<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>गंगालहरी
पीयूषलहरी व्याख्या सहिता।
Acc- No : १२९०५</p>
<pb n="2" />
<p>LIB CAT
Call Number
Subject Name
Classical Lit.
SubSubject Name Sanskrit Poetry
Language_Name
Sanskrit
Size TypeDesc
Number of Pages
Binding Type
Book Type
Acquisition Method
Acquisition Type
Copy_Type
Donated By
B
71
Paperback Hardbound.
Text Ref Study
Local Vender None
Presented
Review
Printed
Purchased
Exchange
Photo Copy</p>
<pb n="3" />
<p>श्रीः ।
महाकविपण्डितराजश्रीजगन्नाथविरचिता
गङ्गालहरी ।
पीयूषलहरीव्याख्यासहिता ।
विद्वद्वरपणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा
पाठान्तरादिभिः संस्कृता ।
सेयं
मुम्बय्यां
पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणालये
संमुद्र्य प्रकाशिता ।
शाकः १८५२, सन १९३०.
मूल्यं ६ आणकाः ।</p>
<pb n="4" />
<p>श्रीभागीरथीध्यानम् ।</p>
<pb n="5" />
<p>किंचित्प्रास्ताविकम् ।
अयि गीर्वाणवाणीरसिका वसुंधरागीर्वाणाः ! कर्णे कुरुतेमं लघु-
तरं प्रस्तावम् । भूयांसः खल्वत्र मानुषप्राणिनः मुत्पद्यन्ते स्वेस्वेऽ-
वसरे तिरोभवन्ति च । येषां गणना दुःशक्या सहस्राक्षेणापीति
न तिरोहितं विदुषाम् । ते पुनर्मातृजठरान्निर्गता इत्येव संभूता
इत्यभिधीयन्ते । एवंविधं जन्म तिरश्चामपि साधारणमिति कृत्वा
किं तेन जननीयौवनकुठारायितेन जनुषा, किंतु स एव लोके संभूत
इत्यभिधीयते संख्यावद्भिर्यस्य दशस्वपि दिक्षु धावल्येन विसृमरा
कीर्तिः प्रसरति, यस्य चात्यन्तप्रणयिनीव वशंवदा भगवती सर-
स्वती, यश्च मोदयति सुधाधारानिर्विशेषेण मधुरेण स्वीयाचरणेन
स्वान्तानि रसिकानाम् । विरलाः स्वल्वेवंविधा जनिमन्तो वसुधायां
समुत्पद्यन्ते । समुत्पन्नेष्वपि विरला एव नाभिभूयन्ते सहसाऽहंका-
रेण। यमुद्दिश्यायमस्माभिः प्रस्ताव आरब्धः सोऽपि किल महाशयः
प्रतिभटदन्तावलकेसरी पण्डितराजो जगन्नाथ एवंविधैरेवाखिलैर्गुण-
गणैरासीत्संपन्न इति तदैतिह्यं विबुधोद्धृतं यथाश्रुतं प्रस्तूयते--
पण्डितोत्तंसस्यैतस्य जननावसरो यद्यपि न शक्यते यथावन्निर्देष्टुं,
तथापि दिल्लीपतिसमाश्रयणं नानाविधैः प्रमाणैर्निर्णीयमानं ज्ञापय-
त्यापाततोऽस्य स्थितिसमयम् । सोऽयं भामिनीविलासस्यान्तिमोल्लासे
‘दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति स्वयमेव प्रत्यपी-
पदत् । सच दिल्लीशः शहाजहान एवेति निश्चीयते । यतोऽयं आसफ-
विलासकाव्ये शहाजहानमेवास्तोत् । शहाजहानस्तु शालिवाहनीयश-
कस्य षोडशशताब्द्या अपरार्धे अशीत्युत्तरपञ्चशतमिते १५८० शाके
दिल्लीेश्वरत्वमापन्नः सन् तस्यैव शकस्यावसाने कालवशं जागम।
तदवध्येबास्य यौवनारूढस्य दिल्लीनगरे संस्थितिरित्यपि सुवचम्।</p>
<pb n="6" />
<p>आसफविलासे तैलङ्गकुलावतंसेन जगन्नाथेनेति विन्यासादस्या-
भिजनस्तैलङ्गापरनामाऽऽन्ध्रदेश इति निश्चीयते। पिता चास्य पण्डित-
मण्डलीमण्डनायमानः पेरुभट्टो नाम प्रशंसनीयोऽध्यापक आसीत् ।
माता च महासाध्वी लक्ष्मीर्नाम । उभयोः सुकृतातिरेकादेवाखिल-
पण्डितपाण्डित्यगर्वसर्वंकषो जगन्नाथस्तनयः संवृत्तः । एतस्य हि तत्त-
द्रसपूरितेषु पठ्यमानेषु तेषु तेषु पद्येषु तत्तद्रसमयतामिवापद्यते चेतो
रसिकानाम् । मुहुर्मुहुः पठितान्यप्येतस्य पद्यानि पठ्यमानानि नवं
नवमेव कमप्यपूर्वं रसं वितरन्ति ।  पण्डितमूर्धन्यस्यास्य प्रज्ञाप्रकर्षलु-
ब्धेन दिल्लीवल्लभेन शहाजहानबादशाहेन मनोविनोदास्पदा निजतन
यास्मै प्रदत्ताऽतुलपारिबर्हविभवभवनादिदानेन सह । सच तया सहा-
लभ्यान्विविधविषयभोगाननुभुञ्जन् स्वर्पतिरिव दिव्यान्भोगानहरह-
रनुसवनं प्रकामं जुषमाणश्चिरायारीरमत् ।
अथैकदोढया यवन्या सह चरमे वयसि काश्यामुपगतः पण्डि-
तरायस्तदा तत्रत्यैः सभ्यपण्डितैर्यवनकन्यापरिणेतृत्वादव्यवहार्योऽय-
मिति सतिरस्कारं सर्वत्रोदघोषि । पण्डितमण्डलकृताव्यवहार्यताव-
माननाद्विषण्णान्तःकरणो जगन्नाथरायस्तान्प्रावोचत् 'यदि मां मत्प्रे-
यसीं चैनां तत्रभवन्तो भवन्तः पावयेयुर्नयेयुश्चाखिलैर्ब्राह्मणैः सह
पङ्क्तिपावनत्वं तदा युष्मदादिष्टं प्रायश्चित्तमङ्गीकरिष्यामी'ति । तदपि
प्रार्थनं विद्वत्तिरस्कृतमवगत्य, आस्तां किं मेऽवमानोद्युक्तैरेभिर्ब्राह्मणै-
स्तद्वितीर्णेन सामान्येनानेन प्रायश्चित्तेन वा, जगत्त्रयपावनी भगवती
सुरतरङ्गिण्येव नूनं सभार्यं मां पावयिष्यतीति सनिश्चयमाचक्षाणः
पण्डितराजो द्विपञ्चाशत्सोपानान्तरितभागीरथीप्रवाहं कमपि घट्ट-
मूर्धानमधिष्ठाय सुललितपदबन्धनानि एकपञ्चाशत् पद्यानि प्रणीया-
पीपठत् । यान्येव सांप्रतं गङ्गालहरीति पीयूषलहरीति वा सन्ति</p>
<pb n="7" />
<p>सुप्रसिद्धानि । उच्चार्यमाणेषु च तेषु प्रतिपद्यमेकैकं सोपानमारुह्यान्ति-
मपद्यावसाने कूलंकषात्वमुपागता भागीरथी तया यवन्या सह
प्रण्डितराजं स्वपात्रान्तर्विलयं निन्ये । तदैनमवलोक्य महानुभाव-
प्रभावं काशीस्थास्तदानींतनाः पण्डिता अत्यन्तं व्यस्मयन्तेति ।
जगन्नाथपण्डितरायप्रणीतग्रन्थास्तु --(१) अमृतलहरी, (२)
आसफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्,</p>
<p>(५) जगदाभरणम्, (६) गङ्गालहरी, (७) प्राणाभरणम्, (८)</p>
<p>भामिनीविलासः, (९) मनोरमाकुचमर्दनम्, (१०) यमुनावर्णनम्,
(११) लक्ष्मीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधरश्चेत्येते
दरीदृश्यन्ते । एतदन्येऽनुपलब्धाः स्युर्वा न वेति न विद्मो वयम् ।
एतादृशानेकनिबन्धरत्नप्रणेतृ-परमपूज्य श्रीमत्पण्डितजगन्नाथराय-
संबन्धिकिंवदन्त्यनुगुणं व्रीडावहं यवनीपरिणयादि यद्यप्यदर्यस्मा-
भिस्तथापि तादृशकालुष्यनिबर्हणाय विद्वद्वर--अप्पाशास्त्री--राशिवडे--
करमहाशयैः संस्कृतचन्द्रिकायां सुनिपुणं निर्णोतं तत्तथ्यातथ्य-
विवेचनं यथावदत्र प्रदर्श्यते--
स्वभावत एव किल क्रोधवन्तो यवनाः स्वाङ्गनासु परस्य प्रेममयं
पूज्यभावसंभवमपि नयनपातं न सहन्ते किंपुनर्विधर्मीयस्य कामा-
विष्टमनस आत्मनः समक्षमेव निजकन्याविषयिणीं प्रार्थनाम् ।
यद्यपि भूयांसो विद्वांसो वैदुष्यस्याननुरूपमहंकारमवाप्नुवते तथापि
नहि काममात्रासत्तया धर्ममुल्लङ्घयितुमीहन्त इत्यपि नैव विस्मर-
णीयम् । क्षुद्रतमोऽपि यवनीं यदि विधर्मीयैः कृतया कान्तागतया
कथयापि कोपस्य परां कोटिमारोहेत्तदा कथं वा निखिलभारतवर्ष-
भूपालसमभ्यर्चितशासनो दिल्लीश्वरः शहाजहानः पण्डितेनापि जग-
न्नाथेनात्मनः समक्षमभ्यर्थितां कन्यां तस्मै प्रदाय यवनधर्ममवधी-</p>
<pb n="8" />
<p>रयितुं प्रभवेत् । नूनं नैतत्कथंचिदपि संभवति । 'यवनी नवनी-
'तकोमलाङ्गी'त्यादयः श्लोका यदि पण्डितराजविरचिता एवेति
स्वीक्रियेत तदा भामिनीविलासेऽपि तेषामुपनिबन्धनमवश्यमङ्गी-
कर्तव्यम् । दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया स्वीयपद्य-
रत्नानां भामिनीविलासाख्यां मञ्जूषां निर्मितवता पण्डितराजेन कथं
वा तानि विस्मर्येरन् कथं च मञ्जूषायां न संगृह्येरन्नित्यपि विचार-
णीयं विद्वद्भिः । अतो नैतानि पद्यानि पण्डितराजप्रणीतानीति
प्रतीयते । ततश्च जगन्नाथस्य यवनीपरिणयविषयिणीयमाख्यायिका
गगन आलेखनमनुहरति । किंच सार्वभौमायमानो दिल्लीश्वरः सभायां
जलं पिबेदित्यपि न श्रद्धेयम् । नापि वा तस्य कन्यका शिरसि कलशीं
निधाय हीनभाग्या योषिदिव नीरमानयेदित्यपि संभवास्पदम् ।
येभ्यः पन्थानोऽपि भृत्यैरेवादिश्यन्ते तेषानसूर्यंपश्याः कन्यास्तत्र च
सुस्तनीत्वादिविशेषणार्हा:  प्रगल्भे वयसि पदमर्पयन्त्यः परपुरुषपरि-
वृत्तायां परिषदि पानीयमानयेयुरित्यपि विरुद्धमेव प्रतिभाति । अतो
निर्मूलेयं जगन्नाथस्य यवनीपरिणेतृत्वविषयिण्याख्यायिका ।
अथ भगवत्या भागीरथ्यात्मनोऽङ्गेषु विलयं नीतो जगन्नाथ
इत्येषापि किंवदन्ती कियत्सत्यभावमवलम्बत इति विचार्यते ।
ययैव पण्डितराजविरचितया स्तुत्या प्रमुदितहृदया देवनदी जग-
न्नाथं पावयामासेति श्रूयते सा किल पीयूषलहरी गङ्गालहरीति वा
प्रथिता । यदि तूपरि निर्दिष्टा लोकवार्ता मृषात्वं नावगाहेत तदा
गङ्गालहरीप्रणयनकाल एव जगन्नाथस्यायुषोऽवसानावसर इति स्फु-
टमेव । ततश्च गङ्गालहरीप्रणयनोत्तरं जगन्नाथो नान्यं प्रबन्धं,
निर्मास्यतीत्यपि सिद्धम् । अर्थाज्जगन्नाथविरचिते प्रबन्धान्तरे गङ्गा
लहरीगतानि पद्यानि नैव दृश्येरन् । किंतु तानि दृश्यन्ते । अतएव</p>
<pb n="9" />
<p>गङ्गालहरीप्रणयनावसान एव जन्नाथस्यायुषः परिसमाप्तिरिति
वचनं नैव विचारसहम् । नापि गङ्गालहरीभिन्ना जगन्नाथविरचिता
काचिदपि मन्दाकिन्याः स्तुतिरस्ति यस्या अवसानसमयं जगन्नाथस्य
निधनावसरं मंस्यामहे । अतः सर्वथा निर्मूलेयमाख्यायिका ।
दृश्यन्ते च गङ्गालहरीगतानि पद्यानि रसगङ्गाधरे यथा--</p>
<lg>
  <l>विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो</l>
  <l>सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।</l>
  <l>कृतं प्रायश्चित्तैरलमथ तपोदानविभवैः</l>
  <l>सवित्री कामानां यदि जगति जागर्ति भवति ॥</l>
</lg>
<p>इति माधुर्योदाहरणम् ।
एवमनन्वयालङ्कारप्रकरणेऽपि--
कृतक्षुद्राघौघानथ सपदि संतप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ इति ।
एवं भावस्योदाहरणप्रसङ्गेनोक्तं जगन्नाथेन तत्रैव 'मन्निर्मिताश्च
पञ्च लहर्यो नाम पीयूषलहरी--सुधालहरी--लक्ष्मीलहरी--अमृतल--
हरी-- करुणालहरी चेति । एवं च पीयूषलहर्यपराख्यायाः श्रीगङ्गा-
लहर्याः पञ्चसु लहरीष्वन्तर्भूततया लहरीपञ्चकस्य च रसगङ्गाधर
उल्लिखितत्वेन गङ्गालहरीगतानां पद्यानां रसगङ्गाधरे दृश्यमानत्वाच्च
गङ्गालहर्या रसगङ्गाधरनिर्माणात्प्राक् संभूतत्वं स्फुटमेव प्रतीयते ।
ततश्च निर्मूलेयमाख्यायिका यदुच्यते लीनो मन्दाकिन्याकोडे
जगन्नाथ इति ।</p>
<pb n="10" />
<p>अथ द्वितीया किंवदन्ती । आसीत्किल दिल्लीपतेः कोऽपि
पुरोहितो म्लेच्छजातीयो यः संस्कृतभाषाब्धेः परं पारमासाद्य शास्त्र-
सागरमुल्लङ्घ्य च तत्र तत्र निवसतः पण्डितगणान्पराभवतिस्म ।
सच तैस्तैः पण्डितैर्विवमानस्तांस्तान्विदुषो विजयमानस्तत्रतत्र
प्रदेशे सनातनं भारतधर्ममुत्सादयमानो निराकुर्वन्प्रतिपक्षान्प्रति-
पादयन्यवनधर्म परिखण्डयन् शास्त्राणि हेपयन्नखिलया संस्कृतगिरा
भारतीयान्विबुधानवजिताशेषदक्षिणप्रदेशः सकलविद्यावैशद्यावभा-
सितां नानाविधबुधमण्डलीमण्डितां पण्डिताग्रेसरसमुपक्रम्यमाण-
दार्शनिकविषयचर्चामर्चानुकूलफलसमर्पणकल्पपादपायमानेन भग-
वता शशिखण्डमौलिना समुद्भासितां भासिताशेषत्रिभुवनया परम-
पावनया मन्दाकिनीदेव्या परिगतां समुपचीयमानसुकृतराशिं
काशीं नाम गरीयसीं नगरीमुपतस्थौ । ततश्च तत्रत्यान्विबुधाना-
ह्वयमानः काजी सभां महीयसीं निर्माय विवादमारिप्सामास ।
पण्डिता अपि तदानीमेवाहंपूर्विकया सभामागत्य विविधाभिर्यु्क्ति-
भिर्नानाविधाभिर्वचनरचनाभिः परिस्फुरन्तीभिः प्रणामपरम्परा-
भिश्च काजीं जेतुमयतन्त । काजी तु पवन इव पथि पतितां-
स्तृणच्छेदांस्तानि वचनजालानि क्षणादेव प्रतिक्षिपन्नखण्डितमतः
करनखराग्रैमैरानाभि लम्बमानां धवलकीर्तिसंततिमिव पुञ्जीभूयो-
पागतां [^१]कूर्चिकां परिष्कुर्वन् सावहेलमग्रासनमधिरुरोह तदनु
विवादेऽप्रभविष्णवोऽप्यपमानासहिष्णवो वाराणसीनिवासिनो द्वि-
जन्मानोऽनुचरविपदपहर्तारं सृष्टिस्थितिप्रलयकर्तारं निजपरिचरप्रति-
भटखण्डनं सुधाकरकलामण्डनं समुपेत्यानन्यगतेन मनसा नाना-
विधाभिस्तत्कालसमुचिताभिः करुणरसपरिप्लुताभिः स्तुतिभिस्तमेव
-------------------------------
१ दाढीतिप्रसिद्धाम् ।</p>
<pb n="11" />
<p>भगवन्तमुपवीणयामासुः । अवगताशेषवृत्तान्तश्च भगवान्भुजगभू-
षणो भागीरथीमौलिर्महेश्वरस्तदात्व एव प्रत्यक्षीभूय वाचमेतामुदीर-
यामास । अस्त्यत्र कस्यापि रत्नेश्वरनाम्नो द्विजन्मनो धनिकस्य सदन
[^१]आम्भसिकः कश्चिद्भिक्षुः स एवास्यावलिप्तस्य यवनहतकस्य पराजये
प्रभवतीति स एवाभ्यर्थ्यतामिति । ते तु ब्राह्मणाः फलमिवात्मनो
मनोरथद्रुमस्य तद्वचनमाकर्ण्य द्रुतपदं रत्नेश्वरश्रेष्ठिनो भवनमागत्या-
साद्य च श्रेष्ठिनं भगवतो निदेशमावेदयामासुः । सच तेषां तद्वचन-
माकर्ण्य परं विस्मयमापन्नस्तमेव नीराधिकृतमात्मनो दासं समाहूय
निजगादाभिलषितं ब्राह्मणसमाजस्य । अपृच्छच्च अपि प्रभवसि
कर्मण्येतस्मिन्निति । ततो धीवरजालायमानेनासंख्येयतन्तुसन्तानेना-
जानुलम्बिना मलीमसेन वसनेनावेष्टिताधःकायो जठरभरमन्थरगति-
रंसमुभयतः प्ररूढैर्जलकुम्भवहनसंजातैःकिणैः समुल्लसितः पीवरतनुः
श्यामायमानेन चैलखण्डेन वेष्टितोत्तमाङ्गो घटीचेटो हुंकरिष्याम्येत-
द्यदि भवन्तोऽनुजानीयुरिति मन्दंमन्दं प्रत्ययोजिष्ट । ततः श्रेष्ठिना सम-
र्पिते तस्मिन्प्रमुदिता ब्राह्मणाः कौशेयानि पट्टवसनानि परिधाप्य अन-
र्घ्यैर्भूषणैरलंकृत्योष्णीषसमुल्लसितं च तस्य मूर्धानं विधाय कनकशि-
बिकायामारोप्य महीयसा महोत्सवेन विरचितायां सभायामानाय्य
तमुपवेशयामासुः । काजीरपि समाहूतागतस्तस्यैव संमुखमुपाविक्षत् ।
ततो दोलायमानकूर्चिकाकलापं समुद्धूयमानश्मश्रुजालं च प्रवदता
काज्या सह प्रववृते भिक्षोर्विवादः । अन्ते पुनर्भिक्षुवचनचातुरीवि-
स्मितोऽश्रुतपूर्वाः सहस्रशो युक्तीराकर्ण्येतिकर्तव्यतामूढो विवाद-
सागरमुत्तरीतुमप्रभविष्णुः काजी तूष्णींभावमवलम्ब्य मिक्षुं प्रण-
--------------------------------------------
[^१] अम्भःपूरणाधिकृतो विप्रः ।</p>
<pb n="12" />
<p>नाम । ततो विजितं विजितं भिक्षुणेति सतालवं प्रवृत्तेषु वचनेषु
तदानीमेव मूर्च्छत्सु तूर्येष्वाहन्यमानेषु मुरजेषु ध्वन्यमानेषु दुन्दु-
भिषु आध्मायमानेषु शङ्खेषूच्चरत्सु क्ष्वेलानुकारिषु सिंहनर्दिकाक्रेंकारे-
षु महोत्सवमय इव मङ्गलमय इव प्रमोदमय इव विजयमान इव
यशोमय इव च तस्मिन्समये सबहुमानं सप्रणामं च सौवर्णं यान-
मारोप्य भिक्षं श्रेष्ठिनः सदनमानाय्य यथावृत्तं वृत्तं निजगदुर्द्विज-
न्मानः । ततस्तु समुद्भूतजिज्ञासा: सर्वेऽपि तस्य भिक्षोः कुलं नाम
विद्यामभिजनं च पप्रच्छुः । तस्मिंश्चाशेषतोऽपि तेन कथिते निश्चिक्युः
काशीस्था विबुधा अयमेव पण्डितराजो जगन्नाथ इति । काजी तु
ततः प्रभृति तस्य पण्डितराजजगन्नाथस्य मित्रतामुपागच्छत् । ततो
गच्छता कालेन दिल्लीं गतो बादशाहं विज्ञाप्य जगन्नाथमपि दिल्ली-
नगर एवानाययामास । ततः प्रभृति च प्ररूढं जगन्नाथबादशाहयो:
सौहार्दमिति । एतादृंश्यन्यान्यपि लोकोत्तराणि चरितानि नैकशः
सन्त्यस्य महामहिमभाजः पण्डितरायस्य तथापि स्थलतानवाद्दि-
ग्दर्शनेनैवालमिति विरम्यते ।</p>
<pb n="13" />
<p>श्रीः ।
जगन्नाथपण्डितराजप्रणीता ।
गङ्गालहरी ।
पीयूषलहरीव्याख्यासहिता ।
नमः श्रीगङ्गायै ।</p>
<lg>
  <l>पितुः स्कन्धे स्थित्वा विमलमुकुरालोकानधिया</l>
  <l>हिमांशुं व्याकर्षन्नहिभयविदूनेन मनसा ।</l>
  <l>विधुं हित्वा वह्निं सरसमणिबुद्ध्या गिरिभुवा</l>
  <l>शुभं भीतो नीतो दिशतु बहु वः शंभुतनयः ॥ १ ॥</l>
</lg>
<lg>
  <l>गङ्गे त्वद्वारिधारा भवमरणजरापारवारास्तु सारा</l>
  <l>राजद्देवादिनारीविहरणविलसत्तीरनीरातुषारा ।</l>
  <l>दैत्यारात्यङ्घ्रिचारा हरगिरिसुशिरोदेशभारातिधीरा</l>
  <l>रूपेणाक्रान्तमारा निजजनवृजिनौघौघहाराविहारा ॥२॥</l>
</lg>
<lg>
  <l>अम्बां निजमुखाक्रान्तचन्द्रबिम्बां नमाम्यहम् ।</l>
  <l>केदारं वैरिसंदारं मुक्ताहारं च सुन्दरम् ॥ ३ ॥</l>
</lg>
<lg>
  <l>येनाकारि दशास्यो दशमुखहीनोऽपि बाणसङ्घेन ।</l>
  <l>निजजायाचौर्यकरः सो वोऽवतु जानकीकान्तः ॥ ४ ॥</l>
</lg>
<lg>
  <l>हरिं रामं गुरुं नत्वा भास्करप्रीतये मया ।</l>
  <l>पीयूषलहरीव्याख्या क्रियते हि यथामति ॥ ५ ॥</l>
</lg>
<p>अत्रैवं श्रूयते--कविर्जगन्नाथो दिल्लीवल्लभाश्रितस्तद्यवनी-</p>
<pb n="14" />
<p>संसर्गदोषभाक् सन्, गङ्गासकाशात् द्विपञ्चाशत्सोपानान्तरित-
निजगृहेऽवस्थितः तत्रैव च जाह्नव्यागमनस्पर्शनेनात्मशुद्धिं
कामयमानः,'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥’ इति काव्यप्रका-
शोक्तेः शिवेतरक्षतिफलकगङ्गास्तुतिरूपं काव्यं चिकीर्षुर्विघ्नवि-
घाताय वस्तुनिर्देशात्मकं मङ्गलमाचरन् स्वाभिमतं प्रार्थयते--
समृद्धं सौभाग्यं सकलवसुधायाः किमपि त-
न्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु ।।  १ ।।
समृद्धमिति । भो गङ्गे, ते तव । युष्मदः षष्ठ्येकवचनविशि-
ष्टस्य 'तेमयावेकवचनस्ये'ति ते आदेश: 'युष्मदर्थश्च' संबोध्यः ।
युष्मदः संबोध्य स्वतन्त्र: कर्ता अस्मदो वाच्यः इत्यभियुक्तो-
क्तेरित्याद्यन्यत्र विस्तरः । तत्सलिलम् सलति भक्तजनपापादि-
नाशाय गच्छतीति सलिलं जलम् । 'षल गतौ' 'सलिकली'त्यु-
णादिसूत्रेण लच् । 'सलिलं कमलं जल'मित्यमरः । एवंचाशिव-
शमनप्रार्थनं युक्तमिति भावः । नः अस्माकमशिवं अकल्याणम्
शमयतु नाशयतु । प्रार्थनायां लोट् । तत्किम् । यत्सलिलं सकलव-
सुधायाः सकला चासौ वसुधा च सोर्वी तस्याः 'वसुधोर्वी वसुंधरे-
त्यमरः । यद्वा कलाभिः सहिता सकला वसु धनं धत्ते इति व-
सुधा सकला चासौ वसुधा च तस्याः किमपि अनिर्वचनीय-
ममौल्यं वा समृद्धं बहु सौभाग्यं शोभादायकं अतिचतुरायाः</p>
<pb n="15" />
<p>सधनाया अपि पृथिव्याः गङ्गासलिलं विना न शोभेति, लोके-
ऽपि अतिचतुरायास्ताटङ्कनूपुराद्यलंकारसहिताया अपि प्रमदा-
याः कुङ्कुमकृष्णमणिभिर्विना न शोभा भवतीत्यापामरप्रसिद्धम् ।
पुनस्तत्किम् । यत् लीलाजनितजगतः लीलया विलासेन नतु
श्रमेण जनितान्युत्पादितानि जगन्ति चतुर्दश भुवनानि येन
सः तस्य खण्डपरशोः खण्डयति रिपून् हिनस्तीति खण्डः तादृशः
परशुः शस्त्रविशेषो यस्य भूतेशस्य । 'भूतेशः खण्डपरशु'रित्य-
मरः । महैश्वर्यं महच्च तदैश्वर्यं च महाविभूतिभूतम् । 'विभूति-
र्भूतिरैश्वर्य'मित्यमरः । 'सन्महदि'ति समासे 'आन्महतः'इत्यात्वे
वृद्धिः । गङ्गासलिलमात्रसहायेनेश्वरेण विलासादेव चतुर्दश-
भुवनानि कृतानीति भावः । लोकेऽपि कश्चन धने सहाये सति
लीलया ब्रह्मपुर्यादिकं निर्मातीति प्रसिद्धम् । पुनः तत्किम् ।
यत् श्रुतीनां श्रूयते धर्मो याभिस्ताः श्रुतयः चत्वारो वेदाः
'श्रुञजी'त्यादिना क्तिन् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः ।
तेषां सर्वस्वं सर्वं च तत्स्वं च सर्वस्वम् । इदमेव वेदानां धन-
मिति भावः । यद्वा सर्वं च तत्स्वं च आत्मा । इदं सलिलमेव
वेदानामात्मेति भावः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये
स्वोऽस्त्रियां धने' इत्यमरः । पुनस्तत्किम् । अथ यत्सुमनसां सु-
पर्वणाम् । 'सुपर्वाणः सुमनसः' इत्यमरः । मूर्तं सशरीरं सुकृतं
पुण्यम् । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः ।
पु० यत्सुधासौन्दर्यं सुधेवामृतमिव सौन्दर्यं यस्य तत् । अति-
शुभ्रमित्यर्थः । मधुरास्वादचिरजीवित्वादितत्कार्यकारीति वा ।
यद्वा सुधासौदर्यमिति वा पाठः । सुघेति पृथक्पदम् । चन्द्रो</p>
<pb n="16" />
<p>मुखमितिवत्सलिलविशेषणम् । पु० सौदर्यं सम्यक्दरी हि-
माचलकन्दरं तत्र भवं सौदरं भवार्थेऽणू । सौदरमेव सौदर्य-
मिति चातुर्वर्ण्यादित्वात्ष्यञ् । आदौ हिमाचले प्रकाशित-
मिति भावः । अथवा सुधायाः सौदर्यं भ्रातृरूपम् 'सोदरा-
द्यत्'इति यः । अत्र दरस्मिमिति श्लोकषर्यन्तं शिखरिणीछन्दः ।
तल्लक्षणं तु 'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी'ति वृत्त-
रत्नाकरोक्तम् । 'शिखरिणी य्मौन्सौम्लौगृतुरुद्राः' इति पैङ्गलं
च बोध्यम् । ननु छन्दोन्तरं त्यक्त्वानेनैव छन्दसा किमिति वर्ण-
नमिति चेदत्रोच्यते–-शिखरिणीछन्दसि जलदेवताकयगण-
स्यादौ सत्त्वेन जलस्पर्शरूपाभिमतफलसिद्धिर्भविष्यतीत्याशयेन
अशोकवनिकान्यायेन वेति कृतधियो विदांकुर्वन्तु । तदुक्तम्--
'मो भूमिः श्रियमातनोति य जलं वृद्धी र वह्निर्मृतिं सो वायुः
परदेशदूरगमनं त व्योम शून्यं फलम् । जः सूर्यो रुजमादधाति
विपुलां भेन्दुर्यशो निर्मलं नो नाकः सुखमीप्सितं फलमिदं प्रा-
हुर्गणानां बुधाः' इति । किमपितन् इत्येकं पदं वा । किमपि
अनिर्वचनीयं मोक्षप्राप्तिरूपफलं तनोति विस्तारयतीति किमपि
तन् 'तनु विस्तारे' क्विप् । एतत्पक्षे कथंभूतं जलमिति योज्यम् ।
अत्र वाचकलुप्तोपमालंकारः । तदुक्तम् 'उपमा यत्र सादृश्य-
लक्ष्मीरुल्लसति द्वयोः' इति । समृद्धं सौभाग्यमिति आदौ रूपकं
च । रूपकोपमयोः संकरः ॥ १ ॥
इदानीं प्रवाहरूपत्वेन जलं वर्णयन्स्वाभिमतं प्रार्थयते--
दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन्सकृदुपगतो दृष्टिसरणिम् ॥</p>
<pb n="17" />
<p>अपि [^१]द्रागाविद्याद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २ ॥
दरिद्राणामिति । भो गङ्गे,इहास्मिन् लोके ते तव वारां अपां
'आपः स्त्री भूम्नि वार्वारि' इत्यमरः । अयं पुरोवर्ती सन्निकृष्ट
इदंशब्दार्थः । तदुक्तम् 'इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो
रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीया'दिति ।
प्रवाहो निर्झरः । 'प्रवाहो निर्झरो झरः' इत्यमरः । नः अस्माकं
अपारां अनन्तां श्रियं दिशतु ददातु। 'दिश अतिसर्जने' इति
धातोः प्रार्थनायां लोट् । अतिसर्जनं दानम् । किं कुर्वन्सन् ।
दृष्टिसरणिं  नेत्रमार्गम् । 'सरणिः पद्धतिः प’द्येत्यमरः । सकृदपि
एकवारमपि गतः सन् प्राप्तः सन् दरिद्राणां रङ्काणां दैन्यं
दीनताम् । अथानन्तरं दुर्वासनहृदां दुष्टा वासना यस्य तद्दुर्वा-
सनं तादृशं हृत् येषां तेषां । 'स्वान्तं हृन्मानसं मनः' इत्यमरः ।
दुरितमपि पापमपि । 'अंहोदुरितदुष्कृत'मित्यमरः । द्रुतं शीघ्रं
दूरीकुर्वन् । अभूततद्भावे च्विः । 'कुगती'ति समासः । कथंभूतः
प्रवाहः । द्रागाविद्याद्रुमदलनदीक्षागुरुः आसमन्तादविद्याः
मायाः आविद्याः । अखिला अविद्या इत्यर्थः । मायाबहुत्वे
प्रमाणं तु 'इन्द्रो मायाभि'रिति श्रुतौ बहुवचनम् । अतएव तत्त्व-
ज्ञानादेकस्य मुक्तौ कृत्स्नमुक्तिप्रसङ्गः स्यात् । मायैक्येन तन्नि-
वृत्तौ क्वापि संसाराभावादिति शङ्कालेशोऽपि नेति शंकरभा-
ष्यदिग्रन्थेभ्योऽवधेयमिति दिक् । तद्रूपो यो द्रुमः वृक्षः तस्य
-------------------------------
[^१] द्रागाविद्यद्रुम इति पाठः ।</p>
<pb n="18" />
<p>दलनं छेदनं द्रागाविद्याद्रुमदलनं तस्य दीक्षा उपदेशः तस्याः
गुरुः बोधकः । अत्रापि दृष्टिसरणिं सकृदपि गतः सन्निति यो-
जनीयम् । सकृत्प्रवाहदर्शनेनाविद्या गच्छतीति भावः । 'द्रा-
गाविद्यद्रुमे'ति वा पाठः । अत्राऽविद्यायाः इमे आविद्याः ते
च ते द्रुमाश्च । शेषं पूर्ववत् ॥ २ ॥
इदानीं तरङ्गरूपत्वेन जलं वर्णयन्नाशिषं प्रयुञ्जते--</p>
<lg>
  <l>[^१]उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी-</l>
  <l>कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः ।</l>
  <l>भवन्तु त्वङ्गन्तो हरशिरसि [^२]गङ्गातनुभुव-</l>
  <l>स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम्  ॥ ३ ॥</l>
</lg>
<p>उदञ्चदिति । गङ्गातनुभुवः गङ्गायास्तनुः मूर्तिः । 'स्त्रियां
मूर्तिस्तनुस्तन्'रित्यमरः । तस्याः भवन्ति ते गङ्गातनुभुवः । भ-
वतेः क्किप् 'न भूसुधियो'रिति यण्निषेधादुवङ् । प्रोत्तु्ङ्गाः
उन्नताः एतादृशास्तरङ्गा ऊर्मयः । 'भङ्गस्तरङ्ग ऊर्मिर्वे'त्यमरः ।
भवतां भक्तजनानां दुरितभयभङ्गाय दुरितं च भयं च तयोर्भङ्गाय
नाशाय । 'क्रियार्थोपपदे'ति चतुर्थी । भवन्तु । आशिषि लोट् ।
कथंभूतास्तरङ्गाः । उदञ्जन्मार्तण्डस्फुटकपटहेरम्बजननीकटाक्ष-
व्याक्षेपक्षणजनितसंक्षोभनिवहाः । हे शिवे रम्बते शब्दं करो-
तीति हेरम्बः लम्बोदरः । 'हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु'
इति नानार्थमञ्जरी । 'अबि रबि शब्दे' पचाद्यच्। ’तत्पुरुषे
कृती'ति सप्तम्या अलुक् । 'अप्येकदन्तहेरम्बलम्बोदरगजाननाः'
----------------------------------
[^१] मात्सर्यस्फुट इति पाठः ।
[^२] गाङ्गाः पुनरमी इति पाठ: ।</p>
<pb n="19" />
<p>इत्यमरः । हेरम्बस्य जननी माता पार्वती तस्याः कटाक्षाः
अपाङ्गदर्शनानि । 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । स्फुटं च
तत्कपटं च व्याजं च । 'कपटोऽस्त्री व्याजे' त्यमरः । स्फुटकपटेन
हेरम्बजननीकटाक्षाः उदञ्जन् उदयं प्राप्नुवन् यो मार्तण्डः अर्कः ।
'विकर्तनार्कमार्तण्डे'त्यमरः । उदञ्चन्मार्तण्डवत् स्फुटकपटहेर-
म्बजननीकटाक्षाः । अतिरक्ता इत्यर्थः । तेषां व्याक्षेपः विलम्बः ।
चिरकालपर्यन्तं कटाक्षस्थितिरित्यर्थः । यद्वा व्याक्षेपः संबन्धः
तेन क्षणं क्षणपर्यन्तं जनित उत्पादितः तादृशः संक्षोभ-
निवहो भयसमूहो येषां ते । पुनः कथंभूताः । अतएव हरशि-
रसि स्वाधारभूते महादेवमस्तके त्वङ्गन्तः कम्पन्तः इतस्ततो
गच्छन्तो वा । 'त्वगि कम्पने' इत्यस्मात् 'उखउखी’ति दण्डके
पठितगमनार्थकत्वादुमयार्थकत्वम् । क्वचित्तु उदञ्चन्मात्सर्येति
पाठः । तत्र सापत्न्यभावादुदञ्चन्मात्सर्येणेति व्याख्येयम् ॥ ३ ॥
इदानीं त्वदाश्रयान्मया सर्वे सुरास्तृणप्रायीकृताः, अधुना
यदि त्वं मे कार्यकरणे उदासीना भवसि तर्हि अहं केषामग्रे
रोदनं करोमीत्याह--</p>
<lg>
  <l>तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा</l>
  <l>मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।</l>
  <l>इदानीमौदास्यं भजसि यदि भागीरथि तदा</l>
  <l>निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४ ॥</l>
</lg>
<p>तवेति । भो अम्ब जननि, 'अम्बार्थनद्यो'रिति ह्वस्व; ।
तवालम्बादाश्रयात् स्फुरदलघुगर्वेण स्फुरन्देदीप्यमानः अलघु-</p>
<pb n="20" />
<p>र्महान् गर्वोऽहंकारो यस्य तेन मया सर्वे सुरगणाः अवज्ञा-
सरणिं अवज्ञाया अवहेलनस्य सरणिस्तां सहसा अविचारेण
नीताः प्रापिताः । अत्र 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्म-
णा’मिति भाष्योक्तेः सुरगणरूपे प्रधानकर्मणि क्तः । अतएवा-
भिहितत्वात्तत्र प्रथमेति दिक् । भो भागीरथि भगीरथस्येयं
भागीरथी तत्संबोधनम् । 'तस्येद'मित्याणि 'टिढ्ढाणे’ति ङीप् ।
इदानीमुद्धारसमये यदि औदास्यं उदासीनत्वम् । उद्धारानुकूल-
व्यापारशून्यत्वमित्यर्थः । भजसि अङ्गीकरोषि, तदा तर्हि
निराधारः निर्गत आधारो यस्य सः एतादृशोऽहं इह लोके
केषां पुरः अग्रे रोदिमि रोदनं करोमि । हा इति खेदे कष्टे वा ।
इति त्वं कथय वद । 'रुदिर् अश्रुविमोचने' 'रुदादिभ्यः सार्व-
धातुके' इतीट् । देवानामवहेलनात्तैस्त्यक्तः, त्वमपि अस्मिन्स-
मये यदि त्यजसि तर्हि मे का गतिरिति त्वमेव कथयेति
भावः ॥ ४ ॥
पुनरपि प्रवाहरूपं स्मरन्पापहरणं प्रार्थयते--</p>
<lg>
  <l>स्मृतिं याता पुंसामकृतसुकृतानामपि च या</l>
  <l>हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।</l>
  <l>इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला</l>
  <l>ममान्तःसंतापं त्रिविधमपि पापं च हरताम्  ॥ ५ ॥</l>
</lg>
<p>स्मृतिमिति । हे गङ्गे, तव प्रवाहरूपा मूर्तिः अकृतसुकृ-
तानां अतीताद्यतनजन्मसु कृतपातकानां पुरुषाणामपि स्मृतिं
स्मरणं याता प्राप्ता सती चन्द्रांशुसरणिः चन्द्रस्यंशवः कि-</p>
<pb n="21" />
<p>रणाः तेषां सरणिः पङ्क्ति‘ । 'सरणिः पद्धति' रित्यमरः । तिमिरं
अन्धकारं यथा तथा अन्तस्तन्द्रां अन्तःकरणाज्ञानालस्यं नाश-
यति । यथा चन्द्रोदयेन तमो नश्यति तथा तव स्मरणेन महा-
पातकिनां तत्सदृशानां पातकं नश्यति । पुनः किंभूता मूर्तिः ।
सकलसुरसंसेव्यसलिला सकलाः सुरा देवाः तैः संसेवनीयजला
एतादृशी ते मूर्ति: ममान्तःसंतापं अन्तःकरणस्थं त्रिविधं
कायिकवाचिकमानसिकरूपं पापं च तत्कृतं संतापमाधिभूता-
ध्यात्माधिदैवं वा हरताम् । तथा जाते जन्ममरणकष्टान्मुक्त:
स्यामिति भावः ॥ ५॥
इदानीं राज्यत्यागपूर्वकं त्वत्तीरवासिनां त्वदम्भ:पानेन
जायमान आनन्दः ततो न्यूनसुखं मोक्षमुपहसतीत्याह--</p>
<lg>
  <l>अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा</l>
  <l>विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।</l>
  <l>सुधातः स्वादीयःसलिलभरमातृप्ति पिबतां</l>
  <l>जनानामानन्दः परिहसति निर्वाणपदवीम्  ॥ ६  ॥</l>
</lg>
<p>अपीति । भो जननि, प्राज्यमपि प्रभूतमपि । 'प्रचुरं प्राज्य'
मित्यमरः । समुद्रान्तमपीत्यर्थः । एतादृशं राज्यं राज्ञः कर्म ।
पुरोहितादित्वाद्यक् । प्रजापालनात्मकं सहसा तृणमिव । परित्य-
ज्य । अनेन लोभाभावः सूचितः । विलोलद्वानीरं विलोलन्तः
वायुना चञ्चलाः वानीराः वेतसवृक्षाः यस्मिन् तत् । वेतस-
पर्याये 'रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः' इत्यमरो । अनेन ‘
छायानिबिडत्वं सूचितम् । एतादृशं तव तीरं । 'कूलं रोधश्च तीरं</p>
<pb n="22" />
<p>चे'त्यमरः । श्रितवतां सेवतां सुधातः अमृतात् । पञ्चम्यन्ता-
त्तसिल् । स्वादीयःसलिलभरम् । अतिशयेन स्वादुः स्वादीयान् ।
अतिशायने ईयसुन् । स चासौ सलिलभश्च तं आतृप्ति तृप्ति-
पर्यन्तम् । 'पञ्चम्यपाङ्परिभि'रिति समासः । पिबतां पानं
कुर्वताम् । पाधातोः शतरि 'पाघ्रे'ति पिबादेशः । एतादृशानां ज-
नानामानन्दः निर्वाणपदवीं निर्वाणस्य कैवल्यस्य पदवीं मार्गम् ।
'मुक्तिः कैवल्यनिर्वाण'मित्यमरः । परिहसति उपहसति ॥ ६ ॥
इदानीं साक्षात्स्वयं स्नानमकुर्वतामपि त्वयि अन्यसंबन्धि-
त्वेन स्वावयवपतने तेषामप्युत्तमलोकप्राप्तौ सांक्षात्स्नानिनां
किं वक्तव्यमित्याह--</p>
<lg>
  <l>प्रभाते स्नान्तीनां नृपतिरमणीनां कुचतटी-</l>
  <l>गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।</l>
  <l>मृगास्तावद्वैमानिकशतसहस्त्रैः परिवृता</l>
  <l>विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७॥</l>
</lg>
<p>प्रभात इति । भो मातः । प्रभाते उषसि  । 'प्रत्यूषोऽहर्मुखं
कल्यमुषःप्रत्युषसी अपि । प्रभातं चे' त्यमरः । स्नान्तीनामर्था-
त्तव जले स्नानं कुर्वतीनां नृपतिरमणीनां राजसुन्दरीणाम् । ब्रा-
ह्मणादिस्त्रीणां दारिद्र्यबाहुल्यान्मृगमदो न मिलतीत्युक्तं नृप-
तिरमणीनामिति । तासां तु संपत्तिबाहुल्यात्स सुलभ इति
भावः । कुचतटीगतः कुचानां तट्य: प्रान्ताः तासु गतः
विद्यमानः । तटशब्दाज्जातिलक्षणो ङीप् । 'तटं त्रिषु' इति
कोशात् स्त्रियामपि तटशब्दः । रात्रौ रतिसमये लापितः अतः</p>
<pb n="23" />
<p>एव स्थित इत्यर्थः । एतादृशो मृगमद: कस्तूरी । 'मृगनाभिर्मृ-
गमदः कस्तूरी चे'त्यमरः । तव तोयैरम्भोभिः । 'सहयुक्ते' इति
तृतीया । 'अम्भोऽर्णस्तोयपानीय'मित्यमरः । यावद्यस्मिन्नेव
काले मिलति संबद्धो भवति तावत्तस्मिन्नेव काले मृगाः मृग-
यन्ति उदरपोषणाय तृणादिकमन्वेषयन्ति ते मृगाः हरिणाः ।
'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । विमलवपुषः
विमलं मलरहितं वपुर्येषां ते एतादृशाः सन्तो नन्दनवनं नन्द-
यतीति नन्दनम् । नन्द्यादित्वाल्लयु: । तच्च तद्वनं च इन्द्रोद्यानं
नन्दनवनम् । 'अस्योद्यान' मित्यमरः । स्वच्छन्दं यथा स्यात्तथा
विशन्ति । गच्छन्तीत्यर्थः । क्वचित्तु 'विमलमतय' इति पाठः ।
कथंभूता मृगाः । वैमानिकशतसहस्रैः विमानैश्चरन्ति गच्छ-
न्तीति वैमानिका देवाः । 'चरती'ति ठक् । तेषां शतानि
शतानां सहस्राणि तैः परिवृता वेष्टिताः ॥ ७ ॥
इदानीं स्मरणोच्चारणाभ्यां क्रमेण मनःशान्ति-पाप-संसार-
ताप-नाशजनकं गङ्गेति पदं मरणसमये मन्मुखेऽस्त्वित्याह--</p>
<lg>
  <l>स्मृतं सद्यः स्वान्तं [^१]विरचयति शान्तं सकृदपि</l>
  <l>प्रगीतं यत्पापं झटिति भवतापं च हरति ।</l>
  <l>इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं</l>
  <l>मम प्राणप्रान्ते वदनकमलान्तर्विलसतु  ॥ ८ ॥</l>
</lg>
<p>स्मृतमिति । भो भागीरथि, तत् गङ्गेति पदं सुबन्तं मम
---------------------------------------
[^१] सुखयति नितान्तं इति पाठः ।</p>
<pb n="24" />
<p>जगन्नाथस्य प्राणप्रान्तः प्राणानामसूनां । 'पुंसि  भूम्य्रसवः प्राणाः'
इत्यमरः । अन्तः समाप्तौ । अन्तःशब्दोऽधिकरणप्रधानमव्ययम् ।
प्राणोत्क्रमणसमय इत्यर्थः । वदनकमलान्तः वदनमेव कमल-
मिति मयूरव्यंसकादित्वात्समासः । वदनं कमलमिवेत्युपमित-
समासो वा । तस्यान्तर्मध्ये विलसतु शोभतु । खलु निश्चयेन ।
प्राणोत्क्रमणसमये गङ्गागङ्गेत्युच्चारणं भवतु । कफवातपित्तैः क-
ण्ठावरोधनं मास्त्विति भावः । तत् कियत् गङ्गेति पदं सकृदपि
एकवारमपि स्मृतं सत् चिन्तितं सत् स्वान्तं मनः शान्तं इन्द्रि-
यनिग्रहक्षमं द्वेषलोभादिरहितं वा विरचयति करोति । शान्तं
सुखयुक्तं वा । शान्तशब्दादर्शआद्याच् । 'शर्मशातसुखानि चे’-
त्यमरः । 'रच प्रतियत्ने' चुरादिः । पुनस्तत्किम् । यत्सकृदपि
प्रगीतं सत् प्रकर्षेण गीतं उच्चारितं सत् पापं च, पुनः भवतापं
भवस्य संसारस्य तापं च हरति नाशयति । पुनः किम् । श्रवण-
रमणीयं श्रवणयोः रमणीयं सुखजनकम् । 'कर्णशब्दग्रहौ श्रोत्रं
श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । यद्वा श्रवणाय श्रवणं कर्तुं
रमणीयं सुन्दरम् । 'चतुर्थी'ति योगविभागात्समासः । गङ्गा-
शब्दार्थस्तु गां पृथ्वीं स्वर्लोकादागता गङ्गा 'गनाम्यघो'-
रित्यौणादिको गन्प्रत्ययः । तदुक्तं ब्रह्माण्डपुराणे--'तिस्रो नद्यो
महापुण्या वेणा गोदा च जाह्नवी । गां हरीशाङ्घ्रिकात्प्राप्ता
गङ्गेतीह प्रकीर्तिते'ति । हरेः पादाच्छम्भोर्मस्तकाच्च गां प्राप्तेति
तदर्थः । यद्वा गम्यते सोपानभूतया यया स्वर्गः सा गङ्गा ।
तदुक्तमाचार्यै: 'स्वर्गसोपानसङ्गे’इति । यास्केनापि निरुक्ते गम-
नाद्गङ्गे'ति सामान्यत एवोक्तमिति दिक् ॥ ८ ॥</p>
<pb n="25" />
<p>इदानीं करटानामपि इन्द्रोद्यानापेक्षया प्रियतरं तव तीरं
मम श्रमनाशनसमर्थमस्त्विति प्रार्थयते--</p>
<lg>
  <l>यदन्तः खेलन्तो बहुलतरसंतोषभरिता</l>
  <l>न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।</l>
  <l>निवासाल्लोकानां जनिमरणशोकापहरणं</l>
  <l>तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥९॥</l>
</lg>
<p>यदिति । भो भागीरथि, ते तव तत् एतत् समीपवर्ति तीरं
नः अस्माकं श्रमशमनधीरं श्रमस्य शमनं तत्र धीरं समर्थं
पण्डितं वा । 'धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कवि'-
रित्यमरः । भवतु अस्तु । तत्किम् । यदन्तः यस्य तीरस्यान्तः
मध्ये खेलन्तः क्रीडन्तः काकाः करटाः । 'काके तु करटारिष्टे'-
त्यमरः । बहुलतरसंतोषभरिताः सन्तः अतिशयेन बहुलः बहुल-
तरः । अतिशायने तरप् । बहुलतरश्चासौ संतोषश्च तेन भरिताः
पूर्णाः एतादृशः सन्तः नाकाधीश्वरनगरसाकाङ्क्षमनसः नाकस्य
स्वर्गस्य । 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः'इत्यमरः । अ-
धीश्वरः पतिः इन्द्रः तस्य नगरं अमरावती तत्र साकाङ्क्षं साभिलाषं
मनो येषां ते एतादृशा न भवन्तीति शेषः । अमरावत्यपेक्षया
तीरे अधिकगुणसत्त्वादित्यर्थः । तदेवाह । कथंभूतं तीरम् ।
निवासाद्धेतोः । 'विभाषा गुणे स्त्रिया'मिति हेतौ पञ्चमी । लो-
कानां जनिमरणशोकापहरणं जनिरुत्पत्तिः । 'जनिरुत्पत्तिरु-
द्भवः'इत्यमरः । मरणं निधनम् । 'मरणं निधनोऽस्त्रिया’मित्यमरः ।
शोकः पुत्रकलत्रादिवियोगजनितमनोविकृतिरूपः । त्रयाणां</p>
<pb n="26" />
<p>द्वन्द्वः । एषामपहरणं नाशकम् । अमरावत्यां तु 'क्षीणे पुण्ये
मृत्युलोकं विशन्ती'ति पुनरपि भूलोकप्राप्तिरूपानिष्टमप्यस्तीति
भावः । कदाचित् विमानस्थेनेन्द्रेण गङ्गातीरे खेलतः काका-
न्दृष्ट्वा युष्माभिः क्रीडार्थं मद्वने आगन्तव्यमित्युक्ते अत्रैव वयं
निवसामः न तव वने आगमिष्याम इति तैरुक्तमिति स्पष्टं
गङ्गापुराणे ॥ ९ ॥
ननु सर्वोत्कृष्टं वेदाद्यगोचरं परं ब्रह्म विहाय स्वाभिमतफ-
लावाप्तये मामेव किं स्तौषीति चेत्तादृशं ब्रह्म तत्त्वमेव नेतर-
विषय इत्याह--</p>
<lg>
  <l>न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं</l>
  <l>न यस्मिञ्जीवानां प्रसरति मनोवागवसरः ।</l>
  <l>निराकारं नित्यं निजमहिमनिर्वासिततमो</l>
  <l>विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥ १०॥</l>
</lg>
<p>न यदिति । भो सुरतटिनि, सुराणां देवानां तटिनी
धुनी तत्संबोधनम् । 'तटिनी ह्वादिनी धुनी'त्यमरः । तद्वक्ष्य-
माणविशिष्टत्वं निखिलजगत्कारणत्वेन प्रसिद्धं ब्रह्मत्वम् । सर्वं
वाक्यं सावधारणमितिन्यायात्त्वमेवेत्यर्थः । असीति शेषः । न
विषयः । त्वमितरविषयभूता नासीत्यर्थः । तत्किम् । यत् ब्रह्म
गलितभेदैः गलितः गतः भेदो येभ्यस्ते गलितभेदाः तैरद्वै-
तप्रतिपादकै: 'नेह नानास्ति किंचने’त्यादि ब्रह्मरूपैः साक्षाद्वे-
दैरपि प्रत्यक्षश्रुतिमिरपि न अवसितम् । इयत्तया न निश्चितमि-
त्यर्थः । 'षोऽन्तकर्मणी'ति धातोः'द्यतिस्यती'तीत्वम् । उपसर्ग-</p>
<pb n="27" />
<p>वशादुक्तार्थलाभः । तदुक्तम्-'उपसर्गेण धात्वर्थो बलादन्यत्र
नीयते' इति । ननु 'नेह नानास्ति' इत्यादिश्रुतिभिः इतराभाव-
बोधनेऽपि स्वाभावाबोधेन कथमद्वैतसिद्धिरितिचेन्न । स्वस्मि-
न्नपि स्वप्रवृत्त्या स्वाभावस्थापि बोधनात् । अतएव 'ससजुषो
रु:' 'खरवसानयोर्विसर्जनीयः' इत्यादिनिर्देशाः संगच्छन्त
इति दिक् । वेदानामप्यगोचरमित्युक्तत्वादिति भावः । पुनः
कथंभूतम् । यस्मिन्ब्रह्मणि जीवानां व्यासादिविद्वत्प्राणिनां
मनोवागवसरः मनश्च वाक् च अनयोः समाहारः मनो-
वाक् । 'द्वन्द्वश्च प्राणी'त्येकवद्भावः । मनोवाचोः अवसरः
व्यापार इति यावत् । न प्रसरति । न प्रसरणशीलो भवती-
त्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे'तिश्रुते-
रिति भावः । ननु मनोवागित्यत्र 'द्वन्दश्च प्राणी'ति नियमा-
न्नित्यसमाहारे 'द्वन्द्वाच्चुदषहान्ता'दिति टचा भाव्यम् । तथा-
चोक्तप्रयोगासंगतिरितिचेन्न । समासान्तविधेरनित्यत्वात् । अत्र
प्रमाणं तु अश्वादिगणे राजन्शब्दपाठ इति दिक् । मनः-
शब्दस्य प्राण्यङ्गत्वाभावेन शङ्कैव नेति वा । पुनः कथंभूतम् ।
निराकारं निर्गतः आकारो यस्य तत् । अशरीरमित्यर्थः । 'अपा-
णिपाद'इत्यादिश्रुतेः । पुनः कथंभूतम् । नित्यं निरन्तरं भवं
नित्यम् । अव्ययात्त्यप् । उत्पत्त्यादिशून्यमित्यर्थः । 'न जायते
म्रियते' इत्यादिस्मृतेरित्यर्थः । पुनः कथंभूतम् । निजमहिमनि-
र्वासिततमः निजमहिम्ना स्वमाहात्म्येन निर्वासितं नाशितं तमो
येन तत् । स्वप्रकाशमित्यर्थः । 'यस्य भासा सर्वमिदं वि-
भाति' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि
यच्चाग्नौ तत्तेजो विद्धि मामकमि'त्यादिश्रुतिस्मृतिभ्यामित्यर्थः ।</p>
<pb n="28" />
<p>पुनः कथंभूतम् । विशुद्धं मायामलरहितम् । नारायणतीर्थ-
सरस्वतीभिरपि गङ्गैवाद्वितीयं ब्रह्मेत्युक्तम् । 'न नानेहास्तीति
श्रुतिवचनजातैर्भगवती निरस्यैवाभासि स्वयमखिलभेदं सुरधुनि ।
चिदात्मैका नित्या चितिसुखसदाविष्कृतिरसि त्वदीयं मोक्षार्थं
श्रयति जनता जीवनपद'मिति । अत्र शिष्यबुद्धिवैशद्याय किं-
चिदुच्यते--वेदोनाम ब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यम् । स
च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा नाम अनुष्ठानकारकभूतद्रव्य-
देवताप्रकाशकाः । ते च ऋग्यजुःसामभेदात्त्रिधा । पादबन्धगा-
यत्र्यादिछन्दोविशिष्टा ऋचः अग्रिमीळ इत्यादयः । गीतिवि-
शिष्टास्ता एव सामानि । उभयविलक्षणानि यजूंषि । ब्राह्मण-
मपि त्रिविधं विधिरूपं अनुवादरूपं उभयविलक्षणं चेति मीमां-
साग्रन्थेभ्योऽवधेयम् । इह विस्तरभयान्न तन्यत इति दिक् ॥ १० ॥
इदानीं निखिललोकानां साधारण्येनात्यन्तदुष्प्रापविष्णु-
पददात्री त्वं न केनापि तुलनीयेत्याह--</p>
<lg>
  <l>महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्</l>
  <l>न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।</l>
  <l>अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया</l>
  <l>ददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११॥</l>
</lg>
<p>महादानैरिति । भो भागीरथि, अखिलसाधारणतया अ-
खिलानां सर्वलोकानां साधारणता साधारण्यं नतु न्यूनाधि-
क्यम् तथा । विष्णोर्नारायणस्य । 'विष्णुर्नारायणः कृष्णः’
इत्यमरः । पदं चरणं वैकुण्ठस्य स्थानं वा । यद्वा विष्णो: पदं</p>
<pb n="29" />
<p>वस्तु । विष्णुरूपवस्त्वित्यर्थः । अस्मिन्पक्षे राहोः शिर इतिवत्षष्ठी ।
तथाच कोशः 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वि’ति।
ददाना दात्री । 'न लोके'ति षष्ठीनिषेधात्पदमिति द्वितीया ।
एतादृशी त्वं इह लोके केन तुलनीया उपमेयासीति नः अ-
स्मान् । कथय वद । तादृशस्य कस्याप्यभावान्न केनाप्युपमेया-
सीति भावः । यद्वा केन ब्रह्मणा तुलनीयासि । अपितु नेत्यर्थः ।
ब्रह्मणोऽपि तादृशसामर्थ्याभावादिति भावः । 'तुल निष्कर्ष'
इति धातोरनीयर् । शिष्णुरूपं वस्त्विति पक्षे सारूप्यमुक्ति:
प्रतीयते । तदुक्तं श्रीमच्छंकराचार्यै: 'त्वन्मध्याद्भृगुलाञ्छनो
गरुडगः पीताम्बरो निर्गतः', 'नारायणं वा शिवं' इति वेति ।
तत्किम् । यदिष्णुपदं महादानैः गजाश्वशिबिकातुलादिरूपैः ।
ध्यानैः चित्तैकग्र्यतया चिन्तनैः । अपिच बहुविधवितानैरपि
च बहुविधा अनेकप्रकारा ये वितानाः क्रतवः । ’क्रतुविस्तारयो-
रस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । बहुविधा ये विताना उल्लो-
चास्तैः । 'अस्त्री वितानमुल्लोच'इत्यमरः । घोराभिः भयंकराभिः
परमकष्टसाध्याभिर्वा । सुविमलतपोराशिभिरपि सुविमलानि नि-
र्मलानि नतु मारणोच्चाटनवशीकरणजनकानि तादृशानि यानि
तपांसि तेषां राशयः समूहाः तैरपि न लभ्यं न प्राप्यम् ।
अर्हार्थकलभधातोः 'पोरदुपधा'दिति यत् । पुनस्तत्किम् ।
अचिन्त्यं चिन्तानर्हम् । वागगोचरमिति भावः ॥ ११ ॥
इदानीं दर्शनमात्रेण नृणां संसारभयहन्त्रीं त्वां शिवः पार्व-
त्यनुरोधत्यागपूर्वकं निरन्तरं शिरसि बिभर्तीेत्याह--</p>
<pb n="30" />
<lg>
  <l>नृणामीक्षामात्रादपि परिहरन्त्या भवभयं</l>
  <l>शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।</l>
  <l>[^१]अमर्षम्लानायाः परममनुरोधं गिरिभुवो</l>
  <l>विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥</l>
</lg>
<p>नृणामिति । भो भागीरथ, ते तव मूर्तेः तनोः महिमानं
परमदुर्घटकार्यकर्तृत्वरूपं माहात्म्यं इह लोके कः निगद्तु वदतु ।
अपितु न कोऽपीत्यर्थः । माहात्म्यबाहुल्येन कस्यापि वाणी-
प्रसराभावादिति भावः । कथंभूताया मूर्तेः । ईक्षामात्रादपि
ईक्षैव ईक्षामात्रमिति मयूरव्यंसकादित्वात्समासः । 'मात्रं का-
र्त्स्त्र्येऽवधारणे' इति कोशादवधारणं मात्रशब्दार्थः । तस्मादपि
नृणाम् । 'नृचे'त्यस्य वैकल्पिकत्वाद्दीर्घाभावः । भवभयं भवात्सं-
साराद्भयं हरन्त्याः । तदुक्तम् 'गङ्गे त्वद्दर्शनान्मृक्त्तिर्न जाने स्न्ननजं
फल'मिति । पुनः कथंभूतायाः । शिवायाः शिवयतीति शिवा ।
’तत्करोती'ति ण्यन्तात्पचाद्यचि टाप्। तस्याः । यद्वा शिवं
कल्याणं अस्ति यस्या: सा तस्या:। यद्वा शिवो महादेवो भर्तृ-
त्वेन अस्त्यस्या इति, शिवो मोक्षोऽस्त्यस्या इति पक्षचतुष्टयेऽपि
अर्शआद्यच् । 'शिवो मोक्षे महादेवे सुखे क्षेमे जले शिव’मिति
शाश्वत: । श्रीकण्ठ: कपर्दी । उग्र: कपर्दी श्रीकण्ठ:’ इत्यमरः ।
अमर्षम्लानाया: अमर्षेन कोपेन। कोपक्रोधामर्षरोष' इत्यमरः ।
म्लाना ग्लाना तस्याः एतादृशः गिरिभुवः गिरेर्हिमाचलात्
भवतीति गिरिभू: पार्वती।  क्विप् ।  तस्याः परममुतत्कृष्टं अनुरोधं
----------------------------
[^१] ग्लानाया इति पाठ: ।</p>
<pb n="31" />
<p>अनुसरणं विहाय त्यक्त्वा यां गङ्गां शिरसि नियतं निरन्तरं
यथा स्यात्तथा धारयति बिभर्ति । स्वार्थे णिच् । सपत्नीभूतगङ्गाया
मस्तकधारणेन जातकोपाया अपि पार्वत्याः सान्त्वनादिकं वि-
हाय अधिकगुणवतीं त्वामेव शिरसि बिभर्तीति भावः । लोकेऽपि
सर्वत्राधिकगुणवतो हीरकस्य मस्तकधारणं प्रसिद्धमेव ॥ १२ ॥
इदानीमुन्मत्तादिभिरपि विनिन्द्यानि परिहार्याणि अवाच्यानि
यानि पापानि तन्नाशिनी त्वमेवेत्याह--</p>
<lg>
  <l>विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-</l>
  <l>रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।</l>
  <l>हरन्ती लोकानामनवरतमेनांसि कियतां</l>
  <l>कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३ ॥</l>
</lg>
<p>विनिन्द्यानीति । भो गङ्गे, उन्मत्तैरविचारकारिभिः वि-
शेषेण निन्द्यानि निन्दितुं योग्यानि । अपिच पतितैरप्रायश्चि-
त्तादिभिः परिहार्याणि त्याज्यानि । व्रात्यैः गर्भाधानादिसं-
स्कारहीनैः । 'व्रात्यः संस्कारहीनः स्यादि'त्यमरः । अवाच्यानि
वक्तुमयोग्यानि । पिशुनैः कर्णेजपैः । 'कर्णेजपः सूचकः स्या-
त्पिशुनो दुर्जनः खलः' इत्यमरः । सपुलकं सरोमाञ्चं यथा
स्यात्तथा अपास्यानि त्याज्यानि । एतादृशानि कियतां किं
परिमाणमेषां ते कियन्तः तेषाम् । 'किम; संख्यापरिमाणे
डतिचे'ति वतुप् । 'किमिदंभ्यां वो घः' । बहूनामित्यर्थः ।
लोकानां एनांसि यन्त्यधो एभिस्तानि, यन्ति गच्छन्ति प्राय-
श्चित्तादिना वा तानि एनांसि कलुषाणि । 'इण आगसी'-</p>
<pb n="32" />
<p>त्यसुन् । 'कलुषं वृजिनैनोघमि'त्यमरः । हरन्ती नाशयन्ती
एका सती कदापि कस्मिन्नपि काले अश्रान्ताऽखिन्ना एतादृशी
त्वं जगति विश्वस्मिन् विजयसे सर्वोत्कर्षेण वर्तसे । लोके क-
श्चन कदाचित् एवं कार्यं यदि करोति तदा श्रान्तो भवति ।
बहुभिर्वा एकं महत्कार्यं कृतं चेत् सर्वेऽपि श्रान्ता भवन्ति ।
त्वं तु असहायाऽद्वितीया सर्वेषां पापानि निरन्तरं हरन्त्यपि
न श्रान्तेति ममापि पापं दूरीकरिष्यस्येवेति भावः ॥ १३ ॥
इदानीं तव गुणानामेवायं दोषः यत्पृथिवीतले शोकनाशाय
स्वर्लोकात्पतन्त्यास्तव निर्लोभोऽपि शिवः कपर्दस्थापनमिषेण
प्रतिग्रहं चकारेत्याह--</p>
<lg>
  <l>स्खलन्ती स्वर्लोकादवनितलशोकापहृतये</l>
  <l>जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।</l>
  <l>अये निर्लोभानामपि मनसि लोभं जनयतां</l>
  <l>गुणानामेवायं तव जननि दोषः परिणतः ॥ १४ ॥</l>
</lg>
<p>स्खलन्तीति । भो भागीरथि, अवनितलशोकापहृतये
अवन्याः पृथिव्याः तलं स्वरूपम् । 'अधःस्वरूपयोरस्त्री तलमि'-
त्यमरः । तत्र यः शोकः तस्यापहृतिर्नाशः तस्यै । अपहृतिं कर्तु-
मित्यर्थः । स्वर्लोकात् स्खलन्ती पतन्ती त्वं पुरभिदा शिवेन
जटाजूटग्रन्थौ जटाजूटस्थ कपर्दस्य ग्रन्थिस्तत्र यत् विनिबद्धा
विशेषेण निरन्तरं बद्धासि । उपसर्गद्वयं कदापि अन्यत्र गमना-
भावं बोधयति । अये जननि, निर्लोभानामपि निर्गतः लोभो
येषां तेषामपि मनसि चित्ते लोभं इच्छां जनयतां कुर्वतां तव</p>
<pb n="33" />
<p>गुणानामेव दयादाक्षिण्यादीनामेवायं दोषः परिणतः प्रसृतः ।
निर्लोभतया कदाप्यप्रतिग्रहकर्ता शिवः तव गुणलोभवशेनैव
अपूर्वं प्रतिग्रहं चकारेति भावः ॥ १४ ॥
इदानीं सर्वेषां रक्षणक्षमं परमौषधं त्वमसीत्याह--</p>
<lg>
  <l>जडानन्धान्पङ्गून्प्रकृतिबधिरानुक्तिविकलान्</l>
  <l>ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।</l>
  <l>निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो</l>
  <l>नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५ ॥</l>
</lg>
<p>जडानिति । भो अम्ब, इह कलौ जडान् अज्ञान् । क्रियासु
मन्दानित्यर्थः । 'जडोऽज्ञः' इत्यमरः । अन्धान् चक्षुरिन्द्रिय-
हीनान् । पङ्गून्पादगतिहीनान् । प्रकृतिबधिरान् प्रकृत्या स्वभा-
वेन बधिरान् श्रोत्रेन्द्रियहीनान् । शब्दश्रवणासमर्थानित्यर्थः ।
उक्तिविकलान् उक्तिभिर्वचनैर्विकला हीनाः तान् । 'पूर्वसदृशे'ति
समासः । 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः ।
वचधातो: क्तिनि 'वचिस्वपी'ति संप्रसारणम् । ग्रहग्रस्तान्
ग्रहैरादित्यादिनवग्रहैर्ग्रस्ता: कवलिताः । कृतपीडा इति यावत् ।
तदुक्तं ज्योतिःशास्त्रे--'स्वर्क्षाच्चन्द्रखलास्त्रिखारिषु शुभा: सप्ता-
द्यगोऽब्जः पुनश्चापुत्राव्द्ययधर्ममृत्युषु कविः स्वास्तत्रिकोणे गुरुः ।
सौम्यो व्यन्त्यसमेऽखिला भवगताः शुक्ले नवेषुद्विगश्चन्द्रोऽथो
निजभाद्द्युभं नवहृतं त्र्यद्रीषुशेषं न सत् ॥’ इति । अस्ताखि-
लदुरितनिस्तारसरणीन् । अखिलानि च तानि दुरितानि च
पापानि तेषां निस्तारणं नाशानं तस्य सरणिः प्रायश्चित्ताद्याचरण-</p>
<pb n="34" />
<p>मार्गः अस्ताऽविद्यमाना अखिलदुरितनिस्तारसरणिर्येषां तान् ।
पापबाहुल्येनाविद्यमानप्रायश्चित्तादीनित्यर्थः । निलिम्पैर्देवैः ।
'अनुपसर्गाल्लिम्पे'ति सूत्रस्थेन 'नौलिम्पेः संज्ञाया' मितिवार्तिकेन
शः । मुक्तान् स्वहस्तेन परित्राणाभावात् । अपिच निरयान्तः निर-
यस्य नरकस्य अन्तः मध्ये । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः
स्त्रिया'मित्यमरः । निपततः नितरां पतन्ति ते निपतन्तः तान्
एतादृशान् नरान् मनुष्यान् त्रातुं त्वं परमं उत्कृष्टं भेषजं
औषधमसि । 'भेषजौषधभैषज्यानि इत्यमरः । एवंच सर्वभेषजं
त्वं सर्वान्तर्गतस्य ममापि भेषजं भविष्यस्येवेति भावः ॥ १५ ॥
इदानीं कपिलमुनिनिर्दग्धाः सगरजाः सगरपुत्राः त्वत्संबन्ध-
वशात् स्वर्गे दिव्यदेहधारिणः अद्यापि तव महिमानं अहो
धन्या जाह्नवी निधनं गता अपि वयं यत्सङ्गवशादीदृशा जाता
इत्याकारकं गायन्तीत्याह--</p>
<lg>
  <l>स्वभावस्वच्छानां सहजशिशिराणामयमपा-</l>
  <l>मपारस्ते मातर्जयति महिमा कोऽपि जगति ।</l>
  <l>मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः</l>
  <l>समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥</l>
</lg>
<p>स्वभावेति । भो मातः, स्वभावस्वच्छानां स्वभावेन निसर्गेण
नतु कृत्रिमेण । 'स्वरूपं च स्वभावश्च निसर्गः' इत्यमरः ।
स्वच्छानां निर्मलानां सहजमनायासेन मणिकाद्यसंक्षेपेण शिशि-
राणां शीतलानाम् । उक्तंच कालिदासेन 'शैत्यं हि यत्सा प्रकृ-
तिर्जलस्य' इति । एतादृशीनां ते आपां वाराम् आप: स्त्री
भूम्नि वार्वारि' इत्यमरः । अपारः अमर्यादः अयं कोऽपि विल-</p>
<pb n="35" />
<p>क्षणः महिमा माहात्म्यं जगति जयति सर्वोत्कर्षेण वर्तते ।
सगरजाः सगरराजपुत्राः अनवद्यद्युतिभृतः सन्तः । न अवद्या
रर्ह्या अनवद्या स्तुत्या । 'अवद्यपण्य--'इति सूत्रेण गर्हायां अब-
द्येति निपातितम् । तादृशी चासौ द्युतिश्च तां विभ्रति ते एता-
दृशाः सन्तः । अतएव स्फुटपुलकसान्द्राः सन्तः स्फुटा:
प्रकटा ये पुलकाः रोमाञ्चाः तैः सान्द्राः निबिडाः सन्तः
महिमानं अद्यापि मुदा प्रीत्या गायन्ति । वदन्तीत्यर्थः । किं
कृत्वा । द्यु्तलं दिवस्तलं 'दिव उत्' इत्युत् । 'द्योदिवौ द्वे स्त्रियाम्'
इत्यमरः । समासाद्य अधिष्ठित्य । सगरेण हि अश्वमेधकरणाय
अश्वो विनिर्मुक्तः । तत्संरक्षणाय स्वपुत्रा नियुक्ताः । स चाश्व;
इन्द्रेण चौर्येण पाताले नीतः । सगरपुत्रा अपि तदानयनाय
तत्र गताः ते सर्वे कपिलेन निर्दग्धाः पश्चात् भगीरथेन स्वर्गात्
गङ्गामानीय पाविता इति स्पष्टं रामायणादौ ॥ १६ ॥
इदानीं स्वल्पपापिनां दोषापनुत्तये त्रिजगति गोदावर्यादीनि
बहूनि तीर्थानि सन्ति । अतीतप्रायश्चित्तानां तु दोषहरणे
त्वत्सदृशी त्वमेव समर्थत्याह--</p>
<lg>
  <l>[^१] कृतक्षुद्रैनस्कानथ झटिति संतप्तमनसः</l>
  <l>समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।</l>
  <l>अपि प्रायश्चित्तप्रसरणपथातीतचरितान्</l>
  <l>[^२]नरान्दूरीकर्तुं [^३]त्वमिव जननि त्वं विजयसे ॥ १७॥</l>
</lg>
<p>------------------------------------------
[^१] क्षुद्राघौघान् इति पाठः ।
[^२] ऊरीकर्तुं इति पाठस्तत्राङ्गीकर्तुमित्यर्थः ।
[^३] त्वमिह खलु जागर्षि जगति इति पाठः ।</p>
<pb n="36" />
<p>कृतेति । भो जननि, कृतक्षुद्रैनस्कान् कृतानि क्षुद्राणि
अल्पानि पलाण्डुभक्षणादीनि एनांसि पापानि यैस्ते तान् ।
'शेषद्विभाषा'इति कप् । अथ पापाचरणानन्तरं झटिति शीघ्रं
संतप्तमनसः संतप्तं पश्चात्तापयुक्तं मनो येषां ते तान् एता-
दृशान्नरान् समुद्धर्तुं आचरितपापात् दूरीकर्तु त्रिभुवनतले
त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'तद्धितार्थ'इति समा-
हारे द्विगुः । पात्रादित्वात्स्त्रीत्वाभावः । तस्य तलं तत्र तीर्थ-
निवहाः तीर्थानां गोदावर्यादितीर्थानां निवहाः समूहाः सन्ति
वर्तन्ते । भो जननि, प्रायश्चित्तप्रसरणपथातीतचरितान् प्राय-
श्चित्तस्य पापनाशनसमर्थधर्मविशेषस्य प्रसरणमाचरणं तस्य
पन्था मार्ग: । 'वाटः पन्थाश्च मार्गश्च'इति त्रिकाण्डमण्डनः ।
'ऋक्पूरब्धू’--’इति समासान्तोऽप्रत्ययः । प्रायश्चित्तप्रसरणपथान्
अतीतं अतीत्य गतं चरितं येषां ते । तानपि बहुकालं बुद्धि-
पूर्वकं महत्पापाचरणेनाविद्यमानप्रायश्चित्तानपीत्यर्थः । उक्तं-
च मुद्गलाचार्यै:--'सुकृतिन ईषत्पापे प्रायश्चित्तं रघूत्तम प्रोक्तम् ।
अपयाति मामुदीक्ष्य प्रायस्तदपीह गौरिव व्याघ्रम्'इति ।
एतादृशानपि नरान् दूरीकर्तुं आचरितपापादुद्धर्तुं त्वमिव त्वत्स-
दृशी त्वमेव विजयसे । अत्रोपमानोपमेयत्वं गङ्गाया एव ।
तत्फलं तु अन्या त्वत्सदृशी नास्तीति । अतएवात्रानन्वया-
लंकारः । तदुक्तम् –-'उपमानोपमेयत्वं यदैकस्यैव वस्तुनः । इन्दु-
रिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ ’इति । प्रायश्चित्तशब्दः
'प्रायस्य चित्तिचित्तयोः'इति गणपठितसूत्रेण सुटि निष्पन्नः
स च रूढ्या योगेन च पापनाशनसमर्थं विशेषधर्ममाचष्टे ।</p>
<pb n="37" />
<p>प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढ
इत्याहुः संप्रदायविदो निबन्धकारादयः । योगस्त्वङ्गिरसा
दर्शित:--'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो
निश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' अस्सार्थ:--अनुष्ठितेन
द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासो
निश्चयः तेन संयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तमित्यलं
विस्तरेण ॥ १७ ॥
इदानीमनेकगुणविशिष्टत्वेन पापहरणक्षमं तव वपुर्मम पापं
नाशयत्विति प्रार्थयते--</p>
<lg>
  <l>निधानं धर्माणां किमपि च विधानं नवमुदा</l>
  <l>प्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।</l>
  <l>समाधानं बुद्धेरथ खलु तिरोधानमधियां</l>
  <l>श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८॥</l>
</lg>
<p>निधानमिति । भो जननि, धर्माणां वेदेन प्रयोजनमुद्दिश्य
विधीयमानार्थानाम् । तदुक्तं जैमिनिना--'चोदनालक्षणोऽर्थो
धर्मः' इति चोदनालक्षणार्था धर्मास्तेषां निधानं स्थानम् ।
निधीयते स्थाप्यते यस्मिन्निति धाधातोः 'करणाधिकरणयोश्च'
इति ल्युट् । च पुनः नवमुदां नवाश्च ता मुदश्च तासां नूतन-
हर्षाणां किमपि विधानं जनकम् । गङ्गादर्शनेन विलक्षणा हर्षा
जायन्त इत्यनुभवसिद्धम् । 'कर्तृकर्मणोः' इति कर्मणि षष्ठी
उभयत्र । च पुनः तीर्थानां प्रधानम् । च पुनः त्रिजगतः
त्रयाणां जगतां समाहारां त्रिजगत् तस्य । 'तद्धितार्थ’इति</p>
<pb n="38" />
<p>समाहारे द्विगुः । अमलपरिधानं अमलं निर्मलं च तत्परिधानं
चामलपरिधानं अधोंशुकम् । 'अन्तरीयोपसंव्यानपरिधाना-
न्यधोंशुके'इत्यमरः । यथा लोके कस्यचिद्वसनहीनस्य न शोभा
तथा एतद्विना त्रिजगत इत्याकूतम् । च पुनः बुद्धेर्मनीषायाः
'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । समा-
धानम् । नानादुष्टकल्पनानाशकमित्यर्थः । अथानन्तरं अधियां
निर्बुद्धीनां तिरोधानं अपिधानम् । तेषामदृश्यमिति भावः ।
'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अथ श्रियां
समृद्धीनामाधानं स्थापकम् । मोक्षादिलक्ष्मीसंपादकमित्यर्थः ।
एतादृशगुणविशिष्टं तव वपुः शरीरम् । 'गात्रं वपुः संहननं
शरीरम्' इत्यमरः । नः अस्माकं तापं परिहरतु ॥ १८ ॥
इदानीं कार्यासक्ततया यस्तव वियोगो जातः अयं ममैवा-
पराध इत्याह--</p>
<lg>
  <l>पुरो धावंधावं द्रविणमदिराघूर्णितदृशां</l>
  <l>महीपानां नानातरुणतरखेदस्य नियतम् ।</l>
  <l>ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो</l>
  <l>वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९॥</l>
</lg>
<p>पुर इति । भो मातः, मातृत्वेनावश्यमपराधः सोढव्य इत्या-
कूतम् । अयं ममैव । एवो निश्चयार्थः । मन्तुः अपराधः । अस्तीति
शेषः । कोऽसावित्याकाङ्क्षायामाह । इहेति । इह लोके तव
वियोगः स्नानाद्यसंबन्धः यत् अभूत् अतः कारणात् क्षणमपि
क्षणमात्रमपि करुणा दया त्वया मयि कर्तव्येति शेषः ।</p>
<pb n="39" />
<p>'कारुण्यं करुणा घृणा' इत्यमरः । अपराधभवने मूलमाह ।
कथंभूतस्य मम । द्रविणमदिराघूर्णितदृशां द्रविणनेव मदिरा
उन्मादकारित्वात्, यद्वा द्रविणं च मदिरा च ताभ्यां घूर्णिते
घूर्णनयुक्ते । भ्रमिते इत्यर्थः । तादृश्यौ दृशौ येषां ते । 'दृक् दृष्टी
च' इत्यमरः । नाना अनेकेषाम् । अव्ययत्वात्  षष्ठ्या लुक् । एता-
दृशानां महीपानां महीं पान्ति ते महीपाः राजानः तेषां अग्रे
नियतं नियतमेव धावंधावं धावित्वाधावित्वा 'धावु गतिशुध्द्यो:’
इति धातोः 'आमीक्ष्ण्ये णमुल् च' इति णमुलि द्वित्वम् । तरु-
णतरखेदस्य अतिशयेन तरुणः तरुणतरः तादृशः खेदः श्रमो
यस्य तस्य । यद्वा नानातरुणतरखेदस्येत्येकं पदम् । नाना अने-
कविषयः तरुणतरः खेदो यस्य । पुनः कथंभूतस्य । स्वहित-
शतहन्तुः स्वस्यैव हितानि पथ्यानि तेषां शतं तस्य हन्ता नाशकः
तस्य । अतएव पुनः कथंभूतस्य । जडधियः जडा धीर्यस्य
तस्य ॥ १९ ॥
पूर्वं दया विधेयेत्युक्तं, इदानीं किंविषयिणी दयेत्याकाङ्क्षायां
तव जलं मम पुनर्भवनमेव दूरीकरोत्विति प्रार्थयते--</p>
<lg>
  <l>मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली-</l>
  <l>स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि ।</l>
  <l>सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं</l>
  <l>जलं ते जम्बालं मम जननजालं जरयतु ॥ २०॥</l>
</lg>
<p>मरुदिति । भो मातः, ते तव जलं मम जगन्नाथस्य
जननजालं जननस्य जन्मनः । 'जनुर्जननजन्मानी'त्यमरः । तस्य</p>
<pb n="40" />
<p>जालं समूहः तत् । 'जालं समूह आनायः'इत्यमरः । जरयतु
नाशयतु । 'जॄ वयोहानौ' स्वार्थणिजन्तः । 'जनी जॄष्--' इति
मित्वे 'मितां हस्व' इत्युपधाह्वस्वः। कथंभूतं जलम् । म-
रुल्लीलालोलल्लहरिलुलिताम्भोजपटलीस्खलत्पांसुव्रातच्छुरणवि-
सरत्कौङ्कुमरुचि । मरुतः वायोः लीला विलासः तेन लोलन्त्य-
श्चञ्चला या लहर्यः वीचयः ताभि: लुलितानि लोलानि
यानि अम्भोजानि कमलानि तेषां पटली समूहः तस्याः
स्खलन्तः पतन्तो ये पांसवः रजांसि तेषां व्रातः समूहः तस्या:
छुरणं अङ्गलेपः तेन विसरन्ती प्रसरणशीला तादृशी कौङ्कुमरु-
चिर्दीप्तिर्यस्य तत् । कमलरजःपतनेनात्यन्तमारक्तमिति भावः ।
पुनः कीदृशम् । सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं सुराणां
इन्द्रादिदेवानां स्त्रियः इन्द्राण्यादयः तासां वक्षोजाः स्तनाः
तेभ्यः क्षरन् पतन् यः अगरुजम्बालः कृष्णचन्दनपङ्कः ।
'वंशिकागरुराजार्ह' इत्यमरः । 'निषद्वरस्तु जम्बालः पङ्कोऽस्त्री'
इत्यमरः । तेन जटिलं सजटम् । जटाशब्दात्तुदादित्वादिलच् ।
पुनः कथंभूतम् । जम्बालं: जम्बालः पङ्कः अस्ति यस्मिन् तत् ।
यद्वा जम्बालः शैवालं अस्ति यस्मिन् । यद्वा जम्बालाः मद-
नद्रुमाः । धत्तूरवृक्षा इत्यर्थः । ते सन्त्यस्मिन् तत् । तथाच
कोशः 'जम्बालः शैवले पङ्के जगले मदनद्रुमे' इति पक्षत्रयेऽपि
जम्बालशब्दान्मत्वर्थीयोऽर्शआद्यच् । मरुल्लीलालोलल्लहरीत्यत्र
'संहितायां 'तोर्ली'ति लः । कौङ्कुमरुच्योः समास कृत्वा‘
पश्चाद्विसरन्तीशब्देन समासे पुंवद्भावः । 'तालव्या अपि दन्याश्चा
शम्बशूकरपांशवः' इति द्विरूपकोशात्तालव्योपि पांशुशब्दः २०</p>
<pb n="41" />
<p>इदानीमुत्पत्तिस्थाननिवासस्थानव्यापारसौष्ठवेन जगदपेक्षया
तवोत्कर्षो वर्तत इत्याह--</p>
<lg>
  <l>समुत्पत्तिः पद्मारमणपदपद्मामलनखा-</l>
  <l>न्निवास: कर्न्दपप्रतिभटजटाजूटभवने ।</l>
  <l>अथायं [^१]व्यासङ्गो हतपतितनिस्तारणविधौ</l>
  <l>न कस्मादुत्कर्षस्तव जननि जागर्ति जगति ॥ २१ ॥</l>
</lg>
<p>समुत्पत्तिरिति । भो जननि, जगतः विश्वस्मात्तवोत्कर्षः
आधिक्यं कस्माद्धेतोर्न जागर्तु नास्ताम् । अपितु सर्वस्माद्धेतोरुत्कर्षो
वर्तत इत्यर्थः । उत्कर्षप्रतिपादकहेतूनाह--समुत्पत्तिरिति । तव
समुत्पत्तिः सम्यगुत्पत्तिः उद्भवः पद्मारमणपदपद्मामलनखात्
पद्माया: लक्ष्म्याः 'लक्ष्मीः पद्मालया पद्मा' इत्यमरः । रमणः
पतिः विष्णुः तस्य पदं चरणकमलं तस्यामलनखः तस्माद्भवति ।
'जनिकर्तुः' इत्यपादानत्वम् । तव निवासस्थितिः कन्दर्पप्रति-
भटजटाजूटभवने कन्दर्पस्यानङ्गस्य । 'कन्दर्यो दर्पकोऽनङ्गः
इत्यमरः । प्रतिभटः प्रतिपक्षी शिवः तस्य जटाजूटः कपर्दः
स एव भवनं गृहं तत्र वर्तत इति शेषः । अथानन्तरं तवायं
व्यासङ्गः उद्योगः हतपतितनिस्तारणविधौ हताः शत्रुभिः
शस्त्रादिना मारिताः पतिताः प्रायश्चित्तिनः तेषां निस्तारणं
उद्धारः तस्य विधिः करणं तत्र वर्तत इति शेषः । 'विधि-
र्विधाने दैवे च' इत्यमरः ॥ २१ ॥
-------------------------------------
[^१] ङ्गः पतितजननिस्तार इति पाठः ।</p>
<pb n="42" />
<p>इदानीं हरशिरसि निवसन्त्याः विष्णुपदोद्भूतायास्तवोप-
मेया कापि नदी नास्तीत्याह--
नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
[^१]कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै-
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ।।
नगेभ्य इति । भो जननि, कविभिः पण्डितैः । 'संख्या-
वान्पण्डितः कविः' इत्यमरः । तव तुलालेशः तुलाया उप-
माया: लेशः लवः । 'लवलेशकणाणवः' इत्यमरः । यस्यां
दीयेत तादृशी का वर्तते । अपितु न कापीत्यर्थः । ननु कृष्णा-
दयो बह्व्यो वर्तन्त इतिचेत्तत्राह-नगेभ्य इति । नगेभ्यः पर्वतेभ्यः
'नगोऽप्राणिष्वन्यतरस्या'मिति पाक्षिकत्वान्नञो‘  नलोपाभावः ।
यान्तीनामागच्छन्तीनां मध्ये 'यश्चच निर्धारणम्' इति
षष्ठी । कतमया तटिन्या पुराणां नगराणां संहर्तुर्दाहकस्य शिवस्य
कपर्द: जटाजूट: अधिरुरुहे अध्यारूढः । नगेभ्यो यान्तीनां
तटिनीनां मध्ये कया वा तटिन्या श्रीभर्तुर्विष्णोः पदकमलं
चरणपङ्कजं सलिलै: अक्षालि धौतमिति त्वं कथय । अर्थात्
अस्मान्प्रति वद । एवंच तत्कार्यकारणाभावात् काप्युपमेया
नेति भावः । इदमेव मनसि निधाय त्वामहं शरणं गत इत्या-
कूतम् । अक्षालीत्यत्र 'चिण्भावकर्मणोः' इति कर्मणि चिण् ।
आदौ पूर्वार्धं योजयित्वा पश्चादुत्तरार्धं योज्यम् ॥ २२ ॥
----------------------------
[^१] कया च इति पाठः ।</p>
<pb n="43" />
<p>इदानीमेवं जननि मनोरथदायिनि त्वयि सत्यां ब्रह्मादीनां
प्रयोजनमेव नास्तीत्याह--</p>
<lg>
  <l>विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो</l>
  <l>सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।</l>
  <l>कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः</l>
  <l>सवित्री कामानां यदि जगति जागर्ति भवती ॥</l>
</lg>
<p>विधत्तामिति । भो जननि, जनयति विश्वं उत्पादयती-
ति जननी विश्वमाता तत्संबोधनम् । जगति विश्वस्मिन्
कामानां मनोरथानाम् । कर्मणि षष्टी सवित्री उत्पादयित्री
यदि जननी विश्वमाता त्वं जागर्ति अस्ति तर्हि विधिः विद-
धाति विश्वमिति विधिः ब्रह्मा । 'विधाञो वेध चे’इति वेधा-
देशोऽसिप्रत्ययश्च । निरवधिसमाधिं निर्गतः अवधिर्यामादिरूपा
मर्यादा यस्य तादृशो यः समाधिः चित्तवृत्तिनिरोधः तं
निःशङ्क निर्गता शङ्का यस्मिन्कर्मणि यथा भवति तथा मयि
निर्व्यापारे जगदुत्पत्तिः कथं भविष्यतीति शङ्कारहितमि-
त्यर्थः । विधत्तां करोतु । हरिः हरति सर्वेषां दुःखमिति
'हरिः । 'अच इः' इत्यौणादिक इः । शेषे सुखं यथा स्यात्तथा
शेताम् निद्रां करोतु । सुखमित्यनेन निद्राभङ्गजनकः जग-
द्रक्षणरूपोपाधिर्मास्त्विति सूचितम् । हरः हरति विश्वमिति
हरः । पचाद्यच् । शिवः अविरतं निरन्तरं यथा स्यात्तथा नृत्यतु
नृत्यं करोतु । अविरतमित्यनेन मध्ये कार्यान्तरचित्ततया
नृत्यविरामो मास्त्विति सूचितम् । प्रायश्चित्तैः कृतं स्वहस्तेन</p>
<pb n="44" />
<p>शुद्धिकरणाभावात्तानि व्यर्थानीति भावः । अथानन्तरं तपो-
दानयजनैः तपांसि कृच्छ्रचान्द्रायणादीनि, दानानि गजाश्वा-
दीनि, यजनानि देवपूजायागादीनि तैरलम् । तैः साध्यं नास्तीति
भावः । गम्यमानक्रियां प्रति कारकत्वात्तृतीया । अहो इत्या-
श्चर्ये । अनेकेषां कार्यमेकैव त्वं करोषीत्याश्चचर्यम् ॥ २३ ॥
इदानीं अनाथ इत्यादिविशेषयुक्तोऽहं स्नेहार्द्रामित्यादिवि-
शेषणयुक्तां त्वां प्राप्तोस्मि । अतस्त्वं स्वमहत्त्वयोग्यं कुर्वित्याह--</p>
<lg>
  <l>अनाथः स्नेहार्द्रां [^१]विगलितगतिः पुण्यगतिदां</l>
  <l>पतन्विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् ।</l>
  <l>सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं</l>
  <l>शिशुः संप्रातस्त्वामहमिह विदध्या; समुचितं ॥</l>
</lg>
<p>अनाथ इति । भो गङ्गे अयमहं शिशुः श्यति दिनेदिने
कृशो भवतीति शिशुः शावकः । 'शः कित्सन्वच्च' इत्यादि-
सूत्रेण साधु: । 'पृथुक: शावकः शिशुः' इत्यमरः । मातरं
जननीं त्वां प्राप्तोस्मि । इह विषये त्वं समुचितं सम्यगुचितं
योग्यं विदध्याः कुरु । शरणागतं बालं मां मातृत्वान्मा त्यजेति
भावः । कीदृशोऽहम् । कीदृशीं त्वाम् । अनाथः दीनः ।
स्वाम्यन्तराभाववानित्यर्थः । स्नेहार्द्रां स्नेहेन प्रीत्या आर्दां
क्लिन्नाम् । ’आर्दं सान्द्रं क्लिन्नम्' इत्यमरः । पुनः कीदृशोऽहम् ।
कीदृशीं त्वाम् । विगलितगतिः विगलिता नष्टा गतिः गमनं
यस्य सः । यद्वा विगलिता पापबाहुल्येन नष्टा गतिः पुण्यलोके
-------------------------------
[^१] विदलित इति पाठः ।</p>
<pb n="45" />
<p>गतिः गमनं यस्य सः पुण्यगतिदां पुण्येषु गतिः तां ददाति
सा ताम् । यद्वा पुण्येषु पुण्यलोकेषु गतिदाम् । पु० । पतन्
पतितः विश्वोद्धत्रीं उद्धारकर्त्रीम् । 'त्रिभुवनविधातुश्च कलहः
इतिवत् शेषषष्यठ्या समासः । एवं च विश्वान्तर्गतस्य ममोद्वारं
करिष्यस्येवेति भावः । पु० । गदविगलितः गदैः आतङ्कै: ।
रोगैरित्यर्थः । विगलितः विशेषेण गलितः जर्जरितः । 'यक्ष्मा-
न्तकगदाबाधाः शब्दाः पर्यायवाचकाः' इति । सिद्धभिषजं
सिद्धौषधदाम् । सिद्धवैद्यरूपामित्यर्थः । 'रोगहार्यगदङ्कारो भिष-
ग्वैद्यौ चिकित्सके’ इत्यमरः । पु० । तृष्णाकुलितहृदयः तृष्णया
पिपासया आकुलितं व्याप्तं हृदयं यस्य सः । सुधासिन्धुं
सुधाया अमृतस्य सिन्धुं समुद्रम् । यद्वा सुधायाः सिन्धुं
देशम् । यद्वा सुधायाः सिन्धुं नदीम् । तथाचामरः 'देशे नद-
विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इति । अत्र परिकरा-
लंकारः । साभिप्रायविशेषणानां सत्वात् । तदुक्तं कुवलया-
नन्दे--'अलंकारः परिकरः साभिप्राये विशेषणे' इति ॥ २४ ॥
इदानीं यदारभ्य तव कथा भूलोकमागता तदारभ्य यम-
नगरकोलाहलः शान्तः तद्दूता अपि दूरदेशं गताः विमान-
सङ्घश्च देववीथीर्विदलयतीत्याह--</p>
<lg>
  <l>विलीनो वै वैवस्वतनगरकोलाहलभरो</l>
  <l>गता दूता दूरं क्वचिदपि परेतान्मृगयितुम् ।</l>
  <l>विमानानां व्रातो विदलयति वीथीर्दिविषदां</l>
  <l>कथा ते कल्याणी यदवधि महीमण्डलमगात् ॥</l>
</lg>
<p>विलीन इति । भो जननि, यदवधि यदारभ्य ते तव</p>
<pb n="46" />
<p>कल्याणी कल्याणकारिका कथा महीमण्डलमगात् । 'इणो
गा लुङि' इति गादेशे 'गातिस्था--' इति सिचो लुक् । तदारभ्य
वैवस्वतनगरकोलाहलभरः वैवस्वतस्यान्तकस्य 'वैवस्वतोऽन्तकः'
इत्यमरः । नगरं पुरं तत्र कोलाहलभरः कलकलसमूहः ।
'कोलाहलः कलकलः' इत्यमरः । विलीनः विशेषेण लीनः
गुप्तः । अभूदिति शेषः । विशेषश्च कस्मिन्नपि काले ईषदपि
नास्तीति । पूर्वं तत्र पापिगमनेन तेषां ताडनात् कोलाहलः
स्थितः इदानीं तु त्वत्कथाश्रवणमाहात्म्येन पापाभावात्कस्यापि
तत्र गमनाभावेन ताडनाद्यभावादिति भावः । दूता अपि
अर्थात् यमसंदेशहारका अपि 'स्यात्संदेशहरो दूतः' इत्यमरः ।
क्वचिद्देशे परेतान् शवान्मृगयितुं अन्वेषितुं दूरं गताः । यस्मि
न्देशे त्वत्कथाश्रवणं नास्ति तत्र गता इत्यर्थः । ननु यमनग-
रगमनाभावे त्वत्कथाश्रवणिनः क्व गच्छन्तीति चेत्तत्राह--
विमानानां विशिष्टं आनयन्ति ये ते, विगतं मानं वा येषां ते
विमाना: व्योमयानानि । 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।
तेषां व्रातो निकरः । 'स्तोमौघनिकरव्रात' इत्यमरः । दिविषदां
दिवि सीदन्ति ते दिविषदो देवाः तेषाम् । 'शद्लृ विशरण-
गत्यवसादनेष्वि' ति धातोः 'सत्सूद्विष--’ इति क्विप् 'हृद्युभ्यां च'
इति ‘ङेरलुक् सुषामादित्वात्षत्वम् । वीथी: मार्गान् । देवगमन-
मार्गानित्यर्थः । विदलयति विशेषेण दलयति विदारयति ।
त्वत्कथाश्रवणमाहात्म्येन सर्वेषां विमानैर्गमनात वारंवारं
विमानसंबाधात् खनितानिव करोतीत्यर्थः ॥ २५ ॥
इदानीं तव जलकणाः कामक्रोधजनितज्वरदग्धशरीरिणा-
मस्माकं संतापशमनं कुर्वन्त्विति प्रार्थयते--</p>
<pb n="47" />
<lg>
  <l>स्फुरत्कामक्रोधप्रबलतरसंजातजटिल-</l>
  <l>ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।</l>
  <l>हरन्तां संतापं कमपि मरुदुल्लासलहरि-</l>
  <l>च्छटाश्चञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६ ॥</l>
</lg>
<p>स्फुरदिति । दिव्यसरितः दिवि आकाशे भवा दिव्या
'भवार्थे दिगादित्वाद्यत्' सा चासौ सरिच्च तस्याः गङ्गायाः
मरुदुल्लासलहरिच्छटाचञ्चत्पाथःकणसरणयः मरुतः वायोरु-
ल्लासः संबन्धः गमनं वा । 'लस संश्लेषगमनयोः' इति
धातोर्भावे घञ् । तेन या लहर्यः तासां याश्छटाः परम्पराः
ताभिश्चञ्चत् उद्दधत् यत्पाथः उदकम् । 'कबन्धमुदकं पाथः'
इत्यमरः । तस्य कणा: तुषाराः तेषां सरणयः पङ्क्तय: नः
अस्माकं कमपि औषधादिभिरसाध्यतयाऽपहर्तुमशक्यमपि
संतापं हरन्तां नाशयन्तु । कथंभूतानां नः । प्रतिदिनं दिनेदिने
इति प्रतिदिनं 'अव्ययं विभक्ति--' इति सूत्रे योग्यतावीप्साप-
दार्थानतिवृत्तिसादृश्यानीति चत्वारो यथाशब्दार्थाः तत्र वी-
प्सायां अव्ययीभावः । स्फुरत्कामक्रोधप्रबलतरसंजातजटिलज्व-
रज्वालाजालज्वलितवपुषां । कामोऽभिलाषः । 'कामः पञ्चशरः
स्मरः' इत्यमरः । क्रोध अमर्ष: । 'कोपक्रोधामर्षरोष' इत्यमरः ।
स्फुरन्तौ देदीप्यमानौ च तौ कामक्रोधौ च ताभ्यां प्रबलतरम-
तिशयितं संजात उत्पन्नः अतएव जटिलः शिखावान् एता-
दृशो यो ज्वरः तस्य ज्वाला अर्चयः तासां जालं समूह तेन
ज्वलितं दग्धं तादृशं वपुः शरीरं येषां तेषाम् ॥ २६ ॥</p>
<pb n="48" />
<p>पूर्वं जलकणाः संतापं हरन्तामित्युक्तम्, इदानीं तापबा-
हुल्यात्कणानां कथं तत्संभवतीति चेत् तव जलानां संघातः
अस्माकं तापशमनं करोत्विति प्रार्थयते--</p>
<lg>
  <l>इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं</l>
  <l>तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।</l>
  <l>स एष श्रीकण्ठप्रविततजटाजूटजटिलो</l>
  <l>जलानां संघातस्तव जननि तापं हरतु नः ॥ २७ ॥</l>
</lg>
<p>इदमिति । भो जननि, श्रीकण्ठप्रविततटाजूटजटिल:
प्रविततः विस्तृतः स चासौ जटाजूटश्च श्रीकण्ठस्य प्रवितत-
जटाजूट: तेन जटिलः सजटः एतादृशः स एषः तव जलानां
संघातः समुदायः नः अस्माकं तापं हरतु । स कः । यस्य
जलानां संघातस्यान्तर्मध्ये सकलभुवनाभोगभवनं सकलभुव-
नानां चतुर्दशभुवनानां आसमन्तात् भोगः सुखं । 'भोगः सुखे
स्त्र्यादिभृतौ' इत्यमरः । यद्वा सकलभुवनानां आभोगः परि-
पूर्णता । 'आभोग' परिपूर्णता' इत्यमरः । तस्य भवनं गृहम् एता-
दृशमिदं ब्रह्माण्डं तरङ्गैः सह । 'सहयुक्ते प्रधाने' इति सूत्रेण
तृतीया । परितस्तिन्दुकमिव तिन्दुकस्य फलं तिन्दुकम् ।
'तिन्दुकः स्फूर्जकः' इत्यमरः । 'टेंबुर्णी’ति भाषायां प्रसिद्धिः ।
लुठति । 'लुठ संश्लेषणे' तुदादिः । हीति आश्चर्ये । यस्मिंश्चतुर्द-
शभुवनाधारभूतं ब्रह्माण्डमपि स्थितम् सोऽपि शिवकपर्दे स्थित
इत्याश्चर्यम् । अत्रोत्तरोत्तरमुत्कर्षस्य सत्वात् सारालंकारः ।
तदुक्तं अप्पय्यदीक्षितैः कुवलयानन्दे 'उत्तरोत्तरमुत्कर्ष: सार
इत्यभिधीयते' इति ॥ २७ ॥</p>
<pb n="49" />
<p>इदानीं ननुरे तीर्थान्तराणि शिवादिदेवांश्च विहाय मामेव
किं स्तौषीति चेत्तीर्थानि मदुद्धरणविधौ लज्जन्ते, शिवादयश्च
कर्णे हस्तं स्थापयन्ति, त्वं तु मातृत्वेन दयया मां पुनाना तेषां
पापनाशनाभिमानं नाशयसीत्याह--</p>
<lg>
  <l>त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ</l>
  <l>करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।</l>
  <l>इमं तं मामम्ब [^१]त्वमियमनुकम्पार्द्रहृदये</l>
  <l>पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८ ॥</l>
</lg>
<p>त्रपन्त इति । भो अनुकम्पार्द्रहृदये अम्ब अनुकम्पा दया
तया आर्द्रं हृदयं यस्याः सा तत्संबोधनं एतादृशि अम्ब जननि ।
अम्बत्वेन त्यागानर्हता । तं इमं तव समीपे वर्तमानं मां जगन्नाथं
पुनाना पुनाति तच्छीला । ताच्छीये शानच् । पवित्रीकु-
र्वाणा इयं त्वं तेषां तीर्थादीनां अघमथनदर्पं अघस्य पापस्य
मथनं नाशनं तस्य दर्पः गर्वः तं दलयसि विदारयसि । नाश-
यसीत्यर्थः । एतावत्कालपर्यन्तं तेषां परमगर्वः स्थितः वयं
सर्वेषां पापनाशनं कुर्मः इदानीं तु मम परमपातकिनस्तद्धस्तेन
उद्धारणाभावात्त्वाया उद्धारणस्य कृतत्वात्तेषां गर्वो गत इति भावः ।
ननु तेषां हस्तेन किमित्युद्धरणं भवतीति चेत्तत्राह । तं
कम् । इह यस्य उद्धृतिविधौ उद्धृतेः विधिः करणं तत्र । 'विधि-
र्विधाने दैवे च' इत्यमरः । तीर्थानि गोदावर्यादीनि त्वरितं
यथास्यात्तथा महापातकिनो मम दर्शनसमय एवेति भावः ।
त्रपन्ते लज्जितानि भवन्ति । स्वहस्तेन महापातकिनो ममो-
-------------------------------------
[^१] त्वमपि करुणापूर्णहृदये इति पाठः ।</p>
<pb n="50" />
<p>द्धरणाभावाल्लज्जेतिभावः । पुनस्तं कम् । यस्योद्धारणविधौ
कपालिप्रभृतयोऽपि कपाली प्रभृतिः आदिर्येषां ते विष्ण्वाद-
योऽपि कर्णे हस्तं कुर्वन्ति । स्थापयन्तीत्यर्थः । स्वहस्तेन एत-
स्योद्धृत्यभावात् । एतस्य किमपि न श्रोतव्यमित्याशयेन कर्णे
हस्तन्यास इति भावः । करं कर्णे इत्येकवचनं तु द्वितीय-
कर्णेन श्रोतव्यं यद्धि स्वहस्तेन एतदीयं कार्यं भविष्यति
चेत्करिष्यामः नो चेन्नेत्येतदर्थबोधनाय ॥ २८ ॥
इदानीमपरिमितसंशयेन पापाचरणे निवृत्तैश्चाण्डालानां स-
मूहैरपि त्यक्तानां पापानामाकरैः पुनातुं यत्नं कुर्वन्त्यास्तव स्तुतिं
कर्तुं नरपशुरहं कथं श शक्रुत्यामित्यहङ्कारपरिहरणव्याजेनाह--</p>
<lg>
  <l>श्वपाकानां व्रातैरमितविचिकित्साविचलितै-</l>
  <l>र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।</l>
  <l>अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं</l>
  <l>तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९॥</l>
</lg>
<p>श्वपाकानामिति । भो जननि, मां उद्धर्तुं परिकरं कटि-
बन्धं विवेकमारम्भं यत्नं वा । 'प्रगाढगात्रैकबन्धे विवेका-
रम्भयो’रिति विश्वः । 'यत्नरम्भौ परिकरौ' इति त्रिकाण्ड-
शेषः । घटयन्त्याः कुर्वन्त्याः तव श्लाघां स्तुतिं कर्तुं नरः पशु-
रिवेति व्याघ्रादित्वात्समासः । सर्वानविशेषेण पश्यतीति
पशुः । हिताहितज्ञानशून्यः मूर्ख इति यावत् । एतादृशोऽहं
कथमिव केनापि प्रकारेण समर्थ: । अपितु न कथमपीेत्यर्थः ।
मन्मतिमान्द्यात्तव गुणानामपारत्वाच्चेति भावः । अहो इत्याश्चर्ये।</p>
<pb n="51" />
<p>परमपातकिनं मां पुनातुं यत्नादिकं करोषीत्याश्चर्यम् । कथं-
भूतं  माम् । अमितविचिकित्साविचलितैः अमिता अपरि-
मिता । बह्वीत्यर्थः । सा चासौ विचिकित्सा च इतः परं
पातकानि कर्तव्यानि वा न वेत्याकारः संशयः । 'विचिकित्सा
तु संशयः' इत्यमरः । यद्वा विचिकित्सा जुगुप्साख्यो बीभत्स-
रसस्थायीभावः । 'कित संशये' इति धातोः 'गुप्तिच्किभ्द्य:-
इति सनि 'सन्यङोः' इति द्वित्वे 'गुरोश्च हलः' इत्यप्रत्यये टाप् ।
अमितविचिकित्सायाश्चलितैः पातकान्निवृत्तैः एतादृशैः श्वपा-
कानां श्वानं पचन्ति ते श्वपाका: चाण्डालाः । यद्यपि पचादि-
गणे श्वपचेति अजन्ते निपातितं तथापि न्यङ्क्कादिगणे श्वपाक-
शब्दस्य पाठात्पक्षे कर्मण्यणि कुत्वम् । 'निषादश्वपचावन्ते-
वासिचाण्डालपुल्कसाः' इत्यमरः । तेषां व्रातैः समूहै: नत्वेकेन
द्वाभ्यां वा विमुक्तानां विशेषेण मुक्तानाम् । विशेषश्च मनःपूर्वक-
त्यक्तानां नतु लोकलज्जयेति एतादृशीनामेनःपरिषदां एनसां
पापानां परिषदः सभाः । समूहा इत्यर्थः । तासामेकं अद्वितीयं
सदनं गृहं किल निश्चयेन प्रसिद्धौ वा आश्रर्ये वा । एतादृशमपि
पापिनं मां पुनातुं उद्युक्तासीत्याश्चर्यम् ॥ २९ ॥
इदानीं कस्यचिन्महापातकिन: समुद्धरणेन जगत आश्चर्यं
संपादनीयमिति तव महतीच्छा स्थिता सा एतावत्कालपर्यन्तं
तादृशस्य कस्यचित् पातकिनः अभावान्नैव पूर्णा, अहं तु तादृ-
शेच्छां सफलीकर्तुं प्राप्तोमि अतः ममोद्धरणेन स्वेच्छासाफल्यं
कुर्विति प्रार्थयते--</p>
<pb n="52" />
<lg>
  <l>न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो</l>
  <l>यदुद्धारादाराद्भवति जगतो विस्मयभरः ।</l>
  <l>इतीमामीहां ते मनसि चिरकालं स्थितवती-</l>
  <l>मयं संप्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥ ३० ॥</l>
</lg>
<p>नेति । भो अम्ब, एतावन्तं समयमारभ्य एतावत्काल-
पर्यन्तं कोऽपि कश्चन पातकी न मिलितः प्राप्तः । मयेति शेषः ।
आरात् यदुद्धारात् यस्योद्धारस्तस्मात् जगतः विस्मयभरः भव-
तीति ते मनसि चिरकालं बहुकालं स्थितवतीं तिष्ठतीति
स्थितवती तामिमां पूर्वोक्तामीहामिच्छां सफलयितुं असफला
सफला भवति तथा कर्तुम् । भृशादित्वात् 'क्यङ्भानिनोश्च' इति
पुंस्त्वं तुमुन् । अयमहं जगन्नाथः संप्राप्तः । अस्मीति शेषः । नः
अस्मान् प्रणय । पापं निरस्योत्तमां गतिं नयेत्यर्थः । 'उपसर्गा-
दसमासेपि--' इति णत्वम् । अम्बेत्यनेन तव जननि त्वं चेत् अहं
तव पुत्रः एवं च मातुरिच्छा सत्पुत्रेण मया सफलीकर्तव्येति
सत्पुत्रधर्म एवायमिति सूचितम् ॥ ३० ॥
इदानीं ममानेकदुष्टगुणान् श्रुत्वा त्वां विना अन्यः कश्चन
मम मुखनिरीक्षणमपि न कुर्यादित्याह--</p>
<lg>
  <l>श्ववृत्तिव्यासङ्गों नियतमथ मिथ्याप्रलपनं</l>
  <l>कुतर्केष्वभ्यासः सततपरपैशून्यमननम् ।</l>
  <l>अपि श्रावंश्रावं मम तु पुनरेवं गुणगणा-</l>
  <l>नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥३१॥</l>
</lg>
<p>श्ववृत्तीति । भो मातः, श्रवृत्तिव्यासङ्गः शुन; वृत्ति;</p>
<pb n="53" />
<p>इतस्ततो भ्रमणं उच्छिष्टभक्षणाचरणादि तद्वत् व्यासङ्ग उद्योगः
मया कृत इति शेषः । अथानन्तरं नियतं नियमेन मिथ्या-
प्रलपनं असत्यानर्थकमपि भाषणं कृतम् । 'प्रलापोऽनर्थकं वचः'
इत्यमरः । परमपुण्यशीलेन युधिष्ठिरेण सकृन्मिथ्योक्तमिति
तज्जन्यपापवशादन्तरिक्षगस्तद्रथो भूमौ लग्न इति स्पष्टं महा-
भारते । मया तु सत्यत्यागपूर्वकं सर्वदैव तत्कृतमिति मत्पाप-
संख्यैव नेति आकूतम् । कुतर्केषु कुत्सितानां परस्त्रीगमनपर-
गृहदारादिरूपकर्मणां तर्का ऊहाः तेषु । यद्वा कुत्सिताश्च ते
तर्काश्च तेषु, यद्वा साक्षाद्ब्रह्मविद्याया अप्रतिपादकत्वेन पर-
जयेच्छया च कुत्सितास्तर्काः तर्कशास्त्रग्रन्थाः तेषु अभ्यासोऽपि
कृतः । सततपरपैशून्यमननमपि कृतम् । पिशुनस्य सूचकस्य
भावः पैशून्यं द्वैजिह्वयं परेषां पैशून्यं तस्य मननं चिन्तनं
अभ्यासमिति यावत् । सततं निरन्तरं च तत् पैशून्यमननं च
तदपि कृतम् । एवंप्रकारेण मम तु पुनर्गुणगणान् श्रावंश्रावं
श्रुत्वाश्रुत्वा त्वदृते त्वां विना । 'अन्यारात्--'इति सूत्रेण ऋतेयोगे
त्वदिति पञ्चमी । को नाम क्षणमपि वदनं अर्थात् मम मुखं
निरीक्षेत पश्येत् । अपितु न कोऽपीत्यर्थः । तव तु मातृत्वेन
दयाबाहुल्यादीदृशस्य मम मुखनिरीक्षणमावश्यकमेवेति भावः ।
तदुक्तं श्रीमच्छङ्कराचार्यै: 'कुपुत्रो जायेत क्वचिदपि कुमाता
न भवति' इति ॥ ३१ ॥
इदानीं यस्य मनुष्यस्य नेत्राभ्यां परमरमणीयं तव शरीरं
न दृष्टम्, यस्य कर्णाभ्यां च तव लहरीकोलाहलो न श्रुतः तस्य
नेत्रे व्यर्थे कर्णौ च व्यर्थावित्याह--</p>
<pb n="54" />
<lg>
  <l>विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं</l>
  <l>न याभ्यामालीढा परमरमणीया तव तनुः ।</l>
  <l>अयं हि न्यक्कारो [^१]जननि मनुजस्य श्रवणयो-</l>
  <l>[^२]र्ययोर्मातर्यातस्तव लहरिलीलाकलकलः ॥३२॥</l>
</lg>
<p>विशालाभ्यामिति । अत्र यस्य तस्येत्यध्याहारः । भो
जननि, यस्य मनुजस्य मानवस्य । 'मनुजा मानवा नराः' इत्य-
मरः । याभ्यां नेत्राभ्यां परमरमणीया अतिसुन्दरी । अनेन
दर्शने कारणं सूचितम् । एतादृशी तव तनुः शरीरं न आलीढा
न सादरमवलोकिता तस्य मनुजस्य विशालाभ्यां आकर्ण-
विस्तृताभ्यां आभ्यां नयनाभ्यां कृत्वा इह भूलोके किं फलम् ।
न किमपीत्यर्थः । यद्वा इह नालीढेति योजना । यस्य ययोः
श्रवणयोः कर्णयोः अन्तर्मध्ये तव लहरिलीलाकलकलः लहरीणां
लीला क्रीडा तथा कलकलः कोलाहलः । 'कोलाहलः कलकलः'
इत्यमरः । इह न यातः न प्राप्तः तस्य तयोः श्रवणयोः अयं
श्रवणरूपः न्यक्कारः धिक्कारः । अस्त्विति शेषः । खलु निश्चयेन,
यद्वा ययोः श्रवणयोरन्तर्मध्ये तव लहरिलीलाकलकलः न
यातः ताभ्यां श्रवणाभ्यां कृत्वा किं फलम् । न किमपीत्यर्थः ।
परंतु अयं अदर्शनाश्रवणरूपो न्यक्कारो मनुजस्य नत्विन्द्रिया-
णाम् । इन्द्रियव्यापारस्य मनुष्यव्यापाराधीनत्वादिति भावः ।
तदुक्तम् 'करणं हि कर्तृक’मिति एतत्पक्षे यस्य तस्येति नाध्या-
हारः । ताभ्यामित्यस्य चाध्याहारः । अहं तु सर्वदैव तव
-----------------------------------
[^१] मनुजहतकस्य इति पाठः ।
[^२] ययोर्नान्तर्यातः इति पाठः।</p>
<pb n="55" />
<p>तनुं पश्यामि, लहरीशब्दं च शृणोमि अतो मम नेत्रकर्णं न
व्यर्थमित्याकूतम् । एवंच शीघ्रं मां पुनीहीति भावः । अत्र
विनोक्तिध्वनिरलंकारः । त्वद्दर्शनं विना नयनयोस्त्वल्लहरि-
कोलाहलश्रवणं विना श्रवणयोश्च रमणीयत्वस्य फलप्रश्नधिक्का-
राभ्यां व्यञ्जनात् ॥ ३२ ॥
इदानीं पुण्यवन्तो विमानैः सुरपुरं स्वच्छन्दं यान्ति, पापि-
नस्तु पराधीनाः सन्तो नरकमध्ये पतन्तीति कोटिद्वयं यत्र
देशे त्वं नासि तत्र संभवति । यत्र तु निखिलपापनाशिनी
त्वमसि तत्र द्वितीयकोटेरभावात् आद्यकोटिरेव संभवतीत्याह--</p>
<lg>
  <l>विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः</l>
  <l>पतन्ति द्राक्पापा जननि नरकान्तः परवशाः ।</l>
  <l>विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे</l>
  <l>न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३ ॥</l>
</lg>
<p>विमानैरिति । भो जननि, सुकृतिनः पुण्यवन्तः ।
विमानैः सुरपुरं सुराणां देवानां पूर्नगरी ताम् । यद्वा सुराणां
पुरं नगरं स्वर्गं स्वच्छन्दं यथा स्यात्तथा नतु तद्गुणादिवशेन
अयन्ते गच्छन्ति । पापाः पापस्वरूपा जीवाः पापबाहुल्येन
पापपुरुषयोस्त्रिमुनिव्याकरणमितिवदभेदः । यद्वा पापमस्ति
येषां ते पापा इति मत्वर्थे अर्शआद्यच् । अतएव 'पापोऽहं पाप-
कर्माहं' इत्यादिप्रयोगाः संगच्छन्त इति दिक् । पापमर्हन्तीति
वा । परवशाः सन्तः यमनगरगणाधीनाः सन्त इत्यर्थः
नरकान्तः नरकस्यान्तर्मध्ये द्राक् शीघ्रम् यमनगरगमनसमय</p>
<pb n="56" />
<p>एवेत्यर्थः । पतन्ति । भो मातः, अयं विभागः विषयव्यवस्था
तस्मिन्नशुभमयमूर्तौ अशुभमयीं अकल्याणप्रचुरा मूर्तिः तनुर्यस्य
तस्मिन् । 'स्त्रियाः पुंवत्--' इति पुंवद्भावः । देशस्याशुभमयत्वं तत्र
तव स्थितेरभावादेव । एतादृशे जनपदे देशे नीवृज्जनपदो
देश--’इत्यमर:। अस्त्विति शेषः । तस्मिन् अशुभमयमूर्तौ जनपदे
अयं विभाग इति योजना । तस्मिन्कस्मिन् । यत्र जनपदे दलित-
मनुजाशेषकलुषा मनुजानां मनुष्याणां अशेषकलुपं समस्तपापं
दलितं नाशितं मनुजाशेषकलुषं यया सा एतादृशी त्वं नासि ।
यत्र त्वं दलितमनुजाशेषकलुषा सती नासीति वा योजना ।
एवं चार्थादेतादृशी त्वं यत्रासि तत्र कस्यापि पातकिनोऽभा-
वात्सर्वेऽपि विमानैः सुरपुरं गच्छन्तीति आद्यकोटिरेव स्थितेति
भावः । अत्र परिकरालंकारः । दलितमनुजाशेषकलुषेति साभि-
प्रायविशेषणस्य सत्त्वात् । तल्लक्षणं तु पूर्वमुक्तम् ॥ ३३ ॥
इदानीं समस्तमहापातकिनोपि मरणसमये त्वयि शरीरं
त्यक्तवन्तः सन्त उत्तमलोकं गच्छन्तीत्याह--</p>
<lg>
  <l>अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः</l>
  <l>पिबन्तो मैरेयं [^१]पुनरपहरन्तश्च कनकम् ।</l>
  <l>विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-</l>
  <l>[^२]मुपर्यम्ब क्रीडन्त्यखिलसुरसंभावितपदाः ॥ ३४ ॥</l>
</lg>
<p>अपीति । अत्र ये ते इत्यध्याहारः । पूर्वश्लोकात्पापा इत्य-
नुवर्तते । तथाचैवं योजना--भो अम्ब, ते पापाः पापिन: पुरुषाः
------------------------------
[^१] पुनरपि इति पाठः ।
[^२] मुपर्येव इति पाठः ।</p>
<pb n="57" />
<p>अन्ते मरणसमये त्वयि तनुं शरीरं विहाय संत्यज्य अतनुदा-
नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तद्दानं च तेन
येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ: सवोऽध्वरो यागः'
इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व-
राश्च । यद्वा अतनुदानानि चाध्वराश्च । यद्वा न तनुः कोपः तेन
यानि दानानि अध्वराश्च। 'तनुः कोपे त्वचि स्त्री स्यात्त्रिष्वल्पे
विरले कृशे' इति मेदिनी । तान् जुषन्ति सेवन्ते । कुर्वन्तीत्यर्थः ।
ते अतनुदानाध्वरजुषः तेषां उपरि उपरिलोके क्रीडन्ति । विह-
रति महादानयागप्राप्यलोकोपरितनलोकं गच्छन्तीत्यर्थः । तथाच
गङ्गातनुत्यागादेवोत्तमलोकप्राप्तौ परमोत्कृष्टसाध्यमहादानया-
गेषु न किंचिदधिकं फलमिति भावः । ते के। ये पापाः विप्रानपि
ब्राह्मणानपि अविरतं निरन्तरं यथास्यात्तथा । इदं सर्वक्रिया-
न्वयि । घ्नन्ति ते घ्नन्तः । हनधातोः शतरि 'गमहन--' इत्युप-
धालोपः । 'न लोपे'ति पष्ठीनिषेधाद्विप्रानित्यादिद्वितीया । पुनः
ते के। ये गुरुसतीः गृणाति बोधकं करोतीति गुरुः । 'कॄग्रो-
रुच्चे' इत्युणादिसूत्रेण 'गॄ शब्दे' इत्यस्मात् कुप्रत्ययः । उकारश्चा-
न्तादेश: गुरुः। तथा चोपनयनादर्वाचीनसंस्कारपूर्वकं वेदाध्यापको
मन्त्रोपदेशकश्च गुरुः । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । तस्य सत्यः
पतिव्रताः स्त्रियः । 'सती साध्वी पतिव्रता' इत्यमरः । ताः
उशन्तः वशन्ति इच्छन्ति ते उशन्तः । 'वश कान्तौ' अदादिः ।
तत्र हि कान्तिरिच्छेत्युक्तम् । तस्माच्छतरि 'ग्रहिज्या--’ इति
संप्रसारणम् । यद्वा गुरोः पितुः सती: । मातॄरित्यर्थः । यद्वा गुरोः
श्रेष्ठपितृव्यभ्रातृमातृमातुलादेः सतीः । यद्वा गुरोः बृहस्पतेः</p>
<pb n="58" />
<p>सतीः । तस्य एकस्त्रीत्वेपि जात्यभिप्रायेण बहुवचनमिति यथाक-
थंचिद्योज्यम् । तथाचानेकार्थकोशः 'गुरुः पिता गुरुः श्रेष्ठो गुरुः
सुरपुरोहितः । दुर्वहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिसेवकः'
इति । पुनस्ते के। ये मैरेयं सीधुम् । 'मैरेयमासवः सीधुः'
इत्यमरः । पिबन्तः पानं कुर्वन्तः । पुनस्ते के। ये कनकं सुव-
र्णम् । 'सुवर्णं कनकम्' इत्यमरः । हरन्तः चोरयन्तः । कथंभूताः
ते । अखिलसुरसंभावितपदाः अखिलसुरैः समस्तदेवैः संभावित
संभावनायुक्तं कृतम् । पूजितमिति यावत् । तादृशं पदं चरणं
येषां ते । बहुवचनान्तेन समासः । यद्वा अखिलसुराणां संभा-
वितं प्राप्तं तादृशं पदं स्थानं यैस्ते । 'सप्तमीविशेषणे--' इति
ज्ञापकाव्द्यधिकरणपदो बहुव्रीहिर्वा कर्तव्यः । संपूर्वकभूधातोर्णि-
जन्तात्कः । उपसर्गबलादुक्तार्थलाभः ॥ ३४ ॥
इदानीं महान् चोरः पुनरपि नराणां प्राणहारकोऽपि वायुः
त्वल्लहरिबन्धमाहात्म्येन त्रिभुवनं पवित्रीकरोतीत्याह--</p>
<lg>
  <l>अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां</l>
  <l>क्षणादेव प्राणानपि [^]विरहशस्त्रक्षतभृताम् ।</l>
  <l>त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्</l>
  <l>पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५ ॥</l>
</lg>
<p>अलभ्यमिति । भो अम्ब, सोऽपि परचौर्यपरप्राणहारित्वा-
दिगुणयुक्तोऽपि पवमानः प्रभञ्जनः । 'पवमानः प्रभञ्जनः
इत्यमरः । त्वदीयानां तव इमाः त्वदीयाः । 'युष्मदस्मदोरन्य-
तरस्यां खञ्च' इति चाच्छः । 'प्रत्ययोत्तरपदयोश्चे'ति त्वादेशः ।
-------------------------------
[^१] क्षतहृदाम् इति पाठः ।</p>
<pb n="59" />
<p>तासां लीलाचलितलहरीणां लीलया चलिताः चञ्चलाः
गच्छन्तो वा । 'चल गता'वित्यस्मात् 'गत्यर्थाकर्मक--' इत्यनेन
कर्तरि क्तः । एतादृश्यो या लहर्यः तासां व्यतिकरात्संबन्धात्
त्रिभुवनं जगत्त्रयं पुनीते पवित्रीकरोति । अहहेत्यद्भुते । 'अहहे-
त्यद्भुते खेदे' इत्यमरः । ननु देवोपि वायुः कथं चौर्यादिगुण-
युक्त इत्याकाङ्क्षायामाह । स कः । यः पवमानः सुमनसां पुष्पा-
णाम् । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अलभ्यमन्यत्र
चौरैरप्राप्यम् । अनेन चौर्ये वायोः कौशल्यमावेदितम् । एतादृशं
सौरभ्यं सौगन्ध्यं नियतं सततं यथा तथा हरति चोरयति ।
पुनः स कः । यः विरहशस्त्रक्षतभृतां विरह एव स्त्र्यदिवियोग
एव शस्त्रं मारकत्वात् । यद्वा विरहश्च शस्त्रं च विरहशस्त्रे
ताभ्यां यत् क्षतं तत् बिभ्रति ते विरहशस्त्रक्षतभृतः तेषाम् ।
क्वचित्तु विरहशस्त्रक्षतहृदामिति पाठः । तत्र विरहशस्त्राभ्यां
क्षतं क्षतयुक्तं कृतं विदारितमिति यावत् । तादृशं हृत् येषामिति
समासः । यद्वा विरहशस्त्रयोः क्षतं यस्मिन्निति व्यधिकरणपदो
बहुव्रीहिः । तादृशं हृत् येषाम् । विरहशस्त्रक्षतयुक्तं हृत्
येषामिति शाकपार्थिवादित्वान्मध्यमपदलोपी समासो वा ।
तेषां प्राणानपि असूनपि । 'पुंसि भूम्न्यसवः प्राणाः' इत्यमरः ।
क्षणादेव क्षणमात्रेणैव नियतं यथा स्यात्तथा हरति एतादृशः
दुष्टो वायुः श्रेष्ठत्वल्लहरिसंबन्धमाहात्म्येन महत्कार्यं करो-
तीति भावः । उक्तं च हनुमन्नाटके--'ये मज्जन्ति निमज्जयन्ति
च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्संतार-
यन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां
गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥’ इति ।</p>
<pb n="60" />
<p>लोकेऽपि दुष्टः प्रभुभृत्यत्वसंबन्धमाहात्म्येन महत्कार्यं करोतीति
प्रसिद्धमेव ॥ ३५ ॥
इदानीं केचन लोकाः परकार्यसंपादकाः सन्ति, केचन
पवित्रात्मानः सन्तः परलोकप्रणयिनो भवन्ति, अहं तु त्वयि
स्थापितलोकद्वयभरः सन् सुखेन निद्रां करोमीत्याह--</p>
<lg>
  <l>कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः</l>
  <l>परे पूतात्मानः कति च परलोकप्रणयिनः ।</l>
  <l>सुखं शेते मातस्तव खलु कृपातः पुनरयं</l>
  <l>जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६ ॥</l>
</lg>
<p>कियन्त इति । भो मातः, कियन्तः कतिसंख्याकाः एके
साधारणा लोकाः इह जगति नियतं लोकार्थघटकाः लोकानां
जनानां अर्थाः प्रयोजनानि । 'अर्थरैविभवा अपि' इत्यमरः ।
तेषां घटकाः संयोजकाः सन्ति । यद्वा इह कियन्तः एके
लोकार्थघटकाः सन्तः परलोकप्रणयिनः परलोकं प्रणयन्ति
प्रार्थयन्ति ते । यद्वा परलोकं प्रकर्षेण नयन्ति गच्छन्ति ते
परलोकप्रणयिनः सन्तीति योजना । इहलोके परकार्यसंपादन-
जन्यपुण्येन स्वर्गलोकं गच्छन्ति । एवंच तेषामयं लोकः परलो-
कश्च समीचीन इत्याकूतम् । परे चान्ये च कति । यद्वा कति-
परे च पूतात्मानः सन्तः पूतः तपःसेवनादिना पवित्रः
आत्मा येषां ते एतादृशाः सन्तः नियतं परलोकप्रणयिनः सन्ति
भो मातः, अयं जगन्नाथः । तु पुनःशब्दस्त्वर्थः । तव कृपातः ।
पञ्चम्यन्तात्तसिल् । दयाहेतोः शश्वन्निरन्तरं सुखं यथा
स्यात्तथा शेते निद्रां करोति । शश्वदित्यनेन कदापि अन्यन्न</p>
<pb n="61" />
<p>करोति । सुखमित्यनेन तत्रैव मम सुखं नान्यत्रेति सूचितम् ।
ननु एवंच लोकद्वये तव का गतिरिति चेत्तत्राह ॥ कथंभूतोऽ-
यम् । त्वयि निहितलोकद्वयभरः । त्वयि भवत्यां लोकद्वये इहलोके
परलोके च भरः सर्वेभ्य उत्कृष्टता निहितः स्थापितः लोकद्व-
यभरो येन सः । भरः उदरपोषणं वा । 'डुभृञ् धारणपोषणयो'
रित्यस्मादचीति दिक् ॥ ३६ ॥
इदानीं ननु रे पापनिवृत्तये मां स्तौषि तत्रादौ पापमेव
किमर्थं करोषीति चेत्त्वया स्वपतिताश्लीलशवशकलसमुदायप-
रित्राणं यथा क्रियते तथा मयापि पापं क्रियते स्वस्वभावस्य
सर्वैरपि दुष्परिहार्यत्वादित्याह--</p>
<lg>
  <l>भवत्या हि [^]व्रात्याधमपतितया खण्डपरिषत्</l>
  <l>परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा ।</l>
  <l>ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति</l>
  <l>स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७ ॥</l>
</lg>
<p>भवत्या हीति । भो अम्ब, व्रात्याधमपतितया व्रात्याश्चा -
धमाश्च व्रात्याधमाः व्रात्याः संस्कारहीनाः अधमा नीचाः ते
पतिताः यस्यां सा तया । आहिताग्न्यदित्वात्पतितशब्दस्य पर-
निपातः । यद्यपि पतेः 'सनितनिपति' इति वार्तिकेन वेट्कत्वात्
निष्ठायां 'यस्य विभाषे’तीण्निषेधः प्राणेति तथा 'द्वितीया
श्रितातीतपतिते'ति निपातनाद्भवति । एतादृश्या भवत्या त्वया
खण्डपरिषत्परित्राणस्नेहः खण्डानामर्थात् स्वपतितशवशकलानां ।
'भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके' इत्यमरः । परिषत्
-------------------------------------
[^१]पतितपाखण्डपरिषत् इति पाठः ।</p>
<pb n="62" />
<p>समुदायः तस्याः परित्राणं पालनं तत्र स्नेहः प्रेम । 'प्रेमा ना
प्रियता हार्दं प्रेम स्नेह' इत्यमरः । श्लथयितुं त्यक्तुं यथाऽशक्यः
खलु निश्चयेन, एवं दुरितनिवहे दुरितस्य पापस्य निवहः समू-
हस्तत्र ममापि प्रेमा प्रियता । अस्तीति शेषः । यतो यस्मात्का-
रणात् जगति सर्वैरपि अयं स्वभावो निसर्गः । 'स्वरूपं च स्वभा-
वश्च निसर्गश्चे'त्यमरः । दुष्परिहरः दुःखेनापि परिहर्तुमशक्यः ।
अस्तीति शेषः । दुःखशब्दे उपपदे हरते: 'ईषद्दु:स्वि’ति सूत्रेण
खल् । यद्वा दुरितनिवहे जगतीति योजना । व्रात्याधमपतित-
येत्यनेन तेषामपि रक्षणे किं वक्तव्यं पुण्यवतामित्यावेदितम् ।
खण्डमित्यनेन अवयवस्य पालने किं वक्तव्यमवयविन इत्या-
शयः । परिषदित्यनेनैकमपि न त्यजत इति भावः । दुरितनि-
वहेत्यनेन बहुषु पातकेषु ममेच्छा नत्वेकस्मिन् द्वयोर्वेत्यावेदि-
तम् । अत्र निन्दया स्तुत्यमिव्यक्तेर्व्याजस्तुत्यलंकारः। तदुक्तं
कुवलयानन्दे 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो’-
रिति । मम यथा,'विवेकलेशोपि न ते रामचन्द्र रणे रिपून् । हतान्
स्वनाशकान् शीघ्रं पापिनो नयसे दिव'मिति । अत्रारीन् दिवं
नयसे इत्युक्त्या भक्तानवश्यं नयसे इति स्तुत्यभिव्यक्तिः ॥ ३७ ॥
इदानीं गङ्गाताण्डवविधिं वर्णयन् स्वतापशमनं प्रार्थयते--</p>
<lg>
  <l>प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-</l>
  <l>तटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः ।</l>
  <l>बिलक्रीडक्रोडज्जलडमरुडंकारसुभग-</l>
  <l>स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥</l>
</lg>
<p>प्रदोषेति । त्रिदशतटिनीताण्डवविधिः त्रिदशानां देवानां</p>
<pb n="63" />
<p>तटिनी गङ्गा तस्याः ताण्डवम् । तण्डुना तच्छास्त्रप्रवर्तकाचार्येण
प्रोक्तं ताण्डवं नाट्यम् । 'तेन प्रोक्त'मित्यणि 'ओर्गुणः' इति
गुण: । 'ताण्डवं नटनं नाट्य'मित्यमरः । तस्य विधिः करणम्
'विधिर्विधाने दैवे चे'त्यमरः । तापं अर्थाद्भक्तजनसंतापम् ।
यद्वा पूर्वश्लोकान्ममेत्यनुवर्तते । तथाच मम तापं तिरोधत्तां
अन्तर्धानं गमयतु । नाशयत्वित्यर्थः । ताण्डवसामग्रीमाह ।
कथंभूतस्त्रिदशतटिनीताण्डवविधिः । प्रदोषान्तर्नृत्यत्पुरमथन-
लीलोद्धृतजटातटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः । प्रदोषस्य
सूर्यास्तानन्तरं षट्घटिकात्मककालस्यान्तर्मध्ये नृत्यं कुर्वन् स
चासौ पुरमथनश्च शिवश्च तेन लीलया उद्धृताः उत् ऊर्ध्वं धृताः
इयं नृत्यचेष्टा एतादृश्यः याः जटाः संयताः केशाः । 'जटा
स्यात्संयतालकाः' इति कोशः । तटे आभोगः पतनात्मकः
संयोगसंबन्धः नृत्यत्पुरमथनलीलोद्धृतजटानां तटाभोगः तेन
प्रेङ्खन्त्यः गच्छन्त्यः चञ्चला वा याः लहर्यः वीच्यः ता एव
भुजा: संतानं च विधुतिश्च संतानविधुती संतानं दीर्घीकरणं
विधुतिः कम्पः भुजानां संतानविधुती यस्मिन् स प्रदोषान्तः ।
इदं समस्तं व्यस्तं वा । उक्तप्रदोषलक्षणे प्रमाणं तु 'त्रिमुहूर्तं
प्रदोषः स्याद्भानावस्तंगते सती'ति हेमाद्र्याद्युदाहृतं वचनं
बोध्यमिति दिक् । संतानेत्यत्र संपूर्वक 'धूञ् कम्पने' इत्यस्मात्
स्त्रियां क्तिन् । पुनः कथंभूतः । त्रिदशतटिनीताण्डवविधिः ।
बिलक्रोडक्रीडज्जलडमरुडंकारसुभगः बिलस्य विवरस्य क्रोडं
अर्थात् मध्यः 'न ना क्रोडं भुजान्तर'मित्यमरः । तत्र क्रीडत
विहरत् यज्जलं तदेव डमरुर्वाद्यविशेषः । ढक्केत्यर्थः ’वाद्य-</p>
<pb n="64" />
<p>प्रभेदा डमरुमड्डुडिण्डिमझर्झराः' इत्यमरः । तस्य तेन वा यः
टंकारः शब्दविशेषः तेन सुभगः शोभनं सुष्ठु वा  भगं श्रीः
यस्य सः । 'भगं श्रीकाममाहात्म्ये’त्यमरः । सुन्दर इत्यर्थः ।
क्वचित्तटक्रोडेति पाठः ॥ ३८ ॥
इदानीं सर्वदा भवत्यां स्थापितकुशलचिन्ताभरं मां त्वं विषमे
अस्मिन् समये यदि त्यजसि तर्हि अतः परं भुवनत्रये तव विश्वासं
कोपि न कुर्यात् तव करुणा च निराधारा स्यादिति गङ्गायाः
भयप्रदर्शनेनाह--</p>
<lg>
  <l>सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं</l>
  <l>यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।</l>
  <l>तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते</l>
  <l>निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥</l>
</lg>
<p>सदैवेति । भो अम्ब, सदैव सर्वदैव त्वय्येव भवत्यामेव ।
एवो देवतीर्थान्तरं व्यावर्तयति । अर्पितकुशलचिन्ताभरं कुश-
लस्य क्षेमस्य। 'कुशलं क्षेममस्त्रिया'मित्यमरः । तस्य चिन्ता
कथं मम कुशलं भविष्यतीत्याकारिका तस्या भर आधिक्यम् ।
बह्वी चिन्तेत्यर्थः । भरः समूहो वा । अर्पितः स्थापितः कुशल-
चिन्ताभरो येन सः तम् । गङ्गैव मम कुशलं करिष्यतीति मन्य-
मानमित्यर्थः । इमं त्वत्समीपे वर्तमानमेतादृशं मां सुविषमे
सुतरामत्यन्तं विषमः दुःसहः तस्मिन् । अतिकठिन इत्यर्थः ।
यद्वा विषं गरलं मयते ददातीति विषमस्तस्मिन् 'मेङ् प्रणिदाने'
इत्यस्य 'आदे च उपदेशेऽशिती'त्यात्वे 'आतोऽनुपसर्गे का’ इति</p>
<pb n="65" />
<p>'आतो लोप इटि चे'त्याकारलोपः । एतादृशेऽस्मिन् समये
यदि त्यजसि तदा तर्हि अयं विश्वासः गङ्गा शरणागतकुशल-
कर्त्रीत्याकारो निश्चयः त्रिभुवनतलात् त्रिभुवनस्य तलं तस्मात्
अस्तं तिरोभावं अयते गच्छति गमिष्यतीति वा । 'वर्तमान-
सामीप्ये'इति भविष्यति लट् । च पुनः इयं निर्व्याजकरुणा
अकपटकरुणा निराधारा भवति निर्गतः आधारो यस्याः सा
एतादृशी भवति । खलु निश्चयेन । संदेहो नास्तीति भावः ।
विश्वासाभावेन कस्यापि तव निकटे आगमनाभावात् करुणा-
यास्तिरोधानत्वात् । लोकेऽपि यस्य विश्वासो नास्ति तस्य निकटे
कोपि नागच्छतीति प्रसिद्धमेव । एवंच माहात्म्यसंरक्षणाय
झटिति ममोद्धारणं कुर्विति गङ्गाया भीतिप्रदर्शनमिति भावः ।
क्वचित्तु समये इत्यस्य स्थाने विषये इति पाठः । तत्र विषयो-
द्धारणरूपे विषये इत्यर्थः ॥ ३९ ॥
इदानीं हरवामभागे काऽद्वितीया कान्ता वर्तते इति प्रेक्षितुं
कपर्दादुल्लस्य सीमन्तसरणौ आगता अतएव पार्वत्या सापत्न्य-
भावात् करेणाकर्षिता एतादृश्यस्तव लहर्यो विजयन्तामित्याह--</p>
<lg>
  <l>कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः</l>
  <l>पुरारे: प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।</l>
  <l>भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा</l>
  <l>करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥</l>
</lg>
<p>कपर्दादिति । भो जननि, ते तव लहरयः कपर्दात् शिव-
जटाजूटात् उल्लस्य प्रसृत्य प्रणयमिलदर्धाङ्गयुवतेः । प्रणयेन</p>
<pb n="66" />
<p>प्रीत्या मिलन्ती संयुज्यमाना अर्धाङ्गे वामभागे युवतिः पार्वती
यस्य सः तस्य पुरारे: शिवस्य मृदुलतरसीमन्तसरणौ अतिश-
येन मृदुलः कोमलः मृदुलतरः तादृशो यः सीमन्तः केशवेशः ।
'सीमन्तः केशवेशे'इति शकन्ध्वादिगणसूत्रेण पररूपम् । तस्य
सरणिः तत्र प्रेड्खन्त्यः गच्छन्त्यः । उपरिष्टादधोभागे आगता
इत्यर्थः । पुनः कथंभूताः । अतएव भवान्या पार्वत्या कर्तृभूतया
कोमलरुचा कोमला रुक् कान्तिर्यस्य तेन । एतेन पार्वतीसौ-
न्दर्यमुक्तम् । अतएव शिवेन प्रीतिवशात् लहरिकर्षणेन निवा-
रिता एतादृशेन कारेण सापत्न्यस्फुरितनयनं यथास्यात्तथा
समान पतिर्यस्याः सा सपत्नी तस्या भावः सापत्न्यं तेन
स्फुरितेन कोपेन चञ्चले नयने यसिन्कर्मणि यथा भवति तथा
आक्षिप्ताः आकर्षिताः । क्वचित्तु भवान्या इति षष्ठ्यन्तः पाठः ।
तत्र भवान्याः करेण कर्तृभूतेनेत्यर्थः ॥ ४० ॥
इदानीं बहवो लोकाः त्वामायान्ति तत्र तेषामभीष्टं करो-
षीति कारणं वर्तते । अहं तु स्वभावादेव त्वय्यनुरक्त इति
तुभ्यं शप इत्याह--</p>
<lg>
  <l>प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती-</l>
  <l>मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।</l>
  <l>शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि</l>
  <l>स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१ ॥</l>
</lg>
<p>प्रपद्यन्त इति । भो मातः सुरधुनि, कति लोकाः अत्र-
भवतीं पूज्यां भवतीं त्वां न प्रपद्यन्ते नायान्ति, अपितु बहवः</p>
<pb n="67" />
<p>प्रपद्यन्त इत्यर्थः । तत्रायं उपाधिः कारणं स्फुरति वर्तते । किं
तदित्याकाङ्क्षायामाह--यत् यस्मात् कारणात् अभीष्टं वाञ्छितं
वितरसि ददासि । तेभ्य इति शेषः । मम तु पुनः जगन्नाथ-
स्यात्मा स्वभावादेव निसर्गादेव त्वयि भवत्याममितं अपरिमितं
अनुरागं प्रीतिं विधृतवान् धारयामास इति तुभ्यं भवत्यै शपे
शपथं करोमि । 'श्लाघह्नुङ्स्थाशपा'मिति संप्रदानत्वम् ॥ ४१ ॥
इदानीं त्वदीया मृत्तिका मदीयं समस्तं शोकं दूरीकरोत्विति
प्रार्थयते--</p>
<lg>
  <l>ललाटे या लोकैरिह खलु सलीलं तिलकिता</l>
  <l>तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।</l>
  <l>विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं</l>
  <l>त्वदीया [^१]सन्मृत्स्ना मम हरतु कृत्स्नामपि शुचम्  ॥</l>
</lg>
<p>ललाट इति । पूर्वश्लोकात्संबोधनपदं आवर्तनीयम् । भो
सुरधुनि, त्वदीया त्वत्संबन्धिनी सा मृत्स्ना प्रशस्ता मृत् मृत्स्ना
'सस्नौ प्रशंसाया'मिति मृत्शब्दात्स्नुप्रत्ययः । 'मृन्मृत्तिका
प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिके’त्यमरः । मम जगन्नाथ-
कवेः कृत्स्नामपि संपूर्णामपि शुचं शोकं हरतु । ननु मृत्ति-
कायाः शोकहरणे कथं सामर्थ्यमित्याकाङ्क्षायामाह। सा का ।
या मृत्स्ना इहलोके ललाटे भालदेशे सलीलं यथास्यात्तथा
तिलकिता सती पुण्ड्रीकृता सती तमो हन्तुं तरुणतरमार्तण्डतु-
लनां तरुणतरः माध्यह्निको यो मार्तण्डः सूर्यः तस्य तुलनां
साम्यं धत्ते बिभर्ति । अत्र प्रमाणं तु--'गङ्गातीरसमुद्भूतां मृदं
------------------------------
[^१] सा मृत्स्ना इति पाठः ।</p>
<pb n="68" />
<p>मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केवल’मिति
ब्रह्माण्डपुराणवचनं बोध्यम् । तिलककरणप्रकारोप्युक्तस्तत्रैव 'वा-
महस्ते जलं कृत्वा सावित्र्या चाभिमन्त्रितम् । तद्विष्णोरिति मन्त्रेण
मर्दयेन्मृत्तिकां ततः । अतोदेवेति सूक्तेन तिलकं कारयेत्सदे'ति ।
इदं तिलककरणं प्रातःस्नानोत्तरं बोध्यम् । पुनः सा का ।
या विधिलिखितदुर्वर्णसरणिं विधिना ब्रह्मणा लिखिताः ते च
ते दुर्वर्णा: दुष्टाक्षराणि अयं दरिद्रो भविता मृतभार्यश्चेत्यादयः
तेषां सरणिः तां सद्यः लापनाव्यवहितोत्तरकाले एव विलुम्प-
न्ती विशेषेण लुम्पन्ती प्रोच्छन्ती । एवंच विधिलिखितमपि
अलीकं कुर्वन्त्या मम शोकहरणे सामर्थ्यमस्तीति भावः ॥ ४२ ॥
इदानीं मूढान्नरानुपहसन्तः स्ववासिभ्रमराणां मालिन्यदोषं
दूरीकुर्वाणाश्च गङ्गातीरतरवः मम सखायः सन्त्वित्याह--</p>
<lg>
  <l>नरान्मूढांस्तत्तज्जनपदसमासक्तमनसो</l>
  <l>हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः ।</l>
  <l>पुनानाः सौरभ्यैः सततमलिनो नित्यमलिना-</l>
  <l>न्सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३  ॥</l>
</lg>
<p>नरानिति । त्रिदशतटिनीतीरतरवः त्रिदशतटिन्याः ग-
ङ्गायाः तीरं तत्र तस्य वा तरवः वृक्षाः नः अस्माकं भक्तजनानां
सखायः मित्राणि सन्तु भवन्तु । 'अथ मित्रं सखा सुहृदि’-
त्यमरः । कथंभूताः त्रिदशतटिनीतीरतरवः । मूढान्मूर्खान्
अतएव तत्तज्जपदसमासक्तमनसः ते च ते जनपदाश्च तत्तज्जन-
पदाः स्वस्वदेशाः । 'नीवृज्जनपदो देश'इत्यमरः । तेषु समासक्तं</p>
<pb n="69" />
<p>संबद्धं एतादृशं मनो येषां ते तान् एतादृशान् नरान्मनुष्यान्
विकचकुसुमव्रातमिषतः विकचानि प्रफुल्लानि यानि । कुसुमानि
पुष्पाणि तेषां व्रातः समूहः तस्य तदेव वा मिषं छलं तस्मात्
सोल्लासं सहर्षं यथास्यात्तथा हसन्तः उपहासं कुर्वन्तः एतेषां
दुष्टस्वीयस्वीयदेशरचितभक्त्या तत्रैव मरणेन दुर्गतिर्भविष्यति
अस्माकं तु सदैव गङ्गातीरवासित्वादुभयगतिर्भविष्यतीति तान्
उपहसन्तीत्युत्प्रेक्षा । पुनः कथंभूताः । नित्यमलिनाः नित्यं
मलिनाः मालिन्ययुक्ताः तान् । जन्मतः श्यामानित्यर्थः । एता-
दृशान् अलिन: भ्रमरान् सौरभ्यै: निजकुसुमसौगन्ध्यैः संततं
निरन्तरं यथा स्यात्तथा पुनानाः पवित्रीकुर्वाणाः एवंच ताद्द-
शान् ये पुनन्ति ते स्वसखं मामपि पवित्रं करिष्यन्तीति भावः ।
सौरभ्यैः नित्यमलिनान् पुनाना इति वा योजना । 'मधुलिण्म-
धुपालिनः' इत्यमरः ॥ ४३ ॥
इदानीं केचन स्वेष्टफलावाप्तये यमनियमादियोगं कुर्वन्ति,
अहं तु त्वन्नामस्मरणेन प्राप्तकामः सन् जगज्जालं तृणतुल्यं मन्य
इत्याह--</p>
<lg>
  <l>यजन्त्येके  देवान्कठिनतरसेवांस्तदपरे</l>
  <l>वितानव्यासक्ता यमनियमरक्ताः कतिपये ।</l>
  <l>अहं तु त्वन्नामस्मरणभृतकामस्त्रिपथगे</l>
  <l>जगज्जालं जाने जननि तृणजालेन सदृशम् ॥ ४४ ॥</l>
</lg>
<p>यजन्तीति । भो त्रिपथगे, एके लोकाः कठिनतरसेवान्
अतिशयेन कठिना कठिनतरा सेवा येषां तान् एताद्दशान्दे-</p>
<pb n="70" />
<p>वान् विष्ण्वादीन् यजन्ति पूजयन्ति । तदपरे तेभ्यः देवपूज-
केभ्यः अपरे अन्ये । पञ्चमीति योगविभागात्समासः । यद्वा ते
देवपूजका: अपरे येभ्यः ते इति पञ्चम्यर्थे बहुव्रीहिः । देवपूज-
केभ्य उर्वरिता इत्यर्थः । वितानव्यासक्ताः उल्लोचेषु, यज्ञेषु
वा व्यासक्ताः विशेषेण आसक्ताः । तत्परा इत्यर्थः । सन्तीति
शेषः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । लोके 'चांदवा' इति
प्रसिद्धिः । ’क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः ।
कतिपयेऽन्ये लोकाः यमनियमरक्ताः यमनियमयो रक्ताः अनु-
रक्ताः । सन्तीति शेषः । तान्कुर्वन्तीत्यर्थः । तत्करणकाठिन्या-
त्कतिपयपदोपादानम् । यमनियमग्रहणमष्टानामप्युपलक्षणम् ।
ते च 'यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयः’।
तत्र अहिंसादिपरिग्रहो यमः । शौचादिसंपादनं नियमः । पद्म-
काद्यासनम् । रेचकादिप्राणायामः । इन्द्रियाणां स्वस्वविषयेभ्यः
प्रत्याहरणं प्रत्याहारः । तत्रैव विच्छिद्य अन्तरिन्द्रियप्रवाहो
ध्यानम् । चित्तवृत्तिनिरोधः समाधिरिति दिक्। भो त्रिपथगे
जननि, त्रीन्पथो गच्छतीति त्रिपथगा, यद्वा त्रयाणां पथां स-
माहारस्त्रिपथम् । 'पथः संख्याव्ययादे'रिति नपुंसकत्वम् । तेन
गच्छतीति त्रिपथगा । गमेर्ड: । तत्संबोधनम् । अहं तु जगन्ना-
थस्तु त्वन्नामस्मरणभृतकामः सन् तव नाम त्वन्नाम । 'प्रत्ययोत्तर-
पदयोश्चे'ति त्वादेशः । त्वन्नामस्मरणं चिन्तनं तेन भृताः संपा-
दिताः तादृशाः कामाः मनोरथाः येन सः एतादृशः सन्
जगज्जलं जगतः जालं समूहः जगज्जलम् । 'जालं समूह
आनायः' इत्यमरः । तृणजालेन कक्षसंघेन सदृशं तुल्यं जाने</p>
<pb n="71" />
<p>वेद्यि । तृणजालेनेति 'तुल्यार्थै'रित्यादिना तृतीया । कलौ
नामोच्चारणस्यैव सारत्वात्तदेव करोमीति भावः । सदुक्तम् ’हरे-
र्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव
नास्त्येव गतिरन्यथे'ति दिक् । अत्र नामशब्दो नामोच्चारण-
परो बोद्धव्यः ॥ ४४ ॥
इदानीं जन्मावधि निरन्तरं पुण्यवतां साधूनां श्रेयः कर्तुं
बहवो देवाः कुशलाः सन्ति, निराश्रयाणां पापिनां तु त्वां
विनान्यं हितकरं जगति न पश्यामीत्याह--</p>
<lg>
  <l>अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां</l>
  <l>सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।</l>
  <l>निरस्तालम्बानामकृतसुकृतानां तु भवतीं</l>
  <l>विनामुष्मिँल्लोके न परमवलोके हितकरम् ॥ ४५ ॥</l>
</lg>
<p>अविश्रान्तमिति । भो त्रिपथगे जननि, अविश्रान्तं निर-
न्तरं जन्मावधि जन्मप्रभृति जन्मपर्यन्तं वा सुकृतजन्मार्जनकृतां
सुकृतेन पुण्येन जन्मार्जनं जन्मसंग्रहस्तत् कुर्वन्ति तेषां तादृशानां
सतां साधूनां श्रेयः कर्तुं कल्याणं संपादयितुं कति कतिसंख्याका
विबुधाः देवाः कृतिनः कुशलाः न सन्ति । अपितु बहवः
सन्तीत्यर्थः । निरस्तालम्बानां निरस्तः गतः आलम्बः आश्रयो
येषां तेषां अकृतसुकृतानां तु न कृतं सुकृतं पुण्यं यैः तेषाम् ।
पापिनामित्यर्थः । तेषां तु अमुष्मिन् लोके भवतीं विना त्वामृते</p>
<lg>
  <l>परं द्वितीयं हितकरं अभिमतसंपादकं नावलोके न पश्यामि ।</l>
  <l>एतत्सर्वं चित्ते निधाय त्वामहं शरणं गत इति भावः ॥ ४५ ॥</l>
</lg>
<pb n="72" />
<p>इदानीं तब जलं पीत्वा मूढमित्रैः सह विहर्तुं गतोऽहं क्वचि-
दपि सुखं न लब्धवान्, इदानीं मृदुपवनसंबन्धशीतलस्वाङ्के
चिरकालमनिद्रं मां त्वं स्वापयेति प्रार्थयते--</p>
<lg>
  <l>पयः पीत्वा मातस्तव सपदि यातः सहचरै-</l>
  <l>र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।</l>
  <l>इदानीमुत्सङ्गे मृदुपवनसंचारशिशिरे</l>
  <l>चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६ ॥</l>
</lg>
<p>पय इति । भो मातः, तब पयः पीत्वा विमूढैः मूर्खा:
विमूढाः तैः । विशेषतश्च ईषदपि हिताहितज्ञानशून्यत्वम् ।
तादृशैः सहचरैः सह साकं चरन्ति भक्षन्ति, गच्छन्ति वा ते
सहचराः मित्राणि तैः सह सपदि शीघ्रं संरन्तुं विहर्तुं यातः
गतः । 'गत्यर्थाकर्मके'त्यादिना याधातोः कर्तरि क्तः । एता-
दृशः अहं क्वचिदपि कस्मिंश्चित् स्थलेऽपि कस्मिंश्चित् विहारेऽपि
वा विश्रान्तिं विश्रामं न अगमम् । सपदि यात इति वा
योजना । यद्वा तव पयः यदि पीत्वेति संबन्धः । एतेन तृष्णा-
वशात् शीघ्रं तव जलपानमात्रं कृतं न स्नानादिकम् । तेन
स्वस्मिन्नपराधबाहुल्यमस्तीति सूचितम् । भो सदयहृदये दयया
सहितं सदयं तादृशं हृदयं यस्याः सा तत्संबोधनम् । एतादृशि
हे मातः, इदानीं संप्रति 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथे'-
त्यमरः । मृदुपवनसंचारशिशिरे मृदुः कोमलः । अल्प इत्यर्थः ।
एतेन वात्यायाः दुःखप्रदत्वान्निरासः सूचितः । मृदुश्चासौ
पवनश्च तस्य संचारः गमनं संबन्धो वा तेन शिशिरः शीतलः ।</p>
<pb n="73" />
<p>एतेन श्रमसंत्रस्तस्य निद्रास्थानयोग्यत्वमावेदितम् । एतादृशे
उत्सङ्गे अङ्के चिरात् बहुकालं उन्निद्रं उद्गता निद्रा यस्य सः
एतादृशं मां शायय स्वापय । निद्रां कारयेत्यर्थः । 'शीङ् स्वप्ने'
इति धातोर्णिजन्तात् लोण्मध्यमपुरुषैकवचनम् । सिप् 'अतो हे:’
इति हेर्लुक् । निद्रायाः सुखविशेषरूपफलस्य प्रयोज्यगामित्वात्
प्रयोजकरूपकर्तृगामित्वाभावेन 'णिचश्चे'ति आत्मनेपदं न ।
चिरात् शाययेति वा योजना । लोकेऽपि माता पुत्रं अङ्के स्वाप-
यतीति प्रसिद्धमेव । एतदर्थमेव मातरिति संबोधनम् ॥ ४६ ॥
इदानीं ममोद्धाराय कटिबन्धादिकं कुर्वित्याह--</p>
<lg>
  <l>बधान द्रागेव द्रढिमरमणीयं परिकरं</l>
  <l>किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।</l>
  <l>न कुर्यास्त्वं हेलामितरजनसाधारणतया</l>
  <l>जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७ ॥</l>
</lg>
<p>बधानेति । भो सुरधुनि, जगन्नाथस्य एतन्नाम्नः अयं
समुद्धारसमयः । सम्यगुद्धरणं समुद्धारः तस्य समयः कालः ।
अस्तीति शेषः । यद्यपि 'आत्मनाम गुरोर्नाम नामातिकृपणस्य
च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयो’रिति निषे-
धात् स्वनामग्रहणं अश्रेयस्करं भवति तथापि अत्यन्तातुरतया
निषेधोल्लङ्घनम् । अतएव 'हापितः क्वासि हे सुभ्रु बह्वेव विल-
लाप सः’ इति भट्टिप्रयोगः संगच्छत इति दिक् । ननु अस्तु
तवोद्धारसमयः मया किं कर्तव्यमित्याकाङ्क्षायामाह--बधा-
नेति । त्वं द्रढिमरमणीयं अतिशयेन दृढः इति द्रढिमा । 'वर्ण-
दृढादिभ्यः ष्यञ्चे'ति चादिमनिच् । 'र ऋतो हलादेर्लघो’रिति</p>
<pb n="74" />
<p>ऋकारस्य रकारः । द्रढिमा चासौ रमणीयश्च तम् । अति-
शयेन सुन्दरं चेत्यर्थः । एतादृशं परिकरं कटिं द्राक् शीघ्रं
बधान । 'बध बन्धने' । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः ।
प्रगाढगात्रैकबन्धे विवेकारम्भयोरपी'ति विश्वः । ममोद्धाराय
शीघ्रं कटिबन्धं कुर्विति भावः । पुनस्त्वं किरीटे मुकुटे । '--अथ
मुकुटं किरीटं पुंनपुंसक'मित्यमरः । बालेन्दुं बालश्चासौ इन्दुश्च
तं कलात्मकं चन्द्रं पन्नगगणैः पनं पतितं गच्छन्ति ते पन्नगाः
सर्पाः तेषां गणाः समूहाः तैः नियमय नियमनं कुरु । तत्रैव
स्थापयेत्यर्थः । अन्यथा ममागमनसमये पतिष्यतीति भावः ।
लोकेऽपि कश्चन मनुष्यः कस्यचिव्द्याघ्रादिपीडितस्य यदा मोचनं
करोति तदा कटिबन्धशिरोभूषणादिकं दृढं करोतीति प्रसिद्धम् ।
यद्वा किरीटे पन्नगगणैः बालेन्दुं नियमयेति योजना । पुनः
त्वं इतरजनसाधारणतया इतरः अन्यः नीचो वा । 'इतरस्त्वन्य-
नीचयो'रित्यमरः । स चासौ लोकश्च जनश्च तेन साधारणः
तुल्यः तस्य भावः साधारणता तया हेलां अर्थात् मम अनादरं
न कुर्याः । मा कुर्वित्यर्थः । परमत्वद्भक्ते मयि अन्यजनतुल्यो-
यमिति बुद्धिं मा कुर्विति भावः । अत्र लोकोक्त्यलंकारः। तदुक्तं
कुवलयानन्दे 'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते' इति ॥ ४७ ॥
इदानीं गङ्गारूपं स्तौति--
शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां
करैः कुम्भाम्भोजे वरभयनिरासौ च दुधतीम् ।
सुधाधाराकाराभरणवसनां शुभ्रमकर-
स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभव:</p>
<pb n="75" />
<p>शरदिति । भो सुरधुनि, ये जनाः त्वां ध्यायन्ति चिन्त-
यन्ति तेषां जनानां परिभवः अनादरः । 'अनादरः परिभवः
परीभावस्तिरस्क्रिये'त्यमरः । न उदयति उत्पन्नो न भवती-
त्यर्थः । यद्यपि 'अय गता'विति धातोरात्मनेपदं तथापि
'इटकिटकटी'त्यत्र प्रश्लिष्टस्य ईधातोरुत्पूर्वस्येदं रूपं बोध्यम् ।
अतएव 'उदयति विततोर्ध्वरश्मिरज्जा'विति माघप्रयोगः
संगच्छत इति दिक् । कथंभूतां त्वाम् । शरच्चन्द्रश्वेताम् शरदि
शरत्काले । 'अथ शरत् स्त्रिया’मित्यमरः । तत्र यश्चन्द्रः तद्वत्
श्वेतां शुभ्राम् । परमगौरामित्यर्थः । शरदित्यनेन परमनैर्मल्यं
सूचितम् । पुनः कथंभूताम् । शशिशकलश्वेतालमुकुटाम् ।
अलति दंशं कुर्वन् गच्छतीत्यलः सर्पः श्वेतश्चासौ अलश्च
श्वेतालः शुभ्रसर्पः शशिनश्चचन्द्रस्य शकलः खण्डः शशिशकल:
शशिशकलश्च श्वेतालश्च शशिशकलश्वेतालौ तौ मुकुटे यस्याः
सा ताम् । यद्वा श्वेताश्च ते अलाश्च भूषणानि च श्वेतालाः ।
यद्वा श्वेतस्य रजतस्य अलाः भूषणानि 'दुर्वर्णं रजतं रूप्यं
खर्जूरं श्वेतमित्यपी'त्यमरः । गमनभूषणार्थकादलधातोः पचा-
द्यच् । शेषसमासः पूर्ववत् । यद्वा शशिशकलश्वेतालः तादृशो
मुकुटो यस्याः सा ताम् । यद्वा शशिशकलं श्वेताल इव शुभ्रभू-
षणमिवेति व्याघ्रादित्वादुपमितसमासः । शशिशकलश्वेतालः
तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलश्वेतः श्वेतगुणः
तं आसमन्तात् लातीति शशिशकलश्वेतालः तादृशो मुकुटो
यस्याः सा ताम् । यन्मुकुटे चन्द्रस्य प्रभा प्रसृता भवतीति
भावः । 'ला दाने' इति धातोः 'आतश्चोपसर्गे' इति की । ’गुणे
शुक्लादयः पुंसी'त्यमरः । यद्वा शशिशकलं च श्वेतश्च शशिशक-</p>
<pb n="76" />
<p>लश्वेतौ । श्वेतो रजतं तौ आसमन्ताल्लातीति शशिशकलश्वेतालः ।
तादृशो मुकुटो यस्याः सा ताम् । यस्याः रौप्यमुकुटे शशिश-
कलं वर्तत इत्यर्थः । अन्यत् विस्तारभयान्न लिख्यते । पुनः कथं-
भूता । करैः चतुर्भिः हस्तैः कुम्भाम्भोजे कुम्भश्च अम्भोजं च
कुम्भाम्भोजे कुम्भो घटः अम्भोजं कमलं ते वरभयनिरासौ च
भयस्य निरासः नाशः । अभयमित्यर्थः । वरश्च भयनिरासश्च वर-
भयनिरासौ तौ च दधती बिभ्रती । चतुर्भिर्हस्तैरिमानि चत्वारि
दधतीति भावः । पुनः कथंभूतां त्वाम् । सुधाधाराकाराभरण-
वसनाम् । सुधायाः अमृतस्य धारास्तदाकाराणि आभरणानि
वसनं च आभरणानि भूषणानि, वसनं वस्त्रम् । 'अलंकार-
स्त्वाभरणं परिष्कारो विभूषणम्' । 'वस्त्रमाच्छादनं वासश्चैलं
वसनमंशुक’मित्यमरः । सुधाधारावत् आकारो रूपं येषां तानि
सुधाधाराकाराणि तादृशानि आभरणवसनानि यस्याः सा ताम् ।
अतिशुभ्राभरणवसनामित्यर्थः । पुनः कथंभूतां त्वाम् । शुभ्रम-
करस्थितां शुभ्रश्चासौ मकरश्च शुभ्रमकर: मकरो मत्स्यः तत्र
स्थिता ताम् । शुभ्रमत्स्यवाहिनीमित्यर्थः ॥ ४८ ॥
इदानीं गङ्गा मम शरीरसुखं करोत्वित्याह--</p>
<lg>
  <l>दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै-</l>
  <l>र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।</l>
  <l>चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती</l>
  <l>तनोतु मम शं तनोः सपदि शन्तनोरङ्गना  ॥ १९ ॥</l>
</lg>
<p>दरस्मितेति । शंतनो: भीष्मपितुः अङ्गना कल्याणानि</p>
<pb n="77" />
<p>अङ्गनानि यस्याः सा अङ्गना । 'अङ्गात्कल्याणे' इति पामाद्यन्त-
र्गणसूत्रेण अङ्गशब्दान्नप्रत्ययः । श्रीगङ्गा मम जगन्नाथपण्डि-
तस्य तनोः शरीरस्य । 'ङिति ह्रस्वश्चे’ति वैकल्पिकत्वात् घिसं-
ज्ञायां गुणः । शं सुखं सपदि शीघ्रं तनोतु विस्तारयतु । प्रार्थ-
नायां लोट् । कथंभूता अङ्गना । दरस्मितसमुल्लसद्वदनकान्तिपू-
रामृतैः दरं ईषत् तच्च तत् स्मितं च दरस्मितं तेन समुल्लसत्
विकासमानं तच्च तद्वदनं च तस्य कान्तिः छविः तस्याः पूरा
आधिक्यानि त एवामृतानि तैः भवज्वलनभर्जितान् भव एव
संसार एव ज्वलनः अग्निः तेन तत्र वा भर्जिता दग्धास्तान् ।
एतादृशान् नरान् मनुष्यान् अनिशं सर्वदा ऊर्जयन्ती जीव-
यन्ती । यद्वा भवस्य महादेवस्य ज्वलनः तृतीयनेत्राग्निः तेन
तत्र वा भर्जितान् एवंच तादृशकृत्यं कुर्वन्त्या मम वपुःसुखक-
रणे न कोप्यायास इति भावः । पुनः कथंभूता अङ्गना । चिदेक-
मयचन्द्रिकाचयचमत्कृतिम् चिदेकमयी चित्स्वरूपा सा चासौ
चन्द्रिका कौमुदी च ।'चन्द्रिका कौमुदी ज्योत्स्ना'इत्यमरः । तस्याः
चयः समूहः तस्य चमत्कृतिः चमत्कारः तां तन्वती तनोतीति
तन्वती विस्तारयन्ती । तनोतेः शता । अनेकचन्द्रप्रकाशं खयमेव
करोतीति भावः । अस्मिन् श्लोके पृथ्वीछन्दः । 'जसौ जसयला
वसुग्रहयतिश्च पृथ्वी गुरु'रिति लक्षणात् ॥ ४९ ॥
इदानीं संसारज्वालानिर्दग्धवपुषो मम तापं शमयेत्याह--
मन्त्रैर्मीलितमौषधैर्विगलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः ।</p>
<pb n="78" />
<p>वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं [^१]तिरयाधुना मम [^२]भवज्वालावलीढात्मनः ।
मन्त्रैरिति । वीचिक्षालितकालियाहितपदे कालियस्याहितः
शत्रुः कालियाहितः विष्णुः तस्य पदं चरणः वीच्या क्षालितं
प्रक्षालितं वीचिक्षालितं कालियाहितपदं यया सा तत्संबोध-
नम् । यद्वा कालियः अहितः शत्रुर्यस्य स कालियाहितो विष्णुः
शेषं पूर्ववत् । यद्वा कालिये आहितं अर्थात् विष्णुना स्थापितं
तच्च तत्पदं च शेषं प्राग्वत् । हे स्वर्लोककल्लोलिनि स्वर्लोकस्य
सुरलोकस्य कल्लोलिनी नदी तत्संबोधनम् । एवं अधुना भवज्वा-
लावलीढात्मनः भवस्य ज्वालाः ताभिः अवलीढः कवलितः ।
व्याप्त इत्यर्थः । तादृशः आत्मा यस्य तस्य मम तापं निरय निवा-
रय । तिरयेति पाठः । तत्र तिरःकुरु । तिरशब्दात् णिजन्ता-
ल्लोट् । अव्ययानां भमात्रे टिलोपः इति तिरसष्टेर्लोप: । क्वचित्तु
भवव्यालावलीढात्मन इति पाठः । तत्र भव एव व्यालः सर्पः
तेनावलीढः तादृश आत्मा यस्य स तस्येति व्याख्येयम् । ननु
तादृशतापनिवारणे मन्त्रादयो बहवः सन्तीति चेत्तेपि न शक्ता
इत्याह--मन्त्रैरित्यादि मन्त्रैर्मीलितं साहसेन तापनिवारणा-
भावात् संकुचितमित्यर्थः । अयं हेतुः सर्वत्र पूर्वार्धे योज्यः ।
बहुवचनं तु एकोपि न समर्थ इति बोधनाय। एवमग्रेपि बोध्यम् ।
यद्वा यत्र बहुभिः संकुचितं तत्र एकस्य का वार्तेत्यर्थबोधनाय ।
औषधैस्तापनिवारणाय योग्यैर्वैद्यशास्त्रप्रसिद्धैर्मुकुलितं मुकुलीभा-
वमापन्नं । सुराणां देवानां गणैः संधैः त्रस्तं त्रासं गतं । सीन्द्र-
-------------------------------------
[^१] अयमेव पाठः साधुः ।
[^२] भवव्यालावलीढात्मन इति पाठ: ।</p>
<pb n="79" />
<p>सुधारसैः सान्द्राः निबिडाः ते च ते सुधारसाश्च तैः अमृतजलैः ।
'रसो जलं रसो हर्ष' इत्यनेकार्थकोशः । स्रस्तं अधःपतितम् ।
'स्रंसु अधःपतने' पदत्वाभावात् 'वसुस्त्रंस्वि'ति दत्वं न । गारु-
त्मतैः गरुत्मान् गरुडः 'गरुत्मान् गरुडस्तार्क्ष्य'इत्यमरः । देवता
येषां ते गारुत्मताः तैः 'सास्य देवते'त्यण् । यद्वा गरुत्मतः
इमे गारुत्मताः तैः 'तस्येद'मित्यण् । एतादृशैः ग्रावभिः पा-
षाणै: । ’पाषाणप्रास्तरग्रावोपलाश्मानः शिला दृषदि'त्यमरः ।
विदलितं विशेषेण दलितं स्फुटितम् । विशेषश्च खण्डखण्डभव-
नम् । अत्र सर्वत्र पूर्वार्धे नपुंसके भावे क्तः । अतएव कर्तुरनभि-
हितत्वान्मन्त्रैरित्यादिषु कर्तरि तृतीया । अत्र श्लोके शार्दूलवि -
क्रीडितं छन्दः । 'शार्दूलविक्रीडितं म्सौज्सौतौगादित्यऋषयः'
इति लक्षणात् ॥ ५० ॥
इदानीं गङ्गालहरीनटघटीताण्डवमस्मान्पुनात्विति प्रार्थयते--
द्यूते [^]नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दी-
न्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि
द्राक्पणीकर्तुकामे । साकूतं हैमवत्या मृदु-
लहसितया वीक्षितायास्तवाम्ब [^२]व्यालोलो-
ल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु  ॥ ५१ ॥
द्यूत इति । भो स्वर्लोककल्लोलिनि, तव भवत्याः व्यालो-
लोल्लासि वलूगल्लहरिनटघटीताण्डवम् । व्यालोलाश्चञ्जलाः
--------------------------------------------------------
[^१] फणिश्रेणि इति पाठः ।
[^२] प्रोल्लोलोल्लासिलीलालहरिनवघटोत्ताण्डवं नः
पुनीतां इति पाठः ।</p>
<pb n="80" />
<p>उल्लासिन्यः ऊर्ध्वं उच्छलन्त्यः वल्गन्त्यः गच्छन्त्यः एतादृश्यो
या लहर्यः ता एव नटस्तस्य घटीताण्डवं शिरसि घटीं धृत्वा नर्त-
नम् । यद्वा नटस्य घटीताण्डवं नटघटीताण्डवम् व्यालोलोल्ला-
सिवल्गल्लहरीणां नटघटीताण्डवं तत् नः अस्मान् भक्तजनान्पु-
नातु पवित्रीकरोतु । व्यालोलादिविशेषणविशिष्टलहरीभवने
मूलमाह । कथंभूतायास्तव । द्यूते दुरोदरे परस्य जिगीषयाक्षैः
क्रीडनं द्यूतं तत्र । अत्र विनिगीषायाः सत्त्चात् 'दिवो विजिगी-
षाया' मित्यनेन निष्ठातस्य णत्वं न । नागेन्द्रकृत्तिप्रमथगणम-
णिश्रेणिनन्दीन्दुमुख्यम् । नागेन्द्रो वासुकिः कृत्तिर्गजादिचर्म,
प्रमथगणः तन्नामकः पारिषदः, मणिश्रेणिः मणीनां रुद्राक्षा-
दिमणीनां श्रेणिः पड्क्त्ति:, नन्दिः स्ववाहनभूतो वृषभः, इन्दुः
स्वशिरोभूषणभूतश्चन्द्रः, एतेषां इतरेतरयोगद्वन्द्वः । नागेन्द्र-
कृत्तिप्रमथगणमणिश्रेणिनन्दीन्दवः मुख्याः श्रेष्ठाः यस्मिन् तत्
एतादृशं सर्वस्वं सर्वं च तत् स्वं च सर्वस्वं धनं हारयित्वा शिव-
सकाशात्पार्वतीं गृहीत्वा । हारयित्वेत्यत्र णिजन्तात्क्त्वा । अत्र
प्रयोजककर्तृत्वं पार्वत्याः, प्रयोज्यकर्तृत्वं शिवस्य । अतएव 'समा-
नकर्तृकयोः पूर्वकाले' इत्यनेन क्त्वासुलभः । वीक्षणकर्तृकर्तृत्वा
हरणमिति बोधः । प्रकृतमनुसरामः । अथ सर्वस्वहरणानन्तरं
पुरभिदि पुरनामानं दैत्यं भिनत्ति विदारयतीति पुरभित् तस्मिन्
शिवे स्वमात्मानं पणीकर्तुकामे सति पणनं व्यवहरणं पणः
'घञर्थे कविधान'मिति कः । अपणः पणः यथा संपद्यते तथा
कर्तुमिति पणीकर्तुं कामः इच्छा यस्य सः तस्मिन् । 'लुम्पेदव-
श्यमः कृत्ये तुं काममनसोरपि । समो वाहिततयोर्मांसस्य पचि</p>
<pb n="81" />
<p>युट्घञो'रिति पृषोदरादिगणपठितवचनेन कर्तुमिति मकार-
लोपः । तादृशे सति मृदुलं हसितं हास्यं यस्याः सा तया । इदा-
नीं सपत्नीभूतगङ्गायाचनेन श्रेष्ठसिद्धिर्भविष्यतीत्याशयेन हसिता
एतादृश्या हैमवत्या हिमवतो हिमाचलस्यापत्यं स्त्री हैमवती ।
'तस्यापत्य'मित्यण् 'टिड्ढाणञि'ति ङीप् । तथा पार्वत्या साकूतं
आकूतेनाभिप्रायेण सहितं साकूतं तद्यथा स्यात्तथा वीक्षितायाः
विशेषेणेक्षिता वीक्षिता तस्याः । विशेषश्च जटाजूटस्थित्या द्रष्टु-
मशक्याया अपि यत्नतो दर्शनव्यापारवत्त्वम् । यद्यपि शिवस्य
पूर्वोक्तं सर्वस्वं मया हृतम् अतएव शिवः आत्मानं पणीकरोति
तथापि गङ्गा उर्वरिता वर्तते । सा च सपत्नीभूतत्वान्मामवमत्य
एतावत्कालपर्यन्तं शिवशिरसि स्थिता वर्तते । इदानीं याच-
यित्वा दासी संपादनीयेति साकूतमित्यस्यार्थ इति दिक् । नर्त-
नप्रियस्य शिवस्य द्यूतं विस्मारयितुं गङ्गया नृत्यमारब्धमिति
दिक् । हैमवतीत्यनेन कठिनहृदयत्वात्तेन सर्वस्वहरणयोग्य-
त्वम् । अस्मिन् श्लोके स्रग्धरा वृत्तम् । 'स्रग्धरा म्नौभ्नौयौय्त्रिः-
सप्तकाः' इति लक्षणात् ॥ ५१ ॥
इदानीं चरमश्लोकेन स्वाङ्गानाममलीकरणं प्रार्थयते--</p>
<lg>
  <l>विभूषितानङ्गारिपूत्तमाङ्गा</l>
  <l>सद्यः कृतानेकजनार्तिभङ्गा ।</l>
  <l>मनोहरोत्तुङ्गचलत्तरङ्गा</l>
  <l>गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२ ॥</l>
</lg>
<p>विभूषितेति । गङ्गा भागीरथी । गङ्गाशब्दार्थस्तु 'स्मृतं</p>
<pb n="82" />
<p>सद्य' इत्यष्टमश्लोके उक्तः । मम जगन्नाथस्याङ्गान्यमलीकरो-
त्वित्यर्थः । कथंभूता गङ्गा । विभूषितानङ्गरिपूत्तमाङ्गा । अन-
ङ्गस्य कामस्य रिपुर्वैरी शिवः तस्योत्तमाङ्गं मस्तकं विभूषितं
स्वस्थित्या शोभायुक्तं कृतं अनङ्गरिपूत्तमाङ्गं यया सा । पुनः
कथंभूता । सद्यः तत्कालमेव कृतानेकजनार्तिभङ्गा । अनेके च
ते जनाश्च तेषामार्तिः पीडा तस्याः भङ्गः नाशः कृतः संपादितः
अनेकजनार्तिभङ्गो यया सा । यद्वा जनानां आर्तयः पीडाः
अनेकाश्च ता जनार्तयश्च तासां भङ्गः अनेकजनार्तिभङ्गो यया
सा । सद्यः कृतानेकजनार्तिभङ्गेत्येकं पदं वा । पुनः कथंभूता ।
मनोहरोत्तुङ्गचलत्तरङ्गा । मनोहरा अतिरमणीयाः उत्तुङ्गाः
उन्नताः चलन्तः चञ्चलाः तरङ्गाः यस्याः सा । अस्मिन्पद्ये उप-
जातिनामकं वृत्तम्। 'इन्द्रवज्रा तौज्गौग्' 'उपेन्द्रवज्रा ज्तौ-
ज्गौग्' 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः'
इति लक्षणात् ॥ ५२ ॥
स्वकाव्यपठनस्य फलमाह--</p>
<lg>
  <l>इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् ।</l>
  <l>यः पठेत्तस्य सर्वत्र जायन्ते सुखसंपदः ॥ ५३ ॥</l>
</lg>
<p>इमामिति । पीयूषस्यामृतस्य लहरीं त्वां यथा पीतामृतल-
हर्या आनन्दजनकत्वं तथा अस्या अपीति शेषः । अन्यकृति-
भ्रमवारणायाह--जगन्नाथेन निर्मितामिति । निर्मितां कृतीम् ।
शेषं सुगमम् ॥ ५३ ॥</p>
<pb n="83" />
<lg>
  <l>यद्यप्यहं मन्दमतिस्तथापि टीकासमाप्तिर्हि बभूव शीघ्रम् ।</l>
  <l>नात्रापरं कारणमस्ति किंचिच्छ्रीभास्कराज्ञा किल किंवमोघा ॥ १ ॥</l>
</lg>
<lg>
  <l>शाके कीलकसंज्ञके नृसुखके संमासके चैत्रके</l>
  <l>वारे भार्गवके तिथौ करणके सर्पस्य संबालके ।</l>
  <l>मूले मे विबुधौघचित्तसुखदा टीका समाप्तानया</l>
  <l>तोषं यातु समस्तपापहरिणी गङ्गा महेशाङ्गना ॥ २ ॥</l>
</lg>
<lg>
  <l>नृपं द्विपं वा तुरगं मृगं वा शुकं बकं वा महिषं वृषं वा ।</l>
  <l>हरीकरोष्यङ्गनकं हि गङ्गे स्नातं भवत्यां सकृदीशसङ्गे ॥ ३॥</l>
</lg>
<lg>
  <l>नारायणो यस्य पितामहोऽभून्मणीकभट्टश्च पिता तदीयः ।</l>
  <l>गोपी यदीया जननी सुशीला टीका कृता तेन सदाशिवेन ॥ ४ ॥</l>
</lg>
<lg>
  <l>भक्तोपोद्गमहेतोः केदारत्वं स्थितोऽसि भूभृति किम् ।</l>
  <l>तत्राप्यागत्य त्वां स्वशिवं याचे हि तत् सर्वम् ॥ ५ ॥</l>
</lg>
<p>इति श्रीसदाशिवकृता पीयूषलहर्याख्या गङ्गालहरी-
टीका समाप्ता ।
----------------------------</p>
<pb n="84" />
<p>Blank</p>
<pb n="85" />
<p>निर्णयसागर छापखान्यांतील विक्रीचीं पुस्तकें.
किं. रु. आ. ई. रु. आ.
आदित्यहृदय व सूर्यकवच.             .....       ...... ०  २ ० १
उदासीनसाधुस्तोत्र - (ब्रह्मानंदसाधुकृतमनोरमाव्याख्या-
सहित ).
ऋणमोचनमङ्गलस्तोत्र.
गणेशाष्टक.
गणेशसहस्रनाम.
गणपतिस्तोत्र.
गोपालसहस्रनाम-गोपालकवच व गोपालस्तवराज-
यांसहित.
गोपालसहस्रनाम--रेशमी पुठ्ठा.
गंगालहरी-मूलमात्र.
चतुःश्लोकी भागवत.
ज्योतिर्लिङ्गस्तोत्र व शिवमानसपूजा.
त्रैलोक्यमोहनकवच.
दत्तात्रेयस्तोत्र.
द्वादशस्तोत्र--भगवत्पादाचार्यकृत.
नर्मदाष्टकस्तोत्र--शंकराचार्यकृत.
पुरुषोत्तमसहस्रनाम.
बृहत्स्तोत्ररत्नाकर सचित्र--(स्तोत्रें १८२) कागदी बाइंडिंग.० १४
बृहत्स्तोत्ररत्नाकर--सचित्र (स्तोत्रें १८२) कापडी बाइंडिंग. १
बृहत्स्तोत्ररत्नोकर--सचित्र (स्तोत्रे १८२) रेशमी बाइंडिंग. १
ब्रह्मज्ञानावली--शंकराचार्यकृत.
मकरन्दस्तवराजस्तोत्र.</p>
<pb n="86" />
<p>महालक्ष्म्यष्टक.
कि.रु.आ.ट. रु.
महिम्नस्तोत्र--मधुसूदनी (शिवविष्ण्वर्थ) व्याख्येसहित.
महिम्नस्तोत्र--केवलशिवार्थबोधक सुबोधिनीटीका.
यमुनाष्टक--शंकराचार्यकृत.
रामरक्षास्तोत्र--अगस्त्यकृत. ...
रामस्तवराजस्तोत्र.
रेणुकासहस्रनाम--हें सहस्रनाम प्रासादिक आहे व
यांतील कवच तर केवळ मंत्रमय आहे.
लक्ष्मीस्तोत्र--अगस्त्यकृत.
लक्ष्मीहृदय व नारायणहृदय--रेशमी पुठ्ठा.
विष्णुसहस्रनाम--साधें.
विष्णुसहस्रनाम--रेशमी पुठ्ठा.
विष्णुसहस्रनाम--मोठें अक्षर (साधें).
शिवकवच.
शिवसहस्रनाम.
शिवतांडवस्तोत्र--दशकण्ठकृत, माधवानंदकृत.
शिवमहिम्नस्तोत्र--(मूळ ) ...
शिवापराधक्षमापनस्तोत्र--शंकराचार्यकृत
शीतलाष्टक.
स्तवमाला--श्रीरूपदेवविरचित, जीवदेवकृत भाष्यसहित.
पांडुरंग जावजी,
निर्णयसागर छापखान्याचे मालक.</p>
<pb n="87" />
<p>Blank</p>
</body>
</text>
</TEI>