श्री हनुमन्नाटकम् प्रथमोऽङ्कः कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य । विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम १ पातु श्रीस्तनपत्त्रमङ्गमकरीमुद्राङ्कितोरः स्थलो देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः २ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ३ तं रामं रावणारिं दशरथतनयं लक्ष्मणाग्र्यं गुणाढ्यं पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्वसौभाग्यसिद्धिम् विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेवं सर्वात्मानं नमामि त्रिभुवनशरणं प्रत्यहं निष्कलङ्कम् ४ अथोपक्रमः आसीदुद्भटभूपतिप्रतिभटप्रोन्माथिविक्रान्तिको भूपः पंक्तिरथो विभावसुकुलप्रख्यातकेतुर्बली । उर्वीबर्बरभूरिभारहरणे भूरिश्रवाः पुत्रतां यस्यार स्वमथो विधाय महितः पूर्णश्चतुर्धा विभुः ५ तेषामीश्वरतागुणैश्च जनुषा ज्यायानभूद्राघवो रामः सोऽप्यथ कौशिकेन मुनिना रक्षोभयाद्याचितः । राजानं स यशोधनो नरपतिः प्रादात्सुतं दुःखितस्तस्मै सोऽपि तमन्वगादनुगतः सौमित्रिणोच्चैर्मुदा ६ 1 [Hanuman Nātakam] इतिहास. ITIHĀSA. MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION सुन्दस्त्रीदमनप्रमोदमुदितादास्थाय विद्योदयं रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया । क्लृप्ते कौशिकनन्दनेन च मरखे तत्रागतान्राक्षसान्हत्वाऽमूमुचदाशु भाविविदसौ मारीचमुग्राकृतिम् ७ पूर्णे यज्ञविधौ यियासुरभवद्रामेण सार्धं मुनिः सीतासंवरणागताखिलनृपव्याभग्नवीर्यश्रियम् । श्रुत्वा तद्धनुरुत्सवं च मिथिलामास्थाय तेनाधिकं सत्कारैरुपलम्भितः पुनरगाच्चापाश्रितं मण्डलम् ८ तदा सीता (आत्मगतम्) - कमठपृष्ठकठोरमिदं धनुर्मधुरमूर्तिरसौ रघुनन्दनः कथमधिज्यमनेन विधीयतामहह तात पणः स्तवदारुणः ६ रामो लक्ष्मणं प्रति- आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः कन्यायाः कलधौतकोमलरुचेः कीर्तेश्च लाभः परः । नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलम् १० लक्ष्मणो रामहृदयानन्दकंदाङ्कुरोद्भवाय निजप्रचण्डदोर्दण्डयोर्महतीं प्रौढिं नाट्यति- देव श्रीरघुनाथ किं बहुतया दासोऽस्मि ते लक्ष्मणो मेर्वादीनपि भूधरान्न गणये जीर्णः पिनाकः कियान् तन्मामादिश पश्य पश्य च बलं भृत्यस्य यत्कौतुकं प्रोद्धर्तुं प्रतिनामितुं प्रचलितुं नेतुं निहन्तुं क्षमः ११ रावणपुरोहितो जनकं प्रति- दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ दोः क्रीडामशकीकृतत्रिभुवनो लंकापतिर्याचते तत्किं मूढवदीक्षसे ननु कथागोष्ठीषु नः शासते 2 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM तद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः १२ पुनः रामं प्रति-समंतादुत्तालैः सुरसहचरीचामरमरुत्तरङ्गैरुन्मीलद्भुजपरिघसौरभ्यशुचिना स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि धृतामरे राम त्वं मा जनकपतिपुत्रीमुपयथाः १३ जनकः-माहेश्वरं धनुः कुर्यादधिज्यं चेद्ददामि ताम् पुरोहितः गुरोः शंभोर्धनुर्नो चेच्चूर्णतां नयति क्षणात् १४ जनकः विहस्य-शम्भोरावासमचलमुत्क्षेप्तुं भुजकौतुकी माहेश्वरं धनुः क्रष्टुमर्हते दशकंधरः १५ जनकः सीतां प्रति सखेदम्-माहेश्वरो दशग्रीवः क्षुद्राश्चान्ये महीभुजः पिनाकारोपणं शुल्कं हा सीते किं भविष्यति १६ सीता-'कमठपृष्ठम्' इत्यादि पुनः पठति । रावणपुरोहितः सक्रोधम्-सार्धं हरेण हरवल्लभया च देव्या हेरम्बषण्मुखवृषप्रमथावकीर्णम् कैलासमुद्धृतवतो दशकन्धरस्य केयं च ते धनुषि दुर्मद दोः परीक्षा १७ जनकः —— शृणुत जनककल्पाः क्षत्त्रियाः शुल्कमेते दशवदनभुजानां कुण्ठिता यत्र शक्तिः 3 [ Hanuman Nātakam] । [Hanuman Nātakam] इतिहास ITIHĀSA नमयति धनुरैशं यस्तदारोपणेन त्रिभुवनजयलक्ष्मीर्जानकी तस्य दाराः १८ श्रीरामः नाट्यम्-MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION कपोलै जानक्याः करिकलभदन्तद्युतिमुपि स्मरस्मेरं गण्डोडुमरपुलकं वक्त्रकमलम् । मुहुः पञ्चञ्शृण्वन्रजनिचरमेनाकलकलं जटाजूटग्रन्थिं रचयति रघूणां परिवृढः १६ गृहीतहरकोदण्डे रामे परिणयोन्मुखे पस्पन्द नयनं वामं जानकीजामदग्न्ययोः २० लक्ष्मणो रामे सज्यं धनुः कुर्वति सति पृथ्व्यादीनि भुवनान्यधो यास्यन्तीत्याशङ्कयाह-पृथ्वि स्थिरा भव भुजंगमधारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां रामः करोति हरकार्मुकमाततज्यम् २१ पृथ्वी याति विनम्रतां फणिपतेर्नम्रं फणामण्डलं बिभ्रत्क्षुभ्यति कूर्मराजसहिता दिक्कुञ्जराः कातराः । आतन्वन्ति च वृंहितं दिशि भटैः सार्धं धराधारिणो वेपन्ते रघुपुंगवे पुरजितः सज्यं धनुः कुर्वति २२ तदा च-उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेहीमनसा समं च सहसाकृष्टं ततो भार्गव प्रौढाहंकृतिदुर्मदेन सहितं तद्भग्नमैशं धनुः २३ शंभौ यद्गुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः । 4 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM स्वं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो भिद्यन्ते वलयानि दाशरथिना तद्भग्नमैशं धनुः २४ अपि च-तद्ब्रह्ममातृवधपातकिमन्मथारि। क्षत्रान्तकारिकरसंगमपापभीत्या ऐशं धनुर्निजपुरश्चरणाय नूनं देहं मुमोच रघुनन्दनपाणितीर्थे २५ त्रुट्यद्भीमधनुः कठोरनिनदस्तत्राकरोद्विस्मयं त्रस्यद्वाजिरवेरमार्गगमनं शंभोः शिरः कम्पनम् दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मेलनं वैदेहीमदनं मदान्धदमनं त्रैलोक्यसंमोहनम् २६ रुन्धन्नष्ट विधेः श्रुतीर्मुखरयन्नष्टौ दिशः क्रोड्यन्मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः । तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च संपादयनुन्मीलत्ययमार्यदोर्बलदलत्कोदण्डकोलाहलः २७ लक्ष्मणः-[Hanuman Nātakam] गद्यम्--जामदग्न्यस्त्रुट्यद्भैरवधनुः कोलाहलामर्षमूर्च्छितः प्रलयमारुतोद्भूतकल्पान्तानलवत्प्रदीप्तरोषानलः । रामं प्रति परशुरामं सूचयन्-यद्वभञ्ज जनकात्मजाकृते राघवः पशुपतेर्महद्धनुः तद्धनुर्गुणरवेण रोषितस्त्वाजगाम जमदग्निजो मुनिः २८ चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्निग्धपवित्रलाञ्छितमुरो धत्ते त्वचं रौरवीम् । मौञ्ज्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं पाणौ कार्मुज्कसाक्षसूत्रवलयं दण्डोऽपरः पैप्पलः २६ पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् 5 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION यः ससोम इव घर्मदीधितिः सद्विजिह्न इव चन्दनद्रुमः ३० आजन्म ब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमानज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः । वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्कान्प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः ३१ सोऽयं सप्तसमुद्रमुद्रितमहीपस्यार्जुनस्योद्धतं छित्त्वा भैरवसंगरेऽतिजरठं कण्ठं कुठारेण यः । रेवातीरनिरोधहेतुगहनं बाहोः सहस्रं जवात्काण्डं काण्डमरखण्डयत्पितृवधामर्षेण वर्षीयसा ३२ पुनः परशुं दृष्ट्वा - येन त्रिः सप्तकृत्वो नृपबहलवसामांसमस्तिष्कपंकप्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधि निधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चांसकूटक्रथनपटुरटद्धोरधारः कुठारः ३३ जामदग्न्यः क्रोधं नाटयित्वा-केनेदं कुपितकालदन्तपत्रान्तरालमिच्छता धनुर्भग्नम् । राम साशङ्कम्-पार्वत्या निजभर्तुरायुधमिति म्लानं यदभ्यर्चितं निर्मोकेन च वासुकेन वलितं यत्सादरं नन्दिना । भव्यं यत्त्रिपुरेन्धनं धनुरिदं तन्मन्मथोन्माथिनः सत्येवं मयि रामनामनि भुवि द्वेधा कृतं दृश्यते ३४ जामदग्न्यः--( स्फीतफूत्कारप्रफुल्लनासापुटकोटरोद्गीर्णप्रभूतगर्वानलोच्छलितकालकूटधूमस्तोमाच्छादितदिमण्डलः ) अरे रे निजकुलकमलिनीप्रालेयवर्ष दाशरथे कथमकाण्डमदान्तप्रचण्डदोर्दण्डकोदण्डखण्डचण्डिमाडम्बरेणापूरितंजगत्त्रयम् । सकलवसुमतीमण्डलाखण्डलकुमुंदिनीपक्षलक्ष्मी6 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM हरणकिरणमालिनं न मां वेत्सि । येनोक्तं कार्तवीर्यःसहस्रबाहुस्त्वमहं द्विबाहुस्त्वं सैन्ययुक्तोऽस्यहमेक एव । त्वं चक्रवर्त्ती मुनिनन्दनोऽहं तथापि नौ पश्यतु तर्कमर्कः ३५ उत्कृत्योत्कृत्य गर्भानपि शकलयितुं क्षत्रसंतानरोषा-दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् । पित्र्यं तद्रक्तपूर्णप्रतिवचनमहो मन्दमन्दायमानक्रोधाग्नेः सर्वतो मे स खलु न विदितः सर्वभूतैः स्वभावः ३६ अपि च-आश्चर्यं कार्तवीर्यार्जुनभुजविपिनच्छेदलीलाविदग्धः केयूरग्रन्थिरत्नोत्कर्षणरणत्कारघोरः [Hanuman Nātakam] अयं कण्ठः कुठारस्ते कुरु राम यथोचितम् निहन्तुं हन्त गोविप्रान्न शूरा रघुवंशजाः ३६ सवैदग्ध्यम्-रः कुठारः । तेजोभिः क्षत्त्रगोत्रप्रलयसमुदितद्वादशार्कानुकारः किं न प्राप्तः स्मृतिं ते स्मरदहनधनुर्भङ्ग्यर्युत्सुकस्य ३७ रामः सानुनयम्-बाह्वोर्बलं न विदितं न च कार्मुकस्य त्रैयम्बकस्य महिमा न तवापि सैषः तच्चापलं परशुराम मम क्षमस्व डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ३८ अपि च-भो ब्रह्मन्भवता समं न घटते संग्रामवार्तापि नो सर्वे हीनबला वयं बलवतां यूयं स्थिता मूर्धनि यस्मादेकगुणं शरासनमिदं सुव्यक्तमुर्वीभुजामस्माकं भवतो यतो नवगुणं यज्ञोपवीतं बलम् ४० जातः सोऽहं दिनकरकुले क्षत्रियः श्रोत्रियेभ्यो 7 -[Hanuman Nātakam] इतिहास ITIHĀSA विश्वामित्रादपि भगवतो दृष्टदिव्यास्त्रपारः अस्मिन्वंशे कथयतु जनो दुर्यशो वा यशो वा विप्रे शस्त्रग्रहणगुरुणः साहसिक्याद्विभेमि ४१ परशुरामः MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION येन स्वां विनिहत्य मातरमपि क्षत्रास्त्रमध्वासवं स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्रिया मेदिनी यद्वाणव्रणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छलादद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ४२ रामः स्त्रीषु प्रवीरजननी जननी तवैव देवी स्वयं भगवती गिरिजापि यस्यै त्वद्दोर्वशीकृतविशाखमुखावलोकव्रीडाविदीर्णहृदया स्पृहयांबभूव ४३ अपि च-हारः कण्ठे विशतु यदि वा तीक्ष्णधारः कुठारः स्त्रीणां नेत्राण्यधिवसतु सुखं कज्जलं वा जलं वा सम्पश्यामो ध्रुवमपि सुखं प्रेतभर्तुर्मुखं वा यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः ४४ परशुरामः तथापि (साभ्यसूयम् ) यच्चापमीशभुजपीडनपीतसारं प्रागप्यभज्यत भवांस्तु निमित्तमात्रम् राजन्यकप्रधनसाधनमस्मदीयमाकर्षकार्मुकमिदं गरुडध्वजस्य ४५ रामः (धर्षणामर्षमूर्च्छितः) पुरोजन्मा नाद्यप्रभृति मम रामः स्वयमहं न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् 8 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] वीरं वीरं वा कलयतु जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ४६ भूमात्रं कियदेतदर्णवमितं तन्निर्जितं हार्यते यद्वीरेण भवादृशेन ददता त्रिः सप्तकृत्वो जयम् डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतं तत्क्रोधाद्विरम प्रसीद भगवञ्जात्यैव पूज्योऽसि नः ४७ द्विः शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान् द्विर्ददाति न चार्थिभ्यो रामो द्विर्नाभिभाषते ४८ रामनाट्यवर्णनम् रामस्तदादाय धनुः सहेलं बाणं गुणे योज्य यदा चकर्ष भाति स्म साक्षात्मकरध्वजः स्वर्गतिं प्रचिच्छेद च भार्गवस्य ४६ तदा सीतानाट्यम् तच्चापमाकर्षति ताटकारावाकर्णमाकर्णविशालनेत्रा सासूयमैक्षिष्ट विदेहजासौ कन्यां किमन्यां परिनेष्यतीति ५० भार्गवः सानुनयम् यः कार्त्तवीर्यस्य भुजासहस्रं चिच्छेद वीरो युधि जामदग्न्यः स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ५१ धावद्धूर्जटिधर्मपुत्रपरशुक्षुण्णाखिलक्षत्रियश्रेणीशोणितपिच्छिला वसुमती कोऽस्यामधास्यत्पदम् त्रैलोक्याभयदानदक्षिणभुजावष्टम्भदिव्योदयो देवोऽयं दिनकृत्कुलैकतिलको न प्राभविष्यद्यदि ५२ रामः पश्चाज्जामदग्न्यचरणकमलयोर्निपत्य-उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुर्वीर्यं यत्तु नयद्गिरामनुपथं व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः 9 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION सत्यब्रह्मतपोनिधे भगवतः किं किं न लोकोत्तरम् ५३ सदयं परशुरामः माता का न शिशोर्वचांसि कुरुते दासीजनोक्तानि या कस्तातः प्रमदाप्रतारितमतिर्जानाति कृत्यं न यः कश्चायं भरतश्रियामविधिना यो राजते दुर्नयो व्याषेधार्थमधिज्यधन्वनि मयि श्रीरामभृत्यो स्थिते ५४ ज्ञात्वावतारं रघुनन्दस्य स्वकीयमालिङ्ग्य ततोऽवगाढम् विन्यस्य तस्मिञ्जमदग्निसूनुस्तेजो महत्क्षत्रवधान्निवृत्तः ५५ रामविवाहवर्णनम् निः साणमर्दलरसालगभीरभेरीझङ्कारतालरवकाहलनादजालैः पूर्णं बभूव धरणीगगनान्तरालं पाणिग्रहे रघुपतेर्जनकात्मजायाः ५६ रामे श्यामे सकामे स्पृशति जनकजापाणिपद्मं प्रदत्तं पित्रा नेत्रालिपद्ये प्रवरपुरवधूमण्डलानां मुहूर्ते तत्पाणिस्पर्शसौख्यं परमनुभवती सच्चिदानन्दरूपं तत्रासीद्वाणभिन्ना रमणरतिपतेर्योगनिद्रां गतेव ५७ वैवाहिकं कुशिकनन्दनजामदग्न्यवाल्मीकिगौतमवसिष्ठपुरोहिताद्यैः । रामो विधिं सह समाप्य सलक्ष्मणस्तैरानन्दयञ्जनकजां स्वपुरं जगाम ५८ इति श्रीहनुमन्नाटके जानकीस्वयंवरो नाम प्रथमोऽङ्कः १ द्वितीयोऽङ्कः प्राप्यायोध्यां स्वजनपरमोत्साहसंभावनाभिर्नत्वा मूर्ध्नाऽखिलगुरुजनं सीतया लक्ष्मणेन रामो यामत्रयमपि कथं मारनाराचभिन्नो 10 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [ Hanuman Nātakam] नीत्वा सीतां किमिति तुरगांस्ताडयामास दण्डैः १ सर्वलक्षणोपेतान्देवभूपालयोग्यान्मेदुरमन्दुरायां तुरगानवलो- क्य मारज्वराकुलितचित्तभ्रांत्या वधूपुत्रयोर्मङ्गलावलोकना- यागतस्य भगवतस्तरणेः किरणमालिनस्तुरगा इमे स्वभाव तेजस्विनस्तत्ताडनमसोढारस्ताडिताः पुनः पुनर्भगवन्तं भास्करं द्रुतगत्यास्ताचलं नयन्त्विति बुद्ध्वा दाशरथिर्जन- कपुत्री च दण्डाघातैस्तुरगांस्ताडयामास निशायां प्रौढायां शीघ्रमावयोः संगमो भवत्वित्यभिप्रायः । अस्तं याते मुकुलनलिनीबान्धवे सिन्धुपुत्रे प्राचीभागे प्रमदमुदिते पक्वनारिङ्गपिङ्गे । रामं कामं गुरुजनगिरा मन्दिरं सुन्दरं स्वं रम्भोरुस्तं जनकतनया नन्दयन्ती जगाम २ प्राचीभागे सरागे तरणिविरहिणि क्रान्तमुद्रे समुद्रे निद्रालौ नीरजालौ विकसितकुमुदे निर्विकारे चकोरे आकाशे सावकाशे तमसि शममिते कोकलोके सशोके कंदर्पेऽनल्पदर्पे वितरति किरणाञ्छर्वरीसार्वभौमः ३ भविष्ये रामशापेत्यन्तनिकटवर्तिनि कोकलोकानामकस्मा- न्महोत्पातनिमित्तं पार्श्वस्थितानामपि प्रियाणामनवलोकतः शोकसंभवः ॥ स्वैरं कैरवकोरकान्विदलयन्यूनां मनः खेदयन्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मूलयन् ज्योत्स्नां कन्दलयंस्तमः कवलयन्नम्भोधिमुद्वेलयन्कोकानाकुलयन्दिशो धवलयन्निन्दुः समुज्जृम्भते ४ अद्यापि स्तनतुङ्गशैलशिखिरे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा11 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION त्फुल्लत्कैरवकोशनिः सरदलिश्रेणी कृपाणं शशी ५ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन् शीतस्पर्शमवाप्य संप्रति तया युक्ते मुखाम्भोरुहे हास्येनैव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ६ कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदै रक्षालि स्फटिकान्तरैः किमघटि द्यावापृथिव्योर्वपुः । एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ७ अमृतममृतरश्मेर्मण्डलस्यानुभूय द्विजचतुरचकोर प्रीतिरङ्गारकेषु । प्रभवति भवदीया चेद्विधातुर्विधानं तदिह पुनरपि स्यात्कोऽन्यथाकर्तुमीशः ८ चक्रक्रीडाकृतान्तस्तिमिरचयचमूस्फारसंहारचक्रं कान्तासंहारसाक्षी गगनसरसि यो राजते राजहंसः सम्भोगारम्भकुम्भः कुमुदवनवधूबोधनिद्रादरिद्रो देवः क्षीरोदजन्मा जयति रतिपतेर्बाणनिर्वाणशाणः ६ इत्याकर्ण्य चन्द्रमण्डलशाणे शाणोत्ती रतिपर्बाणो जानकीरामचन्द्रयोर्वक्षःस्थले निपतति, इति श्लोका- भिप्रायमवगम्य निष्क्रान्तः सर्व प्रालिजनः । अत्रापि तरुणरात्रौ शुकसारिकादीनां पक्षिणां मधुरस्वरैर्मदनोर्मिः संसूचिता ॥ रामः अङ्के कृत्वा जनकतनयां द्वारकोटेस्तलान्तात्पर्यङ्काङ्के विपुलपुलकां राघवो नम्रवक्त्राम् बाणान्पञ्च प्रवदति जनः पञ्चबाणोऽप्रमाणै12 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀṬAKAM र्बाणैः किं मां प्रहरति शनैर्व्याहरन्ती जगाम १० गाढंगाढं कमलमुकुलं पुण्डरीकाक्षवक्षःपीठं काठिन्यमपि कुचयोर्जानकी मानकीर्णा पूर्णा कामैः शिथिलमनिलस्यागमायाचकार नीतं स्फीतं सदयहृदयं स्वामिनालिङ्ग्य मत्वा ११ जानकीरामचन्द्रयोः[Hanuman Nātakam] अन्योन्यं बाहुपाशग्रहणरसभराशीलिनोस्तत्र यूनोर्भूयोभूयः प्रभूताभिमतफलभुजोर्नन्दतोर्जात एषः संसारो गर्भसारो नव इव मधुरालापिनोः कामिनोर्मां गाढं चालिङ्ग्य गाढं स्वपिहि नहि नहीति च्युतो बाहुबन्धः १२ वक्त्रे ततः फणिलतादलवीटिकां स्वे विन्यस्य चन्दनघनावृतपूगगर्भाम् रामोऽब्रवीदय गृहाण मुखेन बाले तच्छद्मना तदधरं मधुरं प्रमातुम् १३ मन्दं मन्दं जनकतनया तां चतुर्धा विधाय स्वैरं जह्ने तदधरमधु प्रेमतो मीलिताक्षी मेने तस्यास्तदनु कवलान्धर्मकामार्थमोक्षान् रामः कामं मधुरमधरं ब्रह्म पीत्वापि तस्याः १४ भाति स्म चित्तस्थितरामचन्द्रं सारुन्धती निर्गमशंकयेव स्तनोपरि स्थापितपाणिपद्मा संजातनिद्रा सरसीरुहाक्षी १५ रामः तत्र मैथिलसुतोरः स्थलनिक्षिप्तयक्षकर्द्दमे सानन्दपतितभ्रमरमालोक्य मदनदहनशुष्यत्कान्तकान्ताकुचान्तर्हदि मलयजपंके गाढबद्धाखिलाङ्घ्रिः । उपरि विततपक्षो लक्ष्यतेऽलिर्निमग्नः 13 [Hanuman Nātakam] इतिहास ITIHĀSA शर इव कुसुमेषोरेष पुंखावशेषः १६ तत्रावसरे-पृथुलजघनभारं मन्दमान्दोलयन्ती मृदुचलदलकाग्रा प्रस्फुरत्कर्णपूरा प्रकटितभुजमूला दर्शितस्तन्यलीला प्रमद्रयति पतिं द्राग्जानकी व्याजनिद्रा १७ तामपि दूरस्थां मन्वानः-तदनु जनकपुत्रीवक्त्रमालोक्य रामः पुनरपि पुनरेवाघ्राय चुम्बन्न तृप्तः स्तनतटभुजमूलोरः स्थलं रोमराजिमदनसदनमासीच्चुम्बितं पञ्चबाणः १८ श्रीरामपादाः - MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION निद्रालुस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्कंदर्पारब्धबाणव्यतिकरतरलाः कामिनो यामिनीषु ताटंकोपान्तकान्तग्रथितमणिगणोद्गच्छदच्छप्रभाभिर्व्यक्ताङ्गास्तुङ्गकम्पा जघनगिरिदरीमाश्रयन्ते श्रयन्ते १६ जानकी प्रबुद्धा-स्पृहयति च बिभेति प्रेमतो बालभावान्मिलति सुरतसङ्गेऽप्यङ्गमाकुञ्चयन्ती । अहह नहि नहीति व्याजमप्यालपन्ती स्मितमधुरकटाक्षैर्भावमाविष्करोति २० निधुवनघनकेलिग्लानिभावं भजन्त्या रमणरभसशंकातंकिचेतः प्रियायाः अधरदशनसर्पत्सीत्कृताया धृतायाः पिब पिब रसनां मे कामतो निर्विशंकम् २१ रामः सानन्दं जानकीवाग्विलासमुल्लासयति लालित्य14 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM शालिनालापेन-वाचां गुम्फेन रम्भाकरकमलदलोदारसञ्चारचञ्चत्तन्त्रीसंजातमञ्जुस्वरसरसतरोद्गारताराक्षरेण प्रत्यग्रोन्निद्रनाकद्रुमकुसुमनवामोदसंवादमैत्रीपात्रीभूतेन धात्रीं सुरभयति चरस्थावरां रामराज्ञी २२ अथ रामस्तामाह्लादयति-अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हरिभिर्दिशो दिमातङ्गैः श्रितमपि वनं पंकजवनैः । प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवा दूरसरणम् २३ वक्त्रं वनान्ते सरसीरुहाणि भृङ्गाक्षमालां जगृहुर्जपाय एगीदृशस्तेऽप्यवलोक्य वेणीमङ्गं भुजङ्गाधिपतिर्जुगोप २४ स्वर्णं सुवर्णं दहने स्वदेहं चिक्षेप कान्तिं तव दन्तपंक्तिम् विलोक्य पूर्णं मणिबीजपूर्णं फलं विदीर्णं ननु दाडिमस्य २५ वदनममृतरश्मिं पश्य कान्ते तवोर्व्यामनिलतुलनदण्डेनास्य वार्धी विधाता । स्थितमतुलयदिन्दुः खेचरोऽभूल्लघुत्वात्क्षिपति च परिपूर्त्यै तस्य तारा किमेताः २६ जानकी--सानन्दं सोत्कंठा च प्राणवल्लभमाह्लादयन्ती-रमणचरणयुग्मं तावकं भावयित्वा मधुरगिरमुदारं रामदासी ब्रवीमि । कृतमपि गुरु धात्राऽऽस्वाद्य निर्णीयतां मे । वदनममृतरश्मेर्मण्डलं वा प्रियेण २७ रामः--(सानन्दम्) [Hanuman Nātakam] सीतां मनोहरतरां गिरमुद्गिरन्तीमालिङ्ग्य तत्र बुभुजे परिपूर्णकामः 15 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रामस्तथा त्रिभुवनेऽपि यथा न कोऽपि रामां भुनक्ति बुभुजे न च भोक्ष्यतीशः २८ मृदुसुरभिसुवर्णस्फीतकक्षापुटोद्यल्ललितभुजलतायाः संपुटालिङ्गितायाः । सुरतरसवशाया राघवस्य प्रियाया हरति हृदयतापं कापि दिव्या स्तनश्रीः २६ आगामिदीर्घविरहश्चिरमाविरासीज्ज्ञात्वैव रङ्गभवनेऽद्भुतकामकेलिः श्रुत्वा तयोर्गिरमपूजयदोतुपत्नीमुद्गीर्णकर्णसरणां चरणायुधानाम् ३० इति श्रीहनुमन्नाटके रामजानकीविलासो नाम द्वितीयोऽङ्कः २ तृतीयोऽङ्कः भुक्त्वा भोगान्सुरंगान्कतिपयसमयं राघवो धर्मपत्न्या सार्धं वर्धिष्णुकामः श्रवणमुनिपितुः प्राप हा शापकालम् धत्ते तस्मिन्विवस्वान्मलिनकिरणतां हा महोत्पातहेतोरुल्कादण्डः प्रचण्डः प्रपतति नभसः कम्पते भूतधात्री १ दिग्भागो धूसरोऽभूदहनि बहुतरस्फारताराः स्फुरन्ति स्वर्भानोर्भानवीयं ग्रहणमसमये रौधिरी बिन्दुवृष्टिः । मध्याह्नोर्ध्वास्यकोशश्वगणरुतमतिस्फीतफेरुप्रचारो वारंवारं गभीरप्रलय इव महाकालचीत्कारघोरः २ कैकेयी--आत्मगतम् प्राप्तः किल मद्दाग्बन्धकालस्तर्हि द्रुतं राजानं भरतराज्यं प्रार्थयामि न खलु कालक्षेपः श्रेयसे (रहसि उपगम्य प्रकाशं) राजन्नमङ्गलीरियं वधूर्यतोऽस्या आगमनमात्रेण महोत्पाताः सम्भवन्तीति । 16 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [ Hanuman Nātakam] तानुत्पातानवेक्ष्य क्षितिपमथ दशस्यन्दनं क्रन्दयन्ती लोकाञ् शोकानलौघैः शिव शिव तरसा भस्मसात्कुर्वतीव । कैकेयी वाचमूचे निखिलनिजकुलाङ्गारमूर्त्तिः ससीतः शान्त्यै पुत्रस्य राज्यं भवतु वनमभिप्रेष्यतामेष रामः ३ दशरथः सकरुणस्त्रीवचनस्वीकरणं मरणोत्साहं नाटयन्महतीं मूर्च्छामासाद्य धरणीतलमुपगतः कथमपि चेतनामुपलभ्य -रामं कामाग्रजमिव वनं प्रस्थितं वीक्ष्य शक्तो धर्त्तं प्राणाञ् शिवशिव कथं तान्विहायाथ वाहम् निर्मुक्तः स्यां वचनमनृतं तत्पुनर्नान्यथा मे भूयाद्भूयस्तदनु वचनं हा बभाषे तथेति ४ रामभरतौ स्वं स्वं कालमधिगम्य हर्षशोकौ नाटयन्तौ गुरोर्गिरा जटावल्कलच्छत्रचामरधारिणौ वनप्रस्थानराज्याभिषेकारम्भाय राजानं दशरथं नमस्कर्त्तुमवतरतः । तत्र भरतः हा तात मातरहह ज्वलितानलो मां कामं दहत्वशनिशैलकृपाणबाणः । मन्थन्तु तान्विसहते भरतः सलीलं हा रामचन्द्रपदयोर्न पुनर्वियोगम् ५ मां बाधते नहि तथा गहनेषु वासो राज्यारुचिर्जनकबान्धववत्सलस्य रामानुजस्य भरतस्य यथा प्रियायाः पादारविन्दगमनक्षतिरुत्पलाक्ष्याः ६ श्रुत्वा सुमन्त्रवचनेन सुतप्रयाणं शापस्य तस्य च विचिन्त्य विपाकवेलाम् हा राघवेति सकृदुचरितं नृपेरण निश्वस्य दीर्घतरमुच्छ्वसितं न भूयः ७ 17 [Hanuman Nātakam] इतिहास ITIHĀSA मातस्तातः क्व यातः सुरपतिभुवनं हा कुतः पुत्रशोकात्कोऽसौ पुत्रश्चतुर्णां त्वमवरजतया यस्य जातः किमस्य । प्राप्तोऽसौ काननान्तं किमिति नृपगिरा किं तथासौ बभाषे मद्वाग्बद्धः फलं ते किमिह तव धराधीशता हा हतोऽस्मि ८ गुरोर्गिरा राज्यमपास्य तूर्णं वनं जगामाथ रघुप्रवीरः निषंगपृष्ठः शरचापहस्तस्तं लक्ष्मणो गामिव बालवत्सः ६ गुर्वाज्ञापरिपालनाय च वनं संप्रस्थितं राघवं दृष्ट्वासौ त्वरिता विदेहतनया श्वश्रूजनं पृच्छति । नत्वा कोसलकन्यकांघ्रियुगलं पश्चात्सुमित्रां पुनर्दृष्ट्वा हा शुकसारिकापिककुलं रामानुगा प्रस्थिता १० रामे प्राप्ते वनान्तं कथमपि भरतश्चेतनां प्राप्य तातं नीत्वा देवेन्द्रलोकं मुनिजनवचनादूर्ध्वदेहक्रियाभिः भ्रातुः शोकाज्जटावानजिनवृततनुः पालयामास नन्दिग्रामे तिष्ठन्नयोध्यां रघुपतिपुनरागामिभोगाय वीरः ११ सद्यः पुरीपरिसरेषु शिरीषमृद्वी गत्वा जवात्त्रिचतुराणि पदानि सीता गन्तव्यमस्ति कियदित्यसकृब्रुवाणा श्रुणः कृतवती प्रथमावतारम् १२ रामः - MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION आदावेव कृशोदरी कुचतटीभारेण नम्रा पुनर्लीलाचंक्रमणं च नैव सहसे दोलाविधौ श्राम्यसि । स्रोतः काननगर्तन्किर्झरसरित्प्रायानपूर्वानिमान्भूभागानपि भूतभैरवमृगान्वैदेहि यायाः कथम् १३ अरुणदलनलिन्या स्निग्धपादारविन्दा कठिनतनुधरण्यां यात्यकस्मात्स्खलन्ती अवनि तव सुतेयं पादविन्यासदेशे 18 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] त्यज निज कठिनत्वं जानकी यात्यरण्यम् १४ पथि पथिकवधूभिः सादरं पृच्छ्यमाना कुवलयदलनीलः कोऽयमार्ये तवेति स्मितविकसितगण्डं व्रीडविभ्रान्तनेत्रं मुखमवनमयन्ती स्पष्टमाचष्ट सीता १५ घुसृणमसृणपादा गम्मते भूः सदर्भा विरचय शिवजातं मूर्ध्नि धर्मः कठोरः इति ह जनकपुत्री लोचनैरश्रुगर्भैः पथि पथिकवधूभिर्वीक्षिता शिक्षिता च १६ तत्र चित्रकूटे जानकी सकरुणं सवाष्पम्-मूर्ध्ना बद्धजटेन वल्कलभृता देहेन पादानतिं कुर्वाणे भरते तथा प्ररुदितं तारस्वरैः सीतया । येनोद्विग्नविहङ्गनिर्गततरुर्निः संमदःश्वापदः शैलेन्द्रोऽपि किलैष भूरिभिरभूत्साश्रुः पयः प्रस्रवैः १७ तत्रैव सुमित्रा लक्ष्मणम्प्रति-रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् अयोध्यामटवीं विद्धि गच्छ पुत्र यथासुखम् १८ पदकमलरजोभिर्मुक्तपाषाणदेहामलभत यदहल्यां गौतमो धर्मपत्नीम् त्वयि चरति विशीर्णग्रावविन्ध्याद्रिपादे कति कति भवितारस्तापसा दारवन्तः १६ वैदेही अदृष्टराजमन्दिराद्बहिर्व्यवहारतया बालभावाच्च दैव- योगात् नौकासुखमनुभूय वने चरन्ती स्थलेऽपि भारा- क्रान्ता सती नौः प्रचरतीति मन्यमानास्माभिरतः परमन- यैव सुखप्रयाणं कर्त्तव्यं न पद्भ्यामिति बुद्ध्या रामभधिकृ- त्याब्रवीत् ॥ 19 [Hanuman Nātakam] इतिहास ITIHĀSA उपलतनुरहल्या गौतमस्यैव शापादियमपि मुनिपत्नी शापिता कापि वा स्यात् । चरणनलिनसङ्गानुग्रहं ते भजन्ती MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION भवतु चिरमियं नः श्रीमती पोतपुत्री २० दृष्ट्वातिदैन्यं जनकात्मजायास्तत्रैव रामः सह लक्ष्मणेन गोदावरीतीरसमाश्रितेषु वनेषु चक्रे निजपर्णशालाम् २१ एषा पंचवटी रघूत्तमकुटी यत्रास्मि पंचावटी पान्थस्यैकघटी पुरस्कृततटी संश्लेषभित्तौ वटी गोदा यत्र नटी तरङ्गिततटी कल्लोलचञ्चत्पुटी दिव्यामोदकुटी भवाब्धिशकटी भूतक्रियादुष्कुटी २२ क्रीडाकल्पवटं विसर्पितजटं विश्वाम्बुजन्मावटं पिष्टाण्डौघघटं धृतांघ्रिशकटं ध्वस्तक्षमासंकटम् । विद्युच्चारुरुचा विधूतकपटं सीताधरालम्पटं भिन्नारीभघटं विरुग्णशकटं वन्दे गिरां दुर्घटम् २३ अथ मारीचः - अतीतानागतवर्तमानत्रिकालदर्शनो लंकापतेराज्ञामासाद्य चिन्तयामास । रामादपि च मर्तव्यं मर्तव्यं रावणादपि उभयोर्यदि मर्तव्यं वरं रामो न रावणः २४ सुललितफलमूलैस्तत्र कालं कियन्तं दशरथकुलदीपे सीतया लक्ष्मणेन गमयति दशकण्ठोत्कण्ठितप्रेरितं द्राक्कनकमयकुरंगं जानकी संददर्श २५ देहं हेममयं हरिन्मणिमयं शृंगद्वयं वैद्रुमाश्चत्वारोऽपि खुरा रदच्छदयुगं माणिक्यकांतिद्युति । नेत्रे नीलसुतारके सुवितते तद्वच्चलं प्रेक्षितं 20 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] तत्तद्रत्नमयं किमत्र बहुना सर्वांगरम्यो मृगः २६ सांगं मायाकुरंगं द्रुतनिधननिशाचारिमारीचमग्रे धावन्तं सञ्चरन्तं क्षणमपि गहने जानकी याचते स्म रामं कामाभिरामं निशितशरधनुर्धारिणं लक्ष्मणेन क्षिप्रं तद्रक्षणायोल्लिखिततटभुवा सोऽप्यगात्तद्वधाय २७ इति हनुमन्नाटके मारीचागमनं नाम तृतीयोऽङ्कः ३ चतुर्थोऽङ्कः आन्दोलयन्विशिरखमेककरेण सार्धं कोदण्डकाण्डमपरेण करेण धुन्वन् सन्नह्य पुष्पलतया पटलं जटानां रामो मृगं मृगयते वनवीथिकासु १ हस्ताभ्यां समुपैति लेढि च तृणं स्पृश्यतां गाहते गुल्मान्प्राप्य निवर्तते किसलयानाघ्राय चाघ्राय च भूयस्त्रस्यति पश्यति प्रतिदिशं कण्डूयते स्वां तनुं दूरं धावति तिष्ठति प्रचलति प्रान्तेषु मायामृगः २ ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा पश्योद्विग्नप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ३ बाणेन दिव्येन रघप्रवीरस्ततो मृगं वक्षसि बर्द्धलक्ष्यः विव्याध यावत्तरसा तपस्वी दशाननस्तावदिहाजगाम ४ मारीचमृगयाव्यग्रे रामे प्राप्ते च रावणे भयादिव कुरङ्गीणामस्याः पश्यामि लोचने ५ स व्याहरद्धर्मिणि देहि भिक्षामलंघयँल्लक्ष्मणलक्ष्मलेखाम् जग्राह तां पाणितले क्षिपन्तीमाकारयन्तीं रघुराजपुत्रौ ६ 21 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रे रे भोः परदारचोर किमरेऽधीरं त्वया गम्यते तिष्ठाधिष्ठितचन्दनाचलतटः प्राप्तो जटायुः स्वयम् मुञ्चैनां पतिदेवतां न खलु चेन्मच्चण्डतुण्डांकुशक्रूरावस्करणव्रणासृगुरसः पास्यन्ति गृध्रास्तव ७ जन्म ब्रह्मकुले हरार्चनविधौ कृत्वा शिरः कृन्तनं शक्तिर्वज्रिणि घोरदण्डदलनव्यापारशक्तं मनः । हेलोल्लासितकेलिकन्दुकनिभः कैलास उत्पाटितस्तत्किं रावण लज्जसे न हरसे चौर्येण पत्नीं रघोः ८ मैनाकः किमयं रुणद्धि पुरतो मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं हा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ६ मा भैषीः पुत्रि सीते व्रजति मम पुरो नैष दूरं दुरात्मा रे रे रक्षः क्व दारान्रघुकुलतिलकस्यापहृत्य प्रयासि चंच्वाक्षेपप्रहारत्रुटितधमनिभिर्दिक्षु विक्षिप्यमाणैराशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि १० अक्षं विक्षिपति ध्वजं दलयते मृगाति नद्धं युगं चक्रं चूर्णयति क्षिणोति तुरगान् रक्षाः पतेः पक्षिराट् । रुन्धन्गर्जति तर्जयत्यभिभवत्यालम्बते ताडयत्याकर्षत्यवलुम्पति प्रचलति न्यञ्चन्युदंचत्यपि ११ क्रुद्धस्ततो दृढचपेटशिलातलेन रक्षः पिपेष गहनेऽद्भुतपक्षिराजम् । ईषत्स्थितासुरपतद्भुवि राम राम रामेतिमन्त्रमनिशं निगदन्मुमुक्षुः १२ न मैत्री निर्व्यूढा दशरथनृपे राज्यविषया न वैदेही त्राता हठहरणतो राक्षसपतेः । 22 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] न रामस्यास्येन्दुर्नयनविषयोऽभूत्सुकृतिनो जटायोर्जन्मेदं वितथमभवद्भाग्यरहितम् १३ हा राम हा रमण हा जगदेकवीर हा नाथ हा रघुपते किमुपेक्षसे माम् इत्थं विदेहतनयां मुहुरालपन्तीमादाय राक्षसपतिर्नभसा जगाम १४ आकृष्यमाणाभरणानि मुक्त्वा सैरध्वजी मारुतिमद्रिमौलौ उमाच रामाय सलक्ष्मणाय वराय देयानि सदेवराय १५ रामः शुष्के स्थाणौ दक्षिणे रटन्तं करटमवलोक्य पुनरागच्छन्निजप्राणप्रयाणमेव मन्वानः क्षणं विश्रम्य । मायाकुरंगं विनिहत्य रामो भ्रात्रा सहागत्य च पर्णशालाम् कोणत्रयेषु प्रसमीक्ष्य सीतां दृष्टश्चतुर्थो न च शोकभीत्या १६ इति श्रीमद्धनुमन्नाटके सीताहरणं नाम चतुर्थोऽङ्कः ४ पञ्चमोऽङ्कः रामः प्राणोत्क्रमणसमयादपि घोरतरं वियोगसमयमधिगम्य पर्णशालान्तरालमालोक्य कथमपि विदीर्णहृदयमार्गादुज्जिगमिषून्प्राणान्धारयंस्तदुत्तरीयमुपलभ्य जानकीं स्मरन्नरोदीत् -द्यूककते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रत्नान्ते । शय्या निशीथसमये जनकात्मजायाः प्राप्तं मया विधिवशादिदमुत्तरीयम् १ बहिरपि न पदानां पंक्तिरन्तर्न काचित्किमिदमियमसीता पर्णशाला किमन्या । अहमपि किल नायं सर्वथा राघवश्चेत्क्षणमपि नहि सोढा हन्त सीतावियोगम् २ 23 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION मध्योऽयं हरिभिः स्मितं हिमरुचा नेत्रे कुरङ्गीगणैः कान्तिश्चम्पककुड्मलैः कलरवो हा हा हृतः कोकिलैः । मातंगैर्गमनं कथं कथमहो हंसैर्विभज्याधुना कान्तारे सकलैर्विनाश्य पशुवन्नीतासि भो मैथिलि ३ युक्तमेव हि कैकेय्या यदहं प्रेषितो वनम् ईदृशी यस्य मे बुद्धिर्मृगः क्वापि हिरण्मयः ४ आलिंगितात्र सरसीरुहकोरकाक्षी पीताधरेतिमधुरे विधुमण्डलास्या । रंगावतारमकरंदविमर्दितानि पुष्पान्यमूनि दयिते क्व गतेत्यरोदीत् ५ गाहंगाहं गह्वरकान्तारवनान्ताद्दर्शंदर्शं दर्पकभल्लीरिव वल्लीः । स्मारंस्मारं दूरगतां तामथ कान्तां रामः कान्तामद्रिचरो दीनमरोदीत् ६ स भूरजोरञ्जितसर्वकायो बभौ विभुर्मन्युविदीर्णचेताः योषिद्वियोगानलदह्यमानं स्वकान्तमालिङ्गयतीव भूमिः ७ सीतेति हा जनक वंशजवैजयन्ति हा मद्विलोचनचकोरनवेन्दुलेखे । इत्थं स्फुटं बहु विलप्य विलप्य रामस्तामेव पर्णवसतिं परितश्चचार ८ हा जानकि प्रचलितोत्पलपद्मनेत्रे हा मे मनः कमलकाननराजहंसि एष प्रिये तव वियोगजवह्निदग्धो दीनं प्रयामि भवतीं क्व विलोकयामि ६ रे वृक्षाः पर्वतस्था गिरिगहनलता वायुना वीज्यमाना रामोऽहं व्याकुलात्मा दशरथतनयः शोकशुक्रेण दग्धः । 24 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] बिम्बोष्ठी चारुनेत्री सुविपुलजघना बद्धनागेन्द्रकांची हा सीता केन नीता मम हृदयगता को भवान्केन दृष्टा १० हे गोदावरि पुण्यवारिपुलिने सीता न दृष्टा त्वया सा हर्तुं कमलानि चागतवती याता विनोदाय वा । इत्येवं प्रतिपादपं प्रतिनगं प्रत्यापगं प्रत्यगं प्रत्येणं प्रतिबर्हिणं तत इतस्तां मैथिलीं याचते ११ पुनर्लक्ष्मणमासाद्य वैक्लव्यं नाटयति-के यूयं वद नाथनाथ किमिदं दासोऽस्मि ते लक्ष्मणः कोऽहं वत्स स आर्य एव भगवानार्यः स को राघवः किं कुर्मो विजने वने तत इतो देवी समुद्रीक्ष्यते का देवी जनकाधिराजतनया हाहा प्रिये जानकि १२ सौमित्रिणा सह रामः, अत्रान्तरे वनान्तं पर्यटञ्जनकतनयातापिनः पापिनो रजनिचरपतेर्भुजभुजङ्गमण्डलीखण्डितोरगवधूवैधव्यधातारं विपक्षरक्षसा निहतं घोरसमरमूर्च्छितं पक्षिराजं जटायुषं भग्वं च रावणरथमालोक्य -ज्ञात्वा दशरथस्यैनं मित्रं शत्रुनिषूदनम् हा तात किमिदं नाम रामः पक्षीन्द्रमब्रवीत् १३ जटायुः -अर्धरात्रे दिनस्यार्धे अर्धचंद्रेऽर्धभास्करे रावणेन हृता सीताकृष्णपक्षे सिताष्टमी १४ यत्रेति वाक्यशेषः रामः -भग्नोऽयं कथमस्ति रावणरथस्तातेन वज्रांकुरक्रूरावस्करणेन भंगुरलसत्कोटित्रुटज्ज्यं धनुः । हे सीरध्वजराजपुत्रि स तथा दृष्टस्त्वया धन्यया पक्षीन्द्रो दशकण्ठकुञ्जरशिरः संचारिपञ्चाननः १५ तात त्वं निजतेजसैव गमितः स्वर्गं व्रज स्वस्ति ते 25 । [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION ब्रूमस्त्वेकमिमां वधूहृतिकथां तातान्तिके मा कृथाः । रामोऽहं यदि तद्दिनैः कतिपयैर्नीडानमत्कन्धरः सार्धम् बन्धुजनेन सेन्द्रविजयी वक्ता स्वयं रावणः १६ रामः - वनेचरान्मृगान्विलोक्य । प्राः खलु दुरात्मनाममीषां रूपेण मारीचिना प्रपञ्चमवलम्ब्य प्राणवल्लभाश्लेषतो विश्ले षितोऽहमिति अहं पुनः मृगीचक्रवधेन कुरङ्गाणां प्रियाविरहमुत्पादयामीति विचार्य - अमोघाः कृष्टनालीकाः काननेषु मृगीवधे रामः किं दूरघातीति सीतानयनशङ्कया १७ ततः कथमपि भगवति भास्करेऽस्ताचलावलम्बिनि प्रलयकालोदितप्रचण्डमार्तण्डमण्डलमिवोदितं चन्द्रमण्डलं तरुणकोपारुणदारुणं तरणिनन्दनमिवावलोक्य रामः -सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्भवता कथं न विदितं धत्ते कुरंगं यतः क्वासि प्रेयसि हा कुरंगनयने चन्द्रानने जानकि १८ रामचन्द्रमधिक्षिपति-मन्दरेण मथितोऽसि न पापिञ्ज्वालितोऽसि तमसा न दुरात्मन् त्वां शरेण शतधा परिनिन्ये जानकूमुखसमो यदि न स्याः १६ अपि च लक्ष्मणं प्रति-सौमित्रे दाववह्निस्तरुशिखरगतो वार्यतां निर्झरौघैः का वार्ता दाववह्नेरयमुदयगिरेरुज्जिहीते हिमांशुः । धत्ते धूमं हिमांशुः कथय कथमयं नैव धूमो धरण्याश्छायेयं संगताऽभूदयि धरणिसुते कुत्र कान्तेसि सीते २० रामः सकरुणं आत्मनि प्राणवल्लभायाः 26 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] परमप्रेमाणमधिगम्य-शंके शशांके जगुरंकमेके पंकं कुरंगं प्रतिबिम्बितांगम् धूमं च भूमण्डलमुद्धताग्नेर्वियोगजातस्य मम प्रियायाः २१ रेरे निर्दय दुर्निवार मदन प्रोल्फुल्लपंकेरुहान्बाणान्त्संवृणु संवृणु त्यज धनुः किं पौरुषं मां प्रति । कान्तासंगवियोगजातहुतभुग्ज्वालाप्रदग्धं वपुः शूराणां मृतमारणे नहि वरो धर्मः प्रयुक्तो बुधैः २२ अथवा - आपुंखाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं मदनाग्निना वपुरिदं तैरेव सार्धं पुनः । कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु २३ तत्रापि क्षणं विकसिताशोकतरुतले विश्राम्याह स्म दाशरथिः रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोस्तुल्यं सर्वमशोककेवलमहं धात्रा सशोकः कृतः २४ पुनरपि प्रलपति-हारो नारोपितः कण्ठे मया विश्लेषभीरुणा इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः २५ चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते माल्यं सूचिकुलायते मलयजो लेपः स्फुलिंगायते । रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त प्रमदावियोगसमयः संहारकालायते २६ मांसं कार्श्यादभिगतमपां बिन्दवो वाष्पपाता27 [Hanuman Nātakam] इतिहास ITIHĀSA त्तेजः कान्तापहरणवशाद्वायवः इत्थं नष्टं विरहवपुषस्तन्मयत्वाञ्च्च शून्यं जीवत्येवं कुलिशकठिनो रामचन्द्रः किमेतत् २७ सलक्ष्मणो रामः-एवं दैवयोगाद्गौरगवयगजभुजंगशरभशार्दूलकोलबहुलकोलाहलाहूतभूतवेतालसमुत्तालकालकरालचक्रवालकण्ठनालप्रोच्छलत्तुमुलघोरचीत्कारमिलितबहलान्धकारकलितगह्वरान्तरालविलसदविरलसरलपरिमलवहलचञ्चलगलद्विमलमकरन्दबिन्दुकीलालजालपिच्छलालवाललुलितप्रमत्तालिमालमंदानिलान्दोलवाचालदरदलितललितमाकपक्षवृद्धिम् । श्वासदैर्ध्यात् MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION - न्दवृन्दवकुलमुकुलिधूलिजालखेलत्कोकिलकुलविलासिनीकोमलालापनिखिलगिरिशिखरशिखिलास्यलीलाकलापसानुकूललोलद्गोलांगूलचञ्चञ्चकोरचक्रमञ्जुगुञ्जद्वृक्षपक्षिणीगगनचुम्बनबद्धलक्ष्यविपुलफलाभारावलम्बनालम्बितानन्तजन्तुसंतोषपोषनिर्दोपभूषणाध्युषितनिः शेषसविशेषामृत28 वर्षस्पर्धिवर्धिष्णुरसरसालप्रियालहिन्तालतमालकृतमालविशालशाल्मलमालूरशल्लकीशिरीषासनशमीशाकशिंशपाशोकचम्पकसुरदारकोविदारकर्णिकारसिन्दुवारबहुसारनिम्बजम्बूदुम्बरकदम्बकरञ्जसौभाञ्जनवकुलनिचुलकरुखर्जूरबीजपूरजम्बीरभाण्डारवानीरकाश्मीरनारङ्गकर्मरङ्गकदलीचन्दनालिंगितालवलीधात्रीवटकुटजपाटकाङ्कोलकंकोलचोलभल्लातकबिभीतकहरीतक्याम्रातककेतककंकतवैकंकतमधूकबन्धूकजयन्तीजपाश्वत्थकपित्थतिन्तिणीनागकेसरादिदुस्तरामरण्यानीं पर्यटन्महावराहस्कन्धारूढमुत्कटं रटन्तं करटं वामतो विलोक्य । MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] दक्षिणतस्तु दक्षिणाचलप्रचलितमलयमालतीमरुचकलवङ्गकंकोलदमनकजातीतगरशतपत्रादिकमलमुकुलकुमुदिनीकह्लारपरिमलमिलितचुम्बितताम्रपर्णीकावेरीतुङ्गभद्रासान्द्रगम्भीरनीरधारातरङ्गपरिपीतमैत्रावरुणतरुणीलंकाशशांकरुद्रपादाद्रिसरलसिंहलसालकश्रीगोपालकां पाण्ड्यमण्डलगिरिप्रवालचोलकुन्तलकेरलपुन्नाटककर्णाटककरहाटविदग्धान्ध्रकामिनीनीरन्ध्रपीनस्तनवदनघनजघनदोर्मूलधम्मिल्लभारान्तराधिष्ठितश्रीखण्डागरुकर्पूरमृगमदकुंकुमस्तोमसंभूतयक्षकर्दमविमर्दवर्धितविविधगन्धकुसुमबहुलपरिमलोद्गारिमारुताशनोत्थितक्षीरनीहारकाश्मीरस्फटिकशुद्धशंखकर्पूरकुन्दावदातमहाभुजंगस्फीतफूत्कारप्रफुल्लफणामणौ क्रीडन्तं शोकभञ्जनं खञ्जनं चावलोक्य वामेनाक्ष्णा सकरुणं सवाष्पं च दक्षिणेन सविस्मयं सानन्दमभवदिति । काकः कपोलस्थलसंस्थितो मे कोलस्य वामे व्यसनं सदौस्थ्यम् । राज्यं भुजंगस्य फणाधिरूढो व्यनक्तयहो दक्षिणखञ्जरीटः २८ क्षणं विचिन्त्य विश्रम्य च सबाष्पम्-भो भो भुजङ्ग तरुपल्लवलोलजिह्व बन्धूकपुष्पवरशोभितपुष्कराक्ष । पृच्छामि ते पवनभोजनकोमलांगी काचित्त्वया शरदचन्द्रमुखी न दृष्टा २६ भुजङ्गमः सुवाणीं कथयति-गता गता चम्पकपुष्पवर्णा पीनस्तनी कुंकुमचर्चितांगी । आकाशगंगेव सुशीतलांगी नक्षत्रमध्ये इव चन्द्ररेखा ३० रामः व्यसनं किमतोऽप्यास्ते ज्ञातश्चाभ्युदयो मम । 29 [Hanuman Nātakam] इतिहास ITIHĀSA शरणं मरणं राज्यं मा पुनर्लक्ष्मणेऽस्तु तत् ३१ ततो वामं तिरस्कृत्य पुरस्कृत्य च दक्षिणम् । धन्यो वन्यशरण्यां तामरण्यानीं स्म गाहते ३२ किं च-किष्किन्धाद्रौ रौद्ररुद्रावतारं दृष्ट्वा रामो मारुतिं वाचमूचे । सीता नीता चेनचित्क्वापि दृष्टा हृष्टः कष्टं संहरन्प्राह वीरः ३३ पापेनाकृष्यमाणा रजनिचरवरेणाम्बरेण व्रजन्ती किष्किन्धाद्रौ मुमोच प्रचुरमणिगणैर्भूषणान्यर्चितानि । हा राम प्राणनाथेत्यहह जहि रिपुं लक्ष्मणेनालपन्ती यानीमानीति तानि क्षिपति रघुपुरः कापि रामाञ्जनेयः ३४ रामः सकरुणं सबाष्पम्-जानक्या एव जानामि भूषणानीति नान्यथा वत्स लक्ष्मण जानीषे पश्य त्वमपि तत्त्वतः ३५ लक्ष्मणः सबाष्पम्-कुण्डले नैव जानामि नैव जानामि कङ्कणे नूपुरावेव जानामि नित्यं पादाभिवन्दनात् ३६ MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रामः आभरणानि हृदये विन्यस्य गाढमालिंग्य-सर्वेषु सत्स्वपि तवाभरणेषु हारो नारोपितो हृदि चिरं हृदयंगतोऽपि मुक्तार्थसूत्रगुणवेधविशुद्धराशिस्तत्पंक्तिभेदफलदारुणमित्यरोदीत् ३७ पुनरपि-अहह जनकपुत्री वक्त्रमुद्रामपश्यन्व्रजति परमहंसो नाक्षमो वापि गन्तुम् तदुरुविरहवह्निज्वालया दग्धदेहः किमुत पवनसूनोभूषणैस्तम्भितो मे ३८ 30 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM हनुमान्सानुनयम्-श्रीराम क्षोणिपाल त्यज निजदयिताशोकमेकः सलोकं लंकेशं जेतुमीशे तमपि कपिपतेराज्ञयाहं हनूमान् सुग्रीवस्याथ सार्धं गिरिमवतरणं पादविन्यासलक्ष्मीनिक्षेपादुत्पलाक्ष क्षपितरिपुबलं दर्शनं त्वं च देहि ३६ ततो हनूमान्सह लक्ष्मणेन रामेण सुग्रीवपुरः स्थितोऽभूत् तांस्तत्र साक्षात्कपियूथनाथः पापानि दग्धुं दहनं ददर्श ४० श्रुत्वा रामस्य कान्ताहरणमनिलजस्याननाद्वानरेन्द्रो निःश्वस्यात्मीयमस्यानुवदति पुरतस्तद्वलाद्वालिनोऽपि । हा नाथे विद्यमाने किमिति रघुपतिस्तं निहन्तुं प्रतिज्ञामारूढः प्रौढरोषानलबहलकलालंकृतोऽधिज्यधन्वा ४१ नत्वा ससंभ्रममथो जगदेकवीरमालिंगयन्रघुपतिं शुशुभे कपीन्द्रः तद्विस्मृतं पुनरिवाभ्यसते प्रियायाः कन्दर्पकेलिषु पुनद्रुतभाविनीषु ४२ सुग्रीवः - अये मरुत्तनय कोऽसौ चतुर्णां ताटकान्तकः मरुतिः - ये चत्वारो दिनकरकुलक्षत्त्रसन्तानवल्लीमालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः । रामस्तेषामभवदमलस्ताटकाकालरात्रिप्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ४३ ततः श्रुत्वा बाली तदनु महतीं राघवस्य प्रतिज्ञां तालान्सप्त प्रकृतिकुटिलान्प्रेरयामास योद्धुम् । सौमित्रिस्तानकृतसरलाञ्शेषपृष्ठस्थमूला[Hanuman Nātakam] 31 [Hanuman Nātakam] इतिहास ITIHĀSA न्भारेणांघ्रेरथ रघुपतिः संदधे दिव्यमस्त्रम् ४४ लक्ष्मणः सशंकं रामं प्रति । देव ज्ञात्वा बाणः प्रहर्त्तव्यः । यतः--एकदैव शरेणैकेनैव भिन्नकलेवराः । म्रियन्ते सप्त तालास्तं घ्नन्ति हन्तारमन्यथा ४५ रामः सावज्ञम्-मा भैषीर्मयि सौमित्रे राघवेऽधिज्यधन्वनि सतां देहं परित्यज्य निर्जगामासतां भयम् ४६ रामः करेण बाणमालभ्य - MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION भावोऽस्ति चेत्कुशिकनन्दनपादयोर्मे यद्यस्म्यहं द्विजतिरस्कृतिरोषहीनः । नान्यांगनासु च मनः शर सप्त तालाभित्त्वा तदा प्रविश भूतलमप्यगाधम् ४७ एकेनैव शरेण बालकदलीकाण्डप्रभंगक्रमात्कृत्तेषु प्रथमेषु दाशरथिना तालेषु सप्तस्वथ । अश्वाः सप्त जगन्ति सप्त मुनयः सप्ताब्धयः सप्त गाः सत्यं सप्त च मातरो भयभृतः संख्यानसाम्यादिह ४८ रामबाणः सक्षोभम्-बाणः प्रमाणमधिगम्य वसुंधरायाः संबोधयन्निव भुजङ्गमभङ्गभित्या । ब्रह्माणमम्बरचरान्विधुनोति पक्षानपुंखावशेष इति रामकराद्विमुक्तः ४६ पौरंदरिः सक्रोधम्-श्रुत्वा हतान्समरमूर्धनि सप्त तालान्रामेण पापहृदयेन विनापराधम् । कोपानलज्वलितहृत्कमलोऽथ बाली रङ्गावतारमगमद्गिरिचत्वरेषु ५० 32 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM तारा सहर्षम्-अवश्यं भगवतः श्रीपुरुषोत्तमस्य रामचन्द्रस्य प्रसादादद्य चिरविरहिणः प्राणवल्लभस्य सुग्रीवस्य वक्षः पीठे लुठिष्यामीति मन्यमाना गिरिवरशिखरमारुह्य रामपौरन्दरिसमरमाकांक्षती चिन्तयामास-तारा संत्यक्तहारा गिरिशिखरचरा स्रस्तधम्मिल्लभारा शोकाब्धिप्राप्तपारार्पितमदनशरा वीरसुग्रीवदाराः । नारा नाराचधारा निजरमणरता तापिनः पापिनोऽस्य प्राणाञ्छाणावतीर्णा हरतु कलिकलाशालिनो बालिनोऽद्य ५१ रामः सक्षोभं पौरन्दरिं गिरिगरिमगम्भीरमहिमानमवलोक्य सौमित्रिमित्रमनुस्मृत्याब्रवीत् वत्स-[Hanuman Nātakam] किं वाली वानराली वहलकलकलाहूतदेवेन्द्रवज्रं वाञ्छत्याकृष्य योद्धुं शिवशिव तुमुलोत्कालसंचालितार्कः । प्रोद्यल्लांगूलवल्लीशिखरकवलितं चण्डदोर्दण्डकाण्डभ्रान्तामूलाग्रशैलप्रहरणनिपुणः केन योद्धव्य एषः ५२ सावष्टम्भं नारायणं बाणमादाय - वेदोद्भवैर्द्विजगणेन पुराभिषिक्तो मूर्ध्ना समं त्वमपि बाणगुणेन मन्त्रैः । तत्तेजसा परवधूजनहारिणस्त्वं प्राणान्गृहाण समरेष्वतिदारुणस्य ५३ रामबाणः--पौरन्दरिश्च ब्रह्मतेजोभिगम्य परदारापहरणपराभवं च-अथ रघुपतिबाणः प्राप्तवरिप्रमाणः प्रलयदहनरोचिः कोटिविद्युन्मरीचिः । अकृत हृदयभेदं वालिनः सोऽप्यरोदीदनिहतपितृशत्रुः किं सशल्यो हतोऽस्मि ५४ 33 [Hanuman Nātakam] इतिहास ITIHĀSA रामः सकरुणं सविषादं च-वत्स सौमित्रे गिरिगह्वरेषु स्वयोनिविहितं महत्सुखमनुभवन्तं महावीरं अनपराधिनं वालिनं हत्वा मन्दभाग्यः कथमहं जानकीसुखमनुभविष्यामीति शिरो धन्वन्पौरन्दरिं व्याजहार-शस्त्रौघप्रसरेण रावणिरसौ यो दुर्यशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् । कक्षागर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो विशल्यकरणो जागर्ति सत्पुत्रता ५५ वाली प्राणांस्त्यक्तुमिच्छन्-सुग्रीवोऽपि क्षमः कर्तुं यत्कार्यं तव राघव । किमहं न क्षमः कस्मादपराधं विना हतः ५६ रामः सबाष्पम्-शुद्धिर्भविष्यति पुरन्दरनन्दन त्वं मामेव चेदहह पातकिनं शयानम् सौख्यार्थिनं निरपराधिनमाहनिष्यस्यस्मात्पुनर्जनकजाविरहोऽस्तु मा मे ५७ पौरन्दरिः-तथेत्युक्त्वा पुनः स्वर्ग्या गतिस्ते न भविष्यति यावत्त्वां न हनिष्यामि स्थास्यसि त्वं यमालये ५८ इति प्राणान्मुमोच । हनूमान् स्वगतम्-MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION दासैरहो रघुपतिः परिभूयते किं वैवस्वतादिभिरुवास तदालयेऽपि । यो देववाक्यमनतिकमयन्कियन्तं कालं निहत्य पुरुहूतसुतं तु देवः ५६ रामः कथंचिद्विषादं परित्यज्य पौरुषमवलम्ब्य-34 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] राज्ये सुग्रीवमादौ सदयितमभिषिच्याङ्गदं यौवराज्ये रामः सेनाधिपत्ये सपवनतनयान्वानरेन्द्रान्प्रतस्थे । लंकां संत्यज्य शंकां तदनु कपिभटैर्माल्यवत्युत्तमाद्रौ वर्षाकालं गमयितुमचिरान्मन्त्रिभिः संमतोऽभूत् ६० रामात्परः शूरतरो न कश्चित्पराभवः स्त्रीहरणान्न चान्यः । तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयासहिष्णुः ६१ अपि च-रामाद्बलीयान्न परोऽत्र कश्चिद्दारापहारान्न परोऽभिमानः तथापि रामः शरदं प्रतीक्ष्य बद्ध्वाम्बुधौ सेतुमरिं जगाम ६२ रामस्तत्र जनकतनयाकमनीयतामनुस्मृत्य-इन्दुर्लिप्त इवाञ्जनेन गलिता दृष्टिर्मृगीणामिव प्रम्लानारुणमेव विद्रुमदलं श्यामेव हेमप्रभा पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतस्तु हन्त शिखिनां बर्हाः सगर्हा इव ६३ रामः कादम्बिनीताण्डवाडम्बरं विलोक्य -यत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ६४ इति श्रीहनुमन्नाटके वालिवधो नाम पञ्चमोऽङ्कः ५ षष्ठोऽङ्कः रामः वानरभटानाचष्टे । भो भो सुग्रीवसैनिकाः शृणुत-व्यसने महति प्राप्ते स्थिरैः स्थातुं न युज्यते । लंकां निः शंकमालोक्य क इहागन्तुमर्हति १ हनूमान् (सहर्षं दोस्तम्भास्फालनकेलिमभिनीय निज35 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION प्रचण्डदोर्दण्डयोर्महतीं अष्टांगुलमयः कायः पुच्छो मे द्वादशांगुलः । बाहू मे पश्य भो नाथ कथं रत्नाकरं तरेः २ रामचन्द्रः सविस्मयो बभूव - ततो जाम्बवान् । देव रुद्रावतारोऽयं मारुतिः रुद्रस्तुतिः क्रियताम् । रामचन्द्रो रुद्रस्तुतिं कृत्वा भो भो मारुते, त्वया विहीनः कः कर्तुं समर्थोऽस्ति । तत्र हनूमान्महावीराद्भुतपराक्रमः । सहर्षं वाक्यम् । देवाकर्णय-कूर्मो मूलवदालवालवदपां नाथो लतावद्दिशो मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः । स्वामिन्व्योमतरुर्मम क्रमतले श्रुत्वेति गां मारुतेः सीतान्वेषणमादिशन्दिशतु वो रामः सहर्षः श्रियम् ३ देवाज्ञापय किं करोमि सहसा लंकामिहैवानये जम्बूद्वीपमितो नये किमथवा वारांनिधिं शोषये । हेलोत्पाटितविन्ध्यमन्दरगिरिः स्वर्णत्रिनेत्राचलक्षेपक्षुण्णविवर्तमानसलिलं प्रौढिं नाटयति । देव पश्य -- ) बध्नामि वारांनिधिम् ४ अपि च-देवाज्ञां देहि राज्ञां त्वमसि कुलगुरुः शोषये किं पयोधिं किं वा लंकां सलंकाधिपतिमुपनये जानकीं मानकीर्णाम् । सेतुं बध्नामि मत्तः स्फुटितगिरितटीभूतभङ्गातरङ्गादुद्भ्राम्यन्नक्रचक्रोऽपि च मकरकुलग्राहचीत्कारघोरम् ५ किं प्राकारविहारतोरणवतीं लंकामिहैवानये किं वा सैन्यसमुद्धृतं च सकलं तत्रैव संपादये । हेलान्दोलितपर्वतोच्चशिखरैर्वध्नामि वारांनिधिं देवाज्ञापय किं करोमि सकलं दोर्दण्डसाध्यं मम ६ रामः सत्वरं करमुद्रां समुद्धृत्य, वीरमारुते-36 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM मुद्रां समुद्रमुल्लंघ्य शीघ्रमाश्वास्य जानकीम् । विन्यस्य पुरतस्तस्या आगच्छ मयि जीवति ७ हनूमांस्तथेति श्रीरामसुग्रीवौ प्रणम्य समादाय मुद्रां समुद्रोपकण्ठं पीठावतारमासाद्य सद्योऽचिन्तयत्-एते ते दुरतिक्रमाः क्रममिलवर्णोर्मिमर्मच्छिदः कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलाः । गाढाम्रेडनरूढनीरदघटासंघट्टनीलीभवद्व्योमास्फोटकटाहनिर्झरपयोवेणीकणग्राहिणः ८ अथ सविलसदम्भः स्तम्भिताक्षिप्रकाशं १२ [Hanuman Nātakam] धैर्यमवलम्ब्योद्यल्लांगूलास्फालकेलिव्याकुलीकृताम्बरचरः सज्जो बभूव - जलचरखललेखास्फालवाचालिताशम् । जलनिधिमधिवीरोल्लंघितुं जांघिकत्वं खगपतिरिव चण्डोड्डीनमङ्गीचकार ६ लांगूलोत्तालकेतुर्नभसि पृथुगतिः स्फारसीमन्तिताभ्रः स्फूर्जत्प्रौढोरुवेगोल्ललितजलनिधिः पृष्ठकृष्टोग्रसत्त्वः । दूरात्सिन्दूरपूरारुणमरुणरुचिस्तेजसः संविभागैश्चक्रेदिग्वारणानां कटितटमभितः सूर्यविद्धाम्बुदाभम् १० तत्रावसरे समुद्रादुत्थितो मैनाकः-विश्रान्तस्तत्र हर्षात्सपदि जलधिना प्रेरितो रत्ननाभो मैनाकः काञ्चनाङ्गस्तुहिनगिरिसुतः प्राह दूरागतस्त्वम् हंहो दूराध्ववेदं जहि मम शिखरे प्राप्य तस्येति वाचं स्पृष्टांगुल्या तदग्रं भुजरयपवनापूरिताशं जगाम ११ वेलातटे शालतमालमालां विलोकमानः सहसाञ्जनेयः उल्लोलयन्वालधिवल्लिमुच्चैः कल्लोलिनीवल्लभमुल्ललंघे 37 [Hanuman Nātakam] इतिहास ITIHĀSA अथ दशरथसूनोराज्ञया वायुपुत्रो रजनिचरपुरीमालोक्य भूत्वा द्विदंशः अकलितपरिमाणो मात्रया सत्रपस्तां क्षिपति जनकजाग्रे शिंशपाग्रावतीर्णः १३ जानकीं नमस्कृत्य मारुतिः मातर्जानकि को भवानिह मृगः, केनात्र संप्रेषितस्त्वद्दौत्येन रघूत्तमेन किमिदं हस्तेऽस्ति तन्मुद्रिका । दत्ता तेन तवैव तां निजकरादालभ्य चालिंग्य च प्रेम्णाश्रूणि ससर्ज सम्यगुदभूद्गात्रेषु रोमोद्गमः १४ हनुमानविरलगलदश्रुपूर्णलोचनाभ्यां सौवर्णमंगुलीयकं मन्यमानां जानकीं संभावयामास । हे भामिनि-सुवर्णस्य सुवर्णस्य सुवर्णस्य च मैथिलि प्रेपितं रामचन्द्रेण सुवर्णस्यांगुलीयकम् १५ जानकी आशालेशमासाद्य क्षणमणि प्रमृज्यमुद्रिकाव्याजेन मारुतिं प्रति-MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION - कथंचिच्चेतनां प्राप्य-मुद्रे सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः सुखं सन्ति स्वामिनि मा विधेहि विधुरं चेतोऽनया चिन्तया । एनां व्याहर मैथिलाधिपसुते नामान्तरेणाधुना रामस्त्वद्विरहेण कङ्कणपदं ह्यस्यै चिरं दत्तवान् १६ अत्रांगुलीयकमणौ प्रतिबिम्बमासीद्रामस्य सादरमतीव विलोकयन्ती । मद्रूप एव किमभून्मम वीक्षयेति मीमांसया जनकराजसुता मुमोह १७ ये मरुत्तनय यद्यंगुलीयकमेवकंकणमभूत्स्वामिनो रामदेवस्य तर्हि किमिव तनुतां गतः ? 38 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM हनुमान्-स्वभावादेव तन्वङ्गि त्वद्वियोगाद्विशेषतः प्रतिपत्पाठशीलस्य विद्येव तनुतां गतः १८ जानकी-[Hanuman Nātakam] चन्द्रो यत्र दिनेशदीधितिसमः पद्मं स्फुलिंगोपमं कर्पूरः कुलिशोपमः शशिकला शम्पासमा भासते । वायुर्वाडववह्निवन्मलयजो दावाग्निवत्सांप्रतं संदशं नय रामसंनिधिमितो यात्रां द्रुतं कारय १६ हनुमान्-किं दूरमिन्दुमुखि रामशिलीमुखानां किं दुर्गमर्गलभिदां हरियूथपानाम् दैवं प्रसन्नमिव देवि तवाद्य सत्यं रक्षांसि कानि कुपितस्य सलक्ष्मणस्य २० अत्रान्तरे जानकीं सप्रपञ्चं पृच्छन्हनुमान्--मातः कुत्रास्ते राजवाटिका ? दर्शयति जानकी-रे पुत्र पश्चिमदिग्भागेनास्यास्ति वाटिका । हनूमान् उद्यल्लांगूलप्रचण्डरूपेण प्रचलितःइत्युक्त्वा रजनीचरस्य हनुमानुद्भिद्य लीलावनं वीरं तत्सुतमक्षमात्तपरिघाघातैर्जघानागतम् । तत्कोपारुणलोचनेन्द्रजयिना प्राङ् निष्कलत्वाद्धृतं ब्रह्मास्त्रेण विगर्हितेन विधिना बद्धो विदग्धः कपिः २१ रावणः तमालोक्य-रेरे वानर को भवानहमरे त्वत्सूनुहन्ताहवे दूतोऽहं खरखण्डनस्य जगतां कोदण्डदीक्षागुरोः । मद्दोर्दण्डकठोरताडनविधौ को वा त्रिकूटाचलः 39 [Hanuman Nātakam] इतिहास ITIHĀSA को मेरुः क्व च रावणस्य गणना कोटिस्तु कीटायते २२ ईषत्सज्जनमैत्रीव नाभिद्यत कपेस्तनुः MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION दीप्यमानो राघवो यद्यतुष्टः । निहता चन्द्रहासेन रावणेनातिरंहसा २३ लांगूले चैलतैलप्लुतवहलशणैर्वेष्टिते रक्षोभिर्वीक्षितोऽग्निर्द्विजपरुषगिरा तुष्टो यद्याज्यहोमैस्त्वमपि रघुपतेर्यद्यहं भक्तियुक्ता संतप्तः प्रार्थितो मा तदिह हनुमतः सीतया शीतलोऽभूत् २४ वह्निर्बभौ वानरपुच्छजन्मा स दाह्य लङ्कां खमिवोत्पतिष्णुः । रामाद्भयं प्राप्य किल प्रतापः पलायमानो दशकंधरस्य २५ पलानि भुक्त्वा चपलः पलाशिनां हुताशनस्तृप्तिमुपागतः पराम् विराजते स्म प्रतियातनाछलाज्जलानि चाब्धौ तृषितः पिबन्निव २६ रावणः स्वगतम्-यद्ययं रुद्रो मारुतिस्तर्हि किमिति रुद्रभक्तस्य मे नगरीं दहति अहह ज्ञातम् । । तुष्टः पिनाकी दशभिः शिरोभिस्तुष्टो न चैकादशको हि रुद्रः तो हनूमान्दहतीति कोपात्पंक्तेर्हि भेदो न पुनः शिवाय २७ अपि च-अब्धिः किं वडवानलेन तरणेर्बिम्बेन किं चाम्बरं मेघः किं चपलाचयेन शशिभृत्किंभालनेत्रेण वा कालः किं क्षयवह्निनेन्द्रधनुषा धाराधरः किं महान्मेरुः किं ध्रुवमण्डलेन स कपिः पुच्छेन खे राजते २८ अथ राक्षसाः मरुत्पुत्रस्त्वेकः कपिकटकरक्षामणिरसौ समुद्यल्लांगूलो ध्वज इव समाश्लिष्टगगनः । 40 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM पुनः प्रत्यायास्यत्यहह कपिसैन्ये प्रचलिते पदं प्रोचुर्नीचैर्भयचकितलङ्कापुरजनाः २६ अथाह गगनमण्डलस्थो मारुतिः एकोऽहं पवनात्मजो दशमुख त्वं चापि कोटीश्वरस्त्वां जित्वा समरे प्रभोः प्रणयिनीं सीतां च नेतुं क्षमः । किं तूत्थाप्य भुजं पुरा भगवता रामेण सुग्रीवतो हत्वा दक्षिणपाणिना वसुमतीं त्वां हन्तुमुक्तं वचः ३० इत्युक्त्वा दशग्रीवनगरीं भस्मसात्कृत्वा रक्षितामशोकवनिकामागम्य जानकीं प्रणम्य रामाभिज्ञानं याचते स्म हनूमान् ॥ मैथिली-शिखां धूमशिखां शत्रोः कालव्यालवधूमिव उद्यम्यास्य शिरोरत्नं संज्ञानं स्वामिने ददौ ३१ इति प्रथममभिज्ञानम् ॥ तथा च चित्रकूटपर्वते - वक्षोभिचारि चरुभाण्डमिव स्तनं यो देव्या विदेहदुहितुर्विददार काकः ऐषीकमस्त्रमधिकृत्य तदा ततोऽक्ष्णा काणीचकार करुणो रघुराजपुत्रः ३२ इति द्वितीयमभिज्ञानम् ॥ [Hanuman Nātakam] मनः शिलायास्तिलकं तथा मे गण्डस्थले पाणितलेन मृष्टम् स्मरेति संज्ञानमपि प्रयच्छ जीवाम्यतो राघव मासमात्रम् ३३ इति तृतीयमभिज्ञानम् ॥ हनूमान्-रत्नं यत्नाद्गृहीत्वा तदनु कपिभटश्चित्रकूटस्य संज्ञां नत्वा पादारविन्दद्वयमपि जनकस्यात्मजाया हनूमान् । पाणिभ्यामंघ्रियुग्मं पुनरुदधितटे मन्त्रयित्वाभ्रगर्भे41 [Hanuman Nātakam] इतिहास ITIHĀSA णोर्म्यामुत्पत्य मग्नं तदुरुभुजबलाडम्बरेणाजगाम ३४ ततो मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितः समागतः श्रीहनुमान्वसन्तवत् ३५ सीतापतिं ससंभ्रममालिङ्गितुमुद्यतं दृष्ट्वा - देव-MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION पीतो नाम्बुनिधिर्न कोणपपुरी निष्पिष्य चूर्णीकृता नानीतानि शिरांसि राक्षसपतेर्नानायि सीता मया । आश्लेषार्पणपारितोषिकमहं नार्हामि वार्ताहरो जल्पन्नित्यनिलात्मजः स जयति व्रीडाजडो राघवे ३६ रामः ( सविकल्पं विधातारमुपलम्भते) क्रूरकर्मा विधाता किं विधास्यतीति ॥ हनूमान् देव-कुत्रायोध्या क्व रामो दशरथवचनाद्दण्डकारण्यमागात्कोऽसौ मारीचनामा कनकमयमृगः कुत्र सीतापहारः सुग्रीवे राममैत्री क्व जनकतनयान्वेषणे प्रेषितोऽहं योर्थोऽसंभावनीयस्तमपि घटयति क्रूरकर्मा विधाता ३७ रामः हे वीर । विदीर्यमाणहृदयद्वारेण प्राणा लोकान्तरं गन्तुमिच्छन्ति किमिति तूर्णं चन्द्रवदनां नावेदयसि । हनूमान् सत्वरम्-हा राम जगदानन्द किमिदं शिवमस्तु ते तव प्राणगतिद्वारस्यार्गलेयं करे मम ३८ इति जानकी शिरोरत्नं रामाय प्रयच्छति तथा च-मनः शिलायास्तिलकं स्मर गण्डस्थले त्वया । संमृष्टं जानकीवक्षः स्पर्शात्काणीकृतं खगम् ३६ 42 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM (रामोऽभिज्ञानत्रयमासाद्य) साधु मारुते साधु । अये प्रियायाः कुशलमस्ति । ग्राञ्जनेयः-कार्श्यं चेत्प्रतिपत्कला हिमनिधेः स्थूलाथ चेत्पाण्डिमा नीला एव मृणालिका यदि घना बाष्पाः कियान्वारिधिः संतापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यते राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ४० रामः -- मारुते का कथा । हनूमान् भोः प्रभो-[Hanuman Nātakam] का शृङ्गारकथा कुतूहलकथा गीतादिविद्याकथा माद्यत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा । अकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षः पतेर्देव श्रीरघुनाथ तस्य नगरे स्वप्नेऽपि नान्या कथा ४१ रामः —— त्रिदशैरपि दुर्धर्षा लंका नाम महापुरी कथं वीर त्वया दग्धा विद्यमाने दशानने ४२ हनुमान्-निःश्वासेनैव सीताया राजन्कोपानलेन ते दग्धपूर्वा तु सा लंका निमित्तमभवत्कपिः ४३ शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः । यत्पुनर्लंघितोम्भोधिः प्रभावोऽयं प्रभो तव ४४ अन्तराले लंकायां सरमा नाम राक्षसी धर्मिणी जानकीं वाचमूचे-बिभेमि सखि संवीक्ष्य भ्रमरीभूतकीटकम् । तद्ध्यानादागते पुंस्त्वे तेन सार्धं कुतो रतिः ४५ मा कुरुष्वात्र संदेहं रामे दशरथात्मजे 43 [Hanuman Nātakam] इतिहास ITIHĀSA त्वद्ध्यानादागते स्त्रीत्वे विपरीतास्तु ते रतिः ४६ इति श्रीहनुमन्नाटके हनुमद्विजयो नाम षष्ठोऽङ्कः ६ सप्तमोऽङ्कः रामदूतेनोक्तः सुग्रीवःकपिनृपतिरपास्य प्रेयसीं प्रेमभिन्नः किमिति जनकपुत्रीरामयोः कार्यमुच्चैः । गतिरपि हरिसूनोर्विस्मृता राज्यगर्वादिति रघुजनवाक्यादागतः सैन्ययुक्तः १ अथ विजयदशम्यासाश्विने शुक्लपक्षे दशमुखनिधनाय प्रस्थितो रामचन्द्रः । द्विरदविधुमहाब्जैर्यूथनाथैस्तथान्यैः कपिभिरपरिमाणैर्व्याप्तभूदिक्खचक्रः २ हनूमान् रामं प्रति-नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्तिं प्लवगबलनिमज्जद्भूभराक्रान्तदेहः । लिखति दशनटंकैरुत्पतद्भिः पतद्भिर्जरठकमठभर्तुः खपर सर्पराजः ३ श्वासोर्मिप्रतिसन्धिरुन्धितगलप्रच्छिन्नहारावली MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रत्नैरप्यदयालुभिः कृतफणाप्राग्भारभङ्गक्रमः । श्रोत्राकाशनिरन्तरालमिलितस्तब्धैः शोरिभिर्भुवं धत्ते वानरवीरविक्रमभराभुग्नो भुजङ्गाधिपः ४ रामः अये मरुत्तनय-कूर्मं क्लेशयितुं दिशः स्थगयितुं भेत्तुं धरित्रीधरासिन्धुं धूलिभरेण कर्दमयितुं तेनैव रोद्धुं नभः नासीरेषु पुरः पुरश्चलबलालापस्य कोलाहला। 44 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM त्कर्तुं वीरवरूथिनी मम परं जैत्रं पुनस्त्वद्भुजैः ५ भिल्लीभिः सहासम्-[Hanuman Nātakam] नो शस्त्रं नापि शास्त्रं न हि च रथकथा नापि दन्ती न वाजी नोक्षाणो नापि चोष्ट्रा बत न च शिबिरो नापि राजा जटावान् । नो वित्तं नापि वस्त्रं न च नृपरचना काचिदत्रास्ति मातः प्रातर्द्रष्टुं स्थिताभिर्गिरिवरकुहरेऽभापि भिल्लीभिरेवम् ६ भिल्लीमातरः-विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमपि हन्ति प्रतिबलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ७ अत्रान्तरे तत्र लङ्कायां मन्त्रणायोपविष्टो मन्त्रिभिः प्रोत्साहितो लंकाभटानुत्कण्ठं बभाषे बिभीषणःसुवर्णपुंखाः सुभटाः सुतीक्ष्णा वज्रोपमा वायुमतः प्रवेगाः । यावन्न गृह्णन्ति शिरांसि बाणाः प्रदीयतां दशरथाय मैथिली ८ बिभीषणो रावणं प्रत्याह-जातिं मानय मानुषीमभिमुखो दृष्टस्त्वया हैहयः स्मृत्वा वालिभुजौ च सांप्रतमवज्ञातुं न ते वानराः । तत्पौलस्त्यमहाग्निहोत्रिणमहं त्वामेवमभ्यर्थये सीतामर्पय मुञ्च च क्रतुभुजः काराकुटुम्बीकृतान् ६ त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्मं कुलकीर्तिवर्धनम् प्रसीद जीवमे सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली १० रावणः सक्रोधम्-जानामि सीतां जनकप्रसूतां जानामि रामं मधुसूदनं च वधं च जानामि निजं दशास्यस्तथापि सीतां न समर्पयामि ११ इति वामचरणेन बिभीषणं ताडयामास-45 [Hanuman Nātakam] इतिहास ITIHĀSA बिभीषणः MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION ततश्चतुर्भिः सह मन्त्रिपुत्रैरुत्सृज्य रक्षःकुलधूमकेतुम् लङ्कामहातंक इवाम्बरेण विभीषणो राघवमाजगाम १२ गते विभीषणे परस्परं वानराः -अद्यैवास्य विभीषणस्य शरणापन्नस्य मूर्ध्ना नतेरानृण्याय ददात्ययं रघुपतिर्लंकाधिपत्यश्रियम् एतस्यैव भुजाविह प्रतिभुवौ सुग्रीवराज्यार्पणे त्रैलोक्यप्रथिमानसत्यचरिताः सर्वे वयं साक्षिणः १३ या विभूतिर्दशग्रीवे शिरच्छेदेपि शंकरात् दर्शनाद्रामदेवस्य सा विभूतिर्विभीषणे १४ ततो रामेण-अथ दशरथपुत्रे तत्र सौमित्रिमित्रेऽप्युदगुदधितटान्ते गर्भदर्भावकीर्णे । अहमिह विनिविष्टे नावतोऽग्नेतिरोषाद्यदि जलधिरनेनाप्यात्तमाग्नेयमस्त्रम् १५ श्रीरामचन्द्रे दशवाहानौ कृतोद्यमे क्रव्यभुजः समस्ताः मित्राण्यमन्यन्त मृगं कपिं च तपोधनं गाढतरं वनं च १६ समुद्रो रामं प्रति अस्मद्गोत्रे भविष्यद्दशरथनृपतेरश्वमेधेषु सर्पिःसंपातोत्तापलोलज्वलदनलकलाव्याकुलं कूर्मराजम् । ज्ञात्वा रोदः पुटं वा ननु तव सगरः प्राग्भवो भाविवेत्ता नेता सप्ताम्बुधीनामपि सविधमवाग्वान्तरश्मिः स्रवन्तीम् १७ रामः सरोषम्-चापमानय सौमित्रे राघवेऽधिज्यधन्वनि समुद्रं शोषयिष्यामि पदा गच्छन्तु वानराः १८ ततः प्राञ्जलिपुटोपस्थितस्य समुद्रस्याज्ञया नलेन निबध्य46 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] माने सेतौ तरतः प्रस्तरानवलोक्याह हानुमान् -ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्सन्तारयन्तेऽपि च नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः श्रीमद्दाशरथेः प्रतापमहिमारम्भः समुज्जृम्भते १६ कपेश्च सेनाप्लवगैः पुरोगैः पाथोमयं भूवलयं व्यलोकि । तत्पृष्ठगैः पङ्कमयं तदान्यैरासीदिहाम्भोनिधिरित्यवादि २० इति श्रीहनुमन्नाटके सेतुबन्धनं नाम सप्तमोऽङ्कः ७ अष्टमोऽङ्कः रामः सुवेलाद्रितटेऽवतीर्णः समुद्रमुल्लङ्घ्य विकीर्णसैन्यः । कृपामुपेत्यारिकुलस्य दूतं सुरेन्द्रनप्तारमथादिदेश १ रामः -- भो महावीराङ्गद अज्ञानादथवाधिपत्यरभसादस्मत्परोक्षे हता सीतेयं परिमुच्यतामिति वचो गत्वा दशास्यं वद । नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि २ अङ्गदः यथाज्ञापयति देवः । स्वगतम्-हन्तुर्हन्तास्मि नो चेत्पितुरपि परमोत्पन्नसम्पूर्णकार्यं स्याद्वै युद्धे वधिष्याम्यखिलकपिभटैरुत्कटो हन्तुमेकः । ज्ञात्वा संत्यज्य वैरं गगनमिति समुत्पत्य लंकोद्भटस्य प्रौढः पट्टाधिरूढः सुरपतिसुतजस्तन्महोत्पातकेतुः ३ ततः प्रविशत्यञ्जलिबद्धः प्रहस्तः । । देव रामस्य दूतः शाखामृगो द्वारे ॥ 47 [Hanuman Nātakam] इतिहास ITIHĀSA रावणः --प्रवेशय । ततः प्रविशति प्रहस्तेन सहाङ्गदः । आकाशे लक्ष्यं बद्ध्वा । रे राक्षसाः कथयत क्व स रावणाख्यो रत्नं रवीन्दुकुलयोरपहृत्य नष्टः । त्रैलोक्यदीपनकरत्रिशिखाकराले यो रामनामदहने भविता पतङ्गः ४ रावणः साभ्यसूयम्-सोऽपि त्वं कमिहावगच्छसि पुरा योऽदाहि लाङ्गूलतो बद्धो मत्तनयेन हन्त स कथं मिथ्यावदन्नः पुरः । किं लङ्कापुरदीपनं तव सुतस्तेनाहतोऽक्षो युधीत्युक्तः कोपभयत्रपाभरवशस्तूष्णीमभूद्रावणः ५ रावणः .-MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION कस्त्वं वानर रामराजभवने लेख्यार्थसंवाहको यातः कुत्र पुरा गतः स हनुमान्निर्दग्धलङ्कापुरः । अङ्गदः साधिक्षेपम्-बद्धो राक्षससूनुनेति कपिभिः संताडितस्तर्जितः सव्रीडार्तिपराभवो वनमृगः कुत्रेति न ज्ञायते ६ यो युष्माकमदीदहत्पुरमिदं योऽदीदलत्काननं योऽक्षं वीरममीमरद्गिरिदरीर्योऽबीभरद्राक्षसैः । सोऽस्माकं कटके कदाचिदपि नो वीरेषु संभाव्यते दूतत्वेन इतस्ततः प्रतिदिनं संप्रेष्यते सांप्रतम् ७ अपि च-यो लङ्कां समदीदहत्तव सुतं रक्षांसि चापीपिषद्यः कौशल्यमवीवदज्जनकजामब्धिं तथातीतरत् । यश्चारामममूमुटत्स हनुमानस्मत्प्रवीरोद्यमे 48 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM दूराक्रामणदौत्य एव न पुनर्योद्धुं समादिश्यते ८ रावणः सावज्ञम्-[Hanuman Nātakam] रामः स्त्रीविरहेण हारितवपुस्तच्चिन्तया लक्ष्मणः सुग्रीवोऽङ्गदशल्यभेदकतया निर्मूलकूलद्रुमः । गण्यः कस्य विभीषणः स च रिपोः कारुण्यदैन्यातिथिर्लंकातङ्कविटंकपावकपटुर्वध्यो ममैकः कपिः ६ कस्त्वं वन्यपतेः सुतो वनपतिः कः सार्थिकस्त्वेकदा यातः सप्तसमुद्रलंघनविधावेकाह्निको वेद्मि तम् अस्ति स्वस्तिसमन्वितो रघुवरे रुष्टेऽत्र कः स्वस्तिमान्को भूयादनरण्यकस्य मरणातीतोचिताम्बुप्रदः १० रामः किं कुरुते प्रतीपविजयं कोऽसौ प्रतीपो जितो वाली सोऽपि च को न वेत्सि किममुं को वेत्ति शाखामृगम् । आस्तेऽत्रापि तवास्ति विस्मृतिरहो मोहो महानीदृशः पर्यङ्के निजबालकेलिकृतये वद्धोऽसि येनोपरि ११ अङ्गदः - आदौ वानरशावकः समतरद्दुर्लंघ्यमम्भोनिधिं दुर्भेद्यान्प्रविवेश दैत्यनिवहान्त्संपेष्य लंकापुरीम् । क्षिप्त्वा तदूनरक्षिणो जनकजां दत्त्वा तु भुक्त्वा वनं हत्वाक्षं प्रदहन्पुरीं च स गतो रामः कथं वर्ण्यते १२ रावणः समाक्षिपति-भग्नं भस्ममुमापतेरजगवं वाली क्षतः सूक्ष्मतस्तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्च सः । आः किं तेन सशैलसागरधराधारोरगेन्द्राङ्गदं साद्रिं रुद्रमुदस्यतो निजभुजाञ्जानात्यसौ रावणः १३ अङ्गदः साटोपं स्वामिभक्तिमभिनीय-कृत्वा कक्षागतं त्वां कपिकुलतिलको वालिनामा बलीया49 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION न्भ्रान्तः सप्ताब्धितीरे क्षणमिव चरितं स्नानसन्ध्यार्चनं च । बाणेनैकेन येनाहत इति पतितो वानरव्रीडयैव त्यक्त्वा सोऽपि प्रगर्वं मणिसुतपुरं मुञ्च लंकेश गर्वम् १४ यत्संदेशहरेण मारुतसुतेनातारि वारां निधिः क्षिपं गोष्पदवन्निजालयमिव प्रावेशि लङ्कापुरी । सीतादर्शि समभ्यभाषि च वनं चाभञ्जि रक्षः पतेः सैन्यं भूर्यवधि व्यदाहि च पुरी रामः कथं वक्ष्यते १५ रावणः सक्रोधम्-कुतो हन्तारण्ये कनकमृगमात्रं तृणचरं कुतो वृक्षाद्वृक्षप्लवननिपुणो वालिनिहतः । कुतो वह्निज्वालांजटिलशरसन्धानसुदृढस्त्वहं युद्धोद्योगी गगनमधितिष्ठेन्द्रविजयी १६ अङ्गदः समदम्-संधौ वा विग्रहे वापि मयि दूते दशानन अक्षतो वा क्षतो वापि क्षितिपीठे लुठिष्यसि १७ अवेहि मां रावण रामदूतं बाणा यदीयाः खरदूषणैणम् । भुक्त्वा तृषार्ता इव शोणिताम्भः पास्यन्ति ते कण्ठघटैः सरन्धैः १८ रावणः -- वानराधम ! कटुप्रलापिन्पश्य-मृत्युः पादान्तभृत्यस्तपति दिनकरो मन्दमन्दं ममाग्रेऽप्यष्टौ ते लोकपाला मम भयचकिताः पादरेणुं ववन्दुः दृष्ट्वा तं चन्द्रहासं स्रवति सुरवधूपन्नगीनां च गर्भो । निर्लज्जौ तापसौ तौ कथमिह भवतो वानरान्मेलयित्वा १६ अंगदःतत्क्षणाविष्कृतक्रोधः कम्पमानः पाणितलेन भूतलं ताडयित्वा दोः स्तम्भास्फालकेलिं नाटयति-50 -MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] रे रे राक्षसवंशघात समरे नाराचचक्राहतं रामोत्तुङ्गपतङ्गचापयुगले तेजोभिराडम्बरे । मन्ये शैर्षमिदं त्वदीयमखिलं भूमण्डले पातितं गृध्रेरालुठितं शिवाकवलितं काकैः क्षतं यास्यति २० रावणः सप्रपञ्चम्-रेरे शाखामृग ! त्वामहं धर्मशीलतया कटुप्रलापिनमपि न हन्मि । उक्तं च-- यथोक्तवादी दूतः स्यान्न स वध्यो महीभुजा । क्रूरस्तदीयकोपेन क्वचिद्वैरूप्यमर्हति २१ अङ्गदः सवैदग्ध्यम्-परदारापहरणे न श्रुता या दशानन । दृष्टा दूतपरित्राणे साधोस्ते धर्मशीलता २२ रावणः सगर्वम्-इन्द्रं माल्यकरं सहस्रकिरणं द्वारि प्रतीहारकं चन्द्रं छत्रधरं समीरवरुणौ संमार्जयन्तौ गृहान् । पाचक्ये परिनिष्ठितं हुतवहं किं मद्दूहे नेक्षसे रक्षोभक्ष्यमनुष्यमात्रवपुषं तं राघवं स्तौषि किम् २३ अङ्गदो विहस्य-रे रे रावण हीन दीन कुमते रामोऽपि किं मानुषः किं गङ्गापि नदी गजः सुरगजोऽप्युच्चैःश्रवाः किं हयः किं रम्भाप्यबला कृतं किमु युगं कामोऽपि धन्वी नु किं त्रैलोक्यप्रकटप्रतापविभवः किं रे हनूमान्कपिः २४ रावणः सरोषम्-कस्त्वं कस्यासि पुत्रः क्व पुनरिह गतः किंनु कृत्यं च कस्माद्विस्पष्टं विष्टपानां विजयिनमपि मां मन्यसे त्वं तृणाय । हंहो पौलस्त्यपुत्रस्तव बलमधनस्यांगदोऽहं सुवेला51 [ Hanuman Natakam] इतिहास ITIHĀSA त्संप्राप्तो रामदूतो विसृज जडमते जानकीं वा शिरो वा २५ रावणः धिग्धिगङ्गद मानेन येन ते निहतः पिता निर्माना वीरवृत्तिस्ते तस्य दूतत्वमागतः २६ अङ्गदः-- - MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION युक्तं कृतं तु रामेण येन मे निहतः पिता त्रैलोक्ये शास्तिकृत्याय वर्तते स दुरात्मनाम् २७ किं कार्यं वद राघवस्य न च किं बद्धः किमम्भोनिधिः क्रीडार्थं कपिपोतकैरतरलं जानात्यसौ मां नहि लङ्कानाकनिकायवैरिवसतिं किं वेत्ति वेत्त्येव हं को लंकाधिपतिर्बिभीषण इति प्रख्यातकीर्तिर्भुवि २८ रावणः बद्धः सेतुर्यदि जलनिधौ वानरैस्तावता किं नो वल्मीकाः क्षितिधरनिभाः किं क्रियन्ते पिपीलैः । दग्धा लंका यदपि कपिना स प्रभावः किलाग्नेः शौर्याश्चर्यं निजभुजजये किं कृतं रामनाम्ना २६ अंगदः - रामो नाम स एव येन भगिनीनासावसापंकिलः खड्गस्ते खरदूषणत्रिशिरसां धौतः शिरः शोणितैः । तद्वालान्तिनितान्तबद्धवपुषः संमूर्च्छितस्य ध्रुवं घ्राणं दर्पमिव स्वसुर्विलुठितं रामः कथं विस्मृतः ३० रावणः —— परिमितमहिमानं क्षुद्रमेनं समुद्रं क्षितिधरघटनाभिः कोयमुत्तीर्य गर्व । अकलितमहिमानः सन्ति दुष्प्रापपारा दशवदनभुजास्ते विंशतिः सिन्धुनाथाः ३१ 52 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM अंगदः - रे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः प्रागेकं किल कार्त्तवीर्यनृपतेर्दोर्दण्डपिण्डीकृतम् । एकं नर्तनदापितान्नकबलं दैत्येन्द्रदासीगणे रन्यं वक्तुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा ३२ रावणः भ्राता मे कुम्भकर्णः सकलरिपुकुलव्रातसंहारमूर्तिः पुत्रो मे मेघनादः प्रहसितवदनो येन बद्धः सुरेन्द्रः । खड्गो मे चन्द्रहासो रणमुखचपलो राक्षसा मे सहायाः सोऽहं वै देवशत्रुस्त्रिभुवनविजयी रावणो नाम राजा ३३ प्रहस्तः सरोषम्-स्यातां नाम कपीन्द्रहैहयपती तस्यावगाढान्तरस्थेमानौ दशकन्धरस्य महती स्कन्धप्रतिष्ठा पुनः । सद्यः पाटितकण्टकीकसकणाकीर्णां यदंसस्थलीं स्वेनेभाजिनपल्लवेन झटिति प्रास्फोटयद्धृर्जटिः ३४ [Hanuman Nātakam] रावणः सर्वैर्यस्य समं समेत्य कठिनां वक्षस्थलीं संयुगे निर्भग्नं मुखमेव दन्तमुसलैंरैरावतस्योन्नतैः । हेलोत्क्षिप्तमहीध्रकम्पजनितत्रासाङ्गनालिङ्गनप्राप्तानन्दहरप्रसादमुदितश्चिन्त्यः स मेऽन्यो रिपुः ३५ अङ्गदः-- 53 रे रे रावण शंभुशैलमथनप्रख्यातवीर्य्यः कथं रामं योद्धुमिहेच्छसीदमखिलं चेत्तन्न युक्तं तथा । रामस्तिष्ठतु लक्ष्मणेन धनुषा रेखा कृता लङ्घिता तच्चारेण च लंघितो जलनिधिर्दग्धा हतोक्षः पुरी ३६ रावणः -[Hanuman Nātakam] इतिहास ITIHĀSA यन्मां त्वं वदसि प्रचूर्णितबलान्हेमाक्षदैत्येश्वराञ्छेषस्याप्यथवा हिरण्यकशिपोर्भस्माङ्गदस्याङ्गद । अन्येषाममरद्विषां बलकथा मद्बाहुसारादलं रामश्चेद्रिपुहा प्रियापहरणे संधिं विधत्ते कथम् ३७ अङ्गदः-शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनः प्रबन्धं पश्याब्धेः सरस इव कैलाससुभट । हितं तु ब्रूमस्त्वां मम जनकदोर्दण्डविजयस्फुरत्कीर्तिस्तम्भस्त्यज कमलबन्धोः कुलवधूम् ३८ रावणः MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION कस्त्वं वालितनूद्भवो रघुपतेर्दूतः स वालीति कः को वा वानर राघवः समुचिता ते वालिनो विस्मृतिः । त्वाम्बद्ध्वा चतुरम्बुराशिषु परिभ्राम्यन् मुहूर्तेन यः सन्ध्यामर्चयति स्म निस्त्रप कथं तातस्त्वया विस्मृतः ३६ त्वद्दोर्दण्डप्रचण्डप्रतिहननविधिप्रौढबाह्वोः सहस्रच्छेदक्रीडाप्रवीणस्थिरपरशुमहागर्वनिर्वापकस्य । दूतोऽहं राघवस्य त्वदपघनघृणावासवालाग्रलोम्नः पुत्रः सुत्रामसूनोः प्लवगबलपतेर्नामतश्चांगदोऽहम् ४० रावणः यद्भग्नाः किल बालतालतरवो रामेण सार्द्रत्वचश्छिन्नं यच्च पुरातनं शिवधनुस्तद्वीर्य्यमुद्दिश्यते । नासीदेतदनागतं श्रुतिपथं स्वर्लोकधूमध्वजः पौलस्त्यः करकन्दुकीकृतहरक्रीडाचलो रावणः ४१ शूराः श्रोत्रपथेषु नः कति कति प्राञ्चः पदं चक्रिरे तेषामेव विलंघ्य साम्यसरणिं जागर्ति लंकाभटः । यद्दोर्मण्डलगाढपीडनवशान्निस्पन्दरक्तच्छटाः 54 -MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] शंकामंकुरयन्ति शंकरगिरेरद्यापि धातुद्रवाः ४२ स्वेषूत्कृत्य हुतेषु मूर्धसु जवादग्नेः स्फुटित्वा बहिर्व्याकीर्णेष्वलिकेषु दैवलिखितं दृष्टापि रामार्पणम् । चित्तेनास्खलितेन यस्तदधिकं ब्रह्माणमप्रीणयत्तस्मै कः प्रथमाय मानिषु महावीराय वैरायते ४३ वीरोसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं यः पूजार्थसमुत्सुको घटयितुं देवस्य खट्वाङ्गिनः । सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणायोद्यतः साटोपं प्रमथैः कृतं भ्रुकुटिभिः स्थित्वान्तरे वारितः ४४ (अत्रान्तरे प्रविश्य ) प्रतीहारः-ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः । स्तोत्रं संहर नारद स्तुतिकथालापैरलं तुम्बुरो । सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ४५ अंगदः--(क्रोधं नाटयति) स्फूर्जद्दिव्यास्त्रबाहुव्यतिकरविगलत्कंधरैस्तैः शिरोभिर्देवो रामः करिष्यत्युचितबलिमयं भूतसंघातशास्ता । हन्यात्किं नांगदस्त्वामतिपरुषरुषा तातकक्षावशिष्टः प्रोद्धृत्योद्धृत्यपादप्रहतबहुशिरः कन्दुकैः क्रीडितोऽस्मि ४६ अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तरः तिमङ्गिलगिलोऽप्यस्ति तद्गिलोप्यस्ति राघवः ४७ मूर्ध्नामुद्धृत्य कृत्ता विरलगलगलद्रक्तसंभूतधाराधौतेशांघ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषामिदं ते फलमिह नगरीरक्षणे यत्प्रयासः ४८ सीतां मुंच भजस्व रामचरणं राज्यं चिराद्भुज्यतां 55 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION देवाः सन्तु हविर्भुजः परिभवं मा यातु लंकापुरी । नोचेद्वानरवाहिनीपतिमहाचञ्चच्चपेंटोंत्तरैस्तत्तन्मुष्टिभिरंगसंगरगतस्तत्तत्फलं लप्स्यसे ४६ दृष्टः किं रघुनन्दनो नहि पुरा किं च त्वया न श्रुतोऽरण्ये किं न विलम्बितोसि न पुनर्मार्गे स्थितोसि क्षणम् तल्लंकेश्वर मुंच मानमखिलं श्रुत्वा वधं वालिनः सीतामर्पय रक्ष राक्षसकुलं दासत्वमङ्गीकुरु ५० (क्षेपकः ) रावणः -मरुत्वद्दम्भोलिक्षणघटितघोरश्वयथुना निसर्गोदग्रेण प्रसभमुरसा पीतगगनः । श्रियं देवद्रीचीं निजभुजवनोद्दामकरिणीमयं कुर्वन्वीरः स्मरसि कथमासीद्दशमुखः ५१ आस्कन्धादपि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरः सन्ततौ । अस्मेरं गलिताश्रुगद्गदवचो भग्नभ्रु वा यद्यभू द्वक्त्रेष्वेवमपि स्वयं स भगवाँस्तन्मे प्रमाणं शिवः ५२ येऽहंपूर्विकया प्रहारमभजन्मां छिन्धि मां छिन्धि मां छिन्धीत्युक्तिपराः पुरारिपुरतो लङ्कापतेर्मौलयः । ते भूमौ पतिताः पुनर्नवभवानालोक्य मूर्ध्नाऽपरान्याचिष्यन्त इमे हि नो वयमिति प्रीत्याट्टहासं व्यधुः ५३ मूले पंच ततश्चतुष्टयमिति स्रक्सन्निवेशैः शिरःपुष्पैरन्यतमावलोकनमितैरुच्छ्रोणितैरञ्चति । हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमालोकयञ्छम्भोरद्भुतसाहसैकरसिकः कैर्न स्तुतो रावणः ५४ लंकेन्द्रः समधीरवीरपदवीरम्यो न गम्यो गिरां तस्मिञ्जुह्वति चन्द्रहासशकलान्मौलीन् पुरारेः पुरः । 56 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM भीत्या मन्दशिखोदयोऽपि दहनस्तैरेव तत्र क्षणं प्राणाद्यैश्च दिदृक्षया तनुतनुश्वासानिलैर्दीपितः ५५ अंगदः--(सावज्ञम् ) [Hanuman Nātakam] आास्तां मस्तकहोमविक्रमकथा पौलस्त्य विस्तारिणी देहं किं न निपातयन्ति दहने वैधव्यभीताः स्त्रियः । कैलासोद्धरणेन भारवहनप्रौढिस्त्वयाविष्कृता तूर्णं वर्णय किं च किंचिदपरं यत्पौरुषस्यास्पदम् ५६ दोर्दण्डाहितपौत्रभिक्षुरभवद्यस्मिन्पुलस्त्यो मुनि- स्तद्वाहोर्वनमच्छिनत्परशुना यो राजबीजान्तकः । शौर्यं शौर्यरसाम्बुधेर्भृगुपतेर्ग्रासोऽपि नासीज्जलं तत्तेजो वडवानलस्य किमसौ लंकापतिः पल्वलम् ५७ रे रे राक्षसराज मुंच सहसा देवीमिमां मैथिलीं मिथ्या किं निजपौरुषस्य घटनाप्रागल्भ्यमारभ्यते । एनां पश्यसि किं न किन्नरगणैरुद्गीतदोर्विक्रमां सेनां वानरभर्तुरुद्भटभुजस्तम्भाग्न्यभीमां पुरः ५८ इति लंकाभटमुत्कटवाक्यैरधिक्षिप्य लंकामातंकयन्नंगदो निष्क्रान्तः ॥ इति श्रीहनुमन्नाटकेऽङ्गदीधिक्षेपणं नामाष्ठमोऽङ्कः ८ अथ नवमोऽङ्कः अथ निजप्रतापप्रचण्डसमरोत्साहपरिपूर्णस्य लंकापतेः श्रुत्वा दाशरथिः सुवेलकटके साटोपमर्धे धनुष्टंकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेपकान् । अभ्यस्यन्ति तथैव चित्रफलकैर्लंकापतेस्तत्पुनर्वैदेहीकुचपत्रवल्लिरचनावैधग्ध्यमर्धे कराः १ (ततो निजराजमन्दिरशिखरस्थमञ्चमारुह्य ) 57 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION लंकायां कृतवानयं हि विकृतिं दग्धाग्रपुच्छः पुरा कोप्येष प्रतिभाति वालिसदृशो नूनं तदीयः सुतः । श्यामः कामसमाकृतिः शरधनुर्धारी स सीताप्रियः प्रत्येकं रिपुमीक्षतीति निगदन्मंचस्थितो रावणः २ तत्रो मन्दोदरी-दृष्ट्वा राघवमेव राक्षसवनस्वच्छन्ददावानलं जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च । कांक्षन्ती मुहुरात्मपक्षविजयं भंगं च मुग्धा मुहुर्धावन्ती मुहुरन्तरालपतिता मन्दोदरी सुन्दरी ३ वन्दारुवृन्दारकवृन्दवन्दिमन्दारमालामकरन्दबिन्दून् मन्दोदरीयं चरणारविन्दरेणत्करान्कर्करतामनैषीत् ४ मन्दोदरी अञ्जलिं बद्ध्वा रावणं वैरिविद्रावणं विज्ञापयति-- देव त्वं बाहूद्धतचन्द्रशेखरगिरिभ्रता जगद्भक्षकः पुत्रः शक्रजयीत्यवेत्य रणधिर्नूनं बली वालिजित् । तद्राजन्नबला बलादपहृता देयास्य सा जानकी लंकायां रहसीत्युवाचं वचनं मन्दोदरी मन्दिरे ५ रावणः--(निजभुजाडम्बरं नाटयति) किं ते भीरु भिया निशाचरपतेर्नासौ रिपुर्मे महान् यस्याग्रे समरोद्यतस्य न सुरास्तिष्ठन्ति शक्रादयः । मद्दोर्दण्डकमंडलोद्धृतधनुः क्षिप्ताः क्षणान्मार्गणाः प्राणानस्य तपस्विनः सति रणे नेष्यंति पश्याधुना ६ मन्दोदरी--(सभयं रावणोदितपद्यार्थमपश्यन्ती भाविना द्वितीयं पद्यार्थमवगम्य) अहो प्राणनाथ ! लंकेश्वर ! किमिति स्वकपोलकल्पितैरमंगलालापैरात्मनो वधं मन्यसे ? शान्तं पापं प्रतिहतममंगलमिति वैचित्र्यमुत्पाद्य । 58 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] एकः सुग्रीवभृत्यः कपिरखिलवनं पत्तनं चापि दग्ध्वा यातस्तूष्णीं तदानीं दशमुख भवतः किं कृतं वीरवर्गैः ॥ प्राप्तोऽसौ पत्तनांतं सकलकपिबलैर्वार्धिमुल्लङ्घ्य योद्धुं त्वं सीतां मुंचमुंचेत्यनिशमकथयत्प्रेयसी रावणस्य ७ (मन्दोदरीकथनेन किंचित्सभयो रावणः ) शुकं च सारणं वीरं दूतं प्रस्थाप्य रावणः । रामदेवस्य शिबिरं मंत्रं चक्रेऽथ मंत्रिभिः ८ तत्र विरूपाक्षनामा मन्त्री -- ( सहितम् ) देव त्वां प्रति संप्रति प्रतिभटप्रोल्लासनं नो मुदे देवायं प्रतिपद्यते हितमिदं यस्माद्वयं मंत्रिणः । सीतारक्षणदक्षलक्ष्मणधनुर्लेखापि नोल्लंघिता हेलोल्लंघितवारिधिः कपिकुलैः सार्धं स रामो महान् ६ यावद्दाशरथेर्न पश्यसि मुखं यावन्न पाथोनिधिं बद्धं यावदिमां न पावकवशां लंकां निरस्तालकाम् । यावन्नैव निजानुजं सुचरितं यातं कुलाङ्गारतां तावद्रावण लोकपाल तरसा सीतां प्रयच्छानघाम् १० रावणः -- (साश्चर्यम्) एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः सोहं सर्वजगत्पराभवकरो लंकेश्वरो रावणः । सेतुं बद्धमिमं शृणोमि कपिभिः पश्यामि लंकां वृतां जीवद्भिर्नहि दृश्यते किमथवा किं वा न वा श्रूयते ११ विरूपाक्षः--राजन्विषादं मागाः पश्य-आज्ञा शक्रशिरोमणिप्रणयिनी शस्त्रग्रहाणामपि भक्तिर्भूतपतौ पिनाकिनि पदं लंकेति दिव्या पुरी । संभूतिद्रुहिणान्वये च तदहो नेदृग्वराँल्लभ्यते स्याच्चेदेष न रावणः क्व नु पुनस्त्वेकत्र सर्वे गुणाः १२ 59 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रावणः--(धैर्यमवलम्ब्य ) मतिर्विपश्चितां मन्त्री रतिर्मन्त्री विलासिनाम् । पराक्रमैकसाराणां मानिनां त्वसिवल्लरी १३ अथ महोदरो नाम मंत्री-राजन्मुखसुखा वाचो मधुराः कस्य न प्रियाः तव क्षोदक्षमाः किन्तु नैता व्यसनसंगमे १४ प्रिया वा मधुरा वाक् च हर्म्येष्वेव विराजते श्रीरक्षणे प्रमाणन्तु वाचः सुनयकर्कशाः १५ विभवे भोजने दाने तिष्ठन्ति प्रियवादिनः विपत्तौ चागतेऽन्यत्र दृश्यन्ते खलु साधवः १६ अग्रे प्रस्तुतनाशानां मूकता परमो गुणः । तथापि प्रभुभक्तानां मौखर्यादिदमुच्यते १७ यैरेव स्तुतिभिः स्वामी प्राप्यते व्यसनाटवीम् पश्चान्मूकत्वमापन्नैरुद्धर्तुं शक्यते कथम् १८ नद्यश्च खलमैत्री च लक्ष्मीश्च नियतिर्द्विषाम् सुकुमाराश्च वनिता राजन्नस्थिरयौवनाः १६ दत्तोत्साहैरकार्येऽपि चित्तग्रहणकोविदैः । सत्यं विदग्धैर्भुज्यन्ते नृपाः कर्णान्तषट्पदैः २० पद्मिनी कान्तिमापेदे संकोचं च कुमुद्वती न भवन्ति चिरं प्रायः सम्पदो विपदोऽपि वा २१ तथा च-सुरेज्यादिभिराचार्यैर्नीतिशास्त्रं त्रिधा मतम् ऐहिकं चामुष्मिकाव्यमैहिकामुष्मिकं तथा २२ ऐहिकामुष्मिकं तत्र शास्त्राणामुत्तमोत्तमम् आमुष्मिकं तूत्तमं स्यादैहिकं चाधमाधमम् २३ यज्ज्ञानात्स्वामिनं हत्वा भजन्ते मंत्रिणः प्रियम् । 60 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] विषशस्त्रादिभिः शास्त्रं तदैहिकमिति स्मृतम् २४ तुल्यः सूर्यद्विजवधैराज्ञाभंगो महीभुजाम् । यद्वधे यद्भवेत्पापं न शेषो वक्तुर्महति २५ अपराधं विना मन्त्री प्रभुणा पीडितोऽपि सन् । न वैरूप्यं क्वचिद्याति तदामुष्मिकमुच्यते २६ राज्यग्रहणशक्तोऽपि मनसापि न चिन्तयेत् । सचिवः स्वामिनो नाशमैहिकामुष्मिकं हि तत् २७ शुकश्च सारणो वीरश्चैहिकौ मंत्रिनौ तव । वानरीं तनुमास्थाय हतौ तत्र स्थितावपि २८ आवामामुष्मिकौ राजन्विरूपाक्षमहोदरौ । मैथिली दीयतां तूर्णं नो चेत् सहचरौ तव २६ रावणः (सभयं सशिरः कम्पं स्वगतं वा स्वगतमेवोच्यते ) नीतिशास्त्रमिदं श्रुत्वा कुम्भकर्णः क्वचिद्वली । हन्ति चेन्मामतो युद्धे प्रथमं प्रेष्यतामयम् ३० विरूपाक्षमहोदरौ--(प्रभोः शिरः कम्पनादन्तर्ग- तमभिप्रायमवगम्य) नीतिशास्त्रविदो धर्मं केवलं नृपतेः पुरः । पठनि युवराजादिपुरतो न कदाचन ३१ हा नाथ लंकेश्वर ! किमित्यावयोः श्रद्धाधिकारिणो- र्वैरूप्यशंकामुंकुरयसि तेऽन्ये दुरधिकारिणः पापाः ॥ उक्तञ्च-न सर्पस्य मुखे रक्तं न दुष्टस्य कलेवरे । न प्रजासु न भूपाले धनं दुरधिकारिणि ३२ तेऽप्यधिकारिणः पापा ये द्विषन्ति निजं पतिम् । वां तथा विधौ नैव भवानपि न मूढधीः ३३ 61 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये स्वैरविहारसाराः बिडालवृन्दाहितदुग्धमुद्राः स्वपन्तितेमूढधियः क्षितीन्द्राः ३४ अपि च-उत्खातान्प्रतिरोपयन्कुसुमिताँश्चिन्वँल्लघून्वर्धयन् क्षुद्रान्कण्टकिनो बहिर्निरसयन्विश्लेषयन्संहतान् । अत्युच्चान्नमयन्नताँश्च शनकैरुन्नामयन्भूतले मालाकार इव प्रयोगचतुरो राजा चिरं नन्दते ३५ राजन्कार्यवशाद्विरुद्धसंग्रहोपि राज्ञा शुद्धेनाशुद्धसंग्रहः प्रयोजनहीनोऽपि कर्तव्यः । प्रयोजनं जनयति क्वचित्काले । अत्र भगवान् भवतामिष्टः प्रमाणमेणाङ्कमौलिः ॥ जीर्णेप्युत्कटकालकूटकवले प्लुष्टे हठान्मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानलैः । यः शक्त्या समलंकृतोऽपि शशिनं शैलात्मजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात्स वः शंकरः ३६ दिग्वासा यदि तत्किमस्य धनुषा शस्त्रं च किं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं परं द्वेष्टि किम् । इत्यन्योऽन्यविरोधिकर्मनिरतं पश्यन्निजं स्वामिनं भृङ्गी सान्द्रशिरावनद्धशकलं धत्तेऽस्थिशेषं वपुः ३७ ब्राह्मणं मंत्रिणं द्रोणं शुद्धं वीरं भविष्यति । गुरुं दुर्योधनस्त्यक्त्वा यथा त्वं मा तथा भव ३८ अत्रान्तरे मन्दोदरी रावणेन सह खेलमाना स्मरस्मेर वाणीविलासलीलया अशोकवनिकामागम्य जानकीस्थानमाक्रम्योपविश्याह ॥ प्राणनाथ लंकेश्वर पश्य-मन्दोदरीजनकजाङ्गमनोहरत्वे भेदोस्ति कोपि यदि नाथ विचारय त्वम् ॥ 62 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM रावणः मनः प्रिये परिमलस्तव भेदमाख्यात्यङ्गे विदेहदुहितुः सरसीरुहाणाम् ३६ रूपे तवास्याश्च न कोपि भेदः खेदं प्रिये मदूचनेन मागाः । सीताधरे वा मधुरे दशास्यो रामो रमिष्यत्यथ वाथ सद्यः ४० मन्दोदरी-[Hanuman Nātakam] (सकरुणा लंकामधिक्षिपति) विभीषणः पापकथानिमग्नः स्वापाकुलोभूद्यदि कुम्भकर्णः राजाभिमानी पतितः कलंके लंके निमग्नासि गभीरपंके ४१ इति निष्क्रान्ताः सर्वे ॥ इति श्रीहनुमन्नाटके मन्त्रिवाक्यं नाम नवमोऽङ्कः ६ अथ दशमोऽङ्कः ततः सुन्दरं मन्दिरं प्रविश्य रावणः सानुचरःभो भो लंकेश्वरानुजीविनो जनाः शृणुत अहमिदानीं मायाप्रपंचरचनाभिर्जानकीमृदुसुरभिस्फीतदोर्मूललालित्यविराजमानपीनोन्नतकुचकलशोपशोभितोरः स्थले खेलमानस्तन्मधुराधरं पास्यामि ॥ मायाविनोऽनुचराः--यद्रोचते देवस्य । (रावणः) अथ रजनिचरेशो रामसौमित्रिमायाविरचितशिरसी तद्रूपलावण्यपूर्णे । गलदविरलरक्ते प्रेतपर्य्यस्तनेत्रे जनकदुहितुरग्रे स्थापयामास पापः १ (जानकी) सबाष्पं, शिरः सरसीरुहद्वयमालोकयति63 [Hanuman Nātakam] इतिहास ITIHĀSA ग्रहह जनकपुत्री फुल्लराजीवनेत्री नयनसलिलधारागर्भनिर्मुक्तहारा । रमणमरणभीता मृत्युना किं न नीता हृदयदहनजालः संदहेद्वा विशालः २ (रामशिरः कमलमधिकृत्य) हा राम हा रमण हा जगदेकवीर तत्किं न स्मरसि । अधरमधु मदीयं कामकेलीषु पीत्वाऽमृतमिति यदवादीस्तीरवानीरकुञ्जे । किममृतपरिपूर्ण शीर्णमप्यम्बरेऽर्कस्तम इव नहि शत्रुं नाथ मश्नासि घोरम् ३ रावणः MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION शिरोविरहशोकमोहरोषप्रेमाकुलामालापैराश्वासयति । जानकी-सत्वरं प्राणांस्त्यक्तुमिच्छन्ती भोः प्राणाधिनाथ राम । अहह मधुरवाणी किं न वक्त्रारविन्दे नयनकमलयोस्ते नो मदङ्गे विलासः । अमरपुरवधूनां वल्लभोऽद्यापि नूनं व्रजतु परमहंसो मे त्वदालिङ्गनेन ४ इति रामशिरः कमलमालिङ्गितुमिच्छति, आकाशे कोलाहलःन खलु न खलु सीते रामभूपालमौलिः समरशिरसि वध्यो न प्रियस्ते कदाचित् । स्पृश कथमपि मातर्मा निशाचारिणस्त्वं हर हर हरभक्तस्यैष मायावातारः ५ इत्याकाशवाणीश्रवणमात्रेण शिरसी गगनमुत्पत्य निष्क्रान्ते रावणेन सह ॥ जानकी-64 श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM (सहर्षं, सत्रपं च) अयि परमधर्मिणि कृपातरंगिणि सरमे किमित्यद्भुतमिति । MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION सरमा राक्षसी--(सदयम्) जानकि त्वं न जानीषे रावणस्यातिदारुणाम् । मायामासाद्य मा भैषी रामः कामं स जीवति ६ कोलाहलं काहलमर्दलानां हेषारवं सज्जतुरंगमाणाम् । आकर्णयाकर्णविशालनेत्रे रामागमादार्तनिशाचराणाम् ७ विरम विरम शोकात्कोपमानोऽथ रामः सतनयपशुबन्धं रावणं मर्दयित्वा । बलभिदुपलनीलः कोमलः कोमलाङ्गि त्वदधरमधुपानं हुं करिष्यत्यजत्रम् ८ जानकी-कामं जीवति मे नाथ इति सा विरहं जहौ । प्राङ्गत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ६ [Hanuman Nātakam] रावणः ततः पुनरप्यशोकवाटिकां प्रविशति मारनाराचभिन्नो रावणः सुरसुन्दरीभिः परिवृतः सीताहृदये विकारमुत्पादयितुम् । भो जानकि पश्य । - अस्मच्चण्डचपेटघातपतितस्वर्दन्तिकुम्भस्थल स्थूलोन्मुक्तसरक्तमौक्तिकलतास्तोमार्चितांघ्रिस्तनाः । 65 एतास्त्वत्पदपद्मषट्पदवधूप्रायाः पुरन्ध्यो ध्रुवं सीते सम्प्रति संगतं तव सतीचारित्र्यवल्लीफलम् १० सीते पश्य शिरांसि यानि शिरसा धत्ते महेशः पुरा तानि त्वत्पदंसंश्रितानि सुभगे कस्मादवज्ञायसे । श्रुत्वैवं परदारलम्पटवचः स्मित्वा हतं रावणं निर्माल्यानि शिरांसि तानि तव धिक्साध्वीवचः पातु वः ११ [Hanuman Nātakam] इतिहास ITIHĀSA भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमूर्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः १२ (सवैदग्ध्यम्) रे रे लङ्केश लौल्यात् त्रिपुरविजयिनो मा प्रतीषीः प्रसादं मा मां छित्त्वाल्पबुद्धे न खलु भवसि वै प्राकृतः प्राणरंकः ॥ मारारे मावितारीर्वरमनलभुवा शापितोसीति यस्य क्रुद्धं मूर्धानमीशोप्यनुनयति भृशं सोऽयमुच्चैर्दशास्यः १३ अर्धं चेतसि जानकी विरमयत्यर्धं च लंकेश्वरः किं चार्धं विरहानलः कवलयत्यर्धञ्च रोषानलः । इत्थं दुर्विधवैशसव्यतिकरे दाहे समेप्येतयोरकें वेद्मि तु पारदग्ध्यमपरं दग्धं करीषाग्निना १४ मुग्धे मैथिलि चन्द्रसुन्दरमुखि प्राणप्रयागौषधि प्राणान् रक्ष मृगाक्षि मन्मथनदि प्राणेश्वरि त्राहि माम् । रामश्चुम्बति ते मुखं च सुमुखेनैकेन चाहं पुनश्रुम्बिष्यामि तवाननं बहुविधैर्मुञ्चाग्रहं मानिनि १५ जानकी-विरम विरम रक्षः किं वृथा जल्पितेन स्पृशति नहि मदीयं कण्ठसीमानमन्यः रघुपतिभुजदण्डादुत्पलश्यामकान्तेर्दशमुख भवदीयो निष्कृपो वा कृपाणः १६ MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION पश्य-मद्ध्यानेनाभवद्रामः सीता रक्षस्तु तस्य वै । पश्य त्वत्कुलनाशाय मया रामेण भूयते १७ इति रावणो निष्क्रान्तः । 66 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [ Hanuman Nātakam] निजमन्दिरं कियन्तं समयं नीत्वा (स्वगतं) महान्तं प्रपंचमुत्पाद्य नूनं जानकीमनुभविष्यामीत्यवधार्यभेरीनिः साणशंखध्वनिगणतुरगस्यन्दनस्फीतनादैः सानन्दं राक्षसेन्द्रः कटकभटभुजास्फालकोलाहलेन । लंकामापूर्य रामः स्वयमभवदथो मायया रावणस्य छिन्नान्मूर्ध्नो दधानः शिरसिरुहभरेष्वेकतः पञ्च पञ्च १८ एवंविदो भूत्वा पुनरशोकवनिकां प्रविश्य रावणः -लंकाभटोऽथ रघुनन्दनवेषधारी । पापो जगाम पुरतो जनकात्मजायाः नाम्नापि यस्य कुत इच्छति तस्य रूपादन्याङ्गनापहरणे न मनः कदाचित् १६ जानकी रघुनन्दनवेयधारिणं तमालोक्य (सहर्षम् ) साक्षादालोक्य रामं झटिति कुचतटीभारनम्रापि हर्षादुत्थायोदस्तदोर्भ्यां दरदलितकुचाभोगचैलोन्नताङ्गी । धन्याहं प्राणनाथ त्यज रजन्निचरच्छिन्नशीर्षाणि गाढं मामालिंगाद्य खेदं जहि विरहमहापावकः शान्तिमेतु २० इत्यालिंगितुमिच्छति-रामवेषधारी रावणः-- (सविषादम् ) भूत्वा ततोप्यवसरे जनकात्मजायां लंकापतिर्मकरकेतुशरातुरायाम् । क्लीबो विशीर्णमणिदण्डयुतः स्मरातः पापात्ततः शिव शिवान्तरधीयत द्राक् २१ जानकी-सरमोपदेशाद्रावणं रघुनन्दनवेषधारिणं मत्वा ( सविषादं ) जानकी-हाकाश ! हा धरणि ! हा वरुणार्क ! वायो ! 67 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION वेत्स्यामि धर्म ! कथमागतमात्मनाथम् । (आकाशे) मन्दोदरी रघुशराहतराक्षसेन्द्रं चुम्बिष्यति त्वमपि वेत्स्यसि तत्र रामम् २२ अथ निजकेलिमन्दिरस्थो रावणः -- (स्वगतम्) कृतकृत्येपि रामत्वे वर्तमाने मयि स्थिते निरुध्यन्त्येव ताः सर्वाः पापमूलाः प्रवृत्तयः २३ जनस्थाने भ्रान्तं विषयमृगतृष्णाहतधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृता लंकाभर्तुर्वदनपरिपाटीषुघटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता २४ इति श्रीहनुमन्नाटके रावणप्रपञ्चो नाम दशमोऽङ्कः १० एकादशोऽङ्कः । अथ तत्र सुवेलाद्रिकटके लंकापतेः सकाशादधिगतं दूतमङ्गदं जानकीवल्लभः पप्रच्छ । अये दूताङ्गद ! लंकेश्वरे सन्धिर्न जनिता प्रीतिकारिणी स्यादनुपकारिणी वा ॥ अङ्गदः-राजन् सर्वथेयमनुपकारिणी पुलस्त्यापत्ये प्रीतिरिति भगवानिहोदाहरणम् हरिणाङ्कशेखरस्तद्गुरुत्वात् । उक्षा रथो भूषनमस्थिमाला भस्माङ्गरागो गजचर्मं वासः । एकालयस्थेऽपि धनाधिनाथे सख्यौ दशेयं त्रिपुरान्तकस्य १ रामः-- (विहस्य) भो महावीराङ्गद युवराज वानरभटान्ब्रूहि । भो भोः सुग्रीवसैनिका रात्रौ सावधानतया स्थातव्यं श्वः सूर्योदये रामस्य समरोत्सवो भविष्यति ॥ 68 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] अङ्गदस्तथैव करोति । कटके शयानौ रामलक्ष्मणौ निहन्तुं रावणेन प्रहिता प्रभञ्जनी नाम राक्षसी ॥ उत्खातदारुणसुतीक्ष्णकृपाणिकासौ वीराटवीषु निशि निर्भरतः शयानम् । दृष्ट्वा सुदर्शनगुरुभ्रमणेन गुप्तं रामं निहन्मि कथमद्य वरं वराकी २ तत्रावसरे प्रबुद्धमंगदं वीरमवगम्याधीरं पुनर्गन्तुमुद्यता प्रभञ्जनी । अङ्गदः--(सटोपम्) मा गास्तिष्ठ निशाचरि क्षणमपि स्थित्वा पुनर्गम्यतां यत्रास्ते भुजविक्रमाखिलजगद्विद्रावणो रावणः । अद्याप्यङ्गदबाहुपाशपतिता मूढे किमाक्रन्दसे सिंहस्यान्तिकमागतेव हरिणी कस्त्वां परित्रायते ३ कटके वानरभटास्तद्वोरचीत्कारमाकर्ण्य भैरवरवैर्दोस्तम्भास्फालकेलिमभिनीय साटोपमुत्पाटितमूलोग्रशैलधारिणः प्रचण्डकोलाहलेन लङ्कामाकुलयन्तोऽकूपारस्येव यामिन्याः परं गताः ॥ लंकायां रावणः सूर्योदयमासाद्य वानरवाहिनीको लाहलामर्पमूर्च्छितः समरभूमौ कटकमुत्कटं प्रस्थाप्य लंकाबलशिखरपर्य्यंकमारुह्य पुरः स्थितेन महोदरेण मंत्रिणा सह रामवाहिनीमहिमानं पश्यति स्म । तत्र रामकटके वानराः खेलन्तोखिलवानरा जलनिधौ दृष्ट्वा रणे राक्षसानुत्पाट्याशु विमानमेव जगृहुः पृथ्वीं समां चक्रिरे । दृष्ट्वा तं च विभीषणं रघुपते त्राहीति वाक्यं तदा श्रुत्वासौ हनुमानुपेत्य तरसा प्रीत्या ददर्श स्वयम् ४ लङ्कायां रावणः महोदरं पृच्छति । भो महोदर ! 69 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION कदागतो रामोऽस्माभिर्न विदितं रामागमनदिनम् ॥ महोदरः--(सीतां प्रयच्छतु रामायेति बुद्ध्या साहसमवलम्ब्य ) राजल्लँकेश्वर ! न्यञ्चद्भूवलयं चलत्क्षितिधरं क्षुभ्यत्समस्तार्णवं त्रस्यद्वैरिवधूविलोचनजलप्रारब्धवर्षोद्गमम् । प्रोदंचत्कपिवाहिनीपदभरव्याधूतधूलीपटच्छन्नादित्यपथं कथं न विदितं तज्जैत्रयात्रादिनम् ५ जयप्रयाणे रघुनन्दनस्य धूलीकदम्बास्तमिते दिनेशे । शशिप्रभं छत्रमुदीक्ष्य बाला सूर्योदये रोदिति चक्रवाकी ६ सहायार्थमिन्द्रप्रदत्तं छत्रगजतुरंगावलीसंभवो रामदेवस्य ॥ रावणः --महोदर ! रामः कुत्रास्ते । महोदरः--देव ! पश्य - अङ्के कृत्वोत्तमांगं प्लवगबलपतः पादमक्षस्य हन्तुर्भूमौ विस्तारितायां त्वचि कनकमृगस्याङ्गशेषं निधाय । बाणं रक्षः कुलघ्नं प्रगुणितमनुजेनार्पितं तीक्ष्णमक्ष्णोः कोणेनोद्वीक्ष्यमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ७ अपि च--भ्रूभङ्गाद्वद्धसिन्धू रघुपतिरवताद्वन्दिना वेदितोसौ विष्टस्ते मातुलस्य त्वचि पुनरनुजं मंत्रिणो दत्तकर्णाः । बाणे दत्तार्धदृष्टिस्तव जयपिशुने लक्ष्मणे सस्मितो यः सुग्रीवग्रीवबाहुः कृतचरणभरः सोऽङ्गदे रावणोऽयम् ८ गगनं गिलितं भूमिर्गिलिता गिलिता दिशः सरितः प्लवगैः पीताः सीतापतिपदानुगैः ६ देव महोत्पातं पश्य मध्यन्दिनेऽपि क्वचिन्मीनः कवचिन्मेषः क्वचिल्लंम्बितकृत्तिका । क्वचिन्मृगशिरः साईं नभो व्याधगृहायते १० रावणः --(साभ्यसूयम्) 70 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM अहो महोदरामात्य किमर्थं वल्गसेपश्य- प्रतापं संसोढुं रविरपि दशास्यस्य न विभु- र्निमज्जत्युन्मज्जत्यपरजलधौ पूर्वजलधौ । हरिः शेते वार्धो निवसति हिमाद्रौ पुरहरो विरिञ्चिः किञ्चापि स्वनिजकमलं मुञ्चति न वा ११ अत्रान्तरे यथा रावणो न वेत्ति तथाशोकवनिकास्थित- विमाने जानकीमारोप्य रामं दर्शयति स्म सरमा ॥ विदेहदुहितुर्दृष्टिर्दशग्रीवरिपौ बभौ सुनीलेव मनोरम्ये तमाले मधुपाङ्गना १२ तत्र रामकृटके वानराणाम्- हेमप्राकारजघनां रत्नद्युतिदुष्कूलिनीम् । लंकामेके त्रिकूटस्य ददृशुर्वनितामिव १३ लंकायां रावणः । भो महोदर ! सर्वैर्मन्त्रिभिः प्रबो- ध्यतामयं वीरः कुम्भकर्णः ॥ महोदरः-- यदाज्ञापयति देव इतिनिष्क्रम्य कुम्भकर्णनिद्रालयं जगाम । तत्र कुम्भकर्णप्रियाविरम विरम तूर्णं कुम्भकर्णस्य कर्णान्नखलु तव निनादैरेष निद्रां जहाति । इति कथयति काचित्प्रेयसी प्रेक्ष्यमाणा मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् १४ निद्रां तथापि न जहौ यदि कुम्भकर्णः श्रीकण्ठलब्धवरकिन्नरकामिनीनाम् । गन्धर्वयक्षसुरसिद्धवराङ्गनानामाकर्ण्य गीतममृतं परमं विनिद्रः १५ स्वकटके मारुतिः - [Hanuman Nātakam] 71 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION जृम्भासंभारभीमभ्रुकुटितटनटत्कुम्भकर्णाट्टहासव्यासव्याकोशवक्त्रव्यतिकरचकितप्राणिपुण्यप्ररोहः । लीलालोलन्मृणालीमृदुमिथिलसुतासङ्गभूपालहंसः पायात्सिन्दूरपूर्वाचलशिखरशिरः शेखरो रामचन्द्रः १६ लंकायां कुम्भकर्णः सुप्तोत्थितः कवलयन् पलशैलजालं तीव्रासवं परिपिबन्नपि कुम्भकर्णः । तृप्तिं जगाम न तथेत्यवदत् सुराया गंगां पिबामि यमुनां सह सागरेण १७ स्वकटके रामः-उपस्थितं वीक्ष्य तमाह रामो लंकाशिरोनिर्मितजानुदघ्नम् भो मारुते यन्त्रमुदस्तमेतत्किन्नेत्यवादीत्स च कुम्भकर्णः १८ कुम्भकर्णः--( रावणसमीपभागमागम्य ) भो राजन् ! यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम् । तथापि शास्त्रदीपेन संचलन्त्यवनीश्वराः १६ (रामाय जानकी दीयतामित्यभिप्रायः) रावणः इदं भ्रातृवचः श्रुत्वा तथेत्याह दशाननः । शास्त्रनिःसंशया वाचः सतां कस्य न वल्लभाः २० जानकीं न समर्पयामीत्यभिप्रायाद्रावणः -- ( सावज्ञम् ) उत्क्षिप्तस्फटिकाचलेन्द्रशिखरश्रेणीनिघृष्टाङ्गदैरेभिः पीनतरैः सुरासुरभयप्राप्तप्रतिष्ठैर्भुजैः । संग्रामे मम कुम्भकर्ण विजयः किं त्वद्भुजाडम्बरः । प्रत्याशाशिथिलोस्म्यहं व्रज पुनः स्वापाय निद्रालयम् २१ कुम्भकर्णो भीममालम्ब्य-राजन्मागा विषादं परिहर बलवद्विद्विषः शोकशल्यं 72 —— MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀṬAKAM [Hanuman Nātakam] कल्याणान्याश्रयन्तामहमहमिकया नो भवन्तं जहामि । कः कालः को विधाता किमरिकुलभयं को यमः के च याम्याः को रामः के कपीन्द्राश्चलति मयि रणे रोषिते कुम्भकर्णे २२ रावणः ( सानन्दं ) महाबलपराक्रमै राक्षसभटैः परिवृतो रणप्राङ्गणेऽवतरतु वत्सः । कुम्भकर्णः । (सोक्षेपं) तथा कृत्वा -अयि कपिकुलमल्लाः किं मुधा यात भीता नहि जगति भवद्भिर्युद्ध्यते कुम्भकर्णः । अपि जलधरपोतो लेढि किं स्वल्पकुल्या मपि मशककुटुम्बं केसरी किं पिनष्टि २३ अपिच-नाहं वाली सुबाहुर्न खरत्रिशिरसौ दूपणस्ताटकाहं नाहं सेतुः समुद्रे न च धनुरपि यत्र्यम्बकस्य त्वयात्तम् । रेरे राम प्रतापानलकवलमहाकालमूर्त्तिः किलाहं वीराणांमौलिशल्यः समरभुविचरः संस्थितः कुम्भकर्णः २४ ( ततो गगनमुत्पत्य) सुग्रीवं बाहुमूले प्लवगबलपतिं कण्ठदेशे भुजेन क्षिप्त्वा निष्पीड्य गाढं रजनिचरपुरीं संदधानो जगाम । सानन्दं कुम्भकर्णस्तदनु कपिभटस्तस्य तूर्णं सक घ्राणं जग्ध्वा जगाम स्वशिबिरमुदरं कूपरणाभियत्य २५ निःश्वस्योत्सृज्य बाष्पं नयनकमलयोश्चात्मनो वारि दत्त्वा कृत्वा लंकोपगूढं सकरुणमपुनर्भावि नीत्वा त्रिशूलम् । क्रोधान्धः कालमूर्तिः प्रलयहुतवहाङ्गारनेत्रो विकर्णंश्छिन्नघ्राणोऽवतीर्णः पुनरपि समरप्राङ्गणे कुम्भकर्णः २६ तं दृष्ट्वा जीविताशं गिरिवरकुहरं त्रस्तचित्ताः कपीन्द्राः केचित्पादान्तवातप्रचलितपवनान्दोलिताः खे चरन्ति । 73 [Hanuman Nātakam] इतिहास ITIHĀSA केचिद्दोर्दण्डचण्डभ्रमणनिपतिताः शोणितान्युद्गिरन्ति प्राणान् केचित् प्रवीराः कथमपि दधति स्फीतफूत्कारभिन्नाः २७ उत्क्षिप्य शूलमजयं त्रिपुरान्तकस्य MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION संहारकेतुमिव कोटितडित्प्रभाभिः । घोरं ज्वलन्तमुरसि क्षिपति स्म रक्षस्तारापतेस्तदिपुणा रघुणा निरस्तम् २८ क्रोधाग्नेर्जाठराग्नेः कपिशिबिरगतो मुद्गरं व्याददानो वक्त्रे निक्षिप्य कोटिं कवलयति भटानुत्कटान्कुंभकर्णः । कांश्चित्पद्भ्यां पिनष्टि श्वसनसहचरा वानराः कर्णरन्ध्रान्निर्गच्छन्त्येक एतान्पुनरपि दशनैश्चर्वितानत्ति घोरम् २६ सव्येन सान्द्रशिबिरं स्वकरेण धुन्वन्व्यात्ताननस्य कटकं तत उत्तरेण । सुग्रीवमेव कपिवीरवरेषु सत्सु जग्राह कोपकलितो युधि कुम्भकर्णः ३० तातं विलोक्य विषमस्थमथांगदस्तं गारुत्मतेन भुवि पातयतिस्म शत्रुम् मुक्तोऽपि निःश्वसति यावदसौ कपीन्द्रस्तावद्वबन्ध नरसिंहपदाङ्गदं सः ३१ दृष्ट्वा नीलस्तदुभयमपि ग्रस्तमाक्रम्य रक्षःस्कंधे मौलौ श्रवणकुहरे घ्राणवक्त्रोदरेषु । तीव्रज्वालो दहति कुपितः स्वेन रूपेण वीरः क्रव्यादोऽभूत्तदनु विकलः प्रोत्थितौ वानरेन्द्रौ ३२ लंकाशिरःस्थो रावणः लंकेश्वरस्तमवलोक्र्य रणे ज्वलन्तं कादम्बिनीसहचरामृतवारिधाराम् । तूर्णं मुमोच तदुपर्युपलब्धसंज्ञो 74 श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀȚAKAM भोक्तुं कृतान्त इव नीलनलौ स दध्यौ ३३ जाम्बवान्दम्भोलिं कुम्भकर्णं गिरिमिव तरसा पातयञ्जानुबन्धं कण्ठं गाढं विरच्य स्वभुजगुरुमदं जाम्बवानुग्रवेषः । निर्मुक्तौ तावभूतामभवदथ मरुत्पुष्पवृष्टिस्तदङ्गे गुल्फाघातेन रोपाद्रजनिचरवरस्तन्निरस्योपतस्थौ ३४ आलक्षितो रघुवरेण सलक्ष्मणेन कालान्तकादिव रिपोः परिशङ्कितेन । स्थानं जगाम हनुमान्समरेऽवतीर्य माहेश उग्रनरसिंह इवारुणाक्षः ३५ मैनाको मेरुशृङ्गस्थित इव हनुमत्पाणिपद्ये नगेन्द्रः कल्पान्ते मन्दराग्रेऽजन इव समरे मुद्गरः कुम्भकर्णे । अद्रिं क्रव्यादवीरः प्रहितमनिलजेनाच्छिनन्मुद्गगरेण लांगूलेनाञ्जनेयोद्भुतजनितरुषा मुद्गरं द्राक् चकर्ष ३६ रामः । MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION अत्रान्तरे रघुपतिः शरयुग्ममैन्द्रं द्राक्कुम्भकर्णनिधनाय रणे मुमोच । भित्त्वा बिभेद हृदयं धरणीमथैको मूर्धानमुद्धतमरखण्डयदस्य चान्यः ३७ हनुमान् । उद्यन्मरुत्तनयचण्डचपेटघातान्मूर्धा पयात तुहिने रजनीचरस्य । भग्नो भविष्यति यदम्भसि भीमसेनो बभ्राम पुच्छनिकृतो गगने कबन्धः ३८ लक्ष्मणःदेवाः सर्वे विमानान्यपनयत रवेः स्यन्दनो यातु दूरं 75 [Hanuman Nātakam] [Hanuman Nātakam] इतिहास ITIHĀSA रे रे शाखामृगेन्द्राः परिहरत रणप्राङ्गणं राक्षसाश्च । वज्रत्रस्ताञ्जनाद्रिप्रतिनिधिरवधिः लंकातङ्कैकहेतुर्निपतति सर्वविस्मापकानां नभसः कौम्भकर्णः कबन्धः ३६ (मृतः कुम्भकर्णः ) उत्क्रान्तोऽपि स्वदेहात्प्रवरसुरवधूदोर्भिराकृष्यमाणः प्राणत्राणाय भर्तुः पुनरपि समरापेक्षया नारुरोह । संगीतैर्नारदाद्यैर्मृदुमुरजरवैः स्तूयमानो विमानं वीरः संग्रामधीरः शिव शिव स कथं वर्ण्यते कुम्भकर्णः ४० लङ्काशिखरस्थो रावणः -- (सविस्मयम् ) मरुच्चन्द्रादित्याः शतमुखमुखास्ते क्रतुभुजः पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् प्रकोपव्याकम्पाधरतटपुटैर्वानरभटैः समाक्रान्ता सेयं शिव शिव दशग्रीवनगरी ४१ इति श्रीहनुमन्नाटके कुम्भकर्णवधोनामैकादशोङ्कः ११ MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION द्वादशोऽङ्कःरावणः सक्रोधं--तूर्णं पूर्णकटकं पुत्रमिन्द्रजितं दुष्करसमरयज्ञे अध्वर्युं वृणोति स्म इन्द्रजित्सत्वरं कुम्भकर्णवधामर्षमूर्च्छितः सीतापतिवधे बद्धलक्ष्यः समरचत्वरेऽवतीर्णः । इतोलक्ष्मणो धनुर्गुणटणत्कारैर्धरणिगगनान्तरमापूरयन्कोपानलज्वालावलीभिः सलङ्काधिपां लङ्कां कवलयन्घोरसमरनासीरेवतरति स्म । रावणिः--(लक्ष्मणमवलोक्य ) नाहं सौमित्रिकोपस्य जानेऽल्पमपि कारणम् नूनं चञ्चलबुद्धीनां स्नेहकोपावकारणौ १ अपिच-76 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM क्षुद्राः संत्रासमेनं विजहत हरयो भिन्नशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः किंचिद्भूभङ्गलीलानियमितजलधिं राममन्त्रेषयामि २ सुग्रीवमारुतिनलाङ्गदनीलमुख्या बाष्पान्धकारजलदान्तरितं प्रचण्डम् । तं रावणिं जलदमण्डलमास्थितं नो पश्यन्ति तान्प्रहरति स्म स घोरबाणैः ३ मायारथं समधिरुह्य नभः स्थलस्थो गम्भीरकालजलदध्वनिरुज्जगर्ज । बाणैरपातयदहो फणिपाशबद्धैस्तौ मेरुमन्दरगिरी पविनेव शक्रः ४ अत्रान्तरे पूर्ववैरमनुस्मरन्ती चक्रवाकी सरोवरस्थाशशाप यो मे दयितं स रामः सलक्ष्मणो रावणिबानजालैः । रणे हतोऽयं मुदमुद्वहन्ती चन्द्रोदये नृत्यति चक्रवाकी ५ ) सरमा-[Hanuman Nātakam] श्रुत्वा हतिं दशरथात्मजयोर्विमानमारुह्य पुष्पकमवाप्य दशाननस्य । आज्ञां निनाय सरमा जनकस्य पुत्रीं सीताविदीर्णहृदयासि दिवं गतासि ६ जानकी-किं भार्गवच्यवनगौतमकाश्यपानां वाणी वसिष्ठमुनिलोमशकौशिकानाम् । जाताऽनृताप्यहह आलपिता त्वया मे 77 [Hanuman Nātakam] इतिहास ITIHĀSA स्यान्मग्नचूचुककुचा सधवेति राम ७ हा राघव प्रियतम स्फुरतीह वामो बाहुस्तथा नयनमप्यनृतं किमेतत् । नाद्यापि यन्मधुरनिर्मलदृष्टिपातैः संभावयस्यपि विलासगिरा भुजाभ्याम् ८ उक्तं च यतः MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION संमानितापि न तथा मुदमभ्युपैति मात्रानुजेन जनकेन तथाग्रजेन । श्राश्वासितापि रमणी रमणेन तूर्णं प्रेम्णा यथा मधुरनिर्मलदृष्टिपातैः ६ प्राणेश्वरः प्रतिगिरं न ददाति रामो हा वत्स लक्ष्मण ममापनयेन रुष्टः । मद्वत्सलस्त्वमपि नोत्तरमाददासि भ्रान्त्वा भुवं मम कृतेऽथ दिवं गतौ वा १० स्वर्गादिमौ झटिति मानवलोकयन्तौ न ब्रह्मलोकमधिगच्छत एव तावत् । प्राणा दिवं व्रजत साधुगिरा मुमोच श्वासानिलं जनकजा सह सङ्गरेण ११ समरादपहृतं विमानं सरमया रावणभयादित्यभिप्रायः । अत्र वैकुण्ठाद्गरुडः-हाहाकारं निशम्य त्रिभुवनविदितं रावणेः कर्म घोरं क्रोधाग्नेर्धूमधाटीदलितरिपुकुलं त्रासयन्राक्षसेन्द्रम् । पक्षाघातप्रचण्डप्रचलितपवनध्वस्तशैलेन्द्रपातैः संप्राप्तो वैनतेयः स्रवदमृतरसो जीवयामास रामम् १२ रावणिः - (सभयं रणसंकटमुपलभ्य सप्रपञ्चम् ) 78 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM पापो विरच्य समरे जनकस्य पुत्रीं हा राम राम रमणेति गिरं गिरन्तीम् । खड्गेन पश्यत वदन्निति रे प्रवीरा मायामयीं शिवशिवेन्द्रजिदाजघान १३ द्विधा कृतां तां पुनराददानो मायारथस्थोऽम्बरवर्त्मना च ब्रह्मोपदेशात्स निकुम्भिलाद्रेर्न्यग्रोधमूलावटमाजगाम १४ (समरचत्वरे) रामः-दृष्ट्वा मायाजनकतनयाखण्डनं रामचन्द्रो गुर्वीमुर्वीतलमुपगतो दीर्घमासाद्य मूर्च्छाम् । तत्पादाग्रे पुनरनुजनिश्चेतनां प्राप्य रामं कृत्वोत्संगे स्मरसि न गिरं व्याहरन्नित्यरोदीत् १५ लक्ष्मणः - सिंचत्येनं विकचनलिनीगर्भनिर्मुक्तवारा धारासारैर्मलयजरसै रामधर्मोऽप्रमाणम् । यस्मादेतां त्वमपि पदवीमास्थितो ब्रह्मशापादित्यालापैर्विलपति दृशा लक्ष्मणश्चक्रवाक्याः १६ सा यथा-एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं भानोर्बिम्बं सजलगलितेनापरेणात्मक्रान्तम् । अह्नश्छेदे दयितविरहाशंकिनी चक्रवाकी द्वौकी विसृजति रसौ रौद्रकारुण्यसंज्ञौ १७ तत्र निकुम्भिलाद्रौ न्यग्रोधमूलेऽवटे रावणिः--(सत्वरम्) [Hanuman Nātakam] कुण्डे विभीतकसमिद्भिरथार्धचन्द्रे शक्रेभकुम्भदलनः पलमाजुहाव । हनूमान्-79 [Hanuman Nātakam] इतिहास ITIHĀSA शत्रुंजये रथवरेऽर्धसमुद्गतेऽग्नेर्यज्ञं बभञ्ज तरसा हनुमानुपेत्य १८ लक्ष्मणः रणप्राङ्गणे शनैश्चरादाप्य दाशरथेनार्पितं संहारास्त्रमनुस्मृत्य सानन्दं शोकमपहाय रे रे मायारथारूढप्रौढबाहशालिन्मेघनाद मायां विभिद्य त्वां यमलोकं प्रस्थापयामि पश्य । दोः स्तंभास्फालकेलिस्फुटविकटरवध्वस्तघोरान्धकारः संहारास्त्रं नियोज्य स्वधनुषि धरणीं पाणिनाहत्य वीरः । क्रोधान्धो रावणस्य ज्वलदनलशिखामुद्गिरन्पाणियुग्मे स्थित्वा चिक्षेप सौमित्रिरथ दृढशिरो मेघनादस्य साद्रि १६ इति श्रीहनुमन्नाटके मेघनादवधो नाम द्वादशोऽङ्कः समाप्तः १२ ब्रह्मा MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION त्रयोदशोऽङ्कः । (सक्रोधम्) लङ्केश्वरः सुतवधारुणवक्त्रचक्रस्तत्रैकवीरनिधनां क्षिपति स्म शक्तिम् । सौमित्रिवक्षसि रुचार्धपथे ज्वलन्ती क्षिप्ताम्बुधौ हनुमता तरसा गृहीत्वा १ ( रावणः शक्तिग्रहणमवलोक्य सक्रोधं ब्रह्माणं हन्तुमुद्यतः ब्रह्मा सभयं नारदं सस्मार ) नारदः (प्रविश्य ) तात किमिति स्मृतोऽहम् ॥ वत्स ! यावन्मारुतिः समरभूमौ तावदेकवीरघातिनी- शक्तिर्लक्ष्मणं न भिनत्ति । तस्मिन्पुनरभिन्ने लंकेश्वरो मां नितरां हनिष्यतीति मत्वा समरतः पवनपुत्रः स्थानान्तरं नेयः ॥ नारदः-- यदाज्ञापयति तात इति (निष्क्रम्य ) 80 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM द्राङ् नारदोऽथ पितृभङ्गभयादनैषीत्स्थानान्तरं समरतः पवनस्य सूनुम् । लंकापतेर्दृढचपेटभवत्प्रहारा-जग्नाह रामरिपुरत्र विधेस्तु शक्तिम् २ रावणः [Hanuman Nātakam] दृष्ट्वा शक्तिग्रहणमधिकं राक्षासेन्द्रः कृतान्तक्रोधाध्मातो ज्वलितहृदयाग्निस्फुलिङ्गोग्रवेषः । तामेव स्म क्षिपति निधने लक्ष्मणस्योग्रमन्त्रै र्भित्वा वक्षःस्थलमपि गता भूतलं कूर्मराजम् ३ शक्तिः प्रौढोग्रतेजःप्रलयसमुदिताद्रावणात्कोपमानागर्जन्ती दीपयन्ती ज्वलितदशदिशो लक्ष्मणं वेधयन्ती । हाहाकारप्रलापं सकलजनभवं देवदैत्येन्द्रकम्पं ब्रह्माद्यैः स्तूयमाना भुजगपतिपुरं कारयन्ती जगाम ४ (अत्रान्तरे स्थानान्तरादागत्य हनुमता) पश्चात्तापगते विभीषणबले क्षीणे प्लवङ्गेश्वरे मूढे जाम्बवति प्लवङ्गमगणेऽसंभूय भूयः स्थिते । शक्तिप्रौढमहाप्रहारविधुरे मूर्च्छागते लक्ष्मणे हा रामे विलपत्यहो हनुमता प्रोक्तं स्थिरैः स्थीयताम् ५ अथ विभीषणः रात्रौ ज्वलदुल्मुकं करे कृत्वा शिबिरं पर्य्यटन् प्रौढशक्तिज्वालावलीकवलितान् वानरान् पश्यति स्म को जीवति न वेति तत्र जांबवन्तमेवापश्यदुपविष्टं मूर्च्छारहितं नान्यम् । जाम्बवान् (विभीषणं प्रति) अञ्जनी सुप्रजा येन मातरिश्वा तु राक्षस । हनूमान्वानरश्रेष्ठः कामं जीवति वा न वा ६ 81 [Hanuman Nātakam] इतिहास ITIHĀSA विभीषणः - नैव राजनि सुग्रीवे नैव रामे न चाङ्गदे आर्येण दर्शितः स्नेहो यथा वायुसुते पुरः ७ जाम्बवान्-भो राक्षसेन्द्र विभीषण ! तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् । हनूमति गतप्राणे जीवन्तोपि हता वयम् ८ ततः सत्वरं जाम्बवता सह विभीषणः पृष्ठोपस्थितं मारुतिं विलपन्तं रामचन्द्रमनुस्मरति । रामः-(विभीषणमवलोक्य) गिरीन्यास्यन्त्यमी वीरास्त्वयि वत्स दिवं गते मरिष्यामि ससीतोहं क्व यास्यति विभीषणः ६ भुक्ते मयि प्रथममत्सि फलानि वत्स सुप्ते करोषि शयनं मयि जीवति त्वम् । प्राणाञ्जहासि सुरलोकसुखाय किंवा सापत्नभावमहह प्रकटीकरोषि १० (इति तारस्वरैः सर्वे रुदन्ति ) MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रामः-हा वत्स लक्ष्मण धिगस्तु समीरसूनुं यस्त्वां रणेपि परिहृत्य पराङ्मुखोऽभूत् । गोपायतीह भरतस्तु ममानुजः किं यस्त्वामधिज्यधनुरुद्धतशक्तिपातात् ११ (अलमस्मद्वथायौवनशस्त्रभरेणेति सशरं धनुस्त्यक्तुमिच्छति ) (हनूमान्निजापराधेन सकरुणं भरतबाहुवर्णनाकर्णनेन साभ्यसूयं सत्वरं गारुडस्थानमभिनीय रामपुरतः स्थित्वा ) 82 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM देव ! पश्य-सप्ताम्भोनिधयो दशैव च दिशः सप्तैव गोत्राचलाः पृथ्व्यादीनि चतुर्दशैव भुवनान्येकं नभोमण्डलम् । एतावत्परिमाणमात्रकटके ब्रह्माण्डभाण्डोदरे क्वासौ यास्यति राक्षसो रघुपते किं कार्मुकं त्यज्यते १२ रामः--भो मारुते तथापि मामुन्मथ्य जागर्ति लंकाभटः ॥ हनूमान् -- देव ! पश्य, नीचैः सह मैत्री न कर्तव्या यतःखलः करोति दुर्वृत्तं नूनं पतति साधुषु । दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः १३ दैवादप्युत्तमानां परिहरति यदा दुर्जनो वा कदाचि न्मानं नाप्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् । स्वर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मिर्मरीचीन्ब्रह्माण्डस्येह खण्डे तदपि रघुपते किं ग्रहेशत्वमेति १४ रामः-- अये हनुमन् ! किं तया क्रियते वीर कालान्तरगतश्रिया अरयो यां न पश्यन्ति बन्धुभिर्वा न भुज्यते १५ हनूमान्-[Hanuman Nātakam] (लक्ष्मणं विषमस्थितमवलोक्य लक्ष्मणवक्षोभिन्नं दृष्ट्वा ( सविस्मयो रामम् ) हनुमति कृतप्रतिज्ञे दैवमदैवं यमोऽप्ययमः । ) पुनर्देव ! पश्य-पातालतः किमु सुधारसमानयामि निष्पीड्य चन्द्रममृतं किमुताहरामि । उद्दण्डचण्डकिरणं ननु वारयामि कीनाशपाशमनिशं किमु चूर्णयामि १६ रामः--( श्रात्मगतम् ) 83 [Hanuman Nātakam] इतिहास ITIHĀSA यद्यदुक्तमनेन महावीरेण तत्तदिदानीमेव कृत्वा दर्शयति परन्तु तत्करणादकालेपि महाप्रलयः स्यात् । (इति विचार्य प्रत्याह ) - वैद्यं सुषेणमधुनैव तदानय त्वं लंकापतेरनुचरोपि यतो भिषक्सः । नैवान्यथा वदति रामगिरा हनूमान्पर्य्यङ्कसुप्तमचिरेण तमानिनाय १७ सुप्तोत्थितं रघुपतिर्भिषजां वरिष्ठं पप्रच्छ तं सकरुणं तरुणोपचारम् । स व्याजहार हिमरश्मिरुचा रजन्यां जीवत्यसौ द्रुहिणशैलविशल्यवल्ल्या १८ तत्र रामेणाहूता वानरभटा द्रुहिणाद्रिगमनाय रामपुरतः स्वस्वपराक्रमानुरूपं समयावधिमूचुः । नलस्त्रिरात्रं पुनरेति गत्वा तत्रैव मैन्दद्विविदौ द्विरात्रम् । सुग्रीवनीलौ पुनरेकरात्रं वीरोऽङ्गदो यामचतुष्टयेन १६ ( रामः सभयम् -- आर्तः संकुचितमुखकमलः समरसंकटे भगवतो रुद्रावतारस्य मारुतेः साशंकमुखकमलविकाशं पश्यति हनूमान्--(सत्वरं सकरुणं गारुडस्थानमास्थायाञ्जलिपुटमभिनीय ) देव क्षणं स्तम्भ्यतामात्मा यावदेनं भिषक्चक्रचूडामणिं लंकां प्रवेश्यागच्छामि ॥ ( तथा कृत्वा) नीत्वा लंकां सुषेणं पुनरनिलसुतः प्रार्थयामास रामं देवाज्ञां देहि वीरास्तव हितकरणोपस्थिताः सन्ति सर्वे । लक्षाणां षष्टिरास्ते द्रुहिणगिरिरितो योजनानां हनूमांस्तैलाग्नेः सर्षपस्य स्फुटनरवपरस्तत्र गत्वात्र चैमि २० 1) MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION 84 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] रामः--( सहर्षम् ) तथा करोतु वीरः ! हनूमान्-ध्यात्वात्मानं प्रणम्य प्रभुमवनिसुतावल्लभं तस्य वाक्यं नीत्वाऽयोध्यां गमिष्यस्यखिलकुशलतामानयिष्यस्यपीति । चंडोड्डीनं चकार द्रुतमथ जननीलक्ष्मणस्योपलभ्य स्वप्ने व्यालः समूलं कवलयति भुजं वाममुत्तस्थुषीति २१ प्रोवाच कोसलसुतापुरतोद्भुतं सा स्वप्नं च सा मुनिवशिष्ठपुरोहितस्य । पार्श्वे नियोज्य सशरं धनुरादधानं शान्तिं चकार भरतं मुनिराज्यहोमैः २२ ( तत्र द्रोणाद्रिशिखरे ) हनूमान्-दृष्ट्वा सर्वास्तुहिनकिरणोद्यत्प्रभास्तत्र शैले वल्लीरत्नान्यमरखदिराङ्गारभास्वन्ति वीरः । भ्रान्त्वा दोर्भ्यां गिरिमुदहरन्नोत्पपातैष तातं सस्मारायं द्रुतमुपगतस्तद्वलेनोजहार २३ तत्रायोध्यायां शान्तिमण्डपे कुण्डसमीपस्थौ भरतवशिष्ठौ -हुत्वा श्रीखण्डकाण्डं सतगरकुसुमं पुण्डरीकं मृणालं कर्पूरोशीरगर्भं प्रचुरघृतयुतं नारिकेलं जुहाव । तूर्णं पूर्णाहुतिं स ज्वलदनलनिभं शैलमादाय वीरः प्राप्तस्तत्राञ्जनेयः स किमिति भरतस्तं शरेणाजघान २४ ( तदा भरतबाणेन भिन्नो हनूमान् भरतदोर्द्दण्डमुक्तकाण्डप्रचण्डप्रहारमूर्च्छितविधिलिखिताक्षरपंक्तिलोपात्प्राणान्परित्यक्तुमिच्छन् ) पुंखावशेषभरतेषुललाटपट्टो हा राम लक्ष्मण कुतोहमिति ब्रुवाणः । संमूर्च्छितो भुवि पपात गिरिं दधानो लांगूलशेखररुहेण सकेसरेण २५ 85 [Hanuman Nātakam] इतिहास ITIHĀSA तत्र वशिष्ठभरतादयः सर्वे-- ( सविस्मयम् ) सर्वे निशम्य सहलक्ष्मणरामनाम तत्रोपगम्य हनुमत्पदयोर्निपेतुः । वृत्तं च तस्य वचनादपनीय शल्यं मूर्च्छा जहार स मुनिर्गिरिजौषधीभिः २६ हनुमान्--( साभ्यसूयम् ) MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION जिज्ञासया भरतबाहुपराक्रमस्य रामस्तु तस्य युधि लक्ष्मणशक्तिभेदे । श्रान्तोऽहमित्यथ गिरिं नय तं कुमारवाक्यं जगाद हौन्मान्भरतं सरोषः २७ 'भरतः रामलक्ष्मणयोः समरसंकटमुपलभ्य गगनमण्डलभ्रान्तनिजभुजाटोपनाय दोधूयमानधनुर्गुणटणत्कारमभिनीय ) ( अत्रान्तरे स्वकटके ) --रामःवत्सोत्तिष्ठ धनुर्गृहाण रिपवः सैन्यं विनिघ्नन्ति नः किं शेषेऽद्य निराकृताः किमरयः प्रत्याहृता वा प्रिया । भ्रातर्देहि वचो विभेति हृदयं भ्रातः प्रिये छिन्धि मां कैकेयि प्रियसाहसे सुतवधान्मातः कृतार्था भव २८ तत्रैव-- श्रुत्वेति तस्य वचनं भरतः शराग्रे साद्रिं कपिं समधिरोप्य गुणे नियुज्य । मोक्तुं दधे झटिति कुंडलिनं चकार तुष्टाव तं परमविस्मयमागतः सः २६ हनूमान्-उत्तीर्य बाणात्कुशलं गृहीत्वा सम्पूज्य बाहुं भरतस्य वाग्भिः । मनो दरिद्रस्य यथा दिगन्तं तथा हनूमाञ्छिबिरं जगाम ३० अद्रिं रुद्रावतारः प्रलयसमुदितद्वादशार्कानुकारं 86 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] द्रोणं दोष्णा दधानः कटकनिकटतामागतोऽप्यर्धरात्रे । दिग्भागोत्तालदृष्टिस्तरलतरसरस्तीरमास्थाय वीरस्तारं धीमानरोदीत्तदनु सह मुदा वाहिनीमाजगाम ३१ ( पर्वतोद्योतनेन सूर्य्योदयभ्रमात् सरोवरस्थं विकसित कमलमालोक्य प्रातराशङ्कया लज्जावानरोदीत् । तदनु दिग्भागानवलोक्य सूर्य्योदयमपश्यन्मुदं प्राप्य हा ज्ञातं पर्वतोद्योतनेन सूर्य्योदयभ्रमात्कमलविकास इति हर्षेण सह स्ववाहिनीं जगाम ) हत्वा मायामहर्षीव्रजनिचरवरां कन्धकालीमुदग्रां ग्राहीरूपां प्रमथ्य प्रबलमथ बलं राक्षसान्मर्दयित्वा । जित्वा गन्धर्वकोटिं झटिति ततमणिज्वालमादाय शैलं प्राप्तः श्रीमान्हनूमान्पुनरपि तरसा नन्दितस्तत्पुरस्तात् ३२ रामसुग्रीवादयः सर्वे (सहर्षम्) यो मैन्दद्विविदादिवानरचमूचक्रस्य रक्षाकरः संहर्ता रणभङ्गभैरवरवोल्लासस्य लंकापतेः । सीतातंकमहान्धकारहरणप्रद्योतनोऽयं हरिः संप्राप्तः पवनात्मजः पटुमहः श्रीकण्ठवैकुण्ठयोः ३३ कपिकटकभटानां गण्डगोपालनामा समरशिरसि धीरो योञ्जनायास्तनूजः । दिशतु विशदलक्ष्मीं लक्ष्मणस्यात्मनः श्रीचरणनलिननत्या नित्यसत्योदयश्रीः ३४ रामः--एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । प्रत्यक्षं क्रियमाणस्य शेषस्य ऋणिनो वयम् ३५ (सदयम्) अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं कपे । भवान्प्रत्युपकारार्थमापत्सु लभतां पदम् ३६ 87 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION लक्ष्मणः-आलेपितो हनुमता गिरिजौषधीभिमूर्च्छा विहाय सशरं धनुराददानः । रामारविन्दतरणिर्धरणीधरात्मा लंकापतेः कुपितकाल इवोपतस्थौ ३७ क्रोधारुणः प्रोत्फुल्लत्खदिराङ्गारनेत्रो रामः धनुर्गुणटणत्कारमभिनीय-(सहर्षं सबाष्पं सपुलकं च लक्ष्मणं गाढमालिंग्य ) हा लक्ष्मण प्रौढशक्तिभेदरवेदं जहि मम हृदयपर्यङ्के हा मेघनादकुलकमलिनीप्रालेयवर्ष वत्स एतावतीं वेदनां न वेत्सि ॥ लक्ष्मणः--आर्य ! ईषन्मात्रमहं वेद्मि स्फुटं यो वेत्ति राघवः । वेदना राघवेन्द्रस्य केवलं व्रणिनो वयम् ३८ इति श्रीहनुमन्नाटके लक्ष्मणशक्तिभेदो नाम त्रयोदशोऽङ्कः १३ चतुर्दशोऽङ्कः ततः प्रातःकाले रावणो लोहिताक्षं दूतमाहूय समादिशति । रे लोहिताक्ष वानरवाहिनीं गत्वा राममिति ब्रूहि । ये राम जामदग्न्यं निर्जित्य यस्त्वया हरप्रसादपरशुर्गृहीतस्तं रावणाय प्रयच्छ ततस्तव सीतां प्रयच्छामि । लोहिताक्षः-यदाज्ञापयति देवः । ( इति गगन मुत्पत्य रामशिबिरे ततो रामं नमस्कृत्योपस्थितः ।) रामस्तं रावणदूतं ज्ञात्वा पृच्छति अये लोहिताक्ष ! किं करोति राक्षसगणः । 88 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM लोहिताक्षः--देव! अधाक्षीन्नो लंकामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवराम् ॥ इति स्मारंस्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः १ रावणः रामः -- (विहस्य) किमर्थमागतोऽसि । लोहिताक्षः-देव भृगुपतिं निर्जित्य गृहीतं हरप्रसादपरशुं रावणाय प्रयच्छ ततस्तव सीतां समर्पयिष्यति लंकेश्वरः ॥ रामः (विहस्य) दूत पश्य । पौलस्त्यप्रणयेन तावकमतिं स्मृत्वा मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । यद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही तुभ्यं ब्रूहि रसातलं बलभिदे निर्जित्य किं दीयताम् २ अथ देवराज इन्द्रः रामाय शत्रुंजयं रथवरं वितरतिस्म । रामोपि हनूमन्तं रथध्वजाग्रमारोप्य स्वयं रथारोहणं नाटयति--तथाविधं तमालोक्य लोहिताक्षो निष्क्रान्तः ॥ लंकाशिखरस्थो रावणः -- अये लोहिताक्ष ! कोसौ दाशरथेर्ध्वजे वर्तते ॥ लोहिताक्षः--देव ! हेलोल्लंघितवारिधिर्जनकजाविश्लेषशुष्यन्मनःकौसल्यासुतदैन्यपाटनपटुर्ग्रस्तांशुभूमण्डलः । निर्दग्धाखिलराक्षसेन्द्रनगरः सौमित्रिसंजीवना-योत्खातौषधिपर्वतश्च मरुतः पुत्रो ध्वजे वर्तते ३ [Hanuman Nātakam] 89 .-= (सत्वरं मन्दोदरीमन्दिरं प्रविश्य) अयि मन्दोदरि ! [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रामाय प्रतिपक्षवृक्षशिखिने दास्यामि वा मैथिलीं युद्धे राघवसायकैर्विनिहतः स्वर्गं गमिष्यामि वा । नीतिज्ञे कथयस्व देवि कतमः पक्षो गृहीतस्त्वया सुश्राव्यं पदमस्मदीयमगमन्मन्मात्रशेषं बलम् ४ मन्दोदरी--(विहस्य) अयि प्राणनाथ लंकेश्वर ! दृष्ट्वा दैन्यं भगिन्याः श्रुतखरनिधनं मातुलस्यापि नाशं तालानां भेदनं यत्कपिवरदहनं बद्धसुग्रीवसख्यम् । कर्माण्युद्यानभङ्गे जलनिधितरणं यो न जातस्तदानीं सोऽयं नष्टे कुलेऽस्मिन्कथमिव गमितो जायते ते विवेकः ५ रावणः--(सापत्रपं साभ्यसूयम्) धिग्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामठिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः । धिक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसभटाञ्जीवत्यहो रावणः ६ मन्दोदरी--(सकरुणम् ) शोकं लंकेश मागाः कुरु चिरमपुनर्मा विगूढोपगूढं देवाज्ञां देहि योद्धुं समरमवतराम्यस्मि सुक्षत्रिया यत् ॥ रावणो विदीर्यमाणहृदयः-मैवं कान्ते स्वकान्ते तरुणय करुणां प्राणरङ्कः किमेको लंकां सन्त्यज्य शंकां शिव शिव समरायोद्यतो राक्षसेन्द्रः ७ अथ रामाज्ञया वानरभटाःउद्यद्दिक्पालकोलाहलबहलमदावग्रहोग्राभिरक्षणां ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुद्ग्रीवयन्तः एते निः शेषसेतुग्रथनसमधिकैः शस्त्रिणः शैलपादै रुद्दामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ८ 90 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] जलमध्ये रुद्रपादाद्रिशिखरगतो रामरावणयो- र्युद्धं निरीक्ष्यमाणो रुद्रः कपिभटैः संवेष्टितां लंकां विलोक्य ॥ मरुद्रुद्रादित्यौ शतमुखमुखास्ते क्रतुभुजः पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् । प्रकोपव्याधेर्याधरतटपुटैर्वानरभटैः समाक्रान्ता सेयं शिव शिव दशग्रीवनगरी ६ अस्त्रं यत्प्लवगाधिपेन विहितं पौलस्त्यवक्षस्तटे संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः । उत्पाट्य प्रहिताः स्वशैलशिखरे लंकेन्द्रहस्तावली पिष्टोऽयं निजकुण्डनिर्झरजलैर्जम्बालपिण्डायते १० तथैतेनोद्धृत्य स्फटिकशिखरी सोपि विदधे समन्तादामूलत्रुटितवसुधाबन्धविधुतः । मुं येनाद्यापि त्रिपुरहरनृत्यव्यतिकरः पुरस्तादन्येषामपि शिखरिणामुल्लसयति ११ रावणः (सक्रोधम्) रथारोहणं नाटयति-भेरीमर्दलशंखतालनिकरस्वानोल्लसत्काहलो निः साणस्वनपूर्णकर्णकुहरो निर्यन्नगर्या बभौ । युद्धार्थं दशकन्धरो रथगतो माणिक्यमौलिर्यशोदीपादीपितमस्तको जनकजारामो विधेः कर्मणा १२ नीचैर्ववौ परिमितः पवनो वनेषु मन्दीचकार तरणिः खरतां करेषु । रक्षः पतिं गगनमाप्तमवेक्ष्य साक्षान्नद्यो ययुः स्थगिततुंगतरङ्गभंगाः १३ आकाशे-यदा नीलो लंकाधिपसुभटकोदण्डशिखरे 91 [Hanuman Nātakam] इतिहास ITIHĀSA स्थितश्चञ्चद्वाष्पाकलितमृगतृष्णान्वितगिरिः । तदैवं देवानां मतिरजनि दिमण्डलजुषां धनुःशृङ्गे भृङ्गस्तदुपरि गिरिस्तत्र जलधिः १४ साश्चर्य्यं तत्र रामे सपटु भटमुखे सव्यथं देवतौर्ये साशंकं रामयुद्धे कपिषु सविनयं लक्ष्मणे साश्रुपूरम् । सासूयं भ्रातृकृत्ये सभयमनिलजे सत्रपं चात्मकृत्ये क्षिप्तं तद्वक्त्रचक्रं रजनिचरपतेर्भिन्नभावं बभूव १५ बद्ध्वा तूणान्दशोच्चैर्मघवहयसटावेणिबन्धेनवामैर्दोर्भिश्चापान्विधुन्वन्दशदश च शरान्दक्षिणैराददानः । क्ष्वेडन्क्रीडन्प्रकुप्यन्प्रसरदभिभवद्गर्जितातर्जितौघैः शश्वत्खिद्यन्मुखश्रीरवतरति रणप्राङ्गणे राक्षसेन्द्रः १६ रामरावणयोःरणाङ्गणे कुण्डलिनो युवानः परस्परं सायकभिन्नदेहाः । कुचाग्रलग्ना इव कामिनीनां कुम्भाग्रलग्नाः सुषुपुर्गजानाम् १७ गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव १८ तत्र सारो नाम राक्षसस्तुमुलयुद्धे-MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION *-= श्राश्वारूढस्तु यावद्व्रजति न शिबिरं वाजिनः पूर्वमर्धं धावन्तं खण्डितस्य स्वमरिकुलबलात्पादयुग्मेन धीरः । सारः क्रव्यादवीरः शिरसि करतलोत्थापितेनाङ्गदेन क्रुद्धेनाताडितो द्राक् शिव शिव समरे पश्चिमार्द्धेन तावत् १६ अङ्गदः (वा) रावणः - यावानब्धिः कलशशिशुना तावता किं च पीतः तुल्याकारान्प्रहरति हरिः किं खगानद्रितुङ्गान् । तत्रागम्याः प्रथितवपुषः सन्तु तिग्मस्वभावास्तेषां ग्रासग्रहणरभसं राम ते नामधेयम् २० 92 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM —— रावणः शुचिस्त्रीमात्रं ननु ताडका मुनिसुतो रामः स विप्रः र्मारीचो मृग एव भीतिभवनं वाली पुनर्वानरः । भो काकुत्स्थ विकत्थसे वद रणे वीरस्त्वया को जितो दोर्गर्वस्तु तथापि ते यदि पुनः कोदण्डमारोपय २१ अत्रान्तरेऽङ्गदःवन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्ततां सुन्दस्त्रीदमनेप्यकुण्ठयशसो लोके महान्तो हि ते । यानि त्रीणि कुतो मुखान्यपि पराण्यासन्वरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः २२ [Hanuman Nātakam] - रावणः शंभोः पर्वतकन्दुकेन महती क्रीडा कृता येन तं रे रे मानव राम मा स्मर भवं देवेश्वरं रावणम् । ज्याघोषं कुरु ताडकान्तमसुराणामन्तकं संयुगे यश्चानीतिसमग्रधीरकुटिलः शाखामृगाणां पतिः २३ रामस्तथापि तं रावणं न जघान । लज्जावनम्रवदनाम्बुजः सन् मनाक् स्थितः रावणः (विहस्य) रे रे मानव राम ! यो मया निहतो घोरे समरे तव पूर्वजः । अनरण्यः किमद्य त्वां व्यथयत्यथ लज्जितः २४ रामः--(निः शंकम्) रे रे राक्षसाधम पश्य ? न दूये नः पूर्वं नृपतिमनरण्यं यदवधीर्जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः । जितं मन्ये कारागृहविनिहतं हैहयपतेः पुलस्त्यो यद्भिक्षामकृत कृपणं तद्व्यथयति २५ यो रामो न जघान वक्षसि रणे तं रावणं सायकैः 93 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION स यो विदधातु वस्त्रिभुवनव्यापारचिन्तापरः । हृद्यस्य प्रतिवासरं वसति सा तस्यास्त्वहं राघवो मय्यास्ते भुवनावली विलसिता द्वीपैः समं सप्तभिः २६ "स प्रौढरावणरुषा विहितावलेपः सज्जो बभूव दृढसङ्गरबद्धदीक्षः । आपन्नभीतिहरणं व्यवसायिनां हि प्राणास्तृणं विपुलसत्त्वसहायभाजाम् २७ तत्र रामो रतिं लेभे न प्रियाविरहार्दितः । तत्सत्यं मनसि स्वस्थं रम्याणां रमणीयता" २८ बाणोऽयं मम ताटकात्मशिरसि स्नातः स्वसुर्नासिकाप्राणायामपरः खरत्रिशिरसां हुत्वा दशास्याहुतिम् ॥ मारीचं च बलिं विधाय तदनु त्वाचम्य वारांनिधिं भोक्तुं रावणमामिषं मृगयते भो दीयतां मैथिली २६ रावणस्तथापि सावज्ञम्-क्लीबानामेव युद्धेषु प्राणत्राणाय राम धीः लज्जाप्रशान्त्यै संसत्सु मूर्खाणामिव मूकता ३० (गगनमण्डलमवलोक्य -- ) रे काल त्वमकाललब्धविभवः स्वैरं सकामो भव शंभो भूषय नूतनैः शवशिरोमाल्यैर्निजाङ्गं मुहुः । किं च त्वं च विरिञ्च संचिनु जगत्सर्गाय बीजं क्वचित् सन्नद्धः करवालभीषणभुजो युद्धाय लंकेश्वरः ३१ राममाक्षिपति-अद्य वा जानकी राम कामं पास्यति मन्दिरे । रणे वा दारुणो गृध्रो मधुरानधरान्मम ३२ तत्राशोकवनिकास्थितविमानमारुह्य जानकीं रामरावणयोर्युद्धं दर्शयति त्रिजटा सरमा च । मन्दोदर्यपि 94 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] सुन्दरीपरिवृता लंकाचलशिखरमारुह्य पश्यति । रुद्रोपि समुद्रमध्ये एकेन चरणेनोपस्थितो युद्धं पश्यति । देवाः सर्वे विमानाधिरूढा नभोमण्डलगता युद्धं पश्यतिस्म ॥ रामः--संहारभैरव इव क्रोधं नाटयति । रे रे निशाचरपते त्वरितं गृहाण बाणासनं त्रिदशदर्पहरं शरं च । निर्वापयामि विरहाग्निममुं प्रियाया मन्दोदरीतरलनेत्रजलप्रवाहैः ३३ ( इति बाणान् स्पृशति) मन्दोदरी ( सभयम्) -उत्पादयन्किमपि कौणपकोटिमन्तस्तेजोहुताशनसमिन्धनसामिधेनीम् । हस्ताढकीमकृत बालतरः पृषत्कै रीषज्जयं स्फुटमनेन दशाननोऽपि ३४ (रामभुजदण्डौ) आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद्दक्षिणं दानादानसुभोजनेषु पुरतो युक्तं किमित्थं तव । वामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगस्त्वामिनं छेत्तुं रावणवक्त्रपंक्तिमिति यो दद्यात्स वो मंगलम् ३५ कुशिकसुतसपर्यादृष्टदिव्यास्त्रमन्त्रो भृगुपतिसहयोद्धा वीरभोगीनबाहुः । दिनकरकुलकेतुः कौतुकोत्तानचक्षुर्बहुमतरिपुकर्मा कौतुकी रामदेवः ३६ यद्रावणो बहुभिरेव भुजैः करोति तद्राघवः प्रतिकरोति भुजद्वयेन । कर्मद्वयं यदपि तुल्यफलं तथापि रक्षः पतेर्दशगुणं नरवीरतुल्यम् ३७ तत्र मन्दोदरी जानकी च-95 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION रे रावणास्तमुपयातु सह त्वयार्कः श्रीराघवे समरमूर्ध्नि कृतप्रतिज्ञे । मन्दोदरी जनकजाऽस्तनगावलम्बिन्यर्के चकोरकवधूरिव चक्रवाकी ३८ रामः (रावणम्प्रति ) -एकस्मिन्विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः किन्तु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा । त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ् मया लभ्यते छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ३६ (तद्रुततरं श्रीरामबाणादिताडनव्यग्रो रावणः ) -धनुर्निस्त्रिंशादिप्रहरणगलच्छेदकुपितो दशास्यः स्वान्मूर्ध्नो रघुपतिशरव्रातदलितान् । करैरेकैरेकैर्नभसि भृशमादाय युगपत् क्षिपन्नान्यैरन्यैश्चपलयति दोर्विंशतिमपि ४० रामः(सावष्टम्भम्)- कल्पान्ते यत्कृतान्तैरिव वरसमरप्राङ्गणे रामचन्द्रो बाणैरुत्तीर्णशाणैर्नवभिरपि दशग्रीवमूर्ध्नो नवैव । चिच्छेदालोक्य भूयः स पुनरपि नवान्विस्मितः सन्मुहूर्तं विश्रम्यागस्त्यदत्तं तदनु रिपुवधायाददे ब्राह्ममस्त्रम् ४१ पैतामहं रघुपतिः समरेऽतिकोपाद्वाणं मुमोच हृदये दशकन्धरस्य । भित्त्वा स तद्धृदयशोणितशोणगात्रः प्राणान्विवेश धरणीतलमस्य नीत्वा ४२ मन्दोदरी सकलसुन्दरसुंदरीभिः परिवृता गलदविरलनेत्रजलप्रवाहैः सीतापतेर्विरहानलेन सह लंकापतेः प्रतापानलं निर्वापयन्ती हाहाकारं घोरफूत्कारैः 96 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM कुर्वन्ती झटिति त्रिकूटाचलादुत्पत्य समरभूमौ महा- निद्रां गतस्य निजप्राणनाथस्य लंकापतेश्चरणकमल- योर्निपत्य ॥ भिन्नैरावतबन्धुसिन्धुरशिरः संपातिभिर्मौक्तिकैः शश्वद्विश्वजयप्रशस्तिरचनावर्णावलीशिल्पिने । नाकान्तः पुरिकाकपोलविलसत्काश्मीरपत्राङ्कुर[ Hanuman Nātakam] श्रीविन्यासविनाशभीषणभुजस्तम्भाय तुभ्यं नमः ४३ हा प्राणनाथ लंकेश ! भूयिष्ठानि मुखानि चुम्बति भुजैर्भूयोभिरालिङ्गते चारित्रव्रतदेवतापि भवता कान्तेन मन्दोदरी । हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैर्ममैकावलीशिल्पे वागधमर्णिकस्य भवतो लंकेन्द्रनिद्रारसः ४४ एकेनैव समुद्धृतो हरगिरिभ्यां त्रिलोकी जिता यस्याष्टादशभिर्भुजैरवसरः शस्त्रस्य नासादितः । सोप्येनं द्विभुजं मनुष्यमहह क्रव्यादवीरो रिपुं प्राप्य व्यर्थभुजो रणे विनिहतो देवाये तस्मै नमः ४५ जातिर्ब्रह्मकुलेऽग्रजो धनपतिर्यः कुम्भकर्णोऽनुजः पुत्रः शक्रजयी स्वयं दशशिराः पूर्णा भुजा विंशतिः । दैत्याः कामचरा रथश्च विजयी पारेसमुद्रं गृहं सर्वं निष्फलितं तथैव विधिना दैवे बले दुर्बले ४६ कालेन विश्वविजयी दशकन्धरोऽभूद्भर्गाचलोद्धरणचञ्चलकुण्डलाग्रः । संस्कारमग्निदहनाय स एष कालश्चाज्ञां विना रघुपतेः प्लवगैर्निरुद्धः ४७ दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदश्च वित्तम् । संजीविनी यस्य 97 [Hanuman Nātakam] इतिहास ITIHĀSA मुखाग्रविद्या स रावणः कालवशाद्विनष्टः ४८ इह खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । शिवशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः ४६ MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION ततो लक्ष्मणवायुपुत्रौ विमाने जानकीमारोप्य सत्वरमानीतवन्तौ ॥ (जानकी ससंभ्रममुत्थाय लज्जां नाटयति ) रामः-जनकतनयां हृत्वा रागी हते दशकन्धरे । तदनु विरहज्वालाजालाकुलीकृतविग्रहः । रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते मुकुलितट्टगम्भोजद्वन्द्वः समाहितवत्स्थितः ५० (साश्रु स्ववंश्यपरिजनलज्जया च) हनूमान्--मातर्जानकि ! चापालिङ्गनभंगुराङ्गमदनन्यस्तैकहस्ताम्बुजं मध्ये मुष्टिनिविष्टपञ्चकशरं बिभ्राणमन्यत्करे । वीरश्रीनवरक्षतैरिव नवैर्बाणव्रणैरङ्कितं वीरं राममवस्थितं प्रणम तं प्रोन्मथ्य लंकाभटम् ५१ जानकी--स्वगतम् तापच्छेदसुधाकरस्तनुमतां क्रोधानलाम्भोधरः सारासारविवेकशोकभवनं हर्षस्य बीजाश्रयः । कालव्यालविपस्य गारुडमणिधैर्यद्रुमो रामभूः कैवल्यप्रतिभूर्घटेत सुकृतैरामस्य सत्संगमः ५२ रामः उपसृत्य--साशंकम्-हे महान्तो जनाः यद्यपि प्रिया पतिव्रता तथापि चिरं परमन्दिरस्था दिव्यमन्तरेण कथं मां स्प्रष्टुमर्हति । इत्याकर्ण्य रामवाक्यादाकाशादवतरन्ति स्म 98 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM ब्रह्मादयः । ततो जानकी दिव्योपकरणं नाटयति ॥ तत्र रामो रतिं लेभे न प्रियाविरहार्दितः । यत्सत्यं मनसि स्वच्छे रम्याणां रमणीयता ५३ जानकी-(सत्वरं ज्वलत्पावकमुपगम्य भो भगवन् अग्ने ! ) मनसि वचसि काये जागरे स्वममार्गे यदि मम पतिभावो राघवादन्यपुंसि । तदिह दह ममाङ्गं पावकं पावक त्वं सुललितफलभाजां त्वं हि कर्मैकसाक्षी ५४ इति ज्वलत्तीव्रदहनान्तराले देहं चिक्षेप । अथ वानरभटाःसत्यं कालहुताशनस्य वहतो जिह्वातिलीलासरस्यङ्गारे सरसीरुहं कमलभूरालोक्य सीतननम् । शुद्धेयं जनकात्मजेत्यभिदधौ तावन्नु कीशेश्वरैः फूफूत्काररवैरपूरि रभसा तावन्नभोमण्डलम् ५५ श्रीरामः--सानन्दम्-वह्निं गताया जनकात्मजायाः प्रोत्फुल्लराजीवमुखं विलोक्य । उवाच रामः किमहो सुरादी नङ्गारमध्ये जलजं विभाति ५६ [ Hanuman Nātakam] —— 99 (जानकी सानन्दम् ) श्रीरामे दयिता विनोदविपुलप्रीतिप्रभूतीभवत्प्रस्वेदाम्बुकणावृतस्य कमले दिव्योत्थिता जानकी । आगम्याशु ससंभ्रमं बहुतरां भक्तिं दधाना पुनस्तत्पादौ मणिकंकणोज्वलकरा नैव स्पृशत्यद्भुतम् ५७ अहल्यावच्चरणस्पर्शमात्रेण कंकणमणयोपि योषितो [Hanuman Nātakam] इतिहास ITIHĀSA । माभूवन्निति भावः सुग्रीवो रामं विज्ञापयति देव ! MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION — — इयमियं त्वयि दानवनंदिनी त्रिदशनाथजितः प्रसवस्थली । किमपरं दशक्रन्धरगेहिनी त्वयि करोति करद्वययोजनम ५८ रामो नम्राननो भूत्वा - किमाज्ञापयति महाभागा मन्दोदरी ) मन्दोदरी-धन्या राम त्वया माता धन्यो राम त्वया पिता । धन्यो राम त्वया वंशः परदारान्न पश्यसि ५६ साधु राम साधु अतः परं मम का गतिः । रामः महः भागे न खलु राक्षसीनां सहगमने धर्मः । अतस्त्वया विभीषणालयमास्थाय लंकाचले राज्यं चिराय भुज्यतामिति । विभीषणं लंकाधिपत्याभिषेकं नाटयति । ततो रामः आत्मानं पुष्पकविमाने जानकीं चारोप्य समरभूमिं दर्शयति प्रिये जानकि ! पश्य । अत्रासीत्फणिपाशबन्धनविधिः शक्तया भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ६० हन्तीति ज्वलितः कृशः कपिरपि व्रीडावनम्राननो लीलालंघितवाहिनीपतिरिति श्लाघाचलत्कन्धरः । रामस्यायमितीर्ष्यया कलुषितः पश्यन् प्रिये त्वत्कृते विक्रामत्यनिलात्मजे दशमुखः कां कामवस्थां गतः ६१ जानकी ( सविस्मयम्) - भो प्राणनाथ तथाविधात् वनान्तात् कथमिहागतः । 100 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM रामः (सहर्ष) प्रियेजानकिनिवासः कान्तारे प्रियजनवियोगाधिरधिको धनुर्मात्रत्राणं रिपुरपि धुरीणः पलभुजाम् । अकूपारंपारे वसति च स कात्र प्रतिकृतिर्नमित्रं सुग्रीवो यदि तदियती राघवकथा ६२ (अत्रांतरे चन्द्रोदयो बभूव) रामः-- देवि ! पश्योदेति वियोगिनो दिनमणिः शृंगारदीक्षामणिः प्रौढानङ्गभुजङ्गमस्तकमणिश्चण्डीशचूडामणिः । तारामौक्तिकहारनायकमणिः कन्दर्पसीमन्तिनी[Hanuman Nātakam] काञ्चीमध्यमणिश्चकोरतरुणीचिन्तामणिश्चन्द्रमाः ६३ काकुत्स्थः कृतकुतुकाक्षिमीललीलः । सम्पूर्णे शशिनि चिराय लग्नदृष्टेः प्रेयस्याः स्थगयति लोचने कराभ्याम् ६४ (अत्र रात्रौ सुखसुप्ताः सर्वे यथास्थानं प्रातरागत्य ) बिभीषणः रामपादौ प्रणम्य देवकिंकुर्वाणपयोधिसेवितगृहोद्याना मुदे सर्वतो लंकेयं रघुवंशविक्रमकथाबीजप्ररोहस्थली । देवेनात्र दशाननस्य दशभिश्छिन्नैः शिरोभिः क्रमादेकैकेन शतं शतं शतमखस्यामोदिता दृष्टयः ६५ प्राचीनस्मृतविरहव्यथातिभीतः रामस्ततस्तत्कालयोग्योपकरणैश्छत्रचामरादिभिर्विभीषणं संभाव्य पुनरयोध्यां राज्यभोगाय प्रस्थितः ॥ तत्र सुग्रीवः देव-वाजिव्रातखुरप्रहारदलितक्षोणीरजोभिर्युतं सान्द्रैर्जीर्णकपोतकण्ठरुचिभिर्व्यामेदमास्तीर्यते । किञ्चाब्रेककरीन्द्रगण्डविलसद्दानाम्बुधाराघनं 101 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION संग्रामं प्रथयन्त्यमी परिमलप्रोद्गारिमन्दानिलाः ६६ ततः समुद्रे सेतुमासाद्य जानकी भो प्राणनाथार्यपुत्र !-दृष्टोऽयं सरितां पतिः प्रियतम क्वास्ते स सेतुः परं क्वेति क्वेति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते । अत्रासीदयमत्र नात्र किमिति व्यग्रे निजप्रेयसि व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी ६७ मुखदर्शनक्षुब्धजलधिकल्लोलैराच्छादितस्य सेतोः प्रकटनाय मुखव्यावृत्तिरिति भावः । स्नात्वा पीत्वा दरीभिर्जलधिमथ चिराद्दृष्टमैनाकबन्धुप्रीतिप्रौढाशुपूरद्विगुणमहिमभिर्निर्झराः पूरयन्तः । ये विन्यस्ताः पुरस्तान्निशिनिशि निवहैरौषधीनां ज्वलद्भिस्ते, दृश्यन्ते तदम्भःस्थितकपिशिबिरस्मारिणः सेतुशैला ६८ यदा दूरापातित्रिदशयुवतीनेत्रसुलभामपां हर्ता हारावलिवलयलक्ष्मीं वितनुते । तदायं माणिक्यस्फटिककनकग्रावशिखरै रशून्यात्मा सेतुर्विभवति महानाटक इव ६६ जगाम रामः सह सीतया स्वां पुरीमयोध्यां सह वानरेन्द्रैः । प्रत्यागतैस्तैर्भरतादिभिश्च राज्येऽभिषिक्तो मुनिभिश्चिराय ७० हित्वैकां हरशेखरप्रणयिनीं पीयूषभानोः कलां दिक्पालावलिमौलिभूषणमणीन् गृह्णीत सर्वानपि । तैः कांची रचिता चिराय बहुशः श्रोणीतटे जानकी गायन्ती निजमंजुसिञ्जितगिरा त्वद्विक्रमाडम्बरम् ७१ अङ्गदः अकस्मात् वानरभटेभ्यः समुत्पत्य पितृहन्तारमवलोक्य दोस्तम्भास्फालकेलिमभिनीय क्रोधं नाटयति ॥ रामचन्द्र त्वयादिष्टं यद्यत्तत्तन्मया कृतम् । 102 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM यतस्त्रैलोक्यनाथोसि न च त्याज्यं गुरोर्वचः ७२ पश्य श्रीरामचन्द्र त्वदभिमतमहो लक्ष्मणेनापि पूर्णे तूर्णं रङ्गावतारेऽवतरतु स भवानाहतो येन तातः । सुग्रीवेणाञ्जनेयप्रमुखभटचमूचक्रवालेन सार्द्ध त्वामेकेनाङ्गदोहं पितृनिधनमनुस्मृत्य मथ्नामि दोष्णा ७३ श्रुत्वाङ्गदस्य महतीं समरप्रतिज्ञां ते चुक्षुभुः कपिचमूपतयः सरामाः । सौमित्रिरप्यनपराधिनमाहतं तं मत्वा कृतांजलिपुटः पुरतो बभूव ७४ तदा च-आकाशवाण्यभवदेवमहो स वाली दासो हनिष्यति पुनर्मथुरावतारे । श्रुत्वा विलोक्य रघुनन्दनवानराणां कारुण्यमञ्जलिपुटं स रणान्निवृत्तः ७५ अङ्गदः-- पितृवधप्रतीकारो भविष्यतीति सानन्दं कोपमपहाय शान्तिमेत्य रामं स्तौति ॥ देव-अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः । गुणानाकर्ण्य रामस्य शिरः कम्पभयादिव ७६ हनूमान्-[Hanuman Nātakam] कूर्मः पादोङ्गयष्टिर्भुजगपतिरसौ भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्त्तिप्ररोहः । अर्चिश्चण्डांशुरोचिर्गगनमलिनिमा कज्जलनं दह्यमानशत्रुश्रेणीपतङ्गो ज्वलति रघुपते त्वत्प्रतापप्रदीपः ७७ कैलासो निलयस्तुषारशिखरी विंदिर्गिरीशः सखा 103 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION स्वर्गङ्गा गृहदीर्घिका हिमरुचिश्चन्द्रोपलो दर्पणः । क्षीराब्धिर्नवपूतकं किमपरं शेषस्तु शेषत्विषो ८० विन्दवः । यस्याः स्यादिह राघवक्षितिपते कीर्तेस्तटाकस्तव ७८ क्रांत्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी गता सापि ब्रह्ममरालसङ्गमवशात्तत्रैव गर्भिण्यभूत् । यात्वा व्योमतरङ्गिणीपरिसरे कुन्दावदातं तया मुक्तं भाति विशांकुरं ततमिदं शीतद्युतेर्मण्डलम् ७६ राम राम महावीर के वयं गुणवर्णने । यत्कीर्तिकामिनीभाले कस्तूरीतिलकं नभः लक्ष्मीस्तिष्ठति ते गेहे वाचि भाति सरस्वती । कीर्तिः किं कुपिता राम येन देशान्तरं गता ८१ राम त्वद्भुजदण्डिडिण्डिमडमत्कारप्नतापानलज्वालाजर्जरकीर्तिपारदघटीविस्फोटिता भोगीन्द्राः कति तारकाः कति कति क्षीराब्धयः कत्यपि प्रालेयाचलपाञ्चजन्यकरकाः कर्पूरकुन्देन्दवः ८२ अत्युक्तो यदि न प्रकुप्यसि मृषा वादं न चेन्मन्यसे तद्ब्रमोऽद्भुतकीर्तनेन रसना केषां न कण्डूयते । राम त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ८३ खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति तारादयः । इत्थं वर्णयतो नभस्तव यशो यातं स्मृतेर्गोचरं यच्चास्मिन्भ्रमरायते रघुपते वाचस्ततो मुद्रिताः ८४ कृत्वा मेरुमुलूखलं रघुपते वृन्देन दिग्योषितां स्वर्गङ्गामुसलेन शालय इव त्वत्कीर्तयः कण्डिताः । तासां राशिरसौ तुषारशिखरी तारागणास्तत्कणाः 104 MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION श्रीहनुमन्नाटकम् ŚRĪ HANUMAN NĀTAKAM [Hanuman Nātakam] प्रोद्यत्पूर्णसुधांशुबिम्बमसृणज्योस्नाश्च तत्पांसवः ८५ समुद्गतौ यत्समकालमेव यशः प्रतापो तव पुष्पवन्तौ । रामारिचापश्च मदश्च शेषस्त्वत्खड्गतीर्थं तदनिष्टशान्त्यै ८६ किंचित्कोपकलाविलासविभवव्यावल्गमूर्ते भुजो निक्षेपादकरोन्निशाचरबलं प्रत्यर्थिनां यत्पुरः । क्रंदत्स्फेरु रटत्कफेर विघटद्दार स्फुटद्गुग्गुलु प्रक्रीडत्कपिनिःश्वसत्फणिरटद्भिल्लिभ्रमद्वीपि च ८७ शैत्यं ज्ञानविकारिणो न हि भवेत्रद्रुहो वाहिनी यैर्दृष्ट्वा रणलम्पटं भुजयुगं दृष्टं पुनस्तावकम् । यस्याश्रित्य बलं स्थलीकृतसरिन्नाथः प्लवङ्गेश्वरैः क्रान्तो भूरिभयेन यत्र शिशिरा यस्यां मयूखा रवेः ८८ रामःप्रस्थाप्य तां वानरवीरसेनां तत्कालयोग्याभरणप्रदानैः । भुनक्ति राज्यं निजबन्धुवर्गैः समं ससीतः सहलक्ष्मणश्च ८६ रामो दाशरथिर्दिवाकरकुले तस्याङ्गना जानकी नीता सा दशकन्धरेण वनतो लंकालयं छद्मना । रामेणापि कपीन्द्रसंगमवशादम्भोनिधिं लीलया बद्ध्वा पर्वतमालया रिपुवधादानीय निर्वासिता ६० तत्र त्यत्कसीतो लक्ष्मणो विलपति-वने विमोक्तुं जनकस्य कन्यां श्रोतुं च तस्याः परिदेवितानि । सुखेन लंकासमरे हतं मामजीवयन्मारुतिरात्तवैरः ६१ पशुरपि न मृगो मृगीं मृगेन्द्रध्वनिचकितः प्रसवक्षणे जहाति । श्रयमरघुरजानकीयमावां यदि न स जीवति निर्दयोऽद्य वेधाः ६२ यद्भग्नं धनुरीश्वरस्य समरे यज्जामदग्न्यो जित105 [Hanuman Nātakam] इतिहास ITIHĀSA MAHARISHI UNIVERSITY OF MANAGEMENT VEDIC LITERATURE COLLECTION स्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः । एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सोपि सहसा नीतः कथाशेषताम् ६३ रम्यं श्रीरामचन्द्रप्रबलभुजबृहत्ताण्डवं काण्डशौण्डव्याप्तं ब्रह्माण्डभाण्डे रणशिरसि महानाटकं पाटवाब्धिम् ॥ पुण्यं भक्त्याञ्जानेयप्रविरचितमिदं यः शृणोति प्रसङ्गान्मुक्तोऽसौ सर्वपापादरिभटविजयी रामवत्सङ्गरेषु ६४ चतुर्दशभिरेवाङ्कैर्भुवनानि चतुर्दश । श्रीमहानाटकं धत्ते केवलं ब्रह्म निर्मलम् ६५ रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ निहितममृतबुद्ध्या प्राङ् महानाटकं यत् । सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण ग्रथितमवतु विश्वं मिश्रदामोदरेण ६६ इति श्रीपवनतनयविरचितमिश्रदामोदरसंगृहीतहनुमन्नाटके श्रीरामविजयो नाम चतुर्दशोऽङ्कः समाप्तः १४ 106