<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<p>प्रस्तावना
ई
इत्थं तावदय समस्तसज्जनानां पुरतः सानन्दं निवेदशाम इह खलु जगति सकल-
काव्यरूपवाङ्मयस्य यशोऽर्थज्ञानानिष्टनिवृत्तिपरमनिर्वृत्युपदेशप्रयोजनकवीर श्रीममोटा-
दिकाव्याचार्यैरुपजोघुष्यते । तत्र हि काव्यस्य लक्षणं- "लोकोत्तरवर्णनानिपुणक विकर्म
काव्यम् " तथा च साहित्यदर्पणे प्रथमे परिच्छेदे " वाक्यं रसात्मकं काव्यम् "
इति । रसलक्षणं च तत्रैवोक्तम् – " विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसतामेति रत्यादिः स्थायीभावः सचेतसाम् " इति । तच्च काव्यं त्रिप्रकारकम्-
ध्वनि-गुणीभूतव्यङ्ग्य – चित्रात्मकमिति । तत्रापि तद्विविधम् - गद्यात्मकं, पद्यात्मकं
चेति ! छन्दसा बिना केवलं कथाप्रवन्धैरेव विरच्यमानं काव्यं गद्यकाव्यम् - यथाह
दण्डी - " अपादः पदसंतानो गद्यमाख्यायिका कथा " इति । तच्च वासवदत्ता - काद-
-
.
म्वरी - दशकुमारचरितादि । पद्यकाव्यं हि पदाभिधेयचरणाहम्-तदुक्तं छन्दोमअर्याम्-
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा वृत्तंमक्षरसंख्यातं जातिर्मात्राकृता
●
: भवेत् ॥ " इति । तच्च रामायण - रघुवंश - कुमारसम्भवादि । तच्च पुनरन्वयगति
वशात् – मुक्तक – युग्मक–सन्दानितक - कलापक- कुलकभेदात्पञ्चविधम् । तेषां पञ्च-
भेदानां लक्षणान्युक्तानि साहित्यदर्पणे – " छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् ।
द्वाभ्यां तु युग्मकं सन्दानितकं त्रिमिरिष्यते । कलापकं चतुर्भिश्च तदूर्ध्वं कुलकं स्मृ-
तम् ॥ " इति । तत्र हि गद्यपद्यमिश्रं काव्यं चम्पूशंदशब्दितम् - किञ्च-गद्यपद्य-
प्राकृतभापा दिमयकाव्यग्रन्थश्च नाटकशब्दशन्दितः । नाटकलक्षणं चोक्तं साहित्य-
दर्पणे - " नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् । बिलासद्धर्थादिगुणवद्युक्तं नाना-
विभूतिभिः ॥ सुखदुःखसमुद्भूतिनानारससमन्वितम् । पञ्चादिका दशपरास्तत्रांकाः परि-
कीर्तिताः । प्रख्यातवंशो राजर्पिर्धीरोदात्तः प्रतापवान् । दिन्योऽथ दिव्यादिव्यो वा
'गुणवान्नायको मतः । एक एव भवेदगी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे
कार्यनिर्वहणेऽद्रुतम् । चत्वारः पञ्च वा मुख्याः कार्यव्यावृतपूरुषाः । गोपुच्छाग्रसमानं
तु बन्धनं तस्य कीर्तितम् ॥" इति । नाटकस्यावांतरलक्षणभेदानुक्त्वा प्रशस्ति-
श्वेत्थमुक्ता — " नाटकं स्यात्प्रकरणं व्यायोगोङ्कस्तथा डिमः । ईहामृगः प्रहसनं भाणः
समवकारकः । वीथीति भरतः प्राह नाटयेषु दशरूपकम् । नाटिका प्रेक्षणं चैत्र
त्रोटकं शाकटं तथा । गोष्ठीसलापशिल्पानि भानी हल्लीशरासकौ । उल्लापकं श्रीगदितं
प्रस्थानं नाट्यरासकम् । दुर्मल्लिका लासिका च काव्यं चेत्युपरूपकम् ॥ स्यात्सप्तदश-
संख्यं तु लक्षणं त्वत्र कथ्यते ॥ प्रख्यातोत्तमनायकं रसमयं राजर्षिवंशोद्भवं साङ्के
-</p>
<pb n="3" />
<p>-</p>
<p>प्रस्तावना ।
भङ्गजयान्वितं लयमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं वल-
द्वृत्तिव्याप्तमशेपसंधिसहितं सप्ताङ्गवन्नाटकम् ॥ " इति । सङ्गीतदामोदरादी च विस्तर
एतद्विषये भूयानस्ति ग्रन्थगौरवभयान्नेह प्रपच्यते । एतादृशलक्षणैरुपलक्षितान्यन -
राघवाभिज्ञानशाकुन्तलादीनि नाटकानि सुप्रसिद्धानि सन्ति ।
30
1
तत्रेत्थं तावद्विचार्यम्- यदिदं श्रीमद्धनुमन्नाटकं महानाटकं नाम-सुलक्षणकाव्य-
प्रवन्धप्रागल्भ्यसारगर्भितं प्रसरीसति मूर्तिमत्सरस्वतीमयम् । तदेतद्भगवतः श्रीरामचन्द्रस्य
परमभक्तेनं श्रीहनूमता विरचितमिति हि चतुर्दशांकगतश्लोकतोऽवगम्यते - सच यथा-
" रम्यं श्रीरामचन्द्रप्रवलभुजवृहत्ताण्डवं काण्डशौण्डव्याप्तं ब्रह्माण्डमाण्डे रणशिरसि
महानाटकं पाटवाब्धिम् ॥ पुण्यं भक्त्याञ्जनेयप्रविरचितमिदं यः शृणोति प्रसङ्गान्मुक्तो-
ऽसौ सर्वपापादरिभटविजयी रामवत्सङ्गरेषु ॥ " इति । एतच्च महानाटकं हनूमता
विरचितं सर्वतः प्रसरच्छाधं विमृश्य वाल्मीकिना कृतप्रार्थनो हनुमाञ्छिलालिखितं
तत्प्रथमावतारमेव सेतुबन्धसमीपेऽन्धौ प्रास्यत् । ततश्च कालान्तरेण धाराधीशेन
भोजेन सेतुवन्धयात्रां कुर्त्रताऽकस्मादृष्टे कस्मिंश्चिच्छिलाफलके कतिपयश्लोकान्निरीक्ष्य
निजसेवकैर्यावच्छक्यं तत्रत्याः शिलाः सागरात्समुद्धृत्य सर्वो व्यस्तक्रमां काव्यलिपि
तां कथंकारं संगृह्य निजसभामहापण्डितं मिश्रदामोदरकवि सानुबन्धकाव्यसन्दर्भसं-
गुंफनायाज्ञापयत् । तदनुज्ञया च स यथोपलब्धमेनं प्रवन्धं यथाबुद्धिबलं सरलं चकारेति
किंवदन्ती संप्रचलति । तत्प्रमाणभूतं पद्यं च चतुर्दशांके विद्यते-"रचितमनिलपुत्रेणाथ
वाल्मीकिनाब्धौ निहितममृतबुद्ध्या प्राङ्महानाटकं यत् । सुमतिनृपतिभोजनोद्धृतं तत्क्रमेण
ग्रथितमवतु विश्वं मिश्रदामोदरेण ।" इति । अपूर्वा खलु पद्यप्रवन्धरचनात्र महानाटके ।
यद्यप्यत्र नाटकप्रवन्धे कतिपये श्लोकास्ततोऽर्वाचीनैर्भवभूत्यादिभिः
कृता
दृश्यंते । तथापि नैतस्य सौन्दर्य नाम क्षीयते । अपितु भूयस्तरां पण्डितैरुप-
बृह्यमाणास्य सुषमा समृध्यते ।
एतादृशं चैतन्महानाटकमस्माभिः पण्डितवरमोहनदासविरचितटीकासमेतं शा-
स्त्रिजनद्वारा सम्यक्परिशोच्य स्वकीये " श्रीवेङ्कटेश्वर " स्टीम् - मुद्रणालये मुद्रयित्वा
प्रकाशितम् । सर्घेऽपि सन्तो विद्वांसो विद्यार्थिनश्चावश्यमेत ग्रन्थं संगृह्य समनुस्वदन्तु
श्रीसरस्वतीसारसौन्दर्यमित्यर्थयते-
समस्तसज्जनानां कृपाकाङ्क्षी-
खेमराज श्रीकृष्णदास श्रेष्ठी,
मुद्रणालयाध्यक्षः-
मुम्बई.
श्रीवेङ्कटेश्वर "</p>
<pb n="4" />
<p>॥ श्रीगणेशाय नमः ॥
श्रीमद्धनुमता विरचितं
हनुमन्नाटकम् ।
दीपिकाख्यसंस्कृतटीकासमेतम् ।
प्रथमोऽङ्कः ।</p>
<lg>
  <l>कल्याणानां निधानं कलिमलमथनं पावनं पावनानां</l>
  <l>पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये अस्थितस्य ।</l>
  <l>विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां</l>
  <l>बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ १ ॥</l>
</lg>
<lg>
  <l>हृदये यत्प्रेरणया समुद्यतोऽहं विमूढतबुद्धिः ।</l>
  <l>तत्पदकमलं वन्दे गोकुलनाथस्य वेदाः ॥ १ ॥</l>
</lg>
<lg>
  <l>हनुमन्नाटकसागर शब्दार्थांगाधतां सुबोधत्वम् ।</l>
  <l>नेतुं कृतसाहसतां मम सुधियः क्षन्तुमर्हन्तु ॥ २ ॥</l>
</lg>
<p>तावच्छ्रीरामचन्द्रगुणचक्रवालवर्णनेच्छुः कविः स्वाभीष्टदेवतानामान्तरिताशीं:-
नान्दीमवतारयति कल्याणानामित्यादिद्वादशपदैः । तदुक्तं नाटकावतारे-
' अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि
तन्मुखम्॥' इति । नान्दी मङ्गलवचनमिति । अत्र संक्षेपतोऽर्थोद्घाटनं क्रियते विस्त-
रस्य श्रद्धाविच्छेदकत्वात् । रामनाम भवतां भूतये प्रभवतु इत्यन्वयः । भूतये
ऐहिकपारलौकिकैश्वर्याय मोक्षाय वा 'भूतिरैश्वर्यमोक्षयो: ' इति चरकः । मेल-
'कोपमालंकारः । उक्तं च वीरभानौ-' विशेषणार्थनिर्भर्ता यद्यनेकार्थभाक्पदः ।
चाक्यवादिविहीनोऽपि मेलकः सम्मतो बुधैः ॥ ' इति । तत्र विशेपणैस्तद्रूपप्रदत्वं
पूर्वी</p>
<pb n="5" />
<p>हनुमन्नाटकं -
[ अङ्क:-
द्योतयति । कल्याणानां निधानं निधीयन्ते यस्मिंस्तदिति विग्रहः । कलिमलमथनम्।
एतेन पापहारित्वमुक्तम् । कविवरवचसां वाल्मीक्यादिवाचाम् एकं विश्रामस्थानम् ।
एतेन तदितरस्यासद्वर्णनत्वमुक्तम् । एतेन पत्रयेणैहिकैश्वर्यप्रदत्वमुक्तम् । पारलौकि-
कश्वयप्रदत्वमाह-पावनानां ब्रह्मादीनामपि पावनम् । एतेन तत्तल्लोकप्रदत्वमुक्तम् ।
अतः पारलौकिकैश्वर्यप्रदत्वमायाति । अथ मोक्षप्रदत्वमाह - परपद्प्राप्तये परस्मिन्त्र-
ह्याण पदं स्थानं तत्प्राप्तये प्रस्थितस्य मुमुक्षाः पाथेयं मार्गे साधु । नतु नाम्नैव मोक्षः
कथं धर्मादीनां सत्त्वशोधकत्वेन मोक्षदत्वमिति चेत्तत्राह धर्मद्रुमस्य वीजम्
नाम्नैि कीर्तिते सर्वे धर्माः कृता भवन्ति । अथोत्पत्तिवीजे पुप्पफलादिकं सर्वमस्तीति ।
सज्जनानाम् ' जीवनानाम् ' इति वा पाठः । जीवनं प्रकृतिस्तस्यापि जीवनं चेतनकर्तृ ।
उक्तं च-'यतो जीवत्वमायाति जीवः प्रकृतितः स्वतः । इति । एतैर्विशेषणैर्मो
क्षप्रदत्वमुक्तम् ॥ १ ॥
:</p>
<p>'W'</p>
<lg>
  <l>पातु भीस्तनपञ्चभमकरीमुद्रातरःस्थलो</l>
  <l>देवः सर्वजगत्पतिर्मधुवधूवक्राब्जचन्द्रोदयः ।</l>
  <l>क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भू-</l>
  <l>भति स्म मलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ २ ॥</l>
</lg>
<p>इदानीं वर्णनीय नायकगुणानाह - पात्विति । स देवो विलसनशीलः श्रीरामो
वः पातु । कोदृक् । श्रियः स्तनयोर्यः पत्रभङ्गः पत्ररचना तत्र या मकरीमुद्रा तया-
ङ्कितोरःस्थलः । एतेन शृङ्गारित्वं सूचितम् । सर्वजगत्पतिः । एतेन रञ्जितलोकत्व-
मुक्तम् । पुनः कीदृक् । मधुवधूवक्राण्येवाव्जानि कमलानि तत्संकोचनाय चन्द्रो-
दयः । स कः । यस्य नवेन्दुविशदे द्वितीयचन्द्राकारे दंष्ट्रांकुरे भूर्भाति स्म ।
क्रीडायै धृता वराहतनुर्येन । किंभूता भूः । प्रलयाव्धिरेव पल्वलमल्पसरस्तस्य तलं तत
उत्खातो य एकमुस्तस्तम्बस्तदाकारा । एतेन पदद्वयेनातिकल्पत्वमुक्तम् । उक्तं च
'रसोदधौ - ' दाता सद्गुणशीलः सुवयोरूपान्वितः परप्रेमी 1 विद्यावानतिकल्पो
रञ्जितलोको मतोऽनेन ॥ इति ॥ २ ॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।</p>
<pb n="6" />
<lg>
  <l>१. ]</l>
  <l>दीपिंकाख्यव्याख्यापेतम् ।</l>
  <l>अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः</l>
  <l>सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ३ ॥</l>
</lg>
<lg>
  <l>तं रामं रावणारिं दशरथतनयं लक्ष्मणायं गुणाढ्यं</l>
  <l>पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्वसौभाग्यसिद्धिम् ।</l>
  <l>विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेव</l>
  <l>सर्वात्मानं नमामि त्रिभुवनशरणं प्रत्यहं निष्कलङ्कम् ॥ ४॥</l>
</lg>
<p>-
अथ विद्यावानिति नेतृगुणं वक्तुं पद्यमवतारयति-यमिति । यं रामं शैवाः शिव-
भक्ताः शिवेति नाम्ना समुपासते 'महारुद्रादभूत्प्रकृतिरतः सूत्रं ततोऽहमिति ततो
विश्वम् ' इति श्रुतेः । वेदान्तिनो ब्रह्मेति' एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन'
इति श्रुतेः । बौद्धा बुद्ध इति 'प्राण्यालम्भनं संसृति नन्दयेति माम् ' इति श्रुतेः ।
प्रत्यक्षानुमानोपमानशब्दाभावार्थप्रतिपत्ति
प्रमाणानीति प्रमाणेष्वेव निपुणा नैया-
यिकाः कर्तेति 'सनातनाः पशवः प्रविशन्ति प्रमेयानुभूतैः कर्तेच ततः' इति श्रुतेः ।
जैनाज्ञाभिरता अर्हन्निति 'स्वभाव एवेश्वरो नान्योऽस्ति कदाप्यस्यानीहशत्वापत्तेः '
इति श्रुतेः । मीमांसकाः कर्मेति 'कर्मणा जायते नश्यति भयाभयसुखानि' इति
श्रुतेः । एतैस्तदुपशिक्षितमगरेव यमुपासते सोऽयं रामो वाञ्छितफलं विदधातु ।
एतेन विद्यावत्त्वमुक्तम् । हरिरित्यनेन दुःखहारित्वात्परप्रेमगुणो दर्शितः । त्रैलोक्य
'वासिजनैस्तत्तद्देवताभजनेन तत्तत्फलं प्रतिनाथ्यते याच्यते इत्यनेन दातृत्व
मुक्तम् ॥ ३ ॥ ४॥
अथोपक्रमः ।</p>
<lg>
  <l>आसीदुद्भट भूपतिप्रतिभटप्रोन्माथिविक्रान्तिको</l>
  <l>भूपः पंक्तिरथो विभावसुकुलप्रख्यातके॒तुर्बली ।</l>
  <l>उर्वी बर्बरभूरिभारहरणे भूरिश्रवाः पुत्रतां</l>
  <l>यस्यार स्वमथो विधाय महितः पूर्णश्चतुर्धा विभुः ॥ ५ ॥</l>
</lg>
<p>इदानीं कथायोजनाय व्याख्याकृदात्मनः श्लोकचतुष्टयमवतारयति- आसीदि-
त्यादि । पंक्तिरथो दशरथो भूपो राजा आसीत् । सकः । यस्य भूरिश्रवा नारा-</p>
<pb n="7" />
<p>हनुमन्नाटकं -
[ अङ्कः-
यणः स्वं आत्मानमेव रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा विधाय पुत्रतां आर प्राप
किमर्थम् । उर्व्यां ये बर्वरा राक्षसास्तेषां यो भूरिभारस्तन्नाशाय 'वर्वरो राक्षसोऽ-
धमः' इति धरणिः । किंभूतः पुत्रार्थमिष्टः । अन्यत्सुगमम् ॥ ५ ॥
तेषामीश्वरतागुणैश्च जनुषा ज्यायानभूद्राघवो</p>
<lg>
  <l>6</l>
  <l>रामः सोऽप्यथ कौशिकेन मुनिना रक्षोभयायाचितः ।</l>
  <l>राजानं स यशोधनो नरपतिः प्रादात्सुतं दुःखित-</l>
  <l>स्तस्मै सोऽपि तमन्वगाद्नुगतः सौमित्रिणोचैर्मुदा ॥ ६॥</l>
</lg>
<p>तेषां चतुर्णां पुत्राणां मध्ये जनुषा जन्मना ईश्वरत्वप्रतिपादकगुणैश्च रामो
ज्यायानतिशयेन ज्येष्टोऽभूदिति योज्यम् । अन्यत्सुगम् ॥ ६॥</p>
<lg>
  <l>सुन्दस्त्री दमनप्रमोदमुदितादास्थाय वियोदयं</l>
  <l>रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया ।</l>
  <l>क्लृप्ते कौशिकनन्दनेन च मखे तत्रागतात्राक्षसा-</l>
  <l>न्हत्वाऽमूमुचदाशु भाविविदसौ मारीचमुग्राकृतिम् ॥ ७ ॥</l>
</lg>
<lg>
  <l>पूर्ण यज्ञविधौ यियासुरभवद्रामेण सार्धं मुनिः</l>
  <l>सीतासंवरणागताखिलनृपव्याभग्नवर्यश्रियम् ।</l>
  <l>श्रुत्वा तद्धनुरुत्सवं च मिथिलामास्थाय तेनाधिक</l>
  <l>सत्कारैरुपलम्भितः पुनरगाच्चापाश्रितं मण्डलम् ॥ ८ ॥</l>
</lg>
<p>सुन्द्नाम्नो रक्षसः स्त्री ताटका सत्यवतीसुताद्विश्वामित्राद्विद्योदयं भाविवित्
निमित्तभूतेनानेन मृगरूपेण रावणः सीतां हरिष्यतीति भाववित् । शेषं
सुगमम् ॥ ७ ॥ ८॥</p>
<lg>
  <l>तदा सीता ( आत्मगतम् ) -</l>
  <l>कमठपृष्ठकठोरमिदं धनुर्मधुरमूर्तिरसौ रघुनन्दनः ।</l>
  <l>-</l>
  <l>कथमधिज्यमनेन विधीयतामहह ताव पणः स्तवदारुणः॥ ९॥</l>
</lg>
<p>तत्र रामं दृष्ट्वा सीता विचिकित्सति - कमठेति । इदं धनुः कमठपृष्ठवत् कठो-
रम् । रघुनन्दनो रामो मधुरमूर्तिः सुकुमाराङ्गः । अहहेति खेदे । अनेन रामेणेंद्</p>
<pb n="8" />
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<note>१.]</note>
<p>धनुरधिज्यमधिकृतगुणं कथं विधीयताम् । अतस्तातस्य पितुः पणः 'कोऽपि धनुरधिज्यं करिष्यति तस्मै सीतां दास्यामि' इत्येवरूपा प्रतिज्ञा स्तवाय स्तुत्यै
दारुणोऽयोग्यः अस्तुत्य इति । यद्वा अविसर्गपाठे हे तात, तव पणो दारुण इति
मानसोक्तिः । तातपणश्चेन्ना भविष्यत्तहं राममन्त्रिप्यामीति भावः । 'स्तवः स्तोत्रंस्तुतिर्नुति: ' इत्यमरः ॥ ९ ॥
रामो लक्ष्मणं प्रति --</p>
<lg>
  <l>आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः</l>
  <l>कन्यायाः कलधौतकोमलरुचेः कीर्तेश्च लाभः परः ।</l>
  <l>नाकष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः</l>
  <l>केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलम् ॥ १० ॥</l>
</lg>
<p>अथ रामः सीतासंशयमवधार्यात्मशक्तिं ज्ञापयितुं लक्ष्मणमनुवदति- आद्वीपा-
दिति । भो लक्ष्मण, अभी नृपतय आद्वीपात्समभ्यागताः । द्विर्गता आपो यस्मि-
निति द्वीपं सागरान्तर्वर्ती देशः । तमतिव्याप्य परतो लङ्कादेरपि । यद्वा द्वीपो
जम्बूद्वीपस्तमभिव्याप्य परतो द्वीपान्तरादपि तत्रापि सर्वे, न तु केचन, तेषां मध्ये
केनापि इदं महद्धनुर्महतो रुद्रस्य धनुः । यद्वा महञ्चेदं धनुश्च नाकृष्टम् । नन्वाकर्षणं
तिष्ठतु, न टङ्कितं टकारवन्न कृतम् । एतदपि तिष्ठतु, न नमितमपि । स्थानतोऽपि
नोत्थापितम् । अहो महदाश्चर्यमिदमुर्वीतलं निर्वीरं वीर एवात्र कोऽपि नास्ति ।
यहा इदं धनुनिवर निर्गताः पराजिता मानभङ्गात्पलायिता वा वीरा यस्मात्तदिति
वाक्यान्तरेणेदंशब्दस्य पुनरुक्तिः । उर्वीतलमिति सप्तम्यर्थे प्रथमान्तपदमार्पम् ।
नन्वेतदाकर्पणादौ को लाभ इति चेत्तत्राह-कलधौतस्य दाहोत्तीर्णहेन इव कोमला
रुचिर्यस्या एवंभूतायाः कन्याया लाभः । 'कलधौतं तप्तहेम स्यात्' इति धरणिः ।</p>
<lg>
  <l>'कन्येयं. कलधौतकोमलरुचिः कीर्तेश्च लाभोऽपरः इति पाठेऽप्ययमेवार्थः ।</l>
  <l>इयं कन्या सीता तल्लाभः इति सीतायाः पित्राद्यधीनतया कन्यात्वम् ॥ १० ॥</l>
</lg>
<p>लक्ष्मणो रामहृदयानन्दकंदाङ्करोद्भवाय निजप्रचण्डदोर्दण्डयोर्महतीं प्रौढ़ नाटयति--
देव श्रीरघुनाथ कि बहुतया दासोऽस्मि ते लक्ष्मणो
मेर्वादीनपि भूधरान गणये जीर्ण: पिनाकः कियान् ।
-</p>
<pb n="9" />
<p>[ अङ्कः-
हनुमन्नाटकं -
तन्मामादिश पश्य पश्य च बलं भृत्यस्य यत्कौतुकं
प्रोद्ध प्रतिनामितुं प्रचलितुं नेतुं निहन्तुं क्षमः ॥ ११ ॥
देवेति । पूर्वार्धे स्पष्टमेव । तत्तस्मात्कारणान्मामादिशाज्ञापय । भृत्यस्य मम
यत्कौतुकमाञ्चर्यकर्तृ वलं तत्पश्य । पश्येत्यादरे वीप्सा । किं वलमिति चेत्तत्राह--
एतद्धनुः प्रोद्धर्तु, भूमेः प्रतिनामितुं नम्रोकर्तु, प्रचलितुं कोणगुणालोकनाय चपल-
यितुं, नेतुमितो गमयितुं, निहन्तुं भग्नीकर्तु क्षमोऽस्मि । किं पुनराकर्पणमात्रमिति
भावः। 'पिनाकोऽजगवं धनुः' इत्यमरः । ममैवात्रेदृशीशक्तिः । भवन्तस्तु
ब्रह्माण्डोद्धरणसहा इति द्योतितम् ॥ ११ ॥
रावणपुरोहितो जनकं प्रति-</p>
<lg>
  <l>दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ</l>
  <l>दोः क्रीड़ामशकीकृतत्रिभुवनो लंकापतिर्याचते ।</l>
  <l>तत्किं मूढवदीक्षसे ननु कथागोष्ठीषु नः शासते</l>
  <l>तद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः ॥ १२॥</l>
</lg>
<p>पुनः रामं प्रति-</p>
<lg>
  <l>समंतादुत्ता : सुरसहचरीचामरमरु-</l>
  <l>त्तरङ्गैरुन्मीलगुजपरिघसौरभ्यशुचिना ।</l>
  <l>स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि धृता-</l>
  <l>मरे राम त्वं मा जनकपतिपुत्रीमुपयथाः ॥ १३ ॥</l>
</lg>
<lg>
  <l>जनक:-</l>
  <l>माहेश्वरं धनुः कुर्यादधिज्यं चेद्ददामि ताम् ।</l>
  <l>पुरोहित:-</l>
  <l>गुरोः शंभोर्धनुनों चेच्चूर्णतां नयति क्षणात् ॥ १४ ॥</l>
</lg>
<p>तयोरेवं वदतोरेतदन्तरमासाद्य रावणपुरोहितो जनकमनुवदति - दातव्येति ।
भो जनक, इयं सर्वोत्तमा दुहिता कस्मैचिदयाचतेऽपि वराय दातव्यैव । असौ</p>
<pb n="10" />
<note>१.]</note>
<p>दीपिकारव्यव्याख्योपेतम् ।</p>
<p>प्रसिद्धः कुलाचारः । एतेन कौलीन्यमुक्तम्। लङ्कापतिः। अनेनैश्वर्यमुक्तम्। दोः क्रीडामशकी-
कृतत्रिभुवनः । एतेन कल्पत्वमुक्तम् । भुजक्रांडानिर्जितत्रिभुवनः । यद्वा भुजक्रीडया
मशकीकृतं निश्चेतनीकृतं त्रिभुवनं येन ।' दंशाचेतनयोमेशा ' इति विश्वः । मश एव
मशकः । एवं भूतो रावणः एनां स्वयमेव याचते तत्तस्मादज्ञातार्थवदीक्षसे विचार-
यसि । ननु वितर्के । प्राग्भवाः प्राच्या मरीच्यादयो मुनयस्तद्वृत्तानि रावणचार-
तानि कथागोष्ठीषु नोऽस्माशासते कथयन्ति । किंभूतानि । परोरजांसि शुद्धानि ।
यद्वा रजोभ्यो भूरेणुभ्यः पराण्यधिकानि परोरजांसि । परसूशब्दं निपातनं मन्यते
भोजराजः । इत्यादिविशिष्टगुणोऽयं याचते तस्मादस्मै दातव्येति भावः । ननु
कथागोष्टीपु तस्यासती ' इति पाठे नु इति वितर्के । गोष्ठीयु पुरावृत्तवर्णनरूपासु
तस्य रावणस्य कथा इयमितिरूपा काचित्सासती मिथ्या न । सत्यैवेत्यर्थः । यद्वा
तस्य लङ्कापतेर्वृत्तं शीलमिव शीलं येषां तानि । मध्यमपदलोपी समासः । रजसः
प्रकृतेः परं परोरजः परब्रह्म तद्रूपाणि । यद्वा तस्य वृत्तानि शीलान्यप्याचरन्तीति
शेषः । ननु महीयान्कथं याचते इति चेत्तत्राह-' साधारणो निरातङ्कं कन्यामन्यो-
ऽपि याचते । किं पुनर्जगतां नेता स पौत्रः परमेष्ठिनः ॥ १२ ॥ १३ ॥ १४ ॥
जनकः विहस्य -
M</p>
<lg>
  <l>शम्भोरावासमचलमुत्क्षेप्तुं भुंजकौतुकी ।</l>
  <l>माहेश्वरं धनुः क्रष्टुमर्हते दशकंधरः ॥ १५ ॥</l>
</lg>
<p>धनुराकर्पणे रावणशक्तिं द्योतयति काकूक्त्या-दशकन्धरः माहेश्वरं धनुः ऋष्टुमा-
ऋष्टुं योग्योऽस्ति । किंभूतः । शम्भो: आवासस्थानमचलमुत्क्षेप्मुमुद्धर्तु भुजफौतुकी
भुजे कौतुकमस्यास्तीति गुरोगृहमुद्धर्तुम् । किं पुनस्तद्धनुरिति भावः ॥ १५ ॥
जनकः सीतां प्रति सखेदम्-</p>
<lg>
  <l>माहेश्वरो दशग्रीवः क्षुद्राश्वान्ये महीभुजः ।</l>
  <l>पिनाकारोपणं शुल्कं हा सीते किं भविष्यति ॥ १६ ॥</l>
</lg>
<p>दशग्रीवो धनुरारोप्य त्वां लङ्कां नेष्यति । अथवा कञ्चिन्नृपस्त्वां दूरदेशं नेष्य-
तीति खेदः । इत्यर्थ श्रुत्वा सीता पुनः खिद्यमाना तदेव ' कमठपृष्ठकठारेम्" इति
पद्यं पुनः पठति । पुनः पठिते पुरोहितः सोधम् ॥ १६ ॥</p>
<pb n="11" />
<p>हनुमन्नाटकं -
सीता-
exped
'कमठपृष्ठम्' इत्यादि पुनः पठति । रावणपुरोहितः सक्रोधम् -</p>
<lg>
  <l>साथै हरेण हरवल्लभया च देव्या</l>
  <l>हेरम्बषण्मुखवृषप्रमथावकीर्णम् ।</l>
  <l>कैलासमुद्धृतवतो दशकन्धरस्य</l>
  <l>केयं च ते धनुषि दुर्मद दोः परीक्षा ॥ १७ ॥</l>
</lg>
<p>[ अङ्कः-
हे दुर्मद दुर्वीराग्रह, धनुषि दशकन्धरस्य दोः परीक्षा भुजवलज्ञानरूपा का, न
कापि । ते तव इयं धनुरधिज्यकरणरूपा परीक्षा का न कापीत्यर्थः । किंविशिष्टस्य ।
कैलास गिरिं धृतवृतः । अन्यत्तु सुगमम् । यद्वा किंविशिष्टस्य ते । हरेण
नैपुण्येन साथै कैलासं नेतृगुणमुद्धृतवत उचैर्हदि धारयत: । ईहड्नेता नेहगिति
ज्ञानवतः । 'हरो नैपुण्यरुद्रयोः' इति चरकः । 'गुरौ नेतृगुणे भावे कैलासे स्त्री-
हरेऽपि च ' इति शाश्वतः । च पुनः वल्लभया देव्या सार्धं देवी द्योतमाना वल्लभा
कार्याकार्यपरीक्षा तया सहेत्यर्थः । 'कार्याकार्यविचारेक्षा वल्लभा च जयध्वानेः'
इति विश्वः । किंविशिष्टं नेतृगुणम् हेरम्चपण्मुखवृपा याः प्रमथाः विद्यास्ताभिरा-
कीर्णं युक्तम् । हेरम्बो गणेशस्तस्यैवाग्रपूज्यत्वं विघ्ननाशाय । विद्या पण्मुखस्यैव
शत्रुसंहारविद्या । वृपो धर्मस्यैव लोकपालनमित्र एताभिर्युक्तः । एतद्विशेपणत्रयेण
-सद्गुणशालित्वातिकल्पत्वरञ्जितलोकत्वादयो गुणा दर्शिताः । हरेण हरवल्लभया
चेति पदद्वयेन विद्याबलत्वमुक्तम् । किं तत् । हरो रुद्रस्तद्वत् । यथा रुद्रः
सर्व
जानाति तथाखिलनेतृगुणाऊजानतस्तव धनुरुद्धरणमात्रे का परीक्षेति भावः ॥ १७॥
-
जनक:-</p>
<lg>
  <l>शृणुत जनककल्पाः क्षत्रियाः शुल्कमेते</l>
  <l>दशवदनभुजानां कुण्ठिता यत्र शक्तिः ।</l>
  <l>नमयति धनुरैशं यस्तदारोपणेन</l>
  <l>त्रिभुवनजयलक्ष्मीजनकी तस्य दाराः ॥ १८ ॥</l>
</lg>
<p>जनकोऽपि पुरोहितमाक्षिय्य स्वप्रतिज्ञातं राज्ञः
जन एव जनकः, जनानां समूहो जानकं जानकमस्यास्तीति जानकी
श्रावयति - जानकी</p>
<pb n="12" />
<p>दीपिकाख्यव्याख्यानम् ।</p>
<p>जनममृतिमान । अन्यथा सौनावनित 'वरस्यन्यमायाति अतो जानकी-
●
शिष्टाः
एतम्य निर्भय सूचितम । भी क्षत्रियाः शृणुत कि-
जनाःलेन मनः भिन्ना इत्यर्थः । 'लोक-
ः पुमान इति परणि: 'शुल्कम' इति पाठे जनकम्य
.
शुरु पर्यशृयुत । नमः । नत्र धतुषि कुशवदनभुजानां शक्ति: गुण्डिना
जाना, दैनं धन्ः कोऽपि नमवति सारोपणना मैथिली तस्य तदारोपणकर्तुदराः
स्थान
विशिष्टा त्रिभुवनजयलक्ष्मी । गन्नामो त्रिभुवनं
तिनं भरभाव धनुरागेपणेनामिनावना ॥ १८ ॥
श्रीरामः नाट्यम्-
1
★
●
.</p>
<lg>
  <l>कपोले जानक्या: करिकलभदन्तद्युतिमुपि</l>
  <l>स्मरम्मेरं गण्डोडुमरपुलकं वक्रकमलम् ।</l>
  <l>मुहुः पश्यशृण्वजनिचरमैनाकलकलं</l>
  <l>जटाजूटयान्थरचयति रघृणां परिवृदः ॥ १९ ॥</l>
</lg>
<p>इयोगमः सवलीक्य नदुधानं नाटयति- ' अन रामे चिन्नरमः
प्रतिपाय । धनःस्थान निर्व: शुन्यमुपविष्टाया जानस्याः कपोले मरम्मेरं सफाम-
विम्यानया व निमुत्रचिन्दनतिम्पियन । एतेन मधुरम्मो
। [धिशि कपीले । करिफलभः करिशासनम्य दन्तयोगतिं किंचिन
गुणानीति तन्मिन् । एतेन मोताया अपि चरमकशारत्वमुक्तम ।
वगंरागनरक्षः सेनाकोलाहलं च श्रृण्वन् वयं बलाद्धरिष्याम इत्येवरूपम् । एतेन
भयानसे दर्शिनः । जटाजूटममृहमन्थि रनयति । अनेन वीररसो
दागेन । 'प्रणिनम्नु सटा जटा इत्यमरः । गण्डोडुमरपुलकं गण्ड:</p>
<lg>
  <l>व्यापम नाम्यगरयः स्निग्नसास्थिको हातः रसत्रयेऽध्यमरः प्रचण्ड-</l>
  <l>।</l>
  <l>परिकृष्ठोधिपः उत्तं मदीयरमोधी' शबलत्वं हि रसनां सर्वेषामेव जायते यत्र</l>
  <l>दशमः सोत्र निरक्तचित्रमः सर्वरमसारः' इति ॥ १९ ॥</l>
</lg>
<lg>
  <l>गृहीतहरकोदण्डे रामे परिणयोन्मुखे ।</l>
  <l>पस्पन्द नयनं वामं जानकी जामदग्र्ययोः ॥ २० ॥</l>
</lg>
<p>धनुरुद्धरणटम्बरे सीताजामदग्योः शुभाशुभं द्योतयति गृहति । परपन्द
अस्फुरत् । तदुक्तं वसन्तराजे- 'चक्षुर्वामं मृगहशो जयकारि भृशं त्वरा । तदेव
पुरुषस्यारात्स्फुरितं भयशंसनम् ' इति ॥ २० ॥</p>
<pb n="13" />
<p>हनुमन्नाटकं - अङ्क १
लक्ष्मणो रामे सज्यं धनुः कुर्वति सति पृथ्व्यादीनि
भुवनान्यधो यास्यन्तीत्याशङ्कयाह-</p>
<lg>
  <l>पृथ्वि स्थिरा भव भुजंगम धारयैनां</l>
  <l>त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।</l>
  <l>दिक्कुञ्जराः कुरुत तत्रितये दिधीर्षां</l>
  <l>रामः करोति हरकार्मुकमाततज्यम् ॥ २१ ॥</l>
</lg>
<p>इदं द्वितयं पृथ्वी भुजंगमं चेति । तत्रितये तस्मिंस्तृतये भूभुजंगमकूर्मरूपे । दि-
धीपी धर्तुमिच्छां कुरुतेति ॥ २१ ॥</p>
<lg>
  <l>पृथ्वी याति विनम्रतां फणिपतेर्नचं फणामण्डलं</l>
  <l>बिभ्यति कूर्मराजसहिता दिक्कुञ्जराः कातराः ।</l>
  <l>आतन्वन्ति च वृंहितं दिशि भटैः सार्धं धराधारिणो</l>
  <l>वेपन्ते रघुपुंगवे पुरजितः सज्यं धनुः कुर्वति ॥ २२ ॥</l>
</lg>
<p>अत्र भूतार्थे यातीत्यादिवर्तमाननिर्देश: कवेस्तात्कालिकानुभवेन । 'फटायां तु
फ़णा द्वयोः' इत्यमरः । 'वृंहितं करिगर्जितम्' इत्यमरः । पुरजितत्रिपुरजेतुः
रुद्रस्य ॥ २२ ॥
तदा च-</p>
<lg>
  <l>उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं</l>
  <l>भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।</l>
  <l>वैदेहीमनसा समं च सहसाकृष्टं ततो भार्गव -</l>
  <l>प्रौढाहं कृतिदुर्मदेन सहितं तद्भग्नमैशं धनुः ॥ २३ ॥</l>
</lg>
<p>अथ धनुर्भङ्गं  नानारसानुभवाच्चित्ररसं दर्शयितुं पञ्चमवतारयति-उत्क्षिप्तमिति ।
कौशिके वत्सलरसो जातः । अत्र हर्षः संचारी हर्पोत्पुलका इति ज्ञानम् । भूपेषु
भयानकरसः । अत्र दैन्यं संचारि दैन्यादेव मुखनमनम् । अत्र भीपणा त्रिविधा ।
तत्र प्रभावेनैव रामे भीषणत्वं, जनके करुणारसो जातः । अन्न ग्लानिः संचारी सा</p>
<pb n="14" />
<p>1
दीपिकाख्यव्याख्योपेतम् ।</p>
<p>चाधेर्जाता आध्यनुभावः संशय इति ज्ञानम् । वैदेह्यां मधुररसो जातः । मनआक-
र्पणमेवात्रानुभावः । रामे वीररसः । अत्र स्पर्धेद्दीपनं परशुरामो गत इति ज्ञानम् ।
अत्र सर्वरसानामुद्दीपनविभावो राम एव ॥ २३ ॥</p>
<lg>
  <l>शंभौ यद्गुणवहरीमुपनयत्याकृष्य कर्णान्तिकं</l>
  <l>अश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः ।</l>
  <l>स्वं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो</l>
  <l>भियन्ते वलयानि दाशरथिना तद्भग्नमैशं धनुः ॥२४॥</l>
</lg>
<p>धनुषो महत्त्ववर्णनेन रामे महत्त्वमवतारयति - शंभाविति । शंभौ रुद्रे यनुणव-
लरीं प्रत्यश्चिकामाकृष्य कर्णान्तिकमुपनयति सति, तदा त्रिपुरावरोधसुदृशां कर्णो-
स्पलत्रन्थयो भ्रश्यन्ति । यदा चेमां गुणवल्लरीमुन्मुच्य परित्यज्य स्वमात्मीयं प्रको-
ठकमास्फालयति तदा तासामेव त्रिपुरसुदृशां वलयानि कङ्कणानि भिद्यन्ते । तदी-
इग्धनुर्दाशरथिना भन्नमिति महत्त्वम् ॥ २४ ॥
अपि च -</p>
<lg>
  <l>तद्ब्रह्ममातृवधपातकिमन्मथारि-</l>
  <l>क्षत्रान्तकारिकरसंगमपापभीत्या ।</l>
  <l>ऐशं धनुर्निजपुरश्चरणाय नूनं</l>
  <l>देहं मुमोच रघुनन्दनपाणितीथें ॥ २५ ॥</l>
</lg>
<p>Badka
नन्वत्र तदुत्थापनमेव पणः, किमर्थं तद्रामेण भग्नमिति चेत्तत्राह- तत् ऐशं धनुः
रामहस्ततीर्थे देहं मुमोच त्यक्तवान् । किमर्थ, निजपुरश्चरणा पापप्रणाशार्थम् ।
कथं पापसंभावना । ब्रह्ममातरौ ब्रह्मा च माता च ब्रह्ममातरौ तयोर्वधस्तेन पात-</p>
<lg>
  <l>किनौ यो मन्मथारिक्षत्रान्तकारिणौ तयोः करसंगमाद्यत्संसर्गपापं तद्भीत्या ।</l>
  <l>अन्योऽपि पापस्तीर्थे देहं त्यक्त्वा शुद्धो भावतीतिं प्रसिद्धम् ॥ २५ ॥</l>
</lg>
<p>।
त्रुट्यद्धीमधनुः कठोरनिनदस्तत्राकरोद्विस्मयं
त्रस्यद्वाजिरवेरमार्गगमनं शंभोः शिरः कम्पनम् ।</p>
<pb n="15" />
<p>हनुमन्नाटकं -
दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मेलनं
वैदेहीमदनं मदान्धदमनं त्रैलोक्यसंमोहनम् ॥ २६ ॥
तत्र तस्मिन्नवसरे त्रुट्यद्भज्यमानं भोमो रुद्रस्तद्धनुस्तस्य कठोर : परुषो निनादः
सविस्मयमाश्चर्यमकरोत् । तदेव द्योतयति- त्रस्यन्तो वाजिनो यस्यासौ त्रस्यद्वाजी
स चासौ रविश्च तस्य शब्दश्रवणमात्रेण त्रस्ताश्वस्य रवेरमार्गगमनमकरोदिति
सर्वत्रानुबद्धथते । सप्तार्णवानामुञ्चैराकाशमेलनं ऐक्यतां न तु भूमौ । तथा सति
भूलय: स्यात् । एतत्पद्येनाद्भुतरसो दर्शितः । उक्तं च मदीयरसोदधौ-'यामो-
चितविभाव: पुष्टि याता रातर्हि विस्मयजा । रसोद्भुताख्यः सः स्यात्पूर्णोऽपि
स्याद्विभावोऽत्र ॥ २६ ॥</p>
<lg>
  <l>रुन्धनष्ट विधेः श्रुतीर्मुखरयन्नष्टौ दिशः कोडय-</l>
  <l>न्मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ।</l>
  <l>तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च संपादय-</l>
  <l>न्नुन्मीलत्ययमार्यदोर्बलदलत्कोदण्डकोलाहलः ॥ २७ ॥</l>
</lg>
<p>लक्ष्मणः-
WES
[ अङ्कः-
-
गद्यम् – जामदग्न्यस्त्रुट्यभैरवधनुः कोलाहलामर्षमूच्छितः
प्रलयमारुतोद्भूतकल्पान्तानलवत्प्रदीप्तरोषानलः ।
रामं प्रति परशुरामं सूचयनूं-</p>
<lg>
  <l>यभञ्ज जनकात्मजाकृते राघवः पशुपतेर्महद्धनुः ।</l>
  <l>तद्धनुर्गुणरवेण रोषितस्त्वाजगाम जमदग्निजो मुनिः ॥ २८ ॥</l>
</lg>
<p>तमेवाद्भुतरसं विशिनष्टि–रुन्धमिति । आर्यो रामस्तस्य भुजबलेन दलद्भज्य-
मानो यः कोदण्डो धनुस्तस्य कोलाहल : शब्दाडम्बरोऽयमुन्मीलति प्रकटी भवति ।
किं कुर्वन् । विधेर्ब्रह्मणः अष्ट श्रुती: कर्णान्निरुन्धन्ध्यावृण्वन्, अष्टौ दिश: मुखर
यन्प्रतिध्वनिना वाचालिताः कुर्वन्, महेश्वरस्याट मूर्ती: क्रोडयन्व्याकुलयन् । तथा
चागमे - ' भूर्जलं वह्निराकाशं वायुर्यज्वा शशी रविः । इत्यष्टौ मूर्तयः शम्भो..
र्मङ्गलं जनयन्तु नः' इति । अष्टौ कुलक्ष्माभृतः कुलगिरीन्विस्फोटयन्, तानाहा..
गम: - ' विजयः कुमुदो नीलो निपधो हिमवानथ । जयन्तः कालनिपधो वाहीऽको-
ष्टौ दिगद्रयः ' इति । एते पूजनविधाने । पन्नगकुलान्यपि तत्रैव - ' नागसर्पोरगाखु-</p>
<pb n="16" />
<p>दीपिकाख्यव्याख्योपेतम् ।
भुग्दन्दशूकविजिहागाः । मायिकामृतपालेयशेपाख्याश्चाष्टजातयः' । सर्पेति प्रौदितः ।
सर्वेपु पङ्कजं यथा स्थलजेप्वपि कमलमिति । ' भिन्दन् भूतलम् -' इत्यादि पद्यमत्र
केचित्पठन्ति तत्प्रक्षिप्तमस्ति । रुन्धन्नित्यनेनैकार्थत्वात् ॥ २७ ॥ २८ ॥</p>
<lg>
  <l>चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो</l>
  <l>भस्मस्निग्धपवित्रलाञ्छितमुरो धत्ते त्वचं रौरवीम् ।</l>
  <l>मौञ्ज्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं</l>
  <l>पाणौ कार्मुकसाक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २९ ॥</l>
</lg>
<lg>
  <l>पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।</l>
  <l>यः ससोम इव धर्मंदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ३० ॥</l>
</lg>
<p>मुनिराजगामेति पूर्वेण संवन्धः । पृष्ठतस्तूणीद्वयं निपङ्गयुग्मं धत्ते । एतेन सर्व
द्वितीयान्तं योज्यम् । रुरुञ्चित्तलो मृगः । मञ्जिष्ठया रक्तं माञ्जिष्ठकं वासः । उक्तं
च-' ब्रह्मव्रतधरो वासो वसानो रक्तमुत्तमम् ' इति पाराशरः । किंविशिष्टो मुनिः ।
दण्ड : ' अर्शआदिभ्योऽच् ' । प्रशस्तो दण्डोऽस्यास्तीति दण्डः । ब्रह्मव्रतेपि क्षत्र-
दमनः । पुनः किंविशिष्टः । न कश्चित्परः श्रेष्टो यस्मात्स: अपरः । पुनः
पैप्पल: पिप्पलो ब्रह्मसूत्रमस्यास्तीति पैप्पलः । स्वार्थे तद्धितः 'अर्श-
आदिभ्योऽच् ' । यज्ञोपवीतवानिति 'अश्वत्थे ब्रह्मसूत्रे च पिप्पलोऽस्त्री गुणेष्वपि '
इति धरणिः । ' दण्डं परं पैप्पलम् ' इति पाठे अश्वत्थस्य दण्डं धत्ते । ' विभृयात्पै-
प्पलं दण्डं ब्रह्मव्रतधरः सदा ' इत्युक्तत्वात् । अपरः पैप्पलं दण्डं धत्ते इति वार्थः ।
समुच्चयोऽयमलंकारः । 'पदार्थानामनेकेपां यत्रकस्मिन्निबन्धनम् । एकया क्रि-
यया विज्ञैः स प्रोक्तो हि समुच्चयः । वैरिणोरपि वीरशान्तरसयोरत्र युक्त्या योजनं
अदोषाय । ' युक्त्या कृतोपि संयोगस्तयोर्वाढं न दुप्यति' इत्युक्तत्वात् ॥२९॥३०॥</p>
<lg>
  <l>आजन्म ब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान-</l>
  <l>ज्याघातश्रेणिसंज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः ।</l>
  <l>वक्षःपीठे घनास्त्रवणकठिने संक्ष्णुवानः पृषत्का-</l>
  <l>न्प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः ॥३१॥</l>
</lg>
<p>आजन्मेति ॥ एवंभूतो जामदद्भ्यः संप्राप्त इत्यन्वयः । पृथुलौ मांसलौ भुजावेव
शिलास्तम्भौ तयोर्विभ्राजमाना या ज्याघातश्रेणी प्रत्याचिकास्फोटनपंक्तिः तस्याः</p>
<pb n="17" />
<p>हनुमन्नाटकं -
[ अङ्क:-
संज्ञया सूचनेनान्तरिता स्वस्मिन्विज्ञापिता पृथ्वीचक्रस्य विजयस्य प्रशस्तिये॑न सः ।
' नामसूचनयोः संज्ञा' इति विश्वः । वक्षःपीठे पृषत्कान्वाणान् संक्ष्णुवानस्तीक्ष्णी-
कुर्वाणः । घनानि यान्यस्त्राणि तेषां व्रणैः यः किण: मांसासृग्विवर्तः तेन कठिने ।
'मांसासृग्भरणं किणः' इति धरणिः । राजन्यगोष्टयः क्षत्रियसमूहा एव वनगजा-
स्तद्धननार्थ या मृगया तस्यां कौतुकमस्यास्तीति ॥ ३१ ॥
सोऽयं सप्तसमुद्रमुद्रित</p>
<lg>
  <l>महीपस्यार्जुनस्योद्धतं</l>
  <l>छित्त्वा भैरवसंगरेऽतिजरठं कण्ठं कुठारेण यः ।</l>
  <l>रेवातीरनिरोधहेतुगहनं बाहोः सहस्रं जवा -</l>
  <l>काण्डं काण्डमखण्डयत्तृिवधामर्षेण वर्षीयसा ॥ ३२ ॥</l>
</lg>
<p>एवंभूतमेनं दृष्ट्वा लक्ष्मणः रामं स्मारयति - हे राम, अयं सोऽस्ति । स कः ।
थः भैरवसंगरे अतिभयंकरे रणे उद्धतं अननं यथा स्यात्तथा कुठारेण परशुना अर्जु-
नस्य राज्ञः कंण्ठं छित्त्वा पूर्व मूलादुत्कृत्य पश्चाजवाद्वेगेन वाहुसहस्रं काण्डं
काण्डं अखण्डयत् । नन्वर्जुनोल्पवल इति चेत्तत्राह - सप्तभिः समुद्रैः मुद्रिता वेष्टिता
वसुमती मही तस्याः पालकस्य । किंविशिष्टं कण्ठम् । अतिजरठमतिकठोरम् ।
' समौ जरठकर्कशौ' इति विश्वः । कीदृग्वाहुसहस्रम् । रेवानर्मदा तत्तीरनिरोधाय
हेतुभूतं गहनम् । स्त्रीभि: कीडन्येन भुजसहस्रेण सरित्प्रवाहमेवारुणत्त
जसहस्रम् । केन हेतुनाखण्डयत् । वर्षीयसा वृद्धिंगतेन । पितृवधजन्यक्रोधे-
नेत्यर्थः ॥ ३२ ॥
.
पुनः परशुं दृष्ट्वा -</p>
<lg>
  <l>येन त्रिःसप्तकृत्वो नृपबहलवसामांसमस्तिष्कपंक-</l>
  <l>प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः ।</l>
  <l>यस्य स्त्रीबालवृद्धावधि निधनविधौ निर्दयो विश्रुतोऽसौ</l>
  <l>राजन्योच्चांसकूटऋथनपटुरटदोरधारः कुठारः ॥ ३३ ॥</l>
</lg>
<p>रामं स्मारयित्वा पुनस्तत्परशुं स्मारयति । येनेति । यस्य परशुरामस्यासौ कु
ठारो विश्रुतः सर्वतो विख्यातः सोऽयमिति पूर्वेणैव सम्बन्धः । असौ कः । येन
कुठारेण स्त्रीवालवृद्धावधि स्त्रियश्च वालाश्च वृद्धाश्च तत्पर्यन्तं यद्धननविधानं तस्मि-</p>
<pb n="18" />
<note>१.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
न्प्रवृत्ते सति भूरिच्युतरुधिरसरिद्वारिपूरे अभिषेकः सर्वे हननव्रतपूर्तिस्नानम् अकारि
कृतम् । यूनां का वार्तेति भावः । किंविशिष्टे वारिपूरे । नृपाणां या वहला वसा
मांसं च मस्तिष्कं ( मेंदु इति भाषायाम् ) तेषां प्राग्भारः संमर्दो यस्मिन् ' शीर्ष-
ण्यमासं मस्तिष्कम्' इति विश्वः । 'प्राग्भारव्रजसंमर्दा' इत्यपि । किंविशिष्टः
कुठारः । राजन्यानाम् उन्नतांसा एव कूटा गिरयस्तेषां ऋथने दारणे पट्टी रटन्ती
धोरा धारा यस्य सः । 'ऋथनोज्जासनान्यपि ' इत्यमरः ॥ ३३ ॥
जामदस्यः क्रोधं नाटयित्वा-
केनेदं कुपितकालदन्तपत्रान्तरालमिच्छता धनुर्भयम् ।
रामः साशङ्कम् -</p>
<lg>
  <l>पार्वत्या निजभर्तुरायुधमिति म्लानं यदभ्यर्चितं</l>
  <l>निर्मोकेन च वासुकेन वलितं यत्सादरं नन्दिना ।</l>
  <l>भव्यं यत्त्रिपुरेन्धनं धनुरिदं तन्मन्मथोन्माथिनः</l>
  <l>सत्येवं मयि रामनामनि भुवि द्वेधा कृतं दृश्यते ॥ ३४ ॥</l>
</lg>
<p>भो भुने, मन्मथोन्माथिनः रुद्रस्य तद्धनुः मय्येव मामुपविष्य मामासाद्य द्विध
कृतं मध्यतो भग्नं दृश्यते । औपश्लेषिकोऽयमाधारः । भुवि एवं सति भूमौ एवं
धनुर्भनं कृत्वा सति वर्तमाने अन्यत्सुगमम् । 'समौ निर्मोककञ्चुकौ । म्लानं
शत्रूणां हर्पक्षयकारि त्रिपुरम् इन्धनं दाह्यं यस्य तत् ॥ ३४ ॥
जामदग्र्य़ः– ( स्फीतफूत्कारप्रफुल्लनासापुटकोटरोद्गीर्णप्रभूत-
गर्वानलोच्छलितकालकूटधूमस्तोमाच्छादितदिङ्मण्डलः )
अरे रे निजकुलकमलिनीप्रायवर्ष दाशरथे कथमकाण्ड -
मदान्तप्रचण्डदोर्दण्डकोदण्डखण्डचण्डिमाडम्बरेणापूरितं-
जगत्त्रयम् । सकलवसुमतीमण्डलाखण्डलकुमुदिनीपक्षलक्ष्मी-
हरणकिरणमालिनं न मां वेत्सि । येनोक्तः कार्तवीर्यः-</p>
<pb n="19" />
<p>हनुमन्नाटकं -
[ अङ्कः-</p>
<lg>
  <l>सहस्रबाहुस्त्वामहं द्विवाहुस्त्वं सैन्ययुक्तोऽस्यहमेक एव ।</l>
  <l>त्वं चक्रवर्त्ती मुनिनन्दनोऽहं तथापि नौ पश्यतु तर्कमर्कः ॥</l>
</lg>
<p>'व्रातः स्तोमः समूहो स्त्री'। अन्यत्सुगमम् । 'स्फीतेन फूत्कारेण प्रफुल्लाभ्यां
नासापुटाभ्यां नासाविवराभ्यां उद्गीर्णो वहिर्भूतः प्रभूतो महान् गर्वोऽहंकारी यस्य
तादृशरोषानल एव कालकूटं विपं तस्य धूमस्तोमेनाच्छादितमावृतं दिशां मंडलं
समूहो येन ' इति टीकान्तरात् । अरेरे इत्याक्षेपे । अकाण्डमनवसरं प्रचण्डौ यो
दोर्दण्डौ तयोः कोदण्डखण्डनरूपो यश्चण्डिमा चण्डत्वं तदाडम्वरेण जगत्रयं कथ-
'काण्डोऽस्त्री दण्डवाणार्ववर्गावसरवारिपु' इत्यमरः । जात मान्त्वं न
मापूरितम्
वेत्सि ? किंभूतम् । सकलवसुमती पृथ्वी तस्या मण्डलस्य ये आखण्डला इन्द्राः
राजानस्त एव कुमुदिन्यस्तासां पक्षस्य या लक्ष्मीः राज्यादिरूपा तद्धरणे फिरण-
मालिनं सूर्यम् । तं कम् । येन कार्तवीय नृप इत्युक्तः । तदेवाह । तर्क न्याय्यम् ।
शेषं सुगमम् ॥ ३५ ॥
1</p>
<lg>
  <l>उरकृत्योत्कृत्य गर्भानपि शकलयितुं क्षत्रसंतानरोषा-</l>
  <l>दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् ।</l>
  <l>पित्र्यं तद्रक्तपूर्णप्रतिवचनमहो मन्दमन्दायमान-</l>
  <l>क्रोधाग्नेः सर्वतो मे स खलु न विदितः सर्वभूतैः स्वभावः ३६॥</l>
</lg>
<p>हे मन्द कार्याकार्यमूढ, मे स्वभावः सर्वभूतैर्न विदितो न ज्ञातः न, अपि तु तु
विदित एव । अहो यद्भवता न ज्ञातस्तदाश्चर्यमित्यहोपदेन ध्वनितम् । स्वभावमेव
द्योतयति–किंविशिष्टस्य मे । क्षत्रसंताने यो रोपस्तस्माद्गर्भानप्युत्कृत्योत्कृत्य पुनःपुन-
रुद्रान्निः सार्य शकलयितुं खण्डयितुं उद्दामस्य गतदयस्य । पुनः सर्वतः सर्वान्त्री-
वृद्धतरुणरूपपुरुपान्राज्ञां वंशेषु जातान्क्षत्रियानेकविंशत्यवधि एकविंशतिवारं विश
सतो घातयतः । पुनः पित्र्यं पितृणामिदं पित्र्यं तर्पणादि प्रयोगे द्वितीया । मन्दाय -
मानः क्रोधाग्निर्यस्य यथा यथा पित्र्यमकरवं तथा तथा शान्तक्रोधोऽभवमिति
भावः । किंविशिष्टम् । सर्वतः इति सर्व यथा स्यात्तथा तद्रक्तपूर्णप्रतिवचनं तेषां
क्षत्रियाणां रक्तेन पूर्ण निष्पादितं प्रतिवचनं प्रतिकरणीयं यस्मिंस्तत् । यत्तिलकुश-
यवादिसूचकं वचनं तद्रक्तेनैव सम्पादितमिति भावः । एवंभूतोऽपि भवता न ज्ञात-
स्तदाश्चर्यम् ॥ ३६॥</p>
<pb n="20" />
<p>दीपिकाख्यव्याख्योपेतम् ।
अपि च -</p>
<lg>
  <l>आश्चर्ये कार्तवीर्यार्जुनभुजविपिनच्छेदलीलाविदग्धः</l>
  <l>केयूरग्रन्थिरत्नोत्ककषणरणत्कारघोरः कुठारः ।</l>
  <l>तेजोभिः क्षत्रगोत्रत्रलयसमुदितद्वादशार्कानुकारः</l>
  <l>किं न प्राप्तः स्मृतिं ते स्मरदहनधनुर्भङ्ग पर्युत्सुकस्य ॥३७॥</l>
</lg>
<p>पुनराश्चर्यमनुवदति- हे राम, मदीयः कुठार: ते तव स्मृतिं स्मरणविपर्य न
प्राप्तः ? किन्तु प्राप्त एव । मामनादृत्यैतत्कृतमिति भावः । ममानादरणमेवाश्चर्यम् ।
किंविशिष्टः कुठारः । कृतवीर्यस्थापत्यं कार्तवीर्यः स चासावर्जुनश्च तस्य भुजा एक
विपिनं तस्य उच्छेदलीलायां विदुग्धः । पुनः तेजोभिः क्षत्रगोत्रप्रलये समुदिताः
उदयं प्राप्ताः द्वादशार्का: द्वादशसूर्यास्तेपामनुकार: अनुकर्ता । अन्यत्सुगमम् ।
" कर्पणं घर्पणं समे' इति धरणिः । 'बहुत्वमुत्करो व्रातः ' इत्यपि ॥ ३७ ॥</p>
<note>१. ]</note>
<p>रामः सानुनयम्-</p>
<lg>
  <l>बाह्रोर्बलं न विदितं न च कार्मुकस्य</l>
  <l>त्रैयम्बकस्य महिमा न तवापि सैषः ।</l>
  <l>तच्चापलं परशुराम मम क्षमस्व</l>
  <l>डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ॥ ३८ ॥</l>
</lg>
<p>वाहोरिति । त्र्यम्बको रुद्रस्तस्येदं धनुस्त्रयम्बकम्' तनिमेति वा पाठ: ' तन्त्र
तनोर्भावस्तनिमा निःसारत्वमिति । ' डिम्भो माणवकः शिशुः' इति विश्वः । एतेन
धनुर्भङ्गस्येपत्करत्वं कथितम् ॥ ३८ ॥</p>
<lg>
  <l>अपि च -</l>
  <l>अयं कण्ठः कुठारस्ते कुरु राम यथोचितम् ।</l>
  <l>निहन्तुं हन्त गोवित्रान्न शूरा रघुवंशजाः ॥ ३९ ॥</l>
  <l>इदानीं गर्भिताक्षेपमाविष्करोति-अयमिति सुगमम् ॥ ३९ ॥</l>
</lg>
<pb n="21" />
<p>हनुमन्नाटकं -
सवैदग्ध्यम् -</p>
<lg>
  <l>भो ब्रह्मन्भवता समं न घटते संग्रामवार्तापि नो</l>
  <l>सर्वे हीनबला वयं बलवतां यूयं स्थिता मूर्धनि ।</l>
  <l>यस्मादेकगुणं शरासनमिदं सुव्यक्तमुर्वीभुजा-</l>
  <l>मस्माकं भवतो यतो नवगुणं यज्ञोपवीतं बलम् ॥ ४० ॥</l>
</lg>
<p>पुनरपि सवैदग्ध्यमांक्षिपति- भो ब्रह्मन्निति ॥ ४० ॥</p>
<lg>
  <l>जातः सोऽहं दिनकरकुले क्षत्रियः श्रोत्रियेभ्यो</l>
  <l>विश्वामित्रादपि भगवतो दृष्टदिव्यास्त्रपारः ।</l>
  <l>अस्मिन्वंशे कथयतु जनो दुर्यशो वा यशो वा</l>
  <l>विशे शस्त्रग्रहणगुरुणः साहसिक्याविभूमि ॥ ४१ ॥</l>
</lg>
<p>परशुराम: ( साभ्यसूयम् )</p>
<lg>
  <l>येन स्वां विनिहत्य मातरमपि क्षत्रास्त्रमध्वासर्व</l>
  <l>स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्त्रिया मेदिनी ।</l>
  <l>यद्वाणवणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छला -</l>
  <l>दद्याप्यंस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥४२॥</l>
</lg>
<p>दृष्टं ज्ञातं दिव्यास्त्राणां पारमन्तो येन स विप्रे विपये शस्त्रग्रहणं गुरुर्भारो यस्मि
स्तादृशात्साहसिक्यातु । श्रोन्नियेभ्यः वेदाध्ययनाग्निहोत्रादिकर्मणा श्रेष्टेभ्यः सुग-
मम् ॥ ४१ ॥ ४२ ॥'</p>
<lg>
  <l>स्त्रीषु प्रवीरजननी जननी तवैव</l>
  <l>देवी स्वयं भगवती गिरिजापि यस्यै ।</l>
  <l>त्वद्दोर्वशीकृतविशाखमुखावलोक-</l>
  <l>बीड़ाविदीर्णहृदया स्पृहयांबभूव ॥ ४३ ॥</l>
</lg>
<p>[ अङ्क</p>
<pb n="22" />
<p>दीपिकाख्यव्याख्योपेतम् ।
अपि च -
हारः कण्ठे विशतु यदि वा तीक्ष्णधारः कुठारः
स्त्रीणां नेत्राण्यधिवसतु सुखं कज्जलं वा जलं वा ।
सम्पश्यामो ध्रुवमपि सुखं प्रेतभर्तुर्मुखं वा</p>
<note>१.]</note>
<p>यद्वा तद्दा भवतु न वयं ब्राह्मणेषु प्रवीराः ॥ ४४ ॥
किञ्चित्क्षुब्धं ज्ञात्वा पुनस्तौति - स्त्रीविति । प्रवीरजननी प्रकृष्टशूरमाता । एव
पदेन नान्या । कुत एवं इत्यपेक्षायामाह । यस्यै तव जनन्यै गिरिजा स्पृहयांवभू-
वेति । अहं चहक् पुत्रमाता स्यामिति । स्पृहायां हेतुमाह । त्वहोर्वशीति । विशाखः
शिखिवाहनः स्कन्दो यदा क्रौञ्चगिरिजयार्थ गतस्तदा परशुना युद्धे पराजित
इति ॥ ४३ ॥ ४४ ॥
परशुरामः तथापि (साभ्यसूयम्)</p>
<lg>
  <l>यच्चापमीशभुजपीडन पीतसारं</l>
  <l>प्रागण्यभज्यत भवांस्तु निमित्तमात्रम् ।</l>
  <l>राजन्यकप्रधनसाधनमस्मदीय-</l>
  <l>माकर्षकार्मुकमिदं गरुडध्वजस्य ॥ ४५ ॥</l>
</lg>
<p>पूर्व गरुडध्वजस्य इदानीमस्मदीयं इदं कार्मुकं आकर्प ' रणो ना प्रधनं युद्धम् '
इति धनंजयः ॥ ४५ ॥
रामः ( घर्पणामर्षमूच्छितः)
पुरोजन्मा नाद्यप्रभृति मम रामः स्वयमहं
न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् ।
अवीरं वीरं वा कलयतु जनो मामयमयं
:
3
1
मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ ४६ ॥
. आकृष्टे धनुपि मुनिधर्पणा अनाकृष्टे मम पराजय इति धर्षणामर्षो ताभ्यां
मूर्च्छितः । पुर इति । अद्यप्रभृति रामः परशुरामः मम पुरोजन्मा ब्राह्मणो न</p>
<pb n="23" />
<p>• [ अङ्क:-
Butlle</p>
<p>हनुमन्नाटकं -
पराजयहेतुत्वात् । स्वयमप्यहं रघुकुलजातानां राज्ञां पुत्र: पौत्रो वा न । ब्राह्मणाव-
माननहेतुत्वात् । तेषां तदभावात् अतोयं भूलोकस्थो जनः अयं कौतुकार्थ आगतो-
ऽपि देवादिगणो मां वीरं कलयतु जानातु अवीरं वा 'न शौर्य ब्राह्मणे हि मे
इत्युक्तत्वात् । मया दुष्टस्यास्य द्विजदमनदीक्षायां परिकरः कटिस्थवस्त्रग्रन्भिर्वद्धो-
ऽस्ति । ' स्यात्सज्जत्वं परिकरः' इति विश्वः ॥ ४६ ॥</p>
<lg>
  <l>भूमात्रं कियदेतदर्णवमितं तन्निर्जितं हार्यते</l>
  <l>यद्वीरेण भवादृशेन ददता त्रिःसतकृत्वो जयम् ।</l>
  <l>डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतं</l>
  <l>तत्क्रोधाद्विरम प्रसीद भगवआत्यैव पूज्योऽसि नः ॥ ४७ ॥</l>
</lg>
<p>'
एतन्मनसि विचार्य तत्तुल्यः पुनरपि शान्त्यैव वदति - भूमात्रमिति । प्रकर-
णार्थ: सुवोध एव । कटाक्षमुपक्षिपति । यदा यत्र विजये लाभत्रयमस्ति तदैश्वर्य-
महणं, आत्मजयघोपणं, शत्रुहननं चेति तेषां तु तत्पराजये किमपि नास्तीत्याह-
यत् भूमात्रं न त्वन्ये लोकास्तत्राप्यर्णवमितं न तु सर्वा भूः । तत्रापि भवादृशेन
वीरेण त्यादृशेन शूरेण । तत्रापि त्रिः सप्तकृत्वो न त्वेकवारं निर्जितं तत् हार्यते
त्वया त्याज्यते, आदाय गृह्यत इति एतत्कियत् ? न कियदिति । तदपि भूमात्रं तव
नास्तीति भावः । किंशिष्टेन वीरेण । जित्वा ब्राह्मणेभ्यो ददता । एतेनैश्वर्यग्रहण-
मपि नास्ति । तार्ह जयो भविष्यति सोऽपि नास्तीत्याह । अयं ऋक्ष्णो जनः
नववाहुस्तरुण इति । त्वंतु डिम्भो वृद्धः । 'डिम्भोऽत्री बालवृद्धयोः' इति विश्वः ! .
वीरव्रतं ईशं घोरं ' चालवृद्धौ परित्यक्त्वा सास्त्रं हन्यान्न चक्रकम् ' इति राज-
नीतौ । कीदृशं वीरव्रतम् । अजयं वृद्धजयेऽप्यजयमेवेत्यतो जयोऽपि नास्ति ।
'यथा कथंचिदत्युग्रं रिपुं न्याद्विचक्षणः' इति वाक्याद्धोऽपि हन्तव्यश्चेत्तत्राह-
त्वं नोऽस्माकं जात्यैव ब्राह्मणजात्यैव पूज्योऽसि न क्षात्रेण अतः पूज्ये वधाभावः ।
तस्मात्वं क्रोधाद्विरम, प्रसीद च । आत्मवधेनास्मभ्यमयशो मा देहीत्यभिप्रायः ।
संकरोऽयमलंकारः ॥ ४७ ॥
42</p>
<lg>
  <l>४</l>
  <l>द्वि: शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान् ।</l>
  <l>विर्ददाति न चार्थिभ्यो रामो दिर्नाभिभाषते ॥ ४८ ॥</l>
  <l>इत्युक्तेप्युत्कटमात्मनात्रपणसाफल्यं श्रावयति -- द्विः शरमिति सुगमम् ॥४८॥</l>
</lg>
<pb n="24" />
<p>दीपिकाख्यव्याख्योपेतम् ।
रामनाट्यवर्णनम् ।</p>
<lg>
  <l>रामस्तदादाय धनुः सहेलं बाणं गुणे योज्य यदा चकर्ष ।</l>
  <l>भाति स्म साक्षात्मकरध्वजः स्वर्गतिं प्रचिच्छेद च भार्गवस्य ॥ ४९ ॥</l>
</lg>
<note>१.]</note>
<p>मकरध्वजः कामरूपः स्वर्गगमनम् । अत्रेयं कथा । रामस्य वाणो निरर्थको न</p>
<lg>
  <l>स्यात्, चेन्मुनये त्यजति तर्हि ब्राह्मणवधः स्यात्, भूमौ चेत्तर्हि भूतपीडा स्यात् ।</l>
  <l>एतज्ज्ञात्वा परशुरामस्य स्वर्गगमनमेव चिच्छेदेति भावः ॥ ४९ ॥</l>
</lg>
<p>तदा सीतानाट्यम् ।
ताटकारावाकर्णमाकर्णविशालनेत्रा ।
तच्चापमाकर्षति
सासू मैक्षिष्ट विदेहजासौ कन्यां किमन्यां परिणेष्यतीति ॥ ५० ॥
P
तदाकर्षणे सीतावृत्तमाह -- तच्चापमिति । तच्चापं तस्य मुनेश्चापम् । ताटकारा -
• वितिपदेन रामस्य स्त्रीपु निर्दयत्वमारोपितं सोतया । अन्यत्रीपरिणयनेन ताटका-
वन्ममापि मरणं स्यादिति भावः ॥ ५० ॥
भार्गवः सानुनयम् ।</p>
<lg>
  <l>यः कार्त्तवीर्यस्य भुजासहस्रं चिच्छेद वीरो युषि जामदग्न्यः ।</l>
  <l>स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥ ५१ ॥</l>
</lg>
<p>भार्गवः सानुनयम् । पूर्वार्धे मुनिशौर्यकीर्तनेन रामशौर्याधिक्यं द्योतितम् ।
अनौद्धत्यं तु ब्राह्मणस्वभाव एवेति द्योतितम् । ब्राह्मण्यं ब्राह्मणस्वभावश्चेदं दैन्यं तव
' प्रणयोऽस्यास्तीति ॥ ५१ ॥
धावर्जटिधर्मपुत्र परशुक्षुण्णाखिलक्षत्रिय-
श्रेणीशोणितपिच्छिला वसुमती कोऽस्यामधास्यत्पदम् ।
त्रैलोक्याभयदान
दक्षिणभुजावष्टम्भदिव्योदयो
देवोऽयं दिनकृत्कुलैकतिलकोन प्राभविष्ययदि ॥ ५२ ॥
इदानीं मुनिः श्रीरामं स्तौति -- धावद्धर्जटीति । यद्ययं देवो रामःन प्राभविष्यत्
नावतरिष्यत् तर्हि अस्या भूमौ पद कोऽधास्यत् । कुतो नाधास्यदित्यपेक्षायामाह-
धावन्क्षत्रवधार्थ त्वरमाणो यो धूर्जटे रुद्रस्य धर्मपुत्रः शिष्यः तस्य यः परशुस्तेन
क्षुण्णा या अखिलक्षत्रियश्रेणी क्षत्रियपंक्तिः तस्याः शोणितेन पिच्छिला आच्छा-
दिता वसुमती । जातेति शेपः । रुद्रशिष्यत्वेन संहारकत्वं सूचितम् । 'प्रवीणदक्षिण</p>
<pb n="25" />
<p>हनुमान्नाटकं -
[ अङ्कः-
विज्ञे' इति विश्वः । 'उत्तम्भने रवौ विष्टाववष्टम्भस्त्रियामथ' इत्यपि । अत्र सूर्य
उत्तम्भनं वा । अन्यत्सुगमम् ॥ ५२ ॥
रामः पश्चाज्जामदश्यचरणकमलयोर्निपत्य-</p>
<lg>
  <l>उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु-</l>
  <l>वर्य यत्तु नयगिरामनुपथं व्यक्तं हि तत्कर्मभिः ।</l>
  <l>त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः</l>
  <l>सत्यब्रह्मतपोनिधे भगवतः किं किं नलोकोत्तरम् ॥ ५३॥</l>
</lg>
<p>उत्पत्तिरिति । सत्यं यथार्थभाषणम्, ब्रह्म वेदः, तपः कायक्लेश: एतानि निधी-
यन्ते यस्मिन् तत्संबुद्धौ हे सत्यव्रह्मतपोनिधे, भगवतः पूज्यस्य तव लोकोत्तरं लोके-
भ्योऽतिरिक्तं किं किं न ? अपि तु सर्वमेवास्ति । तदेव द्योतयति-जन्मगुरुवीर्य-
त्यागैस्त्वादृशः कोऽपि नास्तीति ध्वनितम् । अन्यत्सुगमम् ॥ ५३ ॥
सदयं परशुरामः ।</p>
<lg>
  <l>माता का न शिशोर्वचांसि कुरुते दासीजनोक्तानि या</l>
  <l>कस्तातः प्रमदाप्रतारितमतिर्जानाति कृत्यं न यः ।</l>
  <l>कश्वायं भरतश्रियामविधिना यो राजते दुर्नयो</l>
  <l>व्याषेधार्थमधिज्यधन्वनि मयि श्रीरामभृत्ये स्थिते ॥ ५४ ॥</l>
</lg>
<p>परशुरामः सदयम् । प्रमद्या खिया प्रतारिता प्रलोभिता वश्चिता मतिर्यस्य ।
भरतानां भरतवंश्यानां राज्ञां श्रियम् । भारतश्रियमिति वक्तव्ये वृद्धयभाव आर्षः ।
भरतस्य दौष्यन्तेः श्रियं वा । अविधिना धर्मयुद्धविद्याभावेन यो दुर्नयो न्यायो
राजते तस्य व्याषेधार्थ श्रीरामस्य तव भृत्ये मयि परशुरामे स्थिते सति स
कः ? न कोऽपीत्यर्थः । कोदृशे अधिज्यं धनुर्यरय तस्मिन्निति । अयं क्षेपकश्लोकः
टीकान्तरात् ॥ ५४ ॥</p>
<lg>
  <l>ज्ञात्वावतारं रघुनन्दस्य स्वकीयमालिङ्गन्य ततोऽवगाढम् ।</l>
  <l>विन्यस्य तस्मिञ्जमदग्निसूनुस्तेजो महत्क्षत्त्रवधान्निवृत्तः ५५॥</l>
</lg>
<p>महत्तेज ऐश्वरं, क्षात्रं वा । अन्यत्सुगमम् ॥ ५५ ॥</p>
<pb n="26" />
<p>दीपिकाख्यव्याख्यापेतम् ।
रामविवाहवर्णनम् -
निःसाणमर्दलरसालगभीरभेरीझङ्कारतालरव काहलनादजालैः ॥
पूर्ण बभूव धरणीगगनान्तरालं पाणिग्रहे रघुपतेर्जनकात्मजायाः ५६
निःसाणेति । ' रसालगोमुखावत्री काहलः संकरध्वनौ ' इति विश्वः । निःसाणो
वाहिनीवाद्यविशेपः ॥ ५६ ॥</p>
<note>१. ]</note>
<lg>
  <l>रामे श्यामे सकामे स्पृशति जनकजापाणिपमं प्रदत्तं</l>
  <l>पित्रा नेत्रालिपने मवरपुरवधूमण्डलानां मुहूर्ते ।</l>
  <l>तत्पाणिस्पर्शसौख्यं परमनुभवती सच्चिदानन्दरूपं</l>
  <l>तत्रासीद्वाणभिन्ना रमणरतिपतेयोगनिद्रां गतेव ॥ -५७ ॥</l>
</lg>
<p>रामे इति । प्रवराः देवाः प्रकृष्टो वरो येभ्यस्ते तत्पूर्व स्वर्गस्त्रीसमूहानामिति
नेत्रश्रेणी पद्मानि यस्मिंस्तादृशे मुहूर्ते रमयतीति रमणः स चासौ रतिपतिश्च तद्वाण-
भिन्ना सती योगनिद्रां गता इवासीत् । एतेन दिग्धप्रलयसात्त्विको दर्शितः । उक्तं
च रसोदधौ - ' सुखदुःखाभ्यां चेष्टाज्ञानविलपनं यदा तदा प्रलय इति ' किंविशिष्टं
तत्पाणिस्पर्शसौख्यम् । सच्चिदानन्दरूपं मोक्षसुखान्तरगमिति ॥ ५७ ॥</p>
<lg>
  <l>वैवाहिकं कुशिकनन्दनजामदग्र्य-</l>
  <l>वाल्मीकिगौतमवसिष्ठपुरोहितायैः ।</l>
  <l>रामो विधिं सह समाप्य सलक्ष्मणस्तै-</l>
  <l>रानन्दयञ्जनकज़ां स्वपुरं जगाम ॥ ५८ ॥</l>
</lg>
<p>इति श्रीहनुमन्नाटके जानकीस्वयंवरो नाम प्रथमोऽङ्कः ॥ १ ॥
वैवाहिकमिति । सलक्ष्मणो राम एतैः कुशिकनन्दनादिभिः कृत्वा वैवाहिकं विधि
समाप्य तैः कुशिकनन्दनादिभिः सह स्वपुरीं जगामेत्यन्वयः । सलक्ष्मण इति पदेन
सीतानुजयोर्मिलया लक्ष्मणस्यापि विवाहो धोतित इति ध्वनितम् ॥ ५८ ॥
इति श्री मिश्रमोहनदासविरचितायां हनुमन्नाटकदीपिकायां
जानकीस्वयंवरोनाम प्रथमोऽङ्कः ॥ १ ॥</p>
<pb n="27" />
<p>हनुमन्नाटकं -
द्वितीयोऽङ्कः ।</p>
<lg>
  <l>प्राप्यायोध्यां स्वजनपरमोत्साहसंभावनाभि-</l>
  <l>र्नत्वा मूर्ध्नाऽखिलगुरुजनं सीतया लक्ष्मणेन ।</l>
  <l>रामो यामत्र्यमपि कथं मारनाराचभिन्नो</l>
  <l>नीत्वा सीतां किमिति तुरगांस्ताडयामास दण्डैः ॥ १ ॥</l>
</lg>
<p>[ अङ्कः-
अथ तयोस्तत्र सम्भोगमधुरं द्योतयितुं पद्यमवतारयति प्राप्येति । प्रथमयामस्तु
प्रवेशकौतुकेन नीतस्तद्ग्रे यामत्रयं कथमपि नीत्वा । कथमप्यत्र हेतुमाह - मारनारा-
चभिन्न इति । अन्यत्सुगमम् । किमित्येतस्यार्थे कविरेव द्योतयति तत्र नास्मद्दोप: १.
www
सर्वलक्षणोपेतान्देवभूपाख्योग्यान्मेदुमदुरायां तुरगानवलो-
क्य मारज्वराकुलितचित्तत्रांत्या वधूपुत्रयोर्मङ्गलावलोकना-
यागतस्य भगवतस्तरणेः किरणमालिनस्तुरगा इमे स्वभाव
तेजस्विनस्तत्ताडनमसोढारस्ताडिताः पुनःपुनर्भगवन्तं
भास्करं द्रुतगत्यास्ताचलं नयन्त्यिति बुद्ध्वा दाशरथिर्जन-
कपुत्री च दण्डाघातैस्तुरगांस्ताडयामास निशायां प्रौढायां
शीघ्रमावयोः संगमो भवत्वित्यभिप्रायः ॥
सर्वेति । 'मेदुरं स्निग्धचित्रयोः' इति धरणिः । बलात्सीता मेदुरे चित्र तुरगां-
स्ताडयामास । रामस्तु मन्दुरायां 'वाजिशाला तु मन्दुरा ' इत्यमरः । मेदुरं च
.. मन्दुरा चेति द्वन्द्वैक्यम् । एतेनोन्मादावस्था योतिता । सोक्ता रसोधौ- 'प्रौढा-
नन्दायत्ती विरहायंस्तद्रम उन्माद: ' इति ॥
अस्तं याते मुकुलनलिनीबान्धवे सिन्धुपुत्रे
प्राची भागे प्रमदमुदिते पवनारिङ्गपिङ्गे ।</p>
<pb n="28" />
<lg>
  <l>२.]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>रामं कामं गुरुजनगिरा मन्दिरं सुन्दरं स्वं</l>
  <l>रम्भोरुस्तं जनकतनया नन्दयन्ती जगाम ॥ २ ॥</l>
</lg>
<p>अथ तयो रतिगृहप्रवेशमाह - अस्तमिति । मुकुलिताया नलिन्याः वान्धवे विका-
सहेतौ सूर्येऽस्तं याते सति प्राचीभागे पूर्वदिग्भागे प्रमदं यथा स्यात्तथा सिन्धुपुत्रे
चन्द्रे उदिते सति, रामं नन्दयन्ती जगाम । कामं सस्पृहम् । 'अकामानुमतौ
कामः स्पृहायामपि संमत : ' इति धरणिः । एतेन नपा द्योतिता । सुन्दरं रामं
मन्दिर वा । उक्तं च कलाविलासे-' रम्यपक्षिरवानन्दं नवचित्रकुलाकुलम् । स्रक्ता-
म्बूलार्हशयनं गृहं सुरतसुन्दरम्' इति ॥ २ ॥
-
●</p>
<p>6</p>
<lg>
  <l>प्राचीभागे सरागे तरणिविरहिणि क्रान्तमुद्र समुद्रे</l>
  <l>निद्रालौ नीरजालौ विकसितकुमुदे निर्विकारे चकोरे ।</l>
  <l>काशे सावकाशे तमसि शममिते कोकलोके सशोके</l>
  <l>कंदर्पेऽनल्पदर्पे वितरति किरणाञ्छर्वरीसार्वभौमः ॥ ३ ॥</l>
</lg>
<p>पुनरपि सिंहावलोकनन्यायेन चन्द्रोदयमाविष्करोति -प्राचीभागे इति । तरणि-
विरहिण्यपि प्राचीभागे सरागे सति । एतेन चन्द्रदर्शनात्सत्योऽपि स्त्रियः परपुरुषा-
नुरागं कुर्वन्तीति ध्वनितम् । यतः पूर्वाया दिशस्तरणिरतिप्रियस्तथापि सरागा जा-
तेति भावः । 'यत्रोदेति रविः सैव प्रिया तस्याश्च स प्रियः' इत्यागमोत्तत्वात् ।
सावकाश इति गृहादिदर्शनमेव तत्रावकाशः । तमसि शमं नाशं गते सति,
कोकाश्चक्रवाकास्तेयां लोके समूह शर्वरीसार्वभौम इति । शर्वरीभूपतिश्चन्द्र इति३॥
भविष्ये रामशापेत्यन्तनिकटवर्तिनि कोकलोकानामकस्मा-
न्महोत्पातनिमित्तं पार्श्वस्थितानामपि प्रियाणामनवलोक्तः
शोकसंभवः ॥
ननु कोकानां कुतः शोक इत्यपेक्षायामाह - भविष्य इति गद्यम् ॥
स्वैर कैरवकोरकान्विदलयन्यूनां मनः खेदय-
न्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मूलयन् ।</p>
<pb n="29" />
<p>30
हनुमन्नाटकं -
ज्योत्स्नां कन्दलयंस्तमः कवलयन्नम्भोधिमुद्देलय-
न्कोकानाकुलयन्दिशो धवलयन्निन्दुः समुज्जृम्भते ॥ ४ ॥
पुनश्चन्द्रमेव विशिनष्टि - स्वैर मित्यादिचतुभिः । युवत्यञ्च युवानश्च यूनस्तेपां
न्यूनाम् । अत्रैकशेप: 'पुमान् स्त्रिया ' इत्यनेन । ' स्त्रिया सहीतो पुमान् शिष्यते'
इति तदर्थः । कन्द एव कन्दलः । स्वार्थे लच् । समूहं कुर्वन्नित्यर्थः । अन्यत्सुग
मम् ॥ ४ ॥
[ अङ्कः-</p>
<lg>
  <l>अद्यापि स्तनतुङ्गशैलशिखिरे सीमन्तिनीनां हृदि</l>
  <l>स्थातुं वाञ्छति मान एष धिगिति क्रोधांदिवालोहितः ।</l>
  <l>उद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-</l>
  <l>त्फुडत्कैरवकोशनिःसरदलिश्रेणी कृपाणं शशी ॥ ५ ॥</l>
</lg>
<p>तत्रोदये सरागं चन्द्रमवलोक्य कविरुत्प्रेक्षते- अद्यापीति । असौ शशी तत्क्षणा-
देव तदुदयमात्रादेव फुल्लन्तो ये कैरवास्त एव कोशाः खड्गकोशास्तेंभ्यो: निःसरन्ती
या अलिश्रेणी भ्रमरपङ्क्तिः सैव कृपाणः खङ्गस्तमाकर्पति प्रसह्य गृह्णाति । दिवा तत्र
सुप्ता अलयश्चन्द्रोदयादेव सर्वे पङ्क्तीभूय एकदैव निःसरन्तीति प्रसिद्धम् । कीदृशः ।
उद्यदुद्गच्छन् इति । क्रोधादालोहितः इव । इति किम् । एष मानः सीमन्तिनीनां हृद्य-
द्यापि मय्युद्यते सति स्थातुं वाञ्छतीति । कीदृशे हृदि । स्तनावेव तुङ्गे शैलशिखरे
यत्र ॥ ५ ॥</p>
<lg>
  <l>यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः</l>
  <l>स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन् ।</l>
  <l>शीतस्पर्शमवाप्य संप्रति तथा युक्ते मुखाम्भोरुहे</l>
  <l>हास्पेनैव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥ ६ ॥</l>
</lg>
<p>रागमुत्प्रेक्ष्य पाण्डुतामुत्प्रेक्षते - यातस्येति । अनन्तरं पक्षान्तरे शीतकरोऽस्तं
यातस्य दिनकृतः सूर्यस्य वेषेण रागान्वितो जातः । याहंगरुणो रविरस्ति तादृगु-
दये चन्द्रोऽभूदिति भावः । किं कुर्वन् । स्वैरं यथेष्टं कमलिनीं सूर्यप्रियामालिङ्गितुं
करें किरणरूपं हस्तं योजयन् सन् । संप्रति तदैव तया कमलिन्या शीतस्पर्श-
मवाप्य मुखाम्भोरुहे स्वकीयमुखारविन्दे युक्ते मुद्रिते सति । 'रुद्धे' इत्यपि पाठः
+
;</p>
<pb n="30" />
<note>२.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>कुमुद्वतीवनितया कुमुदिन्य एव चन्द्रकान्ता तया कृतं यद्वैलक्ष्यं लज्जातिरेकस्तेन
पाण्डूकृत: रागान्वितोऽपि पीतत्वमागत इति केनैव हास्येनैव परगामिनमेवं दृष्ट्वा
यत्कुमुदिनीविकसनं तदेव हास: । उक्तं च - 'आत्मनश्चरिते यस्य ज्ञातेऽन्यैर्यत्र
जायते । अपनपेति महती तद्वैलक्ष्यमुदाहृतम् ' इति ॥ ६ ॥
,</p>
<lg>
  <l>कर्पूरैः किमपूरि किं मलयजैरालेपि किं. पारदै -</l>
  <l>रक्षालि स्फटिकान्तरैः किमघटि द्यावापृथिव्योर्वपुः ।</l>
  <l>एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ</l>
  <l>दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारविंषि ॥ ७ ॥</l>
</lg>
<p>-
रामः सखीं प्रति कर्पूरैरिति । ' द्यावाभूमी च रोदसी' इत्यमरः । अक्षालि
प्रक्षालितं किम् । दिक्पूर्वी सैव कान्ता तस्या मुकुरे तत्तुल्ये । अन्यत्स्पष्टम् ॥७॥</p>
<lg>
  <l>अमृतममृतरश्मेर्मण्डलस्यानुभू</l>
  <l>द्विजचतुरचकोर प्रीतिरङ्गारकेषु ।</l>
  <l>प्रभवति भवदीया चेद्विधातुर्विधानं</l>
  <l>तदिह पुनरपि स्यात्कोऽन्यथाकर्तुमीशः ॥ ८ ॥</l>
</lg>
<p>अङ्गारकोरकाशनं चकोरमवलोक्याह-अमृतमिति । भो द्विज चतुरपक्षिविदग्ध-
चकोर, अमृतरश्मेर्मण्डलस्य चन्द्रविम्त्रस्यामृतमनुभूय चेद्भवदीया 'प्रीतिः अङ्गार-
केपु प्रभवति तत्तदा विधातुरीश्वरस्य विधानं पुनरप्यन्यथा कर्तुं कः पुमान् ईश:
स्यात् ? न कोऽपीति भावः ॥ ८ ॥</p>
<lg>
  <l>चक्रक्रीडाकृतान्तस्तिमिरचयचमूस्फारसंहारचक्रं</l>
  <l>कान्तासंहारसाक्षी गगनसरसि यो राजते राजहंसः ।</l>
  <l>सम्भोगारम्भकुम्भः कुमुदवनवधूबोध निद्रादरिद्रो</l>
  <l>देवः क्षीरोदजन्मा जयति रतिपतेर्वाणनिर्वाणशाणः ॥ ९ ॥</l>
</lg>
<p>अथ पञ्जरस्था मन्दिरसारिका सखीनां स्वमन्दिरगमनायाशिषं पठति-
चक्रेति । क्षीरसमुद्राज्जन्म प्रादुर्भावो यस्य एवंभूतो देवश्चन्द्रो जयति । तमेव
विशिनष्टि-अन्धकारनिचयसेनायाः स्फारो विस्तारस्तन्नाशाय चक्रम् । आविष्टलि-
ङ्गत्वाखण्डत्वं राजहंस इव । लोपेप्यचू औणादिकः । कुमुदवनवधूनां बोधे</p>
<pb n="31" />
<p>हनुमन्नाटकं -
[ अङ्कः-
विकासे सति निद्राया दरिद्रो यस्माद्यदुदये विकसितत्वात् पुनर्न संकोच इति भावः ।
रतिपतेर्वाणानां निर्वाणस्तीक्ष्णीकरणं तस्य शाण उपलविशेषः । यद्वा निर्वाणो
मोक्षस्तस्य शाण: सहायकृत् । कामवाणनिर्मुक्तौ सत्यां सहायकृति भावः
'निर्वाणस्तीक्ष्णमोक्षयोः ' इति चरकः । 'उत्तेजकोपले शाण: पक्षेप्यात्मगतेः
पुमान् ' इति धरणिः ॥ ९ ॥
इत्याकर्ण्य चन्द्रमण्डलशाणे शाणोत्तीर्णो रतिपतेर्बाणो
जानकीरामचन्द्रयोर्वक्षःस्थले निपतति, इति श्लोका-
भिप्रायमवगम्य निष्क्रान्तः सर्व आलिजनः । अत्रापि
तरुणरात्रौ शुकसारिकादीनां पक्षिणां मधुरस्वरैर्मदनोर्मिः
संसूचिता ॥
रामः-</p>
<lg>
  <l>अङ्के कृत्वा जनकतनयां द्वारकोटेस्तलान्ता-</l>
  <l>त्पर्यङ्काङ्के विपुलपुलकां राघवो नम्रक्राम् ।</l>
  <l>बाणान्पञ्च प्रवदति जनः पञ्चबाणोऽप्रमाणै-</l>
  <l>र्बाणैः किं मां प्रहरति शनैर्व्याहरन्ती जगाम ॥ १० ॥</l>
</lg>
<p>अथ जानकीरामयोः शृङ्गारं वर्णयति अङ्के वृन्वेति । द्वारकोटेद्वराग्रभागस्य
तलान्ताज्जनकतनयां अङ्के कृत्वा पर्यकाङ्के पर्यकमध्ये निन:यानयत । विपुलपुलकाम्
एतेन मुखस्मितश्निग्धसात्त्विको दर्शितः । उक्तं च रसोदधौ - 'साक्षादीश्वरयोगो
यैस्ते मुख्या मनीपिभिर्ज्ञेया: । इति द्रढिमरतिप्रकारा ये स्युः स्निग्धा नतास्त
एवात्र' इत्यपि । शनैर्मनास उवाच वालायाः प्रभूतरोमाञ्चदर्शनेन पञ्चवाणेप्यप -
रिमितवाणभ्रान्तिः ॥ १० ॥</p>
<lg>
  <l>गाढंगाढं कमलमुकुलं पुण्डरीकाक्षवक्षः-</l>
  <l>पीठं काठिन्यमपि कुचयोजनकी मानकीर्णा ।</l>
  <l>पूर्णा कामैः शिथिलमनिलस्यागमायाचकार</l>
  <l>नीत स्फीतं सदयहृदयं स्वामिनालिङ्गय मत्वा ॥ ११ ॥</l>
</lg>
<pb n="32" />
<note>२. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>गाढंगाढ मिति। मानकीर्णा मा मा स्पृशेत्यादिव्याजववनभाषिणी सीता सदयहृदयं
चानिलस्वागताय वायोरागमनाय आ ईषत् शिथिलं चकार । किं कृत्वा । पुण्डरीकाक्षो
रामस्तद्वक्षःपीठं कमलमुकुलं तत्सदृशकोमलं कुचयोरपि काठिन्यं मत्वा । कीदृशी ।
कामैः कामसंवन्धिभावैः पूर्णा । कामकलाविदग्धा इत्यर्थः । स्वामिना श्रीरामेणापि
गाढंगाढं यथा स्यात्तथा आलिङ्गन्य स्फतिं नीतं स्फीताख्यं चुम्वनं प्रापितम् । तदुक्तं
कामावतारे - 'नकार बहुलक्षिप्तहस्तान्तं वृश्चिताधरम् । रभसा गण्डसंस्पर्शस्फीतं तच्चु --
म्बनं मतम्' इति । कमलकलिफाकोमलं पुण्डरीकाक्षवक्षः कुचकाठिन्येन व्यथितं
मा भूदिति शङ्ख्या बाहुपाशमीपाद्वसृज्य पवनप्रवेशाय हृदयं शिथिलमाच-
कारोति भावः ॥ ११ ॥
-
जानकीरामचन्द्रयो:-</p>
<lg>
  <l>अन्योन्यं बाहुपाशग्रहणरसभराशीलिनोस्तत्र यूनो-</l>
  <l>र्भूयोभूयः प्रभूताभिमतफलभुजोर्नन्दतोर्जात एषः ।</l>
  <l>संसारो गर्भसारो नव इव मधुरालापिनोः कामिनोम</l>
  <l>गाढं चालिङ्गन्य गाढ़ स्वपिहि नहि नहीति च्युतो बाहुबन्धः १२ ॥</l>
</lg>
<p>अन्योन्यमिति । तत्र संभोगसमये भूयो भूयो नन्दतोर्मुहुर्मुहुर्वर्धमानयोर्यू नोर्जान-
कीरामचन्द्रयोरेप संसारो नव इव जातः । अज्ञानरसप्रदो जात इति भावः । गर्भे
सारः सुखं यस्य सः । कीदृशयोः । परस्परं बाहुपाशग्रहणयो रसभरो रसातिरे-
कस्तमभिव्याप्य शीलितुं शीलं ययोस्तौ तथा । पुनः कीदृशयोः । प्रभूतं बहु अभि-
मतमिष्टफलं कामफलं भुञ्जतोः । यथेच्छानेककलाविदग्धयोरिति पुनरध्याहारः ।
कामिनो: कामरसवर्धनविदग्धयोरिति । वाहुवन्धयुतः शिथिलो जातः । इति किम् ।
रामेणोक्तं मा इति मां गाढमालिङ्गन्य स्वपिहि । सीतयोक्तं नहि नहीति । अत
एव मधुरालापिनोः स्वपिहि नहि नहीत्यादिमाधुर्यम् । श्यामं कामसमाकृतिं राम-
मालिङ्कच उत्कण्ठितापि कामाकुलापि जानकी कुलसंभूतिलज्जया नवसंगमतया
च भर्तृमनोहरणाय नहि नहीति व्याहृत्य दुःसहमपि मारज्वरं सहते स्म ॥ १२॥
व ततः फणिलतादलवीटिकां स्वे
विन्यस्य चन्दनघनावृतपूगगर्भाम् ।</p>
<pb n="33" />
<p>हनुमन्नाटकं -
रामोऽब्रवीदयि गृहाण मुखेन बाले
तच्छद्मना तदधरं मधुरं प्रमातुम् ॥ १३ ॥
[ अङ्क:-
dib
वक्रे इति । चन्दनं खदिरं घनः कर्पूरः ताभ्यामावृतः पूगः क्रमुको गर्भे यस्या-
स्ताम् । 'चूर्ण कस्तूरिकागर्भ खदिरं चन्दनं मतम्' इति धराणः ॥ १३ ॥</p>
<lg>
  <l>मन्दं मन्दं जनकतनया तां चतुर्धा विधाय</l>
  <l>स्वैरं जह्रे तदधरमधु प्रेमतो मीलिताक्षी ।</l>
  <l>मेने तस्यास्तदनु कवलान्धर्मकामार्थमोक्षान्</l>
  <l>रामः कामं मधुरमघरं ब्रह्म पीत्वापि तस्याः ॥ १४ ॥</l>
</lg>
<p>ततः किं जातमित्यपेक्षायामाह - मन्दमन्दमिति । जनकतनया, वोटिकां चतुर्धा
विधाय तत्रापि मन्दमन्दं शनैः शनैः तत्रापि स्वैरं स्वमुखानुसारं यथा तथा जह्रे
हृतवती । चतुर्धात्वे हेतुः । कुतः तस्य रामस्य यदधरमधु तस्मिन्यत्प्रेम तस्मादेकदैव
ग्रहणे तधरायोगः स्यादिति भावः । मन्दमन्दत्वे हेतुः । कीदृशी मीलिताक्षी तद्-
घरस्पर्शानन्दान्नेत्रमीलने सति तद्धरणायोगान्मन्दुत्वम् । तद्नु ग्रहणानन्तरं तस्या
वीटिकायाश्चतुरः कवलान्धर्मार्थकाममोक्षांस्तत्प्राप्तिसमान्मेने । रामोऽपि तस्याः सी-
ताया मधुरमघरं पीत्वा तमेवाधरं ब्रह्म मेने ब्रह्मानन्दुसमं मेने । एतदधिकं ब्रह्मसुख
नास्तीतिः भावः ॥ १४ ॥
भाति स्म चित्तस्थितरामचन्द्रं सारुन्धती निर्गमशंकयेव ॥
स्तनोपरि स्थापितपाणिपद्मा संजातनिद्रा सरसीरुहाक्षी १५ ॥
भातीति । छद्मना मिषेण स्वीकृतनिद्रा भाति स्म । स्तनयोरुपरि स्थापितं पाणि-
'पद्मं यथा सा । उत्प्रेक्षते - किं कुर्वतीव । चित्तस्थित श्वासौ रामचन्द्रश्च तन्निर्गम-
शङ्कया । हृदयान्मा निर्गच्छत्विात भयेन रुन्धतीव ॥ १५ ॥
-
राम:-
तत्र मैथिलसुतोरःस्थलनिक्षिप्तयक्षकद्दमे सानन्दपतितभ्रमरमालोक्य
मदनदहनशुष्यत्कान्त कान्ताकुचान्तर्हदि मलयजपंके गाढ-
बदाखिलाधिः । उपरि विततपक्षो लक्ष्यते लिर्निमनः
शर इव कुसुमेपोरेष पुंखावशेषः ॥ १६ ॥</p>
<pb n="34" />
<note>२. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>मदनेति । कामाग्रिना शुष्ययो रमणीयः रामस्य सीतायाः कुचान्तः स्तनमध्य-
देशस्तक्के हृदि यो मलयज पन्तस्मिन्निमग्नोऽलिर्भ्रमरो लक्ष्यते । उत्प्रेक्षते-की-
दृशः । गाढं यथा स्यात्तथा वढा अखिला अंध्रयो यस्य अत एव उपरि विततौ
पक्षौ यस्य उडीनासम्भवान् । क एव लक्ष्यते । एप कुसुमेपोः शर इव पुड्समात्रा-
वशिष्टः । अन्यन् हृदय इति ॥ १६ ॥
तत्रावसरे-</p>
<lg>
  <l>पृथुलजघनभारं मन्दमान्दोलयन्ती</l>
  <l>मृदुचलदलकामा प्रस्फुरत्कर्णपूरा ।</l>
  <l>प्रकटितभुजमूला दर्शितस्तन्यलीला</l>
  <l>प्रमद्रयति पतिं द्राग्जानकी व्याजनिद्रा ॥</l>
</lg>
<p>-
द्राकू ईपद्वयाजेन भावाविष्करणदम्भेनाश्रिता निद्रायया सा अन्यथा वैज्ञात्य-
मायाति । जानकी पनि प्रमयति प्रकृष्टुं हर्पयति । हर्षप्रकारमेवाह - मन्दं यथा
स्यात्तथा पृथुलं मांसलं जघनं तस्य यो भारः तं ढोलयन्ती तोलयन्ती । पुनः कीदृशी ।
मुनि स्पर्शाणि च चलान्यलकाप्राणि यस्याः, प्रकटितं भुजमूलं यया, दर्शिता
स्तन्यलीला स्तनयां: परिसरशोभा यया । एतत्पद्येन कुञ्चिताख्यं शयनं
दर्शितम् । तदुक्तं कामावतारे- 'प्रमीला दम्भतो यत्र प्रीतिद्वानदिदित्सया । स्वशोभा
दीयते नेत्रे शयनं तद्विकुश्चितम् ' इति ॥ १७ ॥
-
१७ ॥
तामपि दूरस्थां मन्वानः-</p>
<lg>
  <l>तदनु जनकपुत्रीवक्रमालोक्य रामः</l>
  <l>पुनरपि पुनरेवाघ्राय चम्बन्न तृप्तः ।</l>
  <l>स्तनतटभुजमूलोरःस्थलं रोमराजि-</l>
  <l>मदनसदनमासीच्चुम्बितं पञ्चबाणः ॥ १८ ॥</l>
</lg>
<p>तद्नु व्याजाविष्कृतभावदर्शनानन्तरं रामः जनकपुत्रीवक्रमालोक्य पुनःपुनरा-
ब्राय चुम्चन्नपि तृप्तो न जातः । स्तनतटभुजमूलोरःस्थलं रोमराजि मदनसदनं
चापि रामेण चुम्बितमासीदिति । अत्र द्वन्द्वक्यम् । कीदृशः पञ्चवाणः ।
कामोऽस्यास्तीति तथा सकाम इति । अर्शआदिभ्योऽच् । एतेन पञ्चशराख्यं
चुम्बनं द्योतितम् । तद्युक्तं वात्स्यायनीये - ' भुजमूलं स्तनौ वक्षो वलिं मदनसझ
च । पद्मिनी चुचिता द्रावं याति पञ्चशराभिधम् ' इति ॥ १८ ॥</p>
<pb n="35" />
<p>हनुमन्नाटकं -
श्रीरामपादाः-</p>
<lg>
  <l>निद्रालुस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधाव-</l>
  <l>त्कंदर्पारब्धबाणव्यतिकरतरलाः कामिनो यामिनीषु ।</l>
  <l>ताटकोपान्तकान्तयथितमणिगणोद्गच्छदच्छप्रभाभि-</l>
  <l>र्व्यक्ताङ्गास्तुङ्गकम्पा जघनगिरिदरीमाश्रयन्ते अयन्ते ॥ १९ ॥</l>
</lg>
<p>अथ भयलोलालिङ्गनं द्योतयितुं पद्यमवतारयति-निद्रेति । ते प्रसिद्धा: संकामा:
श्रीरामपादा जघनमेव गिरिदरी सेवाश्रयं निलयस्थानं श्रयन्ते इति । कुत इत्यपे-
क्षायामाह-निद्रा जाता यस्या एवंभूता स्त्री सीता तस्या नितम्बवस्त्राकर्पणे सति
रणन्ती शब्दिता या मेखला तस्या रावेण धावन्यः कंदर्पस्तेनारब्धः संवितो यो
बाणस्तेन यो व्यतिकरो भयं तेन तरला आत्मानं गोपायितुं चञ्चला। अन्योऽपि
चौर्य कुर्वन्केनापि ज्ञात अलं पलायितुमात्मानं गोपायति तथानापि कामचौर्यम् ।
अन्यस्मिन्नन्यावभासो व्यतिकरः । अत्र निर्भयत्वेन भयं तर्हि निलीय तिष्ठन्तु इति
चेत्तनाह । ताटङ्क्योरुपान्तेपु ग्रथिता ये मणिगणा रत्नसमूहास्तेभ्य उद्गच्छंत्यो या
उज्ज्वला: प्रभा दीप्तयस्ताभिव्यक्ताङ्गाः प्रकटीकृतशरीरा अत एव ज्ञातेपु सत्सु तुङ्गः
कम्पो येषां ते एवंभूताः सन्तः आश्रयन्ते । उक्तं च कामावतारे - ' निर्निद्रिता मृग-
दृशो रसनां यदैव संमोचनाय विभयीकृतमानसोलम् । तद्भावकम्पमुखतो जघने
निलीयमास्थाय तिष्ठति तदा भयलोलमुक्तम्' इति ॥ १९ ॥
जानकी प्रबुद्धा-</p>
<lg>
  <l>स्पृहयति च बिभेति प्रेमतो बालभावा-</l>
  <l>न्मिलति सुरतसङ्गेऽप्यङ्गमाकुञ्चयन्ती ।</l>
  <l>अहह नहि नहीति व्याजमप्यालपन्ती</l>
  <l>स्मितमधुरकटाक्षैर्भावमाविष्करोति ॥ २० ॥</l>
</lg>
<p>स्पृहयतीति । भावं मानसं रागम् अन्यत्स्पष्टमेव । प्रेमतः सङ्गं स्पृहयति. बाल-
भावाद्विभेतीति योज्यम् ॥ २० ॥</p>
<p>PA
निधुवनघन के लिग्लानिभावं भजन्त्या
रमणरभसशंकातंकिचेतः प्रियायाः ।
[ अङ्क:-</p>
<pb n="36" />
<p>}</p>
<note>२.]</note>
<lg>
  <l>→</l>
  <l>दीपिकाख्यव्याकयोपेतम् ।</l>
  <l>अधरदशनमर्पत्सीत्कृताया धृतायाः</l>
  <l>पिच पित्र रसनां मे कामतो निर्विशंकम् ॥ २१ ॥</l>
</lg>
<p>अत्यन्तं कामवाणभिन्ना सती वीतलजा जानकी-निधुवनेति । हे रमण, स्व-
गुयानुसार निर्विशङ्क गधा स्यात्तथा मे रसनां पित्र पित्र । आदरे वीप्सा । अत्रा-
स्वादनमेव पानम् । ननु रमित्वा यास्यामीति चेत्तनाह - प्रियाया मम चेतो रभस-
शाकि रभसो रताधिक्यं नतो या शङ्खा भयं तेनाता कम्पो यस्मिंस्तत् एवंभूतं
जातम् । रमणायाश्रमास्मीति भावः । यहा सर्वमेकं पदम् । रमणस्य तत्र यो रभसो
रताधिक्यं तन्माया शा तथा य आतम्तयुक्तं चेतः तदेव प्रियं यस्याः मे ।
कुतो न क्षमासीत्यपेक्षायामाह-निधुवने रतौ घना बही या केलिया द्रावणादिना
ग्लानिभावं निःप्राणतां भजन्त्याः । उक्तंच रसोधौ-' अन्तश्चन्द्रं दहे यत्र वलं
पुष्टिदस्याः । तद्विमा इत्याधिक्यश्रमनि:माणता ग्लानि:' । पुनः कीदृश्या:
अधरस्य गुणनं खण्डनं तेन सर्पन्निर्गच्छत्सीत्कृतं सीत्कारखो यस्याः । यद्वा अधर-
दशन योरधरचन्तयोरेव सपत्सीत्कृतं यस्याः । उक्तं च पञ्चसायके-'द्रवति च यदि
नारी प्रौदरागाभियुक्ता मृदुनिधुवनयोगे दन्तसन्धी गभीरम् । द्रवति रहनवासः
किचिन्मय भूयः कथितमिह मुनीन्द्रः सीत्कृतं रागकारि' इति । अस्मिन्पये
सीत्कृतमाविष्कृतम् । पुनः धृतायाः अङ्क । वश्यमेष्टेयं नायिका । तदुक्तं रसोदधौ-
'सीत्कृतसंज्ञाभिमुखो यस्याः सततं प्रियो भवेदनुगः । वैश्यप्रेष्ठा सोक्ता
व्रजरमणीमण्डनं यथा राधा' इति ॥ २१ ॥
रामः सानन्दं जानकीवाग्विलासमुल्लासयति लालित्य-
शालिनालापेन-</p>
<lg>
  <l>वाचां गुम्फेन रम्भाकरकमलदलोदारसञ्चारचञ्च-</l>
  <l>तन्त्रीसंजातमञ्जुस्वरस रसतरोद्गारवाराक्षरेण ।</l>
  <l>प्रत्ययोन्निद्रनाकद्रुमकुसुमनवामोदसंवादमैत्री-</l>
  <l>पात्रीभूतेन धात्री सुरभयति चरस्थावरां रामराज्ञी ॥ २२ ॥</l>
</lg>
<p>वाचमिति । रामराज्ञी चरस्थावरां स्थाणुचरिष्णुरूपां धरित्री सुरभयति सुरभी-
करोति । केन । वार्चा गुम्फेन रचनयां । 'संदर्भों रचना गुम्फः' इत्यमरः । कीदृ-
शेन गुम्फेन । रम्भाया अप्सरसः करावेव कमले तयोर्यानि दलान्यंगुलयस्तासां</p>
<pb n="37" />
<p>[ अङ्कः-</p>
<p>हनुमन्नाटकं -
ये उदारः संप्रमादवान् संचारस्तद्रागव्यञ्जकं तन्त्रीगमनं तेन चश्चन्ती सशब्दा
या तन्त्री वीणा ततः संजातो यो मंजुस्वरः कोमलालापस्ततोऽपि सरसतरोऽतिश-
येन रसवान्य उद्गाराख्यं गीतं तस्मिन् ताराणि व्यक्तान्यक्षराणि यस्मिंस्तत् ।
तदुक्तं संगीते - 'सात्वती पञ्चमश्रीकप्रीतिमण्ठविराजितम् । त्रिपदं सध्रुवं गीतमु-
द्वाराख्यं मतं बुधैः' इति । पुन: प्रत्यमं नवीनमुन्निद्रं विकसितं च तन्नाकद्रुमकुसुमं
पारिजातपुष्पं तस्य यो नवामोदस्तात्कालिको ग्रन्धः स एव या संवादमैत्रीवचन-
चातुरी तस्याः पात्रीभूतेन । पारिजातकुसुमादप्यतिसुगन्धेनेत्यर्थः ॥ २२ ॥
अथ रामस्तामाह्लादयति-</p>
<lg>
  <l>अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्व हरिभि -</l>
  <l>र्दिशो दिङ्मातङ्गैः श्रितमपि वनं पंकजवनैः ।</l>
  <l>प्रिया चक्षुर्मध्यस्तनवदन सौन्दर्यविजितैः</l>
  <l>सतां माने म्लाने मरणमथवा दूरसरणम् ॥ २३ ॥</l>
</lg>
<p>अरण्यामति । सारङ्गैर्मृगैर्हरिभिः सिंहः, मातङ्गैः गजैः, पङ्कजवनैः पद्मव्रातः,
वनं जलं 'जीवनं भुवनं बनम्' इत्यमरः । कीदृशैः सर्वैः । प्रियायास्तव चक्षुः सौ-
न्दर्येण मृगाः, मध्यप्रदेशसौन्दर्येण कमलवनं च विजितमिति मृगादिभिररण्यादि-
श्रयणं युक्तमित्याह - सतां संभावितानां माने चित्तोन्नतौ म्लाने सति केनापि दूषिते
सति मरणं मुख्यं तदभावे दूरसरणं देशान्तरदुर्गाश्रयणं याग्यम् । अत एभिदुर्गमे-
वाश्रितमिति भावः । आये प्रिये, अयीति कोमलामन्त्रणे । अपि वा तत्र संभावना ।
'गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि' इत्यमरः ॥ २३ ॥</p>
<lg>
  <l>वक्रं बनान्ते सरसीरुहाणि भृङ्गाक्षमालां जगृहुर्जपाय ।</l>
  <l>एणीदृशस्तेऽव्यवलोक्य वेणीमङ्गं भुजङ्गाधिपतिर्जुगोप ॥ २४ ॥</l>
</lg>
<p>वक्रमिति । सरसीरुहाणि पद्मानि एणीहशस्ते वकं विलोक्य, तत्सौन्दर्यार्थ
बनान्ते जलमध्ये जपायेष्टाराधनाय भृङ्गश्रेण्येवाक्षमाला तां जगृहु: । एणीदृश इति
पदेन मृग्योऽपि वनान्ते अरण्ये मध्ये तृणादिभक्षणादिना नेत्रशोभाप्राप्त्यर्थं तपस्य-
न्तीत्यर्थः । भुजङ्गाधिपतिरपि ते वेणीमवलोक्य तत्सादृश्यहीनमङ्गं जुगोप । अन्यथा
स्वशरीरगोपनेन को लाभ इति । यद्वा एणीदृशः इति पदद्वयं, एणी मृगी । जात्ये-
कवचनम् । ते दृश: दृष्टी:, अवलोकनवैदग्ध्यानेकत्वाद्बहुवचनम् । अवलोक्य,
वनान्ते अरण्यदुर्गे नेत्ररूपं अङ्गं जुगोप । त्वन्नेत्रसादृश्यभाववैलक्षण्यत्वात् ॥ २४ ॥</p>
<pb n="38" />
<p>}</p>
<note>२. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>स्वर्ण सुवर्ण दहने स्वदेहं चिक्षेप कान्ति तव दन्तपंक्तिम् ।</l>
  <l>विलोक्य पूर्ण मणिवीजपूर्ण फलं विदीर्ण ननु दाडिमस्या ॥ २५॥</l>
</lg>
<p>स्वर्णमिति । सुष्टु वर्णो यस्य एवंभूतमपि स्वर्ण सुवर्ण तव कान्ति विलोक्यात्म-
गतमलापकर्षणाय त्त्रदङ्गस्य साम्यत्वकथनाय च स्वदेहं दहने चिक्षेप । न तु तद्वर्ण-
प्राप्तवदिति भावः । हीरकमणितुल्यवीजपूर्णमपि दाडिमस्य फलं तव दन्तपङ्क्तिं
विलोक्य तूर्णमेव विदीर्ण स्फुटितम् । तदुपमानवहिष्कृतत्वादिति भावः ॥ २५॥</p>
<lg>
  <l>वदनममृतरश्मि पश्य कान्ते तवोर्व्या-</l>
  <l>मनिलतुलनदण्डेनास्य वार्धी विधाता।</l>
  <l>स्थितमतुलयदिन्दुः खेचरोऽभूल्लघुत्वा-</l>
  <l>त्क्षिपति च परिपूर्त्यै तस्य तारा किमेताः ॥ २६ ॥</l>
</lg>
<p>वदनमिति । हे कान्ते प्रिये, पश्य । मुखगौरवं प्रत्यक्षमवलोक्य विधाता उर्व्यां
भूमौ स्थितं तव वदनं वार्धी क्षीरसमुद्रे स्थितशीतरश्मि गुणसाम्या तिरेकज्ञापनाय:
अनिल एव तुलादण्डस्ते नातुलंयत्तोलयामास । तदेन्दुः लघुत्वादल्पगुणाश्रितत्वात्खे--
चर उन्नतोऽभूत् । तदास्य चन्द्रस्य पूर्त्यै एतास्तारा अश्विन्याद्याः क्षिपति स्म ॥
तस्य चन्द्रस्य पूत्यें यातास्ताराः किं कियन्त्यः । न कियन्त्य इत्यर्थः । गुणगौरवा-
त्तव वदनमत्रैव स्थितं चन्द्रस्तु गुणाभावादूर्ध्व गत इति भावः ॥ २६ ॥
जानकी - सानन्दं सोत्कंठा चप्राणवहभमाहादयन्ती -
रमणचरणयुग्मं तावकं भावयित्वा
मधुरगिरमुदारं रामदासी ब्रवीमि ।</p>
<lg>
  <l>कृतमपि गुरु धात्राऽऽस्वाय निर्णीयतां मे ।</l>
  <l>वदनममृतरश्मेर्मण्डलं वा प्रियेण ॥ २७ ॥</l>
</lg>
<p>ननु सिताखण्डश्चेदल्पतरः, गुड़ो बहुतरः ताई किं गौरवादेव गुणाधिक्यमित्य-
पेक्षायामाह - रमणेति । भावयित्वा निपेव्य, धात्रा गुरुकृतमपि मे वदनं तथापि
प्रियेण त्वया आस्वाद्य अमृतर मेरपि मण्डलं वा निर्णीयताम् । यत्रैव स्वादाति--
शयस्तत्रैव गौरव मिति भावः ॥ २७ ॥</p>
<pb n="39" />
<p>हनुमन्नाटकं -
रामः ( सानन्दम्)</p>
<lg>
  <l>सीतां मनोहरतरां गिरमुद्रिरन्ती-</l>
  <l>मालिङ्गय तत्र बुभुजे परिपूर्णकामः ।</l>
  <l>रामस्तथा त्रिभुवनेऽपि यथा न कोऽपि</l>
  <l>रामां भुनक्ति बुभुजे न च भोक्ष्यतीशः ॥ २८ ॥</l>
</lg>
<p>1
[ अङ्कः-
सीतामिति । मनोहरतरां गिरमुद्गिरन्तीं सीतां परिपूर्ण: कामः कामकलाविलासो
न्यत्र । अन्यथेश्वरत्वस्य क्षतिः स्यात् । रामः सीतां तथा बुभुजे । यथा कोऽपीश्वरो
भूत्वा नाद्य मुनक्ति, न पुरा बुभुजे, नाग्रे भोक्ष्यतीति ॥ २८ ॥</p>
<lg>
  <l>मृदुसुरभिसुवर्णस्फीतकक्षापुटोय-</l>
  <l>ढलितभुजलतायाः संपुटालिङ्गितायाः ।</l>
  <l>सुरतरसवशाया राघवस्थ प्रियाया</l>
  <l>हरति हृदयतापं कापि दिव्या स्तनश्रीः ॥ २९ ॥</l>
</lg>
<p>अथैतद्वर्णनमुपसंहरति-मृद्विति । प्रियायाः काप्यनिर्वचनीया दिव्या अलौकिकी
स्तनश्री:, राघवस्य हृदयतापं हृत् अयतीति हृदयः कामस्तस्य तापं व्यथां हरतीति
कीदृशी।मृदुः स्पर्शासहः सुरभिः सुगन्धः सुवर्णो गौरोज्ज्वलः स्फीतः किंचिदुन्नतः स
चासौ कक्षापुटश्च तस्मादुद्यते ललिते भुजलते यस्याःसा तथा कक्षापुटोद्यदिति पाठे
स एवार्थः । एवं भूतात्कक्षापुटादुद्यते उपरि भुजमूले यस्याः। हरतु इति पाठःतत्राशीः ।
पुनः कीदृश्याः ।संपुटालिङ्गिताया: संपुटाख्यालिङ्गनेनालिङ्गिताया: । उक्तं च पञ्च-.
सायके-' ऊर्ध्व गते मध्यगते युवत्याः पार्श्वस्थितायाः परिरभ्य देहम् । यूनः स्त्रियो
लोलनतो रतज्ञैरत्युद्भवः संपुटनामधेयः ॥' अयमेवोदयः तेनान्यथोक्त:--' उत्तान-
सुप्तप्रमदोपरिस्थ: कक्ष्यां समावर्जत ऊरुयुग्मम् । संमर्दयानस्तनमण्डलं यद्रमेत सः
म्यात्किल संपुढाख्यः' इति ॥ २९ ॥</p>
<pb n="40" />
<p>}
दीपिकारव्यव्याख्योपेतम् ।</p>
<lg>
  <l>आगामिदीर्घविरहश्विरमाविरासी-</l>
  <l>ज्ज्ञात्वैव रङ्गभवनेद्भुतकामकेलिः ।</l>
  <l>श्रुत्वा तयोर्गिरमपूजयदोतुपत्नी-</l>
  <l>मुद्गीर्णकर्णसरणां चरणायुधानाम् ॥ ३० ॥</l>
</lg>
<p>इति श्रीहनुम नाटके रामजानकी विलासो नाम द्वितीयोऽङ्कः ॥ २ ॥</p>
<p>अगामीति । रङ्गभवने सुरतागारे चिरं कोऽपि भ्रम आविरासीत् । कयोः ।
तयोः सीतारामयोः । ' भ्रमेऽपि चिरमव्ययम्' इति चरकः । किं कृत्वैव । आगामी
भविष्यो यो दीर्घविरहो दण्डकारण्यप्रस्थानरूपस्तं ज्ञात्वैव । कीदृशी सीता । अद्भुता:
कामकेलयो यस्याः सा । अस्य रसस्यादौ तुरगांस्ताडयामासेति भ्रम उक्तः । प्रान्ते
विडालपत्नीपूजनमेव भ्रमः, अतः आद्यन्तभ्रमादिनिष्ठमेव जातम् । यद्वा । स्पष्टमेव-
मर्थः । रङ्गभवने अद्भुतकामकेलि : कामक्रीडा चिरमाविरासीन् । अन्यत्पूर्ववत् ।
अन्यत्कविनैव व्याख्यातम् । भ्रममेवाविष्करोति चरणायुधानामिति । तयोः
जानकीरामचन्द्रयोर्मध्ये जानकी चरणायुधानां गिरं श्रुत्वा विडालपत्नीमपूजयत् । अत्र
विडालपत्नीशब्दाद्विडालपूजने पतिव्रतायाः परपुरुपस्पर्शो मा भूदिति सूचितम् ।
किमित्यपूजयत् । एवमुक्तं भवति । वालायाश्चेतसि चरणायुधशव्देनैव प्रातरुत्पद्यते
नेतरथा । अतः पूजिता बिडालपत्नी पूर्ववैरमनुस्मरन्ती चरणायुधमन्यप्रमश्नातु ।
तस्मिन्निवृत्ते प्रातःकालासंभवादनन्ता भवतु यामिनी, कामिनी पतिमालिङ्ग चाजस्रं
सुखमनुभवत्वित्यभिप्रेतोऽर्थः ॥ ३० ॥
इति श्री मिश्रदासविरचितहनुमन्नाटकदीपिकायां जानकी-
विलासो नाम द्वितीयोऽङ्कः ॥ २ ॥
gram
तृतीयोऽङ्कः ।</p>
<lg>
  <l>भुक्त्वा भोगान्सुरंगान्कतिपयसमयं राघवो धर्मपत्न्या</l>
  <l>सार्धं वर्धिष्णुकामः श्रवणमुनिपितुः प्राप हा ! शापकालम् ।</l>
  <l>धत्ते तस्मिन्विवस्वान्मलिनकिरणतां हा महोत्पातहेतो-</l>
  <l>रुल्कादंण्डः प्रचण्डः प्रपतति नभसः कम्पते भूतधात्री ॥ १ ॥</l>
</lg>
<pb n="41" />
<p>[ अङ्क:-
weng</p>
<p>हनुमन्नाटकं
अथ रामवनलीलां वर्णयितुमकमारभते-भुक्त्वेति । राघवो रामो धर्मर्पन्या
सार्धं कतिपयसमयं यथा स्यात्तथा सुरङ्गान्भोगान्कामविलासानष्टौ भोगान्भुक्त्वा
श्रवणमुनिपितुर्यज्ञदत्ताख्यवैश्य तपस्विनः शापसमयं प्राप । अत्रेयं कथा - मृगयां
गतो दशरथो वनगजभ्रमेण शब्दवेधित्वपरिचयाय, कुम्भं जलेन पूरयन्तं श्रवणमुनि-
मव जधान । ततोऽस्य पित्रा यज्ञदत्तेन शप्तः, अस्यामेवावस्थायां पुत्रशोकात्पर.
लोकं गमध्यसीति तं वियोगसमयं प्राप । यद्वा राघव एप दशरथो धर्मपल्या
साधे वर्धिष्णुका मोऽपूर्णकामाभिलाप इति उभयोर्विशेषणम् । भोगानष्टौ । उक्तं
च' सुगन्धि वनिता वस्त्रं गीतं ताम्बूलभोजने । वाहनं भूषणं चेति भोगाष्टक
मुदीरितम् । शापकालमेव द्योतयति-तस्सिन्समये धत्ते व्यधत्त । भूतायें त
मानता नाटकालंकृतित्वान् । उक्तं च दशरूपके- 'प्रकृतं वर्तमानत्त्रं नाटकालंकृतिः
परा : इति ॥ १ ॥</p>
<lg>
  <l>दिग्भागो धूसरोऽभूदहनि बहुतरस्फारताराः स्फुरन्ति</l>
  <l>स्वर्भानोर्मानवीयं ग्रहणमसमये रौधिरी बिन्दुवृष्टिः ।</l>
  <l>मध्याह्नोर्ध्वास्य कोशश्चगणरुतम तिस्फीत फेरुप्रचारो</l>
  <l>वारंवारं गभीरप्रलय इव महाकालचीत्कारघोरः ॥ २ ॥</l>
</lg>
<p>दिगिति । अहनि द्विवैव स्फारो विस्तारः स्वर्भानो राहोः सकाशान्मध्याह्ने ऊर्ध्व
मास्यकोशो येषां ते श्वगणाः सारमेयगणास्तेषां रुतमभूत् । स्फीतो बहुतर: फेरूणां
शिवानां प्रचार इतस्ततः सरणं वारंवारमभून् । क इव गभीरप्रलय इव । कीदृशः
महाकालो रुद्रस्तस्य चीत्कारेण घोरः । ( कलिकातामहानाटके द्वितीयतृतीय-
लोक्योर्मध्ये । 'अत्रान्तरे दशरथस्य चेष्टा-रामे नयचयं दृष्ट्वा लोकधर्मसहं च यत् ।
यौवराज्याभिषेकाय नृपे मतिरभूत्ततः । सुमन्त्रो वहिनिःसृत्य नागरान्प्रति स्वीयां
जरामुपगतामवलोक्य राजा रामं च राज्यवहनक्षममाकलय्य । राज्याभिषेकपरमो-
त्सवमस्य कर्तुं व्यादिष्टवान् पुरजनाः कुरुत प्रमोदम् । रामाभिषेके पदचिह्नलाया:
कक्षच्युतो हेमघटस्तरुण्या: । सोपानमारुह्य चकार शब्द ठंठठठठठठठठठठ: ' एत.
त्पद्यत्रयम् ) । प्रलये रुद्रवीत्कारं करोति इति प्रसिद्धम् । स्फीतकेतुप्रचार इति वा
. पाठे स्पष्टार्थः । एकोत्तरशतं केतवः सन्ति ॥ २ ॥
कैकेयी - ( आत्मगतम्)
प्राप्तः किल महाग्बन्धकालस्तहि द्रुतं राजानं भरतराज्यं
प्रार्थयामि न खलु कालक्षेपः श्रेयसे ( रहसि उपग्रम्य</p>
<pb n="42" />
<p>A</p>
<note>३..]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
प्रकाशं ) राजन्नमङ्गलीरियं वधूर्यतोऽस्या आगमनमात्रेण
महोत्पाताः सम्भवन्तीति ।</p>
<lg>
  <l>तानुत्पातानवेक्ष्य क्षितिपमथ दशस्यन्दनं ऋन्दयन्ती</l>
  <l>लोकाञ् शोकानलौघैः शिव शिव तरसा भस्मसात्कुर्वतीव ।</l>
  <l>कैकेयी वाचमूचे निखिलनिजकुलाङ्गारमूर्त्तिः ससीतः</l>
  <l>शान्त्यै पुत्रस्य राज्यं भवतु वनमभिप्रेष्यतामेष रामः ॥ ३ ॥</l>
</lg>
<p>>
तानिति । दशस्यन्दनं दशरथं ऋन्दयन्ती शोषयन्ती । शिवशिवेति खेदे । एष
रामः शान्त्यैः उत्पातजन्यदोषोपशमाय वनमभिप्रेष्यताम् । पुत्रस्य मम सुतस्य
भरतस्य राज्यं भवतु इति वाचमूचे ॥ ३ ॥
दशरथः सकरुणस्त्रीवचनस्वीकरणं मरणोत्साहं नाट्य महतीं
मूर्च्छामासाद्य धरणीतलमुपगतः कथमपि चेतनामुपलभ्य -
रामं कामाग्रजमिव वनं प्रस्थितं वीक्ष्य शक्तो
धर्त्त प्राणाञ् शिवशिव कथं तान्विहायाथ वाहम् ।.
निर्मुक्त: स्यां वचनमनृतं तत्पुनर्नान्यथा मे
भूयाद्भूयस्तदनु वचनं हा बभाषे तथेति ॥ ४ ॥
राममिति । अथवा प्राणधारणाक्षमश्वेत्तान्त्राणानपि विहाय अनृतप्रतिनिर्मुक्त:
स्यां, तदेव वचनम् अन्यथा मा भूत् । तदनु इति विचारानन्तरं, हा कष्टं ! तथेति
यथा त्वं वदसि तथैवास्तु इति तां कैकेयीं बभाषे । अत्र राज्ञेति चिन्तितं चेत्कैके-
य्युक्तं करोमि तर्हि रामादर्शनेन मरणमानुयां न चेदनृतं स्यात्तहीनृतं मा स्थान् ।
मरणमेवास्तु इति भावः । अत्रेयं कथा-देवासुरयुद्धे देवपक्षे स्थितो राजा मूर्च्छितः ।
तेनैव सहेयं तत्र गता कैकेयी रात्रावेनं भक्षयद्वयो राक्षसेभ्यो योगवलेनारक्षत् ।</p>
<lg>
  <l>तदा प्रबुद्धेन राज्ञा वरद्वयमस्यै दत्तम्, तत्तया राज्ञि विन्यस्तं यथेच्छं ग्रहीप्यामीति ।</l>
  <l>तद्वरादानादनृतः स्यामिति प्रसिद्धम् ॥ ४ ॥</l>
</lg>
<p>1</p>
<pb n="43" />
<p>हनुमन्नाटकं -
[- अङ्कः-
रामभरतौ स्वं स्वं कालमधिगम्य हर्षशोकौ नाटयन्तौ गुरो-
गिरा जटावल्कलच्छत्रचामरधारिणौ वनप्रस्थानराज्याभि-
षेकारम्भाय राजानं दशरथं नमस्कर्त्तमवतरतः ।</p>
<p>तत्र भरतः -</p>
<lg>
  <l>हा तात मातरहह ज्वलितानलो मां</l>
  <l>कामं दहत्वशनिशैलकपाणबाणः ।</l>
  <l>मन्थन्तु तान्विसहते भरतः सलीलं</l>
  <l>हा रामचन्द्रपदयोर्न पुनर्वियोगम् ॥ ५ ॥</l>
</lg>
<p>-
रामभरताविति । अत्र प्रसिद्धशव्दार्थकथने रामायणविरोधः स्यात् । अस्याप्यनि-
मश्लोकैश्च तत एवं व्याख्यायते- अत्र राज्ञोक्तं राज्यभ्रष्टो रामो वनं यातु, अराज्याहों
भरतो राज्यं गृह्णातु, तदा भरतोऽपि राज्यं परित्यज्य रामानुगमनायोद्यतोऽभूदिति
पठ्यते । अन्यथा भरताधर्म: स्यात् । रामभरतौ राजानं नमस्कर्तुमवतरत इत्यन्वयः ।
कीदृशौ । स्वस्वं समयं वनगमनराज्यग्रहणरूपमधिगम्य हर्षशोकौ । वनगमनात् रामो
हर्षे, राज्यश्रवणान् भरतः शोकं, इति नाटयन्तौ । नाटकमेवाह - गुरोर्दशरथस्य
गिरा जटाश्च वल्कलानि च तान्येव छत्रचामराणि च तद्धारिणौ । कस्मै । वनप्रस्था-
नमेव राज्याभिषेकस्तस्मै । एतदर्थेन नृपे सत्यत्वमायाति, भरतेऽपि धार्मिकत्वं,
नृपेण रामे भरतेऽपि राज्यं प्रतिज्ञातम् एकतरादानेऽनृतमेव । तस्मादुभाभ्यां वनमेव
राज्यं मतम् । भरतो जटाधरः सन्रामाज्ञया राज्यं चकारेति कैकेय्यापि वरदान -
त्सत्यत्वमेव । तत्र भरतः अशनिर्वत्रं, शला गिरयः, कृपाण: खङ्गः, बाणः शर: ते
च ते तानि वज्रादीनीति सुगमम् ॥ ५ ॥</p>
<lg>
  <l>मां बाधते नहि तथा गहनेषु वासो</l>
  <l>राज्यारुचिर्जनकबान्धववत्सलस्य ।</l>
  <l>रामानुजस्य भरतस्य यथा प्रियायाः</l>
  <l>पादारविन्दगमनक्षतिरुत्पलाक्ष्याः ॥ ६ ॥</l>
</lg>
<pb n="44" />
<p>*</p>
<note>३.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>भरतस्य राज्यारुचिश्च राज्याकरणम् । कीदृशस्य भरतस्य । जनके दशरथे
बान्धवे मयि वत्सलस्य प्रेमवतः । यद्वा जनको विदेहस्तद्वान्धवस्य तद्भातुः प्रेष्ठत्य
जामातृत्वान्ममानुजस्येति । अन्यत्सुगमम् ॥ ६ ॥</p>
<lg>
  <l>श्रुत्वा सुमन्त्रवचनेन सुतप्रयाणं</l>
  <l>शापस्य तस्य च विचिन्त्य विपाकवेलाम् ।</l>
  <l>हा राघवेति सक्कदुच्चरितं नृपेण..</l>
  <l>निश्वस्य दीर्घतरमुच्छ्रसितं न भूयः ॥ ७ ॥</l>
</lg>
<p>श्रुत्वेति । नृपेण दशरथेन सुमन्त्रो मन्त्री तद्वचनेन सुतानां रामलक्ष्मणभरता-
दीनाम् । हा राघव रामराम इति एकवारमुञ्चरिते सति दीर्घतरं निःश्वस्य भयो
नोच्छूसितम् । देहं त्यक्तुमिति भावः ॥ ७ ॥</p>
<lg>
  <l>मातस्तातः व यातः सुरपतिभुवनं हा कुतः पुत्रशोका-</l>
  <l>त्कोऽसौ पुत्रश्चतुर्णां त्वमवरजतया यस्य जातः किमस्य ।</l>
  <l>प्राप्तोऽसौ काननान्तं किमिति नृपगिरा किं तथासौ बभाषे</l>
  <l>मदाग्बद्धः फलं ते किमिह तव धराधीशता हा हतोऽस्मि ॥ ८ ॥</l>
</lg>
<p>भरतः महतीं मूर्छामासाद्य वैक्लव्यं नाटयति मातरिति । उक्तिप्रत्युक्त्यात्रार्थो-
द्घाटनम् । अन्यत्सुगमम् । इति पुनर्मूर्छितो भुवि पपात ॥ ८ ॥
गुरोगिरा राज्यमपास्य तूर्ण वनं जगामाथ रघुवीरः ।-
निषंगपृष्ठः शरचापहस्तस्तं लक्ष्मणो गामिव बालवत्सः ॥ ९ ॥
गुरोरिति । शरयुक्तश्चापो हस्ते यस्य । मध्यमपदलोपी समासः । अन्यार्थेऽ-
शब्दः । स कः । लक्ष्मणस्तं राघवमनुजगाम बालवत्सो गामिवेति ॥ ९ ॥</p>
<lg>
  <l>गुर्वाज्ञापरिपालनाय च वनं संप्रस्थितं राघवं</l>
  <l>सौ त्वरिता विदेहतनया श्वश्रूजनं पृच्छति ।</l>
  <l>नत्वा कोसलकन्यकांधियुगलं पश्चात्सुमित्रां पुन-</l>
  <l>ईष्टा हा शुकसारिका पिककुलं रामानुगा प्रस्थिता ॥ १० ॥</l>
</lg>
<pb n="45" />
<p>हनुमन्नाटकं -
[ अङ्क:-
गुर्वाज्ञेति । गुरोर्दशरथस्याहमपि यास्यामीति पृच्छति । कोसलकन्या कौ-
सल्या तदाङ्‌ङ्घ्रियुगलम् । शुकं च सारिकां च पिककुलं च । द्वन्द्वैक्यम् ॥ १० ॥</p>
<lg>
  <l>रामे प्राप्ते बनान्तं कथमपि भरतश्वेतनां प्राप्य तातं</l>
  <l>नीत्वा देवेन्द्रलोकं मुनिजनवचनादूर्ध्वदेहक्रियाभिः ।</l>
  <l>भातुः शोकाज्जटावानजिनवृततनुः पालयामास नन्दि -</l>
  <l>ग्रामेष्ठियोध्यां रघुपतिपुनरागामिभोगाय वीरः ॥११॥</l>
</lg>
<p>राम इति । अयोध्यानिकट एव नन्दिग्रामोऽस्ति तत्रस्थः सन् । ननु जटाजिना-
'दिवतः किमयोध्यापालनेनेति तन्नाह । रघुपते रामस्य वनवासानन्तरभोगाय
अपालने रामवचनभङ्गात्त्वमत्रस्थो राज्यं कुर्विति रामवचनम् ॥ ११ ॥
सयः पुरीपरिसरेषु शिरीषमृद्वी
गत्वा जवात्रिचतुराणि पदानि सीता ।
गन्तव्यमस्ति कियदित्यसकडवाणा-
14
श्रणः कृतवती प्रथमावतारम् ॥ १२ ॥
सद्य इति । त्रिचतुराणीत्यत्र ' अचतुरविचतुर ' इत्यादिना समासः । अस
ऋद्वारंवारम् । 'पर्यन्तभूः परिसर: ' इत्यमरः ॥ १२ ॥
:
रामः-</p>
<lg>
  <l>आदावेव कृशोदरी कुचतटीभारेण नम्रा पुन -</l>
  <l>ललाचंक्रमणं च नैव सहसे दोलाविधौ श्राम्यसि ।</l>
  <l>स्रोतःकाननगर्तनिर्झरस रित्प्रायानपूर्वानिमा-</l>
  <l>न्भूभागानपि भूतभैरवमृगान्वैदेहि यायाः कथम् ॥१३॥</l>
</lg>
<p>आदाविति । हे वैदेहि, इमान्वनसंबन्धिनो भूभागान्भूप्रदेशांस्त्वं कथं यायाः
कथं गमिष्यसि । स्नोतांसि च काननानि च गर्ताञ्च निर्झराश्च सरितच तेषां प्रायो
वाहुल्यं येपु तानपूर्वोस्त्वया कदाप्यदृष्टान् । यास्यामीति चेत्तत्राह-लीलायै यन्म.
न्दिरेऽपि चक्रमणं तदपि त्वं न सहसे, दोलाविधावपि श्राम्यसि श्रममेपि । अत्र
हेनुमाह - आदाविति ॥ १३ ॥</p>
<pb n="46" />
<note>३.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>अरुणदलनलिन्या स्निग्धपादारविन्दा</l>
  <l>कठिनतनुधरण्यां यात्यकस्मात्स्खलन्ती ।</l>
  <l>अवनि तव सुतेयं पादविन्यासदेशे</l>
  <l>त्यज निज कठिनत्वं जानकी यात्यरण्यम् ॥ १४ ॥</l>
</lg>
<p>रामः वारितामपि कृतप्रयाणां सीतां दृष्ट्वा धरणीं प्रार्थयते अरुणेति । भो अवनि
अमे, इयं सीता अकस्मान्मन्दमन्दं यथा स्यात्तथा कठिना तनुर्यस्या एवंभूताया
धरण्याः सकाशात्स्खलन्ती राती याति । कुत इत्यपेक्षायामाह- अरुणदला चेयं
नलिनी च तद्वत् आ समन्तात्स्निग्धे पादारविन्दे यस्याः सा । अतोऽस्याः पद्-
विन्यासदेशे निजकठिनत्वं त्यज । कस्मात्त्यजामीति चेत्तत्राह
तव सुता । एतेन
वात्सल्यमुदीरितम् । जानकी वनं याति । यद्वा कीदृश्या धरण्या: अरुणदलनलिन्या
अरुणा ये दलाः पादांगुलयस्तेषां नलिनी दुःखदेत्यर्थः । ' नलो स्त्री नालदुःखयोः
इति चरकः । नलं दुःखमस्या अस्तीति नलिनी मैथिली ॥ १४ ॥
www</p>
<lg>
  <l>पथि पथिकवधूभिः सादरं पृच्छयमाना</l>
  <l>कुवलयदलनीलः कोऽयमार्ये तवेति ।</l>
  <l>स्मितविकसितगण्डं वीडवित्रान्तनेत्रं</l>
  <l>मुखमवनमयन्ती स्पष्टमाचष्ट सीता ॥ १५ ॥</l>
</lg>
<p>पथिकवधूभिः पान्थस्त्रीभिः । यद्वा पथिपथ मार्गेमार्गे कवधूभिः ग्रामीगस्त्रोभिः
' कोस्त्री गाम्यप्रकाशयोः' इति धनञ्जयः । स्मितेन विकसितौ गण्डौ यस्मिन
ब्रीडया विभ्रान्ते नेत्रे यरिंमस्तन्मुखमवनमयन्ती । एतेन स्पष्टं मद्रमणोऽयमित्युक्त-
बती न तु गिरेति ॥ १५ ॥</p>
<lg>
  <l>घुसृणमसृणपादा गम्मते भूः सदर्भा</l>
  <l>विरचय शिवजातं मूर्ध्नि धर्मः कठोरः ।</l>
  <l>इति ह जनकपुत्री लोचनैरथुगर्भैः</l>
  <l>पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥ १६ ॥</l>
</lg>
<p>मार्गे पथिकवधूभिरश्रुगर्भेर्लोचनैः कृत्वा जानकी वीक्षिता,
इति शिक्षिता च । इति किं ? भो सीते, त्वं घुसृणमसृणपादा कमलकोशनवनीत-
घुति ।
१ काव्यप्रकाशधृतपाठस्तु 'शिक्षिता वीक्षिता' चेत्यस्ति ।</p>
<pb n="47" />
<p>हनुमन्नाटकं -
[ अङ्क:-
तुल्याऽरुणकोमलचरणासि । भूः सदर्भा दर्भाकुरसहिता भवत्या गम्यते । मूर्ध्नि
धर्मः कठोरः । अतः शिवजात शिरः पादत्राणं वल्कलजं पत्रजं वा
विरचय ॥ १६ ॥
तत्र चित्रकूटे जानकी सकरुणं सवाष्पम्-</p>
<lg>
  <l>मूर्ध्ना बद्दजटेन वल्कलभृता देहेन पादानतिं</l>
  <l>कुर्वाणे भरते तथा प्ररुदितं तारस्वरैः सीतया ।</l>
  <l>येनोद्विनविहङ्गनिर्गततरुर्निःसंमदःश्वापदः</l>
  <l>शैलेन्द्रोऽपि किलैष भूरिभिरभूत्साश्रुः पयःप्रस्रवैः ॥१७॥</l>
</lg>
<p>सूर्ध्नति । पयःप्रनवैर्निर्झररूपैः एषः शैलेन्द्रश्चित्रकूटोऽपि साश्रुरभूत् । केन येन
रुदितेन । कीदृशः शैलेन्द्र । उद्विग्ना ये पक्षिणस्तैर्निर्गताः परित्यक्तास्तरवो यस्मिन् ।
संमदा हर्षरहिताः श्वापदा मृगादयो यस्मिन्स: । 'प्रमोदामोदसमदाः' इत्यमरः ॥ १७॥
तत्रैव सुमित्रा लक्ष्मणम्प्रति-</p>
<lg>
  <l>रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।</l>
  <l>अयोध्यामटवीं विद्धि गच्छ पुत्र यथासुखम् ॥ १८ ॥</l>
</lg>
<p>तत्रैव सुमित्रा लक्ष्मणं प्रति - राममिति । यथासुखमिति रामस्य यथा सुखं स्यात्त-
चैव गच्छ । अनुसरेत्यर्थः ॥ १८ ॥
पदकमलरजोभिर्मुक्तपाषाणदेहा-
मलभत यदहल्यां गौतमो धर्मपत्नीम् ।
त्वयि चरति विशीर्णयावविन्ध्याद्रिपादे
ww
कति कति भवितारस्तापसा दारवन्तः ॥ १९ ॥
पदेति । अथ भरते निवृत्ते रामेऽप्यन्यतः कृतप्रयाणे आह स्म जानकी राम
प्रति- विशीणीः सर्वतः प्रक्षिप्ता ग्रावाणो यस्मिन्स चासौ विन्ध्यान्द्रिपादश्च तस्मि-
स्त्वयि चरति सति कतिकति तापसा दारवन्तो भवितार इति । एतत्कुत इत्यपेक्षा-
यामाह-यतो · गौतमशापाच्छिलारूपामहल्यां तव पदकमलरजोभिर्मुक्तस्त्यक्तः
पापाणदेहो यया तामलभत इत्युक्तं भवति । त्वच्चरणस्पर्शेन यथा पूर्वमहल्या
पाषाणरूपापि देवीत्वं गता तथाद्यापि विन्ध्यप्रावाणस्त्रियो भविष्यन्तीति पूर्ववृत्त-
मनुस्मृत्योक्तम् ॥ १९ ॥</p>
<pb n="48" />
<note>३. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
वैदेही अदृष्टराजमन्दिराद्वहिर्व्यवहारतया बालभावाच्च दैव-
योगात् नौकासुखमनुभूय बने चरन्ती स्थलेऽपि भारा-
कान्ता सती नौः प्रचरतीति मन्यमानास्माभिरतः परमन-
यैव सुखप्रयाणं कर्त्तव्यं न पद्धयामिति बुद्ध्या रामभधिक-
त्याब्रवीत् ॥
वैदेहांति । वने जले, स्थल भूमौ ।</p>
<lg>
  <l>उपलतनुरहल्या गौतमस्यैव शापा-</l>
  <l>दियमपि मुनिपत्नी शापिता कापि वा स्यात् ।</l>
  <l>चरणनलिनसङ्गानुग्रहं ते भजन्ती</l>
  <l>भवतु चिरमियं नः श्रीमती पोतपुत्री ॥ २० ॥</l>
</lg>
<p>उपलेति । यदीत्यर्थे वाशब्दः । इयमपि । पोतपुत्री नौका चेत्केनापि
शापिता कापि मुनिपत्नी स्यात् तार्ह नोऽस्माकमेव श्रीमती भवतु सुखकारिणी
स्यात् । मुनिपत्नी मा भूदिति भावः । केव । गौतमस्य शापादुपुलतनुः पाषाण-
देहापि ते चरणनलिनसङ्गानुग्रहं भजन्ती सती अहल्येव । सा यथा शिलात्वं
त्यक्त्वा अहल्यात्वं याता तथेयं नौकापि मुनित्रीत्वमायातु अस्मदारोहणसुखा-
भावात् । इत्युक्तवत्यां सीतायाम् ॥ २० ॥</p>
<lg>
  <l>तिदैन्यं जनकात्मजायास्तत्रैव रामः सह लक्ष्मणेन ।</l>
  <l>गोदावरीतीरसमाथितेषु वनेषु चक्रे निजपर्णशालाम् ॥ २१ ॥</l>
</lg>
<p>दृष्ट्वेति । वनेषु दण्डकसंज्ञकेषु ॥ २१ ॥</p>
<lg>
  <l>एषा पंचवटी रघूत्तमकुटी यत्रास्ति पंचावटी</l>
  <l>पान्थस्यैकघटी पुरस्कृततटी संश्लेषभित्तौ वटी ।</l>
  <l>गोदा यत्र नटी तरङ्गितती कल्लोलचञ्चत्पुटी</l>
  <l>दिव्यामोदकुटी भवाब्धिशकटी भूतक्रियादुष्कुटी ॥२२॥</l>
</lg>
<p>O</p>
<pb n="49" />
<p>हनुमन्नाटकं -
[ अङ्क:-
लक्ष्मणस्तत्रैव तत्कुटीरमणीयतामालोक्य - एपेति । हे रघूत्तम, एषा पञ्चवटी
कुटी । भवत्विति शेपः । कोशी । पञ्चवटी पञ्चवटयुक्ता । एतेनापि निबिड-
च्छायात्वमुक्तम् । पुनः कीदृशी । यत्र पञ्चावटी अस्ति । पञ्चानामवटानां समा-
हारः पञ्चावटी पञ्चवटवृक्षमूलेपु पञ्चसरस्वतगर्ता: । 'गर्तावटौ भुवि श्वभ्रे
इत्यमरः । पुनः कीदृशी । पान्थस्य प्रवासिनः एकमपेक्षितुं जलच्छायादिकं घटयते
उद्दीपयतीति । पुनः कीदृशी । पुरस्कृतौ शोभमानौ तटौ कुड्यापेक्षया द्वारभाग
यस्याः सा । पुनः कोशी । संषो दारापत्याभिनिवेशस्तस्य भित्तौ संचये वटी
तन्निवर्तकौपववाटिका । पुनः कीदृशी । यत्र यत्समीपे गोदा गोदावरी नटी नर्तकी-
रूपा । कीदृशी गोदा । तरङ्गितौ तटौ यस्याः सा । पुनः कीदृशी गोदा ।
कल्लोलैश्चञ्चन्तः पुटा जलनिर्गममार्गा यस्यां सा कल्लोलचश्चत्पुटी । पुनः
कीदृशी गोदा । अलौकिको य: पद्मामोदस्तस्य कुटी कृपिका । पुनः
कीदृशी । भवाब्धिशकटी पोतरूपा । पुनः कीदृशी गोदा । भूतक्रियादुष्कुटी
भूतानां क्रियाभिः सामान्यधर्मैर्दुष्प्रापा । बहुपुण्यलभ्येत्यर्थः । अन्न विशेषणेषु वटी -
नटीकुटीसादृश्यं चिन्त्यं विस्तारभयान्न त्रिवृतम् । अन्न भवाब्धिशब्दवलादन्यो-
ऽप्यर्थः सम्भवति । हे रघूत्तम, एपा कुटी भवतु । कीदृशी । पश्चानां पृथिव्यप्तेजो-
वाय्वाकाशादीनां वटी निहन्त्री 'वट विशातने' यां प्राप्य न पुनर्भव इति । यत्र
यस्यां पश्चानां रूपरसगन्धस्पर्शशब्दानां अवटी संगतिनिवर्तको विधिरस्ति । ' वट
वर्जने ' अत्रेन्द्रियाणि सुजयनीति । पान्थस्य मोक्षमार्गकृतप्रयाणस्य एका निरुपमा
घटी विश्रामस्थानं ' घट विश्रमणे ' । यत्र यस्यां गोदा गावो वेदवाच : ताः ददा-
तीति गोदा । मुनिसभा नटी प्रसिद्धाऽऽस्ते । 'नट आविर्भावे । कीदृशी गोदा ।
पुरस्कृता तटी समित्कुशसमृद्धिर्यया सा । ' तटच् समृद्धौ' । पुनः कीदृशी ।
।
षो दारापत्याद्यभिनिवेशस्तस्य भित्तौ सञ्चये वटी वज्ररूपा । 'वज्रं वटी पवि: '
सार: ' इति शाश्वतः । पुनः कीदृशी । रागादिपु प्राप्ता ये जीवास्तेषां तटिनी
निःसारणतीर्थवती । पुनः कीदृशी । कल्लोलैर्देवैरितस्ततश्चक्रम्यमाणानि निकुञ्जानि
यस्याः साः । ' कल्लोलो देववारिणो: ' इति धरणिः । ' निकुञ्जपुटयोः पुट: ' इति
विश्व: । पुनः कीदृशी । दिव्यो नैसर्गिको य आमोद: वासना तस्य कुटी क्षयकरी
निवासक्षययोः कुटी ' इति चरकः । अत एव भवाब्धिशकटी संसारतारणनौका ।
नन्वेवं चेत्सर्वे कथं न विद्युरिति चेत्तत्राह-भूतानां प्राणिनां क्रियाभिर्दुरहटैर्दुष्कुटी
दुष्प्रापेत्यर्थः । एते धातवो कविकल्पद्रुमे चिन्त्यास्तद्रूपं च ॥ २२ ॥</p>
<pb n="50" />
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>क्रीडाकल्पवटं विसर्पितजटं विश्वाम्बुजन्मावटं</l>
  <l>पिष्टाण्डौघघटं घृतांधिशकटं ध्वस्तक्षमासंकटम् ।</l>
  <l>वियुच्चारुरुचा विधूतकपटं सीताधरालम्पटं</l>
  <l>भिन्नारीभघटं विरुग्णशकटं वन्दे गिरां दुर्घटम् ॥ २३ ॥</l>
</lg>
<p>तत्रैव कुटी-
जानकी संन्यस्ताध्व परिश्रमा मुग्धावतारं पुराणपुरुषं वन्दते स्म ।
करणाजातानन्दा प्रणमति । अहं रामं वन्दे इत्यन्वयः । कीदृशम् । क्रीडानां नर-
सुरतिर्यगाद्यवताराणां कल्पवटं अवताराः यतः शक्तिमास्थाय क्रीडन्ति यथेच्छम् ।
ननु प्रतियुगावतारे जीवो न किं नेत्याह-विसर्पितवटं प्रकटोकृतविश्वतनुम् । ननु
विश्वजनकत्वेन तत्कृतदोपवान्कि नेत्याह-विश्वाम्बुजन्मावटं विश्वमेवाम्बुजन्म कमलं
तत्प्रकाशाय आ समन्ततः वटः सूर्यः । यथा सूर्यः पद्मं बोधयति नतु तद्गन्धादि गृह्णाति
तथेःधरोपीक्षयैव करोति नतु तद्दोपभाक् ।' वट: सूर्ये तरौ लोके' इति शाश्वतः ।
सूर्यवन्नाशवान्कि नेत्याह- पिष्टाण्डौघघटं चूर्णांकृतब्रह्मांडसमूहम् । स्वयमेव नाशकृदि-
त्यर्थः । तर्हि सर्वानेव नाशयति किं नेत्याह - घृताङ्मिशकटं घृत हृदये स्वामी
यैस्ते घृताङ्मयो भक्तास्तेयां संसारोत्तारणाय वाह्यं पोतमिति । एतदेव दर्शयति-
ध्वस्तं दूरीकृतं क्षमायुक्तानां अम्बरीपादीनां सङ्कटं येन तम् । मध्यमपदलोपी समासः।
तर्हि भक्तपालकत्वाद्विपम: किं नेत्याह- विद्युदिव चारुरुकू यस्याङ्गदीप्तिस्तया
विधूतः कपटो मायाकृतदम्भो येन तम् । अतो यः कोऽपि तद्रूपं स्मरति
तस्य दम्भक्षतिर्नेतरेपाम् । अतो ज्ञानाज्ञानाभ्यां जीवानामेव त्रिपमत्वं नतु
तवेति भावः । ननु एतादृक्कथं प्राप्यते तत्राह- सीताधरालम्पटं भक्तार्थमावि-
र्भूतमित्यर्थः । ननु तर्हि कामी किं नेत्याह- भिन्ना अरयः कामादय एवेभा मतङ्ग-
जास्तेषां घटा: समूहा येन तम् । ननु जितकामादित्वादिरहितैकरिपुः किं नेत्याह ।',
विरुग्णशकटं विशेषेण रुग्णाः खण्डीकृताः शकटा दैत्यराजानो येन ' शकौ यवन-
राक्षसौ ' इति धरणिः । 'टो महेश्वर आख्यातः ' इत्येकाक्षरः । नन्वेवं मां सर्वे
किं न विद्युरिति चेन्न । गिरां दुर्घटं वाचामगोचरम् । अनिर्वचनीयमित्यर्थः ॥ २३॥
अथ मारीचः -
अतीताना
गतवर्तमानत्रिकालदर्शनो लंकापतेराज्ञामासाय
चिन्तयामास ।</p>
<note>३. ]</note>
<lg>
  <l>रामादपि च मर्तव्यं मर्तव्यं रावणादपि ।</l>
  <l>उभयोयदि मर्तव्यं वरं रामो न रावणः ॥ २४ ॥</l>
</lg>
<pb n="51" />
<p>हनुमन्नाटकं -
[ अङ्क:-
रामांदिति । वरं रामो न रावण इत्यस्यायमर्थः । रामान्मरणे परत्र मोक्षः स्या-
दिह च स्वामिकार्यमित्यर्थद्वयमिति ॥ २४ ॥</p>
<lg>
  <l>सुललितफलमूलैस्तत्र कालं कियन्तं</l>
  <l>दशरथकुलदीपे सीतयां लक्ष्मणेन ।</l>
  <l>गमयति दशकण्ठोत्कण्ठितमोरतं द्रा-</l>
  <l>कनकमयकुरंगं जानकी संददर्श ॥ २५ ॥</l>
</lg>
<p>सुललितेति । इति विचार्य मृगो भूत्वा तत्पर्णशालाभ्यर्णे गतः । दशरथकुलदीपेः
रामे सीतया लक्ष्मणेन च सह तत्र कालं गमयति सति जानकी कनकमयकुरङ्गं
संददर्श । कीदृशम् । दशकण्ठस्य उत्कण्ठितेन उत्कण्ठया सीताहरणाभिलाषेण प्रेरित
प्रस्थापितमिति ॥ २५॥</p>
<lg>
  <l>देहं हेममयं हरिन्मणिमयं शृंगद्वयं वैद्रुमा-</l>
  <l>श्वत्वारोऽपि खुरा रदच्छदयुगं माणिक्यकांतियुति ।</l>
  <l>नेत्रे नीलसुतारके सुवितते तवच्चलं प्रेक्षितं</l>
  <l>तत्तद्रत्नमयं किमत्र बहुना सर्वांगरम्यो मृगः ॥ २६ ॥</l>
</lg>
<p>देहमिति । सुगमम् ॥ २६ ॥
सांगं मायाकुरंगं द्रुतनिधननिशाचारिमारीचमग्रे
धावन्तं सञ्चरन्तं क्षणमपि गहने जानकी याचते स्म
• रामं कामाभिरामं निशितशरधनुर्धारिणं लक्ष्मणेन
क्षिप्रं तद्रक्षणायोल्लिखिततटभुवा सोऽप्यगात्तद्वधाय ॥ २७ ॥
इति हनुमन्नाटके मारीचागमनं नाम तृतीयोऽङ्कः ॥ ३॥
साङ्गमिति । जानकी तं मायामृगं प्रति रामं याचते स्म । प्रार्थयामासेत्यर्थः ।
कीदृशम् । द्रुतं 'अचिरभावि निधनं यस्य द्रुतनिधनधासौ निशाचरश्च-
स चासौ मारीचश्च तम् । अत्रे धावन्तं अतिगहनेक्षणं यथा स्यात्तथा सञ्चरन्तम् ।
सोऽपि रामो लक्ष्मणेन सह तद्वधाय क्षिप्रमगात् । लक्ष्मणेनानुगत इत्यध्याहारो वा ।
कीदृशेन । तद्रक्षणाय सीतासंरक्षणार्थं लिखितौ धनुष्कोट्या तटौ द्वारोपान्तभागौ
यस्याः सा भूः कुटी येन राजधनुर्लेखां कोऽपि नाक्रमिष्यतीति ॥ २७ ॥ .
इति श्री मिश्रमोहनदास विरचितायां हनुमन्नाटकदीपिकायां
मारीचागमनं नाम तृतीयोऽङ्कः ॥ ३ ॥</p>
<pb n="52" />
<note>४.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
चतुर्थोऽङ्कः ।
आन्दोलयन्वि शिखमेककरेण सार्धं
कोदण्डकाण्डमपरेण करेण धुन्वन् । i
सन्ना पुष्पलतया पटलं जटानां
रामो मृगं मृगयते वनवीथिकासु ॥ १ ॥</p>
<lg>
  <l>हस्ताभ्यां समुपैति लेढि च तृणं स्पृश्यतां गाहते</l>
  <l>गुल्मान्प्राप्य निवर्तते किसलयानाघ्राय चाम्राय च ।</l>
  <l>भूयस्त्रस्यति पश्यति प्रतिदिशं कण्डूयते स्वाँ तनुं</l>
  <l>दूरं धावति तिष्ठति प्रचलति प्रान्तेषु मायामृगः ॥ २ ॥</l>
</lg>
<p>आन्दोलयन्निति । एककरेण सार्धं विशिखमान्दोलयन्निति मृगयते अवलोक-
यति ॥ १ ॥</p>
<lg>
  <l>ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः</l>
  <l>पश्चार्धेन प्रविष्टः शरपतनभयायसा पूर्वकायम् ।</l>
  <l>दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा</l>
  <l>पश्योद्विग्नप्लुतत्वाद्वियति बहुतरं स्तोकमुव्य प्रयाति ॥३॥</l>
</lg>
<p>हस्ताभ्यामिति । मायामृगः प्रान्तेषु प्रचलति प्रान्तेषु शालाभ्याशेषु मायापूर्वकं
मृगजात्यनुकरणमाह- कदाचिदिति पदाध्याहारः सर्वत्रानुबध्यते । हस्ताभ्याशं हस्त-
ग्राह्यत्वं लेढि ' लिह आस्वादने' । न स्पृश्यतामस्पृश्यत्वम् । सुगमम् ॥ २॥
रामो मृगं लक्ष्मणं दर्शयति- प्रीवेति । ग्रीवाभङ्गेन अभिरामं यथा स्यात्तथा मुहु-
रनुपतति पश्चादवलोकयति स्यन्दने रथे बद्धा दृष्टिर्येन सः भूयसा पश्चार्धेन पश्चिम-
शरीरभागेन मदीयशरपातभयात्पूर्वकायं प्रविष्टः पश्चात्संकुचितगात्र इति । अर्धभ
तिर्द: कीर्ण विक्षिप्तं वर्त्म येन सः । कीदृशैः। श्रमेण विवृत्तमत्युद्घाटितं यन्मुखं
ततो भ्रंशिभिः पातुकैः । एनं पश्य उदग्रप्लतत्वादुत्कटोत्पतनाद्वियत्याकाशे बहुतरं
प्रयाति गच्छति भूमौ स्तोकमल्पं प्रयाति ॥ ३ ॥</p>
<pb n="53" />
<p>:: हनुमन्नाटकं -</p>
<lg>
  <l>बाणेन दिव्येन रघप्रवीरस्ततो मृगं वक्षसि बद्धलक्ष्यः ।</l>
  <l>विव्याध यावत्तरसा तपस्वी दशाननस्तावदिहाजगाम ॥४॥</l>
</lg>
<p>ततो वनान्तरे । वाणेनेति । यावत् रघुवीरो' वाणेन मृगं विव्याथ, तांवदेव
तपस्विवेपधारी दशाननः इह सीतासमीपे आजगाभेत्यन्वयः ॥ ४ ॥</p>
<lg>
  <l>मारीचमृगयाव्यये रामे प्राप्ते च रावणे ।</l>
  <l>भयादिव कुरङ्गीणामस्याः पश्यामि लोचने ॥ ५ ॥</l>
</lg>
<p>मारीचेति । रामे मारीच मृगयाव्यग्रे सति रावणे प्राप्ते सति, अस्याः सीताया
लोचने भयात्कुरङ्गीणामित पश्यामि । किमप्यनिर्वचनीयनेन्नलौल्यं दृष्ट्वा ननन्देति
भावः ॥ ५ ॥
11
[ अङ्क:-</p>
<lg>
  <l>स व्याहरदर्मिणि देहि भिक्षामलंघयँलक्ष्मणलक्ष्मलेखाम् ।</l>
  <l>जग्राह तां पाणितले क्षिपन्तीमाकारयन्तीं रघुराजपुत्रौ ॥ ६ ॥</l>
</lg>
<p>स इति । स रावणो व्याहरदित्युवाच । किं तदाह । हे धर्मिणि, आतिथ्यदाना
दानपुण्यपापज्ञे, भिक्षां देहि । लक्ष्मणेन कृता या लक्ष्मणचिहस्य लेखा तामलंघय -
न्सन् तद्द्बहिरागत्य पाणितले क्षिपन्तीं भिक्षां ददतीं सीतां जग्राह हृतवान् । कीदृ-
शीम् । रघुराजो दशरथस्तत्पुत्रौ रामलक्ष्मणौ आकारयन्तीमाह्वयन्तीम् ॥ ६ ॥</p>
<lg>
  <l>रे रे भोः परदारचोर किमरेऽधीरं त्वया गम्यते</l>
  <l>तिष्ठाधिष्ठितचन्दना चलतटः प्राप्तो जटायुः स्वयम् ।</l>
  <l>मुञ्चैनां पतिदेवतां न खलु चेन्मच्चण्डतुण्डांकुश-</l>
  <l>ऋरावस्करणवणासृगुरसः पास्यन्ति गृध्रास्तव ॥ ७ ॥</l>
</lg>
<p>जटायुर्दशरथमैत्रीमनुस्मरन्रावणं ज्ञात्वा कथयति - रेरे इति नीचसंबोधने, भो
अहो परदारचोर, त्वया अधीरं तूर्ण यथा स्यात्तथा कि गम्यते ? धीरास्तु शनैर्ग -
च्छन्ति न त्वरया । अरे तिष्ठ । स्वयमहं जटायुः प्राप्तोऽस्मि । अधिष्ठितोऽधिवसितः
चन्दनाचलस्य मलयस्य तटो येन । एतेन प्राशस्त्यमुक्तम् । एनां मुञ्च । ननु इयमेव
प्रयातीति चेन्न । कीदृशी । पतिरेव देवता यस्याः सा । तां चेन्न त्यजसि तर्हि
तवोरसः सकाशावृधा मयं यच्चण्डं तुण्डं तदेवांकुशस्तेन यत्क्रूरमवस्करणं ततो ये
त्रणास्तेभ्यो निःसृतमसुश्रुधिरं पास्यन्ति । यद्वा एकमेव पदम् । व्रणेभ्यो निःसृत-
मसृग्यस्मंस्तदुरस उरः पास्यन्ति । कर्मणि पष्ठी ' तदवस्करणं प्रोक्तं तुण्डेनोद्भिद्य
कर्षणम् ' इति हलायुधः ॥ ७ ॥
.
Budg</p>
<pb n="54" />
<note>४. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>जन्म ब्रह्मकुले हरार्चन विधौ कृत्वा शिरःकृन्तनं</l>
  <l>शक्तिर्वत्रिणि घोरदण्डदलनव्यापारशक्तं मनः ।</l>
  <l>हेलोल्लासितकेलिकन्दुकनिभः कैलास उत्पाटित-</l>
  <l>स्वत्किं रावण लज्जसे न हरसे चौर्येण पत्नी रघोः ॥८॥</l>
</lg>
<p>रावणं ज्ञात्वा अचलाशौर्याकुलवान् चौर्य करोपि तत्तु त्वयि न संभवतीत्याह-
जन्म ब्रह्मकुले इति । हरार्चनविधौ शिरःकृन्तनं कृत्वा चत्रिणि देवेशे शक्तिः ।
मनः घोरदण्डदलनव्यापारशक्तं ये घोरदण्डा दुर्निग्रहास्तेषां निग्रहव्यापारे शक्तं
समर्थम् । भवता कैलासो गिरिरुत्पाटितः । कीदृशः । हेलयाऽनायासेनोल्लासित
उद्गमितो यः केलये क्रीडार्थ कन्दुकः तत्सदृशः । यथैव केलिकन्दुकस्तथैव गिरिरिति
भावः । तत्तस्मादेवं चले सति चौर्येण यत् रघोः रामस्य पत्नी हरसे तत्किं कस्मान्न
लज्जसे ? गूढाक्षेपः ॥ ८ ॥</p>
<lg>
  <l>मैनाक: किमयं रुणद्धि पुरतो मन्मार्गमव्याहतं</l>
  <l>शक्तिस्तस्य कुतः स वज्रपतनाद्वीतो महेन्द्रादपि ।</l>
  <l>तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं</l>
  <l>हा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ ९ ॥</l>
</lg>
<p>रावणः सक्रोधं स्वगतं च अयं मैनाको गिरिः किम् ? किं वितर्फे । अयं कः
पुरतो भूत्वा अव्याहतं देवैरप्यखण्डितं मदीयं मार्ग रुणद्धि ? सपक्षत्वात्तस्य मैना-
कस्य शक्तिर्मन्मार्गरोधनसामर्थ्य कुतः । यतः स गिरिर्महेन्द्रादपि इन्द्रसकाशादपि
यद्वत्रपतनं तस्मादेव भोतः, इन्द्र एव मत्तो बिभेति । तन्निर्जितस्य गिरेमयि का
शक्तिरिति भावः । तर्ह्ययं तार्क्ष्योऽस्ति न सोऽपि गरुडः । निजेन विभुना समं वि-
ष्णुवलतुल्यबलं मां रावणं जानाति । रावयति स्वबलेन लोकानिति रावणः । हेति
कष्टम् । ज्ञातं एप स जटायुः । सकः । यो जरसा वार्धक्येन व्याप्तः सन् वर्ध
वांछति । हा कष्टं वृद्धस्य हनने किं यश इति कष्टम् । विजयोऽयमलंकारः । तदुक्तं,
दण्डिना - ' य: पूर्वोत्तरपक्षाभ्यां निर्णेता भवति स्वयम् । शब्दचातुर्यतो विज्ञैर्विजय:
समुदीरितः' इति ॥ ९ ॥
मा भैषी: पुत्रि सीते व्रजति मम पुरो नैष दूरं दुरात्मा
रे रे रक्षः क्व दारात्रघुकुलतिलकस्यापहृत्य प्रयासि ।
े</p>
<pb n="55" />
<p>हनुमन्नाटकं -
चंच्चाक्षेपत्रहारत्रुटित धमनिभिर्दिक्षु विक्षिप्यमाणै-
राशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि ॥ १० ॥
जटायु: क्रोधमभिनीय-मा भैषीर्भयं मा कार्पी: । दारशन्दो भूम्त्येव । दशभिं-
स्त्वच्छिरोभिर्दशानामाशापालानामुपहारं करोमि । करिष्यामीत्यर्थः । कीदृशैः शि-
रोभिः । दिक्षु दशसु दिशासु विक्षिप्यमाणैः । पुनः कीदृशैः । चश्चोः आक्षेपेण
ये प्रहारास्तैस्त्रुटिता धमन्यो नाड्यो येषां तैः । ' नाडी तु धमनि: शिरा' इति
विश्वः । अन्यत्सुगमम् ॥ १० ॥</p>
<lg>
  <l>अक्षं विक्षिपति ध्वजं दलयते मृङ्गाति नद्धं युगं</l>
  <l>चक्रं चूर्णयति क्षिणोति तुरगान् रक्षःपतेः पक्षिराट् ।</l>
  <l>रुन्धन्गर्जति तर्जयत्यभिभवत्यालम्बते ताड़य-</l>
  <l>त्याकर्षस्यवलुम्पति प्रचलति न्यञ्चन्युदंचत्यपि ॥ ११ ॥</l>
</lg>
<p>अक्षमिति । पक्षिराट् जटायू रक्षः पतेः रावणस्याक्षं चक्रान्तरालं काष्ठं विक्षिपति
विरूद्धं चालयति । दलयते त्रोटयति । मृगाति मयति । गर्जति स्वयं तर्जयति ।
तमभिभवति तिरस्करोति । आलम्वते मार्गमवलम्व्य तिष्ठति । ताडयति तं प्रह-
रति । आकर्षति तत्केशान्विलिखति । अवलुम्पति तद्वासांस्यपहरति । प्रचलति
स्वपक्षलाघवमाविष्करोति । न्यश्चति शिरस्तत्प्रहारपातेन स्वयं नम्रीभवति । उदश्वति
स्वचरणकृततत्प्रहारवञ्चनाय उचैर्गुच्छति ॥ ११ ॥</p>
<lg>
  <l>क्रुद्धस्ततो दृढचपेटशिलातलेन</l>
  <l>रक्षः पिपेष गहनेऽद्भुतपक्षिराजम् ।</l>
  <l>ईषत्स्थितासुरपतद्भुवि राम राम</l>
  <l>रामेतिमन्त्रमनिशं निगदन्मुमुक्षुः ॥ १२ ॥</l>
</lg>
<p>रावणः क्रोधं नाटयति- ऋद्ध इति । करतलप्रहारः स एव शिलातलस्तेन ॥ १२॥</p>
<lg>
  <l>न मैत्री निर्व्यूढा दशरथनृपे राज्यविषया</l>
  <l>न वैदेही त्राता हठहरणतो राक्षसपतेः ।</l>
  <l>न रामस्यास्येन्दुर्नयनविषयोऽभूत्सुकृतिनो</l>
  <l>जटायोर्जन्मेदं वितथमभवद्भाग्यरहितम् ॥ १३ ॥</l>
</lg>
<p>[ अङ्क:-</p>
<pb n="56" />
<note>४.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
जटायुरात्मानं शोचयन्नाह । राज्यं विषयो यस्याः त्वद्राज्यं पालयामीति मैत्री
न नियूढा न निप्पन्ना । सुकृतिनो रामस्य यतः किमपि कृतं न जातम् । अत एवं
भाग्य र हितमिति सन्तापमकरोदिति ॥ १३ ॥</p>
<lg>
  <l>हा राम हा रमण हा जगदेकवीर</l>
  <l>हा नाथ हा रघुपते किमुपेक्षसे माम् ।</l>
  <l>इत्थं विदेहतनयां मुहुरालपन्ती-</l>
  <l>मादाय राक्षसपतिर्नभसा जगाम ॥ १४ ॥</l>
</lg>
<p>हा रामेति । उपेक्षसे उपेक्षां करोपि ॥ १४ ॥</p>
<lg>
  <l>आकृष्यमाणाभरणानि मुक्त्वा सैरध्वजी मारुतिमद्रिमौलौ ।</l>
  <l>उमाच रामाय सलक्ष्मणाय वराय देयानि सदेवराय ॥ १५ ॥</l>
</lg>
<p>आकृष्येति । आकृष्यमाणा सैरध्वजी सीरध्वजो जनकस्तदपत्यं स्त्री सैरध्वजी
सीता । अद्रिमौलौ गिरिशिखरे स्वाभरणानि मुक्त्वोन्मुच्य मारुतिं हनुमन्तमुवाच ।
किमुवा चेत्याह-वराय श्रेष्ठाय रामाय, देवराय पतिभ्रात्रे लक्ष्मणाय चाभरणानि
देयानि ॥ १५ ॥
रामः शुष्के स्थाणौ दक्षिणे रटन्तं करटमवलोक्य पुनरा-
गच्छन्निजप्राणप्रयाणमेव मन्वानः क्षणं विश्रम्य ।</p>
<lg>
  <l>मायाकुरंगं विनिहत्य रामो भात्रा सहागत्य च पर्णशालाम् ।</l>
  <l>कोणत्रयेषु प्रसमीक्ष्य सीतां दृष्टश्चतुर्थो न च शोकभीत्या १६ ॥</l>
</lg>
<p>इति श्रीमद्धनुमन्नाटके सीताहरणं नाम चतुर्थोऽङ्कः ॥४॥
• राम इति । दक्षिणभागे शुष्के स्थाणौ नीरसवृक्षखण्डे करटमवलोक्य पुनरागच्छ-
न्मारीचं हत्वा पर्णशालां प्रत्यागच्छन्सन् ' काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः '
इत्यमरः । कोणत्रयेषु सीतां प्रसमीक्ष्य चतुर्थः शालाकोणस्तेन रामेण न दृष्टः ।
कया तदलाभातिशोकभीत्या इत्यर्थः ॥ १६ ॥
इति श्रीमिश्र० हनुम० टीकायां सीताहरणं नाम चतुर्थोऽङ्कः ॥ ४ ॥</p>
<pb n="57" />
<p>हनुमन्नाटकं -
पञ्चमोङ्कः ।
रामः प्राणोत्क्रमणसमयादपि घोरतरं वियोगसमयमधिगम्य
पर्णशालान्तरालमालोक्य कथमपि विदीर्णहृदयमार्गादुज्जि-
गमिषून्प्राणान्धारयंस्तदुत्तरीयमुपलभ्य जानकी स्मरन्नरोदीत् -
द्यूते पणः प्रणयकेलिषु कण्ठपाशः
क्रीडापरिश्रमहरं व्यजनं रतान्ते ।
शय्या निशीथसमये जनकात्मजायाः</p>
<p>[ अङ्कः-
प्राप्तं मया विधिवशादिदमुत्तरीयम् ॥ १ ॥
ततो रामस्य किं वृत्तमासीत्तदाह - घृतेति । विधिवशाद्दैवयोगाजनकात्मजाया
इदमुत्तरीयं मया प्राप्तम् । किं तत् । यत्तदोर्नित्ययोगात् यत् द्यूते पण इत्यादि सबै
सुगमम् ॥ १ ॥</p>
<lg>
  <l>बहिरपि न पदानां पंक्तिरन्तर्न काचि -</l>
  <l>त्किमिदमियमसीता पर्णशाला किमन्या ।</l>
  <l>अहमपि किल नायं सर्वथा राघवश्वे-</l>
  <l>त्क्षणमपि नहि सोढा हन्त सीतावियोगम् ॥ २ ॥</l>
</lg>
<p>तञ्चरणचिह्नमालक्ष्य विचिकित्सति - बहिरिति । वहिरपि पर्णशालावहिर्भागऽपि
काचित्त्रियः पुरुपस्य वा पदानां पंक्तिरन्तः कुटीमध्येऽपि न । तदिदं किमिति वि-
चिकित्सा । इयं याऽत्रस्था सा असीतैव न पर्णशालेवान्या किं किल । सर्वथा
अयमहं राघव एव न चेत्स्यान्तर्हि क्षणमपि सीतावियोगं न सोढा । एतेनोन्मादो
दर्शितः । तदुक्तं रसोदधौ -' प्रौढानन्दायत्तो विरहात् योहन्द्रमः स उन्मादः
इति ॥ २ ॥</p>
<lg>
  <l>मध्योऽयं हरिभिः स्मितं हिमरुचा नेत्रे कुरङ्गीगणैः</l>
  <l>कान्तिश्चम्पककुड्मलैः कलरवो हा हा हृतः कोकिलैः ।</l>
  <l>मातंगैर्गमनं कथं कथमहो हंसर्विभज्याधुना</l>
  <l>कान्तारे सकलैर्विनाश्य पशुवन्नीतासि भो मैथिलि ॥ ३ ॥</l>
</lg>
<pb n="58" />
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>मध्योऽयनिति । भो मैथिलि, ज्ञातं कुत्रापि त्वदीयं चिह्नमपि न लक्ष्यते । अतः
कान्तारे च अधुना महिना भूतावसरे सकलैरे तै विनाश्य हत्वा नीतासि गृहीतासि
पशुवत् । यथा पशुर्विनाश्य गृह्यते तद्वत् । येनाङ्गेन येपामवमानस्तत्तदङ्गं तैरेव
तमित्याह गर्हसैश्च गमनमेव कथं कथं विभक्तमिति । अहो एतदा-
श्चर्यम् । उभयैरेकं कथं गृहीतमिति । एतन गुणकीर्तनावस्था दर्शिता । सोक्ता रसो-
दधौ - 'वैरहकान्ताविपये प्रशंसनं स्याद्गुणाख्यानम्' इति ॥ ३ ॥</p>
<lg>
  <l>युक्तमेव हि कैकेय्या यदहं प्रेषितो वनम् ।</l>
  <l>ईदृशी यस्य मे बुद्धिर्मृगः क्वापि हिरण्मयः ॥ ४ ॥</l>
</lg>
<p>}
युक्तेति । आत्मानं शोचन्नाह - ईदृशी असंवद्धा । असंवद्धात्वमाह - हिरण्मयो मृगः
क्वापि दृष्टः श्रुतो वास्ते ? न क्वापोत्यर्थः ॥ ४ ॥</p>
<lg>
  <l>आलिंगितात्र सरसीरुहकोरकाक्षी</l>
  <l>पीताधरेतिमधुरे विधुमण्डलास्या ।</l>
  <l>रंगावतारमकरंदविमर्दितानि</l>
  <l>पुष्पान्यमूनि दविते व गतत्यरोदीत् ॥ ५ ॥</l>
</lg>
<p>प्रकीर्णपुष्पमालां पर्णशालामालोक्याह-आलिङ्गितेति । रामः इति अरोदीत् ।
इति किम् ? हे दयिते, त्वं क गता ? अत्र त्वं आलिङ्गिता मयेति शेपः । आलिङ्गन-
सुखेन नेत्रसंकोचात्कोरकत्वमुक्तम् । 'कलिका कोरकः पुमान् ' इत्यमरः । अतिमधु-
रत्त्रे हेतुः - विधुमण्डलसदृशास्या रङ्गानां केलीनामवतार आविर्भावस्तत्र यो मकरन्दः
कोमलरसः तेन मिश्रितानीत्यर्थः ॥ ५ ॥</p>
<lg>
  <l>गाहंगाहं गह्वरकान्तारवनान्ता-</l>
  <l>दर्शदर्श दर्पकमल्लीरिव वल्लीः ।</l>
  <l>स्मारस्मारं दूरगतां तामथ कान्तां</l>
  <l>रामः कान्तामद्रिचरो दीनमरोदीत् ॥ ६ ॥</l>
</lg>
<lg>
  <l>स भूरजोरञ्जितसर्वकायो बभौ विभुर्मन्युविदीर्णचेताः ।</l>
  <l>योषिद्वियोगानलदह्यमानं स्वकान्तमालिङ्गन्यतीव भूमिः ॥ ७॥</l>
</lg>
<pb n="59" />
<p>हनुमन्नाटकं -</p>
<lg>
  <l>सीतेति हा जनक वंशजवैजयन्ति</l>
  <l>हा महिलोचन चकोरनवेन्दुलेखे ।</l>
  <l>इत्थं स्फुटं बहु विलप्य विलप्य राम-</l>
  <l>स्तामेव पर्णवसतिं परितश्वचार ॥ ८ ॥</l>
</lg>
<lg>
  <l>हा जानकि प्रचलितोत्पलपद्मनेत्रे</l>
  <l>हा मे मनःकमलकाननराजहंसि ।</l>
  <l>एष प्रिये तव वियोगजवह्निदग्धो</l>
  <l>दीनं प्रयामि भवर्ती व विलोकयामि ॥ ९ ॥</l>
</lg>
<p>[ अङ्कः-
.
गहराणि सघनानि कान्ताराणि दुर्गवर्त्मानि येषु तानि गाहं गाहं अवगाह्य । अत्र
सर्वत्र ल्यवर्थे णमुल् । तस्मिन्सति द्वित्त्रम् । कामभट्टीरिव वल्ली: दर्शदर्श दृष्ट्वादृष्ट्वा
स्मारंस्मारं स्मॄत्वास्मृत्वा । कीदृशीं कान्ताम् । कस्य रामसुखस्य अंतोऽस्याः तां
विरहेण रामदुःखदामिति । अनिचरो भूत्वा पर्वतचरो भूत्वा दीनं यथा स्यात्तथा
अरोदीन् ॥ ६ ॥ ७॥ ८ ॥ ९ ॥</p>
<lg>
  <l>रे वृक्षाः पर्वतस्था गिरिगहनलता वायुना वीज्यमाना</l>
  <l>रामोऽहं व्याकुलात्मा दशरथतनयः शोकशुक्रेण दग्धः ।</l>
  <l>बिम्बोष्ठी चारुनेत्री सुविपुलजधना बद्धनागेन्द्रकांची</l>
  <l>हा सीता केन नीता मम हृदयगता को भवान्केन दृष्टा ॥ १० ॥</l>
</lg>
<p>हे वृक्षाः यूयं पर्वतस्थाः । उच्चस्यैः सर्वे दृश्यत इति ध्वनितम् । केनापि सीता
नीता हता वा । भवतां मध्ये केनापि दृष्टा ? कोहशा यूयम् । गिरिगहनलताबायुना
श्रीज्यमानाः । एतेन वायुवशात्तत्रस्थाऽपि सीता भवद्भिर्ज्ञायत एवेत्युक्तम् । इत्युक्ते
वृक्षा ऊचुः-भवान्कः ? राघव आह । अहं रामः । शोक एव शुक्रोऽग्निस्तेन दुग्धः।
'सप्ताचिर्दमुनाः शुक्र: ' इत्यमरः । तर्हि कीदृशी सीतेत्यपेक्षायामाह - चिम्बोष्टी -
त्यादि । वद्धा नागेन्द्रस्येव फाञ्चिर्यया सा। यद्वा बद्धा नागेन्द्रस्य काञ्चिर्यया सां।
' करिकुम्भमणिस्तोमनानारत्नोत्करेधिता। मध्ये कुम्भाकृतिः स्वर्णा सा नागेन्द्राख्यया
मता ' इति ॥ १० ॥</p>
<pb n="60" />
<p>-</p>
<note>५.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>हे गोदावरि पुण्यवारिपुलिने सीता न दृष्टा-त्वया</l>
  <l>सा हर्तुं कमलानि चागतवती याता विनोदाय वा ।</l>
  <l>इत्येवं प्रतिपादपं प्रतिनगं प्रत्यापगं प्रत्यगं</l>
  <l>प्रत्येणं प्रतिबर्हिणं तत इतस्तां मैथिलीं याचते ॥ ११ ॥</l>
</lg>
<p>ततोऽवतीर्य गोदावरीमासाद्याह - हे गोदावार, त्वया सीता न दृष्टा । कमला-
न्याहर्तुमागतवती रम्यवारिपुलिने विनोदाय वा आगता । इत्यनेन प्रकारेण । एवं
यथा गोदावरी पृष्टा तथैव प्रतिपादपं पादपं पादपं प्रति जानकीं याचते स्म । इति
सर्वत्र युज्यते । आपगा नदी । अगो गिरिः । एणो मृगः ॥ ११ ॥
पुनर्लक्ष्मणमासाद्य वैकुव्यं नाटयति-</p>
<lg>
  <l>के यूयं वद नाथनाथ किमिदं दासोऽस्मि ते लक्ष्मणः</l>
  <l>कोऽहं वत्स स आर्य एवं भगवानार्यः स को राघवः ।</l>
  <l>किं कुर्मो विजने वने तत इतो देवी समुद्रक्ष्यते</l>
  <l>का देवी जनकाधिराजतनया हाहा मिये जानकि ॥ १२ ॥</l>
</lg>
<p>वद यूयं के ? एकवचने बहुवचनं वैक्लव्यादेव । तत्र लक्ष्मण:- हे नाथनाथ -
आदरे वीप्सा संभ्रमे वा । यद्वा हे नाथनाथ, नाथा: ब्रह्मादयस्तेषामपि नाथ स्वा-
मिन्, इदं वैक्लव्यं किम् । अहं ते दासः लक्ष्मणोऽस्मि । हे वत्स, अहं कः?
लक्ष्मणः-
स इति प्रसिद्धः आर्य एव भगवानचिन्त्यैश्चर्यः । रामः स - आर्यः कः ? लक्ष्मणः-
राघवः रघुवंशजन्मा । रामः - अत्र विजने जनशून्ये बने किं कुर्म: ? लक्ष्मणः-
इत-
स्ततो देवी समुद्रीक्ष्यते । राम: - देवी का ? लक्ष्मणः-जनकाधिराजतनया । रामः-
हा कष्टं हे प्रिये हे जानकि ! विपमोयमलंकारः । उकं च वीरभानौ - ' उक्तिप्रयुक्ति
चातुर्यान्निवद्धो विपमो मतः ' इति ॥ १२ ॥
सौमित्रिणा सह रामः, अत्रान्तरे वनान्तं पर्यटञ्जनकतनया-
तापिनः पापिनो रजनिचरपतेर्भुजभुजङ्गमण्डलीखण्डितो-
रगवधूवैधव्यधातारं विपक्षरक्षसा निहतं घोरसमरमूच्छित
पक्षिराजं जटायुषं भयं च रावणरथमालोक्य-</p>
<pb n="61" />
<lg>
  <l>हनुमन्नाटकं -</l>
  <l>ज्ञात्वा दशरथस्यैनं मित्रं शत्रुनिषूदनम् ।</l>
  <l>हा तात किमिदं नाम रामः पक्षीन्द्रमब्रवीत् ॥ १३ ॥</l>
  <l>इदं तव किं जातम् ? ॥ १३ ॥</l>
</lg>
<p>जटायु:-
[ अङ्क:-
-</p>
<lg>
  <l>अर्धरात्रे दिनस्यार्धे अर्धचंद्रेऽर्धभास्करे ।</l>
  <l>रावणेन हता सीताकृष्णपक्षे सिताष्टमी ॥ १४ ॥</l>
</lg>
<p>[4]
अर्धेति । दिनस्यार्धे देवदिनस्यार्धे सति तेन चैत्र उक्त: । मकरादिपटू दिनं
कर्कादिषट् निशेति श्रीपतिः । ' मासेन स्यादहोरात्रः पैत्रो वर्पेण दैवतः ' इत्यमरः ।
तत्राप्यर्धरात्रे सति पितॄणामर्धरात्रे सति, अकृष्णपक्षे पितॄणां पाक्षिकी रात्रिर्भवति ।
तदर्धे पक्षार्धे सति कस्य पक्षस्येन्यपेक्षायामाह- कीदृशे अर्धरात्रे । अकृष्णपक्षे अकृ-
रणः शुक्ल: पक्षो यस्मिन् । एतेन चैत्रशुक्लपक्षो द्योतितः । पुनः कीदृशे अर्धरात्रे ।
अर्घः अष्टकलश्चन्द्रो यस्मिन् । तत्रापि कस्यां तिथौ हृतेत्यपेक्षायामाह - यत्र यस्मि-
न्दिने सिताष्टमी सितेन शुक्रेण युता अष्टमी । मध्यमपद्लोपी समासः । तत्रापि
कस्यां वेलायामित्यपेक्षायामाह- कस्मिन्सति । अर्धभास्करे सति मध्यंदिनवर्तन्या-
दित्ये सति । सर्वपदैश्चैवमुक्तं भवति । चैत्रशुक्लपक्ष सिताष्टमीमध्याह्ने सीता हृतेति ।
केचिदेवं व्याकुर्वन्ति कृष्णपक्षे सीता हृता ' कृष्णोऽस्त्री माघकृष्णयोः' इति
चरकः । कीदृशे कृष्णपक्षे । पितणामर्धरात्रे शुक्लपक्षः पितणां रात्रिः । पुनः किंभूते
दृष्टः माघस्नाननिमित्तं अर्धभास्करो यस्मिन् । 'अर्धोदिते रवौ स्नातो माघे स्वर्ग-
मितो भवेत् ' अन्यत्पूर्ववत् । एतदर्थेन एवमुक्तं भवति । माघशुकृपक्षसिताष्टमी-
मध्याह्न सौता हृतेति । उक्तं च वाराहपुराणे - 'चैत्रमाससिताष्टय्यां मुहूर्ते वृन्द-
संज्ञिते । राघवस्य प्रियां सीतां जहार दशकन्धरः' इति वृन्दः । पूर्वाह्न इति
धरणिः ॥ १४ ॥
यत्रेति वाक्यशेषः रामः-</p>
<lg>
  <l>भनोऽयं कथमस्ति रावणरथस्तातेन वज्रांकुर-</l>
  <l>ऋरावस्करणेन भंगुरलसत्कोटित्रुटज्ज्यं धनुः ।</l>
  <l>हे सीरध्वजराजपुत्रि स तथा दृष्टस्त्वया धन्यया</l>
  <l>पक्षीन्द्रो दशकण्ठकुञ्जरशिरः संचारिपञ्चाननः ॥ १५ ॥</l>
</lg>
<pb n="62" />
<p>दीपिकाख्यव्याख्योपेतम् ।
भग्नोऽयमिति । चत्रांकुरवद्वधारावरं दुःसहं यदवस्करणं तुण्डेनोडियाकर्षणं
तेन भंगुरे चक्रे लसन्त्यौ ये कोटी धनुप अग्रभागौ ताभ्यां सकाशात्त्रुटन्ती ज्या
यस्य तद्धनुरपि कथं भन्न मितीत्युक्त्वा पुनः दृष्टवत्सीतामाह - हे सीते, धन्यया त्वया
स पक्षीन्द्रो जटायुः तथा युद्धयमानो दृष्टः । धार्मिकदर्शनाद्धन्यत्वम् । यो दशकण्ठ
एव कुञ्जरस्तच्छिरःसु सञ्चरणशीलः सिंह इति ॥ १५ ॥</p>
<lg>
  <l>तात त्वं निजतेजसैव गमितः स्वर्ग व्रज स्वस्ति ते</l>
  <l>मस्त्वेकमिमां वधूहतिकथां तातान्तिके मा कृथाः ।</l>
  <l>रामोऽहं यदि तद्दिनैः कतिपयैवडानमत्कन्धरः</l>
  <l>सार्धं बन्धुजनेन सेन्द्रविजयी वक्ता स्वयं रावणः ॥ १६ ॥</l>
</lg>
<p>सीताहतिं दशरथं मा श्रावयेति लज्जया वारयति- हे तात, त्वं निजतेजसैव
निजदर्पेणैव स्वर्ग गमितः प्रापितः व्रज । ते स्वस्ति । स्वर्गात्ते मोक्षोऽस्तु । परंतु
एकं निरुपमं त्वां प्रति ब्रूमः । किं तदित्याह- इमामिति । बन्धुजनेन कुम्भकर्णादिना
इन्द्रविजयी मेघनादस्तेन सहितः वक्ता शीघ्रं वदिष्यतीति ॥ १६ ॥
4. ]</p>
<note>५.</note>
<p>-
रामः-
वनेचरान्मृगान्विलोक्य । आः खलु दुरात्मनाममीषां
रूपेण मारीचिना प्रपञ्चमवलम्ब्य प्राणवल्लभाश्लेषतो विश्ले-
षितोऽहमिति अहं पुनः मृगीचक्रवधेन कुरङ्गाणां प्रिया वि</p>
<lg>
  <l>रहमुत्पादयामीति विचार्य -</l>
  <l>अमोघाः कृष्टनालीकाः काननेषु मृगीवधे ।</l>
  <l>us</l>
  <l>रामः किं दूरघातीति सीतानयनशङ्कया ॥ १७ ॥</l>
</lg>
<p>C
आस्तु स्यात्कोपपीडयो: ' इत्यमरः । अमोघा इति । काननेपु मृगीबवे मृगी-
चधनिमित्तं कृष्टा आकृष्टा ये नालीका वाणा: तस्य रामस्य तेऽमोघाः सफलाः ।
" नालीकशरमार्गणाः ' इति विश्वः । दूरान्न हननमिति चेत्तत्राह- दूरघाती दूरादेव
'हन्तुं शीलमस्य रामस्यास्तीति वाणसफलत्वदूरघातित्वयोः सतोरपि सांतानयनश-
कथा इमे नेत्रे सीतायाः नयने भवत इति तन्नेत्रसादृश्यमात्रमासां नेत्रे तिष्ठतीति
•तद्धनने स्त्रीयापराधः स्यादिति शङ्कया । इति किम् । प्राप्तदयावानभूदित्यर्थः ।</p>
<pb n="63" />
<p>[ अङ्क:-</p>
<p>हनुमन्नाटकं -
इति शब्देन दया किंशब्देन प्राप्तिरिति । ' समाप्तौ च परिच्छेदे दयायामिति सम्म-
तम् ' इति धरणिः । ' निन्दने च वितर्फे च प्राप्तौ प्रश्ने किमप्ययम् ' इति विश्वः
शङ्कोक्ता रसोदधौ - ' स्वीयापराधचोर्यादितो मता शङ्का ' इति ॥ १७ ॥
ततः कथमपि भगवति भास्करेऽस्ताचलावलम्बिनि प्रलय-
कालोदितप्रचण्डमार्तण्डमण्डल मिवोदितं चन्द्रमण्डलं तरुण-
कोपारुणदारुणं तरणिनन्दनमिवावलोक्य रामः- .</p>
<lg>
  <l>सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते</l>
  <l>चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति ।</l>
  <l>वत्सैतद्भवता कथं नु विदितं धत्ते कुरंगं यतः</l>
  <l>क्वासि प्रेयसि हा कुरंगनयने चन्द्रानने जानकि ॥ १८ ॥</l>
</lg>
<p>wyding
' वियोगिपापिविरहिजीवपु तरुणोऽस्त्रियाम् ' इति चरकः । वलात्तरुणेषु वियो-
गिषु यः कोपस्तेनारुणं चन्द्रमण्डलं, यद्वा तरुणेपु पापिजनेषु यः कोपस्तेनारुणं
तरणिनन्दनं यममिवेति कुरङ्गनयननिभे चञ्ञ्चले नयने यस्याः सा । मध्यमपदलोपी
समासः । उक्तिप्रत्युक्त्यार्थज्ञानं विपमोऽयमलंकारः । तल्लक्षणं पूर्वमुक्तम् ॥ १८ ॥
रामचन्द्रमधिक्षिपति-</p>
<lg>
  <l>मन्दरेण मथितोऽसि न पापिञ्ज्वलितोऽसि तमसा न दुरात्मन् ।</l>
  <l>त्वां शरेण शतधा परिनिन्ये जानकीमुखसमो यदि नस्याः १९ ॥</l>
</lg>
<p>मन्दरेणेति । हे पापिन्परसन्तापदातः, मन्द्रेण गिरिणा अब्धिमन्थने न माथि-
तोसि न चूर्णीकृतः ? ततोऽपि तमसा राहुणापि न ज्वालित: ? क्रोधाग्निना न
दुग्धः ? 'तमस्तु राहुः स्वर्भानुः' इत्यमरः । स्वाशक्तौ मोहिनीसूचनेनापि दुरात्म-
नित्युक्तम् । ताभ्यां परिमुक्तमपि त्वां अहमेव शतधा शतप्रकारं परिनिन्ये प्राप
यामि । यदि त्वं जानकीमुखसमो न स्याः । अत्रोन्मादावस्थान्तरङ्गवाचिकव्यथो-
दिताऽऽयासो दर्शितः । तदुक्तं रसोदधौ-' स्यादुन्मादः कान्ताचित्तव्यथागोचरा-
यासः । कायिकवाचिकभेदाद्विघोदितोऽयं व्यथोदितायासः । तत्समं द्रव्यं दृष्ट्वा
यदुपालम्भः स वाचिकाख्यः' इति । तत्समं द्रव्यं मुखादि सदृशं चन्द्रादि ॥ १९॥
,</p>
<pb n="64" />
<p>दीपिकाख्यव्याख्योपेतम् ।
अपि च लक्ष्मणं प्रति-</p>
<lg>
  <l>सौमित्रे दाववाह्निस्तरुशिखरगतो वार्यतां निर्झरौघैः</l>
  <l>का वार्ता दाववहेरय मुदयगिरेरुज्जिहीते हिमांशुः ।</l>
  <l>धत्ते धूमं हिमांशुः कथय कथमयं नैव धूमो धरण्या-</l>
  <l>श्छायेयं संगताऽभूदयि धरणिसुते कुत्र कान्तेसि सीते ॥ २० ॥</l>
</lg>
<p>भत्राप्युक्तिप्रत्युक्तिः । वार्यतां शाम्यताम् । उज्जिहीते उदयते । चन्द्रे श्यामत्व-
मालक्ष्याह - धूममिति । अयि इति कोमलामन्त्रणे ॥ २० ॥
रामः सकरुणं आत्मनि प्राणवल्लभायाः
परमप्रेमाणमधिगम्य -
S</p>
<note>५.]</note>
<p>शंके शशांके जगुरकमेके पंकं कुरंगं प्रतिबिम्बितांगम् ।.
धूमं च भूमण्डलमुद्धताग्नेर्वियोगजातस्य मम प्रियायाः ॥ २१ ॥
,
आत्मनि हृदये एके कवयः शशाङ्के चन्द्रे अङ्कं जगुः । 'अङ्कं पदे लक्षणे च
हरशिरः स्थानं तदभावादनुज्ज्वलत्वम् एके पङ्कं वियोगिदुःखदातृत्वजन्यपापं श्याम
मेव । 'अस्त्री पङ्कं पुमान्पाप्मा' इत्यमरः । एके अस्मिन्नेव प्रतिबिम्बिताङ्गं कुरङ्गमेतं
चन्द्रवाहनं मृगं जगुः। मृगप्रतिविम्वमिति । चशब्दात्पुनर्ग्रहणं प्रतिबिम्बिताङ्गं भूम-
ण्डलं जगुः उक्तवन्तः । उक्ताक्षेपोयमिति । अहं तु प्रियायाः सीतायाः सकाशा-
दुद्यतो योऽग्निस्तस्य धूमं शंके मन्ये । कीदृशस्योद्धताः । मम वियोगजातस्य २१॥</p>
<lg>
  <l>रेरे निर्दय दुर्निवार मदन प्रोल्फुल्लपंकेरुहा-</l>
  <l>न्वाणान्त्संवृणु संवृणु त्यजं धनुः किं पौरुषं मां प्रति ।</l>
  <l>कान्तासंगवियोगजातहुतभुग्ज्वालाप्रदग्धं वपुः</l>
  <l>शूराणां मृतमारणे नहि वरो धर्मः प्रयुक्तो बुधैः ॥ २२ ॥</l>
</lg>
<p>अथ सीतास्मरणादुच्छ्रितं काममाक्षिपति रेरे इति । रेरे निर्दय कृत्यज्ञानहीन
भी दुर्निवार दुराग्रह मदन ! पेरुहानेव बाणान् संवृणु संवृणु उपसंहरेति सम्भ्रमे
वीप्सा । नमेत्यध्याहारः । वपुः कान्तासङ्गस्य यो वियोगः तेन जातो यो हुतभुक्
अभिस्तस्य ज्वालाभिः प्रदुग्धमस्तीति । अन्यत्सुगमम् ॥ २२ ॥</p>
<pb n="65" />
<p>हनुमन्नाटकं -
अथवा-
आपुंखाग्रममी शरा मनसि मे मनाः समं पञ्च ते
निर्दग्धं मदनाग्निना वपुरिदं तैरेव सार्धं पुनः ।
us
[ अङ्क:-
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो
दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥ २३॥
कामव्यथामनुभूयान्यवियोगिनोनुकम्पयन्निवाह-आपुङ्खाग्रमिति । अथवा मां
प्रहर वाणान्मा संवृणु । हे काम, तेऽमी पश्चैव वाणाः क्षोभनमोहनशोषणविद्रावण
निलायनशीला: एते आपुङ्खामं यथा स्यात्तथा सममेकदैव मम मनसि हृदये मना :
सन्ति । इदं मदीयं वपुस्ते तव बाणैः सार्धं मदनाग्निना निर्दग्धं दुग्धपटवज्जातम् ।
यद्वा मदनेति संबुद्धिः । अग्निना वियोगाग्निना जातं पूर्व यज्जितं तज्जितमेव । पुन-
रपि अधुना हे काम, भवता जनो लोक: जेतुं शक्यो न । यतस्त्वं निरायुधोसि
दुग्धवाणत्वादन्यास्त्राभावाच कष्टं यथा स्यान्तथा एक एवाहं दुःखी स्यां त्वद्वाण-
शल्यमरणत्वात् । अन्यो लोकः सुखं जीवतु त्वदातकाभावात् ॥ २३ ॥
तत्रापि क्षणं विकसिताशोकतरुतले विश्रा-
म्याह स्म दाशरथि :-</p>
<lg>
  <l>रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै-</l>
  <l>स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।</l>
  <l>कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयो-</l>
  <l>स्तुल्यं सर्वमशोककेवलमहं धात्रा सशोकः कृतः ॥ २४ ॥</l>
</lg>
<p>हे अशोकवृक्ष, आवयोः सवै वृत्तं तुल्यं, परन्तु एतन्महद्वैलक्षण्यम् । यत्त्वं
अशोफः अहं धात्रा केनापि दुरदृष्टेन सशोकः कृतः प्रियाविरहितत्वात् । तुल्यत्व-
मेव द्योतयति—शिलीमुखा भ्रमराः वाणा अपि वा । स्मरधनुर्मुक्ताः पुष्पेभ्यो निर्मु-
क्ताः । पुष्पधन्वा उभयथा ग्राह्यः । अशोकः स्त्रोपादस्पर्शादलं विकसतीति श्रुतिः ।
रामेपि पादतलाहति: पद्माख्यवन्धाभिप्रायेण । तदुक्तं कामावतारे - 'घृतकपादा
जघने कुर्वन्त्यन्यपदाहतिम । शनैः शनैर्निधुवने पद्मबन्धस्तदा मतः ' इति ॥ २४॥
-</p>
<pb n="66" />
<note>५.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
पुनरपि प्रलपति-</p>
<lg>
  <l>हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।</l>
  <l>इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ २५ ॥</l>
</lg>
<p>.६७
सुगमम् । एतेन देवस्य दुर्लध्यत्वमुक्तम् ॥ २५ ॥</p>
<lg>
  <l>चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते</l>
  <l>माल्यं सूचिकुलायते मलयजो लेपः स्फुलिंगायते ।</l>
  <l>रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते</l>
  <l>हा हन्त प्रमदावियोगसमयः संहारकालायते ॥ २६ ॥</l>
</lg>
<p>चण्डकरो रविः तद्वदाचरति सूची वस्त्रवेधनलोहस्तत्कुलवदाचरति ' स्फुलिङ्गोऽ-
निकण: पुमान् ' इति विश्वः । एतत्पद्येन कुट्टमितं योतितम् । तदुक्तं रसोधौ-
'शशिपाटीरालेपं पङ्कजयाम्यानिलादिरुपयाति । सर्व दुःखदेतत्कुट्ट मितं तत्र सम्भ-
वति ' इति ॥ २६ ॥</p>
<lg>
  <l>मांस कार्यादभिगतमपां बिन्दवो वाष्पपाता-</l>
  <l>चेजः कान्तापहरणवशाद्वायवः श्वासदैर्ध्यात् ।</l>
  <l>इत्थं नष्टं विरहवपुषस्तन्मयत्वाच शून्यं</l>
  <l>जीवत्येवं कुलिशकठिनो रामचन्द्रः किमेतत् ॥ २७ ॥</l>
</lg>
<p>: तद्विरहे प्राणधारणादावात्मनि काठिन्यं प्रारब्धावश्यभोगत्वं दर्शयति मांसमिति ।
इत्थमुक्त प्रकारेण विरहवपुषः तस्मात्सकाशात्सर्वं तत्त्वजातं नष्टम् । एवं तत्त्वाभावेऽ-
पि सति रामचन्द्रो जोवति । यतः कुलिशकठिनः वज्रवत्कठिनहृदयः एतत्किमत्या-
श्चर्यम् । एतेन प्रारब्धावश्यभोगत्वं दर्शितम् । तत्त्वनिर्गमप्रकारमाह - अभिनवं स्व-
'सहचरं मांसं नष्टमभूत् । अविरलवाष्पपातादपां विन्दवोऽपि नष्टाः । कान्तापहरण-
वशात्तेजो नष्टं तेजोनाशः । श्वासदैर्ध्याद्वायवो नष्टाः । तन्मयत्वात्सीतागतान्तर-
त्वात् शून्यं आकाशनाशः । उक्तं च सिद्धान्तमुक्तावल्याम्-' तस्मिन्यत्कठिनत्वं सा
'भूस्तज्जलं यद्द्रवात्मकम् । तेजो भवद्यदुष्णं तत्संचरेद्यः स मारुतः । सुषिरं यत्तदा-
'काशमिति पश्चात्मकं वपुः' इति । कारणाभावात्कार्यस्याप्यभाव इति न्यायादत-
कार्येन्द्रियगणोऽपि नष्ट इति । उक्तं च तत्रैव-' श्रवणौ व्योमतो वायोस्त्वङ् नेत्रे</p>
<pb n="67" />
<p>[ अङ्कः-
-</p>
<p>हनुमन्नाटकं -
तेजसो जलात् । रसना भूमितो घ्राणमिति पञ्चेन्द्रियोद्भवः' । इति ग्राहकाभावे
ग्राह्यस्याप्यभाव इति न्यायादिन्द्रियग्राह्यविषयाणामप्यभावः । एतेन वाय्वादिपञ्चकं
इन्द्रिय पञ्चकं विषयपञ्चकं च नष्टमिति ध्वनितम् । कर्मेन्द्रियाणां लयो वायावेव
तेषां प्राणशक्तिमत्त्वात् । मनोबुद्धिचित्ताहंकाराणां पृथिव्यप्तेजोवायूनां सात्त्विकांशे-
भ्यो जातानामतस्तेषां पृथिव्यादिष्वेवान्तर्भावस्तदद्भावे तेषामप्यभावः । अतश्चतुर्वैि-
शतितत्त्वविगमेऽपि यज्जीवति तदाश्चर्यमिति ॥ २७ ॥
सलक्ष्मणो रामः-
एवं दैवयोगागौरंगवयगजभुजंगशरभशार्दूलकोलबहुल-
कोलाहलाहूतभूतवेतालसमुत्तालकालकरालचक्र वालकण्ठ-
नालप्रोच्छलत्तुमुलघार चीत्कार मिलितबहलान्धकारकलि-
तगहरान्तरालविलसदविरलसरलपरिमलवहलचञ्चलग-
लद्विमलमकरन्दबिन्दुकीलालजालपिच्छलालवाललुलित-
प्रमत्तालिमालमंदानिलान्दोलवाचालदरदलितललितमाक-
न्दवृन्दवकुलमुकुलिधूलिजाल खेलत्कोकिलकुलविलासिनी-
कोमलालापनिखिलगिरिशिखरशिखिलास्थलीलाकलाप-
सानुकूललोलगोलांगूलचञ्चञ्चकोरचक्रमन्जुगुअवृक्षपक्षिणी-
पक्षवृद्धिम् ।
पाटव वर्णनादपूर्ति मन्यमानः कविर्गद्यत्रयं वर्णयति एवमित्यादिना । अत्र
लोकचतुष्टयस्यैक एव योगः । एवं दैवयोगाटवीमटन्महावराहस्कन्धारूढं वामतो
विलोक्याह - स्मराम इति अग्रिम लोकेनान्वयः । कीदृशी अटवी । एवं पूर्वरीत्या
दैवयोगाद्विधिवशाद्भुजङ्गश्चित्रमृग: 'भुजङ्गा सर्पचित्तलौ ' इति धरणिः । शरभो-
ऽष्टापदः, कोलो वराहः ' वराहः सूकरो घृष्टिः कोल: पोत्री किरिः किटि:' इत्यमरः ।
गवयाहिकोलान्तानां कोलाहलेनाहूता ये भूता वेतालाश्च रुद्रगणभेदास्तेपा समुत्तालाः
ये फालवत्करालाः भयङ्कराञ्चक्रवालानि मण्डलानि ।' चक्रवालं तु मण्डलम्' इत्य-
मरः । समूहा इत्यर्थः । तेपां कंठनालेभ्यः प्रोच्छलत्प्रकटीभवत्तुमुलो व्यक्तो घोर-
चीत्कारस्तस्मान्मिलितो यो बहलान्धकारस्तेन कलिता वेष्टिता ये गहराणामन्तराला</p>
<pb n="68" />
<note>५.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>मध्यप्रदेशास्तेभ्यो विलसत् योऽविरलः सरलपरिमल: बहुतरसरलवृक्षगन्धः तयुक्तो
ये बहुला बहुतरा गलन्तः स्वच्छमकरन्दविन्दवस्त एव कीलालजालं जलपूरम् 'पयः
कीलालममृतम् ' इत्यमरः । तेन पिच्छिला पूर्णा ये आलवाला वृक्षमूलगर्ता: तत्र
लुलिता लुब्धा ये मत्ता अलयो मत्तभ्रमरास्तेपां मालाः पतयः एताभित्र परं
मन्दानिलान्दोलनेन वाचालानि शब्दितानि दरं दलितानि फुल्लानि ललितानि यानि
वकुलमुकुलानि तेपु खेलन्त्यो याः कोकिलकुलविलासिन्यस्तासां कोमलालापेन
निखिलानि पूर्णानि वृशिखराणि तेपु मयूरनर्तनलीलासमूहस्तस्य सानुकूलनर्तनो-
त्साहहेतव इतस्ततश्चलन्तञ्चकोरास्तेषां चक्रेण युक्तं यथा स्यात्तथा गुञ्जन्त्यो याः
वृक्षस्थाः पक्षिण्यस्तासां पक्षस्य आत्मवर्गस्य वृद्धिर्यस्यां तामटवीमटन्नित्यप्रिनेणा-
न्वयः ।
गगन चुम्बनबद्धलक्ष्यविपुलफलाभारावलम्बनालम्बितान-
तजन्तुसंतोषपोषनिर्दोपभूषणाध्युषितनिःशेषसविशेषामृत-
वर्षस्पर्धिवर्धिष्णुरसरसालप्रियालहिन्तालतमालकृतमालवि-
शालशाल्मलमालूरशल्लकीशिरीषासनशमीशाकाशंशपाशो-
कचम्पकसुरदारकोविदारकर्णिकारसिन्दुवारबहुसारनिम्ब-
जम्बूदुम्बरकदम्बकरअसौभाअनवकुल निचुलकरुखर्जूरबी-
जपूरजम्बीरभाण्डारवानीरकाश्मीरनारङ्गकर्मरङ्गकदलीच-
न्दनालिंगितालवली
धात्रीवटकुटजपाटकाङ्कोलकंकोलचोल-
भल्लातकबिभीतक हरीतक्याम्रातक केतक कंकतवैकेंकतमधूकब-
न्धूकजयन्तीजपाश्वत्थकपित्थति न्तिणीनागकेसरादिदुस्तरा-
मरण्यानीं पर्यटन्महावराहस्कन्धारूढमुत्कटं रटन्तं करटं
वामतो विलोक्य ।
पुनरपि अटवीमेव वर्णयति पुनः फिंविशिष्टामटवीम् । गगनचुम्चने आकाशावं-
--
लोकने वज्रं लक्ष्यं यैस्ते उन्नतवृक्षास्तेषां ये विपुला : फलभारास्त एवालम्बनं तत्राव-
लम्विता ये अनन्ता जन्तवस्तेषां सन्तोषपोष एव निर्दोषभूपणं येषां तेष्वध्युषितः
स्थितो यो निःशेपः पूर्णः सविशेषो विविधस्वादुरमृतवर्षस्पर्धी अमृतादपि रमणीयो
4</p>
<pb n="69" />
<p>हनुमन्नाटकं -
[ अङ्क:-
वार्धष्णुः प्रतिदिनं वर्धमानो यो रसस्तद्युक्ता ये रसालादयस्तैर्दुस्तराम् 'राज दनः
प्रियाल: स्यात् ' इत्यमरः । हिंतालो हिंगोटकः । कृतमालः कर्णाचलः । मालूरो
बिल्वः । कोविदारञ्चमरिकः । सिन्दुवारः बहुसारः सप्तपर्ण: । 'सौभाञ्जने शिशु-
तीक्ष्णगन्धकाक्षीवमोचका: ' इत्यमरः । ' निचुलो हिज्जलोम्बुजः । मञ्जिष्ठा रोम-
रङ्गोत्री कर्मरङ्गोगरुः पुमान् ' इति धरणिः । अन्लातकोऽम्लवेतः । वैकङ्कतः कङ्क-
तिकः । उत्कटं यथा स्यात्तथा रटन्तं करटं काकं वामतो वासभागे । ' काके तु
करटारिष्ट ' इत्यमरः ।
दक्षिणतस्तु दक्षिणाचलप्रचलितमलयमालतीमरुचकलवङ्ग
कंकोलदमनकजातीतगरशतपत्रादिकमलमुकुलकुमुदिनीक -
हारपरिमलमिलितचुम्चितताम्रपर्णीकावेरी तुङ्गभद्रासान्द्र-
गम्भीरनीरधारातरङ्गपरिपीतमैत्रावरुणतरुणीलंकाशशांक-
रुद्रपादाद्रिस रलसिंहलसालक श्रीगोपालकां पाण्ड्यमण्डल-
गिरिप्रवालचोलकुन्तलकेरलपुन्नाटककर्णाटककरहाटविद-
ग्धान्ध्रकामिनीनीरन्ध्रपीनस्तनवदन घनजघनदोर्मूलधम्मि-
लभारान्तराधिष्ठितश्रीखण्डागरुकर्पूरमृगमदकुंकुमस्तोमसंभू-
तयक्षकर्दमविमर्दवर्धित विविधगन्धकुसुमबहुलपरिमलोद्गा-
रिमारुताशनोत्थितक्षीरनीहारकाश्मीरस्फटिकशुद्धशंखकर्पू-
रकुन्दावदातमहाभुजंगस्फतिफूत्कारप्रफुल्लफणामणौ क्री-
उन्तं शोकभञ्जनं खञ्जनं चावलोक्य वामेनाक्ष्णा सकरुणं
सवाष्पं च दक्षिणेन सविस्मयं सानन्दमभवदिति ।
राम: सविस्मयं यथा स्यात्तथा दक्षिणभागे खञ्जनमवलोक्य सानन्दं यथा
स्यात्तथा अभवदिति शोकभञ्जनं काकदर्शनाशुभहरं च । पुनः । वामेनाक्ष्णा कार्क
दृष्ट्वा सवाष्पं सकरुणं चः यथा स्यात्तथा सीदतीत्यन्वयः । कीदृशं खञ्जनम् । एवं-
भूतसर्पफणामणौ क्रीडन्तम् । दक्षिणाचलेभ्यः प्रचलिताः प्रसारिता यें मलयसम्ब-
न्धिनो मालत्यादयस्तेषां यः परिमलस्तस्य मीलनमेकीभावस्तेन चुन्विता युक्ता या
कावेर्यादिनद्यस्तासां सान्टा गभीगा या नीरधारास्तासां तरङ्गैः परिपीता मैत्रा..</p>
<pb n="70" />
<p>J</p>
<note>५. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>वरुणस्यागस्त्यस्य तरुणी कान्ता सा च लङ्कापर्यन्तदेशविशेषाणां कामिन्यश्च तासां
नीरन्ध्रपीनस्तनादिभारान्तरालेषु अधिष्ठितो यः श्रीखण्डादिसम्भूतयक्षकर्दमस्तेन
विमर्दः सम्मर्दस्तस्माद्विवर्धितो यो विविधगन्धञ्चासौ कुसुमानां बहुपरिमलच तयोः
समुद्रारी प्रक्षेपको यः मारुत एवाशनं भोजनं यस्य स चासौ उत्थितः अर्धोदय-
श्वासौ क्षीरनीहारकाश्मीरस्फटिकशुद्धशंख कर्पूरकुन्दावदातः श्वेतोज्ज्वलश्वासौ महा-
भुजङ्गश्च तस्य स्फीताः ये फूत्काराः तैः प्रफुल्ला या फणा तस्याः मणौ शिखरे
क्रीडन्तम् ।</p>
<lg>
  <l>काकः कपोलस्थलसंस्थितो मे कोलस्य वामे व्यसनं सदौस्थ्यम् ।</l>
  <l>राज्यं भुजंगस्य फणाधिरूढो व्यनक्त्य हो दक्षिणखञ्जरीटः ॥ २८ ॥</l>
</lg>
<p>क्षणं विचिन्त्य विश्रम्य च सबाष्पम्-</p>
<lg>
  <l>भो भो भुजङ्ग तरुपलवलोल जिह्व</l>
  <l>बन्धूकपुष्पवरशोभितपुष्कराक्ष ।</l>
  <l>पृच्छामि ते पवनभोजनकोमलांगी</l>
  <l>काचित्त्वया शरदचन्द्रमुखी न दृष्टा ॥ २९ ॥</l>
</lg>
<p>भुजङ्गमः सुवाणीं कथयति-</p>
<lg>
  <l>गता गता चम्पकपुष्पवर्णा पीनस्तनी कुंकुमचर्चितांगी ।</l>
  <l>आकाशगंगेव सुशीतलांगी नक्षत्रमध्ये इव चन्द्ररेखा ॥ ३० ॥</l>
</lg>
<p>कोलस्य वराहस्य कपोलस्थलसंस्थितः स्कन्धमवलम्वितः सदौस्थ्यं समनोनवस्था-
नम् अहो एतदाञ्चर्यमेकदैवार्थद्वयसूचकशकुनत्वात् । दुःस्थितस्य भावो दौःस्थ्यं तेन
सह वर्तमानम् ॥ २८ ॥ २९ ॥ ३० ॥</p>
<lg>
  <l>रामः-</l>
  <l>व्यसनं किमतोऽप्यास्ते ज्ञातश्वाभ्युदयो मम ।</l>
  <l>-</l>
  <l>शरणं मरणं राज्यं मा पुनर्लक्ष्मणेऽस्तु तत् ॥ ३१ ॥</l>
</lg>
<p>ममाभ्युदयो ज्ञात एव उपस्थितराज्यभङ्गात्तर्हि दुःखं भवतु तत्राह - अतः सीता-
वियोगादपि अधिकं व्यसनं किमास्ते ? न किमपीति । मम तु मरणमेव शरणं चे-
त्पुना राज्यं स्यात्तर्हि लक्ष्मणे अस्तु तद्व्यसनं लक्ष्मणे मास्तु ॥ ३१ ॥</p>
<pb n="71" />
<p>(2
हनुमन्नाटकं -</p>
<lg>
  <l>ततो वामं तिरस्कृत्य पुरस्कृत्य च दक्षिणम् ।</l>
  <l>धन्यो वन्यशरण्यां तामरण्यानीं स्म गाहते ॥ ३२ ॥</l>
</lg>
<p>वामं अशुभसूचकं काकं दक्षिणं शुभसूचकं खञ्जरीटम् । 'महारण्यमरण्यानीं
इत्यमरः । ततो वनान्तरे भ्रमन्किष्किंधामधिश्रित्य ॥ ३२ ॥</p>
<p>[ अङ्क:-
किं च-
किष्किन्धाद्रौ रौद्ररुद्रावतारं दृष्ट्वा रामो मारुतिं वाचमूचे ।
.सीता नीता चेनचित्कापि दृष्टा हृष्टः कष्टं संहरन्प्राह वीर: ३३
किष्किन्धा गुहा तद्युक्तोऽद्रिः किष्किन्धाद्रिस्तत्र रौद्ररसाश्रयो रौद्रः एतादृशो
यो रुद्रः तदवतारम् । भो मारुते, केनचित्पापेन सीता नीता हृता । एतच्छ्रुत्वा हृष्टः
यातरोषो हनुमात्रामं कष्टं सम्परिहरन्नाह ॥ ३३ ॥</p>
<lg>
  <l>पापेनाकृष्यमाणा रजनिचरवरेणाम्बरेण व्रजन्ती</l>
  <l>किष्किन्धाद्रौ मुमोच प्रचुरमणिगणैर्भूषणान्यर्चितानि ।</l>
  <l>हा राम प्राणनाथेत्यहह जहि रिपुं लक्ष्मणेनालपन्ती</l>
  <l>यानीमानीति तानि क्षिपति रघुपुरः कापि रामाञ्जनेयः ॥ ३४ ॥</l>
</lg>
<p>पापेनेति । किष्किन्धाद्रौ आञ्जनेयो हनुमानिति तान्याभरणानि रघुपतिपुरः
चिक्षेप । तानि कानीत्याह । अन्त्ररेण आकाशमार्गेणाकृष्यमाणा कापि रामा यानि
किष्किन्धाद्री मुमोच ॥ ३४ ॥
रामः सकरुणं सबाष्पम्-
MODE</p>
<lg>
  <l>जानक्या एव जानामि भूषणानीति नान्यथा ।</l>
  <l>वत्स लक्ष्मण जानीषे पश्य त्वमपि तत्त्वतः ॥ ३५ ॥</l>
</lg>
<p>लक्ष्मणः सबाष्पम्-</p>
<lg>
  <l>कुण्डले नैव जानामि नैव जानामि कङ्कणे ।</l>
  <l>नूपुरावेव जानामि नित्यं पादाभिवन्दनात् ॥ ३६ ॥</l>
</lg>
<p>अन्यथा सं देहम् । तत्त्वतः सीतायाः सन्ति न वेति ॥ ३५ ॥ ३६ ॥</p>
<pb n="72" />
<note>५..].</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
रामः आभरणानि हृदये विन्यस्य गाढमालिंग्य-</p>
<lg>
  <l>सर्वेषु सत्स्वपि तवाभरणेषु हारो</l>
  <l>नारोपितो हृदि चिरं हृदयंगतोऽपि ।</l>
  <l>मुक्तार्थसूत्रगुणवेधविशुद्धराशि-</l>
  <l>स्तत्पंक्तिभेदफलदारुण मित्यरोदीत् ॥ ३७ ॥</l>
</lg>
<p>तावन्मात्रान्तरासहत्वान्नार्पितः । कीदृशो हारः । मुक्तार्थ मौक्तिकार्थ यः सूत्र-
गुणो डोरकस्तयुक्ता ये वैधकाः छिद्राणि तत्र विशुद्धा सा रत्नराशिः समूहो यस्य
सः अत एव दुःखं पंक्तिभेदफलेन दारुणम् । इति रुरोदेत्यर्थः ॥ ३७ ॥
पुनरपि -</p>
<lg>
  <l>अहह जनकपुत्री व मुद्रामपश्य-</l>
  <l>. न्व्रजति परमहंसो नाक्षमो वापि गन्तुम् ।</l>
  <l>तदुरुविरहवह्निज्वालया दग्धदेहः</l>
  <l>किमुत पवनसूनोभूषणैस्तम्भितो मे ॥ ३८ ॥</l>
</lg>
<p>मे
पुनरपि स्वजीवनेऽपि विचिकित्सति - अहहृति खेदे । हे पवनसूनो, मे मम परम-
हंसः परमात्मा जीव एव हंसः एतद्देहं विहाय न व्रजति तत्किम् ? गमने हेतुमाह-
जनक पुत्रीति । सोन्ततः त्वद्दत्तभूषणैस्तम्भितः उत अथवा गन्तुमक्षमः । अत्र हेतु-
माह - तदुरुविरहेति ॥ ३८ ॥
हनुमान्सानुनयम्-</p>
<lg>
  <l>श्रीराम क्षोणिपाल त्यज निजदयिताशोकमेकः सलोंक</l>
  <l>लंकेशं जेतुमीशे तमपि कपिपतेराज्ञयाहं हनूमान् ।</l>
  <l>सुग्रीवस्याथ सार्धे गिरिमवतरणं पादविन्यासलक्ष्मी-</l>
  <l>निक्षेप/दुत्पलाक्ष क्षपितरिपुबलं दर्शनं त्वं च देहि ॥ ३९ ॥</l>
</lg>
<p>तमपि विश्वजयिनं सलोकं लङ्कावासिराक्षससहितं कपिपतेः सुग्रीवस्य रावणस्तु
हनिष्यत एव । अथवा तावत्वं सुग्रीवस्यावतरणं, अवतीर्यते यस्मिन्नित्यंवतरणम् ।
वासस्थानगिरिं पादेविन्यासलक्ष्मीनिक्षेपात्साथै विधेहीति । कीदृशं गिरिदर्शनात्त्व-
दवलोकनादेव निरस्तशत्रुपक्षम् ॥ ३९ ॥
p</p>
<pb n="73" />
<p>[ अङ्कः-
हनुमन्नाटकं -</p>
<lg>
  <l>ततो हनूमान्सह लक्ष्मणेन रामेण सुग्रीवपुरः स्थितोऽभूत् ।</l>
  <l>तांस्तत्र साक्षात्क्रपियूथनाथः पापानि दग्धुं दहनं ददर्श ॥ ४० ॥</l>
</lg>
<p>रामेण सह । कीदृशेन रामेण । सह लक्ष्मणेन लक्ष्मणस हितेनेत्यर्थः । तान्हनूम-
द्रामलक्ष्मणान्दक्षिणाग्निगार्हपत्याहवनयान् ॥ ४० ॥</p>
<note>७४.</note>
<lg>
  <l>श्रुत्वा रामस्य कान्ताहरणमनिलंजस्याननाद्वानरेन्द्रो</l>
  <l>निःश्वस्यात्मीयमस्यानुवदति पुरतस्तवलाद्वालिनोपि ।</l>
  <l>हा नाथे विद्यमाने किमिति रघुपतिस्तं निहन्तुं प्रतिज्ञा</l>
  <l>मारूढः प्रौढरोषानलबहलकलालंकृतोऽधिज्यधन्वा ॥ ४१ ॥</l>
</lg>
<p>श्रुत्वेति । वानरेन्द्रः सुग्रीवः अस्य रामस्य पुरतोऽग्रिमवलादेव वालिनः सकाशा--
त्तत्प्रसिद्धमात्मीयजायाहरणश्रवणं लक्षीकृत्य वदति । रघुपतिः । तं वालिनम् । इति
किम् । कान्तापहरणदुःखानुभावज्ञत्वात् । अन्यत्सुगमम् ॥ ४१ ॥</p>
<lg>
  <l>नत्वा ससंभ्रममथो जगदेकवीर-</l>
  <l>मालिंगयत्रघुपतिं शुशुभे कपीन्द्रः ।</l>
  <l>तद्विस्मृतं पुनरिवाभ्यसते प्रियायाः</l>
  <l>कन्दर्पके लिषु पुनद्भुतभाविनीषु ॥ ४२ ॥</l>
</lg>
<p>नत्वेति । ससंभ्रमं सादरं विस्मृतं चिरं वियोगात्तत्प्रियाया आलिङ्गने कृतप्रतिज्ञे.
रामे द्रुतभाविनीषु शीघ्रभाविनीषु । अन्यत्सुगमम् ॥ ४२ ॥
सुग्रीवः-
अये मरुत्तनय कोऽसौ चतुर्णां ताटकान्तकः
मारुतिः-
ये चत्वारो दिनकरकुलक्षत्रसन्तान वल्ली-
मालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः ।.
रामस्तेषामभवदमलस्ताटकाकालरात्रि-
प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥ ४३ ॥
d
J</p>
<pb n="74" />
<p>9. ]
दीपिकाख्यव्याख्योपेतम् ।
ये चत्वारो रामभरतलक्ष्मणशत्रुघ्नाख्यां राजपुत्रा दशरथसुता: जज्ञिरे, तेषां
चतुर्णी मध्ये रामस्ताटकैच कालरात्रिस्तस्याः प्रत्यूपोऽयं रामः । तद्धन्तायमित्यर्थः ।
ननु स्त्रीवधात्सागाः किन्नत्याह-अमल इति । अमलत्वे हेतुः-सुचरितं पुण्यार्थ चरितं
तस्य कथा नानाविनोदपरिहारवाक्यैर्गुणकथा सैव कन्दली तस्याः मूलस्यापि कन्दः
प्रसरणशीलानि मूलानि तन्निदानमध्यो प्रन्थिः कन्दः । यथा छिन्नापि कदली
उत्पद्यते एवमाच्छिन्नोऽपि धर्मो यतः पुनः पुनरुत्पद्यते । सर्वे कीदृशा इत्यपेक्षाया-
माह - दिनं करोतीति दिनकरस्तस्य कुले जातानां क्षत्रियाणां सन्तान एव वल्ली तस्या
माला परम्परा तस्या अम्लानस्तबकः पुष्पगुच्छ तेषां मधुपाः । रविवंशक्षत्रिय-
यशोवतंसमधुपा इत्यर्थः ॥ ४३ ॥
-
ततः-</p>
<lg>
  <l>श्रुत्वा बाली तदनु महतीं राघवस्य प्रतिज्ञां</l>
  <l>तालान्तप्त प्रकृतिकुटिलान्प्रेरयामास योद्धुम् ।</l>
  <l>सौमित्रिस्तानकृतसरलाञ्शेष पृष्ठस्थमूला-</l>
  <l>न्भारेणांघेरथ रघुपतिः संदधे दिव्यमत्रम् ॥ ४४ ॥</l>
</lg>
<p>अजेयानां हननकर्तृत्वान्महतीमित्युक्तम् । तालांस्तालवृक्षान्तर्गतदैत्यानेव । सौ-
मित्रिः अंप्रेभरेण चरणांगुष्ठाविष्कृतभूभारेण सरलानकृत । अत्र हेतुः - शेषपृष्ठस्था-
नि मूलानि येषां ते तान् । एतेनैवमुक्तं भवति । कुण्डलीभूतदेहशेषपृष्ठस्थमूलत्वात्
तेऽपि प्रकृतिकुटिला इति । कार्य निदानं हि गुणं विधत्ते इत्युक्तत्वात् । चरण-</p>
<lg>
  <l>भारेण शेषशिरः समाक्रमणात् सरलतया वृक्षा अपि सरला जाता इति सूचितम् ।</l>
  <l>शेर्पा सुगमम् ॥ ४४ ॥</l>
</lg>
<p>लक्ष्मणः सशंकं रामं प्रति । देव ज्ञात्वा बाणः प्रहर्त्तव्यः ।</p>
<lg>
  <l>यतः - एकदैव शरेणैकेनैव भिन्नकलेवराः ।</l>
  <l>म्रियन्ते सप्त तालास्तं घ्नन्ति हन्तारमन्यथा ॥४५॥</l>
</lg>
<p>अन्यथा एकदैव सप्तानामपि हुननाभावे तत्रापि एकेनैव बाणेन ॥ ४५ ॥
रामः सावज्ञम् -
मा भैषीर्मयि सौमित्रे राघवेऽधिज्यधन्वनि ।
सतां देहं परित्यज्य निर्जगामासत भयम् ॥ ४६ ॥ : .
.</p>
<pb n="75" />
<p>हनुमन्नाटकं -
भयं स॒ता॑ दे॒हं त्यक्त्वाऽसतां देहं निर्जगामेति । अतः परदारहरणत्वाद्वालिनस्तत्र
अयमिति भावः ॥ ४६॥
रामः करेण बाणमालभ्य-</p>
<lg>
  <l>भावोऽस्ति चेत्कुशिकनन्दनपादयोर्मे</l>
  <l>यद्यस्म्यहं द्विज तिरस्कृतिरोषहीनः ।</l>
  <l>नान्यांगनासु च मनः शर सप्त ताला-</l>
  <l>न्भित्त्वा तदा प्रविश भूतलमप्यगाधम् ॥ ४७ ॥</l>
</lg>
<p>द्विजैः कृता या मे तिरस्कृतिस्तया यो रोषस्तेन हीनः । यद्वा द्विजानां तिरस्कृति-
स्तेषु रोषञ्च तद्रहितः ॥ ४७ ॥</p>
<lg>
  <l>एकेनैव शरेण बालकदलीकाण्डप्रभंगक्रमा-</l>
  <l>त्कृत्तेषु प्रथमेषु दाशरथिना तालेषु सप्तस्वथ ।</l>
  <l>अश्वाः सप्त जगन्ति सप्त मुनयः सप्ताब्धयः सप्त गाः</l>
  <l>सत्यं सप्त च मातरो भयभृतः संख्यानसाम्यादिह ॥४८॥</l>
</lg>
<p>सुगमम् । एते भयभृत आसन्नित्यन्वयः । तानाह- अश्वा रवेः सप्तगा: सप्तद्वीपाः ।
' गकारो गगनद्वीपगणेषु च गणेऽपि च ' इति संसारावर्तशब्दशासनः ॥ ४८ ॥
रामबाणः सक्षोभम् -</p>
<lg>
  <l>बाणः प्रमाणमधिगम्य वसुंधरायाः</l>
  <l>संबोधयन्निव भुजङ्गमभङ्गभीत्या ।</l>
  <l>ब्रह्माणमम्बर चरान्विधुनोति पक्षा-</l>
  <l>नपुंखावशेष इति रामकराद्विमुक्तः ॥ ४९ ॥</l>
</lg>
<p>रामकराद्विमुक्तौ बाणः पुंखावशेषः सन् इति पक्षान्विधुनोति कम्पयति । इतीति
किम् । सुजङ्गमः शेषस्तद्भङ्गभयेन अम्बरचरं ब्रह्माणं वोधयन्निव ॥ ४९ ॥</p>
<pb n="76" />
<p>दीपिकाख्यव्याख्योपेतम् ।
पौरंदरिः सकोधम् -</p>
<lg>
  <l>श्रुत्वा हतान्समरमूर्धनि सप्त ताला-</l>
  <l>त्रामेण पापहृदयेन विनापराधम् ।</l>
  <l>कोपानलज्वलितहत्कमलोग्य बाली</l>
  <l>रङ्गावतारमगमगिरिचत्वरेषु ॥ ५० ॥</l>
</lg>
<lg>
  <l>विनापराधं हननमेव पापं तयुक्तहृदयेन परकान्तापहरणत्वं वानराणामभेदत्वात्।</l>
  <l>यद्वा ' पापोऽस्त्री क्रोधपयो: ' इति विश्वात्क्रोधयुक्तहृदयेनेत्यर्थः ॥ ५० ॥</l>
</lg>
<p>तारा सहर्षम् -
अवश्यं भगवतः श्रीपुरुषोत्तमस्य रामचन्द्रस्य प्रसादादय
चिरविरहिणः प्राणवल्लभस्य सुग्रीवस्य वक्षःपीठे लुठि-
प्यामीति मन्यमाना गिरिवरशिखरमारुह्य रामपौरन्दरि-
समरमाकांक्षती चिन्तयामास-</p>
<note>५.]</note>
<p>तारा संत्यक्तहारा गिरिशिखरचरा स्रस्तधम्मिल्लभारा
शोकाब्धिप्राप्तपारार्पित मदनशरा वीरसुग्रीवदाराः ।
नारा नाराचधारा निजरमणरता तापिनः पापिनोऽस्य
प्राणाञ्छाणावतीर्णा हरतु कलिकलाशालिनो बालिनोऽद्य ५१
तारेति । चिन्तयामासेति पूर्वेणान्वयः । इति किम् । अस्य वालिनः प्राणान्
हरतु । कलिकला कलेरंशः पापं तेन राजमानस्य । किलेति पाठे वानरजात्यनुकरणं
किलकिलशब्दः । कीदृशी तारा । स्रस्तः धम्मिलः केशबन्धनं यस्याः । नरो रामस्त-
स्यैषा नारा रामस्य बाणधारेत्यर्थः ॥ ५१ ॥
-
रामः सक्षोभं पौरन्दरिं गिरिगरिमगम्भीरमहिमानमव-
लोक्य सौमित्रिमित्रमनुस्मृत्याब्रवीत् वत्स-
किं वाली वानराली वहलकलकलाहूतदेवेन्द्रवज्रं
वाञ्छत्याकृष्य योद्धुं शिवशिव तुमुलोत्कालसंचालितार्कः ।</p>
<pb n="77" />
<p>हनुमन्नाटकं -
[ अङ्क:-
चण्डदोर्दण्डकाण्ड -
प्रोलांगूलवल्लीशिखरकवलितं
भ्रान्तामूलाग्रशैलप्रहरणनिपुणः केन योद्धव्य एषः ॥ ५२ ॥
हे वत्स, एषः वाली केनायुधेन योद्धव्यः ? यद्वा केन वीरेण योद्धव्यः ? न
केनापति ध्वनिः । एषः कः । वानरपंक्तीनां वहलो यः कलकलः शब्दः तेन चाहूतो
देवेन्द्रस्तस्य वज्रमाकृष्य आदाय योद्धं वाञ्छति । शिवशिवेति खेदे । कीदृगयम् ।
तुमुलोन्यैरलक्ष्यः उत्कालः कदनं तेन सञ्चालितोऽर्को येन । किंभूतं वज्रम् । प्रक-
र्घेणोद्यन्ती या लांगूलवल्ली तस्याः शिखरेणाग्रभागेन कवलितं गृहीतम् । किंभूतो
वाली । चण्डः अजेयः दोर्दण्डो भुजदण्डस्तस्मिन्यः कोदण्डो बाणः तेन भ्रान्तो
गर्वितः दोर्डण्डस्थवाणेन जातगर्व इति । ' गर्वसंशययोर्भ्रमः' इति विश्वः । मूलं
चाम्रं शिखरं च मूलाग्रे ताभ्यां युतः शैलः मूलाग्रशैलस्तेन यत्प्रहरणं तन्त्र निपुणः ॥
सावष्टम्भं नारायणं बाणमादाय -</p>
<lg>
  <l>वेदोद्भवैर्द्विजगणेन पुराभिषिक्तो</l>
  <l>मूर्ध्ना समं त्वमपि बाणगुणेन मन्त्रैः ।</l>
  <l>तत्तेजसा परवधूजनहारिणस्त्वं</l>
  <l>प्राणान्गृहाण समरेष्वतिदारुणस्य ॥ ५३ ॥</l>
</lg>
<p>हे बाण, पुरा द्विजगणेन वेदोद्भवैर्मन्त्रैः गुणेन समं त्वं मूर्धाभिषिक्तोऽसि ।
अतस्तत्तेजसा तेषां मन्त्राणां तेजसा । सुगमम् ॥ ५३ ॥
-
रामबाणः - पौरन्दरिश्च ब्रह्मतेजोभिगम्य परदारापहरण-
पराभवं च-</p>
<lg>
  <l>अथ रघुपतिबाणः प्राप्तवरिप्रमाणः</l>
  <l>प्रलयदहनरोचिः कोटिविद्युन्मरीचिः ।</l>
  <l>अकृत हृदयभेदं वालिनः सोऽप्यरोदी-</l>
  <l>दनिहतपितृशत्रुः किं सशल्यो हतोऽस्मि ॥ ५४ ॥</l>
</lg>
<p>अथेति । प्राप्तवीरस्य वालिनः प्रकर्पेण मानमियत्ता येन सः । न निहतः पितु-
रिन्द्रस्य शत्रुः रावणो येन सः अत एव सशल्यो रावगहननमव शल्यम् ॥ ५४ ॥</p>
<pb n="78" />
<p>दीपिकाख्यव्याख्योपेतम् ।
रामः सकरुणं सविषादं च -
वत्स सौमित्रे गिरिगह्वरेषु स्वयोनिविहितं महत्सुखमनुभवन्तं
महावीरं अनपराधिनं वालिनं हत्वा मन्दभाग्यः कथमहं
जानकी सुखमनुभविष्यामीति शिरो धुन्वन्पौरन्दरिं व्याजहार-
शस्त्रौघप्रसरेण रावणिरसौ यो दुर्यशोभागिनं</p>
<lg>
  <l>चक्रे गौतमशापयन्त्रित</l>
  <l>भुजस्थेमानमाखण्डलम् ।</l>
  <l>कक्षागतकुलीरतां गमयता वीर त्वया रावणं</l>
  <l>तत्संमृष्टमहो विशल्यकरणो जागर्ति सत्पुत्रता ॥ ५५ ॥</l>
</lg>
<p>वाली प्राणांस्त्यक्तुमिच्छन्-</p>
<lg>
  <l>सुग्रीवोऽपि क्षमः कर्तुं यत्कार्यं तव राघव ।</l>
  <l>किमहं न क्षमः कस्मादपराधं विना हतः ॥ ५६ ॥</l>
</lg>
<p>भोः कपे, यः रावणापत्यं मेघनादः शस्त्रौघप्रसारेण शस्त्रत्राताडम्वरेण आखण्ड
लमिन्द्रं दुर्यशोभागिनं चक्रे । रावणिना शक्रो जित इति दुर्यशः । हे वीर, तत्
इन्द्रगतं दुर्यशो त्वया संमृष्टं उज्ज्वलीकृतम् । दूरीकृतमिति भावः । कथं दूरीकृत-
मित्यपेक्षायामाह-किंभूतेन त्वया । रावणं मेघनादपितरं कक्षैव गर्तस्तत्र कुलीरतां
कर्कटतां गमयता की शमिन्द्रम् । गौतमशापेन यन्त्रितः बद्धः भुजस्थेमा भुजवलं
यस्य तम् । ' प्राणस्थेमातरः ( ? ) पराक्रमद्युम्नानि शौर्यौजसी ' इति हैमः । ननु
तातदुर्यशः संमृष्टं मम तु रावणहननरूपं शल्यमस्त्येवेति चेन्न । असौ सत्पुत्रभाव -
वानङ्गदः जागर्ति जीवत्येव । कीदृशी । विशल्यं कर्तुं शीलं यस्याः । सा । अय-
मङ्गदो रावणं मत्सहायतया हनिष्यति । एतेन त्वं विशल्यो भवेति भावः । रावण-
पुत्रेण त्वत्पितेन्द्रो बद्धः इन्द्रपुत्रेण त्वया रावणो बद्ध: । एतेन सादृश्यं जातं परन्तु
त्वत्सुतेन रावणहननात्तवातिशय इति भावः ॥ ५५ ॥ ५६ ॥
4.]
रामः सवाष्पम्-
शुद्धिर्भविष्यति पुरन्दरनन्दन त्वं
मामेव चेदहह पातकिनं शयानम् ।</p>
<pb n="79" />
<p>[ अङ्कः-
हनुमान्नाटक-
सौख्यार्थिनं निरपराधिनमाहनिष्य-
स्यस्मात्पुनर्जनकजाविरहोऽस्तु मा मे ॥ ५७ ॥
पौरन्दरि:-</p>
<lg>
  <l>तथेत्युक्त्वा पुनः स्वर्ग्या गतिस्ते न भविष्यति ।</l>
  <l>यावत्त्वां न हनिष्यामि स्थास्यसि त्वं यमालये ॥ ५८ ॥</l>
</lg>
<p>इति प्राणान्मुमोच ।
हनूमान् स्वगतम्-</p>
<lg>
  <l>दासैरहो रघुपतिः परिभूयते किं</l>
  <l>वैवस्वतादिभिरुवास तदालयेपि ।</l>
  <l>यो देववाक्यमनतिक्रमयन्कियन्तं</l>
  <l>कालं निहत्य पुरुहूतसुतं तु देवः ॥ ५९ ॥</l>
</lg>
<p>हे पुरन्दरनन्दन वेत् यदि त्वं मां आहनिष्यसि तदा मम शुद्धिः मनःप्रसत्ति-
र्भविष्यति । अस्मात्त्वद्धननापराधात् पुनर्जनकजाविरहो मास्तु । शयानं अन्तर्निष्ठ-
त्वान्मीलिताक्षम् ॥ ५७ ॥ ५८ ॥ ५९ ॥
रामः कथंचिद्विषादं परित्यज्य पौरुषमवलम्ब्य-</p>
<lg>
  <l>राज्ये सुग्रीवमादौ सदयितमभिषिच्याङ्गन्दं यौवराज्ये</l>
  <l>रामः सेनाधिपत्ये सपवनतनयान्वानरेन्द्रान्प्रतस्थे ।</l>
  <l>लंकां संत्यज्य शंकां तदनु कपिभटैर्माल्यवत्युत्तमाद्रौ</l>
  <l>वर्षाकालं गमयितुमचिरान्मन्त्रिभिः संमतोऽभूत् ॥६० ॥</l>
</lg>
<p>रामात्परः शूरतरो न कश्चित्पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धि प्रविवेश रामो बबन्ध सेतुं विजयासहिष्णुः ६१
अपि च-</p>
<lg>
  <l>रामाइलीयान्न परोऽत्र कश्विद्दारा पहारान्न परोऽभिमानः ।</l>
  <l>तथापि रामः शरदं प्रतीक्ष्य बद्धाम्बुधौ सेतुमारं जगाम ॥६२ ॥</l>
</lg>
<pb n="80" />
<note>५. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
आदौ राज्ये किष्किन्धाद्री सुग्रीवं वानरराज्ये शङ्कां समुद्र तीर्त्वा कथं स्यामिदि
भयं त्यक्त्वा लङ्कां प्रतस्थे । तदनु प्रस्थानघोपानन्तरं मन्त्रिभिः कपिभटैर्वर्याकालं
गमयितुं संमतः अभूत् । वर्षाकालं गमयित्वा यास्याम इति निश्चितवान् । एतेन
नीतिशास्त्र पराणां प्राधान्यं दर्शितम् ॥ ६० ॥ ६१ ॥ ६२ ॥
रामस्तत्र जनकतनयाकमनीयतामनुस्मृत्य-</p>
<lg>
  <l>इन्दुर्लिप्त इवाअनेन गलिता दृष्टिभृंगीणामिव</l>
  <l>प्रम्लानारुणमेव विद्रुमदलं श्यामेव हेमप्रभा ।</l>
  <l>पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं</l>
  <l>सीतायाः पुरतस्तु हन्त शिखिनां बर्हाः सगर्हा इव ॥६३॥</l>
</lg>
<p>प्रकपण म्लान: अरुणः शोणिमा यस्मिंस्तं कलयापि सीतास्वरलेशेनापि । अत्र
सर्वमङ्गसादृश्यम् । एतेन गुणकीर्तनावस्थोक्ता । सोक्ता रसोदधौ-' वैरहकान्ता-
विपयकप्रशंसनं स्यात् गुणाख्यानम् ' इति ॥ ६३ ॥
रामः कादम्बिनीताण्डवाडम्बरं विलोक्य -</p>
<lg>
  <l>यत्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं</l>
  <l>मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।</l>
  <l>येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता-</l>
  <l>स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ६४ ॥</l>
</lg>
<p>इति श्रीहनुमन्नाटके वालिवधो नाम पञ्चमोऽङ्कः ॥ ५ ॥
यदिन्दीवरं त्वन्नेत्रसमानकान्ति तदपि सलिले मनम् । यः तव मुखच्छायानु-
कारी सोऽपि शशी मेघैरन्तरितः । राजहंसा अपि गताः वर्षाकाले कमलाभावात्
अन्यत्सुगमम् । प्रलापावस्थेयं सोक्ता रसोदधौ - ' कान्ताश्रितकालात्ययव्यवहारः
स्यात् प्रलापोयम् । ' इति ॥ ६४ ॥</p>
<p>PARTL
इति श्री मिश्रमोहनदासविरचितायां हनुमन्नाट कटीकायां
वालिवधो नाम पञ्चमोऽङ्कः ॥ ५ ॥</p>
<pb n="81" />
<p>हनुमन्नाटकं -
[ अङ्क:-
षष्ठोऽङ्कः ।
CON
रामः वानरभटानाचष्टे । भो भो सुग्रीवसैनिकाः शृणुत-</p>
<lg>
  <l>व्यसने महति प्राप्ते स्थिरैः स्थातुं न युज्यते ।</l>
  <l>लंकां निःशंकमालोक्य क इहागन्तुमर्हति ॥ १ ॥</l>
</lg>
<p>हनूमान् ( सहर्षं दोस्तम्भास्फालन के लिमभिनीय निज-
प्रचण्डदोर्दण्डयोमहतीं प्रौढिं नाटयति । देव पश्य - )</p>
<lg>
  <l>अष्टांगुलमयः कायः पुच्छो मे द्वादशांगुलः ।</l>
  <l>बाहू मे पश्य भो नाथ कथं रत्नाकरं तरेः ॥ २ ॥</l>
</lg>
<p>स्थिरैयोगिभिरपि किमुत गृहिभिः । भवतां मध्ये कः आगन्तुमर्हतीति ॥१॥२॥
रामचन्द्रः सविस्मयो बभूव-
ततो जाम्बवान् । देव रुद्रावतारोऽयं मारुतिः रुद्रस्तुतिः
क्रियताम् । रामचन्द्रो रुद्रस्तुतिं कृत्वा भो भो मारुते,
त्वया विहीनः कः कर्तुं समर्थोऽस्ति । तत्र हनूमान्महा-
वीराद्भुतपराक्रमः । सहर्षे वाक्यम् । देवाकर्णय-</p>
<lg>
  <l>कूर्मो मूलवदालवालवदप नाथो लतावद्दिशो</l>
  <l>मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः ।</l>
  <l>स्वामिन्व्योमतरुर्मम ऋमतले श्रुत्वेति गां मारुतेः</l>
  <l>सीतान्वेषणमादिशन्दिशतु वो रामः सहर्षः श्रियम् ॥ ३ ॥</l>
</lg>
<p>हे स्वामिन्प्रभो, अयं व्योमतरुराकाशमेव वृक्षा मम ऋमतलेऽस्ति पाविन्यासो-
त्यापनात्रीचैरस्ति । तमेव वृक्षरूपत्वेन निरूपयति । कूर्मो मूलवदिति ॥ ३ ॥
"
देवाज्ञापय किं करोमि सहसा लंकामिहैवान ये
जम्बूद्दी मितो नये किमथवा वारांनिधिं शोषये ।</p>
<pb n="82" />
<lg>
  <l>६. ]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>हेलोत्पाटितविन्ध्य मन्दरगिरिः स्वर्णत्रिनेत्राचल-</l>
  <l>क्षेपक्षुण्णविवर्तमानसलिलं बध्नामि वारांनिधिम् ॥ ४॥</l>
</lg>
<p>मूलस्थानीयं जम्बूद्वीपं सागरान्तर्वर्तिदेशम् । इतः सकाशात् तत्रैव लङ्कासमीप
एव आनये प्रापयामि । लङ्कापि जम्बूद्वीपान्तराल एवेत्युक्तार्थे वैपदम् । एवं व्या-
क्रियते जम्बुयुक्तो द्वीपः । मध्यमपदलोपी समासः । द्वीपशब्देन लक्षणा 'शेपो
जम्बूध्वजो द्वीपो परो व्ययखराडिति तन्त्रे जम्बूद्वीपलक्षणं शेषत्वात्स्वर्णाचलो
मेरुः । त्रिनेत्राचलः कैलासः विन्ध्यादीनां क्षेपेण प्रक्षेपणेन क्षुण्णं खण्डितं विवर्त-
मानं प्रत्यागतं अवरुन्धमानं सलिलं यस्य तं बघ्रामि पर्वतैरेव स्थलीकरोमिं ॥ ४ ॥</p>
<p>अपि च -</p>
<lg>
  <l>देवाज्ञां देहि राज्ञां त्वमसि कुलगुरुः शोषये किं पयोधिं</l>
  <l>किं वा लंकां सलंकाधिपतिमुपये जानकी मानकीर्णाम् ।</l>
  <l>सेतुं बध्नामि मत्तः स्फुटितगिरितटीभूतभङ्गातरङ्गा-</l>
  <l>दुद्भ्राम्यन्त्रक्रचक्रोऽपि च मकरकुलग्राहचीत्कारघोरम् ॥ ५॥</l>
</lg>
<p>इत्युक्तेऽपि किं कारयामि इति विचिकित्समानः पुनरात्मबलमुक्तार्थानुवादेनैव
स्मारयति - देवाज्ञामिति द्वाभ्याम् । अलङ्कां लव नास्तीत्येवं चूर्णीकरोमीति शेपः ।
अथवा मानकीर्णा पातिव्रत्योन्नतिमतीं जानकीमुपनये सेतुं बध्नामि । किंभूतं सेतुम् ।
मत्तः सकाशात्स्फुटिता ये गिरयस्तेपां तटीभिर्भूतानां भङ्गो यत्र तस्मात्तरङ्गादुचैत्र-
मन्तो ये नॠास्तेपां चक्राणां समूहानां क्रमादुत्फाला मकरग्रहमाहचीत्कारैश्च घोरं
' नका: सपक्षजातीया मकराः स्युचतुष्पदाः । एतद्गिला ग्रहा ग्राहास्तद्गिलाः समु-
दोरिता: ' इति वैद्यके । यद्वा किंविशिष्टात् मत्तः । स्फुटिता ये गिरयस्तेषां तटी-
भिर्ये भूतभङ्गाः प्राणिनाशास्तैरात्तः स्वीकृतो रङ्गो येन तस्मात् ॥ ५ ॥</p>
<lg>
  <l>किं प्राकारविहारतोरणवत लंकामिहैवानये</l>
  <l>किं वा सैन्य समुद्धृतं च सकलं तत्रैव संपादये ।</l>
  <l>हेलान्दोलितपर्वतोच्चशिखरैर्वघ्नामि वारांनिधिं</l>
  <l>देवाज्ञापय किं करोनि सकलं दोर्दण्डसाध्यं मम ॥ ६ ॥</l>
</lg>
<p>सैन्येन सह समुद्भूतं तत्रैव लङ्कायां सैन्येन सह सम्यगुद्धतं सर्व सम्पादये व्या
पादये । हन्मि सकलं पर्वतादिकम् । सुगमम् ॥ ६ ॥</p>
<pb n="83" />
<p>[ अङ्क:-
हनुमन्नाटकं -
रामः सत्वरं करमुद्रां समुद्धृत्य, वीरमारुते -</p>
<lg>
  <l>मुद्रां समुद्रमुल्लंघ्य शीघ्रमाश्वास्य जानकीम् ।</l>
  <l>विन्यस्य पुरतस्तस्या आगच्छ मयि जीवति ॥ ७ ॥</l>
</lg>
<p>समः शीघ्रं रावणं हत्वा नेष्यतीति वचसाश्वास्य तस्याः पुरतो मुद्रां विन्यस्य
मयि जीवतीति ॥ ७॥</p>
<p>इनूमांस्तथेति श्रीरामसुग्रीवौ प्रणम्य समादाय मुद्रां
समुद्रोपकण्ठं पीठावतारमासाद्य सद्योऽचिन्तयत्-
एते ते दुरतिक्रमा: क्रममिलढर्णोर्मिमर्मच्छिदः
कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलां: ।
गाढाम्रेडनरूढनीरदघटासंघट्टनीलीभव-
द्वयोमास्फोटकटाहनिर्झरपयोवेणीकणग्राहिणः ॥ ८ ॥ -
एते झञ्झानिला झञ्झानामानो वायवः कदम्बसम्बन्धिना रजोभरेण ककुभो
रुन्धन्त्याच्छादयन्ति । किंभूताः । दुरतिक्रमांः दुर्लघ्याश्च ते क्रमेणैव मिलन्त एकी-
भवन्तःच ते घूर्णोर्मयश्च घूर्णायमाणतरङ्गास्तैरेव लोकानां मर्माणि छिन्दन्ति इति ।
पुनः कीदृशाः गाढाम्रेडने वातातिशयमेलनेन रूढा प्रवृद्धा या नीरद्घटा तस्याः
संघट्टनेन संयोगेन नीलीभवत् श्यामीभूतं यद्वयोम तस्मिन्स्फोटनं तद्युक्तश्चासौ कटा-
हश्च कटाहो ब्रह्माण्डकटाहस्तस्माद्यान्नर्झरत्पयः गङ्गा तस्या या वेणी प्रवाहस्तस्माद-
म्बुकणान् ग्रहीतुं शीलं येषां ते 'आम्रेडनोक्तियोगोऽस्त्री ' इति विश्वः ॥ ८ ॥
धैर्यमवलम्ब्योधलांगूलास्फालकेलिव्याकुली-
कृताम्बर चरः सज्जो बभूव -</p>
<lg>
  <l>अथ सविलसदम्भः स्तम्भिताक्षिप्रकाशं</l>
  <l>जलचरखललेखास्फालवाचालिताशम् ।</l>
  <l>जलनिधिमधिवीरोल्लंघितुं जांधिकत्वं</l>
  <l>खगपतिरिव चण्डोड्डीनमङ्गीचकार ॥ ९ ॥</l>
</lg>
<p>(</p>
<pb n="84" />
<note>६. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>उद्यांगूलेति । अथ दुरतिक्रमणविचार नन्तरंस हनुमा जलनिधिं लंघयितुं जांघि-
कत्वमङ्गीचकारेत्यन्वयः । 'जंघालोतिजवो जंघाकारिको जांघिको जवी ' इति
चरकः । कः किमिव । खगपतिर्गरुडः चण्डोडीनमिव । कीदृशं जलनिधिम् । विल-
सिताम्भस्तम्भितः नेत्रप्रकाशो येन तं जलचराणां मत्स्यादीनां खरा तीक्ष्णा निर-
न्तरा या लेखा क्रीडनं तत्र ये आस्फाला उत्पातास्तैर्वाचालिता मुखरीकृता आशा
दिशो येन तम् ॥ ९ ॥
लांगूलोत्तालकेतुर्नभसि पृथुगतिः स्फारसीमन्तिताः
स्फूर्जप्रौढोरुवेगोल्ललितजलनिधिः
दूरात्सिन्दूरपूरारुणमरुणरुचिस्तेजसः संविभाग-</p>
<lg>
  <l>पृष्ठकृष्टोग्रसत्त्वः ।</l>
  <l>चक्रे दिग्वारणानां कटितटमभितः सूर्यविदाम्बुदाभम् ॥१०॥</l>
</lg>
<p>हनुमानिति शेपः । सिन्दूरपूरारुणं दिग्वारणानां कटितटमभितः सर्वतस्तेजसः
सम्बिभागे: स्वागदीप्तिसञ्चारणैः सूर्यविद्धाम्बुदाभं सूर्येण विद्धस्यालिङ्गितस्याम्बुद-
स्येवामा यस्य तादृशं चक्रे । यथा लग्नरविकरा मेघा दृश्यन्ते तथा दूरादेव लग्ना-
इन्दीप्तय: दिग्वारणा अभवन्नित्यर्थः । सूर्यसादृश्ये हेतुमाह -अरुणरुचिः वानर-
जातित्वात् । यद्वा समुद्रोल्लंघनाविष्कृतरोपावेशाच अरुणा रुचिर्यस्य । रोपमेव
द्योतयति-लांगूलमेवोत्तालः केतुर्यस्य नभसि या पृथुगतिः शीघ्रगमनं तदर्थं यः
स्फार उत्पतनं तेन सीमन्तितानि द्विधाभूतानि अभ्राणि येन 'अभ्रं मेघो वारिवाह-
स्तनयित्नुर्वलाहकः ' 'इत्यमरः । स्फूर्जत् निर्गच्छत् यः प्रौढोऽतिबहुः ऊरुवेगः जंघा-
जवस्तेन उल्ललितः जलनिधिर्येन सः पृष्ठेनाकृष्टानि उग्राणि राक्षसादीनि सत्त्वानि
येन सः । समुद्रलंघने राक्षसयुद्धं प्रसिद्धम् ॥ १० ॥
तत्रावसरे समुद्रादुत्थितो मैनाक:-</p>
<lg>
  <l>विश्रान्तस्तत्र हर्षात्सपदि जलधिना प्रेरितो रत्ननाभो</l>
  <l>मैनाकः काञ्चनामस्तुहिनगिरिसुतः प्राह दूरागतस्त्वम् ।</l>
  <l>हो दूराध्वखेदं जहि मम शिखरे प्राप्य तस्येति वाच</l>
  <l>स्पृष्टांगुल्या तद्ग्रं भुजरयपवनापूरिताशं जगाम ॥ ११ ॥</l>
</lg>
<p>सैनाको गिरिः कपि प्राह - हंही सम्वोधनेऽव्ययम् । हे हनुमन् त्वं दूरादागतः
अतो मम शिखरे दूराध्वखेदं जहीत्यन्वयः । तस्य गिरेरिति वाचं प्राप्य श्रुत्वा</p>
<pb n="85" />
<p>हनुमन्नाटकं -
[ अङ्कः-
अंगुल्या चरणांगुल्या तदग्रं तच्छिखरामं स्पृट्वा भुजरयपवनेनापूरिता आशा येनैवं
यथा स्यात्तथां जगाम । कीदृशो मैनाकः । जलनिधिना सपदि हर्षान्मत्कर्तृसगर-
गोत्रापत्य रामसहायकृदयमिति प्रीत्या प्रेरितः । ननु कुतस्तत्र गिरिरित्यपेक्षाया-
माह कीशो गिरिः । विश्रान्तः पक्षच्छिदो गोत्रभिद: भयान्निलीय स्थितः । अन्य-</p>
<lg>
  <l>सुगमम् ॥ ११ ॥ :-</l>
  <l>वेलातटे शालतमालमालां विलोकमानः सहसाञ्जनेयः ।</l>
  <l>उल्लोलयन्वालधिवाल्टिमुचैः</l>
  <l>कल्लोलिनीवल्लभमुल्ललंघे ॥ १२ ॥</l>
</lg>
<p>आञ्जनयोऽश्वनीपुत्रः हनूमान्सहसानायासेन कल्लोलिनीवल्लभं समुद्रमुल्ललंघे लंघि-
तवान् । वालधिः पुच्छं तदेव वल्ली तामुल्लोलयन्नुञ्चैश्चालयन् ॥ १२ ॥</p>
<lg>
  <l>अथ दशरथसूनोराज्ञया वायुपुत्रो</l>
  <l>रजनिचरपुरीमालोक्य भूत्वा द्विदंशः ।</l>
  <l>अकलितपरिमाणो मात्रया सत्रपस्तां</l>
  <l>क्षिपति जनकजाये शिंशपायावतीर्णः ॥ १३ ॥</l>
</lg>
<p>अल्पो भूत्वा लङ्कां प्रविशेति रामाज्ञया द्विदंशप्रमाणदेहः 'द्विदंशो वनमक्षिका
इति विश्वः । मात्रया परिमितदेहेन शिंशुपायादशोकायादवतीर्ण: 'समौ स्तः शिशु-
पाशोकौ ' इति निघण्टुः ॥ १३ ॥
जानकीं नमस्कृत्य मारुतिः -</p>
<lg>
  <l>मातर्जानकि को भवानिह मृगः, केनात्र संप्रेषित -</l>
  <l>स्त्वद्दौत्येन रघूत्तमेन किमिदं हस्तेऽस्ति तन्मुद्रिका ।</l>
  <l>दत्ता तेन तवैव तां निजकरादालभ्य चालिंग्य च</l>
  <l>प्रेम्णा श्रणि समर्ज सम्यगुदभूगात्रेषु रोमोद्गमः ॥ १४ ॥</l>
</lg>
<p>मुद्रादानप्रकारमाह-अत्राप्युक्तिप्रत्युक्ति: । हनूमान् मातः जानकि । सीता०भवान्
कः ? हनू० मृगः वानरः । सीता० अत्र केन संप्रेषितोसि ? हनूं ० रघूत्तमेन त्वद्दौत्येन
त्वद्दौत्यनिमित्तम् । सीता० इदं हस्ते किम् ? हनुमान् तन्मुद्रिका सीते तेन तुभ्यं
दत्ता तवैव दत्तेति परस्परमुक्त्वा सीता तां मुद्रिकां निजकरादालभ्य गृहीत्वा आलिं- '
ग्य स्वहृदये विन्यस्य प्रेम्णाश्रण ससर्ज । सम्यक् स्पष्टं यथा स्यात्तथा गात्रेषु
रोमोद्गमोऽभूदिति ॥ १४ ॥</p>
<pb n="86" />
<note>६.]</note>
<p>दीपिकाख्यव्याख्योपेतम्
।
हनुमान विरलगलदश्रुपूर्णलोचनाभ्यां सौवर्णमंगुलीयकं
मन्यमानां जानकी संभावयामास । हे भामिनि-</p>
<lg>
  <l>सुवर्णस्य सुवर्णस्य सुवर्णस्य च मैथिलि ।</l>
  <l>प्रेषितं रामचन्द्रेण सुवर्णस्यांगुलीयकम् ॥ १५ ॥</l>
</lg>
<p>हे भामिनि भ्रमवति, ' भामोरित भ्रमकोपयोः' इति चरकः । इदं सुवर्णस्य
हेन: अंगुलीयकं रामेण तव तुभ्यं प्रेरितं प्रस्थापितम् । किंभूतस्य सुवर्णस्य । शो-
भनपीतरक्तरङ्गवतः । पुनः किंभूतस्य सुवर्णस्य । शोभनरामनामाक्षरवतः । पुनः
सुवर्णस्य दशमापमात्रस्य ' सुवर्ण दशमापकम् ' इति ॥ १५ ॥
जानकी आशालेशमासाद्य क्षणमणि प्रमृज्य -
मुद्रिकाव्याजेन मारुतिं प्रति-</p>
<lg>
  <l>मुद्रे सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः सुखं</l>
  <l>सन्ति स्वामिनि मा विधेहि विधुरं चेतोऽनया चिन्तया ।</l>
  <l>एनां व्याहर मैथिलाधिपसुते नामान्तरेणाधुना</l>
  <l>रामस्त्वविरहेण कङ्कणपदं ह्यस्यै चिरं दत्तवान् ॥ १६ ॥</l>
</lg>
<p>मुद्रेति । परपुरुषसम्भापणात्पातिव्रत्यभङ्गभयान्मुद्रिकामुपन्यस्य पृच्छति-मुद्रेति ।
रामः अस्यै मुद्रायै चिरं त्वद्विरहेण कङ्कणपदं कङ्कणस्थानं दत्तवान् । एतेन व्याधिर्द-
शितः । उक्तंचरसोदधौ – 'व्याधिः स्मरवेदनया समुत्यसन्तापदोपकृतः । ऋशिमा '
इति । सुगमम् ॥ १६ ॥</p>
<lg>
  <l>अत्रांगुलीयकमणौ प्रतिबिम्बमासी-</l>
  <l>द्रामस्य सादरमतीव विलोकयन्ती ।</l>
  <l>मद्रूप एव किमभून्मम वीक्षयेति</l>
  <l>मीमांसया जनकराजसुता मुमोह ॥ १७ ॥</l>
</lg>
<p>अत्र अंगुलीयकमणौ सादरं यथा स्यात्तथा अतीव । रामस्येति कर्मणि षष्ठी
रामं रामनामाक्षरं विलोकयन्ती सीता प्रतिविम्वं आसीत् । मणौ प्रतिविम्बिता बभूवे
✔</p>
<pb n="87" />
<p>हनुमन्नाटकं -
[ अङ्क:-
त्यर्थः । यद्वा अत्र भ्रमः । अत्र मणौ रामस्य प्रतिविम्बमासीत्तदस्ति नवेति परीक्षया
विलोकयन्ती स्वप्रतिबिम्वं तत्र सा दृष्टया विचिकित्सति -- मद्रप इति । रामोपि
सञ्चिन्तया मद्रूप एवाभूत् किमिति मीमांसया विचारेण मुमोह वैचित्यमाप ॥१७॥
कथंचिच्चेतनां प्राप्य -
अये मरुत्तनय ययंगुलीयकमेव कंकणमभूत्स्वामिनो राम-
देवस्य तर्हि किमिव तनुतां गतः ?
हनुमान-</p>
<lg>
  <l>स्वभावादेव तन्वङ्गि त्वद्वियोगाद्विशेषतः ।</l>
  <l>प्रतिपत्पाठशीलस्य विद्येव तनुतां गतः ॥ १८ ॥</l>
</lg>
<p>हे तन्वङ्गि, स्वभावादेव तनुतां गतः त्वद्वियोगाद्विशेपत इत्यन्वयः । ' तन्वङ्गो
इति ना पाठः । तनून्यङ्गानि यस्यासौ रामः स्वभावादेव त्वद्वियोगाद्विशेषतस्तनुतां
अत इति योज्यम् । तन्वङ्गी इन्नन्तः ॥ १८ ॥
जानकी-</p>
<lg>
  <l>चन्द्रो यत्र दिनेशदीधितिसमः पद्मं स्फुलिंगोपमं</l>
  <l>कर्पूरः कुलिशोपमः शशिकला शम्पासमा भासते ।</l>
  <l>वायुवड व वह्निवन्मलयजो दावाग्निवत्सांप्रतं</l>
  <l>संदर्श नय रामसंनिधिमितो यात्रां द्रुतं कारय ॥ १९ ॥</l>
</lg>
<p>चन्द्रेति । शम्पा विद्युत् । कारयेति स्वार्थे णिच । कुर्वित्यर्थः । तन्त्र गत्वा यात्रां
रामप्रस्थानं कारयेत्यर्थः ॥ १९ ॥
हनुमान-
किं दूरमिन्दुमुखि रामशिलीमुखानां
किं दुर्गमर्गलभिदां हरियूथपानाम् ।</p>
<pb n="88" />
<p>दीपिकाख्यव्याख्योपेतम् ।
दैवं प्रसन्नमिव देवि तवाद्य सत्यं
रक्षांसि कानि कुपितस्य सलक्ष्मणस्य ॥ २० ॥
ननु समुद्रान्तरितरक्षोगृहमागताहं दूरस्थो राम इति मीमांसमानां सम्बोधयति-
अर्गलानि प्राकारादीनि भिन्दतीत्यर्गलाभिदस्तेषाम् । शेपं सुगमम् ॥ २० ॥
अत्रान्तरे जानकी सप्रपश्चं पृच्छ हनुमान मातः कुत्रास्ते
राजवाटिका ?
दर्शयति जानकी-
रे पुत्र पश्चिम दिग्भागेनास्यास्ति वाटिका । हनूमान् उपल्लां -
गूलप्रचण्डरूपेण प्रचलित :-
Badan</p>
<p>इत्युक्त्वा रजनीचरस्य हनुमानुद्धिय लीलावनं
वीरं तत्सुतमक्षमात्तपरिघाघातैर्जघानागतम् ।
तत्कोपारुणलोचनेन्द्रजयिना प्राङ् निष्कलत्वाद्धृतं
•ब्रह्मात्रेण चिगर्हितेन विधिना बद्धो विदग्धः कपिः ॥२१॥ .
उद्भिद्योत्पाट्य तत्सुतं रावणपुत्रमक्षनामानं वनभङ्ग श्रुत्वा योद्धुमागतम् । तस्मि-
न्हनुमति यः कोपस्तेनारुणे लोचने यस्य तेनेन्द्रजयिना मेघनादेन कृत्वा प्राङ्निप्फ-
लत्वाद्विगर्हितेन विधिना ब्रह्मणा हेतुभूतेन ब्रह्मणा ब्रह्मास्त्रेण ब्रह्मदत्तपाशेन बद्धः ।
अत्रेयं कथा - पूर्व ब्रह्मणा दत्तो ब्रह्मपाशः एतेन त्वं कपिं वघ्नीहीति रुद्रावतारे हनू-
मति पाशो निष्फलो जातः । ततो मेघनादेन ब्रह्मणो गर्हा कृता ततश्च ब्रह्मणा
प्रार्थितो हनूमान् स्वयं निबद्धः । विदग्धः ब्रह्मसङ्कटात्महनननिवारणविधिज्ञः ॥२१॥
रावण: तमालोक्य -</p>
<lg>
  <l>रेरे वानर को भवानहमरे त्वत्सुनुहन्ताहवे</l>
  <l>दूतोऽहं खरखण्डनस्य जगतां कोदण्डदीक्षागुरोः ।</l>
  <l>मद्दोर्दण्डकठोरताडनविधौ को वा त्रिकूटाचलः</l>
  <l>को मेरुः क्व च रावणस्य गणना कोटिस्तु कीटायते ॥ २२ ॥</l>
</lg>
<pb n="89" />
<p>हनुमन्नाटकं -
[ अङ्क:-
रेरे वानर, भवान् कः ? हे रावण, अहमाहवे त्वत्सूनुहन्ता अक्षघाती । अनेन
स्वतो बलमुपदिश्य स्वामिनोप्यात्मनो वलं द्योतयति- खरखण्डनस्येत्युपलक्षणम् ।
खरदूषणत्रिशिरसां त्वद्भातृणां खण्डनस्य हन्तुः रामस्य दूतः । किंभूतस्य रामस्य ।
जगतो विश्वस्य या कोदण्डदीक्षा धनुर्विद्याशिक्षणं तस्य गुरोः शिक्षकस्य । महो-</p>
<lg>
  <l>र्दण्डाभ्यां यत्कठोरताडनं तस्य विधौ सति मयि प्रहरति सति त्रिकूटादय: के ।</l>
  <l>नकेऽपीत्यर्थः ॥ २२ ॥</l>
</lg>
<lg>
  <l>ईषत्सज्जनमैत्रीव नाभियत कपेस्तनुः ।</l>
  <l>निहता चन्द्रहासेन रावणेनातिरंहसा ॥ २३ ॥</l>
</lg>
<p>*
ईषदपि नोऽभिद्यत् । चन्द्रहासाख्यखड्ङ्गेन तत्राप्यतिरंहसा अतिवलेन ॥ २३ ॥
लांगूले चैलतैलप्लुतवहलशणैर्वेष्टिते दीप्यमानो
रक्षोभिर्वीक्षितोऽग्निर्द्विजपरुषगिरा राघवो यद्यतुष्टः ।
तुष्टो यथाज्यहोमैस्त्वमपि रघुपतेर्ययहं भक्तियुक्ता
संतप्तः प्रार्थितो मा तदिह हनुमतः सीतया शीतलोऽभूत् २४
खङ्गे निष्फले आत्मनः पूर्वोक्तवैदग्ध्यमाविष्कर्तुं मां दहेति शिक्षितो रावणः
दाहयति -- सीतया इति प्रार्थितोऽग्निर्हनुमतः शीतलोऽभूत् न परेषामिति । इति
किम् । भो अग्ने, यदि संतुष्ट इत्यादि तु सुगमम् । हनुमतः संतप्तो मा भवेतिशेषः ।
तत् तदा यदि तुष्टोसि । कीदृशोऽग्निः । चैलाद्दीप्यति लागूले सति दीपितः ।
सुगमम् ॥ २४ ॥
।</p>
<lg>
  <l>वह्निर्बभौ वानरपुच्छजन्मा स दाह्य लङ्कां खमिवोत्पतिष्णुः ।</l>
  <l>रामादयं प्राप्य किल प्रतापः पलायमानो दशकंधरस्य ॥२५॥</l>
</lg>
<p>वह्निर्लङ्कां विद॒ह्य वभौ । कीदृशः । खमुत्पतिष्णुः उच्चैर्गन्तुकः । क इव । स्रं
अनि पलायमानदशकंधरप्रताप इव ॥ २५ ॥
पलानि भुक्त्वा चपलः पलाशिनां हुताशनस्तृप्तिमुपागतः पराम् ।
विराजते स्म प्रतियातनाछलाज्जलानि चाब्धौ तृषितः पिबन्निव २६
पलाशिनां रक्षसां पलामि मांसानि । चपलः शीघ्रदाहकः प्रतियातनः प्रतिबिम्य-
स्तन्मिषेण ॥ २६ ॥</p>
<pb n="90" />
<p>दीपिकाख्यव्याख्योपेतम् ।
रावणः स्वगतम्-
यद्ययं रुद्रो मारुतिस्तर्हि किमिति रुद्रभक्तस्य मे नगरी दहति
अहह ज्ञातम् !</p>
<lg>
  <l>तुष्टः पिनाकी दशभिः शिरोभिस्तुष्टो न चैकादशको हि रुद्रः ।</l>
  <l>अतो हनूमान्दहतीति कोपात्पंक्तेर्हि भेदो न पुनः शिवाय ॥ २७॥</l>
</lg>
<p>हि यतः पङ्क्तेर्भेद: भेदनं शिवाय मङ्गलाय न भवति । सुगमम् ॥ २७ ॥
अपि च -</p>
<lg>
  <l>अब्धिः किं वड़वानलेन तरणेर्बिम्बेन किं चाम्बरं</l>
  <l>मेघः किं चपलाचयेन शशिभृत्किंभालनेत्रेण वा ।</l>
  <l>कालः किं क्षयवाह्ननेन्द्रधनुषा धाराधरः किं महा-</l>
  <l>न्मेरुः किं ध्रुवमण्डलेन स कपिः पुच्छेन से राजते ॥ २८ ॥</l>
</lg>
<p>सः प्रसिद्धः कपिः पुच्छेन से राजते । तत्र कविप्रेक्षते केन क इव । सर्व
सुगम॑म् । पुनर्मेघग्हणं धनुरुत्प्रेक्षार्थम् । अलंकारदूषितमिदं पद्यम् । तदुक्तं दण्डिना
असंबद्धोपमं पद्यं न कुर्वीत विदूषितम्' इति ॥ २८ ॥
C</p>
<note>६.]</note>
<p>अथ राक्षसाः-
मरुत्पुत्रस्त्वेकः कपिकटकरक्षामणिरसौ</p>
<lg>
  <l>-</l>
  <l>समुघलांगूलो ध्वज इव समाश्लिष्टगगनः ।</l>
  <l>पुनः प्रत्यायास्यत्यहह कपिसैन्ये प्रचलिते</l>
  <l>पदं प्रोचुर्नीचैर्मयचकितलङ्कापुरजनाः ॥ २९ ॥</l>
</lg>
<p>19
• लङ्कापुरवासिनो राक्षसाः नीचैर्मन्दमन्दमिति । प्रोचुः । इतीति शेषः । इति
किम् । अहहेति कष्टम् । ततः कपिसैन्ये प्रचलति सति मरुत्पुत्रो हनूमान् पुनः
पदमस्मदीयं स्थानं लङ्कां प्रत्यायास्यति आगमिष्यति । यद्वा पदं वचनम् । कीदृशः ।
एक एवासौ कपिकटकरक्षामणिः । यद्वा एकोऽसहाय: असौ मरुत्पुत्रः पुनरायास्य
तीति योज्यम् । पुनः समुघलांगूल ऊर्ध्वगतपुच्छः । ॐ इव पुच्छः । समाहिष्टगग-
नध्वज इव ॥ २९ ॥
✓</p>
<pb n="91" />
<p>हनुमन्नाटकं -
अथाह गगनमण्डलस्थो मारुतिः-</p>
<lg>
  <l>एकोऽहं पवनात्मजो दशमुख त्वं चापि कोटीश्वर-</l>
  <l>स्त्वां जित्वा समरे प्रभोः प्रणयिनीं सीतां च नेतुं क्षमः ।</l>
  <l>किं तूत्थाप्य भुजं पुरा भगवता रामेण सुग्रीवतो</l>
  <l>हत्वा दक्षिणपाणिना वसुमतीं त्वां हन्तुमुक्तं वचः ॥३०॥</l>
</lg>
<p>[ अङ्क:-
पूर्वाधै सुगमम् । शक्तश्चेत्कथं मां न हन्याः सीतां च न नयसीत्यत्राह -- पुरा
रामेण सुग्रीवत: सुप्रीवाग्रे सुग्रीवं प्रति वा । सार्वविभक्तिकस्तसिल् । त्वां हन्तुं
वचनमुक्तं यत्तद्वचोऽनृतं स्यादतो न हन्सीति भावः ॥ ३० ॥
इत्युक्त्वा दशग्रीव नगरी भस्मसात्कृत्वा रक्षितामशोकवनि-
कामागम्य जानकीं प्रणम्य रामाभिज्ञानं याचते स्म हनुमान ।</p>
<lg>
  <l>मैथिली-</l>
  <l>शिखां धूमशिखां शत्रोः कालव्यालवधूमिव ।</l>
  <l>उद्यम्यास्य शिरोरत्नं संज्ञानं स्वामिने ददौ ॥ ३१ ॥</l>
  <l>इति प्रथममभिज्ञानम् ॥</l>
</lg>
<p>अन्यत्स्पष्टम् । रक्षितामन्निनाऽदग्धां शिखां वेणीमुद्यम्य । कीदृशीम् । धूमशिखां
धूमस्येव शिखा यस्यास्ताम् । मध्यमपदलोपी समासः । रावणदाहार्थ मलयाग्नि-
धूमशिखामिवेत्यर्थः । यद्वा धूमस्य धूमकेतोरिव शिखामिव कालसर्पस्य
स्त्रियमिव ॥ ३१ ॥
तथा च चित्रकूट पर्वते -
वक्षोभिचार चरुभाण्डमिव स्तनं यो
देव्या विदेहदुहितुर्विददार काकः ।</p>
<pb n="92" />
<p>दीपिकाख्यव्याख्योपेतम् ।
ऐषीकमत्रमधिकृत्य तदा ततोऽक्ष्णा
काणीचकार करुणो रघुराजपुत्रः ॥ ३२ ॥
इति द्वितीयमभिज्ञानम् ॥
यदा चित्रकूटे यः काकः काकरूपधरश्चेन्द्रः वक्षोभिचारि यथा स्यात्तथा वक्षसि
अभिचरतीति वक्षोभिचारि देव्याः स्तनं विदद्वार तदा च रामो रघुराजपत्रः
ऐपीकं बाणमधिकृत्य तं काकमक्ष्णा नेत्रेण काणीचकारेति । किमिव । चरुभाण्ड-
मिव हविःपात्रामव ॥ ३२ ॥</p>
<lg>
  <l>९३</l>
  <l>मनःशिलायास्तिलकं तथा मे गण्डस्थले पाणितलेन मृष्टम् ।</l>
  <l>स्मरेति संज्ञानमपि प्रयच्छ जीवाम्यतो राघव मासमात्रम् ३३ ॥</l>
  <l>इति तृतीयमभिज्ञानम् ॥</l>
</lg>
<lg>
  <l>हे राघव, अहं त्वदागमनाथ मासमात्रं कालं जीवामीत्यपि वाच्यमिति शेषः ।</l>
  <l>अन्यत्सुगमम् ॥ ३३ ॥</l>
</lg>
<p>हनुमानू
-</p>
<lg>
  <l>रत्नं यत्नात्वा तद्नु कपिभटश्चित्रकूटस्य संज्ञां</l>
  <l>नत्वा पादारविन्दद्वयमपि जनकस्यात्मजाया हनूमान् ।</l>
  <l>पाणिभ्यामंत्रियुग्मं पुनरुदधितटे मन्त्रयित्वात्रगर्भे-</l>
  <l>णोर्म्यामुत्पत्य मनं तदुरुभुजबलाडम्बरेणाजगाम ॥३४॥</l>
</lg>
<p>पाणिभ्यामङ्घ्रियुग्मम् पुनः उद्धितटे मन्त्रयित्वा अभ्राणि गर्ने यस्य तेनाकाश-
मार्गेण जगामेत्यन्वयः । किं कृत्वा । ऊर्म्या समुद्रोर्मीनभिव्याप्य तन्मानं समुद्रप्रमा-
णमुत्पत्य समुद्रोमिंप्रमाणमात्रमुत्पत्येत्यर्थः । किंविशिष्टेना भ्रमार्गेण । ऊरुभुजवलस्या-
डम्बरो यस्मिन् । अन्यत्सुगमम् ॥ ३४ ॥</p>
<lg>
  <l>- ततो मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलायणीः ।</l>
  <l>वियुक्तरामातुरदृष्टिवीक्षितः समागतः श्री हनुमान्वसन्तवत् ॥ ३५॥</l>
</lg>
<p>अत्र हनूमद्वसन्तयोर्वर्णनम् । मरुच्चुम्बितचारुकेसरः चारुकेसरा: पुच्छलोमानि
कुसुमकोशतन्तवो वा । ताराधिपः सुग्रीवश्चन्द्रोपि वियुक्तो रामस्तस्यातुरदृष्टया
वियुक्ता वियोगिन्यो रामास्तासामप्यातुरदृष्टयेति योज्यम् ॥ ३५ ॥</p>
<pb n="93" />
<p>हनुमझाटकं -
सीतापतिं ससंभ्रममालिङ्गितुमुद्यतं दृष्ट्वा -
देव-
[ अङ्कः-</p>
<lg>
  <l>पीतो नाम्बुनिधिर्न कोणपपुरी निष्षिष्य चूर्णीकृता</l>
  <l>नानीतानि शिरांसि राक्षसपतेर्नानायि सीता मया ।</l>
  <l>आश्लेषार्पणपारितोषिकमहं नामि वार्ताहरो</l>
</lg>
<lg>
  <l>जल्पन्नित्यनिलात्मजः स जयति व्रीडाजडो राघवें ॥ ३६ ॥</l>
  <l>आलिङ्गनार्पणमेव पारितोषिकप्रतिदानं तं प्रति नार्हामि न योग्योऽस्मीति ।</l>
  <l>कुत इत्यत आह — यतो वार्ताहरः संदेशमात्रहारक इति जल्पन् अनिलात्मजो</l>
  <l>विजयते ॥ ३६ ॥</l>
</lg>
<p>रामः ( सविकल्पं विधातारमुपलभते ) क्रूरकर्मा विधाता
किं विधास्तीति ॥
हनूमान् देव-</p>
<lg>
  <l>कुत्रायोध्या क्व रामो दशरथवचनाद्दण्डकारण्यमागा-</l>
  <l>तकोऽसौ मारीचनामा कनकमयमृगः कुत्र सीतापहारः ।</l>
  <l>सुग्रीवे राममैत्री व जनकतनयान्वेषणे प्रेषितोऽहं</l>
  <l>योर्थोऽसंभावनीयस्तमपि घटयति क्रूरकर्मा विधाता ॥ ३७ ॥</l>
</lg>
<p>स रामः सविकल्पमिति स्पष्टार्थम् । एतेनैवमुक्तं भवति । अघटितघटनाचातुर्य-
शाली विधाता सीतामपि मेलयिष्यतीति भावः । 'ऋरादये विचित्रे च ' इति
धरणिः । विचित्रकर्मा ॥ ३७ ॥
रामः-
हे वीर । विदीर्यमाणहृदयद्वारेण प्राणा लोकान्तरं गन्तुमि-
च्छन्ति किमिति तूर्ण चन्द्रवदनां नावेदयसि ।</p>
<pb n="94" />
<p>.]
}
दीपिकाख्यव्याख्योपेत्तम् ।</p>
<lg>
  <l>हनूमान् सत्वरम् -</l>
  <l>हा राम जगदानन्द किमिदं शिवमस्तु ते ।</l>
  <l>तव प्राणगतिद्वारस्यार्गलेयं करे मम ॥ ३८ ॥</l>
  <l>जगतामानन्दो यस्मात्किमियं विमनस्कतेति पाठः ॥ ३८ ॥</l>
</lg>
<p>इति जानकी शिरोरत्नं रामाय प्रयच्छति ।</p>
<lg>
  <l>तथा च-</l>
  <l>मनःशिलायास्तिलकं स्मर गण्डस्थले त्वया ।</l>
  <l>संमृष्टं जानकीवक्षःस्पर्शात्काणीकृतं खगम् ॥ ३९ ॥</l>
  <l>सर्व सुगमम् ॥ ३९ ॥</l>
</lg>
<p>( रामोऽभिज्ञानत्रयमासाद्य ) साधु मारुते साधु ।
अये प्रियायाः कुशलमस्ति ।
आञ्जनेयः-</p>
<lg>
  <l>कार्य चेत्प्रतिपत्कला हिमनिधेः स्थूलाथ चेत्पाण्डिमा</l>
  <l>नीला एव मृणालिका यदि घना बाप्पाः कियान्वारिधिः ।</l>
  <l>संतापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यते</l>
  <l>राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ॥ ४० ॥</l>
</lg>
<p>हे राम, यदि तस्याः कार्य वर्ण्यते तार्ह हिमनिधेश्चन्द्रस्य प्रतिपत्कला स्थूला ।
चेत्पांण्डिमा पाण्डुता अथ पाण्डिमा वर्ण्यते चेन्मृणालिका नीला एव । यदि धना
निरन्तरा: बाप्पा वर्ण्यन्ते तार्ह वारिधिः कियान् । यद्वा वाष्पा वर्ण्यन्ते तदा घना
वर्षन्तो मेघाः तथा वारिधिरभि कियान् । अन्यद्वृत्तं कियद्वर्ण्यते हृदयं
स्वत्स्मृतिमात्रमेव । वपुर्लावण्यशेषमेव ॥ ४० ॥
-
रामः-
मारुते का कथा ।
हनूमान् भोः प्रभो -
का शृङ्गारकथा कुतूहलकथा गीतादिवियाकथा
मायत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा ।</p>
<pb n="95" />
<p>679
हनुमन्नाटकं -
एकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षः पते--
देव श्रीरघुनाथ तस्य नगरे स्वमेऽपि नान्या कथा ॥४१॥
रामः-</p>
<lg>
  <l>त्रिदशैरपि दुर्धर्षा लंका नाम महापुरी ।</l>
  <l>कथं वीर त्वया दग्धा विद्यमाने दशानने ॥ ४२ ॥</l>
</lg>
<p>मिथः शृङ्गारकथा का । एवमुत्तरत्रापि ज्ञेयम् । एवंविधनिकृष्टे पूर्वोत्तरपक्षे
स्थापनात्मकं वाक्यमुक्तम् ॥ ४१ ॥ ४२ ॥
हनुमान-</p>
<lg>
  <l>निःश्वासेनैव सीताया राजन्कोपानलेन ते ।</l>
</lg>
<lg>
  <l>दग्धपूर्वा तु सा लंका निमित्तमभवत्कपिः ॥ १३ ॥</l>
  <l>शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः ।</l>
  <l>यत्पुनर्लंधितोम्भोधिः प्रभावोऽयं प्रभो तव ॥ ४४ ॥</l>
  <l>पूर्व दग्धा दग्धपूर्वा कपिरहं निमित्तसेवाभवम् ॥ ४३ ॥ ४४ ॥</l>
</lg>
<p>अन्तराले लंकायां सरमा नाम राक्षसी धर्मिणी जानकी
वाचमूचे-</p>
<lg>
  <l>बिभेमि सखि संवीक्ष्य भ्रमरीभूतकीटकम् ।</l>
  <l>तद्ध्यानादागते पुंस्त्वे तेन सार्धं कुतो रतिः ॥४५॥</l>
</lg>
<p>अभ्रमरो भ्रमरो भवति भ्रमरीभूतं कीटकं वीक्ष्य एवं तद्धानात्तस्य रामस्य स्मर-
णात्त्वाय पुंस्त्वमागते सति तेन रामेण सार्धं रतिः कुतः । पुंस्त्वमत्र रामत्वम् ॥४५॥</p>
<lg>
  <l>मा कुरुष्वात्र संदेहं रामे दशरथात्मजे ।</l>
  <l>त्वद्धयानादागते स्त्रीत्वे विपरीतास्तु ते रतिः ॥ ४६ ॥</l>
</lg>
<p>इति श्रीहनुमन्नाटके हनुमाद्विजयो नाम षष्ठोऽङ्कः ॥
अत्र रतौ । शेषं सुगमम् ॥ ४६ ॥</p>
<p>[ अङ्क:-
-
इति श्रीमिश्रमोहनदासविरचितायां हनुमन्नाटफदीपिकायां
हनुमद्विजयोनाम षष्ठोऽङ्कः समाप्तः ॥ ६ ॥</p>
<pb n="96" />
<note>७. ]</note>
<p>दीपिकाव्यव्याख्योपेतम् ।
सप्तमोऽङ्कः ।
रामदूतेनोक्तः सुग्रीवः-
कपिनृपतिरपास्य प्रेयसी प्रेमभिन्नः
किमिति जनकपुत्रीरामयोः कार्यमुच्चैः ।.
गतिरपि हरिसूनोर्विस्मृता राज्यगर्वा-
दिति रघुजनवाक्यादागतः सैन्ययुक्तः ॥ १ ॥
प्रेमभिन्नोऽपूर्णकामाभिलापः कपिनृपतिः सुग्रीवः प्रेयसीं रुमामपास्य त्यक्त्वा
इति रघुजनवाक्यात् रामदूतवचनात्सैन्ययुक्तो भूत्वा आगत इत्यन्वयः । इति किं
तदेवाह---हे पाप, जनकपुत्रीरामयोः कार्यमुच्चैर्महत् यत्त्यक्त्वा इद स्थैर्यादिकं
किमिति राज्यगर्वाद्धारसूनोर्वालिनोपि गतिर्मरणरूपा विस्मृता । तवेति शेषः
यद्वा वालिनः सकाशाद्या गतिस्ताराहरणनिलोयस्थितिरितिरूपा गतिः ॥ १ ॥</p>
<lg>
  <l>अथ विजयदशम्यामाश्विने शुक्लपक्षे</l>
  <l>दशमुखनिधनाय प्रस्थितो रामचन्द्रः ।</l>
  <l>द्विरदविधुमहाब्जैर्यूथनाथैस्तथान्यैः</l>
  <l>कपिभिरपरिमाणैर्व्याप्तभूदिक्खचक्रः ॥ २ ॥</l>
</lg>
<p>2
विजयमुहूर्तयुक्तायां दशम्यां द्विरदविधुमहाज्जैर्यूथनाथैः सह ' अङ्कानां वामतो
गति: ' इति न्यायात् द्विरदा दिग्गजा: अष्टौ विधुश्चन्द्रं एकः एतत्संख्याकमा
पद्मैः अष्टादशमहापद्मसंख्या कैर्यथनाथैः तथाऽन्यैरपरिमितैः कपिभिः सह । कीदृशैः ।
व्याप्तं भुवः दिशामाकाशस्य च मण्डलं यैस्तैः । द्विरदविधुमहक्षैरिति पाठे हस्तितु-
ल्यैर्महक्षैजीम्बवत्प्रमुखैः ॥ २ ॥
हनुमान रामं प्रति-
नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्ति
गबलनिमज्जगभराकान्तदेहः ।
•</p>
<pb n="97" />
<p>हनुमन्नाटकं -
लिखति दशनकैरुत्पतद्भिः पतद्भि-
र्जरठ कमठभर्तुः खर्परे सर्पराजः ॥ ३ ॥
[ अङ्कः-
-
हे नृपतिमुकुटरत्न राम, सर्पराजः शेपस्त्वत्प्रयाणवर्णावली जरठकमठभर्तुः
जरठो वृद्धः प्राचीनः स चासौ कमठभर्ता महाकूर्मस्तस्य खर्परे पृष्ठकपाले दश-
नट दशना एव टंकास्तैलिखति ' स्यात्सर्परः कपालोऽखी' इत्यमरः । वानरव-
लेन निमज्जन्ती र्भूस्तस्या भारेणाकान्तो भोगो यस्य सः । कीदृशैर्दशनटकैरुत्पतद्भि-
रुत्पतत्सु वानरेपूत्पतद्भिः निपतत्सु वानरेपु खर्परे पतद्भिः ॥ ३ ॥ -</p>
<lg>
  <l>श्वासोर्मिप्रतिसन्धिरुन्धितगलप्रच्छिन्नहारावली</l>
  <l>रत्नैरप्यदयालुभिः कृतफणामाग्भारभङ्गक्रमः ।</l>
  <l>श्रोत्राकाशनिरन्तरालमिलितस्तब्धैः शिरोभिर्भुवं</l>
  <l>पत्ते वानरवीरविक्रमभराभुनो भुजङ्गाधिपः ॥ ४ ॥</l>
</lg>
<p>पुनरपि श्वासोतिपद्येन वाहिनीभरमेवानुवर्णयति --- बहुत्वाद्यच्छिरसि इयं
भूरत्यर्थ राजते स एव भुजंगाधिपः शिरोभिर्भुवं धत्ते । कीदृशः । वानरवीराणां
विक्रमेण ऋन्दनादिक्रमेण यो भरस्तेनासमन्ततो भुनो वक्रीभूतः । पुनः किंभूतः ।
कृतो विहितः फणानां प्राग्भारस्य भञ्जिकायाः भङ्गक्रमो येन । 'प्राग्भारो भञ्जिका
मेता ' इति विश्वः । कीदृशैः शिरोभिः । श्वासानां या ऊर्मयस्ताभिः संधिः
प्रतिश्वासनिर्गमनमार्गः संधिः मुखनासादिः तै रुन्धितो यो गलः कण्ठस्तस्य वायु-
रोधनस्थलत्वात्प्रच्छिन्नानि त्रुटितानि हारावल्या रत्नानि येभ्यस्तैः अत एव दया-
लुभि: मिथ: संधानपीडानभिज्ञैः । पुनः श्रोत्राणामभावान्निरन्तराल॑मन्तरालशून्यं
यथा स्यात्तथाभितः सर्वतः स्तव्धैस्तत्र नैसर्गिक सौकुमार्यैः ॥ ४ ॥
रामः अये मरुत्तनय -</p>
<lg>
  <l>कूर्म क्लेशयितुं दिशः स्थायितुं भेत्तुं धरित्रीधरा-</l>
  <l>सिन्धुं धूलिभरेण कर्दमयितुं तेनैव रोद्धुं नमः ।</l>
  <l>नासीरेषु पुरः पुरथ्वलबलालापस्य कोलाहला-</l>
  <l>त्कर्ते वीरवरूथिनी मम परं जैत्र पुनस्त्वद्भुजैः ॥ ५ ॥</l>
</lg>
<pb n="98" />
<note>७. ]</note>
<p>दीपिकाख्यव्याख्योपेतम्
।</p>
<p>तेन धूलीभरेण रोमाच्छादयितुं नासीरेपूमयायिषु पुरोऽये घलं चलितं यद्वलं
सैन्यं तस्यालापत्य यागाडम्वरस्य । वहुजैरिति पूज्यत्वाहुवचनम् । जे
वा पाठः ॥ ५॥
भिल्लीभिः सहासम्-</p>
<lg>
  <l>नो शस्त्रं नापि शास्त्रं न हि च रथकथा नापि दन्ती न वाजी</l>
  <l>नोक्षाणो नापि चोटा बत न च शिविरो नापि राजा जटावान् ।</l>
  <l>नो वित्तं नापि वस्त्रं न च नृपरचना काचिदत्रास्ति मातः</l>
  <l>मातर्द्रष्टु स्थिताभिर्गिरिवर कुहरेऽभापि भिल्लीभिरेवम् ॥ ६ ॥</l>
</lg>
<p>हे मातः, अत्रः कटके काचिनृपतिरचना नास्तीति भिडीभिरभापि उक्तम् ।
इति किम् । यत हास्यम् 'हास्य हर्पविपादेषु वत हा कष्टकोपयोः' इति धरणिः ।
उक्षणो वृपाः । शेषं सुगमम् ॥ ६ ॥
भिल्लीमातरः-</p>
<lg>
  <l>विजेतव्या लडून चरणतरणीयो जलनिधि-</l>
  <l>विपक्ष: पौलस्त्यो रणभुवि सहायाश्व कपयः ।</l>
  <l>•तथाप्येको रामः सकलमपि हन्ति प्रतिवलं</l>
  <l>क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥७॥</l>
</lg>
<p>हन्ति हनिप्यति 'वर्तमानसामीप्ये वर्तमानवद्वा' प्रतिवलं शत्रुसैन्यम् । क्रिया-
सिद्धि: कार्यसिद्धिः सत्त्वे धैर्ये । उपकरणं रथक्षत्रादिसामग्री । सुगमम् । अनान्य-
यद्यानि सन्ति तत्र क्षेपकानीति ज्ञेयम् ॥ ७ ॥
अत्रान्तरे तत्र लङ्कायां मन्त्रणायोपविष्टो मन्त्रिभिः
प्रोत्साहितो लंकाभटानुत्कण्ठं बभाषे बिभीषणः-</p>
<lg>
  <l>सुवर्णपुंखाः सुभटाः सुतीक्ष्णा वज्रोपमा वायुमतः प्रवेगाः ।</l>
  <l>यावत्र गृह्णन्ति शिरांसि बाणाः प्रदीयतां दाशरथाय मैथिली ८ ॥</l>
</lg>
<p>मन्त्रशाला तु मन्त्रणे' इति शाश्वतः रामवाणाः तव शिरांसि ॥ ८॥</p>
<pb n="99" />
<p>हनुमन्नाटकं -
बिभीषणो रावणं प्रत्याह-</p>
<lg>
  <l>जातिं मानय मानुषीमभिमुखो दृष्टस्त्वया हैहयः</l>
  <l>स्मृत्वा वालिभुजौ च सांप्रतमवज्ञातुं न ते वानराः ।</l>
  <l>तत्पौलस्त्यमहानिहोत्रिणमहं त्वामेवमभ्यर्थये</l>
  <l>सीतामर्पय मुञ्च च क्रतुभुजः काराकुटुम्बीकृतान् ॥९॥</l>
</lg>
<lg>
  <l>त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् ।</l>
  <l>प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली ॥ १०॥</l>
</lg>
<p>[ अङ्कः-
ननु नराः वानराः किं करिष्यन्ति तत्राह-वानरमानुषीं जाति मानय वहु
जानीहि । केयं जातिरिति तत्राह-अभिमुखो हैहयोऽर्जुनः त्वयैव दृष्टः ज्ञातः
तत्कारागृहनिवासित्वात्तत्प्रसिद्धाः वानरा अवज्ञातुं तिरस्कर्तुं सांप्रतं योग्यं न ।
' योग्ये सद्योपि सांप्रतम् ' इति विश्वः । कुतः । वालिभुजौ स्मृत्वा भूक्रामणे
कक्षान्तरावस्थितत्वात्तत्तस्मादत एवं वानरा महानिहोत्रिणं त्वां रामप्रतापानी
राक्षसकुलहविष्यहोतारं प्रार्थये । किं प्रार्थयसीत्यत्राह - सीतां मुञ्च, कारागृहमेव
कुटुम्वं येषां तांस्त्वत्कारागृहनिरुद्धान्मुच सीतां समर्पयेति । अत्रेदं वृत्तम् - पुरा
रावणेन धर्म त्याजितैर्मुनिभी रुषा स्वस्वाङ्गजनितधर्मजलं कुम्भे मक्षिप्तम् । एतेन
तव नाशो भविष्यतीत्युक्त्वा कुम्भं भूमौ निधाय गताः । ततो जनकयज्ञार्थे हला-
कर्षणकाले तद्भेदादाविर्भूता सीता समुत्थिता । सा जनकजेत्युच्यते, अतो जनक-
प्रसूतामित्युक्तम् ॥ ९ ॥ १० ॥
.
रावणः सक्रोधम् -
जानामि सीतां जनकप्रसूतां जानामि रामं मधुसूदनं च ।
वधं च जानामि निजं दशास्यस्तथापि सीतां न समर्पयामि ११
वधं च जानामीत्यनेन मम वघोऽवश्यं भवितेति ध्वनितम् । तां तु न समर्प -
यामीत्युक्तम् । कुतो न समर्पयसीत्यत्राह-दशास्येति । दशास्यो भूत्वा एकात्याय
कथं समर्पयामीति गूढोऽभिप्रायः । अन्यत्सुगमम् ॥ ११ ॥</p>
<pb n="100" />
<p>19
७]
यापकाव्य व्याख्यापतम् ।
इति वामचरणेन विभीषणं ताडयामीस
विभीषणः-</p>
<lg>
  <l>ततश्चतुर्भिः सह मन्त्रिपुत्रैरुत्सृज्य रक्षःकुलधूमकेतुम् ।</l>
  <l>लडामहातंक इवाम्बरेण विभीषणो राघवमाजगाम ॥ १२ ॥</l>
</lg>
<p>You</p>
<p>Kao
नगर.
के इव । विभीपण: लङ्कायाः महातङ्कः भयमिव । पुनः रक्षःकुलाय धूमकेतु-
रिव । अत्ययहेतुरित्यर्थः । सुगमम् ॥ १२ ॥
आगते विभीषणे परस्परं वानराः-</p>
<lg>
  <l>अद्यैवास्थ विभीषणस्य शरणापन्नस्य मूर्ध्ना नते-</l>
  <l>रानृण्याय ददात्ययं रघुपतिर्लंकाधिपत्यश्रियम् ।</l>
  <l>एतस्यैव भुजाविह प्रतिभुवौ सुग्रीवराज्यार्पणे</l>
  <l>त्रैलोक्यप्रथिमानसत्यचरिताः सर्वे वयं साक्षिणः ॥१३॥</l>
</lg>
<p>या विभूतिर्दशग्रीवे शिरच्छेदेपि शंकरात ।..
दर्शनाद्रामदेवस्य सा विभूतिर्विभीषणे ॥ १४ ॥
शिरसां कर्तने कृते सति । एतेन सेव्यत्वं तमःशरीरत्वं द्योततम् ॥ १४ ॥
अयं रघुपतिः अस्य विभीपणस्याद्यैव लङ्काधिपत्यं श्रियं ददाति दास्यति । कस्याः ।
मूर्ध्ना मस्तकेनानतिर्दण्डवत्प्रणिपातः स एवानृण्यं तद्नृणाय नमतः । अनृण्याये-
त्यर्थः । अत्र विचिकित्समानान्कांश्चिदाहुः । इह संदेहे एतस्य रामस्यैव भुजौ
सुग्रीवराज्यार्पणप्रतिभुवाबुदारौ आद्रौं वा 'शत्रुजारमहोदारजलेषु प्रतिभूस्त्रियाम् '
इति शाश्वतः । अत्र सर्वे वयं साक्षिणः । कीदृशा: । त्रैलोक्ये प्रथिमा पृथुत्वं
सर्गसमय: अनः असुखं नाश इति 'नश्च निर्वृतिवाचकः' इत्युक्तत्वात्सर्गनाशयो-
मध्ये सत्यचरं पूर्व सत्यचरम् 'भूतपूर्वे चर' विश्वादिमध्यावसाने च सत्यं रामं
इता शरणं प्राप्ताः । तद्रक्ता इति अन्योऽर्थः स्फुट एव । तथा सुग्रीवाग्रजं हत्वा
तस्मै राज्यं दत्तं अस्याग्रजमपि हत्वास्मै राज्यं दास्यतीति भावः ॥ १३ ॥</p>
<pb n="101" />
<p>हनुमन्नाटकं -
ततो रामेण -</p>
<lg>
  <l>अथ दशरथपुत्रे तत्र सौमित्रिमित्रेऽ-</l>
  <l>प्युदगुदधितटान्ते गर्भदर्भावकीर्णे ।</l>
  <l>अहमिह विनिविष्टे नावतोऽयेतिरोषा-</l>
  <l>यदि जलधिरनेनाप्यात्तमाग्नेयमखम् ॥ १५ ॥</l>
</lg>
<p>ततो विभीषणः रामपादौ प्रणम्योपविशति- दशरथपुत्रे उदक्उद्धितटान्ते उत्तर-
दिक्समुद्रतटे विनिविष्टे सति यदि यदा जलनिधिः अग्रे रामपुरतो नागतः देवरूपेण
नाविर्वभूव । तदानेन रामेणाप्याग्नेयं तज्जलशोषणहेतुमस्रं चाणमाददे गृहीतम् ।
कीदृशे तटे । गर्भे मध्यदेशे उपवेशनस्थाने दुर्भैराकीर्णे आस्तृतदर्भे इत्यर्थः ॥ १५ ॥</p>
<lg>
  <l>श्रीरामचन्द्रे दशवहानौ कृतोद्यमे क्रव्यभुजः समस्ताः ।</l>
  <l>मित्राण्यमन्यन्त मृगं कपिं च तपोधनं गाढतरं वनं च ॥ १६॥</l>
</lg>
<p>-
[ अङ्क:-
मैनाकवात्सल्यादिति भावः । मृगं मारीचं, वचनहेतुत्वात् । कपिं हनूमन्तं,
सीतामार्गणहेतुत्वात् । तपोधनं शापदातारं वैश्यं दशरथशापदातृत्वात् । वनं
सीताहरणहेतुत्वात् । राक्षसवधे मांसवाहुल्यादिभिरुपकारः कृत इति भावः ॥ १६ ॥
समुद्रो रामं प्रति-
अस्मद्गोत्रे भविष्यद्दशरथनृपतेरश्वमेधेषु सर्पिः-
संपातोत्तापलोलज्वलदनल कलाव्याकुलं कूर्मराजम् ।.
ज्ञात्वा रोदः पुटं वा ननु तव सगरः प्राग्भवो भाविवेत्ता
नेता सप्ताम्बुधीनामपि सविधमवाग्वान्तरश्मिः स्रवन्तीम् १७॥
-
ततः अतिभयेनैवाशु वारिधिः स्वस्मिन्कृपामुत्पादयितुं तत्पूर्वजकर्तृत्वमात्मनो
द्योतयन्नवध्यत्वमाविष्करोति - अस्मद्रोत्रे इति । भो राम, तव प्राग्भवः पूर्वजः
सगरः अधि उच्चैः सविधं गंङ्गामवाक् निर्ममे । आनीतवानिति यावत् । यद्यपि
भगीरथेनानीता गङ्गा, तथाप्यश्वान्वेपणपुत्रदाहादिवीजत्वात्सगर एव आनीतवा-
मिति ध्वन्यर्थः । 'उपर्यध्यधसः सामीप्ये' इति शाश्वतः । 'गङ्गा वान्तिकगर्भोद-
वित्तेपु सविधोऽस्त्रियाम्' इति धरणिः । अन्न गर्भोदसविधार्थैक्येन गङ्गा गृह्यते
•</p>
<pb n="102" />
<note>७.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>अवागिति 'वचि निर्माण' इति अस्य धातोर्लुङि रूपं कविकामधेनौ । ननु पुनरपि
सप्ताम्बुधीनां वान्ता अधोगता ये रश्मयस्तरङ्गास्तेपां स्रवन्तीमष्टमं समुद्रम् ।
मामङ्गीकृत्येत्यर्थः । यद्वा सप्ताम्वुधीनां मध्ये समं मामकृतेत्यर्थः । विसर्गान्तपाठे
वान्ताः सर्वगता रश्मयस्तेजांसि 'अश्वस्त्री पशुभेदे पुमान्' इति धरणिः । 'नद्यष्टम-
प्रधानेपु स्रवन्ती स्यात्पुमान्हरेः' इति चरकः । अतः लवन्तीं अष्टमंम् 1 किं कृत्वा ।
अस्मद्रोत्रे वंशे भावी यो दशरथाख्यनृपतिस्तस्याश्वमेधेपु यः सर्पि: संपातः घृता-
दिहोमस्ततो य उत्तापस्तयुक्ता या: लोलाः सर्वतः प्रसरन्त्य उज्ज्वलद्नलस्य कलाः
ज्वालास्ताभिर्व्याकुलं अध: कूर्मराज: ज्ञात्वा ऊर्ध्वं च रोदःपुटं 'द्यावाभूमी च
रोदसी' इत्यमरः । द्यावाभूमी ज्ञात्वा । नन्वेतत्पुरैव कथं ज्ञातमिति चेत्तन्नाह -
भाविवेत्ता एतद्भविष्यतीति ज्ञानवान् । यतस्त्वत्पूर्वजकर्तृकोऽहमतो भवदवध्योऽ-
स्मीति भावः । 'विपवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इति ॥ १७ ॥
रामः सरोषम् -</p>
<lg>
  <l>चापमानय सौमित्रे राघवेऽधिज्यधन्वनि ।</l>
  <l>समुद्रं शोषयिष्यामि पदा गच्छन्तु वानराः ॥ १८ ॥</l>
</lg>
<p>अत्रेदं पूर्ववृत्तम् - मन्दरपर्वतस्थो विश्वकर्मा नलपिता प्रसन्नः सन्नलमात्रे वरं
ददौ । तव पुत्रों नलो मत्तुल्यो भविता अन्यच्च शिल्पकर्मणि अनेन प्रक्षिप्तं शिला-
तृणकाष्ठादिकमपि जलेऽप्युपर्येव स्थास्यते । अतो नलेन सेतुर्वद्ध इति रामायणे
उक्तम् । एते गुणा: प्रस्तरतरणरूपा:- 'ग्रावाण: प्रस्तरा : शिलाः' इति शाश्वतः ।
हे श्रीमद्दाशरथे, यद्वा पष्ठयन्तं श्रीमद्दाशरथेस्तव ॥ १८ ॥
ततः प्राञ्जलिपुटोपस्थितस्य समुद्रस्याज्ञया नलेन निबध्य-
माने सेतौ तरतः प्रस्तरानवलोक्याह हनुमान-
ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे</p>
<lg>
  <l>.</l>
  <l>वार्थी वीर तरन्ति वानरभटान्सन्तारयन्तेऽपि च ।</l>
  <l>नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः</l>
  <l>श्रीमद्दाशरथेः प्रतापमहिमारम्भः समुज्जृम्भते ॥ १९ ॥</l>
</lg>
<pb n="103" />
<p>S</p>
<p>हनुमन्नाटकं -</p>
<lg>
  <l>[ अङ्क:-</l>
  <l>कपेथ्व सेनाप्लवगैः पुरोगैः पाथोमयं भूवलयं व्यलोकि ।</l>
  <l>तत्पृष्ठगैः पङ्कमयं तदान्यैरासीदिहाम्भोनिधिरित्यवादि॥२०॥</l>
  <l>इति श्रीहनुमन्नाटके सेतुबन्धनं नाम सप्तमोऽङ्कः ॥ ७ ॥</l>
</lg>
<p>एतत्पद्येन सैन्यवहुत्वं द्योतितं न तु वास्तवम् । यद्वा नराणां उन्मादो जातः स
चाति आहवान्तः ततो हृद्भमस्तस्मादियमुक्तिः । अन्यथा समुद्रे पकादिदर्शनं पुनस्त-
दुभावोऽपि वास्तवश्चेत्ततः सेतुबन्धनादिकमप्रयोजकं स्यात् । उक्तं च रसोदधौ-
'श्रौढानन्दयुजो यस्तद्रूपः स उन्मादः' इति ॥ १९ ॥ २० ॥
इति हनुमन्नाटके टीकायां सेतुबन्धः सप्तमोऽङ्कः ॥ ७ ॥
अष्टमोऽङ्कः ।</p>
<lg>
  <l>रामः सुवेला द्रितटेऽवतीर्णः समुद्रमुढङ्ख्य विकीर्णसैन्यः ।</l>
  <l>कृपामुपेत्यारिकुलस्य दूतं सुरेन्द्रप्तारमथादिदेश ॥ १ ॥</l>
</lg>
<p>विकीर्ण सर्वतो विक्षिप्तं सैन्यं यस्य सुवेलपर्वतावतारे ॥ १॥
रामः - भो महावीराङ्गद ।</p>
<lg>
  <l>.अज्ञानादथवाधिपत्य रभसादस्मत्परोक्षे हता</l>
  <l>सीतेयं परिमुच्यतामिति वचो गत्वा दशास्यं वद ।</l>
  <l>नो चेलक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित-</l>
  <l>च्छत्रच्छन्नादगन्तमन्तकपुरं पुत्रैर्वृतो यस्यसि ॥ २ ॥</l>
</lg>
<p>'रभसो गर्वबेगयोः' इति चरकः । न त्यजसि तर्हि लक्ष्मणेन मुक्ता ये मार्गण
गणा वाणवातास्तैर्ये छेदाः प्रहारास्तेभ्य उच्छलंत्युद्गच्छन्ति शोणितानि तद्युक्तैश्छन्नैः
कण्ठैरातपत्रैवी छन्नमाच्छादितं वा यथा स्यात्तथा यमपुरं यास्यसीति 'ग्रीवातपत्र-
योच्छन्नम्' इति शाश्वतः । अत्र छत्रं ग्रीवा ॥ २ ॥
अङ्गदः -
यथाज्ञापयति देवः ।</p>
<pb n="104" />
<p>M
दीपिकाख्यव्याख्यापेतम् ।
स्वगतम्-</p>
<lg>
  <l>हन्तुर्हन्तास्मि नो चेत्पितरपि परमोत्पन्नसम्पूर्ण कार्य</l>
  <l>स्याद्वै युद्धे वधिष्याम्यखिलकपिभटैरुत्कटो हन्तुमेकः ।</l>
  <l>ज्ञात्वा संत्यज्य वैरं गगनमिति समुत्पत्य लंकोद्धटस्य</l>
  <l>प्रौढ: पट्टाधिरूढः सुरपतिसुतजस्तन्महोत्पातकेतुः ॥ ३ ॥</l>
</lg>
<p>चेद्यदि पितृवैरमनुस्मृत्य रामं हन्मि तर्हि महदकायै स्यात् । चेत्पितुर्वालिनो
हन्तुर्घातकस्य रामस्य हन्ता नोऽस्मि न स्यां तर्हि अपिशव्दात्पुनर्जनयितुर्वालिनञ्च
परमं महदुत्पन्नमुपस्थितं संपूर्ण कार्य न स्यात् । वैशव्दादत्रापि पुनर्योजनम् । तथापि
पितुर्हन्तु: रामस्यापि कार्य स्यात् । वालिनोऽपि रावणः शल्यं रामस्यापि । अत
एव तद्धनने उभयोः कार्य स्यादिति भावः । अतोऽखिलकपिभटैः सार्धमपि तं
राममेकोऽप्यहं वधिप्यामीति ज्ञात्वा विचार्य वैरमपि संत्यज्य गगनं समुत्पत्य लङ्का-
धिपस्य पट्टाधिरूढः । वहिः सिंहासनस्थोऽभवदित्यर्थः । तत्रापि प्रौढ : सगर्वः सुरप-
तिसुतो वाली तस्य तनयः तस्य । रावणस्यात्यनिष्टाय महोत्पातकेतुर्धूमकेतुः ॥ ३ ॥
<. ]</p>
<lg>
  <l>ततः प्रविशत्यञ्जलिबद्धः प्रहस्तः ।</l>
  <l>देव रामस्य दूतः शाखामृगो द्वारे ॥</l>
</lg>
<p>रावणः-
प्रवेशय ।</p>
<p>ततः प्रविशति प्रहस्तेन सहाङ्गदः ।
आकाशे लक्ष्यं बद्धा ।</p>
<lg>
  <l>रे राक्षसाः कथयत क स रावणाख्यो</l>
  <l>रत्नं रवीन्दुकुलयोरपहृत्य नष्टः ।</l>
  <l>त्रैलोक्यदीपन करत्रिशिखाकराले</l>
  <l>यो रामनामदहने भविता पतङ्गः ॥ ४ ॥</l>
</lg>
<p>रे इत्यनादरे । रे राक्षसाः कथयत वदत । रावणाख्यः रावणेति नामा राक्षस:
च। कीदृशः । रवीन्दुकुलयोः सोमसूर्यवंशयोर्मध्ये रत्नं रूपगुणासाधारणीं सीताम-</p>
<pb n="105" />
<p>हनुमन्नाटकं -
[ अङ्क:-
पहृत्य नष्टः निलीय स्थितः । त्रैलोक्यदीपनकरस्य रुद्रस्य त्रिशिखवत्रिशूलवत्कराले
भयंकरे । सुगमम् ॥ ४॥
रावण: साभ्यसूयम्-
सोऽपि त्वं कमिहावगच्छसि पुरा योऽदाहि लाङ्गूलतो
बद्धो मत्तनयेन हन्त स कथं मिथ्यावदन्नः पुरः ।
किं लङ्कापुरदीपनं तव सुतस्तेनाहतोऽक्षो युधी-
त्युक्तः कोपभयत्रपाभरवशस्तूष्णीमभूद्रावणः
॥ ५ ॥
अन्न उक्तिप्रत्युक्त्योद्घाटनम् । एवार्थेऽपिशब्दः । सोऽपि त्वं त्वमेव अङ्गदः ।
सोऽपि त्वं कमिवावगच्छसि कमिव जानासि ? यः पुरा लांगूलतः अदाहि मत्तनये-
नेन्द्रजिता बद्धश्च हन्तेति वितर्फे । स हनूमान् नोऽस्माकं पुरोऽग्रे कथं मिथ्यावदत् ।
किं मिथ्योक्तम् । अङ्गदः । लङ्कापुरीदहनं मया कृतमित्युक्तम् । तव सुतोऽक्षनामा
निहत इत्युक्तम् । तेनाङ्गदेनोक्तो रावणस्तूष्णीमभूत् । कीदृशः । कपौ अङ्गदे, भयं
हनूमतः, त्रपा श्रोतृभ्यः, एतदधीनः रावणः ॥ ५ ॥
रावणः-
कस्त्वं वानर रामराजभवने लेख्यार्थसंवाहको
यातः कुत्र पुरा गतः स हनुमान्निर्दग्धलङ्कापुरः ।
अङ्गदः साधिक्षेपम्-
बद्धो राक्षससूनुनेति कपिभिः संताडित स्तर्जितः
सव्रीडार्तिपराभवो वनमृगः कुत्रेति न ज्ञायते ॥ ६ ॥
अत्राप्युभयवादः । यो हनूमान्पुरा आगतः स कुत्र यातः ? ब्रीडैवार्तिस्ततः
पराभवो यस्य ॥ ६ ॥
यो युष्माकमदीदहत्पुरमिदं योऽदीदलत्काननं
योऽक्षं वीरममीमरगिरिदरीर्योऽबीभरद्राक्षसैः ।</p>
<pb n="106" />
<lg>
  <l><.j</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>सोऽस्माकं कटके कदाचिदपि नो वीरेषु संभाव्यते</l>
  <l>दूतत्वेन इतस्ततः प्रतिदिनं संप्रेष्यते सांप्रतम् ॥ ७ ॥</l>
</lg>
<p>संभाव्यते संभावितः क्रियते । अदीदलदुन्मूलयांमास । सुगमम् ॥ ७ ॥
अपि च -</p>
<lg>
  <l>यो लङ्कां समदीदहत्तव सुतं रक्षांसि चापीपिष-</l>
  <l>यः कौशल्यमवीवदज्जनकजामब्धि तथातीतरत् ।</l>
  <l>यश्वारामममूमुटत्स हनुमानस्मत्प्रवीरोयमे</l>
  <l>• दूराक्रामणदौत्य एव न पुनर्योद्धुं समादिश्यते ॥ ८ ॥</l>
</lg>
<p>अत्रानेकानि पद्यानि क्षेपकानि तेषु कानिचिल्लिख्यन्ते । यो जनकजां प्रति कौ-
शल्यं रामकुशलत्वमवीवदत् । आरामममूमुटत् भङ्गीचकार 'मुट भंगे । स हनू
मान्यवीरोऽद्य मे प्रकृष्टानां वीराणां संमदें सति योद्धुं नादिश्यते परंतु दूरोल्लंघने
दौत्ये चादिश्यते इति यस्तव तादृगवमानं कृतवान् सोऽस्माकं न कियानपति
भावः ॥ ८ ॥
.
रावणः सावज्ञम्</p>
<lg>
  <l>रामः स्त्रीविरहेण हारितवपुस्तच्चिन्तया लक्ष्मणः</l>
  <l>सुग्रीवोऽन्दशल्यभेदकतया निर्मूलकुलद्रुमः ।</l>
  <l>गण्यः कस्य विभीषणः स च रिपोः कारुण्यदैन्यातिथि-</l>
  <l>कातङ्कविटंक पावकपटुर्वथ्यो ममैकः कपिः ॥ ९ ॥</l>
</lg>
<p>रे अङ्गद, स एक एव कपिर्वध्योऽस्ति । ननु चहुपु वीरेपु सत्सु कथमेक एवं
वध्य इत्यपेक्षायामाहे---
रामः स्त्रीविरहेण हारितं वपुर्येन सः तच्चिन्तया रामस्य
चिन्तया लक्ष्मणोऽपि हारितवपुः सुग्रीवः निर्मूलकूलद्रुमः निर्मूलितनदीतटवृक्षव-
त्पातुकः, अतिवृद्धत्वादंगदशल्यभेदकतया वाली तु तेन घातितः तत्सुतोऽङ्गदस्तस्य
भेदकतया सशल्यो निरुत्साहः सन्मृतवत्, विभीषणः कस्येति केन गण्यः ? सच.
विभीषणो रिपो रामस्य कारुण्यस्य दैन्येन मनोवलाभावेन अतिथिजतः । 'का-</p>
<p>t</p>
<pb n="107" />
<p>हनुमन्नाटकं -
-[ अङ्कः-
रुण्यं करुणा घृणा, इत्यमरः । क्रीदृशः कपिः । लङ्कायास्तद्वासिजनानां आतङ्कवि-
ट्ङ्कः भयनिर्मितो यः पावकस्तद्दाने पटुः । मध्यमपदलोपीसमासः । यद्वा स्त्रीविः
अहेण हा अरितवपुरिति पदच्छेदः । स्त्रीविः सीताकासुको राम: अहेण कोपातिश-
येन अरितवपुः शत्रुघातकशरीरः । हेति कष्टम् । 'पक्षिकामुकयोर्वि: स्यात् ' इत्ये-
काक्षर: । 'अहेणेति दिनकोपातिशयोः' इति लिङ्गानुशासने । 'अरितः शत्रुघातकः'
इति सारस्वतः । अयं वार्थः ॥ ९ ॥</p>
<lg>
  <l>कस्त्वं वन्यपतेः सुतो बनपतिः कः सार्थिकस्त्वेकदा</l>
  <l>यातः सप्तसमुद्रलंघनविधावेकाह्निको वेभि तम् ।</l>
  <l>अस्ति स्वस्तिसमन्वितो रघुवरे रुष्टेऽत्र कः स्वस्तिमा-</l>
  <l>न्को भूयादनरण्य कस्य मरणातीतोचिताम्बुप्रदः ॥ १० ॥</l>
</lg>
<p>वन्यपतेर्वालिन: एकस्मिन्नहाने यातः एकाह्निकः । अत्र विषये रावणः को भूया -
स्कोऽपि भवतु । अंगदः अनरण्याख्यो रामपूर्वज: अपूर्वरणे रावणेन इतस्तद्वैरं
Č
स्मारयति — अनरण्यकस्य राज्ञः मरणसमयादागतं यदुचिताम्वुत्वाद्रुधिरतर्पणं
तत्प्रदः । यस्त्वद्रुधिरेणानरण्यं तर्पयिष्यतीति भावः । अत्र सर्वत्रैकाङ्के उक्तार्थवादः
नियोक्तृविस्मृतित्वात् ॥ १० ॥
रामः किं कुरुते प्रतीपविजयं कोऽसौ प्रतीपो जितो</p>
<lg>
  <l>✪</l>
  <l>वाली सोजी च को न वेत्सि किममुं को वेत्ति शाखामृगम् ।</l>
  <l>आस्तेऽत्रापि तवास्ति विस्मृतिरहो मोहो महानीदृशः</l>
  <l>पर्यङ्के निजबालकेलिकतये वृद्धोऽसि येनोपरि ॥ १३ ॥</l>
</lg>
<p>असौ त्वढुक्तो राम इति योज्यम् ' आस्तु स्यात्कोपपडयो: ' इत्यमरः । येन
वालिना मदीयक्रीडाथै उपरि पर्य ऊर्ध्वचरणोऽधः शिरास्त्वं वद्धोऽसि । तत्रापि
चालिनि तस्मिन्नपि वालिनि तवापि भवतो विस्मृतिः? अहो महदाश्चर्य मोहो मूढता .
महानस्तीति ॥ ११ ॥
अङ्गदः-
आदौ वानरशावकः समतर दुर्लंघ्यमम्भोनिधिं
दुर्भेयान्त्रविवेश दैत्यनिवहान्त्संपेष्य लंकापुरीम् ।
"
।</p>
<pb n="108" />
<lg>
  <l>८. ]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>क्षिप्त्वा तद्वनरक्षिणो जनकजां दत्त्वा तु भुक्त्वा वनं</l>
  <l>हत्वाक्षं प्रदहन्पुरीं च स गतो रामः कथं वर्ण्यते ॥ १२ ॥</l>
</lg>
<p>रावणविजयिवालिह्ननाद्रामवलमुपदिश्य पुनः कैमुतिकन्यायेन राममनुवर्ण-
यति - दुर्भेद्यानजेयान्दैत्यनिवहान्समुद्रलंघनविघ्नकरान्दैत्यव्रजान्संपीड्य
लङ्कापुरीं प्रविवेशेति योज्यम् । क्षिप्त्वा तिरस्कृत्य त्वां हत्वा त्वयि विद्यमाने त्वत्सु -
तहननं त्वद्धननं पुरीं लङ्कां प्रदहन् स च वानरोऽपि तूष्णीं गतः असदृक्षानेकेशो
रामः कथं वर्ण्यत इति ॥ १२ ॥
-
हत्वा
रावणः समाक्षिपति-</p>
<lg>
  <l>भग्नं भस्ममुमापतेरजगवं वाली क्षतः सूक्ष्मत-</l>
  <l>स्तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्व सः ।</l>
  <l>आः किं तेन सशैलसागरधराधारोरगेन्द्राङ्गदं</l>
  <l>साद्रि रुद्रमुदस्यतो निजभुजाञ्जनात्यसौ रावणः ॥ १३ ॥</l>
</lg>
<p>आ: कोपे । तेन रामेण किं ? न किमपीत्यर्थः । असौ मलक्ष्मणः रावणः निज-
भुजानात्मभुजपराक्रमाञ्जानाति, किंविशिष्टान्भुजान् । साद्रिं रुद्रमुदस्यत उद्धृत-
वतः । कीदृशं रुद्रम् । शैलाञ्च सागराध धरा च एतेपामाधारश्चासावुरगेन्द्रश्च स एवा..
दं] बाहुभूपणं यस्य तम् । पूर्वभागप्रकरणे स्पष्ट एवार्थ: प्रतिपाद्यते, तेन रामेण
अजगवं भमं रामेतरैर्मनसाप्यधूप्यं किमु भक्तं ' त्रुटिताधृष्ययोर्भमं भन्नोस्त्री नाश-
खण्डयो: ' इति शाश्वतः । रामेणेति सर्वत्र । वाली क्षतः घातितः । कीदृशो
वाली । सुक्षतः शोभना विजयसूचकाः क्षताः प्रहारा यस्य । अनेकयुद्धविजयी-
'त्यर्थः । ताला हता हिंसिताः परमारणोपायज्ञाः । 'हन हिंसागत्योः ' । गत्यर्थाः
ज्ञानार्थाः । जलधिर्वद्धः । किंभूतो जलधिः । दुष्प्रेक्ष्य: किमु बद्ध इति बन्धने पटु-
रालोके 'वद्धः संख्याजयोः पुमान् इति धरणिः । किं कृत्वा धनुर्भनम् । रुद्रं
'
दण्डमुदस्योच्चैराक्षिप्येति । तालाः किं कृत्वा हताः । सशैलसागरधरश्वासावरगेन्द्रः
शेष: तस्यांगदं उदस्य लक्ष्मणपादांगुष्ठेनाक्षिप्य ' शिरोवानरभूपासु जनकेऽप्यङ्गदः
पुमान् ' इति धरणिः । जलधिर्बद्धः । किं कृत्वा । वरुणार्कयुक्तोदकस्य तद्बृहत्वात्
'साद्रिवरुणपङ्कयो: ' इति हैम: 'अद्रयो द्रुमशैलार्काः' इत्यमरः । असौ रावणो
निजभुजा जानातीति कटाक्षः । कीद्दंशोऽसौ तः चौर्यकृत् ' तकारचौर्यगर्वयोः
इति हैमः ॥ १३ ॥</p>
<pb n="109" />
<p>हनुमन्नाटकं -
अङ्गदः साटोपं स्वामिभक्तिमभिनीय-</p>
<lg>
  <l>कृत्वा कक्षागतं त्वां कपिकुलतिलको वालिनामा बलीया-</l>
  <l>त्रान्तः सताब्धितीरे क्षणमिव चरितं स्नानसन्ध्यार्चनं च ।</l>
  <l>बाणेनैकेन येनाहत इति पतितो वानरव्रीडयैव</l>
  <l>त्यक्त्वा सोऽपि प्रगर्व घुमणिसुतपुरं मुञ्च लंकेश गर्वम् ॥ १४ ॥</l>
</lg>
<p>[ अङ्कः-
ज्ञानपूर्वकं संध्यार्चनं च तेन चरितं कृतं एवंभूतो वाली येन रामेण एकेनैव
चाणेन हृतः कोपेन हतः सोऽपि वाली प्रगर्व त्यक्त्वा घुमणिसुतो यमस्तत्पुरं
पतितः प्राप्तः । तस्माद्भो लङ्केश गर्व मुश्च । के वयं वानरत्रोडयैव वानराणां लज-
यैव यमपुरं गत इति त्वद्विजयी वाल्येवाहतः । भवतः का कथेति भावः ॥ १४ ॥</p>
<lg>
  <l>यत्संदेशहरेण मारुतसुतेनातारि वारां निधिः</l>
  <l>क्षिं गोष्पदवन्निजालयमिव प्रावेशि लङ्कापुरी ।</l>
  <l>सीतादर्शि समभ्यभाषि च वनं चामञ्जि रक्षः पतेः</l>
  <l>सैन्यं भूर्यवधि व्यदाहि च पुरी रामः कथं वक्ष्यते ॥ १५॥</l>
</lg>
<p>निजालयमिव निजगृहमिव सीता अशिं च समभ्यभाषि च । यस्य संदेशहरे
तत्कृतं स रामः कथं कथ्यत इति ध्वनिः ॥ १५ ॥
'रावणः सकोधम् -</p>
<lg>
  <l>कुतो हन्तारण्ये कनकमृगमात्रं तृणचरं</l>
  <l>कुतो वृक्षाद्वृक्षप्लवननिपुणो वालिनिहतः ।</l>
  <l>कुतो वह्निज्वालाजटिलशरसन्धानसुदृढ-</l>
  <l>स्त्वहं युद्धोद्योगी गगनमधितिष्ठेन्द्र विजयी ॥ १६ ॥</l>
</lg>
<p>' अरण्ये तृणचरं तत्रापि कनकमृगमात्रं, न तु सिंहादि हतवानिति शेषः । हन्त
घातकः कुतो यातः । गगनमधितिष्ठेऽधिश्रिये गगनलोकानपि जितवानिति भावः</p>
<pb n="110" />
<p><.]
दीपिकाख्यव्याख्योपेतम् ।
कीदृशोऽहं इन्द्रविजयी । अनैकारादिकारलोपः । तदुक्तं शब्दभास्करे 'कचिदेड:
अकाराकारेकाराणां कचिल्लोप: स्यान्न शश्वत्' । सुगमम् । अथवागर्थ: 'तृणं पिशि-
तशप्पयोः' इति हैमी । तृणचरं मांसाशिनं रक्षोरूपं 'वृक्षो ना द्वीपशाखिनोः' इति
धनंजयः । द्वीपदिपि द्वीपप्लवने द्वीपोल्लंघने विदग्धः । कुतो राम एव तद्धन्ता ।
वह्निज्वालेत्यादि रामविशेषणम् । पुनः कीदृशो रामः । इन्द्रस्य विजयः इन्द्रविजयः
इन्द्रजयकारक इति । कुतोऽहं रावणः । उद्गतो योग उद्योगः । उद्योगी रणसभयः
सन् अधितिष्ठे गगनं लाघवम् ॥ १६ ॥
अङ्गदः समदम्-
संधौ वा विग्रहे वापि मयि दूते दशानन
अक्षतो वा क्षतो वापि क्षितिपीठे लुठिष्यसि ॥ १७ ॥
संधौ अक्षतः । दशाननीति पाठे समाहारे ईपें । दशानामाननानां समाहारस्त्व-
मिति ॥ १७ ॥
अवेहि मां रावण रामदूतं बाणा यदीयाः खरदूषणैणम् ।
भुक्त्वा तृषार्ता इव शोणिताम्भः पास्यन्ति ते कण्ठघटैः सरन्धैः १८
खरदूषणौ इत्युपलक्षणम् । खरत्रिशिरस एते एणा: एणानां मांसं ऐणम् । अन्य-
सुगंसम् ॥ १८ ॥
रावणः - वानराधम ! कटुअलापिन्पश्य-
-</p>
<lg>
  <l>मृत्युः पादान्तभृत्यस्तपति दिनकरो मन्दमन्दं ममाग्रे -</l>
  <l>प्यष्टौ ते लोकपाला सम भयचकिताः पादरेणुं ववन्दुः ।</l>
  <l>दृष्ट्वा तं चन्द्रहासं स्रवति सुरवधूपन्नगीनां च गर्भो</l>
  <l>" निर्लज्जौ तापसौ तौ कथमिह भवतो वानरान्मेलयित्वा ॥ १९ ॥</l>
</lg>
<p>एतन्ममैश्वर्ये सति निर्लज्जौ तापसौ इह मद वानरान्मेलयित्वा तां सीतां कथं
भवतः प्राप्नुतः । 'भू प्राप्तावात्मनेपदी' वा । अथ वागर्थः प्रतिपाद्यते । निर्गता
ब्रह्माण्डे लज्जा याभ्यां यौ वीक्ष्यान्ये सलज्जा भवन्तीति । तापसौ तपोहृदयौ ।
'तपो मे हृदयं साक्षोत्' इत्युक्तत्वात् । कथं शिरचालने कथं भवतः । अपिं तु न
भवत एव ॥ १९ ॥
1</p>
<pb n="111" />
<p>हनुमन्नाटकं -
अंगदः -
तत्क्षणाविष्कृतक्रोधः कम्पमानः पाणितलेन भूतलं ताड-
यित्वा दोः स्तम्भास्फालकेलिं नाटयति -</p>
<lg>
  <l>रे रे राक्षसवंशघात समरे नाराचचक्राहतं</l>
  <l>रामोत्तुङ्गपतङ्ग चापयुगले तेजोभिराडम्बरे ।</l>
  <l>मन्ये शैर्षमिदं त्वदीयमखिलं भूमण्डले पातितं</l>
  <l>गृधैरालुठितं शिवाकवलितं काकैः क्षतं यास्यति ॥२०॥</l>
</lg>
<p>[ अङ्कः
रामस्योङ्गौ सर्वोत्तमौ यो पतङ्गचापौ बाणधनुपी तयोर्युगले तेजोभिः क्षात्र-
प्रतापैः कृत्वा आडम्बरे समारब्धे सति 'पतङ्गी रविमार्गणौ' इति विश्वः । 'आडम्बर-
समारम्भगजगर्जितसूर्ययोः' इति विश्वः । यद्वा कीशे समरे । रामस्योत्तुङ्ग पतङ्गचा
पयुक्ताः अला दिशो यत्र सर्वदिक्षु रामवाणचापावेव दृश्ये यत्र नान्यत् 'अलोऽस्त्री
दिक्प्रदानयोः' इति चरकः । पुनः कीदृशे समरे । तेजोभिराडम्बरे प्रागल्भ्यं यत्र
अखिलं शीर्षदशकं तस्य समूहोऽनेन । शीर्षाणां समूहः शैर्षम् ॥ २० ॥
रावणः सप्रपञ्चम्-
रेरे शाखामृग ! त्वामहं धर्मशीलतया कटुपलापिनमपि न हन्मि ।</p>
<lg>
  <l>उक्तं च यथोक्तवादी दूतः स्यान्न स बध्यो महीभुजा ।</l>
  <l>क्रूरस्तदीयकोपेन काचिदैरूप्यमर्हति ॥ २१ ॥</l>
</lg>
<p>अङ्गदः सवैदग्ध्यम् -</p>
<lg>
  <l>परदारापहरणे न श्रुता या दशानन ।</l>
  <l>दृष्टा दूतपरित्राणे साधोस्ते धर्मशीलता ॥ २२ ॥</l>
</lg>
<p>+
क्रूरेति । कटुप्रलापी तदीयकोपे तस्मिन्दूते एव यः कोपस्तेन कचित्कस्मिंश्चिदङ्गे
वैरूप्यं विरूपत्वं कर्णनासाद्यभावम् ॥ २१ ॥ २२ ॥</p>
<pb n="112" />
<note>८.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
रावणः सगर्वम्-
इन्द्रं माल्यकरं सहस्रकिरणं द्वारि प्रतीहारकं
चन्द्रं छत्रधरं समीरवरुणौ संमार्जयन्तौ गृहान् ।
पाचक्ये परिनिष्ठित हुतवहं किं महे नक्षसे
रक्षोभक्ष्यमनुष्यमात्रवपुपं तं राघवं स्तौषि किम् ॥ २३१६
1</p>
<p>इदं व्यञ्जकं तेन धर्मशीलत्वमुक्तवलत्वं च । प्रकरणार्थस्तु स्पष्ट एव । अक
वागर्थ: प्रतिपाद्यते । वाणी कथयति- हे रावण, स्वकीये गृहे किं वस्तु स्तौपि ? वक
तु किमपि नास्तोति भावः । मत् मत्तः वाण्याः सकाशात् वर्णनद्वारेण तं राघवं न
ईक्षसे न विचारयसि ? तं कम् । यस्येन्द्रं माल्यकरमित्यादि योज्यम् । यचदो-
नित्ययोगात् । कीदृशं राघवम् । रक्षांसि भक्ष्याणि वध्यानि यस्य एवंभूतं मनुष्य-
मात्रं मनुष्यमात्रा अंशा यस्य एवंभूतं वपुर्यस्य ॥ २३ ॥
अङ्गदो विहस्य-
रे रे रावण हीन दीन कुमते रामोजी किं मानुषः
किं गङ्गापि नदी गजः सुरगजोऽप्युच्चैःश्रवाः किं यः
किं रम्भाप्यबला कृतं किमु युगं कामोजी धन्वी नु किं
त्रैलोक्यप्रकटप्रतापविभवः किं रे हनूमान्कपिः ॥ २४ ॥
हीना अल्पा, तत्रापि दीना, अनुकम्प्या, विमतिर्विपरीता मतिर्यस्य तत्संबुद्धिः ॥
उक्तं रसोदधौ - 'शास्त्रविचारसमुत्थं निर्धारणमर्थतो मतं विबुधैः' इति । अत एव
● शास्त्रीयते । त्रिपदं वा संवोधनम् । त्रैलोक्ये प्रकटः प्रसिद्धः प्रतापस्य विभवो
वैभवं यस्य स इति सुरगजः इन्द्रहस्ती किं साधारणो गजः, अपि तु न । तथोचै-
श्रवः कामहनुमतां प्रत्येकं प्रथमैकवचनं विशेषणम् । यद्वा बहुवचनम् । किंविशिष्टाः
सर्वे । त्रैलोक्ये प्रकटः प्रसिद्धो यः प्रतापस्तेन विभवः ईश्वराः । एतेनैतेपामैश्वर्यभी-
पणत्वं द्योतितम् । उक्तं च रसोद्धौ- 'ऐश्वयंराकृतिभिः प्रकृतिभिरपि भीपणा-
स्त्रिधा गदिताः' इति ॥ २४ ॥</p>
<pb n="113" />
<p>हनुमन्नाटकं -
रावणः सरोषम् -</p>
<lg>
  <l>कस्त्वं कस्यासि पुत्रः व पुनरिह गतः किंतु कृत्यं च कस्मा-</l>
  <l>द्विस्पष्टं विष्टपानां विजयिनमपि मां मन्यसे त्वं तृणाय ।</l>
  <l>हहो पौलस्त्यपुत्रस्तव बलमधनस्यांगदोऽहं सुवेला-</l>
  <l>संप्राप्तो रामदूतो विसृज जडमते जानकीं वा शिरो वा ॥ २५॥</l>
</lg>
<p>इह लङ्कायां पूर्व गतः हनूमान् क अधुना कुत्रास्ते । विष्टपानां स्वर्गनिवासिनां
देवानामपि विजयिनं मां तृणाय मन्यसे तृणप्रायम् । अङ्गदः हो आश्चर्यम् । हे
मौलस्त्य, तव वलमथनस्य वालिनः पुत्रोम् ॥ २५ ॥</p>
<lg>
  <l>रावणः-</l>
  <l>घिग्धिगङ्गद मानेन येन ते निहतः पिता ।</l>
  <l>निर्माना वीरवृत्तिस्ते तस्य दूतत्वमागतः ॥ २६ ॥</l>
  <l>दूतत्वं दूतभावम् ॥ २६ ॥</l>
</lg>
<p>[ अङ्कः-</p>
<lg>
  <l>अङ्गदः-</l>
  <l>युक्तं कृतं तु रामेण येन मे निहतः पिता ।</l>
  <l>त्रैलोक्ये शास्तिकृत्याय वर्तते स दुरात्मनाम् ॥ २७ ॥</l>
  <l>शास्तिर्निग्रहः स एव कृत्यं यस्मै परदारापहारिणो हननं युक्तमिति भावः ॥२७॥</l>
</lg>
<lg>
  <l>किं कार्य वद राघवस्य न च किं बद्धः किमम्भोनिधिः</l>
  <l>क्रीडार्थ कपिपोतकैरतरलं जानात्यसौ मां नहि ।</l>
  <l>लङ्कानाकनिकायवैरिवसतिं किं वेत्ति वेत्त्येव हुं</l>
  <l>को लंकाधिपतिर्विभीषण इति प्रख्यातकीर्तिर्भुवि ॥ २८ ॥</l>
</lg>
<p>.
अतरलं संग्रामेष्वपलायनं नाकनिकाया देवास्तदरेर्मम वसतिस्थानम् । हुमिति
क्रोधे । अङ्गदःप्राह–लङ्काधिपतिः कः भुवि विभीषणो लङ्केश इति प्रसिद्धकीर्तिः ।
सुगममन्यत् ॥ २८ ॥
.</p>
<pb n="114" />
<p>दीपिकाख्यव्याख्योपेतम् ।
रावणः-</p>
<lg>
  <l>बद्धः सेतुर्यदि जलनिधौ वानरस्तावता किं</l>
  <l>नो वल्मीकाः क्षितिधरनिभाः किं क्रियन्ते पिपीलैः ।</l>
  <l>दग्धा लंका यदपि कपिना स प्रभावः किलाने:</l>
  <l>शौर्याांश्चर्य निजभुजजये किं कृतं रामनाम्ना ॥ २९ ॥</l>
</lg>
<p>निजभुजजयनिमित्तम् । पिपीलिकैः कीटे: । प्रकरणार्थोत्र स्पष्ट एव । वागर्थः
प्रतिपाद्यते । किमित्यपूत । रामनाम्ना निजभुजजयेपि शौर्याश्चर्ये कृतं परंतु तदने-
रेव कृतम् । स तु जगदुद्धरणासक्त इति भावः ॥ २९ ॥
<. ]
अंगदः -
रामो नाम स एव येन भगिनीनासावसापंकिलः
खद्भस्ते खरदूषणत्रिशिरसां धौतः शिरःशोणितः
तद्दालान्तिनितान्तबद्धवपुषः समूच्छितस्वं
घ्राणं दर्पमिव स्वसुर्विलुठितं रामः कथं विस्मृतः ॥३०॥
नामेति प्रसिद्धम् स एव येन ते भगिनी शूर्पणखा तस्याः नासावसापङ्किलः
लग्नकर्दम: खरदूपणत्रिशिरसां त्वद्भातॄणां शिरः कृन्तनोत्थशोणितधौतः । क्रोधा-
तिशयात्पुनः मर्म स्पृशति येन रामेण संमूच्छितस्य पर्यस्तलोचनस्य तव दर्पमिव
स्वसुः त्वद्भगिन्याः घ्राणं विलुठितं क्षिप्तं स रामः कथं विस्मृत इति । कोदृश्या:
स्वसुः । तद्बालान्तिनितान्तबद्धवपुषः तवालान्ति सीतासमीपे नितान्तं वद्धं स्थिरी-
कृतं वपुर्यया सा तस्याः सीतावदहमप्यत्रोपाविशामीति भावः ॥ ३० ॥
रावणः-</p>
<lg>
  <l>पारमितमहिमानं क्षुद्रमेनं समुद्रं</l>
  <l>क्षितिधरघटनाभिः कोयमुत्तीर्य गर्वः ।</l>
  <l>अकलितमहिमानः सन्ति दुष्प्रापपारा</l>
  <l>दशवदनभुजास्ते विंशतिः सिन्धुनाथाः ॥ ३१ ॥</l>
</lg>
<p>-</p>
<pb n="115" />
<p>हनुमन्नाटकं -
एतच्छ्रवणापत्रपो रावणस्तदुक्तविस्मरणायान्यदेवाह-अप्रतक्यों
प्रसिद्धाः । 'विंशत्याद्याः सदैकत्वे' इत्यमरः । सर्वं सुगमम् ॥ ३१ ॥
अंगदः -</p>
<lg>
  <l>रे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः</l>
  <l>मागेकं किल कार्त्तवीर्यनृपतेर्दोर्दण्डपिण्डीकृतम् ।</l>
  <l>एकं नर्तनदापितान्नकबलं दैत्येन्द्रदासीगणै -</l>
  <l>रन्यं वक्तुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा ॥ ३२ ॥</l>
</lg>
<p>[ अङ्क:-
महिमा येषां ते
भुजगर्वमपाकरिष्यन्नङ्गदोऽनुवदति रेरे रावण ! कति क्रियन्तः सन्ति । वयं तु
एतान्वक्ष्यमाणलक्षणानन्यापराधशूरानाहतशिलाक्रान्तकरादनिपि शुश्रुमः । ताने-
वाह–प्राक्पूर्वी कार्तवीर्यस्य नृपतेर्दोर्दण्डै: पिण्डीकृतं वद्धम् । अन्यच्च दैत्येन्द्रदासी -
जनैदैत्येन्द्रस्य प्रह्लादस्य बलेर्वा दासीजनैः । तिरस्कृतमिति शेषः । बलिना द्वारि
निर्जित्य बद्धः तदा क्षुत्क्षामो जातः तदावरोधागतैर्दासीजनैर्नर्तनेन दापितमन्नकवलं
यस्मै तमेकम् । अन्यं वालिकक्षान्तलनं, पुनर्मत्पर्योपरिषद्धम् । त्रपामहे स्वपितृ-
बलवर्णनेन लज्जामहे । तेपु रावणेपु त्वं कः अथवा एतेभ्योन्य एव वा ॥ ३२ ॥
रावणः-</p>
<lg>
  <l>भाता मे कुम्भकर्णः सकलरिपुकुलबावसंहारमूर्तिः</l>
  <l>पुत्रो मे मेघनादः प्रहसितवदनो येन बद्धः सुरेन्द्रः ।</l>
  <l>खड्गो मे चन्द्रहासो रणमुखचपलो राक्षसा मे सहायाः</l>
  <l>सोऽहं वै देवशत्रुस्त्रिभुवनविजयी रावणो नाम राजा ॥ ३३॥</l>
</lg>
<p>तेन एवमुक्तो रावणः सापत्रपो भूत्वात्मानं लक्षयति एवं बलमात्मानमुपदिश्य
पूर्वपराजयमाक्षिपति ॥ ३३ ॥
प्रहस्तः सरोषम् -
स्यातां नाम कपीन्द्र
हैहयपती तस्यावगाढान्तर-
स्थेमानौ दशकन्धरस्य महती स्कन्धप्रतिष्ठा पुनः ।</p>
<pb n="116" />
<p>दीपिकाख्यव्याख्योपेतम् ।
सयः पाटितकण्टकीकंसकणा कीर्णो यदंसस्थली
स्वेनेभाजिनपचवेन झटिति प्रास्फोटयवर्जटि: ॥ ३४ ॥
नामेति प्रसिद्धौ । कपीन्द्र हैहयपती वाल्यर्जुनौ स्यातां संभावना । कीदृशौ ।
अवगाढः सर्वातिरेकः अन्तरे मध्ये स्थेमा वलं ययोस्तौ सर्वातिवलाविति । 'स्थेमा-
तिबलधैर्ययोः' इति हैमी। परन्तु तस्य दशकन्धरस्य स्कन्धप्रतिष्ठा पुनः अधुना
महती जाता। कस्य । धूर्जट: शम्भु यद्सस्थलीं यस्य स्कन्धप्रदेशं स्वेनात्मनैव
इभाजिनं गजचर्म तस्य पहवस्थानि यानि करचरणादिचर्माणि तेन झटिति शीघ्रमे-
वास्फोटयत् । कीदृशीमंसस्थलीम् । सद्यः तत्क्षणोत्पाटिता रुद्रार्थ कृत्ता ये कण्ठा-
स्तेपां कीकसस्य ये कणा: अस्थिकणास्तैराकीर्णी 'कीकसं कुल्यमस्थि च' इत्यमरः
वाल्यर्जुनसमयादयारूढवलोऽस्मीत्याशयः ॥ ३४ ॥
<.]</p>
<p>रावणः-</p>
<lg>
  <l>सर्वैर्यस्य समं समेत्य कठिनां वक्षस्थलीं संयुगे</l>
  <l>निर्भग्नं मुखमेव दन्तमुसलैरैरावतस्योन्नतैः ।</l>
  <l>हेलोत्क्षिप्तमहीप्रकम्पजनितत्रासाङ्गनालिङ्गन्न-</l>
  <l>प्राप्तानन्दहरप्रसाद मुदितश्चिन्त्यः स मेऽन्यो रिपुः ॥३५॥</l>
</lg>
<p>*
संयुगे ऐरावतस्येन्द्रराजस्य संवर्दन्ता एव मुसलास्तैः समं एकदैव कठिनां मदी-
यवक्षःस्थली समेत्य प्राप्य मुखस्याग्रभागमेव निर्भनं खण्डितं न तु वक्षःस्थलीति ।
एवं सोहमिति कर्मान्तरमाह - सोहं हेलया मयैव क्षिप्तः यो महीधः कैलासस्तस्माद्यः
कम्पस्तेनं जनितस्त्रासो यस्या एवंभूताया अङ्गनाया: पार्वत्या : आलिङ्गनेन प्राप्ता-
नन्दो यो हरस्तस्य प्रसादेन मुदितस्तस्य मे अन्यो रामादन्यतरो रिपुश्चिन्त्यः । नतु
वर्तमानोस्तीति ॥ ३५ ॥
B
अङ्गदः-</p>
<lg>
  <l>रे रे रावण शंभुशैलमथनप्रख्यातवीर्य्यः कथं</l>
  <l>रामं योद्धुमिहेच्छसीदमखिलं चेत्तन्न युक्तं तथा ।</l>
  <l>रामस्तिष्ठतु लक्ष्मणेन धनुषा रेखा कता लङ्गिता</l>
  <l>तच्चारेण च लंघितो जलनिधिर्दग्धा हतोक्षः पुरी ॥ ३६ ॥</l>
</lg>
<pb n="117" />
<p>हनुमन्नाटकं -
[ अङ्क:-
अखिलं पूर्णम् । वलेनेति । लक्ष्मणेन धनुषा कृता या रेखा सापि त्वया न लंघिता
तच्चारेण रामदूतेन हनूमता ॥ ३६॥
रावणः-</p>
<lg>
  <l>यन्मां त्वं वदसि प्रचूर्णितबलान्हेमाक्षदैत्येश्वरा-</l>
  <l>ञ्छेषस्याप्यथवा हिरण्यकशिपोर्भस्माङ्गदस्याङ्गद ।</l>
  <l>अन्येषाममरद्विषां बलकथा माहुसारादलं</l>
  <l>रामश्वेद्रिपुहा प्रियापहरणे संधिं विधत्ते कथम् ॥ ३७॥</l>
</lg>
<p>हे अङ्गद ! यत् त्वं मां प्रचूर्णितबलं वदसि तत्पूर्यताम् । रामादधिकवलोस्मीति
भावः । काकाक्षिन्यायेनालमो योजनं सर्वत्र । सदैव हेमाक्षो हिरण्याक्षः । तदादी-
न्दैत्येश्वरान्प्रतिवले या कथा सा माहुसारादलं पूर्यताम् माहुवललेशस्तेष्वस्तीति
भावः । अथानन्तरं शेपस्य हिरण्यकशिपोः भस्माङ्गदनाम्नो दैत्यस्य अन्येषाममर-
द्विषामन्येषां च वलकथा माहुसारादलं पूर्यताम् । स्वर्णाङ्गदस्येति पाठे स्वर्ण
तस्यांगदे वाहुभूपणे यस्य हिरण्यकशिपोरिति हिरण्याक्षादिभ्योप्यहमेव वलीत्य
भिप्रायः । अन्यत्सुगमम् ॥ ३७॥
अङ्गदः -</p>
<lg>
  <l>शिरोभिर्मा देवी: शिव इव न ते दास्यति पुनः</l>
  <l>प्रबन्धं पश्याब्धेः सरस इव कैलाससुभट ।</l>
  <l>हितं तु ब्रूमस्त्वां मम जनकदोर्दण्ड विजय-</l>
  <l>स्फुरत्कीर्तिस्तम्भस्त्यज कमलबन्धोः कुलवधूम् ॥ ३८ ॥</l>
</lg>
<p>रावणः-</p>
<lg>
  <l>कस्त्वं वालितनद्भवो रघुपतेर्दूतः स वालीति कः</l>
  <l>को वा वानर राघवः समुचिता ते वालिनो विस्मृतिः ।</l>
  <l>त्वाम्बद्धा चतुरम्बुराशिपु परिनाम्यन् मुहूर्तेन यः</l>
  <l>सन्ध्यामर्चयति स्म नित्रप कथं तातस्त्वया विस्मृतः ॥ ३९॥</l>
</lg>
<pb n="118" />
<note>८.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>1
हे कैलाससुभट ! एतदुद्धरणपौरुप, वयं तु अतस्त्वां प्रतिहतं ब्रूमः । शिरोभिर्म
स्तकैः मा देवीर्मा क्रीड । शिव इव पुनः रामस्ते शिरांसि न दास्यति । यथा शिवार्थे
भवतैव कृत्तानिं शिरांसि शिवः पुनस्तुभ्यमदात्, न तथा राम इति उच्धेः प्रबन्धं
प्रकृष्टं बन्धनं यस्य । कस्येव, सरस इव । कुतो हितं नमः यतस्त्वं मदीयपितृभुजस्य
जंगम: कीर्तिस्तम्भः यत्र यत्र त्वं प्रयासि तत्र तत्र वालिना बद्धोयमिति कीर्ति-
स्तंम्भ: । ननु किं हितं वदसि तदाह - कमलवन्धोः सूर्यस्य कुलवधूं सीतां
त्यजेति ॥ ३८ ॥ ३९ ॥</p>
<lg>
  <l>त्वद्दोर्दण्डप्रचण्डप्रतिहननविधिप्रौढबाह्वोः सहस्र-</l>
  <l>च्छेदक्रीडाप्रवीण स्थिर परशुमहागर्वनिर्वापकस्य ।</l>
  <l>दूतोऽहं राघवस्य त्वदपघनघृणावासवालाग्रलोम्नः</l>
  <l>पुत्रः सुत्रामसूनोः पुवगबलपतेर्नामतवांगदोऽहम् ॥४०॥</l>
</lg>
<p>रावणः-</p>
<lg>
  <l>ययाः किल बालतालतरवो रामेण साईत्वच-</l>
  <l>श्छिन्नं यच्च पुरातनं शिवधनुस्तद्वीर्घ्यमुद्दिश्यते ।</l>
  <l>नासीदेतदनागतं श्रुतिपथं स्वर्लोकधूमध्वजः</l>
  <l>पौलस्त्यः करकन्दुकीकतहरक्रीडाचलो रावणः ॥ ४१॥</l>
</lg>
<p>रे वानराधम ! अतिकटुप्रलापी त्वं क इत्यपेक्षायामाह । तत्र स्वामिपित्रोरात्मै-
श्वर्यं दर्शयति - रे रक्षः अहं राघवस्य दूतोस्मि । किंभूतस्य । दोर्दण्डानां प्रचण्डं
यत्प्रतिहननं वलहारित्वं तस्य विधौ विधाने प्रौढं सगर्व यत् बाह्वोः सहस्रं तस्य
च्छेद एव क्रीडा तस्यां प्रवीण: स्थिरोतिधीरो यः परशुर्जामदग्न्यस्तस्य यो महा-
गर्वस्तस्य निर्वापकस्य शामकस्य । त्वगुजजयि हैहयभुजसहस्रच्छेत्तृपरशुरामजयिन
इति ध्वनिः । पुनः सुत्रामसूनोरिन्द्रात्मजस्य वालिनः पुत्रोस्मि । किंभूतस्य वालिन:
त्वदपघनं त्वच्छरीरं तत्र या घृणा करुणा तया त्वदावासाय कृतानि पुच्छवालाग्र -
लोमानि येन तस्य त्वां कक्षागतं कृत्वा भुवं भ्रान्त्वा यदा गतस्तदा गतसंज्ञं त्वां
ज्ञात्वा दृष्ट्वा वालामलोमसु विश्रमितवान् । तस्य पुत्रोऽहमिति ॥ ४० ॥ ४१ ॥</p>
<pb n="119" />
<p>हनुमन्नाटकं -
[ अङ्कः-</p>
<lg>
  <l>शराः श्रोत्रपथेषु नः कति कति प्राञ्चः पदं चक्रिरे .</l>
  <l>तेषामेव विलंध्य साम्यसरणि जागर्ति लंकाभटः ।</l>
  <l>यद्दोर्मण्डलगाढपीडनवशान्निस्पन्दरक्तच्छटाः</l>
  <l>शंकामं कुरयन्ति शंकरगिरेरद्यापि धातुद्रवाः ॥ ४२ ॥</l>
</lg>
<p>नोऽस्माकं श्रोत्रपथेषु कर्णमार्गेषु कति कियन्तः शूराः पदं स्थानं चक्रिरे । श्रुता
इति पाठे कियन्तः कियन्तो वीराः पदं नो चक्रिरे, अपि तु सर्व एव चक्रिरे इति
क्षैषामपि समत्वं मार्गम् । किंविशिष्टाः शूराः । प्राचः शौर्यपूज्याः । फो लङ्काभट
इत्यपेक्षायामाह । यहोर्मण्डलेति शंकरगिरेः कैलासस्य धातवो गैरिकादयस्तद्भवा
अवयवा अद्यापि यस्य दोर्मण्डलेन गाढाक्रमणवशान्निः स्पन्दं निःसृतं यदुक्तं तस्य
बाटा: प्रवाहास्तेपामाशां कामं पूरयन्ति जनयन्ति ॥ ४२ ॥</p>
<lg>
  <l>स्वेषूत्कृत्य हुतेषु मूर्धसु जवादग्नेः स्फुटित्वा बहि-</l>
  <l>यकीर्णेष्वलिकेषु दैवलिखितं दृष्टापि रामार्पणम् ।</l>
  <l>चित्तनास्खलितेन यस्तदधिकं ब्रह्माणममीणय-</l>
  <l>तस्मै कः प्रथमाय मानिषु महावीराय वैरायते ॥ ४३ ॥</l>
</lg>
<p>तस्मै रावणाय कः पुमान्वैरायते न कोऽपीति । यः अस्खलितेनाव्यप्रेण चित्तन
उदधिकं पूर्वतोप्यधिकं यथा स्वात्तथा ब्रह्माणं प्रजापति रुद्रं वा अप्रीणयत् । उभयोः
सृष्टिकारित्वाद्ब्रह्मत्वम् । किं कृत्वा । स्त्रेषु अखिलेषु मूर्धसु अग्नेः सकाशात्स्फुटित्वा
हिरपि कुण्डाहिर्भागे व्याकीर्णेषु समन्ताद्विक्षिप्तेषु सत्सु दैवलिखित रामार्पणं
बामायार्पणं रामादस्य कालो भविष्यतीति दृष्ट्वा । ' अर्पण कालवासयोः' इति हैमो
किंभूतेषु मूर्घसु । जवादुत्कृत्य कण्ठादुत्पाटय हुतेषु ॥ ४३ ॥</p>
<lg>
  <l>वीरोसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं</l>
  <l>यः पूजार्थसमुत्सुको घटयितुं देवस्य खट्ट्टाङ्गिनः ।</l>
  <l>सूत्रार्थी हरकण्ठ सूत्रभुजगव्याकर्षणायोयतः</l>
  <l>साटोप प्रमथैः कृतं भ्रुकुटिभिः स्थित्वान्तरे वारितः॥४४॥</l>
</lg>
<p>' खट्टाङ्गो नरमञ्जरी ' इत्यमरः । सास्यास्तीति खट्टाङ्गी रुद्रस्तस्य स्वयं छिन्नैः
·
पूजार्थे समुत्सुकः । पुनः सूत्रार्थे सूत्रप्रयोजनं घटयितुं कर्तुं हरकण्ठेभ्यः
.
1</p>
<pb n="120" />
<p><.]
दीपिकाख्यव्याख्योपेतम् ।</p>
<p>सूत्राकारो भुजगस्तदाकर्षणायोग्रतः प्रमथै रुद्रगणैः साटोपं हास्यनर्तनमिति कृतम् ।
अन्तरे रुद्ररावणयोरन्तराले स्थित्वा यैर्वारितः कण्ठसर्प गृहीत्वेति । असौ रावणः
किं वयेत ? शिरःपुष्पमालार्थ कण्ठभूपणाकर्पणमिति भावः ॥ ४४ ॥
( अत्रान्तरे प्रविश्य ) प्रतीहारः-
ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वंत्रिणः ।</p>
<lg>
  <l>स्तोत्रं सहर नारद स्तुतिकथालापैरलं तुम्बुरो ।</l>
  <l>सीतारल्लकल्लभग्रहृदयः स्वस्थो न लंकेश्वरः ॥ ४५ ॥</l>
</lg>
<p>3
प्रकरणार्थस्तु स्पष्ट एव । अथ वागर्थः प्रतिपाद्यते । परमभक्तो हनूमान् आगता-
न्ब्रह्मादीन्भक्ति बोधयति । हे ब्रह्मन् ! एप रामः अध्ययनस्याध्यापनेन वेदादिना
समयः सम्यगयतीति समयो विपयः न । अतो वहिर्देशे तूष्णीं स्थीयताम् । यदृश्यं
तद्रामे न ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' इत्युक्तत्वात् । हे जडमते
वृहस्पते ! स्वल्पं यथा स्यात्तथा स्तोत्रं जल्प वद । एपा वत्रिणी रामस्य सभा भक्त-
गोष्ठी । कीदृशं स्तोत्रम् । संहारः प्रलयः नारद: नयन्ते विपर्यैविक्षिप्यन्ते नराः
प्राणिनस्तेषां समूहो नारं तं ददाति प्रकटयतीति नारदः सृष्टिसमयः । पालितैः
पालकतया स्तूयते यस्यां सा स्तुतिः पालनाख्या संहारसृष्टिपालनात्मककथाला-
पैर्नालं किं तु न पूर्णम् । हे तुम्बुराख्यगन्धर्व ! अत्रेकारप्रलेपः एलोप इति सूत्रेण ।
ईश्वरो रामः लङ्केश्वरेण अरल्लकः शिरः सिन्दूरसरणिः स एवं भल्लकस्तेन भग्नो
रावणस्तस्य हृत् नाशकोरित । तर्हि भयजनकः किं नेत्याह- 'अय: शुभावहो
विधिः' । भक्तजनमङ्गलं करोतीत्यर्थः । ननु सीतार्थ रावणघातात् किं कामी नेत्याह-
स्वस्थः सदास्वरूप इत्यर्थः । प्रकरणार्थोऽवगम्यते 'शिरः सिन्दूरसरणिः स्त्रीणां वै
: रल्लकः स्मृतः इति हलायुधः ॥ ४५ ॥
अंगदः - ( क्रोधं नाटयति )
स्फूर्जद्दिव्यास्त्रबाहुव्यतिकरविगलत्कंधेरैस्तैः शिरोभि-
देवो रामः करिष्यत्युचितबलिमयं भूतसंघातशास्ता ।</p>
<pb n="121" />
<p>[ अङ्कः</p>
<p>हनुमन्नाटकं -
हन्यात्कि नांमदस्त्वामतिपरुषरुषा तातकक्षावशिष्टः
प्रोद्धृत्योद्धृत्य पादप्रहत बहुशिरः कन्दुकैः क्रीडितोऽस्मि ॥४६॥
et
हे रावण ! अतिरुपाऽतिप्रचण्डकोपेनाङ्गदस्त्वामपि किमद्यैव न हन्यात, अपि-,
तु हन्यादेव । परंत्वहनने हेतुत्रयमस्ति तदाह - तातकक्षावशिष्टोसि । यस्ताते-
नानुकम्पया त्यक्तस्तमहं न हन्मीति । अहमपि प्रोद्धृत्योद्धृत्य उच्चैराक्षिप्योत्क्षिप्य
पादाभ्यां महतानि ताडितानि शिरांस्येव कन्दुकास्तैः क्रीडितः । पादप्रहतानि वाणैर्न
हन्तव्यानीति, अतोहं स्वक्रीडनकभञ्जनेन लोकापवाद्भयान्न हन्मीति भावः ।
ननु स्वामिद्वेष्टा हन्तव्य एवेति चेत्तत्राह - देवो रामः ते शिरोभिः उचितवलिं कर-
णीयं दिक्पालवलं करिष्यत्यतो नाहं हन्मि । किंभूतैः । स्फूर्जन्ति दिव्यास्त्राणि
यत्र तस्य वाही रामभुजस्य यो व्यतिकरः कोपस्तेन विमलन्त्यः कन्धरा येषां तैः
ननु वलिप्रदानेनास्य किं भविष्यति तन्नाह - भूतानां संघातं समूहं शासितुं शीलं
यस्य सः अन्यदपि बलिदानक्रियायां शिक्षयितुमिति भावः ॥ ४६ ॥
1.</p>
<lg>
  <l>अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तरः ।</l>
  <l>तिमलिगिलोऽप्यस्ति तद्विलोप्यस्ति राघवः ॥ ४७ ॥</l>
</lg>
<p>अप्यर्थगौरवेण रावणं रामं स्मारयति अस्तीति । सुगमम् ॥ ४७ ॥</p>
<lg>
  <l>मूर्ध्नामुत्य कृत्ता विरलगलगलद्रक्तसंभूतधारा-</l>
  <l>धौतेशांघ्रिप्रसादोपनतजयजगज्जा तमिथ्यामहिम्नाम् ।</l>
  <l>कैलासोल्लासनेच्छाव्यतिकर पिशुनोत्सर्पिदपोंडुराणां</l>
  <l>दोष्णां चैषामिदं ते फलामह नगरीरक्षणे यत्प्रयासः ॥४८॥</l>
</lg>
<p>1
मूर्ध्ना कर्तनसाहसेन दोष्णां भारोद्धरणवर्गेण यस्त्वं नगरीरक्षणं कर्तुमर्हसि चेत्त-
नाह - हे रावण ! एपां मूर्ध्ना मस्तकानां च पुनः दोषणां विंशतिभुजानां च फलमिदं
भारोद्धरणं चेति । तदेव फलं द्योतयति - उद्धृत्य स्कन्धादुत्पाट्य कृत्ताः खण्डिताः
अविरला निविडा: गलाः कण्ठास्तेभ्यो गलद्यद्रक्तं तस्य प्रभूता प्रचुरा या धारा
तया धौतौ प्रक्षालितौ ईशस्य रुद्रयांनी तयोः प्रसादेनोपनतः प्राप्तो यो जयस्तेन
जगति जातः मिथ्यैव महिमा येपां मूर्ध्नाम् । किंभूतानां दोषणाम् । कैलासस्य
गिरेर्या उल्लासनेच्छा तदुद्धरणेच्छा तस्या यो व्यतिकरः अशौर्ये शौर्यारोपः तस्य</p>
<pb n="122" />
<p><. ]
दीपिकाख्यव्याख्योपेतम् ।</p>
<p>पिशुनः सूचको यः उत्सर्पो प्रसारणशीलो दर्पस्तेनोद्धुराणां प्रचण्डानाम् । एवं-
भूतानां मूर्ध्ना दोपणां च फलं इदमेव शिरःकर्तनं साहसं भारोहनप्रौढिश्चेति । इह
: मदागमने यन्नगरीरक्षणं फलं स प्रयासः श्रम एवेति भावः ॥ ४८ ॥</p>
<lg>
  <l>सीतां मुंच भजस्व रामचरणं राज्यं चिराद्धुज्यतां</l>
  <l>देवाः सन्तु हविर्भुजः परिभवं मा यातु लंकापुरी ।</l>
  <l>नोचेद्वानरवाहिनी पतिमहाचञ्चञ्चपेटोत्तरै-</l>
  <l>स्तत्तन्मुष्टिभिरंगसंगरगतस्तत्तत्फलं लप्स्यते ॥ ४९ ॥</l>
</lg>
<lg>
  <l>दृष्टः किं रघुनन्दनो नहि पुरा किं च त्वया न श्रुतोऽ-</l>
  <l>रण्ये किं न विलम्बितोसि न पुनर्मार्गे स्थितोसि क्षणम् ।</l>
  <l>तल्लंकेश्वर मुंच मानमखिलं श्रुत्वा वधं वालिनः</l>
  <l>सीतामर्पय रक्ष राक्षसकुलं दासत्वमङ्गीकुरु ॥ ५० ॥</l>
</lg>
<p>वानराणां वाहिनीपतयो हनूमदादयस्तेषां महान्तः चश्चत: पेशला ये चपेटा:
- करतलप्रहारास्तेपामुत्तरैरुपर्युपरि कन्दुकवद्वृत्तिभिर्मुष्टिभिः तत्तत्फलं तस्य तस्यान-
यस्य फलं लप्स्यसे प्राप्स्यसि ॥ ४९ ॥ ५० ॥
( क्षेपकः ) रावण:-
KEM</p>
<lg>
  <l>मरुत्वद्दम्भोलिक्षणघटितघोरश्वयथुना</l>
  <l>निसर्गोदग्रेण प्रसभमुरसा पीतगगनः ।</l>
  <l>श्रियं देवद्रीचीं निजभुजवनोद्दामकरिणी-</l>
  <l>मयं कुर्वन्वीरः स्मरसि कथमासीदशमुखः ॥ ५१ ॥</l>
</lg>
<p>भोरङ्गद ! त्वं स्मरसि ? अयं मल्लक्षणो दशमुखो वीरः कथमासीत् । एतदेव
वीरत्वं बोधयति किं कुर्वन् देवद्रीची देवानश्यति गच्छति पूजयति वा देवद्रीची
तां देवश्रियं प्रसभं यथा स्यात्तथा निजसुजा एव वनं तत्रोद्दामकरिणीं मत्तमतं -
गजी कुर्वन्सन् 'देवानश्चति देवयङ् ' इत्यमरः । यथा गजी वनमाश्रयति तथेयं
निसर्गोदग्रेण स्वभावादुन्नतेनोरसा पीतगगन आलिष्टाकाशः । कीदृशेनोरसा मरु-</p>
<pb n="123" />
<p>></p>
<p>हनुमन्नाटकं -
[अङ्कः-
वानिन्द्रस्तस्य दम्भोलिर्वञं तेन यो क्षणो योगस्तेन घटितो निर्मितः घोरश्वयथुः
शोथो यत्र । तेन वज्रादपि शोथमात्रमुक्तं न क्षतम् ॥ ५१ ॥</p>
<lg>
  <l>आस्कन्धादपि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना</l>
  <l>छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरःसन्ततौ ।</l>
  <l>अस्मेरं गलिताश्रुगद्गदवचो भननु वा यवभू-</l>
  <l>द्वक्रे॰वेवमपि स्वयं स भगवाँस्तन्मे प्रमाणं शिवः ॥ ५२ ॥</l>
</lg>
<p>पुनरात्मनो रौद्ररसावेशमा विष्करोति- आस्कन्धादिति । स्कन्धमभिव्याप्य कण्ठा
एव काण्डा वृक्षस्कन्धास्तेपां. विपिने दर्शशिरोरूपे मयैव चन्द्रहासासिना छेत्तुं
प्रक्रमिते कर्तनं प्रापिते सति । कीदृशे । झटिति शीघ्रं त्रुट्यती शिरःसन्ततिः शिरो-
नाडीपरंपरा यस्य एवं सति दशसु वक्त्रेषु एकमपि वक्त्रं मुखं यद्यस्मेरं स्मितर-
हितं गलिताश्रु त्यक्ताश्रु वा गद्गद्रवाचो वा भग्ननु भग्ना वक्रा भ्रूर्यत्र तत् अभूज्जा-
तम् । तत्तत्र शिवः स्वयमेव प्रमाणं साक्षी । एतेनातिरभसो द्योतितः । गद्गदो--
भयहर्षाभ्यां अत्र भयाद्वयमेतादृशाः शूराः शिरसां कर्तने छेदेपि न कातरा इति
भावः ॥ ५२ ॥
येऽहंपूर्विकया प्रहारमभजन्मां छिन्धि मां छिन्धि मां
छिन्धीत्युक्तिपराः पुरारिपुरतो लङ्कापतेमलयः ।
ते भूमौ पतिताः पुनर्नवभवानालोक्य मूर्ध्नाऽपरा-
न्याचिष्यन्त इमे हि नो वयमिति प्रीत्याट्टहासं व्यधुः
॥ ५३॥
-
ये मूर्धान: अहं पूर्विकया, 'अहंपूर्वमहंपूर्वमित्यहंपूर्विका मता' इति । प्रहारमभ-
जन् पुरारे रुद्रस्य भूमौ पतिताः सन्तः ते मौलयः पुनः मम नवभवान् मूर्ध्नः अव-
लोक्य इति प्रीत्यागृहासं व्यधुः कृतवन्तः । इति किम् । इमे नवभवं रुद्रं रं
याचिष्यन्ते वयं नेति एवंभूतः साहसिफोहमिति भावः । सभयामर्षः पुनः पुनस्त-
देव प्रलपतीति विज्ञेयम् ॥ ५३ ॥
मूले पंच ततश्चतुष्टयमिति स्रक्सन्निवेश: शिरः-
पुष्पैरन्यतमावलोकनमितैरुच्छ्रोणितैरञ्चति ।</p>
<pb n="124" />
<p>दीपिकाख्यव्याख्योपैतम् ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमालोकय-
ञ्छम्भोरहुत साहसैकरसिक: कैर्न स्तुतो रावणः ॥ ५४ ॥
अद्भुतो यः साहसस्तस्मिन्नेको रसो यस्य सः एवंभूतो रावण: कैर्न स्तुतः । अपि-
तु सर्वेरेव सद्भिः स्रजि मालायां सन्निवेशो येयां तैः शिरः पुष्पैः शिरांस्येव पुष्पाणि
तैः शंभो रुद्रस्य मूर्ध्नि अञ्चति सति हस्तस्पर्शवशेन इति दशमं मूर्धानं स्वकीयमा-
लोकयन् । इति किम् । मूले पश्च शिरांसि तत अग्रे चतुष्टयं शिरचतुष्कम् अतश्च
तुष्टये पञ्चमं ग़िरो मृग्यते । कीदृशैः । अन्यतमो दशमस्तवलोकनमितैः प्राप्तैः
वयं नवैव दशमः कुत्रेति पुनः पुनः उच्छोणितैरुग्रलद्रक्तैः ॥ १४ ॥</p>
<note>८. ]</note>
<p>लंकेन्द्रः समधीरवीर</p>
<lg>
  <l>पदवीरम्यो न गम्यो गिरां</l>
  <l>तस्मिञ्जुह्वति चन्द्रहासशकलान्मौलीन पुरारेः पुरः ।</l>
  <l>भीत्या मन्दशिखोदयोगपे दहनस्तैरेव तत्र क्षणं</l>
  <l>प्राणायैश्च दिक्षया तनुतनुश्वासानिर्दीपितः ॥ ५५ ॥</l>
</lg>
<p>एप लकेन्द्रो रावणः समाश्च ते धीराश्च साधारणधीराणां मध्ये ये वीरा वीरत्वे -
नोत्कटास्तेषां पढ़व्यां मार्गे रम्यः स्पृहणीयः धीरा वीरा अपि यं स्पृहयन्ति । गिरि-
स्त्रिकूटाख्यः रम्यो न दुर्गवर्त्मनास्य धीरत्वमिति न । तस्मिन्रावणे पुरारे: रुद्रस्य
पुरः अग्रे चन्द्रहासकृतखण्डान्मौलीन् जुह्वति सति दहनोग्निर्भीत्या रावणशिरांसि
कथं दहेयमिति भीत्या मन्दशिखोदयः मन्दज्वालोदयः पुनः तैरेव प्राणाद्यैरिन्द्रि-
यगणैर्दिदृक्षया कथमेतानि शिरांसि आत्मानं दाहयन्तीति ज्ञानेक्षया मन्दं मन्दं
श्वासानिलेपित: इन्द्रियाणां क्षणं निराश्रयावस्थानत्वात्तैरेव कृत्तशिरः संचारं
कृत्वाऽनिरुद्दीपित इति भावः ॥ ५५ ॥
अंगद: - ( सावज्ञम् )</p>
<lg>
  <l>आस्तां मस्तकहोमविक्रमकथा पौलस्त्य विस्तारिणी</l>
  <l>देहं किं न निपातयन्ति दहने वैधव्यभीताः स्त्रियः ।</l>
  <l>'कैलासोद्धरणेन भारवहनप्रौढिस्त्वयाविष्कृता</l>
  <l>तूर्णं वर्णय किं च किंचिदपरं यत्पौरुषस्यास्पदम् ॥५६॥</l>
</lg>
<pb n="125" />
<p>हनुमन्नाटकं -
[ अङ्कः-
+
रावणस्य विक्रमद्वयमस्ति मस्तकहोमः कैलासोद्धरणं चेति तत्तद्वयं निराकरोति-
आस्तामिति । सर्वे सुगमम् ॥ ५६ ॥</p>
<lg>
  <l>दोर्दण्डाहितपौत्रभिक्षुरभवद्यस्मिन्पुलस्त्यो मुनि-</l>
  <l>स्तदा होईन मच्छिनत्परशुना यो राजबीजान्तकः ।</l>
  <l>शौर्य शौर्यरसाम्बुधे भृगुपतेसोअप नासीज्जलं</l>
  <l>तत्तेजो वडवानलस्य किमसौ लंकापतिः पल्वलम् ॥ ५७ ॥</l>
</lg>
<p>तदसंधिं ज्ञात्वा जिगभिपुरङ्गदो रामवीर्य स्मारयति- दोर्दण्डेति । यो राजवीजा-
न्तकः क्षत्रसंतानसंहर्ता जामदग्य: परशुना कुठारेण यद्वाहुवनं यस्य राज्ञः भुजवनं
अच्छिनदलुनात् । बाहोर्वनमिति निपातः सिद्धः कामधेनौ । तस्य कस्य यस्मिन्
राजन्यर्जुने पुलस्त्यो मुनिर्दोर्दण्डस्याहितः प्रापितः वद्धो यः पौत्रो विश्रवःसुतो रावण-
स्तन्मोचनाय भिक्षुरभवत् पौत्रजीवनदानभिक्षां याचितवानिति । तस्य शौर्यरसा-
म्बुधेवररससागरस्य भृगुपतेः शौर्यमेव जलं तत्तेजो वडवानलस्य रामप्रतापवडवाग्नेः
आलुकमात्रमपि नासीत् । असौ पल्बलमल्पसर : लङ्कापतिः किं न किमपीति ।
एतदन्तरम् त्वद्रामशौर्ययोरिति भावः ॥ ५७ ॥
(</p>
<lg>
  <l>रे रे राक्षसराज मुंच सहसा देवी मिमां मैथिली</l>
  <l>मिथ्या किं निजपौरुषस्य घटनाप्रागल्भ्यमारभ्यते ।</l>
  <l>एनां पश्यसि किं न किन्नरगणैरुगीतदोर्विक्रमां</l>
  <l>सेनां वानर भर्तुरुद्भटभुजस्तम्भाग्यमीमां पुरः ॥ ५८ ॥</l>
</lg>
<p>एवं रामवीर्यमाश्राव्य तदनुगवीर्य श्रावयति - रेरे राक्षसेति । वानरभर्तुः सुग्रीव-
स्य उद्भटा योद्धारो ये वानरास्तेषां भुजा एव स्तम्भाग्याः मुख्यस्तम्भास्तैर्भयाव-
हम् । अन्यत्सुगमम् ॥ ५८ ॥
इति लंकाभटमुत्कटवाक्यैरधिक्षिप्य लंकामातंत्र्यन्नंगदो निष्क्रान्तः ॥
इति श्रीहनुमन्नाटकेऽङ्गन्दाधिक्षेपणं नामाष्ठमोऽङ्कः ॥ ८
इति श्रीमिश्रमोहनदासविर्चितायां हनुमन्ना टकटीकायामष्टमोऽङ्कः ॥ ८ ॥</p>
<pb n="126" />
<p>दीपिकाख्यव्याख्योपेतम् ।
अथ नवमोऽङ्कः ।
अथ निजप्रतापप्रचण्डसमरोत्साहपरिपूर्णस्य लंकापतेः-</p>
<lg>
  <l>श्रुत्वा दाशरथिः सुवेलकटके साटोपमर्धे धनु-</l>
  <l>टंकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेपकान् ।</l>
  <l>अभ्यस्यन्ति तथैव चित्रफलकैलेकापतेस्तत्पुन-</l>
  <l>वैदेहीकुचपत्रवल्लिरचनावैधग्ध्यमर्धे कराः ॥ १ ॥</l>
</lg>
<p>.
-</p>
<p>'कटको स्त्री नितम्बोद्रेः' इत्यमरः सुवेलाख्यगिरिनितम्बप्रदेशे साटोपं यथा
स्यात्तथा लङ्कापतेरधें करा: दशहस्ताः धनुष्टङ्कारैः ककुभः परिपूरयन्ति । तथा कौ-
क्षिप्यन्ते इति कौक्षेपका: बाणास्तान्प्रोच्छन्ति विमलीकुर्वन्ति पुनरर्धे करा: चित्र-
फलकैः चित्राकृतिभिस्तत्प्रसिद्धं वैदेहीकुचपत्रवलिरचनावैदग्ध्यं अभ्यस्यन्ति । अथ
वागर्थः प्रतिपाद्यते 'कर: कीनाशवानरहस्तयोः ' इति हैमी । अर्धेकराः अर्घेवानराः
श्रुत्वा संस्थाप्य ' श्रुक निष्ठायां कामधेनौ ' पूर्वार्धः पूर्ववदन्ये चित्रफलकैः चित्रित -
भलैः 'फलमाकृतिभल्लयोः ' इति हैमी । लङ्कापतेः कुचपत्रवलिरचना वैदग्ध्यं कुर्वन्
कुच संकोचे इति कामधेनौ । रावणस्य संकोचाय वै पत्रवहिरचना चन्दनमाला निर्मि
तवैद्ग्ध्यम् । यथा चन्दनमालया मण्डपादिरवरुध्यते तथास्य रोधनविधानमिति,
'प्राण्युत्साहौ तु देहिनौ ' इति शाश्वतः । 'लक्ष्मीरीकार उच्यते' इत्येकाक्षरी ।
रावणोत्साहशोभासंकोचाय पत्रवल्लीरचनावैदग्ध्यमिति वै निश्चयेन ॥ १ ॥</p>
<p>( ततो निजराजमन्दिर शिखरस्थमञ्चमारुह्य )</p>
<lg>
  <l>लंकायां कृतवानयं हि विकृतिं दग्धायपुच्छः पुरा</l>
  <l>. कोप्येष प्रतिभाति वालिसदृशो नूनं तदीयः सुतः ।</l>
  <l>श्यामः कामसमाकृतिः शरधनुर्धारी स सीताप्रियः</l>
  <l>प्रत्येक रिपुमीक्षतीतिः निगदन्मंच स्थितो रावणः ॥ २ ॥</l>
</lg>
<p>एपः पुरा लङ्कायांविकृतिं दाहरूपाम् । कुतो ज्ञातमित्यत आह-दग्धाग्रपुच्छः एषः
कपिः प्रतिभाति तदीयः- सुतः वालिपुत्रः । कथं ज्ञात इत्यत आह । चालिसदृश
इति । शरधनुर्धारी कः सीताप्रियः । प्रत्येकं रिपुमैक्षतीति निगन्निति स्वयमेव
• वितर्क्य निगदन्त्सन् रावण ईक्षतीति ज्ञेयम् ॥ २ ॥</p>
<pb n="127" />
<p>हनुमन्नाटकं -
तत्र मन्दोदरी -</p>
<lg>
  <l>दृष्ट्वा राघवमेव राक्षसवनस्वच्छन्ददावानलं</l>
  <l>जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च ।</l>
  <l>कांक्षन्ती मुहुरात्मपक्षविजयं भंगं च मुग्धा मुहु-</l>
  <l>धवन्ती मुहुरन्तरालपतिता मन्दोदरी सुन्दरी ॥ ३ ॥</l>
</lg>
<p>[ अङ्क:-
1
राघवमेवेत्येवपदेनासहायत्वं द्योतितम् । मुहुः आत्मपक्षविजयं कांक्षन्ती, चका-
रान्मुहुः परपक्षभङ्गं कांक्षन्ती, मुहुर्धावन्ती अन्तरालपतिता, आसीदिति शेषः ।
अत एव मुग्धाऽज्ञा दैवमजानतीत्यर्थः । कदाचिगृहे, कदाचिद्रावणाभ्याशे, एष
एवान्तरालः स्थित्यभावादिति ॥ ३ ॥</p>
<lg>
  <l>वन्दारुवृन्दारकवृन्दवान्दिमन्दारमालामकरन्दबिन्दून् ।</l>
  <l>मन्दोदरीयं चरणारविन्दरेणत्करान्कर्करतामनैषीत् ॥ ४ ॥</l>
</lg>
<p>धावनमेव द्योतयति- इयं मन्दोदरी आत्मचरणारविन्दुगतरेणूत्करान्कर्करतामनै-
षीत् प्रापयामास । किंविशिष्टात् । 'वन्दारुरभिवादके' इत्यमरः । वन्दारूण्य
भिवादकानि यानि वृन्दारकवृन्दानि देवसमूहास्तेषां या वन्दी रुद्धस्त्रीगणस्तच्छिरः-
स्थिता या मन्दारमाला पारिजातपुष्पत्रकू तस्या मकरन्दविन्दवो येषु मकरन्दरे-
णुयोगात्कर्करत्वम् । यच्चरणारविन्देति पाठे यस्य रावणस्य चरणारविन्दयो रेणू-
त्करास्तान्वृन्दारकाणां वन्दीरुद्धदेवगणानां चरणपीडनान्मकरन्दबिन्दवः मन्दोदरी-
धावनाद्रेणवः ॥ ४ ॥
po
मन्दोदरी अञ्जलिं बवा रावणं वैरिविद्रावणं विज्ञापयति देव !</p>
<lg>
  <l>त्वं बाहूद्धतचन्द्रशेखरगिरिर्भ्राता जगद्भक्षुकः</l>
  <l>पुत्रः शक्रजयीत्यवेत्य रणधीनूनं बली वालिजित ।</l>
  <l>तद्राजन्नबला बलादपहृता देयास्य सा जानकी</l>
  <l>लंकायां रहसीत्युवाच वचनं मन्दोदरी मन्दिरे ॥ ५ ॥</l>
</lg>
<p>मन्दोदरी लङ्कायां, तत्रापि मन्दिरे, तत्रापि रहसीति वचनमुवाच । `तदेवाह-
हे देव कान्त, त्वमिति अवेत्य ज्ञात्वा रणधी: रणोत्कटधी: तथापि वालिजित
-</p>
<pb n="128" />
<note>९.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
त्वद्विपक्षवालिजेता रामो वलीति सगर्भाक्षेपः । इति किम् । बाहूव्रतरुद्रायो
जगद्भक्षको भ्राता इन्द्रविजयी पुत्र इति तत्तस्मात्पूर्व सैवाबला ततोपि वनाच्छाद-
पहता न प्रत्यक्षं, अतो रामाय देयेत्यभिप्रायः ॥ ५ ॥
रावण:- (निजभुजाडम्बरं नाटयति )</p>
<lg>
  <l>किं ते भीरु भिया निशाचरपतेर्नासौ रिपुर्मे महान्</l>
  <l>यस्या समरोद्यतस्य न सुरास्तिष्ठन्ति शक्रादयः ।</l>
  <l>मद्दोर्दण्डकमंडलोद्धृतधनुःक्षिप्ताः क्षणान्मार्गणाः</l>
  <l>प्राणानस्य तपस्विनः सति रणे नेष्यंति पश्याधुना ॥ ६ ॥</l>
</lg>
<p>है भीरु भयशीले, ते भिया किं ? न किमपीति राक्षसाधीशस्य मे अम्रौ राम
महान् रिपुर्न । यस्य ममाग्रे अस्य तपस्विनः रामस्य प्राणान् । सुगमम् । चमेकर-
असौ ना पुमान् रामः महान् रिपुरस्ति रामस्याग्रे महुजमण्डलोद्यद्धनुः ततः मेरेनाः
अस्य तपस्विनः रिपुघातिनो रामस्य मार्गणा मम प्राणान् नेष्यन्ति । अतो सिया
किमितीत्यवगम्य ॥ ६॥
मन्दोदरी - ( समयं रावणोदितपद्यार्थमपश्यन्ती भाविना
द्वितीयं पद्यार्थमवगम्य ) अहो प्राणनाथ ! लंकेश्वर !</p>
<lg>
  <l>किमिति स्वकपोलकल्पितैर मंगलाला पैरात्मनो वधं</l>
  <l>मन्यसे ? शान्तं पापं प्रतिहतममंगलमिति वैचित्र्यसुत्पाय ।</l>
  <l>एकः सुग्रीवभृत्यः कषिरखिलवनं पचनं चापि दग्ध्वा</l>
  <l>यातस्तूष्णीं तदानीं दशमुख भवतः किं कृतं वीरवगैः ॥</l>
</lg>
<p>प्राप्तोऽसौ पत्तनांत सकलकपिबलैर्वार्धिमुडङ्ख्य योद्धं
त्वं सीतां मुंचमुंचेत्यनिशमकथयत्प्रेयसी रावणस्य ॥ ७ X
एकः असहायः, तत्रापि सुग्रीवभृत्यः, रामभृत्यभृत्य इति । पत्तनं नगरुं वनं
दुग्ध्वा तूष्णीं गतवान्वागाडम्बरं यथा स्यात्तथा यातः गतः । तदा भवतो वीरवः
वस्तुतस्त्वयापि किं कृतं ? न किमपीति । असौ रामः । सुगमम् ॥ ७ ॥</p>
<pb n="129" />
<p>हनुमन्नाटकं -
[ अङ्क:-</p>
<lg>
  <l>( मन्दोदरीकथनेन किंचित्सभयो रावणः)</l>
  <l>शुकं च सारणं वीरं दूतं प्रस्थाप्य रावणः ।</l>
  <l>रामदेवस्य शिबिरं मंत्रं चक्रेऽथ मंत्रिभिः ॥ ८ ॥</l>
  <l>शिविरं कटकम् ॥ ८ ॥</l>
</lg>
<p>तत्र विरूपाक्षनामा मन्त्री - ( सहितम्)</p>
<lg>
  <l>देव त्वां प्रति संप्रति प्रतिभटप्रोल्लासनं नो मुदे</l>
  <l>देवायं प्रतिपद्यते हितमिदं यस्माद्वयं मंत्रिणः ।</l>
  <l>सीतारक्षणदक्षलक्ष्मणधनुर्लेखापि नोहंचिता</l>
  <l>हेलोल्लंघितवारिधिः कपिकुलैः सार्धं स रामो महान् ॥ ९ ॥</l>
</lg>
<p>संप्रति विपत्काले प्रतिभटाः शत्रवस्तान् प्रति प्रोल्लासनं युद्धाय परप्रेरणं
नोस्माकं मुद्दे न । अमुत्र हानादिहापयशः परत्र निरयावहं चेति । तत्र वलाव-
लाख्यानेन हितमेव द्योतयति- सीतेत्यबलत्वं, हेलोल्लंधितेति बलवत्त्वम् । अन्यत्सु-
गमम् ॥ ९ ॥</p>
<lg>
  <l>यावद्दाशरथेर्न पश्यसि मुखं यावत्र पाथोनिधिं</l>
  <l>बद्धं यावदिमां न पावकवशां लंकां निरस्तालकाम् ।</l>
  <l>यावनैव निजानुजं सुचरितं यातं कुलाङ्गारतां</l>
  <l>तावद्रावण लोकपाल तरसा सीतां प्रयच्छानघाम् ॥१०॥</l>
</lg>
<p>ननु रामं परीक्ष्य दास्यामीर्ति चेन्न-अद्यैव देहोत्याशयेनाह यावदिति । पश्य-
सीति प्रत्येकमनुवध्यते । निरस्ता अलका राक्षस्यो यस्यां, निजानुजं विभीषणं
सुमन्त्रोपदेशकर्तृत्वात्सुचरितमित्युक्तम् । ननु यावन्नीवं तामनुभवामिं ततो न
सुवामीतिचेन्न । अनघां निष्पापाम् ॥ १० ॥
रावण: - ( साश्चर्यम् )
एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः
सोहं सर्वजगत्पराभव करो लंकेश्वरो रावणः ।</p>
<pb n="130" />
<note>६.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>सेतुं बद्धमिमं शृणोमि कपिभिः पश्यामि लंकां वृतां
जीवद्भिर्नहि दृश्यते किमथवा किं वा न वा श्रूयते ॥११॥
एत इति । जीवद्भिः चिरशरीरधारणावद्भिः अथवा दर्शनाभावे किं न श्रूयते ।
हा द्वयार्थे । वाद्वयं वा वा कष्टंकष्टं 'हन्तहावाबताः समाः' इति हैमी ॥ ११ ॥
विरूपाक्षः - राजन्विषादं मागाः पश्य-
--</p>
<lg>
  <l>आज्ञा शक्रशिरोमणिप्रणयिनी शस्त्रग्रहाणामपि</l>
  <l>भक्तिर्भूतपतौ पिनाकिनि पदं लंकेति दिव्या पुरी ।</l>
  <l>संभूतिद्रुहिणान्वये च तदहो नेहग्वरॉलभ्यते</l>
  <l>स्याचेदेष न रावणः क्व नु पुनस्त्वेकत्रं सर्वे गुणाः ॥ १२ ॥</l>
</lg>
<p>आज्ञेति । शऋशिखामणि : मुकुटोपरिमणिवत भासमाना शस्त्रमहाणां ये बलेन
शाहिस्तेषामपि प्रणयिनी सादरं ग्राह्या तवाज्ञा । लङ्केतिपदं वासस्थानं,
हिणो ब्रह्मा, तदन्वये ब्रह्मपौत्रविश्रवसः संभूतिर्जन्म ॥ १२ ॥
रावण:- (धैर्यमवलम्ब्य )</p>
<lg>
  <l>मतिर्विपश्चितां मन्त्री रतिर्मन्त्री विलासिनाम् ।</l>
  <l>पराक्रमैकसाराणां मानिनां त्वसिवल्लरी ॥ १३ ॥</l>
</lg>
<p>मतिरिति । 'शास्त्रविचारसमुत्थं निर्धारणमर्थतो मतिर्मता विबुधैः' इति
रसोदधौ । विपश्चित ज्ञानिनां, विलासिनां कामिनां, मानिनां चित्तोन्नतिमतां,'
असिवल्लरी खड्गधारा अतोऽस्माकं वाहुरेवं मन्त्री भवन्मन्त्रस्तु ज्ञात एवेवि
भावः ॥ १३ ॥
अथ महोदरो नाम मंत्री-
-</p>
<lg>
  <l>राजन्मुखसुखा वाचो मधुराः कस्य न प्रियाः ।</l>
  <l>तव क्षोदक्षमाः किन्तु नैता व्यसनसंगमे ॥ १४ ॥</l>
</lg>
<p>१ आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं । २ उत्पत्तिर्दुहिणान्वये च तदहो नेहम्वरो
लभ्यते । ३ सर्वत्र सर्वैगुणाः इति च पाठान्तरम् ।</p>
<pb n="131" />
<p>हनुमन्नाटकं -
[ अङ्कः-
तत्र रण एव मन्त्र इति निर्णीतमाक्षिपति राजनिति । मुखसुखाः वाचैव सुख
येभ्यस्तेषां वाचः सुखाः किमाक्षेपे । ता वाचः एता वाचः व्यसनसंगमे दुःखागमे
सति तव क्षोदक्षमाः दुःखसहा न । 'क्षोदं सङ्कटचूर्णयोः' इति हैमी । यद्वा व्यसन-
संगमे द्यूतपानाक्षस्त्रीमृगयादिवास्वापादयो व्यसनानि तद्योगे । यद्वा मुखसुखाः
वाचो मधुराः ॥ १४ ॥</p>
<lg>
  <l>प्रिया वा मधुरा वाक् च हर्म्येष्वेव विराजते ।</l>
  <l>श्रीरक्षणे प्रमाणन्तु वाचः सुनयकर्कशाः ॥ १५ ॥</l>
</lg>
<p>प्रिया इति । श्रीरक्षणे राज्यैश्वर्यपालने । सुगमम् ॥ १५ ॥</p>
<lg>
  <l>विभवे भोजने दाने तिष्ठन्ति प्रियवादिनः ।</l>
  <l>विपत्तौ चागतेऽन्यत्र दृश्यन्ते खलु साधवः ॥ १६ ॥</l>
</lg>
<p>विभवे इति विपत्तौ सत्यां अन्यत्र नीवृदन्तरं वा गते सति ॥ १६ ॥</p>
<lg>
  <l>अग्रे प्रस्तुत नाशानां मूकता परमो गुणः ।</l>
  <l>तथापि प्रभुभक्तानां मौखर्यादिदमुच्यते ॥ १७ ॥</l>
</lg>
<p>त्वं तु मन्त्रदानानहो॑ऽसीत्याह- अग्रे इति । शीघ्रागतमरणानां तथापि प्रभुभ-
क्तानां प्रभुप्रियकारिभिर्मन्त्रिभिः मौखर्याद्धाष्टर्थात् । इदं वक्ष्यमाणम् ॥ १७ ॥</p>
<lg>
  <l>यैरव स्तुतिभिः स्वामी प्राप्यते व्यसनाटवीम् ।</l>
  <l>पश्चान्मूकत्वमापन्नैरुवर्तुं शक्यते कथम् ॥ १८ ॥</l>
</lg>
<p>यौरति । यैर्मन्त्रिभिः । असद्गुणारोपणं स्तुतिः । 'अटवी वनपयोः' इति हैमी !
दुःखं पङ्कं पङ्कादुद्धर्तुम् ॥ १८ ॥</p>
<lg>
  <l>नद्यश्च खलमैत्री च लक्ष्मीश्च नियतिर्द्विषाम् ।</l>
  <l>सुकुमाराथ्व वनिता राजन्नस्थिरयौवनाः ॥ १९ ॥</l>
</lg>
<p>ननु भवन्तु व्यसनानि तरुणीयं कथं त्याज्येत्यत आह - नद्य इति । द्विपन्तीति
द्विषः निर्निदानाप्रियकर्तारः यादृशास्तेषां नियतिर्भाग्यं ऐश्वर्यम् । यौवनम-
भिवृद्धिः ॥ १९ ॥</p>
<lg>
  <l>दत्तोत्साहैर कार्येऽपि चित्तग्रहणकोविदैः ।</l>
  <l>सत्यं विदग्धैर्भुज्यन्ते नृपाः कर्णान्तषट्पदैः ॥ २० ॥</l>
</lg>
<pb n="132" />
<note>९. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>दत्तेति । त्वदन्तेऽपि ज्ञात्वा कथयति । अकार्ये अनुपस्थितकृत्ये, यद्वा अक-
रणीये कर्मणि विदग्धैः कर्णान्तपट्पदैर्मधुकरमालावत्कर्णाभ्यरसिकैः । चित्त-</p>
<lg>
  <l>हेति पाठः ॥ २० ॥</l>
  <l>पद्मिनी कान्तिमापेदे संकोचं च कुमुद्दती ।</l>
  <l>--</l>
  <l>न भवन्ति चिरं प्रायः सम्पदो विपदोऽपि वा ॥ २१ ॥</l>
</lg>
<p>नन्चिन्द्रादिजयिनो मम के वानरा इति चेत्तत्राह - पद्मिनीति । दिवा पद्मिनी
कान्तिमापेढे कुमुद्रती संकोचम् । रात्री कुमुद्वती कान्तिमापेदे पद्मिनी संकोचम् ।
एवं क्षणाद्विपदः क्षणात्संपदः, अतस्तवाद्य विपत्कालं इति भावः । मन्त्रामननत्वा-
'देश्वर्यातिशयत्वाञ्च । 'पतनान्ता: समुच्छ्रयाः' इत्युक्तत्वात् ॥ २१ ॥
*
सुरेज्यादिभिराचा
तथा च-</p>
<lg>
  <l>नीतिशास्त्रं त्रिधा मतम् ।</l>
  <l>ऐहिकं चामुष्मिका ख्यमैहिकामुष्मिकं तथा ॥ २२ ॥</l>
</lg>
<p>सुरेज्येति । सुरेज्यो गुरुः ऐहिकं इहैव सुखदं आमुष्मिकं पारलौकिकम् । ऐहि-
कामुष्मिकं इहामुत्र सुखदम् ॥ २२ ॥</p>
<lg>
  <l>ऐहिकामुष्मिकं तत्र शास्त्राणामुत्तमोत्तमम् ।</l>
  <l>आमुष्मिकं तूत्तमं स्यादैहिकं चाधमाधमम् ॥ २३ ॥</l>
</lg>
<p>एपां न्यूनाधिकभावमाह-ऐहिकेति । शास्त्राणां नीतिव्यञ्जकग्रन्थानां मध्ये ॥२३॥</p>
<lg>
  <l>यज्ज्ञानात्स्वामिनं हत्वा भजन्ते मंत्रिणः प्रियम् ।</l>
  <l>विषशस्त्रादिभिः शास्त्रं तदैहिकमिति स्मृतम् ॥ २४ ॥</l>
</lg>
<p>अथ शास्त्रत्रयलक्षणमाह - यदिति । मन्त्रिणो राज्याः, भ्रात्रादयः विषदानश-
स्त्रादिहननम् आदिग्रहणात्तद्विपक्षाश्रयणं चेत्यादिभिर्मारणोपायैः ॥ २४ ॥</p>
<lg>
  <l>तुल्यः सूर्यद्विजवधैराज्ञाभंगो महीभुजाम् ।</l>
  <l>यद्वधे यद्भवेत्पापं न शेषो वक्तुमर्हति ॥ २५ ॥</l>
</lg>
<p>नन्वेवं चेत् राज्यप्राप्तिस्तर्हि सर्वे किं न कुर्युरित्यत आह -तुल्य इति । येषां
महीभुजामाज्ञाभङ्ग एव सूर्यद्विजवषैस्तुल्यः वेदमार्गोच्छेदः सूर्यवधः तदधिष्ठातृत्वा-</p>
<pb n="133" />
<p>हनुमन्नाटकं -
[ अङ्कः-
सूर्यस्य । सूर्या इति पाठे सूर्या नवोढा स्त्री, वधैरिति बहुवचनात् । वधावृत्तय
आक्षिप्यन्त इति तद्वघे तेषां राज्ञां वधे, शेषः सहस्रवदनोऽपि । अतः कारणादैहिकं
नीतिशास्त्रं अधमाधममित्युक्तम् ॥ २५ ॥</p>
<lg>
  <l>अपराधं विना मन्त्री प्रभुणा पीडितोऽपि सन् ।</l>
  <l>न वैरूप्यं वचियाति तदामुष्मिकमुच्यते ॥ २६ ॥</l>
</lg>
<p>अथामुष्मिकमुच्यते-अपराधमिति । स्वाधिकारप्रमादोत्थः अपराधस्तद्विना
पीडितः कुवाक् दरिद्रादिप्रापितः । वैरूप्यं मन्त्रिभावाभावम् ॥ २६ ॥</p>
<lg>
  <l>राज्यग्रहणशक्तोऽपि मनसापि न चिन्तयेत् ।</l>
  <l>सचिवः स्वामिनो नाशमैहिकामुष्मिकं हि तत् ॥ २७ ॥</l>
</lg>
<p>अथैहिकामुष्मिकमुच्यते-राज्येति । ऐश्वर्यातिशयात् भ्रातृत्वाद्वा राज्यं ग्रहीतुं
क्षमोऽपि सचिवः मनसापि, किमुत वाचा कर्मणा वा ॥ २७ ॥</p>
<lg>
  <l>शुकथ्य सारणो वीरथ्वैहिको मंत्रिणौ तव ।</l>
  <l>वानरीं तनुमास्थाय हतौ तत्र स्थितावपि ॥ २८ ॥</l>
</lg>
<p>₹2
प्रासङ्गिकमुक्त्वा प्रस्तुतमाह - शुकश्चेति द्वाभ्याम् । 'वीरः शुक: सारणोपि वीरः
स्वाम्युत्सवाहते, इति वररुचिनीतौ । स्वतनुं त्यक्त्वा वाननीं तनुमास्थाय तन्त्र
रामकटके हतौ गतौ 'हन हिंसागत्योः' अधुनापि स्थितौ शरीरव्यत्ययेन तत्पक्षा-
श्रयणाचैहिकौ ॥ २८ ॥</p>
<lg>
  <l>आवामामुष्मिकौ राजन्विरूपाक्षमहोदरौ ।</l>
  <l>मैथिली दीयतां तूर्ण नो चेत् सहचरौ तव ॥ २९ ॥</l>
</lg>
<p>आवां तुं न तथेत्याह-आवामिति । भवता पीडितयोरप्यावयोवैरूप्यं नास्ति
इत्याह - मैथिली दीयंतां तूर्णमिति । ननु तददाने युवयो: का
चेतनाह - चेन्न दास्यसि तर्हि आवां तव सहचरौ । या गतिस्तव सैवावयोरिति
गतिरिति
-
भावः ॥ २९ ॥
रावण:-</p>
<p>( सभयं सशिरः कम्पं स्वगतं वा स्वगतमेवोच्यते )</p>
<pb n="134" />
<p>N
दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>नीतिशास्त्रमिदं श्रुत्वा कुम्भकर्णः क्वचिद्दली ।</l>
  <l>हन्ति चेन्मामतो युद्धे प्रथमं प्रेष्यतामयम् ॥ ३० ॥</l>
</lg>
<p>नीतीति । क्वचित्कदाचित् प्रेष्यतां प्रस्थाप्यताम् ॥ ३० ॥
विरूपाक्षमहोदरौ - ( प्रभोः शिरः कम्पनादन्तर्ग-
तमभिप्रायमवगम्य )</p>
<note>९. ]</note>
<p>on
BY</p>
<lg>
  <l>नीतिशास्त्रविदो धर्म केवलं नृपतेः पुरः ।</l>
  <l>पठन्ति युवराजादिपुरतो न कदाचन ॥ ३१ ॥</l>
</lg>
<p>अन्तर्गताभिप्रायमवगम्य सीतां न दास्यति प्रत्युत कुम्भकर्णाद्विभेतीति ज्ञात्वा
मन्त्रिणावूचतुरिति शेषः । नीतिशास्त्रेति । नीतिशास्त्र निर्णेतॄणां गुरौ सतिं राज्यकृत्
युवराजः ॥ ३१ ॥
हा नाथ लंकेश्वर ! किमित्यावयोः श्रद्धाधिकारिणो-
वैंरूप्यशंकामं कुरयसि तेऽन्ये दुरधिकारिणः पापाः ॥
उक्तञ्च -</p>
<lg>
  <l>न सर्पस्य मुखे रक्तं न दुष्टस्य कलेवरे ।</l>
  <l>न प्रजासु न भूपाले धनं दुरधिकारिणि ॥ ३२ ॥</l>
</lg>
<p>नेति । कोपे, दुष्टे दुरव्ययम् । दुरधिकारिणि कोपातिशये सति दुष्टस्य पुंसः
शरीरे रक्तं न सर्पस्यापि मुखेन । तस्य क्रोधविपाभ्यामवशोपणात् । तथा दुर
धिकारिणि दुष्टे नियोगिनि सति प्रजासु धनं न राजन्यपि न अन्तराले गतत्वात् ।
अतः कुम्भकर्णाद्याश्रयणान्न राज्यं त्वयि नास्मासु । अतः को लाभ इति
भावः ॥ ३२ ॥</p>
<lg>
  <l>तेऽव्यधिकारिणः पापा ये द्विषन्ति निजं पतिम् ।</l>
  <l>आवां तथा विधौ नैव भवानपि न मूढधीः ॥ ३३ ॥</l>
</lg>
<p>नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये स्वैरविहारसाराः ।
.बिडालवृन्दाहितदुग्धमुद्राः स्वपन्तितेमूढधियःक्षितीन्द्राः ॥ ३४६
4</p>
<pb n="135" />
<p>हनुमन्नाटकं -
[
नृपोध्यप्रमत्तः स्यादित्याह - नियुक्तेति । ते राजानोऽलं मूढधियः राज्यकरणा-
आग्रत् । ये स्वैरं स्वच्छन्दं ये विहारास्त एव साराः करणीयत्वेनोपादेया येषाम् ।
एवंमूनाः सन्तः स्वयं तिष्ठन्ति राज्यवृत्ताज्ञानमेवात्र स्त्रापः । विडालवृन्दे आहिता
अपिता दुग्घमुद्रा क्षीरपात्रं यैस्ते । अन्न विडालसाम्यं नियुक्तानां, दुग्धस्य राज्य-
साम्यमिति ॥ ३३ ॥ ३४ ॥
अपि च-</p>
<lg>
  <l>उन्खातान्प्रतिरोपयन्कुसुमिताँश्चिन्वँलघून्वर्धयन्</l>
  <l>मुद्रान्कण्टकिनो बहिर्निरसय न्विश्लेषयन्संहतान् ।</l>
  <l>अत्युच्चान्नमयन्नताँश्च शनकैरुन्नामयन्भूतले</l>
  <l>कलाकार इव प्रयोगचतुरो राजा चिरं नन्दते ॥ ३५ ॥</l>
</lg>
<p>ञ्ज्याविसंक्षिप्य राजवर्तनं दर्शयति - उत्खातानिति । उत्खातान्स्थानत्याजिता-
व्यक्तित्रोपयन्स्थानान्तरं स्थापयन, कुसुमितान्सुपुष्पवतः भृत्यद्रुमान् लघुन्लघुवृक्ष-
तुल्यरन, क्षुद्रानन्यवृक्षसमानान्, फण्टकिनः पुनस्तापकारिकण्टकद्रुमान्संहत्य
वितान्दुर्मृत्यान् अत्युच्चान् सकलैश्वर्योन्नतवृक्षान्, नृपभावमारूढत्वान्नतान् आत्मा
नुकुडार्जवस्कन्धान् । भृत्यद्रुमयोः साम्यम् ॥ ३५ ॥
राजन्कार्यवशाविरुद्धसंग्रहोपि राज्ञा शुद्धेनाशुद्ध-
संग्रह प्रयोजनहीनोऽपि कर्तव्यः । प्रयोजनं जनयति
केचित्काले । अत्र भगवान् भवतामिष्टः प्रमाणमेणाङ्कमौलिः ॥</p>
<lg>
  <l>जीर्णेप्युत्कटकालकूटकवले प्लुष्टे हठान्मन्मथे</l>
  <l>नीते भासुरभालनेत्रतनुतां कल्पान्तदावानलैः ।</l>
  <l>यः शक्तया समलंकृतोऽपि शशिनं शैलात्मजां स्वर्धुनीं</l>
  <l>यत्ते कौतुकराजनीतिनिपुणः पायात्स वः शंकरः ॥ ३६ ॥</l>
</lg>
<p>अथ विरुद्धसंग्रहः । कार्यवशात् शुद्धेन राज्ञा अशुद्धसंग्रहः प्रयोजनहीनोपि
उत्तैच्च एव । अत्र तद्गुरुं रुद्रमेवोदाहरति - जीर्णे इति । प्लष दाहे । दुग्धेपि शक्त्या
चन्द्रादिसंग्रहं बिनापि कालकूटादिकहननसामर्थ्य शक्तिस्तयुक्तोपि संग्रहं</p>
<pb n="136" />
<note>९. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>करोत्येव । विषाग्निकोपानां कार्यवशात् लोकरक्षणसंहारेन्द्रिय जयकार्यवशः तदर्थं
चन्द्रगङ्गोमाधारणं शुद्धसंग्रहः । शक्त्या समलंकृत इत्युक्तत्वान्निष्प्रयोजनः । तव
तु नीतिवैपरीत्यं युक्तमेव तव गुरोः शंकरस्यापि । नीतिवेपरीत्यमालोक्य मन्त्रि-
चक्रं चूडामणिर्यथा भृङ्गी तथा वयमपीति वक्तुं रुद्रमुदाहरति - जीर्णेपीति । दैशिक -
गुणाः सच्छिष्यमाश्रयन्ते इति न्यायात् ॥ ३६॥</p>
<lg>
  <l>दिग्वासा यदि तत्किमस्य धनुषा शङ्खं च किं भस्मना</l>
  <l>भस्माथास्य किमङ्गना यदि च सा कामं परं द्वेष्टि किम् ।</l>
  <l>इत्यन्योऽन्यविरोधिकर्मनिरतं पश्यन्निजं स्वामिनं</l>
  <l>भृङ्गी सान्द्राशरावनद्धशकलं धत्तेऽस्थिशेषं वपुः ॥ ३७॥</l>
</lg>
<p>दिग्व/सेति । परमित्यङ्गनायोगेष्वजेयत्वात्कामोपरमत्वमुक्तम् । भृङ्गीनाम गण-
श्रेष्ठः । कीदृशं वपुः । सान्द्रा या नाड्यस्ताभिरवनद्धानि सर्वतोवद्धानि शकलानि</p>
<lg>
  <l>शिरः पादपाण्यादिखण्डानि यस्मिंस्तत् 'भित्तं शकलखण्डे वा इत्यमरः ॥ ३७ ॥</l>
  <l>ब्राह्मणं मंत्रिणं द्रोणं शुद्धं वीरं भविष्यति ।</l>
  <l>AP</l>
  <l>गुरुं दुर्योधनस्त्यक्त्वा यथा त्वं मा तथा भव ॥ ३८ ॥</l>
</lg>
<p>अथात्मनो मन्त्रातिशयं द्योतयन्भविष्यमाह - ब्राह्मणमिति । द्रोणं त्यक्त्वा
तद्वाक्यमतिक्रम्य यथा दुर्योधनो भविष्यति तथा त्वमद्यैव मा भवेत्यन्त्रयः ।
द्रोणमेव विशिनष्टि-प्रथमं ब्राह्मणं तत्रापि मन्त्रिणम् । ननु फेचिन्मंत्रिणोपि
परपक्षमाश्रयन्त इति चेत्तत्राह - शुद्धं तत्रापि गुरुं हितोपदेष्टारं वीरं दुर्नि-</p>
<lg>
  <l>चाराग्रहशूरं समूलाशेपकुलक्षयो दुर्योधनस्य भाव्यः तथा तवाद्यैवेति भावः ।</l>
  <l>सुगमम् ॥ ३८ ॥</l>
</lg>
<p>अत्रान्तरे मन्दोदरी रावणेन सह खेलमाना स्मरस्मेर
वाणीविलासलीलया अशोकवनिकामागम्य जानकी-
स्थानमाकम्योपविश्याह ॥
प्राणनाथ लंकेश्वर पश्य-
मन्दोदरीजनकजाङ्गमनोहरत्वे
भेदोस्ति कोपि यदि नाथ विचारय त्वम् ॥</p>
<pb n="137" />
<p>हनुमन्नाटकं -
रावणः-.
मनः प्रिये परिमलस्तव भेदमारव्या-
त्यङ्गे विदेहदुहितुः सरसीरुहाणाम् ॥
३९ ॥
[ अङ्क:-
मैन इति । हे प्रिये, तवाङ्गे मैनः मीनस्येवायं परिमलो मैनः भेदमाख्याति कथ-
यति । विदेहदुहितुरङ्गे सरसीरुहाणां परिमल: भेदमाख्यातीति भेदः ॥ ३९ ॥</p>
<lg>
  <l>रूपे तवास्याथ्व न कोपि भेदः खेदं प्रिये मचनेन मागाः ।</l>
  <l>सीताधरे वा मधुरे दशास्यो रामो रमिष्यत्यथ वाथ सयः ॥ ४० ॥</l>
</lg>
<p>ननु रूपाढ़ी इत्युक्ते किमपि विमुखां दृष्ट्वा पुनराह-रूपेणेति । हे प्रिये, तत्र
अस्याः सीतायाश्च । सुगमम् । वागर्थः प्रतिपाद्यते । रामः अद्यैव । एवार्थे वाशब्दः
राम एव वा सीताधरे रमिप्यति दशास्यो रावणः सद्य एव वामधुरे वामा:
मांसाशिनस्तेषां धुरं बहती वामधूः संग्रामस्तं प्रति रमिष्यतीति रमयिष्यती-
त्याक्षिप्यते । कर्मणि चतुर्थी 'वामो स्त्रीमुग्धयुद्धयोः' इति नाममाला । अन्य-
पूर्ववत् ॥ ४० ॥
मन्दोदरी -</p>
<p>( सकरुणा लंकामधिक्षिपति )</p>
<lg>
  <l>विभीषणः पापकथानिमनः स्वापाकुलोभूयदि कुम्भकर्णः ।</l>
  <l>राजाभिमानी पतितः कलंके लंके निमशासि गभीरपके ॥ ४१ ॥</l>
</lg>
<p>प्रतिपक्षाश्रयणालङ्काभङ्गेप्सुत्वमेव पापकथा तत्र निमग्नः यदीति निश्चये। कलङ्के
पापे सीताभिलापरूपे ॥ ४१ ॥
इति निष्क्रान्ताः सर्वे ॥
इति श्रीहनुमन्नाटके मन्त्रिवाक्यं नाम नवमोऽङ्कः ॥ ९ ॥
इति श्रीहनुमन्नाटके टीकायां नवमोऽङ्कः ॥ ९ ॥</p>
<pb n="138" />
<p>दीपिकाख्यव्याख्योपेतम् ।
अथ दशमोऽङ्कः ।
ततः सुन्दरं मन्दिरं प्रविश्य रावणः सानुचर:-
भो भो लंकेश्वरानुजीविनो जनाः शृणुत अहमिदानीं माया-
प्रपंचरचनाभिर्जानकीमृदुसुरभिस्फीतदोर्मूललालित्य-
विराजमानपीनोन्नतकुचकलशोपशोभितोरःस्थले खेलमान-
स्तन्मधुराधरं पास्यामि ॥
मायाविनोऽनुचराः - यद्रोचते देवस्य ।
राक्षसान्त्रावयतीति रावणो रामः 'मृतिलक्षयोरनु इत्यव्ययवृत्तौ' । लङ्केश्वरस्या-
नुमृतिं प्रति जीवितु शीलं येषां ते लङ्केश्वरमरणार्थं वा जीवनं येषां ते भो वानराः
'माया वश्चनयुद्धयोः' इति विश्वः । युद्धप्रपञ्चरचनाभिः ।</p>
<p>(रावणः)</p>
<note>१०. ]
(जानकी)</note>
<lg>
  <l>अथ रंजनिचरेशो रामसौमित्रिमाया-</l>
  <l>विरचितशिरसी तद्रूपलावण्यपूर्णे ।</l>
  <l>गलदविरलरक्ते प्रेतपर्य्यस्तनेत्रे</l>
  <l>जनकदुहितुर स्थापयामास पापः ॥ १ ॥</l>
</lg>
<p>थेति । तयोः रामलक्ष्मणयो रूपलावण्ये ताभ्यां पूर्णे अचैतन्याद्विपरीतनेत्रं
सुगमम् । अथ वागर्थः प्रतिपाद्यते रजनिचरे । स्वप्ने 'रक्षःस्वप्नौ निशाचरौ' इति
हैमी । अचितशिरसी अचित ईश: 'अजितात्माऽचितोवशः' इति विश्वः । जनकदु-
हितुरथे स्थापयामास 'एलोपः' इतीकारलोपः । कीदृश इत्येपेक्षायामाह-रामसौ-
मित्रिरूपेण मायया आविः प्रत्यक्षः एकं शिरो रामः एकं लक्ष्मण इति लक्ष्मणो</p>
<lg>
  <l>'मेघनादं हनिष्यति रामो रावणमिति व्यञ्जकं 'आत्मा वै पुत्र उत्पन्नः' इति श्रुतेः ।</l>
  <l>पं धर्ममासमन्ततः पातीति पापः धर्मपः 'पोस्त्रियां धर्मयमयोः' इत्येकाक्षरी ॥ १ ॥</l>
</lg>
<p>सबाष्पं, शिरःसरसीरुहद्वयमालोकयति-
"अहह जनकपुत्री फुल्लराजीवनेत्री</p>
<p>}</p>
<pb n="139" />
<lg>
  <l>हनुमन्नाटकं -</l>
  <l>नयनसलिलधारागर्भनिर्मुक्तहारा ।</l>
  <l>रमणमरणभीता मृत्युना किं न नीता</l>
  <l>हृदयदहनजालः संदहेद्वा विशालः ॥ २ ॥</l>
</lg>
<p>[-
अहहेति । अहह इति खेदे । संदहेत्संदहतु । लोडर्थे लिङ् । सुगमम् । वागर्थः ।
स्वप्ने सीता वदति हे रामरमण, जनकपुत्र्यहं मृत्युना रावणकालेन भवता आत्म-
समीपं किं न नीता । कीदृशी । मरणभियं प्रापिता अतो हृदयस्थस्त्वद्वियोगाग्निः
किं न संदहेत् अपि तु संदहेदेव । चार्थे वा । चकारात्पुनः किं नेति ग्रहणम् ॥२॥</p>
<p>( रामशिरः कमलमधिकृत्य)</p>
<p>हा राम हा रमण हा जगदेकवीर
तत्किं न स्मरसि ।
A</p>
<lg>
  <l>अधरमधु मदीय कामकेलीषु पीत्वा-</l>
  <l>ऽमृतमिति यदवादीस्तीरवानीरकुञ्जे ।</l>
  <l>किममृतपरिपूर्ण शीर्णमप्यम्बरेक</l>
  <l>स्तम इव नहि शत्रु नाथ मनासि घोरम् ॥ ३ ॥</l>
</lg>
<p>1. प्रकरणार्थः स्पष्टः । वागर्थ: । हेति कष्टं अनुभूतं भवता । अधरेति तीरे नदी-
तीरे वानीरकुञ्जस्तत्र अमृतपरिपूर्ण चन्द्रमण्डलं शीर्ण गतरसं, किं त्वधरामृतं तु
नवीनत्वात्सरसमिति भावः । 'जरठारसयो: शीर्ण' इति हैमी । अर्क: सूर्यस्तम
इवान्धकारमिव 'क्षीणेन्धतमसं तमः' इत्यमरः । वागर्थेप्ययमेवार्थः ॥३॥
रावण:-
शिरोविरहशोकमोहरोषप्रेमाकुलामालापैराश्वासयति ।
जानकी - सत्वरं प्राणांस्त्यक्तुमिच्छन्ती भोः प्राणाधिनाथ राम!
अहह मधुरवाणी किं न वक्रारविन्दे
नयनकमलयोस्ते नो मदङ्गे विलासः ।.</p>
<pb n="140" />
<p>.
दीपिकाख्यव्याख्योपेतम् ।.
अमरपुरवधूनां वल्लभोग्यापि नूनं
व्रजतु परमहंसो मे त्वदालिङ्गनेन ॥ ४ ॥
कोपातिशयान्मृत्तमारणोक्तिः, मोहोत्र शोकादिः, रतिस्तदाकुलाम् । वागर्थः ।
शिरसि शोकमोही विरहे अद्यापि रामो मां नालिङ्गतीति रोषप्रेमाणौ । रावणपक्षे
राम इति शेपः । वागर्थे रामोपरिं भ्रमयित्वेति त्वदालिङ्गनेन हेतुना प्रकरणं सुग-
मम् । वागर्थे अत्युत्कटतामाविष्करोति
रावणे हते यावन्निरुद्धदेवाङ्गनावल्लभः यात्र-
दिति । मे मम त्वदालिङ्गनाभावेन जीवो ब्रूजतु ॥ ४ ॥</p>
<note>१०.]</note>
<note>१४१.</note>
<p>इति रामशिरः कमलमालिङ्गितुमिच्छति, आकाशे कोलाहलः-.</p>
<lg>
  <l>न खलु न खलु सीते रामभूपालमौलिः</l>
  <l>समरशिरसि वध्यो न प्रियस्ते कदाचित् ।</l>
  <l>स्पृश कथमपि मातर्मा निशाचारिणस्त्वं</l>
  <l>हर हर हरभक्तस्यैष मायावातारः ॥ ५ ॥</l>
</lg>
<p>वागर्थे शिरः कं रावणशिरोग्राहिणं कमात्मानं राममलभतिशयेन रामभ्रान्त्या
एनं रामरूपं रावणं मा स्पृशेति ॥ ५ ॥
इत्याकाशवाणीश्रवणमात्रेण शिरसी गगनमुत्पत्य निष्क्रान्
रावणेन सह ॥
जानकी-
( सहर्ष, सत्रपंच ) अयि परमधर्मिणि कृपातरंगिणि सर
किमित्यद्भुतमिति ।</p>
<lg>
  <l>सरमा राक्षसी - ( सदयम् )</l>
  <l>जानकि त्वं न जानीषे रावणस्यातिदारुणाम् ।</l>
  <l>मायामासाय मा भैषी रामः कामं स जीवति ॥ ६ ॥</l>
  <l>मायावचिनोऽपायमासाद्य अवगम्य मा भैषीर्भयं मा कार्षीः ॥ ६ ॥</l>
</lg>
<pb n="141" />
<p>हनुमन्नाटकं -
[ अङ्कः-
कोलाहलं काहलमर्दलानां हेषावं सज्जतुरंगमाणाम् ॥
आकर्णयाकर्णविशालनेत्रे रामागमादार्तनिशाचराणाम् ॥ ७ ॥
कोलाहलमिति । आशु रामः कौशल्यव्यञ्जकं ज्ञापयति । आकर्णयेति । काहलो
नाद्यभेदः मर्दुलो मुरजः । सुगमम् ॥ ७ ॥</p>
<lg>
  <l>विरम विरम शोकात्कोपमानोऽथ रामः</l>
  <l>सतनयपशुबन्धं रावणं मर्दयित्वा ।</l>
  <l>बलभिदुपलनीलः कोमलः कोमलाङ्गि</l>
  <l>त्वदधर मधुपानं हुं करिष्यत्यजत्रम् ॥ ८ ॥</l>
</lg>
<p>विरमेति । वलभिदुपल: इन्द्रनीलमणिस्तद्वन्नील: इन्द्रनीलमणिव दुज्ज्वल: हुं
कुतस्ते भयमिति । यद्वा हुं रावणं निर्भर्त्स्य ' हुं भये भर्त्सनेऽपि च ' इति
शाश्वतः ॥ ८ ॥
जानकी-</p>
<lg>
  <l>कामं जीवति मे नाथ इति सा विरहं जहौ ।</l>
  <l>प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥ ९ ॥</l>
</lg>
<p>कासमिति । प्राक्पूर्व अस्य रामस्य अन्तं मरणं सत्यं मत्वा जीवितास्मि,
पुनः मे नाथो जीवतीति मत्वा शुचं विजहौ त्यक्तवत्यस्मीति । लजिता सापत्र-
पाभूदिति ॥ ९ ॥
रावण:-
ततः पुनरप्यशोकवाटिकां प्रविशति मारनाराचभिन्नो रावणः
सुरसुन्दरीभिः परिवृतः सीताहृदये विकारमुत्पादयितुम् ।
भो जानकि पश्य ।
अस्मञ्चण्ड चपेटघातपतितस्वर्दन्तिकुम्भस्थल
स्थूलोन्मुक्तसरक्तमौक्तिकलतास्तोमार्चितांघ्रिस्तनाः ।</p>
<pb n="142" />
<p>दीपिकाख्यव्याख्योपेतम् ।
एतास्त्वत्पदपद्मषट्पदवधूत्रायाः पुरन्ध्यो ध्रुवं
सीते सम्प्रति संगतं तव सतीचारित्र्यवल्लीफलम् ॥ १० ॥
अथान्यमायामनुवर्णयति- अस्मदिति । हे सीते, तव सतीचारित्र्यं पाति-
त्यधर्मस्तस्य वल्ली प्रसार एव वल्ली तस्याः फलं सांप्रतं संगतं अद्यैव प्राप्तम् । धर्मः
परन्त्र फलदस्तव त्वनैवेति भावः । तदेव फलं द्योतयति यतः एताः पुरन्ध्यः मदी-
यनार्यः त्वत्पदपद्मयोः पट्पदवधूप्रायाः भ्रमरीतुल्याः । यथा भ्रमर्योरविन्दमाश्र-
यन्ते तथैवैतास्तव पादमिति भावः । तासां वैशिष्टयं द्योतयति - किंभूताः । अस्म-
दीयो यश्चण्डचपेटघात: करतलप्रहारस्ततः पतिताः विदलिताः ये स्वर्दन्तिनस्तेषां
कुम्भस्थलेभ्यः सकाशात्स्थूलं बहुतरं यथा स्यात्तथा उन्मुक्ता निगता याः सरक्तमौ-
तिकास्तासां लतास्तोमैर्वल्लरीसमूहैर चिता अंध्रयः स्तनाश्च यासां ताः ॥ १० ॥</p>
<lg>
  <l>सीते पश्य शिरॉसि यानि शिरसा धत्ते महेशः पुरा</l>
  <l>तानि त्वत्पदंसंश्रितानि सुभगे कस्मादवज्ञायसे ।</l>
  <l>श्रुत्वैवं परदारलम्पटवचः स्मित्वा हतं रावणं</l>
  <l>निर्माल्यानि शिरांसि तानि तव धिक्साध्वीवचः पातु वः ॥</l>
</lg>
<p>सीते इति । पुरा शिरः कर्तनसमये अवज्ञायसेऽवज्ञां करोपि । स्मित्वेत्यत्र कोपा-
तिशयाद्धास्यं 'शिवोत्तीर्ण तु निर्माल्यं तन्नस्पर्शार्हमुच्यते इति वचनात् पात्विति
तस्याः वचसान्येऽपि जितकामाः भवन्तीति भावः ॥ ११ ॥</p>
<note>१०.]</note>
<lg>
  <l>भवित्री रम्भोरु त्रिदशवदनग्लानिरघुना</l>
  <l>स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः ।</l>
  <l>इयं यास्यत्युच्चैर्विपदमधुना वानरचमू-</l>
  <l>लघिष्ठेदं षष्ठाक्षरपरविलापात्पठ पुनः ॥ १२ ॥</l>
</lg>
<p>भवित्रीति । हे रम्भोरु, अचिराच्छीघ्रमेव त्रिदशानां वदनग्लानिर्मुखसङ्कोचः
'भवित्री भाविनी अस्तीति शेपः । कुतं इत्यत आह यतो युधि स प्रसिद्धस्ते त्वदीयो
रामः मम पुरतो न स्थास्यति, उच्चैर्विपदम् । जानकी- हे लघिष्ठ हे लघुतर, इदं
पद्यं पष्ठाक्षरपरं सप्तमाक्षरं तद्विलोपात् विलुप्येति । ल्यव्लोपे पञ्चमी । पुनः पठ
एवमुक्ते सप्तभाक्षरलोपादयसर्थः । चरणत्रिके तु क्रमेण त्रिनविलोपः दशवदनग्लानिः
रामः स्थाता, उच्चैःपदं यशोरूपम् ॥ १२ ॥</p>
<pb n="143" />
<p>1</p>
<p>हनुमन्नाटकं -</p>
<p>( सवैदग्ध्यम्)</p>
<p>रे रे लङ्गेश लौल्यात् त्रिपुरविजयिनो मा प्रतीषीः प्रसादं
मा मां छित्त्वाल्पबुद्धे न खलु भवसि वै प्राकृतः प्राणरंकः ॥
मारारे मावितारीर्वरमनलभुवा शापितोसीति यस्य
क्रुद्धं मूर्धानमीशोप्यनुनयति भृशं सोऽयमुच्चैर्दशास्यः ॥ १३ ॥
[ अङ्क -
रेरे इति । हे सीते, सः अयं त्वत्पदनतः दशास्यः कस्मादवज्ञायसे इति भावः ।
स कः । यस्येति क्रुद्धं मूर्धानं ईशोऽपि जगतामीश्वरोपि रुद्रः उच्चैरनुनयति । इति
किम् । रे रे इत्यनादरे । लङ्केश त्रिपुरजयिनः सकाशात् मां छित्त्वा प्रसादं मा
प्रतीपी: मा स्पृह । मा गृह्णीष्वेत्यर्थः । हे अल्पबुद्धे, मारारे: खलु त्वं प्राणरको न
भवसि । वरगृध्नवः प्राणरकाः त्वं तादृगू न । अन्नेवार्थे वै प्राकृत इवाधुनिक इच
यथेदानींतनः प्राणरङ्कस्तथा त्वं नेति भावः । मामेवमाक्रुश्य रुद्रमाक्रोशति- हे मारा
रे कामशत्रो, वरं मा वितारी: एतस्य वरं मा देहि । तथापि दित्सन्तमालक्ष्याह--
अनलभुवा त्वदात्मजेन गुहेन शापितोसि । चेदस्मै वरं दास्यसि तर्हि गुहस्य
शपथोस्तीत्यर्थः । वरार्थी भजन्नभक्तो भजनानुसारं दास्यन्नप्रभुरिति श्लोका-
भिप्रायः ॥ १३ ॥</p>
<lg>
  <l>अर्धे चेतसि जानकी विरमयत्यर्थं च लंकेश्वरः</l>
  <l>किं चार्धं विरहानलः कवलयत्यर्धञ्च रोषानलः ।</l>
  <l>इत्थं दुर्विधवैशसव्यतिकरे दाहे समेप्येतयो-</l>
  <l>रकें बेझि तु पारदग्ध्यमपरं दग्धं करीषाग्निना ॥ १४ ॥</l>
</lg>
<p>रामस्य दग्धहृदयत्वमुपपादयन्नात्मनो भजनीयत्वमाह - चित्तस्य द्वौ भागी तद्वि-
भागं दर्शयति रामस्येति शेषः । रामस्य चेतसि विषये अर्धे चेतः, यद्वा चेतसोई,
चेतसि तस्मिन्कर्मणि सप्तमी अर्ध चेतः जानकी विरमयति तत्स्मरणाविर्भावात् ।
च पुनः अर्धे चेतः लङ्केश्वरो विरमयति तदुत्पन्नकोपातिशयात् । किंच तर्फे । किं
सीताक्रान्तरामहृदयाघै रामविरहानलः कवलयति भस्मीकरोति च । पुनः अर्ध
चेतसोधै यद्रावणाक्रान्तं तद्रोषानलः कवलयति दुर्विधो दुष्प्रकारो वैशसो हिंसा
तस्य व्यतिकरः शीतोष्णव्यत्ययो यत्र एवंभूते एतयोः कामकोपानलयोहे समेपि</p>
<pb n="144" />
<note>१०.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>।
सति । यद्वा एतयोश्चेतसोर्द्वयोर्मध्ये एकमर्ध तुपारदग्धं वेद्मि । कामाग्ने: शीतदाह-
तोक्ता । अपरमर्ध करीपाग्निदग्धं वेद्मि । शुष्कगोमयचूर्ण करीषः । एतेन कोपाने-
रुष्णत्वम् । अतो रामो दुग्धहृदयो जातः त्वं मां भजेत्याशयः ॥ १४ ॥</p>
<lg>
  <l>मुग्धे मैथिलि चन्द्रसुन्दरमुखि प्राणप्रयाणौषधि</l>
  <l>प्राणान् रक्ष मृगाक्षि मन्मथनदि प्राणेश्वार त्राहि माम् ।</l>
  <l>रामश्चुम्बति ते मुखं च सुमुखेनैकेन चाहं पुन-</l>
  <l>श्चुम्बिष्यामि तवाननं बहुविधैर्मुञ्चायहं मानिनि ॥ १५ ॥</l>
</lg>
<p>2
पुनरप्यनुनयति
- मुग्ध इति । दैन्याविष्करणाय पुनः पुनः संबुद्धिः । हे मन्मथ-
नदि कामतरङ्गिणि, प्रकरणं सुगमम् । वागर्थः प्रतिपाद्यते । आत्र रामस्य विप्रलम्भे
प्रलापावस्था । सोक्ता रसोदधौ 'कान्ताश्रितकाल्पनिकव्यवहारः स्यात्प्रलापोयम्'
इति । अत्र मुग्धे इत्यादि पूर्व कल्पना रामे वदति । हे मुग्धे इत्यादि संबोधनवति
मैथिलि, रामोहं एकेन निरुपमेन मुखेन ते मुखं बहुविधैश्चम्बनभेदैश्चम्बिप्यामि ।
हे मानिनि, आग्रहं मुञ्च त्यज । पुनरपि तवाननं त्वदीयमाननं, मामिति शेषः ।
मां चुम्चिष्यतीति आग्रहं मुञ्चेत्यर्थ: । 'वर्तमानसामीप्ये वर्तमानवद्वा' । परस्पर-
चुम्बनाद्रससङ्गः सूचितः ॥ १५ ॥
जानकी-</p>
<lg>
  <l>विरम विरम रक्षः किं वृथा जल्पितेन</l>
  <l>स्पृशति नहि मदीयं कण्ठसीमानमन्यः ।</l>
  <l>रघुपतिभुजदण्डादुत्पलश्यामकान्ते-</l>
  <l>देशमुख भवदीयो निष्कृपो वा कृपाणः ॥ १६ ॥</l>
</lg>
<p>विरमेति । हे रक्षः दशमुख, भवदीयः निष्कृपो निर्दयः कृपाण: खड्ग: वा
स्पृशति । वा हठात्स्पृशति । सुगमम् ॥ १६ ॥
पश्य-</p>
<lg>
  <l>मद्ध्यानेनाभवद्रामः सीता रक्षस्तु तस्य वै ।</l>
  <l>पश्य त्वत्कुलनाशाय मया रामेण भूयते ॥ १७ ॥</l>
</lg>
<pb n="145" />
<p>हनुमन्नाटकं -
[ अङ्कः-
मद्ध्यानेनेति । क्रोधातिशयात् कोपमाविष्करोति- हे रक्षः-
मया ज्ञातम् । मद्धया
नेन रामः सीताभूत् । त्वद्धतेन विशेपितत्वात्तस्य रामस्य ध्यानेनाद्य मया रामेण
भूयते । रामो भवामीत्यर्थः ॥ १७ ॥
इति रावणो निष्क्रान्तः ।
निजमन्दिरं कियन्तं समयं नीत्वा ( स्वगतं ) महान्तं प्रपंच-
मुत्पाय नूनं जानकी भनुभविष्यामीत्यवधार्य-</p>
<lg>
  <l>भेरीनिःसाणशंखध्वनिगणतुरगस्यन्दनस्फीतनादैः</l>
  <l>सानन्दं राक्षसेन्द्रः कटकभटभुजास्फालकोलाहलेन ।</l>
  <l>लंकामापूर्य रामः स्वयमभवदथो मायया रावणस्य</l>
  <l>छिन्नान्सूर्योदधानः शिरसिरुहभरेष्वेकतः पञ्च पञ्च ॥ १८ ॥</l>
</lg>
<p>भेरीति । राक्षसेन्द्रः स्वयं रामोऽभवत् रामरूपोभवदिति । मायया छिन्नान्कृत्तान्
रावणस्य मूर्ध्नः शिरसिरुहभरेषु केशेषु एकतः पञ्च दधानः रामवेषधारिमायाराव-
णस्य मस्तकान्पञ्च पथ्च कराभ्यां दधानः काकाङ्क्षिन्यायेन एकत इत्युभयत्र
गृह्यते ॥ १८ ॥
एवंविधो भूत्वा पुनरशोकवनिकां प्रविश्य रावण:-
लंकाभटोऽथ रघुनन्दनवेषधारी</p>
<lg>
  <l>Amig</l>
  <l>पापो जगाम पुरतो जनकात्मजायाः ।</l>
  <l>नाम्नापि यस्य कुत इच्छति तस्य रूपा-</l>
  <l>दन्याङ्गनापहरणे न मनः कदाचित् ॥ १९ ॥</l>
</lg>
<p>तत्रागतः सकामञ्चदत आह-लङ्केति । यस्य रामस्य नाम्नः सकाशान्तद्ग्रहणादेव
मनः नागग्रहीतुरन्याङ्गनापहरणं नेच्छत्ति, किमु कर्तुम् । तस्य रामस्य रूपात्पराङ्ग
नाहरणं कुत इच्छतीति ॥ १९ ॥
7
जानकी रघुनन्दनवेषधारिणं तमालोक्य ( सहर्षम् )
साक्षादालोक्य रामं झटिति कुचतटीभारनम्रापि हर्षा -
दुत्थायोदस्तदो दरदलितकुचाभोगचैलोन्नताङ्गी !</p>
<pb n="146" />
<lg>
  <l>१०.]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>धन्याहं प्राणनाथ त्यज रजनिचरच्छिन्नशीर्षाणि गाढं</l>
  <l>मामालिंगाय खेदं जहि विरहमहापावकः शान्तिमेतु ॥ २० ॥</l>
</lg>
<p>साक्षादिति । साक्षान्निःसंशयं राममालोक्य झटिति शीघ्रं हर्षादुत्थाय कुचतटी
भरेण नम्रापि । एतेन झटित्युत्थानायोगो दर्शितः । उदस्तदोर्भ्या रामालिङ्गनायो-
द्भुतभुजाभ्यां दरमीपद्दलितं स्फोटितं यत्कुचाभोगचैलं कुचमण्डलवस्त्रं तद्युक्तमुन्नत-
सङ्गं कुचरूपं यस्याः । सुगमम् ॥ २० ॥
इत्यालिंगितुमिच्छति-
रामवेषधारी रावणः- ( सविषादम्)</p>
<lg>
  <l>भूत्वा ततोप्यवसरे जनकात्मजायां</l>
  <l>लंकापतिर्मकरकेतुशरातुरायाम् ।</l>
  <l>क्लीबो विशीर्णमणिदण्डयुतः स्मरातः</l>
  <l>पापात्ततः शिव शिवान्तरधीयत द्राकू ॥ २१ ॥</l>
</lg>
<p>भूत्वेति । ततोनन्तरं अवसरे आलिङ्गनसमये स्मरातः रामरूपधारणात्पुरा कामा
तोपि रावण: क्लीबो भूत्वा ततः पापात्सीतावञ्चनाश्रितपापतः अन्तरधीयत अदृ-
श्योऽभूत् । द्राक् शीघ्रं जनकात्मजायां रामदर्शनात्कामशरातुरायां सत्याम् । शिव
शिव कष्टं कष्टम् ॥ २१ ॥
जानकी-
सरमोपदेशाद्रावणं रघुनन्दनवेषधारिणं मत्वा ( सविषादं )
जानकी-
हाकाश ! हा धरणि । हा वरुणार्क । वायो !
वेत्स्यामि धर्म ! कथमागतमात्मनाथम् ।
(आकाशे ) मन्दोदरी रघुशराहतराक्षसेन्द्र
चुम्चिष्यति त्वमपि वेत्स्यसि तत्र रामम् ॥ २२ ॥</p>
<pb n="147" />
<p>हनुमन्नाटकं -
[ अङ्क,
हेति । यत्र काले मन्दोदरी राक्षसेन्द्रः चुम्बिप्यति तत्र तस्मिन्नवसरे त्वमपि
वेत्स्यसि । उक्तं च - 'पञ्चतत्त्वानि धर्मश्च रविचन्द्रौ च पाशभृत् । रात्रिर्दिवा
नरस्यैते वृत्तज्ञाः समुदीरिताः' इति मनुः । अतः आकाशादीनां रावणवृत्तज्ञानसा-
सर्थ्यात् ॥ २२ ॥
अथ निजकेलिमन्दिरस्थो रावणः - (स्वगतम्)
कृतकृत्येपि रामत्वे वर्तमाने मयि स्थिते
निरुध्यन्त्येव ताः सर्वाः पापमूलाः प्रवृत्तयः ॥ २३ ॥
अथेति । रामत्वे रामभावे विषये वर्तमाने मयिं स्थिते सति । कीदृशे मयि ।
कृतकृत्ये कृतं कृत्यं येन । यद्रामकृत्यं रावणशिरः कर्तनादिकं तदपि कृतमिति
भावः । तपि एताः प्रवृत्तयः क्लीवत्वादयः निरुध्यन्ति । कोदृश्यः । पापं मूलं
यासां ताः पूर्वपापान्नात्रेप्सितसुखमिति कामिमतम् ॥ २३ ॥</p>
<lg>
  <l>जनस्थाने भ्रान्तं विषयमृगतृष्णार्हतधिया</l>
  <l>वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।</l>
  <l>कृता लंकाभर्तुर्वेदनपरिपाटीपुघटना</l>
  <l>मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ २४ ॥</l>
</lg>
<p>4
इति श्रीहनुमन्नाटके रावणप्रपञ्चो नाम दशमोऽङ्कः ॥ १० ॥
जनस्थाने इति । विपयः सीतामिलापः स एव मृगतृष्णा तया आ समन्ततो
हता धीर्यस्य तेन मया रावणेन जनस्थाने दण्डकारण्ये देशे भ्रान्तं, अत्राप्युदश्रु
यथा स्यात्तथा प्रतिपदं हे वैदेहीतिवचः प्रलपितं, अथ च लङ्काभर्तु सम वदनानां
या परिपाटी तस्या त्रियोजनं कर्तनमिति यावत् । कृता वदनपरिपाटीपु घटनेति-
पाठे रावणमुखपंक्तिषु इपुघटना वाणयोगप्रहारः कृतेति । सयापि रामत्त्रं माया-
रामरूपत्वम् आप्तं प्राप्तम् । तथापि कुशलवसुता सीता नाधिगता न प्राप्ता । 'दुर्भसी
रनृपाः कुशाः' इति हैमी । कुशेन सीरंण लव्यते लक्ष्यत इति कुशलवः सीरध्वजो
जनक इत्यर्थः । इदमेव पद्यं हृतरावणस्य प्राप्त राज्यस्य परित्यक्तसीतस्य रामस्य
वाक्येन व्याकुर्वन्ति । तद्यथा - विषया. एव मृगतृष्णा चतुर्दशसमान्वने स्थित्वा
१न्धितषिया इति पाठान्तरम् ।</p>
<pb n="148" />
<note>११. ]</note>
<p>दीपिकाख्यव्याख्यापैतम् ।</p>
<p>राज्यं प्राप्स्यामीति मृगतृष्णाविषयः सीताभिलापस्तदन्वेषणरूपः, रमयति सर्वा-
निति रामो राज्यं तद्भावो राज्यत्वमपि प्राप्तम् । अन्यत्पूर्ववत् । अथास्य तृतीयो-
प्यर्थोस्ति । कस्यचिद्भिक्षकवाक्येन । विपया: स्रक्चन्दनस्त्रीपुत्रलालनरूपास्त एव
मृगतृष्णावविद्यमानास्तैराहता धीर्यस्य तेन मया भिक्षुणा जनस्थाने जनानां
लोकानां स्थानेस्थाने गृहेगृहे भ्रान्तम् । एकवचनमुपलक्षणं जात्येकवचनं वा । वै
निश्चयेन प्रतिपदं देहीति उदश्रु यथा स्यात्तथा प्रलपितम् । 'पदं स्थाने रसस्थिती'
इति चरकः । यस्य रसस्य यः आश्रयस्तद्ग्रे तद्रसाभिनयेन उदश्रुत्वमुक्तम् । अलम-
त्यर्थ काभर्तुः कुत्सितप्रभोः संबन्धे बदनस्य परिपाटी रसाभिनयवाक् चातुर्यादिरूपा
तस्या विशेपे घटना चेष्टा कृता । एवं रामत्वं तत्तद्रञ्जनत्वमाप्तं कुशलवसुता उत्त-
मवसुत्वं रत्नहेमादिसमूहरूपा नाधिगता न प्राप्तेति ॥ २४ ॥
इति श्रीमद्धनुमन्महानाटके दीपिकायां मोहनदासविरचितायां रावण
प्रपञ्चो नाम, दशमोऽङ्कः ॥ १० ॥
एकादशोऽङ्कः ।
अथ तत्र सुवेलाद्रिकटके लंकापतेः सकाशादधिगतं
दूतमङ्गन्दं जानकीवल्लभः पप्रच्छ । अये दूताङ्गन्द !
लंकेश्वरे सन्धिर्न जनिता प्रीतिकारिणी स्यादनुप-
कारिणी वा ॥
अङ्गदः-
B
राजन् सर्वथेयमनुपकारिणी पुलस्त्यापत्ये प्रीति-
रिति भगवानिहोदाहरणम् हरिणाडुशेखरस्तद्गुरुत्वात् ॥</p>
<lg>
  <l>उक्षा रथो भूषणमस्थिमाला भस्माङ्गरागो गजचर्म वासः ।</l>
  <l>एकालयस्थेऽपि धनाधिनाथे सख्यौ दशयं त्रिपुरान्तकस्य ॥ १ ॥</l>
</lg>
<p>अथेतिं । उक्षेति । उक्षा वृपः धनाधिनाथे कुबेरे त्रिपुरान्तकस्य रुद्रस्य दशा
विपरीता तथा रुद्रानुचरस्यापि । रावणस्य विपरीतैव मतिरिति भावः ॥ १ ॥</p>
<pb n="149" />
<p>हनुमन्नाटकं -
रामः- ( विहस्य )
भो महावीराङ्गन्द युवराज वानरभटान्चूहि । भो भोः
सुग्रीवसैनिका रात्रौ सावधानतया स्थातव्यं श्व:-
सूर्योदये रामस्य समरोत्सवो भविष्यति ॥
अङ्गन्दस्तथैव करोति । कटके शयानौ रामलक्ष्मणौ
निहन्तुं रावणेन प्रहिता प्रभञ्जनी नाम राक्षसी ॥</p>
<lg>
  <l>• उत्खातदारुणसुतीक्ष्णकृपाणि कासौ</l>
  <l>वीराटवीषु निशि निर्भरतः शयानम् ।</l>
  <l>दृष्ट्वा सुदर्शन गुरुमणेन गुप्तं</l>
  <l>रामं निहन्मि कथमद्य वरं वराकी ॥ २ ॥</l>
</lg>
<p>उत्खातेति । अस्यायमर्थः । सा प्रभञ्जनी राममिति दध्यौ । इति किम् ।
*
तराक्यहं अद्यास्मिन्नवसरे कथं निहन्मि । कीदृशी उत्खाता कोशान्नि:सारिता
दारुणा सुतीक्ष्णा च कृपाणिका छुरिका यस्याः सा । हननाक्षमत्वमेव द्योतयति-
निर्भरतः निविडासु वीराटवीषु वीरपंक्तिषु शयानं 'वनपंक्त्योरथाटवी' इति हैमी ।
तत्रापि सुदर्शनाख्यचक्रस्य गुरु यथा स्यात्तथा भ्रमणेन रामस्य विश्वतः परिक्रमेण
गुप्तं रक्षितम् ॥ २ ॥
तंत्रावसरे प्रबुद्धमंगदं वीरमवगम्याधीरं पुनर्गन्तुमुद्यता प्रभञ्जनी ॥
अङ्गदः ( साटोपम् )</p>
<lg>
  <l>मा गास्तिष्ठ निशाचरि क्षणमपि स्थित्वा पुनर्गम्यतां</l>
  <l>यत्रास्ते भुजविक्रमाखिलजगविद्रावणो रावणः ।</l>
  <l>अयाप्यङ्गन्दबाहुपाशपतिता झूढे किमाक्रन्दसे</l>
  <l>सिंहस्यान्तिक मागतेव हरिणी कस्त्वां परित्रायते ॥ ३ ॥</l>
</lg>
<p>हे निशाचार, मा गाः क्षणं स्थित्वा यत्र रावणस्तन्त्र पुनर्गम्यताम् । किमानन्दसे
....माक्रन्दं करोषि । सुगमम् ॥ ३ ॥</p>
<p>d
[ अङ्कः-
skys</p>
<pb n="150" />
<p>दीपिकाख्यव्याख्योपेतम् ।
कटके वानरभटास्तद्वोरचीत्कारमाकर्ण्य भैरवरवै-
र्दोस्तम्भास्फालकेलिममिनीय साटोपमुत्पाटितमू-
लोयशैलधारिणः प्रचण्डकोलाहलेन लङ्कामाकु-
लयन्तोऽकूपारस्येव यामिन्याः परं गताः ॥
लंकायां रावणः सूर्योदयमासाथ वानरवाहिनीको-
लाहलामर्पमूच्छितः समरभूमौ कटकमुत्कटं प्रस्था-
प्य लंकाबलशिखरपकमारुह्य पुरः स्थितेन महो-
दरेण मंत्रिणा सह रामवाहिनी महिमानं पश्यति स्म ।
तत्र रामकटके वानरा:-</p>
<lg>
  <l>खेलन्तोखिलवानरा जलनिधौ दृष्ट्वा रणे राक्षसा-</l>
  <l>नृत्पाट्याशु विमानमेव जगृहु: पृथ्वीं समां चक्रिरे ।</l>
  <l>दृष्ट्वा तं च विभीषणं रघुपते त्राहीति वाक्यं तदा</l>
  <l>श्रुत्वासौ हनुमानुपेत्य तरसा मीत्या ददर्श स्वयम् ॥ ४ ॥</l>
</lg>
<p>खेलन्त इति । आशु शीघ्रमुत्पादय उन्मूल्य विमानं विविधवृक्षसमूहं 'मानश्चि-
तोन्नती वृक्षे ' इति हैमी । मानानां समूहो मानं विविधं मानं, यद्वा उत्पाट्य धुरा-
द्यमानि विभज्य विमानं राक्षसानां रथादीनि विभीषणं दृष्ट्वाच पुनः रघुपते त्राहीति
विभीषणवलस्य वाक्यं श्रुत्वा हनुमानुपेत्य स्वयमात्मानं प्रीत्या ददर्श दर्शयामास ।
विभीपणस्थानमगमदित्यर्थः । अन्यत्सुगमम् ॥ ४ ॥
लङ्कायां रावणः महोदरं पृच्छति । भो महोदर !
कदागतो रामोऽस्माभिर्न विदितं रामागमनदिनम् ॥
महोदरः --( सीतां प्रयच्छतु रामायेति बुद्ध्या साहसमवलम्ब्य )
राजबँकेश्वर ।
न्यञ्चद्भवलयं चलत्क्षितिघरं क्षुभ्यत्समस्तार्णवं</p>
<note>११.]</note>
<pb n="151" />
<lg>
  <l>हनुमन्नाटकं -</l>
  <l>त्रस्यद्वैरिवधूविलोचनजलमारब्धवर्षोद्गमम् ।</l>
  <l>प्रोदंचत्कपिवाहिनी पदभरव्याधूतधूलीपट-</l>
  <l>च्छन्नादित्यपथं कथं न विदितं तज्ज्ञैत्रयात्रादिनम् ॥ ५ ॥</l>
</lg>
<p>न्यञ्चदिति । हे रावण, जीयतेस्मिन्निति जैत्रं तस्य रामस्य जैत्रं चेदं यात्रा दिनं
कथं न विदितं केन प्रकारेण न ज्ञातम् । किं भूतं जैत्रम् । यात्रादिनं न्यञ्चन्नम्त्री-
भवद्भ्रूवलयं यस्मिंस्तदिति सर्वत्र चलन्तः क्षितिधराः यस्मिन् क्षुभ्यन्तः समस्ताः
अर्णवा यस्मिंस्तत् । यद्वा सर्वे अर्णवाः त्रस्यन्तो ये वैरिणः रक्षांसि तेपां वध्वस्तासां
विलोचनजलैः प्रारब्धो वर्षाया उद्गमो यत्र प्रकर्षणोद्गच्छन्तो ये कपयस्तेषां नाहि-
नीभ्यः पदद्भरेण चरणप्रक्षेपातिशयेन व्याधूतो व्युत्थापितो यो धूलिपटरेणुविस्तार -
स्तेन छन्नः आच्छादितः आदित्यपथो यस्मिन् । 'विस्तारे पटच्' ॥ ५ ॥
जयप्रयाणे रघुनन्दनस्य धूलीकदम्बास्तमिते दिनेशे ।
शशिप्रभं छत्रमुदीक्ष्य बाला सूर्योदये रोदिति चक्रवाकी ।॥ ६ ॥
जयेति । जयार्थे प्रयाणं जयप्रयाणम् ॥ ६ ॥</p>
<p>[ अङ्कः-
सहायार्थमिन्द्रप्रदत्तं छत्रगजतुरंगावलीसंभवो रामदेवस्य ॥
रावणः - महोदर ! रामः कुत्रास्ते ।
महोदरः - देव ! पश्य-</p>
<lg>
  <l>अङ्के कृत्वोत्तमांग प्लवगबलपतः पादमक्षस्य हन्तु-</l>
  <l>भूमौ विस्तारितायां त्वचि कनकमृगस्याङ्गशेषं निधाय ।</l>
  <l>बाणं रक्षःकुलघ्नं प्रगुणितमनुजेनार्पितं तीक्ष्णमक्ष्णोः</l>
  <l>कोणेनोद्वीक्ष्यमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥ ७ ॥</l>
</lg>
<p>अपि च - भूभङ्गाद्वदसिन्धू रघुपतिरखताद्वन्दिना वेदितोसौ</p>
<lg>
  <l>BE</l>
  <l>विष्टस्ते मातुलस्य त्वचि पुनरनुजं मंत्रिणो दत्तकर्णाः ।</l>
  <l>बाणे दत्तार्धदृष्टिस्तव जयपिशुने लक्ष्मणे सस्मितो यः</l>
  <l>सुग्रीवग्रीवबाहुः कृतचरणभरः सोऽङ्गदे रावणोऽयम् ॥ ८ ॥</l>
</lg>
<pb n="152" />
<p>1</p>
<note>११.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>अ इति । प्लवगवलपतेः सुप्रीवस्य, अक्षस्य त्वत्सुतस्य हन्तु: हनुमतः अके
इत्युभयन्त्र धनुर्जयस्यातिशयज्ञानार्थ रक्षःकुलन्नमिति । अत्र ज्याविशिष्टत्वं प्रगुणि-
तत्वं त्वदनुजवचने । एतेन लङ्काभङ्गक्रमकथाकथनं सूचितम् ॥ ७ ॥ ८ ॥</p>
<lg>
  <l>गगनं गिलितं भूमिर्गिलिता गिलिता दिशः ।</l>
  <l>सरितः प्लवगैः पीताः सीतापतिपदानुगैः ॥ ९ ॥</l>
</lg>
<p>.
गगनमिति । हे रावण, सीतापतिपदानुगैः प्रवगैर्गगनं लोपितम् । भूमिर्गिलिता
अश्या कृता । दिशो गिलिता: निरालोकीकृताः । एतेन तद्वद्दुत्वमुक्तम् ॥ ९ ॥
देव महोत्पातं पश्य मध्यन्दिनेऽपि ।</p>
<lg>
  <l>कचिन्मीतः कचिन्मेषः कचिल्लम्बितकृत्तिका ।</l>
  <l>क्वचिन्मृगशिरः साई नभो व्याधगृहायते ॥ १० ॥</l>
</lg>
<p>-कचिदिति । पूर्वाचरमचरणउत्तर रेवत्युपलक्षितो मीन: । अश्विनीभरण्युपल-
क्षितो मेपः कृत्तिका सबैव सा आर्द्रासहितं मृगशिरः । व्याधगृहेपि मीनो मत्स्यः
कृत्तिका कृपाणिका 'कृत्तिका स्त्री कृपाणिका' इति हैमी । मृगशिरो मृगमस्तकं
साह्रै सरुधिरम् ॥१० ॥
रावणः - (साभ्यसूयम् )
अहो महोदरामात्य किमर्थ वल्गसेपश्य-</p>
<lg>
  <l>प्रतापं संसोढुं रविरपि दशास्यस्य न विभु-</l>
  <l>निमज्जत्युन्मज्जत्य परजलधौ पूर्वजलधौ ।</l>
  <l>हरि: शेते वार्षी निवसति हिमाद्रौ पुरहरो</l>
  <l>विरिञ्चिः किञ्चापि स्वनिजकमलं मुञ्चति न वा ॥ ११ ॥</l>
</lg>
<p>रावणः एतदुक्तैरात्मनोऽमङ्गलमवगम्याक्षिपति- प्रतापमिति । प्रतापाक्रान्तः
शैत्यमाश्रयतीति प्रसिद्धम् । तदेव द्योतयति- अपरजलधौ पश्चिमसमुद्रे मजति पूर्व-
समुद्रे उन्मज्जति स्वस्य जनिरुत्पत्तिर्यस्मात्तत्कमलम् ॥ ११ ॥
अत्रान्तरे यथा रावणो न वेत्ति तथाशोकवनिकास्थित
विमाने जानकीमारोप्य रामं दर्शयति स्म सरमा ॥
iştir</p>
<pb n="153" />
<p>हनुमन्नाटकं -</p>
<lg>
  <l>विदेहदुहितुर्दृष्टिर्दशग्रीवरिपौ बभौ ।</l>
  <l>सुनीलेव मनोरम्ये तमाले मधुपाङ्गना ॥ १२ ॥</l>
</lg>
<p>विदेहेति । दृष्टेर्मधुपाङ्गनासाम्यं रामस्य तमालसाम्यमिति । सुगमम् ॥ १२ ॥
तत्र रामकटके वानराणाम्-</p>
<lg>
  <l>हेमप्राकारजंघन रत्नयुतिदुकूलिनीम् ।</l>
  <l>लंकामेके त्रिकूटस्य ददृशुर्वनितामिव ॥ १३ ॥</l>
</lg>
<p>हेमेति । वानराणां मध्ये एके वानराः । सुगमम् ॥ १३ ॥</p>
<p>[ अङ्क:-
लंकायां रावणः । भो महोदर ! सर्वैर्मन्त्रिमिः प्रबो-
ध्यतामयं वीरः कुम्भकर्णः ॥
महोदरः-यदाज्ञापयति देव इतिनिष्क्रम्य कुम्भकर्णनिद्रालयं जगाम ।
तत्र कुम्भकर्णप्रिया-</p>
<lg>
  <l>विरम विरम तूर्ण कुम्भकर्णस्य कर्णा-</l>
  <l>खलु तक निनादैरेप निद्रां जहाति ।</l>
  <l>इति कथयति काचित्रेयसी प्रेक्ष्यमाणा</l>
  <l>मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ॥ १४ ॥</l>
</lg>
<p>-
विरमेति । काचित् कुम्भकर्णस्य प्रेयसी कर्णाभ्यर्णे चीत्कुर्वन्तं महोदरमिति
कथयति । इति किम् । विरसविरसेत्यादिसर्वत्रानादरे वीप्सा । किंभूता प्रेयसी ।
मशकवत्कुम्भकर्णगलकरन्ध्रे मुखेन श्वासानापूर्यापोह्य हस्तिभिराक्रममाणस्यापि
गलच्छिद्रे मशकवत् । यथा अनेके मशकाः कस्मिंञ्चिच्छिद्रे विशंति एवं मुखश्वासे-
नास्यान्तर्गतं हस्तिसमूहं प्रेक्ष्यमाणा । योन्तर्हस्तिभिरपि नावबुद्धः स कथं भवेची-
कारैरिति भावः ॥ १४ ॥
निद्रां तथापि न जहाँ यदि कुम्भकर्णः
श्रीकण्ठलब्धवर
किन्नरकामिनीनाम् ।</p>
<pb n="154" />
<lg>
  <l>११.]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>गन्धर्वयक्षसुरसिद्धवराङ्गनाना-</l>
  <l>माकर्ण्य गीतममृतं परमं विनिद्रः ॥ १५ ॥</l>
</lg>
<p>निद्रामिति । यदि यदा तथापि गजाक्रमणमन्त्रिचीत्कारैरपि तदा सङ्गीतमा-
कर्ण्य विनिद्रो जात इति शेषः । अमृतं अमृतवन्मधुरं परममत्युत्कृष्टलक्ष्म ॥१५॥
स्वकटके मारुतिः -
}
4.</p>
<lg>
  <l>जृम्भासंभार भीमनुकुटितटनटत्कुम्भकर्णाट्टहास-</l>
  <l>व्यासव्या कोशवक्रव्यतिकरचकितप्राणिपुण्यप्ररोहः ।</l>
  <l>लीलालोलन्मृणालीमृदुमिथिलसुतासङ्गभूपालहंसः</l>
  <l>पायात्सिन्दूर पूर्वाचलशिखरशिरःशेखरो रामचन्द्रः ॥ १६ ॥</l>
</lg>
<p>कुम्भकर्णोत्थापनमिया वानरानवलोक्यातिसदयो मारुतिः आशियमनुवति ।
जृम्भेति । रामचन्द्रः पायात् । किंभूतः । जृम्भासंभारेण जृम्भातिशयेन भीमं यत्
भृकुटितटं तेन सह नटत् आविर्भवत् कुम्भकर्णाट्टहासस्तस्य व्यासेन विस्तरेण युक्तो
यो व्याकोशोन्तरालस्तद्युक्तं यद्वकं तस्य व्यतिकरेण किमिदमित्यज्ञानेन चकिता ये
प्राणिनस्तेषां पुण्यप्ररोह: पुण्योदयस्तयनिवर्तक इति । पुनः लीलायै लोलन्ती
चञ्चला मृणाली पद्मिनी तद्वन्द्वी च या मिथिलसुता तस्याः सङ्गे राजहंसः यथा
पद्मिनीसङ्गाद्राजहंसो मोदते तद्वदयमपि सीतासङ्गादिति भावः । पुनः सिन्दूरवद-
रुणो यः पूर्वाचल उदयगिरिस्तस्य शिखरे शिर इव शिरः सूर्यस्तस्य शेखरः शिरो-
रत्नसूर्यकुलकेतुरिति ॥ १६ ॥
लंकायां कुम्भकर्ण:-
सुप्तोत्थितः कवलयन पलशैलजालं
तीव्रासवं परिपिचन्नपि कुम्भकर्णः ।</p>
<p>Ng
-
तृप्तिं जगाम न तथेत्यवदत् सुराया
गंगां पिबामि यमुनां सह सागरेण ॥ १७ ॥
सुप्तोस्थित इति । पलशैला: मांसगिरयस्तेपां जालं वहुपर्वतोच्चमांसराशिमिति ।
तीव्रासवमतिमादकमदिराम् । यदा तृप्तिं न जगाम तदा इत्यवदत् । इति किम् ।
सुराया इत्यादि ॥ १७ ॥</p>
<pb n="155" />
<p>हनुमन्नाटकं -
स्वकटके रामः-
[ अङ्क:-</p>
<lg>
  <l>उपस्थितं वीक्ष्य तमाह रामो लंकाशिरोनिर्मितजानुदघ्नम् ।</l>
  <l>भो मारुते यन्त्रमुदस्तमेतत्किनेत्यवादीत्स चकुम्भकर्णः ॥ १८ ॥</l>
</lg>
<p>उपस्थितमिति । तं कुम्भकर्णम् । किंभूतम् । लङ्काशिरः लङ्काशिखरं निर्मितं जानु-
दन्नं जानुप्रामाण्येन यस्य तम् । उत्थितस्य लङ्काशिखरं जानुप्रमाणमिति भावः ।
'प्रमाणे दनादयः' । भो मारुते एतल्कि यन्त्रमुदस्तं अष्टधातुघटितं लङ्काप्रक्षेपकरणं
यन्त्रम् । यद्वा यन्त्र काल उदितः किं 'यन्त्रं कालेक्षचक्रयोः' इति विश्वः । मारु-
तिर्नेत्यवादीत् । यन्त्र नेति च पुतः कुम्भकर्ण इत्यवादीत् ॥ १८ ॥
कुम्भकर्णः - (रावणसमीपभागमागम्य ) भो राजन् !</p>
<lg>
  <l>यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम् ।</l>
  <l>तथापि शास्त्रदीपेन संचलन्त्यवनीश्वराः ॥ १९ ॥</l>
</lg>
<p>यद्यपीति । सर्वत्रगा सर्वतोखण्डिता सर्वत्र गीयते प्रमाणीक्रियते वा । सुगमम् ।
संचरन्त्यवटेऽसतामिति पाठेन शास्त्रमेव दीपस्तस्मिन्सति असतामशास्त्र वर्तिनां
अवटे गर्तरूपे मार्गे संचरन्ति साधव इति शेपः ॥ १९ ॥</p>
<p>( रामाय जानकी दीयतामित्यभिप्रायः )</p>
<p>रावणः-</p>
<lg>
  <l>इदं भ्रातृवचः श्रुत्वा तथेत्याह दशाननः ।</l>
  <l>शास्त्रनिःसंशया वाचः सतां कस्य न वल्लभाः ॥ २० ॥</l>
</lg>
<p>pe
इदनिति । तथेति शिरम्चालनेनाङ्गीकारः । सतां शास्त्रानुवर्तिनां शास्त्रनि:-
संशया वाचः शास्त्रनिर्णयान्ताः । 'वद् कस्य न वल्लभा: ' इति वा पाठ: 1
सुगमम् ॥ २० ॥
जानकीं न समर्पयामीत्यभिप्रायाद्रावणः - ( सावज्ञम् )
उत्क्षिप्तस्फटिकाचलेन्द्रशिखरश्रेणीनिघृष्टाङ्गदै -
रोभिः पीनतरैः सुरासुरभयप्राप्त प्रतिष्ठैर्भुजैः ।
on</p>
<pb n="156" />
<p>११]
दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>संग्रामे मम कुम्भकर्ण विजयः किं त्वगुजाडम्बरः ।</l>
  <l>प्रत्याशाशिथिलोस्म्यहं व्रज पुनः स्वापाय निद्रालयम् ॥ २१ ॥</l>
</lg>
<p>उत्क्षिप्तेति । उत्क्षिप्त उद्धृतो य: स्फटिकाचल: कैलासः कित्वयेति शेषः ।
सुगमम् ॥ २१ ॥
कुम्भकर्णो भीममालम्ब्य -</p>
<lg>
  <l>राजन्मागा विषादं परिहर बलवद्विद्विषः शोकशल्यं</l>
  <l>कल्याणान्याश्रयन्तामहमहमिकया नो भवन्तं जहामि ।</l>
  <l>कः कालः को विधाता किमरिकुलभयं को यमः के च याम्याः</l>
  <l>को रामः के कपीन्द्राथ्वलति मयि रणे रोषिते कुम्भकर्णे ॥ २२ ॥</l>
</lg>
<p>राजनिति । वलवांश्चासौ विद्विद् रामस्तस्य मत्सकाशात् शोकशल्यं अहमह
मिकया पूर्वशौर्यप्रकटनेन 'अहंपूर्वमहपूर्व युद्धार्होऽहमिका मता' इत्यभिधानचिन्ता-
मणौ । अन्यत्सुगमम् । सर्वकल्याणानि आश्रयन्ताम् । त्वामिति शेपः ॥ २२ ॥
i</p>
<p>रावणः ( सानन्दं ) महाबलपराक्रमै राक्षसभटैः
परिवृतो रणप्राङ्गणेऽवतरतु वत्सः ।
कुम्भकर्णः । ( साक्षेपं ) तथा कृत्वा -</p>
<lg>
  <l>अयि कपिकुलमल्लाः किं मुधा यात भीता</l>
  <l>नहि जगति भवद्भिर्युद्ध्यते कुम्भकर्णः ।</l>
  <l>अपि जलधरपोतो लेढि किं स्वल्पकुल्या</l>
  <l>मपि मशककुटुम्ब केसरी किं पिनष्टि ॥ २३ ॥</l>
</lg>
<p>अयोति । अयीति संभावनायाम् । हे कपिकुलमल्ला: हे कपिवराः, मुधा भीताः
सन्तः किं यात कस्माट्र्जत । तदुपपादयति नहीति । अत्र युद्धदृष्टान्तद्वयमाह-
जलधरपोतो मेघवालोपि अल्पतरमेघोपीत्यर्थः । 'पोतो वार्यानवालयोः' इति हैमी ।</p>
<p>कुल्याल्पा कृत्रिमा सरित् ' इत्यमरः । लेढि आस्वादयति पिनष्टि मारयति ।
राक्षसवालोपि अल्पवलैर्वानरैर्न युध्यते मम तु का कथेति भावः ॥ २३ ॥</p>
<pb n="157" />
<p>हनुमन्नाटकं -
अपिच-</p>
<lg>
  <l>नाहं वाली सुबाहुर्न खरत्रिशिरसौ दूपणस्ताटकाहं</l>
  <l>नाहं सेतुः समुद्रे न च धनुरपि यत्र्यम्बकस्य त्वयात्तम् ।</l>
  <l>रेरे राम प्रतापानलकवलमहाकालमूर्त्तिः किलाहं</l>
  <l>वीराणांमौलिशल्यः समरभुविचरः संस्थितः कुम्भकर्णः ॥ २४ ॥</l>
</lg>
<p>नाहमिति । खरच त्रिशिराश्चैतौ राक्षसजातौ । आत्तं भग्नं रामस्य चः प्रतापा-
नलस्तस्य यः कवलस्तद्ग्रहणाय महाकालरूपः । अथ वागर्थः । वाल्यादिभिरशन-
पूर्तिर्न जाता । मया तु रामप्रतापान्निस्तृप्तो भविष्यतीत्याह- रामप्रतापालनस्य
क़चलाय यो महान्कालस्तस्य मूर्तिरेकोऽस्मीति बुभुक्षितरामानेरतिकालो यातस्त-
पूर्तिरद्येति भावः ॥ २४ ॥</p>
<p>[ मैक</p>
<p>(ततो गगनमुत्पत्य )</p>
<lg>
  <l>सुग्रीवं वाहुमूले पुवगवलपतिं कण्ठदेशे भुजेन</l>
  <l>क्षिप्त्वा निष्पीडच गाढं रजनिचरपुरी संदधानो जगाम ।</l>
  <l>सानन्दं कुम्भकर्णस्तदनु कपिभटस्तस्य तूर्ण सकर्णे</l>
  <l>घ्राणं जग्ध्वा जगाम स्वशिविरसुदरं कूर्परेणाभिहत्य ॥ २५ ॥</l>
</lg>
<p>सुग्रीवमिति । चाहुमूले कक्षायां गाढं यथा स्यात्तयां निप्पीड्य पुनरचेतनं
ज्ञात्वा सुजेन कण्ठदेशे क्षिप्त्वा संदधानः सन् सानन्दं यथा स्यात्तथा लङ्क ज
कूर्परेण बाहुमध्यस्थानेन 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः ॥ २५ ॥
निःश्वस्योत्सृज्य बाप्पं नयनकमलयोश्वात्मनो वारि दत्त्वा
कृत्वा लंकोपगूढं सकरुणमपुनभवि नीत्वा त्रिशूलम् ।.
क्रोधान्धः कालमूर्तिः प्रलयहुतवहाङ्गारनेत्रो विकर्णे-
छिन्नमाणोऽवतीर्णः पुनरपि समरप्राङ्गणे कुम्भकर्णः ॥ २६ ॥
1
१ म्रुश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा सा प्रसिद्वा, इतिलक्षणानुरोधेन खरत्रिशिरस्रेति :
पदे छन्दोभंगः कस्य प्रमादेन निपतित इति न ज्ञायते ।</p>
<pb n="158" />
<note>११.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>निःश्वस्येति । नयनकमलयोः सकाशाद्वाप्पमुत्सृज्य आत्मनः स्वस्य वारि जलं
दत्त्वा सकरुणं यथा स्यात्तथा लोपगूढं लकालिङ्गनं कृत्वा । कीदृशं लङ्कोपगूढम् ।
अपुनर्भावि यत्पुनर्न भवतीत्यपुनर्भावि । सुगमम् ॥ २६ ॥
"
तं दृष्ट्वा जीविताशं गिरिवरकुहरं त्रस्तचित्ताः कपीन्द्राः
केचित्पादान्तवात प्रचलितपवनान्दोलिताः खे चरन्ति ।
केचिद्दोर्दण्डचण्ड भ्रमण निपतिताः शोणितान्युद्भिरन्ति
प्राणान् केचित् प्रवीराः कथमपि दधति स्फीतफूत्कारभिन्नाः २७
तमिति । तम् अरूपं दृष्ट्वा त्रस्तचित्ताः गिरिवराणां कुहरं विवरं चरन्ति गच्छन्ति
'नागलोकोऽथ कुहरं सुपिरं विवरं विलम्' इत्यमरः । पादान्तवातप्रचलितपवनान्दो
लिताः । पादान्तवातत्प्रचलितो वेगवान्यः पवनस्तेनान्दोलिताः सन्तः खे चरन्ति
निर्गच्छन्ति स्फीताः । वर्धिताश्च ते फूत्काराश्च तैभिन्ना विदीर्णाः । अन्य-
सुगमम् ॥ २७ ॥
●</p>
<lg>
  <l>उत्क्षिप्य शूलमजयं त्रिपुरान्तकस्य</l>
  <l>संहारकेतुमिव कोटितडित्यभाभिः ।</l>
  <l>घोरं ज्वलन्तमुरसि क्षिपति स्म रक्ष-</l>
  <l>स्तारापतेस्तदिपुणा रघुणा निरस्तम् ॥ २८ ॥</l>
</lg>
<p>उत्क्षिप्येति । क्रेनाप्यजितभित्यजयम् । त्रिपुरान्तकस्य रुद्रस्य शूलं रुद्रप्रसादप्राप्त-
मिति कोटितडितामिव याः प्रभास्ताभिर्घोरं दुष्पेक्ष्यं रक्षः कर्तृ कुम्भकर्णः तारापतेः
सुग्रीवस्योरसि निक्षिपति सतीत्यन्वयः । रघुणा श्रीरामेण तत्रिशूलं इपुणा बाणेन
निरस्तं अन्तैरेवखण्डितम् ॥ २८ ॥</p>
<lg>
  <l>क्रोधानेजठराग्नेः कपिशिबिरगतो मुद्गरं व्याददानो</l>
  <l>व निक्षिप्य कोटिं कवलयति भटानुत्कटान्कुंभकर्णः ।</l>
  <l>कांवपिनष्टि श्वसनसहचरा वानराः कर्णरन्धा-</l>
  <l>निर्गच्छन्त्येक एतान्पुनरपि दशनैश्चर्वितानत्ति घोरम् ॥ २९ ॥</l>
</lg>
<p>तत्क्रोधमनुवर्णयति-क्रोधाग्नेरिति । कुम्भकर्णः क्रोधाग्नेः सकाशाजाठरो योग्नि-
स्तस्मात्सकाशात्काघात्क्षुधावाधादिति कोटिं भटान्को टिसंख्याकान्वानर मुख्यान्वक्रे</p>
<pb n="159" />
<p>हनुमन्नाटकं
[ अङ्कः-
निक्षिप्य कवलयति कपिशिविरः कपिकटकः श्वसनसहचरा: उवाससङ्गिन: एके
वानराः मुखस्था अपि कर्णरन्ध्रान्निर्गच्छंति । घोरं यथा स्यात्तथा दशनखण्डिता
नप्येतान्कर्णद्वारान्निर्गतान् पुनरत्ति पुनर्वयति ॥ २९ ॥
-</p>
<lg>
  <l>सव्येन सान्द्रशिबिरं स्वकरेण धुन्च-</l>
  <l>न्व्यात्ताननस्य कटकं तत उत्तरेण ।</l>
  <l>सुग्रीवमेव कपिवीरवरेषु सत्सु</l>
  <l>जग्राह कोपकलितो युधि कुम्भकर्णः ॥ ३० ॥</l>
</lg>
<p>सव्येनेति । स कुम्भकर्णः सव्येन करेण वामहस्तेन सान्द्र शिविरं निविडाव-
मोचनं कटकं धुन्वन्विद्रावयन् ततो विद्रावणानन्तरमुत्तरेण दक्षिणहस्तेन सुग्रीवं
मेव जमाहेत्यन्वयः । स्ववैरूप्यकर्तृत्वात् । अन्यत्सुवोधम् ॥ ३० ॥</p>
<lg>
  <l>तातं विलोक्य विषमस्थमथांगदस्तं</l>
  <l>गारुत्मतेन भुवि पातयतिस्म शत्रुम् ।</l>
  <l>मुक्तोऽपि निःश्वसति यावदसौ कपीन्द्र-</l>
  <l>स्तावद्वबन्ध नरसिंहपदादं सः ॥ ३१ ॥</l>
</lg>
<p>तातमिति । तातं सुग्रीवं गात्मतेन गरुडपाशेन शत्रुं कुम्भकर्णमुक्कोपि कुम्भ-
कर्णहस्ताद्गलितः कपीन्द्रः सुग्रीवः यावन्निःश्वसिति सचेतनो भवति तावत् स कुम्भ-
कर्णः पतित्वोत्थितः सन्नरसिंहपढ़ा नरसिंहपाशेन अङ्गमपि ववन्ध ॥ ३१ ॥</p>
<lg>
  <l>दृष्ट्वा नीलस्तदुभयमपि यस्तमाक्रम्य रक्षः-</l>
  <l>स्कंधे मौलौ श्रवणकुहरे घ्राणवोदरेषु ।</l>
  <l>तीव्रज्यालो दहति कुपितः स्वेन रूपेण वीरः</l>
  <l>ऋव्यादोऽभूत्तदनु विकलः प्रोत्थितौ वानरेन्द्रौ ॥ ३२ ॥</l>
</lg>
<p>दृष्ट्येति । तदुभयं सुप्रीमङ्गदं च ग्रस्तं वद्धं स्वेन रूपेण अग्निरूपेण तदुवतार-
त्वात् रक्षः कर्म राक्षसं दहतीति तदनु दाहमनुलक्षीकृत्य कव्यादः कुम्भकर्णः
विकलोऽभूत् ॥ ३२ ॥</p>
<pb n="160" />
<note>११.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
लंकाशिरःस्थो रावणः-</p>
<lg>
  <l>लंकेश्वरस्तमवलोक्य रणे ज्वलन्तं</l>
  <l>कादम्बिनीसहचरामृतवारिधाराम् ।</l>
  <l>तूर्ण मुमोच तदुपर्युपलब्धसंज्ञो</l>
  <l>भोक्तुं कृतान्त इव नीलनलौ स दध्यौ ॥ ३३ ॥</l>
</lg>
<p>so
एतदन्तरा बानरेन्द्रौ सुप्रीवाङ्गदी फादम्विनी मेघमाला तत्सहायवान्
तस्या या अमृतवारिधारा तो लब्धसंज्ञः प्राप्तचेतनः कुम्भकर्ण: । अन्यत्सु
बोधम् ॥ ३३ ॥
जाम्बवान्-</p>
<lg>
  <l>दम्भोलि कुम्भकर्ण गिरिमिव तरसा पातयञ्जनुबन्धं</l>
  <l>कण्ठं गाढं विरच्य स्वभुजगुरुमदं जाम्बवानुग्रवेषः ।</l>
  <l>निर्मुक्तौ तावभूतामभवदथ मरुत्पुष्पवृष्टिस्तदङ्गे</l>
  <l>गुल्फाघातेन रोपाद्रजनिचरवरस्तन्निरस्योपतस्थौ ॥ ३४ ॥</l>
</lg>
<p>दम्भोलिमिति । उग्रवेपः कोपातिशयाज्जाम्बवाञ्जानुबन्धं यथा स्यात्तथा जानु-
वन्धं जानुप्रहारं तरसा वलेन कुम्भकर्णमपातयदित्यर्थः । दम्भोलिर्वत्रः गिरिमिव ।
किं कृत्वा । गाढं यथा स्यात्तथा कण्ठं विरच्य गृहीत्वा । स्वभुजयोर्गुरुर्मदो यस्य ।
अथ तौ नीलनलौ निर्मुक्तावभूताम् । तदङ्गे जाम्बवदङ्गे मरुद्भिर्मुक्ता पुष्पवृष्टिरभ-
चत् । ततो रजनिचरवरः कुम्भकर्ण: गुल्फाघातेन तं जाम्बवन्तं निरस्योत्क्षिप्यो-
तस्थौ ॥ ३४ ॥</p>
<lg>
  <l>आलक्षितो रघुवरेण सलक्ष्मणेन</l>
  <l>कालान्तकादिव रिपोः परिशङ्कितेन ।</l>
  <l>स्थानं जगाम हनुमान्समरेऽवतीर्य</l>
  <l>माहेश उग्रनरसिंह इवारुणाक्षः ॥ ३५ ॥</l>
</lg>
<p>आलक्षित इति । माहेशो रुद्रावतार : हनूमान्समरेऽवतीर्य स्थानं शत्रुस्थानं
जगामेत्यन्वयः । किंभूतः । रिपोः सकाशात्परिशङ्कितेन निर्भयेन रघुवरेण आलक्षित</p>
<pb n="161" />
<p>●</p>
<p>हनुमन्नाटकं -
[ अङ्कः-
जालोकित: 'परिवर्जने' यद्वा रिपोः परितः शङ्का इता यस्मात्तेन । कस्मादिव ।
कालान्तकादिव कालः प्रलयस्तत्कर्तुरन्तकादिव उम्रञ्चासौ नृसिंहश्च क्रुद्धनर-
सिंह इव ॥ ३५ ॥</p>
<lg>
  <l>मैनाको मेरुश्शृङ्गस्थित इव हनुमत्पाणिपने नगेन्द्रः</l>
  <l>कल्पान्ते मन्दराग्रेजन इव समरे मुद्गरः कुम्भकर्णे ।</l>
  <l>अ ऋव्यादवीरः प्रहितमनिलजेनाच्छिन मुद्गगरेण</l>
  <l>लांगूलेनाञ्जनेयोद्भुतजनितरुपा मुद्गरं द्राक् चकर्ष ॥३६॥</l>
</lg>
<p>मैनाक इति । हनुमत्पाणिपझे नगेन्द्र गिरिरिव । भातीति शेपः । क समरे ।
किंभूते समरे । कल्पान्ते कल्पानामतिसमर्थानामपि अन्तो यस्मिन्मन्दराग्रे मन्दर-
रसि अमृतमथनार्थ मन्दराक्रमणार्थम् अजनो भगवानिव । कुम्भकर्णे मुद्गर इति ।
रोप॑ सुवोधम् ॥ ३६॥
रामः ।</p>
<lg>
  <l>अत्रान्तरे रघुपतिः शरयुग्म मैन्द्रं</l>
  <l>द्राकुम्भकर्णनिधनाय रणे मुमोच ।</l>
  <l>भित्त्वा बिभेद हृदयं धरणीमथैको</l>
  <l>मूर्धानमुद्धतमखण्डयदस्य चान्यः ॥ ३७॥</l>
</lg>
<p>अत्रान्तरे इति । ऐन्द्रं इन्द्रप्रदत्तं । द्राक् शीघ्रम् । शरद्वयकृत्यमाह - मित्त्वेत्यादि
अदृद्वयेन । सुवोधम् ॥ ३७ ॥
हनुमान् ।
उद्यन्मरुत्तनयचण्डचपेटघाता-
नमूर्धा पपात तुहिने रजनीचरस्य ।
भयो भविष्यति यदम्भसि भीमसेनो
'
बत्राम पुच्छनिकृतो गगने कबन्धः ॥ ३८ ॥
उद्यदिति । तुहिने उत्तरभागे हिमवदभ्यर्णे यदम्भसि यस्य मूर्ध्नि कपालस्थजले
पुच्छनिकृतः हनुमत्पुच्छताडितः ॥ ३८ ॥</p>
<pb n="162" />
<p>दीपिकारख्यव्याख्योपेतम् ।
लक्ष्मणः-
देवाः सर्वे विमानान्यपनयत खे: स्यन्दनो यातु दूरं
रे रे शाखामृगेन्द्राः परिहरत रणमाङ्गणं राक्षसाश्व ।
वज्रत्रस्ताञ्जन।द्रिप्रतिनिधिरवधिः सर्वविस्मापकानां
लंकात कहेतुर्निपतति नभसः कौम्भकर्णः कबन्धः ॥ ३९ ॥
अथ लक्ष्मणो रामवीर्यमधिकृत्य कवन्धमनुवर्णयति - देवा इति । प्रतिनिधि-
स्तुल्यः । सर्वमेव सुवोधम् ॥ ३९ ॥</p>
<note>११.]
(नृतः कुभकर्णः )</note>
<lg>
  <l>उत्क्रान्तोऽपि स्वदेहात्मवरसुरवधूदोर्भिराकृष्यमाणः</l>
  <l>प्राणत्राणाय भर्तुः पुनरपि समरापेक्षया नारुरोह ।</l>
  <l>संगीतैर्नारदायैर्मृदु सुरजरवैः स्तूयमानो विमानं</l>
  <l>वीरः संग्रामधीरः शिव शिव स कथं वर्ण्यते कुम्भकर्णः ॥ ४० ॥</l>
</lg>
<p>उत्क्नान्तोपीतिं । स्वदेहान्द्राक्षसान्तरादुत्क्रान्तः उद्गतोपि अप्सरोभिर्वरणार्थमा-
कृप्यमाणोपि विमानं नारुरोहेत्यन्वयः । अनारोहणे हेतुः - भर्तृ रावणस्य प्राणरक्ष-
णाय पुनरपि संग्रामेच्छयेति नारदाद्यैर्नारदमुखैर्गन्धर्वैः । कीदृशैः । सुष्टु गीतानि
चेपां तैः ॥ ४० ॥
लङ्काशिखरस्थो रावणः- ( सविस्मयम् )</p>
<lg>
  <l>मरुञ्चन्द्रादित्याः शतमुखमुखास्ते ऋतुभुजः</l>
  <l>पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् ।</l>
  <l>प्रकोपव्यांकम्पाधरतटपुटैर्वानरसटैः</l>
  <l>समाकान्ता सेयं शिव शिव दशग्रीवनगरी ॥ ४१ ॥</l>
</lg>
<p>इति श्रीहनुमन्नाटके कुम्भकर्णवधोना पैकादशोङ्कः ॥ ११</p>
<pb n="163" />
<p>१६४;
हनुमन्नाटकं -
[ अङ्क:-
मरुदिति । ते प्रसिद्धाः इन्द्रः मुखमिव मुखं येषां ते यस्या लङ्कायाः पुरद्वारे
चहिद्वारे 'पुरद्वारं तु गोपुरम्' इत्यमरः । संमानान्ता सर्वतोवरुद्धा । प्रकृष्टकोपेन यो
व्याकम्पः विशेषेणासमन्ततस्तयुक्तानि अधरपुटतटानि येषां ते ॥ ४१ ॥
इति श्रीहनुमन्नाटकटीकायां कुम्भकर्णवधो नाम एकादशोऽङ्कः ॥ ११ ॥
J
द्वादशोऽङ्कः-
रावणः सक्रोधं - तूर्ण पूर्णकटकं पुत्रमिन्द्रजितं दुष्कर सर यज्ञे
अध्वर्युं वृणोति स्म इन्द्रजित्सत्वरं कुम्भकर्णवधामर्षमूच्छितः
सीतापतिवधे बद्धलक्ष्यः समरचत्वरेज्वतीर्णः । इतों-
लक्ष्मणो धनुर्गुणटणत्कारैर्धरणिगगनान्तरमापूरयन्को-
पानलज्वालावलीभिः सलङ्काधिपां लङ्कां कवलयन्धोर-
समरनासीरेवतरति स्म ।
1
रावणिः--( लक्ष्मणमवलोक्य )</p>
<lg>
  <l>नाहं सौमित्रिकोपस्य जानेऽल्पमपि कारणम् ।</l>
  <l>नूनं चञ्चलबुद्धीनां स्नेहकोपावकारणौ ॥ १ ॥</l>
</lg>
<p>'सेनामुखं तु नासीरं' इत्यमरः । नाहमिति । अहम् आत्मनि सौमित्रिं प्रति यो
मदीयः कोपस्तस्याल्पमपि कारणं न जाने येनैनं उपहन्यामीति । मनु चेत्त्वयि
कारणं नास्ति तर्ह्यसौ कथं रुष्टस्तत्राह- चञ्चलबुद्धीनां लक्ष्मणसदृशानां स्नेहकोपाव-
कारणौ निर्निमित्तौ । यद्वा अः विष्णुस्तत्प्रेरितौ । यद्वायमर्थः । नूनमिति ज्ञात्वा
चलबुद्धीनामसमीक्ष्यकर्तॄणां मादृशां स्नेहकोपौ अकारणौ विष्णुनिमित्तौ । तस्य
शुभाशुभकर्तृत्वात् ॥ १ ॥
अपिच-
क्षुद्राः संत्रासमेनं विज़हत हरयो भिन्नशभकुम्भा
युष्मद्देहेषु लज्जां दधति परभमी सायका निष्पतन्तः ।
✔</p>
<pb n="164" />
<lg>
  <l>१२. ]</l>
  <l>दीपिकाव्यव्याख्योपेतम् ।</l>
  <l>सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः</l>
  <l>किंचिभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥ २ ॥</l>
</lg>
<p>✓
क्षुद्रा इति । क्षुद्रा अल्पतरा:, हरयोपि वानराः, एनं मदुपस्थितं संत्रासं विजहत
त्यजत । कुत इत्यत आह - युष्मदेहेष्विति । लज्जावत्वे निमित्तं प्राह - भिन्नेति । हे
सौमित्रे, स्वमपि तिष्ट रणादुपरम । कुत इत्यत आह - मम रुपां पात्रं नासीति ।
तर्हि किं करिष्यसि इत्यत आह - राममिति ॥ २ ॥</p>
<lg>
  <l>सुग्रीवमारुतिनलाङ्गन्दनील मुख्या</l>
  <l>बाप्पान्धकारजलदान्तरितं प्रचण्डम् ।</l>
  <l>तं रावणि जलदमण्डलमास्थितं नो</l>
  <l>पश्यन्ति तान्प्रहरति स्म स घोरबाणैः ॥ ३ ॥</l>
</lg>
<p>सुप्रीवेति । सुग्रीवादयस्तं रावणि तो पश्यन्ति । स मेघनाद : घोरैर्बाणैस्तान्सु-
श्रीवादी प्रहरति स्मेत्यन्वयः । अदर्शने हेतुमाह - बाप्पाजलकणाः अन्धकारच .
तक्तेन जलदेनान्तरितमाच्छादितं 'वाप्पो जलकणे बाष्पं नेत्रवारिणि चाप्यध'
इति धरणिः ॥ ३ ॥</p>
<lg>
  <l>मायारथं समधिरुह्य नभःस्थलस्थो</l>
  <l>गम्भीरकालजलंदध्वनिरुज्जगर्ज ।</l>
  <l>बाणैरपातयदहो फणिपाशब-</l>
  <l>स्तौ मेरुमन्दरगिरी पविनेव शकः ॥ ४ ॥</l>
</lg>
<p>मायेति । कालजलदस्य प्रलय मेघस्येव ध्वनिर्यस्य सः । फणिपाशो नागपाशः
तदावृतैर्नागपाशात्मकैरिति । तौ रामलक्ष्मणौ अपातयत् ववन्ध । वागर्थः । शक्रः
पविना मेरुमन्दरगिरी इव तौ रामलक्ष्मणौ अपातयत् । पातयामासेत्यर्थः । अहो
किमर्थेऽत्र्ययम् ॥ ४ ॥
अत्रान्तरे पूर्ववैरमनुस्मरन्ती चक्रवाकी सरोवरस्था-
( शशाप यो मे दयितं स रामः
१ यह मूलका लोक नही है समस्यापूर्ति है ।</p>
<pb n="165" />
<p>हनुमन्नाटकं -
सलक्ष्मणो रावणिबाणजालैः ।
रणे हतोऽयं मुदमुद्दहन्ती
चन्द्रोदये नृत्यति चक्रवाकी ॥ ५ ॥ ;
शशाप यो मे इति पद्यं कस्यापि समस्यारूपम् । अत्रानुपयुक्तम् ॥ ५ ॥
सरमा-
[ अङ्कः-</p>
<lg>
  <l>श्रुत्वा हतिं दशरथात्मजयोर्विमान-</l>
  <l>मारुह्य पुष्पकमवाप्य दशाननस्य ।</l>
  <l>आज्ञां निनाय सरमा जनकस्य पुत्रीं</l>
  <l>सीताविदीर्णहृदयासि दिवं गतासि ॥ ६ ॥</l>
</lg>
<p>श्रुत्वति । हृतिं वन्धनं दशाननस्याज्ञामवाप्य जनकस्य पुत्री पुष्पकविमानमारुह्य
गंतासि । सादरं यथा स्यात्तथा 'खगक्षेपणयोरसिः' इति धरणिः । गत आक्षेपो
यत्र तसि दिवं निनाय असियुक्ता दिवं संग्रामभूमिं निनाय ' द्यौः स्त्रियां रणनाकयोः
इति हलायुधः । असिपदेनातिभीषणत्वमुक्तम् । किंभूता सरमा । सीतार्थ विदीर्ण-
हृदयं यस्याः सा सरमा गतासि सादरं यथा स्यात्तथा असि दिवं यज्जयादियुक्तरण
निनाय मायया प्रापेति वाक्यार्थः ॥ ६ ॥
जानकी-</p>
<lg>
  <l>किं भार्गवच्यवनगौतमकाश्यपानां</l>
  <l>वाणी वसिष्ठमुनिलो मशकौशिकानाम् ।</l>
  <l>जाताऽनृताप्यहह आलपिता त्वया मे</l>
  <l>स्यान्मनचूचुक्कुचा सघवेति राम ॥ ७ ॥</l>
</lg>
<p>किमिति । अहहेति खेदे । भार्गवादीनां सा वाणी अनृता जाता । सा का ।
या त्वया सह मे मां प्रति । कर्मणि पष्ठी । इति आलापिता । इति का । सीते त्वं
सधवा स्याः न कदाचिद्विधवात्वं प्राप्नुहोति । कुत इत्यपेक्षायामाह- कीदृशी मन्नौ
चतौ चूचुकौ च एवंभूतौ कुचौ यस्याः सा । उक्तं च - 'आभोगमन्नशिरसौ
यत्या: स्तः सततं कुचौ । सा नारी सधवा नित्यं न कढ़ाचित्तदप्रिया :
इति बहवः ॥ ७ ॥
-</p>
<pb n="166" />
<note>१२. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>हा राघव प्रियतम स्फुरतीह वामो</l>
  <l>बाहुस्तथा नयनमप्यनृतं किमेतत् ।</l>
  <l>नाद्यापि यन्मधुरनिर्मलदृष्टिपातैः</l>
  <l>संभावयस्यपि विलासागरा भुजाभ्याम् ॥ ८ ॥</l>
</lg>
<p>सा भवतु नामानता
मित्यत आह - अद्यापि
सुखयसीति ॥ ८ ॥
शकुनोप्यनृत इत्याह - हेति । बाह्वादिकमप्यनृतं कथं जाव-
एतावन्मयोक्ते सति निर्मलदृष्टिपातैम न संभावयसि
उक्तं च यतः -</p>
<lg>
  <l>संमानितापि न तथा मुदमभ्युपैति</l>
  <l>मात्रानुजेन जनकेन तथाग्रजेन ।</l>
  <l>आश्वासितापि रमणी रमणेन तूर्ण</l>
  <l>प्रेम्णा यथा मधुरनिर्मलदृष्टिपातैः ॥ ९ ॥</l>
</lg>
<p>उक्तं च यत इति ॥ ९॥</p>
<lg>
  <l>प्राणेश्वर: प्रतिगिरं न ददाति रामो</l>
  <l>हा वत्स लक्ष्मण ममापनयेन रुष्टः ।</l>
  <l>मद्दत्सलस्त्वमपि नोत्तरमाददासि</l>
  <l>भान्त्वा भुवं मम कृतेऽथ दिवं गतौ वा ॥ १० ॥</l>
</lg>
<note>१६.७</note>
<p>राममुक्त्वा लक्ष्मणमुपालभते प्राणेश्वर इति । हा कष्टं वत्स लक्ष्मण, ममाप-
नयो नयाभावस्तेन रुष्टः प्राणेश्वरो रामः प्रत्युत्तरं न ददाति । रक्षोहस्तगताया:
प्राणघारणमनयः महत्सलस्त्वमपि मातृस्नेहवान् । त्वमप्युत्तरं न ददासि तन्मया
ज्ञातम् । भुवं भ्रान्त्वा मम कृते दिवं गतौ । वा वितर्फे ॥ १० ॥
स्वर्गादिमौ झटिति मानवलोकयन्तौ
न ब्रह्मलोकमधिगच्छत एव तावत् ।</p>
<pb n="167" />
<p>हनुमन्नाटकं -
प्राणा दिवं व्रजत साधुगिरा मुमोच
श्वासानिलं जनकजा सह सङ्गरेण ॥ ११ ॥
प्राणेति । हे प्राणा: ! यावत् मा इति मां स्वर्गेप्यनवलोक्य तो मौ राममणी
स्वर्गाद्ब्रह्मलोकं नाधिगच्छतः न व्रजतः तावञ्झटिति शीघ्रं यूयमिति शेषः । दिवं
व्रजतेत्यन्वयः । एवमुक्ते सति साधुगिरा सीते विषादं माकार्पोरयं जीविष्यतीति
सरमोक्तथा सङ्गरेण संग्रामेण सह जनकजा श्वासानिलं मुमोच । उच्छ्वासं त्यक्त-
ती रामावलोकनं चकारेति भावः ॥ ११ ॥
समरादपहृतं विमानं सरमया रावणभयादित्यभिप्रायः ।
अत्र वैकुण्ठाद्गरुड:-
हाहाकारं निशम्य त्रिभुवनविदितं रावणेः कर्म घोरं
क्रोधाने धूमधाटीदलितरिपुकुलं त्रासयवाक्षसेन्द्रम् ।
पक्षाघातप्रचण्ड प्रचलित पवनध्वस्तशैलेन्द्रपातैः
;
[ अंङ्क:-
।</p>
<lg>
  <l>।</l>
  <l>संप्राप्तो वैनतेयः स्रवदमृतरसो जीवयामास रामम् ॥ १२ ॥</l>
</lg>
<p>*
सकाशात् या धूमघाटी धूमातिशयस्तेन दलितं रिपुकुलं येन ।
तृतीय चरणार्थेन राक्षसेन्द्रं त्रासयन्त्रवदमृतरस इति जीवनाय गर्भितो हेतुः ।
वागर्थ:- राममनुलक्षीकृत्य दृष्ट्वा चेत्यर्थः । रामं दृष्ट्वा स्वयं सचेतनोभूदित्यर्थः ।
तवमानश्रवणा चेतनत्वात् ॥ १२ ॥
रावणिः-</p>
<p>( सभयं रणसंकटमुपलभ्य समपञ्चम् )</p>
<lg>
  <l>पापो विरच्य समरे जनकस्य पुत्रों</l>
  <l>हा राम राम रमणेति गिरं गिरन्तीम् ।</l>
  <l>खङ्गेन पश्यत वदन्निति रे प्रवीरा</l>
  <l>मायामयीं शिवशिवेन्द्रजिदाजधान ॥ १३ ॥</l>
</lg>
<p>रामसंजीवनात्सर्वान् जीवया मासेत्यर्थः । रावणिः समयं रणसङ्कटमुपलभ्य
संप्राप्य रे वीराः, पश्यत इति वदन्सन् इन्द्रजिन्मेघनादः । अन्यत्सुगमम् ॥ १३ ॥</p>
<pb n="168" />
<note>१२.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<lg>
  <l>द्विधा कृतां तां पुनराददानो मायारथस्थोऽम्बरवर्त्मना च ।</l>
  <l>ब्रह्मोपदेशात्स निकुम्भिलाद्रेर्न्यग्रोधमूलावटमाजगाम ॥ १४ ॥</l>
</lg>
<p>द्विधेति । ब्रह्म वेदस्तस्योपदेशादथर्वणमन्त्रोपदेशात् । यद्वा ब्रह्मा प्रजापतिस्त-
स्वाज्ञातः वक्ष्यमाणशक्तित्वात् । निकुम्भिल : त्रिकूटान्तःपाती गिरिः अवर्ट कुण्डं
तन्त्राभिचारकर्मणा मायारथमुत्पादयितुं जगामेत्यभिप्रायः ॥ १४ ॥
( समरचत्वरे ) रामः-</p>
<lg>
  <l>दृष्ट्वा मायाजनकतनपाखण्डनं रामचन्द्रो</l>
  <l>गुर्वीमुर्वीतलमुपगतो दीर्घमासाय मूर्च्छाम् ।</l>
  <l>तत्पादाये पुनरनुजनिश्चेतनां प्राप्य रामं</l>
  <l>कृत्वोत्संगे स्मरसि न गिरं व्याहरन्नित्यरोदीत् ॥ १५ ॥</l>
</lg>
<p>हष्वेति । गुव मूर्च्छामासाद्य दीर्ण रामशोकात्सीताखण्डनाद्वा दीर्ण विदलितं
सीतापुत्रीत्वाभिमानादिरं वेदवाणीं न स्मरसि 'अजो नित्यः शाश्वतोयं पुराण: '
इति स्मरणाज्जामदग्न्यदत्तमुग्धत्वरूपं वा ॥ १५ ॥
लक्ष्मणः-</p>
<lg>
  <l>सिंचयनं विकचनलिनीगर्भनिर्मुक्तवारा</l>
  <l>धारासारैर्मलयजरसै रामधर्मोऽप्रमाणम् ।</l>
  <l>यस्मादेतां त्वमपि पदवीमास्थितो ब्रह्मशापा-</l>
  <l>दित्यालापैर्विलपति दृशा लक्ष्मणश्चक्रवाक्याः ॥ १६ ॥</l>
</lg>
<p>MEN
सा यथा-
एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थ
भानोविंम्बं सजलगलितेनापरेणात्मकान्तम् ।</p>
<lg>
  <l>अछेदे दयितविरहाशंकिनी चक्रवाकी ।</l>
  <l>संकण जति रसौ रौद्रकारुण्यसंज्ञौ ॥ १७ ॥</l>
</lg>
<pb n="169" />
<p>हनुमन्नाटकं -
[ अङ्कः-
सिञ्चतीति । मलयजरसैश्चन्दनोदकैः पुष्पितकमलमकरन्दयुक्ताः याः वारस्तासां
धारैव सारो येषु तैः रामं सिञ्चति वियोगतापशान्त्यर्थमिति भावः । चक्रवाक्याः
दृशा हेतुना रामदुःखदर्शनात्सानन्दं चक्रवाकी क्षणं विलापहेतुः । कुतः यस्मात्र-
यापीश्वरोप्यतिधार्मिकोपि एतां पदवीं मूर्च्छनारूपां ब्रह्मशापात्त्वं मुग्धो भवेति जाम-
दम्यवचनादास्थितः । अतः धर्मोऽप्रमाणं शाप एव प्रमाणमिति । अत्र गुर्वाज्ञापा-
लनं धर्मस्तत्कृतेपि दुःखावगमाद्धर्मे प्रामाण्यमिति ॥ १६ ॥ १७ ॥
तत्र निकुम्भिलाद्रौ न्यग्रोधमूलेऽवटे
रावणिः ( सत्वरम् )
कुण्डे विभीतकसमिद्भिरथार्धचन्द्रे
शक्रेभकुम्भदलनः पलमाजुहाव ।
हनूमान्-
शत्रुंजये रथवरेऽर्धसमुद्गतेऽग्ने -
यज्ञं बभञ्ज तरसा हनुमानुपेत्य ॥ १८ ॥
कुण्डे इति । शक्रेभकुम्भदलन: मेघनाद: अर्धचन्द्राकारे कुण्डे पलं स्वमांसमिति
ज्ञातव्यम् । तरसा बलेन ॥ १८ ॥
लक्ष्मणः-
रणप्राङ्गणे शनैश्चरादाप्य दाशरथेनार्पितं संहारास्त्रमनुस्मृत्य
सानन्दं शोकमपहाय रे रे माया रथारूढप्रौढबाहुशालिन्मे-
घनाद मायां विभिद्य त्वां यमलोकं प्रस्थापयामि पश्य ।</p>
<lg>
  <l>दोः स्तंभास्फालकेलिस्फुटविकट र वध्वस्तघोरान्धकारः</l>
  <l>संहारास्वं नियोज्य स्वधनुषि धरणीं पाणिनाहत्य वीरः ।</l>
  <l>क्रोधान्धो रावणस्य ज्वलदनलशिखामुद्धिरन्पाणियुग्मे</l>
  <l>स्थित्वा चिक्षेप सौमित्रिरथ दृढशिरो मेघनादस्य साद्रि ॥ १९ ॥</l>
</lg>
<p>इति श्रीहनुमन्नाटके मेघनादवधो नाम द्वादशोऽङ्कः समाप्तः ॥ १२॥
S</p>
<pb n="170" />
<note>१३.]
(सक्रोधम् )</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>दोस्तम्भेति । घोरान्धकारः आत्मीयानां कातर्यरूपध्वान्तः सौमित्रि: रावणस्य
पाणियुग्मे मेघनादस्य दृढशिरः छित्वा । चिक्षेपेत्यन्वयः । सर्वाजेयत्वमत्र दृढत्वम् ।
कीदृशं दृढशिरः । साद्रि समुत्कटं 'वत्रैरेव समाकीर्ण मुकुटं साद्रिरुच्यते' इत्यलं-
कृतिवृत्तौ । अन्यत्सुगमम् ॥ १९ ॥
इति श्रीमिश्रमोहनदासविर० हनुमन्नाटकीपिकायां इन्द्रजिद्वधो
नाम द्वादशोऽङ्कः ॥ १२ ॥
त्रयोदशोऽङ्कः ।</p>
<lg>
  <l>लङ्केश्वरः सुतवधारुणवत्रचक्र-</l>
  <l>स्तत्रैकवीर निधनां क्षिपति स्म शक्तिम् ।</l>
  <l>सौमित्रिवक्षसि रुचार्धपथे ज्वलन्ती</l>
  <l>क्षिप्ताम्बुधौ हनुमता तरसा गृहीत्वा ॥ १ ॥</l>
</lg>
<p>' लङ्केति । चक्रं समूहः दशवदनत्वादर्धपथे अन्तरैव तरसा वलेन एकवीरघातिनी
एकस्यासाधारणस्य वीरस्य निधनं यतः सकाशात् ॥ १ ॥
( रावणः शक्तिग्रहणमवलोक्य सक्रोधं ब्रह्माणं हन्तुमुयतः
ब्रह्मा समयं नारदं सस्मार )
नारद: ( प्रविश्य ) तात किमिति स्मृतोऽहम् ॥
ब्रह्मा--वत्स ! यावन्मारुतिः समरभूमौ तावदेकवीरघातिनी-
शक्तिर्लक्ष्मणं न भिनत्ति । तस्मिन्पुनरभिन्ने लंकेश्वरो
मां नितरां हनिष्यतीति मत्वा समरतः पवनपुत्रः
स्थानान्तरं नेयः ॥
नारदः - यदाज्ञापयति तात इति ( निष्क्रम्य )
द्राङ् नारदोऽथ पितृभङ्गभयादनैषी -</p>
<pb n="171" />
<lg>
  <l>हनुमन्नाटकं-</l>
  <l>तस्थानान्तरं समरतः पवनस्य सूनुम् ।</l>
  <l>लंकापतेर्हढचपेटभवत्प्रहारा -</l>
  <l>ज्जग्राह रामरिपुरत्र विधेस्तु शक्तिम् ॥ २ ॥</l>
</lg>
<p>नितरां हनिष्यति । आक्षिपति गुरोराक्षेपोहननातिरिक्त इत्युक्तत्वात् द्रागिति
द्राक् शीघ्रं भङ्गोत्रावमाननम् । कीदृशात् समरतः । लङ्कापतेर्हढाः करतलप्रहारा
व्यस्मिस्तस्मात्केनापि मिपेण स्थानान्तरं विधेर्ब्रह्मणः संबधिनी वा । अत्रेयं कथा-
तुष्टेन ब्रह्मणाऽस्मै शक्तिर्दृत्ता अनया मुक्तया मनुष्यवीरो नश्यतीति ॥ २ ॥
अङ्कः-
M
रावणः -</p>
<lg>
  <l>दृष्ट्वा शक्तिहणमधिकं राक्षसेन्द्रः कृतान्त-</l>
  <l>क्रोधाश्रमातो ज्वलितहृदयाश्चिस्फुलिङ्गोग्रवेषः ।</l>
  <l>तामेव स्म क्षिपति निधने लक्ष्मणस्योग्रमन्त्र-</l>
  <l>भित्वा वक्षःस्थलमपि गता भूतलं कूर्मराजम् ॥ ३ ॥</l>
</lg>
<p>दृष्टेति । रावणः राक्षसेन्द्रोऽधिकं यथा स्यात्तथा कृतान्तस्यैव क्रोधस्तेनाध्मातो
भर्जितश्चासौ ज्वलितो हृदयाग्निश्च तस्य स्फुलिङ्गास्तत्सदृशैर्नेनादिभिरुचो वेषो
-यस्य एवंभूतो यातः । किं कृत्वा । हनुमता कृतं स्वशक्तिग्रहणं दृष्ट्वा अत एवो-
ग्रमन्त्रैः कृत्वा लक्ष्मणनिधने तन्निधननिमित्तं शक्तिं क्षिपति स्म । शक्तिमिति
शेपः । सापि लक्ष्मणवक्षःस्थलं भित्त्वा भूतलं प्रति कूर्मराजं गता । बिभेदेत्यर्थः ।
भूतलभेदनेन कूर्मराजस्य चरमतया कर्मभेदनमाक्षिप्यते न तु वास्तवमिंति
भावः ॥ ३ ॥</p>
<lg>
  <l>शक्तिः प्रौढोग्रतेजःप्रलयसमुदिताद्रावणात्कोपमाना-</l>
  <l>गर्जन्ती दीपयन्ती ज्वलितदशदिशो लक्ष्मणं वेधयन्ती ।</l>
  <l>हाहाकारमलापं सकलजनभवं देवदैत्येन्द्रकम्पं</l>
  <l>ब्रह्माद्यैः स्तूयमाना भुजगपतिपुरं कारयन्ती जगाम ॥ ४ ॥</l>
</lg>
<p>तमेव भेदेन प्रकारं विवृणोति - शक्तिरिति । कोपमानाद्रावणात्सकाशाद्भुजगपति-
'पुरं जगामेत्यन्वयः । किंभूता । प्रौढानि यान्युग्राणि तेजांसि तैः प्राय वर</p>
<pb n="172" />
<note>१२.]
( अत्रान्तरे स्थानान्तरादागत्य हनुमता)</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>समुदिता ये वीरप्रौढाः शौर्यगवितास्तेषामुग्रतेजसां प्रलयायेत्यर्थः । देवदैत्येन्द्रकम्पं
यथा स्यात्तथा सकलजनभवं हाहाकारयुक्तं प्रलापं कारयन्ती । भुजगपतिपुरं कीट-
शम् । ब्रह्माद्यैः स्थिरो भवेत्यादिवाक्यैः स्तूयमानम् ॥ ४ ॥</p>
<p>पश्चात्तापगते विभीषणबले क्षीणे प्लवङ्गेश्वरे
मूढे जाम्बवनि प्लवङ्गमगणे संभूय भूयःस्थिते ।
शक्ति प्रौढ
महाप्रहार विधुरे मूर्च्छागते लक्ष्मणे .
हा रामे विलपत्यहो हनुमता प्रोक्तं स्थिरैः स्थीयताम् ॥ ५॥
7
प्रोक्तं रावणाहतलक्ष्मणाः वयं कथं व वा यास्याम इति पश्चात्तापः भूयः पुन -
रपि असंभूय अगोचरीभूय स्थिते सति अत्र वानरा एव न सन्तीत्येव स्थिते स्थिरैः
स्थीयतां धैर्यमवलम्च्य स्थीयताम् । अन्यत्सुवोधम् ॥ ५ ॥
अथ विभीषणः ।
रात्रौ ज्वलदुल्मुकं करे कृत्वा शिबिरं पटन
प्रौढशक्तिज्वालावलीकवलितान् वानरान् प
श्यति स्म को जीवति न वेति तत्र जांबवन्त -
मेवापश्यदुपविष्टं मूर्च्छारहितं नान्यम् ।
जाम्बवान (विभीषणं प्रति)</p>
<lg>
  <l>अञ्जनी सुप्रजा येन मातरिश्वा तु राक्षस ।</l>
  <l>हनूमान्वानरश्रेष्ठः कामं जीवति वा न वा ॥ ६ ॥</l>
</lg>
<p>अञ्जनीति । येन हनूमता अञ्जनी माता सुप्रजा सत्पुत्रवती । तु पुनः मातरिश्वा
बायु: सुप्रजा: सत्पुत्रवानिति योज्यम् । पुंस्त्वे विसर्गलोपः ॥ ६ ॥
विभीषणः-</p>
<lg>
  <l>नैव राजनि सुग्रीवे नैव रामे न चाङ्गन्दे ।</l>
  <l>आर्येण दर्शितः स्नेहो यथा वायुसुते पुरः ॥ ७ ॥</l>
</lg>
<pb n="173" />
<p>हनुमन्नाटकं -
[ अङ्कः-
नैवेति । आर्येण भवता यथा पर: स्नेहः वायुसुते दर्शितस्तथा नान्येविति
किम् ॥ ७ ॥
जाम्बवान्-
भो राक्षसेन्द्र विभीषण !
तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् ।
हनूमति गतप्राणे जीवन्तोपि हता वयम् ॥ ८ ॥ -
अद्य भूतरणे राज्यादिकं नापेक्ष्यं वलशौर्यादिकमेवापेक्ष्यमिति भावः । एतेन
हनूमतः शौर्यातिशयप्रश्नः ॥ ८ ॥
ततः सत्वरं जाम्बवता सह विभीषणः पृष्ठोपस्थितं
मारुतिं विलपन्तं रामचन्द्रमनुस्मरति ।-
रामः-</p>
<lg>
  <l>( विभीषणमवलोक्य )</l>
  <l>गिरीन्यास्यन्त्यमी वीरास्त्वयि वत्स दिवं गते ।</l>
  <l>मरिष्यामि ससीतोहं व यास्यति विभीषणः ॥ ९ ॥</l>
  <l>गिरीनिति सुबोधम् ॥ ९॥</l>
</lg>
<lg>
  <l>भुक्ते मयि प्रथममत्सि फलानि वत्स</l>
  <l>सुप्ते करोषि शयनं मयि जीवति त्वम् ।</l>
  <l>प्राणाञ्जहासि सुरलोकसुखाय किंवा</l>
  <l>सापत्नभावमहह प्रकटीकरोषि ॥ १० ॥</l>
</lg>
<p>( इति तारस्वरैः सर्वे रुदन्ति ) -
रामः-
Harding
हा वत्स लक्ष्मण धिगस्तु समीरसूनुं
यस्त्वां रणेपि परिहृत्य पराङ्मुखोऽभूत् ।</p>
<pb n="174" />
<p>दीपिकाख्यव्याख्योपेतम् ।
गोपायतीह भरतस्तु ममानुजः किं
यस्त्वामधिज्यधनुरुद्धतशक्तिपातात् ॥ ११ ॥
भुक्ते इति । कृतभोजने मयि जीवति त्वं प्राणा जहासि तत्किम् ? वितर्फे
वितर्कद्वयं द्योतयति । वनवासादिक्लेशभीतः सन्सुरलोकसुखाय अथवा सापन्नभवां
प्रकटीकरोषि किम् । अयमन्त्रासहायो नश्यत्विति सपत्नस्य शत्रोर्भावः सापत्नं तस्य
भावो विकासः सापत्नभावः ॥ १० ॥ ११ ॥</p>
<note>१३. ]
( अलमस्मथायौवनशस्त्रभरेणेति सशरं धनुस्त्यक्तुमिच्छति )</note>
<p>( हनूमान्निजापराधेन सकरुणं भरतबाहुवर्णनाक-
र्णनेन साभ्यसूर्य सत्वरं गारुडस्थानमभिनीय
रामपुरतः स्थित्वा )
देव ! पश्य-</p>
<lg>
  <l>सप्ताम्जोनिधयो दशैव च दिशः समैव गोत्राचला:</l>
  <l>पृथ्व्यादीनि चतुर्दशैव भुवनान्येकं नभोमण्डलम् ।</l>
  <l>एतावत्परिमाणमात्र कटके ब्रह्माण्डमाण्डोदरे</l>
  <l>कासौ यास्यति राक्षसो रघुपते किं कार्मुकं त्यज्यते ॥ १२॥</l>
</lg>
<p>रामः - भो मारुते तथापि मामुन्मथ्य जागर्ति लंकाभटः ॥
हनूमान् – देव ! पश्य, नीचैः सह मैत्री न कर्तव्या यतः-</p>
<lg>
  <l>खलः करोति दुर्वृत्तं नूनं पतति साधुषु ।</l>
  <l>दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः ॥ १३ ॥</l>
</lg>
<p>उत्प्लुत्य वन्दनं गारुडस्थानम् 'यदम्वरं समारुह्य विक्रमाविष्कृतौ स्फुटम् । दैन्य-
कोपातिशयतो वन्दनं गारुडं मतम्' इति । हैमो । सप्तेति । गोत्राचलाः भूविभाग-
गिरिवराः द्वोपपर्वता इति । एतावन्त एव परिमाणमात्रो यः कटको विस्तारो यस्य
तस्मिन्ब्रह्माण्डरूपभाण्डकोशे तन्त्र तावत्सप्ताब्धिगिरिद्वीपभुवनादीनां मात्रैव न त्वान-
न्त्यमिति भावः । 'विस्तारे कटकः पुमान्' इति धनंजयः ॥ १२ ॥ १३ ॥</p>
<pb n="175" />
<p>[ अङ्कः-
हनुमन्नाटकं -</p>
<lg>
  <l>दैवादप्युत्तमानां परिहरति यदा दुर्जनो वा कदाचि-</l>
  <l>न्मानं नामोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।</l>
  <l>स्वर्भानुर्भानवीयान्हरति यदि पुनः शीतर श्मिर्मरीची-</l>
  <l>न्ब्रह्माण्डस्येह खण्डे तदपि रघुपते किं ग्रहेशत्वमेति॥१४॥</l>
</lg>
<p>दैवादिति । अत्र निषेधे वाशब्दः पूर्वे तु सतां मानः अनाहार्य एव यदा यदि
तत्रापि क्वचिदेकवारं नासकृत्, तत्रापि दैवात्, तत्रापि दुर्जन उत्तमानां मानसपह-
रति तदा तेपां सतामनुजन्मानोऽनुक्षणं पश्चाज्जनिता उत्पादिता गुणास्तानेव नाप्नोति
यत्तेष्वधिकं हेयोपादेयतया गृहीतं गुणं कुत्र कुतः प्राप्नोति न कुतोपि । तत्र दृष्टा-
तमाह - यदि स्वर्भानु: राहुः भानवीयान्मरीचीञ्शीतरमेश्च हरति आच्छादयति
तर्हि इहापि ब्रह्माण्डस्य खण्डे रोदस्यां किं ग्रहेशत्वमेति नैतीत्यर्थः । एवं रावणेनापि
देवान्मान उन्मथितः तर्हि किं भवत्सादृश्यं गत इति भावः ॥ १४ ॥
--
रामः-
अये हनुमन् !
-</p>
<lg>
  <l>किं तया क्रियते वीर कालान्तरगतश्रिया ।</l>
  <l>अरयो यां न पश्यन्ति बन्धुभिर्वा न भुज्यते ॥ १५ ॥</l>
</lg>
<p>किं तयेति । कालान्तरगतश्रिया कालान्तरे गता श्रीस्तया ॥ १५ ॥
Y
हनुमान्-
( लक्ष्मणं विषमस्थितमवलोक्य लक्ष्मणवक्षो-
भिन्नं दृष्ट्वा ( सविस्मयो समम् ) हनुमति
कृतप्रतिज्ञे दैवमदैवं यमोऽप्ययमः । )
पुनर्देव ! पश्य -</p>
<lg>
  <l>पातालतः किमु सुधारसमानयामि</l>
  <l>निष्पीड्य चन्द्रममृतं किमुताहरामि ।</l>
  <l>उद्दण्डचण्ड किरणं ननु वाश्यामि</l>
  <l>कीनाशपाशमनिशं किमु चूर्णयामि ॥ १६ ॥</l>
</lg>
<pb n="176" />
<p>S
दीपिकाख्यव्याख्योपेतम् ।</p>
<p>पातालत इति । किमत्र वितर्फे । अहं उद्दण्डो रावणः उद्धृतो दण्डो यस्य एकं
वा पदम् । कीनाशो यमः ॥ १६ ॥
रामः- ( आत्मगतम्)
ययदुक्तमनेन महाषीरेण तत्तदिदानीमेव कृत्वा
दर्शयति परन्तु तत्करणादकालेपि महाप्रलयः स्यात् ।
( इति विचार्य प्रत्याह ) -</p>
<lg>
  <l>वैयं सुषेणमधुनैव तदानय त्वं</l>
  <l>लंकापतेरनुचरोपि यतो भिषक्सः ।</l>
  <l>नैवान्यथा वदति रामगिरा हनूमान्य-</l>
  <l>र्य्यसुतमचिरेण तमानिनाय ॥ १७ ॥</l>
</lg>
<p>वैद्यमिति । तत्तस्माद्द्यैव रात्रावेव सुपेणारख्यं वैद्यमानय । ननु वैरिभृत्यः कथ-
मनीयतामत आह यतोऽसौ भिपग्वैद्यः शत्रोरप्यन्यथा न वदति इति रामगिरा
पर्यङ्कसहितमेव शीघ्रमानीतवान् ॥ १७ ॥</p>
<lg>
  <l>सुप्तोत्थितं रघुपतिर्भिषजां वरिष्टं</l>
  <l>पप्रच्छ तं सकरुणं तरुणोपचारम् ।</l>
  <l>स व्याजहार हिमरश्मिरुचा रजन्यां</l>
  <l>जीवत्यसौ द्रुहिणशैल विशल्यवल्ल्या ॥ १८ ॥</l>
</lg>
<p>सुप्तेति । तरुणोपचारं शीघ्रविशल्य करणीनामवल्या । सः वैद्यः रजन्यामेव न
तु दिवा, तत्रापि हिमरश्मिरुचैव न तमसि, तत्रापि द्रुहिणशैले या विशल्यवल्ली
तथैव नान्यथा जीवति ॥ १८ ॥
Ma
तत्र रामेणाहूता वानरभटा द्रुहिणाद्रिगमनाय
रामपुरतः स्वस्वपराक्रमानुरूपं समयावधिमूचुः ।</p>
<lg>
  <l>नलस्त्रिरात्रं पुनरेति गत्वा तत्रैव मैन्दद्विविदौ द्विरात्रम् ।</l>
  <l>सुग्रीवनीलौ पुनरेकरात्रं वीरोऽङ्गदो यामचतुष्टयेन ॥ १९ ॥</l>
</lg>
<pb n="177" />
<p>1.06
'हनुमन्नाटकं -
[ अङ्क:-
नल इति । ' त्रिरात्र्यवच्छिन्नं फालं एकरात्रमहोरात्रमिति ज्ञेयम् । सर्व-
जनम् ॥ १९ ॥
.
( रामः समयम् - आर्तः संकुचितमुखकमलः समरसंकटे
भगवतो रुद्रावतारस्य मारुतेः साशंकमुखकमलविकाशं पश्यति ।)
हनूमान् ( सत्वरं सकरुणं गारुड़स्थानमास्थायाञ्जलिपुटमभिनीय )
देव क्षणं स्तम्भ्यतामात्मा यावदेनं भिषक्चक्र - -
चूडामणिं लंकां प्रवेश्यागच्छामि ॥ ( तथा कृत्वा )</p>
<lg>
  <l>नीत्वा लंकां सुषेणं पुनरनिलसुतः प्रार्थयामास रामं</l>
  <l>देवाज्ञां देहि वीरास्तव हितकरणोपस्थिताः सन्ति सर्वे ।</l>
  <l>लक्षाणां षष्टिरास्ते द्रुहिणगिरिरितो योजनानां हनूमां-</l>
  <l>स्तैलाग्नेः सर्षपस्य स्फुटनरवपरस्तत्र गत्वात्र चैमि ॥ २० ॥</l>
</lg>
<p>तत्रात्मजवेनोत्तार्य वक्तुं तद्देशाबंधिमाह - नीत्वेति । इतः स्थानात् द्रुहिणगिरियों-
जनानां लक्षाणां पष्टिः षष्टिलक्षयोजनपारेमितोऽस्तोत्यर्थः । अतिदूरश्रवणात् विचि-
कित्सन्तं प्रत्याह । अहं तत्र गिरौ गत्वा यामि आगच्छामि । ननु कदागच्छसी-
'त्यत आह - किंविशिष्टः तैलाग्नेपिवर्तिज्वालायाः सकाशात् सर्पपस्य गौरराजिकाया
स्फुटनं स एव परः अवधिर्यस्य यावद्दीप्तानौ सर्वपः स्फुति तावद्गत्वाऽऽगच्छामीति
खात्पर्यम् ॥ २० ॥
रामः-
( सहर्षम् ) तथा करोतु वीरः ! हनूमान् -
ध्यात्वात्मानं प्रणम्य प्रभुमवनिसुतावल्लभं तस्य वाक्यं</p>
<lg>
  <l>नीत्वाऽयोध्यां गमिष्यस्यखिलकुशलतामान</l>
  <l>यिष्यस्यपीति ।</l>
  <l>चंडोड्डीनं चकार द्रुतमथ जननी लक्ष्मणस्योपलभ्य</l>
  <l>स्वमे व्यालः समूलं कवलपति भुजं वाममुत्तस्थुषीति ॥२१॥</l>
</lg>
<p>ध्यात्वेति । आत्मानं वायुरूपिणं रुद्ररूपं वा तस्य रामस्य वाक्यमिति संदेश
जीत्या । इति किम् । अयोध्यामित्यादि । अखिलकुशलतां समस्तस्वकीय कुशलताम् ।</p>
<pb n="178" />
<note>१३.]</note>
<p>दीपिकाख्यव्यारव्योपेतम् ।
अथ तत्प्रयाणानन्तरं लक्ष्मणस्य जननी इति स्वप्रमुपलभ्य दृष्ट्वा उत्तस्थुषी उत्थित-
वती । इति किम् । व्यालः सर्पः समूलं वामं भुजं कवलयति ॥ २१ ॥
प्रोवाच कोसलसुतापुरतोद्भुतं सा</p>
<lg>
  <l>स्वमं च सा मुनिवशिष्ठपुगे</l>
  <l>हितस्य ।</l>
  <l>पार्श्वे नियोज्य सशरं धनुरादधानं</l>
  <l>शान्ति चकार भरतं मुनिराज्यहोमैः ॥ २२ ॥</l>
</lg>
<p>प्रेति । सा सुमित्रा सा कौशल्या मुनिः स्वप्नज्ञानवान्स चासौ वसिष्ठः पुरो-
हितःच मुनिर्वसिष्ठः ॥ २२ ॥
( तत्र द्रोणाद्रि शिखरे ) हनूमान्--</p>
<lg>
  <l>दृष्ट्वा सर्वास्तुहिनकिरणोयत्प्रभास्तत्र शैले</l>
  <l>वल्लीरत्नान्य मरखदिराङ्कारभास्वन्ति वीरः ।</l>
  <l>भान्त्वा दो गिरिमुदहरन्नोत्तपातैष तातं</l>
  <l>सस्मारायं द्रुतमुपगतस्तद्द लेनोज्जहार ॥ २३ ॥</l>
</lg>
<p>द्रोणो नाम्ना द्रुहिणगिरिरिति ब्रह्मणो गिरिरिति ज्ञेयम् । दृष्ट्वेति । तत्र शैले सर्वा
वल्ली: रत्नानि दृष्ट्वा । किंभूता वल्लो: । तुहिनकिरणश्चन्द्रस्तद्वत् उद्यन्ती भा यासां
ताः । एतेन सर्वासां साम्यमुक्तम् । किंभूतानि रत्नानि । अमलेत्यादि । तद्ज्ञाने
भ्रान्त्वा तदन्वेपणाय भ्रमित्वा दोयो गिरिमेवोदहरत् । यड़ा एप गिरिः नोत्पपात
नोन्मूलितवांस्तदा स हनुमान् तातं वायुं सस्मार । अयं वायुः द्रुतमुपगतः तदा
तद्द्वलेन सह तं गिरिं हनुमान् उज्जहारत्यर्थः ॥ २३ ॥
तत्रायोध्यायां शान्तिमण्डपे कुण्डसमीपस्थौ भरतवशिष्ठौ -</p>
<lg>
  <l>हुत्वा श्रीखण्डकाण्डं सतगरकुसुमं पुण्डरीकं मृणालं</l>
  <l>कर्पूरोशीरगर्भ प्रचुरघृतयुतं नारिकेलं जुहाव ।</l>
  <l>तूर्ण पूर्णाहुतिं स ज्वलदनलनिभं शैलमादाय वीरः</l>
  <l>प्राप्तस्तत्राञ्जनेयः स किमिति भरतस्तं शरेणा जवान ॥ २४ ॥</l>
</lg>
<pb n="179" />
<p>हनुमन्नाटकं -
[ अङ्कः-
हुत्वेति । श्रीखण्डं काण्डं चन्दनखण्डं नारिकेलमेव पूर्णाहुतिं जुहाव हुतवान् ।
तत्र पूर्णाहुत्यवसरे आञ्जनेयः प्राप्तः । सः भरतः तं हनूमन्तं इति शरेण ताडयामास ।
इति किम् । अयं स किं इति वाक्यस्यायमर्थः । येन कालरूपेण सुमित्रायाः
मातुर्वामो भुज: समूलः कवलीकृतः सोऽयं किम् । अथवा यज्ञहन्तारं घण्टासुरं
प्रलयकालानलप्रख्यं भगवान् मुनिर्वसिष्ठो व्याचष्टे सौयं किमिति भ्रान्त्या भरतस्तं
हनूमन्तं शरेणाजघान ।॥ २४ ॥
( तदा भरतवाणेन भिन्नो हनूमान् भरतदोईण्डमुक्त काण्ड -
प्रचण्डप्रहारमूच्छितविधिलिखिताक्षरपंक्तिलोपात्प्राणान्प-
रित्यक्कुमिच्छन् )</p>
<lg>
  <l>पुंखावशेष भरतेषुललाटपट्टो</l>
  <l>हा राम लक्ष्मण कुतोहमिति बुवाणः ।</l>
  <l>संमूच्छितो भुवि पपात गिरिं दधानो-</l>
  <l>लांगूलशेखररुहेण सकेसरेण ॥ २५ ॥</l>
</lg>
<p>अयं चिरजीवीति विधिलिखिताक्षरपंक्तिः । पुंखेति । पुंखावशेष: यो भरतेषुर्वाण :
तधुक्तो ललाटपट्टो यस्य सः हनुमान्केसरेण गिरिं दधानः भुवि पपात । किंभूतेन
केसरेण । लांगूलस्य शेखरोऽग्रभागस्तत्रभवेन ॥ २५ ॥
तत्र वशिष्ठभरतादयः सर्वे ( सविस्मयम् )</p>
<lg>
  <l>सर्वे निशम्य सहलक्ष्मणरामनाम</l>
  <l>तत्रोपगम्य हनुमत्पदयोर्निपेतुः ।</l>
  <l>वृत्तं च तस्य वचनादपनीय शल्यं</l>
  <l>मूर्च्छा जहार स मुनिर्गिरिजौषधीभिः ॥ २६ ॥</l>
</lg>
<p>सर्वे इति । लक्ष्मणेन सहितं सलक्ष्मणं चेदं रामनाम निशम्य तस्य हनूमतो
वचनात् वृत्तं सीताहरण सेतुबन्धनलक्ष्मणशक्तिपाताद्यौपधिप्रयाणरूपमुपगम्य ज्ञात्वा
शल्यं ललाटस्थवाणमपनीयोद्धृत्य मुनिर्वसिष्ठो मूर्च्छा हनूमतो जहार ॥ २६ ॥</p>
<pb n="180" />
<note>१३.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
)
हनुमान (साभ्यसूयम्</p>
<lg>
  <l>जिज्ञासया भरतबाहुपराक्रमस्य</l>
  <l>रामस्तु तस्य युधि लक्ष्मणशक्तिभेदे ।</l>
  <l>श्रान्तोऽहमित्यथ गिरिं नय तं कुमार.</l>
  <l>वाक्यं जगाद हनुमान्भरतं सरोषः ॥ २७ ॥</l>
</lg>
<p>( भरतः रामलक्ष्मणयोः समरसंकटमुपलभ्य गगन-
मण्डलभान्तनिजभुजाटोपनाय दोधूयमानधनुर्गुण-
टणत्कारमभिनीय )
-</p>
<p>(अत्रान्तरे स्वकटके )-रामः-</p>
<lg>
  <l>वत्सोत्तिष्ठ धनुर्गृहाण रिपवः सैन्यं विनिघ्नन्ति नः</l>
  <l>किं शेषेऽय निर/कृताः किमरयः प्रत्याहृता वा प्रिया ।</l>
  <l>भातर्देहि वचो बिभेति हृदयं भातः प्रिये छिन्धि मां.</l>
  <l>कैकेयि प्रियसाहसे सुतवधान्मातः कृतार्था भव ॥ २८ ॥</l>
</lg>
<p>1
जिज्ञासेति । गोपायतीह भरतस्तु ममानुजः किमिति रामेण स्तुतस्य हनुमान
भरतमिति जगाद । इति किम् । हे भरत, अहं श्रान्तोस्मि त्वं गिरि नय प्रापथ ।
ननु गिरित्रापणमेव किमुक्तं नान्यच्छौर्य तत्राह- कुमारं सुकुमारं इति भारवाहकत्वा
योगात् ॥ २७ ॥ २८ ॥</p>
<lg>
  <l>तत्रैव-श्रुत्वेति तस्य वचनं भरतः शराये</l>
  <l>साहिं कपि समधिरोप्य गुणे नियुज्य ।</l>
  <l>मोक्तुं दधे झटिति कुंडलिनं चकार</l>
  <l>तुष्टाव तं परमविस्मयमागतः सः ॥ २९ ॥</l>
</lg>
<pb n="181" />
<p>हनुमन्नाटकं -
हनुमान-</p>
<lg>
  <l>उत्तीर्य बाणात्कुशलं गृहीत्वा सम्पूज्य बाहुं भरतस्य वाग्भिः ।</l>
  <l>मनो दरिद्रस्य यथा दिगन्तं तथा हनुमाञ्छिबिरं जगाम ॥३०॥</l>
</lg>
<p>श्रुत्वेति । शराने साद्रिं कपिं समधिरोप्य तं शरं गुणे नियोज्य मोकुं त्यक्तं
झटिति शीघ्रं धनुः कुण्डलिनं कुण्डलपर्यन्ताकृष्टं चकारेत्यर्थः । यदा धनुः
कुण्डलीकृतं तदा परमनिस्मयमागतः । स हनूमान् भरतं तुष्टाव साधुसाध्विति
शशंस ॥ २९ ॥ ३० ॥</p>
<lg>
  <l>अद्रिं रुद्रावतारः प्रलयसमुदितद्वादशार्कानुकारं</l>
  <l>द्रोणें दोष्णा दधानः कटक निकटतामागतोऽप्यर्धरात्रे ।</l>
  <l>दिग्भागोतालदृष्टिस्तरलतरसरस्तीरमास्थाय वीर-</l>
  <l>स्तारं धीमानरोदीत्तदनु सह मुदा वाहिनीमाजगाम ॥ ३१ ॥</l>
</lg>
<p>तरसा रामकटकं जगामेति भावः । दिगिति । दिग्भागे पूर्व दिक्प्रदेशे उत्ताला
दृष्टिर्यस्य सूर्योदय भ्रमवशात् । एतेन जवित्वं धांतितम् ॥ ३१ ॥
( पर्वतोयोतनेन सूर्योदयश्रमात् सरोवरस्थं विकसित-
कमलमालोक्य प्रातराशङ्ख्या लज्जावानरोदीत् । तदनु
दिग्भागानवलोक्य सूर्योदयमपश्यन्मुदं प्राप्य हा ज्ञातं
पर्वतोयोतनेन सूर्योदयभ्रमात्कमलविकास इति हर्षेण.
• सह स्ववाहिनीं जगाम</p>
<lg>
  <l>हत्वा मायामहर्षीन्रजनिचरवरां कन्धकालीमुदग्रां</l>
  <l>ग्राहीरूपां प्रमथ्य, प्रबलमथ बलं राक्षसान्मर्दयित्वा ।</l>
  <l>जित्वा गन्धर्वकोटिं झटिति ततमणिज्वालमादाय शैलं</l>
  <l>प्राप्तः श्रीमान्हनूमान्पुनरपि तरसा नन्दितस्तत्पुरस्तात् ॥ ३२॥</l>
</lg>
<p>सिंहावलोकनन्यायेनास्य गमनमादित आह-हत्वेति । द्रोणाद्रिसमीपे माया-
मुनीन्राक्षसान्नाम्ना कंधकालीं रजनिचरवरां ग्राहीरूपां सरसि मकरीरूपधारिणीं
[ अङ्कः-
✓</p>
<pb n="182" />
<note>१३. ]</note>
<p>दीपिकाख्यव्याख्यापेतम् ।
.१८६
प्रवलं यथा स्यात्तथा रावणप्रहितान्राक्षसान्समुद्रोपकण्ठं मर्दयित्वा पुनरिन्द्रेण
तद्लजिज्ञासया प्रहितां गन्धर्वाणां कोटिं झटिति जित्वा तत्पुरस्ताद्रामा तरय
शीघ्रं चलेन वा ॥ ३२ ॥
• रामसुग्रीवादयः सर्वे (सहर्षम् )
यो मैन्द द्विविदादिवानरचमूचक्रस्य रक्षाकरः
सहर्ता रणभङ्ग
भैरवरवोल्टासस्य लंकापतेः ।
सीतात कमहान्धकारहरण प्रयोतनोऽयं हरिः
संप्राप्तः पवनात्मजः पटुमहः श्रीकण्ठवैकुण्ठयोः ॥ ३३
य इति । रावणस्य रणरङ्गे यो भैरवो रवः परत्रासनशब्दस्तेन य उल्लास आन-
न्दस्तस्य संहर्ता श्रीकण्ठो रुद्रः वैकुण्ठो रामस्तयोः पटुरधिको महः आनन्दो यस्मह
त्तदंशतद्भकत्वात् 'मह उद्धव उत्सवः' इत्यमरः । सुगमम् ॥ ३३ ॥
.</p>
<lg>
  <l>कपिकटकभटानां गण्डगोपालनामा</l>
  <l>समरशिरसि धीरो योञ्जनायास्तनूजः ।</l>
  <l>दिशतु विशदलक्ष्मीं लक्ष्मणस्यात्मनः श्री-</l>
  <l>चरणनलिननत्या नित्यसत्योदयश्रीः ॥ ३४ ॥</l>
</lg>
<p>कपीति । अथ वानराः लक्ष्मणमङ्गलमाशंसन्तः गण्डगोपालनामा हनूमाँडम-
णस्य विशदलक्ष्मी मूर्च्छाहरणरूपां दिशतु ओषध्यानयनेन प्रयच्छतु । गण्डात्कपो-
लमध्यात् गोपं सूर्य लाति गृहातीति गण्डगोपालः । गावः किरणान्पातीति गोपः।
यद्वा गाव: जलानि पिवतीति 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः' इत्युक्तत्वात् ।
अत्रेयं कथा-वालेन हनूमता फलभ्रमादज्ञाय रविमण्डलं ग्रस्तं पुनर्ब्रह्मणे प्रत्यर्पितम् ।
उक्तमपि भैरवसहस्रनामस्तोत्रे । 'महेशो गण्डगोपालो खट्टाङ्गी गीतनायक:
इत्यादि । सकः । य आत्मनो रामस्य श्रीमञ्चरणनमस्कारेण नित्यसत्योदयश्रो.
प्रकाशक : सत्यप्रतिज्ञ इति । कपिकटकभटानां मध्ये यः समरंशिरसि धीरः । यहा
अयमर्थः गण्डगोपालनामा कपिकटकभटानां विशदुलक्ष्मीं दिशतु सत्पुत्रेणैके-
न तजातीयाः लाष्यन्त इति ध्वनिः । लक्ष्मणस्यात्मनो भ्रातुः रामस्य चरणादिकं
पूर्ववत् ॥ ३४ ॥</p>
<pb n="183" />
<p>हनुमन्नाटकं -</p>
<lg>
  <l>रामः एकैकस्योपकारस्य प्राणान्दास्यामि ते कंपे ।</l>
  <l>प्रत्यक्षं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥ ३५ ॥</l>
</lg>
<p>●
supost
एकैकस्येति । हे कपे हे हनुमन, प्रत्यक्षं क्रियमाणस्य लक्ष्मणविशल्यकरणस्यो-
पकारस्य ते तुभ्यं प्राणान्दास्यामि ते त्वया क्रियमाणस्य वा दत्तेपु प्राणेषु पुनस्तद्-
भावाच्छेषस्यैकस्यैव समुद्रलंघनादिरूपस्योपकारस्य वयं ऋणिन एव 'ऋत्यक' इति
संध्यभावः ॥ ३५ ॥</p>
<p>( सदयम् )</p>
<lg>
  <l>अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं कपे ।</l>
  <l>भवान्प्रत्युपकारार्थमापत्सु लभतां पदम् ॥ ३६ ॥</l>
</lg>
<p>1
अङ्गेष्विति । मदङ्गेष्वेव उपकारहेतुरापदस्ति सा तव मास्त्वित्याशी:
उपकारः ॥ ३६॥
लक्ष्मणः-
[ अङ्कः-
Syami</p>
<lg>
  <l>आलेपितो हनुमता गिरिजौषधीभि</l>
  <l>र्मूर्च्छा विहाय सशरं धनुराददानः ।</l>
  <l>रामारविन्दतरणिर्धरणीधरात्मा</l>
  <l>लंकापतेः कुपितकाल इवोपतस्थौ ॥ ३७ ॥</l>
</lg>
<p>आलेपित इति । धरणीधरः शेपस्तदवतारः । अन्यत्सुगमम् ॥ ३७ ॥
क्रोधारु॑णः प्रोत्फुलत्खदिराङ्गारनेत्रो रामः धनुर्गुणट-
णत्कारमभिनीय (सहर्ष सबाप्पं सपुलकं च लक्ष्मणं
गाढमालिंग्य ) हा लक्ष्मण प्रौढशक्तिभेदखेदं जहि
मम हृदयपर्यते, हा मेघनादकुलकमलिनीशालेयवर्ष
वत्स एतावतीं वेदनां न वेत्सि ॥</p>
<pb n="184" />
<p>दीपिकाख्यव्याख्योपैतम् ।
⠀
लक्ष्मण:- आर्य ।</p>
<lg>
  <l>ईषन्मात्रमहं वेद्मि स्फुटं यो वेत्ति राघवः ।</l>
  <l>वेदना राघवेन्द्रस्य केवलं व्रणिनो वयम् ॥ ३८ ॥</l>
</lg>
<p>इति श्रीहनुमन्नाटके लक्ष्मणशक्तिभेदो नाम त्रयोदशोऽङ्कः ॥ १३॥
ईपदिति । ईपदल्पाथ वेदनां च स्फुटयति । वेदना दुःखं राघवेन्द्रस्य तव । वयं
केवलं व्रणिनः इति । वयमित्यानन्दादुन्मादः ॥ ३८ ॥
इति श्रीमन्महानाटके हनूमद्विरचिते श्री मिश्रमोहनदासविरचितायां दीपिकायां
लक्ष्मणशक्तिभेदो नाम त्रयोदशोऽङ्कः समाप्तः ॥ १३ ॥</p>
<note>१४. ]</note>
<p>चतुर्दशोऽङ्कः ॥
ततः प्रातःकाले रावणो लोहिताक्षं दूतमाहूय समादिशति ।
रे लोहिताक्ष वानरवाहिनीं गत्वा राममिति ब्रूहि ।
अये राम जामदस्यं निर्जित्य यस्त्वया
हरप्रसादपरशुर्गृहीतस्तं रावणाय प्रयच्छ
ततस्तव सीतां प्रयच्छामि ।
लोहिताक्ष:-
यदाज्ञापयति देवः । ( इति गगन मुत्पत्य
रामशिबिरे ततो रामं नमस्कृत्योपस्थितः । )
रामस्तं रावणदूतं ज्ञात्वा पृच्छति अये लोहिताक्ष ! किं
करोति राक्षसगणः ।</p>
<p>लोहिताक्षः-देव!
अंधाक्षीनो लंकामयमयमुदन्वन्तमतर-
द्विशल्यां सौमित्रेरयमुपनिनायौषधिवराम् ॥</p>
<pb n="185" />
<p>हनुमन्नाटकं.
इति स्मारस्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्देशति कुपितो राक्षसगणः ॥ १ ॥
अधाक्षीदिति । अधाक्षीददीदहत् । विशल्यां शल्यनिवर्तिकाम् । स्मारं स्मारं
स्मृत्वा स्मृत्वा 'भयहेतौ द्वे वाच्ये' । सुवोधम् ॥ १ ॥
रामः ( विहस्य ) किमर्थमागतोऽसि ।
लोहिताक्षः-
देव भृगुपतिं निर्जित्य गृहीतं हरप्रसादपरशुं
[अङ्क:-
रावणाय प्रयच्छ ततस्तव सीतां समर्पयिष्यति लंकेश्वरः ॥
रामः ( विहस्य ) दूत पश्य ।</p>
<lg>
  <l>पौलस्त्यप्रणयेन तावकमतिं स्मृत्वा मनो मोदते</l>
  <l>देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति ।</l>
  <l>यद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही</l>
  <l>तुभ्यं ब्रूहि रसातलं बलभिदे निर्जित्य किं दीयताम् ॥ २ ॥</l>
</lg>
<p>पौलस्त्येति । हे दूत, स रावणः मम गिरा मदीयवचनेनैव त्वया इति वाच्यः ।
इति किम् । हे पौलस्त्य, तावकमतिं त्वदीयां बुद्धिं स्मृत्वा विचार्य मनो मोदते ।
परंतु प्रणयेन प्रीत्या हरप्रसादपरशुर्न देयः । तेन दत्तेन परशुना स रावणोऽधिकं
यथा स्यात्तथा ताम्यति ग्लानिमायाति । यद्वा एकपदं पौलस्त्येनास्मासु प्रणयः कृत-
स्तेन तावकमतिं त्वदीयां बुद्धिं रावणंस्त्वमपि मूर्ख इति भावः । अन्यद्देहीति
चेत्तत्राह-मही द्विजेभ्यो दत्ता, तुभ्यं रसातलं दत्तं, ब्रूहि त्वमेव कथय, भवन्तं
निर्जित्य वलभिदे कथं दीयतामिति । अयमर्थः । पूर्व तु परशुरदेयः रावणाय चेद्दीयते.
तर्हि तस्यातिकोप: स्यात्तथापि दीयते, परं त्वेष इन्द्राय रक्षितः पृथ्वीरसातलाभावे
तस्य देयत्वाभावात् ॥ २ ॥</p>
<lg>
  <l>•</l>
  <l>अथ देवराज इन्द्रः रामाय शत्रुंजयं रथवरं वितरतिस्म ।</l>
  <l>रामोपि हनूमन्तं रथध्वजाग्रमारोप्य स्वयं रथारोहणं नाट-</l>
  <l>यति तथाविधं तमालोक्य लोहिताक्षो निष्क्रान्तः ॥</l>
</lg>
<p>-</p>
<pb n="186" />
<note>१४. ] '</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
लंकाशिखरस्थो रावणः-
अये लोहिताक्ष ! .
कोसौ दाशरथेर्ध्वजे वर्तते ॥
}
लोहिताक्षः-
देव !</p>
<lg>
  <l>हेलोलंघितवारिधिर्जनकजाविश्लेषशुष्यन्मनः-</l>
  <l>कौसल्यासुतदैन्यपाटन पटुर्यस्त शुभूमण्डलः ।</l>
  <l>निर्दग्धाखिलराक्षसेन्द्रनगरः सौमित्रिसंजीवना-</l>
  <l>योत्खातौषधिपर्वतश्च मरुतः पुत्रो ध्वजे वर्तते ॥ ३ ॥</l>
</lg>
<p>हेलोल्लंधितेति । जनकजाविलेपशुष्यन्मनो यस्य स चासौ, कौसल्यासुतश्चेति ।
तस्य दैन्यपाटने दूरीकरणे पटुर्विदग्धः । सुबोधम् ॥ ३॥
:
रावणः-
( सत्वरं मन्दोदरी मन्दिरं प्रविश्य ) अयि मन्दोदार !</p>
<lg>
  <l>रामाय प्रतिपक्षवृक्षशिखिने दास्यामि वा मैथिलीं</l>
  <l>युद्धे राघवसायकैर्विनिहतः स्वर्गे गमिष्यामि वा ।</l>
  <l>नीतिज्ञे कथयस्व देवि कतमः पक्षो गृहीतस्त्वया</l>
  <l>सुश्राव्यं पदमस्मदीयमगमन्मन्मात्रशेषं बलम् ॥ ४ ॥</l>
</lg>
<p>रामायेति । हे नीतिज्ञे कार्याकार्यविदग्धे, प्रतिपक्षाः शत्रव एव वृक्षास्तेषां दाहा
शिखिनेग्निरूपाय कतमं सीतादानं स्वर्गप्रापणं वा पदं स्वकीयबुद्धिस्थानं सुश्राव्यम्
स्वकीयः सिद्धान्तः सुश्राव्य इति 'पदं निर्णयलोकयोः' इति हैमी । चलं सैन्यमग-
मत् व्यतीतम् । किंभूतं वलम् । मन्मानशेषम् । अमेक उर्वरिति इति भावः ॥४॥
मन्दोदरी - ( विहस्य )
-
-
W</p>
<p>अयि प्राणनाथ लंकेश्वर !
दृष्ट्वा दैन्यं भगिन्याः श्रुतखर निधनं मातुलस्यापि नाशं
तालानां भेदनं यत्कपिवरदहनं बद्ध सुग्रीवसख्यम् ।</p>
<pb n="187" />
<p>[ अङ्क;-</p>
<p>हनुमन्नाटकं -
कर्माण्युयानभङ्गे जलनिधितरण यो न जातस्तदानीं
सोऽयं नष्टे कुले स्मिन्कथमिव गमितो जायते ते विवेकः ॥ ५॥
अयीति । खरेत्युपलक्षणम् । अर्थात्खर त्रिशिरोदूषणानां, सुतोऽक्षः यो विवेकः '
स्वर्ग यामि सीतां ददामीति वा तदानीं भगिन्यादिहननश्रवणेन जातो यो विवेकः
गमितो नष्टोपि कथमिव जायते कथं जात इति लोकोक्तिः ॥ ५ ॥
रावणः- ( सापत्रपं साभ्यसूयम् )</p>
<lg>
  <l>धिग्धिक्शक जितं प्रबोधितवता किं कुम्भकर्णेन वा-</l>
  <l>स्वर्गग्रामठिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः ।</l>
  <l>धिक्कारो ह्ययमेव मे यदरयस्तत्राप्य सौ तापसः</l>
  <l>सोऽप्यत्रैव निहन्ति राक्षसभाञ्जीवत्यही रावणः ॥ ६ ॥</l>
</lg>
<p>धिगिति । स्वर्गग्रामठिका स्वर्ग एव ग्रामस्तन्त्र विलुण्ठनं रत्नसंचयस्तस्य लुण्ठनं,
प्रसह्याहरणं तत्र परैस्तत्करैः 'विलुण्ठं रत्नसंचयः' इति विश्वः । मे रावणाय अयं
धिक्कार: । यतः पूर्व तु अरय एव, तन्त्राप्यरिषु तापसोयं, सोपि तापसमात्रोपि
अत्रैव मत्समीप एव, तत्रापि राक्षसभटान्कुम्भकर्णमेघनादादीन, जीवंति अयमेव
धिक्कारः ॥ ६ ॥
मन्दोदरी - ( सकरुणम् )
शोकं लंकेश मागाः कुरु चिरमपुनर्मा विगूढोपगूढं
देवाज्ञां देहि योद्धुं समरमवतराम्यस्मि सुक्षत्रिया यत् ॥
रावणो विदीर्यमाणहृदयः -
मैंव कान्ते स्वकान्ते तरुणय करुणां प्राणरङ्कः किमेको
लंकां सन्त्यज्य शंकां शिव शिव समरायोद्यतो राक्षसेन्द्रः ॥ ७ ॥
शौकमिति । गाढोपगूढं गाढालिङ्गनं, हे कान्ते, मयि करुणां दैन्यं मा तरुणय
मा दीपय । यः एकः निरतिशयवीरोहं प्राणरङ्कः प्राणलुब्धः किं नेत्याह राक्षसेन्द्रः
इत्युक्त्वा इति शेषः ।ङ्क संत्यज्य भयमपि संत्यज्य समरायोद्यतोभूत् । यद्वा
शास्यामस्तीति शङ्का तां शङ्कावती लङ्कामिति वा ॥ ७ ॥</p>
<pb n="188" />
<note>१४. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
अथ रामाज्ञया वानरभटा:-
उद्यद्दिक्पालकोलाहलबहलमदावग्रहोग्राभिरक्षणां
ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुद्रीवयन्तः
एते निःशेषसेतुग्रथनसमधिकैः शत्रिणः शैलपादै -
रुद्दामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ॥ ८ ॥
जलमध्ये रुद्रपादाद्रिशिखरगतो रामरावणयो-
युद्धं निरीक्ष्यमाणो रुद्रः कपिभटैः संवेष्टितां
लंकां विलोक्य ॥</p>
<lg>
  <l>मरुद्रादित्यौ शतमुखमुखास्ते ऋतुभुजः</l>
  <l>पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् ।</l>
  <l>प्रकोपव्याधेर्याधरतटपुटैर्वानरभटैः-</l>
  <l>समाक्रान्ता सेयं शिव शिव दशग्रीवनगरी ॥ ९ ॥</l>
</lg>
<p>उद्यदिति । ते कपीन्द्राः उत्तरेण उत्तरमार्गेण प्लवन्ते निरुन्धन्ति उत्कृत्यारोहन्ति
वा उद्दामान: उच्छृङ्खलाः अक्ष्णां ताराभिरुद्दीप्यमानं दशग्रीवम् । किंभूता भिः
रावणभङ्गदर्शनायोद्यन्तो ये दिक्पालास्तेपां कोलाहलाज्जातो यो बहल: मदः बहुत-
रगन्धस्तस्यावग्रहो विरोधस्तेनोग्राभिः । देवदर्शनादेवादैन्यसंदेशिनीभिरित्यर्थः । एते
वानराः शस्त्रिणः शस्त्रवन्तः ॥ ८ ॥ ९ ॥</p>
<lg>
  <l>अस्रं यत्वगाधिपेन विहितं पौलस्त्यवक्षस्तटे</l>
  <l>संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः ।</l>
  <l>उत्पाव्य प्रहिताः स्वशैलशिखरे लंकेन्द्रहस्तावली -</l>
  <l>पिष्टोऽयं निजकुण्ड निर्झरजलैर्जम्बालपिण्डायते ॥ १० ॥</l>
</lg>
<p>भस्मीभवन्ति । तद्धेतुमाह - किंभूता
अस्त्रमिति । भूमीरुहाः वृक्षाः सीदन्ति
भूमीरुहा: । पौलस्त्यो रावणस्तस्य वक्षस्तट संघट्टो मेलनं तज्जातो योऽनल से</p>
<pb n="189" />
<p>i</p>
<p>हनुमन्नाटकं -
[ अंङ्क:-
दत्ता दावविपत् दावाग्निदुःखं येषां ते रावणेनापि स्त्रशैलस्त्रिकूटशिखर: उत्पाट्य
सुप्रीवाय प्रहितः अयं शिखर: निज आत्मीयो यः कुण्डस्ततो ये निर्झरा: प्रस्रवणा-
स्तेर्पा जलैर्हेतुभिः । जम्बालपिण्ड: शैवालपिण्डवद्द्द्दृश्यते । 'कुण्डस्तटे हदे कुण्डम्
इति घरणिः । पिण्डत्वं द्योतयति-लकेशहस्तपंक्त्या पिष्टः पिण्डोकृतः पुनःपुनः
कन्दुकवदुत्पत नेनातिरिक्तभङ्गात्पिण्डीभूतः स्रवज्जलः शिखरो जम्बालपिण्डवद्दश्यत
इति भावः ॥ १० ॥</p>
<lg>
  <l>तथैतेनोद्धृत्य स्फटिकशिखरी सोपि विदधे</l>
  <l>समन्तादामूलत्रुटितव सुधाबन्धविधुतः ।</l>
  <l>अमुं येनायापि त्रिपुरहरनृत्यव्यतिकरः</l>
  <l>पुरस्तादन्येषामपि शिखरिणामुल्लसयति ॥ ११ ॥</l>
</lg>
<p>उत्पाटने प्रयोजनमाह-तथेति । यथा त्रिकूटशिखर: उत्पाटितः तथानेन रात्रणेन
स्फाटिकगिरिरुद्धृत्योत्पाटथ समन्तादामूलं अभिव्याप्य त्रुटितो यो वसुधावन्धन
विधूतः विशेषेण कम्पितः विश्वे कृतः । सोपि स्फटिकशिखर्यपि अद्यापि येन
उत्पाटनेनान्येषामपि शिखरिणां पुरस्ताद अमुं रावणं- पुरहरः रुद्रस्तदर्थे यो
नृत्यव्यतिकरः नृत्ये सति व्यतिकरः कोपातिशयस्तमुल्लसयति शिक्षयति स्मारयती-
त्यर्थः । कोर्थः । यथा तदुत्पाटने रुद्रस्तुष्टः तथैतेषामपि उत्पाटने नन्दयित्वा भवन्तं
'रक्षिष्यतीति भावः ॥ ११ ॥
.
रावणः ( सक्रोधम् ) रथारोहणं नाटयति-
भेरीमर्दलशंखतालनिकरस्वानोडसत्काहलो</p>
<lg>
  <l>निःसाणस्वन</l>
  <l>पूर्णकर्णकुहरो निर्यन्नगर्या बभौ ।</l>
  <l>युद्धार्थं दशकन्धरो रथगतो माणिक्यमौलिर्यशो-</l>
  <l>दीपादीपितमस्तको जनकजारामो विधेः कर्मणा ॥१२॥</l>
</lg>
<p>1
भेरीति । दशकन्धरः विधेः कर्मणा आज्ञया प्राक्तनकर्मप्रेरणयेति यावत् । यद्वा .
विधेर्ब्रह्मणः शक्तिदानादिषु ब्रह्मसंवन्धस्य सत्त्वान्नगर्याः सकाशायुद्धार्थे निर्यनगच्छ-
न्सन्वभावित्यन्वयः । यशोविजय एव दीपस्तेनादीपितः प्रकाशितः मस्तकः ब्रह्म-
लोको येन । तत्पर्यन्तविजयोति भावः । तद्गमनेपि तत्र प्रतापगमनसत्त्वात् ।</p>
<pb n="190" />
<p>दीपिकाख्यंव्याख्योपेतम् ।</p>
<p>'ब्रह्मावासशिरोविष्णुर्भजिकास्वपि मस्तके' इति शाश्वतः । जनकजारामः जनक-
जाया रामः कामा यस्य । वागर्थे जनकजायाः सकाशादराम: अक्रीडो यस्य मृत्यु -
रिवि । अन्यत्सुयोधम् ॥ १२ ॥</p>
<note>१४. ]</note>
<p>?</p>
<lg>
  <l>नीचैववौ परिमितः पवनो वनेषु</l>
  <l>मन्दीचकार तराण: खरतां करेषु ।</l>
  <l>रक्षः पतिं गगनमातमवेक्ष्य साक्षा-.</l>
  <l>नद्यो ययुः स्थगिततुंगतरङ्गभंगाः ॥ १३ ॥</l>
</lg>
<p>नीचैरिति खरतां तीक्ष्णत्वं गगनं आकाशं प्रति आप्तं प्राप्तमवेक्ष्य दृष्ट्वा । यद्वा
एकमेव पदम् । गे आकाशे ये गाः देवगणास्तेपां नमः प्रहृत्वं प्राप्तं येन, गगने
यत्रावलोकयति तत्रैच देवा नमन्तीति भावः । 'गकारो गगने द्वीपे गणेशे गोगणेपि
च' इति शाश्वतः । 'णम प्रहीभावे' इत्यस्याप्रत्यये नमः ॥ १३ ॥
आकाशे-</p>
<lg>
  <l>यदा नीलो लंकाधिप सुभट कोदण्डा शेखरे</l>
  <l>स्थितव्यञ्चद्वाप्पाकलितमृगतृष्णान्वितगिरिः ।</l>
  <l>तदैवं देवानां मतिरजनि दिङ्मण्डलजुषां</l>
  <l>धनुःशृङ्गे भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥ १४ ॥</l>
</lg>
<p>यदेति । रावणस्य प्रत्यासन्नत्वादानन्दे देवानामुन्म दावसरे नीलो वानरः लङ्का-
धिपश्चासौ सुभटस्तस्य कोदण्डाग्रभागे स्थितोभूदिति शेषः । किंभूतः । चञ्चन्तो
ये बाप्पा: क्रोधाश्रणि गिरिप्रस्रवणवारीणि तैराकलिता करम्बिता मृगतृष्णा तद्-
न्वितो गिरिर्यस्मिन्सः, हस्ते घृतगिरिनल: रावणधनुर स्थित इति तात्पर्यार्थः ।
}
तदा दिङ्मण्डनजुपां स्वस्वदिगाकाशस्थितानां देवानां मतिरेवं जनिता । एवं किम्
रावणहस्तधनु:शिखरे भृङ्गस्थानीयो नीलः श्यामत्वान्नीलहस्ते गिरिस्तत्र गिरौ जल
स्थानीया तृष्णागिरिप्रस्रवणा अयमेवोन्मादः ॥ १४ ॥
साध्य तत्र रामे सपटु भटमुखे सव्यथं देवतौर्ये
साशंकं रामयुद्धे कपिषु सविनयं लक्ष्मणे साश्रुपूरम् ।</p>
<pb n="191" />
<p>हनुमन्नाटकं -
- सासूर्य भातृकृत्ये समयमनिलजे सत्रपं चात्मकंत्ये
क्षिप्तं तद्वऋचक्रं रजनिचरपतेर्भिन्नभावं बभूव ॥ १५ ॥
[3F:-
#
साश्चर्यमिति । रजनीचरपते रावणस्य वक्त्रचक्रं मुखसमूहः भिन्नभावं चित्रर-
साश्रयं वभूव । भिन्नत्वमेव विवृणोति - रामे साश्चर्य सविस्मयं सद्भुतरसमिति सप
-सोत्साहं सवीररसमिति 'उत्साहात्मा भवेद्वरिः सव्यथं सविषादं सशान्तरसमिति
विपाद: संचारिको वा । मया सीतानीता यतो देवा अपि वलान्ते, अद्यापि संघि
करोमीति विपादः । तदुक्तं रसोदधौ 'विपदिष्टाद्यनवाप्तेः प्रारब्धा सिद्धितोपराधाच्च ।
अनुतापोत्र विपादो विज्ञेयो मुक्तिसंबन्धः ॥' साशङ्कं सविप्रलम्भशृङ्गारं, शङ्कास्य
संचारी । रामः सीतां मा गृहात्विति शङ्का । उक्तं च रसोदवौ - 'स्वीयापराधचौर्य
कृतपरचौर्यादितो मता शङ्का । स्वानिष्टेक्षणयोगस्तदभयभावोऽत्र विश्लेपः ॥' अत्र
स्वानिष्टेक्षणं सविनयं सदैन्यं सकरुणमिति दैन्यं संचारी । हनूमदादिदर्शनोदीपि-
ताक्षपुत्रवधादैन्यं साश्रुपूरं रसाद्रौद्ररसात्क्रोधस्थायी । क्रोधानुभवमश्रु तत्रैव लक्ष्म-
णदर्शने सति मेघनादे वत्सलरसो जातः । एतेन पुत्रो हत इति उद्दीपनं वात्सल्या-
दभ्रूणि । अत्र रसद्वयं वक्त्रद्वये ज्ञेयम् । सासूयं सहास्यरसं हास्येसूयासंचारी सा
च विभीपणगता, असूयातोपि हि हास्यं भवतीति प्रसिद्धम् । सभयं भयानकरसः
भयं स्थायी सत्रपं सवीभत्सं त्रपात्रानुभावः । सा च या जुगुप्सातो भवति जुगु-
प्सा स्थायी । एवमद्भुतवीरशान्तशृङ्गारकरुणारौद्रवत्सलहास्यभयानकवीभत्साः
यथाक्रमं ज्ञेयाः ॥ १५ ॥</p>
<lg>
  <l>बद्धा तूणान्दशोच्चैर्मघवह सटावेणिबन्धेनवा -</l>
  <l>दोर्भिश्वापान्विधुन्वन्दशदश च शरान्दक्षिणैराददानः ।</l>
  <l>क्ष्वेडन्क्रीडन्प्रकुप्यन्त्र सरदभिभवद्गर्जितातर्जितौधैः</l>
  <l>शश्वत्खिद्यन्मुख श्रीरवतरति रणमाङ्गणे राक्षसेन्द्रः ॥ १६ ॥</l>
</lg>
<p>वद्धेति । इन्द्राश्वकेशश्रेण्यां उच्चैर्गाढं दशतूणान्निषङ्गान्डावामैर्दशभिर्दोभिर्दश
चापान्विधुन्वन्सन्दक्षिणैर्दशभिदोर्भिः दशशरानाददान: । दशमुखेपु पृथक्पृथग्भावं
द्योतयति अन्त्र रसः प्रन्थगौरवान्नोद्घाटथते । कीदृक् राक्षसेन्द्रः । क्ष्वेडन्हसन्
'क्ष्वेडामर्पगतं हास्यम्' इति धरणिः । द्वन्द्वः तच्च मुखं तेषां श्रीर्यस्य तच्चाधिकं दुश-
धोक्तम् ॥ १६ ॥</p>
<pb n="192" />
<p>दीपिकाख्यव्याख्योपेतम् ।
रामरावणयोः-</p>
<lg>
  <l>रणाङ्गणे कुण्डलिनो युवानः परस्परं सायकभिन्नदेहाः ।</l>
  <l>कुचाग्रलग्ना इव कामिनीनां कुम्भाग्रलनाः सुषुपुर्गजानाम् ॥ १७॥</l>
</lg>
<lg>
  <l>गगनं गगनाकारं सागरः सागरोपमः ।</l>
  <l>रामरावणयोर्युद्धं रामरावणयोरिव ॥ १८ ॥</l>
</lg>
<p>रणेति । कुचस्थानीयः कुम्भः ॥ १७ ॥ १८ ॥
तत्र सारो नाम राक्षसस्तुमुलयुद्धे-</p>
<lg>
  <l>आश्वारूढस्तु यावद्व्रजति न शिबिरं वाजिनः पूर्वम</l>
  <l>धावन्तं खण्डितस्य स्वमरिकुलबलात्पादयुग्मेन धीरः ।</l>
  <l>सारः ऋव्यादवीरः शिरसि करतलोत्थापितेनाङ्गदेन</l>
  <l>क्रुद्धेनाताड़ितो द्राक् शिव शिव समरे पश्चिमान तावत् ॥ १९॥</l>
</lg>
<note>१४. ]</note>
<p>अश्वेति । यावत्क्रव्यादवीरः सारः खण्डितस्य मध्यतः कृत्तस्य वाजिनोश्वस्य
पूर्वार्धमध्यारूढः अरिकुलवलाच्छत्रुसैन्यात्सकाशात् शिविरं स्वकटकं पादयुग्मेनन
खण्डितश्चार्धप्रदेशे कृत्तस्तञ्चरणयुगुलेन न व्रजति न गच्छति धावन्तं अर्ध तावत्
क्रुद्धेनाङ्गदेन द्राक् शीघ्रं समरे पश्चिमाघेंन कृत्वा पश्चिमभागेन कृत्वा शिरसि
आताडितः । किंभूतेन । पश्चिमाघेंनाङ्गदकरतलोत्थापितेन शिव शिव कष्टम् ॥१९॥
अदः (वा) रावणः-</p>
<lg>
  <l>यावानब्धिः कलशशिशुना तावता किं च पीतः</l>
  <l>तुल्याकारान्प्रहरति हरिः किं खगानद्रितुङ्गान् ।</l>
  <l>तत्रागम्याः प्रथितवपुषः सन्तु तिग्मस्वभावा-</l>
  <l>स्तेषां ग्रासग्रहणरभसं राम ते नामधेयम् ॥ २० ॥</l>
</lg>
<p>महच्छरीराणि रक्षांस्यल्पशरीरान्वानरानवलोक्य जये विचिकित्समानं रामं
बोधयति यावानिति । हे राम ! अन्धिर्यावान् मानतोऽगाधतायाश्च तावता तत्स-</p>
<pb n="193" />
<p>हनुमन्नाटकं
[ अङ्क:-
दृशमानेन कलशशिशुना किं पीतः । किंतु महानव्धिरल्पतरोगत्स्य इति च । पुनः
हरिरिन्द्रः तुल्याकारान्स्वल्पप्रमाणान्खगान् गिरीन्प्रहरति अपि तु स्वयमल्पः अद्रय-
'स्तुङ्गा: 'पक्षिपर्वतयोः खगः' इति हैमी । तेषां सपक्षत्वात् । किंभूतान्खगान् ।
अद्रितुङ्गान् सूर्यपर्यन्तोन्नतान् 'अद्रयो द्रुमशैलार्काः' इत्यमरः । तत्र तस्मिन् प्रस्तावे
अगम्या गन्तुमशक्या: समुद्रादयः, प्रथितवपुषः गिर्यादयः, तिग्मस्वभावाः स्वभा
वतेजस्विनः अगस्त्येन्द्रादयोपि सन्तु भवन्तु । तेषां सर्वेषां ग्रासग्रहणे कवलग्रहणादौ
सरभसं सत्वरं हे राम ! ते नामधेयमस्तीति शेषः । रामोयमिति शब्देनैव ते नष्टा
भविष्यन्ति किमत्राल्पदीर्घविचारणयेति भावः । कतिचित्पुस्तकेषु रावणवाक्य-
मिदम् । तत्पश्यामूनिति पाठः । तत्रायमर्थः-यावानन्धिस्तावानगस्त्येन पीतः तावता
सर्वपानेन किं का नो हानि: ? यावर्ता भवता तु वद्ध एव । इन्द्रापि गिरीन्प्रहरति
तेन गिरिप्रहरणेन किं का नो क्षतिर्मत्पुत्रेण बद्ध एव तथा त्वयापि । गिरिसमा:
शौर्यादिहीना: केचन राक्षसा हताः तत्तस्मात्प्रथितं वपुर्येषां ते तिग्मस्वभावाः
स्वभावतीक्ष्णा: मादृशा राक्षसाः सन्तु तिष्ठन्तु । अमूनल्पतरान्राक्षान्पश्यसि ?
हे राम, तेषां तिग्मस्वभावानां ते नामधेयं त्वन्नान्नाख्यातं सैन्यं च ग्रासग्रहणाय
रभसं शून्यं, न किमपीत्यर्थ: 'रभसः पदशून्ययोः' इति चरकः ॥ २० ॥
रावण:-</p>
<lg>
  <l>स्त्रीमात्रं ननु ताङका मुनिसुतो रामः स विप्रः शुचि-</l>
  <l>मरीचो मृग एव भीतिभवनं वाली पुनर्वानरः ।</l>
  <l>भो काकुत्स्थ विकत्थसे वद रणे वीरस्त्वया को जितो</l>
  <l>दोर्गवस्तु तथापि ते यदि पुनः कोदण्डमारोपय ॥ २३ ॥</l>
</lg>
<p>स्त्रीमात्रमिति । विकत्थसे विकत्थनां करोषि । अतो वद त्वया वीरः को जितः १
अन्यत्सुवोधम् ॥ २१ ॥
अत्रान्तरेऽङ्गदः -</p>
<lg>
  <l>वन्यास्ते न विचारणीय चरितास्तिष्ठन्तु हुं वर्ततां</l>
  <l>सुन्दस्त्री दमनेप्य कुण्ठयशसो लोके महान्तो हि ते ।</l>
  <l>यानि त्रीणि कुतो मुखान्यपि पराण्यासन्वरायोधने</l>
  <l>यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ २२ ॥</l>
</lg>
<pb n="194" />
<note>१४.].</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>वन्द्या इति । हमिति कोपेअव्ययम् । हे रावण, एते रामादयो वन्द्याः नमःस्तुति-
योग्या एव । कीदृशाः । वर्ततां व्याहर्तॄणां मध्ये विचारणीयचारेता न अत एव लोके
महान्तस्ते प्रसिद्धाः । अविचारणीयत्वमेवाह - सुन्दस्त्री ताटका तहमनेपि अखण्डे
यशो येषां ते स्त्रीवधादपकीर्तिवाहुल्यनियमात् अतस्ते तिष्ठन्तु, तद्वार्तया किं कृत्यं ?
चेद्रोर्यमेव श्रोतुकासोसि तर्हि शृणु । यानि प्रसिद्धानि नोणि मुखानि त्रिशिरः
शिरांसि च कुतः सकाशात्पराणि देहाद्भिन्नानि आसंस्तत्त्वमेव वद । वा लिनने
फियत्प्रावीग्यं तत्रापि जनः अर्थात्त्वमेवाभिज्ञोसि वालिना त्वं बद्धः स तु रामेण हत
इति भावः ॥ २२ ॥
रावणः-</p>
<lg>
  <l>शंभोः पर्वतकन्दुकेन महती क्रीडा कृता येन तं</l>
  <l>रे रे मानव राम मा स्मर भवं देवेश्वरं रावणम् ।</l>
  <l>ज्याघोपं कुरु ताडकान्तमसुराणामन्तकं संयुगे</l>
  <l>यश्चानीतिसमग्रवीरकुटिलः शाखामृगाणां पतिः ॥ २३ ॥</l>
</lg>
<p>शंभोरिति । भवं चेन स्मरसि । ' आकृतौ भवमव्ययम् ' इति विश्वः । तर्हि
ज्याघोपं कुरु अनीती समन्नां धियमीरयन्ति ये तेष्वपि कुटिलः अत्यनीतिवानिति
शाखामृगाणां यः पतिर्वाली तस्याप्यन्तकं ज्याघोपं कुर्वित्यर्थो व्यङ्गयः ॥ २३ ॥
रामस्वथापि तं रावणं न जधान । लज्जावनम्रव-
दनाम्बुजः सन् मनाक् स्थितः रावणः</p>
<lg>
  <l>( विहस्य ) रे रे मानव राम !</l>
  <l>यो मया निहतो घोरे समरे तव पूर्वजः ।</l>
  <l>अनरण्यः किमय त्वां व्यथयत्यथ लज्जितः ॥ २४ ॥</l>
  <l>य इति सुवोधम् ॥ २४ ॥</l>
</lg>
<p>रामः- ( निःशंकम् ) रे रे राक्षसाधम पश्य ?
न दूये नः पूर्वं नृपतिमनरण्यं यदवधी-</p>
<pb n="195" />
<p>[ अङ्क:-
-</p>
<lg>
  <l>हनुमन्नाटकं -</l>
  <l>र्जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ।</l>
  <l>जितं मन्ये कारागृह विनिहतं हैहयपतेः</l>
  <l>पुलस्त्यो यद्भिक्षामकृत कृपणं तद्व्यथयति ॥ २५ ॥</l>
</lg>
<p>न दूये इति । कृपणं सदैन्यं यथा स्यात्तथा हैहयपतेः सकाशाद्यत्पुलस्त्यस्त्वत्पि
तामहः यद्भिक्षामकृत तद्भिाहरणं व्यथयतीत्यर्थः ॥ २५ ॥
'</p>
<lg>
  <l>यो रामो न जघान वक्षसि रणे तं रावणं सायकैः</l>
  <l>स श्रेयो विदधातु वस्त्रिभुवनव्यापारचिन्तापरः ।</l>
  <l>हृद्यस्य प्रतिवासरं वसति सा तस्यास्त्वहं राघवो</l>
  <l>मय्यास्ते भुवनावली विलसिता द्वीपैः समं सप्तभिः ॥२६॥</l>
</lg>
<p>य इति । वक्षोनिषेधादन्याङ्गहननमायातं सा सीता सप्तद्वीपैः सप्तभिः पृथिव्या-
द्यावरणैः समं 'द्वीपोखियामावरणे पुंस्येवान्तर्जलावनौ' इति जयन्तः । पुनः
कीदृशी । भुवनावलीविलसिता विलीयते सर्वमस्मिन्निति विलं प्रकृतिस्तया सिता
आवृता सप्रकृत्यावरणेत्यर्थः । 'लीङ् विलापने' इत्यस्य विलमिति रूपं । अन्यथा
द्वीपानां त्रिभुवनान्तः पातित्वादानर्थक्यप्रसङ्गः स्यात् एतद्धनने अकस्मान्महारण:
स्यादिति भावः । अनेन विप्रलम्भोन्मादावस्था च दर्शितेति भावः ॥ २६ ॥</p>
<lg>
  <l>"स प्रौढरावणरुषा विहितावलेपः</l>
  <l>सज्जो बभूव दृढसङ्गरबद्धदीक्षः ।</l>
  <l>आपन्नभीतिहरणं व्यवसायिनां हि</l>
  <l>प्राणास्तृर्ण विपुलसत्त्वसहायभाजाम् ॥ २७ ॥</l>
</lg>
<p>स इति । स रामः अवलेपो गर्वः सत्त्वमुत्साहः स एव सहाय : तं भज-
न्तीति ॥ २७ ॥</p>
<lg>
  <l>तत्र रामो रतिं लेभे न प्रियाविरहार्दितः ।</l>
  <l>तत्सत्यं मनसि स्वस्थं रम्याणां रमणीयता " ॥ २८ ॥</l>
</lg>
<p>तत्रेति । सुवोधम् ॥ २८ ॥</p>
<pb n="196" />
<note>१४. ]
(गगनमण्डलमवलोक्य - )</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>बाणोऽयं मम ताटकात्मशिरसि स्नातः स्वसुर्नासिका -
प्राणायामपरः खरत्रिशिरसां हुत्वा दशास्याहुतिम् ॥
मारीचं च बलिं विधाय तदनु त्वाचम्य वारांनिधिं
भोक्तुं रावणमामिषं मृगयते भो दीयतां मैथिली ॥ २९ ॥
वाण इति । आत्मा रुधिरं तद्युक्ते शिरसि 'देहे धातुपु कूटस्थे जीवेण्यात्मा
मतः पुमान्' इति विश्व: । धातुना रुधिरं गृह्यते । स्वसुस्त्वद्भगिन्याः शूर्पणखाया
साहचर्याहूपणोपि रावणस्येदं रावणम् । रावणस्यामिषमित्यर्थः ॥ २९ ॥
रावणस्तथापि सावज्ञम् -</p>
<lg>
  <l>क्लीयानामेव युद्धेषु प्राणत्राणाय राम धीः ।</l>
  <l>लज्जाप्रशान्त्यै संसत्सु मूर्खाणामिव मूकता ॥ ३० ॥</l>
</lg>
<p>क्लीवेति । हे राम, रणेपु प्राणत्राणाय या धी: लज्जाप्रशान्त्यैसन्धये सा क्कीवा-
नामेव । यथा विद्वत्सु लज्जाप्रशान्त्यै मौर्याच्छादनाय मूर्खाणां मौनस्वीकारः तथा
कातर्याच्छादनाय संधिरिति ॥ ३० ॥</p>
<lg>
  <l>रे काल त्वमकाललब्धविभवः स्वैरं सकामो भंव</l>
  <l>शंभो भूषय नूतनैः शवशिरोमाल्यैर्निजाङ्गं मुहुः ।</l>
  <l>किं च त्वं च विरिश्च संचिनु जगत्सर्गाय बीजं क्वचित्</l>
  <l>सन्नद्धः करवालमीषणभुजो युद्धाय लंकेश्वरः ॥ ३१ ॥</l>
</lg>
<p>1
रे इति । अनवसरप्राप्तैश्वर्यः । एतस्याशेपहननमैश्वर्य हे विरिञ्च जगत्सर्गाय पुनः
सृष्टधै वोजं संचिनु गोपाय निःशेषेण नरान्हनिष्यामीति भावः ॥ ३१ ॥
राममाक्षिपति-</p>
<lg>
  <l>तथ वा जानकी राम कामं पास्यति मन्दिरे ।</l>
  <l>रणे वा दारुणो गृध्रो मधुरानधरान्मम ॥ ३२ ॥</l>
</lg>
<pb n="197" />
<p>हनुमन्नाटकं -
[ अङ्क:-
अद्येति प्रकरणं सुवोधम् । वागर्थः प्रतिपाद्यते । वा निश्चये हे जान रािम
जानकी रमते अस्मिन्निति तथाभूत, अद्य दारुणे रणे ममाधरान्कामं यथेच्छं, गृध्रः
पास्यतीति । वा द्वितीयो मुहुरर्थे । कीदृशे रणे । मन्दिरे वीरग़रणे ॥ ३२ ॥ .
तत्राशोकवनिका स्थित विमानमारुह्य जानकी रामराव-
णयोर्युद्धं दर्शयति त्रिजटा सरमा च । मन्दोदर्यपि
सुन्दरीपरिवृता लंका चलशिखरमारुह्य पश्यति । रुद्रोपि
समुद्रमध्ये एकेन चरणेनोपस्थितो युद्धं पश्यति
देवाः सर्वे विमानाधिरूढा नभोमण्डलगता युद्धं पश्यंतिम ॥
रामः- संहार
भैरव इव क्रोधं नाटयंति ।</p>
<lg>
  <l>रे रे निशाचरपते त्वरितं गृहाण बाणासनं त्रिदशदर्पहरं शरं च ।</l>
  <l>निर्वापयामि विरहाग्निममुं भ्यिाया मन्दोदरीतरलनेत्र जलमत्रा है: ३३ ॥</l>
</lg>
<p>.
रे रें इति । वाणासनं चापम् ॥ ३३ ॥
( इति बाणान् स्पृशति ) मन्दोदरी ( सभयम् ) -</p>
<lg>
  <l>उत्पादयन्किमपि कौणपकोटिमन्त</l>
  <l>स्तेजोहुताशनसमिन्धनसामिधेनीम् ।</l>
  <l>हस्ताढकीमकृत बालतरः पृषत्कै-</l>
  <l>रीपज्जयं स्फुटमनेन दशाननोऽपि ॥ ३४ ॥</l>
</lg>
<p>मन्दोदरीति । हा कष्टमागतम् । अनेन रामेण दशाननोपि स्फुटं असंशयं ई-
ज्जयः ईषत्करो जयो यस्य । ईषज्जयत्वं द्योतयति । यदायं वालतरोऽतिशयवालकः
धास्ताटकामन्तर्हृदये यस्तेजोभवोग्निस्तस्य समिन्धने सम्यगिन्धनादाने साभिधेनीं
एव:- समाहारको मन्त्रः सामिधेनो तां अकृत स्वतेजोग्निदीपनकर्त्री ' एघो मन्त्रः
सामिषेनी ' इति शाश्वतः । कौणपा राक्षसास्तेषां कोटिमुत्पाटयन्सन्किमप्यनिर्व- :
चनीयवलं रक्षःकोटिं अद्यायं तरुण इति भावः ॥ ३४ ॥
"</p>
<pb n="198" />
<p>·
.</p>
<note>१४.]
( रामभुजदण्डौ)</note>
<p>दीपिकाख्यव्याख्यापेतम् ।</p>
<p>आकृष्टे युधि कार्मुके रघुपतेर्वा</p>
<lg>
  <l>मोऽब्रवीद्दक्षिणं</l>
  <l>दानादान सुभोजनेषु पुरतो युक्तं किमित्थं तव ।</l>
  <l>वामान्यः पुनरत्रवीन्मम न भी: प्रष्टुं जगस्त्वामिनं</l>
  <l>छेत्तुं रावणवत्रपंक्तिमिति यो दद्यात्स वो मंगलम् ॥ ३५॥</l>
</lg>
<p>आकृष्टे इति । युधि धनुध्याकृष्टे सति रघुपतेः रामस्य वामः आयुधिहस्तः
दक्षिणं आयुधिहस्तं अनवोदित्यन्वयः । 'पाणावायुधि न द्वयोः' इति शब्दशेषे । आयु-
घानि धीयन्ते रेखाद्वारेणास्मिन्नित्यायुधि बद्धशृङ्खलेयं पद्मजाति: । 'स्वरयोगवियो-
गाभ्यामर्थदावद्धशङ्खला' इति चित्तालंकृतौ । दानादानसभोजनेषु त्वं पुरतः पुरो-
वर्ती अधुना इत्थं पृष्ठतो गमनं किं युक्तं वामान्यो दक्षिणहस्तः पुनर्वासमब्रवीत् हे
वाम ! रणे मम भीर्भयं न रावणवऋपंक्ति भेत्तुं, प्रष्टुमागतोस्मीतिशेषः । इति वदन्सः
दक्षिण: वो मङ्गलं दद्यात् ॥ ३५ ॥</p>
<lg>
  <l>कुशिकसुतसपर्यादृष्टदिव्यास्त्रमन्त्रो</l>
  <l>भृगुपतिसहयोद्धा वीरभोगीनबाहुः ।</l>
  <l>दिनकरकुलकेतुः कौतुकोत्तानचक्षु-</l>
  <l>बहुमतरिपुकर्मा कौतुकी रामदेवः ॥ ३६ ॥</l>
</lg>
<lg>
  <l>यद्रावणो बहुभिरेव भुजैः करोति</l>
  <l>तद्राघवः प्रतिकरोति भुजद्वयेन ।</l>
  <l>कर्मद्वयं यदपि तुल्यफलं तथापि</l>
  <l>रक्षः पतेर्दशगुणं नरवीरतुल्यम् ॥ ३७॥</l>
</lg>
<p>कुशिकेति । तदा रामदेवः कौतुकी युद्धोत्सवी यात इति शेषः । वीराणां भोगाय
योग्यौ बाहू यस्य सः यद्वा वी रमणीयो भोगीनो वासुकिस्तद्वद्वाहू यस्य बहुमतं
रिपुभिः कर्म शौर्य यस्य सः ॥ ३६ ॥ ३७ ॥</p>
<pb n="199" />
<p>हनुमन्नाटकं -
तत्र मन्दोदरी जानकी च
रे रावणास्तमुपयातु सह त्वयार्क:
श्रीराघवे समरमूर्ध्नि कृतप्रतिज्ञे ।
मन्दोदरी जनकजास्त नगावलम्बि-
[ अङ्कः
न्यर्के चकोरकवधूरिव चक्रवाकी ॥ ३८ ॥
रे रावणेति । अद्यैनं हनिष्यामि इति प्रतिज्ञा अर्के अस्तनगावलम्विनि मन्दोदरी
जनकजा च अस्तशैलस्थेऽर्केच चकोरकवधूरिवासीत् । यथा चकोरी रात्रि -
च्छति चन्द्रकरामृतानुभवात्तथा च मन्दोदरी रात्रौ राक्षसानां वलातिशयात्तथा
सीता रात्रौ रक्षोतिशयाद्रामप्रतिज्ञाभयादिति भावः ॥ ३८ ॥
रामः ( रावणम्प्रति ) -</p>
<lg>
  <l>एकस्मिन्विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः</l>
  <l>किन्तु स्वानुनयाय सूर्धनिधनं दृष्टं न यत्रारिणा ।</l>
  <l>त्वत्तो मूर्धबहुत्वतः फलमिदं सभ्यङ् मया लभ्यते</l>
  <l>छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥ ३९ ॥</l>
</lg>
<p>एकस्मिन्निति । स्वस्य छेत्तुं अनुनयाय मा छिन्धीत्यादिस्तवाय यत्र शिरःकर्तने.</p>
<lg>
  <l>एकस्मिन्नेव शिरसि कृत्ते अन्यच्छिरस्तस्मिन्कृत्ते अन्यच्छिरोभावादनुभवाभावः ।</l>
  <l>छिन्नं छिन्नं मूर्धानम् ॥ ३९ ॥</l>
</lg>
<p>( अत्यन्तद्रुततरं श्रीरामबाणादिताडनव्यग्रो रावण:)-</p>
<lg>
  <l>धनुर्निस्त्रिंशादिप्रहरणगलच्छेदकुपितो</l>
  <l>दशास्यः स्वान्मूर्ध्नो रघुपतिशरव्रातदलितान् ।</l>
  <l>करैरे कैरेकैर्नभसि भृशमादाय युगपत्</l>
  <l>क्षिपन्नान्यैरन्यैश्चपलयति दोर्विंशतिमपि ॥ ४० ॥</l>
</lg>
<p>धनुरिति । एकैरेकैः करैः भृशं मूर्ध्नः अन्यैरन्यैः करैर्भृशं नभसि विक्षिपन्सन्यु-
गपदेव विंशतिं चपलचति ॥ ४० ॥ ॥
1974</p>
<pb n="200" />
<p>0
दीपिकाख्यव्याख्योपेतम् ।
रामः ( सावष्टम्भम् ) -</p>
<lg>
  <l>कल्पान्ते यत्कृतान्तैरिव वरसमरप्राङ्गणे रामचन्द्रो</l>
  <l>चाणैरुत्तीर्णशाणैर्नवभिरपि दशग्रीवमूर्ध्नो नवैव ।</l>
  <l>चिच्छेदालोक्य भूयः स पुनरपि नवान्विस्मितः सन्मुहूर्त</l>
  <l>विश्रम्यागस्त्यदत्तं तदनु रिपुवधायाददे ब्राह्ममत्रम् ॥ ४१॥</l>
</lg>
<note>१४.]</note>
<p>कल्पान्त इति । रामः रणे नवभर्वाणैर्नव एव रावणस्य मस्तकान् चकर्त 1
चाणसाफल्ये विशेषणद्वयम् । भूयः कर्तनानन्तरं स रामः पुनः अभिनवान्नवीभूता-
नालोक्य विस्मितः सन्मुहूर्त विश्रम्यागस्त्यदत्तं ब्रह्मास्त्रं आददे गृहीतवान् । अत्रेयं
कथा । ब्रह्मणास्य वरो दत्तो यावदशमो मध्यस्थो मूर्धा न विच्छिन्नस्तावदन्यानि
शिरांसि कृत्तान्यप्यकृत्तानि भविष्यन्तीति ॥ ४१ ॥</p>
<lg>
  <l>पैतामहं रघुपतिः समरेऽतिकोपा-</l>
  <l>द्वाणं मुमोच हृदये दशकन्धरस्य ।</l>
  <l>भित्त्वा स तद्धृदयशोणितशोणगात्रः</l>
  <l>प्राणान्विवेश धरणीतलमस्य नीत्वा ॥ ४२ ॥</l>
</lg>
<p>पैतामहमिति । पैतामहं ब्रह्मास्त्रं सः वाणः तत् : हृदयं भित्त्वा अस्य रावणस्य
प्राणान्नोत्वा भुवि विवेशेत्यन्वयः ॥ ४२ ॥
मन्दोदरी सकलसुन्दरसुंदरीभिः परिवृता गलदविर-
लनेत्रजलप्रवाहैः सीतापतेर्विरहानलेन सह लंकापतेः
प्रतापानलं निर्वार्पियन्ती हाहाकारं घोरफुत्कारैः
कुर्वन्ती झटिति त्रिकूटाचलादुत्पत्य समरभूमौ महा-
निद्रां गतस्य निजप्राणनाथस्य लंकापतेश्चरणकमल-
योर्निपत्य ॥</p>
<pb n="201" />
<p>Y
हनुमन्नाटकं -</p>
<lg>
  <l>भिन्नैरावतत्र धुसिन्धुरशिरःसंपातिभिर्मोक्तिकैः</l>
  <l>शश्वद्विश्वजयप्रशस्तिरचनावर्णावलीशिल्पिने ।</l>
  <l>नाकान्तः पुरिकाकपोलविलसत्काश्मीरपत्राङ्कुर-</l>
  <l>श्रीविन्यासविनाश भीषणभुजस्तम्भाय तुभ्यं नमः ॥ ४३ ॥</l>
</lg>
<p>सुगमम् गद्यम् । भिन्नैरिति । अथ विप्रलम्भगुणकीर्तनमाविष्करोति । हे प्रिय,
तुभ्यं नमः । किंभूताय । भिन्नानि यानीन्द्र गजवन्धूनां सिन्धुराणां गजानां शिरांसि
तेभ्य: संपतितुं शीलं येपां तैः मौक्तिकैः कृत्वा शश्वत् या विजयप्रशस्तिरचना लिखनं
तयुक्ता या वर्णवली तस्याः शिल्पिने लेखकाय गजकुम्भच्युतमुक्ताहाररेवात्मजय-
प्रशस्ति विलिखतीत्यर्थः । नाकान्तः पुरिकानां स्वर्गान्तःपुरस्थमृगदृशां कपोलेपु
विलसनक्कुंकुमपत्रस्यांकुर: चित्रं तत्र यः श्रीविन्यासः शोभातिशयः तस्य विनाशाय
भोषणः भुजस्तम्भो यस्य ॥ ४३ ॥</p>
<p>[ अङ्कः-
हा प्राणनाथ लंकेश !</p>
<lg>
  <l>भूयिष्ठानि मुखानि चुम्बति भुजैर्भूयोभिरालिङ्गते</l>
  <l>चारित्रवतदेवतापि भवता कान्तेन मन्दोदरी ।</l>
  <l>हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैर्ममैकावली -</l>
  <l>शिल्पे वागधमणिकस्य भवतो लंकेन्द्रनिद्रारसः ॥ ४४ ॥</l>
</lg>
<p>भूयिष्ठानीति । मन्दोदरी ते भूयिष्ठानि बहूनि मुखानि चुम्बति । कान्तेन भव-
तास्य विनाशाय ताभिर्भुप्रोभिर्भुजैरालिङ्गयत इत्यन्वयः । पतिव्रता देवी हे लङ्केन्द्र
भवतापि निद्रारसो यातः । हा कष्टं, ऋणिनो निद्रारसाभावात् । ऋणमेव द्योत-
यति–लम्बोदरः गजाननो गणेशस्तस्य कुम्भयोः ये मौक्तिकसमूहास्तैर्मम यः एका-
वली हारभेदः 'एकाबल्येकयष्टिका इत्यमरः । तस्याः शिल्पेऽभिनिर्माण वाचा
अधमणिकस्यास्य लम्बोदरं विभिन्द्य तव हारं करिष्यामीति वा 'उत्तमर्णाधमणों
प्रयोक्तृग्राहकौ क्रमात्' इत्यमरः ॥ ४४ ॥
एकेनैव समुतो हरगिरिभ्यां त्रिलोकी जिना
यस्याष्टादशभिर्भुजैरवसरः शत्रस्य नासादितः । .</p>
<pb n="202" />
<lg>
  <l>१४. ]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>सोप्यनं द्विभुजं मनुष्यमहह क्रव्यादवीरो रिपुं</l>
  <l>प्राप्य व्यर्थभुजो रणे विनिहतो देवाये तस्मै नमः ॥४५॥</l>
</lg>
<p>M
ऐकेनेति । अथास्य वलं द्योतयति - दैवं प्रणमति । यस्य रावणस्य द्वाभ्यां भुजाभ्यां
त्रिलोको विजिता वशीकृता, तयोरेकेन एपः हरगिरिः समुद्धृतः । एफेनान्ये लोका
जिता इति द्रष्टव्यम् । सोपि रावण एनं रामं प्राप्य व्यर्थभुजः सन्येन दैवेन विनि-
हतस्तस्मै देवाय नम इति ॥ ४५ ॥</p>
<lg>
  <l>जातित्रैलकुलेऽग्रजो धनपतिर्यः कुम्भकर्णोऽनुजः</l>
  <l>पुत्रः शक्रजयी स्वयं दशशिराः पूर्णा भुजा विशंतिः ।</l>
  <l>दैत्या: कामचरा रथथ्व विजयी पारेसमुद्रं गृहं</l>
  <l>सर्वे निष्फलितं तथैव विधिना दैवे वले दुर्बले ॥ ४६ ॥</l>
</lg>
<lg>
  <l>कालेन विश्वविजयी दशकन्धरोऽभू-</l>
  <l>द्भर्गाचलोद्धरणचञ्चलकुण्डलायः ।</l>
  <l>संस्कार मग्निदहनाय स एष काल-</l>
  <l>श्वाज्ञां विना रघुपतेः प्लवगैर्निरुद्धः ॥ ४७ ॥</l>
</lg>
<p>जातिरिति क्षेपकः ॥ ४६ ॥ ४७ ॥
दुर्गे त्रिकूटः परिखा समुद्रो रक्षांसि
योधा धनदश्व वित्तम् । संजीविनी यस्य
मुखाग्रविद्या स रावणः कालवशाद्दिष्टः ॥ ४८ ॥
कालस्य सर्वतो दुर्निवारत्वं द्योतयति- दुर्गमित्यादि - पञ्चभिः पद्यैः ॥ ४८ ॥</p>
<lg>
  <l>इह खलु विषमः पुराकतानां</l>
  <l>भवति हि जन्तुषु कर्मणां विपाकः ।</l>
  <l>शिवशिरसि शिरांसि यानि रेजः</l>
  <l>शिव शिव तानि लुठन्ति गृध्रपादैः ॥ ४९ ॥</l>
</lg>
<pb n="203" />
<p>हनुमन्नाटकं -
[ अङ्कः-
इहेति । शिवशिवेति कष्टंकष्टम् । तानि शिरांसि लुठन्ति चञ्च्वाक्षेपेणेतस्ततःचा
लयन्ति । रेजु: विलसन्ति स्म आविर्भवन्ति ॥ ४९ ॥
ततो लक्ष्मणवायुपुत्रौ विमाने जानकीमारोप्य
सत्वरमानीतवन्तौ ॥
(जानकी ससंभ्रममुत्थाय लज्जां नाटयति ) रामः-
जनकतनयां हृत्वा रागी हते दशकन्धरे ।
तद्नु विरहज्वालाजालाकुलीकृतविग्रहः ।</p>
<lg>
  <l>रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते ।</l>
  <l>मुकुलितहगम्भोजद्वन्द्वः समाहितवत्स्थितः ॥ ५० ॥</l>
</lg>
<p>जनकतनयामिति । रागो युद्धोत्साहवान्रामो जनकतनयां हृत्वा लङ्कातः स्वशि
विरे आनीय, यद्वा यो जनकतनयां हृत्वा रागी रागवान्यतः एवंभूते दशकन्धरे हते
सति । सर्व सुबोधम् ॥ ५० ॥
-
( साश्रु स्ववंश्यपरिजनलज्जया च ) हनूमान् - मातर्जानकि !</p>
<lg>
  <l>चापालिङ्गनभंगुराङ्गमदनन्यस्तैक हस्ताम्बुजं</l>
  <l>मध्ये मुष्टिनिविष्टपञ्चकशरं बिभ्राणमन्यत्करे ।</l>
  <l>वीरश्रीन खरक्षतैरिव नवैर्बाणवणैरङ्कितं</l>
  <l>वीरं राममवस्थितं प्रणम तं प्रोन्मथ्य लंकाभटम् ॥ ५१ ॥</l>
</lg>
<p>चापेति । चापालिङ्गनेन भंगुरं यदङ्गं तेन मदनमिव अन्यत्करे द्वितीयहस्ते मुष्टे -
मध्ये मध्यमुष्टिनिविष्टो यः पञ्चकशरः शरपञ्चकस्तं विभ्राणं, यद्वा पंचकं पश्चा-
त्मकं रावणदेहं तद्धन्ता शरः पञ्चकशरः वीरश्रीर्विजयलक्ष्मीस्तस्य नखक्षतैरिव
तमिति । प्रसिद्धम् ॥ ५१ ॥
जानकी- स्वगतम्
तापच्छेदसुधाकरस्तनुमतां क्रोधानलाम्भोधरः
सारासार विवेकशोकभवनं हर्षस्य बीजाश्रयः ।</p>
<pb n="204" />
<p>दीपिकाख्यव्याख्योपेतम् ।
कालव्यालविपस्य गारुडमणिधैर्यमो रामभूः
कैवल्यप्रतिभृर्घटेत सुकृतैरामस्य सत्संगमः ॥ ५२ ॥
{#.]
फालेति । श्रीजमावभूतं अन्य
जनयिता गोद इति भुषोधम् ॥ ५२ ॥
जातजवदनुपलब्धिप्रसङ्गः स्यात् मोक्ष-
M
इति रघुपतेश्चरणकमलयोः शिरोमधुकरेण मकरन्दमनुभ-
चितुमिच्छति ॥</p>
<p>रामः उपसृत्य - साशंकम्-
-
हे महान्तो जनाः यद्यपि प्रिया पतिव्रता तथापि चिरं
परमन्दिरस्था दिव्यमन्तरेण कथं मां स्प्रष्टुमर्हति ।
इत्याकर्ण्य रामवाक्यादाकाशावतरन्ति स्म
ब्रह्मादयः । ततो जानकी दिव्योपकरणं नाटयति ॥</p>
<lg>
  <l>तत्र रामो रतिं लेंभे न प्रियाविरहार्दितः ।</l>
  <l>यत्सत्यं मनसि स्वच्छे रम्याणां रमणीयता ॥ ५३ ॥</l>
</lg>
<p>जानकी-</p>
<p>( सत्वरं ज्वलत्पावकमुपगम्य भो भगवन् अग्ने ! )</p>
<lg>
  <l>मनसि वचसि काये जागरे स्वममार्गे</l>
  <l>यदि मम पतिभावो राघवादन्यपुंसि ।</l>
  <l>तदिह दह ममाङ्गं पावकं पावक त्वं</l>
  <l>सुललितफलभाजां त्वं हि कर्मैकसाक्षी ॥ ५४ ॥</l>
</lg>
<p>इति ज्वलनीदहनान्तराले देहं चिक्षेप ।
ननु चिराभीष्टमाप्तौ कथमस्य धैर्यमित्यत आह तत्रेति । रामस्वत्र तस्यां सीतायां
रति यद्देभे तत्सत्यमेव । नन्वनिच्छुश्चेत्प्रियाविरहार्दितोपि नतु तदसौन्दर्यादिति-</p>
<pb n="205" />
<p>हनुमन्नाटकं -
[ अङ्कः-
चेन्न । रम्याणां वस्तूनां रमणीयता तदुनुभावः स्वस्थे मनसि भवति नतु व्यग्रे ।
अतो रामसीतादिव्यग्रहणादिना व्यग्रत्वम् । सुवोधम् ॥ ५३ ॥ ५४ ॥
अथ वानरभटा:-
सत्यं काल</p>
<lg>
  <l>हुताशनस्य वहतो जिह्वातिलीलासर-</l>
  <l>स्यङ्गारे सरसीरुहं कमलभूरालोक्य सीताननम् ।</l>
  <l>शुद्धेयं जनकात्मजेत्यभिदधौ तावन्नु कीशेश्वरैः</l>
  <l>फूफूत्काररखैरपूर रभसा तावन्नभोमण्डलम् ॥ ५५ ॥</l>
</lg>
<p>श्रीरामः- सानन्दम् -</p>
<lg>
  <l>वह्निं गताया जनकात्मजायाः</l>
  <l>प्रोत्फुल्लराजीवमुखं विलोक्य ।</l>
  <l>उवाच रामः किमहो सुरादी</l>
  <l>नङ्गारमध्ये जलजं विभाति ॥ ५६ ॥</l>
</lg>
<p>सत्यमिति । कमलभूः ब्रह्मा हुताशनस्य जिह्वा ज्वालास्तासां पंक्तय एव लोला-
सरः क्रोडार्थ सरः तस्मिन्सीतानन मेव सरसीरुहमालोक्य इयं सीता शुद्धा इत्या-
वेदयन्नत्रददेव । तावत्कीशेश्वरैः सुप्रीवादिभिः फूफूत्कारशब्दैर्नभोमण्डलं रभसा
त्वरया अपूरि पूरितम् । कीदृशस्य कालहुताशनस्य । सत्यं यथार्थ शुद्धाशुद्ध-
निर्णयं वहतः ज्ञापयतः । किंभूते जिह्वालीलासरसि अङ्गार अङ्गारप्रचुरे । [अनेवार्थे
वाशब्दः । अनुव्यवधानात्कथमडागमः । अत्रोक्तं कविकामधेनौ- 'धातवः शब्द-
प्रत्ययेपि उपसर्गा धातुसंज्ञाः स्युः धातुत्वादडागमः ] 'कीशोऽस्त्री वानरे मिक्षौ'
इति विश्वः । सुबोधम् ॥ ५५ ॥ ५६ ॥</p>
<p>( जानकी सानन्दम् )</p>
<p>.
श्रीरामे दयिता विनोदविपुलप्रीतिप्रभूतीभव-
त्यस्वेदाम्बुकणावृतस्य कमले दिव्योत्थिता जानकी ।</p>
<pb n="206" />
<lg>
  <l>१४.]</l>
  <l>दीपिकाख्यव्याख्योपेतम् ।</l>
  <l>आगम्याशु ससंभ्रमं बहुतरां भक्ति दधाना पुनस्तत्पादौ</l>
  <l>मणिकंकणोज्वलकरा नैव स्पृशत्यद्भुतम् ॥ ५७ ॥</l>
</lg>
<p>श्रीराम इति । सोतायाः विनोदार्थ या प्रीतिस्तया बहुतरं भवद्यमस्वेदाम्बुफणा-
लंकृतं आय कमलं यस्य एवं भूते रामे सति स्वयमपि दिव्यादग्निशपथात् उत्थिता.
ससंभ्रमं सादरमपि शीघ्रभागम्य तत्रापि दृढभक्तिमती सती रामपादौ न
स्पृशति अद्भुतमित्यर्थे एव प्रयोगः । अस्पर्शे हेतुं द्योतयति- मणिकङ्कणोज्ज्वल-
करेति ॥ ५७ ॥</p>
<p>अहल्यावच्चरणस्पर्शमात्रेण कंकणमणयोपि योषितो
माभूवन्निति भावः ।
सुग्रीवो रामं विज्ञापयति देव !-</p>
<lg>
  <l>इयमियं त्वयि दानव नंदिनी त्रिदशनाथजितः प्रसवस्थली ।</l>
  <l>किमपरं दशकन्धरगेहिनी त्वयि करोति करद्वययोजनम् ॥ ५८ ॥</l>
</lg>
<p>रामो नम्राननो भूत्वा -</p>
<note>( किमाज्ञापयति महाभागा मन्दोदरी )</note>
<p>मन्दोदरी-</p>
<lg>
  <l>धन्या राम त्वया माता धन्यो राम त्वया पिता ।</l>
  <l>धन्यो राम त्वया वंशः परदारान्न पश्यसि ॥ ५९ ॥</l>
</lg>
<p>अधास्याः पितृपुत्रपतितो महत्त्वं द्योतयति- इयमियमिति । इयमियमित्यादरे
चाँप्सा । त्वयि निमित्तं अपरं करद्वययोजनादन्यत्किं न किमपि ॥ ५८ ॥ ५९ ॥
साधु राम साधु अतः परं यम का गतिः ।
ww
महाभागे न खलु राक्षसीनां सहगमने धर्मः ।
अतस्त्वया विभीषणालयमास्थाय लंकाचले राज्यं</p>
<pb n="207" />
<p>हनुमन्नाटकं -
चिराय भुज्यतामिति । विभीषणं लंकाधिपत्याभिषेक
नाटयति । ततो रामः आत्मानं पुष्पक विमाने जानकी
चारोप्य समरभूमिं दर्शयति प्रिये जानकि ! पश्य ।</p>
<lg>
  <l>अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवदेवरे</l>
  <l>गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।</l>
  <l>दिव्यैरिन्द्र जिदत्र लक्ष्मणशरैलोकान्तरं प्रापितः</l>
  <l>केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥६० ॥</l>
</lg>
<p>[ अङ्क-
अत्रेति । नागपाशवन्धनं रावणशक्त्या अर्थान्ममेति । एतत्पद्यस्थं वृत्तं अयोध्या-
गमनसमये रामेण सीतायै कथितम् ॥ ६० ॥</p>
<lg>
  <l>हन्तीति ज्वलितः कृशः कपिरपि ब्रीडावनम्राननो</l>
  <l>लीलालंघितवाहिनीपतिरिति श्लाघाचलत्कन्धरः ।</l>
  <l>रामस्यायमितीर्ण्यया कलुषितः पश्यन् प्रिये त्वत्कृते</l>
  <l>विक्रामत्यनिलात्मजे दशमुखः कां कामवस्थां गतः ॥ ६१॥</l>
</lg>
<p>अथ हनूमदुपकृतिं श्रावयन्त्रावणभयमाह - हन्तीति । प्रहरतीति ज्वलितः कृशो-
ल्पतरः कपिरिति श्रुत्वा ब्रीडयावनम्रमाननं यस्य वाहिनीपतिः समुद्रः 'तटिनी
वाहिनी सिन्धुः' इति हलायुधः । सबै सुवोधम् ॥ ६१ ॥
जानकी ( सविस्मयम् ) -
भो प्राणनाथ तथाविधात् बनान्तात् कथमिहागतः ।
रामः ( सहर्ष ) प्रियेजानकि-</p>
<lg>
  <l>निवासः कान्तारे प्रियजनवियोगाधिरधिको</l>
  <l>धनुर्मात्रत्राणं रिपुरपि धुरीण: पलभुजाम् ।</l>
  <l>अकूपारंपारे वसति च स कात्र प्रतिकृतिर्न-</l>
  <l>मित्रं सुग्रीवो यादे तदियती राघवकथा ॥ ६२ ॥</l>
</lg>
<p>WAR</p>
<pb n="208" />
<note>१४. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।
हनूनदुपकृतिमुक्त्वा सुग्रीवोपकृतिं कथयन्नात्मनः कृतज्ञतामाविष्करोति - निवास
इति । कान्तारे अतिदुर्गमे । एतेनान्यजनसङ्गमोपि निरस्तः । वियोगाधिर्मनोव्य-.
2) थायासः पिलभुजां मांसाशिनां धुरीणः । अनेन मनुष्यभक्ष्यत्वमुक्तम् । स च रिपुः
पुनः अकृपारं पारे समुद्र पारे वसति । एतन्निपातनं, अनैतादृश्यवस्थायां का प्रति--
कृतिः कः प्रतीकारः ? परंतु यदि सुग्रीवो मित्रं न स्यात्तदा राघवस्य मम कथा एता-
-
वती वनस्थो रामस्तद्भाय रावणेन हृतेति ॥ ६२ ॥
A
( अत्रांतरे चन्द्रोदयो बभूव ) रामः- देवि !</p>
<lg>
  <l>पश्योदेति वियोगिनो दिनमणिः शृंगारदीक्षामणिः</l>
  <l>प्रौढानङ्गभुजङ्गमस्तकमणिश्चण्डीशचूडामणिः ।</l>
  <l>तारामौक्तिकहारनायकमणिः कन्दर्पसीमन्तिनी-</l>
  <l>काञ्चीमध्यमणिश्च कोरतरुणीचिन्तामणिश्चन्द्रमाः ॥६३ ॥</l>
</lg>
<p>पश्येति । हे प्रिये, पश्य चन्द्रमा उदेति । यं दृष्ट्वा सर्व: प्रफुल्लति तथा कामश्चेति
हरशिरोभूपणं कलारूपेण । एतेनात्र रुद्रयोगादेव वियोगिदाहकत्वमुक्तम् । ताराः
एव मौक्तिकानि तेषां हारस्य मध्यमुख्यरत्नं, रतिकाच्या मध्यमणिः एतेनास्य दर्श-
नात्कामकेलौ रत्यतिशयो द्योतितः । चिन्तामणित्वेन संयोगिनीनां फेलिप्रदीपक-
त्वमुक्तम् ॥ ६३ ॥</p>
<lg>
  <l>प्राचीनस्मृतविरहव्यथातिभीतः</l>
  <l>काकुत्स्थः कृतकुतकाक्षिमीललीलः ।</l>
  <l>सम्पूर्ण शशिनि चिराय लग्नदृष्टेः</l>
  <l>प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥ ६४ ॥</l>
</lg>
<p>J
" प्राचीनेति । रामः प्रेयस्याः लोचने कराभ्यां स्थगयति आच्छादयति । नेत्रा-
च्छादने हेतुमाह - संपूर्णे शशिनि चिरं लग्ना दृष्टिर्यस्याः । आत्मन्याच्छादकत्वहेतु-
माह - प्राचीना पूर्वकालीना स्मृता या मृगनिदाना विरहव्यथा तया भीतः ।
आच्छादने वैदग्ध्यमाह- कृता कुतुकार्थं निलयनज्ञानार्थ अक्षिनिमीलनस्य लीला
क्रीडनं येन सः । कनकमृगवन्मृगाकमगमपि याचयिष्यतीति भावः ॥ ६४ ॥</p>
<pb n="209" />
<p>हनुमन्नाटकं -
अङ्कः-</p>
<p>( अत्र रात्रौ सुखसुप्ताः सर्वे यथास्थानं प्रातरागत्य )</p>
<p>विभीषणः रामपादौ प्रणम्य देव-</p>
<lg>
  <l>किंकुर्वाणपयोधिसेवितगृहोद्याना मुदे सर्वतो</l>
  <l>लंकेयं रघुवंशविक्रमकथाबीजप्ररोहस्थली ।</l>
  <l>देवेनात्र दशाननस्य दशभिश्छिन्नैः शिरोभिः क्रमा-</l>
  <l>देकैकेन शतं शतं शतमखस्यामोदिता दृष्टयः ॥ ६५ ॥</l>
</lg>
<p>किमिति । अत्र लोकरीत्या सुखाभाव: । रामगुणस्मरणात् सुखं द्योतयन्नाह - हे
रघुवंश, इयं लङ्का किं सुखाय न कस्मैचिदितिं । किमाक्षेपे । अल्पसुखायेयम् ।
कीदृशी लङ्का । सर्वतः उपकुर्वाणो यः पयोधिस्तेन सेवितानि गृहोद्यानानि यस्यां
सा । 'नानोपकारगम्भीर: कुर्वाणो ना पर: सुखी । इति शाश्वतः । अत्रापि
रत्नासनदुर्गविधायित्वनानाजनसेवनादिनोपकारता । अथानिच्छां द्योतयति यत्र
देवेन भवता रावणस्य छिन्नैर्दशभिः शिरोभिः क्रमादेकेन शिरसा इन्द्रस्य शतंशतं
दृष्टय: मोदिताः सुखिनः कृताः सहस्रनयनत्वात् । अत्रेच्छायां माशब्दः 'कोपे-
च्छ्योर्मा इष्टः स्यात्' इति हैमी । रघुवंशशब्दोत्रापि रघुवंशस्य या विक्रमकथासव-
बीजं तस्योत्पादकं स्थलं यस्यां सा ॥ ६५ ॥
रामस्ततस्तत्कालयोग्योपकरणे छत्रचामरादिभिर्वि-
भीषणं संभाव्य पुनरयोध्यां राज्यभोगाय प्रस्थितः ॥
तत्र सुग्रीवः देव-
वाजिबातखुरप्रहारदलितक्षोणीरजोभिर्युत
सान्द्रैर्जीर्णकपोतकण्ठरुचिभिव्यमैदमास्तर्यते
किञ्चानेककरीन्द्रगण्डविलसद्दानाम्बुधाराधनं</p>
<lg>
  <l>।</l>
  <l>संग्रामं प्रथयन्त्यमी परिमलप्रोद्गारिमन्दानिलाः ॥ ६६ ॥</l>
</lg>
<p>वाजीति । हे राम, वाजिनाताः अश्वसमूहास्तेषां खुरप्रहारेण दलिता चूर्णीकृता
या क्षोणी तस्या रजोभिरिदमयतो दृश्यं व्योम आच्छाद्यते । किंभूतैः । 'वृद्धकयो॒-</p>
<pb n="210" />
<note>१४.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>तकण्ठस्येव रुचिर्येषां तैः किंचान्यदपि । अमी परिमलवाहिनो मन्दवायवः संग्रामं
प्रथयन्ति सर्वतः कथयन्ति परिमलप्रापकत्वात् । किंभूतं संग्रामम् । अनेके ये करीन्द्रा
गजास्तेपां गण्डेभ्यः सकाशाद्विगलन्ति च तानि दानानि च मजलानि तेपां
धाराभिर्घन इव सवर्प धनं पक्किलं वा रेणुं मदैक्यादेतत्कटगन्धेन सर्वतोद्यापि रणस्य
तात्कालिकत्व मिति भावः ॥ ६६ ॥
ततः समुद्रे सेतुमासाद्य जानकी भो प्राणनाथार्यपुत्र ! -</p>
<lg>
  <l>दृष्टोऽयं सरितां पतिः प्रियतम कास्ते स सेतुः परं</l>
  <l>केति केति मुहुर्मुहुः सकुतकं पृष्टे परं विस्मिते ।</l>
  <l>अत्रासदियमत्र नात्र किमिति व्यये निजप्रेयसि</l>
  <l>व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी ॥६७॥</l>
</lg>
<p>दृष्ट इति सकौतुकं स्वयं पृष्टे रामे परं विस्मिते सति व्यावृत्तं समुद्रदर्शनान्निव-
र्तितं मुखमेव चन्द्रो यस्याः सा ॥ ६७ ॥
मुखदर्शनक्षुब्धजलधिकडोलैराच्छादितस्य
सेतोः प्रकटनाय मुखव्यावृत्तिरिति भावः ।</p>
<lg>
  <l>स्नात्वा पीत्वा दरीभिर्जलं धिमथ चिराहृष्टमैनाकबन्धु-</l>
  <l>श्रीतिप्रौढाशुपूरद्विगुण महिमभिर्निर्झराः पूरयन्तः ।</l>
  <l>ये विन्यस्ताः पुरस्तान्निशिनिशि निवरौषधीनां ज्वलद्धि-</l>
  <l>स्ते, दृश्यन्ते तदम्भःस्थितकपिशिबिरस्मारिणः सेतुशैला ॥६८॥</l>
</lg>
<p>रामोन्धि दर्शयति स्नात्वेति । ते सेतुशैला: समुद्रवेलागिरयः पुरस्तादृश्यन्ते ।
किंभूताः । निशि ज्वलद्भिः ओषधीनां निर्वहः तदम्भःस्थिताः समुद्रजलस्थायिनः
कपीनां शिविराः अवमोचनास्तान्स्मारयितुं शीलं येषां ते । के ये विन्यस्ता: सेतु-
बन्धनार्थम् । कीदृशाः । दरीभिः जलधिं स्नात्वा पीत्वा निर्झराः प्रस्रवणान्पूरयन्तः
'आपो स्त्री निर्झरा द्वयोः' इति धरणिः । कीदृशीभिर्दरीभिः। चिरात्दृष्टो यो मैनाक
एव बन्धुस्तस्मिन्या प्रीतिस्तया प्रौढा ये अश्रवस्तैर्द्विगुणो महिमा यासां ताः । युद्धा</p>
<pb n="211" />
<p>हनुमन्नाटकं -
[ अङ्क:-
दरीभिर्जलधिं पूरयन्त इति योज्यम् । पूरणे हेतुः । चिरातूदृष्टेति । किभूताः सेतुशै-
लाः । निर्झराः प्रत्रविणः ॥ ६८ ॥
यदा दूर।पातित्रिदशयुक्तीने त्रसुलभा
मपां हर्ता हारावलिवलयलक्ष्मी वितनुते ।
तदायं माणिक्वस्फटिककनकग्रावशिखरै-
रशून्यात्मा सेतुर्विभवति महानाटक इव ॥ ६९ ॥</p>
<lg>
  <l>जगाम रामः सह सीतया स्वां पुरीमयोभ्यां सह वानरेन्द्रैः ।</l>
  <l>प्रत्यागतैस्तैर्भरतादिभिश्च राज्येऽभिषिक्तो मुनिभिश्चिराय ॥ ७० ॥</l>
</lg>
<lg>
  <l>हित्वैकां हरशेखरप्रणयिनीं पीयूषभानोः कलां</l>
  <l>दिक्पालावलिमौलिभूषणमणीन् गृह्णीत सर्वानपि ।</l>
  <l>तैः कांची रचिता चिराय बहुशः श्रोणीतटे जानकी</l>
  <l>गायन्ती निजमंजुसिञ्जितगिरा त्वविक्रमाडम्बरम् ॥ ७१ ॥</l>
</lg>
<p>यदेति । अयमपां भर्ता समुद्रः हारावल्याः वलयस्य च लक्ष्मी वितनुते विस्ता-
रयति । अत्र हेतुमाह-दूरादापतितुं शीलं येषां एवंभूतानि त्रिदशयुवतीनां नेत्राणि
'तेभ्यः सकाशात्सुलभां सुखेन लव्धुं योग्याम् । अयमर्थ :- यदा मण्डलीकृतश्रेणीभूत-
देवस्त्रियः केनापि कौतुकेन एन पश्यन्ति, तदा स्त्रीपक्तिरेव हारावली तत्र ये रश्म-
यः वलयानि तदन्तःपातिमण्डलानि यदैतां लक्ष्मी वितनुते तदास्य सेतुर्महाना-
टक इव महन्नृत्यमिव भवति । सेतौ हेतुमाह - माणिक्याञ्च स्फटिकाञ्च कनकग्रावाणश्च
तद्युक्तैः शिखरैः अशून्यात्मा निर्मितशरीरः । माणिक्यादिषु देवस्त्रीप्रतिविम्वाक्षेप-
वत्वेन नृत्यमिव दृश्यत इति भावः । महानाटकोपि ईदृग् भवति । महानाटक:
हारेण वलयेन च लक्ष्मों वितनुते । 'बहङ्गनाबद्धवाहुप्रेक्षणं हारको मतः । तदन्त-
,"फ वलयं भवेत् ।' इति सङ्गीतमुक्तावल्याम् । दूरादापातीत्यादि
`` । पुनः किंभूतो नाटकः । 'माणिक्यं यः स्मृतर्भावः कटाक्षैः स्फाटिको मतः ।
~
•तो हेमजन्मा चतुर्विधः । इत्यपि संगीते । एतेषां ग्रावा: अमिन-</p>
<pb n="212" />
<note>१४. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>यनानि तेषां शिखरैराधिक्यैः अशून्यात्मा पूर्ण: । 'प्रावोऽभिनयनं हारः' इति धनं-
जयः । पुनः किंभूतः सेतुः । तत्प्रमाणबद्धः । क इव । अपां भर्तेव । एवमुभयथा
वर्णनीयं मयैव व्याख्यातं अन्यदप्यूयमप्रसन्नैः ॥ ६९ ॥ ७० ॥ ७१ ॥
अङ्गदः --
अकस्मात् वानरभटेभ्यः समुत्पत्य पितृहन्तारमव-
लोक्य दोस्तम्भास्फाल केलिमभिनीय क्रोध नाटयति ॥</p>
<lg>
  <l>. रामचन्द्र त्वयादिष्ट यद्यत्तत्तन्मया कृतम् ।</l>
  <l>यतस्त्रैलोक्यनाथोसिन च त्याज्यं गुरोर्वचः ॥ ७२ ॥</l>
</lg>
<p>रामेति । यद्यद्दौत्यादिकम् । यत इति यदि त्रैलोक्यनाथोसि तथापि गुरोर्वा
लिनः वचः वैरं न त्याज्यम् । 'वैरं वाचो वचो नित्यम्' इति विश्वः ॥ ७२ ॥</p>
<lg>
  <l>पश्य श्रीरामचन्द्र त्वदभिमतमहो लक्ष्मणेनापि पूर्णे</l>
  <l>तूर्ण रङ्गावतारेऽवतरतु स भवानाहतो येन तातः ।</l>
  <l>सुग्रीवेणाञ्जनेय प्रमुखभटचमूचकवालेन साईं</l>
  <l>त्यामेकेनाङ्गदोहं पितृनिधनमनुस्मृत्य मध्नामि दोष्णा ॥ ७३ ॥</l>
</lg>
<p>पश्येति । त्वद्भिमतं त्वयानुमानितं सैन्यं स भवानपि रङ्गावतारे अवतरतु ।
येन त्वया तातो हतः । पितृनिधनं नाशं अनुस्मृत्य एकेन दोषणा सुग्रीवादिभिः
सार्धं मध्नामि ॥ ७३ ॥</p>
<lg>
  <l>श्रुत्वानन्दस्य महतीं समरप्रतिज्ञां</l>
  <l>ते चुक्षुभुः कपिचमूपतयः सरामाः ।</l>
  <l>सौमित्रिरप्यनपराधिनमाहतं तं</l>
  <l>मत्वा कृतांजलिपुटः पुरतो बभूव ॥ ७४ ॥</l>
</lg>
<p>श्रुत्वेति । सकरुणः रामः लक्ष्मणोपि तं वालिनं निरपराधिनमाहतं मत्वा पुरतोऽ -
सदाग्रे कृताञ्जलिपुटो बभूव ॥ ७४ ॥</p>
<pb n="213" />
<p>हनुमन्नाटकं -
तदा च-</p>
<lg>
  <l>आकाशवाण्यभवदेवमहो स वाली</l>
  <l>" दासो हनिष्यति पुनर्मथुरावतारे ।</l>
  <l>श्रुत्वा विलोक्य रघुनन्दनवानराणां</l>
  <l>कारुण्यमञ्जलिपुटं स रणान्निवृत्तः ॥ ७५ ॥</l>
</lg>
<p>[ अङ्कः-
आकाशेति । एनं रामं मथुरावतारे कृष्णरूपिणं वाल्येव दाशः व्याधरूपधारी ।
' कैवर्ते दाशधीवरौ ' इत्यमरः । इति वाणीं श्रुत्वा रघुनन्दनस्य तथा वानराणां
च कारुण्यं यथा स्यात्तथाऽञ्जलिपुटमवलोक्य रणान्निवृत्त इति ॥ ७५ ॥
अङ्गदः -
पितृवधप्रतीकारो भविष्यतीति सानन्द कोपमपहाय
शान्तिमेत्य रामं स्तौति ॥
देव-</p>
<lg>
  <l>अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः ।</l>
  <l>गुणानाकर्ण्य रामस्य शिरःकम्पभयादिव ॥ ७६ ॥</l>
</lg>
<p>।
अकर्णमिति । एतेन गुणानां मनोहारित्वमुक्तम् । कम्पोत्र सात्विकः । यद्यपि
शेषशिरःकम्पनेन त्रैलोक्यमेव नश्यति तथापि तदुपीरस्थानां हविर्देयाभावाद्ब्रह्मा-
ण्डभङ्ग उक्तः ॥ ७६ ॥
हनूमान्-</p>
<lg>
  <l>कूर्मः पादोङ्ग यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री</l>
  <l>तैलापूराः समुद्राः कनकगिरिरयं वृत्तवत्तिमरोहः ।</l>
  <l>अर्चिश्वण्डांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमान-</l>
  <l>शत्रुश्रेणीपतङ्गो ज्वलति रघुपते त्वत्प्रतापप्रदीपः ॥ ७७ ॥</l>
</lg>
<pb n="214" />
<p>:)</p>
<note>१४.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<note>२१५.</note>
<p>कूर्म इति । दीपिकादीपकेनात्र प्रतापवर्णनं सुवोधमेव" । अङ्गयष्टिर्दीपि
कादण्डः ॥ ७७ ॥
#</p>
<lg>
  <l>कैलासो निलयंस्तुषारशिखरी विंदिर्गिरीशः सखा</l>
  <l>स्वर्गङ्गा गृहदीर्घिका हिमरुचिश्चन्द्रोपलो दर्पणः ।</l>
  <l>क्षीराब्धिर्नवपूतकं किमपरं शेषस्तु शेषत्विषो</l>
  <l>यस्याः स्यादिह राघवाक्षतिपते कीर्तेस्ताकस्तव ॥ ७८ ॥</l>
</lg>
<p>कैलास इति । हे क्षितिपते राघव, तस्यास्तव कीर्तेस्तटाक: आनन्त्यमस्ति ।
' तटाकोनन्ततायां ना तडागेपि भृशाधमे' इतिधरणिः । कस्याः । यस्याः कैलासो
निलयः स्थानं तुषारशिखरी हिमवान्विन्दिः उपवेशस्थानम् । 'विन्दिस्तम्भोपवे-.
शनौ' इति विश्वः । हिमरुचिश्चन्द्रोपलः चन्द्रकान्तपाषाणश्च । दर्पणो मुकुरः । पूर्तकं.
तटाक: शेषोनन्तः शेषत्विषोङ्गदीप्तयः शेषशब्दादन्योप्यर्थः । यस्य स्यादिति पाठे
तव कीर्तेस्तटाक: तडाग: स्यात् अस्तु । यस्य तडागस्य कैलासो निलय: नितरां :
लीयते येन स जलान्तः स्तम्भः हिमवान् विन्दिर्बहिस्तम्भः गिरिशो रुद्रः सखा :
तदधिष्ठाता देवः गृहदीर्घिका तदन्तरालकुण्डः चन्द्रः चन्द्रोपलोपि दर्पणः तदन्त-
ग्रवाणः । चन्द्रोपलेति जात्येकत्वम् । 'दर्पणे भावमुकुरौ' इति धनंजयः । नवपूर्तकं
जलयुक्तखानितदेश: 'नव्यपानीययोर्नवः' इति विश्व: । 'पूर्तकं जलखानितम्' इति
हमी । शेपदीप्तयः सेतुरेतस्य नास्त्येवानन्तत्वात् ॥ ७८ ॥</p>
<lg>
  <l>क्रांत्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी गता</l>
  <l>सापि ब्रह्ममरालसङ्गमवशात्तत्रैव गर्भिण्यभूत् ।</l>
  <l>यात्वा व्योमतरङ्गिणी परिसरे कुन्दावदातं तया</l>
  <l>मुक्तं भाति विशांकुरं ततमिदं शीतयुतेर्मण्डलम् ॥ ७९ ॥</l>
</lg>
<p>क्रान्त्वेति । हे रावणहन्तः त्वत्कीतिरेव हंसी भूवलयं क्रान्त्वा भ्रान्त्वा अत्रात्म-
मूर्त्यभावात् ब्रह्मलोकं गता । ब्रह्मलोकमिति वक्ष्यमाणार्थावगमागृह्यते । सापि तत्र
यात्वा गत्वा ब्रह्मणो यो मरालो हंसस्तत्सङ्गमवशाद्दर्भिण्यभूत् । तया कीर्तिहंस्या
गङ्गासमीपे शीतयुतेर्मण्डलं मुक्तं जनितं तदेतद्भाति । किंभूतं मण्डलम् । कुन्द-</p>
<pb n="215" />
<p>हनुमन्नाटकं -
[ सङ्क:-
बड़वदातमुज्ज्वलम् । पुनः किंभूतम् । त्रिशांकुरं विशा: कमलनालतन्तवः अंकुरा
·नालस्थानीया यस्य तत्ततं विशाल्म् । यद्वा विशां प्रजानां कुर आनन्दो यस्मात्तत्
'लोकाह्लादकमिति 'कुर आनन्दवेदयोः' इति विश्वः । एतेतैतङ्कणितं गर्भमोचनोदकं
-गङ्गाकुन्दा: जन्मकर्माणि विशांकुरं नालन्द्रः पुत्र इति । सर्वे कीर्ते रेवोत्पन्ना
इति ध्वनिः ॥ ७९ ॥ .</p>
<lg>
  <l>राम राम महावीर के वयं गुणवर्णने ।</l>
  <l>यत्कीर्तिकामिनीभाले कस्तूरीतिलकं नमः ॥ ८० ॥</l>
</lg>
<p>नरामेति । एतेन कीर्तेरानन्त्यमुक्तम् ॥ ८२ ॥</p>
<lg>
  <l>लक्ष्मीस्तिष्ठति ते गेहे वाचि भाति सरस्वती ।</l>
  <l>कीर्तिः किं कुपिता राम येन देशान्तरं गता ॥ ८१ ॥</l>
</lg>
<p>लक्ष्मीति । अयं व्यञ्जकः अनेनं कीर्तेदूरगामित्वमुक्तम् ॥ ८१ ॥</p>
<lg>
  <l>राम त्वजण्डि डिण्डिमडमत्कारमतापानल-</l>
  <l>ज्वालाजर्जर कीर्तिपारदघटीविस्फोटिता विन्दवः ।</l>
  <l>भोगीन्द्राः कति तारकाः कति कति क्षीराब्धयः कत्यपि</l>
  <l>जालेयाचलपाञ्चजन्यकरकाः कर्पूरकुन्देन्दवः ॥ ८२ ॥</l>
</lg>
<p>अत्युक्तो यदि न प्रकुप्यसि मृषा वादं न चेन्मन्यसे
तमोऽद्भुतकीर्तनेन रसना केषां न कण्डूयते । -
राम त्वत्तरुणप्रतापदहनज्वाला वलीशोषिताः
सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ॥ ८३ ॥
रामेति । हे राम, त्वद्भुजयोडिंण्डिनाया ढमत्कारेण शब्देन रामो विश्वजयीति
घोपणं डिण्डिमा स एव डमत्कारो धननशब्दः तद्यक्तवासौ प्रतापानलश्च तस्य
ज्वालभिजर्जरा विश्लीकृता या कीर्ते रेव पारघटीसा विस्फोटिता खण्डाकृता
अमी तत्वा विन्द्रवः जाता इति शेषः । केऽसी भोगीन्द्रा इत्यादयः हिमगिरवः</p>
<pb n="216" />
<note>१४. ]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>पाञ्चजन्यः शङ्खः करक: शेपो नागः । 'शेपेपि करकः पुमान्' इति नाम-
शेपे ॥ ८२ ॥ ८३ ॥</p>
<lg>
  <l>खयोतयुतिमातनोति सविता जीर्णोर्णनाभालय-</l>
  <l>च्छायामाश्रयते शशी मशकतामायान्ति तारादयः ।</l>
  <l>इत्थं वर्णयतो नभस्तव यशो यातं स्मृतेर्गोचरं</l>
  <l>यच्चास्मिन्त्रमरायते रघुपते वाचस्ततो मुद्रिताः ॥ ८४ ॥</l>
</lg>
<p>खद्योतेति । हे रघुपते, इत्थमुक्तरीत्या तव यशो वर्णयतः मम नभ इत्य
चकारः । इति स्मृतेर्गोचरं स्मरणगोचरमभूदिति । इति किम् । यस्मिन्नभसि सविता
खद्योतदीप्तिमातनोति । शशी जीर्णमर्कटिकागेहप्रभामाश्रयति । तारादयो मशक-
तामायान्ति । तच्च नभ: शुभ्रे तव यशसि भ्रमरवदाचरते । ततः कारणाद्वाचो
मुद्रिता: वर्णनसामर्थ्यायोगादाकाशानन्त्यत्वात्त्वद्यशसोप्यानन्त्यमुक्तम् ॥ ८४ ॥</p>
<lg>
  <l>कृत्वा मेरुमुलूखलं रघुपते वृन्देन दिग्योषितां</l>
  <l>स्वर्गङ्गामुसलेन शालय इव त्वत्कीर्तयः कण्डिताः ।</l>
  <l>तासां राशिरसौ तुषारशिखरी तारागणास्तत्कणाः</l>
  <l>प्रोयत्पूर्ण सुधांशुविम्बमसृणज्योत्स्नाश्च तत्पांसवः ॥ ८५ ॥</l>
</lg>
<p>कृत्वेति । हे रघुपते, दिश एव योपितस्तासां वृन्देन मेरुमेवोल्लखलं कृत्वा स्वर्ग-
नैव मुसलं तेन त्वत्कीर्तयः शालय इव कलमा इव कण्डिता निस्तुषीकृतास्तासां
कीर्तीनामसौ तुपारशिखरी हिमवानाशिरभूत् । तारागणस्तत्कणाः यथा तण्डुलकणा
भवन्ति तद्वत्प्रोग्रंश्चासौ पूर्णसुधांशुश्च तस्य विम्बस्य या मसृणा निविडा ज्योत्स्नास्ता
एव तत्पांसवः धूलीस्थानीयाः ॥ ८५ ॥</p>
<lg>
  <l>समुद्रतौ यत्समकालमेव यशःप्रतापौ तव पुष्पवन्तौ ।</l>
  <l>रामारिचापश्च मदश्व शेषस्त्वत्खङ्गतीर्थं तदनिष्टशान्त्यै ॥८६॥</l>
</lg>
<p>अथाङ्गदो रामबाहुप्रशस्तिमनुवर्णयति- समुद्रताविति । हे राम, यद्यस्मात्सम-
कालमेव एकदैव रावणस्य यशःप्रतापावेव पुष्पवन्तौ सूर्याचन्द्रमसौ तव तुभ्यम् ।
संप्रदाने पछी । समुद्रतौ सम्यगुदितौ । 'एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ</p>
<pb n="217" />
<p>हनुमन्नाटकं -
[ अङ्क:-
इत्यमरः । चकारात् अरेः रावणस्य चापो धनुरेव शेषः शिवः मदो गर्वोपि शेषो
नन्तः एतावपि समकालमेव समुद्रतौ । द्वितीयचकारात्पुनः शेषग्रहणं 'हर्यनन्त-
शिवाः शेषाः' इति शाश्वतः । सूर्याचन्द्रमसौ रुद्रानन्तौ च एकत्र स्थिताः प्रलयमेव
कुर्वन्ति तदुनिष्टशान्त्यै तेभ्यश्चतुर्भ्यो य अनिष्टस्तस्य शान्त्यै त्वत्खड्गमेव तीर्थ जातं
त्वत्खनमाश्रित्य सर्वे नष्टा इति भावः । प्रतापमदचापस्तु शरीरपर्यन्ता एव तदूध-
तिरेकेण यशसः स्थितिरस्ति तदपि सीतापहरणान्नष्टम् । यद्वा स्पष्टमेव यत्समकालमेव
तुभ्यं रावणः यशःप्रतापौ समुद्रतौ आदिचापो मदश्व समुद्गतौ तेभ्यो यदुनिष्टं
तच्छान्त्यै त्वत्खङ्गतीर्थमेव शेष: समर्थो जातः । तन्नाशोप्यवशिष्यत इति
शेषः ॥ ८६ ॥</p>
<lg>
  <l>किंचित्कोपकलाविलासविभवव्यावल्गमूर्ते भुजो</l>
  <l>निक्षेपादकरोन्निशाचरबलं प्रत्यर्थिनां यत्पुरः ।</l>
  <l>क्रंदत्स्फेरु रटत्कफेरु विघटद्दार स्फुटद्गुग्गुलु</l>
  <l>प्रक्रीडत्कपिनिःश्वसत्फणिरटगिल्लिमद्दपि च ॥ ८७ ॥</l>
</lg>
<p>किंचिदिति । किंचित्तुच्छा या कोपकला तस्या विलासस्य यो विभवस्तेन
व्यावल्गा विगतमावल्गनं यस्याः सा मूर्तिर्यस्य तत्संबुद्धौ हे तुच्छकोपविलासागाध
राम, तव भुजः प्रत्यर्थिनां रावणेन्द्रजिदादीनां विक्षेपाद्धननान्निशाचरबलं रक्षः सैन्यं
यदिति प्रसिद्धं तत्तथा अकरोत् । कथं तदाह - ॠन्दन्तः फेरवः शिवाः यस्मै
तदकरोत् ' फेरुः शिवा सृगालखी ' इति विश्वः । सप्तविशेषणैः सैन्यं विशिनष्टि-
रटन्तः कफेरवो यस्मै तत् 'कङ्क: कफेरुर्वाङ्गः' इति विश्वः । पुनः किंभूतम् ।
विघटन्ति भन्यमानानि दारूणि येन तत्तत्पातेन वृक्षपातप्रसङ्गात्स्फुटत् धूपितो गुग्गुलः
यत्र तच्छिरोग्रहणाद्देवीनां महोत्सवे गुग्गुलुधूपः प्रक्रीडिताः कपयो येन तत् । इदं
कस्य इदं कस्येति शिरचालनं क्रीडनं विश्वसन्नतिभारेण फणी शेषो येन तत् । रटन्त्यः
आक्रोशन्त्यो राक्षस्यो राक्षसस्त्रियो यस्य तत् । मिल्ली रक्षः स्त्रियामपि । इति
चरकः । भ्रमन्तो द्वीपिनो व्याघ्रा यस्य तत् 'द्वीपी ना व्याघ्रगृध्रयोः' इति हैमी ८७॥
{
शैत्यं ज्ञानविकारिणो न हि भवेत्रहो वाहिनी
यैर्दृष्ट्वा रणलम्पटं भुजयुगं दृष्टं पुनस्तावकम् ।</p>
<pb n="218" />
<lg>
  <l>१४. ]</l>
  <l>दीपिंकाख्यव्याख्योपेतम् ।</l>
  <l>यस्याश्रित्य बलं स्थलीकृतसरिन्नाथः प्लवङ्गेश्वरैः</l>
  <l>is) क्रान्तो भूरिभयेन यत्र शिशिरा यस्यां मयूखा रखेः ॥ ८८ ॥</l>
</lg>
<p>विणबलमुद्दिश्य तद्विजयिनो रामस्य बलमुद्दिशति - शैत्यमिति । वृत्रद्रुहो महेन्द्रस्य
वाहिनी सेनां ज्ञानविकारिणो ज्ञाने रामादात्मनिधनज्ञाने सति विक्रियमाणस्य
रावणस्य भुजयुगं दृष्ट्वा पटं आत्मविस्तारं शैत्यं औष्ण्याभावमानयत्प्रापयामास ।
टिच् विस्तारे । सा का । यस्यां इन्द्रसेनायां रवेरपि मयूखाः शिशिरा जाता:
न्यरेणुबहुत्वाच्छादकतया धर्माभावाच्छिशिरत्वम् । पुनः पाश्चात्यैरेव रावणादि-
भस्तावकं भुजयुगं दृष्टं तेषां त्वहुजेन भये इति भयं न भवेदिति न, किं तु भवे-
व । कर्मणि सप्तमी । कीदृशं भुजयुगम् । अरणं भीतशरणं लातीति अरणलं
श्रीताभयदमिति । किं भुजयुगभित्यपेक्षायामाह-प्लवगेश्वरैः सुग्रीवादिभिः यस्य
वजयुगस्य वलमाश्रित्य स्थलीकृतश्चासौ सरितां नाथश्च भूरि यथा स्यात्तथा
कान्त आक्रान्तः गतो वा । उत्तीर्ण इत्यर्थः । 'ऋमु पादविक्षेपे' इन्द्रजयी रावणः
समासाद्य नष्ट इति भावः ॥ ८८ ॥
-
रामः-</p>
<lg>
  <l>प्रस्थाप्य तां वानरवीरसेनां तत्कालयोग्याभरणप्रदानैः ।</l>
  <l>भुनक्ति राज्यं निजबन्धुवगैः समं ससीतः सहलक्ष्मणश्च ॥८९॥</l>
</lg>
<p>प्रेति । भुनक्ति अभोजीत् । भूते वर्तमानता ॥ ८९ ॥</p>
<lg>
  <l>रामो दाशरथिर्दिवाकर कुले तस्याङ्गना जानकी</l>
  <l>नीता सा दशकन्धरेण बनतो लंकालयं छद्मना ।</l>
  <l>रामेणापि कपीन्द्रसंगमवशादम्भोनिधिं लीलया</l>
  <l>बवा पर्वतमालया रिपुवधादानीय निर्वासिता ॥ ९० ॥</l>
</lg>
<p>राम इंति । अथोक्तानुवादपूर्वकं सीतानिष्कासन मनुवर्णयति-रिपुवधाद्धेतोः निर्वा-
सिता अयोध्यामध्यतो वाल्मीफेराश्रमं प्रस्थापिता सीता । अत्रेयं कथा । प्राप्तराज्येन
रामेण कदाचिन्नतकन्धरः पृष्टः । मदीयं वृत्तं लोके कीदृगिति मुहुर्मुहुः पृष्टेन तेनो-
तम् । सर्वं शुभ्रं यशः परंतु चिरं रक्षोगृहस्थसीतासंग्रहान्मलीमसत्वमिति । ततो</p>
<pb n="219" />
<p>हनुमन्नाटकं -
[ सङ्कः-
किंवदन्तीसीतेन रामचन्द्रेण दत्तानो लक्ष्मणो वाल्मीकेराश्रमं तथा दोहदत्त्वेन पूर्वमेव
वृत्तं त्यक्तवानिति ॥ ९० ॥
तत्र त्यक्तसीतो लक्ष्मणो विलपति-
1</p>
<lg>
  <l>वने विमोक्तुं जनकस्य कन्यां श्रोतुं च तस्याः परिदेषितानि ।</l>
  <l>सुखेन लंकासमरे हतं मामजीवयन्मारुतिरात्तवैरः ॥ ९१ ॥</l>
</lg>
<p>वनेति । लङ्कासभरे सुखेन हतं मां मारुतिर्हनुमानजीवयत् । अत एवात्तवैरः
कृतवैर इवेति । इदानीमहमेव दुःखेन मारण्यामीति भावः ॥ ९१ ॥
पशुरपि न मृगो मृगी मृगेन्द्र-
ध्वनिचकितः प्रसवक्षणे जहाति ।.
अयमरघुरजानकीयमावां
यदि न स जीवति निर्दयोग्य वेधाः ॥ ९२ ॥
पशुरपौति । प्रसवकाले पशुरपि मृगः मृग न जहाति तत्रानुरच्य
मृगेन्द्रस्य सिंहस्य शब्देन चकितोपि देहपातमङ्गीकृत्य मृगस्तिष्ठति । भीतस्यादु-
रक्तेरभावात् । अयं रामस्त्यक्तवानेव तत्र विचिकित्सति-अयं रामः अरघुः रघुवं
ग़जन्मा न, तेषां निर्दयत्वाभावात् । इयमप्यजानकी जनकजा न, तस्यास्तद्वि-
रहेण प्राणधारणत्वायोगान् । आवां रामलक्ष्मणयोर्मध्ये यदि स राम एव तस्याः
विरहेण जीवति तर्हि वेधा निर्दयोस्ति । सीतानिर्वासनात् रामलोकान्तरप्राप
कत्वाच्च ॥ १२ ॥</p>
<lg>
  <l>यद्धनं धनुरीश्वरस्य समरे यज्जामदग्यो जित-</l>
  <l>स्त्यक्ता येन गुरोगिरा वसुमती सेतुः पयोधौ कृतः ।</l>
  <l>एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते</l>
  <l>दैवं वर्णय येन सोपि सहता नीतः कथाशेषताम् ॥९३॥</l>
</lg>
<p>रामं वर्णयन्दैवे दुर्लव्यत्वमाह - यदिति । येन तस्य रामस्यैकैकमसाधारणं वृत्तं किं
वर्ण्यते कर्मानन्तत्वीनयमा । अतो दैवमेव वर्णय येन सोप्येताहग्वलोपि राम
कं
3</p>
<pb n="220" />
<note>१४.]</note>
<p>दीपिकाख्यव्याख्योपेतम् ।</p>
<p>व कथां प्रापितः । रामोवतीर्य रावणं हत्वा वैकुण्ठं गत इति कथैवावशिष्टा ।'
.. कृतराज्यस्य रामस्य वैकुण्ठगमनमुक्तम् ॥ ९३ ॥
"रम्यं अरािमचन्द्रप्रबलभुजबृहत्ताण्डवं काण्डशौण्ड-
व्याप्तं ब्रह्माण्डमाण्डे रणशिरसि महानाटकं पाटवाब्धिम् ॥
पुण्यं भक्त्याञ्जानेयप्रविरचितमिदं यः शृणोति प्रसङ्गा-
न्मुक्तोऽसौ सर्वपापादरिभट विजयी रामवत्सङ्गषु ॥ ९४ ॥
अथैतन्महानाटकमुपसंहरफमाह -- रम्यमिति । काण्डा वाणा: तेषां
ग्रैण्डेन प्रावीण्येन व्याप्तं धनुर्वेदवैदग्ध्यं सदिति ब्रह्माण्ड एव भाण्डं पात्र तत्र
पुण्ये रणशिरास पाटवाब्धि रणामार्गागाधम् सुवोधम् ॥ ९४ ॥</p>
<lg>
  <l>चतुर्दशभिरेवाङ्गैर्भुवनानि चतुर्दश ।</l>
  <l>श्रीमहानाटकं धत्ते केवलं ब्रह्म निर्मलम् ॥ ९५ ॥</l>
</lg>
<p>चतुर्दशभिरिति । महानाटककर्ता चतुर्दशसंख्याकानि भुवनानि प्रति ब्रह्म मोक्षं
त्ते प्रापयति । एकैकाङ्कवर्णनादेकैकलोकस्य मोक्षः स्यात्किं पुनः सर्वस्य श्रवणस्येति
वः । किंभूतम् । ब्रह्म फेवलमित्युक्तम् ॥ ९५ ॥
$</p>
<lg>
  <l>रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ</l>
  <l>निहितममृतबुद्धया प्राङ् महानाटकं यत् ।</l>
  <l>सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण</l>
  <l>यथितमवतु विश्वं मिश्रदामोदरेण ॥ ९६ ॥</l>
</lg>
<p>इति श्री पवनतनयविरचितमिश्रदामोदरसंगृहीतहनु-
मन्नाटके श्रीरामविजयो नाम चतुर्दशोङ्कः
समाप्तः ॥ १४ ॥
चितमिति । हनुमतः प्राक्कालकर्तृत्वमेतस्याद्यतनीयत्वाभावात्तत्कथयन्पद्यमवतार-
ति-अमृतबुद्धथेति । वाल्मीकिना क्रमेण कथनाद्यनुक्रमेण भोजेनोद्धृतम् । अत्रेयं</p>
<pb n="221" />
<p>हनुमन्नाटकं -
[अंङ्क: १४.]
कथा । पूर्वमेतेन नखरटङ्कगिरिशिलासु विलिखितं तत्तु वाल्मीकिना तदतस्याति-
मधुरत्वमाकर्ण्य रामायणप्रचाराभावशङ्कया हनूमान्प्रार्थितः त्वमेतत्समुद्रे निषेहीति ।
तथेति तेनान्धी प्रापितं तद्वतारेण भोजेन सुमतिना जलज्ञामिति ॥ ९६६५</p>
<lg>
  <l>माथुरकुलसंभूतः शुद्धचतुर्वेदबोधविख्यातः ।</l>
  <l>हमौरसो विजयते कमलापतिरीश्वरप्रेमा ॥ १ ॥</l>
</lg>
<lg>
  <l>तत्पुत्रेण मयेदं मोहननाम्नार्थरत्नानाम् ।</l>
  <l>मञ्जूषा कपिविहिताप्यभिधानवलेन संविवृता ॥ २ ॥</l>
</lg>
<lg>
  <l>एतद्ग्रन्थार्थोक्तिश्रमैकविज्ञः पतिः प्रियारामः ।</l>
  <l>तुवा निजपद्भक्ति दिशतु दयावानुरूकरः स्वल्पम् ॥ ३ ॥</l>
</lg>
<p>इति श्रीमिश्रमोहनदासविरचितायां श्रीमद्धनुमन्नाटकदीपिकायां रामविजयो
नाम चतुर्दशोङ्कः समाप्तः ॥ १४ ॥
समाप्तोऽयं ग्रन्थः ।
पुस्तक मिलनेका पता-
खेमराज श्रीकृष्णदास,
"श्रीवेङ्कटेश्वर" स्टीम् प्रेस-बम्बई-
-</p>
<pb n="222" />
<p>विक्रेयपुस्तकानि - ( नाटकग्रन्थाः)
नाम.
की० रु०आ०
हनुमन्नाटक-- दीपिकासहित रामचरित्र पात्ररूप नाटकाफार वर्णनहै १-०
अभिज्ञानशाकुन्तलनाटक- कालिदासकृत दुप्यन्त और शकुन्तलाका चरित्र
१-४
रत्नावलीनाटक-सटिप्पणमूल
०-७
०-१०
""</p>
<p>...
तथा भाषाटीका अतिमनोहर रचनाहै
मालविकाग्निमित्र नाटक - बालवोधिनी टीकासमेतम्
हनुमन्नाटक - भा० टी०
****
..
****
काव्यग्रन्थाः ।
शिशुपालवध - (माघकाव्यम् ) मल्लिनाथकृतटीकासहितम् इसमें नार-
दजीको भगवद्दर्शन शिशुपालवधार्थ उद्धव बलराम श्रीकृष्णको
निमंत्रण द्वारका समुद्रवर्णन रैवतपर्वतवर्णनादि २० सर्गम अपूर्व
काव्य हैं विद्यार्थी लोग अवश्य पढके प्रसंगोपात्त उदाहरण देसकते है २-८
तथा पूर्वार्द्ध ९ सर्गमें
****
रघुवंशमहाकाव्यं कालिदासकृत - मल्लिनाथकृत
संजीवनी टीका और
टिप्पणी समेत इसमें राजादिलीपसे लेकर. लवकुशके चरित्र तक
१९ सर्ग हैं विद्यार्थियोंको परम उपयोगी है इसकी महिमा कौन नहीं
जानता ? पक्की जिल्द
****
****
***
....
तथा
सादीजिल्द
रघुवंशमहाकाव्यं सटीक तथा रामकृष्णाख्य विलोम काव्य-सटीक
ये दोनोंका एक गुटका है बारीक अक्षर
...
रघुवंशमहाकाव्यं - पं० ज्वाप्रसाद मिश्रकृत सान्वय भाषाटीका पदयोजना
तात्पर्यार्थ और सरलार्थसहित ग्लेज
3-0
१-८
३-८
तथा रफ कागज
*120
रघुवंशमहाकाव्य - ( पंचसर्ग ५ भा. टी. ) उपरोक्त अलंकारों समेत १०४</p>
<pb n="223" />
<p>नाम.
-
कुमारसंभव - कालिदासकृत और मल्लिनाथकृत संजीवनीटीकासमेत
जिसमें पार्वतीजोकी उत्पत्ति ब्रह्माजीका तारकासुरसे क्लेशित देवोंको
शिक्षा मदन दहन रतिविलाप पार्वतीक तयका उदय पार्वतीका
शिवजीते विवाह करनेके निमित्त हिमवान्के पास सप्तऋषियोंको
भेजकर विवाहका निश्चय और शिवपार्वतीजीका विवाह विधि-
पूर्वक वर्णन है.
1111
भामिनीविलास-महावीरप्रसाद द्विवेदीकृत भाषाटीका सहित इसमें
प्रस्ताविकविलास शृंगारविलास करुणाविलास शान्तविलासादि
विषय हैं
at
**B
***
****
***
तथा मूलमात्र
भर्तृहारेशतक - नीति,
शृंगार, वैराग्य भापाटीका समेत इसके अनन्तर
नीतिशतकमें निंद्राम विद्वत्प्रशंसा मानशौर्य प्र० दुर्जननिन्दा सुजन
प्रशंसा धैर्य प्रशंसा देवप्रशंसा कर्मप्रशंसा और शृंगारशतकमें पट्
ऋतुवर्णन दुर्विरक्तवर्णन त्रीणांपरित्याग प्र० यौवन प्र०कामिनीग्रहण
सुविरक्त और वैराग्यशतकमें तृष्णाधिकार मदनविडंवन त्रिषयोंका
रूपतिरस्कार दुर्जन पुरुषों की निन्द्राहास्यका वर्णन भोगपद्धति काम-
निवेंद्रताका स्वरूप इत्यादि वर्णन हैं देखनेही योग्य है
गीतगोविंद – राधाविनोद्सहित भाषाटीका जयदेव गोस्वामीकृत इसमें
अति ललित संकृतमें रागमय राधाकृष्णका प्रेममय भक्तिकी गानेकी
चीजें विद्यमान हैं
33
तथा मूल
संपूर्ण पुस्तकोंका "वडा सूचीपत्र " अलग है विनादाम भेजाजाताहै मँगालीजिये.
पुस्तक मिलनेका ठिकाना-
1. खेमराज श्रीकृष्णदास,
15
"श्रीवेङ्कटेश्वर" स्टीम् मेस बम्बई.
****
****
...
को० रु०३०
****
****
*.**
***
****
...
424</p>
<pb n="224" />
</body>
</text>
</TEI>