काव्यमाला ७६
श्रीनीलकंठदिक्षितविरचितं
गङ्गावतरणम् ।
मूल्यं १२ आणक: KAVYAMÂLÂ. 76.
THE
GANGÂVATARAṆA
OF
NÎLAKAṆṬHA DÎKSHIT.
EDITED BY
PAṆḌIT KEDÂRANÂTHA S'ÂSTRÎ,
SON OF
MAHÂMAHOPÂDHYÂYA PAṆḌIT DURGÂPRASÂDA
OF
JAIPUR
AND
VÂSUDEVA LAXMAṆ S'ÂSTRI PAṆAS'IKAR.
PUBLISHED BY
TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF THE "NIRṆAYA-SÂGAR" PRESS.
Bombay:
1916.
Price: 8 Annas (All rights reserved by the publisher.)
Published by Tukaram Javaji and Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane,
BOMBAY. काव्यमाला. ७६.
श्रीनीलकण्ठदीक्षितविरचितं
गङ्गावतरणम् |
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनयपण्डितकेदारनाथशास्त्रिणा, मुम्बापुरवासिपणशीकरोपाह्वविद्वद्वरलक्ष्मण शर्मात्मजवासुदेवशर्मणा च संशोधितः ।
द्वितीय संस्करणम् ।
तच्च
मुम्बय्यां
तुकाराम जावजी श्रेष्ठिभिः
स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये स्वायसाक्षरैर्मुद्रयित्वा प्रकाशितः ।
शाकः १८३७, ख्रिस्ताब्दः १९१६.
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपतेरेवाधिकारः ।)
मूल्यं ८ आणकाः । श्रीनीलकण्ठदीक्षितः । तत्समकालिका द्रविडदेशीया अन्यकवयश्च ।
जानन्ति खलु सर्वेऽपि पण्डिता दक्षिणदेशेषु श्रीमति भरद्वाजान्वये कृतावताराः श्रीम– दप्पयदीक्षितेन्द्रा इति । तेषामेव दीक्षितमणीनां [^१]'अप्पयदीक्षिताः', 'अप्पय्यदीक्षिताः', 'अप्पदीक्षिताः', इत्यपि नामान्तरद्वयं संदृश्यते ग्रन्थेषु । श्रीकण्ठमतप्रतिष्ठापनाचार्य-च– तुरधिकशतप्रबन्धनिर्वाहक-महाव्रतयाजिन इति तेषां विरुदावलिः । ते हि गतेषु ४६५४ कल्यब्देषु, तथातीतेषु १५५४ ख्रिस्ताब्देषु, काञ्चीपुरपरिसरवर्तिनि अडयप्पलनाम्न्यग्रहारे भरद्वाजकुलोत्पन्नस्य छन्दोगस्य श्रीमदाचार्यदीक्षितस्य सूनोः श्रीविश्वजिद्याजिरङ्गराजम– खिनो लब्धजन्मानो द्वासप्ततिं संवत्सरान्प्राप्य परः शतान्ग्रन्थान्निर्ममुः । सर्वतन्त्रस्वतन्त्राः श्रीमन्तो दीक्षितेन्द्राः । तत्रापि तेषामनितरसाधारणी नैपुणी पूर्वोत्तरयोर्मीमांसयोः । भक्तिश्च भगवति चन्द्रचूडे । द्राविडी (Tamil) तेषां जन्मभाषा । तेषां जन्मवत्सरा– दिकं सर्वमपि वृत्तान्तं विशदं व्याहरति दीक्षितचरिते शिवानन्दयोगीन्द्रः––
'वीणातत्त्व (४६५४) ज्ञसंख्यालसितकलिसमाभाक्प्रमातीचवर्षे कन्यामासे तु कृष्णप्रथमतिथियुतेऽप्युत्तरप्रोष्ठपाद्भे । कन्यालग्नेऽद्रिकन्यापतिरमितदयाशेवधिर्वैदिकेषु श्रीगौर्यै प्राग्यथाह स्म समजनि विरिञ्चीशपुर्यां कलेशः ॥' इति ।
एकादश रुद्रा इव तेषां समजनिषत तावन्तः पुत्राः । सर्वेऽपि कृतविद्या विनयोज्ज्वला– श्चावर्तिषत समीप एव तेषां निर्याणसमये । निर्याणं च श्रीमति चिदम्बरक्षेत्रे समभूत् । इयं हि तेषां चरमा सूक्तिरिति श्लोकममुं पठन्ति विद्वांसः––
'चिदम्बरमिदं पुरं प्रथितमेव पुण्यस्थलं सुताश्च विनयोज्ज्वलाः सुकृतयश्च काश्चित्कृताः ।
[^१]
'मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि ।
अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥
तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः ।
श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥
इति गङ्गावतरणकाव्ये प्रथमे सर्गे ।
'अप्पय्यदीक्षितेन्द्रानशेषविद्यागुरूनहं वन्दे । यत्कृतिबोधाबोधौ विद्वदविद्वद्विभाजकोपाधी ॥'
इति तन्त्रसिद्धान्तदीपिकायाम् ।
'विद्वद्गुरोर्विहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजिसूनोः । श्रीरङ्गराजमखिनः श्रितचन्द्रमौलिरस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥'
इति सिद्धान्तलेशसंग्रहे । वयांसि मम सप्ततेरुपरि नैव भोगे स्पृहा न किंचिदहमर्थये शिवपदं दिदृक्षे परम् ॥' इति ।
उच्यते च शिवलीलार्णवमहाकाव्ये नीलकण्ठमखीन्द्रेण––
'कालेन शंभुः किल तावतापि कलाश्चतुःषष्टिमिताः प्रणिन्ये । द्वासप्ततिं प्राप्य समाः प्रबन्धाञ्छतं व्यधादप्पयदीक्षितेन्द्रः ॥'
इति १ सर्गे ६ श्लोकः ।
तैः कृताः कृतयश्चतुरधिकं शतमिति परिगण्यन्ते विज्ञैः । त इमे दीक्षितेन्द्रा वेलूर्– (Velur) आख्यनगराधीश्वरेण चिन्नवीरप्पनायकपुत्रेण लिङ्गमनायकस्य पित्रा [^१] चिन्नवोम्म– भूपालेन चिन्नबो– म्मभूपालेन सादरं नितरां संभाविताः संमाननाभिः । वसन्तस्तस्य समीप एव तत्र नगरे बहुशोऽत्यवाहयन्स्वजीवितकालम् । उच्यते च ग्रन्थेषु––
'हेमाभिषेकसमये परितो निषण्णसौवर्णसंहतिमिषाच्चिनबोम्मभूपः ।
अप्पय्यदीक्षितमणेरनवद्यविद्याकल्पद्रुमस्य कुरुते कनकालवालम् ॥
कर्णश्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयञ्जातकुम्भ– स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्तिं प्रशस्याम् । रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते– र्विद्याकल्पद्रुमस्य स्वयमिव कलयञ्जातरूपालवालम् ॥'
इति समरपुंगवदीक्षितकृत–यात्राप्रबंधचम्पूकाव्ये ।
'नाना देशनरेन्द्रमण्डलमहायत्नातिदूरीभव– त्कादाचित्कपदारविन्दविनतेरप्पय्ययज्वप्रभोः । शैवोत्कर्षपरिष्कृतैरहरहः सूक्तैः सुधालालितैः फुल्लत्कर्णपुटस्य बोम्मनृपतेः पुण्यानि गण्यानि किम् ॥'
इत्यन्यत्र च ।
अनन्तरं चाराधिता दीक्षितेन्द्राः पेन्नुगोण्डाधीशेन श्रीरङ्गरायसोदरेण तिरुमलरायतनू–
[^१] असौ चिन्नबोम्मभूपालो विजयनगराधीशस्य नरसिंहवंशीयस्य सदाशिवमहारायस्य, पेन्नुगोण्डाधीशस्य कर्णाटराजस्य श्रीरङ्गमहारायस्य च, सामन्तोऽभूत् । चिन्नबोम्मभूपा– लस्यास्य प्रार्थनया सदाशिवमहारायेण श्रीरङ्गमहारायेण च दत्तानि सप्त दानशासनपत्राणि वेलूर्(Velur)ज्वरखण्डेश्वरदेवायतने शिलायामुत्कीर्णानि सन्ति । तानि च १४८८ (A. D. 1566) शकाब्दे, १४९७ (A. D. 1575) शकाब्दे च उत्कीर्णानि । (Vide pp. 69-75, Vol. I., South Indian Inscriptions, by Dr. E. Hultzsch.) जेन [^१]वेङ्कटदेवेन। नियोगेन चास्याकुर्वन्कुवलयानन्दं नामार्थालंकारप्रबन्धम्–– 'अमुं कुवलयानन्दमकरोदप्पदीक्षितः । नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः ॥'
इति कुवलयानन्दे ।
अनन्तरं च दीक्षितेन्द्रा अतीतेषु १५४८ शालिवाहनशकाब्देषु, यातेषु च १६२६ ख्रिस्ताव्देषु, 'अक्षय'नाम्नि संवत्सरे शैववैष्णवानां विवादं कमपि निर्णेतुं पाण्ड्यदेशाधिपतिना तिरुमलैनायकमहाराजेन बहु प्रार्थितास्तत्रागमन् । प्रतीयते चायमंशः '[^२]ओरिएण्टल् हिस्टॉरिकल् म्यान्युस्क्रिप्ट्स्'आख्यग्रन्थतोऽपि । अथ स्वदेशमागत्य कियता
[^१] वेङ्कटदेवराज्यसमयश्च १५०८ (A. D. 1586) शकाब्दादारभ्य १५३५ (A. D. 1613) शकाब्दावधीति निर्णीतम् । (Vide p. xiii, Second Report on Sanskrit Manuscripts, by Dr. E. Hultzsch.)
[^२] 'Oriental Historical Manuscripts' translated by W. Taylor, Vol. II, p. 149 :–– "In the year S. S. 1544, in Dundubhi year, the 17th of Masi month, Muthu-Tirumalai Naicker came to Madura in order to be anointed (or installed) to receive the sceptre and other ensigns of royal authority.
"Having thus arranged the plan, the whole was thus begun to be carried into execution at once on the 10th of Vaiyasi month, of Akshaya year during the increase of the moon. From that time forward as the master came duly to inspect the work, it was carried on with great care. As they were proceeding first in excavating the Teppakkulam they dug up from the middle a Ganapati (or image of Ganesa) and caused the same to condes– cend to dwell in a temple built for the purpose. As they were placing the sculptured pillar of the Vasantamanda– pam and were about to fix the one which bore the representation of Yekapadamurti they were opposed by the Vaishnavas. Hence a dispute arose between them and the Saivas, which lasted during six months and was carried on in the presence of the Sovereign. Two arbitrators were appointed, Appa Dikshitar on the part of कालेन कालधर्मं गता दीक्षिताः । अतः सर्वथा निर्णीयते १६२६ तमाब्दात्पूर्वं न तेषां निर्याणसमय इति । शाब्दिकसार्वभौमः श्रीमान्भट्टोजिदीक्षितोऽपि तानेव गुरून्प्रार्थयमानस्तेभ्य एवाध्यैष्ट श्रीमद्भाष्यं ब्रह्मसूत्राणां श्रीमच्छंकरभगवत्पादप्रणी– तम् । एवं व्याहरन्ति दाक्षिणात्या ऐतिहासिकाः––'श्रीमान्भट्टोजिदीक्षितः स्वयं विर– चितान्ग्रन्थान्बहूंल्लेखकैर्लेखयित्वा प्राहिणोद्बहुभ्यः पण्डितेभ्यः । ते च दृष्ट्वा तां सरणि– मतिमञ्जुलां नूत्नां चापाठयंस्तामेव शिष्यान् । अथ बहुना कालेन स एव दक्षिणां दिश प्रपेदे सह शिष्यैः । तदा किल ददर्श क्वचिन्निकटे चिदम्बरस्य वसतः श्रीमदप्पयदी– क्षितेन्द्रान् तत्र च सति प्रसङ्गे तानसावधिजग्मिवानखिलशास्त्रवेदनचणानधिगत– वेदान्तरहस्यान् । तेषामेव मुखात्प्रयतः शुश्राव कौमारिलं तन्त्रम्, श्रीमद्भगवत्पादशंकरमुनिप्रणीतं ब्रह्मसूत्रभाष्यं च ततः कुर्वन्गुरवे दक्षिणां ग्रन्थान्ते चोदितः स्वयं गुरुणा पूर्वोत्तरमीमांसयोः कर्तुमेकैकं ग्रन्थम् । प्राणैषीदसौ 'तन्त्रसिद्धान्तदीपिकाम्', 'श्रीम– त्तत्वकौस्तुभं' च । तन्त्रसिद्धान्तदीपिकायां श्रीमदप्पयदीक्षितेन्द्रानात्मनो गुरून्व्याहरति श्रीभट्टोजिदीक्षितः । यथा––
'अप्पय्यदीक्षितेन्द्रानशेषविद्यागुरूनहं वन्दे । यत्कृतिबोधाबोधौ विद्वदविद्वद्विभाजकोपाधी ॥" इति ।
तत्त्वकौस्तुभे च द्वितीयपरिच्छेदोपक्रमे 'प्रायशो विदुषां मुदे' इति चायमंशः सूचित इति । तथा ततः परं श्रीमति व्याकरणेऽपि ग्रन्थकरणं प्रार्थितैर्दीक्षितचरणैर्विरचिता श्रीमति नक्षत्रवादावली । यत्र च प्रतिद्वन्द्वितया 'अधुना पाणिनितन्त्रे विदुषां प्रीत्यै विर– च्यन्ते' इति स्पष्टं तस्य ग्रन्थस्य विद्वत्प्रीतिहेतुत्वं विशिष्योक्तमिति च । औत्तराहास्तु– गङ्गायात्रार्थमुदीचीं गतैः श्रीमदप्पयदीक्षितैः सह समागमः श्रीभट्टोजिदीक्षितस्येत्यामनन्ति । सत्यं गङ्गायात्रामकुर्वञ्छ्रीमदप्पययज्वानः । उच्यते च 'गङ्गावतरण'काव्ये श्रीनीलकण्ठ– मखीन्द्रेण––'गङ्गायां यः पुरा स्नातो देवश्चन्द्रार्धशेखरः । गाङ्गेयेन पुनः सस्त्रौ सोऽवतीर्य यदात्मना ॥' इति प्रथमसर्गे श्रीमदप्पयदीक्षितप्रशंसायाम् । सर्वथा श्रीमदप्पदीक्षि– तानां न्यूनवयाः समकालिकश्च श्रीमान्भ[^१]ट्टोजिदीक्षित इति सिद्धम् ।
the Saivas, and Ayya Dikshitar Ayyan on the part of the Vaishnavas: these then consulted Sanskrit authorities and made the Shastras agree; after which the pillar of Yekapadamurti was fixed in its place".
[^१] लघुसिद्धान्तकौमुद्या मध्यसिद्धान्तकौमुद्याश्च प्रणेता वरदराजोऽस्यैव भट्टोजिदीक्षितस्य शिष्यः
'नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम् । पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥ श्रीमदप्पयदीक्षितस्य समानकालिकाः कवयः पण्डिताश्च
(१) सुप्रसिद्धः श्रीमान्रत्नखेटदीक्षितः, (२) आलंकारिकचूडामणिर्महाकविर्जगन्नाथप पण्डितः, (३) वैयाकरणसार्वभौमः श्रीमान्महोजिदीक्षितः, (४) अद्वैतविद्याचार्यश्चोलभूवल्लभस्याच्युतनायकस्य तत्तनयस्य रघुनाथभूपालस्य च मन्त्री विश्वविश्रुतौदार्यो गोविन्ददीक्षितश्च। रत्नखेटदीक्षितस्य श्रीनिवासदीक्षित इत्येव स्वपित्रा कृतं नाम । तस्य रत्नखेटश्रीनिवासदीक्षित इत्यपि भूयान्व्यवहारः । तस्य संध्यावर्णनचातुर्यात्प्रमुदितेन राज्ञा कृतं नाम रत्नखेटाध्वरीति । उच्यते चैवं तस्य पुत्रेण राजचूडामणिदीक्षितेन प्रणीतस्य रुक्मिणीपरिणयमहाकाव्यस्य व्याख्यानारम्भे व्याख्यात्रा बालयज्ञवेदेश्वरेण'संध्यासंधुक्षिताम्भोधरनलिकगणादुद्गतान्सीसखण्डांस्ताराकारान्निरोद्धुं शशिरविकपटाद्विभ्रतो रत्नखेटौ । अन्योन्यं युध्यमानाबुदयचरमभूभृत्प्रवीराविति द्रा
गुत्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥' श्रीमतो रत्नखेटदीक्षितस्य कृतयः – (१) शितिकण्ठविजयकाव्यम्, (२) भावनापुरुषो त्तमनाटकम्,(३)अद्वैतास्रवकौस्तुभम्, (४) वादतारावली, (५) मध्वध्वंसनम्, (६)बौद्धतन्त्रमथनम्, (७) वेदान्तवादावली, (८) मणिदर्पणम्, (९) समयसर्वस्वम्, (१०) विधिनिर्णयम्, (११) रत्नप्रदीपम् । अन्ये च सन्ति बहवस्तत्प्रणीताः प्रबन्धाः । उच्यन्ते च तत्कृतप्रबन्धानां नामानि पूर्वोक्तव्याख्याने । यथा'अद्वैतास्रवकौस्तुभं व्यरचयद्यो वादतारावल
मध्वध्वंसन बौद्धतन्त्रमथने वेदान्तवादावलीम् । प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं
तत्त्वानां परिशुद्धिबोधविमलं रत्नप्रदीपं स्मृतेः ॥ १४ ॥
विद्या विशेषमणिजालखनेर्गुरुश्री भट्टोजिदीक्षित मुखाम्बुनिधेर्गृहीत्वा । सिद्धान्तमध्यमवनौ प्रकटीकरोति कश्चिद्धनी वरदराज इति प्रसिद्धः ॥'
अन्ते च
इति तज्जोर्राजकीयपुस्तकालयस्थ-लघुसिद्धान्तकौमुदीप्रारम्भे । 'नत्वा वरदराजः श्रीगुरून्भट्टोजिदीक्षितान् । करोति पाणिनीयानां मध्यसिद्धान्तकौमुदीम् ॥'
'एषा वरदराजेन बालानामुपकारिका । अकारि पाणिनीयानां मध्यसिद्धान्तकौमुदी ॥ कृतिर्वरदराजस्य मध्यसिद्धान्तकौमुदी ।
तस्याः संख्या तु विज्ञेया खबाणकरवह्निभिः ॥ इति श्रीरविटिकंटिकंटिवरदराजभट्टकृत-मध्यसिद्धान्तकौमुदी ॥'
इति तजोराजकीयपुस्तकालयस्थ-मध्य सिद्धान्तकौमुद्याम् । ६
यो भावनापुरुषवर्यमुखान्यकार्षीदष्टादशापि च दशाद्भुतरूपकाणि । भावोत्तराणि शतकण्ठजयादिमानि काव्यानि षष्टिमतनोदमृतायितानि ॥ १५ ॥ ध्वन्यध्वन्यमनोविनोदनिपुणाः साहित्य संजीविनीभावोद्भेदरसास्रवादिकृतयः पारेशतं यत्कृताः ।
अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धाः शतं
छन्दोज्यौतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥ १६ ॥ अन्याश्च यस्य कृतयो निखिलागमान्तसिद्धान्तितान्तरनिरन्तरसूक्तिगुम्फाः । षड्दर्शनीसकलमर्मविवेककर्मकर्मक्षमाः सुकृतिनां मुदमावहन्ति ॥ १७ ॥' रत्नखेटदीक्षितस्य परम्परा यथा
श्रीभवस्वामी (भाष्यकारः) J श्रीकृष्णार्यः (आह्निकप्रणेता)
। कुमारभवस्वामी (अद्वैतचिन्तामणिकारः)
। श्रीकृष्णार्यः
श्रीभवस्वामिभट्टः
श्रीरत्नखेटश्रीनिवासाध्वरी
तथा चोच्यते रुक्मिणीपरिणयकाव्यस्य व्याख्यानारम्भे'यः षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभवखामियष्टुः श्रीकृष्णार्यस्य दैनंदिनकृतिकृतिनः सोमपः पञ्चमो यः । नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टुः सर्वज्ञातुः कुमाराह्वयमिलितभवस्वामियज्वा भिवस्य ॥ ५ ॥ श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातुज्र्ज्योतिष्टोम।दियष्टुर्विविधकृतिकृतः सर्वविद्याधिकस्य । यः श्रीवैकुण्ठघण्टामणिरिति महितश्रीभवस्वामिभट्टस्याद्वैतज्ञातधूताखिलकलुषगणस्यात्मजः खात्मवेत्तुः ॥ ६ ॥ यदुच्यते श्रीमदप्पयदीक्षितकृत 'सिद्धान्तलेशसंग्रह'ग्रन्थस्य प्रारम्भे दीक्षितवृत्तान्तले खनप्रवृत्तैर्भश्रीनारायणशास्त्रिभिः 'अस्य (अप्पयदीक्षितस्य) समकालिकाः कवयः पण्डिताश्च विलिख्यन्ते' इत्यारभ्य 'आनन्दरायमखी विद्यापरिणय-जीवानन्दादिप्रणेतास्य मान्यतमो वृद्धः' इति, तत्प्रमादकृतम् । अयमोनन्दरायमखी भोसलवंशभूपतिकुलामात्यस्य
१.
'श्रीमद्भोसलवंशभूपतिकुलामात्येषु विख्यातिमान्भारद्वाजकुलार्णवेन्दुरुदभूद्वावाजिरग्न्याहितः । बावाजिनाम्नो नप्ता, तञ्जनगराधीशस्यैकोजिमहाराजस्य मन्त्रिणो गङ्गाधराध्वरिणः पौत्रः, तस्यैव राज्ञो मन्त्रिणस्त्रिपुरविजयचम्पूप्रबन्धस्य निर्मातुर्नृसिंहरायमखिनस्तनूजः, स्त्रीधर्मादिग्रन्थकृतस्र्यम्बकरायमखिनस्तद्वैमात्रेयस्य मुकुन्द विलासकाव्य-राघवाभ्युदयनाटकादीनां प्रणेतुर्भगवन्तरायस्य च भ्रातृव्यः, शहजि-शरभोजि-तुक्कोजिमहीपालानां विद्यापरिणय-जीवानन्दादिनाटकप्रणेता,
मन्त्री च । स्वयं आश्वलायनगृह्यसूत्रव्याख्याता च । तेषां राज्ञां
राज्यारम्भकालोऽधस्तात्संदर्श्यतेएकोजिराजस्य
शहजिराजस्य
शरभोजराजस्य
तुकोजराजस्
१६७६
१६८४
१७११
१७२९
ख्रिस्ताब्दाः ।
""
"
तुक्कोजिमहाराजः १७३६ वत्सरावधि सप्तसंवत्सरान्राज्यमकरोत् । असावानन्दरायमखी स्वपितृव्यकृतमखानुष्ठानसमये धातृवर्षे (१६९८ ख्रिस्ताब्दे) अनतीतकौमारोऽभूत् –
पुत्रस्य किलैक भूपतिमणेर्मन्त्री सदैवाहत-
स्तेनासीद्गुरुवत्प्रगल्भधिषणो गङ्गाधराख्योऽध्वरी ॥
तस्य द्वौ तनयायुदारचरितौ कृष्णाम्बिकागर्भजा-
वेकक्ष्मापतिलालितौ गुरुपदे चारोप्य संमानितौ ।
तत्पुत्रेण च शाहजिक्षितिभृता ज्येष्ठानुवृत्त्यादृतौ
तत्तादृग्विविधाग्रहारकरणाद्विद्वत्प्रतिष्ठापकौ ॥
ज्येष्ठस्तत्र सदावदातचरितः श्रीमान्नृसिंहाध्वरी
गायत्रीसमुपासनादिभिरपि श्रौतश्च सत्कर्मभिः ।
आत्मानं परिपूर्य तं सुचरितैः पुत्रैः प्रतिष्ठाप्य च
त्रेधा ब्रह्महिताय सत्कृतिचितान्स ब्रह्मलोकानगात् ॥
तस्यात्मत्रितयेऽग्रजस्तु धृतिमानानन्दरायाध्वरी
कौमारात्प्रभृति प्रगल्भधिषणः श्रीशाहराजादृतः ।
इष्टापूर्त सदन्नदानसहितत्रै विद्यवृद्धैः सह
श्रुत्युक्तार्थपरिष्क्रियापटुमतिः सत्कर्मनिष्णातधीः ॥
*
ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तत्सुतान्पश्यन्पुत्रवदग्रजापचितिमप्यानन्दराये दधत् । वैतानानि च कारयन्सुचरितान्येतैः स्वपुत्रेण च
श्रीमानत्र महाग्निचिद्विजयते श्रीत्र्यम्बकार्योऽध्वरी ॥'
इति ढुण्डिव्यासराययज्वकृते मुद्राराक्षसव्याख्याने ।
।
'धातृवर्षे यदा यज्ञसेवार्थमहमागतः ।
श्रीमहाराजराजस्य मन्त्रिणरूयम्बकप्रभोः ॥
महाराजन्तु मां प्रीत्या स्वसभायामवासयत् । भारतश्रवणार्थाय रात्रिंदिवमुदारधीः ॥ यदा मासत्रयादूर्ध्व प्राप्यानुज्ञां महीपतेः । गन्तुमिच्छामि च तदा धर्मशास्त्रनिबन्धने ॥ महाराजेन चाज्ञातो गौरीमायूरमागतः । तस्मिन्वर्षे वृश्चिकार्के धर्मशास्त्रसुधानिधेः ॥ एकेनैव मया पुत्रयुक्तेन शनकैः कृते । बुद्धिदण्डेन मथने रात्रिंदिवमनेकधा ॥ अष्टभिर्लब्धवानस्मि वत्सरैस्तत्फलं महत् । आचारनवनीतं तन्मृदु सर्वमनोहरम् ॥ महाराजस्य दयया तत्संग्राह्यमभूद्भुवि । समाप्तं पञ्चदशभिः सहस्रैर्ग्रन्थसंख्यया ॥ प्रचारोऽस्य महाराजाधीन एव हि सर्वथा । अहमप्पाध्वरी नाम्ना महाराजेन सादरम् ॥ दत्तां महीं समादाय दिसंभृतैः । धान्यैः परम्परासिद्धे ग्रामे कृष्या समार्जितैः ॥ कुर्वन्कुटुम्बभरणं पुत्रपौत्रैः समावृतः ।
श्रेयः प्रार्थयमानः सन्महाराजस्य संततम् ॥ आयुः शेषं सुखं वस्तुमिच्छाम्यग्निक्रियान्तिके । मनोरथो महानेष महाराजेन पूर्यताम् ॥ एकक्ष्मापतिपूर्वपुण्यसुकृतोत्कर्षेण लब्धोदयो
दीपाम्बोदरवासभाग्यमहिमप्रख्यातपुण्योच्चयः । श्रीशाहक्षितिराट् प्रशास्तु वसुधामाचन्द्रमप्पाध्वरी यद्दत्तान्नबलेन धर्मविषयं शास्त्रं समग्रन्थयत् ॥'
इत्यप्पादीक्षितविरचित आचारनवनीते ।
सूत्रधारः - : - अय भारद्वाजकुलजलधिकौस्तुभेन त्र्यम्बकरायमखिना समारब्धस्य ऋतोर्दिदृक्षयागतेन नानादिगन्तवासिना विद्वज्जनसभाजनेन सबहुमानमाहूय समादिटोऽस्मि ।
पारिपार्श्विकः – वैदेशिकोऽस्मीति पृच्छामि कः पुनरयं त्र्यम्बकमखी नाम । सूत्रधारः - किं न जानासि निजगुणगणकुसुमसुरभीकृतदिगन्तमेतमपि । तथा हि । अपि च ।
कुर्वाणः सकलान्यदीयधिषणामालम्ब्य राज्यक्रमा-
नालोक्यानुदिनं निजामुपचितामामोदमानः श्रियम् ।
नित्यं भोसलवंशवारिधिविधुः शाहावनीवासवो
यस्मिन्नेव गुणोज्वले कलयते वाचस्पतेर्गौरवम् ॥
यस्यैवाचारगाम्भीर्यशौर्यौदार्यादिमिर्गुणैः ।
वसिष्टवार्धिविजयकर्णाद्याः पुनरुक्तयः ॥
नियन्त्रितात्मा निगमान्तविद्यामधीत्य धीमानमलप्रसूतिः । ध्यायन्नसौ ब्रह्म निजात्मरूपं तदात्मना भावयति प्रपञ्चम् ॥ पारिपार्श्विकः(सप्रत्यभिज्ञम् । ) एकक्ष्माधिपतेरिदंविधगुणः साचिव्यधुर्यः श्रुतः प्राज्ञः कश्चिदजातशत्रुसदृशो गङ्गाधरार्याभिधः । तेस्तैर्येन निजैरनन्यमुलभैरावर्ज्यमानो गुणैराचार्यप्रतिपत्तिमेव कलयन्नासीदमुष्मिन्नृपः ॥ सूत्रधारः - दिष्ट्या जानासि तं महाभागम् । तर्हि तस्यात्मसंभवं नृसिंहरायमखीति सुगृहीतनामधेयं महानुभावमपि भवान्जानीयात् । पारिपार्श्विकः बाढं जाने । यस्य किल
कृतः पित्रा बाल्ये निरुपमगुणाढ्यो निजपदे
निजैरेकक्षोणीपतिहृदयमाराध्य चरितैः ।
तदेवायं भूत्वा चरति नियतं मूर्तिमदिति
प्रपञ्चे विख्यातिस्तदितरदुरापा विजयते ॥
अन्यच ।
सूत्रधारः तस्यैवायमनुजन्मा ।
पारिपार्श्विकः - ननु तदनुजत्वमेव पर्याप्तं प्रख्यात्यै ।
सूत्रधारः -सत्यमुक्तं भवता ।
पारिपार्श्विकः – संप्रति यज्ञवाटं प्रविष्टोऽहं शालान्तरप्रविष्टमनतीतकौमारमन्यं कमपि यजमानमद्राक्षम् । तं पुनर्न जानामि । सूत्रधारः -कथं न जानासि ।
साचिव्यधुर्यो विहितः पितृव्येणादृत्य शाहक्षितिपालमौलेः । आनन्दनामा विमलप्रसूतिः पुत्रो नृसिंहाध्वरिणः स एषः ॥ पारिपार्श्विकः - भाव, कीदृशः परिषदादेशः ।
सूत्रधारः—तस्यैव त्र्यम्बकरायमखिनः समनन्तरानुजेन भगवन्तरायनामधेयेन सत्कविसार्वभौमेन संप्रति प्रणीतं राघवाभ्युदयं नाम नाटकमभिनेतव्यमिति ।'
इति राघवाभ्युदयनाटके । १०
अतोऽयमानन्दरायमखी श्रीमदप्पयदीक्षितानां स्वर्गारोहणकाले १६२६ ख्रिस्ताब्दे जातमात्रोऽपि नाभूदिति स्पष्टम् । एवं स्थिते कथमस्य संभाव्यते दीक्षितैः सह समकालिकता, कथमस्य प्रसज्येत दीक्षितैरपि माननीयता वा ।
अपरं च । तस्मिन्नेव दीक्षितवृत्तान्तप्रकरणे 'दीक्षितानां समानकालिको न्यूनवया राजचूडामणिदीक्षितो भावनापुरुषोत्तमनाटककृत्' इति भट्टश्रीनारायणशास्त्रिणो वदन्ति । प्रसज्येत दीक्षितैः सह समकालिकत्वं तदपेक्षया न्यूनवयस्त्वं च श्रीमतो राजचूडामणिदीक्षितस्य । परं तु न्यूनवयसा राजचूडामणिदीक्षितेन कृतं भावनापुरुषोत्तमं स्वमते दीक्षितानामपि मान्यतमो : आनन्दरायमखी विद्यापरिणयनाटके कथं चिरादेव निर्वर्तितं व्याहरतीति शास्त्रिणां चिन्तालवोऽपि चेतःपदवीं नारूढ इव । एवमस्ति किल प्रस्तावनायां विद्यापरिणयनाटकस्य
'पारिपार्श्विकः – भाव, कृष्णमिश्रप्रसृतिभिरत्र प्रबोधचन्द्रोदय इति, संकल्पसूर्योदय इति, भावनापुरुषोत्तम इति च न्यबन्धि नाम बहुधा प्राचीनैः । किमनेनाभिनवसंरम्भेण ।' इति ।
अत्रोपरितनवाक्यादानन्दरायमखिनः प्राचीनो भावनापुरुषोत्तमकृदिति सिद्धम् । वस्तुतो भावनापुरुषोत्तमनाटकस्य प्रबन्द्धा न राजचूडामणिदीक्षितः, किंतु तस्य पिता तोण्डीरमण्डलान्तर्वर्तिशूरसमुद्राग्रहारवास्तव्यः कृष्णभट्टारकपौत्रः, भवस्वामिनो लक्ष्म्याश्च पुत्रः, रत्नखेटश्रीनिवासदीक्षित इति सुप्रसिद्धः कविरिति तस्मादेव ग्रन्थतः स्पष्टीभवति । तथा च भावनापुरुषोत्तमनाटके'नटी – ईरिसप्पबन्धणिव्वाहइत्तओ को वा कई भवे ।
सूत्रधारः - अये, किमेतमपि न जानासि । अस्ति खलु कश्चित्तोण्डीरेषु श्रीश्शूरसमुद्राभिधानो महानग्रहारः ।
तत्रास्ति कश्चित्तरुणाग्निहोत्री षड्दर्शनीसागरपारदृश्वा ।
शतावधानीत्यपराभिधानः श्रीश्रीनिवासाध्वरिसार्वभौमः ॥
नटी - केण वा ण जाणीअदि सो ।
सूत्रधारः:- स एव विश्वामित्रवंशमुक्तामणिः श्रीकृष्णभट्टारकपौत्रः श्रीभवस्वामिभट्ट·सूनुर्लक्ष्मीगर्भसंभवः श्रीकविवादिगजकेसरी भट्टाचार्यः प्रतिदिनप्रवन्धकर्ता तत्तादृशसकलविद्याचमत्कृतवादव्याख्यानोपन्यासकौशलेन चोलभूवल्लभेनास्थानीरचितपत्रावलम्बः षड्भाषासार्वभौमः सर्वतन्त्र स्वतन्त्रः श्रीमदभिनवभवभूतिः श्रीरत्नखेटश्रीनिवासाध्वरीन्द्रोऽत्र प्रबन्द्धा ।' इति ।
एवं यदुच्यते भश्रीनारायणशास्त्रिभिश्चिन्नबोम्म नायको विजयनगराधीश इति तस्य पिता कृष्णराज इति, ज्येष्ठो भ्राता नरसिंह इति तत्सर्वं भ्रमप्रयुक्तम श्रद्धेयमविचाररमणीयं च ।
तत्तादृशनिरतिशयमहिम्नां श्रीमदप्पयदीक्षितानां यवीयसो भ्रातुराचादीक्षितस्य पौत्रः ११
सुप्रसिद्धः श्रीमानीलकण्ठमखीन्द्रः । अस्य नारायणाध्वरी पिता । माता चास्य भूमिदेवी । अयं तयोर्द्वितीयो नन्दनः । भ्रातरश्चास्य चत्वारः समभूवन् । सर्वेऽपि ते सुशिक्षिताः सर्वास्वपि विद्यासु कवयश्च । परमेक एव तेषु नाम्ना ज्ञायते कुशकुमुद्वतीयनाटकस्य प्रबन्द्धा अतिरात्रयज्वा । श्रीनीलकण्ठमखीन्द्रस्य जीवनकालः सप्तदशशतकपूर्वभाग इति स्पष्टमुपलभ्यते तदीयनीलकण्ठविजयचम्पूकाव्यतः । यतः प्राबध्नात्क विस्तं प्रवन्धमतीतेषु ४७३८ कल्यब्देषु । उच्यते च कविना स्वेनैव तत्र ग्रन्थे
'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु ।
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥" इति । शिवलीलार्णवमहाकाव्यस्य नवमसर्गे गङ्गारोधसि हिमवत्प्रान्ते देव्यास्तटातकायाः सेनानिवेशमुक्त्वा तत्प्रदेशवर्णनप्रवृत्तस्यास्य मुखात् 'अस्मादृशाः क्षितिसुराः पुनराहरन्त भागीरथीतटरुहाणि कुशाङ्कुराणि ।' इत्ययत्नपूर्वकं निःसरन्त्या वाण्या प्रथमवर्णजत्वं शिष्टाचारसंपन्नत्वं चास्य सम्यङ्किरूप्यते । श्रीकण्ठमतसर्वस्ववेदी चायम् । अस्य दृढोऽभिनिवेशः श्रीमति शैवसिद्धान्त इति प्रतिभासते । स्वयमाह च - 'शैत्रा वयमा चतुर्वदनात्' इति वैराग्यशतके, 'आ गर्भादा कुलपरिवृढादा चतुर्वऋतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्चन्द्रमौले' इत्यदसीयशान्तिविलासे च । एवमन्यत्रापि । यथा नीलकण्ठदीक्षितस्य महती प्रथा, न तथा श्रीमदप्पयदीक्षितेन्द्रतनुभुवामपि । नान्यः कोऽपि तदानींतनेषु तदधिकस्तत्सदृशो वा दर्शनेषु साहित्ये वा । अयमेव श्रेष्ठः कवीनामस्य समकालिकानाम् । मञ्जलपदसंनिवेशा विचित्रोल्लेखा रसनिर्भरा विशङ्कटप्रवाहा चास्य साहित्यसरणिः । नैव क्लिश्नाति स्वचेतः परचेतांसि वा केवलशब्दचित्रेषु यमकेषु वा । 'नीलकण्ठमखिनां सदसि सकृत्प्रविष्टस्यापि समुज्जृम्भते सरसपदसंदर्भवैदग्धी' इत्युद्घोषयति 'प्रत्यग्रपतञ्जलिरभिनवप्राचेतसः' श्रीरामभद्रमखीन्द्रः शृङ्गारतिलकमाणे । अस्य साहित्यवैदग्धी सर्वत्र प्रद्योततेऽस्य लघुकाव्येषु महाकाव्येषु च । अस्य लघुकाव्यानि – (१) कलिविडम्बनम्, (२) सभारञ्जनम्, (३) अन्यापदेशशतकम्, (४) शान्तिविलासः, (५) वैराग्यशतकम्, (६) आनन्दसागरस्तवः । एते नीलकण्ठदीक्षितस्य षड् ग्रन्था इति व्यपदिश्यन्ते । अस्य महाकाव्येषु श्रेष्ठं शिवलीलार्णवमहाकाव्यं द्वाविंशतिसर्गपरिमितम् । द्वितीयं च गङ्गावतरणकाव्यमष्टसर्गपरिमितम् । श्रीमदप्पयदीक्षितानां स्वर्गारोहणतः परं द्वादशसंवत्सरे घृतवाधिकेषु गतेषु श्रीनीलकण्ठविजयाभिधश्चम्पूप्रबन्धो निरमाय । नीलकण्ठविजय इव नान्यत्र तस्य ग्रन्थेषु ग्रन्थनिर्माणकालः प्रोच्यते । ग्रन्थानां पौर्वापर्य केनापि प्रकारेण स्फुटं न परिस्फुरति । परंतु सुगमं श्रीमदप्पयदीक्षितानां स्वर्गारोहणानन्तरमेव सर्वेषामपि करणमिति । केचिद्वादशहायनेन कविना नीलकण्ठविजयो निर्वर्तित इत्याचक्षते । तन्न श्रद्धेयं प्रमाणाभावात् । श्रूयते अन्या अपि सन्ति बह्रयस्तदीयाः कृतयः काव्येषु दर्शनेष्वपीति। तासु च (१) नलचरितनाटकम्, (२) कैय्यटव्याख्यानम्, (३) शिवतत्त्वरहस्यम्, इत्येता एवाद्य नामतो ज्ञायन्ते । गृह्यन्ते च तासां नामानि कुशकुमुद्वतीयनाटके,
1 १२
तस्य तृतीयनन्दनेन गीर्वाणेन्द्रेण कृते शृङ्गारकोशभाणे च । यथा - 'एष खलु द्वितीयशंकररूपाणामप्पयदीक्षितानां नप्ता नलचरित्रनाटकप्रबन्द्धा' इति कुशकुमुद्वतीयनाटके, 'कैय्यटव्याख्यानशिवतत्त्वरहस्याद्यनेकप्रबन्ध निर्मातुः * * पवित्रकीर्तेर्नीलकण्ठमखिनः' इति पूर्वोक्ते च भाणे समुपलभ्यते । श्रीनीलकण्ठमखीन्द्रो मधुरानगर्यां तिरुमलैनायकमहाराजस्य सदसि पण्डितसार्वभौमोऽमात्यप्रवरश्चाभूत् । तत्पुत्रा अपि तामेव पश्चादध्यवात्सुरित्ययमंशः सूच्यते गीर्वाणेन्द्रेणापि 'शृङ्गारकोशो नाम भाण इत्यधुनैव खलु निवेदितं मधुरापुरादागतेन रङ्गकेतुना' इति वाक्येन । श्रीनीलकण्ठदीक्षितस्य अय्यादीक्षित इति चाभून्नामान्तरम् । तथा च तमयापि व्यवहरन्ति विज्ञाः । अत्र च तञ्जनगरे वेदमूर्तिजम्बुनाथभट्टानां सरस्वतीभाण्डागारे समधिगम्यते नीलकण्ठविजयचम्पूप्रबन्धस्य प्राचीनं कोशद्वयम् । तत्र कोशद्वयेऽप्यवसानयोर्लिखितं संदृश्यते –'समाप्तं चेदमय्यादीक्षितविरचितं चम्पूकाव्यम् ॥' इति नीलकण्ठमखीन्द्रस्य तथा नामान्तरेणाप्याकारणं न विनाकारणम् । विदितमेव हि सर्वेषामस्माकमस्मद्देशीयाः प्रायशो बिभ्रति पितामहानां नाम । तच्च किंचिद्विकृतमेव कीर्तयन्ति मातरः श्वशुराणां साक्षान्नामग्रहणमनुचितमिति । अत एवं नामपरम्परा आसन् श्रीमदप्पयदीक्षितानां वंशे । यथा –आचार्यदीक्षितः, आचार्यदीक्षितपौत्र आञ्चादीक्षितः (आचार्यदीक्षितः), तत्पौत्र अय्यादीक्षितः (आचादीक्षितः), इति । श्रीनीलकण्ठमखीन्द्रस्याशयमनुरुन्धान एव सर्वमपि हालास्यनाथस्योत्सवं निरवर्तयत्तिरुमलैनायकमैहाराजः । नीलकण्ठमखीन्द्रोऽपि निर्लोड्य शास्त्राणि यथादृष्टं तेषु कारयामास सर्वमप्युत्सवादिकम् । ततः सर्वा अपि लीला भगवतो हालास्यनाथस्य काव्यात्मना निर्ममे कविः । तदेव प्रथते शिवलीलार्णवमहाकाव्यनाम्ना'यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो यच्चैकाग्र्यं तदुचितपदान्वेषणे चित्तवृत्तेः । लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥"
१. W. Taylor's Oriental Historical Manuscripts, Vol. II., p. 153:–
"In Tai Month of Srimuga year (i. e. S. S. 1548) a mandapam in the Teppa-Kulam * * was completed. Besides agreeably to the declaration of Ayyâ Dikshitar, a brahmin versed in ancient language the King commanded that the celebration of all the sacred amusements of the God should be conductd by the temple attendants according to the ordinances of the ancient books." १३
अनेन नीलकण्ठ विजयस्थेन श्लोकेन स्वस्य सदापि कार्यबाहुल्यमासञ्जितमिति व्यञ्ज यति कविः । तच्च कार्य राज्यनिर्वाहरूपमित्यनुमीयते ।
श्रीनीलकण्ठमखीन्द्र आत्मानं वार्तिकाभरणस्य प्रणेतुर्वेङ्कटेश्वरमखिनः शिष्यं व्याहरति गङ्गावतरणकाव्ये कथावतारसर्गे । यथा-' 'वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः । श्रीवेङ्कटेश्वरमखी शिष्ये मय्यनुकम्पते ॥" इति । अयं साग्निचित्याप्तवाजपेययाजी वासिष्ठवंशोद्भवः श्रीवेङ्कटेश्वरमखी । श्रीवेङ्कटेश्वरमखिनः पिता श्रीमानद्वैतविद्याचार्यः साग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजी गोविन्ददीक्षितः । यः कौमारिलदर्शनस्य विश्रुतां व्याख्यां रचयामास । यं तञ्जपुराधिनाथो रघुनाथः स्वार्धासनदानेन सभाजयति स्म । येन स्वकृतसर्वतोमुखमहासत्रे निखानिताश्चिरावस्थितेर्युक्तरूपाः शिलायूपाः कावेरीतीरेषु । यस्य वाजपेयेन यजतः स्वयं जग्राह श्वेतच्छत्रं स्वपित्रा नियुक्तो युवराजो रघुनाथभूपालः । प्रतीयतेऽमुना गोविन्दमखीन्द्रेण कृतमासीत्षड्दर्शनीसारभूतं प्रशस्यं किमपि ग्रन्थान्तरमिति वक्ष्यमाणपद्याभ्याम्
'अद्वैतविद्याविभवावलम्बान्गोविन्दयज्वेन्द्रगुरूनुपासे । निर्मथ्य षड्दर्शननीरधीन्ये धियैव सारं ददते बुधेभ्यः ॥'
१. (१) राघवानन्द-नीलापरिणय-सभापतिविलासादिनाटकानां प्रबन्द्धा वेङ्कटेश्वरोऽन्य एव । स निवाश्यपान्ववायजो धर्मराजमनीषिणस्तनूजो वैद्यनाथसूरिणः पौत्रः, 'मणलर्' पुरवास्तव्यश्च ।
(२) चित्रबन्धरामायणाख्यकाव्यस्य कर्ता वेङ्कटेश्वरस्त्वपरस्तृतीयः । तस्य परम्परा
यथाइति यज्ञनारायणदीक्षितविरचिते साहित्यरत्नाकरे ।
(तस्य पुत्रचतुष्कात् प्रथमः) चरकूरिकोण्डुभट्टः
तिरुमलयज्वा
तिम्मयसोमयाजी ( कृष्णातीरवासी बढ़चकाश्यपः)
यज्ञेश्वरः
(द्वितीयः)
लक्ष्मीधरः (अयमेव रामानन्दाश्रमी; षड्भाषाचन्द्रिकायाः, अनर्घराघवव्याख्याया इष्टार्थकल्पवल्लर्याच कर्ता)
यज्ञेश्वरदीक्षितः (अलंकारराघव - अलंकारसूर्योदय - चित्रबन्ध रामायणव्याख्यानादीनां कर्ता)
वेङ्कटेश्वरः (चित्रबन्धरामायणकाव्यस्य कविः) • १४
'षड्दर्शनामिनवदुग्धसरित्पूरिण्यो निर्मथ्य यन्नरहितं निजया घियैव । विश्राणयन्ननुदिनं विबुधावलीनामेतद्रसं मुररिपुं भुवि योऽतिशेते ॥ ' इति रघुनाथविलासनाटके ।
उच्यते च -असौ गोविन्दमखीन्द्रो रघुनाथभूमिपालस्य पित्राच्युतभूपालेनापि नितरां मानितस्तस्य मन्त्री च बभूवेति । तत्र पुरातनं श्लोकममुं पठन्ति पुराविदः पण्डितजनाः'त्रिनामाद्यन्तनामानौ महीक्षिद्दीक्षितावुभौ ।
शस्त्रे शास्त्रे च निपुणावाहवेषु हवेषु च ॥'
श्लोकस्यास्य पूर्वार्धनाच्युतभूमिपालगोविन्ददीक्षितावुच्येते । अच्युतानन्तगोविन्देति ! त्रिनामानि । अच्युतानन्तगोविन्देति नामसमुदायस्यैव त्रिनामसंज्ञा सुप्रसिद्धा । अयं गोविन्ददीक्षितो महाराजतः स्वयं प्रतिगृह्य बहूनग्रहारान्ब्राह्मणेभ्यो ददौ । मध्यार्जुने मायूरे कुम्भघोणे पञ्चनदेऽन्यत्र च स्थलेषु कावेर्याः पारेषु स्नानघट्टान्पुष्पमण्डपानि च रचयामास यान्यद्यापि संदृश्यन्ते सुदृढानि किं तु क्वचित्क्कचिज्जीर्णानि, न पुनरिदानींतनेन केनापि धर्मबुद्धिना समुद्धृतानि । कदाचिदयं गोविन्ददीक्षितः शिष्यान्कल्पतरुमध्यापयन्मध्यार्जुनक्षेत्र उवास, ददर्श तत्र गतान्श्रीमतोऽप्पय्यदीक्षितेन्द्रान् । इयेष च तान्कानिचित्स्वसंशयस्थानानि कल्पतरौ विवरीतुम् । विवरणे तदीयां पटुतां संवीक्ष्य प्रार्थयामास तान्कल्पतरोर्व्याख्यानं कर्तुम् । श्लोकोऽयं गोविन्ददीक्षितस्येत्युदाहरन्ति जनाः'अप्पदीक्षित किमित्यतिस्तुतिं वर्णयामि भवतो वदान्यताम् ।
सोऽपि कल्पतरुरर्थसिद्धये त्वद्गिरामवसरं प्रतीक्षते ॥' इति ।
श्लोकममुं बालकविनोक्तं व्याहरन्त्यन्ये । सर्वथा संभाव्यते श्रीमतो गोविन्ददीक्षितस्य समकालिकत्वं श्रीमदप्पय्यदीक्षितेन्द्रैः । यदुच्यते 'तञ्जोर् म्यान्युअल्' (Tanjore Manual) आख्य ग्रन्थे विजयराघवभूपालस्य मन्त्री गोविन्ददीक्षित इति, तत्प्रमाणान्तरसापेक्षं स्वतो न प्रमाणम्, असंभावितं च । अस्ति हरिवंशसारचरितं नाम त्रयोविंशतिसर्गपरिमितं महाकाव्यं गोविन्दमन्त्रिकृतम् । अस्ति च तस्य व्याख्या श्रीमदप्पय्यदीक्षितकृता । परमिदमद्य न निश्चिनुमः स एवायं गोविन्दमन्त्री योऽध्यासितार्धासनः समं रघुनाथभूपेन इति । यतो हरिवंशसारचरितस्य प्रबन्द्धा गोविन्दमन्त्री शाण्डिल्यवंशोत्पन्नः कोण्डमनायकमन्त्री च इत्येवं तद्रन्थव्याख्यानतः प्रतीयते । यतो हरिवंशसारचरितस्य मूलकोशस्त्वद्य मया नोपलभ्यते । अतः श्लोकोऽयमुद्धृतो व्याख्यानतः— 'शाण्डिल्यान्वयहारमौक्तिकमणिः श्रीधल्लिमन्त्री पिता
माता यस्य पतिव्रतैकमहिमाकल्पा च कुप्पाम्बिका । तस्य श्री हरिवंशसारचरिते गोविन्दमन्त्रिप्रभोः
सर्गः पूर्तिमगान्निसर्गलसितः काव्ये महत्यादिमः ॥' इति । श्रीवेङ्कटेश्वरमखिनो ज्येष्ठसोदरो विद्यागुरुः साग्निचित्यसर्वप्रष्ठाप्तोर्यामयाजी श्रीयज्ञनारायणदीक्षितः । अखण्डितमस्य पाण्डित्यं सर्वेष्वपि व्याहारेषु । सुशिक्षितोऽयं काव्य १५
रीतौ । अयं रघुनाथभूपालाल्लव्धजीवनो रघुनाथभूपविजय - रघुनाथविलासनाटक-साहिलरत्नाकरकाव्यादिकांस्तमेव राजानमधिकृत्य निर्ममे ग्रन्थान् । ददावस्मै यज्ञनारायणदीक्षिताय कर्णाभरणं निजं पतकं पादाङ्गदं कङ्कणं च रघुनाथभूपालः । अयं स्वयमाध्वर्य चकार स्वपितृकृते आप्तवाजपेयनाम्नि सप्ततन्तुवरे । अस्य समकालिकाः पण्डितमणयः – (१) विधुतालंकारिकविबुधाहंकारः कृष्णयज्वा, (२) डिण्डिमकुलमण्डनः पण्डितशिखामणिः सोमनाथः, (३) पारिजातनाटकस्य प्रबन्द्धा रघुनाथभूपालाश्रितः कुमारताताचार्यश्च ।
श्रीवेङ्कटेश्वरमखिनः कृतिषु – (१) टुप्टीका व्याख्यानं वार्तिकाभरणम्, (२) कमीतमीमांसाया व्याख्या कर्मान्तनिबन्धदीपिका इत्युभे एव केवलमिदानीं नामतः परिज्ञायेते । चोदितोऽनेनैव रचयामास तन्त्रशिखामणि श्रीमान्राजचूडामणिदीक्षितः प्रख्यातः कर्ता काव्यदर्पणस्य ।
श्रीनीलकण्ठमखीन्द्रस्य समकालिका विद्वन्मणयः(१) श्रौतधर्म इव मूर्तिमान् मान्यश्चोक्कनाथमखीन्द्रः । अयं कौशिकगोत्रोद्भवः । द्वादशाहादियज्वनो नारायणदीक्षितस्य गणपत्यभिधायां सहधर्मिण्यां समुत्पन्नः । प्रख्यातनाम्नो रामभद्रमखीन्द्रस्य श्वशुरः पदविद्यागुरुश्च । अद्याप्यस्य वंशीयेषु तत्संबन्धिनां च संदृश्यते कन्यकावपि गणपतीति नामकरणम् । शब्द कौमुदी - धातुरत्नावली-भाष्यरत्नावल्य इदानीमस्य समुपलभ्यमानाः कृतयः । त्रिशिरःपुरस्य प्रान्ते मुत्तरशनल्लूराख्यग्रामे पुदुक्कोराज्ये पिन्नङ्गुडिनाम्नि च ग्रामेऽन्यत्र च नदीतीरेषु वृत्त्यर्थमस्य कल्पयामासुरुत्तमक्षेत्राणि तत्र तत्र तदानींतना राजान इति पुराविदः पण्डिताः । भाष्यरत्नावल्याम्'धातारं सूत्रकारं शिवनुतिसहितं पाणिनिं वाक्यकारं
विष्णुं कात्यायनं तं गिरिशमहिवराधीश्वरं भाष्यकारम् ।
तातं नारायणं श्रीगणपतिमपि तां मातरं सादरं ता-
नाचार्यान्सर्वतन्त्रप्रणयन निपुणानानमेः कर्म कुर्मः ॥
*
धीमद्वाक्यपदप्रमाणगहनप्रच्छादितोच्चावचस्फीतार्थप्रतिपादनातिनिपुणः श्रीनीलकण्ठाध्वरी । यं भाष्यप्रकटीकृतौ पटयते द्वेधार्थदानात्कृती
तस्यान्ये सुधियः कथं न विमलाः पुष्णीयुरर्थप्रदाः ॥" इति । (२) श्रीरामचन्द्रोदयमहाकाव्यस्य कर्ता स्वयमेव तद्व्याख्याता च महाकविः श्रीवैष्णवः श्रीवेङ्कटेश्वरः । अयं गतेषु १५१८ संख्याकेषु शालिवाहनशकाव्देषु, तथा १५९५-९६ ख्रिस्ताब्देषु काञ्चीनगरसमीपे श्रीनिवासार्यतो जनिमुपगतः । अयमतीतेषु ४७३६ कल्यब्देषु तथा गतेषु १५५७ शालिवाहनशकाब्देषु स्वस्य चत्वारिंशे वयसि काशीं गत्वा तत्रैव काव्यमिदं समग्रन्थयत् । तथा च रामचन्द्रोदयमहाकाव्ये १६
'अब्भ्रपूर्णगुणपावनपद्यं व्योमवह्निसमसर्गमुदारम् । काव्यमङ्गगुणशैलयुगाब्दे वेङ्कटोऽकृत कलौ कविवर्यः ॥'
[ व्याख्या - अभ्रपूर्णगुणपावनपद्यं आकाशवत् पूर्णगुणानि पावनानि पद्यानि यस्य । त्रिंशताधिकत्रिसहस्रपद्यमित्यर्थः । ३०३० । व्योमवह्रिसमसर्ग व्योमवत् निर्मला: वाह्नवदुज्वलाः सर्गाः यस्मिन् तत् । त्रिंशत्सर्गमित्यर्थः । तत् काव्यम् । कलौ अङ्गगुणशैलयुगाब्दे सति षट्त्रिंशदधिकसप्तशताधिकचतुःसहस्रवर्षे सति । वेङ्कटः कविः । अकृत प्रणीतवान् ॥]
'षट्त्रिंशदत्र वृत्तानि छन्दांसि तु चतुर्दश । खार्कप्राणा इह श्लोका अनुष्टुप्संख्यया मताः ॥ आत्रेयश्रीनिवासाह्वयगुरुतनयः काव्यरत्नं व्यतानीत्सीतानाथप्रसादप्रकटितधिषणो रामचन्द्रोदयाख्यम् । आ सीतेशाभिषेकाडुदितशुभकथं त्रिंशता यत्तु सगैंस्तस्मिन्रामाभिषेकाभ्युदयशुभकथस्त्रिंश आभाति सर्गः ॥ 'धृतितिथि (१५१८) मिते शकाब्दे संजातेनोपकाश्चि मयकेन । काशीं गतेन क्लृप्तं काव्यं मुनिबाणतिथि (१५५७)मिते हि शके ॥' ग्रन्थस्यास्य व्याख्याने च'नृसिंहार्यपौत्रस्य पौत्रः कवीन्द्रस्तथा वेङ्कटेशार्यपौत्रः प्रसिद्धः । स्वयं श्रीनिवासार्यसूनुः स्वकाव्यं लघु व्याख्यदाप्त.. • वेङ्कटेशः ॥ धृतितिथिमिते शकाब्दे जनिमानुपकाञ्चि वेङ्कटेशकविः । काव्यमिदं व्याचष्ट स्वयमेव सतां नियोगमासाद्य ॥'
ग्रन्थान्ते च
'यतीन्द्रकरुणापात्रं तन्महानसकिंकरम् ।
आत्रेयप्रवरं नौमि प्रणतार्तिहरं गुरुम् ॥ १ ॥
१. रामचन्द्रोदयकाव्यस्य कर्तुर्वेङ्कटेशस्य परम्परायतिराजः
१.
२. (तत्सुतः) पद्मनाभः ३. (तत्सुतः) रामानुजार्यः ४. (तत्सुतः) पद्मनाभः
५. (तत्सुतः) पुरुषोत्तमः ६. (तत्सुतः) नरसिंहार्यः १७. (तत्सुतः) शठकोपः ८. (तत्सुतः) नृसिंहः ९. (तत्सुतः) पुरुषोत्तमः तातकारुण्यसंप्राप्तज्ञानभक्तिरसामृतम् । यतिराजाह्वयं वन्दे देशिकं दिव्यदर्शनम् ॥ २ ॥ यतिराजगुरोः सूनुं पाषण्डमतखण्डनम् ।. आचार्यपद्मनाभाख्यं भवसंतारकं भजे ॥ ३ ॥ नमो रामानुजार्याय वेदान्तार्थप्रदायिने । आत्रेयपद्मनाभार्यसुताय गुणशालिने ॥ ४ ॥ रामानुजार्यसंप्राप्तसर्वविद्यासमृद्धये । पद्मनाभाय महते तत्सुताय नमो नमः ॥ ५ ॥ पद्मनाभगुरोः सूनुं तत्कृपावाप्तवैभवम् । पुरुषोत्तममाचार्य गुणसिन्धुमुपास्महे ॥ ६ ॥ तातपाददयापात्रं मायावादतमोरविम् । व्याख्यातन्यायकुलिशं नरसिंहार्यमाश्रये ॥ ७॥ नृसिंहदेशिकावाप्तज्ञानविज्ञानसंपदे ।
आत्रेयशठकोपाय नमो वैराग्यसिन्धवे ॥ ८ ॥
श्रीशठकोपपदाम्बुजभृङ्गं तत्करुणेक्षणलम्भितबोधम् । देशिकमत्रिकुलाम्बुधिचन्द्रं नौमि नृसिंहमनन्तगुणाब्धिम् ॥ ९ ॥ श्रीमन्नृसिंहार्यसुतं महान्तं वेदान्तयुग्मव्यवहारशीलम् । आचारहेतुं करुणापयोधिं वन्दे वदान्यं पुरुषोत्तमार्यम् ॥ १० ॥ पुरुषोत्तमपादाब्जसेवासंप्राप्तसंपदे ।
नमः श्रीवेङ्कटेशाय गुरवे भक्तिसिन्धवे ॥ ११ ॥ पराङ्कुशशठारातिकृपासंप्राप्तसंपदम् ।
श्रीवेङ्कटेशतनयं श्रीनिवासार्यमाश्रये ॥ १२ ॥" इति ।
(३) कवेरस्य नीलकण्ठमखीन्द्रस्यानुजन्मा कुशकुमुद्वतीयनाटकस्य प्रबन्द्धा प्रतिरत्रुवंशादिकर्ता अतिरात्रयज्वा ।
कुशकुमुद्वतीयनाटके-
'विद्वद्वादविवादकालयुगपद्विस्फूर्त्यहंपूर्विका-
निर्ययुक्तिसहस्रदर्शितनिजाहीन्द्रावताराकृतिः ।
कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यलं
भूष्णुर्भाति सभासभाजितमतिः श्रीनीलकण्ठाध्वरी ॥
१०. (तत्सुतः) वेङ्कटेशः ११. (तत्सुतः) श्रीनिवासः
१२. (तत्सुतो रामचन्द्रोदयकाव्यस्य कविः) वेङ्कटेशः । १८
*
अयं किल भरद्वाजकुलपारावारपारिजातः सकलसाम्राज्यसिंहासनाधिपतिस्तत्रभवतः श्रीमतो नारायणाध्वरिणस्तपःपरिपाकः कर्ता काव्यानां व्याक्ती तन्त्राणां आहती ऋतूनां व्याहर्ता सकलनृपसभेषु दिगन्तर विश्रान्तकीर्तिरपारमहिमा मानवाकृतिः साक्षादेव दाक्षायणीवल्लभः श्रीकण्ठमतसर्वस्ववेदी श्रीनीलकण्ठाध्वरी । * * एष खलु द्वितीयशंकररूपाणामप्पयदीक्षितानां नप्ता नलचरितनाटकप्रवन्दा । नटी – को णु किंणामहेओ एअ णाडअप्पणेदा ।
सूत्रधार : नन्वस्यैव सभानेतुरनुजन्मा विदितवेदितव्यः कविलोकमित्रमतिरात्रयाजी । * स किल प्रतिरघुवंशादिकर्तेति रसिकगोष्ठीषु जोघुष्यते ।'
(४) शब्दचित्रस्वरूपभेदप्रतिपादक' चित्ररत्नाकर' ग्रन्थस्य रुक्मिणीपरिणय-जानकीपरिणय - गौरीपरिणय - द्रौपदीपरिणयादीनां नाटकानां च कर्ता श्रीचक्रकविः । चित्ररत्नाकरे'श्रीलोकनाथं जनकं रामचन्द्रं पतञ्जलिम् । नत्वाग्रजं च क्रियते चित्ररत्नाकरो मया ॥ रुक्मिणीजानकी गौरी द्रौपदीपरिणीतयः । कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः शुभा ॥'
तस्यैव ग्रन्थस्यावसाने
'पुत्रं चक्रकविं गुणैकवसतिः श्रीलोकनाथः सुधी-
रम्मा चाजनयत्सतीजननुता यं मानितं सज्जनैः ।
षष्टस्तस्य कृतावजायत परिच्छेदो नुते पाण्ड्यराट्-
चोलोर्वीपतिनीलकण्ठमखिभिः श्रीचित्ररत्नाकरे ॥" इति ॥
टी. एस्. कुप्पुस्वामिशास्त्री । तञ्जर् । काव्यमाला ।
श्रीनीलकण्ठदीक्षितप्रणीतं
गङ्गावतरणम् ।
प्रथमः सर्गः ।
अद्भुतं किमपि द्वन्द्वमस्तु तन्मम शर्मणे ।
स्वस्तिकस्तनुते यस्य सुदृढाश्लेषनिर्वृतिम् ॥ १ ॥
व्यासमेव स्तुमो यस्य वाचं गणयितुं विधिः ।
विषीदति वृषाङ्केण विलूने पञ्चमानने ॥ २ ॥
कान्तः सहृदयो वाचः कविरेव[^१] चिरंतनः ।
जडे जगति येनैव च्छन्दः प्रागन्वरुध्यत ॥ ३ ॥
कवितामफलद्वीटी कालिदासमुखेऽर्पिता ।
पत्युर्मुखे तु सा गौर्याः परुषं निगमाक्षरम् ॥ ४ ॥
ना[^२]रायणाध्वरीन्द्राय नमोऽस्तु ज्ञानसिन्धवे |
शारदा यत्कटाक्षाणां साप्यवेतनकिंकरा ॥ ५॥
कल्पनेत्यस्ति तत्किंचित्कविलोकस्य जीवितम् ।
प्रविश्येव गृहीतं यद्भारत्याः कोशमन्दिरात् ॥ ६ ॥
स संदर्भ: कवीन्द्राणां शारदा यं पदे पदे ।
श्लाघते विस्मयावेशस्मेरमन्थरया दृशा ॥ ७ ॥
शीलिते कविलोकेन सिद्धे ब्रह्मणि वाङ्मये ।
पामराः कलहायन्ते पश्यास्मिन्नन्यथान्यथा ॥ ८ ॥
अस्ति सारस्वतं चक्षुरज्ञातस्वापजागरम् ।
गोचरो यस्य सर्वोऽपि यत्स्वयं कर्णगोचरः ॥ ९ ॥
[^१.] आदिकविः वाल्मीकिः
[^२.] नारायणाध्वरीन्द्रः कवेः पिता.
सत्यर्थे सत्सु शब्देषु सति चाक्षरडम्बरे ।
शोभते यं विना नोक्तिः स पन्था इति घुष्यते ॥ १० ॥
शृण्वन्तोऽपि न शृण्वन्ति जानन्तोऽपि न जानते ।
साहितीमितरे तस्या ज्ञाता श्रोता च यः कविः ॥ ११ ॥
न लक्षणेषु निष्कर्षो न वा काव्येषु कौशलम् ।
संदर्भनिर्णयायालं स ह्यदृष्टैकमूलकः ॥ १२ ॥
भारतीषु कवीन्द्राणां यावती सुकुमारता ।
तावती काव्यमर्मज्ञसंमर्दैकसहिष्णुता ॥ १३ ॥
अचमत्कृतसंदर्भमर्थं नैवाद्रियामहे ।
अत्यन्तभोगौपयिकमैश्वर्यमिव देहिनाम् ॥ १४ ॥
स्वर्गः कस्यास्तु सुधियः श्लाघन्ते चेन्निजं पदम् ।
ततोऽन्यः कोऽस्ति निरयस्तत्र ते यद्युदासते ॥ १५ ॥
हतः श्लोको हतं काव्यं हता बुद्धिर्हतं यशः ।
सद्भिरुद्भावितो दोषो यदि नाभ्युपगम्यते ॥ १६ ॥
अन्धास्ते कवयो येषां पन्थाः क्षुण्णः परैर्भवेत् ।
परेषां तु यदाक्रान्तः पन्थास्ते कविकुञ्जराः ॥ १७ ॥
विदुषां मत्सरग्रन्थिर्विभेद्यो वचसां गुणैः ।
नैव केनापि दुर्मेधश्चोद्यमर्कटमुष्टयः ॥ १८ ॥
आजन्मनः प्रबन्द्धॄणां पद्यबन्धेषु यः श्रमः ।
सोऽपि सामाजिकायत्तः कष्टं धिक्कविजीवितम् ॥ १९ ॥
नार्थमुल्लिखितुं यत्नो नापि ग्रन्थयितुं गिरः |
श्रवणात्प्रागनाक्षेपः श्रोतुरभ्यर्थ्यते परम् ॥ २० ॥
दूषणाय न काव्यानां दुर्जनाक्षेपसंप्लवः ।
शफरीपरिवर्तैः किं सरसी न प्रसीदति ॥ २१ ॥
सव्यङ्गापि कवेर्वाणी सापभ्रंशा न शोभते ।
लम्बस्तनीं को वीक्षेत रम्भामप्युर्वशीमपि ॥ २२ ॥
क्व नु नाम सभा राज्ञां दुराक्षेपैकशिक्षिता ।
क्व नु वाचः सुधीलोकलालनैकरसाः कवेः ॥ २३ ॥
व्यङ्क्तुमस्फुरतो दोषान्भङ्क्तुमुत्स्फुरतो गुणान् ।
ईर्ष्ये भगवति ब्रूहि का त्वदन्यां प्रगल्भताम् ॥ २४ ॥
किं मदक्ष्णोरयं दोषः किं तद्वस्त्वेव तादृशम् ।
कामं यन्मौलिरज्ञानां कम्पते कविसूक्तिषु ॥ २५ ॥
पुष्णन्तु स्वेति मधुरां परस्यापि कृतिं जनाः ।
स्वोतिभिर्यत्क्वचित्कर्णौ दहन्ति तदरुंतुदम् ॥ २६ ॥
स्तुत्यं न स्तुवते मूढाः पद्यं यत्तन्न दारुणम् ।
अपदे यत्प्रशंसन्ति तन्मे मर्माणि कृन्तति ॥ २७ ॥
जानीमो ज्यायसीं लक्ष्म्या जातु ते न तु शारदे ।
आः स्मृतं ननु सा वक्त्रेष्वास्ते दुष्कविसंसदाम् ॥ २८ ॥
न यदाह मनुर्वध्यान्न च नासृजदब्जभूः ।
न वान्तकः कविंमन्यान्नयते तन्मदंहसा ॥ २९ ॥
आमये यमके जाग्रत्यपमृत्यौ च दुष्कवौ ।
वाणि प्राणिषि तन्मन्ये वज्रेणैवासि निर्मिता ॥ ३० ॥
नाहमासं नृपः स्यां चेन्ननु कुर्यो तथा महीम् ।
विचिन्वतापि नेक्ष्यन्ते यथा दुष्कविताङ्कुराः ॥ ३१ ॥
पातिव्रत्यक्रमः कोऽयं प्राणभङ्गावधिस्तव ।
सर्गतः कविपाशानां शारदे वारय प्रियम् ॥ ३२ ॥
दूयामहे दुष्कविभिर्दत्तकर्णज्वरा वयम् ।
न वा वदामो वाग्देवि ननु त्वमपि तैर्हता ३३ ॥
विज्ञप्तिः श्रूयतामेका विधातः करुणा यदि ।
मूकान्सृज कविंमन्यान्बधिरान्विदुषोऽथवा ॥ ३४ ॥
जना नीराजनीयास्ते जानन्ति स्वयमेव ये ।
कथंचिदपि वा सर्गैः काव्यमङ्कैश्च नाटकम् ॥ ३५ ॥
प्राचेतसेन यानीता पालिता भवभूतिना ।
सर्वतश्चर्व्यते वाणी सैवाद्य कविमानिभिः ॥ ३६ ॥
निःशङ्कं न प्रवृत्तोऽस्मि निन्दितुं कविमानिनः ।
निन्दामपि विगायन्ति यतः श्लाघामिवात्मनः ॥ ३७ ॥
मुनिरस्ति भरद्वाजः ख्यातस्त्रिभुवनेष्वपि ।
अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥ ३८ ॥
तस्यान्वये महत्यासीत्क्षीरोद इव चन्द्रमाः ।
श्रीकण्ठचरणासक्तः श्रीमान[^१]प्पयदीक्षितः ॥ ३९ ॥
विधित्रयी यदाक्षिप्ता नान्यत्र लभते गतिम् ।
जयन्त इव दुर्दान्तजानकीशशरार्दितः ॥ ४० ॥
आगमैरप्यसंवेद्यमाद्यं यत्तत्त्वमैश्वरम् ।
आकुमारं परिज्ञातं तदेवासीद्यदुक्तिभिः ॥ ४१ ॥
श्रीकण्ठदेशिकग्रन्थसिद्धान्तद्योतचन्द्रिका |
श्रीमती निर्मिता येन शिवार्कमणिदीपिका ॥ ४२ ॥
गङ्गया यः पुरा स्नातो देवश्चन्द्रार्धशेखरः ।
गाङ्गेयेन पुनः सस्नौ सोऽवतीर्य यदात्मना ॥ १३ ॥
अमोषणीयैरक्रय्यैरमूल्यैरमलीमसैः ।
यत्प्रबन्धैः शतेनैव भारती परिकर्मिता ॥ ४४ ॥
यं विद्म इति यद्रन्थानभ्यास्यामोऽखिलानिति ।
यस्य शिष्याः स्म इति च श्लाघन्ते स्वं विपश्चितः ॥ ४५ ॥
नाकेऽपि सति देवानां माहात्म्यकलहे मिथः ।
वादः शाम्यति यद्वाचि विन्यस्य निखिलंभरम् ॥ ४६ ॥
आमोदिभिर्वचंःपुष्पैरर्चितो येन शंकरः ।
तत्याज काशधत्तूरधारणोपहितां रुजम् ॥ ४७ ॥
तत्समानप्रभावस्य तदनन्तरजन्मनः ।
आसीदाच्चादीक्षितस्य पुत्रो नाणयणाध्वरी ॥ ४८ ॥
[^१] अप्पयदीक्षितः कवेः पितामहस्य ज्यायान्भ्राता.
जयन्ति तनयास्तस्य पञ्च सौभ्रात्रशालिनः ।
गर्भदासा महेशस्य कवयश्च विपश्चितः ॥ ४९ ॥
तेषामहं द्वितीयोऽस्मि भूमिदेवीतनूभुवाम् ।
नीलकण्ठ इति ख्यातिं नीतः शंभोः प्रसादतः ॥ ५० ॥
वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः ।
श्रीवेङ्कटेश्वरमखी शिष्ये मय्यनुकम्पते ॥ ५१ ॥
कुर्वती श्रवणे वाणी कोमलां यस्य साहितीम् ।
कर्णपूरशिरीषेऽपि काठिन्यमिव पश्यति ॥ ५२ ॥
भान्ति शिष्याः पुरो यस्य पाणिविन्यस्तपुस्तकाः ।
तत्सूक्तिजाह्नवीपूरत्रासेनेव धृतप्लवाः ॥ ५३ ॥
सति सह्यसुतातीरे सति त्रय्यन्तशीलने ।
गन्तुं निश्चितवानस्मि गङ्गां केनापि हेतुना ॥ ५४ ॥
तपसा लभ्यतां तस्यास्तपसश्च कठोरताम् ।
पश्यन्वाचा तपस्यामि काव्यसंदर्भरूपया ॥ ५५ ॥
मूकोऽपि मुखरायेत यत्र स्मृतिपथं गते ।
उपेक्षितव्यं तद्वस्तु कथं कवयता मया ॥ ५६ ॥
भगीरथमुखाद्वाचः स्तुवन्ति मम जाह्नवीम् ।
प्रभावे चन्द्रचूडस्य पर्यवस्यन्ति तत्त्वतः ॥ ५७ ॥
चन्द्रशेखरसव्याङ्गचरणोन्मार्जनाम्भसाम् ।
विवर्ता जगदुत्सङ्गे विहरन्ति मदुक्तयः ॥ ५८ ॥
भत्तया कृतेति जाह्वव्याः प्रभावं वदतीति वा ।
सन्तः समनुगृह्णन्तु निर्गुणामपि मद्गिरम् ॥ ५९ ॥
आसीद्भगीरथो नाम राजा रविरिवापरः ।
येन साक्षात्कृतः शंभुर्येन गङ्गावतारिता ॥ ६० ॥
सदयं सानुरागं च भुञ्जानं तं वसुंधराम् ।
ऐच्छदिन्द्रवशापि द्यौरन्तः कुलवधूरिव ॥ ६९ ॥
गोवर्धनधरस्यापि यदि तावद्यशो हरेः ।
कियन्न वर्ण्यः स भुवं बिभ्रत्सगिरिकाननाम् ॥ ६२ ॥
स पौरान्पादमूलस्थानरक्षदिति नाद्भुतम् ।
यद्दिगन्ते यशोऽरक्षत्प्रतापं शारिवेश्मसु ॥ ६३ ॥
दयालुरथ भूतेषु दण्ड्येष्वासीत्स निर्दयः ।
संजीवनोऽपि लोकानां चन्द्रमाः पथिकान्तकः ॥ ६४ ॥
न दण्ड्यं मुमुचे कंचिन्न वा कंचिददण्डयत् ।
तथापि युक्तदण्डः स दयालुरिति पप्रथे ॥ ६५ ॥
उचितेष्वदिशदृष्टिमुदासीनः परेषु च ।
शुश्राव च न शुश्राव स वाचमनुजीविनाम् ॥ ६६ ॥
उचितज्ञतया तस्मिन्नन्वरज्यन्यथा प्रजाः ।
न तथा तस्य दानेन न तथा चोपलालनैः ॥ ६७ ॥
तस्मिन्दुर्जनदुर्धर्षे समं पश्यति च प्रजाः ।
सर्वोऽप्यासीदपिशुनः सर्वोऽपि गतमत्सरः ॥ ६८ ॥
स यावल्लालयामास क्रीडन्निव हसन्निव ।
उपासांचक्रिरे तावद्भुतास्तमनुजीविनः ॥ ६९ ॥
जातः कोपो न भृत्येषु जातोऽपि न निगूहितः ।
निगूहितोऽपि न चिरमास्त चित्तेऽस्य कोमले ॥ ७० ॥
वैरायतां विरिञ्चोऽपि विप्रकर्तुं क्षमेत सः
अज्ञातविमतोत्पादामभुङ्क्त तदपि क्षितिम् ॥ ७१ ॥
प्रणाममात्रसंप्रीतस्तेजखी चोदयस्थितः ।
कूटस्थं रविमैक्ष्वाको गुणैरनुययाविव ॥ ७२ ॥
तस्यासन्प्राक्तना एव सेनामन्त्र्यनुजीविनः |
नवं यशो नवः कोशो नवं राज्यं च केवलम् ॥ ७३ ॥
षष्ठांशं जगृहे नेति तुष्टुवुस्तं तपस्विनः । न त्वबुध्यन्त गृह्णन्तमुपायेनाखिलं तपः ॥ ७४ ॥ स्रस्तमंसतलात्पान्थैः संव्यानमपि वर्त्मसु । सातङ्कमाददे भूयस्तरद्भिस्तस्य शासनम् ॥ ७५ ॥ अख्यातपूर्वविजयानतृणीकृतजीवितान् । अक्षत्रियानयूनश्च न स संजगृहे भटान् ॥ ७६ ॥ अवितीर्णमहाग्रामैरकृतस्वर्णवृष्टिभिः । कटाक्षैर्न बभूवेऽस्य कविवत्क्रनिपातिभिः ॥ ७७ ॥ संग्रामाङ्गणमारूढः स समक्षं विरोधिनाम् । तिरस्कारमिवामंस्त चापस्यापि शिरोनतिम् ॥ ७८ ॥ प्रददावेव सोऽर्थिभ्यः प्रतिजग्राह न क्वचित् । वासवादसकृद्वृष्टिं लिप्समानस्त्वलज्जत ॥ ७९ ॥ सायाह्नापचयेनापि मर्यादां लङ्घतेऽर्णवः । स तु तावत्प्रवृद्धोऽपि मर्यादां नात्यलङ्घत ॥ ८० ॥ दातुं प्रवृद्धश्चन्द्रोऽपि पक्षे पक्षेऽपचीयते । स तु भूयोऽप्यवर्धिष्ट संततं वितरन्नृपः ॥ ८१ ॥ पदं किमेतावदुदारतोचितं प्रयुज्य शंसेयममुष्य दातृताम् । पदेषु यत्प्रत्यय एव नाशितः प्रयोगशूरैः कविभिः समन्ततः ॥ ८२ ॥ यदस्य युद्धेषु महत्कुतूहलं य उद्यमो यत्प्रतिपालनं च वा । इदं किमङ्ग श्रुतमीक्षितं नु वा महीभुजोऽन्यस्य महोत्सवेप्वपि महोत्सवेष्वपि ॥ ८३ ॥ एकैकां क्रमभाविनीमपि कलामिन्दोः समाखाद्य यैः कण्ठोद्ग्रीवितजीवितैर्निरवधिः कालः कथंचिज्जितः । तैरेवोदरपूरमध्वरहविः स्फारं तदावर्जितं भुञ्जानैस्त्रिदशैरधारि जठरप्रायं तदानीं वपुः ॥ ८४ ॥ परिज्ञातं तत्त्वं निखिलमपि विद्यासु विदुषां परिज्ञातं भूयः परिषदि सतां श्लाघितमपि । फलैर्योक्तुं तत्तत्क्रमसमुचितैः श्लाघितमपि प्रगल्भः कोऽन्यः स्यात्रिभुवनवदान्यो यदि न सः ॥८५ ॥ साम्राज्यं यदि सप्तमार्णवतटीविश्राम्यदाज्ञाक्षरं सौन्दर्य यदि मुद्रिताः स्मरगिरः सा चेन्मतिः को गुरुः । शौर्य चेत्पुनरन्यदेव तदिति स्तोत्रं विचित्रं सतां शृण्वन्नेव भगीरथक्षितिपतिर्निन्ये सहस्रं समाः ॥ ८६ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे कथावतारो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः । पौरजानपदपार्थिवलोकप्रस्तुतस्तुतिवचोमुखरायाम् । जातु संसदि निषद्य सुहृद्भिः संलपन्नतिनिनाय स कालम् ॥ १ ॥ स प्रसङ्गकृतसंगति वक्तुं प्रस्तुतं किमपि बान्धववृद्धैः । सावधानमशृणोदपदानं सर्वमेव सगरात्मभवानाम् ॥ २ ॥ अश्वमेधमकरोत्सगरो यद्यच्च तत्र तनया विनियुक्ताः । अन्वयुर्यदपि ते तुरगं तं यच्च तं शतमखोपजहार ॥ ३ ॥ यत्ततः सगिरिकेतुवनान्ता तैर्व्यचीयत मही निखिलेयम् । यच्च तैः पितृवचोऽनुसरद्भिः सिन्धुरेव समखन्यत भूयः ॥ ४ ॥ मन्दिरं फणभृतामवतेरुः सागरोदरपथेन च ते यत् । पादकर्णसमवायत एवं प्राकृतैः फणिभिरद्भुतदृष्टाः ॥ ५ ॥ तं तुरंगमपि यद्ददृशुस्ते तापसस्य कपिलस्य समीपे । चोर इत्यमुमभिद्रवतां यद्भस्मतामदित हुंकृतिरस्य ॥ ६ ॥ अंशुमानपि समेत्य हयं तं यच्चकार सगराध्वरपूर्तिम् । सर्वमेतदवकर्ण्य स वीरो विस्मितोऽजनि विषण्णमुखश्च ॥ ७ ॥ दातुमम्बुपरिपारणमेषां कोऽभ्युपाय इति पृच्छति तस्मिन् । संनिकर्षमुपसृत्य वसिष्ठः शंसति स्म जगतः सुकृतेन ॥ ८ ॥ कन्यकास्ति कुटिलेति हिमाद्रेर्ज्यायसी स्मरणतोऽप्यघहन्त्री । शंकराय वितरीतुममर्त्याः सत्यलोकमनयन्त शिशुं ताम् ॥ ९ ॥ आकलय्य विबुधोपहृतां तामष्टभिश्च नयनैर्द्रुहिणः प्राक् । नार्हतीश्वरमियं तु वराकी मुच्यतामिति गिरा निरतक्षत् ॥१० ॥ उद्यतां किमपि वक्तुमथैनां गर्वितां कमलभूरुपलभ्य । शापमित्थमसृजज्जलरूपा सद्य एव भवती भवितेति ॥ ११ ॥ सा ततो गिरिसुताकलयन्ती तं च निग्रहमनुग्रहमेव । ऊर्मिभिः प्रलयसागरघोरैरुत्पपात कवलीकरणाय ॥ १२ ॥ अप्रतर्कितविधेयमपोढस्थैर्यमर्धविरतश्रुतिपाठम् । शुष्कतालु वदनं च तदानीं पद्मभूरपि परिभ्रमति स्मं ॥ १३ ॥ सावलेपनिपतत्सुरसिन्धुस्वैरचंक्रमतिरस्करणाय । सर्वतः स निगमान्किल सेतूनाबबन्ध चतुरश्चतुरोऽपि ॥ १४ ॥ सा च वामनपुराणवचोभिः स्पष्टमेव विवृता विदिता ते । नागलोकमवतार्य नदीं तां देयमम्बु सगरात्मभवेभ्यः ॥ १५ ॥ आशरीरपतनं व्रतचर्यामाचरन्नपि सुपर्णवचोभिः । अभ्रसिन्धुमवतारयितुं तामंशुमानपि शशाक न धीरः ॥ १६ ॥ तत्सुतोऽपि न ददर्श दिलीपस्तत्समानयनकर्मणि योगम् । दृष्टिमत्र निदधासि यदि त्वं सिद्धिमेति नियमादयमर्थः ॥ १७ ॥ इत्थमूचिषि मुनौ करणीयं निश्चिकाय न तु तं निजगाद । सिद्धमप्यभिलपन्तिसिद्धमप्यभिलषन्ति न सन्तः का प्रसक्तिरपि साधयितव्ये ॥ १८ ॥ सेत्स्यतीति यदवादि भवद्भिः सिद्धमेव तु ततोऽभिमतं नः । इत्युदीर्य स विसृष्टसमाजः पार्थिवः प्रतिययाववरोधम् ॥ १९ ॥ सोऽथ जातु नृपतिः परितुष्टादाशिषं समधिगम्य वसिष्ठात् । निर्ययौ सुरनदीमुपनेतुं न्यस्य राज्यमखिलं सचिवेषु ॥ २० ॥ तीरसीमनि स दक्षिणसिन्धोराश्रमं कमपि संपरिकल्प्य । आरराध नियमैरतिमात्रैर्देवमम्बुजभवं नरदेवः ॥ २१ ॥ हेमकुम्भसलिलैरभिषिक्तो मौलिरस्य मुनिवेषधरस्य । वीचिकासु लवणासु पयोधेर्वीतशङ्कमहनि त्रिरमज्जत् ॥ २२ ॥ आश्रमं नगरमासनदर्भान्भद्रपीठमुटजं मणिवेश्म । संभ्रमाद्व्यवहरन्क्षितिपालोऽलज्जत त्रिचतुराणि दिनानि ॥ २३ ॥ स क्षणादजयदासनभेदाञ्शिक्षणाच्चिरतरं खुरलीषु । जानता निखिलमभ्यसितव्यं कस्य कुत्र न भवेदुपयोगः ॥ २४ ॥ अत्यशेत स मुनीनपि दिव्यान्वासरैः कतिपयैर्वसुधेशः । संस्तवे भवतु नाम विलम्बः संस्तुतं मतिमतां किमसाध्यम् ॥२५॥ किं स पूर्वमपि नाजयदक्षान्किं तु वा न ववृते शुचिरेवम् । तस्य केव तपसा परिहानिः प्रत्युतैष न ररक्ष तदोर्वीम् ॥ २६ ॥ स्वं च राज्यमपहाय सतोऽस्य स्वर्गराज्यमिति तत्कियदास्ते । तद्विदञ्छतमखो न शशङ्के तत्तपश्चरणतः कणशोऽपि ॥ २७ ॥ बाहुजोऽयमथ भानुकुलीनस्तत्र चाप्रतिभटः स्वमहिम्ना । तावतापि तपसा यदि युक्तस्तत्समीक्षितुमपि क्षमते कः ॥ २८ ॥ यद्गजेषु तुरगेषु भटेषु क्षोणिपुक्षोणिषुक्षितिपतिष्वपि सक्तम् । तन्मनस्तत इतोऽपि विकृष्य स्थापितं तपसि तेन कठोरे ॥ २९ ॥ नान्नमाद्रियत नाम्बु न मूलं का भविष्यति कथापि फलानाम् । मारुतं परमभुङ्क्त निदाघस्तं च हर्तुमिव तस्य तदाभूत् ॥ ३० ॥ चण्डमारुतचलन्मृदुघासग्रासलालसतया गतिमान्द्यम् । प्रस्तुवत्यहिमभानुतुरङ्गे द्राघिमाणमलभन्त दिनानि ॥ ३१ ॥ तापमातपतरङ्गितमुच्चैः क्षन्तुमक्षमतया दिनलक्ष्मीः । किं चिरायति निशेति वितीर्णोद्राहिकेव वपुरायतमूहे ॥ ३२ ॥ वक्रचंक्रमणवल्गनघाटीमण्डलभ्रमणमन्दगतानि । सादिनः स्वयमशिक्ष्यत धर्मात्तुन्दिलो मदनजैत्रतुरंगः ॥ ३३ ॥ आरुरोह गिरिमाप वनान्तानभ्रमीदनुदिशं परिधाव्य । अग्रहीदपि तृणानि समीरो निग्रहैकरतिभाजि निदाघे ॥ ३४ ॥ भानुभिः प्रलयपावकतीव्रैरापिबत्युदकमम्बुजबन्धौ । दूरदूरमपदिश्य मरीचीर्दुद्रुवुर्दिशि दिशीव सरस्यः ॥ ३५ ॥ शक्यमञ्जलिपुटैः सलिलार्द्रेः सान्द्रमातपभरं प्रविकीर्य । जीर्णपर्णजटिलानि तदानीं विष्वगुज्ज्वलयितुं विपिनानि ॥ ३६ ॥ अङ्किताः किमपि शैवलखण्डैरातपाच्छकलितैरसिनीलाः । कोण एव सरितामवहन्त प्रान्तलीनपथिका जलवेण्यः ॥ ३७ ॥ कामिनः पथि तलेषु तरूणां गाढनम्रविटपेषु निवेश्य । अध्वखेदमहरन्त वधूनामम्बुभिः कमलिनीदलनीतैः ॥ ३८ ॥ उत्तरीयमहरत्कुचकुम्भादुन्ममार्ज मुखघर्मपयांसि । अङ्गमङ्गमपि पान्थवधूनामालिलिङ्ग सुकृती बनवातः ॥ ३९ ॥ आगतैरपि पथातिविदूरादध्वगैस्तरुतलेषु निषद्य । स्पन्दितुं च पटुभिर्न बभूवे संनिकृष्टसलिलग्रहणाय ॥ ४० ॥ किं प्रपासु कुहचित्तरुणीनामास्पदं कुचतटेष्वधिगम्य । विध्यति स्म विजने पथि पान्थान्कुण्ठविक्रमतया कुसुमास्त्रः ॥४१॥ सत्यपि श्रमविनोदिनि कामं तालवृन्तपवने तरुणानाम् । प्रेमभाजनमभूत्परमेकः प्रेयसीकुचदुकूलसमीरः ॥ ४२ ॥ फूत्कृतैरजहदूष्मतरङ्गैर्भूयसा मसृणितोष्ठदलानि । अखदन्त सुदृशामभिकेभ्यो मुग्धघर्मकणितानि मुखानि ॥ ४३ ॥ न प्रणामरचनैर्न चटूक्त्या न व्यनीयत सखीवचनैर्यत् । कञ्चकं तदपनिन्युरुरोजात्कामिलोकसुकृतेन नवोढाः ॥ ४४ ॥ मारुतो न मधुरप्युपरेमे किं पिकैरमुखरैरिति खिन्नः । संदधे धनुषि नैव मनोजः सायकं त्रिचतुराणि दिनानि ॥ ४५ ॥ हारदाम्नि हरिचन्दनपङ्के शीतरोचिषि शिरीषदलेषु । कामिनी कुचतटेषु च लिल्ये पञ्चभिः किमसुभिः कुसुमेषोः ॥ ४६॥ सर्वरात्रमपि संलपनाद्यैर्विभ्रमैः समपनीय विभाते । अप्रमर्दितकुचं युवतीनामङ्कपालिमलभन्त युवानः ॥ ४७ ॥ नास्ति मन्दपवनो न वसन्तः कूणितं च चरितं कुसुमेषोः । तावता विरहिणां किमिवासीत्तेषु मन्मथकणोऽपि कृतान्तः ॥४८ ॥ अन्नमन्यदवमन्य यमेकं सेवते सुलभ इत्यहिलोकः । सोऽपि नैव सुलभो मरुदासीद्दु र्जयो जगति दैवनियोगः ॥ ४९ ॥ प्राणिमात्रपरिजीवनहेतोः शत्रवस्त्रय इमे पवनस्य । शुष्कतापसनिदाघभुजंगास्ते पतन्ति निरये व न विद्मः ॥ ५० ॥ उष्णमम्बु रविरुग्रमयूखः सान्द्रमुर्मुरकिरश्च समीराः । भूः पफाल पुनराः कथमासीत्पान्थपातकिदशापरिपाकः ॥ ५१ ॥ १ स्वापकालमनुपाल्य गुरूणां विप्रलभ्य च चिरेण सपत्नीः । प्रस्थितासु कुलटारूपि घर्मैः पातकी किमपि नानुचकम्पे ॥ ५२ ॥ वारिविभ्रममहोत्सवदानैर्ये पुरा परिचचार निदाघः । तापमस्य विततार तदासौ किं भिदा न धनिनां कृपणेभ्यः ॥ ५३ ॥ तौ परस्परमहःपरिणामस्पर्धयेव नृपतिः सविता च । गाढयौवनमुपेयुषि घर्मे दुर्निरीक्ष्यतरतामवहेताम् ॥ ५४ ॥ स्नातुमम्बु न कुतश्चन लभ्यं पातुमस्ति न कथाप्यनिलस्य । स्थातुमास्त यमिनां तरुमूलं दूषितं तदपि दावशिखाभिः ॥ ५५ ॥ यावदित्थमधिकोऽजनि घर्मस्तावदस्य तपसा विजजृम्भे । तद्विपाकचकिता दिवि देवास्तापमापुरवनेरपि तीव्रम् ॥ ५६ ॥ तिष्ठतस्तपसि तस्य कठोरे काङ्कतश्च सुरसिन्धुनिपातम् । वासरा निमिषवत्समतीयुर्वासरा इव समांश्च सहस्रम् ॥ ५७ ॥ तं कदाचिदुपसृत्य विरिञ्चस्तस्य दृष्टिपथमप्युपगम्य । अर्थ्यतामभिमतं वितरामीत्याह वाग्भिरमृतस्नपिताभिः ॥ ५८ ॥ तत्क्षणं प्रमुदितः क्षितिपालस्तन्निशम्य वचनं द्रुहिणस्य । स्तोतुमारभत चारणलोकस्तूयमानचरितः स्वयमेनम् ॥ ५९ ॥ त्वत्प्रसूतमवतो हरतोऽपि स्यादुपासनविधिर्यदि धातः । त्वं कियत्कियदिवासि न वन्द्यस्तत्त्वदर्शनपरैर्मतिमद्भिः ॥ ६० ॥ त्वादृशा जनिमता शयितव्यं त्वादृशा च ननु जागरितव्यम् । यत्र हि स्वपिति नश्यति लोको यत्र जीव्यति पुनः समुदेति ॥ ६१॥ भारतीपरिवृढस्य पुरस्ते वागियं न परिहासपदं किम् । नृत्यतः पुरहरस्य पुरस्तान्नृत्यतां स्थितिरिव प्रमथानाम् ॥ ६२ ॥ हुंकृतेन कपिलस्य महर्षेर्भस्मतामुपगताः पितरो मे । स्वर्गसिन्धुसलिलेप्विहस्वर्गसिन्धुसलिलेष्विह तेषामस्तु मत्करपुटेन निवापः ॥ ६३ ॥ तस्य प्रतिश्रुत्य तथेति देवः प्रदर्श्य गङ्गामपि पार्श्व एव । तिरोभवत्पश्यत एव तस्य वक्रैः समस्तागमवावदूकैः ॥ ६४ ॥ संव्यानमूर्मिलतिकाव्यतिषङ्गलब्धफेनानुलेपमिव पाण्डरमावहन्तीम् । पश्यन्पुरस्तनुमतीं सुरलोकसिन्धुं सिद्धं मनोरथममंस्त दिलीपसूनुः ६५ ॥॥ ६५ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे भगीरथवरलाभो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः ।
ततः प्रणामैः स्तुतिभिश्च पार्थिवं प्रसादयन्तं सुरलोकवाहिनी ।
जगाद सद्यो जगदण्डमण्डलं निमज्जयन्तीव वचोभिरेव सा ॥ १ ॥
प्रविष्टमात्रास्वपि मे रसातलं प्रवाहनासीरतरङ्गपङ्किपु प्रवाहनासीरतरङ्गपङ्किषु ।
पतेदलाबूफलकर्परोपमं विभिद्य विध्यण्डकपालसंपुटः ॥ २ ॥
मदम्बुसंपातविधूतकल्मषैर्महीश पूर्वैस्तव यत्र वत्स्यते ।
स एव लोको यदि मत्पयोजवात्पथि प्रलीयेत फलेत्तपस्तव ॥ ३ ॥
महर्षिरोषग्लपितान्समुद्धरन्महीभुजः कानपि लिप्ससे यशः ।
अवेक्षसे नैव जगत्त्रयीजुपामकाण्डसंवर्तविधानपातकम्जगत्त्रयीजुषा मकाण्डसंवर्तविधानपातकम् ॥ ४ ॥
पतत्युदारे पयसांभरे मम प्रसह्य राजन्गिरिराजमौलिषु ।
समुत्पतच्छीकरवर्षदुर्दिनं चतुर्मुखो धाम किमावसेन्निजम् ॥ ५ ॥
ससर्ज कल्पादिषु विष्टपत्रयीं स योगमास्थाय कियन्तमात्मभूः ।
कथावशेषीक्रियतां मया पुनः कथं पतामीति गिरकयैव सा ॥ ६ ॥
अचिन्तयित्वा कृतिगौरवं विधेरपि त्यजन्ती करुणां शरीरिषु ।
पताम्यहं यद्यपि कुत्र वा भवन्भवान्निवापाञ्जलिमाचरिष्यति ॥ ७ ॥
पतेयमप्यर्थितसाधनाय ते निगृह्य वेगं निखिलं बलादहम् ।
परिप्लवाः क्षुद्रतया मदूर्मयः परं तु नेमे वचसि स्थिता मम ॥ ८ ॥
प्रदर्श्यतां कस्य पुरः पयोजवो निवेद्यतां वा नृप केवलं गिरा ।
न संनिकर्षे वडवामुखानलो न वा स योगी चुलुकीकृतार्णवः ॥ ९ ॥
विषादमभ्येमि भुवं पदे पदे विपद्यमानामनुचिन्त्य यद्यपि ।
तथापि नन्दामि चिरोपसंभृतां तरङ्गकण्डूमपनेष्यता त्वया ॥ १० ॥
प्रवेष्टुमभ्रेण पथा रसातलं हठाद्विशन्त्याममरावतीं मयि ।
पुनः स्वहस्तार्पितचन्दनाङ्कितं शचीमुखं द्रक्ष्यति किं पुरंदरः ॥ ११ ॥
अपि प्रकृत्या यदचञ्चलं जलं तदप्यलं यां ग्रसितुं महोदधेः ।
पदं भवेन्नाम समग्ररंहसां मदम्भसां किं न्वियमेव मेदिनी ॥ १२ ॥
इति प्रसन्नं मधुरं च वाङ्मयं प्रवाहमात्मीयमिवोद्गिरन्त्यसौ ।
क्षणं व्यरंसीदिव यं सुरापगा तमेव लेभे वचनक्षणं नृपः ॥ १३ ॥
ससर्ज यस्त्वां त्रिजगन्नियामकश्चतुर्मुखः सोऽपि यदि त्वमूर्मिभिः ।
अवापितस्तत्क्षणमात्मसंशयं कथैव का स्याज्जगतो विनश्यतः ॥ १४ ॥
महात्मतां यद्यपि ते महापगे न वेद वेधा न हरिर्न शंकरः ।
तथापि पौराणिकसंकथामुखात्कियत्कियद्देवि गृहीतवानहम् ॥ १५ ॥
अतो न किंचित्प्रतिवक्तुमुत्सहे भवत्प्रवाहावतरोपपादकम् ।
परं तु मय्यम्ब दयोर्मिला दृशः पतन्तु ते किंचिदिति प्रसादये ॥१६॥
प्रसाद्यमाना मुहुरित्थमुक्तिभिर्भगीरथाय प्रससाद सा ततः ।
अपि स्वयात्रानुपपत्तिगोचरामनेन च प्रास्तुत संकथां मिथः ॥ १७ ॥
मदुक्तयुक्त्या नृपते मया विना प्रतिप्रयातुं यदि ते न रोचते ।
अनेन रूपेण परं रसातलं प्रवेक्ष्यते तर्हि भवत्कृते मया ॥ १८ ॥
सुरापगास्रोतसि पूर्वभूभुजां कदा प्रदास्यामि जलाञ्जलीनिति ।
तपस्यतो मे फलमस्ति किं त्वया प्रवाहरूपं परिहृत्य नीतया ॥ १९ ॥
ग्रहस्तवायं यदि तात तर्हि तां गृहाण गङ्गाममरावतीं गताम् ।
भणन्ति लक्ष्मीदयिताङ्घ्रिताडनप्रभिन्नविध्यण्डपरिस्त्रुतेति याम् ॥ २० ॥
न पातुमम्भो भवतीमिहार्थये परःसहस्रा भुवि सन्ति सिन्धवः ।
न चाम्बु दिव्यं ननु सन्ति वृष्टयः परं तु लिप्से तव पावनं पयः ॥ २१ ॥
यदीदमेवेच्छसि याहि भूतलं गृहाण भस्मान्युपयाहि मां पुनः ।
ममान्वगागच्छ विधातुरालयं मनोरथं साधय मज्जलैस्ततः ॥ २२ ॥
कथंचिदेनः कपिलापराधजं पितामहानामपनेतुमिच्छता ।
अकर्मभूमावधिगत्य तावकं पयः किमम्ब प्रतिपद्यतां मया ॥ २३ ॥
सुशिक्षितस्त्वं यदि वृद्धसेवया श्रुतिस्मृतिभ्यामुपदर्शिते पथि ।
विधित्ससे किं नु विकृप्यविकृष्य मां बलादकर्मभूमावहिराजवेश्मनि ॥ २४ ॥
न वक्तुमीशे गिरमुत्तरोत्तरं त्वदुक्तिधारासमशीर्षिकापदम् ।
गुरोर्निदेशो मम दुस्त्यजस्त्वयं कुतस्तमुत्सादयितुं प्रवर्तसे ॥ २५ ॥
यदि त्वलाङ्घ्यं गुरुशासनं त्वया यतस्व भूमाववतारणे मम ।
स्मृता स्मृता संनिदधामि तावदित्युदीर्य तं दिव्यनदी तिरोदधे ॥ २६ ॥
विचिन्तयन्नभ्रनदीगिरं मुहुर्विनिःश्वसन्नायतमायतं ततः ।
प्रजेश्वरः प्रस्तुतकार्यसिद्धये जगन्ति सर्वाणि जगाम चेतसा ॥ २७ ॥
मुमूर्षमाणासुरशल्कविक्रमप्रसङ्गसंभावनयापि[^१ ] मूर्च्छताम् ।
अभून्न चित्ते नृपतेर्दिवौकसामपि प्रसज्य प्रतिषेधपात्रता ॥ २८ ॥
सुराग्रजो यद्यपि यद्यपि स्वयं जगन्ति निर्मात्यसकृद्यूगात्यये ।
शशाप तामेव नदी भवेति वा गिरेः सुतां यद्यपि कोपमूर्च्छितः ॥ २९ ॥
तथापि तद्दुर्विनयोपमर्दने प्रभुर्जराजर्जरितः कथं विधिः ।
तया पुराभिद्रुत एव भीषितस्तुता तथासाविति हि प्रगीयते ॥ ३० ॥
सहेत किं नाम वियन्नदीं हरिः सहिष्यते किंचिदयं तु साहसी ।
ससर्ज विध्यण्डपुटेऽपि यः पदं समुत्क्षिपन्नावरणोदकैर्नदीम् ॥ ३१ ॥
अयं हि मग्नश्चिरमर्णवोदरे पुरा पुराणीः स्वयमाहरद्गिरः ।
अयं हि निर्मथ्य सुधाब्धिमद्रिणा पुरा सुरानप्यमृतैरतोषयत् ॥ ३२ ॥
[^१ ] 'शल्कविक्रम' इति मातृकायाम्. अपि स्यात् 'शुष्कविक्रम' ?. गङ्गा० ४ अमुं पुमांसं परिहृत्य कोऽपरः प्रवर्ततामर्णवशोषकर्मणि । अमुं विना केन पुनर्महोदधावबन्धि सेतुः शतयोजनायतः ॥ ३३ ॥ महीधरैर्मन्दरगन्धमादनत्रिकूटहेमाचलरोहणादिभिः । अधारि तामप्यवहद्वसुंधरामयं न किं नाम पुरा स्वदंष्ट्रया ॥ ३४ ॥ विचारयामो यदि कर्म वैष्णवं किमस्त्यसाध्यं त्रिषु विष्टपेष्वपि । विचारयामो यदि वापि तां नदीं भरं क्व विन्यस्य विशङ्कमास्महे ॥ ३५ ॥ इदं तु सिद्धं हिमशैलनन्दना तथाविधैवास्तु ततोऽधिकापि वा । उपायवेदी मधुकैटभाहितस्तथापि किं किं न स साधयिष्यति ॥ ३६ ॥ न देवताभिर्न मृगैर्न मानुषैर्न वायुधैः संभवि यस्य नाशनम् । हिरण्यमीदृक्षमपि प्रतिघ्नतो न बुध्यते कैरपिं तस्य मायिता ॥ ३७ ॥ कथं कथं धिग्धिगिदं स्मृतिं गता कथा ममेयं पुरशासनाश्रया । पुराणिनी नन्वयमीदृशोऽपि सन्क्षणान्नृसिंहः शरभेण पातितः ॥ ३८ ॥ निवेद्यते यद्यपि तस्य विक्रमो जलंधरान्धत्रिपुरस्मरादिभिः । तथापि बाणासुरसंगरे जनाः पठन्ति तस्यापि पराक्रमक्षतिम् ॥ ३९ ॥ अतो न किंचिद्व्यवसातुमीश्महे मतिं स्वकीयां परमास्थिता वयम् । क्व कूपमण्डूकनिभा मतिर्नृणां क्व देवतातत्त्वविचारचातुरी ॥ ४० ॥ इति क्षितीशः प्रणिधानमाश्रितः क्षणं यदा यन्न मिमील लोचने । तदा विधिस्तस्य दृशोः पुरो भवन्प्रभावमैशं गदितुं प्रचक्रमे ॥ ११ ॥ कियत्यसौ तात वियन्नदी भवेत्कियन्ति सर्वाणि जगन्ति वा पुनः । स्वयं यदि प्राक्तनपुण्ययोगतः स एव ते संरभते महीश्वरः ॥ ४२ ॥ यदंशलेशावतरस्य केलयो भवन्ति दक्षाध्वरशिक्षणादयः । पठन्ति तस्यैव पराक्रमक्षतिं न चेतना जातु कुतो विवेकिनः ॥ ४३ ॥ पुरा मुकुन्दाय तथा तपस्यते पुराहितस्वप्रतिपादितं वरम् । न पालयेद्बाणपुरे यदि स्वयं भजेदमुं पार्थिव देवतेति कः ॥ ४४ ॥ यदस्ति विश्वं क्रियते स्म येन तद्यतः स चाभूत्स च यत्र लीयते । स च स्वयं येन किलानुगृह्यते ततोऽप्यतीतं तदवैहि दैवतम् ॥ ४५ ॥ प्रसूतिमीशानहरीन्द्रवेधसां प्रचक्षतेऽथर्वशिखागिरो यतः । विहाय सर्वानपि यस्य वन्द्यता विधीयतेऽथर्वशिखादिसूक्तिभिः ॥ ४६ ॥ प्रमाणमूर्धन्यपदाभिषेचिता यतश्चतस्रः श्रुतयोऽपि जज्ञिरे । किमुक्तिभिः स प्रणवोऽपि यत्पुरः प्रतीयतेऽथर्वशिरस्यनेकधा ॥ ४७॥ प्रभुं प्रशान्तं परमेश्वरं च यं भणन्ति कैवल्यगिरः परिस्फुटम् । यमेव विश्वाधिक इत्यनुश्रवाः प्रचक्षते कण्ठरवेण नापरम् ॥ ४८ ॥ यदाप्तिहेतोर्यतते जगत्त्रयी यदेव चाद्यं फलराजसाधनम् । तयैव देव्या स्वयमात्मविद्यया यदीयमर्धं वपुषो विभूषितम् ॥ ४९ ॥ सुखावहो यः किल शंभुशंकराद्यभिख्यया यो वपुषातिनिर्मलः । य एव सर्वज्ञ इति प्रघुष्यते विशुद्धसत्त्वात्मकतां विभावय ॥ ५० ॥ तपोभिरल्पैर्दयते च देहिनां स देवदेवः शशिखण्डमण्डनः । दयापि सा देयमदेयमित्यमुं विभागमेव प्रथमं न बुध्यते ॥ ५१ ॥ इति क्षितीशं प्रतिबोधयन्नसावदीक्षयच्छाम्भवदीक्षया पुनः । ददौ च तस्मै विनताय तत्परं परिष्कृतं पञ्चभिरक्षरैर्मधुम् ॥ ५२ ॥ प्रविष्टमात्रश्रुतिसंपुटोदरः स मन्त्रराजः शशिखण्डपाण्डरः । तमांसि तस्य प्रबिभेद तत्क्षणं मनांसि यूनामिव मान्मथः शरः ॥ ५३ ॥ प्रतिप्रयाते जगतां पितामहे भगीरथः पूर्णमनोरथस्ततः । तपश्चरिष्यन्नतिदारुणं पुनर्गिरिं जगाम श्वशुरं पिनाकिनः ॥ ५४ ॥ मरुद्भिरेकान्ततुषारवर्षिभिर्मनोहरन्तीषु यदीयभूमिषु । नवाभिसारेऽप्यधरं मृगीदृशां विमुक्तशङ्कं व्रणयन्ति कामिनः ॥ ५५ ॥ कठोरसौरातपतापविद्रवत्तुषारवापीसलिलैकजन्मनाम् । सरोरुहाणां किमिवोपहन्यते हिमेषु वा यत्र हिमात्ययेषु वा ॥ ५६ ॥ हिमस्पृशां यन्मरुतां प्रसादतो विलासिनां मुग्धवधूरतेष्वपि । न शिक्षणीयाजनि जातु सीत्कृतिर्न चार्थनीया परिरम्भसान्द्रता ॥ ५७ ॥ पुराणवेणुव्यतिषङ्गसंभवं दवं यदीयाः शमयन्ति तत्क्षणम् । तदर्चिरूप्मग्लपितद्रवीभवत्तुषारसङ्घातमहाम्बुवृष्टयः ॥ ५८ ॥ द्रवीभवद्भिः क्वचिदातपोष्मणां क्वचिच्च विद्याधरगानविद्यया । हिमस्वरूपैरितरैश्च यत्तटैः स्वयं भवेदेव न पञ्चषैर्दिनैः ॥ ५९ ॥ तपोविशुद्धे हृदये तपस्विनामपि क्षणादूर्ध्वमवस्थितो न यः । स एव यत्सानुविहारकौतुकी सदा महेशो यदि किं ततोऽधिकम् ॥ ६० ॥ स्वतन्त्रखेलद्गिरिकन्यकाकरस्वयंग्रहावर्जितमुग्धपल्लवाः । मुनीन्द्रवृन्दादृतमूलपांसवो जयन्ति धन्याः किल यत्र वीरुधः ॥ ६१ ॥ परिभ्रमद्गन्धमृगाधिवासितं प्रकीर्णकल्पद्रुमपुष्पमप्यधः । शिलातलं स्निग्धविशालशीतलं सुखेन यत्राधिवसन्ति किंनराः ॥ ६२ ॥ यदीयनीहारकणानितस्ततः किरन्मृगाङ्कः प्रथते सुधाकरः । यदीयगण्डोपल एव कश्चन प्रयाति कैलास इति स्थिरं यशः ॥ ६३ ॥ स यक्षविद्याधरकिंनराप्सरः फणीन्द्रगन्धर्वनिरन्तरे पथि । व्रजन्नतिक्रम्य तुषारभूधरं जगाम कैलासगिरिं जनेश्वरः ॥ ६४ ॥ , महेशभूषाहिकुलानि कन्दरे चिरोपरोधात्क्षुधितानि रक्षितुम् । समीरणं सेवितुमागतं बलान्नयन्ति यत्र प्रमथाः कृपालवः ॥ ६५ ॥ विशङ्कलङ्केशभुजोपकम्पिताद्यतो विकीर्णा रजतोपला इव । गणा जयन्ति प्रलयान्तपावकज्वलत्त्रिलोकीभसितावगुण्ठिताः ॥ ६६ ॥ तटेषु तत्तज्जगदण्डमण्डलीसमाहृतब्रह्मकरोटिकोटिषु । चरन्विधिर्यत्र न जातु शोचति स्मरन्नपि स्वं किल पञ्चमं शिरः ॥ ६७ ॥ प्रवेशिताः स्फाटिककन्दरोदरं नवाङ्गना यत्कटकेषु किंनरैः । अपत्रपन्ते बहिरासिताः सखीरवेक्ष्य नैर्मल्यवशादतिस्फुटम् ॥ ६८ ॥ बिभर्ति यः स्फाटिकराजतीस्तटीः कुटुम्बिनो यत्र धनेश्वरादयः । समः समृद्ध्या क इवास्य वर्तते प्रभुर्न भिक्षामटति स्वयं यदि ॥ ६९ ॥ शरार्कधुर्धूरवतीषु यत्तटे महेशपुष्पोपवनीषु रक्षिणः । स्वतःप्ररूढामपि जातु केतकीं न हि क्षमन्ते विषवल्लरीमिव ॥ ७० ॥ सुरसिद्धतापसगतागतोचितां परिहृत्य तत्र पदवीं भगीरथः । अधितिष्ठति स्म तटमस्य पावनं हृदयं च तस्य पुनरिन्दुशेखरः ॥ ७१ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे गङ्गाहंकारो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः ।
स बाह्यकरणग्रामसंविधानानुरोधिनीम् ।
आकृष्य मानसीं वृत्तिमाधत्त मदनान्तके ॥ १॥
इयता क्रमितुं शक्या मयेयमिति दर्शयन् ।
स तस्थौ भुवमाक्रम्य चरणाङ्गुष्ठरेखया ॥ २ ॥
बभौ तेन समुत्क्षिप्तो बाहुर्ज्याघातलाञ्छितः ।
जित्वा तपोभिर्ब्रह्मर्षीञ्जैत्रस्तम्भ इवोच्छ्रितः ॥ ३ ॥
स्वात्मानन्दसुधास्वादसुखितो वसुधेश्वरः ।
न फलेषु न मूलेषु नाप्सु च प्रीतिमानभूत् ॥ ४॥
सस्त्रौ जजाप दध्यौ च स संध्याखखिलास्वपि ।
कथाभिः कालकालस्य जजागर च शर्वरीः ॥ ५ ॥
तप्यमाने तथा तस्मिंस्तत्यजुः क्रमशो भयम् ।
क्षुद्रस्वस्वपदस्वामिदुर्विदग्धा दिवौकसः ॥ ६ ॥
षडङ्गमातृकामूर्तिषडध्वादिविभेदिना ।
न्यासजालेन नृपतिरङ्गमङ्गमशोधयत् ॥ ७ ॥
अनुसंधाय चण्डीशमन्तश्चण्डांशुमण्डले ।
पार्थिवः पञ्चषान्मासानुपासामास वासरे ॥ ८ ॥
अप्राकृतपरंज्योतिरभेदध्यानश लिनः ।
तस्य दृष्टिपथे स्थातुं तत्रास महसां निधिः ॥ ९ ॥
अगृहीतोत्तरासङ्गमासीनं च तमन्तरे ।
परीक्षितुमिवाजग्मुर्दिवसा हिमसान्द्रिताः ॥ १० ॥
विना सशपथैः सान्त्वैर्विना व्याजैश्च कामिनाम् ।
अपि सान्द्रं परिष्वङ्गमन्वजानन्नवाङ्गनाः ॥ ११ ॥
गर्भेष्वाप्रपदीनानामवगुण्ठनवाससाम् ।
अशेत द्वन्द्वमस्पन्दमासक्तोरुभुजं मिथः ॥ १२ ॥
कञ्चुकाहरणातङ्ककातराणां मृगीदृशाम् ।
दयालुर्हैमनो वायुर्ददौ रोमाञ्चकञ्चुकम् ॥ १३ ॥
किं त्यक्तं युवभिर्घर्मे किं लब्धं चाधिकं हिमे ।
आनुकूल्याद्यशो लेभे चतुरस्तु हिमागमः ॥ १४ ॥
प्रकृत्या कुटिलो मारः पवनस्तुहिनाकरः ।
दीर्घाश्च रात्रयो हन्त जीवन्तु पथिकाः कथम् ॥ १५ ॥
संश्रान्तो हिमवर्षेण शङ्के मकरकेतनः ।
उपारुरोह नारीणामूष्मलं कुचमण्डलम् ॥ १६ ॥
फालानलशिखोत्तप्तपाणिपद्मा कपर्दिनः ।
कथमप्यतिचक्राम हिमं हैमवती तदा ॥ १७ ॥
ध्वंस्यमानेषु बाणेषु भज्यमाने च कार्मुके ।
भुवनान्यजयत्रीणि भ्रूक्षेपादेव मन्मथः ॥ १८ ॥
वसन्त इव हेमन्तो वशीचक्रे जगत्त्रयम् ।
न वसन्तः स्वतः किंतु यः स्मरेण कटाक्षितः ॥ १९ ॥
मम्रुः कुन्देषु ते भृङ्गा यैर्व्याप्तमखिलं वनम् ।
कस्य किं वा न पर्याप्तं कालो यद्युपतिष्ठते ॥ २० ॥
द्वौ हि तेजस्विनौ लोके सविता स च पार्थिवः ।
तस्थतुस्तौ विभज्येव दक्षिणोत्तरयोर्दिशोः ॥ २१ ॥
स्वस्तिकस्थगितोरोजाः सीत्कारतरलाधराः ।
स्नानान्तेषु स्त्रियो मुग्धा यूनामाचकृषुर्मनः ॥ २२ ॥
पतितव्यं हिमैर्नाम स्नातव्यं नाम च द्विजैः ।
किं कुर्मः कृतवानेवं स विधिर्नोपलभ्यते ॥ २३ ॥
धूलिधूसरितादर्शदुर्दर्श रविमण्डलम् ।
प्रत्येतुमक्षमाश्चका न मिथः समगंसत ॥ २४ ॥
निष्प्रभो यद्रविर्जज्ञे यच्च धूसरिता दिशः ।
उत्पातेनेव तेनासीत्प्रलयः पान्थयोषिताम् ॥ २५ ॥
निदाघ एव यत्रत्यः परत्र शिशिरायते ।
तत्रेव यदि हेमन्तः स कथं नास्तु पर्वतः ॥ २६ ॥
प्राक्तनेषु तुषारेषु प्रत्यग्रं पतितं हिमम् ।
निश्चीयते स्म मृदुतादृश्यैर्विद्याधरीपदैः ॥ २७ ॥
प्रथमा भसितारब्धसर्वाङ्गीणावगुण्ठनाः ।
पाणिस्थं देवदेवस्य पर्युपासत पावकम् ॥ २८ ॥
अमुक्ताहेमनेपथ्यमङ्गरागं च कौङ्कुमम् ।
किंचित्तत्रान्वमन्यन्त कुबेरान्तःपुरस्त्रियः ॥ २९ ॥
आकृष्टयोः कुमाराभ्यामैभवैयाघ्रचर्मणोः ।
संभ्रान्ता पतिमावव्रे सव्यानाग्रेण पार्वती ॥ ३० ॥
अवमुच्य वतंसेन्दुमवरोप्याहिभूषणम् ।
उद्घाट्य चाक्षि तार्तीयमीशेनापि स्थितं तदा ॥ ३१ ॥
नृपतिस्त्रिजगद्दाहनिदानेन तपोऽग्निना ।
हेमन्तं हिमवन्तं वा नाचिन्तयत चेतसा ॥ ३२ ॥
त्रिदशास्तच्छिरोरन्ध्रतपोग्निज्वालतापिताः[^१] ।
सस्मरुश्चाक्षुषं ज्योतिः संवर्तेषु कपर्दिनः ॥ ३३ ॥
परिपाकोन्मुखे तस्य प्रायस्तपसि दारुणे ।
प्रसन्नानि निमित्तानि प्रादुरासन्पदेपदे ॥ ३४ ॥
विकचाम्भोरुहां वापीं विमलं चेन्दुमण्डलम् ।
स्वप्नेषु पश्यन्त्राजर्षिः सिद्धं मन्त्रममन्यत ॥ ३५ ॥
कल्पान्तोद्भ्रान्तजीमूतगर्जितस्निग्धमांसलः ।
संध्यासु शुश्रुवे तेन शंभोर्डमरुकध्वनिः ॥ ३६ ॥
[^१]तपो जज्वाल.
चण्डीशताण्डवालोकसंभ्रान्तानमृतान्धसः ।
ददर्श दिवि संध्यासु क्षणत्विष इव क्षणम् ॥ ३७ ॥
प्रत्यहं प्रमथास्तत्र पश्यन्तस्तं तिरोहिताः ।
जातु विज्ञापयमासुश्चरितं तस्य शूलिनः ॥ ३८ ॥
तावतस्तपसो दातुमपश्यन्नुचितं फलम् ।
हरः प्रतस्थे तं द्रष्टुमधमर्ण इव हिया ॥ ३९ ॥
उपरि न्यस्य संव्यानमुत्सार्य वलयान्पुरः ।
आन्तःपुरगृहद्वारमम्बिकैव करं ददौ ॥ ४० ॥
अचिन्तितोऽपनिष्क्रान्तमालक्ष्य मदनान्तकम् ।
किमेतदिति संभ्रान्ताः परिवव्रुस्ततो गणाः ॥ ४१ ॥
विनयानम्रजम्भारिविशोधितपुरं पुरः ।
अतिक्रम्यालयद्वारमारुरोह वृषं हरः ॥ ४२ ॥
अम्बापि संभ्रमासन्नसखीदत्तकरा शनैः ।
पादारविन्दविन्यासैः पावयामास मेदिनीम् ॥ ४३ ॥
कामं शिक्षितसंचारा कठोरे हृदि मे यतः ।
अतः कथंचिदाक्रामदङ्घ्रिभ्यामेव सा भुवम् ॥ ४४ ॥
चन्द्रचूडकरालम्बसंभृतारुण्यसंपदम् ।
अम्बिकायाः करं मन्दमाममर्श सखीजनः ॥ ४५ ॥
देवोऽपि स्वयमारुह्य वृषभं वृषभध्वजः ।
देव्या विलम्बमानाया दृष्टिमध्वनि संदधे ॥ ४६ ॥
क्रुद्ध्यन्नन्दिकरोद्ध्रूतवेत्रपातपलायिताः ।
विजहुः सरणिं गौर्या विनीतास्तत्र देवताः ॥ ४७ ॥
पद्भ्यामेवोपसर्पन्त्याः पार्वत्याः पथि शंकरः ।
कटाक्षैर्विचकारेव कह्लारेन्दीवरास्तरम् ॥ ४८ ॥
व्यजनैः प्रान्तविन्यस्तकस्तूरीचन्द्रगन्धिभिः ।
मातरं तामसेवन्त कौबेरान्तःपुरस्त्रियः ॥ ४९ ॥
सान्द्रस्तनपरीणाहसंभुग्नाय पदेपदे ।
भद्रान्याशास्त मध्याय पार्वत्याः प्रणयी तदा ॥ ५० ॥
आयतोद्ग्रीविकाखिन्नानमरान्वेत्रदूरितान्।
कटाक्षैः सानुजग्राह करुणासारसान्द्रितैः ॥ ५१ ॥
अनालम्ब्य सखीहस्तमनाक्रम्य च पादुकाम् ।
संनिकर्ष महेशस्य सा जगाम शनैः शनैः ॥ ५२ ॥
कृत्वा सव्यपदं लक्ष्म्याः कुञ्चिते जानुमण्डले ।
आरुरोह वृषं शंभोर्हस्तमालव्य सा ततः ॥ ५३ ॥
आरोपयन्निव खैरमालिलिङ्ग शिवः शिवाम् ।
इति संकथयन्तीषु सखीष्वैक्षिष्ट सान्यतः ॥ ५४ ॥
पाणिभ्रमितशूलाग्रपर्यस्तजलदाः शिवम् ।
शतमन्वगमत्रुद्राः शतरुद्रीयसंस्कृताः ॥ ५५ ॥
कुतः प्रतिष्ठते देवः कुत्र चेति गणास्तदा ।
पाणिभिर्नयनान्तैश्च पप्रच्छुरितरेतरम् ॥ ५६ ॥
भुग्न भारेण भक्त्या च पुण्ये शिरसि नन्दिनः ।
वाममास्थापयद्बाहुं वाहनस्थो महेश्वरः ॥ ५७ ॥
वाहनारोहविस्रस्तकपर्दान्तविलम्बितम् ।
चन्द्रं गृहीतुमुद्बाहुः स्कन्दो व्यचरदन्तिके ॥ ५८ ॥
प्रागलब्धं विचित्यापि पादं मौलिं च शूलिनः ।
पश्यन्तौ जग्मतुः पार्थे चक्रायुधचतुर्मुखौ ॥ ५९ ॥
अन्तकान्धककन्दर्पकालकूटादिनिग्रहम् ।
गायन्तो मधुरं तस्य गन्धर्वा ययुरग्रतः ॥ ६० ॥
प्रशान्तं पावनं तत्र प्राप्य राज्ञस्तपोवनम् ।
तस्थौ तपस्यतस्तस्य पुरतः पुरशासनः ॥ ६१ ॥
स च तत्रान्तरे प्रातः स्नातो मन्दाकिनीजले ।
दध्यौ चिरमुमाकान्तं दहराकाशमण्डले ॥ ६२ ॥
उन्मीलयन्दृशौ किंचित्तेन कोलाहलेन सः ।
अप्राकृतं महः किंचिदद्राक्षीदग्रतो दृशोः ॥ ६३ ॥
तस्यान्तः पुरुषं कंचित्तरुणेन्दुशिखामणिम् ।
सान्द्रीभूतशरच्चन्द्रचन्द्रिकाभं ददर्श सः ॥ ६४ ॥
निर्बन्धक्लान्तभूषाहिनिर्दयाघ्रातमूच्छितम् ।
बोधयन्तं पुनः स्कन्दं चूडाचन्द्रसुधाकणैः ॥ ६५ ॥
हृदयं वीतमालिन्यं वाचमप्यमृतोर्मिलाम् ।
अधिष्ठातुमशक्तेन क्ष्वेलेनाक्रान्तकंधरम् ॥ ६६ ॥
दुर्दान्तत्रिपुरप्लोषवृत्तान्तज्ञैः सुधाशनैः ।
सातङ्कं दृष्टवदनं बहुमानस्मितेष्वपि ॥ ६७ ॥
कपालानि शिरःस्थानि स्कन्धे प्रत्येकशो विधेः ।
दत्त्वा तदीयजिज्ञासौ गणेशे कुपितं मृषा ॥ ६८ ॥
हेरम्बकंधरालम्बिदूर्वाग्रग्रासकौतुकात् ।
गन्तुमुन्नमितग्रीवं गृह्णन्तमसकृन्मृगम् ॥ ६९ ॥
अस्मिन्दयस्व रक्षेमममुं पश्येति नाकिनाम् ।
आवेदयन्त्या कार्याणि हैमवत्याप्यनूषितम् ॥ ७० ॥
अथ दृष्ट्वा स देवेशमदृष्टं निगमैरपि ।
साध्वसाद्भुतसंभ्रान्तो न किंचित्प्रत्यपद्यत ॥ ७१ ॥
ततः प्रदक्षिणीकृत्य तन्मयं सपरिच्छदम् ।
. मुहुः पस्पर्श धन्येन मूर्धा तस्याङ्घ्रिपङ्कजम् ॥ ७२ ॥
आत्मार्हैः फलपुप्पाद्यैरानर्चफलपुष्पाद्यैरानर्च स महेश्वरम् ।
तदर्हैर्यदि यष्टव्यं कस्तमाराधयिष्यति ॥ ७३ ॥
क्वायं क्व शंभुस्तदपि स्तोतुं समुपचक्रमे ।
न हि वस्तुकृता प्रीतिः स्वशक्तिमनुरुध्यते ॥ ७४ ॥
त्वं गतिस्त्वन्मयं विश्वमिति साधारणी स्तुतिः ।
अस्तुतिस्त्वयि युक्ता तदवाङ्मनसगोचरे ॥ ७५ ॥
गुणं सन्तमसन्तं वा कीर्तयेद्यदि सा स्तुतिः ।
गृह्णन्गुणैकदेशं ते क इव स्तावको जनः ॥ ७६ ॥
सर्वज्ञ शंकराभिख्यासमावेदितवैभवात् ।
त्वदृते किं परब्रह्म सच्चिदानन्दलक्षणम् ॥ ७७ ॥
त्वत्प्रसूतो हरिर्यावत्त्रय्यन्तैरुपवर्ण्यते ।
तावत्प्रभावं भवतस्तर्कयन्ति मनीषिणः ॥ ७८ ॥
त्रिमूर्तिजननी तुर्या या मूर्तिर्विदितास्ति सा ।
यदि ते यदि वान्यस्य तन्मे ब्रह्मास्ति किं क्षतम् ॥ ७९ ॥
धर्मधर्भिभिदापन्नं चैतन्यं यदि मायया ।
जातौ तदेव हि युवां जगदादिमदंपती ॥ ८० ॥
कैवल्योपनिषद्बुष्टं यदिदं रूपमीश ते ।
संनिधत्तां तदा देव संस्मरामि यदा यदा ॥ ८१ ॥
इति तुर्यन्तसिद्धान्तनिष्कर्षामृतवर्षिणा ।
वाङ्मुखेन स्तुतस्तेन व्याजहारेदमीश्वरः ॥ ८२ ॥
यत्तप्तवानसि तपो यच्चैवं भक्तिमानसि ।
ततः प्रीतिजुषो मत्तस्तात काङ्क्षितमर्थ्यताम् ॥ ८३ ॥
इत्याज्ञापयति खामिन्येतदाह भगीरथः ।
संभ्रमामोदसंबाधस्तब्धगद्गदया गिरा ॥ ८४ ॥
आगतोऽसि मदर्थं यदागसोऽस्यैव शान्तये ।
नालं मम तपः सर्वं नाथ केनार्थये वरम् ॥ ८५ ॥
तथाप्यद्य त्वदीयाङ्घ्रिसाक्षात्कारोपसंभृतैः ।
तपोभिरर्थये तात काङ्क्षितं मे त्वदाज्ञया ॥ ८६ ॥
तपसाराधिता गङ्गा याचितावतरा मया ।
स्वाम्बुवेगसहं कंचित्प्रत्ययाचत मां पुनः ॥ ८७ ॥
अस्मिन्ननन्यसाध्येऽर्थे व्यापर्तुमुचितं तव ।
अत्रोदाहरणं मुख्यं हालाहलविनिग्रहः ॥ ८८ ॥
आयासमीदृशं यत्त्वमर्थितोऽसि जगद्गुरो ।
तन्मम क्षम्यतां बाल्यचापल्यमिति चानमत् ॥ ८९ ॥
अभिषेकप्रियाणां नः प्रियमेतत्कृतं त्वया ।
नापराद्धं पुनः किंचिदित्युवाच तमीश्वरः ॥ ९० ॥
अभिधाय वृषात्तूर्णमवरुह्य महेश्वरः ।
निषसाद पुरस्तस्य निर्मले स्फाटिके तले ॥ ९१ ॥
आबद्ध्य चर्म वैयाघ्रमपसार्य च बालकौ ।
सावष्टम्भः क्षितावास्त सज्जीभूतो वृषध्वजः ॥ ९२ ॥
सावलेपनभःसिन्धुसंनिपातोचितं प्रभोः ।
नन्दी विस्रंसयामास नागेन्द्रग्रथिता जटाः ॥ ९३ ॥
भगिनीसमागमसमुत्सुका शिवा
प्रमथास्तदद्भुतदिदृक्षयाकुलाः ।
स्वमनोरथोपगमसान्द्रकौतुको
नृपतिश्च तं निभृतमक्षिभिः पपुः ॥ ९४ ॥
बद्धस्रस्तकपर्दकन्दरपतद्भोगीन्द्रचन्द्राङ्कुर−
क्षेपव्यापृतनन्दिदृष्टिवलनव्याधूतदिग्भित्तयः ।
सावष्टम्भमहेशसंभ्रमपरित्रस्यत्रिलोकस्तुताः
पारे मद्वचसाममर्त्यतटिनीसंपातपूर्वक्षणाः ॥ ९५ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध− निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे शंकरसाक्षात्कारो नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः । प्रान्तसंक्रमिततारया दृशा पश्यति त्रिपुरशासने ततः । अस्मरत्सुरनदीमहंकृतां ध्यानयोगविधिना भगीरथः ॥ १ ॥ संभृता मनसि सा ततः क्षणात्संभ्रमेण महताकुलीकृता । सर्वतश्चिरनिरोधलज्जितं सज्जतामनयदूर्मिमण्डलम् ॥ २ ॥ सा निवेदयितुमात्मनिर्गमं सन्निकर्षमुपजग्मुषी विधेः । व्याजहार विनयावधीरणव्यक्तगर्वगरिमोष्मला गिरः || ३ || अस्ति नन्वयमयुग्मलोचनः स्फाटिकाचलचरो वनेचरः । धर्तुमिच्छति स नाम मामकं त्वत्परीक्षितमहारयं पयः ॥ ४ ॥ स प्रकामजरठो गुरुः पिता सा च मुग्धहृदया यवीयसी । व्याहतो यदि न मे समुद्यमः कः शिवः क इव राजतो गिरिः ॥ ५ ॥ त्वद्गृहे स्थितवती चिरादहं त्वामनेन परितोषये ततः । त्वच्छिरोलवनकर्म दुर्मदं संनिपात्य गिरिशं रसातले ॥ ६ ॥ सावलेपनिपतन्मदूर्मितासंप्लवैककवलीकृतो हरः । संगतः पयसि शङ्खशुक्तिभिर्नन्दिना ननु गवेषयिष्यते ॥ ७ ॥ कालकूटमिव मन्यते शिवो मामकं प्रकृतिदुर्मदं पयः । ब्रूहि तावदधुनापि मेति तं मा विषीदतु यवीयसी पुनः ॥ ८ ॥ शङ्कितो जगदकाण्डविप्लवाद्याचते यदि भवानथापि माम् । तं मदम्बुवहनातिमानिनं कंचिदेव शमयामि नापरम् ॥ ९ ॥ कर्णयोर्यदि पतेयुरन्ततो गर्जितानि चलतां मदम्भसाम् । तत्त्वतः कथय किं भवेच्छिवस्त्वं हि तन्महिमलेशवेदिता ॥ १० ॥ इत्थमुद्धतमुदीर्य सा विधिं संगतानपि सुरानभाषत । मा परित्रसत मामकं पयो लज्जते बलपराक्रमाय वः ॥ ११ ॥ यात यूयमपयात च क्षणं देवता निजनिजालयांस्ततः । कौतुकं तु यदि वोऽस्ति वीक्षितुं कोणमावसत निर्भया दिशाम् ॥१२॥ त्रासिताः किल तयैवमुक्तिभिः पार्श्वमापुरमराः पिनाकिनः । कस्य नाम न तथाविधा गिरः क्षोभयेयुरपि चाश्मनं मनः ॥ १३ ॥ उद्यतान्गदितुमापगागिरः स्तम्भितानथ निजेन तेजसा । आकलय्य नयनाञ्चलैः सुरानन्तरस्मयत चन्द्रशेखरः ॥ १४ ॥ ॥ संनिवृत्य सदसस्ततो बहिः क्रोधमन्थरविसंस्फुटैः पदैः । आविवेश सरसीं ततो नु तामापगापि जगदाक्रमोद्यता ॥ १ || स्थापिताः कमलजन्मना पुरा सेतवः श्रुतिमयाः समन्ततः । संनिपत्य सकृदेव सप्लुतैरूर्मिभिस्त्वरितमुल्ललङ्घिरे ॥ १६ ॥ प्राणिनां प्रतियुगान्तमर्णवैर्यामकल्पयत पद्मभूर्दशाम् । सैव तस्य फलिता तदा तया कर्मणः क इव नाश्नुते फलम् ॥ १७ ॥ प्राप्य जानुमतिलङ्घय नाभिमप्यम्भसि क्षणमथास्य संमिते ।क्रन्दतामशरणं तपस्विनां शुश्रुवे कलकलान्वितं वचः ॥ १८ ॥ सर्वतः सुरतरङ्गिणीजलैः संप्लुते सदसि तत्र वेधसः । प्राणसंयमनशिक्षया परं मज्जिता न कतिचिन्महर्षयः ॥ १९ ॥ वक्त्रसौधवलभीगता विधेः शारदापि सहसोत्थिता सती । उद्गृहीतकरपुस्तका भयादक्षिपद्युगमिव क्षणं क्षणम् ॥ २० ॥ विश्वसर्गचतुरोऽपि पद्मभूर्न प्रतिव्यधित तत्र किंचन । स्वैरमस्तु कुशलः परापदि स्वापदि त्वकुशलोऽखिलो जनः ॥ २१ ॥ सत्यलोककुहरक्षणासिकासंकटा क्षमतयेव तत्क्षणम् । निर्जगाम परितस्ततो बहिस्तन्निसर्गनिरवग्रहं पयः ॥ २२ ॥ गाधभाजि गतविक्रियं जले सस्मितं तदनु नाभिमात्रके । सोक्तिगुम्फमपि दर्शितस्थले वक्त्रमण्डलमधाच्चतुर्मुखः ॥ २३ ॥ तारिता वयमिमां महापदं तावकादिह तपोबलादिति । स स्तुतः परिजनेन लज्जितः कः स्तुतेरपि वधोऽभिषङ्गिणः ॥ २४ ॥ फेनिलाः सलिलशोषरेखकाः सर्वतः सदनभित्तिपर्वसु । आयतश्वसितमानमन्मुखं पश्यति स्म स दृशातिदीनया ॥ २५ ॥ नाजपं किमिति मन्त्रमानलं नासृजं किमिति चाभितस्तटीः । इत्यखिद्यत विधिर्गते जले सा किल प्रकृतिरग्रजन्मनाम् ॥ २६ ॥ आननैर्हसितबाष्पकर्वुरैरद्य जीवितमिवेति वादिभिः । दोर्भिरप्यधिकदूरचालितैरालिलिङ्ग मुनिमण्डलं मिथः ॥ २७ ॥ सत्यलोकमपहाय निश्चिते गन्तुमिन्द्रपुरमभ्रगङ्गया । धावयन्पथि जनान्पुरो ययौ वेत्रपाणिरिव वीचिमारुतः ॥ २८ ॥ पाकशासनपुराभ्रये पदे स्वेच्छया विहरतां सुधान्धसाम् ।' आगतं प्रलयमाचचक्षिरे जाह्नवीजलझलज्झला रवाः ॥ २९ ॥ संभ्रमोपगतचारशंसितस्वर्गसिन्धुपतनं पदे पदे । सौधशृङ्गवलभीनिवेशितस्वस्वमूलधनमप्सरोजनैः ॥ ३० ॥ मन्दुरोदरविमुक्तविद्रवत्सैन्धवानुचरसादिमण्डलम् । दिक्तटोच्चलितजाङ्घिकामरस्वीकृताभ्रककुलं गृहे गृहे ॥ ३१ ॥ निर्गतत्रिदशनाथदर्शनस्तब्धविद्रवदनीकिनीभटम् । इत्थमाकुलमतर्कितागता सा चकार नगरं शचीपतेः ॥ ३२ ॥ (त्रिभिस्तिलकम्) संपपात हरिनीलदन्तुरे वैजयन्तशिखरे समन्ततः । सा ततो विदधतीव संस्तवं मस्तके निपतितुं महेशितुः ॥ ३३ ॥ सर्वतः प्रचलितैः कणात्मना सौधशृङ्गपतितैस्तदम्बुभिः । संगतो न समलक्ष्यत क्षणं निर्मलः सुरपतेर्मदावलः ॥ ३४ ॥ वैजयन्तविनिपातवेगतो दूरमुत्पतति तत्पयोभरे । छत्रगर्भनिहितेव सा पुरी नाजनि क्वचिदपि क्षतोदरा ॥ ३५ ॥ प्राप्य सानुपदमेव मेदिनीं यं यमम्भसि निमज्जयिष्यति । तं तमत्र विनिधातुमेव किं त्रायते स्म निपुणं त्रिविष्टपम् ॥ ३६ ॥ सा ततः प्रचलिता समन्ततो व्यानशे निरवशेषमम्बरम् । संविभक्तपरभागसुन्दरीचन्द्रिकेव शरदागमोज्ज्वला ॥ ३७ ॥ सा दिवि प्रमथनाथकुन्तले संभ्रमद्विमलवीचिमण्डला । तर्क्यते स्म चतुरैः सुधाशनैर्मालिकेव नवमल्लिकामयी ॥ ३८ ॥ व्योम्नि तल्लहरिवल्लरीहृता ये सुराः सुरगजाश्च केचन । ते तदीयजलजन्तवो न चेत्को नरः पयसि कश्च सिन्धुरः ॥ ३९ ॥ तज्जलभ्रमिभिराहितभ्रमा नन्दनोपवनपादपास्तदा । संप्रहर्तुमसमेक्षणं तया भ्रामिता इव गदा विरेजिरे ॥ ४० ॥ निम्नभागविनिपातसंभृता निस्तला रुरुचिरे जलभ्रमाः । गङ्गयां निगमसेतुसंस्तवादार्जिताः प्रणवमण्डला इव ॥ ४१ ॥ आदिभिक्षुगृहिणीं यवीयसीं सा समाजयितुमुद्यता दिवः । आजहार विविधानि भूषणान्यम्बराणि च महेन्द्रमन्दिरात् ॥ ४२ ॥ मुक्तदिव्यतरुपुष्पवृष्टयः श्लाघनोक्तिमुखराश्च सर्वतः । आहृता लहरिमारुतैस्तथा सिद्धचारणगणाः सहाययुः ॥ १३ ॥ उद्गताभिरितरेतराहतादूर्मिभिः सुरगणः समुच्छ्रितः । आसदत्सदनमेव वेधसः को न तच्छ्यति तज्जलाप्लुतः ॥ ४४ ॥ वीचिवेगपरितुष्टसंपतत्पाकशासनपताकिनीसखी । योद्धुमुद्यतवतीव वाहिनी सा जगाम सविधं महेशितुः ॥ ४५ ॥ आ विरिञ्चिगृहमा हिमाचलं निर्मला रुरुचिरे तदूर्मयः । स्वर्वधूभिरभितो दिदृक्षया पातिता इव कटाक्षरेखिकाः ॥ ४६ ॥ प्राप्य शंकरकपर्दकन्दरं संभ्रमन्निह तदुर्मिमारुतः । क्रोशति स्म सुरसिन्धुमुद्यतां मा पतेति विनिवारयन्निव ॥ ४७ ॥ सानुरागबहुमानमानतां सा शिवामभिकपार्श्ववर्तिनीम् । एकया किल तरङ्गरेखया पाणिनेव मृदुलं परामृशत् ॥ ४८ ॥ तत्प्रवाहमुखवल्गदूर्मिकाशीर्णशीकरसमुत्थितास्तदा । ताडिता इव महोपलैस्ततो दूरदूरममरा विदुद्रुवुः ॥ ४९ ॥ कोपलेशपरुषैरवज्ञया कूणितैरपि विलोचनाञ्चलैः । पश्यति स्म पतनोन्मुखीं नमीनीषदुन्नमितकन्धरो हरः ॥ ५० ॥ यावदानमयते यथापुरं द्रष्टुमुन्नमितमीश्वरः शिरः । तावदेव निपपात तत्र सा विस्मयाय मिषतां दिवौकसाम् ॥ ५१ ॥ शापकोपकलुषेव सा विधिं संनिमज्ज्य सुचिरं विनिर्गता । तत्कपालमपि शांभवे शिरस्याजघान परुषाभिरूर्मिभिः ॥ ५२ ॥ तस्य पञ्चमशिरोनिपातनादर्धदुर्मरणमापपात यत् । पातकं परिजहार तद्भवं पावनेन पयसा वियन्नदी ॥ ५३ ॥ तज्जवादुपहृतं दिवौकसां तस्य मूर्धनि विमानमण्डलम् । वेत्रदण्डवलनेन नन्दिनो दिङ्मुखेषु निपपात दूरतः ॥ ५४ ॥ ५ सर्गः ]
गङ्गावतरणम् ।
केयमार्द्रयति मस्तकं गुरोस्त सेय निखिलाममूमिति । किंचिदुच्छ्रितकरे गजानने हुंकृतान्यकृत सत्रपं शिवः ॥ ५५ ॥ वीचिमारुतवितीर्णपारणामांसलाः शिवकपर्दपन्नगाः । संप्रसार्य फणमापदस्ततः संररक्षरमृतांशुरेखिकाम् ॥ ५६ ॥ अप्रतर्क्यमसमीक्षितावधिं तं कपर्दवलयं पिनाकिनः ।
आपगा दिविषदामवाङ्मुखी पन्नगीव कलशं समाविशत् ॥ ५७ ॥ तज्जटासु विशती वियन्नदी सा कियत्पथमदृश्यतामरैः । शुश्रुवे तदनु तज्जलारवो यस्य किंचिदपलभ्यते ततः ॥ ५८ ॥ तज्जटापटलकन्दरोदरखीकृताः सुरनदीमहोर्मयः ।
४९
लेशतोऽपि किल नाललक्षिरे सत्क्रिया इव कृतघ्नगोचराः ॥ ५९ ॥ मूर्ध्नि तस्य मुहुराहितभ्रमा प्राप सा न पदवीं निवर्तितुम् । दुर्लभं ननु जगत्सु देहिनां तं प्रविश्य विनिवर्तनं पुनः ॥ ६० ॥ अभ्यषिञ्चदमरापगा शिवं यच्छ्रुतिव्यतिकरानघैर्जलैः ।
तेन किं नु सुकृतेन भूयसा तत्क्षणाल्लयमवाप तत्र सा ॥ ६१ ॥ तापितासु नयनाग्निहेतिभिस्तज्जटासु पतितास्तदूर्मयः । अम्भसां पुनरतिप्रबन्धतः क्लेदमात्रमदिशन्कथंचन ॥ ६२ ॥ जातमित्यथ समीपवर्तिना नन्दिना सविनयं निवेदिते । सव्यपाणिविधुता जटाः पुनः शंकरः परिबबन्ध पन्नगैः ॥ ६३ ॥ कपर्दममरापंगासलिलसेकसान्द्रीकृतं
विधुन्वति सविभ्रमं पशुपतौ विकीर्णास्ततः । क्वचित्सुरपुरंध्रयः क्वचन यक्षविद्याधराः
क्वचिच्च परमर्षयः समवलन्त संमूर्च्छिताः ॥ ६४ ॥
यावद्ध्योमविटङ्कसंकुलचलत्कल्लोलकोलाहलैरायाभीमवधारयन्दुहितरं प्राप्तस्तुषाराचलः । तावत्पीतसुरापगोदकपुनर्व्याधूतसंदानिताः
संमृष्टाश्च पटाञ्चलेन शिवया शंभोरपश्यजटाः ॥ ६५ ॥ .५०
काव्यमाला ।
अक्लिष्टपन्नगमजर्जरितेन्दुरेख-
मव्यस्तकाशकितवस्तबकाचतंसम् ।
शंभोरदृश्यत शिरः सुरसिन्धुमुक्त-
॥ दिव्यद्रुमप्रसवसौरभसारसान्द्रम् ॥ ६६ ॥
प्रणमदमरग्रामप्रस्तूयमान महास्तव-
स्तबकितगुहामूलाः कैलासशैलतटास्तदा ।
प्रशमितवियद्गङ्गाहंकारसंकथनादृत-
प्रमथपरिषच्छन्नाः किं नाम नादधतेऽद्भुतम् ॥ ६७ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षित पौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे गङ्गावतारो नाम पञ्चमः सर्गः ।
षष्टः सर्गः ।
ततो जटाभिर्गिरिशस्य पीते तावत्यपि स्रोतसि देवसिन्धोः । भगीरथोऽपि प्रमथैः सहैव विसिस्मिये प्रागथ विव्यथे च ॥ १ ॥ तुष्टो विरिञ्चः प्रससाद शंभुर्लब्धा च गङ्गा फलितं किमेतैः । आराधनीयं वलयं जटानामज्ञासिषं येन न लेशतोऽपि ॥ २ ॥ संध्यासु दिष्ट्या यदि नृत्यतोऽस्य संशीर्य या कापि जटापतिप्यत् । कल्पान्तसंभेददुरुत्तरापि सप्तार्णवी क्वेव तदाभविष्यत् ॥ ३ ॥ आभाप्य गङ्गामवतार्य तामप्यासादिता येन न कार्यसिद्धिः । सोऽहं विलज्जः पुनरद्य तस्याः संजीवनायैव कथं यतिष्ये ॥ ४ ॥ निर्विद्य किंचिन्नृपतिस्तदैवं धैर्य परं धारयति स्म भूयः । नायं गुणोऽस्य प्रकृतिर्यदेषा चुक्षोभ किंचिद्यदसौ स दोषः ॥ ५ ॥ समानयेयं पुनरभ्रगङ्गां संपादयेयं यदिवापरां ताम् । तदस्ति किं यत्तपसामसाध्यमिति प्रपेदे पुनरिन्दुमौलिम् ॥ ६ ॥ प्रसादयामास भगीरथस्तं वाग्भिः पुरेवात्वरितो महेशम् ।
१. 'वाक् पुरेवावरितो महेशम्' इति मातृकायाम्. ६ सर्गः ]
गङ्गावतरणम् ।
५१
आद्यं विदुः साधनमर्थसिद्धेरसंभ्रमं कार्यविपर्ययेऽपि ॥ ७ ॥ कल्पावसानेषु चतुर्दशापि जगन्ति यत्र त्वयि संविशन्ति । तत्रैकवेधोगृहदीर्घिकेयं लीना वराकी यदि का स्तुतिस्ते ॥ ८ ॥ कियन्ति पीतानि विधेः कपालैः कियन्ति वेगादवनौ निपेतुः । कियन्ति केशेष्वपि लिल्यिरे ते गङ्गोदकानीति कुतः स्मयस्ते ॥ ९ ॥ दिष्टया निपीता भवता नदीयं शक्त्या न तस्यास्त्वयि कः प्रसङ्गः । शङ्खाम्बु दत्तं कियदेव भक्तैः सहस्रधारं ननु मन्यसे त्वम् ॥ १० ॥ सह्यानि चूडोरगफूत्कृतानि सह्याश्च गौरीचरणप्रहाराः । तज्जानती नाथ जटापदे ते तस्थौ न गङ्गा स्वयमेव नूनम् ॥ ११ ॥ आस्तां हिमाद्रौ श्वशुरेऽनुवृत्तिरास्तां च भक्ते मयि तेऽनुकम्पा । चण्डी न दृश्या भगिनीवियोगशङ्काकुला किं ग्रसताभ्रगङ्गाम् ॥ १२ ॥ अस्त्वेवमासीद्यदि ते कपर्दिन्गर्भो जगद्भिस्त्रिभिरप्यपूर्णः ।
मूर्ध्नापि किं ते भवितव्यमेव गङ्गापि यस्य स्रूपनाथ नालम् ॥ १३ ॥ अभ्यर्थये त्वामथवा न गङ्गां कस्त्वं गृहीतुं पुनरुज्झितुं वा । स्तोप्यामि ता एव जटास्त्वदीया याभिर्निपीता कणवन्नदी सा ॥ १४ ॥ जटा नमो वश्चिरसंप्ररूढां रुवा पिपासामियतीं स्थिताभिः । युष्माभिरालिह्यत नान्तिकेऽपि दिष्ट्या पयोमण्डनिभोऽयमिन्दुः ॥ १५ ॥ जटा ललाटानलतापितानां पानोदकं किं नु वियन्नदी वः । यच्च न्यगीर्यन्त पदेपदेऽपि पयांसि तस्याः स किमूपदंशः ॥ १६ ॥ पीतं पयो बह्विति मा बिभीत भविष्यथ स्वस्थतराः पुरेव । चण्डीशमत्तभ्रमणेन यूयं सद्यः समुद्वान्तजला दिनान्ते ॥ १७ ॥ भक्तार्पिताभिः कियतीभिरद्भिः कालो महान्येन कपर्द नीतः । स त्वं समासाद्य च तावदम्बु भूयोऽपि किं प्रागिव भिक्षुकोऽभूः ॥१८॥ इत्थं चमत्कारतरङ्गिताभिस्तुतोष तस्य स्तुतिभिर्महेशः । साहित्यमर्मावगमे क्षमेत सर्वज्ञमीशं तमृते परः कः ॥ १९ ॥ मोक्तुं नदीमानमनानभिज्ञं मूर्धानमीशो नमयांबभूव । भक्तैकरक्षात्रतदीक्षितानां दूरे खमानद्रढिमाभिमानः ॥ २० ॥ VOJ
५२
काव्यमाला ।
ये शुश्रुवुर्गर्वकिरो गिरः खास्तेष्वेव पश्यत्सु सुधाशनेषु । ह्रीणेव निर्गन्तुमवाङ्मुखी सा ततोऽपतद्विन्दुसरस्युदारे ॥ २१ ॥ तान्येव यादांसि महाद्भुतानि ता एव पर्याप्तदिशो लहर्यः । पेतुः कपर्दात्पुनरिन्दुमौलेर्गर्वोक्तयस्ताः क गता न विद्मः ॥ २२ ॥ तामापतन्तीमवनौ कपर्दादाकुञ्चितादीषदिवेन्दुमौलेः ।
दूरादमन्यन्त विलम्बमानां मालामिव द्रोणमयीममर्त्याः ॥ २३ ॥ सा तत्र सिन्धुः सरसि क्षरन्ती स्रोतांसि सप्त स्वयमाबभार । त्रिभिः प्रतीचीदिशमाववार त्रिभिश्च सा तैर्दिशमिन्द्रगुप्ताम् ॥ २४ ॥ आमन्त्र्य मूर्ध्ना प्रणतेन शंभुमारुह्य च स्यन्दनमग्रतस्तम् । संप्रस्थितं पार्थिवमन्वयासीत्स्रोतः परं कीर्तिरिवास्य मूर्ता ॥ २५ ॥ गङ्गोर्मिभिर्मन्दमनुप्रवृत्तैर्गच्छन्पुरस्तादथ तच्छताङ्गः । आकृप्यमाणामलशृङ्खलस्य गन्धद्विपस्यापजहार शोभाम् ॥ २६ ॥ क्वचित्पतन्ती क्वचिदुत्पतन्ती क्वचिच्च यान्ती चिरमुत्पथेन । सा तत्र चण्डीशजटावनान्ते संभ्रम्य दिङ्मोहवतीव रेजे ॥ २७ ॥ पादे पतन्ती परितः स्पृशन्ती गात्राणि पर्यङ्कतले लुठन्ती । कालाद्वहोरुत्कलिकावतीव कामं गुरोः सा विजहार पार्श्वे ॥ २८ ॥ दृष्टानि कौमारविहारकाले दृश्यानि नीहारगिरेस्तटानि । द्रष्टुं चिरात्कौतुकशालिनीव सा सर्वतस्तत्र समारुरोह ॥ २९ ॥ ग्रस्तोदकायां मयि शंकरेण किं नाम मह्यं कृतवानसि त्वम् । नाहं सुता ते न गुरुर्मम त्वमिति क्रुधेवाथ जहौ हिमाद्रिम् ॥ ३० ॥ अथाद्रिशृङ्गादवतीर्य भूमौ सा तत्र मन्दं सरिदुच्चलन्ती । आरब्धयज्ञस्य जगाम जहोरभ्यर्णमालोकितुमादृतेव ॥ ३१ ॥ ७ मौलौ निवासादमृतांशुमौलेर्दक्षाध्वरध्वंसदृढव्रतस्य ।
B
संक्रान्ततद्द्वीतिरिवाभ्रगङ्गा जहोरवध्वंसयति स्म यज्ञम् ॥ ३२ ॥ मदुर्भिवेगापहृताः सुराश्च कियत्कियद्यत्र हविर्लभन्ते ।
किं तत्र नार्है ग्रसितुं ममेति जग्राह सर्वे हविरभ्रगङ्गा ॥ ३३ ॥ ६ सर्गः ]
गङ्गावतरणम् ।
एतावदायस्यसि किं वृथैव जहो सकृन्मज्ज जले मदीये । स्वर्गे च याहीत्यनुगृह्णतीव तं मज्जयामास तरंगिणी सा ॥ ३४ ॥ सुराः पुरोडाशचरुध्रुवाज्यस्त्रीकारसातत्यगतक्षुधोऽपि । उदन्यया केवलमर्दिताः किमाकर्णमम्भः पपुरभ्रसिन्धोः ॥ ३५ ॥ पुरा पतन्ती मुकुटे पुरारेलेंभे फलं या किल दुर्विनीतेः । भूयोऽपि सैवापचकार जह्नोः कुतः प्रकृत्या कुटिलोपशाम्येत् ॥ ३६ ॥ यामापतन्तीं महता रयेण संरभ्य तावजगृहे महेशः ।
तां लीलयैवापिवति स्म जह्नुस्ततोऽप्युदमा ननु तं प्रपन्नाः ॥ ३७ ॥
क्वायं मुनिः क्षत्त्रकुलप्रसूतः व सा नदी शंभुजटैकधार्या ।
ग्रस्तामुना सैव यदि क्षणेन केनाधिगम्यस्तपसां प्रभावः ॥ ३८ ॥
राजर्षिरेको विचंकर्ष गङ्गामन्यः पुनस्तां कवलीचकार ।
ब्रह्मर्षिभिर्धिग्धिगितः परं वा संन्यस्यतां किं नु तपोभिमानः ॥ ३९ ॥
जातैव नीता विबुधैरियं द्यां शप्ता निरुद्धापि च वेधसा स्याम् (?) ।
ग्रस्ता शिवेनाप्यथ जह्नुना च कस्मिन्क्षणेऽजायत न प्रतीमः ॥ ४० ॥
कन्या तवेयं भवितेति देवैर्याचे मुने त्वामिति तेन चोक्तम् ।
जहुर्जही कर्णपुटेन गङ्गां कर्णाहते यच्छतु काङ्क्षितं कः ॥ ४१ ॥
रुद्धा चिरं यच्छुतिसेतुमध्ये बद्धा चिरं यच्च जटासु शंभोः ।
सा निर्ययौ वासनया तथैव विशृङ्खलं कर्णपुटान्महर्षेः ॥ ४२ ॥
तां जहुकोपाद्व्यसनं प्रपन्नां कालाद्वहोः क्षोणितलेऽवतीर्णाम् ।
नद्योऽनुरक्ता इव तत्र तत्र तरङ्गहस्तैर्दृढमालिलिङ्गुः ॥ ४३ ॥
गच्छन् पुरस्तस्य रथो यथेच्छं गङ्गा च पश्चात्तमनुव्रजन्ती ।
प्रायेण धाटीग्रहणप्रसक्तौ बालावुभौ केलिपराविवास्ताम् ॥ १४ ॥
प्रवर्तते पावयितुं प्रदेशं यं यं नदी सा पुर एव तस्याः ।
तं तं पुनन्तः स्वयमूर्भिवातास्तस्यै ददुर्नावसरं कदाचित् ॥ ४५ ॥
५३
१. स्वर्वीचिशीकरासारचारसमीरकिशोरसंस्पर्शनेन निजदर्शनेन चाशेषकिल्बिषविशोषणात्केवलं सकलजन देह निर्णेजनमात्रलम्भितफलसलिलाम्' इति धर्मविजये दृश्यते. ५४
काव्यमाला ।
भिन्दन्तमद्रीन्सरसीर्विशन्तं व्यापाटयन्तं च वनान्तराणि । प्रवाहमस्या नयति स्म यत्नाद्भगीरथो मत्तमिव द्विपेन्द्रम् ॥ ४६ ॥ अन्योन्य संभेदसमुच्छ्रितासु कल्लोलरेखासु कदाचिदस्याः । भूयः खलोकाक्रमसाध्वसेन दूरे सुरा दुद्रुवुरन्तरिक्षे ॥ ४७ ॥ स्वर्गादमर्त्यानवरोपयन्ती खच्छन्दतादुर्ललितैस्तरङ्गैः ।
मर्त्यानपि खाम्भसि मग्नमात्रान्दिवं नयन्ती विजहार गङ्गा ॥ ४८ ॥ विन्ध्यो गिरिः कुम्भजकोपभीतो गङ्गा च जहुग्लपितावलेपा । शङ्के समानव्यसनाविवेमौ समीयतु सविधेऽथ काश्याः ॥ ४९ ॥ भत्त्या परित्यज्य गतिं सगव भक्तं पुरस्कृत्य भगीरथं च । विवेश विश्वेशितुरन्तिकं सा जानाति येनास्य जटाप्रभावम् ॥ ५० ॥ त्यक्तावशिष्टं कियदम्बु गाङ्गं सारूप्यभाजां कतमेन लभ्यम् ।
इत्थं सचिन्ते सति विश्वनाथे काशीमयासीदियमिङ्गितज्ञा ॥ ५१ ॥ त्रय्यन्तसिद्धाञ्जननिर्मला क्षैस्तपोधनैरप्यनवेक्षितं यत् ।
आलक्ष्यते धाम तदेव यस्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ ५२ ॥ यामभ्युपेताः परया समृद्ध्या भिक्षाशिनो दिग्बसना भवन्ति । यामावसन्तो भववन्धमुक्त्यै देहार्ध एवाकलयन्ति दारान् ॥ ५३ ॥ भस्माङ्गरागाः शिरसः कपालं पात्राय माल्याय च जालमस्नाम् । जना यूदीयाः पुनराददानास्तनुं त्यजन्तीव न तु त्यजन्ति ॥ ५४ ॥ आतन्वतीमुज्झिततारतम्यमाब्रह्मकीटं जगदेकरूपम् । यामप्रबुद्धा इव पण्डिताश्च श्रेयः किमासादयितुं श्रयन्ते ॥ ५५ ॥ सारूप्यंभाजो बहवोऽत्र शंभोश्चत्वारि वॠाणि पुनर्विधातुः । एकेन चैकं लवितव्यमित्थं प्राप्ते गतिः केति भणन्ति यस्याम् ॥ ५६ ॥ प्राङ्मजयन्ती सलिलावलेपात्प्राप्तं पुरो यं कमपि द्युसिन्धुः । तस्मिन्महेशे पुनरवगेव यस्यां परित्रस्यति तज्जटाभ्यः ॥ ५७ ॥ पठन्ति यस्यामथ पाठयन्ति प्राज्ञाः शतं निर्मिमिते कृतीश्च । अस्थीन्यपूतान्यहयो न धार्या भोज्यं विषं नेति तु नावयन्ति ॥ ५८ ॥ आसाद्य यत्राक्षरमेकमीशात्प्राणैर्विमुच्यार्धपथं प्रपन्नैः । ६ सर्गः ]
गङ्गावतरणम् ।
सहे नराश्चेत्पशुपक्षिणोऽपि ... सर्वभूता स्म इति स्मयन्ते ॥ ५९ ॥ सा तत्र सिन्धुर्विशती प्रसन्ना सेव प्रसन्नाश्च गिरः कवीनाम् । गभीरताखादिमवेगमूलां स्पर्धामबघ्नन्नितरेतरेण ॥ ६० ॥ मय्यागतायामपि मुक्तिदायां तीर्थैः किमेभिः किमथापि लिङ्गैः । इतीव काश्यामुभयानि तानि सा मजयन्ती शतशो व्यचारीत् ॥ ६१॥ अम्भोभरैराश्रममण्डलानि संप्लावयन्ती शतशो मुनीनाम् ।
प्रायेण तत्पापजिहासयेव ममज्ज गङ्गा मणिकर्णिकायम् ॥ ६२ ॥ आपाततः खाद्विव तत्त्वतस्तु क्रूरादपि क्रूरतरं यद॒म्भः ।
पीते कणेऽप्यस्य शरीरिणो यत्पिबन्ति हालाहलमप्ययत्नम् ॥ ६३ ॥ ऐश्वर्यलोभात्खमुपागतानां कर्णे जपन्किचन देहभाजाम् ।
यः कोऽपि यस्यां कितवावतंसो भिक्षाकपालानि करेषु दत्ते ॥ ६४ ॥ भर्तु स्वमेकं वपुरप्यशक्त्या प्रायः खतीराश्रयणां जनानाम् । शिष्येषु विन्यस्यति या त्रिलोकसृष्टिस्थितिध्वंसमहाधिकारम् ॥ ६५ ॥ एकैकमस्याश्च॒लुकं वहेयुरेते यदि क्वेव भवेद्दचुसिन्धुः ।
इति क्षितीशे विभयांबभूव पश्यन्प्रजास्तत्र महेशरूपाः ॥ ६६ ॥ ग्रस्ता जटाभिः प्रथमं पुरारेर्ग्रस्ता ततो या चुलुकेन जहोः । ब्रह्मर्षिभिः सात्र पपे दृशैव भग्नः सकृद्भज्यत एव भूयः ॥ ६७ ॥ सा वेगादथ मणिकर्णिकाजलान्तःसंपातप्रतिहतिसंभवैर्द्युसिन्धुः । व्याकीर्णैर्नवकुसुमैरिवाम्बुलेशैर्विश्वेशं विनयपरिष्कृता ववन्दे ॥ ६८ ॥ स्वच्छन्दप्रचरद्भगीरथरथकारधाराश्रवप्रत्युद्यन्मुनिलोकलोचनपुटीनिर्वेदसर्वेकपैः स्रोतोभिर्घनसारसान्द्रशिशिरैः खर्लोककल्लोलिनी
तामालिम्प दिवेन्दुचूडनयनज्वालाजटालां पुरीम् ॥ ६९ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठ मतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे काशीप्रवेशो नाम षष्ठः सर्गः । ५६
काव्यमाला ।
सप्तमः सर्गः ।
अथ संनिहितं भगीरथं सरितं तामपि तद्र्थानुगाम् । अवलोकितुमिच्छतां नृणामतुलस्तत्र बभूव संभ्रमः ॥ १ ॥ अगृहीतविवेकमापणानुपसंहृत्य सवेगमेकतः ।
पथिकान्वणिजोऽन्वयुञ्जत क नु सा सिन्धुरिति प्रतिक्षणम् ॥ २ ॥
स्थविरेषु गतेषु जाह्नवीसलिलोत्पीडभिया ततस्ततः ।
क्षणमध्ययनोपघाततः परितुष्टा बटवो विजहिरे ॥ ३ ॥
प्रलयेष्वपि ये न शिक्षिताश्चिरमानन्दवनीनिवासतः ।
मुनयः किल ते चिरायुषः सुरसिन्धूर्मिषु विस्मयं दधुः ॥ ४ ॥
चरमं ववृषे भगीरथः शिशिरैरत्र नदीपयः कणैः ।
पुरतस्तु तदा पदे पदे पुरयोषित्करलाजमुष्टिभिः ॥ ५ ॥
पथि दिव्यनदीभगीरथौ प्रचलन्तौ शनकैः सविभ्रमम् ।
अवलोक्य शिरोगृहस्थिता हरिणाक्ष्यो विदधुर्मिंथः कथाः ॥ ६ ॥
स्खलनात्कचिदुन्नते पथि स्तिमितं पश्य रथं क्षिपन्त्यमी । रभसाहतचक्रमण्डला रथदण्डा इव हुजोर्मयः ॥ ७ ॥ पतितामिह कर्णिकां चिरात्प्रतिलप्यार्पयितुं महेशितुः । किमियं मणिकर्णिकासरस्यवगाढा सरिदारसातलम् ॥ ८ ॥ सखि कर्षसि किं भगीरथं नयनैः प्रान्तनिविष्टतारकैः । अदसीयरथानुपातिनी ननु मुग्धे सुरसिन्धुरेप्यति ॥ ९ ॥ तमनुप्रहिणोषि किं दृशौ सखि नेमे पुनरागमिष्यतः । ननु चोपदिशाम एव ते प्रथमं तेन वयं प्रतारिताः ॥ १० ॥ इयदुच्चलितापि जाह्नवी न किमप्याहरतिस्म वस्तु नः । अनुमातु मृषातपखिना हृदयस्थैव हृता गभीरता ॥ ११ ॥ इयमप्यपरा वराकिका दृगिवास्माकममर्त्यवाहिनी । अनुगच्छति तत्र तत्र तं पुरतो गच्छति यत्र यत्र सः ॥ १२ ॥ अवसन्तममन्दमारुतं जगदेनज्जयतो नृपादितः । स्वयमेव सखि स्मरः स्वयं शरचापावपि नाम संन्यसेत् ॥ १३ ॥ ७ सर्गः ]
गङ्गावतरणम् ।
ननु दृष्टिपथेऽवतिष्ठसे नरनेतुः सखि दूरतो व्रज ।
प्रतिपश्यति सोऽपि चेदितः प्रलयोऽयं ननु पौरयोषिताम् ॥ १४ ॥
अलमेनमुदीक्ष्य निर्दयं सखि सौधादवरुह्यते [मया] ।
त्वमिहाख मनो बहिर्गतं मम चेदेति निरुद्ध्य शंस मे ॥ १५ ॥
सरिदन्तरसंगमागसा स्वयमागन्तुमनिच्छतीमयम् । महिषीमुदधेरसंशयं मदनोऽयं नयते तदन्तिकम् ॥ १६ ॥ तरुणे शरदिन्दुसुन्दरे तरलापाङ्गवशंवदस्मरे ।
कृतमानपरिग्रहाः क्षणं किममुष्मिन्नपि सन्ति योषितः ॥ १७ ॥ अधिगोपय मैनमाशये सहसैवोत्सृज यात्वयं क्वचित् ।
ननु चायतपातिभिः शरैर्मदनो मर्मसु ताडयिष्यति ॥ १८ ॥ हिमशैलनिषण्णकिंनरीनयनोपान्तनिपीतशेषितम् ।
पिवतां नृपमेनमायतं नयनानां न किमस्ति नस्त्रपा ॥ १९ ॥
अपचित्य रसालपल्लवान्यधिरुह्य स्फटिकस्थलीमपि ।
अवलोकयितव्यमेवमप्ययि मुग्धे किमवेक्षसे हठात् ॥ २० ॥
त्वरयन्नुषिताः सुखेन नः स्वयमेवैनमवेक्षितुं नृपम् ।
प्रहरन्पुनरित्थमाशुगैः प्रसवास्त्रः कथमद्य जीयताम् ॥ २१ ॥
दहतीव विधौ वनप्रिये परुषं जल्पति कुप्यति स्मरे ।
स्वमनस्यपि खेदतापि ते किमयं निष्फलमीक्ष्यते चिरम् ॥ २२ ॥
इति कर्णपुटेन पार्थिवः कलयन्पौरविलासिनीगिरः ।
प्रचचाल तदा शनैः शनैः परिपश्यन्पुररामणीयकम् ॥ २३ ॥
तनया इव मातरं चिरादुपयातामुपगम्य जाह्नवीम् ।
प्रमदाद्भुतभक्तिशालिनो मुनयो वाग्भिरथोपतस्थिरे ॥ २४ ॥
अपहर्तुमुपायतो विधेर्जननिर्माणमहाधिकारिताम् ।
वितनोषि जनानजन्मनो यदसि प्रागमुनैव यन्त्रिता ॥ २५ ॥
वितरिष्यसि काङ्क्षितानिति त्वयि विश्वासमवानुमः कथम् ।
अपसृत्य वपुर्वपुष्मतां ननु तेभ्यो न ददासि तत्पुनः ॥ २६ ॥
गङ्गा० ६ ५८
काव्यमाला ।
दिश देवि सुतान्दिश स्त्रियो दिश भोगानिति नार्थयामहे । जहिमो वपुरेव गृह्यतां तदिदानीमिति नो मनोरथः ॥ २७ ॥ दिश नः प्रणतैव वाञ्छितं सुरसिन्धो यदि लिप्ससे यशः । वपुरन्तमपि प्रतीक्षसे यदि काश्यां पुनरुक्तिरेव ते ॥ २८ ॥ अमृतं हृतवत्यसि ध्रुवं हरकोटीरमृगाङ्कसंगता । वयमप्यमृतार्थिनस्ततो भवतीमम्ब चिरादुपास्महे ॥ २९ ॥ वसवो बहवो विनाशिता न च गर्ने विधृतोऽपि षण्मुखः । भवतीं सुतनिर्घृणामतो वदितुं मातरिति त्रपामहे ॥ ३० ॥ निगमैस्तव संस्तवो महानपि सर्वज्ञशिरस्यवस्थितिः । परिहर्तुम तस्तवौचिती भवमूलं ननु चक्रकाश्रयम् ॥ ३१ ॥ सुखमाख पुरीह याहि वा न पुनर्जातु यतव मत्कृते । भवितव्यपरिक्रमैः कचित्सकृदस्मानपि सिञ्च शीकरैः ॥ ३२ ॥ स्वतनूविषयामहंक्रियामपहातुं त्वयि मज्जतां सताम् । भुवनत्रयगोचरैव सा पुनरुन्मीलति हा किमद्भुतम् ॥ ३३ ॥ न विमुञ्चसि सावलेपतां ननु मुग्धे शमितापि शंभुना । किमपि प्रणतैव देहिनां किमुपारोहसि मस्तकस्थलम् ॥ ३४ ॥ इति जह्रुसुतास्तवोक्तिभिर्मुखरे तत्र मुनीन्द्रमण्डले । अवरुह्य भगीरथो रथादगमद्विश्वपतेरुपान्तिकम् ॥ ३५ ॥ शतशः परितोप्य शंकरं प्रणिपातैर्मुदितो भगीरथः । सुकुमारतरैः सुगन्धिभिः कुसुमैरर्चयति स्म वाङ्मयैः ॥ ३६ ॥ भव भूतपते विषाशनो भव भिक्षुर्भव भोगिभूषणः । तदपि प्रतिपत्तुमर्थये तव सारूप्यविडम्बनामहम् ॥ ३७ ॥ अयि लुब्धकताधिरोप्यतामपि वा भिक्षुकतामिनीयताम् । इयतैव किमर्थिनो नरा जहति त्वां कपटैकशिक्षिताः ॥ ३८ ॥ मदनान्तकविष्टपत्रयक्षुधिताह्रादनकङ्कणाङ्कया । अपि नोदरमन्नपूर्णया तव पूर्येत विनैव भिक्षया ॥ ३९ ॥ ७ सर्गः ]
गङ्गावतरणम् ।
जटिलोsसि दिगम्बरोऽसि यज्जितकामस्य तदर्हमेव ते ।
गुणगृह्य इतीदमुच्यसे किमपि च्छादय सव्यमङ्गकम् ॥ ४० ॥
स्वयमेव दिशन्मदीप्सितं वह निःश्रेयसदानशौण्डताम् ।
परथापि तदर्पयिष्यते ननु गङ्गामणिकर्णिकादिभिः ॥ ४१ ॥
भुवनत्रयभारवाहिना भवता मे भवितुं न कौतुकम् ।
भवदविसरोजसेविषु प्रमथेष्वेकतरत्वमस्तु मे ॥ ४२ ॥
भवबन्धहरोऽस्मि देहिनामिति विश्राम्यतु वीरघोषणा ।
चतुरो यदि पूर्वमात्मनः लथय त्वं त्रिजगत्कुटुम्बिताम् ॥ ४३ ॥
सति हेमगिरौ शरासने सति वेश्मन्यपि राजते गिरौ ।
भवता शिव भैक्षवृत्तिना क्रमितव्यः समयः कियानयम् ॥ ४४ ॥
वहसीन्दुमनेन किं भवेद्भवतो वस्तुषु सारवेदिता ।
भवदादरणात्कपालवद्भवति प्रत्युत तस्य हेयता ॥ ४५ ॥
त्रिपुरेषु परीक्षितं स्मितं मदनो वेद कटाक्षमीश ते ।
ननु नाम जनो जिजीविषुर्बहुमानं भवतोऽर्थयेत कः ॥ ४६ ॥
सकृदत्र समेयुषां नृणां शिरसि स्थापयसे सुरापगाम् ।
अमुमर्थमजानता मया कियदस्यै सरिते कृतं तपः ॥ ४७ ॥
५९
इति स्तुवन्मुकुटनिवेशिताञ्जलिर्भगीरथः प्रणतशिवंकरं हरम् । न्यवर्तत क्षणगमनोपरोधतः क्व जाह्नवी प्रतिचलिता तटादिति ॥ ४८ ॥ अथ नृपमधिरूढस्यन्दनं यान्तमग्रे सुरसरिदनुयान्ती वीचिभिर्मन्थराभिः । विहितजनकुटुम्बा संनिधौ दण्डपाणेर्बलवदनुगमेऽपि प्राप्तशङ्केव रेजे ॥ ४९ ॥ आचान्तो नयनैरपक्ष्मवलनैरायम्य पारैर्जनैर्धावं धावमुपावरुन्ध्य सरणि सङ्घीभवद्भिः पुरः । ६०
काव्यमाला ।
स्पृष्टः साधय साधयेति लहरीहस्तैरिवान्वक्तया
त्रस्यन्त्या पुरशासनादतिययौ देवः स वाराणसीम् ॥ ५० ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्री मदाच्चा दीक्षित पौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे विश्वेश्वरस्तवो नाम सप्तमः सर्गः ।
अष्टमः सर्गः ।
समतिलङ्घय पुरीमथ काशिकां स पुरतः प्रचचाल भगीरथः । सुरसरिज्जलसंप्लवसंभ्रमक्षुभितजानपदेन पथा शनैः ॥ १ ॥ नरपतेर्दधतीव सहायतां नगरपार्श्वचरी सरयूस्तदा ।
पथि पुनः स्वयमेव समागता परिचकर्ष नभःसरितं क्षणात् ॥ २ ॥ अनुसृतः सरितैष पलायते नेनु बलादनया हियते हठात् ।
इति नृपः पशुभिः स निसर्गतो निजगदे पथि जानपदैर्जनैः ॥ ३ ॥ पथि चचाल भगीरथदर्शिते सुरनदी नेदमहं स्तुवे ।
..
पथि तदाचरिते ननु तद्भुवा प्रकृतिमण्डलमेव नियम्यते ॥ ४ ॥ कियदितश्चलितव्यमिति श्रमव्यतिकरादनुयोक्तुमिबोद्यता । असकृदस्पृशदूर्मिकराग्रतः प्रचलितं पथि तं पुरतो नदी ॥ ५ ॥ चिरनिरूढमनोरथमालिका सुरनदी दयिताननचुम्बने । कलयति स्म मुखानि सहस्रधा सति समीपगते मकरालये ॥ ६ ॥ पथि विलम्ब्य विलम्ब्य पदे पदे गिरिगुहासु निलीय निलीय च । उपजगाम कथंचिदुपान्तिकं नववधूरिव नर्मसखस्य सा ॥ ७ ॥ अनशनव्रत कर्शितकुम्भभूसलिलपारण संशयिताम्भसः ।
अवततार बिले किल केवले जलनिधेरथ भूमिपते रथः ॥ ८ ॥
तमसि तत्कुहरोपहिते महत्यनुचिता तपनातपसंकथा ।
तपन एव यदि स्वयमापतेद्भवति कज्जलपिण्ड इव क्षणात् ॥ ९ ॥
१. मातृकायां 'न न बलादनया' इत्येव वर्तते. ८ सर्गः ]
गङ्गावतरणम् ।
उपनिपत्य पुरेव पिपासया जिगमिषन्ति न यावदितोऽन्यतः । जलधरा इति तावदबिन्धनो हुतवहः किल तानपि जग्रसे ॥ १० ॥ प्रतिनवाम्बुदशीकरसेचनप्रकटितोष्मणि तत्र हि यादसाम् । ज्वरमधत्त यथा जलदागमो न तु तथा मधुमासविपर्ययः ॥ ११ ॥ प्रतिनिदाघविरामसमाहितैर्जलधराम्बुभिराहितवृत्तयः ।
६१
कतिचिदासत कण्ठगतासवो जलपतेः पुरि तोरणवालकाः ॥ १२ ॥ पतिभिया निपतेयुरितोऽद्रयः क्षितितले जगदण्डमितः स्फुटेत् । तदनु चावरणोदकमुत्पतेदिति मनोरथमूहुरिह स्थिताः ॥ १३ ॥ प्रियतमाभिगमाय सुदूरतोऽप्युपगताः सरितो जलदागमे । तमनवेक्ष्य शुचेव तदास्पदे प्रथम एव पदे विलयं गताः ॥ १४ ॥ क्षितिभृतः कुलिशाहतिकातराः शरणमित्यभजन्त यमर्णवम् । स च बभूव कैथा परिशेषितो विधिरां मुखता ननु तादृशी ॥१५॥ कबलितास्तिमिभिः शफरार्भकाः सुखममंसत जीवनतो मृतिम् । सलिलशालिषु तद्वदनाध्वसु क्षणपरिक्रमणोत्सवलिप्सया ॥ १६ ॥ वचन भानुसुतादिमहानदीपतनतः शिशिराखिव भूमिषु । परिमितानभितस्तनुशोषण जलधरानवलोक्य शुशोच सः ॥ १७ ॥ रविकरोपनिपातविशोषितस्फुटितकर्दमरन्ध्रनिरन्तरम् ।
बिलमवेक्ष्य विभाय स वारिधेः सुरनदी सलिलव्ययशङ्कया ॥ १८ ॥
चिरमनेन पथा परुषोष्मणा प्रतिनिशं प्रचरन्नपि चन्द्रमाः ।
कथमहो न कदापि विलीन इत्यसक्कदाकलयन्स विसिस्मिये ॥ १९ ॥
अथ भगीरथदेवपथानुगा सुरनदी तदवाप बिलं भुवः ।
प्रथममावसथादिव वेधसः प्रमथनाथजटागहनोदरम् ॥ २० ॥
सति सरस्वति सन्ति पयोधराः सति तदम्भसि सन्ति च सिन्धवः ।
तदिह काम्बुकथेति विषीदतामभयदेयमजायत यादसाम् ॥ २१ ॥
१. 'कथापशेषितो' इति मातृकायाम्. २. सरस्वति = समुद्रे. 'सरखान् सागरोऽर्णवः'
इत्यमरः. ६२
काव्यमाला ।
कियदिदं परिपूरयितुं भवेत्सगरसू नुनखाग्रकृतं बिलम् ।
इति पतद्भिरपि स्मयमन्धरं सिमसिमायितमेव तदुर्मिभिः ॥ २२ ॥ समदवल्गदमर्त्यतरङ्गिणीशफरवर्गनिरीक्षणलज्जिताः ।
अनुबभूवुरहो नु महोत्सवं तमपि सिन्धुशया जलजन्तवः ॥ २३ ॥ मधुरिमैकरसापि सुरापगा लवणतामगमत्पतितार्णवे ।
भुवनमूल्यरसापि हि साहिती कुकविवऋगता कुरुते व्यथाम् ॥ २४ ॥ सुरनदीसलिलानिलताडितः परिजहौ भसितावरणं पुनः ।
अधित धूममथाग्निरबिन्धनः सति समीपतले पुनरातेि ॥ २५ ॥ पयसि संभृत एव यथापुरं जलनिधौ मिलिता जलजन्तवः । यदि भवन्ति कथंचन संपदो भवति का खजनेषु दरिद्रता ॥ २६ ॥ सगरनन्दनरन्ध्रसमुत्पतद्भुजगराजपुरीतिमिरावृते ।
जलनिधेः कुहरे लुठनादभूत्सुरनदीसलिलेष्वपि नीलता ॥ २७ ॥
समुपलभ्य पयांसि यथापुरं मुमुदिरे न तथा जलमानवाः ।
सलिलशोषदशासु लयं गतान्समनुचिन्त्य शिशूनरुदन्यथा ॥ २८ ॥
समधिकोष्मणि तत्र विलिलियरे निपतिताः प्रथमे सरिदूर्मयः ।
सपदि पूरितसागरवीचिकाप्रतिहताश्चरमे तु निवर्तिताः ॥ २९ ॥
चुलुकितो मुनिनापि गतत्रपः परिजुघोष पुरेव तदार्णवः ।
मतिमता ध्वनितव्यमदोषवत्क इव वेद गतं सदसच्च वा ॥ ३० ॥
अयमगाहत शोषमिह स्थिता जलचरा बहवः प्रलयं गताः ।
इति तदम्बुनरा मुदिताः क्षणादकथयन्गतकल्पकथामिव ॥ ३१ ॥
अथ पतन्तममुं नृपते रथं तमपि सागरपूरणनिखनम् ।
युगपदेव पपुः सुखमीक्षणैर निमिषैरहिलोकपुरंध्रयः ॥ ३२ ॥
फणधरालयमूलनिवासिनं प्रमथनाथमवेक्ष्य भयेन वा ।
क्षणनिरुद्धतरङ्गरया पुनः परिपपात भगीरथबोधिता ॥ ३३ ॥
कनकभूधरमूलमणित्विषा गलितसंतमसेऽथ रसातले ।
भुजगराजभुजार्गलपालितां धुरि ददर्श स भोगवतीं पुरीम् ॥ ३४ ॥
१. 'निवासिनप्रमथनाथ' इति मातृकायाम्. ८ सर्गः ]
गङ्गावतरणम् ।
प्रवसतो विनिवर्तयितुं पतीकृतधियः किल यत्कणिकन्यकाः । पथि कुहापि तदीक्षणगोचरे परिनिपत्य भवन्ति गतज्वराः ॥ ३५ ॥ स्खयमुपेतसमीरकृताशनैः स्फुटितभूविवरोदरशायिभिः । फणधरैरनपेक्षितवेतनैः प्रभुरवर्तत यत्र स वासुकिः ॥ ३६ ॥ सदनमेत्य स जग्धिकृते सखीन्समुपहूय निवेश्य च पकिशः । विदधति व्यजनैरुपवीजनं किमपि यत्र मुखेष्वनिलाशनाः ॥ ३७ ॥ सति फणावलयातपवारणे सति च तन्मणिदीपशिखाङ्कुरे । घनत टिज्जटिलेषु घनागमेष्वभिसरन्ति न यत्र फणिस्त्रियः ३८ ॥ न विधुरस्ति न दक्षिणमारुतः क इव तद्विधुरः कुसुमायुधः । तदपि शासनमस्य दुरुत्तरं शिरसि बिभ्रति यत्र फणिस्त्रियः ॥ ३९ ॥ ऋतिचिदच्युतमञ्च कुलोद्भवाः कतिपये हरकुण्डलवंशजाः । रविरथाश्चगुणान्वयजाः परे तदिह तार्क्ष्यभयं न यदोकसाम् ॥ ४० ॥ अधुतसिद्धशिरोमणिभूषणो ग्रथनविश्लथनासहकञ्चुकः । अघृतकुण्डलमुग्धमुखाम्बुजो जयति यत्र भुजङ्गवधूजनः ॥ ४१ ॥ सति महावरणेऽपि हि यज्जना न दधते परिखाखनने त्वराम् । तनुतराजभवाण्डकरण्डकाघरकपालपरिक्षतिशङ्कया ॥ ४२ ॥ परिपतत्सु ततः स समन्ततः खमवलोकयितुं पुरवासिषु । बहिरभीतवदास्त हृदा पुनः परिजजाप पतङ्गपतेर्मनुम् ॥ ४३ ॥ पतति तत्र सुधाशनदीजले फणधराः कतिचित्पथि पातिनः । प्रविशिशुर्भयसंकुचिताङ्गका रथविटङ्कपदेषु महीपतेः ॥ ४४ ॥ प्रमथनाथजटापटलापतत्फणधरेन्द्रमुखादखिलां कथाम् । श्रुतवतां किल तन्नगरौकसां सुरनदी न बभूव भयावहा ॥ ४५ ॥ प्रविशतीषु रसातलमण्डलं त्रिदशसिन्धुजलोरगपङ्किषु । अजनि बन्धुसमागम संभवः फणभृतां प्रतिमन्दिरमुत्सवः ॥ ४६ ॥ अथ परीत्य स भोगवतीं पुरीममरसिन्धुसखो वसुधेश्वरः । शुचि विविक्तमनोरममासदद्भगवतः कपिलस्य तपोवनम् ॥ ४७ ॥ १. 'सदनमेत्य स' इत्येव मातृकायाम् (सदनमेय च ?).
६३ ६४
काव्यमाला ।
कपिलकोपहुताशन संभृतं स पुरतः पितृभस्म निरीक्ष्य तत् ।
प्रमदशोकसमागममूच्छितो द्विविधमनु दधौ युगपदृशोः ॥ ४८ ॥
अथ रथादवतीर्य भगीरथे सगरजानुपसर्पति वीक्षितुम् । भसितराशिममज्जयदम्भसा भगवती सुरलोकतरङ्गिणी ॥ ४९ ॥ सुरसरित्कवलीकृतशेषितं दिवि यदास्त पदं त्रिदिवौकसाम् । तदपि तत्क्षणनिर्हृतकल्मषैरपहृतं बलिभिः सगरात्मजैः ॥ ५० ॥ प्रथमलब्धसुरालयसंभृतप्रतिनवामृतपानगलत्तृषः । तद्पवर्जितमञ्जलिमम्भसामपि पपुः पितरः सुतवत्सलाः ॥ ५१ ॥ अथ नदीमवगाह्य विनिर्गतः क्षितिपतिः परिपूर्णमनोरथः । मृदुगभीरपदामशृणोद्दिवि स्तुतिं .......चतुराननगुम्फिताम् ॥ ५१ ॥ न सगरोऽयमविन्दत नांशुमान्न च भवज्जनकस्तपसि स्थितः । तमपि लब्धवतोऽद्य मनोरथं तव यशो न गिरां पथि वर्तते ॥ ५३ ॥ श्रुतिगिरोऽपि विचित्य विचित्य यं विफलयन्ति परिश्रममात्मनः । समुपलभ्य तमेव महेश्वरं क इव नाम नियोजयितुं प्रभुः ॥ ५४ ॥ दशमुखोऽपि यदमिनियन्त्रितान्परिचकर्ष पुरा न भुजान्निजान् । क इव तस्य कपर्दपथंगतां सुरनदीमपि कर्षतु साहसी ॥ ५५ ॥ यदभजन्त दिवं सगरात्मजा यदपि सिन्धुरपूर्यत शोषितः । यदुपयन्ति नराश्च परं पदं तदखिलं तब तात तपोबलात् ॥ ५६ ॥ तव भगीरथ वत्स सुतार्थिनस्तनुभवा सरिदस्त्वियमादिमा । इति निशम्य गिरं परमेष्ठिनः परिजहौ स तपोजनितां व्यथाम् ॥ ५७ ॥ ततः समामन्त्र्य वियन्नदीं तां तदम्बुसंपातपथेन देवः । अपाङ्गपातैः फणिसुन्दरीणामनुद्रुतः प्राप तटं पयोधेः ॥ ५८ ॥ ततश्चिरादेत्य तटं पयोधेः प्रतीक्षमाणा नृपतेर्निवृत्तिम् । चमूसमेताः सचिवास्तदीयास्तमुत्पतन्तं सलिलादपश्यन् ॥ ५९ ॥ समुद्यतस्तस्य जलान्नृपस्य मुखेन मुग्धस्मितसुन्दरेण । उल्लासमासादयति स्म सेना वेलेव सिन्धोः शशलाञ्छनेन ॥ ६० ॥ १. 'समुद्यतः' इति षष्टयेकवचनम्. ८ सर्गः ]
गङ्गावतरणम् ।
तपोविपाकेन निसर्गतोऽपि तमप्रधृष्यं च शनैरुपेत्य ।
पौरैरहंपूर्विकया प्रणेमे तदग्रविन्यस्तमहोपहारैः ॥ ६१ ॥
दृष्ट्यानुकम्प्यानथ संबभाषे संभाषितव्यान्पुनरालिलिङ्ग ।
आलिङ्गितव्यान्प्रणनाम वीरः पौरैश्विरादुत्सुकतां प्रपन्नः ॥ ६२ ॥
६५
प्रख्यापितं प्राक्सुरलोकसिन्धुतरङ्गरेखाजयडिण्डिमेन । पृष्टं प्रधानैः सचिवैरुदन्तं संगृह्य वीरः स्खमुदाजहार ॥ ६३ ॥ अलङ्घयवाक्यैरथ बन्धुवर्गै/प्तैरमात्यैरनुजीविभिश्च । संप्रार्थ्यमानः सममंस्त वीरः स राजनेपथ्यविधिं तदानीम् ॥ ६४ ॥ मन्दाकिनीमज्जनपूतमेको विसंसयन्नस्य जटाकलापम् । उन्नम्य मौलिं ग्रथयांबभूव मुक्तामयैर्दाम भिरेव सान्द्रम् ॥ ६५ ॥ स दुग्धसिन्धूदरजन्मनेव शुद्धेन रेजे श्रुतिमौक्तिकेन । कीर्येव कर्णेगतया दिगन्तसमाक्रमोदन्तनिवेदनाय ॥ ६६ ॥ आपाण्डरे चन्दनचर्चिकाभिरामुक्तमुक्तासरलोभनीये । वक्षःपदे तस्य चिरेण लक्ष्मीर्भस्माङ्गरागव्यसनं मुमोच ॥ ६७ ॥ चचार कर्णद्वयसानुरागे चित्ते यदन्तःपुरसुन्दरीणाम् । स तेन संरक्त इवाबभासे परिष्कृतः काञ्चनकञ्चकेन । ६८ ॥ स पादमूलग्रथितासिधेनुराबद्धतूणः समुपात्तचापः । मुखेन रक्तान्तविलोचनेन मूर्तो रसो वीर इवाबभासे ॥ ६९ ॥ हृष्टेन गङ्गानयानान्नदीनां पत्या धुरि न्यस्तमिवोपहारम् । सखायमुच्चैःश्रवसस्तुरङ्गं स पाण्डरं कंचिदुपारुरोह ॥ ७० ॥ पदेन किंचिच्चलितेन सैन्धवं श्रवा च पर्यन्तविलोलया चमूम् । प्रचालयामास समं भगीरथः शनैस्ततः सागरतीरवर्त्मना ॥ ७१ ॥ हगन्तरान्धंकरणं फणाभृतां दिगन्तगन्धद्विपकर्णदारुणम् । मुकुन्दनिद्रारसमोषभीषणं बबन्ध भेरी पुरतोऽस्य मौखरीम् ॥ ७२ ॥ तदानकध्वानतरङ्गसंप्लवैर्बबन्ध शय्या बलिहन्तुरन्धताम् । समीपमासेदुषि सा किमन्यथा विशङ्कमासीत विहंगपुंगवे ॥ ७२ ॥ काव्यमाला ।
दिवौकसः पाणिविहारमात्रतो दृशोर्निकोचेन परं फणाभृतः । अनेन तेनापि नरा व्यवाहरन्नथ क्षणं गर्जति तस्य दुन्दुभौ ॥ ७४ ॥ कठोरधाराङ्कुशपातसंकुचत्सबृंहितोदस्तमुखा
विषाणिनः ।
कोशवितीर्णसंभ्रमैर्निषादिभिर्दूरत एव निन्थिरे ॥ ७५ ॥
तनुच्छदासञ्जितचर्मपट्टिकानिबद्धकौक्षेयनिषङ्गकार्मुकाः । खलीनरज्जुग्रहणोच्छ्रिताननाः प्रचेलुरश्वाः पुरतोऽस्य सङ्घशः ॥ ७६ ॥ पताकिनीमूलचरो भगीरथः समन्त्रिवर्गैश्चतुररैतर्क्यत ।
अनुद्रुतः प्राक्चिरमभ्रगङ्गया स्वयं च तां किंचिदनुद्रवन्निव ॥ ७७ ॥ योघैस्तरङ्गाननु निप्पतद्भिर्भङ्गैश्च योधाननु धावमानैः ।
चमूचराः
मिथो मृषा युद्धमिवाततान महार्णवस्तस्य बलार्णवेन ॥ ७८ ॥ प्राप्तोपगूहा इव वारिराशेः पर्यन्ततालीवनमर्मरेण । तरङ्गरेखाविलयान्तरेषु सेनारवाः शुश्रुविरे नृपेण ॥ ७९ ॥ दि॒िव्यं पयः क्षोणितलेऽवतार्य संपन्नकीर्तिं तमिवानुकर्तुम् । भौमं रजो वाजिखुरप्रसूतं पताकिनी तस्य दिवं निनाय ॥ ८० ॥ सैनिकावतरदीर्घतरङ्गा संददर्श सरयूमविदूरे । सानुरागमुपगूहितुमग्रे संप्रसारितकरामिव देवः ॥ ८१ ॥ ततो विलम्ब्य क्षणभागमय्य पताकिनीमप्यनुसंपतन्तीम् । स राजचिह्रैरुपसेव्यमानः शनैरयोध्याभिमुखं प्रतस्थे ॥ ८२ ॥ तृष्णाकदुष्णं पततामभीक्ष्णं पौराङ्गनालोचनमण्डलानाम् । उत्सारणायेव स चामराभ्यां संवीज्यमानः शनकैरयासीत् ॥ ८३ ॥ तस्याग्रतो निर्मलमाबभासे साम्राज्यचिह्नं नवमातपत्रम् । पुरौकसां दर्शयितुं नृपेण नीतः कियानंश इवाभ्रसिन्धोः ॥ ८४ ॥ आलिप्तहर्म्याग्रपदं सुधाभिराबद्धहेमध्वजलोभनीयम् । संमृष्टरभ्यं च समन्ततोऽपि भगीरथस्तन्नगरं विवेश ॥ ८५ ॥ पताकिनीभिः प्रविशन्तमन्तर्लाजैरवर्षन्पुरयोषितस्तम् । गङ्गावतारावसरे पुरेव दिव्यैः प्रसूनैर्दिवि देवकन्याः ॥ ८६ ॥ आह्लादिभिर्मङ्गलतूर्यघोषैराशीवचोभिश्च समं जनानाम् । सौधाधिरूढैः शतशोऽवरोधैः संदृश्यमानः सदनं विवेश ॥ ८७ ॥ ८ सर्गः]
गङ्गावतरणम् ।
।
संभाव्य देवः क्रमशो द्विजातीन्बन्धूनमात्याननुजीविनश्च द्वारान्तिकस्तब्धवधूसमाजसंबाधमन्तःपुरमाविवेश ॥ ८८ ॥ वियोगखिन्नास्तपसा विषण्णं खप्नेक्षिताः स्वप्नदशानुभूतम् । स्मेराननाः स्मेरमुखारविन्दं तमभ्युपेयुस्तरुणं तरुण्यः ॥ ८९ ॥ पादे निपेतुः परिरभ्य दीर्घं तस्थुर्मुखैस्तस्य मुखं चुचुम्बुः । संकल्पयोगाच्चिरविप्रलब्धास्तथापि तं नैव विशश्वसुस्ताः ॥ ९० ॥ संरक्षन्ननुजीविनो वितरणैः संप्रीणयन्नर्थिनः पौराञ्जानपदानपि प्रतिदिनं पश्यन्दयादृष्टिभिः । आ वेधोगृहमा रसातलमपि स्वं नाम विश्रावयन्दीनत्राणकृता भुजेन बुभुजे देवः समस्तां भुवम् ॥ ९१ ॥ वाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति । मामेतत्कथयिष्यतीति रचितं काव्यं मया तत्पुन
स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः ॥ ९२ ॥ साहित्यं न हि जानते कतिपये शास्त्रैकनिष्ठा यदि क्षन्तव्यं विदुषामिदं क्व नु पुनः सर्वत्र सर्वज्ञता । उत्पन्नाः किल धूमकेतव इव क्लिश्नन्ति यत्साहितीं
दुर्वेदग्ध्यलवेन केचिदिह तद्दुःखाय विद्यावताम् ॥ ९३ ॥ अस्पृष्टाः कलयापि दुष्कविकुलैरज्ञैरना कर्णिता
६७
ज्ञानाज्ञानवतां कदाप्यपतिता दूरे दुरूहाध्वनि । खेलन्तु श्रुतिसंपुटीचुलुकिताः खैरं रसज्ञैर्जनैः
प्रत्युक्तिच्यवमाननूतनसुधासाराः कवीनां गिरः ॥ ९४ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमत प्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते गङ्गावतरणे भगीरथनगरप्रवेशो नामाष्टमः सर्गः ।
समाप्तोऽयं ग्रन्थः ।