः साऽतिमुक्तिः ॥ ५॥ याज्ञवल्क्येति होवाच यदिदमन्तरिक्ष-</p>
<pb n="117" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ३
मनारम्बणमित्र केनIssक्रमेण यजमानः स्वर्ग लोकमाक्रमत इति ब्रह्मण-
विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स
ब्रह्मा स मुक्तिः साऽतिमुक्तिरित्यतिमोक्षा अथ संपदः ॥ ६ ॥ याज्ञ-
वल्क्येति होवाच कति भिरयमद्यग्भि होतास्मिन्यज्ञे करिष्यतीति तिसृ-
भिरिति कतमास्तास्तिस्र इति पुरोऽनुवाक्या च याज्या च शस्यैव तृतीया
किं ताभिर्जयतीति यत्किं चेदं प्राणभृदिति ॥ ७ ॥ याज्ञवल्क्येति होवाच कत्य
यमद्याध्वर्युरस्मिन्यज्ञ आहुतीहोंष्यतीति तिस्र इति कतमास्तास्तिस्र इति या
हुता उज्वलन्ति या हुवा अतिनेदन्ते या हुता अधिशेरते किं ताभिर्जयतीति
या हुता उज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इति हि देवलोकी
या हुता अतिदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता
अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८ ॥ याज्ञ-
वल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायती-
त्येकयेति कतमा सैकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्त-
मैव स तेन लोकं जयति ॥ ९ ॥ याज्ञवल्क्येति होवाच कत्ययमद्योगाता -
ऽस्मिन्यज्ञे स्तोन्नियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या
च याज्या च शस्यैव तृतीया कतमास्ता यां अध्यात्ममिति प्राण एव पुरोनु-
attersपानी या ज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरो-
नुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोक शस्यया ततो ह होताऽश्वल
उपरराम ॥ १० ॥
इति तृतीयाध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
अथ हैनं जारत्कार भर्तिभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः
कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः
कतमे त इति ॥ १ ॥ प्राणो वै ग्रहः सोऽपानेनाऽतिग्राहेण गृहीतोऽपानेन हि
गन्धाञ्जिघ्रति ॥ १ ॥ वाग्वै ग्रहः स नाम्नाऽतिग्राहेण गृहीतो वाचा हि नामा-
भिवदति ॥ ३ ॥ जिह्वा वै ग्रहः स रसेनाऽतिग्राहेण गृहीतो जिह्वया हि
सान्विजानाति ॥ ४ ॥ चक्षुर्वै ग्रहः स रूपेणाऽतिप्राहेण गृहीतश्चक्षुषा हि
रूपाणि पश्यति ॥ ५ ॥ श्रोत्रं वै ग्रहः स शब्देनाऽतिग्राहेण गृहीतः श्रोत्रेण
हि शब्दान्छृणोति ॥ ६ ॥ मनो वै ग्रहः स कामेनाऽतिग्राहेण गृहीतो
मनसा हि कामान्कामयते ॥ ७ ॥ हस्तौ वै ग्रहः स कर्मणाऽतिप्राहेण गृहीतो
हस्ताभ्या हि कर्म करोति ॥ ८ ॥ त्वग्वै ग्रहः स स्पर्शेनाऽतिप्राहेण गृहीत-
स्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ महा भावतिग्रहाः ॥ ९ ॥ याज्ञ-</p>
<pb n="118" />
<p>ब्राह्मणम् ४]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>वल्क्येति होवाच यदिदुर सर्व मृत्योरनं का स्वित्सा देवता यस्या मृत्युरन-
मित्यभिर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १० ॥ याज्ञवल्क्येति
होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच
याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्यत्याध्मायत्याध्मातो मृतः शेते
॥ ११ ॥ याज्ञवल्क्येति होवाच यत्रायं पुरुषो त्रियते किमेनं न जहातीति
नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२ ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्यानिं वागप्येति वातं प्राणश्चक्षु-
रादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवी शरीरमाकाशमात्मौषधीर्लोमानि वन-
स्पती केशा अप्सु लोहितं च रेतश्च निधीयते क्कायं तदा पुरुषो भवतीत्याहर
सौम्य हस्तमार्त भागाssवामेवैतस्य वेदिष्यावो न नावेतत् सजन इति तौ
होक्रम्य मन्त्रयांचा तो ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशसतुः
कर्म हैव तत्प्रशश सतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति
ततो ह जारत्कारव आर्तिभाग उपरराम ॥ १३ ॥
इति तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥ २ ॥
अथ हैनं भुज्युयनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः
पर्यव्रजाम ते पतज्ञ्चलस्य काप्यस्य गृहानैम तस्यासीदुहिता गन्धर्वगृहीता
तमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाऽऽङ्गिरस इति तं यदा लोकानाम-
न्तान पृच्छा माथैनमब्रूम क पारिक्षिता अभवन्निति क पारिक्षिता अभवन् स
त्वा पृच्छामि याज्ञवल्क्य क्क पारिक्षिता अभवन्निति ॥ १ ॥ स होवाचोवाच
वै सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क न्वश्वमेधयाजिनो
गच्छन्तीति द्वात्रिशतं वै देवरंथाह्वयान्ययं लोकस्त समन्तं पृथिवी द्विस्ता-
वत्पर्येति ता ँ समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारा
यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवे
प्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्नित्येवमिव
वैस वायुमेव प्रशास तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं
जयति य एवं वेद ततो ह भुज्युर्लायायनिरुपरराम ॥ २ ॥
इति तृतीयाध्याये तृतीयं ब्राह्मणम् ॥ ३ ॥
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरो-
क्षाब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इत्येष त आत्मा सर्वान्तरः
कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो
योsपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त
'</p>
<pb n="119" />
<p>ईशाशुपनिषत्सु -
[ अध्यायः
आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा
सर्वान्तरः ॥ १ ॥ स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व
इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्रह्म य आत्मा सर्वान्तरखं
में व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्वरः । न दृष्टे.
ईष्टारं पश्येर्न श्रुतेः श्रोतारः शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्वि-
ज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तथा-
कायण उपरराम ॥२॥
इति तृतीयाध्याये चतुर्थ ब्राह्मणम् ॥ ४ ॥
'अथ हैनं कहोल: कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षा-
दपरोक्षाद्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरो योऽशयनायापिपासे शोकं मोहं जरां मृत्युम-
त्येति । एवं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च
व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा
या वित्तैषणा सा लोकैषणोभे होते एषणे एवं भवतस्तस्माद् ब्राह्मणः पाण्डित्यं
निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं
च निर्विद्याऽथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेह एवातोऽन्यदार्त
aat ह कहोल: कौषीतकेय उपरराम ॥ १ ॥
• इति तृतीयाध्याये पञ्चमं ब्राह्मणम् ॥ ५ ॥
सर्वम-
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदि
स्त्रोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तं-
रिक्षलोका श्रोताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्व-
लोका मोताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका
श्रोताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका श्रोताश्च
प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका भोताश्च प्रोता-
श्वेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका श्रोताश्च प्रोताश्चेतीन्द्रलो-
केषु गार्गीति कस्मिन्नु खविन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु
गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि माऽतिप्राक्षीर्मा
ते मूर्धा व्यपसदनतिप्रभ्यां वै देवतामतिपृच्छसि गार्गि माऽतिप्राक्षीरिति
ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥
. इति तृतीयाध्याये षष्ठं ब्राह्मणम् ॥ ६ ॥ ..</p>
<pb n="120" />
<p>लक्षणम् ७ 1
बृहदारण्यकोपनिषत् ॥ १० ॥
• मुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्वेष्ववसाम
पतलस्य काव्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद्रार्या गन्धर्वगृहीता तम-
पृच्छाम कोऽसीति सोऽब्रवीत् कबन्ध आथर्वण इति सोऽब्रवीत्पतञ्चल कार्य
याज्ञिकाश्च वेत्थ नुं त्वं काप्य तत्सूत्रं येनायं च लोकः परक्ष लोकः
सर्वाणि च भूतानि संन्धानि भवन्तीति सोऽब्रवीत्पतञ्चलः काप्यो नाह
तद्भगवन्वेदेति सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकारैश्च वेत्थ नुं त्वं काप्य तम-
न्तर्यामिणं य इमं च लोकं परं च लोक सर्वाणि च भूतानि योऽन्तो
यमयतीति सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन्वेदेति सोऽब्रवीत्पतज्ञलं
काप्यं याज्ञिकाश्च यो वै तस्काच्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स
लोकविस देववित्स वेदवित्स भूतवित्स भ्रात्मवित्स सर्वविदिति तेभ्योऽब्र-
वीत्तदहं वेद तच्चेवं याज्ञवल्क्य सूत्रमविद्वा स्तं चान्तर्यामिणं ब्रह्मगवीरुदूजसे
मूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो
वा इदं कश्चिद्रयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥ स होवाच वायुर्वै
गौतम तत्सूत्र वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि
च भूतानि संन्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस सिषता-
स्यानानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद्याज्ञव-
क्यान्तर्यामिणं ब्रूहीति ॥ २ ॥ यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं
पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मा-
न्तर्या॑म्यमृतः ॥ ३ ॥ योऽप्सु तिष्ठन्नच्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं
योsपोsन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ४ ॥ योनौ तिष्ठन्ननेर-
तरो यमनिर्न वेद यस्याभिः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तः
स्मृतः ॥ ५ ॥ योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद
यस्यान्तरिक्ष शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आस्मान्तर्याम्यमृतः
॥ ६ ॥ यो वायौ तिष्ठन्वायोरन्तरो य वायुर्न वेद यस्य वायुः शरीरं यो
वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ७ ॥ यो दिवि तिष्ठन्दिवो -
sन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मा-
न्यस्यमृतः ॥ ८ ॥ य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद
यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ९ ॥
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशो -
sन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १० ॥ यश्चन्द्रतारके तिष्ठश्चन्द्र-
areकादन्तरीयं चन्द्रतारकं न वेद यस्य चन्द्रतारकर शरीरं यश्चन्द्रतारक-</p>
<pb n="121" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ३
मन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ११ ॥ य आकाशे तिष्ठन्नाका-
शादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं यं आकाशमन्तरो यमय-
त्येष त आत्मान्तर्याम्यमृतः ॥ १२ ॥ यस्तमसि तिष्ठस्तमसोऽन्तरो यं तमो
न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३॥
यस्तेजसि तिष्ठ स्तेज सोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो
यमयत्येष त आत्मान्तर्याम्यमृत इत्यधिदैवतमथाधिभूतम् ॥ १४ ॥ यः
सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो य सर्वाणि भूतानि न विदुर्यस्य
सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्या-
म्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५ ॥ यः प्राणे तिष्ठन्प्राणादन्तरो यं
प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्या-
स्मृतः ॥ १६ ॥ यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ् न वेद यस्य वाक्
शरीरं यो वाचमन्तरो यमयत्येष त भात्मान्तर्याम्यमृतः ॥ १७ ॥ यश्चक्षुषि
तिष्ठषोsन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष
त आत्मान्तर्याम्यमृतः ॥ १८ ॥ यः श्रोत्रे तिष्ठन्छोत्रादन्तरो य श्रोत्रं न
वेद यस्य श्रोत्र शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः
॥ १९ ॥ यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं
यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २० ॥ यस्त्वचि तिष्ठ-
स्त्वचोऽन्तरो यं त्वङ् न वेद यस्य त्वक् शरीरं यस्त्वचमन्तरो यमयत्येष त
आत्मान्तर्याम्यमृतः ॥ २१ ॥ यो विज्ञाने तिष्ठन्विज्ञानादन्तरों यं विज्ञान
न वेद यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्या-
म्यमृतः ॥ २२ ॥ यो रेतसि तिष्ठन् रेतसोऽन्तरो य रेतो न वेद यस्य रेतः
शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः
श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति
श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्य-
मृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥
इति तृतीयाध्याये सप्तमं ब्राह्मणम् ॥ ७ ॥
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि
तौं चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्रह्मोद्यं जेतेति पृच्छ
गार्गीति ॥ १ ॥ सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो
वोमपुत्र उज्जयं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्तातिव्याधिनौ हस्ते
कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति पृच्छ</p>
<pb n="122" />
<p>ब्राह्मणम् ९ ]
बृहदारण्यकोपनिषत् ॥ १० ॥
૩૦૭
गार्गीति ॥ २ ॥ सा होवाच यदूर्ध्व याज्ञवल्क्य दिवो यदवाक पृथिव्या यद-
न्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चे त्याचक्षते कस्मिस्तदोतं
च प्रोतं चेति ॥ ३ ॥ स होवाच यदूर्ध्वं गार्गि दिवो यद्भवाक् पृथिव्या यद-
न्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं
च प्रोतं चेति ॥ ४ ॥ सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एवं व्यवो-
चोsपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥ सा होवाच यदूर्ध्वं याज्ञवल्क्य
दिवो यदवाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भवि-
ष्यचेत्याचक्षते कस्मिँस्तदोतं च प्रोतं चेति ॥ ६ ॥ स होवाच यदूर्ध्वं गार्गि
दिवो यदचाकू पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्य-
त्याचक्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्च
प्रोतश्चेति ॥ ७ ॥ स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलम-
- नण्वस्त्रम दीर्घम लोहितम स्नेहमच्छायमतमोऽवावनाका समसङ्गम र समगन्ध-
मचक्षुष्कमश्रोत्रमवाग़मनोऽतेजस्कमप्राणम मुखममात्रमनन्तरमबाह्यं न तद्-
नाति किंचन न तदश्नाति कश्चन ॥ ८ ॥ एसस्य वा अक्षरस्य प्रशासने गार्गि
सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावा-
पृथिव्यौ विष्टते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता
अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विष्टतास्तिष्ठन्त्येतस्य वा
अक्षरख प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रती -
च्योsन्या यांयां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः
प्रशसन्ति यजमानं देवा दर्वी पितरोऽन्वायत्ताः ॥ ९ ॥ यो वा एतदक्षरं
गार्ग्यविदित्वाऽस्मिँल्लोके जुहोति यजसे तपस्तप्यते बहूनि वर्षसहस्राण्यन्तच-
देवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वा स्माल्लोकात्प्रेति स कृपणोऽथ
य एतदक्षरं गार्गि विदित्वा स्माल्लोकात्प्रेति स ब्राह्मणः ॥ १० ॥ तद्वा एत-
दक्षरं गार्ग्यदृष्टं द्रष्टुश्रुत ँ श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति दृष्ट
नान्यदतोऽस्ति श्रोतुं नान्यदवोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मि
खल्वक्षरे गार्ग्यकाश ओतश्च प्रोतश्चेति ॥ ११ ॥ सा होवाच ब्राह्मणा भगव-
न्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं
कश्चिद्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥
इति तृतीयाध्यायेऽष्टमं ब्राह्मणम् ॥ ८ ॥
अथ हैनं विदुग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव
निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च</p>
<pb n="123" />
<p>ईशाद्युपनिषत्सु -
[ श्रध्यायः
श्री च सहस्रेत्योमिति होवाच कत्येव देवा यास्वस्यति त्रयस्त्रिशदित्यो-
मिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा
याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावि-
त्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच
कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च
शता त्रयश्च त्री च सहस्रेति ॥ १ ॥ स होवाच महिमान एवैषामेते
जयशिवेव देवा इति कतमे ते त्रयस्त्रिरादित्यष्टौ वसव एकादश
केंद्र द्वादशादित्यास्त एकत्रिशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिशाविति ॥ २ ॥
कतमे वसव इत्यभिश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्र
नक्षत्राणि चैते वसव एतेषु हीदं सर्व५ हितमिति तस्माद्वसव इति ॥ ३ ॥
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरीरान्मर्त्यादु-
स्क्रामत्यथ रोदयन्ति तद्यद्रोदयन्ति तस्मादुद्रा इति ॥ ४ ॥ कतम आदित्या
इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीद सर्वमाददाना यन्ति
ते यदि सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥ कतम इन्द्रः
कतमः प्रजापतिरिति स्तनयितुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयितु-
रित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥ कतमे षडित्यभिश्च पृथिवी
च वायुश्चान्तरिक्षं चादित्यश्च चौश्चैते षडेते हीद‍ सर्व षडिति ॥७॥ कतमे
ते त्रयो देवा इतीम एवं त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ
द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्थं इति योऽयं पवत इति ॥ ८ ॥
तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निद सर्वमध्यान्नोंत्ते-
नाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥
पृथिव्येव यस्यायतनमनिर्लोको मनोज्योतियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः
परायण सवै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुष ँ सर्वस्यात्मनः
परायणं यमात्थ य एवाय शारीरः पुरुषः स एष वदैव शाकल्य तस्य का
देवतेत्यमृतमिति होवाच ॥ १० ॥ काम एव यस्यायतन हृदयं लोको मनो-
ज्योतियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायण स वै वेदिता स्यात् । याज्ञ-
वल्क्य वेद वा भहं तं पुरुष ँ सर्वस्यात्मनः परायणं यमात्थ य एवायं काम-
मयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥ ११ ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतियों वै तं पुरुषं विद्यात्सर्वस्या-
रमनः परायण स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुष‍
सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य</p>
<pb n="124" />
<p>ब्राह्मणम् ९]
बृहदारण्यकोपनिषत् ॥ १० ॥
T
तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥ आकाश एव यस्यायतन
श्री लोको मनोज्योतियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायण स वै
वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषः सर्वस्यात्मनः परायणं यमास्थ
य एवाय श्रौत्रः प्रातिकः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति
दिश इति होवाच ॥ १३ ॥ तम एव यस्यायतनः हृदयं लोको मनोज्योतियों
वैतं पुरुषं विद्यात्सर्वस्यात्मनः परायण स वै वेदिता स्यात् । याज्ञवल्क्य वेद
वा अहं तं पुरुषः सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः
स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥ १४ ॥ रूपाण्येव
atarani चक्षुर्लोको मनोज्योतियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः परा
यस वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषः सर्वस्यात्मनः
परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देव-
तेत्यसुरिति होवाच ॥ १५ ॥ आप एव यस्यायतन५ हृदयं लोको मनोज्यो-
'तियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणः स वै वेदिता स्यात् याज्ञवल्क्य
वेद वा अहं तं पुरुष५ सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स
एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥ १६ ॥ रेत एवं
यस्यायतन हृदयं लोको मनोज्योतियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः परा-
यण स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषः सर्वस्यात्मनः परायणः
यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति
प्रजापतिरिति होवाच ॥ १७ ॥ शाकल्येति होवाच याज्ञवल्क्यस्त्वा स्त्रिदिमे
ब्राह्मणा अङ्गारावक्षयणमत्रता३ इति ॥ १८ ॥ याज्ञवल्क्येति होवाच
शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद
स देवाः प्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ किं देवतोऽस्यां
प्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इति
चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति
कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य ॥ २० ॥ किंदेव-
astri दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ
इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति
श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धाया ह्येव दक्षिणां
प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां
जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २१ ॥</p>
<pb n="125" />
<p>:: इशाधुपनिष
[ अध्यायः ह
किदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित
इत्यस्विति कस्मिvarप: प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति
हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित
इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २२ ॥ किंदेव-
तोsस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति
दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः
सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय
इंति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमे-
'वैतद्याज्ञवल्क्य ॥२३॥ किं देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निः
कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक् प्रतिष्ठितेति हृदय इति कस्मिन्नु
हृदयं प्रतिष्ठितमिति ॥२४॥ अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्म
न्यासै यच्येतदन्यत्रास्मत्स्याच्छानो वैनद्दद्युर्वयासि वैनद्विमनीरनिति ॥ २५॥
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित
इत्यपान इति कस्मिन्नपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रति-
ष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेति
areers गृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो
न व्यथते न रिष्यति । एतान्यष्टांवायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः
- स यस्ता पुरुषान्निरुह्य प्रत्युद्यात्यक्रामत्तं त्वौपनिषदं पृच्छामि तं चेन्मेन
विवक्ष्यसि मूर्धा ते विपतिष्यतीति । त ह न मेने शाकल्यस्तस्य ह मूर्धा
विपपातापि हास्य परिमोषिणोऽस्थी न्यप जहुरन्यन्मन्यमानाः ॥ २६ ॥ अथ
'होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा
पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह
ब्राह्मणा न दधृषुः ॥२७॥ तान् हैतैः श्लोकैः पप्रच्छ ॥ यथा वृक्षो वनस्पति-
स्तथैव पुरुषोऽमृषा ॥ तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ त्वच
एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः ॥ तस्मात्तदा तृष्णात्यैति रसो वृक्षादिवा-
ऽऽहतात् ॥ मासान्यस्य शकराणि किनाट‍ स्राव तत्स्थिरम् ॥ अस्थीन्यन्तरतो
दारूणि मजा मजोपमा कृता ॥ यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ॥
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ रेतस इति मा वोचत जीव-
तस्तत्प्रजायते ॥ धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य संभवः ॥ यत्समूलमावृहे-
युक्षं न पुनराभवेत् ॥ मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलाप्ररोहति ॥</p>
<pb n="126" />
<p>ब्राह्मणम् १]
बृहदारण्यकोपनिषत् ॥ १० ॥
99%
जात एव न जायते को न्वेवं जनयेत्पुनः ॥ विज्ञानमानन्दं ब्रह्म रातिर्दातुः
परायणं तिष्ठमानस्य तद्विद इति ॥ २८ ॥
इति तृतीयाध्याये नवमं ब्राह्मणम् ॥ ९ ॥
इति तृतीयोध्यायः ॥ ३ ॥
चतुर्थोऽध्यायः ॥ ४ ॥
ॐ जनको ह वैदेह आसांचक्रेऽथ ह याज्ञवल्क्य आवव्राज । त‍ होवाच
याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति । उभयमेव सम्राडिति
होवाच ॥१॥ यत्ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे जित्वा शैलि निर्वाग्वैि ब्रह्मेति
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छेलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो
हि कि स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्स-
ब्राडिति स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदु-
पासीत । का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिति होवाच । वाचा वै सम्राड्
बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्ट हुतमाशितं
पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञा-
यन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति
देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददामीति
होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
हरेतेति ॥ २ ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनः
प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्य वान्ब्रूयात्तथा तच्छौल्बायनोऽब्र-
प्राणो वै ब्रह्मेत्प्राणतो हि कि स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न
मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायत-
नमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव
सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य
प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय
प्रो सम्राट् परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो
भूत्वा देवानप्येति य एवंविद्वानेतदुपास्ते हस्त्यृषभ५ सहस्रं ददामीति होवाच
जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति</p>
<pb n="127" />
<p>AR
ईशा थुपनिषत्सु -
[ अध्यायः *
॥ ३ ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वाणश्चक्षुर्वै ब्रह्मेति
यथा मातृमान्पितृमानाचार्य वान्ब्रूयात्तथा तद्वाष्र्णोऽब्रवीचक्षुवै प्रत्यपश्यतो
हि स्यादित्यब्रवीत् ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्स-
प्राडिति स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येन-
दुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै
सम्राट् पश्यन्तमाहुरद्राक्षीरिति स महाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै
सम्राट परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा
देवानध्येति य एवं विद्वानेतदुपास्ते हस्त्वृषभः सहस्रं ददामीति होवाच
जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
हरेतेति ॥ ४ ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्दभी विपीतो
भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भार-
द्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वत्तो हि कि स्यादित्यब्रवीत्तु ते तस्यायतनं
प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्र-
मेवायतनमाकाशः प्रतिष्ठाऽनन्त इत्येनदुपासीत काऽनन्तता याज्ञवल्क्य दिश
एव सम्राडिति होवाच तस्माद्वै सम्राडपियां कां च दिशं गच्छति नैवास्या अन्तं
गच्छत्यनन्ता हि दिशो दिशो वै सम्राट् श्रोत्र श्रोत्रं वै सम्राट् परमं ब्रह्म
नैन श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य
एवं विद्वानेतदुपास्ते हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः सं
होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥ यदेव ते
कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति यथा
मातृमान्पितृमानाचार्य वान्ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो
हि कि स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा
एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतन‌माकाशः प्रतिष्ठाss-
नन्द इत्येनदुपासीत का आनन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच
मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो
मनो वै सम्राट् परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति
देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्स्यृषभ सहस्रं ददा-
मीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नान-
नुशिष्य हरेतेति ॥ ६ ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे विदग्धः
शाल्यो हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छा-</p>
<pb n="128" />
<p>श्रीह्मणम् ₹]
.
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>कस्योऽब्रवीद्धृदयं वै महोत्यहृदयस्य हि किए स्यादित्यब्रवीत्तु ते तस्या-
वतन प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञ-
वल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता
याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूताना-
मायतन हृदयं वै सम्रादः सर्वेषां भूतानां प्रतिष्ठा हृदये होव सम्राट् सर्वाणि
भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनर हृदयं जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
हस्त्यृषभ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवक्ल्यः
पिता मेsमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥
इति चतुर्थाध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
ॐ जनको ह वैदेहः कूर्चादुपावसर्पनुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा
शाघीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा
समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्न-
धीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद
यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवा-
निति ॥ १ ॥ इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्ध*
सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः
॥ २ ॥ अथैतद्वामेऽक्षणि पुरुषरूपमेवास्य पत्नी विराह तयोरेष सरस्तावो
य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डो-
seनोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः संचरणी
वैषा हृदयादूर्ध्वा नाब्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता
नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येव ताभिर्वा एतदाखवदास्रवति
तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥ तस्य
प्राची दिकू प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिकू प्रत्यक्षः
प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः
प्राणाः सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यते-
sशीर्यो नहि शीर्यतेऽसङ्गो नहि सज्यतेऽसितो न व्यथते ग रिष्यत्यभयं
वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं
त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा
अयमहमस्मि ॥ ४ ॥
अ. उ. ८
इति चतुर्थाध्याये द्वितीयं ब्राह्मणम् ॥ २ ॥</p>
<pb n="129" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ४
जनकर ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यज्ज-
नकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ स
कामप्रश्नमेव वत्रे तर हास्मै ददौ तह सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥ याज्ञवल्क्य
किंज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योति-
षास्ते पल्ययते कर्म कुरुते विपल्ये तीत्येवमेवैतद्याज्ञवल्क्य ॥ २ ॥ अस्तमित आदित्ये
याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रम
सैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते त्रिपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
अस्तमित भादित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इत्य-
भिरेवास्य ज्योतिर्भवतीत्यग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विप-
ब्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ ४ ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रम-
स्वस्तमिते शान्तेऽमैौ किंज्योतिरेवायं पुरुष इति वागेवास्य ज्योतिर्भवतीति
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते चिपल्येतीति तस्माद्वै सम्राडपि
यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवैत-
याज्ञवल्क्य ॥ ५ ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्ते-
SH शान्तायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्या-
मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥ कतम आ-
स्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्र्ज्योतिः पुरुषः स समानः सन्नुभ
कोकावनुसंचरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिका-
मति मृत्यो रूपाणि ॥ ७ ॥ स वा अयं पुरुषो जायमानः शरीरमभिसंपद्य-
मानः पाप्मभिः ससृज्यते स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति
॥ ८ ॥ तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं
चसन्ध्यं तृतीय स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्य-
तीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममा-
क्रम्योभयान् पाप्मन आनन्दाश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य
सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्यो-
तिषा प्रस्वपित्यत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ ९ ॥ न तत्र रथा न रथ-
योगा न पन्थानो भवन्त्यथ रथान्नथयोगान्पथः सृजते न तत्रानन्दा सुदुः
अमुदो भवन्त्यथानन्दान् मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः
स्रवन्त्यो भवन्त्यथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ॥१०॥
तदेते लोका भवन्ति ॥ स्वमेन शारीरमभिप्रहत्याऽसुप्तः सुप्तानभिचाकशीति ॥
शुक्रमादाय पुनरेति स्थान हिरण्मयः पुरुष एकहीँ सः ॥ ११ ॥ प्राणेन</p>
<pb n="130" />
<p>ब्राह्मणम् ३]
बृहदारण्यकोपनिषत् ॥ १० ॥
रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र काम
हिरण्मयः पुरुष एकहप्सः ॥ १२ ॥ स्वशान्त उच्चावचमीयमानो रूपाणि
देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयाति
पश्यन् ॥ १३ ॥ आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतं
बोधयेदित्याहुः ॥ दुर्भिषज्य हास्मै भवति यमेष न प्रतिपद्यते । अथो खल्वा-
हुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यन्त्राय
पुरुषः स्वयंज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय
ब्रूहीति ॥ १४ ॥ स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं
च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वमायैव स यत्तत्र किंचित्प-
इयत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं
भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥ स वा एष
एतस्मिन्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रति-
योन्याद्रवति बुद्धान्तायैव स यत्तन किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो
ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं
विमोक्षायैव ब्रूहीति ॥ १६ ॥ स वा एष एवस्मिन्बुद्धान्ते रखा चरित्वा
द्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७॥
तद्यथा महामत्स्य उभे कूलेऽनुसंचरति पूर्वं चापरं चैवमेवायं पुरुष एतावु-
भावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥ तद्यथास्मिन्न। काशे
श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः सहत्य पक्षौ संलयायैव प्रियत
एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयते
न कंचन स्वमं पश्यति ॥ १९ ॥ ता वा अस्यैता हिता नाम नाड्यो यथा
केशः सहस्रधा भिन्नस्तावताऽणिन्ना तिष्ठन्ति शुकस्य नीलस्य पिङ्गलस्य हरि-
तस्य लोहितस्य पूर्णा अथ यत्रैनं प्रन्तीव जिनन्तीव हस्तीव विच्छाययति
गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदुत्राविद्यया मन्यतेऽथ यत्र देव
इव राजेवाहमेवेद सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥
वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभय रूपम् । तद्यथा प्रियया स्त्रिया
संपरिवतो न बाह्यं किंचन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना
संपरिष्वको न बाह्यं किंचन वेद नान्तरं तद्वा अस्यैतदासकाममात्मकाम-
मकाम रूप शोकान्तरम् ॥ २१ ॥ अत्र पिताऽपिता भवति माताऽमाता
लोका भलोका देवा अदेवा वेदा भवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहा -
भ्रूणहा चाण्डालs चाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसsता -</p>
<pb n="131" />
<p>ईशायुपनिषत्सु -
[ अध्यायः
पसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान्छोकान्हृदयस्य
भवति ॥ २२ ॥ यद्वै तत्र पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुईटेर्विपरि०
लोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्
॥ २३ ॥ यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि त्रातुर्घातेर्विपरिलोपो
विद्यतेऽविनाशित्वान्नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जित्रेत् ॥ २४ ॥
यद्वै तम रसयते रसयन्वै तन रसयते नहि रसयितु रसयतेर्विपरिलोपो
विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वसयेत् ॥ २५ ॥
यद्वै तन वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविना-
शित्वा तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥ यद्वै तन
शृणोति शृण्वन्वै तच शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशि-
त्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७
यद्वै तन
मनुते मन्वानो वै तन मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यते ऽविनाशि-
'वान तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥ यद्वै तन्न
स्पृशति स्पृशन्वै तन्न स्पृशति नहि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशि-
वान तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥ यद्वै तन्न विजा-
नाति विजानन्वै तन विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते-
विनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥
वन वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्वसयेदन्योऽन्य-
द्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वी तान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ।
॥ ३१ ॥ सलिल एको दृष्टाऽद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुश-
शास याज्ञवल्क्य एषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परमो लोक
एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति
॥ ३२ ॥ स यो मनुष्याणा राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्य-
कैर्भोगैः संपन्नतमः स मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः
स एकः पितॄणां जितलोकानामानन्दोऽथ ये शतं पितॄणां जितलोकानामा-
नन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः स एकः
कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्तेऽथ ये शतं कर्मदेवाना-
मानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ
ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्र-
योsवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक
भानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्म-
:</p>
<pb n="132" />
<p>ब्राह्मणम् ४]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>लोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्व
विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो विभयांचकार मेधावी राजा सर्वेभ्यो
मान्तेभ्य उदरौत्सीदिति ॥ ३३ ॥ स वा एष एतस्मिन्स्वमान्ते रत्वा चरिवा
#दैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥
तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवाय शारीर आत्मा प्राज्ञेनात्मना -
न्वारूढमुत्सर्जन्याति यत्रैतदुर्वोच्छ्वासी भवति ॥ ३५ ॥ स यन्त्रायमणिमानं
न्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथानं वौदुम्बरं वा पिप्पलं
वा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं
प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥ तथथा राजानमायान्तमुप्राः प्रत्येनसः
सूतग्रामव्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीत्येव है-
विदर सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ३७ ॥
तद्यथा राजानं प्रयियासन्तमुप्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्येव-
मेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदृध्वोंच्यासी
भवति ॥ ३८ ॥
इति चतुर्थाध्याये तृतीयं ब्राह्मणम् ॥ ३ ॥
स यन्त्रायमात्माऽबल्यं न्येत्य संमोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः
पुरुषः पराट्र पर्यावर्ततेऽथारूपज्ञो भवति ॥ १ ॥ एकीभवति न पश्यतीत्या-
हुरेकीभवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरेकीभवति न
बदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति
न स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृतयस्याग्रं प्रद्योतते
तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदे-
शेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनुत्क्रामन्तः सर्वे प्राणा अनूस्का-
मन्ति स विज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी सम-
न्वारभेते पूर्वप्रज्ञा च ॥२॥ तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रम-
माक्रम्यात्मानमुपस हरत्येवमेवायमात्मेद शरीरं निहत्याऽविद्यां गमयित्वाs-
न्यमाक्रममाक्रम्यात्मानमुपस हरति ॥ ३ ॥ तद्यथा पेशस्कारी पेशसो मात्रा-
मपादायान्यन्नवतरं कल्याणतर रूपं तनुत एवमेवायमात्मेदः शरीरं निह-
त्याsविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतर‍ रूपं कुरुते पित्र्यं वा गान्धर्व वा
दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥ ४ ॥ स वा अयमात्मा
ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो</p>
<pb n="133" />
<p>ईशाद्युपनिषत्सु -
[अध्यायः 8
वायुमय भाकाशमय स्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽ-
क्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदमयोऽदोमय इति यथा-
कारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति
पुण्यः पुण्येन कर्मणा भवति पापः पापेन ॥ अथो खल्वाहुः काममय एवायं
पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते
यत्कर्म कुरुते तदभिसंपद्यते ॥ ५॥ तदेष श्लोको भवति ॥ तदेव सक्तः सह कर्म-
ति लिङ्गं मनो यत्र निषक्तमस्य ॥ प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् ॥
तस्माल्लोकापुनरेत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो यो -
arat निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सम्बं
झायेति ॥ ६॥ तदेष लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि
श्रिताः ॥ अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समभुत इति ॥ तद्यथाऽ हि निर्व्वयनी
वल्मीके मृता प्रत्यस्ता शयीतैवमेवेद- शरीर शेतेऽथायमशरीरोऽमृतः प्राणो
ब्रह्मैव तेज एव सोsहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥ तदेते
लोका भवन्ति ॥ अणुः पन्था विततः पुराणो माँ स्पृष्टोऽनुवित्तो मयैव ॥ तेन
धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥ तस्मिन्छुक्कुमुत
नीलमाहुः पिङ्गल हरितं लोहितं च ॥ एष पन्था ब्रह्मणा हानुवित्तस्ते नैति
ब्रह्मवित्पुण्यकृतैजसश्च ॥ ९ ॥ अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततो
भूय इव ते तमो य उ विद्याया रताः ॥ १० ॥ अनन्दा नाम ते लोका अन्धेन
तमसाssवृताः ॥ ता ते प्रेत्याभिगच्छन्त्यविद्वासोऽबुधो जनाः ॥ ११ ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ॥ किमिच्छन्कस्य कामाय शरीरम-
नुसंज्वरेत् ॥१२॥ यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्संदेह्ये गहने प्रविष्टः ॥
विश्व हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥ इहैव
सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः ॥ ये तद्विदुरमृतास्ते भवन्त्य-
थेतरे दुःखमेवापियन्ति ॥ १४
१४ ॥ यदैतमनुपश्यत्यात्मानं देवमञ्जसा ॥
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥ यस्मादर्वाक्संवत्सरोऽहोभिः
परिवर्तते ॥ तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥ यस्मिन्पञ्च
पञ्चजना भाकाशश्च प्रतिष्ठितः ॥ तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्
॥ १७ ॥ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो
विदुः ॥ ते निचिक्युर्ब्रह्म पुराणमंद्रयम् ॥ १८ ॥ मनसैवानुद्रष्टव्यं नेह
नानास्ति किंचन ॥ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ॥ विरजः पर आकाशादज आत्मा महा-</p>
<pb n="134" />
<p>३'
ब्राह्मणम् ५ ]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>ध्रुवः ॥ २० ॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ नानुध्यायाद्ध-
हुन्छब्दावाचो विग्लापन हि तदिति ॥ २१ ॥ स वा एष महानज
आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिन्छेते
सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयासो
एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्वि-
धरण एषां लोकानामसंभेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रब्राजिनो
लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वैतत्पूर्वे विद्वासः प्रजां न कामयन्ते
किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणा-
याश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या होव
पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोमे ह्येते एषणे एवं भवतः ॥
ह्यो न हि गृह्यतेऽशीर्थो न हि शीर्यतेऽसङ्गो न हि
सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमि-
त्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
तदेतचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनी-
यान् ॥ तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मा-
देवंचिच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं
पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्व पाप्मानं तरति नैनं
पामा तपति सर्वपाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणों
भवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं
भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ २३ ॥ स वा एष
महान आत्मानो वसुदानो विन्दते वसु य एवं वेद ॥ २४ ॥ स वा
एष महान आत्माजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभय हि वै
भवति य एवं वेद ॥ २५ ॥
- इति चतुर्थाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥
ब्रह्म
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुमैत्रेयी च कात्यायनी च तयोर्ह
मैत्रेयी ब्रह्मवादिनी बभूब स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्य-
द्वृत्तमुपाकरिष्यन् ॥ १ ॥ मैत्रेयीति होवाच याज्ञवल्क्यः प्रवजिष्यन्वा अरे -
हमस्मात्स्थानादस्मि हन्त तेsनया कात्यायन्यान्तं करवाणीति ॥ २ ॥ सा
होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां स्वहं
तेनामृताssहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं</p>
<pb n="135" />
<p>"
ईशाद्युपनिषत्सु -
[ अध्यायः ४
तथैव ते जीवित‍ स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ३ ॥ सा होवाच
मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव मे
ब्रूहीति ॥ ४ ॥ स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती
प्रियमवृद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्या-
सस्त्रेति ॥ ५ ॥ स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्या-
त्मनस्तु कामाय पतिः प्रियो भवति । न वा भरे जायायै कामाय जाता प्रिया
भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा भरे पुत्राणां कामाय
पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य
कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा भरे
पशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा भरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः
प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय
देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु
कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि
भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय
सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते
विज्ञात इद सर्व विदितम् ॥ ६ ॥ ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोका-
वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो
वेदान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्व तं परादाद्योऽन्य-
श्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूता-
नीद सर्वं यदयमात्मा ॥ ७ ॥ स यथा दुन्दुमेर्हन्यमानस्य न बाह्यान्छब्दा-
म्ळक्नुयाग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥ स
यथा शङ्खस्य ध्मायमानस्य न बाह्यान्छब्दान्छनुयाद्रणाय शङ्खस्य तु ग्रहणेन
अध्मस्य वा शब्दो गृहीतः ॥ ९ ॥ स यथा वीणायै वाद्यमानायै न बाह्या-
छब्दाम्छनुयाग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः
॥ १० ॥ स यथाद्वैधारभ्याहितस्य पृथग्भूमा विनिश्चरन्त्येवं वा भरेऽस्य
महतो भूतस्य निश्वसितमेतद्यग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः</p>
<pb n="136" />
<p>आह्मणम् ६ ]
.-
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्ट हुत-
मांशिवं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि
निश्वसितानि ॥ ११ ॥ स यथा सर्वासामपार समुद्र एकायनमेव सर्वेषा स्प-
afai वगेायनमेव सर्वेषां गन्धानां नासिके एकायनमेव सर्वेषा रसा
नां जिह्वैकायनमेव सर्वेषा रूपाणां चक्षुरेकायनमेव सर्वेषा शब्दाना
श्रोत्रमेकायनमेव सर्वेषा संकल्पानां मन एकायनमेव सर्वासां विद्याना
हृदयमेकायनमेव‍ सर्वेषां कर्मणा हस्तावेकायनमेव सर्वेषामानन्दानामु-
पस्थ एकायनमेव सर्वेषां विसर्गाणां पायुरेकायनमेव सर्वेषामध्वनां पादा-
बेकायनमेव सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥ स यथा सैन्धवघनो-
ऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा भरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्तः
प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञा-
ऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३॥ सा होवाच मैत्रेय्यनैव मा भ-
गवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामीति स होवाच न वा भरेऽहं
मोहं ब्रवीम्यविनाशी वा भरेऽयमारमाऽनुच्छित्तिधर्मा ॥ १४ ॥ यत्र हि द्वैतमिव
भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतर रसयते
तदितर इतरमभिवदति तदितर इतर शृणोति तदितर इतरं मनुते तदितर
इतर स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं
पश्येत्तत्केन कं जिघेत्तत्केन करें रसयेत्तत्केन कमभिवदेत्तत्केन करें शृणुयात्त-
केन कं मन्वीत तत्केन करें स्पृशेत्तत्केन कं विजानीयाद्येनेद सर्वं विजानाति
तं न विजानीयात्स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्थो न हि शी-
Aasaङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजा-
नीयादित्युक्का नुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञव-
क्यो विजहार ॥ १५ ॥
इति चतुर्थाध्याये पञ्चमं ब्राह्मणम् ॥ ५ ॥
अथ वशः पौतिमाण्यात्पति माध्यो गौपवनाद्वौपवनः पौतिमान्यात्पति-
माध्यो गौपवनाद्रौपवनः कौशिकात्कौशिकः कौण्डिन्या कौण्डिन्यः शाण्डिल्या-
च्छाण्डिल्यः कौशिकाञ्च गौतमाच्च गौतमः ॥ १ ॥ अग्निवेश्यादाभिवेश्यो
ग्राम्यांगायों गार्ग्याद्गाग्यों गौतमागौतमः सैतवत्सितवः पाराशर्यायणात्पारा-
शर्यायणो गार्ग्यायणाद्गार्ग्यायण उद्दालकायनादुद्दालकायनो जाबालायनाजा-
नाकायनो माध्यन्दिनायनान्माध्यन्दिनायनः सौकरायणात्सौकरायणः काषा-
यणात्काषायणः सायकायनात्सायकायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥</p>
<pb n="137" />
<p>ईशाद्युपनिषत्सु -
[ अध्याय: ५
घृतकौशिकाद्धतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जा-
तूकर्ण्याज्जातूकर्ण्य आसुरायणाच्च यास्काच्चासुरायणचैव त्रैवणिरोपजन्धने रौ-
पजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिगौतमाङ्गौ-
तम गौतमद्वैौतमो वारस्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्याकै-
शोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाङ्गालवो विदर्भीकौण्डिन्या-
द्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्वाभ्रवः पथः सौभरात्पन्थाः
सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्वाष्ट्रादाभूतिस्त्वाष्टो विश्व-
रूपात्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दुधीच आथर्वणाद्दष्यङ्काथर्वणो
दैवादथर्वादेवो मृत्योः प्राध्वसनान्मृत्युः प्राध्वसनः प्रध्वसनात्प्रध्व ँसन
एकषैरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्वृष्टिः सनारोः सनारुः सनातनात्स
नातनः सनगात्स नगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ ३ ॥
इति चतुर्थाध्याये षष्ठं ब्राह्मणम् ॥ ६ ॥
चतुर्थोऽध्यायः ॥ ४ ॥
पञ्चमोऽध्यायः ॥ ५॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवाव-
शिष्यते ॥ ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो
वेदोऽयं ब्राह्मणा विदुवैदैनेन यद्वेदितव्यम् ॥ १ ॥
इति पञ्चमाध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
जयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द
इति व्यज्ञासिष्टा ३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्येत्योमिति होवाच
व्यज्ञासिष्टेति ॥ १ ॥ अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैत-
देवाक्षरमुवाच द इति व्यज्ञासिष्टा ३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न
आस्थे त्यो मिति होवाच व्यज्ञासिष्टेति ॥ २ ॥ अथ हैनमसुरा ऊचुर्ब्रवीतु नो
भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा ३ इति व्यज्ञासि-
ष्मेति होचुर्दयध्वमिति न आथेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा
दैवी वागनुवदति स्तनयिबुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्रय
शिक्षेद्दमं दानं दयामिति ॥ ३ ॥
इति पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥ २ ॥
एष प्रजापतिर्यहृदयमेतद्वैतत्सर्वं तदेतत्रयक्षर हृदयमिति हृ इत्येकम-</p>
<pb n="138" />
<p>ब्राह्मणम् ८ ]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>क्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यमै स्वा-
श्रन्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्ग लोकं य एवं वेद ॥ १ ॥
इति पञ्चमाध्याये तृतीयं ब्राह्मणम् ॥ ३ ॥
तद्वै तदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं
ब्रह्मेति जयती माँल्लोकान् जित इश्वसावसद्य एवमेतं महद्यक्षं प्रथमजं
वेद सत्यं ब्रह्मेति सत्य ह्येव ब्रह्म ॥ १ ॥
इति पञ्चमाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥
आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापति
प्रजापतिर्देवास्ते देवाः सत्यमेवोपासते तदेतत्रयक्षर सत्यमिति स इत्येक-
मक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदे-
तदनृतमुभयतः सत्येन परिगृहीत ँ सत्यभूयमेव भवति नैवं विद्वा ँ समनृत
हिनस्ति ॥ १ ॥ तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो
यश्चायं दक्षिणेऽक्षन्पुरुषस्ता वे तावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्र-
तिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यम्भवति शुद्धमेवैतन्मण्डलं पश्यति
नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥ य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति
शिर एक शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति
प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति
च य एवं वेद ॥ ३ ॥ योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एक शिर
एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे
द्वै ते अक्षरे तस्योपनिषद हमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥
इति पञ्चमाध्याये पञ्चमं ब्राह्मणम् ॥ ५ ॥
मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा ब्रीहिर्वा यवो वा स
एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच ॥ १ ॥
इति पञ्चमाध्याये षष्ठं ब्राह्मणम् ॥ ६ ॥
विद्युत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो य एवं वेद विद्युति
विद्युत्र ब्रह्म ॥ १ ॥
इति पञ्चमाध्याये सप्तमं ब्राह्मणम् ॥ ७ ॥
वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्व-
Terrस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकार
मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥
इति पञ्चमाध्यायेऽष्टमं ब्राह्मणम् ॥ ८ ॥</p>
<pb n="139" />
<p>ईमापनिषत्सु -
[ अध्याय: ५
अयमनिर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमनं पच्यते यदिदमद्यते तस्यैष
घोषो भवति etacaर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं
घोष शृणोति ॥ १ ॥
इति पञ्चमाध्याये नवमं ब्राह्मणम् ॥ ९ ॥
यदा वै पुरुषोsस्माल्लोकात्प्रेति स वायुमागच्छति तस्मै स तत्र विजिहीते
यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र
विजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति
तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमाग-
च्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः ॥ १ ॥
इति पञ्चमाध्याये दशमं ब्राह्मणम् ॥ १० ॥
एतद्वै परमं तपो यया हितस्तप्यते परम हैव लोकं जयति य एवं वेदैतद्वै
परमं तपो यं प्रेतमरण्य हरन्ति परम हैव लोकं जयति य एवं वेदैत है
परमं तपो यं प्रेतमन्नावभ्यादधति परम हैवं लोकं जयति य एवं वेद ॥ १ ॥
इति पञ्चमाध्याय एकादशं ब्राह्मणम् ॥ ११ ॥
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक
आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा
परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किस्विदेवैवं विदुषे साधु कुर्या
किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरे-
कधाभूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै व्यन्ने
हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वैरं प्राणे हीमानि सर्वाणि
भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्ते
य एवं वेद ॥ १ ॥
इति पञ्चमाध्याये द्वादशं ब्राह्मणम् ॥ १२ ॥
उक्थं प्राणो वा उक्थं प्राणो हीद ँ सर्वमुत्थापयत्युद्धास्मादुक्थ विद्वीरस्ति-
मृत्युक्थस्य सायुज्य सलोकतां जयति य एवं वेद ॥ १ ॥ यजुः प्राणो वै
यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि
श्रध्याय यजुषः सायुज्य सलोकतां जयति य एवं वेद ॥ २ ॥ साम प्राणो
साम प्राणे हीमानि सर्वाणि भूतानि सम्यचि सम्यनि हास्मै सर्वाणि
भूतानि श्रैष्ठ्या कल्पन्ते साम्नः सायुज्य सलोकतां जयति य एवं वेद
॥ ३ ॥ क्षत्रं प्राणो वै क्षत्रं हि त्रायते हैनं प्राणः क्षणितो: प्रक्षत्रमन्त्र मानोति
क्षत्रस्य सायुज्य सलोकतां जयति य एवं वेद ॥ ४ ॥
इति पञ्चमाध्याये त्रयोदशं ब्राह्मणम् ॥ १३ ॥</p>
<pb n="140" />
<p>ब्राह्मणम् १४]
बृहदारण्यकोपनिषत् ॥ १० ॥
.</p>
<p>भूमिरन्तरिक्षं चौरित्यष्टावक्षराण्यष्टाक्षर ह वा एकं गायन्यै पदमेतदु
हैवास्या एतत्स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्याः एतदेवं पर्व
वेद ॥ १ ॥ ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षर है वा एक गा
यत्रयै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या-
एतदेवं पदं वेद ॥ २ ॥ प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षर ह वा
एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध जयति
योsस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष
तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति दश हव ह्येष परोरजा इति
सर्व ह्येवैष रज उपर्युपरि तपत्येव हैव श्रिया यशसा तपति योऽस्या
एतदेवं पदं वेद ॥ ३ ॥ सैषा गायत्र्येतस्मि स्तुरीये दर्शते पदे परोरजसि
प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं
द्वौ विवदमानावेयातामहम दर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्श मिति
तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रति-
ष्ठितं तस्मादाहुर्बल सत्यादोगीय इत्येवम्वैषा गायत्र्यध्यात्मं प्रतिष्ठिता सा
हैषा गया स्तत्रे प्राणा वै गयास्तत्प्राणास्तत्रे तद्यद्वयास्तत्रे तस्माद्गायत्री
नाम स यामेवामू ँ सावित्री मन्वा हैषैव सा स यस्मा अन्वाह तस्य प्राणा ँ स्ना•
यते ॥ ४ ॥ ता हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वा गनुष्टुवे तद्वाचमनुब्रूम
इति न तथा कुर्याद्वायत्रीमेव सावित्रीमनुब्रूयाद्यदिह वा अप्येवंविद्वह्निव
प्रतिगृह्णाति न हैव तद्गायत्र्या एकंचन पदं प्रति ॥ ५ ॥ स य इमा स्त्री-
लोकान्पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी
विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्वितीयं पदमाप्नुयादथ यावदिदं प्राणि
यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं
दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णी-
यात् ॥ ६ ॥ तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि
नहि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति
यं द्वियादसावमै काम मा समृद्धीति वा न हैवास्मै स कामः समृयते
यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७ ॥ एतद्ध वै तजनको वैदेही
बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीबिदब्रूथा अथ कथ ँ हस्ती भूतो
वहसीति मुख ह्यस्याः सम्रान विदांचकारेति होवाच तस्या अग्निरेव सुखं
यदि ह वा अपि बह्निवान्नावस्यादधति सर्वमेव तत्संदहत्येव हैवैवंविद्य-</p>
<pb n="141" />
<p>ईशाद्युपनिषत्सु -
द्यपि बह्निव पापं कुरुते
संभवति ॥ ८ ॥
[ भध्यायः
सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः
इति पञ्चमाध्याये चतुर्दशं ब्राह्मणम् ॥ १४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।
पूषन्नकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याण-
तमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं
भस्मान्तरैं शरीरम् । ॐ ऋतो स्मर कृतः स्मर ऋतो स्मर कृत ँ स्मर ।
अने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहु-
राणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १ ॥
इति पञ्चमाध्याये पञ्चदशं ब्राह्मणम् ॥ १५ ॥
इति पञ्चमोऽध्यायः ॥ ५ ॥
षष्ठोऽध्यायः ॥ ६॥
ॐ ॥ यो वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै
ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्व श्रेष्ठश्च स्वानां भवत्यपि च यैषां बुभूषति य एवं वेद
॥ १ ॥ यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः
स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥ यो ह वै प्रतिष्ठां वेद
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च
प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥ यो ह वै
संपदं वेद स हास्मै पद्यते यं कामं कामयते श्रोत्रं वै संपच्छ्रोत्रे हीमे सर्वे
वेदा अभिसंपन्नाः सहास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥ यो
हू वा आयतनं वेदायतन ँ स्वानां भवत्यायतनं जनानां मनो वा आयतन-
मायतन स्वानां भवत्यायतनं जनानां य एवं वेद ॥ ५ ॥ यो ह वै प्रजातिं
वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशु-
भिर्य एवं वेद ॥ ६ ॥ ते हेमे प्राणा अह श्रेयसे विवदमाना ब्रह्म जग्मुस्त-
डोचुः को नो वसिष्ठ इति तदोवाच यस्मिन्व उत्क्रान्त इदु शरीरं पापीयो
मन्यते स वो वसिष्ठ इति ॥ ७ ॥ वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्यो-
वाच कथमशकत महते जीवितुमिति ते होचुर्यथा कला अवदन्तो वाचा
प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वा ँसो मनसा प्रजाय-
१ 'प्रजापतिः' इति पाठः ।</p>
<pb n="142" />
<p>ब्राह्मणम् २ ]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>माना रेतसैवमजी विष्मेति प्रविवेश ह वाक् ॥ ८ ॥ चक्षुश्चक्राम तत्संवत्सरं
प्रोष्यागत्योवाच कथमशकत महते जीवितुमिति ते होचुर्यथाऽन्धा अपश्य-
तश्चक्षुषा प्राणन्तः प्राणेन वंदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वा ँसो मनसा
प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः ॥ ९ ॥ श्रोत्र होच्चक्राम
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत महते जीवितुमिति ते होचुर्यथा
-बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
विद्वासो मनसा प्रजायमाना रेतसैवमजी विष्मेति प्रविवेश ह श्रोत्रम् ॥ १० ॥
मनो होश्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत महते जीवितुमिति
ते होचुर्यथा मुग्धा अविद्वा ँसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्य-
तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह
मनः ॥ ११ ॥ रेतो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत
महते जीवितुमिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्रार्णेन.
वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वासो मनसैवमजीवि-
ष्मेति प्रविवेश ह रेतः ॥ १२ ॥ अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयः
सैन्धवः पङ्गीशशङ्कन्संवृहेदेव हैवेमान्प्राणान्संववर्ह ते होचुर्मा भगव
उत्क्रमी वै शक्ष्यामस्त्वद्यते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति
॥ १३ ॥ सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तवसिष्ठोऽसीति
यद्वा अहं प्रतिष्ठामि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अह ँ संपदस्मि
त्वं तत्संपदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति
मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन
किं वास इति यदिदं किंचा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो
वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं परिगृहीतं य एवमेतदन-
स्यानं वेद तद्विद्वासः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव
तदनमननं कुर्वन्तो मन्यन्ते ॥ १४ ॥
इति षष्ठाध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं
प्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा ३ इति स भो ३ इति
प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १ ॥ वेत्थ यथेमाः प्रजाः
प्रयत्यो विप्रतिपद्यन्ता ३ इति नेति होवाच वेत्थो यथेमं लोकं पुनरापद्यन्ता३
१ 'प्रजापतिः' इति पाठः ।</p>
<pb n="143" />
<p>ईशायुपनिषत्सु -
[ अध्यायः ६
इति नेति हैवोवाच वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न
संपूर्णता ३ इति नेति हैवोवाच वेल्थो यतिथ्यामाहुत्या हुतायामापः पुरुषवाचो
भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदं
पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि न
ऋषेर्वचः ः श्रुतम् । द्वे सृती अभ्भ्रूणवं पितृणामहं देवानामुत मर्त्यानाम् । ता-
भ्यामिदं विश्वमेजरसमेति यदन्तरा पितरं मातरं चेति नाहमत एकंचन वेदेति
होवाच ॥ २ ॥ अथैनं वसत्योपमन्त्रयांचक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव स
श्राजगाम पितरं त होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच
इति कथ सुमेध इति पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत्ततो नैकंचन वेदेति
कतमे त इतीम इति ह प्रतीकान्युदाजहार ॥ ३ ॥ स होवाच तथा नवं
तात जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तन्त्र प्र
तीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगाम गौतमो यत्र
प्रवाहणस्य जैवलेरास तस्मा आसनमाहृत्योदकमाहारयांचकाराथ हासा
अर्घ्यं चकार त होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥ स होवाच
प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥
स होवाच देवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥ स होवाच
विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य
मा नो भवाम्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम ती-
नेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपाय-
Sahara ॥ ७ ॥ स होवाच तथा नस्त्वं गौतम मापराधास्तव च पिता-
महा यथेयं विद्येतः पूर्वं न कस्मिँश्चन ब्राह्मण उवास तां त्वहं तुभ्यं व-
क्ष्यामि को हि वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥ असौ वै लोकोऽ•
भिगौतम तस्यादित्य एव समिद्रश्मयो धूमोऽहरचिर्दिशोऽङ्गारा भवान्तर-
दिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो
राजा संभवति ॥ ९ ॥ पर्जन्यो वाग्निगौतम तस्य संवत्सर एव समिदआणि
धूमो विद्युदचिरशनिरङ्गारा हादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननौ देवाः
सोम राजानं जुह्वति तस्या आहुत्यै वृष्टिः संभवति ॥ १० ॥ अयं वै लोको-
गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरचिश्चन्द्रमा अङ्गारा नक्षत्राणि
विस्फुलिङ्गास्तस्मिन्ने तस्मिन्नेनौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्न संभ-
वति ॥ ११ ॥ पुरुषो वाऽग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चि-
श्रक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननौ देवा अन्नं जुह्वति तस्या
आहुत्यै रेतः संभवति ॥ १२ ॥ योषा वा अग्निगौतम तस्या उपस्थ एव</p>
<pb n="144" />
<p>ब्राह्मणम् ३]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>समिलोमानि धूमो यो निरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलि -
प्रास्तस्मिन्नेतस्मिन्ननौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः संभवति स
जीवति यावज्जीवत्यथ यदा त्रियते ॥ १३ ॥ अथैनमभये हरन्ति तस्याभिरे-
वाभिर्भवति समित्समिद्धूमो धूमोऽचिरचिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फु-
लिङ्गास्तस्मिन्नेतस्मिन्ननौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वर-
वर्णः संभवति ॥ १४ ॥ ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धा सत्यमु•
पासते तेऽचिरभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमा पूर्यमाणपक्षाद्यान्य-
ण्मासानुदङ्कादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं
तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः
परावतो वसन्ति तेषां न पुनरावृत्तिः ॥ १५ ॥ अथ ये यज्ञेन दानेन तपसा
लोकायन्ति ते धूममभिसंभवन्ति धूमाद्वात्रि रात्रेरपक्षीयमाणपक्षमप-
क्षीयमाणपक्षाद्यान्पण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोका-
चन्द्रं ते चन्द्रं प्राप्यानं भवन्ति तास्तत्र देवा यथा सोम राजानमाध्याय-
स्वापक्षीयस्वेत्येवमेनास्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथे ममेवाकाशम-
भिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यानं
भवन्ति ते पुनः पुरुषानौ हूयन्ते ततो योषाग्नौ जायन्ते लोकान्प्रत्युस्थायिनस्त
एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिई
दन्दशूकम् ॥ १६ ॥
इति षष्ठाध्याये द्वितीयं ब्राह्मणम् ॥ २ ॥
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वाद
शाहमुपसहती भूत्वादुम्बरे कसे चमसे वा सर्वौषधं फलानीति संभृत्य .
परिसमुद्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्य सस्कृत्य पुसा
नक्षत्रेण मन्थ संनीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यचो मन्ति
पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्प-
यन्तु स्वाहा । या तिरश्वी निपद्यतेऽहं विवरणी इति । तां त्वा घृतस्य धारया
यजे सराधनी मह ँ स्वाहा ॥ १ ॥ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यनौ हुत्वा
-मन्थे स ँस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्ये
स ँस्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे सस्रवमत्र-
नयति चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्ये सत्रवमवनयति
श्रोत्राय स्वाहाssयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सस्रवमवनयति मनसे
स्वाहा प्रजात्यै स्वाहेत्यनौ हुत्वा मन्थे सस्रवमवनयति रेतसे स्वाहे-
अ. उ. ९</p>
<pb n="145" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ६
त्यौ हुत्वा मन्थे सत्रवमवनयति ॥ २ ॥ अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे
सस्त्रवमवनयति सोमाय स्वाहेत्यनौ हुत्वा मन्थे सस्रवमवनयति भूः
स्वाहेत्यनौ हुत्वा मन्थे सत्रस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे स-
स्त्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे सस्रवमवनयति भूर्भुवः स्वः
स्वाहेत्यग्नौ हुत्वा मन्थे सस्त्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे स.
स्त्रवमवनयति क्षत्राय स्वाहेत्यभौ हुत्वा मन्थे सस्त्रवमवनयति भूताय स्वा-
हेत्यग्नौ हुत्वा मन्थे सस्त्रवमवनयति भविष्यते स्वाहेत्यभौ हुत्वा मन्थे स-
स्त्रवमवनयति विश्वाय स्वाहेत्यनौ हुत्वा मन्थे सशस्त्रवमवनयति सर्वाय स्वा-
त्यौ हुत्वा मन्थे सस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे स-
ranवनयति ॥ ३ ॥ अथैनमभिमृशति भ्रमदसि ज्वलदास पूर्णमसि प्रस्त-
धमस्येकसभमसि हिंकृतमसि हिंक्रियमाणमस्युद्गीथम स्युद्गीयमानमसि श्रा-
वितमसि प्रत्याश्रावितमस्या संदीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योति -
रसि निधनमसि संवर्गोऽसीति ॥ ४ ॥ अथैनमुद्यच्छत्यामः स्याम हि ते महि
स हि राजेशानोऽधिपतिः स मा राजेशा नोऽधिपतिं करोत्विति ॥५॥ अथैन-
माचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मधु नक्तमुतोषसो
मधुमत्पार्थिव‍ रजः। मधु चौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः
प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमा३ अस्तु सूर्यः । माध्वीर्गावो भवन्तु
नः । स्वः स्वाहेति । सर्वां च सावित्री मन्वाह सर्वाश्च मधुमतीरहमेवेद सर्व
भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः
संविशति प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्य है मनुष्याणामेक-
"पुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वशं जपति ॥ ६ ॥ त
हैतमुद्दालक भारुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि
य एनः शुष्के स्थाणौ निषिञ्चेजायेरच्छाखाः प्ररोहेयुः पलाशानीति
॥ ७ ॥ एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैज्यायान्तेवासिन
उक्त्वोवाचापि य एन५ शुष्के स्थाणौ निषिचे जायेरच्छाखाः प्ररो-
हेयुः पलाशानीति ॥ ८ ॥ एतमु हैव मधुकः पैङ्ग्यश्श्रूलाय भागवित्तयेऽन्ते-
वासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चेज्जायेरच्छाखाः
प्ररोहेयुः पलाशानीति ॥ ९ ॥ एतमु हैव चूलो भागवित्तिजनकय आय-
स्थूणायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिञ्चजायेर-
न्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥ एतमु हैव जान किरायस्थूणः सत्य-</p>
<pb n="146" />
<p>ब्राह्मणम् ४]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>कामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिचे-
जायेरछाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥ एतमु हैव सत्यकामो नाबा
लोऽन्तेवासिभ्य उक्त्वोवाचापि य एन शुष्के स्थाणौ निषिले जायेरन्छाखाः
प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १३ ॥
चतुरौदुम्बरो भवत्यैौदुम्बरः खुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या
उपमन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलभाषां भणुप्रिय-
ङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान् पिष्टान्दधनि मधुनि घृत
उपसिञ्चत्याज्यस्य जुहोति ॥ १३ ॥
इति षष्ठाध्याये तृतीयं ब्राह्मणम् ॥ ३ ॥
एवं वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां
पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥ स ह प्रजा-
पतिरीक्षांचक्रे हन्तामै प्रतिष्ठां कल्पयानीति स स्त्रियः ससृजे ता सृष्ट्वाऽध
उपास्त तस्मात्स्त्रियमध उपासीत स एवं प्राञ्चं प्रावाणमात्मन एव समुदपान
रयन्तेनैनामभ्यसृजत् ॥ २ ॥ तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे
समिद्धो मध्यतस्तौ मुष्कौ स यावान् ह वै वाजपेयेन यजमानस्य लोको
भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासा स्त्री-
'णा ँ सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्याऽस्य स्त्रियः सुकृत
वृञ्जते ॥ ३ ॥ एतद्ध स्म वै तद्विद्वानुद्दालक भारुणिराहैतद्ध स्म
afgarat मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित भाह बहवो
मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इद-
मविद्वासोऽघोपहासं चरन्तीति बहु वा इद ँ सुप्तस्य वा जानतो वा रेतः
स्कन्दति ॥ ४ ॥ तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवी मस्कान्दसी-
द्यदोषधीरप्यसरद्यदपः । इदमहं तद्वेत आददे पुनममैत्विन्द्रियं पुनस्तेजः पुन-
भंगः। पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ता मित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण
स्तनौ वा भ्रुवौ वा निसृज्यात् ॥ ५ ॥ अथ यद्युदक आत्मानं पश्येत्तदभिम-
श्रयेत मयि तेज इन्द्रियं यशो द्रविण सुकृतमिति श्रीर्ह वा एषा स्त्रीणां
यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥ सव
चेदस्मै न दद्यात्काममे नामवक्रीणीयात् सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या
चा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययज्ञा एव
भवति ॥ ७ ॥ सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश भदधामीति</p>
<pb n="147" />
<p>સંક્ર
ईशाद्युपनिषत्सु -
[ अध्यायः व
यशस्विनावेव भवतः ॥ ८ ॥ स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय
मुखेन मुख संघायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्संभवसि हृदयादधि-
जायसे । स स्वमङ्गकषायोऽसि दिग्वविद्धामिव मादयेमाममूं मयीति ॥ ९ ॥
अथ यामिच्छेन्न गर्भ दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखर संधायाभिप्रा
प्रयापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥
अथं यामिच्छेदधीतेति तस्यामर्थं निष्ठाय मुखेन मुख ँ संधायापान्याभि-
प्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥ अथ
यस्य जायायै जारः स्यात्तं चेह्निष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोम
शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम
समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहषीः पुत्रपश्रस्त
आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समि-
हौषराशापराकाशौ त आददेऽसाचिति स वा एष निरिन्द्रियो विसुकृ-
तोsस्माल्लोकात्प्रेति यमेवंविब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेण
नौपहासमिच्छेदुत ह्येवंवित्परो भवति ॥ १२ ॥ अथ यस्य जायामार्तवं वि-
देहं करें सेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्रिरात्रान्त
आय ब्रीहीनवघातयेत् ॥ १३ ॥ स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदम-
वीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमभीयातामी-
वरौ जनयितवै ॥ १४ ॥ अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ
वेदाववीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमभी-
यातामीश्वरो जनयितवै ॥ १५ ॥ अथ य इच्छे पुत्रो मे श्यामो लोहिताक्षो
जायेत्त त्रीन्वेदाननुबुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्त-
मश्नीयातामीश्वरौ जनयितवै ॥ १६ ॥ अथ य इच्छेदुहिता मे पण्डिता जायेत
सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरो जनयि-
तवै ॥ १७ ॥ अथ य इच्छेत्पुत्रो मे पण्डितो विगीत: समितिंगमः शुश्रूषित
hari भाषिता जायेत सर्वान्वेदाननुबुवीत सर्वमायुरियादिति मासोदनं
पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्षेण वार्षभेण वा ॥ १८॥
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्य-
नये स्वाहाsनुमतये स्वाहा देवाय सचित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य
प्रातिप्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां
-त्रिरभ्युक्षत्युत्तिष्ठा तो विश्वावसोऽन्या मिच्छ प्रपूर्व्या सं जायां पत्या सहेति ॥ १९॥
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्व सा त्वमस्य मोsहं सामाहमस्मि ऋक्वं</p>
<pb n="148" />
<p>ब्राह्मणम् ५ ]
बृहदारण्यकोपनिषत् ॥ १० ॥</p>
<p>रहं पृथिवी स्वं तावेहि सरभावहै सह रेतो दधावहै पुर से पुत्राय वित्तय
इति ॥ २० ॥ अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति
तस्यामर्थं निष्ठाय मुखेन मुखः संधाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं
कल्पयतु त्वष्टा रूपाणि पितु । आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु ते ।
गर्भ धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्त पुष्क
रजौ ॥ २१ ॥ हिरण्मयी भरणी याभ्यां निर्मन्थतामश्विनौ । तं ते गर्भ हवामहे
दशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां
यथा गर्भ एवं गर्भ दधामि तेऽसाविति ॥ २२ ॥ सोष्यन्तीमद्भिरभ्युक्षति,
यथा वायुः पुष्करिणी समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु
जरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेण
सावरा सहेति ॥ २३ ॥ जातेऽग्निमुपसमाधायाङ्क आधाय करें से पृषदाज्य
संनीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुण्यासमेधमानः स्वे गृहे ।
अस्योपसंद्यां माच्छैत्सीत् प्रजया च पशुभिश्च स्वाहा । मयि प्राणास्वयि
मनसा जुहोमि स्वाहा । यत्कर्मणाऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्वि-
द्विद्वान्विष्ट सुहृतं करोतु नः स्वाहेति ॥ २४ ॥ अथास्य दक्षिणं कर्णम-
'भिनिधाय वाग्वागिति त्रिरथ दधि मधु घृत संनीयानन्तर्हितेन जातरूपेण
प्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्व त्वयि
दुधामीति ॥ २५ ॥ अथास्य नाम करोति वेदोऽसीति तस्य तद्रुह्यमेव नाम
भवति ॥ २६ ॥ अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो
मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुण्यसि वार्याणि सरस्वति
तमिह धातवे करिति ॥ २७ ॥ अथास्य मातरमभिमन्त्रयते, इलाऽसि मैत्राव-
रुणी वीरे वीरमजीजनत् । सा स्वं वीरवती भव याऽस्मान् वीरवतोऽकरदिति
तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्राप-
च्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥
इति षष्ठाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥
अथ वशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रो गौतमीपु-
गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्र औप-
स्वस्ती पुत्रादौ पस्वस्तीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रः कात्यायनीपुत्रात्कात्याय-
नीपुत्रः कौशिकीपुत्रात्कौशिकीपुत्र आलम्बीपुत्राश्च वैयाघ्रपदीपुत्राच्च वैयाघ्र-
पदीपुत्रः काण्वीपुत्राख कापीपुत्राच कापीपुत्रः ॥ १ ॥ आत्रेयीपुत्रादात्रे-
श्रीपुत्र गौतमीपुत्र गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रा-</p>
<pb n="149" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः १
पाराशरीपुत्रो वात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वारुणी-
पुत्राद्वारुणीपुत्रो वारुणी पुत्राद्वारुणीपुत्र भार्तभागीपुत्रादार्तभागीपुत्रः
शौकीपुत्राच्छीपुत्रः सांकृतीपुत्रात्सांकृतीपुत्र आलम्बायनीपुत्रादाकम्यायनी -
पुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्रा जायन्तीपुत्रो माण्डकायनी पुत्रा-
माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिली-
पुत्रो राथीवरीपुत्राद्वाथी तरीपुत्रो भालुकी पुत्राद्भालकीपुत्रः क्रौखिकीपु.
जाभ्यां क्रौञ्चकीपुत्रो वैदभृतीपुत्राद्वैदभृतीपुत्रः काकेयीपुत्रा स्कार्श के यीपुत्रः
प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः साँजीबीपुत्रात्सांजीवीपुत्रः प्राश्नीपुत्रा-
दासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ २ ॥
याज्ञवरुक्याद्याज्ञवल्क्य उद्दालकादुद्दालको ऽरुणादरुण उपवेशेरुपवेक्षिः कुझे
कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान्बाध्योगोऽसि -
ताद्वार्षगणादसितो वार्षगणो हरितास्कश्यपाद्धरितः कश्यपः शिल्पारक -
श्यपाच्छिरूपः कश्यपः कश्यपानैध्रुवेः कश्यपो नैध्रुविर्वांचो वागम्भिण्या
अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजुषि वाजसनेयेन याज्ञत्र-
येनाख्यायते ॥ ३ ॥ समानमा सांजीवी पुत्रात्सां जीवी पुत्रो माण्डू -
कायनेर्माण्डूकायनिर्माण्डव्यान् माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वाम-
कक्षायणाद्वामकक्षायणः शाण्डिल्याच्छाण्डिल्यो वात्स्याद्वात्स्यः कुश्रेः कुश्रिर्य-
ज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरास्कावषेयात्तुरः कावषेयः
प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ ४ ॥
:
इति षष्ठाध्याये पञ्चमं ब्राह्मणम् ॥ ५ ॥
इति षष्ठोऽध्यायः ॥ ६॥
॥ इति बृहदारण्यकोपनिषत्समाप्ता ॥ १० ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु
मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
श्वेताश्वतरोपनिषत् ॥ ११ ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवाद-
शिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ ब्रह्मवादिनो वदन्ति ॥ किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन
क्व च संप्रतिष्ठाः । अधिष्टिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम्
॥ १ ॥ कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति विम्या ।</p>
<pb n="150" />
<p>अध्यायः २ ]
श्वेताश्वतरोपनिषत् ॥ ११ ॥</p>
<p>संयोग एषां न स्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥ ते ध्यान-
योगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् । यः कारणानि निखिलानि
तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥ तमेकनेमिं त्रिवृतं षोडशान्तं
शतारं विंशतिप्रत्यराभिः । अष्टकैः षर्भिर्विश्वरूपैकपाशं त्रिमार्गमेदं द्विमी-
मित्तैकमोहम् ॥ ४ ॥ पञ्चस्रोतोम्बुं पञ्चयोन्युप्रवक्रां पञ्चप्राणोर्मिं पचबुआ-
दिमूलाम् । पञ्चावत पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥
सर्वाजीवे सर्व संस्थे बृहन्ते अस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारं
च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥ उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं
सुप्रतिष्ठाऽक्षरं च । अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनि-
मुक्ताः ॥ ७ ॥ संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ।
अनीशश्चारमा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥ ज्ञाज्ञौ
द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो
कर्ता त्रयं यदा विन्दते' ब्रह्ममेतत् ॥ ९ ॥ क्षरं प्रधानममृताक्षरं हरः क्षरा-
मानवीशते देव एकः । तस्याभिध्यानाद्योजनात्तस्वभावाद्भूयश्चान्ते विश्व-
मायानिवृत्तिः ॥ १० ॥ ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्यु-
प्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्य केवल भ्राप्तकामः ॥ ११ ॥
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित् । भोक्ता भोग्यं
प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥ वह्नेर्यथा योनि-
गतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः । स भूय एवेन्धनयोनिगृह्यस्तो भयं
वै प्रणवेन देहे ॥ १३ ॥ स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननि-
र्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ १४ ॥ तिलेषु तैलं दधिनीव सर्पिरापः
स्रोतःस्वरणीषु चाग्निः । एवमात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुप-
यति ॥ १५ ॥ सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपो-
मूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परमिति ॥ १६ ॥
इति श्वेताश्वतरोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ॥ २ ॥
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अप्रेज्योंतिर्निचाय्य पृथिव्या
अध्याभरत् ॥ १ ॥ युक्तेन मनसा वयं देवस्य सवितुः सर्वे । सुवर्गेयाय
शक्त्या ॥ २ ॥ युक्त्वाय मनसा देवान्सुवर्यतो धिया दिवम् । बृहज्योतिः
१ भोक्तृभोगार्धयुक्ता २ ब्रह्म तद् इति काचित्कः पाठः.</p>
<pb n="151" />
<p>ईशाधुपनिषत्सु -
[ अध्यायः ३
करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥ युञ्जते मन उत युञ्जते धियो विप्रा
विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः
परिष्टुतिः ॥ ४ ॥ युजे वां ब्रह्म पूयं नमोभिर्विश्लोक एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ ५ ॥ अभि-
यत्राभिमथ्यते वायुर्यत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र संजायते मनः
॥ ६ ॥ सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । तत्र योनिं कृणवसे न हि ते
पूर्तमक्षिपत् ॥ ७ ॥ त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संति-
वेश्य । ब्रह्मोडुपेन प्रतरेत विद्वत्तादिः सर्वाणि भयावहानि ॥ ८ ॥ प्राणा-
प्रपीडयेह संयुक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्सीत । दुष्टाश्वयुक्तमिव
वाहमेनं विद्वान्मनो धारवेताप्रमत्तः ॥ ९ ॥ समे शुचौ शर्करावह्निवालुका-
विवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुपीडने गुहा निवाता -
श्रयणे प्रयोजयेत् ॥ १० ॥ नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिक-
शशीनाम् । एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥
पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो
न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥ लघुत्वमारोग्यमको-
लुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्ति
प्रथमां वदन्ति ॥ १३ ॥ यथैव बिम्बं सृदयोपलिप्तं तेजोमयं भ्राजते तरसुधा-
न्तम् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ १४ ॥
यदात्मतत्वेन तु ब्रह्मतत्वं दीपोपमेनेह युक्तः प्रपश्येत् । भजं ध्रुवं सर्वत वै-
विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १५ ॥ एष ह देवः प्रदिशोऽनु
सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्य-
क्रूजनांस्तिष्ठति सर्वतोमुखः ॥ १६ ॥ यो देवोऽग्नौ योऽप्सु यो विश्वं भुवन-
माविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥
इति श्वेताश्वतरोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ॥ ३ ॥
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः । य
एवैक उद्भवे संभवे च य एतद्विदुरमृतास्ते भवन्ति ॥ १ ॥ एको हि रुद्रो
न द्वितीयाय तस्थुर्य माँलोकानीशत ईशनीभिः । प्रत्यङ्जनांस्तिष्ठति संचु-
१ विश्वोकायन्ति पथ्येव सुराः । २. शृण्वन्ति ३ संनिरुध्य.</p>
<pb n="152" />
<p>अध्याय: ३ ]
श्वेताश्वतरोपनिषत् ॥ ११ ॥</p>
<p>कोपान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ २ ॥ विश्वतश्चक्षुरुत विश्व-
तोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतन्नैर्द्यावाभूमी
जनयन्देव एकः ॥ ३ ॥ यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भ जनयामास पूर्व स नो बुच्या शुभया संयुनक्तु ॥ ४ ॥ या ते
रुद्र शिवा तनूरघोराsपापकाशिनी । तया नस्तनुवा शंतमया गिरिशन्ताभि-
चाकशीहि ॥ ५ ॥ यामिषु गिरिशंत हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां
कुरु मा हिसीः पुरुषं जगत् ॥ ६ ॥ ततः परं ब्रह्मपरं बृहन्तं यथानिकायं
सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ७ ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽति
मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८ ॥ यस्मात्परं नापरमस्ति किं चि-
मन्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनें
पूर्ण पुरुषेण सर्वम् ॥ ९ ॥ ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदु-
रमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १० ॥ सर्वाननशिरोग्रीवः सर्व-
भूतगुहाशयः । सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥ ११ ॥ महा-
प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिर-
व्ययः ॥ १२ ॥ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः ।
हृदा मेन्वीशो मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ १३ ॥ सहस्र-
शीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम्
॥ १४ ॥ पुरुष एवेद‍ सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्ने-
नातिरोहति ॥ १५ ॥ सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः-
श्रुतिमलोके सर्वमावृत्य तिष्ठति ॥ १६ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविव-
र्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत् ॥ १७ ॥ नवद्वारे पुरे देही
हरसो लेलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८ ॥
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति वेद्यं न च
तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥ भणोरणीयान्महतो मही-
यानात्मा गुहायां निहितोऽस्य जन्तोः । तमऋतुं पश्यति वीतशोको धातुः प्रसा-
दान्महिमानमीशम् ॥ २० ॥ वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभु-
त्वात् । जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१ ॥
इति श्वेताश्वतरोपनिषत्सु तृतीयोऽध्यायः ॥ ३॥
२ मनीषा.</p>
<pb n="153" />
<p>ईशाद्युपनिषत्सु -
चतुर्थोऽध्यायः ॥ ४ ॥
[ अध्यायः ४
य एकोsवर्णो बहुधा शक्तियोगाद्वर्णानने काचिहितार्थो दधाति । वि चैति
चान्ते विश्वमादौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ॥ १ ॥ वदेवाभि-
स्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः ॥ २ ॥
स्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । स्वं जीर्णो दण्डेन वचसि
त्वं जातो भवसि विश्वतोमुखः ॥ ३ ॥ नीलः पतङ्गो हरितो लोहिताक्षत-
डिगर्भ ऋतवः समुद्राः । अनादिमत्वं विभुत्वेन वर्तसे यतो जातानि भुव.
नानि विश्वा ॥ ४ ॥ अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमान
सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥५॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वा-
gtrनश्नन्नन्यो अभिचाकशीति ॥ ६ ॥ समाने वृक्षे पुरुषो निमग्नोऽनीशया
शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः
॥ ७ ॥ ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तं न वेद
किटचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ८ ॥ छन्दांसि यज्ञाः क्रतवो
व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । अस्मान्मायी सृजते विश्वमेतत्तरिंग-
श्वान्यो मायया संनिरुद्धः ॥ ९ ॥ मायां तु प्रकृतिं विद्यान्मायिनं महेश्व•
रम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥ यो योनि योनिम-
धितिष्ठत्येको यस्मिन्निदं स च वि चैति सर्वम् । तमीशानं वरदं देवमीढ्यं
निचास्येमां शान्तिमत्यन्तमेति ॥११॥ यो देवानां प्रभवोद्भवश्च विश्वाधिपो
रुद्रो महर्षिः । हिरण्यगर्भ पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु
॥ १२ ॥ यो देवानामधिपो यस्मिँल्लोका अधिश्रिताः । य ईशे अस्य द्विपक्ष-
तुष्पदः कस्मै देवाय हविषा विधेम ॥ १३ ॥ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्य-</p>
<lg>
  <l>न्तमेति ॥ १४ ॥ स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः ।</l>
  <l>यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ १५ ॥</l>
</lg>
<p>घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवे-
ष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥ एष देवो विश्वकर्मा महात्मा
सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुर-
मृतास्ते भवन्ति ॥ १७ ॥ यदाऽतमस्तन्न दिवा न रात्रिर्न सन चासन्छिव एव
केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ १८ ॥
नैनमूर्ध्व न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्य प्रतिमा अस्ति यस नाम</p>
<pb n="154" />
<p>अध्याय: ५ ]
●
श्वेताश्वतरोपनिषत् ॥ ११ ॥</p>
<p>महद्यशः ॥ १९ ॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ २० ॥ भजाव इत्येवं
कश्चिद्भीरुः प्रपद्यते । रुद्र यते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१ ॥</p>
<lg>
  <l>मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।</l>
  <l>वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्वा हवामहे ॥ २२ ॥</l>
</lg>
<p>इति श्वेताश्वतरोपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
पञ्चमोऽध्यायः ॥ ५ ॥
द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं स्वविद्या
मृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १ ॥ यो योनिं योनिम-
धितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । ऋषि प्रसूतं कपिलं यस्तमग्रे
ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥२॥ एकैकं जालं बहुधा विकुर्वन्नस्मिक्षेत्रे
संहरत्येष देवः । भूयः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥ ३॥
सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन्भ्राजते यद्वनङ्घान् । एवं स देवो भग-
वान्वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥ यच्च स्वभावं पचति विश्व-
योनिः पाच्यांश्च सर्वान्परिणामयेद्यः । सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च
सर्वान्विनियोजयेद्यः ॥ ५ ॥ तद्वेदगुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्म-
योनिम् । ये पूर्वदेवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुण-
स्त्रिवम प्राणाधिपः संचरति स्वकर्मभिः ॥ ७ ॥ अङ्गुष्ठमात्रो रवितुल्यरूपः
संकल्पाहंकारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोऽपि
22: 11 ८ ॥ वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स
विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥ नैव स्त्री न पुमानेष न चैवायं नपुं-
सकः । यद्यच्छरीरमादत्ते तेन तेन स र्रेक्ष्यते ॥ १० ॥ संकल्पनस्पर्शनदृष्टि-
मोहग्रसांवृष्ट्या चात्मविवृद्धिजन्म । कर्मानुगान्यनुक्रमेण देही स्थानेषु
रूपाण्यभिसंप्रपद्यते ॥ ११ ॥ स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही
स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं
१ प्रतिपद्यते, २ पतयस्त्वधीशः. ३ विन्दते ४ युज्यते.
"</p>
<pb n="155" />
<p>ईशाद्युपनिषत्सु -
[ अध्यायः ६
ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥ भावग्राह्यमनीड्याख्यं भावाभावकरं
शिवम् । कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥
तु
इति श्वेताश्वतरोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
षष्ठोऽध्यायः ॥ ६ ॥
स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुद्यमानाः । देवस्यैष महिमा
लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १ ॥ येनावृतं नित्यमिदं हि सर्व ज्ञः
कलकारो गुणी सर्वविद्यः । तेने शितं कर्म विवर्ततें ह पृथ्व्याप्य तेजोऽनिलखानि
चिन्त्यम् ॥ २ ॥ तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्वस्य तत्त्वेन समेत्य योगम् ।
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ ३ ॥ आरम्य
कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः । तेषामभावे कृतकर्म-
नाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥ आदिः स संयोगनिमित्त-
हेतुः परत्रिकालादकलोऽपि दृष्टः । तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्त-
स्थमुपास्य पूर्वम् ॥ ५ ॥ स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परि-
वर्ततेऽयम् । धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६ ॥
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पति पतीनां परमं
परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ ७ ॥ न तस्य कार्य करणं च विद्यते न
तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी
ज्ञानबलक्रिया च ॥ ८ ॥ न तस्य कश्चित्पतिरस्ति लोके न वेशिता
नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न
चाधिपः ॥ ९ ॥ यस्तूर्णनाभ इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः
स्वमावृणोत् । स नो दधाद्रह्माध्ययम् ॥ १० ॥ एको देवः सर्वभूतेषु गृढ़ः
सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता
केवलो निर्गुणश्च ॥ ११ ॥ एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः
करोति । तमारमस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तत्कारणं
सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥ न तत्र सूर्यो
भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमभिः । तमेव भान्तम-
भाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १४ ॥ एको हप्सो भुवन-
१ कालकारो.
२ यस्तन्तनाभ.</p>
<pb n="156" />
<p>स्वास्य मध्ये स एवाग्निः सलिले संनिविष्टः । तमेव विदित्वाति मृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥ स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकारो
गुणी सर्वविद् यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः सꣳसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशे अस्य
जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥ यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै । तꣳह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं
प्रपद्ये ॥ १८ ॥ निष्कलं निष्क्रियꣳ शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परꣳ
सेतुं दग्धेन्धनमिवानलम् ॥ १९ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ तपःप्रभावाद्देवप्रसादाच्च
ब्रह्म श्वेताश्वतरोऽथ विद्वान् । अ<ref>१</ref>त्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषि-
सङ्घजुष्टम् ॥ २१ ॥ वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय
दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ यस्य देवे परा भक्तिर्यथा देवे
तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मन
इति ॥ २३ ॥</p>
<p>इति श्वेताश्वतरोपनिषत्सु षष्ठोऽध्यायः ॥ ६ ॥</p>
<p>ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतम-
स्तु मा विद्विषावहै । ॐ<fix> </fix>शान्तिः शान्तिः शान्तिः ॥</p>
<p>॥ इति कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषत्संपूर्णा ॥</p>
<p>ब्रह्मबिन्दूपनिषत् ॥ १२ ॥</p>
<lg>
  <l>अमृतबिन्दूपनिषद्वेद्यं यत्परमाक्षरम् ।</l>
  <l>तदेव हि त्रिपाद्वामचन्द्राख्यं नः परा गतिः ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥ ॐ मनो हि द्विविधं प्रोक्तं शुद्धं
चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १ ॥ मन एव
मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्
॥ २ ॥ यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । तस्मान्निर्विषयं नित्यं मनः
कार्यं मुमुक्षुणा ॥ ३ ॥ निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदा यात्यु-
न्मनीभावं तदा तत्परमं पदम् ॥ ४ ॥ तावदेव निरोद्धव्यं यावद्धृदि गतं</p>
<note>१ अन्त्याश्रमिभ्यः ।</note>
<pb n="157" />
<p>क्षयम् । एतज्ज्ञानं च मोक्षं च अतोऽन्यो ग्रन्थविस्तरः ॥ ५ ॥ १ ॥ नैव चिन्त्यं
न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा
॥ ६ ॥ स्वरेण संधयेद्योगमस्वरं भावयेत्परम् । अस्वरेण हि भावेन भावो
नाभाव इष्यते ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्ब्रह्माह-
मिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥ ८ ॥ निर्विकल्पमनन्तं च हेतुवृत्तान्त-
वर्जितम् । अप्रमेयमनाद्यं च ज्ञात्वा च परमं शिवम् ॥ ९ ॥ न निरोधो न
चोत्पत्तिर्न वन्द्यो न च शासनम् । न मुमुक्षा न मुक्तिश्चेदित्येषा परमार्थता
॥ १० ॥ २ ॥ एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयाद्यती-
तस्य पुनर्जन्म न विद्यते ॥ ११ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ घटसंवृतमाकाशं लीय-
माने घटे यथा । घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः ॥ १३ ॥ घटव-
द्विविधाकारं भिद्यमानं पुनः पुनः । तद्भग्नं न च जानाति स जानाति च
नित्यशः ॥ १४ ॥ शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे । भिन्ने तमसि
चैकत्वमेकमेवानुपश्यति ॥ १५ ॥ ३ ॥ शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्ष-
रम् । तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६ ॥ द्वे विद्ये वेदितव्ये
तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थ-
मशेषतः ॥ १८ ॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानं
लिङ्गिनस्तु गवां यथा ॥ १९ ॥ घृतमिव पयसि निगूढं भूते भूते च वसति
विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थनभूतेन ॥ २० ॥ ज्ञाननेत्रं
समादाय चरेद्वह्निमतः परम् । निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम्
॥ २१ ॥ सर्वभूताधिवासं च यद्भूतेषु वसत्यपि । सर्वनुग्राहकत्वेन तदस्म्यहं
वासुदेवः तदस्म्यहं वासुदेव इति ॥ २२ ॥ ४ ॥ सह नाववत्विति शान्तिः ॥</p>
<p>इत्यथर्ववेदीया ब्रह्मबिन्दूपनिषत्समाप्ता ॥ १२ ॥</p>
<p>कैवल्योपनिषत् ॥ १३ ॥</p>
<p>कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥
ॐ सह नाववत्विति शान्तिः ॥</p>
<p>div.n = 1</p>
<p>ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन्ब्र-</p>
<pb n="158" />
<p>ह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । यथाऽचिरात्सर्वपापं
व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १ ॥ तस्मै स होवाच पितामहश्च
श्रद्धाभक्तिध्यानयोगादवैहि ॥ २ ॥ न कर्मणा न प्रजया धनेन त्यागेनैके
अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति
॥ ३ ॥ वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते
ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ४ ॥ विविक्तदेशे च
सुखासनस्थः शुचिः समग्रीवशिरःशरीरः । अन्त्याश्रमस्थः सकलेन्द्रियाणि
निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ५ ॥ हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य
मध्ये विशदं विशोकम् । अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं
ब्रह्मयोनिम् ॥ ६ ॥ तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनि-
र्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७ ॥ स ब्रह्मा स शिवः
सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः स कालोऽग्निः स
चन्द्रमाः ॥ ८ ॥ स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् । ज्ञात्वा तं
मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ९ ॥ सर्वभूतस्थमात्मानं सर्वभूतानि
चात्मनि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १० ॥ आत्मानमरणिं
कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ११ ॥
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियन्नपानादि-
विचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२ ॥ स्वप्ने स जीवः सुखदुःख-
भोक्ता स्वमायया कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमोऽभि-
भूतः सुखरूपमेति ॥ १३ ॥ पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति
प्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ॥ आधा-
रमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥ १४ ॥ एतस्माज्जायते
प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी
॥ १५ ॥ यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं
तत्वमेव त्वमेव तत् ॥ १६ ॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद्ब्रह्माह-
मिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७ ॥ त्रिषु धामसु यद्भोग्यं भोक्ता
भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८ ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितंम् । मयि सर्वं लयं याति तद्ब्रह्मा-
द्वयमस्म्यहम् ॥ १९ ॥ अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ २० ॥ अपाणि-</p>
<pb n="159" />
<p>पादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्ण: । अहं विजानामि
विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥ २१ ॥ चेदैरनेकैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रि-
यबुद्धिरस्ति ॥ २२ ॥ न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न
चाम्बरं च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३ ॥</p>
<p>इति कैवल्योपनिषदि प्रथमः खण्डः ॥ १ ॥</p>
<p>div.n = 2</p>
<p>समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् । यः शतरुद्वीय-
मधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आत्मपूतो भवति स
सुरापानात्पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात्पूतो भवति
स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति अत्याश्रमी सर्वदा
सकृद्वा जपेत् ॥ अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवं
विदित्वैनं कैवल्यं फलमश्नुते कैवल्यं फलमश्नुत इति ॥ २४ ॥</p>
<p>इति कैवल्योपनिषदि द्वितीयः खण्डः ॥ २ ॥</p>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥ १३ ॥</p>
<p>जाबालोपनिषत् ॥ १४ ॥</p>
<lg>
  <l>जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।</l>
  <l>वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥</l>
</lg>
<p>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</p>
<p>div.n = 1</p>
<p>ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां
ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वै
कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ अत्र हि जन्तोः
प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १ ॥</p>
<p>इति प्रथमः खण्डः ।</p>
<p>div.n = 2</p>
<p>अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं
विजानीयामिति ॥ स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन-</p>
<pb n="160" />
<p>न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित
इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति
सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति सर्वानिन्द्रियकृतान्पा-
पान्नाशयतीति तेन नासी भवतीति ॥ कतमच्चास्य स्थानं भवतीति । भ्रुवो-
र्घ्राणस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति ॥ एतद्वै
संधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति । सोऽविमुक्तं
ज्ञानमाचष्टे यो वै तदेतदेवं वेदेति ॥ २ ॥</p>
<p>इति जाबालोपनिषत्सु द्वितीयः खण्डः ॥ २॥</p>
<p>div.n = 3</p>
<p>अथ हैनं ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं ब्रूहीति ॥ स होवाच
याज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्येतैर्ह वा अमृतो
भवतीति ॥ एवमेवैतद्याज्ञवल्क्यः ॥ ३ ॥</p>
<p>इति जाबालोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥</p>
<p>div.n = 4</p>
<p>अथ ह जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन् संन्यासमनु-
ब्रूहीति ॥ स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत्, गृही भूत्वा
वनी भवेत्, वनी भूत्वा प्रव्रजेत् ॥ यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा
वनाद्वा ॥ अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरन-
ग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ॥ तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति ॥
तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥ अग्निर्ह वै प्राणः प्राणमेवैतया करोति
पश्चात्त्रैधातवीयामेव कुर्यात् ॥ एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ॥ तं जानन्नग्न आरोहाथा नो
वर्धय रयिम् इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥ एष वा अग्नेर्योनिर्यः प्राणः प्राणं
गच्छ स्वाहेत्येवमेवैतदाह ॥ ग्रामादग्निमाहृत्य पूर्ववदग्निमाघ्रापयेत् ॥ यद्यिग्निं
न विन्देदप्सु जुहुयात् ॥ आपो वै सर्वां देवताः । ॐ सर्वाभ्यो देवताभ्यो
जुहोमि स्वाहेति हुत्वा समुद्धृत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रस्त्रय्येवं
विन्देत् ॥ तद्ब्रह्मैतदुपासितव्यम् ॥ एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ ४ ॥</p>
<p>इति जाबालोपनिषत्सु चतुर्थः खण्डः ॥ ४॥</p>
<p>div.n = 5</p>
<p>अथ हैनमत्रिः पप्रच्छ ॥ याज्ञवल्क्य पृच्छामि त्वा याज्ञवल्क्य अयज्ञोप-
वीती कथं ब्राह्मण इति ॥ स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं य
आत्मा प्राश्याचम्यायं विधिः परिव्राजकानाम् ॥ वीराध्वाने वाडनाशके वाऽपां</p>
<pb n="161" />
<p>प्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिब्राड् विवर्णवासा मुण्डोऽपरि-
ग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति ॥ यथातुरः स्यान्मनसा वाचा
वा संन्यसेत् ॥ एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येवमे-
वैष भगवन्निति वै याज्ञवल्क्यः ॥ ५ ॥</p>
<p>इति जाबालोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥</p>
<p>div.n = 6</p>
<p>तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रे-
यरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रि-
दण्डं कमण्डलुं शिक्यं पात्रं जलपविन्नं शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूः
स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥ यथा जातरूपधरो निर्द्वन्द्वो निष्परि-
ग्रहस्तत्तत्वब्रह्ममार्गे सम्यक्संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले
विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृण-
कूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झर-
स्थण्डिलेष्वनिकेतवास्यप्रयत्नो निर्ममः शुक्रुध्यानपरायणोऽध्यात्मनिष्ठोऽशुभ-
कर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम स परमहंसो
नामेति ॥ ६ ॥</p>
<p>इति जाबालोपनिषत्सु षष्ठः खण्डः ॥ ६ ॥</p>
<p>ॐ पूर्णमद इति शान्तिः ॥</p>
<p>इत्यथर्ववेदे जाबालोपनिषत्समाप्ता ॥ १४ ॥</p>
<p>हंसोपनिषत् ॥ १५ ॥</p>
<lg>
  <l>हंसाख्योपनिषत्प्रोक्तनादादिर्यत्र विश्रमेत् ।</l>
  <l>तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥</l>
</lg>
<p>ॐ पूर्णमद इति शान्तिः ॥</p>
<p>ॐ गौतम उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधो
हि केनोपायेन जायते ॥ १ ॥ सनत्सुजात उवाच । विचार्य सर्ववेदेषु मतं
ज्ञात्वा पिनाकिनः । पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥ अना-
ख्येयमिदं गुह्यं योगिनां कोशसंनिभम् । हंसस्य गतिविस्तारं भुक्तिमुक्तिफल-
प्रदम् ॥ ३ ॥ अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिणे शान्ताय
दान्ताय गुरुभक्ताय । हंसहंसेति सदाऽयं सर्वेषु देहेषु व्याप्तो वर्तते ॥</p>
<pb n="162" />
<p>यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमत्येति । गुदमवष्टभ्या-
धाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहत-
मतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमि-
त्येवं सर्वदा ध्यायन्नथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशं स
वै ब्रह्म परमात्मेत्युच्यते ॥ १ ॥ अथ हंस ऋषिः, अव्यक्तगायत्री छन्दः ।
परमहंसो देवता । हमिति बीजम् । स इति शक्तिः । सोऽहमिति कील-
कम् । षट्संख्यया अहोरात्रयोरेकविंशतिसहस्राणि षदशतान्यधिकानि भव-
न्ति । सूर्याय सोमाय निरञ्जनाय निराभासाय तनुसूक्ष्म प्रचोदयादिति
अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः । एवं कृत्वा हृदये-
sष्टदले हंसात्मानं ध्यायेत् । अग्नीषोमौ पक्षावोंकारः शिरो बिन्दुस्तु नेत्रं
मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः । पश्यत्यनागा-
रश्च शिष्टोभयपार्श्वे भवतः । एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं
व्याप्तम् । तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः आग्नेये निद्रालस्या-
दयो भवन्ति याम्ये क्रूरे मतिः नैर्ऋत्ये पापे मनीषा वारुण्यां क्रीडा वायव्ये
गमनादौ बुद्धिः सैौम्ये रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे
जाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयं यदा हंसो नादे
लीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते । एवं सर्वं
हंसवशात्तस्मान्मनो विचार्यते । स एव जपकोट्यां नादमनुभवति एवं
सर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः ।
घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थम् । पञ्चमस्तत्त्रीनादः । षष्ठस्तालनादः । स-
प्तमो वेणुनादः । अष्टमो मृदङ्गनादः । नवमो भेरीनादः । दशमो मेघनादः ।
नवमं परित्यज्य दशममेवाभ्यसेत् । प्रथमे चिञ्चिणीगात्रं द्वितीये गानभञ्ज-
नम् । तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥ पञ्चमे स्रवते तालु षष्ठेऽमृ-
तनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाऽष्टमे ॥ अदृश्यं नवमे देहं
दिव्यचक्षुस्तथाऽमलम् । दशमं परमं ब्रह्म भवेद्रह्मात्मसंनिधौ ॥ तस्मिन्मनो
विलीयते मनसि संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्व-
त्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥
ॐ वेदप्रवचनं वेदप्रवचनमिति ॥ २ ॥ ॐ पूर्णमद इति शान्तिः ॥</p>
<p>इत्यथर्ववेदे हंसोपनिषत्समाप्ता ॥ १५ ॥</p>
<pb n="163" />
<p>आरुणिकोपनिषत् ॥ १६ ॥</p>
<lg>
  <l>आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः ।</l>
  <l>यत्प्रबोधाद्यन्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥</l>
</lg>
<p>ॐ आप्यायन्त्विति शान्तिः ॥</p>
<p>ॐ आरुणिः प्रजापतेर्लोकं जगाम । तं गवोवाच । केन भगवन्कर्माण्य-
शेषतो विसृजानीति । तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छखां
यज्ञोपवीतं च यागं च सूत्रं च स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोकमहर्लोक-
जनलोकतपोलोकसत्यलोकं चातलपातालवितलसुतलरसातलतलातलमहातल-
ब्रह्माण्डं च विसर्जयेद्दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । शेषं विसृजे-
दिति ॥ १ ॥ गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकाग्नीनुदराग्नौ
समारोपयेत् । गायत्रीं च स्ववाचाग्नौ समारोपयेदुपवीतं भूमावप्सु वा
विसृजेत् । कुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । पवित्रं
विसृजेत् । दण्डांश्च लौकिकाग्नींश्च विसृजेदिति होवाच । श्रत ऊर्ध्वममन्त्र-
वदाचरेत् । ऊर्ध्वगमनं विसृजेत् । त्रिसंध्यादौ स्नानमाचरेत् । संधि
समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिष-
दमावर्तयेदिति ॥ २ ॥ खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रं ब्रह्म सूत्रमहमेव विद्वां-
स्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति
त्रिः कृत्वाऽभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायौजः
सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति ।
अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवद-
शनमाचरेत् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षतो३
हे रक्षतो३ हे रक्षत इति ॥ ३ ॥ अथातः परमहंसपरिव्राजकानामासन-
शयनादिकं भूमौ ब्रह्मचारिणां मृत्पात्रं वाऽलाबुपात्रं दारुपात्रं वा कामक्रोध-
हर्षरोषलोभमोहदम्भदर्पासूयाममत्वाहंकारादीनपि त्यजेत् । वर्षासु ध्रुव-
शीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा चरेद्द्वावेव वा चरे-
दिति ॥ ४ ॥ खलु वेदार्थं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् ।
पितरं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो भिक्षार्थं ग्रामं
प्रविशन्ति पाणिपात्रमुदरपात्रं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्य-
सेत् ॥ खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं बैल्वमौदुम्बरं दण्ड-
मजिनं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः</p>
<pb n="164" />
<p>परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्य-
वो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति । एवं निर्वाणानुशासनं
वेदानुशासनं वेदानुशासनमिति ॥ ५ ॥ ॐ आप्यायन्त्विति शान्तिः ॥</p>
<p>इत्यथर्ववेदीयारुणिकोपनिषत्समाप्ता ॥ १६ ॥</p>
<p>गर्भोपनिषत् ॥ १७ ॥</p>
<p>यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।
शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥</p>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् ॥ तत्सप्तधातु त्रिमलं
द्वियोनि चतुर्विधाहारमयं शरीरम् ॥ भवति पञ्चात्मकमिति कस्मात्, पृथिव्या-
पस्तेजोवायुराकाशमित्यस्मिन्पञ्चात्मके शरीरे । का पृथिवी का आपः किं
तेजः को वायुः किमाकाशम् । तत्र यत्कठिनं सा पृथिवी यद्रवं ता आपो यदुष्णं
तत्तेजो यत्संचरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥ तत्र पृथिवी
नाम धारणे आपः पिण्डीकरणे तेजः प्र<ref>१</ref>काशने वायुर्व्यूहने आकाशमवकाश-
प्रदाने ॥ पृथुस्तु श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने
नासिकाऽऽघ्राणे उपस्थश्वानन्दनेऽपानमुत्सर्गे बुद्ध्या बुद्ध्यति मनसा संकल्पयति
वाचा वदति ॥ षडाश्रयमिति कस्मात्, मधुराम्ललवणतिक्तकटुकषायरसा-
न्विन्दते ॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति । इष्टानिष्टा शब्द-
संज्ञाप्रणिधानाद्दशविधा भवन्ति ॥ १ ॥ शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः
पाण्डुर इति ॥ सप्तधातुकमिति कस्मात्, यथा देवदत्तस्य द्रव्यादिविषया जायन्ते ॥
परस्परं सौम्यगुणत्वात्षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो
मेदसः स्त्रावा नाम्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं शुक्रशोणितसंयोगादा-
वर्तते गर्भो हृदिव्यवस्थानीति । हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने
वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥ २ ॥ ऋतुकाले संप्रयोगादेक-
रात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण
पिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः संपद्यते मास-
त्रयेण पादप्रदेशो भवति ॥ अथ चतुर्थे मासेऽङ्गुल्यजठरकटिप्रदेशो भवति ॥</p>
<note>१ रूपदर्शने.</note>
<pb n="165" />
<p>पञ्चमे मासे पृष्ठवंशो भवति ॥ षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति ॥
सप्तमे मासे जीवेन संयुक्तो भवति ॥ अष्टमे मासे सर्वसंपूर्णो भवति ॥ पितू
रेतोऽतिरिक्तात्पुरुषो भवति मातू रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्य-
स्वान्नपुंसको भवति ॥ व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति ॥
अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा तनूः स्यात्ततो युग्माः प्रजायन्ते ॥
पञ्चात्मकः समर्थः पञ्चात्मिका चेतसा बुद्धिर्गन्धरसादिज्ञाना ध्यानात्क्षरमक्षरं
मोक्षं चिन्तयतीति । तदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे
तस्यैव देहिनाम् ॥ अथ मात्राऽशितपीत नाडीसूत्रगतेन प्राण आप्यायते ॥
अथ नवमे मासि सर्वलक्षणसंपूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्म
भवति शुभाशुभं च कर्म विन्दति ॥ ३ ॥ नानायोनिसहस्राणि दृष्ट्वा चैव ततो
मया ॥ आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ जातस्यैव मृतस्यैव
जन्म चैव पुनः पुनः ॥ अहो दुःखोदधैौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ य-
न्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् ॥ एकाकी तेन दह्यामि गतास्ते फ-
लभोगिनः ॥ यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा स<ref>१</ref>माश्रये ॥ अशुभक्षयकर्तारं
फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुच्यामि तं प्रपद्ये महेश्वरम् ॥ अशुभक्ष-
यकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारा-
यणं देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुञ्चामि
ध्याये ब्रह्म सनातनम् ॥ अथ जन्तुः स्त्रीयोनिशतं योनिद्वारि संप्राप्तो यन्त्रेणा-
पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्य तदा न
स्मरति जन्ममरणं न च कर्म शुभाशुभम् ॥ ४ ॥ शरीरमिति कस्मात्, साक्षा-
दग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति ॥ तत्र कोष्ठाग्निर्नामाशि-
तपीतलेह्यचोष्यं पचतीति ॥ दर्शनाग्नी रूपादीनां दर्शनं करोति ॥ ज्ञानाग्निः
शुभाशुभं च कर्म विन्दति यस्तत्र ॥ त्रीणि स्थानानि भवन्ति हृदये दक्षिणा-
ग्निरुदरे गार्हपत्यं मुखादाहवनीयात्मा यजमानो बुद्धिः पत्नीं मनो ब्रह्मा नि-
धाय लोभादयः पशवो धृतिर्दीक्षा संतोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मे-
न्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः, चतुष्कपालं शिरः
षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं संधिशतं सनवकं
स्नायुशतं सप्त शिराशतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि
षष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं</p>
<note>१ समभ्यसेत् ।</note>
<pb n="166" />
<lg>
  <l>कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमाहारपरिमाणात् ।</l>
  <l>पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥ ५ ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ।</p>
<p>इति गर्भोपनिषत्समाप्ता ॥ १७ ॥</p>
<p>नारायणाथर्वशिरउपनिषत् ॥ १८ ॥</p>
<lg>
  <l>मायातत्कार्यमखिलं यद्बोधाद्यात्यपह्नवम् ।</l>
  <l>त्रिपन्नारायणाख्यं तत्कलये स्वात्ममात्रतः ॥</l>
</lg>
<p>ॐ स<error> </error>ह नाववत्विति शान्तिः ॥</p>
<p>ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ॥ नारायणात्प्राणो
जायते मनः सर्वेन्द्रियाणि च ॥ खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
नारायणाद्ब्रह्मा जायते ॥ नारायणाद्रुद्रो जायते ॥ नारायणादिन्द्रो जायते ॥
नारायणात्प्रजापतिः प्रजायते ॥ नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि
च्छन्दांसि ॥ नारायणादेव समुत्पद्यन्ते ॥ नारायणात्प्रवर्तन्ते ॥ नारायणे प्रली-
यन्ते ॥ एतदृग्वेदशिरोऽधीते ॥ १ ॥ अथ नित्यो नारायणः ॥ ब्रह्मा नारायणः ॥
शिवश्च नारायणः ॥ शक्रश्च नारायणः ॥ कालश्च नारायणः ॥ दिशश्च नारा-
यणः ॥ विदिशश्च नारायणः ॥ ऊर्ध्वं च नारायणः ॥ अधश्च नारायणः ॥
अन्तर्बहिश्च नारायणः ॥ नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ निष्क-
लङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽ-
स्ति कश्चित् ॥ य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ॥ य
एतद्यजुर्वेदशिरोऽधीते ॥ २ ॥ ॐमित्यग्रे व्याहरेत् ॥ नम इति पश्चात् ॥
नारायणायेत्युपरिष्टात् ॥ ॐमित्येकाक्षरम् ॥ नम इति द्वे अक्षरे ॥ नाराय-
णायेति पञ्चाक्षराणि ॥ एतद्वै नारायणस्याष्टाक्षरं पदम् ॥ यो ह वै नारायण-
स्याष्टाक्षरं पदमध्येति । अनपब्रुवः सर्वमायुरेति ॥ विन्दते प्राजापत्यं राय-
स्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति ॥ एतत्सामवेदशिरो-
ऽधीते ॥ ३ ॥ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् ॥ अकार उकारो मकार
इति ॥ ता अनेकधा समभवत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्मसंसार-
बन्धनात् ॥ ॐ नमो नारायणायेति मंत्रोपासको वैकुण्ठभुवनं गमिष्यति ॥
तदिदं पुण्डरीकं विज्ञानघनं ॥ तस्मात्तडिदाभमात्रम् ॥ ब्रह्मण्यो देवकीपुत्रो</p>
<pb n="167" />
<p>ब्रह्मण्यो मधुसूदनः ॥ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ॥ सर्व-
भूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्म ओम् ॥ एतदथर्वशिरो
योऽधीते ॥ ४ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो
दिवसकृतं पापं नाशयति ॥ तत्सायंप्रातरधीयानोऽपापो भवति ॥ मध्यंदिन-
मादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते ॥ सर्ववेदपारा-
यणपुण्यं लभते ॥ नारायणसायुज्यमवाप्नोति ॥ श्रीमन्नारायणसायुज्यमवा-
प्नोति य एवं वेद ॥ ५ ॥</p>
<p>ॐ स<error> </error>ह नाववत्विति शान्तिः ॥</p>
<p>॥ इति नारायणाथर्वशिरउपनिषत्समाप्ता ॥ १८ ॥</p>
<p>महानारायणोपनिषत् ॥ १९॥</p>
<p>div.n = 1</p>
<p>ॐ नमो महते नारायणाय ॥ अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे
महतो महीयान् । शुक्रेण ज्योतींषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः
॥ १ ॥<break /> यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः ।
तदेव भूतं तदु भव्यमानमिदं तदक्षरे परमे व्योमन् ॥ २ ॥<break /> येनावृतं खं च
दिवं मही च येनादित्यस्तपति तेजसा भ्राजसा च । यदन्तः समुद्रे कवयो
वदन्ति तदक्षरे परमे प्रजाः ॥ ३ ॥<break /> यतः प्रसूता जगतः प्रसूती तोयेन जीवा-
न्विससर्ज भूम्याम् । यत ओषधीभिः पुरुषान्पशूंश्च विवेश भूतानि चराचराणि
॥ ४ ॥<break /> अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् । यदेकम-
व्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥ ५ ॥<break /> तदेवर्तं तदु सत्यमाहुस्त-
देव ब्रह्म परमं कवीनाम् । इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति
भुवनस्य नाभिः ॥ ६ ॥<break /> तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्र-
ममृतं तद्ब्रह्म तदापः स प्रजापतिः ॥ ७ ॥<break /> सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा-
दधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥ ८ ॥<break /> अर्धमासा मासा
ऋतवः संवत्सरश्च कल्पताम् । स आपः प्रदुधे उभे इमे अन्तरिक्षमथो सुवः
॥ ९ ॥<break /> नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य
नाम महद्यशः ॥ १० ॥<break /> न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च-
नैनम् । हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति ॥ ११ ॥<break />
अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ ॥ १२ ॥</p>
<p>इति श्रीमहानारायणोपनिषदि प्रथमः खण्डः ॥ १ ॥</p>
<pb n="168" />
<p>एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । सं
विजायमानः स जनिष्यमाणः प्रत्यङ्मुखस्तिष्ठति सर्वतोमुखः ॥ १ ॥ <break />विश्व-
तश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं
पतत्रैर्द्यावापृथिवी जनयन्देव एकः ॥ २ ॥<break /> वेनस्तत्पश्यन्विश्वा भुवनानि विद्वान्
यत्र विश्वं भवत्येकनीडम् । यस्मिन्निदं सं च वि चैकं स ओतः प्रोतश्च विभुः
प्रजासु ॥ ३ ॥<break /> प्र तद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु । 
श्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुः पितासत् ॥ ४ ॥<break /> स नो बन्धु-
र्जनिता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा अमृतत्वमान-
शानास्तृतीये धामान्यभ्यैरयन्त ॥ ५ ॥<break /> परि द्यावापृथिवी यन्ति सद्यः परि
लोकान्परि दिशः परि सुवः । ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्त-
प्रजासु ॥ ६ ॥<break /> परीत्य लोकान्परीत्य भूतानि परीत्य सर्वाः प्रदिशो दिशश्च ।
प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव ॥ ७ ॥<break /> सदसस्पतिमद्भुतं
प्रियमिन्द्रस्य काम्यम् । सनिं मेघामयासिषम् ॥ ८ ॥<break /> उद्दीप्यस्व जातवेदोऽ-
पद्मन्निरृतिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिशः ॥ ९ ॥<break /> मा नो
हिंसीजातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परि-
पतिय ॥ १० ॥</p>
<p>इति श्रीमहानारायणोपनिषदि द्वितीयः खण्डः ॥ २ ॥</p>
<p>div.n = 3</p>
<p>तत्पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि । तन्नो रुद्रः प्रचोदयात्
॥ १ ॥<break /> तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ २ ॥<break />
तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि । तन्नो वृषभः प्रचोदयात् ॥ ३ ॥<break />
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥ ४ ॥<break />
षण्मुखाय विद्महे महासेनाय धीमहि । तन्नः षष्ठः प्रचोदयात् ॥ ५ ॥<break />
पावकाय विद्महे सप्तजिह्वाय धीमहि । तन्नो वैश्वानरः प्रचोदयात् ॥ ६ ॥<break />
वैश्वानराय विद्महे लालेलाय धीमहि । तनो अग्निः प्रचोदयात् ॥ ७ ॥<break />
भास्कराय विद्महे दिवाकराय धीमहि । तन्नः सूर्यः प्रचोदयात् ॥ ८ ॥ दिवा-
कराय विद्महे महाद्युतिकराय धीमहि । तन्न आदित्यः प्रचोदयात् ॥ ९ ॥<break />
आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः प्रचोदयात् ॥ १० ॥ <break />
तीक्ष्णशृंगाय विद्महे वक्रपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ॥ ११ ॥ <break />
कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि । तन्नो दुर्गा प्रचोदयात् ॥ १२ ॥<break />
महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती प्रचोदयात् ॥ १३ ॥ <break />
सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् ॥ १४ ॥ </p>
<pb n="169" />
<p>तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥ १५ ॥<break />
नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ १६ ॥<break />
नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहः प्रचोदयात् ॥ १७ ॥<break />
चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि । तन्नो ब्रह्मा प्रचोदयात् ॥ १८ ॥<break /></p>
<p>इति श्रीमहानारायणोपनिषदि तृतीयः खण्डः ॥ ३॥</p>
<p>div.n = 4</p>
<p>सहस्रपरमा देवी शतमूला शतांकुरा । सर्वं हरतु मे पापं दूर्वा दुःखप्नना-
शिनी ॥ १ ॥<break /> दूर्वा अमृतसम्भूताः शतमूलाः शतांकुराः । शतं मे घ्नन्ति
पापानि शतमायुर्विवर्धति ॥ २ ॥<break /> काण्डारकाण्डात्प्ररोहन्ती परुषः परुषः परि ।
एवा नो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥ ३ ॥<break /> अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते
वसुन्धरे । शिरसा धारिता देवि रक्षस्व मां पदे पदे ॥ ४ ॥<break /> उद्धृतासि वराहेण
कृष्णेन शतबाहुना । भूमिर्धेनुर्धरित्री च धरणी लोकधारिणी । तेन या
ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ॥ ५ ॥<break /> मृत्तिके हर मे पापं यन्मया दुष्कृतं
कृतम् । त्वया हतेन पापेन जीवामि शरदः शतम् ॥ ६ ॥<break /> वाचा कृतं कर्मकृतं
मनसा दुर्विचिन्तितम् । वया हतेन पापेन गच्छामि परमां गतिम् । मृत्तिके
देहि मे पुष्टिं व सर्वं प्रतिष्ठितम् ॥ ७ ॥<break /> गन्धद्वारां दुराधर्षां नित्यपुष्टां
करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ८ ॥<break /> ॐ भूर्लक्ष्मी-
र्भुवर्लक्ष्मीः सुवः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् ॥ ९ ॥<break /> पद्मप्रभे
पद्मसुन्दरि धर्मरतये स्वाहा ॥ १० ॥<break /> हिरण्यशृंगं वरुणं प्रपद्ये तीर्थं मे देहि
याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ ११ ॥<break /> यन्मे मनसा
वाचा कर्मणा वा दुष्कृतं कृतम् । तन्मे इन्द्रो वरुणो बृहस्पतिः सविता च
पुनन्तु पुनः पुनः ॥ १२ ॥<break /> सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै
भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ १३ ॥</p>
<p>इति श्रीमहानारायणोपनिषदि चतुर्थः खण्डः ॥ ४ ॥</p>
<p>div.n = 5</p>
<p>नमोऽग्नयेऽसुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ॥ य-
दपां क्रूरं यदमेध्यं यदशान्तं तदुपगच्छतात् ॥ १ ॥<break /> अत्याशनादतीपानाद्यच्च
उग्रात्प्रतिग्रहात् । तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ॥ २ ॥<break /> सोऽहमपापो
विरजो निर्मुक्तो मुक्तिकिल्बिषः । नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम् ॥ ३ ॥<break />
इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे
वितस्तयाजकीये शृणुह्या सुषोमया ॥ ४ ॥<break /> ऋतं च सत्यं चाभीद्धात्तपसोऽ-
ध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ ५ ॥<break /> समुद्रादर्णवादधि</p>
<pb n="170" />
<p>संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ ६ ॥<break /> सूर्या-
चन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः
॥ ७ ॥<break /> यत्पृथिव्या रजः स्वमान्तरिक्षे विरोदसी । इमास्तदापो वरुणः पुना-
त्वघमर्षणः ॥ ८ ॥<break /> एष सर्वस्य भूतस्य भव्ये भुवनस्य गोप्ता । एष पुण्यकृतां
लोकानेष मृत्यो हिरण्मयः । द्यावापृथिव्योर्हिरण्मयं संशृतं सुवः । स नः
सुवः संशिशाधि ॥ ९ ॥<break /> आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्मा-
हमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ १० ॥<break />
अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामघमर्षणस्तस्मात्पापात्प्र-
मुच्यते ॥ ११ ॥<break /> रजो भूमिस्त्वमाँरोदयस्त्र प्रवदन्ति धीराः । पुनन्तु ऋषयः
पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः ॥ १२ ॥</p>
<p>इति श्रीमहानारायणोपनिषदि पञ्चमः खण्डः ॥ ५ ॥</p>
<p>div.n = 6</p>
<p>अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे
अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥ १ ॥<break /> जातवेदसे सुनवाम
सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं
दुरितात्यग्निः ॥ २ ॥<break /> तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु
जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः ॥ ३ ॥<break /> अग्ने स्वं पारया
नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा
तोकाय तनयाय शंयोः ॥ ४ ॥<break /> विश्वानि नो दुर्गहा जातवेदः सिन्धुर्न नावा
दुरितातिपर्षि । अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ ५ ॥<break />
पृतनाजितं सहमानमग्निमुग्रं हुवेम परमात्सधस्थात् । स नः पर्षदतिदुर्गाणि
विश्वा क्षामद्देवो अतिदुरितात्यग्निः ॥ ६ ॥<break /> प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च
होता नव्यश्च सत्सि । स्वाँ चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमायजस्व
॥ ७ ॥<break /> परस्ताद्यशो गुहासु मम सुपर्णपक्षाय धीमहि । शतबाहुना पुनरजायत
सुवो राजा सधस्था त्रीणि च ॥ ८ ॥</p>
<p>इति श्रीमहानारायणोपनिषदि षष्ठः खण्डः ॥ ६॥</p>
<p>div.n = 7</p>
<p>ॐ भूरग्नये पृथिव्यै स्वाहा । भुवो वायवेऽन्तरिक्षाय स्वाहा । सुवरारादित्या-
य दिवे स्वाहा । भूर्भुवः सुवश्चन्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा
पितृभ्यो भूर्भुवः सुवरग्निरोम् ॥ १ ॥<break /> भूरन्नमग्नये पृथिव्यै स्वाहा । भुवोऽन्नं
वायवेऽन्तरिक्षाय स्वाहा । सुवरन्नमादित्याय दिवे स्वाहा । भूर्भुवःसुवरन्नं च-
न्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःसुवरन्नमोम्</p>
<pb n="171" />
<p>9
ईशाद्युपनिषत्सु -
[ खण्ड:
॥ २ ॥ भूरभये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय
च महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवः सुव-
चन्द्रमसेच नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधा
पितृभ्यो भूर्भुवः सुवर्महरोम् ॥ ३ ॥ पाहि नो अग्न एनसे स्वाहा । पाहि नो
विश्ववेदसे स्वाहा ॥ यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा
॥ ४ ॥ यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यश्छन्दांस्याविवेश । सतां शक्यः
प्रोवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्राय ऋषिभ्यो नमो देवेभ्यः स्वधा पितृभ्यो
भूर्भुवः सुवश्छन्द ॐ ॥ ५ ॥ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धार-
यिता भूयासं कर्णयोः श्रुतं मा च्योढुं ममामुष्य ॐ ॥ ६ ॥
इति श्रीमहानारायणोपनिषदि सप्तमः खण्डः ॥ ७ ॥
ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दानं तपो यज्ञस्तपो भूर्भुवः
सुवदुपास्यैतत्तपः ॥ १ ॥ यथा वृक्षस्य संपुष्पितस्य दूरादुन्धो वात्येवं
पुण्यस्य कर्मणो दूराद्गन्धो वाति । यथासिधारां कर्तेऽवहितामवक्रामेद्यद्यु
वेह बेहवा विह्वलिष्यामि कर्तं पतिष्यामीत्येवमनृतादात्मानं जुगुप्सेत् ॥ २॥
अणोरणीयान्महतो महीयानामा गुहायां निहितोऽस्य जन्तोः । तमऋतुं पश्यति
वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ ३ ॥ सप्त प्राणाः प्रभवन्ति
तस्मात्सप्तार्चिषः समिधः सप्त जिह्वाः । सप्त इमे लोका येषु चरन्ति प्राणा
गुहाशया निहिताः सप्त सप्त ॥ ४ ॥ अतः समुद्रा गिरयश्च सर्वे अस्मात्स्यन्दन्ते
सिन्धवः सर्वरूपाः । अतश्च विश्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्त-
रात्मा ॥ ५ ॥
इति श्रीमहानारायणोपनिषद्यष्टमः खण्डः ॥ ८॥
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो
गृणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥ १ ॥ अजामेकां लोहित-
शुकृष्णां बह्रीं प्रजां जनयन्तीं सरूपाम् । भजो ह्येको जुत्रमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ २ ॥ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदि-
घदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमस दब्जा गोजा ऋतजा अद्विजा ऋतं
बृहत् ॥ ३ ॥ यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी ॥ ४ ॥ विध-
तर हवामहे वसोः कुविद्वनाति नः । सवितारं नृचक्षसम् ॥ ५ ॥ अद्या नो
देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वमियं सुव ॥ ६ ॥ विश्वानि
देव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसुव ॥ ७ ॥ मधु वाता ऋतायते</p>
<pb n="172" />
<p>खण्ड: ११]
महानारायणोपनिषत् ॥ १९ ॥</p>
<p>मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्ध्वोषधीः ॥ ८ ॥ मधुनक्तंमुतोष सो
मधुमत्पार्थिवं रजः । मधु चौरस्तु नः पिता ॥ ९ ॥ मधुमान्नो वनस्पतिर्म-
धुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ १० ॥ घृतं मिमिक्षे घृतमस्य
योनिर्वृते श्रितो घृतम्वस्य धाम । अनुष्वधमावह मादयंस्त्र स्वाहाकृतं वृषभ
वक्षि हव्यम् ॥ ११ ॥ समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानद ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥ १२ ॥ वयं नाम प्रत्र-
वामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छत्यमानं चतु:-
गोऽवमीद्वौर एतत् ॥ १३ ॥
इति श्रीमहानारायणोपनिषदि नवमः खण्डः ॥ ९ ॥
चत्वारि शृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बढी
वृषभो रोरवीति महो देवो मर्त्या आविवेश ॥ १ ॥ त्रिधा हितं पणिभिर्गुह्य-
मानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं</p>
<lg>
  <l>स्वधया निष्टतक्षुः ॥ २ ॥ यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः ।</l>
  <l>हिरण्यगर्भ पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्ति ॥ ३ ॥</l>
</lg>
<p>यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव
स्तब्धो दिवि तिष्ठत्येक स्तेनेदं पूर्ण पुरुषेण सर्वम् ॥ ४ ॥ न कर्मणा न प्रजया
धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते
यद्यतयो विशन्ति ॥ ५ ॥ वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः
शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥
दहं विपाप्मं वरं वेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तत्रापि दहं गगनं
विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् ॥ ७ ॥ यो वेदादौ स्वरः प्रोक्तो वेदा-
न्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ८ ॥ अजोऽन्यः
सुविभा नाभिः सर्वमस्यैव ॥ ९ ॥
इति श्रीमहानारायणोपनिषदि दशमः खण्डः ॥ १० ॥
सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं
प्रभुम् ॥ १ ॥ विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषस्त-
द्विश्वमुपजीवति ॥ २ ॥ पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् । नारायणं
महाज्ञेयं विश्वात्मानं परायणम् ॥ ३ ॥ नारायणः परं ब्रह्मतत्त्वं नारायणः परः ।
नारायणः परो ज्योतिरात्मा नारायणः परः ॥ ४ ॥ नारायणः परो ध्याता
ध्यानं नारायणः परः । परादपि परश्चासु तस्माद्यस्तु परात्परः ॥ ५ ॥ यच्च
किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः</p>
<pb n="173" />
<p>પટ
ईशाद्युपनिषत्सु -
[ खण्ड: १३.
स्थितः ॥ ६ ॥ अनन्तमव्ययं कवेिं समुद्रेतं विश्वशम्भुवम् । पद्मकोशप्रतीकारां
सुषिरं चाप्यधोमुखम् ॥ ७ ॥ अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति ।
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ ८ ॥ सततं तु शिराभिस्तु लम्बत्या-
कोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् ॥ ९ ॥ तस्य
मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः । सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमक्षयः कविः
॥ १० ॥ सन्तापयति स्त्रं देहमापादतलमस्तकम् । तस्य मध्ये वह्निशिखा
अणयोर्ध्वा व्यवस्थिता ॥ ११ ॥ नीलतोयदमध्यस्था विद्युल्लेखेव भासुरा ।
नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ॥ १२ ॥ तस्याः शिखाया मध्ये पर-
मात्मा व्यवस्थितः । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ १३ ॥
अथातो योग जिह्वा मे मधुवादिनी । अहमेव कालो नाहं कालस्य ॥
नारायणः स्थितो व्यवस्थितश्चत्वारि च ॥ १५ ॥
इति श्रीमहानारायणोपनिषदि एकादशः खण्डः ॥ ११ ॥
१४ ॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै
नमः ॥ १ ॥ आदित्यो वा एष एतन्मण्डलं तपति । तत्र ता ऋचस्तदृचां
मण्डलं स ऋचां लोकोऽथ य एष एतस्मिन्मण्डले अर्चिषि पुरुषस्तानि यजूंषि
स यजुषां मण्डलं स यजुषां लोकोऽथ य एष एतस्मिन्मण्डले अर्चिदप्यते
तानि सामानि स सान्नां मण्डलं स साम्नां लोकः सैषा त्रय्येव विद्या तपति
य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ॥ २ ॥ आदित्यो वै तेज भोजो बलं
यशश्चक्षुः
[: श्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाशः । प्राणी
लोकपालकः । किं तत्सत्यमन्नमायुरम्मृतो जीवो विश्वः । कतमः स्वयम्भूः प्रजा-
'पतिः संवत्सर इति । संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिः ।
ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टितां समान-
- लोकतामाप्नोति य एवं वेदेत्युपनिषत् ॥ ३ ॥
इति श्रीमहानारायणोपनिषदि द्वादशः खण्डः ॥ १२ ॥
घृणि सूर्य आदित्य ओम् ॥ अर्चयन्ति तपः सत्यं मधु क्षरन्ति तद्ब्रह्म तदाप
आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥ १ ॥ सर्वो वै रुद्रस्तस्मै रुद्राय
नमो अस्तु । पुरुषो वै रुद्रस्तन्महो नमो नमः । विश्वं भूतं भव्यं भुवनं चित्रं
बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ २ ॥
कद्रुद्राय प्रचेतसे मीह्ळुष्टमाय तव्यसे । वोचेम शन्तमं हृदे ॥ सर्वो ह्येष
रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ ३ ॥ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्य-
रूपाय हिरण्यपतये । अम्बिकापतये उमापतये नमो नमः ॥ ४ ॥ यस्य</p>
<pb n="174" />
<p>खण्ड: १५] .
महानारायणोपनिषत् ॥ १९ ॥</p>
<p>वैकंकत्यग्निहोत्रहवणी भवति प्रतिष्ठिताः प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठित्यै
॥ ५ ॥ कृणुष्व पाज इति पञ्च ॥ ६ ॥ अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽ-
सुरास्तेषां सर्वभूतानां माता मेदिनी पृथिवी महती मही सावित्री गायत्री
जगत्युर्वी पृथ्वी बहुला विश्वा भूता । कतमा का या सा सत्येत्यमृतेति
वसिष्ठः ॥ ७ ॥
इति श्रीमहानारायणोपनिषदि त्रयोदशः खण्डः ॥ १३॥
आपो वा इदं सर्वं विश्वा भूतान्यापः प्राणो वा आपः पशव आपो अन्न-
मापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दांस्यापो ज्योतींष्यापो
यजूष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवः सुवराप ओम् ॥ १ ॥ आपः
पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु
माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापो असतां च
प्रतिग्रहं स्वाहा ॥ २ ॥ अग्निश्व मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो
रक्षन्ताम् । यदह्ना पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सत्ये ज्योतिषि
जुहोमि स्वाहा ॥ ३ ॥ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो
रक्षन्ताम् । यद्वाच्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सूर्ये
ज्योतिषि जुहोमि स्वाहा ॥ ४ ॥ अहर्नो अत्यपीपरद्वात्रिर्नो अतिपारयद्वान्निर्नो
अत्यपीपरदहन अतिपारयत् ॥ ५ ॥
इति श्रीमहानारायणोपनिषदि चतुर्दशः खण्डः ॥ १४ ॥
आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां माता इदं
ब्रह्म जुषस्व नः ॥ ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम
नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरोम् ॥ गायत्री मावाहयामि
सावित्रीमावाहयामि सरस्वती मावाहयामि ॥ १ ॥ ओं भूः । ओं भुवः । ओं
स्वः । ओं महः । भ जनः । ओं तपः । ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । भोमापोज्योतीरसोऽमृतं
ब्रह्म भूर्भुवःस्वरोम् ॥ २ ॥ ओं भूर्भुवः सुवर्महर्जनस्तपः सत्यं मधु क्षरन्ति ।
तद्ब्रह्म । तदाप आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥ ३ ॥ ओं तद्ब्रह्म ।
भों तद्वायुः । ॐ तदात्मा । ओं तत्सर्वम् । ओं तत्पुरों नमः ॥ ४ ॥ उत्तमे
शिखरे देवी भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञाता गच्छ देवि यथासुखम्</p>
<pb n="175" />
<p>ईशाद्युपनिषत्सु -
[ खण्ड: १७
॥ ५ ॥ ॐ भन्तश्चरसि भूतेषु गुहायां विश्वमूर्तिषु । त्वं यज्ञस्त्वं विष्णुस्त्वं
वषट्कारस्त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः ॥ ६ ॥ अमृतोपस्तरणमसि ॥ ७ ॥
प्राणे निविष्टोऽमृतं जुहोमि प्राणाय स्वाहा । अपाने निविष्टोऽमृतं जुहोमि
अपानाय स्वाहा । व्याने निविष्टोऽमृतं जुहोमि व्यानाय स्वाहा । उदाने
निविष्टोऽमृतं जुहोमि उदानाय स्वाहा । समाने निविष्टोऽमृतं जुहोमि समा-
नाय स्वाहा ॥ ८ ॥ प्राणे निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय ।
प्राणाय स्वाहा ॥ अपाने निविष्टोऽमृतं जुहोमि । शिवोमा विशाप्रदाहाय । अपा-
नाय स्वाहा ॥ व्याने निविष्टोऽमृतं जुहोमि । शिवोमा विशाप्रदाहाय । व्यानाय
स्वाहा ॥ उदाने निविष्टोऽमृतं जुहोमि । शिवोमा विशाप्रदाहाय । उदानाय
स्वाहा ॥ समाने निविष्टोऽमृतं जुहोमि । शिवोमाविशाप्रदाहाय । समानाय :
स्वाहा ॥ ९ ॥ अमृतापिधानमसि । ब्रह्मणि स आत्मामृतत्वाय ॥ १० ॥
इति श्रीमहानारायणोपनिषदि पंचदशः खण्डः ॥ १५ ॥
श्रद्धायां प्राणे निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व ॥ अपाने निवि-
श्यामृतं हुतम् । अपानसन्नेनाप्यायस्व ॥ व्याने निविश्यामृतं हुतम् । व्यान-
मन्नेनाप्यायस्व ॥ उदाने निविश्यामृतं हुतम् । उदानमन्नेनाप्यायस्व ॥
समाने निविश्यामृतं हुतम् । समानमन्नेनाप्यायस्व ॥ ब्रह्मणि स आत्मामृत-
स्वाय ॥ १ ॥ प्रांणानां ग्रन्थिरसि रुद्रोमा विशान्तकस्तेनान्नेनाप्यायस्व ॥ २ ॥
अंगुष्ठमात्रः पुरुषो अंगुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति
विश्वभुक् ॥ ३ ॥ मेधा देवी जुषमाणा न भागाद्विश्वाची भद्रा सुमनस्यमाना ।
त्वया जुष्टा जुषमाणा दुरुक्तान् बृहद्वदेम विदथे सुवीराः ॥ स्वया जुष्ट ऋषि-
भवतु देवी स्वया ब्रह्मा गतश्रीस्त त्वया । त्वया जुष्टश्चित्रं विन्दते वसु सा
नो जुषस्व द्रविणेन मे ॥ ४ ॥ मेधां मे इन्द्रो ददातु मेधां देवी सरस्वती ।
मेघां मे अश्विनावुभावाधत्तां पुष्करस्रजौ ॥ ५ ॥ अप्सरासु च या मेधा गन्ध-
वैषु च यन्मनः । देवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् ॥ ६ ॥
आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा
पिन्वमाना सा मां मेधा सुप्रतीका जुषताम् ॥ ७ ॥
इति श्रीमहानारायणोपनिषदि षोडशः खण्डः ॥ १६ ॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भजस्त्र म
भवोद्भवाय नमः ॥ १ ॥ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय
नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ २ ॥ अघोरेभ्योऽथ घोरेभ्यो</p>
<pb n="176" />
<p>खण्ड: १८]
महानारायणोपनिषत् ॥ १९ ॥</p>
<p>घोर घोरतरेभ्यः । सर्वतः सर्व सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ३ ॥ तस्यु-
रूपाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ४ ॥ ईशानः
सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु
सदाशिवोम् ॥५॥ ब्रह्म मेतु माम् । मधु मेतु माम् । ब्रह्म मेऽव मधु मेतु माम् ।
यस्ते सोम प्रजावत्सोऽभि सो अहम् । दुःस्वतन्दुरुष्वहा । यांस्ते सोम प्राणां-
स्वाञ्जुहोमि ॥ त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते नन्ति ये
ब्राह्मणात्रिसुपर्ण पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॥ ॐ ॥ ६ ॥
ब्रह्ममेधया मधुमेधया ब्रह्म मेsव मधुमेधया ॥ अद्या नो देव सवितः प्रजाव-
त्सावीः सैौभगं । परा दुःष्वमियं सुव ॥ विश्वानि देव सवितर्दुरितानि परा-
सुव । यद्भद्रं तन्न आसुव ॥ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु चौरस्तु
नः पिता ॥ मधुमानो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥
• य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा एते नन्ति ये ब्राह्म-
त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॥ ॐ ॥ ७ ॥ ॐ
ब्रह्ममेधवा मधुमेधवा ब्रह्म मेऽव मधुमेधवा ॥ ब्रह्मा देवानां पदवीः कवीना-
मृषर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्र-
मत्येति रेभन् ॥ हंसः शुचिषद सुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषवर सहसयोम सदब्जा गोजा ऋतजा अद्विजा ऋतं बृहत् ॥ य इमं त्रिसु-
पर्णमयाचितं ब्राह्मणाय दद्यात् । वीरहत्यां वा एते घ्नन्ति ये ब्राह्मणा त्रिसुपण
पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॥ ॐ ॥ ८ ॥
इति श्रीमहानारायणोपनिषदि सप्तदशः खण्डः ॥ १७ ॥
देवकृतस्यै नसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि
स्वाहा । पितृकृतस्यैन सोऽवयजनमसि स्वाहा । आत्मकृतस्यै नसोऽवयजनमसि
स्वाहा । अन्यकृतस्यै नसोऽवयजनमसि स्वाहा । यदिवा च नक्तं चैनश्चक्रम
तस्यावयजनमसि स्वाहा । यद्विद्वांसश्चाविद्वांसश्चैनश्चक्रम तस्यावयजनमसि
स्वाहा । यच्चाहमेनो विद्वांसश्चाविद्वांसश्चैनश्चकुम तस्यावयजनमसि स्वाहा ।
यत्स्वपन्तश्च जाग्रतश्चैनश्चक्रम तस्यावयजनमसि स्वाहा । यत्सुषुप्तश्च जाग्रत-
श्चैनश्चक्रम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा ॥ १ ॥
aritsaria करोमि कामः करोति कामः कर्ता कामः कारयिता । एतते
काम कामाय स्वाहा ॥ २ ॥ मन्युरकार्षीन्नाहं करोमि मन्युः करोति मन्युः
कर्ता मन्युः कारयिता । एतत्ते मन्यो मन्यवे स्वाहा ॥ ३ ॥
इति श्रीमहानारायणोपनिषद्यष्टादशः खण्डः ॥ १८ ॥
अ. उ. ११</p>
<pb n="177" />
<note>१.६२</note>
<p>ईशाधुपनिषत्सु -
[ खण्डः २०
तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः । तिलाः पुनन्तु मे
पापं यत्किञ्चिद्दुरितं मयि स्वाहा । यन्मे मनसा वाचा कर्मणा वा दुष्कृतं क्रू-
तम् । दुःस्वप्नं दुर्जनस्पर्श तिलाः शान्ति कुर्वन्तु स्वाहा । चौरस्यानं नवश्राद्धं
ब्रह्महा गुरुतल्पगः । गोस्तेयं सुरापानं भ्रूणहत्यां तिलाः शमयन्तु स्वाहा ।
गणान्नं गणिकान्नं कुष्टान्नं पतितान्नं भुक्त्वा वृषलीभोजनम् । श्रद्धा प्रजा च
मेधा व तिलाः शान्तिं कुर्वन्तु स्वाहा । श्रीश्च पुष्टिश्वानृण्यं ब्रह्मण्यं बहुपुत्रि-
णम् । श्रद्धा प्रजा च मेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा ॥ १ ॥ अग्नये
स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । ध्रुवाय भूमाय स्वाहा । ध्रुवक्षितये स्वा-
हा । धूमाय स्वाहा । अच्युतक्षितये स्वाहा । अग्नये स्विष्टकृते स्वाहा । धर्माय
स्वाहा । अधर्माय स्वाहा । अभ्यः स्वाहा । ओषधिवनस्पतिभ्यः स्वाहा ।
रक्षोदेवजनेभ्यः स्वाहा । गृह्याभ्यः स्वाहा । भवसानेभ्यः स्वाहा । अव
सानपतिभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । कामाय स्वाहा । अन्तरिक्षाय
स्वाहा । यदेजति जगति यश्च वेष्टति नान्यो भागो यत्तान्मे स्वाहा । पृथिव्यै
स्वाहा । अन्तरिक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चन्द्रमसे
स्वाहा । नक्षत्रेभ्यः स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतये
स्वाहा । ब्रह्मणे स्वाहा । स्वधा पितृभ्यः । नमो रुद्राय पशुपतये स्वाहा ।
देवेभ्यः स्वाहा । पितृभ्यः स्वधा अस्तु । भूतेभ्यो नमः । मनुष्येभ्यो हन्ता ।
परमेष्ठिने स्वाहा ॥ २ ॥
इति श्रीमहानारायणोपनिषद्ये कोनविंशः खण्डः ॥ १९ ॥
ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्ठाः । तेभ्यो बलि
पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा ॥ १ ॥ सजोषा इन्द्र स-
गणो मरुद्भिः सोमं पिब वृत्रहन्छूर विद्वान् । जहि शत्रूंरपमृधो नुदस्वाथाभ-
यं कृणुहि विश्वतो नः ॥ २ ॥ त्रातारमिन्द्रमवितारमिन्द्र हवे हवे सुहवं
शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥ ३ ॥
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवन्छग्धि तव तन्न ऊतिभिर्वि-
द्विषो विमृधो जहि ॥ ४ ॥ स्वस्तिदा विशाम्पतिर्वृत्रहा विमृधो वशी । वृषे-
न्द्रः पुर एतु नः सोमपा अभयंकरः ॥ ५ ॥ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो
न सनिता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वागद्भिर्वियामहे ॥ ६ ॥ तर-
निर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ ७ ॥ उपयाम
गृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥ ८ ॥
विष्णुमुखा वै देवाइछन्दोभिरिमाल्लोकाननपजय्यमभ्यजयन् ॥ ९ ॥ श्री मे</p>
<pb n="178" />
<p>खण्डः २२ ]
महानारायणोपनिषत् ॥ १९ ॥
.
183
भजत । अलक्ष्मी मे नश्यत ॥ १० ॥ महाँ इन्द्रो वज्रबाहुः षोडशी शर्म
यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान्द्वेष्टि ॥ ११ ॥ शरीरं
यज्ञः शमलं कुसीदं तस्मिन्सीदतु योऽस्मान्द्वेष्टि ॥ १२ ॥ वरुणस्य स्कम्भनमसि
वरुणस्य स्कम्भसर्जनमसि । उन्मुक्तो वरुणस्य पाशः ॥ १३ ॥ त्रीणि पदा वि
'चक्रमे विष्णुर्गोपा अदाभ्यः । इतो धर्माणि धारयन् ॥ १४ ॥ प्राणापानव्या-
नोदानसमाना मे शुध्यन्ताम् । ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा
॥ १५ ॥ वाङ्मनश्चक्षुः श्रोत्र जिह्वाघ्राणरेतोबुद्ध्या कृतिसंकल्पा मे० ॥ १६ ॥
शिरःपाणिपादपार्श्वपृष्ठोदरजंघाशिनोपस्थपायवो मे० ॥ १७ ॥ श्वक्चर्म माँस-
रुधिरखायुमेदोस्थिमज्जा मे० ॥ १८ ॥ शब्दस्पर्शरसरूपगन्धा मे० ॥ १९ ॥
पृथिव्यप्तेजोवाय्वाकाशा मे० ॥२०॥ अन्नमयप्राणमयमनोमय विज्ञानमयानन्द-
मया मे० ॥ २१ ॥ विचिटि स्वाहा ॥ २२ ॥ खखोल्काय स्वाहा ॥ २३ ॥
उत्तिष्ठ पुरुषाहरितपिंगल लोहिताक्ष देहि देहि ददापयिता मे शुध्यन्ताम् ।
ज्योतिरहं० ॥ २४ ॥ शुक्रशोणितभोजांसि मे शुध्यन्ताम् । ज्योतिरहं विरजा
विपाप्मा भूयासं स्वाहा ॥ २५ ॥
इति श्रीमहानारायणोपनिषदि विंशः खण्डः ॥ २० ॥
ॐ स्वाहा ॥ १ ॥ सत्यं परं परं सत्यं सत्येन न सुवर्गांल्लोकाच्चयवन्ते कदा-
चनसतां हि सत्यं तस्मात्सत्ये रमन्ते ॥ तप इति तपो नानशनात्परं यद्धि परं
तपस्तद्दुर्धर्षं तद्दुराधर्षं तस्मात्तपसि रमन्ते ॥ दम इति नियतं ब्रह्मचारिण-
स्तस्माद्दमे रमन्ते ॥ शम इत्यरण्ये मुनयस्तस्माच्छ मे रमन्ते ॥ दानमिति
सर्वाणि भूतानि प्रशंसन्ति दानान्नातिदुष्करं तस्माद्दाने रमन्ते ॥ धर्म इति
धर्मेण सर्वमिदं परिगृहीतं धर्मान्नातिदुश्वरं तस्माद्धर्मे रमन्ते ॥ प्रजननमिति
भूयांसस्तस्माद्भूयिष्ठाः प्रजायन्ते तस्माद्भूयिष्ठाः । प्रजनने रमन्ते ॥ अग्नेय
इत्याहुस्तस्मादग्नय भाघातव्याः ॥ अग्निहोत्रमित्याहुस्तस्मादग्निहोत्रे रमन्ते ॥
यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गतास्तस्माद्यज्ञे रमन्ते ॥
मानसमिति विद्वांसस्तस्माद्विद्वांस एव मानसे रमन्ते ॥ न्यास इति ब्रह्मा
ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपांसि न्यास
एवात्यरेचयत् । य एवं वेदेत्युपनिषत् ॥ २ ॥
.
इति श्रीमहानारायणोपनिषदि एकविंशः खण्डः ॥ २१ ॥
प्राजापत्यो हारुणिः सौपर्णेयः प्रजापत्तिं पितरमुपससार किं भगवन्तः परमं
वदन्तीति । तस्मै प्रोवाच सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं
वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात्सत्यं परमं वदन्ति । तपसा देवा</p>
<pb n="179" />
<p>૨૩
ईशाधुपनिषत्सु -
[ खण्ड: २३
देवताम आर्यस्तपसऋषयः सुवरन्वविन्दंस्तपसा सपखान्प्रणुदामारातीस्तपसि
सर्व प्रतिष्ठितं तस्मात्तपः परमं वदन्ति । दमेन दान्ताः किल्बिषमवधून्वन्ति
दमेन ब्रह्मचारिणः सुवरगच्छन्दमो भूतानां दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्मा-
इमः परमं वदन्ति । शमेन शान्ताः शिवमाचरन्ति शमेन नाकं मुनयोऽन्ववि-
न्दन् । शमो भूतानां दुराधर्ष शमे सर्वं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति ।
दानं यज्ञानां वरूथं दक्षिणा लोके दातारं सर्वभूतान्युपजीवन्ति दानेनारातीर-
प्रादन्त दानेन द्विषन्तो मित्रा भवन्ति दाने सर्व प्रतिष्ठितं तस्माद्दानं परमं
वदन्ति । धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण
पापमपनुदति धर्मे सर्व प्रतिष्ठितं तस्माद्धर्म परमं वदन्ति । प्रजननं वै प्रतिष्ठा
-लोके साधुप्रजावांस्तन्तुं तन्वानः पितॄणामनृणो भवति तदेवं तस्यानृणं तस्मा-
प्रजननं परमं वदन्ति । अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्यमृक्
पृथिवी रथन्तरमन्वाहार्यपचनो यजुरन्तरिक्षं वामदेव्यमाहवनीयः साम
सुवर्गों लोको बृहत्तस्मादनीन् परमं वदन्ति । अग्निहोत्रं सायम्प्रातर्गृहाणां
निष्कृतिः स्विष्टं सुहुतं यज्ञऋतूनां प्रायणं सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्नि-
होत्रं परमं वदन्ति ॥ १ ॥
इति श्रीमहानारायणोपनिषदि द्वाविंशः खण्डः ॥ २२ ॥
यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गता यज्ञेनासुरानपानुदन्त
यज्ञेन हि द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति ।
मानसं वै प्राजापत्यं पवित्रं मानसेन मनसा साधु पश्यति मानसा ऋषयः प्रजा
असृजन्त मानसे सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति । न्यास इत्याहुर्म-
नीषिणो ब्रह्माणम् । ब्रह्मा विश्वः कतमः । स्वयम्भूः प्रजापतिः संवत्सर इति ।
संवत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स एव परमेष्ठी ब्रह्मात्मा । या-
भिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतयः
प्रजायन्त भोषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा
श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः शान्त्या
चित्तं वित्तेन स्मृतिः स्मृत्या स्मारं स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयति ।
तस्मादनं ददन्त्सर्वाण्येतानि ददात्यन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो
मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः । स वा एष पुरुषः पञ्चधा
पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्वावान्तरदिशाश्च
सर्वैः सर्वमिदं जगत् ॥ १ ॥
इति श्रीमहानारायणोपनिषदि त्रयोविंशः खण्डः ॥ २३ ॥</p>
<pb n="180" />
<p>परमहंसोपनिषत् ॥ २० ॥</p>
<p>सभूतं स च भव्यं जिज्ञासासक्तिपूरितं जारयिष्ठाः । श्रद्धासत्यो महवां-
तपसोपरिष्टाज्ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् ।
तस्माभ्यासमेषां तपसामतिरिक्तमाहुः ॥ १ ॥ वसुरण्यो विभूरसि प्राणे स्वम-
सिन्धाता ब्रह्मन् त्वमसि विश्वसृक् तेजोदास्त्वमस्यझेर्वचदास्त्वमसि सूर्य-
स्य न्नोदास्त्वमसि चन्द्रमसः । उपयाम गृहीतोऽसि । ब्रह्मणे वा महस
ओमित्यात्मानं युञ्जीत । एतद्वै महोपनिषदं देवानां गुह्यम् । य एवं वेद
ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानमित्युपनिषत् ॥ २ ॥
:
इति श्रीमहानारायणोपनिषदि चतुर्विंशः खण्डः ॥ २४ ॥
तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिष्म उरो वेदिलोमानि
बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शमयिता
दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमनीत् । यावद्धि-
यते सा दीक्षा यदश्नाति तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो
यत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवयों यन्मुखं तदाहवनीयो याद्याहुती-
राहुती यदस्य विज्ञानं तज्जुहोति यत्सायम्प्रातरत्ति तत्समिधो यत्सायम्प्रातर्म-
ध्यन्दिनं च तानि सवनानि । ये अहोरात्रे ते दर्शपूर्णमासौ ये अर्धमासाश्च
मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराच
तेऽहर्गणाः सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथः । एतद्वै जरा मर्यमग्नि-
होत्रं स य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य
सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः
सायुज्यं गच्छति । एतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति
तस्माद्ब्राह्मणो महिमानमाप्नोति तस्माद्राह्मणो महिमानमामोती व्युपनिषत् ॥ १ ॥
इति श्रीमहानारायणोपनिषदि पञ्चविंशः खण्डः ॥ २५ ॥</p>
<lg>
  <l>इत्यथर्वणीया महानारायणोपनिषत्समाप्ता ।</l>
</lg>
<lg>
  <l>परमहंसोपनिषत् ॥ २० ॥</l>
  <l>परमहंसोपनिषद्वेद्यापार सुखाकृति ।</l>
  <l>पादश्रीरामतत्त्वं स्वमात्रमिति चिन्तये ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ योगिनां परमहंसानां कोऽयं मार्गस्तेषां का स्थितिरिति
नारदो भगवन्तमुपगत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके</p>
<pb n="181" />
<p>ईशाशुपनिषत्सु -
दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः स एव वेद-
पुरुष इति विदुषो मन्यन्ते महापुरुषो यचित्तं तत्सर्वदा मय्येवावतिष्ठते तस्मा-
दहं च तस्मिन्नेवावस्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वादी खायज्ञोपवीते
स्वाध्यायं च सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं
च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् । तच्च न मुख्योऽस्ति
कोऽयं मुख्य इति चेदयं मुख्यः । न दण्डं न शिखां न यज्ञोपवीतं
न चाच्छादनं चरति परमहंसो न शीतं न चोष्णं न सुखं न दुःखं
न मानावमाने च षडूर्मिवर्ज निन्दा गर्वमत्सरदम्भ दर्पेच्छाद्वेषसुखदुःख-
काम क्रोध लोभमोहहर्षां सूयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव दृश्यते
यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन नित्यनिवृत्तस्त-
नित्यबोधस्तत्स्वयमेवावस्थितिस्तं शान्तमचलमद्वयानन्दविज्ञानधन एवास्मि ।
तदेव मम परमधामं तदेव शिखा च तदेवोपवीतं च । परमात्मात्मनोरेकत्व-
ज्ञानेन तयोर्भेद एव विभग्नः सा संध्या ॥ सर्वान्कामान्परित्यज्य भद्वैते परम-
स्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ॥ काष्ठदण्डो धृतो येन
सर्वाशी ज्ञानवर्जितः । ( तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः । भिक्षा-
मात्रेण यो जीवेत्स पापी यतिवृत्तिहा । ) स याति नरकान्घोरान्महारौरव-
संज्ञकान् । इदमन्तरं ज्ञात्वा स परमहंस आशाम्बरो ननमस्कारो नस्वधा-
कारो न निन्दा न स्तुतिर्याद्दच्छिको भवेद्भिक्षुः । नावाहनं न विसर्जनं
न मन्त्रं न ध्यानं नोपासनं च न लक्ष्यं नालक्ष्यं न पृथङ्नापृथगहं न न त्वं
न सर्व चानिकेत स्थितिरेव भिक्षुः सैौवर्णादीनां नैव परिग्रहेन्न लोकं नाव-
लोकं च चाबाधकः क इति चेद्बाधकोऽस्त्येव यस्माद्विक्षुर्हिरण्यं रसेन दृष्टं
च स ब्रह्महा भवेद्यस्माद्विक्षुर्हिरण्यं रसेन स्पृष्टं चेत्स पौल्कसो भवेद्यस्मा-
द्विक्षुर्हिरण्यं रसेन ग्राह्यं च स आत्महा भवेत्तस्माद्विक्षुर्हिरण्यं रसेन न दृष्टं
च स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता व्यावर्तन्ते दुःखे नोद्विग्नः
सुखे न स्पृहा त्यागो रागे सर्वत्र शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च ।
सर्वेषामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते । यत्पूर्णानन्दैकबोध-
स्तवाहमस्मीति कृतकृत्यो भवति कृतकृत्यो भवति ॥
ॐ पूर्णमद इति शान्तिः ॥
इति परमहंसोपनिषत्समाप्ता ॥
१ क्वचिदधिकोऽयं पाठः .</p>
<pb n="182" />
<p>ब्रह्मोपनिषत् ॥ २१ ॥</p>
<lg>
  <l>ब्रह्मकैवल्यजाबालः श्वेताश्वो हंस आरुणिः ।</l>
  <l>गर्भो नारायणो हंसो बिन्दुनादशिरः शिखा ॥ १ ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् ।
दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति, कथं सृजन्ति, कस्यैष महिमा बभूव यो
ह्येष महिमा बभूव क एषः । तस्मै स होवाच ब्रह्मविद्यां वरिष्ठाम् । प्राणो ह्येष
आत्मा, आत्मनो महिमा बभूव । देवानामायुः, स देवानां निधनमनिधनं दिव्ये
ब्रह्मपुरे चिरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति, मधुकरराजानं
माक्षिकवत् । यथा माक्षीकैकेन तन्तुना जालं विक्षिपति तेनापकर्षति तथैवैष
प्राणो यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा नाड्यः सुष्वपे श्येना-
काशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते । यथैवैष देव-
दत्तो यष्ट्यापि ताड्यमानो न यत्येवमिष्टापूर्तैः शुभाशुभैर्न लिप्यते । यथा
कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति ।
वेद एव परं ज्योतिः । ज्योतिष्कामो ज्योतिरानन्दयते भूयस्तेनैव स्वप्नाय
गच्छति जलौकावत् । यथा जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संघय ।
यत्परं नापरं त्यजति स जाग्रदुभिधीयते । यथैवैष कपालाष्टकं संनयति,
तमेव स्तन इव लम्बते वेददेवयोनिः । यत्र जाग्रति शुभाशुभं निरुक्तमस्य
देवस्य स संप्रसारोऽन्तर्यामी खगः कर्कटकः पुष्करः पुरुषः प्राणो हिंसा परा-
परं ब्रह्म, आत्मा देवता वेदयति । य एवं वेद स परं ब्रह्म धाम क्षेत्रज्ञमुपैति ।
अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति । नाभिर्हृदयं कण्ठं मूर्धेति ।
तत्र चतुष्पादं ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति । जागरिते
ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरम् । स आदित्यश्च विष्णुश्चेश्वरश्च
स पुरुषः स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषां मध्ये यत्परं ब्रह्म
विभाति । स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितम् । न तत्र लोका
नलोका वेदा नवेदा देवा नदेवा यज्ञा नयज्ञा माता नमाता पिता नपिता
स्नुषा नस्नुषा चाण्डालो नचाण्डालः पौल्कसो नपौल्कसः श्रमणो नश्रमणः
पशवो नपशवस्तापसो नतापस इत्येकमेव परं ब्रह्म विभाति । हृद्याकाशे
तद्विज्ञानमाकाशं तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति विच-
रति यस्मिन्निदं सर्वमोतं प्रोतं सं विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः</p>
<pb n="183" />
<p>पितर ईशते प्रतिबुद्धः सर्वविदिति । हृदिस्था देवताः सर्वा हृदि प्राणाः
प्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् । हृदि चैतन्ये
तिष्ठति । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं
प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । सशिखं वपनं कृत्वा बहिःसूत्रं
त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् । सूचनात्सूत्रमित्याहुः सूत्रं
नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः । येन सर्वमिदं प्रोतं
सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्वदर्शिवान् । बहिःसूत्रं
त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ।
धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञो-
पवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ज्ञानशिखिनो
ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वानितरे
केशधारिणः ॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैः संधार्यमिदं सूत्रं
क्रिया तद्धि वै स्मृतम् ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ इदं यज्ञोपवीतं तु पवित्रं यत्पर-
यणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥ एको देवः सर्व-
भूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी
चेता केवलो निर्गुणश्च ॥ एको मनीषी निष्क्रियाणां बहूनामेकं रूपं बहुधा यः
करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शांतिः शाश्वती नेतरेषाम् ॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्नि-
गूढवत् ॥ तिलेषु तैलं दधनीव सर्पिरापः स्त्रोतःस्त्ररणीषु चाग्निः । एव-
मात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ ऊर्णनाभिर्यथा तन्तू-
न्सृजते संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ पद्मकोश-
प्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥
नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिशेत् । सुषुसं हृदयस्थं तु तुरीयं मूर्ध्नि
संस्थितम् ॥ यदात्मा प्रज्ञयात्मानं संधत्ते परमात्मनि । तेन संध्या ध्यानमेव
तस्मात्संध्याभिवन्दनम् । निरोदका ध्यानसंध्या वाक्कायक्लेशवर्जिता । संधिनी
सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥ यतो वाचो निवर्तन्ते अप्राप्य
मनसा सह । आनन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥ सर्वव्यापिनमा-
त्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् । सर्वा-
त्मैकत्वरूपेण तद्ब्रह्मोपनिषत्परमिति ॥ सह नाववत्विति शान्तिः ॥</p>
<p>इति ब्रह्मोपनिषत्समाप्ता ॥</p>
<pb n="184" />
<p>अमृतनादोपनिषत् ॥ २२ ॥
अमृतनादोपनिषत् ॥ २२ ॥</p>
<lg>
  <l>अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् ।</l>
  <l>त्रैपदानन्दसाम्राज्यं हृदि मे भातु संततम् ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥ शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः
पुनः । परमं ब्रह्मविद्याया उल्कावन्नान्यथोत्सृजेत् ॥ १ ॥ ओंकारं रथमारुह्य
विष्णुं कृत्वाथ सारथिम् । ब्रह्मलोकपदान्वेषी रुद्वाराधनतत्परः ॥ २ ॥ ताव-
इथेन गन्तव्यं यावद्रथपथि स्थितः । स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति
॥ ३ ॥ मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् । अस्वरेण मकारेण पर्द
सूक्ष्मं च गच्छति ॥ ४ ॥ शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् । चिन्त-
येदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ ५ ॥ प्रत्याहारस्तथा ध्यानं प्राणा-
यामोsथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ६ ॥ यथा
पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्र-
हात् ॥ ७ ॥ प्राणायामैर्दहे दोषान्धारणाभिश्च किल्बिषम् । ( प्रत्याहारेण संस-
गन्ध्यानेनानीश्वरान्गुणान् । ) ॥ ८ ॥ किल्बिषं हि क्षयं नीत्वा रुचिरं चैव
चिन्तयेत् ॥ ९ ॥ रुचिरे रेचकं चैव वायोराकर्षणं तथा । प्राणायामा-
त्रयः प्रोक्ता रेचकपूरककुम्भकाः ॥ १० ॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा
सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ११ ॥ उत्क्षिप्य वायु-
माकाशं शून्यं कृत्वा निरात्मकम् । शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम्
॥ १२ ॥ नोच्छूसेन्नानुच्छ्वसेन्नैव गात्राणि च न चालयेत् । एवं वायुर्ग्रहीतव्यः
पूरकस्येति लक्षणम् ॥ १३ ॥ वक्त्रेणोत्पलनालेन वायुं कृत्वा निराश्रयम् ।
एवं वायुर्ग्रहीतव्यः कुम्भकस्येति लक्षणम् ॥ १४ ॥ अन्धवत्पश्य रूपाणि शृणु
शब्दमकर्णवत् । काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ १५ ॥ मनः
संकल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् । धारयित्वा तथात्मानं धारणा
परिकीर्तिता ॥ १६ ॥ आगमस्याविरोधेन ऊहनं तर्क उच्यते । यं लब्ध्वाप्यव -
मन्येत स समाधिः प्रकीर्तितः ॥ १७ ॥ भूमिभागे समे रम्ये सर्वदोषवि -
वर्जिते । कृत्वा मनोमयीं रक्षां जहवा चैवाथ मण्डले ॥ १८ ॥ पद्मकं
स्वस्तिकं वापि भद्रासनमथापि वा । बद्धा योगासनं सम्यगुत्तराभिमुखस्थितः
॥ १९ ॥ नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् । आकृष्य धारयेदमिं
शब्दमेवाभिचिन्तयेत् ॥ २० ॥ ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।
दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥ २१ ॥ पश्चाध्यायेत पूर्वोक्तं क्रमशो
मन्त्र निर्दिशेत् । स्थूलातिस्थूलमात्रायां नाति मूर्ध्वमतिक्रमः ॥ २२ ॥ तिर्यगूर्ध्व-</p>
<pb n="185" />
<p>ईशायुपनिषत्सु -
Half विनिर्धार्य महामतिः । स्थिरः स्थायी विनिष्कम्पं तदा योगं सम-
भ्यसेत् ॥ २३ ॥ ताला मात्रा तथा योगो धारणा योजनं तथा । द्वादशमात्रो
योगस्तु कालतो नियतः स्मृतः ॥ २४ ॥ अघोषमव्यञ्जनमस्वरं च अकण्ठ-
ताल्वोष्ठमनासिकं च । अरेफजातमुभयोष्टवर्जितं यदक्षरं न क्षरते कदा.
चित् ॥ २५ ॥ येनासौ पश्यते मार्ग प्राणस्तेन हि गच्छति । अतस्समभ्यसे-
नित्यं सन्मार्गगमनाय वै ॥ २६ ॥ हृद्वारं वायुद्वारं च ऊर्ध्वद्वारमतः परम् ।
मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ २७ ॥ भयं क्रोधमथालस्यमति-
स्वमातिजागरम् । अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ॥ २८ ॥ अनेन
विधिना सम्यङ्गित्यमभ्यसतः क्रमात् । स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः
॥ २९ ॥ चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः । इच्छयाप्नोति कैवल्यं
षष्ठे मासि न संशयः ॥ ३० ॥ पार्थिवः पञ्चमात्राणि चतुर्मात्राणि वारुणः ।
आग्नेयस्तु त्रिमात्राणि वायव्यस्तु द्विमात्रकः ॥ ३१ ॥ एकमात्रस्तथाकाशो
ह्यर्धमात्रं तु चिन्तयेत् । सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥ ३२ ॥
freerage: प्राणो यत्र प्राणः प्रतिष्ठितः । एष प्राण इति ख्यातो बाह्य-
प्राणः स गोचरः ॥ ३३ ॥ अशीतिः ष शतं चैव सहस्राणि त्रयोदश । लक्ष-
टूष
चैकोsपि निःश्वास अहोरात्रप्रमाणतः ॥ ३४ ॥ प्राण आाद्यो हृदि स्थाने अपा-
नस्तु पुनर्गुदे । समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ ३५ ॥ व्यानः
सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति । अथ वर्णास्तु पञ्चानां प्राणादीनामनु-
क्रमात् ॥ ३६ ॥ रक्तवर्णमणिप्रख्यः प्राणो वायुः प्रकीर्तितः । अपानस्तस्य मध्ये
तु इन्द्रगोपसमप्रभः ॥ ३७ ॥ समानस्तस्य मध्ये तु गोक्षीरधवलप्रभः ।
अपाण्डुर उदानश्च व्यानो ह्यर्चिः समप्रभः ॥ ३८ ॥ यस्यैष मण्डलं भवा
मारुतो याति मूर्धनि । यत्र तत्र त्रियेद्वापि न स भूयोऽभिजायते न स भूयो-
sभिजायत इत्युपनिषत् ॥ ३९ ॥ ॐ सह नाववत्विति शान्तिः ॥
इत्यमृतनादोपनिषत्समाप्ता ॥</p>
<lg>
  <l>अथर्वशिरउपनिषत् ॥ २३ ॥</l>
  <l>अथर्वशिरसामर्थमनर्थ प्रोतवाचकम् ।</l>
  <l>सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>ॐ देवा ह वै स्वर्ग लोकमायँस्ते रुद्रमपृच्छन्को भवानिति । सोऽब्रवीद-</p>
<pb n="186" />
<p>अथर्वशिर उपनिषत् ॥ २३ ॥
'१७१
हमेकः प्रथममासीद्वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त
इंति । सोऽन्तरादन्तरं प्राविशत् दिशो व्यन्तरं प्राविशत् सोऽहं नित्या-
नित्यो व्यक्ताव्यक्तो ब्रह्माहं ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदचोऽहं अध-
श्रो चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं
त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं
गौरहं गौर्यमृहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठो-
ऽहमापोऽहं तेजोऽहं गुह्योऽहमरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रम-
हममं च मध्यं च बहिश्च पुरस्ताज्योतिरित्यहमेव सर्वे व्योममेव स सर्वे
समा यो मां वेद स देवान्वेद स सर्वांश्च वेदान्साङ्गानपि ब्रह्म ब्राह्मणैश्च
गां गोभिर्ब्राह्मणान्ब्राह्मण्येन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं
तर्पयामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् ।
ते देवा रुद्रमध्याशंस्ते देवा ऊर्ध्वबाहवो रुद्रं स्तुन्वन्ति ॥ १ ॥ ॐ यो वै
रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः ॥ १ ॥ यो वै रुद्रः स भगवान्
यश्च विष्णुस्तस्मै वै नमो नमः ॥ २ ॥ यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै
वै नमो नमः ॥ ३ ॥ यो वै रुद्रः स भगवान्यश्वेन्द्रस्तस्मै वै नमो नमः
॥ ४ ॥ यो वै रुद्रः स भगवान्यश्चाभिस्तस्मै वै नमो नमः ॥ ५ ॥ यो वै रुद्रः
स भगवान्यश्च वायुस्तस्मै वै नमो नमः ॥ ६ ॥ यो वै रुद्रः स भगवान्यश्च
सूर्यस्तस्मै वै नमो नमः ॥ ७ ॥ यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमो
नमः ॥ ८ ॥ यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमो नमः ॥ ९ ॥
यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमो नमः ॥ १० ॥ यो वै
रुद्रः स भगवान्या च भूस्तस्मै वै नमो नमः ॥ ११ ॥ यो वै रुद्रः स भगवान्या
च भुवस्तस्मै वै नमो नमः ॥ १२ ॥ यो वै रुद्रः स भगवान्या च स्वस्तस्मै
'वै नमो नमः ॥ १३ ॥ यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमो नमः
॥ १४ ॥ यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमो नमः ॥ १५ ॥
यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमो नमः ॥ १६ ॥ यो वै रुद्रः
स भगवान्या च द्यौस्तस्मै वै नमो नमः ॥ १७ ॥ यो वै रुद्रः स भगवान्या-
चापस्तस्मै वै नमो नमः ॥ १८ ॥ यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमो
नमः ॥ १९ ॥ यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमो नमः ॥ २० ॥
यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमो नमः ॥ २१ ॥ यो वै
ऋद्रः स भगवान्यश्च यमस्तस्मै वै नमो नमः ॥ २२ ॥ यो वै रुद्रः स</p>
<pb n="187" />
<p>ईशाद्युपनिषत्सु -
भगवान्यश्च मृत्युस्तस्मै वै नमो नमः ॥ २३ ॥ यो वै रुद्रः स भगवा-
न्यचामृतं तस्मै वै नमो नमः ॥ २४ ॥ यो वै रुद्रः स भगवान्यच्च विश्वं
तस्मै वै नमो नमः ॥ २५ ॥ यो वै रुद्रः स भगवान्यश्च स्थूलं तस्मै वै
नमो नमः ॥ २६ ॥ यो वै रुद्रः स भगवान्यश्च सूक्ष्मं तस्मै वै नमो
नमः ॥ २७ ॥ यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै वै नमो नमः
॥ २८ ॥ यो वै रुद्रः स भगवान्यच कृष्णं तस्मै वै नमो नमः ॥ २९ ॥
यो वै रुद्रः स भगवान्यच्च कृत्तं तस्मै वै नमो नमः ॥ ३० ॥ यो वै रुद्रः
स भगवान्यच्च सत्यं तस्मै वै नमो नमः ॥ ३१ ॥ यो वै रुद्रः स भगवान्यच्च
सर्वं तस्मै वै नमो नमः ॥ ३२ ॥ २ ॥ भूस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्ष
विश्वरूपोऽसि ब्रह्मैकत्वं द्विधा त्रिधा बद्धस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं
दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च स्वम् । अ-
पाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किमस्मान्कृणव-
दरातिः किमु धूर्तिरमृतं मर्त्यं च । सोमसूर्यः पुरस्तात् सूक्ष्मः पुरुषः । सर्वं
जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावं
भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महा-
ग्रासाय वै नमो नमः । हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः ।
हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः । तस्योत्तरतः शिरो
दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः
स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तच्छु
यच्छुक्कं तत्सूक्ष्मं यत्सूक्ष्मं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः यं
एकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान् महेश्वरः ॥ ३ ॥
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति
तस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुञ्चार्यमाण एक ऋग्यजुः-
सामाथर्वाङ्गिरसो ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते
प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव यथा पलल-
पिण्डमिव - शान्त॒रूपमतप्रोतमनुप्राप्तो व्यतिसृष्टश्च तस्मादुच्यते सर्वव्यापी ।
अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो
नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाणः
एवं गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते
तारम् । अथ कस्मादुच्यते शुक्रं यस्मादुच्चार्यमाण एव कुन्दते क्लामयते
च तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण</p>
<pb n="188" />
<p>अथर्वशिर उपनिषत् ॥ २३ ॥</p>
<p>एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति
तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एवा-
व्यक्ते महति तमसि द्योतयते तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते
परं ब्रह्म यस्मात्परमपरं परायणं च बृहद्वृहत्या बृहयति तस्मादुच्यते परं ब्रह्म ।
अथ कस्मादुच्यते एको यः सर्वान्प्राणान्संभक्ष्य संभक्षणेनाजः संसृजति
विसृजति च । तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः
प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह संगतिः । साकं स एको भूतश्च-
रति प्रजानंस्तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रः यस्मादषिभिर्ना-
म्यैर्भक्तैर्हुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानः
यः सर्वान्देवानीशते ईशनीभिर्जननीभिश्च शक्तिभिः । अभि त्वा शूर नोनुमो
दुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्डशमीशानमिन्द्र तस्थुष इति
तस्मादुच्यत ईशानः । अथ- कस्मादुच्यते भगवान्महेश्वरः यस्माद्भाज्ञानेन
भजत्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान्भावान्परित्यज्यात्म-
ज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतदुद्र-
चरितम् ॥ ४ ॥ एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे
अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ।
rat रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः । प्रत्यङ्जना-
स्तिष्ठति संकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनि -
मधितिष्ठत्येको येनेदं संचरति विचरति सर्वम् । तमीशानं वरदं देवमीड्यं
निचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या संचितं
स्थापयित्वा तु रुद्रे रुद्रमेकस्वमाहुः । शाश्वतं वै पुराणमिषमूर्जेन पशवोऽनु-
नामयन्तं मृत्युपाशान् । तदेतेनास्मन्नेतेनार्धचतुर्थमात्रेण शान्ति संसृजति
पाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां
ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा
वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा
ईशान देवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या
सार्ध चतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा
वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पद्मनामकं तदेवमुपासीत मुनयोऽवाग्व-
* दन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो
येन ऋषयः परमपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जा-
तरूपं वरेण्यम् । तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् ।
यस्मिन्क्रोधं या च तृष्णा क्षमां च तृष्णां हित्वा हेतुजालस्य मूलम् । बुद्ध्या</p>
<pb n="189" />
<p>ईशाधुपनिषत्सु -
संचितं स्थापयित्वा तु रुद्रे रुद्रमेकस्वमाहुः । रुद्रो हि शाश्वतेन वै पुराणेनेष-
मूर्जेण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थल-
मिति भस्म व्योमेति भस्म सर्वश्र्ह वा इदं भस्म मन एतानि चक्षूंषि यस्मा-
तमिदं पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाश-
विमोक्षणाय ॥ ५ ॥ योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीविरुध आविवेश । य
इमा विश्वा भुवनानि चालुपे तस्मै रुद्राय नमोऽस्त्वग्नये । यो रुद्रोऽग्नौ यो
रुद्र ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चालुपे तौ
रुद्राय वै नमो नमः । यो रुद्रोऽप्सु यो रुद्र भोषधीषु यो रुद्रो वनस्पतिषु ।
येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी द्विधा त्रिधर्ता धारिता नागा येऽन्तरिक्षे
तस्मै रुद्राय वै नमो नमः । मूर्धानमस्य संसीव्याथर्वा हृदयं च यत् ।
मार्ध्वः यत्पवमानोऽधि शीर्षतः । तद्वा अथर्वणः शिरो देवकोशः
समुब्जितः । तत्प्राणोऽभिरक्षति शिरोऽन्नमथो मनः । न च दिवो देवजनेन
गुप्ता नवान्तरिक्षाणि नव भूम इमाः । यस्मिन्निदं सर्वमोतप्रोतं यस्मादन्यन्न
परं किंचनास्ति । न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं
यदासीत् । सहस्रपादेकमूर्धा व्याप्तं स एवेदमावरीवर्ति भूतम् । अक्षरात्सं-
जायते कालः कालाव्यापक उच्यते । व्यापको हि भगवान्द्रो भोगायमानो
यदा शेते रुद्रस्तदा संहार्यते प्रजाः । उच्छ्रसिते तमो भवति तमस आपो-
saङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनो भवति, फेना-
दण्डं भवत्यण्डाद्ब्रह्मा भवति, ब्रह्मणो वायुः वायोरोंकार ॐकारात्सावित्री
सावित्र्या गायत्री गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधु
क्षरन्ति यद्ध्रुवम् । एतद्धि परमं तप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः
स्वरों नम इति ॥ ६ ॥ य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो
भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति
स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो
भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु
स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि
भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवा-
नामयुतं जलं भवति । आ चक्षुषः पङ्क्तिं पुनाति । आ सप्तमात्पुरुषयुगान्पु-
. नातीत्याह भगवानथर्वशिरः सकृजहवैव शुचिः स पूतः कर्मण्यो भवति ।
द्वितीयं जवा गणाधिपत्यमवाप्नोति । तृतीयं जश्चैवमेवानुप्रविशत्यों सत्यमों
सत्यम् ॥ ७ ॥ ॐ सह नाववत्विति शान्तिः ॥
इत्यथर्ववेदेऽथर्वशिर उपनिषत्समाप्ता ॥</p>
<pb n="190" />
<p>अथर्वशिखोपनिषत् ॥ २४ ॥</p>
<lg>
  <l>अथर्वशिखोपनिषत् ॥ २४ ॥</l>
  <l>ओंकारार्थतया भातं तुर्योकाराप्रभासुरम् ।</l>
  <l>तुर्यतुर्य त्रिपाद्वामं स्वमात्रं कलयेऽन्वहम् ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>ॐ पिप्पलादोऽङ्गिराः सनत्कुमारश्वाथर्वाणं भगवन्तं पप्रच्छ भगवन्किमादौ
प्रयुक्तं ध्यानं ध्यायितव्यं किं तद्ध्यानं को वा ध्याता कश्चियेय इति ।
अथैभ्योऽथर्वा प्रत्युवाच । ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यम-
मित्येतदक्षरस्य पादाश्चत्वारो देवाश्चत्वारो वेदाश्चतुष्पादेतदक्षरं परं ब्रह्म ।
पूर्वाऽस्य मात्रा पृथिव्यकारः स ऋग्भिर्ऋऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः ।
द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो रुद्रो रुद्राखिष्टुन्दक्षिणाभिः ।
तृतीया द्यौः स मकारः स सामभिः सामवेदो विष्णुरादित्या जगत्याहवनीयः ।
यावसानेऽस्य चतुर्थ्यर्धमात्रा सा लुप्तमकारः सोथर्वणैर्मन्त्रैरथर्ववेदः संवर्त -
कोऽग्निर्मरुत एकऋषी रुचिरा भास्वती स्वभा । प्रथमा रक्ता ब्राह्मी ब्रह्मदेवत्या
द्वितीया शुभा शुक्का रौद्री रुद्रदेवत्या तृतीया कृष्णा विष्णुमती विष्णुदेवत्या
चतुर्थी विद्युन्मती सर्ववर्णा पुरुषदैवत्या । स एष ह्योंकारश्चतुष्पादश्चतुः शिरा-
श्चतुर्थ्यर्धमात्रा स्थूलहस्वदीर्घप्लुत इति ॥ ॐ ॐ ॐ इति त्रिरुक्तश्चतुर्थः
शान्तात्मा तप्रयोगे न सममित्यात्मज्योतिः सकृदावर्तव्य ॐ स एष
सर्वान्प्राणान्सकृदुच्चारितमात्रः स एष ह्यूर्ध्वमुत्क्रामयतीत्योंकारः ॥ १ ॥
प्रणवः सर्वान्प्राणान्प्रणामयति नामयति चैतस्मात्प्रणवश्चतुर्घाऽवस्थित
इति वेददेवयोनिधेयाश्चेति संघर्ता सर्वेभ्यो दुःखभयेभ्यः संतारयति
वारणात्तानि सर्वाणीति विष्णुः सर्वाञ्जयति ब्रह्माऽबृहत्सर्व कारणानि संप्रति-
ष्ठाप्य ध्यानाद्विष्णुर्मनसि नादान्ते परमात्मनि स्थाप्य ध्येयमीशानं प्रध्याय-
न्तीशा वा सर्वमिदं प्रयुक्तम् । ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते सर्वाणि चेन्द्रियाणि
सहभूतानि करणं सर्वमैश्वर्यं संपन्नं शिवमाकाशं मध्येध्रुवस्थम् । ब्रह्मा विष्णुश्च
रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदेवत्यः प्रणवः परिपठ्यते । तत्रा-
धिकं क्षणमेकमास्थाय क्रतुशतस्यापि फलमवाप्नोति कृत्स्त्रमोंकारगतं च सर्व-
ज्ञानेन योगध्यानाना शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्यैता -
मधीत्य द्विजो गर्भवासान्मुच्यते गर्भवासान्मुच्यत इति ॥ २ ॥ इत्यो सत्य-
मित्युपनिषत् ॥ ३ ॥ ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इत्यथर्ववेदेऽथर्व शिखोपनिषत्समाप्ता ॥ १ ॥</p>
<pb n="191" />
<p>ईशापनिषत्सु -</p>
<lg>
  <l>मैत्रायण्युपनिषत् ॥ २५ ॥</l>
  <l>वैराग्योत्थ भक्तियुक्तब्रह्ममात्रप्रबोधतः ।</l>
  <l>पदं मुनयो यान्ति तत्रैपदमहं महंः ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>[ प्रपा० १
मैत्रायणी कौषितकी बृहज्जाबालतापनी । कालाग्निरुद्रमैत्रेयी सुबाल-
रिमन्त्रिका । ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदम-
शाश्वतं मन्यमानः शारीरं वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप
आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामा-
निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवान्शाकायन्य उत्तिष्ठोत्तिष्ठ वरं
वृणीष्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्व-
विच्छृणुमो वयं स त्वं नो ब्रूहीत्येततं पुरस्तादशक्यं मा पृच्छ प्रश्नमैक्ष्वाका-
न्यान्कामान्वृणीष्वेति शाकायन्यस्य चरणावभिमृश्यमानो राजेमां गाथां
जगाद ॥ १ ॥ भगवन्नस्थिचर्मखायुमज्जा मांसशुक्रशोणितश्लेष्माश्रुदूषिते वि-
मूत्रवातपित्तकफसंघाते दुर्गन्धे निःसारेऽस्मिन्छरीरे किं कामोपभोगैः ॥ २ ॥
कामक्रोध लोभ भयविषादेयैष्टवियोगानिष्टसंप्रयोगक्षुत्पिपासाजरामृत्युरोगशो-
काद्यैरभिहतेऽस्मिन्छरीरे किं कामोपभोगैः ॥ ३ ॥ सर्वं चेदं क्षयिष्णु प-
श्यामो यथेमे दंशमशकादयस्तृणवन्नश्यतयोद्भूत प्रध्वंसिनः ॥ ४ ॥ अथ कि-
मैतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः केचिःसुद्युम्न भूरिद्युम्नेन्द्रद्युम्न कुबल-
याश्वयौवनाश्ववद्धियाश्वाश्वपतिः शशबिन्दु हरिश्चन्द्रोऽम्बरीषो मनूक्तस्वयाति-
ययातिरनरण्योक्षसेनोत्थमरुत्त भरतप्रभृतयो राजानो मिपतो बन्धुवर्गस्य
महतीं श्रियं त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति ॥ ५ ॥ अथ किमेतैर्वा
परेऽन्ये गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां निरोधनं पश्यामः
॥ ६ ॥ अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य
· प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सो-
हमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैयैरेवाश्रितस्यासकृदिहा वर्तनं
दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो
गतिस्त्वं नो गतिः ॥ ७ ॥
.' इति मैत्रायण्युपनिषत्सु प्रथमः प्रपाठकः ॥</p>
<pb n="192" />
<p>प्रपा० २]
मैत्रायण्युपनिषत् ॥ २५ ॥</p>
<p>एष
अथ भगवान्शाकायन्यः सुप्रीतस्त्वब्रवीद्राजानम् । महाराज बृहद्रथेवा-</p>
<lg>
  <l>कुवंशध्वज शीघ्रमात्मज्ञः कृतकृतत्यस्त्वं मरुन्नान्नेति विश्रुतोऽसीति ।</l>
  <l>अयं वाव खल्वात्मा ते यः कतमो भगवा इति तं होवाचेति ॥ १ ॥</l>
</lg>
<p>अथ य एष उच्छ्रासाविष्टम्भने नोर्ध्वमुत्क्रान्तो व्ययमानोऽव्ययमानस्तमः
प्रणुदत्येष आत्मेत्याह भगवान्मैत्रिः । इत्येवं ह्याह । अथ
संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत
इत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २ ॥ अथ खल्वियं
ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं भगवता मैत्रिणाssख्याताऽहं
ते कथयिष्यामीति । अथापहतपाप्मानस्तिग्मतेजसा ऊर्ध्वरेतसो वालखिल्या
इति श्रूयन्ते । अथ ऋतुं प्रजापतिमब्रुवन्- भगवन्शकटमिवाचेतनमिदं शरीरं
कस्यैष खल्वीशो महिमाऽतीन्द्रियभूतस्य येनैतद्विधमेत चेतन वस्प्रतिष्ठापितं
प्रचोदयिता वाऽस्य यद्भगवन्वेत्सि तदस्माकं ब्रूहीति तान्होवाचेति ॥ ३ ॥
यो वावोपरिस्थः श्रूयते गुणेष्विवोर्ध्वरेतसः स वा एष शुद्धः पूतः
शून्यः शान्तोsप्राणो निरात्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः ।
स्वे महिनि तिष्ठत्यजेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्य-
स्येति । ते होचुर्भगवन्कथमनेनेदृशेना निष्ठेनैतद्विधमिदं चेतनवस्प्रतिष्ठापितं
प्रचोदयिता वैषोऽस्य कथमिति तान्होवाच ॥ ४ ॥ स वा एष सूक्ष्मोs-
पुरुषसंज्ञोऽबुद्धिपूर्व मिहैवावर्ततेंऽशेनेति सुतस्येवाबुद्धिपूर्व
विबोध एवमिति । अथ यो ह खलु वावैतस्य सोंऽशोऽयं यश्चेतामात्रः
प्रतिपुरुषः क्षेत्रज्ञः संकल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्विश्वाख्यश्चेतने-
नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्यस्येति । ते होचुर्भगव-
यद्यनेने शेनानिष्ठेनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽस्य
कथमिति तान्होवाचेति ॥ ५ ॥ प्रजापतिर्वा एकोऽग्रेऽतिष्ठत्स नारमतैकः
सोत्मानमभिध्यात्वा बह्वीः प्रजा असृजत ता अश्मेवाप्रबुद्धा अप्राणाः
स्थाणुरिव तिष्ठमाना अपश्यत् स नारमत सोऽमन्यतैतासां प्रतिबोधनाया-
भ्यन्तरं विविशामि । स वायुरिवात्मानं कृत्वाऽभ्यन्तरं प्राविशत् ।
स एको नाशकत्स पञ्चधात्मानं विभज्योच्यते यः प्राणोऽपानः समान
उदानो व्यान इति । अथायं य ऊर्ध्वमुत्क्रामत्येष वाव स प्राणोऽथ योsय-
मवाइ संक्रामत्येष वाव सोऽपानोऽथ येन वैताऽनुगृहीतेत्येष वाव स
अ. उ. १२</p>
<pb n="193" />
<p>ईशायुपनिषत्सु -
[ प्रपा० ३
व्यानोऽथ योऽयं स्थविष्ठो धातुरन्नस्यापाने प्रापयत्यणिष्ठो वाऽङ्गेऽङ्गे
समानयत्येष वाव स समानसंज्ञा उत्तरं व्यानस्य रूपं चैतेषामन्तरा
प्रसूतिरेवोदानस्याथ योऽयं पीताशितमुद्भिरति निगिरतीति वैष वाव स
उदानः । अथोपांशुरन्तर्याममभिभवत्यन्तर्याम उपाशुं चैतयोरन्तरा
देवौष्ण्यं प्रासुत्रद्यदौष्ण्यं स पुरुषोऽथ यः पुरुषः सोऽग्निर्वैश्वानरः ।
अन्यत्राप्युक्तमयमनिर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमयते
तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदो क्रमिष्यन्भवति
नैनं घोषं शृणोति स वा एष पञ्चधाssस्मानं विभज्य निहितो गुहायाम् ।
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प भाकाशात्मेति । स वा
एषोऽस्मद्धृदन्तरादकृतार्थोऽमन्यतार्थानश्चानीति । अतः खानीमानि भित्तो-
दितः पञ्चमी रश्मिभिर्विषयानत्तीति बुद्धीन्द्रियाणि यानीमान्येतान्यस्य
रश्मयः कर्मेन्द्रियाण्यस्य हया रथः शरीरं मनो नियन्ता प्रकृतिमयोऽस्य
प्रतोदोऽनेन खल्वीरितः परिभ्रमतीदं शरीरं चक्रमिव मृत्पचेनेदं शरीरं
चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषोऽप्यस्येति ॥ ६ ॥ स वा एष आत्म-
होशन्ति कवयः सितासितैः कर्मफलैरनभिभूत इव प्रतिशरीरेषु चरति
अव्यक्तत्वात्सौक्ष्म्यादद्दश्यत्वादग्राह्यत्वान्निर्ममत्वाच्चानवस्थोऽसति कर्ताऽकर्ते-
वावस्थः स वा एष शुद्धः स्थिरोऽचलश्चा लेप्योऽव्यग्रो निस्पृहः प्रेक्षकवदव-
स्थितः स्वस्थश्च । ऋतभुग्गुणमयेन पटेनात्मानमन्तर्धायावस्थिता इत्यव -
स्थिता इति ॥ ७ ॥</p>
<lg>
  <l>इति मैत्रायण्युपनिषत्सु द्वितीयः प्रपाठकः ॥ २ ॥</l>
  <l>ते होचुर्भगवन्यद्येवमस्याssत्मनो महिमानं सूवयसीत्यन्यो वा परः ।</l>
  <l>कोऽयमात्माख्यो योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसद्यो -</l>
  <l>निमापद्यता इत्यवाञ्चयोर्ध्वा वा गतिद्वंद्वैरभिभूयमानः परिभ्रमति ॥ १ ॥</l>
</lg>
<p>अस्ति खल्वन्योऽपरो भूतात्माख्यो योऽयं सितासितैः कर्मफलैरभिभूयमानः
सदसद्योनिमापद्यता इत्यवाचयोव वा गतिद्वंद्वैरभिभूयमानः परिभ्रमतीत्य -
स्योपव्याख्यानम् । पञ्चतन्मात्रा भूतशब्देनोच्यन्तेऽथ पञ्चमहाभूतानि भूत-
शब्देनोच्यन्ते । अथ तेषां यत्समुदयं तच्छरीरमित्युक्तमथ यो ह खलु वाव
शरीर इत्युक्तं स भूतात्मेत्युक्तम् । अथामृतोऽस्यात्मा बिन्दुरिव पुष्करा
श्रुति स वा एषोऽभिभूतः प्राकृतैर्गुणैरिति । अथोऽभिभूतत्वात्संमूढत्वं प्रयातः</p>
<pb n="194" />
<p>प्रपा० ४]
मैत्रायण्युपनिषत् ॥ २५ ॥
संमूढत्वात् । आत्मस्थं प्रभुं भगवन्तं कारयितारं नापश्यद्गुणौवैरुह्यमानः
कलुषीकृतश्चास्थिरश्चञ्चलो लुप्यमानः सस्पृहो व्यग्रश्चाभिमानित्वं प्रयाता इत्यह
सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मानम् । जालेनेव खचरः
कृतस्यानु फलैरभिभूयमानः सदसद्योनिमापद्यता इत्यवायोर्ध्वा वा गति-
द्वंद्वैरभिभूयमानः परिभ्रमति कतम एष इति तान्होवाचेति ॥ २ ॥ अथा-
न्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः कारयिताऽन्तः पुरुषः । अथ
यथाऽग्निनाऽयस्पिण्डोऽन्यो वाऽभिभूतः कर्तृभिर्हन्यमानो नानात्वमुपैत्येवं
वाव खत्वसौ भूतात्माऽन्तः पुरुषेणाभिभूतो गुणैर्हन्यमानो नानास्वमुपैति ।
चतुर्जालं चतुर्दशविधं चतुरशीतिधा परिणतं भूतगणमेतद्वै नानात्वस्य
रूपम् । तानि ह वा एतानि गुणानि पुरुषेणेरितानि चक्रमिव मृत्पचेनेति ।
अथ यथाऽयस्पिण्डे हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसैौ पुरुषोऽभि-
भूयत्ययं भूतात्मोपसंष्टित्वादिति ॥ ३ ॥ अथान्यत्राप्युक्तं - शरीरमिदं
मैथुना देवोद्भूतं संवृद्धयुपेतं निरयेऽथ मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं
मांसेनानुलिप्तं चर्मणाऽवनद्धं विण्मूत्रपित्तकफमजा मेदोव साभिरन्यैश्चाऽऽमयै-
बहुभिः परिपूर्ण कोश इव वसुना ॥ ४ ॥ अथान्यत्राप्युक्तं संमोहो भयं
विषादो निद्रा तन्द्री प्रमादो जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो
नास्तिक्यमज्ञानं मात्सर्यं नैष्कारुण्यं मूढत्वं चित्रडत्वं निराकृतित्वमुद्धतत्व-
मसत्वमिति तामसानि । अन्तस्तृष्णा स्नेहो रागो कोभो हिंसा रतिर्दृष्टि-
वृतत्वमीकाममस्थिरत्वं चलत्वं व्यग्रत्वं जिगीषाऽर्थोपार्जन मित्रा-
ग्रहणं परिग्रहावलम्बोsनिष्टेष्विन्द्रियार्थेषु द्विष्टिरिष्टेष्वभिष्वङ्गः शुक्तस्वरोऽन-
वमस्त्विति राजसान्येतैः परिपूर्ण एतैरभिभूता इत्ययं भूतात्मा तस्मान्नाना-
रूपाण्यामोतीत्या मोतीति ॥ ५ ॥
इति मैत्रायण्युपनिषत्सु तृतीयः प्रपाठकः ॥ ३ ॥
ते ह खलु वावोर्ध्वरेतसोऽतिविस्मिता अभिसमेत्योचुर्भगवन्नमस्तेऽस्त्वनु-
शाधि त्वमस्माकं गतिरन्या न विद्यता इति । अस्य को विधिर्भूतात्मनो
येनेदं हित्वात्मन्येव सायुज्यमुपैति तान्होवाचेति ॥ १ ॥ अथान्यन्त्रा-
"युक्तं - महानदी धूर्मय इवानिवर्तकमस्य यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्य
मृत्योरागमनं सदसत्फलमयैः पाशैः पडुरिव बद्धं बन्धनस्थस्येवास्वातन्त्र्यं
यमविषयस्थस्येव बहुभयावस्थं मदिरोन्मत्त इव मोहमदिरोन्मत्तं पाप्मना</p>
<pb n="195" />
<p>ईशाद्युपनिषत्सु -
[ प्रपा० ५
गृहीत व भ्राम्यमाणं महोरगदष्ट इव विषयदष्टं महान्धकारमिव रागान्धम्,
इन्द्रजालमिव मायामयं स्वप्त इव मिथ्यादर्शनं कदलीगर्भ इवासारं नट इव
क्षणवेषं चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् । शब्दस्पर्शादयो ह्यर्था
मर्त्येऽनर्था इवाऽऽस्थिताः । येषां सक्तस्तु भूतात्मा न स्मरेत्परमं पदम् ॥२॥
अयं वावं खल्वस्य प्रति विधिर्भूतात्मनो यद्वेदविद्याधिगमः । स्वधर्मस्यानुचरणं
स्वाश्रमेष्वेवानुक्रमणं स्वधर्मस्य वा एतद्रतं स्तम्बशाखेवापराण्यनेनो-
भाग्भवत्यन्यथाऽवाङित्येष स्वधर्मोऽभिहितो यो वेदेषु न स्वधर्मातिक्रमे-
णाश्रमी भवति । आश्रमेष्वेवानवस्थस्तपस्वी वेत्युच्यत इत्येतदयुक्तं नात-
परकस्याssत्मज्ञानेऽधिगमः कर्मसिद्धिर्वेंति । एवं ह्याह- तपसा प्राप्यते सत्वं
सवात्संप्राप्यते मनः । मनसः प्राप्यते ह्यात्मा यमाश्वा न निवर्तत इति
॥ ३ ॥ अस्ति ब्रह्मेति ब्रह्मविद्याविदब्रवीद्ब्रह्मद्वारमिदमित्येवैतदाह यस्तप-
साऽपहतपाप्मा ॐ ब्रह्मणो महिमेत्येवैतदाह यः सुयुक्तोऽजस्रं चिन्तयति
तस्माद्विद्यया तपसा चिन्तया चोपलभ्यते ब्रह्म । स ब्रह्मणः पर एता भव-
त्यधिदेवत्वं देवेभ्यश्चेत्यक्षय्यमपरिमितमनामयं सुखमते य एवं विद्वाननेन
त्रिकेण ब्रह्मोपास्ते । अथ यैः परिपूर्णोऽभिभूतोऽयं रथितश्च तैर्वैव मुक्तस्त्वा-
मन्नेव सायुज्यमुपैति ॥ ४ ॥ ते होचुर्भगवन्नभिवाद्यसीत्यभिवाद्यसीति ।
निहितमस्माभिरेतद्यथावदुक्तं मनसीत्यथोत्तरं प्रश्नमनुब्रूहीति । अनिर्वायुरा-
दित्यः कालो यः प्राणोऽन्नं ब्रह्मा रुद्रो विष्णुरित्येकेऽन्यमभिध्यायन्ध्ये केऽन्यं
श्रेयः कतमो यः सोऽस्माकं ब्रूहीति तान्होवाचेति ॥ ५ ॥ ब्रह्मणो वावैता
अग्र्यास्तनवः परस्यामृतस्याशरीरस्य तस्यैव लोके प्रतिमोदतीह यो यस्यानुरक्त
इत्येवं ह्याह । ब्रह्म खल्विदं वाव सर्वम् । या वास्या अग्रयास्तनवस्ता अभि-
ध्यायेदर्चयेन्नि हुयाच्यातस्ताभिः सहैवोपर्युपरि लोकेषु चरत्यथ कृत्स्त्रक्षय
एकत्वमेति पुरुषस्य पुरुषस्य ॥ ६ ॥
इति मैत्रायण्युपनिषत्सु चतुर्थः प्रपाठकः ॥ ४ ॥
ere यथेयं कौत्सायनी स्तुतिः - त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्वं
प्रजापतिः । त्वमग्निर्वरुणो वायुस्त्वमिन्द्रस्त्वं निशाकरः ॥ त्वमन्नस्त्वं यमस्त्वं
पृथिवी त्वं विश्वं खमथाच्युतः । स्वार्थे स्वाभाविकेऽर्थे च बहुधा संस्थिति-
स्वयि ॥ विश्वेश्वर नमस्तुभ्यं विश्वात्मा विश्वकर्मकृत् । विश्वभुग्विश्वमायुस्त्वं
विश्वक्रीडारतिप्रभुः ॥ नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च । अचि-</p>
<pb n="196" />
<p>अपा० ६]
मैत्रायण्युपनिषत् ॥ २५ ॥</p>
<p>न्यायाप्रमेयाय अनादिनिधनाय चेति ॥ १ ॥ तमो वा इदमग्र आसीदेकं
तत्परे स्यात्तत्परेणेरित विषमत्वं प्रयात्येतद्रूपं वै रजस्तद्वजः खल्जीरितं विष-
स्वं प्रयात्येतद्वै सत्वस्य रूपं तत्सत्वमेवेरितं रसः संप्रात्रवत्, सोंऽशोऽयं
. यश्चेतामात्रः प्रतिपुरुषः क्षेत्रज्ञः संकल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्वि-
श्वेत्यस्य प्रागुक्ता एतास्तनवः । अथ यो ह खलु वावास्य तामसोंऽशोऽसौ स
ब्रह्मचारिणो योऽयं रुद्रोऽथ यो ह खलु वावास्य राजसोंऽशोऽसौ स ब्रह्मचा-
रिणो योऽयं ब्रह्माऽथ यो ह खलु वावास्य साविकोंऽशोऽसौ स ब्रह्मचारिणो
योऽयं विष्णुः स वा एष एकस्त्रिधा भूतोऽष्टवैकादशधा द्वादशधाऽपरिमि-
तधा वोद्भूत उद्भूतत्वाद्भूतं भूतेषु चरति प्रविष्टः स भूतानामधिपतिर्बभूवे-
त्यावात्मान्तर्बहिश्चान्तर्बहिश्च ॥ २ ॥
इति मैत्रायण्युपनिषत्सु पञ्चमः प्रपाठकः ॥ ५ ॥
द्विधा वा एष आध्मानं बिभर्त्ययं यः प्राणो यश्चासावादित्यः । अथ
Satara पाना अन्तर्बहिश्चाहोरात्रेणैतौ व्यावर्तेते । असौ वा
आदित्य बहिरात्माऽन्तरात्मा प्राणोऽतो बहिरात्मक्या गत्याऽन्तरात्मनोऽ-
नुमीयते गतिरित्येवं ह्याह । अथ यः कश्चिद्विद्वानपहतपाप्माऽक्षाध्यक्षोs-
वदातमनास्त्रनिष्ठ आवृत्तचक्षुः सो अन्तरात्मक्या गत्या बहिरात्मनोऽनुमी-
यते गतिरित्येवं ह्याह । अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यः
पश्यतीमां हिरण्यवस्थात्स एषोऽन्तरे हृत्पुष्कर एवाऽऽश्रितोऽन्नमति
॥ १ ॥ अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिविं
श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति । कः पुष्करः किंमयो
वेति । इदं वाव तत्पुष्करं योऽयमाकाशोऽस्येमाश्चतस्रो दिशश्चतस्त्र उपदिशो
दलसंस्था आसम् । भर्वाग्विचरत एतौ प्राणादित्या एता उपासीतोमित्येव-
दक्षरेण व्याहृतिभिः सावित्र्या चेति ॥ २ ॥ द्वे वाव ब्रह्मणो रूपे मूर्त
चामूर्तं चाथ यन्मूर्तं तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म तज्योतिर्यज्योतिः स
आदित्यः स वा एष ओमित्येतदात्माऽभवत्स त्रेधात्मानं व्यकुरुतो मिति
तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीत्येवं ह्याहैतद्वा आदित्य
भोमित्येवं ध्यायताssस्मानं युञ्जीतेति ॥ ३ ॥ अथान्यत्राप्युक्तम् - अथ खलु
य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ
एप प्रणवा इत्येवं ह्याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं</p>
<pb n="197" />
<p>ईशाधुपनिषत्सु - .
[ प्रपाο
विमृत्युं त्रिपदं त्र्यक्षरं पुनः पश्चधा ज्ञेयं निहितं गुहायामित्येवं ह्याह ।
ऊर्ध्वमूलं त्रिपाद्रह्म शाखा आकाशवाय्वयुदकभूम्यादय एकोऽश्वत्थनामै-
तस्यैतत्तेजो यदसावादित्यः । ओमित्येतदक्षरस्य चैतत् । तस्मादो-
मित्यनेनैतदुपासीताज स्त्रमिति । एकोऽस्य संबोधयतेत्येवं ह्याह । एतदेवाक्षरं
पुण्यमेतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्
॥ ४ ॥ अथान्यत्राप्युक्तं - स्वनवत्येषाऽस्य तनूयमिति स्त्रीपुंनपुंसकेलि
लिङ्गवत्येषाऽथाग्निर्वायुरादित्य इति भास्वत्येषाऽथ ब्रह्मा रुद्रो विष्णुरित्यधि-
पतिवत्येषाऽथ गार्हपत्यो दक्षिणाग्निराहवनीय इति मुखवत्येषाऽथ ऋग्यजुः
सामेति विज्ञानवत्येषा भूर्भुवः स्वरिति लोकवत्येषाऽथ भूतं भव्यं
भविष्यदिति कालवत्येषाऽथ प्राणोऽग्निः सूर्य इति प्रतापवत्येषाऽथान्नमाप-
चन्द्रमा इत्याप्यायनवत्येषाऽथ बुद्धिर्मनोऽहंकार इति चेतनवत्येषाऽथ
प्राणोsपानो व्यान इति प्राणवत्येषेत्यत ओमित्युक्तेनैताः प्रस्तुता अर्चिता
अर्पिता भवन्तीत्येवं ह्याहैतद्वै सत्यकामं परं चापरं च ब्रह्म यदोमित्येत-
दक्षरमिति ॥ ५ ॥ अथाव्याहृतं वा इदमासीत्स सत्यं प्रजापतिस्तपस्त हवा-
नुव्याहरन्द्भूर्भुवः स्वरिस्येषैवास्य प्रजापतेः स्थविष्ठा तनूर्या लोकवतीति
स्वरित्यस्याः शिरो नाभिर्भुवो भूः पादा आदित्यश्चक्षुः । चक्षुरायत्ता हि
पुरुषस्य महती मात्रा चक्षुषा ह्ययं मात्राश्चरति सत्यं वै चक्षुरक्षिण्यवस्थितो
हि पुरुषः सर्वोऽर्थेषु चरति । एतस्माद्भूर्भुवः स्वरित्युपासीतानेन हि
प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीत्येवं ह्याह
एषा वै
प्रजापतेर्विश्वभृत्तनूरे तस्यामिदं सर्वमन्तर्हितमस्मिंश्च सर्वस्मिन्नेषाऽन्तर्हितेति
तस्मादेषोपासीत ॥ ६ ॥ तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स
वा एवं प्रवरणीय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमही ति
सविता वै देवस्ततो योsस्य भर्गाण्यस्तं चिन्तयामीत्याहुर्ब्रह्मवादिनोऽथ-
धियो यो नः प्रचोदयादिति बुद्धयो वै धियस्ता योऽस्माकं प्रचोदयादित्याहु-
ब्रह्मवादिनः । अथ भर्ग इति यो ह वा अमुष्मिन्नादित्ये निहितस्तारकोऽक्षिणि
वैष भर्गाख्यः । भाभिर्गतिरस्य हीति भर्गः । भर्जयतीति वैष भर्ग इति
रुद्रो ब्रह्मवादिनः । अथ भ इति भासवती माँल्लोकान्र इति रञ्जयतीमा नि
भूतानि ग इति गच्छन्त्यस्मिन्नागच्छन्त्यस्मादिमाः प्रजास्तस्माद्भरगत्वाद्भर्गः ।
प्राधत्सूयमानात्सूर्यः सचनात्सविताऽऽदानादादित्यः पवनात्पावनोऽथाssपोs-</p>
<pb n="198" />
<p>प्रपा० ६ ]
मैत्रायण्युपनिषत् ॥ २५ ॥
૩૭૨
यायनादित्येवं ह्याह । खल्वात्मनोssस्मा नेताऽमृताख्यश्चेता मन्ता गन्तो-
स्रष्टाssनन्दयिता कर्ता वक्ता रसयिता घ्राता द्रष्टा श्रोता स्पृशति च
विभुर्विप्रहे संनिविष्ट इत्येवं ह्याह । अथ यत्र द्वैतीभूतं विज्ञानं तत्र हि
शृणोति पश्यति जिघ्रति रसयति चैव स्पर्शयति सर्वमात्मा जानीतेति
यत्राद्वैतीभूतं विज्ञानं कार्यकारणकर्मनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं
तदवाच्यम् ॥ ७ ॥ एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः प्रजापतिर्विश्वसृ-
ग्विरण्यगर्भः सत्यं प्राणो हंसः शास्ता विष्णुर्नारायणोऽर्कः सविता धाता
विधाता सम्राडिन्द्र इन्दुरिति । य एष तपत्यग्निरिवाग्निना पिहितः
सहस्राक्षेण हिरण्मयेनाण्डेन । एष वाव जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूते-
भ्योऽभयं दत्वाऽरण्यं गत्वाऽथ बहिः कृत्वेन्द्रियार्थान्स्वाच्छरीरादुपलभेतै-
नमिति । विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहख-
रश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥ तस्माद्वा
एष उभयात्मैवंविदात्मन्नेवाभिध्यायत्यात्मन्नेव यजतीति ध्यानं प्रयोगस्थ
मनो विद्वद्भिः एवं मनः पूतिमुच्छिष्टोपहतमित्यनेन तत्पावयेत् । मत्रं
पठति — उच्छिष्टशेच्छिष्टोपहतं यच्च पापेन दत्तं मृतसूतकाद्वा वसोः पवित्र-
मग्निः संवितुश्च रश्मयः पुनन्त्वन्नं मम दुष्कृतं च यदन्यत् । अद्भिः पुरस्ता-
परिदधाति । प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा समानाय
स्वाहोदानाय स्वाहेति पञ्चभिरभिजुहोति । अथावशिष्टं यतवागश्नात्यतोऽ-
द्भिर्भूय एवोपरिष्टात्परिदधात्याचान्तो भूत्वाऽऽत्मेज्यानः • प्राणोऽग्निर्विश्वोऽ-
सीति च द्वाभ्यामात्मानमभिध्यायेत् । प्राणोऽग्निः परमात्मा वै पञ्चवायुः
समाश्रितः । स प्रीतः प्रीणातु विश्व विश्वभुक् । विश्वोऽसि वैश्वानरोऽसि
विश्वं त्वया धार्यते जायमानम् । विशन्तु स्वामाहुतयश्च सर्वाः प्रजास्तन्न
यत्र विश्वामृतोऽसीति । एवं न विधिना खल्वनेनात्ताऽनत्वं पुनरुपैति ॥ ९॥
अथापरं वेदितव्यमुत्तरो विकारोऽस्यात्मयज्ञस्य यथाऽन्नमन्नादश्चेत्यस्योपव्या-
ख्यानम् । पुरुषश्चेता प्रधानान्तःस्थः स एव भोक्ता प्राकृतमन्नं भुङ्ग इति ।
तस्यायं भूतात्मा ह्यन्नमस्य कर्ता प्रधानः । तस्मात्रिगुणं भोज्यं भोक्ता पुरु-
षोऽन्तःस्थः । अत्र दृष्टं नाम प्रत्ययम् । यस्माद्वीजसंभवा हि पशवस्तस्माद्वीजं
भोज्यमनेनैव प्रधानस्य भोज्यत्वं व्याख्यातम् । तस्माद्भोक्ता पुरुषो भोज्या
प्रकृतिस्तत्स्थो भुङ्क इति । प्राकृतमन्नं त्रिगुणभेदपरिणामत्वान्महदाद्यं</p>
<pb n="199" />
<p>" शाद्युपनिषत्सु -
[ प्रपा० ६
विशेषान्तं लिङ्गम् । अनेनैव चतुर्दशविधस्य मार्गस्य व्याख्या कृता भवति ।
सुखदुःखमोहसंज्ञं ह्यन्नभूतमिदं जगत् । न हि बीजस्य स्वादुपरि महोऽस्तीति
यावन्न प्रसूतिः । तस्याप्येवं तिसृष्ववस्थास्वन्नस्वं भवति कौमारं यौवनं जरा
परिणामत्वात्तदन्नत्वम् । एवं प्रधानस्य व्यक्ततां गतस्योपलब्धिर्भवति तत्र
बुच्यादीन स्वादुनि भवन्ति । अध्यवसायसंकल्पाभिमाना इत्यथेन्द्रियार्था-
पञ्च स्वादुनि भवन्ति । एवं सर्वांणीन्द्रियकर्माणि प्राणकर्माण्येवं व्यक्त-
मन्नमव्यक्तमन्नमस्य निर्गुणो भोक्ता भोक्तृत्वाच्चैतन्यं प्रसिद्धं तस्य । यथाऽ-
निर्वै देवानामन्नादः सोमोऽन्नमभिनैवान्नमित्येवंवित् । सोमसंज्ञोऽयं भूता-
त्माऽभिसंज्ञोऽप्यव्यक्तमुखा इति । वचनात्पुरुषो ह्यव्यक्तमुखेन त्रिगुणं
भुङ्का इति । यो हैवं वेद संन्यासी योगी चाssस्मयाजी चेति । अथ
यद्वन्न कश्चिच्छून्यागारे कामिन्यः प्रविष्टाः स्पृशतीन्द्रियार्थास्तद्वद्यो न स्पृशति
प्रविष्टान्संन्यासी योगी चात्मयाजी चेति ॥ १० ॥ परं वा एतदात्मनो
रूपं यदन्नमन्नमयो ह्ययं प्राणः । अथ न यद्यश्नात्यमन्ताऽ श्रोताऽस्पष्यद्वष्टा-
sahisaraisरसयिता भवति प्राणांश्चोत्सृजतीत्येवं ह्याह । अथ यदि खल्व-
नाति प्राणसमृद्धो भूत्वा मन्ता भवति श्रोता भवति स्पष्टा भवति वक्ता
भवति रसयिता भवति त्राता भवति द्रष्टा भवतीति । एवं ह्याह — अन्नाद्वै
प्रजाः प्रजायन्ते याः काश्चित्पृथिवी श्रिताः । अतोऽन्नेनैव जीवन्त्यथैतदपिय-
न्त्यन्ततः ॥ ११ ॥ अथान्यत्राप्युक्तं - सर्वाणि ह वा इमानि भूतान्यहरहः अप-
तन्त्यन्नमभिजिवृक्षमाणानि सूर्यो रश्मिभिराददात्यन्नं तेनासौ तपत्यनेनाभि-
विक्ताः पचन्तीमे प्राणा अग्निर्वा अन्नेनाभिज्वलत्यन्नकामेनेदं प्रकल्पितं
ब्रह्मणा । अतोऽन्नमात्मेत्युपासीतेत्येवं ह्याह । अन्नाद्भूतानि जायन्ते जाता-
न्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते ॥ १२ ॥ अथा-
न्यत्राप्युक्तं विश्वभृद्वै नामैषा तनूर्भगवतो विष्णोर्यदिदमन्नम् । प्राणो वा
अन्नस्य रसो मनः प्राणस्य विज्ञानं मनस आनन्दं विज्ञानस्येत्यन्न वान्प्राणवा-
न्मनस्वान्विज्ञानवानानन्दवांश्च भवति यो हैवं वेद । यावन्तीह वै भूतान्य-
नमदन्ति तावत्स्वन्तःस्थोऽन्नमत्ति यो हैवं वेद । अन्नमेव विजरन्नमन्नं संव-
ननं स्मृतम् । अन्नं पशूनां प्राणोऽनं ज्येष्ठमन्नं भिषक्स्मृतम् ॥ १३ ॥ अथा-
न्यत्राप्युक्तमन्नं वा अस्य सर्वस्य योनिः कालश्वान्नस्य सूर्यो योनिः कालस्य ।
तस्यैतद्रूपं यनिमेषादिकालात्संभृतं द्वादशात्मकं वत्सरमेतस्याज्ञेयमर्ध मर्ध</p>
<pb n="200" />
<p>अपा० ६ ]
मैत्रायण्युपनिषत् ॥ २५ ॥</p>
<p>चारुणम् । मघाद्यं श्रविष्ठार्धमाप्तेयं क्रमेणोत्क्रमेण सार्पाद्यं श्रविष्ठार्धान्तं
सौम्यम् । तत्रैकमात्मनो नवांशकं सचारकविधं सौक्ष्म्यत्वादेतत्प्रमाणमने-
नैव प्रमीयते हि कालः । न विना प्रमाणेन प्रमेयस्योपलब्धिः । प्रमेयोऽपि
प्रमाणतां पृथक्त्वादुपैत्यात्मसंबोधनार्थमित्येवं ह्याह । यावत्यो वै कालस्य
कलास्तावतीषु चरत्यसौ यः कालं ब्रह्मेत्युपासीत कालस्तत्यातिदूरम पसरतीत्येवं
ह्याह — कालात्सवन्ति भूतानि कालादृद्धिं प्रयान्ति च । काले चास्तं नियच्छन्ति
कालो मूर्तिरमूर्तिमान् ॥ १४ ॥ द्वे वाव ब्रह्मणो रूपे कालश्चाकालश्चाथ यः
प्रागादित्यात्सोऽकालोऽकलोऽथ य आदित्याद्यः स कालः सकलः सकलस्य
वा एतद्रूपं यत्संवत्सरः संवत्सर र स्खल्वेमाः प्रजाः प्रजायन्ते संवत्सरेणेह वै
जाता विवर्धन्ते संवत्सरे प्रत्यस्तं यन्ति तस्मात्संवत्सरो वै प्रजापतिः
कालोsनं ब्रह्मनीडमात्मा' चेत्येवं ह्याह । कालः पचति भूतानि सर्वाण्येव
महात्मनि । यस्मिंस्तु पच्यते कालो यस्तं वेद स वेदवित् ॥ १५ ॥ विग्रह-
वानेष कालः सिन्धुराजः प्रजानाम् । एष तत्स्थः सविताख्यो यस्मादेवे मे
चन्द्रग्रहसंवत्सरादयः सूयन्तेऽथैभ्यः सर्वमिदमत्र वा यत्किंचिच्छुभाशुभं
दृश्ये तेह लोके तदेतेभ्यस्तस्मादादित्यात्मा ब्रह्माथ कालसंज्ञमादित्यमुपासी-
तादित्यो ब्रह्मेत्येकेऽथैवं ह्याह । होता भोक्ता हविर्मन्त्रो यज्ञो विष्णुः प्रजा-
पतिः । सर्वः कश्चि प्रभुः साक्षी योऽमुष्मिन्भाति मण्डले ॥ १६ ॥ ब्रह्म ह
वा इदमग्र आसीदेकोऽनन्तः प्रागनन्तो दक्षिणतोऽनन्तः प्रतीच्यनन्त उदी-
च्यनन्त ऊर्ध्वं चावाङ् च सर्वतोऽनन्तः । न ह्यस्य प्राच्यादिदिशः कल्पन्तेऽथ
तिर्यग्वाऽवाङ् वोर्ध्वं वाऽनू एष परमात्माऽपरिमितोऽजः । अतक्र्योऽचिन्त्य
ge आकाशात्मा एवैष कृत्स्त्रक्षय एको जागर्ति । इत्येतस्मादाकाशादेष
खल्विदं चेतामानं बोधयत्यनेनैव चेदं ध्यायतेऽस्मिंश्च प्रत्यस्तं याति ।
अस्यैतद्भास्वरं रूपं यदमुष्मिन्नादित्ये तपत्यग्नौ चाधूमके यज्योतिश्चित्र-
तरमुदरस्थोऽथ वा यः पचत्यन्नमित्येवं ह्याह । यश्चैषोऽग्नौ यश्चायं
हृदये यश्चासावादित्ये स एष एका इत्येकस्य हैकत्वमेति य एवं वेद
॥ १७ ॥ तथा तत्प्रयोगकल्पः प्राणायामः प्रत्याहारो ध्यानं धारणा
तर्कः समाधिः षडङ्ग इत्युच्यते योगः । अनेन यदा पश्यन्पश्यति
रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म योनिम् । तदा विद्वान्पुण्यपापे विहाय
परेऽव्यये सर्वमेकी करोत्येवं ह्याह । यथा पर्वतमादीसं नात्रयन्ति</p>
<pb n="201" />
<p>૩૦૬
ईशायुपनिषत्सु -
[ प्रपा० ६
मृगद्विजाः । तद्वद्ब्रह्मविदो दोषा नाश्रयन्ति कदाचन ॥ १८ ॥
अथान्यत्राप्युक्तं - यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थाश्च प्राणो
निवेशयित्वा निःसंकल्पस्ततस्तिष्ठेत् । अप्राणादिह यस्मात्संभूतः प्राणसंज्ञको
जीवस्तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं ह्याह । अचित्तं चित्तमध्य-
स्थमचिन्त्यं गुह्यमुत्तमम् । तत्र चित्तं निधायेत तच्च लिङ्गं निराश्रयम्
॥ १९ ॥ अथान्यत्राप्युक्तम्- अतः पराऽस्य धारणा तालुरसनाग्रनिपीडना-
द्वायनःप्राणनिरोधनाद्रह्म तर्केण पश्यति यदात्मनात्मानमणोरणीयांसं
द्योतमानं मनःक्षयात्पश्यति तदात्मनात्मानं दृष्ट्वा निरात्मा भवति निरात्मक-
स्वादसंख्योऽयो निश्चिन्त्यो मोक्षलक्षणमित्येतत्परं रहस्यमित्येवं ह्याह !
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा
सुखमव्ययमश्रुता इति ॥ २० ॥ अथान्यत्राप्युक्तम् ऊर्ध्वगा नाडी सुषुम्नाख्या
प्राणसंचारिणी तात्वन्तर्विच्छिन्ना तथा प्राणोंकारमनोयुक्तयोर्ध्वमुत्क्रमेत् ।
तावध्य परिवर्त्य चेन्द्रियाण्यसंयोज्य महिमा महिमानं निरीक्षेत ततो
निरात्मकत्वमेति निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभता
इत्येवं ह्याह । परः पूर्वं प्रतिष्ठाप्य निगृहीतानिलं ततः । तीर्त्वा पारमपारेण
पश्चायुञ्जीत मूर्धनि ॥ २१ ॥ अथान्यत्राप्युक्तं द्वे वाच ब्रह्मणी अभिध्येये
ब्रह्मश्वाशब्दश्चाथ शब्देनैवाशब्दमाविष्क्रियतेऽथ तत्रोमिति शब्दोऽनेनोर्ध्व-
मुस्कान्तोऽशब्दे निधनमेत्यथा हैषा गतिरेतदमृतमेतत्सायुज्यत्वं निर्वृतत्वं
तथा चेति । अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्कान्तोऽवकाशं लभतीत्येवं
वाव खल्बसावभिध्यातोमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते 1
अन्यथा परे शब्दवादिनः । श्रवणाङ्गुष्ठयोगेनान्त हृदया। काशशब्दमाकर्णयन्ति
सप्तविधेयं तस्योपमा । यथा नद्यः किङ्किणी कांस्यचक्रकभेकविः कृन्धिका
वृष्टिर्निवाते वदतीति तं पृथग्लक्षणमतीत्य परेऽशब्देऽव्यक्ते ब्रह्मण्यस्तं
गतास्तत्र ते पृथग्धर्मिणोऽपृथग्विवेक्या यथा संपन्ना मधुत्वं नाना रसा
इत्येवं ह्याह । द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि
निष्णातः परं ब्रह्माधिगच्छति ॥ २२ ॥ अथान्यत्राप्युक्तं - यः शब्दस्तदोमित्ये-
तदक्षरं यदस्याग्रं तच्छान्तमशब्दमभयमशोकमानन्दं तृप्तं स्थिरमचलममू-
तमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरत्वाय तदेता उपासीतेत्येवं ह्याह ।
योऽसौ परापरो देवा ओंकारो नाम नामतः । निःशब्दः शुन्यभूतस्तु मूर्ध्नि</p>
<pb n="202" />
<p>प्रपा० ६ ]
मैत्रायण्युपनिषत् ॥ २५ ॥</p>
<p>स्थाने ततोऽभ्यसेत् ॥ २३ ॥ अथान्यत्राप्युक्तं - धनुः शरीरमोमित्येतच्छरः
शिखाऽस्य मनस्तमोलक्षणं भिवा तमोत्तमाविष्टमागच्छत्यथाविष्टं भित्त्वा
sलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं ब्रह्म तमसः पर्यमपश्यत् ।
यदमुष्मिन्नादित्येऽथ सोमेऽग्नौ विद्युति विभात्यथ खल्वेनं दृष्ट्वाऽमृतत्वं
गच्छतीत्येवं ह्याह । ध्यानमन्तः परे तत्वे लक्ष्येषु च निधीयते । अतोऽवि -
शेषविज्ञानं विशेषमुपगच्छति ॥ मानसे च विलीने तु यत्सुखं चात्म-
साक्षिकम् । तद्ब्रह्म चामृतं शुक्रं सा गतिलोक एव सः ॥ २४ ॥ अथान्यन्त्रा-
प्युक्तं - निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वप्न इव यः पश्यतीन्द्रिय-
बिलेऽविवशः प्रणवाख्यं प्रणेतारं भारूपं विगत निद्वं विजरं विमृत्युं विशोकं
च सोऽपि प्रणवाख्यः प्रणेता भारूपो विगतनिद्रो विजरो विमृत्युर्विशोको
भवतीत्येवं ह्याह । एवं प्राणमथोङ्कारं यस्मात्सर्वमनेकधा । युनक्ति युञ्जते
वाऽपि तस्माद्योग इति स्मृतः ॥ एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।
सर्व भावपरित्यागो योग इत्यभिधीयते ॥ २५ ॥ अथान्यत्राप्युक्तं -:
यथा वाऽप्सुचारिणः शाकुनिकः सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वाद
खल्विमान्प्राणानो मित्यनेनोद्धृत्यानामयेऽग्नौ जुहोत्यतस्तप्तोर्वीच सः । भथ
यथा तप्तोर्विसर्पिस्तृणकाष्ठ संस्पर्शेनोजवलतीत्येवं वाव खल्वसावप्राणाख्यः
प्राणसंस्पर्शेनोज्वलति । अथ यदुज्वलत्येतद्ब्रह्मणो रूपं चैतद्विष्णोः परमं
पदं चैतद्रुद्रस्य रुद्रस्वमेतत्तदपरिमितधा चात्मानं विभज्य पूरयती माँल्लो-
कानित्येवं ह्याह । वह्नेश्च यद्वत्खलु विस्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य ।
प्राणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथाक्रमेण ॥ २६ ॥ अथान्यत्रा-
प्युक्तं - ब्रह्मणो वावैतत्तेजः परस्यामृतस्य । अशरीरस्यौष्ण्यमस्यैतद्वृतम् ।
अथाऽऽचिः सन्नभसि निहितं वैतदेकाग्रेणैवमन्तर्हृदयाकाशं विनुदन्ति यत्तस्य
ज्योतिरिव संपद्यतीत्यतस्तद्भावमचिरेणैति भूमावयस्पिण्डं निहितं यथाs-
चिरेणैति भूमित्वम् । मृद्वत्संस्थमयस्पिण्डं यथाsकययस्कारादयो नाभि-
भवन्ति । प्रणश्यति चित्तं तथाऽऽश्रयेण सहैवमित्येवं ह्याह । हृद्याकाशमय
कोशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्चैवान्निसूर्ययोः
॥ २७ ॥ अथान्यन्त्राप्युक्तं भूतेन्द्रियार्थानतिक्रम्य ततः प्रव्रज्याज्यं धृतिदण्ड
धनुर्गृहीत्वाऽनभिमानमयेन चैवेषुणा ब्रह्मद्वारपारं निहत्याssद्यं
संमोहमौली तृष्णेर्ष्या कुण्डली तन्द्रीराघवेश्यभिमानाध्यक्षः
क्रोधज्यं</p>
<pb n="203" />
<p>૧૮૮
ईशाद्युपनिषत्सु -
[ प्रपा० ६
प्रलोभदण्डं धनुर्गृहीत्वेच्छामयेन चैवेषुणेमानि खलु भूतानि हन्ति तं
इत्वोङ्कारप्लवेनान्तर्हृदयाकाशस्य पारं तीर्त्वाऽऽविर्भूतेऽन्तराकाशे शनकै-
रवटैवाकुद्धातुकामः संविशत्येवं ब्रह्मशालां विशेत्ततश्चतुजलं ब्रह्मकोश
प्रणुदेदुर्वागमेनेत्यतः शुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्माऽनन्तोऽक्षय्यः
स्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिनि तिष्ठत्यतः स्वे महिनि तिष्ठमानं
essवृत्तचक्रमिव संसारचक्रमालोकयतीत्येवं ह्याह । षड्भर्मासैस्तु
युक्तस्य नित्यमुक्तस्य देहिनः । अनन्तः परमो गुह्यः सम्यग्योगः प्रवर्तते ।
रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः । पुत्रदारकुटुम्बेषु सक्तस्य न
कदाचन ॥ २८ ॥ एवमुक्त्वाऽन्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वाऽनया
ब्रह्मविद्यया राजन्ब्रह्मगः पन्थानमारूढाः पुत्राः प्रजापतेरिति संतोष इंद्र-
तितिक्षां शान्तत्वं योगाभ्यासादवा मोतीत्येतद्रुह्यतमं नापुत्राय नाशिष्याय
नाशान्ताय कीर्तयेदित्यनन्य भक्ताय सर्वगुणसंपन्नाय दद्यात् ॥ २९ ॥
ॐ शुचौ देशे शुचिः सत्वस्थः सदधीयानः सद्वादी सच्यायी सद्याजी
स्यादित्यतः सह्रह्मणि सत्यभिलाषिणि निर्वृत्तोऽन्यस्तत्फलच्छिन्नपाशो निराशः
परेष्वात्मवद्विगत भयो निष्कामोऽक्षय्यमपरिमितं सुखमाक्रम्य तिष्ठति । परमं
वै शेवधेरिव परस्योद्धरणं यन्निष्कामत्वम् । स हि सर्वकाममयः पुरुषोऽ-
ध्यवसाय संकल्पाभिमानलिङ्गो बद्धोऽतस्तद्विपरीतो मुक्तः । अनेक आहु:-
गुणः प्रकृतिभेदवशादध्यवसायात्मबन्धमुपागतोऽध्यवसायस्य दोषक्षयाहि-
मोक्षः । मनसा ह्येव पश्यति मनसा शृणोति कामः संकल्पो विचिकित्सा
श्रद्धाऽश्रद्धा धृतिरष्टतिर्हीींर्धीर्भीरित्येतत्सर्वं मन एव । गुणौवैरुह्यमानः कलुषी-
कृतश्चास्थिरश्चञ्चलो लुप्यमानः सस्पृहो व्यमश्वाभिमानित्वं प्रयात इत्यहं सो
ममेदमित्येवं मन्यमानो निवन/त्यात्मनात्मानं जालेनेव खचरोऽतः पुरु-
वोsध्यवसायसंकल्पाभिमानलिङ्गो बद्धोऽतस्तद्विपरीतो मुक्तः । तस्मान्निरध्य-
वसाय निःसंकल्पो निरभिमानस्तिष्ठेदेतन्मोक्षलक्षणमेषाऽत्र 'ब्रह्मपदव्येषोऽत्र
द्वारविवरोऽनेनास्य तमसः पारं गमिष्यति । अत्र हि सर्वे कामा: समाहिता
इत्यत्रोदाहरन्ति । यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न
विचेष्टतेतामाहुः परमां गतिम् ॥ एतदुक्त्वाऽन्तर्हृदयः शाकायन्यस्तस्मै नम-
स्कृत्वा यथावदुपचारी कृतकृत्यो मरुदुत्तरायणं गतो न ह्यत्रोद्वर्त्मना गतिरे-
aise ब्रह्मपथः सौरं द्वारं भिखोध्न विनिर्गता इत्यत्रोदाहरन्ति । भनन्ता</p>
<pb n="204" />
<p>प्रपा० ६.
मैत्रायण्युपनिषत् ॥ २५ ॥</p>
<p>रश्मयस्तस्य दीपवचः स्थितो हृदि । सितासिताः कटुनीलाः कपिला मृदुलो--
हिताः ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य
तेन यान्ति परां गतिम् ॥ यदस्यान्यद्व श्मिशतमूर्ध्वमेव व्यवस्थितम् । तेन
देवनिकायानां स्वधामानि प्रपद्यते ॥ ये नैकरूपाश्चाधस्ताद्वश्मयोऽस्य मृदु-
प्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ तस्मात्सर्गस्वर्गापवर्ग-
हेतुर्भगवान सावादित्य इति ॥ ३० ॥ किमात्मकानि वा एतानीन्द्रियाणि
प्रचरन्त्युद्गन्ता चैतेषामिह को नियन्ता वेत्याह प्रत्याहात्मात्मकानीत्यात्मा
ह्येषामुद्गन्ता नियन्ता वाऽप्सरसो भानवीयाश्च मरीचयो नामाथ पञ्चमी
रश्मिभिर्विषयानत्ति । कतम आत्मेति । योऽयं शुद्धः पूतः शून्यः शान्तादि-
लक्षणोक्तः स्वकैर्लिङ्गैरुपगृह्यः । तस्यैतल्लिङ्गमलिङ्गस्यान्नेर्य दौष्ण्यमाविष्टं चाप
यः शिवतमो रस इत्येकेऽथ वाक्श्रोत्रं चक्षुर्मनः प्राण इत्येकेऽथ बुद्धिर्धृतिः
स्मृतिः प्रज्ञानमित्येके । अथ ते वा एतस्यैवं यथैवेह बीजस्याङ्कुरा वाऽथ
धूमार्चिर्विष्फुलिङ्गा इवाश्चेत्यत्रोदाहरन्ति । वह्नेश्व यद्वत्खलु विष्फुलिङ्गाः
सूर्यान्मयूखाश्च तथैव तस्य । प्राणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथा-
क्रमेण ॥ ३१ ॥ तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः
सर्वे देवाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति । भथ
यथाऽऽद्वैधाग्नेरभ्या हितस्य पृथग्धूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्य
निश्वसितमेतद्यग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्यो -
पनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि विश्वा
भूतानि ॥ ३२ ॥ पञ्चेष्टको वा एषोऽग्निः संवत्सरस्तस्येमा इष्टका यो वसन्तो
ग्रीष्मो वर्षाः शरद्धेमन्तः स शिरःपक्षसी पृष्ठपुच्छवानेषोऽग्निः पुरुषविदः सेय
प्रजापतेः प्रथमा चितिः । करैर्यजमानमन्तरिक्षमुत्क्षिप्त्वा वायवे प्रायच्छत् ।
प्राणौ वै वायुः प्राणोऽग्निस्तस्येमा इष्टका यः प्राणो व्यानोऽपानः समान
उदानः स शिरःपक्षसी पृष्ठपुच्छवानेषोऽग्निः पुरुषविदस्तदिदमन्तरिक्षं प्रजापन -
तेर्द्वितीया चितिः करैर्यं जमानं दिवमुत्क्षिप्त्वेन्द्राय प्रायच्छदसौ वा आदित्य
इन्द्रः सैषोऽग्निस्तस्येमा इष्टका यहग्यजुःसामाथर्वाङ्गिरसा इतिहासः पुराणं
स शिरःपक्षसीपुच्छपृष्ठवानेषोऽग्निः पुरुषविदः सैषा द्यौः प्रजापतेस्तृतीया
चितिः करैर्यजमानस्यात्मविदेऽवदानं करोत्यथात्मविदुत्क्षिप्य ब्रह्मणे
प्रायच्छत्तन्नाऽऽनन्दी मोदी भवति ॥ ३३ ॥ पृथिवी गार्हपत्योऽन्तरिक्षं दक्षि-</p>
<pb n="205" />
<p>ईशाधुपनिषत्सु -
[ प्रपा० ६
निद्यौराहवनीयस्तत एव पवमानपावकशुचय आविष्कृतमेतेनास्य यज्ञम् ।
यतः पवमान पावकशुचिसंघातो हि जाठरस्तस्मादग्निर्यष्टव्यश्वेतव्यः स्तोतव्योs-
भिध्यातव्यः । यजमानो हविर्गृहीत्वा देवताभिध्यानमिच्छति । हिरण्यवर्णः
शकुनो हृद्यादित्ये प्रतिष्ठितः । मदुर्हसस्तेजोवृषः सोऽस्मिन्ननौ यजामहे ॥
इति चापि मन्त्रार्थं विचिनोति । तत्सवितुर्वरेण्यं भर्गोऽत्याभिध्येयं यो
बुच्चन्तःस्थो ध्यायीह मनःशान्तिपदमनु सरत्यात्मन्येव धत्तेऽत्रेमे लोका
भवन्ति । यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यते । तथा वृत्तिक्षया चित्तं
स्वयोनावुपशाम्यते ॥ स्वयोनावुपशान्तस्य मनसः सत्यकामतः । इन्द्रियार्थ-
विमूढस्यानृताः कर्मवशानुगाः ॥ चित्तमेव हि संसारं तत्प्रयत्नेन शोधयेत् ।
चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ वित्तस्य हि प्रसादेन हन्ति
कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमक्षुते ॥ समासक्तं
यथा चित्तं जन्तोर्विषयगोचरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत
बन्धनात् ॥ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसं-
पर्काच्छुद्धं कामविवर्जितम् ॥ लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् ।
यदा यात्यमनीभावं तदा तत्परमं पदम् ॥ तावन्मनो निरोद्धव्यं हृदि
यावद्द्भुतक्षयम् । एतज्ज्ञानं च मोक्षं च शेषान्ये ग्रन्थविस्तराः ॥ समाधि-
निधौतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यते
वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥ अपामापोऽग्निरग्नौ वा
व्योम्नि व्योम न लक्षयेत् । एवमन्तर्गतं यस्य मनः स परिमुच्यते ॥ मन
एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्ग मोक्षे
निर्विषयं स्मृतमिति ॥ अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां ब्रह्मणः
पदव्योमानुस्मरणं विरुद्धं तस्मादग्निर्यष्टव्यश्वेतव्यः स्तोतव्योऽभिध्यातव्यः
॥ ३४ ॥ नमोऽग्नये पृथिवीक्षिते लोकस्मृते लोकमस्मै यजमानाय घेहि
नमो वायवेऽन्तरिक्षक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नम
आदित्याय दिविक्षिते लोकस्मृते लोकमस्मै यजमानाय धेहि नमो ब्रह्मणे
सर्वक्षिते सर्वस्मृते सर्वमस्मै यजमानाय धेहि । हिरण्मयेन पात्रेण संत्यस्या-
पिहितं सुखम् । तत्रं पूषन्नपावृणु सत्यधर्माय विष्णवे । योऽसावादित्ये
पुरुषः सोऽसावहमिति ॥ एष ह वै सत्यधर्मो यदादित्यस्यादित्यत्वं
तच्छुलं पुरुषमलिङ्गं नभसोऽन्तर्गतस्य तेजसोंऽशमात्रमेतद्यदादित्यस्य मध्य
पाठा०-१ सत्यस्याभिहितं.</p>
<pb n="206" />
<p>प्रपा० ६ ]
मैत्रायण्युपनिषत् ॥ १५ ॥</p>
<p>इत्यक्षिष्यभौ चैतद्रह्मेतदमृतमेतद्भर्गः । एतत्सत्यधर्मो नभसोऽन्तर्गतस्य
तेजसऽशमानमेतत् । यदादित्यस्य मध्येऽमृतं यस्य हि सोमः प्राणा
वाऽप्ययङ्कुरा एतद्ब्रह्म तदमृतमेतद्भर्गः । एतत्सत्यधर्मो नभसोऽन्तर्गत स्व
तेजस शमात्रमेतद्यदादित्यस्य मध्ये यजुर्दीप्यति । ओमापो ज्योती
रसोमृतं ब्रह्म भूर्भुवः स्वरोम् । अष्टपादं शुचिं हंसं त्रिसूत्र मणुमव्ययम् ।
द्विधर्मोन्ध तेजसेन्धं सर्वं पश्यन्पश्यति ॥ नभसोऽन्तर्गस्य तेजसोंऽशमात्र-
. मेतद्यदादित्यस्य मध्ये उदित्वा मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तप
एतदग्निरेतद्वायुरेतत्प्राण एतदपि एतच्चन्द्रमा एतच्छुक्रमेतदमृतम् । एतद्ब्रह्म-
विषयमेतद्भानुरर्णवस्तस्मिन्नेव यजमानाः सैन्धव इव व्लीयन्त एषा वै
ब्रह्मा हि सर्वे कामा: समाहिता इत्यत्रोदाहरन्ति । अंशुधारय
इवाणुवातेरितः संस्फुरत्यसावन्तर्गः सुराणाम् । यो हैवंवित्स सविस
द्वैतचित् सैकधामेतः स्यात्तदात्मकश्च । ये बिन्दव इवाभ्युच्चरन्त्यजस्त्रं विद्युदि-
वाभ्रार्चिषः परमे व्योमन् । तेऽर्चिषों वै यशस आश्रयवशाज्जटाभिरूपा
इव कृष्णवर्त्मनः ॥ ३५ ॥ द्वे वाव खल्वेते ब्रह्मज्योतिषो रूपके शान्तमेक
समृद्धं चैकमथ यच्छान्तं तस्याssधारं खमथ यत्समृद्धमिदं तस्यान्नं
तस्मान्मन्त्रौषधाज्या मिषपुरोडाशस्थालीपाकादिभिर्यष्टव्यमन्तर्वेद्याम् । भास्य-
वशिष्ठैरन्नपानैश्वाssस्य माहवनीयमिति मत्वा तेजसः समृच्चै पुण्यलोक-
विजित्यर्थायामृतत्वाय च । भन्नोदाहरन्ति — अग्निहोत्रं जुहुयात्स्वर्गकामो
यमराज्यमनिष्टोमेनाभियजति सोमराज्यमुक्थेन सूर्यराज्यं षोडशिना
स्वाराज्यमतिरात्रेण प्रजापत्यमासहस्र संवत्सरान्तक्रतुनेति । वयधारस्नेह-
योगाद्यथा दीपस्य संस्थितिः । अन्तर्यांण्डोपयोगादिमा स्थितावात्मशुची
तथा ॥ ३६ ॥ तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजस्तत्रेधाऽभि-
हितमन्नावादित्ये प्राणे । अथैषा नाड्यन्नबहुमित्येषाऽग्नौ हुतमादित्यं
गमयत्यतो यो रसोsस्रवत्स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजा
इत्यत्रोदाहरन्ति यद्धविरनौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मि-
भिर्वर्षति तेनान्नं भवत्यन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह । अग्नौ प्रास्ताssहुतिः
सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३७ ॥
अग्निहोत्रं जुह्वानो लोभजालं भिनत्यतः संमोहं छित्वा न क्रोधानस्तुध्वानः
काममभिध्यायमानस्ततश्चतुर्जालं ब्रह्मकोशं भिन्ददतः परमाकाशमत्र हि
-</p>
<pb n="207" />
<p>ईशायुपनिषत्सु -
[ प्रपा० ७
सौरसौम्या प्रेयसात्त्विकानि मण्डलानि भित्त्वा ततः शुद्धः सत्वान्तरस्थमच-
लममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम सत्यकाम सर्वज्ञत्वसंयुक्तं
स्वतन्त्रं चैतन्यं स्त्रे महिनि तिष्ठमानं पश्यत्यत्रोदाहरन्ति । रविमध्ये स्थितः
सोमः सोममध्ये हुताशनः । तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥
शरीरप्रादेशाङ्गुष्ठमात्र मणोरप्यणुं ध्यात्वाऽतः परमतां गच्छत्यत्र हि सर्वे
कामाः समाहिता इत्यत्रोदाहरन्ति । अङ्गुष्ठप्रादेशशरीरमात्रं प्रदीपप्रतापवद्-
द्विविधा हि । तह्माभिष्ट्यमानं महो देवो भुवनान्याविवेश । ॐ नमो
ब्रह्मणे नमः ॥ ३८ ॥
इति मैत्रायण्युपनिषत्सु षष्ठः प्रपाठकः ॥ ६ ॥
अग्निर्गायनं त्रिवृद्रथंतरं वसन्तः प्राणो नक्षत्राणि वसवः पुरस्तादुद्यन्ति
तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति । अचिन्त्योऽमूर्ती
गभीरो गुप्तोऽनवद्यो घनो गहनो निर्गुणः शुद्धो भास्वरो गुणभुग्भयोs-
निर्वृत्तिर्योगीश्वरः सर्वज्ञो मेघोऽप्रमेयोऽनाद्यन्तः श्रीमानजो धीमान निर्देश्यः
सर्वसृक्सर्वस्याssत्मा सर्वभुक्सर्वस्येशानः सर्वस्यान्तरान्तरः ॥ 9 11
इन्द्रत्रिष्टुपञ्चदशो बृहद्रीष्मो व्यानः सोमो रुद्रा दक्षिणत उद्यन्ति तपन्ति
वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्त्यनाद्यन्तोऽपरिमितोऽरिच्छिन्नोऽ-
परप्रयोज्यः स्वतन्त्रोऽलिङ्गोऽमूर्खोऽनन्तशक्तिर्घाता भास्करः ॥ २ ॥ मरुतो
जगती सप्तदशो वैरूपं वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति तपन्ति
वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोक-
मानन्दं तृप्तं स्थिरमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम ॥ ३ ॥
विश्वे देवा अनुष्टुबेकविंशो वैराजः शरत्समानो वरुणः साध्या उत्तरत
उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरे णेक्षन्त्यन्तः शुद्धः पूतः
शून्यः शान्तोऽप्राणो निरात्माऽनन्तः ॥ ४ ॥ मित्रावरुणौ पङ्किखिणवत्र-
यश शाकरवते हेमन्तशिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति
तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति प्रणवाख्यं प्रणेतारं
भारूपं विगतनिद्रं चिजरं विमृत्युं विशोकम् ॥ ५ ॥ शनिराहु केतुरगरक्षोय-
क्षनर विहगशर भेभादयोऽधस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्वि-
शन्त्यन्तर्विवरेणेक्षन्ति यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतो
भान्तः क्षान्तः शान्तः ॥ ६ ॥ एष हि खल्वात्माऽन्तर्हृदयेऽणीयानिद्धोऽग्नि-</p>
<pb n="208" />
<p>प्रपा० ७ ]
मैत्रायण्युपनिषत् ॥ २५ ॥</p>
<p>रिव विश्वरूपोऽस्यैवान्नमिदं सर्वमस्मिन्नोता इमाः प्रजाः । एष आत्माऽपहत-
पाप्मा विजरो विस्मृत्युर्विशोकोऽवि चिकित्सोऽविपाशः सत्यसंकल्पः सत्यकाम
एष परमेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एष हि
खल्वात्मेशानः शंभुवो रुद्रः प्रजापतिर्विश्वसृग्धिरण्यगर्भः सत्यं प्राणो हंसः
शास्ताऽच्युतो विष्णुर्नारायणः । यश्चैषोऽनौ यश्चायं हृदये यश्चासावादित्ये स
एष एकः । तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः ॥ ७ ॥
अथेदानीं ज्ञानोपसर्गा राजन्मोहजालस्यैष वै योनिर्यदस्वग्यैः सह
स्वर्ग्यस्यैष वाक्ये पुरस्तादुक्तेऽप्यधः स्तम्बे नाश्लिष्यन्त्यथ ये चान्ये ह
नित्यप्रमुदिता नित्यप्रवसिता नित्ययाचका नित्यं शिल्पोपजीविनोऽथ
ये चान्ये ह पुरयाचका अयाज्ययाजकाः शूद्रशिष्याः शूद्राश्च शास्त्रविद्व-
सोऽथ ये चान्ये ह चाटजटनटभटप्रव्रजितरङ्गावतारिणो राजकर्मणि
पतितादयः । अथ ये चान्ये ह यक्षराक्षसभूतगणपिशाचोरगग्रहादीनामर्थं
पुरस्कृत्य शमयाम इत्येवं ब्रुवाणा अथ ये चान्ये ह वृथा कषाय-
कुण्डलिनः कापालिनोऽथ ये चान्ये ह वृथात कंदृष्टान्त कुह केन्द्रजालै वैदिकेषु
परिस्थातुमिच्छन्ति तैः सह न संवसेत्प्रकाशभूता वै ते तस्करा अस्वर्ग्य
इत्येवं ह्याह । नैरात्म्य वा दकुह कैर्मिथ्या दृष्टान्त हेतुभिः । भ्राम्यल्लोको न
जानाति वेदविद्यान्तरं तु यत् ॥ ८ ॥ बृहस्पतिर्वै शुक्रो भूत्वेन्द्रस्याभयाया-
सुरेभ्यः क्षयामाम विद्यामसृजत्तया शिवमशिवमित्युद्दिशन्त्यशिवं शिवमिति ।
वेदादिशास्त्रहिंसकधर्माभिध्यानमस्त्विति वदन्त्यतो नैनामभिधीयेतान्यथैषा
वन्ध्येवैषा रतिमात्रं फलमस्या वृत्तच्युतस्येव नारंभणीयेत्येवं ह्याह । दूरमेते
विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सितं नचिकेतसं
मन्ये न त्वा कामा बहवो लोलुपन्ते ॥ विद्यां चाविद्यां च यस्तद्वेदो-
भयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ अविद्यायामन्तरे
वेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ ९ ॥ देवासुरा ह वै य आत्मकामा ब्रह्म-
णोऽन्तिकं प्रयातास्तस्मै नमस्कृत्वोचुर्भगवन्वयमात्मकामाः स त्वं नो ब्रूही-
त्यतश्चिरं ध्यात्वाऽमन्यतान्यतात्मानो वै तेऽसुरा अतोऽन्यतममेतेषामुक्तं
तदिमे मूढा उपजीवन्त्यभिष्वङ्गिणस्तर्याभिघातिनोऽनृताभिशंसिनः सत्यमि-
वानृतं पश्यन्ति । इन्द्रजालवदित्यतो यद्वेदेष्वभिहितं तत्सत्यं यद्वेदेषूक्तं तद्वि-
अ. उ. १३</p>
<pb n="209" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
द्वांस उपजीवन्ति । तस्माद्ब्राह्मणो नावैदिकमधीयीतायमर्थः स्यादिति ॥ १० ॥
एतद्वाव तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं तेजस्तत्रेधाऽभिहितमन्ना
आदित्ये प्राण एतद्वाव तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यदोमित्येतदक्षरम् ।
अनेनैव तदुद्बुध्यत्युदयत्युच्छ्वसित्यजखं ब्रह्मषीयालम्बं वान्त्रैव । एतत्समीरणे
प्रकाशप्रक्षेपको स्थानीयमेतद्धमस्येव समीरणे नभसि प्रशाखयैवोत्क्रम्य
स्कन्धात्स्कन्धमनुसरति । अप्सु प्रक्षेपको लवणस्येव घृतस्य चौष्ण्यमिव ।
अभिध्यातुर्विस्तृति रिवैतदित्यत्रोदाहरन्ति । अथ कस्मादुच्यते वैद्युतः । यस्मा-
दुच्चारितमात्र एव सर्व शरीरं विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरि-
मितं तेजः । पुरुषश्चाक्षुषो योऽयं दक्षिणेऽक्षिण्यवस्थितः । इन्द्रोऽयमस्य
जायेयं सव्ये चाक्षिण्यवस्थिता । समागमस्तयोरेव हृदयान्तर्गते सुषौ ।
तेजस्तलोहितस्यात्र पिण्ड एवोभयोस्तयोः ॥ हृदयादायता तावञ्चक्षुष्य-
स्मिन्प्रतिष्ठिता । सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥ मनः
कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन्मन्द्रं जनयति
स्वरम् ॥ खजाझियोगांन्हृदि संप्रयुक्तमणो णुर्हिरणुः कण्ठदेशे । जिह्वाप्रदेशे
त्र्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥ न पश्यन्मृत्युं पश्यति न रोगं
नोत दुःखताम् । सर्वं हि पश्यन्पश्यति सर्वमाप्नोति सर्वशः । चाक्षुषः
स्वमचारी च सुप्तः सुप्तात्परश्च यः । भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तु र्यं
महत्तरम् ॥ त्रिष्वेकंपाच्चरेद्रह्म त्रिपाञ्चरति चोत्तरे । सत्यानृतोपभोगार्थी
द्वैतभावो महात्मन इति द्वैतीभावो महात्मन इति ॥ ११ ॥
इति मैत्रायण्युपनिषत्सु सप्तमः प्रपाठकः ॥ ७ ॥
इति मैत्रायण्युपनिषत्समाप्ता ॥ २५ ॥
कौषीतकिब्राह्मणोपनिषत् ॥ २६ ॥</p>
<lg>
  <l>श्रीमत्कौषीतकीविद्यावेद्यप्रज्ञापराक्षरम् ।</l>
  <l>प्रतियोगि विनिर्मुक्तब्रह्ममात्रं विचिन्तये ॥</l>
</lg>
<p>ॐ वामे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । आविराविर्म-
योऽभूर्वेद सामरसाणीर्ऋतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यन्न
इळा नम इळा नम ऋषिभ्यो मन्त्रकृत्यो मन्त्रपतिभ्यो नमो वोऽस्तु देवेभ्यः
शिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि । अदब्धं
मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः ॥ १ ॥</p>
<pb n="210" />
<p>अध्या० १]
कौषीतकिब्राह्मणोपनिषत् ॥ २६ ॥</p>
<p>चित्रो ह वै गार्ग्ययणिर्यक्ष्यमाण आरुणिं वत्रे स ह पुत्रं श्वेतकेतुं
प्रजिघाय याजयेति तं हासीनं पप्रच्छ गौतमस्य पुत्रास्ति संवृतं लोके
यस्मिन्मा धास्यस्यन्यमुताहो वाध्वा तस्य मा लोके धास्यसीति । स
होवाच नाहमेतद्वेद हन्ताचार्य पृच्छानीति । स ह पितरमासाद्य पप्रच्छेतीति
माsप्राक्षीत्कथं प्रतिब्रवाणीति । स होवाचाहमप्येतन्न वेद सदस्येव वयं
स्वाध्यायमधीत्य हरामहे यः परे ददत्येद्युभौ गमिष्याव इति । स ह
समित्पाणिश्चित्रं गार्ग्यार्याणि प्रतिचक्रम उपायानीति । तं होवाच ब्रह्मार्वोऽसि
गौतम यो न मानमुपागा एहि व्येव त्वा ज्ञपयिष्यामीति ॥ १ ॥ स
होवाच ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ।
तेषां प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति । एतद्वै स्वर्गस्य
लोकस्य द्वारं यश्चन्द्रमास्तं यः प्रत्याह तमतिसृजतेऽथ य एनं न प्रत्याह
तमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो
वा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते
यथाकर्म यथाविद्यम् । तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणा-
raat रेत भृतं पञ्चदशात्प्रसूतात्पिश्यवतस्तन्मा पुंसि कर्तर्येरयध्वम् ।
पुंसा कर्त्रा मातरिम निषिक्त सजाय उपजायमानो द्वादशत्रयोदश उपमासो
द्वादशत्रयोदशेन पित्रासं तद्दिदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यव
आभरध्वम् । तेन सत्येन तेन तपसा ऋतुरस्यार्तवोऽस्मि कोऽस्मि स्वम-
स्मीति तमतिसृजते ॥ २ ॥ स एतं देवयानं पन्थानमापद्याझिलोकमा गच्छति
स वायुलोकं स आदित्यलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं
स ब्रह्मलोकं तस्य ह वा एतस्य ब्रह्मलोकस्य आरो हृदो मुहूर्ता येष्टहा
विजरा नदीत्यो वृक्षः सालज्यं संस्थानमपराजितमायतनमिन्द्र प्रजापती द्वार•
गोपौ । विभुप्रमितं विचक्षणाऽऽसन्द्यमितौजाः पर्यङ्कः प्रिया च मानसी प्रति-
रूपा च चाक्षुषी पुष्पाण्यावयतौ वै च जगान्यम्बाश्चाम्बावयवीश्चाप्सरसः ।
अम्बया नद्यस्तमित्थंविदागच्छति तं ब्रह्माहाभिधावत मम यशसा विजरां
वा अयं नदीं प्रापन्न वा अयं जरयिष्यतीति ॥ ३ ॥ तं पञ्च शतान्यप्सरसां
प्रतियन्ति शतं चूर्णहस्ताः शतं वासोहस्ताः शतं फलदस्ता: शतमाञ्जनहस्ताः
शतं माल्यहस्तास्तं ब्रह्मालंकारेणालंकुर्वन्ति स ब्रह्मालंकारेणालंकृतो ब्रह्म
विद्वान्ब्रह्माभिप्रैति स आगच्छत्यारं हृदं तं मनसाऽत्येति । तमित्वा</p>
<pb n="211" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
संप्रतिविदो मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहांस्तेऽस्मादपद्रवन्ति स
आगच्छति विजरां नदीं तां मनसैवात्येति । तत्सुकृतदुष्कृते धुनुते । तस्य
प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयन्रथंचक्रे
पर्यवेक्षत, एवमहोरात्रे पर्यवेक्षत एवं सुकृतदुष्कृते सर्वाणि च द्वंद्वानि स
एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्ब्रह्मवाभिप्रैति ॥ ४ ॥ स आगच्छतीत्यं
वृक्षं तं ब्रह्मगन्धः प्रविशति, स आगच्छति सालज्यं संस्थानं तं ब्रह्मरस:
प्रविशति, स आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स आगच्छति ।
इन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स आगच्छति विभुप्रमितं तं
ब्रह्मतेजः प्रविशति स आगच्छति विचक्षणामासन्दीं बृहद्रथंतरे सामनी
पूर्वौ पादौ श्यैतनौधसे चापरौ वैरूपवैराजे अनूच्यते शाकररैवते तिरश्श्री
सा प्रज्ञा प्रज्ञया हि विपश्यति स आगच्छत्यमितौजसं पर्यङ्कं स प्राणस्तस्य
भूतं च भविष्यच्च पूर्वौ पादौ श्रीश्वेरा चापरौ बृहद्रथंतरे अनूच्ये भद्रय-
ज्ञायज्ञीये शीर्षण्ये ऋचश्च सामानि च प्राचीनातानानि यजूंषि तिरश्चीनानि
सोमांशव उपस्तरणमुद्गीथ उपश्रीः श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते तमित्थं-
विपादेनैवा आरोहति । तं ब्रह्मा पृच्छति कोऽसीति तं प्रतिब्रूयात् ॥ ५ ॥
ऋतुरस्म्यातैवोऽस्म्याकाशाद्योनेः संभूतो भार्या एतत्संवत्सरस्य तेजो भूतस्य
भूतस्य भूतस्य भूतस्यात्मा त्वमात्मासि यस्त्वमसि सोऽहमस्मीति तमाह
कोऽहमस्मीति सत्यमिति ब्रूयात्किं तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्च
तत्सद यद्देवाश्च प्राणाश्च तत्त्यं तदेतया वाचाऽभिव्याह्रियते सत्यमित्येताव-
दिदं सर्वमिदं सर्वमसि । इत्येवैनं तदाह । तदेतदृक् श्लोकेनाभ्युक्तम्-
यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति स विज्ञेय ऋषिर्ब्रह्ममयो
महानिति । तमाह न मे पौंस्यानि नामान्याशोषीति प्राणेनेति ब्रूयात् ।
the aीनामानीति वाचेति केन नपुंसकानीति मनसेति केन गन्धानिति प्राणे-
नेत्येव ब्रूयात् । केन रूपाणीति चक्षुषेति केन शब्दानिति श्रोत्रेणेति केनान्न-
रसानिति जिह्वयेति केन कर्माणीति हस्ताभ्यामिति केन सुखदुःखे इति शरीरे-
ति केनानन्दं रतिं प्रजातिमित्युपस्थेनेति । केनेत्या इति पादाभ्यामिति
केन धियो विज्ञातव्यं कामानिति प्रज्ञयेति ब्रूयात्तमाह । आपो वै खलु मे
सावयं ते लोक इति सा या ब्रह्मणो जितिर्या व्यष्टिस्तां जिति जयति तां
व्यष्टिं व्यनुते य एवं वेद य एवं वेद ॥ ६ ॥
इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥</p>
<pb n="212" />
<p>अध्या० २ ]
कौषीतकिब्राह्मणोपनिषत् ॥ २६ ॥</p>
<note>१९७.</note>
<p>द्वितीयोऽध्यायः ॥ २ ॥
प्राणो ब्रह्मेति ह माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो
मनो दूतं वाक्परिवेष्ट्री चक्षुर्गोप्तृ श्रोत्र संश्रावयितृ तस्मै वा एतस्मै प्राणाय
ब्रह्मणे एताः सर्वा देवता अयाचमानाय बाल हरन्ति तथो एवास्मै सर्वाणि
भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति ।
तद्यथा ग्रामं भक्षित्वाऽलब्ध्वोपविशेन्नाहमतो दत्तमश्नीयामिति । य एवैनं
पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त इति । एष धर्मों याचितो
भवति । अन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति । प्राणो ब्रह्मेति ह स्माह
पैयस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ताच्चक्षुरारुन्धे 'चक्षुः
परस्ताच्छ्रोत्रमारुन्धे श्रोत्रं परस्तान्मन आरुन्धे मनः परस्तात्प्राण आरुन्धे
तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं
हरन्ति तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं
वेद तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भक्षित्वाऽलब्ध्वोपविशेन्नाहमतो
दत्तमश्नीयामिति य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम
त इत्येष धर्मो याचितो भवत्यन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥ १ ॥
अथात एकधनावरोधनं यदेकधनमभिध्यायात्पौर्णमास्यां वाऽमावास्यायां
वा शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्यो-
त्पूय दक्षिणं जान्वाच्य स्रुवेण वा चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति
वाङ्नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा ।
प्राणो नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा ।
चक्षुर्नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । श्रोत्रं
नाम देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । मनो नाम
देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । प्रज्ञा नाम
देवताऽवरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहेत्यथ धूमगन्धं
प्रजिघ्रायाज्यलेपेनाङ्गान्यनु विमृज्य वाचंयमोऽभिप्रव्रज्यार्थं बुवीत दूर्त
वा प्रहिणुयाल्लभते हैव ॥ २ ॥ अथातो दैवः स्मरो यस्य प्रियो बुभूषेद्यस्यै
वा एषां वै तेषामेवैकस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता आज्याहु-
तीर्जुहोति वाचं ते मयि जुहोम्यसौ स्वाहा । प्राणं ते मयि जुहोम्यसौ
स्वाहा । चक्षुस्ते मयि जुहोम्यसौ स्वाहा । श्रोनं ते मयि जुहोम्यसौ स्वाहा ।</p>
<pb n="213" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
मनस्ते मयि जुहोम्यसौ स्वाहा । प्रज्ञां ते मयि जुहोम्यसौ स्वाहेत्यथ धूम-
गन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनु विसृज्य वाचंयमोऽभिप्रव्रज्य संस्पर्श
जिगमिषेदपि वाता संभाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्ति
हैवास्मात् ॥ ३ ॥ अथातः सांयमनं प्रातर्दनमान्तरमग्निहोत्रमिति
चाचक्षते यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि
जुहोति यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति ।
एते अनन्ते अमृताहुती जाग्रच्च स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्या
आहुतयोऽन्तवत्यस्ताः कर्ममय्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं न
जुवांचक्रुः । उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारस्तदृगित्युपासीत सर्वाणि
'मै भूतानि श्रष्ठायाभ्यर्चन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि
श्रेष्ठाय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठयाय संनमन्ते
तच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छत्राणां
श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं विद्वान्सर्वेषां भूतानां
श्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति । तमेतमैष्टकं कर्ममयमात्मानम-
ध्वर्युः संस्करोति तशिष्य प्रवयति यजुर्मय ऋङ्मयं होता ऋये साम-
ममुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ एवास्यात्मा एतदात्मा
भवति य एवं वेद ॥ ४ ॥ अथातः सर्वजितः कौषीतके स्त्रीण्युपासनानि भवन्ति
यज्ञोपवीतं कृत्वाऽप आचम्य त्रिरुदपात्रं प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत
वर्गोंऽसि पाप्मानं मे वृधीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानं
म उद्वृङ्घीत्येतयैवावृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संवृधीति ।
यदहोरात्राभ्यां पापं करोति सं तद्वृङ्क्ते । अथ मासि मास्यमावास्यायां पश्चा-
चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता हरिततृणाभ्यां वाक्प्रत्यस्यति यत्ते
सुसीमं हृदयमधि चन्द्रमसि श्रितं तेनामृतत्वस्येशाने माऽहं पौत्रमघं रुदमिति
न हास्मात्पूर्वाः प्रजाः प्रतीति नु जातपुत्रस्याथाजातपुत्रस्याप्यायस्व समेतु ते
सं ते पयांसि समु यन्तु वाजा यमादित्या अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो
जपित्वा माऽस्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठा योऽस्मान्द्वेष्टि यं च
वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिराप्याययस्वेति दैवीमावृतमावर्त आदि-
त्यस्यावृतमन्वावर्त इति दक्षिणं बाहुमन्वावर्तते ॥ ५ ॥ अथ पौर्णमास्यां
पुरस्ताच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजाऽसि विचक्षणः</p>
<pb n="214" />
<p>अध्या० २]
कौषीतकिब्राह्मणोपनिषत् ॥ २६ ॥
.१९९
पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं तेन मुखेन राज्ञोऽत्सि तेन मुखेन
मामनादं कुरु राजा त एकं मुखं तेन मुखेन विशोऽत्सि तेन मुखेन मामन्नादं
कुरु श्येनस् एकं मुखं तेन मुखेन पक्षिणोऽसि तेन मुखेन मामन्नादं कुर्षझिष्ट
एकं मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वयि पञ्चमं
मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुरु माऽस्माकं
प्राणेन प्रजया पशुभिरवक्षेष्ठा योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन
प्रजया पशुभिरवक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्त
इति दक्षिण बाहुमन्वावर्तते । अथ संवेश्यञ्जायायै हृदयमभिमृशेद्यत्ते
सुसीमे हृदये हितमन्तः प्रजापतौ मन्येऽहं मां तद्विद्वांसं तेन माऽहं
पौत्रमघं रुदमिति न हास्मात्पूर्वाः प्रजाः प्रैतीति ॥ ६ ॥ अथ
प्रोष्यायन्पुत्रस्य मूर्धानमभिमृशेत् । अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
आत्मा त्वं पुत्र माविथ स जीव शरदः शतमसाविति नामांस्य
गृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव तेजो वै पुत्रनामासि
स जीव शरदः शतमसाविति नामास्य गृह्णाति येन प्रजापतिः प्रजाः
पर्यगृह्णादरिष्ट्यै तेन त्वा परिगृह्णाम्यसाविति नामास्य गृह्णात्यथास्य
दक्षिणे कर्णे जपत्यस्मै प्रयन्धि मघवन्नृजीषिन्नतीन्द्र श्रेष्ठानि द्रविणानि
धेहीति सव्ये मा च्छित्था मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र ते
नाम्ना मूर्धानमवजिघ्राम्यसाविति त्रिर्मूर्धानमवजिघ्रेगवां त्वा हिंकारेणाभि हिं
करोमीति त्रिर्मूर्धानमभि हिं कुर्यात् ॥ ७ ॥ अथातो देवः परिमर एतद्वै
ब्रह्म दीप्यते यदग्निर्ज्वलत्यथैतन्त्रियते यन्न ज्वलति तस्यादित्यमेव तेजो
गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यदादित्यो दृश्यतेऽथैतन्त्रियते - यन्न
दृश्यते तस्य चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म. दीप्यते
यच्चन्द्रमा दृश्यते । अथैतन्त्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छति
वायुं प्राण एतद्वै ब्रह्म दीप्यते यद्विद्युद्विद्योततेऽथैतन्त्रियते यन्न विद्योतते
तस्य वायुमेव तेजो गच्छति वायुं प्राणः । ता वा एताः सर्वा देवता
वायुमेव प्रविश्य वायौ मृता न मृच्छन्ते तस्मादेव उ पुनरुदीरत इत्यधिदैव-
तमथाध्यात्ममेतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्त्रियते यन्न वदति तस्य
चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्चक्षुषा पश्यत्यथै-
तन्त्रियते यन्न पश्यति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म</p>
<pb n="215" />
<p>.</p>
<p>ईशाधुपनिषत्सु -
[ अध्या० २
दीप्यते यच्छ्रोत्रेण शृणोत्ययैतन्त्रियते यन्न शृणोति तस्य मने एव तेजो
गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा ध्यायत्यथैतन्त्रियते यन
ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता वा एताः सर्वा देवताः
प्राणमेव प्रविश्य प्राणे मृता न मृच्छन्ते तस्मादेव उ पुनरुदीरते तद्यदि ह वा
एवं विद्वांस उभौ पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणौ दक्षिणश्चोत्तरश्च न हैवैनं
स्तृण्वीयाताम् । अथ य एनं द्विषन्ति यांश्च स्वयं द्वेष्टि त एनं सर्वे परिम्रियन्ते
॥८॥ अथातो निःश्रेयसादानं सर्वा ह वै देवता अहंश्रेयसे विवदमानाः । अस्मा-
च्छरीरादुश्चक्रमुस्तद्दारुभूतं शिश्येऽथैनद्वाक्प्रविवेश तद्वाचा वदच्छिश्य एव ।
अथैनच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छिश्य एवाथैनच्छ्रोत्रं प्रविवेश
तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वच्छिश्य एवाथैनन्मनः प्रविवेश
तद्वाचावदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिश्य एवाथैनत्प्राणः
प्रविवेश तत्तत एव समुत्तस्थौ ते देवाः प्राणे निःश्रेयसं विदित्वा प्राणमेव
प्रज्ञात्मानमभिसंभूय सहैतैः सर्वैरस्माल्लोकादुच्चक्रमुः । ते वायुप्रतिष्ठा आका-
शात्मानः स्वरीयुस्तथो एवैवं विद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभि-
संभूय सहतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठ आकाशात्मा स्वरेति
स तद्भवति यत्रैते देवास्तत्प्राप्य तदमृतो भवति यदमृता देवाः ॥ ९ ॥
अथातः पितापुत्रीयं संप्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयति
नवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन
वाससा संप्रच्छन्नः स्वयं श्येत एत्य पुत्र उपरिष्टादभिनिपद्यते, इन्द्रियैरस्ये-
न्द्रियाणि संस्पृश्यापि वाऽस्याभिमुखत एवासीताथास्मै संप्रयच्छति वाचं
मे cafe दुधानीति पिता वाचं ते मयि दूध इति पुत्रः प्राणं मे त्वयि दधा-
नीति पिता प्राणं ते मयि दध इति पुत्रः । चक्षुर्मे त्वयि दधानीति पिता
चक्षुस्ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते मयि
दध इति पुत्रः । अन्नरसान्मे त्वयि दुधानीति पिता अन्नरसांस्ते मयि दध इति
पुत्रः । कर्माणि मे त्वयि दुधानीति पिता कर्माणि ते मयि दध इति पुत्रः ।
सुखदुःखे मे त्वयि दधानीति पिता सुखदुःखे ते मयि दूध इति पुत्रः ।
आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिता, आनन्दं रतिं प्रजाति
ते मयि दूध इति पुत्रः । इत्या मे त्वयि दधानीति पिता, इत्यास्ते
मयि दूध इति पुत्रः । धियो विज्ञातव्यं कामान्मे त्वयि दुधानीति पिता</p>
<pb n="216" />
<p>अध्या० ३]
कौषीतकिब्राह्मणोपनिषत् ॥ २६ ॥</p>
<p>धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रः । अथ दक्षिणावुत्प्राडु-
- निष्क्रामति तं पिताऽनुमन्त्रयते यशो ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषता-
मित्यथेतरः सव्यमंसमन्ववेक्षते पाणिनाऽन्तर्धाय वसनान्तेन वा प्रच्छाद्य
स्वर्गौल्लोकान्कामानामुहीति स यद्यगदः स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परिवा
व्रजेद्य वै प्रेयाद्यदेवैनं समापयति तथा समापयितव्यो भवति तथा
समापयितव्यो भवति ॥ १० ॥
इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ॥ ३॥
ॐ प्रतर्दनो ह दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम । युद्धेन च पौरुषेण च तं
हेन्द्र उवाच । प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः । त्वमेव मे वृणीष्व
यं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच । न वै वरोऽवरस्मै
वृणीते त्वमेव वृणीष्वेत्येवमवरो वै किल म इति होवाच प्रतर्दनोऽथो
खल्विन्द्रः सत्यादेव नेयाय । सत्यं हीन्द्रः स होवाच । मामेव विजानीत -
देवाहं मनुष्याय हिततमं मन्ये । यन्मां विजानीयात् । त्रिशीर्षाणं त्वाष्ट्र-
महनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छं बह्वीः संधा अतिक्रम्य दिवि
प्रह्लादयान तृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् । तस्य में
तत्र नोम च मा मीयते । स यो मां विजानीयान्नास्य केन च कर्मणा
लोको मीयते । न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया नाय
पापं च न चकृषो मुखान्नीलं वेतीति ॥ १ ॥ स होवाच प्राणोऽस्मि प्रज्ञात्मा
तं मामायुरमृतमित्युपास्स्व । आयुः प्राणः प्राणो वा आयुः प्राण
एवामृतम् । यावद्ध्यस्मिन्दशरीरे प्राणो वसति तावदायुः । प्राणेन वा-
मुष्मिँल्लोकेऽमृतत्वमाप्नोति । प्रज्ञया सत्यं संकल्पम् । स यो ममायुर-
मृतमित्युपास्ते सर्वमायुरस्मिँल्लोक एति । आप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके ।
तद्वैक आहुरेकभूयं वै प्राणा गच्छन्तीति । न हि कश्चन शक्नुयात्सकृद्वाचा
नाम प्रज्ञापयितुं चक्षुषा रूपं श्रोत्रेण शब्दं मनसा ध्यातुमित्येकभूयं वै
प्राणाः । एकैकमेतानि सर्वाण्येव प्रज्ञापयन्ति । वाचं वदन्तीं सर्वे प्राणा
अनुवदन्ति । चक्षुः पश्यत्सर्वे प्राणा अनु पश्यन्ति श्रोत्रं शृण्वत्सर्वे प्राणा
अनुशृण्वन्ति मनो ध्यायत्सर्वे प्राणा अनुध्यायन्ति प्राणं प्राणन्तं सर्वे
प्राणा अनुप्राणन्तीति । एवमु हैतदिति हेन्द्र उवाच । अस्ति त्वेव प्राणानां
निःश्रेयसमिति ॥ २ ॥ जीवति वागतो मूकान्हि पश्यामो जीवति चक्षु-</p>
<pb n="217" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ३
पेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति
मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्न इति ।
एवं हि पश्याम इति । अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थाप-
यति । तस्मादेतदेवोऽथमुपासीत । यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स
`आणः । सह ह्येतावस्मिन्शरीरे वसतः सहोष्कामतस्तस्यैषैव दृष्टिः । एतद्विज्ञा-
नम् । यत्रैतत्पुरुषः सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति ।
तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं
सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति । स यदा प्रतिबुध्यते ।
यथाग्नेज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः
आणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः । तस्यैषैव
सिद्धिः । एतद्विज्ञानम् । यत्रैतत्पुरुष आर्तो मरिष्यन्नाबल्यं न्येत्य संमोहं
न्येति तदाहुः । उदक्रमीच्चित्तम् । न शृणोति न पश्यति न वाचा
चदति न ध्यायत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः
सर्वैः सहायेति यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा विप्रति-
श्रन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो
लोकाः ॥ ३ ॥ स यदाऽस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति वाग-
स्मात्सर्वाणि नामान्यभिविसृजते । वाचा सर्वाणि नामान्याप्नोति प्राणोऽस्मा-
त्सर्वान्गन्धानभिविसृजते प्राणेन सर्वान्गन्धानाप्नोति चक्षुरस्मात्सर्वाणि
'रूपाण्यभिविसृजते चक्षुषा सर्वाणि रूपाण्याप्नोति श्रोत्रमस्मात्सर्वाशब्दान-
भिविसृजते श्रोत्रेण सर्वान्शब्दानाप्नोति मनोऽस्मात्सर्वाणि ध्यानान्यभिवेि-
सृजते मनसा सर्वाणि ध्यानान्याप्नोति सैषा प्राणे सर्वाप्तिः । यो वै प्राणः</p>
<lg>
  <l>सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतावस्मिशरीरे वसतः सहोत्क्रामतः ।</l>
  <l>अथ खलु यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्यामः ॥</l>
</lg>
<p>॥ ४ ॥ वागेवास्या एकमङ्गमदूहूळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा ।
प्राण एवास्या एकमङ्गमदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षु-
देवास्या एकमङ्गमदूहूळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या
एकमङ्गमदूहूळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एकमङ्ग-
अदूहूळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या एकमङ्गम-</p>
<pb n="218" />
<p>अध्या० ३ ]
कौषीतकिब्राह्मणोपनिषत् ॥ २६ ॥</p>
<p>दूहूळ तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एकमङ्गमदूळं
तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या एकमङ्गमदूहूळं
तस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादावेवास्या एक-
मङ्गमदूळ तयोरित्याः परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्ग-
मंदूह्ळं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता भूतमात्रा ॥ ५ ॥
प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति । प्रज्ञया प्राणं समारुह्य
प्राणेन सर्वान्गन्धानामोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति
प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वान्शब्दानाप्नोति प्रज्ञया जिह्वां समारुह्य
जिह्वया सर्वानन्नरसानाप्नोति प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्मा-
ण्याप्नोति प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थं
समारुह्योपस्थेनानन्दं रतिं प्रजातिमाप्नोति प्रज्ञया पादौ समारुह्य पादाभ्यां
सर्वा इत्या आमोति प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामा-
नाप्नोति ॥ ६ ॥ न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञापयेत् । अन्यत्र मे
मनोऽभूदित्याह । नाहमेतन्नाम प्राज्ञासिषमिति । न हि प्रज्ञापेतः प्राणो गन्धं
कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति । न
हि प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतद्रूपं
प्राज्ञासिषमिति न प्रज्ञापेतं श्रोतं शब्दं कंचन प्रज्ञापयेदन्यत्र मे मनोऽभूदि-
त्याह । नाहमेतं शब्दं प्राज्ञासिषमिति न हि प्रज्ञापेता जिह्वाऽन्नरसं कंचन
प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतमन्नरसं प्राज्ञासिषमिति न
प्रज्ञा हस्तौ कर्म किंचन प्रज्ञापयेतामन्यत्र मे मनोऽभूदित्याह नाहमेतत्कर्म
प्राज्ञासिषमिति न हि प्रज्ञापेतं शरीरं सुखं दुःखं किंचन प्रज्ञापयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतत्सुखं दुःखं प्राज्ञासिषमिति न हि प्रज्ञापेत उपस्थ
आनन्दं रतिं प्रजातिं कांचन प्रज्ञापयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतमानन्दं
न रतिं न प्रजातिं प्राज्ञासिषमिति न हि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापये-
तामन्यत्र मे मनोऽभूदित्याह । नाहमेतामित्यां प्राज्ञासिषमिति । न हि प्रज्ञापेता
धीः काचन सिध्येन्न प्रज्ञातव्यं प्रज्ञायेत ॥ ७ ॥ न वाचं विजिज्ञासीत
वक्तारं विद्यान्न गन्धं विजिज्ञासीत घ्रातारं विद्यान्न रूपं विजिज्ञासीत रूप-
विद्यं विद्यान्न शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं विजिज्ञासीतान्नरसस्य
विज्ञातारं विद्यान कर्म विजिज्ञासीत कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत</p>
<pb n="219" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ४
सुखदुःखयोर्विज्ञातारं विद्यान्नानन्दं न रतिं न प्रजातिं विजिज्ञासीतानन्दस्य
रतेः प्रजातेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं विद्यात् । न मनो विजिज्ञा-
सीत मन्तारं विद्यात् । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा
अधिभूतं यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युर्न
भूतमात्राः स्युः । न ह्यन्यतरतो रूपं किंचन सिध्येत् । नो एतन्नाना, तद्यथा
रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रा-
स्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरो-
sमृतः । न साधुना कर्मणा भूयानो एवासाधुना कनीयान् । एष ह्येवैनं साधु
कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवैनमसाधु कर्म
कारयति तं यमधो निनीषते । एष लोकपाल एष लोकाधिपतिरेष सर्वेशः
स म आत्मेति विद्यात्स म आत्मेति विद्यात् ॥ ८ ॥
इति ऋग्वेदान्तर्गतकौषीतकि ब्राह्मणारण्यकोपनिषत्सु
तृतीयोऽध्यायः ॥ ३ ॥
चतुर्थोऽध्यायः ॥ ४ ॥
अथ गार्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोsवददुशीनरेषु स
वसन्मत्स्येषु कुरुपञ्चालेषु काशिविदेहेष्विति स हाजातशत्रुं काश्यमेत्योवाच ।
ब्रह्म ते वाणीति तं होवाचाजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको
जनक इति वा उ जना धावन्तीति ॥ १ ॥ आदित्ये बृहचन्द्रमस्यन्नं विद्युति
सत्यं स्तनयित्तौ शब्दो वायाविन्द्रो वैकुण्ठ आकाशे पूर्णमनौ विषासहिरित्यप्सु
तेज इत्यधिदैवतमथाध्यात्ममादर्शे प्रतिरूपश्छायायां द्वितीयः प्रतिश्रुत्काया-
मसुरिति शब्दे मृत्युः स्वमे यमः शरीरे प्रजापतिर्दक्षिणेऽक्षिणि वाचः सव्येऽ-
क्षिणि सत्यस्य ॥ २ ॥ स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः । बृहन्पाण्डरवासा अतिष्ठाः
सर्वेषां भूतानां मूर्धेति वा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः
सर्वेषां भूतानां मूर्धा भवति ॥ ३ ॥ स होवाच बालाकिर्य एवैष चन्द्रमसि
पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः सोमो
राजाऽन्नस्यात्मेति वा अहमेतमुपास इति स यो मेवमुपासतेऽन्नस्यात्मा भवति
॥ ४ ॥ स होवाच बालाकिर्य एवैष विद्युति पुरुषस्तमेवाहमुपास इति
तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपास
इति स यो हैतमेवमुपास्ते तेजस आत्मा भवति ॥ ५ ॥ स होवाच</p>
<pb n="220" />
<p>अध्या० ४ ]
कौषीतकि ब्राह्मणोपनिषत् ॥ २६ ॥</p>
<p>बालाकिर्य एवैष स्तनयित्तौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा
'मैतस्मिन्संवादयिष्ठाः शब्दस्यात्मेति वा अहमेतमुपास इति स यो हैतमेव-
मुपास्ते शब्दस्यात्मा भवति ॥ ६ ॥ स होवाच बालाकिर्य एवैष आकाशे
पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः पूर्णस-
प्रवर्ति ब्रह्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजया
पशुभिः । नो एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥ ७ ॥ स होवाच
बालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैत-
स्मिन्संवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स
यो हैतमेवमुपास्ते । जिष्णुर्ह वापराजयिष्णुरन्यतस्त्यजायी भवति ॥ ८ ॥
स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजात-
शर्मा मैतस्मिन्संवादयिष्ठा विषासहिरिति वा अहमेतमुपास इति स यो हैत-
मेवमुपास्ते विषासहि हैवान्वेष भवति ॥ ९ ॥ स होवाच बालाकिर्य एवैषो -
sy पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा
नाम्न आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न आत्मा
भवतीत्यधिदैवतमथाध्यात्मम् ॥ १० ॥ स होवाच बालाकिर्य एवैष आदर्शे
पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रति-
रूप इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य
प्रजायामाजायते नाप्रतिरूपः ॥ ११ ॥ स होवाच बालाकिर्य एवैष प्रतिक्षु-
त्कायां पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा
द्वितीयोऽनपग इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते
द्वितीयाद्वितीयवान्भवति ॥ १२ ॥ स होवाच बालाकिर्य एवैष शब्दः
पुरुषमन्वेति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा
असुरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा पुरा कालात्संमोहमेति ॥ १३ ॥ स होवाच बालाकिर्य एवैष छाया-
पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा
मृत्युरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा पुरा कालात्प्रमीयते ॥ १४ ॥ स होवाच बालाकिर्य एवैष शारीरः पुरु-
षस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रजापति-
रिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया</p>
<pb n="221" />
<p>ईशायुपनिषत्सु -
[ अध्या० ४
पशुभिः ॥ १५ ॥ स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्पुरुषः
सुप्तः स्वप्न्यया चरति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मि
संवादयिष्ठा यमो राजेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्व
हास्मा इदं ष्टया यम्यते ॥ १६ ॥ स होवाच बाला किर्य एवैष दक्षिणेs-
क्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा
नान आत्माऽग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपास इति स यो हैत-
मेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥ १७ ॥ स होवाच बाला किर्य एवैष
सव्येऽक्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवाद-
यिष्ठाः सत्यस्यात्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स
यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥ १८ ॥ तत उ ह बाला-
किस्तूष्णीमास तं होवाचाजातशत्रुः । एतावन्नु बालाका ३ इ इत्येतावद्धीति
होवाच बालाकिस्तं होवाचाजातशत्रुर्मृषा वै किल मा समवादयिष्टा ब्रह्म ते
ब्रवाणीति । स होवाच । यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म
सवै वेदितव्य इति तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीति
तं होवाचाजातशत्रुः प्रतिलोमरूपमेव तत्स्याद्यत्क्षत्रियो ब्राह्मणमुपनयेत् ।
एहि व्येव त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवब्राज तौ ह सुतं पुरुष-
माजग्मतुस्तं हाजातशत्रुरामन्त्रयांचक्रे । बृहन्पाण्डरवासः सोम राजन्निति ।
स उ ह तूष्णीमेव शिश्ये । तत उ हैनं यष्ट्या विचिक्षेप स तत एव समु-
तस्थौ तं होवाचाजातशत्रुः । चैष एतद्वालाके पुरुषोऽशयिष्ट नैतदभू-
कुत एतदागा३दिति । तत उ ह बालाकिर्न विजज्ञे तं होवाचाजातशत्रुर्यत्रैष
एतद्वाला पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागादिति । हिता नाम हृदयस्य
नाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशो विपाटितस्ताव -
दण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ति । शुक्कस्य कृष्णस्य पीतस्य लोहितस्येति तासु
तदा भवति । यदा सुप्तः स्वप्न न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति
तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः
शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते
यथाऽझेलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नैवमेवैतस्मादात्मनः
प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ॥ १९ ॥
तद्यथा क्षुरः क्षुरधानेऽवहितः स्यात् । विश्वंभरो वा विश्वभरकुलाय एवमेवैष
.</p>
<pb n="222" />
<p>ब्राह्म० १]
बृहज्जाबालोपनिषत् ॥ २६ ॥</p>
<p>प्रज्ञ आत्मेदंशरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यः । तमेतमा-
त्मामेनत आत्मानोऽन्ववस्यन्ति यथा श्रेष्ठिनं स्वाः । तद्यथा श्रेष्ठी स्वर्भुङ्के
यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते । एवं वै
तमात्मानमेत आत्मानो भुञ्जन्ति । स यावद्ध वा इन्द्र एतमात्मानं न
विजज्ञे तावदेनमसुरा अभिबभूवुः । स यदा विजज्ञेऽथ हत्वाऽसुरान्विजित्य
सर्वेषां देवानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं परीयाय तथो एवैवं विद्वान्सर्वा -
न्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद
य एवं वेद ॥ २० ॥
ऋतं वदिष्यामि । सत्यं वदिष्यामि० । वाङ्मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितमाविराविर्मर्योऽभूर्वेदसा मत्साणीऋतं मा मा
हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यन्न इळा नम इळा नम ऋषिभ्यो मत्रकृच्यो
मन्त्रपतिभ्यो नमोsस्तु देवेभ्यः शिवा नः शतमा भव सुमृळीका सरस्वति
मा ते व्योम संदृशि । अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे
मा मा हिंसीः ॥ १ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति ऋग्वेदान्तर्गतकौषीतकि ब्राह्मणारण्यकोपनिषत्सु
चतुर्थोऽध्यायः ॥ ४ ॥
इति कौषीतकि ब्राह्मणोपनिषत्समाप्ता ॥ २६ ॥</p>
<lg>
  <l>बृहज्जाबालोपनिषत् ॥ २७ ॥</l>
  <l>यज्ज्ञानाभिः स्वातिरिक्तभ्रमं भस्म करोति तत् ।</l>
  <l>बृहज्जाबालनिगमशिरोवेद्यमहं महः ॥</l>
  <l>भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>ॐ अपो वा इदमासीत्सलिलमेव ॥ स प्रजापतिरेकः पुष्करपर्णे समभ-
वत् ॥ तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति । तस्माद्यत्पुरुषो
मनसाभिगच्छति तद्वाचा वदति । तत्कर्मणा करोति । तदेषाभ्यनूक्ता ।
कामस्तदग्रे समवर्तताधि । मनसा रेतः प्रथमं यदासीत् । सतो बन्धुमसत
निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति । उपैनं तदुपनमति । यत्कामो
भवति । य एवं वेद । स तपोऽतप्यत । स तपस्तध्वा स एतं भुसुण्डः
कालाग्रिरुद्रमगमदागत्य भो विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचत् भुसुण्डं</p>
<pb n="223" />
<p>ईशाद्युपनिषत्सु -
[ ब्राह्म० २
चक्ष्यमाणं किमिति विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्प-
लादेन सहोक्तमिति तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति । बृहज्जाबाला-
भिधां मुक्तिश्रुतिं ममोपदेशं कुरुष्वेति । ॐ तथेति सद्योजातात्पृथिवी ।
तस्याः स्यान्निवृत्तिः । तस्याः कपिलवर्णानन्दा । तद्गोमयेन विभूतिर्जाता ।
वामदेवादुदकम् । तस्मात्प्रतिष्ठा । तस्याः कृष्णवर्णा भद्रा । तद्गोमयेन भसितं
जातम् । आघोराद्वंह्निः । तस्माद्विद्या । तस्या रक्तवर्णा सुरभिः । तद्गोमयेन
भस्म जातम् । तत्पुरुषाद्वायुः । तस्माच्छान्तिः । तस्याः श्वेतवर्णा सुशीला ।
तस्या गोमयेन क्षारं जातम् । ईशानादाकाशम् । तस्माच्छान्त्यतीता ।
तस्याश्चित्रवर्णा सुमनाः । तद्गोमयेन रक्षा जाता । विभूतिर्भसितं भस्म
क्षरं रक्षेति भस्मानो भवन्ति पञ्च नामानि । पञ्चभिर्नामभिर्भृशमैश्वर्यकार-
णाद्भूतिः । भस्म सर्वांघभक्षणात् । भासनाद्भसितम् । क्षारणादापदां क्षारम् ।
भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षणाद्वक्षेति ॥
1
इति श्रीबृहज्जाबालोपनिषत्सु प्रथमं ब्राह्मणम् ॥ १ ॥
अथ भुसुण्डः कालाग्निरुद्र मनीषोमात्मकं भस्मस्नानविधिं पप्रच्छ । अग्नि-
येथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एवं भस्म सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते । रौद्री
घोरा या तैजसी तनूः । सोमः शक्त्यमृतमयः शक्तिकरी तनूः । अमृतं
यत्प्रतिष्ठा सा तेजोविद्या कला स्वयम् । स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी
॥ १ ॥ द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्च
सोमात्मा चानलात्मिका ॥ २ ॥ वैद्युदादिमयं तेजो मधुरादिमयो रसः ।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ ३ ॥ अग्नेरमृतनिष्पत्तिरस्मृतेनाग्निरेधते ।
अत एव हविः संतमनीषोमात्मकं जगत् ॥ ४ ॥ ऊर्ध्वशक्तिमयः सोम अधो-
शक्तिमयोऽनलः । ताभ्यां संपुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥ ५ ॥ अग्ने-
रूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् । यावदभ्यात्म के सौम्यममृतं विसृज-
त्यधः ॥ ६ ॥ अत एव हि कामाग्निरधस्ताच्छक्तिरूर्ध्वगा । यावदादहनश्चो-
र्ध्वमधस्तात्पावनं भवेत् ॥ ७ ॥ आधारशक्त्यावष्टतः कालाग्निरयमूर्ध्वगः ।
तथैव निमग्नः सोमः शिवशक्तिपदास्पदः ॥ ८ ॥ शिवश्चोर्ध्वमयः शक्तिरूर्ध्व-
शक्तिमयः शिवः । तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥ ९ ॥
असकुच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् । अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म</p>
<pb n="224" />
<p>ब्राह्म० ३]
बृहज्जाबालोपनिषत् ॥ २७ ॥
-२०९
यत्ततः ॥ १० ॥ यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना । अग्निं-
रित्यादिभिर्मन्त्रैर्दग्धपापः स मुच्यते ॥ ११ ॥ अग्नेर्वीर्यं च तद्भस्म सोमेनाफ्लावितं
पुनः । अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १२ ॥ योगयुक्त्या तु
तद्भस्म लाव्यमानं समंततः । शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥ १३ ॥
अतो मृत्युंजयायेत्थममृतप्लावनं सताम् । शिवशक्त्यमृतस्पर्शे लब्ध एव
कुतो मृतिः ॥ १४ ॥ यो वेद गहनं गुह्यं पावनं च तथोदितम् । अग्नीषोमपुटं
कृत्वा न स भूयोऽभिजायते ॥ १५ ॥ शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन
यः । लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पत
इति ॥ १६ ॥
इति श्रीबृहज्जाबालोपनिषत्सु द्वितीयं ब्राह्मणम् ॥ २॥
अथ भुसुण्डः कालाग्निरुद्र विभूतियोगमनुब्रूहीति स होवाच । विकटाङ्गा-
मुन्मत्तां महाखला मलिनामशिवादिचिह्नान्वितां पुनर्धेनुं कृशाङ्गां वत्सहीनाम-
शान्तामदुग्धदोहिनी निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं संधिनीं
नवप्रसूत रोगात गां विहाय प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभे
स्थाने वा पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्द्रव्येन गोमयग्रहणे कपिला वा
धवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता कपिलागोर्भस्मोक्तं लब्धं
गोभस्म नो चेदन्यगोक्षारं यत्र क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितं
धार्यम् । तत्रैते श्लोका भवन्ति - विद्या शक्तिः समस्तानां शक्तिरित्यभिधीयते ।
गुणत्रयाया विद्या सा विद्या च तदाश्रया ॥ १ ॥ गुणत्रयमिदं धेनुर्विद्या-
भूगोमयं शुभम् । मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥ २ ॥ वत्सस्तु
स्मृतयश्चास्य तत्संभूतं तु गोमयम् । आगाव इति मन्त्रेण धेनुं तन्त्राभिमन्त्रयेत्
॥ ३ ॥ गावो भगो गाव इति प्राशयेत्तर्पणं जलम् । उपोष्य च चतुर्दश्यां
शुक्ले कृष्णेऽथवा व्रती ॥ ४ ॥ परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
कृतस्त्रानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥ ५ ॥ उत्थाप्य गां प्रयत्तेन
गायत्र्या मूत्रमाहरेत् । सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे ॥ ६॥
पौष्करेऽथ पलाशे वा पात्रे गोटङ्ग एव वा । आदधीत हि गोमूत्रं गन्धद्वारेति
गोमयम् ॥ ७ ॥ अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही । गोमयं शोधयेद्वि-
द्वान् भजतु मन्त्रतः ॥ ८ ॥ अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् ।
संवा सिञ्चामि मन्त्रेण गोमूत्रं गोमये क्षिपेत् ॥ ९ ॥ पञ्चानां त्विति मन्त्रेण
अ. उ. १४</p>
<pb n="225" />
<p>ईशाद्युपनिषत्सु -
[ ब्राह्म० ३
पिण्डानां च चतुर्दश । कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥ १० ॥
- निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् । स्वगृह्येोक्तविधानेन प्रतिष्ठाप्याग्नि-
मीजयेत् ॥ ११ ॥ पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु । षडक्षरस्य
सूक्तस्य व्याकृतस्य तथाक्षरैः ॥ १२ ॥ स्वाहान्ते जुहुयात्तत्र वर्णदेवाय
पिण्डकान् । आधारावाज्यभागौ च प्रक्षिपेव्याहृतीः सुधीः ॥ १३ ॥ ततो
निधनपतये त्रयोविंशज्जुहोति च । होतव्याः पञ्च ब्रह्मणि नमो हिरण्यबाहवे
॥ १४ ॥ इति सर्वाहुतीर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः ॥ ऋतं सत्यं काय
यस्य वैकंकतीति च ॥ १५ ॥ एतैश्च जुहुयाद्विद्वानना ज्ञातत्रयं तथा ।
व्याहृतीरथ हुत्वा च ततः स्विष्टकृत हुनेत् ॥ १६ ॥ इध्मशेषं तु निर्वर्त्य
पूर्णपात्रोदकं तथा । पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥ १७ ॥
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् । प्राच्यामिति दिशं लिङ्गैर्दिक्षु तोयं
विनिक्षिपेत् ॥ १८ ॥ ब्राह्मणे दक्षिणां दत्त्वा शान्यै पुलकमाहरेत् । आहरि-
ष्यामि देवानां सर्वेषां कर्मगुप्तये ॥ १९ ॥ जातवेदसमेनं त्वां पुलकैश्छादया-
म्यहम् । मन्त्रेणानेन तं वह्निं पुलकैश्छादयेत्ततः ॥ २० ॥ त्रिदिनं ज्वलनस्थियै
छादनं पुलकैः स्मृतम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः
॥ २१ ॥ भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् । दिनत्रयेण यदि
वा एकस्मिन्दिवसेऽथवा ॥ २२ ॥ तृतीये वा चतुर्थे वा प्रातः स्नात्वा
सिताम्बरः । शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ २३ ॥ शुक्लदन्तो
भस्मदिग्धो मन्त्रेणानेन मन्त्रवित् । ॐ तद्ब्रह्मेति चोच्चार्य पौलकं
भस्मसंत्यजेत् ॥ २४ ॥ तत्र चावाहनमुखानुपचारांस्तु षोडश । कुर्याव्याहृति-
भिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥ २५ ॥ अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्म
चोत्तरम् । अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥ २६ ॥ संयोज्य
गन्धसलिलैः कपिलामूत्रकेण वा । चन्द्रकुङ्कुम काश्मीरमुशीरं चन्दनं तथा
॥ २७ ॥ अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः । क्षिपेद्भस्मनि तचूर्णमो-
मिति ब्रह्ममन्त्रतः ॥ २८ ॥ प्रणवेनाहरेद्विद्वान्वृहतो वटकानथ । अणोरणीया-
निति हि मन्त्रेण च विचक्षणः ॥ २९ ॥ इत्थं भस्म सुसंपाद्य शुकमादाय
मन्त्रवित् । प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥ ३० ॥ ईशानेति शिरोदेशं
मुखं तत्पुरुषेण तु । ऊरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥ ३१ ॥ सद्यो-
जातेन वै पादान्सर्वाङ्गं प्रणवेन तु । तत उद्धृत्य सर्वाङ्गमापादतलमस्तकम्
.</p>
<pb n="226" />
<p>ब्राह्म० ४ ]
बृहज्जाबालोपनिषत् ॥ २७ ॥</p>
<p>॥ ३२ ॥ आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् । पुनराचम्य कर्म स्वं
कर्तुमर्हसि सत्तम ॥ ३३ ॥ अथ चतुर्विधं भस्मकल्पम् । प्रथममनुकल्पम् ।
द्वितीयमुपकल्पम् । उपोपकल्पं तृतीयम् । अकल्पं चतुर्थम् । अग्निहोत्र-
समुद्भूतं विरजानलजमनुकल्पम् । वने शुष्कं शकृत्संगृह्य कल्पोक्तविधिना
कल्पितमुपकल्पं स्यात् । अरण्ये शुष्कगोमयं चूर्णीकृत्यानुसंगृह्य गोमूत्रैः
पिण्डीकृत्य यथाकल्पं संस्कृतमुपोपकल्पम् । शिवालयस्थमकल्पं शतकल्पं च ।
इत्थं चतुर्विधं भस्म पापं निकृन्तयेन्मोक्षं ददातीति भगवान्कालाग्नि-
. रुद्रः ॥ ३४ ॥
इति श्री बृहज्जाबालोपनिषत्सु तृतीयं ब्राह्मणम् ॥ ३ ॥
अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति । स होवाचाथ प्रणवेन
'विमृज्याथ सप्तप्रणवेनाभिमन्त्रितमागमेन तु तेनैव दिग्बन्धनं कारयेत्पुनरपि
तेनास्त्रमन्त्रेणाङ्गानि मूर्धादीन्युद्धूलयेन्मलखानमिदमीशानाद्यैः पञ्चभिर्मन्त्रैस्तनुं
'क्रमादुद्धूयेत् 1 ईशानेति शिरोदेशं मुखं तत्पुरुषेण तु । ऊरुदेशमघोरेण
गुह्यकं वामदेवतः । सद्योजातेन वै पादौ सर्वाङ्गं प्रणवेन तु । आपादतलमस्तकं
"सर्वाङ्गं तत उडूल्याचम्यं वसनं धौतं श्वेतं प्रधारयेविधिस्नानमिदम् । तन
श्लोका भवन्ति - भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम् । मस्तकात्पादप-
र्यन्तं मलस्नानं पुरोदितम् ॥ १ ॥ तन्मन्त्रेणैव कर्तव्यं विधिस्त्रानं समाचरेत् ।
ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्नतः ॥ २ ॥ मुखे चतुर्थवक्रेण अधीरेणा-
हृदि । वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः ॥ ३ ॥ अष्टावन्तेन साध्येन
पदावुद्धूल्य यत्नतः । सर्वाङ्गोलनं कार्य राजन्यस्य यथाविधि ॥ ४ ॥ मुखं
विना च सत्सर्वमुद्धूल्य क्रमयोगतः । संध्याद्वये निशीथे न तथा पूर्वावसा-
नयोः ॥ ५ ॥ सुध्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् । स्त्रियं नपुं-
सकं गृधं बिडालं . बकमूषिकम् ॥ ६ ॥ स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानं
समाचरेत् । देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने ॥ ७ ॥ अशुद्धभूतले मार्गे
कुर्यान्नोद्धूनं व्रती । शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत् ॥ ८ ॥ योजितं
'चन्दनेनैव वारिणा भस्मसंयुतम् । चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत्
॥ ९ ॥ मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनु वर्जयेत् ॥ अथ भुसुण्डो भगवन्तं
कालाग्निरुद्रं त्रिपुण्ड्रविधिं पप्रच्छ । तत्रैते श्लोका भवन्ति - त्रिपुण्ड्रं कारये-
. त्पश्चाद्ब्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥ १० ॥</p>
<pb n="227" />
<p>-२१२
ईशाद्युपनिषत्सु -
[ ब्राह्म० ४
अनामामध्यमाङ्गुष्ठैरथवा स्यात्रिपुण्ड्रकम् । उद्धूलयेन्मुखं विप्रः क्षत्रियस्तच्छि-
रोदितम् ॥ ११ ॥ द्वात्रिंशत्स्थानके चार्धं षोडशस्थानकेऽथ वा । अष्टस्थाने तथा
चैव पञ्चस्थानेऽपि योजयेत् ॥ १२ ॥ उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा ।
नासाव गले चैवमंसद्वयमतः परम् ॥ १३ ॥ कूर्परे मणिबन्धे च हृदये
पार्श्वयोर्द्वयोः । नाभौ गुह्यद्वये चैवमूर्वीः स्फिम्बिम्बजानुनि ॥ १४ ॥ जङ्घाद्वये
• च पादौ च द्वात्रिंशत्स्थानमुत्तमम् । अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह
॥ १५ ॥ धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवो -
ष्टावितीरिताः ॥ १६ ॥ एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेदुधः । विदध्यात्षो-
शस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १७ ॥ शीर्षके च ललाटे च कर्णे कण्ठेंs-
सकद्वये । कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ॥ १८ ॥ पृष्ठे चैकं प्रति-
स्थानं जपेत्तत्राधिदेवताः । शिवं शक्तिं च सादाख्यामीशं विद्याख्यमेव च
॥ १९ ॥ वामादिनवशक्तीश्च एते षोडशदेवताः । नासत्यो दस्रकश्चैक अश्विनौ
द्वौ समीरितौ ॥ २० ॥ अथवा मूर्त्यलोके च कर्णयोः श्वसने तथा । बाहुद्वये
च हृदये नाभ्यामूर्वोर्युगे तथा ॥ २१ ॥ जानुद्वये च पदयोः पृष्ठभागे च
षोडश । शिवश्वेन्द्रश्च रुद्रार्कौ विनेशो विष्णुरेव च ॥ २२ ॥ श्रीश्चैव हृदये-
शश्च तथा नाभौ प्रजापतिः । नागश्च नागकन्याश्च उभे च ऋषिकन्यके ॥२३॥
पादयोश्च समुद्राश्व तीर्थाः पृष्ठेऽपि च स्थिताः । एवं वा षोडशस्नानमष्टस्थान-
-मथोच्यते ॥ २४ ॥ गुरुस्थानं ललाटं च कर्णद्वयमवान्तरम् । अंसयुग्मं च
हृदयं नाभिरित्यष्टमं भवेत् ॥ २५ ॥ ब्रह्मा च ऋषयः सप्त देवताश्च प्रकी
र्तिताः । अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥ २६ ॥ पञ्च स्थानान्यमू-
न्याहुर्भस्म तत्त्वविदो जनाः । यथासंभवतः कुर्यादेशकालाद्यपेक्षया ॥ २७ ॥
उद्धूलनेऽप्यशक्तश्चेनिपुण्ड्रादीनि कारयेत् । ललाटे हृदये नाभौ गले च मणि-
बन्धयोः ॥ २८ ॥ बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्ष ॥ ललाटे ब्रह्मणे
नमः । हृदये हव्यवाहनाय नमः । नाभौ स्कन्दाय नमः । गले विष्णवे नमः ।
मध्ये प्रभञ्जनाय नमः । मणिबन्धे वसुभ्यो नमः । पृष्ठे हरये नमः । ककुदि
शंभवे नमः । शिरसि परमात्मने नमः । इत्यादिस्थानेषु त्रिपुण्ड्रं धारयेत् ।
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम् । स्मरन्नमः शिवायेति ललाटे तत्रि-
पुण्ड्रकम् ॥ २९ ॥ कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि । ईशाभ्यां नम
इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ॥ ३० ॥ स्वच्छाभ्यां नम इत्युक्त्वा धारये-</p>
<pb n="228" />
<p>ब्राह्म० ५ ]
बृहज्जाबालोपनिषत् ॥ २७ ॥</p>
<p>प्रकोष्ठयोः । भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः ॥ ३१ ॥ नील-
कण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः । पापं नाशयते कृत्स्नमपि जन्मान्तरार्जि-
तम् ॥ ३२ ॥ कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात् । कर्णे तु धारणा-
त्कर्णरोगादिकृतपातकम् ॥ ३३ ॥ बाह्वोर्बाहुकृतं पापं वक्षःसु मनसा कृतम् !
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥ ३४ ॥ पार्श्वयोर्धारणात्पापं पर-
ख्यालिङ्गनादिकम् । तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम् ॥ ३५ ॥ ब्रह्म-
विष्णुमहेशानां त्रय्यग्नीनां च धारणम् । गुणलोकत्रयाणां च धारणं तेन वै
श्रुतम् ॥ ३६ ॥
इति श्रीबृहज्जाबालोपनिषत्सु चतुर्थं ब्राह्मणम् ॥ ४ ॥
मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् । ऊर्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्डूं
त्रियायुषम् ॥ १ ॥ त्रियायुषाणि कुरुते ललाटे च भुजद्वये । नाभौ शिरसि
हृत्पार्थे ब्राह्मणाः क्षत्रियास्तथा ॥ २ ॥ त्रैवर्णिकानां सर्वेषामग्निहोत्रस-
मुद्भवम् । इदं मुख्यं गृहस्थानां विरजानलजं भवेत् ॥ ३ ॥ विरजानलजं
चैव धार्यं प्रोक्तं महर्षिभिः । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४ ॥
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनानि-
समुद्भवम् ॥ ५ ॥ अन्येषामपि सर्वेषां धार्यं चैवानलोद्भवम् । यतीनां
ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥ ६ ॥ अतिवर्णाश्रमाणां तु
श्मशानाग्निसमुद्भवम् । सर्वेषां देवालयस्थं भस्म शिवानिजं शिवयोगि-
नाम् । शिवालयस्थं तल्लिङ्गलितं वा मन्त्रसंस्कारदग्धं वा । तत्रैते लोका
भवन्ति । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येन विप्रेण शिरसि
त्रिपुण्ड्रे भस्मना धृतम् ॥ ७ ॥ त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः ।
सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि पूज्यते ॥ ८ ॥ ये भस्मधारणं त्यक्त्वा कर्म
कुर्वन्ति मानवाः । तेषां नास्ति विनिर्मोक्षः संसाराजन्मकोटिभिः ॥ ९ ॥
महापातकयुक्तानां पूर्वजन्मार्जितागसाम् । त्रिपुण्डोलनद्वेषो जायते सुदृढं
बुधाः ॥ १० ॥ येषां कोपो भवेद्रललाटे भस्मदर्शनात् । तेषामुत्पत्तिसां-
कर्यमनुमेयं विपश्चिता ॥ ११ ॥ येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा ।
गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः ॥ १२ ॥ ये भस्मधारिणं दृष्ट्वा नराः
कुर्वन्ति ताडनम् । तेषां चाण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ १३ ॥
येषां क्रोधो भवेद्भधारणे तत्प्रमाणके । ते महापातकैर्युक्ता इति शास्त्रस्य</p>
<pb n="229" />
<p>ईशाद्युपनिषत्सु -
[ ब्राह्म० ६:
निश्वयः ॥ १४ ॥ त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते । धारयन्ति
च ये भक्त्या धारयन्ति शिवं च ते ॥ १५ ॥ धिग्भस्मरहितं भालं धिग्ग्राम-
मशिवालयम् । धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ १६ ॥ रुद्राने-
र्यत्परं वीर्य तद्भस्म परिकीर्तितम् । तस्मात्सर्वेषु कालेषु वीर्यवान्भस्म-
संयुतः ॥ १७ ॥ भस्मनिष्ठस्य दह्यन्ते दोषा भस्माभिसंगमात् । भस्मस्नान-
विशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ १८ ॥ भस्मसंदिग्धसर्वाङ्गो भस्मदीत-
त्रिपुण्डूकः । भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ १९ ॥
इति श्रीबृहज्जाबालोपनिषत्सु पञ्चमं ब्राह्मणम् ॥ ५ ॥
अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं ब्रूहीति होवाच । अथ
वसिष्ठवंशजस्य शतभार्यासमेतस्य धनंजयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुण
इति नाम तस्य शुचिस्मिता भार्या । असौ करुणो भ्रातृवैरमसहमानो भवानी -
तटस्थं नृसिंहमगमत् । तत्र देवसमीपेऽन्येनोपायनार्थं समर्पितं जम्बीर फलं
गृहीत्वाजिघ्रत्तदा तत्रस्था अशपन्पाप मक्षिको भव वर्षाणां शतमिति । सोऽपि
शापमादाय मक्षिका सन्स्वचेष्टितं तस्यै निवेद्य मां रक्षेति स्वभार्यामवदत्तदा
मक्षिकोऽभवत्तमेवं ज्ञात्वा ज्ञातयस्तैलमध्ये ह्यधारयन्सा मृतं पतिमादाया-
रुन्धतीमगमद्भो शुचिस्मितेऽमुं जीवयेति सोवाच शोकेनालमरुन्धत्यहममुं
जीवयाम्यद्य विभूतिमादायेति । एषाग्निहोत्रजं भस्म -
- मृत्युंजयेन मन्त्रेण मृत-
जन्तौ तदाक्षिपत् । मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मितः ॥ १ ॥ उदतिष्ठ-
तदा जन्तुर्भस्मनोऽस्य प्रभावतः । ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत्
॥ २ ॥ भस्मैव जीवयामास काइयां पञ्च तदाभवन् । देवानपि तथाभूतान्माम-
प्येतादृशं पुरा ॥ ३ ॥ तस्मात्तु भस्मना जन्तुं जीवयामि तदानघे । इत्येवमु-
क्त्वा भगवान्दधीचिः समजायत ॥ ४ ॥ स्वरूपं च ततो गत्वा स्वमाश्रमपदं
याविति ॥ इदानीमस्य भस्मन्नदः सर्वाघभक्षणसामर्थ्यं विधत्त इत्याह ।
श्री गौतमविवाहकाले तामहल्यां दृष्ट्वा सर्वे देवा कामातुरा अभवन् । तदा नष्ट-
ज्ञाना दुर्वाससं गत्वा पप्रच्छुः । स तद्दोषं शमयिष्यामीत्युवाच । ततः शतरुद्रेण
मन्त्रेण मन्त्रितं भस्म वै पुरा । मयापि दत्तं ब्रह्महत्यादि शान्तम् । इत्येवमुक्त्वा
दुर्वासा दत्तवान्भस्म चोत्तमम् । जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः ॥ ५ ॥
शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः । निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने
॥ ६ ॥ आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् । अस्य भस्मनः शक्तिमन्यां</p>
<pb n="230" />
<p>ब्राह्म० ७ ]
बृहज्जाबालोपनिषत् ॥ २७ ॥</p>
<p>शृणु । एतदेव हरिशंकरयोर्ज्ञानप्रदम् । ब्रह्महत्यादिपापनाशकम् । महाविभूति-
दमिति शिववक्षसि स्थितं नखेनादाय प्रणवेनाभिमध्य गायत्र्या पञ्चाक्षरेणाभि-
मन्त्र्य हरिर्मस्तकगात्रेषु समर्पयेत् । तथा हृदि ध्यायस्वेति हरिमुक्त्वा हरः स्वहृदि
ध्यात्वा दृष्टो दृष्ट इति शिवमाह । ततो भस्म भक्षयेति हरिमाह हरस्ततः ।
भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा ॥ ७ ॥ पृट्वेश्वरं भक्तिगम्यं भस्मा-
भक्षयदच्युतः । तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः ॥ ८ ॥ वासुदेवः शुद्ध-
मुक्ताफलवर्णोऽभवत्क्षणात् । तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान् ॥ ९ ॥
न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो । नमस्तेऽस्तु नमस्तेऽस्तु त्वामहं
शरणं गतः ॥ १० ॥ त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम । भस्मधारण-
संपन्नो मम भक्तो भविष्यति ॥ ११ ॥ अत एवैषा भूतिर्भूतिकरीत्युक्ता ।
अस्य पुरस्ताद्वसव आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा उत्तरतो
ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ पार्श्वयोः । तदेतदृचाभ्युक्तम्-ऋचो
अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद किचा
करिष्यति य इत्तद्विदुस्त इमे समासते । य एतद्बृहज्जाबालं सार्वकामिकं मोक्ष-
द्वारमृङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति । य एतगृहज्जाबालं
बालो वा युवा वा वेद स महान्भवति । स गुरुः सर्वेषां मन्त्राणामुपदेष्टा
भवति । मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां बनीत । सप्तद्वीपवती
भूमिर्दक्षिणार्थं नावकल्पते तस्माच्छ्रद्धया यां कांचिद्रां दद्यात्सा दक्षिणा
भवति ॥ १२ ॥
इति श्रीबृहज्जाबालोपनिषत्सु षष्ठं ब्राह्मणम् ॥ ६ ॥
अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन् त्रिपुण्ड्रविधिं नो
ब्रूहीति । स होवाच सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यभिमन्य
मानस्तोक इति समुद्धृत्य त्रियायुषमिति जलेन संसृज्य त्र्यम्बकमिति शिरो-
ललाटवक्षःस्कन्धेषु धृत्वा पूतो भवति मोक्षी भवति शतरुद्रेण यत्फलमवाप्नोति
तत्फलमश्नुते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥ १ ॥ जनको ह वैदेहः
स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्रुत इति । स होवाच तद्भस्म-
धारणादेव मुक्तिर्भवति तद्भस्मधारणादेव शिवसायुज्यमवाप्नोति न स
पुनरावर्तते न स पुनरावर्तते स एष भस्मज्योरिति वै याज्ञवल्क्यः ॥ २ ॥
जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्रुते न वेति ।
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदूर्वासऋभु निदाघजडभरतदत्तात्रेय-</p>
<pb n="231" />
<p>. ईशाद्युपनिषत्सु -
[ ब्राह्म० ७
रैवतकभुसुण्डप्रभृतयो विभूतिधारणादेव मुक्ताः स्युः स एष भस्मज्योतिरिति
वै याज्ञवल्क्यः ॥ ३ ॥ जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मस्नानेन
किं जायत इति । यस्य कस्यचिच्छरीरं यावन्तो रोमकूपास्तावन्ति लिङ्गानि भूत्वा
Tags ब्राह्मणो वा क्षत्रियो वा वैश्यो वा शुद्रो वा तद्भस्मधारणादेतच्छ-
'ब्दस्य रूपं यस्यां तस्यां ह्येवावतिष्ठते ॥ ४ ॥ जनको ह वैदेहः पैप्पलादेन सह
प्रजापतिलोकं जगाम तं गत्वोवाच भो प्रजापते त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति । तं
प्रजापतिरब्रवीद्यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति ॥ ५ ॥ अथ पैप्पलादो
वैकुण्ठं जगाम तं गत्वोवाच भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति । यथैवे-
श्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति विष्णुराह ॥ ६ ॥ अथ पैप्पलादः काला-
निरुद्धं परिसमेत्योवाचाधीहि भगवन् त्रिपुण्ड्रस्य विधिमिति । त्रिपुण्ड्रस्य
विधिया वक्तुं न शक्य इति सत्यमिति होवाचाथ भस्मच्छन्नः संसारान्मुच्यते
भस्मशय्याशयानस्तच्छब्द्गोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते न
स पुनरावर्तते रुद्राध्यायी सन्नमृतत्वं च गच्छति । स एष भस्मज्योतिर्विभूति-
धारणाह्मकत्वं च गच्छति विभूतिधारणादेव सर्वेषु तीर्थेषु स्त्रातो भवति
विभूतिधारणाद्वाराणस्यां स्नानेन यत्फलमवाप्नोति तत्फलमश्रुते । स एष भस्म-
ज्योतिर्यस्य कस्यचिच्छरीरे त्रिपुण्ड्रस्य लक्ष्म वर्तते प्रथमा प्रजापतिर्द्वितीया
विष्णुस्तृतीया सदाशिव इति स एष भस्मज्योतिरिति स एष भस्मज्योतिरिति
॥ ७ ॥ अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवशुद्राक्ष-
धारणविधिं । स होवाच रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते
सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता
रुद्राक्षा इति होवाच तस्मादुद्राक्षाणां रुद्राक्षत्वमिति । तद्राक्षे वाग्विषये
कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योती रुद्राक्ष
इति तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति ।
द्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति एकादशरुद्रत्वं
च गच्छति । तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति ।
एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । मूर्ध्नि चत्वारिंश-
च्छिखायामेकं त्रयं वा श्रोत्रयोर्द्वादश कर्णे द्वात्रिंशद्वाहोः पोडश षोडश
द्वादश द्वादश मणिबन्धयोः षट् षडङ्गुष्टयोस्ततः संध्यां सकुशोऽहरहरुपासी-
ताभिज्यौतिरित्यादिभिरग्नौ जुहुयात् ॥ ८ ॥
इति श्रीबृहज्जाबालोपनिषत्सु सप्तमं ब्राह्मणम् ॥ ७ ॥</p>
<pb n="232" />
<p>ब्राह्म० ८ ]
बृहज्जाबालोपनिषत् ॥ २७ ॥</p>
<p>अथ बृहज्जाबालस्य फलं नो ब्रूहि भगवन्निति स होवाच य एतगृहज्जा-
बालं नित्यमधीते सोऽभिपूतो भवति स वायुपूतो भवति स आदित्यपूतो
भवति स सोमपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स
'रुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥ १ ॥ य एतगृह-
जाबालं नित्यमधीते सोऽग्निं स्तम्भयति स आदित्यं स्तम्भयति स सोमं
स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्त-
म्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥ २ ॥ य एतद्बृहज्जाबालं
नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति स
भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति
स सर्व तरति स सर्वे तरति ॥ ३ ॥ य एतबृहज्जाबाले नित्यमधीते स
भूर्लोकं जयति स भुवर्लोकं जयति स सुवर्लोकं जयति स महर्लोकं जयति
स जनोलोकं जयति स तपोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोका-
ञ्जयति स सर्वांल्लोकाञ्जयति ॥ ४ ॥ य एतद्वृहज्जाबालं नित्यमधीते स
ऋचोऽधीते स यजूंयधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते
स शाखा अधीते स कल्पानधीते स नाराशंसीरधीते स पुराणान्यधीते
स ब्रह्मप्रणवमधीते स ब्रह्मप्रणवमधीते ॥ ५ ॥ अनुपनीतशतमेकमेकेनो-
पनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन
वानप्रस्थेन तत्सनं वानप्रस्थशतमेकमेकेन यतिना तत्समं यतीनां तु शर्त
पूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेन अथर्वशिरः शिखा-
ध्यापकेन तत्सममथर्वशिरः शिखाध्यापकशतमेकमेकेन बृहज्जाबालोपनिषद-
व्यापकेन तत्समं तद्वा एतत्परं धाम बृहज्जाबालोपनिषज्जपशीलस्य यत्र न
सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति
यत्र नाभिर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखानि प्रविशन्ति सदानन्दं
परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्र
गत्वा न निवर्तन्ते योगिनः । तदेतदृचाभ्युक्तम्- तद्विष्णोः परमं पदं सदा
पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत् ॥ ६ ॥
इति श्रीबृहज्जाबालोपनिषत्स्वष्टमं ब्राह्मणम् ॥ ८ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
॥ इत्यथर्ववेदीयबृहज्जाबालोपनिषत्समाप्ता ॥ २७ ॥</p>
<pb n="233" />
<p>૨૮
- ईशाद्युपनिषत्सु -
नृसिंहपूर्वतापनीयोपनिषत् ॥ २८ ॥</p>
<lg>
  <l>यत्तुर्योङ्काराम्रपरा भूमिस्थिरवरासनम् ।</l>
  <l>प्रतियोगि विनिर्मुक्ततुर्यतुर्यमहं महः ॥</l>
</lg>
<lg>
  <l>ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।</l>
  <l>स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ १ ॥</l>
</lg>
<p>[ उप० १
आपो वा इदमासन्सलिलमेव स प्रजापतिरेकः पुष्करपर्णे समभवत्तस्यान्त-
मनसि कामः समवर्ततेदं सृजेयमिति तस्माद्यत्पुरुषो मनसाऽभिगच्छति तद्वाचा
वदति तत्कर्मणा करोति तदेषाभ्युक्ता -- कामस्तदग्रे समवर्तताधि मनसो रेतः
प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्य कवयो मनीषेत्युपैनं
तदुपनमति यत्कामो भवति स तपोऽतप्यत स तपस्तप्त्वा स एवं मन्त्रराजं
नारसिंहमानुष्टुभमपश्यत्तेन वै सर्वमिदमसृजत यदिदं किंच तस्मात्सर्वमिदमा-
नुष्टुभमित्याचक्षते यदिदं किंचानुष्टुभो वा इमानि भूतानि जायन्तेऽनुष्टुभा
जातानि जीवन्त्यनुष्टुभं प्रयन्त्यभिसंविशन्ति तस्यैषा भवत्यनुष्टुप्प्रथमा भवत्य-
नुष्टुबुत्तमा भवति वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति परमा वा
छन्दसां यदनुष्टुवति ॥ १ ॥ ससागरां सपर्वतां सप्तद्वीपां वसुंधरां तत्साम्नः
प्रथमं पादं जानीयाद्यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं तत्साम्नो द्वितीयं पादं
जानीयाद्व सुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीया-
ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते
सोऽमृतत्वं च गच्छति । ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः सशाखाश्च-
स्वारः पादा भवन्ति । किं ध्यानं किं दैवतं कान्यङ्गानि कानि दैवतानि किं छन्दः
क ऋषिरिति ॥ २ ॥ स होवाच प्रजापतिः स यो ह वै तत्सावित्रस्याष्टाक्षरं
पदं श्रियाऽभिषिक्तं तत्साम्नोऽङ्ग वेद, श्रिया हैचाभिषिच्यते सर्वे वेदाः प्रणवा-
दिकास्तं प्रणवं तत्साम्नोऽङ्गं वेद, स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा महा-
लक्ष्मीर्यजुस्तसानोsनं वेद, स आयुर्यशः कीर्तिज्ञानैश्वर्यवान्भवति, तस्मादिदं
साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति, सावित्रीं प्रणवं
यजुर्लक्ष्मी स्त्रीशूद्राय नेच्छन्ति, द्वात्रिंशदक्षरं साम जानीयाद्येो जानीते
सोऽमृतत्वं च गच्छति, सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात्स्त्रीशूद्रः स
मृतोऽधो गच्छति तस्मात्सर्वदा नाच यद्याचष्टे स आचार्यस्तेनैव मृतोऽधो
गच्छति ॥ ३ ॥ स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं विश्वानि भूतानि
प्राणा वा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराविरास्तत्साम्नः प्रथमं पादं
जानीयादग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः पुरुषस्तत्सानो द्वितीयं</p>
<pb n="234" />
<p>उप० १]
नृसिंहपूर्वतापती शेोपनिषत् ॥ २८ ॥</p>
<note>२.१९</note>
<p>पादं जानीयाद्य ओषधीनां प्रभवति तारापतिः सोमस्तत्सान्नस्तृतीयं पादं
जानीयात्स ब्रह्मा स शिवः स हरिः स इन्द्रः सोऽग्निः सोऽक्षरः परमः
स्वराद तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ।
ॐ उग्रं प्रथमस्याद्यं ज्वलं द्वितीयस्याद्यं नृसिं तृतीयस्याद्यं मृत्युं चतुर्थ-
स्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति, तस्मादिदं साम यत्र
कुत्रचिन्नाचष्टे यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय चेति
॥ ४ ॥ क्षीरोदार्णवशायिनं नृकेसरिं योगिध्येयं परमं पदं साम जानीयाद्यो
जानीते सोऽमृतत्वं च गच्छति, वीरं प्रथमस्यार्धान्त्यं तंसं द्वितीयस्यार्धान्यं
हंभी तृतीयस्यार्धान्यं मृत्युं चतुर्थस्यार्धान्त्यं साम जानीयाद्यो जानीते सोऽमृ-
तत्वं च गच्छति, तस्मादिदं साम येन केनचिदाचार्यमुखेन यो जानीते स
तेनैव शरीरेण संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेण
देवतादर्शनं करोति, तस्मादिदमेव मुख्यं द्वारं कलौ नान्येषां भवति, तस्मादिदं
साङ्गं साम जानीयाद्येो जानीते स मुमुक्षुर्भवति ॥ ५ ॥ ॐ ऋतं सत्यं परं
ब्रह्म पुरुषं नृकेसरिविग्रहम् । कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं शंकरं नीललोहि-
तमुमापतिं पशुपतिं पिनाकिनं ह्यमितद्युतिमीशानः सर्वविद्यानामीश्वरः सर्वभू-
तानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतियों यजुर्वेदवाच्यस्तं साम जानीयाद्यो जानीते.
सोऽमृतत्वं च गच्छति । महा प्रथमान्तार्धस्याद्यम् । र्वतो द्वितीयान्तार्धस्याद्यं,
षणं तृतीयान्तार्धस्याद्यं, नमा चतुर्थान्तार्धस्याद्यं साम जानीयाद्यो जानीते.
सोऽमृतत्वं च गच्छति । तस्मादिदं सच्चिदानन्दमयं परं ब्रह्म तमेवं विद्वानमृत
इह भवति । तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं क
गच्छति ॥ ६ ॥ विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त तस्मा-
द्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः सायुज्यं सलोकतां यन्ति तस्मादिदं
साङ्गं साम जानीयाद्येो जानीते सोऽमृतत्वं च गच्छति । विष्णुं प्रथमस्यान्त्यं
मुखं द्वितीयस्यान्त्यं भद्रं तृतीयस्यान्त्यं म्यहं चतुर्थस्यान्त्यं साम जानीयाद्यो
जानीते सोऽमृतत्वं च गच्छति । योऽसौ सोऽवेदयदिदं किं चात्मनि ब्रह्मण्यानु-
टभं जानीयाद्येो जानीते सोऽमृतत्वं च गच्छति । स्त्रीपुंसोर्वा य इहैव स्थातु-
मपेक्षते स सर्वैश्वर्य ददाति यत्र कुत्रापि म्रियते देहान्ते देवः परं ब्रह्म तारकं
व्याचष्टे, येनासावमृती भूत्वा सोऽमृतत्वं च गच्छति । तस्मादिदं साममध्यगं
पति तस्मादिदं सामानं प्रजापतिस्तस्मादिदं सामानं प्रजापतिर्य एवं वेदति</p>
<pb n="235" />
<p>ईशाद्युपनिषत्सु -
[ उप० २
महोपनिषत् । य एतां महोपनिषदं वेद स कृतपुरश्चरणोऽपि महाविष्णुर्भवति
महाविष्णुर्भवतीति ॥ ७ ॥
इत्याथर्वणी नृसिंह पूर्वतापनीयोपनिषत्सु प्रथमोपनिषत्समाप्ता ॥ १ ॥
देवा ह वै मृत्योः पाप्मभ्यः संसाराच्चाविभयुस्ते प्रजापतिमुपाधावंस्तेभ्य
एतं मन्त्रराजं नारसिंहमानुष्टुभं प्रायच्छत्तेन वै सर्वे मृत्युमजयन्सर्वे पाप्मान-
मतरन्संसाराच्चातरंस्तस्माद्यो मृत्योः पाप्मभ्यः संसाराच्च बिभीयात्स एवं
मन्त्रराजं नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं जयति स पाप्मानं तरति
स संसारं तरति तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स
ऋऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः स सान्नः प्रथमः पादो
भवति, द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुब्द क्षि-
निः स सानो द्वितीय: पादो भवति, तृतीया द्यौः स मकारः स
सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः स साम्नस्तृतीयः पादो
भवति, याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओंकारः सोऽथर्वणैर्मन्त्रै-
रथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेक ऋषिर्भास्वती सा साम्नश्चतुर्थः पादो
भवति ॥ १ ॥ अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः पादा भवन्ति, एवं
द्वात्रिंशदक्षराणि संपद्यन्ते द्वात्रिंशदक्षरा वा अनुष्टुब्भवति, अनुष्टुभा सर्वमिदं
सृष्टमनुष्टुभा सर्वमुपसंहृतं तस्य हि पञ्चाङ्गानि भवन्ति चत्वारः पादाश्चत्वा-
यङ्गानि भवन्ति, सप्रणवं सर्वं पञ्चमं भवति । ॐ हृदयाय नमः । ॐ
शिरसे स्वाहा । ॐ शिखायै वषट् । ॐ कवचाय हुम् । ॐ अस्त्राय
डिति प्रथमं प्रथमेन युज्यते द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थ
चतुर्थेन पञ्चमं पञ्चमेन व्यतिषक्ता वा इमे लोकास्तस्माद्वयनिषक्तान्यङ्गानि
भवन्त्योमित्येतदक्षरमिदं सर्वं तस्मात्प्रयझरमुभयत ओंकारो भवतीत्यक्षराणां
न्यासमुपदिशन्ति ब्रह्मवादिनः ॥ २ ॥ तस्य ह वा उग्रं प्रथमं स्थानं
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति, वीरं द्वितीयं स्थानं महाविष्णुं
तृतीयं ज्वलन्तं चतुर्थ सर्वतोमुखं पञ्चमं नृसिंहं षष्टं भीषणं सप्तमं भद्रमष्टमं
मृत्युमृत्युं नवमं नमामि दशममहमित्येकादशं स्थानं जानीयाद्येो जानीते
सोऽमृतत्वं च गच्छति । एकादशपदा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं
सृष्टमनुष्टुभा सर्वमुपसंहृतं तस्मात्सर्वमिदमानुष्टुभं जानीयाद्यो जानीते सोs-
मृतत्वं च गच्छति ॥ ३ ॥ देवा ह वै प्रजापतिमबुवन्नथ कस्मादुच्यत</p>
<pb n="236" />
<p>उप० २
नृसिंहपूर्वतापनीयोपनिषत् ॥ २८ ॥</p>
<p>- उग्रमिति, स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वाना -
त्मनः सर्वाणि भूतान्युद्गृह्णात्यजस्रं सृजति विसृजति विवासयत्युग्राह्यत
उते । स्तुहि श्रुतं गर्तसदं युवानं मृगं नभीममुपहन्तुमुग्रम् ।
मृडा जरित्रे सिंह स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः । तस्मादुच्यत
उग्रमिति । अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिना सर्वांलोका-
न्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजखं सृजति
विसृजति वासयति । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते
देवकामः । तस्मादुच्यते वीरमिति । अथ कस्मादुच्यते महाविष्णुमिति । यः
सर्वालोकान्व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डमोतप्रोतमनुप्राप्तं
व्यतिषक्तो व्याप्यते व्यापयते । यस्मान्न जातः परोऽन्योऽस्ति य आविवेश
भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स
षोडशीति । तस्मादुच्यते महाविष्णुमिति । अथ कस्मादुच्यते ज्वलन्तमिति
यस्मात्स्वमहिम्ना सर्वलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि स्वतेजसा
ज्वलति ज्वालयति ज्वाल्यते ज्वालयते । सविता प्रसविता दीप्तो दीपयन्दीप्य-
मानः । ज्वलज्ज्वलिता तपन्वितपन्संतपन्रोचनो रोचमानः शोभनः शोभ-
मानः कल्याणः । तस्मादुच्यते ज्वलन्तमिति । अथ कस्मादुच्यते सर्वतो-
मुखमिति । यस्मादनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति सर्वतो
गच्छति सर्वत आदते स सर्वगः सर्वतस्तिष्ठति । एकः पुरस्ताद्य इदं
बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनं सांपराये नमामि
तमहं सर्वतोमुखम् । तस्मादुच्यते सर्वतोमुखमिति । अथ कंस्मादुच्यते
नृसिंहमिति । यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः
श्रेष्ठतमश्च तस्मान्नृसिंह आसीत्परमेश्वरो जगद्धितं वा एतद्रूपमक्षरं भवति । प्र
तद्विष्णुः स्तवते वीर्याय मृगो नभीसः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु
विक्रमवधि क्षियन्ति भुवनानि विश्वा । तस्मादुच्यते नृसिंहमिति । अथ
कस्मादुच्यते भीषणमिति । यस्माद्यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि
भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्चिन्न बिभेति । भीषाऽस्माद्वातः पवते
भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः । तस्मादुच्यते
भीषणमिति । अथ कस्मादुच्यते भद्रमिति । यस्मात्स्वयं भद्रो भूत्वा सर्वदा
भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः । भद्रं कर्णेभिः</p>
<pb n="237" />
<p>ईशाद्युपनिषत्सु -
[ उप० ३
शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देव-
हितं यदायुः । तस्मादुच्यते भद्रमिति । अथ कस्मादुच्यते मृत्युमृत्युमिति ।
'यस्मात्स्वमहिम्ना स्वभक्तानां स्मृत एवं मृत्युमपमृत्युं च मारयति । य
आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य च्छायामृतं
यो मृत्युमृत्युः कस्मै देवाय हविषा विधेम । तस्मादुच्यते मृत्युमृत्युमिति ।
अथ कस्मादुच्यते नमामीति । यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवा-
दिनश्च । प्र नूनं ब्रह्मणस्पतिर्मत्रं वदत्युक्थम् । यस्मिन्निन्द्रो वरुणो मित्रो
अर्यमा देवा ओकांसि चक्रिरे । तस्मादुच्यते नमामीति । अथ कस्मादुच्यते-
saमित । अहमस्मि प्रथमजा ऋतास्य । पूर्वं देवेभ्यो अमृतस्य ना३भायि ।
यो मा ददाति स इदेव माश्वाः । अहमन्नमन्नमदन्तमाझि । अहं विश्व
भुवनमभ्यभवा३म् । सुवर्न ज्योतीः । य एवं वेदेत्युपनिषत् ॥ ४ ॥
इत्यथर्वणी नृसिंहपूर्वतापनीयोपनिषत्सु द्वितीयोपनिषत्समाप्ता ॥ २ ॥
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं च
नो ब्रूहि भगव इति । स होवाच प्रजापतिर्माया वा एषा नारसिंही सर्वमिदं
सृजति सर्वमिदं रक्षति सर्वमिदं संहरति । तस्मान्मायामेतां शक्तिं विद्याद्य
एतां मायां शक्तिं वेद स पाप्मानं तरति सोऽमृतत्वं च गच्छति महतीं
श्रियमनुते मीमांसन्ते ब्रह्मवादिनो हस्वा वा दीर्घा वा लुता वेति । यदि
स्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं च गच्छति, यदि दीर्घा भवति महतीं
श्रियमाप्नुयादमृतत्वं च गच्छति, यदि ह्रुता भवति ज्ञानवान्भवत्यमृतत्वं
च गच्छति । तदेतदृषिणोक्तं निदर्शनम् — सईं पाहि य ऋजीपी तरुत्रः
श्रियं लक्ष्मीमौपलामम्बिकां पष्ठीं च यामिन्द्रसेनेत आहुतां विद्यां
ब्रह्मयोनिं सरूपां तामिहायुषे शरणं प्रपद्ये । सर्वेषां वा एतद्भूतानामाकाशः
परायणं सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते । आकाशादेव
जातानि जीवन्त्याकाशं प्रयन्त्यभिसंविशन्ति । तस्मादाकाशं वीजं विद्यात्त-
देतदृषिणोक्तं निदर्शनम् - हसः शुचिषट्सुरन्तरिक्षस होता वेदिषदतिथिर्दु-
रोणसत् । नृषद्वरसहतसव्योमसदब्जा गोजा ऋतजा अद्विजा ऋतं बृहत् ।
य एवं वेदेति महोपनिषत् ॥ १ ॥
इत्याथर्वणीय नृसिंहपूर्वतापनीयोपनिषत्सु तृतीयोपनिषत्समाप्ता ॥ ३ ॥</p>
<pb n="238" />
<p>उप० ३]
नृसिंहपूर्वतापनीयोपनिषत् ॥ २८ ॥
.२२३
देवा ह वै प्रजापतिमनुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रानो ब्रूहि
भगव इति । स होवाच प्रजापतिः प्रणवं सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्री-
मित्यङ्गानि जानीयाद्येो जानीते सोऽमृतत्वं च गच्छति । ओमित्येतदक्षरमिदं
सर्वं तस्योपव्याख्यानं भूतं भवद्भावेष्यदिति सर्वमोंकार एव यच्चान्यत्रिकाला-
तीतं तदप्योंकार एव सर्व ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पाजागरित-
स्थानो बहिःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः
स्वप्नस्थानेऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादो
यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थान
एकीभूतः प्रज्ञानधन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पाद
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां
न बहिः प्रज्ञं नान्तःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट-
मव्यवहार्यमग्राह्यमलक्षणमलिङ्गमचिन्त्य मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चो-
पशमं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ १ ॥ अथ
सावित्री गायत्री या यजुषा प्रोक्ता तथा सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरे
सूर्य इति त्रीण्यादित्य इति त्रीण्येतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं
य एवं वेद श्रिया हैवाभिषिच्यते । तदेतदृचाऽभ्युक्तम् — ऋचो अक्षरे परमे
व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य
इत्तद्विदुत इमे समासत इति । न ह वा एतस्यच न यजुषा न सा-
नाऽर्थोऽस्ति यः सावित्रीं वेदेति । ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः सुवःकालकर्णी ।
तन्नो महालक्ष्मीः प्रचोदयादित्येषा वै महालक्ष्मीर्यजुर्गायत्री चतुर्विंशत्यक्षरा
भवति गायत्री वा इदं सर्वं यदिदं किंच तस्माद्य एतां महालक्ष्मीं याजुषीं वेद
महतीं श्रियमक्षुते । ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहः
प्रचोदयादित्येषा वै नृसिंहगायत्री वेदानां देवानां निदानं भवति य एवं वेद स
निदानवान्भवति ॥ २ ॥ देवा ह वै प्रजापतिमब्रुवन्नथ कैर्मन्त्रैर्देवः स्तुतः प्रीतो
भवति स्वात्मानं दर्शयति तन्न ब्रूहि भगव इति । स होवाच प्रजापतिः । ॐ उं
ओं यो वै नृसिंहो देवो भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः १ । ॐ ग्रं
ॐ यो वै नृसिंहो देवो भगवान्यश्च विष्णुस्तस्मै वै नमो नमः २ । ॐ व
ॐ यो वै नृसिंहो देवो भगवान्यश्च महेश्वरस्तस्मै वै नमो नमः ३ । ॐ रं
ॐ यो वै नृसिंहो देवो भगवान्यश्च पुरुषस्तस्मै वै नमो नमः ४ । ॐ मं</p>
<pb n="239" />
<p>ॐ यो वै नृसिंहो देवो
ईशाद्युपनिषत्सु -
[ उप० ३
५ । ॐ हां
भगवान्यश्वेश्वरस्तस्मै वै नमो नमः
ॐ यो वै नृसिंहो देवो भगवान्या सरस्वती तस्मै वै नमो नमः ६.
ॐ वं ॐ यो वै नृसिंहो देवो भगवान्या श्रीस्तस्मै वै नमो नमः
नमः
७ । ॐ दणुं
। ॐ ज्वं
९ ॥ ॐ लं
ॐ यो वै नृसिंहो देवो भगवान्या गौरी तस्मै वै नमो नमः ८
ॐ यो वै नृसिंहो देवो भगवान्या प्रकृतिस्तस्मै वै नमो नमः
ॐ यो वै नृसिंहो देवो भगवान्या विद्या तस्मै वै नमो १० । ॐ तं
ॐ यो वै नृसिंहो देवो भगवान्यश्चकारस्तस्मै वै नमो नमः ११ । ॐ सं
ॐ यो वै नृसिंहो देवो भगवान्याश्चतस्रोऽर्धमात्रास्तस्मै वै नमो नमः १२॥
ॐ वं ॐ यो वै नृसिंहो देवो भगवान्ये च वेदाः साङ्गाः सशाखास्तस्मै वै
नमो नमः १३ । ॐ तों ॐ यो वै नृसिंहो देवो भगवान्ये पञ्चाग्नयस्तस्मै
वै नमो नमः
१४ । ॐ मुं ॐ यो वै नृसिंहो देवो भगवान्याः सप्त
व्याहृतयस्तस्मै वै नमो नमः १५ । ॐ खं ॐ यो वै नृसिंहो देवो
भगवान्ये चाष्टौ लोकपालास्तस्मै वै नमो नमः ५६ । ॐ नं ॐ यो
वै नृसिंहो देवो भगवान्ये चाष्टौ वसवस्तस्मै वै नमो नमः १७ । ॐ सिं
ॐ यो वै नृसिंहो देवो भगवान्ये च रुद्रास्तस्मै वै नमो नमः १८ । ॐ हं
ॐ यो वै नृसिंहो देवो भगवान्ये चादित्यास्तस्मै वै नमो नमः १९ । ह्रीं
भिं ॐ यो वै नृसिंहो देवो भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमो नमः २० ।
ॐ षं ॐ यो वै नृसिंहो देवो भगवान्यानि पञ्च महाभूतानि तस्मै वै नमो
नमः २१ । ॐ णं ॐ यो वै नृसिंहो देवो भगवान्यश्च कालस्तस्मै वै नमो नमः
२२ । ॐ भं ॐ यो वै नृसिंहो देवो भगवान्यश्च मनुस्तस्मै वै नमो नमः २३ ।
ॐ द्वं ॐ यो वै नृसिंहो देवो भगवान्यश्च मृत्युस्तस्यै वै नमो नमः २४ । ॐ मृ
ॐ यो वै नृसिंहो देवो भगवान्यश्च यमस्तस्यै वै नमो नमः २५ । ॐ त्युं
ॐ यो वै नृसिंहो देवो भगवान्यश्चान्तकस्तसै वै नमो नमः २६ । ॐ मूं ॐ यो
वै नृसिंहो देवो भगवान्यश्च प्राणस्तस्मै वै नमो नमः २७ । ॐ त्युं ॐ यो
वै नृसिंहो देवो भगवान्यश्च सूर्यस्तस्मै वै नमो नमः २८ । ॐ नं ॐ यो
वै नृसिंहो देवो भगवान्यश्च सोमस्तस्मै वै नमो नमः २९ । ॐ मां ॐ यो
वै नृसिंहो देवो भगवान्यश्च विराट्पुरुषस्तस्मै वै नमो नमः ३० । ॐ स्यं ॐॐ
यो वै नृसिंहो देवो भगवान्यश्च जीवस्तस्मै वै नमो नमः ३१ । ॐ हं ॐ यो
वै नृसिंहो देवो भगवान्यश्च सर्वं तस्मै वै नमो नमः ॥ ३२ ॥ इति तान्प्रजा-</p>
<pb n="240" />
<p>उप० ५ ]
नृसिंहपूर्वतापनीयोपनिषत् ॥ २८ ॥</p>
<p>पतिरब्रवीदेतैर्द्वात्रिंशन्मन्त्रैर्नित्यं देवं स्तुवते ततो देवः प्रीतो भवति स्वात्मानं
दर्शयति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति स सर्वं पश्यति
सोऽमृतत्वं च गच्छति य एवं वेदेति महोपनिषत् ॥ ३ ॥
इत्याथर्वणीय नृसिंहपूर्वतापनीयोपनिषत्सु चतुर्थोपनिषत्समाप्ता ॥ ४ ॥
देवा ह वै प्रजापतिमब्रुवन्महाचक्रं नाम चक्रं नो ब्रूहि भगव इति
सार्वकामिकं मोक्षद्वारं यद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडरं
वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्पत्रं चक्रं भवति षड् वा
ऋतव ऋतुभिः संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एतेऽराः
प्रतिष्ठिताः । मायया वा एतत्सर्वं वेष्टितं भवति नात्मानं माया स्पृशति
तस्मान्मायया बहिर्वेष्टितं भवति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा वै
गायत्री गायत्र्या संमितं भवति बहिर्मायया वेष्टितं भवति क्षेत्र क्षेत्रं वा
मायैषा संपद्यते । अथ द्वादशारं द्वादशपत्रं चक्रं भवति द्वादशाक्षरा वै जगती
जगत्या संमितं भवति बहिर्मायया वेष्टितं भवति । अथ षोडशारं षोडशपत्रं
चक्रं भवति षोडशकलो वै पुरुषः पुरुष एवेदं सर्वं पुरुषेण संमितं भवति
मायया बहिर्वेष्टितं भवति । अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं भवति
द्वात्रिंशदक्षरा वा अनुष्टुवनुष्टुभा संमितं भवति बहिर्मायया वेष्टितं भवत्यरैव
एतत्सुबद्धं भवति वेदा वा एतेऽराः पत्रैर्वा एतत्सर्वतः परिक्रामति छन्दांसि
वै पत्राणि ॥ १ ॥ तदेवं चक्रं सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां तारकं
भवति यदक्षरं नारसिंहमेकाक्षरं तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं भवत्य-
टसु पत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेव
भवति । षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडश कला भवन्ति ।
द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति । तद्वा
एतत्सुदर्शनं महाचक्रं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्रह्म-
मयममृतमयं भवति । तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणत आदित्याः
पश्वाद्विश्वे देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ पार्श्व-
योः । तदेतदृचाभ्युक्तम्-ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे
निषेदुः । यस्तं न वेद किटचा करिष्यति य इत्तद्विदुस्त इमे समा-
सत इति । तदेतन्महाचक्रं बालो वा युवा वा वेद स महान्भवति स
गुरुर्भवति स सर्वेषां मत्राणामुपदेष्टा भवत्यनुष्टुभा होमं कुर्यादनुष्टुभार्चनं
•
अ. उ. १५</p>
<pb n="241" />
<p>ईशाद्युपनिषत्सु -
[ उप० ५
तदेतद्राक्षोनं मृत्युतारकं गुरुतो लब्धं कण्ठे बाहौ शिखायां वा बनीत सप्त-
द्वीपवती भूमिर्दक्षिणार्थं नावकल्पते तस्माच्छ्रद्धया यां कांचिद्दद्यात्सा दक्षिणा
भवति ॥ २ ॥ देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य फलं नो ब्रूहि
भगव इति स होवाच प्रजापतिर्य एवं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते
सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो
भवति स सत्यपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स
रुद्रपूतो भवति स वेदपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥
इत्याथर्वणीय नृसिंहपूर्वतापनीयोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
य एवं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मृत्युं तरति स पाप्मानं
तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वं
तरति स सर्वं तरति ॥
इत्याथर्वणीय नृसिंहपूर्वतापनीयोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
य एवं मन्त्रराजं नारसिंहमानुष्टुभं सोऽग्निं स्तम्भयति स वायुं स्तम्भयति
स आदित्यं स्तम्भयति स सोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्दे-
वान्स्तम्भयति स सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥
इत्याथर्वणीय नृसिंह पूर्वतापनीयोपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
य एवं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं
जयति स स्वर्लोकं जयति म महर्लोकं जयति स जनोलोकं जयति स तपोलोकं
जयति स सत्यलोकं जयति स सर्वलोकं जयति स सर्वलोकं जयति ॥
इत्याथर्वणीय नृसिंहपूर्वतापनीयोपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मनुष्यानाकर्षयति स
देवानाकर्षयति स नागानाकर्षयति स यक्षानाकर्षयति स ग्रहानाकर्षयति स
सर्वानाकर्षयति स सर्वानाकर्षयति ॥
इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेन यजते स
उक्थ्येन यजते स षोडशिना यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते
सोऽसोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः क्रतुभिर्यजते स सर्वैः
ऋतुभिर्यजते ॥
इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु षष्ठोऽध्यायः ॥ ६ ॥</p>
<pb n="242" />
<p>खण्डः १ ]
नृसिंहोत्तरतापनीयोपनिषत् ॥ २९ ॥</p>
<p>ga aai traiमानुष्टुभं नित्यमधीते स ऋचोऽधीते स यजूज्य-
'धीते स सामान्यधीते सोऽथर्वाणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स
पुराणान्यधीते स कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणव-
मधीते यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥
इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्सु सप्तमोऽध्यायः ॥ ७ ॥
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन
तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन यतिना
तत्समं यतीनां च शतं पूर्ण रुद्रजापकेन तत्समं रुद्रजापिशतमेकमेकेनाथ -
'शिरः शिखाध्यायकेन तत्सममथर्वशिरः शिखाध्यायकशतमेकमेकेन मन्त्रराजजा-
ube तत्समं एतत्परमं धाम मन्त्रराजाध्यायकस्य यन्त्र सूर्यो न तपति
यत्र न वायुर्वाति यत्र न चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नाग्नि-
दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शाश्वतं
शान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनः ।
तदेतदृचाभ्युक्तम्-तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षु-
राततम् । द्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति
तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति ॥ ३ ॥
इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्स्वष्टमोऽध्यायः ॥ ८ ॥
इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषत्समाप्ता ॥ ५ ॥
नृसिंहोत्तरतापनीयोपनिषत् ॥ २९ ॥
ॐ भद्रं कर्णेभिः शृणुयाम० ॥ १ ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ० ॥ २ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
देवा ह वै प्रजापतिमब्रुवन्नणोरणीयांसमिममात्मानमोंकारं नो व्याच-
क्ष्वेति तथेत्योमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्य-
दिति सर्वमकार एव यच्चान्यत्रिकालातीतं तदप्योंकार एव । सर्वं ह्येतद्ब्रह्माय-
मात्मा ब्रह्म तमेतमात्मानमोमिति ब्रह्मणै की कृत्य ब्रह्म चात्मनोमित्येकीकृत्य
तदेकमजरममरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्य
तन्मयं हि तदेवेति संहरेदोमिति तं वा एवं त्रिशरीरमात्मानं त्रिशरीरं परं
ब्रह्मानुसंदध्यात्स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वाच्चैक्यादानन्द-</p>
<pb n="243" />
<p>ईशाद्युपनिषत्सु -
[ खण्डः २
भोगाच्च सोऽयमात्मा चतुष्पाजागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग एकोनविंशति-
`मुखः स्थूलभुक्चतुरात्मा विश्वो वैश्वानरः प्रथमः पादः स्वप्नस्थानः सूक्ष्मप्रज्ञः
'सप्ताङ्ग एकोनविंशतिमुखः सूक्ष्मभुक्चतुरात्मा तैजसो हिरण्यगर्भो द्वितीयः
पादो यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्द भुक्चेतोमुखश्चतुरात्मा
प्राज्ञ ईश्वरस्तृतीय: पाद एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानां त्रयमप्येतत्सुषुप्तं स्वप्नं मायामात्रं चिदेकरसो हाय-
मात्माऽथ चतुर्थश्चतुरात्मा तुरीयावसितत्वादेकैकस्योतानुज्ञात्रनुज्ञाविकल्पैस्र-
यमत्रापि सुषुप्तं स्वमं मायामात्रं चिदेकरसो ह्यथायमादेशो न स्थूलप्रज्ञं न
सूक्ष्मप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यम-
लक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतं
चतुर्थं मन्यन्ते स एवात्मा स विज्ञेय ईश्वरग्रासस्तुरीयतुरीयः ॥ १ ॥
इत्याथर्वणीय नृसिंहोत्तरतापनीयोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
तं वा एतमात्मानं जाग्रत्यस्वनम सुपुप्तं स्वप्नेऽजाग्रतम सुषुतं सुषुप्तेऽजा-
प्रतमस्वनं तुरीयेऽजाग्रतमस्त्रममसुषुप्तमव्यभिचारिणं नित्यानन्तसदेकरसं
वं चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो दृष्टा बुद्धेर्दष्टा प्राणस्य
द्रष्टा तमसो द्रष्टा सर्वस्य दृष्टा ततः सर्वस्मादस्मादन्यो विलक्षणश्चक्षुषः
साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धेः साक्षी प्राणस्य
साक्षी तमसः साक्षी सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मा-
प्रियतम आनन्दवनं ह्येवमस्मात्सर्वस्मात्पुरतः सुविभातमेकरसमेवाजरम-
मरममृतमभयं ब्रह्मैवाप्यजयैनं चतुष्पादं मात्राभिरोंकारेण चैकीकुर्या-
जागरितस्थानश्चतुरात्मा विश्वो वैश्वानरश्चतुरूपोऽकार एव चतुरूपो
हायमकारः स्थूलसूक्ष्मबीजसाक्षिभिरकाररूपैराप्तेरादिमत्त्वाद्वा स्थूलत्वात्सू-
क्ष्मत्वाद्वीजत्वात्साक्षित्वाच्चाप्नोति ह वा इदं सर्वमादिश्च भवति य एवं
वेद स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप उकार एव चतूरूपो
ह्ययमुकारः स्थूलसूक्ष्मबीजसाक्षिभिरुकाररूपैरुत्कर्षादुभयत्वाद्वा स्थूलत्वा-
त्सूक्ष्मत्वाद्वीजत्वात्साक्षित्वाच्चोत्कर्षति ह वै ज्ञानसंततिं समानश्च भवति
य एवं वेद । सुषुप्तस्थानश्चतुरात्मा प्राज्ञ ईश्वरश्वतूरूपो मकार एव चतूरूपो
ह्रायं मकारः स्थूलसूक्ष्मबीजसाक्षिभिर्मकाररूपैर्मितेरपीतेर्वा स्थूलत्वात्सूक्ष्म-</p>
<pb n="244" />
<p>खण्डः ३]
नृसिंहोत्तरतापनीयोपनिषत् ॥ २९ ॥</p>
<p>त्वाद्वीजत्वात्साक्षित्वाच्च मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं
वेद । मात्रा मात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः स्वराद स्वयमी-
श्वरः स्वप्रकाशश्चतुरात्मोतानुज्ञात्रनुज्ञाविकल्पैरोतो ह्ययमात्मा यथेदं सर्व-
मन्तकाले कालाग्निसूर्य उस्तैरनुज्ञाता ह्ययमात्माऽस्य सर्वस्य स्वात्मानं
ददातीदं सर्वं स्वात्मानमेव करोति यथा तमः सविताऽनुज्ञैकरसो ह्ययमात्मा
चिद्रूप एव यथा दाह्यं दग्ध्वाऽग्निरविकल्पो ह्ययमात्माऽवाङ्मनोगोचर-
त्वाच्चिद्रूपश्चतूरूप ओंकार एव चतूरूपो ह्ययमोंकार ओतानुज्ञात्रनुज्ञा-
विकल्पैरों काररूपैरात्मैव नामरूपात्मकं हीदं सर्वं तुरीयत्वाच्चिद्रूपत्वाद्वोत-
त्वादनुज्ञातृत्वादनुज्ञात्वादविकल्परूपत्वाश्चाविकल्परूपं हीदं सर्वं नैव तन्त्र
काचन भिदाऽस्त्यथ तस्यायमादेशोऽमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः
शिवोऽद्वैत ओंकार आत्मैव संविशत्यात्मनात्मानं य एवं वेदैष वीरों
नारसिंहेन वानुष्टुभा मन्त्रराजेन तुरीयं विद्यादेव ह्यात्मानं प्रकाशयति
सर्वसंहारसमर्थः परिभवासहः प्रभुर्व्याप्तः सदोज्वलोsविद्याकार्यहीनः स्वात्म-
बन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमो-
मोहोऽहमेवेति तस्मादेवमेवेममात्मानं परं ब्रह्मानुसंदध्यादेष वीरो नृसिंह
एव ॥ २ ॥
इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमपादोभायतो भवति । द्वितीया
द्वितीयस्य तृतीया तृतीयस्य चतुर्थ्यांतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयं
चतुरात्मानसन्विष्य चतुर्थपादेन च तया तुरीयेणानुचिन्तयन्यसेत्तस्य ह वा
एतस्य प्रणवस्य या पूर्वा मात्रा सा पृथिव्यकारः स ऋग्भिर्ऋग्वेदो ब्रह्मा
वसवो गायत्री गार्हपत्यः सा प्रथमः पादो भवति । भवति च सर्वेषु पादेषु
चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्य-
जुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः पादो भवति । भवति च
सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः स मकारः
स सामभिः सामवेदो रुद्रादित्या जगत्या जगत्याहवनीयः सा तृतीय: पादो
भवति । भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्याऽवसा-
नेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओंकारः सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्त-
कोऽग्निर्मरुतो बिराडेकऋषिर्भास्वती स्मृता सा चतुर्थः पादो भवति । भवति</p>
<pb n="245" />
<p>ईशाद्युपनिषत्सु -
[ खण्ड:
च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मत्रीजसाक्षिभिर्मात्रा मात्राः प्रतिमात्रा:
कृत्वोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत ज्ञोऽमृतो हुतसंवित्कः शुद्धः
संविष्टो निर्विघ्न इममसुनियमेऽनुभूयेहेदं सर्वं दृष्ट्वाऽसुप्रपञ्चहीनोऽथ सकलः
साधारोऽमृतमयश्चतुरात्मा सर्वमयश्चतुरात्माऽथ महापीठे सपरिवारं '
तमेतं चतुःसप्तात्मानं चतुरात्मानं मूलाग्नावग्निरूपं प्रणवं संदध्यात्सप्तात्मानं
चतुरात्मानमकारं ब्रह्माणं नाभौ सप्तात्मानं चतुरात्मानमुकारं विष्णुं हृदये
सप्तात्मानं चतुरात्मानं मकारं रुद्रं भ्रूमध्ये सप्तात्मानं चतुरात्मानं
चतुःसप्तात्मानं चतुरात्मानमोंकारं सर्वेश्वरं द्वादशान्ते । सप्तात्मानं
चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमानन्दामृतरूपमोंकारं षोडशान्ते ।
अथानन्दामृतेनैतांश्चतुर्धा संपूज्य तथा ब्रह्माणमेव विष्णुमेव रुद्वमेव विभ-
क्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपानेव च संपूज्योपहारैश्चतुर्धाऽथ लिङ्गान्सं-
हृत्य तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं संज्वाल्य तत्तेज आत्म-
चैतन्यरूपं बलमवष्टभ्य तस्य गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मे महासूक्ष्मं
महाकारणे च संहृत्य मात्राभिरोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्यसेत् ॥
इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥
तं वा एतमात्मानं परमं ब्रह्मोंकारं तुरीयोंकाराग्रविद्योतमनुष्टुभा नत्वा
प्रसाद्योमिति संहृत्याहमित्यनुसंदध्यादथैतमेवात्मानं परमं ब्रह्मोंकारं तुरीयों-
काराग्रविद्योतमेकादशात्मानमात्मानं नारसिंहं नत्वोमिति संहरन्ननुसंदध्यात् ।
अथैतमेवात्मानं परमं ब्रह्मोंकारं तुरीयोंकाराग्रविद्योतं प्रणवेन संचिन्त्यानुष्टुभा
सच्चिदानन्दपूर्णात्मसु नवात्मकं सच्चिदानन्दपूर्णात्मानं परमात्मानं परं ब्रह्म
संभाव्याहमित्यात्मानमादाय नमसा ब्रह्मणैकीकुर्यादनुष्टुभैव वैष उ एव श्रेष
हि सर्वत्र सर्वदा सर्वात्मा सिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा सर्वात्मा
सन्सर्वमत्ति नृसिंह एवैकल एष तुरीय एष एवोग्र एष एव वीर एष एव
महानेष एव विष्णुरेष एव ज्वलन्नेष एव सर्वतोमुख एष एव नृसिंह एष एव
भीषण एष एव भट्ट एष एव मृत्युमृत्युरेष एव नमाम्येष एवाहमेवं योगा-
रूढो ब्रह्मण्येवानुष्टुभं संदध्यादोंकार इति । तदेतौ श्लोकौ भवतः - संस्तभ्यः
सिंहं स्वसुतान्गुणर्धान्संयोज्य शृङ्गैर्ऋषभस्य हत्वा । वश्यां स्फुरन्तीमसतीं
निपीड्य संभक्ष्य सिंहेन स एष वीरः । शृङ्गप्रोतान्पदा स्पृष्ट्वा हत्वा तामग्र-
सत्स्त्रयम् । नत्वा च बहुधा दृष्ट्वा नृसिंहः स्वयमुद्वभाविति ॥
इत्याथर्वणीयन्नृसिंहोत्तरतापनीयोपनिषत्सु चतुर्थः खण्डः ॥ ४ ॥</p>
<pb n="246" />
<p>•
खण्डः ५ ]
नृसिंहोत्तरतापनीयोपनिषत् ॥ २९ ॥</p>
<p>अथैष एवाकार आप्ततमार्थ आत्मन्येव नृसिंहे ब्रह्मणि वर्तत एष ह्येवा-
तम एष हि साक्ष्येष ईश्वरोऽतः सर्वगतो न हीदं सर्वमेष हि व्याप्ततम
इदं सर्वं यदयमात्मा मायामात्रमेष एवोग्र एष हि व्याप्ततम एष एव वीर
एष हि व्याप्ततम एष एव महानेष हि व्याप्ततम एष एव विष्णुरेष हि
व्याप्ततम एष एव ज्वलन्नेष हि व्याप्ततम एष एव सर्वतोमुख एष हि व्याप्त-
तम एष एव नृसिंह एव हि व्याप्ततम एष एव भीषण एष हि व्याप्ततम
एष एव भट्ट एष हि व्याप्ततम एष एव मृत्युमृत्युरेष हि व्याप्ततम एष एव
नमाम्येष हि व्याप्ततम एव एवाहमेष हि व्याप्ततम आत्मैव नृसिंहो ब्रह्म
भवति य एवं वेद । सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा
उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैषो एवोकार उत्कृष्टतमार्थ
आत्मन्येव नृसिंहे देवे ब्रह्मणि वर्तते । तस्मादेष सत्यस्वरूपो न ह्यन्यदस्त्यमेय-
मनात्मप्रकाशमेष हि स्वप्रकाशोऽसङ्गोऽन्यन्न वीक्षत आत्माsतो नान्यप्रथाप्रा-
तिरात्ममात्रं ह्येतदुत्कृष्टमेष एवोग्र एष वोत्कृष्ट एष एव वीर एष वोत्कृष्ट
एष एव महानेष वोत्कृष्ट एष एव विष्णुरेष वोत्कृष्ट एष एव ज्वलन्नेष
ह्येोत्कृष्ट एष एव सर्वतोमुख एष वोत्कृष्ट एष एव नृसिंह एष होवोत्कृष्ट
एष एव भीषण एष होवोत्कृष्ट एष एव भद्र एष वोत्कृष्ट एष एव मृत्यु -
मृत्युरेष वोत्कृष्ट एष एव नमाम्येष वोत्कृष्ट एष एवाहमेष वोत्कृष्ट-
स्तस्मादात्मानमेवैवं जानीयादात्मैव नृसिंहो देवो ब्रह्म भवति य एवं वेद ।
arshrat frष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव सम-
वनीयन्ते । ब्रह्मैव सन्ब्रह्माप्येत्यथैषो एव मकारो महाविभूत्यर्थ आत्मन्येव
नृसिंहे देवे परे ब्रह्मणि वर्तते तस्मादयमनल्पोऽभिन्नरूपः स्वप्रकाशो ब्रह्मैव
व्याप्ततम उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञं महामायं महाविभूत्येतदेवोग्रमे-
तद्धि महाविभूत्येतदेव वीरमेतद्धि महाविभूत्येतदेव महदेतद्धि महाविभूत्ये-
तदेव विष्ण्वेतद्धि महाविभूत्येतदेव ज्वलदेवद्धि महाविभूत्येतदेव सर्वतोमुख-
मेतद्धि महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव भीषणमेतद्धि महा-
विभूत्येतदेव भद्रमेतद्धि महाविभूत्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेव
नमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि महाविभूति तस्मादकारोकाराभ्यामि-
ममात्मानमाततममुत्कृष्टतमं चिन्मात्रं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रासं सर्व-
प्रेमास्पदं सच्चिदानन्दमात्रमेकरसं पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्या-</p>
<pb n="247" />
<p>1.
ईशाद्युपनिषत्सु -
[ खण्डः ७
सतममुत्कृष्टतमं चिन्मात्रं महाविभूति सच्चिदानन्दमात्रमेकरसं परमेव ब्रह्म
कारेण जानीयादात्मैव नृसिंहो देवः परमेव ब्रह्म भवति य एवं वेद । सोऽ-
arat fasara आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समव-
नीयन्ते ब्रह्मैव ब्रह्माप्येतीति ह प्रजापतिरुवाच ॥
इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥
ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हासुरः पाप्मा परिजग्रास । त ऐक्षन्त
हन्तैनमासुरं पाप्मानं ग्रसाम इति । त एतमेवोंकाराग्रविद्योतं तुरीयतुरीय-
मात्मानमुग्रमनुग्रं वीरमवीरं महान्तममहान्तं विष्णुमविष्णुं ज्वलन्तमज्वलन्तं
सर्वतोमुखमसर्वतोमुखं नृसिंहमनृसिंहं भीषणमभीषणं भद्रमभद्रं मृत्युमृत्यु-
ममृत्युमृत्युं नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव बुबुधिरे तेभ्यो हासावा-
सुरः पाप्मा सच्चिदानन्दघनं ज्योतिरभवत्तस्मादपक्ककषाय इममेवोंकाराग्र-
विद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभैव जानीयात्तस्यासुरः पाप्मा
सच्चिदानन्दघनं ज्योतिर्भवति । ते देवा ज्योतिष उत्तितीर्षवो द्वितीयाद्भयमेव
पश्यन्तं इममेवोंकाराग्रविद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभान्विष्य
प्रणचेनैव तस्मिन्नवस्थितास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः सुविभातमविभातम-
द्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवत् । एवंवित्स्वप्रकाश परमेव
ब्रह्म भवति ते देवाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च ससाधनेभ्यो
व्युत्थाय निरागारा निष्परिग्रहा अशिखा अयज्ञोपवीता अन्धा बधिरा मुग्धाः
क्लीबा मूका उन्मत्ता इव परिवर्तमानाः शान्ता दान्ता उपरतास्तितिक्षवः
समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणवमेव
परमं ब्रह्मात्मप्रकाश शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां व्रतमा-
चरन्नोंकारे परे ब्रह्मणि पर्यवसितो भवेत्स आत्मनैवात्मानं परमं ब्रह्म
पश्यति । तदेष श्लोकः - शृङ्गेष्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत् ।
शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देवा उदासत इति ॥
इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु षष्ठः खण्डः ॥ ६ ॥
देवा ह वै प्रजापतिमब्रुवन्भूय एव नो भगवान्विज्ञापयत्विति तथेत्यज-
त्वादमरत्वादजरत्वादमृतत्वादुभयत्वादशोकत्वादमोहत्वादनशनायत्वादपि -
पासत्वादद्वैतत्वाच्चाकारेणेममात्मानमन्विष्योदुत्कृष्टत्वादुदुत्पादकत्वादुदुत्प्र-
बेष्टत्वादुदुत्थापयितृत्वादुदुद्रष्टत्वादुदुत्कर्तृत्वादुदुत्पथवारकत्वादुदुद्वासकत्वा-</p>
<pb n="248" />
<p>नृसिंहोत्तरतापनीयोपनिषत् ॥ २९ ॥
खण्डः ७]
दुदुह्रान्तत्वादुदुत्तीर्णविकृतित्वाच्चोकारेण</p>
<p>परमं सिंहमन्विष्याकारमि-
ममात्मानमुकारपूर्वार्ध माकृष्य सिंहीकृत्योत्तरार्धेन तं सिंहमाकृष्य महत्त्वा-
न्महस्त्वान्मानत्वान्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महासत्त्वान्महाचित्त्वान्म-
हानन्दत्वान्महाप्रभुत्वाच्च मकारार्थेनानेनात्मनैकीकुर्यादशरीरो निरिन्द्रि-
योsप्राणोऽतमाः सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद ।
कस्त्वमित्यहमिति होवाचैवमेवेदं सर्वं तस्मादहमिति सर्वाभिधानं तस्यादिर-
यमकारः स एव भवति । सर्व ह्ययमात्मायं हि सर्वान्तरो न हीदं सर्वं निरा-
त्मकमात्मैवेदं सर्वं तस्मात्सर्वात्मकेनाकारेण सर्वात्मकमात्मानमन्विच्छेद्रमैवेदं
सर्वं सच्चिदानन्दरूपं सच्चिदानन्दरूपमिदं सर्वं सद्धीदं सर्वं तत्सदिति
चिद्धीदं सर्वं काशते काशते चेति किं सहितीदमिदं नेत्यनुभूतिरिति कैषेती-
यमियं नेत्यवचनेनैवानुभवन्नुवाचैवमेव चिदानन्दावप्यवचनेनैवानुभवन्नुवाच
सर्वमन्यदपि स परम आनन्दस्तस्य ब्रह्मणो नाम ब्रह्मेति तस्यान्त्योऽयं
मकारः स एव भवति तस्मान्मकारेण परमं ब्रह्मान्विच्छेत्किमिदमेवमित्यु
इत्येवाहाविचिकित्संस्तस्मादुकारेणेममात्मानमन्विष्य मकारेण
संदध्यादुकारेणाविचिकित्सन्नशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्द-
मात्रः स स्वराड् भवति य एवं वेद । ब्रह्म वा इदं सर्वमत्तृत्वादुग्रत्वाही-
रत्वान्महत्त्वाद्विष्णुत्वाज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्वत्वान्मृ-
न्युमृत्युत्वान्नमामित्वादहन्त्वादिति सततं ह्येतद्ब्रह्मोग्रत्वाद्वीरत्वान्महत्त्वाद्विष्णु-
त्वाज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भङ्गत्वान्मृत्युमृत्युत्वान्नमामि-
त्वादहंत्वादिति तस्मादकारेण परमं ब्रह्मान्विष्य मकारेण मनआद्यवितारं
मनआदिसाक्षिणमन्विच्छेत्स यदैतत्सर्वमुपेक्षते तदैतत्सर्वमस्मिन्प्रविशति स
यदा प्रबुध्यते तदैत्सर्वमस्मादेवोत्तिष्ठति स एतत्सर्वं निरूह्य प्रत्यूह्य संपीड्य
संज्वाल्य संभक्ष्य स्वात्मानमेषां ददात्यत्युग्रोऽतिवीरोऽतिमहानतिविष्णुरति-
ब्रह्मणा
ज्वलन्नतिसर्वतोमुखोऽतिनृसिंहोऽतिभीषणोऽतिभद्रोऽतिमृत्युमृत्युरतिनमाम्य-
त्यहं भूत्वा स्वे महिनि सदा समासते तस्मादेनमकारार्थेन परेण ब्रह्मणैकी-
कुर्यादुकारेणाविचिकित्सन्नशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः
स स्वराड् भवति य एवं वेद । तदेष श्लोकः-शृङ्ख शृङ्गार्धमाकृष्य शृङ्गेणानेन
योजयेत् । शृङ्गमेनं परे शृङ्गे तमतेनापि योजयेत् ॥
इत्याथर्वणीय नृसिंहोत्तरतापनीयोपनिषत्सु सप्तमः खण्डः ॥ ७ ॥</p>
<pb n="249" />
<p>ईशाद्युपनिषत्सु -
[ खण्डः ९
अथ तुरीयेणोतश्च प्रोतश्च ह्ययमात्मा सिंहोऽस्मिन्हि सर्वमयं हि सर्वा-
माऽयं हि सर्वं नैवोतोऽद्वयो ह्ययमात्मैकल एवाविकल्पो न हि वस्तु
सदयं ह्योत इव सदनोऽयं चिदन आनन्दघन एकरसोऽव्यवहार्यः
केनचनाद्वितीय ओतश्च प्रोतश्चैष ओंकार एवं नैवमिति पृष्ट ओमित्येवाह
वाग्वा ओंकारो वागेवेदं सर्वं न ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमों-
कारश्चिन्मयमिदं सर्वं तस्मात्परमेश्वर एवैकमेव तद्भवत्येतदमृतमभयमेत-
ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यमनुज्ञाता
ह्ययमात्मैष ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्वं स्वत आत्मवन्न
ह्ययमोतो नानुज्ञाताऽसङ्गत्वादविकारित्वादसत्त्वादन्यस्यानुज्ञाता ह्ययमोंकार
ओमिति ह्यनुजानाति वाग्वा ओकारो वागेवेदं सर्वमनुजानाति चिन्मयो
मोकारश्चिद्धीदं सर्वं निरात्मकमात्मसात्करोति तस्मात्परमेश्वर एवैकमेव
तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं
वेदेति रहस्यमनुज्ञैकरसो ह्ययमात्मा प्रज्ञानघन एवायं ह्यस्मात्सर्वस्मात्पुरतः
सुविभातोऽतश्चिन एव न ह्ययमोतो नानुज्ञाताऽऽम्यं हीदं सर्वमस-
देवानुज्ञैररसो ह्ययमोकार ओमिति ह्येवानुजानाति वाग्वा ओंकारो वागेव
ह्यनुजानाति चिन्मयो ह्ययमोंकारश्चिदेव ह्यनुज्ञा तस्मात्परमेश्वर एवैकमेव
तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं
वेदेति रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो ह्ययमोंकारोऽद्वितीय-
त्वादेव चिन्मयो ह्ययमोंकारस्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पो
नाविकल्पोऽपि नात्र काचन भिदाऽस्ति नैवात्र काचन भिदाऽस्त्यत्र भिदा-
मिव मन्यमानः शतधा सहस्रधा भिन्नो मृत्योर्मृत्युमाप्नोति तदेतदद्वयं
स्वप्रकाशं महानन्दमात्मैवैतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म
भवति य एवं वेदेति रहस्यम् ॥
इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्स्वष्टमः खण्डः ॥ ८ ॥
देवा ह वै प्रजापतिमब्रुवन्निममेव नो भगवन्नोंकारमात्मानमुपदिशेति
तथेत्युपद्रष्टाऽनुमन्तैष आत्मा सिंहश्चिद्रूप एवाविकारो ग्रुपलब्धा सर्वत्र न
ह्यस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष आत्मा
पर एवैषैव सर्वं तथा हि प्राज्ञे सैषाऽविद्या जगत्सर्वमात्मा परमात्मैत्र
स्वप्रकाशोऽप्य विषयज्ञानत्वाज्जानन्नेव झत्र न विजानात्यनुभूतेर्माया च</p>
<pb n="250" />
<p>खण्डः ९]
नृसिंहोत्तरतापनीयोपनिषत् ॥ २९ ॥</p>
<p>तमोरूपाऽनुभूतेस्तदेतज्जडं मोहात्मकमनन्तं तुच्छमिदं रूपमस्यास्य व्यञ्जिका
नित्यनिवृत्ताऽपि मूढैरात्मेव दृष्टाऽस्य सत्त्वमसत्त्वं च दर्शयति सिद्धत्वासिद्ध-
त्वाभ्यां स्वतन्त्रास्त्रतन्त्रत्वेन सैषा वटबीजसामान्यवदने कवटशक्तिरेकैव । तद्यथा
वटबीजसामान्यमेकमनेकान्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र तत्र पूर्ण
सत्तिष्ठत्येवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा
जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति सैषा विचित्रा
सुदृढा बह्वकुरा स्वयं गुणभिन्नाऽङ्करेष्वपि गुणभिन्ना सर्वत्र ब्रह्मविष्णु-
शिवरूपिणी चैतन्यदीप्ता तस्मादात्मन एव त्रैविध्यं सर्वत्र योनित्वमप्यभिमन्ता
जीवो नियन्तेश्वरः सर्वाहंमानी हिरण्यगर्भस्त्रिरूप ईश्वरवद्व्यक्तचैतन्यः सर्वगो
ह्येष हैश्वरः क्रियाज्ञानात्मा सर्वं सर्वमयं सर्वे जीवाः सर्वमयाः सर्वावस्थासु
तथाप्यल्पाः स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा
प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा
सन्मानो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वय आनन्दः परः
प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हि
ब्रह्म न ह्यत्र किंचनानुभूयते नाविद्याऽनुभवात्मनि स्वप्रकाशे सर्वसाक्षिण्य-
विक्रियेऽद्वये पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं पुरस्तादयोनिः स्वात्म-
स्थमानन्दचिद्वनं सिद्धं ह्यसिद्धं तद्विष्णुरीशानो ब्रह्माऽन्यदपि सर्वं सर्वगं
सर्वमत एव शुद्धोऽबाध्यस्वरूपो बुद्धः सुखरूप आत्मा न ह्येतन्निरात्मकमपि
नात्मा पुरतो हि सिद्धो न हीदं सर्वं कदाचिदात्मा हि स्वमहिमस्थो
निरपेक्ष एक एव साक्षी स्वप्रकाशः किं तन्नित्यमात्माऽत्र ह्येव न विचिकित्स्य-
तद्धीदं सर्वं साधयति दृष्टा द्रष्टुः साक्ष्यविक्रियः सिद्धो निरविद्यो बाह्या-
न्तरवीक्षणात्सुविस्पष्टस्तमसः परस्ताद्भूतैष दृष्टोऽदृष्टो वेति दृष्टोऽव्यवहार्यो -
ऽप्यल्पो नाल्पः साक्ष्यविशेषोऽन्योऽ सुखदुःखोऽद्वयः परमात्मा सर्वज्ञो -
ऽनन्तोऽभिन्नोऽद्वयः सर्वदाऽसंवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेव
दृष्टः किमद्वयेन द्वितीयमेव न यूयमेव ब्रूह्येव भगवन्निति देवा ऊचुर्यूयमेव
दृश्यते चेन्नात्मज्ञा असङ्गो ह्ययमात्माऽतो यूयमेव स्वप्रकाशा इदं
हि सत्संचिन्मयत्वाद्यूयमेव नेति होचुर्हन्तासङ्गा वयमिति होचुः कथं
पश्यन्तीति होवाच न वयं विद्म इति होचुस्ततो यूयमेव स्वप्रकाशा इति
होवाच न च सत्संविन्माया एतौ हि पुरस्तात्सुविभातमव्यवहार्यमेवाद्वयं
ज्ञातो ह्येवैष विज्ञातो विदिताविदितात्पर इति होचुः स होवाच तद्व</p>
<pb n="251" />
<p>ईशाद्युपनिषत्सु -
पश्यत
एतद्ब्रह्माद्वयं बृहत्त्वान्नित्यं शुद्धं बुद्धं मुक्तं सत्यं सूक्ष्मं परिपूर्णमद्वयं सदानन्दं
चिन्मात्रमात्मैवाव्यवहार्यं केनचन तदेतदात्मान मोमित्यपश्यन्तः
तदेतत्सत्यमात्मा ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमित्यों सत्यं
तदेतत्पण्डिता एव पश्यन्त्येतद्ध्यशब्दमस्पर्शमरूपमरसमगन्धमव्यक्तमनादा-
तव्यमगन्तव्यमविसर्जयितव्यमनानन्दयितव्यममन्तव्यमबोद्धव्यम नहंकर्तव्य-
मचेतयितव्यमप्राणयितव्यमनपानयितव्यमव्यानयितव्यमनुदानयि तव्यमस-
मानयितव्यमनिन्द्रियमविषयमकरणमलक्षणमसङ्गमगुणमविक्रियमव्यपदेश्य-
मसत्वमरजस्कमतमस्कममायमप्यौपनिषदमेव सुविभातं सकृद्विभातं पुरतोऽ-
स्मात्सर्वस्मात्सुविभातमद्वयं पश्यताहं स सोऽहमिति स होवाच किमेष
टोseष्टो वेति दृष्टो विदिताविदितात्पर इति होचुः चैषा कथमिति होचुः
किं तेन न किंचनेति होचुर्यूयमाश्वर्यरूपा इति न चेत्याहोमित्यनुजानीध्वं
श्रूतैनमिति ज्ञातोऽज्ञातश्चेति होचुर्न चैवमिति होचुरिति श्रुतैवैनमात्मसिद्धमिति
होवाच पश्याम एव भगवन्न च वयं पश्यामो नैव वयं वक्तुं शक्नुमो नम-
स्तेऽस्तु भगवन्प्रसीदेति होचुर्न भेतव्यं पृच्छतेति होवाच कैषाऽनुज्ञेत्येष
एवात्मेति होवाच ते होचुर्नमस्तुभ्यं वयं त इतीति ह प्रजापतिर्देवाननुश-
शासानुशशासेति । तदेष श्लोकः -- ओतमोतेन जानीयादनुज्ञातारमान्तरम् ।
अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेदित्युपद्रष्टारमाव्रजेदिति ॥ ९ ॥
ॐ भद्रं कर्णेभिः ० १ । ॐ स्वस्ति न इन्द्रो० २ । ॐ शान्तिः ३ ॥
इत्याथर्वणीयनृसिंहोत्तरतापनीयोपनिषत्सु नवमः खण्डः ॥ ९ ॥
इत्यार्थर्वणीयनृसिंहोत्तरतापनीयोनिषत्समाप्ता ॥</p>
<lg>
  <l>कालाग्निरुद्रोपनिषत् ॥ ३० ॥</l>
  <l>ब्रह्मज्ञानोपायतया यद्विभूतिः प्रकीर्तिता ।</l>
  <l>कालाग्निरुद्रं तमहं भजतां स्वात्मदं भजे ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>ॐ अथ कालाग्निरुद्रोपनिषदः संवर्तकोऽग्निर्ऋषिरनुष्टुप्छन्दः श्रीकाला-
निरुद्रो देवता श्रीकालाग्निरुद्रप्रीत्यर्थे भस्मत्रिपुण्ड्रधारणे विनियोगः ॥ अथ
कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ - अधीहि भगवंस्त्रिपुण्डूविधिं सतत्त्वं
किं द्रव्यं कियत्स्थानं कतिप्रमाणं का रेखा के मन्त्राः का शक्तिः किं दैवतं</p>
<pb n="252" />
<p>अध्या० १]
मैत्रेय्युपनिषत् ॥ ३१ ॥</p>
<p>कः कर्ता किं फलमिति च । तं होवाच भगवान्कालाग्निरुद्रः--यद्रव्यं तदा-
नेयं भस्म सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्म वायुरिति भस्म
जलमिति भस्म स्थलमिति भस्म व्योमेति भस्मेत्यनेनाभिमन्त्रय मानस्तोक
इति समुद्धृत्य मा नो महान्तमिति जलेन संसृज्य त्रियायुषमिति शिरोललाट-
वक्षःस्कन्धेषु त्रियायुषैख्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो रेखाः प्रकुर्वीत व्रत-
मेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति तस्मात्तत्समाचरेन्मुमुक्षुर्न
पुनर्भवाय ॥ अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य त्रिपुण्डधारणस्य त्रिधा रेखा
भवत्याललाटादाचक्षुषोरामूनोरा भ्रुवोर्मध्यतश्च यास्य प्रथमा रेखा सा गाई-
पत्यश्वाकारो रजोभूर्लोकः स्वात्मा क्रियाशक्ति ऋग्वेदः प्रातःसवनं महेश्वरो
देवतेति यस्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा
चेच्छाशक्तिर्यजुर्वेदो माध्यंदिनं सवनं सदाशिवो देवतेति यास्य तृतीया रेखा
साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं
महादेवो देवतेति एवं त्रिपुण्ड्रविधिं भस्मना करोति यो विद्वान्ब्रह्मचारी गृही
वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति स सर्वेषु तीर्थेषु
स्नातो भवति स सर्वान्वेदानधीतो भवति स सर्वान्देवाज्ञातो भवति स
सततं सकलरुद्रमन्त्रजायी भवति स सकलभोगान्भुङ्क्ते देहं त्यक्त्वा शिवसा -
युज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान्कालाग्निरुद्रः ॥
यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥ ३० ॥
ॐ
ॐ सह नाववत्विति शान्तिः ॥
इति कालाग्निरुद्रोपनिषत्समासा ॥</p>
<lg>
  <l>मैत्रेय्युपनिषत् ॥ ३१ ॥</l>
  <l>श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।</l>
  <l>तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्य-
मानः शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र परमं तप आस्थायादि-
त्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्निरिवाधूम-
कस्तेजसा निर्दहन्निवात्मविद्भगवान्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति</p>
<pb n="253" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
-राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो
चयं स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा पृच्छ प्रश्न मैक्ष्वाकान्यान्कामा-
वृणीष्वेति शाकायन्यस्य चरणावभिमृश्यमानो राजेमां गाथां जगाद ॥ १ ॥
अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं
स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सोऽहमित्येत-
द्विन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं दृश्यत इत्युद्ध-
तुमईसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥२॥
भगवन्शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्कान्त-
मस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्तकफमज्जामेदोव-
"साभिरन्यैश्च मलैर्बहुभिः परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं नो
गतिरिति ॥ ३ ॥
अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज बृहद्रथेक्ष्वाकुवंश-
ध्वजशीर्षात्मज्ञः कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं खल्वात्मा ते कतमो
भगवान्वर्ण्य इति तं होवाच ॥ शब्दस्पर्श मया येऽर्था अनर्था इव ते स्थिताः ।
येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ १ ॥ तपसा प्राप्यते सत्वं
सत्त्वात्संप्राप्यते मनः । मनसा प्राप्यते ह्यात्मा ह्यात्मापच्या निवर्तते ॥ २ ॥
यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोना-
वुपशाम्यति ॥ ३ ॥ स्वयोनावुपशान्तस्य मनसः सत्यगामिनः । इन्द्रियार्थ-
विमूढस्यानृताः कर्मवशानुगाः ॥ ४ ॥ चित्तमेव हि संसारस्तत्प्रयत्नेन शोध-
येत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ५ ॥ चित्तस्य हि प्रसादेन
हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ ६ ॥
समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ॥ यद्येवं ब्रह्मणि स्यात्तत्को न
मुच्येत बन्धनात् ॥ ७ ॥ हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् । साक्षिणं
बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ८ ॥ अगोचरं मनोवाचामवधूतादिसंप्लवम् ।
सत्तामात्र प्रकाशैकप्रकाश भावनातिगम् ॥ ९ ॥ अहेयमनुपादेयमसामान्य-
विशेषणम् । ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् । निर्विकल्पं निरा-
भासं निर्वाणमय संविदम् ॥ १० ॥ नित्यः शुद्धौ बुद्धमुक्तस्वभावः सत्यः
सूक्ष्मः संविभुश्चाद्वितीयः । आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यग्धातुर्नात्र
संशीतिरस्ति ॥ ११ ॥ आनन्दमन्तर्निजमाश्रयं तमाशापिशाचीमवमानय-
न्तम् । आलोकयन्तं जगदिन्द्रजालमापत्कथं मां प्रविशेदसङ्गम् ॥ १२ ॥</p>
<pb n="254" />
<p>अध्या० २]
मैत्रेय्युपनिषत् ॥ ३१ ॥</p>
<p>वर्णाश्रमाचारयुता विमूढाः कर्मानुसारेण फलं लभन्ते । वर्णादिधर्म हि परि-
त्यजन्तः स्वानन्दतृप्ताः पुरुषा भवन्ति ॥ १३ ॥ वर्णाश्रमं सावयवं स्वरूप-
माद्यन्तयुक्तं ह्यतिकृच्छ्रमात्रम् । पुत्रादिदेहेष्वभिमानशून्यं भूत्वा वसेत्सौख्य-
तमे द्यनन्त इति ॥ १४ ॥
इति मैत्रेय्युपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ॥ २ ॥
अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच भो भगवन्परमतत्त्वरह-
स्यमनुब्रूहीति ॥ स होवाच महादेवः । देहो देवालयः प्रोक्तः स जीवः
केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥ १ ॥ अभेददर्शनं
ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥२॥
ब्रह्मामृतं पिबेद्वैक्षमाचरेद्देहरक्षणे । वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ३ ॥ जातं मृतमिदं देहं माता-
पितृमलात्मकम् । सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥ ४ ॥ धातुबद्धं
महारोगं पापमन्दिरमध्रुवम् । विकाराकारविस्तीर्ण स्पृष्ट्वा स्नानं विधीयते
॥ ५ ॥ नवद्वारमलस्त्रावं सदा काले स्वभावजम् । दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा
स्नानं विधीयते ॥ ६ ॥ मातृसूतकसंबन्धं सूतके सह जायते । मृतसूतकर्ज
देहं स्पृष्ट्वा स्नानं विधीयते ॥ ७ ॥ अहंममेति विण्मूत्रलेपगन्धादिमोचनम् ।
शुद्धशौचमिति प्रोक्तं मृजलाभ्यां तु लौकिकम् ॥ ८ ॥ चित्तशुद्धिकरं शौचं
वासनात्रयनाशनम् । ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ॥ ९ ॥ अद्वैत-
भावनाभैक्षमभक्ष्यं द्वैतभावनम् । गुरुशास्त्रोक्तभावेन भिक्षोभैक्षं विधीयते
॥ १० ॥ विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः । कारागारविनिर्मुक्त-
चोरवद्दूरतो वसेत् ॥ ११ ॥ अहंकारसुतं वित्तभ्रातरं मोहमन्दिरम् । आशापलीं
त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ १२ ॥ मृता मोहमयी माता जातो
बोधमयः सुतः । सूतकद्वयसंप्राप्तौ कथं संध्यामुपास्महे ॥ १३ ॥ हृदाकाशे
चिदादित्यः सदा भासति भासति । नास्तमेति न चोदेति कथं संध्यामुपास्महे
॥ १४ ॥ एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् । एतदेकान्तमित्युक्तं न
मठो न वनान्तरम् ॥ १५ ॥ असंशयवतां मुक्तिः संशयाविष्टचेतसाम् । न
मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥ १६ ॥ कर्मत्यागान्न संन्यासो न</p>
<pb n="255" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ३
प्रेषोच्चारणेन तु । संधौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥ १७ ॥
वमनाहारवद्यस्य भाति सर्वेषणादिषु । तस्याधिकारः संन्यासे त्यक्तदेहाभिमा-
निनः ॥ १८ ॥ यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु । तदैव संन्यसेद्विद्वा-
नन्यथा पतितो भवेत् ॥ १९ ॥ द्रव्यार्थ मन्नवसार्थं यः प्रतिष्ठार्थमेव वा ।
संन्यसेदुभयभ्रष्टः स मुक्ति नातुमर्हति ॥ २० ॥ उत्तमा तत्त्वचिन्तैव मध्यमं
शास्त्रचिन्तनम् । अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥२१॥ अनुभूतिं
विना मूढो वृथा ब्रह्मणि मोदते । प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत्
॥ २२ ॥ न त्यजेच्चेद्यतिर्मुक्तो यो माधुकरमातरम् । वैराग्यजनकं श्रद्धाकलन्नं
ज्ञाननन्दनम् ॥ २३ ॥ धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च । ते सर्वे
ज्ञानवृद्धस्य किंकराः शिष्य किंकराः ॥ २४ ॥ यन्मायया मोहितचेतसो
मामात्मानमापूर्णमलब्धवन्तः । परं विदग्धोदरपूरणाय भ्रमन्ति काका इक
सूरोऽपि ॥ २५ ॥ पाषाणलोहमणिमृण्मयविग्रहेषु पूजा पुनर्जननभोगकरी
मुमुक्षोः । तस्माद्यतिः स्वहृदयार्चनमेव कुर्याद्वाह्यार्चनं परिहरेदपुनर्भवाय
॥ २६ ॥ अन्तःपूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे । अन्तःशून्यो बहिः शून्यः
शून्यकुम्भ इवाम्बरे ॥ २७ ॥ मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा
भवः । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ २८ ॥ द्रष्टृदर्शन-
यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं केवलं भज
॥ २९ ॥ संज्ञान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाग्रन्निद्वाविनिर्मुक्ता सा
स्वरूपस्थितिः परा ॥ ३० ॥
इति मैत्रेय्युपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ॥ ३ ॥
अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् । सर्वलोकगुरुश्चास्मि सर्व-
लोकेऽस्मि सोऽस्म्यहम् ॥ १ ॥ अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमो-
ऽस्म्यहम् । अहमस्मि सदा सोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २॥
विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् । शुभोऽस्मि शोक-
हीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ३ ॥ मानावमानहीनोऽस्मि निर्गु-
णोऽस्मि शिवोऽस्म्यहम् । द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम्
॥ ४ ॥ भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् । शून्याशुन्य-
प्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ५ ॥ तुल्यातुल्यविहीनोऽस्मि नित्यः</p>
<pb n="256" />
<p>अध्या० ]
मैत्रेय्युपनिषत् ॥ ३१ ॥</p>
<p>शुद्धः सदाशिवः । सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् ॥ ६ ॥
एकसंख्याविहीनोऽस्मि द्विसंख्यावानहं न च । सदसद्भेदहीनोऽस्मि संकल्प-
रहितोऽस्म्यहम् ॥ ७ ॥ नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः । नाह -
मस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥ ८ ॥ आश्रयाश्रयहीनोऽस्मि
आधाररहितोऽस्म्यहम् । बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम्
॥ ९ ॥ चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः । सदा विचाररूपोऽस्मि
निर्विचारोऽस्मि सोऽस्म्यहम् ॥ १० ॥ अकारोकाररूपोऽस्मि मकारोऽस्मि
सनातनः । ध्यातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥ ११ ॥
सर्वपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः । सर्वतीर्थस्वरूपोऽस्मि परमात्मा-
स्म्यहं शिवः ॥ १२ ॥ लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् । मातृ-
मानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३ ॥ न जगत्सर्वद्रष्टास्मि
नेत्रादिरहितोऽस्म्यहम् । प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम्
॥ १४ ॥ सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् । सर्ववेदान्ततृप्तोऽस्मि
सर्वदा सुलभोऽस्म्यहम् ॥ १५ ॥ मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्य-
हम् । नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ १६ ॥ यत्किंचि -
दपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् । हृदयग्रन्थिहीनोऽस्मि हृदयाम्भोज-
मध्यगः ॥ १७ ॥ षड्विकारविहीनोऽस्मि षङ्कोशरहितोऽस्म्यहम् । अरिषड्वर्ग-
मुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥ १८ ॥ देशकालविमुक्तोऽस्मि दिग-
म्बरसुखोऽस्म्यहम् । नास्ति नास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ॥ १९ ॥
अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् । प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्च-
रहितोऽस्म्यहम् ॥ २० ॥ सर्वप्रकाशरूपोऽस्मि चिन्मात्र ज्योतिरस्म्यहम् । काल-
त्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥ २१ ॥ कायिकादिविमुक्तोऽस्मि
निर्गुणः केवलोऽस्म्यहम् । मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं
सदा ॥ २२ ॥ सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा । गन्तव्य-
देशहीनोऽस्मि गमनादिविवर्जितः ॥ २३ ॥ सर्वदा समरूपोऽस्मि शान्तोऽस्मि
पुरुषोत्तमः । एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥ २४ ॥ यः
शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥
इति मैत्रेय्युपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
अ. उ. १६
ॐ आप्यायन्त्विति शान्तिः ॥
इति मैत्रेय्युपनिषत्समाप्ता ॥ ३१ ॥</p>
<pb n="257" />
<p>ईशायुपनिषत्सु -</p>
<lg>
  <l>सुबालोपनिषत् ॥ ३२ ॥</l>
  <l>बीजाज्ञानमहापाद्यद्विशिष्यते ।</l>
  <l>निर्बीजं त्रैपदं तत्त्वं तदस्मीति विचिन्तये ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>[ खण्डः २
ॐ तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसदिति तस्मात्त-
मः संजायते तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुर्वायोरभिरभेरापोऽन्यः
पृथिवी तदण्डं समभवत्तत्संवत्सरमान्त्रमुषित्वा द्विधाऽकरोदधस्ताद्भूमिमुपरि-
टादाकाश मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजत्रयक्षरं त्रिशिरस्कं त्रिपादं खण्डपरशुं
तस्य ब्रह्माभिधेति स ब्रह्माणमेव विवेश स मानसान्सप्त पुत्रानसृजत्ते ह विराजः
सत्यमानसानसृजन्ते ह प्रजापतयः ॥ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ चन्द्रमा मनसो जातश्चक्षोः
सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते ॥
इति सुबालोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
अपानान्निषादा यक्षराक्षसगन्धर्वाश्चास्थिभ्यः पर्वता लोमभ्य ओषधिवन-
स्पतयो ललाटाक्रोधजो रुद्रो जायते तस्यैतस्य महतो भूतस्य निःश्वसितमे-
वैतद्यद्दग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं
छन्दो ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्या-
नानि च सर्वाणि च भूतानि हिरण्यज्योतिर्यस्मिन्नयमात्माधिक्षियन्ति भुव-
नानि विश्वा ॥ आत्मानं द्विधाऽकरोदधैन स्त्री अर्धेन पुरुषो देवो भूत्वा देवा-
नसृजदृषिर्भूत्वा ऋषीन्यक्षराक्षसगन्धर्वान्प्राम्यानारण्यांश्च पशूनसृजदितरा
गौरितरोऽनजानितरो वडवेतरोऽश्व इतरा गर्दभीतरो गर्दभ इतरा विश्वभरी-
तरो विश्वभरः सोऽन्ते वैश्वानरो भूत्वा संदुग्ध्वा सर्वाणि भूतानि पृथिव्यप्सु
प्रलीयत आपस्तेजसि प्रलीयन्ते तेजो वायौ विलीयते वायुराकाशे विलीयत
आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते
भूतादिर्महति विलीयते महानव्यक्ते विलीयतेऽव्यक्तमक्षरे विलीयते अक्षरं
तमसि विलीयते तमः परे देव एकीभवति परस्तान्न सन्नासन्नासदसदित्ये-
तन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥</p>
<pb n="258" />
<p>खण्डः ५ ]
सुबालोपनिषत् ॥ ३२ ॥</p>
<p>असद्वा इदमग्र आसीद्जातमभूतमप्रतिष्ठित मशब्दमस्पर्शमरूपमरसमग-
न्धमव्ययममहान्तमबृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥ अप्राण-
ममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षुष्कमनाम गोत्रम शिरस्कमपाणिपादमस्त्रि
धमलोहितमप्रमेयमहस्वमदीर्घमस्थूलमनण्वनल्पमपारमनिर्देश्यमनपावृतमप्र-
`तर्क्यमप्रकाश्यमसंवृतमनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नाति
कश्चनैतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वेदनेनानाशकेन षडङ्गे-
नैव साधयेदेतत्रयं वीक्षेत दमं दानं दयामिति न तस्य प्राणा उत्क्रामन्त्य -
त्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥
इति सुबालोपनिषत्तु तृतीयः खण्डः ॥ ३ ॥
हृदयस्य मध्ये लोहितं मांसपिण्डं यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवाने-
कधा विकसितं हृदयस्य दश छिद्राणि भवन्ति येषु प्राणाः प्रतिष्ठिताः स
यदा प्राणेन सह संयुज्यते तदा पश्यति नद्यो नगराणि बहूनि विविधानि
'च यदा व्यानेन सह संयुज्यते तदा पश्यति देवांश्च ऋषींश्च यदाऽपानेन सह
संयुज्यते तदा पश्यति यक्षराक्षसगन्धर्वान्यदा दानेन सह संयुज्यते तदा
पश्यति देवलोकान्देवान्स्कन्दं जयन्तं चेति यदा समानेन सह संयुज्यते
तदा पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह संयुज्यते तदा पश्यति
दृष्टं च श्रुतं च भुक्तं चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा दश दश
नाड्यो भवन्ति । तासामेकैकस्य ह्रासप्ततिसप्ततिः शाखा नाडीसहस्राणि
भवन्ति यस्मिन्नयमात्मा स्वपिति शब्दानां च करोत्यथ यद्वितीये स कोशे
स्वपिति तदेमं च लोकं परं च लोकं पश्यति सर्वाञ्छन्दान्विजानाति स
प्रसाद इत्याचक्षते प्राणः शरीरं परिरक्षति हरितस्य नीलस्य पीतस्य लोहि-
तस्य श्वेतस्य नाड्यो रुधिरस्य पूर्णा अथात्रैतद्दहरं पुण्डरीकं कुमुदमिवानेकधा
विकसितं यथा केशः सहस्रधा भिन्नस्तथा हिता नाम नाड्यो भवन्ति हृद्या -
काशे परे को दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न कंचन कामं कामयते
न कंचन स्वप्नं पश्यति न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता
न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा तेजस्कायममृतं सलिल
एवेदं सलिलं वनं भूयस्तेनैव मार्गेण जाम्राय धावति सम्राडिति होवाच ॥
इति सुबालोपनिषत्सु चतुर्थः खण्डः ॥ ४ ॥
स्थानानि स्थानिभ्यो यच्छति नाडी तेषां निबन्धनं चक्षुरध्यात्मं द्रष्टव्यम-
अधिभूतमादित्यस्तत्राधिदैवतं नाडी तेषां निबन्धनं यश्चक्षुषि यो द्रष्टव्ये य</p>
<pb n="259" />
<p>ईशाद्युपनिषत्सु -
[ खण्डः ४
आदित्ये यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एत-
स्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभय-
मशोकमनन्तम् । श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतं नाडी
तेषां निबन्धनं यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाड्यां यः प्राणे यो
विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽय-
मात्मा तमात्मानमुपासीताजर ममृतमभयमशोकमनन्तम् ॥ नासाध्यात्मं
घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतं नाडी तेषां निबन्धनं यो नासायां यो
प्रातव्ये यः पृथिव्यां यो नाड्यां० नन्तम् ॥ जिह्वाध्यात्मं यो रसयितव्यमधि-
भूतं वरुणस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो जिह्वायां यो रसयितव्ये
यो वरुणे यो नाड्यां० 'नन्तम् ॥ त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्त-
त्राधिदैवतं नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वायौ यो
नाड्यां० नन्तम् ॥ मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतं नाडी
तेषां निबन्धनं यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाड्यां० नन्तम् ॥ बुद्धि-
रध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं नाडी तेषां निबन्धनं यो बुद्दौ
यो बोद्धव्ये यो ब्रह्मणि यो नाड्यां० नन्तम् ॥ अहंकारोऽध्यात्ममहंकर्तव्य-
मधिभूतं रुद्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं योऽहंकारे योऽहंकर्तव्ये
यो रुद्रे यो नाड्यां० नन्तम् ॥ चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्त-
त्राधिदैवतं नाडी तेषां निबन्धनं यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे यो
नाड्यां० नन्तम् ॥ वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतं नाडी तेषां
निबन्धनं यो वाचि यो वक्तव्ये योऽग्नौ यो नाड्यां० नन्तम् ॥ हस्तावध्या-
त्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो हते य
आदातव्ये य इन्द्रे यो नाड्यां० नन्तम् ॥ पादावध्यात्मं गन्तव्यमधिभूतं
विष्णुस्तत्राधिदैवतं नाडी तेषां निबन्धनं यः पादे यो गन्तव्ये यो विष्णौ यो
नाड्यां० ० नन्तम् ॥ पायुरध्यात्मं विसर्जयितव्यमधिभूतं मृत्युस्तत्राधिदैवतं
art षां निबन्धनं यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां०
नन्तम् ॥ उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतं नाडी
तेषां निबन्धनं य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः
आ यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति
सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ एष सर्वज्ञ</p>
<pb n="260" />
<p>खण्डः ७].
सुबालोपनिषत् ॥ ३२ ॥
एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष योनिः सर्वस्य सर्वसौख्यैरुपास्य-
मानो न च सर्वसौख्यान्युपास्यति वेदशास्त्रैरुपास्यमानो न च वेदशास्त्राण्यु-
पास्यति यस्यान्नमिदं सर्वे न च योऽन्नं भवत्यतः परं सर्वनयनः प्रशास्तान्न-
मयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः संकल्पात्मा विज्ञानमयः
कालात्मानन्दमयो लयात्मैकत्वं नास्ति द्वैतं कुतो मर्त्य नास्त्यमृतं कुतो
नान्तःप्रज्ञो न बहिः प्रज्ञो नोभयतःप्रज्ञो न प्रज्ञानघनो न प्रज्ञो नाप्रज्ञोऽपि
नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदा-
नुशासनम् ॥
इति सुबालोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥
*
नैवेह किंचनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते । दिव्यो देव को
नारायणश्चक्षुश्च द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च नारायणो घ्राणं च
प्रातव्यं च नारायणो जिह्वा च रसवितव्यं च नारायणस्त्वक् च स्पर्शयितव्यं
च नारायणो मतश्च मन्तव्यं च नारायणो बुद्धिश्च बोद्धव्यं च नारायणोऽहं-
कारश्चाहंकर्तव्यं च नारायणश्चित्तं च चेतयितव्यं च नारायणो वाकू च
वक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः पादौ च गन्तव्यं च
नारायणः पायुश्च विसर्जयितव्यं च नारायण उपस्थश्चानन्दयितव्यं च नारा-
यो धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायण आदित्या रुद्रा
मरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽग्निराज्याहुतिर्नारायण उद्भवः
संभवो दिव्यो देव एको नारायणो माता पिता भ्राता निवासः शरणं सुहृ-
गतिर्नारायणो विराजा सुदर्शनाजितासोम्यामोघाकुमारामृतासत्यामध्यमाना-
सीराशिशुरासुरासूर्यास्वराविज्ञेयानि नाडीनामानि दिव्यानि गर्जति गायति
वाति वर्षाति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मचव :
दिवसाचा दिवसाश्च कलाः- - कल्पाश्चोर्ध्वं च दिशश्च सर्व नारायणः ॥ पुरुष
एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
त्वद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीच चक्षुराततम् ॥ तद्वि-
प्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ तदेतन्निर्वा-
णानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्सु षष्ठः खण्डः ॥ ६ ॥
अन्तःशरीरे, निहितो गुहायामज एको नित्यो यस्य पृथिवी शरीरं यः
पृथिवीमन्तरे संचरन् यं पृथिवी न वेद ॥ यस्यापः शरीरं योऽपोन्तरे संच-
:</p>
<pb n="261" />
<p>ईशाद्युपनिषत्सु -
[ खण्ड: ए
रन्यमापो न विदुः ॥ यस्य तेजः शरीरं यस्तेजोन्तरे संचरन् यं तेजो न वेद ।
यस्य वायुः शरीरं यो वायुमन्तरे संचरन यं वायुर्न वेद ॥ यस्याकाशः शरीरं
य आकाशमन्तरे संचरन यमाकाशो न वेद ॥ यस्य मनः शरीरं यो मनोन्तरे
संचरन यं मनो न वेद ॥ यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् यं
बुद्धिर्न वेद ॥ यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन् यमहंकारो न
वेद ॥ यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं चित्तं न वेद ॥ यस्याव्यक्तं
शरीरं योऽव्यक्तमन्तरे संचरन् यमव्यक्तं न वेद ॥ यस्याक्षरं शरीरं योऽक्षरमन्तरे
संचरन् यमक्षरं न वेद ॥ यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न
वेद ॥ स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः ॥ एतां
विद्यामपान्तरतमाय ददावपान्तरतमो ब्रह्मणे ददौ ब्रह्मा घोराङ्गिरसे ददौ
घोराङ्गिरा रैकाय ददौ रैको रामाय ददौ रामः सर्वेभ्यो भूतेभ्यो ददावित्येवं
निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्सु सप्तमः खण्डः ॥ ७ ॥
अन्तःशरीरे निहितो गुहायां शुद्धः सोऽयमात्मा सर्वस्य मेदोमांसक्केदा-
वकीर्णे शरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गान्धर्वनगरोपमे कदली-
गर्भवन्निःसारे जलबुद्बुदवञ्चञ्चले निःसृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्गं
शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं बिभ्राज--
मानमानन्दं तं पश्यन्ति विद्वांसस्तेन लये न पश्यन्ति ॥
इति सुबालोपनिषत्स्वष्टमः खण्डः ॥ ८ ॥
अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वेऽस्तं गच्छन्तीति ॥ तस्मै स होवाच
चक्षुरेवाप्येति यच्चक्षुरेवास्तमेति द्रष्टव्यमेवाप्येति यो द्रष्टव्यमेवास्तमेत्यादि-
त्यमेवाप्येति य आदित्यमेवास्तमेति विराजभेवाप्येति यो विराजमेवास्तमेति
प्राणमेवाप्येति यः प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे-
त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्त-
मेति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ श्रोत्रमेवा-
येति यः श्रोत्रमेवास्तमेति श्रोतव्यमेवाप्येति यः श्रोतव्यमेवास्तमेति दिश-
मेवाप्येति यो दिशमेवास्तमेति सुदर्शनामेवाप्येति यः सुदर्शनामेवास्तमेत्य --
पानमेवाप्येति योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेति
बदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ नासामेवाप्येति यो</p>
<pb n="262" />
<p>खण्डः ९]
सुबालोपनिषत् ॥ ३२ ॥</p>
<p>नासामेवास्तमेति घ्रातव्यमेवाप्येति यो भवतव्यमवालप्रेति पृथिवीमेवाप्येति
यः पृथिवीमेवास्तमेति जितामेवाप्येति यो जितामेवास्तमेति व्यानमेवाप्येति
यो व्यानमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ जिह्वामेवाप्येति
यो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति यो रसयितव्यमेवास्तमेति वरुण-
मेवाप्येति यो वरुणमेवास्तमेति सौम्यामेवाप्येति यः सौम्यामेवास्तमेत्यु-
दानमेवाप्येति य उदानमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥
त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति यः स्पर्शयितव्यमे-
वास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति मेधामेवाप्येति यो मेघा-
मेवास्तमेति समानमेवाप्येति यः समानमेवास्तमेति विज्ञानमेवाप्येति तदमृत•
होवाच ॥ वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति यो वक्तव्य-
मेवास्तमेत्यग्निमेवाप्येति योऽग्निमेवास्तमेति कुमारामेवाप्येति यः कुमारा-
मेवास्तमेति वैरम्भमेवाप्येति यो वैरम्भमेवास्तमेति विज्ञतमन्येति तदमृत ०
होवाच ॥ हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति य आदातव्य-
मेवास्तमेतीन्द्रमेवाप्येति य इन्द्रमेवास्तमेत्यमृतामेवाप्येति योऽमृतामेवास्त-
मेति मुख्यमेवाप्येति यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति तदमृत होवाच ॥
पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति यो गन्तव्यमेवास्तमेति
विष्णुमेवाप्येति यो विष्णुमेवास्तमेति सत्यामेवाप्येति यः सत्यामेवास्तमे-
त्यन्तर्याममेवाप्येति योऽन्तर्याममेवास्तमेति विज्ञानमेवाप्येति तद० होवाच ॥
पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति यो विसर्जयित-
व्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति मध्यमामेवाप्येति यो
मध्यमामेवास्तमेति प्रभञ्जनमेवाप्येति यः प्रभञ्जनः वामेति विज्ञानमे-
वाप्येति तद० होवाच ॥ उपस्थमेवाप्येति य उपस्थमेवास्तमेत्यानन्दयितव्य-
मेवायेति य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापति-
मेवास्तमेति नासीरामेवाप्येति यो नासीरामेवास्तमेति कुमारमेवाप्येति यः
कुमारमेवास्तमेति विज्ञानमेवाप्येति तदमृत० होवाच ॥ मन एवाप्येति यो
मन एवास्तमेति मन्तव्यमेवाप्येति यो मन्तव्यमेवास्तमेति चन्द्रमेवाप्येति
यश्चन्द्रमेवास्तमेति शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यः
श्येनमेवास्तमेति विज्ञानमेवाप्येति तदमृत होवाच ॥ बुद्धिमेवाप्येति यो
बुद्धिमेवास्तमेति बोद्धव्यमेवाप्येति यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवा-</p>
<pb n="263" />
<p>.. ईशाधुपनिषत्सु -
[ खण्ड: १०
प्येति यो ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति
कृष्णमेवास्येति यः कृष्णमेवास्तमेति विज्ञानमेवाप्येति तदमृत होवाच ॥
अहंकारमेवाप्येति योऽहंकारमे वास्तमेत्यहंकर्तव्यमेवाप्येति योऽहंकर्तव्यमेवा-
स्तमेति रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति योऽसुरामेवा-
स्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति विज्ञानमेवाप्येति तदमृत०
होवाच चित्तमेवाप्येति यश्चित्तमेवास्तमेति चेतयितव्यमेवाप्येति यश्चेत-
यितव्यमेवास्तमेति क्षेत्रज्ञमेवाप्येति यः क्षेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येति
यो भास्वतीमेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञानमेवाप्येति
यो विज्ञानमेवास्तमेत्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति
यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति तदमृत०
होवाच ॥ य एवं निर्बीजं वेद निर्बीज एव स भवति न जायते न म्रियते न
मुद्यते न भिद्यते न दह्यते न छिद्यते न कम्पते न कुप्यते सर्वदहनोऽयमा-
त्मेत्याचक्षते नैवमात्मा प्रवचनवतेद्वापि लभ्यते न बहुश्रुतेन बुद्धिज्ञाना-
श्रितेन न मेधया न वेदैर्न यज्ञैर्न तपोभिरुयैर्न सांख्यैर्न योगैर्नाश्रमैर्नान्यैरा-
त्मानमुपलभन्ते प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणा शुश्रुवांसोऽ-
नूचाना उपलभन्ते शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवा-
त्मानं पश्यति सर्वस्यात्मा भवति य एवं वेद ॥
इति सुबालोपनिषत्सु नवमः खण्डः ॥ ९ ॥
.. अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति रसातल-
लोकेष्विति होवाच कस्मिन्नसातललोका ओताश्च प्रोताश्चेति भूर्लोकेष्विति
होवाच । कस्मिन्भूर्लोका ओताश्च प्रोताश्चेति भुवर्लोकेष्विति होवाच । कस्मिन्भु-
वर्लोका ओताश्च प्रोताश्चेति सुवर्लोकेष्विति होवाच । कस्मिन्सुवर्लोका ओताव
प्रोताश्चेति महलोंकेष्विति होवाच । कस्मिन्महर्लोका ओताश्च प्रोताश्चेति
जनोलोकेष्विति होवाच । कस्मिन् जनोलोका ओताश्च प्रोताश्चेति तपोलोके-
ष्विति होवाच । कस्मिँस्तपोलोका ओताश्च प्रोताश्चेति सत्यलोकेध्विति होवाच
कस्मिन्सत्यलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेष्विति होवाच । कस्मिन्प्र-
जापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेष्विति होवाच । कस्मिन्ब्रह्मलोका
ओताश्च प्रोताश्चेति सर्वलोका आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति
स होवाच । एवमेतान् लोकानात्मनि प्रतिष्ठितान्वेदात्मैव स भवतीत्येत-
निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
' इति सुबालोपनिषत्सु दशमः खण्डः ॥ १० ॥</p>
<pb n="264" />
<p>खण्डः १३]
सुबालोपनिषत् ॥ ३२ ॥</p>
<p>अथ हैनं रैक्वः पप्रच्छ भगवन्योऽयं विज्ञानधन उत्क्रामन्स केन कतरद्वाव
स्थानमुत्सृज्यापाक्रामतीति तस्मै स होवाच । हृदयस्य मध्ये लोहितं मांसपिण्डं
यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं तस्य मध्ये समुद्रः समु-
द्वस्य मध्ये कोशस्तस्मिन्नाड्यश्चतस्त्रो भवन्ति रमारमेच्छाऽपुनर्भवेति तत्र रमा
पुण्येन पुण्यं लोकं नयत्यरमा पापेन पापमिच्छया यत्स्मरति तदभिसंपद्यते
अपुनर्भवया कोशं भिनत्ति कोशं भित्त्वा शीर्षकपालं भिनत्ति शीर्षकपालं
भित्त्वा पृथिवीं भिनत्ति पृथिवीं भित्त्वाऽपो भिनत्त्यापो भित्त्वा तेजो भिनत्ति
तेजो भित्त्वा वायुं भिनत्ति वायुं भित्त्वाकाशं भिनत्याकाशं भित्त्वा मनो भिनत्ति
मनो भित्त्वा भूतादि भिनत्ति भूतादि भित्त्वा महान्तं भिनत्ति महान्तं
भित्त्वाव्यक्तं भिनत्त्यव्यक्तं भित्त्वाक्षरं भिनत्त्यक्षरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वै
परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति
वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्खेकादशः खण्डः ॥ ११ ॥
ॐ नारायणाद्वा अन्नमागतं पक्कं ब्रह्मलोके महासंवर्तके पुनः पवमादिले
पुनः पक्कं क्रव्यादि पुनः पक्कं जालकिलक्किन्नं पर्युषितं पूतमन्नमयाचितमसं-
लृप्तमश्नीयान्न कंचन याचेत ॥
इति सुबालोपनिषत्सु द्वादशः खण्डः ॥ १२ ॥
बाल्येन तिष्ठासेद्वालस्वभावोऽसङ्गो निरवद्यो मौनेन पाण्डित्येन निरवधि-
कारतयोपलभ्येत कैवल्यमुक्तं निगमनं प्रजापतिरुवाच महत्पदं ज्ञात्वा वृक्ष-
मूले वसेत कुचेलोऽसहाय एकाकी समाधिस्थ आत्मकाम आप्तकामो
'निष्कामो जीर्णकामो हस्तिनि सिंहे दंशे मशके नकुले सर्पराक्षसगन्धर्वे
मृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति वृक्षमिव तिष्ठासेच्छिद्यमानो-
sपि न कुप्येत न कम्पेतोत्पलमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पे-
ताकाशमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पेत सत्येन तिष्ठासेत्सत्यो-
seमात्मा सर्वेषामेव गन्धानां पृथिवी हृदयं सर्वेषामेव रसानामापो हृदयं
सर्वेषामेव रूपाणां तेजो हृदयं सर्वेषामेव स्पर्शानां वायुर्हृदयं सर्वेषामेव शब्दा-
नामाकाशं हृदयं सर्वेषामेव गतीनामव्यक्तं हृदयं सर्वेषामेव सत्त्वानां
मृत्युर्हृदयं मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येत-
निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्सु त्रयोदशः खण्डः ॥ १३ ॥</p>
<pb n="265" />
<p>ईशाद्युपनिषत्सु -.
ॐ पृथिवी वान्नमापोऽन्नाद। आपो वान्नं ज्योतिरन्नादं ज्योतिर्वानं वायुर--
नादो वायुर्वानमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानीन्द्रियाणि
वान्नं मनोऽन्नादं मनो वान्नं बुद्धिरन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्न-
मक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादो मृत्युर्वै परे देव एकीभवतीति परस्तान्न
सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम्॥
इति सुबालोपनिषत्सु चतुर्दशः खण्डः ॥ १४ ॥
अथ हैनं रैकः पप्रच्छ भगवन्योऽयं विज्ञानघन उत्क्रामन्स केन कतरद्वाव
स्थानं दहतीति तस्मै स होवाच योऽयं विज्ञानघन उत्क्रामन्प्राणं दहत्यपानं
ब्यानमुदानं समानं वैरम्भं मुख्यमन्तर्यामं प्रभञ्जनं कुमारं श्येनं श्वेतं कृष्णं
नागं दहति पृथिव्यापस्तेजोवाय्वाकाशं दहति जागरितं स्वप्नं सुषुप्तं तुरीयं
च महतां च लोकं परं च लोकं दहति लोकालोकं दहति धर्माधर्मं दहत्य-
भास्करममर्यादं निरालोकमतः परं दहति महान्तं दहत्यव्यक्तं दहत्यक्षरं
दहति मृत्युं दहति मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदस--
द्वित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्सु पञ्चदशः खण्डः ॥ १५ ॥
सौबालबीजब्रह्मोपनिषन्नाप्रशान्ताय दातव्या नापुत्राय नाशिष्याय नासं-
वत्सररात्रोषिताय नापरिज्ञातकुलशीलाय दातव्या नैव च प्रवक्तव्या । यस्य
देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन:
इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥
इति सुबालोपनिषत्सु षोडशः खण्डः ॥ १६ ॥
ॐ पूर्णमद इति शान्तिः ॥
इति सुबालोपनिषत्समाप्ता ॥ ३२ ॥</p>
<lg>
  <l>क्षुरिकोपनिषत् ॥ ३३ ॥</l>
  <l>कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् ।</l>
  <l>क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>ॐ क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये । यां प्राप्य न पुनर्जन्म:
योगयुक्तः स जायते ॥ वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ॥ १ ॥
निःशब्द देशमास्थाय तत्रासनमवस्थितः । कूर्मोऽङ्गानीव संहृत्य मनोः
हृदि निरुध्य च ॥ २ ॥ मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ।</p>
<pb n="266" />
<p>क्षुरिकोपनिषत् ॥ ३३ ॥
२५१:
पूरयेत्सर्वमात्मानं सर्वद्वारान्निरुध्य च ॥ ३ ॥ उरोमुखकटिग्रीवं किंचि --
हृदयमुन्नतम् । प्राणान्संचारयेत्तस्मिन्नासाभ्यन्तरचारिणः ॥ २ ॥ भूत्वा तत्र
गतः प्राणः शनैरथ समुत्सृजेत् ॥ ५ ॥ स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन
समाहितः । द्वे तु गुल्फे प्रकुर्वीत जसे चैव त्रयस्त्रयः ॥ द्वे जानुनी
थोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ॥ ६ ॥ वायोरायतनं चात्र नाभिदेशे
समाश्रयेत् । तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ॥ अणुरक्ताश्च पीताच
कृष्णास्ताम्रविलोहिताः ॥ ७ ॥ अतिसूक्ष्मां च तन्वीं च शुक्लां नार्डी
समाश्रयेत् । ततः संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥ ८ ॥ ततो रक्तोत्प--
लाभासं पुरुषायतनं महत् । दहरं पुण्डरीकेति वेदान्तेषु निगद्यते ॥
तद्भित्वा कण्ठमायाति तां नाडीं पूरयन्यतः ॥ ९ ॥ मनसस्तु क्षुरं गृह्य
सुतीक्ष्णं बुद्धिनिर्मलम् ॥ पादस्योपरि मर्मृज्य तद्रूपं नाम कृन्तयेत् ॥ १० ॥
मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः । इन्द्रवज्र इति प्रोक्तं मर्मजङ्घा-
कीर्तनम् ॥ तच्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ ११ ॥ ऊरोर्मध्ये
तु संस्थाप्य मर्मप्राणविमोचनम् ॥ चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः
॥ १२ ॥ ततः कण्ठान्तरे योगी समूहं नाडिसंचयम् । एकोत्तरं नाडिशतं
तासांमध्ये वराः स्मृताः ॥ १३ ॥ इडा रक्षतु वामेन पिङ्गला दक्षिणेन
.तु । तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ॥ १४ ॥ सुषुम्ना तु परे
लीना विरजा ब्रह्मरूपिणी । द्वासप्ततिसहस्राणि प्रति नाडीषु तैतिलम् ॥
छिद्यन्ते ध्यानयोगेन सुषुन्नैका न छियते ॥ १५ ॥ योगनिर्मलधारेण
क्षुरेणामलवर्चसा । छिन्देन्नाडीसतं धीरः प्रभावादिह जन्मनि ॥ १६ ॥
जातीपुष्पसमायोगैर्यथा वास्यन्ति तैतिलम् । एवं शुभाशुभैर्भावैः सा नाडी
तां विभावयेत् ॥ १७ ॥ तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ १८ ॥
ततो विदितचित्तस्तु निःशब्द देशमास्थितः । निःसङ्गस्तत्त्वयोगज्ञो निरपेक्षः
शनैः शनैः ॥ १९ ॥ पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् ॥
छिन्नपाशस्तथा जीवः संसारं तरते तदा ॥ २० ॥ यथा निर्वाणकाले तु दीपो
दग्ध्वा लयं व्रजेत् । तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २१ ॥
प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् । वैराग्योपलघृष्टेन छित्त्वा तन्तुं
न बध्यते ॥ २२ ॥ अमृतत्वं समाप्नोति यदा कामात्प्रमुच्यते । सर्वेषणा-
विनिर्मुक्तश्छित्त्वा तन्तुं न बध्यते छित्त्वा तन्तुं न बध्यत इति ॥ २३ ॥
इत्याथर्वणीय क्षुरिकोपनिषत्समाप्ता ॥ ३३ ॥</p>
<pb n="267" />
<p>मन्त्रिकोपनिषत् ॥ ३४ ॥</p>
<lg>
  <l>स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् ।</l>
  <l>मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥</l>
</lg>
<p>ॐ पूर्णमद इति शान्तिः ॥</p>
<p>ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । त्रिवर्त्मानं तेजसोऽहं सर्वतः-
पश्यन्न पश्यति ॥ १ ॥ भूतसंमोहने काले भिन्ने तमसि वैखरे । अन्तः
पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥ अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः
कुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३ ॥ ध्यायतेऽध्यासिता
वेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥ ४॥
गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकाम-
दुघा विभोः ॥ ५ ॥ पिबन्त्येनामविषयामविज्ञातां कुमारकाः । एकस्तु पिबते
देव: स्वच्छन्दोऽत्र वशानुगः ॥ ६ ॥ ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसह-
द्विभुः । सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वभिः ॥ ७ ॥ पश्यन्त्यस्यां
महात्मानः सुवर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः
॥ ८ ॥ शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः । रथन्तरं बृहत्साम सप्त-
वैधैस्तु गीयते ॥ ९ ॥ मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा
ह्येते ह्यथर्वाणो भृगूत्तमाः ॥ १० ॥ सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलि-
तस्तथा । अनड्वान्नोहितोच्छिष्टः पश्यन्ते बहुविस्तरम् ॥ ११ ॥ कालः प्राणश्च
भगवान्मृत्युः शर्वो महेश्वरः । उग्रो भवश्च रुद्रश्व ससुरः सासुरस्तथा ॥१२॥
प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च । स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितै-
र्विभुः ॥ १३ ॥ तं षड्विंशक इत्येते सप्तविंशं तथापरे । पुरुषं निर्गुणं सांख्य-
मथर्वशिरसो विदुः ॥ १४ ॥ चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च । अद्वैतं
द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥ १५ ॥ ब्रह्माद्यं स्थावरान्तं च पश्यन्ति
ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥ १६ ॥ यस्मि-
न्सर्वमिदं प्रोतं ब्रह्म स्थावरजंगमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे
यथा ॥ १७ ॥ यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्ति
व्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥ १८ ॥ क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते
पुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनःपुनः ॥ १९ ॥ ब्रह्म ब्रह्मेत्यथा-
यान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः
लीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥</p>
<p>ॐ पूर्णमद इति शान्तिः ॥</p>
<p>इति यजुर्वेदीयमन्त्रिकोपनिषत्समाप्ता ॥ ३४ ॥</p>
<pb n="268" />
<p>सर्वसारोपनिषत् ॥ ३५ ॥
सर्वसारोपनिषत् ॥ ३५ ॥</p>
<lg>
  <l>समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् ।</l>
</lg>
<lg>
  <l>विकलेवर कैवल्यं रामचन्द्रपदं भजे ॥</l>
  <l>सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।</l>
  <l>तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>ॐ कथं बन्धः कथं मोक्षः काऽविद्या का विद्येति जाग्रत्स्वनं सुषुप्तं तुरीयं
'च कथम्, अन्नमयः प्राणमयो मनोमयो विज्ञानमय आनन्दमयः कथं, कर्ता
जीवः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथं प्रत्यगात्मा परसा
माया चेति कथम् । आत्मेश्वरोऽनात्मनो देहादीनात्मत्वेनाभिमन्यते सोऽभिमान
आत्मनो बन्धस्तन्निवृत्तिर्मोक्षस्तदभिमानं कारयति या साऽविद्या, सोऽभि-
मानो ययाऽभिनिवर्तते सा विद्या । मनआदिचतुर्दशकरणैः पुष्कलैरादि-
त्याद्यनुगृहीतैः शब्दादीन्विषयान्स्थूलान्यदोपलभते तदात्मनो जागरणं,
तद्वासनारहितश्चतुर्भिः करणैः शब्दाद्यभावेऽपि वासनामयान्शब्दादीन्यदो-
पलभते तदात्मनः स्वनम् । चतुर्दशकरणोपरमाद्विशेषविज्ञानाभावाद्यदा
तदात्मनः सुषुप्तम् ॥ १ ॥ अवस्थात्रयभावाद्भावसाक्षि स्वयं भावाभावरहितं'
नैरन्तर्य चैक्यं यदा तदा तत्तुरीयं चैतन्यमित्युच्यतेऽन्नकार्याणां षण्ण
कोशानां समूहोऽन्नमयः कोश इत्युच्यते । प्राणादिचतुर्दशवायुभेदा अन्नमये
कोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यत एतत्कोशद्वयसंयुक्तो
मन आदिचतुर्भिः करणैरात्मा शब्दादिविषयान्संकल्पादिधर्मान्यदा करोति तदा
मनोमयः कोश इत्युच्यते । एतत्कोशत्रयसंयुक्तस्तद्गतविशेषाविशेषज्ञो यदाऽ-
वभासते तदा विज्ञानमयः कोश इत्युच्यते । एतत्कोशचतुष्टयं स्वकारणाज्ञाने
वटकणिकायामिव गुप्तवटवृक्षो यदा वर्तते तदानन्दमयकोश इत्युच्यते !
सुखदुःखबुद्ध्याश्रयो देहान्तः कर्ता यदा तदेष्टविषये बुद्धिः सुखबुद्धिरनिष्ट-
विषये बुद्धिर्दुःखबुद्धिः शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः । पुण्यपाप-
कर्मानुसारी भूत्वा प्राप्तशरीरसंधिर्योगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा
दृश्यते तदोपहितत्वाजीव इत्युच्यते । मनआदिश्च प्राणादिश्च सत्त्वादिश्चेच्छा-
दिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मी भूतात्मज्ञानादृते न
विनश्यति । आत्मसंनिधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गं शरीरं
हृद्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते ॥ २ ॥</p>
<pb n="269" />
<p>-२५४
ईशाद्युपनिषत्सु -
ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भावतिरोभावहीनः
- स्वयंज्योतिः स साक्षीत्युच्यते ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववि-
शिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्यो यदा तदा कूटस्थ इत्युच्यते ।
कूटस्थाद्युपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणसूत्रमिव सर्वक्षेत्रेष्वनु-
स्यूतत्वेन यदा प्रकाशत आत्मा तदान्तर्यामीत्युच्यते सर्वोपाधिविनिर्मुक्तः
सुवर्णवद्विज्ञानघनश्चिन्मात्रस्वरूप आत्मा स्वतन्त्रो यदाऽवभासते तदा
स्वपदार्थः प्रत्यगात्मेत्युच्यते । सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सत्यमविनाशि
नाम देशकालवस्तु निमित्तेषु विनश्यत्सु यन्न विनश्यत्यविनाशि तत्सत्यमित्यु-
-च्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधीयते ॥ ३ ॥
अनन्तं नाम मृद्विकारेषु मृदिव सुवर्णविकारेषु सुवर्णमित्र तन्तुकार्येषु
तन्तुरिवाव्यक्तादि सृष्टिप्रपञ्चेषु पूर्वं व्यापकं चैतन्यमनन्तमित्युच्यत आनन्दो
नाम सुखचैतन्यस्वरूपोऽपरिमितानन्दसमुद्रोऽविशिष्टसुखरूपश्वानन्द इत्यु-
च्यते । एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकालवस्तु निमित्तेष्वव्यभिचारि स
तत्पदार्थः परमात्मा परं ब्रह्मेत्युच्यते । त्वंपदार्थादौपाधिकात्तत्पदार्थादौ पाधि-
काद्विलक्षण आकाशवत्सर्वगतः सूक्ष्मः केवलः सत्तामात्रोऽसिपदार्थः
स्वयं ज्योतिरात्मेत्युच्यतेऽतत्पदार्थश्चात्मेत्युच्यते । अनादिरन्तर्बली प्रमाणा-
प्रमाणसाधारणा न सती नासती न सदसती स्वयमविकाराद्विकार हेतौ
अनिरूप्यमाणेऽसती । अनिरूप्यमाणे सती लक्षणशून्या सा मायेत्युच्यते ॥ ४ ॥
इत्याथर्वणीय सर्वसारोपनिषत्समाप्ता ॥ ३५ ॥
निरालम्बोपनिषत् ॥ ३६ ॥
यशालम्बा लम्बिभावो विद्यते न कदाचन ।
ज्ञविज्ञसम्यग्ज्ञ।लम्बं निरालम्बं हरिं भजे ॥
ॐ पूर्णमद इति शान्तिः ॥
ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये । निष्प्रपञ्चाय शान्ताय निरा-
· लम्बाय तेजसे ॥ निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स संन्यासी च
योगी च कैवल्यं पदमश्नुते । एषामज्ञानजन्तूनां समस्तारिष्टशान्तये । यद्य-
द्धोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥ किं ब्रह्म । क ईश्वरः । को जीवः ।
का प्रकृतिः । कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः । क इन्द्रः</p>
<pb n="270" />
<p>निरालम्बोपनिषत् ॥ ३६ ॥</p>
<p>कः शमनः । कः सूर्यः । कश्चन्द्रः । के सुराः । के असुराः । के पिशाचाः । के
मनुष्याः । काः स्त्रियः । के पश्वादयः । किं स्थावरम् । के ब्राह्मणादयः । का
जातिः । किं कर्म । किमकर्म । किं ज्ञानम् । किमज्ञानम् । किं सुखम् ।
किं दुःखम् । कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः । क उपास्यः ।
कः शिष्यः । को विद्वान् । को मूढः । किमासुरम् । किं तपः । किं परमं
पदम् । किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याशङ्कयाह ब्रह्मेति । स होवाच
महदहंकारपृथिव्यतेजोवाय्वाकाशस्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूप•
तया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्य-
नन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥ ईश्वर
इति च ॥ ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्या-
मित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः जीव इति च ब्रह्मविष्णवी-
'शानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः । सोऽह•
मेकोsपि देहारम्भकभेदवश । बहुजीवः । प्रकृतिरिति च ब्रह्मणः सकाशात्रा-
ना विचित्र जगन्निर्माणसामर्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः । परमात्मेति च
देहादेः परतरत्वाद्ब्रह्मैव परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स
सूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्त-
स्थावरं ते ब्राह्मणादयः । सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचन । जातिरिति च ।
न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः । न जातिरात्मनो जातिर्व्यवहार-
अकल्पिता । कर्मेति च क्रियमाणेन्द्रियैः कर्माण्यहं करोमीत्यध्यात्मनिष्ठतया
कृतं कर्मैव कर्म । अकर्मेति च कर्तृत्वभोक्तृत्वाद्यहंकारतया बन्धरूपं जन्मादि-
कारणं नित्यनैमित्तिकया गनततपोदानादिषु फलाभिसंधानं यत्तदकर्म । ज्ञान-
मिति च देहेन्द्रियनिग्रहस्तद्गुरूपासन श्रवणमनननिदिध्यासनैर्यद्यद्दृग्गश्यत्र-
रूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थमिवाविकारं विकारेषु चैतन्यं विना-
किंचिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् । भज्ञानमिति च रज्जौ सर्पभ्रान्ति-
रिवाद्वितीये सर्वांनुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णांश्र-
मबन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानमज्ञानम् । सुखमिति च सच्चिदान-
न्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् । दुःखमिति अनात्मरूपो
विषयसंकल्प एव दुःखम् । स्वर्ग इति च सत्संसर्गः स्वर्गः । नरक इति च
असत्संसारविषयजनसंसर्ग एव नरकः । बन्ध इति च अनाद्य विद्यावासनया</p>
<pb n="271" />
<p>ईशाद्युपनिषत्सु -
'जातोऽहमित्यादि संकल्पो बन्धः । पितृमातृसहोदरदारापत्यगृहारामक्षेत्र ममता-
संसारावरणसंकल्पो बन्धः । कर्तृत्वाद्यहंकारसंकल्पो बन्धः । अणिमाद्य हैश्व-
र्यांशा सिद्धसंकल्पो बन्धः । देवमनुष्याद्युपासनाकामसंकल्पो बन्धः । यमा-
द्यष्टाङ्गयोगसंकल्पो बन्धः । वर्णाश्रमधर्मकर्मसंकल्पो बन्धः । भज्ञाभयसंश-
यात्मगुणसंकल्पो बन्धः । यागवततपोदानविधिविधानज्ञानसंभवो बन्धः ।
केवलमोक्षापेक्षा संकल्पो बन्धः । संकल्पमात्र संभवो बन्धः । मोक्ष इति च
नित्यानित्यवस्तुविचारादनित्य संसारसुखदुःखविषय समस्त क्षेत्रममता बन्धक्षयो
मोक्षः । उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः । शिष्य
इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः । विद्वानिति च
सर्वान्तरस्थस्वसंविद्रूपविद्विद्वान् । मूढ इति च कर्तृत्वाद्यहंकारभावारूढो
मूढः । आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपा-
ग्निहोत्रादिष्वन्तरात्मानं संतापयति चात्युग्ररागद्वेषवि हिंसादम्भाद्यपेक्षितं तप
आसुरम् । तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्या-
शासिद्धसंकल्प बीज संतापं तपः । परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरण-
गुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् । ग्राह्यमिति
च देशकालवस्तु परिच्छेदराहित्य चिन्मात्रस्वरूपं ग्राह्यम् । अग्राह्यमिति च
स्वस्वरूपच्यतिरिक्तमायामयबुद्धीन्द्रियगोचरजगत्सत्यत्व चिन्तनमग्राह्यम् । सं-
न्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहंकारो भूत्वा ब्रह्मेष्टं शरणमुप-
गम्य तत्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचनेत्या-
दिमहावाक्यार्थानुभवज्ञानाब्रह्मवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना
स्वतन्त्र यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः
सोऽवधूतः स ब्राह्मण इति । इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः
सोऽभिपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते
पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् ॥
ॐ पूर्णमद इति शान्तिः ॥
इति निरालम्बोपनिषत्समाप्ता ॥ ३६ ॥</p>
<pb n="272" />
<p>शुकरहस्योपनिषत् ॥ ३७ ॥</p>
<lg>
  <l>शुकरहस्योपनिषत् ॥ ३७ ॥</l>
  <l>प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् ।</l>
  <l>विकलेवरकैवल्यं त्रिपाद्वाममहं भजे ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो ब्रह्माणं संपूज्य प्रणिपत्य
पप्रच्छुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति । सोऽब्रवीत् । पुरा व्यासो महा-
तेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥ १ ॥
श्रीवेदव्यास उवाच । देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य मम
पुत्रस्य वेदसंस्कारकर्मणि ॥ २ ॥ ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः ।
ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ३ ॥ ईश्वर उवाच । मयोपदिष्टे
कैवल्ये साक्षब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम्
॥ ४ ॥ श्रीवेदव्यास उवाच । यथा तथा वा भवतु ह्युपनायनकर्मणि ।
उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ५ ॥ सर्वज्ञो भवतु क्षिप्रं मम
पुत्रो महेश्वर । तव प्रसादसंपन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ६ ॥ तच्छ्रुत्वा
व्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा
॥ ७ ॥ कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् । तस्मात्स प्रणवं लब्ध्वा
पुनरित्यब्रवीच्छिवम् ॥ ८ ॥ श्रीशुक उवाच ॥ देवादिदेव सर्वज्ञ सच्चिदानन्द-
लक्षण । उमारमण भूतेश प्रसीद करुणानिधे ॥ ९ ॥ उपदिष्टं परंब्रह्म प्रण-
वान्तर्गतं परम् । तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १० ॥ श्रोतु
मिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् । वक्तव्यानि रहस्यानि कृपयाद्य सदा-
शिव ॥ ११ ॥ श्रीसदाशिव उवाच । साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने ।
प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १२ ॥ रहस्योपनिषन्नाम्ना सषडङ्गमि-
होच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १३ ॥ अङ्गहीना नि
वाक्यानि गुरुर्नोपदिशेत्पुनः । सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्रशः ॥ १४॥
चतुर्णामपि वेदानां यथोपनिषदः शिरः । इयं रहस्योपनिषत्तथोपनिषदाँ विरः
॥ २५ ॥ रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता । तीथैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य
किं पुण्यहेतुभिः ॥ १६ ॥ वाक्यार्थस्य विचारेण यदामोति शरच्छतम् । एक-
वारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १७ ॥ ॐ अस्य श्रीमहावाक्य महा-
अ. उ. १७</p>
<pb n="273" />
<p>ईशाद्युपनिषत्सु -
मन्त्रस्य हंसऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् ।
सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनि-
योगः । सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां
स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां
हुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म
करतलकरपृष्ठाभ्यां फट् ॥ सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो
ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कव-
चाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म
अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् । नित्यानन्दं पर-
मसुखदं केवलं ज्ञानमूर्ति द्वन्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं
नमामि ॥ १ ॥
अथ महावाक्यानि चत्वारि । यथा ॐ प्रज्ञानं ब्रह्म ॥ १ ॥ ॐ अहं
ब्रह्मास्मि ॥ २ ॥ ॐ तत्त्वमसि ॥ ३ ॥ ॐ अयमात्मा ब्रह्म ॥ ४ ॥ तत्त्वमसी-
त्यभेदवाचकमिदं ये जपन्ति ते शिवसायुज्य मुक्तिभाजो भवन्ति ॥ तत्पदम-
हामन्त्रस्य । परमहंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं
बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम सायुज्यमुक्त्यर्थे जपे विनियोगः ।
तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्य-
माभ्यां वषट् । सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां
वौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां
फट् । एवं हृदयादिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानम् । ज्ञानं
ज्ञेयं ज्ञानगम्यादतीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च । सत्यं ज्ञानं सच्चिदानन्दरूपं
ध्यायेदेवं तन्महो भ्राजमानम् ॥ त्वंपदमहामन्त्रस्य विष्णुऋषिः । गायत्री-
छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मु-
क्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां नमः । संकर्षणाय तर्जनीभ्यां
स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्वाय अनामिकाभ्यां हुम् । वासु-
देवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृ-
ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥
जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् । चित्ताहंकारयन्तारं जीवाख्यं त्वंपदं</p>
<pb n="274" />
<p>शुकरहस्योपनिषत् ॥ ३७ ॥</p>
<p>भजे । भसिपदमहामन्त्रस्य मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वसे
देवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्म-
क्यार्थे जपे विनियोगः । पृथ्वीच्यणुकाय अङ्गुष्ठाभ्यां नमः । अब्यणुकाय
तर्जनीभ्यां स्वाहा । तेजोद्व्यणुकाय मध्यमाभ्यां वषट् । वायुद्व्यणुकाय अना-
मिकाभ्यां हुम् । आकाशव्यणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाखा-
काराद्व्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥
ध्यानम् ॥ जीवो ब्रह्मेति वाक्यार्थ यावदस्ति मनःस्थितिः । ऐक्यं तत्त्वं लये
कुर्वन्ध्यायेदसिपदं सदा ॥ एवं महावाक्यषडङ्गान्युक्तानि ॥
अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥ येनेक्षते शृणो-
तीदं जिघ्रति व्याकरोति च । स्वादुस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ १ ॥
चतुर्मुखेन्द्र देवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्य-
पि ॥ २ ॥ परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि । बुद्धेः साक्षितया
स्थित्वा स्फुरन्नहमितीर्यते ॥ ३ ॥ स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।
अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ४ ॥ एकमेवाद्वितीयं सन्नामरूप-
विवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीयते ॥ ५ ॥ श्रोतुर्देहे-
न्द्रियातीतं वस्त्वत्र स्वंपदेरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूय-
ताम् ॥ ६ ॥ स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहंकारादिदेहान्तं
प्रत्यगात्मेति गीयते ॥ ७ ॥ दृश्यमानस्य सर्वस्य जगतस्तत्त्रमीर्यते । ब्रह्मरा-
ब्देन तद्ब्रह्म स्वप्रकाशात्म रूपकम् ॥ ८ ॥ अनात्मदृष्टेरविवेकनिद्वामहं मम
स्वगतिं गवोऽहम् । स्वरूपसूर्येऽभ्युदिते स्फुटोकेर्गुरोर्महावाक्यपदैः प्रबुद्धः
॥ ९ ॥ वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमि-
न्द्रियादिरपि यलक्ष्यं त्वमर्थश्च सः । वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु
सच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं वसीदं पदम् ॥ १० ॥ त्वमिति
तदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभय-
वचनहेतू देशकालौ च हित्वा जगति भवति सोऽयं देवदत्तो यथैकः ॥ ११ ॥
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽव-
शिष्यते ॥ १२ ॥ श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासन-
मित्येतत्पूर्ण बोधस्य कारणम् ॥ १३ ॥ अन्यविद्यापरिज्ञानमवश्यं नश्वरं
भवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥ १४ ॥ महावाक्या-</p>
<pb n="275" />
<p>न्युपदिशेत्सषडङ्गानि देशिकः । केवलं नहि वाक्यानि ब्रह्मणो वचनं
यथा ॥ १५ ॥ ईश्वर उवाच । एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक ।
मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ १६ ॥ ततो ब्रह्मोपदिष्टं वै सच्चि-
दानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ १७ ॥ यो
वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स
महेश्वरः ॥ १८ ॥ उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिप-
त्येशं त्यक्ताशेषपरिग्रहः ॥ १९ ॥ परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रव्र-
जन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ २० ॥ अनुव्रजन्नाजुहाव पुत्रविश्लेष-
कातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ २१ ॥ तच्छ्रुत्वा सकला-
कारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥२२॥
यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते
साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥</p>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>इति यजुर्वेदीयशुकरहस्योपनिषत्समाप्ता ॥</p>
<p>वज्रसूचिकोपनिषत् ॥ ३८ ॥</p>
<p>यज्ज्ञानाद्यान्ति मुनयो ब्राह्मण्यं परमाद्भुतम् ।
तत्त्रैपदब्रह्मतत्त्वमहमस्मीति चिन्तये ॥
ॐ आप्यायन्त्विति शान्तिः ॥</p>
<lg>
  <l>चित्सदानन्दरूपाय सर्वधीवृत्तिसाक्षिणे ।</l>
  <l>नमो <error>बे</error><fix>वे</fix>दान्तवेद्याय ब्रह्मणेऽनन्तरूपिणे ॥</l>
</lg>
<p>ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् । दूषणं ज्ञानहीनानां भूषणं
ज्ञानचक्षुषाम् ॥ १ ॥ ब्रह्मक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां
ब्राह्मण एव प्रधान इति वेदवचनानुरूपं स्मृतिभिरप्युक्तम् । तत्र चोद्यमस्ति को
वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं ज्ञानं किं कर्म किं धार्मिक
इति । तत्र प्रथमो जीवो ब्राह्मण इति चेत्तन्न । अतीतानागतानेकदेहानां</p>
<pb n="276" />
<p>जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां जीव-
स्यैकरूपत्वाच्च । तस्मान्न जीवो ब्राह्मण इति । तर्हि देहों ब्राह्मण इति चेत्तन्न ।
आचाण्डालादिपर्यन्तानां मनुष्याणां पाञ्चभौतिकत्वेन देहस्यैकरूपत्वाज्जरामर -
धर्माधर्मादिसाम्यदर्शनाद्ब्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णो वैश्यः पीतवर्णः
शूद्रः कृष्णवर्ण इति नियमाभावात् । पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्या-
दिदोषसंभवाच्च। तस्मान्न देहो ब्राह्मण इति ॥ तर्हि जातिब्राह्मण इति चेत्तन्न। 
तत्र जात्यन्तरजन्तुष्वनेकजातिसंभवा महर्षयो बहवः सन्ति । ऋष्यशृङ्गो
मृग्याः, कौशिकः कुशात्, जाम्बूको जम्बूकात्, वाल्मीको वल्मीकात्, व्यासः
कैवर्तकन्यकायाम्, शशपृष्ठात् गौतमः, वसिष्ठ उर्वश्याम्, अगस्त्यः कलशे
जात इति श्रुतत्वात् । एतेषां जात्या विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयो
बहवः सन्ति । तस्मान्न जातिर्ब्राह्मण इति ॥ तर्हि ज्ञानं ब्राह्मण इति चेत्तन्न ।
क्षत्रियादयोऽपि परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति । तस्मान्न ज्ञानं ब्राह्मण
इति ॥ तर्हि कर्म ब्राह्मण इति चेत्तन्न । सर्वेषां प्राणिनां प्रारब्धसंचितागामि-
कर्मसाधर्म्यदर्शनात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति । तस्मान्न
कर्म ब्राह्मण इति ॥ तर्हि धार्मिको ब्राह्मण इति चेत्तन्न । क्षत्रियादयो हिर-
ण्यदातारो बहवः सन्ति । तस्मान्न धार्मिको ब्राह्मण इति ॥ तर्हि को वा
ब्राह्मणो नाम । यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मिषड्भा-
वेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयं निर्विकल्पमशेषकल्पा-
धारमशेषभूतान्तर्यामित्वेन वर्तमानमन्तर्बहिश्चाकाशवदनुस्यूतमखण्डानन्द-
स्वभावमप्रमेयमनुभवैकवेद्यमपरोक्षतया भासमानं करतलामलकवत्साक्षाद-
परोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भावमात्सर्य-
तृष्णाशामोहादिरहितो दम्भाहंकारादिभिरसंस्पृष्टचेता वर्तत एवमुक्तलक्षणो
यः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः । अन्यथा हि
ब्राह्मणत्वसिद्धिर्नास्त्येव । सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदात्मानं
सच्चिदानन्दं ब्रह्म भावयेदित्युपनिषत् ॥</p>
<p>ॐ आप्यायन्त्विति शान्तिः ॥</p>
<p>इति वज्रसूच्युपनिषत्समाप्ता ॥ ३८ ॥</p>
<pb n="277" />
<p>तेजोविन्दूपनिषत् ॥ ३९ ॥</p>
<lg>
  <l>यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।</l>
  <l>तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदि संस्थितम् । आणवं शांभवं शान्तं
स्थूलं सूक्ष्मं परं च यत् ॥ १ ॥ दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्य-
यम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥ यताहारो जित-
क्रोधो जितसङ्गो जितन्द्रियः । निर्द्वन्द्वो निरहंकारो निराशीरपरिग्रहः ॥ ३॥
अगम्यागमकर्ता यो गम्याऽगमनमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा
हंस उच्यते ॥ ४ ॥ परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला
सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५ ॥ त्रिवक्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जि-
तम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६ ॥ उपाधिरहितं
स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसंग्राह्यमसंघातं पदाच्च्युतम् ॥ ७ ॥
अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं
ध्रुवमच्युतम् ॥ ८ ॥ तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं
चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९ ॥ अशून्यं शून्यभावं तु शून्या-
तीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १० ॥
सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं
विदुः ॥ ११ ॥ मुनीनां संप्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं
दर्पं कामं क्रोधं च किल्बिषम् ॥ १२ ॥ शीतोष्णे क्षुत्पिपासे च संकल्पक-
विकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसंचयम् ॥ १३ ॥ न भयं न
सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम्
॥ १४ ॥ यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च
देहसाम्यं च दृक्स्थितिः ॥ १५ ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६ ॥ सर्वं ब्रह्मेति वै ज्ञाना-
दिन्द्रियग्रामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७ ॥
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते
बुधैः ॥ १८ ॥ त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९ ॥ यस्मा-</p>
<pb n="278" />
<p>द्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा
बुधः ॥ २० ॥ वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि
वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१ ॥ इति वा तद्भवेन्मौनं सर्वं सहज-
संज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२ ॥ आदावन्ते
च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः
स्मृतः ॥ २३ ॥ कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन नि-
र्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४ ॥ सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५ ॥ सिद्धये सर्वभूतादि चि-
श्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥
यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्यो-
ऽसौ ब्रह्मवादिनाम् ॥ २७ ॥ अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो
चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८ ॥ दृष्टिं ज्ञानमयीं कृत्वा पश्ये-
द्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९ ॥ द्रष्टृ-
दर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलो-
किनी ॥ ३० ॥ चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृ-
त्तीनां प्राणायामः स उच्यते ॥ ३१ ॥ निषेधनं प्रपञ्चस्य रेचकाख्यः समी-
रितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२ ॥ ततस्तद्वृत्तिनै-
श्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३ ॥
विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो
मुहुर्मुहुः ॥ ३४ ॥ यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं
चैव धारणा सा परा मता ॥ ३५ ॥ ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया
स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६ ॥ निर्विकारतया
वृत्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७ ॥
इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं
संभवेत्स्वयम् ॥ ३८ ॥ ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वं
रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९ ॥ समाधौ क्रियमाणे तु विघ्ना-
न्यायान्ति वै बलात् । अनुसंधानराहित्यमालस्यं भोगलालसम् ॥ ४० ॥
लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्म-
विशारदैः ॥ ४१ ॥ भाववृत्या हि भावत्वं शून्यवृत्या हि शून्यता । ब्रह्म-
वृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२ ॥ ये हि वृत्तिं विहायैनां ब्रह्मा-</p>
<pb n="279" />
<p>ईशाद्युपनिषत्सु -
।
[ अध्या० २
ख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३ ॥
ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते
भुवनत्रये ॥ ४४ ॥ येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै
सह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५ ॥ कुशला ब्रह्मवार्तायां वृत्तिहीनाः
सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६ ॥ निमिषार्ध
न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुका-
दयः ॥ ४७ ॥ कारणं यस्य वै कार्य कारणं तस्य जायते । कारणं तत्त्वतो
नश्येत्कार्याभावे विचारतः ॥ ४८ ॥ अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ ४९ ॥ भावितं तीव्रवेगेन
यद्वस्तु निश्चयात्मकम् । दृश्यं दृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥५०॥
विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥
इति तेजोबिन्दूपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरसचिन्मात्रस्वरूपमनुब्रूहीति । स
होवाच परमः शिवः । अखण्डैकरसं दृश्यमखण्डैकरसं जगत् । भखण्डेकरसं
भावमखण्डैकरसं स्वयम् ॥ १ ॥ अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।
अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २ ॥ अखण्डैकरसा भूमिरखण्डैक-
रसं वियत् । अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३ ॥ भखण्डैकरसं ब्रह्म
चाखण्डैकरसं व्रतम् । अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४ ॥ अख-
ण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो
रुद्र अखण्डैकरसोऽस्म्य-
हम् ॥ ५ ॥ अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः । अखण्डैकरसं लक्ष्य-
मखण्डैकरसं महः ॥ ६ ॥ अखण्डैकरसो देह अखण्डैकरसं मनः । अखण्डै-
करसं चित्तमखण्डैकरसं सुखम् ॥ ७ ॥ अखण्डेकरसा विद्या अखण्डेकरसो-
ऽव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८ ॥ अखण्डैकरसं किंचिद-
खण्डैकरसं परम् । भखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९ ॥ अखण्डे-
करसान्नास्ति अखण्डैकरसान्न हि । अखण्डैकर सात्किंचिदखण्डैकरसादहम्
॥ १० ॥ अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेद्यम -
खण्डैकरसो भवान् ॥ ११ ॥ अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डै-
करसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२ ॥ अखण्डैकरसा माता अखण्डै-
करसः पिता । अखण्डैकरसो आता अखण्डैकरसः पतिः ॥ १३ ॥ अखण्डै-</p>
<pb n="280" />
<p>अध्या० २]
तेजोबिन्दूपनिषत् ॥ ३९ ॥</p>
<p>करसं सूत्रमखण्डैकरसो विराट् । भखण्डैकरसं गाश्रमखण्डैकरसं शिरः ॥ १४॥
अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम्
॥ १५ अखण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डै-
करलशशी ॥ १६ ॥ अखण्डैकरसास्तारा अखण्डैकरसो रविः । अखण्डैकरसं
क्षेत्रमखण्डैकरसा क्षमा ॥ १७ ॥ अखण्डैकरसः शान्त अखण्डैकरसोऽगुणः ।
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १८ ॥ अखण्डैकरसो बन्धुर-
खण्डैकरसः सखा । अखण्डैकरसो राजा ह्यखण्डैकरसं पुरम् ॥ १९ ॥ अख-
डैकरसं राज्यमखण्डैकरसाः प्रजाः । अखण्डैकरसं तारमखण्डैकरसो जपः
॥ २० ॥ अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डै-
करसं महत् ॥ २१ ॥ अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् । rauteri
भोज्यमखण्डैकरसं हविः ॥ २२ ॥ अखण्डैकरसो होम अखण्डैकरसो जपः ।
अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥ २३ ॥ अखण्डैकरसं सर्व चिन्मा-
त्रमिति भावयेत् । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४ ॥ भव-
वर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेव
हि ॥२५॥ आत्मभावं च चिन्मात्रम खण्डैकरसं विदुः । सर्वलोकं च चिन्मात्रं
स्वत्ता मत्ता च चिन्मयम् ॥ २६ ॥ आकाशो भूर्जलं वायुरभिर्ब्रह्मा हरिः
शिवः । यत्किचिद्यन्न किंचिच्च सर्वं चिन्मात्रमेव हि ॥ २७ ॥ अखण्डैकरसं
सर्व चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥२८॥
द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्व
चिन्मयमेव हि ॥ २९ ॥ संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि । असच्च
सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३० ॥ आदिरन्तश्च चिन्मात्रं गुरुशि
यदि चिन्मयम् । ग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१ ॥
सर्वाश्वर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मा-
न हि विद्यते ॥ ३२ ॥ अहं त्वं चैव चिन्मात्रं मूर्तीमूर्तादि चिन्मयम् ।
पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३ ॥ चिन्मात्रान्नास्ति संकल्प-
श्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता
॥ ३४ ॥ चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् । चिन्मात्रात्रमं
ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५ ॥ चिन्मात्रान्नास्ति माया च चिन्मा-
न्नान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६ ॥</p>
<pb n="281" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
चिन्मात्रान्नास्ति कोशादि चिमात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं च
चिन्मात्रान्नास्त्य मौनकम् ॥ ३७ ॥ चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव
हि । यच्च यावञ्च चिन्मानं यच्च यावच्च दृश्यते ॥ ३८ ॥ यच्च यावच्च दूरस्थं
सर्व चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥ ३९ ॥
यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनं
चिन्मात्रान्नास्ति मोक्षकम् ॥ ४० ॥ चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्र
मेव हि । भखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१ ॥ शास्त्रे मयि
त्वयीशे च ह्यखण्डैकरसो भवान् । इत्येकरूपकतया यो वा जानात्यहं त्विति
॥ ४२ ॥ सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३ ॥
इति तेजोबिन्दूपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः ।
परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽ-
स्म्यहम् ॥ १ ॥ केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलं
नित्यरूपोऽर्ह केवलं शाश्वतोऽस्म्यहम् ॥ २ ॥ केवलं सत्वरूपोऽहमहं त्यक्त्वा -
हमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३ ॥ केवलं
तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्द-
मयोऽस्म्यहम् ॥ ४ ॥ केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । के-
वलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५ ॥ निर्विकल्पस्वरूपोऽस्मि
निरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः
॥ ६ ॥ सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मि
ह्यखण्डानन्दरूपवान् ॥ ७ ॥ सत्परान्दरूपोऽस्मि चित्परानन्दमस्म्यहम् ।
अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८ ॥ आत्मानन्दस्वरूपोऽहं सत्यान-
न्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्यहमात्मा सदाशिवः ॥ ९ ॥
आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योती रसोऽस्म्यहम् । आदिमध्यान्तहीनोऽस्मि
ह्याकाशसदृशोऽस्म्यहम् ॥ १० ॥ नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः ।
नित्यबुद्धविशुद्धैकस च्चिदानन्दमस्म्यहम् ॥ ११ ॥ नित्यशेषस्वरूपोऽस्मि सर्वा-
तीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२ ॥
भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वाधिष्ठानरूपोऽस्मि सर्वदा
चिनोऽस्म्यहम् ॥ १३ ॥ देहभावविहीनोऽस्मि चिन्ताहीनोऽसि सर्वदा ।</p>
<pb n="282" />
<p>अध्या० ३]
तेजोबिन्दूपनिषत् ॥ ३९ ॥</p>
<p>चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४ ॥ सर्वदृश्यविहीनोऽहं
इग्रूपोऽस्म्यहमेव हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५ ॥
अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूप-
वान् ॥ १६ ॥ अहमेव महानात्मा ह्यहमेव परात्परः । अहमन्यवदाभामि
हमेव शरीरवत् ॥ १७ ॥ अहं शिष्यवदा भामि ह्ययं लोकत्रयाश्रयः । अहं
कालत्रयातीत अहं वेदैरुपासितः ॥ १८ ॥ अहं शास्त्रेण निर्णीत अहं चित्ते
व्यवस्थितः । मत्यक्तं नास्ति किंचिद्वा मत्यक्तं पृथिवी च वा ॥ १९ ॥ मया-
तिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्य-
शुद्धोऽस्म्यहं सदा ॥ २० ॥ निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा ।
केवलं ब्रह्ममानोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१ ॥ स्वयमेव स्वयं
भामि स्वयमेव सदात्मकः । स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२ ॥
स्वयमेव स्वयं भुञ्जे स्वयमेव स्वयं रमे । स्वयमेव स्वयं ज्योतिः स्वयमेव
स्वयं महः ॥ २३ ॥ स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये । स्वात्म-
न्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४ ॥ स्वचैतन्ये स्वयं स्थास्ये
स्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये
॥ २५ ॥ चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहमहं
ब्रह्मास्मि केवलम् ॥ २६ ॥ सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् ।
नित्यानन्द स्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥ २७ ॥ अहमेव हृदाकाश-
श्चिदादित्यस्वरूपवान् । आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८ ॥
एकसंख्या विहीनोऽस्ति नित्यमुक्तस्वरूपवान् । आकाशादपि सूक्ष्मोऽहमाद्य-
न्ताभाववानहम् ॥ २९ ॥ सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् । सत्ता-
मात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३० ॥ सत्यानन्दस्वरूपोऽहं ज्ञानान-
न्दवनोऽस्म्यहम् । विज्ञानमान्त्ररूपोऽहं सच्चिदानन्दलक्षणः ॥ ३१ ॥ ब्रह्म-
मात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किंचन । तदेवाहं सदानन्दं ब्रह्मैवाहं सनात
नम् ॥ ३२ ॥ स्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किंचन । चिञ्चैतन्यस्वरू-
पोऽहमहमेव परः शिवः ॥ ३३ ॥ अतिभावस्वरूपोऽहमहमेव सुखात्मकः ।
साक्षिवस्तु विहीनत्वात्साक्षित्वं नास्ति मे सदा ॥ ३४ ॥ केवलं ब्रह्ममात्रत्वा-
दहमात्मा सनातनः । अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५ ॥
नामरूपविमुक्तोऽहमहमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरू-</p>
<pb n="283" />
<p>शायुपनिषत्सु -
[ अध्या० ३
-पकः ॥ ३६ ॥ बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रो-
'ऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७ ॥ वानोऽगोचरश्चाहं सर्वत्र सुखवानहम् ।
सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८ ॥ सर्वत्र तृप्तिरूपोऽहं परा-
मृतरसोऽस्म्यहम् । एकमेवाद्वितीयं सब्रह्मैवाहं न संशयः ॥ ३९ ॥ सर्वशू-
न्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूप-
वान् ॥ ४० ॥ सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । तुरीयातीतरूपो-
Sहं निर्विकल्पस्वरूपवान् ॥ ४१ ॥ सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निर-
अनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२ ॥ ओङ्का -
रार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् । चिदाकारस्वरूपोऽस्मि नाहमस्मि
न सोऽस्म्यहम् ॥ ४३ ॥ न हि किंचित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् ।
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४ ॥ न बुद्धिर्न
विकल्पोऽहं न देहादित्रयोऽस्म्यहम् । न जाग्रत्स्वरूपोऽहं न सुषुप्तिस्वरूप-
चान् ॥ ४५ ॥ न तापत्रयरूपोऽहं नेषणात्रयवानहम् । श्रवणं नास्ति मे
सिद्धेर्मननं च चिदात्मनि ॥ ४६ ॥ सजातीयं न मे किं चिद्विजातीयं न मे
क्वचित् । स्वगतं च न मे किं चित्र मे भेदत्रयं क्वचित् ॥ ४७ ॥ असत्यं हि
मनोरूपमसत्यं बुद्धिरूपकम् । अहंकारमसद्धीति नित्योऽहं शाश्वतो ह्यजः
॥ ४८ ॥ देहत्रयमसद्विद्धि कालत्रयमसम्सदा । गुणत्रयमसद्विद्धि ह्यहं सत्या-
रमकः शुचिः ॥ ४९ ॥ श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत्सदा । शास्त्रं सर्वम-
- सद्विद्धि ह्यहं सत्यचिदात्मकः ॥ ५० ॥ मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा ।
सर्वतत्व मसद्विद्धि यहं भूमा सदाशिवः ॥ ५१ ॥ गुरुशिष्यमसद्विद्धि गुरो-
मत्ततः । यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२ ॥
यच्चिन्त्यं तदसद्विद्धि यद्वाच्यं तदसत्सदा । यद्धितं तदसद्विद्धि न मां विद्धि
तथाविधम् ॥ ५३ ॥ सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्विति । दृष्टं श्रुत-
मसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४ ॥ कार्याकार्यमसद्विद्धि नष्टं प्राप्तम-
सन्मयम् । दुःखादुःखमसद्विद्धि सर्वासर्वमसन्मयम् ॥ ५५ ॥ पूर्णापूर्णम-
सद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभावसद्विद्धि जयाजयमसन्मयम्
॥ ५६ ॥ शब्दं सर्वमसद्विद्धि स्पर्श सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्व-
मसन्मयम् ॥ ५७ ॥ गन्धं सर्वमसद्विद्धि सर्वाज्ञानम सन्मयम् । असदेव सदा
सर्वमसदेव भवोद्भवम् ॥ ५८ ॥ असदेव गुणं सर्व सन्मात्रमहमेव हि । स्वात्म-</p>
<pb n="284" />
<p>अध्या० ४ ]
तेजोबिन्दूपनिषत् ॥ ३९ ॥</p>
<note>२६९.</note>
<p>मन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं
दृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥ ६० ॥
अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं जन्म-
पापं विनाशयेत् ॥ ६१ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् ।
अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२ ॥ अहं ब्रह्मास्मि मत्रो-
sयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विना-
शयेत् ॥ ६३ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् । अहं
ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं
सर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत्
॥ ६५ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् । अहं ब्रह्मास्मि
मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं चित्त-
वृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं संकल्पादीन्विनाशयेत् ॥ ६७ ॥
अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्व-
तन्त्रं विनाशयेत् ॥ ६८ ॥ अहं ब्रह्मास्मि मन्त्रोऽयमात्मज्ञानं विनाशयेत् ।
अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥ ६९ ॥ अहं ब्रह्मास्मि मन्त्रोऽयम-
प्रतर्क्य सुखप्रदः । अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥ ७० ॥ अहं
ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगि-
रीन्हरेत् ॥ ७१ ॥ अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् । अहं
ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥ ७२ ॥ अहं ब्रह्मास्मि मन्त्रोऽयं
ज्ञानानन्दं प्रयच्छति । सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥ ७३ ॥
सर्वमत्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् । सद्यो मोक्षमवाप्नोति नात्र
संदेहमण्वपि ॥ ७४ ॥
इति तेजोबिन्दूपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्त विदेहमुक्तयोः स्थितिमनुब्रूहीति ।
स होवाच परः शिवः । चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्म-
मात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १ ॥ देहत्रयातिरिक्तोऽहं शुद्धचैतन्य-
मस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ २ ॥ आनन्द--
घनरूपोऽस्मि परानन्दघनोऽस्म्यहम् । यस्य देहादिकं नास्ति यस्य ब्रह्मेति
निश्वयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३ ॥ यस्य किंचिदहं</p>
<pb n="285" />
<p>ईशाद्युपनिषत्सु -
तीर्थ न मे
मे वाक्यं न मे
[ अध्या० ४
नास्ति चिन्मात्रेणावतिष्ठते । चैतन्यमानो यस्यान्तश्चिन्मात्रेकस्वरूपवान् ॥ ४ ॥
सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतिरव्यक्तः परिपूर्ण श्चिदा-
स्मकः ॥ ५ ॥ शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा
धन्यचिन्ताविवर्जितः ॥ ६ ॥ किंचिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ।
न मे चित्तं न मे बुद्धिर्नाहंकारो न चेन्द्रियम् ॥ ७ ॥ न मे देहः कदाचिद्वा
न मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे क्रोधः परोऽस्म्य-
हम् ॥ ८ ॥ न मे किंचिदिदं वापि न मे किंचिःक्वचिज्जगत् । न मे दोषो न
मे लिङ्ग न मे चक्षुर्न मे मनः ॥ ९ ॥ न मे श्रोत्रं न मे नासा न मे जिह्वा
न मे करः । न मे जाग्रन्न मे स्वयं न मे कारणमण्वपि ॥ १० ॥ न मे
तुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किंचिदयं सर्वं न मे
क्वचित् ॥ ११ ॥ न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मे
स्वानं न मे संध्या न मे दैवं न मे स्थलम् ॥ १२ ॥ न मे
सेवा न मे ज्ञानं न मे पदम् । न मे बन्धो न मे जन्म न
रविः ॥ १३ ॥ न मे पुण्यं न मे पापं न मे कार्यं न मे
जीव इति स्वात्मा न मे किंचिजगत्रयम् ॥ १४ ॥ न मे
वेदो न मे विधिः । न मेऽन्तिकं न मे दूरं न
-रहः ॥ १५ ॥ न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्म
न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६ ॥ न मे पृथ्वी न मे तोयं न मे
वायुर्न मे वियत् । न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७ ॥
ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः । न मे शीतं न मे चों
न मे तृष्णा न मे क्षुधा ॥ १८ ॥ न मे मित्रं न मे शत्रुर्न मे मोहो न मे
जयः । न मे पूर्वं न मे पश्चान्न मे चोर्ध्व न मे दिशः ॥ १९ ॥ न मे
वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीद्वा न मे ध्यातव्य-
भण्वपि ॥ २० ॥ न मे भोक्तव्यमीषद्वा न मे स्मतंत्र्य मण्वपि । न मे भोगो
न मे रागो न मे यागो न मे लयः ॥ २१ ॥ न मे मौख्यं न मे शान्तं न मे
बन्धो न मे प्रियम् । न भे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥२२॥
न मे दीर्घ न मे हस्वं न मे वृद्धिर्न मे क्षयः । अध्यारोपोऽपवादो वा न मे
चैकं न मे बहु ॥ २३ ॥ न मे आन्ध्यं न मे मान्द्यं न मे पद्विदमण्वपि ।
न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४ ॥ न मे मजा न मेऽ-
मे
शुभम् । न मे
मोक्षो न मे द्वैत
बोधो न मे</p>
<pb n="286" />
<p>अध्या० ४ ]
तेजोबिन्दूपनिषत् ॥ ३९ ॥</p>
<p>स्थिर्वा न मे त्वग्धातुसप्तकम् । न मे शुकुं न मे रक्तं न मे नीलं न मे पृथक्
॥ २५ ॥ न मे तापो न मे लाभो मुख्यं गौणं न मे कचित् । न मे भ्रान्तिर्न
स्थैर्य न मे गुह्यं न मे कुलम् ॥ २६ ॥ न मे त्याज्यं न मे ग्राह्यं न मे
हास्यं न मे नयः । न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७ ॥
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे तुभ्यं न मे मां
न मे त्वं च न मे त्वहम् ॥ २८ ॥ न मे जरा न मे बाल्यं न मे यौवनम-
वपि । अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९ ॥ चिदहं चिदहं
चेति स जीवन्मुक्त उच्यते । ब्रह्मवाहं चिदेवाहं परो वाहं न संशयः ॥३०॥
स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः । स्वयमेव स्वयं पश्येत्स्वात्मराज्ये
सुखं वसेत् । स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते ॥ ३१ ॥
स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः । स्वस्वरूपे स्वयं स्वपस्येट्स जीव-
मुक्त उच्यते ॥ ३२ ॥ ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।
स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३ ॥ सर्वात्मा समरूपात्मा
शुद्धात्मा त्वमुत्थितः । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४ ॥
अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः । लक्ष्यात्मा ललितात्माहं तूष्णी-
मात्मस्वभाववान् ॥ ३५ ॥ आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धक-
र्जितः । ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६ ॥ चिन्मात्रेणैव
यस्तिष्ठेद्वैदेही मुक्त एव सः ॥ ३७ ॥ निश्वयं च परित्यज्य अहं ब्रह्मेति निश्च
यम् । आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८ ॥ सर्वमस्तीति
नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमा-
नकः ॥ ३९ ॥ किंचित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ । तूष्णीमेव
स्थितस्तूष्णीं तूष्णीं सत्यं न किंचन ॥ ४० ॥ परमात्मा गुणातीतः सर्वात्मा
भूतभावनः । कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१ ॥ किंचिद्भेदं न
तस्यास्ति किंचिद्वापि न विद्यते । अहं त्वं तदिदं सोऽयं कालात्मा कालही-
नकः ॥ ४२ ॥ शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः । देवात्मा देव-
हीनात्मा मेयात्मा मेयवर्जितः ॥ ४३ ॥ सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
सर्वसंकल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४ ॥ केवलः परमात्माहं
केवल ज्ञानविग्रहः । सत्तामात्रस्वरूपात्मा नान्यत्किंचिजगद्भयम् ॥ ४५ ॥
जीवेश्वरेति वाक् क्वेति वेदशास्त्राद्यहं त्विति । इदं चैतन्यमेवेति अहं चैतन्य-</p>
<pb n="287" />
<p>૨૭
ईशाद्युपनिषत्सु -
मित्यपि ॥ ४६ ॥ इति निश्चयशून्यो यो वैदेही मुक्त एव सः । चैतन्यमात्र.
संसिद्धः स्वात्मारामः सुखासनः ॥ ४७ ॥ अपरिच्छिन्नरूपात्मा अणुस्थूला-
दिवर्जितः । तुर्यतुर्यः परानन्दो वैदेही मुक्त एव सः ॥ ४८ ॥ नामरूप चि-
हीनात्मा परसंवित्सुखात्मकः । तुरीयातीवरूपात्मा शुभाशुभ विवर्जितः ॥ ४९ ॥
योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः । गुणागुणविहीनात्मा देशका-
लादिवर्जितः ॥ ५० ॥ साक्ष्यसाक्षित्वहीनात्मा किंचित्किंचिन्न किंचन । यस्य
प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१ ॥ स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे
स्वयंरतिः । वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥ ५२ ॥ अतीता-
तीतभावो यो वैदेही मुक्त एव सः । चित्तवृत्तेरतीतो यश्चित्तवृत्यवभासकः
॥ ५३ ॥ सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः । तस्मिन्काले विदेहीति
देहस्मरणवर्जितः ॥ ५४ ॥ ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः । परैरदृष्ट-
बाह्यात्मा परमानन्दचिद्वनः ॥ ५५ ॥ परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६ ॥ ब्रह्मामृतरसासको ब्रह्मामृत-
रसः स्वयम् । ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७ ॥ ब्रह्मामृतरसे
तृप्तो ब्रह्मानन्दानुभावकः । ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८ ॥
ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्द निरन्तरः । ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः
॥ ५९ ॥ ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्वनः । ब्रह्मानन्दरसोद्वाहो ब्रह्मान-
न्दुरसंभरः ॥६०॥ ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः । आत्मरूप मिदं
सर्वमात्मनोऽन्यन्न किंचन ॥ ६१ ॥ सर्वमात्माहमात्मास्मि परमात्मा परात्मकः ।
नित्यानन्दस्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२ ॥ पूर्णरूपो महानात्मा प्रीता -
त्मा शाश्वतात्मकः । सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३ ॥
निर्विकार स्वरूपात्मा शुद्धात्मा शान्तरूपकः । शान्ताशान्तस्वरूपात्मा नैका-
त्मत्वविवर्जितः॥६४॥ जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः । मुक्तामुक्तस्व-
रूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५ ॥ बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ।
द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६ ॥ सर्वासर्वस्वरूपात्मा सर्वासर्व-
विवर्जितः । मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७ ॥ सर्व संकल्प -
हीनात्मा वैदेही मुक्त एव सः । निष्कलात्मा निर्मलात्मा बुद्धात्मा पुरुषा-
कः ॥ ६८ ॥ आनन्दादिविहीनात्मा अमृतात्मा मृतात्मकः । कालत्रय स्वरू
पात्मा कालत्रयविवर्जितः ॥ ६९ ॥ भखिलात्मा झमेयात्मा मानारमा</p>
<pb n="288" />
<p>अध्या० ५ ]
मनः
तेजोबिन्दूपनिषत् ॥ ३९॥</p>
<p>मानवर्जितः । नित्य प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥ ७० ॥ अन्यहीन स्वभा-
वात्मा अन्यहीन स्वयंप्रभः । विद्याविद्यादिमेयात्मा विद्या विद्यादिवर्जितः ॥ ७१ ॥
नित्यानित्य विहीनात्मा इहामुत्रविवर्जितः । शमादिषट्कशून्यात्मा मुमुक्षुत्वा-
दिवर्जितः ॥ ७२ ॥ स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिवि-
हीनात्मा तुरीयादिविवर्जितः ॥ ७३ ॥ अन्नकोश विहीनात्मा प्राणकोशविवर्जितः ।
नः कोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४ ॥ आनन्दकोशहीनात्मा
पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५ ॥
दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः । सदा समाधिशून्यात्मा
आदिमध्यान्तवर्जितः ॥ ७६ ॥ प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः ।
तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७ ॥ ओंकारवाच्यहीनात्मा
सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥ ७८ ॥
आत्मज्ञेयादिहीनात्मा यत्किचिदिदमात्मकः । भानाभानविहीनात्मा वैदेही
मुक्त एव सः ॥ ७९ ॥ आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् ।
स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥ ८० ॥ स्वमात्मनि स्वयं
तृप्तः स्वमात्मानं स्वयं चर । आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युप-
निषत् ॥
इति तेजोबिन्दूपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रू-
हीति । स होवाच ऋभुः । सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः । सर्वका -
रणकार्यामा कार्यकारणवर्जितः ॥ १ ॥ सर्वसंकल्परहितः सर्वनादमयः
शिवः । सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २ ॥ सर्वतेजः प्रकाशात्मा
नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यान विवर्जितः ॥ ३ ॥ सर्व-
नादकलातीत एष आत्माहमव्ययः । आत्मानात्मविवेकादिभेदाभेदविवर्जितः
॥ ४ ॥ शान्ताशान्तादिहीनात्मा नादान्वज्र्ज्योतिरूपकः । महावाक्यार्थतो
दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५ ॥ तच्छन्दवर्ण्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
क्षराक्षरविहीनो यो नादान्तज्र्ज्योतिरेव सः ॥ ६ ॥ अखण्डैकरसो वाऽहमा-
नन्दोऽस्मीतिवर्जितः । सर्वातीतस्वभावात्मा नादान्तज्र्ज्योतिरेव सः ॥ ७ ॥
आत्मेतिशब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषै-
वात्मा सनातनः ॥ ८ ॥ स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः । यस्य
अ. उ. १८</p>
<pb n="289" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
किंचिद्वहिर्नास्ति किंचिदन्तः कियन्न च ॥ ९ ॥ यस्य लिङ्गं प्रपचं वा ब्रह्मे-
वात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौक्तिकः ॥ १० ॥
नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा । सद्दाऽसद्दा स्थितिर्वापि यस्य
नास्ति क्षराक्षरम् ॥ ११ ॥ गुणं वा विगुणं वापि सम आत्मा न संशयः ।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १२ ॥ गुरुशिष्यादिभेदं वा
देवलोकः सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्ध मण्वपि ॥ १३ ॥ यन्त्र
कालकालं वा निश्चयः संशयो न हि । यत्र मन्त्रममन्त्रं वा विद्याऽविद्या न
विद्यते ॥ १४ ॥ द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् । अनात्मेति प्रसङ्गो
वाह्यनात्मेति मनोऽपि वा ॥ १५ ॥ अनात्मेति जगद्वापि नास्ति नास्तीति
निश्चिनु । सर्वसंकल्पशून्यत्वात्सर्वकार्य विवर्जनात् ॥ १६ ॥ केवलं ब्रह्ममात्रत्वं
नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७ ॥
जीवत्रयगुणाभावात्तापत्रयविवर्जनात् । लोकत्रयविहीनत्वात्सर्वमात्मेति शास-
नात् ॥ १८ ॥ चित्ताभावाच्चिन्तनीयं देहाभावाजरा न च । पादाभावाद्व-
तिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९ ॥ मृत्युर्न जननाभावाद्वृद्ध्यभावा-
सुखादिकम् । धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २० ॥
अक्षरोचारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाभावे द्वितीयं न द्वितीयेऽपि
न चैकता ॥ २१ ॥ सत्यत्वमस्ति चेत्किचिदसत्यं न च संभवेत् ।
असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२ ॥ शुभं यद्यशुभं विद्धि
अशुभाच्छुभमिष्यते । भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ॥ २३ ॥
बन्धत्वमपि चेन्मोक्षो बन्धाभावे व मोक्षता । मरणं यदि चेज्जन्म
जन्माभावे मृतिर्न च ॥ २४ ॥ त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव
न । इदं यदि तदेवास्ति तदभावादिदं न च ॥ २५ ॥ अस्तीति चेन्नास्ति
तदा नास्ति चेदस्ति किंचन । कार्यं चेत्कारणं किंचित्कार्याभावे न कारणम्
॥ २६ ॥ द्वैतं यदि तदाऽद्वैतं द्वैतभावे द्वयं न च । दृश्यं यदि हगप्यस्ति
दृश्याभावे हगेव न ॥ २७ ॥ अन्तर्यदि बहिः सत्यमन्वाभावे बहिर्न च ।
पूर्णत्वमस्ति चेत्किंचिदपूर्णत्वं प्रसज्यते ॥ २८ ॥ तस्मादेतत्कचिन्नास्ति त्वं
चाहं वा इमे इदम् । नास्ति दृष्टान्तिकं सत्ये नास्ति दाष्टन्तिकं ह्यजे ॥ २९ ॥
परंब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वम-
यहम् ॥ ३० ॥ चिन्मात्रं केवलं चाहं नास्त्यनाम्येति निश्चिनु । इदं प्रप</p>
<pb n="290" />
<p>अध्या० ५ ]
तेजोबिन्दूपनिषत् ॥ ३९ ॥</p>
<p>atta नोत्पन्नं नो स्थितं कचित् ॥ ३१ ॥ चित्तं प्रपञ्चमित्याहुर्नास्ति
नास्त्येव सर्वदा । न प्रपञ्चं न चित्तादि नाहंकारो न जीवकः ॥ ३२ ॥ माया-
कार्यादिकं नास्ति माया नास्ति भयं नहि । कर्ता नास्ति क्रिया नास्ति श्रवण
मननं नहि ॥ ३३ ॥ समाधिद्वितयं नास्ति मातृमानादि नास्ति हि । अज्ञानं
चापि नास्त्येव विवेकं कदाचन ॥ ३४ ॥ अनुबन्धचतुष्कं न संबन्धत्रयमेव
न । न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५ ॥ न भूमिर्न जलं
नाग्निर्न वायुर्न च खं कचित् । न देवा नच दिक्पाला न वेदा न गुरुः
क्वचित् ॥ ३६ ॥ न दूरं नान्तिकं नालं न मध्यं न क्वचित्स्थितम् । नाद्वैतं
द्वैतसत्ये वा ह्यसत्यं वा इदं न च ॥ ३७ ॥ बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा
सुखादि वा । जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८ ॥
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवेति नास्त्येव चिदहंभा-
षणं नहि ॥ ३९ ॥ अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् । वाचा
यदुच्यते किंचिन्मनसा मनुते क्वचित् ॥ ४०
॥ बुद्ध्या निश्चिनुते नास्ति
चित्तेन ज्ञायते नहिं । योगियोगादिकं नास्ति सदा सर्व सदा न च ॥ ४१ ॥
अहोरात्रादिकं नास्ति स्त्रानध्यानादिकं नहि । भ्रान्तिरभ्रान्तिर्नास्त्येव
नास्त्यनात्मेति निश्चिनु ॥ ४२ ॥ वेदः शास्त्रं पुराणं च कार्य कारण-
मीश्वरः । लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३ ॥ बन्धो
मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या
न संशयः ॥ ४४ ॥ वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् । मनसा
चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५ ॥ बुद्ध्या निश्चीयते किंचिञ्चित्ते
निश्चीयते क्वचित् । शास्त्रैः प्रपश्यते यद्यनेत्रेणैव निरीक्ष्यते ॥ ४६ ॥ श्रोत्राभ्यां
श्रूयते यद्यदन्यत्सद्भावमेव च । नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चि-
तम् ॥ ४७ ॥ इदमित्येव निर्दिष्टमयमित्येव कल्प्यते । त्वमहं तदिदं सोऽहमन्य-
सद्भावमेव च ॥ ४८ ॥ यद्यत्संभाव्यते लोके सर्वसंकल्पसंभ्रमः । सर्वाध्यासं
सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९ ॥ सर्वदोषप्रभेदाश्च नास्त्यनात्मेति
निश्चिनु । मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५० ॥ मह्यं तुभ्यं मये-
त्यादि सत्सर्वं वितथं भवेत् । रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम्
॥ ५१ ॥ संहारे रुद्र इत्येवं सर्व मिथ्येति निश्चिनु । स्नानं जपस्तपो होमः
स्वाध्यायो देवपूजनम् ॥ ५२ ॥ मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् !
1</p>
<pb n="291" />
<p>૨૦૧
ईशाद्युपनिषत्सु -
[ अध्या० ५
अन्तःकरणसद्भाव अविद्यायाश्च संशयः ॥ ५३ ॥ अनेककोटिब्रह्माण्डं सर्व
मिथ्येति निश्चिनु । सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४ ॥
दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते । वर्तते जगति यद्यत्सर्वं मिथ्येति
निश्चिनु ॥ ५५ ॥ येन केनाक्षरेणोक्तं येन केन विनिश्चितम् । येन
केनापि गदितं येन केनापि मोदितम् ॥ ५६ ॥ येन केनापि यद्दत्तं येन
केनापि यत्कृतम् । यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७ ॥
यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वमेव परमो
गुरुः ॥ ५८ ॥ त्वमेवाकाशरूपोऽसेि साक्षिहीनोऽसि सर्वदा । त्वमेव सर्व-
raise वं ब्रह्मासि न संशयः ॥ ५९ ॥ कालहीनोऽसि कालोऽसि सदा
ब्रह्मासि चिह्ननः । सर्वतः स्वस्वरूपोऽसि चैतन्यधनवानसि ॥ ६० ॥ सत्योऽसि
सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि । देवोऽसि
शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१ ॥ समोऽसि
सच्चापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि । सर्वाङ्गहीनोऽसि
सदा स्थितोसे ब्रह्मेन्द्ररुद्रादिविभावितोऽसेि ॥ ६२ ॥ सर्वप्रपञ्चभ्रमवर्जि-
तोऽसि सर्वेषु भूतेषु च भासितोऽसि । सर्वत्र संकल्पविवर्जितोऽसि सर्वागमा-
न्तार्थविभावितोऽसि ॥ ६३ ॥ सर्वत्र संतोषसुखासनोऽसि सर्वत्र गत्यादिविव-
र्जितोऽसि । सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम्,
॥ ६४ ॥ चिदाकारस्वरूपोऽसेि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव
स्थितोऽसि त्वं सर्वशुन्योऽसि निर्गुणः ॥ ६५ ॥ आनन्दोऽसि परोऽसि त्वमेक
एवाद्वितीयकः । चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६ ॥ सदसि त्वमि
ज्ञोऽसि सोऽसि जानासि वीक्षसि । सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै
प्रभुः ॥ ६७ ॥ अमृतोऽसि विभुश्चासि चञ्चलो चलो ह्यसि । सर्वोऽसि सर्व-
हीनोsसि शान्ताशान्तविवर्जितः ॥ ६८ ॥ सत्तामात्रप्रकाशोऽसि सत्तासा--
मान्यको ह्यसि । नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९ ॥ ईषन्मा-
त्रविशून्योऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिवि-
वर्जितः ॥ ७० ॥ लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः । सर्वनादा-
तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१ ॥ ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं
प्रपश्यसि । स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२ ॥ स्वात्मराज्ये
स्वमेवासि स्वयंभावविवर्जितः । शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किंचिन्न पश्यसि</p>
<pb n="292" />
<p>अध्या० ५ ]
तेजोबिन्दूपनिषत् ॥ ३९ ॥
.\</p>
<p>॥ ७३ ॥ स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि । स्वस्वरूपाद्नन्योऽसि
हमेवासि निश्चिनु ॥ ७४ ॥ इदं प्रपञ्चं यत्किंचिद्यद्यजगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ७५ ॥ भूमिरापोऽनलो वायुः
खं मनो बुद्धिरेव च । अहंकारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६ ॥ नाशो
जन्म च सत्यं च पुण्यपापजयादिकम् । रागः कामः क्रोधलोभौ
ध्यानं ध्येयं गुणं परम् ॥ ७७ ॥ गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् ।
भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७८ ॥ शमो विचारः संतोषो
भोक्तृभोज्यादिरूपकम् । यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९ ॥
आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः । इन्द्रियाणि मनश्चैव
अवस्थात्रितयं तथा ॥ ८० ॥ चतुर्विंशतितत्वं च साधनानां चतुष्टयम् ।
सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१ ॥ सर्ववर्णाश्रमाचार
मन्त्रतन्त्रादिसंग्रहम् । विद्याविद्यादिरूपं च सर्ववेद्यं जडाजडम् ॥ ८२ ॥ बन्ध-
मोक्षविभागं च ज्ञानविज्ञानरूपकम् । बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाष-
णम् ॥ ८३ ॥ सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् । अनेकजीवसद्भावमे-
कजीवादिनिर्णयम् ॥ ८४ ॥ यद्यच्यायति चित्तेन यद्यत्संकल्पते क्वचित् ।
च्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥ ८५ ॥ यद्यद्वाचा व्याकरोति
यद्यदाचार्यभाषणम् । यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांस्यते पृथक् ॥ ८६ ॥
यद्ययायेन निर्णीतं महद्भिर्वेदपारगैः । शिवः क्षरति लोकान्वै विष्णुः पाति
जगन्त्रयम् ॥ ८७ ॥ ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् । यद्यदस्ति
पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८ ॥ सर्वोपनिषदां भावं सर्वं शशविषाण-
चत् । देहोऽहमिति संकल्पं तदन्तःकरणं स्मृतम् ॥ ८९ ॥ देहोऽहमिति संकल्पो
महत्संसार उच्यते । देहोऽहमिति संकल्पस्तद्वन्धमिति चोच्यते ॥ ९० ॥ देहो -
हमिति संकल्पस्तद्दुःखमिति चोच्यते । देहोऽहमिति यद्भानं तदेव नरकं स्मृतम्
॥ ९१ ॥ देहोऽहमिति संकल्पो जगत्सर्वमितीयते । देहोऽहमिति संकल्पो
हृदयग्रन्थिरितः ॥ ९२ ॥ देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते । देहो-
ऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥ ९३ ॥ देहोऽहमिति या बुद्धिः सा
चाविद्येति भण्यते । देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४ ॥
देहोऽहमिति संकल्पः सत्यजीवः स एव हि । देहोऽहमिति यज्ज्ञानं
परिच्छिन्नमितीरितम् ॥ ९५ ॥ देहोऽहमिति संकल्पो महापापमिति स्फुटम् ।</p>
<pb n="293" />
<p>ईशाधुपनिषत्सु -
[ अध्या० ६
देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥ ९६ ॥ यत्किंचिदपिः
संकल्पस्तापत्रयमितीरितम् । कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालना-
नास्वरूपम् । यत्किंचेदं सर्वसंकल्पजालं तत्किंचेदं मानसं सोम्य विद्धि
॥ ९७ ॥ मन एव जगत्सर्वं मन एव महारिपुः । मन एव हि संसारो
मन एव जगत्रयम् ॥ ९८ ॥ मन एव महद्दुःखं मन एव जरादिकम् ॥
मन एव हि कालश्च मन एव मलं तथा ॥ ९९ ॥ मन एव हि संकल्पो
मन एव हि जीवकः । मन एव हि चित्तं च मनोऽहंकार एव च ॥ १०० ॥
मन एव महद्वन्धं मनोऽन्तःकरणं च तत् । मन एव हि भूमिश्च मन एव हि
तोयकम् ॥ १०१ ॥ मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि
चाकाशं मन एव हि शब्दकम् ॥ १०२ ॥ स्पर्श रूपं रसं गन्धं कोशाः पञ्च
मनोभवाः । जाग्रत्स्वप्नसुषुयादि मनोमयमितीरितम् ॥ १०३ ॥ दिक्पाला
वसवो रुद्रा आदित्याश्च मनोमयाः । दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं
स्मृतम् ॥ १०४ ॥ संकल्पमेव यत्किंचित्तत्तन्नास्तीति निश्चिनु । नास्ति नास्ति
जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥ १०५ ॥
इति तेजोबिन्दूपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
ऋभुः ॥ सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतं
सच्चिदानन्दमद्वयम् ॥ १ ॥ सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २ ॥ सच्चिदानन्दमेव त्वं
सच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहंकारचित्तसंघातका अमी ॥ ३॥
न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदं
नाक्षरं न जडं क्वचित् ॥ ४ ॥ न मध्यं नादि नान्तं वा न सत्यं न निबन्ध-
नम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५ ॥ न देहं न मुखं
प्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निःश्वासोच्छ्वास एव च
॥ ६ ॥ न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकं
ना नोदरं न किरीटकम् ॥ ७ ॥ न हस्तपादचलनं न शास्त्रं न च शासनम् ।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्रसुप्तयः ॥ ८ ॥ तुर्यातीतं न मे किंचित्सर्वं
सच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९ ॥ न
विश्वस्तैजसः प्राज्ञो विराट्सूत्रात्मकेश्वराः । न गमागमचेष्टा च न नष्टं न
प्रयोजनम् ॥ १० ॥ त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा । न पीनं</p>
<pb n="294" />
<p>अध्या० ६ ]
तेजोबिन्दूपनिषत् ॥ ३९॥</p>
<p>न कृशं क्लेदं न कालं देशभाषणम् ॥ ११ ॥ न सर्व न भयं द्वैतं न वृक्ष-
तृणपर्वताः । न ध्यानं योगसंसिद्धिर्न ब्रह्मक्षत्रवैश्यकम् ॥ १२ ॥ न पक्षी न
मृगो नाङ्गी न लोभो मोह एव च । न मंदो न च मात्सर्यं कामक्रोधादय-
स्तथा ॥ १३ ॥ न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीनो
नास्तिक्यं न वार्तावसरोऽस्ति हि ॥ १४ ॥ न लौकिको न लोको वा न
व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥ १५ ॥
न शत्रु मित्रपुत्रादिर्न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽह-
मिति भ्रमः ॥ १६ ॥ न शून्यं नापि चाशून्यं नान्तः कारणसंसृतिः । न
रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७ ॥ न वारपक्षमासादि
वत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥ १८ ॥
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो यमलोको वा न
लोका लोकपालकाः ॥ १९ ॥ न भूर्भुवः स्वस्त्रैलोक्यं न पातालं न भूतलम् । ना-
विद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २० ॥ न स्थिरं क्षणिकं नाशं न
गतिर्न च धावनम् । न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥ २१ ॥
न पदार्था न पूजार्ह नाभिषेको न चार्चनम् । न पुष्पं न फलं, पत्रं गन्धपु-
ष्पादिधूपकम् ॥ २२ ॥ न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रा-
र्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३ ॥ न होमो न च कर्माणि न
दुर्वाक्यं सुभाषणम् । न गायत्री न वा संधिर्न मनत्यं न दुःस्थितिः ॥ २४ ॥
न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः । न दुःसहं दुरालापं न
किरातो न कैतवम् ॥ २५ ॥ न पक्षपातं पक्षं वा न विभूषणतस्करौ । न च
दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६ ॥ नैकं द्वयं त्रयं तुर्य न
महत्त्वं न चाल्पता । न पूर्ण न परिच्छिन्नं न काशी न व्रतं तपः ॥ २७ ॥ न
गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्री न योषिनो वृद्धा न कन्या
न वितन्तुता ॥ २८ ॥ न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावा-
क्यमैक्यं वा नाणिमादिविभूतयः ॥ २९ ॥ सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा
न हि । सर्व सन्मात्ररूपत्वात्सच्चिदानन्दमात्र कम् ॥ ३० ॥ ब्रह्मैव सर्वं
नान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१ ॥
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न
चेन्द्रियः ॥ ३२ ॥ ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न</p>
<pb n="295" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ६
जीवोsहं ब्रह्मैवाहं न भेदभूः ॥ ३३ ॥ ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे
मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४ ॥ इदं ब्रह्म परं ब्रह्म
सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३५ ॥
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं
विभुः प्रभुः ॥ ३६ ॥ कोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म
परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७ ॥ जीव एव सदा ब्रह्म सच्चिदानन्द-
मस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८ ॥ स्वयं ब्रह्मन
संदेहः स्वस्मादन्यन्न किंचन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम्
॥ ३९ ॥ नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किंचन । अणुमात्रलसद्रूपमणु-
मात्रमिदं जगत् ॥ ४० ॥ अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमा-
त्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१ ॥ ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं
जगत्रयम् । आनन्दं परमानन्दमन्यत्किंचिन्न किंचन ॥ ४२ ॥ चैतन्यमात्र-
मोंकारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३ ॥
अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः
॥ ४४ ॥ अहमेवाखिलाधार अहमेव सुखात्सुखम् । आत्मनोऽन्यजगन्नास्ति
आत्मनोऽन्यत्सुखं न च ॥ ४५ ॥ आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं
जगत् । आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६ ॥ आत्मनोऽ-
न्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न
हि ॥ ४७ ॥ ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं वृतं सर्वं
ब्रह्ममात्रं रसं सुखम् ॥ ४८ ॥ ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् ।
ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९ ॥ ब्रह्मणोऽन्यदहं नास्ति
ब्रह्मणोऽन्यत्फलं नहि । ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि
॥ ५० ॥ ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः । ब्रह्मणोऽन्यन्न चाहंता
स्वत्तेदन्ते नहि क्वचित् ॥ ५१ ॥ स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न
किंचन । यत्किंचिद्दृश्यते लोके यत्किंचिद्वाप्यते जलैः ॥ ५२ ॥ यत्किंचि-
द्भुज्यते क्वापि तत्सर्वमसदेव हि । कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम्
॥ ५३ ॥ लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् । कालभेदं देशभेदं वस्तु-
भेदं जयाजयम् ॥ ५४ ॥ यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् । अस-
दन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५ ॥ असत्प्राणादिकं सर्वं संघातमस-</p>
<pb n="296" />
<p>अध्या० ६ ]
तेजोबिन्दूपनिषत् ॥ ३९ ॥</p>
<p>दात्मकम् । असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६ ॥ असत्यं षड्डिका-
रादि असत्यमरिवर्गकम् । असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥ ५७ ॥ सच्चि-
दानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः
॥ ५८ ॥ सत्यमानन्दरूपोऽहं चिह्ननानन्दविग्रहः । अहमेव परानन्द अहमेव
परात्परः ॥ ५९ ॥ ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः । सर्वप्रकाशरूपोऽहं
सर्वाभावस्वरूपकम् ॥ ६० ॥ अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् ।
त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१ ॥ चिदाकारं चिदाकाश
चिदेव परमं सुखम् । आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२ ॥
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । कालो नास्ति जगन्नास्ति मायाप्र-
कृतिरेव न ॥ ६३ ॥ अहमेव हरिः साक्षादहमेव सदाशिवः । शुद्धचैतन्य -
भावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४ ॥ अद्वयानन्दमात्रोऽहं चिद्वनैकरसोऽ-
स्म्यहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५ ॥ सर्वं ब्रह्मैव सततं
सर्वं ब्रह्मैव चेतनम् । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥ ६६ ॥
परमात्मा परं ज्योतिः परं धाम परा गतिः । सर्ववेदान्तसारोऽहं सर्वशास्त्र -
सुनिश्चितः ॥ ६७ ॥ योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः । सर्वज्ञानप्र-
काशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८ ॥ तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादि-
वर्जितः । चिदक्षरोऽहं सत्योऽहं वासुदेवोऽजरोऽमरः ॥ ६९ ॥ अहं ब्रह्म
चिदाकाशं नित्यं ब्रह्म निरञ्जनम् । शुद्धं बुद्धं सदा मुक्तमनामकमरूपकम् ॥ ७० ॥
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् । सत्यासत्यं जगन्नास्ति संकल्पकल-
नादिकम् ॥ ७१ ॥ नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । अनन्तमव्ययं
शान्तमेकरूपमनामयम् ॥ ७२ ॥ मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरी-
चिका । वन्ध्याकुमारवचने भीतिश्चेदस्ति किंचन ॥ ७३ ॥ शशशृङ्गेण नागे-
द्रो मृतजगदस्ति तत् । मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४ ॥
नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा
॥ ७५ ॥ गगने नीलिमासत्ये जगत्सत्यं भविष्यति । शुक्तिकारजतं सत्यं
भूषणं चेज्जगद्भवेत् ॥ ७६ ॥ रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः । जातरूपेण
बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७ ॥ विन्ध्याटव्यां पायसान्नमस्ति चेज-
गदुद्भवः । रम्भास्तम्भेन काष्टेन पाकसिद्धौ जगद्भवेत् ॥ ७८ ॥ सद्यःकुमा-
रिकारूपैः पाके सिद्धे जगद्भवेत् । चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत्</p>
<pb n="297" />
<p>ईशाधुपनिषत्सु -
[ अध्या० ६
॥ ७९ ॥ मासात्पूर्वं मृतो मत्यों ह्यागतश्रेज्जगद्भवेत् । तत्रं क्षीरस्वरूपं चेत्क्क-
'चिन्नित्यं जगद्भवेत् ॥ ८० ॥ गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् । भूर-
जोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥ ८१ ॥ कूर्मरोम्णा गजे बद्धे जगदस्तु
मदोत्कटे । नालस्थतन्तुना मेरुश्चालित वेज्जगद्भवेत् ॥ ८२ ॥ तुरङ्गमालया
सिन्धुर्बद्धश्चदस्त्विदं जगत् । अग्नेरधश्चेज्वलनं जगद्भवतु सर्वदा ॥ ८३ ॥
ज्वालावह्निः शीतलश्चेदस्ति रूपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृद्धिश्वेज-
गदस्त्विदम् ॥ ८४ ॥ महच्छैलेन्द्रनीलं वा संभवेच्चेदिदं जगत् । मेरुरागत्य
पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥ ८५ ॥ निगिरेच्चेद्भृङ्गसूनुमेरुं चलवदस्त्विदम् ।
मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६ ॥ अणुकोटर विस्तीर्णे
त्रैलोक्यं चेज्जगद्भवेत् । तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥ ८७ ॥
स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः । नदीवेगो निश्चलश्चेत्केनापीदं भवे-
जगत् ॥ ८८ ॥ क्षुधितस्याभिर्भोज्यश्वेन्निमिषं कल्पितं भवेत् । जात्यन्धै रत्न-
विषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९ ॥ नपुंसककुमारस्य स्त्रीसुखं चेद्भवेजगत् ।
निर्मितः शशशृङ्गेण रथश्वेजगदस्ति तत् । ॥ ९० ॥ सद्योजाता तु या कन्या
भोगयोग्या भवेज्जगत् । वन्ध्या गर्भाशतत्सौख्यं ज्ञाता चेदस्त्विदं जगत्
॥ ९३ ॥ काको वा हंसवगच्छेज्जगद्भवतु निश्चलम् । महाखरो वा सिंहेन
युध्यते चेज्जगत्स्थितिः ॥ ९२ ॥ महाखरो गजगतिं गतश्चेजगदस्तु तत् ।
संपूर्णचन्द्रसूर्यश्वेज्जगद्भातु स्वयं जडम् ॥ ९३ ॥ चन्द्रसूर्यादिकौ त्यक्त्वा राहु-
श्रद्दृश्यते जगत् । भृष्टबीजसमुत्पन्नवृद्धिश्वेज्जगदस्तु सत् ॥ ९४ ॥ दरिद्रो
धनिकानां च सुखं भुङ्क्ते तदा जगत् । शुना वीर्येण सिंहस्तु जितो यदि
जगत्तदा ॥ ९५ ॥ ज्ञानिनो हृदयं मूढैज्ञतं चेत्कल्पनं तदा । श्वानेन सागरे
पीते निःशेषेण मनो भवेत् ॥ ९६ ॥ शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा
जगत् । भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७ ॥ शुद्धाकाशे
वने जाते चलिते तु तदा जगत् । केवले दर्पणे नास्ति प्रतिबिम्बं तदा
जगत् ॥ ९८ ॥ अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नाहि । सर्वथा भेदकलनं
द्वैताद्वैतं न विद्यते ॥ ९९ ॥ मायाकार्यमिदं भेदमस्ति चेद्रह्मभावनम् । देहोऽह-
मिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १०० ॥ हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्म-
चक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥ १०१ ॥ अनात्मरूपचोरश्चे-
दात्मरतस्य रक्षणम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२ ॥</p>
<pb n="298" />
<p>नादबिन्दुपनिषत् ॥ ४० ॥</p>
<note>२८३.</note>
<p>एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् । ब्रह्मैव सर्वभावनं भुवनं नाम
संत्यज ॥ १०३ ॥ अहंब्रह्मेति निश्चित्य अहंभावं परित्यज । सर्वमेव लयं
याति सुप्ताहस्तस्थपुष्पवत् ॥ १०४ ॥ न देहो न च कर्माणि सर्वं ब्रह्मैव
केवलम् । न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५ ॥ लक्षणात्र-
यविज्ञानं सर्वं ब्रह्मैवं केवलम् । सर्वव्यापारमुत्सृज्य ह्यह ब्रह्मेति भावयः
॥ १०६ ॥ अहं ब्रह्म न संदेहो ह्यहं ब्रह्म विदात्मकम् । सच्चिदानन्दमात्रोऽ--
हमिति निश्चित्य तत्त्यज ॥ १०७ ॥ शांकरीयं महाशास्त्रं न देयं यस्य कस्य --
चित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८ ॥ गुरुभक्तिविशु-
द्धान्तःकरणाय महात्मने । सम्यक् परीक्ष्य दातव्यं मासं षण्मासवत्सरम्
॥ १०९ ॥ सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् । तेजोबिन्दूपनिषदमभ्य-
सेत्सर्वदा मुदा ॥ ११० ॥ सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयं ब्रह्मव
भवति स्वयमित्युपनिषत् ॥ ॐ सह नाववत्विति शान्तिः ॥
इति तेजोबिन्दूपनिषत्समाप्ता ॥ ३९ ॥</p>
<lg>
  <l>नादबिन्दूपनिषत् ॥ ४० ॥</l>
  <l>वैजात्मोपासनया संजातज्ञानवह्निना ।</l>
  <l>दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥</l>
  <l>ॐ वाक्ये मनसीति शान्तिः ॥</l>
</lg>
<p>ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । मकारं पुच्छमित्याहुर-
र्धमात्रा तु मस्तकम् ॥ १ ॥ पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । धर्मो-
ser दक्षिणं चक्षुरधर्मोऽथो परः स्मृतः ॥ २ ॥ भूर्लोकः पादयोस्तस्य भुव-
कस्तु जानुनि । सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥ ३ ॥ जनोलो-
कस्तु हृद्देशे कण्ठे लोकस्तपस्ततः । भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः
॥ ४ ॥ सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः । एवमेतां समारूढो हंसयो-
गविचक्षणः ॥ ५ ॥ न भिद्यते कर्मचारैः पापकोटिशतैरपि । आग्नेयी प्रथमा:
मात्रा वायव्येषा तथापरा ॥ ६ ॥ भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा ।
परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥ ७ ॥ कालत्रयेऽपि यस्येमा मात्रा
नूनं प्रतिष्ठिताः । एष ओंकार आख्यातो धारणाभिर्निबोधत ॥ ८ ॥ घोषिणी</p>
<pb n="299" />
<p>ईशाद्युपनिषत्सु -
प्रथमा मात्रा विद्या मात्रा तथाऽपरा । पतङ्गिनी तृतीया स्याच्चतुर्थी चायु-
वेगिनी ॥ ९ ॥ पञ्चमी नामधेया तु षष्ठी चैन्द्यभिधीयते । सप्तमी वैष्णवी
नाम अष्टमी शांकरीति च ॥ १० ॥ नवमी महती नाम धृतिस्तु दशमी
मता । एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥ ११ ॥ प्रथमायां तु
यात्रायां यदि प्राणैर्वियुज्यते । भरते वर्षराजासौ सार्वभौमः प्रजायते ॥ १२ ॥
द्वितीयायां समुत्कान्तो भवेद्यक्षो महात्मवान् । विद्याधरस्तृतीयायां गान्ध-
वस्तु चतुर्थिका ॥ १३ ॥ पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते । उषितः
सह देवत्वं सोमलोके महीयते ॥ १४ ॥ षष्ट्यामिन्द्रस्य सायुज्यं सप्तम्यां
वैष्णवं पदम् । अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ १५ ॥ नवम्यां
महर्लोकं दशम्यां तु जनं व्रजेत् । एकादश्यां तपोलोकं द्वादश्यां ब्रह्म
शाश्वतम् ॥ १६ ॥ ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् । सदोदितं परं
ब्रह्म ज्योतिषामुदयो यतः ॥ १७ ॥ अतीन्द्रियं गुणातीतं मनो लीनं यदा
भवेत्। अनूपमं शिवं शान्तं योगयुक्तं सदाविशेत् ॥ १८ ॥ तद्युक्तस्तन्मयो
जन्तुः शनैर्मुञ्चेत्कलेवरम् । संस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥ १९ ॥
ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः । तेनैव ब्रह्मभावेन परमानन्दमञ्जते
॥ २० ॥ आत्मानं सततं ज्ञात्वा कालं नय महामते । प्रारब्धमखिलं भुञ्जन्नो-
द्वेगं कर्तुमर्हसि ॥ २१ ॥ उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति । तत्त्वज्ञा-
नोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥ २२ ॥ देहादीनामसत्त्वात्तु यथा स्वप्ने
विबोधतः । कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥ २३ ॥ तत्तु
जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् । स्वप्नदेहो यथाध्यस्तस्तथैवायं हि
देहकः ॥ २४ ॥ अभ्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः । उपादानं
प्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥ २५ ॥ अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे व
विश्वता । यथा रज्जुं परित्यज्य सर्प गृह्णाति वै भ्रमात् ॥ २६ ॥ तद्वत्सत्य-
मविज्ञाय जगत्पश्यति मूढधीः । रजखण्डे परिज्ञाते सर्परूपं न तिष्टति
॥ २७ ॥ अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते । देहस्यापि प्रपञ्चत्वात्प्रा-
रब्धावस्थितिः ः कुतः ॥ २८ ॥ अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते ।
ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥ २९ ॥ ब्रह्मप्रणवसंधानं नादो
ज्योतिर्मयः शिवः । स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥ ३० ॥
सिद्धासने स्थितो योगी मुद्रां संधाय वैष्णवीम् । शृणुयाद्दक्षिणे कर्णे नाज़-</p>
<pb n="300" />
<p>नादबिन्दूपनिषत् ॥ ४० ॥</p>
<p>मन्तर्गतं सदा ॥ ३१ ॥ अभ्यस्यमानो नादोऽयं ब्रह्ममावृणुते ध्वनिः । पक्षा-
द्विपक्षमखिल जित्वा तुर्यपदं व्रजेत् ॥ ३२ ॥ श्रूयते प्रथमाभ्यासे नादो
नानाविधो महान् । वर्धमाने तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥ ३३ ॥
आदौ जलधिजीमूतभेरीनिर्झरसंभवः । मध्ये मर्दलशब्दाभो घण्टाकाहलज-
स्तथा ॥ ३४ ॥ अन्ते तु किंकिणीवंशवीणा भ्रमरनिःस्वनः । इति नानाविधा
नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥ ३५ ॥ महति श्रूयमाणे तु महाभेर्यादिक-
ध्वनौ । तत्र सूक्ष्मं सूक्ष्मतरं नाममेव परामृशेत् ॥ ३६ ॥ घनमुत्सृज्य वा
सूक्ष्मे सूक्ष्ममुत्सृज्य वा धने । रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत्
॥ ३७ ॥ यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्र तत्र स्थिरीभूत्वा
तेन सार्धं विलीयते ॥ ३८ ॥ विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुव-
न्मनः । एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ ३९ ॥ उदासीन-
स्ततो भूत्वा सदाभ्यासेन संयमी । उन्मनीकारकं सद्यो नादमेवाव-
धारयेत् ॥ ४० ॥ सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । नादमेवानुसं-
दध्यान्नादे चित्तं विलीयते ॥ ४१ ॥ मकरन्दं पिबन्भूङ्गो गन्धान्नापेक्षते
तथा । नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥ ४२ ॥ बद्धः सुनाद -
गन्धेन सद्यः संत्यक्तचापलः । नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः ॥ ४३ ॥
विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति । मनोमत्तगजेन्द्रस्य विषयोद्या-
नचारिणः ॥ ४४ ॥ नियामनसमर्थोऽयं निनादो निशिताङ्कुशः । नादोऽन्त-
रङ्गसारङ्गबन्धने वायुरायते ॥ ४५ ॥ अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि
वा । ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥ ४६ ॥ मनस्तत्र लयं याति
तद्विष्णोः परमं पदम् । तावदाकाशसंकल्पो यावच्छब्दः प्रवर्तते ॥ ४७ ॥
निःशब्दं तत्परं ब्रह्म परमात्मा समीयते । नादो यावन्मनस्तावन्नादान्तेऽपि
मनोन्मनी ॥ ४८ ॥ सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् । सदा नादा-
नुसंधानात्संक्षीणा वासना तु या ॥ ४९ ॥ निरञ्जने विलीयेते मनोवायू न
संशयः । नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५० ॥ सर्वे तत्र लयं
यान्ति ब्रह्मप्रणवादके । सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥ ५१ ॥
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः । शङ्खदुन्दुभिनादं च न शृणोति
कदाचन ॥ ५२ ॥ काष्टवज्ज्ञायते देह उन्मन्यावस्थाया ध्रुवम् । न जानाति
स शीतोष्णं न दुःखं न सुखं तथा ॥ ५३ ॥ न मानं नावमानं च संत्यक्त्व</p>
<pb n="301" />
<p>ईशाद्युपनिषत्सु -
तु समाधिना । अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥ ५४ ॥ जाग्र-
मन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥ ५५ ॥ दृष्टिः स्थिरा यस्य विनासह-
इयं वायुः स्थिरो यस्य विनाप्रयत्नम् । चित्तं स्थिरं यस्य विनावलम्बं स
ब्रह्मतारान्तरनादरूप इत्युपनिषत् ॥ ५६ ॥ ॐ वा मनसीति शान्तिः ॥
इति नादबिन्दूपनिषत्समाप्ता ॥ ४० ॥</p>
<lg>
  <l>ध्यानबिन्दूपनिषत् ॥ ४१ ॥</l>
  <l>ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः ।</l>
  <l>योगतत्त्वज्ञानफलं तत्स्वमानं विचिन्तये ॥</l>
  <l>ॐ 'सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>यदि शैलसमं पापं विस्तीर्ण बहुयोजनम् । भिद्यते ध्यानयोगेन नान्यो
भेदः
दुः कदाचन ॥ १ ॥ बीजाक्षरं परं बिन्दुं नादं तस्योपरि स्थितम् । सशब्दं
-चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २ ॥ अनाहतं तु यच्छब्दं तस्य शब्दस्य
यत्परम् । तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३ ॥ वालाग्रशतसा-
"हस्रं तस्य भागस्य भागिनः । तस्य भागस्य भागाधं तत्क्षये तु निरञ्जनम्
॥ ४ ॥ पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् । तिलमध्ये यथा तैलं
'पाषाणेष्विव काञ्चनंम् ॥ ५ ॥ एवं सर्वाणि भूतानि मणौ सूत्रमिवात्मनि ।
- स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ ६ ॥ तिलानां तु मथा तैलं पुष्पे
गन्ध इवाश्रितः । पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥ ७ ॥ वृक्षं
तु विद्याच्छाया सकलं तस्यैव निष्कला । सकले निष्कले भावे सर्वत्रात्मा
व्यवस्थितः ॥ ८ ॥ ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षुभिः । पृथिव्यग्निश्च
ऋग्वेदो भूरित्येव पितामहः ॥ ९ ॥ अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके ।
अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥ १० ॥ उकारे तु लयं प्राप्ते द्वितीये
प्रणवांशके । द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥ ११ ॥ मकारे तु
लयं प्राप्ते तृतीये प्रणवांशके । अकारः पीतवर्णः स्याद्वजोगुण उदीरितः ॥ १२ ॥
उकारः सात्त्विकः शुक्को मकारः कृष्णतामसः । अष्टाङ्गं च चतुष्पादं त्रिस्थानं
'पञ्चदैवतम् ॥ १३ ॥ ओंकारं यो न जानाति ब्रह्मणो न भवेत्तु सः । प्रणवो
धनुः शरो ह्यात्मा ब्रह्म तल्लेक्ष्यमुच्यते ॥ १४ ॥ अप्रमत्तेन वेद्धव्यं शरवत्त-</p>
<pb n="302" />
<p>ध्यानबिन्दुपनिषत् ॥ ४१ ॥</p>
<p>न्मयो भवेत् । निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥ १५ ॥ ओंकार-
प्रभवा देवा ओंकारप्रभवाः स्वराः । ओंकारप्रभवं सर्वं त्रैलोक्यं सचराच-
रम् ॥ १६ ॥ ह्रस्वो दहति पापानि दीर्घः संपत्प्रदोऽव्ययः । अर्धमात्रासमा-
युक्तः प्रणवो मोक्षदायकः ॥ १७ ॥ तैलधारामिवाच्छिन्नं दीर्घघण्टानिना-
दवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ १८ ॥ हृत्पद्मकर्णिका-
मध्ये स्थिरदीपनिभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदोंकारमीश्वरम् ॥ १९ ॥
इडया वायुमापूर्य पूरयित्वोदरस्थितम् । ओंकारं देहमध्यस्थं ध्यायेज्वालाव-
लीवृतम् ॥ २० ॥ ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते । रेचो रुद्र
इति प्रोक्तः प्राणायामस्य देवताः ॥ २१ ॥ आत्मानमरणिं कृत्वा प्रणवं
चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥ २२ ॥ ओंकार-
ध्वनिनादेन वायोः संहरणान्तिकम् । यावद्वलं समादध्यात्सम्यङ्गादलयावधि
॥ २३ ॥ गमागमस्थं गमनादिशून्यमोंकारमेकं रविकोटिदीप्तिम् । पश्यन्ति
ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥ २४ ॥ यन्मनस्त्रिजग-
सृष्टिस्थितिव्यसन कर्मकृत् । तन्मनो विलयं याति तद्विष्णोः परमं पदम्
॥ २५ ॥ अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् । तस्य मध्ये स्थितो
भानुर्भानुमध्यगतः शशी ॥ २६ ॥ शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा ।
प्रभामध्यगतं पीतं नानारत्नप्रवेष्टितम् ॥ २७ ॥ तस्य मध्यगतं देवं वासुदेवं
निरञ्जनम् । श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥ २८ ॥ शुद्धस्फटि-
संकाशं चन्द्रकोटिसमप्रभम् । एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः
॥ २९ ॥ अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् । चतुर्भुजं महाविष्णुं
पूरकेण विचिन्तयेत् ॥ ३० ॥ कुम्भकेन हृदि स्थाने चिन्तयेत्कमलासनम् ।
ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥३१॥ रेचकेन तु विद्यात्मा ललाटस्थं
त्रिलोचनम् । शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ ३२ ॥ अब्जपत्रम-
धः पुष्पमूर्ध्वनालमधोमुखम् । कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥ ३३ ॥
शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् । तत्रार्कचन्द्रवह्नीनामुपर्युपरि
चिन्तयेत् ॥ ३४ ॥ पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् । तस्य हड्डी -
जमाहृत्य आत्मानं चरते ध्रुवम् ॥ ३५ ॥ त्रिस्थानं च त्रिपात्रं च त्रिब्रह्म च
त्रयाक्षरम् । त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥ ३६ ॥ तैलधारा-
'मिवाच्छिन्नदीर्घघण्टानिनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित्</p>
<pb n="303" />
<p>ईशाधुपनिषत्सु -
॥ ३७ ॥ यथैवोत्पलनालेन तोयमाकर्षयेन्नरः । तथैवोत्कर्षयेद्वायुं योगी
योगपथे स्थितः ॥ ३८ ॥ अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् ।
कर्षयेन्नालमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥ ३९ ॥ भ्रुवोर्मध्ये ललाटे तु नासि-
कायास्तु मूलतः । जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥ ४० ॥ आसनं
प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति
षट् ॥ ४१ ॥ आसनानि च तावन्ति यावन्त्यो जीवजातयः । एतेषामतुला-
भेदान्विजानाति महेश्वरः ॥ ४२ ॥ छिद्रं भद्रं तथा सिंह पद्मं चेति चतु-
यम् । आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ४३ ॥ योनिस्थानं
तयोर्मध्ये कामरूपं निगद्यते । आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम्
॥ ४४ ॥ तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । योनिमध्ये
स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥ ४५ ॥ मस्तके मणिवद्भिन्नं यो जानाति
स योगवित् । तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥ ४६ ॥ चतुरस्रमु-
पर्यग्नेरधो मेदात्प्रतिष्ठितम् । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम्
॥ ४७ ॥ स्वाधिष्ठानं ततश्चक्रं मेदूमेव निगद्यते । मणिक्त्तन्तुना यत्र वायुना
पूरितं वपुः ॥ ४८ ॥ तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् । द्वादशा-
रमहाचक्रे पुण्यपापनियन्त्रितः ॥ ४९ ॥ तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न
विन्दति । ऊर्ध्वं मेादधो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ ५० ॥ तत्र
नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तेषु नाडीसहस्रेषु द्विसप्ततिरुदा-
हृताः ॥ ५१ ॥ प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । इडा च
पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ५२ ॥ गान्धारी हस्तिजिह्वा च पूपा चैव
यशस्विनी । अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥ ५३ ॥ एवं नाडी-
मयं चक्रं विज्ञेयं योगिना सदा । सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः
॥ ५४ ॥ इडापिङ्गलासुपुम्नास्तिस्रो नाड्यः प्रकीर्तिताः । इडा वामे स्थिताः
भागे पिङ्गला दक्षिणे स्थिता ॥ ५५ ॥ सुपुन्ना मध्यदेशे तु प्राणमार्गा-
स्वयः स्मृताः । प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ ५६ ॥
नागः कूर्मः कृकरको देवदत्तो धनंजयः । प्राणाद्याः पञ्च विख्याता ना-
गाद्याः पञ्च वायवः ॥ ५७ ॥ एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ।
प्राणापानवशो जीवो ह्यधश्चोर्ध्व प्रधावति ॥ ५८ ॥ वामदक्षिणमा-
र्गेण चञ्चलत्वान्न दृश्यते । आक्षिप्तो भुजदण्डेन यथोश्चलति कन्दुकः</p>
<pb n="304" />
<p>श्राद्रबिन्दूपनिषत् ॥ ४१ ॥</p>
<p>॥ ५९ ॥ प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् । अपानात्कर्षति
प्राणोऽपानः प्राणाच्च कर्षति ॥ ६० ॥ खगरज्जुवदित्येतद्यो जानाति स योग-
वित् । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ६१ ॥ हंस हंसेत्य मन्त्रं
जीवो जपति सर्वदा । शतानि षढदिवारात्रं सहस्राण्येकविंशतिः ॥ ६२ ॥
एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपा नाम गायत्री योगिनां
मोक्षदा सदा ॥ ६३ ॥ अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते । अनया
सदृशी विद्या अनया सदृशो जपः ॥ ६४ ॥ अनया सदृशं पुण्यं न भूतं न
भविष्यति । येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ६५ ॥ मुखेना-
च्छाद्य तद्वारं प्रसुप्ता परमेश्वरी । प्रबुद्धा वह्नियोगेन मनसा मरुता सह
॥ ६६ ॥ सूचिवद्गुणमादाय व्रजत्यूर्ध्व सुषुम्नया । उद्घाटयेत्कपाटं तु यथा
कुञ्चिकया हठात् ॥ ६७ ॥ कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत्
॥ ६८ ॥ कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पद्मासनं गाढं वक्षसि सन-
धाय चुबुकं ध्यानं च तच्चेतसि । वारंवारमपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितं
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ६९ ॥ पद्मासनस्थितो योगी
नाडीद्वारेषु पूरयन् । मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥ ७० ॥
अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा । कद्वम्ललवणत्यागी क्षीरपानरतः
सुखी ॥ ७१ ॥ ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवे-
सिद्धो नात्र कार्या विचारणा ॥ ७२ ॥ कन्दोर्ध्वकुण्डली शक्तिः स योगी
सिद्धिभाजनम् । अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः ॥ ७३ ॥ युवा भवति
वृद्धोऽपि सततं मूलबन्धनात् । पाष्णिभागेन संपीड्य योनिमाकुञ्चयेगुदम्
॥ ७४ ॥ अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते । उड्याणं कुरुते यस्माद-
विश्रान्तमहाखगः ॥ ७५ ॥ उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते । उदरे
पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥ ७६ ॥ उड्डियाणोऽप्ययं बन्धो मृत्यु-
मातङ्गकेसरी । बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥ ७७ ॥ ततो
जालन्धरो बन्धः कर्मदुःखैौघनाशनः । जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे
॥ ७८ ॥ न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । कपालकुहरे जिह्वा
प्रविष्टा विपरीतगा ॥ ७९ ॥ भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न
रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८० ॥ न च मूर्च्छा भवेत्तस्य यो
मुद्रां वेत्ति खेचरीम् । पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥ ८१ ॥
अ. उ. १९</p>
<pb n="305" />
<p>ईशाद्युपनिषत्सु -
बन्धते न च कालेन यस्य मुद्रास्ति खेचरी । चित्तं चरति खे यस्माजिह्वा
भवति खे गता ॥ ८२ ॥ तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता । खेचर्या
मुद्रया यस्य चिवरं लम्बिकोर्ध्वतः ॥ ८३ ॥ बिन्दुः क्षरति नो यस्य कामि-
न्यालिङ्गितस्य च । यावद्विन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥ ८४ ॥
यावद्दुवा नभोमुद्रा तावद्विन्दुर्न गच्छति । गलितोऽपि यदा बिन्दुः संप्राप्तो
योनिमण्डले ॥ ८५ ॥ व्रजत्यूर्ध्व हठाच्छक्त्या निबद्धो योनिमुद्रया । स एव
द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥ ८६ ॥ पाण्डरं शुक्रमित्याहुलहि-
ताख्यं महारजः । विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥ ८७ ॥
शशिस्थाने वसेद्विन्दुस्तयोरैक्यं सुदुर्लभम् । बिन्दुः शिवो रजः शक्तिर्बिन्दु-
रिन्दू रजो रविः ॥ ८८ ॥ उभयोः संगमादेव प्राप्यते परमं वपुः । वायुना
शक्तिचालेन प्रेरितं खे यथा रजः ॥ ८९ ॥ रविणैकत्वमायाति भवेद्दिव्यं
वपुस्तदा । शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥ ९० ॥ द्वयोः समरसी-
भावं यो जानाति स योगवित् । शोधनं मलजालानां घटनं चन्द्रसूर्ययोः
॥ ९१ ॥ रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥ ९२ ॥ वक्षोन्यस्तहनुर्नि -
पीड्य सुषिरं योनेश्च वामाङ्किणा हस्ताभ्यामनुधारयन्प्रविततं पादं तथा
दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचयेदेषा पातकनाशिनी
ननु महामुद्रा नृणां प्रोच्यते ॥ ९३ ॥ अथात्मनिर्णयं व्याख्यास्ये ॥ हृदि-
स्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूप-
मणुमात्रं वर्तते तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्व-
मेतच्चरितमहं कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः
स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥ पूर्वदले विश्रमते पूर्व दलं श्वेत-
वर्ण तदा भक्तिपुरःसरं धर्मे मतिर्भवति ॥ यदाऽऽग्नेयदले विश्रमते तदाग्नेयदलं
रक्तवर्ण तदा निद्रालस्यमतिर्भवति ॥ यदा दक्षिणदले विश्रमते तद्दक्षिणदलं
कृष्णवर्ण तदा द्वेषकोपमतिर्भवति ॥ यदा नैर्ऋतदले विश्रमते तद्वनैरृतदलं
नीलवर्ण तदा पापकर्महिंसामतिर्भवति ॥ यदा पश्चिमदले विश्रमते तत्प-
श्चिमदलं स्फटिकवर्ण तदा क्रीडाविनोदे मतिर्भवति ॥ यदा वायव्यदले
विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति ॥
यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्ण तदा सुखशृङ्गारमतिर्भवति ॥
यदेशानदले विश्रमते तदीशानदलं वैदूर्यवर्णं तदा दानादिकृपामति-</p>
<pb n="306" />
<p>ध्यानबिन्दू निषत् ॥ ४१ ॥</p>
<p>र्भवति ॥ यदा संधिसंधिषु मतिर्भवति तदा वातपित्तश्लेष्ममहान्याधिप्रकोपो
भवति ॥ यदा मध्ये तिष्ठति तदा सर्व जानाति गायति नृत्यति पठत्या-
नन्दं करोति ॥ यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थ प्रथमरेखावलयं
कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्ण तदा निद्रावस्था
भवति ॥ निद्रावस्थामध्ये स्वप्नावस्था भवति ॥ स्वप्नावस्थामध्ये दृष्टं
श्रुतमनुमानसंभववार्ता इत्यादिकल्पनां करोति वदादिश्रमो भवति ॥
श्रमनिर्हरणार्थं द्वितीय रेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीय रेखा
इन्द्रकोपवर्णं तदा सुषुझ्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसंबन्धिनी
बुद्धिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वररूपेण प्राप्तिर्भवति ॥
तृतीय रेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्ण तदा
तुरीयावस्था भवति तुरीये केवलपरमात्मसंबन्धिनी भवति नित्यबोधस्वरूपा
भवति तदा शनैः शनैरुपरमेडुच्या धृतिगृहीतमात्मसंस्थं मनः कृत्वा न
किंचिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा सर्वं विश्वमात्मस्वरूपेण लक्ष्यं
धारयति । यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वा-
तीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति पश्चात्परमात्मस्वरूपेण
प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपाया भवन्ति ॥
चतुष्पथसमायुक्तमहाद्वारगवायुना । सहस्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः
॥ ९४ ॥ पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् । प्राणादि-
पञ्चवायुश्च बीजं वर्णं च स्थानकम् । यकारं प्राणबीजं च नीलजीमूतसन्नि-
भम् । रकारमग्निबीजं च अपानादित्यसंनिभम् ॥ ९५ ॥ लकारं पृथिवीरूपं
व्यानं बन्धूकसंनिभम् । वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥ ९६ ॥
हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् । हृन्नाभिनासाकर्ण च पादाङ्गु-
ष्ठादिसंस्थितम् ॥ ९७ ॥ द्विसप्ततिसहस्राणि नाडीवर्गेषु वर्तते । अष्टाविं-
शतिकोटीषु रोमकूपेषु संस्थिताः ॥ ९८ ॥ समानप्राण एकस्तु जीवः स एक
एव हि । रेचकादि त्रयं कुर्यादृढचित्तः समाहितः ॥ ९९ ॥ शनैः समस्तमा-
कृप्य हृत्सरोरुहकोटरे । प्राणापानौ च बध्वा तु प्रणवेन समच्चरेत् ॥ १०० ॥
कर्णसंकोचनं कृत्वा लिङ्गसंकोचनं तथा । मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा
शुभा ॥ १०१ ॥ अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः । शङ्खनादादि-
भिश्चैव मध्यमेव ध्वनिर्यथा ॥ १०२ ॥ व्योमरन्ध्रगतो नादो मायूरं नादमेव</p>
<pb n="307" />
<p>ईशाद्युपनिषत्सु -
च । कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ १०३ ॥ तदात्मा राजते तत्र
यथा व्योम्नि दिवाकरः । कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥ १०४ ॥
स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् । रत्नानि ज्योत्खिनादं तु बिन्दुमा-
हेश्वरं पदम् । य एवं वेद पुरुषः स कैवल्यं समश्रुत इत्युपनिषत् ॥ १०५ ॥
ॐ सह नाववत्विति शान्तिः ॥
इति ध्यानबिन्दूपनिषत्समाप्ता ॥ ४१ ॥</p>
<lg>
  <l>ब्रह्मविद्योपनिषत् ॥ ४२ ॥</l>
  <l>स्वाविद्यावत्कार्यजातं यद्विद्यापह्नवं गतम् ।</l>
  <l>तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ॥</l>
  <l>सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>अथ ब्रह्मविद्योपनिषदुच्यते ॥ प्रसादाद्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।
रहस्यं ब्रह्मविद्याया ध्रुवाग्निं संप्रचक्षते ॥ १ ॥ मित्येकाक्षरं ब्रह्म यदुक्तं
ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ २ ॥ तत्र देवा-
स्त्रयः प्रोक्ता लोका वेदास्त्रयोऽनयः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य
शिवस्य तु ॥ ३ ॥ ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । अकारस्य
शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ४ ॥ यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्त-
थैव च । विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥ ५ ॥ सामवेदस्तथा द्यौश्वा-
हवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ६ ॥ सूर्य-
मण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यव-
स्थितः ॥ ७॥ मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः । तिस्रो मात्रा -
स्तथा ज्ञेयाः सोमसूर्याग्निरूपिणः ॥ ८ ॥ शिखा तु दीपसंकाशा तस्मिन्नुपरि
वर्तते । अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ ९ ॥ पद्मसूत्रनिभा
सूक्ष्मा शिखा सा दृश्यते परा । सा नाडी सूर्यसंकाशा सूर्य भित्त्वा तथापरा
॥ १० ॥ द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि । वरदः सर्वभूतानां सर्व
व्याप्यावतिष्ठति ॥ ११ ॥ कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । ओका-
रस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ १२ ॥ यस्मिन्विलीयते शब्दस्त -
परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥ १३ ॥ वायुः</p>
<pb n="308" />
<p>ब्रह्मविद्योपनिषत् ॥ ४२ ॥</p>
<p>आणस्तथाकाशस्त्रिविधो जीवसंज्ञकः । स जीवः प्राण इत्युक्तो वालाग्रशत-
कल्पितः ॥ १४ ॥ नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् । आदित्यमिव
दीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥ १५ ॥ सकारं च हकारं च जीवो जपति
सर्वदा । नाभिरन्धाद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥ १६ ॥ तेनेदं निष्कलं
'विद्यात्क्षीरात्सर्पिर्यथा तथा । कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः
॥ १७ ॥ चतुष्कलासमायुक्तो भ्राम्यते च हृदि स्थितः । गोलकस्तु यदा
देहे क्षीरदण्डेन वा हतः ॥ १८ ॥ एतस्मिन्वसते शीघ्रमविश्रान्तं महा-
खगः । यावन्निःश्वसितो जीवस्तावन्निष्कलतां गतः ॥ १९ ॥ नभस्थं निष्कलं
ध्यात्वा मुच्यते भवबन्धनात् । अनाहतध्वनियुतं हंसं यो वेद हृद्गतम्
॥ २० ॥ स्वप्रकाशचिदानंदं स हंस इति गीयते । रेचकं पूरकं मुक्त्वा
कुम्भकेन स्थितः सुधीः ॥ २१ ॥ नाभिकन्दे समौ कृत्वा प्राणापानौ
समाहितः । मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ २२ ॥ दीपाकारं
'महादेवं ज्वलन्तं नाभिमध्यमे । अभिषिच्यामृतेनैव हंस हंसेति यो जपेत्
॥ २३ ॥ जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणि-
मादिविभूतये ॥ २४ ॥ ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् । बहवो
नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥ २५ ॥ हंसविद्यामृते लोके नास्ति
नित्यत्वसाधनम् । यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥ २६ ॥
तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह । शुभं वाऽशुभमन्यद्वा यदुक्तं
गुरुणा भुवि ॥ २७ ॥ तत्कुर्यादविचारेण शिष्यः संतोषसंयुतः । हंसविद्या-
मिमां लब्ध्वा गुरुशुश्रूषया नरः ॥ २८ ॥ आत्मानमात्मना साक्षाद्रह्म बुद्धा
सुनिश्चलम् । देहजात्यादिसंबन्धान्वर्णाश्रमसमन्वितान् ॥ २९ ॥ वेदशास्त्राणि
चान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः
॥ ३० ॥ गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छ्रुतिः ॥ ३१ ॥ श्रुत्या यदुक्तं
परमार्थमेव तत्संशयो नात्र ततः समस्तम् । श्रुत्या विरोधे न भवेत्प्रमाणं
भवेदनर्थाय विना प्रमाणम् ॥ ३२ ॥ देहस्थः सकलो ज्ञेयो निष्कलो देहव-
र्जितः । आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥ ३३ ॥ हंसहंसेति यो
ब्रूयाद्धंसो ब्रह्मा हरिः शिवः । गुरुवक्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥३४॥
तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरेऽस्मिन्स बाह्या-
स्यन्तरे तथा ॥ ३५ ॥ उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् ।</p>
<pb n="309" />
<p>ईशाद्युपनिषत्सु -
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ३६ ॥ पुष्पवत्सकलं विद्याग-
न्धस्तस्य तु निष्कलः । वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥ ३७ ॥
निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयश्चैव
निष्कलः ॥ ३८ ॥ सकले सकलो भावो निष्कले निष्कलस्तथा । एकमात्रो
द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥ ३९ ॥ अर्धमात्रा परा ज्ञेया तत ऊर्ध्व
परात्परम् । पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥ ४० ॥ ब्रह्मणो हृदयस्थानं
कण्ठे विष्णुः समाश्रितः । तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥४१॥
नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् । परत्वात्तु परं नास्तीत्येकं
शास्त्रस्य निर्णयः ॥ ४२ ॥ देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् ।
तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥ ४३ ॥ मनोऽप्यन्यत्र निक्षिप्तं
चक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥ ४४ ॥
एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । नातः परतरं किंचिन्नातः परतरं
शुभम् ॥ ४५ ॥ शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । गुह्याद्गुह्य-
तमं गोप्यं ग्रहणीयं प्रयत्नतः ॥ ४६ ॥ नापुत्राय प्रदातव्यं नाशिष्याय
कदाचन । गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥ ४७ ॥ प्रदातव्यमिदं
शास्त्रं नेतरेभ्यः प्रदापयेत् । दाताऽस्य नरकं याति सिच्यते न कदाचन ॥ ४८ ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमा-
क्षरवित्सदा ॥ ४९ ॥ विषयी विषयासक्तो याति देहान्तरे शुभम् । ज्ञाना-
देवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥ ५० ॥ ब्रह्महत्याश्वमेधाद्यैः पुण्य-
पापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ ५१ ॥ इत्येषां
त्रिविधो ज्ञेय आचार्यस्तु महीतले । चोदको दर्शयेन्मार्ग बोधकः स्थानमा -
चरेत् ॥ ५२ ॥ मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्रुते । प्रत्यक्षयजनं देहे
संक्षेपाच्छृणु गौतम ॥ ५३ ॥ तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् ।
स्वयमेव तु संपश्येद्देहे बिन्दुं च निष्कलम् ॥ ५४ ॥ अयने द्वे च विषुवे सदा
पश्यति मार्गवित् । कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥ ५५ ॥ पूर्व
चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत्
॥ ५६ ॥ सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । ज्ञानात्सायुज्यमेवोक्तं
तोये तोयं यथा तथा ॥ ५७ ॥ एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः ।
तस्माद्योगं समादाय सर्वदुः खबहिष्कृतः ॥ ५८ ॥ योगध्यानं सदा कृत्का</p>
<pb n="310" />
<p>ब्रह्मविद्योपनिषत् ॥ ४२ ॥</p>
<p>ज्ञानं तन्मयतां व्रजेत् । ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥ ५९ ॥
प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । हंस एव परं सत्यं हंस एव
तु शक्तिकम् ॥ ६० ॥ हंस एव परं वाक्यं हंस एव तु वादिकम् । हंस एव
परो रुद्रो हंस एव परात्परम् ॥ ६१ ॥ सर्वदेवस्य मध्यस्थो हंस एव महे-
श्वरः । पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥ ६२ ॥ कूटान्ता हंस
एव स्यान्मातृकेति व्यवस्थिताः । मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित्
॥ ६३ ॥ हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् । दक्षिणामुखमाश्रित्य
ज्ञानमुद्रां प्रकल्पयेत् ॥ ६४ ॥ सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् ।
निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥ ६५ ॥ मध्यदेशे परं हंसं ज्ञानमु-
द्वात्मरूपकम् । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६६ ॥ पञ्च-
कर्मेन्द्रियैर्युक्ताः क्रियाशक्तिबलोद्यताः । नागः कूर्मश्च कूकरो देवदत्तो धनंजयः
॥ ६७ ॥ पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः । पावकः शक्तिमध्ये तु
नाभिचक्रे रविः स्थितः ॥ ६८ ॥ बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने ।
अकारे वह्निरित्याहुरुकारे हृदि संस्थितः ॥ ६९ ॥ मकारे च भ्रुवोर्मध्ये
प्राणशक्त्या प्रबोधयेत् । ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ ७० ॥
रुद्रग्रन्थिभ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारे
विष्णुरास्थितः ॥ ७१ ॥ मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः ।
कण्ठं संकुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥ ७२ ॥ रसना पीड्यमा-
नेयं षोडशी वोर्ध्वगामिनी । त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा
॥ ७३ ॥ त्रिशङ्खवज्रमोंकारमूर्ध्वनालं भ्रुवोर्मुखम् । कुण्डलीं चालयन्प्राणा-
न्भेदयन्शशिमण्डलम् ॥ ७४ ॥ साधयन्वज्रकुम्भानि नव द्वाराणि बन्धयेत् ।
सुमनः पवनारूढः सरागो निर्गुणस्तथा ॥ ७५ ॥ ब्रह्मस्थाने तु नादः स्याच्छा-
कंप्यमुतवर्षेणी । षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥ ७६ ॥ सर्व-
भूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । आत्मरूपं तमालोक्य ज्ञानरूपं निरा-
मयम् ॥ ७७ ॥ दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः । हंस हंस बढ़े-
द्वाक्यं प्राणिनां देहमाश्रितः । सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥ ७८ ॥
सहस्त्रमेकं द्व्ययुतं षट्शतं चैव सर्वदा । उच्चरन्पठितो हंसः सोऽहमित्यभिधी-
यते ॥ ७९ ॥ पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् । ज्योतिर्लिंगं
भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥ ८० ॥ अच्युतोऽहमचिन्त्योऽहमत क्यों-</p>
<pb n="311" />
<p>ईशायुपनिषत्सु -
ऽहमजोऽस्म्यहम् । अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ८१ ॥
अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः । अरसोऽहमगन्धोऽहमनादिरमृ-
तोऽस्म्यहम् ॥ ८२ ॥ अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्रा-
णोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ८३ ॥ अन्तर्याम्यहमग्राह्यो-
ऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागद्दम् ॥ ८४ ॥
अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमद्दष्टोऽहमन्वेष्टव्योऽ-
मरोऽस्म्यहम् ॥ ८५ ॥ अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अम-
तोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ८६ ॥ अरजस्को तमस्कोऽहमस-
श्वोऽस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ ८७ ॥
अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः । अश्रोताऽहमदीर्घोऽहमव्यक्तोऽहम-
नामयः ॥ ८८ ॥ अगवन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहम-
लेपोऽहमकर्तास्म्यहमद्वयः ॥ ८९ ॥ अविद्याकार्यहीनोऽहमवाग्रसनगोचरः ।
अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥ ९० ॥ आदिमध्यान्तही-
नोऽहमाकाशसदृशोऽस्म्यहम् । आत्मचैतन्यरूपोऽहमहमानन्दचिद्वनः ॥९१॥
आनन्दामृतरूपोऽहमात्मसंस्थोऽहमन्तरः । आत्मकामोऽहमाकाशात्पर-
मात्मेश्वरोऽस्म्यहम् ॥ ९२ ॥ ईशानोऽस्म्यहमीढ्योऽहमहमुत्तमपूरुषः ।
उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥ ९३ ॥ केवलोऽहं कविः कर्मा-
ध्यक्षोऽहं करणाधिपः । गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥ ९४ ॥
चिदानन्दोऽस्म्यहं चेता चिद्वनश्चिन्मयोऽस्म्यहम् । ज्योतिर्मयोऽस्म्यहं
ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ ९५ ॥ तमसः साक्ष्यहं तुर्यतुर्योऽहं
तमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥ ९६ ॥
नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽ-
sहं निराख्यातोऽस्मि निश्चलः ॥ ९७ ॥ निर्विकारो नित्यपूतो निर्गुणो नि-
स्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ ९८ ॥
पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्राज्ञः प्रपञ्चो-
पशमोsस्म्यहम् ॥ ९९ ॥ परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः ।
पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ १०० ॥ प्रज्ञातोऽहं प्रशा-
न्तोऽहं प्रकाशः परमेश्वरः । एकधा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः
॥ १०१ ॥ बुद्धोऽहं भूतपालोऽहं भारूपोऽहं भगवानहम् । महाज्ञेयो महा-
1</p>
<pb n="312" />
<p>योगतत्वोपनिषत् ॥ ४३ ॥</p>
<p>नस्मि महाज्ञेयो महेश्वरः ॥ १०२ ॥ विमुक्तोऽहं विभुरहं वरेण्यो ब्या-
पकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ १०३ ॥
विश्वाधिकोऽहं विदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तो-
ऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ १०४ ॥ सर्वभूतान्तरात्माहमहंमस्मि
सनातनः । अहं सकृद्विभातोऽस्मि स्त्रे महिनि सदा स्थितः ॥ १०५ ॥
सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् । सर्वभूताधिवासोऽहं स-
व्यापी स्वराडहम् ॥ १०६ ॥ समस्तसाक्षी सर्वात्मा सर्वभूतगुहा-
शयः । सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ १०७ ॥ स्थानत्रयव्यती-
तोऽहं सर्वानुग्राहकोऽस्म्यहम् । सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम्
॥ १०८ ॥ सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्वनः । सत्त्वस्वरूपस-
न्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥ १०९ ॥ सर्वाधिष्ठानसन्मानः स्वात्मबन्धहरो -
ऽस्म्यहम् । सर्वप्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥ ११० ॥ एवं यो
वेद तत्त्वेन स वै पुरुष उच्यते इत्युपनिषत् ॥ ॐ सह नाववत्विति शान्तिः ॥
इति ब्रह्मविद्योपनिषत्समाप्ता ॥ ४२ ॥</p>
<lg>
  <l>योगतच्चोपनिषत् ॥ ४३ ॥</l>
  <l>योगेश्वर्य च कैवल्यं जायते यत्प्रसादतः ।</l>
  <l>तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छ्रुत्वा च पठित्वा
च सर्वपापैः प्रमुच्यते ॥ १ ॥ विष्णुर्नाम महायोगी महाभूतो महातपाः ।
तमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २ ॥ तमाराध्य जगन्नाथं प्रणि-
पत्य पितामहः । पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुक्तम् ॥ ३ ॥ तमु-
वाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः । सर्वे जीवाः सुखैर्दुःखैर्माया-
जालेन वेष्टिताः ॥ ४ ॥ तेषां मुक्तिकरं मार्ग मायाजालनिकृन्तनम् ।
जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम् ॥ ५ ॥ नानामार्गैस्तु दुष्प्रापं
कैवल्यं परमं पदम् । पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ ६॥
अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि । स्वात्मप्रकाशरूपं तत्किं शा-</p>
<pb n="313" />
<p>ईशाद्युपनिषत्सु -
स्त्रेण प्रकाश्यते ॥ ७ ॥ निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ।
तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ॥ ८ ॥ परमात्मपदं नित्यं तत्कथं
जीवतां गतम् ॥ सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ९ ॥ वारिवत्स्फुरितं
तस्मिंस्तत्राहंकृतिरुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥ १० ॥
सुखदुःखैः समायुक्तं जीवभावनया कुरु । तेन जीवाभिधा प्रोक्ता विशुद्धैः
परमात्मनि ॥ ११ ॥ कामक्रोधभयं चापि मोहलोभमदो रजः । जन्म
मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ १२ ॥ तृष्णा लज्जा भयं दुःखं
विषादो हर्ष एव च । एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥ १३ ॥
तस्माद्दोषविनाशार्थमुपायं कथयामि ते । योगहीनं कथं ज्ञानं मोक्षदं भवति
ध्रुवम् ॥ १४ ॥ योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि । तस्माज्ज्ञानं
च योगं च मुमुक्षुर्दृढमभ्यसेत् ॥ १५ ॥ अज्ञानादेव संसारो ज्ञानादेव
विमुच्यते । ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् ॥ १६ ॥ ज्ञातं येन निजं
रूपं कैवल्यं परमं पदम् । निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् ॥ १७ ॥
उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् । एतज्ज्ञानमिति प्रोक्तमथ योगं
ब्रवीमि ते ॥ १८ ॥ योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः । मन्त्रयोगो
लयश्चैव हठोऽसौ राजयोगतः ॥ १९ ॥ आरम्भश्च घटश्चैव तथा परिचयः
स्मृतः । निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता ॥ २० ॥ एतेषां लक्षणं
ब्रह्मन्वक्ष्ये शृणु समासतः । मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत्
॥ २१ ॥ क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् । अल्पबुद्धिरिमं योगं
सेवते साधकाधमः ॥ २२ ॥ लययोगश्चित्तलयः कोटिशः परिकीर्तितः ।
गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम् ॥ २३ ॥ स एव लययोगः स्या-
ठयोगमतः शृणु । यमश्च नियमश्चैव आसनं प्राणसंयमः ॥ २४ ॥ प्रत्याहारो
धारणा च ध्यानं भ्रूमध्यमे हरिम् । समाधिः समतावस्था साष्टाङ्गो योग
उच्यते ॥ २५ ॥ महामुद्रा महाबन्धो महावेधश्च खेचरी । जालंधरोड्डियाणश्च
मूलबन्धस्तथैव च ॥ २६ ॥ दीर्घप्रणवसंधानं सिद्धान्तश्रवणं परम् । वज्रोली
चामरोली च सहजोली त्रिधा मता ॥ २७ ॥ एतेषां लक्षणं ब्रह्मन्प्रत्येकं
शृणु तत्त्वतः । लघ्वाहारो यमेष्वेको मुख्यो भवति नेतरः ॥ २८ ॥ अहिंसा
मुख्या वै चतुरानन । सिद्धं पद्मं तथा सिंह भद्रं चेति चतुष्टयम्
॥ २९ ॥ प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन । आलस्यं कत्थनं धूर्त-</p>
<pb n="314" />
<p>योगतत्त्वोपनिषत् ॥ ४३ ॥</p>
<p>गोष्ठी मन्त्रादिसाधनम् ॥ ३० ॥ धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै ।
ज्ञात्वा सुधीस्त्यजेत्सर्वान्विनान्पुण्यप्रभावतः ॥ ३१ ॥ प्राणायामं ततः
कुर्यात्पद्मासनंगतः स्वयम् । सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्वणम् ॥ ३२ ॥
सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः । मत्कुणैर्मशकैलूतैर्वर्जितं च प्रयत्नतः
॥ ३३ ॥ दिने दिने च संमृष्टं संमार्जन्या विशेषतः । वासितं च सुगन्धेन
धूपितं गुग्गुलादिभिः ॥ ३४ ॥ नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।
तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥ ३५ ॥ ऋजुकायः प्राञ्जलिश्च
प्रणमेदिष्टदेवताम् । ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥ ३६ ॥ निरुध्य
पूरयेद्वायुमिडया तु शनैः शनैः । यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम्
॥ ३७॥ पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरं
शनैः ॥ ३८ ॥ धारयित्वा यथाशक्ति रेचयेदिडया शनैः । यया त्यजेत्तयापूर्य
धारयेदविरोधतः ॥ ३९ ॥ जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥ ४० ॥ इडया वायुमारोप्य शनैः-
षोडशमात्रया । कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥ ४१ ॥ रेचये--
त्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः । पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः
॥ ४२ ॥ प्रातर्मध्यंदिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं
समभ्यसेत् ॥ ४३ ॥ एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् । यदा तु.
नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥ ४४ ॥ जायन्ते योगिनो देहे तानि
वक्ष्याम्यशेषतः । शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् ॥ ४५ ॥ कृशत्वं च
शरीरस्य तदा जायेत निश्चितम् । योगविघ्नकराहारं वर्जयेद्योगवित्तमः ॥ ४६ ॥
लवणं सर्षपं चामलमुष्णं रूक्षं च तीक्ष्णकम् । शाकजातं रामठादि वह्निस्त्री--
पथसेवनम् ॥ ४७ ॥ प्रातः स्नानोपवासादिकायक्लेशांश्च वर्जयेत् । अभ्यास-
काले प्रथमं शस्तं क्षीराज्यभोजनम् ॥ ४८ ॥ गोधूममुद्गशात्यन्नं योगवृद्धिकरं
'विदुः । ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ ४९ ॥ यथेष्टधारणा-
द्वायोः सिध्येत्केवलकुम्भकः । केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥ ५० ॥ न
तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते । प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत्..
॥ ५१ ॥ ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः । कम्पो भवति देहस्य
आसनस्थस्य देहिनः ॥ ५२ ॥ ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते ।
यथा च दुर्दुरो भाव उत्प्लुत्योत्लुत्य गच्छति ॥ ५३ ॥ पद्मासनस्थितो योगी तथा</p>
<pb n="315" />
<p>ईशाद्युपनिषत्सु -
गच्छति भूतले । ततोऽधिकतराभ्यासाद्भूमित्यागश्च जायते ॥ ५४ ॥ पद्मास-
नस्थ एवासौ भूमिमुत्सृज्य वर्तते । अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत्
॥ ५५ ॥ न दर्शयेच्च सामर्थ्य दर्शनं वीर्यवत्तरम् । स्वल्पं वा बहुधा दुःखं
योगी न व्यथते तदा ॥ ५६ ॥ अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलवो
दूषिका लाला स्वेददुर्गन्धतानने ॥ ५७ ॥ एतानि सर्वथा तस्य न जायन्ते
ततः परम् । ततोऽधिकतराभ्यासाद्धलमुत्पद्यते बहु ॥ ५८ ॥ येन भूचर-
सिद्धिः स्याद्भूचराणां जये क्षमः । व्याघ्रो वा शरभो वापि गजो गवय एव वा
॥ ५९ ॥ सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः । कन्दर्पस्य यथा रूपं
तथा स्यादपि योगिनः ॥ ६० ॥ तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् ।
यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥ ६१ ॥ वर्जयित्वा स्त्रियाः सङ्गं
कुर्यादभ्यासमादरात् । योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥ ६२ ॥
ततो रहस्युपाविष्टः प्रणवं लुतमात्रया । जपेत्पूर्वार्जितानां तु पापानां नाश-
हेतवे ॥ ६३ ॥ सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा । एवमभ्यासयोगेन
सिद्धिरारम्भसंभवा ॥ ६४ ॥ ततो भवेद्धठावस्था पवनाभ्यासतत्परा । प्राणो-
पानो मनो बुद्धिर्जीवात्मपरमात्मनोः ॥ ६५ ॥ अन्योन्यस्याविरोधेन एकता
घटते यदा । हठावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् ॥ ६६ ॥
पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् । दिवा वा यदि वा सायं याम-
मात्रं समभ्यसेत् ॥ ६७ ॥ एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् । इन्द्रि
'याणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ॥ ६८ ॥ योगी कुम्भकमास्थाय प्रत्या-
'हारः स उच्यते । यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् ॥ ६९ ॥ यद्य-
च्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् । लभते नासया यद्यत्तत्तदात्मेति
भावयेत् ॥ ७० ॥ जिह्वया यदसं ह्यत्ति तत्तदात्मेति भावयेत् । त्वचा यद्य-
त्स्पृशेद्योगी तत्तदात्मेति भावयेत् ॥ ७१ ॥ एवं ज्ञानेन्द्रियाणां तु तत्तत्सौख्यं
सुसाधयेत् । याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥ ७२ ॥ यथा वा
'चित्तसामर्थ्यं जायते योगिनो ध्रुवम् । दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरागमस्तथा
॥ ७३ ॥ वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा । मलमूत्रप्रलेपेन लोहादेः
स्वर्णता भवेत् ॥ ७४ ॥ खे गतिस्तस्य जायेत संतताभ्यासयोगतः । सदा
बुद्धिमता भाव्यं योगिना योगसिद्धये ॥ ७५ ॥ एते विघ्ना महासिद्धेर्न रमे-
तेषु बुद्धिमान् । न दर्शयेत्स्वसामर्थ्यं यस्यकस्यापि योगिराह ॥ ७६ ॥ यथा</p>
<pb n="316" />
<p>योगतत्त्वोपनिषत् ॥ ४३ ॥</p>
<p>मूढो यथा ह्यन्धो यथा बधिर एव वा । तथा वर्तेत लोकस्य स्वसामर्थ्यस्य
गुप्तये ॥ ७७ ॥ शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः । तत्तत्कर्मकर-
व्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् ॥ ७८ ॥ अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तद्-'
हर्निशम् । एवं भवेद्धठावस्था संतताभ्यासयोगतः ॥ ७९ ॥ अनभ्यासव-
तश्चैव वृथागोष्ठ्या न सिद्ध्यति । तस्मात्सर्वप्रयलेन योगमेव सदाभ्यसेत्
॥ ८० ॥ ततः परिचयावस्था जायतेऽभ्यासयोगतः । वायुः परिचितो यत्ता-
दद्मिना सह कुण्डलीम् ॥ ८१ ॥ भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः ।
वायुना सह चित्तं च प्रविशेच्च महापथम् ॥ ८२ ॥ यस्य चित्तं स्वपवनं
सुषुम्नां प्रविशेदिह । भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः ॥ ८३ ॥ येषु
पञ्चसु देवानां धारणा पञ्चधोच्यते । पादादि जानुपर्यन्तं पृथिवी स्थानमुच्यते
॥ ८४ ॥ पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् । पार्थिवे वायुमारोप्य लका-
रेण समन्वितम् ॥ ८५ ॥ ध्यायंश्चतुर्भुजाकारं चतुर्वक्रं हिरण्मयम् । धारये-
त्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ॥ ८६ ॥ पृथिवीयोगतो मृत्युर्न भवे-
दस्य योगिनः । आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ ८७ ॥
आपोऽर्धचन्द्रं शुक्लं च वं बीजं परिकीर्तितम् । वारुणे वायुमारोप्य वकारेण
समन्वितम् ॥ ८८ ॥ स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् । शुद्धस्फटिक-
संकाशं पीतवाससमच्युतम् ॥ ८९ ॥ धारयेत्पञ्च घटिकाः सर्वपापैः प्रमु-
च्यते । ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते ॥ ९० ॥ आ पायोर्हृदयान्तं च
वह्निस्थानं प्रकीर्तितम् । वह्नित्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् ॥ ९१ ॥ वह्नौ
चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् । त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम्
॥९२॥ भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् । धारयेत्पञ्च घटिका वह्निनासौ
न दह्यते ॥९३॥ न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले । आ हृदयानुवोर्मध्यं
वायुस्थानं प्रकीर्तितम् ॥ ९४ ॥ वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् ।
मारुतं मरुतां स्थाने यकाराक्षरभासुरम् ॥ ९५ ॥ धारयेत्तत्र सर्वज्ञमीश्वरं
विश्वतोमुखम् । धारयेत्पञ्च घटिका वायुवद्व्योमगो भवेत् ॥९६॥ मरणं न तु
वायोश्च भयं भवति योगिनः । आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते
॥ ९७ ॥ व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् । आकाशे वायुमारोप्य
हकारोपरि शंकरम् ॥ ९८ ॥ बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ।
शुद्धस्फटिकसंकाशं धृतबालेन्दुमौलिनम् ॥ ९९ ॥ पञ्चवक्रयुतं सौम्यं दश-</p>
<pb n="317" />
<p>ईशाद्युपनिषत्सु -
बाहुं त्रिलोचनम् । सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् ॥ १०० ॥ उमार्ध-
देहं वरदं सर्वकारणकारणम् । आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् ॥१०१॥
यत्रकुत्र स्थितो वापि सुखमत्यन्तमश्नुते । एवं च धारणाः पञ्च कुर्याद्योगी
विचक्षणः ॥ १०२ ॥ ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते । ब्रह्मणः
प्रलयेनापि न सीदति महामतिः ॥ १०३ ॥ समभ्यसेत्तथा ध्यानं घटिका-
षष्टिमेव च । वायुं निरुध्य चाकाशे देवतामिष्टदामिति ॥ १०४ ॥ सगुणं
ध्यानमेतत्स्यादणिमादिगुणप्रदम् । निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत्
॥ १०५ ॥ दिनद्वादशकेनैव समाधिं समवाप्नुयात् । वायुं निरुध्य
जीवन्मुक्तो भवत्ययम् ॥ १०६ ॥ समाधिः समतावस्था जीवात्मपर-
मात्मनोः । यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् ॥ १०७ ॥ परब्रह्मणि
लीयेत न तस्योत्क्रान्तिरिष्यते । अथ नो चेत्समुत्त्रष्टुं स्वशरीरं प्रियं यदि.
॥ १०८ ॥ सर्वलोकेषु विहरन्नणिमादिगुणान्वितः । कदाचित्स्वेच्छया देवो
-भूत्वा स्वर्गे महीयते ॥ १०९ ॥ मनुष्यो वापि यक्षो वा स्वेच्छयापीक्षणा-
द्भवेत् । सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् ॥ ११० ॥ यथेष्ट-
भेव वर्तेत यद्वा योगी महेश्वरः । अभ्यासभेदतो भेदः फलं तु सममेव हि
॥ ११३ ॥ पाष्णि वामस्य पादस्य योनिस्थाने नियोजयेत् । प्रसार्य दक्षिणं
पादं हस्ताभ्यां धारयेद्दृढम् ॥ ११२ ॥ चुबुकं हृदि विन्यस्य पूरयेद्वायुना
पुनः । कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् ॥ ११३ ॥ वामाङ्गेन सम-
भ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् । प्रसारितस्तु यः पादस्तमूरुपरि नामयेत्
॥ ११४ ॥ अयमेव महाबन्ध उभयत्रैवमभ्यसेत् । महाबन्धस्थितो योगी
कृत्वा पूरकमेकधीः ॥ ११५ ॥ वायुना गतिमावृत्य निभृतं कर्णमुद्रया ।
पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ११६ ॥ अयमेव महावेधः
सिद्धैरभ्यस्यतेऽनिशम् । अन्तःकपालकुहरे जिह्वां व्यावृत्य धारयेत् ॥ ११७ ॥
भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी । कण्ठमाकुचय हृदये स्थापयेद्दृढया
धिया ॥ ११८ ॥ बन्धो जालंधराख्योऽयं मृत्युमातङ्गकेसरी । बन्धो येन
सुषुम्नायां प्राणस्तु ड्डीयते यतः ॥ ११९ ॥ उड्यानाख्यो हि बन्धोऽयं योगिभिः
समुदाहृतः । पाणिभागेन संपीड्य योनिमाकुञ्चयेद्दृढम् ॥ १२० ॥ अपान-
· मूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते । प्राणापानौ नादबिन्दु मूलबन्धेन चैक-
ताम् ॥ १२१ ॥ गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः । करणी विप-</p>
<pb n="318" />
<p>योगतत्त्वोपनिषत् ॥ ४३ ॥</p>
<p>रीताख्या सर्वव्याधिविज्ञानी ॥ १२२ ॥ नित्यमभ्यासयुक्तस्य जाठराग्निवि-
वर्धनी । आहारो बहुलस्तस्य संपाद्यः साधकस्य च ॥ १२३ ॥ अल्पाहारो
यदि भवेदनिर्देहं हरेत्क्षणात् । अधः शिरश्श्रोर्ध्वपादः क्षणं स्यात्प्रथमे दिने
॥ १२४ ॥ क्षणाच्च किंचिदधिकमभ्यसेत्त दिने दिने । वली च पलितं चैव
षण्मासान दृश्यते ॥ १२५ ॥ याममात्रं तु यो नित्यमभ्यसेत्स तु काल-
जित् । वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् ॥ १२६ ॥ लभ्यते यदि
तस्यैव योगसिद्धिः करे स्थिता । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम्
॥ १२७ ॥ अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीमभ्यसेन्नि-
त्यममरोलीति कथ्यते ॥ १२८ ॥ ततो भवेद्राजयोगो नान्तरा भवति
ध्रुवम् । यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया ॥ १२९ ॥ तदा विवे-
कवैराग्यं जायते योगिनो ध्रुवम् । विष्णुर्नाम महायोगी महाभूतो महातपाः
॥ १३० ॥ तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः । यः स्तनः पूर्वपीतस्तं
निष्पीड्य मुदमश्रुते ॥ १३१ ॥ यस्माज्जातो भगात्पूर्वं तस्मिन्नैव भगे रमन् ।
या माता सा पुनर्भार्या या भार्या मातरेव हि ॥ १३२ ॥ यः पिता स पुनः
पुत्रो यः पुत्रः स पुनः पिता । एवं संचारचक्रेण कूपचक्रे घटा इव ॥ १३३ ॥
भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते । त्रयो लोकास्त्रयो वेदास्तिस्रः
संध्यास्त्रयः स्वराः ॥ १३४ ॥ त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे ।
त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् ॥ १३५ ॥ तेन सर्वमिदं प्रोतं
तत्सत्यं तत्परं पदम् । पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ॥ १३६ ॥
तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् । हृदि स्थाने स्थितं पद्मं तस्य
वक्रमधोमुखम् ॥ १३७ ॥ ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः ।
अकारे रेचितं पद्ममुकारेणैव भिद्यते ॥ १३८ ॥ मकारे लभते नादमर्धमात्रा
तु निश्चला । शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ १३९ ॥ लभते
योगयुक्तात्मा पुरुषस्तत्परं पदम् । कूर्मः स्वपाणिपादादि शिरश्चात्मनि धारयेत्
॥ १४० ॥ एवं द्वारेषु सर्वेषु वायुपूरित रेचितः । निषिद्धं तु नवद्वारे ऊर्ध्व
प्राङ्घ्रिश्वसंस्तथा ॥ १४१ ॥ घटमध्ये यथा दीपो निवातं कुम्भकं विदुः ।
निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे ॥ १४२ ॥ निश्चितं त्वात्ममात्रेणावशिष्टं
योगसेवयेत्युपनिषत् ॥ ॐ सह नाववत्विति शान्तिः ॥
इति योगतत्त्वोपनिषत्समाप्ता ॥ ४३ ॥</p>
<pb n="319" />
<p>ईशाद्युपनिषत्सु -</p>
<lg>
  <l>आत्मप्रबोधोपनिषत् ॥ ४४ ॥</l>
  <l>श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् ।</l>
  <l>स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥ १॥</l>
  <l>ॐ वाले मनसीति शान्तिः ॥</l>
</lg>
<p>ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकारो मकार इति त्र्यक्षरं
प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमो
नारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मंत्रोपासको
वैकुण्ठभुवनं गमिष्यति । अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिदाभमात्रं
दीपवत्प्रकाशं ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरी-
काक्षो ब्रह्मण्यो विष्णुरच्युतः ॥ सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं
परं ब्रह्मों । शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति । द्वैताद्वैतमभयं भव-
ति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । हृत्पद्ममध्ये सर्वं य-
तत्प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म । स एतेन
प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानात्वाऽमृतः समः
भवदमृतः समभवत् । यत्र ज्योतिरजस्त्रं यस्मिँल्लोकेऽभ्यर्हितम् । तस्मिन्मां
देहि स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः
॥ १ ॥ प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् । अस्तमिताह-
asहं प्रगलितजगदीशजीवभेदोऽहम् ॥ १ ॥ प्रत्यगभिन्नपरोऽहं विध्वस्ताशे-
विधिनिषेधोऽहम् । समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥ २ ॥
साक्ष्यनपेक्षोऽहं निजमहिम्नि संस्थोऽहमचलोऽहम् । अजरोऽहमव्ययोऽहं
पक्षविपक्षादिभेदविधुरोऽहम् ॥ ३ ॥ अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरे -
बाम् । सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माहम् ॥ ४ ॥ निखे-
गुण्यपदोsहं कुक्षिस्थानेकलोककलनोऽहम् । कूटस्थ चेतनोऽहं निष्क्रियधामा-
हमप्रतक्योंऽहम् ॥ ५ ॥ एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् ।
निरवयवोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥ ६ ॥ निरवधिनिज-
arasहं शुभतर भावोऽहमप्रभेद्योऽहम् । विभुरहमनवद्योऽहं निरवधिनिःसी-
मतत्त्वमात्रोऽहम् ॥ ७ ॥ वेद्योऽहमागमान्तैराराध्यः सकलभुवनहृद्योऽहम् ।
परमानन्दधनोऽहं परमानन्दैकभूमरूपोऽहम् ॥ ८ ॥ शुद्धोऽहमद्वयोऽहं</p>
<pb n="320" />
<p>आत्मप्रबोधोपनिषत् ॥ ४४ ॥</p>
<p>संततभावोऽहमादिशून्योऽहम् । शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहम-
द्भुतात्माहम् ॥ ९ ॥ शुद्धोऽहमान्तरो ऽहं शाश्वत विज्ञानसमरसात्माहम् । शोधि
तपरतत्त्वोsहं बोधानन्दैकमूर्तिरेवाहम् ॥ १० ॥ विवेकयुक्तिबुच्चाहं जाना-
म्यात्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११ ॥
निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । सर्पादौ रज्जुसत्तेव ब्रह्म-
सत्चैव केवलम् । प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥ १२ ॥ यथेक्षु-
रससंव्याप्ता शर्करा वर्तते तथा । अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्रयम्
॥ १३ ॥ ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः । बुद्बुदादिविकारा-
न्तस्तरङ्गः सागरे यथा ॥ १४ ॥ तरङ्गस्थं द्रवं सिन्धुर्न वान्छति यथा तथा ।
विषयानन्दवान्छा मे मा भूदानन्दरूपतः ॥ १५ ॥ दारिद्र्याशा यथा नास्ति
संपन्नस्य तथा मम । ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥ १६ ॥
विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । आत्मानमपि दृड्डाहमनात्मानं
त्यजाम्यहम् ॥ १७ ॥ घटावभासको भानुर्घटनाशे न नश्यति । देहावभा•
सकः साक्षी देहनाशे न नश्यति ॥ १८ ॥ न मे बन्धो न मे मुक्तिर्न
मे शास्त्रं न मे गुरुः । मायामात्र विकासत्वान्मायातीतोऽहमद्वयः ॥ १९॥
प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः । आनन्दबुद्धिपूर्णस्य मम
दुःखं कथं भवेत् ॥ २० ॥ आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायि-
तम् । कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २१ ॥ ब्राह्मण्यं कुलगोत्रे
च नाम सौन्दर्यजातयः । स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥ २२ ॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः । लिङ्गदेहगता एते हालि -
ङ्गस्य न सन्ति हि ॥ २३ ॥ जडत्वप्रियमोदत्वधर्माः कारणदेहगाः । न सन्ति
मम नित्यस्य निर्विकारस्वरूपिणः ॥ २४ ॥ उलूकस्य यथा भानुरन्धकारः प्रती-
यते । स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥ २५ ॥ चतुर्दृष्टिनिरोधेऽभ्रैः
सूर्यो नास्तीति मन्यते । तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ २६ ॥
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते । न स्पृशामि जडाद्भिन्नो जड-
दोषाप्रकाशतः ॥ २७ ॥ स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः । स्वल्पोऽपि
बोधो निबिडं बहुलं नाशयेत्तमः ॥ २८ ॥ कालत्रये यथा सर्पों रज्जौ नास्ति
तथा मयि । अहंकारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥ २९ ॥ चिद्रूपत्वान्न मे
जाड्यं सत्यत्वान्नानृतं मम । आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत्
अ. उ. २०</p>
<pb n="321" />
<p>ईशाद्युपनिषत्सु -
[ उप० १
॥ ३० ॥ आत्मप्रबोधोपनिषन्मुहूर्तमुपासित्वा न स पुनरावर्तते न स पुनरावर्तत
. इत्युपनिषत् ॥ ॐ वाको मनसीति शान्तिः ॥
इत्यात्मप्रबोधोपनिषत्समाप्ता ॥ ४४ ॥</p>
<lg>
  <l>नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</l>
  <l>पारिव्राज्यधर्मपूगालङ्कारा यत्प्रबोधतः ।</l>
  <l>दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>परिव्राट्त्रिशिखी सीताचूडानिर्वाणमण्डलम् । दक्षिणा शरभं स्कन्दं महा-
नारायणाद्वयम् ॥ अथ कदाचित्परित्राजकाभरणो नारदः सर्वलोकसंचारं कुर्व-
पूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थी कुर्वन्नवलोक्य चित्तशुद्धिं प्राप्य निर्वैरः
शान्तो दान्तः सर्वतो निर्वेदमासाद्य स्वरूपानुसंधानमनुसंधाय नियमानन्द-
विशेषगण्यं मुनिजनैरुपसंकीर्णं नैमिषारण्यं पुण्यस्थलमवलोक्य सरिगमपध-
निससंज्ञे वैराग्यबोध करैः स्वरविशेषैः प्रापञ्चिकपरासुखैर्हरिकथालापैः स्थावरज-
ङ्गमनाम कैर्भगवद्भक्तिविशेषैर्न र मृगकिं पुरुषामरकिं नराप्सरोगणान्संमोहयनाग-
तं ब्रह्मात्मजं भगवद्भक्तं नारदमवलोक्य द्वादशवर्षसत्रया गोपस्थिताः श्रुताध्य-
यनसंपन्नाः सर्वज्ञास्तपोनिष्ठापराश्च ज्ञानवैराग्यसंपन्नाः शौनकादिमहर्षयः
प्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा स्वयं सर्वेऽप्युपविष्टा
भो भगवन् ब्रह्मपुत्र कथं मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान् स होवाच
नारदः सत्कुलभवोपनीतः सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्संस्कार संपन्नः
स्वाभिमतैकगुरुसमीपे स्वशाखाध्ययनपूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशव-
शुश्रूषापूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गार्हस्थ्यं पञ्चविंशतिवत्सरं वानप्र-
स्थाश्रमं तद्विधिवत्क्रमान्निर्वर्त्य चतुर्विधब्रह्मचयं षड्विधं गार्हस्थ्यं चतुर्विधं वा-
नप्रस्थधर्मं सम्यगभ्यस्य तदुचितं कर्म सर्वं निर्वर्त्य साधनचतुष्टयसंपन्नः सर्व-
संसारोपरि मनोवाक्कायकर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरः
शान्तो दान्तः संन्यासी परमहंसाश्रमेणास्खलित स्वस्वरूपध्यानेन देहत्यागं
करोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥ १ ॥
इति नारदपरिव्राजकोपनिषत्सु प्रथमोपदेशः ॥ १ ॥</p>
<pb n="322" />
<p>उप० ३]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>अथ हैनं भगवन्तं नारदं सर्वे शौनकादयः पप्रच्छुर्भो भगवन् संन्यास विधिं
नो ब्रूहीति तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव ज्ञातुमुचितमि-
त्युक्त्वा सत्रयागपूर्त्यनन्तरं तैः सह सत्यलोकं गत्वा विधिवद्ब्रह्मनिष्ठापरं परमेष्ठिनं
नवा स्तुत्वा यथोचितं तदाज्ञया तैः सहोपविश्य नारदः पितामहमुवाच
गुरुस्त्वं जनकस्त्वं सर्वविद्यारहस्यज्ञः सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यमेकं
वक्तव्यं त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः । किमिति चेत् पारिव्राज्य-
'स्वरूपक्रमं नो ब्रूहीति नारदेन प्रार्थितः परमेष्ठी सर्वतः सर्वानवलोक्य मुहू-
र्तमात्रं समाधिनिष्ठो भूत्वा संसारार्तिनिवृत्त्यन्वेषण इति निश्चित्य नारदमव-
लोक्य तमाह पितामहः । पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिश-
याकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं ते विविच्योच्यते तत्क्रममतिर -
हस्यं बाढमवहितो भूत्वा श्रूयतां भो नारद विधिवदादावनुपनीतोपनयनान-
न्तरं तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र सत्संप्रदायस्थं
श्रद्धावन्तं सत्कुलभवं श्रोत्रियं शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासार्थ
नत्वा यथोपयोग शुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य द्वादशवर्षसेवापुरःसरं
सर्व विद्याभ्यासं कृत्वा तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य पञ्च-
'विंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया गृहस्थोचितकर्म कुर्वन्दौर्ब्रह्म-
ण्यनिवृत्तिमेत्य स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचितपञ्चविंशतिव-
रसरं तीर्त्वा ततः पञ्चविंशतिवत्सरपर्यन्तं त्रिषवणमुदकस्पर्शनपूर्वकं चतुर्थका-
लमेकवारमाहारमाहरन्नयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तन संचारं विहाय
'निकिर (?) विरहिततदाश्रितकर्मोचितकृत्यं निर्वर्त्य दृष्टश्रवण विषयवैतृष्ण्यमेत्य
चत्वारिंशत्संस्कार संपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहंकारं दग्ध्वा :
-साधनचतुष्टयसंपन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥ २ ॥
इति नारदपरिव्राजकोपनिषत्सु द्वितीयोपदेशः ॥ २॥
अथ हैनं नारदः पितामहं पप्रच्छ भगवन् केन संन्यासाधिकारी वेत्येवमादौ
संन्यासाधिकारिणं निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः शृणु । अथ
`घण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः पाषण्डश्चक्री लिङ्गी वैखा-
नसहरद्विजौ भृतकाध्यापकः शिपिविष्टोऽनझिको वैराग्यवन्तोऽप्येते न संन्या-
सार्हाः संन्यस्ता यद्यपि महावाक्योपदेशेनाधिकारिणः पूर्वसंन्यासी परमहंसा-
धिकारी ॥ परेणैवात्मनश्चापि परस्यैवात्मना तथा । अभयं समवाप्नोति स
परिव्राडिति स्मृतिः ॥ १ ॥ षण्ढोऽथ विकलोऽप्यन्धो बालकश्चापि पातकी ।</p>
<pb n="323" />
<note>३०८.</note>
<p>ईशाधुपनिषत्सु
[ उप० ३:
पतितश्च परद्वारी वैखानसहरद्विजौ ॥ २ ॥ चत्री लिङ्गी च पाषण्डी शिपि-
विष्टोऽप्यननिकः । द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च ।
नार्हन्ति संन्यासमातुरेण विना क्रमम् ॥ ३ ॥ आतुरकालः कथमार्थसं-
मतः ॥ - प्राणस्योत्क्रमणासनकालस्त्वातुरसंज्ञकः । नेतरस्त्वातुरः कालो'
मुक्तिमार्गप्रवर्तकः ॥ : ॥ आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम् ।
मत्रावृत्तिं च कृत्वैव संन्यसेद्विधिवदुधः ॥ ५ ॥ आतुरेऽपि क्रमे वापि प्रेषभेदो
न. कुत्रचित् । न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥ ६ ॥ अकर्म मन्त्ररहितं
नातो मत्रं परित्यजेत् । मन्त्रं विना कर्म कुर्याद्भस्मन्याहुतिवद्भवेत् ॥ ७ ॥
विध्युक्तकर्म संक्षेपात्संन्यासस्त्वातुरः स्मृतः । तस्मादातुरसंन्यासे मन्त्रावृत्ति-
विधिर्मुने ॥ ८ ॥ आहिताग्निर्विरक्तश्चेद्देशान्तरगतो यदि । प्राजापत्येष्टि-
मप्स्वेव निर्वृत्यैवाथ संन्यसेत् ॥ ९ ॥ मनसा वाथ विध्युक्तमन्त्रावृत्त्याथ
वा जले । श्रुत्यनुष्ठानमार्गेण कर्मानुष्ठानमेव वा ॥ १० ॥ समाप्य
संन्यसेद्विद्वान्नो चेत्पातित्यमाप्नुयात् ॥ ११ ॥ यदा मनसि संजातं वैतृष्ण्यं
सर्ववस्तुषु । तदा संन्यासमिच्छेत पतितः स्याद्विपर्यये ॥ १२ ॥ विरक्तः:
प्रव्रजेद्धीमान्सरक्तस्तु गृहे वसेत् । सरागो नरकं याति प्रव्रजन्हि द्विजा-
धमः ॥ १३ ॥ यस्यैतानि सुगुप्तानि जिह्नोपस्थोदरं करः । संन्यसेदकृतोद्वाहो
ब्राह्मणो ब्रह्मचर्यवान् ॥ १४ ॥ संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजत्यकृतोद्वाहः परं वैराग्यमाश्रितः ॥ १५ ॥ प्रवृत्तिलक्षणं कर्म ज्ञानं
संन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥ १६ ॥ यदा
तु विदितं तत्त्वं परं ब्रह्म सनातनम् । तदैकदण्डं संगृह्य सोपवीतां शिख
त्यजेत् ॥ १७ ॥ परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि । सर्वैषणाविनि-
मुक्तः स भैक्षं भोक्तुमर्हति ॥ १८ ॥ पूजितो वन्दितश्चैव सुप्रसन्नो यथा
भवेत् । तथा चेत्ताड्यमानस्तु तदा भवति भैक्षभुक् ॥ १९ ॥ अहमेवाक्षरं
ब्रह्म वासुदेवाख्यमद्वयम् । इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक्.
॥ २० ॥ यस्मिन्शान्तिः शमः शौचं सत्यं संतोष आर्जवम् । अकिंचनमद-
म्भश्च स कैवल्याश्रमे वसेत् ॥ २१ ॥ यदा न कुरुते भावं सर्वभूतेषु पाप-
कम् । कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ॥ २२ ॥ दशलक्षणकं:
धर्ममनुतिष्ठन्समाहितः । वेदान्तान्विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥ २३ ॥
धृतिः क्षमा दमोsस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं
:
-</p>
<pb n="324" />
<p>उप० ३]
नारदपरित्राजकोपनिषत् ॥ ४५ ॥</p>
<p>धर्मलक्षणम् ॥ २४ ॥ अतीवान्न स्मरेद्भोगान्न तथानागतानपि । प्राप्तांश्च
नाभिनन्देद्यः स कैवल्याश्रमे वसेत् ॥ २५ ॥ अन्तः स्थानीन्द्रियाण्यन्तर्बहि-
'ष्टान्विषयान्बहिः । शक्नोति यः सदा कर्तुं स कैवल्याश्रमे वसेत् ॥ २६ ॥ प्राणे
न्गते यथा देहः सुखं दुःखं न विन्दति । तथा चेप्राणयुक्तोऽपि स कैवल्या-
श्रमे वसेत् ॥ २७ ॥ कौपीनयुगलं कन्था दण्ड एकः परिग्रहः । यतेः परम-
. - हंसस्य नाधिकं तु विधीयते ॥ २८ ॥ यदि वा कुरुते रागादधिकस्य परिग्र-
हम् । रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥ २९ ॥ विशीर्णान्यमला न्येव
चेलानि ग्रथितानि तु । कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् ॥ ३० ॥
एकवासा अवासा वा एकदृष्टिरलोलुपः । एक एव चरेन्नित्यं वर्षास्त्र
संवसेत् ॥ ३१ ॥ कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं
च त्यक्त्वा गूढश्चरेद्यतिः ॥ ३२ ॥ कामः क्रोधस्तथा दर्पो लोभमोहादयश्च
ये । तांस्तु दोषान्परित्यज्य परिवाग्निर्ममो भवेत् ॥ ३३ ॥ रागद्वेषवियुक्तात्मा
-समलोष्टाश्मकाञ्चनः । प्राणिहिंसा निवृत्तश्च मुनिः स्यात्सर्वनिस्पृहः ॥ ३४ ॥
- दम्भाहंकार निर्मुक्तो हिंसा पैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षम-
वाप्नुयात् ॥ ३५ ॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयः । संनियम्य तु
तान्येव ततः सिद्धिं निगच्छति ॥ ३६ ॥ न जातु कामः कामानामुपभोगेन
शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ३७ ॥ श्रुत्वा स्पृष्ट्वा च
· भुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो
जितेन्द्रियः ॥ ३८ ॥ यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्व-
मवाप्नोति वेदान्तोपगतं फलम् ॥ ३९ ॥ संमानाद्राह्मणो नित्यमुद्दिजेत
विषादिव । अमृतस्येव चाकाचेदवमानस्य सर्वदा ॥ ४० ॥ सुखं ह्यवमतः
शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ ४१ ॥
अतिवादांस्तितिक्षेत नावमन्येत कंचन । न चेमं देहमाश्रित्य वैरं कुर्वीत
केनचित् ॥ ४२ ॥ कुध्यन्तं न प्रतिक्रुध्येदाकुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां
च न वाचमनृतां वदेत् ॥ ४३ ॥ अध्यात्मरतिरासीनो निरपेक्षो निराशिषः ।
आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४४ ॥ इन्द्रियाणां निरोधेन राग-
द्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ४५ ॥ अस्थिस्थूर्ण
- स्नायुबद्धं मांसशोणितलेपितम् । चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥ ४६ ॥
जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं</p>
<pb n="325" />
<p>ईशाद्युपनिषत्सु -
[ उप० ३
त्यजेत् ॥ ४७ ॥ मांसासृक्पूयविण्मूत्र स्नायुमजास्थिसंहतौ । देहे चेत्प्रीतिमान्मूढो
भविता नरकेऽपि सः ॥ ४८ ॥ सा कालपुत्रपदवी सा महावीचिवागुरा । सा-
सिपत्रवनश्रेणी या देहेऽहमिति स्थितिः ॥ ४९ ॥ सा त्याज्या सर्वयत्नेन सर्वना-
शेऽप्युपस्थिते । स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुल्कसी ॥ ५० ॥ प्रिये -
षु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सना-
तनम् ॥ ५१ ॥ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान्शनैः शनैः। सर्वद्वन्द्वैर्वि-
निर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ५२ ॥ एक एव चरेन्नित्यं सिद्ध्यर्थमसहायकः ।
सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते ॥ ५३ ॥ कपालं वृक्षमूलानि
कुचेलान्यसहायता । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ५४ ॥
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थं ग्रा-
ममाविशेत् ॥ ५५ ॥ एको भिक्षुर्यथोक्तः स्याद्वावेव मिथुनं स्मृतम् । त्रयो
ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ ५६ ॥ नगरं नहि कर्तव्यं ग्रामो वा
मिथुनं तथा । एतत्रयं प्रकुर्वाणः स्वधर्माच्चयवते यतिः ॥ ५७ ॥ राजवार्तादि
तेषां स्याद्भिक्षावार्तां परस्परम् । स्नेहपैशुन्यमात्सर्यं संनिकर्षान्न संशयः
॥ ५८ ॥ एकाकी निःस्पृहस्तिष्ठेन हि केन सहालपेत् । दद्यान्नारायणेत्येव प्र-
तिवाक्यं सदा यतिः ॥ ५९ ॥ एकाकी चिन्तयेद्रा मनोवाक्कायकर्मभिः ।
मृत्युं च नाभिनन्देत जीवितं वा कथंचन ॥ ६० ॥ कालमेव प्रतीक्षेत
यावदायुः समाप्यते । नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव
प्रतीक्षेत निर्देशं भृतको यथा ॥ ६१ ॥ अजिह्नः षण्डकः पङ्गुरन्धो बधिर एक
च । मुग्धश्च मुच्यते भिक्षुः षडभिरेतैर्न संशयः ॥ ६२ ॥ इदमिष्टमिदं नेति
योऽनन्नपि न सज्जति । हितं सत्यं मितं वक्ति तमजिह्वं प्रचक्षते ॥ ६३ ॥
अद्यजातां यथा नारीं तथा षोडशवार्षिकीम् । शतवर्षां च यो 'दृष्ट्वा निर्विकारः
स षण्डकः ॥ ६४ ॥ भिक्षार्थमटनं यस्य विण्मूत्रकरणाय च । योजनान्न परं
यात सर्वथा पङ्गुरेव सः ॥ ६५ ॥ तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम्
चतुर्युगां भुवं मुक्त्वा परिवाद सोऽन्ध उच्यते ॥ ६६ ॥ हिताहितं मनोरामं
वचः शोकावहं तु यत् । श्रुत्वापि न शृणोतीव बधिरः स प्रकीर्तितः ॥ ६७ ॥
सान्निध्ये विषयाणां यः समर्थो विकलेन्द्रियः । सुप्तवद्वर्तते नित्यं स भिक्षुर्मुग्ध
उच्यते ॥ ६८ ॥ नटादिप्रेक्षणं द्यूतं प्रमदासुहृदं तथा । भक्ष्यं भोज्यमुदक्यां च षण्न
पश्येत्कदाचन ॥ ६९ ॥ रागं द्वेषं मदं मायां द्रोहं मोहं परात्मसु । षडेतानि यति--</p>
<pb n="326" />
<p>उप० ३]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>नित्यं मनसापि न चिन्तयेत् ॥७०॥ मञ्चकं शुकुवस्त्रं च स्त्रीकथालौल्यमेव च ।
दिवा स्वापं च यानं च यतीनां पातनानि षट् ॥ ७१ ॥ दूरयात्रां प्रयत्नेन वर्जयेदा-
त्मचिन्तकः । सदोपनिषदं विद्यामभ्यसेन्मुक्ति हैतुकीम् ॥ ७२ ॥ न तीर्थसेवी नित्यं
स्यानोपवासपरो यतिः । न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत
॥ ७३ ॥ अपापमशठं वृत्तमजिह्यं नित्यमाचरेत् । इन्द्रियाणि समाहृत्य कूर्मो-
ऽङ्गानीव सर्वशः ॥ ७४ ॥ क्षीणेन्द्रियमनोवृत्तिर्निराशीर्निष्परिग्रहः । निर्द्वन्द्वो
निर्ममस्कारो निःस्वधाकार एव च ॥ ७५ ॥ निर्ममो निरहंकारो निरपेक्षो
निराशिषः । विविक्तदेशसंसक्तो मुच्यते नात्र संशय इति ॥ ७६ ॥ - अप्रमत्तः
कर्मभक्तिज्ञानसंपन्नः स्वतन्त्रो वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा मुख्य-
वृत्तिका चेद्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्म-
चर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽथ पुनरव्रती वा व्रती वा स्नातको वाsनातको
वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्तद्वैके प्राजापत्यामे-
वेष्टं कुर्वन्त्यथवा न कुर्यादायेच्या मेव कुर्यादग्निर्हि प्राणः प्राणमेवैतया करोति
तस्मान्धातवीयामेव कुर्यादेतयैव त्रयो धातवो यदुत सत्वं रजस्तम इति ॥
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथानो
वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेदेष वा अग्नेयनिर्यः प्राणः प्राणं गच्छ
स्वां योनिं गच्छ स्वाहेत्येवमेवैतदाहवनीयादभिमाहृत्य पूर्ववदग्निमाजि -
यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वां देवताः सर्वाभ्यो देवताभ्यो
जुहोमि स्वाहेति हुवोद्धृत्य तदुदकं प्राश्नीयात्साज्यं हविरनामयं मोदमिति
शिखां यज्ञोपवीतं पितरं पुत्रं कलत्रं कर्म चाध्ययनं मन्त्रान्तरं विसृज्यैव परि-
व्रजत्यात्मविन्मोक्षमन्त्रैस्त्रैधातवीयैर्विधेस्तद्ब्रह्म तदुपासितव्यमेवैतदिति ॥ पिता-
महं पुनः पप्रच्छ नारदः कथमयज्ञोपवीती ब्राह्मण इति ॥ तमाह पितामहः ।
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धार-
येत् ॥ ७७ ॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन
स विप्रो वेदपारगः ॥ ७८ ॥ येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं
धारयेद्योगी योगवित्तत्वदर्शनः ॥ ७९ ॥ बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममा-
स्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः । धारणात्तत्र सूत्रस्य
नोच्छिष्टो नाशुचिर्भवेत् ॥ ८० ॥ सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् । ते
वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥ ८१ ॥ ज्ञानशिखा ज्ञाननिष्ठा</p>
<pb n="327" />
<p>ईशाद्युपनिषत्सु -
[ उप० ४
ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥ ८२ ॥ अग्नेरिव
शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः
॥ ८३ ॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैर्विधार्यमिदं सूत्रं क्रिया
तद्धि वै स्मृतम् ॥ ८४ ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥ ८५ ॥ - तदेतद्विज्ञाय ब्राह्मणः
परिव्रज्य परिव्राडेकशाटी मुण्डोऽपरिग्रहः शरीरक्लेशा सहिष्णुश्चेदथवा यथा-
विधिश्वेज्जातरूपधरो भूत्वा सपुत्रमित्रकलत्रासबन्ध्वादीनि स्वाध्यायं सर्व-
कर्मणि संन्यस्यायं ब्रह्माण्डं च सर्वं कौपीनं दण्डमाच्छादनं च त्यक्त्वा द्वन्द्व-
सहिष्णुर्न शीतं न चोष्णं न सुखं न दुःखं न निद्रा न मानावमाने च षडू-
र्मिवर्जितो निन्दाहंकारमत्सर गर्व दम्भेर्ष्यासूयेच्छाद्वेषसुखदुःखकामक्रोधलोभ-
मोहादीन्विसृज्य स्ववपुः शवाकारमिव स्मृत्वा स्वव्यतिरिक्तं सर्वमन्तर्बहिर-
मन्यमानः कस्यापि वन्दनमकृत्वा न नमस्कारो न स्वाहाकारो न स्वधाकारो
न निन्दास्तुतिर्यांच्छिको भवेद्यदृच्छालाभसंतुष्टः सुवर्णादीन्न परिग्रहेन्नावाहनं
न विसर्जनं न मन्त्रं नामन्त्रं न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं न पृथक्
नापृथकू न त्वन्यत्र सर्वत्रानिकेतः स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृ-
णकूटकुलालशालाग्निहोत्रशालाभिदिगन्तरनदी तटपुलिन भूगृह कन्दरनिर्झरस्थ-
ण्डिलेषु वने वा श्वेतकेतुऋभुनिदाघऋषभदुर्वासः संवर्तक दत्तात्रेय रैवतकवद-
व्यक्तलिङ्गोऽव्यक्ताचारो बालोन्मत्तपिशाचवदनुन्मत्तोन्मत्तवदाचरंस्त्रिदण्डं शि-
क्यं पात्रं कमण्डलुं कटिसूत्रं कौपीनं च तत्सर्वं भूः स्वाहेत्यप्सु परित्यज्य कटिसूत्रं
च कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरेदात्मा-
नमन्विच्छेद्यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्वब्रह्ममार्गे सम्यक् संपन्नः
शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले करपात्रेणान्येन वा याचिताहारमा-
हरन् लाभालाभे समो भूत्वा निर्ममः शुक्रुध्यानपरायणोऽध्यात्मनिष्ठः शुभा-
शुभकर्मनिर्मूलनपरः संन्यस्य पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति ब्रह्मप्रणवमनु-
स्मरन्भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स
कृतकृत्यो भवतीत्युपनिषत् ॥ ८६ ॥
इति नारदपरिव्राजकोपनिषत्सु तृतीयोपदेशः ॥ ३ ॥
त्यक्त्वा लोकांश्च वेदांश्च विषयानिन्द्रियाणि च । आत्मन्येव स्थितो
यस्तु स याति परमां गतिम् ॥ १ ॥ नामगोत्रादिवरणं देशं कालं श्रुतं कुलम् ।</p>
<pb n="328" />
<p>उप० ४ ]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>वयो वृत्तं व्रतं शीलं ख्यापयेन्नैव सद्यतिः ॥ २ ॥ न संभाषेत्खियं
कांचित्पूर्वदृष्टां च न स्मरेत् । कथां च वर्जयेत्तासां न पश्येल्लिखितामपि ॥३॥
एतच्चतुष्टयं मोहात्स्त्रीणामाचरतो यतेः । चित्तं विक्रियतेऽवश्यं तद्विकारात्प्र-
श्यति ॥ ४ ॥ तृष्णा क्रोधोऽनृतं माया लोभमोहौ प्रियाप्रिये । शिल्पं
व्याख्यानयोगश्च कामो रागपरिग्रहः ॥ ५ ॥ अहंकारो ममत्वं च चिकित्सा
धर्मसाहसम् । प्रायश्चित्तं प्रवासश्च मन्त्रौषधपराशिषः ॥ ६ ॥ प्रतिषिद्धानि
चैतानि सेवमानो व्रजेदधः । आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदो-
ऽपि वा ॥ ७ ॥ सन्माननं च न ब्रूयान्मुनिर्मोक्षपरायणः । प्रतिग्रहं न
गृह्णीयान्नैव चान्यं प्रदापयेत् ॥ ८ ॥ प्रेरयेद्वा तया भिक्षुः स्वप्नेऽपि न कदा-
चन । जायाभ्रातृसुतादीनां बन्धूनां च शुभाशुभम् ॥ ९ ॥ श्रुत्वा दृष्ट्वा न
कम्पेत शोकहर्षो त्यजेद्यतिः । भहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ॥ १० ॥
अनौद्धत्यमदीनत्वं प्रसादः स्थैर्यमार्जवम् । अस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्ति-
दमः शमः ॥ ११ ॥ उपेक्षा धैर्यमाधुर्ये तितिक्षा करुणा तथा । हीस्तथा
ज्ञानविज्ञाने योगो लग्वशनं धृतिः ॥ १२ ॥ एष स्वधर्मो विख्यातो यतीनां
नियतात्मनाम् । निर्द्वन्द्वो नित्यसत्त्वस्थः सर्वत्र समदर्शनः ॥ १३ ॥ तुरीयः
परमो हंसः साक्षान्नारायणो यतिः । एकरात्रं वसेड्रामे नगरे पञ्चरात्रकम् ॥ १४ ॥
वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् । द्विरानं वा वसेड्रामे भिक्षुर्यदि
वसेत्तदा ॥ १५ ॥ रागादयः प्रसज्येरंस्तेनासौ नारकी भवेत् । ग्रामन्ति
"निर्जने देशे नियतात्माऽनिकेतनः ॥ १६ ॥ पर्यटेल्कीटवद्भूमौ वर्षास्वेकन्न
-संवसेत् । एकवासा भवासा वा एकदृष्टिरलोलुपः ॥ १७ ॥ अदूषयन्सतां मार्ग
ध्यानयुक्तो महीं चरेत् । शुचौ देशे सदा भिक्षुः स्वधर्ममनुपालयन् ॥ १८ ॥
पर्यटेत सदा योगी वीक्षयन्वसुधातलम् । न रात्रौ न च मध्याह्ने संध्ययोनैव
पर्यटन् ॥ १९ ॥ न शून्ये न च दुर्गे वा प्राणिबाधाकरे न च । एकरात्रं वसे-
ड्रामे पत्तने तु दिनत्रयम् ॥ २० ॥ पुरे दिनद्वयं भिक्षुर्नगरे पञ्चरात्रकम् ।
वर्षास्त्रेकत्र तिष्ठेत स्थाने पुण्यजलावृते ॥ २१ ॥ आत्मवत्सर्वभूतानि पश्य-
भिक्षुश्चरेन्महीम् । अन्धव स्कुलवच्चैव बधिरोन्मत्तमूकवत् ॥ २२॥ स्नानं त्रिष-
वणं प्रोक्तं बहूदकवनस्थयोः । हंसे तु सकृदेव स्यात्परहंसे न विद्यते ॥ २३ ॥
मौनं योगासनं योगस्तितिक्षैकान्तशीलता । निःस्पृहत्वं समत्वं च सप्तैतान्ये-
कदण्डिनाम् ॥ २४ ॥ परहंसाश्रमस्थो हि स्नानादेरविधानतः । भशेषचित्त-</p>
<pb n="329" />
<p>ईशाद्युपनिषत्सु -
[ उप० ४
वृत्तीनां त्यागं केवलमाचरेत् ॥ २५ ॥ त्वङ्मांसरुधिरस्रायुमज्जा मेदोस्थि संहतौ ।
विण्मूत्रपूये रमतां क्रिमीणां कियदन्तरम् ॥ २६ ॥ क्व शरीरमशेषाणां
श्लेष्मादीनां महाचयः । क्व चाङ्गशोभा सौभाग्यकमनीयादयो गुणाः ॥२७॥
मांसासृक्पूयचिण्मूत्रस्वायुमजास्थिसंहतौ । देहे चेप्रीतिमान्मूढो भविता
नरकेऽपि सः ॥ २८ ॥ स्त्रीणामवाच्य देशस्य क्लिन्ननाडीव्रणस्य च । अभे-
देsपि मनोभेदाज्जनः प्रायेण वञ्चयते ॥ २९ ॥ चर्मखण्डं द्विधा भिन्नमपा-
नोद्वारधूपितम् । ये रमन्ति नमस्तेभ्यः साहसं किमतः परम् ॥ ३० ॥
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तो
निर्द्वन्द्वोऽवर्णभोजनः ॥ ३१ ॥ मुनिः कौपीनवासाः स्यान्ननो वा ध्यानतत्परः ।
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ॥ ३२ ॥ लिङ्गे सत्यपि खल्वस्मि-
ज्ञानमेव हि कारणम् । निर्मोक्षायेह भूतानां लिङ्गग्रामो निरर्थकः ॥ ३३ ॥
यन्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स
ब्राह्मणः ॥ ३४ ॥ तस्मादलिङ्गो धर्मज्ञो ब्रह्मवृत्तमनुव्रतम् । गूढधर्माश्रितो
विद्वानज्ञातचरितं चरेत् ॥ ३५ ॥ संदिग्धः सर्वभूतानां वर्णाश्रमविवर्जितः ।
अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ॥ ३६ ॥ तं दृष्ट्वा शान्तमनसं
स्पृहयन्ति दिवौकसः । लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुशासनमिति ॥ ३७॥
अथ नारदः पितामहं संन्यासविधिं नो ब्रूहीति पप्रच्छ । पितामहस्तथेत्यङ्गी-
कृत्यातुरे वा क्रमे वापि तुरीयाश्रमस्वीकारार्थं कृच्छ्रप्रायश्चित्तपूर्वकमष्टश्राद्धं
कुर्याद्देवर्षिदिव्यमनुष्य भूतपितृमात्रात्मेत्यष्टश्राद्धानि कुर्यात् । प्रथमं सत्यव-
सुसंज्ञकान्विश्वान्देवान्देवश्राद्धे ब्रह्मविष्णुमहेश्वरानृषिश्राद्धे देवर्षिक्षत्रियर्षि-
मनुष्यर्षीन् दिव्यश्राद्धे वसुरुद्रादित्यरूपान्मनुष्यश्राद्धे सनकसनन्दन सनत्कु-
मारसनत्सुजातान्भूतश्राद्धे पृथिव्यादिपञ्चमहाभूतानि चक्षुरादिकरणानि
चतुर्विधभूतग्रामान्पितृश्राद्धे पितृपितामहप्रपितामहान्मातृश्राद्धे मातृपिता-
महप्रपितामहीरात्मश्राद्धे आत्मपितृपितामहाञ्जीवत्पितृकश्चेत्पितरं त्यक्त्वा
आत्मपितामहप्रपितामहानिति सर्वत्र युग्मक्लृप्त्या ब्राह्मणानर्चयेदेकाध्वर-
पक्षेऽष्टाध्वरपक्षे वा स्वशास्त्रानुगतमन्त्रैरष्टश्राद्धान्यदृदिनेषु वा एकदिने
वा पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य भुक्तयन्तं यथाविधि निर्वर्त्य
पिण्डप्रदानानि निर्वर्त्य दक्षिणा ताम्बूलैस्तोषयित्वा ब्राह्मणान्प्रेषयित्वा शेषकर्म-
सिद्ध्यर्थ सप्तकेशान्विसृज्य - 'शेषकर्मप्रसिद्ध्यर्थं केशान्सप्ताष्टधा द्विजः । संक्षिप्य</p>
<pb n="330" />
<p>उप० ४ ]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>वापयेत्पूर्वं केशश्मश्रुनखानि च' इति संप्तकेशान्संरक्ष्य कक्षोपस्थवर्ज क्षौरपूर्वकं
स्नात्वा सायंसंध्यावन्दनं निर्वर्त्य सहस्रगायत्री जप्तवा ब्रह्मयज्ञं निर्वर्त्य स्वाधी•
नाग्निमुपस्थाप्य स्वशाखोपसंहरणं कृत्वा तदुक्तप्रकारेणाज्याहुति भाज्य भागान्तं
हुत्वाहुतिविधिं समाप्यात्मादिभित्रिवारं सक्तुप्राशनं कृत्वाचमनपूर्वक मर्ध्नि
संरक्ष्य स्वयमग्नेरुत्तरतः कृष्णाजिनोपरि स्थित्वा पुराणश्रवणपूर्वकं जागरणं
कृत्वा चतुर्थयामान्ते स्नात्वा तदग्नौ चरुं श्रपयित्वा पुरुषसूक्तेनान्नस्य षोडशा-
हुतीर्हुत्वा विरजाहोमं कृत्वा अथाचम्य सदक्षिणं वस्त्रं सुवर्णपात्रं धेनुं
दत्त्वा समाप्य ब्रह्मोद्वासनं कृत्वा । सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृह-
स्पतिः । सं मायमग्निः सिञ्चत्वायुषा च धनेन च बलेन चायुष्मन्तः करोतु
इति । या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मनात्मानम् । अच्छा वसूनि
कृण्वन्नरमे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो
भुव आजायमानः स क्षय एधीत्यनेनाग्निमात्मन्यारोप्य ध्यात्वानिं प्रद-
'क्षिणनमस्कारपूर्वकमुद्वास्य प्रातः संध्यामुपास्य सहस्रगायत्रीपूर्वकं सूर्योप-
स्थानं कृत्वा नाभिदघ्न्नोदकमुपविश्याष्टदिक्पालका पूर्वकं गायत्र्युद्वासन
कृत्वा सावित्रीं व्याहृतिषु प्रवेशयित्वा । अहं वृक्षस्य रेरिव । कीर्तिः पृष्ठं गि-
रेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणं मे सवर्चसं सुमेधा अमृ-
तोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् । यश्छन्दसामृषभो विश्वरूपः । छन्दो-
भ्योऽध्यमृतात्संबभूव । स मे इन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो
भूयासं । शरीरं मे विचर्षणं । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि वि-
श्रवं । ब्रह्मणः कोशोऽसि मेधयापिहितः । श्रुतं मे गोपाय । दारेषणा-
याश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थितोऽहं ॐ भूः संन्यस्तं मया
ॐ भुवः संन्यस्तं मया ॐ सुवः संन्यस्तं मया ॐ भूर्भुवः सुवः
संन्यस्तं मयेति मन्द्रमध्यमतालजध्वनिभिर्मनसा वाचोच्चार्याभयं सर्वभूतेभ्यो
मत्तः सर्वं प्रवर्तते स्वाहेत्यनेन जलं प्राश्य प्राच्यां दिशि पूर्णाञ्जलिं प्रक्षिप्यों
स्वाहेति शिखामुत्पाद्व्य । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीत बहिर्न
निवसेस्त्वमन्तः प्रविश्य मध्ये ह्यजस्रं परमं पवित्रं यशो बलं ज्ञानवैराग्यं
मेधां प्रयच्छेति यज्ञोपवीतं छित्त्वा उदकाञ्जलिना सह । ॐ भूः समुद्रं गच्छ
स्वाहेत्यप् जुहुयात् । ॐ भूः संन्यस्तं मया । ॐ भुवः संन्यस्तं मया । ॐ सुवः</p>
<pb n="331" />
<p>ईशाद्युपनिषत्सु -
[ उप० ५
: संन्यस्तं मयेति त्रिरुक्त्वा त्रिवारमभिमन्त्रय तज्जलं प्राश्याचम्य ॐ भूः स्वाहे-
त्यप्सु वस्त्रं कटिसूत्रमपि विसृज्य सर्वकर्मनिर्वर्तकोऽहमिति स्मृत्वा जातरूप-
धरो भूत्वा स्वरूपानुसंधानपूर्वकमूर्ध्वबाहुरुदीचीं गच्छेत्पूर्ववद्विद्वत्संन्यासी
चेगुरोः सकाशात्प्रणव महावाक्योपदेशं प्राप्य यथासुखं विहरन्मत्तः कश्चि-
अन्नान्यो व्यतिरिक्त इति फलपत्रोदकाहारः पर्वतवनदेवतालयेषु संचरेत्संन्य-
स्याथ दिगम्बरः सकलसंचारकः सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातिदूर-
· लाभः प्राणायामपरायणः फलरसत्वक्पत्र मूलोदकैर्मोक्षार्थी गिरिकन्दरेषु
विसृजेद्देहं स्मरंस्तारकम् । विविदिषासंन्यासी चेच्छतपथं गत्वाचार्यादिभि-
'विप्रैस्तिष्ठ तिष्ठ महाभाग दण्डं वस्त्रं कमण्डलुं गृहाण प्रणव महावाक्यग्रहणार्थं
गुरुनिकटमा गच्छेत्याचार्यैर्दण्डकटिसूत्र कौपीनं शाटीमेकां कमण्डलुं पादा-
दिमस्तकप्रमाणमवणं समं सौम्यमकालपृष्ठं सलक्षणं वैणवं दण्डमेकमाचमनपू-
र्वकं सखा मा गोपायौचः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव
यत्पापं तन्निवारयेति दण्डं परिग्रहेज्जगज्जीवनं जीवनाधारभूतं मा ते मा
मन्त्रयस्व सर्वदा सर्वसैौम्येति प्रणवपूर्वकं कमण्डलुं परिगृह्य कौपीनाधारं
कटिसूत्रमोमिति गुह्याच्छादकं कौपीनमोमिति शीतवातोष्णत्राणकरं देहैक-
रक्षणमोमिति कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं योगपट्टाभिषिक्तो भूहवा
कृतार्थोऽहमिति मत्वा स्वाश्रमाचारपरो भवेदित्युपनिषत् ॥ ३८ ॥
इति नारदपरिव्राजकोपनिषत्सु चतुर्थोपदेशः ॥ ४ ॥
अथ हैनं पितामहं नारदः पप्रच्छ भगवन्सर्वकर्मनिवर्तकः संन्यास इति
'स्वयैवोक्तः पुनः स्वाश्रमाचारपरो भवेदित्युच्यते । ततः पितामह उवाच ।
शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः सन्ति तदधीनाः कर्मज्ञान-
'वैराग्यप्रवर्तकाः पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव चेद्भगवन्संन्या-
साः कतिभेदास्तदनुष्ठानभेदाः कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति । तथेत्य-
ङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदः कथमिति चेत्तत्वतस्त्वेक एब
संन्यासः अज्ञानेनाशक्तिवशात्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो ज्ञान-
संन्यासो ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति चातुर्विध्यमुपागतस्तद्यथेति
-दुष्टमदनाभावाच्चेति विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः स वैराग्य-
- संन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभव श्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाह-
काराभिमानात्मक सर्वसंसारं निर्वृत्य दारेषणाधनेषणालोकेषणात्मक देहवासनां</p>
<pb n="332" />
<p>उप० ५ ]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा
साधनचतुष्टयसंपन्नो यः संन्यस्यति स एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य
सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसंधानेन देहमात्रावशिष्टः संन्यस्य
जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । ब्रह्मचर्यं समाप्य गृही भू
वानप्रस्थाश्रममेत्य वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः संन्यस्यति स
कर्मसंन्यासी । ब्रह्मचर्येण संन्यस्य संन्यासाजातरूपधरो वैराग्यसंन्यासी ।
विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी कर्मसंन्यासी । कर्मसंन्या-
सोsपि द्विविधः निमित्त संन्यासोऽनिमित्त संन्यासश्चेति । निमित्तस्त्वातुरः ।
अनिमित्तः क्रमसंन्यासः । भातुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासः
सनिमित्तसंन्यासः । दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं सर्वं हेय
प्राप्य । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरस-
सोमसखा गोजा ऋतजा अद्विजा ऋतं बृहत् । ब्रह्मव्यतिरिक्तं सर्व
नश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति स संन्यासोऽनिमित्तसंन्यासः ।
संन्यासः षड्विधो भवति । कुटीचको बहूदको हंसः परमहंसः तुरीया--
तीतोऽवधूतश्चेति । कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनक--
न्थाधरः पितृमातृगुर्वाराधनपरः पिठरखनित्र शिक्यादिमन्त्रसाधनपर एकत्रा-
न्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः । बहूदकः शिखादिकन्थाधर स्त्रिपुण्डू-
धारी कुटी चकवत्सर्व समो मधुकरवृत्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्व-
पुण्ड्रधारी असंकृतमाधुकररान्नाशी कौपीनखण्डतुण्डधारी । परमहंसः शिखा-
यज्ञोपवीतरहितः पञ्चगृहेष्वे करात्रान्नादनपरः करपात्री एककौपीनधारी शाठी-
मेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्धूलनपरः सर्वत्यागी । तुरीया--
तीतो गोमुखः फलाहारी । अन्नाहारी चेद्गुहत्रये देहमात्रावशिष्टशे दिगम्बरः:
कुणपवच्छरीरवृत्तिकः । अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णे-
वजगरवृत्त्याहारपरः स्वरूपानुसंधानपरः । भातुरो जीवति चेष्क्रम संन्यासः
कर्तव्यः कुटीचकबहूदक हंसानां ब्रह्मचर्याश्रमादितुरीयाश्रमवत् कुटीचकादीनां
संन्यासविधिः । परमहंसादित्रयाणां न कटिसूत्रं न कौपीनं न वस्त्रं.
न कमण्डलु दण्डः । सार्ववर्णैकभैक्षाटनपरत्वं जातरूपधरस्वं विधिः ।
संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य तदनन्तरं कटिसूत्रं कौपीनं दण्डं वस्त्रं
कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरेश कन्थावेशो नाध्येतव्यो</p>
<pb n="333" />
<p>ईशाद्युपनिषत्सु -
[ उप० ५
न श्रोतव्यमन्यत्किंचित्प्रणवादन्यं न तर्क पठेन्न शब्दमपि बृहच्छन्दा-
नाध्यापयेन्न महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं नान्यस्माद्दा
विशेषेण न शूद्रस्त्रीपतितोदक्या संभाषणं न यतेर्देवपूजा नोत्सवदर्शनं
तीर्थयात्रावृत्तिः । पुनर्यतिविशेषः । कुटीचकस्यैकत्र भिक्षा बहूदकस्यासंकृतं
माधुकरं हंसस्याष्टगृहेष्वष्टकवलं परमहंसस्य पञ्चगृहेषु करपात्रं फलाहारो
गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन
कस्यापि नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः । स ज्येष्ठोऽपि
कनिष्ठ हस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षमारोहेन यानादिरूढो न क्रयवि -
ऋयपरो न किंचिद्विनिमयपरो न दाम्भिको नानृतवादी न यतेः किंचित्कर्त-
व्यमस्त्यस्ति चेत्सांकर्यम् । तस्मान्मननादौ संन्यासिनामधिकारः । आतुर-
कुटीचकयोर्भूलों को बहूदकस्य स्वर्गलोको हंसस्य तपोलोकः परमहंसस्य
-सत्यलो कस्तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेन
भ्रमरकीटन्यायवत् । यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेव
समाप्नोति नान्यथा श्रुतिशासनम् । तदेवं ज्ञात्वा स्वरूपानुसंधानं विनान्य-
थाचारपरो न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञानवैराग्यसंपन्नस्य स्वस्मिन्नेव
मुक्तिरिति न सर्वत्राचारप्रसक्तिस्तदाचारः । जाग्रत्स्वमसुषुप्तिष्वेकशरीरस्य
जाग्रत्काले विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः अवस्थाभेदादवस्थे-
श्वरभेदः कार्यभेदात्कारणभेदस्तासु चतुर्दशकारणानां बाह्यवृत्तयोऽन्तर्वृत्त-
यस्तेषामुपादानकारणम् । वृत्तयश्चत्वारः मनोबुद्धिरहंकारश्चित्तं चे
तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः । नेत्रस्थं जागरितं विद्यात्कण्ठे स्वमं
समाविशत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् । तुरीयमक्षरमिति
ज्ञात्वा जागरिते सुषुल्यवस्थापन्न इव यद्यच्छ्रुतं यद्यद्दृष्टं तत्तत्सर्वमविज्ञातमिव
यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति । स जीवन्मुक्त इति
वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव मुक्तिरिति । भिक्षुर्नैहिकामुष्मिका-
पेक्षः । यद्यपेक्षास्ति तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्य-
शास्त्राभ्यासैरुष्ट्राकुङ्कुमभारवद्व्यर्थो न योगशास्त्रप्रवृत्तिर्न सांख्यशास्त्राभ्यासो
·न मन्त्रतन्त्रव्यापारः । इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालंकारवच्चर्मकारवदति-
विदूरकर्मा चार विद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनु-
भवति एरण्डतैलफेनवदतः सर्वं परित्यज्य तत्प्रसक्तं मनोदण्डं करपात्रं</p>
<pb n="334" />
<p>उप० ५]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>दिगम्बरं दृष्ट्वा परिव्रजेद्विक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा नं
काङ्क्षत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति । तितिक्षाज्ञान-
वैराग्यशमादिगुणवर्जितः । भिक्षामात्रेण जीवी स्यात्स यतिर्यतिवृत्तिहा ॥१॥
न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण मुक्तिः । ज्ञानदण्डो
धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।
स याति नरकान्घोरान्महारौरव संज्ञितान् ॥ २ ॥ प्रतिष्ठा सूकरीविष्ठा समा
गीता महर्षिभिः । तस्मादेनां परित्यज्य कीटवरपर्यटेद्यतिः ॥ ३ ॥ अयाचितं
यथालाभं भोजनाच्छादनं भवेत् । परेच्छया च दिग्वासाः स्नानं कुर्यात्परे-
च्छया ॥ ४ ॥ स्वप्नेऽपि यो हि युक्तः स्याजाग्रतीव विशेषतः । ईक्वेष्टः
स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥ ५ ॥ अलाभे न विषादी स्याल्लाभे चैव
न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ६ ॥ अभिपूजि -
तलाभांश्च जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते
॥ ७ ॥ प्राणयात्रा निमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्ते वर्णानां
भिक्षार्थं पर्यटेद्गृहान् ॥ ८ ॥ पाणिपात्रश्चरन्योगी नासकृद्वैक्षमाचरेत् ।
तिष्ठम्भुञ्जयाच्चरन्भुञ्ज्यान्मध्येनाचमनं तथा ॥ ९ ॥ अब्धिवद्धृतमर्यादा
भवन्ति विशदाशयाः । नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥ १० ॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात्सर्वेषु सोऽमृत-
स्वाय कल्पते ॥ ११ ॥ अनिन्द्यं वै व्रजेद्द्वेहं निन्द्यं गेहं तु वर्जयेत् । अनावृते
विशेद्वारि गेहे नैवावृते व्रजेत् ॥ १२ ॥ पांसुना च प्रतिच्छन्न शून्यागार -
`प्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १३ ॥ यत्रास्तमितशायी
स्यान्निरभिरनिकेतनः । यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः
॥ १४ ॥ निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः । कालकाङ्क्षी चरनेव
ब्रह्मभूयाय कल्पते ॥ १५ ॥ अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः ।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते कचित् ॥ १६ ॥ निर्मानश्चानहंकारो
निर्द्वन्द्वश्छिन्नसंशयः । नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥ १७ ॥
- पुण्यायतनचारी च भूतानामविहिंसकः । काले प्राप्ते भवेद्वैक्षं कल्प्यते
ब्रह्मभूयसे ॥ १८ ॥ वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् । अज्ञात-
चर्या लिप्सेत न चैनं हर्ष आविशेत् ॥ १९ ॥ अध्वा सूर्येण निर्दिष्ट:
कीटवद्विचरेन्महीम् । आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ॥ २० ॥</p>
<pb n="335" />
<note>३२०.</note>
<p>ईशाद्युपनिषत्सु -
[ उप० ५
लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् । नासच्छास्त्रेषु सज्जेत नोपजीवेत
जीविकाम् । अतिवादांस्त्यजेत्तर्कान्पक्षं कंचन नाश्रयेत् ॥ २१ ॥ न
शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्वहून् । न व्याख्यामुपयुञ्जीत नारम्भा-
नारभेत्कचित् ॥ २२ ॥ अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्त बालवत् ।
कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेनृणाम् ॥ २३ ॥ न कुर्यान वदेत्किंचिन्न
ध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ २४ ॥
एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरतिरात्मवा-
न्समदर्शनः ॥ २५ ॥ बुधो बालकवत्क्रीडेत्कुशलो जडवश्चरेत् । वदेदुन्मत्त-
वद्विद्वान् गोचर्यां नैगमश्चरेत् ॥ २६ ॥ क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धो-
sसूयितोऽपि वा । ताडितः संनिरुद्धो वा वृत्त्या वा परिहापितः ॥ २७ ॥
विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकल्पितः । श्रेयस्कामः कृच्छ्रगत भात्म-
नात्मानमुद्धरेत् ॥ २८ ॥ संमाननं परां हानिं योगः कुरुते यतः । जनेना-
वमतो योगी योगसिद्धिं च विन्दति ॥ २९ ॥ तथा चरेत वै योगी सतां
धर्ममदूषयन् । जना यथावमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ ३० ॥ जरायु-
जाण्डजादीनां वाङ्मनः कायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च
वर्जयेत् ॥ ३१ ॥ कामक्रोधौ तथा दर्पलोभमोहादयश्च ये । तांस्तु दोषा-
न्परित्यज्य परिवाद भयवर्जितः ॥ ३२ ॥ भैक्षाशनं च मौनित्वं तपो ध्यानं
विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं
वासाः सततं ध्यानयोगपरायणः । ग्रामान्ते
वा ॥ ३४ ॥ भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् । चित्तशुद्धिर्भवे-
द्यावत्तावन्नित्यं चरेत्सुधीः ॥ ३५ ॥ ततः प्रवज्य शुद्धात्मा संचरेद्यत्र
कुत्रचित् । बहिरन्तश्च सर्वत्र संपश्यन्हि जनार्दनम् ॥ ३६ ॥ सर्वत्र विचरे-
मौनी वायुवद्वीतकल्मषः । समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत्
॥ ३७ ॥ निर्वैरेण समं पश्यन्द्विजगोऽश्वमृगादिषु । भावयन्मनसा विष्णुं
परमात्मानमीश्वरम् ॥ ३८ ॥ चिन्मयं परमानन्दं ब्रह्मैवाहमिति स्मरन् ।
ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा आशाम्बरधरो भूत्वा सर्वदा
मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङ्मुखः स्वरूपानुसन्धानेन
अमरकीटन्यायेन मुक्तो भवतीत्युपनिषत् ॥ ३९ ॥
भिक्षुके मतः ॥ ३३ ॥ काषाय-
वृक्षमूले वा वसेदेवालयेऽपि
इति नारदपरिव्राजकोपनिषत्सु पञ्चमोपदेशः ॥ ५ ॥</p>
<pb n="336" />
<p>उप० ६ ]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<note>३२१.</note>
<p>अथ नारदः पितामहमुवाच ॥ भगवन् तदभ्यासवशात् भ्रमर कीटन्याय-
वत्तदभ्यासः कथमिति । तमाह पितामहः । सत्यवाग्ज्ञानवैराग्याभ्यां
विशिष्टदेहावशिष्टशे वसेत् । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि शान्तिदान्ती
नेत्रे मनो मुख बुद्धिः कला पञ्चविंशतितत्त्वान्यवयवा अवस्था पञ्चमहा-
भूतानि कर्म भक्तिज्ञानवैराग्यं शाखा जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दश करणानि
पङ्कस्तम्भकाराणीति । एवमपि नावमतिपङ्कं कर्णधार इव यन्तेव गजं
स्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः
सर्वदा ब्रह्माहमिति व्यवहरेन्नान्यत्किंचिद्वेदितव्यं स्वव्यतिरेकेण । जीवन्मुक्तो
वसेत्कृतकृत्यो भवति । न नाहं ब्रह्मेति व्यवहरेकिंतु ब्रह्माहमस्मीत्यजत्र
जाग्रत्स्वमसुषुप्तिषु । तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रनक्तं
स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां चतस्रोऽवस्थास्त्वेकैककरणाधीनानां
चतुर्दशकरणानां व्यापारश्चक्षुरादीनाम् । चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणं
जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं वचसो वाग्व्यापारः पाणेरादानं
पादयोः संचार: पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं स्वचः स्पर्शग्रहणम् ।
तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुध्यति चित्तेन चेतयत्यहंकारेणा-
हंकरोति । विसृज्य जीव एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेन
गृहस्थ इव शरीरे जीवः संचरति । प्राग्दले पुण्यावृत्तिराग्नेय्यां निद्रालस्यौ
दक्षिणायां क्रौर्यबुद्धिनैर्ऋत्यां पापबुद्धिः पश्चिमे क्रीडारतिर्वायव्यां गमने
बुद्धिरुत्तरे शान्तिशान्ये ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवं
वक्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्वितीयं स्वमं तृतीयं सुषुप्तं चतुर्थं तुरीयं
चतुर्भिर्विरहितं तुरीयातीतम् । विश्ववैजसप्राज्ञतटस्थभेदैरेक एव एको देवः
साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत् । नो चेजाग्रदवस्थायां जाग्रदादि-
चतस्रोऽवस्थाः स्वमे स्वमादिचतस्रोऽवस्थाः सुषुप्ते सुषुयादिचतस्रोऽवस्थाः
तुरीये तुरीयादिचतस्रोऽवस्थाः न स्वेवं तुरीयातीतस्य निर्गुणस्य । स्थूलसूक्ष्म-
कारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते । उत
तटस्थो द्रष्टा तटस्थो न दृष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्वाहंकारादिभिः
स्पृष्टो जीवः जीवेतरो न स्पृष्टः । जीवोsपि न स्पृष्ट इति चेन्न । जीवाभि-
मानेन क्षेत्राभिमानः । शरीराभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहा-
काशवद्व्यवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽहमिति मन्त्रेणोच्छ्वास-
अ. उ. २१</p>
<pb n="337" />
<p>ईशाद्युपनिषत्सु -
[ उप०६
निःश्वासव्यपदेशेनानुसन्धानं करोति । एवं विज्ञाय शरीराभिमानं त्यजेन्न
शरीराभिमानी भवति । स एव ब्रह्मेत्युच्यते । व्यक्तसङ्गो जितक्रोधो
लघ्वाहारो जितेन्द्रियः । पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत्
॥ १ ॥ शून्येष्वेवावकाशेषु गुहासु च वनेषु । नित्ययुक्तः सदा योगी ध्यानं
सम्यगुपक्रमेत् ॥ २ ॥ आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । महाजनेषु
सिद्ध्यर्थी न गच्छेद्योग विक्वचित् ॥ ३ ॥ यथैनमवमन्यन्ते जना:
परिभवन्ति च । तथा युक्तश्वरेद्योगी सतां वर्त्म न दूषयेत् ॥ ४ ॥ वाग्दण्डः
कर्मदण्डश्च मनोदण्डश्च ते त्रयः । यस्यैते नियता दण्डाः स त्रिदण्डी महा-
यतिः ॥ ५ ॥ विधूमे व प्रशान्तानौ यस्तु माधुकरीं चरेत् । गृहे च
विप्रमुख्यानां यतिः सर्वोत्तमः स्मृतः ॥ ६ ॥ दण्डभिक्षां च यः कुर्यात्स्वधर्मे
व्यसनं विना । यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥ ७ ॥ यस्मिन्
गृहे विशेषेण लभेद्विक्षां च वासनात् । तत्र नो याति यो भूयः स
यतिर्नेतरः स्मृतः ॥ ८ ॥ यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् ।
पारमार्थिक विज्ञानं सुखात्मानं स्वयंप्रभम् ॥ ९ ॥ परतत्त्वं विजानाति
सोऽतिवर्णाश्रमी भवेत् । वर्णाश्रमादयो देहे मायया परिकल्पिताः
॥ १० ॥ नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा । इति यो वेद वेदान्तैः
सोऽतिवर्णाश्रमी भवेत् ॥ ११ ॥ यस्य वर्णाश्रमाचारो गलितः स्वात्म दर्श-
नात् । स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥ १२ ॥ योऽतीत्य
स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् । सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थ-
वेदिभिः ॥ १३ ॥ तस्मादन्यगता वर्णा आश्रमा अपि नारद । आत्मन्यारो-
पिताः सर्वे भ्रान्त्या तेनात्मवेदिना ॥ १४ ॥ न विधिर्न निषेधश्च न वर्ज्या -
वर्ज्यकल्पना । ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ॥ १५ ॥ विरज्य सर्व-
भूतेभ्य आ विरिञ्चिपदादपि । घृणां विपाट्य सर्वस्मिन्पुत्रमित्रादिकेष्वपि
॥ १६ ॥ श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुं
ब्रह्मविदं व्रजेत् ॥ १७ ॥ सेवाभिः परितोष्यैनं चिरकालं समाहितः । सदा
वेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥ १८ ॥ निर्ममो निरहंकारः सर्वसङ्ग-
विवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ १९ ॥ संसार-
दोषदृष्ट्यैव विरक्तिर्जायते सदा । विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः
॥ २० ॥ मुमुक्षुः परहंसाख्यः साक्षान्मोक्षैकसाधनम् । अभ्यसेद्ब्रह्म विज्ञानं</p>
<pb n="338" />
<p>उप० ७]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>वेदान्तश्रवणादिना ॥ २१ ॥ ब्रह्मविज्ञानलाभाय परहंससमाह्वयः । शान्ति-
दान्त्यादिभिः सर्वैः साधनैः सहितो भवेत् ॥ २२ ॥ वेदान्ताभ्यासनिरतः
शान्तो दन्तो जितेन्द्रियः । निर्भयो निर्ममो नित्यो निर्द्वन्द्वो निष्परिग्रहः
॥ २३ ॥ जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथ वा भवेत् । प्राज्ञो वेदान्तवि-
द्योगी निर्ममो निरहंकृतिः ॥ २४ ॥ मित्रादिषु समो मैत्रः समस्तेष्वेव
जन्तुषु । एको ज्ञानी प्रशान्तात्मा स संतरति नेतरः ॥ २५ ॥ गुरूणां
च हिते युक्तस्तत्र संवत्सरं वसेत् । नियमेष्वप्रमत्तस्तु यमेषु च सदा
भवेत् ॥२६॥ प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम् । अविरोधेन धर्मस्य
संचरेत्पृथिवीमिमाम् ॥ २७ ॥ ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम् ।
आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम् ॥ २८ ॥ अनुज्ञाप्य गुरूंश्चैव चरेद्धि
'पृथिवीमिमाम् । त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥ २९ ॥ द्वा-
मौन विरज्ये विपरीतेन कर्मणा । निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षु-
कः ॥ ३० ॥ माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा च माद्यति । तस्माद्दृष्टिविषां
नारीं दूरतः परिवर्जयेत् ॥ ३१ ॥ संभाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा ।
वृत्तं गानं सहासं च परिवादांश्च वर्जयेत् ॥ ३२ ॥ न खानं न जपः पूंजा न
होमो नैव साधनम् । नाम्निकार्यादिकार्यं च नैतस्यास्तीह नारद ॥ ३३ ॥
- नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च । धर्माधर्मादिकं नास्ति न विधि-
लौकिकी क्रिया ॥ ३४ ॥ संत्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः । कृमि -
कीटपतङ्गांश्च तथा योगी वनस्पतीन् ॥ ३५ ॥ न नाशयेद्बुधो जीवन्परमार्थ-
मतिर्यतिः । नित्यमन्तर्मुखः स्वच्छः प्रशान्तात्मा स्वपूर्णधीः ॥ ३६ ॥ अन्तः-
· सङ्गपरित्यागी लोके विहर नारद । नाराजके जनपदे चरत्येकचरो मुनिः
॥ ३७ ॥ निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च
यतिर्यादृच्छिको भवेदित्युपनिषत् ॥ ३८ ॥
इति नारदपरिव्राजकोपनिषत्सु षष्ठोपदेशः ॥ ६॥
अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः पुरस्कृत्य विरक्तः सन्यो
- वर्षासु ध्रुवशीलोऽष्टौ मास्येकाकी चरन्नैकत्र निवसेद्विक्षुर्भयात्सारङ्गव देकत्र
न तिष्ठेत्स्वगमन निरोधग्रहणं न कुर्याद्धस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षारो-
हणमपि न देवोत्सवदर्शनं कुर्यान्नैकत्राशी न बाह्य देवार्चनं कुर्यात्स्वव्यतिरिक्कं
सर्वं त्यक्त्वा मधुकरवृत्याहारमाहरन्कुशो भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिर-</p>
<pb n="339" />
<p>૩ર.
ईशाद्युपनिषत्सु -
[ उप० ७०
मिव त्यजेदेकत्रानं पललमिव गन्धलेपनमशुद्धिलेपनमिव क्षारमन्त्यजमिव
वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमिव स्पृहां गोमांस-
मिव ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्ण कालकूटमिव
सभास्थलं श्मशानस्थलमिव राजधानीं कुम्भीपाकमिव शवपिण्डवदेकत्र
न देहान्तरदर्शनं प्रपञ्चवृत्तिं परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय
विस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मरन्स्वशरीराभिमान देशवि-
स्मरणं मध्वा स्वशरीरं शवमिव हेयमुपगम्य कारागृह विनिर्मुक्तचोरवत्पुत्राप्त-
बन्धुभवस्थलं विहाय दूरतो वसेत् ॥ १॥ अयनेन प्राप्तमाहरन्ब्रह्म प्रणवध्यानानु-
सन्धानपरो भूत्वा सर्वकर्मनिर्मुक्तः कामक्रोध लोभमोहमदमात्सर्यादिकं
दुग्ध्वा त्रिगुणातीतः षडूर्मिरहितः षड्भावविकारशून्यः सत्यवाक्शुचिरद्रोही
ग्राम एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे पञ्चरात्रमनिकेतः स्थिरम-
तिर्नानृतवादी गिरिकन्दरेषु वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्नगरं चतु-
ग्रिममित्येकश्चरेत् । भिक्षुश्वतुर्दशकरणानां न तत्रावकाशं दद्यादविच्छिन्न-
ज्ञानांद्वैराग्यसंपत्तिमनुभूय मत्तो न कश्चिन्नान्यो व्यतिरिक्त इत्यात्मन्यालोच्य
सर्वतः स्वरूपमेव पश्यञ्जीवन्मुक्तिमवाप्य प्रारब्धप्रतिभासनाशपर्यन्तं
चतुर्विधं स्वरूपं ज्ञात्वा देहपतनपर्यन्तं स्वरूपानुसंधानेन वसेत् ॥ २ ॥ त्रिषवण-
स्नानं कुटीचकस्य बहूदकस्य द्विवारं हंसस्येकवारं परमहंसस्य मानसस्त्रानं
तुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानम् । ऊर्ध्वपुण्ड्रं कुटीचकस्य
त्रिपुण्ड्रं बहूदकस्य ऊर्ध्वपुण्डं त्रिपुण्डं हंसस्य भस्मोद्धूलनं परमहंसस्य तुरीया-
तीतस्य तिलकपुण्ड्रमवधूतस्य न किंचित् । तुरीयातीतावधूतयोः ऋतुक्षौरं
कुटीचकस्य ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य परमहंसस्य च न क्षौरम्
अस्ति चेदयनक्षौरम् । तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकान्
माधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं तुरीयातीतस्य गोमुखं अवधूत-
स्याजगरवृत्तिः । शाटीद्वयं कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डं दिग-
म्बरं परमहंसस्य एककौपीनं वा तुरीयातीतावधूतयोर्जातरूपधरत्वं हंसपरम-
हंसयोरजिनं न त्वन्येषाम् ॥ ३ ॥ कूटी चकबहू दकयोर्देवार्चनं हंसपरमहंसयोर्मान-
सार्चनं तुरीयातीतावधूतयोः सोहंभावना । कुटीच कबहू दकयोर्म त्रजपाधिकारो
हंस परमहंसयोर्थ्यांनाधिकारस्तुरीयातीतावधूतयोर्न स्वन्याधिकारस्तुरीयाती-
वावधूतयोर्महावाक्योपदेशाधिकारः परमहंसस्यापि । कुटीचकबहूदक हंसान</p>
<pb n="340" />
<p>उप० ८ ]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>• नान्यस्योपदेशाधिकारः । कुटी चकबहूदकयोर्मानुषप्रणवः हंसपरमहंसयोरा-
न्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः । कुटीचकबहूदकयोः श्रवणं हंस-
परमहंसयोर्मननं तुरीयातीतावधूतयोनिदिध्यासः । सर्वेषामात्मानुसन्धानं
विधिरित्येव मुमुक्षुः सर्वदा संसारतारकं तारकमनुस्मरञ्जीवन्मुक्तो वसेदधि-
कारविशेषेण कैवल्यप्राप्युपायमन्विष्येद्यतिरित्युपनिषत् ॥ ४ ॥
इति नारदपरिव्राजकोपनिषत्सु सप्तमोपदेशः ॥ ७ ॥
अथ हैनं भगवन्तं परमेष्ठिनं नारदः पप्रच्छ संसारतारकं प्रसन्नो ब्रूहीति ।
तथेति परमेष्ठी वक्तुमुपचक्रमे ओमिति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण ।
का व्यष्टिः का समष्टिः संहारप्रणवः सृष्टिप्रणवश्चान्तर्बहिश्वो भयात्मकत्वात्रि-
विधो ब्रह्मप्रणवः । अन्तः प्रणवो व्यावहारिक प्रणवः । बाह्यप्रणव आर्षप्रणवः ।
'उभयात्मको विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणव अर्धमात्राप्रणवः । ओ-
- मिति ब्रह्म । ओमित्येकाक्षरमन्तःप्रणवं विद्धि । स चाष्टधा भिद्यते । अकारो-
कारमकारार्धमात्रानादबिन्दुकलाशक्तिश्चेति । तत्र चत्वार अकारश्चायुतावय-
वान्वित उकारः सहस्रावयवान्वितो मकारः शतावयवो पेतोऽर्धमात्राप्रणवों-
ऽनन्ताचयवाकारः । सगुणो विराट्प्रणवः संहारो निर्गुणप्रणव उभयात्मकोल्प-
तिणो यथालुतो विरादप्लुतः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकः
पत्रिंशत्तत्त्वातीतः । षोडशमात्रात्मकत्वं कथमित्युच्यते । अकारः प्रथमो -
कारो द्वितीया मकारस्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः षष्ठी कला
- सप्तमी कलातीताष्टमी शान्तिर्नवमी शान्त्यतीता दशमी उन्मन्येकादशी
मनोन्मनी द्वादशी पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी परा ।
षोडशी पुनश्चतुःषष्टिमात्रा प्रकृतिपुरुषद्वै विध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा-
स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्यैकोऽपि ब्रह्मप्रणवः सर्वाधारः परंज्योति-
रेप सर्वेश्वरो विभुः सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ॥ १ ॥ सर्वाक्षरमयः
कालः सर्वागममयः शिवः । सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः ॥ २ ॥
भूतं भव्यं भविष्यद्यत्रिकालोदितमव्ययम् । तदप्योंकारमेवायं विद्धि मोक्ष -
दायकम् ॥ ३ ॥ तमेवात्मानमित्येतद्वह्मशब्देन वर्णितम् । तदेकममृतमजरम-
नुभूय तथोमिति ॥ ४ ॥ सशरीरं समारोप्य तन्मयध्वं तथोमिति । त्रिशरीरं
तमात्मानं परं ब्रह्म विनिश्चिनु ॥ ५॥ परं ब्रह्मानुसंदध्याद्विश्वादीनां क्रमः क्रमात् ।
स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक् परम् ॥ ६ ॥ ऐक्यत्वानन्दभोगाच्च</p>
<pb n="341" />
<p>ईशाद्युपनिषत्सु -
1
[ उप० ९
सोऽयमात्मा चतुर्विधः । चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक्
॥ ७ ॥ एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभुः । स्थूलभुक् चतुरात्माथ
विश्वो वैश्वानरः पुमान् ॥ ८ ॥ विश्वजित्प्रथमः पादः स्वमस्थानगतः प्रभुः ।
'सूक्ष्मप्रज्ञः स्वतोऽष्टाङ्ग एको नान्यः परंतप ॥ ९ ॥ सूक्ष्मभुक् चतुरात्माथ तैजसो
भूतराडयम् । हिरण्यगर्भः स्थूलोऽन्तर्द्वितीय: पाद उच्यते ॥ १० ॥ कामं
कामयते यावद्यत्र सुप्तो न कंचन । स्वप्नं पश्यति नैवात्र तत्सुषुप्तमपि स्फुटम्
॥ ११ एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी । नित्यानन्दमयोऽप्यात्मा
सर्वजीवान्तरस्थितः ॥ १२ ॥ तथाप्यानन्दभुक् चेतोमुखः सर्वगतोऽव्ययः ।
चतुरात्मेश्वरः प्राज्ञस्तृतीय: पादसंज्ञितः ॥ १३ ॥ एष सर्वेश्वरश्चैष सर्वज्ञः
सूक्ष्मभावनः । एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ॥ १४ ॥ भूतानां
त्रयमप्येतत्सर्वोपरमबाधकम् । तत्सुषुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्ति-
तम् ॥ १५ ॥ चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम् । तुरीयावसितत्वाच्च
एकैकत्वानुसारतः ॥ १६ ॥ ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञानसाधनम् । वि-
कल्पत्रयमत्रापि सुषुप्तं स्वप्रमान्तरम् ॥ १७ ॥ मायामात्रं विदित्वैवं सच्चि -
देकरसो यम् । विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम् ॥ १८ ॥ न
सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने । नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमा-
न्तरम् ॥ १९ ॥ नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च । तदलक्षणमग्राह्यं
यद्व्यवहार्यमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतं
चतुर्थं मन्यन्ते स ब्रह्मप्रणवः स विज्ञेयो नापरस्तुरीयः सर्वत्र भानुवन्मुमुक्षू-
णामाधारः स्वयं ज्योतिर्ब्रह्माकाशः सर्वदा विराजते परं ब्रह्मत्वादित्युपनिषत् ॥ २०
इति नारदपरिव्राजकोपनिषत्स्वष्टमोपदेशः ॥ ८ ॥
oll
अथ ब्रह्मस्वरूपं कथमिति नारदः पप्रच्छ । तं होवाच पितामहः किं.
ब्रह्मस्वरूपमिति । अन्योऽसावन्योऽहमस्मीति ये विदुस्ते पशवो न स्वभाव-
पशवस्तमेवं ज्ञात्वा विद्वान्मृत्युमुखात्प्रमुच्यते नान्यः पन्था विद्यतेऽयनाय !-
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग
एषां नत्वात्मभावादात्मा ह्यनीशः सुखदुःखहेतोः ॥ १ ॥ ते ध्यानयोगा-
नुगता अपश्यन्देवात्मशक्ति स्वगुणैर्निगूढाम् । यः कारणानि निखिला नि:
निकालात्मयुक्तान्यधितिष्ठत्येकः ॥ २ ॥ तमेकस्मिंस्त्रिवृतं षोडशान्तं शता-
रं विंशतिप्रत्यराभिः । अष्टकैः षड्विर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैक-</p>
<pb n="342" />
<p>उप०९ ]
नारदपरिव्राजकोपनिषत् ॥ ४५ ॥</p>
<p>मोहम् ॥ ३ ॥ पञ्चस्त्रोतोखुं पञ्चयोन्युग्रवत्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादि-
मूलाम् । पञ्चावत पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ४ ॥ सर्वा-
जीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारं
च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ५ ॥ उद्गीथमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं
स्वप्रतिष्ठाक्षरं च । अत्रान्तरं वेदविदो विदित्वा लीनाः परे ब्रह्मणि तत्परा-</p>
<lg>
  <l>यणाः ॥ ६ ॥ संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ।</l>
  <l>अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ७ ॥</l>
</lg>
<p>ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चारमा
विश्वरूपो कती त्रयं यदा विन्दते ब्रह्म ह्येतत् ॥ ८ ॥ क्षरं प्रधानममृताक्षरं
हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्वभावाद्भूयश्चान्ते
विश्वमायानिवृत्तिः ॥ ९ ॥ ज्ञात्वा देवं मुच्यते सर्वपाशैः क्षीणैः क्लेशैर्जन्म-
मृत्युप्रहाणिः । तस्माभिध्यानाश्रितयं देहभेदे विश्वैश्वर्यं केवल आत्मकामः
॥ १० ॥ एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व प्रोक्तं त्रिविधं ब्रह्म ह्येतत् ॥ ११ በ
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् । य एवं विदित्वा स्वरूपमेवानुचिन्त-
यंस्तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ १२ ॥ तस्माद्विराड्भूतं भव्यं
भविष्यद्भवत्यनश्वर स्वरूपम् । अणोरणीयान्महतो महीयानात्मास्य जन्तो-
र्निहितो गुहायाम् । तमऋतुं पश्यति वीतशोको धातुः प्रसादान्महिमान -</p>
<lg>
  <l>मीशम् ॥ १३ ॥ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: ।</l>
  <l>स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १४ ॥</l>
</lg>
<p>अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा घीरो न
शोचति ॥ १५ ॥ सर्वस्य धातारमचिन्त्यशक्ति सर्वागमान्तार्थविशेषवेद्यम् ।
परात्परं परमं वेदितव्यं सर्वावसाने सकृद्वेदितव्यम् ॥ १६ ॥ कविं पुराणं
पुरुषोत्तमोत्तमं सर्वेश्वरं सर्वदेवैरुपास्यम् । अनादिमध्यान्तमनन्तमव्ययं
शिवाच्युताम्भोरुहगर्भभूधरम् ॥ १७ ॥ स्वेनावृतं सर्वमिदं प्रपञ्चं पञ्चात्मकं
पञ्चसु वर्तमानम् । पञ्चीकृतानन्तभवप्रपञ्चं पञ्चीकृतस्वावयवैरसंवृतम् । परा-
त्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् ॥ १८ ॥ नाविरतो
दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात्
॥ १९ ॥ नान्तःप्रज्ञं न बहिः प्रज्ञं न स्थूलं नास्थूलं न ज्ञानं नाज्ञानं नोभयतः-</p>
<pb n="343" />
<p>ईशाद्युपनिषत्सु -
प्रज्ञमग्राह्यमव्यवहार्यं स्वान्तः स्थितः स्वयमेवेति य एवं वेद स मुक्तो
भवति स मुक्तो भवतीत्याह भगवान्पितामहः । स्वस्वरूपज्ञः परिवाद परिवा-
डेकाकी चरति भयग्रस्तसारङ्गवत्तिष्ठति । गमनविरोधं न करोति । स्वशरीर-
व्यतिरिक्तं सर्वं त्यक्त्वा षट्पदवृत्त्या स्थित्वा स्वरूपानुसन्धानं कुर्वन्सर्वमन -
न्यबुद्ध्या स्वस्मिन्नेव मुक्तो भवति । स परिवाद सर्वक्रियाकारकनिवर्तको
गुरुशिष्यशास्त्रादिविनिर्मुक्तः सर्वसंसारं विसृज्य चामोहितः परिवाद कथं
निर्धनिकः सुखी धनवाज्ञानाज्ञानोभयातीतः सुखदुःखातीतः स्वयंज्योतिः
प्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः सर्वेश्वरः सोऽहमिति । तद्विष्णोः परमं
पदं यत्र गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत्र भाति न शशाङ्कोऽपि न
स पुनरावर्तते न स पुनरावर्तते तत्कैवल्यमित्युपनिषत् ॥ २० ॥
इति नारदवाजकोपनिषत्सु नवमोपदेशः ॥ ९ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति नारदपरिव्राजकोपनिषत्समाप्ता ॥ ४५ ॥
त्रिशिखिब्राह्मणोपनिषत् ॥ ४६ ॥</p>
<lg>
  <l>(शुक्लयजुर्वेदीया )</l>
  <l>योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्जवलम् ।</l>
  <l>प्रतियोगिविनिर्मुक्तं परंब्रह्म भवाम्यहम् ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच । भगवन् किं देहः
किं प्राणः किं कारणं किमात्मेति । स होवाच सर्वमिदं शिव एव विजानीहि ।
किंतु नित्यः शुद्धो निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं दृष्ट्वा
तप्तायः पिण्डवदेकं भिन्नवदवभासते । तद्भासकं किमिति चेदुच्यते । सच्छ-
चदवाच्यमविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् । महतोऽहं-
कारः । अहंकारात्पञ्च तन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्च-
महाभूतेभ्योऽखिलं जगत् ॥ तदखिलं किमिति । भूतविकारविभागादिरिति ।
. एकस्मिन्पिण्डे कथं भूतविकारविभाग इति । तत्तत्कार्यकारणभेदरूपेणांशत-
त्त्ववाचकवाच्यस्थानभेदविषय देवताकोश भेदविभागा भवन्ति । अथाकाशो-</p>
<pb n="344" />
<p>उन्तः
त्रिशिखिब्राह्मणोपनिषत् ॥ ४६ ॥</p>
<p>ःकरणमनोबुद्धिचित्ताहंकाराः । वायुः समानोदानव्यानापानप्राणाः ।
वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । आपः शब्दस्पर्शरूपरसगन्धाः । पृथिवी
वाक्पाणिपादपायूपस्थाः । ज्ञानसंकल्पनिश्चयानुसंधानाभिमाना आकाश-
कार्यान्तःकरणविषयाः । समीकरणोन्नयनग्रहणश्रवणोच्छ्वासा वायुकार्यप्राणा-
दिविषयाः । शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रियविषया अबाश्रिताः ।
वचनादानगमनविसर्गानन्दाः पृथिवीकार्यकर्मेन्द्रियविषयाः । कर्मज्ञानेन्द्रिय-
विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः । मनोबुद्ध्योश्चित्ताहंकारौ चान्तर्भूतौ ।
अवकाशविधूतदर्शनपिण्डीकरणधारणाः सूक्ष्मतमा जैवतन्मात्रविषयाः । एवं
द्वादशाङ्गानि आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि अत्र निशाकर-
चतुर्मुखदिग्वातार्कवरुणाश्वयग्नीन्द्रोपेन्द्रप्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वाद-
शनाड्यन्तः प्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं तदेव ज्ञातेति । अथ व्योमा-
निलानलजलान्नानां पञ्चीकरणमिति । ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्द-
गुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति । मनोव्यानयोगेन
त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो वायौ तिष्ठति वायु स्तिष्ठति । बुद्धिरुदान-
योगेन चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ तिष्ठत्यग्निस्तिष्ठति । चित्तमपान-
योगेन जिह्वाद्वारा रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति । अहंकारः
प्राणयोगेन प्राणद्वारा गन्धगुणो गुद्राधिष्ठितः पृथिव्यां तिष्ठति पृथिवी
तिष्टति य एवं वेद । अत्रैते श्लोका भवन्ति — पृथग्भूते षोडश कलाः स्वार्थ-
भागान्पराक्रमात् । अन्तःकरणव्यानाक्षिरसपायुनभः क्रमात् ॥
मुख्यात्पूर्वोत्तरैर्भागैर्भूते भूते चतुश्चतुः । पूर्वमाकाशमाश्रित्य पृथिव्यादिषु
संस्थिताः ॥ २ ॥ मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः । एवमंशो
ह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा ॥ ३ ॥ तस्मादन्योन्यमाश्रित्य ह्योतं
प्रोतमनुक्रमात् । पञ्चभूतमयी भूमिः सा चेतनसमन्विता ॥ ४ ॥ तत
ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि
धातवः ॥ ५ ॥ केचित्तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् । तस्मिन्नन्न-
मयः पिण्डो नाभिमण्डलसंस्थितः ॥ ६ ॥ अस्य मध्येऽस्ति हृदयं सनालं
पद्मकोशवत् । सत्त्वान्तर्वर्तितो देवाः कर्त्रहंकारचेतनाः ॥ ७ ॥ अस्य बीजं
तमः पिण्डं मोहरूपं जडं धनम् । वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत्
॥ ८ ॥ प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे । अनन्तशक्ति-
१ ॥</p>
<pb n="345" />
<p>ईशाद्युपनिषत्सु -
संयुक्तो जगद्रूपेण भासते ॥ ९ ॥ सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते ।
सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् ॥ १० ॥ सर्वदेशेष्वनुस्यू-
तश्चतूरूपः शिवात्मकः । यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः ॥ ११ ॥
तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे । यथा कोशस्तथा जीवो यथा
जीवस्तथा शिवः ॥ १२ ॥ सविकारस्तथा जीवो निर्विकारस्तथा शिवः ।
कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः ॥ १३ ॥ यथा रसाशये
फेनं मथनादेव जायते । मनोनिर्मथनादेव विकल्पा बहवस्तथा ॥ १४॥
कर्मणा वर्तते कर्मी तत्त्यागाच्छान्तिमाप्नुयात् । अयने दक्षिणे प्राप्ते प्रपञ्चा-
भिमुखं गतः ॥ १५ ॥ अहंकाराभिमानेन जीवः स्याद्धि सदाशिवः । स
चाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते ॥ १६ ॥ नानायोनिशतं गत्वा शेतेऽसौ
वासनावशात् । विमोक्षात्संचरत्येव मत्स्यः कूलद्वयं यथा ॥ १७ ॥ ततः
कालवशादेव ह्यात्मज्ञानविवेकतः । उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरं
क्रमात् ॥ १८ ॥ मूर्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् । योगा-
त्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥ १९ ॥ योगज्ञानपरो नित्यं स योगी
न प्रणश्यति । विकारस्थं शिवं पश्येद्विकारश्व शिवे न तु ॥ २० ॥ योग-
प्रकाशकं योगैर्ध्यायेच्चानन्य भावनः । योगज्ञाने न विद्येते तस्य भावो न
सिद्ध्यति ॥ २१ ॥ तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् । योगी निशित-
धारेण क्षुरेणैव निकृन्तयेत् ॥ २२ ॥ शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्ग-
साधनैः ः । ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः ॥ २३ ॥ क्रियायोगम-
थेदानीं शृणु ब्राह्मणसत्तम । अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित्
॥ २४ ॥ यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्रुते । कर्म कर्तव्यमित्येव विहि-
तेष्वेव कर्मसु ॥ २५ ॥ बन्धनं मनसो नित्यं कर्मयोगः स उच्यते । यतचित्तस्य
सततमर्थे श्रेयसि बन्धनम् ॥ २६ ॥ ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः
शिवः । यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः ॥ २७ ॥ स याति परमं
श्रेयो मोक्षलक्षणमञ्जसा । देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः ॥ २८ ॥
अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः । सर्ववस्तुन्युदासीनभावमासन-
मुत्तमम् ॥ २९ ॥ जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः । चित्तस्यान्तर्मुखी-
भावः प्रत्याहारस्तु सत्तम ॥ ३० ॥ चित्तस्य निश्चलीभावो धारणा धारणं
विदुः । सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते ॥ ३१ ॥ ध्यानस्य</p>
<pb n="346" />
<p>त्रिशिखिब्राह्मणोपनिषत् ॥ ४६ ॥</p>
<p>विस्मृतिः सम्यक्समाधिरभिधीयते । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम्
॥ ३२ ॥ क्षमा धृतिर्मिताहारः शौचं चेति यमा दश । तपःसन्तुष्टिरास्तिक्यं
दानमाराधनं हरेः ॥ ३३ ॥ वेदान्तश्रवणं चैव हीर्मतिश्च जपो व्रतम् ॥
इति । आसनानि तदङ्गानि स्वस्तिकादीनि वै द्विज ॥ ३४ ॥ वर्ण्यन्ते
स्वस्तिकं पादतलयोरुभयोरपि । पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् ॥३५॥
सव्ये दक्षिणगुल्कं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं
गोर्मुखं यथा ॥ ३६ ॥ एकं चरणमन्यस्मिन्नू रावारोप्य निश्चलः । आस्ते यदि-
दमेनोनं वीरासनमुदीरितम् ॥ ३७ ॥ गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण
समाहितः । योगासनं भवेदेतदिति योगविदो विदुः ॥ ३८ ॥ ऊर्वोरुपरि
वै धत्ते यदा पादतले उभे । पद्मासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ ३९॥
पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः । व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं
भवेत् ॥ ४० ॥ पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमावा-
तिष्ठेद्व्योमस्थः कुक्कुटासनः ॥ ४१ ॥ कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य
कन्धरम् । शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ ४२ ॥ पादाङ्गुष्ठौ तु
पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षकाकृष्टं धनुरासनमीरितम् ॥ ४३ ॥
सीवनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु । प्रसार्य जानुनोर्हस्तावासनं
सिंहरूपकम् ॥ ४४ ॥ गुल्फौ च वृषणस्याधः सीवन्युभयपार्श्वयोः । निवेश्य
पादौ हस्ताभ्यां बच्वा भद्रासनं भवेत् ॥ ४५ ॥ सीवनी पार्श्वमुभयं गुल्फाभ्यां
व्युत्क्रमेण तु । निपीड्यासनमेतच्च मुक्तासनमुदीरितम् ॥ ४६ ॥ अवष्टभ्य
धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः । कर्पूरौ नाभिपार्श्वे तु स्थापयित्वा मयूर -
वत् ॥ ४७ ॥ समुन्नतशिरःपादं मयूरासनमिष्यते । वामोरुमूले दक्षाि
जान्वोर्वेष्टितपाणिना ॥ ४८ ॥ वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् ।
योनिं वामेन संपीड्य मेदादुपरि दक्षिणम् ॥ ४९ ॥ ऋजुकायः समासीनः
सिद्धासनमुदीरितम् । प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् ॥ ५० ॥
जानूपरि ललाटं तु पश्चिमं तानमुच्यते । येन केन प्रकारेण सुखं धार्यं च
जायते ॥ ५१ ॥ तत्सुखासन मित्युक्तमशक्तस्तत्समाचरेत् । आसनं विजितं येन
जितं तेन जगत्रयम् ॥ ५२ ॥ यमैश्च नियमैश्चैव आसनैश्च सुसंयतः । नाडी-
शुद्धिं च कृत्वादौ प्राणायामं समाचरेत् ॥ ५३ ॥ देहमानं स्वाङ्गुलिभिः षण्ण-
१ सीविन्युत्तरपार्श्वयोः इति पाठः .</p>
<pb n="347" />
<p>ईशायुपनिषत्सु -
वत्यङ्गुलायतम् । प्राणः शरीरादधिको द्वादशाङ्गुलमानतः ॥ ५४ ॥ देहस्थम-
निलं देहसमुद्भूतेन वह्निना । न्यूनं समं वा योगेन कुर्वन्ब्रह्मविदिष्यते ॥ ५५॥
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् । त्रिकोणं द्विपदामन्यच्चतुरस्त्रं चतु-
प्पदम् ॥ ५६ ॥ वृत्तं विहङ्गमानां तु षडस्त्रं सर्पजन्मनाम् । अष्टात्रं स्वेदजानां
तु तस्मिन्दीपवदुज्वलम् । कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् ।
चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ॥ ५७ ॥ अण्डाकृति तिरश्चां च द्विजानां
च चतुष्पदाम् । तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिष्यते ॥ ५८ ॥ तत्र
चक्रं द्वादशारं तेषु विष्ण्वादिमूर्तयः । अहं अत्र स्थितश्चक्रं भ्रामयामि
स्वमायया ॥ ५९ ॥ अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम । तन्तुपञ्जरमध्य-
स्था यथा भ्रमति लूतिका ॥ ६० ॥ प्राणाविरूढश्चरति जीवम्तेन विना नहि ।
तस्योर्ध्व कुण्डली स्थानं नाभेस्तिर्यगथोर्ध्वतः ॥ ६१ ॥ अष्टप्रकृतिरूपा सा चाष्टधा
कुण्डलीकृता । यथावद्वायुसारं च ज्वलनादि च नित्यशः ॥ ६२ ॥ परितः कन्द-
पार्श्वे तु निरुध्यैव सदा स्थिता । मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा ॥६३॥
योगकालेन मरुता साग्निना बोधिता सती । स्फुरिता हृदयाकाशे नागरूपा
महोज्ज्वला ॥ ६४ ॥ अपानाद्वयङ्गुलादूर्ध्वमधो मेढ्रस्य तावता । देहमध्यं
मनुष्याणां हृन्मध्यं तु चतुष्पदाम् ॥ ६५ ॥ इतरेषां तुन्दमध्ये प्राणापानस-
मायुताः । चतुष्प्रकारद्व्ययुते देहमध्ये सुपुनया ॥ ६६ ॥ कन्दमध्ये स्थिता
नाडी सुषुम्ना सुप्रतिष्ठिता । पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी ॥ ६७ ॥
ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् । वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्ति-
पद्धतिः ॥६८॥ इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते । इडा समुन्थिता
कन्दाद्वामनासापुटावधि ॥ ६९ ॥ पिङ्गला चोन्थिता तस्माद्दक्षनासापुटावधि ।
गान्धारी हस्तिजिह्वा च द्वे चान्ये नाविके स्थिते ॥ ७० ॥ पुरतः पृष्ठतस्तस्य
वामेतरदृशौ प्रति । पूषायशस्विनीनाड्यौ तस्मादेव समुन्थिते ॥ ७१ ॥
सव्येतर श्रुत्यवधि पायुमूला दलम्बुला । अधोगता शुभा नाडी मेदान्तावधि-
रायता ॥ ७२ ॥ पादाङ्गुष्ठावधिः कन्द्रादधोयाता च कौशिकी । दशप्रकार-
भूतास्ताः कथिताः कन्दसंभवाः ॥ ७३ ॥ तन्मूला बहवो नाङयः स्थूल-
सूक्ष्माश्च नाडिकाः । द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माश्च नादयः ॥ ७४ ॥
संख्यातुं नैव शक्यन्ते स्थूलमूलाः पृथग्विधाः । यथाश्वत्थदले सूक्ष्माः
१ नानानाडीसमावृतम् इति पाठः .</p>
<pb n="348" />
<p>त्रिशिखिब्राह्मणोपनिषत् ॥ ४६ ॥
३३३:
स्थूलाश्च विततास्तथा ॥ ७५ ॥ प्राणापानौ समानश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥ ७६ ॥ चरन्ति दशनाडीषु दश
प्राणादिवायवः । प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् ॥ ७७ ॥ प्राण
एवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः । आस्यनासिकयोर्मध्यं हृदयं नाभि-
मण्डलम् ॥ ७८ ॥ पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम । अपानश्चरति
ब्रह्मन्गुदमेोरुजानुषु ॥ ७९ ॥ समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः ।
उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ॥ ८० ॥ व्यानः श्रोत्रोरुकट्यां च
गुल्फस्कन्धगलेषु च । नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः ॥ ८१ ॥
तुन्दस्थजलमन्नं च रसादीनि समीकृतम् । तुन्दमध्यगतः प्राणस्तानि
कुर्यात्पृथक्पृथक् ॥ ८२ ॥ इत्यादिचेष्टनं प्राणः करोति च पृथकूस्थितम् ।
अपानवायुर्मूत्रादेः करोति च विसर्जनम् ॥ ८३ ॥ प्राणापानादिचेष्टादि
क्रियते व्यानवायुना । उज्जीर्यते शरीरस्थमुदानेन नभस्वता ॥ ८४ ॥
पोषणादिशरीरस्य समानः कुरुते सदा । उद्गारादिक्रियो नागः कूर्मोऽक्षादि-
निमीलनः ॥ ८५ ॥ कृकरः श्रुतयोः कर्ता दत्तो निद्वादिकर्मकृत् । मृतगात्रस्य
शोभादेर्धनंजय उदाहृतः ॥ ८६ ॥ नाडिभेदं मरुद्भेदं मरुतां स्थानमेव च ।
चेष्टाश्च विविधास्तेषां ज्ञात्वैव द्विजसत्तम ॥ ८७ ॥ शुद्धौ यतेत नाडीनां
पूर्वोक्तज्ञानसंयुतः । विविक्तदेशमासाद्य सर्वसंबन्धवर्जितः ॥ ८८ ॥ योगाङ्ग-
द्रव्यसंपूर्ण तत्र दारुमये शुभे । आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः
॥ ८९ ॥ तावदासनमुत्सेधे तावद्वयसमायते । उपविश्यासनं सम्यक्स्वस्तिकादि
यथारुचि ॥ ९० ॥ बच्वा प्रागासनं विप्रो ऋजुकायः समाहितः । नासा-
ग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् ॥ ९१ ॥ रसनां तालुनि न्यस्य
स्वस्थचित्तो निरामयः । आकुञ्चितशिरः किंचिन्निबध्नन्योगमुद्रया ॥ ९२ ॥
हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् । रेचनं पूरणं वायोः शोधनं
रेचनं तथा ॥ ९३ ॥ चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते । हस्तेन
दक्षिणेनैव पीडयेन्नासिकापुटम् ॥ ९४ ॥ शनैः शनैरथ बहिः प्रक्षिपेत्पिङ्ग-
लानिलम् । इडया वायुमापूर्य ब्रह्मन्षोडशमात्रया ॥ ९५ ॥ पूरितं कुम्भ-
येत्पश्चाच्चतुःषष्ट्या तु मात्रया । द्वात्रिंशन्मात्रया सम्यग्रेचयेत्पिङ्गलानिलम्
॥ ९६ ॥ एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु । संपूर्णकुम्भवद्देहं कुम्भ-
१ क्षवथोः कर्ता.</p>
<pb n="349" />
<p>ईशाद्युपनिषत्सु -
येन्मातरिश्वना ॥ ९७ ॥ पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना । एवं कृते
सति ब्रह्मंश्चरन्ति दश वायवः ॥ ९८ ॥ हृदयाम्भोरुहं चापि व्याकोचं भवति
स्फुटम् । तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् ॥ ९९ ॥ प्रातर्मध्यन्दिने
सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ १०० ॥
एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते । संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः
॥ १०१ ॥ योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः । अल्पाशी स्वल्पनिद्रश्च
तेजस्वी बलवान्भवेत् ॥ १०२ ॥ अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् ।
प्रस्वेदजननं यस्य प्राणायामस्तु सोऽधमः ॥ १०३ ॥ कम्पनं वपुषो यस्य
प्राणायामेषु मध्यमः । उत्थानं वपुषो यस्य स उत्तम उदाहृतः ॥ १०४ ॥
अध व्याधिपापानां नाशः स्यान्मध्यमे पुनः । पापरोगमहाव्याधिनाशः
स्यादुत्तमे पुनः ॥१०५॥ अल्पमूत्रोऽल्पविष्टश्च लघुदेहो मिताशनः । पद्विन्द्रियः
पटुमतिः कालत्रयविदात्मवान् ॥ १०६ ॥ रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव
यः । करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् ॥ १०७ ॥ नाभिकन्दे च
नासाग्रे पादाङ्गुष्ठे च यत्नवान् । धारयेन्मनसा प्राणान्सन्ध्याकालेषु वा सदा
॥ १०८ ॥ सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः । कुक्षिरोगविनाशः स्यान्ना-
भिकन्देषु धारणात् ॥ १०९ ॥ नासाग्रे धारणाद्दीर्घमायुः स्याद्देहलाघवम् ।
ब्राह्मे मुहूर्ते संप्राप्ते वायुमाकृष्य जिह्वया ॥ ११० ॥ पिबतस्त्रिषु मासेषु
वाक्सिद्धिर्महती भवेत् । अभ्यासतश्च षण्मासान्महारोगविनाशनम् ॥ १११ ॥
यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते । धारणादेव मरुतस्तत्तदारोग्यमश्रुते
॥ ११२ ॥ मनसो धारणादेव पवनो धारितो भवेत् । मनसः स्थापने हेतु-
रुच्यते द्विजपुङ्गव ॥ ११३ ॥ करणानि समाहत्य विषयेभ्यः समाहितः । अपान-
मूर्ध्वमाकृप्येदुदरोपरि धारयेत् ॥ ११४ ॥ बन्कराभ्यां श्रोत्रादिकरणानि
यथातथम् । युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं मनः ॥ ११५ ॥ मैनोवशा-
प्राणवायुः स्ववशे स्थाप्यते सदा । नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते
॥ ११६ ॥ तिस्रश्च नाडिकास्तासु स यावन्तं चरत्ययम् । शङ्खिनीविवरे याम्ये
प्राणः प्राणभृतां सताम् ॥ ११७ ॥ तावन्तं च पुनः कालं सौम्ये चरति सं-
ततम् । इत्थं क्रमेण चरता वायुना वायुजिन्नरः ॥ ११८ ॥ अहश्च रात्रिं पक्ष
च मासमृत्वयनादिकम् । अन्तर्मुखो विजानीयात्कालभेदं समाहितः ॥ ११९ ॥
१ मनः कृष्टश्व वै
वायुः.</p>
<pb n="350" />
<p>त्रिशिखिब्राह्मणोपनिषत् ॥ ४६ ॥</p>
<p>अङ्गुष्ठादिस्वावयवस्फुरणादशनेरपि । अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः
॥ १२० ॥ ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः । पादाङ्गुष्ठे कराङ्गुष्टे
स्फुरणं यस्य न श्रुतिः ॥ १२१ ॥ तस्य संवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत् ।
मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति ॥ १२२ ॥ षण्मासावधिरेतस्य
जीवितस्य स्थितिर्भवेत् । कूर्परे स्फुरणं यस्य तस्य त्रैमासिकी स्थितिः ॥ १२३॥
कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने । मासावधिर्जीवितस्य तु दर्शने तदर्धस्य
॥ १२४॥ आश्रिते जठरद्वारे दिनानि दश जीवितम् । ज्योतिः खद्योतवद्यस्य तद
तस्य जीवितम् ॥ १२५ ॥ जिह्वामादर्शने त्रीणि दिनानि स्थितिरात्मनः । ज्वालाया
दर्शने मृत्युर्द्विदिने भवति ध्रुवम् ॥ १२६ ॥ एवमादीन्यरिष्टानि दृष्टायुःक्षयका-
रणम् । निःश्रेयसाय युञ्जीत जपध्यानपरायणः ॥ १२७ ॥ मनसा परमात्मानं
ध्यात्वा तद्रूपतामियात् । यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् ॥ १२८ ॥
स्थानात्स्थानं समाकृष्य प्रत्याहारा स उच्यते । पादाङ्गुष्ठं तथा गुल्फं जङ्घामध्यं
तथैव च ॥ १२९॥ मध्यमूर्वोश्च मूलं च पायुर्हृदयमेव च । मेहनं देहमध्यं च
नाभिं च गलकूर्परम् ॥१३०॥ तालुमूलै च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम् ।
भ्रुवोर्मध्यं ललाटं च मूलमूर्ध्वं च जानुनी ॥१३१॥ मूलं च करयोर्मूलं महा-
न्त्येतानि वै द्विज । पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु ॥ १३२ ॥ मनसो
धारणं यत्तद्युक्तस्य च यमादिभिः । धारणा सा च संसारसागरोत्तारकारणम्
॥ १३३ ॥ आजानुपादपर्यन्तं पृथिवीस्थानमिव्यते । पित्तला चतुरस्रा च
वसुधा वज्रलान्छिता ॥ १३४ ॥ स्मर्तव्या पञ्च घटिकास्तत्रारोप्य प्रभञ्जनम् ।
आ जानु कटिपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ १३५ ॥ अर्धचन्द्रसमाकारं
श्वेतमर्जुनलाञ्छितम् । स्मर्तव्यमम्भः श्वसनमारोप्य दश नाडिकाः ॥ १३६ ॥
आ देहमध्यकट्यन्तमग्निस्थानमुदाहृतम् । तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दश पञ्च
च ॥ १३७ ॥ स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम् । नाभेरुपरि
नासान्तं वायुस्थानं तु तत्र वै ॥ १३८ ॥ वेदिकाकारवद्धूम्रो बलवान्भूतमा-
रुतः । स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् ॥ १३९ ॥ घटिका विंशति-
स्तस्माद्घ्राणाद्ब्रह्मबिलावधि । व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम्
॥ १४० ॥ व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् । पृथिव्यंशे तु देहस्य
चतुर्बाहुं किरीटिनम् ॥ १४१ ॥ अनिरुद्धं हरिं योगी यतेत भवमुक्तये ।
अबंशे पूरयेद्योगी नारायणमुग्रधीः ॥ १४२ ॥ प्रद्युम्नमग्नौ वाय्वंशे संकर्षण-</p>
<pb n="351" />
<p>ईशाद्युपनिषत्सु -
मतः परम् । व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् ॥ १४३ ॥ अचिरा-
देव तत्प्राप्तिर्युञ्जनस्य न संशयः । बद्ध्वा योगासनं पूर्वं हृदेशे हृदयाञ्जलिः
॥ १४४ ॥ नासाग्रन्यस्तनयनो जिह्वां कृत्वा च तालुनि । दन्तैर्दन्तानसंस्पृश्य
ऊर्ध्वकायः समाहितः ॥ १४५ ॥ संयमेच्चेन्द्रियग्राममात्मबुद्धया विशुद्धया ।
चिन्तनं वासुदेवस्य परस्य परमात्मनः ॥ १४६ ॥ स्वरूपव्याप्तरूपस्य ध्यानं
कैवल्यसिद्धिदम् । यममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः ॥ १४७ ॥ सप्त-
जन्मार्जितं पापं तस्य नश्यति योगिनः । नाभिकन्दात्समारभ्य यावद्धृदय-
गोचरम् ॥ १४८ ॥ जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् । सुपुप्तं तालु-
मध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् ॥ १४९ ॥ तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु
लक्षयेत् । जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् ॥ १५० ॥ तत्रात्मायं
तुरीयस्य तुर्यान्ते विष्णुरुच्यते । ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले
॥ १५१ ॥ सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् । हृदयाम्बुरुहासीनं
ध्यायेद्वा विश्वरूपिणम् ॥ १५२ ॥ अनेकाकारखचितमनेकवदनान्वितम् । अनेक-
भुजसंयुक्तमनेकायुधमण्डितम् ॥ १५३ ॥ नानावर्णधरं देवं शान्तमुप्रमुदायु-
धम् । अनेकनयनाकीर्णं सूर्यकोटिसमप्रभम् ॥ १५४ ॥ ध्यायतो योगिनः
सर्वमनोवृत्तिर्विनश्यति । हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥ १५५ ॥
कदम्बगोलकाकारं तुर्यातीतं परात्परम् । अनन्तमानन्दमयं चिन्मयं भास्करं
विभुम् ॥ १५६ ॥ निवातदीपसदृशमकृत्रिममणिप्रभम् । ध्यायतो योगिनस्तस्य
मुक्तिः करतले स्थिता ॥ १५७ ॥ विश्वरूपस्य देवस्य रूपं यत्किंचिदेव हि ।
स्थवीयः सूक्ष्ममन्यद्वा पश्यन्हृदयपङ्कजे ॥ १५८ ॥ ध्यायतो योगिनो यस्तु
साक्षादेव प्रकाशते । अणिमादिफलं चैव सुखेनैवोपजायते ॥ १५९ ॥ जीवा-
त्मनः परस्यापि यद्येवमुभयोरपि । अहमेव परं ब्रह्म ब्रह्माहमिति संस्थितिः
॥ १६० ॥ समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः । ब्रह्म संपद्यते योगी न
भूयः संसृतिं व्रजेत् ॥ १६१ ॥ एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा ।
यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति ॥ १६२ ॥ ग्राह्याभावे मनः
प्राणो निश्चयज्ञानसंयुतः । शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत्
॥ १६३ ॥ मोहजालकसंघातो विश्वं पश्यति स्वप्नवत् । सुषुप्तिवद्यश्चरति
स्वभावपरिनिश्चलः ॥ १६४ ॥ निर्वाणपदमाश्रित्य योगी कैवल्यमद्भुत इत्यु-
पनिषत् ॥ ॐ पूर्णमद इति शान्तिः ॥
इति शुक्लयजुर्वेदीयत्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥ १६ ॥</p>
<pb n="352" />
<p>सीतोपनिषत् ॥ ४७ ॥
सीतोपनिषत् ॥ ४७ ॥</p>
<lg>
  <l>( आथर्वणीया )</l>
  <l>इच्छाज्ञानक्रियाशक्तित्रयं यद्भावसाधनम् ।</l>
  <l>तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>देवा ह वै प्रजापतिःधुक्क सीता किं रूपमिति । स होवाच प्रजापतिः
सा सीतेति । मूलप्रकृतिरूपत्वात्सा सीता प्रकृतिः स्मृता । प्रणवप्रकृतिरूप-
त्वात्सा सीता प्रकृतिरुच्यते । सीता इति त्रिवर्णात्मा साक्षान्मायामयी
भवेत् । विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते । सकारः सत्यममृतं प्राप्तिः
सोमश्च कीर्त्यते । तकारस्तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः ॥ १ ॥ ईकार-
रूपिणी सोमवयवदिष्ट लिंकारस्रमौक्तिकाद्याभरणालंकृता महामाया-
sव्यक्तरूपिणी व्यक्ता भवति । प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना
उद्भावनकरी सात्मिका, द्वितीया भूतले हलाये समुत्पन्ना, तृतीया ईकार-
रूपिणी अव्यक्त स्वरूपा भवतीति सीतेत्युदाहरन्ति । शौनकीये —— श्रीराम-
सान्निध्यवशाज्जगदानन्दकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।
सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्ति
ब्रह्मवादिन इति । अथातो ब्रह्मजिज्ञासेति च । सा सर्ववेदमयी सर्वदेवमयी
सर्वलोकमयी सर्वकीर्तिमयी सर्वधर्ममयी सर्वाधारकार्यकारणमयी महा-
लक्ष्मीर्देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका ब्रह्मस्थावरात्मिका तगुण-
कर्मविभागभेदाच्छरीररूपा देवर्षिमनुष्यगन्धर्वरूपा असुरराक्षसभूतप्रेतपिशा-
चभूतादिभूतशरीररूपा भूतेन्द्रियमनःप्राणरूपेति च विज्ञायते ॥ २॥ सा देवी
त्रिविधा भवति - शक्त्यासनेच्छाशक्तिः क्रियाशक्तिः साक्षाच्छत्तिरिति ।
इच्छाशक्तिस्त्रिविधा भवति — श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी
सोमसूर्याग्निरूपा भवति । सोमात्मिका ओषधीनां प्रभवति कल्पवृक्षपुष्पफल-
लतागुल्मात्मिका औषधभेषजात्मिका अमृतरूपा देवानां महत्स्तोमफलप्रदा
अमृतेन तृप्तिं जनयन्ती देवानामन्नेन पशूनां तृणेन तत्तजीवानां सूर्यादि -
सकलभुवनप्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य घटिकाष्टयाम -
दिवस (वार) रात्रिभेदेन पक्षमासर्त्वयनसंवत्सरभेदेन मनुष्याणां शतायु:-
१ उद्भावनकरात्मका.
अ. उ. २२</p>
<pb n="353" />
<p>ईशाधुपनिषत्सु -
कल्पनया प्रकाशमाना चिरक्षिप्रव्यपदेशेन निमेषमारभ्य परार्धपर्यन्तं काल-
चक्रं जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तमानाः सर्वस्यैतस्यैव कालस्य
विभागविशेषाः प्रकाशरूपाः कालरूपा भवन्ति । अग्निरूपा अन्नपानादि-
प्राणिनां क्षुत्तृष्णात्मिका देवानां मुखरूपा वनौषधीनां शीतोष्णरूपा काष्ठेष्वन्त-
बहिश्च नित्यानित्यरूपा भवति ॥ ३ ॥ श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्संक -
ल्पानुगुण्येन लोकरक्षणार्थं रूपं धारयति । श्रीरिति लक्ष्मीरिति लक्ष्यमाणा
भवतीति विज्ञायते । भूदेवी ससागराम्भःसप्तद्वीपा वसुन्धरा भूरादिचतुर्दश-
भुवनानामाधाराधेया प्रणवात्मिका भवति । नीला च मुखविद्युन्मालिनी
सर्वोषधीनां सर्वप्राणिनां पोषणार्थं सर्वरूपा भवति । समस्तभुवनस्याधोभागे
जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते ॥ क्रियाशक्तिस्वरूपं
हरेर्मुखान्नादः । तन्नादाद्विन्दुः । बिन्दोरोंकारः । ओंकारात्परतो रामवैखान-
सपर्वतः । तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति ॥ ४ ॥ तत्र त्रयीमयं
शास्त्रमाद्यं सर्वार्थदर्शनम् । ऋग्यजुः सामरूपत्वात्रयीति परिकीर्तिता । ...
कार्यसिद्धेन चतुर्धा परिकीर्तिता । ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा ।
चातुर्होत्र प्रधानत्वाल्लिङ्गादित्रितयं त्रयी । अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्म-
कम् । तथा दिशन्त्याभिचारसामान्येन पृथक्पृथक् । एकविंशतिशाखाया-
मृग्वेदः परिकीर्तितः । शतं च नवशाखासु यजुषामेव जन्मनाम् । साम्नः सहस्र-
शाखाः स्युः पञ्चशाखा अथर्वणः । वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् ।
स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् । कल्पो व्याकरणं शिक्षा निरुक्तं
ज्योतिषं छन्द एतानि षडङ्गानि ॥ ५ ॥ उपाङ्गमयनं चैव मीमांसान्यायविस्तरः ।
धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा । निबन्धाः सर्वशाखा च समयाचार-
सङ्गतिः । धर्मशास्त्रं महर्षीणामन्तःकरणसंभृतम् । इतिहासपुराणाख्यमुपाङ्गं च
प्रकीर्तितम् । वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने । आयुर्वेदश्च पञ्चैते
उपवेदाः प्रकीर्तिताः । दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः । एक-
विंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः । वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्र-
वेत् । त्रयीरूपेण संकल्प्य इत्थं देही विजृम्भते । संख्यारूपेण संकल्प्य वैखा-
नसऋषेः पुरा । उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ।
शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता । साक्षाच्छक्तिर्भगवतः स्मरणमात्ररूपा-
विर्भावप्रादुर्भावात्मिका निग्रहानुग्रहरूपा शान्तितेजोरूपा व्यक्ताव्यक्त-
कारणचरणसमग्रावयवमुखवर्णभेदाभेदरूपा भगवत्सहचारिण्यनपायिन्य-</p>
<pb n="354" />
<p>योगचूडामण्ड पनिषत् ॥ ४८ ॥</p>
<p>नवरतसहाश्रयिण्युदितानुदिताकारा निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानु-
ग्रहादिसर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरिति गीयते ॥ ६ ॥ इच्छाशक्ति-
स्त्रिविधा प्रलयावस्थायां विश्रमणार्थं भगवतो दक्षिणवक्षःस्थले श्रीवत्सा-
कृतिर्भूत्वा विश्राम्यतीति सा योगशक्तिः । भोगशक्तिर्भोगरूपा कल्पवृक्ष-
कामधेनुचिन्तामणिशङ्खपद्मनिध्यादिनवनिधिसमाश्रिता भगवदुपासकानां
कामनयाsकामनया वा भक्तियुक्ता नरं नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा
यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधिभिर्वालमनण्वपि गोपुर-
प्राकारादिभिर्विमानादिभिः सह भगवद्विग्रहाचपूजोपकरणैरर्चनैः स्नानादिभिर्वा
पितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा सर्वं क्रियते ॥ ७ ॥
अथातो वीरशक्तिश्चतुर्भुजाऽभयवरदपद्मधरा किरीटाभरणयुता सर्वदेवैः परि-
वृता कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलैरभिषिच्यमाना सर्वदैवतैर्ब्रह्मा-
दिभिर्वन्द्यमाना अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना स्तूयमाना वेदशा-
स्वादिभिः स्तूयमाना जयाद्यप्सरः स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां
दीपाभ्यां प्रकाश्यमाना तुम्बुरुनारदादिभिर्गीयमाना राकासिनीवालीभ्यां
छत्रेण ह्लादिनी मायाभ्यां चामरेण स्वाहास्वधाभ्यां व्यजनेन भृगुपुण्यादिभि-
रभ्यर्च्यमाना देवी दिव्यासिंहासने पद्मासनारूढा सकलकारणकार्यकरी लक्ष्मी-
र्देवस्य पृथग्भवनकल्पना । अलंकार स्थिरा प्रसन्नलोचना सर्वदेवतैः
पूज्यमाना वीरलक्ष्मीरिति विज्ञायत इत्युपनिषत् ॥ ८ ॥
ॐ ॥ भद्रं कर्णेभिरिति शान्तिः ॥
इत्याथर्वणीयसीतोपनिषत्समाप्ता ॥ ४७ ॥
योगचूडामण्युपनिषत् ॥</p>
<lg>
  <l>४८ ॥</l>
  <l>मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् ।</l>
  <l>योगज्ञानैकफलकं रामचन्द्रपदं भजे ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया । कैवल्यसिद्धिदं गूढं
सेवितं योगवित्तमैः ॥ १ ॥ आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं
'समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ २ ॥ एकं सिद्धासनं प्रोक्तं द्वितीयं
कमलासनम् । षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥ ३ ॥ स्वदेहे
यो न जानाति तस्य सिद्धिः कथं भवेत् । चतुर्दलं स्यादाधारं स्वाधिष्ठानं च</p>
<pb n="355" />
<p>ईशाद्युपनिषत्सु -
षड्दलम् ॥ १ ॥ नाभौ दशदलं पद्मं हृदये द्वादशारकम् । षोडशारं विशु-
वाख्यं भ्रूमध्ये द्विदलं तथा ॥ ५ ॥ सहस्रदलसंख्यातं ब्रह्मरन्ध्रे महापथि । .
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ६ ॥ योनिस्थानं द्वयोर्मध्ये
कामरूपं निगद्यते । कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् ॥ ७ ॥
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । तस्य मध्ये महालिङ्ग
पश्चिमाभिमुखं स्थितम् ॥ ८ ॥ नाभौ तु मणिवद्विम्बं यो जानाति स योग-
वित् । तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् ॥ ९ ॥ त्रिकोणं तत्पुरं
वह्नेरधो मेढात्प्रतिष्ठितम् । समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥ १० ॥
तस्मिन्दृष्टे महायोगे यातायातो न विद्यते । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं
तदाश्रयः ॥ ११ ॥ स्वाधिष्ठानाश्रयादस्मान्मेढमेवाभिधीयते । तन्तुना मणि-
चत्प्रोतो योऽत्र कन्दः सुपुन्नया ॥ १२ ॥ तन्नाभिमण्डले चक्रं प्रोच्यते
मणिपूरकम् । द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥ १३ ॥ तावज्जीवो
भ्रमत्येवं यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेादधो नाभेः कन्दे योनिः खगाण्ड -
चत् ॥ १४ ॥ तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः । तेषु नाडीसह -
त्रेषु द्विसप्ततिरुदाहृता ॥ १५ ॥ प्रधानाः प्राणवाहिन्यो भूयस्तासु दश
स्मृताः । इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा ॥ १६ ॥ गान्धारी हस्ति-
जिह्वा च पूषा चैव यशस्विनी । अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता
॥ १७ ॥ एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा । इडा वामे स्थिता
भागे दक्षिणे पिङ्गला स्थिता ॥ १८ ॥ सुषुम्ना मध्यदेशे तु गान्धारी वाम-
चक्षुषि । दक्षिण हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ॥ १९ ॥ यशस्विनी
वामकर्णे चानने चाप्यलम्बुसा । कुहूच लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी
॥ २० ॥ एवं द्वारं समाश्रित्य तिष्टन्ते नाडयः क्रमात् । इडापिङ्गलासौपुन्नाः
आणमार्गे च संस्थिताः ॥ २३ ॥ सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ।
प्राणापानसमानाख्या व्यानोदानौ च वायवः ॥ २२ ॥ नागः कूर्मोऽथ कृकरो
देवदत्तो धनंजयः । हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥ २३ ॥
समानो नाभिदेशे तु उदानः कण्ठमध्यगः । व्यानः सर्वशरीरे तु प्रधानाः
पञ्च वायवः ॥ २४ ॥ उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा । कृकरः
'क्षुत्रो ज्ञेयो देवदत्तो विजृम्भणे ॥ २५ ॥ न जहाति मृतं वापि सर्वव्यापी
धनंजयः । एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः ॥ २६ ॥ आक्षिप्तो
भुजदण्डेन यथा चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न</p>
<pb n="356" />
<p>योगचूडामण्युपनिषत् ॥ ४८ ॥</p>
<p>तिष्ठति ॥ २७ ॥ प्राणापानवशो जीवो ह्यधश्चोर्ध्व च धावति । वामदक्षिण-
मार्गाभ्यां चञ्चलत्वान्न दृश्यते ॥ २८ ॥ रजुबद्धो यथा श्येनो गतोऽप्याकृष्यते
पुनः । गुणबद्धस्तथा जीवः प्राणापानेन कर्षति ॥ २९ ॥ प्राणापानवशो
जीवो ह्यधश्चोर्ध्व च गच्छति । अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।
ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् ॥ ३० ॥ हकारेण बहि-
यति सकारेण विशेत्पुनः । हंस हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ ३१ ॥
शतानि दिवारात्रौ सहस्राण्येकविंशतिः । एतत्संख्यान्वितं मन्त्रं जीवो
जपति सर्वदा ॥ ३२ ॥ अजपा नाम गायत्री योगिनां मोक्षदा सदा । अस्याः
संकल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ३३ ॥ अनया सदृशी विद्या अनया सदृशो
जपः । अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥ ३४ ॥ कुण्डलिन्या
समुद्भूता गायत्री प्राणधारिणी । प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित्
॥ ३५ ॥ कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः । ब्रह्मद्वारमुखं नित्यं
सुखेनाच्छाद्य तिष्ठति ॥ ३६ ॥ येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् । मुखे-
'नाच्छाद्य तद्वारं प्रसुता परमेश्वरी ॥ ३७ ॥ प्रबुद्धा वह्नियोगेन मनसा मरुता
सह । सूचीवद्द्वात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया ॥ ३८ ॥ उद्घाटयेत्कवाटं तु
यथा कुञ्चिकया गृहम् । कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ ३९ ॥
कृत्वा संपुटितौ करौ दृढतरं बच्वा तु पद्मासनं गाढं वक्षसि संनिधाय चुबुकं
ध्यानं च तच्चेष्टितम् । वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन्प्राण-
मुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ४० ॥ अङ्गानां मर्दनं कृत्वा श्रम-
संजातवारिणा । कदम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ४१ ॥ ब्रह्मचारी
मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचा-
रणा ॥ ४२ ॥ सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुञ्जते शिवसंप्रीत्या
मिताहारी स उच्यते ॥ ४३ ॥ कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः ।
बन्धनाय च मूढानां योगिनां मोक्षदा सदा ॥ ४४ ॥ महामुद्रा नभोमुद्रा
ओड्याणं च जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम्
॥ ४५ ॥ पाणिघातेन संपीड्य योनिमाकुञ्चयेद्दृढम् । अपानमूर्ध्वमाकृष्य
मूलबन्धो विधीयते ॥ ४६ ॥ अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः । युवा
भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७ ॥ 'ओड्याणं कुरुते यस्मादवि-
श्रान्तं महाखगः । 'ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी ॥ ४८ ॥ उदरा-
पश्चिमं ताणमधो नाभेर्निगद्यते । 'ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते
१ वोड्याणं, उडयाणं इति पाठौ.</p>
<pb n="357" />
<p>૩૨
ईशाग्रुपनिषत्सु -
॥ ४९ ॥ नाति हि शिरोजातमधोगामि नभोजलम् । ततो जालन्धरो बन्धः
`कष्टदुःखौघनाशनः ॥ ५० ॥ जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । न
पीयूष पतत्यौ न च वायुः प्रधावति ॥ ५१ ॥ कपालकुहरे जिह्वा प्रविष्टा
विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ५२ ॥ न रोगो मरणं
तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्
॥ ५३ ॥ पीड्यते न च रोगेण लिप्यते न स कर्मभिः । बाध्यते न च केनापि
यो मुद्रां वेत्ति खेचरीम् ॥ ५४ ॥ चित्तं चरति खे यस्माजिह्वा चरति खे
यतः । तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ॥ ५५ ॥ बिन्दुमूलशरीराणि
शिरास्तत्र प्रतिष्ठिताः । भावयन्ती शरीराणि आ पादतलमस्तकम् ॥ ५६ ॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षीयते बिन्दुः कामि-
न्यालिङ्गितस्य च ॥ ५७ ॥ यावद्विन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ।
यावद्वद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति ॥ ५८ ॥ ज्वलितोऽपि यथा बिन्दुः
संप्राप्तश्च हुताशनम् । व्रजत्यूर्ध्व गतः शक्त्या निरुद्धो योनिमुद्रया ॥ ५९ ॥
स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा । पाण्डरं शुक्कमित्याहुहिताख्यं
महारजः ॥ ६० ॥ सिन्दूरव्रातसंकाशं रविस्थानस्थितं रजः । शशिस्थान-
स्थितं शुकुं तयोरैक्यं सुदुर्लभम् ॥ ६१ ॥ बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू
रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ६२ ॥ वायुना
शक्तिचालेन प्रेरितं च यथा रजः । याति बिन्दुः सदैवत्वं भवेद्विव्य-</p>
<lg>
  <l>वपुस्तदा ॥ ६३ ॥ शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण संगतम् ।</l>
  <l>तयोः समरसैकत्वं यो जानाति स योगवित् ॥</l>
</lg>
<p>६४ ॥ शोधनं
नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते
॥ ६५ ॥ वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्क्षिणा हस्ताभ्याम-
धारयन्प्रसरितं पादं तथा दक्षिणम् । आपूर्यं श्वसनेन कुक्षियुगलं बवा
शनै रेचयेत्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥ ६६ ॥ चन्द्रां -
शैन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः । या तुल्या तु भवेत्संख्या ततो मुद्रां
विसर्जयेत् ॥ ६७ ॥ नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अतिभुक्तं
विषं घोरं पीयूषमिव जीर्यते ॥ ६८ ॥ क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः ।
तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ६९ ॥ कथितेयं महा-
मुद्रा महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित्</p>
<pb n="358" />
<p>योगचूडामण्युपनिषत् ॥ ४८ ॥</p>
<p>॥ ७० ॥ पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदो-
ङ्कारमव्ययम् ॥ ७१ ॥ ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यात-
मनादिनिधनमेकं तुरीयं यद्भूतं भवद्भविष्यत् परिवर्तमानं सर्वदाऽनवच्छिन्नं
परंब्रह्म तस्माजाता परा शक्तिः स्वयंज्योतिरात्मिका । आत्मन आकाशः
संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । एतेषां
पञ्चभूतानां पतयः पञ्च सदाशिवेश्वररुद्र विष्णुब्रह्माणश्चेति । तेषां ब्रह्मविष्णु-
रुद्राश्चोत्पत्तिस्थितिलयकर्तारः । राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो रुद्र
इत्येते त्रयो गुणयुक्ताः । ब्रह्मा देवानां प्रथमः संबभूव । धाता च सृष्टौ
विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति प्रथमजा बभूवुः । एतेषां
ब्रह्मणो लोका देवतिर्यङ्गरस्थावराश्च जायन्ते । तेषां मनुष्यादीनां पञ्चभूतस-
मवायः शरीरम् । ज्ञानकर्मेन्द्रियैज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचि-
ताहंकारैः स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते । ज्ञानकर्मेन्द्रियैज्ञ-
नविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिश्च सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते ।
गुणत्रययुक्तं कारणम् । सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते । जाग्रत्स्वप्नसुषुप्ति-
तुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतयश्चत्वारः पुरुषा विश्वतैजस-
प्राज्ञात्मानश्चेति । विश्वो हि स्थूलभुङ्गित्यं तैजसः प्रविविक्तभुक् । आनन्द-
भुक् तथा प्राज्ञः सर्वसाक्षीत्यतः परः ॥ ७२ ॥ प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषु
भोगतः । अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः ॥ ७३ ॥ अकार उकारो
Here at वर्णास्त्रयो वेदास्त्रयो लोकास्यो गुणास्त्रीण्यक्षराणि त्रयः
स्वरा एवं प्रणवः प्रकाशते । अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु ।
उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः ॥ ७४ ॥ विराविश्वः स्थूलश्चा-
कारः । हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः । कारणाव्याकृतप्राज्ञश्च मकारः ।
अकारो राजसो रक्तो ब्रह्मा चेतन उच्यते । उकारः सात्त्विकः शुक्कों विष्णु-
रित्यभिधीयते ॥ ७५ ॥ मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते । प्रणवा-
errat ब्रह्मा प्रणवात्प्रभवो हरिः ॥ ७६ ॥ प्रणवात्प्रभवो रुद्रः प्रणवो हि
परो भवेत् । अकारे लीयते ब्रह्मा छुकारे लीयते हरिः ॥ ७७ ॥ मकारे
लीयते रुद्रः प्रणवो हि प्रकाशते । ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः
॥ ७८ ॥ एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् । अनाहतस्वरूपेण ज्ञानिना-
मूर्ध्वगो भवेत् ॥ ७९ ॥ तैलधारामिवाच्छिन्नं दीर्धघण्टानिनाद्रवत् । प्रणवस्य
1</p>
<pb n="359" />
<p>& &IGË<བུ-
ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते ॥ ८० ॥ ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसू-
क्ष्मतः । ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् ॥ ८१ ॥ जाग्रन्नेत्रद्वयो-
मध्ये हंस एव प्रकाशते । सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् ॥ ८२ ॥
हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् । सकारो ध्यायते जन्तुर्हकारो
हि भवेद्ध्रुवम् ॥ ८३ ॥ इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते । मम-
त्वेन भवेज्जीवो निर्ममत्वेन केवलः ॥ ८४ ॥ भूर्भुवः स्वरिमे लोकाः सोम-
सूर्याग्निदेवताः । यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ८५ ॥
क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी । त्रिधा मात्रास्थितिर्यत्र
तत्परं ज्योतिरोमिति ॥ ८६ ॥ वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् ।
मनसा तजपेन्नित्यं तत्परंज्योतिरोमिति ॥ ८७ ॥ शुचिर्वाप्यशुचिर्वापि यो
जपेत्प्रणवं सदा । न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥ ८८ ॥ चले
वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं
निरुन्धयेत् ॥ ८९ ॥ यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति । मरणं
तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् ॥ ९० ॥ यावद्वायुः स्थितो देहे ताव-
जीवो न मुञ्चति । यावद्दृष्टिभ्रुवोर्मध्ये तावत्कालं भयं कुतः ॥ ९१ ॥ अल्प-
कालभयाद्ब्रह्मन् प्राणायामपरो भवेत् (?) । योगिनो मुनयश्चैव ततः प्राणान्नि-
रोधयेत् ॥ ९२ ॥ षाशदङ्गुलिर्हसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण
प्राणायाम विधीयते ॥ ९३ ॥ शुद्धिमेति यदा सर्व नाडीचक्रं मलाकुलम् ।
तदैव जायते योगी प्राणसंग्रहणक्षमः ॥ ९४ ॥ बद्धपद्मासनो योगी प्राणं
चन्द्रेण पूरयेत् । धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् ॥ ९५ ॥
अमृतोदधिसंकाशं गोक्षीरधवलोपमम् । ध्यात्वा चन्द्रमसं विम्बं प्राणायामे
सुखी भवेत् ॥ ९६ ॥ स्फुरत्प्रज्वलसंज्वालापूज्य मादित्यमण्डलम् । ध्यात्वा
हृदि स्थितं योगी प्राणायामे सुखी भवेत् ॥ ९७ ॥ प्राणं चेदिडया पिबे-
नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणमथो बद्धा त्यजेद्वा-
मया । सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः शुद्धा नाडिगणा
भवन्ति यमिनो मासद्वयादूर्ध्वतः ॥ ९८ ॥ यथेष्टधारणं वायोरनलस्य
प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ९९ ॥ प्राणो
१ निरोधयेत्.</p>
<pb n="360" />
<p>योगचूडामण्युपनिषत् ॥ ४८ ॥
૨૪:
देहस्थितो यावदपानं तु निरुन्धयेत् । एकश्वासमयी मात्रा ऊर्ध्वाधो गगने
गतिः ॥ १०० ॥ रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः । प्राणायामो भवे-
'देवं मात्राद्वादशसंयुतः ॥ १०१ ॥ मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ ।
halational ज्ञातव्यौ योगिभिः सदा ॥ १०२ ॥ पूरकं द्वादशं कुर्या-
कुम्भकं षोडशं भवेत् । रेचकं दश चोंकारः प्राणायामः स उच्यते ॥ १०३ ॥
अधमे द्वादश मात्रा मध्यमे द्विगुणा मता । उत्तमे त्रिगुणा प्रोक्ता प्राणाया-
मस्य निर्णयः ॥ १०४ ॥ अधमे स्वेदजननं कम्पो भवति मध्यमे । उत्तमे
स्थानमाप्नोति ततो वायुं निरुन्धयेत् ॥ १०५ ॥ बद्धपद्मासनो योगी नम-
स्कृत्य गुरुं शिवम् । नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥ १०६ ॥
द्वाराणां नव संनिरुध्य मरुतं बेवा दृढां धारणां नीत्वा कालमपानवह्निस-
हितं शक्त्या समं चालितम् । आत्मध्यानयुतस्त्वनेन विधिना विन्यस्य
मूर्ध्नि स्थिरं यावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते ॥ १०७ ॥
प्राणायामो भवेदेवं पातकेन्धनपावकः । भवोदधिमहासेतुः प्रोच्यते योगि-
"भिः सदा ॥ १०८ ॥ आसनेन रुजं हन्ति प्राणायामेन पातकम् । विकारं
मानसं योगी प्रत्याहारेण मुञ्चति ॥ १०९ ॥ धारणाभिर्मनोधैर्य याति
चैतन्यमद्भुतम् । समाधौ मोक्षमामोति त्यक्त्वा कर्म शुभाशुभम् ॥ ११० ॥
प्राणायामद्विषन प्रत्याहारः प्रकीर्तितः । प्रत्याहारद्विषङ्केन जायते धारणा
शुभा ॥ १११ ॥ धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः । ध्यानद्वादश-
केनैव समाधिरभिधीयते ॥ ११२ ॥ यत्समाधौ परंज्योतिरनन्तं विश्वतो -
मुखम् । तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते ॥ ११३ ॥ संबद्धासनमे-
ढमङ्घ्रियुगलं कर्णाक्षिनासापुटद्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्रेण वा पूरितम् ।
बद्ध्वा वक्षसि बह्वयानसहितं (?) मूर्ध्नि स्थिरं धारयेदेवं यान्ति विशेषतत्त्वस-
मतां योगीश्वरास्तन्मनः ॥ ११४ ॥ गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् ।
'घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता ॥ ११५ ॥ प्राणायामेन युक्तेन
सर्वरोगक्षयो भवेत् । प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः ॥ ११६ ॥
हिक्का कासस्तथा श्वासः शिरः कर्णाक्षिवेदनाः । भवन्ति विविधा रोगाः पव-
नव्यत्ययक्रमात् ॥ ११७ ॥ यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः ।
तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ ११८ ॥ युक्तं युक्तं त्यजेद्वायुं
१ निरोधयेत्. २ लब्ध्वा दृढां .</p>
<pb n="361" />
<p>ईशाद्युपनिषत्सु -
युक्तं युक्तं प्रपूरयेत् । युक्तं युक्तं प्रबभीयादेवं सिद्धिमवाप्नुयात् ॥ ११९ ॥
चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्याहारः स
उच्यते ॥ १२० ॥ यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् । तृतीयाङ्गस्थितो
योगी विकारं मानसं हरेदित्युपनिषत् ॥ १२१ ॥ ॐ आप्यायन्त्विति शान्तिः ॥
इति योगचूडामण्युपनिषत्समाप्ता ॥ ४८ ॥
निर्वाणोपनिषत् ॥ ४९ ॥</p>
<lg>
  <l>निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।</l>
  <l>त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥</l>
</lg>
<p>ॐ वा मनसीति शान्तिः ।
अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् ॥ परिव्राजकाः
पश्चिमलिङ्गाः । मन्मथक्षेत्रपालाः । गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयं
निरञ्जनम् । निःसंशय ऋषिः । निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवल-
ज्ञानम् । ऊर्ध्वाम्नायः । निरालम्बपीठः । संयोगदीक्षा । वियोगोपदेशः ।
दीक्षा संतोषपानं च । द्वादशादित्यावलोकनम् । विवेकरक्षा । करुणैव केलिः ।
आनन्दमाला ऐकान्तगुहायां मुक्तासनसुखगोष्ठी । अकल्पितभिक्षाशी ।
हंसाचारः । सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् । धैर्यकन्था । उदासीन-
कौपीनम् । विचारदण्डः । ब्रह्मावलोकयोगपट्टः । श्रियां पादुका । परेच्छाच-
रणम् । कुण्डलिनीबन्धः । परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च ।
खेचरी मुद्रा च । परमानन्दी । निर्गतगुणत्रयम् । विवेकलभ्यम् । मनोवाग-
गोचरम् । अनित्यं जगद्यजनितं स्वप्नजगदभ्रगजादितुल्यम् । तथा देहादिसंघातं
मोहगुणजाल कलितं तद्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानल-
क्ष्यम् । अङ्कुशो मार्गः । शून्यं न संकेतः परमेश्वरसत्ता । सत्यसिद्धयोगो
मठः । अमरपदं तत्स्वरूपम् । आदिब्रह्मस्वसंवित् । अजपा गायत्री । विकार -
दust ध्येयः । मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् । आन-
न्दभिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः । एकान्तस्थानम् । आनन्द-
मठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः । निर्मलगात्रम् । निरा-
१ एकासनगुहायां. २ दण्डो धार्यः.</p>
<pb n="362" />
<p>ब्राह्म० १ ]
मण्डल ब्राह्मणोपनिषत् ॥ ५० ॥</p>
<note>३४७.</note>
<p>लम्बपीठम् । अमृतकल्लोलानन्दक्रिया । पाण्डरगगनम् । महासिद्धान्तः ।
शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता । परावरसंयोगः । तारकोपदेशः ।
अद्वैतसदानन्दो देवता । नियमः स्वान्तरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्या-
गस्त्यागः । परावरैक्यरसास्वादनम् । अनियामकत्वनिर्मलशक्तिः । स्वप्रकाश-
ब्रह्मतत्त्वे शिवशक्तिसंपुटितप्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलुः ।
भावाभावदहनम् । बिभ्रत्याकाशाधारम् । शिवं तुरीयं यज्ञोपवीतम् । तन्मया
शिखा । चिन्मयं चोत्सृष्टिदण्डम् । संतताक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था ।
मायाममताहंकारदहनम् । श्मशाने अनाहताङ्गी निस्त्रैगुण्यस्वरूपानुसन्धानं
समयम् । भ्रान्तिहरणम् । कामादिवृत्तिदहनम् । काठिन्यदृढकौपीनम् ।
चीराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचारस्वस्वभावो
मोक्षः परं ब्रह्म । लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् । ब्रह्मचर्याश्रमेऽ-
ater वानप्रस्थाश्रमेऽधीत्य ससर्वसंविन्यासं संन्यासम् । अन्ते ब्रह्माखण्डाका-
रम् । नित्यं सर्वसंदेहनाशनम् । एतन्निर्वाणदर्शनं शिष्यं पुत्रं विना न देय-
मित्युपनिषत् ॥ ॐ वाङ् मनसीति शान्तिः ॥
इति निर्वाणोपनिषत्समाप्ता ॥ ४९ ॥
मण्डलब्राह्मणोपनिषत् ॥ ५० ॥</p>
<lg>
  <l>बाह्यान्तस्तारकाकारं व्योमपञ्चकविग्रहम् ।</l>
  <l>राजयोगकसंसिद्धं रामचन्द्रमुपास्महे ॥ १ ॥</l>
</lg>
<p>ॐ पूर्णमद इति शान्तिः ।
ॐ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम । तमादित्यं नत्वा भो
भगवन्नादित्यात्मतत्त्वमनुब्रूहीति । स होवाच नारायणः । ज्ञानयुक्तयमाद्यष्टाङ्ग-
योग उच्यते । शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं विषयेन्द्र-
निग्रह यमाः । गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च तद्व-
स्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः फलानभिलाषो वैराग्य-
भावश्च नियमाः । सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति । पूरक-
कुम्भकरेचकैः षोडशचतुःषष्टिद्वात्रिंशत् संख्यया यथाक्रमं प्राणायामः। विषयेभ्य
इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः । सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ।
विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणं भवति । ध्यानविस्मृतिः</p>
<pb n="363" />
<p>ईशाद्युपनिषत्सु -
[ ब्राह्म० १
समाधिः । एवं सूक्ष्माङ्गानि । य एवं वेद स मुक्तिभाग्भवति ॥ १ ॥
• देहस्य पञ्च दोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः । तन्निरासस्तु निःसंक-
ल्पक्षमालघ्वाहाराप्रमादतातत्त्वसेवनम् । निद्राभयसरीसृपं हिंसादितरङ्गं
तृष्णावर्त दारपङ्कं संसारवाधिं तरीतुं सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्र-
म्य तारकमवलोकयेत् । भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म । तदु-
'पायं लक्ष्यत्रयावलोकनम् । मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा ।
मृणालतन्तुसूक्ष्मा कुण्डलिनी । तत्र तमोनिवृत्तिः । तद्दर्शनात्सर्वपापनिवृत्तिः ।
तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फूत्कारशब्दो जायते । तत्र स्थिते मनसि
चक्षुर्मध्यनीलज्योतिः पश्यति । एवं हृदयेऽपि । बहिर्लक्ष्यं तु नासाग्रे चतु:-
षडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलघुतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्ण-
योपेतं व्योमत्वं पश्यति स तु योगी चलनदृष्ट्या व्योमभागवीक्षितुः
पुरुषस्य दृष्टय ज्योतिर्मयूखा वर्तन्ते । तद्दृष्टिः स्थिरा भवति । शीर्षोपरि
द्वादशाङ्गुलिमानं ज्योतिः पश्यति तदाऽमृतत्वमेति । मध्यलक्ष्यं तु प्रातश्चि-
त्रादिवर्णसूर्यचन्द्रवह्निज्वालावलीवत्तविहीनान्तरिक्षवत्पश्यति । तदाकारा -
कारी भवति । अभ्यासान्निर्विकारं गुणरहिताकाशं भवति । विस्फुरत्तारका-
कारगाढतोपमं पराकाशं भवति । कालानलसमं द्योतमानं महाकाशं
भवति । सर्वोत्कृष्टपरमाद्वितीय प्रद्योतमानं तत्त्वाकाशं भवति । कोटिसूर्यप्र-
काशं सूर्याकाशं भवति । एवमभ्यासात्तन्मयो भवति य एवं वेद ॥ २ ॥
तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः । पूर्वं तु तारकं विद्यादमनस्कं
तदुत्तरमिति । तारकं द्विविधम् - मूर्तितारकममूर्तितारकमिति । यदिन्द्र-
यान्तं तन्मूर्तितारकम् । ययुगातीतं तदमूर्तितारकमिति । उभयमपि
मनोयुक्तमभ्यसेत् । मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति । भ्रूयुगम-
ध्यबिले तेजस आविर्भावः । एतत्पूर्वतारकम् । उत्तरं त्वमनस्कम् । तालु-
मूलोर्ध्वभागे महाज्योतिर्विद्यते । तद्दर्शनादणिमादिसिद्धिः । लक्ष्येऽन्तर्बा-
ह्यायां दृष्टौ निमेषोन्मेषवर्जितायां चेयं शाम्भवी मुद्रा भवति । सर्वतत्रेषु
गोप्यमहाविद्या भवति । यज्ज्ञानेन संसारनिवृत्तिः । तत्पूजनं मोक्षफलदम् ।
अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति । महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम्
॥ ३ ॥ सहस्रारे जलज्योतिरन्तर्लक्ष्यम् । बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुष-
रूपमन्तर्लक्ष्यमित्यपरे । शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्रमुमासहायं नील-</p>
<pb n="364" />
<p>ब्राह्म० २]
मण्डलब्राह्मणोपनिषत् ॥ ५० ॥
३४९-
कण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् । अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ।
उक्तविकल्पं सर्वमात्मैव । तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव
ब्रह्मनिष्ठो भवति जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य
विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति । एवमन्तर्लक्ष्यदर्शनेन जीव-
न्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति ॥ ४ ॥
इति मण्डलब्राह्मणोपनिषत्सु प्रथमं ब्राह्मणम् ॥ १ ॥
अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुष पप्रच्छ । भगवन्नन्तर्लक्ष्यादिकं
बहुधोक्तम् । मया तन्न ज्ञातम् । तद्रूहि मह्यम् । तदुहोवाच पञ्चभूतकारणं
तडित्कूटाभं तद्वच्चतुःपीठम् । तन्मध्ये तत्त्वप्रकाशो भवति । सोऽतिगूढ
अव्यक्तश्च । तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् । तद्वाह्याभ्यन्तर्लक्ष्यम् । तन्मध्ये
जगल्लीनम् । तन्नादबिन्दुकलातीतमखण्डमण्डलम् । तत्सगुणनिर्गुणस्वरूपम् ।
तद्वेत्ता विमुक्तः । आदावग्निमण्डलम् । तदुपरि सूर्यमण्डलम् । तन्मध्ये
सुधाचन्द्रमण्डलम् । तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् । तद्विद्युल्लेखावच्छुक्लभाः--
स्वरम्। तदेव शाम्भवीलक्षणम् । तद्दर्शने तिस्रो मूर्तयः -3
:- अमा प्रतिपत् पूर्णिमा-
चेति । निमीलितदर्शनममादृष्टिः । अर्धोन्मीलितं प्रतिपत् । सर्वोन्मीलनं
पूर्णिमा भवति । तासु पूर्णिमाभ्यासः कर्तव्यः । तल्लक्ष्यं नासाग्रम् । यदा
तालुमूले गाढतमो दृश्यते । तदभ्यासादखण्डमण्डलाकारज्योति दृश्यते ।
तदेव सच्चिदानन्दं ब्रह्म भवति । एवं सहजानन्दे यदा मनो लीयते तदा
शान्तो भवी भवति । तामेव खेचरीमाहुः । तदभ्यासान्मनः स्थैर्यम् । ततो
वायुस्थैर्यम् । तच्चिह्नानि — आदौ तारकवद्दृश्यते । ततो वज्रदर्पणम् । तत
उपरि पूर्णचन्द्रमण्डलम् । ततो नवरत्नप्रभामण्डलम् । ततो मध्याह्नार्क--
मण्डलम् । ततो वह्निशिखामण्डलं क्रमादृश्यते ॥ १ ॥ तदा पश्चिमाभि-
मुखप्रकाशः स्फटिकधूम्रबिन्दुनाद कलानक्षत्र खद्योतदीप नेत्रसवर्णनवरत्नादिप्रभा
दृश्यन्ते । तदेव प्रणवस्त्ररूपम् । प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्रद-
शैनदृढभावनया द्विकराङ्गुलिभिः षण्मुखीकरणेन प्रेणवध्वनिं निशम्य मन--
स्तन लीनं भवति । तस्य न कर्मलेपः । रवेरुदयास्तमययोः किल कर्म कर्त-
व्यम् । एवंविधश्चिदादित्यस्योदयास्तमयाभावात्सर्वकर्माभावः । शब्दकाल--
लयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञानेनोन्मन्यवस्थावशेन ब्रह्मैक्यं
१ तिस्रो दृष्टयः • २ प्रणवादिध्वनिं.</p>
<pb n="365" />
<p>ईशाद्युपनिषत्सु -
[ ब्राह्म० २.
भवति । उन्मन्या अमनस्कं भवति । तस्य निश्चिन्ता ध्यानम् । सर्वकर्मनि-
राकरणमावाहनम् । निश्चयज्ञानमासनम् । उन्मनीभावः पाद्यम् । सदाऽम-
नस्कमर्घ्यम् । सदादीप्तिरपारामृतवृत्तिः स्नानम् । सर्वत्र भावना गन्धः -
दृक्खरूपावस्थानमक्षताः । चिदाप्तिः पुष्पम् । चिदग्निस्वरूपं धूपः । चिदा-
दित्यस्वरूपं दीपः । परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम् । निश्चलत्वं
प्रदक्षिणम् । सोsहंभावो नमस्कारः । मौनं स्तुतिः । सर्वसंतोषो विसर्जनमिति
`य एवं वेद ॥ २ ॥ एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीप-
वदचलसंपूर्णभावाभावविहीनकैवल्यज्योतिर्भवति । जाग्रन्निन्दान्तःपरिज्ञानेन
ब्रह्मविद्भवति । सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयोर्भेदस्तमसि
लीनत्वान्मुक्तिहेतुत्वाभावाच्च । समाधौ मृदिततमोविकारस्य तदाकाराकारि-
ताखण्डाकारवृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः संपद्यते प्रपञ्चस्य मनः कल्पि -
तत्वात् । ततो भेदाभावात् कदाचिद्वहितेऽपि मिथ्यात्वभानात् । सकृद्वि-
भातसदानन्दानुभवैकगोचरो ब्रह्मवित्तदैव भवति । यस्य संकल्पनाशः स्यात्तस्य
मुक्तिः करे स्थिता । तस्माद्भावाभावौ परित्यज्य परमात्मध्यानेन मुक्तो
भवति । पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये
चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् । य एवं वेद ॥ ३ ॥ पञ्चावस्थाः
जाग्रत्स्वप्न सुषुप्ति तुरीयातीताः । जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः ।
पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्षते । स एव स्वीकृतवैरा-
ग्यात्कर्मफलजन्माऽलं संसारबन्धनमलमिति विमुक्तत्यभिमुखो निवृत्तिमार्गप्र-
वृत्तो भवति । स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितक-
मचरन्साधनचतुष्टयसंपन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूप-
मासाद्य सुपुत्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयः
कंचित्कालमज्ञानवृत्त्या विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभय-
निवृत्त्या प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानभेदादवस्थाभेदस्य परंतु नहि
मदन्यदिति जातविवेकः शुद्धाद्वैत ब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विज़-
म्भितभानुमण्डलध्यानतदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गमारूढः परि-
पक्को भवति । संकल्पादिकं मनो बन्धहेतु । तद्वियुक्तं मनो मोक्षाय भवति ।
तद्वांश्चक्षुरादिबाह्यप्रपञ्चोपरतो विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्य-
१ जन्मसंसार.</p>
<pb n="366" />
<p>ब्राह्म० ४]
मण्डलब्राह्मणोपनिषत् ॥ ५० ॥</p>
<p>'ताहंकारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन्कृतकृत्यो
भवति ॥ ४ ॥ सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति । तं ब्रह्मेति
स्तुवन्ति । सर्वलोकस्तुतिपात्रः सर्वदेशसंचारशीलः परमात्मगगने बिन्दु
निक्षिप्य शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डानन्दपदानुवृत्त्या जीव-
न्मुक्तो भवति । तच्चानन्दसमुद्रमन्ना योगिनो भवन्ति । तदपेक्षया इन्द्रा-
दयः स्वल्पानन्दाः । एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥ ५ ॥
इति मण्डलब्राह्मणोपनिषत्सु द्वितीयं ब्राह्मणम् ॥ २ ॥
याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ स्वामिन्नमनस्कलक्षणमुक्तमपि
विस्मृतं पुनस्तल्लक्षणं ब्रूहीति । तथेति मण्डलपुरुषोऽब्रवीत् । इदममनस्कम-
तिरहस्यम् । यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शांभवीमुद्रान्वितम् । परमा-
त्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं शिवं परमाकाशं
निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येव
पश्यमानो गुहाविहरणमेव निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः संविदि-
तमनोन्मन्यनुभवस्तदनन्तरमखिलेन्द्रियक्षयवशादमनस्कसुखब्रह्मानन्दसमुद्रे
मनःप्रवाहयोगरूप निवातस्थितदीपवदचलं परंब्रह्म प्राप्नोति । ततः शुष्कवृक्ष-
वन्मूर्च्छानिद्रामयनिःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः परमशा-
न्ति स्वीकृत्य मनःप्रचारशून्यं परमात्मनि लीनं भवति । पयः स्रावानन्तरं
धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशो भवति तदेवामनस्कम् ॥
तदनु नित्यशुद्धः परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव
त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति ॥ १ ॥ परिपूर्ण-
पराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः संन्यस्तसर्वेन्द्रियवर्गोऽनेकजन्मार्जित-
पुण्यपुञ्ज पक्कैवल्य फलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृत-
कृत्यो भवति । त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः । इत्युच्चरन्स-
मालिङ्गन्य शिष्यं ज्ञप्तिमनीनयत् ॥ २ ॥
इति मण्डलब्राह्मणोपनिषत्सु तृतीयं ब्राह्मणम् ॥ ३ ॥
अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ व्योमपञ्चकलक्षणं विस्तरेणानु-
ब्रूहीति । स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परामाकाशमिति
पञ्च भवन्ति । बाह्याभ्यन्तरमन्धकारमयमाकाशम् । बाह्यस्याभ्यन्तरे काला-
नलसदृशं पराकाशम् । सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् ।</p>
<pb n="367" />
<p>ईशायुपनिषत्सु -
सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् । अनिर्वचनीयज्योतिः सर्वव्यापकं
निरतिशयानन्दलक्षणं परमाकाशम् । एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति ।
नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् । सम्यगेतन्न जानाति स योगी
नामतो भवेत् ॥ १ ॥
इति मण्डलब्राह्मणोपनिषत्सु चतुर्थ ब्राह्मणम् ॥ ४ ॥
सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति । अतः सर्वं जगच्चित्तगो-
चरम् । तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्कं लययोग्यं भवति ।
तल्लयं परिपूर्ण मयि समभ्यसेत् । मनोलयकारणमहमेव । अनाहतस्य
शब्दस्य तस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्गतं ज्योतिज्र्ज्योतिरन्तर्गतं मनः ।
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसन कर्मकृत् । तन्मनो विलयं याति तद्विष्णोः
परमं पदम्। तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् । एतदेव परमतत्त्वम् ।
स तज्ज्ञो बालोन्मत्तपिशाचवज्जडवृत्त्या लोकमाचरेत् । एवममनस्काभ्यासे-
नैव नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गा जाड्यनिद्वादृग्वायुचलनाभावत्र-
ह्मदर्शनाज्ज्ञातसुखस्वरूपसिद्धिर्भवति । एवं चिरसमाधिजनितब्रह्मामृतपान-
परायणोऽसौ संन्यासी परमहंस अवधूतो भवति । तद्दर्शनेन सकलं जगत्प-
वित्रं भवति । तत्सेवापरोऽज्ञोऽपि मुक्तो भवति । तत्कुलमेकोत्तरशतं तार-
यति । तन्मातृपितृजायापत्यवर्ग च मुक्तं भवतीत्युपनिषत् ॥ १ ॥
इति मण्डलब्राह्मणोपनिषत्सु पञ्चमं ब्राह्मणम् ॥ ५ ॥
ॐ पूर्णमद इति शान्तिः ॥
इति मण्डलब्राह्मणोपनिषत्समाप्ता ॥ ५० ॥</p>
<lg>
  <l>दक्षिणामूर्त्यपनिषत् ॥ ५१ ॥</l>
  <l>यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।</l>
  <l>महामौनपदं याति स हि मे परमा गतिः ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनका
दयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुः
केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति । परमरहस्यशिवतत्त्व-
ज्ञानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् । तत्र को देवः ।
के मन्त्राः । को जपः । का मुद्रा । का निष्ठा । किं तज्ज्ञानसाधनम् । कः</p>
<pb n="368" />
<p>दक्षिणामूर्त्यपनिषत् ॥ ५१ ॥</p>
<p>परिकरः को बलिः । कः कालः । किं तत्स्थानमिति । स होवाच । येन
दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यः
सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा
स देवः । अत्रैते मन्त्ररहस्य श्लोका भवन्ति । मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा
ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः । ॐ आदौ
नम उच्चार्य ततो भगवते पदम् । दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत्
॥ १ ॥ अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् । समुच्चार्य ततो वायु-
बीजं च्छं च ततः पठेत् । अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ २ ॥
ध्यानम् ॥ स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां
कराग्रे । दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे
॥ ३ ॥ मन्त्रेण न्यासः । आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् । पञ्चार्ण
तत उद्धृत्य अन्तरं सविसर्गकम् । अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ४ ॥
मुद्रां भद्रार्थदात्रीं स परशुहरिण बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजग-
बिलसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्थि-
नेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ ५ ॥ मन्त्रेण
न्यासः ब्रह्मर्षिन्यासः - तारं बूं नम उच्चार्य मायां वाग्भवमेव च । दक्षिणापद-
मुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ६ ॥ ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो
न्यसेत् । मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ ७ ॥ भस्मव्यापाण्डुराङ्गः
शशिशकलधरो ज्ञानमुद्राक्षमालावीणापुस्तैर्विराजत्करकेमलधरो योगपट्टाभि-
रामः । व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सैन्यालः
कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ८ ॥ मन्त्रेण न्यासः ।
( ब्रह्मर्षिन्यासः) । तारं परं रैमाबीजं वदेत्साम्बशिवाय च । तुभ्यं चानल-
जायां च मनुर्द्वादशवर्णकः ॥ ९ ॥ वीणां करैः पुस्तकमक्षमालां बिभ्राणम-
भ्राभगलं वराढ्यम् । फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनी-
डमीडे ॥
१० ॥ विष्णुऋषिः । अनुष्टुप्छन्दः । देवता दक्षिणास्यः । मन्त्रेण
न्यासः । तारं नमो भगवते तुभ्यं वटपदं ततः । मूलेति पदमुच्चार्य वासिने
पदमुद्धरेत् ॥ ११ ॥ प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् । दायिने
पदमुच्चार्य मायिने नम उद्धरेत् ॥ १२ ॥ वागीशाय ततः पश्चान्महा-
२ सेवितः सुप्रसन्नः • ३ सव्याड:. ४ तारं मायां.
१ करतलकमलो.
५ बीजं पदं.
अ. उ. २३</p>
<pb n="369" />
<p>ईशाद्युपनिषत्सु -
ज्ञानपदं ततः । वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः । आनुष्टुभो
मन्त्रराजः सर्वमत्रोत्तमोत्तमः ॥ १३ ॥ ध्यानम् । मुद्रापुस्तकवह्नि-
नागविलसद्वाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोजव-
लम् । अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं
परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १४ ॥ मौनमुद्रा । सोऽहमिति यावदास्थितिः
सनिष्ठा भवति । तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् । चित्ते तदेकतानता
परिकरः । अङ्गचेष्टार्पणं बलिः । त्रीणि धामानि कालः । द्वादशान्तपदं
स्थानमिति । ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः । कथं वाऽस्योदयः ।
किं स्वरूपम् । को वाऽस्योपासक इति । स होवाच । वैराग्यतैलसंपूर्ण
भक्तिवर्तिसमन्विते । प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ १५ ॥
मोहान्धकारे निःसारे उदेति स्वयमेव हि । वैराग्यमरणिं कृत्वा ज्ञानं
कृत्वा तु चित्रगुम् ॥ १६ ॥ गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् । मोह-
भानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ १७ ॥ तत्त्वाविचारपाशेन बद्ध
द्वैतभयातुरम् । उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ १८ ॥ शेमुषी
दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ
ब्रह्मवादिभिः ॥ १९ ॥ सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्य -
माय । तुतोष चित्ते वान्छितार्थाश्च लब्ध्वा धन्यः सोपास्योपासको भवति
धाता ॥ २० ॥ य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो
भवति । य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥ २१ ॥
ॐ
सह नाववत्विति शान्तिः ॥
इति दक्षिणामूर्त्यपनिषत्समाप्ता ॥ ५१ ॥</p>
<lg>
  <l>शरभोपनिषत् ॥ ५२ ॥</l>
  <l>सर्व संत्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।</l>
  <l>तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये को
वाऽधिकतरो ध्येयः स्यात्तत्त्वमेव नो ब्रूहीति । तस्मै स होवाच पितामहश्च
१ सुरगुरं . २ कृत्वोत्तरारणिम्.</p>
<pb n="370" />
<p>शरभोपनिषत् ॥ ५२ ॥
LE
हे पैप्पलाद शृणु वाक्यमेतत् । बहूनि पुण्यानि कृतानि येन तेनैव लभ्यः:
परमेश्वरोऽसौ । यस्याङ्गजोऽहं हरिरिन्द्रमुख्या मोहान्न जानन्ति सुरेन्द्रमुख्याः
॥ १ ॥ प्रभुं वरेण्यं पितरं महेशं यो ब्रह्माणं विदधाति तस्मै । वेदांश्च सर्वा-:
न्प्रहिणोति चाग्र्यं तं वै प्रभुं पितरं देवतानाम् ॥ २ ॥ ममापि विष्णोर्जनकं
देवमीड्यं योऽन्तकाले सर्वलोकान्संजहार ॥३॥ स एकः श्रेष्ठश्च सर्वशास्ता स
एव वरिष्ठश्च । यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः । नृसिंहं लोकहन्तारं
संजघान महाबलः ॥ ४ ॥ हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।
मा वधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥ ५ ॥ कृपया भगवान्विष्णुं विद-
दार नखैः खरैः । चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥ ६ ॥ स एको
रुद्रो ध्येयः सर्वेषां सर्वसिद्धये । यो ब्रह्मणः पञ्चमवक्त्रहन्ता तस्मै रुद्राय नमो
अस्तु ॥ ७ ॥ यो विस्फुलिङ्गेन ललाटज़ेन सर्वं जगद्भस्मसात्संकरोति । पुनश्च
सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति । तस्मै रुद्राय नमो अस्तु ॥ ८ ॥
यो वामपादेन जधान कालं घोरं पपेऽथो हालहलं दहन्तम् । तस्मै रुद्राय
नमो अस्तु ॥ ९ ॥ यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः
तस्मै रुद्राय नमो अस्तु ॥ १० ॥ यो दक्षयज्ञे सुरसङ्घान्विजित्य विष्णुं बब-
न्धोरगपाशेन वीरः । तस्मै रुद्राय नमो अस्तु ॥ ११ ॥ यो लीलयैव त्रिपुरं
ददाह विष्णुं कविं सोमसूर्याग्निनेत्रः । सर्वे देवाः पशुतामवापुः स्वयं तस्मा-
त्पशुपतिर्बभूव । तस्मै रुद्राय नमो अस्तु ॥ १२ ॥ यो मत्स्यकूर्मादिवराहसिं-
हान्विष्णुं क्रमन्तं वामनमादिविष्णुम् । विविक्लवं पीड्यमानं सुरेशं भस्मीचकार
मन्मथं यमं च । तस्मै रुद्राय नमो अस्तु ॥ १३ ॥ एवंप्रकारेण बहुधा
प्रतुष्ट्वा क्षमापयामासुर्नीलकण्ठं महेश्वरम् । तापत्रयसमुद्भूतजन्ममृत्युजरा-
दिभिः । नानाविधानि दुःखानि जहार परमेश्वरः ॥ १४ ॥ एवं मन्त्रैः प्रार्थ्यमान
आत्मा वै सर्वदेहिनाम् । शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥ १५ ॥
यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह । स्तुत्वा स्तुत्यं महेशानमवाङ्मन-
सगोचरम् ॥ १६ ॥ भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः । यतो
याचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति
कदाचनेति ॥ १७ ॥ अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहा-
याम् । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ १८ ॥
१ महानिशि. २ कामकालं. ३ प्रार्थनं सर्वदेवानामेवमङ्गीकरोच्छिवः .</p>
<pb n="371" />
<p>ईशाद्युपनिषत्सु -
वसिष्ठवैयासकिवामदेवविरिञ्चिमुख्यैर्हृदि भाव्यमानः । सनत्सुजातादिसनात-
नारीड्यो महेशो भगवानादिदेवः ॥ १९ ॥ सत्यो नित्यः सर्वसाक्षी महेशो
नित्यानन्दो निर्विकल्पो निराख्यः । अचिन्त्यशक्तिर्भगवान्गिरीशः स्वाविद्यया
कल्पितमानभूमिः ॥ २० ॥ अतिमोहकरी माया मम विष्णोश्च सुव्रत । तस्य
पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥ २१ ॥ विष्णुर्विश्वजगद्योनिः स्वांश-
भूतैः स्वकैः सह । ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥ २२ ॥
विनाशं कालतो याति ततोऽन्यत्सकलं मृषा । ॐ तस्मै महाग्रासाय महा-
देवाय शूलिने । महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥ २३ ॥ एको
विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रीलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्व-
भुगव्ययः ॥ २४ ॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुन-
भ्यां स मे विष्णुः प्रसीदतु ॥ २५ ॥ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा
हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २६ ॥ शरा जीवास्तदङ्गेषु
भाति नित्यं हरिः स्वयम् । ब्रह्मेव शरभः साक्षान्मोक्षदोऽयं महामुने ॥ २७ ॥
मायावशादेव देवा मोहिता ममतादिभिः । तस्य माहात्म्यलेशांशं वक्तुं केना-
प्यशक्यते ॥ २८ ॥ परात्परतरं ब्रह्म यत्परात्परतो हरिः । परात्परतो हीशस्त-
माल्योऽधिको न हि ॥ २९ ॥ एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।
तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥ ३० ॥ शिव एव सदा
ध्येयः सर्वसंसारमोचकः । तस्मै महाग्रासाय महेश्वराय नमः ॥३१ ॥ पैप्पलादं
महाशास्त्रं न देयं यस्यकस्यचित् । नास्तिकाय कृतन्नाय दुर्वृत्ताय दुरात्मने
॥३२॥ दाम्भिकाय नृशंसाय शठायानृतभाषिणे । सुव्रताय सुभक्ताय सुवृत्ताय
सुशीलिने ॥ ३३ ॥ गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे । शिवभक्ताय
दातव्यं ब्रह्मकर्मोक्तधीमते ॥ ३४ ॥ स्वभक्तायैव दातव्यमकृतन्नाय सुव्रत ।
न दातव्यं सदा गोप्यं यत्तेनैव द्विजोत्तम ॥ ३५ ॥ एतत्पैप्पलादं महाशास्त्रं
योऽधीते श्रावयेद्विजः । स जन्ममरणेभ्यो मुक्तो भवति । यो जानीते सोऽमृ-
तत्वं च गच्छति । गर्भवासाद्विमुक्तो भवति । सुरापानात्पूतो भवति ।
स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । गुरुतल्पगमनात्पूतो भवति ।
स सर्वान्वेदानधीतो भवति । स सर्वान्देवान्ध्यातो भवति । स समस्त -
महापातकोपपातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति । स सततं
१ ब्रह्महत्यायाः ..</p>
<pb n="372" />
<p>स्कन्दोपनिषत् ॥ ५३ ॥</p>
<p>शिवप्रियो भवति । स शिवसायुज्यमेति । न स पुनरावर्तते न स पुनरा-
वर्तते । ब्रह्मैव भवति । इत्याह भगवान्ब्रह्मेत्युपनिषत् ॥ ३६ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति शरभोपनिषत्समाप्ता ॥ ५२ ॥</p>
<lg>
  <l>स्कन्दोपनिषत् ॥ ५३ ॥</l>
  <l>यत्राभिन्नतां याति स्वातिरिक्तभिदाततिः ।</l>
  <l>संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>अच्युतोऽस्मि महादेव तव कारुण्यलेशकः । विज्ञानधन एवास्मि शिवोऽस्मि
किमतः परम् ॥ १ ॥ न निजं निजवद्भात्यन्तःकरणजृम्भणात् । अन्तःकरणनाशेन
'संविन्मात्रस्थितो हरिः ॥ २ ॥ संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् ।
व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति ॥ ३ ॥ चिज्जडानां तु यो द्रष्टा
सोऽच्युतो ज्ञानविग्रहः । स एव हि महादेवः स एव हि महाहरिः ॥ ४ ॥
स एव ज्योतिषां ज्योतिः स एव परमेश्वरः । स एव हि परं ब्रह्म तद्ब्रह्माहं
न संशयः ॥ ५ ॥ जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । तुषेण
बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥ ६ ॥ एवं बद्धस्तथा जीवः कर्मनाशे
सदाशिवः । पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः ॥ ७ ॥ शिवाय
विष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः
॥ ८ ॥ यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामि
तथा मे स्वस्तिरायुषि ॥ ९ ॥ यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा । देहों
'देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन
पूजयेत् ॥ १० ॥ अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमल-
त्यागः शौचमिन्द्रियनिग्रहः ॥ ११ ॥ ब्रह्मामृतं पिबेद्वैक्षमाचरेदेहरक्षणे ॥
वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । इत्येवमाचरेद्धीमान्त्स एवं
मुक्तिमाप्नुयात् ॥ १२ ॥ श्रीपरमधाम्ने स्वस्ति चिरायुष्योन्नम इति । विरिञ्चिना-
रायणशंकरात्मकं नृसिंह देवेश तव प्रसादतः । अचिन्त्यमव्यक्तमनन्तमव्ययं
वेदात्मकं ब्रह्म निजं विजानते ॥ १३ ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति
सूरयः । दिवीव चक्षुराततम् ॥ १४ ॥ तद्विप्रासो विपन्यवो जागृवांसः</p>
<pb n="373" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
समिन्धते । विष्णोर्यत्परमं पदमित्येतन्निर्वाणानुशासनमिति वेदानुशासन-
मिति वेदानुशासनमित्युपनिषत् ॥ १५ ॥ ॐ सह नाववत्विति शान्तिः ॥
इति स्कन्दोपनिषत्समाप्ता ॥ ५३ ॥</p>
<lg>
  <l>त्रिपाद्विभूति महानारायणोपनिषत् ॥ ५४ ॥</l>
  <l>यत्रापह्नवतां याति स्वाविद्यापदविभ्रमः ।</l>
  <l>त्रिपन्नारायणाख्यं स्वमात्रमवशिष्यते ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>अथ परमतत्त्वरहस्यं जिज्ञासुः परमेष्ठी देवमानेन सहस्रसंवत्सरं तपश्चचार ।
सहस्रवर्षेऽतीतेऽत्युग्रतीव्रतपसा प्रसन्नं भगवन्तं महाविष्णुं ब्रह्मा परिपृच्छति
भगवन् परमतत्त्वरहस्यं मे ब्रूहीति । परमतत्त्वरहस्यवक्ता त्वमेव नान्यः कश्चि-
दस्ति तत्कथमिति । तदेवोच्यते । त्वमेव सर्वज्ञः । त्वमेव सर्वशक्तिः । त्वमेव
सर्वाधारः । त्वमेव सर्वस्वरूपः । त्वमेव सर्वेश्वरः । त्वमेव सर्वप्रवर्तकः ।
त्वमेव सर्वपालकः । त्वमेव सर्वनिवर्तकः । त्वमेव सदसदात्मकः । त्वमेव
सदसद्विलक्षणः । त्वमेवान्तर्बहिर्व्यापकः । त्वमेवातिसूक्ष्मतरः । त्वमेवाति-
महतो महीयान् । त्वमेव सर्वमूलाविद्यानिवर्तकः । त्वमेवाविद्याविहारः ।
त्वमेवाविद्याधारकः । त्वमेव विद्यावेद्यः । त्वमेव विद्यास्वरूपः । त्वमेव विद्या-
तीतः । त्वमेव सर्वकारणहेतुः । त्वमेव सर्वकारणसमष्टिः । त्वमेव सर्वकारण-
व्यष्टिः । त्वमेवाखण्डानन्दः । त्वमेव परिपूर्णानन्दः । त्वमेव निरतिशयानन्दः ।
त्वमेव तुरीयतुरीयः । त्वमेव तुरीयातीतः । त्वमेवानन्तोपनिषद्विमृग्यः ।
त्वमेवाखिलशास्त्रैर्विमृग्यः । त्वमेव ब्रह्मेशानपुरन्दरपुरोगमैरखिला मरैरखिला-
गमैर्विमृग्यः। त्वमेव सर्वमुमुक्षुभिर्विमृग्यः । त्वमेवामृतमयैर्विमृग्यः । त्वमे-
वामृतमयस्त्वमेवामृतमयस्त्वमेवामृतमयः । त्वमेव सर्वं त्वमेव सर्वं त्वमेव
सर्वम् । त्वमेव मोक्षस्त्वमेव मोक्षदस्त्वमेवाखिलमोक्षसाधनम् । न किंचिदस्ति-
'वद्व्यतिरिक्तम् । त्वद्व्यतिरिक्तं यत्किंचित्प्रतीयते तत्सर्वं बाधितमिति निश्चितम् ।
तस्मात्त्वमेव वक्ता त्वमेव गुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता त्वमेव सर्वं
स्वमेव सदा ध्येय इति सुनिश्चितः । परमतत्त्वज्ञस्तमुवाच महाविष्णुरतिप्रसन्नो
भूत्वा साधु साध्विति साधुप्रशंसापूर्वं सर्वं परमतत्त्वरहस्यं ते कथयामि ।
सावधानेन शृणु । ब्रह्मन् देवदर्शीत्याख्याथर्वणशाखायां परमतत्त्वरहस्याख्या-</p>
<pb n="374" />
<p>अध्या० १] त्रिपाहि भूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>थर्वणमहानारायणोपनिषदि गुरुशिष्यसंवादः पुरातनः प्रसिद्धतया जागर्ति ।
पुरा तत्स्वरूपज्ञानेन महान्तः सर्वं ब्रह्मभावं गताः । यस्य श्रवणेन सर्वबन्धाः
प्रविनश्यन्ति । यस्य ज्ञानेन सर्वरहस्यं विदितं भवति । तत्स्वरूपं कथमिति ।
शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तस्तपोनिष्ठः शिष्यो ब्रह्मनिष्ठं गुरुमा-
साद्य प्रदक्षिणपूर्वकं दण्डवत्प्रणम्य प्राञ्जलिर्भूत्वा विनयेनोपसङ्गम्य भगवन्
गुरो मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति । अत्यादरपूर्वकमिति हर्षेण
शिष्यं बहुकृत्य गुरुदति । परमतत्त्वरहस्योपनिषत्क्रमः कथ्यते सावधानेन
श्रूयताम् । कथं ब्रह्म । कालत्रयाबाधितं ब्रह्म । सर्वकालाबाधितं ब्रह्म । सगुण-
निर्गुणस्वरूपं ब्रह्म । आदिमध्यान्तशून्यं ब्रह्म । सर्वं खल्विदं ब्रह्म । मायातीत
गुणातीतं ब्रह्म । अनन्तमप्रमेयाखण्ड परिपूर्ण ब्रह्म । अद्वितीय परमानन्दशुद्धबुद्ध-
मुक्त सत्यस्वरूपव्यापकाभिन्नापरिच्छिन्नं ब्रह्म । सच्चिदानन्दं स्वप्रकाशं ब्रह्म ।
मनोवाचामगोचरं ब्रह्म । अखिलप्रमाणागोचरं ब्रह्म । अमितवेदान्तवेद्यं ब्रह्म ।
देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म । सर्वपरिपूर्ण ब्रह्म । तुरीयं निराका-
रमेकं ब्रह्म । अद्वैतमनिर्वाच्यं ब्रह्म । प्रणवात्मकं ब्रह्म । प्रणवात्मकत्वेनोक्तं ब्रह्म ।
प्रणवाद्यखिलमन्त्रात्मकं ब्रह्म । पादचतुष्टयात्मकं ब्रह्म । किं तत्पादचतुष्टयं ब्रह्म
भवति । अविद्यापादः सुविद्यापादश्चानन्दपादस्तुरीयपादश्चेति । तुरीयपादस्तु-
रोयतुरीयं तुरीयातीतं च । कथं पादचतुष्टयस्य भेदः । अविद्यापादः प्रथमः
पादो विद्यापदो द्वितीयः आनन्दपादस्तृतीयस्तुरीयपादस्तुरीय इति । मूला-
विद्या प्रथमपादे नान्यत्र । विद्यानन्दतुरीयांशाः सर्वेषु पादेषु व्याप्य तिष्ठन्ति ।
एवं तर्हि विद्यादीनां भेदः कथमिति । तत्तत्प्राधान्येन तत्तद्व्यपदेशः । वस्तुत-
स्त्वभेद एव । तत्राधस्तनमेकं पादमविद्याशबलं भवति । उपरितनपादत्रयं
शुद्धबोधानन्दलक्षणममृतं भवति । तच्चा लौकिकपरमानन्दलक्षणाखण्ड । मित-
तेजोराशिर्ज्वलति । तच्चानिर्वाच्यमनिर्देश्यमखण्डानन्दैकरसात्मकं भवति ।
तत्र मध्यमपादमध्यप्रदेशेऽमिततेजःप्रवाहाकारतया नित्यवैकुण्ठं विभाति । तच्च
निरतिशयानन्दाखण्डब्रह्मानन्दनिजमूर्त्याकारेण ज्वलति । अपरिच्छिन्नमण्ड-
लानि यथा यन्ते तद्वदुखण्डानन्दामितवैष्णव दिव्यतेजोराश्यन्तर्गत विलस-
महाविष्णोः परमं पदं विराजते । दुग्धोदधिमध्यस्थितामृतामृतकलशवद्वैष्णवं
धाम परमं संदृश्यते । सुदर्शनदिव्यतेजोन्तर्गतः सुदर्शन पुरुषो यथा सूर्यमण्ड-
लान्तर्गत: सूर्यनारायणोऽमिता परिच्छिन्ना द्वैतपरमानन्दलक्षणतेजोराश्यन्तर्गत</p>
<pb n="375" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
आदिनारायणस्तथा संदृश्यते । स एव तुरीयं ब्रह्म स एव तुरीयातीतः स
एव विष्णुः स एव समस्तब्रह्मवाचकवाच्यः स एव परंज्योतिः स एव माया-
तीतः स एव गुणातीतः स एव कालातीतः स एवाखिलकर्मातीतः
स एव सत्योपाधिरहितः स एव परमेश्वरः स एव चिरंतनः पुरुषः प्रण-
वाद्यखिलमन्त्रवाचकवाच्य आद्यन्तशून्य आदिदेशकालवस्तुतुरीय संज्ञा नि-
त्यपरिपूर्णः पूर्णः सत्यसंकल्प आत्मारामः कालत्रया बाधित निजस्वरूपः
स्वयंज्योतिः स्वयंप्रकाशमयः स्वसमानाधिकरणशून्यः स्वसमानाधिकशून्यो
न दिवारात्रिविभागो न संवत्सरादिकालविभागः स्वानन्दमयानन्ताचिन्त्य -
विभव आत्मान्तरात्मा परमात्मा ज्ञानात्मा तुरीयात्मेत्यादिवाचकवाच्योऽद्वै-
तपरमानन्दो विभुर्नित्यो निष्कलङ्को निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो
देव एको नारायणो न द्वितीयोऽस्ति कश्चिदिति य एवं वेद स पुरुषस्तदीयो-
पासनया तस्य सायुज्य मे ती त्यसंशय मित्युपनिषत् ॥ १ ॥
इत्याथर्वण त्रिपाद्विभूति महानारायणोपनिषत्सु पादचतुष्टयम्वरूपनिरूपणं
नाम प्रथमोऽध्यायः ॥ १ ॥
अथेति होवाच च्छात्रो गुरुं भगवन्तम् । भगवन्वैकुण्ठस्य नारायणस्य च
नित्यत्वमुक्तम् । स एव तुरीयमित्युक्तमेव । वैकुण्ठः साकारो नारायणः सा-
कारश्च । तुरीयं तु निराकारम् । साकारः सावयवो निरवयवं निराकारम् ।
तस्मात्साकारमनित्यं नित्यं निराकारमिति श्रुतेः । यद्यत्सावयवं तत्तदनित्यमि-
त्यनुमानाच्चेति प्रत्यक्षेण दृष्टत्वाच्च । अतस्तयोरनित्यत्वमेव वक्तुमुचितं भवति ।
कथमुक्तं नित्यत्वमिति । तुरीयमक्षरमिति श्रुतेः । तुरीयस्य नित्यत्वं प्रसिद्धम् ।
नित्यत्वानित्यत्वे परस्परविरुद्धधर्मौ । तयोरेकस्मिन्ब्रह्मण्यत्यन्तविरुद्धं भवति ।
तस्माद्वैकुण्ठस्य च नारायणस्य च नित्यत्वमेव वक्तुमुचितं भवति । सत्यमेव
भवतीति देशिकं परिहरति । साकारस्तु द्विविधः - सोपाधिको निरुपाधिकश्च ।
तत्र सोपाधिकः साकारः कथमिति । आविद्यकमखिलकार्य कारणजालमविद्या-
पाद एव नान्यत्र । तस्मात्समस्ताविद्योपाधिः साकारः सावयव एव । साव-
यवत्वादवश्यमनित्यं भवत्येव । सोपाधिकसाकारो वर्णितः । तर्हि निरुपा -
धिकसाकारः कथमिति । निरुपाधिकसाकारस्त्रिविधः - ब्रह्मविद्यासाकारश्चा-
नन्दसाकार
उभयात्मक साकारश्चेति । त्रिविधसाकारोऽपि पुनर्द्विविधो
भवति - नित्यसाकारो मुक्तसाकारश्चेति । नित्यासाकारस्त्वाद्यन्तशून्यः शाश्वतः ।</p>
<pb n="376" />
<p>अध्या० २] त्रिपाद्वि भूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>उपासनया ये मुक्ति गतास्तेषां साकारो मुक्तसाकारः । तस्याखण्डज्ञाने-
नाविर्भावो भवति । सोऽपि शाश्वतः । मुक्तसाकारस्वैच्छिक इति । अन्ये
वदन्ति शाश्वतत्वं कथमिति । अद्वैताखण्डपरिपूर्णनिरतिशय परमानन्दशुद्ध-
बुद्धमुक्त सत्यात्मकब्रह्म चैतन्यसाकारत्वात् निरुपाधिकसाकारस्य नित्यत्वं सिद्ध-
मेव । तस्मादेव निरुपाधिकसाकारस्य निरवयवत्वात्स्वाधिकमपि दूरतो निर-
स्तमेव । निरवयवं ब्रह्मचैतन्यमिति सर्वोपनिषत्सु सर्वशास्त्रसिद्धान्तेषु श्रूयते ।
अथ च विद्यानन्दतुरीयाणामभेद एव श्रूयते । सर्वत्र विद्यादिसाकारभेदः
कथमिति । सत्यमेवोक्तमिति देशिकः परिहरति । विद्याप्राधान्येन विद्यासा-
कारः आनन्दप्राधान्येनानन्दसाकारः उभयप्राधान्येनोभयात्मकसाकार-
श्वेति । प्राधान्येनात्र भेद एव । स भेदो वस्तुतस्त्वभेद एव । भगव-
नखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः साकारनिराकारौ विरुद्धधर्मौ । बिरु-
दोभयात्मकत्वं कथमिति । सत्यमेवेति गुरुः परिहरति । यथा सर्वगतस्य
निराकारस्य महावायोश्च तदात्मकस्य त्वक्पतित्वेन प्रसिद्धस्य साकारस्य
महावायुदेवस्य चाभेद एव श्रूयते सर्वत्र । यथा पृथिव्यादीनां व्यापकशरीराणां
देवविशेषाणां च तद्विलक्षणतदभिन्नव्यापकापरिच्छिन्ना निजमूर्त्याकारदेवताः
श्रूयन्ते सर्वत्र तद्वत्परब्रह्मणः सर्वात्मकस्य साकारनिराकारभेदविरोधो नास्त्येव
विविधविचित्रानन्तशक्तेः परब्रह्मणः स्वरूपज्ञानेन विरोधो न विद्यते ।
तदभावे सत्यनन्तविरोधो विभाति । अथ च रामकृष्णाद्यवतारेष्वद्वैतपरमा-
नन्दलक्षणपरब्रह्मणः परमतत्त्वपरम विभवानुसंधानं स्वीयत्वेन श्रूयते सर्वत्र
सर्वपरिपूर्णस्याद्वैतपरमानन्दलक्षणपरब्रह्मणस्तु किं वक्तव्यम् । अन्यथा
सर्वपरिपूर्णस्य परब्रह्मणः परमार्थतः साकारं विना केवल निराकारत्वं
यद्यभिमतं तर्हि केवलनिराकारस्य गगनस्येव परब्रह्मणोऽपि जडत्वमापद्येत ।
तस्मात्परब्रह्मणः परमार्थतः साकारनिराकारौ स्वभावसिद्धौ । तथाविधस्याद्वै-
तपरमानन्दलक्षणस्यादिनारायणस्योन्मेष निमेषाभ्यां मूलाविद्योदयस्थितिलया
जायन्ते । कदाचिदात्मारामस्याखिलपरिपूर्ण स्यादिनारायणस्य स्वेच्छानुसा-
रेणोन्मेषो जायते । तस्मात्परब्रह्मणोऽधस्तनपादे सर्वकारणे मूलकारणा-
व्यक्ताविर्भावो भवति । अव्यक्तान्मूलाविर्भावो मूलाविद्याविर्भावश्च ।
तस्मादेव सच्छब्दवाच्यं ब्रह्माविद्याशबलं भवति । ततो महत् । महतोऽहं-
कारः । अहंकारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि ।</p>
<pb n="377" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
पञ्चमहाभूतेभ्यो ब्रह्मैकपादव्याप्तमेकमविद्याण्डं जायते । तत्र तत्त्वतो
गुणातीतशुद्धसत्वमयो लीलागृहीतनिरतिशयानन्दलक्षणो मायोपाधिको
नारायण आसीत् । स एव नित्यपरिपूर्णः पादविभूति वैकुण्ठनारायणः । स
चानन्तकोटिब्रह्माण्डानामुदयस्थितिलयाद्यखिलकार्यकारणजालपरमकारण-
कारणभूतो महामायातीतस्तुरीयः परमेश्वरो जयति । तस्मात्स्थूलविराट-
स्वरूपो जायते । स सर्वकारणमूलं विराट्स्वरूपो भवति । स चानन्तशीर्षा
पुरुष अनन्ताक्षिपाणिपादो भवति । अनन्तश्रवणः सर्वमावृत्य तिष्ठति ।
सर्वव्यापको भवति । सगुण निर्गुणस्वरूपो भवति । ज्ञानबलैश्वर्यशक्तितेज:-
स्वरूपो भवति । विविधविचित्रानन्तजगदाकारो भवति । निरतिशयानन्द-.
मयानन्तपरमविभूतिसमष्ट्या विश्वीकारो भवति । निरतिशयनिरङ्कुशसर्वज्ञ-
सर्वशक्ति सर्व नियन्तृत्वाद्यनन्तकल्याणगुणाकारो भवति । वाचामगोचरान-
न्त दिव्यतेजोराश्याकारो भवति । समस्ता विद्याण्डव्यापको भवति । स
चानन्तमहामायाविलासानामधिष्ठान विशेष निरतिशय द्वैतपरमानन्दलक्षण-
परब्रह्मविलासविग्रहो भवति । अस्यैकैकरोमकूपान्तरेष्वनन्तकोटिब्रह्माण्डानि
स्थावराणि च जायन्ते । तेष्वण्डेषु सर्वेष्वेकैकनारायणावतारो जायते !
नारायणाद्धिरण्यगर्भो जायते । नारायणादण्ड विराट्स्वरूपो जायते । नारा-
यणादखिललोक स्रष्टप्रजापतयो जायन्ते । नारायणादेकादशरुद्वाश्च जायन्ते ।
नारायणादखिललोकाश्च जायन्ते । नारायणादिन्द्रो जायते । नारायणात्सर्वे.
देवाश्च जायन्ते । नारायणाहूादशादित्याः सर्वे वसवः सर्वे ऋषय:.
सर्वाणि भूतानि सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते । नारा-
यणात्प्रवर्तन्ते । नारायणे प्रलीयन्ते । अथ नित्योऽक्षरः परमः स्वराट् ।
ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्व नारा-
यणः । विदिशश्च नारायणः । कालश्च नारायणः । कर्माखिलं च नारा-
यणः । मूतामूर्तं च नारायणः । कारणात्मकं सर्वं कार्यात्मकं सकलं
नारायणः । तदुभयविलक्षणो नारायणः । परंज्योतिः स्वप्रकाशमयो
ब्रह्मानन्दमयो नित्यो निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको
नारायणो न द्वितीयोऽस्ति कश्चित् । न स समानाधिक इत्यसंशयं
परमार्थतो य एवं वेद । सकलबन्धांश्छित्त्वा मृत्युं तीर्त्वा स मुक्तो भवति
१ बिम्बाकारः.</p>
<pb n="378" />
<p>अध्या० ३ ]
त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥
स मुक्तो भवति । य एवं विदित्वा सदा तमुपास्ते पुरुषः स नारायणो
भवति स नारायणो भवतीत्युपनिषत् ॥ १ ॥
इत्याथर्वण त्रिपाद्विभूतिमहानारायणोपनिषत्सु परब्रह्मणः साकारनिराकार-
स्वरूपनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥
૨
अथ छात्रस्तथेति होवाच । भगवन्देशिक परमतत्त्वज्ञ सविलासमहा-
मूलाऽविद्योदयक्रमः कथितः । तदु प्रपञ्चोत्पत्तिक्रमः कीदृशो भवति ।
विशेषेण कथनीयः । तस्य तत्त्वं वेदितुमिच्छामि । तथेत्युक्त्वा गुरुरि-
त्युवाच । यथानादिसर्वप्रपञ्चो दृश्यते । नित्योऽनित्यो वेति संशय्यते ।
प्रपञ्चोsपि द्विविधः -- विद्याप्रपञ्चश्चाविद्याप्रपञ्चश्चेति । विद्याप्रपञ्चस्य
नित्यत्वं सिद्धमेव नित्यानन्दचिद्विलासात्मकत्वात् । अथ च शुद्धबुद्धमुक्त-
सत्यानन्दस्वरूपत्वाच्च । अविद्याप्रपञ्चस्य नित्यत्वमनित्यत्वं वा कथमिति ।
प्रवाहतो नित्यत्वं वदन्ति केचन । प्रलयादिकं श्रूयमाणत्वादनित्यत्वं
वदन्त्यन्ये । उभयं न भवति । पुनः कथमिति । संकोच विकासात्म-
कमहामायाविलासात्मक एव सर्वोऽप्यविद्याप्रपञ्चः । परमार्थतो न किं-
चिदस्ति क्षणशून्यानादिमूलाऽविद्याविलासत्वात् । तत्कथमिति । एकमे-
वाद्वितीयं ब्रह्म । नेह नानास्ति किंचन । तस्माद्ब्रह्मव्यतिरिक्तं सर्वं बाधित-
मेव । सत्यमेव परंब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । ततः सविलासमूलाऽविद्यो -
पसंहारक्रमः कथमिति । अत्यादरपूर्वकमतिहर्षेण देशिक उपदिशति ।
चतुर्युगसहस्राणि ब्रह्मणो दिवा भवति । तावता कालेन पुनस्तस्य रात्रिर्भवति ।
द्वे अहोरात्रे एक दिनं भवति । तस्मिन्नेकस्मिन्दिने आ सत्यलोकान्तमुदय-
स्थितिलया जायन्ते । पञ्चदशदिनानि पक्षो भवति । पक्षद्वयं मासो भवति ।
मासद्वयमृतुर्भवति । ऋतुत्रयमयनं भवति । अयनद्वयं वत्सरो भवति । वत्सर-
शतं ब्रह्ममानेन ब्रह्मणः परमायुः प्रमाणम् । तावत्कालस्तस्य स्थितिरुच्यते ।
स्थित्यन्तेऽण्डविराट्पुरुषः स्वांशं हिरण्यगर्भमभ्येति । हिरण्यगर्भस्य कारणं
परमात्मानमण्डपरिपालकनारायणमभ्येति । पुनर्वत्सरशतं तस्य प्रलयो
भवति । तदा जीवाः सर्वे प्रकृतौ प्रलीयन्ते । प्रलये सर्वशून्यं भवति ।
तस्य ब्रह्मणः स्थितिप्रलयावादिनारायणस्यांशेनावतीर्णस्याण्डपरिपालकस्य म-
हाविष्णोरहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमास-
संवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते ।</p>
<pb n="379" />
<p>ईशाद्युपनिषत्सु -
अध्या० ४
स्थित्यन्ते स्वांशं महाविराट्पुरुषमभ्येति । ततः सावरणं ब्रह्माण्डं विनाशमेति ।
ब्रह्माण्डावरणं विनश्यति तद्धि विष्णोः स्वरूपम् । तस्य तावत्प्रलयो भवति ।
प्रलये सर्वशून्यं भवति । अण्ड परिपालकमहाविष्णोः स्थितिप्रलयावादिविराट् -
पुरुषस्याहोरात्रिसंज्ञकौ ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमा-
ससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सर कालस्तस्य स्थि तिरुच्यते ।
स्थित्यन्ते आदि विराट्पुरुषः स्वांशमायोपाधिकनारायणमभ्येति । तस्य विराट्-
पुरुषस्य यावत्स्थितिकालस्तावत्प्रलयो भवति । प्रलये सर्वशून्यं भवति ।
बिरादस्थितिप्रलयौ मूलाविद्याण्ड परिपालकस्या दिनारायणस्याहोरात्रिसंज्ञको ।
ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीय-
मानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते त्रिपाहि भूतिनारा-
यणस्येच्छावशान्निमेषो जायते । तस्मान्मूला विद्याण्डस्य सावरणस्य विलयो
भवति । ततः सविलासमूलाविद्या सर्वकार्योपाधिसमन्विता सदसद्विलक्षणा-
निर्वाच्या लक्षणशून्याविर्भावतिरोभावात्मिका नाद्यखिलकारणकारणानन्तमहा-
मायाविशेषणविशेषिता परमसूक्ष्ममूलकारणमव्यक्तं विशति । अव्यक्तं विशे-
ब्रह्मणि निरिन्धनो वैश्वानरो यथा । तस्मान्मायोपाधिक आदिनारायणस्तथा
स्वस्वरूपं भजति । सर्वे जीवाश्च स्वस्वरूपं भजन्ते । यथा जपाकुसुमसान्नि-
ध्याद्रक्तस्फटिकप्रतीतिस्तदभावे शुद्धस्फटिकप्रतीतिः । ब्रह्मणोऽपि मायोपाधि-
वशास्त्रगुणपरिच्छिन्नादिप्रतीतिरुपाधिविलयान्निर्गुणनिरवयवादिप्रतीतिरिष्युप-
निषत् ॥ १ ॥
इत्याथर्वणत्रिपाद्विभूतिमहानारायणोपनिषत्सु मूलाविद्याप्रलय स्वरूपणं
नाम तृतीयोऽध्यायः ॥ ३॥
ॐ ततस्तस्मान्निर्विशेषमतिनिर्मलं भवति । अविद्यापादमतिशुद्धं भवति ।
शुद्धबोधानन्दलक्षण कैवल्यं भवति । ब्रह्मणः पादचतुष्टयं निर्विशेषं भवति ।
भखण्डलक्षणाखण्डपरिपूर्ण सच्चिदानन्दस्वप्रकाशं भवति । अद्वितीयमनीश्वरं
भवति । अखिलकार्यकारणस्वरूपमखण्डचिद्धनानन्दखरूपमतिदिव्यमङ्गला-
कारं निरतिशयानन्दतेजोराशिविशेषं सर्वपरिपूर्णानन्तचिन्मय स्तम्भाकारं
शुद्धबोधानन्दविशेषाकार मनन्तचिद्विलासविभूतिसमष्ट्याकारमद्भुतानन्दाश्चर्य-
विभूतिविशेषाकारमनन्तपरिपूर्णानन्ददिव्य सौदामिनी निचयाकारम् । एव-
माकारमद्वितीयखण्डानन्दब्रह्मस्वरूपं निरूपितम् । अथ छात्रो वदति ।</p>
<pb n="380" />
<p>अध्या० ४ ]
त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>भगवत्पादभेदादिकं कथं कथमद्वैतस्वरूपमिति निरूपितम् । देशिकः परि-
हरति । विरोधो न विद्यते ब्र॑ह्माद्वितीयमेव सत्यम् । तथैवोक्तं च । ब्रह्मभेदो
न कथितो ब्रह्मव्यतिरिक्तं न किंचिदस्ति । पादभेदादिकथनं तु ब्रह्मस्वरूप-
कथनमेव । तदेवोच्यते पादचतुष्टयात्मकं ब्रह्म तत्रैकमविद्यापादं । पादत्रय-
ममृतं भवति । शाखान्तरोपनिषत्स्वरूपमेव निरूपितम् । तमसस्तु परं
ज्योतिः परमानन्दलक्षणम् । पादत्रयात्मकं ब्रह्म कैवल्यं शाश्वतं परमिति ।
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । तमेवंविद्वानमृत
इह भवति । नान्यः पन्था विद्यतेऽयनाय । सर्वेषां ज्योतिषां ज्योतिस्तमसः
परमुच्यते । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण परंज्योतिस्तमस उपरि
विभाति । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् । तदेव ऋतं
तदु सत्यमाहुस्तदेव सत्यं तदेव ब्रह्म परमं विशुद्धं कथ्यते । तमः शब्देना-
विद्या । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैपु-
रुषः । पादोऽस्येहाभवत्पुनः । ततो विष्वङ् व्यक्रामत् । साशनानशने
अभि । विद्यानन्दतुरीयाख्यपादत्रयममृतं भवति । अवशिष्टमविद्याश्रयमिति ।
आत्मारामस्यानादिनारायणस्य कीदृशाकुन्मेषनिमेषौ तयोः स्वरूपं कथमिति ।
गुरुवदति । पराग्दृष्टिरुन्मेषः । प्रत्यग्हष्टिर्निमेषः । प्रत्यग्दृष्ट्या स्वस्वरूप -
चिन्तनमेव निमेपः । पराग्दृष्ट्या स्वस्वरूप चिन्तनमेवोन्मेषः । यावदुन्मेष-
कालस्तावन्निमेषकालो भवति । अविद्यायाः स्थितिरुन्मेषकाले । निमेषकाले
तस्याः प्रलयो भवति । यथा उन्मेषो जायते तथा चिरंतनातिसूक्ष्मवास-
नाबलात्पुनर विद्याया उदयो भवति । यथापूर्वमविद्याकार्याणि जायन्ते ।
कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते । कार्योपाधिरयं जीवः कार-
णोपाधिरीश्वरः । ईश्वरस्य महामाया तदाज्ञावशवर्तिनी । तत्संकल्पानुसा-
रिणी विविधानन्तमहामायाश किससे वितानन्तमहामाया जालजननमन्दिरा
महाविष्णोः क्रीडाशरीररूपिणी ब्रह्मादीनामगोचरा । एतां महामायां
तरन्त्येव ये विष्णुमेव भजन्ति नान्ये तरन्ति कदाचन । विविधोपायैरपि
अविद्याकार्याण्यन्तःकरणान्यतीत्य कालामनु तानि जायन्ते । ब्रह्मचैतन्यं
तेषु प्रतिबिम्बितं भवति । प्रतिबिम्बा एव जीवा इति कथ्यन्ते
अन्तःकरणोपाधिकाः सर्वे जीवा इत्येवं वदन्ति । महाभूतोत्थ सूक्ष्माङ्गो -
१ ब्रह्माद्वैतमेव.</p>
<pb n="381" />
<note>३.६६</note>
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
पाधिकाः सर्वे जीवा इत्येके वदन्ति । बुद्धिप्रतिबिम्बित चैतन्यं जीवा इत्यपरे
मन्यन्ते । एतेषामुपाधीनामत्यन्तभेदो न विद्यते । सर्वपरिपूर्णो नारायणस्व-
नया निजया क्रीडति स्वेच्छया सदा । तद्वदुविद्यमानफल्गुविषयसुखाशयाः
सर्वे जीवाः प्रधावन्त्य सारसंसारचक्रे । एवमनादिपरम्परा वर्ततेऽनादिसंसार-
बिपरीतभ्रमादित्युपनिषत् ॥ १ ॥
इत्याथर्वणत्रिपाद्विभूति महानारायणोपनिषत्सु महामायातीताखण्डाद्वैत-
परमानन्दलक्षणपरब्रह्मणः परमतत्त्वस्वरूपनिरूपणं
नाम चतुर्थोऽध्यायः ॥ ४ ॥
॥ इति पूर्वकाण्डः समाप्तः ॥ १ ॥
न
अथ शिष्यो वदति गुरुं भगवन्तं नमस्कृत्य भगवन् सर्वात्मना नष्टाया
अविद्यायाः पुनरुदयः कथम् । सत्यमेवेति गुरुरिति होवाच । प्रावृद-
कालप्रारम्भे यथा मण्डूकादीनां प्रादुर्भावस्तद्वत्सर्वात्मना नष्टाया अवि-
द्याया उन्मेषकाले पुनरुदयो भवति । भगवन् कथं जीवानामनादि-
संसारभ्रमः । तन्निवृत्तिर्वा कथमिति । कथं मोक्षमार्गस्वरूपं च । मोक्ष-
साधनं कथमिति । को वा मोक्षोपायः । कीदृशं मोक्षस्वरूपम् । का वा
सायुज्यमुक्तिः । एतत्सर्वं तत्त्वतः कथनीयमिति । अत्यादरपूर्वकमतिहर्षेण
शिष्यं बहुकृत्य गुरुर्वदति श्रूयतां सावधानेन । कुत्सितानन्तजन्माभ्य-
स्तात्यन्तो कृष्टविविधविचित्रानन्तदुष्कर्म वासनाजालविशेषैर्देहात्मविवेको
जायते । तस्मादेव दृढतरदेहात्मभ्रमो भवति । अहमज्ञः किंचिज्ज्ञोऽहमहं
जीवोऽहमत्यन्तदुःखाकारोऽहमनादिसंसारीति भ्रमवासनाबलात्संसार एव
प्रवृत्तिस्तन्निवृत्त्युपायः कदापि न विद्यते । मिथ्याभूतान्स्वप्नतुल्यान्विष-
यभोगाननुभूय विविधान संख्यानतिदुर्लभान्मनोरथाननवरतमाशास्यमानः
अतृप्तः सदा परिधावति । विविधविचित्रस्थूलसूक्ष्मोत्कृष्ट निकृष्टानन्तदे-
हान्परिगृह्य तत्तद्देहविहित विविधविचित्राऽनेकशुभाशुभप्रारब्धकर्माण्यनु-
भूय तत्तत्कर्म फलवासनाजालवासितान्तःकरणानां पुनः पुनस्तत्तत्कर्मफल-
विषयप्रवृत्तिरेव जायते । संसारनिवृत्तिमार्गप्रवृत्तिः कदापि न जायते ।
तस्मादनिष्टमेवेष्टमिव भाति । इष्टमेवाऽनिष्टमिव भात्यनादिसंसारविपरीता-
१ मुपाधिनानात्वमेव.</p>
<pb n="382" />
<p>अध्या० ५ ] त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>मात् । तस्मात्सर्वेषां जीवानामिष्टविषये बुद्धिः सुखबुद्धिर्दुः खबुद्धिश्च भवति ।
परमार्थतस्त्वबाधितब्रह्मसुखविषये प्रवृत्तिरेव न जायते । तत्स्वरूपज्ञानाभा-
वात् । तत्किमिति न विद्यते । कथं बन्धः कथं मोक्ष इति विचाराभावाच्च ।
तत्कथमिति । अज्ञानप्राबल्यात् । कस्मादज्ञानप्राबल्यमिति । भक्तिज्ञानवैरा-
ग्यवासनाभावाच्च । तदभावः कथमिति । अत्यन्तान्तःकरणमलिनविशेषात् ।
अतः संसारतरणोपायः कथमिति । देशिकस्तमेव कथयति । सकलवेदशास्त्रसि-
द्धान्तरहस्यजन्माभ्यस्तात्यन्तोत्कृष्ट सुकृत परिपाकवशात्सद्भिः सङ्गो जायते ।
तस्माद्विधिनिषेधविवेको भवति । ततः सदाचारप्रवृत्तिर्जायते । सदाचारादखि-
दुरितक्षयो भवति । तस्मादन्तःकरणमति विमलं भवति । ततः सद्गुरुकटाक्ष-
मन्तःकरणमाकाङ्क्षति । तस्मात्स गुरुकटाक्षलेशविशेषेण सर्व सिद्धयः सिद्ध्यन्ति ।
सर्वबन्धाः प्रविनश्यन्ति । श्रेयोविघ्नाः सर्वे प्रलयं यान्ति । सर्वाणि श्रेयांसि
स्वयमेवायान्ति । यथा जात्यन्धस्य रूपज्ञानं न विद्यते तथा गुरूपदेशेन
विना कल्पकोटिभिस्तत्त्वज्ञानं न विद्यते । तस्मात्सद्गुरु कटाक्षलेशविशेषेणाचि-
रादेव तत्वज्ञानं भवति । यदा सद्गुरुकटाक्षो भवति तदा भगवत्कथाश्रवण-
ध्यानादौ श्रद्धा जायते । तस्माद्धृदयस्थिताना दिदुर्वासनाग्रन्थिविनाशो
भवति । ततो हृदयस्थिताः कामाः सर्वे विनश्यन्ति । तस्माद्धृदय पुण्डरीक-
कर्णिकायां परमात्माविर्भावो भवति । ततो दृढतरा वैष्णवी भक्तिर्जायते ।
ततो वैराग्यमुदेति । वैराग्याद्बुद्धि विज्ञानाविर्भावो भवति । अभ्यासात्तज्ज्ञानं
क्रमेण परिपक्कं भवति । पक्कविज्ञानाज्जीवन्मुक्तो भवति । ततः शुभाशुभ-
कर्माणि सर्वाणि सवासनानि नश्यन्ति । ततो दृढतरशुद्धसात्त्विकवासनया
भक्त्यतिशयो भवति । भक्त्यतिशयेन नारायणः सर्वमयः सर्वावस्थासु
विभाति । सर्वाणि जगन्ति नारायणमयानि प्रविभान्ति । नारायणव्यतिरिक्तं
न किंचिदस्ति । इत्येतद्बुद्धा विहरत्युपासकः सर्वत्र । निरन्तरसमाधिपरंपरा-
भिर्जगदीश्वराकाराः सर्वत्र सर्वावस्थासु प्रविभान्ति । अस्य महापुरुषस्य
क्वचित्क्वचिदीश्वरसाक्षात्कारो भवति । अस्य देहत्यागेच्छा यदा भवति तदा
वैकुण्ठपार्षदाः सर्वे समायान्ति । ततो भगवद्यानपूर्वकं हृदयकमले व्यव-
स्थितमात्मानं स्वमन्तरात्मानं संचिन्त्य सम्यगुपचारैरभ्यर्च्य हंसमन्त्रमुच्चर-
न्त्सर्वाणि द्वाराणि संयम्य सम्यङ्मनो निरुध्य चोर्ध्वगेन वायुना सह प्रणवेन
प्रणवानुसंधानपूर्वकं शनैः शनैराब्रह्मरन्ध्राद्विनिर्गत्य सोऽहमिति मन्त्रेण द्वाद-</p>
<pb n="383" />
<note>३६८.</note>
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
शान्तस्थितपरमात्मानमेकीकृत्य पञ्चोपचारैरभ्यर्च्य पुनः सोऽहमिति मन्त्रेण
षोडशान्तस्थितज्ञानात्मानमेकीकृत्य सम्यगुपचारैरभ्यर्च्य प्राकृतपूर्वदेहं परि-
त्यज्य पुनः कल्पितमन्त्रमयशुद्धब्रह्मतेजोमय निरतिशयानन्दमयमहाविष्णुसारू-
यविग्रहं परिगृह्य सूर्य मण्डलान्तर्गतानन्तदिव्यचरणारविन्दाङ्गुष्ठनिर्गत निर-
तिशयानन्दमयापरनदीप्रवाहमाकृष्य भावनयात्र स्नात्वा वस्त्राभरणाद्युप-
चारैरात्मपूजां विधाय साक्षान्नारायणो भूत्वा ततो गुरुनमस्कारपूर्वकं
प्रणवगरुडं ध्यात्वा ध्यानेनाविर्भूतमहाप्रणव गरुडं पञ्चोपचारैराराध्य गुर्वनु-
ज्ञया प्रदक्षिणनमस्कारपूर्वकं प्रणव गरुडमारुह्य महाविष्णोः समस्तासाधार-
चिह्नचिह्नितो महाविष्णोः समस्तासाधारणदिव्यभूषणैर्भूषितः सुदर्शनपुरुषं
पुरस्कृत्य विष्वक्सेनपरिपालितो वैकुण्ठपार्षदैः परिवेष्टितो नभोमार्गमाविश्य
पार्श्वद्वयस्थितानेकपुण्यलोकानतिक्रम्य तत्रत्यैः पुण्यपुरुषैरभिपूजितः सत्य-
लोकमाविश्य ब्रह्माणमभ्यर्च्य ब्रह्मणा च सत्यलोकवासिभिः सर्वैरभिपूजितः
शैवमीशान कैवल्य मासाद्य शिवं ध्यात्वा शिवमभ्यर्च्य शिवगणैः सर्वैः शिवेन
चाभिपूजितो महर्षिमण्डलान्यतिक्रम्य सूर्य सोममण्डले भिस्वा कीलकनारायणं
ध्यात्वा ध्रुवमण्डलस्य दर्शनं कृत्वा भगवन्तं ध्रुवमभिपूज्य ततः शिंशुमार-
चक्रं विभिद्य शिशुमार प्रजापतिमभ्यर्च्य चक्रमध्यगतं सर्वाधारं सनातनं
महाविष्णुमाराध्य तेन पूजितस्तव उपर्युपरि गत्वा परमानन्दं प्राप्य प्रका-
शते । ततो वैकुण्ठवासिनः सर्वे समायान्ति तान्सर्वान्सुसंपूज्य तैः सर्वै-
रभिपूजितश्चोपर्युपरि गत्वा विरजानदीं प्राप्य तत्र स्नात्वा भगवद्ध्यानपूर्वकं
पुनर्निमज्य तत्रापञ्चीकृत भूतोत्थं सूक्ष्माङ्गभोगसाधनं सूक्ष्मशरीरमुत्सृज्य
केवलमन्त्रमय दिव्यतेजोमय निरतिशयानन्दमय महाविष्णु सारूप्यविग्रहं परि-
गृह्य तत उन्मज्यात्मपूजां विधाय प्रदक्षिणनमस्कारपूर्वकं ब्रह्ममय वैकुण्ठमा-
विश्य तत्रत्याविशेषेण संपूज्य तन्मध्ये च ब्रह्मानन्दमयानन्तप्राकारप्रासा
दतोरणविमानोपवनावलिभिर्ज्वलच्छिखरैरुपलक्षितो निरुपम नित्य निरवद्य -
निरतिशय निरवधिकब्रह्मानन्दाचलो विराजते । तदुपरि ज्वलति निरतिशया-
नन्ददिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने शुद्धबोधानन्दलक्षणं विभाति ।
तदन्तराले चिन्मयवेदिका आनन्दवेदिकानन्दवनविभूषिता । तदभ्यन्तरे
अमिततेजोर शिस्तदुपरिज्वलति । परममङ्गलासनं विराजते । तत्पद्मकर्णि -
कार्या शुद्धशेषभोगासनं विराजते । तस्योपरि समासीनमानन्दपरिपाल-</p>
<pb n="384" />
<p>अध्या०. ६ ]
त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>कमादिनारायणं ध्यात्वा तमीश्वरं विविधोपचारैराराध्य प्रदक्षिणनमस्कारा-
- निवधाय तदनुज्ञातश्चोपर्युपरि गत्वा पञ्चवैकुण्ठानतीत्याण्ड विराट्कैवल्यं
प्राप्य तं समाराध्योपासकः परमानन्दं प्रापेत्युपनिषत् ॥ १ ॥
इति त्रिपाद्विभूतिमहानारायणोपनिषत्सु संसारतरणोपायकथनद्वारा परम-
मोक्षमार्गखरूपनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥
· यत उपासकः परमानन्दं प्राप सावरणं ब्रह्माण्डं च भित्वा परितः समव-
atta dusarरूपं निरीक्ष्य परमार्थतस्तत्स्वरूपं ब्रह्मज्ञानेनावबुध्य समस्त-
'वेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे समस्ताः
परमर्षयश्चाण्डाभ्यन्तरप्रपञ्चैकदेशमेव वर्णयन्ति । अण्डस्वरूपं न जानन्ति ।
ब्रह्माण्डाद्बहिः प्रपञ्चज्ञानं न जानन्त्येव । कुतोऽण्डान्तरान्तर्बहिः प्रपञ्चज्ञानं
दूरतो मोक्षप्रपञ्चज्ञानमविद्याप्रपञ्चज्ञानं चेति कथं ब्रह्माण्डस्वरूपमिति ।
"कुक्कुटाण्डाकारं महदादिसमष्ट्याकारमण्डं तपनीयमयं तप्तजाम्बूनदप्रभमुद्य-
स्कोटिदिवाकराभं चतुर्विधसृष्ट्युपलक्षितं महाभूतैः पञ्चभिरावृतं महदहंकृति-
"तमोभिश्च मूलप्रकृत्या परिवेष्टितम् । अण्डभित्तिविशालं सपादकोटियोजन -
प्रमाणम् । एकैकावरणं तथैव । अण्डप्रमाणं परितोऽयुतद्वयकोटियोजनप्रमाणं
महामण्डूकाद्यनन्तशक्तिभिरधिष्ठितं नारायणक्रीडाकन्तुकं परमाणुवद्विष्णुलो-
कसुसंलग्नमदृष्टाश्रुत विविध विचित्रानन्त विशेषैरुपलक्षितम् । अस्य ब्रह्माण्डस्य
समन्ततः स्थितान्येतादृशान्यनन्तकोटिब्रह्माण्डानि सावरणानि ज्वलन्ति । चतु-
-मुखपञ्चमुखषण्मुखसप्तमुखाष्टमुखादि संख्या क्रमेण सहस्रावधिमुखान्तैर्नाराय-
गां रजोगुणप्रधानैरे कै कसृष्टिकर्तृभिरधिष्ठितानि विष्णुमहेश्वराख्यैर्नारायणांशैः
सश्वतमोगुणप्रधानैरे कै कस्थिति संहारकर्तृभिरधिष्ठितानि महाजलौघमत्स्यबुडु -
दानन्तसङ्घवमन्ति । क्रीडासक्तजालककरतलामलकवृन्दवन्महाविष्णोः कर-
तले विलसन्त्यनन्तकोटिब्रह्माण्डानि । जलयन्त्रस्थघटमालिकाजालवन्महा वि.
ष्णोरेकै करोमकूपान्तरेष्वनन्तकोटिब्रह्माण्डानि सावरणानि भ्रमन्ति । समस्त-
- ब्रह्माण्डान्तर्बहिः प्रपञ्च रहस्यं ब्रह्मज्ञानेनावबुध्य विविधविचित्रानन्तपरमविभू-
तिसमष्टिविशेषान्स्समवलोक्यात्याश्चर्यांमृतसागरे निमज्य निरतिशयानन्द-
पारावारो भूत्वा समस्तब्रह्माण्डजालानि समुल्लङ्घयामिता परिच्छिन्नानन्ततमः
सागरमुत्तीर्य मूलाविद्यापुरं दृष्ट्वा विविधविचित्रानन्तमहामायाविशेषैः
ब्रह्मानन्दस्वरूपम् ।
अ. उ. २४
-</p>
<pb n="385" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ६
परिवेष्टितामनन्तमहामायाशक्तिसमष्ट्याकारामनन्त दिव्यतेजोज्वाला जालैरलं-
कृतामनन्तमहामायाविलासानां परमाधिष्ठानविशेषाकारां शश्वदमितानन्दा-
चलोपरिविहारिणीं मूलप्रकृतिजननीमविद्यालक्ष्मीमेवं ध्यात्वा विविधोपचा-
रैराराध्य समस्त ब्रह्माण्डसमष्टिजननीं वैष्णवीं महामायां नमस्कृत्य तया
चानुज्ञातश्चोपर्युपरि गत्वा महाविरापदं प्राप । महाविराट्स्वरूपं कथमिति ।
समस्ता विद्यापादको विराट् । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत
विश्वतस्पात् । सं बाहुभ्यां नमति सं पतन्त्रैर्द्यावापृथिवी जनयन्देव एकः । न
सं दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसा-
भिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति । मनोवाचामगोचरमादिविरादस्वरूपं
ध्यात्वा विविधोपचारैराराध्य तदनुज्ञातश्चोपर्युपरि गत्वा विविधविचित्रान-
न्तमूलाविद्याविलासानवलोक्योपासकः परमकौतुकं प्राप । अखण्डपरिपूर्ण-
परमानन्दलक्षणपरब्रह्मणः समस्तस्वरूप विरोधकारिण्यपरिच्छिन्नत्रिरस्करिण्या-
कारा वैष्णवी महायोगमाया मूर्तिमद्भिरनन्तमहामायाजालविशेषैः परिवेषिता
तस्याः पुरमति कौतुकमत्याश्चर्यसागरानन्दलक्षणममृतं भवति । अविद्यासागर-
प्रतिबिम्बितनित्यवैकुण्ठप्रति वैकुण्ठमिव विभाति । उपासकस्तत्पुरं प्राप्य योग-
लक्ष्मीमङ्गमायां ध्यात्वा विविधोपचारैराराध्य तथा संपूजितश्चानुज्ञातश्चोपर्युपरि
गत्वाऽनन्तमायाविलासानवलोक्योपासकः परमकौतुकं प्राप ॥ तत उपरि
पादविभूतिवैकुण्ठपुरमाभाति । अत्याश्चर्यानन्तविभूतिसमष्ट्याकारमानन्दरसं-
प्रवाहैरलंकृतमभितस्तरङ्गिण्याः प्रवाहैरतिमङ्गलं ब्रह्मतेजो विशेषाकारैरनन्द्र-
ब्रह्मवनैरभितस्ततमनन्तनित्यमुक्तैरभि व्याप्तमनन्त चिन्मयप्रासादजाल संकुलम-
नादिपाद विभूति वैकुण्ठमेवमाभाति । तन्मध्ये च चिदानन्दाचलो विभाति ॥
तदुपरि ज्वलति निरतिशयानन्ददिव्य तेजोराशिः । तदभ्यन्तरे परमानन्द-
विमानं विभाति । तदभ्यन्तरसंस्थाने चिन्मयासनं विराजते । तत्पश्न-
कर्णिकायां निरतिशयदिव्यतेजोराश्यन्तरसमासीनमादिनारायणं
विविधोपचारैस्तं समाराध्य तेनाभिपूजितस्तदनुज्ञातश्चोपर्युपरि गत्वा सावरण-
मविद्याण्डं च भित्त्वा विद्यापादमुल्लङ्घय विद्याविद्ययोः सन्धौ विष्वक्सेनवैकु
ण्ठपुरमाभाति ॥ अनन्तदिव्यतेजोज्वालाजालैरभितोऽनीकं प्रज्वलन्तमनन्त-
बोधान्तरबोधानन्द न्यू हैरभितस्ततं शुद्धबोधविमानावलिभिर्विराजितमनन्ता-
नन्दपर्वतैः परमकौतुकमाभाति । तन्मध्ये च कल्याणाचलोपरि शुद्धानन्द-
ध्यात्वा</p>
<pb n="386" />
<p>अध्या० ६ ]
त्रिपाद्विभूतिग्रहाद्वारायणोपनिषत् ॥ ५४ ॥</p>
<p>ध्यात्वा
विमानं विभाति । तद्भ्यन्तरे दिव्यमङ्गलासनं विराजते । तत्पद्मकर्णिकायाँ
ब्रह्मतेजोराश्यभ्यन्तरसमासीनं भगवदनन्तविभूतिविधिनिषेधपरिपालकं सर्व-
प्रवृत्ति सर्वहेतु निमित्तकं निरतिशयलक्षणमहाविष्णुस्वरूपमखिलाप वर्गपरिपाल
क्रममितविक्रममेवंविधं विष्वक्सेनं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विक्रि-
धोपचारैराराध्य तदनुज्ञातश्चोपर्युपरि गत्वा विद्याविभूर्ति प्राप्य विद्यामं-
यानन्त वैकुण्ठान्परितोऽवस्थितान्ब्रह्मतेजोमयानवलोक्योपासकः परमानन्द
आप ॥ विद्यामयाननन्तसमुद्रानतिक्रम्य ब्रह्मविद्यातरङ्गिणीमासाद्य तत्र
स्नात्वा भगवच्यानपूर्वकं पुनर्निमज्य मन्त्रमयशरीरमुत्सृज्य विद्यानन्दमयामृत-
दिव्यशरीरं परिगृह्य नारायणसारूप्यं प्राप्यात्मपूजां विधाय ब्रह्ममयवैकुण्ठ-
वासिभिः सर्वैर्नित्यमुक्तैः सुपूजितस्ततो ब्रह्मविद्याप्रवाहैरानन्दरस निर्भरैः क्रीडा-
नन्तपर्वतैरनन्तैरभिव्याप्तं ब्रह्मविद्यामयैः सहस्रप्राकारैरानन्दामृतमयैर्दिव्य-
गन्धस्वभावैश्चिन्मयैरनन्त ब्रह्मव नैरतिशोभितमुपासकस्त्वेवंविधं ब्रह्मविद्या-
वैकुण्ठमाविश्य तदभ्यन्तर स्थितात्यन्तो मत बोधानन्दप्रासादाग्रस्थितप्रणववि-
मानो परिस्थितामपारब्रह्मविद्या साम्राज्याधिदेवताममोघनिजमन्दकटाक्षेणाना-
दिमूला विद्याप्रलय करीम द्वितीयामे का मनन्त मोक्षसाम्राज्यलक्ष्मीमेवं
प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य पुष्पाञ्जलिं समर्थ्य स्तुत्वा
स्तोत्रविशेषैस्तयाभिपूजितस्तदनुगतश्चोपर्युपरि गत्वा ब्रह्मविद्यातीरे गत्वा बोधा-
नन्दमयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य बोधानन्दमयाननन्त-
समुद्रानतिक्रम्य गत्वा गत्वा ब्रह्मवनेषु परममङ्गलाचलश्रोणीषु ततो बोधान-
दुविमानपरंपरास्पासकः परमानन्दं प्राप ॥ ततः श्रीतुळसीबैकुण्ठपुरमाभाति
परमकल्याणमनन्तविभवममिततेजोराश्याकारमनन्तब्रह्मतेजोराशिसमध्या-
कारं चिदानन्दमयानेकप्राकार विशेषैः परिवेष्टितममितबोधानन्दाचलो परि-
स्थितं बोधानन्दतरङ्गिण्याः प्रवाहैरतिमङ्गलं निरतिशयानन्दैरनन्तवृन्दावनै-
रतिशोभितमखिलपत्रित्राणां परमपवित्रं चिद्रूपैरनन्त नित्यमुकैरभिव्याप्तमा-
नन्दमयानन्तविमानजालैरलंकृतममिततेजोराश्यन्तर्गतदिव्यतेजोराशिविशेष-
सुपासकस्त्वेवमाकारं तुलसीवैकुण्ठं प्रविश्य तद्न्तर्गत दिव्यविमानो परिस्थितां
सर्वपरिपूर्णस्य महाविष्णोः सर्वाङ्गेषु विहारिणीं निरतिशय सौन्दर्यलावण्या-
विदेवतां बोधानन्दमयैरनन्त नित्यपरिजनैः परिसेवितां श्रीसखीं तुलसीमेवं
-लक्ष्मीं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य स्तुत्वा</p>
<pb n="387" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
खोत्रविशेषैस्तयाभिपूजितस्तत्रत्यैश्चाभिपूजितस्तदनुज्ञातश्चोपर्युपरि गत्वा परमा-
नन्दतरङ्गिण्यास्तीरे गत्वा तत्र परितोऽवस्थितान्शुद्धबोधानन्दमयाननन्त-
वैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य तत्रत्यैश्चिद्रूपैः पुराणपुरुषैश्चाभि-
पूजितस्ततो गत्वा गत्वा ब्रह्मवनेषु दिव्यगन्धानन्दपुष्पवृष्टिभिः समन्वितेषु
दिव्यमङ्गलालयेषु निरतिशयानन्दामृत सागरेष्वमिततेजोर । इया कारेषु कल्लोल-
वनसंकुलेषु ततोऽनन्तशुद्धबोधविमानजाल संकुलानन्दाचल श्रोणीषूपासकस्तत
उपर्युपरि गत्वा विमान परम्पर। स्वनन्वतेजः पर्वतराजिष्वेवं क्रमेण प्राप्य
विद्यानन्दमययोः सन्धिं तत्रानन्दतरङ्गिण्याः प्रवाहेषु स्नात्वा बोधानन्दवर्न
प्राप्य शुद्धबोधपरमानन्दानन्दाकारवनं संततामृतपुष्पवृष्टिभिः परिवेष्टितं
परमानन्दप्रवाहैरभिव्याप्तं मूर्तिमद्भिः परममङ्गलैः परमकौतुकमपरिच्छिना-
नन्दसागराकारं क्रीडानन्दपर्वतैरभिशोभितं तन्मध्ये च शुद्धबोधानन्दवैकुण्ठं
यदेव ब्रह्मविद्यापादवैकुण्ठं सहस्रानन्दप्राकारैः समुज्वलति । अनन्तानन्दवि-
मान जाल संकुलमनन्तबोधसौधविशेषैरभितोऽनिशं प्रज्वलन्तं क्रीडानन्तमण्ड-
पविशेषैर्विशेषितं बोधानन्दमयानन्तपरमच्छत्रध्वजचामरवितानतोरणैरलंकृत
परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततमनन्त दिव्य तेजः पर्वत समष्टधा कारमपरिच्छि
ज्ञानन्तशुद्धबोधानन्तमण्डलं वाचामगोचरानन्द ब्रह्मतेजोराशिमण्डलमाखण्ड-
कविशेषं शुद्धानन्दसमष्टिमण्डल विशेषमखण्ड चिन्दनानन्दविशेषमेवं तेजोम-
ण्डलविधं बोधानन्दवैकुण्ठमुपासकः प्रविश्य तत्रत्यैः सर्वैरभिपूजितः परमान-
न्द्राचलो पर्यखण्ड बोधविमानं प्रज्वलति । तदभ्यन्तरे चिन्मयासनं विराजते
तदुपरि विभात्यखण्डानन्दतेजोमण्डलम् । तदभ्यन्तरे समासीनमादिनारायणं
ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैः सुसंपूज्य पुष्पाञ्जलि
समर्प्य स्तुत्वा स्तोत्रविशेषैः स्वरूपेणावस्थितमुपासकमवलोक्य तमुपासकमा-
दिनारायणः स्वसिंहासने सुसंस्थाप्य तद्वैकुण्ठवासिभिः सर्वैः समन्वितः समस्त-
मोक्षसाम्राज्यपट्टाभिषेकमुद्दिश्य मन्त्रपूतैरुपासकमानन्दकलशैरभिषिच्य दिव्य-
मङ्गलमहावाथपुरःसरं विविधोपचारैरभ्यर्च्य मूर्तिमद्भिः सर्वैः स्वचिद्वैरलंकृत्य
प्रदक्षिणनमस्कारान्विधाय स्वं ब्रह्मासि अहं ब्रह्मास्मि आवयोरन्तरं न
विद्यते स्वमेवाहम् अहमेव त्वम् इत्यभिधायेत्युक्त्वादिनारायणस्तिरोदधे
तदेत्युपनिषत् ॥ १ ॥
इत्याथर्वणमहानारायणोपनिषत्सु परममोक्षमार्गस्वरूपनिरूपणं
नाम षष्ठोऽध्यायः ॥ ६ ॥
1
१ परिषेवितम्.</p>
<pb n="388" />
<p>अध्या० ७ ] त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>अथोपासकस्तदाज्ञया नित्यं गरुडमारुह्य वैकुण्ठवासिभिः सर्वैः परिवेष्टितो
महासुदर्शनं पुरस्कृत्य विष्वक्सेनपरिपालितश्चोपर्युपरि गत्वा ब्रह्मानन्दवि-
भूतिं प्राप्य सर्वत्रावस्थितान्ब्रह्मानन्दमयाननन्तवैकुण्ठानवलोक्य निरतिश-
यानन्दसागरो भूत्वाऽऽत्मारामानानन्दविभूतिपुरुषाननन्तानवलोक्य तान्स-
वनुपचारैः समभ्यर्च्य तैः सर्वैरभिपूजितश्चोपासकस्तत उपर्युपरि गत्वा
ब्रह्मानन्दविभूतिं प्राप्यानन्तदिव्यतेजः पर्वतैरलंकृतान्परमानन्दलहरीवनशो-
भितानसंख्याकानानन्दसमुद्रानतिक्रम्य विविधविचित्रानन्तपरमतत्त्वविभू-
विसमष्टिविशेषान्परमकौतुकान्ब्रह्मानन्दविभूति विशेषानतिक्रम्योपासकः परम-
कौतुकं प्राप በ ततः सुदर्शन वैकुण्ठपुरमाभाति नित्यमङ्गलमनन्तविभवं
सहस्रानन्दप्राकारपरिवेष्टितमयुतकुक्ष्युपलक्षितमनन्तोत्कटज्वलदर मण्डलं निर-
तिशयदिव्यतेजोमण्डलं वृन्दारकपरमानन्दं शुद्धबुद्ध स्वरूपमनन्तानन्दसौ-
दामिनी परमविलासं निरतिशय परमानन्द पारावारमनन्तैरानन्दपुरुषैश्चिद्रूपै-
रधिष्ठितम् । तन्मध्ये च सुदर्शनं महाचक्रम् । चरणं पवित्रं विततं पुराणं
येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं
तरेम । लोकस्य द्वारमर्चिमत्पवित्रं ज्योतिष्मद्राजमानं महस्वत् । अमृतस्य
धारा बहुधा दोहमानं चरणं नो लोके सुधितां दधातु । अयुतारं
ज्वलन्तमयुतार समष्ट्याकारं निरतिशयविक्रमविलासमनन्तदिव्यायुधदिव्य-
शक्तिसमष्टिरूपं महाविष्णोरनर्गलप्रतापविग्रहमयुतायुतकोटियोजन विशाल-
मनन्तज्वालाजालैरलंकृतं समस्त दिव्य मङ्गल निदानमनन्तदिव्यतीर्थानां निज-
मन्दिरमेवं सुदर्शनं महाचक्रं प्रज्वलति । तस्य नाभिमण्डलसंस्थाने उपलक्ष्यते
निरतिशयानन्द दिव्यतेजोराशिः । तन्मध्ये च सहस्रारचक्रं प्रज्वलति ।
तदखण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनीनिचयोजवलम् । तदु-
भ्यन्तरसंस्थाने षट्शतारचक्रं प्रज्वलति । तस्यामितपरमतेजः परमविहार-
संस्थानविशेषं विज्ञानघनस्वरूपम् । तदन्तराले त्रिशतारचक्रं विभाति । तच्च
परमकल्याणविलासविशेषमनन्तचिदादित्यसमष्ट्याकारम् । तदभ्यन्तरे शतार-
चक्रमाभाति । तच्च परमतेजोमण्डलविशेषम् । तन्मध्ये षष्ट्यरचक्रमाभाति ।
तच्च ब्रह्मतेजः परमविलासविशेषम् । तदभ्यन्तरसंस्थाने षट्कोणचक्रं प्रज्वलति ।
तच्चापरिच्छिन्नानन्तदिव्य तेजोराश्याकारम् । तदभ्यन्तरे महानन्दपदं विभाति ।
तत्कर्णिकायां सूर्येन्दुवह्निमण्डलानि चिन्मयानि ज्वलन्ति । तत्रोप-</p>
<pb n="389" />
<p>૩૦૪-
ईशाद्युपनिषत्सु -
[ अध्या०
लक्ष्य ते निरतिशयदिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने युगपदुद्वितानन्तकोटि-
रविप्रकाशः सुदर्शन पुरुषो विराजते । सुदर्शन पुरुषो महाविष्णुरेव । महा-
विष्णोः समस्तासाधारणचिह्नचिह्नितः । एवमुपासकः सुदर्शनपुरुषं ध्यात्वा
विविधोपचारैराराध्य प्रदक्षिणनमस्कारान्विधायोपासकस्तेनाभिपूजितस्तद-
: नुज्ञातश्चोपर्युपरि गत्वा परमानन्दमयाननन्तवैकुण्ठानवलोक्योपासकः परमा-
नन्दं प्राप । तत उपरि विविधविचित्रानन्तचिद्विलासविभूतिविशेषानति-
कम्यानन्तपरमानन्दविभूतिसमष्टिविशेषाननन्तनिरतिशयानन्तसमुद्रानतीत्यो-
पासकः क्रमेणाद्वैतसंस्थानं प्राप ॥ कथमद्वैत संस्थानम् । अखण्डानन्दस्व-
रूपमनिर्वाच्यममितबोधसागरममितानन्दसमुद्रं विजातीयविशेषविवर्जितं
सजातीयविशेषविशेषितं निरवयवं निराधारं निर्विकारं निरञ्जनमनन्तब्रह्मा-
नन्दसमष्टिकन्दं परमचिद्विलाससमध्याकारं निर्मलं निरवद्यं निराश्रयमतिनि-
मेलानन्तकोटिरविप्रकाशैकस्फुलिङ्गमनन्तोपनिषदर्थं स्वरूपमखिलप्रमाणातीतं
मनोवाचामगोचरं नित्यमुक्तस्वरूपमनाधारमादिमध्यान्तशून्यं कैवल्यं परमं
शान्तं सूक्ष्मतरं महतो महत्तरमपरिमितानन्दविशेषं शुद्धबोधानन्दविभूति-
विशेषमनन्तानन्दविभूति विशेषसमष्टिरूपमक्षरमनिर्देश्यं कूटस्थमचलं ध्रुव-
मदिग्देशकालमन्तर्बहिश्च तत्सर्वं व्याप्य परिपूर्ण परमयोगिभिर्विमृग्यं देशतः
काळतो वस्तुतः परिच्छेदरहितं निरन्तराभिनवं नित्यपरिपूर्णमखण्डानन्दामृ-
तविशेषं शाश्वतं परमं पदं निरतिशयानन्दानन्तत डित्पर्वताकारमद्वितीयं
स्वयंप्रकाशमनिशं ज्वलति । परमानन्दलक्षणा परिच्छिन्नानन्तपरंज्योतिः
शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्द चिंद्रूपाचलम खण्डपरमा-
'नन्दविशेषं बोधानन्दमहोज्ज्वलं नित्यमङ्गलमन्दिरं चिन्मथनाविर्भूतं चित्सा-
रमनन्ताश्चर्यसागरममिततेजोराश्यन्तर्गततेजो विशेषमनन्तानन्दप्रवाहैरलंकृतं
निरतिशयानन्दपारावाराकारं निरुपमनित्यनिरवद्यनिरतिशय निरवधिकतेजो-
राशिविशेषं निरतिशयानन्दसहस्रप्राकारैरलंकृतं शुद्धबोधसौधावलिविशेषैरलं-
कृतं चिदानन्दमयानन्तदिव्यारामैः सुशोभितं शश्वदमित पुष्पवृष्टिभिः सम-
न्ततः संततम् । तदेव त्रिपाद्विभूति वैकुण्ठस्थानं तदेव परमकैवल्यम् । तदेवा-
बाधितपरमतत्त्वम् । तदेवानन्तोपनिषद्विमृग्यम् । तदेव परमयोगिभिर्मुमुक्षुभिः
सर्वैराशास्यमानम् । तदेव सदनम् । तदेव चिद्वनम् । तदेवानन्दघनम् ।
तदेव शुद्धबोधघनविशेषमखण्डानन्दब्रह्मचैतन्याधिदेवतास्वरूपम् । सर्वाधिष्ठा-</p>
<pb n="390" />
<p>अध्या० ७ ] त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥
नमद्वयपरब्रह्मविहारमण्डलं निरतिशयानन्दतेजोमण्डलमद्वैतपरमानन्दलक्षण-
परब्रह्मणः परमाधिष्ठानमण्डलं निरतिशयपरमानन्दपरम मूर्तिविशेषमण्डलमन-
न्तपरममूर्तिसमष्टिमण्डलं निरतिशयपरमानन्दलक्षणपरब्रह्मणः परममूर्तिपरम--
तत्वविलासविशेषमण्डलं बोधानन्दमयानन्तपरम विलासविभूतिविशेषसमष्टि
मण्डलमनन्तचिद्विलासविभूति विशेषसमष्टिमण्डलमखण्डशुद्धचैतन्य निजमूर्ति-
विशेष विग्रहं वाचामगोचरानन्तशुद्धबोधविशेषविग्रहमनन्तानन्दसमुद्रस-
मष्ट्याकारमनन्तबोधाचलैरनन्तबोधानन्दाचलैरधिष्ठितं निरतिशयानन्दपरम-
मङ्गलविशेषसमष्ट्याकारमखण्डाद्वैत परमानन्दलक्षणपरब्रह्मणः परममूर्तिपरम
- तेजःपुञ्जपिण्डविशेषं चिद्रूपादित्यमण्डलं द्वात्रिंशद्व्यूह भेदैरधिष्ठितम् । व्यूह-
भेदाश्च केशवादिचतुर्विंशतिः । सुदर्शनादिन्यासमन्त्राः । ( सुदर्शनादियत्रो-
द्धारः ) । अनन्तगरुडविष्वक्सेनाश्च निरतिशयानन्दाश्च । आनन्दव्यूहमध्ये
सहस्रकोटियोजनायतोन्नत चिन्मयप्रासादं ब्रह्मानन्दमय विमानकोटिभिरति-
मङ्गलमनम्तोपनिषदर्थारामजालसंकुलं सामहंसकूजितै रतिशोभितमानन्दमया-
नन्तशिखरैरलंकृतं चिदानन्दरसनिर्झरैरभिव्याप्तमखण्डानन्द तेजोराश्यन्तर-
स्थितमनन्तानन्दाश्चर्यसागरं तदभ्यन्तरसंस्थानेऽनन्तकोटिरविप्रकाशातिशयप्रा-
कारं निरतिशयानन्दलक्षणं प्रणवाख्यं विमानं विराजते । शतकोटिशिखरैरा-
नन्दमयैः समुज्ज्वलति । तदन्तराले बोधानन्दाचलो पर्यष्टाक्षरीमण्डपो
विभाति । तन्मध्ये च चिदानन्दमयवेदिकानन्दवनविभूषिता । तदुपरि-
ज्वलति निरतिशयानन्दतेजोराशिः । तदभ्यन्तरसंस्थानेऽष्टाक्षरीपद्मविभूषितं
चिन्मयासनं विराजते । प्रणवकर्णिकायां सूर्येन्दु वह्निमण्डलानि - चिन्मयानि
ज्वलन्ति । तत्राखण्डानन्दतेजोराश्यन्तर्गतं परममङ्गलाकारमनन्तासनं विरा-
जते । तस्योपरि च महायन्त्रं प्रज्वलति । निरतिशयब्रह्मानन्दपरममूर्तिमहा-
यत्रं समस्तब्रह्मतेजोराशिसमष्टिरूपं चित्स्वरूपं निरञ्जनं परब्रह्मस्वरूपं पर-
ब्रह्मणः परमरहस्यकैवल्यं महायन्त्रमयपरमवैकुण्ठनारायणयन्त्रं विजयते ।
तत्स्वरूपं कथमिति । देशिकस्तथेति होवाच । भदौ षट्कोणचक्रम् । तन्मध्ये
षड्दलपद्मम् । तत्कर्णिकायां प्रणव अमिति । प्रणवमध्ये नारायण-
बीजमिति । तत्साध्यगर्भितं मम सर्वाभीष्टसिद्धिं कुरु कुरु स्वाहेति । तत्प
झदलेषु विष्णुनृसिंहषडक्षरमन्त्रौ ॐ नमो विष्णवे ऐं क्लीं श्रीं ह्रीं
क्ष्म (क्ष) फट् । तद्दलकपोलेषु रामकृष्णषडक्षरमन्त्रौ । रां रामाय नमः ।</p>
<pb n="391" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
क्वीं कृष्णाय नमः । षट्कोणेषु सुदर्शनषडक्षरमन्त्रः । सहस्रार हुं फडिति ।
षट्कोणकपोलेषु प्रणवयुक्तशिवपञ्चाक्षरमन्त्रः । ॐ नमः शिवायेति । तद्बहिः
प्रणवमालायुक्तं वृत्तम् । वृत्ताद्वहिरष्टदलपद्मम् । तेषु दलेषु नारायणनृसिं-
हाष्टाक्षरमन्त्रौ । ॐ नमो नारायणाय । जय जय नरसिंह । तद्दलसन्धिषु
रामकृष्ण श्रीकराष्ट्राक्षरमन्त्राः । ॐ रामाय हुं फट् स्वाहा । क्लीं दामोदराय
नमः । उत्तिष्ठ श्रीकर स्वाहा । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्वहिर्भव-
दलपद्मम् । तेषु दलेषु रामकृष्णहयग्रीवनवाक्षरमन्त्राः । ॐ रामचन्द्राय नमः
अमू । क्लीं कृष्णाय गोविन्दाय क्लीम् । ह्रौं ( इसौं ) हयग्रीवाय नमो हाँ
( हसौम् । ) तहलकपोलेषु दक्षिणामूर्तिनवाक्षरमः । ॐ दक्षिणामूर्तिरीश्व-
रोम् । तद्बहिर्नारायणबीजयुक्तं वृत्तम् । वृत्ताद्वहिर्दशदलपद्मम् । तेषु दलेषु
रामकृष्णदशाक्षरमन्त्रौ । हुं जानकीवल्लभाय स्वाहा । गोपीजनवल्लभाय
स्वाहा । तद्दलसन्धिषु नृसिंहमालामन्त्रः । ॐ नमो भगवते श्रीमहानृसिंहाय
करालदंष्ट्रवदनाय मम विघ्नान्पच पच स्वाहा । तद्वहिर्नृसिंहैकाक्षरयुक्तं वृत्तम् ।
क्ष्म्यौ ( क्षौ ) मित्येकाक्षरम् । वृत्ताद्वहिर्द्वादशदलपद्मम् । तेषु दलेषु नारा-
यणवासुदेव द्वादशाक्षर मन्त्रौ । ॐ नमो भगवते नारायणाय । ॐ नमो भग
वते वासुदेवाय । तद्दलकपोलेषु महाविष्णुराम कृष्णद्वादशाक्षरमन्त्राश्च ।
ॐ नमो भगवते महाविष्णवे । ॐ ह्रीं भरताग्रज राम ह्रीं स्वाहा । श्रीं
ह्रीं क्लीं कृष्णाय गोविन्दाय नमः । तद्बहिर्जगन्मोहन बीजयुक्तं वृत्तं क्लीमि-
ति । वृत्ताद्बहिश्चतुर्दशदलपद्मम् । तेषु दलेषु लक्ष्मीनारायणहयग्रीवगोपाल-
दुधिवामनमन्त्राश्च । ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासुदेवाय नमः । ॐ नमः
सर्वको टिसर्वविद्यारराजाय क्लीं कृष्णाय गोपालचूडामणये स्वाहा । ॐ नमो
भगवते दधिवामनाय (ॐ) । तद्दलसंधिष्वन्नपूर्णेश्वरीमन्त्रः । ह्रीं पद्मा-
वत्यन्नपूर्णे माहेश्वरि स्वाहा । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्वहिः
षोडशदलपद्मम् । तेषु दलेषु श्रीकृष्णसुदर्शनषोडशाक्षरमत्रौ च ।
ॐ नमो
भगवते रुक्मिणीवल्लभाय स्वाहा । ॐ नमो भगवते महासुदर्शनाय हुँ
फट् । तद्दल संधिषु स्वराः सुदर्शनमालामन्त्रश्च । अभाइईउऊऋऋलृलुए
भोऔअंभः। सुदर्शनमहाचकाय दीप्तरूपाय सर्वतो मां रक्ष रक्ष सहस्त्रार हुँ
फट् स्वाहा । तद्बहिर्वराहबीजयुक्तं वृत्तम् । तद्धुमिति । वृत्ताद्वहिरष्टादशदल-
पद्मम् । तेषु दलेषु श्रीकृष्णवामनाष्टादशाक्षरमन्त्रौ । कीं कृष्णाय गोविन्दाय</p>
<pb n="392" />
<p>अध्या० ७] त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥
गोपीजनवल्लभाय स्वाहा । ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा ।
तद्दलकपोलेषु गरुडपञ्चाक्षरीमन्त्रो गरुडमालामन्त्रश्च । क्षिपॐ स्वाहा ।
ॐ नमः
पक्षिराजाय सर्वविषभूतरक्षः कृत्यादिभेदनाय सर्वेष्टसाधकाय स्वाहा । तद्बहिर्मा-
याबीजयुक्तं वृत्तम् । वृत्ताद्वहिः पुनरष्टदलपद्मम् । तेषु दलेषु श्रीकृष्ण वामनाष्टा-
क्षरमन्त्रौ । ॐ नमो दामोदराय । ॐ वामनाय नमः ॐ । तद्दलकपोलेषु नील-
कण्ठञ्यक्षरीगरुडपञ्चाक्षरीमन्त्रौ च । मैं रीं ठः (श्रीकण्ठः) । नमोऽण्डजाय ।
तद्बहिर्मन्मथबीजयुक्तं वृत्तम् । वृत्ताद्बहिश्चतुर्विंशतिदलपद्मम् । तेषु दलेषु
शरणागतनारायणमन्त्रौ नारायणहयग्रीवगायत्रीमन्त्रौ च । श्रीमन्नारायण-
चरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः । नारायणाय विद्महे वासुदेवाय
श्रीमहि । तन्नो विष्णुः प्रचोदयात् । वागीश्वराय विद्महे हयग्रीवाय धीमहि ।
तन्नो हंसः प्रचोदयात् । तद्दलकपोलेषु नृसिंहसुदर्शनब्रह्म गायत्री मन्त्राश्च ।
वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नृसिंहः प्रचोदयात् । सुदर्शनाय
विद्महे हेतिराजाय धीमहि । तन्नश्चक्रः प्रचोदयात् । तत्सवितुर्वरेण्यं भर्गो देवस्य
श्रीमहि । धियो यो नः प्रचोदयात् । तद्बहिर्हयग्रीवैकाक्षरयुक्तं वृत्तं हौहसौ-
मिति । वृत्ताद्वहिर्द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहहयग्रीवानुष्टुभमन्त्रौ उग्रं
वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमा-
म्यहम् । ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशि-
रसे नमः । तद्दलकपोलेषु रामकृष्णानुष्टुभमन्त्रौ । रामभद्र महेष्वास रघुवीर
नृपोत्तम । भो दशास्यान्तकास्माकं रक्षां कुरु देहि श्रियं च मे । देवकीसुत
गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः । तद्बहिः
प्रणव संपुटिताभिबीजयुक्तं वृत्तम् । ॐ रमोमिति । वृत्ताद्बहिः पत्रिंशद--
लपद्मम् । तेषु दलेषु हयग्रीवषदत्रिंशदक्षरमन्त्रः पुनरष्टात्रिंशदक्षरमत्रश्च ।
हंसः । विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यं नमो हयग्रीव विद्या-
राजाय विष्णवे । सोहम् । ह्रौ (ह्रौं ) ॐ नमो भगवते हयग्रीवाय सर्ववा-
गीश्वरेश्वराय सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा । तद्दलकपोलेषु
प्रणवादिनमोऽन्ताश्चतुर्थ्यन्ताः केशवादिचतुर्विंशतिमन्त्रा । अवशिष्टद्वाद-
शस्थानेषु रामकृष्ण गायत्रीद्वयवर्णचतुष्टय से कैकस्थले । ॐ केशवाय नमः ।
ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ गोविन्दाय नमः । ॐ विष्णवे
नमः । ॐ (ॐ) मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वाम-</p>
<pb n="393" />
<note>३७८.</note>
<p>ईशाद्युपनिषत्सु -
1
[ अध्या० ७
नाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय
नमः । ॐ दामोदराय नमः । ॐ संकर्षणाय नमः । ॐ वासुदेवाय नमः ॥
ॐ प्रद्युम्नाय नमः । ॐअनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजा-
य नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । दाशरथाय विद्महे
सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् । दामोदराय विद्महे वासु-
देवाय धीमहि । तन्नः कृष्णः प्रचोदयात् । तद्बहिः प्रणवसंपुटिताङ्कुशबीज-
युक्तं वृत्तम् । ॐ क्रोमोमिति । तद्बहिः पुनर्वृत्तं तन्मध्ये द्वादशकुक्षिस्थानानि
सान्तरालानि । तेषु कौस्तुभवनमाला श्रीवत्स सुदर्शन गरुडपद्मध्वजानन्त-
शार्ङ्गगदाशङ्खनन्दकमन्त्राः प्रणवादिनमोऽन्ताश्चतुर्थ्यन्ताः क्रमेण । ॐ कौस्तुभाय
नमः । ॐ वनमालायै नमः । ॐ श्रीवत्साय नमः । ॐ सुदर्शनाय नमः ।
ॐ गरुडाय नमः । ॐ पद्माय नमः । ॐ ध्वजाय नमः । ॐ अन-
न्वाय नमः । ॐ शार्ङ्गय नमः । ॐ गदायै नमः । ॐ शङ्खाय नमः । ॐ
नन्दकाय नमः । तदन्तरालेषु — ॐ विष्वक्सेनाय नमः । ॐ माचक्राय
स्वाहा । ॐ विचक्राय स्वाहा । ॐ सुचक्राय स्वाहा । ॐ पीचक्राय स्वाहा ।
ॐ संचक्राय स्वाहा । ॐ ज्वालाचक्राय स्वाहा । ॐ क्रुद्धोल्काय स्वाहा ।
ॐ महोल्काय स्वाहा । ॐ वीर्यो काय स्वाहा । ॐ धुल्काय स्वाहा । ॐॐॐ
सहस्रोतकाय स्वाहा । इति प्रणवादिमन्त्राः । तद्बहिः प्रणवसंपुटितगरुढपचाक्षर-
युक्तं वृत्तम् । ॐक्षिप स्वाहा । ॐ तच द्वादशवः सान्तरालैरलंकृतम् । तेषु
वन्त्रेषु ॐ पद्मनिधये नमः । ॐ महापद्मनिधये नमः । ॐ गरुडनिधये नमः । ॐ
शङ्खनिधये नमः । ॐमकर निधये नमः । ॐ कच्छप निधये नमः । ॐ विद्यानिधये
नमः । ॐ परमानन्दनिधये नमः । ॐ मोक्षनिधये नमः । ॐ लक्ष्मीनिधये
नमः । ॐ ब्रह्मनिधये नमः । ॐ श्रीमुकुन्दनिधये नमः । ॐ वैकुण्ठनिधये
नमः । तत्संधिस्थानेषु ॐ विद्याकल्पकतरवे नमः । ॐ आनन्दकल्पकतरवे
नमः । ॐ ब्रह्मकल्पकतरवे नमः । ॐ मुक्तिकल्पकतरवे नमः । ॐ अमृत-
कल्पकतरवे नमः । ॐ बोधकल्पकतरवे नमः । ॐ विभूतिकल्पकतरवे नमः ।
ॐ वैकुण्ठकल्पकतरवे नमः । ॐ वेदकल्पकतरवे नमः । ॐ योग•
कल्पकतरवे नमः । ॐ यज्ञकल्पकतरवे नमः । ॐ पद्मकल्पकतरवे
१ व्यल्काय.</p>
<pb n="394" />
<p>अध्या० ७ ] त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥
P
1</p>
<p>we
नमः । तच्च शिवगायत्रीपरब्रह्ममन्त्राणां वर्णैर्वृत्ताकारेण संवेष्ट्य । तत्पुरुषाय
विग्रहे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । श्रीमन्नारायणो
ज्योतिरात्मा नारायणः परः । नारायणपरं ब्रह्म नारायण नमोऽस्तु ते
तद्बहिः प्रणवसंपुटित श्रीबीजयुक्तं वृत्तम् । ॐ श्रीमोमिति । वृत्ताद्बहिश्वत्वा-
रिंशद्दलपद्मम् । तेषु दलेषु व्याहृतिशिरः संपुटितवेद्गायत्री पादचतुष्टय-
सूर्याष्टाक्षरीमन्त्रौ । ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः ।
ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम् । ॐ भर्गो देवस्य
धीमहि । ॐ धियो यो नः प्रचोदयात् । ॐ परोरजसे सावदोम् ।
ॐ आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । ॐ घृणिः सूर्य
आदित्यः । तद्दलसंधिषु प्रणव श्रीबीज संपुटितनारायणबीजं सर्वत्र । ॐ श्रीमं
श्रीमोम् । तद्बहिरष्टशूलाङ्कितभूचक्रम् । चक्रान्तश्चतुर्दिक्षु हंसः सोहं मन्त्रौ.
प्रणवसंपुटिता नारायणास्त्रमन्त्राश्च । ॐ हंसः सोहम् । ॐ नमो नारायणाय
हुं फट् । तद्वहिः प्रणवमाला संयुक्तं वृत्तम् । वृत्ताद्बहिः पञ्चाशद्दलपद्मम् ।
तेषु दलेषु मातृकापञ्चाशदक्षरमाला लकारवर्ज्या । तद्दलसंधिषु प्रणवश्री-
बीजसंपुटितरामकृष्णमालामन्त्रौ । ॐ श्रीमों नमो भगवते रघुनन्दनाय
रक्षोघ्नविशदाय मधुर प्रसन्नवदनायामिततेजसे बलाय रामाय विष्णवे नमः ।
श्रीं ॐॐ नमः कृष्णाय देवकीपुत्राय वासुदेवाय निर्गलच्छेदनाय सर्वलोकाधि-
पतये सर्वजगन्मोहनाय विष्णवे कामितार्थदाय स्वाहा श्रीमोम् । तद्वहिर -
शृशूलाङ्कितभूचक्रम् । तेषु प्रणवसंपुटितमहानीलकण्ठमन्त्रवर्णानि । ॐ मों
नमो नीलकण्ठाय । ॐ शूलाग्रेषु लोकपालमन्त्राः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः
क्रमेण । ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निर्ऋ-
तये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः ।
ॐ ईशानाय नमः । तद्बहिः प्रणवमालायुक्तं वृत्तत्रयम् । तद्वहिर्भूपुरचतुष्टयं
चतुर्द्वारयुतं चक्रकोणचतुष्टयमहावज्रविभूषितम् । तेषु वज्रेषु प्रणव श्रीबीज-
संपुटितामृतबीजद्वयम् । ॐ श्रीं ठं वं श्रीमोमिति । बहिर्भूपुरवीथ्याम् -
ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐअन-
न्ताय नमः । ॐ पृथिव्यै नमः । मध्यभूपुरवीभ्याम् — ॐ क्षीरसमुद्राय
नमः । ॐरबद्वीपाय नमः । ॐ मणिमण्डपाय नमः । ॐ श्वेतच्छत्रा
नमः । ॐ कल्पकवृक्षाय नमः । ॐ रत्नसिंहासनाय नमः । प्रथमभूपुर-</p>
<pb n="395" />
<note>३८०.</note>
<p>ईशाद्युपनिषद-
[ अध्या० ७
वीध्याम् ॐ धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यसत्वरजस्तमोमायावि-
धानन्तपद्माः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । अन्तर्वृत्तवीथ्याम्-अनु.
ग्रहायै नमः । ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसं-
योगयोगपीठात्मने नमः । वृत्तावकाशेषु - बीजं प्राणं च शक्तिं च दृष्टिं वश्या-
दिकं तथा । मन्त्रयन्त्राख्यगायत्री प्राणस्थापनमेव च । भूतदिक्पालवी जानि
यस्याङ्गानि वै दश । मूलमन्त्रमालामन्त्रकवच दिग्बन्धन मन्त्राश्च । एवं-
विधमेतद्यत्रं महामन्त्रमयं योगधीरान्तैः परममन्त्रैरलंकृतं षोडशोपचारैर-
भ्यर्चितं जपहोमादिना साधितमेतद्यत्रं शुद्धब्रह्मतेजोमयं सर्वाभयंकरं समस्त-
दुरितक्षयकरं सर्वाभीष्टसंपादकं सायुज्य मुक्तिप्रदमे तत्परमवैकुण्ठमहानारा-
यणयन्त्रं प्रज्वलति । तस्योपरि च निरतिशयानन्दतेजोराश्यभ्यन्तरसमासीनं
वाचामगोचरानन्दतेजोराश्याकारं चित्साराविर्भूतानन्दविग्रहं बोधानन्दस्व-
रूपं निरतिशय सौन्दर्यपारावारं तुरीयस्वरूपं तुरीयातीतं चाद्वैतपरमानन्दनिर-
न्तरातितुरीय निरतिशय सौन्दर्यानन्दपारावारं लावण्यवाहिनी कल्लोलता-
सुरं दिव्यमङ्गलविग्रहं मूर्तिमद्भिः परममङ्गलैरुपसेव्यमानं चिदानन्दमयैरनन्त-
कोटिरविप्रकाशैरनन्तभूषणैरलंकृतं सुदर्शन पाञ्चजन्य पद्मगदासिशा मुसल-
परिघाद्यैश्विन्मयैरनेकायुधगणैर्मूर्तिमद्भिः सुसेवितम् । बाह्मवृत्तवीथ्यां विम-
लोकर्षिणी ज्ञाना क्रिया योगा प्रह्री सत्येशाना प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः
क्रमेण । श्रीवत्सकौस्तुभवनमालाङ्कितवक्षसं ब्रह्मकल्पवनामृतपुष्पवृष्टिभिः
सन्ततमानन्दं ब्रह्मानन्दरसनिर्भरै र संख्यैरति मङ्गलं शेषायुतफणाजालविपुल-
च्छत्रशोभितं तत्फणामण्डलो दर्चिर्मणिद्योतितविग्रहं तदङ्गकान्ति निर्झरैस्ततं नि-
रतिशयब्रह्मगन्धस्वरूपं निरतिशयानन्दब्रह्मगन्ध विशेषाकारमनन्तब्रह्मगन्धा-
कारसमष्टिविशेषमनन्तानन्दतुलसी माल्यैरभिनवं चिदानन्दमयानन्तपुष्पमा-
ल्यैर्विराजमानं तेजःप्रवाहतरङ्गतत्परम्पराभिर्ज्वलन्तं निरतिशयानन्दं कान्ति-
विशेषावतैरभितोऽनिशं प्रज्वलन्तं बोधानन्दमयानन्तधूपदीपावलिभि-
रतिशोभितं निरतिशयानन्दचामरविशेषैः परिसेवितं निरन्तर निरुपमनि-
रतिशयोत्कटज्ञानानन्दानन्तगुच्छफलैरलंकृतं चिन्मयानन्ददिव्य विमा नच्छत्र-
ध्वजराजिभिर्विराजमानं परममङ्गलानन्तदिव्यतेजोभिर्ज्वलन्तमनिशं वाचा-
मगोचरमनन्त तेजोराश्यन्तर्गतमर्धमात्रात्मकं तुर्य ध्वन्यात्मकं तुरीयातीत-</p>
<pb n="396" />
<p>अध्या० ८ ] त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥</p>
<p>मवाच्यं नादबिन्दुकलाध्यात्मस्वरूपं चेत्याद्यनन्ताकारेणावस्थितं निर्गुण
निष्क्रियं निर्मलं निरवद्यं निरञ्जनं निराकारं निराश्रयं निरतिशयाद्वैतपरमानन्द--
लक्षणमादिनारायणं ध्यायेदित्युपनिषत् ॥
इति त्रिपाद्विभूतिमहानारायणोपनिषत्सु परममोक्षखरूपनिरूपणद्वारापरम-
वैकुण्ठमहानारायणयन्त्रखरूपनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥
ततः पितामहः परिपृच्छति भगवन्तं महाविष्णुं भगवञ्छुद्धाद्वैतपरमानन्द-
लक्षणपरब्रह्मणस्तव कथं विरुद्धवैकुण्ठप्रासादप्राकारविमानाद्यनन्तवस्तुभेदः ।
"रायसेोकमिति भगवान्महाविष्णुः परिहरति । यथा शुद्धसुवर्णस्य कटकमुकु-
'टाङ्गदादिभेदः । यथा समुद्रसलिलस्य स्थूलसूक्ष्मतरङ्गफेनबुबुदुकरकलवणपा-
`षाणांद्यनन्तवस्तुभेदः । यथा भूमेः पर्वतवृक्षतृणगुल्मलताद्यनन्तवस्तुभेदः ।
तथैवाद्वैतपरमानन्दलक्षणपरब्रह्मणो मम सर्वाद्वैतमुपपन्नं भवत्येव । मत्स्वरू-
पमेव सर्वं मव्यतिरिक्तमणुमात्रं न विद्यते । पुनः पितामहः परिपृच्छति ।
भगवन् परमवैकुण्ठ एव परममोक्षः । परममोक्षस्त्वेक एव श्रूयते
- सर्वत्र । कथमनन्तवैकुण्ठश्चानन्तानन्दसमुद्रादयश्चानन्तमूर्तयः सन्तीति ।
तथेति होवाच भगवान्महाविष्णुः । एकस्मिन्नविद्यापादेऽनन्तकोटि ब्रह्माण्डानि
'सावरणानि श्रूयन्ते । तस्मिन्नेकस्मिन्नण्डे बहवो लोकाश्च बहवो वैकुण्ठाश्चान-
स-
विभूतयश्च सन्त्येव । सर्वाण्डेष्वनन्तलोकाश्चानन्त वैकुण्ठाः सन्तीति सर्वेषां
खल्वभिमतम् । पादत्रयेऽपि किं वक्तव्यं निरतिशयानन्दाविर्भावो मोक्ष इति
मोक्षलक्षणं पादये वर्तते । तस्मात्पादत्रयं परममोक्षः । पादत्रयं परमवै--
कुण्ठः । पादत्रयं परमकैवल्यमिति । ततः शुद्धचिदानन्दब्रह्मविलासानन्दा-
श्वानन्तपरमानन्दविभूतयश्चानन्तवैकुण्ठाश्चानन्तपरमानन्दसमुद्रादयः
न्त्येव । उपासकस्ततोऽभ्येत्यैवंविधं नारायणं ध्यात्वा प्रदक्षिणनमस्कारान्वि-
'वाय विविधोपचारैरभ्यर्च्य निरतिशया द्वैतपरमानन्दलक्षणो भूत्वा तदग्रे सार्व-
धानेनोपविश्याद्वैतयोगमास्थाय सर्वाद्वैतपरमानन्दलक्षणाखण्डामिततेजोराश्या--
कारं विभाव्योपासकः स्वयं शुद्धबोधानन्दमयामृतनिरतिशयानन्दतेजोराश्या-
कारो भूत्वा महावाक्यार्थमनुस्मरन् ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि
योऽहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा । अहं ब्रह्मेति भावनया
यथा परमतेजोमहानदीप्रवाहपरमतेजः पारावारे प्रविशति । यथा परमतेज:-
पारावारतरङ्गाः परमतेजः पारावारे प्रविशन्ति । तथैव सात्मोपासकः-
सर्वपरिपूर्णाद्वैतपरमानन्दलक्षणे परब्रह्मणि नारायणे मयि संच्चिदानन्दा-</p>
<pb n="397" />
<p>૨૨
ईशाद्युपनिषत्सु -
[ अध्या०८
रमकोऽहमजोऽहं परिपूर्णोऽहमस्मीति प्रविवेश । तत उपासको निस्त-
रङ्गद्वैतापा नितिरशयसच्चिदानन्दसमुद्रो बभूव । यस्त्वनेन मार्गेण सम्य-
गाचरति स नारायणो भवत्यसंशयमेव । अनेन मार्गेण सर्वे मुनयः सिद्धिं
गताः । असंख्याताः परमयोगिनश्च सिद्धिं गताः । ततः शिष्यो गुरु
परिपृच्छति । भगवन्त्सालम्बनिरालम्बयोगौ कथमिति ब्रूहीति । सालम्बस्तु
समस्तकर्मातिदूरतया करचरणादिमूर्तिविशिष्टं मण्डलायालम्बनं सालम्ब-
योगः । निरालम्बस्तु समस्तनामरूपकर्मातिदूरतया सर्वकामाद्यन्तःकरण-
वृत्तिसाक्षितया तदालम्बनशून्यतया च भावनं निरालम्बयोगः । अथ
च निरालम्बयोगाधिकारी कीदृशो भवति । अमानित्वादिलक्षणोपलक्षितो
यः पुरुषः स एव निरालम्बयोगाधिकारी कार्यः कश्चिदस्ति । तस्मात्सर्वेषाम-
धिकारिणामनधिकारिणां भक्तियोग एव प्रशस्यते । भक्तियोगो निरुपद्रवः ।
भक्तियोगान्मुक्तिः । बुद्धिमतामनायासेनाचिरादेव तत्वज्ञानं भवति । तरक-
थमिति । भक्तवत्सलः स्वयमेव सर्वेभ्यो मोक्षविप्रेभ्यो भक्तिनिष्ठान्सर्वान्य-
रिपालयति । सर्वाभीष्टान्प्रयच्छति । मोक्षं दापयति । चतुर्मुखादीनां सर्वे-
षामपि विना विष्णुभक्त्या कल्पकोटिभिर्मोक्षो न विद्यते । कारणेन विना
कार्यं नोदेति । भक्त्या विना ब्रह्मज्ञानं कदापि न जायते । तस्मात्त्वमपि
सर्वोपायान्परित्यज्य भक्तिमाश्रय । भक्तिनिष्ठो भव । भक्तिनिष्ठो भव ।
भक्त्या सर्वसिद्धयः सिध्यन्ति । भक्त्याऽसाध्यं न किंचिदस्ति । एवंविधं
गुरूपदेशमाकर्ण्य सर्वं परमतत्त्वरहस्यमवबुध्य सर्वसंशयान्विधूय क्षिप्रमेव
मोक्षं साधयामीति निश्चित्य ततः शिष्यः समुत्थाय प्रदक्षिणनमस्कारं कृत्वा
गुरुभ्यो गुरुपूजां विधाय गुर्वनुज्ञया क्रमेण भक्तिनिष्ठो भूत्वा भक्त्यतिशयेन
पक्कं विज्ञानं प्राप्य तस्मादनायासेन शिष्यः क्षिप्रमेव साक्षानारायणो बभू-
. वेत्युपनिषत् ॥ ततः प्रोवाच भगवान् महाविष्णुश्चतुर्मुखमवलोक्य ब्रह्मन
परमतत्त्वरहस्यं ते सर्वं कथितम् । तत्स्मरणमात्रेण मोक्षो भवति । तदनुष्ठा-
नेन सर्वमविदितं विदितं भवति । यत्स्वरूपज्ञानिनः सर्वम विदितं विदितं
भवति । तत्सर्वं परमरहस्यं कथितम् । गुरुः क इति । गुरुः साक्षादादिना -
रायणः पुरुषः । स आदिनारायणोऽहमेव । तस्मान्मामेकं शरणं व्रज । म
विनिष्ठो भव । मदीयोपासनां कुरु । मामेव प्राप्स्यसि । मद्व्यतिरिक्तं सर्व
बाधितम् । मव्यतिरिक्तमबाधितं न किंचिदस्ति । निरतिशयानन्दाद्वितीयोऽ-
-हमेव । सर्वपरिपूर्णोऽहमेव । सर्वाश्रयोऽहमेव । वाचामगोचरनिराकार परब्रह्म-</p>
<pb n="398" />
<p>अध्या० ८ ]
त्रिपाद्विभूतिमहानारायणोपनिषत् ॥ ५४ ॥
स्वरूपोऽहमेव । मद्व्यतिरिक्तमणुमात्रं न विद्यते । इत्येवं महाविष्णोः परमि-
ममुपदेशं लब्ध्वा पितामहः परमानन्दं प्राप । विष्णोः कराभिमर्शनेन
"दिव्यज्ञानं प्राप्य पितामहस्ततः समुत्थाय प्रदक्षिणनमस्कारान्विधाय विवि-
धोपचारैर्महाविष्णुं प्रपूज्य प्राञ्जलिर्भूत्वा विनयेनोपसंगम्य भगवन् भक्तिनिष्ठां
मे प्रयच्छ । त्वदभिन्नं मां परिपालय कृपालय । तथैव साधुसाध्विति साधुप्र-
शंसापूर्वकं महाविष्णुः प्रोवाच मदुपासकः सर्वोत्कृष्टः स भवति । मदुपा-
सनया सर्वमङ्गलानि भवन्ति । मदुपासनया सर्व जयति । मदुपासकः
सर्ववन्द्यों भवति । मदीयोपासकस्यासाध्यं न किंचिदस्ति । सर्वे बन्धाः
प्रविनश्यन्ति । सद्वृत्तमिव सर्वे देवास्तं सेवन्ते । महाश्रेयांसि च सेवन्ते ।
दुपासकस्तस्मान्निरतिशयाद्वैतपरमानन्दलक्षणं परंब्रह्म भवति । यो चै मुमुक्षु-
रनेन मार्गेण सम्यगाचरति स परमानन्दलक्षणं परंब्रह्म भवति । यस्तु
परमतत्त्वरहस्याथर्वणमहानारायणोपनिषदमधीते स सर्वेभ्यः पापेभ्यो मुक्तो
भवति । ज्ञानाज्ञानकृतेभ्यः पातकेभ्यो मुक्तो भवति । महापातकेभ्यः पूतो
भवति । रहस्यकृतप्रकाशकृतचिरकालात्यन्तकृतेभ्यस्तेभ्यः सर्वेभ्यः पापेभ्यो
मुक्तो भवति । स सकललोकाञ्जयति । स सकलमन्त्रजपनिष्ठो भवति । स
'सकलवेदान्तरहस्याधिगतपरमार्थज्ञो भवति । स सकलभोगभुग्भवति । स
सकलयोगविद्भवति । स सकलजगत्परिपालको भवति । सोऽद्वैतपरमानन्द-
लक्षणं परंब्रह्म भवति । इदं परमतत्त्वरहस्यं न वाच्यं गुरुभक्तिविहीनाथ ।
न चाशुश्रूषवे वाच्यम् । न तपोविहीनाय नास्तिकाय । न दाम्भिकाय
मद्भक्तिविहीनाय । मात्सर्याङ्किततनवे न वाच्यम् । न वाच्यं मदसूयापरॉय
कृतघ्नाय । इदं परमरहस्यं यो मनकेष्वभिधास्यति । मद्भक्तिनिष्ठो भूत्वा
'मामेव प्राप्स्यति । आवयोर्य इमं संवादमध्येष्यति । स नरो ब्रह्मनिष्ठो
भवति । श्रद्धावाननसूयुः शृणुयात्पठति वा य इमं संवादमावयोः स पुरुषो
मत्सायुज्यमेति । ततो महाविष्णुस्तिरोदधे । ततो ब्रह्मा स्वस्थानं जगामेत्यु-
-पनिषत् ॥ १ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति त्रिपाद्विभूतिमहानारायणोपनिषत्सु परमसायुज्यमुक्तिस्वरूपनिरूपणं
नामाष्टमोऽध्यायः ॥ ८ ॥
इत्युत्तरकाण्डः समाप्तः ॥
इत्याथर्वणीय त्रिपाद्विभूतिमहानारायणोपनिषत्समाप्ता ॥ ५४ ॥</p>
<pb n="399" />
<p>૩૮૩
ईशाद्युपनिषत्सु -</p>
<lg>
  <l>अद्वयतारकोपनिषत् ॥ ५५ ॥</l>
  <l>द्वैतासंभवविज्ञानसंसिद्धाद्वयतारकम् ।</l>
  <l>तारकं ब्रह्मेति गीतं वन्दे श्रीराभवैभवम् ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>ॐ अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामो यतये जितेन्द्रियाय शम-:
दमादिषड्गुणपूर्णाय । चित्स्वरूपोऽहमिति सदा भावयन्त्सम्यङ्गिमीलिताक्षः
किंचिदुन्मीलिप क्षो वाऽन्तर्दृष्टया भ्रूदहरादुपरि सच्चिदानन्दतेजः कूटरूप
परंब्रह्मावलोकयंस्तद्रूपो भवति । गर्भजन्मजरामरणसंसारमहद्भयात्संतार-
FIR । जीवेश्वरौ मायिकौ विज्ञाय सर्वविशेषं नेति
तीति विहाय यदवशिष्यते तदद्वयं ब्रह्म तत्सिद्ध्यै लक्ष्यत्रयानुसंधानः
कर्तव्यः । देहमध्ये ब्रह्मनाडी सुपुन्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते । सा
तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति । तन्मध्ये तडित्कोटिसमानका-
न्त्या मृणालसूत्रवत्सूक्ष्माङ्गी कुण्डलिनीति प्रसिद्धास्ति । तां मनसैव मरः
सर्वपापविनाशद्वारा मुक्तो भवति । फालोर्ध्वगललाटविशेषमण्डले निरन्तरं
तेजस्तारकयोगविस्फुरणेन पश्यति चेत्सिद्धो भवति । तर्जन्यग्रोन्मीलितकर्ण-
रन्ध्रद्वये तत्र फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्यगतनील-
ज्योतिःस्थलं विलोक्यान्तर्दृष्ट्या निरतिशय सुखं प्राप्नोति । एवं हृदये पश्यति ।
एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यम् ॥ अथ बहिर्लक्ष्यलक्षणं नासिकाग्रे
'चतुर्भिः षइभिरष्टभिर्दशभिर्द्वादशभिः क्रमादङ्गुलान्ते नीलघुतिश्यामत्वसद्द-
ग्रक्तभङ्गीस्फुरत्पीत शुक्लवर्णद्वयोपेतव्योम यदि पश्यति स तु योगी भवति ।
चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्य ज्योतिर्मयूखा वर्तन्ते । तद्दर्श-
नेन योगी भवति । तप्तकाञ्चनसंकाशज्योतिर्मयूखा अपांङ्गान्ते भूमौ वा पश्यति
तद्दृष्टिः स्थिरा भवति । शीर्षोपरि द्वादशाङ्गुलसमीक्षितुरमृतत्वं भवति ।
यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत्स तु योगी भवति ॥ अथ
मध्यलक्ष्यलक्षणं प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवद्वह्निज्वालावलीवत्तद्विहीना-
न्तरिक्षवत्पश्यति । तदाकाराकारितयाऽवतिष्ठति । तद्भूयोदर्शनेन गुणरहिता-
काशं भवति । विस्फुरत्तारकाकारसंदी प्यमानागाठतमोपमं परमाकाशं भवति ।
कालानलसमद्योतमानं महाकाशं भवति । सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं</p>
<pb n="400" />
<p>अद्वयतारकोपनिषत् ॥ ५५ ॥</p>
<p>तत्त्वाकाशं भवति । कोटिसूर्यप्रकाशवैभवसंकाशं सूर्याकाशं भवति ।"
एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यम् । तद्दर्शी विमुक्तफलस्ता-
व्योमसमानो भवति । तस्मात्तारक एव ं लक्ष्यममनस्कफलप्रदं भवति ॥
तत्तारकं द्विविधं पूर्वार्धतारकमुत्तरार्धममनस्कं चेति । तदेष श्लोको भवति
तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः । पूर्व तु तारकं विद्यादमनस्कं
तदुत्तरमिति । अक्ष्यन्तस्तारकयोश्चन्द्रसूर्य प्रतिफलनं
भवति । तार-
काभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवी-
न्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनमात्राण्युभयैक्यदृष्ट्या
मनोयुक्तं ध्यायेत् । तद्योगाभावे इन्द्रियप्रवृत्तेरनवकाशात् । तस्मादन्तर्दृष्ट्या
तारक एवानुसंधेयः । तत्तारकं द्विविधं मूर्तितारकममूर्तितारकं चेति ।
यदिन्द्रियान्तं तन्मूर्तिमत् । ययुगातीवं तदमूर्तिमत् । सर्वत्रान्त:-
पदार्थविवेचने मनोयुक्ताभ्यास इष्यते तारकाभ्यां सदूर्ध्वस्थसत्वदर्शनान्म-
नोयुक्तेनान्तरीक्षणेन सरितन्दरूपं ब्रह्मैव । तस्माच्छुक्कतेजोमयं ब्रह्मेति
सिद्धम् । तद्ब्रह्म मनःसहकारिचक्षुषान्तर्दृष्ट्या वेद्यं भवति । एवममूर्तितार-
कमपि मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति रूपग्रहणप्रयोजनस्य
मनश्चक्षुरधीनत्वाद्वाह्यवदान्तरेऽप्यात्ममनश्चक्षुः संयोगेनैव रूपग्रहणकायाद-
यात् । तस्मान्मनोयुक्तान्तर्दृष्टिस्तारकप्रकाशा भवति । भ्रयुगमध्यबिले
दृष्टिं तद्वारोर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति । तेन सह मनोयुक्त
तारकं सुसंयोज्य प्रयत्नेन भ्रूयुग्मं सावधानतया किंचिदूर्ध्वमुत्क्षेपयेत् ।
इति पूर्वभागी तारकयोगः । उत्तरं त्वमूर्तिमदमनस्कमित्युच्यते । तालुमूलो-
र्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तद्योगिभिर्थ्येयम् । तस्मादणिमादि-
सिद्धिर्भवति । अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यां शांभवी
मुद्रा भवति । तन्मुद्रारूढज्ञानिनिवासाद्भूमिः पवित्रा भवति । तद्दृष्ट्वा
सर्वे लोकाः पवित्रा भवन्ति । तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि
मुक्तो भवति । अन्तर्लक्ष्यजलज्योतिःस्वरूपं भवति । परमगुपदेशेन
सहस्रारे जलज्योतिर्वा बुद्धिगुहानिहितज्योतिर्वा षोडशान्तस्थतुरीयचैतन्यं
वान्तर्लक्ष्यं भवति । तद्दर्शनं सदाचार्यमूलम् । आचार्यो वेदसंपन्नो-
१ ज्योतिर्मण्डल:.
अ. उ. २५</p>
<pb n="401" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
विष्णुभक्तो विमत्सरः । योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥
गुरुभक्तिसमायुक्तः पुरुषज्ञो विशेषतः । एवंलक्षणसंपन्नो गुरुरित्यभिधीयते ॥
गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभि-
धीयते ॥ गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ॥ गुरुरेव परा विद्या गुरुरेव
परायणम् ॥ गुरुरेव पराकाष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टास
तस्माद्गुरुतरो गुरुरिति । यः सकृदुच्चारयति तस्य संसारमोचनं भवति ।
सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान्कामानवाप्नोति । सर्वपुरु-
षार्थसिद्धिर्भवति । य एवं वेदेत्युपनित् ॥ १ ॥ ॐ पूर्णमद इति शान्तिः ॥
इत्यद्वयतारकोपनिषत्समाप्ता ॥ ५५ ॥</p>
<lg>
  <l>रामरहस्योपनिषत् ॥ ५६ ॥</l>
  <l>कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।</l>
  <l>प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>ॐ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षं
महच्छारीरकं शिखाम् ॥ १ ॥ सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।
प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ २ ॥ वायुपुत्र महाबाहो किं
तत्त्वं ब्रह्मवादिनाम् । पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ ३ ॥ चतुर्वेदेषु
शास्त्रेषु 'विद्यास्वाध्यात्मिकेऽपि च । सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु ।
एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥ ४ ॥ हनूमान्होवाच ॥ भो
योगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च ॥ शृणुध्वं मामकीं वाचं भव"
बन्धविनाशिनीम् ॥ ५ ॥ एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् । राम एव
परं ब्रह्म राम एव परं तपः ॥ राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम्
॥ ६ ॥ वायुपुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः
रामस्वाङ्गानि नो ब्रूहीति । हनूमान्होवाच । वायुपुत्रं विघ्नेशं वाणीं दुर्गा
क्षेत्रपालकं सूर्य चन्द्रं नारायणं नारसिंहं वायुदेवं वाराहं तत्सर्वान्त्समा-
त्रासीतां लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणव-
मेतानि रामस्याङ्गानि जानीथाः । तान्यङ्गानि विना रामो विघ्नकरो भवति ।</p>
<pb n="402" />
<p>रामरहस्योपनिषतुं ॥ ५६ ॥
૨૭
अध्या० २]
पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल विप्राणां गृह-
स्थानां प्रणवाधिकारः कथं स्यादिति । स होवाच श्रीराम एवोवाचेति ।
येषामेव षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषान ।
'केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्य
शुभकरोsहं स्याम् । तस्य प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च
ऋषिश्छन्दो देवता तत्तद्वर्णवर्णावस्थानं स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणव-
मन्त्राद्विगुणं जत्वा पश्चाद्राममत्रं यो जपेत् स रामो भवतीति रामेणोकास्त-
स्माद्रामा प्रणवः कथित इति ॥ विभीषण उवाच ॥ सिंहासने समासीनं
रामं पौलस्त्यसूदनम् । प्रणम्यं दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ॥ ७ ॥
रघुनाथ महाबाहो केवलं कथितं त्वया । अङ्गानां सुलभं चैव कथनीयं च सौ-
लभम् ॥ ८ ॥ श्रीराम उवाच । अथ पञ्च दण्डकानि पितृघ्नो मातृन्नो ब्रह्मघ्नो
गुरुहननः कोटियतिनोऽनेककृतपापो यो मम षण्णवतिकोटिनामानि जपति
स तेभ्यः पापेभ्यः प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ।
पुनरुवाच विभीषणः । तत्राप्यशक्तोऽयं किं करोति । स होवाचेमम् ॥
कैकसेय पुरश्चरणविधावशक्तो यो मम महोपनिषदं मम गीतां मन्नामसहस्रं
मद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं नारदोक्तस्तवराजं हनूमत्प्रोक्तं
मन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौति
तत्सदृशो भवेन्न किं भवेन्न किम् ॥ ९ ॥
इति रामरहस्योपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महाबल तारकब्रह्मणो
रामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति । हनूमान्होवाच । वह्निस्थं शयनं विष्णो-
रर्धचन्द्रविभूषितम् । एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ १ ॥ ब्रह्मा
मुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता । दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्नया-
त्मनो मनोः ॥ २ ॥ बीजशक्तत्यादिबीजेन इष्टार्थे विनियोजयेत् । सरयूतीर-
मन्दारवेदिकापङ्कजासने ॥ ३ ॥ श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४ ॥ अवेक्षमाणमात्मानमात्म-
न्यमिततेजसम् । शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥ ५ ॥ चिन्तय-
न्परमात्मानं भानुलक्षं जपेन्मनुम् । वह्निर्नारायणो नाड्यो जाठरः केवलोऽपि
च ॥ ६ ॥ द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः । एकाक्षरोक्तमृष्यादि</p>
<pb n="403" />
<p>૩૮૯
ईशाद्युप्तनिषत्सु -
[ अध्या० २
स्यादाद्येन षडङ्गकम् ॥ ७ ॥ तारमायारमानङ्गवाक्स्वबीजैश्च षद्विधः ।
त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥ ८ ॥ व्यरचन्द्रभद्वान्तो द्विवि-
धश्चतुरक्षरः । ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥ ९ ॥ सप्रतिष्ठौ
रौ वा हृत्पञ्च मनुर्मतः । विश्वामित्रऋषिः प्रोक्तः पतिरछन्दोऽस्य
देवता ॥ १० ॥ रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् । भ्रूमध्ये हृदि
नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥ ११ ॥ षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्र-
कम् । मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ १२ ॥ लक्ष्मणेन प्रगुणितमक्ष्णः
कोणेन सायकम् । अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ ६३ ॥
जटाभारलसच्छीर्ष श्यामं मुनिगणावृतम् । लक्ष्मणेन धृतच्छत्रमथवा पुष्प-
कोपरि ॥ १४ ॥ दशास्यमथनं शान्तं ससुग्रीवविभीषणम् । एवं लब्ध्वा
जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥ १५ ॥ स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याः
पञ्चवर्णकाः । षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ १६ ॥ पञ्चाशन्मातृका-
मन्त्रवर्णप्रत्येकपूर्वकम् । लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥ १७ ॥
'श्रीमायामन्मथैकैकं बीजाद्यन्तर्गतो मनुः । चतुर्वर्णः स एव स्यात्ववर्णो
वाञ्छितप्रदः ॥ १८ ॥ स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् ।
अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥ १९ ॥ ब्रह्मा संमोहनः शक्ति-
दक्षिणामूर्तिरेव च । अगस्त्यश्च शिवः प्रोक्ता मुनयोऽनुक्रमादिमे ॥ २० ॥
छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता । अथवा कामबीजादेर्विश्वामित्रो
मुनिर्मनोः ॥ २१ ॥ छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता । बीज-
शक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥ २२ ॥ ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्ना-
भ्यूरुपु पादयोः । बीजैः षड्दीर्धयुक्तैर्वा मत्राणैर्वा पडङ्गकम् ॥ २३ ॥
कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधा-
नमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्जवलाङ्गं भजे ॥ २४ ॥ श्रीरामचन्द्र भद्रान्तो
देन्तो नतियुतो द्विधा । सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥ २५ ॥
तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः । तारं रामश्चतुथ्यतः क्रोडास्त्रं
वह्नितल्पगा ॥ २६ ॥ अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्पढर्णवत् ।
पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥ २७ ॥ गायत्रं छन्द इत्यस्य
१ श्रीराममन्मथै.</p>
<pb n="404" />
<p>अध्या० २]
रामरहस्योपनिषत् ॥ ५६ ॥
.</p>
<p>देवता राम एव च । तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥ २८ ॥
षडङ्गं च ततः कुर्यान्मन्त्राणैरेव बुद्धिमान् । तारं श्रीबीजयुग्मं च रामाय नम
उच्चरेत् ॥ २९ ॥ ग्लौमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् । शिवो-
माराममनोऽयं वस्वर्णस्तु वसुप्रदः ॥ ३० ॥ ऋषिः सदाशिवः प्रोक्तो गायत्र
छन्द उच्यते । शिवोमारामचन्द्रोऽत्र देवता परिकीर्तिता ॥ ३१ ॥ दीर्घया
माययाङ्गानि तारपञ्चार्णयुक्तया । रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् ।
भस्मोद्धूलितसर्वाङ्ग कपर्दिनमुपास्महे ॥ ३२ ॥ रामाभिरामां सौन्दर्य सीमा
सोमावर्तसिकाम् । पाशाङ्कुशधनुर्बाणधरां ध्यायेचिलोचनाम् ॥ ३३ ॥ ध्याय-
नैवं वर्णलक्षं जपतर्पणतत्परः । बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजै-
हुनेत् ॥ ३४ ॥ स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः । पुनरष्टाक्षर-
या ब्रह्मगाय राघवाः ॥ ३५ ॥ ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम
शक्तिकम् । तत्प्रीत्यै विनियोगश्च मन्त्राणैरङ्गकल्पना ॥ ३६ ॥ केयूराङ्गद-
कर्मविद्यतैर्विद्योतमानं सदा रामं पार्वणचन्द्र कोटिसदृशच्छत्रेण वै राजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे देवेशं भरतादिभिः परिवृतं राम
भजे श्यामलम् ॥ ३७ ॥ किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृथा किंचि-
ल्लोभवितानमान्त्रविफलैः संसारदुःखावहैः । एकः सन्नपि सर्वमन्त्रफलदो
लोभादिदोषोज्झितः श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥ ३८ ॥
एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः । रामसप्ताक्षरो मत्र आद्यन्ते
तारसंयुतः ॥ ३९ ॥ नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्यसेत् । जानकी-
वल्लभं डेन्तं वह्नेर्जायाहुमादिकम् ॥ ४० ॥ दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्ट-
फलप्रदः । दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥ ४१ ॥ छन्दोऽस्य
देवता रामः सीतापाणिपरिग्रहः । आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया
मता ॥ ४२ ॥ शिरोललाट भ्रूमध्ये तालुकर्णेषु हृद्यपि । नाभ्यूरुजानुपादेषु
दशार्णान्विन्यसेन्मनोः ॥ ४३ ॥ अयोध्यानगरे रत्तचित्रे सौवर्णमण्डपे
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ ४४ ॥ सिंहासने समासीनं पुष्पको परि
राघवम् । रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ४५ ॥ संस्तूयमानं
मुनिभिः प्रद्धैश्च परिसेवितम् । सीतालंकृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् । ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमन-
१ तालुकण्ठेषु.</p>
<pb n="405" />
<p>• ३९०
ईशाद्युपनिषत्सु -
[ अध्या० २
न्यधीः ॥ ४७ ॥ रामं न्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी । दशाक्षरोऽयं
मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥ ४८ ॥ छन्दस्तु देवता प्रोक्तो रामो
राक्षसमर्दनः । शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥ ४९ ॥ तारमायार-
मानङ्गवाक्स्वबीजैश्च षड्विधः । दशार्णो मन्त्रराजः स्यादुद्रवर्णात्मको मनुः
॥ ५० ॥ शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः । द्वादशाक्षरमन्त्रस्य
श्रीराम ऋषिरुच्यते ॥ ५१ ॥ जगती छन्द इत्युक्तं श्रीरामो देवता मतः ।
प्रणवो बीजमित्युक्तः क्लीं शक्तिहीँ च कीलकम् ॥ ५२ ॥ मन्त्रेणाङ्गानि
विन्यस्य शिष्टं पूर्ववदाचरेत् । तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥ ५३ ॥
रामं क्लीं वह्निजायान्तं मन्त्रोऽयं द्वादशाक्षरः । ॐ हृद्भगवते रामचन्द्रभद्रौ च
केयुतौ ॥ ५४ ॥ अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् । छन्दस्तु
जगती चैव मन्त्रार्णैरङ्गकल्पना ॥ ५५ ॥ श्रीरामेति पदं चोक्त्वा जयराम
ततः परम् । जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥ ५६ ॥ त्रयोदशार्ण
ऋष्यादि पूर्ववत्सर्वकामदः । पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥ ५७ ॥
तारादिसहितः सोऽपि स चतुर्दशवर्णकः । त्रयोदशार्णमुच्चार्य पश्चाद्वामेति
योजयेत् ॥ ५८ ॥ स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः । नमश्च सीताप-
तये रामायेति हनद्वयम् ॥ ५९ ॥ ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।
तस्यागस्त्य ऋषिश्छन्दो बृहती देवता च सः ॥ ६० ॥ रां बीजं शक्तिरस्त्रं व
कीलकं हुमितीरितम् । द्विपञ्चत्रिचतुर्वणैः सर्वैरङ्गं न्यसेत्क्रमात् ॥ ६१ ॥
तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः । तारं नमो भगवते रामं डेन्तं महा
ततः ॥ ६२ ॥ पुरुषाय पदं पश्चाद्धृदन्तोऽष्टादशाक्षरः । विश्वामित्रो मुनि -
छन्दो गायत्रं देवता च सः ॥ ६३ ॥ कामादिसहितः सोऽपि मन्त्र एकोन -
विंशकः । तारं नमो भगवते रामायेति पदं वदेत् ॥ ६४ ॥ सर्वशब्दं समुच्चार्य
सौभाग्यं देहि मे वदेत् । वह्निजायां तथोच्चार्य मन्त्री विंशार्णको मतः ॥ ६५ ॥
तारं नमो भगवते रामाय सकलं वदेत् । आपन्निवारणायेति वह्निजायां ततो
वदेत् ॥ ६६ ॥ एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः । तारं रमा स्वबीजं
च ततो दाशरथाय च ॥ ६७ ॥ ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।
ततो दाय हृदन्तोऽयं मंत्रो द्वाविंशदक्षरः ॥ ६८ ॥ तारं नमो भगवते वीर-
राम वदेत् । कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९ ॥
तारंरमं.
..</p>
<pb n="406" />
<p>अध्या० २ ]
रामरहस्योपनिषत् ॥ ५६ ॥</p>
<p>त्रयोविंशाक्षरो मन्त्रः सर्वशत्रुनिबर्हणः । विश्वामित्रो मुनिः प्रोक्तो गायत्री
छन्द उच्यते ॥ ७० ॥ देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः । मूल-
मन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥ ७१ ॥ शरं धनुषि संधाय तिष्ठन्तं
रावणोन्मुखम् । वज्रपाणि रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥ ७२ ॥ तारं
नमो भगवते श्रीरामाय पदं वदेत् । तारकब्रह्मणे चोक्त्वा मां तारय पदं
वदेत् ॥ ७३ ॥ नमस्तारात्मको मन्त्रश्चतुर्विंशतिवर्णकः । बीजादिकं यथापूर्व
सर्वं कुर्यात्वर्णवत् ॥ ७४ ॥ कामस्तारो नतिश्चैव ततो भगवतेपदम् ।
रामचन्द्राय चोश्चार्य सकलेति पदं वदेत् ॥ ७५ ॥ जनवश्यकरायेति स्वाहा
कामात्मको मनुः । सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥ ७६ ॥ आदौ
तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः । अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः
॥ ७७ ॥ तारं नमो भगवते रक्षोघ्नविशदाय च । सर्वविघ्नान्त्समुच्चार्य निवारय
पदद्वयम् ॥ ७८ ॥ स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः । अन्ते तारेण
संयुक्त एकोनत्रिंशदक्षरः ॥ ७९ ॥ आदौ स्वबीज संयुक्तस्त्रिंशद्वर्णात्मको
मनुः । अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥ ८० ॥ रामभद्र महे-
वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥ ८१ ॥
आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता । रां बीजमस्य यं शक्तिरिष्टार्थे
विनियोजयेत् ॥ ८२ ॥ पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् ।
शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥ ८३ ॥ नेत्रयोः पञ्चवर्णैश्च
दापयेत्यमुच्यते । चापबाणधरं श्यामं ससुग्रीवविभीषणम् ॥ ८४ ॥ हत्वा
रावणमायान्तं कृतत्रैलोक्यरक्षणम् । रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्म-
नुम् ॥ ८५ ॥ वदेद्दाशरथायेति विद्महेति पदं ततः । सीतापदं समुद्धृत्य
वल्लभाय ततो वदेत् ॥ ८६ ॥ धीमहीति वदेत्तन्नो रामश्वापि प्रचोदयात् ।
तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥ ८७ ॥ मायादिरपि वैदुष्ट्यं रामा-
दिश्च श्रियः पदम् । मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥ ८८ ॥
पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः । चत्वारि च चतुर्वर्णैरङ्ग-
न्यासं प्रकल्पयेत् ॥ ८९ ॥ बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् ।
तारं नमो भगवते चतुर्थ्यां रघुनन्दनम् ॥ ९० ॥ रक्षोघ्नविशदं तद्वन्मधुरेति
वदेत्ततः । प्रसन्नवदनं डेन्तं वदेदमिततेजसे ॥ ९१ ॥ बलरामौ चतुर्थ्यन्तौ
विष्णुं डेन्तं नतिस्ततः । प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥ ९२ ॥</p>
<pb n="407" />
<p>. ईशाद्युपनिषत्सु -
[ अध्या० . ३
: ऋषिश्छन्दो देवतादि ब्रह्मानुष्टुभराघवाः । सदसंख्यैः षडङ्ग-
कम् ॥९३ ॥ ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् । श्रियं सीतां चतु-
र्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥ ९४ ॥ जनकोऽस्य ऋषिश्छन्दो गायत्री देवता
. मनोः । सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥ ९५ ॥ कील सीता
चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् । दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥९६॥
• स्वर्णाभा मम्बुजकरां रामालोकनतत्पराम् । ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि-
. शोभिताम् ॥ ९७ ॥ लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः । अगस्त्य-
ऋषिरस्याथ गायत्रं छन्द उच्यते ॥ ९८ ॥ लक्ष्मणो देवता प्रोक्तो लं बीजं
• शक्तिरस्य हि । नमस्तु विनियोगो हि पुरुषार्थचतुष्टये ॥ ९९ ॥ दीर्घभाजा
: स्वबीजेन षडङ्गानि प्रकल्पयेत् । द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥ १०० ॥
1. धनुर्बाणधरं देवं रामाराधनतत्परम् । भकारं तु समुद्धृत्य भरताय नमोन्तकः
॥ १०१ ॥ अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् । भरतं श्यामलं शान्तं
. रामसे वापरायणम् ॥ १०२ ॥ धनुर्बाणधरं वीरं कैकेयीतनयं भजे । शं बीजं
. तु समुद्धृत्य शत्रुघ्नाय नमोन्तकः । ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे
॥ १०३ ॥ द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् । लवणासुरहन्तारं सुमित्रा -
तनयं भजे ॥ १०४ ॥ हं हनूमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः । रामचन्द्र
ऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥ १०५ ॥ द्विभुजं स्वर्णवर्णाभ्रं रामसेवा-
परायणम् । मौञ्जीकौपीनसहित मां ध्यायेद्रामसेवकम् ॥ इति ॥ १०६ ॥
इति रामरहस्योपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । आञ्जनेय महावल पूर्वोक्तमन्त्राणां
पूजापीठमनुब्रूहीति । हनूमान् होवाच । आदौ षङ्कणम् । तन्मध्ये रामबीजं
सीकम् । तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे पष्ठयन्तं साध-
कम् । पार्श्वे दृष्टी तत्परितो जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मु-
खोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरः पृष्ठेषु षट्कोणेषु
दीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण । रांरी रूं रैं रौं रः इति दीर्घभाजि
तद्युक्तहृदयाद्यस्त्रान्तम् । षङ्कोणपार्श्व रमामायाबीजे । कोणा वाराहं हुमिति ।
'द्वजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं साष्टपत्रम् ।
तेषु दलेषु स्वरानष्टवर्गान्प्रतिदल मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् ।
तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् । तेषु दलेषु नारायणाष्टाक्षरो</p>
<pb n="408" />
<p>अध्या० ३]
रामरहस्योपनिषत् ॥ ५६ ॥
. ३९३
मन्त्रः । तद्दलकपोलेषु श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु
: वासुदेव द्वादशाक्षरो मन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् ( आदित्यान् ) । ततो
वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् ।
तद्दलकपोलेषु मायाबीजम् । सर्वत्र प्रतिकपोलं द्विरावृत्त्या हं खं भ्रं नं अर्म
श्रुं जम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहमन्त्ररा-
जानुष्टुभमन्त्रः । तद्दलकपोलेष्वष्टवस्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणुवा-
दिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । तद्वहिर्वषङ्कारं परितः । ततो रेखात्रययुक्तं
भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् । अष्टनागैरधिष्ठितम् । चतुर्दिक्षु
नारसिंहबीजम् । विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यत्रं सर्वकामप्रद
मोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यत्रं भवति । तद्दशावरणात्मकं
भवति । षङ्कोणमध्ये साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः प्रथमा वृत्तिः ।
अष्टदलमूले आत्माद्यावरणम् । तदग्रे वासुदेवाद्यांवरणम् । द्वितीयाष्ट-
• दलमूले घृष्ट्याद्यावरणम् । तदग्रे हनूमदाद्यावरणम् । द्वादशदलेषु वसि -
ष्ठाद्यावरणम् । षोडशदलेषु नीलाद्यावरणम् । द्वात्रिंशदलेषु ध्रुवाद्यावरणम् ।
भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् । एवमभ्यर्च्य मनुं जपेत् ॥
अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते । आदौ
षट्कोणम् । तन्मध्ये स्वबीजम् । तन्मध्ये साध्यनामानि । एवं कामबीज-
वेष्टनम् । ततः शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु षडङ्गान्यग्नीशासुरवाय-
व्यपूर्व पृष्ठेषु । तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।
ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया मालामनुवर्णान् । तद्दलकपोलेषु
षोडश स्वराः । ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरं
साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे । एतन्महायन्त्रम् ।
आधारशक्त्यादिवैष्णवपीठम् । अङ्गैः प्रथमा वृत्तिः । मध्ये रामम् । वामभागे
सीताम् । तत्पुरतः शार्ङ्ग शरं च । अष्टदलमूले हनुमदादिद्वितीयावरणम् ।
घृष्ट्यादितृतीयावरणम् । इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यत्रा-
राधनपूर्वकं दशाक्षैरादिमन्त्रं जपेत् ॥ १ ॥
.
इति रामरहस्योपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
१ ष्वादित्यान्. २ क्षरादिमनुं.</p>
<pb n="409" />
<p>ईशापनिषत्सु -
[ अध्या० ५
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्राणां पुरश्चरणविधिमनु-
ब्रूहीति । हनूमान्होवाच । नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् । अथवा
पायसाहारो हविष्यान्नाद एव वा ॥ १ ॥ षडूसैश्च परित्यक्तः स्वाश्रमोक्त-
विधिं चरन् । वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥ २ ॥ भूमिशायी
ब्रह्मचारी fasarat गुरुभक्तिमान् । स्नानपूजाजपध्यान होमतर्पणतत्परः ॥ ३ ॥
गुरूपदिष्टमार्गेण ध्यायन्त्राममनन्यधीः । सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः
॥ ४ ॥ श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् । व्याघ्रचर्मासने स्थित्वा
स्वस्तिकाद्यासनक्रमात् ॥ ५ ॥ तुलसीपारिजातश्रीवृक्षमूलादिकस्थले । पद्मा-
क्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६ ॥ मातृकामालया मन्त्री मनसैव मनुं
जपेत् । अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥ ७ ॥ तर्पयेत्तद्दशांशेन
पायसात्तद्दशांशतः । जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥ ८ ॥ ततः
पुष्पाञ्जलिं मूलमन्त्रेण विधिवञ्चरेत् । ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवे-
न्मुनिः ॥ ९ ॥ अणिमादिर्भजत्येनं यूनं वरवधूरिव । ऐहिकेषु च कार्येषु
महापत्सु च सर्वदा ॥ १० ॥ नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।
ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥ ११ ॥ यो रामं संस्मरेन्नित्यं
भक्त्या मनुपरायणः । तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥ १२ ॥
वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु । सर्वथा जागरूकोऽस्मि राम -
कार्यधुरंधरः ॥ १३ ॥
इति रामरहस्योपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
सनकाद्या मुनयो हनूमन्तं पप्रच्छुः । श्रीराममन्त्रार्थमनुब्रूहीति । हनूमा-
होवाच । सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः । एकधाथ द्विधा त्रेधा
चतुर्धा पञ्चधा तथा ॥ १ ॥ षट्सप्तधाऽष्टधा चैव बहुधायं व्यवस्थितः ।
षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥ २ ॥ श्रीराममन्त्रराजस्य
सम्यगर्थोऽयमुच्यते । नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा । सार्थकार्णद्वयं
रामो रमन्ते यत्र योगिनः । रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥ ३ ॥
सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते । व्यञ्जनं निष्कलं ब्रह्म प्राणो
मायेति च स्वरः ॥ ४ ॥ व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् । रेफो
ज्योतिर्मये तस्मात्कृतमाकारयोजनम् ॥ ५ ॥ मकारोऽभ्युदयार्थत्वात्स मायेति
च कीर्त्यते । सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥ ६ ॥ सबिन्दुः
1</p>
<pb n="410" />
<p>उप० १ ]
श्रीरामपूर्वतापिन्युपनिषत् ॥ ५७ ॥</p>
<p>सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् । ज्योतिस्तस्य शिखा रूपं नादः
सप्रकृतिर्मतः ॥ ७ ॥ प्रकृतिः पुरुषश्चोभौ समायाब्रह्मणः स्मृतौ ।
बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥ ८ ॥ अग्नीषोमात्मकं रूपं
रामबीजे प्रतिष्ठितम् । यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ ९ ॥ तथैव
रामबीजस्थं जगदेतच्चराचरम् । बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते
॥ १० ॥ बीजं मायाविनिर्मुक्तं परंब्रह्मेति कीर्त्यते । मुक्तिदं साधकानां च
मकारो मुक्तिदो मतः ॥ ११ ॥ मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।
आद्यो रा तत्पदार्थः स्यान्मकारस्त्वंपदार्थवान् ॥ १२ ॥ तयोः संयोजनमसी-
त्यर्थे तत्त्वविदो विदुः । नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥ १३ ॥
असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् । तत्त्वमस्यादिवाक्यं तु केवलं
मुक्तिदं यतः ॥ १४ ॥ भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते । मनुष्वेतेषु
सर्वेषामधिकारोऽस्ति देहिनाम् ॥ १५ ॥ मुमुक्षूणां विरक्तानां तथा चाश्रमवा-
सिनाम् । प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः । राममन्त्रार्थविज्ञानी
जीवन्मुक्तो न संशयः ॥ १६ ॥ य इमामुपनिषदमधीते सोऽभिपूतो भवति ।
स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्म-
हत्यायाः पूतो भवति । स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ।
तदेतद्दचाभ्युक्तम्—सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते
संसारिणो नूनं राम एव न संशयः ॥ ॐ सत्यमित्युपनिषत् ॥ १७ ॥
( सर्वसारादिराम रहस्यान्तग्रन्थः ३००० । ईशावास्यादिराम रहस्यान्त-
ग्रन्थः ८३४८ )
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति श्रीरामरहस्योपनिषत्समाप्ता ॥ ५६ ॥</p>
<lg>
  <l>श्रीरामपूर्वतापिन्युपनिषत् ॥ ५७ ॥</l>
  <l>श्रीरामतापिनीयार्थं भक्तोध्येयकलेवरम् ।</l>
  <l>विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ । रघोः कुलेऽखिलं राति
राजते यो महीस्थितः ॥ १ ॥ स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ।
राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २ ॥ रामनाम भुवि ख्यातम-</p>
<pb n="411" />
<p>.</p>
<p>ईशाद्युपनिषत्सु -
[ उप० ३
- भिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३ ॥ प्रभाहीनां-
तथा कृत्वा राज्यfणां महीभृताम् । धर्ममार्ग चरित्रेण ज्ञानमार्ग च
-
नामतः ॥ ४ ॥ तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् । तथा रात्यस्य
रामाया भुवि स्यादथ तत्त्वतः ॥ ५ ॥ रमन्ते योगिनोऽनन्ते नित्यानन्दे
चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६ ॥ चिन्मयस्याद्विती-
· यस्य निष्कलस्याशरीरिणः । उपासकानां कार्यार्थ ब्रह्मणो रूपकल्पना ॥ ७ ॥
रूपस्थानां देवतानां पुंख्यङ्गास्त्रादिकल्पना । द्वि चत्वारि षडष्टाssसां दश
द्वादश षोडश ॥ ८ ॥ अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः । सह-
वान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९ ॥ शक्तिसेनाकल्पना च ब्रह्मण्येवं हि
पञ्चधा । कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १० ॥ ब्रह्मादीनां वाच-
कोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति
॥ ११ ॥ क्रियाकर्मेति कर्तॄणामर्थं मन्त्रो वदत्यथ । मननान्त्राणनान्मन्त्रः सर्व-
वाच्यस्य वाचकः ॥ १२ ॥ सोभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना । विना
यत्रेण चेत्पूजा देवता न प्रसीदति ॥ १३ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १ ॥
स्वर्भूज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते । जीवत्वेनेदमों यस्य सृष्टि-
स्थितिलयस्य च ॥ १ ॥ कारणलेन चिच्छक्त्या रजः सत्त्वतमोगुणैः । यथैव
वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ २ ॥ तथैव रामबीजस्थं जगदेतच्चराचरम् ।
"रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥ ३ ॥ सीतारामौ तन्मयावत्र
पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त । स्थितानि च प्रहतान्येव तेषु ततो
रामो मानवो माययाध्यात् ॥ ४ ॥ जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं
प्रवदेत्प्राग्गुणेनेति ॥ ५॥
इति श्रीरामतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २॥
जीववाचि नमो नाम चात्मा रामेति गीयते । तदामिका या चतुर्थी तथा
चाऽऽयेति गीयते ॥ १ ॥ मन्त्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः ।
फलदश्चैव सर्वेषां साधकानां न संशयः ॥ २ ॥ यथा नामी वाचकेन नाम्ना
योऽभिमुख भवेत् । तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३ ॥
( बीजशक्ति न्यसेद्दक्षवामयोः स्तनयोरपि । कीलो मध्येऽविनाभाव्यः स्ववा -
ज्छाविनियोगवान् ॥ ४ ॥ सर्वेषामेव मन्त्राणामेष साधारणः क्रमः । अन्न
1</p>
<pb n="412" />
<p>उप० ५]
श्रीरामपूर्वतापिन्युपनिषत् ॥ ५७ ॥</p>
<p>रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५ ॥ स त्वनुष्णगुविश्वश्वेदमीषोमात्मकं
जगत् । उत्पन्न: 'शीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६ ॥ प्रकृत्या सहितः
श्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७ ॥
प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः । प्रकृत्या परमेश्वर्या जगद्योन्याऽङ्किताङ्कभृत्
॥ ८ ॥ हेमाभया द्विभुजया सर्वालंकृतया चिता । श्लिष्टः कमलधारिण्या पुष्टः
कोसलजात्मजः ॥ ९ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३ ॥
दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः । हेमा नानुजेनैव तथा
कोणत्रयं भवेत् ॥ १ ॥ तथैव तस्य मन्त्रस्य यस्याणुश्च स्वडेन्तया । एवं
त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ २ ॥ स्तुतिं चक्रुश्च जगतः पतिं
कल्पतरौं स्थितम् । कामरूपाय रामाय नमो मायामयाय च ॥ ३ ॥ नमो
वेदादिरूपाय ओङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्तये
॥ ४ ॥ जानकी देहभूषाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय दशास्या-
न्तकरूपिणे ॥ ५ ॥ रामभद्र महेष्वास रघुवीर नृपोत्तम ॥ ६ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥ ४ ॥
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १ ॥ त्वमैश्वर्य दापयाथ
संप्रत्या खरमारणम् । कुर्वन्ति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ २ ॥
स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः । रामपत्त्रों वनस्थां यः स्वनिवृत्य-
माददे ॥ ३ ॥ स रावण इति ख्यातो यद्वा रावाच्च रावणः । तद्व्याजेनेक्षितुं
सीतां राम्रो लक्ष्मण एव च ॥ ४ ॥ विचेरतुस्तदा भूमौ देवीं संदृश्य
चासुरम् । हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ ५ ॥ पूँजिता-
वीरपुत्रेण भक्तेन च कपीश्वरम् । आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ
॥ ६ ॥ स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः । विग्रहं दर्शयामास
यो रामस्तमचिक्षिपत् ॥ ७ ॥ सप्त सालान्विभिद्याशु मोदते राघवस्तदा ।
तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥ ८ ॥ जगामागर्जदनुजो
वालिनो वेगतो गृहात् । वाली तदा निर्जगाम तं वालिनमथाहवे ॥ ९ ॥
निहत्य राघवो राज्ये सुग्रीवं स्थापयेत्ततः ॥ १० ॥</p>
<note>१. सीतया.</note>
<p>इति श्रीरामपूर्वतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥ ५ ॥
२ त्वमीश्वर्या. ३ पूजितो वायुपुत्रेण.</p>
<pb n="413" />
<p>ईशाद्युपनिषत्सु -
[ उप० ७
हरीनाय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ १ ॥ आदाय मैथिलीमच
ददत श्वाशु गच्छत । ततस्ततार हनुमानबिंध लङ्कां समाययौ ॥ २ ॥ सीतां
वासुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामेण सह न्यवेदयत
तत्वतः ॥ ३ ॥ तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः सार्धमा-
दायात्रांश्च पुरीं लङ्कां समाययौ ॥ ४ ॥ तां दृष्ट्वा तदधीशेन सार्धं युद्धम-
कारयत् । घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥ ५ ॥ हत्वा विभीषणं तत्र
स्थाप्याथ जनकात्मजाम् । आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ ६ ॥
धृतः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वाभरण-
भूषितः ॥ ७ ॥ मुद्रां ज्ञानमयीं याम्ये वामे तेजःप्रकाशिनीम् । धृत्वा
व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ८ ॥ उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ
घृतः । हनूमन्तं च श्रोतारमग्रतः स्यात्रिकोणगम् ॥ ९ ॥ भरताधस्तु सुग्रीवं
शत्रुघ्नाधो विभीषणम् । पश्चिमे लक्ष्मणं तस्य धृतच्छत्रं सचामरम् ॥ १० ॥
तदधस्तौ तालवृन्तकरौ त्र्यत्रं पुनर्भवेत् । एवं पङ्कोणमादौ स्वदीर्घाङ्गरेष
संयुतः ॥ ११ ॥ द्वितीयं वासुदेवाद्यैराग्नेय्यादिषु संयुतः । तृतीयं वायुसूनुं
च सुग्रीवं भरतं तथा ॥ १२ ॥ विभीषणं लक्ष्मणं चाङ्गदं चारिविमर्दनम् ।
जाम्बवन्तं च तैर्युक्तस्ततो दृष्टिर्जयन्तकः ॥ १३ ॥ विजयश्च सुराष्ट्रश्च राष्ट्र-
वर्धन एव च । अशोको धर्मपालश्च सुमन्त्रैरेभिरावृतः ॥ १४ ॥ सहस्रदृग्व-
ह्निर्धर्मरक्षो वरुणोऽनिलः । इन्द्वीशधात्रनन्ताश्च दशभिस्त्वेभिरावृतः ॥ १५ ॥
बहिस्तदायुधैः पूज्यो नीलादिभिरलंकृतः । वसिष्ठवामदेवादिमुनिभिः समु-
पासितः ॥ १६ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्सु षष्ठोपनिषत् ॥ ६ ॥
एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना । त्रिरेखापुटमालिख्य मध्ये
तारद्वयं लिखेत् ॥ १ ॥ तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वं षष्ठयन्तं साधकं तथा ॥ २ ॥ कुरुद्वयं च तत्पार्श्वे
लिखेद्वीजान्तरे रमाम् । तत्सर्वं प्रणवाभ्यां च वेष्टितं बुद्धिबुद्धिमान् ॥ ३ ॥
- दीर्घभाजि षडत्रे तु लिखेद्वीजं हृदादिभिः । कोणपार्श्वे रमामाये तदप्रेऽनङ्ग-
मालिखेत् ॥ ४ ॥ क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्रयभितो गिरम् । वृत्तत्रयं
साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ५ ॥ केसरेष्वष्टपत्रे च वर्गाष्टकमथा-
लिखेत् । तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥ ६ ॥ अन्ते पञ्चाक्षरा-</p>
<pb n="414" />
<p>उप०९ ]
श्रीरामपूर्वतापिन्युपनिषत् ॥ ५७ ॥</p>
<p>७ ॥
नेवं पुनरष्टदलं लिखेत् । तेषु नारायणाष्टार्ण लिखत्तकेसरे रमाम् ॥
तद्वहिर्द्वादशदलं विलिखेद्वादशाक्षरम् । तथों नमो भगवते वासुदेवाय
इत्ययम् ॥ ८ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्सु सप्तमोपनिषत् ॥ ७ ॥
आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् । तद्बहिः षोडशदलं लिख्य
तत्केसरे ह्रियम् ॥ १ ॥ वर्मास्वनतिसंयुक्तं दलेषु द्वादशाक्षरम् । तत्सन्धिष्वी-
रजादीनां मन्त्रान्मन्त्री समालिखेत् ॥ २ ॥ 'हँ सँ भँ वँ लँ शृ जँच लिखे-
त्सम्यक्ततो बहिः । द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ३ ॥ विलि-
खेन्मन्त्रराजार्णास्तेषु पत्रेषु यत्नतः । ध्यायेदष्टवसूनेकादश रुद्रांश्च तत्र वै ॥ ४ ॥
द्वादशेनांश्च धातारं वषट्कारं ततो बहिः ॥ ५ ॥ भूगृहं वज्रशूलाढ्यं रेखात्रय -
समन्वितम् । द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् । अनन्तो वासुकिचैव
तक्षः कर्कोटपद्मकः ॥ ६ ॥ महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ॥ ७ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्स्वष्टमोपनिषत् ॥ ८ ॥
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ १ ॥ नारसिंहं च वाराहं
लिखेन्मन्त्रद्वयं तथा । कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ २ ॥ यो
नृसिंहः समाख्यातो ग्रहमारणकर्मणि । अन्त्योऽधशवियद्विन्दुनादबीजं च
सौकरम् ॥ ३ ॥ हुंकारं चात्र रामस्य मालामनोऽधुनेरितः । तारो नतिश्च
निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ४ ॥ रुद्रेण संयुता वह्निर्मेधाऽमरविभूषिता ।
दीर्घाsक्रूरता ह्लादिन्यथो दीर्घसमानदा ॥ ५ ॥ क्षुधा क्रोधिन्यमोघा च
विश्वमप्यथ मेधया । युक्ता दीर्घा ज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ६ ॥
'सप्रतिष्ठा ह्लादिनी वाकूक्ष्वेलः प्रीतिश्च सामरा । ज्योतिस्तीक्ष्णाग्निसंयुक्ता
श्वेतानुस्वारसंयुता ॥ ७ ॥ कामिकापञ्चं मोलान्तस्तान्तान्तो धान्त इत्यथ ।
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ८ ॥ कामिका कामिका
रुद्रे युक्तायोsथ स्थिरास ए । तापिनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ९॥
नारायणात्मकः कालः प्रीणां भो विद्यया युतम् । पीता रतिस्तथा लान्तो
योन्या युक्तोऽन्ततो नतिः ॥ १० ॥ सप्तचत्वारिंशद्वर्णगुणान्तः सगुणः स्वयम् ।
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ११ ॥ इदं सर्वात्मकं यत्र
प्रागुक्तमृषिसेवितम् । सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ १२ ॥ अपुत्रिणां
१ सं-स्त्रं-भृं-वृं-लमं - श्रं - जं. २ पञ्चमूलान्तः. ३ युक्ताघोधः ४ प्राणाम्भो.</p>
<pb n="415" />
<note>४००.</note>
<p>ईशाद्युपनिषत्सु -
[ उप० १०.
पुत्रदं च बहुना किमनेन वै । प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ १३ ॥
इदं रहस्यं परममीश्वरेणापि दुर्गमम् । इदं यत्रं समाख्यातं न देयं प्राकृते
इति ॥ २४ ॥
इति श्रीरामपूर्वतापिन्युपनिषत्सु नवमोपनिषत् ॥ ९॥
ॐ भूतादिकं शोधयेद्दारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः । अर्चाविधा-
वस्य पीठाधरोर्ध्व पार्श्वार्चनं मध्यपद्मार्चनं च ॥ १ ॥ कृत्वा मृदुश्लक्ष्णसुतुलि-
कायां रत्नासने देशिकमर्चयित्वा । शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यते
स्वासनाधः प्रकल्प्य ॥ २ ॥ विघ्नं दुर्गा क्षेत्रपालं च वाणीं बीजादिकांश्चा-
निदेशादिकांश्च । पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च ने पूर्वास्तांस्तस्य दिवर्चयेच
॥ ३ ॥ मध्ये क्रमादर्कविध्वनितेजांस्युपर्युपर्यादिमैरर्चितानि । रजः सत्त्वं तम
एतानि वृत्तत्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४ ॥ आशाव्याशास्वप्यथात्मानम-
न्तरात्मानं वा परमात्मानमन्तः । ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये
कलापारतत्त्वे ॥ ५ ॥ संपूजयेद्विमलाद्याश्च शक्तीरभ्यर्चयेद्देवमावाहयेच्च । अङ्ग-
व्यूहानि जलाद्यैश्च पूज्य दृष्ट्यादिकैलो कपालैस्तदखैः ॥ ६ ॥ वसिष्ठाद्यैर्मुनि-
भिर्नील मुख्यैराराधयेद्राघवं चन्दनाद्यैः । मुख्योपहारैर्विविधैश्च पूज्यैस्तस्मै
पादश्च सम्यक्समये ॥ ७ ॥ एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदा-
नन्दरूपम् । गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः
॥ ८ ॥ विश्वव्यापी राघवोऽथो तदानीमन्तर्दधे शङ्खचक्रे गदाजे । धृत्वा रमा-
सहितः सानुजश्च सपत्नजः सानुगः सर्वलोकी ॥ ९ ॥ तद्भक्ता ये लब्धकामाश्च
भुक्त्वा तथा पदं परमं यान्ति ते च । इमा ऋचः सर्वकामार्थदाश्च ये ते पठ-
न्त्यमा यान्ति मोक्षं येते पठन्त्यमला यान्ति मोक्षमिति ॥ १० ॥
चिन्मयेऽस्मिंस्त्रयोदश । स्वभूर्ज्योतिस्तिस्रः । सीतारामावेका । जीववाची
षट्षष्टिः । भूतादिकमेतादृश । पञ्चखण्डेषु त्रिनवतिः ।
इति श्रीरामपूर्वतापिन्युपनिषत्सु दशमोपनिषत् ॥ १० ॥
इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥ ५७ ॥
१ नन्दीपूर्वास्तांस्तत्तद्दिक्ष्वर्चयेच्च; नत्वा पूर्वाद्यासु .</p>
<pb n="416" />
<p>श्रीरामोत्तरतापिन्युपनिषत् ॥ ५८ ॥
श्रीरामोत्तरतापिन्युपनिषत् ॥ ५८ ॥</p>
<note>४०.१</note>
<p>बृहस्पतिरुवाच याज्ञवल्क्यम् । यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां
ब्रह्मसदनम् । तस्माद्यत्र वचन गच्छेत्तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु
रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेव
निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैतद्याज्ञवल्क्यः ॥ १ ॥ अथ हैन
भरद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तरतीति । स होवाच याज्ञ-
वल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्राय
नम इत्यतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्याः । अकारः प्रथमा-
क्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति ।
अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरो
भवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवो-
पास्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति । तस्मा-
दुच्यते तारकमिति ॥ य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते । स सर्व
पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति ।
स वीरहत्यां तरति । स सर्वहत्यां तरति । स संसारं तरति सर्वं तरति ।
सोऽविमुक्तमाश्रितो भवति । स महान्भवति । सोऽमृतत्वं च गच्छतीति
॥ २ ॥ अथैते श्लोका भवन्ति - अकाराक्षरसंभूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ १ ॥ प्राज्ञात्मकस्तु भरतो मकारा-
क्षरसंभवः । अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ २ ॥ श्रीरामसांनि-
ध्यवशाज्जगदानन्ददायिनी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ३॥
सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्ति
ब्रह्मवादिनः ॥ ४ ॥ इति ॥ ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूर्त
भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत्रिकालातीतं तदप्योंकार एव ।
सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानों बहिः प्रज्ञः
सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ स्वमस्थानो-
ऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥
यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वतं पश्यति तत्सुषुप्तम् । सुषुप्त-
अ. उ. २६</p>
<pb n="417" />
<p>ईशाद्युपनिषत्सु -
स्थान एकीभूतः प्रज्ञानघन एवानन्दमयो यानन्दभुक् घेतोमुखः प्राज्ञ-
" स्तृतीयः पादः ॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य
sarvest हि भूतानाम् । नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतःप्रज्ञं व प्रज्ञ
नाप्रज्ञ न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेका-
त्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते । स आत्मा स
विज्ञेयः सदोज्वलोsविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित
आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्या-
हमित्यों तत्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहम तद्वामभद्वपरंज्योतीः
सोऽहमोमित्यात्मानमादाय मनसा ब्रह्मणैकी कुर्यात् ॥ सदा रामोऽहमस्मीति
तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनि-
पद्य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ अथ हैनमत्रिः पप्रच्छ
याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजा-
नीयामिति । स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्यो य एषोऽन-
न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित
इति । वरणायां नाश्यां च मध्ये प्रतिष्ठित इति ॥ का वै वरणा का च
नाशीति । जन्मान्तरकृतान्सर्वान्दोषान्वारयतीति तेन वरणा भवतीति ।
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति । कतमच्चास्य
स्थानं भवतीति । भ्रुवोर्घाणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य
च सन्धिर्भवतीति । एतद्वै सन्धि सन्ध्यां ब्रह्मविद उपासत इति ॥
सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वैतदेवं वेद स
एषोऽक्षरोऽनन्तोऽव्यक्तः परिपूर्णानन्दैकचिदात्मा योऽयमविमुक्ते प्रतिष्ठित इति ।
अथ तं प्रत्युवाच । श्रीरामस्य मनुं काइयां जजाप वृषभध्वजः । मन्वन्तर-
सहस्रैस्तु जपहोमार्चनादिभिः ॥ १ ॥ ततः प्रसन्नो भगवान्छ्रीरामः प्राह
शंकरम् । वृणीष्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ २ ॥ इति ॥ अथ सच्चि -
दानन्दात्मा श्रीराममीश्वरः पप्रच्छ । मणिकर्ण्या मत्क्षेत्रे गङ्गायां वा तटे
पुनः । म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् ॥ ३ ॥ इति ॥ भथ स
होवाच श्रीरामः ॥ क्षेत्रेऽत्र तंव देवेश यत्रकुत्रापि वा मृताः । कृमिकीटा-
दयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ ४ ॥ अविमुक्ते तव क्षेत्रे सर्वेषां
मुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥ ५ ॥ क्षेत्रेऽस्मिन्यो-</p>
<pb n="418" />
<p>श्रीरामोत्तरतापिन्युपनिषत् ॥ ५८ ॥
ऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुक
॥ ६ ॥ स्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धाः
स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ ७ ॥ मुमूर्षोर्दक्षिणे कर्णे यस्यकस्यापि वा
स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिवेति ॥ ८ ॥ श्रीरामचन्द
णोक्तं योऽविमुक्तं पश्यति स जन्मान्तरितान्दोषान्वारयतीति स जन्मान्तरि-
तान्पापान्नाशयतीति । अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः
स्तुतः श्रीरामः प्रीतो भवति । स्वात्मानं दर्शयति तान्नो ब्रूहि
भगवन्निति । स होवाच याज्ञवल्क्यः श्रीरामचन्द्रणैवं शिक्षितो ब्रह्मा पुनरे-
तथा गाथया नमस्करोति ॥ विश्वाधारं महाविष्णुं नारायणमनामयम् । परि-
पूर्णानन्दविज्ञं परंब्रह्मस्वरूपिणम् ॥ मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् ।
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्दात्मा यत्परं ब्रह्म
भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १ ॥ ॐ यो वै श्रीरामचन्द्रः स
भगवान्यश्चाखण्डैकरसात्मा भूर्भुवः स्वस्तस्मै वै नमो ममः २ ॐ यो वै
श्रीरामचन्द्रः स भगवान्यच्च ब्रह्मानन्दामृतं भूर्भुवः स्वस्तस्मै वै नमो नमः ३
ॐ यो वै श्रीरामचन्द्रः स भगवान्यस्तारकं भूर्भुवः स्वस्तस्मै वै नमो नमः ४.
ॐ यो वै श्रीरामचन्द्रः स भगवान्यो ब्रह्मा विष्णुरीश्वरो यः सर्वदेवात्मा
भूर्भुवः स्वस्तस्मै वै नमो नमः ५ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये सर्वे
वेदाः साङ्गाः सशाखाः सपुराणा भूर्भुवः स्वस्तस्मै वै नमो नमः ६ ॐ यो वै
श्रीरामचन्द्रः स भगवान्यो जीवात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ७ ॐ यो
वै श्रीरामचन्द्रः स भगवान्यः सर्वभूतान्तरात्मा भूर्भुवः स्वस्तस्मै वै नमो
नमः ८ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये देवासुरमनुष्यादिभावा भूर्भुवः
स्वस्तस्मै वै नमो नमः ९ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये मत्स्यकूर्माद्य-
वतारा भूर्भुवः स्वस्तस्मै वै नमो नमः १० ॐ यो वै श्रीरामचन्द्रः स
भगवान्यश्च प्राणो भूर्भुवः स्वस्तस्मै वै नमो नमः ११ ॐ यो वै श्रीराम-
चन्द्रः स भगवान्योऽन्तःकरणचतुष्टयात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः १२
ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च यमो भूर्भुवः स्वस्तस्मै वै नमो नमः
१३ ॐ यो वै श्रीरामचन्द्रः स भगवान्युश्चान्तको भूर्भुवः स्वस्तस्मै वै नमो
नमः १४ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च मृत्युर्भूर्भुवः स्वस्तस्मै चै
नमो नमः १५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्चामृतं भूर्भुवः स्वस्त मै
वै नमो नमः १६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यानि पञ्च महाभूतानि</p>
<pb n="419" />
<p>ईशाद्युपनिषत्सु -
•
भूर्भुवः स्वस्तस्मै वै नमो नमः १७ ॐ यो वै श्रीरामचन्द्रः स भगवान्यः
स्थावरजङ्गमात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः १८ ॐ यो वै श्रीरामचन्द्रः
स मंगवान्ये पञ्चानयो भूर्भुवः स्वस्तस्मै वै नमो नमः १९ ॐ यो वै श्रीराम-
चन्द्रः स भगवान्याः सप्त महाव्याहृतयो भूर्भुवः स्वस्तस्मै वै नमो नमः २०
ॐ यो वै श्रीरामचन्द्रः स भगवान्या विद्या भूर्भुवः स्वस्तस्मै वै नमो नमः
२१ ॐ यो वै श्रीरामचन्द्रः स भगवान्या सरस्वती भूर्भुवः स्वस्तस्मै वै नमो
नमः २२ ॐ यो वै श्रीरामचन्द्रः स भगवान्या लक्ष्मीर्भूर्भुवः स्वस्तस्मै वै नमों
नमः २३ ॐ यो वै श्रीरामचन्द्रः स भगवान्या गौरी भूर्भुवः स्वस्तस्मै वै
नमो नमः २४ ॐ यो वै श्रीरामचन्द्रः स भगवान्या जानकी भूर्भुवः स्वस्त
स्मै वै नमो नमः २५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यच्च त्रैलोक्यं
भूर्भुवः स्वस्तस्मै वै नमो नमः २६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च
सूर्यो भूर्भुवः स्वस्तस्मै वै नमो नमः २७ ॐ यो वै श्रीरामचन्द्रः स
भगवान्यश्च सोमो भूर्भुवः स्वस्तस्मै वै नमो नमः २८ ॐ यो वै श्रीरामचन्द्रः
स भगवान्यानि नक्षत्राणि भूर्भुवः स्वस्तस्मै वै नमो नमः २९ ॐ यो वै
श्रीरामचन्द्रः स भगवान्ये च नव ग्रहा भूर्भुवः स्वस्तस्मै वै नमो नमः ३०
ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चाष्टौ लोकपाला भूर्भुवः स्वस्तस्मै वै
नमो नमः ३१ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चाष्टौ वसवो भूर्भुवः
स्वस्तस्मै वै नमो नमः ३२ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये चैकादश
रुद्रा भूर्भुवः स्वस्तस्मै वै नमो नमः ३३ ॐ यो वै श्रीरामचन्द्रः स भगवान्ये
च द्वादशादित्या भूर्भुवः स्वस्तस्मै वै नमो नमः ३४ ॐ यो वै श्रीरामचन्द्रः
स भगवान्यच्च भूतं भवद्भविष्यद्भूर्भुवः स्वस्तस्मै वै नमो नमः ३५ ॐ यो
वै श्रीरामचन्द्रः स भगवान्ब्रह्माण्डस्यान्तर्बहिर्व्याप्नोति यो विराड्भूर्भुवः
स्वस्तस्मै वै नमो नमः ३६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो हिरण्य-
गर्भो भूर्भुवः स्वस्तस्मै वै नमो नमः ३७ ॐ यो वै श्रीरामचन्द्रः स भग-
वान्या प्रकृतिर्भूर्भुवः स्वस्तस्मै वै नमो नमः ३८ ॐ यो वै श्रीरामचन्द्रः
स भगवान्यश्चोंकारो भूर्भुवः स्वस्तस्मै वै नमो नमः ३९ ॐ यो वै
श्रीरामचन्द्रः स भगवान्याश्चतस्रोऽमात्रा भूर्भुवः स्वस्तस्मै वै नमो नमः
४० ॐ यो वै श्रीरामचन्द्रः स भगवान्यः परमपुरुषो भूर्भुवः स्वस्तस्मै वै
नमो नमः ४१ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च महेश्वरो भूर्भुवः
•</p>
<pb n="420" />
<p>वासुदेवोपनिषत् ॥ ५९ ॥</p>
<p>स्वतस्मै वै नमो नमः ४२ ॐ यो वै श्रीरामचन्द्रः स भगवान्यश्च महादेवो
भूर्भुवः स्वस्तस्मै वै नमो नमः ४३ ॐ यो वै श्रीरामचन्द्रः स भगवान्य
ॐ नमो भगवते वासुदेवाय यो महाविष्णुर्भूर्भुवः स्वस्तस्मै वै नमो नमः ४४
ॐ यो वै श्रीरामचन्द्रः स भगवान्यः परमात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः
४५ ॐ यो वै श्रीरामचन्द्रः स भगवान्यो विज्ञानात्मा भूर्भुवः स्वस्तस्मै वै
नमो नमः ४६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यः सच्चिदानन्दैकरसात्मा
भूर्भुवः स्वस्तस्मै वै नमो नमः ४७ इत्येतान्ब्रह्मवित्सप्तचत्वारिंशन्मन्त्रैर्नित्यं देव
स्तुवंस्ततो देवः प्रीतो भवति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं
पश्यति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥ ५ ॥
ॐ वाले मनसीति शान्तिः ॥
इत्याथर्वणीया श्रीरामोत्तरतापिनीयोपनिषत्समाप्ता ॥ ५८ ॥</p>
<lg>
  <l>वासुदेवोपनिषत् ॥ ५९ ॥</l>
  <l>यत्सर्वहृदयागारं यत्र सर्व प्रतिष्ठितम् ।</l>
  <l>वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ अधीहि भगवन्नूर्ध्व-
पुण्डूविधिं द्रव्यमन्त्रस्थानादिसहितं मे ब्रूहीति । तं होवाच भगवान्वासुदेवो
वैकुण्ठस्थानादुत्पन्नं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं
ममाङ्गे प्रतिदिनमा लिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दनमाख्यातं मदङ्गलेपनं
पुण्यं चक्रतीर्थान्तः स्थितं चक्रसमायुक्तं पीतवर्ण मुक्तिसाधनं भवति । अथ
गोपीचन्दनं नमस्कृत्वोद्धृत्य । गोपीचन्दन पापन विष्णुदेहसमुद्भव । चक्रा-
ङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव । इमं मे गङ्गे इति जलमादाय विष्णो-
कमिति मर्दयेत् । अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवा-
दिनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो वा ललाटहृदयकण्ठबाहुमूलेषु
वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्रय शङ्खचक्र-
गदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥
इंति ध्यात्वा गृहस्थो ललाटादिद्वादशस्थ लेष्वनामिकाङ्गुल्या वैष्णवगायत्र्या</p>
<pb n="421" />
<p>**
ईशादुपनिषत्सु -
केशवादिनामभिर्वा धारयेत् । ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहु-
मूलेषु वैष्णव गायत्र्या कृष्णादिनामभिर्वा धारयेत् । यतिस्तर्जन्या शिरोललाट-
हृदयेषु प्रणवेनैव धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्त्रो व्याहृतयस्त्रीणि
छन्दांसि त्रयोsय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानः
पुण्ड्रास्त्रय ऊर्ध्वा अकार उकारो मकार एते प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदे -
तदोमिति । तानेकधा समभवत् । ऊर्ध्वमुनमयत इत्योंकाराधिकारी । तस्मा-
दूर्ध्वपुण्डं धारयेत् । परमहंसो ललाटे प्रणयेनैकमूर्ध्वपुण्डं वा धारयेत् ।
.
प्रदीप प्रकाशं स्वात्मानं पश्यन्योगी मत्सायुज्यमवाप्नोति । अथवा
न्यस्तहृदयपुण्डूमध्ये वा । हृदयकमलमध्ये वा तस्य मध्ये वह्निशिखा अणी-
योर्ध्वा व्यवस्थिता । नीलतोयद्मध्यस्थाद्विद्युल्लेखेव भास्वरा । नीवार-
शुकवत्तन्वी विद्युल्लेखेव भास्वरा । तस्याः शिखाया मध्ये परमात्मा
व्यवस्थित इति । अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् । क्रमादेवं
स्वात्मानं भावयेन्मां परं हरिम् । एकाग्रमनसा यो मां ध्यायते हरि-
मव्ययम् । हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः । मद्रूप-
मद्वयं ब्रह्म आदिमध्यान्तवर्जितम् । स्वप्रभं सच्चिदानन्दं भक्त्या जानाति
चाव्ययम् । एको विष्णुरनेकेषु जङ्गमस्थावरेषु च । अनुस्यूतो वसत्यात्मा
भूतेष्वहमवस्थितः । तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा । गन्धः पुष्पेषु
भूतेषु तथात्माऽवस्थितो ह्यहम् । ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।
गोपी चन्दनमा लिप्य तत्र ध्यात्वाप्नुयात्परम् । ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रो-
र्ध्वयोगवान् । ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् । इत्येतन्निश्चितं
ज्ञानं मद्भक्त्या सिद्ध्यति स्वयम् । नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधार-
णात् । ब्राह्मणानां तु सर्वेषां वैदिकानामनुत्तमम् । गोपीचन्दनवारिभ्यामू-
पुण्डं विधीयते । यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् । मुमुक्षुर्धा-
जयेन्नित्यमपरोक्षात्मसिद्धये । अतिरात्राग्निहोत्र भस्मनाग्नेर्भ सितमिदं विष्णु-
स्त्रीणि पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्धूलनं कुर्यात् । एवं विधिना गोपी-
चन्दुनं च धारयेत् । यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति । पाप-
बुद्धिस्तस्य न जायते स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्यज्ञैर्याजितो
भवति । स सर्वैर्देवैः पूज्यों भवति । श्रीमन्नारायणे मय्यचञ्चला भक्तिश्व
सति स सम्यगू ज्ञानं च लब्ध्वा विष्णुसायुज्यमवामोति । न च पुनरा-</p>
<pb n="422" />
<p>मुल पनिषदः ॥ ६० ॥
840
वर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः । यस्त्वेतद्वाऽधीते सोऽप्ये-
कमेव भवतीत्यों सत्यमित्युपनिषत् ॥ १ ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति वासुदेवोपनिषत्समाप्ता ॥ ५९ ॥</p>
<lg>
  <l>मुद्गलोपनिषत् ॥ ६० ॥</l>
  <l>श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् ।</l>
  <l>पुरुषोत्तमविख्यातं पूर्ण ब्रह्म भवाम्यहम् ॥</l>
  <l>ॐ वा मनसीति शान्तिः ॥</l>
</lg>
<p>ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः ॥ पुरुषसंहितायां पुरुषसूक्तार्थः
संग्रहण प्रोच्यते । सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राह
दशाङ्गुलवचस्तथा ॥ १ ॥ तस्य प्रथमया विष्णोदेंशतो व्याप्तिरीरिता । द्विती-
यया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥ २ ॥ विष्णोर्मोक्षप्रदत्वं च
कथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ ३ ॥ एतेनैव
च मन्त्रेण चतुर्व्यूहो विभाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम्
॥ ४ ॥ तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः
प्रदर्शिता ॥ ५ ॥ यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । सप्तास्यासन्परिधयः
समिधश्व समीरिताः ॥ ६ ॥ तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैव
च मन्त्रेण मोक्षश्च समुदीरितः ॥ ७ ॥ तस्मादिति च मन्त्रेण जगत्सृष्टिः समी-
रिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ ८ ॥ यज्ञेनेत्युपसंहारः
सृष्टेर्मोक्षस्य चेरितः । य एवमेतजानाति स हि मुक्तो भवेदिति ॥ ९ ॥ ॥
अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् । वासु-
देव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परम-
रहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् । द्वौ खण्डावुच्येते ।
योsयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय
क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयक्कल्याणं दृष्टमात्रेण मोक्षद
वेषमाददे । तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् । पुरुषो
• नारायणो भूतं भव्यं भविष्यच्चासीत् । स एष सर्वेषां मोक्षदश्चासीत् । स चः</p>
<pb n="423" />
<p>ईशाद्युपनिषत्सु -
सर्वस्मान्महिम्नो ज्यायान् । तस्मान्न कोऽपि ज्यायान् । महापुरुषं आत्मानं
चतुर्धा कृत्वा त्रिपादेन परमे व्योनि चासीत् । इतरेण चतुर्थेनानिरुद्धनारा-
यणेन विश्वान्यासन् । स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् । स स-
मृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् । सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।
ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा
मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरहतुं
रसं ध्यात्वैवमग्नौ हुत्वाङ्गस्पर्शात्कलेवरो वज्रं हीष्यते । ततः स्वकार्यान्सर्व-
प्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति । ततः स्थावरजङ्गमात्मकं जगद्भ-
विष्यति । एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसंधेयम् । य इमं
सृष्टियज्ञ जानाति मोक्षप्रकारं च सर्वमायुरेति ॥ २ ॥ एको देवो बहुधा
निविष्ट अजायमानो बहुधा विजायते । तमेतमभिरित्यध्वर्यव उपासते । यजु-
रित्येष हीदं सर्वं युनक्ति । सामेति छन्दोगाः । एतस्मिन्हीदं सर्व प्रतिष्ठितम् ।
विषमिति सर्पाः । सर्प इति सर्पविदः । ऊर्गिति देवाः । रयिरिति मनुष्याः ।
मायेत्यसुराः । स्वधेति पितरः । देवजन इति देवजनविदुः । रूपमिति
गन्धर्वाः। गन्धर्व इत्यप्सरसः । तं यथा यथोपासते तथैव भवति । तस्माद्रा-
ह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् । तद्रूपो भवति । य एवं वेद ॥ ३ ॥
ब्रह्म तापत्रयातीतं षोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भाव-
चिकारशून्यमेवमादिसर्वविलक्षणं भवति । तापत्रयं त्वाध्यात्मिकाधिभौतिका-
धिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय भोक्तृभोगभोग्यमिति त्रिविधम् । त्वमां-
सशोणितास्थिस्नायुमज्जाः षट्कोशाः । कामक्रोध लोभ मोहमदमात्सर्यमित्यरिष -
वर्ग: । अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्च कोशाः ।
प्रियात्मजननवर्धन परिणामक्षयनाशाः षड्भावाः । अशनायापिपासाशोकमो-
हजरामरणानीति षडूर्मयः । कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमाः ।
एतद्योगेन परमपुरुषो जीवो भवति नान्यः । य एतदुपनिषदं नित्यमधीते
सोऽभिपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । अरोगी
भवति । श्रीमांश्च भवति । पुत्रपौत्रादिभिः समृद्धो भवति । विद्वांश्च भवति ।
महापातकात्पूतो भवति । सुरापानात्पूतो भवति । अगम्यागमनात्पूतो
भवति । मातृगमनात्पूतो भवति । दुहितृस्नुषाभिगमनात्पूतो भवति । स्वर्ण-
स्तेयात्पूतो भवति । वेदिजन्महानात्पूतो भवति । गुरोरशुश्रूषणात्पूतो भवति ।
.
अयाज्ययाजनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । उप्रप्रतिमहा-
R
1</p>
<pb n="424" />
<p>अध्या० १]
शाण्डिल्योपनिषत् ॥ ६१ ॥
त्पूतो भवति । परदारगमनात्पूतो भवति । कामक्रोधलोभमोहेर्व्यादिभिरना-
धितो भवति । सर्वेभ्यः पापेभ्यो मुक्तो भवति । इह जन्मनि पुरुषो भवति ।
तस्मादेतत्पुरुषसूक्तार्थ मतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादी-
क्षितायोपदिशेत् । नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने न
बहुभाषिणेनाप्रियवादिने नासंवत्सरवेदिने नातुष्टाय नानधीतवेदायोपदिशेत् ।
गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय
शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् । न बहुशो वदेत् । यात-
यामो भवति । असकृत्कर्णमुपदिशेत् । एतत्कुर्वाणोऽध्येताऽध्यापकश्च इह
जन्मनि पुरुषो भवतीत्युपनिषत् ॥ १ ॥
ॐ वाडो मनसीति शान्तिः ॥
इति मुगलोपनिषत्समाप्ता ॥ ६० ॥</p>
<lg>
  <l>शाण्डिल्योपनिषत् ॥ ६१ ॥</l>
  <l>शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः ।</l>
  <l>यद्बोधाद्यान्ति कैवल्यं स रामो मे परा गतिः ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>शाण्डिल्यो ह वा अथर्वाणं पप्रच्छ- आत्मलाभोपायभूतमष्टाङ्गयोगमनु-
ब्रूहीति । स होवाचाथ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध-
योऽष्टाङ्गानि । तत्र दश यमाः । तथा नियमाः । आसनान्यष्टौ । त्रयः प्राणा-
यामाः । पञ्च प्रत्याहाराः । तथा धारणा । द्विप्रकारं ध्यानम् । समाधिस्त्वेक-
रूपः । तत्राहिंसासत्यास्तेयब्रह्मचर्य दयाजपक्षमाष्टतिमिताहारशौचानि चेति
यमा दश । तत्र हिंसा नाम मनोवाक्कायकर्मभिः सर्वभूतेषु सर्वदा क्लेशज-
ननम् । सत्यं नाम मनोवाक्कायकर्मभिर्भूतहितयथार्थाभिभाषणम् । अस्तेयं नाम
मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहता । ब्रह्मचर्यं नाम सर्वावस्थासु मनो-
वाक्कायकर्मभिः सर्वत्र मैथुनत्यागः । दया नाम सर्वभूतेषु सर्वत्रानुग्रहः ।
आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वा
एकरूपत्वम् । क्षमा नाम प्रियाप्रियेषु सर्वेषु वाडनपूजनेषु सहनम् । धृति-
१ त्रिः प्राणायामाः ।</p>
<pb n="425" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
नमार्थहानौ स्वेष्टबन्धुवियोगे तत्प्राप्तौ सर्वत्र चेतः स्थापनम् । मिताहारो
नाम चतुर्थांशावशेषक सुस्निग्धमधुराहारः । शौचं नाम द्विविधं - बाह्यमान्तर
चेति । तत्र मृजलार्थ्यां बाह्यम् । मनःशुद्धिरान्तरम् । तदुद्ध्यात्मविद्यया
लभ्यम् ॥ १ ॥ तपःसन्तोषास्तिक्य दानेश्वरपूजन सिद्धान्त श्रवणहीमतिजपो-
व्रतानि दश नियमाः । तत्र तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीर-
शोषणम् । संतोषो नाम यदृच्छालाभसंतुष्टि: । आस्तिक्थं नाम वेदोक्त-
धर्माधर्मेषु विश्वासः । दानं नाम न्यायार्जितस्य धनधान्यादेः श्रद्धयार्थिभ्यः
प्रदानम् । ईश्वरपूजनं नाम प्रसन्नस्वभावेन यथाशक्ति विष्णुरुद्रादिपूजनम् ।
सिद्धान्तश्रवणं नाम वेदान्तार्थविचारः । होर्नाम वेदलौकिकमार्गकुत्सित-
कर्मणि लज्जा । मतिर्नाम वेदविहितकर्ममार्गेषु श्रद्धा । जपो नाम विधि-
वगुरूपदिष्ट वेदा विरुद्धमन्त्राभ्यासः । तद्विविधं - वाचिकं मानसं चेति । मानसं
तु मनसा ध्यानयुक्तम् । वाचिकं द्विविधमुचैरुपांशुभेदेन । उच्चैरुच्चारणं
यथोक्तफलम् । उपांशु सहस्रगुणम् । मानसं कोटिगुणम् । व्रतं नाम वेदो-
वविधिनिषेधानुष्ठाननैयत्यम् ॥ २ ॥ स्वस्तिकगोमुखपद्मवीर सिंह भद्रमुक्तम-
यूराख्यान्यासनान्यष्टौ । स्वस्तिकं नाम - जानूर्वोरन्तरे सम्यकृत्वा पादतले
उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ ३ ॥ सव्ये दक्षिणगुल्फं
तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा ॥ ४ ॥
अङ्गुष्ठेन निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण च । ऊर्वोरुपरि शाण्डिल्य कृत्वा
पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥ ५ ॥ एकं पादम-
कस्मिन्विन्यस्योरुणि संस्थितः । इतरस्मिंस्तथा चोरुं वीरासनमुदीरितम्
॥ ६ ॥ दक्षिणं सव्यगुरुफेन दक्षिणेन तथेतरम् । हस्तौ च जान्वोः संस्थाय
स्वाङ्गुलीश्च प्रसार्य च ॥ ७ ॥ व्यक्तवको निरीक्षेत नासाग्रं सुसमाहितः ।
सिंहासनं भवेदेतत्पूजितं योगिभिः सदा ॥ ८ ॥ योनिं वामेन संपीड्य
मैदादुपरि दक्षिणम् । भ्रूमध्ये च मनोलक्ष्यं सिद्धासनमिदं भवेत् ॥ ९ ॥
गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । पादपार्श्वे तु पाणिभ्य
डढं बद्धा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ १० ॥
संपीड्य सीविनीं सूक्ष्मां गुल्फेनैव तु सव्यतः । सव्यं दक्षिणगुल्फेन मुक्ता--
सनमुदीरितम् ॥ ११ ॥ अवष्टभ्य धरां सम्यक्कलाभ्यां तु करद्वयोः । हस्तयोः
कूपरौ चापि स्थापयेन्नाभिपार्श्वयोः ॥ १२ ॥ समुन्नतशिरः पादो दण्डव-</p>
<pb n="426" />
<p>अध्या० १]
शाण्डिल्योपनिषः ॥ ६१ ॥
૨૧ જ્
योनि संस्थितः । मयूरासनमेतत्तु सर्वपापप्रणाशनम् ॥ १३ ॥ शरीरान्त--
ताः सर्वे रोगा विनश्यन्ति । विषाणि जीर्यन्ते । येन केनासनेन सुख-
धारणं भवत्यशक्तस्तत्समाचरेत् । येनासनं विजितं जगत्रयं तेन विजितं
भवति । यमनियमाभ्यां संयुक्तः पुरुषः प्राणायामं चरेत् । तेन नाड्यः
शुद्धा भवन्ति ॥ १४ ॥ अथ हैनमथवणं शाण्डिल्यः पप्रच्छ केनोपायेन
नाड्यः शुद्धाः स्युः । नाड्यः कति संख्याकाः । तासामुत्पत्तिः कीदृशी ।
तासु कति वायवतिष्ठन्ति । तेषां कानि स्थानानि । तत्कर्माणि कानि । देहे
यानि यानि विज्ञातव्यानि तत्सर्वं मे ब्रूहीति । स होवाचाथर्वा । अथेदं
शरीरं षण्णवत्यङ्गुलात्मकं भवति । शरीराख्याणो द्वादशाङ्गुलाधिको भवति ।
शरीरस्थं प्राणमग्निना सह योगाभ्यासेन समं न्यूनं वा यः करोति स
योगिपुङ्गवो भवति । देहमध्ये शिखिस्थानं त्रिकोणं तसजाम्बूनदप्रभं मनु-
व्याणाम् । चतुष्पदां चतुरस्रम् । विहङ्गानां वृत्ताकारम् । तन्मध्ये शुभा
तन्वी पावकी शिखा तिष्ठति । गुदाइयङ्गुलादूर्ध्वं मेढाहूयङ्गुलादधो
देहमध्यं मनुष्याणां भवति । चतुष्पद हन्मध्यम् । विहगानां तुन्दमध्यम् ।
देहमध्यं नवाङ्गुलं चतुरङ्गुलमुत्सेधाय तमण्डाकृति । तम्मध्ये नाभिः ।
तत्र द्वादशारयुतं चक्रम् । तच्चक्रमध्ये पुण्यपापप्रचोदितो जीवो भ्रमति ।
तन्तुपञ्जरमध्यस्थलूतिका यथा भ्रमति तथा चासौ तत्र प्राणश्चरति । देहेऽ-
स्मिञ्जीवः प्राणारूढो भवेत् । नाभेस्तिर्यगध ऊर्ध्वं कुण्डलिनीस्थानम् । अष्टप्रकृ-
तिरूपाऽष्टधा कुण्डलीकृता कुण्डलिनी शक्तिर्भवति । यथावद्वायुसंचारं जला-
नादीनि परितः स्कन्धः पार्श्वेषु निरुध्यैनं मुखेनैव समावेष्ट्य ब्रह्मरन्ध्र योग-
काले चापानेनामिना च स्फुरति । हृदयाकाशे महोज्ज्वला ज्ञानरूपी भवति ।
मध्यस्थ कुण्डलिनीमाश्रित्य मुख्या नाड्यश्चतुर्दश भवन्ति । इडा पिङ्गला
सुषुम्ना सरस्वती वारुणी पूषा हस्तिजिह्वा यशस्विनी विश्वोदरी कुहूः शङ्खिनी
पयस्विनी अलम्बुसा गान्धारीति नाट्यश्चतुर्दश भवन्ति । तत्र सुषुम्ना विश्व-
धारिणी मोक्षमार्गेति चाचक्षते। गुदस्य पृष्ठभागे वीणादण्डाश्रिता मूर्धपर्यन्त
ब्रह्मरन्ध्रे विज्ञेया व्यक्ता सूक्ष्मा वैष्णवी भवति । सुषुम्नायाः सव्यभागे इडा
तिष्ठति । दक्षिणभागे पिङ्गला । इडायां चन्द्रश्चरति । पिङ्गलायां रविः । तमो-
रूपश्चन्द्रः । रजोरूपो रविः । विषभागो रविः । अमृतभागश्चन्द्रमाः । तावेव
९ अन्यूनं वा. २ हृदयाकाशं. ३ ज्ञानरूपं ४ रन्ध्रेति वि.</p>
<pb n="427" />
<p>4</p>
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
सर्वकालं धत्तः। सुषुम्ना कालभोक्त्री भवति । सुषुन्ना पृष्ठपार्श्वयोः सरस्व-
तीकुहु भवतः । यशस्विनी कुडूमध्ये वारुणी प्रतिष्ठिता भवति । पूषासरस्वती-
मध्ये पयस्विनी भवति । गान्धारीसरस्वती मध्ये यशस्विनी भवति । कन्दुम-
ध्येऽलम्बुसा भवति । सुषुम्ना पूर्व भागे मेदान्तं कुहूर्भवति । कुण्डलिन्या अध-
श्रो वारुणी सर्वगामिनी भवति । यशस्विनी सौम्या च पादाङ्गुष्ठान्तमि-
यते । पिङ्गला चोर्ध्वगा याम्यनासान्तं भवति । पिङ्गलायाः पृष्ठतो ग्राम्य-
नेत्रान्तं पूषा भवति । याम्यकर्णान्तं यशस्विनी भवति । जिह्वाया ऊर्ध्वान्तं
सरस्वती भवति । आसव्य कर्णान्तमूर्ध्वगा शङ्खिनी भवति । इडापृष्ठभागारस-
व्यनेत्रान्ता गान्धारी भवति । पायुमूलादधोर्ध्वगाऽलम्बुसा भवति । एताश्च
चतुर्दशसु नाडीष्वन्या नाड्यः संभवन्ति । तास्वन्यास्तास्वन्या भवन्तीति
विज्ञेयाः ॥ यथाऽश्वत्थादिपत्रं शिराभिर्व्याप्तमेवं शरीरं नाडीभिर्व्याप्तम् । प्राणा-
पानसमानोदानव्याना नागकूर्म कुकर देवदत्तधनञ्जया एते दश वायवः सर्वासु
नाडीषु चरन्ति । आस्यनासि का कण्ठनाभिपादाङ्गुष्ठद्रय कुण्डल्य धश्चोर्ध्व भागेषु
प्राणः संचरति । श्रोत्राक्षिकटिगुल्फाणगल स्फिग्देशेषु व्यानः संचरति । गुद्-
मेढो रुजानूदरवृषण कटि जङ्घानाभिगुदाभ्यगारेष्वपानः संचरति । सर्वसंधिस्थ
उदानः । पादहस्तयोरपि सर्वगात्रेषु सर्वव्यापी समानः । भुक्तान्नरसादिकं
गात्रेऽग्निना सह व्यापयन्द्विसप्ततिसहस्रेषु नाडीमार्गेषु चरन्समानवायुरनिना
सह साङ्गोपाङ्गकलेवरं व्याप्नोति । नागादिवायवः पञ्चध्वगस्थ्यादिसंभवाः ।
तुन्दस्थं जलमन्नं च रसादिषु समीरितं तुन्दमध्यगतः प्रागस्तानि पृथक्कुर्यात् ।
अरुपरि जलं स्थाप्य जलोपर्यन्नादीनि संस्थाप्य स्वयमपानं संप्राप्य तेनैव सह
मारुतः प्रयाति देहमध्यगतं ज्वलनम् । वायुना पालितो वह्निरपानेन शनै-
देहमध्ये ज्वलति । ज्वलनो ज्वालाभिः प्राणेन कोष्ठमभ्यागतं जलमत्युष्णम-
करोत् । जलोपरि समर्पितव्यञ्जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा पक्कमकरोत् ।
तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरीषादिकं प्राणः पृथक्कुर्यात् । समानवायुना
सह सर्वासु नाडीषु रसं व्यापयन्वासरूपेण देहे वायुश्चरति । नवभिर्व्योमरन्ध्रः
शरीरस्य वायवः कुर्वन्ति विण्मूत्रादिविसर्जनम् । निश्वासोच्छ्वासकासश्च प्राण-
कर्मोच्यते । विण्मूत्रादिविसर्जनमपानवायुकर्म । हानोपादानचेष्छादि व्यानकर्म ।
देहस्योन्नयनादिकमुदानकर्म । शरीरपोषणादिकं समानकर्म । उद्द्वारादि नाग-
कर्म । निमीलनादि कर्म कर्म । क्षुत्करणं क्रूरकर्म । तन्द्रा देवदत्तकर्म ।</p>
<pb n="428" />
<p>अध्या० १]
शाण्डिल्योपनिषत् ॥ ६१ ॥</p>
<note>४१३.</note>
<p>श्लेष्मादि धनञ्जयकर्म । एवं नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वा
नाडीसंशोधनं कुर्यात् ॥ १५ ॥ यमनियमयुतः पुरुषः सर्वसङ्गविवर्जितः कृतविद्य:
सत्यधर्मरतो जितक्रोधो गुरुशुश्रूषानिरतः पितृमातृविधेयः स्वाश्रमोक्तसदा-
चारविद्वच्छिक्षितः फलमूलोदकान्वितं तपोवनं प्राप्य रम्यदेशे ब्रह्मघोषसम-
न्विते स्वधर्मनिरतब्रह्मवित्समावृते फलमूलपुष्पवारिभिः सुसंपूर्णे देवायतनें
नदीतीरे ग्रामे नगरे वापि शुशोभनमठं नात्युच्चनीचायतमल्पद्वारं गोमया-
दिलिलं सर्वरक्षा समन्वितं कृत्वा तत्र वेदान्तश्रवणं कुर्वन्योगं समारभेत् ।
आदौ विनायकं संपूज्य स्वेष्टदेवतां नत्वा पूर्वोक्तासने स्थित्वा प्राङ्मुख उदङ्मुखो
वापि मृद्वासनेषु जितासनगतो विद्वान्समग्रीव शिरोनासाग्रहग्भ्रूमध्ये शशभू
द्विम्बं पश्यन्नेन्नाभ्याममृतं पिबेत् । द्वादशमात्रया इडया वायुमापूर्योदरे स्थितं
ज्वालावलीयुतं रेफ बिन्दुयुक्तम झिमण्डलयुतं ध्यायेदेचयेपिङ्गलया । पुनः
पिङ्गलयाऽऽपूर्वं कुम्भित्वा रेचयेदिडया । त्रिचतुस्त्रिचतुःसप्तत्रिचतुर्मासपर्यन्तं
त्रिसंधिषु तदन्तरालेषु च षट्कृत्व भाचरेन्नाडीशुद्धिर्भवति । ततः शरीरे लघु-
दीप्तिवह्निवृद्धिनादाभिव्यक्तिर्भवति ॥ १६ ॥ प्राणापानसमायोगः प्राणायामो
भवति । रेचकपूरककुम्भकभेदेन स त्रिविधः । ते वर्णात्मकाः । तस्मात्प्रणच
प्राणायामः पद्माद्यासनस्थः पुमान्नासाग्रे शशभृद्विम्बज्योत्स्नाजाल -
वितानिताकारमूर्ती रक्ताङ्गी हंसवाहिनी दण्डहस्ता बाला गायत्री भवति ॥
उकारमूर्तिः श्वेताङ्गी तार्क्ष्यवाहिनी युवती चक्रहस्ता सावित्री भवति ।
मकार मूर्तिः कृष्णाङ्गी वृषभवाहिनी वृद्धा त्रिशूलधारिणी सरस्वती भवति ।
अंकारादित्रयाणां सर्वकारणमेकाक्षरं परं ज्योतिः प्रणवं भवतीति ध्यायेत् ।
इडया बाह्याद्वायुमापूर्य षोडशमात्राभिरकारं चिन्तयन्पूरितं वायुं चतु:-
षष्टिमात्राभिः कुम्भयित्वोकारं ध्यायन्पूरितं पिङ्गलया द्वात्रिंशन्मात्रया मकार-
मूर्तिध्यानेनैवं क्रमेण पुनः पुनः कुर्यात् ॥ १७ ॥ अथासनदृढो योगी वशी
मिवहिताशनः सुषुम्ना नाडीस्थमलशोषार्थं योगी बद्धपद्मासनो वायुं चन्द्रे-
णापूर्य यथाशक्ति कुम्भयित्वा सूर्येण रेचयित्वा पुनः सूर्येणापूर्य कुम्भयित्वा
चन्द्रेण विरेच्य यया त्यजेत्तया संपूर्य धारयेत् । तदेते श्लोका भवन्ति-प्राणं
प्राणिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत्पीत्वा पिङ्गलया समीरणमथो
बद्धा त्यजेद्वामया । सूर्याचन्द्रमसोरनेन विधिनाऽभ्यासं सदा तन्वतां शुद्धा
नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ १८ ॥ प्रातर्मध्यन्दिने
एव</p>
<pb n="429" />
<p>ईशाधुपनिषत्सु -
[ अध्या० १
सायमर्धरात्रे तु कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्भरं समभ्यसेत् ॥ १९ ॥
कनीयसि भवेत्स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे प्राणरोधे
पद्मासनं महत् ॥ २० ॥ जलेन श्रमजातेन गात्रमर्दनमाचरेत् । दृढता
लघुता चापि तस्य गात्रस्य जायते ॥ २१ ॥ अभ्यासकाले प्रथमं शस्त्रं
क्षीराज्यभोजनम् । ततोऽभ्यासे स्थिरीभूते न तावन्नियमग्रहः ॥ २२ ॥
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा
इन्ति साधकम् ॥ २३ ॥ युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं
युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ २४ ॥ यथेष्टधारणाद्वायोरनलस्य
प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २५ ॥ विधिव-
प्राणसंयामैर्नाडीचक्रे किशोधिते । सुषुम्नावदनं भित्वा सुखाद्विशति मारुतः
॥ २६ ॥ मारुते मध्य संचारे मनः स्थैर्यं प्रजायते । यो मनःसुस्थिरो भावः
सैवावस्था मनोन्मनी ॥ २७ ॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः ॥ २८ ॥ अधस्तात्कुञ्चनेनाशु
कण्ठसंकोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ २९ ॥
अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयन् । योगी जर विनिर्मुक्तः षोडशो
वयसा भवेत् ॥ ३० ॥ सुखासनस्थो दक्षनाड्या बहिःस्थं पवनं समाकृष्या-
केशमानखामं कुम्भयित्वा सव्यनाड्या रेचयेत् । तेन कपालशोधनं
वातनाडी गतसर्वरोगसर्वविनाशनं भवति । हृदयादिकण्ठपर्यन्तं सस्वनं
नासाभ्यां शनैः पवनमाकृष्य यथाशक्ति कुम्भयित्वा इडया विरेच्य गच्छं स्ति-
ठन्कुर्यात् । तेन श्लेष्महरं जठराग्निवर्धनं भवति । वक्रेग सीत्कारपूर्वकं वायुं
गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेचयेत् । तेन क्षुत्तृष्णालस्य निद्रा
न जायते । जिह्वया वायुं गृहीत्वा यथाशक्ति कुम्भयित्वा नासाभ्यां रेच-
येत् । तेन गुल्मलीहज्वरपित्तक्षुधादीनि नश्यन्ति ॥ अथ कुम्भकः । स
द्विविधः सहितः केवलश्चेति । रेचकपूरकयुक्तः सहितः । तद्विवर्जितः केवलः ।
केवलसिद्धिपर्यन्तं सहितमभ्यसेत् । केवलकुम्भके सिद्धे त्रिषु लोकेषु न
तस्य दुर्लभं भवति । केवलकुम्भकारकुण्डलिनी बोधों जायते । ततः कृशवपुः
प्रसन्नवदनो निर्मललोचनोऽभिव्यक्तनादो निर्मुक्तरोगजालो जितबिन्दुः पद्मि-
भवति । अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता । एषा सा वैष्णवी मुद्रा
सर्वतन्त्रेषु गोपिता ॥ ३१ ॥ अन्तर्लक्ष्य विलीनचित्तपवनो योगी सदा वर्तते</p>
<pb n="430" />
<p>अध्या० १ ]
शाण्डिल्योपनिषत् ॥ ६१ ॥
1894
इष्ट्या निश्चलतास्या बहिरत्रः पश्यन्नपश्यन्नपि । मुद्रेयं खलु खेचरी भवति.
सा लक्ष्यैकताना शिवा शून्याशून्यविवर्जितं स्फुरति सा तवं पदं वैष्णवी
॥ ३२ ॥ अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदुत्तेक्षणश्चन्द्रार्कावपि लीन-
वामुपनयन्निष्पन्दभावोत्तरम् । ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं परं
तत्वं तत्परमस्ति वस्तुविषयं शाण्डिल्य विद्धीह तत् ॥ ३३ ॥ तारं ज्योतिषि
संयोज्य किंचिदुन्नमयन्भुवौ । पूर्वाभ्यासस्य मार्गोऽयमुन्मनी कारकः क्षणात्
॥ ३४ ॥ तस्मात्खेचरी मुद्रांमभ्यसेत् । तत उन्मनी भवति । ततो योग-
निद्रा भवति । लब्धयोगनिद्रस्य योगिनः कालो नास्ति । शक्तिमध्ये मनः
कृत्वा शक्तिं मानसमध्यगाम् । मनसा मन आलोक्य शाण्डिल्य त्वं सुखी
भव ॥ ३५ ॥ खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । सर्वं च खमयं
कृत्वा न किंचिदपि चिन्तय ॥ ३६ ॥ बाह्यचिन्ता न कर्तव्या तथैवान्तर-
चिन्तिका । सर्वचिन्तां परित्यज्य चिन्मात्रपरमो भव ॥ ३७ ॥ कर्पूरमनले
यद्दत्सैन्धवं सलिले यथा । तथा च लीयमानं सन्मनस्तत्त्वे विलीयते ॥ ३८॥
ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था
द्वितीयकः ॥ ३९ ॥ ज्ञेयवस्तुपरित्यागाद्विलयं याति मानसम् । मानसे
त्रिलयं याते कैवल्यमवशिष्यते ॥ ४० ॥ द्वौ क्रमैौ चित्तनाशस्य योगो ज्ञानं
मुनीश्वर । योगस्तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ ४१ ॥ तस्मिन्निरोधिते
नूनमुपशान्तं मनो भवेत् । मनःस्पन्दोपशान्त्याऽयं संसारः प्रविलीयते ॥ ४२ ॥
सूर्या लोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा । शास्त्रसज्जनसंपर्क वैराग्याभ्यास-
योगतः ॥ ४३ ॥ अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु । यथाभिवान्छित-
ध्यानाच्चिर मेकतयोहितात् ॥ ४४ ॥ एकतत्वद्दढाभ्यासात्प्राणस्पन्दो निरुध्यते ।
• पूरकाद्यनिलायामाद्दृढाभ्यासादखेदजात् ॥ ४५॥ एकान्तध्यानयोगाच्च मनःस्प-
न्दो निरुध्यते । भोकारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् । सुषुप्ते संविदा ज्ञाते
प्राणस्पन्दो निरुध्यते ॥ ४६ ॥ तालुमूलगतां यत्ताजिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्र गते प्राणे प्राणस्पन्दो निरुध्यते ॥ ४७ ॥ प्राणे गलितसंवित्तौ तालु
द्वादशान्तगे । अभ्यासादूर्ध्वरन्ध्रेण प्राणस्पन्दो निरुध्यते ॥ ४८ ॥ द्वादशा-
जुलपर्यन्ते नासाग्रे विमलेऽम्बरे । संविदृशि प्रशाम्यन्त्यां प्राणस्पन्दो
निरुध्यते ॥ ४९ ॥ भ्रूमध्ये तारकालोकशान्तावन्तमुपागते । चेतनैकतने बड़े
१ संकल्पे मानसे.</p>
<pb n="431" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० 3
प्राणस्पन्दो निरुध्यते ॥ ५० ॥ भमित्येव यदुद्भूतं ज्ञानं ज्ञेयात्मकं शिवम् ।
असंस्पृष्टचिकल्पांशं प्राणस्पन्दो निरुध्यते ॥ ५१ ॥ चिरकालं हृदेकान्तव्योम
संवेदना मुने । अवासनमनोध्यानात्प्राणस्पन्दो निरुध्यते ॥ ५२ ॥ एभिः
क्रमैस्तथाऽन्यैश्च नानासंकल्पकल्पितैः । नानादेशिकेवक्रस्यैः प्राणस्पन्दो निर
ध्यते ॥ ५३ ॥ आकुञ्चनेन कुण्डलिन्याः कवाटमुद्धाव्य मोक्षद्वारं विभेदयेत् ।
येन मार्गेण गन्तव्यं तद्दारं मुखेनाच्छाद्य प्रसुप्ता कुण्डलिनी कुटिलाकास
सर्पवद्वेष्टिता भवति । सा शक्तिर्येन चालिता स्यात्स तु मुक्तो भवति । सा
कुण्डलिनी कण्ठेोर्ध्वभागे सुप्ता चेद्योगिनां मुक्तये भवति । बन्धनायाधो
मूढानाम् । इडादिमार्गद्वयं विहाय सुषुम्नामार्गेणागच्छेत्तद्विष्णोः परमं
पदम् । महदुभ्यसनं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्ति-
र्मनीषिणा ॥ ५४ ॥ दिवा न पूजयेद्विष्णुं रात्रौ नैव प्रपूजयेत् । सततं पूजयेद्विष्णुं
दिवारात्रं न पूजयेत् ॥ ५५॥ सुषिरो ज्ञानजनकः पञ्चस्रोतःसमन्वितः । तिष्ठते
खेचरी मुद्रा त्वं हि शाण्डिल्य तां भज ॥ ५६ ॥ सव्यदक्षिणनाडीस्थो मध्ये चरति
मारुतः । तिष्ठतः खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥ ५७ ॥ इडापिङ्गल,
योर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठन्ती खेचरी मुद्रा तत्र सत्यं प्रतिष्ठितम्
॥ ५८ ॥ सोमसूर्यद्वयोर्मध्ये निरालम्बतले पुनः । संस्थिता व्योमचक्रे सा
मुद्रा नाना च खेचरी ॥ ५९ ॥ छेदनचालनदा है: फलां परां जिह्वां कृत्वा
इष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे जिह्वा विपरीतगा यदा भवति तदा
खेचरी मुद्रा जायते । जिह्वा चित्तं च खे चरति तेनोर्ध्वजिह्वः पुमानमृतो
भवति । वामपादमूलेन योनिं संपीड्य दक्षिणपादं प्रसार्य तं कराभ्यां
धृत्वा नासाभ्यां वायुमापूर्य कण्ठबन्धं समारोप्योर्णतो (?) वायुं धारयेत् ।
तेन सर्वक्लेशहानिः । ततः पीयूषमिव विषं जीर्यते । क्षयगुल्मगुदावर्त जीर्णत्व
गादिदोषा नश्यन्ति । एष प्राणजयोपायः सर्वमृत्यूपघातकः । वामपादपायि
योनिस्थाने नियोज्य दक्षिणचरणं वामोरूपरि संस्थाप्य वायुमापूर्य हृदये चुबुकं
निधाय योनिमा कुक्ष्य मनोमध्ये यथाशक्ति धारयित्वा स्वात्मानं भावयेत् ।
तेनापरोक्षसिद्धिः । बाह्यात्प्राणं समाकृष्य पूरयित्वोदरे स्थितम् । नाभिमध्ये
च नासाग्रे पादाङ्गुष्ठे च यत्नतः ॥ ६० ॥ धारयेन्मनसा प्राणं सन्ध्याकालेषु
वा सदा । सर्वरोगविनिर्मुक्तो भवेद्योगी गतक्लमः ॥ ६१ ॥ नासाग्रे वायुकि-
१ देशिकसूतैश्च.</p>
<pb n="432" />
<p>शाण्डिल्योपनिषत् ॥ ६१ ॥</p>
<p>संध्या ० १ ]
जयं भवति । नाभिमध्ये सर्वरोगविनाशः । पादाङ्गुष्ठधारणाच्छरीरलघुता
भवति । रसनाद्वायुमाकृष्य यः पिबेत्सततं नरः । श्रमदाहौ तु न स्यातां
नश्यन्ति व्याधयस्तथा ॥ ६२ ॥ सन्ध्ययोर्ब्राह्मणः काले वायुमाकृष्य यः
पिबेत् । त्रिमासात्तस्य कल्याणी जायते वाकू सरस्वती ॥ ६३ ॥ एवं षण्मासा-
भ्यासात्सर्वरोगनिवृत्तिः । जिह्वया वायुमानीय जिह्वामूले निरोधयेत् । यः
पिबेदमृतं विद्वान्सकलं भद्रमनुते ॥ ६४ ॥ आत्मन्यात्मानमिडया धारयित्वा
भ्रुवोरन्तरे विभेद्य त्रिदशाहारं व्याधिस्थोऽपि विमुच्यते ॥ ६५ ॥ नाडीभ्यां
वायुमारोप्य नाभौ तुन्दस्य पार्श्वयोः । घटिकैकां वहेद्यस्तु व्याधिभिः स
विमुच्यते ॥ ६६ ॥ मासमेकं त्रिसन्ध्यं तु जिह्वयारोप्य मारुतम् । विभेद्य
त्रिदशाहारं धारयेत्तुन्दमध्यमे ॥ ६७ ॥ ज्वराः सर्वेऽपि नश्यन्ति विषाणि
विविधानि च । मुहूर्तमपि यो नित्यं नासाग्रे मनसा सह ॥ ६८ ॥ सर्व
तरति पाप्मानं तस्य जन्मशतार्जितम् । तारसंयमारसकलविषयज्ञानं भवति ।
नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् । तदवश्चित्तसंयमादग्नि लोकज्ञानम् ।
चक्षुषि चित्तसंयमात्सर्वलोकज्ञानम् । श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् ।
तत्पार्श्वे संयमान्निर्ऋतिलोकज्ञानम् । पृष्ठभागे संयमाद्वरुणलोकज्ञानम् ।
बामकर्णे संयमाद्वायुलोकज्ञानम् । कण्ठे संयमात्सोमलोकज्ञानम् । वाम-
चक्षुषि संयमाच्छित्रलोकज्ञानम् । मूर्ध्नि संयमाद्ब्रह्मलोकज्ञानम् । पादाधोभागे
संयमादतललोकज्ञानम् । पादे संयमाद्वितललोकज्ञानम् । पादसन्धौ संय-
मान्नितल लोकज्ञानम् । जङ्के संयमात्सुतल लोकज्ञानम् । जानौ संयमान्महा-
तललोकज्ञानम् । ऊरौ चित्तसंयमाद्रसातल लोकज्ञानम् । कटौ चित्तसंयमा-
तलातललोकज्ञानम् । नाभौ चित्तसंयमाद्भूलोकज्ञानम् । कुक्षौ संयमाद्भुवः-
लोकज्ञानम् । हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् । हृदयोर्ध्व भागे चित्तसं-
यमान्महर्लोकज्ञानम् । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् । भ्रूमध्ये चित्त-
संयमात्तत्तपोलोकज्ञानम् । मूर्ध्नि चित्तसंयमात्सत्यलोकज्ञानम् । धर्माधर्म-
संयमादतीतानागतज्ञानम् । तत्तज्जन्तुध्वनौ चित्तसंयमात्सर्वजन्तुरुतज्ञानम् ।
संचितकर्मणि चित्तसंयमात्पूर्वजातिज्ञानम् । परचिते चित्तसंयमात्परचित्त-
ज्ञानम् । कायरूपे चित्तसंयमादन्यादृश्यरूपम् । बले चित्तसंयमाद्वनुमदादि-
बलम् । सूर्ये चित्तसंयमाद्भुवनज्ञानम् । चन्द्रे चित्तसंयमात्ताराव्यूहज्ञानम् ।
१ दन्यादृशं रूपम् ।
अ. उ. २७</p>
<pb n="433" />
<p>ईशाहूप निष-
[ अध्या० २
ध्रुवे तद्गतिदर्शनम् । स्वार्थसंयमात्पुरुषज्ञानम् । नाभिचक्रे कायव्यूहज्ञानम् ।
कंण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाड्यां स्थैर्यम् । तारे सिद्धदर्शनम् ।
कायाकाशसंयमादाकाशगमनम्। तत्तत्स्थाने संयमात्तत्तत्सिद्धयो भवन्ति ॥७॥
अथ प्रत्याहारः । स पञ्चविधः विषयेषु विचरतामिन्द्रियाणां बलादाहरणं
प्रत्याहारः । यद्यत्पश्यति तत्सर्वमात्मेति प्रत्याहारः । नित्यविहितकर्म फल
त्यागः प्रत्याहारः । सर्व विषयपराङ्मुखत्वं प्रत्याहारः । अष्टादशसु मर्मस्थानेषु
क्रमाद्वारणं प्रत्याहारः । पादाङ्गुष्ठगुल्फजङ्घाजानूरुपायु मेढ्नाभिहृदयकण्ठ-
कूपतालुनासाक्षिभ्रूमध्यललाटमूर्ध्ना स्थानानि । तेषु क्रमादारोहावरोद्दक्रमेण
प्रत्याहरेत् ॥ ६९ ॥ अथ धारणा । सा त्रिविधा - आत्मनि मनोधारणं,
दहराकाशे बाह्याकाशधारणं, पृथिव्यप्तेजोवाय्वाकाशेषु पञ्चमूर्तिधारणं चेति
॥ ७० ॥ अथ ध्यानम् । तद्विविधं सगुणं निर्गुणं चेति । सगुणं मूर्तिध्यानम् ।
निर्गुणमात्मयाथात्म्यम् ॥ ७१ ॥ अथ समाधिः । जीवात्मपरमात्मैक्यावस्था
त्रिपुटीरहिता परमानन्दस्वरूपा शुद्धचैतन्यात्मिका भवति ॥ ७२ ॥
इति शाण्डिल्योपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
अथ शाण्डिल्यो ह वै ब्रह्मर्षिश्चतुर्षु वेदेषु ब्रह्मविद्यामलभमानः किं
नामेत्यथर्वाणं भगवन्तमुपसन्नः पप्रच्छाधीहि भगवन् ब्रह्मविद्यां येन श्रेयो-
sarvस्यामीति । स होवाचाऽथर्वा शाण्डिल्य सत्यं विज्ञानमनन्तं ब्रह्म यस्मि -
निदमोतं च प्रोतं च । यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्विज्ञाते सर्वमिदं
विज्ञातं भवति । तदपाणिपादम चक्षुः श्रोत्रमजिह्वमशरीरमग्राह्यमनिर्देश्यम् ।
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । यत्केवलं ज्ञानगम्यम् । प्रज्ञा
च यस्मात्प्रसृता पुराणी । यदेकमद्वितीयम् । आकाशवत्सर्वगतं सुसूक्ष्मं
निरञ्जनं निष्क्रियं सन्मात्रं चिदानन्दैकरसं शिवं प्रशान्तममृतं तत्परं च
ब्रह्म । वस्वमसि । तज्ज्ञानेन हिं विजानीहि । य एको देव आत्मशक्तिप्रधानः
सर्वज्ञः सर्वेश्वरः सर्वभूतान्तरात्मा सर्वभूताधिवासः सर्वभूतनिगूढो भूत-
योनियोगकगम्यः । यश्च विश्वं सृजति विश्वं बिभर्ति विश्वं भुङ्क्ते स आत्मा ।
आत्मनि तं तं लोकं विजानीहि । मा शोचीरात्मविज्ञानी शोकस्यान्तं
ममिष्यति ॥
इति शाण्डिल्योपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥</p>
<pb n="434" />
<p>अध्या० ३]
शाण्डिल्योपनिष ॥ ६१ ॥</p>
<p>अथैनं शाण्डिल्योsथर्वाणं पप्रच्छ यदेकमक्षरं निष्क्रियं शिवं सन्मान
परंब्रह्म । तस्मात्कथमिदं विश्वं जायते कथं स्थीयते कथमस्मिँलीयते । तम्मे
संशयं छेत्तुमर्हसीति । स होवाचाथर्वा सत्यं शाण्डिल्य परंब्रह्म निष्क्रियमक्ष-
रमिति । अथाप्यस्यारूपस्य ब्रह्मणस्त्रीणि रूपाणि भवन्ति-सकलं निष्कलं सक-
लनिष्कलं चेति। (?) यत्सत्यं विज्ञानमानन्दं निष्क्रियं निरञ्जनं सर्वगतं सुसूक्ष्मं
सर्वतोमुखमनिर्देश्यममृतमस्ति तदिदं निष्कलं रूपम् । अथास्य या सहजा-
स्त्यविद्या मूलप्रकृतिर्माया लोहितशुक्लकृष्णा । तया संहायवान् देवः कृष्ण-
पिङ्गलो ममेश्वर ईष्टे । तदिदमस्य सकलनिष्कलं रूपम् ॥ अथैष ज्ञानमयेन
तपसा चीयमानोऽकामयत बहु स्याँ प्रजायेयेति । अथैतस्मात्तप्यमानात्सत्य-
कामाचीण्यक्ष राण्यजायन्त । तिस्रो व्याहृतयस्त्रिपदा गायत्री त्रयो वेदास्त्रयो
देवास्त्रयो वर्णाखयोऽग्नयश्च जायन्ते । योऽसौ देवो भगवान्सर्वैश्वर्य संपन्नः
सर्वव्यापी सर्वभूतानां हृदये संनिविष्टो मायावी मायया क्रीडति स ब्रह्मा
स विष्णुः स रुद्रः स इन्द्रः स सर्वे देवाः सर्वाणि भूतानि स एव पुरस्तात्स
एव पश्चात्स एवोत्तरतः स एव दक्षिणतः स एवाधस्तात्स एवोपरिष्टात्स एव
सर्वम् । अथास्य देवस्यात्मशक्तेरात्मक्रीडस्य भक्तानुकम्पिनो दत्तात्रेयरूपा
सुरूपा तनूरवासा इन्दीवरदलप्रख्या चतुर्बाहुरघोरापापकाशिनी । तदिदमस्य
सकलं रूपम् ॥ १ ॥ अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ भगवन्सन्मानं
चिदानन्दैकरसं कस्मादुच्यते परंब्रह्मेति । स होवाचाथर्वा यस्माच्च बृहति
बृंहयति च सर्वं तस्मादुच्यते परंब्रह्मेति । अथ कस्मादुच्यते आत्मेति ।
यस्मात्सर्वमाप्नोति सर्वमादत्ते सर्वमत्ति च तस्मादुच्यते आत्मेति । अथ
कस्मादुच्यते महेश्वर इति । यस्मान्महत ईशः शब्दध्वन्या चात्मशक्त्या च
महत ईशते तस्मादुच्यते महेश्वर इति । अथ कस्मादुच्यते दत्तात्रेय इति ।
यस्मात्सुदुश्वरं तपस्तप्यमानायान्त्रये पुत्रकामायातितरां तुष्टेन भगवता
ज्योतिर्मयेनात्मैव दत्तो यस्माच्चानसूयायामन्त्रेस्तनयोऽभवत्तस्मादुच्यते दत्ता-
त्रेय इति । अथ योऽस्य निरुक्तानि वेद स सर्व वेद । अथ यो ह वै
विद्ययैनं परमुपास्ते सोऽहमिति स ब्रह्मविद्भवति ॥ अत्रैते लोका भवन्ति-
दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् । आत्ममायारतं देवमवधूतं
दिगम्बरम् ॥ १ ॥ भस्मोद्धूलितसर्वाङ्ग जटाजूटधरं विभुम् । चतुर्बाहुमुदा-
१ सहजया. २ मायाकृति ३ बृहती ब्रह्मयती.
४ सर्वमिति च.
-</p>
<pb n="435" />
<p>ईशाद्युपनिषत्सु -
। अध्या० १
राङ्गं प्रफुल्लकमलेक्षणम् ॥ २ ॥ ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।
भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ ३ ॥ एवं यः सततं ध्यायेद्देव-
देवं सनातनम् । स मुक्तः सर्पपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ ४ ॥ इत्यों
सत्यमित्युपनिषत् ॥
इति शाण्डिल्योपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति शाण्डिल्योपनिषत्समाप्ता ॥ ६१ ॥</p>
<lg>
  <l>पैङ्गलोपनिषत् ॥ ६२ ॥</l>
  <l>पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।</l>
  <l>परितः कलये रामं परमाक्षरवैभवम् ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>अथ ह पैङ्गलो याज्ञवल्क्यमुपसमेत्य द्वादशवर्षशुश्रूषापूर्वकं परमरहस्य-
कैवल्यमनुब्रूहीति पप्रच्छ । स होवाच याज्ञवल्क्यः सदेव सोम्येदमग्र आ-
सीत् । तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्ण सनातनमेकमेवाद्वितीयं
ब्रह्म । तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्य पुरुषरेखादिवल्लोहित-
शुक्लकृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं
यत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य सच्चोद्विक्ताऽव्यक्ताख्यावरण-
शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायः
सर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति स्वस्मिन्विलीनं
सकलं जगदाविर्भावयति । प्राणिकर्मवशादेप पटो यद्वत्प्रसारितः प्राणि-
कर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं संकोचितपटवद्वर्तते ।
ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्र-
तिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी स्पष्टास्पष्ट-
वपुर्भवति । हिरण्यगर्भाधिष्ठित विक्षेपशक्तितस्तमोद्विक्ताहंकाराभिधा स्थूल-
शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तद्विराट् चैतन्यमासीत् । स तदभिमानी स्पष्ट-
वपुः सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति । तस्मादात्मन आकाशः
संभूतः । आकाशाद्वायुः । वायोरभिः । अमेरापः । अद्भ्यः पृथिवी । वनि</p>
<pb n="436" />
<p>अध्या० २]
पैङ्गलोपनिषत् ॥ ६२ ॥ .</p>
<p>पञ्च तन्मात्राणि त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय
सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत । सृष्टेः परिमितानि
भूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा
संयोज्य पञ्चीकृत भूतैरनन्तकोटि ब्रह्माण्डानि तत्तदण्डो चितचतुर्दशभुवनानि
तत्तद्भुवनोचितगोलकस्थूलशरीराण्यसृजत् । स पञ्चभूतानां रजोंशांश्चतुर्धा
कृत्वा भागत्रयात्पञ्चावृत्यात्मकं प्राणमसृजत् । स तेषां तुर्यभागेन कर्मेन्द्रि-
याण्यसृजत् । स तेषां सत्वांशं चतुर्धा कृत्वा भागत्रयसमष्टितः पञ्चक्रिया-
वृत्यात्मकमन्तःकरणमसृजत् । स तेषां सच्चतुरीयभागेन ज्ञानेन्द्रियाण्य-
सृजत् । सत्वसमष्टित इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षि-
पत् । तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् । तदाज्ञयाऽहंकारसमन्वितो
विराट् स्थूलान्यरक्षत् । हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्ड-
स्थानि तानि तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि चेतनीकर्तुं
सोऽकामयत ब्रह्माण्ड ब्रह्मरन्ध्राणि समस्तव्यष्टिमस्तकान्विदार्य तदेवानु-
प्राविशत् । तदा जडान्यपि तानि चेतनवरस्वकर्माणि चक्रिरे । सर्वज्ञेशो
मायाले समन्वितो व्यष्टिदेहं प्रविश्य तथा मोहितो जीवत्वमगमत् । शरीर-
त्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् । जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो
घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन परिभ्रमतीति ॥ १ ॥
इति पैङ्गलोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां सृष्टिस्थित्यन्तकृद्विभुरीशः
कथं जीवत्वमगमदिति । स होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भव-
पूर्वकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनैकाप्रतया श्रूयताम् ।
ईशः पञ्चीकृतमहाभूतलेशानादाय व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रम-
मकरोत् । कपालचर्मात्रास्थिमांसनखानि पृथिव्यंशाः । रक्तमूत्रलालास्वेदादि •
कमबंशाः । क्षुत्तृष्णोष्णमोहमैथुनाद्या अभ्यंशाः । प्रचारणोत्तारणाश्वासादिका
वाय्वंशाः । कामक्रोधादयो व्योमांशाः । एतत्संघातं कर्मणि संचित
त्वगादियुक्तं बाल्याद्यवस्थाभिमानास्पदं बहुदोषाश्रयं स्थूलशरीरं भवति ॥
अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः प्राणमसृजत् । प्राणापानव्यानो-
दानसमानाः प्राणवृत्तयः । नागकूर्मककरदेवदत्तधनंजया उपप्राणाः । हृदास-
ननाभिकण्ठसर्वाङ्गानि स्थानानि । आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रिय-</p>
<pb n="437" />
<p>॥
ईशाद्युपनिषत्सु -
[ अध्या० २
मसृजत् । वाक्पाणिपादपायूपस्थास्तद्वृत्तयः । वचनादानगमनविसर्गानन्दास्त-
द्विषयाः ॥ एवं भूतसवांशभागत्रय समष्टितोऽन्तःकरणमसृजत् । अन्तःकरण-
मनोबुद्धिचित्ताहंकारास्तद्वृत्तयः । संकल्पनिश्चयस्मरणाभिमानानुसंधानास्तद्वि-
षयाः। गलवदननाभिहृदयभ्रूमध्यं स्थानम् । भूतसत्त्वतुरीयभागेन ज्ञानेन्द्रि
यमसृजत् । श्रोत्रत्वक्चक्षुर्जिह्वा घ्राणास्तद्वृत्तयः । शब्दस्पर्शरूपरसगन्धास्तवि
षयाः । दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो विष्णुश्चतुर्वक्रः
अथान्नमयप्राणमय मनोमयविज्ञानमयानन्दमयाः
शंभुश्च करणाधिपाः
पञ्च कोशाः । अन्नरसेनैव भूत्वाऽन्नरसेनाभिवृद्धिं प्राप्यान्नरसमयपृथिव्यां
यद्विलीयते सोऽन्नमयकोशः । तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादि-
पञ्चकं प्राणमयकोशः । ज्ञानेन्द्रियैः सह मनो मनोमयकोशः । ज्ञानेन्द्रियैः
सह बुद्धिर्विज्ञानमयकोशः । एतस्कोशत्रयं लिङ्गशरीरम् । स्वरूपाज्ञानमानन्द-
मयकोशः । तत्कारणशरीरम् । अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणादि-
पञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं कामकर्मतमांस्यष्टपुरम् ॥ ईशाज्ञया
विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्वत्वमगमत् । विज्ञानात्मा चिदा-
भासो विश्वो व्यावहारिको जाग्रत्स्थूल देहाभिमानी कर्मभूरिति च विश्वस्य
नाम भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं प्रविश्य मन अधिष्ठाय
तैजसत्वमगमत् । तैजसः प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम
भवति । ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं प्रविश्य
प्राज्ञत्वमगमत् । प्राज्ञोऽविच्छिन्नः पारमार्थिकः सुषुत्यभिमानीति प्राज्ञस्य
नाम भवति । अव्यक्तलेश ज्ञानाच्छादितपारमार्थिकजीवस्य तत्त्वमस्यादिवा-
क्यानि ब्रह्मणैकतां जगुर्नेतरयोर्व्यावहारिकप्रातिभासिकयोः । अन्तःकरणप्रति-
बिम्बितचैतन्यं यत्तदेवावस्थात्रय भाग्भवति । स जाग्रत्स्वप्न सुपुष्ठयवस्थाः प्राप्य
घटीयवदुद्विनो जातो मृत इव स्थितो भवति । अथ जाग्रत्स्वप्न सुषुप्ति-
मूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति ॥ तत्तद्देवताग्रहान्वितैः श्रोत्रादि-
ज्ञानेन्द्रियैः शब्दाद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति । तत्र भ्रूमध्यं गतो
जीव आपादमस्तकं व्याप्य कृषिश्रवणाद्यखिल क्रियाकर्ता भवति । तत्तत्फलभुक्
च भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स सार्वभौमवद्व्य-
वहाराच्छ्रान्तोऽन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य तिष्ठति । करणोपरमे जाग्रत्सं-
स्कारोत्थप्रबोधवडामा हकरूपस्फुरणं स्वप्नावस्था भवति । तत्र विश्व एव</p>
<pb n="438" />
<p>अध्या० ३]
पैङ्गलोपनिषत् ॥ ६२ ॥</p>
<note>४.२३</note>
<p>जाग्रव्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य वासनारूपकं जगद्वैचित्र्यं
स्वभासा भासयन्यथेप्सितं स्वयं भुङ्क्ते ॥ चित्तैककरणा सुषुझ्यवस्था भवति ।
भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा गच्छति तथा जीवोऽपि
जाग्रत्स्वप्रप्रपञ्चे व्यवहृत्य श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥ अकस्मान्मु-
गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसंघातैः कम्पन्निव मृततुल्या
मूर्च्छा भवति । जाग्रत्स्वप्नसुषुप्तिमूच्छ वस्थानामन्याऽऽब्रह्मादि स्तम्बपर्यन्तं
सर्वजीवभयप्रदा स्थूलदेहविसर्जनी मरणावस्था भवति । कर्मेन्द्रियाणि
ज्ञानेन्द्रियाणि तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित अविद्याभूतवेष्टितो
जीवो देहान्तरं प्राप्य लोकान्तरं गच्छति । प्राक्कर्मफलपाकेनावन्तरकीट
वद्विश्रान्ति नैव गच्छति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणां
मोक्षेच्छा जायते । तदा सद्गुरुमाश्रित्य चिरकालसेवया बन्धं मोक्षं
कश्चित्प्रयाति । अविचारकृतो बन्धो विचारान्मोक्षो भवति । तस्मात्सदा
विचारयेत् । अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते । तस्मात्सदा
विचारयेज्जगज्जी व परमात्मनो जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवाव-
शिष्यत इति ॥ १ ॥
इति पैङ्गलोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
अथ हैनं पैङ्गलः पप्रच्छ याज्ञवल्क्यं महावाक्य विवरणमनुब्रूहीति ।
स होवाच याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं ब्रह्मास्मीत्यनुसंधानं
कुर्यात् । तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्द-
लक्षणी जगद्योनिस्तत्पदवाच्यो भवति । स एवान्तःकरणसंभिन्नबोधोऽस्म-
स्प्रत्ययावलम्बनस्त्वं पदवाच्यो भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वं-
पदलक्ष्यं प्रत्यगभिन्नं ब्रह्म । तत्वमसीत्यहं ब्रह्मास्मीति वाक्यार्थविचारः श्रवणं.
भवति । एकान्तेन श्रवणार्थानुसंधानं मननं भवति । श्रवणमनन निर्विचि -
किस्स्येऽर्थे वस्तुन्येकतानवत्तया चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने
विहाय निवातस्थितदीपवच्येयैकगोचरं चित्तं समाधिर्भवति । तदानीमात्म-
गोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति । ताः स्मरणादनुमीयन्ते ।
इहानादिसंसारे संचिताः कर्मकोटयोऽनेनैव विलयं यान्ति । ततोऽभ्यासपाट-
वात्सहस्रशः सदाऽमृतधारा वर्षन्ति । ततो योगवित्तमाः समाधिं धर्ममेवं
प्राहुः । वासनाजाले निःशेषममुना प्रविलापिते कर्मसंचये पुण्यपापे समूलो-</p>
<pb n="439" />
<p>ईसटुपतिधातु-
। अध्या० ४
म्मूलिते प्राक्परोक्षमपि करतलाम लकवद्वाक्यमप्रतिबद्धापरोक्ष साक्षात्कारं
प्रसूयते । तदा जीवन्मुक्तो भवति ॥ ईशः पञ्चीकृत भूतानामपञ्चीकरणं कर्तुं
सोऽकामयत । ब्रह्माण्डतद्गत लोकान्कार्यरूपांश्च कारणत्वं प्रापयित्वा ततः
सूक्ष्माङ्ग कर्मेन्द्रियाणि प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं चैकीकृत्य
सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य भूमिं जले जलं वह्नौ वह्नि
वायो वायुमाकाशे चाकाशमहंकारे चाहंकारं महति महदव्यक्तेऽव्यक्तं पुरुष
क्रमेण चिलीयते । विराद्दिरण्यगर्भेश्वरा उपाधिचिलयात्परमात्मनि लीयन्ते ।
पञ्चीकृतमहाभूतसंभवकर्मसंचितस्थूलदेहः कर्मक्षयात्सकर्म परिपाकतोऽप-
चीकरणं प्राप्य सूक्ष्मेणैकी भूत्वा कारणरूपत्वमासाद्य तत्कारणं कूटस्थे
प्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः स्वस्वोपाधिलयात्प्रत्यगात्मनि
लीयन्ते । अण्डं ज्ञानाग्निना दग्धं कारणैः सह परमात्मनि लीनं भवति ।
ततो ब्राह्मणः समाहितो भूत्वा तत्वंपदैक्यमेव सदा कुर्यात् । ततो
मेघापायेंऽशुमानिवारमाssविर्भवति । ध्यात्वा मध्यस्थमात्मानं कलशान्तर-
दीपवत् । अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥ १ ॥ प्रकाशयन्तमन्तःस्थं
ध्यायेत्कूटस्थमव्ययम् । ध्यायन्नास्ते मुनिश्चैव चासुतेरामृतेस्तु यः ॥ २ ॥
जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् । जीवन्मुक्तपदं त्यक्त्वा
स्वदेहे कालसाकृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३ ॥
अशब्दमस्पर्शम रूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं</p>
<lg>
  <l>महतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् ॥ ४ ॥ इति ।</l>
  <l>इति पैङ्गलोपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥</l>
</lg>
<p>अथ हैनं पैङ्गलः पप्रच्छ याज्ञवल्क्यं ज्ञानिनः किं कर्म का च स्थिति-
रिति । स होवाच याज्ञवल्क्यः । अमानित्वादिसंपन्नो मुमुक्षुरेकविंशति कुलं
वारयति । ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति । भात्मानं रथिनं विद्धि
शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ १ ॥ इन्द्रि-
याणि यानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि विमानानि हृदयानि मनी -
षिणः ॥ २ ॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणः
साक्षाद्धृदये सुप्रतिष्ठितः ॥ ३ ॥ प्रारब्धकर्मपर्यन्तमहि निर्मोकवद्भ्यवहरति ।
चन्द्रवचरते देही स मुक्तश्वानिकेतनः ॥ ४ ॥ तीर्थे श्वपचगृहे वा तनुं
विहाय याति कैवल्यम् । प्राणानवकीर्य याति कैवल्यम् ॥ तं पश्चाद्दिग्बलिं</p>
<pb n="440" />
<p>अध्या० ४ ]
पैङ्गलोपनिषत् ॥ ६५ ॥
1</p>
<p>कुर्यादथवा खननं चरेत् । पुंसः प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥ ५ ॥
नाशौचं नानकार्यं च न पिण्डं नोदकक्रिया । न कुर्यात्पार्वणादीनि ब्रह्मभू-
ताय भिक्षवे ॥ ६ ॥ दग्धस्य दहनं नास्ति पक्कस्य पचनं यथा । ज्ञानाग्नि-
दग्धदेहस्य न च श्राद्धं न च क्रिया ॥ ७ ॥ यावश्चोपाधिपर्यन्तं तावच्छु-
श्रूषयेद्गुरुम् । गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥ ८ ॥ शुद्धमानसः
शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः सोऽहमस्मीति प्राप्ते ज्ञानेन
विज्ञाने ज्ञेये परमात्मनि हृदि संस्थिते देहे लब्धशान्तिपदं गते तदा प्रभा-
मनोबुद्धिशून्यं भवति । अमृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं स्वात्मानं
ज्ञात्वा वेदैः प्रयोजनं किं भवति । ज्ञानामृततृप्तयोगिनो न किंचित्कर्तव्य-
मस्ति तदस्ति चेन्न स तत्त्वविद्भवति । दूरस्थोऽपि न दूरस्थः पिण्डवर्जितः
पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति । हृदयं निर्मलं कृत्वा चिन्तयित्वा -
प्यनामयम् । अहमेव परं सर्वमिति पश्येत्परं सुखम् ॥ ९ ॥ यथा जले
जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः
॥ १० ॥ देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति तदा
विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् । ततः पवित्रं परमेश्वराख्यमद्वैतरूपं
विमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः
॥ ११ ॥ आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स
बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥ १२ ॥ यत्र यत्र
मृत ज्ञानी येन वा केन मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः
॥ १३ ॥ घटाकाशमिवात्मानं विलयं वेत्ति तत्वतः । स गच्छति निरालम्बं
ज्ञानालोकं समन्ततः ॥ १४ ॥ तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्य
ध्यानयोगस्य कलां नार्हति षोडशीम् ॥ १५ ॥ इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातु-
मिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ १६ ॥ विज्ञेयोs -
क्षरतन्मात्र जीवितं वापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदु-
पास्यताम् ॥ १७ ॥ अनन्तकर्मशौचं च जपो यज्ञस्तथैव च । तीर्थयात्राभि-
गमनं यावत्तत्त्वं न विन्दति ॥ १८ ॥ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्म
नाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ १९ ॥ ममेति बध्यते जन्तु
निर्ममेति विमुच्यते । मनसो द्युन्मनीभावे द्वैतं नैवोपलभ्यते ॥ २० ॥ यदा
यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्र यत्र मनो याति तत्र तत्र परं पदम्</p>
<pb n="441" />
<p>ईशाद्युपनिषत्सु -
॥ २१ ॥ तन्त्र तन्त्र परं ब्रह्म सर्वत्र समवस्थितम् । हन्यान्मुष्टिभिराकाशं
क्षुधार्तः खण्डयेत्तुषम् ॥ २२ ॥ नाहंब्रह्मेति जानाति तस्य मुक्तिर्न जायते ।
य एतदुपनिषदं नित्यमधीते सोऽभिपूतो भवति । स वायुपूतो भवति । स
आदित्यपूतो भवति । स ब्रह्मपूतो भवति । स विष्णुपूतो भवति । स रुद्र-
पूतो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वधीतो
भवति । स सर्ववेदव्रतचर्यासु चरितो भवति । तेनेतिहासपुराणानां रुद्राणां
शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति । दश
पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स महान्भवति । ब्रह्महत्या-
सुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगि पातकेभ्यः पूतो भवति । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विप-
न्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ २३ ॥
ॐ सत्यमित्युपनिषत् ॥
ॐ पूर्णमद इति शान्तिः ॥
इति पैङ्गलोपनिषत्समाप्ता ॥ ६२ ॥</p>
<lg>
  <l>भिक्षुकोपनिषत् ॥ ६३ ॥</l>
  <l>भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा ।</l>
  <l>तत्रैपदं ब्रह्मतत्वं ब्रह्ममात्रं करोतु माम् ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहू दुकहंसपरमहंसाश्चेति चत्वारः ।
कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यव सिष्टप्रभृतयोऽष्टौ ग्रासांश्चरन्तो
योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ बहूदका नाम त्रिदण्डकमण्डलुशिखाय-
ज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाऽष्टौ ग्रासान्भैक्षा-
चरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ हंसा नाम ग्राम एकरात्र
नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । गोमूत्र गोमयाहारिणो नित्यं
चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ परमहंसा नाम
संवर्त कारुणिश्वेतकेतुजडभरतदत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासां•
चरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । वृक्षमूले शून्यगृहे श्मशानवासिनो</p>
<pb n="442" />
<p>अध्या० १ ]
महोपनिषद ॥ ६४ ॥
.</p>
<p>वा साम्बरा वा दिगम्बरा बा । न तेषां धर्माधम लाभालाभौ शुद्धाशुद्धौ
द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति
पश्यन्ति । अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुकुध्यानपरायणा आत्म-
निष्ठाः प्राणसंधारणार्थं यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृहतृणकूट-
वल्मीकवृक्षमूलकुलालशाला ग्निहोत्रशालानदी पुलिन गिरिकन्दरकुहरको टरनि-
र्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः परमहंसाचरणेन
संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥ १ ॥
ॐ पूर्णमद इति शान्तिः ॥
इति भिक्षुकोपनिषत्समाप्ता ॥ ६३ ॥</p>
<lg>
  <l>महोपनिषत् ॥ ६४ ॥</l>
  <l>यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् ।</l>
  <l>परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ॥</l>
  <l>ॐ आप्यायत्विति शान्तिः ॥</l>
</lg>
<p>अथातो महोपनिषदं व्याख्यास्यामस्तदाहुरेको ह वै नारायण आसीन
ब्रह्मा नेशानो नापो नाम्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो
न चन्द्रमाः । स एकाकी न रमते । तस्य ध्यानान्तः स्थस्य यज्ञस्तोममुच्यते ।
तस्मिन्पुरुषाश्चतुर्दश जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशं
तेजः । द्वादशोऽहंकारः । त्रयोदशकः प्राणः । चतुर्दश आत्मा । पञ्चदशी
बुद्धिः । भूतानि पञ्च तन्मात्राणि । पञ्च महाभूतानि । स एकः पञ्चविंशतिः
पुरुषः । तत्पुरुषं पुरुषो निवेश्य नास्य प्रधान संवत्सरा जायन्ते । संवत्सरा-
दधिजायन्ते । अथ पुनरेव नारायणः सोऽन्यत्रकामो मनसाऽध्यायत । तस्य
ध्यानान्तःस्थस्य ललाटान्त्रयक्षः शूलपाणिः पुरुषो जायते । बिभ्रच्छ्रियं यशः
सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वा-
ङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे समाश्रितानि । तस्मादीशानो महादेवो
महादेवः । अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्य
ध्यानान्तःस्थस्य ललाटात्स्वेदोऽपतत् । ता इमाः प्रतता आपः ततस्तेजो
हिरण्मयमण्डम् । तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत् । पूर्वाभिमुखो</p>
<pb n="443" />
<p>"शायुपनिषद-
[ अध्या०
भूत्वा भूरिति व्याहृतिर्गायनं छन्द ऋग्वेदोऽभिर्देवता । पश्चिमाभिमुखो भूत्वा
भुवरिति व्याहृतित्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता । उत्तराभिमुखो भूत्वा
स्वरिति व्याहृतिर्जागतं छन्दः सामवेदः सूर्यो देवता । दक्षिणाभिमुखो भूत्वा
महरिति व्याहृतिरानुष्टुभं छन्दोऽथर्ववेदः सोमो देवता । सहस्रशीर्षं देवं
सहस्राक्षं विश्वशंभुवम् । विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । विश्व-
मेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।
पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् । हृदयं चाप्यधोमुखं संतत्यै (?)
सीत्कराभिश्च । तस्य मध्ये महानार्चर्विश्वार्चिर्विश्वतोमुखम् । तस्य मंध्ये वह्नि-
शिखा भणीयोर्ध्वा व्यवस्थिता । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ॥ १ ॥
इति महोपनिषत्सु प्रथमोऽध्यायः १॥
शुको नाम महातेजाः स्वरूपानन्दतत्परः । जातमात्रेण मुनिराद यत्सत्यं
तदवाप्तवान् ॥ १ ॥ तेनासौ स्वविवेकेन स्वयमेव महामनाः । प्रविचार्य चिरं
साधु स्वात्मनिश्चयमाप्तवान् ॥ २ ॥ अनाख्यत्वाद्गम्यत्वान्मनःषष्ठेन्द्रिय-
स्थितेः । चिन्मात्रमेवमात्मा णुराकाशादपि सूक्ष्मकः ॥ ३ ॥ चिदणोः परम-
स्यान्तः कोटि ब्रह्माण्ड रेणवः । उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् ॥ ४ ॥
आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः । न किंचिद्यदनिर्देश्यं वस्तु सत्तेत
किंचन ॥ ५ ॥ चेतनोऽसौ प्रकाशत्वा द्वेद्याभावाच्छिलोपमः । स्वात्मनि व्योमनि
स्वस्थ जगदुन्मेष चित्रकृत् ॥ ६ ॥ तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् ।
जगद्भेदोsपि तद्भानमिति भेदोऽपि तन्मयः ॥ ७ ॥ सर्वगः सर्वसंबन्धो
गत्यभावाच गच्छति । नास्त्यसावाश्रयाभावात्सद्रूपत्वादद्यास्ति च ॥ ८ ॥
विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् । सर्वसंकल्प संन्यासश्चेतसा यत्पर-
ग्रहः ॥ ९ ॥ जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः । यत्संकोचविका-
साभ्यां जगत्प्रलयसृष्टयः ॥ १० ॥ निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ।
अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः ॥ ११ ॥ स्वयैव सूक्ष्मया बुद्ध्या सर्व
विज्ञातवान्छुकः । स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ॥ १२ ॥ इर्द
वस्वति विश्वासं नासावात्मन्युपाययैौ । केवलं विररामास्य चेतो विषय-
चापलम् । भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥ १३ ॥ एकदा
१ मध्ये पुरुषः .
२ सेन्द्र इति छान्दसं स इन्द्र इति स्यात्.</p>
<pb n="444" />
<p>अध्या० २ ]
महोपनिषत् ॥ ६४ ॥
•</p>
<p>सोमप्रज्ञो मेरावेकान्तसंस्थितः । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं
सुनिम् ॥ १४ ॥ संसाराडम्बरमिदं कथमभ्युत्थितं मुने । कथं च प्रशमं
याति किं यत्कस्य कंदा वद ॥ १५ ॥ एवं पृष्टेन मुनिना व्यासेनाखिलमा-
त्मजे । यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १६ ॥ अज्ञासिषं पूर्वमे-
चमहमित्यथ तत्पितुः । स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते ॥ १७ ॥
व्यासोऽपि भगवान्बुका पुत्राभिप्रावमीदृशम् । प्रत्युवाच पुनः पुत्रं नाहं
जानामि तत्त्वतः ॥ १८ ॥ जनको नाम भूपालो विद्यते मिथिलापुरे ।
यथावद्वेत्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥ १९ ॥ पित्रेत्युक्तः शुकः प्राया-
त्सुमेरोर्वसुधातलम् । विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥ २० ॥
आवेदितोऽसौ याष्ट्रीकैर्जनकाय महात्मने । द्वारि व्याससुतो राजन्बुकोऽत्र
स्थितवानिति ॥ २१ ॥ जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया । उक्त्वा
बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥ २२ ॥ ततः प्रवेशयामास जनकः
शुकमङ्गणे । तत्राहानि स ससैव तथैवावसदुन्मनाः ॥ २३ ॥ ततः प्रवेश-
यामास जनकोऽन्तः पुराजिरे । राजा न दृश्यते तावदिति सप्त दिनानि तम्
॥ २४ ॥ तन्नोन्मदाभिः कान्ताभिभोजनै भौगसंचयैः । जनको लालयामास
शुकं शशिनिभाननम् ॥ २५ ॥ ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः ।
नाजहुर्मन्दपवनो बद्धपीठमिवाचलम् ॥ २६ ॥ केवलं सुसमः स्वच्छो मौनी
मुदितमानसः । संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः ॥ २७ ॥ परिज्ञात-
स्वभावं तं शुकं स जनको नृपः । आनीय मुदितात्मानमवलोक्य ननाम
ह ॥ २८ ॥ निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः । किमीप्सितं तवेत्याह
कृतस्वागत आह तम् ॥ २९ ॥ संसाराडम्बरमिदं कथमभ्युत्थितं गुरो । कथं
प्रशममायाति यथावत्कथयाशु मे ॥ ३० ॥ यथावदखिलं प्रोक्तं जनकेन
महात्मना । तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाविया ॥ ३१ ॥ स्वयमेव
मया पूर्वमभिज्ञातं विशेषतः । एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् ॥३२॥
भवताप्येष एवार्थः कथितो वाग्विदां वर । एष एव हि वाक्यार्थः शास्त्रेषु.
परिदृश्यते ॥ ३३ ॥ मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् । क्षीयते दुग्ध-
संसारो निःसार इति निश्चितः ॥ ३४ ॥ तत्किमेतन्महाभाग सत्यं ब्रूहि
ममाचलम् । वत्तो विश्रममामोमि चेतसा भ्रमता जगत् ॥ ३५ ॥ शृणु
araदिदानीं त्वं कथ्यमानमिदं मया । श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरा-</p>
<pb n="445" />
<p>ईशाद्युपनिषत्सु -
न्तरम् ॥ ३६ ॥ यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् ॥ ३७ ॥ दृ
नास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नं चेत्तदुत्पन्ना परा निर्वाणनि-
र्वृतिः ॥ ३८ ॥ अशेषेण परित्यागो वासनायां य उत्तमः । मोक्ष इत्युच्यते
सद्भिः स एव विमलक्रमः ॥ ३९ ॥ ये शुद्धवासना भूयो न जन्मानर्थभा
गिनः । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ ४० ॥ पदार्थभाव-
नादाढ्यं बन्ध इत्यभिधीयते । वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते ॥ ४१ ॥
तपःप्रभृतिना यस्तै हेतुनैव विना पुनः । भोगा इह न रोचन्ते स जीवन्मुक्त
उच्यते ॥ ४२ ॥ आपतत्सु यथाकालं सुखदुःखेष्वनारतः । न हृष्यति
ग्लायति यः स जीवन्मुक्त उच्यते ॥ ४३ ॥ हर्षामर्षभयक्रोधकामकार्पण्य-
दृष्टिभिः । न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥ ४४ ॥ अहंकारमय
त्यक्त्वा वासनां लीलयैव यः । तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते
॥ ४५ ॥ ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु । सुषुप्तिवद्यश्चरति स
जीवन्मुक्त उच्यते ॥ ४६ ॥ अध्यात्मरतिरासीनः पूर्णः पावनमानसः ।
प्राप्तानुत्तम विश्रान्तिर्न किंचिदिह वाञ्छति । यो जीवति गतस्नेहः स जीव-
न्मुक्त उच्यते ॥ ४७ ॥ संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासा-
वजडा संविश्स जीवन्मुक्त उच्यते ॥ ४८ ॥ रागद्वेषौ सुखं दुःखं धर्माधर्मौ
फलाफले । यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते ॥ ४९ ॥ मौनवान्निरह-
भावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते
॥ ५० ॥ सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः । निरिच्छो वर्तते कार्ये स
जीवन्मुक्त उच्यते ॥ ५१ ॥ येन धर्ममधर्म च मनोमननमीहितम् । सर्व-
मन्तःपरित्यक्तं स जीवन्मुक्त उच्यते ॥ ५२ ॥ यावती दृश्यकलना सकलेयां
विलोक्यते । सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते ॥ ५३ ॥ कट्टम्ललवणं
तिक्तममृष्टं मृष्टमेव च । सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५४ ॥
जरा मरणमापच्च राज्यं दारिद्र्यमेव च । रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते
॥ ५५ ॥ धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी । धिया येन सुसंत्यक्तं स
जीवन्मुक्त उच्यते ॥ ५६ ॥ उद्वेगानन्दरहितः समया स्वच्छया धिया । न
शोचति न चोदेति स जीवन्मुक्त उच्यते ॥ ५७ ॥ सर्वेच्छाः सकलाः शङ्काः
सर्वेहाः सर्वनिश्चयाः । धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥ ५८ ॥
. जन्मस्थिति विनाशेषु सोदयास्तमयेषु च । सममेव मनो यस्य स जीवन्मुक्त</p>
<pb n="446" />
<p>अध्या० ३]
महोपनिष ॥ ६४ ॥</p>
<p>उच्यते ॥ ५९ ॥ न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति । भुङ्क्ते यः
प्रकृतान्भोगान्स जीवन्मुक्त उच्यते ॥ ६० ॥ शान्तसंसारकलनः कलावानफि
निष्कलः । यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ ६१ ॥ यः
समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त
उच्यते ॥ ६२ ॥ जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसास्कृते । विंशत्यदेहमु-
चत्वं पवनोऽस्पन्दतामिव ॥ ६३ ॥ विदेहमुक्तो नोदेति नास्तमेति
शाम्यति । न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥ ६४ ॥ ततः स्तिमि
तगम्भीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यतेः
॥ ६५ ॥ न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् । न च भूतपदा
थौघसदनन्ततया स्थितम् ॥ ६६ ॥ किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः ।
न सन्नासन्न सदसन्न भावो भावनं न च ॥ ६७ ॥ चिन्मात्रं चैत्यरहितम
नन्तमजरं शिवम् । अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥ ६८ ॥ द्रष्टृ
र्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् । नातः परतरं किंचिन्निश्चयोऽस्त्यपरो
मुने ॥ ६९ ॥ स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् । स्वसंकल्पवशा-.
द्वद्धो निःसंकल्पाद्विमुच्यते ॥ ७० ॥ तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महा-
त्मनः । भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह ॥ ७१ ॥ प्राप्तं प्राप्तव्यम-
खिलं भवता पूर्णचेतसा । स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥७२॥
अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः । शुक पश्यन्न पश्येस्त्वं साक्षी
संपूर्णकेवलः ॥ ७३ ॥ विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि । वीत-
शोकभयायासो निरीहरिछन्नसंशयः ॥ ७४ ॥ जगाम शिखरं मेरोः समाध्यर्थम-
खण्डितम् ॥ ७५ ॥ तत्र वर्षसहस्राणि निर्विकल्पसमाधिना । देशे स्थित्वा
शशामासावात्मन्य स्नेहदीपवत् ॥ ७६ ॥ व्यपगत कलना कलङ्कशुद्धः स्वयमम--
लात्मनि पावने पदेऽसौ । सलिलकण इवाम्बुधौ महात्मा विगलितवासन-
मेकतां जगाम ॥ ७७ ॥
इति महोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
निदाघो नाम मुनिराद प्राप्तविद्यश्च बालकः । विहृतस्तीर्थयात्रार्थं पिन्ना-
नुज्ञातवान्स्त्रयम् ॥ १ ॥ सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः । स्वोदन्तं
कथयामास ऋभुं नत्वा महायशाः ॥ २ ॥ सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्र-
भावतः । प्रादुर्भूतो मनसि मे विचारः सोऽयमीदृशः ॥ ३ ॥ जायते म्रियते</p>
<pb n="447" />
<p>૩૨
ईशाद्युपनिषत्सु -
[ अध्या० ३
लोको म्रियते जननाय च । अस्थिराः सर्व एवेमे सचराचरचेष्टिताः । सर्वा-
पदां पदं पापा भावा विभवभूमयः ॥ ४ ॥ अयः शलाकासदृशाः परस्परम-
सङ्गिनः । शुष्यन्ते केवला भावा मनःकल्पनयानया ॥ ५ ॥ भावेष्वरतिरा-
याता पथिकस्य मरुष्विव । शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा
॥ ६ ॥ चिन्तानिचय चक्राणि नानन्दाय धनानि मे । संप्रसूतकलत्राणि गृहा-
युग्रापदामिव ॥ ७ ॥ इयमस्मि स्थितोदारा संसारे परिपेलवा । श्रीर्मुने
परिमोहाय सापि नूनं न शर्मदा ॥ ८ ॥ आयुः पल्लवकोणाग्रलम्बाम्बुकणभ-
डुरम् । उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् ॥ ९ ॥ विषयाशीविषा-
सङ्गपरिजर्जरचेतसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥ १० ॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रन्थनं च तरङ्गाणामास्था
नायुषि युज्यते ॥ ११ ॥ प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते । पराया
निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १२ ॥ तरवोऽपि हि जीवन्ति जीवन्ति
मृगपक्षिणः । स जीवति मनो यस्य मननेनोपजीवति ॥ १३ ॥ जातास्त
एव जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः
॥ १४ ॥ भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तस्य मनो
भारो भारोऽनात्मविदो वपुः ॥ १५ ॥ अहंकारवशादापद हंकाराद्दुराधयः ।
अहंकारवशादीहा नाहंकारात्परो रिपुः ॥ १६ ॥ अहंकारवशाद्यद्यन्मया भुक्तं
चराचरम् । तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता ॥ १७ ॥ इतश्चेतश्च सुव्यग्रं
व्यर्थमेवाभिधावति । मनो दूरतरं याति ग्रामे कौलेयको यथा ॥ १८ ॥
क्रूरेण जडतां याता तृष्णाभार्यानुगामिना । वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि
चेतसा ॥ १९ ॥ अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपि वह्नयश-
नाह्मविषमश्चित्तनिग्रहः ॥ २० ॥ चित्तं कारणमर्थानां तस्मिन्सति जगत्र-
यम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २१ ॥ यां यामहं मुनि-
श्रेष्ठ संश्रयामि गुणश्रियम् । तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका
॥ २२ ॥ पदं करोत्यलङ्घयेऽपि तृप्ता विफलमीहते । चिरं तिष्ठति नैकत्र तृष्णा
चपलमर्कटी ॥ २३ ॥ क्षणमायाति पातालं क्षणं याति नभःस्थलम् । क्षणं
श्रमति दिकुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ २४ ॥ सर्वसंसारदुःखानां तृष्णैका
दीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥ २५ ॥ तृष्णाविपूचि -
कामत्रश्चिन्तत्यागो हि स द्विज । स्तोकेनानन्दमायाति स्तोकेनायाति खेद -</p>
<pb n="448" />
<p>अध्या० ३ ]
महोपनिषत् ॥ ६४ ॥</p>
<p>ताम् ॥ २६ ॥ नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः ॥ २७ ॥
कलेव स्महंकारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरो
मम ॥ २८ ॥ पङ्क्तिबद्धेन्द्रियपशुं वलात्तृष्णागृहाङ्गणम् । चित्तभ्रुत्यजनाकीर्ण
नेष्टं देहगृहं मम ॥ २९ ॥ जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्ट-
दन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ३० ॥ रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे
। नाधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३१ ॥ तडित्सु शरद श्रेषु
गन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ३२ ॥ शैशवे
गुरुतो भीतिर्मातृतः पितृतस्तथा । जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम्
॥ ३३ ॥ स्वचित्तविलसंस्थेन नानाविभ्रमकारिणा । बलात्कामपिशाचेन
विवशः परिभूयते ॥ ३४ ॥ दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।
हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ३५ ॥ दैन्यदोषमयी दीर्घा वर्धते
वार्धके स्पृहा । सर्वापदामेकसखी हृदि दाहप्रदायिनी ॥ ३६ ॥ क्वचिद्वा
विद्यते यैषा संसारे सुखभावना । आयुः स्तम्बमिवासाद्य कालस्तामपि
कृन्तति ॥ ३७ ॥ तृणं पांशुं महेन्द्रं च सुवर्णं मेरुसर्षपम् । आत्मंभरितया
सर्वमात्मसात्कर्तुमुद्यतः । कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्रयम् ॥३८॥
मांसपाञ्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे । स्वाय्वस्थिग्रन्थिशालिन्याः स्त्रियः
किमिव शोभनम् ॥ ३९ ॥ त्वङ्मांसरक्तबाप्पाम्बु पृथक्कृत्वा विलोचने । समा-
लोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ४० ॥ मेरुशृङ्गतटोल्ला सिगङ्गाचल-
रयोपमा । दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता ॥ ४१ ॥ श्मशानेषु
दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः
॥ ४२ ॥ केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृताग्निशिखा नायें
दहन्ति तृणवन्नरम् ॥ ४३ ॥ ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।
स्त्रियो हि नरकानीनामिन्धनं चारु दारुणम् ॥ ४४ ॥ कामनाम्ना किरातेन
विकीर्णा मुग्धचेतसः । नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ४५ ॥ जन्म-
पल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिश
पिण्डिका ॥ ४६ ॥ सर्वेषां दोषरत्नानां सुसमुद्विकयानया । दुःखशृङ्खलया
नित्यमलमस्तु मम स्त्रिया ॥ ४७ ॥ यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क
भोगभूः । स्त्रियं त्यक्त्वा जगत्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ४८ ॥
दिशोऽपि नहि दृश्यन्ते देशोऽप्यन्योपदेशकृत् । शैला अपि विशीर्यन्ते
अ. उ. २८</p>
<pb n="449" />
<p>* शाबुपनिषत्सु -
[ अध्या० ४
शीर्यन्ते तारका अपि ॥ ४९ ॥ शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः ।
सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः ॥ ५० ॥ परमेष्ठ्यपि निष्ठावा-
न्हीयते हरिरप्यजः । भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः ॥ ५१ ॥
ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाशमेवानुधावन्ति सलिलानीच
वाडवम् ॥ ५२ ॥ आपदः क्षणमायान्ति क्षणमायान्ति संपदः । क्षणं
जन्माथ मरणं सर्व नश्वरमेव तत् ॥ ५३ ॥ अशूरेण हताः शूरा एकेनापि
शतं हतम् । विषं विषयवैषम्यं न विषं विषमुच्यते ॥ ५४ ॥ जन्मान्तरना
विषया एकजन्महरं विषम् । इति मे दोषदावाग्निदग्धे संप्रति चेतसि
॥ ५५ ॥ स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि । अतो मां बोधयाशु
त्वं तत्त्वज्ञानेन वै गुरो ॥ ५६ ॥ नो चेन्मौनं समास्थाय निर्मानो गत-
मत्सरः । भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः ॥ ५७ ॥
इति महोपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
निदाघ तव नास्त्यन्यज्ज्ञेयं ज्ञानवतां वर । प्रज्ञया त्वं विजानासि ईश्वरा-
नुगृहीतया । चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥ १ ॥ मोक्षद्वारे
द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः संतोषश्चतुर्थः साधुसङ्गमः
॥ २ ॥ एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् । एकस्मिन्वशगे यान्ति
चत्वारोऽपि वशं गताः ॥ ३ ॥ शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः । आदौ
संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ ४ ॥ स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैक-
वाक्यता । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥ ५ ॥ संकल्पाशानु-
संधानवर्जनं चेत्प्रतिक्षणम् । करोषि तदचित्तत्वं प्राप्त एवासि पावनम्
॥ ६ ॥ चेतसो यदकर्तृत्वं तत्समाधानमीरितम् । तदेव केवली भावं सा
शुभा निर्वृतिः परा ॥ ७ ॥ चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । यथा
तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः ॥ ८ ॥ सर्वं प्रशान्तमजमेकमनादि-
मध्यमाभास्वरं स्वदनमात्रमचैत्यचिह्नम् । सर्व प्रशान्तमिति शब्दमयी च
दृष्टिर्बाधार्थमेव हि मुधैव तदोमितीदम् ॥ ९ ॥ सर्वं किंचिदिदं दृश्यं दृश्यते
चिज्जगद्गतम् । चिन्निष्पन्दांशमात्रं तन्नान्यदस्तीति भावय 11 90 11
नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् । आत्मैकत्वं विदित्वा त्वं तिष्ठा-
क्षुब्धमहाधिवत् ॥ ११ ॥ तत्त्वावबोध एवासौ वासनातृणपावकः । प्रोक्तः
समाधिशब्देन - नतु तूष्णीमवस्थितिः ॥ १२ ॥ निरिच्छे संस्थिते रले यथा</p>
<pb n="450" />
<p>महोपनिषत् ॥ ६४ ॥
- ४३५
अध्या० ४ ]
लोकः प्रवर्तते । सत्तामात्रे परे तत्त्वे तथैवायं जगद्गुणः ॥ १३ ॥ अतश्चा-
मनि कर्तृत्वमकर्तृत्वं च वै मुने । निरिच्छत्वादकर्ताऽसौ कर्ता संनिधिमात्रतः
॥ १४ ॥ ते द्वे ब्रह्मणि विन्देत कर्तृताकर्तृते मुने । यत्रैवैष चमत्कारस्तमाश्रित्य
स्थिरो भव ॥ १५ ॥ तस्मान्नित्यमकर्ताहमिति भावनयेद्धया । परमामृतनाम्नी
'सा समतैवावशिष्यते ॥ १६ ॥ निदाघ शृणु सत्त्वस्था जाता भुवि महा-
गुणाः । ते नित्यमेवाभ्युदिता मुदिताः ख इवेन्दवः ॥ १७ ॥ नापदि ग्लानिमा-
यान्ति निशि हेमाम्बुजं यथा । नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि
॥ १८ ॥ कृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः । समाः समरसाः सौम्य
सततं साधुवृत्तयः ॥ १९ ॥ अब्धिवद्भुतमर्यादा भवन्ति विशदाशयाः ।
नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥ २० ॥ कोऽहं कथमिदं चेति
संसारग्रामः । प्रविचार्य प्रयत्नेन प्राज्ञेन सहसाधुना ॥ २१ ॥ नाकर्मसु
नियोक्तव्यं नानार्येण सहावसेत् । द्रष्टव्यः सर्वसंहती न मृत्युरव हेल्या
॥ २२ ॥ शरीरमस्थि मांसं च त्यक्त्वा रक्ताद्यशोभनम् । भूतमुक्तावलीतन्तुं
चिन्मात्रमवलोकयेत् ॥ २३ ॥ उपादेयानुपतनं हेयैकान्तविसर्जनम् । यदेत-
न्मनसो रूपं तद्वाह्यं विद्धि नेतरत् ॥ २४ ॥ गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या
च चिद्वने । ब्रह्मवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥ २५ ॥ यंत्र
निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्झिना दाहो हिमसेचनमिवाङ्गारा-
वर्तनं चन्दनचचैव निरवधिनाराचविकिरपातो निदाघविनोदनधारागृहशीकर-
वर्षणमिव स्वशिरश्छेदः सुखनिदेव मूकीकरणमाननमुद्रेव बाधिर्यं महानुप-
चय इवेदं नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ॥ गुरुवाक्य-
समुद्भूतस्वानुभूत्यादिशुद्धया । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते
॥ २६ ॥ विनष्टदिग्भ्रमस्यापि यथापूर्व विभाति दिक् । तथा विज्ञानविध्वस्तं
जगन्नास्तीति भावय ॥ २७ ॥ न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः ।
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः । केवलं तन्मनोमात्रमयेनासाद्यते
पदम् ॥ २८ ॥ यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः । शान्तचेतः सु
तत्सर्वं तमोऽर्केष्विव नश्यति ॥ २९ ॥ मातरीव परं यान्ति विषमाणि
मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ३० ॥ न रसायन-
पानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमाप्नोति शमेनान्तर्यथा जनः
॥ ३१ ॥ श्रुत्वा स्टट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् । न हृष्यति</p>
<pb n="451" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ४
ग्लायति यः स शान्त इति कथ्यते ॥ ३२ ॥ तुषारकरबिम्बाच्छं मनो यस्य
निराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ३३ ॥ तपस्विषु
बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ३४ ॥
संतोषामृतपानेन ये शान्तास्तृप्तिमागताः । आत्मारामा महात्मानस्ते महा-
पद्मागताः ॥ ३५ ॥ अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः । अदृष्टखेदा-
खेदो यः संतुष्ट इति कथ्यते ॥ ३६ ॥ नाभिनन्दत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथेप्सि-
तम् । यः स सौम्यसमाचारः संतुष्ट इति कथ्यते ॥ ३७ ॥ रमते धीर्यथाप्राप्ते
साध्वीवाऽन्तः पुराजिरे । सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥ ३८ ॥
'याक्षणं यथाशास्त्रं यथादेशं यथासुखम् । यथासंभवसत्सङ्गमिमं मोक्षपथ-
क्रमम् । तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ॥ ३९ ॥ तुर्यविश्रान्ति-
युक्तस्य निवृत्तस्य भवार्णवात् । जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः
॥ ४० ॥ नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवा-
म्भोधिः स तिष्ठति यथास्थितः ॥ ४१ ॥ सर्वात्मवेदनं शुद्धं यदोदेति
तवात्मकम् । भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् ॥ ४२ ॥ एव-
मात्मा यथा यत्र समुल्लासमुपागतः । तिष्ठत्याशु तथा तत्र तद्रूपश्च
विराजते ॥ ४३ ॥ यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् । तत्सुषुहाविव
स्वमः कल्पान्ते प्रविनश्यति ॥ ४४ ॥ ऋतमात्मा परं ब्रह्म सत्यमित्यादिका
बुधैः । कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥ ४५ ॥ यथा
- कटकशब्दार्थः पृथग्भावो न काञ्चनात् । न हेम कटकात्तद्वजगच्छ-
ब्दार्थता परा ॥ ४६ ॥ तेनेयमिन्द्रजाल श्रीर्जगति प्रवितन्यते । दृष्टुर्द्दश्यस्य
सत्तान्तर्बन्ध इत्यभिधीयते ॥ ४७ ॥ द्रष्टा दृश्यवशाद्वद्धो दृश्याभावे विमु-
च्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥ ४८ ॥ मनसैवेन्द्रजाल-
श्रीजगति प्रवितन्यते । यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥ ४९ ॥
ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा । मनोमयमतो विश्व यन्नाम परि
दृश्यते ॥ ५० ॥ न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं
तन्मन इत्यभिधीयते ॥ ५१ ॥ संकल्पनं मनो विद्धि संकल्पस्तत्र विद्यते ।
यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ ५२ ॥ संकल्पमनसी भिने न
• कदाचन केनचित् । संकल्पजाते गलिते स्वरूपमवशिष्यते ॥ ५३ ॥ अहं त्वं
जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे । स्यात्तादृशी केवलता दृश्ये सत्तामुपागते.
१ मनस्ते॒नेन्द्रजालश्रीर्जागती प्रवितन्यते.</p>
<pb n="452" />
<p>अध्या० ४ ]
महोपनिषत् ॥ ६४ ॥</p>
<note>४३.७</note>
<p>॥ ५४ ॥ महाप्रलयसंपत्तौ सत्तां समुपागते। अशेषदृश्ये सर्गादौ शान्त-
मेवावशिष्यते ॥ ५५ ॥ अस्त्यनस्तमितो भास्वानजो देवो निरामयः । सर्वदा
सर्वकृत्सर्वः परमात्मेत्युदाहृतः ॥ ५६ ॥ यतो वाचो निवर्तन्ते यो मुक्तैरव-
नाम्यते । यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥ ५७ ॥ चित्ता-"
काश चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतरं विद्धिः चिदाकाश
महामुने ॥ ५८ ॥ देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् । निमेषेण:
चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥ ५९ ॥ तस्मिन्निरस्तनिःशेष संकल्प स्थितिमेषि
चेत् । सर्वात्मकं पदं शान्तं तदा प्रामोन्यसंशयः ॥ ६० ॥ उदितौदार्य-
सौन्दर्यवैराग्यरसगर्भिणी । आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥ ६१ ॥
दृश्यासंभवबोधेन रागद्वेषादितानवे । रतिर्बलोदिता यासौ समाधिरभिधी-
यते ॥ ६२ ॥ दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् । तदेव केवली--
भावं ततोऽन्यत्सकलं मृषा ॥ ६३ ॥ मत्त ऐरावतो बद्धः सर्वपीकोणकोटरे ।
मशकेन कृतं युद्धं सिंह वैरेणुकोटरे ॥ ६४ ॥ पद्माक्षे स्थापितो मेरुर्निगीर्णो
भृङ्गसूनुना । निदाघ विद्धि तादृक्त्वं जगदेतद्रमात्मकम् ॥ ६५ ॥ चित्तमेव
हि संसारो रागादिक्लेशदूषितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते
॥ ६६ ॥ मनसा भाव्यमानो हि देहतां याति देहकः । देहवासनया मुक्तो
देहधर्मैर्न लिप्यते ॥ ६७ ॥ कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
मनोविलाससंसार इति मे निश्चिता मतिः ॥ ६८ ॥ नाविरतो दुश्चरितान्ना-
शान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ ६९ ॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्वनम् । विदित्वा स्वात्मनो रूपं न बिभेति
कदाचन ॥ ७० ॥ परात्परं यन्महतो महान्तं स्वरूपतेजोमयशाश्वतं शिवम् ।
कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदेवैरुपास्यम् ॥ ७१ ॥ अहं ब्रह्मेति
नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ।
ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥ ७२ ॥ जीवेश्वरादिरूपेण चेतना -
चेतनात्मकम् । ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमो-
क्षान्तः संसारो जीवकल्पितः ॥ ७३ ॥ त्रिणाचिकादियोगान्ता ईश्वरभ्रान्ति---
माश्रिताः । लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥ ७४ ॥ तस्मा-
न्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः । कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्य-
ताम् ॥ ७५ ॥ अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् । स एव साक्षा-
१ घैरणुकोटरे २ रोगादि.</p>
<pb n="453" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ४:
द्विज्ञानीस शिवः स हरिर्विधिः ॥ ७६ ॥ दुर्लभो विषयत्यागो दुर्लभं तत्त्व-
दर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥७७॥ उत्पन्नशक्तिबोधस्य
त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेवोपजायते ॥ ७८ ॥ यदा
वैष एतस्मिन्नल्पमप्यन्तरं नरः । विजानाति तदा तस्य भयं स्यानात्र संशयः-
॥ ७९ ॥ सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं
भानुमन्धवत् ॥ ८० ॥ प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् । एवं ब्रह्मपरि-
ज्ञानादेव मत्योंऽमृतो भवेत् ॥ ८१ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व-
संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८२ ॥ अनात्मतां परि-
त्यज्य निर्विकारो जगत्स्थितौ । एकनिष्ठतयान्तःस्थः संविन्मात्रपरो भव ॥ ८३ ॥
मरुभूमौ जलं सर्व मरुभूमात्रमेव तत् । जगत्रयमिदं सर्वं चिन्मात्रं
स्वविचारतः ॥ ८४ ॥ लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना । शिव
एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ८५ ॥ अधिष्ठानमनौपम्यमवाङ्मनस-
गोचरम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥ ८६ ॥ सर्वशक्तेर्महे-
शस्य विलासो हि मनो जगत् । संयमासंयमाभ्यां च संसारः शान्तिमन्व-
गात् ॥ ८७ ॥ मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते । यद्यत्स्वाभिमतं
वस्तु तत्त्यजन्मोक्षमक्षुते ॥ ८८ ॥ स्वायत्तमेकान्तहितं स्वेप्सितत्याग वेदनम् ।
यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८९ ॥ स्वपौरुषैकसाध्येन
स्वेप्सितत्यागरूपिणा । मनः प्रशममात्रेण विना नास्ति शुभा गतिः ॥ ९० ॥
असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा । सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते
तदा ॥ ९१ ॥ भव भावनया मुक्तो मुक्तः परमया धिया । धारयात्मानम-
व्यग्रो ग्रस्तचित्तं चितः पदम् ॥ ९२ ॥ परं पौरुषमाश्रित्य नीत्वा चित्तमचि--
तताम् । ध्यानतो हृदयाकाशे चिति चिचक्रधारया ॥ ९३ ॥ मनो मारय
निःशङ्कं त्वां प्रबध्नन्ति नारयः ॥ ९४ ॥ अयं सोऽहमिदं तन्म एतावन्मात्रकं
मनः । तदभावनमात्रेण दात्रेणेव विलीयते ॥ ९५ ॥ छिन्नाभ्रमण्डलं व्योनि
यथा शरदि धूयते । वातेन कल्पकेनैव तथाऽन्तर्धूयते मनः ॥ ९६ ॥ कल्पा-
न्तपवना वान्तु यान्तु चैकत्वमर्णवाः । तैपन्तु द्वादशादित्या नास्ति निर्मनसः
क्षतिः ॥ ९७ ॥ असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे । असंकल्पातिसा-
म्राज्ये तिष्ठावष्टब्धतत्पदः ॥ ९८ ॥ न हि चञ्चलताहीनं मनः क्वचन दृश्यते ।
- १ विलयते.
२ पतन्तु,</p>
<pb n="454" />
<p>अध्या० ४ ]
महोपनिषत् ॥ ६४ ॥
•</p>
<p>चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥ ९९ ॥ एषा हि चञ्चला स्पन्द-:
शक्तिश्चित्तत्वसंस्थिता । तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम् ॥१००॥
यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते । तदेव च तपः शास्त्रसिद्धान्ते मोक्ष.
उच्यते ॥ १०१ ॥ तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका । वासना-
sपरनानीं तां विचारेण विनाशय ॥ १०२ ॥ पौरुषेण प्रयत्नेन यस्मिन्नेव पदे
मनः । योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥ १०३ ॥ अतः पौरुष-
माश्रित्य चित्तमाक्रम्य चेतसा । विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव
॥ १०४ ॥ मन एव समर्थं हि मनसो दृढनिग्रहे । अराजकः समर्थः स्याद्राज्ञो
निग्रहकर्मणि ॥ १०५ ॥ तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् । आवर्तै-
रुह्यमानानां दूरं स्वमन एव नौः ॥ १०६ ॥ मनसैव मनश्छित्त्वा पाशं
परमबन्धनम् । भवादुत्तारयात्मानं नासावन्येन तार्यते ॥ १०७ ॥ या
योदेति मनोनाम्नी वासना वासितान्तरा । तां तां परिहरेत्प्राज्ञस्ततोऽविद्या-
क्षयो भवेत् ॥ १०८ ॥ भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।
भावाभावौ ततस्त्यक्त्वा निर्विकल्पः सुखी भव ॥ १०९ ॥ एष एव मनोनाश-
स्त्वविद्यानाश एव च । यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥ ११० ॥
अनास्यैव हि निर्वाणं दुःखमास्थापरिग्रहः ॥ १११ ॥ अविद्या विद्यमानैव
नष्टप्रज्ञेषु दृश्यते । नाम्न्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः ॥ ११२ ॥
तावत्संसार भृगुषु स्वात्मना सह देहिनम् । आन्दोलयवि नीरन्ध्रं दुःखण्ड-
कशालिषु ॥ ११३ ॥ अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी । स्वयमा-
त्मावलोकेच्छा मोहसंक्षयकारिणी ॥ ११४ ॥ अस्याः परं प्रपश्यन्त्याः स्वात्म-
नाशः प्रजायते । दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते ॥ ११५ ॥ इच्छा-
मात्रमविद्येयं तन्नाशो मोक्ष उच्यते । स चासंकल्पमात्रेण सिद्धो भवति वै
मुने ॥ ११६ ॥ मनागपि मनोव्योनि वासनारजनीक्षये । कलिका तनु-
तामेति चिदादित्यप्रकाशनात् ॥ ११७ ॥ चैत्यानुपातरहितं सामान्येन च
सर्वगम् । यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ ११८ ॥ सर्वच
खल्विदं ब्रह्म नित्यचिद्धनमक्षतम् । कल्पनाsन्या मनोनाम्नी विद्यते नहि.
काचन ॥ ११९ ॥ न जायते न म्रियते किंचिदत्र जगन्नये । न च भाव-
विकाराणां सत्ता वचन विद्यते ॥ १२० ॥ केवलं केवलाभासं सर्वसामान्यम-
क्षतम् । चैत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १२१ ॥ तस्मिन्नित्ये तते</p>
<pb n="455" />
<p>ईशाद्युपनिषत्सु --
[ अध्या० ५
शुद्धे चिन्मात्रे निरुपद्रवें । शान्ते शमसमा भोगें निर्विकारे चिदात्मनि
॥ १२२ ॥ यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति । चिच्चैत्यं स्वयमम्लानं
माननान्मन उच्यते । अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ॥ १२३
नाहं ब्रह्मेति संकल्पात्सुदृढाद्वध्यते मनः । सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते
मनः ॥ १२४ ॥ कृशोऽहं दुःखबद्धोऽहं हस्तपादादिवानहम् । इति
भावानुरूपेण व्यवहारेण बध्यते ॥ १२५ ॥ नाहं दुःखी न मे देहो बन्धः
कोsस्यात्मनि स्थितः । इति भावानुरूपेण व्यवहारेण मुच्यते ॥ १२६ ॥
नाहं मांस न चास्थीनि देहादन्यः परोऽस्म्यहम् । इति निश्चितवानन्तः-
क्षीणविद्यो विमुच्यते ॥ १२७ ॥ कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ।
परं पौरुषमाश्रित्य यत्नात्परमया धिया । भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पः
सुखी भव ॥ १२८ ॥ मम पुत्रो मम धनमहं सोऽयमिदं मम । इतीयमि-
न्द्रजालेन वासनैव विवल्गति ॥ १२९ ॥ मा भवाज्ञो भव ज्ञस्त्वं जहि
संसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ १३० ॥ कस्त-
वायं जडो मूको देहो मांसमयोऽशुचिः । यदर्थं सुखदुःखाभ्यामवशः परि-
भूयसे ॥ १३१ ॥ अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् । तिष्ठतस्तव
कार्येषु माऽस्तु रागानुरञ्जना ॥ १३२ ॥ अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभि-
रद्रयः । अविद्यमाना या विद्या तया विश्वं खिलीकृतम् ॥ १३३ ॥ इदं तद्व-
व्रतां यातं तृणमात्रं जगत्रयम् ॥ इत्युपनिषत् ॥
इति महोपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
ऋभुः ॥ अथापरं प्रवक्ष्यामि शृणु तात यथायथम् । अज्ञानभूः सप्तपदा
ज्ञभूः सप्तपदैव हि ॥ १ ॥ पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः ।
स्वरूपावस्थितिर्मुक्तिस्तभ्रंशोऽहन्त्ववेदनम् ॥ २ ॥ शुद्धसन्मात्रसंवित्तेः स्वरूपान्न
चलन्ति ये । रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥ ३ ॥ यः स्वरूपपरि-
अंशत्या चिति मज्जनम् । एतस्मादपरो मोहो न भूतो न भविष्यति ॥ ४ ॥
अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः । सा ध्वस्तमननाकारा स्वरूप-
स्थितिरुच्यते ॥ ५ ॥ संशान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाग्रनिद्रा-
विनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ६ ॥ अहन्तांशे क्षते शान्ते भेदनि-
ष्पन्दचित्तता । अजडा या प्रचलति तत्स्वरूपमितीरितम् ॥ ७ ॥ बीज -
- १ यथातथम्.</p>
<pb n="456" />
<p>अध्या० ५ ]
महोपनिषत् ॥ ६४ ॥</p>
<p>जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च । जाग्रत्स्वप्रस्तथा स्वप्नः स्वप्नजा-
सुषुप्तिकम् ॥ ८ ॥ इति सप्तविधो मोहः पुनरेष परस्परम् । श्लिष्टो भव-
त्यनेकाग्र्यं शृणु लक्षणमस्य तु ॥ ९ ॥ प्रथमं चेतनं यत्स्यादनाख्यं निर्मल
चितः । भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ॥ १० ॥ बीजरूपस्थित
जाग्रद्वीजजाग्रत्तदुच्यते । एषां ज्ञप्तेनैवावस्था त्वं जाग्रत्संस्थितिं शृणु ॥ ११ ॥
नवप्रसूतस्य परादयं चाहमिदं मम ॥ इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभा-
चनात् ॥ १२ ॥ अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः । पीवरः प्रत्ययः
प्रोक्तो महाजादिति स्फुटम् ॥ १३ ॥ अरूढमथवा रूढं सर्वथा तन्मयात्म-
कम् । यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते ॥ १४ ॥ द्विचन्द्रशुक्तिकारु-
यमृगतृष्णादिभेदतः । अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥ १५ ॥
अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि । परामर्शः प्रबुद्धस्य स स्वप्न
इति कथ्यते ॥ १६ ॥ चिरं संदर्शनाभावादप्रफुलं बृहद्वचः । चिरका-
लानुवृत्तिस्तु स्वमो जाग्रदिवोदितः ॥ १७ ॥ स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि
परिस्फुरत् । षडवस्थापरित्यागो जडा जीवस्य या स्थितिः ॥ १८ ॥
भविष्यद्दुः खबोधाढ्या सौषुप्तिः सोच्यते गतिः । जगत्तस्यामवस्थायामन्त-
स्तमसि लीयते ॥ १९ ॥ सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज ।
एकैका शतसंख्याsa नानाविभवरूपिणी ॥ २० ॥ इमां सप्तपदां ज्ञानभूमि-
माकर्णयानघ । नानया ज्ञातया भूयो मोहपङ्के निमज्जति ॥ २१ ॥ वदन्ति
बहुभेदेन वादिनो योगभूमिकाः ॥ मम त्वभिमता नूनमिमा एव शुभप्रदाः
॥ २२ ॥ अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् । मुक्तिस्तु ज्ञेयमित्युक्ता
भूमिकासप्तकात्परम् ॥ २३ ॥ ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु तृतीया तनुमानसी ॥ २४ ॥ सत्त्वापत्तिश्चतुर्थी
स्यात्ततोsसंसक्तिनामिका । पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ २५ ॥
आसामन्तः स्थिता मुक्तिर्यस्यां भूयो न शोचति । एतासां भूमिकानां त्वमिदं
निर्वचनं शृणु ॥ २६ ॥ स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ २७ ॥ शास्त्रसज्जनसंपर्क -
'वैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ २८ ॥
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते :
१ हि दुर्शानं.</p>
<pb n="457" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
तनुमानसी ॥ २९ ॥ भूमिका त्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् । सत्त्वा
मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ३० ॥ दशाचतुष्टयाभ्यासादसंसर्गकला.
या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥ ३१ ॥ भूमिकापञ्चका-
भ्यासात्स्वात्मारामतया दृढम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात्
॥ ३२ ॥ परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् । पदार्थभावना नाम षष्ठी
भवति भूमिका ॥ ३३ ॥ भूमिषक चिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्व-
भावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ३४ ॥ एषा हि जीवन्मुक्तेषु तुर्याव-
स्थेति विद्यते । विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ ३५ ॥ ये निदाघ
महाभागाः सप्तमीं भूमिमाश्रिताः । आत्मारामा महात्मानस्ते महत्पद-
मागताः ॥ ३६ ॥ जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते । प्रकृतेनाथ
कार्येण किंचित्कुर्वन्ति वा न वा ॥ ३७ ॥ पार्श्वस्थबोधिताः सन्तः पूर्वा-
चारक्रमागतम् । आचारमाचरन्त्येव सुप्तबुद्धवदुत्थिताः ॥ ३८ ॥ भू-
मिकासप्तकं चैतद्धीमतामेव गोचरम् । प्राप्य ज्ञानदशामेतां पशुम्लेच्छाद-
योऽपि ये ॥ ३९ ॥ सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः । ज्ञप्तिर्हि
ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता ॥ ४० ॥ मृगतृष्णाम्बुबुद्ध्यादिशान्तिमात्रा-
carस्त्वसौ । ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् ॥ ४१ ॥ ते स्थिता
भूमिका स्वासु स्वात्मलाभपरायणाः । मनःप्रशमनोपायो योग इत्यभिधीयते
॥ ४२ ॥ ससभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः । एवासां भूमिकानां तु
गम्यं ब्रह्माभिधं पदम् ॥ ४३ ॥ त्वत्ताऽहन्तात्मता यत्र परता नास्ति
काचन । न क्वचिद्भावकलना न भावाभावगोचरा ॥ ४४ ॥ सर्वं शान्तं
निरालम्बं व्योमस्थं शाश्वतं शिवम् । अनामयमनाभासमनामकम कारणम्
॥ ४५ ॥ न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च । मनोवचोभिरग्राह्यं
पूर्णात्पूर्णं सुखात्सुखम् ॥ ४६ ॥ असंवेदनमाशान्तमात्मवेदनमाततम् ।
सत्ता सर्वपदार्थानां नान्या संवेदनाहते ॥ ४७ ॥ संबन्धे द्रष्टृहश्यानां
मध्ये दृष्टिहिं यद्वपुः । द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥ ४८ ॥
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः । अजाड्यसंविन्मननं तन्मयो भव
सर्वदा ॥ ४९ ॥ अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् । अचेतनं
चाजडं च तन्मयो भव सर्वदा ॥ ५० ॥ जडतां वर्जयित्वैकां शिलाया
हृदयं हि तत् । अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा । चित्तं दूरे परित्यज्य</p>
<pb n="458" />
<p>अध्या० ५ ]
महोपनिषत् ॥ ६४ ॥
a
982
योऽसि सोऽसि स्थिरो भव ॥ ५१ ॥ पूर्वं मनः समुदितं परमात्मतत्त्वा-
नातं जगदिदं सविकल्पजालम् । शून्येन शून्यमपि विप्र यथाऽम्बरेण
नीलत्वामुल्लसति चारुतराभिधानम् ॥ ५२ ॥ संकल्प संक्षयवशाद्गलिते.
तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति.
शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥ ५३ ॥ अक-.
र्तृकमरङ्गे च गगने चित्रमुत्थितम् । अद्रष्टृकं स्वानुभवमनिद्रस्वमदर्शनम्
॥ ५४ ॥ साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । निरिच्छं प्रतिबि-.
म्बन्ति जगन्ति मुकुरे यथा ॥ ५५ ॥ एकं ब्रह्म चिदाकाशं सर्वात्मकम-
खण्डितम् । इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये ॥ ५६ ॥ रेखोप-
रेखावलिता यथैका पीवरी शिला । तथा त्रैलोक्यवलितं ब्रह्मकमिह दृश्यताम्
॥ ५७ ॥ द्वितीयकारणाभावादनुत्पन्नमिदं जगत् । ज्ञातं ज्ञातव्यमधुना दृष्टं..
द्रष्टव्यमद्भुतम् ॥ ५८ ॥ विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन ।
पश्य विश्रान्त संदेहं विगताशेषकौतुकम् ॥ ५९ ॥ निरस्तकल्पनाजालम-
चित्तत्वं परं पदम् । त एव भूमतां प्राप्ताः संशान्ताशेष किल्बिषाः ॥ ६० ॥
महाधियः शान्तधियो ये याता विमनस्कताम् ।
जन्तोः कृत-
विचारस्य विगलद्वृत्तिचेतसः ॥ ६१ ॥ मननं त्यजतो नित्यं किंचित्परिणत
मनः । दृश्यं संत्यजतो हेयमुपादेयमुपेयुषः ॥ ६२ ॥ द्रष्टारं पश्यतों
नित्यमद्रष्टारमपश्यतः । विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥ ६३ ॥
सुप्तस्य घनसंमोहमये संसारवत्र्त्मनि । अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि
॥ ६४॥ संसारवासनाजाले खगजाल इवाधुना । त्रोटिते हृदयग्रन्थौं
थे वैराग्यरंहसा ॥ ६५ ॥ कातकं फलमासाद्य यथा वारि प्रसीदति ।
तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥ ६६ ॥ नीरागं निरुपास
निर्द्वन्द्वं निरुपाश्रयम् । विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव ॥ ६७ ॥
शान्तसंदेहदौरात्म्यं गतकौतुकविभ्रमम् । परिपूर्णान्तरं चेतः पूर्णेन्दुरिव
राजते ॥ ६८ ॥ नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् । इत्थं सद-
सतोर्मध्याद्यः पश्यति स पश्यति ॥ ६९ ॥ अयत्नोपनतेष्वक्षिदृग्दृश्येषु
यथा मनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ७० ॥ परिज्ञा-
योपभुक्तो हि भोगो भवति तुष्टये । विज्ञाय सेवितश्चौरो मैत्रीमेति
१ मध्ये यः</p>
<pb n="459" />
<p>-४४४
ईशाद्युपनिषत्सु -
[ अध्या० ५
न चोरताम् ॥ ७१ ॥ अशङ्कितापि संप्राप्ता ग्रामयात्रा यथाऽध्वगैः ।
प्रेक्ष्यते तदेव ज्ञैर्भोगश्रीरवलोक्यते ॥ ७२ ॥ मनसो निगृहीतस्य लीला-
-भोगोऽल्पकोsपि यः । तमेवालब्धविस्तारं किष्टत्वाद्वहु मन्यते ॥ ७३ ॥
बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति । परैरबद्धो नाक्रान्तो न राष्ट्र
बहु मन्यते ॥ ७४ ॥ हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ॥ ७५ ॥ मनसो विजयान्नान्या
गतिरस्ति भवार्णवे । महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ॥ ७६ ॥
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः । प्रक्षीणचित्तदर्पस्य निगृहीते-
द्विद्विषः ॥ ७७ ॥ पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।
तावनिशीव वेताला वसन्ति हृदि वासनाः । एकतत्त्वदृढाभ्यासाद्यावन्न
विजितं मनः ॥ ७८ ॥ भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् ।
सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥ ७९ ॥ लालनात्स्निग्धललना
`पालनात्पालकः पिता । सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः ॥ ८० ॥
'स्वालोकतः शास्त्रशा स्वबुद्ध्या स्वानुभावतः । प्रयच्छति परां सिद्धिं
Farari मनः पिता ॥ ८१ ॥ सुहृष्टः सुदृढः स्वच्छः सुक्रान्तः सुप्रबो-
धितः । स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः ॥ ८२ ॥ एवं
मनोमा ब्रह्मन्बहुपङ्ककलङ्कितम् । विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव
॥ ८३ ॥ विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च । इन्द्रियारीनलं
छत्त्वा तीर्णो भव भवार्णवात् ॥ ८४ ॥ आस्थामात्रमनन्तानां दुःखानामाकरं
विदुः । अनास्थामात्रमभितः सुखानामालयं विदुः ॥ ८५ ॥ वासना-
agessi लोको विपरिवर्तते । सा प्रसिद्धाऽतिदुःखाय सुखायोच्छेदमा-
गता ॥ ८६ ॥ धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि । तृष्णया
बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ८७ ॥ परमं पौरूपं यत्नमास्थायादाय
सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ॥ ८८ ॥ अहं
सर्वमिदं विश्वं परमात्माहमच्युतः । नान्यदस्तीति संवित्त्या परमा सा
ह्यहंकृतिः ॥ ८९ ॥ सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः । इति
या संविदो ब्रह्मन्द्वितीयाऽहंकृतिः शुभा ॥ ९० ॥ मोक्षायैपा न बन्धाय
जीवन्मुक्तस्य विद्यते ॥ ९१ ॥ पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ।
अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ॥ ९२ ॥ जीव एव दुरा-</p>
<pb n="460" />
<p>•
अध्या० ५
५ ]
महोपनिषत् ॥ ६४ ॥</p>
<note>४.४५</note>
<p>मासौ कन्दः संसारदुस्तरोः । अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥९३॥
अनया दुरहं कृत्या भावात्संत्यक्तयाचिरम् । शिष्टाहंकारवाञ्जन्तुः शमवा-
न्याति मुक्तताम् ॥ ९४ ॥ प्रथमौ द्वावहंकारावङ्गीकृत्य स्वलौकिकौ r
तृतीयाsहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥ ९५ ॥ अथ ते अपि संत्यज्य
सर्वाहंकृतिवर्जितः । स तिष्ठति तथात्युच्चैः परमेवाधिरोहति ॥ ९६ ॥
भोगेच्छामान्त्रको बन्धस्तत्यागो मोक्ष उच्यते । मनसोऽभ्युदयो
नाशो मनोनाशो महोदयः ॥ ९७ ॥ ज्ञमनो नाशमभ्येति मनो-
ऽज्ञस्य हि शृङ्खला । नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् । न सन्ना -
सन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥ ९८ ॥ यथा सौक्ष्म्या च्चिदाभास्य
आकाशो नोपलक्ष्यते । तथा निरंशश्विद्भावः सर्वगोऽपि न लक्ष्यते ॥ ९९ ॥
सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता । सैषा चिदविनाशात्मा स्वास्मेत्यादि-
कृताभिधा ॥ १०० ॥ आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी । सकला-
मलसंसारस्वरूपैकात्मदर्शिनी ॥ १०१ ॥ नास्तमेति न चोदेति नोत्तिष्ठति न
तिष्ठति । न च याति न चायाति न च नेह न चेह चित् ॥ १०२ ॥ सैषा
चिदमलाकारा निर्विकल्पा निरास्पदा ॥ १०३ ॥ आदौ शमदमप्रायैर्गुणैः
शिष्यं विशोधयेत् । पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥ १०४ ॥
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियो-
जितः ॥ १०५ ॥ प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः । नास्त्यविद्याम-
लमिति प्राज्ञस्तूपदिशेद्गुरुः ॥ १०६ ॥ सति दीप इवालोकः सत्यर्क इव
वासरः । सति पुष्प इवामोदश्चिति सत्यं जगत्तथा ॥ १०७ ॥ प्रतिभासत
एवेदं न जगत्परमार्थतः । ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये ॥ १०८ ॥
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् । अविद्ययैवोत्तमया स्वार्थना-
शोद्यमार्थया ॥ १०९ ॥ विद्या संप्राप्यते ब्रह्मन्सर्वदोषापहारिणी । शाम्यति
स्वमत्रेण मलेन क्षाल्यते मलम् ॥ ११० ॥ शमं विषं विषेणैति रिपुणाः
हन्यते रिपुः । ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ॥ १११ ॥ न लक्ष्यते
स्वभावोsस्या वीक्ष्यमाणैव नश्यति । नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया
॥ ११२ ॥ सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा । भेददृष्टिरविद्येय
सर्वथा तां विसर्जयेत् ॥ ११३ ॥ मुने नासाद्यते तद्धि पदमक्षयमुच्यते ।
कुतो जातेयमिति ते द्विज मास्तु विचारणा ॥ ११४ ॥ इमां कथमहं हन्मी -</p>
<pb n="461" />
<p>ईशाशुगनिषत्सु -
[ अध्या० ५
त्येषा तेऽस्तु विचारणा । अस्तङ्गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम्
॥ ११५ ॥ यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् । तदस्या रोगशालाय
यतं कुरु चिकित्सने ॥ ११६ ॥ यथैषा जन्मदुःखेषु न भूयस्त्वां नियो-
क्ष्यति । स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छैश्चिदर्णवः ॥ ११७ ॥ एकात्मकम-
खण्डं तदित्यन्तर्भाव्यतां दृढम् । किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्मया-
र्णवे ॥ ११८ ॥ तन्मयैव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे । आत्मन्येवात्मना
योनि यथा सरसि मारुतः ॥ ११९ ॥ तथैवात्माऽऽत्मशक्त्यैव स्वात्मन्येवैति
'लोलताम् । क्षणं स्फुरति सा दैवी सर्वशक्तितया तथा ॥ १२० ॥ देशकाल-
क्रियाशक्तिर्न यस्याः संप्रकर्षणे । स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता
॥ १२१ ॥ रूपं परिमितेनासौ भावयत्यविभाविता । यदैवं भावितं रूपं
तया परमकान्तया ॥ १२२ ॥ तदैवैनामनुगता नामसंख्यादिका दृशः ।
'विकल्पकलिताकारं देशकालक्रियास्पदम् ॥ १२३ ॥ चितो रूपमिदं ब्रह्म-
क्षेत्रज्ञ इति कथ्यते । वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः ॥ १२४ ॥
अहंकारो विनिर्णेता कलङ्की बुद्धिरुच्यते । बुद्धिः संकल्पिताकारा प्रयाति
मननास्पदम् ॥ १२५ ॥ मनो धनविकल्पं तु गच्छतीन्द्रियतां शनैः ।
पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ॥ १२६ ॥ एवं जीवो हि
संकल्पवासनारजवेष्टितः । दुःखजालपरीतात्मा क्रमादायाति नीचताम्
॥ १२७ ॥ इति शक्तिमयं चेतो धनाहंकारतां गतम् । कोशकारकृमिरिव
स्वेच्छया याति बन्धनम् ॥ १२८ ॥ स्वयं कल्पिततन्मात्राजालाभ्यन्तरवर्ति
च । परां विवशतामेति शृङ्खलाबद्ध सिंहवत् ॥ १२९ ॥ क्वचिन्मनः क्वचिद्बुद्धिः
'वचिज्ज्ञानं क्वचित्क्रिया । क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥ १३० ॥
क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् । क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति
'संस्मृतम् ॥ १३१ ॥ क्वचिद्वन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् । प्रोक्तं क्वचि-
दविद्येति क्वचिदिच्छेति संमतम् ॥ १३२ ॥ इमं संसारमखिलमाशापाशवि-
'धायकम् । दधदन्तः फलैर्हीनं वटधाना वटं यथा ॥ १३३ ॥ चिन्तानलशि-
खादग्धं कोपाजगरचर्वितम् । कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम्
॥ १३४ ॥ समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् । एवं जीवाश्रिता भावा
भवभावनयाहिताः ॥ १३५ ॥ ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः ।
संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥ १३६ ॥ उत्पत्स्यन्तेऽपि</p>
<pb n="462" />
<p>अध्या० ५ ]
महोपनिषत् ॥ ६४ ॥</p>
<p>चैवान्ये कणौघा इव निर्झरात् केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः
॥ १३७ ॥ केचिच्चासंख्यजन्मानः केचिह्नित्रिभवान्तराः । केचित्किन्नरगन्धर्व-
विद्याधरमहोरगाः ॥ १३८ ॥ केचिदर्केन्दुवरुणाख्यक्षाधोक्षजपद्मजाः । केचि-
ह्राह्मणभूपालवैश्यशूद्रगणाः स्थिताः ॥ १३९ ॥ केचितृणौषधीवृक्षफल-
मूलपतङ्गकाः । केचित्कदम्ब जम्बीरसालतालतमालकाः ॥ १४० ॥ केचिन्महे-
न्द्रमलयसह्यमन्दरमेरवः । केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः ॥ १४१ ॥
केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः । विहायस्युच्चकैः केचिन्निपत-
न्त्युत्पतन्ति च ॥ १४२ ॥ कन्दुका इव हस्तेन मृत्युनाऽविरतं हताः । भुक्त्वा
जन्मसहस्राणि भूयः संसारसंकटे ॥ १४३ ॥ पतन्ति केचिदबुधाः संप्राप्यापि
विवेकताम् । दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥ १४४ ॥ लीलयैव
यदादत्ते दिक्कालकलितं वपुः । तदेव जीवपर्यायवासनावेशतः परम् ॥ १४५ ॥
मनः संपद्यते लोलं कलनाssकलनोन्मुखम् । कलयन्ती मनःशक्तिरादौ भाव-
यति क्षणात् ॥ १४६ ॥ आकाशभावनामच्छां शब्दबीजर सोन्मुखीम् ।
ततस्तद्वनतां यातं घनस्पन्दक्रमान्मनः ॥ १४७ ॥ भावयत्यनिलस्पन्दं स्पर्श-
बीजरसोन्मुखम् । ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥ १४८ ॥
शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः । रूपतन्मात्रसहितं त्रिभिस्तैः सह
संमितम् ॥ १४९ ॥ मनस्ताहग्गुणगतं रसतन्मात्र वेदनम् । क्षणाचे तत्यां
शैत्यं जलसंवित्ततो भवेत् ॥ १५० ॥ ततस्तादृग्गुणगतं मनो भावयति
क्षणात् । गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् ॥ १५१ ॥ अथेत्थंभूत-
तन्मात्रवेष्टितं तनुतां जहत् । वपुर्वह्निकणाकारं स्फुरितं व्योनि पश्यति
॥ १५२ ॥ अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् । तत्पुर्यष्टकमित्युक्तं भूत-
हृत्पद्मषट्पदम् ॥ १५३ ॥ तस्मिंस्तु तीव्र संवेगाद्भावयद्भासुरं वपुः । स्थूल-
तामेति पाकेन मनो बिल्वफलं यथा ॥ १५४ ॥ मूषास्थद्रुतहेमाभं स्फुरितं
विमलाम्बरे । संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः ॥ १५५ ॥ ऊर्ध्वं शिरः-
पिण्डमयमधः पादमयं तथा । पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम्
॥ १५६ ॥ कालेन स्फुटतामेत्य भवत्यमलविग्रहम् । बुद्धिसत्त्वबलोत्साह-
विज्ञानैश्वर्यसंस्थितः ॥ १५७ ॥ स एव भगवान्ब्रह्मा सर्वलोकपितामहः ।
अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥ १५८ ॥ चिन्तामभ्येत्य भग-
वांस्त्रिकालामलदर्शनः । एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणि ॥ १५९ ॥</p>
<pb n="463" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति । इति चिन्तितवान्ब्रह्मा सद्योजाताम-
लात्मदृक् ॥ १६० ॥ अपश्यत्स्वर्गवृन्दानि समतीतान्यनेकशः । स्मरत्यथो स
सकलान्सर्वधर्मगुणक्रमात् ॥ १६१ ॥ लीलया कल्पयामास चित्राः संकल्पतः
प्रजाः । नानाजारसमारम्भो गन्धर्वनगरं यथा ॥ १६२ ॥ तासां स्वर्गापव-
गर्थं धर्मकामार्थसिद्धये । अनन्तानि विचित्राणि शास्त्राणि समकल्पयत्
॥ १६३ ॥ विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः । तावत्स्थितिरियं
प्रोक्ता तन्नाशे नाशमाप्नुयात् ॥ १६४ ॥ न जायते न म्रियते क्वचित्किंचित्क -
दाचन । परमार्थेन विप्रेन्द्र मिथ्या सर्व तु दृश्यते ॥ १६५ ॥ कोशमाशा-
भुजङ्गानां संसाराडम्बरं त्यज । असदेतदिति ज्ञात्वा मातृभावं निवेशय
॥ १६६ ॥ गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा । अविद्यांशे सुतादौ वा कः
क्रमः सुखदुःखयोः ॥ १६७ ॥ धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता ।
वृद्धायां मोहमायायां कः समाश्वासवानिह ॥ १६८ ॥ यैरेव जायते रागो
मूर्खस्याधिकतां गतैः । तैरेव भागैः प्राज्ञस्य विराग उपजायते ॥ १६९॥
अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः । नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर
॥ १७० ॥ अनागतानां भोगानामवान्छनमकृत्रिमम् । आगतानां च संभोग
इति पण्डितलक्षणम् ॥ १७१ ॥ शुद्धं सदसतोर्मध्यं पदं बुवावलम्ब्य च ।
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥ १७२ ॥ यस्य चेच्छा तथा-
निच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः
॥ १७३ ॥ यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज । तदा विज्ञातविज्ञेया
समुत्तीर्णो भवार्णवात् ॥ १७४ ॥ उच्चैः पदाय परया प्रज्ञया वासनागणात् ।
पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु ॥ १७५ ॥ संसाराम्बुनिधावस्मिन्वासना-
म्बुपरिते । ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे ॥ १७६ ॥ न त्यजन्ति
न वाञ्छन्ति व्यवहारं जगद्गतम् । सर्वमेवानुवर्तन्ते पारावारविदो जनाः
॥ १७७ ॥ अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः । चितश्वेतोन्मुखत्वं
यत्तत्संकल्पाङ्कुरं विदुः ॥ १७८ ॥ लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।
याति चित्तत्वमापूर्य दृढं जोड्याय मेघवत् ॥ १७९ ॥ भावयन्ति चितिश्चैत्यं
व्यतिरिक्तमिवात्मनः । संकल्पतामिवायाति बीजमरामिव ॥ १८० ॥
संकल्पनं हि संकल्पः स्वयमेव प्रजायते । वर्धते स्वयमेवाशु दुःखाय न
१ वेशतः. २ चाकाशमेघ.</p>
<pb n="464" />
<p>अध्या० ६ ]
महोपनिषत् ॥ ६४ ॥</p>
<p>सुखाय यत् ॥ १८१ ॥ मा संकल्पय संकल्पं मा भावं भावय स्थितौ ।
संकल्पनाशने यत्तो न भूयोऽननुगच्छति ॥ १८२ ॥ भावनाभावमात्रेण
संकल्पः क्षीयते स्वयम् । संकल्पेनैव संकल्पं मनसैव मनो मुने ॥ १८३ ॥
छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् । यथैवेदं नभः शून्यं जग-
च्छून्यं तथैव हि ॥ १८४ ॥ तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।
नश्यति क्रियया विप्र पुरुषस्य तथा मलम् ॥ १८५ ॥ जीवस्य तण्डुलस्येव
मलं सहजमप्यलम् । नश्यत्येव न संदेहस्तस्मादुद्योगवान्भवेत् ॥ १८६ ॥
इति महोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
अन्तरस्थां परित्यज्य भावश्रीं भावनामयीम् । योऽसि सोऽसि जगत्य-
मिँलीलया विहरानघ ॥ १ ॥ सर्वत्राहमकर्तेति दृढभावनयानया ।
परमामृतनाम्नी सा समतैवावशिष्यते ॥ २ ॥ खेदोल्लासविलासेषु स्वात्म-
कर्तृतयैकया। स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥ ३ ॥ समता
सर्वभावेषु यासौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्म-
भाग्भवेत् ॥ ४ ॥ अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने । सर्वं त्यक्त्वा
मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ ५ ॥ शेषस्थिरसमाधानो येन
त्यजसि तत्यज । चिन्मनः कलनाकारं प्रकाशतिमिरादिकम् ॥ ६ ॥ वासनां
वासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्त्वा व्योमसाम्यः
प्रशान्तधीः ॥ ७ ॥ हृदयात्संपरित्यज्य सर्ववासनपतयः । यस्तिष्ठति
गतव्यग्रः स मुक्तः परमेश्वरः ॥ ८ ॥ दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या
दिशो दश । युक्तया वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ॥ ९ ॥ सबा-
ह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च । इत आत्मा ततोऽध्यात्मा नास्त्य -
नात्ममयं जगत् ॥ १० ॥ न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।
किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥ ११ ॥ समस्तं खल्विदं
ब्रह्म सर्वमात्मेदमाततम् । अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानव
॥ १२ ॥ तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः । न शोकोऽस्ति न
मोहोsस्ति न जराsस्ति न जन्म वा ॥ १३ ॥ यदस्तीह तदेवास्ति विज्वरो
भव सर्वदा । यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् ॥ १४ ॥ त्यागा-
छानपरित्यागी विज्वरो भव सर्वदा । यस्येदं जन्म पाश्चात्यं तमाश्वेव
अ. उ. २९</p>
<pb n="465" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ६
महामते ॥ १५ ॥ विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् । विरक
मनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ॥ १६ ॥ द्रष्टुर्दश्यसमायोगात्प्रत्यया-
नन्दनिश्चयः । यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे ॥ १७ ॥
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रत्ययाभासमात्मानं समु-
पास्महे ॥ १८ ॥ द्वयोर्मध्यगतं नित्यमस्ति - नास्तीतिपक्षयोः । प्रकाशनं
प्रकाशानामात्मानं समुपास्महे ॥ १९ ॥ संत्यज्य हृद्गुहेशानं देवमन्यं
प्रयान्ति ये । ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ २० ॥ उत्थि -
तानुत्थितानेतानिन्द्रियारीन्पुनः पुनः । हन्याद्विवेकदण्डेन वज्रेणेव हरि -
गिरीन् ॥ २१ ॥ संसाररात्रिदुः स्वमे शून्ये देहमये भ्रमे । सर्वमेवा-
पवित्रं तद्दृष्टं संसृतिविभ्रमम् ॥ २२ ॥ अज्ञानोपहतो बाल्ये यौवने वनिता-
हृतः । शेषे कलत्रचिन्तार्तः किं करोति नराधमः ॥ २३ ॥ सतोsसत्ता
स्थिता मूर्ध्नि रम्याणां मूर्यरम्यता । सुखानां मूर्ध्नि दुःखानि किमेकं संश्र-
याम्यहम् ॥ २४ ॥ येषां निमेषणोन्मेषौ जगतः प्रलयोदयौ । तादृशाः
पुरुषा यान्ति मादृशां गणनैव का ॥ २५ ॥ संसार एवं दुःखानां सीमान्त
इति कथ्यते । तन्मध्ये पतिते देहे सुखमासाद्यते कथम् ॥ २६ ॥ प्रबु-
द्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्वोरोऽयमात्मनः । मनो नाम निहन्म्येनं मन-
साऽस्मि चिरं हृतः ॥ २७ ॥ मा खेदं भज हेयेषु नोपादेयपरो भव । हेयादेय-
दृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव ॥ २८ ॥ निराशता निर्भयता
नित्यता समता ज्ञता । निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥ २९ ॥
धृतिमैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता । हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवा-
सनम् ॥ ३० ॥ गृहीततृष्णाशबरीवासनाजालमाततम् । संसारवारि
प्रसृतं चिन्तातन्तुभिराततम् ॥ ३१ ॥ अनया तीक्ष्णया तात छिन्धि
बुद्धिशलाकया । चात्ययेवाम्बुदं जालं छित्त्वा तिष्ठ तते पदे ॥ ३२ ॥
मनसैव मनश्छित्त्वा कुठारेणेव पादपम् । पदं पावनमासाद्य सद्य एव
स्थिरो भव ॥ ३३ ॥ तिष्ठन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् । असदेवेद-
मित्यन्तं निश्चित्यास्थां परित्यज ॥ ३४ ॥ दृश्यमाश्रयसीदं चेत्तत्सच्चित्तोऽसि
बन्धवान् । दृश्यं संत्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् ॥ ३५ ॥ नाहं
नेदमिति ध्यायँस्तिष्ठ त्वमचलाचलः । आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे
॥ ३६ ॥ दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव । स्वाद्यस्वादकसंत्यक्तं</p>
<pb n="466" />
<p>अध्या० ६]
महोपनिषत् ॥ ६४ ॥
स्वाद्यस्त्रादकमध्यग्नत ॥ ३७ ॥ स्वदनं केवलं ध्यायम्परमात्ममयो भव ।
अवलम्ब्य निरालम्बः मध्ये मध्ये स्थिरो भव ॥ ३८ ॥ रजुबद्धा विभुः
व्यन्ते तृष्णाबद्धान केनचित् । तस्मान्निदाघ तृष्णां त्वं त्यज संकल्पवर्जनात
॥ ३९ ॥ एतामहं भावमयीमपुण्यां छित्त्वाऽनहं भावशलाकयैव । स्वभा-
चजां भव्यभवान्तभूमौ भव प्रशान्ताखिलभूतभीतिः ॥ ४० ॥ अहमेषां
पदार्थानामेते च मम जीवितम् । नाहमेभिर्विना किंचिन्न मयेते विना किल
॥ ४१ ॥ इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह । नाहं पदार्थस्य
न मे पदार्थ इति भाविते ॥ ४२ ॥ अन्तःशीतलया बुद्ध्या कुर्वतो लीलया
क्रियाम् । यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः ॥ ४३ ॥ सर्व
समतया बुद्ध्या यः कृत्वा वासनाक्षयम् । जहाति निर्ममो देहं नेयोऽसौ
वासनाक्षयः ॥ ४४ ॥ अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५ ॥ निर्मूलं कलनां
त्यक्त्वा वासनां यः शमं गतः । ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणो+
तमम् ॥ ४६ ॥ द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ । आपत्सु
यथाकालं सुखदुःखेष्वनारतौ । संन्यासियोगिनौ दान्तौ विद्धि शान्तौ
मुनीश्वर ॥ ४७ ॥ ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु । सुषुप्तवद्य-
श्चरति स जीवन्मुक्त उच्यते ॥ ४८ ॥ हर्षामर्ष भयक्रोधकामकार्पण्य-
दृष्टिभिः । न हृष्यति ग्लायति यः परामर्शविवर्जितः ॥ ४९ ॥ बाह्यार्थवासनो-
द्भूता तृष्णा बद्धेति कथ्यते । सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते
॥ ५० ॥ इदुमस्तु ममेत्यन्तमिच्छां प्रार्थनयान्विताम् । तां तीक्ष्ण-
शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् ॥ ५१ ॥ तामेतां सर्वभावेषु सत्स्व-
सत्सु च सर्वदा । संत्यज्य परमोदारं पदमेति महामनाः ॥ ५२ ॥
बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि । त्यक्त्वा सदसदास्थां त्वं तिष्ठा
ऽक्षुब्धमहाब्धिवत् ॥ ५३ ॥ जायते निश्चयः साधो पुरुषस्य चतुर्विधः
॥ ५४ ॥ आ पादमस्तकमहं मातापितृविनिर्मितः । इत्येको निश्चयो ब्रह्मन्बन्धा-
यासविलोकनात् ॥ ५५ ॥ अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।
इति द्वितीयो मोक्षाय निश्चयो जायतें सताम् ॥ ५६ ॥ जगजालपदार्थात्मा
सर्व एवाहमक्षयः । तृतीयो निश्चयश्चोतो मोक्षायैव द्विजोत्तम ॥ ५७ ॥
१ अत: शीतलया.</p>
<pb n="467" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ६
अहं जगद्वा सकलं शून्यं व्योम समं सदा । एवमेष चतुर्थोऽपि निश्चयो
मोक्षसिद्धिदः ॥ ५८ ॥ एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया ।
शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः ॥ ५९ ॥ सर्व चाप्यहमे-
वेति निश्चयो यो महामते । तमादाय विषादाय न भूयो जायते मतिः
॥ ६० ॥ शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि । शिवः पुरुष ईशानो
नित्यमात्मेति कथ्यते ॥ ६१ ॥ द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया ।
परमात्ममयी शक्तिरद्वैतैव विजृम्भते ॥ ६२ ॥ सर्वांतपदालम्बी परि-
पूर्णैकचिन्मयः । नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥ ६३ ॥
प्राप्तकर्मकरो नित्यं शत्रु मित्रसमानदृक् । ईहितानीहितैर्मुक्तो न शोचति न
काङ्क्षति ॥ ६४ ॥ सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आश
यज्ञश्च भूतानां संसारे नावसीदति ॥ ६५ ॥ पूर्वा दृष्टिमवष्टभ्य ध्येय-
त्यागविलासिनीम् । जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥ ६६ ॥
अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः । बहिः सर्वसमाचारो लोके
विहर विज्वरः ॥ ६७ ॥ बहिः कृत्रिमसंरंम्भो हृदि संरम्भवर्जितः । कर्ता
बहिरकर्ताsन्तर्लोके विहर शुद्धधीः ॥ ६८ ॥ त्यक्ताहंकृतिराश्वस्तमतिराकाश-
शोभनः । अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः ॥ ६९ ॥ उदारः
मेशलाचारः सर्वाचारानुवृत्तिमान् । अन्तःसङ्गपरित्यागी बहिःसंभार-
वानिव । अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः ॥ ७० ॥ अयं बन्धु-
स्यं नेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम्
H ७१ ॥ भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्तकलनारम्यंं
नीरागं पदमाश्रय ॥ ७२ ॥ एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा
विगतामया । आदाय विहरन्नेवं संकटेषु न मुह्यति ॥ ७३ ॥ वैराग्येणाथ
शास्त्रेण महत्त्वादिगुणैरपि । येत्संकल्पहरार्थं तत्स्वयमेवोन्नयन्मनः ॥ ७४ ॥
वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् । आशया रक्ततामेति शरदीव
सरोऽमलम् ॥ ७५ ॥ तमेव भुक्तिविरसं व्यापारधं पुनः पुनः । दिवसे
दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते ॥ ७६ ॥ चिञ्चैवकलितो बन्धस्तन्मुक्त
मुक्तिरुच्यते । चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः ॥ ७७
एतन्निश्चयमादाय विलोकय धियेद्ध्या । स्वयमेवात्मनात्मानमानन्दं
१ संभारो. २ यत्नोपद्विहरार्थं (?). ३ नाशदशानुगं . ४ धियेच्छया, यथेच्छया.</p>
<pb n="468" />
<p>शारीरकोपनिषर ॥ ६५ ॥</p>
<p>पदमाप्स्यसि ॥ ७८ ॥ चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः ।
दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् ॥ ७९ ॥ नित्योदितो निराभासो
द्रष्टा साक्षी चिदात्मकः ॥ ८० ॥ चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूप-
कम् । संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् ॥ ८१ ॥ संशान्त-
सर्वसंकल्पः प्रशान्तसकलेषणः । निर्विकल्पपदं गत्वा स्वस्थो भव
मुनीश्वर ॥ ८२ ॥ इति । य इमां महोपनिषदं ब्राह्मणो नित्यमधीते ।
अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति । सोऽग्निपूतो
भवति । स वायुपूतो भवति । स सोमपूतो भवति । स सत्यपूतो
भवति । स सर्वपूतो भवति । स सर्वैर्देवैर्ज्ञातो भवति । स सर्वेषु
तीर्थेषु स्त्रातो भवति । स सर्वैर्देवैरनुध्यातो भवति । स सर्वक्रतुभिरिष्ट-
वाम्भवति । गायत्र्याः षष्टिसहस्राणि जप्तानि फलानि भवन्ति । इतिहास-
पुराणानां शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जर्स
भवति । आ चक्षुषः पङ्क्ति पुनाति । आ सप्तमान्पुरुषयुगान्पुनाति । इत्याह
भगवान्हिरण्यगर्भः । जप्येनामृतत्वं च गच्छतीत्युपनिषत् ॥ ८३ ॥
ॐ आप्यायन्त्विति शान्तिः ॥ ॐ तत्सत् ॥
इति महोपनिषत्सु षष्ठोऽध्यायः ॥ ६ ॥
इति महोपनिषत्समाप्ता ॥ ६४ ॥
शारीरकोपनिषत् ॥ ६५ ॥</p>
<lg>
  <l>तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकः ।</l>
  <l>शरीरोपनिषद्वेद्यं श्रीरामब्रह्म में गतिः ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥ '
ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् । यत्कठिनं सा
पृथिवी यद्दवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाका-
शम् । श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ स्वगौ चक्षुरसु
. जिह्वा पृथिव्यां घ्राणमिति । एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरस-
गन्धाश्चेति विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः । वाक्पाणिपादपायूप-
- स्थाख्यानि कर्मेन्द्रियाणि । तेषां क्रमेण वचनादानगमनविसर्गानन्दाश्चैते
१ पुराणरुद्राणी.</p>
<pb n="469" />
<p>.
ईशाडुपनिषत्सु -
विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः । मनोबुद्धिरहंकारश्चित्तमित्यन्तः -
करणचतुष्टयम् । तेषां क्रमेण संकल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपा-
चैते विषयाः । मनःस्थानं गलान्तं बुद्धेर्वदनमहंकारस्य हृदयं चित्तस्य
-नाभिरिति । अस्थिचर्मना डीरोममांसाश्चेति पृथिव्यंशाः । मूत्रश्लेष्मरक्तशुक्र-
स्वेदा अवंशाः । क्षुत्तृष्णालस्य मोहमैथुनान्यः । प्रचारणविलेखनस्थूलाधु-
न्मेष निमेषादि वायोः । कामक्रोध लोभमोहभयान्याकाशस्य । शब्दस्पर्श रूप-
रसगन्धाः पृथिवीगुणाः । शब्दस्पर्शरूपरसाश्चापां गुणाः । शब्दस्पर्शरूपाण्य-
भिगुणाः । शब्दस्पर्शाविति वायुगुणौ । शब्द एक आकाशस्य । सात्त्विकरा -
जसतामसलक्षणानि त्रयो गुणाः ॥ अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।
अक्रोधो गुरुशुश्रूषा
शौचं संतोष आर्जवम् ॥ १ ॥ अमानित्वमदम्भित्वमा-
स्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ॥ २ ॥ अहं
कर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् । एते गुणा राजसस्य प्रोच्यन्ते
ब्रह्मवित्तमैः ॥ ३ ॥ निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च । एते गुणा-
स्वामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ॥ ४ ॥ ऊर्ध्वे सात्त्विको मध्ये राजसोऽध-
स्तामस इति । सत्यज्ञानं सात्त्विकम् । धर्मज्ञानं राजसम् । तिमिरान्धं ताम-
समिति । जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः । ज्ञानेन्द्रियकर्मे-
न्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् । अन्तःकरणचतुष्टयैरेव
संयुक्तः स्वतः । चित्तैककरणा सुषुप्तिः । केवलजीवयुक्तमेव तुरीयमिति ।
उन्मीलित निमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इत्तिः
विज्ञायते । बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः सुसूक्ष्मं
लिङ्गमुच्यते ॥ ५ ॥ मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृ-
तयस्त्वष्टौ विकाराः षोडशापरे ॥ ६ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव
चञ्चमम् । पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥ ७ ॥ शब्दः स्पर्शश्च
रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु ॥ ८ ॥
. चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः ॥ ९ ॥ इत्युपनिषत् ॥ ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इति शारीरकोपनिषत्समाप्ता ॥ ६५ ॥
तुः</p>
<pb n="470" />
<p>अध्या० १]
योगशिखोपनिषद् ॥ ६६ ॥</p>
<lg>
  <l>यागशिखोपनिषत् ॥ ६६ ॥</l>
  <l>योगज्ञाने यत्पदातिसाधनत्वेन विश्रुते ।</l>
  <l>तन्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपया
वद शंकर ॥ १॥ सर्वसिद्धिकरं मार्ग मायाजालनिकृन्तनम् । जन्ममृत्यु-
जराव्याधिनाशनं सुखदं वद ॥ २ ॥ इति हिरण्यगर्भः पप्रच्छ स होवाच महे-
श्वरः । नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ॥ ३ ॥ सिद्धिमार्गेण लभते
नान्यथा पद्मसंभव । पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ ४ ॥
स्वात्मप्रकाशरूपं तत्कि शास्त्रेण प्रकाश्यते । निष्कलं निर्मलं शान्तं सर्वातीत
निरामयम् ॥ ५ ॥ तदेव जीवरूपेण पुण्यपापफलैर्वृतम् । परमात्मपदं नित्यं
तत्कथं जीवतां गतम् ॥ ६ ॥ तत्वातीतं महादेव प्रसादात्कथयेश्वर । सर्व-
भावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ७ ॥ वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृति-
रुत्थिता । पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥ ८ ॥ सुखदुःखैः
समायुक्तं जीवभावनया कुरु । तेन जीवाभिधा प्रोक्ता विशुद्धे परमात्मनि
॥ ९ ॥ कामक्रोधभयं चापि मोहलोभमंथो रजः । जन्म मृत्युश्च कार्पण्यं
शोकस्तन्द्रा क्षुधा तृषा ॥ १० ॥ तृष्णा लजा भयं दुःखं विषादो हर्ष एव
च । एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते ॥ ११ ॥ तस्माद्दोषविनाशार्थ-
मुपायं कथयामि ते । ज्ञानं के विदन्त्यत्र केवलं तन्न सिद्धये ॥ १२ ॥
योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो
मोक्षकर्मणि ॥ १३ ॥ तस्माज्ज्ञानं च योगं च मुमुक्षुर्द्दढमभ्यसेत् । ज्ञानस्त्र-
रूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् ॥ १४ ॥ अज्ञानं कीदृशं चेति प्रविचार्य
मुमुक्षुणा । ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ॥ १५ ॥ असौ दोषैर्वि-
निर्मुक्तः कामक्रोधभयादिभिः । सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते
॥ १६ ॥ स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा । कामक्रोधादिदोषाणां
स्वरूपान्नास्ति भिन्नता ॥ १७ ॥ पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं
भवेत् । विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः ॥ १८ ॥ परिपूर्णस्वरूपं
१ मदा रजः •</p>
<pb n="471" />
<p>"ईशाद्युपनिषत्सु -
[ अध्या० १
तत्सत्यं कमलसंभव । सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि ॥ १९ ॥
कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् । निष्कलं निर्मलं साक्षात्सकलं
गगनोपमम् ॥ २० ॥ उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् । एतद्रूपं
समायातः स कथं मोहसागरे ॥ २१ ॥ निमज्जति महाबाहो त्यक्त्वा विद्यां
पुनः पुनः । सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः ॥ २२ ॥ तथा-
ज्ञानी दातिष्ठेद्वासनावासितस्तदा । तयोर्नास्ति विशेषोऽत्र समा संसार-
भावना ॥ २३ ॥ ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः । ज्ञाननिष्ठो विर-
क्तोऽपि धर्मज्ञो विजितेन्द्रियः ॥ २४ ॥ विना देहेन योगेन न मोक्षं लभते
विधे । अपक्वाः परिपक्काश्च देहिनो द्विविधाः स्मृताः ॥ २५ ॥ अपक्का योग-
हीनास्तु पक्का योगेन देहिनः । सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः
॥ २६ ॥ जडस्तु पार्थिवो ज्ञेयो पक्को दुःखदो भवेत् । ध्यानस्थोऽसौ तथा-
प्येवमिन्द्रियैर्विशो भवेत् ॥ २७ ॥ तानि गाढं नियम्यापि तथाप्यन्यैः
प्रबाध्यते । शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा ॥ २८ ॥ अन्यैर्नाना-
विधैजींवैः शस्त्राग्निजलमारुतैः । शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः
॥ २९ ॥ तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः । ततो दुःखशतैर्व्याप्तं
चित्तं क्षुब्धं भवेन्नृणाम् ॥ ३० ॥ देहावसानसमये चित्ते यद्यद्विभावयेत् ।
तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥ ३१ ॥ देहान्ते किं भवेजन्म तन्न
जानन्ति मानवाः । तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः ॥ ३२ ॥
पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते । असौ किं वृश्विकैर्दष्टो देहान्ते
वा कथं सुखी ॥ ३३ ॥ तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः ।
अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै ॥ ३४ ॥ देहस्त्वपि भवेन्नष्टो व्योध-
यश्चास्य किं पुनः । जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति ॥ ३५ ॥ यदा
यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् । तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगा-
दयः ॥ ३६ ॥ कारणेन विना कार्यं न कदाचन विद्यते । अहंकारं विना तद्व-
देहे दुःखं कथं भवेत् ॥ ३७ ॥ शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् ।
तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् ॥ ३८ ॥ इन्द्रियाणि मनो बुद्धिः
कामक्रोधादिकं जितम् । तेनैव विजितं सर्वं नासौ केनापि बाध्यते ॥ ३९ ॥
महाभूतानि तत्त्वानि संहृतानि क्रमेण च । सप्तधातुमयो देहो दग्धो योगा-
१ यथा तिष्ठेत्. २ देहान्तं.
व्याधिभिश्चास्य.</p>
<pb n="472" />
<p>मध्या० १]
योगशिखोपनिषत् ॥ ६६ ॥</p>
<p>झिना शनैः ॥ ४० ॥ देवैरपि न लक्ष्येत योगिदेहो महाबलः । भेदबन्ध-
विनिर्मुक्तो नानाशक्तिधरः परः ॥ ४१ ॥ यथाssकाशस्तथा देह आकाशादपि
निर्मलः । सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाजडः ॥ ४२ ॥ इच्छा-
रूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः । क्रीडते त्रिषु लोकेषु लीलया यत्र-
कुत्रचित् ॥ ४३ ॥ अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् । संहरेच
पुनस्तानि स्वेच्छया विजितेन्द्रियः ॥ ४४ ॥ नासौ मरणमाप्नोति पुनर्योग-
बलेन तु । हठेन मृत एवासौ मृतस्य मरणं कुतः ॥ ४५ ॥ मरणं यत्र सर्वेषां
तत्रासौ परिजीवति । यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै ॥ ४६ ॥
कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते । जीवन्मुक्तः सदा स्वच्छः सर्व-
दोषविवर्जितः ॥ ४७ ॥ विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा । ते
कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः ॥ ४८ ॥ देहान्ते ज्ञानिभिः
पुण्यात्पापाच्च फलमाप्यते । ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् ॥ ४९ ॥
पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम् । ततः सिद्धस्य कृपया योगी
भवति नान्यथा ॥ ५० ॥ ततो नश्यति संसारो नान्यथा शिवभाषितम् ।
योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे ॥ ५१ ॥ ज्ञानेनैव विना योगो न
सिध्यति कदाचन । जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते ॥ ५२ ॥ ज्ञानं
तु जन्मनैकेन योगादेव प्रजायते । तस्माद्योगात्परतरो नास्ति मार्गस्तु
मोक्षदः ॥ ५३ ॥ प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते । किमसौ मन-
नादेव मुक्तो भवति तत्क्षणात् ॥ ५४ ॥ पश्चाजन्मान्तरशतैर्योगादेव विमु-
च्यते । न तथा भवतो योगाज्जन्ममृत्यू पुनःपुनः ॥ ५५ ॥ प्राणापानसमा•
योगाच्चन्द्रसूर्यैकता भवेत् । सप्तधातुमयं देहममिना रञ्जयेद्ध्रुवम् ॥ ५६ ॥
व्याधयस्तस्य नश्यन्ति छेदखातादिकास्तथा । तदासौ परमाकाशरूपो देव-
तिष्ठति ॥ ५७ ॥ किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै । देहीव दृश्यते
लोके दग्धकर्पूरवत्स्वयम् ॥ ५८ ॥ चित्तं प्राणेन संबद्ध सर्वजीवेषु संस्थि-
तम् । रज्वा यद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः ॥ ५९ ॥ नानाविधैर्विचारैस्तु
न बाध्यं जायते मनः । तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा ॥ ६० ॥
वर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः । न वशो जायते प्राणः सिद्धोपायं
विनाविधे ॥ ६१ ॥ उपायं तमविज्ञाय योगमार्गे प्रवर्तते । खण्डज्ञानेन
१ जीवति मूढस्तु. २ सिद्ध्युपायं विना.</p>
<pb n="473" />
<p>ईशाधुपनिषत्सु -
[ अध्या० १
सहसा जायते क्लेशवत्तरः ॥ ६२ ॥ यो जित्वा पवनं मोहाद्योगमिच्छति
योगिनाम् । सोऽपक्कं कुम्भमारुह्य सागरं तर्तुमिच्छति ॥ ६३ ॥ यस्य प्राणो
विलीनोऽन्तः साधके जीविते सति । पिण्डो न पतितस्तस्य चित्तं दोषैः
प्रबाधते ॥ ६४ ॥ शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते । तस्माज्ज्ञानं
भवेद्योगाज्जन्मनैकेन पद्मज ॥ ६५ ॥ तस्माद्योगं तमेवादौ साधको नित्यम-
भ्यसेत् । मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे ॥ ६६ ॥ योगात्परतरं
पुण्यं योगात्परतरं शिवम् । योगात्परतरं सूक्ष्मं योगात्परतरं नहि ॥ ६७ ॥
योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा । सूर्याचन्द्रमसोर्योगो जीवात्मपर -
मात्मनोः ॥ ६८ ॥ एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते । अथ योग-
शिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् ॥ ६९ ॥ यदानुध्यायते मन्त्रं गात्र-
कम्पोऽथ जायते । आसनं पद्मकं बच्वा यच्चान्यदपि रोचते ॥ ७० ॥ नासाग्रे
अष्टिमारोप्य हस्तपादौ च संयतौ । मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्त-
येत् ॥ ७१ ॥ ध्यायते सततं प्राज्ञो हत्कृत्वा परमेश्वरम् । एकस्तम्भे नवद्वारे
त्रिस्थूणे पञ्चदैवते ॥ ७२ ॥ ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् । आदि-
त्यमण्डलाकारं रश्मिज्वालासमाकुलम् ॥ ७३ ॥ तस्य मध्यगतं वह्निं प्रज्वले-
द्दीपवर्तिवत् । दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे ॥ ७४ ॥
भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः । द्वितीयं सुपुन्नाद्वारं परिशु
समर्पितम् ॥ ७५ ॥ कपालसंपुढं पीत्वा ततः पश्यति तत्पदम् । अथ न
ध्यायते जन्तुरालस्याच्च प्रमादतः ॥ ७६ ॥ यदि त्रिकालमागच्छेत्स गच्छेत्पुण्य-
संपदम् । पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया ॥ ७७ ॥ लब्धयोगोऽथ
बुध्येत प्रसन्नं परमेश्वरम् । जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् ॥७८॥
तदा पश्यति योगेन संसारोच्छेदनं महत् । अधुना संप्रवक्ष्यामि योगा-
भ्यासस्य लक्षणम् ॥ ७९ ॥ मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा । गुरुवस्त्र-
प्रसादेन कुर्यात्प्राणजयं बुधः ॥ ८० ॥ वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृ-
तम् । मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् ॥ ८१ ॥ निरुध्य मारुतं गाढी
शक्तिचालनयुक्तितः । अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् ॥ ८२ ॥
पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा । मृत्युच्च ऋगतस्यापि तस्य मृत्युभयां
कुतः ॥ ८३ ॥ एतदेव परं गुह्यं कथितं तु मया तव । वज्रासनगतो नित्य -
१ ज्वालयेद्दीप. २ परशुभ्रं.</p>
<pb n="474" />
<p>अध्या० १]
योगोपनिय ॥ ६६ ॥</p>
<p>मूर्ध्वाकुञ्चनमभ्यसेत् ॥ ८४ ॥ वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् ।
संता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी ॥ ८५ ॥ प्रविशेच्चन्द्रतुण्डे तु
सुषुम्नावदनान्तरे । वायुना वह्निना सार्धं ब्रह्मग्रन्थि भिनन्ति सा ॥ ८६ ॥
विष्णुग्रन्थि ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति । ततस्तु कुम्भकैर्गाढं पूरयित्वा
पुनः पुनः ॥ ८७ ॥ अथाभ्यसेत्सूर्यभेदमुजायीं चापि शीतलीम् । भस्त्रा
च सहितो नाम स्याच्चतुष्टयकुम्भकः ॥ ८८ ॥ बन्धन्त्रयेण संयुक्तः केवल-
प्राप्तिकारकः । अथास्य लक्षणं सम्यक्कथयामि समासतः ॥ ८९ ॥ एका-
किना समुपगम्य विविक्तदेशं प्राणादिरूपममृतं परमार्थतत्त्वम् । लघ्वाशिना
धृतिमता परिभावितव्यं संसाररोगहरमौषधमद्वितीयम् ॥ ९० ॥ सूर्यनाड्या
समाकृष्य वायुमभ्यासयोगिना । विधिवत्कुम्भकं कृत्वा रेचयेच्छीतरश्मिना
॥ ९१ ॥ उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च । मुहुर्मुहुरिदं कार्यं
सूर्यभेदमुदाहृतम् ॥ ९२ ॥ नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः
क्षिपेत् । धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः ॥ ९३ ॥ कण्ठे कफादि-
दोषघ्नं शरीराग्निविवर्धनम् । नाडीजलापहं धातुगतदोषविनाशनम् ॥ ९४ ॥
गच्छतस्तिष्ठतः कार्यमुजाय्याख्यं तु कुम्भकम् । मुखेन वायुं संगृह्य घ्राण-
रन्ध्रेण रेचयेत् ॥ ९५ ॥ शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषाम् ।
स्वनयोरथ भस्त्रेव लोहकारस्य वेगतः ॥ ९६ ॥ रेचयेत्पूरयेद्वायुमाश्रमं
देहगं धिया । यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥ ९७ ॥ कण्ठसंकोचन
कृत्वा पुनश्चन्द्रेण रेचयेत् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ ९८ ॥
कुण्डलीबोधकं वक्रदोषघ्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तःस्थकफाद्यर्गल-
नाशनम् ॥ ९९ ॥ सम्यग्बन्धसमुद्भूतं ग्रन्थित्रयविभेदकम् । विशेषेणैव
कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ १०० ॥ बन्धत्रयमथेदानीं प्रवक्ष्यामि
यथाक्रमम् । नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् ॥ १०१ ॥ चतुः
र्णामपि भेदानां कुम्भके समुपस्थिते । बन्धत्रयमिदं कार्यं वक्ष्यमाणं मया:
हि तत् ॥ १०२ ॥ प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः । जालन्धर--
स्तृतीयस्तु लक्षणं कथयाम्यहम् ॥ १०३ ॥ गुदं पार्ष्या तु संपीडय
पायुमाकुञ्चयेद्बलात् । वारंवारं यथा चोर्ध्व समायाति समीरणः ॥ १०४ ॥
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं गच्छतो
१ चन्द्रखण्डे तु</p>
<pb n="475" />
<p>૬૦
ईशाधुपनिषत्सु -
। अध्या० १
नात्र संशयः ॥ १०५ ॥ कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ।
aat aa सुनायां प्राणस्तूड्डीयते यतः ॥ १०६ ॥ तस्मादुड्डीयनाख्योऽयं
योगिभिः समुदाहृतः । उड्डियानं तु सहजं गुरुणा कथितं सदा ॥ १०७ ॥
अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् । नाभेरूर्ध्वमधश्चापि ताणं
कुर्यात्प्रयत्नतः ॥ १०८ ॥ षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः । पूर-
कान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ॥ १०९ ॥ कण्ठसंकोचरूपोऽसौ
वायुमार्गनिरोधकः । कण्ठमाकुञ्चय हृदये स्थापयेदृढमिच्छया ॥ ११० ॥
बन्धो जालन्धराख्योऽयममृताप्यायकारकः । अधस्तात्कुञ्चनेनाशु कण्ठसंको-
चने कृते ॥ १११ ॥ मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः । वज्रा-
सनस्थितो योगी चालयित्वा तु कुण्डलीम् ॥ ११२ ॥ कुर्यादनन्तरं भस्त्रीं
कुण्डलीमा बोधयेत् । भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया ॥ ११३ ॥
तथैव पृष्ठवंशः स्याग्रन्थिभेदस्तु वायुना । पिपीलिकायां लग्नायां कण्डूस्तत्र
प्रवर्तते ॥ ११४ ॥ सुषुम्नायां तथाऽभ्यासात्सततं वायुना भवेत् ।
रुद्रग्रन्थि ततो भित्त्वा ततो याति शिवात्मकम् ॥ ११५ ॥ चन्द्रसूयौं
समौ कृत्वा
तयोर्योगः प्रवर्तते । गुणत्रयमतीतं स्याग्रन्थित्रयवि -
भेदनात् ॥ ११६ ॥ शिवशक्तिसमायोगे जायते परमा स्थितिः । यथा
करी करेणैव पानीयं प्रपिवेत्सदा ॥ ११७ ॥ सुषुम्ना वज्रनालेन पवमानं
ग्रसेत्तथा । वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः ॥ ११८ ॥ सुपुन्नायां
स्थिताः सर्वे सूत्रे मणिगणा इव । मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी
॥ ११९ ॥ यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् । आपूर्य कुम्भितो
वायुर्बहिनों याति साधके ॥ १२० ॥ पुनः पुनस्तद्वदेव पश्चिमद्वारलक्षणम् ।
पूरितस्तु स तद्वारैरीषत्कुम्भकतां गतः ॥ १२१ ॥ प्रविशेत्सर्वगात्रेषु वायुः
पश्चिममार्गतः । रेचितः क्षीणतां याति पूरितः पोषयेत्ततः ॥ १२२ ॥ यत्रैव
जातं सकलेवरं मनस्तत्रैव लीनं कुरुते स योगात् । स एव मुक्तो निरहंकृतिः
सुखी मूढा न जायन्ति हि पिण्डपातिनः ॥ १२३ ॥ चित्तं विनष्टं यदि
भासितं स्यात्तत्र प्रतीतो मरुतोऽपि नाशः । न चेद्यदि स्यान्न तु तस्य शास्त्रं
नात्मप्रतीतिर्न गुरुर्न मोक्षः ॥ १२४ ॥ जैलौका रुधिरं यद्वद्वलादाकर्षति
स्वयम् । ब्रह्मनाडी तथा धातून्संतताभ्यासयोगतः ॥ १२५ ॥ अनेनाभ्यास-
१ त्राणं कुर्यात् २ वंशतप्त. ३ पृष्ठवंशे स्यात्. ४ जम्बुको रुधिरं . .</p>
<pb n="476" />
<p>योगशिखोपनिषत् ॥ ६६ ॥
૩૬૭
• अध्या० १]
योगेन नित्यमासनबन्धतः । चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा
॥ १२६ ॥ रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् । नाना नादाः
प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् ॥ १२७ ॥ नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषा --
स्तंतस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ॥ १२८ ॥ कथित
तु तव भीत्या ह्येतदभ्यासलक्षणम् । मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः
क्रमात् ॥ १२९ ॥ एक एव चतुर्धाऽयं महायोगोऽभिधीयते । हकारेण बहि-
यति सकारेण विशेत्पुनः ॥ १३० ॥ हंसहंसेति मन्त्रोऽयं सर्वैर्जीवैश्च जप्यते ।-
गुरुवाक्यात्सुषुम्नायां विपरितो भवेज्जपः ॥ १३१ ॥ सोऽहंसोऽहमिति प्रोक्तो
मन्त्रयोगः स उच्यते । प्रतीतिर्मयोगाच्च जायते पश्चिमे पथि ॥ १३२ ॥
हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते । सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधी-
यते ॥ १३३ ॥ हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् । क्षेत्रज्ञः परमात्मा
च तयोरैक्यं यदा भवेत् ॥ १३४ ॥ तदैक्ये साधिते ब्रह्मंश्चित्तं याति विली-
नताम् । पवनः स्थैर्यमायाति लययोगोदये सति ॥ १३५ ॥ लयात्संप्राप्यते
सौख्यं स्वात्मानन्दं परं पदम् । योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम्
॥ १३६ ॥ रजो वसति जन्तूनां देवीतत्त्वं सेमावृतम् । रजसो रेतसो योगा-
द्वाजयोग इति स्मृतः ॥ १३७ ॥ अणिमादिपदं प्राप्य राजते राजयोगतः ।
प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् ॥ १३८ ॥ संक्षेपात्कथितं ब्रह्मन्ना-
न्यथा शिवभाषितम् । क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा ॥ १३९ ॥
एकेनैव शरीरेण योगाभ्यासाच्छनैः शनैः । चिरात्संप्राप्यते मुक्तिर्मर्कटक्रम
एव सः ॥ १४० ॥ योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति । पूर्ववास-
नया युक्तः शरीरं चान्यदाप्नुयात् ॥ १४१ ॥ ततः पुण्यवशात्सिद्धो गुरुण
सह संगतः । पश्चिमद्वारमार्गेण जायते ध्वरितं फलम् ॥ १४२ ॥ पूर्वजन्म
कृताभ्यासात्सत्वरं फलमश्रुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते ॥ १४३ ॥
नास्ति काकमतादन्यदभ्यासाख्यमतः परम् । तेनैव प्राप्यते मुक्तिर्नान्यथा
शिवभाषितम् ॥ १४४ ॥ हठयोगक्रमात्काष्ठासहजीवलयादिकम् । प्राकृतं
मोक्षमार्गं स्यात्प्रसिद्धं पश्चिमं चिना ॥ १४५ ॥ आदौ रोगाः प्रणश्यन्ति
पश्चाज्जाड्यं शरीरजम् । ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् ॥ १४६ ॥
भातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः । नाना नादाः प्रवर्तन्ते मार्दवं स्यात्क-
१ स्तत: सदा. २ समाहितम् ३ न्यथाप्नुयान्</p>
<pb n="477" />
<p>"शानुपानंपत्सु
[ अध्या०
- १
लेवरे ॥ १४७ ॥ जित्वा वृष्ट्यादिकं जाख्यं खेचरः स भवेन्नरः । सर्व-
ज्ञोऽसौ भवेत्कामरूपः पवनवेगवान् ॥ १४८ ॥ क्रीडते त्रिषु लोकेषु जायन्ते
सिद्धयोऽखिलाः । कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते ॥ १४९ ॥
अहंकारक्षये तद्वदेहे कठिनता कुतः । सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्त-
रूपवान् ॥ १५० ॥ जीवन्मुक्तो महायोगी जायते नात्र संशयः । द्विविधाः
सिद्धयो लोके कल्पिताsकल्पितास्तथा ॥ १५१ ॥ रसौषधिक्रियाजालमना-
भ्यासादिसाधनात् । सिध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः
॥ १५२ ॥ अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः । साधनेन विना-
प्येवं जायन्ते स्वत एव हि ॥ १५३ ॥ स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्यादीश्वर-
प्रियाः । प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः ॥ १५४ ॥ सिद्धा
नित्या महावीर्या इच्छारूपाः स्वयोगजाः । चिरकालात्प्रजायन्ते वासना रहि-
तेषु च ॥ १५५ ॥ तोस्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विना कार्य
सदा गुप्तं योगसिद्धस्य लक्षणम् ॥ १५६ ॥ यथाकाशं समुद्दिश्य गच्छद्भिः
पथिकैः पथि । नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः ॥ १५७ ॥
स्वयमेव प्रजायन्ते लाभालाभविवर्जिते । योगमार्गे तथैवेदं सिद्धिजालं प्रव-
र्तते ॥ १५८ ॥ परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा । सिद्धिभिर्लक्षयेत्सिद्धं
जीवन्मुक्तं तथैव च ॥ १५९ ॥ अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् ।
सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् ॥ १६० ॥ अजरामर पिण्डो यो
जीवन्मुक्तः स एव हि । पशुकुक्कुटकीटाचा मृतिं संप्राप्नुवन्ति वै ॥ १६१ ॥
तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज । न बहिः प्राण आयाति पिण्डस्य
पतनं कुतः ॥ १६२ ॥ पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते । देहे
ब्रह्मत्वमायाते जलानां सैन्धवं यथा ॥ १६३ ॥ अनन्यतां यदा याति तदा
मुक्तः स उच्यते । विमतानि शरीराणि इन्द्रियाणि तथैव च ॥ १६४ ॥ ब्रह्म
देहत्वमाप वारि हुदतामिव । दशद्वारपुरं देहं दशनाडी महापथम्
॥ १६५ ॥ दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् । षडाधारापवरकं षड
न्वयमहावनम् ॥ १६६ ॥ चतुः पीठसमाकीर्णं चतुराम्नायदीपकम् । बिन्दु-
नादमहालिङ्गं शिवशक्तिनिकेतनम् ॥ १६७ ॥ देहं शिवालयं प्रोक्तं सिद्धिदं
सर्वदेहिनाम् । गुदमेढान्तरालस्थं मूलाधारं त्रिकोणकम् ॥ १६८ ॥ शिवस्य
१ ताः सुगोप्या महायोगः पर. २ तते चेदं .</p>
<pb n="478" />
<p>अध्या० २ ]
योगशिखोपनिषत् ॥ ६६ ॥</p>
<p>जीवरूपस्य स्थानं तद्धिं प्रचक्षते । यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता
॥ १६९ ॥ यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते । यस्मादुत्पद्यते बिन्दुर्य-
स्मान्नादः प्रवर्तते ॥ १७० ॥ यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः । तदेव-
कामरूपाख्यं पीठं कामफलप्रदम् ॥ १७१ ॥ स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले
षडस्रके । नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् ॥ १७२ ॥ द्वादशारं
महाचक्रं हृदये चाप्यनाहतम् । तदेतत्पूर्ण गिर्याख्यं पीठं कमलसंभव ॥ १७३ ॥
कुण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्त्रकम् । पीठं जालन्धरं नाम तिष्ठत्यत्र
सुरेश्वरः ॥ १७४ ॥ आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् । उड्यानाख्यं
महापीठमुपरिष्टात्प्रतिष्ठितम् ॥ १७५ ॥ चतुरस्त्रं धरण्यादौ ब्रह्मा तत्राधि-
देवता । अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता ॥ १७६ ॥ त्रिकोणमण्डलं
बह्वी रुद्रस्तस्याधिदेवता । वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता
३ १७७ ॥ आकाशमण्डलं वृत्तं देवताऽस्य सदाशिवः । नादरूपं भ्रुवोर्मध्ये
मनसो मण्डलं विदुः ॥ १७८ ॥
इति योगशिखोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शंकर । यस्य विज्ञानमात्रेण खेचरी-
समतां व्रजेत् ॥ १ ॥ शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः । द्वादशाब्दं
तु शुश्रूषां यः कुर्यादप्रमादतः ॥ २ ॥ तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्म-
चारिणे । पाण्डित्यादर्थ लोभाद्वा प्रमादाद्वा प्रयच्छति ॥ ३ ॥ तेनाधीतं श्रुतं
तेन तेन सर्वमनुष्ठितम् । मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् ॥ ४ ॥
शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् । तस्य मन्त्रस्य वै ब्रह्मन्छ्रोता वक्ता
च दुर्लभः ॥ ५ ॥ एतस्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् । तस्य विज्ञान-
मात्रेण जीवन्मुक्तो भवेज्जनः ॥ ६ ॥ अणिमादिकमैश्वर्यमचिरादेव जायते ।
मननात्प्राणनाचैव मद्रूपस्यावबोधनात् ॥ ७ ॥ मन्त्रमित्युच्यते ब्रह्मन्मदधि-
नतोऽपि वा । मूलत्वात्सर्वमन्त्राणां मूलाधारसमुद्भवात् ॥ ८ ॥ मूलस्वरू-
पलिङ्गत्वान्मूलमन्त्र इति स्मृतः । सूक्ष्मत्वात्कारणत्वाच्च लयनागमनादपि
॥ ९ ॥ लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते । संविधानात्समस्तेषु जन्तु-
वपि च संततम् ॥ १० ॥ सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते । महामाया
महालक्ष्मीर्महादेवी सरस्वती ॥ ११ ॥ आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते ।
१ तस्मै वऋा. २ यदात्मकं.</p>
<pb n="479" />
<p>ខ
ईशाद्युपनिषत्सु -
[ अध्या० ३
सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते ॥ १२ ॥ बिन्दुपीठं विनिर्भिद्य नाद-
लिङ्गमुपस्थितम् । प्राणेनोच्चार्यते ब्रह्मम्षणमुखीकरणेन च ॥ १३ ॥ गुरूपदेश-
मार्गेण सहसैव प्रकाशते । स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः
॥ १४ ॥ पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भ सूक्ष्मं तु नादं
बीजत्रयात्मकम् ॥ १५ ॥ परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् । अप्रमेय-
मनिर्देश्य मवाङ्मनसगोचरम् ॥ १६ ॥ शुद्धं सूक्ष्मं निराकारं निर्विकारं निर-
अनम् । अनन्तमपरिच्छेद्यमनूपममनामयम् ॥ १७ ॥ आत्ममन्त्रसदाभ्यांसा-
परतत्त्वं प्रकाशते । तदभिव्यक्ति चिह्नानि सिद्धिद्वाराणि मे शृणु ॥ १८ ॥
दीपज्वालेन्दुखद्योतविद्युन्नक्षत्र भास्वराः । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य
योगिनः ॥ १९ ॥ अणिमादिकमैश्वर्यमचिरात्तस्य जायते । नास्ति नादात्परो
मन्त्रो न देवः स्वात्मनः परः ॥ २० ॥ नानुसंधेः परा पूजा न हि तृप्तेः परं
सुखम् । गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता । मद्भक्त एतद्विज्ञाय कृत-</p>
<lg>
  <l>कृत्यः सुखी भवेत् ॥ २१ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।</l>
  <l>तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २२ ॥ इति ॥</l>
</lg>
<p>इति योगशिखोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् । येन विज्ञातमात्रेण जन्म*
बन्धात्प्रमुच्यते ॥ १ ॥ अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते । मूलाधार-
गता शक्तिः स्वाधारा बिन्दुरूपिणी ॥ २ ॥ तस्यामुत्पद्यते नादः सूक्ष्मबीजा-
दिवाकरः । तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः ॥ ३ ॥ हृदये
व्यज्यते घोषो गर्जरपर्जन्यसंनिभः । तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते
॥ ४ ॥ प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः । शाखापल्लवरूपेण ताल्वा-
दिस्थानघट्टनात् ॥ ५ ॥ अकारादिक्षकारान्तान्यक्षराणि समीरयेत् । अक्ष-
रेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः ॥ ६ ॥ सर्वे वाक्यात्मका मन्त्रा
वेदशास्त्राणि कृत्स्त्रशः । पुराणानि च काव्यानि भाषाश्च विविधा अपि ॥ ७ ॥
सप्त स्वराश्च गाथाश्च सर्वे नादसमुद्भवाः । एषा सरस्वती देवी सर्वभूतगुहा-
श्रया ॥ ८ ॥ वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः । तद्विवर्तपदैर्वाक्यै -
रित्येवं वर्तते सदा ॥ ९ ॥ य इमां वैखरीं शकिं योगी स्वात्मनि पश्यति ।
स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः ॥ १० ॥ वेदशास्त्रपुराणानई
१ षण्मुखे करणेषु.</p>
<pb n="480" />
<p>अध्या० ४ ]
योगाशखोपनिष ॥ ६६ ॥
..</p>
<note>४६५.</note>
<p>स्वयं कर्ता भविष्यति । यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः ॥ ११ ॥
इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत । वायवो यत्र लीयन्ते मनो-
यत्र विलीयते ॥ १२ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ १३ ॥ यत्रोपरमते चित्तंः
निरुद्धं योगसेवया । यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥ १४ ॥
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । एतत्क्षराक्षरातीतमनक्षरमिती-
र्यंते ॥ १५ ॥ क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते । अक्षरं परमं
ब्रह्म निर्विशेषं निरञ्जनम् ॥ १६ ॥ अलक्षणमलक्ष्यं तदप्रतर्क्यमनूपमम् ।
अपारपारमच्छेद्यमचिन्त्यमति निर्मलम् ॥ १७ ॥ आधारं सर्वभूतानामनाधार-
मनामयम् । अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् ॥ १८ ॥ अस्थूलमनणु
हस्त्रमदीर्घमजमव्ययम् । अशब्दमस्पर्शरूपमचक्षुः श्रोत्रनामकम् ॥ १९ ॥
सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् । सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेत-
साम् ॥ २० ॥ निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् । निर्लेपकं निरा-
पायं कूटस्थमचलं ध्रुवम् ॥ २१ ॥ ज्योतिषामपि तज्योतिस्तमःपारे प्रति-
ष्ठितम् । भावाभावविनिर्मुक्तं भावनामात्र गोचरम् ॥ २२ ॥ भक्तिगम्यं परं
तत्त्वमन्तलनेन चेतसा । भावनामात्रमेवात्र कारणं पद्मसंभव ॥ २३ ॥
यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् । विषयं ध्यायतः पुंसो विषये
रमते मनः ॥ २४ ॥ मामनुस्मरतश्चित्तं मय्येवात्र विलीयते । सर्वज्ञत्वं
परेशत्वं सर्वसंपूर्णशक्तिता । अनन्तशक्तिमत्वं च मदनुस्मरणाद्भवेत् ॥ २५ ॥ इति ॥
इति योगशिखोपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् । जीवत्वं च तथा ज्ञेयं
रज्ज्वां सर्पग्रहो यथा ॥ १ ॥ रज्वज्ञानात्क्षणेनैव यद्वद्वज्जुर्हि सर्पिणी ।
भाति तद्वचितिः साक्षाद्विश्वाकारेण केवला ॥ २ ॥ उपादानं प्रपञ्चस्य
ब्रह्मणोऽन्यन्न विद्यते । तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मवास्ति न चेतरत् ॥ ३ ॥
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् । इति ज्ञाते परे तत्त्वे
भेदस्यावसरः कुतः ॥ ४ ॥ ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।
तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय ॥ ५ ॥ ॥ ब्रह्मैव सर्वनामानि
रूपाणि विविधानि च । कर्माण्यपि समग्राणि विभर्तीति विभावय ॥ ६ ॥
१ भासंतीवेति भावय.
अ. उ. ३०</p>
<pb n="481" />
<p>ईशायुपनिषत्सु -
[ अध्या० ५
सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् । ब्रह्मणो जायमानस्य ब्रह्मत्वं च
तथा भवेत् ॥ ७ ॥ स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः । यस्तिष्ठति
विमूढात्मा भयं तस्यापि भाषितम् ॥ ८ ॥ यदज्ञानाद्भवेद्वैत मितर-
तत्प्रपश्यति । आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि ॥ ९ ॥ अनु-
भूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् । असद्रूपो यथा स्वम उत्तरक्षण-
बाधितः ॥ १० ॥ स्वप्ने जागरितं नास्ति जागरे स्वमता नहि । इयमेव
लये नास्ति लयोsपि ह्यनयोर्न च ॥ ११ ॥ त्रयमेव भवेन्मिथ्या गुण-
श्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः ॥ १२ ॥
यद्वन्मृदि घटनान्तिः शुक्तौ हि रजतस्थितिः । तद्वंद्रह्मणि जीवस्वं वीक्षमाणे
विनश्यति ॥ १३ ॥ यथा मृदि घटो नाम कनके कुण्डलाभिधा । शुक्तौ
हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ १४ ॥ यथैव व्योम्नि नीलत्वं यथा
नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ १५॥
यथैव शून्यो वेतालो गन्धर्वाणां पुरं यथा । यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये
जगत्स्थितिः ॥ १६ ॥ यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् । घटनाम्ना यथा
पृथ्वी पटनाम्ना हि तन्तवः ॥ १७ ॥ जगन्नान्ना चिदाभाति सर्वं ब्रह्मैव
केवलम् । यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ॥ १८ ॥
यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः । गृह्यमाणे घटे व्युत्तिक,
भाति वै बळात् ॥ १९ ॥ वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मवाभाति भासुरम् ।
सदैवात्मा विशुद्धोऽस्मि शुद्धो भाति वै सदा ॥ २० ॥ यथैव द्विविधा
रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् । यथैव मृन्मयः कुम्भस्तद्वदेहोऽपि चिन्मयः
॥ २१ ॥ आत्मानात्मविवेकोऽयं मुषैव क्रियते बुधैः । सर्पत्वेन यथा
रज्जू रजतत्वेन शुक्तिका ॥ २२ ॥ विनिर्णीता विमूढेन देहत्वेन तथा-
ssत्मता । घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका ॥ २३ ॥ गृहत्वेन हि काष्ठानि
खङ्गत्वेनैव लोहता । तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ २४ ॥ इति ॥
इति योगशिखोपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् । समाहितमना भूत्वा शृणु
ब्रह्मन्यथाक्रमम् ॥ १ ॥ दशद्वारपुरं देहं दशनाडी महापथम् । दश-
भिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् ॥ २ ॥ षडाधारापवरकं घडन्वय-
महावनम् । चतुः पीठसमाकीर्णं चतुरान्नायदीपकम् ॥ ३ ॥ बिन्दु-</p>
<pb n="482" />
<p>मध्या० ५ ]
योगशिखोपनिषु ॥ ६६ ॥</p>
<p>नादमहालिङ्गविष्णुलक्ष्मी निकेतनम् । देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्व-
देहिनाम् ॥ ४ ॥ गुदमेदान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्य
जीवरूपस्य स्थानं तद्धि प्रचक्षते ॥ ५ ॥ यत्र कुण्डलिनी नाम परा शक्तिः
प्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते ॥ ६ ॥ यस्मादुत्पद्यते
बिन्दुर्यस्मान्नादः प्रवर्तते । येस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥ ७ ॥
तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् । स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले
षडस्रकम् ॥ ८ ॥ नाभिदेशे स्थितं चक्रं दशास्त्रं मणिपूरकम् । द्वादशारं
महाचक्रं हृदये चाप्यनाहतम् ॥ ९ ॥ तदेतत्पूर्णगिर्याख्यं पीठं कमल-
संभव । कण्ठकूपे विशुद्धाख्यं यचक्रं षोडशास्त्रकम् ॥ १० ॥ पीठं जाल-
न्धरं नाम तिष्ठत्यत्र चतुर्मुख । आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम्
॥ ११ ॥ उज्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् । स्थानान्येतानि
देहेऽस्मिन्छक्तिरूपं प्रकाशते ॥ १२ ॥ चतुरस्त्रधरण्यादौ ब्रह्मा तत्राधि-
देवता । अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता ॥ १३ ॥ त्रिकोण-
मण्डलं वह्नी रुद्रस्तस्याधिदेवता । वायोबिम्बं तु षट्कोण संकर्षोऽत्राधिदेवतां
11 १४ ॥ आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता । नादरूपं
भ्रुवोर्मध्ये मनसो मण्डलं विदुः ॥ १५ ॥ शांभवस्थानमेतत्ते वर्णित
पद्मसंभव । अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् ॥ १६ ॥ मूला-
1
त्रिकोणस्था सुषुम्ना द्वादशाङ्गुला । मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति
सा स्मृता ॥ १७ ॥ इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते । विल-
म्बिन्यामनुस्यूते नासिकान्तमुपागते ॥ १८ ॥ इडायां हेमरूपेण वायु-
वीमेन गच्छति । पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः ॥ १९ ॥
विलम्बिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता । तत्र नाड्यः समुत्पन्ना-
स्तिर्यगूर्ध्वमधोमुखाः ॥ २० ॥ तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थि-
तम् । गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते ॥ २१ ॥ पूषा चा-
लम्बुषा
चैव श्रोत्रद्वयमुपागते । शूरा नाम महानाडी तस्माद्भूमध्यमाश्रिता
भुङ्क्तेऽन्नं चतुर्विधम् । सरस्वती तु
राकाह्वया तु या नाडी पीवा
३ विशुद्ध्याख्यं. ४ श्रीमत्परवस्त्वधि,
॥ २२ ॥ विश्वोदरी तु या नाडी सा
या नाडी सा जिह्वान्तं प्रसर्पति ॥ २३ ॥
१ हंसो यस्मात्. २ यस्मिन्विलीयेत.
५ द्वादशान्तगां.</p>
<pb n="483" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
च सलिलं क्षणात् । क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च ॥ २४ ॥
कण्ठकूपोद्भवा नाडी शङ्खिन्याख्या त्वधोमुखी । अन्नसारं समादाय मूर्ध्नि
संचिनुते सदा ॥ २५ ॥ नाभेरधोगतास्तिस्रो नाडयः स्युरधोमुखाः ।
मलं त्यजे कुहूर्नाडी मूत्रं मुञ्चति वारुणी ॥ २६ ॥ चित्राख्या सीविनी
नाडी शुक्रेमोचनकारणी । नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु
॥ २७ ॥ स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । स्थूलं शुक्कात्मकं
बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥ २८ ॥ सोमात्मकः परः प्रोक्तः सदा
साक्षी सदाच्युतः । पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः ॥ २९ ॥
समूलाभिः शरीरेऽभिर्यस्मान्नादः प्रजायते । वडवाग्निः शरीरस्थो ह्यस्थिमध्ये
प्रवर्तते ॥ ३० ॥ काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते । काष्ठपाषाणजो वह्निः
पार्थिवो ग्रहणीगतः ॥ ३१ ॥ अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः ।
नभःस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः ॥ ३२ ॥ विषं वर्षति सूर्योऽसौ
स्रवत्यमृतमुन्मुखः । तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः ॥ ३३ ॥
भ्रूमध्य निलयो बिन्दुः शुद्धस्फटिकसंनिभः । महाविष्णोश्च देवस्य तत्सूक्ष्मं
रूपमुच्यते ॥ ३४ ॥ एतत्पञ्चानिरूपं यो भावयेद्बुद्धिमान्धिया । तेन भुक्तं च
पीतं च हुतमेव न संशयः ॥ ३५ ॥ सुखसंसेवितं स्वतं सुजीर्णमिर्ते भोज-
नम् । शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः ॥ ३६ ॥ प्राणस्य शोधये-
न्मार्ग रेचपूरककुम्भकैः । गुदमाकुचय यत्नेन मूलशक्तिं प्रपूजयेत् ॥ ३७ ॥
नाभौ लिङ्गस्य मध्ये तु उज्यानाख्यं च बन्धयेत् । उड्डीय याति तेनैव
शक्तितोड्यानपीठकम् ॥ ३८ ॥ कण्ठे संकोचयेत्किंचिद्वन्धो जालन्धरो
ह्ययम् । बन्धयेत्खेचरी मुद्रां दृढचित्तः समाहितः ॥ ३९ ॥ कपालविवरे जिह्वा
प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ४० ॥ खेचर्या
मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न पीयूषं पतत्यग्नौ न च वायुः प्रधा-
वति ॥ ४१ ॥ न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते । न च
मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ४२ ॥ ततः पूर्वापरे व्योमिन द्वाद-
शान्तेऽच्युतात्मके । उड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने ॥ ४३ ॥ ततः
पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् । नारायणमनुध्यायेत्स्रवन्तममृतं सदा
॥ ४४ ॥ भिद्यते हृदयग्रन्थिरिछद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि
१ शुकुमोचन. २ र्यस्मिन्नादः ३ ग्रहणं गतः. ४... • मिव भोजनम्.</p>
<pb n="484" />
<p>अध्या० ६ ]
योगानंखोपनिषत् ॥ ६६ ॥</p>
<p>तस्मिन्दृष्टे परावरे ॥ ४५ ॥ अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर ।
जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् ॥ ४६ ॥ नादे मनोलयं ब्रह्मन्
दूरश्रवणकारणम् । बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् ॥ ४७ ॥
कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् । परकायमनोयोगः परकीय-
प्रवेशकृत् ॥ ४८ ॥ अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये । पृथिव्यां धार-
येच्चित्तं पातालगमनं भवेत् ॥ ४९ ॥ सलिले धारयेच्चित्तं नाम्भसा परि-
भूयते । अग्नौ संधारयेच्चित्तमग्झिना दह्यते न सः ॥ ५० ॥ वायौ मनोलयं
कुर्यादाकाशगमनं भवेत् । आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् ॥ ५१ ॥
विरारूपे मनो युञ्जन्महिमानमवाप्नुयात् । चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो
भवेत् ॥ ५२ ॥ इन्द्ररूपिणमात्मानं भावयन्मर्त्य भोगवान् । विष्णुरूपे महायोगी
पालयेदखिलं जगत् ॥ ५३ ॥ रुद्ररूपे महायोगी संहरत्येव तेजसा । नारायणे
मनो युञ्जन्नारायणमयो भवेत् । वासुदेवे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात्
॥ ५४ ॥ यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः । तथा तत्तदवाप्नोति
भाव एवात्र कारणम् ॥ ५४ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः । न
गुरोरधिकः कश्चित्रिषु लोकेषु विद्यते ॥ ५६ ॥ दिव्यज्ञानोपदेष्टारं देशिकं
परमेश्वरम् । पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् ॥ ५७ ॥ यथा गुरु-
स्तथैवेशो यथैवेशस्तथा गुरुः । पूजनीयो महाभक्त्या न भेदो विद्यते-
sनयोः ॥ ५८ ॥ नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् । अद्वैतं भावये-
'द्भक्त्या गुरोर्देवस्य चात्मनः ॥ ५९ ॥ योगशिखां महागुह्यं यो जानाति महा-
मतिः । न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते ॥ ६० ॥ न पुण्यपापे
नास्वस्थो न दुःखं न पराजयः । न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले
॥ ६१ ॥ सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः । तथा विज्ञाततत्वोऽसौ
मुक्त एव न संशयः ॥ ६२ ॥ इत्युपनिषत् ॥
इति योगशिखोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर । येन विज्ञातमात्रेण मुक्तो भवति
संसृतेः ॥ १ ॥ उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् । हिरण्यगर्भ वक्ष्यामि
श्रुत्वा सम्यगुपासय ॥ २ ॥ सुषुम्नायै कुण्डलिन्यै सुधायै चन्द्रमण्डलात् ।
मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने ॥ ३ ॥ शतं चैका च हृदयस्य
१ भावयन्भोगवान्भवेत् २ मनो युअन्. ३ योगशीर्ष.</p>
<pb n="485" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०६
नाख्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्गन्या
उत्क्रमणे भवन्ति ॥ ४ ॥ एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता ।
. सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ॥ ५ ॥ इडा तिष्ठति वामेन पिङ्गला
दक्षिणेन तु । तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् ॥ ६ ॥ प्राणासंधा-
रयेतस्मिन्नासाभ्यन्तरचारिणः । भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् ॥ ७ ॥
गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डः स देहभृत् । दीर्घास्थिदेहपर्यन्तं ब्रह्म-
. . नाडी ति कथ्यते ॥ ८ ॥ तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । इडापिङ्गल-
योर्मध्ये सुषुम्ना सूर्यरूपिणी ॥ ९ ॥ सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् ।
तस्य मध्यगताः सूर्यसोमाभिपरमेश्वराः ॥ १०॥ भूतलोका दिशः क्षेत्राः समुद्राः
पर्वताः शिलाः । द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः ॥ ११ ॥ स्वरम-
पुराणानि गुणाश्चैते च सर्वशः । बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः
॥ १२ ॥ सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् । नानानाडीप्रसवगं सर्व-
भूतान्तरात्मनि ॥ १३ ॥ ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् । द्विसप्ततिसह-
खाणि नाड्यः स्युर्वायुगोचराः ॥ १४ ॥ सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरा
मताः । अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् ॥ १५ ॥ वायुना सह
जीवो ज्ञानान्मोक्षमवाप्नुयात् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पौयुं च मध्य-
- गम् ॥ १६ ॥ कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । द्विसप्ततिसहस्राणि
- नाडीद्वाराणि पञ्जरे ॥ १७ ॥ सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निर-
र्थकाः । लेखे परमानन्दे तालुमूले व्यवस्थिते ॥ १८ ॥ अत ऊध्वं निरोधे
तु मध्यमं मध्यमध्यमम् । उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् । यदि
भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् ॥ १९ ॥ गमागमस्थं गमनादिशून्यं
चिद्रूपदीपं तिमिरान्धनाशम् । पश्यामि तं सर्वजनान्तरस्थं नमामि हंस पर-
मात्मरूपम् ॥ २० ॥ अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।
ध्वनेरन्तर्गतं ज्योतिज्योंतिषोऽन्तर्गतं मनः । तन्मनो विलयं याति
तद्विष्णोः परमं पदम् ॥ २१ ॥ केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती ।
आधाराज्जायते विश्वं विश्वं तत्रैव लीयते ॥ २२ ॥ तस्मात्सर्वप्रयत्नेन गुरुपादं
समाश्रयेत् । आभारवाक्तिनिद्रायां विश्वं भवति निद्रया ॥ २३ ॥ तस्यां शक्ति-
प्रबोधेन त्रैलोक्यं प्रतिबुध्यते । भाधारं यो विजानाति तमसः परमभुते
१ जीवोर्ध्वगामी मोक्ष . २ वायुं च. ३
लेखि.</p>
<pb n="486" />
<p>अध्या० ६ ]
यागशिखोपनिषः ॥ ६६ ॥</p>
<p>॥ २४ ॥ तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते ॥ २५ ॥ आधारचक्र-
सहसा विद्युत्पुञ्जसमप्रभा । तदा मुक्तिर्न संदेहो यदि तुष्टः स्वयं गुरुः ॥२६॥
आधारचक्र महसा पुण्यपापे निकृन्तयेत् । आधारवातरोधेन लीयते गगना-
न्तरे ॥ २७ ॥ आधारवातरोधेन शरीरं कम्पते यदा । आधार वातरोधेन
योगी नृत्यति सर्वदा ॥ २८ ॥ आधारवातरोधेन विश्वं तत्रैव दृश्यते । सृष्टि-
राधारमाधारमाधारे सर्वदेवताः । आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत्
॥ २९ ॥ आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् । तत्र स्नात्वा च पीत्वा
च नरः पापात्प्रमुच्यते ॥ ३० ॥ आधारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते ।
तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् ॥ ३१ ॥ आधारपश्चिमे भागे चन्द्र-
सूयौं स्थिरौ यदि । तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् ॥ ३२ ॥
आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया । षट् चक्राणि च निर्भिद्य ब्रह्म-
रन्ध्राद्वहिर्गतम् ॥ ३३ ॥ वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया । ब्रह्मरन्ध्र
प्रविश्यान्तस्ते यान्ति परमां गतिम् ॥ ३४ ॥ सुषुम्नायां यदा हंसस्स्वध ऊर्ध्व
प्रधावति । सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् ॥ ३५ ॥ सुषुम्नायां
यदा प्राणः स्थिरो भवति धीमताम् । सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं
गतौ ॥ ३६ ॥ तदा समरसं भावं यो जानाति स योगवित् । सुषुम्नायाँ
यदा यस्य म्रियते मनसो रयः ॥ ३७ ॥ सुषुम्नायां यदा योगी क्षणैकमपि
तिष्ठति । सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति ॥ ३८ ॥ सुषुम्नायां यदा
योगी सुलग्नो लवणाम्बुवत् । सुषुम्नायां यदा योगी लीयते क्षीरनीरवत्
॥ ३९ ॥ भिद्यते च तदा ग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते परमाकाशे ते
यान्ति परमां गतिम् ॥ ४० ॥ गङ्गायां सागरे स्नात्वां नत्वा च मणिकर्णि-
काम् । मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् ॥ ४१ ॥ श्रीशैलदर्श-
नान्मुक्तिर्वाराणस्यां मृतस्य च । केदारोदकपानेन मध्यनाडीप्रदर्शनात् ॥ ४२ ॥
अश्वमेधसहस्राणि वाजपेयशतानि च । सुषुम्नाध्यानयोगस्य कलां नार्हन्ति
षोडशीम् ॥ ४३ ॥ सुषुन्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः । स मुक्तेः
सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ ४४ ॥ सुषुम्नैव परं तीर्थं सुषुम्नैव परो
जपः । सुषुन्नैव परं ध्यानं सुषुम्नैव परा गतिः ॥ ४५ ॥ अनेकयज्ञदानानि
व्रतानि नियमास्तथा । सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् ॥ ४६ ॥
१ स्थितौ सदा. २ प्रविश्यन्ति ते.</p>
<pb n="487" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ६
ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा । चिच्छक्तिः परमा देवी मध्यमे सुप्र-
तिष्ठिता ॥ ४७ ॥ भायाशक्तिललाटाग्रभागे व्योमाम्बुजे तथा । नादरूपा
परा शक्तिर्ललाटस्य तु मध्यमे ॥ ४८ ॥ भागे बिन्दुमयी शक्तिर्ललाटस्यापरां-
शके । बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते ॥ ४९ ॥ हृदये स्थूल-
रूपेण मध्येमेन तु मध्यमे ॥ ५० ॥ प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च
धावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ ५१ ॥ आक्षिप्तो भुज-
दण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत्
॥ ५२ ॥ अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति । हकारेण बहिर्याति
सकारेण विशेत्पुनः ॥ ५३ ॥ हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा । तद्वि-
द्वानक्षरं नित्यं यो जानाति स योगवित् ॥ ५४ ॥ कैन्दोर्ध्वे कुण्डली शक्ति-
मुक्तिरूपा हि योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्
॥ ५५ ॥ भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः । यासु मात्रासु तिष्ठन्ति
तत्परं ज्योतिरोमिति ॥ ५६ ॥ त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः ।
त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ५७ ॥ चित्ते चलति संसारो
निश्चलं मोक्ष उच्यते । तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे ॥ ५८ ॥ चित्तं
कारणमर्थानां तस्मिन्सति जगत्रयम् । तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं
प्रयत्नतः ॥ ५९ ॥ मनोऽहं गगनाकारं मनोऽहं सर्वतोमुखम् । मनोऽहं सर्व-
मात्मा च न मनः केवलः परः ॥ ६० ॥ मनः कर्माणि जायन्ते मनो
लिप्यति पातकैः । मनश्वेदुन्मनीभूयान्न पुण्यं न च पातकम् ॥ ६१ ॥ मनसा
मन आलोक्य वृत्तिशून्यं यदा भवेत् । ततः परं परब्रह्म दृश्यते च सुदुर्लभम्
॥ ६२ ॥ मनसा मन आलोक्य मुक्तो भवति योगवित् । मनसा मन
आलोक्य उन्मन्यन्तं सदा स्मरेत् ॥ ६३ ॥ मनसा मन आलोक्य योगनिष्ठः
सदा भवेत् । मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश ॥ ६४ ॥ यदा
प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् ॥ ६५ ॥ बिन्दुनादकल । ज्योतीरवीन्दु-
ध्रुवतारकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ६६ ॥ हसत्युल्लसति
प्रीत्या क्रीडते मोदते तदा । तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् ॥ ६७ ॥
रोष्यते बुद्ध्यते शोके मुह्यते न च संपदा । कम्पते शत्रुकार्येषु कामेन रमते
हसन् ॥६८॥ स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे । यत्र देशे वसेद्वायु-
१ तनुमध्ये च मध्यमा. २ कण्ठो ३ परे.</p>
<pb n="488" />
<p>तुरीयातीतोपनिषत् ॥ ६७ ॥</p>
<p>श्चित्तं तद्वसति ध्रुवम् ॥ ६९ ॥ मनश्चन्द्रो रविर्वायुर्ह टिरभिरुदाहृतः । बिन्दुनाद-
कला ब्रह्मन् विष्णुब्रह्मेश देवताः ॥ ७० ॥ सदा नादानुसन्धानात्संक्षीणा वासना
भवेत् । निरञ्जने विलीयेत मरुन्मनसि पद्मज ॥ ७१ ॥ यो वै नादः स वै
बिन्दुस्तद्वै चित्तं प्रकीर्तितम् । नादो बिन्दु चितं च त्रिभिरैक्यं प्रसादयेत्
॥ ७२ ॥ मन एव हि बिन्दुश्व उत्पत्तिस्थितिकारणम् । मनसोत्पद्यते बिन्दु-
यथा क्षीरं गतात्मकम् ॥ ७३ ॥ षट् चत्राणि परिज्ञात्वा प्रविशेत्सुखमण्ड-
लम् । प्रविशेद्वायुमामाकृष्य तथैवोर्ध्वं नियोजयेत् ॥ ७४ ॥ वायुं बिन्दु तथा
चक्रं चित्तं चैव समभ्यसेत् । समाधिमेकेन समममृतं यान्ति योगिनः ॥ ७५ ॥
यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीप-
स्तथा नहि ॥ ७६ ॥ घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते । भिन्ने तस्मिन्
घटे चैव दीपज्वाला च भासते ॥ ७७ ॥ स्वकायं घटमित्युक्तं यथा जीवो हि
तत्पदम् । गुरुवाक्यसैमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥ ७८ ॥
प्राप्य तद्वाक्यं लववद्दृढम् । अभ्यासवासनाशक्त्या तरन्ति
॥ ७९ ॥ इत्युपनिषत् ॥
इति योगशिखोपनिषत्सु षष्ठोऽध्यायः ॥ ६ ॥
ॐ सह नाववत्विति शान्तिः ॥ 3% तत्सत् ॥
इति योगशिखोपनिषत्समाप्ता ॥ ६६ ॥
तुरीयातीतोपनिषत् ॥ ६७ ॥</p>
<lg>
  <l>ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्षरम् ।</l>
</lg>
<lg>
  <l>तत्तुर्यातीत चिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥ १ ॥</l>
  <l>तुरीयातीत संन्यासपरिव्राजाक्षमालिका ।</l>
  <l>अव्यक्तैकाक्षरं पूर्णा सूर्यादयध्यात्म कुण्डिका ॥ २ ॥</l>
  <l>हरिः ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>कर्णधारं गुरुं
भवसागरम्
अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति पितामहो
भगवन्तं पितरमादिनारायणं परिसमेत्योवाच । तमाह भगवान्नारायणो
१ लयं याति २ प्रसाधयेत् ३ समाभाते. ४ केन्चित्त्विमामेवावधूतोपनिष-
त्वेन व्याहरन्ति</p>
<pb n="489" />
<p>ईशाद्युपनिषत्सु -
€
योऽयमवधूतमार्गस्थो लोके दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव
नित्यपूतः स एव वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इति
ज्ञानिनो मन्यन्ते । महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । अहं च तस्मिन्ने-
वावस्थितः सोऽयमादौ तावत्क्रमेण कुटीचको बहूदकत्वं प्राप्य बहूदको हंस-
त्वमवलम्ब्य हंसः परमहंसो भूत्वा स्वरूपानुसंधानेन सर्वप्रपञ्चं विदित्वा
. दण्डकमण्डलुकटिसूत्र कौपीनाच्छादनं स्ववियुक्त क्रियादिकं सर्वमप्सु संन्यस्य
दिगम्बरो भूत्वा विवर्णजीर्ण वल्कला जिनपरिग्रहमपि संत्यज्य तदूर्ध्वममन्त्र-
वदाचरन्क्षौराभ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकमप्युपसंहृत्य सर्वत्र
- पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीतोष्णसुखदुःखमानावमानं
निर्जित्य वासनात्रयपूर्वकं निन्दाऽनिन्दा गर्व मत्सरदम्भदर्पद्वेष कामक्रोधलोभ-
मोहहर्षामसूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः कुणपाकारमिव पश्यन्नय लेना-
नियमेन लाभालाभौ समौ कृत्वा गोवृत्या प्राणसंधारणं कुर्वन्यत्प्राप्तं तेनैव
निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं गोपयित्वा ज्येष्ठाऽज्येष्ठ-
carनपलापक: सर्वोत्कृष्टत्वसर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः
कश्चिन्नान्योऽस्तीति देवगुह्यादिर्घेनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः सुखेन
नानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयोरनभिस्नेहः सर्वेन्द्रियोपैरमः
स्वपूर्वापन्नाश्रमाचारविद्याधर्मप्राभव मननु स्मरं स्त्यक्तवर्णाश्रमाचारः सर्वदा
दिवनक्तसमत्वेनास्वप्नः सर्वदा संचारशीलो देहमात्रावशिष्टो जलस्थलक-
मण्डलुः सर्वदाऽनुन्मत्तो बालोन्मत्तपिशाचवदेकाकी संचरन्नसंभाषणपरः
स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन सर्वं विस्मृत्य तुरीया-
तीतावधूतवेषेणाद्वैत निष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः
स कृतकृत्यो भवतीत्युपनिषत् ॥ ॐ तत्सत् ॥ १ ॥
ॐ पूर्णमद इति शान्तिः ॥
॥ इति तुरीयातीतोपनिषत्समाप्ता ॥ ६७ ॥
१ वैराग्यमुक्तिः.
५ परमश्च पूर्वा .
3 निर्भिद्य. ३ निन्दावर्ग. ४ गुह्यादीन्धनमा .</p>
<pb n="490" />
<p>अध्या० १]
संन्यासोपनिष ॥ ६८ ॥</p>
<lg>
  <l>संन्यासोपनिषत् ॥ ६८ ॥</l>
  <l>संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् ।</l>
  <l>सत्तासामान्यविभवं स्वमात्रमिति भावये ॥ १ ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामः । योऽनुक्रमेण संन्यस्यति
स संन्यस्तो भवति । कोऽयं संन्यास उच्यते कथं वा संन्यस्तो भवति । य
आत्मानं क्रियाभिर्गुतं करोति मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा
ये चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं निर्वपेत्सर्वस्वं दद्याद्यज-
मानस्य गा ऋत्विजः सर्वैः पात्रैः समारोप्य यदाहवनीये गार्हपत्ये वाऽन्वाहा-
पचने सभ्यावसथ्ययोश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु समारोप-
येत् । सशिखान्केशान्विसृज्य यज्ञोपवीतं छित्त्वा पुत्रं दृष्ट्वा त्वं यज्ञस्त्वं सर्व-
मित्यनुमन्त्रयेत् । यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः प्राची-
मुदीचीं वा दिशं प्रव्रजेच्च । त्रिषु वर्णेषु भिक्षाचर्यं चरेत् । पाणिपात्रेणाशनं
कुर्यात् । औषधवदशनमाचरेत् । औषधवदशनं प्राश्नीयात् । यथालाभमनी-
यात्प्राणसंधारणार्थं यथा मेदोवृद्धिर्न जायते । कृशो भूत्वा ग्राम एक रात्रं
नगरे पञ्चरात्रं चतुरो मासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् । पक्षा वै
मास इति द्वौ मासौ वा वसेत् । विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयान्ना-
न्यत्प्रतिगृह्णीयाद्यद्यशक्तो भवति क्लेशतस्तप्यते तप इति । यो वा एवं क्रमेण
संन्यस्यति यो वा एवं पश्यति किमस्य यज्ञोपवीतं काऽस्य शिखा कथं वाऽस्यो-
पस्पर्शनमिति । तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा
नीरे: " सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् । ब्रह्म-
वादिनो वदन्त्यस्तमित आदित्ये कथं वाऽस्योपस्पर्शनमिति । ताम्होवाच
यथाऽहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् । संकृद्दिवा
हैवास्मै भवति य एवं विद्वानेतेनात्मानं संधत्ते ॥ १ ॥
1
इति संन्यासोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
ॐ चत्वारिंशत्संस्कारसंपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेयहं -
कारं दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति । संन्यासे निश्चयं कृत्वा
१ पूर्ववद्धत्वा २ चर्तुर्षु. ३ विद्यात्सा शिखा. ४ निर्वैरः . ५ सकृदिवा.</p>
<pb n="491" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
पुनर्न च करोति यः । स कुर्यात्कृच्छ्रमात्रं तु पुनः संन्यस्तुमर्हति ॥ १ ॥
संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः । संन्यासविघ्नकर्ता च त्रीनेतान्
पतितान्विदुः ॥ २ ॥ इति ॥ अथ षण्ढः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽ-
को मूकः पाषण्डश्चक्रो लिङ्गी कुष्ठी वैखानसहरद्विजौ भृतकाध्यापकः
शिपिविष्टोऽनग्निको नास्तिको वैराग्यवन्तोऽप्येते न संन्यासाहः । संन्यस्ता
यद्यपि महावाक्योपदेशे नाधिकारिणः ॥ भारूढपतितापत्यः कुनखी श्याव-
दन्तकः । क्षीबेस्तथाऽङ्गविकलो नैव संन्यस्तुमर्हति ॥ ३ ॥ संप्रत्यवसितानां च
महापातकिनां तथा । व्रात्यानामभिशस्तानां संन्यासं नैव कारयेत् ॥ ४ ॥
व्रतयज्ञतपोदान होमस्वाध्यायवर्जितम् । सत्यशैौचपरिभ्रष्टं संन्यासं नैव का-
रयेत् ॥ ५ ॥ एते नार्हन्ति संन्यासमातुरेण विना क्रमम् । ॐ भूः स्वाहेति
शिखामुत्पाव्य यज्ञोपवीतं बहिर्न निवसेत् । यशो बलं ज्ञानं वैराग्यं मेघां
प्रयच्छेति यज्ञोपवीतं छित्त्वा ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रं च विसृज्य सं-
न्यस्तं मयेति त्रिवारमभिमन्त्रयेत् । संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्क-
ब्रः । एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥ ६ ॥ षष्टिं कुलान्यतीतानि
षष्टिमागामिकानि च । कुलान्युद्धरते प्राज्ञः संन्यस्तमिति यो वदेत् ॥ ७॥ ये च
संताना दोषा ये दोषा देहसंभवाः । प्रैषाग्निर्निर्दहेत्सर्वांस्तुषाग्निरिव काच-
नम् ॥ ८ ॥ सखा मा गोपायेति दण्डं परिग्रहेत् । दण्डं तु वैणवं सौम्यं सत्वचं
समपर्वकम् । पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् ॥ ९ ॥ अदग्धमहत
कीटः पर्वग्रन्थिविराजितम् । नासादनं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः
॥ १० ॥ दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते । न दण्डेन विना
गच्छेदिषुक्षेपत्रयं बुधः ॥ ११ ॥ जगज्जीवनं जीवनाधारभूतं माते मामन्त्रयस्व
सर्वसौम्येति कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् ॥
त्यज धर्ममधमं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि
तत्त्यज ॥ १२ ॥ वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी कर्म-
संन्यासीति चातुर्विध्यमुपागतः । तद्यथेति दृष्टानुश्रविकविषयवैतृष्ण्यमेत्य
प्राक्पुण्यकर्म विशेषात्संन्यस्तः स वैराग्यसंन्यासी । शास्त्रज्ञानात्पापपुण्यलोका-
नुभवश्रवणात्प्रपञ्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा
चमनान्नमिव प्रवृत्ति सर्व हेयं मत्वा साधनचतुष्टयसंपन्नो यः संन्यस्यति स</p>
<note>९. क्षयी तथा. २ सर्वदा सौम्येति,</note>
<p>:</p>
<pb n="492" />
<p>अध्याo 9]
संन्यासोपनिषत् ॥ ६८ ॥
•</p>
<p>एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपा-
नुसंधानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्य-
संन्यासी । ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽ-
प्याश्रमक्रमानुसारेण यः संन्यस्यति स कर्मसंन्यासी । स संन्यासः षड्विधो
भवति - कुटीचकबहूदक हंस परमहंसतुरीया ती तावधूताश्चेति । कुटीचकः शिखा-
यज्ञोपवीती दण्डकमण्डलुधरः कौपीनश। टीकन्थाधरः पितृमातृगुर्वाराधनपरः
पिठरखनित्र शिक्यादिमात्रसाधनपर एकन्नान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी
त्रिदण्डः । बहूदकः शिखादिकन्थाधर त्रिपुण्ड्रधारी कुटीचकवत्सर्व समो मधुकर-
वृत्याष्टकवलाशी । हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्डधारी असंकृतमाधुकरा-
नाशी कौपीनखण्डतुण्डधारी । परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेषु
करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मो-
डूलनपरः सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी भन्नाहारी चेह-
जये देहमात्रावशिष्टो दिगम्बरः कुणपवच्छरीरवृत्तिकः । अवधूतस्त्व नियमः
पतिताभिशस्तवर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्त्याऽऽहारपरः स्वरूपानुसंधानपरः ।
जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । यद्वाह्यं जडमत्यन्तं तत्स्यां कथमहं
विभुः ॥ १३ ॥ कालेनाहपेन विलयी देहो नाहमचेतनः । जडया कर्णशष्कुल्या
कल्पमानक्षणस्थया ॥ १४ ॥ शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ।
त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा ॥ १५ ॥ चित्प्रसादोप-
लब्धात्मा स्पर्शो नाहमचेतनः । लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया
॥ १६ ॥ स्वल्पस्यन्दो द्रव्यनिष्ठो रसो नाहमचेतनः । दृश्यदर्शनयोलीनं
क्षक्षिणविनाशिनोः ॥ १७ ॥ केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ।
नासया गन्धजडया क्षयिण्या परिकल्पितः ॥ १८ ॥ पेलवो नियताकारो गन्धो
नाहमचेतनः । निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ॥ १९ ॥ शुद्धचेतन
एवाहं कलाकलन वर्जितः । चैत्यवर्जित चिन्मात्रमहमेषोऽवभासकः ॥ २० ॥
सबाह्याभ्यन्तरव्यापी निष्कलोsहं निरञ्जनः । निर्विकल्पचिदाभास एक
आत्मास्मि सर्वगः ॥ २१ ॥ मयैव चेतनेनेमे सर्वे घटपटादयः । सूर्यान्ता
अवभास्यन्ते दीपेनेवात्मतेजसा ॥ २२ ॥ मयैवैताः स्फुरन्तीह विचित्रेन्द्रिय-
वृत्तयः । तेजसाऽन्तःप्रकाशेन यथाऽग्निकणपङ्कयः ॥२३॥ अनन्तानन्दसंभोगा
१ मन्दो लोलया.
1</p>
<pb n="493" />
<p>ईशोपनिषद-
[ अध्या० १
परोपः । मशालिनी । शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु ॥ २४ ॥
सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमो
नमः ॥ २५ ॥ विचित्राः शक्तयः स्वच्छाः समा या निर्विकारया । चिता
क्रियन्ते समया कलाकलनमुक्तया ॥ २६ ॥ कालत्रयमुपेक्षित्र्या हीनाया-
श्चैत्यबन्धनैः । चितश्चैत्यमुपेक्षित्र्याः समतैवावशिष्यते ॥ २७ ॥ सा हि वाचा-
मगम्यत्वादसत्तामिव शाश्वतीम् । नैरात्मसिद्धात्मदशामुपयातैव शिष्यते
॥ २८ ॥ ईहानीहामयैरन्तर्या चिदावलिता मलैः । सा चिन्नोत्पादितुं शक्त
पाशबद्धेव पक्षिणी ॥ २९ ॥ इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः । धरा-
विवरमग्नानां कीटानां समतां गताः ॥ ३० ॥ आत्मनेऽस्तु नमो मद्यमवि-
च्छिन्नचिदात्मने । परामृष्टोऽस्मि लब्धोऽस्मि प्रोदितोऽस्म्यचिरादहम् ।
उद्धृतोऽस्मि विकल्पेभ्यो योऽस्मि सोऽस्मि नमोऽस्तु ते ॥ ३१ ॥ तुभ्यं मा -
मनन्ताय मह्यं तुभ्यं चिदात्मने । नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च
॥ ३२ ॥ तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति । शान्तोऽपि व्यवहार-
स्थः कुर्वन्नपि न लिप्यते ॥ ३३ ॥ सुलभश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत् ।
शरीरपद्मकुहरे सर्वेषामेव षट्पदः ॥ ३४ ॥ न मे भोगस्थितौ वान्छा न मे
भोगविसर्जने । यदायाति तदायातु यत्प्रयाति प्रयातु तत् ॥ ३५ ॥ मनसा
मनसि च्छिने निरहंकारतां गते । भावेन गलिते भावे स्वस्थ स्तिष्ठामि केवलः
॥ ३६ ॥ निर्भावं निरहंकारं निर्मनस्कमनीहितम् । केवलास्पन्दशुद्धात्मन्येव
तिष्ठति में रिपुः ॥ ३७ ॥ तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात् । न
जाने क्व गतोड्डीय निरहंकारपक्षिणी ॥ ३८ ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य
न लिप्यते । यः समः सर्वभूतेषु जीवितं तस्य शोभते ॥ ३९ ॥ योऽन्तः-
शीतया बुद्ध्या रागद्वेषविमुक्तया । साक्षिवत्पश्यतीदं हि जीवितं तस्य
शोभते ॥ ४० ॥ येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता । चित्तस्यान्तेऽर्पितं
चित्तं जीवितं तस्य शोभते ॥ ४१ ॥ ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदे-
-त्यलम् । स्थितिमभ्यागता शान्तिर्मोक्षनामाभिधीयते ॥ ४२ ॥ भ्रष्टबीजोपमा
भूयो जन्माङ्कुरविवर्जिता । हृदि जीव द्विमुक्तानां शुद्धा भवति वासना ॥ ४३ ॥
पावनी परमोदारा शुद्धसत्वानुपातिनी । आत्मध्यानमयी नित्या सुषुप्तिस्थेव
तिष्ठति ॥ ४४ ॥ चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते । निर्मनस्कस्वभाव-
१ सिद्धान्तदशा.</p>
<pb n="494" />
<p>अध्या० १]
संन्यासोपनिष ॥ ६८ ॥</p>
<p>त्वान्न तत्र कलनामलम् ॥ ४५ ॥ सा सत्यता सा शिवता साऽवस्था पारमा-
त्मिकी । सर्वज्ञता सा संतृप्तिर्नतु यत्र मनः क्षतम् ॥ ४६ ॥ प्रलपन्विसृज-
न्गृह्णन्नुन्मिषन्निमिषन्नपि । निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् ॥ ४७ ॥
मलं संवेद्यमुत्सृज्य मनो निर्मूलयन्परम् । आशापाशानकं छित्त्वा संविन्मात्रपरोऽ-
स्म्यहम् ॥४८॥ अशुभाशुभसंकल्पः संशान्तोऽस्मि निरामयः । नष्टेष्टानिष्ट कलनः-
संविन्मात्रपरोऽस्म्यहम् ॥ ४९ ॥ आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।
वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरोऽस्म्यहम् ॥ ५० ॥ निर्मलायाँ निरा-
शायां स्वसंवित्तौं स्थितोऽस्म्यहम् । ईहितानी हितैर्मुक्तो हेयोपादेयवर्जितः
॥ ५१ ॥ कदाऽन्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः । कदोपशान्तमननो
धरणीधरकन्दरे ॥ ५२ ॥ समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना । निरंश-
ध्यानविश्रान्तिमूकस्य मम मस्तके ॥ ५३ ॥ कदा तोर्ण करिष्यन्ति कुलार्य
वनपुत्रिकाः । संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम् ॥ ५४ ॥ विततां
भुवमासाद्य विहरामि यथासुखम् । पदं तदनु यातोऽस्मि केवलोऽस्मि जपा-
म्यहम् ॥ ५५ ॥ निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः ।
स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ॥ ५६ ॥ आनन्दितोपशमता सदा
प्रमुदितोदिता । पूर्णतोदारता सत्या कान्तिसत्ता सदैकता ॥ ५७ ॥ इत्येवं
चिन्तयन्भिक्षुः स्वरूपस्थितिमञ्जसा । निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव
हं ॥ ५८ ॥ आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः । न शूद्रस्त्रीपतितो-
दक्या संभाषणम् । न यतेर्देवपूजनोत्सवदर्शनम् । तस्मान्न संन्यासिन एष
लोकः । आतुरकुटी चकयोर्भूलोक भुवर्लोकौ । बहूदकस्य स्वर्गलोकः । हंसस्य
तपोलोकः । परमहंसस्य सत्यलोकः । तुरीयातीतावधूतयोः स्वात्मन्येव
कैवल्यं स्वरूपानुसंधानेन भ्रमरकीटन्यायवत् । स्वरूपानुसंधानव्यतिरिक्ता -
न्यशास्त्राभ्यास उष्ट्रकुङ्कुमभारवद्व्यर्थः । न योगशास्त्रप्रवृत्तिः । न सांख्य-
शास्त्राभ्यासः । न मन्त्र तन्त्र व्यापारः । नेतरशास्त्रप्रवृत्तिर्यतेरस्ति । अस्ति चेच्छवा-
लंकारवकर्मा चारविद्या दूरः । न परित्राण्नामसंकीर्तनपरो यद्यत्कर्म करोति
तत्तत्फलमनुभवति । एरण्डतैलफेनवत्सर्वं परित्यजेत् । न देवताप्रसादग्रह-
णम् । न बाह्यदेवाभ्यर्चनं कुर्यात् । स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्या -
१ वर्ण.
२ अनादितो.</p>
<pb n="495" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० 9
ssहारमाहरन्कुशी भूत्वा मेदोवृद्धिमकुर्वन्विहरेत् । माधुकरेण करपात्रेणास्य
पात्रेण वा कालं नयेत् । आत्मसंमितमाहारमाहरेदात्मवान्यतिः । आहारस्य
च भागौ द्वौ तृतीयमुदकस्य च । वायोः संचरणार्थाय चतुर्थमवशेषयेत् ॥५९॥
भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्कचित् । निरीक्षन्ते स्वनुद्विभास्तगृहं यत्नतो
व्रजेत् ॥ ६०॥ पञ्च सप्त गृहाणां तु भिक्षामिच्छेत्क्रियावताम् । गोदोहमात्रमाका-
निष्क्रान्तो न पुनर्व्रजेत् ॥ ६१ ॥ नक्ताद्वरश्चोपवास उपवासादयाचितः । अया-
चिताद्वरं भैक्षं तस्माद्वैक्षेण वर्तयेत् ॥ ६२ ॥ नैव सव्यापसव्येन भिक्षाकाले
विशेद्गृहान् । नातिक्रामेद्गृहं मोहाद्यत्र दोषो न विद्यते ॥ ६३ ॥ श्रोत्रियान्नं
न भिक्षेत श्रद्धाभक्तिबहिष्कृतम् । नात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते
॥ ६४ ॥ माधूकरमसंकृतं प्राक्प्रणीतमयाचितम् । तात्कालिकं चोपपन्नं भैक्षं
पञ्चविधं स्मृतम् ॥ ६५ ॥ मनः संकल्परहितांस्त्रीन्गृहान्पञ्च सप्त वा । मधु-
मक्षिकवत्कृत्वा माधूकरमिति स्मृतम् ॥ ६६ ॥ प्रातःकाले च पूर्वेद्युर्यद्भक्तैः
प्रार्थितं मुहुः । तद्भैक्षं प्राक्प्रणीतं स्यात्स्थितिं कुर्यात्तथापि वा ॥ ६७ ॥
भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् । अयाचितं तु तद्भैक्षं भोक्तव्यं च
मुमुक्षुभिः ॥ ६८ ॥ उपस्थानेन यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् । तात्कालिक -
मिति ख्यातं भोक्तव्यं यतिभिः सदा ॥ ६९ ॥ सिद्धमन्नं यदानीतं ब्राह्मणेन
मठं प्रति । उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः ॥ ७० ॥ चरेन्माधूकरं
भैक्षं यतिम्लेच्छकुलादपि । एकान्नं नतु भुञ्जीत बृहस्पतिसमादपि । याचि -
ताsयाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् ॥ ७१ ॥ न वायुः स्पर्शदोषेण
नाभिर्दहनकर्मणा । नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी ॥ ७२ ॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । कालेऽपराह्ने भूयिष्ठे भिक्षाचरणमा-
चरेत् ॥ ७३ ॥ अभिशस्तं च पतितं पाषण्डं देवपूजकम् । वर्जयित्वा चरेद्वैक्षं
सर्ववर्णेषु चापदि ॥७४॥ घृतं श्वमूत्रसदृशं मधु स्यात्सुरया समम् । तैलं सूकर-
मूत्रं स्यात्सूपं लशुन संमितम् ॥७५॥ माषापूपादि गोमांसं क्षीरं मूत्रसमं भवेत् ।
तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः । घृतसूपादिसंयुक्तमन्नं नाद्यात्कदाचन
॥ ७६ ॥ पात्रमस्य भवेत्पाणिस्तेन नित्यं स्थितिं नयेत् । पाणिपात्रश्चरन्योगी
नासकृद्धैक्षमाचरेत् ॥ ७७ ॥ आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा
समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ७८ ॥ आज्यं रुधिरमिव त्यजेदेक-
श्रानं पललमिव गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव वस्त्रमुच्छिष्टपात्र-</p>
<pb n="496" />
<p>अध्या० २]
संन्यासोपनिषत् ॥ ६८ ॥
मिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचर-
देश चण्डालवाटिकामिव स्त्रियमहिमिव सुवर्ण कालकूटमिव सभास्थलं
श्मशानस्थलमिव राजधानीं कुम्भीपाकमिव शवपिण्डवदेकत्रान्नं न देवतार्थ-
नम् । प्रपञ्चवृत्तिं परित्यज्य जीवन्मुक्तो भवेत् ॥ आसनं पात्रलोपश्च संचयः
शिष्यसंचयः । दिवास्वापो वृथालापो यतेर्बंन्धकराणि षट् ॥ ७९ ॥ वर्षाभ्योऽन्यत्र
यत्स्थानमासनं तदुदाहृतम्। उक्तालाब्वादिपात्राणामेकस्यापीह संग्रहः ॥ ८० ॥
यतेः संव्यवहाराय पात्रलोपः स उच्यते । गृहीतस्य तु दण्डादेर्द्वितीयस्य
परिग्रहः ॥ ८१ ॥ कालान्तरोपभोगार्थं संचयः परिकीर्तितः । शुश्रूषालाभ-
पूजार्थं यशोथं वा परिग्रहः ॥ ८२ ॥ शिष्याणां नतु कारुण्याच्छिष्यसंग्रह
ईरितः । विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते ॥ ८३ ॥ विद्याभ्यासे
प्रमादो यः स दिवास्वाप उच्यते । आध्यात्मिक कथां मुक्त्वा भिक्षावाती
विना तथा ॥ ८४ ॥ अनुग्रहं परिप्रभं वृथाजल्पोऽन्य उच्यते । एकान्नं मद
'मात्सर्य गन्धपुष्पवि भूषणम् ॥ ८५ ॥ ताम्बूलाभ्यञ्जने क्रीडा भोगाकाङ्क्षा
रसायनम् । कत्थनं कुत्सनं स्वस्ति ज्योतिश्च क्रयविक्रयम् ॥ ८६ ॥ क्रियाकर्म
विवादश्च गुरुवाक्य विलङ्घनम् । संविश्व विग्रहो यानं मञ्चकं शुक्लवस्त्रकम्
॥ ८७ ॥ शुक्रोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् । विषं चैवायुधं बीजं
हिंसां तैक्ष्ण्यं च मैथुनम् ॥ ८८ ॥ त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् ।
गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् । प्रतिषिद्धानि चैतानि सेवमानो बजे -
दुधः ॥ ८९ ॥ सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विश्वसेत् । सुजीर्णा -
स्वपि कन्थासु सजते जीर्णमम्बरम् ॥ ९० ॥ स्थावरं जङ्गमं बीजं तैजसं
विषमायुधम् । षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् ॥ ९१ ॥ नैवाददीत
पाथेयं यतिः किंचिदनापदि । पक्क्रमापत्सु गृह्णीयाद्यावदन्नं न लभ्यते ॥ ९२ ॥
नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत् । परार्थं न प्रतिग्राह्यं न दद्याच्च कथं-
श्चन ॥ ९३ ॥ दैन्यभावात्तु भूतानां सौभगाय यतिश्चरेत् । पक्कं वा यदि
वाsपक्कं याचमानो ब्रजेदधः ॥ ९४ ॥ अन्नपानपरो भिक्षुर्वखादीनां प्रति-
ग्रही । आविकं वाऽनाविकं वा तथा पट्टपदानपि ॥ ९५ ॥ प्रतिगृह्य यति-
- चैतान्पतत्येव न संशयः । अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् ॥ ९६ ॥
१ मलाभे ऽन्यपरिग्रहः . २ अन्नदानपरो.
अ. उ. ३१</p>
<pb n="497" />
<p>ईशाद्युपनिषत्सु -
वाग्दण्डे मौनमातिष्ठेत्कायदण्डे त्वभोजनम् । मानसे तु कृते दण्डे प्राणा-
यामो विधीयते ॥ ९७ ॥ कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्माः
कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ९८ ॥ रथ्यायां बहुवस्त्राणि भिक्षा
सर्वत्र लभ्यते । भूमिः शय्याऽस्ति विस्तीर्णा यतयः केन दुःखिताः ॥ ९९ ॥
प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः । आत्मन्यग्नीन्समारोप्य सोऽग्नि-
होत्री महायतिः ॥ १०० ॥ प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी ।
ज्ञानाभ्यासवतामोतुर्वानरी भाक्त्वमेव च ॥ १०१ ॥ नापृष्टः कस्यचिद्रूयान्न
चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ १०२ ॥
सर्वेषामेव पापानां सङ्घाते समुपस्थिते । तारं द्वादशसाहस्रमभ्यसेच्छेदनं हि
तत् ॥ १०३ ॥ यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् । तस्य द्वादशभि-
मसः परं ब्रह्म प्रकाशते ॥ १०४ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
इति संन्यासोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति संन्यासोपनिषत्समाप्ता ॥ ६८ ॥</p>
<lg>
  <l>परमहंस परिव्राजकोपनिषत् ॥ ६९ ॥</l>
  <l>पारिव्राज्यधर्मवन्तो यज्ज्ञानाद्ब्रह्मतां ययुः ।</l>
  <l>तद्ब्रह्म प्रणवैकार्थं तुर्यतुर्यं हरिं भजे ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ पितामहः स्वपितरमादिनारायणमुपसमेत्य प्रणम्य पप्रच्छ
भगवंस्त्वन्मुखाद्वर्णाश्रमधर्मक्रमं सर्व श्रुतं विदिवमवगतम् । इदानीं परम-
हंस परिव्राजकलक्षणं वेदितुमिच्छामि - कः परिव्रजनाधिकारी, कीदृशं परिव्राज-
कलक्षणं, कः परमहंसः, परिव्राजकत्वं कथं, तत्सर्वं मे ब्रूहीति । स होवाच
भगवना दिनारायणः । सद्गुरुसमीपे सकल विद्यापरिश्रमज्ञो भूत्वा विद्वान्सर्व-
मैहिकामुष्मिक सुखश्रमं ज्ञात्वैषणात्रयवासनात्रयममत्वाहंकारादिकं वमना-
नमिव हेयमधिगम्य मोक्षमार्गैकसाधनो ब्रह्मचयं समाप्य गृही भवेत् ।
गृहानी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा
१ माजली.</p>
<pb n="498" />
<p>परमहंसपरिव्राजको पनिषत् ॥ ६९ ॥
•</p>
<note>४८३.</note>
<p>अथ पुनरवती वा व्रती वा स्नातको वाsस्नातको वोल्सन्नाभिरनग्निको वा
यदहरेव विरजेत्तदहरेव प्रव्रजेदिति बुद्धा सर्वसंसारेषु विरक्तो ब्रह्मचारी गृही
वानप्रस्थो वा पितरं मातरं कलत्रपुत्रमाप्तबन्धुवर्गं तदभावे शिष्यं सहवासिनं
वाऽनुमोदयित्वा तद्वैके प्राजापत्या मेवेष्टिं कुर्वन्ति तदु तथा न कुर्यात् ।.
आग्नेय्यामेव कुर्यात् । अग्निर्हि प्राणः प्राणमेवैतया करोति त्रैधातवीयामेव
कुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति । अयं ते योनिर्ऋ-
वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथानो वर्धया रयिमि-
त्यनेन मन्त्रेणाग्निमाजिघ्रेत् । एष वा अग्नेयनिर्यः प्राणं गच्छ स्वां योनिं गच्छ
स्वाहेत्येवमेवैतदाह । ग्रामाच्छ्रोत्रियागारादग्निमाहृत्य स्वविध्युक्तक्रमेण पूर्वव-
दग्निमाजिघेत् । यथातुरो वाग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः
सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोद्धृत्य प्राश्नीयात् साभ्यं हविरनाम-
यम् । एष विधिर्वीराध्वाने वाडनाशके वा संप्रवेशे वाऽग्निप्रवेशे वा महाप्र-
स्थाने वा । यथातुरः स्यान्मनसा वाचा वा संन्यसैदेष पन्थाः । स्वस्थक्रमेणैव
चेदात्मश्राद्धं विरजाहोमं कृत्वाऽग्निमात्मन्यारोप्य लौकिकवैदिकसामर्थ्यं स्वच-
तुर्दशकरणप्रवृत्तिं च पुत्रे समारोप्य तदभावे शिष्ये वा तदभावे स्वात्मन्येव
वा ब्रह्मा त्वं यज्ञस्त्वमित्यभिमन्त्रय ब्रह्मभावनया ध्यात्वा सावित्रीप्रवेश पूर्व क
मप्सु सर्व विद्यार्थस्वरूपां ब्राह्मण्याधारां वेदमातरं क्रमाद्याहृतिषु त्रिषु प्रविलाप्य
व्याहृतित्रयमकारोकारमकारेषु प्रविलाप्य तत्सावधानेनापः प्राश्य प्रणवेन
शिखामुत्कृष्य यज्ञोपवीतं छित्त्वा वस्त्रमपि भूमौ वाऽप्सु वा विसृज्य ॐ भूः
स्वाहा भुवः स्वाहा सुवः स्वाहेत्यनेन जातरूपधरो भूत्वा स्वं रूपं
ध्यायन्पुनः पृथक् प्रणवव्याहृतिपूर्वकं मनसा वचसापि संन्यस्तं मया संन्यस्तं
मया संन्यस्तं मयेति मन्द्रमध्यमतारध्वनिभित्रिवारं त्रिगुणीकृतप्रेषोच्चारणं
कृत्वा प्रणवैकध्यानपरायणः सन्नभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यूर्ध्वबाहुर्भूत्वा
ब्रह्माऽहमस्मीति तत्त्वमस्यादि वाक्यार्थ स्वरूपानुसंधानं कुर्वन्नुदीचीं दिशं
ॐ
गच्छेत् । जातरूपधरश्वरेत् । एष संन्यासः । तदधिकारी न भवेद्यदि गृह-
स्थप्रार्थनापूर्वकमभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते सखा मा गोपायौजः
सखा योsसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेत्यनेन
मन्त्रेण प्रणवपूर्वकं सलक्षणं वैणवं दण्डं कटिसूत्रं कौपीनं कमण्डलुं विवर्ण-
वस्त्रमेकं परिगृह्य सद्गुरुमुपगम्य नत्वा गुरुमुखात्तत्त्वमसीति महावाक्यं प्रणव-</p>
<pb n="499" />
<p>"शायुपनि चट्ट -
पूर्वकमुपलभ्याथ 'जीर्ण वल्कलाजिनं धृत्वाथ जलावतरणमूर्ध्व गमनमेकभिक्षां
परित्यज्य न्त्रिकालखानमाचरन्वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं कुर्वन्ब्रह्ममार्गे
सम्यक्संपन्नः स्वाभिमतमात्मनि गोपयित्वा निर्ममोऽध्यात्मनिष्ठः काम-
क्रोधलोभमोहमदमात्सर्यदम्भदर्पाहंकारासूयागर्वेच्छाद्वेषहर्षा मर्ष ममत्वादींश्च
हित्वा ज्ञानवैराग्ययुक्तो वित्तखीपराङ्मुखः शुद्धमानसः सर्वोपनिषदर्थमालोच्य
ब्रह्मचर्यापरिग्रहाहिंसासत्यं यलेन रक्षञ्जितेन्द्रियो बहिरन्तः स्नेहवर्जितः शरीर-
संधारणार्थं वा 'त्रिषु वर्णेष्वभिशस्तपतितवर्जितेषु पशुरद्रोही भैक्षमाणो
ब्रह्मभूयाय भवति । सर्वेषु कालेषु लाभालाभौ समौ कृत्वा करपात्र माधूकरे -
णान्नमश्नन्मेदोवृद्धिमकुर्वन्कृशीभूत्वा ब्रह्माहमस्मीति भावयन्गुर्वर्थं ग्राममुपेत्य
ध्रुवशीलोऽष्टौ मास्येकाकी घरेद्वावेवाचरेत् । यदाळंबुद्धिर्भवेत्तदा कुटीचको
वा बहूदको वा हंसो वा परमहंसो वा तत्तन्मन्त्रपूर्वकं कटिसूत्रं कौपीनं दण्डं
कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरेत् । ग्राम एकरात्रं तीर्थे त्रिरात्रं
पत्तने पञ्चरात्रं क्षेत्रे सप्तरात्रमनिकेतः स्थिरमतिरनग्निसेवी निर्विकारो नियमा
नियममुत्सृज्य प्राणसंधारणार्थमयमेव लाभालाभौ समौ कृत्वा गोवृस्या भैक्ष-
माचरन्नुदकस्थलकमण्डलुरबाधक रहस्यस्थलवासो न पुनर्लाभालाभरतः शुभा-
शुभकर्मनिर्मूलनपरः सर्वत्र भूतलशयनः क्षौरकर्मपरित्यक्तो युक्तचातुर्मास्य-
व्रतनियमः शुक्कुध्यानपरायणोऽर्थस्त्री पुत्र पराङ्मुखोऽनुन्मत्तोऽप्युन्मत्तवदाचरन्न-
व्यक्तलिङ्गोऽव्यक्ताचारो दिवानक्त समत्वेनास्वमः स्वरूपानुसंधानब्रह्मप्रणवध्या-
न मार्गेणावहितः संन्यासेन देहत्यागं करोति स परमहंसपरिव्राजको भवति ।
भगवन् ब्रह्मप्रणवः कीदृश इति ब्रह्मा पृच्छति । स होवाच नारायणः ।
ब्रह्मप्रणवः षोडशमात्रात्मकः सोऽवस्थाचतुष्टयचतुष्टयगोचरः । जाग्रदवस्थायां
जाग्रदादिचतस्रोऽवस्थाः स्वमे स्वप्नादिचतस्रोऽवस्थाः सुषुप्तौ सुषुध्यादिचत-
स्त्रोsवस्थास्तुरीये तुरीयादिचतस्रोऽवस्था भवन्तीति । जाग्रदवस्थायां विश्वस्य
चातुर्विध्यं विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति । स्वप्नावस्थायां
तैजसस्य चातुर्विध्यं तैजस विश्व तैजसतैजस स्तै जसप्राज्ञस्तैजसतुरीय इति । सुषु-
हयवस्थायां प्राज्ञस्य चातुर्विध्यं प्राज्ञविश्वः प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय
इति । तुरीयावस्थायां तुरीयस्य चातुर्विध्यं तुरीय विश्व स्तुरी यतैजसस्तुरीयप्राज्ञस्तु-
यतुरीय इति । ते क्रमेण षोडशमात्रारूढा अकारे जाग्रद्विश्व उकारे जाग्रत्तै-
४ दिवा नक्तमपि.
१ जीर्णवस्त्राजिनं. २ चतुर्षु. ३ तीरे त्रिरात्रं.</p>
<pb n="500" />
<p>अक्षमालिकोपनिषत् ॥ ७० ॥</p>
<p>जसो मकार जाग्रत्प्राज्ञ अर्धमात्रायां जाग्रत्तुरीयो बिन्दौ स्वप्न विश्वो नादे स्वप्न-
वैजसः कलायां स्वमप्राज्ञः कलातीते स्वमतुरीयः शान्तौ सुषुप्त विश्वः शान्त्यती ते
सुषुप्ततेजस उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां सुषुप्ततुरीयः तुया तुरीय विश्वो
मध्यमायां तुरीयतैजसः पश्यन्त्यां तुरीयप्राज्ञः परायां तुरीयतुरीयः । जाग्र-
न्मात्राचतुष्टयमकारांशं स्वप्नमात्राचतुष्टय मुकारांरां सुषुप्तिमात्राचतुष्टयं मका-
रांश तुरीयमात्राचतुष्टयमर्धमात्रांशम् । अयमेव ब्रह्मप्रणवः । स परमहंस-
तुरीयातीतावधूतैरुपास्यः । तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः । भगवन्
कथमयज्ञोपवीत्यशिखी सर्वकर्मपरित्यक्तः कथं ब्रह्मनिष्ठापरः कथं ब्राह्मण इति
ब्रह्मा पृच्छति । स होवाच विष्णुर्भो भोऽर्भक यस्यास्त्यद्वैतमात्मज्ञानं तदेव
यज्ञोपवीतम् । तस्य ध्याननिष्ठैव शिखा । तत्कर्म स पवित्रम् । स सर्व कर्म-
कृत् । स ब्राह्मणः । स ब्रह्मनिष्ठापरः । स देवः । स ऋषिः । स तपस्वी । स
श्रेष्ठः । स एव सर्वज्येष्ठः । स एव जगद्गुरुः । स एवाहं विद्धि । लोके परम-
हंस परिव्राजको दुर्लभतरो यद्येकोऽस्ति । स एव नित्यपूतः । स एव वेदपुरुषो
महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । अहं च तस्मिन्नेवावस्थितः । स एव
नित्यतृप्तः । स शीतोष्णसुखदुःखमानावमानवर्जितः । स निन्दामर्षसहिष्णुः ।
स षडूर्मिवर्जितः । षड्भावविकारशून्यः । स ज्येष्ठा ज्येष्ठव्यवधानरहितः । स
स्वव्यतिरेकेण नान्यद्रष्टा । आशाम्बरो ननमस्कारो नस्वाहाकारो नस्वधा-
कारश्च नविसर्जनपरो निन्दास्तुतिव्यतिरिक्तो नमन्त्रतत्रोपासको देवान्तर-
ध्यानशून्यो लक्ष्यालक्ष्य निवर्तकः सर्वोपरतः स सच्चिदानन्दाद्वयचिद्वनः
संपूर्णानन्दैकबोधो ब्रह्मैवाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसंधानेन यः कृतकृत्यो</p>
<lg>
  <l>भवति स ह परमहंस परिव्राडित्युपनिषत् ॥ १ ॥</l>
  <l>हरिः ॐ तत्सत् ।</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
  <l>इति परमहंसपरिव्राजकोपनिषत्समाप्ता ॥ ६९ ॥</l>
</lg>
<lg>
  <l>अक्षमालिकोपनिषत् ॥ ७० ॥</l>
  <l>अकारादिक्षकारान्तवर्णजातकलेवरम् ।</l>
  <l>विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ वाकये मनसीति शान्तिः ॥</l>
</lg>
<p>- हरिः ॐ ॥ अथ प्रजापतिर्गुहं पप्रच्छ भो ब्रह्मक्षमालाभेदविधिं ब्रूहीति ।
सा किंलक्षणा, कति भेदा भस्याः, कति सूत्राणि, कथं घटनाप्रकारः, के वर्णाः,</p>
<pb n="501" />
<p>૪૮૬
- ईशाद्युपनिषत्सु -
का प्रतिष्ठा, कैवास्याधिदेवता, किं फलं चेति । तं गुहः प्रत्युवाच प्रवालमौक्ति-
. कस्फटिकशङ्खरजताष्टापदचन्दनपुत्र जीविकाब्जे रुद्राक्षा इति । आदिक्षान्तमूर्तिः
सावधानभावा । सौवर्णं राजतं ताम्रं चेति सूत्रत्रयम् । तद्विवरे सौवर्णं तद्द-
क्षपार्श्वे राजतं तद्वामे तानं तन्मुखे मुखं तत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेण
योजयेत् । यदस्यान्तरं सूत्रं तद्ब्रह्म । यद्दक्षपार्श्वे तच्छ्रुवम् । यद्वामे तद्वैष्णवम् ।
यन्मुखं सा सरस्वती । यत्पुच्छं सा गायत्री । यत्सुषिरं सा विद्या । या
ग्रन्थिः सा प्रकृतिः । ये स्वरास्ते धवलाः । ये स्पर्शास्ति पीताः । ये परास्ते
रक्ताः । अथ तां पञ्चभिर्गन्धैरमृतैः पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा पञ्चभिर्ग-
व्यैर्गन्धोदकेन संखाप्य तस्मात्सोङ्कारेण पत्रकूर्चेन स्त्रपयित्वाऽष्टभिर्गन्धैरालिप्य
सुमनःस्थले निवेश्याक्षतपुष्पैराराध्य प्रत्यक्षमादिक्षान्तैर्वणैर्भावयेत् । ओम-
कार मृत्युंजय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ । ओमाङ्काराकर्षणात्मक सर्व-
गत द्वितीये प्रतितिष्ठ । ओमिङ्कार पुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ ।
ओमकार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ट । ओमुङ्कार सर्वबलप्रद
सारतर पञ्चमेऽक्षे प्रतितिष्ट । ओमूङ्कारोच्चाटनकर दुःसह षष्ठेऽक्षे प्रतितिष्ठ ।
ओमृङ्कार संक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ । ओमृङ्कार संमोहनकरोज व-
लाष्टमेऽक्षे प्रतितिष्ठ । ओम्लङ्कार विद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ ।
ओम्लङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ । ओमेङ्कार सर्ववश्यकर शुद्धसत्त्वै-
कादशेऽक्षे प्रतितिष्ठ । ओमैङ्कार शुद्धसात्विक पुरुषवश्यकर द्वादशेऽक्षे प्रति-
तिष्ठ । ओमोङ्काराखिलवाङ्मय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ । ओमौङ्कार
सर्ववाङ्मय वश्यकर चतुर्दशेऽले प्रतितिष्ठ । ओमकार गजादिवश्यकर मोहन
पञ्चदशेऽक्षे प्रतितिष्ट । ओमःकार मृत्युनाशनकर रौद्र पोडशेऽसे प्रतितिष्ट ।
ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ । ॐ खङ्कार सर्व-
क्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ । ॐ गङ्कार सर्वविघ्नशमन महत्तरकोन-
विंशेऽक्षे प्रतितिष्ठ । ॐ घङ्कार सौभाग्यद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ ।
ॐ ङङ्कार सर्वविषनाशकरोमैकविंशेऽक्षे प्रतितिष्ठ । ॐ चङ्काराभिचारम्न क्रूर
द्वाविंशेऽक्षे प्रतितिष्ट । ॐ छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ ।
ॐ जङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विंशेऽक्षे प्रतितिष्ठ । ॐ झङ्कार भूत-
नाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ । ॐ जङ्कार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ ।
१ गूहक.</p>
<pb n="502" />
<p>अक्षमालिकोपनिषत् ॥ ७० ॥
ॐ टङ्कार सर्वव्याधिहर सुभग सप्तविंशेऽक्षे प्रतितिष्ठ । ॐ ठङ्कार चन्द्र-
रूपाष्टाविंशेऽक्षे प्रतितिष्ठ । ॐ डङ्कार गरुडात्मक विषन्न शोभनैकोनत्रिंशेऽक्षे
प्रतितिष्ठ । ॐ ढङ्कार सर्वसंपत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ । ॐ णङ्कार सर्व-
सिद्धिप्रद मोहकरैकत्रिंशेऽक्षे प्रतितिष्ठ । ॐ तङ्कार धनधान्यादिसंपत्प्रद प्रसन्न
द्वात्रिंशेऽक्षे प्रतितिष्ठ । ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ ।
ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षे प्रतितिष्ठ । ॐ धङ्कार
विषज्वरनिम्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ । ॐ नंङ्कार भुक्तिमुक्तिप्रद शान्त
त्रिंशेऽक्षे प्रतितिष्ठ । ॐ पङ्कार विषविघ्ननाशन भव्य सप्तत्रिंशेऽक्षे प्रतितिष्ठ
ॐ फङ्काराणिमादि सिद्धिप्रद ज्योतीरूपाष्टत्रिंशेऽक्षे प्रतितिष्ठ । ॐ बङ्कार
सर्वदोषहर शोभनैकोनचत्वारिंशेऽक्षे प्रतितिष्ट । ॐ भङ्कार भूतप्रशान्तिकर
भयानक चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ मङ्कार विद्वेषिमोहन करैकचत्वारिंशेऽक्षे
प्रतितिष्ठ । ॐ यङ्कार सर्वव्यापक पावन द्विचत्वारिंशेऽक्षे प्रतितिष्ठ 1
ॐ रङ्कार दाहकर विकृत त्रिचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ लङ्कार विश्वभर
भासुर चतुश्चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ वङ्कार सर्वाप्यायनकर निर्मल
पञ्चचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ शङ्कार सर्वफलप्रद पवित्र षट्चत्वारिंशेऽक्षे
प्रतितिष्ठ । ॐ षङ्कार धर्मार्थकामद धवल सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ ।
ॐ सङ्कार सर्वकारण सार्ववर्णिकाष्टचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ हङ्कार
सर्ववाङ्मय निर्मलैकोनपञ्चाशदक्षे प्रतितिष्ठ । ॐ ळङ्कार सर्वशक्तिप्रद प्रधान
पञ्चाशदक्षे प्रतितिष्ठ । ॐ क्षङ्कार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौ
प्रतितिष्ठ । अथोवाच ये देवाः पृथिवीषदस्तेभ्यो नमो भगवन्तोऽनुमदन्तु
शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् । अथोवाच ये
देवा अन्तरिक्षसदस्तेभ्य ॐ नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनु-
-मदन्तु शोभायै ज्ञानमयीमक्षमालिकाम् । अथोवाच ये देवा दिविषदस्तेभ्यो
नमो भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु शोभायै ज्ञानमयीमक्ष-
मालिकाम् । अथोवाच ये मन्त्रा या विद्यास्तेभ्यो नमस्ताभ्यश्वोन्नमस्त-
च्छक्तिरस्याः प्रतिष्ठापयति । अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः सगुणेभ्य
ॐ नमस्तद्वीर्यमस्याः प्रतिष्ठापयति । अथोवाच ये सांख्यादितत्त्व भेदास्तेभ्यो
नमो वर्तध्वं विरोधेऽनुवर्तध्वम् । अथोवाच ये शैवा वैष्णवाः शाक्ताः
शतसहस्त्रशस्त्रेभ्यो नमो नमो भगवन्तोऽनुमदन्वनुगृह्णन्तु । अथोवाच</p>
<pb n="503" />
<p>ईशाद्युपनिषत्सु -
- याच मृत्योः प्राणवत्यस्ताभ्यो नमो नमस्तेनैतं मृडयत मृडयत । पुनरेतस्यों
सर्वात्मकत्वं भावयित्वा भावेन पूर्वमालिकामुत्पाद्यारभ्य तन्मयीं महोपहारै-
पहृत्या दिक्षान्तैरक्षरै रक्षमालामष्टोत्तरशतं स्पृशेत् । अथ पुनरुत्थाप्य
प्रदक्षिणीकृत्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले सर्ववशंकर्यो नमस्ते भगवति
मन्त्रमातृकेऽक्षमालिके शेषस्तम्भिन्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले
उच्चाटय नमस्ते भगवति मन्त्रमातृकेऽक्षमाले विश्वामृत्यों मृत्युंजयस्वरूपिणि
सकललोकोद्दीपनि सकललोकरक्षाधिके सकललोकोजीविके सकललोको-
त्पादिके दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि देशान्तरं यासि
द्वीपान्तरं यासि लोकान्तरं यासि सर्वदा स्फुरसि सर्वहृदि वाससि । नमस्ते
परारूपे नमस्ते पश्यन्तीरूपे नमस्ते मध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वा-
त्मिके सर्वविद्यात्मिके सर्वशक्त्यात्मिके सर्वदेवात्मिके वसिष्टेन मुनिनाराधिते
विश्वामित्रेण मुनिनोपजीव्यमाने नमस्ते नमस्ते । प्रातरधीयानो रात्रिकृतं पापं
नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुञ्जानः
पापोsपापो भवति । एवमक्षमालिकया जसो मन्त्रः सद्यः सिद्धिकरो भवतीत्याह
भगवान्गुहः प्रजापतिमित्युपनिषत् ॥ १ ॥ हरिः ॐ तत्सत् ॥
ॐ वा मनसीति शान्तिः ॥
इत्यक्षमालिकोपनिषत्समाप्ता ॥ ७० ॥</p>
<lg>
  <l>अव्यक्तोपनिषत् ॥ ७१ ॥</l>
  <l>स्वाज्ञानासुरराइग्रासस्वज्ञाननरकेसरी ।</l>
  <l>प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ १ ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ पुरा किलेदं न किंचनासीन्न द्यौर्नान्तरिक्षं न पृथिवीं केवलं
ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं रूपवदविज्ञेयं ज्ञानरूपमानन्दम-
थमासीत् । तदनन्यत्तद्वेधाऽभूद्धरितमेकं रक्तमपरम् । तत्र यदुक्तं तत्पुंसो
रूपमभूत् । यद्धरितं तन्मायायाः । तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् ।
तदवर्धत । तदण्डमभूद्धैमम् । तत्परिणममानमभूत् । ततः परमेष्ठी व्यजा-
यत । सोऽभिजिज्ञासत किं मे कुलं किं मे कृत्यमिति । तं ह वागदृश्यमाना
sभ्युवाच - भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं, ते कृत्यमिति । किम-
1</p>
<pb n="504" />
<p>अव्यक्तोपनिषत् ॥ ७१ ॥
•</p>
<p>व्यक्तं यस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति । साऽब्रवीदविज्ञेयं हि
तत्सौम्य तेजः । यदविज्ञेयं तदव्यक्तम् । तच्चेजिज्ञाससि मांडवगच्छेति । स
shara कैषा त्वं ब्रह्मवाग्यदसि शंसात्मानमिति । सा त्वब्रवीत्तपसा मां
विजिज्ञासस्वेति । स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास ॥ १ ॥ अथा-
पश्यचमानुष्टुभीं परमां विद्यां यस्याङ्गान्यन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठितम् ।
विश्वेदेवाः प्रतिष्ठिताः । यस्तां न वेद किमन्यैर्वेदैः करिष्यति । तां विदित्वा
स च रक्तं जिज्ञासयामास । तामेवमनूचानां गायन्नासिष्ट । सहस्रं समा
आद्यन्तनिहितोङ्कारेण पदान्यगायत् । सहस्रं समास्तथैवाक्षरशः । ततोऽपश्य-
ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छादितमौलिं मृगमुखं नरवपुषं
शशि सूर्य हव्यवाहनात्मकनयनत्रयम् । ततः प्रजापतिः प्रणिपपात नमो नम
इति । तथैवर्चाथ तमस्तौत् । उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् ।
वीरमित्याह वीरो वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयं
महानोदसी व्याप्य स्थितः ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः ।
सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् । नृसिंहमित्याह यथा
यजुरेवैतत् । भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो
वायुवति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयं
श्रिया जुष्टः । मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादा-
नाम् । नमामीत्याह यथा यजुरेवैतत् । अहमित्याह यथा यजुरेवैतत् ॥ २ ॥
अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं तदाशंसेति । स होवाच
भगवन्नव्यक्तादुत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराऽश्रावि । तत्राव्यक्तं भवा-
नित्यज्ञायि व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् । यद्व्यज्यते
तद्व्यक्तस्य व्यक्तत्वमिति । स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति ।
तमुवाच पुरुषः प्रजापते शृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि ।
सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यनौ स्वात्मानं हविययेत्तयैवाऽनुष्टुभर्चा ।
ध्यानयज्ञोऽयमेव । एतद्वै महोपनिषद्देवानां गुह्यम् । न ह वा एतस्य साना
र्चा न यजुषाऽर्थो न विद्यते । य इमा वेद स सर्वान्कामानवाप्य सर्वांल्लो-
काञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥ ३ ॥ प्रजाप-
तिस्तं यज्ञाय वसीयांसमात्मानं मन्यमानो मनोयज्ञेनेजे । सप्रणवया तयैवर्चा
१ मामवगच्छेति. २ नित्याशापय
1
1</p>
<pb n="505" />
<p>.४९०
ईशाद्युपनिषत्सु -
हविर्ध्यात्वाऽऽत्मानमात्मन्यग्नौ जुहुयात् । सर्वमजानात्सर्वनाशकत्सर्वमकरोत् ।
ये एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति । स
सर्वलोकाञ्जित्वा ब्रह्म परं प्राप्नोति ॥ ४ ॥ अथ प्रजापतिर्लोकान्सिसृक्षमाण-
स्तस्या एव विद्याया यानि त्रिंशदक्षराणि तेभ्यस्त्री लोकान् । अथ द्वे द्वे अक्षरे
ताभ्यामुभयतो दधार । तस्या एव द्वात्रिंशद्भिरक्षरैस्तान्देवान्निर्ममे । सर्वै-
रेव स इन्द्रोऽभवत् । तस्मादिन्द्रो देवानामधिकोऽभवत् । य एवं वेद समा-
नानामधिको भवेत् । तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे । तस्या
एकादशभिरेकादशादित्यान्निर्ममे । सर्वैरेव स विष्णुरभवत् । तस्माद्विष्णुरा-
दित्यानामधिकोऽभवत् । य एवं वेद समानानामधिको भवेत् । स चतु-
भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् । स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणम-
जनयत् । दशभिर्दशभिर्विक्षत्रे । तस्माद्राह्मणो मुख्यो भवति । एवं
मुख्यो भवति य एवं वेद । तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्यो -
ऽभवत् । न वेदं दिवा न नक्तमासीदव्यावृतं । स प्रजापतिरानुष्टुभाभ्या-
मर्धर्चाभ्यामहोरात्रावकल्पयत् । ततो व्यैच्छत् व्येवास्मा उच्छति । अथो
तम एवापहते । ऋग्वेदमस्या आद्यात्पादादकल्पयत् । यजुर्द्वितीयात् । साम
तृतीयात् । अथर्वाङ्गिरसश्चतुर्थात् । यदुष्टाक्षरपदा तेन गायत्री । यदेकादश-
पदा तेन त्रिष्टुप् । यच्चतुष्पदा तेन जगती । यद्वात्रिंशदक्षरा तेनानुष्टुप् । साँ
सर्वाणि छन्दांसि । य इमं सर्वाणि छन्दांसि वेद । सर्वं जगदा -
शुभ एवोत्पन्नमनुष्टुप्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद ॥ ५ ॥ अथ यदा प्रजाः
सृष्टा न जायन्ते प्रजापतिः कथं न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमि-
तीमामृचं गातुमुपाक्रामत् । ततः प्रथमपादादुग्ररूपो देवः प्रादुरभूत् । एकः
श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं विभज्य स्त्रीपु तस्य स्त्रीरूपं पुंसि
च पुंरूपं व्यधात् । स उभाभ्यामंशाभ्यां सर्वमादिष्टः । ततः प्रजाः प्रजा-
यन्ते । य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गायत्रुद्रथितजटाक-
लापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारमिति । इन्द्रो वै किल देवानामनुजावर
आसीत् । तं प्रजापतिरब्रवीद्गच्छ देवानामधिपतिर्भवेति । सोऽगच्छत् । तं
'देवा ऊचुरनुजावरोऽसि त्वमस्माकं कुतस्तवाधिपत्यमिति । स प्रजापतिमभ्ये-
१ य इह वेद. २ अव्यावृत्तम्. ३ सवा</p>
<pb n="506" />
<p>अव्यक्तोपनिषत् ॥ ७१ ॥
·</p>
<p>त्योवाचैवं देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति । तं प्रजापतिरिन्द्रं
'त्रिकलशैरमृतपूर्णैरानुष्टुभाऽभिमन्त्रितैरभिषिच्य तं सुदर्शनेन दक्षिणतो ररक्ष
पाञ्चजन्येन वामतो द्वयेनैन सुरक्षितोऽभवत् । रौक्मे फलके सूर्यवर्चसि
मन्त्रमानुष्टुभं विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । ततः सुदुर्निरीक्षोऽभवत् । तस्मै
विद्यामानुष्टुभी प्रादात् । ततो देवास्तमाधिपत्यायानुमेनिरे । स स्वराडभूत् ।
य एवं वेद स्वराड् भवेत् । सोऽमन्यत पृथिवीमपि कथमपां जयेयमिति । स
प्रजापतिमुपाधावत् । तस्मात्प्रजापतिः कम ठाकारमिन्द्र नागभुजगेन्द्राधार
भद्रासनं प्रादात् । स पृथिवीमभ्यजयत् । ततः स उभयोर्लोकयोरधिपति-
भूत् । य एवं वेदोभयोर्लोकयोरधिपतिर्भवति । स पृथिवीं जयति यो वा
अप्रतिष्ठितं शिथिलं भ्रातृव्येभ्यः परमात्मानं मन्यते । स एतमासीनमधिति-
ष्ठेत् । प्रतिष्ठितोऽशिथिलो भ्रातृव्येभ्यो वसीयान्भवति यश्चैवं वेद यश्चैवं वेद
॥ ६ ॥ य इमां विद्यामधीते स सर्वान्वेदानधीते । स सर्वैः क्रतुभिर्यजते । स
सर्वतीर्थेषु स्नाति । स महापातकोपपातकैः प्रमुच्यते । स ब्रह्मवर्चसं महदा-
यात् । ब्रह्मणः पूर्वांनाकल्पांश्चोत्तरांश्च वंश्यान्पुनीते । नैनमपस्मारादयो
रोगा आदिधेयुः । सयक्षाः सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा
पापिनः पुण्याँल्लोकानवाप्नुयुः । चिन्तितमात्रादस्य सर्वेऽर्थाः सिद्ध्येयुः । पितर-
मिवैनं सर्वे मन्यन्ते । राजानश्चास्यादेशकारिणो भवन्ति । न चाचार्यव्यति-
रिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् । न चास्मादुपावरोहेत् । जीवन्मुक्तश्च भवति ।
देहान्ते तमसः परं धाम प्राप्नुयात् । यत्र विराणू नृसिंहोऽवभासते तत्र
ख़लूपासते । तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते ।
न च पुनरावर्तन्ते । न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते नानूचा-
नाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय नाशान्ताय नादीक्षि-
ताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण इत्येषोपनिषत् ॥ १ ॥
हरिः ॐ तत्सत् ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इत्यव्यक्तोपनिषत्समाप्ता ॥ ७१ ॥
१ अधिदेयुः</p>
<pb n="507" />
<p>ईशायुपनिषत्सु -</p>
<lg>
  <l>एकाक्षरोपनिषत् ॥ ७२ ॥</l>
  <l>एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।</l>
  <l>सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ १ ॥</l>
  <l>स ह नाववत्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ एकाक्षरं त्वक्षेरेऽत्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः । त्वं
विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥ १ ॥ विश्वे निमग्न-
पदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः । अजातमग्रे स हिरण्यरेता
यज्ञस्त्वमेवैकविभुः पुराणः ॥ २ ॥ प्राणः प्रसूतिर्भुवनस्य योनिर्व्याप्तं त्वया
एकपदेन विश्वम् । त्वं विश्वभूयनिपराः स्वगर्भे कुमार एको विशिखः सुधन्वा
॥ ३ ॥ वितत्य बाणं तरुणार्कवर्ण व्योमान्तरे भासि हिरण्यगर्भः । भासा
त्वया व्योम्नि कृतः सुतार्क्ष्यस्त्वं वै कुमारस्त्वमरिष्टनेमिः ॥ ४ ॥ त्वं वज्रभू-
द्भूतपतिस्त्वमेव कामः प्रजानां निहितोऽसि सोमे । स्वाहा स्वधा यच्च वषट्
करोति रुद्रः पशूनां गुहया निमग्नः ॥ ५ ॥ धाता विधाता पवनः सुपर्णो
विष्णुर्वराहो रजनी रहश्च । भूतं भविष्यत्प्रभवः क्रियाश्च कालः क्रमस्त्वं
परमाक्षरं च ॥ ६ ॥ ऋचो यजूंषि प्रसवन्ति वात्सामानि सम्रासुरन्तरि-
क्षम् । त्वं यज्ञनेता हुतभुग्विभुश्च रुद्रास्तथा दैत्यगणा वसुश्च ॥ ७ ॥ स एष
देवोऽम्बरगश्च चक्रे अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः । हिरण्मयं यस्य विभाति
सर्वं व्योमान्तरे रश्मिमिवांशुनाभिः ॥ ८ ॥ स सर्ववेत्ता भुवनस्य गोप्ता
ताभिः प्रजानां निहिता जनानाम् । प्रोता त्वमोता विचितिः क्रमाणां प्रजा-
पतिश्छन्दमयो विगर्भः ॥ ९ ॥ समैचिदन्तो विरजश्च बाहु हिरण्मयं वेद-
विदां वरिष्ठम् । यमध्वरे ब्रह्मविदः स्तुवन्ति सामैर्यजुर्भिः क्रतुभिस्त्वमेव
॥ १० ॥ त्वं स्त्री पुमांस्त्वं च कुमार एकस्त्वं वै कुमारी ह्यथ भूस्त्वमेव ॥
त्वमेव धाता वरुणश्च राजा त्वं वत्सरोऽस्यर्यम एव सर्वम् ॥ ११ ॥ मित्रः
सुपर्णश्चन्द्र इन्द्रो वरुणो रुद्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम् । त्वं विष्णु-
र्भूतानि तु त्रासि दैत्यांस्त्वयाऽऽवृतं जगदुद्भवगर्भः ॥१२॥ त्वं भूर्भुवः स्वस्त्वं
१ तोऽसि सोमे. २ आजात. ३ स्वरोऽसि, ४ गृहयोनि, ५ हरश्च. ६ ऋतुस्त्वं.
७ म्बरयानचक्रे अन्यानधिष्ठाय तपोनिरुन्ध्यः ८ दैत्यस्त्वयापतन्विदुर्भवगर्भम्
4</p>
<pb n="508" />
<p>अध्या० १]
अन्नपूर्णोपनिषत् ॥ ७३ ॥</p>
<p>हि स्वयंभूरथ विश्वतोमुखः । य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्व-
भूतं हिरण्मयम् ॥ १३ ॥ हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धि-
मतीत्य तिष्ठतीत्युपनिषत् ॥ १ ॥ हरिः ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इत्येकाक्षरोपनिषत्समाप्ता ॥ ७२ ॥</p>
<lg>
  <l>अन्नपूर्णोपनिषत् ॥ ७३ ॥</l>
  <l>सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् ।</l>
  <l>त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् । प्रणम्य दण्डव-
मावुत्थाय स पुनर्मुनिः ॥ १ ॥ आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् ।
कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥ २ ॥ तां मे ब्रूहि महाविद्यां मोक्ष-
साम्राज्यदायिनीम् । निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् ॥ ३॥
यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि । मूलशृङ्गाटमध्यस्था बिन्दुनाद -
कलाश्रया ॥ ४ ॥ नित्यानन्दा निराधारा विख्याता विलसत्कचा । विष्टपेशी
महालक्ष्मीः कामस्तारो नतिस्तथा ॥ ५ ॥ भगवत्यन्नपूर्णेति ममाभिलषितं
ततः । अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता ॥ ६ ॥ सप्तविंशतिवर्णात्मा
योगिनीगणसेविता ॥ ७ ॥ ऐं ह्रीं सौं श्रीं क्लीं ॐ नमो भगवत्यन्नपूर्ण
ममाभिलषितमन्नं देहि स्वाहा । इति पित्रोपदिष्टोऽस्मि तदादिनियमः
स्थितः । कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ॥ ८ ॥ एवं गते बहुदिने
प्रादुरासीन्ममाग्रतः । अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ॥ ९ ॥ तां
eg दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः । अहो वत्स कृतार्थोऽसि वरं वरय
मा चिरम् ॥ १० ॥ एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव । आत्मतत्त्वं
मनसि मे प्रादुर्भवतु पार्वति ॥ ११ ॥ तथैवास्त्विति मामुक्त्वा तत्रैवान्तर-
'धीयत । तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् ॥ १२ ॥ भ्रमः पञ्चविधो
भाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥ १३ ॥
१ बुद्धिमत्सु.</p>
<pb n="509" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः । शरीरत्रयसंयुक्तजीवः सङ्गी तृती-
यकः ॥ १४ ॥ जगत्कारणरूपस्य विकारित्वं चतुर्थकः । कारणाद्भिन्नजगतः
सत्यत्वं पञ्चमो भ्रमः । पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥ १५ ॥
बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः । स्फटिकलोहितदर्शनेन पारमार्थिक-
कर्तृत्वभ्रमो निवृत्तः । घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः । रज्जु-
सर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः । कनकरुचकदर्शनेन
विकारित्वभ्रमो निवृत्तः । तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् । निदाघ
त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥ १६ ॥ निदाघः प्रणतो भूत्वा ऋभुं
पप्रच्छ सादरम् । ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् ॥ १७ ॥ तथे-
त्याह ऋभुः प्रीतस्तत्त्वज्ञानं वदामि ते । महाकर्ता महाभोक्ता महात्यागी
भवानघ । स्वस्वरूपानुसंधानमेवं कृत्वा सुखी भव ॥ १८ ॥ नित्योदितं
विमलमाद्यमनन्तरूपं ब्रह्माऽस्मि नेतरकलाकलनं हि किंचित् । इत्येव भावय
निरञ्जनतामुपेतो निर्वाणमेहि सकलामलशान्तवृत्तिः ॥ १९ ॥ यदिदं दृश्यते
किंचित्तत्तन्नास्तीति भावय । यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥ २० ॥
यत्तु
नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् । मनःषष्ठेन्द्रियातीतं तन्मयो
भव वै मुने ॥ २१ ॥ अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् । नीरन्ध्र
भूरिवाशेषं तदस्मीति विभावय ॥ २२ ॥ यदा संक्षीयते चित्तमभावात्यन्त-
भावनात् । चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥ २३ ॥ नूनं चैत्यांश-
रहिता चिद्यदात्मनि लीयते । असद्रूपवदत्यच्छा सत्तासामान्यता तदा
॥ २४ ॥ दृष्टिरेषा हि परमा सदेहादेहयोः समा । मुक्तयोः संभवत्येव तुर्या -
तीतपदाभिधा ॥ २५ ॥ व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ । ज्ञस्य
केवलमज्ञस्य न भवत्येव बोधजा । अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः
॥ २६ ॥ चिरकालपरिक्षीणमननादिपरिभ्रमः । पदमासाद्यते पुण्यं प्रज्ञयैत्र-
कया तथा ॥ २७ ॥ इमं गुणसमाहारमनात्मत्वेन पश्यतः । अन्तः शीतलया
aisal समाधिरिति कथ्यते ॥ २८ ॥ अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च ।
तदेव केवलीभावं शान्ततैव च तत्सदा ॥ २९ ॥ तनुवासनमत्युचैः पदायोद्यत -
मुच्यते । अवासनं मेनोऽकर्तृपदं तस्मादवाप्यते ॥ ३० ॥ घनवासनमेतत्तु
चेतः कर्तृत्वभावनम् । सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥ ३१ ॥
१ मनोवऋपदं.</p>
<pb n="510" />
<p>अध्या० १]
अन्नपूर्णोपनिषत् ॥ ७३ ॥
•</p>
<p>चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । सर्वमाकाशतामेति नित्यमन्तर्मुख-
स्थितेः ॥ ३२ ॥ यथा विपणगा लोका विहरन्तोऽप्यसत्समाः । असंबन्धा-
तथा ज्ञस्य ग्रामोऽपि विपिनोपमः ॥ ३३ ॥ अन्तर्मुखतया नित्यं सुप्तो बुद्धो
व्रजन्पठन् । पुरं जनपदं ग्राममरण्यमिव पश्यति ॥ ३४ ॥ अन्तःशीतलतायां
तु लब्धायां शीतलं जगत् । अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्
॥ ३५ ॥ भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥ ३६ ॥ यस्त्वात्मरति -
रेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः । न वशो हर्षशोकाभ्यां स समाहित उच्यते
॥ ३७ ॥ आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् । स्वभावादेव न भयाद्यः
पश्यति स पश्यति ॥ ३८ ॥ अद्यैव मृतिरायातु कल्पान्तनिचयेन वा ॥
नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥ ३९ ॥ कोऽहं कथमिदं किं वा
कथं मरणजन्मनी । विचारयान्तरे वेत्थं महत्तत्फलमेव्यसि ॥ ४० ॥ विचा-
रेण परिज्ञातस्वभावस्य सतस्तव । मनः स्वरूपमुत्सृज्य राममेष्यति विज्वरम्
॥ ४१ ॥ विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु । न निमज्जति तद्ब्रह्मन्गोष्प-
देष्विव वारणः ॥ ४२ ॥ कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति । कार्ये
गोष्पदतोयेऽपि विशीर्णो मशको यथा ॥ ४३ ॥ यावद्यावन्मुनिश्रेष्ठ स्वयं
संत्यज्यतेऽखिलम् । तावत्तावत्परालोकः परमात्मैव शिष्यते ॥ ४४ ॥ याव -
सर्वं न संत्यक्तं तावदात्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेति
कथ्यते ॥ ४५ ॥ आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् । सर्वं संत्यज्य
दूरेण यच्छिष्टं तन्मयो भव ॥ ४६ ॥ सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गु-
तम् । चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् ॥ ४७ ॥ समाहिता
नित्यतृप्ता यथाभूतार्थदर्शिनी । ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः
॥ ४८ ॥ अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी । प्रोक्ता समाधिशब्देन
मेरोः स्थिरतरा स्थितिः ॥ ४९ ॥ निश्चिता विगताभीष्टा हेयोपादेयवर्जिता ।
ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः ॥ ५० ॥ केवलं चित्प्रकाशांश-
कल्पिता स्थिरतां गता । तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः ॥ ५१ ॥
अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते । मनोहंकारविलये सर्वभावान्तरस्थिता
॥ ५२ ॥ समुदेति परानन्दा या तनुः पारमेश्वरी । मनसैव मनश्छित्त्वा सा
स्वयं लभ्यते गतिः ॥ ५३ ॥ तदनु विषयवासनाविनाशस्तदनु शुभः परमः
१ चितः परम.</p>
<pb n="511" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
स्फुटप्रकाशः। तद्नु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम्
॥ ५४ ॥ अखिलमिदमनन्तमात्मतत्त्वं दृढपरिणामिनि चेतसि स्थितोऽन्तः ।
बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः ॥ ५५ ॥ असक्तं
निर्मलं चित्तं युक्तं संसार्यविस्फुटम् । सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्ध वर
॥ ५६ ॥ अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् । बहिः कुर्वन्नकुर्वन्वा
कर्ता भोक्ता न हि क्वचित् ॥ ५७ ॥
इत्यन्नपूर्णोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
निदाघ उवाच ॥ सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् । कश्व
मोक्षाय कथितः कथं त्वेष चिकित्स्यते ॥ १ ॥ देहदेहिविभागैकपरित्यागेन
भावना । देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते ॥ २ ॥ सर्वमात्मेद-
मंत्राहं किं वाञ्छामि त्यजामि किम् । इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थि-
ताम् ॥ ३ ॥ नाहमस्मि न चान्योऽस्ति न चायं न च नेतरः । सोऽसङ्ग इति
संप्रोक्त ब्रह्मास्मीत्येव सर्वदा ॥ ४ ॥ नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषजते ।
सुमो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ५ ॥ सर्वकर्मफलादीनां मन-
सैव न कर्मणा । निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ६ ॥ असंक-
कल्पेन सकलाश्चेष्टा नाना विजृम्भिताः । चिकित्सिता भवन्तीह श्रेयः संपादयन्ति
हि ॥ ७ ॥ न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु । न गमागमचेष्टासु
न कालकलनासु च ॥ ८ ॥ केवलं चिति विश्रम्य किंचिच्चैत्यावलम्व्यपि ।
सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥ ९ ॥ व्यवहारमिदं सर्वं मा करोतु
करोतु वा । अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः ॥ १० ॥ अथवा
aat Fear चैत्यांशं शान्तचिद्वनः । जीवस्तिष्ठति संशान्तो ज्वलन्मणि-
रिवात्मनि ॥ ११ ॥ चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते
शान्तकलना जाग्रत्येव सुषुप्तता ॥ १२ ॥ एषा निदाघ सौपुप्तस्थितिरभ्यास-
योगतः । प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥ १३ ॥ अस्यां तुरीया -
वस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दैकान्तशीलत्वादनानन्दपदं गतः
॥ १४॥ अनानन्दमहानन्दकालातीतस्ततोऽपि हि । मुक्त इत्युच्यते योगी
तुर्यातीतपदं गतः ॥ १५ ॥ परिगलितसमस्तजन्मपाशः सकलविलीनतमो-
मयाभिमानः । परमरसमयीं परात्मसत्तां जलगतसैन्धवखण्डवन्महात्मा
१ निश्चलं.</p>
<pb n="512" />
<p>अध्या० २]
अन्नपूर्णोपनिषत् ॥ ७३ ॥</p>
<p>॥ १६ ॥ जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् । अनुभूतिमयं तस्मात्सारं
ब्रह्मेति कथ्यते ॥ १७ ॥ दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते । द्रव्य-
दर्शनसंबन्धे याऽनुभूतिरनामया ॥ १८ ॥ तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते
स्थितिम् । सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु ॥ १९ ॥ आत्मा
स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः । न चेतनो न च जडो न चैवासन्न
सन्मयः ॥ २० ॥ नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः । यदीदं
तां प्रातं मनः सर्वेन्द्रियास्पदम् ॥ २१ ॥ दृश्यदर्शनसंबन्धे यत्सुखं
पारमार्थिकम् । तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् ॥ २२ ॥ न मोक्षो
नभसः पृष्ठे न पाताले न भूतले । सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते
॥ २३ ॥ मोक्षो मेऽस्त्विति चिन्ताऽन्तर्जाता चेदुत्थितं मनः । मननोत्थे मन-
स्पेष बन्धः सांसारिको दृढः ॥ २४ ॥ आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा
तते । को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥ २५ ॥ अध्यात्मरति -
राशान्तः पूर्णपावनमानसः । प्रांतानुत्तमविश्रान्तिर्न किंचिदिह वान्छति
॥ २६ ॥ सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि । यो जीवति गतस्नेहः
स जीवन्मुक्त उच्यते ॥ २७ ॥ नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति । न
संस्मरत्यतीतं च सर्वमेव करोति च ॥ २८ ॥ अनुबन्धपरे जन्तावसंसर्ग-
मनाः सदा । भक्ते भक्तसमाचारः शठे शठ इव स्थितः ॥ २९ ॥ बालो
बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् । युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः
॥ ३० ॥ धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः । प्राज्ञः प्रसन्नमधुरो
दैन्यादपगताशयः ॥ ३१ ॥ अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते । मनः
प्रशममायाति निर्वाणमवशिष्यते ॥ ३२ ॥ यतो वाचो निवर्तन्ते विकल्प-
कलुनान्विताः । विकल्प संक्षयाज्जन्तोः पदं तदवशिष्यते ॥ ३३ ॥ अनाद्यन्ता-
वभासात्मा परमात्मैव विद्यते । इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः
॥ ३४ ॥ यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये । यदात्मैव जगत्सर्वमिति
निश्चित्य पूर्णता ॥ ३५ ॥ सर्वमात्मैव कौ दृष्टौ भावाभावौ क वा स्थितौ ।
क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते ॥ ३६ ॥ सर्वमेकं परं व्योम को मोक्षः
कस्य बन्धता । ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् ॥ ३७ ॥ दूरादस्तमित-
द्वित्वं भवात्मैव त्वमात्मना । सम्यगालोकिते रूपे काष्ठपाषाणवाससाम्
१ बृहदिव.
अ. उ. ३२</p>
<pb n="513" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ३
॥ ३८ ॥ मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः । आदावन्ते च
संशान्तस्वरूपमविनाशि यत् ॥ ३९॥ वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा ।
द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः ॥ ४० ॥ स्फुरत्यात्मभिरात्मैव चित्तैरन्धीव
वीचिभिः । आपत्करअपरशुं पराया निर्वृतेः पदम् ॥ ४१ ॥ शुद्धमात्मानमा-
लिङ्ग्य नित्यमन्तःस्थया धिया । यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः
॥ ४२ ॥ कृतस्फारविचारस्य मनोभोगादयोऽरयः । मनागपि न भिन्दन्ति
शैलं मन्दानिला इव ॥ ४३ ॥ नानात्वमस्ति कलनासु न वस्तुतोऽन्तर्नाना-
विधासु सरसीषु जलादिवान्यत् । इत्येकनिश्चयमयः पुरुषो विमुक्त इत्युच्यते
समवलोकितसम्यगर्थः ॥ ४४ ॥
इत्यन्नपूर्णोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः । कं योगं समुपस्थाय प्राप्त-
वान्परमं पदम् ॥ १ ॥ सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः । कौण्डि-
न्यात्तत्त्वमास्थाय जीवन्मुक्तोऽभवत्पुरा ॥ २ ॥ जीवन्मुक्तिदशां प्राप्य कदा-
चिद्ब्रह्मवित्तमः । सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः ॥ ३ ॥ बद्धपद्मासन-
'स्तिष्ठन्नर्धोन्मीलितलोचनः । बाह्यानाभ्यन्तरांश्चैव स्पर्शान्परिहरन्छनैः ॥ ४ ॥
ततः स्वमनसः स्थैर्यं मनसा विगतैनसा । अहो नु चञ्चलमिदं प्रत्याहृतमपि
स्फुटम् ॥ ५ ॥ पटामुपायाति घटाच्छकटमुत्कटम् । चित्तमर्थेषु चरति
प्रादपेष्विव मर्कटः ॥ ६ ॥ पञ्च द्वाराणि मनसश्चक्षुरादीन्यमून्यलम् । बुद्धी-
न्द्रियाभिधानानि तान्येवालोकयाम्यहम् ॥ ७ ॥ हन्तेन्द्रियगणा यूयं त्यज-
ताकुलतां शनैः । चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥ ८ ॥
तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः । परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि
विगतज्वरः ॥ ९ ॥ स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् । अन्तरेव
शशामास्य क्रमेण प्राणसन्ततिः ॥ १० ॥ ज्वालाजालपरिस्पन्दो दुग्धेन्धन
इवानलः । उदितोऽस्तं गत इव ह्यस्तं गत इवोदितः ॥ ११ ॥ समः सम-
रसाभासस्तिष्ठामि स्वच्छतां गतः । प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान्
॥ १२ ॥ तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः । सबाह्याभ्यन्तरा-
न्भावान्स्थूलान्सूक्ष्मतरानपि ॥ १३ ॥ त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैक-
विनिर्मितान् । सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ॥ १४ ॥ जहाविन्द्रिय-
तन्मात्राजालं खग इवानिलः । ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम्</p>
<pb n="514" />
<p>अध्या० ४ ]
अन्नपूर्णोपनिषत् ॥ ७३ ॥</p>
<p>॥ १५ ॥ सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः । जहौ चित्तं चैत्यदर्शा
स्पन्दशक्तिमिवानिलः ॥ १६ ॥ चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः ।
सुषुप्तपदमालम्ब्य तस्थौ 'गिरिरिवाचलः ॥ १७ ॥ सुषुप्तस्थैर्यमासाद्य तुर्थ-
रूपमुपाययैौ । निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः ॥ १८ ॥ ततस्तु
संबभूवासौ यद्विरामप्यगोचरः । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च
यत् ॥ १९ ॥ विज्ञानमात्रं विज्ञानविदां यदुमलात्मकम् । पुरुषः सांख्यदृष्टी -
नामीश्वरो योगवादिनाम् ॥ २० ॥ शिवः शैवागमस्थानां कालः कालैकवा-
'दिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥ २१ ॥ यत्सर्वं सर्वगं
चस्तु यत्तत्त्वं तदसौ स्थितः । यदनुक्तमनिष्पन्दं दीपकं तेजसामपि ॥ २२ ॥
स्वानुभूत्यैकमानं च यत्तत्वं तदसौ स्थितः । यदेकं चाप्यनेकं च साञ्जनं च
निरञ्जनम् । यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसौ स्थितः ॥ २३ ॥ अजममर-
मनाद्यमाद्यमेकं पदममलं सकलं च निष्कलं च । स्थित इति स तदा नभः-
स्वरूपादपि विमलस्थितिरीश्वरः क्षणेन ॥ २४ ॥
इत्यन्नपूर्णोपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् । तथा चेन्मुनिशार्दूल तन्त्र
नैव प्रलक्ष्यते ॥ १ ॥ अनात्मविदमुक्तोऽपि नभोविहरणादिकम् । द्रव्यमन्त्र-
क्रियाकालशक्त्याऽऽप्नोत्येव स द्विजः ॥ २ ॥ नात्मज्ञस्यैष विषय आत्मज्ञो
ह्यात्ममात्रदृक् । आत्मनाऽऽत्मनि संतृप्तो नाविद्यामनुधावति ॥ ३ ॥ ये ये
भावाः स्थिता लोके तानविद्यामयान्विदुः । त्यक्ताविद्यो महायोगी कथं तेषु
"निमज्जति ॥ ४ ॥ यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वान्छति । स सिद्धि-
साधनैस्तानि साधयति क्रमात् ॥ ५ ॥ द्रव्यमन्त्रक्रियाकालयुक्तयः साधु-
सिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ ६ ॥ यस्येच्छा विद्यते
काचित्सा सिद्धिं साधयत्यहो । निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित्
॥ ७ ॥ सर्वेच्छाजालसंशान्तावात्मलाभो भवेन्मुने । स कथं सिद्धिजालानि
नूनं वाञ्छत्यचित्तकः ॥ ८ ॥ अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले ।
अप्यधः प्रसरत्यनौ जीवन्मुक्तो न विस्मयी ॥ ९ ॥ अधिष्ठाने परे तत्त्वे
कल्पिता रज्जुसर्पवत् । कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥ १० ॥
१ गन्धमिवानिलः .</p>
<pb n="515" />
<note>५००.</note>
<p>ईशाद्युपनिषत्सु -
[ अध्या० &
ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयः सर्वे ते स्वत:
त्रास्तनौ स्थिताः ॥ ११ ॥ सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् ।
निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥ १२ ॥ आपत्कार्पण्यमुत्साहो
मदो मान्द्यं महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥ १३ ॥
द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूपः स्यादरूपो
देहमुक्तिगः ॥ १४ ॥ चित्तसत्तेह दुःखाय चित्तनाश: सुखाय च । चित्त-
सत्तां क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥ १५ ॥ मनस्तां मूढतां विद्धि यदा
नश्यति सानघ । चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् ॥ १६ ॥
मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् । भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य
तन्मनः ॥ १७ ॥ सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । निदाघाऽरूप-
नाशस्तु वर्तते देहमुक्तिके ॥ १८ ॥ विदेहमुक्त एवासौ विद्यते निष्कला-
त्मकः । समग्राग्रय गुणाधारमपि सत्त्वं प्रलीयते ॥ १९ ॥ विदेहमुक्तौ विमले
पदे परमपावने । विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके ॥ २० ॥ चित्त-
नाशे विरूपाख्ये न किंचिदिह विद्यते । न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न
लोकता ॥ २१ ॥ न चोदयो नास्तमयो न हर्षामर्पसंविदः । न तेजो न
तमः किंचिन संध्यादिनरात्रयः । न सत्तापि न चासत्ता न च मध्यं हि
तत्पदम् ॥ २२ ॥ ये हि पारङ्गता बुद्धेः संसाराडम्बरस्य च । तेषां तदास्पदं
स्फारं पवनानामिवाम्बरम् ॥ २३ ॥ संशान्तदुःखमजडात्मकमेकसुप्तमान-
न्दमन्थरमपेतरजस्तमो यत् । आकाशकोशतनवोऽतनवो महान्तस्तस्मिन्पदे.
गलितचित्तलवा भवन्ति ॥ २४ ॥ हे निदाघ महाप्राज्ञ निर्वासनमना भव ।
बलाच्चेतः ः समाधाय निर्विकल्पमना भव ॥ २५ ॥ यजगद्भासकं भानं नित्यं
भाति स्वतः स्फुरत् । स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ॥ २६ ॥
प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः । तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्व-
यम् ॥ २७ ॥ एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः ॥ २८ ॥ सर्वाधिष्ठान-
द्वन्द्वं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २९ ॥
न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकलाश्च देवताः । स एव
देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥ ३० ॥ भिद्यते हृदय-
ग्रन्थिछिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३१ ॥
द्वौ सुपण शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्</p>
<pb n="516" />
<p>अध्या० ४ ]
अन्नपूर्णोपनिषत् ॥ ७३ ॥
•
૩૦૧
कर्मणो न महेश्वरः ॥ ३२ ॥ केवलं साक्षिरूपेण विना भोगो महेश्वरः ।
काशते स्वयं भेदः कल्पितो मायया तयोः । चिच्चिदाकारतो भिन्ना न
भिन्ना चित्त्वहानित: ॥ ३३ ॥ तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः ।
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ३४ ॥ अधिष्ठानं समस्तस्य जगतः
सत्यचिद्वनम् । अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ३५ ॥ स्वशरीरे
स्वयंज्योतिःस्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे मायया-
वृताः ॥ ३६ ॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्याया-
द्वहून्छब्दान्वाचो विग्लापनं हि तत् ॥ ३७ ॥ बाल्येनैव हि तिष्ठासे-
निर्विद्य ब्रह्मवेदनम् । ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ ३८ ॥
अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् । संसृतित्रततेर्बीजं शरीरं विद्धि
भौतिकम् ॥ ३९ ॥ भावाभावदशाकोशं दुःखरत्वसमुद्गकम् । बीजमस्य शरी-
`रस्य चित्तमाशावशानुगम् ॥ ४० ॥ द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।
एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥ ४१ ॥ यदा प्रस्पन्दते प्राणो नाडी-
संस्पर्शनोद्यतः । तदा संवेदनमयं चित्तमाशु प्रजायते ॥ ४२ ॥ सा हि सर्व-
गता संवित्प्राणस्पन्दन बोध्यते । संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम्
॥ ४३ ॥ योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् । प्राणायामैस्तथा ध्यानैः
प्रयोगैर्युक्तिकल्पितैः ॥ ४४ ॥ चित्तोपशान्तिफलदं परमं विद्धि कारणम् ।
सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥ ४५ ॥ दृढभावनया त्यक्तपूर्वा-
परविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ४६ ॥ यदा न
भाव्यते किंचिद्धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न
जायते ॥ ४७ ॥ अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति
परमोपशमप्रदा ॥ ४८ ॥ यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि । तदा
हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥ ४९ ॥ यदभावनमास्थाय यदभावस्य
भावनम् । यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥ ५० ॥ सर्वमन्तः परित्यज्य
शीतलाशयवर्ति यत् । वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥ ५१ ॥ भृष्टबी-
जोपमा येषां पुनर्जननवर्जिता । वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः
॥ ५२ ॥ सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः । अचित्ता इति कथ्यन्ते
देहान्ते व्योमरूपिणः ॥ ५३ ॥ संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने ।
१ भोगेन वर्तते . २ प्रातिभासिकजीवस्तु.</p>
<pb n="517" />
<note>५०२.</note>
<p>ईशाद्युपनिषत्सु -
[ अध्या० &
समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ॥ ५४ ॥ पूर्वदृष्टमदृष्टं वा
यदस्याः प्रतिभासते । संविदुस्तत्प्रयत्नेन मार्जनीयं विजानता ॥ ५५ ॥ तद-
मार्जनमात्रं हि महासंसारतां गतम् । तत्प्रमार्जनमात्रं तु मोक्ष इत्यभि-
श्रीयते ॥ ५६ ॥ अजडो गलितानन्दस्त्यक्तसंवेदनो भव ॥ ५७ ॥ संविद्वस्तुद-
शालम्बः सा यस्येह न विद्यते । सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि
॥ ५८ ॥ संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासावजडा संविज्जी-
वन्मुक्तः स कथ्यते ॥ ५९ ॥ यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।
बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥ ६० ॥ तदा जाड्यविनिर्मुक्त-
मसंवेदनमाततम् । आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥ ६१ ॥
समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः । तन्मयत्वादनाद्यन्ते तदप्य-
न्तर्विलीयते ॥ ६२ ॥ तिष्ठन्गच्छन्स्पृशन्निपि तल्लेपवर्जितः । अजडो
गलितानन्दस्त्यक्तसंवेदनः सुखी ॥ ६३ ॥ एतां दृष्टिमवष्टभ्य कष्टचेष्टायु-
तोsपि सन् । तरेद्दुःखाम्बुधेः पारमपारगुणसागरः ॥ ६४ ॥ विशेषं संपरि-
त्यज्य सन्मात्रं यदलेपकम् । एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥ ६५ ॥
कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सम्मात्रैक-
परो भव ॥ ६६ ॥ सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परा-
नन्दि तिष्ठापूरितदिग्भरः ॥ ६७ ॥ सत्तासामान्यपर्यन्ते यत्तत्कल नयोज्झि-
तम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥ ६८ ॥ तत्र संलीयते संवि-
निर्विकल्पं च तिष्ठति । भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् ॥ ६९ ॥
तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते । स सारः सर्वसाराणां तस्मात्सारो
न विद्यते ॥ ७० ॥ तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः
प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ ७१ ॥ तदमलमरजं तदात्मतत्त्वं तदव-
गतावुपशान्तिमेति चेतः । अवगतविगतैकतत्स्वरूपो भवभयमुक्तपदोऽसि
सम्यगेव ॥ ७२ ॥ एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् । तस्य तस्य
प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥ ७३ ॥ सत्तासामान्यकोटिस्थे द्वागित्येव
पढ़े यदि । पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥ ७४ ॥ स्थिति बध्नासि
तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् । क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम्,
॥ ७५ ॥ सत्तासामान्यरूपे वा करोषि स्थितिमादरात् । तत्किंचिदधिकेनेह
१ वशालम्बः,</p>
<pb n="518" />
<p>अध्या० ५ ]
अन्नपूर्णोपनिषत् ॥ ७३ ॥</p>
<p>यत्नेनाप्नोषि तत्पदम् ॥ ७६ ॥ संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि ।
तद्यलेनाधिकेनोच्चैरासादयसि तत्पदम् ॥ ७७ ॥ वासनासंपरित्यागे यदि
यत्तं करोषि भोः । यावद्विलीनं न मनो न तावद्वासनाक्षयः ॥ ७८ ॥
न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति । यावन्न तत्त्वविज्ञानं
तावच्चित्तशमः कुतः ॥ ७९ ॥ यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ।
यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः । यावन्न तत्त्वसंप्राप्तिर्न तावद्वा-
सनाक्षयः ॥ ८० ॥ तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः
कारणतां गत्वा दुःसाधानि स्थितान्यतः ॥ ८१ ॥ भोगेच्छां दूरतस्त्यक्त्वा
त्रयमेतत्समाचर ॥ ८२ ॥ वासनाक्षयविज्ञानमनोनाशा महामते । समकाल
'चिराभ्यस्ता भवन्ति फलदा मताः ॥ ८३ ॥ त्रिभिरेभिः समभ्यस्तैर्हृदय-
ग्रन्थयो दृढाः । निःशेषमेव त्रुट्यन्ति बिच्छेदाद्गुणा इव ॥ ८४ ॥
वासनासंपरित्यागसमं प्राणनिरोधनम् । विदुस्तत्त्वविदस्तस्मात्तदप्येवं समा-
हरेत् ॥ ८५ ॥ वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरो-
धाच्च यथेच्छसि तथा कुरु ॥ ८६ ॥ प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया ।
आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥ ८७ ॥ निःसङ्गव्यवहारत्वाद्भव-
भावनवर्जनात् । शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥ ८८ ॥ यः प्राण-
पवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दजये यत्नः कर्तव्यो घीमतोच्चकैः
॥ ८९ ॥ न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् । शुद्धां संविदमा-
श्रित्य वीतरागः स्थिरो भव ॥ ९० ॥ संवेद्यवर्जितमनुत्तममाद्यमेकं संवि-
त्पदं विकलनं कलयन्महात्मन् । हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्न-</p>
<lg>
  <l>कर्तृपदमेत्य शमोदितश्रीः ॥ ९१ ॥ मनागपि विचारेण चेतसः स्वस्य निग्रहः ।</l>
  <l>पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥ ९२ ॥</l>
</lg>
<p>इत्यन्नपूर्णोपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥ *
गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ
मृत उच्यते ॥ १ ॥ सम्यग्ज्ञानसमालोकः पुमान्ज्ञेयसमः स्वयम् । न बिभेति
न चादत्ते वैवश्यं न च दीनताम् ॥ २ ॥ अपवित्रमपथ्यं च विषसंसर्गदूषि-
तम् । भुक्तं जरयति ज्ञानी क्लिन्नं नष्टं च मृष्टवत् ॥ ३ ॥ सङ्गत्यागं विदुर्मोक्षं
सङ्गत्यागादजन्मता । सङ्कं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥ ४ ॥
१ त्यागी.</p>
<pb n="519" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना यैषा साऽसङ्ग इति
कथ्यते ॥ ५ ॥ जीवन्मुक्तशरीराणामपुनर्जन्म कारिणी । मुक्ता हर्षविषादाभ्यां
शुद्धा भवति वासना ॥ ६ ॥ दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः ।
आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज ॥ ७ ॥ दिक्कालाद्यनवच्छिन्नमदृष्टो-
भयकोटिकम् । चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् ॥ ८ ॥ इति
मत्वाऽहमित्यन्तर्मुक्तामुक्तवपुः पुमान् । एकरूपः प्रशान्तात्मा मौनी स्वात्म-
सुखो भव ॥ ९ ॥ नास्ति चित्तं न चाविद्या न मनो न च जीवकः । ब्रह्मैवै-
कमनाद्यन्तमब्धिवत्प्रविजृम्भते ॥ १० ॥ देहे यावदहंभावो दृइयेऽस्मिन्याव-
दात्मता । यावन्ममेदमित्यास्था तावश्चित्तादिविभ्रमः ॥ ११ ॥ अन्तर्मुखतया
सर्व चिह्नौ त्रिजगतृणम् । जुह्वतोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः ॥ १२ ॥
चिदात्माऽस्मि निरंशोऽस्मि परापरविवर्जितः । रूपं स्मरन्निजं स्फारं मा स्मृत्या
संमितो भव ॥ १३ ॥ अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका । क्षीयते
भावितेनान्तः शरदा मिहिका यथा ॥ १४ ॥ परिज्ञाय परित्यागो वासनानां
य उत्तमः । सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः ॥ १५ ॥ यन्त्रास्ति
वासना लीना तत्सुषुतं न सिद्धये । निर्बीजा वासना यत्र तत्तुर्य सिद्धिदं
स्मृतम् ॥ १६ ॥ वासनायास्तथा वहेऋणव्याधिद्विषामपि । स्नेहवैरविषाणां
च शेषः स्वल्पोऽपि बाधते ॥ १७ ॥ निर्दग्धवासनाबीजः सत्तासामान्यरूप-
वान् । सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥ १८ ॥ एतावदेवा-
विद्यावं नेदं ब्रह्मेति निश्चयः । एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः ॥ १९ ॥
ब्रह्म चिह्नह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्र-
बान्धवाः ॥ २० ॥ ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् । सर्वत्रावस्थितं
शान्तं चिद्रह्मेत्यनुभूयते ॥ २१ ॥ असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते ।
या प्रतीतिरनागस्का तच्चिद्ब्रह्मास्मि सर्वगम् ॥ २२ ॥ प्रशान्तसर्वसंकल्पं विग-
ताखिलकौतुकम् । विगताशेषसंरम्भं चिदात्मानं समाश्रय ॥ २३ ॥ एवं
पूर्णधियो धीराः समा नीरागचेतसः । न नन्दन्ति न निन्दन्ति जीवितं मरणं
तथा ॥ २४ ॥ प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरे
देहे प्राणोऽसावूर्ध्वगः स्थितः ॥ २५ ॥ अपानोऽप्यनिशं ब्रह्मन्स्पन्दशक्तिः
सदागतिः । सबाह्याभ्यन्तरे देहे अपानोऽयमवास्थितः ॥ २६ ॥ जाग्रतः
१ कृतिरभ्यासाच्छान्ता.</p>
<pb n="520" />
<p>अन्नपूर्णोपनिषत् ॥ ७३ ॥</p>
<p>अध्या० ५ ]
taraचैव प्राणायामोsयमुत्तमः । प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु
॥ २७ ॥ द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः । प्राणाङ्गनामा संस्पर्शो यः
पूरक उच्यते ॥ २८ ॥ अपानचन्द्रमा देहमाप्याययति सुव्रत । प्राणः
सूर्योऽग्निरथवा पचत्यन्तरिदं वपुः ॥ २९ ॥ प्राणक्षयसमीपस्थमपानोदयको -
"टिगम् । अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥ ३० ॥ अपानोऽस्तङ्गतो
यन्त्र प्राणो नाभ्युदितः क्षणम् । कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय ॥ ३१ ॥
नापानोऽस्तंगतो यन्त्र प्राणश्चास्तमुपागतः । नासाग्रगमनावर्त तचित्तत्त्वमुपा-
श्रय ॥ ३२ ॥ आभासमात्रमेवेदं न सन्नासजगत्रयम् । इत्यन्यकलनात्यागं
सम्यग्ज्ञानं विदुर्बुधाः ॥ ३३ ॥ आभासमात्रकं ब्रह्मंश्चित्तादर्श कलङ्कितम् ।
ततस्तदपि संत्यज्य निराभासो भवोत्तम ॥ ३४ ॥ भयप्रदमकल्याणं धैर्य सर्व-
स्वहारिणम् । मनः पिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव ॥ ३५ ॥
'चियोमेव किलास्तीह परापरविवर्जितम् । सर्वत्रासंभवचैत्यं यत्कल्पान्तेऽव-
शिष्यते ॥३६॥ वान्छाक्षणे तु या तुष्टिस्तन वान्छैव कारणम् । तुष्टिस्त्वतुष्टि-
पर्यन्ता तस्माद्दाञ्छां परित्यज ॥ ३७ ॥ आशा यातु निराशास्त्वमभावं यातु
भावना । अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥ ३८ ॥ वासनारहितैर-
न्तरिन्द्रियैराहरन्क्रियाः । न विकारमवाप्नोषि खवत्क्षोभशतैरपि ॥ ३९॥
चित्तोन्मेष निमेषाभ्यां संसारप्रलयोदयौ । वासनाप्राणसंरोधमनुन्मेषं मनः
कुरु ॥ ४० ॥ प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ । तमभ्यासप्रयोगा-
भ्यामुन्मेषरहितं कुरु ॥ ४१ ॥ मौख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।
तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थ संगमैः ॥ ४२ ॥ असंविरस्पन्दमात्रेण याति
चित्तमचित्तताम् । प्राणानां वा निरोधेन तदेव परमं पदम् ॥ ४३ ॥ दृश्य-
दर्शनसंबन्धे यत्सुखं पारमार्थिकम् । तदन्तैकान्तसंविच्या ब्रह्मदृष्ट्याऽवलोकय
॥४४॥ यन्त्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् । क्षयातिशयनिर्मुक्तं नोदेति
न च शाम्यति ॥ ४५ ॥ यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्वमेव हि । तदेव
तुर्यावस्थायां तुर्यातीतं भवत्यतः ॥ ४६ ॥ संन्यस्त सर्व संकल्पः समः शान्तमना
मुनिः । संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥ ४७ ॥ सर्वसंकल्प -
संशान्तं प्रशान्तघनवासनम् । न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥ ४८ ॥
सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना । सांख्य एवावबुद्धा ये ते सांख्या
योगिनः परे ॥ ४९ ॥ प्राणाद्यनिकसंशान्तौ युक्त्या ये पदमागताः । अना-</p>
<pb n="521" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
यमनाद्यन्तं ते स्मृता योगयोगिनः ॥ ५० ॥ उपादेयं तु सर्वेषां शान्तं
पदमकृन्निमम् । एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः ॥ ५१ ॥ एकस्मिन्नेव
संसिद्धे संसिध्यन्ति परस्परम् । अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी
॥ ५२ ॥ आधाराधेयवच्चैते एकभावे विनश्यतः । कुरुतः स्वविनाशेन कार्यं
मोक्षाख्यमुत्तमम् ॥ ५३ ॥ सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।
तदाऽहङ्कारविलये त्वमेव परमं पदम् ॥ ५४ ॥ महाचिदेकै वेहास्ति महासत्तेति
योच्यते । निष्कलङ्का समा शुद्धा निरहङ्काररूपिणी ॥ ५५ ॥ सकृद्विभाता
विमला नित्योदयवती समा । सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥ ५६ ॥
सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् । न भूतं न भविष्यच्च चिन्तयामि
कदाचन ॥ ५७ ॥ दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना । इदमद्य मया
लब्धमिदं प्राप्स्यामि सुन्दरम् ॥ ५८ ॥ न स्तौमि न च निन्दामि आत्मनो-
ऽन्यन्नहि क्वचित् । न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥ ५९ ॥ प्रशा-
न्तचापलं वीतशोकमस्तसमीहितम् । मनो मम मुने शान्तं तेन जीवाम्य-
नामयः ॥ ६० ॥ अयं बन्धुः परश्चायं ममाय मयमन्यकः । इति ब्रह्मन्न
जानामि संस्पर्श न ददाम्यहम् ॥ ६१ ॥ वासनामात्र संत्यागाजरामरणवर्जि-
तम् । सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ॥ ६२ ॥ चित्ते त्यक्ते लयं
याति द्वैतमेतच्च सर्वतः । शिष्यते परमं शान्तमेकमच्छमनामयम् ॥ ६३ ॥
अनन्तमजमव्यक्तमजरं शान्तमच्युतम् । अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भ-
नम् ॥ ६४ ॥ एकमाद्यन्तरहितं चिन्मात्रममलं ततम् । खादष्यतितरां सूक्ष्मं
तद्ब्रह्मास्मि न संशयः ॥ ६५ ॥ दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।
सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥ ६६ ॥ सर्वमेकमिदं शान्तमादि-
मध्यान्तवर्जितम् । भावाभावमजं सर्वमिति मत्वा सुखी भव ॥ ६७ ॥ न
बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् । द्वैतभावविमुक्तोऽस्मि सच्चि-
दानन्दलक्षणः । एवं भावय यत्तेन जीवन्मुक्तो भविष्यसि ॥ ६८ ॥ पदार्थ-
वृन्दे देहादिधिया संत्यज्य दूरतः । आशीतलान्तःकरणो नित्यमात्मपरो भव
॥ ६९ ॥ इदं रम्यमिदं नेति बीजं ते दुःखसंततेः । तस्मिन्साम्याग्निना दग्धे
दुःखस्यावसरः कुतः ॥ ७० ॥ शास्त्रसजनसंपर्कैः प्रज्ञामादौ विवर्धयेत् ॥७१॥
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् । अत्यर्थममलं नित्यमादिमध्यान्त-
१ मानं महात्मना,</p>
<pb n="522" />
<p>अध्या० ५ ]
अन्नपूर्णोपनिषत् ॥ ७३ ॥</p>
<p>वर्जितम् ॥ ७२ ॥ तथा स्थूलमनाकाशमसंस्पृश्यम चाक्षुषम् । न रसं न च
गन्धाख्यमप्रमेयमनूपमम् ॥ ७३ ॥ आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
अहमस्मीत्यभिध्याये च्यातीतं विमुक्तये ॥ ७४ ॥ समाधिः संविदुत्पत्तिः
परजीवैकतां प्रति । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७५ ॥
एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्मादद्वैत एवास्ति न प्रपञ्चो
न संसृतिः ॥ ७६ ॥ यथाकाशो घटाकाशो महाकाश इतीरितः । तथा
भ्रान्तेर्द्विधा प्रोको ह्यात्मा जीवेश्वरात्मना ॥ ७७ ॥ यदा मनसि चैतन्यं
भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥ ७८ ॥
यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म
संपद्यते तदा ॥ ७९ ॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकी-
भूतः परेणासौ तदा भवति केवलः ॥ ८० ॥ शास्त्रसज्जनसंपर्कवैराग्याभ्यास-
रूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ॥ ८१ ॥ विचारणा
द्वितीया स्यात्तृतीया साङ्गभावना । विलापिनी चतुर्थी स्याद्वासना विलया-
त्मिका ॥ ८२ ॥ शुद्धसंचिन्मयानन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाभो
जीवन्मुक्तोऽत्र तिष्ठति ॥ ८३ ॥ असंवेदनरूपा च षष्ठी भवति भूमिका ।
आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः ॥ ८४ ॥ तुर्यावस्थोपशान्ता सा
मुक्तिरेव हि केवला । समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥ ८५ ॥
तुर्यातीता तु यावस्था परा निर्वाणरूपिणी । सप्तमी सा परा प्रौढा विषयो
नैव जीवताम् ॥ ८६ ॥ पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् । चतुर्थी
स्वप्न इत्युक्ता स्वमाभं यत्र वै जगत् ॥ ८७ ॥ आनन्दैकघनाकारा सुषुप्ताख्या
तु पञ्चमी । असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा ॥ ८८ ॥ तुर्यातीतपदा-
saस्था सप्तमी भूमिकोत्तमा । मनोवचोभिरग्राह्या स्वप्रकाश सदात्मिका ॥ ८९ ॥
अन्तःप्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् । मुक्त एव न संदेहो महासमं -
तया तया ॥ ९० ॥ न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः । अहं न
किं चिच्चिदिति मत्वा धीरो न शोचति ॥ ९१ ॥ अलेपकोऽहमजरो नीरागः
शान्तवासनः । निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति ॥ ९२ ॥
अहंमत्या विरहिता शुद्धो बुद्धोऽजरोऽमरः । शान्तः शमसमाभास इति
मत्वा न शोचति ॥ ९३ ॥ तृणामेष्वम्बरे भानौ नरनागामरेषु च । यत्ति-
इति तदेवाहमिति मत्वा न शोचति ॥ ९४ ॥ भावनां सर्वभावेभ्यः समु-</p>
<pb n="523" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
त्सृज्य समुत्थितः । अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय ॥ ९५ ॥ वाचा-
मतीतविषयो विषयाशादशोज्झितः । परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि
॥ ९६ ॥ सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेत-
रेण च लिप्यते ॥ ९७ ॥ स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् ।
तज्ज्ञः कर्म फलेनान्तस्तथा नायाति रञ्जनम् ॥ ९८ ॥ विहरञ्जनतावृन्दे देव-
कीर्तनपूजनैः । खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥ ९९ ॥ निःस्तोत्रो
निर्विकारश्च पूज्यपूजाविवर्जितः । संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः
॥ १०० ॥ तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा ज्ञानसंपत्तिसमये
मुक्तोऽसौ विगताशयः ॥ १०१ ॥ संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज ।
मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु ॥ १०२ ॥ सावधानो भव त्वं च
ग्राह्यग्राहक संगमे । अजस्रमेव संकल्पदशाः परिहरन्शनैः ॥ १०३ ॥ मा
भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं
तन्मयो भव ॥ १०४ ॥ किंचिच्चेद्रोचते तुभ्यं तद्वद्धोऽसि भवस्थितौ । न
किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥ १०५ ॥ अस्मात्पदार्थनिचयाद्या-
वत्स्थावरजङ्गमात् । तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥१०६ ॥ अहंभा-
चाहंभाव त्यक्त्वा सदसती तथा । यदसक्कं समं स्वच्छं स्थितं तत्तुर्यमुच्यते
॥ १०७ ॥ या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्था
व्यवहृतौ-सा तुर्या कलनोच्यते ॥ १०८ ॥ नैतजाग्रन्न च स्वप्नः संकल्पाना-
मसंभवात् । सुषुप्तभावो नाऽप्येतदभावाजडतास्थितेः ॥ १०९ ॥ शान्त-
सम्यक्प्रबुद्धानां यथास्थितमिदं जगत् । विलीनं तुर्यमित्याहुरबुद्धानां स्थितं
स्थिरम् ॥ ११० ॥ अहंकारकलात्यागे समताया: समुद्गमे । विशरारौ कृते
चित्ते तुर्यावस्थोपतिष्ठते ॥ १११ ॥ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव
एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मदमक्कमम् ॥ ११२ ॥ शान्त
एव चिदाकाशे स्वच्छे शमसमात्मनि । समग्रशक्तिखचिते ब्रह्मेति कलिता-
भिधे ॥ ११३ ॥ सर्वमेव परित्यज्य महामौनी भवानघ । निर्वाणवान्निर्मननः
क्षीणचित्तः प्रशान्तधीः ॥ ११४ ॥ आत्मन्येवास्य शान्तात्मा मूकान्धबधि-
रोपमः । नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः ॥ ११५ ॥ जाग्र-
त्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज । अन्तः सर्वपरित्यागी बहिः कुरु यथा-
गुतम् ॥ ११६ ॥ चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् । अतश्चित्तं</p>
<pb n="524" />
<p>सूर्योपनिषत् ॥ ७४ ॥</p>
<p>चिदाकाशे नय क्षयमवेदनात् ॥ ११७ ॥ दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाण-
वत्सदा । एतावतात्मयत्नेन जिता भवति संसृतिः ॥ ११८ ॥ वेदान्ते परमं
गुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः
॥ ११९ ॥ अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् । स जीवन्मुक्ततां प्राप्य
ब्रह्मैव भवति स्वयम् ॥ १२० ॥ इत्युपनिषत् ॥
इत्यन्नपूर्णोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥ हरिः ॐ तत्सत् ॥
इत्यन्नपूर्णोपनिषत्समाप्ता ॥ ७३ ॥</p>
<lg>
  <l>सूर्योपनिषत् ॥ ७४ ॥</l>
  <l>सूदितस्वातिरिक्ता रिसूरिनन्दात्मभावितम् ।</l>
  <l>सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः । ब्रह्मा ऋषिः । गायत्री
छन्दः । आदित्यो देवता । हंसः सोऽहमग्निनारायणयुक्तं बीजम् । हृल्लेखा
शक्तिः । वियदादिसर्गसंयुक्तं कीलकम् । चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः ।
षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् । सप्ताश्वरथिनं हिरण्यवर्णं चतु-
र्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायण य एवं वेद स
वै ब्राह्मणः ॐ भूर्भुवः सुवः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् । सूर्य आत्मा जगतस्तस्थुषश्च । सूर्याद्वै खल्विमानि
भूतानि जायन्ते । सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य । त्वमेव
प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं विष्णुरसि ।
त्वमेव प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षमृगसि । त्वमेव प्रत्यक्षं यजुरसि ।
त्वमेव प्रत्यक्षं सामासि । त्वमेव प्रत्यक्षमथर्वासि । त्वमेव सर्वं छन्दोऽसि ।
आदित्याद्वायुर्जायते । आदित्याद्भूमिर्जायते । आदित्यादापो जायन्ते । आदि-
त्याज्योतिर्जायते । आदित्याद्व्योम दिशो जायन्ते । आदित्याद्देवा जायन्ते ।
आदित्याद्वेदा जायन्ते । आदित्यो वा एष एतन्मण्डलं तपति । असावादित्यो
ब्रह्म । आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकाराः । आदित्यो वै व्यानः समा-
१ नापुत्रायाशिष्याय वै पुनः ।</p>
<pb n="525" />
<p>ईशाद्युपनिषत्सु -
नोदानोऽपानः प्राणः । श्रादित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । आदित्यो वै
वाक्पाणिपादपायूपस्थाः । आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । आदित्यो वै
वचनादानागमनविसर्गानन्दाः । आनन्दमयो ज्ञानमयो विज्ञानमय आदित्यः ।
नमो मित्राय भानवे मृत्योर्मा पाहि । भ्राजिष्णवे विश्वहेतवे नमः । सूर्याद्ध-
वन्ति भूतानि सूर्येण पालितानि तु । सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽह-
मेव च । चक्षुन देवः सविता चक्षुर्न उत पर्वतः । चक्षुता दधातु नः ।
आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नः सूर्यः प्रचोदयात् । सविता
पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । सविता नः सुवतु
सर्वतातिं सविता नो रासतां दीर्घमायुः । मित्येकाक्षरं ब्रह्म । घृणिरिति
अक्षरे । सूर्य इत्यक्षरद्वयम् । आदित्य इति त्रीण्यक्षराणि । एतस्यैव सूर्य-
स्वाष्टाक्षरो मनुः । यः सदाऽहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो
भवति । सूर्याभिमुखो जहवा महाव्याधिभयात्प्रमुच्यते । अलक्ष्मीर्नश्यति ।
अभक्ष्यभक्षणात्पूतो भवति । अगम्यागमनात्पूतो भवति । पतितसंभाषणात्पूतो
भवति । असत्संभाषणात्पूतो भवति । मध्याह्ने सूर्याभिमुखः पठेत् । सद्यो -
त्पन्नपञ्चमहापातकात्प्रमुच्यते । सैषों सावित्रीं विद्यां न किंचिदपि न कस्मै-
चित्प्रशंसयेत् । य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । पशू-
विन्दति । वेदार्थं लभते । त्रिकालमेतज्जत्वा क्रतुशत फलमवाप्नोति । यो हस्ता-
दित्ये जपति स महामृत्युं तरति स महामृत्युं तरति य एवं वेद ॥ १ ॥
इत्युपनिषत् ॥ हरिः ॐ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति सूर्योपनिषत्समाप्ता ॥ ७४ ॥</p>
<lg>
  <l>अक्ष्युपनिषत् ॥ ७५ ॥</l>
  <l>यत्सप्तभूमिका विद्या वेद्यानन्दकलेवरम् ।</l>
  <l>विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ ह सांकृतिर्भगवानादित्यलोकं जगाम । तमादित्यं नत्वा
चाक्षुष्मती विद्यया तमस्तुवत् ॥ ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नमः ।
ॐ खेचराय नमः । ॐ महासेनाय नमः । ॐ तमसे नमः । ॐ रजसे
नमः । ॐ सत्वाय नमः । ॐ असतो मा सत् गमय । तमसो मा ज्योति-
र्गमय । मृत्योर्माऽमृतं गमय । हंसो भगवान्छुचिरूपः प्रतिरूपः । विश्वरूपं
१ विज्ञानघन. २ स एतामित्यत्र छान्दसं सैषामिति ३ उष्णो भगवान्.</p>
<pb n="526" />
<p>अक्ष्युपनिषत् ॥ ७५ ॥</p>
<note>५१.१</note>
<p>घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् । सहस्ररश्मिः शतधा वर्त-
मानः पुरुषः प्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते श्रीसूर्यायादित्या -
याक्षितेजसेहोsवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मती विद्यया स्तुतः
श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती विद्यां ब्राह्मणो यो नित्यमधीते न
तस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान्प्राहयि-
स्वाऽथ विद्यासिद्धिर्भवति । य एवं वेद स महान्भवति ॥ १॥ अथ ह सांकृति-
रादित्यं पप्रच्छ भगवन्ब्रह्मविद्यां मे ब्रूहीति । तमादित्यो होवाच ।. सांकृते
शृणु वक्ष्यामि तत्वज्ञानं सुदुर्लभम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवि -
ष्यसि ॥ २ ॥ सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् । पश्यन्भूतार्थ चिद्रूपं
शान्त आस्व यथासुखम् ॥ ३ ॥ भवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
योगस्थः कुरु कर्माणि नीरसो वाऽथ मा कुरु ॥ ४ ॥ चिरागमुपयात्यन्तर्वासना-
स्वनुवासरम् । क्रियासुदाररूपासु क्रमते मोदतेऽन्वहम् ॥ ५ ॥ ग्राम्यासु जड-
चेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥ ६ ॥
अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । पापाद्विभेति सततं न च भोगमपेक्षते
॥ ७ ॥ स्नेहप्रणयगर्भाणि पेशलान्युचितानि च । देशकालोपपन्नानि वचना-
न्यभिभाषते ॥ ८ ॥ मनसा कर्मणा वाचा सज्जनानुपसेवते । यतः कुतश्चि-
दानीय नित्यं शास्त्राण्यवेक्षते ॥ ९ ॥ तदासौ प्रथमामेकां प्राप्तो भवति
भूमिकाम् । एवं विचारवान्यः स्यात्संसारोत्तारणं प्रति ॥ १० ॥ स भूमिका -
वानित्युक्तः शेषस्त्वार्य इति स्मृतः । विचारनाम्नीमितरामागतो योगभूमि-
काम् ॥ ११ ॥ श्रुतिस्मृति सदाचारधारणाध्यानकर्मणः । मुख्यया व्याख्यया
ख्यातान्छ्रयति श्रेष्ठपण्डितान् ॥ १२ ॥ पदार्थप्रविभागज्ञः कार्याकार्यविनि-
र्णेयम् । जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥ १३॥ मदाभिमानमात्सर्य -
लोभमोहातिशायिताम् । बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् ॥ १४ ॥
हृत्थंभूतमतिः शास्त्रगुरुसज्जन सेवया । सरहस्यमशेषेण यथावदधिगच्छति
॥ १५ ॥ असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् । ततः पतत्यसौ कान्तः
पुष्पशय्यामिवामलाम् ॥ १६ ॥ यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्च-
लाम् । तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः । शिलाशय्यासनासीनो जरय-
त्यायुराततम् ॥ १७ ॥ वनावनिविहारेण चित्तोपशमशोभिना । असङ्गसुख-
सौख्येन कालं नयति नीतिमान् ॥ १८ ॥ अभ्यासात्साधुशास्त्राणां करणा-
1</p>
<pb n="527" />
<p>ईशाद्युपनिषत्सु -
त्पुण्यकर्मणाम् । जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥ १९ ॥ तृतीयां
भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥ २० ॥ द्विप्रकारमसंसगं तस्य भेद-
मिमं शृणु । द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥ २१ ॥ नाहं कर्ता
न भोक्ता च न बाध्यो न च बाधकः । इत्यसञ्जनमर्थेषु सामान्यासङ्गनाम -
कम् ॥ २२ ॥ प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा । सुखं वा यदि वा
दुःखं कैवात्र तव कर्तृता ॥ २३ ॥ भोगाभोगा महारोगाः संपदः परमापदः ।
वियोगायैव संयोगा आधयो व्याधयोऽधियाम् ॥ २४ ॥ कालश्च कलनोद्युक्तः
. सर्व भावाननारतम् । अनास्थयेति भावानां यदभावन मान्तरम् । वाक्यार्थ-
लब्धमनसः सामान्योऽसावसंङ्गमः ॥ २५ ॥ अनेन क्रमयोगेन संयोगेन
महात्मनाम् । नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ २६ ॥ कृत्वा
दूरतरे नूनमिति शब्दार्थभावनम् । यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते
॥ २७ ॥ संतोषामोदमधुरा प्रथमोदेति भूमिका । भूमिप्रोदितमात्रोऽन्तर
मृताहुरिकेव सा ॥ २८ ॥ एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः ।
द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥ २९ ॥ श्रेष्ठा सर्वगता होषह
तृतीया भूमिकाsत्र हि । भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥ ३० ॥
भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते । समं सर्वत्र पश्यन्ति चतुर्थी
भूमिकां गताः ॥ ३१ ॥ अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति
स्वमवल्लोकं चतुर्थी भूमिकां गताः ॥ ३२ ॥ भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न
उच्यते ॥ ३३ ॥ चित्तं तु शरदभ्रांशविलयं प्रविलीयते । सच्चावशेष एवास्ते
पञ्चम भूमिकां गतः ॥ ३४ ॥ जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् ।
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् । शान्ता शेष विशेषांश स्तिष्ठत्य द्वैतमा-
कः ॥ ३५ ॥ गलितद्वैत निर्भासो मुदितोऽन्तः प्रबोधवान् । सुषुप्तमन एवास्ते
पञ्चमी भूमिकां गतः ॥ ३६ ॥ अन्तर्मुखतया तिष्ठम्बहिर्वृत्तिपरोऽपि सन् । परि-
श्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ ३७ ॥ कुर्वन्नभ्यासमेतस्यां भूमिकाय
विवासनः । षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥ ३८ ॥ यत्र नासन्न-
सद्रूप नाहं नाप्यनहंकृतिः । केवलं क्षीणमननमास्तेऽद्वैतेऽति निर्भयः ॥ ३९ ॥
निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः । अनिर्वाणोऽपि निर्वाण-
चित्रदीप इव स्थितः ॥ ४० ॥ षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमि -
१ बद्धो न भवति.</p>
<pb n="528" />
<p>अध्यात्मोपनिषत् ॥ ७६ ॥</p>
<p>माप्नुयात् ॥ ४१ ॥ विदेहमुक्तताऽत्रोक्ता सप्तमी योगभूमिका । अगम्या
वचसां शान्ता सा सीमा सर्वभूमिषु ॥ ४२ ॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा
देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ४३ ॥ ओंकार-
मात्रमखिलं विश्वप्राज्ञादिलक्षणम् । वाच्यवाचकताभेदाभेदेनानुपलब्धितः
॥ ४४ ॥ अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः । प्राज्ञो मकार इत्येवं
परिपश्येत्क्रमेण तु ॥ ४५ ॥ समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः ।
स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥ ४६ ॥ चिदात्मानं नित्यशुद्ध-
बुद्धमुक्तसदद्वयः । 'जनसंदेहो वासुदेवोऽहमोमिति ॥ ४७ ॥ आदिम-
ध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ
॥ ४८ ॥ अविद्यातिमिरातीतं सर्वाभासविवर्जितम् । आनन्दममलं शुद्धं
मनोवाचामगोचरम् ॥ ४९ ॥ प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत्
॥ ५० ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इत्यक्ष्युपनिषत्समाप्ता ॥ ७५ ॥
अध्यात्मोपनिषत् ॥ ७६ ।</p>
<lg>
  <l>यन्त्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते ।</l>
  <l>निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ॥</l>
</lg>
<p>ॐ पूर्णमद इति शान्तिः ॥
हरिः ॐ ॥ अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं
यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद । यस्यापः शरीरं यो अपोऽन्तरे
संचरन्यमापो न विदुः । यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो न
वेद । यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद । यस्याकाशः
शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद । यस्य मनः शरीरं यो मनो-
ऽन्तरे संचरन्यं मनो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यं
बुद्धिर्न वेद । यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्य महंकारो न वेद ।
यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद । यस्याव्यक्तं शरीरं
योsव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद । यस्याक्षरं शरीरं योऽक्षरमन्तरे
संचरन्यमक्षरं न वेद । यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न
अ. उ. ३३</p>
<pb n="529" />
<p>ईशान
वेद । स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । अहं-
ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्म-
निष्ठया ॥ १ ॥ ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येव
तद्वृत्त्या स्वान्यन्त्रात्ममतिं त्यजेत् ॥ २ ॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहा-
नुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ३ ॥ स्वात्मन्येव
सदा स्थित्या मनो नश्यति योगिनः । युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा
सार्वात्म्यमात्मनः ॥ ४ ॥ निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः ।
चिनावसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ ५ ॥ मातापित्रोर्मलोद्भूतं मल-
मांसमयं वपुः । त्यक्त्वा चण्डालवद्दूरं ब्रह्मभूय कृती भव ॥ ६ ॥ घटाकाशं
महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तुष्णीं भव सदा मुने
॥ ७ ॥ स्वप्रकाशमधिष्ठानं स्वयं भूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं
त्यज्यतां मलभाण्डवत् ॥ ८ ॥ चिदात्मनि सदानन्दे देहरूढामहंधियम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ ९ ॥ यत्रैष जगदाभासो दर्पणा-
न्तःपुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ॥ १० ॥ अहंकार -
ग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥११॥
क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा
जीवन्मुक्तिरिष्यते ॥ १२ ॥ सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् । सद्भाव-
भावनादायद्वासनालयमश्रुते ॥ १३ ॥ प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः
कदाचन । प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः ॥ १४ ॥ यथाऽपकृष्टं
शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम्
॥ १५ ॥ जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः । समाधिनिष्ठतामेत्य
निर्विकल्पो भवानघ ॥ १६ ॥ अज्ञानहृदयग्रन्थेर्निः शेषविलयस्तदा । समा-
धिना विकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ १७ ॥ अत्रात्मत्वं दृढीकुर्वन्नहमादिषु
संत्यजन् । उदासीनतया तेषु तिष्ठेद्घटपटादिवत् ॥ १८ ॥ ब्रह्मादिस्तम्बपर्यन्तं
मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥१९॥
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्व स्वस्मा-
दन्यन्न किंचन ॥ २० ॥ स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव
परंब्रह्म पूर्णमद्वयमक्रियः ॥ २१ ॥ असत्कल्पो विकल्पोऽयं विश्वमित्येक-
वस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२ ॥ द्रष्टृदर्शनदृश्या-</p>
<pb n="530" />
<p>अध्यात्मोपनिषत् ॥ ७६ ॥
•</p>
<p>"दिभावशून्ये निरामये । कल्पार्णव इवात्यन्तं परिपूर्ण चिदात्मनि ॥ २३ ॥
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे
भिदा कुतः ॥ २४ ॥ एकात्मके परे तत्त्वे भेदेकर्ता कथं वसेत् । सुषुप्तौ
सुखमान्नायां भेदः केनावलोकितः ॥ २५ ॥ चित्तमूलो विकल्पोऽयं चित्ता-
भावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ २६ ॥ अखण्डानन्द-
मात्मानं विज्ञाय स्वस्वरूपतः 1 बहिरन्तः सदानन्दरसास्वादनमात्मनि
॥ २७ ॥ वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छा-
तिरेषैवोपरतेः फलम् ॥ २८ ॥ यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् ।
निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥ २९ ॥ मायोपाधिर्जगद्योनिः
सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबल: सत्याद्यात्मकस्तत्पदाभिधः ॥ ३० ॥
आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः
सत्वंपदाभिधः ॥ ३१ ॥ मायाविद्ये विहायैव उपाधी परजीवयोः । अखण्डं
सच्चिदानन्दं परं ब्रह्म बिलक्ष्यते ॥ ३२ ॥ इत्थं वाक्यैस्तथाऽर्थानुसंधानं श्रवणं
भवेत् । युक्त्या संभावितत्त्वानुसंधानं मननं तु तत् ॥ ३३ ॥ ताभ्यां निर्वि-
चिकित्स्येऽर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते
॥ ३४ ॥ ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् । निवातदीपवच्चित्तं
समाधिरभिधीयते ॥ ३५ ॥ वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः ।
'स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥ ३६ ॥ अनादाविह संसारे
संचिताः कर्मकोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ३७ ॥
"धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षत्येष यथा धर्मामृतधाराः
सहस्रशः ॥ ३८ ॥ अमुना वासनाजाले निःशेषं प्रविलायिते । समूलोन्मूलिते
पुण्यपापाख्ये कर्मसंचये ॥ ३९ ॥ वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते ।
करामलकवद्बोधमपरोक्षं प्रसूयते ॥ ४० ॥ वासनानुदयो भोग्ये वैराग्यस्य
तदावधिः । अहंभावोदयाभावो बोधस्य परमावधिः ॥ ४१ ॥ लीनवृत्तेरनु-
त्पत्तिर्मर्यादोपरतेस्तु सा । स्थितप्रज्ञो यतिरयं यः सदानन्दमश्रुते ॥ ४२ ॥
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः । ब्रह्मात्मनोः शोधितयोरेक-
भावावगाहिनि ॥ ४३ ॥ निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४ ॥ देहेन्द्रियेष्वहंभाव
३ भेदकं तत्कथं .</p>
<pb n="531" />
<p>- ५१६
ईशाद्युपनिषत्सु -
इदुभावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४५ ॥
न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीव-
न्मुक्त इष्यते ॥ ४६ ॥ साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४७ ॥ विज्ञातब्रह्मतत्त्वस्य
यथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४८ ॥
सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । फलोदयः क्रियापूर्वी निष्क्रियो
नहि कुत्रचित् ॥ ४९ ॥ अब्रह्मेतिविज्ञानात् कल्पकोटिशतार्जितम् ॥
संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ ५० ॥ स्वमसङ्गमुदासीनं परि-
ज्ञाय नभो यथा । न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः ॥ ५१ ॥
न नभो घटयोगेन सुरागन्धेन लिप्यते । तथाऽऽत्मोपाधियोगेन तद्धर्मो नैव
लिप्यते ॥ ५२ ॥ ज्ञानोदयात्पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वा
स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ ५३ ॥ व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः
वेगेन निर्भरम् ॥ ५४ ॥ अ-
तदात्मना तिष्ठतोऽस्य कुतः
पश्चात्तु
गोमतौ । न तिष्ठति भिनत्त्येव लक्ष्यं
जरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते ।
प्रारब्धकल्पना ॥ ५५ ॥ प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ५६ ॥ प्रारब्धकल्पनाप्यस्य
देहस्य भ्रान्तिरेव हि ॥ ५७ ॥ अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ५८ ॥ ज्ञानेनाज्ञानकार्यस्य:
समूलस्य लयो यदि । तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् । समाधातु:
बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥ ५९ ॥ न तु देहादिसत्यत्वबोधनाय
विपश्चिताम् । परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ॥ ६० ॥ सद्वनं चिद्वनं
नित्यमानन्दधनमव्ययम् । प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ॥ ६१ ॥
अहेयमनुपादेयमनाधेयमनाश्रयम् । निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं
निरञ्जनम् ॥ ६२ ॥ अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । सत्समृद्धं
स्वतःसिद्धं शुद्धं बुद्धमनोहराम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन
॥ ६३ ॥ स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । ससिद्धः ससुखं-
तिष्ठ निर्विकल्पात्मनात्मनि ॥ ६४ ॥ क्व गतं केन वा नीतं कुत्र लीनमिदं
जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ ६५ ॥ किं हेयं किमुपा-
१ सत्यमृद्धं.</p>
<pb n="532" />
<p>कुण्डिकोपनिषत् ॥ ७७ ॥
•</p>
<p>देयं किमन्यत्क विलक्षणम् । अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे ॥ ६६ ॥ नं
किंचिदन पश्यामि न शृणोमि न वे यहम् । स्वात्मनैव सदानन्दरूपेणास्मि
'स्वलक्षणः ॥ ६७ ॥ असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमहं हरिः । प्रशान्तोऽह-
मनन्तोऽहं परिपूर्णश्चिरन्तनः ॥ ६८ ॥ अकर्ताऽहमभोक्ताऽहमविकारोऽहम-
व्ययः । शुद्धो बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ६९ ॥ एतां विद्याम-
पान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ ।
घोराङ्गिरा रैक्वाय ददौ । रैक्को रामाय ददौ । रामः सर्वेभ्यो भूतेभ्यो ददा-
वित्येतन्निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् ॥ हरिः ॐ
• तत्सत् ॥ ७० ॥
ॐ पूर्णमद इति शान्तिः ॥
इत्यध्यात्मोपनिषत्समाप्ता ॥ ७६ ॥</p>
<lg>
  <l>कुण्डिकोपनिषत् ॥ ७७ ॥</l>
  <l>कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः ।</l>
  <l>यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये ॥ १ ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञात
उच्यते गुरुणाश्रमी ॥ १ ॥ दारमाहृत्य सदृशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिं
यजेत्तासामहोरात्रेण निर्वपेत् ॥ २ ॥ संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्य
च । संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥ ३ ॥ वायुभक्षोऽम्बुभक्षो वा
विहितैः कन्दमूलकैः । स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥ ४ ॥
सह तेनैव पुरुषः कथं संन्यस्त उच्यते । सनामधेयो यस्मिंस्तु कथं संन्यस्त
उच्यते ॥ ५॥ तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम् । अग्निवर्णं
विनिष्क्रम्य वानप्रस्थं प्रपद्यते ॥ ६ ॥ लोकवद्भार्ययाssसक्तो वनं गच्छति
संयतः । संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥ ७ ॥ किंवा दुःखमनु-
• स्मृत्य भोगांस्त्यजति चोच्छ्रितान् । गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च
॥ ८ ॥ गुह्यं प्रवेष्टुमिच्छामि परं पदमनामयमिति । संन्यस्याग्रिमपुनरावर्तनं
यन्मृत्युर्जाय (?) मावहमिति । अथाध्यात्ममन्त्राञ्जपेत् । दीक्षामुपेयात्काषाय-</p>
<note>१. शुद्धबोध.</note>
<pb n="533" />
<p>ईशाद्युपनिषत्सु -
बासाः । कक्षोपस्थलोमानि वर्जयेत् । ऊर्ध्वबाहुर्विमुक्तमार्गों भवति । अनि--
केतश्चरेद्धिक्षाशी । निदिध्यासनं दध्यात् । पवित्रं धारयेज्जन्तु संरक्षणार्थम् ।
तदपि लोका भवन्ति । कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ । शीतों-
पघातिनीं कन्यां कौपीनाच्छादनं तथा ॥ ९ ॥ पवित्रं स्नानशाटीं च उत्तरा-
सङ्गमेव च । अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥ १० ॥ नदीपुलिन-
शायी स्याद्देवागारेषु बाह्यतः । नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत्
॥ ११ ॥ स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानों न तुष्येत
निन्दितो न शपेत्परान् ॥ १२ ॥ भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् ।
एवंवृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥ १३ ॥ विश्वाय मनुसंयोगं मनसा
भावयेत्सुधीः । आकाशाद्वायुर्वायोज्योंतिज्योंतिष आपोज्यः पृथिवी । एषां
भूतानां ब्रह्म प्रपद्ये । अजरममरमक्षरमव्ययं प्रपद्ये । मय्यखण्डसुखाम्भोधौः
बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ १४ ॥
न मे देहेन संबन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वम-
सुषुप्तिषु ॥ १५ ॥ आकाशवत्कल्पविदूरगोऽहमादित्यवद्भास्यविलक्षणोऽहम् ।'
अहार्यबन्नित्यविनिश्चलोऽहमम्भोधिवत्पारविवर्जितोऽहम् ॥ १६ ॥ नारायणो-
Sहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेष-
साक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥ १७ ॥ तदभ्यासेन प्राणापानौ संयम्य
तत्र श्लोका भवन्ति ॥ वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । संदृश्य
शनकैर्जिह्वां यवमात्रे विनिर्गताम् ॥ १८ ॥ माषमात्रां तथा दृष्टिं श्रोत्रे
स्थाप्य तथा भुवि । श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् ॥ १९ ॥
अथ शैवपदं यत्र तद्ब्रह्म ब्रह्म तत्परम् । तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्म--
नाम् ॥ २० ॥ संभूतैर्वायुसंश्रावैर्हृदयं तप उच्यते । ऊर्ध्वं प्रपद्यते देहा-
द्वित्वा मूर्धानमव्ययम् ॥ २१ ॥ स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् ।
भूयस्ते न निवर्तन्ते परावरविदो जनाः ॥ २२ ॥ न साक्षिणं साक्ष्यधर्माः
संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहंधर्माः प्रदीपवत् ॥ २३ ॥ जले
वापि स्थले वापि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धमैर्घटधर्मैर्नभो यथा
॥ २४ ॥ निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पो -
ऊर्ध्वगो विमुक्त. २ अन्यच्चापेक्ष्यते किंचित्.</p>
<pb n="534" />
<p>सावित्र्युपनिषत् ॥ ७८ ॥</p>
<p>ऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ २५ ॥ सर्वात्मकोऽहं सर्वो-
sहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥ २६॥
स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानो निर्विकल्पो
भवाम्यहम् ॥ २७ ॥ गच्छंस्तिष्ठन्नुपविशन्छयानो वाऽन्यथापि वा । यथेच्छया
वसेद्विद्वानात्मारामः सदा मुनिः ॥ २८ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति कुण्डिकोपनिषत्समाप्ता ॥ ७७ ॥
सावित्र्युपनिषत् ॥ ७८ ॥</p>
<lg>
  <l>सावित्र्युपनिषद्वेद्यचित्सावित्रपदोजवलम् ।</l>
</lg>
<lg>
  <l>प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>सावित्र्यात्मा पाशुपतं परंब्रह्मावधूतकम् ।</l>
  <l>त्रिपुरातपनं देवी त्रिपुरा कठभावना ॥ २ ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ कः सविता का सावित्री अग्निरेव सविता पृथिवी सावित्री स
यत्राभिस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥ १ ॥
कः सविता का सावित्री वरुण एव सविताऽऽपः सावित्री स यत्र वरुणस्तदापो
यत्र वा आपस्तद्वरुणस्ते द्वे योनी तदेकं मिथुनम् ॥ २ ॥ कः सविता का
सावित्री वायुरेव सविताकाशः सावित्री स यत्र वायुस्तदाकाशो यत्र वा
आकाशस्तद्वायुस्ते द्वे योनी तदेकं मिथुनम् ॥ ३ ॥ कः सविता का सावित्री'
यज्ञ एव सविता छन्दांसि सावित्री स यत्र यज्ञस्तंत्र छन्दांसि यत्र वा
छन्दांसि स यज्ञस्ते द्वे योनी तदेकं मिथुनम् ॥ ४ ॥ कः सविता का सावित्री
स्तनयितुरेव सविता विद्युत्सावित्री स यत्र स्तनयित्नुस्तद्विद्युत् यत्र वा विद्युत्तत्र
स्तनयित्नुस्ते द्वे योनी तदेकं मिथुनम् ॥ ५ ॥ कः सविता का सावित्री आदित्य
एव सविता द्यौः सावित्री स यत्रादित्यस्त‌योर्यत्र वा द्यौस्तदादित्यस्ते द्वे
योनी तदेकं मिथुनम् ॥ ६ ॥ कः सविता का सावित्री चन्द्र एव सविता
नक्षत्राणि सावित्री स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणि स चन्द्रमास्ते
द्वे योनी तदेकं मिथुनम् ॥ ७ ॥ कः सविता का सावित्री मन एव सविता</p>
<pb n="535" />
<p>ईशाद्युपनिषत्सु -
वाक् सावित्री स यत्र मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनी तदेकं
मिथुनम् ॥ ८ ॥ कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्री
स यत्र पुरुषस्तत्स्त्री यन्त्र वा स्त्री स पुरुषस्ते द्वे योनी तदेकं मिथुनम् ॥ ९ ॥
तस्या एव प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै वरेण्यमापो वरेण्यं
चन्द्रमा वरेण्यम् । तस्या एव द्वितीय: पादो भर्गमयोऽपो भुवो भर्गो
देवस्य धीमहीत्यग्निर्वै भर्ग आदित्यो वै भर्गश्चन्द्रमा वै भर्गः । तस्या एष
तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति । स्त्री चैव पुरुषश्च
प्रजनयतो यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं जयति
बलातिबलयोर्विराट् पुरुष ऋषिः । गायत्री छन्दः । गायत्री देवता । अका-
रोकारमकारा बीजाद्याः । क्षुधादिनिरसने विनियोगः । क्लीमित्यादिषडङ्ग-
न्यासः । ध्यानम् । अमृतकरतेला सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेद-
सारे मयूखे । प्रणवमयविकारौ भास्कराकारदेहौ सततमनुभवेऽहं तौ बला-
तिबेलान्तौ ॥ ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं चतुर्विधपुरुषार्थसिद्धि-
प्रदे तत्सवितुर्वरदात्मिके ह्रीं वरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्व-
दयामूर्ते बले सर्वक्षुमोपनाशिनि धीमहि धियो यो नो जाते प्रचुर्यः
यो प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा । एवं विद्वान् कृत-
कृत्यो भवति सावित्र्या एव सलोकतां जयतीत्युपनिषत् ॥ ९॥ हरिः ॐ तत्सत् ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति सावित्र्युपनिषत्समाप्ता ॥ ७८ ॥</p>
<lg>
  <l>आत्मोपनिषत् ॥ ७९ ॥</l>
  <l>यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः ।</l>
  <l>प्रतियोगिविनिर्मुक्तः परमात्माऽवशिष्यते ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथाङ्गिरास्त्रिविधः पुरुषस्तद्यथा - बाह्यात्माऽन्तरात्मा परमात्मा
चेति । त्वक्चर्ममांसरोमाङ्गुष्ठाङ्गुल्यः पृष्ठवंशनखगुल्फोदरनाभिमेढकट्यूरुकपोल-
श्रोत्र भ्रूललाटबाहुपार्श्वशिरोधमनिकाऽक्षीणि भवन्ति जायते म्रियत इत्येष
१ तलायो.
२ तिबलेशौ .
३ प्रचुर्या
.</p>
<pb n="536" />
<p>आत्मोपनिषत् ॥ ७९ ॥
"</p>
<p>बाह्यात्मा । अथान्तरात्मा नाम पृथिव्यापस्तेजोवायुराकाशेच्छाद्वेषसुख-
दुःखकाममोहविकल्पनादिभिः स्मृतिलिङ्ग उदात्तानुदात्तह्रस्वदीर्घप्लुत स्खलि-
तगर्जितस्फुटित मुदित नृत्तगीतवादित्रप्रलयविजृम्भितादिभिः श्रोता घाता
रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः पुराणन्यायमीमांसाधर्म-
शास्त्राणीति श्रवणभ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा नाम ।
अथ परमात्मा नाम यथाक्षर उपासनीयः । स च प्राणायामप्रत्याहार -
धारणाध्यानसमाधियोगानुमानाध्यात्मचिन्तकं वटकणिका वा श्यामा-
कतण्डुलो वा वालाग्रशतसहस्रविकल्पनाभिः स लभ्यते नोपलभ्यते
न जायते न म्रियते न शुष्यति न क्लिद्यते न दह्यति न कम्पते न भिद्यते न
च्छिंद्यते निर्गुणः साक्षीभूतः । शुद्धो निरवयवात्मा केवलः सूक्ष्मो निष्कलो
निरञ्जनो निर्विकारः शब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः
सर्वव्यापी सोऽचिन्त्यो निर्वर्ण्यश्च पुनात्यशुद्धान्यपूतानि । निष्क्रियस्तस्य संसारो
नास्ति । आत्मसंज्ञः शिवः शुद्धं एक एवाद्वयः सदा । ब्रह्मरूपतया ब्रह्म
केवलं प्रतिभासते ॥ १ ॥ जगद्रूपतयाप्येतद्ब्रह्मैव प्रतिभासते । विद्याऽविद्या-
दिभेदेन भावाऽभावादिभेदतः ॥ २ ॥ गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते ।
ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने ॥ ३ ॥ न च विद्या न चाविद्या न
जगच्च न चापरम् । सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् ॥ ४ ॥ असत्यत्वेन
भानं तु संसारस्य निवर्तकम् । घटोऽयमिति विज्ञातुं नियमः को न्वपेक्षते
॥ ५ ॥ विना प्रमाणसुष्टुत्वं यस्मिन्सति पदार्थधीः । अयमात्मा नित्यसिद्धः
प्रमाणे सति भासते ॥ ६ ॥ न देशं नापि कालं वा न शुद्धिं वाप्यपेक्षते ।
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ॥ ७ ॥ तद्वह्मविदोऽप्यस्य ब्रह्माहमिति
वेदनम् । भानुनेव जगत्सर्वं भास्यते यस्य तेजसा ॥ ८ ॥ अनात्मकमसत्तुच्छं
किं नु तस्यावभासकम् । वेदशास्त्रपुराणानि भूतानि सकलान्यपि ॥ ९ ॥
येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् । क्षुधां देहव्यथां त्यक्त्वा बालः
क्रीडति वस्तुनि ॥ १० ॥ तथैव विद्वानमते निर्ममो निरहं सुखी । कामानि-
कामरूपी संचरत्येकचरो मुनिः ॥ ११ ॥ स्वात्मनैव सदा तुष्टः स्वयं सर्वा-
मना स्थितः । निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ॥ १२ ॥ नित्य-
तृप्तोऽप्यभुआनोऽप्यसमः समदर्शनः । कुर्वन्नपि न कुर्वाणश्चाभोक्ता फल-
१ ह्रस्वस्वर. २ सोपलभ्यते. ३ स्विद्यते.</p>
<pb n="537" />
<p>ईशाद्युपनिषत्सु -
भोग्यपि ॥ १३ ॥ शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः । अशरीरं सदा सन्तमिदं
ब्रह्मविदं क्वचित् ॥ १४ ॥ प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे । तमसा
ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ॥ १५ ॥ ग्रस्त इत्युच्यते भ्रान्त्या ज्ञात्वा
वस्तुलक्षणम् । तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ॥ १६ ॥ पश्यन्ति
देहिवन्मूढाः शरीराभासदर्शनात् । अंहिनिवयनीवायं मुक्तदेहस्तु तिष्ठति
॥ १७ ॥ इतस्ततश्चाल्यमानो यत्किंचित्प्राणवायुना । स्रोतसा नीयते दारु
यथा निम्नोन्नतस्थलम् ॥ १८ ॥ दैवेन नीयते देहो तथा कालोपभुक्तिषु ।
लक्ष्य लक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ॥ १९ ॥ शिव एव स्वयं
साक्षादयं ब्रह्मविदुत्तमः । जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ॥ २० ॥
उपाधिनाशाद्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् । शैलूषो वेषसद्भावाभावयोश्च यथा
पुमान् ॥ २१ ॥ तथैव ब्रह्मविच्छ्रेष्टः सदा ब्रह्मैव नापरः । घटे नष्टे यथा
व्योम व्योमैव भवति स्वयम् ॥२२॥ तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ।
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ॥ २३ ॥ संयुक्तमेकतां याति तथा-
ssत्मन्यात्मविन्मुनिः । एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ॥ २४ ॥
ब्रह्मभावं प्रपद्यैष यतिर्नाविर्तते पुनः । सदात्मकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः
॥ २५ ॥ अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः । मायाकॢप्तौ बन्धमोक्षौ न
स्तः स्वात्मनि वस्तुतः ॥ २६ ॥ यथा रज्जौ निष्क्रियायां सेर्पाभासविनिर्गमौ ।
अवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ॥ २७ ॥ नावृतिर्ब्रह्मणः काचिदन्या-
भावादनावृतम् । अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥ २८ ॥
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । अतस्तौ मायया कृप्तौ बन्धमोक्षौ
न चात्मनि ॥ २९ ॥ निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीये
परे तत्त्वे व्योमवत्कल्पना कुतः ॥ ३० ॥ न निरोधो न चोत्पत्तिर्न बद्धो न
च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३१ ॥ इत्युपनिषत् ॥
हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इत्यात्मोपनिषत्समाप्ता ॥ ७९ ॥
१ निर्लयनीति ( निर्व्वयनी = सर्पत्वक् ).
२ सर्वाभास.</p>
<pb n="538" />
<p>पाशुपत ब्रह्मोपनिषत् ॥ ८० ॥</p>
<lg>
  <l>पाशुपतब्रह्मोपनिषत् ॥ ८० ॥</l>
  <l>पाशुपत ब्रह्मविद्यासंवेद्यं परमाक्षरम् ।</l>
  <l>परमानन्दसंपूर्ण रामचन्द्रपदं भजे ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>પર
हरिः ॐ ॥ अथ ह वै स्वयंभूर्ब्रह्मा प्रजाः सृजानीति कामकामो जायते
कामेश्वरो वैश्रवणः । वैश्रवणो ब्रह्मपुत्रो वालखिल्यः स्वयंभुवं परिपृच्छति
जगतां का विद्या का देवता जाग्रत्तुरीययोरस्य को देवो यानि तस्य वशानि
कालाः कियत्प्रमाणाः कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते कस्य महिमा
गगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति त्वं ब्रूहि ब्रह्मन् ।
स्वयंभूरुवाच- कृत्स्त्रजगतां मातृका विद्या द्वित्रिवर्णसहिता द्विवर्णमाता
त्रिवर्णसहिता । चतुर्मात्रात्मकोङ्कारो मम प्राणात्मिका देवता । अहमेव
जगत्रयस्यैकः पतिः । मम वशानि सर्वाणि युगान्यपि । अहोरात्रादयो
मत्संवर्धिताः कालाः । मम रूपा रवेस्तेजश्चन्द्रनक्षत्रग्रहतेजांसि च । गगनो
मम त्रिशक्तिमायास्वरूपो नान्यो मदस्ति । तमोमायात्मको रुद्रः सात्विक -
मायात्मको विष्णू राजसमायात्मको ब्रह्मा । इन्द्रादयस्तामसराजसात्मिका न
सात्त्विकः कोऽपि । अघोरः सर्वसाधारणस्वरूपः । समस्तयागानां रुद्रः पशुपतिः
कर्ता । रुद्रो यागदेवो विष्णुरध्वर्युहतेन्द्रो देवता यज्ञभुग् मानसं ब्रह्म माहे -
श्वरं ब्रह्म मानसं हंसः सोऽहं हंस इति । तन्मययज्ञो नादानुसंधानम् ।
तन्मयविकारो जीवः । परमात्मस्वरूपो हंसः । अन्तर्बहिश्चरति हंसः । अन्त-
र्गतोऽनवकाशान्तर्गतसुपर्णस्वरूपो हंसः । षण्णवतितश्वतन्तुवयक्तं चित्सूत्र-
त्रयचिन्मय लक्षणं नवतत्त्वत्रिरावृतं ब्रह्मविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतं
चिह्नन्थिबन्धनम् । अद्वैतग्रन्थिः यज्ञसाधारणा बहिरन्तर्ज्वलनं यज्ञाङ्ग-
लक्षणब्रह्मस्वरूपो हंसः । उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः । ब्रह्माङ्गलक्षणयुक्तो
यज्ञसूत्रम् । तद्ब्रह्मसूत्रम् । यज्ञसूत्र संबन्धी ब्रह्मयज्ञः । तत्स्वरूपोऽङ्गानि :
मात्राणि । मनो यज्ञस्य हंसो यज्ञसूत्रम् । प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम् ॥
प्रणवान्तर्वर्ती हंसो ब्रह्मसूत्रम् । तदेव ब्रह्मयज्ञमयं मोक्षक्रमम् । ब्रह्मसंध्या-
क्रिया मनोयागः । संध्याक्रिया मनोयागस्य लक्षणम् । यज्ञसूत्रप्रणवब्रह्मयज्ञ--
१ अत्र सन्धिरछान्दसः . २ पशुकर्ता.</p>
<pb n="539" />
<p>ईशाद्युपनिषत्सु -
क्रियायुक्तो ब्राह्मणः । ब्रह्मचर्येण चरन्ति देवाः । हंससूत्रचर्या यज्ञाः । हंस-
प्रणवयोरभेदः । हंसस्य प्रार्थनास्त्रिकालाः । त्रिकालास्त्रिवर्णाः । त्रेतायनु-
संधानो यागः । त्रेताच्यात्माकृतिवर्णोङ्कारहंसानुसंधानोऽन्तर्यागः । चित्स्व-
रूपवत्तन्मयं तुरीयस्वरूपम् । अन्तरादित्ये ज्योतिःस्वरूपो हंसः । यज्ञाङ्गं ब्रह्म-
संपत्तिः । ब्रह्मप्रवृत्तौ तत्प्रणवहंससूत्रेणैव ध्यानमाचरन्ति । प्रोवाच पुनः
स्वयंभुवं प्रतिजानीते ब्रह्मपुत्रो ऋषिर्वालखिल्यः । हंससूत्राणि कतिसंख्यानि
कियद्वा प्रमाणम् । हृद्यादित्यमरीचीनां पदं षण्णवतिः । चित्सूत्रघ्राणयोः
स्वर्निर्गता प्रणवधारा षडङ्गुलदशाशीतिः । वामबाहुर्दक्षिणकट्योरन्तश्चरति
हंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः । जानन्ति तेऽमृतफलकाः ।
सर्वकालं 'हंसं प्रकाशकम् । प्रणवहंसन्तिर्ध्यानप्रकृतिं विना न मुक्तिः । नव-
सूत्रान्परिचर्चितान् । तेऽपि यद्ब्रह्म चरन्ति । अन्तरादित्येन ज्ञातं मनुष्या-
णाम् । जगदादित्यो रोचत इति ज्ञात्वा ते मर्त्या विबुधास्तपनप्रार्थनायुक्ता
आचरन्ति । वाजपेयः पशुहर्ता अध्वर्युरिन्द्रो देवता अहिंसा धर्मयागः परम-
हंसोऽध्वर्युः परमात्मा देवता पशुपतिर्ब्रह्मोपनिषदो ब्रह्म । स्वाध्याययुक्ता
ब्राह्मणाश्चरन्ति । अश्वमेधो महायज्ञकथा । तद्राज्ञा ब्रह्मचर्यमाचरन्ति ।
सर्वेषां पूर्वोक्तब्रह्मयज्ञक्रमं मुक्तिक्रममिति । ब्रह्मपुत्रः प्रोवाच । उदितो हंस
ऋषिः। स्वयंभूस्तिरोदधे । रुद्रो ब्रह्मोपनिषदो हंसज्योतिः पशुपतिः प्रणव-
स्तारकः स एवं वेद । हंसात्ममालिकावर्णब्रह्मकालप्रचोदिता । परमात्मा
पुमानिति ब्रह्मसंपत्तिकारिणी ॥ १ ॥ अध्यात्मब्रह्मकल्पस्याकृतिः कीदृशी
कथा । ब्रह्मज्ञानप्रभासन्ध्याकालो गच्छति धीमताम् । हंसाख्यो देवमात्मा-
ख्यमात्मतत्त्वप्रजः कथम् ॥ २ ॥ अन्तःप्रणवनादाख्यो हंसः प्रत्ययबोधकः ।
अन्तर्गतप्रमागूढं ज्ञाननालं विराजितम् ॥ ३ ॥ शिवशक्त्यात्मकं रूपं चिन्म-
यानन्दवेदितम् । नादबिन्दुकला त्रीणि नेत्रं विश्वविचेष्टितम् ॥ ४ ॥ त्रियङ्गानि
शिखा त्रीणि द्वित्राणां सांख्यमाकृतिः । अन्तर्गूढप्रमा हंसः प्रमाणान्निर्गतं वहिः
॥ ५ ॥ ब्रह्मसूत्रपदं ज्ञेयं ब्राह्मं विध्युक्तलक्षणम् । हंसार्कप्रणवध्यानमित्युक्तो
ज्ञानसागरे ॥ ६ ॥ एतद्विज्ञानमात्रेण ज्ञानसागरपारगः । स्वतः शिवः पशु-
पतिः साक्षी सर्वस्य सर्वदा ॥ ७ ॥ सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु ।
२ न्तर्यान. ३ त्रियागानि.
१ हंस न प्र.</p>
<pb n="540" />
<p>पाशुपतब्रह्मोपनिषत् ॥ ८० ॥
•</p>
<note>५२५.</note>
<p>विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि ॥ ८ ॥ चक्षुः पश्यति रूपाणि श्रोत्रं
सर्व शृणोत्यपि । अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु ॥ ९ ॥ स्वं स्वं
विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् । प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः
॥ १० ॥ श्रोत्रमात्मनि चाध्यस्तं स्वयं पशुपतिः पुमान् । अनुप्रविश्य श्रोत्रस्य
ददाति श्रोत्रतां शिवः ॥ ११ ॥ मनः स्वात्मनि चाध्यस्तं प्रविश्य परमेश्वरः ।
मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु ॥ १२ ॥ स एव विदितादन्यस्तथै-
वाविदितादपि । अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः ॥ १३ ॥ तत्तद्रूप --
मनु प्राप्य ददाति नियमेन तु । ततश्चक्षुश्च वाक्चैव मनश्चान्यानि खानि च
॥ १४ ॥ न गच्छन्ति स्वयंज्योतिः स्वभावे परमात्मनि । अकर्तृविषयप्रत्यक्प्र-
काशं स्वात्मनैव तु ॥ १५ ॥ विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः ।
प्रत्यगात्मा परंज्योतिर्माया सा तु महत्तमः ॥ १६ ॥ तथा सति कथं माया-
संभवः प्रत्यगात्मनि । तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्धने ॥ १७ ॥
स्वप्रकाशैकसंसिद्धे नास्ति माया परात्मनि । व्यवहारिकदृष्ट्येयं विद्याऽविद्या न
चान्यथा ॥१८॥ तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् । व्यावहारिक-
दृष्टिस्तु प्रकाशाव्यभिचारतः ॥ १९ ॥ प्रकाश एव सततं तस्मादद्वैत एव
हि । अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः ॥ २० ॥ प्रकाश एव सततं
तस्मान्मौनं हि युज्यते । अयमर्थो महान्यस्य स्वयमेव प्रकाशितः ॥ २१ ॥
न स जीवो न च ब्रह्म न चान्यदपि किंचन । न तस्य वर्णा विद्यन्ते नाश्र -
माश्च तथैव च ॥ २२ ॥ न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च । यदा
ब्रह्मात्मकं सर्वं विभाति तत एव तु ॥ २३ ॥ तदा दुःखादिभेदोऽयमाभा-
सोऽपि न भासते । जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् ॥ २४ ॥ न
तत्पश्यति चिद्रूपं ब्रह्मवस्त्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हि
भिद्यते ॥ २५ ॥ भेदाभेदस्तथा भेदाभेदः साक्षात्परात्मनः । नास्ति स्वात्मा-
तिरेकेण स्वयमेवास्ति सर्वदा ॥ २६ ॥ ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तु-
तोऽपि च । तथैव ब्रह्मविज्ज्ञानी किं गृह्णाति जहाति किम् ॥ २७॥ अधिष्ठान-
मनौपम्यमवाङ्मनसगोचरम् । यत्तददेश्यमग्राह्यमगोत्रं रूपवर्जितम् ॥ २८॥
अचक्षुः श्रोत्रमत्यर्थं तदपाणिपदं तथा । नित्यं विभुं सर्वगतं सुसूक्ष्मं च तद-
व्ययम् ॥ २९ ॥ ब्रह्मैवेदमस्मृतं तत्पुरस्ताद्ब्रह्मानन्दं परमं चैव पश्चात् । ब्रह्मा-</p>
<pb n="541" />
<p>ईशाद्युपनिषत्सु -
नन्दं परमं दक्षिणे च ब्रह्मानन्दं परमं चोत्तरे च ॥ ३० ॥ स्वात्मन्येव स्वयं
सर्वं सदा पश्यति निर्भयः । तदा मुक्तो न मुक्तश्च बेद्धस्यैव विमुक्तता ॥ ३१ ॥
एवंरूपा परा विद्या सत्येन तपसापि च । ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदान्त-
वर्त्मना ॥ ३२ ॥ स्वशरीरे स्वयंज्योतिःस्वरूपं पारमार्थिकम् । क्षीणदोषाः
- प्रपश्यन्ति नेतरे माययावृताः ॥ ३३ ॥ एवं स्वरूपविज्ञानं यस्य कस्यास्ति
योगिनः । कुत्रचिद्गमनं नास्ति तस्य संपूर्णरूपिणः ॥ ३४ ॥ आकाशमेकं
संपूर्ण कुत्रचिन्न हि गच्छति । तद्ब्रह्मात्मविच्छ्रेष्ठः कुत्रचिन्नैव गच्छति ॥३५॥
अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् । आहारशुद्धौ चित्तस्य विशुद्धि-
र्भवति स्वतः ॥ ३६ ॥ चित्तशुद्धौ क्रमाज्ज्ञानं त्रुट्यन्ति ग्रन्थयः स्फुटम् ।
अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैव देहिनः ॥ ३७ ॥ न सम्यग्ज्ञानिनस्तद्वत्स्वरूपं
सकलं खलु । अहमन्नं सदान्नाद इति हि ब्रह्मवेदनम् ॥ ३८ ॥ ब्रह्मविद्रसति
ज्ञानात्सर्वं ब्रह्मात्मनैव तु । ब्रह्मक्षत्रादिकं सर्वं यस्य स्यादोदनं सदा ॥ ३९॥
यस्योपसेचनं मृत्युस्तं ज्ञानी तादृशः खलु । ब्रह्मस्वरूपविज्ञानाज्जगद्भोज्यं
भवेत्खलु ॥ ४० ॥ जगदात्मतया भाति यदा भोज्यं भवेत्तदा । ब्रह्मस्वात्म-
तया नित्यं भक्षितं सकलं तदा ॥ ४१ ॥ यदाभासेन रूपेण जगद्भोज्यं
भवेत तत् । मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम् ॥ ४२ ॥ स्वस्व-
रूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः । अस्ति चेदस्तितारूपं ब्रह्मैवास्ति -
त्वलक्षणम् ॥ ४३ ॥ अस्तितालक्षणा सत्तासत्ता ब्रह्म न चापरा । नास्ति
सत्तातिरेकेण नास्ति माया च वस्तुतः ॥ ४४ ॥ योगिनामात्मनिष्टानां माया
स्वात्मनि कल्पिता । साक्षिरूपतया भाति ब्रह्मज्ञानेन बाधिता ॥ ४५ ॥
ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् । पश्यन्नपि सदा नैव पश्यति
स्वात्मनः पृथक् ॥ ४६ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति पाशुपत ब्रह्मोपनिषत्समाप्ता ॥ ८० ॥
१ बन्धस्यैत्र विमुक्तिता.</p>
<pb n="542" />
<p>परब्रह्मोपनिषत् ॥ ८१ ॥</p>
<p>.</p>
<lg>
  <l>परब्रह्मोपनिषत् ॥ ८१ ॥</l>
  <l>परब्रह्मोपनिषदि वेद्याखण्ड सुखाकृति ।</l>
  <l>परिव्राजकहृद्वेयं परितखैपदं भजे ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॥ अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलाद विधि-
वदुपसनः पप्रच्छ दिव्ये ब्रह्मपुरे के संप्रतिष्ठिता भवन्ति । कथं सृज्यन्ते ।
नित्यात्मन एष महिमा । विभज्य एष महिमा विभुः । क एषः ।
तस्मै स
होवाच । एतत्सत्यं यत्प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः प्राणेभ्यः । परब्रह्म-
पुरे विरजं निष्कलं शुभमक्षरं विरंजं विभाति । स नियच्छति मधुकरः श्वेव
विकर्मकः । अकमी स्वामीच स्थितः । कर्मतरः कर्षकवत्फलमनुभवति । कर्म-
मर्मज्ञाता कर्म करोति । कर्ममर्म ज्ञात्वा कर्म कुर्यात् । को जालं विक्षिपे-
देको नैनमपकर्षत्यपकर्षति । प्राणदेवताश्चत्वारः । ताः सर्वा नाड्यः सुषुप्त-
इयेनाकाशवत् । यथा श्येनः खमाश्रित्य याति स्वमालयं कुलायम् । एवं
सुबूत । अयं च परश्च स सर्वत्र हिरण्मये परे कोशे । अमृता ह्येषा
ना त्रयं संचरति । तस्य त्रिपादं ब्रह्म । एषात्रेष्य ततोऽनुतिष्ठति । अन्यंत्र
ब्रूत । अयं च परं च सर्वत्र हिरण्मये परे कोशे । यथैष देवदत्तो यष्ट्या च
ताड्यमानो नैवैति । एवमिष्टापूर्त कर्मा शुभाशुभैर्न लिप्यते । यथा कुमारको
निष्काम आनन्दमभियाति । तैथैष देवः स्वप्न आनन्दमभियाति । वेद एव
परं ज्योतिः । ज्योतिषा मा ज्योतिरानन्दयत्येवमेव । तत्परं यच्चित्तं परमा-
स्मानमानन्दयति । शुभ्रवर्णमाजायतेश्वरात् । भूयस्तेनैव मार्गेण स्वमस्थानं
निर्थच्छति । जलूकाभाववद्यथाकाममाजायतेश्वरात् । तावतात्मानमानन्दयति ।
परसंधि यदपरसन्धीति । तत्परं नापरं त्यजति । तदैव कपालाष्टकं संधाय
य एष स्तन इवावलम्बते सेन्द्रयोनिः स वेदयोनिरिति । अत्र जाग्रति ।
शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते । य एष देवोऽन्यदेवास्य
-संप्रसादोऽन्तर्याम्यसङ्गचिद्रूपः पुरुषः । प्रणवहंसः परं ब्रह्म । न प्राणहंसः ।
प्रणवो जीवः । आद्या देवता निवेदयति । य एवं वेद तत्कथं निवेदयते ।
५ यथैष.
१ निजं नित्या. २ विशोकं.
६ निगच्छति
३ कर्मकः.
४ नैकेनैन.
.</p>
<pb n="543" />
<p>ईशाद्युपनिषत्सु -
जीवस्य ब्रह्मत्वमापादयति । सत्त्वमथास्य पुरुषस्यान्तः शिखोपवीतत्वं ब्राह्म-
णस्य । मुमुक्षोरन्तः शिखोपवीतधारणम् । बहिर्लक्ष्यमाणशिखायज्ञोपवीतधा-
रणं कर्मिणो गृहस्थस्य । अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्व-
मेलनम् । न सन्नासन्न सदसद्भिन्नाभिन्नं न चोभयम् । न सभागं न
निर्भागं न चाप्यभयरूपकम् ॥ ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यात्वकारणा-
दिति । पञ्चपाद्ब्रह्मणो न किंचन । चतुष्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्मणश्वरवारि
स्थानानि । नाभिहृदयकण्ठमूर्धसु जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः । आहवनी-
यगार्हपत्यदक्षिणसभ्याग्निषु । जागरिते ब्रह्मा स्वप्ने विष्णुः सुपुप्तौ रुद्रस्तुरीय-
मक्षरं चिन्मयम् । तस्माच्चतुरवस्था । चतुरङ्गुलवेष्टनमिव षण्णवतितत्त्वानि
तन्तुवद्विभज्य तदाहितं त्रिगुणीकृत्य द्वात्रिंशत्तस्व निष्कर्षमापाद्य ज्ञानपूर्त
त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय नवब्रह्माख्यनवगुणोपेतं ज्ञात्वा नवमा-
तित्रिगुणीकृत्य सूर्येन्द्रमिकलास्वरूपत्वेनै की कृत्याद्यन्तरेकत्वमपि मध्ये
त्रिरावृत्य ब्रह्मविष्णुमहेश्वरत्वमनुसंधायाद्यन्तमेकीकृत्य चिह्नन्थावद्वैतग्रन्थि
कृत्वा नाभ्यादिबह्मबिलप्रमाणं पृथक् पृथक् सप्तविंशतितत्त्व संबन्धं त्रिगुणो-
पेतं त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदक्षिणकव्यन्तं विभा-
व्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं मृण्मयं विज्ञावं स्याद्वाचार-
म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं । हंसेति वर्णद्वयेनान्तः शिखोपकी-
तित्वं निश्चित्य ब्राह्मणत्वं ब्रह्मध्यानार्हत्वं यतित्वमलक्षितान्तः शिखोपवीतित्व-
मेवं बहिर्लक्षितकर्मशिखा ज्ञानोपवीतं गृहस्थस्याभासब्राह्मणत्वस्य केशसमूह-
शिखाप्रत्यक्ष कापसतन्तुकृतोपवीतत्वं चतुर्गुणीकृत्य चतुर्विंशतितच्चापादनतन्तु-
कृत्त्वं नवतत्त्वमेकमेव परंब्रह्म तत्प्रतिसर योग्यत्वाद्वहुमार्गप्रवृत्तिं कल्पयन्ति ।
सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां मूर्तिरेका । ब्रह्मकमेव । ब्राह्मणत्वमेक-
मेव । वर्णाश्रमाचार विशेषाः पृथक्पृथक् शिखा वर्णाश्रमिणामेकैकेव । अपवर्गस्य
यतेः शिखायज्ञोपवीतमूलं प्रणवमेकमेव वदन्ति । हंसः शिखा । प्रणय उपवी-
तम् । नादः संधानम् । एष धर्मो नेतरो धर्मः । तत्कथमिति । प्रणवहंसो
नादस्त्रिवृत्सूत्रं स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म । तद्विद्धि प्रापचिक शिखो-
पवीतं त्यजेत् । सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद्बुधः । यदक्षरं परंब्रह्म
तत्सूत्रमिति धारयेत् ॥ १ ॥ पुनर्जन्मनिवृत्यथं मोक्षस्याहर्निशं स्मरेत् ।
१ मुक्तिरेका. २ मेकमेव.</p>
<pb n="544" />
<p>अवधूतोपनिषत् ॥ ८२ ॥ .</p>
<p>सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥ २ ॥ तत्सूत्रं विदितं येन स
मुमुक्षुः स भिक्षुकः । स वेदवित्सदाचारः स विप्रः पङ्क्तिपावनः ॥ ३ ॥ येन
सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगविद्राह्मणो. यतिः,
॥ ४ ॥ वहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः । ब्रह्मभावमिदं सूत्रं धारयेद्यः
स मुक्तिभाक् ॥ ५ ॥ नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् । सूत्र-
मन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ६ ॥ ये तु सूत्रविदो लोके ते च
यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं
तेषां पवित्रं ज्ञानमीरितम् ॥ ७ ॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी
शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८ ॥ कर्मण्यधिकृता ये
तु वैदिके लौकिकेsपि वा । ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः ।
अजन्ते निरयं ते तु पुनर्जन्मन्दि जन्मनि ॥ ९ ॥ वामांसदक्षकव्यन्तं ब्रह्मसूत्र
तु सव्यतः । अन्तर्बहिरिवात्यर्थं तत्वतन्तुसमन्वितम् ॥ १० ॥ नाभ्यादिब्रह्म-
रन्ध्रान्तप्रमाणं धारयेत्सुधीः । तेभिर्धार्यमिदं सूत्रं क्रियाङ्ग तन्तुनिर्मितम्,
॥ ११ ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य
नेतरेषां तु किंचन ॥ १२ ॥ इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वा-
न्यज्ञोपवीती संधारयेद्यः स मुक्तिभाक् ॥ १३ ॥ बंहिरन्तश्चोपवीती विप्रः
संन्यस्तुमर्हति । एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥ १४ ॥ तस्मात्सर्वप्रय-
न मोक्षापेक्षी भवेद्यतिः । बहिः सूत्रं परित्यज्य स्वान्तः सूत्रं तु धारयेत् ॥ १५॥
बहिः प्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवलम्ब्य मोक्ष-
साधनं कुर्यादित्याह भगवान्छौनक इत्युपनिषत् ॥ १६ ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शांन्तिः ॥
इति परब्रह्मोपनिषत्समाप्ता ॥ ८१ ॥
अवधूतोपनिषत् ॥ ८२ ॥</p>
<lg>
  <l>गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।</l>
  <l>तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥ १ ॥</l>
</lg>
<p>ॐ
सह नाववत्विति शान्तिः ॥
हरिः ॐ ॥ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ भग-
वन्कोऽवधूतस्तस्य का स्थितिः किं लक्ष्म किं संसरणमिति । तं होवाच भगवो
अ. उ. ३४</p>
<pb n="545" />
<p>ईशाद्युपनिषत्सु -
दत्तात्रेयः परमकारुणिकः ॥ अक्षरत्वाद्वरेण्यस्वाननात् । तत्व-
मस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥ १ ॥ यो विलयाश्रमान्वर्णानात्मन्येव
स्थितः सदा । अतिवर्णाश्रमी योगी भवधूतः स कथ्यते ॥ २ ॥ तस्य प्रियं
शिरः कृत्वा मोदो दक्षिणपक्षकः । प्रमोद उत्तरः पक्ष आनन्दो गोष्पदा-
यते ॥ ३ ॥ गोपालसदृशं शीर्षे नापि मध्ये न चाप्यधः । ब्रह्म पुच्छं प्रतिष्ठेति
पुच्छाकारेण कारयेत् ॥ ४ ॥ एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ ५ ॥ स्वैरं स्वैरवि-
हरणं तत्संसरणम् । साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मो न मेध्या-
मेध्यौ । सदा सांग्रहण्येष्टयाश्वमेधेमन्तर्यागं यजते । स महामखो महा-
योगः । कृत्स्नमेतचित्रं कर्म । स्वैरं न विगायेतन्महावतम् । न स मूढवलि-
प्यते । यथा रविः सर्वरसान्प्रभुङ्क्ते हुताशनश्चापि हि सर्वभक्षः । तथैव योगी
विषयान्भुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः ॥ ६ ॥ आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् । तद्वस्कामा यं प्रविशन्ति सर्वे स शान्तिमा-
मोति न कामकामी ॥ ७ ॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षु वै मुक्त इत्येषा परमार्थता ॥ ८ ॥ ऐहिकामुष्मिकणावसिद्ध्यै
मुक्तेश्व सिद्धये । बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् ॥ ९ ॥ तदेव
कृतकृत्यत्वं प्रतियोगि पुरःसरम् । ( अनुसंदधदेवायमेवं तृप्यति नित्यशः )
॥ १० ॥ दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया । परमानन्दपूर्णोऽहं
संसारामि किमिच्छया ॥ ११ ॥ अनुतिष्ठन्तु कर्माणि परलोके यियासवः । सर्व-
लोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ १२ ॥ व्याचक्षतां ते शास्त्राणि
वेदानध्यापयन्तु वा । येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ १३॥
निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्तु किं मे
स्यादन्यकल्पनात् ॥ १४ ॥ गुञ्जपुञ्जादि दयेव नान्यारोपितवह्निना । नान्या-
रोपित संसारधर्मा नैवमहं भजे ॥ १५ ॥ शृण्वन्वज्ञाततत्वास्ते जानन्क-
स्माच्छृणोम्यहम् । मन्यन्तां संशयापश्चा न मन्येऽहमसंशयः ॥ १६ ॥ विप-
यस्तो निदिध्यासे किं ध्यानमविपर्यये । देहात्मत्वविपर्यासं न कदाचिद्भना-
म्यहम् ॥ १७ ॥ अहं मनुष्य इत्यादिव्यवहारो विनाप्यसुम् । विपर्यासं चिरा-
१ मेघान्तर्यागं. २ लोकथिया परे.</p>
<pb n="546" />
<p>अवधूतोपनिषत् ॥ ८२ ॥
भ्यस्तवासनातोऽवकल्पते ॥ १८ ॥ आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ।
कर्मक्षये त्वसौ नैव शाम्येभ्धान सहस्रतः ॥ १९ ॥ विरलस्वं व्यवहृतेरिएं
।
च्यानमस्तु ते । बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥ २० ॥ विक्षेपो
नाखि यस्मान्मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्वाहि-
कारिणः । नित्यानुभवरूपस्य को मेनानुभवः पृथक् ॥ २१ ॥ कृतं कुर्य
प्रापणीयं प्राप्तमित्येव नित्यशः । व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथापि
वा । ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २२ ॥ अथवा कृतकृत्येऽपि
लोकानुग्रहकाम्यया । शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ॥ २३ ॥
देवार्चन स्नानशौचभिक्षादौ वर्ततां वपुः । तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्त-
कम् ॥ २४ ॥ विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् । साक्ष्यहं किंचि-
दप्यत्र न कुर्वे नापि कारये ॥ २५ ॥ कृतकृत्यतथा तृप्तः प्राप्तप्राप्यतया
पुनः । तृभ्यश्चेवं स्वमनसा मन्यतेऽसौ निरन्तरम् ॥ २६ ॥ धन्योऽहं भन्योऽहं.
नित्यं स्वात्मानमञ्जसा वेद्मि । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे
स्पष्टम् ॥ २७ ॥ धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । धन्योऽहं
धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥ २८ ॥ धन्योऽहं धन्योऽहं कर्तव्यं
मे न विद्यते किंचित् । धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमन्त्र संपन्नम् ॥ २९ ॥
धन्योऽहं धन्योऽहं तृप्तेमें कोप्रमा भवेल्लोके । धन्योऽहं धन्योऽहं धन्यो
श्वन्यः पुनःपुनर्धन्यः ॥ ३० ॥ अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ।
अस्य पुण्यस्य संपत्तेरहो वयमहो वयम् ॥ ३१ ॥ अहो ज्ञानमहो ज्ञानमहो
सुखमहो सुखम् । अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥ ३२ ॥ इति
य इदमधीते सोऽपि कृतकृत्यो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेया-
स्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृत्याकृत्यात्पूतो भवति । एवं-
विदित्वा स्वेच्छाचारपरो भूयादोंसत्यमित्युपनिषत् ॥ ३३ ॥ हरिः ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इत्यवधूतोपनिषत्समासा ॥ ८२ ॥
1
१ कर्तृत्वं मे.</p>
<pb n="547" />
<p>ईशाद्युपनिषत्सु :</p>
<lg>
  <l>त्रिपुरातापिन्युपनिषत् ॥ ८३ ॥</l>
  <l>त्रिपुरातापिनी विद्यावेद्य चिच्छक्तिविग्रहम् ।</l>
  <l>वस्तुतश्चिन्मात्ररूपं परं तवं भजाम्यहम् ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>[ उप०
हरिः ॐ ॥ अथैतस्मिन्नन्तरे भगवान्प्राजापत्यं वैष्णवं विलयकारणं रूपमा-
श्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवः स्वस्त्रीणि स्वर्गभूपाता-"
लानि त्रिपुराणि हरमायात्मकेन हीङ्कारेण हृल्लेखाख्या भगवती त्रिकूटाव-
साने निलये चिलये धानि महसा घोरेण प्राप्नोति । सैवेयं भगवती त्रिपु-
रेति व्यापठ्यते । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचो-
दयात् परो रजसे सावदोम् । जातवेदसे सुनवाम सोममरातीयतो निद-
हाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यनिः ।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
मामृतात् । शताक्षरी परमा विद्या त्रयीमयी साष्टार्णा त्रिपुरा परमेश्वरी ।
आद्यानि चत्वारि पदानि परब्रह्मविकासीनि । द्वितीयानि शक्त्याख्यानि ।
तृतीयानि शैवानि । तत्र लोका वेदाः शास्त्राणि पुराणानि धर्माणि वै चिकि-
त्सितानि ज्योतींषि शिवशक्तियोगादित्येवं घटना व्यापठ्यते । अथैतस्य परं
गह्वरं व्याख्यास्यामो महामनुसमुद्भवं तदिति । ब्रह्म शाश्वतम् । परो भगवा-
निर्लक्षणो निरञ्जनो निरुपाधिराधिरहितो देवः । उन्मीलते पश्यति विका-
सते चैतन्यभावं कामयत इति । स एको देवः शिवरूपी दृइयत्वेन विकास
यतिषु यज्ञेषु योगिषु कामयते । कामं जायते । स एष निरञ्जनोऽकामस्वे-
नोज्जृम्भते । अकचटतपयशान्सृजते । तस्मादीश्वरः कामोऽभिधीयते । तत्प-
रिभाषया कामः ककारं व्याप्नोति । काम एवेदं तत्तदिति ककारो गृह्यते ।
तस्मात्तत्पदार्थ इति य एवं वेद । सवितुर्वरेण्यमिति षूङ् प्राणिप्रसवे सविता
प्राणिनः सूते प्रसूते शक्तिम् । सूते त्रिपुरा शक्तिराधेयं त्रिपुरा परमेश्वरी
महाकुण्डलिनी देवी । जातवेदसमण्डलं योऽधीते सर्व व्याप्यते । त्रिकोण-
शक्तिरेकारेण महाभागेन प्रसूते । तस्मादेकार एव गृह्यते । वरेण्यं श्रेष्ठं भज-
नीयमक्षरं नमस्कार्यम् । तस्माद्वरेण्यमेकाराक्षरं गृह्यत इति य एवं वेद ।
भर्गो देवस्य धीमहीत्येवं व्याख्यास्यामः । धकारो धारणा । धियैव धार्यते
भगवान्परमेश्वरः । भर्गो देवो मध्यवर्ति तुरीयमक्षरं साक्षात्तुरीयं सर्वं सर्वा-</p>
<pb n="548" />
<p>उप० १]
त्रिपुरातापिन्युपनिषत् ॥ . ८३ ॥
तर्भूतम् । तुरीयाक्षरमीकार पदानां मध्यवर्तीत्येवं व्याख्यातं भर्गोरूपं व्या-
चक्षते । तस्माद्भर्गो देवस्य धीमहीत्येवमीकाराक्षरं गृह्यते । महीत्यस्य
व्याख्यानं महत्त्वं जडत्वं काठिन्यं विद्यते यस्मिन्नक्षतेरेतन्महि लकार पर
। काठिन्याढ्यं ससागरं सपर्वतं ससप्तद्वीपं सकाननमुज्वलद्रूपं मण्डल-
मेवोक्तं लकारेण । पृथ्वी देवी महीत्यनेन व्याचक्षते । धियो यो नः प्रचो-
दयात् । परमात्मा सदाशिव आदिभूतः परः । स्थाणुभूतेन लकारेण ज्योति-
र्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहिते निर्विकल्पके प्रचो-
दयात्प्रेरयेदित्युच्चारणरहितं चेतसैव चिन्तयित्वा भावयेदिति । परो रजसे
सावदोमिति तदवसाने परं ज्योतिरमलं हृदि दैवतं चैतन्यं चिल्लिङ्गं हृदया-
गारवासिनी हृल्लेखेत्यादिना स्पष्टं वाग्भवकूटं पञ्चाक्षरं पञ्चभूतजनकं पञ्चक-
कामयं व्यापठ्यत इति । य एवं वेद । अथ तु परं कामकलाभूतं कामकूट-
माहुः । तत्सवितुर्वरेण्य मित्यादिद्वात्रिंशदक्षरीं पठित्वा तदिति परमात्मा
सदाशिवोऽक्षरं विमलं निरुपाधितादात्म्यप्रतिपादनेन हकाराक्षरं शिवरूपं निर-
क्षरमक्षरं व्यालिख्यत इति । तत्परागव्यावृत्तिमादाय शक्ति दर्शयति । वस-
वितुरिति पूर्वेणाध्वना सूर्याधश्चन्द्रिकां व्यालिख्य मूलादिब्रह्मरन्ध्रगं साक्षर-
द्वितीयमाचक्षत इत्याह भगवन्तं देवं शिवशक्त्यात्मकमेवोदितम् । शिवोऽयं
परमं देवं शक्तिरेषा तु जीवजा । सूर्याचन्द्रमसोर्योगास स्तत्पदमुच्यते ॥ १ ॥
तस्मादुज्जृम्भते कामः कामात्कामः परः शिवः । कार्णोऽयं कामदेवोऽयं
वरेण्यं भर्ग उच्यते ॥ २ ॥ तत्सवितुर्वरेण्यं भर्गो देवः क्षीरं सेचनीयमक्षरं
सेमधुन्नमश्नरं परमात्मजीवात्मनोर्योगात्तदिति स्पष्टमक्षरं तृतीयं ह इति तदेव
सदाशिव एव निष्कल्मष आद्यो देवोऽन्त्यमक्षरं व्याक्रियते । परमं पदं धीति
धारणं विद्यते जडत्वधारणं महीति लकारः शिवाधस्तात्तु लकारार्थः स्पष्ट-
मैन्त्यमक्षरं परमं चैतन्यं धियो यो नः प्रचोदयात्परो रजसे सावदोमित्येवं
कूटं कामकलालयं षडध्वपरिवर्तको वैष्णवं परमं धामैति भगवांश्चैतस्माद्य
एवं वेद । अथैतस्मादपरं तृतीयं शक्तिकूटं प्रतिपद्यते । द्वात्रिंशदक्षर्या
गायत्र्या तत्सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरति
तदधीनं वरेण्यं समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्मसमुद्भवस्तं
प्रकाशशक्तिरूपं जीवाक्षरं स्पष्टमापद्यते । भर्गो देवस्य धीत्यनेनाधाररूप-
२ समदुघ्न. ३ मन्तिमाक्षरं.
१ काठिन्यार्थ.</p>
<pb n="549" />
<p>ईशाधुपनिषत्सु -
[ उप० १
शिवात्माक्षरं गण्यते । महीत्यादिनाशेषं काम्यं रमणीयं दृइयं शक्तिकूट
स्पष्टीकृतमिति । एवं पञ्चदशाक्षरं त्रैपुरं योऽधीते स सर्वान्कामानवाप्नोति ।
स सर्वान्भोगानवाभोति । स सर्वाल्लोकाअयति । स सर्वा वाचो विजृम्भ-
यति । सं रुद्रत्वं प्रामोति । स वैष्णवं धाम भित्वा परं ब्रह्म प्राप्नोति ।
एवं वेद । इत्याद्यां विद्यामभिधायैतस्याः शक्तिकूटं शक्तिशिवाद्यं लोपामुद्रे-
यम् । द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा क्रोधमु
निनाऽधिष्ठिता । तृतीये धामनि पूर्वस्था एवं विद्याया यद्वाग्भवकूटं तेनैक
मानवीं चान्द्री कौमेरी विद्यामाचक्षते । मदनाभः शिवं वाग्भवम् । तदूर्ध्व
कामकलामयम् । शक्त्यूर्ध्व शक्तिमिति मानवी विद्या । चतुर्थे धामनि शिव-
वाक्त्याख्यं वाग्भवम् । तदेवाधः शिवशक्त्या ख्यमन्यतृतीयं चेयं चान्द्री
विद्या । पञ्चमे धामनि ध्येयेयं चान्द्री कामाभः शिवाद्यकामा । सैव कौबेरी
षष्ठे धामनि व्याचक्षत इति । य एवं वेद । हिस्वेकारं तुरीयस्वरं सर्वादी
सूर्याचन्द्रमस्केन कामेश्वर्यवागस्त्यसंज्ञा । सप्तमे धामनि तृतीयमेतस्या एव
पूर्वोक्तायाः कामाद्यं द्विधाधः कं मदनकलाद्यं शक्तिबीजं वाग्भवाद्यं तयो-
रर्भाव शिरस्कं कृत्वा नन्दिविद्येयम् । अष्टमे धामनि वाग्भवमागस्त्यं वागर्थ-
कलामयं कामकलाभिधं सकलमायाशक्तिः प्रभाकरी विद्येयम् । नवमे धामनि
पुनरागस्त्यं वाग्भवं शक्तिमन्मथशिवशक्तिमन्मथोवमायाकामकलालयं चन्द्र-
सूर्यानङ्गधूर्जटिम हिमालयं तृतीयं षण्मुखीयं विद्या । दशमे धामनि विद्याप्रका-
. शितया भूय एवागस्त्यविद्यां पठित्वा भूय एवेमामन्त्यमायां परमशिवविद्येय-
मेकादशे धामनि भूय एवागस्त्यं पठित्वा एतस्या एव वाग्भवं यवनजं काम-
कलालयं च तत्सहजं कृत्वा लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या
द्वादशे धामनि व्याचक्षत इति ॥ ३ ॥ य एवं वेद । तान्होवाच भगवान्सर्वे
यूयं श्रुत्वा पूर्वा कामाख्यां तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासन-
गत पीठोपपीठदेवतापरिवृतां सकलकलाव्यापिनीं देवतां सामोदां सपराग
सहृदय सामृतां सकलां सेन्द्रियां सदोदितां परां विद्यां स्पष्टीकृत्वा हृदये
निधाय विज्ञायानिलयं गमयित्वा त्रिकूटां त्रिपुरां परमां मायां श्रेष्ठ प
वैष्णव संनिधाय हृदयकमलकर्णिकायां परां भगवतीं लक्ष्मीं मायां सदोदित
• महावश्यक मदनोन्मादनकारिणीं धनुर्बाणधारिणीं वाग्विजृम्भिणीं चन्द्र-
उस गुरुत्वं.</p>
<pb n="550" />
<p>उप० २]
त्रिपुरातापिन्युपनिषत् ॥ ८३ ॥
"
मण्डलमध्यवर्तिनीं चन्द्रकलां सप्तदश महानित्योपस्थितां पाशाङ्कुशमनोश-
पाणिपल्लवां समुधदर्कनिभां त्रिनेत्रां विचिन्त्य देवीं महालक्ष्मीं सर्वलक्ष्मीमयीं
सर्वलक्षणसंपन्नां हृदये चैतन्यरूपिणीं निरञ्जनां त्रिकूटाख्यां स्मितमुख
सुन्दरीं महामायां सर्वसुभगां महाकुण्डलिनीं त्रिपीठमध्यवर्तिनीमकथादि-
श्रीपीठे परां भैरवीं चित्कलां महात्रिपुरां देवीं ध्यायेन्महाध्यानयोगेनेयमेवं
वेदेति महोपनिषत् ॥ ४ ॥
इति त्रिपुरातापिन्युपनित्सु प्रथमोपनिषत् ॥ १ ॥
अथातो जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रैपुरी व्यक्तिर्लक्ष्यते ।
जातवेदस इत्येकर्चसूक्तस्याद्यमध्यमावसानेषु तत्र स्थानेषु विलीनं बीजसागर-
रूपं व्याचक्ष्वेत्यृषय ऊचुः । तान्होवाच भगवाञ्जातवेदसे सुनवाम सोमं
तदन्त्यमवाणीं विलोमेन पठित्वा प्रथमस्याद्यं तदेवं दीर्घं द्वितीयस्याद्यं सुन-
वाम सोममित्यनेन कौलं वामं श्रेष्ठं सोमं महासौभाग्यमाचक्षते । स सर्व-
संपत्तिभूतं प्रथमं निवृत्तिकारणं द्वितीयं स्थितिकारणं तृतीयं सर्गकारणमित्य-
नेन करशुद्धिं कृत्वा त्रिपुराविद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममि-
त्यादि पठित्वा महाविद्येश्वरीविद्यामाचक्षते त्रिपुरेश्वरीं जातवेदस इति । जाते
आद्याक्षरे मातृकायाः शिरसि बैन्दवममृतरूपिणीं कुण्डलिनीं त्रिकोणरूपिणीं
चेति वाक्यार्थः । एवं प्रथमस्याद्यं वाग्भवम् । द्वितीयं कामकलालयम् ।
जात इत्यनेन परमात्मनो जृम्भणम् । जात इत्यादिना परमात्मा शिव
उच्यते । जातमात्रेण कामी कामयते काममित्यादिना पूर्ण व्याचक्षते । तदेव
सुनवाम गोत्रारूढं मध्यवर्तिनाऽमृतमध्येनार्णेन मन्त्रार्णा स्पष्टीकृत्वा । गोत्रेति
नामगोत्रायामित्यादिना स्पष्टं रामकलालयं शेषं वाममित्यादिना । पूर्वेणा-
ध्वना विद्येयं सर्वरक्षाकरी व्याचक्षते । एवमेतेन विद्यां त्रिपुरेशीं स्पष्टीकृत्वा
जातवेदस इत्यादिना जातो देव एक ईश्वरः परमो ज्योतिर्मत्रतो वेति तुरीयं
वरं दत्वा बिन्दुपूर्णज्योतिः स्थानं कृत्वा प्रथमस्याद्यं द्वितीयं च तृतीयं च
सर्वरक्षाकरीसंबन्धं कृत्वा विद्यामात्मासनरूपिणीं स्पष्टीकृत्वा जातवेदसे
सुनवाम सोममित्यादि पठित्वा रक्षाकरों विद्यां स्मृत्वाद्यन्तयोर्धानोः शक्ति-
शिवरूपिणीं विनियोज्य स इति शुक्तयात्मकं वर्णं सोममिति शैवात्मकं धाम
जानीयात् । यो जानीते स सुभगो भवति ॥ १ ॥ एवमेतां चक्रासनगतां
त्रिपुरवासिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममिति पठित्वा</p>
<pb n="551" />
<p>ईशाधुपनिषत्सु -
[ उप० २
त्रिपुरेश्वरीविद्यां सदोदितां शिवशक्त्यात्मिकामावेदितां जातवेदाः शिव इति
सेति शक्त्यात्माक्षरमिति शिवादिशक्त्यन्तरालभूतां त्रिकूटादिचारिणीं सूर्या-
चन्द्रमस्क मन्त्रासनगतां त्रिपुरां महालक्ष्मीं सदोदितां स्पष्टीकृत्वा जात-
वेदसे सुनवाम सोममित्यादि पठित्वा पूर्वां सदात्मानरूपां विद्यां स्मृत्वा
वेद इत्यादिना विश्वाहसंतोदय बैन्दवमुपरि विन्यस्य सिद्धासनस्थां
त्रिपुरां मालिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि
पठित्वा त्रिपुरा सुन्दरीं श्रित्वा कले अक्षरे विचिन्त्य मूर्तिभूतां मूर्तिरूपिणीं
सर्वविद्येश्वरीं त्रिपुरां विद्यां स्पष्टीकृत्वा जातवेदसे इत्यादि पठित्वा त्रिपुरां
लक्ष्मी स्विमिं निहाति सैवेयमभ्यानने ज्वलतीति विचिन्त्य त्रिज्योति-
षमीश्वरीं त्रिपुरामम्बां विद्यां स्पष्टीकुर्यात् । एवमेतेन स नः पर्षदति दुर्गाणि
विश्वेत्यादिपर प्रकाशिनी प्रत्यग्भूता कार्या । विद्येयमाह्वानकर्मणि सर्वतो
धीरेति व्याचक्षते । एवमेतद्विद्याष्टकं महामायादेव्यङ्गभूतं व्याचक्षते । देवा
हवै भगवन्तमब्रुवन्महाचक्रनायकं नो ब्रूहीति सार्वकामिकं सर्वाराध्यं सर्व-
रूपं विश्वतोमुखं मोक्षद्वारं यद्योगिन उपविश्य परं ब्रह्म भित्वा निर्वाणमुप-
विशन्ति ॥ २ ॥ तान्होवाच भगवान् श्रीचक्रं व्याख्यास्याम इति । त्रिकोणं त्र्यसं
कृत्वा तदन्तर्मध्यवृत्तमानयष्टिरेखामाकृष्य विशालं नीत्वाग्रतो योनिं कृत्वा
पूर्व योन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वोव नीत्वा योनिं कृत्वाद्यं त्रिकोणं
चक्रं भवति । द्वितीयमन्तरालं भवति । तृतीयमष्टयोन्यङ्कितं भवति । अथा-
चारचक्राद्यन्तविदिक्कोणाग्रतो रेखां नीत्वा सांध्याद्याकर्षणबद्धरेखां नीत्वेत्ये-
वमथोर्ध्वसंपुटयोन्यङ्कितं कृत्वा कक्षाभ्य ऊर्ध्वगरेखाचतुष्टयं कृत्वा यथाक्रमेण
मानयष्टिद्वयेन दशयोन्यङ्कितं चक्रं भवति । अनेनैव प्रकारेण पुनर्दशारचक्रं
भवति । मध्य त्रिकोणाग्रचतुष्टया देखा चराप्रकोणेषु संयोज्य तद्दशारांशतोनीतां
मानयष्टिरेखां योजयित्वा चतुर्दशारं चक्रं भवति । ततोऽष्टपत्रसंवृतं चक्रं
भवति । षोडशपत्रसंवृतं चक्रं चतुर्द्वारं भवति । ततः पार्थिवं चक्रं चतुर्द्वारिं
भवति । एवं सृष्टियोगेन चक्रं व्याख्यातम् । नवात्मकं चक्रं प्रातिलोम्येन
वा वच्मि । प्रथमं चक्रं त्रैलोक्यमोहनं भवति । साणिमाद्यष्टकं भवति ।
समान्नष्टकं भवति । ससर्वसंक्षोभिण्यादिदशकं भवति । सप्रकटं भवति ।
त्रिपुरयाधिष्ठितं भवति ससर्व संक्षोभिणीमुद्रया जुष्टं भवति । द्वितीयं सर्वांशा-
१ संतोदयबैन्दव.
1</p>
<pb n="552" />
<p>उप०.३ ]
त्रिपुरातापिन्युपनिषत् ॥ ८३ ॥</p>
<p>परिपूरकं चक्रं भवति सकामाद्या कर्षिणीषोडशकं भवति । गुप्तं भवति ।
त्रिपुरेश्वर्याधिष्ठितं भवति । सर्वविद्राविणीमुद्रया जुष्टं भवति । तृतीयं सर्व-
संक्षोभणं चक्रं भवति । सानङ्गकुसुमाद्यष्टकं भवति । सगुप्ततरं भवति ।
त्रिपुरसुन्दर्याऽधिष्ठितं भवति । सर्वाकर्षिणीमुद्रया जुष्टं भवति । तुरीयं सर्व-
सौभाग्यदायकं चक्रं भवति । ससर्वसंक्षोभिण्यादिद्विसप्तकं भवति । ससंप्रदाय
भवति । त्रिपुरवासिन्याधिष्ठितं भवति । ससर्ववशं करिणीमुद्रया जुष्टं भवति ।
तुरीयान्तं सर्वार्थसाधकं चक्रं भवति । ससर्वसिद्धिप्रदादिदशकं भवति । सक-
कौलं भवति । त्रिपुरामहालक्ष्म्याऽधिष्ठितं भवति । महोन्मादिनीमुद्रया जुष्टं
भवति । षष्ठं सर्वरक्षाकरं चक्रं भवति । ससर्वज्ञत्वादिदशकं भवति । सनिगर्भ
भवति । त्रिपुरमालिन्याऽधिष्ठितं भवति । महाङ्कुशमुद्रया जुष्टं भवति ।
सप्तमं सर्वरोगहरं चक्रं भवति । सर्ववशिन्याद्याष्टकं भवति । सरहस्यं भवति ।
त्रिपुरसिद्ध्याऽधिष्ठितं भवति । सखेचरीमुद्रया जुष्टं भवति । अष्टमं सर्व-
सिद्धिप्रदं चक्रं भवति । सायुधचतुष्टयं भवति । सपरापररहस्यं भवति ।
त्रिपुराम्बयाधिष्ठितं भवति । बीजमुद्रयाऽधिष्ठितं भवति । नवमं चक्रनायक
सर्वानन्दमयं चक्रं भवति । सकामेश्वर्यादित्रिकं भवति । सातिरहस्यं भवति ।
महात्रिपुरसुन्दर्याधिष्ठितं भवति । योनिमुद्रया जुष्टं भवति । संक्रामन्ति वै
सर्वाणि छदांसि चकाराणि । तदेव चक्रं श्रीचक्रम् । तस्य नाभ्यामभि-
मण्डले सूर्याचन्द्रमसौ । तनोंकारपीठं पूजयित्वा तत्राक्षरं बिन्दुरूपं तद-
न्तर्गतव्योमरूपिणीं विद्यां परमां स्मृत्वा महात्रिपुरसुन्दरी मावाह्य । क्षीरेण
नापिते देवि चन्दनेन विलेपिते । बिल्वपत्रार्चिते देवि दुर्गेऽहं शरणं गतः ।
इत्येकयची प्रार्थ्य मायालक्ष्मीतन्त्रेण पूजयेदिति भगवानब्रवीत् । एतैर्मन्त्रै-
भगवतीं यजेत् । ततो देवी प्रीता भवति । स्वात्मानं दर्शयति । तस्माद्य
एतैर्मन्त्रैर्यजति स ब्रह्म पश्यति । स सर्वं पश्यति । सोऽमृतत्वं च गच्छति ।
य एवं वेदेति महोपनिषत् ॥ ३ ॥
इति त्रिपुरातापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥
'देवा ह वै मुद्राः सृजेमेति भगवन्तमब्रुवन् । तान्होवाच भगवानवनि-
कृतजानुमण्डलं विस्तीर्थं पद्मासनं कृत्वा मुद्राः सृजतेति । स सर्वांनाकर्षयति
यो योनिमुद्रामधीते स सर्व वेत्ति स सर्वफलमश्रुते स सर्वान्भञ्ज-
यति स विद्वेषिणं स्तम्भयति । मध्यमे अनामिकोपरि विन्यस्य कनिष्ठिका -</p>
<pb n="553" />
<p>ईशाद्युपनिषत्सु -
[ उप० ३
कुष्ठतोऽधीते मुक्कयोस्तर्जन्योर्दण्डवदधस्तादेवंविधा प्रथमा संपद्यते । सेव
मिलितमध्यमा द्वितीया । तृतीयाङ्कुशाकृतिरिति । प्रातिलोम्येन पाणी सङ्घर्ष-
feast सामि समाधाय तुरीया । परस्परं कनीयसेदं मध्यमाबद्धे
अनामिके दुण्डिन्यौ तर्जन्यावालिङ्ग्यावष्टभ्य मध्यमानखमिलिताङ्गुष्ठौ पञ्चमी ।
सेवाग्रेऽशाकृतिः षष्ठी । दक्षिणशये वामबाहुं कृत्वाऽन्योन्यानामिके कनीय-
सीमध्यगते मध्यमे वर्जन्याक्रान्ते सरलास्वङ्गुष्ठौ खेचरी सप्तमी । सर्वो
सर्व संहृति स्वमध्यमानामिकान्तरे कनीयसि पार्श्वयोस्तर्जन्याचङ्कुशाढ्ये युक्ता
साङ्गुष्ठयोगतोऽन्योन्यं सममञ्जलिं कृत्वाऽष्टमी । परस्परमध्यमा पृष्ठवर्तिन्याव-
नामिके वर्जन्याक्रान्ते समे मध्यमे आदायाङ्गुष्ठौ मध्यवर्तिनौ नवमी प्रति -
प्रद्यत इति । सैवेयं कनीयसे समे अन्तरितेऽङ्गुष्ठौ समावन्तरितौ कृत्वा
त्रिखण्डापयत इति । पञ्च बाणाः पञ्चाद्या मुद्राः स्पष्टाः । क्रोमङ्कुशा । हस-
खू खेचरी । स्रौं बीजाष्टमी वाग्भवाद्या नवमी दशमी च संपद्यत इति ।
य एवं वेद । अथातः कामकलाभूतं चक्रं व्याख्यास्यामो ह्रीं क्ली मैं ब्लू स्रौमते
पञ्च कामाः सर्वचक्रं व्यावर्तन्ते । मध्यमं कामं सर्वावसाने संपुटी कृत्य ब्लूका-
रेण संपुटं व्याप्तं कृत्वा द्विरैन्दवेन मध्यवर्तिना साध्यं बद्ध्वा भूर्जपत्रे यजति ।
चक्रं यो वेत्तिस सर्वं वेत्ति । स सकलाँल्लोकानाकर्षयति । सर्वं स्तम्भ-
यति । नीलीयुक्तं चक्रं शत्रून्मारयति । गतिं स्तम्भयति । लाक्षायुक्तं कृत्वा
सकललोकं वशीकरोति । नवलक्षजपं कृत्वा रुद्रत्वं प्राप्नोति । मातृकयां
वेष्टितं कृत्वा विजयी भवति । भगाङ्ककुण्डं कृत्वाभिमाधाय पुरुषो हविषा
हुत्वा योषितो वशीकरोति । वर्तुले हुत्वा श्रियमतुलां प्राप्नोति । चतुरस्रे
हुत्वा वृष्टिर्भवति । त्रिकोणे हुत्वा शत्रून्मारयति । गतिं स्तम्भयति ।
पुष्पाणि हुवा विजयी भवति । मैहारसैर्हुत्वा परमानन्दनिर्भरो भवति ।
गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठ-
राज ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् । इत्ये-
चमाद्यमक्षरं तदन्त्यबिन्दु पूर्णमित्यनेनाङ्गं स्पृशति । गं गणेशाय नम इति
गणेशं नमस्कुर्वीत । ॐ नमो भगवते भस्माङ्गरागायोप्रतेजसे हन हन
दह दह पच पच मथ मथ विध्वंसय विध्वंसय हलभअन शूलमूले व्यञ्जन-
सिद्धिं कुरु कुरु समुद्रं पूर्वप्रतिष्ठितं शोषय शोषय स्तम्भय स्तम्भय परमन्त्र -
पश्यत्र प्रस्तत्रपरदूतपरकटकपरच्छेदनकर विदारय विदारय च्छिन्धि च्छिन्धि
१ हसौः २ सौ एते.
३ मद्दारसा: जडरसाः.</p>
<pb n="554" />
<p>.
उप० ४ ]
त्रिपुरातापिन्युपनिषत् ॥ ८३ ॥
1</p>
<p>ह्रीं फट् स्वाहा । अनेन क्षेत्राध्यक्षं पूजयेदिति । कुलकुमारि विद्महे मत्रको-
टिषु धीमहि । तन्नः कौलिः प्रचोदयात् । इति । कुमार्यर्चनं कृत्वा यो वै साध-
.कोsभिलिखति सोऽमृतत्वं गच्छति । स यश आप्नोति । स परमायुष्यमथ-
वा परं ब्रह्म भित्त्वा तिष्ठति । य एवं वेदेति महोपनिषत् ॥
इति त्रिपुरातापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३ ॥
देवा ह वै भगवन्तमनुवन्देव गायत्रं हृदयं नो व्याख्यातं पुरं सर्वोत्त
मम् । जातवेदससूक्तेनाख्यातं नखैपुराष्टकम् । यदिवा मुच्यते योगी जन्म-
संसारबन्धनात् । अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां श्रुत्वेदं
वाक्यमथातत्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति । कस्माश्रयम्बकमिति ।
त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते त्र्यम्बकमिति । अथ कस्मादुच्यते
यजामह इति । यजामहे सेवामहे वस्तु महेत्यक्षरद्वयेन कूटत्वेनाक्षरैकेण
मृत्युंजयमित्युच्यते तस्मादुच्यते यजामह इति । अथ कस्मादुच्यते सुगन्धि-
मिति । सर्वतो यश भाप्नोति । तस्मादुच्यते सुगन्धिमिति । अथ कस्मादु-
च्यते पुष्टिवर्धनमिति । यत्सर्वांल्लोकान्सृजति यत्सर्वांलोकांस्तारयति यत्सव -
लोकान्व्याप्नोति तसादुच्यते पुष्टिवर्धनमिति । अथ कस्मादुच्यते उर्वारुक-
मिव बन्धनान्मृत्योर्मुक्षीयेति । संलग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धना-
संलमत्वाद्वद्धत्वान्मोक्षीभवति मुक्तो भवति । अथ कस्मादुच्यते मामृता-
दिति अमृतत्वं प्राप्नोत्यंक्षरं प्राप्नोति स्वयं रुद्रो भवति । देवा ह वै भगव-
न्तमूचुः सर्वं नो व्याख्यातम् । अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्श-
यति तान्सर्वान्यैवान्वैष्णवान्सौरान्गाणेशानो ब्रूहीति । स होवाच भगवा-
स्यम्बकेनानुष्टुभेन मृत्युंजयमुपासयेत् । पूर्वेणाध्वना व्यासमेकाक्षरमिति
स्मृतम् । ॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति । कल्याणं
प्राप्नोति । य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव
चक्षुराततम् । विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तं
व्यतिरिक्तं व्याप्त इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति परमं पदं
पश्यन्ति वीक्षन्ते । सूरयो ब्रह्मादयो देवास इति सदा हृदय आदधते ।
तस्माद्विष्णोः स्वरूपं वसत्ति तिष्ठति भूतेष्विति वासुदेव इति । ॐ नम इति
श्रीण्यक्षराणि । भगवत इति चत्वारि । वासुदेवायेति पञ्चाक्षराणि । एतद्वै
१ नित्यत्वं प्राप्नोति.</p>
<pb n="555" />
<p>ईशापुपनिषत्सु -
[ उप०५
वासुदेवस्य द्वादशार्णमभ्येति । सोपप्लवं तरति । स सर्वमायुरेति । विन्दते
प्राजापत्यं रायस्पोषं गौपत्यं च तमश्रुते प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम-
कार उकारो मकार इति । तानेकधा संभवति तदोमिति । हंसः शुचिषद्वसु-
रन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसहतसव्योमसदब्जा गोजा
ऋतजा अद्विजा ऋतं बृहत् । हंस इत्येतन्मनोरक्षर द्वितीयेन प्रभापुञ्जेन
सौरेण धृतमब्जा गोजा ऋतजा अद्विजा ऋतं सत्या-प्रभा पुञ्जि-न्युषा-संध्या-
प्रज्ञाभिः शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्रुते । स व्योनि परमे धामनि
सौरे निवसते । गणानां त्वेति त्रैष्टुमेन पूर्वेणाध्वना मनुनैकार्णेन गणाधिप-
मभ्यर्च्य गणेशत्वं प्राप्नोति । अथ गायत्री सावित्री सरस्वत्यजपा मातृका
प्रोक्ता तया सर्वमिदं व्याप्तम् । ऐं वागीश्वर विद्महे कीं कामेश्वरि धीमहि ।
सौस्तन्नः शक्तिः प्रचोदयादिति । गायत्री प्रातः सावित्री मध्यन्दिने सरस्वती
सायमिति निरन्तरमजपा । हंस इत्येव मातृका । पञ्चाशद्वर्णविग्रहेणाकार -
दिक्षकारान्तेन व्याप्तानि भुवनानि शास्त्राणि छन्दसीत्येवं भगवती सर्वं
व्यामोतीत्येव तस्यै वै नमो नम इति । तान्भगवानत्रवी देतैर्मन्त्रैर्नित्यं देवीं
यः स्तौति स सर्वं पश्यति । सोऽमृतत्वं च गच्छति । य एवं वेदेत्युपनिषत् ॥
इति त्रिपुरातापिन्युपनिषत्सु चतुर्थोपनिषत् ॥ ४ ॥
1
देवा ह वै भगवन्तमनुवस्वामिन्नः कथितं स्फुटं क्रियाकाण्डं सविषय
पुरमिति । अथ परमनिर्विशेषं कथयस्वेति । तान् होवाच भगवांस्तुरीयया
माययाऽन्त्यया निर्दिष्टं परमं ब्रह्मेति । परमपुरुषं चिद्रूपं परमात्मेति । श्रोता
मन्ता द्रष्टाssदेष्टा स्प्रष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां पुरुषाणामन्तः पुरुषः स
आत्मा स विज्ञेय इति । न तत्र लोका अलोका न तत्र देवा भदेवाः पश-
वोऽपशवस्तापसो न तापसः पौल्कसो न पौल्कसो विप्रा न विप्राः । स इत्ये-
कमेव परं ब्रह्म विभ्राजते निर्वाणम् । न तत्र देवा ऋषयः पितर ईशते प्रति-
क्रुद्धः सर्वविद्येति । तत्रैते श्लोका भवन्ति - अतो निर्विषयं नित्यं मनः कार्य
मुमुक्षुणा । यतो निर्विषयो नाम मनसो मुक्तिरिष्यते ॥ १ ॥ मनो हि
द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्धं कामविवर्जि-
तम् ॥ २ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धनं विषयासक्तं
मुक्त्यै निर्विषयं मनः ॥ ३ ॥ निरस्तविषयासङ्गं - संनिरुध्य मनो हृदि ।
यदा यात्यमनीभावस्तदा तत्परमं पदम् ॥ ४ ॥ तावदेव निरोद्धव्यं यावद्धृ-
द्रष्टा प्रष्टा.</p>
<pb n="556" />
<p>उप० ५
t
त्रिपुरातापिन्युपनिषत् ॥ ८३ ॥
दिगतं क्षयम् । एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥ ५ ॥ नैव
चिन्त्यं न चाचिन्त्यं नाचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते
ध्रुवम् ॥ ६ ॥ स्वरेण संहयेद्योगी स्वरं संभावयेत्परम् । अस्वरेण तु
भावेन न भावो भाव इष्यते ॥ ७ ॥ तदेव निष्कलं ब्रह्म निर्विकल्पं निरक्ष-
नम् । तद्ब्रह्माहमिति ज्ञाखा ब्रह्म संपद्यते क्रमात् ॥ ८ ॥ निर्विकल्पमनन्तं
च हेतुदृष्टान्तवर्जितम् । अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः ॥ ९ ॥ न
निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा पर-
मार्थता ॥ १० ॥ एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । स्थानत्रयव्यती-
तस्य पुनर्जन्म न विद्यते ॥ ११ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२ ॥ घटसंवृतमाकाशं नीयमाने
घटे यथा । घटो नीयेत नाकाशं तथा जीवो नभोपमः ॥ १३ ॥ घटवद्विवि-
धाकारं भिद्यमानं पुनः पुनः । तद्भेदे च न जानाति स जानाति च नित्यशः
॥ १४ ॥ शब्दमायावृतो यावत्तावत्तिष्ठति पुष्कले । भिन्ने तमसि चैकत्वमेक
एवानुपश्यति ॥ १५ ॥ शब्दार्णमपरं ब्रह्म तस्मिन्क्षीणे यदक्षरम् । तद्विद्वा-
नक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६ ॥ द्वे ब्रह्मणी हि मन्तव्ये शब्द -
ब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥ ग्रन्थ-
मभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्रन्थम-
शेषतः ॥ १८ ॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यति ज्ञानी
लिङ्गिनस्तु गवां यथा ॥ १९ ॥ ज्ञाननेत्रं समाधाय स महत्परमं पदम् ।
निष्कलं निश्चलं शान्तं ब्रह्माहमिति संस्मरेत् ॥ २० ॥ इत्येकं परब्रह्मरूपं
सर्वभूताधिवासं तुरीयं जानीते सोऽक्षरे परमे व्योमन्यधिवसति । य एताँ
विद्यां तुरीयां ब्रह्मयोनिस्वरूपां तामिहायुषे शरणमहं प्रपद्ये । आकाशाद्यनु-
क्रमेण सर्वेषां वा एतद्भूतानामाकाशः परायणम् । सर्वाणि ह वा इमानि
भूतान्याकाशादेव जायन्ते । आकाश एव लीयन्ते । तस्मादेव जातानि
जीवन्ति । तस्मादाकाशजं बीजं विन्द्यात् । तदेकाकाशपीठं स्पार्शनं पीठ
तेजः पीठममृतपीठं रत्नपीठं जानीयात् । यो जानीते सोऽमृतत्वं च गच्छति ।
तस्मादेतां तुरीयां श्रीकामराजीयामेकादशधा भिन्नामेकाक्षरं ब्रह्मेति यो
जानीते स तुरीयं पदं प्राप्नोति । य एवं वेदेति महोपनिषत् ॥ हरिः ॐ तत्सत् ॥
इति त्रिपुरातापिन्युपनिषत्सु पञ्चमोपनिषत् ॥ ५॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति श्रीत्रिपुरातापिन्युपनिषत्समाप्ता ॥ ८३ ॥</p>
<pb n="557" />
<p>देव्युपनिषत् ॥ ८४ ॥</p>
<p>श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।
त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥ १ ॥</p>
<p>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</p>
<p>हरिः ॐ ॥ सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि । साब्रवीदहं
ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च अहमानन्दा-
नानन्दाः विज्ञानाविज्ञाने अहम् । ब्रह्मा ब्रह्मणी वेदितव्ये । इत्याहाथर्वणी
श्रुतिः। अहं पञ्च भूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् ।
विद्याहमविद्याहम् । अजाहमनजाहम्। अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभि-
र्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी
अहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ॥ १ ॥ विष्णुमुरुक्रमं
ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमा-
नाय सुन्वते ॥ २ ॥ अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन्मम
योनिरप्स्वन्तः समुद्रे । एवं वेद स देवीपदमाप्नोति । ते देवा अब्रुवन् ।
नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः
प्रणताः स्म ताम् ॥ ३ ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु
जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥ ४ ॥ देवीं
वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं
दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ ५ ॥ कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्द-
मातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ६ ॥ महा-
लक्ष्मीश्च विद्महे सर्वसिद्धिश्व धीमहि । तन्नो देवी प्रचोदयात् ॥ ७ ॥ अदि-
तिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः
॥ ८ ॥ कामो योनिः कामकला वज्रपाणिर्गुहा हसा । मातरिश्वाभ्रमिन्द्रः
पुनर्गुहा सकला मायया च पुनः कोशा विश्वमाता दिवि द्योम् ॥ ९ ॥ एषा-
ऽऽत्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।
य एवं वेद स शोकं तरति । नमस्ते अस्तु भ<ref>१</ref>गवति भवती मातरस्मान्पातु
सर्वतः । सैषाऽष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा
विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाच-
यक्षाः सिद्धाः। सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहा</p>
<note>१ भवति.</note>
<pb n="558" />
<p>नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । तापाप-
हारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां
शिवाम् ॥ १० ॥ वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं
देव्या बीजं सर्वार्थसाधकम् ॥ ११ ॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२ ॥ वाङ्मया ब्रह्मभूस्तस्मा-
त्षष्ठं वक्त्रसमन्वितम् । सूर्यो चा<ref>१</ref>मश्रोत्रबिन्दुः संयुताष्टतृतीयकः ॥ १३ ॥
नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदान-
न्ददायकः ॥ १४ ॥ हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुश-
धरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे
॥ १५ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं
महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मा-
दुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं
नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा ।
एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते
नैका । अत एवोच्यतेऽज्ञेयाऽनन्ताऽलक्ष्याऽजैका नैकेति । मन्त्राणां मातृका देवी
शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी
॥ १७ ॥ यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता <add>[ दुर्गात्संत्रायते
यस्माद्देवी दुर्गेति कथ्यते ॥ १८ ॥ प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥ ]</add>
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारा-
र्णवतारिणीम् ॥ १९ ॥ इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलम-
वाप्नोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति । शतलक्षं प्रजप्त्वापि
सोऽर्चासिद्धिं च विन्दति । शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥२०॥
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसा-
दतः ॥ २१ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो
दिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुञ्जानः पापोऽपापो भवति ।
निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जप्त्वा
देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति । य एवं वेदेत्युप-
निषत् ॥ २२ ॥ हरिः ॐ तत्सत् ॥</p>
<p>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</p>
<p>इति देव्युपनिषत्समाप्ता ॥ ८४ ॥</p>
<note>१ श्रोत्रबिन्दुः संयत्य.</note>
<pb n="559" />
<lg>
  <l>त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।</l>
  <l>अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १ ॥</l>
</lg>
<p>ॐ वाङ्मे मनसीति शान्तिः ॥</p>
<p>ॐ तिस्रः पुरस्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः संनिविष्टाः । अधि-
ष्ठाना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १ ॥ नव<ref>१</ref>योनीर्नव-
चक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथा
स्योना नव भद्रा नव मुद्रा महीनाम् ॥ २ ॥ एका स आसीत्प्रथमा सा
नवासीदासोनविंशादासोनत्रिंशात् । चत्वारिंशादथ तिस्रः समिधा उशती-
रिव मातरो मा विशन्तु ॥ ३ ॥ ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिर-
श्चीनमजरं तद्रजोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला
मण्डयन्ति ॥ ४ ॥ यास्तिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्र-
काराः । एतत्त्रयं पूरकं पूरकाणां म<ref>२</ref>न्त्री प्रथते मदनो मदन्या ॥ ५ ॥ मद-
न्तिका मानिनी मङ्गला च सुभागा च सा सुन्दरी सिद्धिमत्ता । लज्जा
मतिस्तुष्टिरष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६ ॥ इमां विज्ञाय
सु<ref>३</ref>धिया मदन्ती परिस्रुता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे महतो वसन्ति
परं धाम त्रैपुरं चाविशन्ति ॥ ७ ॥ कामो योनिः कामकला वज्रपाणिर्गुहा-
हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमा-
तादिविद्या ॥ ८ ॥ षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिकमादेशयन्तः ।
कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९ ॥ पुरं हन्त्री -
मुखं विश्वमातू रवे रे<error>१</error>खा स्वरमध्यं तदेषा । बृहत्तिथिर्दश पञ्च च नित्या
सषोडशीकं पुरमध्यं बिभर्ति ॥ १० ॥ यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं
चाधस्त्रीणि गुहासदनानि । कामी कलां कामरूपां चिकित्वा नरो जायते
कामरूपश्च कामः ॥ ११ ॥ परिस्रुतं झषमाजं फलं च भक्तानि योनीः सुप-
रिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२ ॥
सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभि-
र्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३ ॥ भगः शक्तिर्भगवा-
काम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्त्वौ समोजौ</p>
<note>१ योनि नव.</note>
<note>२ मन्त्रः प्रथते</note>
<note>३ सुधया.</note>
<pb n="560" />
<p>तयोः शक्तिरजरा विश्वयोनिः ॥ १४ ॥ परिस्रुता हविषा भावितेन प्रसंकोचे
गलिते वैमनस्कः । शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति
॥ १५ ॥ इयं महोपनिषत्त्रैपुर्या यामक्षयं परमो गीर्भिरीट्टे । एषर्ग्यजुः पर-
मेतच्च सामायमथर्वेयमन्या च विद्या ॥ १६ ॥ ॐ ह्रीमों हीमित्युपनिषत् ॥
हरिः ॐ तत्सत् ॥</p>
<p>ॐ वाङ्मे मनसीति शान्तिः ॥</p>
<p>इति श्रीत्रिपुरोपनिषत्समाप्ता ॥ ८५ ॥</p>
<p>कठरुद्रोपनिषत् ॥ ८६ ॥</p>
<lg>
  <l>परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।</l>
  <l>तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ १ ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>हरिः ॐ ॥ देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् । स प्रजा-
पतिरब्रवीत्सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं निष्कृष्य पुत्रं दृष्ट्वा त्वं
ब्रह्मा त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं
विधाता त्वं प्रतिष्ठाऽसीति वदेत् । अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वष-
ट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति ।
तान्येतान्यनुव्रजन्नाश्रुमापातयेत् । यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् । प्रद-
क्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति । स स्वर्ग्यो भवति ब्रह्मचारी
वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य तान<ref>२</ref>नुपाधिभिर्वि-
तत्येष्ट्वा च शक्तितो यज्ञैः । तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च ॥
सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । द्वादशरात्रं पयोभक्षा
स्यात् । द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं
वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्यग्नौ जुहुयात् । मृण्म-
यान्यप्सु जुहुयात् । तैजसानि गुरवे दद्यात् । मा त्वं मामपहाय परागाः ।
नाहं त्वामपहाय परागामिति । गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्म-
मुष्टिं पित्रेदित्येके । सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूःस्वाहेत्यप्सु
जुहुयात् । अत ऊर्ध्वमनशनमपां प्रवेशमग्निप्रवेशं वीराध्वानं महाप्रस्थानं</p>
<note>१ रेका स्वर</note>
<note>२ नरूपादिभि.</note>
<pb n="561" />
<p>1
ईशाद्युपनिषत्सु -
वृद्धाश्रमं वा गच्छेत् । पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः । यत्प्रातः सोऽयं
प्रातः । यद्दर्शे तद्दर्शनम् । यत्पौर्णमास्ये तत्पौर्णमास्यम् । यद्वसन्ते केशश्मश्रु-
- लोमनखानि वापयेत्सोऽस्याग्निष्टोमः । संन्यस्यानिं न पुनरावर्तयेन्मृत्यु-
जयमावहमित्यध्यात्ममन्त्रान्पठेत् । स्वस्ति सर्वजीवेभ्य इत्युक्त्वाऽऽत्मानमनन्यं
ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् । अनिकेतश्चरेत् । भिक्षाशी यत्किं -
चिन्नाद्यात् । लवैकं न धावयेज्जन्तु संरक्षणार्थं वर्षवर्जमिति । तदपि श्लोका
भवन्ति - कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहौ । शीतोपघातिनीं कन्यां
कौपीनाच्छादनं तथा ॥ १ ॥ पवित्र स्नानशाटीं च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्व तदुर्जयेद्यतिः ॥ २ ॥ स्नानं पानं तथा शौचमद्भिः
पूताभिराचरेत् । नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ ३ ॥ नात्यर्थं
सुखदुःखाभ्यां शरीरमुपतापयेत् । स्तूयमानो न तुष्येत निन्दितो न
शपेत्परान् ॥ ४ ॥ ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी । दर्शनं स्पर्शनं
केलिः कीर्तनं गुह्यभाषणम् ॥ ५ ॥ संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव
च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ ६ ॥ विपरीतं ब्रह्मचर्यमनुष्ठेयं
मुमुक्षुभिः । यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥ ७ ॥ स एव
जगतः साक्षी सर्वात्मा विमलाकृतिः । प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः
॥ ८ ॥ न कर्मणा न प्रजया न चान्येनापि केनचित् । ब्रह्मवेदनमात्रेण
ब्रह्माप्नोत्येव मानवः ॥ ९ ॥ तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् । संसारे
च गुहावाच्ये मायाज्ञानादिसंज्ञके ॥ १० ॥ निहितं ब्रह्म यो वेद परमे
व्योम्न्नि संज्ञिते । सोऽनुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥ ११ ॥
प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् । ऐकं ब्रह्माहमस्मीति ब्रह्मैव
भवति स्वयम् ॥ १२ ॥ ब्रह्मभूतात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् ।
अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥ १३ ॥ आकाशाद्वायुसंज्ञस्तु
स्पर्शोsपञ्चीकृतः पुनः । वायोरग्निस्तथा चाग्नेराप अच्यो वसुन्धरा
॥ १४ ॥ तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा । तेभ्य एव
विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥ १५ ॥ ब्रह्माण्डस्योदरे देवा दानवा
यक्षकिन्नराः । मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥ १६ ॥ अस्थि-
स्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् । योऽयमन्नमयो ह्यात्मा भाति सर्व-
१ कामान्स क्रमेण. २ शात्वा ब्रह्मा.</p>
<pb n="562" />
<p>कठरुद्वोपनिषत् ॥ ८६ ॥</p>
<p>शरीरिणः ॥ १७ ॥ ततः प्राणमयो झात्मा विभिन्नश्चान्तरस्थितः । ततो
विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥ १८ ॥ आनन्दमय आत्मा तु
ततोऽन्यश्चान्तरस्थितः । योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥ १९ ॥
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः । तथा मनोमयो ह्यात्मा पूर्णो
ज्ञानमयेन तु ॥ २० ॥ आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् । तथा-
नन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥ २१ ॥ सर्वान्तरेण पूर्णश्च ब्रह्म
नान्येन केनचित् । यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानाद्वयात्मकम् ॥ २२ ॥
सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् । सुखी भवति सर्वत्र अन्यथा
सुखता कुतः ॥ २३ ॥ असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । को
जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥ २४ ॥ तस्मात्सर्वात्मना चित्ते
भासमानो ह्यसौ नरः । आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥ २५ ॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे । निर्भेदं परमाद्वैतं विन्दते च महा-
यतिः ॥ २६ ॥ तदेवाभयमत्यन्तकल्याणं परमामृतम् । सद्रूपं परमं ब्रह्म
त्रिपरिच्छेदवर्जितम् ॥ २७ ॥ यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । विजा-
नाति तदा तस्य भयं स्यान्नात्र संशयः ॥ २८ ॥ अस्यैवानन्दकोशेन स्तम्बान्ता
विष्णुपूर्वकाः । भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥ २९ ॥ तत्तत्पद-
विरक्तस्य श्रोत्रियस्य प्रसादिनः । स्वरूपभूत आनन्दः स्वयं भाति परे यथा
॥ ३० ॥ निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते । यतो वाचो निवर्तन्ते
निमित्तानामभावतः ॥ ३१ ॥ निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ।
तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥ ३२ ॥ यस्माच्छ्रोत्रत्वगक्ष्यादि-
खादिकर्मेन्द्रियाणि च । व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥ ३३ ॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्वनम् । विदित्वा स्वात्मरूपेण न बिभेति
कुतश्चन ॥ ३४ ॥ एवं यस्तु विजानाति स्वगुरोरुपदेशतः । स साध्वसाधु-
कर्मभ्यां सदा न तपति प्रभुः ॥ ३५ ॥ ताप्यतापकरूपेण विभातमखिलं जगत् ।
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ३६ ॥ शुद्धमीश्वरचैतन्यं जीव-
चैतन्यमेव च । प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ ३७ ॥ इति
सप्तविधं प्रोक्तं भिद्यते व्यवहारतः । मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते
॥३८॥ मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा । अन्तःकरणसंबन्धात्प्रमाते-
१ पतति .</p>
<pb n="563" />
<p>ઢ
ईशाद्युपनिषत्सु -
त्यभिधीयते ॥ ३९ ॥ तथातद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते । अज्ञातमपि
चैतन्यं प्रमेयमिति कथ्यते ॥ ४० ॥ तथा ज्ञातं च चैतन्यं फलमित्यभि-
श्रीयते । सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ॥ ४१ ॥ एवं यो वेद
तत्त्वेन ब्रह्मभूयाय कल्पते । सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥ ४२ ॥ *
स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इति रुद्रोपनिषत्समाप्ता ॥ ८६ ॥</p>
<lg>
  <l>भावनोपनिषत् ॥ ८७ ॥</l>
  <l>स्वाविद्या पतत्कार्यं श्रीचक्रोपरि भासुरम् ।</l>
  <l>बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ आत्मानमखण्डमण्डलाकारमावृत्य सकलब्रह्माण्डमण्डलं स्वप्र-
काशं ध्यायेत् । ॐ श्रीगुरुः सर्वकारणभूता शक्तिः । तेन नवरन्ध्ररूपो देहः ।
नवक्तिरूपं श्रीचक्रम् । वाराही पितृरूपा । कुरुकुल्ला बैलिदेवता माता ।
पुरुषार्थाः सागराः । देहो नवरत्तद्वीपः । आधारनवकमुद्राः शक्तयः । त्वगा-
दिससैंधातुभिरनेकैः संयुक्ताः संकल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ।
रसनया भाग्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्रसाः षडृतवः
क्रियाशक्तिः पीठम् । कुण्डलिनी ज्ञानशक्तिर्गृहम् । इच्छाशक्तिर्महात्रिपुर-
सुन्दरी । ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः । ज्ञातृज्ञानज्ञेयानामभेदभावनं
श्रीचक्रपूजनम् । नियतिसहिताः शृङ्गारादयो नव रसा अणिमादयः ।
कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राहृयाद्यष्ट शक्तयः । पृथिव्य -
सेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थमनोविकाराः
षोडश शक्तयः । वचनादानगमनविसर्गानन्दहानोपेक्षा बुद्धयोऽनङ्गकुसुमादिश-
hisष्टौ । अलम्बुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी
गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः ।
सर्वसंक्षौभिण्यादिचतुर्दशारगा देवताः । प्राणापानव्यानोदानसमाननागकूर्म-
कृकरदेवदत्तधनंजया इति दश वायवः । सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा
१ परमकारण, २ शक्तिमयं ३ मेरुदण्डा. ४ धातुरोमसंयुक्ताः ५ पयस्विनी.</p>
<pb n="564" />
<p>भावनोपनिषत् ॥ ८७ ॥
.५४९
देवताः । एतद्वायुदशकसंसर्गोपाधिभेदेन एकदाहप्लावका अमृत-
मिति प्राणमुख्यत्वेन पेञ्चविधोऽस्ति । क्षारको दारकः क्षोभको मोहको
जृम्भक इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति । तेन मनुष्याणां मोहको दाहको
भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं चतुर्विधमन्नं पाचयति । एता दश वह्निकलाः
सर्वज्ञत्वाद्यन्तर्दशारगा देवताः । शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा
चशिन्यादिशक्तयोऽष्टौ । शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्च पुष्पबाणा
मन इक्षुधनुः । वश्यो बाणो रागः पाशः । द्वेषोऽङ्कुशः । अव्यक्तमहत्तत्त्व-
महदहंकार इति कामेश्वरी-वज्रेश्वरी- भगमालिन्योऽन्तस्त्रिकोणाप्रगा देवताः ।
पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदश नित्याः । श्रद्धा-
नुरूपा धीर्देवता । तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा
देवता । सलिलमिति लौहित्यकारणं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावना-
युक्त उपचारः । अस्तिनास्तीति कर्तव्यतानूपचारः । बाह्याभ्यन्तःकरणानां
रूपग्रहणयोग्यतास्त्वित्यावाहनम् । तस्य बाह्याभ्यन्तःकरणानामेकरूप विषय-
ग्रहणमासनम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्वलदामोदानन्दासनदान-
मर्घ्यम् । स्वच्छं स्वतः सिद्धमित्याचमनीयम् । चिच्चन्द्रमयीति सर्वाङ्गस्रवणं
स्नानम् । चिर्दैग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् । प्रत्येकं सप्तविंशतिधर
भिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम् । स्वव्य-
तिरिक्त्त्वस्तु सङ्गरहितस्मरणं विभूषणम् । सच्चित्सुखपरिपूर्णतास्मरणं गन्धः ।
समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् । तेषामेव सर्वदा स्वीक-
रणं धूपः । पवनावच्छिन्नोर्ध्वज्वलनसच्चिदुल्काकाशदेहो दीपः । संमस्तया-
तयातव नैवेद्यम् । अवस्थात्रयाणामेकीकरणं ताम्बूलम् । मूलाधारादर
ब्रह्मरन्ध्रपर्यन्तं ब्रह्मरंध्रादा मूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् -
तुर्यावस्था नमस्कारः । देहशून्यप्रमातृतानिमज्जनं बलिहरणम् । संत्यमस्ति
कर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः । स्वयं तत्पादुकानिमज्जनं
परिपूर्णध्यानम् । एवं मुहूर्तत्रयं भावनेोपरो जीवन्मुक्तो भवति । तस्य
१ पाचक शोषक. २ यो जाठरोऽग्निर्भवति. ३ मुख्यवर्णाः. ४ सौहित्यकरणं.
५ ग्रहणं स्थिरासनं. ६ सदानन्द. ७ स्मरणम्. ८ स्वच्छं स्वपरिपूतता (रणा )-
नुस्मरणं, सत्सङ्गपरिपूतता.
९ द्वैतविसर्जनं. १० सत्त्वमस्ति ११ मुहूर्तद्वयं
घटिकामात्रं १२ नया युक्तो.</p>
<pb n="565" />
<p>ईशाद्युपनिषत्सु -
दे॒वतात्मैक्यसिद्धिः । चिन्तितकर्याण्ययलेन सिद्ध्यन्ति । स एव शिवयोगी
कैथ्यते । कादिहादिमतोक्तेन भावना प्रतिपादिता । जीवन्मुक्तो भवति ।
य एवं वेद । इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इत्याथर्वणीया भावनोपनिषत्संपूर्णा ॥ ८७ ॥</p>
<lg>
  <l>रुद्रहृदयोपनिषत् ॥ ८८ ॥</l>
  <l>यद्ब्रह्म रुद्रहृदय महाविद्याप्रकाशितम् ।</l>
  <l>तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥ १ ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् । तारसारं महावार्क्स
पञ्चब्रह्माग्निहोत्रकम् ॥ १ ॥ प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह ।
को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥ २ ॥ कस्य शुश्रूषणान्नित्यं प्रीता
देवा भवन्ति मे । तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥ ३ ॥ सर्व-
देवात्मको रुद्रः सर्वे देवाः शिवात्मकाः । रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा
त्रयोsन्नयः ॥ ४ ॥ वामपार्श्व उमा देवी विष्णुः सोमोऽपि ते त्रयः । या उमा
सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥ ५ ॥ ये नमस्यन्ति गोविन्दं ते
नमस्यन्ति शंकरम् । येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥ ६ ॥
ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् । ये रुद्रं नाभिजानन्ति ते न
जानन्ति केशवम् ॥ ७ ॥ रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः । यो रुद्रः स
स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥ ८ ॥ ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्मकं
जगत् । पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥ ९ ॥ उमारुद्वात्मिकाः
सर्वाः प्रजाः स्थावरजङ्गमाः । व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥ १० ॥
उमाशंकरयोगो यः स योगो विष्णुरुच्यते । यस्तु तस्मै नमस्कारं कुर्याद्भक्ति-
समन्वितः ॥ ११ ॥ आत्मानं परमात्मानमन्तरात्मानमेव च । ज्ञात्वा
त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥ १२ ॥ अन्तरात्मा भवेद्ब्रह्मा परमात्मा
महेश्वरः । सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥ १३ ॥ अस्य त्रैलोक्य-
वृक्षस्य भूमौ विटपशाखिनः । अनं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः
१- क्यं च सिध्यति २ णि नैजेन ३ निगद्यते. ४ वेदेषु-</p>
<pb n="566" />
<p>रुद्रहृदयोपनिषत् ॥ ८८ ॥</p>
<p>॥ १४ ॥ कार्य विष्णुः क्रिया ब्रह्मा ं कारणं तु महेश्वरः । प्रयोजनार्थ
रुद्रेण मूर्तिरेका त्रिधा कृता ॥ १५ ॥ धर्मो रुद्रो जगद्विष्णुः सर्व-
ज्ञानं पितामहः । श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥ १६ ॥
कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते । रुद्रो नर उमा नारी तस्मै तस्यै
नमो नमः ॥ १७ ॥ रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः । रुद्रो
विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥ १८ ॥ रुद्रः सूर्य उमा छाया
तस्मै तस्यै नमो नमः । रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥ १९ ॥
eat दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः । रुद्रो यज्ञ उमा वेदिस्तस्मै
तस्यै नमो नमः ॥ २० ॥ रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः ।
रुद्रो वेद उमा शास्त्रं तस्मै तस्यै नमो नमः ॥ २१ ॥ रुद्रो वृक्ष उमा वल्ली
तस्मै तस्यै नमो नमः । रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥ २२ ॥
रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः । रुद्रो लिङ्गमुमा पीठं तस्मै
तस्यै नमो नमः ॥ २३ ॥ सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् । एभि-
मंन्त्रपदैरेव नमस्यामीशपार्वतीम् ॥ २४ ॥ यत्र यत्र भवेत्सार्धमिमं मन्त्रमु-
दीरयेत् । ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥ २५ ॥ सर्वाधिष्ठानम-
द्वन्द्वं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २६ ॥
तस्मिन्सुविदिते सर्व विज्ञातं स्यादिदं शुक । तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं
नहि क्वचित् ॥ २७ ॥ हे विद्ये वेदितव्ये हि परा चैवापरा च ते । तत्रापरा
तु विद्यैषा ऋग्वेदो यजुरेव च ॥ २८ ॥ सामवेदस्तथाऽथर्ववेदः शिक्षा मुनी-
श्वर । कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥ २९ ॥ ज्योतिषं च यथा
नात्मविषया अपि बुद्धयः । अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥ ३० ॥
यत्तदद्देश्यमग्राह्यमगोत्रं रूपवर्जितम् । अचक्षुः श्रोत्रमत्यर्थं तदपाणिपदं तथा
॥ ३१ ॥ नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् । तद्भूतयोनिं पश्यन्ति
धीरा आत्मानमात्मनि ॥ ३२ ॥ यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः ।
तस्मादत्रान्नरूपेण जायते जगदावलिः ॥ ३३ ॥ सत्यवद्भाति तत्सर्वं रज्जुसर्प-
वदास्थितम् । तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥ ३४ ॥ ज्ञानेनैव हि
संसारविनाशो नैव कर्मणा । श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥ ३५॥
१ त्रिधा स्थिता.</p>
<pb n="567" />
<p>ईशायुपनिषत्सु --
.
गुरुस्तस्मै परां विद्यां दद्याद्रह्मात्मबोधिनीम् । गुहायां निहितं साक्षादक्षरं
वेद चेन्नरः ॥ ३६ ॥ छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनः । तदे-
तदमृतं सत्यं तद्बोद्धव्यं मुमुक्षुभिः ॥ ३७ ॥ धनुस्तारं शरो ह्यात्मा ब्रह्म
तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३८ ॥ लक्ष्यं सर्व-
तं चैव शरः सर्वगतो मुखः । वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः
॥ ३९ ॥ न तन्नं चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकला देवताश्च ।
स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥ ४० ॥ द्वौ
सुपणौं शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्गे कर्मणो
न महेश्वरः ॥ ४१ ॥ केवलं साक्षिरूपेण विना भोगं महेश्वरः । प्रकाशते
स्वयं भेदः कल्पितो मायया तयोः ॥ ४२ ॥ घटाकाशमठाकाशौ यथाकाश-
प्रभेदतः । कल्पितो परमौ जीवशिवरूपेण कल्पितौ ॥ ४३ ॥ तत्त्वतश्च शिवः
साक्षाञ्चिज्जीवश्च स्वतः सदा । चिच्चिदाकारतो भिन्ना न भिन्ना चित्वहानित:
॥ ४४ ॥ चिश्चिन्न चिदाकौराद्भिद्यते जडरूपतः । भिद्यते चेज्जडो भेदश्चि-
देका सर्वदा खलु ॥ ४५ ॥ तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः । चिदे-
कत्वपरिज्ञाने न शोचति न मुह्यति ॥ ४६ ॥ अद्वैतं परमानन्दं शिवं याति
तु केवलम् ॥ ४७ ॥ अधिष्ठानं समस्तस्य जगतः सत्यचिद्वनम् । अहम-
स्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ४८ ॥ स्वशरीरे स्वयंज्योतिः स्वरूपं
सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥ ४९ ॥ एवं
रूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरू-
पिणः ॥ ५० ॥ आकाशमेकं संपूर्ण कुत्रचिन्नैव गच्छति । तद्वत्स्वात्मपरिज्ञानी
कुत्रचिन्नैव गच्छति ॥ ५१ ॥ स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः ।
ब्रह्मैव भवति स्वस्थः सच्चिदानन्दमातृकः ॥ ५२ ॥ इत्युपनिषत् ॥ हरिः ॐ
तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इति रुद्रहृदयोपनिषत्समाप्ता ॥ ८८ ॥
१ चितश्चेन्न २ कारा भिद्यते.</p>
<pb n="568" />
<p>अध्या० १]
योगकुण्डल्युपनिषत् ॥ ८९ ॥
योगकुण्डल्युपनिषत् ॥ ८९ ॥</p>
<lg>
  <l>योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् ।</l>
  <l>निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥ १॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥ .</p>
<p>हरिः ॐ ॥ हेतुद्वयं हि चित्तस्य वासना च समीरणः । तयोर्विनष्ट एक-
स्मिंस्तद्वावपि विनश्यतः ॥ १ ॥ तयोरादौ समीरस्य जयं कुर्यान्नरः सदा ।
मिताहारश्वासनं च शक्तिचालस्तृतीयकः ॥ २ ॥ एतेषां लक्षणं वक्ष्ये शृणु
गौतम सादरम् । सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ॥ ३ ॥ भुज्यते शिव-
संप्रीत्यै मिताहारः स उच्यते । आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा
॥ ४ ॥ ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा । पद्मासनं भवेदेतत्सर्वपाप-
प्रणाशनम् ॥ ५ ॥ वामाङ्खिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् । समग्रीवशिरः-
कायो वज्रासनमितीरितम् ॥ ६ ॥ कुण्डल्येव भवेच्छक्तिस्तां तु संचालयेहुधः ।
स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते ॥ ७ ॥ तत्साधने द्वयं मुख्यं सरस्व-
त्यास्तु चालनम् । प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् ॥ ८ ॥ तयो-
रादौ सरस्वत्याश्चानं कथयामि ते । अरुन्धत्येव कथिता पुराविद्भिः सर-
स्वती ॥
९ ॥ यस्याः संचालनेनैव स्वयं चलति कुण्डली । इडायां
वहति प्राणे बद्ध्वा पद्मासनं दृढम् ॥ १० ॥ द्वादशाङ्गुलदैर्घ्यं च
अम्बरं चतुरङ्गुलम् । विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः
॥ ११ ॥ अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्दृढम् । स्वशक्त्या चाल-
येद्वामे दक्षिणेन पुनः पुनः ॥ १२ ॥ मुहूर्तद्वयपर्यन्तं निर्भयाच्चालये-
त्सुधीः । ऊर्ध्वमाकर्षयेत्किंचित्सुषुम्नां कुण्डलीगताम् ॥ १३ ॥ तेन कुण्डलिनी
तस्याः सुषुम्नाया मुखं व्रजेत् । जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति
स्वतः ॥ १४ ॥ तुन्दे तु ताणं कुर्याच्च कण्ठसंकोचनेव कृते । सरस्वत्यां चाल-
नेन वक्षसश्चोर्ध्वगो मरुत् ॥ १५ ॥ सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने ।
कण्ठसंकोचनं कृत्वा सवोर्ध्वगो मरुत् ॥ १६ ॥ तस्मात्संचालयेन्नित्यं
शब्दगर्भां सरस्वतीम् । यस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ १७ ॥ गुल्मं
जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः । सर्वे तु शक्तिचालेन रोगा नश्यन्ति
१ स्वत्याश्चालनेन वक्षः स्यादूर्ध्व . २ वक्षः स्यादू, ३ तस्याः.
४ सुखं.</p>
<pb n="569" />
<p>ईशाधुपनिषत्सु -
निश्चयम् ॥ १८ ॥ प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः । प्राणश्च देहगो
वायुरायामः कुम्भकः स्मृतः ॥ १९ ॥ स एव द्विविधः प्रोक्तः सहितः केवल-
स्तथा । यावत्केवल सिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ २० ॥ सूर्योजायी
शीतली च भस्त्री चैव चतुर्थिका । भेदैरेव समं कुम्भो यः स्यात्सहित-
कुम्भकः ॥ २१ ॥ पवित्रे निर्जने देशे शर्करादिविवर्जिते । धनुःप्रमाणपर्यन्ते
शीताग्निजलवर्जिते ॥ २२ ॥ पवित्रे नात्युच्च नीचे ह्यासने सुखदे सुखे ।
बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् ॥ २३ ॥ दक्षनाड्या समाकृष्य
बहिष्ठं पवनं शनैः । यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः ॥ २४ ॥ कपाल-
शोधने वापि रेचयेत्पवनं शनैः । चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च
॥ २५ ॥ पुनःपुनरिदं कार्यं सूर्यभेदमुदाहृतम् । मुखं संयम्य नाडिभ्या-
माकृष्य पवनं शनैः ॥ २६ ॥ यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ।
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ॥ २७ ॥ शीर्षोदितानलहरं गलश्लेष्म-
हरं परम् । सर्वरोगहरं पुण्यं देहानलविवर्धनम् ॥ २८ ॥ नाडीजलोदरं
धातुगतदोषविनाशनम् । गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् ॥ २९ ॥
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु । शनैस्तु प्राणरन्ध्राभ्यां रेचयेदनिलं
सुधीः ॥ ३० ॥ गुल्मलीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् । विषाणि
शीतैली नाम कुम्भकोऽयं निहन्ति च ॥ ३१ ॥ ततः पद्मासनं बद्धा सम-
ग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं प्राणेन रेचयेत् ॥ ३२ ॥ यथा
लगति कण्ठात्तु कपाले सस्वनं ततः । वेगेन पूरयेत् किंचिद्धृत्पद्मावधि मारु -
तम् ॥ ३३ ॥ पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकाराणां भस्त्रा
वेगेन चाल्यते ॥ ३४ ॥ तथैव स्वशरीरस्थं चालयेत्पवनं शनैः । यथा श्रमो
भवेद्देहे तथा सूर्येण पूरयेत् ॥ ३५ ॥ यथोदरं भवेत्पूर्णं पवनेन तथा लघु
धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् ॥ ३६ ॥ कुम्भकं पूर्ववत्कृत्वा
रेचयेदिडयानिलम् । कण्ठोत्थितानलहरं शरीराग्निविवर्धनम् ॥३७॥ कुण्डली •
बोधकं पुण्यं पापन्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाश-
नम् ॥ ३८ ॥ गुणत्रय समुद्भूतग्रन्थिन्त्रयविभेदकम् । विशेषेणैव कर्तव्यः
भस्नाख्यं कुम्भकं त्विदम् ॥ ३९ ॥ चतुर्णामपि भेदानां कुम्भके समुपस्थिते ।
arrarini कार्य योगिभिर्वीतकल्मषैः ॥ ४० ॥ प्रथमो मूलबन्धस्तु
१ शीतहृन्नाम, २ सुखं.</p>
<pb n="570" />
<p>योगकुण्डल्युपनिषत् ॥ ८९ ॥</p>
<p>द्वितीयोड्डीयाभिधः । जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते ॥ ४१ ॥
अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूल-
बन्धोऽयमुच्यते ॥ ४२ ॥ अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले ।
ततोऽनलशिखा दीर्घा वर्धते वायुनाहता ॥ ४३ ॥ ततो यातौ वह्नयमानौ
प्राणमुष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा ॥ ४४ ॥ तेन
कुण्डलिनी सुप्ता संतप्ता संप्रबुध्यते । दण्डाहतभुजङ्गीव निःश्वस्य ऋजुता
व्रजेत् ॥ ४५ ॥ बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः
कर्तव्यो योगिभिः सदा ॥ ४६ ॥ कुम्भकान्ते रेचकादौ कर्तव्यस्तुडियाणकः ।
बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ४७ ॥ तस्मादुड्डीयणाख्योऽयं
योगिभिः समुदाहृतः । सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् ॥ ४८ ॥
गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् । पश्चिमं ताणमुदरे धारयेद्धृदये गले
॥४९॥ शनैः शनैर्यदा प्राणस्तुन्दसन्धि निगच्छति । तुन्ददोषं विनिर्धूय कर्तव्यं
सततं शनैः ॥ ५० ॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कण्ठ
संकोचरूपोऽसौ वायुमार्गनिरोधकः ॥ ५१ ॥ अधस्तात्कुञ्चनेनाशु कण्ठसं-
कोचने कृते । मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः ॥ ५२ ॥
पूर्वोक्तन क्रमेणैव सम्यगासनमास्थितः । चालनं तु सरस्वत्याः कृत्वा
प्राणं निरोधयेत् ॥ ५३ ॥ प्रथमे दिवसे कार्य कुम्भकानां चतुष्टयम् ।
प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिस्तथा ॥ ५४ ॥ विशत्यलं तृतीयेऽह्नि
पञ्चवृया दिने दिने । कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः ॥ ५५ ॥
दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् । बहुसंक्रमणं नित्यं रोधान्मूत्र-
पुरीषयोः ॥ ५६ ॥ विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् । शीघ्रमुत्पद्यते
रोगः स्तम्भयेद्यदि संयमी ॥ ५७ ॥ योगाभ्यासेन मे रोग उत्पन्न इति
कथ्यते । ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नमुच्यते ॥ ५८ ॥ द्वितीयं संशयाख्यं
च तृतीयं च प्रमत्तता । आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् ॥ ५९ ॥
षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् । विषमं चाष्टमं चैव अनाख्यं
नवमं स्मृतम् ॥ ६० ॥ अलब्धियोगतत्त्वस्य दशमं प्रोच्यते बुधैः । इत्येत-
द्विघ्नदशकं विचारेण त्यजेद्बुधः ॥ ६१ ॥ प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्व-
स्थया धिया । सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति ॥ ६२ ॥ शुष्के
मले तु योगी च स्याद्गतिश्चलिता ततः । अधोगतिमपानं वै ऊर्ध्वगं कुरुतेः</p>
<pb n="571" />
<p>ईशाद्युपनिषत्सु -
चलात् ॥ ६३ ॥ आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते । अपानश्चोर्ध्वगो
भूत्वा वह्निना सह गच्छति ॥ ६४ ॥ प्राणस्थानं ततो वह्निः प्राणापानौ च
सत्वरम् । मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः ॥ ६५ ॥ तेना-
मिना च संतप्ता पवनेनैव चालिता । प्रसार्य स्वशेरीरं तु सुषुम्ना वदनान्तरे
॥ ६६ ॥ ब्रह्मग्रन्थि ततो भित्त्वा रजोगुणसमुद्भवम् । सुषुम्ना वदने शीघ्रं
विद्युलेखेव संस्फुरेत् ॥ ६७ ॥ विष्णुग्रन्थि प्रयात्युचैः सत्वरं हृदि संस्थिता ।
ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थि तदुद्भवम् ॥ ६८ ॥ भ्रुवोर्मध्यं तु संभिद्य
याति शीतांशुमण्डलम् । अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् ॥ ६९ ॥
तत्र शीतांशुसंजातं द्ववं शोषयति स्वयम् । चलिते प्राणवेगेन रक्तं पित्तं
रेवेर्महात् ॥ ७० ॥ यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्भवात्मकम् । तत्र सिक्तं
ग्रसत्युष्णं कथं शीतस्वभावकम् ॥ ७१ ॥ तथैव रभसा शुक्लं चन्द्ररूपं हि
तृप्यते । ऊर्ध्व प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् ॥ ७२ ॥ तस्यास्वादवशा-
चित्तं बहिष्ठं विषयेषु यत् । तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा
॥ ७३ ॥ प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली । क्रोडीकृत्य शिवं याति
कोडीकृत्य विलीयते ॥ ७४ ॥ इत्यधोर्ध्वरजः शुक्कं शिवे तदनु मारुतः
प्राणापानौ समौ याति सदा जातौ तथैव च ॥ ७५ ॥ भूतेऽल्पे चाप्यनल्पे
वा वाचके त्वतिवर्धते । धौवयत्यखिला वाता अग्निमूषाहिरण्यवत् ॥ ७६ ॥
आधिभौतिकदेहं तु आधिदैविकविग्रहे । देहोऽतिविमलं याति चातिवाहि-
कतामियात् ॥ ७७ ॥ जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् । तस्याति-
वाहिकं मुख्यं सर्वेषां तु मदात्मकम् ॥ ७८ ॥ जायाभवविनिर्मुक्तिः काल-
रूपस्य विभ्रमः । इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् ॥ ७९ ॥
मृषैवोदेति सकलं मृषैव प्रविलीयते । रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसो -
भ्रमतो यथा ॥ ८० ॥ पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि । स्वापाव्या-
कृतयोरैक्यं स्वप्रकाशचिदात्मनोः ॥ ८१ ॥ शक्तिः कुण्डलिनी नाम बिस-
तन्तुनिभा शुभा । मूलकन्द फणाग्रेण दृष्ट्वा कमलकन्दवत् ॥ ८२ ॥ मुखेन
पुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता । पद्मासनगतः स्वस्थो गुदमाकुच्य साधकः
॥ ८३ ॥ वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः । वाय्वाघातवशादभिः
स्वाधिष्ठानगतो ज्वलन् ॥ ८४ ॥ ज्वलनाघातपवनाघातैरुन्निद्वितोऽहिराद ।
२ रविग्रहात् ३ धारयत्य.: ४ जयाभाव.
3 शरीरस्य.</p>
<pb n="572" />
<p>अध्या० २]
योगकुण्डल्युपनिषत् ॥ ८९ ॥</p>
<p>ब्रह्मग्रन्थि ततो भित्त्वा विष्णुग्रन्थि भिनत्यतः ॥ ८५ ॥ रुद्रग्रन्थि च
भिचैव कमलानि भिनत्ति षट् । सहस्रकमले शक्तिः शिवेन सह मोदते'
॥ ८६ ॥ सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति ॥
इति योगकुण्डल्युपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् । यथा विज्ञानवानस्या
लोकेऽस्मिन्नजरोऽमरः ॥ १ ॥ मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने
बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् ॥ २ ॥ जरामृत्युगदघ्नो यः खेचरीं
वेत्ति भूतले । ग्रन्थतश्चार्यतश्चैव तदभ्यासप्रयोगतः ॥ ३ ॥ तं मुने सर्वभा-
वेन गुरुं मत्वा समाश्रयेत् । दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः
॥ ४ ॥ अभ्यासं मेलनं चैव युगपन्नैव सिध्यति । अभ्यासमात्र निरता न
विन्दन्ते ह मेलनम् ॥ ५ ॥ अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् ॥
मेलनं तत्तु जन्मानां शतान्तेऽपि न लभ्यते ॥ ६ ॥ अभ्यासं बहुजन्मान्ते,
कृत्वा तद्भावसाधितम् । मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् ॥ ७ ॥
यदा तु मेलनं योगी लभते गुरुवक्त्रतः । तदा तत्सिद्धिमाप्नोति यदुक्ता
शास्त्रततौ ॥ ८ ॥ ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा । तदा शिवत्वमा-
प्नोति निर्मुक्तः सर्वसंसृतेः ॥ ९ ॥ शास्त्रं विनापि संबोद्धुं गुरवोऽपि न.
शक्नुयुः । तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने ॥ १० ॥ यावन्न लभ्यते
शास्त्रं तावद्वां पर्यटेद्यतिः । यदा संलभ्यते शास्त्रं तदा सिद्धिः करें.
स्थिता ॥ ११ ॥ न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगन्नये । तस्मान्मेलनदा-
तारं शास्त्रदातारमच्युतम् ॥ १२ ॥ तदभ्यासप्रदातारं शिवं मत्वा समाश्र -
येत् । लब्ध्वा शास्त्रमिदं मह्यामन्येषां न प्रकाशयेत् ॥ १३ ॥ तस्मात्सर्वप्रय-
तेन गोपनीयं विजानता । यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः ॥ १४॥
तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् । तेनोक्तः सम्यगभ्यासं कुर्यादा-
दावतन्द्रितः ॥ १५ ॥ अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् । खेचर्यां
खेचरीं युञ्जन्खेचरीबीजपूरया ॥ १६ ॥ खेचराधिपतिर्भूत्वा खेचरेषु सदा
वसेत् । खेचरावसथं वह्निमम्बुमण्डलभूषितम् ॥ १७ ॥ आख्यातं खेचरीबीजं
तेन योगः प्रसिध्यति । सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् ॥ १८ ॥
तस्माद्ययंशकमाख्यातमक्षरं चन्द्ररूपकम् । तस्मादप्यष्टमं वर्ण विलोमेन परं
मुने ॥ १९ ॥ तथा तत्परमं विद्धिं तदादिरपि पञ्चमी । इन्दोश्च बहुभिन्ने च</p>
<pb n="573" />
<p>ईशाद्युपनिषत्सु -
कूटोऽयं परिकीर्तितः ॥ २० ॥ गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् । यत्तस्य
'देहजा माया निरुद्धकरणाश्रया ॥ २१ ॥ स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादश-
जप्यतः । य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः ॥ २२ ॥ तस्य श्रीखेचरी-
सिद्धिः स्वयमेव प्रवर्तते । नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः
॥ २३ ॥ वलीपलितनाशश्च भविष्यति न संशयः । एवं लब्ध्वा महाविद्या-
मभ्यासं कारयेत्ततः ॥ २४ ॥ अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे ।
यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् ॥ २५ ॥ ततः संमेलकादौ च
लब्ध्वा विद्यां सदा जपेत् । नान्यथा रहितो ब्रह्मन्न किंचित्सिद्धिभाग्भवेत्
॥ २६ ॥ यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् । ततस्तदोदितां सिद्धि-
माशु तां लभते मुनिः ॥ २७ ॥ तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् ।
स्वगुरुक्तप्रकारेण मलं सर्वं विशोधयेत् ॥ २८ ॥ खुहिपत्रनिभं शस्त्रं सुतीक्ष्णं
स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ २९ ॥ हित्वा
सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समु-
. च्छित् ॥ ३० ॥ एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् । षण्मासा-
सनामूलं सिराबद्धं प्रणश्यति ॥ ३१ ॥ अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्ट -
येत् । शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् ॥ ३२ ॥ पुनः षण्मासमात्रेण
नित्यं संघर्षणामुने । भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः ॥ ३३ ॥
अधश्च चुबुकं मूलं प्रयाति क्रमचारिता । पुनः संवत्सराणां तु तृतीयादेव
लीलया ॥ ३४ ॥ केशान्तमूर्ध्वं क्रमति तिर्यक्शाखावधिर्मुने । अधस्तात्कण्ठ-
कूपान्तं पुनर्वर्षत्रयेण तु ॥ ३५ ॥ ब्रह्मरन्धं समावृत्य तिष्ठेदेव न संशयः ।
तिर्यक् चूलितलं याति अधः कण्ठबिलावधि ॥ ३६ ॥ शनैः शनैर्मस्तकाच्च
महावज्रकर्पेटभित् । पूर्वं बीजयुता विद्या ह्याख्याता याऽतिदुर्लभा ॥ ३७ ॥
तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया । कुर्यादेवं करन्यासं सर्वसिच्या-
दिहेतवे ॥ ३८ ॥ शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि । युगपद्वर्तते यस्य
शरीरं विलयं व्रजेत् ॥ ३९ ॥ तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुङ्गव । यदा
च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् ॥ ४० ॥ तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यं
त्रिदशैरपि । अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् ॥ ४१ ॥ एवं वर्षत्रयं
कृत्वा ब्रह्मद्वारं प्रविश्यति । ब्रह्मद्वारे प्रविष्टे तु सम्यमथनमाचरेत् ॥ ४२ ॥
२ वर्षक्रमेण. ३ चूलीतरुं. ४ कवाटभित्.
१ विरुद्ध.</p>
<pb n="574" />
<p>अध्या० ३ ]
योगकुण्डल्युपनिषत् ॥ ८९ ॥</p>
<p>मनेन विना केचित्साधयन्ति विपश्चितः । खेचरीमन्त्रसिद्धस्य सिध्यते मथनं
विना ॥ ४३ ॥ जपं च मधनं चैव कृत्वा शीघ्रं फलं लभेत् । स्वर्णजां रौप्यजां
चापि लोहजां वा शलाकिकाम् ॥ ४४ ॥ नियोज्य नासिकारन्धं दुग्धसिकेन
तन्तुना । प्राणान्निरुध्य हृदये सुखमासनमात्मनः ॥ ४५ ॥ शनैः सुमथनं
कुर्यामध्ये न्यस्य चक्षुषी । षण्मासं मथनावस्था भावेनैव प्रजायते ॥ ४६ ॥
यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् । न सदा मथनं शस्तं मासे
मासे समाचरेत् ॥ ४७ ॥ सदा रसनया योगी मार्ग न परिक्रमेत् । एवं
द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा ॥ ४८ ॥ शरीरे सकलं विश्वं पश्यत्या-
माविभेदतः । ब्रह्माण्डोऽयं महामार्गे राजदन्तोर्ध्वकुण्डली ॥ ४९ ॥ इति ॥
इति योगकुण्डल्युपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
मेलनमनुः । ह्रीं भं सं पं फं सं क्षम् । पद्मज उवाच । अमावास्या च
प्रतिपत्पौर्णमासीच शंकर । अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः
॥ १ ॥ प्रतिपद्दिनतोऽकाले अमावास्या तथैव च । पौर्णमास्यां स्थिरीकुर्यात्स
च पन्था हि नान्यथा ॥ २ ॥ कामेन विषयाकाङ्क्षी विषयात्काममोहितः ।
द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ॥ ३ ॥ अपरं संत्यजेत्सर्वं यदीच्छेदा-
त्मनो हितम् । शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् ॥ ४ ॥ मनसा
मन आलोक्य तत्त्यजेत्परमं पदम् । मन एव हि बिन्दुश्च उत्पत्तिस्थिति-
कारणम् ॥ ५ ॥ मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् । न च बन्धन-
मध्यस्थं तद्वै कारणमानसम् ॥ ६ ॥ चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्ध-
नम् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् ॥ ७ ॥ स्थित्वाऽसौ
बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतमेव
श्च ॥ ८ ॥ षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् । मूलाधारं स्वाधि-
ठानं मणिपूरं तृतीयकम् ॥ ९ ॥ अनाहतं विशुद्धं च आज्ञाचक्रं च षष्टकम् ।
आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् ॥ १० ॥ मणिपूरं नाभिदेर्श
हृदयस्थमनाहतम् । विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् ॥ ११ ॥ षट्
चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलें । प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोज -
येत् ॥१२॥ एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् । वायुं बिन्दुं तथा चक्रं
'चित्तं चैव समभ्यसेत् ॥ १३ ॥ समाधिमेकेन समममृतं यान्ति योगिनः ।
१ करण.</p>
<pb n="575" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ३
यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ॥ १४ ॥ विना चाभ्यासयोगेन
ज्ञानदीपस्तथा न हि । घटमध्यगतो दीपो बा नैव प्रकाशते ॥ १५ ॥
भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते । स्वकार्य घटमित्युक्तं यथा दीपो
हि तत्पदम् ॥ १६ ॥ गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् । कर्णधार
गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च ॥ १७ ॥ अभ्यासवासनाशक्त्या तरन्ति
भवसागरम् । परायामङ्कुरीभूय पश्यन्त्यां द्विदलीकृता ॥ १८ ॥ मध्यमायाँ
मुकुलिता वैखर्या विकसीकृता । पूर्वं यथोदिता या वाग्विलोमेनास्तगा
भवेत् ॥ १९ ॥ तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः । सोऽहमस्मीति
निश्चित्य यः सदा वर्तते पुमान् ॥ २० ॥ शब्दैरुच्चावचैनींचैर्भाषितोऽपि न
लिप्यते । विश्वश्व तैजसश्चैव प्राज्ञश्चेति च ते त्रयः ॥ २१ ॥ विराड्डिहरण्य-
गर्भश्च ईश्वरश्चेति ते त्रयः । ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात्
॥ २२ ॥ स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । अण्डं ज्ञानाग्निना तप्तं
लीयते कारणैः सह ॥ २३ ॥ परमात्मनि लीनं तत्परं ब्रह्मैव जायते । ततः
स्तिमित गम्भीरं न तेजो न तमस्ततम् ॥ २४ ॥ अनाख्यमनभिव्यक्तं सत्किंचि-
दवशिष्यते । ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् ॥ २५ ॥ अङ्गुष्ठ-
मात्रमात्मानमधूमज्योतिरूपकम् । प्रकाशयन्तमन्तःस्थं ध्याये स्कूटस्थमव्ययम्
॥ २६ ॥ विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः । मायया मोहितः
पश्चाद्बहुजन्मान्तरे पुनः ॥ २७ ॥ सत्कर्मपरिपाका स्वविकारं चिकीर्षति ।
कोऽहं कथमयं दोषः संसाराख्य उपागतः ॥ २८ ॥ जाग्रत्स्वमे व्यवहरन्सु-
सौ व गतिर्मम । इति चिन्तापरो भूत्वा स्वभासा च विशेषतः ॥ २९ ॥
अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः । दग्धं भवत्येव तदा तूलपिण्ड -
मिवाग्निना ॥ ३० ॥ दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् । विततो
व्याप्य विज्ञानं दहत्येव क्षणेन तु ॥ ३१ ॥ मनोमयज्ञानमयान्सम्यग्दग्ध्वा
क्रमेण तु । घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ३२ ॥ ध्यायन्नास्ते मुनि-
वमासुतेरामृतेस्तु यः । जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ॥ ३३ ॥
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसारकृते । विशत्यदेशमुक्तत्वं पवनोऽस्प-
न्दतामिव ॥ ३४ ॥ अशब्दम स्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च
यत् । अनाद्यनन्तं महतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् ॥ ३५ ॥
हरिः ॐ तत्सत् ॥
इति योगकुण्डल्युपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥</p>
<lg>
  <l>ॐ सह नाववत्विति शान्तिः ।</l>
  <l>इति योगकुण्डल्युपनिषत्समाप्ता ॥ ८९ ॥</l>
</lg>
<p>.</p>
<pb n="576" />
<p>अध्या० १]
भस्मजाबालोपनिषत् ॥ ९० ॥</p>
<lg>
  <l>भस्मजाबालोपनिषत् ॥ ९० ॥</l>
  <l>यत्साम्यज्ञानकालानिस्वातिरिक्तास्तिताभ्रमम् ।</l>
  <l>करोति भस्म निःशेषं तद्ब्रह्मैवास्मि केवलम् ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ जाबालो भुंसुण्डः कैलासशिखरावास मोंकारस्वरूपिणं
महादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं
मृगहस्तं भस्मोद्धूलितविग्रहं तिर्यत्रिपुण्डरेखा विराजमान भालप्रदेशं सित-
संपूर्ण पञ्चविधपञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं शान्तं
निरञ्जनमनामयं हुम्फट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं हिरण्यबाहुं हि-
रण्यरूपं हिरण्यवर्ण हिरण्यनिधिमद्वैतं चतुर्थं ब्रह्मविष्णुरुद्वातीतमेकमाशास्त्रं
भगवन्तं शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गः
कृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य त्रिपुण्ड्रविधिं यस्मादन्या-
नपेक्षमेव मोक्षोपलब्धिः । किं भस्मनो द्रव्यम् । कानि स्थानानि । मनवोऽ-
यत्र के वा । कति वा तस्य धारणम् । के वात्राधिकारिणः । नियमस्तेषां
को वा । मामन्तेवासिनमनुशासयामोक्षमिति । अथ स होवाच भगवान्प-
रमेश्वरः परमकारुणिकः प्रमथान्सुरानपि सोऽन्वीक्ष्य पूतं प्रातरुदयाद्रोमयं
ब्रह्मपर्णे निधाय त्र्यम्बकमिति मन्त्रेण शोषयेत् । येन केनापि तेजसा तत्स्त्र -
गृह्येोकमार्गेण प्रतिष्ठाप्य वह्नि तत्र तद्गोमयद्रव्यं निधाय सोमाय स्वाहेति
मन्त्रेण ततस्तिलव्रीहिभिः साज्यैर्जुहुयात् । भयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा ।
तत्राज्यस्य पर्णमयी जुहूर्भवति । तेन न पापं शृणोति । तद्धोममन्त्रस्यम्ब-
कमित्येव अन्ते स्त्रिष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् । तस्म
गायत्र्या संप्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मये वा पात्रे निधाय रुद्रमन्त्रैः पुनर-
भ्युदय शुद्धदेशे संस्थापयेत् । ततो भोजयेद्राह्मणान् । ततः स्वयं पूतो
भवति । मानस्तोक इति सद्यो जातमित्यादि पञ्चब्रह्ममन्त्रैर्भस्म संगृह्या-
निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म
देवा भस्म ऋषयो भस्म । सर्व ह वा एतदिदं भस्म पूतं पावनं नमामि सद्यः
समस्ताघशासकमिति शिरसाभिनम्य । पूते वामहस्ते वामदेवायेति निधाय
१ भुशुंड :. २ फालप्रदेश.
अ. उ. ३६</p>
<pb n="577" />
<p>साधुपनिषद-
[ अध्या० १
त्र्यम्बकमिति संप्रोक्ष्य शुद्धं शुद्धेनेति संसृज्य संशोध्य तेनैवापादशीर्षमुद्र-
लनमाचरेत् । तत्र ब्रह्ममन्त्राः पञ्च । ततः शेषस्य भस्मनो विनियोगः ।
तर्जनी मध्यमानामिकाभिरंरप्रेर्भस्मासीति भस्म संगृह्य मूर्धानमिति मूर्धन्य
न्यसेत् । त्र्यम्बकमिति ललाटे नीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वे
त्र्यायुषमितिवामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोः
शृणवामेति वक्रे प्रब्रवामेति हृदये आत्मन इति नाभौ नाभिरिति मत्रेण
दक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेति तन्मणिबन्धे शर्वायेति तस्कर-
पृष्ठे पशुपतय इति वामबाहुमूले उग्रायेति तन्मध्ये मवधायेति तन्म-
णिबन्धे दूरेवधायेति तत्करपृष्ठे नमो हत्र इति असे शंकरायेति यथाक्रमं
भस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रास्य वस्मापः पुनन्विति
पिबेत् । नाधो त्याज्यं नाधो त्याज्यम् । एतन्मध्याह्नसायाहेषु त्रिकालेषु
विधिवद्भस्मधारणमप्रमादेन कार्यम् । प्रमादात्पतितो भवति । ब्राह्मणानाम-
यमेव धर्मोऽयमेव धर्मः । एवं भस्मधारणमकृत्वा नाभीयादापोऽन्नमन्यद्वा ।
प्रमादात्यक्त्वा भस्मधारणं न गायत्री जपेत् । न जुहुयादौ तर्पयेद्देवानू-
पीन्पित्रादीन् । अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः ।
नित्योऽयं धर्मो ब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् । एतदकरणे प्रत्य-
वैति ब्राह्मणः । अकृत्वा प्रमादेनैतदष्टोत्तरशतं जलमध्ये स्थित्वा गायत्री
जाबोपोषणेनैकेन शुद्धो भवति । यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादश-
सहस्रप्रणवं जत्वा शुद्धो भवति । अन्ययेन्द्रो यतीन्साळावृकेभ्यः पात-
यति । भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमभ्यद्वावश्यं मन्त्रपूतं
धार्यम् । एतत्प्रातः प्रयुञ्जानो रात्रिकृतात्पापात्पूतो भवति । स्वर्णस्तेयार-
मुच्यते । मध्यन्दिने माध्यन्दिनं कृत्वोपस्थानान्तं ध्यायमान आदित्याभि-
मुखीयानः सुरापानाम्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्राह्मण-
वधात्पूतो भवति । गोवधात्पूतो भवति । अश्ववधात्पूतो भवति । गुरुवधा-
स्यूतो भवति । मातृवधारपूतो भवति । पितृवधाम्पूतो भवति । ग्रिकाल-
युआनः सर्ववेदपारायणफलमवामोति । सर्वतीर्थफलमश्रुते । अनप-
बुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपम्यम् । एवमावर्तये-
दुपनिषद मित्याह भगवान्सदाशिवः साम्यः सदाशिवः साम्यः ॥
१ रमे भस्मा.
इति भस्म जाबालोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥</p>
<pb n="578" />
<p>अध्या० २] .
भस्मजाबालोपनिषत् ॥ ९० ॥</p>
<p>test जाबाल महादेवं साम्बं प्रणम्य पुनः पप्रच्छ किं नित्यं
श्राह्मणानां कर्तव्यं यदकरणे प्रत्यवैति ब्राह्मणः । कः पूजनीयः । को वा
ध्येयः । कः स्मर्तव्यः । कथं ध्येयः । क स्थातव्यमेतद्रूहीति । सामासेन सं
होवाच । प्रागुदयान्निर्वत्यं शौचादिकं ततः खायात् । मार्जनं रुद्रसूक्तः ।
सतवाहतं वासः परिधत्ते पाप्मनोपहृत्यै । उन्मादियमा भध्यायंत्रुडूलि-
तानं कृत्वा यथास्थानं भस्मना त्रिपुण्ड्रं श्वेतेनैव रुद्राक्षान्तान्बिभृयात् ।
नैतत् संमर्शः । तथान्ये । मूर्ध्नि चत्वारिंशत् । शिखायामेकं त्रयं वा । श्रोत्र-
योर्द्वादश । कण्ठे द्वात्रिंशत् । बाह्वोः षोडश षोडश । द्वादश द्वादश मणिन-
न्धयोः पदषडङ्गुष्ठयोः । ततः संध्यां सकुशोऽहरहरुपासीत । भग्निज्योंति-
रित्यादिभिरग्नौ जुहुयात् । शिवलिङ्गं त्रिसंध्यमभ्यर्च्य कुशेवासीनो ध्यावा
साम्बं मामेव वृषभारूढं हिरण्यबाहुं हिरण्यवर्ण हिरण्यरूपं पशुपाशविमोचक
पुरुषं कृष्णपिङ्गल मूर्ध्वरेतसं विरूपाक्षं विश्वरूपं सहस्राक्षं सहस्रशीर्ष सहस्रचरण
विश्वबाहु विश्वात्मानमेकमद्वैवं निष्कलं निष्क्रियं शान्तं शिवमक्षरमव्यय
हरिहरहिरण्यगर्भखष्टारमप्रमेयमनाद्यन्तं रुद्रसूचैरभिषिच्य सितेन भस्मना
श्रीफलदलैश्च त्रिशाखैराद्वैरनाद्वैव । न तत्र संस्पर्शः । तत्पूजासाधनं कश्प-
येच्च नैवेद्यं । ततश्चैकादशगुणरुद्रों जपनीयः । एकगुगोऽनन्तः । षडक्षरो-
sष्टाक्षरो वा शैवो मन्त्रो जपनीयः । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।
ततः शिवायेत्यक्षरत्रयम् । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । ततों
महादेवायेति पञ्चाक्षराणि । नातस्तारकः परमो मन्त्रः । तारकोऽयं पञ्चा-
क्षरः । कोऽयं शैवो मनुः । शैवस्तारकोऽयमुपदिश्यते मनुरविमुके शैवेभ्यो
जीवेभ्यः । शैवोsयमेव मन्त्रस्तारयति । स एव ब्रह्मोपदेशः । ब्रह्म सोमोऽहं
पवनः सोमोsहं पवते सोमोऽहं जनिता मतीनां सोमोऽहं जनिता पृथिव्याः
सोमोsहं जनिताऽग्नेः सोमोऽहं जनिता सूर्यस्य सोमोऽहं जनितेन्द्रस्य
सोमोsहं जनितोत विष्णोः सोमोऽहमेव जनिता स यश्चन्द्रमसो देवानां
भूर्भुवःस्वरादीनां सर्वेषां लोकानां च विश्वं भूतं भुवनं चित्रं बहुधा जात
जायमानं च यत्सर्वस्य सोमोऽहमेव जनिता विश्वाधिको रुद्रो महर्षिः हिर-
"यगर्भादीनां जायमानान्पश्यामि । यो रुद्रो अग्नौ यो अप्सु य भोषधीषु
यो रुद्रो विश्वा भुवना विवेशैवमेव । अयमेवात्मान्तरात्मा ब्रह्मज्योतिर्य-
स्मान मत्तोऽन्यः परः । अहमेव परो विश्वाधिकः । मामेव विदित्वाऽमृतत्व-
मेति । तरति शोकम् । मामेव विदित्वा सांसृतिकीं रुजं द्रावयति । तस्मा-</p>
<pb n="579" />
<p>ईशाद्युपनिषत्सु -
.
[ अध्या० २
दहं रुद्रो यः सर्वेषां परमा गतिः । सोऽहं सर्वाकारः । यतो वा इमानि
भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तं
मामेव विदित्वोपासीत । भूतेभिर्देवेभिरभिष्टुतोऽहमेव । भीषास्माद्वातः पवते ।
भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च । सोमोडत एवं योऽहं सर्वेषामधि-
छाता सर्वेषां च भूतानां पालकः । सोऽहं पृथिवी । सोऽहमापः । सोऽहं तेजः ।
सोsहं वायुः । सोऽहं कालः । सोऽहं दिशः । सोऽहमात्मा । मयि सर्व प्रति-
ष्ठितम् । ब्रह्मविदाप्नोति परम् । ब्रह्मा शिवो मे अस्तु सदाशिवोम् । अचक्षु-
विश्वतश्चक्षुरकर्णो विश्वतः कर्णोऽपादो विश्वतः पादोऽपाणिर्विश्वतः पाणिर हम शिरा
विश्वतः शिरा विद्यामन्त्रैकसंश्रयो विद्यारूपो विद्यामयो विश्वेश्वरोऽहमजरो-
sहम् । मामेवं विदित्वा संसृतिपाशात्प्रमुच्यते । तस्मादहं पशुपाशवि-
मोचकः । पशवश्चामानवान्तं मध्यवर्तिनश्च युक्तात्मानो यतन्ते मामेव
प्राप्तुम् । प्राप्यन्ते मां न पुनरावर्तन्ते । त्रिशूलगां काशीमधिश्रित्य त्यक्ता-
सवोऽपि मय्येव संविशन्ति । प्रज्वलद्वह्निगं हविर्यथा न यजमानमा -
सादयति तथासौ त्यक्त्वा कुणपं न तत्तादृशं पुरा प्राप्नुवन्ति । एष एवा-
देशः एष उपदेशः । एष एव परमो धर्मः । सत्यात्तत्र कदाचिन्न प्रमदि-
तठयं तत्रोद्धूलन त्रिपुण्ड्राभ्याम् । तथा रुद्राक्षाद्यधारणात्तथा मदुर्घनाच्च । प्रमा-
देनापि नान्तर्देवसदने पुरीषं कुर्यात् । व्रतान्न प्रमदितव्यम् तद्धि तपस्तद्धि
तपः काश्यामेव मुक्तिकामानाम् । न तस्याज्यं न तत्याज्यं मोचकोऽहमविमुक्ते
निवसताम् । नाविमुक्तात्परमं स्थानम् । नाविमुक्तात्परमं स्थानम् । काश्यां
स्थानानि चत्वारि । तेषामभ्यर्हितमन्तर्गृहम् । तत्राप्यविमुक्तमभ्यर्हितम् ।
तत्र स्थानानि पञ्च । तन्मध्ये शिवागारमभ्यर्हितम् । तत्र प्राच्या मैश्वर्यस्था-
नम् । दक्षिणायां विचालनस्थानम् । पश्चिमायां वैराग्यस्थानम् । उत्तरायां
ज्ञानस्थानम् । तस्मिन्यदन्तर्निर्लिप्तमव्ययमनाद्यन्तमशेष वेद वेदान्तवेद्यमनि-
र्देइयम निरुक्तमप्रच्यवमाशास्यमद्वैतं सर्वाधारमनाधारम निरीक्ष्यमहरहर्ब्रह्मवि-
ष्णुपुरन्दराद्यमरवर सेवितं मामेव ज्योतिःस्वरूपं लिङ्गं मामेवोपासितव्यं
तदेवोपासितव्यम् । नैव भावयन्ति तल्लिङ्गं भानुश्चन्द्रोऽग्निर्वायुः । स्वप्रकारां
विश्वेश्वराभिवं पातालमधितिष्ठति । तदेवाहम् । तत्रार्चितोऽहम् । साक्षाद-
चितः त्रिशाखैर्बिल्वदुलैर्दीप्तैर्वा योऽभिसंपूजयेन्मन्मना मय्याहितासुर्मय्ये-
वार्पिताखिलकर्मा भस्मदिग्धाङ्गो रुद्राक्षभूषणो मामेव सर्वभावेन प्रपन्नो मदे -</p>
<pb n="580" />
<p>अध्या० २]
भस्मजाबालोपनिषत् ॥ ९० ॥</p>
<p>कपूजानिरतः संपूजयेत् । तदहमश्नामि । तं मोचयामि संसृतिपाशात् । अहर-
हरभ्यर्च्य विश्वेश्वरं लिङ्गं तत्र रुद्रसूक्तैरभिषिच्य तदेव स्वपनपयस्त्रिः पटवा
महापातकेभ्यो मुच्यते । न शोकमाप्नोति । मुच्यते संसारबन्धनात् । तदुन-
भ्यर्च्य नाश्नीयात्फलमन्नमन्यद्वा । यदश्नीयाद्रेतोभक्षी भवेत् । नापः पिबेत् ।
यदि पिबेत्यपो भवेत् । प्रमादेनैकदा त्वनभ्यर्च्य मां भुक्त्वा भोजयित्वा
केशान्वापयित्वा गव्यानां पञ्च संगृह्योपोष्य जले रुद्रस्नानम् । जपेत्रिवारं
रुद्रानुवाकम् । आदित्यं पश्यन्नभिध्यायन्स्वकृत कर्म कृद्रौद्वैरेव मन्त्रैः कुर्यान्मा-
जनम् । ततो भोजयित्वा ब्राह्मणान्पूतो भवति । अन्यथा परेतो यातनाम-
श्रुते । पत्रैः फलैर्वा जलैर्वान्यैर्वाभिपूज्य विश्वेश्वरं मां ततोऽश्नीयात् ।
कापिलेन पयसाभिषिच्य रुद्रसूक्तेन मामेव शिवलिङ्गरूपिणं ब्रह्महत्यायाः
पूतो भवति । कापिलेन दनाभिषिच्य सुरापानात्पूतो भवति । कापिलेना-
ज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति । मधुनाभिषिच्य गुरुदारगमनात्पूतो
भवति । सितया शर्करयाभिषिच्य सर्वजीववधात्पूतो भवति । क्षीरादिभि-
रेतैरभिषिच्य सर्वानवाप्नोति कामान् । इत्येकैकं महान्प्रस्थशतं महान्प्रस्थश-
तमानैः शतैरभिपूज्य मुक्तो भवति संसारबन्धनात् । मामेव शिवलिङ्गरूपि-
माद्वयां पौर्णमास्यां वाऽमावास्यायां वा महाव्यतीपाते ग्रहणे संक्रान्तावभि-
विव्य तिलैः सतण्डुलैः सयवैः संपूज्य बिल्वदलैरभ्यर्च्य कापिलेनाज्यान्वित-
गन्धसारधूपैः परिकल्प्य दीपं नैवेद्यं साज्यमुपहारं कल्पयित्वा दद्यात्पुष्पा-
अलिम् । एवं प्रयतोऽभ्यर्च्य मम सायुज्यमेति । शतैर्महाप्रस्थैर खण्डैस्तण्डु-
लैरभिषिच्य चन्द्रलोककामश्चन्द्रलोकमवाप्नोति । तिलैरेतावद्भिरभिषिच्य वा-
युलोककामो वायुलोकमवाप्नोति । माषैरेतावद्भिरभिषिच्य वरुणलोककामोव-
रुणलोकमवाप्नोति । यवैरेतावद्भिरभिषिच्य सूर्यलोककामः सूर्यलोकमवाप्नोति ।
एतैरेतावद्भिर्द्विगुणैरभिषिच्य स्वर्गलोककामः स्वर्गलोकमवाप्नोति । एतैरेताव-
द्भिश्चतुर्गुणैरभिषिच्य ब्रह्मलोककामो ब्रह्मलोकमवाप्नोति । एतैरेतावद्भिः पात-
गुणैरभिषिच्य चतुजलं ब्रह्मकोशं यन्मृत्युर्नावपश्यति । तमतीत्य मल्लोककामो
लोकमवाप्नोति नान्यं मल्लोकात्परम् । यमवाप्य न शोचति । न स पुनरा-
वर्तते न स पुनरावर्तते । लिङ्गरूपिणं मां संपूज्य चिन्तयन्ति योगिनः सिद्धाः
सिद्धिं गताः । यजन्ति यज्वानः । मामेव स्तुवन्ति वेदाः साङ्गाः सोपनिषदः
सेतिहासाः । न मत्तोऽन्यदहमेव सर्वम् । मयि सर्वं प्रतिष्ठितम् । ततः काइयां
१ आसयन्ति .</p>
<pb n="581" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
प्रयतैरेवाहमन्वहं पूज्यः । तत्र गणा रौद्रानना नानामुखा नानाशस्त्रधारिणौ
नानारूपधरा नानाचिह्निताः । ते सर्वे भस्मदिग्धाङ्गा रुद्राक्षाभरणाः कृताञ्ज-
यो नित्यमभिध्यायन्ति । तत्र पूर्वस्यां दिशि ब्रह्मा कृताञ्जलिरहर्निशं मामु+
पास्ते । दक्षिणस्यां दिशि विष्णुः कृत्वैव मूर्धांअलिं मामुपास्ते । प्रती-
च्यामिन्द्रः सन्नताङ्ग उपास्ते । उदीच्यामनिकायमुमानुरक्ता हेमाङ्गचि-
भूषणा हेमवखा मामुपासते मामेव वेदाश्चतुर्मूर्तिधराः । दक्षिणायां
दिशि मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितम् । तत्रानेकगणाः पालका
सायुधाः पापघातकाः । तत्र ऋषयः शांभवाः पाशुपता महाशैवा वेदावतंसं
शैवं पञ्चाक्षरं जपन्तस्तारकं सप्रणवं मोदमानास्तिष्ठन्ति । तत्रैका रनवेदिका ।
तत्राहमासीनः काश्यों त्यक्तकुणपान्हवानानीय स्वस्याने संनिवेश्य भसित-
रुद्राक्षभूषितानुपस्पृश्य मा भूदेतेषां जन्म मृतिश्चेति तारकं शैवं मनुमुपदि-
शामि । ततस्ते मुक्ता मामनुविशन्ति विज्ञानमयेनाङ्गेन । न पुनरावर्तन्ते
हुताशनप्रतिष्ठं हविरिव तत्रैव मुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पञ्चाक्षरः ।
तन्मुक्तिस्थानम् । तत ओंकार रूपम्। ततो मदर्पितकर्मणां मदाविष्टचेतसां मद्रू-
पता भवति । नान्येषामियं ब्रह्मविद्येयं ब्रह्मविद्या । मुमुक्षवः काश्यामेवासीना
वीर्यवन्तो विद्यावन्तः । विज्ञानमयं ब्रह्मकोशम् । चतुर्जालं ब्रह्मकोशम् ।
यन्मृत्युर्नावपश्यति । यं ब्रह्मा नावपश्यति । यं विष्णुवपश्यति । यमि-
न्द्रानी नावपश्येताम् । यं वरुणादयो नावपश्यन्ति । तमेव तत्तेजःपुष्ट-
विभावं हैममुमां संश्लिष्य वसन्तं चन्द्रकोटिसमप्रभ चन्द्रकिरीटं सोम-
सूर्याग्निनयनं भूतिभूषितविग्रहं शिवं मामेवमभिध्यायन्तो मुक्तकिल्बिषा-
तबन्धा मय्येव लीना भवन्ति । ये चान्ये काइयां पुरीषकारिणः प्रति-
ग्रहरतास्त्वक्तभस्मधारणास्त्यक्तरुद्राक्ष धारणा स्त्यक्तसोमवारव्रतास्त्यक्तग्रहयागा-
त्यक्तविश्वेश्वराचे नास्त्यक्तपञ्चाक्षरज पास्त्यक्तभैरवार्चना भैरवीं घोरोदियातन
नानाविधां काइयां परेता भुक्खा ततः शुद्धा मां प्रपद्यन्ते च । अन्तर्गृहे
रेतो मूत्रं पुरीषं वा विसृजन्ति तदा तेन सिञ्चन्ते पितॄन् । तमेव पापकारिणं
मृतं पश्यनीललोहितो भैरवस्तं पातयत्यत्रमण्डले ज्वलज्वलनकुण्डेष्वन्ये-
स्वपि । ततश्चाप्रमादेन निवसेदप्रमादेन निवसेत्काइयां लिङ्गरूपिण्यामित्यु-
पनिषत् ॥ हरिः ॐ तत्सत् ॥
इति भस्मजाबालोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति भस्मजाबालोपनिषत्समाप्ता ॥ ९० ॥
१ वेदादवतंसं. २ घोरां यातनां.</p>
<pb n="582" />
<p>रुद्राक्षजाबालोपनिषत् ॥ ९१ ॥</p>
<lg>
  <l>रुद्राक्षजाबालोपनिषत् ॥ ९१ ॥</l>
  <l>रुद्राक्षोपनिषद्वेद्यं महारुद्र तयज्वलम् ।</l>
  <l>प्रतियोगिविनिर्मुक्तं शिवमात्रपदं भजे ॥ १ ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>।</p>
<note>५६७.</note>
<p>+
हरिः ॐ ॥ अथ हैनं कालाग्निरुद्रं भुसुण्डेः पप्रच्छ कथं रुद्राक्षोत्पत्तिः ।
तद्धारणात्किं फलमिति । तं होवाच भगवान्कालाग्निरुद्रः । त्रिपुरवधार्थमर्ह
निमीलिताक्षोऽभवम् । तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।
सर्वानुग्रहार्थाय तेषां नामोच्चारमात्रेण दशगोप्रदानफलं दर्शनस्पर्शनाभ्याँ
द्विगुणं फलमत ऊर्ध्वं वक्तुं न शक्नोमि । तन्नैते श्लोका भवन्ति । कस्मिंस्थितं
तु किं नाम कथं वा धार्यते नरैः । कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम्
॥ १ ॥ दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया । भूमावक्षिपुटाभ्यां तु पतिता
जलबिन्दवः ॥ २ ॥ तंत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः । स्थावर-
त्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३ ॥ भक्तानां धारणात्पापं दिवारात्रि-
कृतं हरेत् । लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४ ॥ तस्य
कोटिशतं पुण्यं लभते धारणान्नरः । लक्ष कोटिसहस्राणि लक्ष कोटिशतानि च
॥ ५ ॥ तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् । धात्रीफलप्रमाणं यच्छ्रेष्ठ-
मेतदुदाहृतम् ॥ ६ ॥ बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः । अधमं चण-
मात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति
शिवाज्ञया । वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८ ॥ श्वेतास्तु
ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा
उदाहृताः ॥ ९ ॥ ब्राह्मणो बिभृयाच्छ्रेतान्नक्तान्नाजा तु धारयेत् । पीतान्वे-
इयस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥ १० ॥ समाः स्निग्धा दृढाः स्थूलाः
कण्टकैः संयुताः शुभाः । कृमिदष्टं भिन्नभिन्नं कण्टकैहनमेव च ॥ ११ ॥
व्रणयुक्तमयुक्तं च षड्रुद्राक्षा विवर्जयेत् । स्वयमेव कृतं द्वारं रुद्राक्षं स्यादि-
होत्तमम् ॥ १२ ॥ यत्तु पौरुषयलेन कृतं तन्मध्यमं भवेत् । समान्खिग्धान्द-
ढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३ ॥ सर्वगात्रेण सौम्येन सामान्यानि
विचक्षणः । निकष हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४ ॥ तदक्षमुत्तमं
विद्यात्तद्वार्यं शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५ ॥
१ भुसुण्ठ:.</p>
<pb n="583" />
<p>ईशायुपनिषद-
षट्‌त्रंशतं गले दुध्याद्वाहोः षोडश षोडश । मणिबन्धे द्वादशैव स्कन्धे पञ्च-
शतं चहेत् ॥ १६ ॥ अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् । द्विसरं त्रिसरं
वासराणां पञ्चकं तथा ॥ १७ ॥ सराणां सप्तकं वापि बिभृयात्कण्ठ-
देशतः । मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८ ॥ केयूरकटके सू
कुक्षिबन्धे विशेषतः । सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९ ॥
त्रिशतं स्वधमं पञ्चशतं मध्यममुच्यते । सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत्
॥ २० ॥ शिरसीशांनमंत्रण कण्ठे तत्पुरुषेण तु । अघोरेण गले धार्यं तेनैव
हृदयेऽपि च ॥ २१ ॥ अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः । पञ्चाशदक्ष-
प्रथितान्व्योमव्याध्यपि चोदरे ॥ २२ ॥ पञ्च ब्रह्मभिरङ्गैश्च त्रिमाला पञ्च सप्त
च । ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३ ॥ अथ हैनं भग-
वन्तं कालाग्निरुद्र भुसुण्डः पप्रच्छ रुद्राक्षाणां भेदेन यदक्षं यत्त्वरूपं यत्फां-
लमिति । तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं ब्रूहीति होवाच ।
तत्रैते श्लोका भवन्ति - एकवक्रं तु रुद्राक्षं परतत्वस्वरूपकम् । तद्धारणा-
परे तच्चे लीयते विजितेन्द्रियः ॥ १ ॥ द्विवक्रं तु मुनिश्रेष्ठ चार्धनारीश्वरा-
त्मकम् । धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २ ॥ त्रिमुखं चैत्र रुद्रा-
क्षमनित्रयस्वरूपकम् । तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३ ॥ चतु-
मुखं तु रुद्राक्षं चतुर्वक्रस्वरूपकम् । तद्धारणाश्चतुर्वक्रः प्रीयते तस्य नित्यद-
॥ ४ ॥ पञ्चवक्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् । पञ्चवक्रः स्वयं ब्रह्म हत्या
च व्यपोहति ॥ ५ ॥ षड्वक्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् । तद्धारणा-
महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६ ॥ मति विज्ञानसंपत्तिशुद्धये धारये-
त्सुधीः । विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७ ॥ सप्तवक्रं तु रुद्राक्षं
सप्तमालाधिदैवतम् । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८ ॥
महती ज्ञानसंपत्तिः शुचिर्धारणतः सदा । अष्टवक्रं तु रुद्राक्षमष्टमात्राधि-
दैवतम् ॥ ९ ॥ वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा । तद्धारणादिमे प्रीता
भवेयुः सत्यवादिनः ॥ १० ॥ नववक्रं तु रुद्राक्षं नवशत्यधिदैवतम् । तस्य
धारणमात्रेण प्रीयन्ते नव शक्तयः ॥ ११ ॥ दशवक्रं तु रुद्राक्षं यमदैवत्य-
मीरितम् । देशप्रशान्तिजनकं धारणान्नात्र संशयः ॥ १२ ॥ एकादशमुख
त्वक्षं रुद्वैकादशदैवतम् । तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३ ॥
१ दर्शनाच्छान्ति जनकं पापानां नात्र.</p>
<pb n="584" />
<p>रुद्राक्षजाबालोपनिषत् ॥ ९१ ॥
i</p>
<p>रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् । द्वादशादित्यरूपं च बिभर्येव हि
तत्परम् ॥ १४ ॥ त्रयोदशमुखं स्वक्षं कामदं सिद्धिदं शुभम् । तस्या धारण-
मात्रेण कामदेवः प्रसीदति ॥ १५ ॥ चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।
सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६ ॥ मद्यं मांसं च लघुनं
पलाण्डुं शिशुमेव च । श्लेष्मातकं विवराहमभक्ष्यं वर्जयेन्नरः ॥ १७ ॥ ग्रहणे
विषुवे चैवमय संक्रमेऽपि च । दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च । रुद्रा-
क्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८ ॥ रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव
च । तन्मुखं रुद्र इत्याहुस्तद्विन्दुः सर्वदेवताः ॥ १९ ॥ इति । अथ कालाग्निरुद्रं
भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् । तस्मि
न्समये निदाघजडभरतदत्तात्रेय कात्यायनभरद्वाज कपिल वसिष्टपिप्पलादादयश्च
कालाग्निरुद्रं परिसमेत्योचुः । अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति
होवाच । रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति । अथ कालाग्नि-
रुद्रः प्रोवाच । रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते । अथ
सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति । तन्नयनाज्जाता
रुद्राक्षा इति होवाच । तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच । तद्रुद्राक्षे
वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमञ्जते । स एष भस्म-
ज्योती रुद्राक्ष इति । तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदान-
फलं भवति । तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति ।
एकादशरुद्रत्वं च गच्छति । तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदान-
फलं भवति । एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच ।
य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते बालो वा युवा वा वेद स महा-
भवति । स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् ।
एतैरेवार्चनम् । तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां
वा बनी । सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते । तस्माच्छ्रद्धया यां
कांचिद्गां दद्यात्सा दक्षिणा भवति । य इमामुपनिषदं ब्राह्मणः सायमधी -
यानो दिवसकृतं पापं नाशयति । मध्याह्नेऽधीयानः षड्जन्मकृतं पापं
नाशयति । सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति । षट्सहस्र-
'लक्षगायत्रीजपफलमवाप्नोति । ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुदारगमनतत्सं-
योगपातकेभ्यः पूतो भवति । सर्वतीर्थफलमश्रुते । पतितसंभाषणात्पूतो</p>
<pb n="585" />
<p>ele
ईशाद्युपनिषत्सु -
भवति । पङ्क्तिशतसहस्त्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुन-
1
रावर्तते न च पुनरावर्तत इत्यों सत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ आप्यायन्त्वितिशान्तिः ॥
इति रुद्राक्षजाबालोपनिषत्समान ॥ ९१ ॥
गणपत्युपनिषत् ॥ ९२ ॥</p>
<lg>
  <l>यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।</l>
  <l>गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ १ ॥</l>
</lg>
<p>ॐ भद्रं कर्णेभिरिति शान्तिः ॥ -
हरिः ॐ ॥ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव
केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यं । ऋतं वच्मि ।
सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव
दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव
पुरस्तात् । अव चोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवा-
धरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । त्वं वाङ्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं
ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं
त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ।
त्वं गुणत्रयातीतः । त्वं कालत्रयातीतः । त्वं देहत्रयातीतः । त्वं मूलाधार-
स्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति
नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं.
सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः सुवरोम् । गणादिं पूर्वमुच्चार्य वर्णादि
तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् ॥ १॥ तारेर्णं रुद्धम् । एत-
१ अत्र श्रोतारं अव वक्तारमिति मु. वैलोम्यं दृश्यते. २ पुरस्तात् दक्षिणात्ताव
पश्चात्तात् उत्तरात्तादिति मु. पु. पाठः ३ वाक्परिमितानि पदानि ४ त्वं रुद्रः ॥
त्वमग्निः इति भिन्नवाक्यानि अन्ते च त्वं भूर्भुवः सुवराप अम् इति पाठः
६ तारेण युक्तमेतदेव तव इति मु. उ. पा.</p>
<pb n="586" />
<p>गणपत्युपनिषत् ॥ ९२ ॥
1
त्तत्व मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपन् । अनुस्वारश्वा--
न्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । संहिता संधिः । सैषा गणेश-
विद्या । गणक ऋषिः निचृद्गायत्री छन्दः । श्रीमहागणपतिर्देवता । ॐ गम् ।
( गणपतये नमः ) । एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती
प्रचोदयात् ॥ एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । अभयं वरदं हस्तै-
बिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धा--
नुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥ भक्तानुकम्पिनं देवं जगत्कारणमैच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स
योगी योगिनां वरः । नमो व्रातपतये नमो गणपतये नमः प्रमथपतये
नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये
नमो नमः ॥ एतदथर्वशिरो योऽधीते स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न
बाध्यते । स सर्वतः सुखमेधते । स पञ्च महापातकोपपातकात्प्रमुः
च्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रि-
कृतं पापं नाशयति । सायंप्रातः प्रयुंजानोऽपापो भवति । धर्मार्थ-
काममोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि
मोहाद्दास्यति स पापीयान्भवति । सहस्रावर्तनाद्यं यं काममधीते तं
तमनेन साधयेत् । अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्या-
मननञ्जपति स विद्यावान्भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं विद्यात् ।
न बिभेति कदाचनेति । यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो
लाजैर्यजति स यशोवान्भवति । स मेधावान्भवति । यो मोदकसहस्त्रेण
यजति स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभतेः
स सर्वं लभते । अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे
महानद्यां प्रतिमासंनिधौ वा जहवा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते ।
महापापात्प्रमुच्यते । महादोषात्प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति ।
य एवं वेदेत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति गणपत्युपनिषत्समाप्ता ॥ ९२ ॥
१ गाणेशी. फा. २ दन्तिः प्रचोदयात्.
५ मुत्तमम् . ६ एतद्वाक्यद्वयस्य वैलोम्येन पाठः .
८ ब्राह्मणान्याहयित्का ९ ग्रहणे.
३ भयं च वरदं
४ शूपकर्णं.
७ प्रातरधीयानः पापोऽपापो.-</p>
<pb n="587" />
<p>ईशाधुपनिषत्सु -</p>
<lg>
  <l>श्रीजाबालदर्शनोपनिषत् ॥ ९३ ॥</l>
  <l>यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः ।</l>
  <l>योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ॥ १ ॥</l>
  <l>ॐ आप्यायन्त्विति शान्तिः ॥</l>
</lg>
<p>[ खण्ड: १
हरिः ॐ ॥ दत्तात्रेयो महायोगी भगवान्भूतभावनः । चतुर्भुजो महाविष्णु-
योगसाम्राज्यदीक्षितः ॥ १ ॥ तस्य शिष्षो मुनिकरः सांकृतिर्नाम भक्तिमान् ।
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥ २ ॥ भगवन्ब्रूहि मे योगं साष्टाङ्गं
पञ्चकम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ ३ ॥ सांकृते
शृणु वक्ष्यामि योगं सादर्शनः । यमश्च नियमश्चैव तथैवासनमेव च
॥ ४ ॥ प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् । धारणा च तथा ध्यानं
समाधिश्वाष्टमं सुने ॥ ५ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा
धृतिर्मिताहारः शौचं चैव यमा दश ॥ ६ ॥ वेदोक्तेन प्रकारेण विना सत्यं
तपोधन । कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥ ७ ॥ आत्मा
सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः । सा चाहिंसा वरा प्रोक्ता मुने
वेदान्तवेदिभिः ॥ ८ ॥ चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर । तस्यैवोक्ति-
र्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥ ९ ॥ सर्वं सत्यं परं ब्रह्म न चान्यदिति
या मतिः । तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥ १० ॥ अन्यदीये तृणे
काञ्चने मौक्तिकेsपि च । मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥ ११ ॥
आत्मन्यनात्मभावेन व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्म-
हामते ॥ १२ ॥ कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् । ऋतौ भार्यां
बदा स्वस्थ ब्रह्मचर्यं तदुच्यते ॥ १३ ॥ ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप
॥ १४ ॥ स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैव
प्रोक्ता वेदान्तवेदिभिः ॥ १५ ॥ पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् ।
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥ १६ ॥ कायेन मनसा वाचा शत्रुभिः
परिपीडिते । बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥ १७ ॥ वेदादेव
विनिर्मोक्ष: संसारस्य न चान्यथा । इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि
वैदिकैः । अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ॥ १८ ॥ अल्पसृष्टा-
१ विज्ञानमात्रेण. २ इति या मतिः.</p>
<pb n="588" />
<p>खण्डः २]
श्रीजाबालदर्शनोपनिषत् ॥ ९३ ॥</p>
<note>५७३.</note>
<p>शनाभ्यां च चतुर्थाशावशेषकम् । तस्माद्योगानुगुण्येन भोजनं मित-
भोजनम् ॥ १९ ॥ स्वदेहमलनिर्मोक्षो मृजलाभ्यां महामुने । यत्तच्छौचं भवे-
द्वाह्यं मानसं मननं विदुः । अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥ २० ॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं
विधीयते ॥ २१ ॥ ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः । स मूढः
काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत ॥ २२ ॥ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य
योगिनः । न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३ ॥ लोकन्न-
येsपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ॥ २४ ॥ तस्मात्सर्वप्रयत्नेन मुनेऽहं-
सादिसाधनैः नैः । आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु चेदनात् ॥ २५ ॥
इति जाबालदर्शनोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव हीर्मतिश्च
जपो व्रतम् ॥ १ ॥ एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥ २ ॥
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं यत्तत्तप इत्युच्यते
बुधैः ॥ ३ ॥ को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् । इत्यालोकनमर्थ-
ज्ञास्तपः शंसन्ति पण्डिताः ॥ ४ ॥ यद्दच्छालाभतो नित्यं प्रीतिर्या जायतें
नृणाम् । तत्संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५ ॥ ब्रह्मादिलोकपर्य-
न्ताद्विरक्त्या यल्लभेत्प्रियम् । सर्वत्र विगतस्नेहः संतोषं परमं विदुः । श्रौते
मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ६ ॥ न्यायार्जितधनं श्रान्ते श्रद्धया
वैदिके जने । अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥ ७ ॥ रागाद्यपेतं
हृदयं वागदुष्टानृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥ ८ ॥ सत्यं
ज्ञानमनन्तं च परानन्दं परं ध्रुवम् । प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः
॥ ९ ॥ वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् । तस्मिन्भवति या लज्जा
at: सैवेति प्रकीर्तिता । वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ १० ॥
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः । वेदोक्तेनैव मार्गेण मन्त्राभ्यासो
जपः स्मृतः ॥ ११ ॥ कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके । इतिहासे च
वृत्तिर्या स जपः प्रोच्यते मया ॥ १२ ॥ जपस्तु द्विविधः प्रोक्तो वाचिको
मानसस्तथा ॥ १३ ॥ वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः । मानसो
१ लोचन.
1</p>
<pb n="589" />
<p>ईशायुपनिषत्सु -
[ खण्डः ४
मननध्यानभेदाद्वैविध्यमाश्रितः ॥ १४ ॥ उचैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥ १५ ॥ उच्चैर्जपश्च सर्वेषां यथोक्त-
फलदो भवेत् । नीचैः श्रोत्रेण चेन्मन्नः श्रुतश्चेन्निष्फलं भवेत् ॥ १६ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा । भद्रं मुक्तासनं चैव 'मयूरास-
नमेव च ॥ १ ॥ सुखासनसमाख्यं च नवमं मुनिपुङ्गव । जानूर्वोरन्तरे
कृत्वा सम्यक् पादतले उभे ॥ २ ॥ समग्रीवशिरः कायः स्वस्तिकं नित्यमभ्य-
सेत् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥ ३ ॥ दक्षिणेऽपि तथा
सव्यं गोमुखं तत्प्रचक्षते । अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ॐ ॥
safeपरि विप्रेन्द्र कृत्वा पादतलद्वयम् । पद्मासनं भवेत्प्राज्ञ सर्वरोगभया-
पहम् ॥ ५ ॥ दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् । ऋजुकायः समा-
सीनो वीरासनमुदाहृतम् ॥ ६ ॥ गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः
क्षिपेत् । पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेत-
द्विषरोगविनाशनम् ॥ ७ ॥ निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः । वामं
याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ८ ॥ मेादुपरि निक्षिप्य सव्यं
गुल्फं तथोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥ ९ ॥ कूर्पराग्रे
मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः । भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः
॥ १० ॥ समुन्नतशिरः पादो दण्डवयोनि संस्थितः । मयूरासनमेतत्स्यात्स-
पापप्रणाशनम् ॥ ११ ॥ येन केन प्रकारेण सुखं वैर्यं च जायते । तत्सु-
खासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १२ ॥ आसनं विजितं येन जितं तेन
जगत्रयम् । अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १३ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु तृतीयः खण्डः ॥ ३॥
शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् । देहमध्ये शिखिस्थानं तप्तजा-
म्बूनदप्रभम् ॥ १ ॥ त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते। गुदा
लादूर्ध्व मेाव्यङ्गुलादधः ॥ २ ॥ देहमध्यं मुनिप्रोक्तमनुजानीहि
सांकृते । कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥ ३ ॥ चतुरङ्गुलमाया-
मविस्तारं मुनिपुङ्गव । कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥ ४ ॥
तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव । कन्दमध्यस्थिता नाडी सुषुन्नेति
कीर्तिता ॥ ५ ॥ तिष्ठन्ति परितस्तस्या नाड्यो हि मुनिपुङ्गव । द्विसप्ततिस-</p>
<pb n="590" />
<p>खण्डः ४ ]
श्रीजाबालदर्शनोपनिषत् ॥ ९३ ॥
.</p>
<p>हस्त्राणि तासां मुख्याश्चतुर्दश ॥ ६ ॥ सुषुम्ना पिङ्गला तद्वदिडा चैव सर-
स्वती । पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी ॥ ७ ॥ अलम्बुसा कुहू
श्चैव विश्वोदरी तपखिनी । शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ॥८॥
आसां मुख्यतमास्तिस्रस्तिष्वेकोत्तमोत्तमा । ब्रह्मनाडीति सा प्रोक्ता मुने
वेदान्तवेदिभिः ॥ ९ ॥ पृष्ठमध्यस्थितेनास्था वीणादण्डेन सुव्रत । सह
मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥ १० ॥ नाभिकन्दादधः स्थानं कुण्डल्या
व्यङ्गुलं मुने । अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥ ११ ॥ यथावद्वायु-
चेष्टांच जाति नित्यशः । परितः कन्दुपार्श्वषु निरुध्यैव सदा स्थिता
॥ १२ ॥ स्वमुखेन संमावेष्ट्य ब्रह्मरन्धमुखं मुने । सुषुम्नाया इडा सत्ये
दक्षिणे पिङ्गला स्थिता ॥ १३ ॥ सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते ।
गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥ १४ ॥ पूषा यशस्विनी चैव
पिङ्गला पृष्ठपूर्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥ १५ ॥
यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता । पूषायाश्च सरस्वत्या मध्ये
प्रोक्ता यशस्विनी ॥ १६ ॥ गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी ।
अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ॥ १७ ॥ पूर्वभागे सुषुम्नाया
राकायाः संस्थिता कुहूः । अधश्चोर्ध्व स्थिता नाडी याम्यनासान्तमिष्यते
॥ १८ ॥ इडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव । यशस्विनी च वामस्य
पादाङ्गुष्टान्तमिष्यते ॥ १९ ॥ पूवा वासाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः ।
पयस्विनीच याम्यस्य कर्णान्तं प्रोच्यते बुधैः ॥ २० ॥ सरस्वती तथा चोर्ध्व-
गता जिह्वा तथा मुने । हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ॥ २१ ॥
शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते । गान्धारा सव्यनेत्रान्ता प्रोक्ता
वेदान्तवेदिभिः ॥ २२ ॥ विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता ।
प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥ २३ ॥ नागः कूर्मश्च कूकरो
देवदत्तो धनंजयः । एते नाडीषु सर्वासु चरन्ति दश वायवः ॥ २४ ॥ तेषु
प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत । प्राणसंज्ञस्तथापानः पूज्यः प्राणस्त-
योर्मुने ॥ २५ ॥ आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि । प्राणसंज्ञो -
sa त्यिं वर्तते मुनिसत्तम ॥ २६ ॥ अपानो वर्तते नित्यं गुदमध्योरु-
जानुषु । उदरे सकले कठ्यां नाभौ जङ्के च सुव्रत ॥ २७ ॥ व्यानः श्रोत्रा-
१ सदावेष्टय. २ गा जिह्वान्तं. ३ गुदमेोरु.</p>
<pb n="591" />
<p>ईशाद्युपनिषत्सु -
[ खण्डः ४
क्षिमध्ये च ककुद्भ्यां गुल्फयोरपि । प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव
॥ २८ ॥ उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि । समानः सर्वदेहेषु व्याप्य
तिष्ठत्यसंशयः ॥ २९ ॥ नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । निः-
श्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥ ३० ॥ अपानाख्यस्य वायोस्तु
विण्मूत्रादिविसर्जनम् । समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥ ३१ ॥
उदान ऊर्ध्वगमनं करोत्येव न संशयः । व्यानो विवादकृत्प्रोक्तो मुने वेदा-
न्तवेदिभिः ॥ ३२ ॥ उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने । धनं-
जयस्य शोभादि कर्म प्रोक्तं हि सांकृते ॥ ३३ ॥ निमीलनादि कूर्मस्य क्षुधा
तु कृकरस्य च । देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥ ३४ ॥ सुषु-
नायाः शिवो देव इडाया देवता हरिः । पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या
विरामुने ॥ ३५ ॥ षाधिदेवता प्रोक्ता वरुणा वायुदेवता । हस्तिजिह्वा-
भिधायास्तु वरुणो देवता भवेत् ॥ ३६ ॥ यशस्विन्या मुनिश्रेष्ठ भगवान्भा
स्करस्तथा । अलम्बुसाया अम्ब्वात्मा वरुणः परिकीर्तितः ॥ ३७ ॥ कुहोः क्षु-
देवता प्रोक्ता गान्धारी चन्द्रदेवता । शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजा-
पतिः ॥ ३८ ॥ विश्वोदराभिधायास्तु भगवान्पावकः पतिः । इडायां चन्द्रमा
नित्यं चरत्येव महामुने ॥ ३९ ॥ पिङ्गलायां रविस्तद्वन्मुने वेदविदां
वर । पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥ ४० ॥ तदुत्तरायणं
प्रोक्तं मुने वेदान्तवेदिभिः । इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥ ४१ ॥
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः । इडापिङ्गलयोः संधिं यदा प्राणः
समागतः ॥ ४२ ॥ अमावास्या तदा प्रोक्ता देहे देहभृतां वर । मूलाधारं
यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४३ ॥ तदाद्यं विषुवं प्रोक्तं तापसैस्ताप -
सोत्तम । प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥ ४४ ॥ तदन्त्यं विषुवं
प्रोक्तं तापसैस्तत्त्वचिन्तकैः । निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत्
॥ ४५ ॥ इडायाः कुण्डलीस्थानं यदा प्राणः समागतः । सोमग्रहणमित्युक्तं
तदा तत्त्वविदां वर ॥ ४६ ॥ यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
तदा तदा भवेत्सूर्यग्रहणं मुनिपुङ्गव ॥ ४७ ॥ श्रीपर्वतं शिरःस्थाने केदारं तु
ललाटके । वाराणसी महाप्राज्ञ भ्रुवोर्घाणस्य मध्यमे ॥ ४८ ॥ कुरुक्षेत्रं
कुचस्थाने प्रयागं हृत्सरोरुहे । चिदम्बरं तु हृन्मध्ये आधारे कमलालयम्</p>
<note>१. पूषाधिदेवता.</note>
<pb n="592" />
<p>खण्डः ५ ]
जाबालदर्शनोपनिषत् ॥ ९३ ॥</p>
<p>॥ ४९ ॥ आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् । करस्थं स महारत्वं
त्यक्त्वा काचं विमार्गते ॥ ५० ॥ भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥ ५१ ॥ तीर्थानि तोयपूर्णानि
देवाकाष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥ ५२ ॥
बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने । आत्मतीर्थं महातीर्थमन्यत्तीर्थं निर-
र्थकम् ॥ ५३ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्त्रानैर्न शुच्यति । शतशोऽपि जलै-
धtतं सुराभाण्डमिवाशुचि ॥ ५४ ॥ विषुवायनकालेषु ग्रहणे चान्तरे सदा ।
वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥ ५५ ॥ ज्ञानयोगपराणां तु
पादप्रक्षालितं जलम् । भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥ ५६ ॥
तीर्थे दाने जपे यज्ञे काष्ठे पाषाणके सदा । शिवं पश्यति मूढात्मा शिवे देहे
प्रतिष्ठिते ॥ ५७ ॥ अन्तःस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते । हस्तस्थं पिण्ड-
मुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ५८ ॥ शिवमात्मनि पश्यन्ति प्रतिमासु
न योगिनः । अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ॥ ५९ ॥ अपूर्व-
मपरं ब्रह्म स्वात्मानं सत्यमद्वयम् । प्रज्ञानघनमानन्दं यः पश्यति स पश्यति
॥ ६० ॥ नाडीपुञ्जं सदा सारं नरभावं महामुने । समृत्सृज्यात्मनाऽऽत्मानम-
हमित्येव धारय ॥ ६१ ॥ अशरीरं शरीरेषु महान्तं विभुमीश्वरम् । आन-
न्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६२ ॥ विभेदजनके ज्ञाने नष्टे
ज्ञानबलान्मुने । आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥ ६३ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु चतुर्थः खण्डः ॥ ४ ॥
सम्यक्कथय मे ब्रह्मन्नाडीशुद्धिं समासतः । यथा शुद्धा सदा ध्यायञ्जीवन्मु-
को भवाम्यहम् ॥ १ ॥ सांकृते शृणु वक्ष्यामि नाडीशुद्धिं समासतः । विध्युक्त-
कर्मसंयुक्तः कामसंकल्पवर्जितः ॥ २ ॥ यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरा-
यणः । स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ ३ ॥ पर्वताग्रे नदी-
तीरे बिल्वमूले वनेऽथवा । मनोरमे शुचौ देशे मठं कृत्वा समाहितः
॥ ४ ॥ आरभ्य चासनं पञ्चात्प्राङ्मुखोदङ्मुखोऽपि वा । समग्रीवशिरः कायः
संवृतास्यः सुनिश्चलः ॥ ५ ॥ नासाग्रे शशभृद्विम्बे बिन्दुमध्ये तुरीयकम् ।
स्स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६ ॥ इडया प्राणमाकृष्य पूरयि-
वोदरे स्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्जवालावलीयुतम् ॥ ७ ॥
१ कः करिष्यति.
अ. उ. ३७</p>
<pb n="593" />
<p>ईशाद्युपनिषत्सु -
खण्ड ६
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् । पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्ग-
लया बुधः॥ ८ ॥ पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् । पुनर्विरेचये-
द्धीमानिडयैव शनैः शनैः ॥ ९ ॥ त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च । षद-
कृत्वा विचरेन्नित्यं रहस्येवं त्रिसंधिषु ॥ १० ॥ नाडीशुद्धिमवाप्नोति पृथक्-
चिह्नोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११ ॥ नादाभिव्य-
तिरित्येतचिह्नं तत्सिद्धिसूचकम् । यावदेतानि संपश्येत्तावदेवं समाचरेत्
॥ १२ ॥ अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् । आत्मा शुद्धः सदा
नित्यः सुखरूपः स्वयम्प्रभः ॥ १३ ॥ अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो
भवत्ययम् । अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः । स एव सर्वदा शुद्धो
नान्यः कर्मरतो हि सः ॥ १४ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥
प्राणायामक्रमं वक्ष्ये सांकृते शृणु सादरम् । प्राणायाम इति प्रोक्को रेच-
पूरककुम्भकैः ॥ १ ॥ वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एष
प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥ २ ॥ इडया वायुमाकृष्य पूरयि-
त्वोदरे स्थितम् । शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३ ॥ पूरितं
धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया । उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् ॥ ४ ॥
यावद्वा शक्यते तावद्धारयेजपतत्परः । पूरितं रेचयेत्पश्चान्मकारेणानिलं
बुधः ॥ ५ ॥ शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायामो भवे-
देवं ततश्चैवं समभ्यसेत् ॥ ६ ॥ पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।
अकारमूर्तिमन्त्रापि स्मरेदेकाग्रमानसः ॥ ७ ॥ धारयेत्पूरितं विद्वान्प्रणवं
संजपन्वशी । उकारमूर्ति स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥ ८ ॥ मकारं
तु स्मरन्पश्चाद्रेचयेदिडयाऽनिलम् । एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान्
॥ ९ ॥ एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर । एवमभ्यासतो नित्यं
षण्मासाद्यत्नवान्भवेत् ॥ १० ॥ वत्सराद्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् ।
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ ११ ॥ प्राणसंयमनेनैव
ज्ञानान्मुक्तो भविष्यति । बाह्यादापूरणं वायोरुदरे पूरको हि सः ॥ १२ ॥
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् । बहिर्विरेचनं वायोरुदराद्रेचकः
स्मृतः ॥ १३ ॥ प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कम्पनं मध्यमं
विद्यादुत्थानं चोत्तमं विदुः ॥ १४ ॥ पूर्वं पूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।</p>
<pb n="594" />
<p>खण्डः ६]
जाबालदर्शनोपनिषत् ॥ ९३ ॥
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥ १५ ॥ प्राणायामेन
चित्तं तु शुद्धं भवति सुव्रत । चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यव-
स्थितः ॥ १६ ॥ प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति । प्राणायामपर-
स्यास्य पुरुषस्य महात्मनः ॥ १७ ॥ देहश्वोत्तिष्ठते तेन किंचिज्ज्ञानाद्वि-
मुक्ता । रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥ १८ ॥ सर्व-
प्रापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् । मनोजवत्वमाप्नोति पलितादि च
नश्यति ॥ १९ ॥ प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् । तस्मात्सर्व-
प्रयत्नेन प्राणायामान्समभ्यसेत् ॥ २० ॥ विनियोगान्प्रवक्ष्यामि प्राणायामस्य
सुव्रत । संध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाऽथवा सदा ॥ २१ ॥ बाह्यं
प्राणं समाकृष्य पूरयित्वोदरेण च । नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे
च धारयेत् ॥ २२ ॥ सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः । नासाग्र-
धारणाद्वापि जितो भवति सुव्रत ॥ २३ ॥ सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये
तु धारणात् । शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ २४ ॥ जिह्वया वायुमा-
कृष्य यः पिबेत्सततं नरः । श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥ २५॥
जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् । पिबेदमृतमव्यग्रं सकलं सुखमा-
प्नुयात् ॥ २६ ॥ इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् । यः पिबेदमृतं
शुद्धं व्याधिभिर्मुच्यते हि सः ॥ २७॥ इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च ।
नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ २८ ॥ मासमात्रं त्रिसन्ध्याय
जिह्वयारोप्य मारुतम् । अमृतं च पिवेन्नाभौ मन्दं मन्दं निरोधयेत् ॥ २९ ॥
वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः । नासाभ्यां वायुमाकृष्य नेत्र-
द्वन्द्वे निरोधयेत् ॥ ३० ॥ नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् । तथा
वायुं समारोप्य धारयेच्छिरसि स्थितम् ॥ ३१ ॥ शिरोरोगा विनश्यन्ति
सत्यमुक्तं हि सांकृते । स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३२ ॥
अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः । हस्ताभ्यां धारयेत्सम्यक्कर्णादिकर-
णानि च ॥ ३३ ॥ अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी । नासापुटा-
वधानाभ्यां प्रच्छाद्य करणानि वै ॥ ३४ ॥ आनन्दाविर्भवो यावत्तावन्मूर्धनि
धारणात् । प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥ ३५ ॥ ब्रह्मरन्धं गते
वाय नादश्वोत्पद्यतेऽनघ । शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥ ३६ ॥
शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा । पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मो-</p>
<pb n="595" />
<p>ईशाद्युपनिषत्सु -
[ खण्डः ७
न्मुखो भवेत् ॥ ३७ ॥ पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिहुतिः । दक्षिणोत्तर-
गुल्फेन सीवनीं पीडयेत्स्थिरम् ॥ ३८ ॥ सव्येतरेण गुल्फेन पीडयेद्बुद्धि-
मान्नरः । जान्वोरधः स्थितां सन्धि स्मृत्वा देवं त्रियम्बकम् ॥ ३९ ॥ विना-
यकं च संस्मृत्य तथा वागीश्वरीं पुनः । लिङ्गनालात्समाकृष्य वायुमप्यग्रतो
मुने ॥ ४० ॥ प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्र
मध्ये तं तु निरोधयेत् ॥ ४१ ॥ निरुध्य वायुना दीप्तो वह्निरूहति कुण्ड-
लीम् । पुनः सुषुन्नया वायुर्वह्निना सह गच्छति ॥ ४२ ॥ एवमभ्यसतस्तस्य
जितो वायुर्भवेद्भृशम् । प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥ ४३ ॥
उत्थानं च शरीरस्य चिह्नमेतजितेऽनिले । एवमभ्यस्तस्तस्य मूलरोगो विन-
श्यति ॥ ४४ ॥ भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते । पातकानि विन:-
श्यन्ति क्षुद्राणि च महान्ति च ॥ ४५ ॥ नष्टे पापे विशुद्धं स्याच्चित्तदर्पणम
द्भुतम् । पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि ॥ ४६ ॥ विरक्तस्य तु
संसाराज्ज्ञानं कैवल्यसाधनम् । तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम्
॥ ४७ ॥ ज्ञानामृतरसो येन सकृदास्त्रादितो भवेत् । स सर्वकार्यमुत्सृज्य
तन्नैव परिधावति ॥ ४८ ॥ ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् । अर्थस्वरूप-
मज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ४९ ॥ आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ५० ॥ रागाद्यसंभवे प्राज्ञ
पुण्यपापविमर्दनम् । तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥ ५१ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु षष्ठः खण्डः ॥ ६ ॥
अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने । इन्द्रियाणां विचरतां विषयेषु
स्वभावतः ॥ १ ॥ बलादाहरणं तेषां प्रत्याहारः स उच्यते । यत्पश्यति तु
तत्सर्वं ब्रह्म पश्यन्समाहितः ॥ २ ॥ प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरो-
दितः । यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥ ३ ॥ तत्सर्वं ब्रह्मणे
कुर्यात्प्रत्याहारः स उच्यते । अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥ ४ ॥
काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते । अथवा वायुमाकृष्य स्थाना-
स्थानं निरोधयेत् ॥ ५ ॥ दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् । उरो-
देशात्समाकृष्य नाभिदेशे निरोधयेत् ॥ ६ ॥ नाभिदेशात्समाकृष्य कुण्डल्या
तु निरोधयेत् । कुण्डली देशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७ ॥ अथा-</p>
<note>१. मभ्यासतः..</note>
<pb n="596" />
<p>खण्डः ९] _
जांबाल दर्शनोपनिषत् ॥ ९३ ॥
4
पानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे । तस्माजानुद्वये जङ्घे पादाङ्गुष्ठे निरौ-
'धयेत् ॥ ८ ॥ प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा । एवमभ्यासयुक्तस्यः
पुरुषस्य महात्मनः ॥ ९ ॥ सर्वपापानि नश्यन्ति भवरोगश्च सुव्रतः । ना-
साभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ १० ॥ पूरयेदनिलं विद्वाना-
'पादतलमस्तकम् । पश्चात्पादद्वये तन्मूलाधारे तथैव च ॥ ११ ॥ नाभि-
कन्दे च हृन्मध्ये कण्ठमूले च तालुके । भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि
'धारयेत् ॥ १२ ॥ देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः । आत्मना -
sscafe निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥ १३ ॥ प्रत्याहारः समाख्यातः साक्षा-
द्वेदान्तवेदिभिः । एवमेभ्यस्तस्तस्य न किंचिदपि दुर्लभम् ॥ १४ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु सप्तमः खण्डः ॥ ७॥
अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत । देहमध्यगते व्योम्नि बाह्या-
ssकाशं तु धारयेत् ॥ १ ॥ प्राणे बाह्यानिलं तद्वज्जवलने चाग्निमौदरे । तोयं
तोयांशके भूमिं भूमिभागे महामुने ॥ २ ॥ हयवरलकाराख्यं मन्त्रमुच्चारये-
त्क्रमात् । धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥ ३ ॥ जान्वन्तं पृथिवी
झंशो पां पात्रन्तमुच्यते । हृदयांशस्तथाझ्यंशो भ्रूमध्यान्तोऽनिलांशकः
॥ ४ ॥ आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः । ब्रह्माणं पृथिवीभागे
विष्णुं तोयांशके तथा ॥ ५ ॥ अयंशे च महेशानमीश्वरं चानिलांशके ।
आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६ ॥ अथवा तव वक्ष्यामि
धारणां मुनिपुङ्गव । पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ७ ॥ धारये-
बुद्धिमान्नित्यं सर्वपापविशुद्धये । ब्रह्मादिकार्यरूपाणि स्त्रे स्वे संहृत्य कारणे
॥ ८ ॥ सर्वकारणमव्यक्तमनिरूप्यमचेतनम् । साक्षादात्मनि संपूर्ण धारये -
- प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥ ९ ॥ इति ॥
इति जाबालदर्शनोपनिषत्खष्टमः खण्डः ॥ ८ ॥
अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् । ऋतं सत्यं परं ब्रह्म सर्व-
'संसारभेषजम् ॥ १ ॥ ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् । सोऽहमित्या-
दरेणैव ध्यायेद्योगीश्वरेश्वरम् ॥ २ ॥ अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ ३ ॥ तथाऽस्थूलमनाकाशमसं-
१ मभ्यासतः •</p>
<pb n="597" />
<p>પંઢર
ईशायुपनिषत्सु -
[ खण्ड: १०
स्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ४ ॥ आत्मानं
सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्मीत्यभिध्यायेयेयातीतं विमुक्तये
॥ ५ ॥ एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः । क्रमाद्वेदान्तविज्ञानं विजा-
येत न संशयः ॥ ६ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु नवमः खण्डः ॥ ९ ॥
अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् । समाधिः संविदुत्पत्तिः पर-
जीवैकतां प्रति ॥ १ ॥ नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः । एकः
संभिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ २ ॥ तस्मादुद्वैतमेवास्ति न प्रपञ्चो
न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३ ॥ तथा भ्रान्तै-
द्विधा प्रोतो ह्यात्मा जीवेश्वरात्मना । नाहं देहो न च प्राणो नेन्द्रियाणि
मनो नहि ॥ ४ ॥ सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । इति धीर्या
मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ ५ ॥ साहं ब्रह्म न संसारी न मत्तोऽन्यः
कदाचन । यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ ६ ॥ समुद्रे लीयते तद्व-
जमन्मय्यनुलीयते । तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ॥७॥
यस्यैवं परमात्माऽयं प्रत्यग्भूतः प्रकाशितः । स तु याति च पुंभावं स्वयं
साक्षात्परामृतम् ॥ ८ ॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगि-
नोsव्यवधानेन तदा संपद्यते स्वयम् ॥ ९ ॥ यदा सर्वाणि भूतानि स्वात्म-
न्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥ १० ॥ यदा
सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणाऽसौ तदा भवति
केवलः ॥ ११ ॥ यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्रं जग--
त्कृत्स्नं तदा भवति निर्वृतिः ॥ १२ ॥ एवमुक्त्वा स भगवान्दत्तात्रेयो महा-
मुनिः । सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥ १३ ॥ इति ॥
इति जाबालदर्शनोपनिषत्सु दशमः खण्डः ॥ १० ॥
ॐ आप्यायन्त्विति शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥ ९३ ॥</p>
<pb n="598" />
<p>पाद० २]
तारसारोपनिषत् ॥ ९४ ॥</p>
<lg>
  <l>तारसारोपनिषत् ॥ ९४ ॥</l>
  <l>यन्नारायणतारार्थ सत्यज्ञानसुखाकृति ।</l>
  <l>'त्रिपान्नारायणाकारं तद्ब्रह्मैवास्मि केवलम् ॥ १ ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं
सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र वचन गच्छेत्तदेव मन्येतेति । इदं वै
कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु
रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति । तस्मादविमुक्तमेव
निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १ ॥
अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् । किं तारयतीति स
होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपा-
सितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् । नम इति द्व्यक्षरं प्रकृतिस्वरूपम् ।
नारायणायेति पञ्चाक्षरं परं ब्रह्मस्वरूपम् इति । य एवं वेद सोऽमृतो भवति ।
ओमिति ब्रह्म भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार
ईश्वरो भवति । रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो
भगवान्भवति । यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्षरं वेद
परमपुरुषो भवति ॥
तारसारोपनिषत्सु ऋग्वेदः प्रथमः पादः ॥ १॥
अमित्येतदक्षरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव सूक्ष्माष्टाक्षरं
भवति । तदेतदष्टात्मकोऽष्टधा भवति । अकारः प्रथमाक्षरो भवति । उकारो
द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति ।
नादः पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता सप्तमाक्षरो
भवति । तत्परश्चाष्टमाक्षरो भवति । तारकत्वात्तारको भवति । तदेव तारकं
ब्रह्म त्वं विद्धि । तदेवोपासितव्यम् ॥ अत्रैते श्लोका भवन्ति---अकारादभव-
ब्रह्मा जाम्बवानिति संज्ञकः । उकाराक्षरसंभूत उपेन्द्रो हरिनायकः ॥ १ ॥
मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः । बिन्दुरीश्वरसंज्ञस्तु शत्रुमश्चक्रराट्
१ तेनासौ.</p>
<pb n="599" />
<p>ईशाद्युपनिषत्सु -
[ पाद० ३
स्वयम् ॥ २ ॥ नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः । कलायाः पुरुषः
साक्ष लक्ष्मणो धरणीधरः ॥ ३ ॥ कलातीता भगवती स्वयं सीतेति संज्ञिता ।
तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४ ॥ भोमित्येतदक्षरमिदं
सर्वम् । तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्वमंत्र वर्ण देवता छन्दो-
ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद ॥
तारसारोपनिषत्सु यजुर्वेदो द्वितीयः पादः ॥ २ ॥
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवति
स्वात्मानं दर्शयति तनो ब्रूहि भगव इति । स होवाच याज्ञवल्क्यः । ॐ यो
ह वै श्री परमात्मा नारायणः स भगवानकारवाच्यो जाम्बवान्भूर्भुवः सुव-
स्तस्मै वै नमो नमः ॥ १ ॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स
भगवानुकारवाच्य उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमो
नमः ॥ २ ॥ ॐ यो ह वै परमात्मा नारायणः स भगवान्मकारवाच्यः
शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ३ ॥ ॐ यो ह वै
श्री परमात्मा नारायणः स भगवान्बिन्दुस्वरूपः शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै
नमो नमः ॥ ४ ॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो
भरतो भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ५ ॥ ॐ यो ह वै श्रीपरमात्मा
नारायणः स भगवान्कलास्वरूपो लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमो नमः
॥ ६ ॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता
भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ ७ ॥
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् । उकारवाच्य
उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दु-
स्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः ५ कलास्वरूपो लक्ष्मणः ६ कला-
तीता भगवती सीता चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारा-
यणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्त-
सत्यपरमानन्ताद्वय परिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुव-
स्तस्मै नमो नमः ॥ ८ ॥ एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति ।
स वायुपूतो भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति ।
स सर्वैर्देवैर्ज्ञातो भवति । तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि
जप्तानि फलानि भवन्ति । श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः शत-</p>
<pb n="600" />
<p>महावाक्योपनिषत् ॥ ९५ ॥
પ
सहस्रं जसं भवति । प्रणवानामयुतं जलं भवति । दशपूर्वान्दशोत्तरान्पु-
-नाति । नारायणपदमवामोति य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति
सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदम् ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
तारसारोपनिषत्सु सामवेदस्तृतीयः पादः ॥ ३ ॥
ॐ पूर्णमद इति शान्तिः ॥
इति तारसारोपनिषत्समाप्ता ॥ ९४ ॥</p>
<lg>
  <l>महावाक्योपनिषत् ॥ ९५ ॥</l>
  <l>यन्महावाक्य सिद्धान्तमहाविद्याकलेवरम् ।</l>
  <l>विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं व्याख्या-
स्यामः। गुह्याद्द्द्रुह्यपरमेषा न प्राकृतायोपदेष्टव्या । साविकायान्तर्मुखाय परिशु-
श्रूषवे अथ संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य विज्ञायाविद्यालो-
thrustrate । तमो हि शारीरप्रपञ्चमाब्रह्म स्थावरान्तमनन्ताखिलाजाण्ड-
भूतम् । निखिल निगमोदित सकाम कर्मव्यवहारो लोकः । नैषोऽन्धकारोऽय-
मात्मा । विद्या हि काण्डान्तरादित्यो ज्योतिर्मण्डलं ग्राह्यं नापरम् । असावादित्यो
ब्रह्मेत्यजपयोपहितं हंसः सोऽहम् । प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां
समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः
परमात्माविर्भवति । सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव ।
Sir समाधिः । नैषा योगसिद्धिः । नैषा मनोलयः । ब्रह्मैक्यं तत् । आदित्य-
वर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवद-
न्यदास्ते धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः तमेवं
विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त
देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र
पूर्वे साध्याः सन्ति देवाः । सोऽहमर्कः परं ज्योतिरकंज्योतिरहं शिवः । आत्म-
ज्योतिरहं शुक्रः सर्वज्योतिरसावंदोम् । य एतदथर्वशिरोऽधीते । प्रातरधी-
१ लोकान्धस्तमो. २ सैषा समाधिः, ३ वदोत्
1
1</p>
<pb n="601" />
<p>ईशायुपनिषत्सु -
यानो रात्रिकृतं पापं नाशयति । सयमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायं प्रातः प्रयुञ्जानः पापोsपापो भवति । मध्यन्दिनमादित्याभिमुखो -
ऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते ।</p>
<lg>
  <l>श्रीमहाविष्णु सायुज्यमवा मोतीत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ।</l>
  <l>इति महावाक्योपनिषत्समाप्ता ॥ ९५ ॥</l>
</lg>
<lg>
  <l>पञ्चब्रह्मोपनिषत् ॥ ९६ ॥</l>
  <l>ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः ।</l>
  <l>तदखण्ड सुखाकारं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ सह नाववखिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । सद्यो
जातमिति । किं भगव इति । अघोर इति । किं भगव इति । वामदेव इति ।
किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वा पुनरिमे भगव इति ।
सर्वेषां दिव्यानां प्रेरयता ईशान इति । ईशानो भूतभव्यस्य सर्वेषां देव-
योगिनाम् । कति वर्णाः । कति भेदाः । कति शक्तयः । यत्सर्वं तद्रुह्यम् ।
तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः । गोप्या-
गोप्यतरं लोके यद्यस्ति श्रृणु शाकल । सद्यो जातं मही पूषा रमा ब्रह्मा
त्रिवृत्स्वरः ॥ १ ॥ ऋग्वेदो गार्हपत्यं च मन्त्राः सप्त स्वरास्तथा । वर्णं पीतं
क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥ २ ॥ अघोरं सलिलं चन्द्र गौरी वेद
द्वितीयकम् । नीरदाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥ ३ ॥ पञ्चाशद्वर्णसं-
युक्तं स्थितिरिच्छा क्रियान्वितम् । शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥ ४ ॥
सर्वदुष्टप्रशमनं सर्वैश्वर्यं फलप्रदम् । वामदेवं महाबोधदायकं पावकात्मकम्
॥ ५ ॥ विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाख्यं
नानाष्टकसमन्वितम् ॥ ६॥ धीरस्वरमधीनं चाहवनीयमनुत्तमम् । ज्ञानसंहार-
संयुक्तं शक्तिद्वयसमन्वितम् ॥ ७ ॥ वर्णं शुकुं तमोमिश्रं पूर्णबोधकस्
स्वयम् । धामन्त्रयनियन्तारं धामन्त्रयसमन्वितम् ॥ ८ ॥ सर्वसौभाग्यदं नृणां
१ विद्यानां .</p>
<pb n="602" />
<p>पञ्चब्रह्मोपनिषत् ॥ ९६॥
.५८७
सर्वकर्मफलप्रदम् । अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥ ९ ॥ यत्तत्तत्पु
रुषं प्रोक्तं वायुमण्डलसंवृतम् । पञ्चाग्निना समायुक्तं मत्रशक्तिनियामकम्
॥ १० ॥ पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् । कोटिकोटिगणाध्यक्षं
ब्रह्माण्डाखण्डविग्रहम् ॥ ११ ॥ वर्णं रक्तं कामदं च सर्वाधिव्याधिभेष-
जम् । सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिष्टक् ॥ १२ ॥ अवस्थात्रि-
तयातीतं तुरीयं ब्रह्मसंज्ञितम् । ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम्
॥ १३ ॥ ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् । आकाशात्मकमव्यक्तमोंकार-
स्वरभूषितम् ॥ १४ ॥ सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्वहिः । अकारादि-
स्वराध्यक्षमाकाशमयविग्रहम् ॥ १५ ॥ पञ्चकृत्य नियन्तारं पञ्चब्रह्मात्मकं बृहत् ।
पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥ १६ ॥ स्वमायावैभवान्सर्वान्सं-
हृत्य स्वात्मनि स्थितः । पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥ १७ ॥
आदावन्ते च मध्येच भाससे नान्यहेतुना । मायया मोहिताः शंभोर्महादेवं
जगद्गुरुम् ॥ १८ ॥ न जानन्ति सुराः सर्वे सर्वकारणकारणम् । न संदृशे
तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥ १९ ॥ येन प्रकाशते विश्व
यत्रैव प्रविलीयते । तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परं पदम् ॥ २० ॥ पञ्च-
ब्रह्म पैरं विद्यात्सद्यो जातादिपूर्वकम् । दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम्
॥ २१ ॥ पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् । ब्रह्मकार्यमिति ज्ञात्वा
ईशानं प्रतिपद्यते ॥ २२ ॥ पञ्चब्रह्मात्मकं सर्व स्वात्मनि प्रविलाप्य च ।
सोऽहमस्मीति जानीय । द्विद्वान्ब्रह्माऽमृतो भवेत् ॥ २३ ॥ इत्येतद्ब्रह्म जानी-
याद्यः स मुक्तो न संशयः । पञ्चाक्षरमयं शंभुं परब्रह्मस्वरूपिणम् ॥ २४ ॥
नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् । सर्वं पञ्चात्मकं विद्यात्पञ्चन-
ह्यात्मतत्वतः ॥ २५ ॥ पञ्चब्रह्मात्मिक विद्यां योऽधीते भक्तिभावितः । स
पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥ २६ ॥ एवमुक्त्वा महादेवो
गालवस्य महात्मनः । कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥ २७ ॥ यस्य
श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् । अमतं च मतं ज्ञातमविज्ञातं च शकल
॥ २८ ॥ एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । विज्ञातं मृण्मयं सर्व
मृदभिन्नं हि कार्यकम् ॥ २९ ॥ एकेन लोहमणिना सर्व लोहमयं यथा ।
विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥ ३० ॥ सर्वं कार्ष्णायसं ज्ञातं तद-
१ सत्यचित्सुखम् . २ ब्रह्ममिदं विद्यात्. ३ श्रुत्वा.</p>
<pb n="603" />
<p>ईशाद्युपनिषत्सु -...?
[ खण्ड: १
भिन्नं स्वभावतः । कारणाभिन्नरूपेण कार्यकारणमेव हि ॥ ३१ ॥ तद्रूपेण
सदा सत्यं भेदेनोतिर्मृषा खलु । तच कारणमेकं हि न भिन्नं नोभयात्म-
कम् ॥ ३२ ॥ भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् । अतश्च कारणं नित्य-
मेकसेवाद्वयं खलु ॥ ३३ ॥ अन्न कारणमद्वैतं शुद्धचैतन्यमेव हि । अस्मिन्त्र-
पुरे वेश्म दहरं यदिदं मुने ॥ ३४ ॥ पुण्डरीकं तु तन्मध्ये आकाशो दह-
रोsस्ति तत् । स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षुभिः ॥ ३५ ॥ भयं
हृदि स्थितः साक्षी सर्वेषामविशेषतः । तेनायं हृदयं प्रोक्तः शिवः संसार-
- मोचकः ॥ ३६ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इति पञ्चब्रह्मोपनिषत्समाप्ता ॥ ९६ ॥</p>
<lg>
  <l>प्राणाग्निहोत्रोपनिषत् ॥ ९७ ॥</l>
  <l>शरीरयज्ञसंशुद्धचित्त संजातबोधतः ।</l>
  <l>मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥ १ ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>"
हरिः ॐ ॥ अथातः सर्वोपनिषत्सारं संसारज्ञानातीतमन्नसूत्रं शारीरं यज्ञ
व्याख्यास्यामः । अस्मिन्नेव पुरुषशरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन
संसारविमुक्तिर्भवतीति । स्वेन विधिनाऽन्नं भूमौ निक्षिप्य या ओषधीः
सोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्यामनुमन्त्रयते । या ओषधयः सोम-
राशीर्बह्वीः शतविचक्षणाः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥ १ ॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो
मुञ्चन्वंहसः ॥ २ ॥ जीवलां नैवारिषां माते बध्नाम्योषधिम् । या त भायु
रुपेerदप रक्षांसि चातयात् ॥ ३ ॥ अन्नपतेऽन्नस्य नो ह्यनमीवस्य
शुष्मिणः । प्रप्रदातारं तारिष ऊर्ज नो धेहि द्विपदे चतुष्पदे ॥ ४॥ यदन्नमझि
- बहुधा विद्धिम् । रुद्रैः प्रजग्धं यदि वा पिशाचैः । सर्वतदीशानो अभयं
'कृणोतु शिवमीशानाय स्वाहा ॥ ५ ॥ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
....... सांख्येन.
२ अकोशा याश्व कोशिनीः.
३ नघर्षा.
४ अपातयादुपहरा -
दपरक्षांसि चातयात् ५ रपाहरा. ६ विराजं; विरुद्धं.</p>
<pb n="604" />
<p>खण्डः २ ]
प्राणाग्निहोत्रोपनिषत् ॥ ९७ ॥</p>
<p>त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्त्वं विष्णुस्त्वं वषट्कार आपो ज्योती रसोऽमृतं ब्रह्म
भूर्भुवः सुखेरों नमः । आपः पुनन्तु पृथिवीं पृथ्वी पूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं
मम । सर्वं पुनन्तु तं ह्यापोऽसतां च प्रतिग्रहं । अमृतमस्य मृतोपस्तरणमस्य -
मृतं प्राणे जुहोम्यमा शिष्यान्तोऽसि । प्राणाय स्वाहा । अपानाय स्वाहा !
व्यानाय स्वाहा । समानाय स्वाहा । उदानाय स्वाहा इति कनिष्ठिकाङ्गुल्या-
ङ्गुष्ठेन च प्राणे जुहोमि । अनामिकयाsपाने । मध्यमया व्याने । सर्वाभिरुदाने ।
प्रदेशिन्या समाने । तूष्णीमेकामेकैऋषौ जुहोति । द्वे आहवनीये । काँ
दक्षिणानौ । एकां गार्हपत्ये । एकां सर्वप्रायश्चित्तीये ॥ अथापिधानमँस्यमृत-
वयोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् । सव्ये प्राणाचापो गृहीत्वा
हृदयमन्वालभ्य जपेत् । प्राणोऽग्निः परमात्मा पञ्चवायुभिरावृतः । अभयं
- सर्वभूतेभ्यो न भवेदहं कदाचनेति ॥ १ ॥
इत्यथर्वणीयप्राणाग्निहोत्रोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते जायमानम् । विश्वं त्वाहुतयः
सर्वा यत्र ब्रह्मऽमृतोऽसि । महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः । तमद्भिः
प्रतिषिञ्चामि सोऽस्यान्ते अमृतायामृतयोनावित्येष एवात्मा । ध्यायेताग्नि-
होन्नं जुहोमीति सर्वेषामेव सूनुर्भवेति । अथ यज्ञपरिवृते आहुतीहोंम-
यति । स्वे शरीरे यज्ञं परिवर्तयामीति । चत्वारोऽग्नयस्ते किंनामधेयाः । तत्र
सूर्योऽग्निर्नाम सूर्य मण्डलाकृतिः सहस्रैरश्मिपरिवृत एकर्षिर्भूत्वा मूर्ध्नि
तिष्ठति यस्मादुक्तः । दर्शनानिर्नाम चतुराकृतिराहवनीयो भूत्वा मुखे तिष्ठति ।
शारीरोऽग्निर्नाम जराप्रणुदा हविरवस्कन्दति । अर्धचन्द्राकृतिर्दक्षिणाभिर्भूत्वा
हृदये तिष्ठति तत्र कोष्ठाग्निर्नामाशितपीतलीढखादितौनि सम्यग् व्यष्ट्यां
श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति । प्रायश्चित्तयस्त्वधस्तात्तिर्यक्
तिस्रो हिमांशुप्रभाभिः प्रजननकर्मा ॥
इत्याथर्वणीयघ्राणाग्निहोत्रोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
५ एकऋचा; एक ऋचौ. ६ एकं.
१ सुवरोम् २ ग्रहं स्वं गृहं त्वं. ३ आपोमृतस्त्वमृतो. ४ जुहोति.
७ मस्यामृत. ८ त्वायोपदधामीत्युप.
९ विश्वरूपो विश्वं. १० विश्वामृतो. ११ भवतु. १२ वृतया आहुतीः. १३ किंभाग -
धेयाः. १४ रश्मिभिः परिवृत.
१५ दितं सम्यग् व्यष्टयं शयित्वा .
१६ प्रभुः.</p>
<pb n="605" />
<p>: ईशाधुपनिषत्सु -
[ खण्ड: ४
अस्य शारीरयज्ञस्य यूपरशनाशोभितस्य को यजमानः । का पत्नी । के
ऋत्विजः । के सदस्याः । कानि यज्ञपात्राणि । कानि हवींषि । का वेदिः ।
कोत्तरवेदिः । को द्रोणकलशः । को रथः । कः पशुः । कोऽध्वर्युः । को
होता । को ब्राह्मणाच्छंसी । कः प्रतिप्रस्थाता । कः प्रस्तोता । को मैत्रावरुणः ।
क उगाता । का धारापोता । के दर्भाः । कः स्रुवः । काज्यस्थाली ।
कावाधारौ । कावाज्यभागौ । के प्रयाजाः । के अनुयाजाः । केडा । कः
सूक्तवाकः । कः शंयुवाकः । काऽहिंसा । के पत्नीसंयाजाः । को यूपः । का
रशना । का हृष्टयः । का दक्षिणा । किमवभृथमिति ॥
इत्याथर्वणीयप्राणाग्निहोत्रोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥
अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः । बुद्धिः पत्नी ।
वेदा महर्त्विजः । अहंकारोऽध्वर्युः । चितं होता । प्राणो ब्राह्मणाच्छंसी ।
अपानः प्रतिप्रस्थाता । व्यानः प्रस्तोता । समानो मैत्रावरुणः । उदान
उद्गाता । शरीरं वेदिः । नासिकोत्तरवेदिः । मूर्धा द्रोणकलशः । पादो रथः ।
दक्षिणहस्तः स्रुत्रः । सव्यहस्त भाज्यस्थाली । श्रोत्रे भाघारौ । चक्षुषी आज्य-
भागौ । ग्रीवा धारापोता । तन्मात्राणि सदस्याः । महाभूतानि प्रयाजाः ।
भूतान्यनुयाजाः । जिह्वेडा । दन्तोष्ठौ सूक्तवाकः । तालुः शंयुवाकः ।
स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः । भकारो यूपः । आशा रशना ।
मनोरथः । कामः पशुः । केशा दर्भाः । बुद्धीन्द्रियाणि यज्ञपात्राणि ।
कर्मेन्द्रियाणि हवींषि । अहिंसा इष्टयः । त्यागो दक्षिणा । अवभृथं मरणात् ।
सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः । वाराणस्यां मृतो वापि इदं वा
ब्रह्म यः पठेत् । एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं च प्राप्नुया-
दित्युपनिषत् ॥ ३ ॥ ॐ सह नाववत्विति शान्तिः ॥ हरिः ॐ तत्सत् ॥
इत्यथर्वणीया प्राणाग्निहोत्रोपनिषत्समाप्ता ॥ ९७ ॥
१ नासिकान्तर्वेदिः . २ भूतगुणा, भूतानि गुणा अनुयाजा.</p>
<pb n="606" />
<p>उप०.
9]
गोपालपूर्वतापिन्युपनिषत् ॥ ९८ ॥</p>
<lg>
  <l>गोपालपूर्वतापिन्युपनिषत् ॥ ९८ ॥</l>
  <l>श्रीमत्पञ्चपदागारं सविशेषतयोज्वलम् ।</l>
  <l>प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥ १॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<lg>
  <l>गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।</l>
  <l>शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥ २ ॥</l>
</lg>
<note>५९.१</note>
<p>ॐ कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण
इत्यभिधीयते ॥ १ ॥ ॐ सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो
वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १ ॥ ॐ मुनयो ह वै ब्राह्मणमूचुः कः
परमो देवः कुतो मृत्युर्बिभेति कस्य विज्ञानेनाखिलं भाति केनेदं विश्वं
संसरतीति । तदु होवाच ब्राह्मणः श्रीकृष्णो वै परमं दैवतं गोविन्दान्मृत्यु-
बिभेति गोपीजनवल्लभज्ञानेन तज्ज्ञातं भवति स्वाहेदं संसरतीति । तदु
होचुः कः कृष्णो गोविन्दश्च कोऽसाविति गोपीजनवल्लभः कः का स्वाहेति
तानुवाच ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्या-
कलाप्रेरकः । तन्माया चेति सकलं परं ब्रह्मेतद्यो ध्यायति रसति भजति
सोऽमृतो भवति सोऽमृतो भवतीति ॥ १ ॥ ते होचुः किं तद्रूपं किं रसनं
कथं वाsहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्यो
गोपवेषमभ्राभं तरुणं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति - सम्पुण्डरीक-
नयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपाङ्गनावीतं सुरडुमतलाश्रितम् । दिव्यालंकरणोपेतं रत्नपङ्कजम-
ध्यगम् ॥ कालिन्दीजलकल्लोलासङ्गिमारुतसे वितम् । चिन्तयंश्चेतसा कृष्णं
मुक्तो भवति संसृतेः ॥ इति । तस्य पुना रसनभजनभूमीन्दुसंपातः कामादि
कृष्णायेत्येकं पदं गोविन्दायेति द्वितीयं गोपीजनेति तृतीयं वल्लभायैति -
तुरीयं स्वाहेति पञ्चममिति पञ्चपदीं प्रजपन् पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ
सानी तद्रूपतया ब्रह्म संपद्यते ब्रह्म संपद्यत इति ॥ २ ॥ तदेष श्लोकः-
कीमित्येवादावादाय कृष्णाय योगं गोविन्दायोत च । गोपीजनवल्लभाय</p>
<pb n="607" />
<p>ईशाद्युपनिषत्सु -
[ उप०
बृहद्धनं श्यामं तदप्युच्चरेद्यो गतिस्तस्यास्ति मङ्क्षु नान्या गतिः स्यादिति
भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनैवामुष्मिन्मनः कल्पनमेतदेव च
नैष्कर्म्यं कृष्णं सन्तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधा रसन्ति गोपी-
जनवल्लभो भुवनानि दध्रे स्वाहाश्रितो जगदैजयत्सुरेताः, वायुर्यथैको भुवनं
प्रतिष्ठो जन्ये जन्ये पञ्चरूपो बभूव । कृष्णस्तथैकोऽपि जगद्धितार्थं शब्देनासौ
पञ्चपदो विभातीति ॥ ३ ॥ ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्या-
खिलाधारिणो ब्रूहीति । तानुवाच ब्रह्मा यत्तस्य पीठं हैरण्यमष्टपलाशमम्बुजं
तदन्तरालिकानलात्रयुगं तदन्तराद्यार्णं विलिखीत कृष्णाय । नम इति
बीजाढ्यं स ब्राह्मणमाधायानङ्गमनु गायत्रीं यथावद्वयासज्य भूमण्डलं
मूलवेष्टितं कृत्वाऽङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तीन्द्रादिवसुदेवादिपार्थादिनि-
erratतं यजेत्संध्यासु प्रतिपत्तिभिरुपचारैस्तेनास्याखिलं भवत्यखिलं भवतीति
॥ ४ ॥ तदिह श्लोका भवन्ति - एको वशी सर्वगः कृष्ण ईड्य एकोऽपि
सम्बहुधा यो विभाति । तं पीठस्थं येऽनुभजन्ति धीरास्तेषां सुखं शाश्वतं
नेतरेषाम् ॥ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुयजन्ति विप्रास्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ एतद्विष्णोः
परमं पदं ये नित्योद्युक्ताः संयजन्ते न कामात् । तेषामसौ गोपरूपः
श्रात्प्रकाशयेदात्मपदं तदैव ॥ यो ब्रह्माणं विदधाति पूर्वं यो विद्यास्तस्मै
गापयति स्म कृष्णः । तं ह देवमात्मवृत्तिप्रकाशं मुमुक्षुर्वै शरणममुं व्रजेत् ॥
ओंकारेणान्तरितं यो जपति गोविन्दस्य पञ्चपदं मनुं तम् । तस्यैवासौ
दर्शयेदात्मरूपं तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥ एतस्मादन्ये पञ्चपदाद-
भूवन्गोविन्दस्य मनवो मानवानाम् । दशार्णाद्यास्तेऽपि संक्रन्दनाद्यैरभ्यस्यन्ते
भूतिकामैर्यथावत् ॥ तदेतस्य स्वरूपार्थं वाचा वेदयेति ते पप्रच्छ्रुस्तदु
होवाच ब्राह्मणः, अनवरतं मया ध्यातस्ततः परार्धान्ते सोऽबुध्यत गोपवेषो
मे पुरस्तादाविर्बभूव ततः प्रणतो मया, अनुकूलेन हृदा मह्यमष्टादशार्ण
स्वरूपं सृष्ट्ये दत्त्वाऽन्तर्हितः पुनः सिसृक्षा मे प्रादुरभूत्तेष्वक्षरेषु भविष्य-
जगद्रूपं प्रकाशयंस्तदाह तदाह ॥ ५ ॥ अनुकूलेन हृदा मामष्टादशार्ण
स्वरूपं सृष्टये दत्वाऽन्तर्हित इति । आकाशादापो जलात्पृथ्वी ततोऽग्निर्बि-
न्दोरिन्दुः, तत्संपातादर्कः । इति क्लींकारादसृजे कृष्णादाकाशं खाद्वायुरि-
त्युत्तरात्सुरभिविद्याः प्रादुरकार्षं तदुत्तरातु स्त्रीपुमादि च इदं सकलमिदं</p>
<pb n="608" />
<p>उप० २]
गोपालपूर्वतापिन्युपनिषत् ॥ ९८ ॥</p>
<p>सकलमिति ॥ ६ ॥ एतस्यैव यजन चन्द्रध्वजो गतमोहमात्मानं
वेदयित्वों कारान्तरालिकं मनुमावर्तयन् सङ्गरहितोऽत्यापतत् । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तस्मादेतन्नित्यमभ्य-
सेन्नित्यमभ्यसेदिति ॥ ७ ॥ तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाजलं
तृतीयपदात्तेजश्चतुर्थाद्वायुश्वरमायोमेति वैष्णवं पञ्चव्याहृतिमयं मन्त्रं
कृष्णावभासं कैवल्यसृत्यै सततमावर्तयेदिति । तदत्र गाथा:--यस्य
पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः । तृतीयात्तेज उद्भूतं चतुर्थागन्धवाहनः ॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् । चन्द्रध्वजोऽगमद्विष्णोः परमं
पदमव्ययम् ॥ ततो विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्ति ॥ तमेकं गोविन्दं
सच्चिदानन्दविग्रहं पञ्चपदं वृन्दावने सुरभूरुहतलासीनं सततं समरुद्गणोऽहं
परमया स्तुत्या तोषयामि ॥ ८ ॥
इति गोपालपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १ ॥
ॐ नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ॥ विश्वेश्वराय विश्वाय गोविन्दाय
नमो नमः ॥
१ ॥ नमो विज्ञानरूपाय परमानन्दरूपिणे ॥ कृष्णाय
गोपीनाथाय गोविन्दाय नमो नमः ॥ २ ॥ नमः कमलनेत्राय नमः कमल-
मालिने ॥ नमः कमलनाभाय कमलापतये नमः ॥ ३ ॥ बर्हापीडाभिरामाय
रामायाकुण्ठमेधसे ॥ रमामानसहंसाय गोविन्दाय नमो नमः ॥ ४ ॥
कंसवंशविनाशाय केशिचाणूरघातिने ॥ वृषभध्वजवन्द्याय पार्थसारथये नमः
॥ ५ ॥ वेणुवादनशीलाय गोपालायाहि मर्दिने ॥ कालिन्दी कूललोलाय लोल-
कुण्डलधारिणे ॥ ६ ॥ बल्लवीनयनाम्भोजमालिने नृत्यशालिने ॥ नमः
प्रणतपालाय श्रीकृष्णाय नमो नमः ॥ ७ ॥ नमः पापप्रणाशाय गोवर्धन-
धराय च ॥ पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८ ॥ निष्कलाय
विमोहाय शुद्धायाशुद्धवैरिणे ॥ अद्वितीयाय महते श्रीकृष्णाय नमो नमः
॥ ९ ॥ प्रसीद परमानन्द प्रसीद परमेश्वर ॥ आधिव्याधिभुजंगेन दृष्टं
मामुद्धर प्रभो ॥ १० ॥ श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ॥ संसार-
सागरे मनं मामुद्धर जगद्गुरो ॥ ११ ॥ केशव क्लेशहरण नारायण जनार्दन ॥
गोविन्द परमानन्दमां समुद्धर माधव ॥ १२ ॥ अथ हैवं स्तुतिभिराराधयामि
ते यूयं तथा पञ्चपदं जपन्तः श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति स
होवाच हैरण्यः । अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं
अ. उ. ३८</p>
<pb n="609" />
<p>ईशायुपनिषत्सु -
तत् । अनेजदेकं मनसो जवीयो नैतदेवा आनुवन्पूर्वमर्षदिति । तस्मात्कृष्ण
एव परो देवस्तं ध्यायेतं रसेत्तं भजेत्तं भजेदित्यों तत्सदिति ॥ १३ ॥
इति गोपालपूर्वतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इत्याथर्वणीया गोपाल पूर्वतापिन्युपनिषत्समाप्ता ॥ ९८ ॥</p>
<lg>
  <l>गोपालोत्तरतापिन्युपनिषत् ॥ ९९ ॥</l>
  <l>ॐ सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे ।</l>
  <l>नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>गोपालं कृष्ण
दातव्यं भवति
ॐ एकदा हि व्रजखियः सकामाः शर्वरीमुषित्वा सर्वेश्वरं
हिता ऊचिरे । उवाच ताः कृष्णमनुः कस्मै ब्राह्मणाय भैक्षं
दुर्वाससेति । कथं यास्यामोऽतीत्व जलं यमुनायाः, यतः श्रेयो भवति
कृष्णेति कृष्णो ब्रह्मचारीत्युक्त्वा मार्गं वो दास्यत्युत्ताना भवति यं माँ
स्मृत्वा, अगाधा गाधा भवति यं मां स्मृत्वा, अपूतः पूतो भवति यं मां
स्मृcarsaat व्रती भवति यं मां स्मृत्वा, निष्कामः सकामो भवति यं मां
स्मृत्वा, अश्रोत्रियः श्रोत्रियो भवति यं मां स्मृत्वा श्रुत्वा तद्वाचं. ह
वै
स्मृत्वा तद्वाक्येन तीर्त्वा तां सौर्या हि वै गत्वाश्रमं पुण्यतमं नत्वा
मुनिश्रेष्ठतमं हि रौद्रं चेति दत्त्वाऽमै ब्राह्मणाय क्षीरमयं घृतमयं मिष्टतमं हि
वा इष्टतमः स तुष्टः स्नात्वा भुक्त्वाऽऽशिषं प्रयोज्याज्ञामदात्कथं यास्यामो-
satta सौर्याम्, स होवाच मुनिदुर्वासिनं मां स्मृत्वा वो दास्यतीति मार्गम् ।
तासां मध्ये श्रेष्ठा गान्धर्वी होवाच सहैवैताभिरेवं विचार्य कथं कृष्णो
ब्रह्मचारी, कथं दुर्वासिनो मुनिस्तां हि मुख्यां विधाय पूर्वमनु कृत्वा तूष्णी-
मासुः । शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नस्तस्मिन्नाकाशे तिष्ठत्याकाशस्तं
न वेद स ह्यात्माऽहं कथं भोक्ता भवामि ॥ १ ॥ स्पर्शवान्वायुः स्पर्शवा-
युभ्यां भिन्नस्तस्मिन्वायौ तिष्ठति वायुर्न वेद तं स ह्यात्माऽहं कथं भोक्ता
भवामि रूपवदिदं तेजो रूपाभिभ्यां भिन्नस्तस्मिन्ननौ तिष्ठत्यग्निर्न वेद तं हि
सामाsहं कथं भोक्ता भवामि ॥ २ ॥ रसवत्य आपो रसाच्यो भिन्नास्ता-
स्वप्सु तिष्ठति । आपो न विदुस्तं हि स ह्यात्माऽहं कथं भोक्ता भवामि ॥ ३ ॥
गन्धवती भूमिर्गन्धभूमिभ्यां भिन्नस्तस्यां भूमौ तिष्ठति भूमिर्न वेद तं हि स</p>
<pb n="610" />
<p>गोपालोत्तरतापिन्युपनिषत् ॥ ९९ ॥</p>
<p>emist कथं भोक्ता भवामि ॥ ४ ॥ इदं हि मनस्तेष्वेवं हि मनुते तानि
गृह्णाति । यत्र हि सर्वमात्मैवाभूत्तत्र वा कुत्र मनुते क्व वा गच्छतीति स
ह्यात्माsहं कथं भोक्ता भवामि ॥ ५ ॥ अयं हि कृष्णो यो वो हि प्रेष्ठः
शरीरद्वयकारणं भवति द्वौ सुपणों भवतो ब्रह्मणोंऽशभूतस्तथेवरो भोक्ता
भवति । अन्यो हि साक्षी भवतीति ॥ ६ ॥ वृक्षधर्मे तौ तिष्ठतोऽभोक्तृभोक्तारौ
पूर्वो हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति यत्र विद्याविद्ये न
विदामो विद्याविद्याभ्यां भिन्नो विद्यामयो यः स कथं विषयी भवतीति
॥ ७ ॥ यो हि वै कामेन कामान्कामयते स कामी भवति यो हि वै वकामेन
काम न कामयते सोऽकामी भवतीति । जन्मजराभ्यां भिन्नः स्थाणुरयम-
च्छेद्योऽयम् । योऽसौ सूर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ
गोपान्पालयति योऽसौ गोपेषु तिष्ठति योऽसौ सर्वेषु देवेषु तिष्ठति
योऽसौ सर्वैर्वेदैर्गीयते योऽसौ सर्वेषु भूतेष्वाविश्य तिष्ठति भूतानि
च विदधाति स वो हि स्वामी भवतीति ॥ ८ ॥ सा होवाच गान्धर्वी
कथं वाऽस्मासु जातोऽसौ गोपालः कथं वा ज्ञातोऽसौ त्वया मुने
कृष्णः, को वाऽस्य मन्त्रः, किं वाऽस्य स्थानं, कथं वा देवक्यां जातः, को
वाsस्य ज्यायान्ामो भवति, कीदृशी पूजाऽस्य गोपालस्य भवति, साक्षा-
स्प्रकृतिपरयोरयमात्मा गोपालः कथमवतीर्णो भूम्यां हि वै ॥ ९ ॥ स
होवाच तां हि वा एको हि वै पूर्वं नारायणो देवो यस्मिँल्लोका श्रोताश्च
प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिः । स पिता तस्मै ह वरं ददौ । स कामप्र-
श्रमेव वने । तं हास्मै ददौ स होवाचाब्जयोनिरवताराणां मध्ये श्रेष्ठोऽवतारः
को भवति येन लोकास्तुष्टा देवास्तुष्टा भवन्ति यं स्मृत्वा वा मुक्ता अस्मा-
संसाराद्भवन्ति कथं वाऽस्यावतारस्य ब्रह्मता भवति ॥ १० ॥ स होवाच तं
हि नारायणो देवः सकाम्या मेरोः शृङ्गे यथा सप्त पुर्यो भवन्ति तथा हि
निष्काम्याः सकाम्याश्च भूलोकचक्रे सप्त पुर्यो भवन्ति तासां मध्ये साक्षा-
ब्रह्मगोपालपुरी हीति सकाम्या निष्काम्या च देवानां सर्वेषां भूतानां च
भवति ॥ ११ ॥ यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां हि तिष्ठतीति ।
चक्रेण रक्षिता हि वै मधुरा तस्माद्गोपालपुरी हि भवतीति । बृहद्वृहद्वनं
मधोर्मधुवनं तालस्तालवनं काम्यः कामवनं बहुलो बहुलवनं कुमुदः कुमुद-
वनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनं
लोहवनं वृन्दया वृन्दावनमेतैरावृता पुरी भवति ॥ १२ ॥ तत्र तेष्वेवं</p>
<pb n="611" />
<p>ईशाद्युपनिषत्सु
गहनेष्वेव देवा मनुष्या गन्धर्वा नागतः किंनरा गायन्तीति नृत्यन्तीति तत्र
द्वादशादित्या एकादश रुद्रा अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च
विनायका वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठ विश्वेश्वरो गोपाले-
श्वरो भद्रेश्वर एतदाद्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति । द्वे वने स्तः कृष्णवनें
. भद्रवनं तयोरन्तर्द्वादश वनानि पुण्यानि पुण्यतमानि तेष्वेव देवास्तिष्ठन्ति
सिद्धाः सिद्धिं प्राप्तास्तत्र हि रामस्य रामा मूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिर निरु-
द्धस्यानिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिर्वनेष्वेव मधुरास्त्रेव द्वादश मूर्तयो भवन्ति
॥ १३ ॥ एकां हि रुद्रा यजन्ति द्वितीयां हि ब्रह्मा यजति तृतीयां हि ब्रह्मजा.
यजन्ति चतुर्थी मरुतो यजन्ति पञ्चमीं विनायका यजन्ति षष्ठीं वसवो यजन्ति
सप्तमीमृषयो यजन्त्यष्टमीं गन्धर्वा यजन्ति नवमीमप्सरसो यजन्ति दशमी
हि दिवोsन्तर्धाने तिष्ठत्येकादश्यन्तरिक्षपदं गता द्वादशी तु भूम्यां तिष्ठति ता.
हिये जयन्ति ते मृत्युं तरन्ति मुक्किं लभन्ते गर्भजन्मजरामरणतापत्रयात्मकं.
दुःखं तरन्ति ॥ १४ ॥ प्रथमां मधुरां रम्यां सदा ब्रह्मादिसेविताम् । शङ्ख-
चक्रगदाशार्ङ्गरक्षितां मुशलादिभिः ॥ अन्नासौ संस्थितः कृष्णस्त्रिभिः शक्त्या
समाहितः । रामानिरुद्धप्रद्युम्न्नै रुक्मिण्या सहितो विभुः ॥ चतुःशब्दो
भवेदेको झोंकारः समुदाहृतः । तस्मादेव परो रजस इति सोऽहमित्यवधार्य
गोपालोऽहमिति भावयेत् । स मोक्षमश्नुते स ब्रह्मत्वमधिगच्छति स ब्रह्मवि-
द्भवति गोपाञ्जीवान्वा आत्मत्वेनासृष्टिपर्यन्तमालाति स गोपालो भवति
ह्यों तद्यत्तत्सत्परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूपः सोऽहम् । ॐ तद्गोपाल-
देव एव परं सत्यमबाधितं सोऽहमित्यात्मानमादाय मनसैक्यं कुर्यात्,
आत्मनो गोपालोऽहमिति भावयेत्स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।
मधुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति । शङ्खचक्रगदापद्मवनमालावृतस्तु
वै ॥ चित्स्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् । सदा मां संस्मरन्ब्रह्मन्मत्पदं
याति निश्चितम् ॥ मधुरामण्डले यस्तु जम्बुद्वीपस्थितोऽपि वा । योऽर्चयेत्प्र-
तिमां प्रीत्या स मे प्रियतरो भुवि ॥ १५ ॥ तस्यामधिष्ठितः कृष्णरूपी
पूज्यस्वया सदा । चतुर्धा चास्याधिकारिभेदखेन यजन्ति माम् ॥ युगानु-
वर्तिनो लोका यजन्तीह सुमेधसः ॥ गोपालं सानुजं रामं रुक्मिण्या सह
तत्परम् ॥ गोपालोsहमजो नित्यः प्रद्युम्नोऽहं सनातनः । रामोऽहं ह्यनिरुद्धो-
ऽहमात्मानमर्चयेद्बुधः ॥ मयोक्तेन स्वधर्मेण निष्कामेण विभागशः P</p>
<pb n="612" />
<p>गोपालोत्तरतापिन्युपनिषत् ॥ ९९ ॥
.५९७
तैरथं पूजनीयो वै भद्रकृष्णो निवासिभिः ॥ तद्धर्मगतिहीना ये तस्यां मयि
परायणाः । कलिना प्रसिता ये वै तेषां तस्यामवस्थितिः ॥ यथा त्वं सह
पुत्रैस्तु यथा रुद्रो गणैः सह । यथा श्रियाऽभियुक्तोऽहं तथा भक्तो मम
प्रियः ॥ १६ ॥ स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।
एकमक्षरं यद्विश्रुतं ह्यनेकाक्षरं कथं भूतं स होवाच । तं हि वै पूर्वं ह्येकमे-
वाद्वितीयं ब्रह्मासीत्तस्मादव्यक्तं व्यक्तमेवाक्षरं तस्मादक्षरान्महान्महतो वा
अहंकारस्तस्मा देवाहंकारात्पञ्च तन्मात्राणि तेभ्यो भूतानि तैरावृतमक्षरं भवति ।
अक्षरोsहमोंकारोऽहमजरोऽभयोऽमृतो ब्रह्माभयं हि वै स मुक्तोऽह-
मस्म्यक्षरोऽहमस्मि । सत्तामात्रं विश्वरूपं प्रकाशं व्यापकं तथा । एकमेवा-
द्वयं ब्रह्ममायया तु चतुष्टयम् ॥ रोहिणीतनयो रामो अकाराक्षरसंभवः ।
वैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ॥ प्राज्ञात्मकोऽनिरुद्धो वै मकाराक्षर-
संभवः । अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥ कृष्णात्मिका
जगत्कर्त्री मूलप्रकृतिरुक्मिणी ॥ व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ब्रह्मसंगतः ।
प्रणवेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ तस्मादोंकारसंभूतो गोपालो विश्व-
संस्थितिः । क्लीमोंकारं च एकत्वं पठ्यते ब्रह्मवादिभिः ॥ मधुरायां विशेषेण
मां ध्यायन्मोक्षमते ॥ अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् । दिव्यध्व-
जातपत्रैस्तु चिह्नितं चरणद्वयम् । श्रीवत्सलाञ्छनं हृत्स्थं कौत्सुभं प्रभया
युतम् ॥ चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् । सुकेयूरान्वितं बाहुं कण्ठं
मालासुशोभितम् ॥ घुमकिरीटमभयं स्फुरन्मकरकुण्डलम् । हिरण्मयं
सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ॥
मध्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा । तत्सारभूतं यद्यस्यां मथुरा सा
निगद्यते । अष्टदिक्पालिभिर्भूमिपद्मं विकसितं जगत् ॥ संसारार्णवसंजातं
सेवितं सममानसैः । चन्द्रसूर्याम्बरौचित्या ध्वजो मेरुर्हिरण्मयः ॥ आतपन्नं
ब्रह्मलोकं ममोर्ध्व चरणः स्मृतम् । श्रीवत्सं च स्वरूपं च वर्तते लान्छनैः
सह । श्रीवत्सलान्छनं तस्मात्कथ्यते ब्रह्मवादिभिः ॥ येन सूर्याग्निवाक्चन्द्र-
तेजसा स्वस्वरूपिणा । वर्तते कौस्तुभमणिं तं वदन्तीशमानिनः ॥ सत्त्वं
रजस्तम इति अहंकारश्चतुर्विधः । पञ्चभूतात्मकः शङ्खः परो रजसि
संस्थितः ॥ चलस्वरूपमत्यन्तं मनश्चक्रं निगद्यते । आद्या माया भवेच्छा
पद्मं विश्वं करे स्थितम् । भाद्या विद्या गदा वेद्या सर्वदा मे करे</p>
<pb n="613" />
<p>ईशाद्युपनिषत्सु -
श्रिता । धर्मार्थकामकेयूरैर्दिव्यैर्नित्य भवारितैः । कण्ठं तु निर्गुणं प्रोकं
माल्यते माययाऽजया । माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ॥
कूटस्थस्य स्वरूपं च किरीटं प्रवदन्ति माम् । अक्षरोत्तमं प्रस्फुर-
तत्कुण्डलं युगुलं स्मृतम् ॥ ध्यायेन्मम प्रियो नित्यं स मोक्षमधि-
गच्छति । स मुक्तो भवति तस्मै च आत्मानं ददामीति ॥ एतत्सर्वं
भविष्यति मया प्रोक्तं विधे तव । स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा
॥ १७ ॥ स होवाचाब्जयोनिर्व्यक्तानां मूर्तीनां प्रोक्तानां कथं वाऽवधारणा
भवन्ति कथं वा देवा यजन्ति रुद्रा यजन्ति ब्रह्मा यजति विनायका
यजन्ति द्वादशादित्या यजन्ति वसवो यजन्त्यप्सरसो यजन्ति गन्धव
यजन्ति स्वपदं गताऽन्तर्धाने तिष्ठति कां मनुष्या यजन्ति । स होवाच तं तु
वै नारायणो देवः । आद्या अव्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
देवेषु सर्वेषु मनुष्येषु तिष्ठति रुद्रेषु रौद्री ब्रह्मण्येव ब्राह्मी देवेषु दैवी
मानसेषु मानसी विनायके विघ्ननाशिन्यादित्येषु ज्योतिर्गन्धर्वेषु गान्धर्व्य-
ह
प्सरः
रः स्वेवं गौर्वसुष्वेवं काम्यान्तर्धाने प्रकाशन आविर्भावा तिरोभावह
केवला तु स्वपदे तिष्ठति तामसी सात्विकी राजसी मानुषी विज्ञानघन
आनन्दघनः सच्चिदानन्दैकर से भक्तियोगे तिष्ठति ॥ १८ ॥ ॐ टां प्राणात्मने
टां तत्सद्भूर्भुवः स्वस्तस्मै प्राणात्मने नमो नमः ॥ १ ॥ ॐ टां कृष्णाय
गोविन्दाय गोपीजनवल्लभाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ २ ॥
ॐ टामपानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मा अपानात्मने नमो नमः ॥ ३ ॥
ॐ टां कृष्णाय प्रद्युम्नायानिरुद्धाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः
॥ ४ ॥ ॐ टां व्यानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै व्यानात्मने नमो नमः
॥ ५ ॥ ॐ टां कृष्णाय रामाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः
॥ ६ ॥ ॐ टामुदानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मा उदानात्मने नमो
नमः ॥ ७ ॥ ॐ टां कृष्णाय देवकीनन्दनाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै
नमो नमः ॥ ८ ॥ ॐ टां समानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै समानात्मने
नमो नमः ॥ ९ ॥ ॐ टां गोपालाय निजस्वरूपाय टां तत्सद्भूर्भुवः स्वस्तस्मै
वै नमो नमः ॥ १० ॥ ॐ टां योऽसौ प्रेयानात्मा गोपालः टां तत्सद्भूर्भुवः
स्वस्तस्मै वै नमो नमः ॥ ११ ॥ ॐ टां योऽसाविन्द्रियात्मा गोपालः टां
तद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १२ ॥ ॐ टां योऽसौ भूतात्मा.</p>
<pb n="614" />
<p>"कृष्णोपनिषत् ॥ १०० ॥</p>
<p>गोपालः टां तरसद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १३ ॥ ॐ शं योऽसा-
वुत्तमपुरुषो गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १४ ॥
ॐ यं योऽसौ परब्रह्मगोपालः टयं तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः
॥ १५ ॥ ॐ टां योऽसौ सर्वभूतात्मा गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै
नमो नमः ॥ १६ ॥ ॐ टां योऽसौ जाग्रत्स्वमसुषुप्तिमतीत्य तुर्यातीतो
गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १७ ॥ एको देवः
सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ रुद्राय नम आदित्याय नमो विनायकाय
नमः सूर्याय नमो विद्यायै नमः । इन्द्राय नमोऽनये नमः पित्रे नमो निर्ऋ-
तये नमो वरुणाय नमो मरुते नमः कुबेराय नम ईशानाय नमो ब्रह्मणे
नमः सर्वेभ्यो देवेभ्यो नमः । दत्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वलोकानामन्तर्धाने बभूव सः ॥ ब्रह्मणो ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं
यथा । तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकं गच्छ त्वं
स्वालयन्तिकमिति ॥ १९॥
ॐ सह नाववत्वति शांन्तिः ॥
इत्यथर्वणीया गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥ ९९ ॥
कृष्णोपनिषत् ॥ १०० ॥</p>
<lg>
  <l>यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।</l>
  <l>अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १ ॥</l>
</lg>
<p>ॐ भद्रं कर्णेभिरिति शान्तिः ।
हरिः ॐ ॥ श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दरं
मुनयो वनवासिनो विस्मिता बभूवुः । तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते
आलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गन्थ
अन्ये येsaarरास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं धार्यं तवाङ्गस्प-
र्शनादिह । शश्वत्स्पर्शयिताऽस्माकं गृह्णीमोऽवतारान्वयम् ॥ १ ॥ रुद्रादीनां वचः
श्रुत्वा प्रोवाच भगवान्स्वयम् । अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥२॥
मोदितास्ते सुराः सर्वे कृतकृत्याधुना वयम् । यो नन्दः परमानन्दो यशोदा
१ वो कुरु. २, विसंधिरार्ष:.</p>
<pb n="615" />
<p>ईशाद्युपनिषत्सु -
मुक्तिगेहिनी ॥ ३ ॥ माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी । प्रोक्ता
सात्त्विक रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४ ॥ तामसी दैत्यपक्षेषु माया
'धा ह्युदाहृता । अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५ ॥ देवकी
ब्रह्मपुत्रा सा या वेदैरुपगीयते । निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः
॥ ६ ॥ स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । वने वृन्दावने क्रीडन्गोप-
गोपीसुरैः सह ॥ ७ ॥ गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
वंशस्तु भगवान्रुद्रः शृङ्गमिन्द्रः सगोसुरः ॥ ८ ॥ गोकुलं वनवैकुण्ठं ताप-
। लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९ ॥
सास्तत्र ते द्रुमाः
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः । दुर्बोधं कुहकं तस्य मायया
मोहितं जगत् ॥ १० ॥ दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः । रुद्रो
येन कृतो वंशस्तस्य माया जगत्कथम् ॥ ११ ॥ बलं ज्ञानं सुराणां वै तेषां
ज्ञानं हृतं क्षणात् । शेषनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२ ॥
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा । ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः
स्त्रियः ॥ १३ ॥ द्वेषश्चाणूरमलोऽयं मत्सरो मुष्टिको जयः । दर्पः कुवलया-
पीडो गर्यो रक्षः खगो बकः ॥ १४ ॥ दया सा रोहिणी माता सत्यभामा
धरेति वै । अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥ १५ ॥ शमो
मित्रः सुदामा च सत्याक्रूरोद्धवो दमः । यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो
व्यवस्थितः ॥ १६ ॥ दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः । दुग्धो-
दुधिः कृतस्तेन भग्नभाण्डो दधिग्रहे ॥ १७ ॥ क्रीडते बालको भूत्वा पूर्वव-
त्सुमहोदधौ । संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥ १८ ॥ कृपार्थे
सर्वभूतानां गोप्तारं धर्ममात्मजम् । यत्त्रष्टुमीश्वरेणासीत्तच्चक्रं ब्रह्मरूपष्टक्
॥ १९ ॥ जयन्तीसंभवो वायुश्वमरो धर्मसंज्ञितः । यस्यासौ ज्वलनाभासः
खड्गरूपो महेश्वरः ॥ २० ॥ कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१ ॥ यावन्ति देवरूपाणि
वदन्ति विबुधा जनाः । नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२ ॥
गदा च कालिका साक्षात्सर्वशत्रुनिबर्हिणी । धनुः शार्ङ्ग स्वमाया च शर-
त्कालः सुभोजनः ॥ २३ ॥ अजकाण्डं जगद्वीजं धृतं पाणौ स्वलीलया ।
गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४ ॥ वृन्दा भक्तिः क्रिया
बुद्धिः सर्वजन्तुप्रकाशिनी । तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ॥
1</p>
<pb n="616" />
<p>याज्ञवल्क्योपनिषत् ॥ १०१ ॥</p>
<p>भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५ ॥ सर्वतीर्थफलं लभते य
एवं वेद । देहबन्धाद्विमुच्यते इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति कृष्णोपनिषत्समाप्ता ॥ १०० ॥</p>
<lg>
  <l>याज्ञवल्क्योपनिषत् ॥ १०१ ॥</l>
  <l>संन्यासज्ञानसंपन्ना यान्ति यद्वैष्णवं पदम् ।</l>
  <l>तद्वैपदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यास-
मनुब्रूहीति कथं संन्यासलक्षणम् । स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य
गृही भवेत् । गृहाद्वी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रत्र-
हा वनाद्वा । अथ पुनर्व्रती वाव्रती वा स्नातको वाऽस्नातको वा
उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् । तदेके प्राजाप-
त्यामेवेष्टिं कुर्वन्ति । अथवा न कुर्यादाग्नेय्यामेव कुर्यात् । अग्निर्हि
प्राणः । प्राणमेवैतया करोति । त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो
धातवो यदुत सत्त्वं रजस्तम इति । अयं ते योनिर्ऋत्विजो यतो जातो
अरोचथाः । तं जानन्नन्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणा-
निमाजिघ्रेत् । एष वा अग्नेयनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहे-
त्येवमेवैतदाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघेत् । यदग्निं न विन्देदसु
जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति साज्यं
हरिनामयम् । मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म तदुपासितव्यम् । शिखां यज्ञो-
पवीतं छित्त्वा संन्यस्तं मयेति त्रिवारमुच्चरेत् । एवमेवैतद्भगवन्निति वै याज्ञ-
वल्क्यः॥१॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती कथं ब्राह्मण इति ।
स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । प्राश्याच-
'स्यायं विधिरथ वा परिवाविवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो
ब्रह्मभूयाय भवति । एष पन्थाः परिव्राजकानां वीराध्वनि वाडनाशके वाप
प्रवेशे वाग्निप्रवेशे वा महाप्रस्थाने वा । एष पन्था ब्रह्मणा हानुवित्तस्तेनेति
१ स्वाज्यं.</p>
<pb n="617" />
<p>ईशाद्युपनिषत्सु -
स संन्यासी ब्रह्मविदिति । एवमेवैष भगवन्निति वै याज्ञवल्क्य । तत्र परम-
हंसा नाम संवर्तकारुणिश्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेवहारी-
तकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः परस्त्रीपुर-
पराङ्मुखास्त्रिदण्डं कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्त-
श्वेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् । यथा जातरूपधरा
निर्द्वन्द्वा निष्परिग्रहास्तत्वब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः प्राणसंधार-
णार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा
करपात्रेण वा कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः पान्त्रान्तरशून्यो
जलस्थलकमण्डलुरबाधकरहैः स्थलनिकेतनो लाभालाभौ समौ भूत्वा शून्या-
गारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिनगिरिकु-
हरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेत निवास्यप्रयत्रः शुभाशुभकर्मनिर्मूलनपरः
संन्यासेन देहत्यागं करोति स परमहंसो नामेति । आशाम्बरो ननमस्कारो
नदारपुत्राभिलाषी लक्ष्यालक्ष्य निर्वर्तकः परिवाद परमेश्वरो भवति । अत्रै
श्लोका भवन्ति-यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि । तस्मै प्रणामः
कर्तव्यो नेतराय कदाचन ॥ १ ॥ प्रमादिनो बहिश्चित्ताः पिशुनाः कलहो-
त्सुकाः । संन्यासिनोऽपि दृश्यन्ते देवैसंदूषिताशयाः ॥ २ ॥ नामादिभ्यः
परे भूनि स्वाराज्ये चेत्स्थितोऽद्वये । प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा
तदा ॥ ३ ॥ ईश्वरो जीवकलया प्रविष्टो भगवानिति । प्रणमेद्दण्डवद्भूमावा-
श्वचण्डालगोखरम् ॥ ४ ॥ मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे । स्त्राव-
स्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् ॥ ५॥ त्वमसरक्तबाप्पाम्बु पृथक्कृ-
car विलोचने । समालोकय रम्यं चेकिं मुधा परिमुह्यसि ॥६॥ मेरुशृङ्गतटो-
लासिगङ्गाजलरयोपमा । दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता ॥ ७ ॥
श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड
इवान्धसः ॥ ८ ॥ केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृता-
ग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ९ ॥ ज्वलना अतिदूरेऽपि सरसा अपि
नीरसाः । स्त्रियो हि नरकान्नीनामिन्धनं चारु दारुणम् ॥ १० ॥ कामनाम्ना
किरातेन विकीर्णा मुग्धचेतसः । नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ११ ॥
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारीबडिश -
१ नुदरपात्र. २ रहस्य स्थल. ३ वेदसंदू.</p>
<pb n="618" />
<p>अध्या० १ ]
• वराहोपनिषत् ॥ १०२ ॥</p>
<p>पिण्डिका ॥ १२ ॥ सर्वेषां दोषरत्नानी सुसमुद्रिकयानया । दुःखशृङ्खलया
नित्यमलमस्तु मम स्त्रिया ॥ १३ ॥ यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क
भोगभूः । स्त्रियं त्यक्त्वा जगत्यक्तं जगत्यक्त्वा सुखी भवेत् ॥ १४ ॥ अल-
भ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् । लब्धो हे गर्भपातेन प्रसवेन च बाधते
॥ १५ ॥ जातस्य ग्रहरोगादि कुमारस्य च धूर्तता । उपनीतेऽप्यविद्यत्वमनु-
द्वाहश्च पण्डिते ॥ १६ ॥ यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः । पुत्रदुःखस्य
नास्त्यन्तो धनी चेम्रियते तदा ॥ १७ ॥ न पाणिपादचपलो न नेत्रचपलो
यतिः । न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ १८ ॥ रिपौ बद्धे स्वदेहे
च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ १९ ॥
अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य
परिपन्थिनि ॥ २० ॥ नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् ।
कोपस्य मम वैराग्यदायिने दोषबोधिने ॥ २१ ॥ यन्त्र सुप्ता जना नित्यं
प्रबुद्धस्तत्र संयमी । प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥ २२ ॥
चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्वं चिदहमेते च लोका-
चिदिति भावय ॥ २३ ॥ यतीनां तदुपादेयं पारहंस्यं परं पदम् । नातः
परतरं किंचिद्विद्यते मुनिपुङ्गव ॥ २४ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ पूर्णमद इति शान्तिः ॥
इति याज्ञवल्क्योपनिषत्समाप्ता ॥ १०१ ॥</p>
<lg>
  <l>वराहोपनिषत् ॥ १०२ ॥</l>
  <l>श्रीमद्वराहोपनिषद्वेद्याखण्डसुखाकृति ।</l>
  <l>त्रिपान्नारायणाख्यं तद्वामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं तपश्चचार । तद-
asia वराहरूपी भगवान्प्रादुरभूत् । स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति ।
सोदतिष्ठत् । तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं तत्तत्त्वत्सका-
शास्त्रमेऽपि न याचे । समस्तवेदशास्त्रेतिहासपुराणानि समस्त विद्याजालानि
ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः । अतस्त्वद्रूपप्रतिपादिकां ब्रह्म-
विद्यां ब्रूहीति होवाच । तथेति स होवाच वराहरूपी भगवान् । चतुर्विंशति-</p>
<pb n="619" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
तत्त्वानि केचिदिच्छन्ति वादिनः । केचित्षदत्रिंशत्तत्त्वानि केचित्षण्णवतीनि
च ॥ १ ॥ तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु । ज्ञानेन्द्रियाणि
पञ्चैव श्रोत्रत्वग्लोचनादयः ॥ २ ॥ कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्ग्यादयः
क्रमात् । प्राणादयस्तु पञ्चैव पञ्च शब्दादयस्तथा ॥ ३ ॥ मनोबुद्धि-
रहंकारश्चित्तं चेति चतुष्टयम् । चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः
॥ ४ ॥ एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च । पृथिव्यापस्तथा तेजो
वायुराकाशमेव च ॥ ५ ॥ देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः । अवस्था-
त्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः ॥ ६ ॥ आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयो
विदुः । पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् ॥ ७ ॥ षड्भावविकृति-
श्चास्ति जायते वर्धतेऽपि च । परिणामं क्षयं नाशं षड्भावविकृतिं विदुः
॥ ८ ॥ अशना च पिपासा च शोकमोहौ जरा मृतिः । एते षडूर्मयः प्रोक्ताः
षट्कोशानथ वच्मि ते ॥ ९ ॥ त्वक्च रक्तं मांसमेदोमज्जास्थीनि निबोधत ।
कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च ॥ १० ॥ एतेऽरिषड्वा विश्वश्व
तैजसः प्राज्ञ एव च । जीवन्रयं सत्त्वरजस्तमांसि च गुणत्रयम् ॥ ११ ॥ प्रार-
धागाम्यर्जितानि कर्मत्रयमितीरितम् । वचनादानगमनविसर्गानन्दपञ्चकम्
॥ १२ ॥ संकल्पोऽध्यवसायश्च अभिमानोऽवधारणा । मुदिता करुणा मैत्री
उपेक्षा च चतुष्टयम् ॥ १३ ॥ दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्र मृत्युकाः ।
तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥ १४ ॥ आहत्य तत्त्वजातानां षण्ण-
वत्यस्तु कीर्तिताः । पूर्वोक्ततत्वजातानां वैलक्षण्यमनामयम् ॥ १५ ॥ वराह-
रूपिणं मां ये भजन्ति मयि भक्तितः । विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता
भवन्ति ते ॥ १६ ॥ ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः । जटी मुण्डी
शिखी वापि मुच्यते नात्र संशयः ॥ १७ ॥ इति ॥
इति वराहोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् । वरिष्ठां ब्रह्मविद्यां त्वमधीहि
भगवन्मम ॥ १ ॥ एवं स पृष्टो भगवान्प्राह भक्तार्तिभञ्जनः । स्ववर्णाश्रम-
धर्मेण तपसा गुरुतोषणात् ॥ २ ॥ साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् ।
नित्यानित्यविवेकश्च इहामुत्र विरागता ॥ ३ ॥ शमादिषट्कसंपत्तिर्मुमुक्षा
तां समभ्यसेत् । एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् ॥ ४ ॥ विहाय
साक्षिचैतन्ये मयि कुर्यादहंमतिम् । दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम्</p>
<pb n="620" />
<p>अध्या० २ ]
• वराहोपनिषत् ॥ १०२ ॥
૬૦′
॥५॥ ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना । अतिवर्णाश्रमं रूपं सच्चिदा-
नन्दलक्षणम् ॥६॥ यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति । अहमेव
सुखं नान्यदन्यच्चेन्नैव तत्सुखम् ॥७॥ अमदर्थं न हि प्रेयो मदर्थं न स्वतः प्रियम् ।
परप्रेमास्पदतया मा न भूवमहं सदा ॥ ८ ॥ भूयासमिति यो द्रष्टा सोsहं
विष्णुर्मुनीश्वर । न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना ॥ ९ ॥ स्वप्रकाश
तमात्मानमप्रकाशः कथं स्पृशेत् । स्वयं भातं निराधारं ये जानन्ति सुनि-
श्चितम् ॥ १० ॥ ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः । स्वपूर्णात्मा-
तिरेकेण जगज्जीवेश्वरादयः ॥ ११ ॥ न सन्ति नास्ति माया च तेभ्यश्चार्ह
विलक्षणः । अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् ॥ १२ ॥ स्वयं प्रकाश-
मात्मानं नैव मां स्प्रष्टुमर्हति । सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम्
॥ १३ ॥ ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् । भासमानमिदं सर्वं मान-
रूपं परं पदम् ॥ १४ ॥ पश्यन्वेदान्तमानेन सद्य एव विमुच्यते । देहात्म-
ज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ॥ १५ ॥ आत्मन्येव भवेद्यस्य स नेच्छ-
नपि मुच्यते । सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् ॥ १६ ॥ ब्रह्मानन्दं
'सदा पश्यन्कथं बध्येत कर्मणा । त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम्
॥ १७ ॥ त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः । सर्वगं सच्चिदात्मानं ज्ञान-
चक्षुर्निरीक्षते ॥ १८ ॥ अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् । प्रज्ञानमेव
तद्ब्रह्म सत्यप्रज्ञानलक्षणम् ॥ १९ ॥ एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् ।
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्वनम् ॥ २० ॥ विदित्वा स्वात्मनो रूपं न
बिभेति कुतश्चन । चिन्मात्रं सर्वगं नित्यं संपूर्ण सुखमद्वयम् ॥ २१ ॥ साक्षाद्रह्मैक
नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः । अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं
जगत् ॥ २२ ॥ अन्धं भुवनमन्धस्य प्रकाश तु सुचक्षुषाम् । अनन्तेः
सच्चिदानन्दे मयि वाराहरूपिणी ॥ २३ ॥ स्थितेऽद्वितीयभावः स्यात्को बद्धः
कश्च मुच्यते । स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् ॥ २४ ॥ नैव
देहादिसंघातो घटवशिगोचरः । स्वात्मनोऽन्यदिवाभातं चराचरमिदं
जगत् ॥ २५ ॥ स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय । स्वस्वरूपं स्वयं
भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः ॥ २६ ॥ अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्व-
लक्षणम् । ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् ॥ २७ ॥ पश्यन्नपि सदा
नैव पश्यति स्वात्मनः पृथक् । मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते ॥ २८ ॥</p>
<pb n="621" />
<p>1.
ईशाद्युपनिषत्सु -
[ अध्या० २
यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् । परमार्थैकविज्ञानं सुखात्मानं
स्वयंप्रभम् ॥ २९ ॥ स्वस्वरूपतया सर्व वेद स्वानुभवेन यः । स धीरः स तु
विज्ञेयः सोऽहं तत्त्वं ऋभो भव ॥ ३० ॥ अतः प्रपञ्चानुभवः सदा न हि
स्वरूपबोधानुभवः सदा खलुं । इति प्रपश्यन्परिपूर्णवेदनो न बन्धमुक्तो न च
बद्ध एव तु ॥ ३१ ॥ स्वस्वरूपानुसंधानान्नृत्यन्तं सर्वसाक्षिणम् । मुहूर्त
चिन्तयेन्मां यः सर्वबन्धः प्रमुच्यते ॥ ३२ ॥ सर्वभूतान्तरस्थाय नित्यमुक्त-
चिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ ३३ ॥ त्वं वाऽहमस्मि
भगवो देव तेऽहं वै त्वमसि । तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने
॥ ३४ ॥ नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च । किं करोमि क गच्छामि
किं गृह्णामि त्यजामि किम् ॥ ३५ ॥ यन्मया पूरितं विश्वं महाकल्पाम्बुना
यथा । अन्तःसङ्गं बहिः सङ्गमात्मसङ्गं च यस्त्यजेत् । सर्वसङ्गनिवृत्तात्मा स
मामेति न संशयः ॥ ३६ ॥ अहिरिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिव
सुनारीं त्यक्तुकामो विरागी । विषमिव विषयादीन्मन्यमानो दुरन्ताञ्जगति
परमहंसो वासुदेवोऽहमेव ॥ ३७ ॥ इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ।
अहं सत्यं परं ब्रह्म मत्तः किंचिन्न विद्यते ॥ ३८ ॥ उप समीपे यो वासो :
जीवात्मपरमात्मनोः । उपवासः स विज्ञेयो न नु कायस्य शोषणम् ॥ ३९ ॥
कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् । वल्मीकताडनादेव मृतः किं नु
महोरगः ॥ ४० ॥ अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् । अहं ब्रह्मेति
'चे साक्षात्कारः स उच्यते ॥ ४१ ॥ यस्मिन्काले स्वमात्मानं योगी जानाति
केवलम् । तस्मात्कालात्समारभ्य जीवन्मुक्तो भवेदसौ ॥ ४२ ॥ अहं ब्रह्मेति
नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च
॥ ४३ ॥ ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । बाह्यचिन्ता न कर्तव्या
तथैवान्तरचिन्तिका । सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो ॥ ४४ ॥
संकल्पमात्रकलनेन जगत्समयं संकल्पमात्रकलने हि जगद्विलासः । संकल्प-
मात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व ॥ ४५ ॥ मच्चि-
न्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् । मदेकपरमो भूत्वा कालं नय महा-
मते ॥ ४६ ॥ चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्त्वं चिदहमेते
च लोकाश्चिदिति भावय ॥ ४७ ॥ रागं नीरागतां नीत्वा निर्लेपो भव
सर्वदा । अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा ॥ ४८ ॥ श्रुत्युत्पन्नात्मविज्ञान-</p>
<pb n="622" />
<p>अध्या० २ ]
. वराह्येपनिषत् ॥ १०२ ॥</p>
<p>प्रदीप बाध्यते कथम् । अनात्मतां परियज्य निर्विकारो जगत्स्थितौ ॥ ४९ ॥
एकनिष्ठतयान्तःस्थसंविन्मात्रपरो भव । घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ
॥ ५० ॥ एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ । या च प्रागात्मनो माया
तथान्ते च तिरस्कृता ॥ ५१ ॥ ब्रह्मवादिभिरुगीता सा मायेति विवेकतः । माया-
'तत्कार्यविलये नेश्वरत्वं न जीवता ॥ ५२ ॥ ततः शुद्धश्विदेवाहं व्योमवन्निरुपा-
धिकः । जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ॥ ५३ ॥ ईक्षणादिप्रवेशान्ता
सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ५४ ॥
त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः । लोकायतादिसांख्यान्ता
जीवविश्रान्तिमाश्रिताः ॥ ५५ ॥ तस्मान्मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः ।
कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ ५६ ॥ अद्वितीयब्रह्मतत्त्वं न
जानन्ति यथा तथा । भ्रान्ता एवाखिलास्तेषां व मुक्तिः क्वेह वा सुखम्
॥ ५७ ॥ उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन किम् । स्वप्नस्थराज्यभिक्षाभ्यां
प्रबुद्धः स्पृशते खलु ॥ ५८ ॥ अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।
विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५९ ॥ बुद्धेः पूर्णविकासोऽयं
जागरः परिकीर्त्यते । विकारादिविहीनत्वाजागरो मे न विद्यते ॥ ६० ॥
सूक्ष्मनाडिषु संचारो बुद्धेः स्वप्नः प्रजायते । संचारधर्मरहिते मयि स्वप्नो
न विद्यते ॥ ६१ ॥ सुषुप्तिकाले सकले बिलीने तमसावृते । स्वरूपं महदा-
नन्दं भुङ्क्ते विश्वविवर्जितः ॥ ६२ ॥ अविशेषेण सर्व तु यः पश्यति चिदन्व-
यात् । स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥ ६३ ॥ दीर्घस्वमिदं
यत्तद्दीर्घं वा चित्तविभ्रमम् । दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् ।
सुतेरुत्थाय सुत्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् ॥ ६४ ॥ आरोपितस्य जगतः
प्रविलापनेन चित्तं मदात्मकतया परिकल्पितं नः । शत्रून्निहत्य गुरुषङ्कगणा-
निपाताद्गन्धद्विपो भवति केवलमद्वितीयः ॥ ६५ ॥ अद्यास्तमेतु वपुराशशि-
तारमास्तां कस्तावतापि मम चिद्वपुषो विशेषः । कुम्भे विनश्यति चिरं सम-
चस्थिते वा कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः ॥ ६६ ॥ अहिनिवेयनी
सर्पनिको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ६७ ॥
एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्या-
ज्ञाने सहेतुके । नेति नेतीति रूपत्वादशरीरो भवत्ययम् ॥ ६८ ॥ शास्त्रेण
१ दृश्यविवर्जितः .</p>
<pb n="623" />
<p>ईशाद्युपनिषत्सु -
[ अध्या०
न स्यात्परमार्थदृष्टिः कार्यक्षमं पश्यहि चापरोक्षम् । प्रारब्धनाशात्प्रतिभान-
नाश एवं त्रिधा नश्यति चात्ममाया ॥ ६९ ॥ ब्रह्मत्वे योजिते स्वामिञ्जीव-
भावो न गच्छति । अद्वैते बोधिते तत्त्वे वासना विनिवर्तते ॥ ७० ॥ प्रार -
धान्ते देहहानिर्मायेति क्षीयतेऽखिला । अस्तीत्युक्ते जगत्सर्व सदसं ब्रह्म
तद्भवेत् ॥ ७१ ॥ भातीत्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् । मरुभूमौ जलं
सर्वं मरुभूमात्रमेव तत् । जगत्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥ ७२ ॥
अज्ञानमेव न कुतो जगतः प्रसङ्गो जीवेशदेशिकविकल्पकथातिदूरे । एकान्त-
केवलचिदेकरसस्वभावे ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥ ७३ ॥ बोधचन्द्रमि
पूर्णविग्रहे मोहराहुमुषितात्मतेजसि । स्नानदानयजनादिकाः क्रिया मोचना-
वधि वृथैव तिष्ठते ॥ ७४ ॥ सलिले सैन्धवं यद्वत्साम्यं भवति योगतः ।
तथाऽऽत्ममनसोरैक्यं समाधिरिति कथ्यते ॥ ७५ ॥ दुर्लभो विषयत्यागो दुर्लभं
तत्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ७६ ॥ उत्पन्न-
शक्तिबोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेव प्रकाशते
॥ ७७ ॥ रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किंन
सिद्ध्यति भूतले ॥ ७८ ॥ मूच्छितो हरति व्याधिं मृतो जीवयति स्वयम् ।
बुद्धः खेचरतां धत्ते ब्रह्मत्वं रसचेतसि ॥ ७९ ॥ इन्द्रियाणां मनो नाथो
मनोनाथस्तु मारुतः । मारुतस्य लयो नाथस्तन्नार्थं लयमाश्रय ॥ ८० ॥
निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् । उच्छिन्नसर्वसंकल्पो निःशे-
वाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि मनसां वागगोचरः ॥ ८१ ॥
पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि ब्रह्मावलोकनधियं न जहाति योगी । सङ्गीत-
ताललयवाद्यवशं गतापि मौलिस्थ कुम्भपरिरक्षणधीर्नटीव ॥ ८२ ॥ सर्व-
चिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसंधेयो योगसाम्राज्यमि-
च्छता ॥ ८३ ॥ इति ॥
इति वराहोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
नहि नानास्वरूपं स्यादेकं वस्तु कदाचन । तस्मादखण्ड एवास्मि यन्मद-
न्यन्न किंचन ॥ १ ॥ दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । नित्यशुद्धवि-
मुक्तकमखण्डानन्दमद्वयम् । सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ २ ॥
आनन्दरूपोऽहमखण्डबोधः परात्परोऽहं घनचित्प्रकाशः । मेधा यथा व्योम
न च स्पृशन्ति संसारदुःखानि न मां स्पृशन्ति ॥ ३ ॥ सर्व सुखं विद्धि</p>
<pb n="624" />
<p>अध्या० ३]
• वराहोपनिषत् ॥ १०२ ॥</p>
<p>सुदुःखनाशात्सर्वं च सद्रूपमसत्यनाशात् । चिद्रूपमेव प्रतिभानयुक्तं तस्माद-
खण्डं मम रूपमेतत् ॥ ४ ॥ न हि जनिर्मरणं गमनागमौ न च मलं विमलं
न च वेदनम् । चिन्मयं हि सकलं विराजते स्फुटतरं परमस्य तु योगिनः
॥ ५ ॥ सत्यचिद्वनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् । यत्पदं विमलम-
द्वयं शिवं तत्सदाऽहमिति मौनमाश्रय ॥ ६ ॥ जन्ममृत्युसुखदुःखवर्जितं
जातिनीतिकुलगोत्रदूरगम् । चिद्विवर्तजगतोऽस्य कारणं तत्सदाऽहमिति मौन-
माश्रय ॥ ७ ॥ पूर्णमद्वयमखण्डचेतनं विश्वभेदकलनादिवर्जितम् । अद्वितीय-
परसंविदंशकं तत्सदाऽहमिति मौनमाश्रय ॥ ८ ॥ केनाप्यबाधितत्वेन त्रिकाले-
ऽप्येकरूपतः । विद्यमानत्वमस्त्येतत्सद्रूपत्वं सदा मम ॥ ९ ॥ निरुपाधि-
कनित्यं यत्सुतौ सर्वसुखात्परम् । सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम
॥ १० ॥ दिनकरकिरणैर्हि शावरं तमो निविडतरं झटिति प्रणाशमेति ।
घनतरभवकारणं तमो यद्धरिदिनकृत्प्रभया न चान्तरेण ॥ ११ ॥ मम चरण-
स्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः । न हि मरणप्रभव-
प्रणाशहेतुर्मम चरणस्मरणादृतेऽस्ति किंचित् ॥ १२ ॥ आदरेण यथा स्तौति
धनवन्तं धनेच्छया । तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात्
आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु । तथा मत्संनिधावेव समस्तं चेष्टते
जगत् ॥ १४ ॥ शुक्तिकाया यथा तारं कल्पितं मायया तथा । महदादि-
जगन्मायामयं मय्येव केवलम् ॥ १५ ॥ चण्डालदेहे पश्वादिस्थावरे ब्रह्म-
विग्रहे । अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् ॥ १६ ॥ विनष्टदिग्भ्रमस्या-
पि यथापूर्वं विभाति दिक् । तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि
॥ १७ ॥ न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति । न चित्तं नैव माया च
न च व्योमादिकं जगत् ॥ १८ ॥ न कर्ता नैव भोक्ता च न च भोजयिता
तथा । केवलं चित्सदानन्द ब्रह्मैवाहं जनार्दनः ॥ १९ ॥ जलस्य चलनादेव
चञ्चलत्वं यथा रवेः । तथाऽहंकारसंबन्धादेव संसार आत्मनः ॥ २० ॥
चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् । हन्त चित्तमहत्तायां कैषा विश्वासता
तव ॥ २१ ॥ क धनानि महीपानां ब्राह्मणः क्व जगन्ति वा । प्राक्तनानि
प्रयातानि गताः सर्गपरम्पराः । कोटयो ब्रह्मणां याता भूपा नष्टाः पराग-
वत् ॥ २२ ॥ स चाध्यात्माभिमानोऽपि विदुषोऽप्यासुरत्वतः । विदुषोऽप्यासुर-
१ सत्वनाशात्. २ सच्चिदशकं ३ मध्येतत.
अ. उ. ३९
१३ ॥</p>
<pb n="625" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ४
श्वेत्स्यान्निष्फलं तत्त्वदर्शनम् ॥ २३ ॥ उत्पाद्यमाना रागाद्या विवेकज्ञान-
वह्निना । यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥ २४ ॥ यथा सुनिपुणः
सम्यक परदोषेक्षणे रतः । तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात्
॥ २५ ॥ अनात्मविदमुक्तोऽपि सिद्धिजालानि वान्छति । द्रव्यमन्त्रक्रियाकाल-
युक्त्याम्नोति मुनीश्वर ॥ २६ ॥ नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् ।
आत्मनाऽऽत्मनि संतृप्तो नाविद्यामनुधावति ॥ २७ ॥ ये केचन जगद्भावास्ता-
नविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥ २८ ॥
द्रव्यमत्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति
काश्चन ॥ २९ ॥ सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनः सिद्धि-
वान्छायां कथमर्हत्यचित्ततः ॥ ३० ॥ इति ॥
इति वराहोपनिषत्सु तृतीयोऽध्यायः ॥ ३ ॥
अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति ।
तथेति स होवाच । सप्तभूमिषु जीवन्मुक्ताश्चत्वारः । शुभेच्छा प्रथमा भूमिका
भवति । विचारणा द्वितीया । तनुमानसी तृतीया । सत्वापत्तिस्तुरीया ।
असंसक्तिः पञ्चमी । पदार्थभावना षष्ठी । तुरीयगा सप्तमी । प्रणवात्मिका
भूमिकाsकारोकारमकारार्धमात्रात्मिका । स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारा-
दयश्चतुर्विधाः । तदवस्था जाग्रत्स्वमसुषुप्तितुरीयाः । अकारस्थूलांशे जाग्र-
द्विश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः । उकार-
स्थूलांशे स्वप्नविश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तव्प्राज्ञः । साक्ष्यंशे तत्तु -
रीयः । मकारस्थूलांशे सुषुप्तविश्वः । सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः ।
साक्ष्यंशे तत्तुरीयः । अर्धमात्रास्थूलांशे तुरीयविश्वः । सूक्ष्मांशे तत्तैजसः ।
बीजांशे तत्प्राज्ञः । साक्ष्यंशे तुरीयतुरीयः । अकारतुरीयांशाः प्रथमद्वितीय-
तृतीयभूमिकाः । उकारतुरीयांशा चतुर्थी भूमिका । मकारतुरीयांशा पञ्चमी ।
अर्धमात्रातुरीयांशा षष्ठी । तदतीता सप्तमी । भूमित्रयेषु विहरन्मुमुक्षुर्भवति ।
तुरीयभूम्यां विहरन्ब्रह्मविद्भवति । पञ्चमभूम्यां विहरन्ब्रह्मविद्वरो भवति ।
षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति । सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठो
भवति । तत्रैते श्लोका भवन्ति - ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।
विचारणा द्वितीया तु तृतीया तनुमानसी ॥ १ ॥ सत्त्वापत्तिश्चतुर्थी स्यात्ततो-
१ यथा तथैव.</p>
<pb n="626" />
<p>अध्या० ४ ]
'वराहोपनिषत् ॥ १०२ ॥</p>
<p>siसक्तिनामिका । पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ २ ॥
स्थित: किंमूढ - एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभे-
च्छेत्युच्यते बुधैः ॥ ३ ॥ शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचार-
प्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ४ ॥ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु
रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ५ ॥ भूमिकात्रितया-
भ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥६॥
दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्ता संसक्ति-
नामिका ॥ ७ ॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्त-
-राणां बाह्यानां पदार्थानामभावनात् ॥ ८ ॥ परप्रयुक्तेन चिरं प्रत्ययेनावबो-
धनम् । पदार्थभावना नाम षष्ठी भवति भूमिका ॥ ९ ॥ षड्भूमिका चिरा-
भ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥१०॥
शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् । तथावद्वेद बुच्छेदं जगजाग्रति
दृश्यते ॥ ११ ॥ अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नव-
लोकं तुर्यभूमिसुयोगतः ॥ १२ ॥ विच्छिन्न शरदभ्रांशविलयं प्रविलीयते ।
सावशेष एवास्ते हे निदाघ दृढीकुरु ॥ १३ ॥ पञ्चभूमिं समारुह्य सुषुप्ति-
पदनामिकाम् । शान्ताशेषविशेषांश स्तिष्ठत्यद्वै तमात्रके ॥ १४ ॥ अन्तर्मुखतया
नित्यं बहिर्वृत्तिपरोऽपि सन् । परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ १५ ॥
कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः । सप्तमी गाढसुध्याख्या क्रम-
आता पुरातनी ॥ १६ ॥ यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः । केवलं
क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ १७ ॥ अन्तःशून्यो बहिः शून्यः शून्य-
कुम्भ इवाम्बरे । अन्तःपूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे ॥ १८ ॥ मा भव
ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं
तन्मयो भव ॥ १९ ॥ द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथ-
माभासमात्मानं केवलं भज ॥ २० ॥ यथास्थितमिदं यस्य व्यवहारवतोऽपि
च । अस्तङ्गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ २१ ॥ नोदेति नास्तमा-
यति सुखे दुःखे मनःप्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ २२ ॥
यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स
जीवन्मुक्त उच्यते ॥ २३ ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तव्यों-
मवदच्छन्नः स जीवन्मुक्त उच्यते ॥ २४ ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य
न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ २५ ॥ यस्मान्नो-
1</p>
<pb n="627" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
द्विजते लोको लोकान्नोद्विजते च य । हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त
उच्यते ॥ २६ ॥ यः समस्तार्थजालेषु व्यवहार्थपि शीतलः । परार्थेष्विव
पूर्णात्मा स जीवन्मुक्त उच्यते ॥ २७ ॥ प्रजहाति यदा कामान्सर्वाश्चित्त-
तान्मुने । मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते ॥ २८ ॥ चैत्यवर्जित-
चिन्मात्रे पढ़े परमपावने । अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते
॥ २९ ॥ इदं जगदहं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति
स जीवन्मुक्त उच्यते ॥ ३० ॥ सब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते ।
आचार्य शास्त्रमार्गेण प्रविश्याशु स्थिरो भव ॥ ३१ ॥ शिवो गुरुः शिवो वेदः
शिवो देवः शिवः प्रभुः । शिवोऽस्म्यहं शिवः सर्वं शिवादन्यन्न किंचन ॥ ३२ ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्वहून्छब्दान्वाचो
चिग्लापनं हि तत् ॥ ३३ ॥ शुको मुक्तो वामदेवोऽपि मुक्तस्ताभ्यां विना
मुक्तिभाजो न सन्ति । शुक्रमार्ग येऽनुसरन्ति धीराः सद्यो मुक्तास्ते भव-
न्तीह लोके ॥ ३४ ॥ वामदेवं येऽनुसरन्ति नित्यं मृत्वा जनित्वा च पुनःपुन-
स्तत् । ते वै लोके क्रममुक्ता भवन्ति योगैः सांख्यैः कर्मभिः सत्त्वयुक्तः
॥ ३५ ॥ शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते । शुको विहङ्गमः प्रोक्तो
वामदेवः पिपीलिका ॥ ३६ ॥ अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा ।
महावाक्यविचारेण सांख्ययोगसमाधिना ॥ ३७ ॥ विदित्वा स्वात्मनो रूपं.
संप्रज्ञातसमाधितः । शुकमार्गेण विरजाः प्रयान्ति परमं पदम् ॥ ३८ ॥
यमाद्यासनजायासहठाभ्यासात्पुनःपुनः । विघ्नबाहुल्यसंजात अणिमादिवशा-
दिह ॥ ३९ ॥ अलब्ध्वापि फलं सम्यक्पुनर्भूत्वा महाकुले । पुनर्वासनयैवायं
योगाभ्यासं पुनश्चरन् ॥ ४० ॥ अनेकजन्माभ्यासेन वामदेवेन वै पथा ।
सोsपि मुक्ति समाप्नोति तद्विष्णोः परमं पदम् ॥ ४१ ॥ द्वाविमावपि पन्थानौ
ब्रह्मप्राप्तिकरौ शिव । सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः । अत्र को मोहः
कः शोक एकत्वमनुपश्यतः ॥ ४२ ॥ यस्यानुभवपर्यन्ता बुद्धिस्तरवे प्रव-
र्तते । तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥ ४३ ॥ खेचरा भूचराः सर्वे
ब्रह्मविद्दृष्टिगोचराः । सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरधैः ॥ ४४ ॥ इति ॥.
इति वराहोपनिषत्सु चतुर्थोऽध्यायः ॥ ४ ॥
अथ हैनं ऋभुं भगवन्तं निदाघः पप्रच्छ योगाभ्यासविधिमनुब्रूहीति ।
तथेति स होवाच । पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः । काठिन्यं
१ पूर्ववासनया .</p>
<pb n="628" />
<p>अध्या० ५]
वराहोपनिषत् ॥ १०२ ॥</p>
<p>पृथिवीमेका पानीयं तद्द्रवाकृति ॥ १ ॥ दीपनं च भवेत्तेजः प्रचारो वायु-
लक्षणम् । आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता ॥ २ ॥ षट्शतान्यधि-
कान्यन्न सहस्त्राण्येकविंशतिः । अहोरात्रवहैः श्वासैर्वायुमण्डलघाततः ॥ ३ ॥
तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् । तद्वदापो गणापाये केशाः
स्युः पाण्डुराः क्रमात् ॥ ४ ॥ तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये ।
वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति ॥ ५ ॥ इत्थंभूतं क्षयान्नित्यं
जीवितं भूतधारणम् । उड्याणं कुरुते यस्मादविश्रान्तं महाखगः ॥ ६॥
उड्डियाणं तदेव स्यात्तन्त्र बन्धोऽभिधीयते । उड्डियाणो ह्यसौ बन्धो मृत्यु-
मातङ्गकेसरी ॥ ७ ॥ तस्य मुक्तिस्तनोः कायात्तस्य बन्धो हि दुष्करः ।
अग्नौ तु चालते कुक्षौ वेदना जायते भृशम् ॥ ८ ॥ न कार्या क्षुधि
तेनापि नापि विण्मूत्र वेगिना । हितं मितं च भोक्तव्यं स्तोकं स्तोकमनेकधा
॥ ९ ॥ मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् । लयमन्त्रहठा योगा योगो
ह्यष्टाङ्गसंयुतः ॥ १० ॥ यमश्च नियमश्चैव तथा चासनमेव च । प्राणायाम-
स्तथा पश्चात्प्रत्याहारस्तथा परम् ॥ ११ ॥ धारणा च तथा ध्यानं समाधि-
sargमो भवेत् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ १२ ॥ क्षमा
धृतिर्मिताहारः शौचं चेति यमा दश । तपः सन्तोषमास्तिक्यं दानमीश्वर-
घूजनम् ॥ १३॥ सिद्धान्तश्रवणं चैव हीर्मतिश्च जपो व्रतम् । एते हि नियमाः
प्रोक्ता दशधैव महामते ॥ १४ ॥ एकादशासनानि स्युश्चक्रादि मुनिसत्तम । चक्रं
पद्मासनं कूर्मं मयूरं कुक्कुटं तथा ॥ १५ ॥ वीरासनं स्वस्तिकं च भद्रं सिंहासनं
तथा । मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः ॥ १६ ॥ सव्योरु दक्षिणे
गुल्फे दक्षिणं दक्षिणेतरे । निदध्यादृजुकायस्तु चक्रासनमिदं मतम् ॥ १७ ॥
पूरकः कुम्भकस्तद्वद्वेचकः पूरकः पुनः । प्राणायामः स्वनाडीभिस्तस्मान्नाडीः
प्रचक्षते ॥ १८ ॥ शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् । तन्मध्ये पायु-
देशात्तु द्व्यङ्गुलात्परतः परम् ॥ १९ ॥ मेदूदेशादधस्तात्तु व्यङ्गुलान्मध्यमुच्यते ।
मेान्नताङ्गुलादूर्ध्वं नाडीनां कन्दमुच्यते ॥ २० ॥ चतुरङ्गुलमुत्सेधं चतुरङ्गुल-
मायतम् । अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः ॥ २१ ॥ तत्रैव
नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् । शरीरं ध्रियते येन वर्तते तत्र कुण्डली
॥ २२ ॥ ब्रह्मरन्ध्रं सुषुम्ना या वदनेन पिधाय सा । अलम्बुसा सुषुम्नायाः
कुहूर्नाडी वसत्यसौ ॥ २३ ॥ अनन्तरारयुग्मे तु वारुणा च यशस्विती ।</p>
<pb n="629" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० ५
दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ॥ २४ ॥ तदन्तरारयोः पूषा
वर्तते च पयस्विनी । सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती ॥ २५ ॥
शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते । उत्तरे तु सुषुम्नाया इडाख्याः
निवसत्यसौ ॥ २६ ॥ अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता । प्रदक्षिण-
क्रमेणैव चक्रत्वारेषु नाड्यः ॥ २७ ॥ वर्तन्ते द्वादश होता द्वादशानिल-
ब्राहकाः । पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः ॥ २८ ॥ पटमध्यं तुः
यत्स्थानं नाभिचक्रं तदुच्यते । नादाधारा समाख्याता ज्वलन्ती नादरूपिणी
॥ २९ ॥ पररन्ध्रा सुषुन्ना च चत्वारो रत्नपूरिताः । कुण्डल्या पिहितं शश्व-
ब्रह्मरन्ध्रस्य मध्यमम् ॥ ३० ॥ एवमेतासु नाडीषु धरन्ति दश वायवः ।
एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः ॥ ३१ ॥ समग्रीवशिरः कायः
संवृतास्यः सुनिश्चलः । नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् ॥ ३२ ॥
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः । अपानं मुकुलीकृत्य पायुमाकृष्य
चोन्मुखम् ॥ ३३ ॥ प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् । स्वात्मानं च
श्रियं ध्यायेदमृतप्लावनं ततः ॥ ३४ ॥ कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते ।
मनसा चिन्तितं कार्यं मनसा येन सिद्ध्यति ॥ ३५ ॥ जलेऽग्निज्वलनाच्छा-
खापल्लवानि भवन्ति हि । नाधन्यं जागतं वाक्यं विपरीता भवेत्क्रिया ॥ ३६ ॥
मार्गे बिन्दु समाबध्य वह्निं प्रज्वाल्य जीवने । शोषयित्वा तु सलिलं तेन
कायं दृढं भवेत् ॥ ३७ ॥ गुदयोनिसमायुक्त आकुञ्चत्येककालतः । अपान-
मूर्ध्वगं कृत्वा समानोऽन्ने नियोजयेत् ॥ ३८ ॥ स्वात्मानं च श्रियं ध्यायेदमृत-
प्लावनं ततः । बलं समारभेद्योगं मध्यमद्वारभागतः ॥ ३९ ॥ भावयेदूर्ध्व-
गत्यर्थं प्राणापानसुयोगतः । एष योगो वरो देहे सिद्धि मार्गप्रकाशकः ॥ ४० ॥
यथैवापां गतः सेतुः प्रवाहस्य निरोधकः । तथा शरीरगा च्छाया ज्ञातव्या:
योगिभिः सदा ॥ ४१ ॥ सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः । बन्ध-
स्यास्य प्रसादेन स्फुटीभवति देवता ॥ ४२ ॥ एवं चतुष्पथो बन्धो मार्गत्रय-.
निरोधकः । एकं विकासयन्मार्ग येन सिद्धाः सुसङ्गताः ॥ ४३ ॥ उदानमू--
गं कृत्वा प्राणेन सह वेगतः । बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः
॥ ४४ ॥ अयं च संपुटो योगो मूलबन्धोऽप्ययं मतः । बन्धत्रयमनेनैव:
सिद्ध्यत्यभ्यासयोगतः ॥४५ ॥ दिवारात्रमविच्छिन्नं यामे यामे यदा यदा । अने-
नाभ्यासयोगेन वायुरभ्यसितो भवेत् ॥ ४६ ॥ वायावभ्यसिते वह्निः प्रत्यहं</p>
<pb n="630" />
<p>अध्या० ५ ]
वराहोपनिषत् ॥ १०२ ॥</p>
<p>वर्धते तनौ । वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते ॥ ४७ ॥ अन्नस्य परि-
पाकेन रसवृद्धिः प्रजायते । रसे वृद्धिङ्गते नित्यं वर्धन्ते धातवस्तथा ॥ ४८ ॥
धातूनां वर्धनेनैव प्रबोधो वर्धते तनौ । दह्यन्ते सर्वपापानि जन्मकोट्यर्जि-
तानि च ॥ ४९ ॥ गुदमेढान्तरालस्थं मूलाधारं त्रिकोणकम् । शिवस्य बिन्दु-
रूपस्य स्थानं तद्धि प्रकाशकम् ॥ ५० ॥ यत्र कुण्डलिनी नाम परा शक्तिः
प्रतिष्ठिता । यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते ॥ ५१ ॥ यस्मादुत्पद्यते
बिन्दुर्यस्मान्नादः प्रवर्धते । यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥ ५२ ॥
मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् । कण्ठादुपरि मूर्धान्तं शांभवं
स्थानमुच्यते ॥ ५३ ॥ नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयः ।
जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः ॥ ५४ ॥ हंसः शक्तेरधिष्ठानं
चराचरमिदं जगत् । निर्विकल्पः प्रसन्नात्मा प्राणायामं समभ्यसेत् ॥ ५५ ॥
सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् । वेद्यं समुद्धरेन्नित्यं सत्यसंधान-
मानसः ॥ ५६ ॥ रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् । दृश्यमाने परे
लक्ष्ये ब्रह्मणि स्वयमाश्रितः ॥ ५७ ॥ बाह्यस्थविषयं सर्वं रेचकः समुदाहृतः ।
पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् ॥ ५८ ॥ एवमभ्यासचित्तश्चेत्स
मुक्तो नात्र संशयः । कुम्भकेन समारोप्य कुम्भकेनैव पूरयेत् ॥ ५९ ॥
कुम्भेन कुम्भयेत्कुम्भं तदन्तःस्थः परं शिवम् । पुनरास्फालयेदद्य सुस्थिर
कण्ठमुद्रया ॥ ६० ॥ वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ । समहस्तयुगं
भूमौ समं पादयुगं तथा ॥ ६१ ॥ वेधकक्रेमयोगेन चतुष्पीठं तु वायुना ।
आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः ॥ ६२ ॥ पुटद्वयं समाकृष्य वायुः
स्फुरति सत्वरम् । सोमसूर्याग्निसंबन्धाजानीयादमृताय वै ॥ ६३ ॥ मेरु-
मध्यगता देवाश्चलन्ते मेरुचालनात् । आदौ संजायते क्षिप्रं वेघोऽस्य ब्रह्म-
झन्थितः ॥ ६४ ॥ ब्रह्मग्रन्थि ततो भित्त्वा विष्णुग्रन्थि भिनत्त्यसौ । विष्णु-
ग्रन्थि ततो भित्त्वा रुद्रग्रन्थि भिनत्यसौ ॥ ६५ ॥ रुद्रग्रन्थि ततो भित्त्वा
छित्त्वा मोहमलं तथा । अनेकजन्मसंस्कारगुरुदेवप्रसादतः ॥ ६६ ॥ योगाद-
भ्यासात्ततो वेधो जायते तस्य योगिनः । इडापिङ्गलयोर्मध्ये सुषुम्नानाडि-
मण्डले ॥ ६७ ॥ मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् । ह्रस्वो दहति
पापानि दीर्घो मोक्षप्रदायकः ॥ ६८ ॥ आप्यायनः लुतो वापि त्रिविधोच्चा-
१ त्रययोगने.</p>
<pb n="631" />
<p>रणेन
ईशाद्युपनिषत्सु -
तु ।
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ॥ ६९ ॥ अवाच्यं प्रणव-
स्याग्रं यस्तं वेद स वेदवित् । ह्रस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं हुतम् । द्वाद-
शान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥ ७० ॥ सर्वविघ्नहरश्चायं प्रणवः सर्व-
दोषहा । आरम्भश्च घटश्चैव पुनः परिचयस्तथा ॥ ७१ ॥ निष्पत्तिश्चेति कथिता -
श्चतस्रस्तस्य भूमिकाः । कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् ॥ ७२ ॥ आन्तरं
कर्म कुरुते यत्रारम्भः स उच्यते । वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम्
॥ ७३ ॥ यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः । न सजीवो न
निर्जीवः काये तिष्ठति निश्चलम् । यत्र वायुः स्थिरः खे स्यात्सेयं प्रथम-
भूमिका ॥ ७४ ॥ यन्त्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः । सहजः कुरुते
योगं, सेयं निष्पत्तिभूमिका ॥ ७५ ॥ इत्येतदुपनिषदं योऽधीते सोऽग्नि-
तो भवति । स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो
भवति । स जीवन्मुक्तो भवति । तदेतदृचाभ्युक्तम्-तद्विष्णोः परमं पदं सदा
पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
इति वराहोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
ॐ सह नाववत्विति शान्तिः ॥
इति वराहोपनिषत्समाप्ता ॥ १०२ ॥</p>
<lg>
  <l>शाट्यायनीयोपनिषत् ॥ १०३ ॥</l>
  <l>शाट्यायनी ब्रह्मविद्याखण्डाकारसुखाकृति ।</l>
  <l>यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषया-
सक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १ ॥ समासक्तं सदा चित्तं जन्तोर्विषयगो-
चरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २ ॥ चित्तमेव हि
संसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥३॥
नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रति धाम । विष्णुक्रान्तं वासुदेवं
...विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४ ॥ अथाह यत्परं ब्रह्म सनातनं
१ करणत्रय.</p>
<pb n="632" />
<p>शाट्यायनीयोपनिषत् ॥ १०३ ॥</p>
<p>ये श्रोत्रिया अकामहता अधीयुः । शान्तो दान्त उपरतस्तितिक्षुर्योऽनूचानो
ह्यभिजज्ञौ समानः ॥ ५ ॥ त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे
यत्र कुत्र । अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६ ॥
त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् । शिक्यं पवित्रमित्येतद्विभृयाद्याव-
दायुषम् ॥ ७ ॥ पञ्चैतास्तु यतेर्मान्नास्ता मात्रा ब्रह्मणे श्रुताः । न त्यजेद्याव-
दुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८ ॥ विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव
च । तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९ ॥ त्रिदण्डं वैष्णवं लिङ्गं
विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥१०॥ अथ
खलु सोम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधा
भवन्ति । सर्व एते विष्णुलिङ्गिनः शिखिनोपवीतिनः शुद्धचित्ता आत्मानमा-
त्मना ब्रह्म भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तः
सुशीलिनः पुण्यश्लोका भवन्ति । तदेतदृचाभ्युक्तम्— कुटीचको बहूदकश्चापि
हंसः परमहंस इति वृत्त्या च भिन्नाः । सर्व एते विष्णुलिङ्गं दधाना वृत्त्या
व्यक्तं बहिरन्तश्च नित्यम् । पञ्चयज्ञा वेदशिरः प्रविष्टाः क्रियावन्तोऽमी संगता
ब्रह्मविद्याम् । त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः संन्यस्तपुष्पा रसमेवानुवानाः ।
विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११ ॥
त्रिसंध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा । उपस्थानं पञ्चयज्ञान्कुर्यादामर-
णान्तिकम् ॥ १२ ॥ दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा । गायत्रीजप-
यज्ञश्च त्रिसंध्यं शिरसा सह ॥ १३ ॥ योगयज्ञः सदैकाग्र्यभक्त्या सेवा हरे-
र्गुरोः । अहिंसा तु तपोयज्ञो वाङ्मनः कायकर्मभिः ॥ १४ ॥ नानोपनिषद-
भ्यासः स्वाध्यायो यज्ञ ईरितः । ॐ मित्यात्मानमव्यग्रो ब्रह्मण्यभौ जुहोति
यत् ॥ १५ ॥ ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः । ज्ञानंदण्डा ज्ञान-
शिखा ज्ञानयज्ञोपवीतिनः ॥ १६ ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्म-
यम् । ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७ ॥ अथ खलु सोम्यैते
परिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति । कामक्रोध लोभ मोहदम्भदर्पा-
सूयाममत्वाहंकारादीस्तितीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्ष
इव तिष्ठासेत् । छिद्यमानो न ब्रूयात् । तदैवं विद्वांस इहैवामृता भवन्ति ।
तदेतदृचाभ्युक्तम् — बन्धुपुत्रमनु मोदयित्वानवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।
प्राचीमुदीचीं वा निर्वर्तयंश्चरेत पानी दण्डी युगमात्रावलोकी शिखी मुण्डी</p>
<pb n="633" />
<p>ईशाद्युपनिषत्सु -
चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुण्यात् ॥ १८ ॥ अयाचितं याचितं
वो भैक्षं मृद्दार्वलाबूफलेपर्णपात्रम् । क्षीणं क्षौमं तृणं कैन्थाजिने च पर्ण-
माच्छादनं स्यादहतं वा विमुक्तः ॥ १९ ॥ ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो
नाक्षं जातु शिखां न वापयेत् । चतुरो मासान्धुवशीलतः स्यात्स यावत्सुप्तो-
ऽन्तरात्मा पुरुषो विश्वरूपः । अन्यानथाष्टौ पुनरुत्थितेऽस्मिन्स्वकर्मलिप्सुर्वि-
हरेद्वा वसेद्वा ॥ २० ॥ देवध्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षित-
शीलवृत्तः । अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१ ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु-
संज्वरेत् ॥ २२ ॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्या-
याद्वहुन्छब्दान्वाचो विग्लापनं हि तत् ॥ २३ ॥ बाल्येनैव हि तिष्ठासेनि-
र्विद्य ब्रह्मवेदनम् । ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४ ॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र
ब्रह्म समश्रुते ॥ २५ ॥ अथ खलु सोम्येदं पारिव्राज्यं नैष्ठिकमात्मधर्म यो
विजहाति स वीरहा भवति । स ब्रह्महा भवति । स भ्रूणहा भवति । स महा-
पातकी भवति । य इमां वैष्णवीं निष्ठां परित्यजति स स्तेनो भवति । स
गुरुतल्पगो भवति । स मित्रध्रुग्भवति । स कृतघ्नो भवति । स सर्वस्माल्लो-
कात्प्रच्युतो भवति । तदेतदृचाभ्युक्तम् - स्तेनः सुरापो गुरुतल्पगामी मित्रध्रु-
गेते निष्कृतेर्यान्ति शुद्धिम् । व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्ग त्यजन्न
शुध्येदखिलैरात्मभासा ॥ २६ ॥ त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं
सेवते नाश्रमं वा । प्रत्यापत्तिं भजते वाऽतिमूढो नैषां गतिः कल्पकोट्यापि
दृष्टा ॥ २७ ॥ त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् । मोक्षाश्रमा-
त्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८ ॥ पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न
तिष्ठति । तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९ ॥ अथ खलु
सोम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी:
भवति । स पुण्यश्लोको भवति । स लोकज्ञो भवति । स वेदान्तज्ञो भवति ।
स ब्रह्मज्ञो भवति । स सर्वज्ञो भवति । स स्वराड् भवति । स परं ब्रह्म:
भगवन्तमाप्नोति । स पितॄन्संबन्धिनो बान्धवान्सुहृदो मित्राणि च भवादु-
तारयति । तदेतदृचाभ्युक्तम् - शतं कुलानां प्रथमं बभूव तथा पराणां
१ वाथ भैक्षं. २ फलतन्तुपर्णी. ३ कन्यां च . ४ देवाद्यगारे.</p>
<pb n="634" />
<p>उप० १ ]
हयग्रीवोपनिषत् ॥ १०४ ॥
•</p>
<p>त्रिशतं समग्रम् । एते भवन्ति सुकृतस्य लोके येषां कुले संन्यसतीह विद्वान्
॥ ३० ॥ त्रिंशत्पराँत्रिंशदपरास्त्रिंशच परतः परान् । उत्तारयति धर्मिष्ठः
परिव्राडिति वै श्रुतिः ॥ ३१ ॥ संन्यस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।
वारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२ ॥ अथ खलु सोम्येमं सना -
तनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रब्रूयात् । नानूचानाय नानात्मविदे
नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः ।
तदेतदृचाभ्युक्तम्--- विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽह-
मस्मि । असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३ ॥
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । अस्मा इमामुपसन्नाय
सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४ ॥ अध्यापिता ये गुरुं नाद्रि-
यन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव तेन न गुरुर्भोजनीयस्तथैव
चान्नं न भुनक्ति श्रुतं तत् ॥ ३५ ॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः ।
एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति । तस्य श्रुतं तथा ज्ञानं स्त्रवत्यामघटा-
म्बुवत् ॥ ३६ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मवित्परं
प्रेयादिति वेदानुशासनम् ॥ ३७ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ पूर्णमद इति शान्तिः ॥
इति शाट्यायनीयोपनिषत्समाप्ता ॥ १०३ ॥</p>
<lg>
  <l>हयग्रीवोपनिषत् ॥ १०४॥</l>
  <l>स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।</l>
  <l>सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाघीहि भगवन् ब्रह्मविद्यां वरिष्ठां
यया चिरात्सर्वपापं व्यपोह्य ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति । ब्रह्मोवाच हय-
ग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद । स सर्वैश्वर्य-
वान्भवति । त एते मन्त्राः - विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यं
नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १ ॥ ऋग्यजुः सामरूपाय वेदा-
१ त्रिशतं कुलानाम्.</p>
<pb n="635" />
<p>ईशाद्युपनिषत्सु -
[ उप० २
हरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥ २॥
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर । सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय
स्वाहा स्वाहा नमः॥३॥ ब्रह्मात्रिरविसवितृभार्गवा ऋषयः । गायत्रीत्रिष्टुबनुष्टुप्-
छन्दांसि । श्रीमान्हयग्रीवः परमात्मा देवतेति । ल्हो ( ह्सौ ) मिति बीजम् ।
सोऽहमिति शक्तिः । ल्हू ( ह्सौ ) मिति कीलकम् । भोगमोक्षयोर्विनियोगः ।
अकारोकारमकारैरङ्गन्यासः । ध्यानम् । शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतु-
र्भुजम् । संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥ ॐ श्रीमिति द्वे अक्षरे । ल्हो-
( सौ ) मित्येकाक्षरम् । ॐ नमो भगवत इति सप्ताक्षराणि । हयग्रीवायेति
पञ्चाक्षराणि । विष्णव इति त्र्यक्षराणि । मह्यं मेधां प्रज्ञामिति षडक्षराणि ।
प्रयच्छ स्वाहेति पञ्चाक्षराणि । हयग्रीवस्य तुरीयो भवति ॥ ४ ॥ ॐ श्रीमिति
हे अक्षरे । ल्हो ( ह्सौ ) मित्येकाक्षरम् । ऐमैमैमिति त्रीण्यक्षराणि । क्लीं
कीमिति द्वे अक्षरे । सौः सौरिति द्वे अक्षरे । हीमित्येकाक्षरम् । ॐ नमो
भगवत इति सप्ताक्षराणि । मह्यं मेधां प्रज्ञामिति षडक्षराणि । प्रयच्छ
स्वाहेति पञ्चाक्षराणि । पञ्चमो मनुर्भवति ॥ ५॥
इति हयग्रीवोपनिषत्सु प्रथमोपनिषत् ॥ १ ॥
हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि । ब्रह्मा महेश्वराय महेश्वरः
संकर्षणाय संकर्षणो नारदाय नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छ-
दिति हकारोंसकारोमंकारों त्रयमेकस्वरूपं भवति । ल्हो ( ह्सौं ) बीजाक्षरं
भवति । बीजाक्षरेण ल्हौं (इसौं ) रूपेण तज्जापकानां संपत्सारस्वतौ
भवतः । तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति । दिक्पालानां राज्ञां
नागानां किन्नराणामधिपतिर्भवति । हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः
स्वतः स्वस्वकर्मणि प्रवर्तन्ते । सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं
मन्त्रराजात्मकं भवति । ल्हौं ( ह्सौं ) हयग्रीवस्वरूपो भवति । अमृतं
कुरु कुरु स्वाहा । तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च
भवति । ल्हौं ( ह्रसौं ) सकलसाम्राज्येन सिद्धिं कुरु कुरु स्वाहा ।
तानेतान्मन्त्रान्यो वेद अपवित्रः पवित्रो भवति । अब्रह्मचारी सुब्रह्मचारी
भवति । अगम्यागमनात्पूतो भवति । पतितसंभाषणात्पूतो भवति । ब्रह्म-
हत्यादिपातकैर्मुक्तो भवति । गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रवि-
शति । प्रज्ञानमानन्दं ब्रह्म तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महा-
वाक्यैः प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति । स्वरव्यञ्जनभेदेन द्विधा
१ मुकारों.</p>
<pb n="636" />
<p>खण्डः १ ]
दत्तात्रेयोपनिषत् ॥ १०५ ॥</p>
<p>एते । अथानुमन्त्राञ्जपति । यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद
मन्द्रा । चतस्र ऊर्जं दुदुहे पयांसि व स्विदस्याः परमं जगाम ॥ १ ॥ गौरी-
र्मिमा सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी
बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २ ॥ ओष्ठापिधाना नकुली दन्तैः
परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः
॥ ३ ॥ ससर्परीरमतिं बाधमाना बृहन्ममाय जमदग्निदत्ता । आसूर्यस्य
दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४ ॥ य इमां ब्रह्मविद्यामेकादश्यां
पठेद्धयग्रीवप्रभावेन महापुरुषो भवति । स जीवन्मुक्तो भवति । ॐ नमो
ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढुं
ममामुष्य ओमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति हयग्रीवोपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥
इति हयग्रीवोपनिषत्समाप्ता ॥ १०४ ॥</p>
<lg>
  <l>दत्तात्रेयोपनिषत् ॥ १०५ ॥</l>
  <l>दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।</l>
  <l>त्रिपान्नारायणाकारं दत्तात्रेयमुपास्महे ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहि
भगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्त्विकं मामकं धामोपास्वेत्याह । सदा
दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति नारायणेनैव
विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेयं ध्यात्वा सद्वदति ।
दमिति हंसः । दामिति दीर्घ तद्वीजं नाम बीजस्थम् । दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति । तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् गायत्री
छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । वटबीजस्थमिव दत्तबीजस्थ
सर्वं जगत् । एतदेवैकाक्षरं व्याख्यातम् । व्याख्यास्ये षडक्षरम् । ओमिति
द्वितीयम् । हीमिति तृतीयम् । क्लीमिति चतुर्थम् । ग्लौमिति पञ्चमम् ।
नामिति षट्कम् । षडक्षरोऽयं भवति । योगानुभवो भवति । गायत्री छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता । द्वमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रे-
१ ब्रूहीत्युवाच .</p>
<pb n="637" />
<p>ક
ईशाद्युपनिषत्सु -
[ खण्डः २
याय नम इत्यष्टाक्षरः । दत्तात्रेयायेति सत्यानन्दचिदात्मकम् । नम इति
पूर्णानन्दकविग्रहम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
दत्तात्रेयायेति कीलकम् । तदेव बीजम् । नमः शक्तिर्भवति । ओमिति प्रथ-
मम् । आमिति द्वितीयम् । हीमिति तृतीयम् । क्रोमिति चतुर्थम् । एहीति
तदेव वदेत् । दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः । जगती छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः ।
संबुद्धिरिति कीलकम् । द्रमिति हृदये । ह्रीं क्लीमिति शीर्षे । एहीति शिखा -
याम् । दत्तेति कवचे आत्रेयेति चक्षुषि । स्वाहेत्यखे । तन्मयो भवति । य
एवं वेद । षोडशाक्षरं व्याख्यास्ये । प्राणं देयम् । मानं देयम् । चक्षुर्देयम् ।
श्रोत्रं देयम् । षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रो न देयो भवति । अतिसे-
वापरभक्तगुणवच्छिष्याय वदेत् । ओमिति प्रथमं भवति । ऐमिति द्वितीयम् ।
क्रोमिति तृतीयम् । क्लीमिति चतुर्थम् । क्लूमिति पञ्चमम् । हामिति षष्ठम् ।
मिति सप्तमम् । हूमित्यष्टमम् । सौरिति नवमम् । दत्तात्रेयायेति चतुर्दशम् ।
स्वाहेति षोडशम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
ॐ बीजम् । स्वाहा शक्तिः । चतुर्थ्यन्तं कीलकम् । ओमिति हृदये । क्लां क्लीं
क्लूमिति शिखायाम् । सौरिति कवचे । चतुर्थ्यन्तं चक्षुषि । स्वाहेत्यस्त्रे । यो
नित्यमधीयानः सच्चिदानन्दसुखी मोक्षी भवति । सौरित्यन्ते श्रीवैष्णव इत्यु-
च्यते । तापी विष्णुरूपी भवति । अनुष्टुप् छन्दो व्याख्यास्ये । सर्वत्र संबु-
द्धिरिमानीत्युच्यन्ते । दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगम्बर मुने
बालपिशाच ज्ञानसागर ॥ १ ॥ इत्युपनिषत् । अनुष्टुप् छन्दः । सदाशिव
ऋषिः । दत्तात्रेय देवता दत्तात्रेयेति हृदये । हरे कृष्णेति शीर्षे । उन्मत्ता-
नन्देति शिखायाम् । दायक मुन इति कवचे । दिगम्बरेति चक्षुषि । पिशा-
ज्ञानसागरे त्यस्त्रे । अनुष्टुभोऽयं मयाधीतः । अब्रह्मजन्मदोषाश्च प्रण-
श्यन्ति । सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥ १ ॥
इति दत्तात्रेयोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्र संतुष्टाय
महाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्तपिशाचवेषा-
येति महायोगिनेऽवधूतायेति अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकाम-
१ तथैव. २ चतुर्दश । स्वाहेति षोडश.</p>
<pb n="638" />
<p>• गारुडोपनिषत् ॥ १०६ ॥</p>
<p>फलप्रदाय ओमिति व्याहरेत् । भवबन्धमोचनायेति हीमिति व्याहरेत् ।
सकलविभूतिदायेति क्रोमिति व्याहरेत् । साध्याकर्षणायेति सौरिति व्याहरेत् ।
सर्वमनः क्षोभणायेति श्रीमिति व्याहरेत् । महोमिति व्याहरेत् । चिरंजीविने
वषडिति व्याहरेत् । वशीकुरु वशीकुरु वौषड़िति व्याहरेत् । आकर्षयाकर्षय
हुमिति व्याहरेत् । विद्वेषय विद्वेषय फडिति व्याहरेत् । उच्चाटयोच्चाटय ठठेति
व्याहरेत् । स्तम्भय स्तम्भय खखेति व्याहरेत् । मारय मारय नमः संपन्नाय
नमः संपन्नाय स्वाहा पोषय पोषय परमन्नपरयन्त्रपरतन्त्रांश्छिन्धि च्छिन्धि
ग्रहान्निवारय निवारय व्याधीन्निवारय निवारय दुःखं हरय हरय दारिद्र्यं
विद्रावय विद्रावय देहं पोषय पोषय चित्तं तोषय तोषयेति सर्वमन्त्रसर्वयन्त्र-
सर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः शिवायेत्युपनिषत् ॥ २ ॥
इति दत्तात्रेयोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
य एवं वेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
ओमिति बीजम् । स्वाहेति शक्तिः । द्वामिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा
भवन्ति । यो नित्यमधीते वाय्वमिसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति ।
गायत्र्या शतसहस्रं जप्तं भवति । महारुद्रशतसहस्रजापी भवति । प्रणवायुत-
कोटिजप्तो भवति । शतपूर्वान्छितापरान्पुनाति । स पङ्क्तिपावनो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति । तुलापुरु-
षादिदानैः प्रपापानतः पूतो भवति । अशेषपापान्मुक्तो भवति । भक्ष्या-
भक्ष्यपापैर्मुक्तो भवति । सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणो
भवति । तस्माच्छिव्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्रुते । स जीव-
मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति दत्तात्रेयोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥
इति दत्तात्रेयोपनिषत्समाप्ता ॥ १०५ ॥
गारुडोपनिषत् ॥ १०६ ॥</p>
<lg>
  <l>विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।</l>
  <l>ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥ १॥</l>
</lg>
<p>ॐ भद्रं कर्णेभिरिति शान्तिः ।
हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां नारदाय प्रोवाच
नारदो बृहत्सेना बृहत्सेन इन्द्राय इन्द्रो भरद्वाजाय भरद्वाजो जीवत्का-</p>
<pb n="639" />
<p>ईशाद्युपनिषत्सु -
मेभ्यः शिष्येभ्यः प्रायच्छत् । अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे मम
सकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।
श्रीमहागरुडाय तर्जनीभ्यां स्वाहा । पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीवि-
ष्णुवल्लभाय अनामिकाभ्यां हुम् । त्रैलोक्यपरिपूजिताय कनिष्ठिकाभ्य
वौषट् । उग्रभयंकर कालानलरूपाय करतलकरपृष्ठाभ्यां फट् । एवं हृदया-
दिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् । स्वस्तिको दक्षिणं पार्द
वामपादं तु कुञ्चितम् । प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १ ॥
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः । तक्षकाः कटिसूत्रं तु हारः
कार्कोट उच्यते ॥ २ ॥ पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके । शङ्खः शिरः-
प्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३ ॥ पौण्ड्रकालिकनागाभ्यां चामराभ्यां
सुवीजितम् । एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४ ॥ कपिलाक्षं
गरुत्मन्तं सुवर्णसदृशप्रभम् । दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥५॥
आजानुतः सुवर्णाभमाकण्ठ्योस्तुहिनप्रभम् । कुङ्कुमारुणमाकण्ठं शतचन्द्र-
निभाननम् ॥ ६ ॥ नीलाग्रनासिकावक्रं सुमहच्चारुकुण्डलम् । दंष्ट्राकराल-
वदनं किरीटमुकुटोज्वलम् ॥ ७ ॥ कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।
विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८ ॥ एवं ध्यायेत्रिसंध्यासु
गरुडं नागभूषणम् । विषं नाशयते शीघ्रं तूलराशिमिवानलः ॥ ९ ॥ ओ-
मीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय विष्णुवल्लभाय त्रैलोक्य-
परिपूजिताय उग्रभयंकर कालानलरूपाय वज्रनखाय वज्रतुण्डाय वज्र-
दन्ताय वज्रदंष्ट्राय वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि श्रीम-
हागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां विषं दूषय दूषय स्पृष्टानां
नाशय नाशय दन्दशूकानां विषं दारय दारय प्रलीनं विषं प्रणाशय प्रणाशय
सर्वविषं नाशय नाशय हन हन दह दह पच पच भस्मीकुरु भस्मीकुरु हुं फट्
स्वाहा ॥ चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक । पृथ्वीमण्डलमुद्राङ्ग श्रीम-
हागरुडाय विषं हर हर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओम सच-
रति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी विषदूषिणी विष-
शोषणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तः प्रलीनं विषं
प्रनष्टं विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ ॐ नमो</p>
<pb n="640" />
<p>गारुडोपनिषत् ॥ १०६ ॥
भगवते महागरुडाय विष्णुवाहनाय त्रैलोक्यपरिपूजिताय वज्रनखवज्र-
'तुण्डाय वज्रपक्षालंकृतशरीराय एह्येहि महागरुड विषं छिन्धि छिन्धि आवे-
ग़यावेशय हुं फट् स्वाहा ॥ सुपर्णोऽसि गरुत्मानिवृत्ते शिरो गायत्रं चक्षुः
स्तोम आत्मा साम ते तनुर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छ
छन्दांस्यङ्गानि धिष्णिया शफा यजूंषि नाम ॥ सुपर्णोऽसि गरुत्मान्दिवं गच्छ
सुवः पत ओम ब्रह्मविद्याममावास्यायां पौर्णमास्यायां पुरोवाच सचरति सच-
रति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं
- विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा ॥ ततस्त्रयम् । यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयम् ।
सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं
विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ।
यदि वासुकिदूतोऽसि यदि वा वासुकः स्वयम् । सचरति सचरति तत्कारी
मत्कारी विशनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं
ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयम् । सचरति सचरति
तकारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य.
वज्रेण विषं हतं ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि कर्कोटकदूतोऽसि
यदि वा कर्कोटकः स्वयम् । सचरति सचरति तत्कारी मत्कारी विषनाशिनी
विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमि -
न्द्रस्य वज्रेण स्वाहा ॥ यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयम् । सचरति सच-
रति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य
वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि महापद्मक-
दूतोऽसि यदि वा महापद्मकः स्वयम् । सचरति सचरति तत्कारी मत्कारी
विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि शङ्खकदूतोऽसि यदि वा शङ्खकः
स्वयम्। खचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं
नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥
यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयम् । सचरति सचरति तत्कारी
मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य
वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि पौण्डूकालिक-
अ. उ. ४०</p>
<pb n="641" />
<p>.६२६
ईशाद्युपनिषत्सु
दूतोऽसि यदि वा पौण्ड्रकालिकः स्वयम् । सचरति सचरति तत्कारी मत्कारी
विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण
विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि नागकदूतोऽसि यदि
वा नागकः स्वयम् । सचरति सचरति तत्कीरी मत्कारी विषनाशिनी विषदूषिणी
विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमि-
न्द्रस्य वज्रेण स्वाहा ॥ यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानां
यदि स्थावरजङ्गमानां सचरति संचरति तत्कारी मत्कारी विषनाशिनी विष-
दूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते
ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । अतन्तवासुकितक्षककर्कोटकपद्मकमहा-
पद्मकशङ्खक्रगुलिकपौण्डकालिकनागक इत्येषां दिव्यानां महानागानां महा-
नागादिरूपाणां विषतुण्डानां विषदन्तानां विषदंष्ट्राणां विषाङ्गानां विष-
पुच्छानां विश्वचाराणां वृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानां
गृहगोधिकानां प्रणसानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां तार्णानां
पर्णानां काष्ठदारुवृक्षकोटरस्थानां मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां
दुष्टकीटकपिश्वानमार्जारजम्बुकन्याघवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानां
शस्त्रबाणक्षतस्फोटव्रण महाव्रणकृतानां कृत्रिमाणामन्येषां भूतवेतालकूष्माण्ड-
पिशाचप्रेतराक्षसयक्षभयप्रदानां विषतुण्डदंष्ट्राणां विषाङ्गानां विषपुच्छानां
विषाणां विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी हत
विषं नष्टं विषमन्तः प्रलीनं विप्रनष्टं विषं हतं ते ब्रह्मणा विषमिन्द्रस्य
वज्रेण स्वाहा । य इमां ब्रह्मविद्याममावास्यायां पठेच्छृणुयाद्वा यावज्जीवं न
हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् । शतं ब्राह्मणान्
ग्राहयित्वा चक्षुषा मोचयेत् । सहस्रं ब्राह्मणान् ग्राहयित्वा मनसा मोचयेत् ।
सर्पाञ्जले न मुञ्चन्ति । तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रहो-
त्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शांन्तिः ॥
इति श्रीगरुडोपनिषत्समाप्ता ॥ १०६ ॥</p>
<pb n="642" />
<p>कलिसंतरणोपनिषत् ॥ १०७ ॥</p>
<lg>
  <l>यद्दिव्यनाम स्मरतां संसारो गोष्पदायते ।</l>
  <l>सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ॥ १ ॥</l>
</lg>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>हरिः ॐ ॥ द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटकलिं
संतरेयमिति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु
ये कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारण-
मात्रेण निर्धूतकलिर्भवति । नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच
हिरण्यगर्भः । हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण
कृष्ण कृष्ण हरे हरे ॥ १ ॥ इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।
जातः परतरोपायः सर्ववेदेषु दृश्यते ॥ २ ॥ इति षोडशकलावृतस्य जीव-
स्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डली-
चेति । पुनर्नारदः पप्रच्छ भगवन्कोऽस्य विधिरिति । तं होवाच नास्य विधि-
रिति । सर्वदा शुचिरशुचिर्वा पठन्ब्राह्मणः सलोकतां समीपतां सरूपतां सायु-
ज्यतामेति । यदाऽस्य षोडशीकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति ।
तरति वीरहत्याम् । स्वर्णस्तेयात्पूतो भवति । पितृदेवमनुष्याणामपकारात्पूतो
भवति । सर्वधर्मपरित्यागपापात्सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्यो
मुच्यते इत्युपनिषत् ॥ ३ ॥ हरिः ॐ तत्सत् ॥</p>
<p>ॐ सह नाववत्विति शान्तिः ॥</p>
<p>इति श्री कलिसंवरणोपनिषत्समाप्ता ॥ १०७ ॥</p>
<p>जाबाल्युपनिषत् ॥ १०८ ॥</p>
<lg>
  <l>जाबाल्युपनिषद्वेद्यपदतत्त्वस्वरूपकम् ।</l>
  <l>पारमैश्वर्यविभवं रामचन्द्रपदं भजे ॥ १ ॥</l>
</lg>
<p>ॐ आप्यायन्त्विति शान्तिः ॥</p>
<p>हरिः ॐ ॥ अथ हैनं भगवन्तं जाबालिं पैप्पलादिः पप्रच्छ भगवन्मे ब्रूहि
परमतत्त्वरहस्यम् । किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति ।
स तं होवाच साधु पृष्टं सर्वं निवेदयामि यथाज्ञातमिति । पुनः स तमुवाच</p>
<pb n="643" />
<p>ईशाद्युपनिषत्सु -
कुतस्त्वया ज्ञातमिति । पुनः स तमुवाच षडाननादिति । पुनः स तमुत्राचः
तेनाथ कुतो ज्ञातमिति । पुनः स तमुवाच तेनेशानादिति । पुनः स तमुवाच
कथं तस्मात्तेन ज्ञातमिति । पुनः स तमुवाच तदुपासनादिति । पुन: स
तमुवाच भगवन्कृपया मे सरहस्यं सर्वं निवेदयेति । स तेन पृष्टः सर्व
निवेदयामास तत्त्वम् । पशुपतिरहंकाराविष्टः संसारी जीवः स एव पशुः ।
सर्वज्ञः पञ्चकृत्यसंपन्नः सर्वेश्वर ईशः पशुपतिः । के पशव इति पुनः स
तमुवाच जीवाः पशव उक्ताः । तत्पतित्वात्पशुपतिः । स पुनस्तं होवाच
कथं जीवाः पशव इति । कथं तत्पतिरिति । स तमुवाच यथा तृणाशिनों
विवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः सकलदुःखसहाः स्वस्वामि-
बध्यमाना गवादयः पशवः । यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः ।
तज्ज्ञानं केनोपायेन जायते । पुनः स तमुवाच विभूतिधारणादेव । तत्प्रकारः
कथमिति । कुत्र कुत्र धार्यम् । पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म
संगृह्यग्निरिति भस्मेत्यनेनाभिमध्य मानस्तोक इति समुद्धृत्य जलेन संसृज्य
त्र्यायुषमिति शिरोललाटवक्षः स्कन्धेष्विति तिसृभिख्यायुषैस्त्रियम्बकैस्तिस्रो
रेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति ।
तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय । अथ सनत्कुमारः प्रमाणं पृच्छति ।
त्रिपुण्ड्रधारणस्य त्रिधा रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च । याऽस्य
प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः
ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो देवतेति । याऽस्य द्वितीया रेखा सा दक्षि-
णान्निरुकारः सत्त्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनसवनं
विष्णुदेवो देवतेति । याऽस्य तृतीया रेखा साssहवनीयो मकारस्तमो द्यौर्लोकः
परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रे
भस्मना करोति । यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापात-
कोपपातकेभ्यः पूतो भवति । स सर्वान्देवान्ध्यातो भवति । स सर्वेषु तीर्थेषु
स्नातो भवति । स सकलरुद्र मंत्रजापी भवति । न स पुनरावर्तते न स.
पुनरावर्तते ॥ इति । ॐ सत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति श्रीजाबाल्युपनिषत्समाप्ता ॥ १०८ ॥ ..</p>
<pb n="644" />
<p>उप० १]
गणेशपूर्वतापिन्युपनिषत् ॥ १०९ ॥
गणेशपूर्वतापिन्युपनिषत् ॥ १०९ ॥</p>
<lg>
  <l>गणेशं प्रमथाधीशं निर्गुणं सगुणं विभुम् ।</l>
  <l>योगिनो यत्पदं यान्ति तं गौरीनन्दनं भजे ॥ १ ॥</l>
</lg>
<p>ॐ नमो वरदाय विघ्नहर्त्रे ॥ अथातो ब्रह्मोपनिषदं व्याख्यास्यामः । ब्रह्मा
'देवानां सवितुः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । धाता वसूनां सुरभिः
सृजानां नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ॥ धाता देवानां प्रथमं हि चेतो
मनो वनानीव मनसाऽकल्पयथः । नमो ब्रह्मणे ब्रह्मपुत्राय तुभ्यं ज्येष्ठायाथर्व★
पुत्राय धन्विने ॥ १ ॥ ॐ प्रजापतिः प्रजा असृजत । ताः सृष्टा अब्रुवन्
कथमन्नाद्या अभवन्निति । स त्रेधा व्यभजद्भूर्भुवः स्वरिति । स तपोऽतप्यत ।
स ब्रह्मा स विष्णुः स शिवः स प्रजापतिः सेन्द्रः सोऽग्निः समभवत् । स
तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । सोऽपश्यदात्मनात्मानं
गजरूपधरं देवं शशिवर्णं चतुर्भुजं यतो वा इमानि भूतानि जायन्ते यतो
वायन्ति यत्रैव यन्ति च । तदेतदक्षरं परं ब्रह्म । एतस्माज्जायते प्राणो मनः
सर्वेन्द्रियाणि च । खं वायुरापो ज्योतिः पृथिवी विश्वस्य धारिणी । पुरुष
एवेदं विश्वं तपो ब्रह्म परामृतमिति ॥ २ ॥ सोऽस्तुवत नमो ब्रह्मणे नमो
ब्राह्मणेभ्यो नमो वेदेभ्यो नमो देवेभ्यो नम ऋषिभ्यो नमः कुल्येभ्यः प्रकु-
स्येभ्यो नमः सवित्रे प्रसवित्रे नमो भोज्याय प्रकृष्टाय कपर्दिने चा
चक्रधरायान्नायान्नपतये शिवाय सदाशिवाय तुर्याय तुरीयाय भूर्भुवः स्वः पते
रास्ते वाजिपते गोपते ऋग्यजुःसामाथर्वाङ्गिरःपते नमो ब्रह्मपुत्रायेति
॥ ३ ॥ सोऽब्रवीद्वरदोऽस्म्यहमिति । स प्रजापतिरब्रवीत्कथमिमेऽन्नाद्याः
स्युरिति । स होवाच ब्रह्मपुत्रस्तपस्तेपे सिद्धक्षेत्रे महायशाः । स सर्वस्य वक्ता -
सर्वस्य ज्ञातासीति । स होवाच तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्वमिति ।
प्रत्याययुः । स होवाच किमेतदिति । ते होचुः कथं वयमन्नाद्या भवाम
इति । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । स एतमानुष्टुभं
मन्त्रराजमपश्यत् । यदिदं किञ्च सर्वमसृजत । तस्मात्सर्वमानुष्टुभमित्याचक्षते
यदिदं किञ्च । अनुष्टुभा वा इमानि भूतानि जायन्ते । अनुष्टुभा जातानि जीव-
भ्त्यनुष्टुभं प्रयन्त्यभिसंविशन्ति । तस्यैषा भवति – अनुष्टुप्रथमा भवत्यनुष्टुवु-
१ वायन्ति = शुष्यन्ति.
ते</p>
<pb n="645" />
<p>शाधुपनिषत्सु -
[ उप० १
तमा भवति । वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति । परमा वा एषा
छन्दसां यदनुष्टुप् । सर्वमनुष्टुप् । एतं मन्त्रराजं यः पश्यति स पश्यति ।
स भुक्तिं मुक्तिं च विन्दति । तेन सर्वज्ञानं भवति । तदेतन्निदर्शनं भवति-:
एको देवः प्रापको यो वसूनां श्रिया जुष्टः सर्वतोभद्र एषः । मायादेवो
बलगहनो ब्रह्मा तीस्तं देवमीडे दक्षिणास्यम् ॥ भा तू न इन्द्र क्षुमन्तं
चित्रं ग्राभं सङ्गृभाय । महाहस्ती दक्षिणेन ॥ इति सहस्रकृत्वस्तुष्टाव ॥ ४ ॥
अथापश्यन्महादेवं श्रिया जुष्टं मदोत्कटम् । सनकादिमहायोगिवेदविद्भिरुपा-
सितम् ॥ द्रुहिणादिमदेवेशषट्पदा लि विराजितम् । लसस्कर्णं महादेवं
गजरूपधरं शिवम् ॥ स होवाच वरदोऽस्मीति । स तूष्णीं मनसा वत्रे । स
तथेति होवाच । तदेष श्लोकः -- स संस्तुतो दैवतदेवसूनुः सुतं भृगोर्वाक्य-
मुवाच तुष्टः । अवेहि मां भार्गव वक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥
अथ तस्य षडङ्गानि प्रादुर्बभूवुः । स होवाच जपध्वमानुष्टुभं मन्त्रराजं पद--
पदं सषडक्षरम् । इति यो जपति स भूतिमान् भवतीति यूयमन्नाद्या:
भवेयुरिति । तदेतन्निदर्शनम् -- गणानां त्वा गणनाथं सुरेन्द्रं कविं कवीनाम--
तिमेधविग्रहम् । ज्येष्ठराजं वृषभं केतुमेकं सा नः शृण्वन्नूतिभिः सीद शश्वत्
॥ ५ ॥ ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीम इति । स एतमानुष्टुभः
षट्पदं मन्त्रराजं कथयाञ्चक्रे । स साम भवति । ऋग्वै गायत्री यजुरुष्णग-
नुष्टुप् साम । स आदित्यो भवति । ऋग्वै वसुर्यजू रुद्राः सामादित्या इति ।
स पदो भवति । साम वै षट्पदः । ससागरां सप्तद्वीपां सपर्वतां वसु-
धरां तत्साम्नः प्रथमं पादं जानीयाद्वायस्पोषस्य दातेति । तेन सप्तद्वीपा -
धिपो भवति भूः पतित्वं च गच्छति । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं
द्वितीयं पादं जानीयानिधिदातेति । तेन धनदादिकाष्ठा पतिर्भवति भुवःप-
तित्वं च गच्छति । वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं
जानीयादन्नदो मत इति । तेन देवाधिपत्यं स्वः पतित्वं च गच्छति । ऋग्य-
जुःसामाथर्वाङ्गिरोगणसेवितं ब्रह्मलोकं तु पादं जानीयाद्रक्षोहण इति ।
तेन देवाधिपत्यं ब्रह्माधिपत्यं च गच्छति । वासुदेवादिचतुर्व्यूह सेवितं विष्णु-
लोकं तत्साम्नः पञ्चमं पादं जानीयाइलगहन इति । तेन सर्वदेवाधिपत्यं
विष्णुलोकाधिपत्यं च गच्छति । ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तालाम्नः
षष्ठं पादं जानीयात् । तेन वक्रतुण्डाय हुमिति यो जानीयात्सोऽमृतत्वं च</p>
<pb n="646" />
<p>उप० २]
गणेशपूर्वतापिन्युपनिषत् ॥ १०९ ॥
गच्छति । सत्यलोकाधिपत्यं च गच्छति ॥ ६ ॥ ऋग्यजुःसामाथर्घाश्चत्वारः पादा
भवन्ति । रायस्पोषस्य दाता चेति प्रथमः पादो भवति, ऋग्वै प्रथमः पादः ।
निविदाताऽन्नदो मत इति द्वितीयः पादः, यजुर्वै द्वितीयः पादः । रक्षोहणो
वो बलगहन इति तृतीयः पादः, साम वै तृतीयः पादः । वक्रतुण्डाय हुमिति
चतुर्थः पादः अथर्वश्चतुर्थः पादोऽथर्वश्चतुर्थः पाद इति ॥ ७ ॥
इति गणेशपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १॥
स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्व विश्वानि भूतानि विराट् स्वराद
सम्राट् तत्साम्नः प्रथमं पादं जानीयात् । ऋग्यजुःसामाथर्वरूपः सूर्योऽन्त-
रादित्ये हिरण्मयः पुरुषस्तत्सानो द्वितीयं पादं जानीयात् । य ओषधीनां
प्रभविता तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात् । यो ब्रह्मा
तरसान्नश्चतुर्थं पादं जानीयात् । यो हरिस्तत्साम्नः पञ्चमं पादं जानीयात् ।
यः शिवः स परं ब्रह्म तत्साम्नोऽन्त्यं पादं जानीयात् । यो जानीते सोऽमृतत्वं
च गच्छति परं ब्रह्मैव भवति । तस्मादिदमानुष्टुभं साम यत्र कचिन्नाचष्टे ।
यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय वेति ॥ १ ॥ तस्य
हि षडङ्गानि भवन्ति — ॐ हृदयाय नमः शिरसे स्वाहा, शिखायै वषट्,
कवचाय हुं । नेत्रत्रयाय वौषट्, अस्त्राय फंडिति प्रथमं प्रथमेन द्वितीयं द्वितीयेन
तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन षष्ठं षष्ठेन प्रत्यक्षरमुभयतो
माया लक्ष्मीश्च भवति । माया वा एषा वैनायकी सर्वमिदं सृजति,
सर्वमिदं रक्षति, सर्वमिदं संहरति, तस्मान्मायामेतां शक्तिं वेद । स मृत्युं जयति ।
स पाप्मानं तरति । स महतीं श्रियमश्नुते । सोऽभिवादी षट्कर्मसंसिद्धो
भवत्यमृतत्वं च गच्छति । मीमांसन्ते ब्रह्मवादिनो हस्वा वा दीर्घा वा सुता:
वेति । यदि ह्रस्वा भवति सर्वपाप्मानं तरत्यमृतत्वं च गच्छति । यदि दीर्घा
भवति महतीं श्रियमाप्नुयादमृतत्वं च गच्छति । यदि ह्रुता भवति ज्ञानवान्
भवत्यमृतत्वं च गच्छति । तदेतदृषिणोक्तं निदर्शनम् -स ईं पाहि य
ऋजीषी तरुद्रः स श्रियं लक्ष्मीमौपला म्बिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युत
आस्तां विद्यां ब्रह्मयोनिवरूपाम् ॥ तामिहायुषे शरणं प्रपद्ये । क्षीरोदार्णव-
शायिनं कल्पद्रुमाधः स्थितं वरदं व्योमरूपिणं प्रचण्डदण्डदोर्दण्डं वक्रतुण्ड.
स्वरूपिणं पार्श्वधः स्थितकामधेनुं शिवोमातनयं विभुम् । रुक्माम्बर निभा-
काशं रक्तवर्णं चतुर्भुजम् । कपर्दिनं शिवं शान्तं भक्तानामभयप्रदम् ॥</p>
<pb n="647" />
<p>ईशाद्युपनिषत्सु -
[ उप०३
उन्नतप्रपदाङ्गुष्ठं गूढगुल्फें सपाणिकम् । पीनजंघें गूढजानुं स्थूलोरुं प्रोन्नम-
कटिम् ॥ निम्ननाभि कम्बुकण्ठं लम्बोष्ठं लम्बनासिकम् । सिद्धिबुद्धयुभया-
श्लिष्टं प्रसन्नवदनाम्बुजम् ॥ इति संसर्गः ॥ २ ॥ अथ छन्दोदैवतम् ।
अनुष्टुप्छन्दो भवति, द्वात्रिंशदक्षरानुष्टुब् भवति । अनुष्टुभा सर्वमिदं
सृष्टमनुष्टुभा सर्वमुपसंहृतम् । शिवोमायुतः परमात्मा वरदो देवता । ते
होचुः कथं शिवोमायुत इति । स होवाच भृगुपुत्रः प्रकृतिपुरुषमयो हि स
धनद इति, प्रकृतिर्माया पुरुषः शिव इति । सोऽयं विश्वात्मा देवतेति ।
तदेतन्निदर्शनम् – इन्द्रो मायाभिः पुरुहूत ईडे शर्वो विश्व मायया
स्विद्दधार । सोऽजः शेते मायया स्विद्गुहायां विश्वं न्यस्तं विष्णुरेको विजज्ञे ॥
तदेतन्माया हंसमयी देवानाम् ॥ सर्वेषां वा एतद्भूतानामाकाशः परायणम् ।
सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते जातानि जीवन्त्याकाश
प्रयन्त्यभिसंविशन्ति । तस्मादाकाशबीजं शिवो विद्यात् । तदेतन्निदर्शनम्-
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसहतसयो-
मसदब्जा गोजा ऋतजा अद्विजा ऋतं बृहदिति ॥ ३ ॥ अथाधिष्ठानम् -
मध्ये बिन्दु त्रिकोणं तदनु ऋतुगणं वसुदलं द्वादशारं षोडशकर्णिकेति ।
मध्ये बीजात्मकं देवं यजेत् । वामदक्षिणे सिद्धिर्बुद्धिः । अग्रे कामदुघा
षट्कोणे सुमुखादयः षड्विनायकाः । वसुदले वक्रतुण्डाद्यष्टविनायकाः ।
द्वादशारे बटुको वामनो महादशकमहोदरौ सुभद्रो माली वरो राम उमा
शिवः स्कन्दो नन्दी । तद्वाह्येऽणिमादिसिद्धयः । षोडशारे दिक्पालाः
सायुधा इति ॥ ४ ॥ अथ प्रसारः - य एतेन चतुर्थीषु पक्षयोरुभयोरपि ।
लक्षं जुहुयादपूपानां तत्क्षणाद्धनदो भवेत् ॥ सिद्धौदनं त्रिमासं तु जुह्वदमा-
वनन्यधीः । तावज्जुह्वत्पृथुकान्हि साक्षाद्वैश्रवणो भवेत् ॥ उच्चाटयेद्विभीतैश्च
मारयेद्विषवृक्षजैः । वश्याय पङ्कजैर्विद्वान्धनार्थी मोदकै हुनेत् ॥ एवं ज्ञात्वा
कृतकर्मा भवति कृतकर्मा भवतीति ॥ ५ ॥
इति गणेशपूर्वतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥
अथ होवाच भृगुपुत्रस्तन्त्रं विजिज्ञासितव्यमिति । मूले शून्यं
विजानीयात् । शून्यं वै परं ब्रह्म । तन्त्र सतारं समायं साम न्यसे त्रिरेखं भवति,
वै
यो हीमे लोकास्त्रयो हीमे वेदाः । ऋग्वै भूः सा माया भवति । यजुर्वें
भुवः स शिवो भवति । साम वै खः स हिरण्यगर्भो भवति । षट्कोणं
E
:</p>
<pb n="648" />
<p>उप० १]
गणेशोत्तरतापिन्युपनिषत् ॥ ११० ॥
भवति षड् हीमे लोकाः षड्ढा ऋतवो भवन्ति । तत्र तारमायारमामारविश्वेश-
धरणीक्रमान्यसेत् । अष्टपत्रं भवत्यष्टाक्षरा गायत्री भवति ब्रह्मगायत्रीं
न्यसेत् । द्वादशपत्र भवति द्वादशादित्या भवन्ति ते स्वरा भवन्ति । स्वरान्
ज्ञात्वादित्यलोकमश्रुते । षोडशपत्रं भवंति षोडशकलो वै पुरुषो वर्णों ह वै
पुरुषः स लोकाधिष्ठितो भवत्यनुष्टुब् वै पुरुषः ॥ १ ॥ स होवाच भृगुपुत्र
एतमानुष्टुभं मन्त्रराजं साङ्गं सप्रसृतिकं समायं साधिष्ठानं सतनं यो जानाति
स भूतिमान् भवति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥ २ ॥
इति गणेशपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३ ॥
इत्याथर्वणीया गणेशपूर्वतापिन्युपनिषत्समाप्ता ॥ १०९ ॥
गणेशोत्तरतापिन्युपनिषत् ॥ ११० ॥
ॐ ॥ ओमित्येकाक्षरं ब्रह्मेदं सर्वम् । तस्योपव्याख्यानम् । सर्व भूतं भव्यं
भविष्यदिति सर्वमोङ्कार एव । एतच्चान्यच्च त्रिकालातीतं तदप्योङ्कार एव ।
सर्वं ह्येतद्गुणेशोऽयमात्मा ब्रह्मेति । सोऽयमात्मा चतुष्पात् । जागरितस्थानो
बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ।
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः
पादः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति
तत्सुषुप्तम् । सुषुप्तिस्थान एकीभूतः प्रज्ञानघन एवानन्दभुक् चेतोमुखः
प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य'
प्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्र
नाशं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैका-
रम्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स गणेश आत्मा
विज्ञेयः । सदोजवलो विद्यातत्कार्यहीनः स्वात्मबन्धरहितः सर्व दोषरहित
आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ता विद्यातमो मोहमेवेति सम्भाव्या-
हम तत्परं ब्रह्म विघ्नराजश्चिदात्मकः सोऽहमों तद्विनायकं परं ज्योती
रसोsहमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् । विनायकोऽहमित्येतत्त-
स्वतः प्रवदन्ति ये । न ते संसारिणो नूनं प्रमोदो वै न संशयः ॥
इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य-</p>
<pb n="649" />
<p>ईशाद्युपनिषत्सु -
•
[ उप० २
इति । एतदेव परं ध्यानमेतदेव परं तपः । विनायकस्य यज्ज्ञानं पूजनं
भवमोचनम् ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । एकस्य ध्यानयोगस्य
कलां नार्हन्ति षोडशीम् ॥
इति गणेशोत्तरतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १॥
ॐ ॥ स विष्णुः स शिवः स ब्रह्मा सेन्द्रः सेन्दुः स सूर्यः स वायुः
सोऽग्निः स ब्रह्मायमात्मने सर्वदेवाय आत्मने भूताय आत्मन इति मन्यन्ते ।
ॐ सोsहं ॐ सोsहं ॐ सोऽहमिति । ॐ ब्रह्मन् ॐ ब्रह्मन् ॐ ब्रह्मन्निति ।
ॐ शिव ॐ शिव ॐ शिवमिति । तं गणेशं तं गणेशमिदं श्रेष्ठम् -
ॐ गणानां त्वा गणपतिः । सप्रियाणां त्वा प्रियपतिः । संनिधीनां त्वा निधि-
पतिः । ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोद-
यात् । ॐ तद्गुणेशः । ॐ सद्गुणेशः । ॐ परं गणेशः । ॐ ब्रह्म गणेशः ।
गणनाका नादः । एतत्सव नादः । सर्वाकारो नादः । एतदाकारो नादः ।
महानादः । स गणेशो महान् भवति । सोऽणुर्भवति । स वन्द्यो भवति ।
स मुख्यो भवति । स पूज्यो भवति । रूपवान् भवति । अरूपवान्
भवति । द्वैतो भवति । अद्वैतो भवति । स्थावरस्वरूपवान् भवति । जङ्गम-
स्वरूपवान् भवति । सचेतन विचेतनो भवति । सर्वं भवति । स गणेशोs-
व्यक्तो योऽणुर्यः श्रेष्ठः स वै वेगवत्तरः । अहस्वाहस्वश्च । अतिहस्वातिह्रस्वा-
तिह्रस्वश्च । अस्थूलास्थूलास्थूलश्च । ॐ न वायुर्नाग्निनाशो नापः पृथिवी
न च । न दृश्यं न दृश्यं न दृश्यम् । न शीतं नोष्णं न वर्षं च । न पीतं न
पीतं न पीतम् । न श्वेतं न श्वेतं न श्वेतम् । न रक्तं न रक्तं न रक्तम् । न कृष्णं
न कृष्णं न कृष्णम् । न रूपं न नाम न गुणम् । न प्राप्यं गणेशं मन्यन्ते ।
स शुद्धः स शुद्धः स शुद्धो गणेशः । स ब्रह्म स ब्रह्म स ब्रह्म गणेशः । स
शिवः स शिवः स शिवो गणेशः । इन्द्रो गणेशो विष्णुर्गणेशः सूर्यो गणेश
एतत्सर्वं गणेशः । स निर्गुणः स निरहङ्कारः स निर्विकल्पः स निरीहः स
निराकार आनन्दरूप स्तेजोरूपमनिर्वाच्यमप्रमेयः पुरातनो गणेशो निगद्यते ।
स आद्यः सोऽक्षरः सोऽनन्तः सोऽव्ययो महान्पुरुषः । तच्छुद्धं तच्छबलं
ततः प्रकृति महत्तत्त्वानि जायन्ते । ततश्चाहङ्कारादिपञ्चतन्मात्राणि जायन्ते ।
ततः पृथ्व्यतेजोवाय्वाकाशपञ्चमहद्भूतानि जायन्ते । पृथिव्या ओषधयः
ओषधीभ्योऽन्नमन्नाद्वैतस्ततः पुरुषस्ततः सर्वं ततः सर्वं ततः सर्वं जगत्
:</p>
<pb n="650" />
<p>उप० ३ ]
गणेशोत्तरतापिन्युपनिषत् ॥ ११० ॥
सर्वाणि भूतानि जायन्ते । देवा नु जायन्ते । ततश्च जीवन्ति । देवा नु
जीवन्ति । यज्ञा तु जीवन्ति । सर्व जीवति । स गणेश आत्मा विज्ञेयः ।
इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य
इति ॥
इति गणेशोत्तरतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥
ॐ ॥ गणेशो वै ब्रह्म तद्विद्यात् । यदिदं किञ्च सर्व भूतं भव्यं जायमानं
च तत्सर्वमित्याचक्षते । अस्मान्नातः परं किञ्चित् । यो वै वेद स वेद ब्रह्म
ब्रह्मैवोपाप्रोति । तत्सर्वमित्याचक्षते । ब्रह्मविष्ण्वादिगणानामीश भूतमित्याह
गणेश इति । तत्परमित्याह यमेते नाप्नुवन्ति पृथिवी सुवर्चा युवतिः
सजोषाः । यद्वै वाङ् नाक्रामति मनसा सह नाग्निर्न पृथ्वी न तेजो
न वायुर्न व्योम न जलमित्याह । नेन्द्रियं न शरीरं न नाम न रूपम् । न
शुक्लं न रक्तं न पीतं न कृष्णमिति । न जाग्रन्न स्वप्नो न सुषुप्तिर्न वै
तुरीया । तच्छुद्धमप्राप्यमप्राप्यं च । अज्ञेयं चाज्ञेयं च । विकल्पासहिष्णु
तत्सशक्तिकं गजवक्रं गजाकारं जगदेवावरुन्धे । दिवमनन्तशी षैर्दिशमनन्त-
करैव्यमानन्तजठरैर्महीमनन्तपादैः स्वतेजसा बाह्यान्तरीयान्व्याप्य तिष्ठती-
त्याह । तद्वै परं ब्रह्म गणेश इत्यात्मानं मन्यन्ते । तद्वै सर्वतः पश्यति स्म न
किञ्चिद्ददर्श । ततो वै सोऽहमभूत् । नैकाकिता युक्तेति गुणान्निर्ममे । नाभे
रजः स वै ब्रह्मा । मुखात्सत्वं स वै विष्णुः । नयनात्तमः स वै हरः ।
ब्रह्माणमुपदिशति स्म ब्रह्मन् कुरु सृष्टिम् । ब्रह्मोवाच नाहं वेद्मि । गणेश
उवाच मद्देहे ब्रह्माण्डान्तर्गतं विलोकय तथाविधामेव कुरु सृष्टिम् । अथ
ब्रह्मा जन्मद्वारेण ब्रह्माण्डान्तर्गतं विलोकयति स्म । समुद्रान् सरितः
पर्वतान् वनानि महीं दिवं पातालं च नरान् पशून्मृगान्नागान् हयान्
गोत्रजान् सूर्याचन्द्रमसो नक्षत्राण्यग्नीन् वायुन्दिशस्ततो वै सृष्टिमचीकरत् ।
ततश्चात्मानमिति मन्यते स्म । न वै मत्तः परं किञ्चिदहमेव सर्वस्येश इति
यावद्वदति तावत्क्रूरा भजायेरन् । महद्देहा जिह्वया भुवं लिहाना दंष्ट्राव्याप्ता-
काशा महच्छब्दा ब्रह्माणं हन्तुमुद्युक्ताः । तान्दृष्ट्वा बिभ्यत्तत्समासः ।
ततश्चाग्रे कोटिसूर्यप्रतीकाशमानन्दरूपं गजवक्रं विलोकयति स्म । तुष्टावाथ
गणेश्वरम् । स्वं निर्माता क्ष्माभृतां सरितां सागराणां स्थावराणां जंङ्गमानां
च । त्वत्तः परतरं किञ्चिन्नैवास्ति जगतः प्रभो । कर्ता सर्वस्य विश्वस्य पात-</p>
<pb n="651" />
<p>ईशाद्युपनिषत्सु -..
[ उप०४
संहारकारकः । भवानिदं जगत्सर्वं व्याप्यैव परितिष्ठति ॥ इति स्तुत्वा
ब्रह्माणं तदुवाच ब्रह्मंस्तपस्व तपस्वेत्युक्त्वाऽन्तर्हिते तस्मिन् ब्रह्मा तपश्चचार
किस्तवनेहःसु तपसि स्थिते ब्रह्मणि पुरो भूत्वोवाच । प्रसन्नोऽहं
प्रसन्नोऽहं वरान् वरय । श्रुत्वैवं वचोन्मील्य नयने यावत्पुरः पश्यति
तावद्गुणेशं ददर्श । स्तौति स्म । त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं प्रजापतिस्त्व-
मिन्द्रस्त्वं सूर्यस्त्वं सोमस्त्वं गणेशः । त्वया व्यासं चराचरं त्वद्यते न हि
किञ्चन । ततश्च गणेश उवाच । स्वं चाहं च न वै भिन्नौ कुरु सृष्टिं
प्रजापते । शक्ति गृहाण मद्दत्तां जगत्सर्जनकर्मणि ॥ ततो वै गृहीतार्यां
शस्त्वा ब्रह्मणः सृष्टिरजायत । ब्राह्मणो वै मुखाज्जज्ञे बाहोः क्षत्रमूर्वोर्वैश्यः
पद्भ्यां शूद्रश्चक्षुषो वै सूर्यो मनसश्चन्द्रमा अभिर्वै मुखात्प्राणाद्वायुर्नाभेव्यम
शीर्णोद्यौः पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकानकल्पयन्निति । ततो वै
सत्वमुवाच त्वं वै विष्णुः पाहि पाहि जगत्सर्वम् । विष्णुरुवाच न में
शक्तिः । सोवाच गृहाणेमां विद्याम् । ततो वै सत्वं तामादाय जगत्पाति
स्म । हरमुवाच कुरु हर संहारम् । जगदरणादरो भव । हरश्वात्मान-
मित्यवैति स्म न वै मत्परं किञ्चिद्विश्वस्यादिरहं हर इति गवं दधौ यावत्ता-
व्याप्तं व्योम गजवक्त्रैर्महच्छब्दैर्हरं हर्तुमुद्युक्तैः । हरो वै विलोक्य रुति
स्मं । रोदनादुद्रसंज्ञः । ततस्तं पुरुषं स्मृत्वा तुष्टाव त्वं ब्रह्मा त्वं कर्ता वं
प्रधानं त्वं लोकान् सृजसि रक्षसि हरसि । विश्वाधारस्त्वमनाधारोऽनाधेयो
sarasaक्यों व्याप्येदं सर्वं तिष्ठसीति स्तवनाद्विनायकं ददर्श । ततश्च
तं ननाम । गणेश उवाच कुरु हर हरणम् । तद्वै संहर्ताऽभूद्रः । य एवं
वेद स गणेशो भवति । इत्युपनिषत् ॥
इति गणेशोत्तरतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३॥
ॐ ॥ गणेशो वै सदजायत तद्वै परं ब्रह्म । तद्विदामोति परम् । तदेषा-
भ्युक्ता यदनादिभूतं यदनन्तरूपं यद्विज्ञानरूपं यद्देवाः सर्वे ब्रह्म ज्येष्ठमुपासते
न कार्य करणं न तत्समश्चाधिकश्च दृइयः । सूर्योऽस्माद्भीत उदेति । वातो-
ऽस्माद्भीतः पवते । अनिर्वै भीतस्तिष्ठति । तच्चित्स्वरूपं निर्विकारमद्वैतं च ।
तस्मायाशबलमजनीत्याह । अनेन यथा तमस्ततश्चमिति ध्वनिरभूत् । स
वै गजाकारः । अनिर्वचनीया सैव माया जगद्वीजमित्याह । सैव प्रकृतिरिति
गणेश इति प्रधानमिति च मायाशबलमिति च । एतस्माद्वै महत्तत्त्वमजा-
1</p>
<pb n="652" />
<p>उप० v]
गणेशोत्तरतापिन्युपनिषत् ॥ ११० ॥
1
•
.
यत । ततः कराग्रेणाहङ्कारं सृष्टवान् । स वै त्रिविधः साविको राजसस्ताम-
सश्चेति । साविकी ज्ञानशक्तिः । राजसी क्रियाशक्तिः । तामसी द्रव्यं-
शक्तिः । तामस्याः पञ्चतन्मात्रा : अजायन्त पञ्चभूतान्यजायन्त । राजस्याः
पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवश्चाजायन्त । साविक्या
दिशो वायुः सूर्यो वरुणोऽश्विनाविति ज्ञानेन्द्रियदेवता अग्निरिन्द्रो विष्णुः
प्रजापतिर्मित्र इति कर्मेन्द्रियदेवताः । इदमादिपुरुषरूपम् । परमात्मनः
सूक्ष्मशरीरमिदमेवोच्यते । अथ द्वितीयम् । पञ्चतन्मात्राः पञ्चसूक्ष्मभूतान्युः
पादाय पञ्चीकरणे कृते पञ्चमहाभूतान्यजायन्त । अवशिष्टानां पञ्चपञ्चाशान
कल्पांरम्भसमये भूतविभागे चैतन्यप्रवेशादहमित्यभिमानः । तस्मादादि-
गणेशो भवानुच्यते । ततो वै भूतेभ्यश्चतुर्दश लोका अजायेरन् । तदन्तर्गत-
जीवराशयः स्थूलशरीरैः सह विराडित्युच्यते । इति द्वितीयम् । राजसो
ब्रह्मा साचिको विष्णुस्तामसो वै हरः । त्रयं मिलित्वा परस्परमुवाच अह
मेव सर्वस्येश इति । ततो वै परस्परमसहमानाश्चोर्ध्वं जग्मुः । तन्न न
किञ्चिद्ददृशुः । ततश्चाधः प्रदेशे दशदिक्षु भ्रमन्तो न किञ्चित्पश्यन्ति स्म ।
ततो वै ध्यानस्थिता अभूवन् । ततश्च हृदेशे महान्तं पुरुषं गजवक्त्रम संख्य-
शीर्षमसंख्य पादमनन्तकरं तेजसा व्याप्ताखिललोकं ब्रह्ममूर्धानं दिश्रवणं
ब्रह्माण्डगण्डं चिद्व्योमतालुकं सत्यजननं च जगदुत्पत्यपायोन्मेषनिमेषं सोमा-
कमिनेत्रं पर्वतेशरदं पुण्यापुण्योष्ठं ग्रहोडदशनं भारतीजिह्वं शक्रप्राणं
कुलगोत्रांसं सोमेन कण्ठं हरशिरोरुहं सरिन्नदभुजमुरगाङ्गुलिकमृक्षनखं श्रीह-
कमाकाशनाभिकं सागरोदरं महीकटिदेशं सृष्टिलिङ्गकं पर्वतेशोरुं दस्रजा-
नुकं जठरान्तः स्थितयक्षगन्धर्वरक्षः किन्नरमानुषं पातालजंघकं मुनिचरणं
कालाङ्गुष्ठकं तारकाजाललाङ्गुलं दृष्ट्वा स्तुवन्ति स्म । यतो वा इमानि भूतानि
जायन्ते यतोऽग्निः पृथिव्यप्तेजो वायुर्यत्कराम्रा ब्रह्मविष्णुरुद्रा अजायन्त यतो
वै समुद्राः सरितः पर्वताश्च यतो वै चराचरमिति स्तवनात्प्रसन्नो भूत्वो-
वाचाऽहं सर्वस्येशो मत्तः सर्वाणि भूतानि मत्तः सर्व चराचरं भवन्तो वै न
मद्भिन्न गुणा मे वै न संशयः । गुणेशं मां हृदि संचिन्त्य राजस वं
जगत्कुरु सात्त्विक एवं पालय तामस त्वं हरेत्युक्त्वान्तर्हितः । स वै गणेशः
सर्वात्मा विज्ञेयः सर्वदेवात्मा वै स एकः । य एवं वेद स गणेशो
भवति । इत्युपनिषत् ।
इति गणेशोत्तरतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥ ४ ॥</p>
<pb n="653" />
<p>ईशाद्युपनिषत्सु -
[ उप० ५
ॐ ॥ देवा ह वै रुद्रमब्रुवन् कथमेतस्योपासनम् । स होवाच रुद्रो गणको
'निचृद्गायत्री श्रीगणपतेरेनं मन्नराजमन्योन्याभावात्प्रणवस्वरूपस्यास्य परमा-
'मनोऽङ्गानि जानीते स जानाति सोऽमृतत्वं च गच्छति । योऽधीते स सर्व
वरति । य एनं मन्त्रराज गणपतेः सर्वदं नित्यं जपति सोऽग्निं स्तम्भयति स
उदकं स्तम्भयति स वायुं स्तम्भयति स सूर्य स्तम्भयति स सर्वान्देवान्स्तम्भ-
यति स विषं स्तम्भयति स सर्वोपद्रवान्स्तम्भयति । इत्युपनिषत् । य एनं
-मंत्रराजं नित्यमधीते स विघ्नानाकर्षयति देवान्यक्षान् रोगान् ग्रहान्मनुष्यान्
सर्वानाकर्षयति । स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं स
महर्लोकं स जनोलोकं स तपोलोकं स सत्यलोकं स सप्तलोकं स सर्वलोकं
जयति । सोऽग्निष्टोमेन यजते सोऽत्यग्निष्टोमेन स उक्थ्येन स षोडशीयेन
स वाजपेयेन सोऽतिरात्रेण सोऽप्तोर्यामेण स सर्वैः क्रतुभिर्यजते । य एनं
मन्त्रराजं वैनराजं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते
सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते स.
कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणवमधीते । य एनं
मराजं गणेशं वेद स सर्व वेद स सर्व वेद । स वेदसमः स मुनिसमः स
नागसमः स सूर्यसमः सोऽग्निसम इति । उपनीतैकाधिकशतं गृहस्थैकाधि-
aa artप्रस्थकाधिकशतं रुद्रजापकसमम् । यतीनामेकाधिकशतमथर्व-
'शिरः शिखाध्यापकसमम् । रुद्रजापकैकाधिकशतमथर्वशिरः शिखाध्यापकैकाधि-
कशतं गाणेशतापिनीयोपनिषदध्यापकसमम् । मन्त्रराजजापकस्य यत्र रवि-
सोमौ न तपतो यत्र वायुर्नक्षत्राणि न वाति भान्ति यन्त्राग्निर्मृत्युर्न दहति
प्रविशति यत्र मोहो न दुःखं सदानन्दं परानन्दं समं शाश्वतं सदाशिवं परं
ब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्रं ब्रह्मणस्पतिमेकाक्षरमेवं पर-
- मात्मानं बाह्यान्ते लब्धांशं हृदि समावेश्य किञ्चिज्जत्वा ततो न जपो न
माला नासनं न ध्यानावाहनादि । स्वयमवतीर्णो ह्ययमात्मा ब्रह्म सोऽहमात्मा
चतुष्पात् । बहिःप्रज्ञः प्रविविक्तभुक् तैजसः । यत्र सुप्तो न कञ्चन कामं
कामयते न कञ्चन स्वमं पश्यति तत्सुषुप्तम् । तत्रैकीभूतः प्रज्ञानधन एवा-
नन्दभुक् चेतोमुखः प्राज्ञः । एष सर्वेश्वरः सर्वान्तर्यामी एष योनिः सर्व-
भूतानाम् । न बहिः प्रज्ञं नान्तः प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनमव्यपदेश्यम-
व्यवहार्यमग्राह्यमलक्षणमचिन्त्य मैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतमेवं</p>
<pb n="654" />
<p>•
उप० ६ ]
गणेशोत्तरतापिन्युपनिषत् ॥ ११० ॥
चतुष्पादं ध्यायन् स एवात्मा भवति । स आत्मा विज्ञेयः सदोज्वलोsविद्या-
तत्कार्यहीनः स्वात्मबन्धरहितो द्वैतरहितो निरस्ताविद्यात मोमोहाहङ्कार-
प्रधानमहमेव सर्वमिति सम्भाव्य विघ्नराजब्रह्मण्यस्मृते तेजोमये परंज्योतिर्मये
सदानन्दमये स्वप्रकाशे सदोदिते नित्ये शुद्धे मुक्के ज्ञेश्वरे परे ब्रह्मणि रमते
रमते रमते रमते । य एवं गणेशतापनीयोपनिषदं वेद स संसारं तरति घोरें
तरति दुःखं तरति विघ्नांस्तरति महोपसर्गं तरति । आनन्दो भवति स नित्यों
भवति स शुद्धो भवति स मुक्तो भवति स स्वप्रकाशो भवति स ईश्वरो
भवति स मुख्यो भवति स वैश्वानरो भवति स तैजसो भवति स प्राज्ञो
भवति स साक्षी भवति स एव भवति स सर्वो भवति स सर्वो भवतीति ।
इत्युपनिषत् । ॐ सह नाववतु ॥
इति गणेशोत्तरतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥ ५ ॥
ॐ ॥ अथोवाच भगवती गौरी ह वै रुद्रमेतस्य मन्त्रराजस्यानुष्ठानविधि मे
ब्रूहीति । स होवाच रुद्रो विधि लब्धांश गुरुदेवतयोरालभ्य मनसा पुष्पं
निवेद्योपक्रम्य भूतोत्सारणमासनबन्धाद्यात्मरक्षासु नियम भूतशुद्धिप्राणस्थापन-
अणवावर्तनमातृपूजनान्तर्मातृकान्तर्यागादि सम्पाद्यान केचन समन्त्रं मूलवै-
दिककल्पैरुपक्रमं ग्रहणसमर्पणनिवेदनानि बाह्येऽन्यथेति महार्घ्यं शंखं त्रिपा-
योर्गन्धादिना पूजितयोः स्थाप्य पात्रासादनं दक्षिणोपक्रमेण पाद्यार्थ्याचमन-
मधुपर्कपुनराचमननिवेदनपात्राणि संस्थासु यथोपदिष्टं चतुथ्यः पर्वणि संस्थासु
यथाविधि स्थाप्य निवेदने प्रक्षालनमेव ततोsर्वाक् पञ्चामृतपात्राणि रिक्तं च
मूलेनालभ्य निवेदिन्यार्थ्योदकेनात्मानं पात्राणि सम्भारं च प्रोक्ष्य पात्राति-
रक्तानि महायोदकेन सर्वनिवेदनं करशुद्धिं मूलासुनियमं यथोक्तर्षिच्छन्दो-
दैवतं स्मृत्वा विनियोगश्च नित्ये पूजाङ्गो जपो जपाङ्गां पूजा जप इत्यङ्गुष्ठन्याप-
कस्वान्ताष्टाङ्गदण्डिमुण्डिन्यासादि कृत्वा मुखमवेक्ष्यात्मानं देवरूपिणं सम्भाव्य
मूर्ध्न पुष्पं दत्त्वा पीठं सम्पूज्यासनं दत्त्वा ऋष्यादि कृत्वा ध्यात्वा हृदया-
भोजे योगिनोऽत्र जपन्ति । स्वान्ताम्भोजाद्देवमावाह्य मुद्रां दर्शयित्वा
देवस्य सकलीकरणाङ्गुष्ठहृदयापिन्या स्वान्ते मुद्रां निवेद्य पात्राणि च मूलेन
दत्त्वा रिक्ते पञ्चामृतं संयोज्य तेन पञ्चवारं सकृद्वाऽभिषिच्य नित्येन संतर्प्य
कल्पस्तवनादिपुरुषसूक्तरुद्राध्यायघोषशान्त्यादिना मूलेन चाभिषिच्य सर्वपूज
निवेद्य दीपं त्रिर्भ्राम्य सव्येनाप्लाव्य महानैवेद्यपीठावरणान्युपसंहृत्य दर्शयेत् ।</p>
<pb n="655" />
<note>६.४०</note>
<p>ईशाद्युपनिषत्सु -
[ उप० ७
ताम्बूलान्ते किञ्चिन्मूलमावर्त्य पुनर्धूपादित्रयभक्ष्यादि निवेद्य मुद्राः सर्वोप-
चारस्य दर्शयित्वा निवेदनमिदमासनं नमः पाद्ये एषोऽर्घ्यः स्वाहेति दक्षिण-
करेऽर्घ्यं इदं स्वधेति पुरखिके मुखे नम इति स्नानेष्वेष गन्धो नमोऽक्षतेषु
ॐ पुष्पाणि नमः पुष्पेष्वेष धूपो दीपो नमो धूपदीपयोः समर्पयामीति नैवे -
चफलताम्बूलेषु निवेदयामि नमो हिरण्ये एष पुष्पाञ्जलिर्नम इति मालाया-
मिति परमं रहस्यमप्रकाश्यं बीजं य एवं वेद स सर्व वेद स सर्व वेद ।
वर्णार्थं लब्धान मन्त्रार्थेन च पीठावरणदेवतावधानेन वा जपति स जपति ।
मुख्यं लब्धांशमासनं मृदुलं भुक्तरिक्तवासः कौसुम्भमाजिष्ठरककम्बलचित्र-
गव्याघ्राजिनं वा यथोक्तमुक्तान्यतरैरा सनान्तरयोजनास्फटिककमलभद्राक्षमणिः
मुक्ताप्रवाल रुद्राक्षकुशग्रन्थिषु वा जपति स जपति । कुशमयी नित्याक्षालनं
चन्दनालेपो धूपेनाभिमन्त्रय पृथगभिमन्त्रणं सद्योजातैः पञ्चभिः प्राणस्थापन-
जीवनतर्पणगुप्तानि च स्वमूले गुह्यं वामेन स्पृशेन्न दर्शयेत् । एवं श्रावणे पवि-
त्रेण मधौ दमनेन जपमालया महानवम्यां तापस्यां चतुर्थ्यां तिललड्डुकैः
सप्तम्यां शीतलचन्दनेन शिवरात्र्यां बिल्वदलमालयाऽन्यस्मिन्पर्वणि महत्यार्च -
यन्ति तेऽर्चयन्ति । मोदकपृथुकलाजस कुरम्भाफलेक्षुनारीकेलापूपानन्यानि च
यथोपदिष्टमाहुतिभिर्जुहोति । जपश्च प्राक्प्रवणे होमोऽन्यथोपास्यः । एवं यः
करोति सोऽमृतत्वं विन्दति स प्रतिष्ठां प्राप्नोति मुक्तिं विन्दति भुक्तिं भुनक्ति
वाचं वदति यशो लभते । इदं रहस्यं यो जानाति स जानाति योऽधीते
सोऽधीते स आनन्दो भवति स नित्यो भवति स विशुद्धो भवति स मुक्तो</p>
<lg>
  <l>भवति स प्रकाशो भवति स दयावान्भवति ज्ञानवान्भवत्यानन्दवान्भवति</l>
  <l>विज्ञानवान्भवति विज्ञानानन्दो भवति सोऽमृतत्वं भवत्यमृतत्वं भवतीति ।</l>
  <l>ॐ सह नाववत्विति शान्तिः ॥</l>
  <l>इति गणेशोत्तरतापिन्युपनिषत्सु षष्ठोपनिषत् ॥ ६ ॥</l>
</lg>
<p>इत्याथर्वणीया गणेशतापिन्युपनिषत्समाप्ता ॥ ११० ॥</p>
<pb n="656" />
<p>संन्यासोपनिषत्</p>
<lg>
  <l>संन्यासोपनिषत् ॥ १११ ॥</l>
  <l>देही संन्यसनाद्याति परां सालोक्यतां पराम् ।</l>
  <l>ॐ तत्सञ्चिन्मयं ब्रह्म सर्वातीतं समाश्रये ॥ १ ॥</l>
  <l>ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथाहिताग्निनियेत प्रेतस्य मन्त्रैः संस्कारोपतिष्ठते । स्वस्थो
वाश्रमपारं गच्छेयमिति । एतान्पितृमेधिकानोषधिसंभारान्संभृत्यारण्ये
गत्वाऽमावास्यायां प्रातरेवानीनुपसमाधाय पितृभ्यः श्राद्धतर्पणं कृत्वा ब्रह्मेष्टिं
निर्वपेत् । स सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्यैषाहुतिर्दिव्याऽमृतत्वाय
कल्पतामित्येवमत ऊर्ध्वं यह्माभ्युदयद्दिवं च लोकमिदममुं च सर्वं सर्वम-
भिजन्युः । सर्वश्रियं दधतु सुमनस्यमाना ब्रह्मजज्ञानमिति ब्रह्मणेऽथर्वणे
प्रजापतयेऽनुमतयेऽग्नये स्विष्टकृत इति हुत्वा यज्ञ यज्ञं गच्छेत्यग्नावरणी
हुत्वोचित्सखायमिति चतुर्भिरनुवाकैराज्याहुतीर्जुहुयात्तैरेवो १ तिष्ठते
1
मय्यग्नेऽग्निमिति चाथो अग्नीन्समारोपयेद्वतवान्स्यादतन्द्रित इति ॥ १ ॥
तत्र श्लोकाः - ब्रह्मचर्याश्रमे खिन्नो गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञात
उच्यते गुरुणाश्रमी ॥ दारमाहृत्य सदृशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिं
रजेलाहोरात्रेण निर्वपेत् ॥ संविभज्य सुतानर्थैर्ग्राम्यकामान्विसृज्य च ।
चरेत वनमार्गेण शुचौ देशे परिभ्रमः ॥ वायुभक्षोऽम्बुभक्षो वा विहिता-
नोत्तरः फलैः । स्वशरीरे समारोपः पृथिव्यां नाश्रुपातकाः । सह तेनैव पुरुषः
कथं संन्यस्त उच्यते ॥ २ ॥ सनामधेयस्तु स किं यस्मिन्संन्यस्त उच्यते
तस्मात्फलविशुद्धाङ्गी संन्यास सहतेऽर्चिमान् ॥ अग्निवर्ण निष्क्रामति वानप्रस्थं
प्रपद्यते । लोकाद्भार्यया सहितो वनं गच्छति संयतः ॥ त्यक्त्वा कामान्संन्य-
सति भयं किमनुपश्यति । किंवा दुःखं समुद्दिश्य भोगांस्त्यजति सुस्थितान् ॥
गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च । गुहां प्रवेष्टुमिच्छामि परं
पदमनामयमिति ॥ ३ ॥ संन्यस्याग्निं न पुनरावर्तनं यन्मन्युर्जायामावहदि-
त्वयाध्यात्ममन्त्राञ्जपेद्दीक्षामुपेयात् । काषायवासाः कक्षोपस्थलोमानि वर्जये-
दूर्ध्वगोपायुर्विमुक्तमार्गो भवत्यनयैव चेद्भिक्षाशनं दध्यात्पवित्रं धारयेज्जन्तु-
संरक्षणार्थम् । तत्र श्लोकाः कुण्डिकां चमसं शिक्यं त्रिविष्टपमुपानहम् ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ पवित्रं स्नानशाटीं चोत्तरा-
सङ्गत्रिदण्डकम् । अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥ ३ ॥ नदीपुलिन-
अ. उ. ४१</p>
<pb n="657" />
<p>. ईशाद्युपनिषत्सु -
शायी स्याद्देवागारेषु वाप्युत । नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥
स्नानं दानं तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो न तुष्येत निन्दितो
न शरान् ॥ भिक्षादि वैदल पात्र स्नानद्रव्यमवारितम् । एतां वृत्ति-
भुपासीना घातयन्तीन्द्रियाणि च ॥ विद्याया मनसि संयोगो मनसाकाशश्चा-
काशाद्वायुर्वायोज्यौतिज्र्ज्योतिष आपोऽद्भयः पृथिवी पृथिव्या इत्येषा भूतानां
ब्रह्म प्रपद्यते ॥ ४ ॥ अजरममरमक्षरमव्ययं प्रपद्यते तदभ्यासेन प्राणापानौ
संयम्य तत्र श्लोकाः - वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । संदश्य
दशनैर्जिह्वां यवमात्रे विनिर्गताम् ॥ माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा
भ्रुवि । श्रवणे नासिके न गन्धाय न स्वचं न स्पर्शयेत् ॥ अथ शैवं पदं यत्र
तद्ब्रह्म तत्परायणम् । तदभ्यासेन लभ्यते पूर्वजन्मार्चितात्मनः ॥ अथ तैः
संभूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानम-
व्ययम् ॥ अथाऽयं मूर्धानमस्य देहैषा गतिर्गतिमताम् । ये प्राप्य परमा
गतिं भूयस्ते न निवर्तन्ते परात्परमवस्थात्परात्परमवस्थादिति ॥ ५ ॥
ॐ पूर्णमद इति शान्तिः ॥
इत्याथर्वणीया संन्यासोपनिषत्समाप्ता ॥ १११ ॥</p>
<lg>
  <l>गोपीचन्दनोपनिषत् ॥ ११२ ॥</l>
  <l>गोपिकास्वान्त संलीनं श्रीकृष्णाख्यं परं महः ।</l>
  <l>ब्रह्मानन्दस्वरूपं तत्स्वमात्रमिति चिन्तये ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ गोपी का नाम । संरक्षणी । कुतः संरक्षणी । लोकस्य नरकान्मृत्योर्भ-
याच्च संरक्षणी । चन्दनं तुष्टिकारणं च । किं तुष्टिकारणम् । ब्रह्मानन्दकार-
णम् । य एवंविद्वानेतदाख्यापयेद्य एतच्च धारयेद्गोपीचन्दनमृत्तिकाया निरुक्तत्या
धारणमात्रेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥ १ ॥ गोप्यो
नाम विष्णुपत्यः स्युस्तासां चन्दनमाह्लादनम् । कश्चाह्लादः । एष ब्रह्मानन्द-
रूपः । काश्च विष्णुपत्यो गोप्यो नाम । या आत्मना ब्रह्मानन्दैकरूपं
कृष्णाख्यं परं धामाजयंस्ता जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाचा
महामायाः । कश्च विष्णुः । परं ब्रह्मैव विष्णुः । कश्वाह्लादः । गोपीचन्दन-
संसक्तमानुषाणां पापसंहरणाच्छुद्धान्तःकरणानां ब्रह्मज्ञानप्राप्तिश्च । य एवं</p>
<pb n="658" />
<p>गोपीचन्द्वनोपनिषत् ॥ ११२ ॥
वेदेत्युपनिषत् ॥ २ ॥ गोपीत्यम उच्यतां चन्दनं तु ततः पश्चात् । गोपी-
यक्षद्वयं चन्दनं तु त्रियक्षरं तस्मादक्षरपञ्चकम् । य एवंविद्वान् गोपीचन्दनं
धारयेदक्षयं पदमाप्नोति, पञ्चत्वं न स पश्यति, ततोऽमृतत्वमश्नुते, ततोऽमृत-
स्वमत इति ॥ ३ ॥ अथ मायाशबलितं ब्रह्मासीत्ततश्च महदाद्या ब्रह्मणो.
महामायासम्मिलितात् । पञ्चभूतेषु गन्धवतीयं पृथिव्यासीत् । पृथिव्याश्चं
वैभवाद्वर्णभेदाः । पीतवर्णा मृदो जायन्ते लोकानुग्रहार्थम् । मायासहित-
ब्रह्मसम्भोगवशादस्य चन्दनस्य वैभवम् । य एवंविद्वान्यतिहस्ते दद्या-
दनुपप्लवः सर्वमायुरेति । ततः प्राजापत्यं रायस्पोषं गौष्पत्यं च । य
एतद्रहस्यं सायंप्रातर्ध्यायेदहोरात्रकृतं पापं नाशयति, मृतो मोक्षमश्नुत
इति ॥ ४ ॥ गोपीचन्दनपङ्केन ललाटं यस्तु लेपयेत् । एकदण्डी त्रिदण्डी
वा स वै मोक्षं समक्षुते ॥ १ ॥ गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।
तं तं पूतं विजानीयाद्वाजभिः सत्कृतो भवेत् ॥ २ ॥ ब्रह्महन्ता कृतघ्नश्च
गोनश्च गुरुतल्पगः । तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥ ३ ॥
'गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् । अभिव्याप्यायतो भूत्वा देवेन्द्र-
पदमञ्जते ॥ ४ ॥ गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते । एवं ब्रह्मादयों
देवास्तन्मुखास्तानुपासते ॥ ५ ॥ गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते ।
विष्णुपूजित भूतित्वाद्विष्णुलोके महीयते ॥ ६ ॥ सदाचारः शुभाकल्पो
मिताहारो जितेन्द्रियः । गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥ ७ ॥
गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् । ततः कोटिगुणं पुण्यमित्येवं
मुनिरब्रवीत् ॥ ८ ॥ गोपीचन्दनलिप्ताङ्गैर्जपदानादि यत्कृतम् । न्यूनं संपूर्णत
याति विधानेन विशेषतः ॥ ९ ॥ गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् ।
कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥ १० ॥ अग्निष्टोमसहस्राणि
वाजपेयशतानि च । तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥ ११ ॥
गोपीचन्दनदानस्य नाश्वमेधकृतः फलम् । न गङ्गया समं तीर्थं न शुद्धिर्गोपि -
चन्दनात् ॥ १२ ॥ बहुनाऽत्र किमुक्तेन गोपीचन्दनमण्डनम् । न तत्तुल्यं
भवेल्लोके नात्र कार्या विचारणा ॥ १३ ॥ चन्दनं चापि गोपीनां केलिकुङ्कुम-
सम्भवम् । मण्डना॒त्पावनं नृणां भुक्तिमुक्तिफलप्रदम् ॥ १४ ॥ कृष्णगोपी-
रतोद्भूतं पापनं गोपिचन्दनम् । तत्प्रसादात्सर्वदैव चतुर्वर्गफलप्रदम् ।
तिलमात्र प्रदानेन काञ्चनाद्रिसमं फलम् ॥ १५ ॥ कुङ्कुमं कृष्णगोपीनां</p>
<pb n="659" />
<p>મ
ईशाद्युपनिषत्सु -
जलक्रीडासु सम्भृतम् । गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ॥ १६ ॥
-. ष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् । तिलमात्र प्रदायेदं पुनात्या दशमं
कुलम् ॥ १७ ॥ गोपीचन्दनखण्डं तु चक्राकार सुलक्षणम् । विष्णुरूपमिदं
पुण्यं पावनं पीतवर्णकः ॥ १८ ॥ आपो वा अग्र आसन् । तत्र प्रजापतिर्वा -
युर्भूत्वाऽश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत् ।
ततो व्याहृतीस्ततो गायत्रीम् । गायत्र्या वेदास्तैरिदमसृजत । धूममार्गविस्तृतंः
हि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत । तत उपनिषदः श्रुतयः
आविर्बभूवुः । अर्चिर्मार्गविस्तृतं वेदार्थमभिसन्धाय सर्वान्वेदान्स-
रहस्योपनिषदङ्गान् ब्रह्मलोके स्थापयामास 1 ताश्वोपादिशद्वैवस्वतेऽन्तरे
सगुणं ब्रह्म चिनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्यावि-
र्भविष्यति । तत्र भवत्यः सर्वलोकोत्कृष्टसौन्दर्यक्रीडाभोगा गोपिकास्वरूपैः
परब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकाः - इति ब्रह्मवरं लब्ध्वा श्रुतयो
ब्रह्मश्लोकगाः । कृष्णमाराधयामासुर्गोकुले धर्मसङ्कुले ॥ १९ ॥ श्रीकृष्णाख्यं
परं ब्रह्म गोपिकाः श्रुतयोऽभवन् । एतत्सम्भोगसम्भूतं चन्दनं गोपीचन्दनं
चन्दनं गोपीचन्दनमित्युपनिषत् ॥ २० ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इत्याथर्वणीया गोपीचन्दनोपनिषत्समाप्ता ॥ ११२ ॥</p>
<lg>
  <l>सरस्वतीरहस्योपनिषत् ॥ ११३ ॥</l>
  <l>प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।</l>
  <l>अखण्ड निर्विकल्पं तद्रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ वाङ्मनसीति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः केनोपायेन
तज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १ ॥
सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया । स्तुत्वा जत्वा परां सिद्धिमलभं
मुनिपुङ्गवाः ॥ २ ॥ ऋषय ऊचुः ॥ कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वंद ॥ ३ ॥ स होवाचाश्वलायनः । अस्य
श्रीसरस्वतीदशश्लोकी महामन्त्रस्य । अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः ।
श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति शक्तिः । प्रणोः</p>
<pb n="660" />
<p>सरस्वतीरहस्योपनिषत् ॥ ११३ ॥
'देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे ! श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता
महासरस्वतीत्येतैरङ्गन्यासः ॥ नीहारहारघनसारसुधाकराभां कल्याणदां
कनकचम्पकदामभूषाम् । उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं वाणीं नमामि मनसा
चचसा विभूत्यै ॥ १ ॥ ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः । गायत्री
छन्दः । श्रीसरस्वती देवता । प्रणवेन बीजशक्तिः कीलकम् । इष्टार्थे विनि-
योगः । मन्त्रेण न्यासः ॥ या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः । नामरूपा-
मना व्यक्ता सा मां पातु सरस्वती ॥ ॐ प्रणो देवी सरस्वती वाजेभिर्वा-
जिनीवती । धीनामवित्र्यवतु ॥ १ ॥ आ नो दिव इति मन्त्रस्य अत्रिऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता । हीमिति बीजशक्तिः कीलकम् । इष्टार्थे
'विनियोगः । मन्त्रेण न्यासः ॥ या साङ्गोपाङ्गवेदेषु चतुष्वैकैव गीयते । अद्वैता
ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ह्रीं आ नो दिवो बृहतः पर्वतादा
सरस्वती यजतागंतु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचा
मुशती शृणोतु ॥ २ ॥ पावका न इति मन्त्रस्य । मधुच्छन्द ऋषिः । गायत्री
छन्दः । सरस्वती देवता । श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनि-
योगः । मन्त्रेण न्यासः ॥ या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । अनादिनिध-
नानन्ता सा मां पातु सरस्वती ॥ श्रीं पावका नः सरस्वती वाजेभिर्वाजि-
नीवती । यज्ञं वष्टु धिया वसुः ॥ ३ ॥ चोदयित्रीति मन्त्रस्य मधुच्छन्द्र
ऋषिः । गायत्री छन्दः । सरस्वती देवता । ब्लूमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ॥ अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी । प्रत्यगास्ते वदन्ती
या सा मां पातु सरस्वती ॥ ब्लू चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ ४ ॥ महो अर्ण इति मन्त्रस्य मधुच्छन्द ऋषिः । गायत्री
छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । रुद्रादित्यादिरूपस्था यस्या-
मावेश्य तां पुनः । ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती । सौः महो
अर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजति ॥ ५ ॥ चत्वारि
. वागिति मन्त्रस्य उचथ्यपुत्रे ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । ऐमिति
बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानाऽनुभूयते ।
· व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ ऐं चत्वारि वाक् परिमिता पदानि
१ स्वरूपा परमार्थतः. २ पुत्रो दीर्घतमा ऋषिः .</p>
<pb n="661" />
<p>ईशाद्युपनिषत्सु -
तानि विदुर्ब्राह्मणा ये मनीषिणः । गुह्न त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचों
मनुष्या वदन्ति ॥ ६ ॥ यद्वाग्वदन्तीति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप्
छन्दः । सरस्वती देवता । क्कीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
'नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । निर्विकल्पात्मना व्यक्ता सा मां
`पातु सरस्वती ॥ क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि व स्विदस्याः परमं जगाम ॥ ७ ॥ देवीं वाचमिति
`मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः
कीलकम् । मन्त्रेण न्यासः ॥ व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ सौंः देवीं वाचमजनयन्त देवास्तां
विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्ज दुहाना धेनुर्वागस्मानुपं
सुष्टुतैतु ॥ ८ ॥ उतत्व इति मन्त्रस्य बृहस्पतिऋषिः त्रिष्टुप् छन्दः । सरस्वती
देवता । समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । यां विदित्वाऽखिलं
बन्धं निर्मथ्याखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सर-
`स्वती ॥ सं उत त्वः पश्यन्न ददर्श वाचमुत वः शृण्वन्न शृणोत्येनाम् । उतो
स्वस्मै तन्वं १ विसत्रे जायेव पत्य उशती सुवासाः ॥ ९ ॥ अम्बितम इति
मन्त्रस्य गृत्समद ऋषिः । अनुष्टुप् छन्दः । सरस्वती देवता । ऐम
- बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । नामरूपात्मकं सर्वं यस्यामा वेश्य तां
पुनः । ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ ऐं अम्बितमे नदी-
तमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ १० ॥
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती
॥ १ ॥ नमस्ते शारदे देवि काश्मीरपुरवासिनि । त्वामहं प्रार्थये नित्यं
विद्यादानं च देहि मे ॥ २ ॥ अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३ ॥ कम्बुकण्ठी सुतानोष्ठी सर्वा-
भरणभूषिता । महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४ ॥ या श्रद्धा
'धारणा मेधा वाग्देवी विधिवल्लभा । भक्तजिह्वाग्रसदना शमादिगुणदायिनी
॥ ५ ॥ नमामि यामिनीनाथले खालंकृत कुन्तलाम् । भवानीं भवसंताप -
निर्वापणसुधानदीम् ॥ ६ ॥ यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति ।
सोऽभ्यच्चैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७ ॥ तस्यैवं स्तुवतो
१ देवाद्या. २ भक्तया स्तौति,</p>
<pb n="662" />
<p>सरस्वतीरहस्योपनिषत् ॥ ११३ ॥
"
૬૪૭
नित्यं समभ्यर्च्य सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत्
॥ ८ ॥ ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । गद्यपद्यात्मकैः शब्दै-
रप्रमेयैर्विवक्षितैः ॥ ९ ॥ अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ १० ॥ आत्मविद्या मया लब्धा
ब्रह्मणैव सनातनी । ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११ ॥
प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः । सत्यमाभाति चिच्छाया दर्पणे
प्रतिबिम्बवत् ॥ १२ ॥ तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥ १३ ॥ शुद्धसत्त्वप्रधानायां मायायां
बिम्बितो ह्यजः । सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४ ॥ सा माया
स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि । वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु
॥ १५ ॥ सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि । जगत्कर्तुमकर्तुं वा
चान्यथा कर्तुमीशते ॥ १६ ॥ यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् ॥ १७ ॥ विक्षेपशक्तिर्लिङ्गादि
ब्रह्माण्डान्तं जगत्सृजेत् । अन्तर्हग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८ ॥
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् । साक्षिणः पुरतो भातं लिङ्ग-
देहेन संयुतम् ॥ १९ ॥ चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः । अस्य
जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ २० ॥ आवृतौ तु विनष्टायां भेदे
भातेऽपयाति तत् । तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१ ॥ या
शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते । अत्राप्यावृतिनाशेन विभाति ब्रह्म-
सर्गयोः ॥ २२ ॥ भेदस्तयोर्विकारः स्यात्सर्गे न .. . ब्रह्मणि कचित् । अस्ति भाति
प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३ ॥ आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो
द्वयम् । अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ॥ २४ ॥ समाधिं सर्वदा
कुर्याद्धृदये वाथ वा बहिः । सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि
॥ २५ ॥ दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा । कामाद्याश्चित्तगा दृश्या-
स्तत्साक्षित्वेन चेतनम् ॥ २६ ॥ ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सवि-
कल्पकः । असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥ २७ ॥ अस्मीतिशब्द-
विद्धोऽयं समाधिः सविकल्पकः । स्वानुभूतिरसावेशादृश्यशब्दाद्यपेक्षितुः
॥ २८ ॥ निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् । हृदीव बाह्य-
देशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९ ॥ समाधिरोद्यसन्मात्रान्नामरूप पृथ-
१ भाते प्रयाति. २ राद्यदृयात्रा नामरूप,</p>
<pb n="663" />
<p>૬૪
ईशाद्युपनिषत्सु -
कृतिः । स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३० ॥ एतैः समा-
धिभिः षढभिर्नयेत्कालं निरन्तरम् । देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१ ॥ भिद्यते हृदयग्रन्थिरिछ-
द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२ ॥
मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि । इति यस्तु विजानाति स मुक्तो
नात्र संशयः ॥ ३३ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ वा मनसीति शान्तिः ॥
इति सरस्वतीरहस्योपनिषत्समाप्ता ॥ ११३ ॥</p>
<lg>
  <l>पिण्डोपनिषत् ॥ ११४ ॥</l>
  <l>पितॄणां हंसरूपाणां यन्ता श्रीमज्जनार्दनः ।</l>
  <l>भवतापप्रणुत्त्यर्थं सततं तमहं श्रये ॥ १ ॥</l>
  <l>ॐ पूर्णमदः पूर्णमदमिति शान्तिः ॥</l>
</lg>
<p>ॐ ॥ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथं
गृह्णन्त्यचेतसः ॥ १ ॥ भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । हंसस्त्यक्त्वा
तो देहं कस्मिँस्थाने व्यवस्थितः ॥ २ ॥ त्र्यहं वसति तोयेषु त्र्यहं वसति
चाग्निषु ॥ यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥ ३ ॥ प्रथमेन तु
पिण्डेन कलानां तस्य संभवः । द्वितीयेन तु पिण्डेन मांसत्वक्शोणितोद्भवः
॥ ४ ॥ तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते । चतुर्थेन तु पिण्डेन
अस्थि मज्जा प्रजायते ॥ ५ ॥ पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ।
षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥ ६ ॥ सप्तमेन तु पिण्डेन दीर्घमायुः
प्रजायते । अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥ ७ ॥ नवमेन तु
पिण्डेन सर्वेन्द्रियसमाहृतिः । दशमेन तु पिण्डेन भावानां लवनं तथा ।
पिण्डे पिण्डशरीरस्य पिण्डदानेन संभवः ॥ ८ ॥ हरिः ॐ तत्सदित्युपनिषत् ॥
r
ॐ पूर्णमद इति शान्तिः ॥
seatedणीया पिण्डोपनिषत्समाप्ता ॥ ११४ ॥</p>
<pb n="664" />
<p>महोपनिषत् ॥ ११५ ॥
मनिषत् ॥ ११५ ॥</p>
<lg>
  <l>नारायणः परंब्रह्म सर्वेषां महसां महः ।</l>
  <l>अभ्यासाद्यद्विपश्यन्ति सन्तः संसारभेषजम् ॥ १ ॥</l>
</lg>
<p>अथातो महोपनिषदमेव । तदाहुरेको ह वै नारायण आसीन ब्रह्मा न
ईशानो नापो नाभीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यः स एकाकी
नर एव । तस्य ध्यानान्तः स्थस्य यन्नः स्तोममुच्यते । तस्मिन् पुरुषाश्चतुर्दशा-
जायन्त एका कन्या । दशेन्द्रियाणि मन एकादशम् । तेजो द्वादशम् । अह-
कारत्रयोदशः । प्राणाश्चतुर्दश आत्मा । पञ्चदशी बुद्धिः । पञ्चतन्मात्राणि
पञ्चमहाभूतानि । स एष पञ्चविंशकः पुरुषः । तं पुरुषं पुरुषो निवेश्य । नास्य
प्रजा नसंवत्सरा जायन्ते संवत्सरादधि जायन्ते ॥ १ ॥
इत्यथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायेत तस्य ध्यानान्तः-
स्थस्य ललाटान्त्रयक्षः शूलपाणिः पुरुषोऽजायत विभ्रच्छ्रियं सत्यं ब्रह्मचर्य
तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि
छन्दांसि तान्यङ्गेष्वाश्रितानि ॥ २ ॥
अथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायेत । तस्य ध्यानान्त:-
स्थस्य ललाटास्वेदोऽपतत् । ता इमाः प्रतता आपस्तासु तेजो हिरण्मय-
मण्डं तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत पूर्वामुखो भूत्वा भूरिति
व्याहृतिर्गायत्रं छन्द ऋग्वेदः । पश्चिमामुखो भूत्वा भुव इति व्याहृतित्रैष्टुभं
'छन्दो यजुर्वेदः । उत्तरामुखो भूत्वा स्वरिति व्याहृतिजगतं छन्दः सामवेदः ।
'दक्षिणामुखो भूत्वों जनदिति व्याहृत्यानुष्टुभं छन्दोऽथर्ववेदः । ॐ सहस्रशीर्ष
देवं सहस्राक्षं विश्वशम्भुवम् । विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।
विश्वमेवेदं पुरुषं तं विश्वमुपजीवति । ऋषिं विश्वेश्वरं देवं समुद्रेतं विश्वरूप-
णम् । पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् । हृदये चाप्यधोमुखं सन्तते
शीकराभिश्च । तस्य मध्ये महानर्चिर्विश्वार्चिविश्वतोमुखम् । तस्य मध्ये
वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । तस्यै शिखायै मध्ये पुरुषः परमात्मा
व्यवस्थितः । स ब्रह्मा स ईशानः सोऽक्षरः परमः स्वराट् ॥ ३ ॥ .
य इदं महोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवत्यनुपनीत उप-
नीतो भवति । सोऽनिपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति ।</p>
<pb n="665" />
<p>ईशायुपनिषत्सु -
स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वैर्देवै --
ज्ञतो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति ।
तेन सर्वैः क्रतुभिरिष्टं भवति । गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति ।
इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवानामयुतं
जप्तं भवति । आचक्षुषः पङ्क्तिं पुनात्यासप्तमात्पुरुषयुगात्पुनातीत्याह भगवान्.
हिरण्यगर्भः । जाप्येनामृतत्वं गच्छत्यमृतत्वं गच्छतीति ॥ ४ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इत्याथर्वणीया महोपनिषत्समाप्ता ॥ ११५ ॥</p>
<lg>
  <l>बह्वृचोपनिषत् ॥ ११६ ॥</l>
  <l>बहु चाख्यब्रह्मविद्यामहाखण्डार्थवैभवम् ।</l>
  <l>अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १॥</l>
  <l>ॐ वाङ्मनसीति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ देवी ह्येका
आसीत् सैव जगदण्डमसृजत् । कामकलेति
विज्ञायते । शृङ्गारकलेति विज्ञायते तस्या एव ब्रह्मा अजीजनत् । विष्णुर--
जीजनत् । रुद्रोऽजीजनत् । सर्वे मरुद्गणा अजीजनन् । गन्धर्वाप्सरसः
किंनरा वादित्रवादिनः समन्तादजीजनन् । भोग्यमजीजनत् । सर्वमजीजनत् ।
सर्वं शाक्तमजीजनत् । अण्डजं स्वेदजमुद्भिज्जं जरायुजं यत्किं चैतत्प्राणि स्थावर-
जङ्गमं मनुष्यमजीजनत् ॥ सैषाऽपरा शक्तिः । सैषा शांभवी विद्या कादि-
विद्येति वा हादिविद्येति वा सादिविद्येति वा रहस्यम् । ओमों वाचि प्रतिष्ठा
सैव पुरत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती देशकालवस्त्वन्त-
रसङ्गान्महात्रिपुरसुन्दरी वै प्रत्यक् चितिः । सैवात्मा ततोऽन्यदसत्यमनात्मा
अत एष ब्रह्मसंवित्तिर्भावाभावकलाविनिर्मुक्ता चिदद्याद्वितीयब्रह्मसंवित्तिः
सच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वयमेकैव विभाति ।
यदस्ति सन्मात्रम् । यद्विभाति चिन्मात्रम् । यत्प्रियमानन्दं तदेतत्सर्वाकारा
महात्रिपुरसुन्दरी । त्वं चाहं च सर्वं विश्वं सर्वदेवता । इतरत्सर्वं महात्रिपुर-
१ चिद्विद्या..</p>
<pb n="666" />
<p>•
आश्रमोपनिषत् ॥ ११७ ॥</p>
<p>'सुन्दरी । सत्यमेकं ललिताख्यं वस्तु तदद्वितीयमखण्डार्थं परं ब्रह्म । पञ्चरूप-
परित्यागादस्वरूपप्रहाणतः । अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महत् ॥
इति । प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते । तत्त्वमसीत्येव संभा-
ष्यते । अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा योऽहमस्मि वा सोsह--
मस्मीति वा योऽसौ सोऽहमस्मीति वा या भाव्यते सैषा षोडशी श्रीविद्या
पञ्चदशाक्षरी श्रीमहात्रिपुरसुन्दरी बालाम्बिकेति बगलेति वा मातङ्गीति
स्वयंवर कल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति वाराहीति तिरस्करि-
गीति राजमातङ्गीति वा शुकश्यामलेति वा लघुश्यामलेति वा अश्वारूढेति
वा प्रत्यङ्गिरा धूमावती सावित्री सारस्वती ब्रह्मानन्दकलेति । ऋचो अक्षरे
परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किटचा करि-
ष्यति । य इत्तद्विदुस्त इमे समासते ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ वाडो मनसीति शान्तिः ॥
इति बहृचोपनिषत्समाप्ता ॥ ११६ ॥</p>
<lg>
  <l>आश्रमोपनिषत् ॥ ११७ ॥</l>
  <l>सर्वाश्रमाः समभवन् यस्मात्सोऽयं जनार्दनः ।</l>
  <l>कैवल्यावाप्तये भूयात्सदाचाररतान्हि तान् ॥ १ ॥</l>
  <l>ॐ भद्रं कर्णेभिरिति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथातश्चत्वार आश्रमाः षोडशभेदा भवन्ति । तत्र ब्रह्मचारिण-
श्चतुर्विधा भवन्ति गायत्रो ब्राह्मणः प्राजापत्यो बृहन्निति । य उपनयनादूर्ध्व
त्रिरात्रमक्षारलवणाशी गायत्रीमन्त्रे स गायत्रः । योऽष्टाचत्वारिंशद्वर्षाणि
वेदब्रह्मचर्यं चरेत्प्रतिवेदं द्वादश वा यावग्रहणान्तं वा वेदस्य स ब्राह्मणः ।
स्वदारनिरत ऋतुकालाभिगामी सदा परदारवर्जी प्राजापत्यः । अथवा
चतुर्विंशतिवर्षाणि गुरुकुलवासी ब्राह्मणोऽष्टाचत्वारिंशद्वर्षवासी च प्राजा-
पत्यः । प्रायणानुरोरपरित्यागी नैष्ठिको बृहन्निति ॥ १
॥ गृहस्था अपि
चतुर्विधा भवन्ति वार्ताकवृत्तयः शालीनवृत्तयो यायावरा घोरसंन्यासिका -
श्चेति । तत्र वार्ताकवृत्तयः कृषिगोरक्षवाणिज्यमगर्हितमुपयुञ्जानाः शत-
संवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयो यजन्तो न</p>
<pb n="667" />
<p>हैशाद्युपनिषत्सु -
याजयन्तोऽधीयाना नाध्यापयन्तो ददत्तो न प्रतिगृह्णन्तः शतसंवत्सराभिः
क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । यायावरा यजन्तो याजयन्तोऽधीयाना
अध्यापयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं
प्रार्थयन्ते । घोरसंन्यासिका उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्तः प्रतिदिव-
समाहृतोछवृत्तिमुपयुञ्जानाः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं
प्रार्थयन्ते ॥ २ ॥ वानप्रस्था अपि चतुर्विधा भवन्ति वैखानसा उदुम्बरा
बालखिल्याः फेनपाश्चेति । तत्र वैखानसा अकृष्टपच्यौषधिवनस्पतिभिर्ग्राम-
बहिष्कृताभिरनिपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं
प्रार्थयन्ते । उदुम्बराः प्रातरुत्थाय यां दिशमभिप्रेक्षन्ते तदाहृतोदुम्बरबदर-
नीवारयामाकैरनिपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं
प्रार्थयन्ते । बालखिल्या जटाधराश्वीरचर्मवल्कलपरिवृताः कार्तिक्यां पौर्णमास्यां
पुष्पफलमुत्सृजन्तः शेषानष्टौ मासान् वृत्त्युपार्जनं कृत्वाऽग्निपरिचरणं कृत्वा
पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं प्रार्थयन्ते । फेनपा उन्मत्तकाः
शीर्णपर्णफलभोजिनो यत्र यत्र वसन्तोऽग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां
निर्वर्तयन्त आत्मानं प्रार्थयन्ते ॥ ३ ॥ परिव्राजका अपि चतुर्विधा भवन्ति-
कुटीचरा बहूदका हंसाः परमहंसाश्चेति । तत्र कुटीचराः स्वपुत्रगृहेषु
भिक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते । बहूदकास्त्रिदण्डकमण्डलुशिक्यपक्ष-
जलपवित्र पात्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारिणः साधुवृत्तेषु
ब्राह्मणकुलेषु भैक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते । हंसा एकदण्डधराः
शिखावर्जिता यज्ञोपवीतधारिणः शिक्यकमण्डलुहस्ता ग्रामैकरात्रवासिनो
नगरे तीर्थेषु पञ्चरात्रं वसन्त एकरात्रद्विरात्रकृच्छ्रचान्द्रायणादि
आत्मानं प्रार्थयन्ते । परमहंसा नदण्डधरा मुण्डाः कन्थाकौपीनवाससो-
sव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डकमण्डलु-
शिक्यपक्षजल पवित्र पात्रपादुकासन शिखायज्ञोपवीतानां त्यागिनः शून्यागार-
देवगृहवासिनो न तेषां धर्मो नाधर्मो न चानृतं सर्वसहाः सर्वसमाः सम-
लोष्टाश्मकाञ्चना यथोपपन्नचातुर्वर्ण्यभैक्षाचर्यं चरन्त आत्मानं मोक्षयन्त
- आत्मानं मोक्षयन्त इति ॥ ४ ॥ ॐ तत्सदित्युपनिषत् ॥
ॐ पूर्णमद इति शान्तिः ॥
इत्याथर्वणीयाश्रमोपनिषत्समाप्ता ॥ ११७ ॥
चरन्त</p>
<pb n="668" />
<p>सौभाग्यलक्ष्म्युपनिषत् ॥ ११८ ॥</p>
<lg>
  <l>सौभाग्यलक्ष्म्युपनिषत् ॥ ११८ ॥</l>
  <l>सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति ।</l>
  <l>त्रिपान्नारायणानन्दरामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>ॐ वाङ्मनसीति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अथ भगवन्तं देवा ऊचुर्हे भगवन्नः कथय सौभाग्यलक्ष्मी--
विद्याम् । तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा यूयं सावधानमनसों भूत्वा
शृणुत तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठ-
देवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशभिर्थ्यायेत् । अथ
पञ्चदश ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्कीतेन्दिरासुता ऋषयः । श्री-
रिष्याद्या ऋचः चतुर्दशानामृचामानन्दाऋषयः । हिरण्यवर्णाद्याद्यन्नयस्यानुष्टुप्
छन्दः । कांसोऽस्मीत्यस्य बृहती छन्दः । तदन्ययोर्द्वयोस्त्रिष्टुप् । पुनरष्टकस्यानु-
टुप् । शेषस्य प्रस्तारपङ्किः । श्रयनिर्देवता । हिरण्यवर्णामिति बीजम् । काँसो-
स्मीति शक्तिः । हिरण्मया चन्द्रा रजतस्त्रजा हिरण्या हिरण्यवर्णेति प्रणवादि-
नमोऽन्तैश्चतुर्थ्यन्तैरङ्गन्यासः । अथ वक्रत्रयैरङ्गन्यासः । मस्तकलोचनाश्रुघ्राण-
वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्गेषु श्रीसूक्तैरेव क्रमशो न्यसेत् ।
अरुणकमलसंस्था तद्वजःपुञ्जवर्णा करकमलष्टतेष्टाऽभीतियुग्माम्बुजा च । मणि-
कटकविचित्रालंकृताकल्पजालैः सकलभुवनमाता संततं श्रीः श्रियै नः
॥ १ ॥ तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् । वस्वादित्यकलापद्मेषु श्रीसू-
करतार्थाच तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं च
विलिख्य श्रियमावाहयेत् । अङ्गैः प्रथमा वृतिः । पद्मादिभिर्द्वितीया । लोके-
शैस्तृतीया । तदायुधैस्तुरीया वृतिर्भवति । श्रीसूक्तैराहनादि । षोडशस-
हस्त्रजपः । सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । श्रिय ऋष्यादयः । शमिति
बीजशक्तिः । श्रीमित्यादि षडङ्गम् । भूयाद्भूयो द्विपद्माभयवरदकरा तप्त-:
कार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरघृतकुम्भाद्भिरासिच्यमाना । रक्तौधा-
बद्धमौलिर्विमलतरदुकूलार्तवालेपनाच्या पद्माक्षी पद्मनाभोरसि कृतवसतिः
पद्मगा श्रीः श्रियै नः ॥ १ ॥ तत्पीठम् । अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं
चतुरस्रं रमापीठं भवति । कर्णिकायां ससाध्यं श्रीबीजम् । विभूतिरुन्नतिः
कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः सत्कृष्टिर्ऋद्धिरिति प्रणवादिनमोन्तै-
श्चतुर्थ्यन्तैर्नवशक्तिं यजेत् । अङ्गे प्रथमा वृतिः । वासुदेवादिभिर्द्वितीया ।
१ हिरण्यत्रजा: २ कीर्तिः स्थितिर्नतिः पुष्टिरुत्कृष्टिः .</p>
<pb n="669" />
<p>ईशाद्युपनिषत्सु -
बालाक्यादिभिस्तृतीया । इन्द्रादिभिश्चतुर्थी भवति । द्वादशलक्षजपः ।
श्रीलक्ष्मीर्वरदा विष्णुपत्नी वसुप्रदा हिरण्यरूपा स्वर्णमालिनी रजतस्रजा
स्वर्णप्रभा स्वर्णप्राकारा पद्मवासिनी पद्महस्ता पद्मप्रिया मुक्तालंकारा
चन्द्रसूर्या बिल्वप्रिया ईश्वरी भुक्तिर्मुक्तिर्विभूतिर्ऋद्धिः समृद्धिः कृष्टिः
पुष्टिर्धनदा धनेश्वरी श्रद्धा भोगिनी भोगदा सावित्री धात्री विधा-
श्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता मन्त्राः । एकाक्षरवदङ्गादिपीठम् ।
लक्षजपः । दशांश तर्पणम् । दशांश हवनम् । द्विजतृप्तिः । निष्का-
मानामेव श्रीविद्यासिद्धिः । न कदापि सकामानामिति ॥ १ ॥ अथ हैनं
देवा ऊचुस्तुरीयया मायया निर्दिष्टं तत्त्वं ब्रूहीति । तथेति स होवाच ।
योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते । योऽप्रमत्तस्तु योगेन स योगी
रमते चिरम् ॥ १ ॥ समापय्य निद्रां सुजीर्णेऽल्पभोजी श्रमत्याज्यबाधे
विविक्ते प्रदेशे । सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ वा प्रणरोधो निजाभ्या-
समार्गात् ॥ २ ॥ वक्रेणापूर्य वायुं हुतवहनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठा-
द्यङ्गुलीभिर्वरकरतयोः षडभिरेवं निरुध्य । श्रोत्रे नेत्रे च नासापुटयुग-
लमथोऽनेन मार्गेण सम्यक्पश्यन्ति प्रत्ययांशं प्रणवबहुविधध्यानसंलीन-
चित्ताः ॥ ३ ॥ श्रवणमुखनयननासा निरोधनेनैव कर्तव्यम् । शुद्धसुषुम्ना-
सरणौ स्फुटममलं श्रूयते नादः ॥ ४ ॥ विचित्रघोषसंयुक्तानाहते श्रूयते
ध्वनिः । दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥ ५ ॥ संपूर्ण हृदयः
शून्ये त्वारम्भे योगवान्भवेत् । द्वितीया विघटीकृत्य वायुर्भवति मध्यगः
॥ ६ ॥ दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः । विष्णुग्रन्थेस्ततो भेदात्परमा-
नन्दसंभवः ॥ ७ ॥ अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् । तृतीयां
raat fear निनादो मर्दनध्वनिः ॥ ८ ॥ महाशून्यं ततो याति सर्वसिद्धि-
समाश्रयम् । चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥ ९ ॥ निष्पत्तौ
वैष्णवः शब्दः कणतीति क्वणो भवेत् । एकीभूतं तदा चित्तं सनकादिमुनी-
'डितम् ॥ १० ॥ अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् । भूमानं
प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥ ११ ॥ योगेन योगं संरोध्य भावं
भावेन चाञ्जसा । निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥ १२ ॥ अहं-
भावं परित्यज्य जगद्भावमनीदृशम् । निर्विकल्पे स्थितो विद्वान्भूयो नाप्य-
नुशोचति ॥ १३ ॥ सलिले सैन्धवं यद्वत्साम्यं भवति योगतः । तथात्ममन-
सोरैक्यं समाधिरभिधीयते ॥ १४ ॥ यदा संक्षीयते प्राणो मानसं च प्रली-
यते । तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५ ॥ यत्समत्वं तयोरत्र</p>
<pb n="670" />
<p>सौभाग्यलक्ष्म्युपनिषत् ॥ ११८ ॥
जीवात्मपरमात्मनोः । समस्तनष्टसंकल्पः समाधिरभिधीयते ॥ १६ ॥ प्रभा-
शून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । सर्वशून्यं निराभासं समाधिरभि-
'धीयते ॥ १७ ॥ स्वयमुच्चलिते देहे देही नित्यसमाधिना । निश्चलं तं विजा-
नीयात्समाधिरभिधीयते ॥ १८ ॥ यत्र यत्र मनो याति तत्र तत्र परं पदम् ।
तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९ ॥ इति ॥ २ ॥ अथ हैनं देवा
ऊचुर्नवचक्रविवेकमनुब्रूहीति । तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृतं
भगमण्डलाकारम् । तंत्र मूलकन्दे शक्तिः पावकाकारं ध्यायेत् । तत्रैव काम-
'रूपपीठं सर्वकामप्रदं भवति । इत्याधारचक्रम् । द्वितीयं स्वाधिष्ठानचक्रं षड़-
दलम् । तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवालाङ्करसदृशं ध्यायेत् । तत्रैवो-
ड्याणपीठं जगदाकर्षणसिद्धिदं भवति । तृतीयं नाभिचक्रं पञ्चावर्त सर्पकुटि -
लाकारम् । तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां तडित्प्रभां ( तनुमध्यां )
ध्यायेत् । सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । मणिपूरकचक्रं हृदयचक्रम् ।
अष्टदलमधोमुखम् । तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् । सैव हंसकला
सर्वप्रिया सर्वलोकवश्यकरी भवति । कण्ठचक्रं चतुरङ्गुलम् । तत्र वामे इडा
चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां श्वेतवर्णां ध्यायेत् । य
एवं वेदानाहता सिद्धिदा भवति । तालुचक्रम् । तत्रामृतधाराप्रवाहः । घण्टि-
- कालिङ्गमूलचत्ररन्ध्रे राजदन्तावलम्बिनीविवरं दशद्वादशारम् । तत्र शून्यं-
ध्यायेत् । चित्तलयो भवति । सप्तमं चक्रमङ्गुष्ठमात्रम् । तत्र ज्ञाननेत्र
दीपशिखाकारं ध्यायेत् । तदेव कपालकन्दवाक्सिद्धिदं भवति । आज्ञाचक्र-
मष्टमम् । ब्रह्मरन्धं निर्वाणचक्रम् । तत्र सूचिकागृहेतरं धूम्रशिखाकारं
ध्यायेत् । तत्र जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् । नवममाकाश-
चक्रम् । तंत्र षोडशदलपद्ममूर्ध्वमुखं तन्मध्यकर्णिकात्रिकूटाकारम् ।
तन्मध्ये ऊर्ध्वशक्तिः । तां पश्यन्ध्यायेत् । तत्रैव पूर्णगिरिपीठं सर्वेच्छालिद्धि-
साधनं भवति । सौभाग्यलक्ष्म्युपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स
वायुपूतो भवति । स सकलधनधान्यसत्पुत्रकलत्रहय भूगजपशुमहिषीदासी-
दासयोगज्ञानवान्भवति । न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ॥
ॐ वाङ्मनसीति शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥ ११८ ॥</p>
<pb n="671" />
<p>६५६-
ईशाद्युपनिषत्सु -
योगशिखोपनिषत् ॥ ११९ ॥
योगीश्वरं रमानाथं सच्चिदानन्दविग्रहम् ॥
योगशास्त्रप्रवक्तारं नौमि कैवल्यप्राप्तये ॥ १ ॥
ॐ पूर्णमद इति शान्तिः ॥
ॐ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् । यदा तु ध्यायते मन्त्रं
गात्रकम्पोऽभिजायते ॥ १ ॥ आसनं पद्मकं बच्वा यच्चान्यद्वापि रोचते
कुर्यान्नासाग्रदृष्टिं च हस्तौ पादौ च संयतौ ॥ २ ॥ मनः सर्वत्र संयम्य ओंकार
तन चिन्तयेत् । ध्यायेत सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥ ३ ॥ एक-
स्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते । ईदृशे तु शरीरे वा मतिमानुपलक्षयेत्
॥ ४ ॥ आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् । तस्य मध्यगतो वह्निः
प्रज्वलेद्दीपवर्तिवत् ॥ ५ ॥
इति योगशिखोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
दीपशिखायां या मात्रा सा मात्रा परमेष्ठिनः ॥ १ ॥ भिन्दन्ति योगिनः
सूर्य योगाभ्यासेन वै पुनः ॥ २ ॥ द्वितीयं सुषुम्नाद्वारं परिशुद्धं विसर्पति 1
कपालसंपुटं भित्त्वा ततः पश्यन्ति तत्परम् ॥ ३॥
इति योगशिखोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
अथ न ध्यायेजन्तुरालस्याच प्रमादतः । यदि त्रिकालमावर्तेत्स गच्छे-
स्परमं पदम् ॥ १ ॥ पुण्यमेतत्समासाद्य संक्षेपात्कथितं मया । लब्धयोगेन
बोद्धव्यं प्रसन्नं परमेष्ठिनम् ॥ २ ॥ जन्मान्तरसहस्रेषु यदा नाश्नाति किल्बि -
बम् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥ ३ ॥
इति योग शिखोपनिषत्सु तृतीयः खण्डः ३ ॥
ॐ पूर्णमद इति शान्तिः ॥
इत्याथर्वणीया योगशिखोपनिषत्समाप्ता ॥ ११९ ॥</p>
<pb n="672" />
<p>अध्या० १]
• मुक्तिकोपनिषत् ॥ १२० ॥</p>
<lg>
  <l>मुक्तिकोपनिषत् ॥ १२० ॥</l>
  <l>ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् ।</l>
  <l>मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥ १ ॥</l>
  <l>हरिः ॐ पूर्णमद इति शान्तिः ॥</l>
</lg>
<p>हरिः ॐ ॥ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । सीताभरतसौमित्रिशत्रु-
ब्लाद्यैः समन्वितम् ॥ १ ॥ सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । अन्यै-
भगवतैश्चापि स्तूयमानमहर्निशम् ॥ २ ॥ धीविक्रियासहस्राणां साक्षिणं निर्वि-
कारिणम् । स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥ ३ ॥ भक्त्या शुश्रूषया
रामं स्तुवन्पप्रच्छ मारुतिः । राम त्वं परमात्मासि सच्चिदानन्दविग्रहः ॥ ४ ॥
इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम
मुक्तये ॥ ५ ॥ अनायासेन येनाहं मुच्येयं भवबन्धनात् । कृपया वद मे
राम येन मुक्तो भवाम्यहम् ॥ ॥ साधु पृष्टं महाबाहो वदामि शृणु
तत्त्वतः । वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥ ७ ॥ वेदान्ताः के रघुश्रेष्ठ
वर्तन्ते कुत्र ते वद । हनूमन्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥ ८ ॥
निःश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । तिलेषु तैलवद्वेदे वेदान्तः
सुप्रतिष्ठितः ॥ ९ ॥ राम वेदाः कतिविधास्तेषां शाखाश्च राघव । तासूपनि-
षदः काः स्युः कृपया वद तत्त्वतः ॥ १० ॥ श्रीराम उवाच । ऋग्वेदादि-
विभागेन वेदाश्चत्वार ईरिताः । तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा
॥ ११ ॥ ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः । नवाधिकशतं शाखा
यजुषो मारुतात्मज ॥ १२ ॥ सहस्रसंख्यया जाताः शाखाः साम्नः परन्तप ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥ १३ ॥ एकैकस्यास्तु शाखाया
एकैकोपनिषन्मता । तासामेकाम्मृचं यश्च पठते भक्तितो मयि ॥ १४ ॥ स
मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । राम केचिन्मुनिश्रेष्ठ मुक्तिरेकेति
चक्षिरे ॥ १५ ॥ केचित्वन्नामभजनात्काइयां तारोपदेशतः । अन्ये तु सांख्ययोगेन
भक्तियोगेन चापरे ॥ १६ ॥ अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । सालो-
क्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥ १७ ॥ स होवाच श्रीरामः । कैवल्य-
मुक्तिरेव पारमार्थिकरूपिणी । दुराचाररतो वापि मन्नामभजनात्कपे ॥ १८ ॥
१ तद्रूपं.
अ. उ. ४२</p>
<pb n="673" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० १
सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् । काश्यों तु ब्रह्मनालेऽस्मि -
मृतो मत्तारमाप्नुयात् ॥ १९ ॥ पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः ।
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥ २० ॥ जन्तोर्दक्षिणकर्णे तु
मत्तारं समुपादिशेत् । निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥ २१ ॥
सैव सालोक्यसारूप्यमुक्तिरित्यभिधीयते । सदाचाररतो भूत्वा द्विजो नित्य-
मनन्यधीः ॥ २२ ॥ मयि सर्वात्मके भावो मत्सामीप्यं भजत्ययम् । सैव
सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥ २३ ॥ गुरूपदिष्टमार्गेण ध्यायन्म-
गुणमव्ययम् । मत्सायुज्यं द्विजः सम्यग्भजेन्द्रमरकीटवत् ॥ २४ ॥ सैव
सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा । चतुर्विधा तु या मुक्तिर्मदुपासनया
भवेत् ॥ २५ ॥ इयं कैवल्य मुक्तिस्तु केनोपायेन सिध्यति । माण्डूक्यमेकमे-
वालं मुमुक्षूणां विमुक्तये ॥ २६ ॥ तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ ।
ज्ञानं लब्ध्वाऽचिरादेव मामकं धाम यास्यसि ॥ २७ ॥ तथापि दृढता नो
चेद्विज्ञानस्याञ्जना सुत । द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥ २८ ॥
विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । तासां क्रमं सशान्ति च शृणु वक्ष्यामि
तत्वतः ॥२९॥ ईशकेनकटप्रश्नमुण्डमाण्डूक्यतित्तिरिः । ऐतरेयं च छान्दोग्यं
बृहदारण्यकं तथा ॥ ३० ॥ ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरूणिः । गर्भो
नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥ ३१ ॥ मैत्रायणी कौषीतकी बृहज्जाबा-
लतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥ ३२ ॥ सर्वसारं निरा-
लम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥३३॥
परिवार त्रिशिखी सीता चूडा निर्वाणमण्डलम् । दक्षिणा शरभं स्कन्दं
महानारायणाह्वयम् ॥ ३४ ॥ रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।
शाण्डित्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥ ३५ ॥ तुरीयातीत संन्यासपरि-
ब्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ ३६ ॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवीत्रिपुरा कठ-
भावना । हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥ ३७ ॥ तारसार महावा -
क्यपञ्चब्रह्माग्निहोत्रकम् । गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ३८ ॥
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् । कलिजाबालि सौभाग्य रहस्यऋच-
मुक्तिका ॥ ३९ ॥ एवमष्टोत्तरशतं भावनात्रयनाशनम् । ज्ञानवैराग्यदं पुंसां
वासनात्रयनाशनम् ॥ ४० ॥ पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । वेद-</p>
<pb n="674" />
<p>अध्या० १]
मुक्तिकोपनिषत् ॥ १२० ॥
विद्याव्रतस्त्रातदेशिकस्य मुखात्स्वयम् ॥ ४१ ॥ गृहीत्वाऽष्टोत्तरशतं ये पठन्ति
द्विजोत्तमाः । प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥ ४२ ॥ ततः
कालवशादेव प्रारब्धे तु क्षयं गते । वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्र
संशयः ॥ ४३ ॥ सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् । सकृच्छ्रवणमात्रेण
सर्वाघौघनिकृन्तनम् ॥ ४४ ॥ मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । इर्द-
शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥ ४५ ॥ ज्ञानतोऽज्ञानतो वापि पठतां
बन्धमोचकम् । राज्यं देयं धनं देयं याचतः कामपूरणम् ॥ ४६ ॥ इद-
मष्टोत्तरशतं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुराचाररताय वै
॥ ४७ ॥ मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते । गुरुभक्तिविहीनाय दातव्यं
न कदाचन ॥ ४८ ॥ सेवापराय शिष्याय हितपुत्राय मारुते । मद्भकाय
सुशीलाय कुलीनाय सुमेधसे ॥ ४९ ॥ सम्यकू परीक्ष्य दातव्यमेवमष्टोत्तरं
शतम् । यः पठेच्छृणुयाद्वापि स मामेति न संशयः । तदेतदृचाभ्युक्तमू-
विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृ-
जवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् । यमेव विद्याश्रुतमप्रमत्तं
मेधाविनं ब्रह्मचर्योपपन्नम् । तस्मा इमामुपसन्नाय सम्यक परीक्ष्य दद्याद्वैष्ण-
वीमात्मनिष्ठाम् ॥ इति ॥ १ ॥ अथ हैनं श्रीरामचन्द्र मारुतिः पप्रच्छ
ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । स होवाच श्रीरामः । ऐतरेय-
कौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिका त्रिपुरासौभाग्यबहुचा-
नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाकये मनसीति शान्तिः ॥ १ ॥
ईशावास्य बृहदारण्यजाबालहंसपरमहंस सुबालमन्त्रिकानिरालम्ब त्रिशिखीब्राह्म-
णमण्डलब्राह्मणाद्वयतारकपैङ्गलभिक्षुतुरीयाती ताध्यात्मतारसारयाज्ञवल्क्यशा-
व्यायनीमुककानां शुक्लयजुर्वेद गतानामेकोनविंशतिसंख्याकानामुपनिषदां
पूर्णमद इति शान्तिः ॥ २ ॥ कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भना-
रायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिकासर्व सारशुक रहस्य तेजोबिन्दुध्यान-
बिन्दुब्रह्मविद्यायोगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षराक्ष्यवधूत-
कठरुद्रहृदययोगकुण्डलिनी पञ्चब्रह्मप्राणाग्निहोत्रवराहक लिसंतैरणसरस्वतीरह-
स्थानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां सह नाववत्विति
शान्तिः ॥ ३ ॥ केनच्छान्दोग्यारुणि मैत्रायणि मैत्रेयीवज्रसूचिकायोगचूडामणि-
१ यच्छास्त्र. २ ब्रूयाद्वीर्यवती ३ संतारण.</p>
<pb n="675" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
वासुदेव महत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबाल दर्शनजाबालीनां सा-
मवेदगतानां षोडशसंख्या कानामुपनिषदामाप्यायन्त्विति शान्तिः ॥ ४ ॥
प्रश्नमुण्डकमाण्डूक्याथर्वशिरोऽथर्वशिखा बृहज्जाबालनृसिंहतापनीनारदपरित्रा-
जसीताशर भमहानारायणरामरहस्य रामतापनीशाण्डिल्य परमहंस परिव्राज-
कानपूर्णा सूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवी भावनाब्रह्मजाबालगणपतिम-
हावाक्यगोपालतपनकृष्ण हयग्रीवदत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंश-
त्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ ५ ॥ मुमुक्षवः पुरुषाः
साधनचतुष्टयसंपन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्यगुणवन्त-
कुटिलं सर्वभूतहिते रतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽ-
ष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा
प्रारब्धक्षयाद्देहत्रयभङ्गं प्राप्योपाधिविनिर्मुक्तघटाकाशवत्परिपूर्णता विदेह-
मुक्तिः । सैव कैवल्यमुक्तिरिति । अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदा-
न्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञान-
मात्रेणा । न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥
इति मुक्तिकोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
तथा हैनं श्रीरामचन्द्र मारुतिः पप्रच्छ । केयं वा तत्सिद्धिः सिच्या वा
किं प्रयोजनमिति । स होवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व सुखदुःखादि-
लक्षणश्चित्तधर्मः क्लेशरूपत्वाद्वन्धो भवति । तन्निरोधनं जीवन्मुक्तिः । उपा-
विविनिर्मुक्तघटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । जीवन्मुक्ति विदेहमुक्त्यो-
रष्टोत्तरशतोपनिषदः प्रमाणम् । कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः
प्रयोजनं भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना पुत्रं
वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणा-
दिजनितसमाधिना जीवन्मुक्तत्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः ।
अत्र श्लोका भवन्ति - उच्छा शास्त्रितं चेति पौरुषं द्विविधं मतम् ।
तत्रोच्छा मनर्थाय परमार्थाय शाखितम् ॥ १ ॥ लोकवासनया जन्तोः
शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २ ॥ द्विविधो
वासनाव्यूहः शुभश्चैवाशुभश्च तौ । वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥ ३ ॥
१ मार्गेणोक्ता.</p>
<pb n="676" />
<p>अध्या० २]
मुक्तिकोपनिषत् ॥ १२० ॥
૨૧
तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि । अथ चेदशुभो भावस्त्वां
योजयति संकटे ॥ ४ ॥ प्राक्तनस्तदसौ यताज्जेतव्यो भवता कपे । शुभाशुभाभ्यां
मार्गाभ्यां वहन्ती वासनासरित् ॥ ५ ॥ पौरुषेण प्रयत्नेन योजनीया शुभे
पथि । अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥ ६ ॥ अशुभाच्चालितं याति
शुभं तस्मादपीतरत् । पौरुषेण प्रयत्नेन लालयेश्चित्तबालकम् ॥ ७ ॥ द्वाग-
भ्यासवशाद्याति यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वमम-
रिमर्दन ॥ ८ ॥ संदिग्धायामपि भृशं शुभामेव समाचर । शुभायां
वासनावृद्धौ न दोषाय मरुत्सुत ॥ ९ ॥ वासनाक्षयविज्ञानमनोनाशा महा-
ad । समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥ १० ॥ त्रय एवं समं
यावन्नाभ्यस्ताश्च पुनः पुनः । तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥ ११ ॥
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । तन्न सिद्धिं प्रयच्छन्ति मन्त्राः
संकीर्तिता इव ॥ १२ ॥ त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःश-
कमेव त्रुट्यन्ति बिच्छेदाद्गुणा इव ॥ १३ ॥ जन्मान्तरशताभ्यस्ता मिथ्या
संसारवासना । सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥ १४ ॥
तस्मात्सौम्य प्रयत्न पौरुषेण विवेकिना । भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव
समाश्रय ॥ १५ ॥ तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः । सम्यग्वास-
नया त्यक्तं मुक्तमित्यभिधीयते । मनोनिर्वासनी भावमाचराशु महाकपे ॥ १६ ॥
सम्यगालोचनात्सत्याद्वासना प्रविलीयते । वासनाविलये चेतः राममायाति
दीपवत् ॥ १७ ॥ वासनां संपरित्यज्य मयि चिन्मात्रविग्रहे । यस्तिष्ठति गत-
व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥ १८ ॥ समाधिमथ कार्याणि मा करोतु करोतु
वा । हृदयेनात्तसर्वे हो मुक्त एवोत्तमाशयः ॥ १९ ॥ नैष्कर्म्येण न तस्यार्थ-
तार्थो न कर्मभिः । न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः
॥ २० ॥ संत्यक्तवःसताम्मौनाते नास्त्युत्तमं पदम् ॥ २१ ॥ वासनाहीनम-
येतचक्षुरादीन्द्रियं स्वतः । प्रवर्तते बहिः स्वार्थे वासनामात्र कारणम्
॥ २२ ॥ अथलोपनतेष्वक्षि हद्रव्येषु यथा पुनः । नीरागमेव पतति
agratषु धीरधीः ॥ २३ ॥ भावसंचित्प्रकटितामनुरूपा च मारुते । चित्त-
स्योत्पत्युपरमा वासनां मुनयो विदुः ॥ २४ ॥ दृढाभ्यस्तपदार्थैकभावना-
दतिचञ्चलम् । चित्तं संजायते जन्मजरामरणकारणम् ॥ २५ ॥ वासना-
१ त्युपरमं हंसं वा मुनयो.</p>
<pb n="677" />
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
वशतः प्राणस्पन्दस्तेन च वासना । क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः
॥ २६ ॥ द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोः क्षीणे
क्षिप्रं द्वे अपि नश्यतः ॥ २७ ॥ असङ्गव्यवहारत्वाद्भवभावनवर्जनात् । शरीर-
नाशदर्शित्वाद्वासना न प्रवर्तते । वासनासंपरित्यागान्चित्तं गच्छत्यचित्तताम्
॥ २८ ॥ अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति
परमोपशमप्रदा ॥ २९ ॥ अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्र-
प्रमाणैस्तु निर्णीतं तावदाचर ॥ ३० ॥ ततः पक्ककषायेण नूनं विज्ञात-
वस्तुना । शुभोsप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥ ३१ ॥
द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तः सरूपः स्यादरूपों
देहमुक्तिगः ॥ ३२ ॥ अस्य नाशमिदानीं त्वं पावने शृणु सादरम् ॥ ३३ ॥
चित्तनाशाभिधानं हि यदा ते विद्यते पुनः । मैत्र्यादिभिर्गुणैर्युक्त शान्ति-
मेति न संशयः । भूयोजन्म विनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥ ३४ ॥
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । अरूपस्तु मनोनाशो वैदेही-
मुक्तिगो भवेत् ॥ ३५ ॥ सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥ ३६ ॥
अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् । संकल्प एव तन्मन्ये संकल्पो-
पशमेन तत् ॥ ३७ ॥ शोषयाशु यथा शोषमेति संसारपादपः । उपाय एक
एवास्ति मनसः स्वस्य निग्रहे ॥ ३८ ॥ मनसोऽभ्युदयो नाशो मनोनाशो
महोदयः । ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥ ३९ ॥ ताव-
न्निशीव वेताला वलान्ति हृदि वासनाः । एकतत्वहढाभ्यासाद्यावन्न विजितं
मनः ॥ ४० ॥ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्वेिषः । पद्मिन्य इव हेमन्ते
क्षीयन्ते भोगवासनाः ॥ ४१ ॥ हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य
च । अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥ ४२ ॥ उपविश्योप वि-
इयैकां चिन्तकेन मुहुर्मुहुः । न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम्
॥ ४३ ॥ अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । अध्यात्मविद्याधिगमः
साधुसंगतिरेव च ॥ ४४ ॥ वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।
एतास्ता युक्तयः पुष्टा सन्ति चित्तजये किल ॥ ४५ ॥ सतीषु युक्तिष्वेतासु
हठान्नियमयन्ति ये । चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥ ४६ ॥
विमूढाः कर्तुमुद्युक्ता ये हठाचेतसो जयम् । ते निबध्नन्ति नागेन्द्रमुन्मत्तं
१ युक्तः शान्तिमेति.
२ तमोजनैः,</p>
<pb n="678" />
<p>'
अध्या० २ ]
मुक्तिकोपनिषत् ॥ १२० ॥
夙款
बिसतन्तुभिः ॥ ४७ ॥ द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एकं
प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥ ४८ ॥ सा हि सर्वगता संबित्प्राण-
रूपन्देन चात्यते । चित्तैकाग्रयाद्यतो ज्ञानमुक्तं समुपजायते ॥ ४९ ॥ तत्सा-
वनमथो ध्यानं यथावदुपदिश्यते । विनाप्यविकृतिं कृत्स्नां संभवत्यत्य-
यक्रमात् । यशोऽरिष्ट' च चिन्मात्रं चिदानन्दं विचिन्तय ॥ ५० ॥ अपा-
नेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि । तावत्सा कुम्भकावस्था योगिभि+
र्याऽनुभूयते ॥ ५१ ॥ बहिरस्तंगते प्राणे यावन्नापान उद्भुतः । तावत्पूर्णा
समावस्थां बहिष्ठं कुम्भकं विदुः ॥ ५२ ॥ ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतिं
विना । संप्रज्ञातसमाधिः स्याच्यानाभ्यासप्रकर्षतः ॥ ५३ ॥ प्रशान्तवृत्तिकं
चित्तं परमानेन्ददायकम् । असंप्रज्ञातनामायं समाधियोगिनां प्रियः ॥ ५४ ॥
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । अतद्व्यावृत्तिरूपोऽसौ समाधिर्मु-
निभावितः ॥ ५५ ॥ ऊर्ध्वपूर्णमधः पूर्ण मध्यपूर्ण शिवात्मकम् । साक्षा-
द्विधमुखो ह्येष समाधिः परमर्धिकः ॥ ५६ ॥ दृढभावनया
त्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ५७ ॥
भावितं तीव्र संवेगादात्मना यत्तदेव सः । भवत्याशु कपिश्रेष्ठ विगते-
तरवासनः ॥ ५८ ॥ ताग्रूपो हि पुरुषो वासनाविवशीकृतः । संपश्यति
यदैवैतत्सद्वस्त्विति विमुह्यति ॥ ५९ ॥ वासनावेगवैचित्र्यात्स्वरूपं न जहाति
तत् । भ्रान्तं पश्यति दुर्दृष्टिः सर्व मदवशादिव ॥ ६० ॥ वासना द्विविधा
प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी
॥ ६१ ॥ अज्ञानसुघनाकारा घनाहंकारशालिनी । पुनर्जन्मकरी प्रोक्ता
मलिना वासना बुधैः । पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥ ६२ ॥
बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्वेन मारुते ज्योति-
रान्तरम् ॥ ६३ ॥ दर्शनादर्शने हित्वा स्वयं केवलरूपतः । य आस्ते कपि-
शार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥ ६४ ॥ अधीत्य चतुरो वेदान्सर्वशास्त्राण्यने-
कशः । ब्रह्मतत्त्वं न जानाति देव पाकरसं यथा ॥ ६५ ॥ स्वदेहाशुचिगन्धेन
न विरज्येत यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते ॥ ६६ ॥
अत्यन्त मलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं
विधीयते ॥ ६७ ॥ बेद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः । वासनां
१ परिशिष्टं २ नन्ददीपकम् ३ दर्पापहतचेतनः ४ तन्मोहाशुचि ५ बन्धो हिं</p>
<pb n="679" />
<note>६६४.</note>
<p>ईशाद्युपनिषत्सु -
[ अध्या० २
संपरित्यज्य मोक्षार्थत्वमपि त्यज ॥ ६८ ॥ मानसीर्वासनाः पूर्वं त्यक्त्वा
विषयवासनाः । मैत्र्यादिवासनानान्नीगृहाणामलवासनाः ॥ ६९ ॥ वा
अध्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तःशांन्तः समस्नेहो भव चिन्मात्र-
वासनः ॥ ७० ॥ तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् । शेषस्थिर-
समाधान मयि त्वं भव मारुते ॥ ७१ ॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं
नित्यमगन्धवश्च यत् । अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजा-
तिहन् ॥ ७२ ॥ दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सकलं विमुक्त ॐ ॥ ७३ ॥ दृशिस्तु
raiseriaऋयात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः । पुरस्तिरश्चोर्ध्व-
मधश्च सर्वतः सुपूर्णभूमाहमितीह भावय ॥ ७४ ॥ अजोऽमरश्चैव तथाऽजरो-
sमृतः स्वयंप्रभः सर्वगतोऽहमव्ययः । न कारणं कार्यमतीत्य निर्मलः सदैव
तृप्तोऽहमितीह भावय ॥ ७५ ॥ जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ७६ ॥ तदेतचाभ्युक्तम्-तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो
जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत् ।</p>
<lg>
  <l>ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।</l>
  <l>पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥</l>
</lg>
<p>इति मुक्तिकोपनिषत्सु द्वितीयोऽध्यायः ॥ २ ॥
हरिः ॐ तत्सत् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति शुक्लयजुर्वेदगता मुक्तिकोपनिषत्समाप्ता ॥ १२० ॥
संपूर्णोऽयमुपनिषत्समुच्चयः ।
"
ॐ तत्सब्रह्मार्पणमस्तु ।
१ शान्तसमस्नेही.</p>
</body>
</text>
</TEI>