गंगालहरी पीयूषलहरी व्याख्या सहिता। Acc- No : १२९०५ LIB CAT Call Number Subject Name Classical Lit. SubSubject Name Sanskrit Poetry Language_Name Sanskrit Size TypeDesc Number of Pages Binding Type Book Type Acquisition Method Acquisition Type Copy_Type Donated By B 71 Paperback Hardbound. Text Ref Study Local Vender None Presented Review Printed Purchased Exchange Photo Copy श्रीः । महाकविपण्डितराजश्रीजगन्नाथविरचिता गङ्गालहरी । पीयूषलहरीव्याख्यासहिता । विद्वद्वरपणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा पाठान्तरादिभिः संस्कृता । सेयं मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणालये संमुद्र्य प्रकाशिता । शाकः १८५२, सन १९३०. मूल्यं ६ आणकाः । श्रीभागीरथीध्यानम् । किंचित्प्रास्ताविकम् । अयि गीर्वाणवाणीरसिका वसुंधरागीर्वाणाः ! कर्णे कुरुतेमं लघु- तरं प्रस्तावम् । भूयांसः खल्वत्र मानुषप्राणिनः मुत्पद्यन्ते स्वेस्वेऽ- वसरे तिरोभवन्ति च । येषां गणना दुःशक्या सहस्राक्षेणापीति न तिरोहितं विदुषाम् । ते पुनर्मातृजठरान्निर्गता इत्येव संभूता इत्यभिधीयन्ते । एवंविधं जन्म तिरश्चामपि साधारणमिति कृत्वा किं तेन जननीयौवनकुठारायितेन जनुषा, किंतु स एव लोके संभूत इत्यभिधीयते संख्यावद्भिर्यस्य दशस्वपि दिक्षु धावल्येन विसृमरा कीर्तिः प्रसरति, यस्य चात्यन्तप्रणयिनीव वशंवदा भगवती सर- स्वती, यश्च मोदयति सुधाधारानिर्विशेषेण मधुरेण स्वीयाचरणेन स्वान्तानि रसिकानाम् । विरलाः स्वल्वेवंविधा जनिमन्तो वसुधायां समुत्पद्यन्ते । समुत्पन्नेष्वपि विरला एव नाभिभूयन्ते सहसाऽहंका- रेण। यमुद्दिश्यायमस्माभिः प्रस्ताव आरब्धः सोऽपि किल महाशयः प्रतिभटदन्तावलकेसरी पण्डितराजो जगन्नाथ एवंविधैरेवाखिलैर्गुण- गणैरासीत्संपन्न इति तदैतिह्यं विबुधोद्धृतं यथाश्रुतं प्रस्तूयते-- पण्डितोत्तंसस्यैतस्य जननावसरो यद्यपि न शक्यते यथावन्निर्देष्टुं, तथापि दिल्लीपतिसमाश्रयणं नानाविधैः प्रमाणैर्निर्णीयमानं ज्ञापय- त्यापाततोऽस्य स्थितिसमयम् । सोऽयं भामिनीविलासस्यान्तिमोल्लासे ‘दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति स्वयमेव प्रत्यपी- पदत् । सच दिल्लीशः शहाजहान एवेति निश्चीयते । यतोऽयं आसफ- विलासकाव्ये शहाजहानमेवास्तोत् । शहाजहानस्तु शालिवाहनीयश- कस्य षोडशशताब्द्या अपरार्धे अशीत्युत्तरपञ्चशतमिते १५८० शाके दिल्लीेश्वरत्वमापन्नः सन् तस्यैव शकस्यावसाने कालवशं जागम। तदवध्येबास्य यौवनारूढस्य दिल्लीनगरे संस्थितिरित्यपि सुवचम्। आसफविलासे तैलङ्गकुलावतंसेन जगन्नाथेनेति विन्यासादस्या- भिजनस्तैलङ्गापरनामाऽऽन्ध्रदेश इति निश्चीयते। पिता चास्य पण्डित- मण्डलीमण्डनायमानः पेरुभट्टो नाम प्रशंसनीयोऽध्यापक आसीत् । माता च महासाध्वी लक्ष्मीर्नाम । उभयोः सुकृतातिरेकादेवाखिल- पण्डितपाण्डित्यगर्वसर्वंकषो जगन्नाथस्तनयः संवृत्तः । एतस्य हि तत्त- द्रसपूरितेषु पठ्यमानेषु तेषु तेषु पद्येषु तत्तद्रसमयतामिवापद्यते चेतो रसिकानाम् । मुहुर्मुहुः पठितान्यप्येतस्य पद्यानि पठ्यमानानि नवं नवमेव कमप्यपूर्वं रसं वितरन्ति । पण्डितमूर्धन्यस्यास्य प्रज्ञाप्रकर्षलु- ब्धेन दिल्लीवल्लभेन शहाजहानबादशाहेन मनोविनोदास्पदा निजतन यास्मै प्रदत्ताऽतुलपारिबर्हविभवभवनादिदानेन सह । सच तया सहा- लभ्यान्विविधविषयभोगाननुभुञ्जन् स्वर्पतिरिव दिव्यान्भोगानहरह- रनुसवनं प्रकामं जुषमाणश्चिरायारीरमत् । अथैकदोढया यवन्या सह चरमे वयसि काश्यामुपगतः पण्डि- तरायस्तदा तत्रत्यैः सभ्यपण्डितैर्यवनकन्यापरिणेतृत्वादव्यवहार्योऽय- मिति सतिरस्कारं सर्वत्रोदघोषि । पण्डितमण्डलकृताव्यवहार्यताव- माननाद्विषण्णान्तःकरणो जगन्नाथरायस्तान्प्रावोचत् 'यदि मां मत्प्रे- यसीं चैनां तत्रभवन्तो भवन्तः पावयेयुर्नयेयुश्चाखिलैर्ब्राह्मणैः सह पङ्क्तिपावनत्वं तदा युष्मदादिष्टं प्रायश्चित्तमङ्गीकरिष्यामी'ति । तदपि प्रार्थनं विद्वत्तिरस्कृतमवगत्य, आस्तां किं मेऽवमानोद्युक्तैरेभिर्ब्राह्मणै- स्तद्वितीर्णेन सामान्येनानेन प्रायश्चित्तेन वा, जगत्त्रयपावनी भगवती सुरतरङ्गिण्येव नूनं सभार्यं मां पावयिष्यतीति सनिश्चयमाचक्षाणः पण्डितराजो द्विपञ्चाशत्सोपानान्तरितभागीरथीप्रवाहं कमपि घट्ट- मूर्धानमधिष्ठाय सुललितपदबन्धनानि एकपञ्चाशत् पद्यानि प्रणीया- पीपठत् । यान्येव सांप्रतं गङ्गालहरीति पीयूषलहरीति वा सन्ति सुप्रसिद्धानि । उच्चार्यमाणेषु च तेषु प्रतिपद्यमेकैकं सोपानमारुह्यान्ति- मपद्यावसाने कूलंकषात्वमुपागता भागीरथी तया यवन्या सह प्रण्डितराजं स्वपात्रान्तर्विलयं निन्ये । तदैनमवलोक्य महानुभाव- प्रभावं काशीस्थास्तदानींतनाः पण्डिता अत्यन्तं व्यस्मयन्तेति । जगन्नाथपण्डितरायप्रणीतग्रन्थास्तु --(१) अमृतलहरी, (२) आसफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्, (५) जगदाभरणम्, (६) गङ्गालहरी, (७) प्राणाभरणम्, (८) भामिनीविलासः, (९) मनोरमाकुचमर्दनम्, (१०) यमुनावर्णनम्, (११) लक्ष्मीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधरश्चेत्येते दरीदृश्यन्ते । एतदन्येऽनुपलब्धाः स्युर्वा न वेति न विद्मो वयम् । एतादृशानेकनिबन्धरत्नप्रणेतृ-परमपूज्य श्रीमत्पण्डितजगन्नाथराय- संबन्धिकिंवदन्त्यनुगुणं व्रीडावहं यवनीपरिणयादि यद्यप्यदर्यस्मा- भिस्तथापि तादृशकालुष्यनिबर्हणाय विद्वद्वर--अप्पाशास्त्री--राशिवडे-- करमहाशयैः संस्कृतचन्द्रिकायां सुनिपुणं निर्णोतं तत्तथ्यातथ्य- विवेचनं यथावदत्र प्रदर्श्यते-- स्वभावत एव किल क्रोधवन्तो यवनाः स्वाङ्गनासु परस्य प्रेममयं पूज्यभावसंभवमपि नयनपातं न सहन्ते किंपुनर्विधर्मीयस्य कामा- विष्टमनस आत्मनः समक्षमेव निजकन्याविषयिणीं प्रार्थनाम् । यद्यपि भूयांसो विद्वांसो वैदुष्यस्याननुरूपमहंकारमवाप्नुवते तथापि नहि काममात्रासत्तया धर्ममुल्लङ्घयितुमीहन्त इत्यपि नैव विस्मर- णीयम् । क्षुद्रतमोऽपि यवनीं यदि विधर्मीयैः कृतया कान्तागतया कथयापि कोपस्य परां कोटिमारोहेत्तदा कथं वा निखिलभारतवर्ष- भूपालसमभ्यर्चितशासनो दिल्लीश्वरः शहाजहानः पण्डितेनापि जग- न्नाथेनात्मनः समक्षमभ्यर्थितां कन्यां तस्मै प्रदाय यवनधर्ममवधी- रयितुं प्रभवेत् । नूनं नैतत्कथंचिदपि संभवति । 'यवनी नवनी- 'तकोमलाङ्गी'त्यादयः श्लोका यदि पण्डितराजविरचिता एवेति स्वीक्रियेत तदा भामिनीविलासेऽपि तेषामुपनिबन्धनमवश्यमङ्गी- कर्तव्यम् । दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया स्वीयपद्य- रत्नानां भामिनीविलासाख्यां मञ्जूषां निर्मितवता पण्डितराजेन कथं वा तानि विस्मर्येरन् कथं च मञ्जूषायां न संगृह्येरन्नित्यपि विचार- णीयं विद्वद्भिः । अतो नैतानि पद्यानि पण्डितराजप्रणीतानीति प्रतीयते । ततश्च जगन्नाथस्य यवनीपरिणयविषयिणीयमाख्यायिका गगन आलेखनमनुहरति । किंच सार्वभौमायमानो दिल्लीश्वरः सभायां जलं पिबेदित्यपि न श्रद्धेयम् । नापि वा तस्य कन्यका शिरसि कलशीं निधाय हीनभाग्या योषिदिव नीरमानयेदित्यपि संभवास्पदम् । येभ्यः पन्थानोऽपि भृत्यैरेवादिश्यन्ते तेषानसूर्यंपश्याः कन्यास्तत्र च सुस्तनीत्वादिविशेषणार्हा: प्रगल्भे वयसि पदमर्पयन्त्यः परपुरुषपरि- वृत्तायां परिषदि पानीयमानयेयुरित्यपि विरुद्धमेव प्रतिभाति । अतो निर्मूलेयं जगन्नाथस्य यवनीपरिणेतृत्वविषयिण्याख्यायिका । अथ भगवत्या भागीरथ्यात्मनोऽङ्गेषु विलयं नीतो जगन्नाथ इत्येषापि किंवदन्ती कियत्सत्यभावमवलम्बत इति विचार्यते । ययैव पण्डितराजविरचितया स्तुत्या प्रमुदितहृदया देवनदी जग- न्नाथं पावयामासेति श्रूयते सा किल पीयूषलहरी गङ्गालहरीति वा प्रथिता । यदि तूपरि निर्दिष्टा लोकवार्ता मृषात्वं नावगाहेत तदा गङ्गालहरीप्रणयनकाल एव जगन्नाथस्यायुषोऽवसानावसर इति स्फु- टमेव । ततश्च गङ्गालहरीप्रणयनोत्तरं जगन्नाथो नान्यं प्रबन्धं, निर्मास्यतीत्यपि सिद्धम् । अर्थाज्जगन्नाथविरचिते प्रबन्धान्तरे गङ्गा लहरीगतानि पद्यानि नैव दृश्येरन् । किंतु तानि दृश्यन्ते । अतएव गङ्गालहरीप्रणयनावसान एव जन्नाथस्यायुषः परिसमाप्तिरिति वचनं नैव विचारसहम् । नापि गङ्गालहरीभिन्ना जगन्नाथविरचिता काचिदपि मन्दाकिन्याः स्तुतिरस्ति यस्या अवसानसमयं जगन्नाथस्य निधनावसरं मंस्यामहे । अतः सर्वथा निर्मूलेयमाख्यायिका । दृश्यन्ते च गङ्गालहरीगतानि पद्यानि रसगङ्गाधरे यथा-- विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः । कृतं प्रायश्चित्तैरलमथ तपोदानविभवैः सवित्री कामानां यदि जगति जागर्ति भवति ॥ इति माधुर्योदाहरणम् । एवमनन्वयालङ्कारप्रकरणेऽपि-- कृतक्षुद्राघौघानथ सपदि संतप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरितान् नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ इति । एवं भावस्योदाहरणप्रसङ्गेनोक्तं जगन्नाथेन तत्रैव 'मन्निर्मिताश्च पञ्च लहर्यो नाम पीयूषलहरी--सुधालहरी--लक्ष्मीलहरी--अमृतल-- हरी-- करुणालहरी चेति । एवं च पीयूषलहर्यपराख्यायाः श्रीगङ्गा- लहर्याः पञ्चसु लहरीष्वन्तर्भूततया लहरीपञ्चकस्य च रसगङ्गाधर उल्लिखितत्वेन गङ्गालहरीगतानां पद्यानां रसगङ्गाधरे दृश्यमानत्वाच्च गङ्गालहर्या रसगङ्गाधरनिर्माणात्प्राक् संभूतत्वं स्फुटमेव प्रतीयते । ततश्च निर्मूलेयमाख्यायिका यदुच्यते लीनो मन्दाकिन्याकोडे जगन्नाथ इति । अथ द्वितीया किंवदन्ती । आसीत्किल दिल्लीपतेः कोऽपि पुरोहितो म्लेच्छजातीयो यः संस्कृतभाषाब्धेः परं पारमासाद्य शास्त्र- सागरमुल्लङ्घ्य च तत्र तत्र निवसतः पण्डितगणान्पराभवतिस्म । सच तैस्तैः पण्डितैर्विवमानस्तांस्तान्विदुषो विजयमानस्तत्रतत्र प्रदेशे सनातनं भारतधर्ममुत्सादयमानो निराकुर्वन्प्रतिपक्षान्प्रति- पादयन्यवनधर्म परिखण्डयन् शास्त्राणि हेपयन्नखिलया संस्कृतगिरा भारतीयान्विबुधानवजिताशेषदक्षिणप्रदेशः सकलविद्यावैशद्यावभा- सितां नानाविधबुधमण्डलीमण्डितां पण्डिताग्रेसरसमुपक्रम्यमाण- दार्शनिकविषयचर्चामर्चानुकूलफलसमर्पणकल्पपादपायमानेन भग- वता शशिखण्डमौलिना समुद्भासितां भासिताशेषत्रिभुवनया परम- पावनया मन्दाकिनीदेव्या परिगतां समुपचीयमानसुकृतराशिं काशीं नाम गरीयसीं नगरीमुपतस्थौ । ततश्च तत्रत्यान्विबुधाना- ह्वयमानः काजी सभां महीयसीं निर्माय विवादमारिप्सामास । पण्डिता अपि तदानीमेवाहंपूर्विकया सभामागत्य विविधाभिर्यु्क्ति- भिर्नानाविधाभिर्वचनरचनाभिः परिस्फुरन्तीभिः प्रणामपरम्परा- भिश्च काजीं जेतुमयतन्त । काजी तु पवन इव पथि पतितां- स्तृणच्छेदांस्तानि वचनजालानि क्षणादेव प्रतिक्षिपन्नखण्डितमतः करनखराग्रैमैरानाभि लम्बमानां धवलकीर्तिसंततिमिव पुञ्जीभूयो- पागतां [^१]कूर्चिकां परिष्कुर्वन् सावहेलमग्रासनमधिरुरोह तदनु विवादेऽप्रभविष्णवोऽप्यपमानासहिष्णवो वाराणसीनिवासिनो द्वि- जन्मानोऽनुचरविपदपहर्तारं सृष्टिस्थितिप्रलयकर्तारं निजपरिचरप्रति- भटखण्डनं सुधाकरकलामण्डनं समुपेत्यानन्यगतेन मनसा नाना- विधाभिस्तत्कालसमुचिताभिः करुणरसपरिप्लुताभिः स्तुतिभिस्तमेव ------------------------------- १ दाढीतिप्रसिद्धाम् । भगवन्तमुपवीणयामासुः । अवगताशेषवृत्तान्तश्च भगवान्भुजगभू- षणो भागीरथीमौलिर्महेश्वरस्तदात्व एव प्रत्यक्षीभूय वाचमेतामुदीर- यामास । अस्त्यत्र कस्यापि रत्नेश्वरनाम्नो द्विजन्मनो धनिकस्य सदन [^१]आम्भसिकः कश्चिद्भिक्षुः स एवास्यावलिप्तस्य यवनहतकस्य पराजये प्रभवतीति स एवाभ्यर्थ्यतामिति । ते तु ब्राह्मणाः फलमिवात्मनो मनोरथद्रुमस्य तद्वचनमाकर्ण्य द्रुतपदं रत्नेश्वरश्रेष्ठिनो भवनमागत्या- साद्य च श्रेष्ठिनं भगवतो निदेशमावेदयामासुः । सच तेषां तद्वचन- माकर्ण्य परं विस्मयमापन्नस्तमेव नीराधिकृतमात्मनो दासं समाहूय निजगादाभिलषितं ब्राह्मणसमाजस्य । अपृच्छच्च अपि प्रभवसि कर्मण्येतस्मिन्निति । ततो धीवरजालायमानेनासंख्येयतन्तुसन्तानेना- जानुलम्बिना मलीमसेन वसनेनावेष्टिताधःकायो जठरभरमन्थरगति- रंसमुभयतः प्ररूढैर्जलकुम्भवहनसंजातैःकिणैः समुल्लसितः पीवरतनुः श्यामायमानेन चैलखण्डेन वेष्टितोत्तमाङ्गो घटीचेटो हुंकरिष्याम्येत- द्यदि भवन्तोऽनुजानीयुरिति मन्दंमन्दं प्रत्ययोजिष्ट । ततः श्रेष्ठिना सम- र्पिते तस्मिन्प्रमुदिता ब्राह्मणाः कौशेयानि पट्टवसनानि परिधाप्य अन- र्घ्यैर्भूषणैरलंकृत्योष्णीषसमुल्लसितं च तस्य मूर्धानं विधाय कनकशि- बिकायामारोप्य महीयसा महोत्सवेन विरचितायां सभायामानाय्य तमुपवेशयामासुः । काजीरपि समाहूतागतस्तस्यैव संमुखमुपाविक्षत् । ततो दोलायमानकूर्चिकाकलापं समुद्धूयमानश्मश्रुजालं च प्रवदता काज्या सह प्रववृते भिक्षोर्विवादः । अन्ते पुनर्भिक्षुवचनचातुरीवि- स्मितोऽश्रुतपूर्वाः सहस्रशो युक्तीराकर्ण्येतिकर्तव्यतामूढो विवाद- सागरमुत्तरीतुमप्रभविष्णुः काजी तूष्णींभावमवलम्ब्य मिक्षुं प्रण- -------------------------------------------- [^१] अम्भःपूरणाधिकृतो विप्रः । नाम । ततो विजितं विजितं भिक्षुणेति सतालवं प्रवृत्तेषु वचनेषु तदानीमेव मूर्च्छत्सु तूर्येष्वाहन्यमानेषु मुरजेषु ध्वन्यमानेषु दुन्दु- भिषु आध्मायमानेषु शङ्खेषूच्चरत्सु क्ष्वेलानुकारिषु सिंहनर्दिकाक्रेंकारे- षु महोत्सवमय इव मङ्गलमय इव प्रमोदमय इव विजयमान इव यशोमय इव च तस्मिन्समये सबहुमानं सप्रणामं च सौवर्णं यान- मारोप्य भिक्षं श्रेष्ठिनः सदनमानाय्य यथावृत्तं वृत्तं निजगदुर्द्विज- न्मानः । ततस्तु समुद्भूतजिज्ञासा: सर्वेऽपि तस्य भिक्षोः कुलं नाम विद्यामभिजनं च पप्रच्छुः । तस्मिंश्चाशेषतोऽपि तेन कथिते निश्चिक्युः काशीस्था विबुधा अयमेव पण्डितराजो जगन्नाथ इति । काजी तु ततः प्रभृति तस्य पण्डितराजजगन्नाथस्य मित्रतामुपागच्छत् । ततो गच्छता कालेन दिल्लीं गतो बादशाहं विज्ञाप्य जगन्नाथमपि दिल्ली- नगर एवानाययामास । ततः प्रभृति च प्ररूढं जगन्नाथबादशाहयो: सौहार्दमिति । एतादृंश्यन्यान्यपि लोकोत्तराणि चरितानि नैकशः सन्त्यस्य महामहिमभाजः पण्डितरायस्य तथापि स्थलतानवाद्दि- ग्दर्शनेनैवालमिति विरम्यते । श्रीः । जगन्नाथपण्डितराजप्रणीता । गङ्गालहरी । पीयूषलहरीव्याख्यासहिता । नमः श्रीगङ्गायै । पितुः स्कन्धे स्थित्वा विमलमुकुरालोकानधिया हिमांशुं व्याकर्षन्नहिभयविदूनेन मनसा । विधुं हित्वा वह्निं सरसमणिबुद्ध्या गिरिभुवा शुभं भीतो नीतो दिशतु बहु वः शंभुतनयः ॥ १ ॥ गङ्गे त्वद्वारिधारा भवमरणजरापारवारास्तु सारा राजद्देवादिनारीविहरणविलसत्तीरनीरातुषारा । दैत्यारात्यङ्घ्रिचारा हरगिरिसुशिरोदेशभारातिधीरा रूपेणाक्रान्तमारा निजजनवृजिनौघौघहाराविहारा ॥२॥ अम्बां निजमुखाक्रान्तचन्द्रबिम्बां नमाम्यहम् । केदारं वैरिसंदारं मुक्ताहारं च सुन्दरम् ॥ ३ ॥ येनाकारि दशास्यो दशमुखहीनोऽपि बाणसङ्घेन । निजजायाचौर्यकरः सो वोऽवतु जानकीकान्तः ॥ ४ ॥ हरिं रामं गुरुं नत्वा भास्करप्रीतये मया । पीयूषलहरीव्याख्या क्रियते हि यथामति ॥ ५ ॥ अत्रैवं श्रूयते--कविर्जगन्नाथो दिल्लीवल्लभाश्रितस्तद्यवनी- संसर्गदोषभाक् सन्, गङ्गासकाशात् द्विपञ्चाशत्सोपानान्तरित- निजगृहेऽवस्थितः तत्रैव च जाह्नव्यागमनस्पर्शनेनात्मशुद्धिं कामयमानः,'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥’ इति काव्यप्रका- शोक्तेः शिवेतरक्षतिफलकगङ्गास्तुतिरूपं काव्यं चिकीर्षुर्विघ्नवि- घाताय वस्तुनिर्देशात्मकं मङ्गलमाचरन् स्वाभिमतं प्रार्थयते-- समृद्धं सौभाग्यं सकलवसुधायाः किमपि त- न्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु ।। १ ।। समृद्धमिति । भो गङ्गे, ते तव । युष्मदः षष्ठ्येकवचनविशि- ष्टस्य 'तेमयावेकवचनस्ये'ति ते आदेश: 'युष्मदर्थश्च' संबोध्यः । युष्मदः संबोध्य स्वतन्त्र: कर्ता अस्मदो वाच्यः इत्यभियुक्तो- क्तेरित्याद्यन्यत्र विस्तरः । तत्सलिलम् सलति भक्तजनपापादि- नाशाय गच्छतीति सलिलं जलम् । 'षल गतौ' 'सलिकली'त्यु- णादिसूत्रेण लच् । 'सलिलं कमलं जल'मित्यमरः । एवंचाशिव- शमनप्रार्थनं युक्तमिति भावः । नः अस्माकमशिवं अकल्याणम् शमयतु नाशयतु । प्रार्थनायां लोट् । तत्किम् । यत्सलिलं सकलव- सुधायाः सकला चासौ वसुधा च सोर्वी तस्याः 'वसुधोर्वी वसुंधरे- त्यमरः । यद्वा कलाभिः सहिता सकला वसु धनं धत्ते इति व- सुधा सकला चासौ वसुधा च तस्याः किमपि अनिर्वचनीय- ममौल्यं वा समृद्धं बहु सौभाग्यं शोभादायकं अतिचतुरायाः सधनाया अपि पृथिव्याः गङ्गासलिलं विना न शोभेति, लोके- ऽपि अतिचतुरायास्ताटङ्कनूपुराद्यलंकारसहिताया अपि प्रमदा- याः कुङ्कुमकृष्णमणिभिर्विना न शोभा भवतीत्यापामरप्रसिद्धम् । पुनस्तत्किम् । यत् लीलाजनितजगतः लीलया विलासेन नतु श्रमेण जनितान्युत्पादितानि जगन्ति चतुर्दश भुवनानि येन सः तस्य खण्डपरशोः खण्डयति रिपून् हिनस्तीति खण्डः तादृशः परशुः शस्त्रविशेषो यस्य भूतेशस्य । 'भूतेशः खण्डपरशु'रित्य- मरः । महैश्वर्यं महच्च तदैश्वर्यं च महाविभूतिभूतम् । 'विभूति- र्भूतिरैश्वर्य'मित्यमरः । 'सन्महदि'ति समासे 'आन्महतः'इत्यात्वे वृद्धिः । गङ्गासलिलमात्रसहायेनेश्वरेण विलासादेव चतुर्दश- भुवनानि कृतानीति भावः । लोकेऽपि कश्चन धने सहाये सति लीलया ब्रह्मपुर्यादिकं निर्मातीति प्रसिद्धम् । पुनः तत्किम् । यत् श्रुतीनां श्रूयते धर्मो याभिस्ताः श्रुतयः चत्वारो वेदाः 'श्रुञजी'त्यादिना क्तिन् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । तेषां सर्वस्वं सर्वं च तत्स्वं च सर्वस्वम् । इदमेव वेदानां धन- मिति भावः । यद्वा सर्वं च तत्स्वं च आत्मा । इदं सलिलमेव वेदानामात्मेति भावः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । पुनस्तत्किम् । अथ यत्सुमनसां सु- पर्वणाम् । 'सुपर्वाणः सुमनसः' इत्यमरः । मूर्तं सशरीरं सुकृतं पुण्यम् । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । पु० यत्सुधासौन्दर्यं सुधेवामृतमिव सौन्दर्यं यस्य तत् । अति- शुभ्रमित्यर्थः । मधुरास्वादचिरजीवित्वादितत्कार्यकारीति वा । यद्वा सुधासौदर्यमिति वा पाठः । सुघेति पृथक्पदम् । चन्द्रो मुखमितिवत्सलिलविशेषणम् । पु० सौदर्यं सम्यक्दरी हि- माचलकन्दरं तत्र भवं सौदरं भवार्थेऽणू । सौदरमेव सौदर्य- मिति चातुर्वर्ण्यादित्वात्ष्यञ् । आदौ हिमाचले प्रकाशित- मिति भावः । अथवा सुधायाः सौदर्यं भ्रातृरूपम् 'सोदरा- द्यत्'इति यः । अत्र दरस्मिमिति श्लोकषर्यन्तं शिखरिणीछन्दः । तल्लक्षणं तु 'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी'ति वृत्त- रत्नाकरोक्तम् । 'शिखरिणी य्मौन्सौम्लौगृतुरुद्राः' इति पैङ्गलं च बोध्यम् । ननु छन्दोन्तरं त्यक्त्वानेनैव छन्दसा किमिति वर्ण- नमिति चेदत्रोच्यते–-शिखरिणीछन्दसि जलदेवताकयगण- स्यादौ सत्त्वेन जलस्पर्शरूपाभिमतफलसिद्धिर्भविष्यतीत्याशयेन अशोकवनिकान्यायेन वेति कृतधियो विदांकुर्वन्तु । तदुक्तम्-- 'मो भूमिः श्रियमातनोति य जलं वृद्धी र वह्निर्मृतिं सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् । जः सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नाकः सुखमीप्सितं फलमिदं प्रा- हुर्गणानां बुधाः' इति । किमपितन् इत्येकं पदं वा । किमपि अनिर्वचनीयं मोक्षप्राप्तिरूपफलं तनोति विस्तारयतीति किमपि तन् 'तनु विस्तारे' क्विप् । एतत्पक्षे कथंभूतं जलमिति योज्यम् । अत्र वाचकलुप्तोपमालंकारः । तदुक्तम् 'उपमा यत्र सादृश्य- लक्ष्मीरुल्लसति द्वयोः' इति । समृद्धं सौभाग्यमिति आदौ रूपकं च । रूपकोपमयोः संकरः ॥ १ ॥ इदानीं प्रवाहरूपत्वेन जलं वर्णयन्स्वाभिमतं प्रार्थयते-- दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां द्रुतं दूरीकुर्वन्सकृदुपगतो दृष्टिसरणिम् ॥ अपि [^१]द्रागाविद्याद्रुमदलनदीक्षागुरुरिह प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २ ॥ दरिद्राणामिति । भो गङ्गे,इहास्मिन् लोके ते तव वारां अपां 'आपः स्त्री भूम्नि वार्वारि' इत्यमरः । अयं पुरोवर्ती सन्निकृष्ट इदंशब्दार्थः । तदुक्तम् 'इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीया'दिति । प्रवाहो निर्झरः । 'प्रवाहो निर्झरो झरः' इत्यमरः । नः अस्माकं अपारां अनन्तां श्रियं दिशतु ददातु। 'दिश अतिसर्जने' इति धातोः प्रार्थनायां लोट् । अतिसर्जनं दानम् । किं कुर्वन्सन् । दृष्टिसरणिं नेत्रमार्गम् । 'सरणिः पद्धतिः प’द्येत्यमरः । सकृदपि एकवारमपि गतः सन् प्राप्तः सन् दरिद्राणां रङ्काणां दैन्यं दीनताम् । अथानन्तरं दुर्वासनहृदां दुष्टा वासना यस्य तद्दुर्वा- सनं तादृशं हृत् येषां तेषां । 'स्वान्तं हृन्मानसं मनः' इत्यमरः । दुरितमपि पापमपि । 'अंहोदुरितदुष्कृत'मित्यमरः । द्रुतं शीघ्रं दूरीकुर्वन् । अभूततद्भावे च्विः । 'कुगती'ति समासः । कथंभूतः प्रवाहः । द्रागाविद्याद्रुमदलनदीक्षागुरुः आसमन्तादविद्याः मायाः आविद्याः । अखिला अविद्या इत्यर्थः । मायाबहुत्वे प्रमाणं तु 'इन्द्रो मायाभि'रिति श्रुतौ बहुवचनम् । अतएव तत्त्व- ज्ञानादेकस्य मुक्तौ कृत्स्नमुक्तिप्रसङ्गः स्यात् । मायैक्येन तन्नि- वृत्तौ क्वापि संसाराभावादिति शङ्कालेशोऽपि नेति शंकरभा- ष्यदिग्रन्थेभ्योऽवधेयमिति दिक् । तद्रूपो यो द्रुमः वृक्षः तस्य ------------------------------- [^१] द्रागाविद्यद्रुम इति पाठः । दलनं छेदनं द्रागाविद्याद्रुमदलनं तस्य दीक्षा उपदेशः तस्याः गुरुः बोधकः । अत्रापि दृष्टिसरणिं सकृदपि गतः सन्निति यो- जनीयम् । सकृत्प्रवाहदर्शनेनाविद्या गच्छतीति भावः । 'द्रा- गाविद्यद्रुमे'ति वा पाठः । अत्राऽविद्यायाः इमे आविद्याः ते च ते द्रुमाश्च । शेषं पूर्ववत् ॥ २ ॥ इदानीं तरङ्गरूपत्वेन जलं वर्णयन्नाशिषं प्रयुञ्जते-- [^१] उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी- कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः । भवन्तु त्वङ्गन्तो हरशिरसि [^२]गङ्गातनुभुव- स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३ ॥ उदञ्चदिति । गङ्गातनुभुवः गङ्गायास्तनुः मूर्तिः । 'स्त्रियां मूर्तिस्तनुस्तन्'रित्यमरः । तस्याः भवन्ति ते गङ्गातनुभुवः । भ- वतेः क्किप् 'न भूसुधियो'रिति यण्निषेधादुवङ् । प्रोत्तु्ङ्गाः उन्नताः एतादृशास्तरङ्गा ऊर्मयः । 'भङ्गस्तरङ्ग ऊर्मिर्वे'त्यमरः । भवतां भक्तजनानां दुरितभयभङ्गाय दुरितं च भयं च तयोर्भङ्गाय नाशाय । 'क्रियार्थोपपदे'ति चतुर्थी । भवन्तु । आशिषि लोट् । कथंभूतास्तरङ्गाः । उदञ्जन्मार्तण्डस्फुटकपटहेरम्बजननीकटाक्ष- व्याक्षेपक्षणजनितसंक्षोभनिवहाः । हे शिवे रम्बते शब्दं करो- तीति हेरम्बः लम्बोदरः । 'हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु' इति नानार्थमञ्जरी । 'अबि रबि शब्दे' पचाद्यच्। ’तत्पुरुषे कृती'ति सप्तम्या अलुक् । 'अप्येकदन्तहेरम्बलम्बोदरगजाननाः' ---------------------------------- [^१] मात्सर्यस्फुट इति पाठः । [^२] गाङ्गाः पुनरमी इति पाठ: । इत्यमरः । हेरम्बस्य जननी माता पार्वती तस्याः कटाक्षाः अपाङ्गदर्शनानि । 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । स्फुटं च तत्कपटं च व्याजं च । 'कपटोऽस्त्री व्याजे' त्यमरः । स्फुटकपटेन हेरम्बजननीकटाक्षाः उदञ्जन् उदयं प्राप्नुवन् यो मार्तण्डः अर्कः । 'विकर्तनार्कमार्तण्डे'त्यमरः । उदञ्चन्मार्तण्डवत् स्फुटकपटहेर- म्बजननीकटाक्षाः । अतिरक्ता इत्यर्थः । तेषां व्याक्षेपः विलम्बः । चिरकालपर्यन्तं कटाक्षस्थितिरित्यर्थः । यद्वा व्याक्षेपः संबन्धः तेन क्षणं क्षणपर्यन्तं जनित उत्पादितः तादृशः संक्षोभ- निवहो भयसमूहो येषां ते । पुनः कथंभूताः । अतएव हरशि- रसि स्वाधारभूते महादेवमस्तके त्वङ्गन्तः कम्पन्तः इतस्ततो गच्छन्तो वा । 'त्वगि कम्पने' इत्यस्मात् 'उखउखी’ति दण्डके पठितगमनार्थकत्वादुमयार्थकत्वम् । क्वचित्तु उदञ्चन्मात्सर्येति पाठः । तत्र सापत्न्यभावादुदञ्चन्मात्सर्येणेति व्याख्येयम् ॥ ३ ॥ इदानीं त्वदाश्रयान्मया सर्वे सुरास्तृणप्रायीकृताः, अधुना यदि त्वं मे कार्यकरणे उदासीना भवसि तर्हि अहं केषामग्रे रोदनं करोमीत्याह-- तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः । इदानीमौदास्यं भजसि यदि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४ ॥ तवेति । भो अम्ब जननि, 'अम्बार्थनद्यो'रिति ह्वस्व; । तवालम्बादाश्रयात् स्फुरदलघुगर्वेण स्फुरन्देदीप्यमानः अलघु- र्महान् गर्वोऽहंकारो यस्य तेन मया सर्वे सुरगणाः अवज्ञा- सरणिं अवज्ञाया अवहेलनस्य सरणिस्तां सहसा अविचारेण नीताः प्रापिताः । अत्र 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्म- णा’मिति भाष्योक्तेः सुरगणरूपे प्रधानकर्मणि क्तः । अतएवा- भिहितत्वात्तत्र प्रथमेति दिक् । भो भागीरथि भगीरथस्येयं भागीरथी तत्संबोधनम् । 'तस्येद'मित्याणि 'टिढ्ढाणे’ति ङीप् । इदानीमुद्धारसमये यदि औदास्यं उदासीनत्वम् । उद्धारानुकूल- व्यापारशून्यत्वमित्यर्थः । भजसि अङ्गीकरोषि, तदा तर्हि निराधारः निर्गत आधारो यस्य सः एतादृशोऽहं इह लोके केषां पुरः अग्रे रोदिमि रोदनं करोमि । हा इति खेदे कष्टे वा । इति त्वं कथय वद । 'रुदिर् अश्रुविमोचने' 'रुदादिभ्यः सार्व- धातुके' इतीट् । देवानामवहेलनात्तैस्त्यक्तः, त्वमपि अस्मिन्स- मये यदि त्यजसि तर्हि मे का गतिरिति त्वमेव कथयेति भावः ॥ ४ ॥ पुनरपि प्रवाहरूपं स्मरन्पापहरणं प्रार्थयते-- स्मृतिं याता पुंसामकृतसुकृतानामपि च या हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः । इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला ममान्तःसंतापं त्रिविधमपि पापं च हरताम् ॥ ५ ॥ स्मृतिमिति । हे गङ्गे, तव प्रवाहरूपा मूर्तिः अकृतसुकृ- तानां अतीताद्यतनजन्मसु कृतपातकानां पुरुषाणामपि स्मृतिं स्मरणं याता प्राप्ता सती चन्द्रांशुसरणिः चन्द्रस्यंशवः कि- रणाः तेषां सरणिः पङ्क्ति‘ । 'सरणिः पद्धति' रित्यमरः । तिमिरं अन्धकारं यथा तथा अन्तस्तन्द्रां अन्तःकरणाज्ञानालस्यं नाश- यति । यथा चन्द्रोदयेन तमो नश्यति तथा तव स्मरणेन महा- पातकिनां तत्सदृशानां पातकं नश्यति । पुनः किंभूता मूर्तिः । सकलसुरसंसेव्यसलिला सकलाः सुरा देवाः तैः संसेवनीयजला एतादृशी ते मूर्ति: ममान्तःसंतापं अन्तःकरणस्थं त्रिविधं कायिकवाचिकमानसिकरूपं पापं च तत्कृतं संतापमाधिभूता- ध्यात्माधिदैवं वा हरताम् । तथा जाते जन्ममरणकष्टान्मुक्त: स्यामिति भावः ॥ ५॥ इदानीं राज्यत्यागपूर्वकं त्वत्तीरवासिनां त्वदम्भ:पानेन जायमान आनन्दः ततो न्यूनसुखं मोक्षमुपहसतीत्याह-- अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि तीरं श्रितवताम् । सुधातः स्वादीयःसलिलभरमातृप्ति पिबतां जनानामानन्दः परिहसति निर्वाणपदवीम् ॥ ६ ॥ अपीति । भो जननि, प्राज्यमपि प्रभूतमपि । 'प्रचुरं प्राज्य' मित्यमरः । समुद्रान्तमपीत्यर्थः । एतादृशं राज्यं राज्ञः कर्म । पुरोहितादित्वाद्यक् । प्रजापालनात्मकं सहसा तृणमिव । परित्य- ज्य । अनेन लोभाभावः सूचितः । विलोलद्वानीरं विलोलन्तः वायुना चञ्चलाः वानीराः वेतसवृक्षाः यस्मिन् तत् । वेतस- पर्याये 'रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः' इत्यमरो । अनेन ‘ छायानिबिडत्वं सूचितम् । एतादृशं तव तीरं । 'कूलं रोधश्च तीरं चे'त्यमरः । श्रितवतां सेवतां सुधातः अमृतात् । पञ्चम्यन्ता- त्तसिल् । स्वादीयःसलिलभरम् । अतिशयेन स्वादुः स्वादीयान् । अतिशायने ईयसुन् । स चासौ सलिलभश्च तं आतृप्ति तृप्ति- पर्यन्तम् । 'पञ्चम्यपाङ्परिभि'रिति समासः । पिबतां पानं कुर्वताम् । पाधातोः शतरि 'पाघ्रे'ति पिबादेशः । एतादृशानां ज- नानामानन्दः निर्वाणपदवीं निर्वाणस्य कैवल्यस्य पदवीं मार्गम् । 'मुक्तिः कैवल्यनिर्वाण'मित्यमरः । परिहसति उपहसति ॥ ६ ॥ इदानीं साक्षात्स्वयं स्नानमकुर्वतामपि त्वयि अन्यसंबन्धि- त्वेन स्वावयवपतने तेषामप्युत्तमलोकप्राप्तौ सांक्षात्स्नानिनां किं वक्तव्यमित्याह-- प्रभाते स्नान्तीनां नृपतिरमणीनां कुचतटी- गतो यावन्मातर्मिलति तव तोयैर्मृगमदः । मृगास्तावद्वैमानिकशतसहस्त्रैः परिवृता विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७॥ प्रभात इति । भो मातः । प्रभाते उषसि । 'प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि । प्रभातं चे' त्यमरः । स्नान्तीनामर्था- त्तव जले स्नानं कुर्वतीनां नृपतिरमणीनां राजसुन्दरीणाम् । ब्रा- ह्मणादिस्त्रीणां दारिद्र्यबाहुल्यान्मृगमदो न मिलतीत्युक्तं नृप- तिरमणीनामिति । तासां तु संपत्तिबाहुल्यात्स सुलभ इति भावः । कुचतटीगतः कुचानां तट्य: प्रान्ताः तासु गतः विद्यमानः । तटशब्दाज्जातिलक्षणो ङीप् । 'तटं त्रिषु' इति कोशात् स्त्रियामपि तटशब्दः । रात्रौ रतिसमये लापितः अतः एव स्थित इत्यर्थः । एतादृशो मृगमद: कस्तूरी । 'मृगनाभिर्मृ- गमदः कस्तूरी चे'त्यमरः । तव तोयैरम्भोभिः । 'सहयुक्ते' इति तृतीया । 'अम्भोऽर्णस्तोयपानीय'मित्यमरः । यावद्यस्मिन्नेव काले मिलति संबद्धो भवति तावत्तस्मिन्नेव काले मृगाः मृग- यन्ति उदरपोषणाय तृणादिकमन्वेषयन्ति ते मृगाः हरिणाः । 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । विमलवपुषः विमलं मलरहितं वपुर्येषां ते एतादृशाः सन्तो नन्दनवनं नन्द- यतीति नन्दनम् । नन्द्यादित्वाल्लयु: । तच्च तद्वनं च इन्द्रोद्यानं नन्दनवनम् । 'अस्योद्यान' मित्यमरः । स्वच्छन्दं यथा स्यात्तथा विशन्ति । गच्छन्तीत्यर्थः । क्वचित्तु 'विमलमतय' इति पाठः । कथंभूता मृगाः । वैमानिकशतसहस्रैः विमानैश्चरन्ति गच्छ- न्तीति वैमानिका देवाः । 'चरती'ति ठक् । तेषां शतानि शतानां सहस्राणि तैः परिवृता वेष्टिताः ॥ ७ ॥ इदानीं स्मरणोच्चारणाभ्यां क्रमेण मनःशान्ति-पाप-संसार- ताप-नाशजनकं गङ्गेति पदं मरणसमये मन्मुखेऽस्त्वित्याह-- स्मृतं सद्यः स्वान्तं [^१]विरचयति शान्तं सकृदपि प्रगीतं यत्पापं झटिति भवतापं च हरति । इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥ ८ ॥ स्मृतमिति । भो भागीरथि, तत् गङ्गेति पदं सुबन्तं मम --------------------------------------- [^१] सुखयति नितान्तं इति पाठः । जगन्नाथस्य प्राणप्रान्तः प्राणानामसूनां । 'पुंसि भूम्य्रसवः प्राणाः' इत्यमरः । अन्तः समाप्तौ । अन्तःशब्दोऽधिकरणप्रधानमव्ययम् । प्राणोत्क्रमणसमय इत्यर्थः । वदनकमलान्तः वदनमेव कमल- मिति मयूरव्यंसकादित्वात्समासः । वदनं कमलमिवेत्युपमित- समासो वा । तस्यान्तर्मध्ये विलसतु शोभतु । खलु निश्चयेन । प्राणोत्क्रमणसमये गङ्गागङ्गेत्युच्चारणं भवतु । कफवातपित्तैः क- ण्ठावरोधनं मास्त्विति भावः । तत् कियत् गङ्गेति पदं सकृदपि एकवारमपि स्मृतं सत् चिन्तितं सत् स्वान्तं मनः शान्तं इन्द्रि- यनिग्रहक्षमं द्वेषलोभादिरहितं वा विरचयति करोति । शान्तं सुखयुक्तं वा । शान्तशब्दादर्शआद्याच् । 'शर्मशातसुखानि चे’- त्यमरः । 'रच प्रतियत्ने' चुरादिः । पुनस्तत्किम् । यत्सकृदपि प्रगीतं सत् प्रकर्षेण गीतं उच्चारितं सत् पापं च, पुनः भवतापं भवस्य संसारस्य तापं च हरति नाशयति । पुनः किम् । श्रवण- रमणीयं श्रवणयोः रमणीयं सुखजनकम् । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । यद्वा श्रवणाय श्रवणं कर्तुं रमणीयं सुन्दरम् । 'चतुर्थी'ति योगविभागात्समासः । गङ्गा- शब्दार्थस्तु गां पृथ्वीं स्वर्लोकादागता गङ्गा 'गनाम्यघो'- रित्यौणादिको गन्प्रत्ययः । तदुक्तं ब्रह्माण्डपुराणे--'तिस्रो नद्यो महापुण्या वेणा गोदा च जाह्नवी । गां हरीशाङ्घ्रिकात्प्राप्ता गङ्गेतीह प्रकीर्तिते'ति । हरेः पादाच्छम्भोर्मस्तकाच्च गां प्राप्तेति तदर्थः । यद्वा गम्यते सोपानभूतया यया स्वर्गः सा गङ्गा । तदुक्तमाचार्यै: 'स्वर्गसोपानसङ्गे’इति । यास्केनापि निरुक्ते गम- नाद्गङ्गे'ति सामान्यत एवोक्तमिति दिक् ॥ ८ ॥ इदानीं करटानामपि इन्द्रोद्यानापेक्षया प्रियतरं तव तीरं मम श्रमनाशनसमर्थमस्त्विति प्रार्थयते-- यदन्तः खेलन्तो बहुलतरसंतोषभरिता न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः । निवासाल्लोकानां जनिमरणशोकापहरणं तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥९॥ यदिति । भो भागीरथि, ते तव तत् एतत् समीपवर्ति तीरं नः अस्माकं श्रमशमनधीरं श्रमस्य शमनं तत्र धीरं समर्थं पण्डितं वा । 'धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कवि'- रित्यमरः । भवतु अस्तु । तत्किम् । यदन्तः यस्य तीरस्यान्तः मध्ये खेलन्तः क्रीडन्तः काकाः करटाः । 'काके तु करटारिष्टे'- त्यमरः । बहुलतरसंतोषभरिताः सन्तः अतिशयेन बहुलः बहुल- तरः । अतिशायने तरप् । बहुलतरश्चासौ संतोषश्च तेन भरिताः पूर्णाः एतादृशः सन्तः नाकाधीश्वरनगरसाकाङ्क्षमनसः नाकस्य स्वर्गस्य । 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः'इत्यमरः । अ- धीश्वरः पतिः इन्द्रः तस्य नगरं अमरावती तत्र साकाङ्क्षं साभिलाषं मनो येषां ते एतादृशा न भवन्तीति शेषः । अमरावत्यपेक्षया तीरे अधिकगुणसत्त्वादित्यर्थः । तदेवाह । कथंभूतं तीरम् । निवासाद्धेतोः । 'विभाषा गुणे स्त्रिया'मिति हेतौ पञ्चमी । लो- कानां जनिमरणशोकापहरणं जनिरुत्पत्तिः । 'जनिरुत्पत्तिरु- द्भवः'इत्यमरः । मरणं निधनम् । 'मरणं निधनोऽस्त्रिया’मित्यमरः । शोकः पुत्रकलत्रादिवियोगजनितमनोविकृतिरूपः । त्रयाणां द्वन्द्वः । एषामपहरणं नाशकम् । अमरावत्यां तु 'क्षीणे पुण्ये मृत्युलोकं विशन्ती'ति पुनरपि भूलोकप्राप्तिरूपानिष्टमप्यस्तीति भावः । कदाचित् विमानस्थेनेन्द्रेण गङ्गातीरे खेलतः काका- न्दृष्ट्वा युष्माभिः क्रीडार्थं मद्वने आगन्तव्यमित्युक्ते अत्रैव वयं निवसामः न तव वने आगमिष्याम इति तैरुक्तमिति स्पष्टं गङ्गापुराणे ॥ ९ ॥ ननु सर्वोत्कृष्टं वेदाद्यगोचरं परं ब्रह्म विहाय स्वाभिमतफ- लावाप्तये मामेव किं स्तौषीति चेत्तादृशं ब्रह्म तत्त्वमेव नेतर- विषय इत्याह-- न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं न यस्मिञ्जीवानां प्रसरति मनोवागवसरः । निराकारं नित्यं निजमहिमनिर्वासिततमो विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥ १०॥ न यदिति । भो सुरतटिनि, सुराणां देवानां तटिनी धुनी तत्संबोधनम् । 'तटिनी ह्वादिनी धुनी'त्यमरः । तद्वक्ष्य- माणविशिष्टत्वं निखिलजगत्कारणत्वेन प्रसिद्धं ब्रह्मत्वम् । सर्वं वाक्यं सावधारणमितिन्यायात्त्वमेवेत्यर्थः । असीति शेषः । न विषयः । त्वमितरविषयभूता नासीत्यर्थः । तत्किम् । यत् ब्रह्म गलितभेदैः गलितः गतः भेदो येभ्यस्ते गलितभेदाः तैरद्वै- तप्रतिपादकै: 'नेह नानास्ति किंचने’त्यादि ब्रह्मरूपैः साक्षाद्वे- दैरपि प्रत्यक्षश्रुतिमिरपि न अवसितम् । इयत्तया न निश्चितमि- त्यर्थः । 'षोऽन्तकर्मणी'ति धातोः'द्यतिस्यती'तीत्वम् । उपसर्ग- वशादुक्तार्थलाभः । तदुक्तम्-'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इति । ननु 'नेह नानास्ति' इत्यादिश्रुतिभिः इतराभाव- बोधनेऽपि स्वाभावाबोधेन कथमद्वैतसिद्धिरितिचेन्न । स्वस्मि- न्नपि स्वप्रवृत्त्या स्वाभावस्थापि बोधनात् । अतएव 'ससजुषो रु:' 'खरवसानयोर्विसर्जनीयः' इत्यादिनिर्देशाः संगच्छन्त इति दिक् । वेदानामप्यगोचरमित्युक्तत्वादिति भावः । पुनः कथंभूतम् । यस्मिन्ब्रह्मणि जीवानां व्यासादिविद्वत्प्राणिनां मनोवागवसरः मनश्च वाक् च अनयोः समाहारः मनो- वाक् । 'द्वन्द्वश्च प्राणी'त्येकवद्भावः । मनोवाचोः अवसरः व्यापार इति यावत् । न प्रसरति । न प्रसरणशीलो भवती- त्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे'तिश्रुते- रिति भावः । ननु मनोवागित्यत्र 'द्वन्दश्च प्राणी'ति नियमा- न्नित्यसमाहारे 'द्वन्द्वाच्चुदषहान्ता'दिति टचा भाव्यम् । तथा- चोक्तप्रयोगासंगतिरितिचेन्न । समासान्तविधेरनित्यत्वात् । अत्र प्रमाणं तु अश्वादिगणे राजन्शब्दपाठ इति दिक् । मनः- शब्दस्य प्राण्यङ्गत्वाभावेन शङ्कैव नेति वा । पुनः कथंभूतम् । निराकारं निर्गतः आकारो यस्य तत् । अशरीरमित्यर्थः । 'अपा- णिपाद'इत्यादिश्रुतेः । पुनः कथंभूतम् । नित्यं निरन्तरं भवं नित्यम् । अव्ययात्त्यप् । उत्पत्त्यादिशून्यमित्यर्थः । 'न जायते म्रियते' इत्यादिस्मृतेरित्यर्थः । पुनः कथंभूतम् । निजमहिमनि- र्वासिततमः निजमहिम्ना स्वमाहात्म्येन निर्वासितं नाशितं तमो येन तत् । स्वप्रकाशमित्यर्थः । 'यस्य भासा सर्वमिदं वि- भाति' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकमि'त्यादिश्रुतिस्मृतिभ्यामित्यर्थः । पुनः कथंभूतम् । विशुद्धं मायामलरहितम् । नारायणतीर्थ- सरस्वतीभिरपि गङ्गैवाद्वितीयं ब्रह्मेत्युक्तम् । 'न नानेहास्तीति श्रुतिवचनजातैर्भगवती निरस्यैवाभासि स्वयमखिलभेदं सुरधुनि । चिदात्मैका नित्या चितिसुखसदाविष्कृतिरसि त्वदीयं मोक्षार्थं श्रयति जनता जीवनपद'मिति । अत्र शिष्यबुद्धिवैशद्याय किं- चिदुच्यते--वेदोनाम ब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यम् । स च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा नाम अनुष्ठानकारकभूतद्रव्य- देवताप्रकाशकाः । ते च ऋग्यजुःसामभेदात्त्रिधा । पादबन्धगा- यत्र्यादिछन्दोविशिष्टा ऋचः अग्रिमीळ इत्यादयः । गीतिवि- शिष्टास्ता एव सामानि । उभयविलक्षणानि यजूंषि । ब्राह्मण- मपि त्रिविधं विधिरूपं अनुवादरूपं उभयविलक्षणं चेति मीमां- साग्रन्थेभ्योऽवधेयम् । इह विस्तरभयान्न तन्यत इति दिक् ॥ १० ॥ इदानीं निखिललोकानां साधारण्येनात्यन्तदुष्प्रापविष्णु- पददात्री त्वं न केनापि तुलनीयेत्याह-- महादानैर्ध्यानैर्बहुविधवितानैरपि च यन् न लभ्यं घोराभिः सुविमलतपोराशिभिरपि । अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया ददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११॥ महादानैरिति । भो भागीरथि, अखिलसाधारणतया अ- खिलानां सर्वलोकानां साधारणता साधारण्यं नतु न्यूनाधि- क्यम् तथा । विष्णोर्नारायणस्य । 'विष्णुर्नारायणः कृष्णः’ इत्यमरः । पदं चरणं वैकुण्ठस्य स्थानं वा । यद्वा विष्णो: पदं वस्तु । विष्णुरूपवस्त्वित्यर्थः । अस्मिन्पक्षे राहोः शिर इतिवत्षष्ठी । तथाच कोशः 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वि’ति। ददाना दात्री । 'न लोके'ति षष्ठीनिषेधात्पदमिति द्वितीया । एतादृशी त्वं इह लोके केन तुलनीया उपमेयासीति नः अ- स्मान् । कथय वद । तादृशस्य कस्याप्यभावान्न केनाप्युपमेया- सीति भावः । यद्वा केन ब्रह्मणा तुलनीयासि । अपितु नेत्यर्थः । ब्रह्मणोऽपि तादृशसामर्थ्याभावादिति भावः । 'तुल निष्कर्ष' इति धातोरनीयर् । शिष्णुरूपं वस्त्विति पक्षे सारूप्यमुक्ति: प्रतीयते । तदुक्तं श्रीमच्छंकराचार्यै: 'त्वन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः', 'नारायणं वा शिवं' इति वेति । तत्किम् । यदिष्णुपदं महादानैः गजाश्वशिबिकातुलादिरूपैः । ध्यानैः चित्तैकग्र्यतया चिन्तनैः । अपिच बहुविधवितानैरपि च बहुविधा अनेकप्रकारा ये वितानाः क्रतवः । ’क्रतुविस्तारयो- रस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । बहुविधा ये विताना उल्लो- चास्तैः । 'अस्त्री वितानमुल्लोच'इत्यमरः । घोराभिः भयंकराभिः परमकष्टसाध्याभिर्वा । सुविमलतपोराशिभिरपि सुविमलानि नि- र्मलानि नतु मारणोच्चाटनवशीकरणजनकानि तादृशानि यानि तपांसि तेषां राशयः समूहाः तैरपि न लभ्यं न प्राप्यम् । अर्हार्थकलभधातोः 'पोरदुपधा'दिति यत् । पुनस्तत्किम् । अचिन्त्यं चिन्तानर्हम् । वागगोचरमिति भावः ॥ ११ ॥ इदानीं दर्शनमात्रेण नृणां संसारभयहन्त्रीं त्वां शिवः पार्व- त्यनुरोधत्यागपूर्वकं निरन्तरं शिरसि बिभर्तीेत्याह-- नृणामीक्षामात्रादपि परिहरन्त्या भवभयं शिवायास्ते मूर्तेः क इह महिमानं निगदतु । [^१]अमर्षम्लानायाः परममनुरोधं गिरिभुवो विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥ नृणामिति । भो भागीरथ, ते तव मूर्तेः तनोः महिमानं परमदुर्घटकार्यकर्तृत्वरूपं माहात्म्यं इह लोके कः निगद्तु वदतु । अपितु न कोऽपीत्यर्थः । माहात्म्यबाहुल्येन कस्यापि वाणी- प्रसराभावादिति भावः । कथंभूताया मूर्तेः । ईक्षामात्रादपि ईक्षैव ईक्षामात्रमिति मयूरव्यंसकादित्वात्समासः । 'मात्रं का- र्त्स्त्र्येऽवधारणे' इति कोशादवधारणं मात्रशब्दार्थः । तस्मादपि नृणाम् । 'नृचे'त्यस्य वैकल्पिकत्वाद्दीर्घाभावः । भवभयं भवात्सं- साराद्भयं हरन्त्याः । तदुक्तम् 'गङ्गे त्वद्दर्शनान्मृक्त्तिर्न जाने स्न्ननजं फल'मिति । पुनः कथंभूतायाः । शिवायाः शिवयतीति शिवा । ’तत्करोती'ति ण्यन्तात्पचाद्यचि टाप्। तस्याः । यद्वा शिवं कल्याणं अस्ति यस्या: सा तस्या:। यद्वा शिवो महादेवो भर्तृ- त्वेन अस्त्यस्या इति, शिवो मोक्षोऽस्त्यस्या इति पक्षचतुष्टयेऽपि अर्शआद्यच् । 'शिवो मोक्षे महादेवे सुखे क्षेमे जले शिव’मिति शाश्वत: । श्रीकण्ठ: कपर्दी । उग्र: कपर्दी श्रीकण्ठ:’ इत्यमरः । अमर्षम्लानाया: अमर्षेन कोपेन। कोपक्रोधामर्षरोष' इत्यमरः । म्लाना ग्लाना तस्याः एतादृशः गिरिभुवः गिरेर्हिमाचलात् भवतीति गिरिभू: पार्वती। क्विप् । तस्याः परममुतत्कृष्टं अनुरोधं ---------------------------- [^१] ग्लानाया इति पाठ: । अनुसरणं विहाय त्यक्त्वा यां गङ्गां शिरसि नियतं निरन्तरं यथा स्यात्तथा धारयति बिभर्ति । स्वार्थे णिच् । सपत्नीभूतगङ्गाया मस्तकधारणेन जातकोपाया अपि पार्वत्याः सान्त्वनादिकं वि- हाय अधिकगुणवतीं त्वामेव शिरसि बिभर्तीति भावः । लोकेऽपि सर्वत्राधिकगुणवतो हीरकस्य मस्तकधारणं प्रसिद्धमेव ॥ १२ ॥ इदानीमुन्मत्तादिभिरपि विनिन्द्यानि परिहार्याणि अवाच्यानि यानि पापानि तन्नाशिनी त्वमेवेत्याह-- विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै- रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३ ॥ विनिन्द्यानीति । भो गङ्गे, उन्मत्तैरविचारकारिभिः वि- शेषेण निन्द्यानि निन्दितुं योग्यानि । अपिच पतितैरप्रायश्चि- त्तादिभिः परिहार्याणि त्याज्यानि । व्रात्यैः गर्भाधानादिसं- स्कारहीनैः । 'व्रात्यः संस्कारहीनः स्यादि'त्यमरः । अवाच्यानि वक्तुमयोग्यानि । पिशुनैः कर्णेजपैः । 'कर्णेजपः सूचकः स्या- त्पिशुनो दुर्जनः खलः' इत्यमरः । सपुलकं सरोमाञ्चं यथा स्यात्तथा अपास्यानि त्याज्यानि । एतादृशानि कियतां किं परिमाणमेषां ते कियन्तः तेषाम् । 'किम; संख्यापरिमाणे डतिचे'ति वतुप् । 'किमिदंभ्यां वो घः' । बहूनामित्यर्थः । लोकानां एनांसि यन्त्यधो एभिस्तानि, यन्ति गच्छन्ति प्राय- श्चित्तादिना वा तानि एनांसि कलुषाणि । 'इण आगसी'- त्यसुन् । 'कलुषं वृजिनैनोघमि'त्यमरः । हरन्ती नाशयन्ती एका सती कदापि कस्मिन्नपि काले अश्रान्ताऽखिन्ना एतादृशी त्वं जगति विश्वस्मिन् विजयसे सर्वोत्कर्षेण वर्तसे । लोके क- श्चन कदाचित् एवं कार्यं यदि करोति तदा श्रान्तो भवति । बहुभिर्वा एकं महत्कार्यं कृतं चेत् सर्वेऽपि श्रान्ता भवन्ति । त्वं तु असहायाऽद्वितीया सर्वेषां पापानि निरन्तरं हरन्त्यपि न श्रान्तेति ममापि पापं दूरीकरिष्यस्येवेति भावः ॥ १३ ॥ इदानीं तव गुणानामेवायं दोषः यत्पृथिवीतले शोकनाशाय स्वर्लोकात्पतन्त्यास्तव निर्लोभोऽपि शिवः कपर्दस्थापनमिषेण प्रतिग्रहं चकारेत्याह-- स्खलन्ती स्वर्लोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ॥ १४ ॥ स्खलन्तीति । भो भागीरथि, अवनितलशोकापहृतये अवन्याः पृथिव्याः तलं स्वरूपम् । 'अधःस्वरूपयोरस्त्री तलमि'- त्यमरः । तत्र यः शोकः तस्यापहृतिर्नाशः तस्यै । अपहृतिं कर्तु- मित्यर्थः । स्वर्लोकात् स्खलन्ती पतन्ती त्वं पुरभिदा शिवेन जटाजूटग्रन्थौ जटाजूटस्थ कपर्दस्य ग्रन्थिस्तत्र यत् विनिबद्धा विशेषेण निरन्तरं बद्धासि । उपसर्गद्वयं कदापि अन्यत्र गमना- भावं बोधयति । अये जननि, निर्लोभानामपि निर्गतः लोभो येषां तेषामपि मनसि चित्ते लोभं इच्छां जनयतां कुर्वतां तव गुणानामेव दयादाक्षिण्यादीनामेवायं दोषः परिणतः प्रसृतः । निर्लोभतया कदाप्यप्रतिग्रहकर्ता शिवः तव गुणलोभवशेनैव अपूर्वं प्रतिग्रहं चकारेति भावः ॥ १४ ॥ इदानीं सर्वेषां रक्षणक्षमं परमौषधं त्वमसीत्याह-- जडानन्धान्पङ्गून्प्रकृतिबधिरानुक्तिविकलान् ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् । निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५ ॥ जडानिति । भो अम्ब, इह कलौ जडान् अज्ञान् । क्रियासु मन्दानित्यर्थः । 'जडोऽज्ञः' इत्यमरः । अन्धान् चक्षुरिन्द्रिय- हीनान् । पङ्गून्पादगतिहीनान् । प्रकृतिबधिरान् प्रकृत्या स्वभा- वेन बधिरान् श्रोत्रेन्द्रियहीनान् । शब्दश्रवणासमर्थानित्यर्थः । उक्तिविकलान् उक्तिभिर्वचनैर्विकला हीनाः तान् । 'पूर्वसदृशे'ति समासः । 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः । वचधातो: क्तिनि 'वचिस्वपी'ति संप्रसारणम् । ग्रहग्रस्तान् ग्रहैरादित्यादिनवग्रहैर्ग्रस्ता: कवलिताः । कृतपीडा इति यावत् । तदुक्तं ज्योतिःशास्त्रे--'स्वर्क्षाच्चन्द्रखलास्त्रिखारिषु शुभा: सप्ता- द्यगोऽब्जः पुनश्चापुत्राव्द्ययधर्ममृत्युषु कविः स्वास्तत्रिकोणे गुरुः । सौम्यो व्यन्त्यसमेऽखिला भवगताः शुक्ले नवेषुद्विगश्चन्द्रोऽथो निजभाद्द्युभं नवहृतं त्र्यद्रीषुशेषं न सत् ॥’ इति । अस्ताखि- लदुरितनिस्तारसरणीन् । अखिलानि च तानि दुरितानि च पापानि तेषां निस्तारणं नाशानं तस्य सरणिः प्रायश्चित्ताद्याचरण- मार्गः अस्ताऽविद्यमाना अखिलदुरितनिस्तारसरणिर्येषां तान् । पापबाहुल्येनाविद्यमानप्रायश्चित्तादीनित्यर्थः । निलिम्पैर्देवैः । 'अनुपसर्गाल्लिम्पे'ति सूत्रस्थेन 'नौलिम्पेः संज्ञाया' मितिवार्तिकेन शः । मुक्तान् स्वहस्तेन परित्राणाभावात् । अपिच निरयान्तः निर- यस्य नरकस्य अन्तः मध्ये । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रिया'मित्यमरः । निपततः नितरां पतन्ति ते निपतन्तः तान् एतादृशान् नरान् मनुष्यान् त्रातुं त्वं परमं उत्कृष्टं भेषजं औषधमसि । 'भेषजौषधभैषज्यानि इत्यमरः । एवंच सर्वभेषजं त्वं सर्वान्तर्गतस्य ममापि भेषजं भविष्यस्येवेति भावः ॥ १५ ॥ इदानीं कपिलमुनिनिर्दग्धाः सगरजाः सगरपुत्राः त्वत्संबन्ध- वशात् स्वर्गे दिव्यदेहधारिणः अद्यापि तव महिमानं अहो धन्या जाह्नवी निधनं गता अपि वयं यत्सङ्गवशादीदृशा जाता इत्याकारकं गायन्तीत्याह-- स्वभावस्वच्छानां सहजशिशिराणामयमपा- मपारस्ते मातर्जयति महिमा कोऽपि जगति । मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥ स्वभावेति । भो मातः, स्वभावस्वच्छानां स्वभावेन निसर्गेण नतु कृत्रिमेण । 'स्वरूपं च स्वभावश्च निसर्गः' इत्यमरः । स्वच्छानां निर्मलानां सहजमनायासेन मणिकाद्यसंक्षेपेण शिशि- राणां शीतलानाम् । उक्तंच कालिदासेन 'शैत्यं हि यत्सा प्रकृ- तिर्जलस्य' इति । एतादृशीनां ते आपां वाराम् आप: स्त्री भूम्नि वार्वारि' इत्यमरः । अपारः अमर्यादः अयं कोऽपि विल- क्षणः महिमा माहात्म्यं जगति जयति सर्वोत्कर्षेण वर्तते । सगरजाः सगरराजपुत्राः अनवद्यद्युतिभृतः सन्तः । न अवद्या रर्ह्या अनवद्या स्तुत्या । 'अवद्यपण्य--'इति सूत्रेण गर्हायां अब- द्येति निपातितम् । तादृशी चासौ द्युतिश्च तां विभ्रति ते एता- दृशाः सन्तः । अतएव स्फुटपुलकसान्द्राः सन्तः स्फुटा: प्रकटा ये पुलकाः रोमाञ्चाः तैः सान्द्राः निबिडाः सन्तः महिमानं अद्यापि मुदा प्रीत्या गायन्ति । वदन्तीत्यर्थः । किं कृत्वा । द्यु्तलं दिवस्तलं 'दिव उत्' इत्युत् । 'द्योदिवौ द्वे स्त्रियाम्' इत्यमरः । समासाद्य अधिष्ठित्य । सगरेण हि अश्वमेधकरणाय अश्वो विनिर्मुक्तः । तत्संरक्षणाय स्वपुत्रा नियुक्ताः । स चाश्व; इन्द्रेण चौर्येण पाताले नीतः । सगरपुत्रा अपि तदानयनाय तत्र गताः ते सर्वे कपिलेन निर्दग्धाः पश्चात् भगीरथेन स्वर्गात् गङ्गामानीय पाविता इति स्पष्टं रामायणादौ ॥ १६ ॥ इदानीं स्वल्पपापिनां दोषापनुत्तये त्रिजगति गोदावर्यादीनि बहूनि तीर्थानि सन्ति । अतीतप्रायश्चित्तानां तु दोषहरणे त्वत्सदृशी त्वमेव समर्थत्याह-- [^१] कृतक्षुद्रैनस्कानथ झटिति संतप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरितान् [^२]नरान्दूरीकर्तुं [^३]त्वमिव जननि त्वं विजयसे ॥ १७॥ ------------------------------------------ [^१] क्षुद्राघौघान् इति पाठः । [^२] ऊरीकर्तुं इति पाठस्तत्राङ्गीकर्तुमित्यर्थः । [^३] त्वमिह खलु जागर्षि जगति इति पाठः । कृतेति । भो जननि, कृतक्षुद्रैनस्कान् कृतानि क्षुद्राणि अल्पानि पलाण्डुभक्षणादीनि एनांसि पापानि यैस्ते तान् । 'शेषद्विभाषा'इति कप् । अथ पापाचरणानन्तरं झटिति शीघ्रं संतप्तमनसः संतप्तं पश्चात्तापयुक्तं मनो येषां ते तान् एता- दृशान्नरान् समुद्धर्तुं आचरितपापात् दूरीकर्तु त्रिभुवनतले त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'तद्धितार्थ'इति समा- हारे द्विगुः । पात्रादित्वात्स्त्रीत्वाभावः । तस्य तलं तत्र तीर्थ- निवहाः तीर्थानां गोदावर्यादितीर्थानां निवहाः समूहाः सन्ति वर्तन्ते । भो जननि, प्रायश्चित्तप्रसरणपथातीतचरितान् प्राय- श्चित्तस्य पापनाशनसमर्थधर्मविशेषस्य प्रसरणमाचरणं तस्य पन्था मार्ग: । 'वाटः पन्थाश्च मार्गश्च'इति त्रिकाण्डमण्डनः । 'ऋक्पूरब्धू’--’इति समासान्तोऽप्रत्ययः । प्रायश्चित्तप्रसरणपथान् अतीतं अतीत्य गतं चरितं येषां ते । तानपि बहुकालं बुद्धि- पूर्वकं महत्पापाचरणेनाविद्यमानप्रायश्चित्तानपीत्यर्थः । उक्तं- च मुद्गलाचार्यै:--'सुकृतिन ईषत्पापे प्रायश्चित्तं रघूत्तम प्रोक्तम् । अपयाति मामुदीक्ष्य प्रायस्तदपीह गौरिव व्याघ्रम्'इति । एतादृशानपि नरान् दूरीकर्तुं आचरितपापादुद्धर्तुं त्वमिव त्वत्स- दृशी त्वमेव विजयसे । अत्रोपमानोपमेयत्वं गङ्गाया एव । तत्फलं तु अन्या त्वत्सदृशी नास्तीति । अतएवात्रानन्वया- लंकारः । तदुक्तम् –-'उपमानोपमेयत्वं यदैकस्यैव वस्तुनः । इन्दु- रिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ ’इति । प्रायश्चित्तशब्दः 'प्रायस्य चित्तिचित्तयोः'इति गणपठितसूत्रेण सुटि निष्पन्नः स च रूढ्या योगेन च पापनाशनसमर्थं विशेषधर्ममाचष्टे । प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढ इत्याहुः संप्रदायविदो निबन्धकारादयः । योगस्त्वङ्गिरसा दर्शित:--'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' अस्सार्थ:--अनुष्ठितेन द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासो निश्चयः तेन संयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तमित्यलं विस्तरेण ॥ १७ ॥ इदानीमनेकगुणविशिष्टत्वेन पापहरणक्षमं तव वपुर्मम पापं नाशयत्विति प्रार्थयते-- निधानं धर्माणां किमपि च विधानं नवमुदा प्रधानं तीर्थानाममलपरिधानं त्रिजगतः । समाधानं बुद्धेरथ खलु तिरोधानमधियां श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८॥ निधानमिति । भो जननि, धर्माणां वेदेन प्रयोजनमुद्दिश्य विधीयमानार्थानाम् । तदुक्तं जैमिनिना--'चोदनालक्षणोऽर्थो धर्मः' इति चोदनालक्षणार्था धर्मास्तेषां निधानं स्थानम् । निधीयते स्थाप्यते यस्मिन्निति धाधातोः 'करणाधिकरणयोश्च' इति ल्युट् । च पुनः नवमुदां नवाश्च ता मुदश्च तासां नूतन- हर्षाणां किमपि विधानं जनकम् । गङ्गादर्शनेन विलक्षणा हर्षा जायन्त इत्यनुभवसिद्धम् । 'कर्तृकर्मणोः' इति कर्मणि षष्ठी उभयत्र । च पुनः तीर्थानां प्रधानम् । च पुनः त्रिजगतः त्रयाणां जगतां समाहारां त्रिजगत् तस्य । 'तद्धितार्थ’इति समाहारे द्विगुः । अमलपरिधानं अमलं निर्मलं च तत्परिधानं चामलपरिधानं अधोंशुकम् । 'अन्तरीयोपसंव्यानपरिधाना- न्यधोंशुके'इत्यमरः । यथा लोके कस्यचिद्वसनहीनस्य न शोभा तथा एतद्विना त्रिजगत इत्याकूतम् । च पुनः बुद्धेर्मनीषायाः 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । समा- धानम् । नानादुष्टकल्पनानाशकमित्यर्थः । अथानन्तरं अधियां निर्बुद्धीनां तिरोधानं अपिधानम् । तेषामदृश्यमिति भावः । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अथ श्रियां समृद्धीनामाधानं स्थापकम् । मोक्षादिलक्ष्मीसंपादकमित्यर्थः । एतादृशगुणविशिष्टं तव वपुः शरीरम् । 'गात्रं वपुः संहननं शरीरम्' इत्यमरः । नः अस्माकं तापं परिहरतु ॥ १८ ॥ इदानीं कार्यासक्ततया यस्तव वियोगो जातः अयं ममैवा- पराध इत्याह-- पुरो धावंधावं द्रविणमदिराघूर्णितदृशां महीपानां नानातरुणतरखेदस्य नियतम् । ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९॥ पुर इति । भो मातः, मातृत्वेनावश्यमपराधः सोढव्य इत्या- कूतम् । अयं ममैव । एवो निश्चयार्थः । मन्तुः अपराधः । अस्तीति शेषः । कोऽसावित्याकाङ्क्षायामाह । इहेति । इह लोके तव वियोगः स्नानाद्यसंबन्धः यत् अभूत् अतः कारणात् क्षणमपि क्षणमात्रमपि करुणा दया त्वया मयि कर्तव्येति शेषः । 'कारुण्यं करुणा घृणा' इत्यमरः । अपराधभवने मूलमाह । कथंभूतस्य मम । द्रविणमदिराघूर्णितदृशां द्रविणनेव मदिरा उन्मादकारित्वात्, यद्वा द्रविणं च मदिरा च ताभ्यां घूर्णिते घूर्णनयुक्ते । भ्रमिते इत्यर्थः । तादृश्यौ दृशौ येषां ते । 'दृक् दृष्टी च' इत्यमरः । नाना अनेकेषाम् । अव्ययत्वात् षष्ठ्या लुक् । एता- दृशानां महीपानां महीं पान्ति ते महीपाः राजानः तेषां अग्रे नियतं नियतमेव धावंधावं धावित्वाधावित्वा 'धावु गतिशुध्द्यो:’ इति धातोः 'आमीक्ष्ण्ये णमुल् च' इति णमुलि द्वित्वम् । तरु- णतरखेदस्य अतिशयेन तरुणः तरुणतरः तादृशः खेदः श्रमो यस्य तस्य । यद्वा नानातरुणतरखेदस्येत्येकं पदम् । नाना अने- कविषयः तरुणतरः खेदो यस्य । पुनः कथंभूतस्य । स्वहित- शतहन्तुः स्वस्यैव हितानि पथ्यानि तेषां शतं तस्य हन्ता नाशकः तस्य । अतएव पुनः कथंभूतस्य । जडधियः जडा धीर्यस्य तस्य ॥ १९ ॥ पूर्वं दया विधेयेत्युक्तं, इदानीं किंविषयिणी दयेत्याकाङ्क्षायां तव जलं मम पुनर्भवनमेव दूरीकरोत्विति प्रार्थयते-- मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली- स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि । सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं जलं ते जम्बालं मम जननजालं जरयतु ॥ २०॥ मरुदिति । भो मातः, ते तव जलं मम जगन्नाथस्य जननजालं जननस्य जन्मनः । 'जनुर्जननजन्मानी'त्यमरः । तस्य जालं समूहः तत् । 'जालं समूह आनायः'इत्यमरः । जरयतु नाशयतु । 'जॄ वयोहानौ' स्वार्थणिजन्तः । 'जनी जॄष्--' इति मित्वे 'मितां हस्व' इत्युपधाह्वस्वः। कथंभूतं जलम् । म- रुल्लीलालोलल्लहरिलुलिताम्भोजपटलीस्खलत्पांसुव्रातच्छुरणवि- सरत्कौङ्कुमरुचि । मरुतः वायोः लीला विलासः तेन लोलन्त्य- श्चञ्चला या लहर्यः वीचयः ताभि: लुलितानि लोलानि यानि अम्भोजानि कमलानि तेषां पटली समूहः तस्याः स्खलन्तः पतन्तो ये पांसवः रजांसि तेषां व्रातः समूहः तस्या: छुरणं अङ्गलेपः तेन विसरन्ती प्रसरणशीला तादृशी कौङ्कुमरु- चिर्दीप्तिर्यस्य तत् । कमलरजःपतनेनात्यन्तमारक्तमिति भावः । पुनः कीदृशम् । सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं सुराणां इन्द्रादिदेवानां स्त्रियः इन्द्राण्यादयः तासां वक्षोजाः स्तनाः तेभ्यः क्षरन् पतन् यः अगरुजम्बालः कृष्णचन्दनपङ्कः । 'वंशिकागरुराजार्ह' इत्यमरः । 'निषद्वरस्तु जम्बालः पङ्कोऽस्त्री' इत्यमरः । तेन जटिलं सजटम् । जटाशब्दात्तुदादित्वादिलच् । पुनः कथंभूतम् । जम्बालं: जम्बालः पङ्कः अस्ति यस्मिन् तत् । यद्वा जम्बालः शैवालं अस्ति यस्मिन् । यद्वा जम्बालाः मद- नद्रुमाः । धत्तूरवृक्षा इत्यर्थः । ते सन्त्यस्मिन् तत् । तथाच कोशः 'जम्बालः शैवले पङ्के जगले मदनद्रुमे' इति पक्षत्रयेऽपि जम्बालशब्दान्मत्वर्थीयोऽर्शआद्यच् । मरुल्लीलालोलल्लहरीत्यत्र 'संहितायां 'तोर्ली'ति लः । कौङ्कुमरुच्योः समास कृत्वा‘ पश्चाद्विसरन्तीशब्देन समासे पुंवद्भावः । 'तालव्या अपि दन्याश्चा शम्बशूकरपांशवः' इति द्विरूपकोशात्तालव्योपि पांशुशब्दः २० इदानीमुत्पत्तिस्थाननिवासस्थानव्यापारसौष्ठवेन जगदपेक्षया तवोत्कर्षो वर्तत इत्याह-- समुत्पत्तिः पद्मारमणपदपद्मामलनखा- न्निवास: कर्न्दपप्रतिभटजटाजूटभवने । अथायं [^१]व्यासङ्गो हतपतितनिस्तारणविधौ न कस्मादुत्कर्षस्तव जननि जागर्ति जगति ॥ २१ ॥ समुत्पत्तिरिति । भो जननि, जगतः विश्वस्मात्तवोत्कर्षः आधिक्यं कस्माद्धेतोर्न जागर्तु नास्ताम् । अपितु सर्वस्माद्धेतोरुत्कर्षो वर्तत इत्यर्थः । उत्कर्षप्रतिपादकहेतूनाह--समुत्पत्तिरिति । तव समुत्पत्तिः सम्यगुत्पत्तिः उद्भवः पद्मारमणपदपद्मामलनखात् पद्माया: लक्ष्म्याः 'लक्ष्मीः पद्मालया पद्मा' इत्यमरः । रमणः पतिः विष्णुः तस्य पदं चरणकमलं तस्यामलनखः तस्माद्भवति । 'जनिकर्तुः' इत्यपादानत्वम् । तव निवासस्थितिः कन्दर्पप्रति- भटजटाजूटभवने कन्दर्पस्यानङ्गस्य । 'कन्दर्यो दर्पकोऽनङ्गः इत्यमरः । प्रतिभटः प्रतिपक्षी शिवः तस्य जटाजूटः कपर्दः स एव भवनं गृहं तत्र वर्तत इति शेषः । अथानन्तरं तवायं व्यासङ्गः उद्योगः हतपतितनिस्तारणविधौ हताः शत्रुभिः शस्त्रादिना मारिताः पतिताः प्रायश्चित्तिनः तेषां निस्तारणं उद्धारः तस्य विधिः करणं तत्र वर्तत इति शेषः । 'विधि- र्विधाने दैवे च' इत्यमरः ॥ २१ ॥ ------------------------------------- [^१] ङ्गः पतितजननिस्तार इति पाठः । इदानीं हरशिरसि निवसन्त्याः विष्णुपदोद्भूतायास्तवोप- मेया कापि नदी नास्तीत्याह-- नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । [^१]कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ।। नगेभ्य इति । भो जननि, कविभिः पण्डितैः । 'संख्या- वान्पण्डितः कविः' इत्यमरः । तव तुलालेशः तुलाया उप- माया: लेशः लवः । 'लवलेशकणाणवः' इत्यमरः । यस्यां दीयेत तादृशी का वर्तते । अपितु न कापीत्यर्थः । ननु कृष्णा- दयो बह्व्यो वर्तन्त इतिचेत्तत्राह-नगेभ्य इति । नगेभ्यः पर्वतेभ्यः 'नगोऽप्राणिष्वन्यतरस्या'मिति पाक्षिकत्वान्नञो‘ नलोपाभावः । यान्तीनामागच्छन्तीनां मध्ये 'यश्चच निर्धारणम्' इति षष्ठी । कतमया तटिन्या पुराणां नगराणां संहर्तुर्दाहकस्य शिवस्य कपर्द: जटाजूट: अधिरुरुहे अध्यारूढः । नगेभ्यो यान्तीनां तटिनीनां मध्ये कया वा तटिन्या श्रीभर्तुर्विष्णोः पदकमलं चरणपङ्कजं सलिलै: अक्षालि धौतमिति त्वं कथय । अर्थात् अस्मान्प्रति वद । एवंच तत्कार्यकारणाभावात् काप्युपमेया नेति भावः । इदमेव मनसि निधाय त्वामहं शरणं गत इत्या- कूतम् । अक्षालीत्यत्र 'चिण्भावकर्मणोः' इति कर्मणि चिण् । आदौ पूर्वार्धं योजयित्वा पश्चादुत्तरार्धं योज्यम् ॥ २२ ॥ ---------------------------- [^१] कया च इति पाठः । इदानीमेवं जननि मनोरथदायिनि त्वयि सत्यां ब्रह्मादीनां प्रयोजनमेव नास्तीत्याह-- विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः । कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति भवती ॥ विधत्तामिति । भो जननि, जनयति विश्वं उत्पादयती- ति जननी विश्वमाता तत्संबोधनम् । जगति विश्वस्मिन् कामानां मनोरथानाम् । कर्मणि षष्टी सवित्री उत्पादयित्री यदि जननी विश्वमाता त्वं जागर्ति अस्ति तर्हि विधिः विद- धाति विश्वमिति विधिः ब्रह्मा । 'विधाञो वेध चे’इति वेधा- देशोऽसिप्रत्ययश्च । निरवधिसमाधिं निर्गतः अवधिर्यामादिरूपा मर्यादा यस्य तादृशो यः समाधिः चित्तवृत्तिनिरोधः तं निःशङ्क निर्गता शङ्का यस्मिन्कर्मणि यथा भवति तथा मयि निर्व्यापारे जगदुत्पत्तिः कथं भविष्यतीति शङ्कारहितमि- त्यर्थः । विधत्तां करोतु । हरिः हरति सर्वेषां दुःखमिति 'हरिः । 'अच इः' इत्यौणादिक इः । शेषे सुखं यथा स्यात्तथा शेताम् निद्रां करोतु । सुखमित्यनेन निद्राभङ्गजनकः जग- द्रक्षणरूपोपाधिर्मास्त्विति सूचितम् । हरः हरति विश्वमिति हरः । पचाद्यच् । शिवः अविरतं निरन्तरं यथा स्यात्तथा नृत्यतु नृत्यं करोतु । अविरतमित्यनेन मध्ये कार्यान्तरचित्ततया नृत्यविरामो मास्त्विति सूचितम् । प्रायश्चित्तैः कृतं स्वहस्तेन शुद्धिकरणाभावात्तानि व्यर्थानीति भावः । अथानन्तरं तपो- दानयजनैः तपांसि कृच्छ्रचान्द्रायणादीनि, दानानि गजाश्वा- दीनि, यजनानि देवपूजायागादीनि तैरलम् । तैः साध्यं नास्तीति भावः । गम्यमानक्रियां प्रति कारकत्वात्तृतीया । अहो इत्या- श्चर्ये । अनेकेषां कार्यमेकैव त्वं करोषीत्याश्चचर्यम् ॥ २३ ॥ इदानीं अनाथ इत्यादिविशेषयुक्तोऽहं स्नेहार्द्रामित्यादिवि- शेषणयुक्तां त्वां प्राप्तोस्मि । अतस्त्वं स्वमहत्त्वयोग्यं कुर्वित्याह-- अनाथः स्नेहार्द्रां [^१]विगलितगतिः पुण्यगतिदां पतन्विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् । सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं शिशुः संप्रातस्त्वामहमिह विदध्या; समुचितं ॥ अनाथ इति । भो गङ्गे अयमहं शिशुः श्यति दिनेदिने कृशो भवतीति शिशुः शावकः । 'शः कित्सन्वच्च' इत्यादि- सूत्रेण साधु: । 'पृथुक: शावकः शिशुः' इत्यमरः । मातरं जननीं त्वां प्राप्तोस्मि । इह विषये त्वं समुचितं सम्यगुचितं योग्यं विदध्याः कुरु । शरणागतं बालं मां मातृत्वान्मा त्यजेति भावः । कीदृशोऽहम् । कीदृशीं त्वाम् । अनाथः दीनः । स्वाम्यन्तराभाववानित्यर्थः । स्नेहार्द्रां स्नेहेन प्रीत्या आर्दां क्लिन्नाम् । ’आर्दं सान्द्रं क्लिन्नम्' इत्यमरः । पुनः कीदृशोऽहम् । कीदृशीं त्वाम् । विगलितगतिः विगलिता नष्टा गतिः गमनं यस्य सः । यद्वा विगलिता पापबाहुल्येन नष्टा गतिः पुण्यलोके ------------------------------- [^१] विदलित इति पाठः । गतिः गमनं यस्य सः पुण्यगतिदां पुण्येषु गतिः तां ददाति सा ताम् । यद्वा पुण्येषु पुण्यलोकेषु गतिदाम् । पु० । पतन् पतितः विश्वोद्धत्रीं उद्धारकर्त्रीम् । 'त्रिभुवनविधातुश्च कलहः इतिवत् शेषषष्यठ्या समासः । एवं च विश्वान्तर्गतस्य ममोद्वारं करिष्यस्येवेति भावः । पु० । गदविगलितः गदैः आतङ्कै: । रोगैरित्यर्थः । विगलितः विशेषेण गलितः जर्जरितः । 'यक्ष्मा- न्तकगदाबाधाः शब्दाः पर्यायवाचकाः' इति । सिद्धभिषजं सिद्धौषधदाम् । सिद्धवैद्यरूपामित्यर्थः । 'रोगहार्यगदङ्कारो भिष- ग्वैद्यौ चिकित्सके’ इत्यमरः । पु० । तृष्णाकुलितहृदयः तृष्णया पिपासया आकुलितं व्याप्तं हृदयं यस्य सः । सुधासिन्धुं सुधाया अमृतस्य सिन्धुं समुद्रम् । यद्वा सुधायाः सिन्धुं देशम् । यद्वा सुधायाः सिन्धुं नदीम् । तथाचामरः 'देशे नद- विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इति । अत्र परिकरा- लंकारः । साभिप्रायविशेषणानां सत्वात् । तदुक्तं कुवलया- नन्दे--'अलंकारः परिकरः साभिप्राये विशेषणे' इति ॥ २४ ॥ इदानीं यदारभ्य तव कथा भूलोकमागता तदारभ्य यम- नगरकोलाहलः शान्तः तद्दूता अपि दूरदेशं गताः विमान- सङ्घश्च देववीथीर्विदलयतीत्याह-- विलीनो वै वैवस्वतनगरकोलाहलभरो गता दूता दूरं क्वचिदपि परेतान्मृगयितुम् । विमानानां व्रातो विदलयति वीथीर्दिविषदां कथा ते कल्याणी यदवधि महीमण्डलमगात् ॥ विलीन इति । भो जननि, यदवधि यदारभ्य ते तव कल्याणी कल्याणकारिका कथा महीमण्डलमगात् । 'इणो गा लुङि' इति गादेशे 'गातिस्था--' इति सिचो लुक् । तदारभ्य वैवस्वतनगरकोलाहलभरः वैवस्वतस्यान्तकस्य 'वैवस्वतोऽन्तकः' इत्यमरः । नगरं पुरं तत्र कोलाहलभरः कलकलसमूहः । 'कोलाहलः कलकलः' इत्यमरः । विलीनः विशेषेण लीनः गुप्तः । अभूदिति शेषः । विशेषश्च कस्मिन्नपि काले ईषदपि नास्तीति । पूर्वं तत्र पापिगमनेन तेषां ताडनात् कोलाहलः स्थितः इदानीं तु त्वत्कथाश्रवणमाहात्म्येन पापाभावात्कस्यापि तत्र गमनाभावेन ताडनाद्यभावादिति भावः । दूता अपि अर्थात् यमसंदेशहारका अपि 'स्यात्संदेशहरो दूतः' इत्यमरः । क्वचिद्देशे परेतान् शवान्मृगयितुं अन्वेषितुं दूरं गताः । यस्मि न्देशे त्वत्कथाश्रवणं नास्ति तत्र गता इत्यर्थः । ननु यमनग- रगमनाभावे त्वत्कथाश्रवणिनः क्व गच्छन्तीति चेत्तत्राह-- विमानानां विशिष्टं आनयन्ति ये ते, विगतं मानं वा येषां ते विमाना: व्योमयानानि । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । तेषां व्रातो निकरः । 'स्तोमौघनिकरव्रात' इत्यमरः । दिविषदां दिवि सीदन्ति ते दिविषदो देवाः तेषाम् । 'शद्लृ विशरण- गत्यवसादनेष्वि' ति धातोः 'सत्सूद्विष--’ इति क्विप् 'हृद्युभ्यां च' इति ‘ङेरलुक् सुषामादित्वात्षत्वम् । वीथी: मार्गान् । देवगमन- मार्गानित्यर्थः । विदलयति विशेषेण दलयति विदारयति । त्वत्कथाश्रवणमाहात्म्येन सर्वेषां विमानैर्गमनात वारंवारं विमानसंबाधात् खनितानिव करोतीत्यर्थः ॥ २५ ॥ इदानीं तव जलकणाः कामक्रोधजनितज्वरदग्धशरीरिणा- मस्माकं संतापशमनं कुर्वन्त्विति प्रार्थयते-- स्फुरत्कामक्रोधप्रबलतरसंजातजटिल- ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् । हरन्तां संतापं कमपि मरुदुल्लासलहरि- च्छटाश्चञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६ ॥ स्फुरदिति । दिव्यसरितः दिवि आकाशे भवा दिव्या 'भवार्थे दिगादित्वाद्यत्' सा चासौ सरिच्च तस्याः गङ्गायाः मरुदुल्लासलहरिच्छटाचञ्चत्पाथःकणसरणयः मरुतः वायोरु- ल्लासः संबन्धः गमनं वा । 'लस संश्लेषगमनयोः' इति धातोर्भावे घञ् । तेन या लहर्यः तासां याश्छटाः परम्पराः ताभिश्चञ्चत् उद्दधत् यत्पाथः उदकम् । 'कबन्धमुदकं पाथः' इत्यमरः । तस्य कणा: तुषाराः तेषां सरणयः पङ्क्तय: नः अस्माकं कमपि औषधादिभिरसाध्यतयाऽपहर्तुमशक्यमपि संतापं हरन्तां नाशयन्तु । कथंभूतानां नः । प्रतिदिनं दिनेदिने इति प्रतिदिनं 'अव्ययं विभक्ति--' इति सूत्रे योग्यतावीप्साप- दार्थानतिवृत्तिसादृश्यानीति चत्वारो यथाशब्दार्थाः तत्र वी- प्सायां अव्ययीभावः । स्फुरत्कामक्रोधप्रबलतरसंजातजटिलज्व- रज्वालाजालज्वलितवपुषां । कामोऽभिलाषः । 'कामः पञ्चशरः स्मरः' इत्यमरः । क्रोध अमर्ष: । 'कोपक्रोधामर्षरोष' इत्यमरः । स्फुरन्तौ देदीप्यमानौ च तौ कामक्रोधौ च ताभ्यां प्रबलतरम- तिशयितं संजात उत्पन्नः अतएव जटिलः शिखावान् एता- दृशो यो ज्वरः तस्य ज्वाला अर्चयः तासां जालं समूह तेन ज्वलितं दग्धं तादृशं वपुः शरीरं येषां तेषाम् ॥ २६ ॥ पूर्वं जलकणाः संतापं हरन्तामित्युक्तम्, इदानीं तापबा- हुल्यात्कणानां कथं तत्संभवतीति चेत् तव जलानां संघातः अस्माकं तापशमनं करोत्विति प्रार्थयते-- इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव । स एष श्रीकण्ठप्रविततजटाजूटजटिलो जलानां संघातस्तव जननि तापं हरतु नः ॥ २७ ॥ इदमिति । भो जननि, श्रीकण्ठप्रविततटाजूटजटिल: प्रविततः विस्तृतः स चासौ जटाजूटश्च श्रीकण्ठस्य प्रवितत- जटाजूट: तेन जटिलः सजटः एतादृशः स एषः तव जलानां संघातः समुदायः नः अस्माकं तापं हरतु । स कः । यस्य जलानां संघातस्यान्तर्मध्ये सकलभुवनाभोगभवनं सकलभुव- नानां चतुर्दशभुवनानां आसमन्तात् भोगः सुखं । 'भोगः सुखे स्त्र्यादिभृतौ' इत्यमरः । यद्वा सकलभुवनानां आभोगः परि- पूर्णता । 'आभोग' परिपूर्णता' इत्यमरः । तस्य भवनं गृहम् एता- दृशमिदं ब्रह्माण्डं तरङ्गैः सह । 'सहयुक्ते प्रधाने' इति सूत्रेण तृतीया । परितस्तिन्दुकमिव तिन्दुकस्य फलं तिन्दुकम् । 'तिन्दुकः स्फूर्जकः' इत्यमरः । 'टेंबुर्णी’ति भाषायां प्रसिद्धिः । लुठति । 'लुठ संश्लेषणे' तुदादिः । हीति आश्चर्ये । यस्मिंश्चतुर्द- शभुवनाधारभूतं ब्रह्माण्डमपि स्थितम् सोऽपि शिवकपर्दे स्थित इत्याश्चर्यम् । अत्रोत्तरोत्तरमुत्कर्षस्य सत्वात् सारालंकारः । तदुक्तं अप्पय्यदीक्षितैः कुवलयानन्दे 'उत्तरोत्तरमुत्कर्ष: सार इत्यभिधीयते' इति ॥ २७ ॥ इदानीं ननुरे तीर्थान्तराणि शिवादिदेवांश्च विहाय मामेव किं स्तौषीति चेत्तीर्थानि मदुद्धरणविधौ लज्जन्ते, शिवादयश्च कर्णे हस्तं स्थापयन्ति, त्वं तु मातृत्वेन दयया मां पुनाना तेषां पापनाशनाभिमानं नाशयसीत्याह-- त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब [^१]त्वमियमनुकम्पार्द्रहृदये पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८ ॥ त्रपन्त इति । भो अनुकम्पार्द्रहृदये अम्ब अनुकम्पा दया तया आर्द्रं हृदयं यस्याः सा तत्संबोधनं एतादृशि अम्ब जननि । अम्बत्वेन त्यागानर्हता । तं इमं तव समीपे वर्तमानं मां जगन्नाथं पुनाना पुनाति तच्छीला । ताच्छीये शानच् । पवित्रीकु- र्वाणा इयं त्वं तेषां तीर्थादीनां अघमथनदर्पं अघस्य पापस्य मथनं नाशनं तस्य दर्पः गर्वः तं दलयसि विदारयसि । नाश- यसीत्यर्थः । एतावत्कालपर्यन्तं तेषां परमगर्वः स्थितः वयं सर्वेषां पापनाशनं कुर्मः इदानीं तु मम परमपातकिनस्तद्धस्तेन उद्धारणाभावात्त्वाया उद्धारणस्य कृतत्वात्तेषां गर्वो गत इति भावः । ननु तेषां हस्तेन किमित्युद्धरणं भवतीति चेत्तत्राह । तं कम् । इह यस्य उद्धृतिविधौ उद्धृतेः विधिः करणं तत्र । 'विधि- र्विधाने दैवे च' इत्यमरः । तीर्थानि गोदावर्यादीनि त्वरितं यथास्यात्तथा महापातकिनो मम दर्शनसमय एवेति भावः । त्रपन्ते लज्जितानि भवन्ति । स्वहस्तेन महापातकिनो ममो- ------------------------------------- [^१] त्वमपि करुणापूर्णहृदये इति पाठः । द्धरणाभावाल्लज्जेतिभावः । पुनस्तं कम् । यस्योद्धारणविधौ कपालिप्रभृतयोऽपि कपाली प्रभृतिः आदिर्येषां ते विष्ण्वाद- योऽपि कर्णे हस्तं कुर्वन्ति । स्थापयन्तीत्यर्थः । स्वहस्तेन एत- स्योद्धृत्यभावात् । एतस्य किमपि न श्रोतव्यमित्याशयेन कर्णे हस्तन्यास इति भावः । करं कर्णे इत्येकवचनं तु द्वितीय- कर्णेन श्रोतव्यं यद्धि स्वहस्तेन एतदीयं कार्यं भविष्यति चेत्करिष्यामः नो चेन्नेत्येतदर्थबोधनाय ॥ २८ ॥ इदानीमपरिमितसंशयेन पापाचरणे निवृत्तैश्चाण्डालानां स- मूहैरपि त्यक्तानां पापानामाकरैः पुनातुं यत्नं कुर्वन्त्यास्तव स्तुतिं कर्तुं नरपशुरहं कथं श शक्रुत्यामित्यहङ्कारपरिहरणव्याजेनाह-- श्वपाकानां व्रातैरमितविचिकित्साविचलितै- र्विमुक्तानामेकं किल सदनमेनःपरिषदाम् । अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९॥ श्वपाकानामिति । भो जननि, मां उद्धर्तुं परिकरं कटि- बन्धं विवेकमारम्भं यत्नं वा । 'प्रगाढगात्रैकबन्धे विवेका- रम्भयो’रिति विश्वः । 'यत्नरम्भौ परिकरौ' इति त्रिकाण्ड- शेषः । घटयन्त्याः कुर्वन्त्याः तव श्लाघां स्तुतिं कर्तुं नरः पशु- रिवेति व्याघ्रादित्वात्समासः । सर्वानविशेषेण पश्यतीति पशुः । हिताहितज्ञानशून्यः मूर्ख इति यावत् । एतादृशोऽहं कथमिव केनापि प्रकारेण समर्थ: । अपितु न कथमपीेत्यर्थः । मन्मतिमान्द्यात्तव गुणानामपारत्वाच्चेति भावः । अहो इत्याश्चर्ये। परमपातकिनं मां पुनातुं यत्नादिकं करोषीत्याश्चर्यम् । कथं- भूतं माम् । अमितविचिकित्साविचलितैः अमिता अपरि- मिता । बह्वीत्यर्थः । सा चासौ विचिकित्सा च इतः परं पातकानि कर्तव्यानि वा न वेत्याकारः संशयः । 'विचिकित्सा तु संशयः' इत्यमरः । यद्वा विचिकित्सा जुगुप्साख्यो बीभत्स- रसस्थायीभावः । 'कित संशये' इति धातोः 'गुप्तिच्किभ्द्य:- इति सनि 'सन्यङोः' इति द्वित्वे 'गुरोश्च हलः' इत्यप्रत्यये टाप् । अमितविचिकित्सायाश्चलितैः पातकान्निवृत्तैः एतादृशैः श्वपा- कानां श्वानं पचन्ति ते श्वपाका: चाण्डालाः । यद्यपि पचादि- गणे श्वपचेति अजन्ते निपातितं तथापि न्यङ्क्कादिगणे श्वपाक- शब्दस्य पाठात्पक्षे कर्मण्यणि कुत्वम् । 'निषादश्वपचावन्ते- वासिचाण्डालपुल्कसाः' इत्यमरः । तेषां व्रातैः समूहै: नत्वेकेन द्वाभ्यां वा विमुक्तानां विशेषेण मुक्तानाम् । विशेषश्च मनःपूर्वक- त्यक्तानां नतु लोकलज्जयेति एतादृशीनामेनःपरिषदां एनसां पापानां परिषदः सभाः । समूहा इत्यर्थः । तासामेकं अद्वितीयं सदनं गृहं किल निश्चयेन प्रसिद्धौ वा आश्रर्ये वा । एतादृशमपि पापिनं मां पुनातुं उद्युक्तासीत्याश्चर्यम् ॥ २९ ॥ इदानीं कस्यचिन्महापातकिन: समुद्धरणेन जगत आश्चर्यं संपादनीयमिति तव महतीच्छा स्थिता सा एतावत्कालपर्यन्तं तादृशस्य कस्यचित् पातकिनः अभावान्नैव पूर्णा, अहं तु तादृ- शेच्छां सफलीकर्तुं प्राप्तोमि अतः ममोद्धरणेन स्वेच्छासाफल्यं कुर्विति प्रार्थयते-- न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो यदुद्धारादाराद्भवति जगतो विस्मयभरः । इतीमामीहां ते मनसि चिरकालं स्थितवती- मयं संप्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥ ३० ॥ नेति । भो अम्ब, एतावन्तं समयमारभ्य एतावत्काल- पर्यन्तं कोऽपि कश्चन पातकी न मिलितः प्राप्तः । मयेति शेषः । आरात् यदुद्धारात् यस्योद्धारस्तस्मात् जगतः विस्मयभरः भव- तीति ते मनसि चिरकालं बहुकालं स्थितवतीं तिष्ठतीति स्थितवती तामिमां पूर्वोक्तामीहामिच्छां सफलयितुं असफला सफला भवति तथा कर्तुम् । भृशादित्वात् 'क्यङ्भानिनोश्च' इति पुंस्त्वं तुमुन् । अयमहं जगन्नाथः संप्राप्तः । अस्मीति शेषः । नः अस्मान् प्रणय । पापं निरस्योत्तमां गतिं नयेत्यर्थः । 'उपसर्गा- दसमासेपि--' इति णत्वम् । अम्बेत्यनेन तव जननि त्वं चेत् अहं तव पुत्रः एवं च मातुरिच्छा सत्पुत्रेण मया सफलीकर्तव्येति सत्पुत्रधर्म एवायमिति सूचितम् ॥ ३० ॥ इदानीं ममानेकदुष्टगुणान् श्रुत्वा त्वां विना अन्यः कश्चन मम मुखनिरीक्षणमपि न कुर्यादित्याह-- श्ववृत्तिव्यासङ्गों नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशून्यमननम् । अपि श्रावंश्रावं मम तु पुनरेवं गुणगणा- नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥३१॥ श्ववृत्तीति । भो मातः, श्रवृत्तिव्यासङ्गः शुन; वृत्ति; इतस्ततो भ्रमणं उच्छिष्टभक्षणाचरणादि तद्वत् व्यासङ्ग उद्योगः मया कृत इति शेषः । अथानन्तरं नियतं नियमेन मिथ्या- प्रलपनं असत्यानर्थकमपि भाषणं कृतम् । 'प्रलापोऽनर्थकं वचः' इत्यमरः । परमपुण्यशीलेन युधिष्ठिरेण सकृन्मिथ्योक्तमिति तज्जन्यपापवशादन्तरिक्षगस्तद्रथो भूमौ लग्न इति स्पष्टं महा- भारते । मया तु सत्यत्यागपूर्वकं सर्वदैव तत्कृतमिति मत्पाप- संख्यैव नेति आकूतम् । कुतर्केषु कुत्सितानां परस्त्रीगमनपर- गृहदारादिरूपकर्मणां तर्का ऊहाः तेषु । यद्वा कुत्सिताश्च ते तर्काश्च तेषु, यद्वा साक्षाद्ब्रह्मविद्याया अप्रतिपादकत्वेन पर- जयेच्छया च कुत्सितास्तर्काः तर्कशास्त्रग्रन्थाः तेषु अभ्यासोऽपि कृतः । सततपरपैशून्यमननमपि कृतम् । पिशुनस्य सूचकस्य भावः पैशून्यं द्वैजिह्वयं परेषां पैशून्यं तस्य मननं चिन्तनं अभ्यासमिति यावत् । सततं निरन्तरं च तत् पैशून्यमननं च तदपि कृतम् । एवंप्रकारेण मम तु पुनर्गुणगणान् श्रावंश्रावं श्रुत्वाश्रुत्वा त्वदृते त्वां विना । 'अन्यारात्--'इति सूत्रेण ऋतेयोगे त्वदिति पञ्चमी । को नाम क्षणमपि वदनं अर्थात् मम मुखं निरीक्षेत पश्येत् । अपितु न कोऽपीत्यर्थः । तव तु मातृत्वेन दयाबाहुल्यादीदृशस्य मम मुखनिरीक्षणमावश्यकमेवेति भावः । तदुक्तं श्रीमच्छङ्कराचार्यै: 'कुपुत्रो जायेत क्वचिदपि कुमाता न भवति' इति ॥ ३१ ॥ इदानीं यस्य मनुष्यस्य नेत्राभ्यां परमरमणीयं तव शरीरं न दृष्टम्, यस्य कर्णाभ्यां च तव लहरीकोलाहलो न श्रुतः तस्य नेत्रे व्यर्थे कर्णौ च व्यर्थावित्याह-- विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं हि न्यक्कारो [^१]जननि मनुजस्य श्रवणयो- [^२]र्ययोर्मातर्यातस्तव लहरिलीलाकलकलः ॥३२॥ विशालाभ्यामिति । अत्र यस्य तस्येत्यध्याहारः । भो जननि, यस्य मनुजस्य मानवस्य । 'मनुजा मानवा नराः' इत्य- मरः । याभ्यां नेत्राभ्यां परमरमणीया अतिसुन्दरी । अनेन दर्शने कारणं सूचितम् । एतादृशी तव तनुः शरीरं न आलीढा न सादरमवलोकिता तस्य मनुजस्य विशालाभ्यां आकर्ण- विस्तृताभ्यां आभ्यां नयनाभ्यां कृत्वा इह भूलोके किं फलम् । न किमपीत्यर्थः । यद्वा इह नालीढेति योजना । यस्य ययोः श्रवणयोः कर्णयोः अन्तर्मध्ये तव लहरिलीलाकलकलः लहरीणां लीला क्रीडा तथा कलकलः कोलाहलः । 'कोलाहलः कलकलः' इत्यमरः । इह न यातः न प्राप्तः तस्य तयोः श्रवणयोः अयं श्रवणरूपः न्यक्कारः धिक्कारः । अस्त्विति शेषः । खलु निश्चयेन, यद्वा ययोः श्रवणयोरन्तर्मध्ये तव लहरिलीलाकलकलः न यातः ताभ्यां श्रवणाभ्यां कृत्वा किं फलम् । न किमपीत्यर्थः । परंतु अयं अदर्शनाश्रवणरूपो न्यक्कारो मनुजस्य नत्विन्द्रिया- णाम् । इन्द्रियव्यापारस्य मनुष्यव्यापाराधीनत्वादिति भावः । तदुक्तम् 'करणं हि कर्तृक’मिति एतत्पक्षे यस्य तस्येति नाध्या- हारः । ताभ्यामित्यस्य चाध्याहारः । अहं तु सर्वदैव तव ----------------------------------- [^१] मनुजहतकस्य इति पाठः । [^२] ययोर्नान्तर्यातः इति पाठः। तनुं पश्यामि, लहरीशब्दं च शृणोमि अतो मम नेत्रकर्णं न व्यर्थमित्याकूतम् । एवंच शीघ्रं मां पुनीहीति भावः । अत्र विनोक्तिध्वनिरलंकारः । त्वद्दर्शनं विना नयनयोस्त्वल्लहरि- कोलाहलश्रवणं विना श्रवणयोश्च रमणीयत्वस्य फलप्रश्नधिक्का- राभ्यां व्यञ्जनात् ॥ ३२ ॥ इदानीं पुण्यवन्तो विमानैः सुरपुरं स्वच्छन्दं यान्ति, पापि- नस्तु पराधीनाः सन्तो नरकमध्ये पतन्तीति कोटिद्वयं यत्र देशे त्वं नासि तत्र संभवति । यत्र तु निखिलपापनाशिनी त्वमसि तत्र द्वितीयकोटेरभावात् आद्यकोटिरेव संभवतीत्याह-- विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः पतन्ति द्राक्पापा जननि नरकान्तः परवशाः । विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३ ॥ विमानैरिति । भो जननि, सुकृतिनः पुण्यवन्तः । विमानैः सुरपुरं सुराणां देवानां पूर्नगरी ताम् । यद्वा सुराणां पुरं नगरं स्वर्गं स्वच्छन्दं यथा स्यात्तथा नतु तद्गुणादिवशेन अयन्ते गच्छन्ति । पापाः पापस्वरूपा जीवाः पापबाहुल्येन पापपुरुषयोस्त्रिमुनिव्याकरणमितिवदभेदः । यद्वा पापमस्ति येषां ते पापा इति मत्वर्थे अर्शआद्यच् । अतएव 'पापोऽहं पाप- कर्माहं' इत्यादिप्रयोगाः संगच्छन्त इति दिक् । पापमर्हन्तीति वा । परवशाः सन्तः यमनगरगणाधीनाः सन्त इत्यर्थः नरकान्तः नरकस्यान्तर्मध्ये द्राक् शीघ्रम् यमनगरगमनसमय एवेत्यर्थः । पतन्ति । भो मातः, अयं विभागः विषयव्यवस्था तस्मिन्नशुभमयमूर्तौ अशुभमयीं अकल्याणप्रचुरा मूर्तिः तनुर्यस्य तस्मिन् । 'स्त्रियाः पुंवत्--' इति पुंवद्भावः । देशस्याशुभमयत्वं तत्र तव स्थितेरभावादेव । एतादृशे जनपदे देशे नीवृज्जनपदो देश--’इत्यमर:। अस्त्विति शेषः । तस्मिन् अशुभमयमूर्तौ जनपदे अयं विभाग इति योजना । तस्मिन्कस्मिन् । यत्र जनपदे दलित- मनुजाशेषकलुषा मनुजानां मनुष्याणां अशेषकलुपं समस्तपापं दलितं नाशितं मनुजाशेषकलुषं यया सा एतादृशी त्वं नासि । यत्र त्वं दलितमनुजाशेषकलुषा सती नासीति वा योजना । एवं चार्थादेतादृशी त्वं यत्रासि तत्र कस्यापि पातकिनोऽभा- वात्सर्वेऽपि विमानैः सुरपुरं गच्छन्तीति आद्यकोटिरेव स्थितेति भावः । अत्र परिकरालंकारः । दलितमनुजाशेषकलुषेति साभि- प्रायविशेषणस्य सत्त्वात् । तल्लक्षणं तु पूर्वमुक्तम् ॥ ३३ ॥ इदानीं समस्तमहापातकिनोपि मरणसमये त्वयि शरीरं त्यक्तवन्तः सन्त उत्तमलोकं गच्छन्तीत्याह-- अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः पिबन्तो मैरेयं [^१]पुनरपहरन्तश्च कनकम् । विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा- [^२]मुपर्यम्ब क्रीडन्त्यखिलसुरसंभावितपदाः ॥ ३४ ॥ अपीति । अत्र ये ते इत्यध्याहारः । पूर्वश्लोकात्पापा इत्य- नुवर्तते । तथाचैवं योजना--भो अम्ब, ते पापाः पापिन: पुरुषाः ------------------------------ [^१] पुनरपि इति पाठः । [^२] मुपर्येव इति पाठः । अन्ते मरणसमये त्वयि तनुं शरीरं विहाय संत्यज्य अतनुदा- नाध्वरजुषां न तनु अल्पं इत्यतनु महत् तच्च तद्दानं च तेन येऽध्वराः सर्वस्वदक्षिणा यज्ञाः । 'यज्ञ: सवोऽध्वरो यागः' इत्यमरः । यद्वा अतनूनि महान्ति दानानि येषु ते च ते अध्व- राश्च । यद्वा अतनुदानानि चाध्वराश्च । यद्वा न तनुः कोपः तेन यानि दानानि अध्वराश्च। 'तनुः कोपे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे' इति मेदिनी । तान् जुषन्ति सेवन्ते । कुर्वन्तीत्यर्थः । ते अतनुदानाध्वरजुषः तेषां उपरि उपरिलोके क्रीडन्ति । विह- रति महादानयागप्राप्यलोकोपरितनलोकं गच्छन्तीत्यर्थः । तथाच गङ्गातनुत्यागादेवोत्तमलोकप्राप्तौ परमोत्कृष्टसाध्यमहादानया- गेषु न किंचिदधिकं फलमिति भावः । ते के। ये पापाः विप्रानपि ब्राह्मणानपि अविरतं निरन्तरं यथास्यात्तथा । इदं सर्वक्रिया- न्वयि । घ्नन्ति ते घ्नन्तः । हनधातोः शतरि 'गमहन--' इत्युप- धालोपः । 'न लोपे'ति पष्ठीनिषेधाद्विप्रानित्यादिद्वितीया । पुनः ते के। ये गुरुसतीः गृणाति बोधकं करोतीति गुरुः । 'कॄग्रो- रुच्चे' इत्युणादिसूत्रेण 'गॄ शब्दे' इत्यस्मात् कुप्रत्ययः । उकारश्चा- न्तादेश: गुरुः। तथा चोपनयनादर्वाचीनसंस्कारपूर्वकं वेदाध्यापको मन्त्रोपदेशकश्च गुरुः । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । तस्य सत्यः पतिव्रताः स्त्रियः । 'सती साध्वी पतिव्रता' इत्यमरः । ताः उशन्तः वशन्ति इच्छन्ति ते उशन्तः । 'वश कान्तौ' अदादिः । तत्र हि कान्तिरिच्छेत्युक्तम् । तस्माच्छतरि 'ग्रहिज्या--’ इति संप्रसारणम् । यद्वा गुरोः पितुः सती: । मातॄरित्यर्थः । यद्वा गुरोः श्रेष्ठपितृव्यभ्रातृमातृमातुलादेः सतीः । यद्वा गुरोः बृहस्पतेः सतीः । तस्य एकस्त्रीत्वेपि जात्यभिप्रायेण बहुवचनमिति यथाक- थंचिद्योज्यम् । तथाचानेकार्थकोशः 'गुरुः पिता गुरुः श्रेष्ठो गुरुः सुरपुरोहितः । दुर्वहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिसेवकः' इति । पुनस्ते के। ये मैरेयं सीधुम् । 'मैरेयमासवः सीधुः' इत्यमरः । पिबन्तः पानं कुर्वन्तः । पुनस्ते के। ये कनकं सुव- र्णम् । 'सुवर्णं कनकम्' इत्यमरः । हरन्तः चोरयन्तः । कथंभूताः ते । अखिलसुरसंभावितपदाः अखिलसुरैः समस्तदेवैः संभावित संभावनायुक्तं कृतम् । पूजितमिति यावत् । तादृशं पदं चरणं येषां ते । बहुवचनान्तेन समासः । यद्वा अखिलसुराणां संभा- वितं प्राप्तं तादृशं पदं स्थानं यैस्ते । 'सप्तमीविशेषणे--' इति ज्ञापकाव्द्यधिकरणपदो बहुव्रीहिर्वा कर्तव्यः । संपूर्वकभूधातोर्णि- जन्तात्कः । उपसर्गबलादुक्तार्थलाभः ॥ ३४ ॥ इदानीं महान् चोरः पुनरपि नराणां प्राणहारकोऽपि वायुः त्वल्लहरिबन्धमाहात्म्येन त्रिभुवनं पवित्रीकरोतीत्याह-- अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां क्षणादेव प्राणानपि [^]विरहशस्त्रक्षतभृताम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरात् पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५ ॥ अलभ्यमिति । भो अम्ब, सोऽपि परचौर्यपरप्राणहारित्वा- दिगुणयुक्तोऽपि पवमानः प्रभञ्जनः । 'पवमानः प्रभञ्जनः इत्यमरः । त्वदीयानां तव इमाः त्वदीयाः । 'युष्मदस्मदोरन्य- तरस्यां खञ्च' इति चाच्छः । 'प्रत्ययोत्तरपदयोश्चे'ति त्वादेशः । ------------------------------- [^१] क्षतहृदाम् इति पाठः । तासां लीलाचलितलहरीणां लीलया चलिताः चञ्चलाः गच्छन्तो वा । 'चल गता'वित्यस्मात् 'गत्यर्थाकर्मक--' इत्यनेन कर्तरि क्तः । एतादृश्यो या लहर्यः तासां व्यतिकरात्संबन्धात् त्रिभुवनं जगत्त्रयं पुनीते पवित्रीकरोति । अहहेत्यद्भुते । 'अहहे- त्यद्भुते खेदे' इत्यमरः । ननु देवोपि वायुः कथं चौर्यादिगुण- युक्त इत्याकाङ्क्षायामाह । स कः । यः पवमानः सुमनसां पुष्पा- णाम् । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अलभ्यमन्यत्र चौरैरप्राप्यम् । अनेन चौर्ये वायोः कौशल्यमावेदितम् । एतादृशं सौरभ्यं सौगन्ध्यं नियतं सततं यथा तथा हरति चोरयति । पुनः स कः । यः विरहशस्त्रक्षतभृतां विरह एव स्त्र्यदिवियोग एव शस्त्रं मारकत्वात् । यद्वा विरहश्च शस्त्रं च विरहशस्त्रे ताभ्यां यत् क्षतं तत् बिभ्रति ते विरहशस्त्रक्षतभृतः तेषाम् । क्वचित्तु विरहशस्त्रक्षतहृदामिति पाठः । तत्र विरहशस्त्राभ्यां क्षतं क्षतयुक्तं कृतं विदारितमिति यावत् । तादृशं हृत् येषामिति समासः । यद्वा विरहशस्त्रयोः क्षतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः । तादृशं हृत् येषाम् । विरहशस्त्रक्षतयुक्तं हृत् येषामिति शाकपार्थिवादित्वान्मध्यमपदलोपी समासो वा । तेषां प्राणानपि असूनपि । 'पुंसि भूम्न्यसवः प्राणाः' इत्यमरः । क्षणादेव क्षणमात्रेणैव नियतं यथा स्यात्तथा हरति एतादृशः दुष्टो वायुः श्रेष्ठत्वल्लहरिसंबन्धमाहात्म्येन महत्कार्यं करो- तीति भावः । उक्तं च हनुमन्नाटके--'ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्संतार- यन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥’ इति । लोकेऽपि दुष्टः प्रभुभृत्यत्वसंबन्धमाहात्म्येन महत्कार्यं करोतीति प्रसिद्धमेव ॥ ३५ ॥ इदानीं केचन लोकाः परकार्यसंपादकाः सन्ति, केचन पवित्रात्मानः सन्तः परलोकप्रणयिनो भवन्ति, अहं तु त्वयि स्थापितलोकद्वयभरः सन् सुखेन निद्रां करोमीत्याह-- कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः परे पूतात्मानः कति च परलोकप्रणयिनः । सुखं शेते मातस्तव खलु कृपातः पुनरयं जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६ ॥ कियन्त इति । भो मातः, कियन्तः कतिसंख्याकाः एके साधारणा लोकाः इह जगति नियतं लोकार्थघटकाः लोकानां जनानां अर्थाः प्रयोजनानि । 'अर्थरैविभवा अपि' इत्यमरः । तेषां घटकाः संयोजकाः सन्ति । यद्वा इह कियन्तः एके लोकार्थघटकाः सन्तः परलोकप्रणयिनः परलोकं प्रणयन्ति प्रार्थयन्ति ते । यद्वा परलोकं प्रकर्षेण नयन्ति गच्छन्ति ते परलोकप्रणयिनः सन्तीति योजना । इहलोके परकार्यसंपादन- जन्यपुण्येन स्वर्गलोकं गच्छन्ति । एवंच तेषामयं लोकः परलो- कश्च समीचीन इत्याकूतम् । परे चान्ये च कति । यद्वा कति- परे च पूतात्मानः सन्तः पूतः तपःसेवनादिना पवित्रः आत्मा येषां ते एतादृशाः सन्तः नियतं परलोकप्रणयिनः सन्ति भो मातः, अयं जगन्नाथः । तु पुनःशब्दस्त्वर्थः । तव कृपातः । पञ्चम्यन्तात्तसिल् । दयाहेतोः शश्वन्निरन्तरं सुखं यथा स्यात्तथा शेते निद्रां करोति । शश्वदित्यनेन कदापि अन्यन्न करोति । सुखमित्यनेन तत्रैव मम सुखं नान्यत्रेति सूचितम् । ननु एवंच लोकद्वये तव का गतिरिति चेत्तत्राह ॥ कथंभूतोऽ- यम् । त्वयि निहितलोकद्वयभरः । त्वयि भवत्यां लोकद्वये इहलोके परलोके च भरः सर्वेभ्य उत्कृष्टता निहितः स्थापितः लोकद्व- यभरो येन सः । भरः उदरपोषणं वा । 'डुभृञ् धारणपोषणयो' रित्यस्मादचीति दिक् ॥ ३६ ॥ इदानीं ननु रे पापनिवृत्तये मां स्तौषि तत्रादौ पापमेव किमर्थं करोषीति चेत्त्वया स्वपतिताश्लीलशवशकलसमुदायप- रित्राणं यथा क्रियते तथा मयापि पापं क्रियते स्वस्वभावस्य सर्वैरपि दुष्परिहार्यत्वादित्याह-- भवत्या हि [^]व्रात्याधमपतितया खण्डपरिषत् परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७ ॥ भवत्या हीति । भो अम्ब, व्रात्याधमपतितया व्रात्याश्चा - धमाश्च व्रात्याधमाः व्रात्याः संस्कारहीनाः अधमा नीचाः ते पतिताः यस्यां सा तया । आहिताग्न्यदित्वात्पतितशब्दस्य पर- निपातः । यद्यपि पतेः 'सनितनिपति' इति वार्तिकेन वेट्कत्वात् निष्ठायां 'यस्य विभाषे’तीण्निषेधः प्राणेति तथा 'द्वितीया श्रितातीतपतिते'ति निपातनाद्भवति । एतादृश्या भवत्या त्वया खण्डपरिषत्परित्राणस्नेहः खण्डानामर्थात् स्वपतितशवशकलानां । 'भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके' इत्यमरः । परिषत् ------------------------------------- [^१]पतितपाखण्डपरिषत् इति पाठः । समुदायः तस्याः परित्राणं पालनं तत्र स्नेहः प्रेम । 'प्रेमा ना प्रियता हार्दं प्रेम स्नेह' इत्यमरः । श्लथयितुं त्यक्तुं यथाऽशक्यः खलु निश्चयेन, एवं दुरितनिवहे दुरितस्य पापस्य निवहः समू- हस्तत्र ममापि प्रेमा प्रियता । अस्तीति शेषः । यतो यस्मात्का- रणात् जगति सर्वैरपि अयं स्वभावो निसर्गः । 'स्वरूपं च स्वभा- वश्च निसर्गश्चे'त्यमरः । दुष्परिहरः दुःखेनापि परिहर्तुमशक्यः । अस्तीति शेषः । दुःखशब्दे उपपदे हरते: 'ईषद्दु:स्वि’ति सूत्रेण खल् । यद्वा दुरितनिवहे जगतीति योजना । व्रात्याधमपतित- येत्यनेन तेषामपि रक्षणे किं वक्तव्यं पुण्यवतामित्यावेदितम् । खण्डमित्यनेन अवयवस्य पालने किं वक्तव्यमवयविन इत्या- शयः । परिषदित्यनेनैकमपि न त्यजत इति भावः । दुरितनि- वहेत्यनेन बहुषु पातकेषु ममेच्छा नत्वेकस्मिन् द्वयोर्वेत्यावेदि- तम् । अत्र निन्दया स्तुत्यमिव्यक्तेर्व्याजस्तुत्यलंकारः। तदुक्तं कुवलयानन्दे 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो’- रिति । मम यथा,'विवेकलेशोपि न ते रामचन्द्र रणे रिपून् । हतान् स्वनाशकान् शीघ्रं पापिनो नयसे दिव'मिति । अत्रारीन् दिवं नयसे इत्युक्त्या भक्तानवश्यं नयसे इति स्तुत्यभिव्यक्तिः ॥ ३७ ॥ इदानीं गङ्गाताण्डवविधिं वर्णयन् स्वतापशमनं प्रार्थयते-- प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा- तटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः । बिलक्रीडक्रोडज्जलडमरुडंकारसुभग- स्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥ प्रदोषेति । त्रिदशतटिनीताण्डवविधिः त्रिदशानां देवानां तटिनी गङ्गा तस्याः ताण्डवम् । तण्डुना तच्छास्त्रप्रवर्तकाचार्येण प्रोक्तं ताण्डवं नाट्यम् । 'तेन प्रोक्त'मित्यणि 'ओर्गुणः' इति गुण: । 'ताण्डवं नटनं नाट्य'मित्यमरः । तस्य विधिः करणम् 'विधिर्विधाने दैवे चे'त्यमरः । तापं अर्थाद्भक्तजनसंतापम् । यद्वा पूर्वश्लोकान्ममेत्यनुवर्तते । तथाच मम तापं तिरोधत्तां अन्तर्धानं गमयतु । नाशयत्वित्यर्थः । ताण्डवसामग्रीमाह । कथंभूतस्त्रिदशतटिनीताण्डवविधिः । प्रदोषान्तर्नृत्यत्पुरमथन- लीलोद्धृतजटातटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः । प्रदोषस्य सूर्यास्तानन्तरं षट्घटिकात्मककालस्यान्तर्मध्ये नृत्यं कुर्वन् स चासौ पुरमथनश्च शिवश्च तेन लीलया उद्धृताः उत् ऊर्ध्वं धृताः इयं नृत्यचेष्टा एतादृश्यः याः जटाः संयताः केशाः । 'जटा स्यात्संयतालकाः' इति कोशः । तटे आभोगः पतनात्मकः संयोगसंबन्धः नृत्यत्पुरमथनलीलोद्धृतजटानां तटाभोगः तेन प्रेङ्खन्त्यः गच्छन्त्यः चञ्चला वा याः लहर्यः वीच्यः ता एव भुजा: संतानं च विधुतिश्च संतानविधुती संतानं दीर्घीकरणं विधुतिः कम्पः भुजानां संतानविधुती यस्मिन् स प्रदोषान्तः । इदं समस्तं व्यस्तं वा । उक्तप्रदोषलक्षणे प्रमाणं तु 'त्रिमुहूर्तं प्रदोषः स्याद्भानावस्तंगते सती'ति हेमाद्र्याद्युदाहृतं वचनं बोध्यमिति दिक् । संतानेत्यत्र संपूर्वक 'धूञ् कम्पने' इत्यस्मात् स्त्रियां क्तिन् । पुनः कथंभूतः । त्रिदशतटिनीताण्डवविधिः । बिलक्रोडक्रीडज्जलडमरुडंकारसुभगः बिलस्य विवरस्य क्रोडं अर्थात् मध्यः 'न ना क्रोडं भुजान्तर'मित्यमरः । तत्र क्रीडत विहरत् यज्जलं तदेव डमरुर्वाद्यविशेषः । ढक्केत्यर्थः ’वाद्य- प्रभेदा डमरुमड्डुडिण्डिमझर्झराः' इत्यमरः । तस्य तेन वा यः टंकारः शब्दविशेषः तेन सुभगः शोभनं सुष्ठु वा भगं श्रीः यस्य सः । 'भगं श्रीकाममाहात्म्ये’त्यमरः । सुन्दर इत्यर्थः । क्वचित्तटक्रोडेति पाठः ॥ ३८ ॥ इदानीं सर्वदा भवत्यां स्थापितकुशलचिन्ताभरं मां त्वं विषमे अस्मिन् समये यदि त्यजसि तर्हि अतः परं भुवनत्रये तव विश्वासं कोपि न कुर्यात् तव करुणा च निराधारा स्यादिति गङ्गायाः भयप्रदर्शनेनाह-- सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे । तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥ सदैवेति । भो अम्ब, सदैव सर्वदैव त्वय्येव भवत्यामेव । एवो देवतीर्थान्तरं व्यावर्तयति । अर्पितकुशलचिन्ताभरं कुश- लस्य क्षेमस्य। 'कुशलं क्षेममस्त्रिया'मित्यमरः । तस्य चिन्ता कथं मम कुशलं भविष्यतीत्याकारिका तस्या भर आधिक्यम् । बह्वी चिन्तेत्यर्थः । भरः समूहो वा । अर्पितः स्थापितः कुशल- चिन्ताभरो येन सः तम् । गङ्गैव मम कुशलं करिष्यतीति मन्य- मानमित्यर्थः । इमं त्वत्समीपे वर्तमानमेतादृशं मां सुविषमे सुतरामत्यन्तं विषमः दुःसहः तस्मिन् । अतिकठिन इत्यर्थः । यद्वा विषं गरलं मयते ददातीति विषमस्तस्मिन् 'मेङ् प्रणिदाने' इत्यस्य 'आदे च उपदेशेऽशिती'त्यात्वे 'आतोऽनुपसर्गे का’ इति 'आतो लोप इटि चे'त्याकारलोपः । एतादृशेऽस्मिन् समये यदि त्यजसि तदा तर्हि अयं विश्वासः गङ्गा शरणागतकुशल- कर्त्रीत्याकारो निश्चयः त्रिभुवनतलात् त्रिभुवनस्य तलं तस्मात् अस्तं तिरोभावं अयते गच्छति गमिष्यतीति वा । 'वर्तमान- सामीप्ये'इति भविष्यति लट् । च पुनः इयं निर्व्याजकरुणा अकपटकरुणा निराधारा भवति निर्गतः आधारो यस्याः सा एतादृशी भवति । खलु निश्चयेन । संदेहो नास्तीति भावः । विश्वासाभावेन कस्यापि तव निकटे आगमनाभावात् करुणा- यास्तिरोधानत्वात् । लोकेऽपि यस्य विश्वासो नास्ति तस्य निकटे कोपि नागच्छतीति प्रसिद्धमेव । एवंच माहात्म्यसंरक्षणाय झटिति ममोद्धारणं कुर्विति गङ्गाया भीतिप्रदर्शनमिति भावः । क्वचित्तु समये इत्यस्य स्थाने विषये इति पाठः । तत्र विषयो- द्धारणरूपे विषये इत्यर्थः ॥ ३९ ॥ इदानीं हरवामभागे काऽद्वितीया कान्ता वर्तते इति प्रेक्षितुं कपर्दादुल्लस्य सीमन्तसरणौ आगता अतएव पार्वत्या सापत्न्य- भावात् करेणाकर्षिता एतादृश्यस्तव लहर्यो विजयन्तामित्याह-- कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः पुरारे: प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ । भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥ कपर्दादिति । भो जननि, ते तव लहरयः कपर्दात् शिव- जटाजूटात् उल्लस्य प्रसृत्य प्रणयमिलदर्धाङ्गयुवतेः । प्रणयेन प्रीत्या मिलन्ती संयुज्यमाना अर्धाङ्गे वामभागे युवतिः पार्वती यस्य सः तस्य पुरारे: शिवस्य मृदुलतरसीमन्तसरणौ अतिश- येन मृदुलः कोमलः मृदुलतरः तादृशो यः सीमन्तः केशवेशः । 'सीमन्तः केशवेशे'इति शकन्ध्वादिगणसूत्रेण पररूपम् । तस्य सरणिः तत्र प्रेड्खन्त्यः गच्छन्त्यः । उपरिष्टादधोभागे आगता इत्यर्थः । पुनः कथंभूताः । अतएव भवान्या पार्वत्या कर्तृभूतया कोमलरुचा कोमला रुक् कान्तिर्यस्य तेन । एतेन पार्वतीसौ- न्दर्यमुक्तम् । अतएव शिवेन प्रीतिवशात् लहरिकर्षणेन निवा- रिता एतादृशेन कारेण सापत्न्यस्फुरितनयनं यथास्यात्तथा समान पतिर्यस्याः सा सपत्नी तस्या भावः सापत्न्यं तेन स्फुरितेन कोपेन चञ्चले नयने यसिन्कर्मणि यथा भवति तथा आक्षिप्ताः आकर्षिताः । क्वचित्तु भवान्या इति षष्ठ्यन्तः पाठः । तत्र भवान्याः करेण कर्तृभूतेनेत्यर्थः ॥ ४० ॥ इदानीं बहवो लोकाः त्वामायान्ति तत्र तेषामभीष्टं करो- षीति कारणं वर्तते । अहं तु स्वभावादेव त्वय्यनुरक्त इति तुभ्यं शप इत्याह-- प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती- मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि । शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१ ॥ प्रपद्यन्त इति । भो मातः सुरधुनि, कति लोकाः अत्र- भवतीं पूज्यां भवतीं त्वां न प्रपद्यन्ते नायान्ति, अपितु बहवः प्रपद्यन्त इत्यर्थः । तत्रायं उपाधिः कारणं स्फुरति वर्तते । किं तदित्याकाङ्क्षायामाह--यत् यस्मात् कारणात् अभीष्टं वाञ्छितं वितरसि ददासि । तेभ्य इति शेषः । मम तु पुनः जगन्नाथ- स्यात्मा स्वभावादेव निसर्गादेव त्वयि भवत्याममितं अपरिमितं अनुरागं प्रीतिं विधृतवान् धारयामास इति तुभ्यं भवत्यै शपे शपथं करोमि । 'श्लाघह्नुङ्स्थाशपा'मिति संप्रदानत्वम् ॥ ४१ ॥ इदानीं त्वदीया मृत्तिका मदीयं समस्तं शोकं दूरीकरोत्विति प्रार्थयते-- ललाटे या लोकैरिह खलु सलीलं तिलकिता तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् । विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं त्वदीया [^१]सन्मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥ ललाट इति । पूर्वश्लोकात्संबोधनपदं आवर्तनीयम् । भो सुरधुनि, त्वदीया त्वत्संबन्धिनी सा मृत्स्ना प्रशस्ता मृत् मृत्स्ना 'सस्नौ प्रशंसाया'मिति मृत्शब्दात्स्नुप्रत्ययः । 'मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिके’त्यमरः । मम जगन्नाथ- कवेः कृत्स्नामपि संपूर्णामपि शुचं शोकं हरतु । ननु मृत्ति- कायाः शोकहरणे कथं सामर्थ्यमित्याकाङ्क्षायामाह। सा का । या मृत्स्ना इहलोके ललाटे भालदेशे सलीलं यथास्यात्तथा तिलकिता सती पुण्ड्रीकृता सती तमो हन्तुं तरुणतरमार्तण्डतु- लनां तरुणतरः माध्यह्निको यो मार्तण्डः सूर्यः तस्य तुलनां साम्यं धत्ते बिभर्ति । अत्र प्रमाणं तु--'गङ्गातीरसमुद्भूतां मृदं ------------------------------ [^१] सा मृत्स्ना इति पाठः । मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केवल’मिति ब्रह्माण्डपुराणवचनं बोध्यम् । तिलककरणप्रकारोप्युक्तस्तत्रैव 'वा- महस्ते जलं कृत्वा सावित्र्या चाभिमन्त्रितम् । तद्विष्णोरिति मन्त्रेण मर्दयेन्मृत्तिकां ततः । अतोदेवेति सूक्तेन तिलकं कारयेत्सदे'ति । इदं तिलककरणं प्रातःस्नानोत्तरं बोध्यम् । पुनः सा का । या विधिलिखितदुर्वर्णसरणिं विधिना ब्रह्मणा लिखिताः ते च ते दुर्वर्णा: दुष्टाक्षराणि अयं दरिद्रो भविता मृतभार्यश्चेत्यादयः तेषां सरणिः तां सद्यः लापनाव्यवहितोत्तरकाले एव विलुम्प- न्ती विशेषेण लुम्पन्ती प्रोच्छन्ती । एवंच विधिलिखितमपि अलीकं कुर्वन्त्या मम शोकहरणे सामर्थ्यमस्तीति भावः ॥ ४२ ॥ इदानीं मूढान्नरानुपहसन्तः स्ववासिभ्रमराणां मालिन्यदोषं दूरीकुर्वाणाश्च गङ्गातीरतरवः मम सखायः सन्त्वित्याह-- नरान्मूढांस्तत्तज्जनपदसमासक्तमनसो हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः । पुनानाः सौरभ्यैः सततमलिनो नित्यमलिना- न्सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३ ॥ नरानिति । त्रिदशतटिनीतीरतरवः त्रिदशतटिन्याः ग- ङ्गायाः तीरं तत्र तस्य वा तरवः वृक्षाः नः अस्माकं भक्तजनानां सखायः मित्राणि सन्तु भवन्तु । 'अथ मित्रं सखा सुहृदि’- त्यमरः । कथंभूताः त्रिदशतटिनीतीरतरवः । मूढान्मूर्खान् अतएव तत्तज्जपदसमासक्तमनसः ते च ते जनपदाश्च तत्तज्जन- पदाः स्वस्वदेशाः । 'नीवृज्जनपदो देश'इत्यमरः । तेषु समासक्तं संबद्धं एतादृशं मनो येषां ते तान् एतादृशान् नरान्मनुष्यान् विकचकुसुमव्रातमिषतः विकचानि प्रफुल्लानि यानि । कुसुमानि पुष्पाणि तेषां व्रातः समूहः तस्य तदेव वा मिषं छलं तस्मात् सोल्लासं सहर्षं यथास्यात्तथा हसन्तः उपहासं कुर्वन्तः एतेषां दुष्टस्वीयस्वीयदेशरचितभक्त्या तत्रैव मरणेन दुर्गतिर्भविष्यति अस्माकं तु सदैव गङ्गातीरवासित्वादुभयगतिर्भविष्यतीति तान् उपहसन्तीत्युत्प्रेक्षा । पुनः कथंभूताः । नित्यमलिनाः नित्यं मलिनाः मालिन्ययुक्ताः तान् । जन्मतः श्यामानित्यर्थः । एता- दृशान् अलिन: भ्रमरान् सौरभ्यै: निजकुसुमसौगन्ध्यैः संततं निरन्तरं यथा स्यात्तथा पुनानाः पवित्रीकुर्वाणाः एवंच ताद्द- शान् ये पुनन्ति ते स्वसखं मामपि पवित्रं करिष्यन्तीति भावः । सौरभ्यैः नित्यमलिनान् पुनाना इति वा योजना । 'मधुलिण्म- धुपालिनः' इत्यमरः ॥ ४३ ॥ इदानीं केचन स्वेष्टफलावाप्तये यमनियमादियोगं कुर्वन्ति, अहं तु त्वन्नामस्मरणेन प्राप्तकामः सन् जगज्जालं तृणतुल्यं मन्य इत्याह-- यजन्त्येके देवान्कठिनतरसेवांस्तदपरे वितानव्यासक्ता यमनियमरक्ताः कतिपये । अहं तु त्वन्नामस्मरणभृतकामस्त्रिपथगे जगज्जालं जाने जननि तृणजालेन सदृशम् ॥ ४४ ॥ यजन्तीति । भो त्रिपथगे, एके लोकाः कठिनतरसेवान् अतिशयेन कठिना कठिनतरा सेवा येषां तान् एताद्दशान्दे- वान् विष्ण्वादीन् यजन्ति पूजयन्ति । तदपरे तेभ्यः देवपूज- केभ्यः अपरे अन्ये । पञ्चमीति योगविभागात्समासः । यद्वा ते देवपूजका: अपरे येभ्यः ते इति पञ्चम्यर्थे बहुव्रीहिः । देवपूज- केभ्य उर्वरिता इत्यर्थः । वितानव्यासक्ताः उल्लोचेषु, यज्ञेषु वा व्यासक्ताः विशेषेण आसक्ताः । तत्परा इत्यर्थः । सन्तीति शेषः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । लोके 'चांदवा' इति प्रसिद्धिः । ’क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । कतिपयेऽन्ये लोकाः यमनियमरक्ताः यमनियमयो रक्ताः अनु- रक्ताः । सन्तीति शेषः । तान्कुर्वन्तीत्यर्थः । तत्करणकाठिन्या- त्कतिपयपदोपादानम् । यमनियमग्रहणमष्टानामप्युपलक्षणम् । ते च 'यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयः’। तत्र अहिंसादिपरिग्रहो यमः । शौचादिसंपादनं नियमः । पद्म- काद्यासनम् । रेचकादिप्राणायामः । इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः । तत्रैव विच्छिद्य अन्तरिन्द्रियप्रवाहो ध्यानम् । चित्तवृत्तिनिरोधः समाधिरिति दिक्। भो त्रिपथगे जननि, त्रीन्पथो गच्छतीति त्रिपथगा, यद्वा त्रयाणां पथां स- माहारस्त्रिपथम् । 'पथः संख्याव्ययादे'रिति नपुंसकत्वम् । तेन गच्छतीति त्रिपथगा । गमेर्ड: । तत्संबोधनम् । अहं तु जगन्ना- थस्तु त्वन्नामस्मरणभृतकामः सन् तव नाम त्वन्नाम । 'प्रत्ययोत्तर- पदयोश्चे'ति त्वादेशः । त्वन्नामस्मरणं चिन्तनं तेन भृताः संपा- दिताः तादृशाः कामाः मनोरथाः येन सः एतादृशः सन् जगज्जलं जगतः जालं समूहः जगज्जलम् । 'जालं समूह आनायः' इत्यमरः । तृणजालेन कक्षसंघेन सदृशं तुल्यं जाने वेद्यि । तृणजालेनेति 'तुल्यार्थै'रित्यादिना तृतीया । कलौ नामोच्चारणस्यैव सारत्वात्तदेव करोमीति भावः । सदुक्तम् ’हरे- र्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथे'ति दिक् । अत्र नामशब्दो नामोच्चारण- परो बोद्धव्यः ॥ ४४ ॥ इदानीं जन्मावधि निरन्तरं पुण्यवतां साधूनां श्रेयः कर्तुं बहवो देवाः कुशलाः सन्ति, निराश्रयाणां पापिनां तु त्वां विनान्यं हितकरं जगति न पश्यामीत्याह-- अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः । निरस्तालम्बानामकृतसुकृतानां तु भवतीं विनामुष्मिँल्लोके न परमवलोके हितकरम् ॥ ४५ ॥ अविश्रान्तमिति । भो त्रिपथगे जननि, अविश्रान्तं निर- न्तरं जन्मावधि जन्मप्रभृति जन्मपर्यन्तं वा सुकृतजन्मार्जनकृतां सुकृतेन पुण्येन जन्मार्जनं जन्मसंग्रहस्तत् कुर्वन्ति तेषां तादृशानां सतां साधूनां श्रेयः कर्तुं कल्याणं संपादयितुं कति कतिसंख्याका विबुधाः देवाः कृतिनः कुशलाः न सन्ति । अपितु बहवः सन्तीत्यर्थः । निरस्तालम्बानां निरस्तः गतः आलम्बः आश्रयो येषां तेषां अकृतसुकृतानां तु न कृतं सुकृतं पुण्यं यैः तेषाम् । पापिनामित्यर्थः । तेषां तु अमुष्मिन् लोके भवतीं विना त्वामृते परं द्वितीयं हितकरं अभिमतसंपादकं नावलोके न पश्यामि । एतत्सर्वं चित्ते निधाय त्वामहं शरणं गत इति भावः ॥ ४५ ॥ इदानीं तब जलं पीत्वा मूढमित्रैः सह विहर्तुं गतोऽहं क्वचि- दपि सुखं न लब्धवान्, इदानीं मृदुपवनसंबन्धशीतलस्वाङ्के चिरकालमनिद्रं मां त्वं स्वापयेति प्रार्थयते-- पयः पीत्वा मातस्तव सपदि यातः सहचरै- र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् । इदानीमुत्सङ्गे मृदुपवनसंचारशिशिरे चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६ ॥ पय इति । भो मातः, तब पयः पीत्वा विमूढैः मूर्खा: विमूढाः तैः । विशेषतश्च ईषदपि हिताहितज्ञानशून्यत्वम् । तादृशैः सहचरैः सह साकं चरन्ति भक्षन्ति, गच्छन्ति वा ते सहचराः मित्राणि तैः सह सपदि शीघ्रं संरन्तुं विहर्तुं यातः गतः । 'गत्यर्थाकर्मके'त्यादिना याधातोः कर्तरि क्तः । एता- दृशः अहं क्वचिदपि कस्मिंश्चित् स्थलेऽपि कस्मिंश्चित् विहारेऽपि वा विश्रान्तिं विश्रामं न अगमम् । सपदि यात इति वा योजना । यद्वा तव पयः यदि पीत्वेति संबन्धः । एतेन तृष्णा- वशात् शीघ्रं तव जलपानमात्रं कृतं न स्नानादिकम् । तेन स्वस्मिन्नपराधबाहुल्यमस्तीति सूचितम् । भो सदयहृदये दयया सहितं सदयं तादृशं हृदयं यस्याः सा तत्संबोधनम् । एतादृशि हे मातः, इदानीं संप्रति 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथे'- त्यमरः । मृदुपवनसंचारशिशिरे मृदुः कोमलः । अल्प इत्यर्थः । एतेन वात्यायाः दुःखप्रदत्वान्निरासः सूचितः । मृदुश्चासौ पवनश्च तस्य संचारः गमनं संबन्धो वा तेन शिशिरः शीतलः । एतेन श्रमसंत्रस्तस्य निद्रास्थानयोग्यत्वमावेदितम् । एतादृशे उत्सङ्गे अङ्के चिरात् बहुकालं उन्निद्रं उद्गता निद्रा यस्य सः एतादृशं मां शायय स्वापय । निद्रां कारयेत्यर्थः । 'शीङ् स्वप्ने' इति धातोर्णिजन्तात् लोण्मध्यमपुरुषैकवचनम् । सिप् 'अतो हे:’ इति हेर्लुक् । निद्रायाः सुखविशेषरूपफलस्य प्रयोज्यगामित्वात् प्रयोजकरूपकर्तृगामित्वाभावेन 'णिचश्चे'ति आत्मनेपदं न । चिरात् शाययेति वा योजना । लोकेऽपि माता पुत्रं अङ्के स्वाप- यतीति प्रसिद्धमेव । एतदर्थमेव मातरिति संबोधनम् ॥ ४६ ॥ इदानीं ममोद्धाराय कटिबन्धादिकं कुर्वित्याह-- बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणतया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७ ॥ बधानेति । भो सुरधुनि, जगन्नाथस्य एतन्नाम्नः अयं समुद्धारसमयः । सम्यगुद्धरणं समुद्धारः तस्य समयः कालः । अस्तीति शेषः । यद्यपि 'आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयो’रिति निषे- धात् स्वनामग्रहणं अश्रेयस्करं भवति तथापि अत्यन्तातुरतया निषेधोल्लङ्घनम् । अतएव 'हापितः क्वासि हे सुभ्रु बह्वेव विल- लाप सः’ इति भट्टिप्रयोगः संगच्छत इति दिक् । ननु अस्तु तवोद्धारसमयः मया किं कर्तव्यमित्याकाङ्क्षायामाह--बधा- नेति । त्वं द्रढिमरमणीयं अतिशयेन दृढः इति द्रढिमा । 'वर्ण- दृढादिभ्यः ष्यञ्चे'ति चादिमनिच् । 'र ऋतो हलादेर्लघो’रिति ऋकारस्य रकारः । द्रढिमा चासौ रमणीयश्च तम् । अति- शयेन सुन्दरं चेत्यर्थः । एतादृशं परिकरं कटिं द्राक् शीघ्रं बधान । 'बध बन्धने' । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढगात्रैकबन्धे विवेकारम्भयोरपी'ति विश्वः । ममोद्धाराय शीघ्रं कटिबन्धं कुर्विति भावः । पुनस्त्वं किरीटे मुकुटे । '--अथ मुकुटं किरीटं पुंनपुंसक'मित्यमरः । बालेन्दुं बालश्चासौ इन्दुश्च तं कलात्मकं चन्द्रं पन्नगगणैः पनं पतितं गच्छन्ति ते पन्नगाः सर्पाः तेषां गणाः समूहाः तैः नियमय नियमनं कुरु । तत्रैव स्थापयेत्यर्थः । अन्यथा ममागमनसमये पतिष्यतीति भावः । लोकेऽपि कश्चन मनुष्यः कस्यचिव्द्याघ्रादिपीडितस्य यदा मोचनं करोति तदा कटिबन्धशिरोभूषणादिकं दृढं करोतीति प्रसिद्धम् । यद्वा किरीटे पन्नगगणैः बालेन्दुं नियमयेति योजना । पुनः त्वं इतरजनसाधारणतया इतरः अन्यः नीचो वा । 'इतरस्त्वन्य- नीचयो'रित्यमरः । स चासौ लोकश्च जनश्च तेन साधारणः तुल्यः तस्य भावः साधारणता तया हेलां अर्थात् मम अनादरं न कुर्याः । मा कुर्वित्यर्थः । परमत्वद्भक्ते मयि अन्यजनतुल्यो- यमिति बुद्धिं मा कुर्विति भावः । अत्र लोकोक्त्यलंकारः। तदुक्तं कुवलयानन्दे 'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते' इति ॥ ४७ ॥ इदानीं गङ्गारूपं स्तौति-- शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां करैः कुम्भाम्भोजे वरभयनिरासौ च दुधतीम् । सुधाधाराकाराभरणवसनां शुभ्रमकर- स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभव: शरदिति । भो सुरधुनि, ये जनाः त्वां ध्यायन्ति चिन्त- यन्ति तेषां जनानां परिभवः अनादरः । 'अनादरः परिभवः परीभावस्तिरस्क्रिये'त्यमरः । न उदयति उत्पन्नो न भवती- त्यर्थः । यद्यपि 'अय गता'विति धातोरात्मनेपदं तथापि 'इटकिटकटी'त्यत्र प्रश्लिष्टस्य ईधातोरुत्पूर्वस्येदं रूपं बोध्यम् । अतएव 'उदयति विततोर्ध्वरश्मिरज्जा'विति माघप्रयोगः संगच्छत इति दिक् । कथंभूतां त्वाम् । शरच्चन्द्रश्वेताम् शरदि शरत्काले । 'अथ शरत् स्त्रिया’मित्यमरः । तत्र यश्चन्द्रः तद्वत् श्वेतां शुभ्राम् । परमगौरामित्यर्थः । शरदित्यनेन परमनैर्मल्यं सूचितम् । पुनः कथंभूताम् । शशिशकलश्वेतालमुकुटाम् । अलति दंशं कुर्वन् गच्छतीत्यलः सर्पः श्वेतश्चासौ अलश्च श्वेतालः शुभ्रसर्पः शशिनश्चचन्द्रस्य शकलः खण्डः शशिशकल: शशिशकलश्च श्वेतालश्च शशिशकलश्वेतालौ तौ मुकुटे यस्याः सा ताम् । यद्वा श्वेताश्च ते अलाश्च भूषणानि च श्वेतालाः । यद्वा श्वेतस्य रजतस्य अलाः भूषणानि 'दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपी'त्यमरः । गमनभूषणार्थकादलधातोः पचा- द्यच् । शेषसमासः पूर्ववत् । यद्वा शशिशकलश्वेतालः तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलं श्वेताल इव शुभ्रभू- षणमिवेति व्याघ्रादित्वादुपमितसमासः । शशिशकलश्वेतालः तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलश्वेतः श्वेतगुणः तं आसमन्तात् लातीति शशिशकलश्वेतालः तादृशो मुकुटो यस्याः सा ताम् । यन्मुकुटे चन्द्रस्य प्रभा प्रसृता भवतीति भावः । 'ला दाने' इति धातोः 'आतश्चोपसर्गे' इति की । ’गुणे शुक्लादयः पुंसी'त्यमरः । यद्वा शशिशकलं च श्वेतश्च शशिशक- लश्वेतौ । श्वेतो रजतं तौ आसमन्ताल्लातीति शशिशकलश्वेतालः । तादृशो मुकुटो यस्याः सा ताम् । यस्याः रौप्यमुकुटे शशिश- कलं वर्तत इत्यर्थः । अन्यत् विस्तारभयान्न लिख्यते । पुनः कथं- भूता । करैः चतुर्भिः हस्तैः कुम्भाम्भोजे कुम्भश्च अम्भोजं च कुम्भाम्भोजे कुम्भो घटः अम्भोजं कमलं ते वरभयनिरासौ च भयस्य निरासः नाशः । अभयमित्यर्थः । वरश्च भयनिरासश्च वर- भयनिरासौ तौ च दधती बिभ्रती । चतुर्भिर्हस्तैरिमानि चत्वारि दधतीति भावः । पुनः कथंभूतां त्वाम् । सुधाधाराकाराभरण- वसनाम् । सुधायाः अमृतस्य धारास्तदाकाराणि आभरणानि वसनं च आभरणानि भूषणानि, वसनं वस्त्रम् । 'अलंकार- स्त्वाभरणं परिष्कारो विभूषणम्' । 'वस्त्रमाच्छादनं वासश्चैलं वसनमंशुक’मित्यमरः । सुधाधारावत् आकारो रूपं येषां तानि सुधाधाराकाराणि तादृशानि आभरणवसनानि यस्याः सा ताम् । अतिशुभ्राभरणवसनामित्यर्थः । पुनः कथंभूतां त्वाम् । शुभ्रम- करस्थितां शुभ्रश्चासौ मकरश्च शुभ्रमकर: मकरो मत्स्यः तत्र स्थिता ताम् । शुभ्रमत्स्यवाहिनीमित्यर्थः ॥ ४८ ॥ इदानीं गङ्गा मम शरीरसुखं करोत्वित्याह-- दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै- र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् । चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥ १९ ॥ दरस्मितेति । शंतनो: भीष्मपितुः अङ्गना कल्याणानि अङ्गनानि यस्याः सा अङ्गना । 'अङ्गात्कल्याणे' इति पामाद्यन्त- र्गणसूत्रेण अङ्गशब्दान्नप्रत्ययः । श्रीगङ्गा मम जगन्नाथपण्डि- तस्य तनोः शरीरस्य । 'ङिति ह्रस्वश्चे’ति वैकल्पिकत्वात् घिसं- ज्ञायां गुणः । शं सुखं सपदि शीघ्रं तनोतु विस्तारयतु । प्रार्थ- नायां लोट् । कथंभूता अङ्गना । दरस्मितसमुल्लसद्वदनकान्तिपू- रामृतैः दरं ईषत् तच्च तत् स्मितं च दरस्मितं तेन समुल्लसत् विकासमानं तच्च तद्वदनं च तस्य कान्तिः छविः तस्याः पूरा आधिक्यानि त एवामृतानि तैः भवज्वलनभर्जितान् भव एव संसार एव ज्वलनः अग्निः तेन तत्र वा भर्जिता दग्धास्तान् । एतादृशान् नरान् मनुष्यान् अनिशं सर्वदा ऊर्जयन्ती जीव- यन्ती । यद्वा भवस्य महादेवस्य ज्वलनः तृतीयनेत्राग्निः तेन तत्र वा भर्जितान् एवंच तादृशकृत्यं कुर्वन्त्या मम वपुःसुखक- रणे न कोप्यायास इति भावः । पुनः कथंभूता अङ्गना । चिदेक- मयचन्द्रिकाचयचमत्कृतिम् चिदेकमयी चित्स्वरूपा सा चासौ चन्द्रिका कौमुदी च ।'चन्द्रिका कौमुदी ज्योत्स्ना'इत्यमरः । तस्याः चयः समूहः तस्य चमत्कृतिः चमत्कारः तां तन्वती तनोतीति तन्वती विस्तारयन्ती । तनोतेः शता । अनेकचन्द्रप्रकाशं खयमेव करोतीति भावः । अस्मिन् श्लोके पृथ्वीछन्दः । 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरु'रिति लक्षणात् ॥ ४९ ॥ इदानीं संसारज्वालानिर्दग्धवपुषो मम तापं शमयेत्याह-- मन्त्रैर्मीलितमौषधैर्विगलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः । वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि त्वं तापं [^१]तिरयाधुना मम [^२]भवज्वालावलीढात्मनः । मन्त्रैरिति । वीचिक्षालितकालियाहितपदे कालियस्याहितः शत्रुः कालियाहितः विष्णुः तस्य पदं चरणः वीच्या क्षालितं प्रक्षालितं वीचिक्षालितं कालियाहितपदं यया सा तत्संबोध- नम् । यद्वा कालियः अहितः शत्रुर्यस्य स कालियाहितो विष्णुः शेषं पूर्ववत् । यद्वा कालिये आहितं अर्थात् विष्णुना स्थापितं तच्च तत्पदं च शेषं प्राग्वत् । हे स्वर्लोककल्लोलिनि स्वर्लोकस्य सुरलोकस्य कल्लोलिनी नदी तत्संबोधनम् । एवं अधुना भवज्वा- लावलीढात्मनः भवस्य ज्वालाः ताभिः अवलीढः कवलितः । व्याप्त इत्यर्थः । तादृशः आत्मा यस्य तस्य मम तापं निरय निवा- रय । तिरयेति पाठः । तत्र तिरःकुरु । तिरशब्दात् णिजन्ता- ल्लोट् । अव्ययानां भमात्रे टिलोपः इति तिरसष्टेर्लोप: । क्वचित्तु भवव्यालावलीढात्मन इति पाठः । तत्र भव एव व्यालः सर्पः तेनावलीढः तादृश आत्मा यस्य स तस्येति व्याख्येयम् । ननु तादृशतापनिवारणे मन्त्रादयो बहवः सन्तीति चेत्तेपि न शक्ता इत्याह--मन्त्रैरित्यादि मन्त्रैर्मीलितं साहसेन तापनिवारणा- भावात् संकुचितमित्यर्थः । अयं हेतुः सर्वत्र पूर्वार्धे योज्यः । बहुवचनं तु एकोपि न समर्थ इति बोधनाय। एवमग्रेपि बोध्यम् । यद्वा यत्र बहुभिः संकुचितं तत्र एकस्य का वार्तेत्यर्थबोधनाय । औषधैस्तापनिवारणाय योग्यैर्वैद्यशास्त्रप्रसिद्धैर्मुकुलितं मुकुलीभा- वमापन्नं । सुराणां देवानां गणैः संधैः त्रस्तं त्रासं गतं । सीन्द्र- ------------------------------------- [^१] अयमेव पाठः साधुः । [^२] भवव्यालावलीढात्मन इति पाठ: । सुधारसैः सान्द्राः निबिडाः ते च ते सुधारसाश्च तैः अमृतजलैः । 'रसो जलं रसो हर्ष' इत्यनेकार्थकोशः । स्रस्तं अधःपतितम् । 'स्रंसु अधःपतने' पदत्वाभावात् 'वसुस्त्रंस्वि'ति दत्वं न । गारु- त्मतैः गरुत्मान् गरुडः 'गरुत्मान् गरुडस्तार्क्ष्य'इत्यमरः । देवता येषां ते गारुत्मताः तैः 'सास्य देवते'त्यण् । यद्वा गरुत्मतः इमे गारुत्मताः तैः 'तस्येद'मित्यण् । एतादृशैः ग्रावभिः पा- षाणै: । ’पाषाणप्रास्तरग्रावोपलाश्मानः शिला दृषदि'त्यमरः । विदलितं विशेषेण दलितं स्फुटितम् । विशेषश्च खण्डखण्डभव- नम् । अत्र सर्वत्र पूर्वार्धे नपुंसके भावे क्तः । अतएव कर्तुरनभि- हितत्वान्मन्त्रैरित्यादिषु कर्तरि तृतीया । अत्र श्लोके शार्दूलवि - क्रीडितं छन्दः । 'शार्दूलविक्रीडितं म्सौज्सौतौगादित्यऋषयः' इति लक्षणात् ॥ ५० ॥ इदानीं गङ्गालहरीनटघटीताण्डवमस्मान्पुनात्विति प्रार्थयते-- द्यूते [^]नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दी- न्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक्पणीकर्तुकामे । साकूतं हैमवत्या मृदु- लहसितया वीक्षितायास्तवाम्ब [^२]व्यालोलो- ल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१ ॥ द्यूत इति । भो स्वर्लोककल्लोलिनि, तव भवत्याः व्यालो- लोल्लासि वलूगल्लहरिनटघटीताण्डवम् । व्यालोलाश्चञ्जलाः -------------------------------------------------------- [^१] फणिश्रेणि इति पाठः । [^२] प्रोल्लोलोल्लासिलीलालहरिनवघटोत्ताण्डवं नः पुनीतां इति पाठः । उल्लासिन्यः ऊर्ध्वं उच्छलन्त्यः वल्गन्त्यः गच्छन्त्यः एतादृश्यो या लहर्यः ता एव नटस्तस्य घटीताण्डवं शिरसि घटीं धृत्वा नर्त- नम् । यद्वा नटस्य घटीताण्डवं नटघटीताण्डवम् व्यालोलोल्ला- सिवल्गल्लहरीणां नटघटीताण्डवं तत् नः अस्मान् भक्तजनान्पु- नातु पवित्रीकरोतु । व्यालोलादिविशेषणविशिष्टलहरीभवने मूलमाह । कथंभूतायास्तव । द्यूते दुरोदरे परस्य जिगीषयाक्षैः क्रीडनं द्यूतं तत्र । अत्र विनिगीषायाः सत्त्चात् 'दिवो विजिगी- षाया' मित्यनेन निष्ठातस्य णत्वं न । नागेन्द्रकृत्तिप्रमथगणम- णिश्रेणिनन्दीन्दुमुख्यम् । नागेन्द्रो वासुकिः कृत्तिर्गजादिचर्म, प्रमथगणः तन्नामकः पारिषदः, मणिश्रेणिः मणीनां रुद्राक्षा- दिमणीनां श्रेणिः पड्क्त्ति:, नन्दिः स्ववाहनभूतो वृषभः, इन्दुः स्वशिरोभूषणभूतश्चन्द्रः, एतेषां इतरेतरयोगद्वन्द्वः । नागेन्द्र- कृत्तिप्रमथगणमणिश्रेणिनन्दीन्दवः मुख्याः श्रेष्ठाः यस्मिन् तत् एतादृशं सर्वस्वं सर्वं च तत् स्वं च सर्वस्वं धनं हारयित्वा शिव- सकाशात्पार्वतीं गृहीत्वा । हारयित्वेत्यत्र णिजन्तात्क्त्वा । अत्र प्रयोजककर्तृत्वं पार्वत्याः, प्रयोज्यकर्तृत्वं शिवस्य । अतएव 'समा- नकर्तृकयोः पूर्वकाले' इत्यनेन क्त्वासुलभः । वीक्षणकर्तृकर्तृत्वा हरणमिति बोधः । प्रकृतमनुसरामः । अथ सर्वस्वहरणानन्तरं पुरभिदि पुरनामानं दैत्यं भिनत्ति विदारयतीति पुरभित् तस्मिन् शिवे स्वमात्मानं पणीकर्तुकामे सति पणनं व्यवहरणं पणः 'घञर्थे कविधान'मिति कः । अपणः पणः यथा संपद्यते तथा कर्तुमिति पणीकर्तुं कामः इच्छा यस्य सः तस्मिन् । 'लुम्पेदव- श्यमः कृत्ये तुं काममनसोरपि । समो वाहिततयोर्मांसस्य पचि युट्घञो'रिति पृषोदरादिगणपठितवचनेन कर्तुमिति मकार- लोपः । तादृशे सति मृदुलं हसितं हास्यं यस्याः सा तया । इदा- नीं सपत्नीभूतगङ्गायाचनेन श्रेष्ठसिद्धिर्भविष्यतीत्याशयेन हसिता एतादृश्या हैमवत्या हिमवतो हिमाचलस्यापत्यं स्त्री हैमवती । 'तस्यापत्य'मित्यण् 'टिड्ढाणञि'ति ङीप् । तथा पार्वत्या साकूतं आकूतेनाभिप्रायेण सहितं साकूतं तद्यथा स्यात्तथा वीक्षितायाः विशेषेणेक्षिता वीक्षिता तस्याः । विशेषश्च जटाजूटस्थित्या द्रष्टु- मशक्याया अपि यत्नतो दर्शनव्यापारवत्त्वम् । यद्यपि शिवस्य पूर्वोक्तं सर्वस्वं मया हृतम् अतएव शिवः आत्मानं पणीकरोति तथापि गङ्गा उर्वरिता वर्तते । सा च सपत्नीभूतत्वान्मामवमत्य एतावत्कालपर्यन्तं शिवशिरसि स्थिता वर्तते । इदानीं याच- यित्वा दासी संपादनीयेति साकूतमित्यस्यार्थ इति दिक् । नर्त- नप्रियस्य शिवस्य द्यूतं विस्मारयितुं गङ्गया नृत्यमारब्धमिति दिक् । हैमवतीत्यनेन कठिनहृदयत्वात्तेन सर्वस्वहरणयोग्य- त्वम् । अस्मिन् श्लोके स्रग्धरा वृत्तम् । 'स्रग्धरा म्नौभ्नौयौय्त्रिः- सप्तकाः' इति लक्षणात् ॥ ५१ ॥ इदानीं चरमश्लोकेन स्वाङ्गानाममलीकरणं प्रार्थयते-- विभूषितानङ्गारिपूत्तमाङ्गा सद्यः कृतानेकजनार्तिभङ्गा । मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२ ॥ विभूषितेति । गङ्गा भागीरथी । गङ्गाशब्दार्थस्तु 'स्मृतं सद्य' इत्यष्टमश्लोके उक्तः । मम जगन्नाथस्याङ्गान्यमलीकरो- त्वित्यर्थः । कथंभूता गङ्गा । विभूषितानङ्गरिपूत्तमाङ्गा । अन- ङ्गस्य कामस्य रिपुर्वैरी शिवः तस्योत्तमाङ्गं मस्तकं विभूषितं स्वस्थित्या शोभायुक्तं कृतं अनङ्गरिपूत्तमाङ्गं यया सा । पुनः कथंभूता । सद्यः तत्कालमेव कृतानेकजनार्तिभङ्गा । अनेके च ते जनाश्च तेषामार्तिः पीडा तस्याः भङ्गः नाशः कृतः संपादितः अनेकजनार्तिभङ्गो यया सा । यद्वा जनानां आर्तयः पीडाः अनेकाश्च ता जनार्तयश्च तासां भङ्गः अनेकजनार्तिभङ्गो यया सा । सद्यः कृतानेकजनार्तिभङ्गेत्येकं पदं वा । पुनः कथंभूता । मनोहरोत्तुङ्गचलत्तरङ्गा । मनोहरा अतिरमणीयाः उत्तुङ्गाः उन्नताः चलन्तः चञ्चलाः तरङ्गाः यस्याः सा । अस्मिन्पद्ये उप- जातिनामकं वृत्तम्। 'इन्द्रवज्रा तौज्गौग्' 'उपेन्द्रवज्रा ज्तौ- ज्गौग्' 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् ॥ ५२ ॥ स्वकाव्यपठनस्य फलमाह-- इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् । यः पठेत्तस्य सर्वत्र जायन्ते सुखसंपदः ॥ ५३ ॥ इमामिति । पीयूषस्यामृतस्य लहरीं त्वां यथा पीतामृतल- हर्या आनन्दजनकत्वं तथा अस्या अपीति शेषः । अन्यकृति- भ्रमवारणायाह--जगन्नाथेन निर्मितामिति । निर्मितां कृतीम् । शेषं सुगमम् ॥ ५३ ॥ यद्यप्यहं मन्दमतिस्तथापि टीकासमाप्तिर्हि बभूव शीघ्रम् । नात्रापरं कारणमस्ति किंचिच्छ्रीभास्कराज्ञा किल किंवमोघा ॥ १ ॥ शाके कीलकसंज्ञके नृसुखके संमासके चैत्रके वारे भार्गवके तिथौ करणके सर्पस्य संबालके । मूले मे विबुधौघचित्तसुखदा टीका समाप्तानया तोषं यातु समस्तपापहरिणी गङ्गा महेशाङ्गना ॥ २ ॥ नृपं द्विपं वा तुरगं मृगं वा शुकं बकं वा महिषं वृषं वा । हरीकरोष्यङ्गनकं हि गङ्गे स्नातं भवत्यां सकृदीशसङ्गे ॥ ३॥ नारायणो यस्य पितामहोऽभून्मणीकभट्टश्च पिता तदीयः । गोपी यदीया जननी सुशीला टीका कृता तेन सदाशिवेन ॥ ४ ॥ भक्तोपोद्गमहेतोः केदारत्वं स्थितोऽसि भूभृति किम् । तत्राप्यागत्य त्वां स्वशिवं याचे हि तत् सर्वम् ॥ ५ ॥ इति श्रीसदाशिवकृता पीयूषलहर्याख्या गङ्गालहरी- टीका समाप्ता । ---------------------------- Blank निर्णयसागर छापखान्यांतील विक्रीचीं पुस्तकें. किं. रु. आ. ई. रु. आ. आदित्यहृदय व सूर्यकवच. ..... ...... ० २ ० १ उदासीनसाधुस्तोत्र - (ब्रह्मानंदसाधुकृतमनोरमाव्याख्या- सहित ). ऋणमोचनमङ्गलस्तोत्र. गणेशाष्टक. गणेशसहस्रनाम. गणपतिस्तोत्र. गोपालसहस्रनाम-गोपालकवच व गोपालस्तवराज- यांसहित. गोपालसहस्रनाम--रेशमी पुठ्ठा. गंगालहरी-मूलमात्र. चतुःश्लोकी भागवत. ज्योतिर्लिङ्गस्तोत्र व शिवमानसपूजा. त्रैलोक्यमोहनकवच. दत्तात्रेयस्तोत्र. द्वादशस्तोत्र--भगवत्पादाचार्यकृत. नर्मदाष्टकस्तोत्र--शंकराचार्यकृत. पुरुषोत्तमसहस्रनाम. बृहत्स्तोत्ररत्नाकर सचित्र--(स्तोत्रें १८२) कागदी बाइंडिंग.० १४ बृहत्स्तोत्ररत्नाकर--सचित्र (स्तोत्रें १८२) कापडी बाइंडिंग. १ बृहत्स्तोत्ररत्नोकर--सचित्र (स्तोत्रे १८२) रेशमी बाइंडिंग. १ ब्रह्मज्ञानावली--शंकराचार्यकृत. मकरन्दस्तवराजस्तोत्र. महालक्ष्म्यष्टक. कि.रु.आ.ट. रु. महिम्नस्तोत्र--मधुसूदनी (शिवविष्ण्वर्थ) व्याख्येसहित. महिम्नस्तोत्र--केवलशिवार्थबोधक सुबोधिनीटीका. यमुनाष्टक--शंकराचार्यकृत. रामरक्षास्तोत्र--अगस्त्यकृत. ... रामस्तवराजस्तोत्र. रेणुकासहस्रनाम--हें सहस्रनाम प्रासादिक आहे व यांतील कवच तर केवळ मंत्रमय आहे. लक्ष्मीस्तोत्र--अगस्त्यकृत. लक्ष्मीहृदय व नारायणहृदय--रेशमी पुठ्ठा. विष्णुसहस्रनाम--साधें. विष्णुसहस्रनाम--रेशमी पुठ्ठा. विष्णुसहस्रनाम--मोठें अक्षर (साधें). शिवकवच. शिवसहस्रनाम. शिवतांडवस्तोत्र--दशकण्ठकृत, माधवानंदकृत. शिवमहिम्नस्तोत्र--(मूळ ) ... शिवापराधक्षमापनस्तोत्र--शंकराचार्यकृत शीतलाष्टक. स्तवमाला--श्रीरूपदेवविरचित, जीवदेवकृत भाष्यसहित. पांडुरंग जावजी, निर्णयसागर छापखान्याचे मालक. Blank