॥ श्रीरस्तु ॥ ॥ श्रीरामचन्द्राय नमः ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ॥ हंससन्देशप्रारम्भः ॥ ॥ प्रथमाश्वासः ॥ वंशे जातस्सवितुरनघे मानयन्मानुषत्वं देवः श्रीमाञ्जनकतनयान्वेषणे जागरूकः । प्रत्यायाते पवनतनये निश्चितार्थस्सकामी कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ १ -- तन भवान् वेङ्कटनाथार्यः परमोत्कृष्टविषयं हंससन्देशमारचयतिस्म । तत्र सन्देशे रामः माल्यवत्पर्वते स्थितः सन् मारुतिदर्शनानन्तरं सीताया आश्वासनार्थं तत्र कुत्रचित् सरसि स्थितं हंसं दृष्ट्वा प्रेषयति । तत्र प्रथमश्लोके स्वयं परवासुदेवः श्रिया नित्यसंश्लिष्टोऽपि मनुष्यत्वमभिनयन् कामुकत्वमनुबभूवेत्याह । वंश इति || सवितुः सूर्यस्य । अनघे निर्दोषे वंशे कुले जातः उद्भूतः मानुषत्वं मनुष्यभावं मानयन् बहुमन्यमानः देवः कान्तिमान् श्रीमान् श्रीवैशिष्ट्यानुगुणशुद्धसत्वमयविग्रहः जनकतनयान्वेषणे सीतागवेषणे जागरूकः सावधानः पवनतनये हनूमति प्रत्यायाते लङ्कायां सीतां दृष्ट्वा प्रतिनिवृत्यागते सति निश्चितार्थ: निश्चितसीतावृत्तान्तः कामी कामवान् सः रामः | कल्पाकारां प्रळयकालसदृशीं निशां रात्रि आविभातं उदयपर्यन्तं कथमपि महता प्रयासेन विषेहे चक्षमे । विरहिणामेकापि निशा कल्पसमाना भवति । अत सन्देशे सर्वत मन्दाक्रान्तावृत्तं | "मन्दाक्रान्ता जलधिषडगैर्म्भौनतौताद्गुरूचे" दिति लक्षणात् ॥ १ काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन्दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा । क्रीडाखेलं कमलसरसिं क्वापि कालोपयातं राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ २ तस्मिन् सीतागतिमनुगते तद्दुकूलान्तमूर्तौ तन्मञ्जीरप्रतिमनिनदे न्यस्तनिष्पन्ददृष्टिः । वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तं शङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ ३ -- प्रातः काले सुग्रीवप्रमुखवानरसेनां प्रस्थापयिष्यन् जनकदुहितुः आश्वासनाय कुत्रचित् क्रीडासरसि हंसं दृष्ट्वानित्याह काल्यइति || काल्ये प्रातःकाले कपिकुलपतेः सुग्रीवस्य सेनां वानरवाहिनीं तूर्णं शीघ्रं उद्योजयिष्यन् प्रस्थानोद्युक्तां करिष्यन् जनकदुहितुः सीतायाः दूरीभावात् विप्रकृष्टत्वात् दूयमानान्तरात्मा दुःखाक्रान्तचित्तः स रामः क्वापि कुत्रचित् कमलसरसि पद्मतटाके काले शरत्काले उपयातं समीपमागतं क्रीडया लीलया खेलं सुभगं राकायां पूर्णिमायां (स्थितस्य) चन्द्रस्य धुतेः कान्तेः सहचरं मित्रं तद्वच्छ्वेतम्यर्थः । राजहंस हंसविशेषं ददर्श दृष्टवान् ॥ २ ततः स रामो हंसं दृष्ट्वा स्वप्रियासारूप्यं पश्यन् मुमोहेत्याह । तस्मिन्निति ॥ सीतायाः गतिं गमनं अनुगते अनुसृतवति । तस्याः सीतायाः दुकूलं क्षौमं तस्याङ्कमूर्तौ चिह्नभूतशरीरवति । सीतावस्त्रस्य परितो हंसचित्तमस्तीति भावः । तस्याः सीतायाः मञ्जीरप्रतिमः नूपुरसमानः निनदः ध्वनिः यस्य तस्मिन् । तस्मिन् राजहंसे । न्यस्ते निहिते निष्पन्दे निश्चले दृष्टी नयने यस्य तथोक्तः । वीरः शूरोऽपि । तन्मयात्मा तद्गतमनस्कः | चेतसः चित्तस्य विलयं मूर्छां । मुहूर्तं घटिकाद्वयमल्पकालं वा । अगमत् प्राप्तवान् । तथाहि समये विरहवेळायां मीनकेतोर्मन्मथस्य । शासनं निग्रहः । तीव्रं क्रूरं । भवतीति शङ्के मन्ये ॥ ३ लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मा सन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् । चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यां कान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ ४ कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेयाद्गाढोन्मादः प्रणयपदवीं प्राप वार्तानभिज्ञे । विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौ याच्ञादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ ५ -- अनन्तरं क्षणाल्लब्धसंज्ञो रामः मैथिलीजीवनार्थं हंसं प्रेषयिष्यन् सरसिजदळैः तं पूजयामासेत्याह । लब्धेति ॥ तदा कथमपि अधिकप्रयासेन । लब्धाश्वासः प्राप्तसंज्ञः । लक्ष्मणस्य अग्रजन्मा ज्येष्ठः रामः प्रणयेन स्नेहेन महता महत्त्वंप्राप्तेन । सन्देशेन वाचिकेन । मैथिली सीतां जीवयिष्यन् प्राणधारणवर्तीं करिष्यन् । तस्मै राजहंसाय । सरसिजदळैः पद्मपर्णैः । सोपचारां उपचारसहितां सपर्यां पूजां चक्रे कृतवान् । कामिनां कामुकानां दूतस्य लाभः कान्तायाः प्रियायाः आश्लेषादालिङ्गनादपि अधिकं यथातथा सुभगः मनोहरः ॥ ४ कथं वार्तानभिज्ञे हंसे मारुतेरपि बहुमानं कृत्वा प्रणयपदवीमवापेत्याशङ्क्य परिहरति । कृत्वेति ।। गाढः तीव्रः उन्मादश्चित्तविभ्रमो यस्य स तथोक्तः असौ रामः । वार्तानभिज्ञे सन्देशज्ञानहीने तस्मिन् हंसे आञ्जनेयात् हनूमतोऽपि भूयसीं बहुतरां । बहुमतिं बहुमानं | कृत्वा प्रणयस्य स्नेहस्य पदवीं मार्गं प्राप प्राप्तवान् विश्लेषेण कान्तावियोगेन क्षुभितं अनवस्थितं मनः चित्तं येषान्तेषां मेघशैलद्रुमादौ अभ्रगिरिवृक्षादिसमीपे याच्ञैव अर्थनैव दैन्यं दीनत्वं भवति जायते संवेदनस्य सन्देशज्ञानस्य अर्हे योग्ये क्वापि कुत्रचिच्चैतन्यविशिष्टे किमुत याच्ञा भवत्येव ॥ ५ वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेराहुस्सिद्धाः कमलवसते रौपवाह्यं भवन्तम् । लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशात्तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ ६ मध्ये केचिद्वयमिह सखे ! केवलं मानुषाणां व्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् । स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतो- स्सर्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥ अनन्तरं सीतासमीपं प्रति हंशंहंसं प्रेषयितुं रामः हंसं स्तौति । वेदेति ॥ सिद्धाः योगिनः । भवन्तं त्वां । वेदएव उदन्वान् समुद्रस्तस्य विभजनं विभागं वेत्ति जानातीति तथोक्तस्तस्य विश्वं जगदेव मूर्तिः शरीरं यस्य सः विश्वमूर्तिः हंसरूपः परमात्मा तस्य वंशजंवंशजम् आहुः । किञ्च । कमलं वसतिर्वासस्थानं यस्य तस्य ब्रह्मणइत्यर्थः । औपवाह्यं वाहनं आहुः । किञ्च । प्रगुणा उत्कृष्टा गतिर्गमनं यस्य तथोक्तेन । येन त्वया | तस्य ब्रह्मणः प्रियायाः सरस्वत्याः सकाशात् समीपात् । तस्याः सरस्वत्याः सावर्ण्यं समानवर्णत्वं शुक्लवर्णत्वमितियावत् । लब्धं प्राप्तं । श्रवणं श्रोत्रमेव रसना जिह्वा तथा आस्वादः पानं तस्मै योग्या सुधा अमृतञ्च लब्धा अत्र सुधाशब्देन समीचीनध्वनिरुच्यते ॥ ६ कथमेतादृशगुणवत्तया उत्कृष्टं मां दूत्ये प्रेरयसीति शङ्कायां जगत्सृष्टिकर्ता ब्रह्मापि सारथ्यं चकारेत्याह । मध्यइति ॥ हे सखे मित्र हंस इह भूमौ मानुषाणां मध्ये वयं केवलं सामान्यमितरेभ्योऽतिशयरहितं यथातथा केचित् स्मः त्वन्तु व्योमगानां आकाशसञ्चारिणां । देवानाञ्चेति ध्वन्यते । पतिः असि अतः । महति भुवने । व्यक्तः प्रसिद्धः उत्कर्षः कीर्तिः यस्य तथोक्तश्चासि । तदपि तादृशोत्कर्षवत्वेऽपि । भवतः तव । संश्रितानामाश्रितानां त्राणहेतोः रक्षणार्थम् । दूत्यं अतिनिकृष्टदूतकृत्यमपि स्थाने युक्तं यतः यस्मात्कारणात् सर्वस्य स्रष्टा सृष्टिकर्ता विधिरपि ब्रह्मापि सारथित्वेन (त्रिपुरविजये रुद्रस्य) सूतभावेन तस्थौ स्थितवान् ॥ ७ इच्छामात्राज्जगदपरथा संविधातुं क्षमाणामिक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् । लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटे लंङ्कां गन्तुं तव समुचितं राक्षसीं राजधानीम् ॥ ८ स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यां मुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् । अस्मत्प्रीत्यै जनकतनयाजीवितार्थं च गच्छन्नेकं रक्षः पदमिति सखे ! दोषलेशं सहेथाः ॥ ९ -- इक्ष्वाकुकुलजाताः जगदन्यथा कर्तुमपि समर्थाः तेषामेतादृशीमवस्थां समीक्ष्यापि तव कार्यं कर्तुं समुचितः काल इत्याह । इच्छेति || इच्छामात्रात् जगत् अपरथा अन्येन प्रकारेण संविधातुं कर्तुं क्षमाणां शक्तानां । प्रकृत्या स्वभावेन महतां इक्ष्वाकूणां इक्ष्वाकुवंश्यानां अस्माकं ईदृशीं वर्णयितुमशक्यां वेळां दृष्ट्वा जलधेः समुद्रस्य पयसा जलेन लक्ष्यश्चासावलक्ष्यश्च लक्ष्यालक्ष्यस्तस्मिन् । वीचीप्रसारणकाले द्रष्टुमशक्ये वोचीनिस्सरणकाले द्रष्टुंशक्येच । त्रिकूटे त्रिकूटपर्वते । लब्धा संस्था प्रतिष्ठा यस्यास्तां रक्षसामियं राक्षसी राक्षससम्बन्धिी तां राजधानीं लङ्कां नगरीं गन्तुं तव समुचितं युक्तम् ॥ ८ अनन्तरं का वा दिग्गन्तव्या मार्गो वा कीदृशः गते किंप्रयोजनं राक्षसपुरीगमनं कथं प्रेरयसीति हंसस्य विवक्षां जानन् दक्षिणादिगभिगन्तव्या मार्गोऽपि समीचीनः गते तु मम च सीतायाश्च बहूपकारः कृतो भवति दोषस्त्वल्पः तस्मादवश्यं गन्तव्यमित्याह । स्थानैरिति ॥ सखे मित्र हंस दिव्यैः श्लाध्यैः स्थानैः श्रीरङ्गादिक्षेत्रैः उपचितः समृद्धः गुणः अतिशयः यस्यास्तां चन्दनारण्यैः रम्यां मुक्तानां मुक्ताफलानां सूर्ति उत्पत्तिस्थानं मलयमरुतां मातरं प्रसवभूमिं दक्षिणाशां दक्षिणादिशं । अस्माकं प्रीत्यै जनकतनयायाः सीतायाः जीवितार्थञ्च प्राणधारणार्थञ्च गच्छन् त्वं रक्षसां राक्षसानां पदं स्थानमिति एकं दोषलेशं सहेथाः सहस्व ॥ ९