अष्टमोऽष्टकः
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥
हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ।
सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥१॥
[^v]हिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः । तथा च तैत्तिरीयकं–
' प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. ५. ५. १. २ ) इति । यद्वा हिरण्मयोऽण्डो
गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । [^v]अग्रे प्रपञ्चोत्पत्तेः प्राक् [^v]समवर्तत ।
मायाध्यक्षात् सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधि-
भूतानां वियदादीनां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च [^v]जातः जातमात्र एव
[^v]एकः अद्वितीयः सन् [^v]भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः [^v]पतिः ईश्वरः [^v]आसीत् ।
न केवलं पतिरासीदेव अपि तर्हि [^v]सः हिरण्यगर्भः [^v]पृथिवीं विस्तीर्णां [^v]द्यां दिवम् [^v]उत अपि च
[^v]इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम । अन्तरिक्षं दिवं
भूमिं च [^v]दाधार धारयति ॥ ' छन्दसि लुङ्ललिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यास-
दीर्घः ॥ [^v]कस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते । यद्वा । सृष्ट्यर्थं कामयत इति
कः । कमेर्डप्रत्ययः । यद्वा । कं सुखम् । तद्रूपत्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं
महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति
तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराख्यायते । 'इन्द्रो वै वृत्रं हत्वा सर्वा विजिती-
र्विजित्याब्रवीत् ' (ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्व-
नामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम् । 'सावेकाचः[^०] ' इति प्राप्तस्य
'न गोश्वन्साववर्णं[^०] ' इति प्रतिषेधः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कं
प्रजापतिं [^v]देवाय देवं दानादिगुणयुक्तं [^v]हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन[^१] पुरोडाशेन
वा [^v]विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑। वि॒धे॒म॒ ॥ २ ॥
[^v]यः प्रजापतिः [^v]आत्मदाः[^२] आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते । यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत् । यद्वा आत्मनां शोधयिता । ' दैप् शोधने' । 'आतो मनिन्[^०] ' इति विच् । [^v]बलदाः वलस्य च दाता शोधयिता वा । [^v]यस्य च [^v]प्रशिषं प्रकृटं शासनमाज्ञां [^v]विश्वे सर्वे प्राणिनः [^v]उपासते प्रार्थयन्ते सेवन्ते वा । 'शासु अनुशिष्टौ' । 'शास इत्[^०] ' ( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । 'शासिवसिघसीनां च' इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसेरनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । ' तिङि चोदात्तवति ' इति गतिरनुदात्ता । तथा [^v]देवाः अपि [^v]यस्य प्रशासनमुपासते । अपि च [^v]अमृतम् अमृतत्वम् । भावप्रधानो निर्देशः ।
[^१]. त४.५ - 1[^०] कपालाख्येन । [^1२]. त१.२.३.६.७.८-भ–' आत्मदाः ' नास्ति ।
यद्वा । अमृतम् । मरणं नास्त्यस्मिन्नित्यमृतं सुधा । बहुव्रीहौ 'नञो जरमरमित्रमृताः' इत्युत्तर-
पदाद्युदात्तत्वम् । तदपि [^v]यस्य प्रजापतेः छाया छायेव वर्ति भवति । [^v]मृत्युः यमश्च प्राणापहारी
छायेव भवति । तस्मै [^v]कस्मै [^v]देवाय इत्यादि समानं पूर्वेण [^v]हविषा पुरोडाशात्मनेति तु विशेषः ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३ ॥
।
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ३ ॥
[^v]यः हिरण्यगर्भः [^v]प्राणतः प्रश्वसतः[^१] ॥ ' अन प्राणने ' । आदादिकः । 'शतुरनुमः०' इति
विभक्तेरुदात्तत्वम् ॥ निमिषतः अक्षिपक्ष्मचलनं कुर्वतः ॥ अत्रापि पूर्ववद्विभक्तिरुदात्ता ॥ [^v]जगतः
जङ्गमस्य प्राणिजातस्य [^v]महित्वा महत्त्वेन ॥ ' सुपां सुलुक्०' इति तृतीयाया आकारः ॥ माहात्म्येन
[^v]एक [^v]इत् अद्वितीय एव सन् राजा [^v]बभूव ईश्वरो भवति ॥ भवतेर्णलि 'लिति' (पा. सू. ६.
१. १९३ ) इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य
मनुष्यादेः चतुष्पदः गवाश्वादेश्च [^v]यः प्रजापतिः [^v]ईशे ईष्टे ॥ ' ईश ऐश्वर्ये' । आदादिकोऽनुदात्तेत् ।
' लोपस्त आत्मनेपदेषु' इति तलोपः । अनुदात्तेत्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्य ।
'उडिदम्०' इतीदमो विभक्तिरुदात्ता । द्वौ पादौ यस्य स द्विपात् । 'संख्यासुपूर्वस्य' (पा. सू.
५. ४. १४० ) इति पादस्यान्त्यलोपः समासान्तः । भसंज्ञायां ' पादः पत्' (पा. सू. ६.४.१३०)
इति पद्भावः । ' द्वित्रिभ्यां पाद्दन्' (पा.सू. ६. २. १९७ ) इत्येकदेशविकृतस्यानन्यत्वादुत्तरपदा-
न्तोदात्तस्त्वम् । स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया । 'बहुव्रीहौ प्रकृत्या०' इति पूर्वपदप्रकृति-
स्वरः । पूर्वपदस्य ' त्रः संख्याया: ' ( फि. सू. २.५ ) इत्याद्युदात्तत्वम् । ' इदुदुपधस्य चाप्रत्ययस्य'
इति विसर्जनीयस्य षत्वम् ॥ ईदृशो यः प्रजापतिस्तस्मै [^v]कस्मै इत्यादि सुबोधं [^v]हविषा हृदयाद्या-
त्मनेत्ययमत्र विशेषः ॥
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥
यस्य॑ । इ॒मे। हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः ।
यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । ब॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ४ ॥
हिमा अस्मिन् सन्तीति हिमवान् । तेन[^२] बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते । यथा छत्रिणो
गच्छन्तीति । [^v]हिमवन्तः हिमवदुपलक्षिताः [^v]इमे दृश्यमानाः सर्वे पर्वता: [^v]यस्य प्रजापतेः [^v]महित्वा
महत्त्वं माहात्म्यमैश्वर्यमिति [^v]आहुः । तेन सृष्टत्वात्तद्रूपेणावस्थानाद्वा । तथा [^v]रसया । रसो जलम् ।
तद्वती रसा नदी ॥ अर्शआदित्वादच् ॥ जातावेकवचनम् । रसाभिर्नदीभिः [^v]सह [^v]समुद्रम् । पूर्ववदेक-
वचनम् । सर्वान् समुद्रान् [^v]यस्य महाभाग्यमिति [^v]आहुः कथयन्ति सृष्ट्यभिज्ञाः । [^v]यस्य च [^v]इमाः
[^v]प्रदिशः प्राच्यारम्भा आग्नेय्याद्याः कोणदिश ईशितव्याः । तथा [^v]बाहू । वचनव्यत्ययः । बाहवो
भुजाः । भुजवत्प्राधान्ययुक्ताः प्रदिशश्च [^v]यस्य स्वभूताः । तस्मै [^v]कस्मै इत्यादि समानं पूर्वेण ॥
[^१]. भ७– श्वसतः । [^२]. ग-भ– तेन च ।
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ५ ॥
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१॒॑रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।
यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ५ ॥
[^v]येन प्रजापतिना [^v]द्यौः अन्तरिक्षम् [^v]उग्रा उद्गूर्णं विशेषागहनरूपं वा । [^v]पृथिवी भूमिः [^v]च
[^v]दृळ्हा येन स्थिरीकृता । [^v]स्वः स्वर्गश्च [^v]येन स्तभितं स्तब्धं कृतम् । यथाधो न पतति तथोपरि
अवस्थापितमित्यर्थः ॥ ' ग्रसितस्कभितस्तभित०' इति निपात्यते ॥ तथा [^v]नाकः आदित्यश्च [^v]येन
अन्तरिक्षे स्तभितः । [^v]यः च [^v]अन्तरिक्षे रजसः उदकस्य [^v]विमानः निर्माता । तस्मै [^v]कस्मै
इत्यादि गतम् ॥ ॥ ३ ॥
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ६ ॥
यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने॒ इति॑ ।
यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ६ ॥
क्रन्दितवान् रोदितवाननयोः प्रजापतिरिति [^v]क्रन्दसी द्यावापृथिव्यौ । श्रूयते हि — 'यदरो-
दीत्तदनयो रोदस्त्वम्' (तै. ब्रा. २. २. ९. ४ ) इति । ते [^v]अवसा रक्षणेन हेतुना लोकस्य रक्षणार्थं
[^v]तस्तभाने प्रजापतिना सृष्टे[^२] लब्धस्थैर्ये सत्यौ [^v]यं प्रजापतिं [^v]मनसा बुद्धया अभ्यैक्षेताम् आवयो-
र्महत्त्वमनेन इत्यभ्यपश्येताम् ॥ ' ईक्ष दर्शने ' । लङि अडादित्वादाद्युदात्तः[^३] । कीदृश्यौ द्यावा-
पृथिव्यौ । [^v]रेजमाने राजमाने दीप्यमाने ॥ आकारस्य[^४] व्यत्ययेनैत्वम् । अदुपदेशाल्लसार्वधातुकानु-
दात्तवे धातुस्वरः । यद्वा । लिटः कानच् । ' फणां च सप्तानाम्' (पा. सू. ६. ४. १२५ )
इत्येत्वाभ्यासलोपौ । 'छन्दस्युभयथा ' इति सार्वधातुकत्वाच्छप् । अत एव 'अभ्यस्तानामादिः'
इत्यायुदात्तत्वम् ॥ [^v]यत्राधि यस्मिन्नाधारभूते प्रजापतौ [^v]सूरः सूर्य: [^v]उदितः उदयं प्राप्तः सन्
[^v]विभाति प्रकाशते ॥ उत्पूर्वादेतेः कर्मणि निष्ठा । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् ॥ तस्मै
[^v]कस्मै इत्यादि सुज्ञानम् ॥
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ७ ॥
आपः॑ । ह॒ । यत् । बृह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ।
ततः॑ । दे॒वाना॑म् । सम्। अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ७ ॥
[^v]बृहतीः बृहत्यो महत्यः ॥ जसि ' वा छन्दसि' इति पूर्वसवर्णदीर्घः । 'बृहन्महतोरुपसंख्यानम् ' इति ङीप उदात्तत्वम् ॥ अग्निम् । उपलक्षणमेतत् । अग्न्युपलक्षितं सर्वं वियदादि
[^१]. ग-त१.२.३.६.८-मु–स्तंभितः।
[^२]. ग भ५ – स्तब्धे ।
[^३]. त-भ- अजादित्वादानुदात्तः ।
[^४]. त-भ-अकारस्य ।
भूतजातं [^v]जनयन्तीः जनयन्त्यः तदर्थं [^v]गर्भं हिरण्मयाण्डस्य गर्भभूतं प्रजापतिं [^v]दधानाः धारयन्त्यः
[^v]आपो [^v]ह आप एव [^v]विश्वमायन् सर्वं जगत् व्याप्नुवन् [^v]यत्[^१] यस्मात् [^v]ततः तस्माद्धेतोः [^v]देवानां
देवादीनां सर्वेषां प्राणिनाम् [^v]असुः प्राणभूतः एकः प्रजापतिः समवर्तत समजायत । यद्वा[^१] । यत्
यं गर्भं दधाना आपो विश्वात्मनावस्थिताः ततो गर्भभूतात्प्रजापतेर्देवादीनां प्राणात्मको वायुरजायत ।
अथवा । यत् । लिङ्गवचनयोर्व्यत्ययः । उक्तलक्षणा या आपो विश्वमावृत्य स्थिताः[^२] ततस्ताभ्योऽद्भ्यः
सकाशादेकोऽद्वितीयोऽसुः प्राणात्मकः प्रजापतिः समवर्तत निश्चक्राम । तस्मै [^v]कस्मै इत्यादि गतम् ॥
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ८ ॥
यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् ।
यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ८ ॥
[^v]यज्ञं यज्ञोपलक्षितं विकारजातं [^v]जनयन्तीः उत्पादयन्तीः तदर्थं [^v]दक्षं प्रपञ्चात्मना वर्धिष्णुं
प्रजापतिनात्मनि [^v]दधानाः धारयित्रीः ॥ दधातेर्हेतौ शानच् । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
ईदृशीः [^v]आपः । व्यत्ययेन प्रथमा । अपः प्रलयकालीनाः [^v]महिना महिम्ना । छान्दसो मलोपः ।
स्वमाहात्म्येन [^v]यश्चित् यश्च प्रजापतिः [^v]पर्यपश्यत् परितो दृष्टवान् [^v]यः च देवेष्वधि देवेषु मध्ये
[^v]देवः तेषामपीश्वरः सन् [^v]एकः अद्वितीयः [^v]आसीत् भवति ॥ अस्तेश्छान्दसो लङ् । 'अस्तिसिचो-
ऽपृक्ते ' ( पा. सू. ७. ३. ९६ ) इतीडागमः ॥ तस्मै [^v]कस्मै इत्यादि गतम् ॥
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।
यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ९ ॥
मा। नः॒। हिं॑सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ ।
यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ९ ॥
स प्रजापतिः [^v]नः अस्मान् [^v]मा [^v]हिंसीत् मा बाधताम् । [^v]यः [^v]पृथिव्याः भूमेः [^v]जनिता
जनयिता स्रष्टा ॥ ' जनिता मन्त्रे ' इति णिलोपो निपात्यते । 'उदात्तयणो हल्पूर्वात्' इति पृथिवी-
शब्दाद्विभक्तेरुदात्तत्वम् ॥ [^v]यो [^v]वा यश्च [^v]सत्यधर्मा सत्यमवितथं धर्म जगतो धारणं यस्य स
तादृशः प्रजापतिः [^v]दिवम् अन्तरिक्षोपलक्षितान् सर्वान् लोकान् [^v]जजान जनयामास ॥ 'जनी
प्रादुर्भावे ' । णिचि वृद्धौ 'जनीजॄष्क्नसुरञ्जः' इति मित्त्वात् 'मितां हूस्वः' इति
ह्रस्वत्वम् । ततो लिटि '[^०]अमन्त्रे[^०]' ( पा. सू. ३.१.३५ ) इति निषेधादाम्प्रत्ययाभावे तिपो
णलि वृद्धौ 'लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ [^v]यश्च [^v]बृहतीः महतीः [^v]चन्द्राः आह्लादिनी:
[^v]अपः उदकानि [^v]जजान जनयामास । 'ऊडिदम्[^०]' इत्यादिना अपशब्दादुत्तरस्य शस उदात्तत्वम् ॥
तस्मै [^v]कस्मै इत्यादि गतम् ॥
इळादधाख्य इष्टययने प्राजापत्यस्य हविषः 'प्रजापते' इत्येषानुवाक्या । सूत्रितं च– 'प्राजापत्य इळादधः प्रजापते न स्वदेतान्यन्यः' ( आश्व. श्रौ. २. १४ ) इति । केशनखकीटादिभिः दुष्टानि हवींष्यनयैवाप्सु प्रक्षिपेत् । सूत्रितं च – 'अपोऽभ्यवहरेयुः प्रजापते न त्वदेतान्यन्यः '
[^१]. त-भ१.४.७–' यत्... यद्वा ' नास्ति ।
[^२]. त-मु–स्थितास्ताः ।
( आश्व. श्री. ३.१० ) इति । चौलादिकर्मस्वप्येषा होमार्था । सूत्रितं च –'तेषां पुरस्ताच्चतस्र
आज्याहुतीर्जुहुयादग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च' ( आश्व. गृ.
१. ४. ४) इति ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १० ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १० ॥
हे [^v]प्रजापते [^v]त्वत्तोऽन्यः कश्चित् [^v]एतानि इदानीं वर्तमानानि [^v]विश्वा विश्वानि सर्वाणि ॥
'शेश्छन्दसि बहुलम्' इति शेर्लोपः ॥ [^v]जातानि प्रथमविकारभाञ्जि [^v]ता तानि सर्वाणि भूत-
जातानि [^v]न [^v]परि [^v]बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति
भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च [^v]यत्कामाः यत्फलं कामयमानाः [^v]ते तुभ्यं [^v]जुहुमः
हवींषि प्रयच्छामः [^v]तत् फलं [^v]नः अस्माकम् [^v]अस्तु भवतु । तथा [^v]वयं च [^v]रयीणां धनानां [^v]पतयः
ईश्वराः [^v]स्याम भवेम ॥ 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥ ॥४॥
' वसुं न ' इत्यष्टर्चं दशमं सूक्तं वसिष्ठपुत्रस्य चित्रमहस आर्षमान्नेयम् । आद्यापञ्चमी त्रिष्टुभौ
शिष्टा जगत्यः । तथा चानुक्रान्तं - ' वसुं नाष्टौ चित्रमहा वासिष्ठ आग्नेयं जागतमाद्यां पञ्चमीं चर्ते '
इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ जागते छन्दसीदं सूक्तम् । सूत्रितं च – ' वसुं न चित्र-
महसमिति जागतम् ' ( आश्व. श्री. ४. १३) इति ॥
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् ।
स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥ १॥
वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।
सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥ १॥
[^v]वसुं [^v]न वासकं सूर्यमिव [^v]चित्रमहसं चायनीयतेजस्कमग्निं [^v]गृणीषे गृणे स्तौमि ॥ 'गॄ शब्दे '। क्रैयादिकः। पुरुषव्यत्ययः । प्वादिस्वाद्ध्रस्वः ॥ यद्वा । चित्रमहसमिति प्रथमार्थे द्वितीया । न इति संप्रत्यर्थे । संप्रति वासकमग्निमहं चित्रमहाः स्तौमि । कीदृशम् । [^v]वामं वननीयं [^v]शेवं सुखकरम् [^v]अतिथिम् अतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनम् [^v]अद्विषेण्यं द्वेष्यरहितम् ॥ द्विषेः[^१] 'कृत्यार्थे तवैकेन्[^०]' इति केन्यप्रत्ययः । नञा 'बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥ [^v]सः अग्निः [^v]शुरुधः[^२] शोकस्य रोधयित्रीर्निवारयित्रीः [^v]विश्वधायसः क्षीरप्रदानादिना विश्वं सर्वं जगद्धारयन्तीर्गाः [^v]सुवीर्यं शोभनवीर्यं च [^v]रासते यजमानेभ्यो ददाति ॥ ' रा दाने ' । अस्माल्लेव्यडागमः । 'सिब्बहुलम्[^०]' इति सिप् । व्यत्ययेनात्मनेपदम् । विश्वशब्दोपपदाद्दधातेः 'वहिहाधाञ्भ्यः[^०] ' इत्यसुन् । ' णित्' इत्यनुवृत्ते: 'आतो युक्चिण्[^०]' ( पा. सू. ७.३.३३ ) इति युक् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम्॥ कीदृशोऽग्निः । [^v]होता देवानामाह्वाता होमनिष्पादको वा [^v]गृहपतिः यजमानगृहाणा[^१]. त-भ– ' द्विषेः ' नास्ति । [^२]. ग-त४. ५-4भ२– शुरुधः शुचः ।