प्रारम्भिक-प्रस्तावना.
श्रीमहाकविजयदेवविरचितं मृदुलपदसरणिललितं रुचिरार्थसंहतिबहुलं सरसरागनिबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डागारसदृशमिदं गीतगोविन्दकाव्यं कैश्चिद्भूयो मुद्रयित्वा प्रकाशितमपि सहृदयाह्लादिन्या साहित्यसंगीतविवेकप्रचुरया टीकया समेतं केनापि प्रकाशितं नैव दृश्यते । अतस्तद्रसध्वन्यलंकाररागतालादिलक्षणानुगतिद्योतकेन टीकाद्वयेनालंकृत्य संप्रति रसिकजनविनोदाय प्रकाश्यते ।
अस्य गीतगोविन्दकाव्यस्य प्रणेतुर्जयदेवकवेर्देशकालादिकं जीवितवृत्तं चान्येषां बहूनां कवीनामिव सम्यङ् न ज्ञायते । तथाप्यस्माभिर्यत्किंचिन्मधुकरवृत्त्या संकलितं तदत्र विद्वत्कौतुकाय संगृह्यते ।
गीतगोविन्दकाव्यादेव यदस्य कवेः पितृनामादिकं लभ्यते तदेवम् -- जयदेवस्य पितु[^१]र्नाम श्रीभोजदेव इति । मातुर्नाम राधादेवी रामादेवीति वा । पराशराभिधः कोऽपि रसिकोऽस्य सुहृदासीत् । जयदेव[^२]कवेर्भार्याया नाम पद्मावतीति । उ[^३]मापतिधरः शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयदेवसमकालीना आसन् । जयदेवस्य कुलवृत्तिग्राम: किन्दु[^४]बिल्वाख्य आसीदिति ।
जयदेवकविः परमः कृष्णभक्त आसीत् । अतो लोकेऽयं महासाधुत्वेन सर्वस्मिन्नपि भरतखण्डे विख्यातो बभूव । एतद्विषयकमस्य चरितं श्रीमच्चन्द्रदत्तकृतभक्तमालाख्ये[^५]ग्रन्थे ३९ तमसर्गमारभ्य ४१ तमसर्गपर्यन्तं त्रिभिः सर्गैर्वर्णितमस्ति । तदत्र बालबोधाय यथामूलमुपन्यस्यते । तद्यथा -
"पुनरने प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि ॥
जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे ।
बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः ॥
तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः ।
विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः ॥
[^१.] गीतगोविन्दस्थे "श्रीभोजदेव" इत्यादिपदे ( पृ० १७१ ) द्रष्टव्यम् ।
[^२.] गीतगोविन्दस्थैकोनविंशप्रबन्धस्यान्तिमपदस्य "जयति पद्मावतीरमणजयदेव" इत्यादिपाठान्तरदर्शनात् (पृ० १३३ ) भक्तमालाग्रन्थेऽपि तथैव कथनाच्च ।
[^३.] गीतगोविन्दस्थे "वाच: पल्लवयत्युमापतिधरः" इत्यादिपद्ये ( पृ० ९ ) द्रष्टव्यम् ।
[^४.] गीतगोविन्दस्थसप्तमप्रबन्धस्यान्तिमपदे ( पृ० ५८) "किन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन" इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वदलस्य जयदेवकुलवृत्तिग्रामत्वेन व्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु "विन्दुबिल्व" इति पाठो दृश्यते ।
[^५.] अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजश्रीकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर-
मुद्रालये मुद्रयित्वा प्रकाशितः । तत उद्धृतमेतदध्यायत्रयम् ।
अथ तत्रैव विप्रोऽन्यो देवशर्मेति विश्रुतः ।
अनपत्यो बभूवासौ जगन्नाथमुपागतः ॥
नमस्कृत्य हरिं मूर्ध्ना स्वीचकार कृताञ्जलिः ।
यदि मे संततिर्नाथ त्वत्प्रसादाद्भविष्यति ॥
अपत्यं प्रथमं तुभ्यमर्पयिष्याम्यसंशयम् ।
प्रतिश्रुत्य मनस्येवं स यातो निजमन्दिरम् ॥
तत्र कालेन कियता कन्यैका प्रथमाजनि ।
ततः पुत्रानलभत साधुवृत्तान्मनोहरान् ॥
ततः स मनसा स्मृत्वा सपत्नीको द्विजोत्तमः ।
कन्यां गृहीत्वा हर्षेण जगन्नाथमुपागतः ॥
नमस्कृत्य जगन्नाथं देवशर्माब्रवीद्वचः ।
देव देव जगन्नाथ प्रसादः फलितो मम ॥
प्रथमा तनया जाता पुत्रास्तु तदनन्तरम् ।
अतः प्रतिश्रुतां कन्यां ददामि प्रतिगृह्यताम् ॥
इत्युक्त्वा तां करेणासौ गृहीत्वा तां प्रदर्श्य च ।
पूजकेभ्योऽथ वृत्तान्तमादितो व्याजहार सः ॥
ततो बहिः समागत्य सोऽवतस्थे क्वचिद्द्विजः ।
रात्रौ तस्य च विप्रस्य पूजकस्य जगत्प्रभुः ॥
स्वप्ने तं कथयामास जगन्नाथो द्रुतं वचः ।
देवशर्मन्प्रसन्नोऽस्मि स्वीकृता ते सुता मया ॥
परंतु जयदेवाय दीयतां मत्प्रियो ह्यसौ ।
अहमेव स विज्ञेयो नात्र कार्या विचारणा ॥
पूजकोऽप्येवमेवाथ स्वप्नं दृष्ट्वा प्रबोधितः ।
देवशर्माणमागत्य स्वप्नं प्रोवाच हर्षितः ॥
श्रुत्वैवं देवशर्मापि स्वप्नं सत्यममन्यत ।
पूजकं तं नमस्कृत्य गृहीत्वा तनयां निजाम् ॥
जगाम जयदेवस्य संनिधौ हृष्टमानसः ।
तं तु पर्णकुटीमध्ये ग्रामाद्बहिरवैक्षत ॥
दरिद्रं निरपेक्षं च शास्त्रं पश्यन्तमादरात् ।
मनसा तु जगन्नाथं ध्यायन्तं मुदिताननम् ॥
प्रणम्य जयदेवं तं देवशर्माब्रवीद्वचः ।
इयं मे तनया ब्रह्मजगन्नाथाज्ञया मया ॥
नाम्ना पद्मावती तुभ्यं दीयतेऽनुगृहाण ताम् ।
इत्युक्तो जयदेवस्तमुवाच मधुरं वचः ॥
अहं न कन्यादानस्य पात्रं दीनोऽनिकेतनः ।
ममापि न जिघृक्षास्ति किमिदं भाषसे वृथा ॥
जगन्नाथाज्ञयेत्युक्त्वा यन्मां वञ्चयसि स्फुटम् ।
कुत एवं मतिभ्रंशो गच्छ गच्छ यथासुखम् ॥
आनाय्य पूजकं तत्तु देवशर्मातियत्नतः ।
निवेदयामास मुहुस्तां च न स्वीचकार सः ॥
ततः स्वतनयां तत्र स्थापयित्वा द्विजोऽब्रवीत् ।
अयं तु ते पतिः पुत्रि त्वया पूज्यश्च सर्वदा ।
पतिसेवापरा नारी सुखमक्षय्यमश्नुते ॥
इत्युक्त्वा तां देवशर्मा ययौ पत्न्या सहाश्रमम् ।
सापि कन्या स्थिता तत्र जयदेवस्य संनिधौ ॥
जयदेवस्तु तां प्राह गतौ तौ पितरौ तव ।
त्वां विहाय त्वमप्येका कथं स्थास्यसि कानने ॥
अथ पद्मावती प्राह भगवन्किं ब्रवीषि भोः ।
स्वमातृपितृदेयां वै स मां तुभ्यं ददौ पिता ॥
अतस्तवाहं त्वं चेन्मामतिभक्तामनागसम् ।
त्यक्ष्यसीत्यत्र किं कुर्या नाहमेका त्वयि स्थिते ॥
पद्मावतीवचः श्रुत्वा जयदेवोऽप्यचिन्तयत् ।
अनया सत्यमुक्तं हि त्यागे दोषो महान्मम ॥
तस्मादस्याः पितुर्गेहं गत्वाहमनया सह ।
इमां प्रतिग्रहीष्यामि विधिना नात्र संशयः ॥
इति निश्चित्य मनसा जयदेव उवाच ताम् ।
एह्यागच्छ मया सार्धं गच्छामि त्वत्पितुर्गृहम् ।
विधिना तत्र ते पाणिं ग्रहीष्यामि न संशयः ॥
इत्येवं वचनं श्रुत्वा प्राह पद्मावती पुनः ।
त्वदाज्ञाकरणं धर्म इत्येवं मां पिताब्रवीत् ॥
अतो महाप्रसादोऽयमित्युक्त्वाग्रे स्थिताभवत् ।
जयदेवस्तया सार्धं देवशर्मगृहं गतः ॥
तमुक्त्वा गद्गदं सर्वं प्रतिगृह्य यथाविधि ।
पद्मावत्या तया सार्धंमाजगामसार्धमाजगाम निजं गृहम् ॥
उभौ तौ दम्पती तत्र एकप्राणौ बभूवतुः ।
नृत्यन्तौ चापि गायन्तौ श्रीकृष्णार्चनतत्परौ ॥
एकदा जयदेवस्तु मनस्येवमचिन्तयत् ।
स्वयंकृतेन गीतेन तोषयिष्याम्यहं हरिम् ॥
इति निश्चित्य निर्माय गीतगोविन्दनामकम् ।
गायंस्तु देवदेवाग्रे पत्न्या सह ननर्त ह ॥
एवं नित्यव्रतं तस्य तत्रैकस्मिन्दिने पुनः ।
बबन्ध रासचरितं कृष्णोक्तौ राधिकां प्रति ॥
शिरस्याधेहि मे पादमित्यर्थं च करं हृदि ।
समायान्तं न तद्दातुं शशाकेश्वरतां स्मरन् ॥
अन्यदन्वेषमाणोऽपि न लेभे तादृशं पदम् ।
संस्थाप्य पुस्तकं स्नातुं जगामान्यद्विचिन्तयन् ॥
तावज्जयदेवरूपेण कृष्णस्तत्र समागतः ।
पद्मावतीमुवाचाथ पुस्तकं देहि मे प्रिये ॥
पद्मावती समानीय ददौ तत्पुस्तकं द्रुतम् ।
गृहीत्वा पुस्तकं तत्र जयदेवेन यत्कृतम् ॥
मनसा तल्लिलेखासौ जयदेवस्वरूपधृक् ।
पुनरुत्थाय स स्नातुं जगामातित्वरान्वितः ॥
कंचित्कालमतीत्याथ जयदेवः समागतः ।
देवानभ्यर्च्य भक्त्या च गृहीत्वा पुस्तकं पुनः ॥
मनसा कल्पितं पद्यं लिखितुं तु समुद्यतः ।
ददर्श तत्र तत्पद्यं नालिखद्यदयं पुरा ॥
अन्येन लिखितं ज्ञात्वा प्राह पद्मावतीं प्रियाम् ।
अये केनेदमालेखि तं जानासि शुचिस्मिते ॥
नाहमेतत्पदं पूर्वमलिखं नाक्षरं मम ।
इति श्रुत्वा वचस्तस्य प्राह पद्मावती प्रिया ॥
नाथ कोऽयं भ्रमस्तेऽद्य जयदेवं वचोऽब्रवीत् ।
स्नातुं गतस्तु तत्काले पुनरागत्य सत्वरम् ॥
गृहीत्वा पुस्तकं मत्तो लिखित्वा त्वं पुनर्गतः ।
स्नातुमेवं तु जानामि कोऽन्यस्त्वत्तोत्र लेखकः ॥
इति श्रुत्वा प्रियावाक्यं जयदेवोऽतिविस्मितः ।
अहर्निशं तमेवार्थं चिन्तयन्नालभत्सुखम् ॥
तस्मिन्दिने रात्रिशेषे स्वप्ने श्रीपुरुषोत्तमः ।
उवाच जयदेवं तु स स्वप्ने मुमुदे भृशम् ।
स्वपत्नीं सुभगां मेने पुरुषोत्तमदर्शनात् ॥
तदारभ्यातिभक्त्या वै पत्न्या सह हरिं भजन् ।
गायन्वै गीतगोविन्दं तोषयामास केशवम् ॥
निर्माय गीतगोविन्दपुस्तकं पुरुषोत्तमे ।
निवेद्य कृतकृत्योऽभूज्जयदेवो महामनाः ॥
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकोनचत्वारिंशः सर्गः ॥
पुनर्वक्ष्यामि तस्यैव चरितं परमाद्भुतम् ।
जयदेवस्य विप्रस्य गीतगोविन्दसंभवम् ॥
एकदा गीतगोविन्दं श्रुत्वा राजातिहर्षितः ।
निजाग्रे स्थापयित्वा तत्काव्यं तादृशमेव च ॥
स्वयं निर्माय विद्वद्भ्यो ददावाज्ञां नृपः पुनः ।
अद्यारभ्य ममैतद्वै गीतगोविन्दनामकम् ॥
पठ्यतां गीयतां सर्वैरन्यथा दण्डभाग्भवेत् ।
इत्याज्ञाप्य द्वितीयं तद्गीतगोविन्दनामकम् ॥
प्रख्यापयामास नृपः काव्यं स्वकृतमेव तु ।
जयदेवकृतं कोऽपि न जगौ नृपशासनात् ॥
अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् ।
आगतस्तत्र देवाग्रे जयदेवं ददर्श ह ॥
नृत्यन्तं स्वकृतं काव्यं गायन्तं नृप आह तम् ।
अहो मदीयं काव्यं त्वं कुतो न स्वीकरोषि भोः ॥
श्रुत्वैवं जयदेवस्तु राजानं प्राह भीतवत् ।
स्वीकृतं भवदीयं तु काव्यं राजन्न संशयः ॥
परंतु मत्कृतेनायं यथा तुष्यति केशवः ।
न तथा त्वत्कृतेनेति परीक्षा क्रियतामिह ॥
एतच्छ्रुत्वा तु वचनं जयदेवकृतं स्वकम् ।
उभयं स्थापयामास जगन्नाथाग्रतः स्वयम् ॥
उवाच देवं भोः स्वामिन्किं तवातिप्रियं द्वयोः ।
तत्स्थापयोपरिष्टात्तु यामः सर्वे बहिर्गृहात् ॥
इत्युक्त्वा ते बहिर्याता द्वारे दत्त्वा कपाटकम् ।
राजा च जयदेवश्च ये चान्ये तत्र वै द्विजाः ॥
अग्रे स्थित्वा क्षणं तत्रोद्घाटितं स्वयमेव हि ।
कपाटं मन्दिरे याताः सर्वे राजपुरःसराः ॥
ददृशुस्तत्र ते सर्वे जयदेवेन निर्मितम् ।
उपरिष्टात्स्थापितं तु तदधो राजनिर्मितम् ॥
दृष्ट्वा तत्परमाश्चर्यं राजा शोकसमन्वितः ।
तत्याजान्नं च पानीयं रात्रौ तत्रैव तस्थिवात् ॥
नृपः स्वप्ने ददर्शाथ पुरुषोत्तमरूपधृक् ।
कश्चित्समागतो ब्रूते किमर्थं शोचसे वृथा ॥
गीतगोविन्दसदृशं नान्यत्काव्यं प्रियं मम ।
त्वत्कृतेनापि तुष्यामि भक्तस्त्वं नात्र संशयः ॥
परंतु गीतगोविन्दं स्वीकरोतु भवानपि ।
प्रख्यापयतु लोकेऽस्मिन्मम प्रीतिविवर्धनम् ॥
एवं पश्यन्नृपः स्वप्ने जहौ निद्रां मुदान्वितः ।
कृष्णं ननाम मनसा स्वापराधं क्षमापयन् ॥
तदारभ्य नृपो जातो जयदेवेऽतिभक्तिमान् ।
स्वयं तु गीतगोविन्दं प्रपठन्भक्तिपूर्वकम् ॥
प्रख्यापयामास पुनर्देशे देशे नृपोत्तमः ।
अथापरं प्रवक्ष्यामि तस्यैव चरितं शुभम् ॥
एकदा तूत्कले देशे पुरुषोत्तमसंनिधौ ।
कस्मिंश्चिन्नगरे काचिच्छाकविक्रयिणी मुदा ॥
शरत्काले निशीथिन्यां चन्द्रिकाञ्चितदिग्दशे ।
गायन्ती गीतगोविन्दं वृन्ताकवनमध्यगा ॥
वृन्ताकं च विचिन्वन्ती विक्रयार्थमितस्ततः ।
गायन्ती कृष्णचरितं जयदेवविनिर्मितम् ॥
श्रुत्वा गानं तु भगवांस्तस्याः पश्चादितस्ततः ।
शृण्वन्गीतं स बभ्राम व्रजन्ती सा यतो यतः ॥
एवं भक्तिवशः कृष्णो वृन्ताकविपिने हरेः ।
वृन्ताककण्टकैश्छिन्नं परिधानीयमम्बरम् ॥
वृन्ताकानि गृहीत्वा सा मन्दिरं स्वं ययौ यदा ।
तदा स्वधाम संप्राप्तो निशि श्रीपुरुषोत्तमः ॥
प्रभाते तत्र पूजार्थमायातः पूजको हरेः ।
पूजासंभारमादाय द्रष्टुं राजाप्युपागतः ॥
प्रोद्घाट्य स कपाटं तु गत्वा देवस्य संनिधौ ।
स्थापयन्परिधानीयमपश्यत्खण्डशः कृतम् ॥
वृन्ताककण्टकैर्विद्धं किमेतदित्यचिन्तयत् ।
आहूय स तु राजानं दर्शयामास चाम्बरम् ॥
कथमेतदभूद्राजन्परमाश्चर्यमित्यहो ।
मयैवागत्य च पुनः कपाटोद्घाटनं कृतम् ॥
न बालो नापि चोन्मत्तः कश्चिदत्रागतो निशि ।
कथमेतद्विजानीयां केनेदं कृतमीदृशम् ॥
इत्युक्त्वा पूजयित्वा तं सह राज्ञा स पूजकः ।
विस्मितो बहिरागत्य परां चिन्तामुपागतः ॥
मुहुर्मुहुश्चिन्तयानो न लेभेऽद्भुतकारणम् ।
तदा राजापि तत्रैव पूजकब्राह्मणेन वै ॥
उवाच रात्रौ श्रीकृष्णं प्रार्थयन्मनसा मुहुः ।
केनेदमासीद्वस्त्रस्य खण्डशः करणं विभोः ॥
एवं चिन्तापरौ तौ तु त्यक्ताशनजलावुभौ ।
रात्रौ सुषुपतुस्तत्र लेभाते नैव तौ सुखम् ॥
तदा निशावशेषे तु स्वप्ने श्रीपुरुषोत्तमः ।
ददृशतुरुभौ देवं तत्तद्रूपिणमागतम् ॥
राजानं ब्राह्मणं चापि वदन्तं मधुराक्षरम् ।
विषीदसि किमर्थं भो मद्वस्त्रच्छेदनादिना ॥
शृणुष्व कारणं वासो येन च्छिन्नमनेकधा ।
इतोऽविदूरे वृन्ताकवाट्यां काचिज्जगौ मुदा ॥
फलविक्रयिणी गीतगोविन्दं मम वल्लभम् ।
तच्छ्रोतुमगमं चाहं वाट्यां सार्धं तथा पुनः ॥
इतस्ततो ह्यधावं तु ततो वृन्ताककण्टकैः ।
खण्डशः स्फुटितं वस्त्रं सत्यमेतन्न संशयः ॥
मा विषादं कुरुष्वात्र नैव दोषोऽस्ति कस्यचित् ।
इति श्रुत्वा वचः स्वप्ने भूपतिः स च पूजकः ॥
उत्थाय च ततो विप्रो राजसंनिधिमागतः ।
राजानमुक्तवान्सर्वं स्वप्ने यद्यदवैक्षत ॥
श्रुत्वा राजाथ तत्सर्वं सत्यमेतदिति ब्रुवन् ।
उवाच स्वप्ने यद्दृष्टं राजापि स्वयमेव हि ॥
परस्परं प्रशंसन्तौ शाकविक्रयिणीमुभौ ।
जयदेवकविं चैव राजा तु ब्राह्मणः स च ॥
अथ राजा तु तां शूद्रीं शाकविक्रयिणीं तदा ।
आनाय्य जीविकां दत्त्वा वसात्रैव पुरे सदा ॥
गायन्ती गीतगोविन्दं नित्यं श्रीपुरुषोत्तमम् ।
तोषयेति नृपस्त्वाज्ञां दत्त्वा संपूज्य केशवम् ॥
भुक्त्वा प्रसादं देवस्य जगाम भवनं निजम् ।
जयदेवं ततो राजा भक्तराजममन्यत ॥
मुहुस्तद्दर्शनाकाङ्क्षी कविवेश्म ययौ नृपः ।
एवं भक्तिवशः कृष्णः किं किं न कुरुते प्रभुः ॥
तस्मादद्यापि भक्तिर्हि नृणां सर्वार्थसाधिनी ।
अथापरं प्रवक्ष्यामि पद्मावत्या विचेष्टितम् ॥
जयदेवस्य चरितं महदाश्चर्यमुत्तमम् ।
एकदा तत्र नृपतेर्भ्राता कश्चित्सगोत्रजः ॥
ममार कालधर्मेण तत्पत्नी सुव्रता सती ।
अनुगन्तुं मनश्चक्रे निश्चितं पतिदेवता ॥
ततो राजा ददौ सर्वं संभारमौर्ध्वदैहिकम् ।
स्वयं तत्र गतो राजा पुरवासिजनैर्वृतः ॥
तस्मिन्नेव क्षणे राज्ञीं द्रष्टुं पद्मावती ययौ ।
राज्ञी प्रणम्य तां प्राह सतीं द्रष्टुं किमेषि भोः ॥
इति श्रुत्वा वचो राज्ञ्याः प्राह पद्मावती सती ।
अहो पाषण्ड इत्येष मृते पत्यौ मनस्विनी ॥
एवं मर्तुमुपायं यत्प्रसाधयति सुव्रता ।
अहं तु मन्ये भो राज्ञि पत्युर्मरणसंश्रुतम् (?) ॥
तत्क्षणाद्देहजे वह्नौ भस्मीभूता न याभवत् ।
का भक्तिः का च तत्प्रीतिर्व्रतं तस्याश्च किं पुनः ॥
इति श्रुत्वा वचस्तस्या राज्ञी विस्मयमागता ।
किमिदं भाषसे साध्वि कथमेवं भविष्यसि ॥
परीक्षां कारयिष्यामि किंचित्कालं प्रतीक्ष्य च ।
इति श्रुत्वा वचस्तस्या राज्ञी विस्मयमागता ॥
पद्मावत्यपि तां राज्ञीं समाभाष्य गृहं ययौ ।
अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् ॥
जगाम जयदेवं तं पुरस्कृत्यातिभक्तितः ।
उवास तत्र तां रात्रिं जयदेवेन संगतः ॥
अथ प्रभाते संजाते यावद्राजा न चागतः ।
तावदेव तु सा राज्ञी कविपत्नीं समाह्वयत् ॥
पद्मावती समायाता राज्ञीं प्राह करोमि किम् ।
तां दृष्ट्वा राजपत्नी सा रुरोदाह च विह्वला ॥
राज्ञा सह कविस्तत्र देवं द्रष्टुं गतः किल ।
तत्राकस्माद्विना दुःखं पतिस्ते देहमत्यजत् ॥
तद्दुःखवशगो राजा नायाति स्वगृहं पुनः ।
अमी समागता भृत्याः कथयन्तीदमप्रियम् ॥
इति श्रुत्वा वचस्तस्या राज्ञ्याः पद्मावती सती ।
अहो किमिदमित्युक्त्वा तूष्णीं तस्थौ क्षणार्धतः ॥
निपपात पृथिव्यां सा गतासुरभवत्तदा ।
अथ राज्ञी समागत्य हाहाकारं मुहुर्मुहुः ॥
कुर्वन्ती स्वयमेवार्तां तामुत्थाप्य पतिव्रता ।
नोत्तस्थौ तां मृतां ज्ञात्वा राज्ञी शोकसमाकुला ॥
भयार्ता विललापाथ गर्हयन्ती निजां क्रियाम् ।
अथ तत्र गताः सर्वे राजदाराः समन्ततः ॥
चुक्रुशुः शोकसंतप्ताः किं जातमिति चाब्रुवन् ।
अथ राजापि कविना समायातोऽतिविस्मितः ॥
श्रुत्वा कोलाहलं शीघ्रं ययावन्तःपुरं स्वकम् ।
जयदेवेन सार्धं च तत्र गत्वा ददर्श ह ॥
पद्मावतीं मृतां भूमौ राजा त्वाह प्रियां प्रति ।
किं जातमस्या येनेयं मृता कस्मात्कविप्रिया ॥
श्रुत्वा राज्ञी नृपवचो भीता प्राह कृताञ्जलिः ।
मम दुश्चरितं नाथ क्षम्यतां कथयामि ते ॥
तव भ्राता मृतः पूर्वं तत्पत्नी सा तमन्वगात् ।
तां दृष्ट्वा प्राह मामेषा कोऽयं पाखण्ड इत्यहो ॥
मृते पत्यौ तत्क्षणात्तु भस्मसादभवन्न या ।
तस्या वृथा व्रतं प्रीतिरित्येवं मम निश्चयः ॥
इति श्रुत्वा वचस्तस्याश्चिकीर्षन्ती परीक्षणम् ।
अवदं ते पतिः साध्वि मृतोऽकस्मादिति श्रुतम् ॥
तच्छ्रुत्वैव पपातोर्व्यां मृता तत्क्षणमेव हि ।
इदानीं त्वमिहायातः कविना सह संगतः ॥
अतः परं यत्कर्तव्यं तत्कुरुष्व मम प्रभो ।
इति श्रुत्वा वचस्तस्या राजा प्राहातिविस्मितः ॥
वृथेयं घातिता देवि त्वया पद्मावती सती ।
निवत्स्यति कथं गेहे जयदेवोऽनया विना ॥
अतस्त्यक्ष्याम्यहमपि त्वां यथेच्छं व्रजाधुना ।
घातने स्त्रीवधो मे स्यादवध्या हि स्त्रियो नृणाम् ॥
इति राजवचः श्रुत्वा जयदेवोऽब्रवीद्वचः ।
राजन्ननपराधेयं महिषी तव सुव्रता ॥
न त्यागमर्हत्येषा वै नैवं ब्रूहि ममाग्रतः ।
कौतुकेन मृषावाक्यं भवत्येव न संशयः ॥
वाङ्मात्रेण न तत्रास्ति पातकं कस्यचिन्नृप ।
किं च क्षणं जगन्नाथं स्मर त्वं सुमना भव ॥
भजेऽहमपि तं देवं कल्याणं स करिष्यति ।
इत्युक्त्वा जयदेवस्तु वाद्यमादाय सर्वशः ॥
प्रिये चार्विति यत्स्वोक्तं गीतं तत्परमानसः ।
जगौ ततः क्षणादेव पद्मावत्याः कलेवरम् ॥
संचचाल ततः सर्वे विस्मयोत्फुल्ललोचनाः ।
साधु साध्विति च प्रोचुः कंचित्कालं व्यतीत्य सा ॥
समुत्थाय जगौ पत्या सार्धं तु पश्यतां नृणाम् ।
ततो राजा जहर्षाथ राज्ञी चापि पुनः सतीम् ॥
प्रणनाम मुहुर्भक्त्या क्षम्यतामिति भाषिणी ।
ततः प्रसन्नः स कविः स्नात्वा भुक्त्वा नृपाज्ञया ॥
स्वगृहं प्रययौ हृष्टः पद्मावत्या महोत्सुकः ।
एवं भगवतो भक्तिर्मृतसंजीविनी नृणाम् ॥
अद्यापि वर्तते लोके निश्चयोऽपेक्षितः किल ।
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नाम चत्वारिंशः सर्गः ॥
अपरं शृणु वक्ष्यामि कवेः सुचरितं महत् ।
जयदेवसमः साधुर्न भूतो न भविष्यति ॥
सर्वभूतसुहृल्लोके सममात्मसमं पुनः ।
पश्चात्प्रारब्धभोगस्तु मनुते कर्मबन्धनम् ॥
एकदा स क्वचिद्ग्रामे निमन्त्रणवशाद्गतः ।
तत्र संमानितः शिष्यैर्वस्त्रालंकरणादिभिः ॥
भोजयित्वा सुवर्णानि दत्त्वा प्रातर्विसर्जितः ।
आगच्छद्विपिने मार्गे चिन्तयन्पुरुषोत्तमम् ॥
ततः खड्गधरास्तत्र लुण्टाकाः समुपागताः ।
चत्वारो निर्दयास्तीव्राः कालान्तकयमोपमाः ॥
तान्दृष्ट्वा जयदेवस्तु धनलोभाज्जिघांसतः ।
उपायमकरोत्तत्र प्राणत्राणाय केवलम् ॥
तानुवाच कविः प्रेम्णा वत्सा यूयं क्व गच्छथ ।
पुरुषोत्तमपुरीं याम इत्युक्तस्तैः पुनः स तु ॥
उवाच तान्मधुरया वाचा भद्रमभूदिह ।
मयापि तत्र गन्तव्यं भवद्भिः साकमेव हि ॥
परं तु वृद्ध एकाकी गृहीत्वैतद्धनानि भो ।
गन्तुं न शक्तो यूयं चेद्धनमेतत्प्रगृह्य च ॥
गच्छताद्य मया सार्धं तदा मे गमनं भवेत् ।
इत्युक्त्वा तानि वस्त्राणि सुवर्णानि च सर्वशः ॥
तेभ्यो दत्त्वा सुखं मेने प्राणत्राणं मुदान्वितः ।
शनैः शनैस्ततः पश्चात्ततः सोऽप्यगमत्कविः ॥
गृहीत्वैतानि वस्तूनि सुखं गच्छन्त्वमी पुनः ।
यास्यामि स्वगृहं दैवान्महारिष्टाद्विमोचितः ॥
अन्यथा माममी लोभाद्घातयेयुर्न संशयः ।
इत्येवं चिन्तयन्तं तं जयदेवं शनैः शनैः ॥
गच्छन्तं पुरतश्चौरा दीर्घनादैः समाह्वयन् ।
अहो शीघ्रं समागच्छ गृहाणेदं निजं धनम् ॥
त्वं तु गन्तुं न शक्नोषि दूरं गन्तव्यमस्ति नः ।
इति श्रुत्वा वचस्तेषां जयदेवोऽतिशङ्कितः ॥
किं करिष्यन्त्यमीत्येत(न्मनसाचि)चिन्तयत् पथि ( ? ) ।
तावत्ते मन्त्रयामासुरयं धूर्तोऽस्ति वै द्विजः ॥
अस्माभिरेव वस्तूनि प्रापयिष्यति नः पुनः ।
घातयिष्यति गत्वायं स्वग्रामे नात्र संशयः ॥
तस्मादेनं निहत्याथ गमिष्यामो न चान्यथा ।
एवं केनचिदुक्ते च तन्मध्ये कोऽप्यभाषत ।
अहो किं मारणेनास्य बद्ध्वा संस्थाप्यतां क्वचित् ।
इत्युक्त्वा जयदेवं तु गृहीत्वा तेऽतिनिर्दयाः ॥
हस्तौ पादौ तथैकत्र बद्ध्वा चिक्षिपुरन्यतः ।
पुनस्तन्मध्यतः कोऽपि महादुष्टोऽतिनिर्दयः ॥
खड्गेन पाणिपादं तद्बद्धं चिच्छेद यत्नतः ।
ततस्ते गन्तुमनसश्चौरा जग्मुर्यदृच्छया ॥
जयदेवोऽपि प्रारब्धभोगोऽयमित्यमन्यत ।
चिन्तयानो जगन्नाथं तत्रारण्ये क्षुधार्दितः ॥
अथ तत्रैत्य नृपतिर्मृगयां पर्यटन्वने ।
एकाकी हयमारूढो धावन्तं मृगमन्वगात् ॥
राजा तत्राजगामाथ जयदेवसमीपगम् ।
मृगं दृष्ट्वा न विव्याध जयदेवेन शङ्कितः ॥
आरोप्य शिबिकायां तमानिनाय निजं पुरम् ।
तत्र पद्मावतीं साध्वीमानाय्य नृपतिस्तदा ॥
सेवयामास सर्वैश्च जयदेवं नृपोत्तमः ।
ततो राजा प्रतिदिनं जयदेवदिदृक्षया ॥
जगाम तद्गृहं तस्य तदातिथ्यं चकार सः ।
एवं गतेषु कालेषु कियत्सु च ततः कविः ॥
समाजग्मुस्तु ते चौरा मुद्रामात्रविभूषिताः ।
साधुवेषधरास्ते तमुपकारं दिदृक्षवः ॥
आगच्छन्तो भगवतो गृहमायान्त्वसंशयम् ।
पद्मावतीं समाहूय पाद्याद्यैस्तानपूजयत् ॥
ततस्तान्भोजयित्वा तमाजुहाव नृपं कविः ।
राजा तत्रागतस्तं च जयदेवोऽभ्यभाषत ॥
पुरस्कृत्य च तान्दुष्टानदुष्टेनान्तरात्मना ।
राजन्नेते गुरुसमा महान्तः शास्त्रपारगाः ॥
एतेभ्यो देहि वित्तानि पात्रमेते न संशयः ।
इति श्रुत्वा ततो राजा रत्नानि विविधानि च ॥
वस्त्राण्याभरणादीनि ददौ परमभक्तितः ।
गृहीत्वा तद्धनं ते वै यथेष्टं गन्तुमुद्यताः ॥
तदा प्राह नृपं भूयो जयदेवोऽतिहर्षितः ।
अहो मार्गे कियद्दूरं वनमत्यन्तभीषणम् ॥
तस्य संतारणार्थाय भृत्यं तेभ्यो नियोजय ।
वनाद्बहिरिमान्कृत्वा पुनरायातु मेऽन्तिकम् ॥
इति श्रुत्वा ततो राजा पदातीन्पञ्च तान्प्रति ।
नियोजयामास तदा ते जग्मुस्तैः सहाद्भुतम् ॥
ततो सर्वनगैस्ते ( ? ) तु तरुच्छायामुपाश्रिताः ।
राजभृत्याः कथाशेषे तानूचुश्च विनीतवत् ॥
अहो कवेर्भवन्तः के तद्ब्रूत कृपया मुदा ।
युष्मदर्थं तु भक्त्या यद्राजानं प्रार्थयत्कविः ॥
इति श्रुत्वा वचस्तस्य राजभृत्यस्य ते खलाः ।
ऊचुः प्रशस्य ते सर्वे शृणु कारणमत्र भो ॥
कर्नाटराजनिकटे वयं भिक्षाशिनः स्थिताः ।
तत्रायमपि चायातो धनार्थी काव्यकृद्द्विजः ॥
तथैकस्य गृहे चौर्यं चकारायं द्विजाधमः ।
धनिकेन गृहीत्वाथ प्रापितो राजसंनिधौ ॥
राजानं प्राह धनिको नायं विप्रकुलोद्भवः ।
चौरोऽयं नित्यचौर्येण कदापि पतितः प्रभो ॥
इदानीं मद्गृहे भृत्यैर्धृत्वा नीतस्तवान्तिके ।
इति श्रुत्वा ततो राजा चाण्डालाय समार्पयत् ॥
गृहीत्वेमं दुरात्मानं मम राज्याद्बहिष्कुरु ।
अन्यराज्ये तु प्रापय्य जहि खड्गेन पापिनम् ॥
इत्याज्ञां शिरसा कृत्वा चाण्डालस्तं प्रगृह्य च ।
गच्छंश्च प्रार्थितो भूयो द्रव्येणापि वशीकृतः ॥
अस्माभिरुक्तो नायं भो वध्यो युष्माभिरेव च ।
देशान्तरमवश्यं तु प्रापयित्वाङ्गुलिद्वयम् ॥
छित्त्वा यान्तु नृपद्वारं प्रत्ययार्थं प्रदृश्यताम् ।
इत्येतदुक्तं स्वीकृत्य नीत्वा तं राज्यतो बहिः ॥
अत्र राज्ये वने क्वापि च्छित्त्वा तत्पाणिपादकम् ।
राज्ञे प्रदर्शयामासुरिति यातं पुरा स्म भो ॥
ततोऽस्मानर्चयामास राज्ञः स्मृत्वात्मरक्षणम् ।
इति तेषां कथयतां तुमुलः खेऽभवद्ध्वनिः ॥
संपपाताशनिर्घोरं तेषां मूर्धसु तत्क्षणात् ।
ततस्ते राजभृत्यास्तु दृष्ट्वा तन्महदद्भुतम् ॥
क्षणात्तूष्णीं स्थिताः सर्वे संज्ञां संप्राप्य ते पुनः ।
तत्र श्रुत्वा नृपं यान्तं जयदेवस्य मन्दिरे ॥
तत्रैव ते गताः सर्वे गृहीत्वा धनसंचयम् ।
राजानं प्रणिपत्योचुस्ते बद्धकरसंपुटाः ॥
राजंस्ते साधवोऽरण्ये मृता वज्रापघाततः ।
वस्त्रादिकं गृहीत्वा तु वयमेव समागताः ॥
इति श्रुत्वा ततो राजा किं जातमिति चाब्रवीत् ।
ततस्ते निजप्रश्नादि वज्रपातान्तमब्रुवन् ॥
श्रुत्वाथ जयदेवस्तु हाहा कृत्वा मुहुर्मुहुः ।
रुरोद पद्भ्यां हस्ताभ्यां छिन्नाभ्यां ताडयन्महीम् ॥
तत्क्षणाज्जयदेवस्य पाणिपादं तु पूर्ववत् ।
प्रादुर्बभूव सर्वेषां पश्यतां नात्र संशयः ॥
असतां तादृशानां तु मृत्युं श्रुत्वा तु दुःखितः ।
रुरोद च्छद्मना तस्मात्तुतोष पुरुषोत्तमः ॥
ददौ हस्तौ च पादौ च किमाश्चर्यमिदं हरेः ।
अथ राजातिचिन्तार्तो जयदेवं प्रणम्य च ॥
पप्रच्छ किमिदं चित्रं ब्रूहि मत्कृपया द्विज ।
उवाच जयदेवस्तं वृत्तान्तं पूर्वतः स्वकम् ॥
चौराणां च यथातत्त्वं ततो राजा मुमोद ह ।
तुष्टाव जयदेवं तं धन्योऽसि त्वत्समो न वै ॥
दृष्टः श्रुतो वा लोकेऽस्मिन्मित्रशत्रुसमः पुमान् ।
धन्योऽहमतिनीचोऽपि त्वत्संसर्गान्न संशयः ॥
इत्यादिवचसा राजा स्तुत्वागत्य स्वमन्दिरम् ।
आश्चर्यं पुत्रदारेभ्यो मन्त्रिभ्यः प्रोक्तवान्स्वयम् ॥
अथ कालेन कियता जयदेवो जरां गतः ।
तथापि नित्यकर्मादि न तत्याज कदाचन ॥
गङ्गास्नानव्रतं तस्य नित्यसंकल्पितं पुरा ।
एकदा कृतशौचादिश्चलितो जाह्नवीतटम् ॥
स्नानमार्गे जराक्रान्तो विशश्राम क्वचित्क्वचित् ।
गत्वा कथंचिद्गङ्गायां स्नात्वा पीत्वा जलं पुनः ॥
आगच्छन्पथि बभ्राम निपपात मुमूर्च्छ च ।
ततस्ते पथिकाः सर्वे सिषिचुस्तं च वाससा ॥
छायां चक्रुस्ततो राजा स्नात्वा तत्राजगाम ह ।
दृष्ट्वा तं जयदेवं तु तामवस्थामुपागतम् ॥
आरोप्य शिबिकायां तु प्रापयामास मन्दिरम् ।
स्वयमागत्य च पुनः कृताञ्जलिरुवाच तम् ॥
अहो जीर्णतरं चेदं शरीरं ते महामते ।
मया हि पादचारेण स्नातुमद्यागतं पुनः ॥
ददामि शिबिकां तुभ्यं कुरुष्व मम भाषितम् ।
इति श्रुत्वा तु राजानं जयदेव उवाच सः ॥
ममैव शिबिका राजन्संरक्ष भवनेऽधुना ।
पादाभ्यामेव गत्वाहं स्नास्यामीति व्रतं मम ॥
यथा शक्तिस्ततो यामि मा कुरुष्वाग्रहं पुनः ।
इति श्रुत्वा ततो राजा जगाम भवनं स्वकम् ॥
संपूज्य देवतां भुक्त्वा राजकार्यपरोऽभवत् ।
अथ तस्यां तु रात्र्यां वै राजमान्यः पुरोहितः ॥
राजादृता महान्तो ये तत्र ग्रामे द्विजाः स्थिताः ।
ते सर्वे ददृशुः स्वप्ने जयदेवोऽपि चाद्भुतम् ॥
शुक्लाम्बरधरा काचिच्छुक्ला मकरवाहना ।
पद्महस्तारविन्दाक्षी समागत्याब्रवीदिदम् ॥
अहं भागीरथी देवी प्रातरादिनिरन्तरम् ।
जयदेवस्य वाप्यां वै निवसिष्याम्यसंशयम् ॥
जानीहि प्रत्यहं तत्र पद्ममेतन्मया सह ।
आविर्भविष्यति जले द्रष्टव्यं भवता पुनः ॥
अयं तु जयदेवो मे भक्तोऽतीव प्रियः सदा ।
नैतस्य व्रतभङ्गोऽस्ति वाप्यां स्नानं करोत्वयम् ॥
त्वयापि बोधनीयः स नान्यथा मम भाषितम् ।
किं चान्यः प्रत्ययस्तत्र प्रोच्यते तन्निशामय ॥
जयदेवेन सार्धं तु गलत्कुष्ठोऽपि तत्र चेत् ।
कुष्ठरोगात्प्रमुच्येत स्नातः सप्तदिनादपि ॥
एवं स्वप्नं प्रपश्यन्तः प्रबुद्धास्ते समागताः ।
एकाग्रे स्वप्नमूचुर्वै कथां कृत्वा परस्परम् ॥
नृपोऽमात्यैर्ग्रामवृद्धैर्जयदेवस्य मन्दिरम् ।
समागत्याब्रवीत्सर्वं जयदेवाय भूपतिः ॥
श्रुत्वा तज्जयदेवस्तु निजस्वप्नं स्मरन्हृदि ।
नृपादीन्प्राह धन्या वै भवन्तो नात्र संशयः ॥
यैर्दृष्टा जाह्नवी देवी स्वप्ने श्रीरिव रूपिणी ।
किमाश्चर्यं भवद्भिर्यद्दृष्टं स्वप्नेतिदुर्लभम् ॥
जगन्मान्या जगन्माता जगदुद्धारकारिणी ।
आगमिष्यति वाप्यां सा सत्यमेतन्न संशयः ॥
इत्युक्त्वा नृपतिस्तूष्णीं सामात्यः सपुरोहितः ।
सदारस्तत्र स्नानीयं गृहीत्वा समुपाययौ ॥
जयदेवोऽपि पूजार्थमर्घादीन्परिकल्प्य च ।
जगाम तत्र वाप्यां तु स्नातुं पद्मावतीयुतः ॥
तत्र वापीसमीपे तु गत्वा ते तु नृपादयः ।
जयदेवं पुरस्कृत्य सर्वे तत्रावतस्थिरे ॥
जयदेवोऽथ स्नानीयं मन्त्रं भक्त्या पठञ्जले ।
प्रविवेश तदा गङ्गा तत्र प्रादुर्बभूव ह ॥
ऊर्मितं तज्जलं जातं दुग्धकुन्देन्दुनिर्मलम् ।
तादृशी सिकता जाता यथा गङ्गासरित्स्थिता ॥
प्रादुर्बभूव पद्मं तज्जले दृष्ट्वातिहर्षिताः ।
राजा च जयदेवश्च तथान्ये ये समागताः ॥
तुष्टुवुस्तां जनास्तत्र गङ्गां त्रिपथगामिनीम् ।
जयदेवोऽपि हर्षाश्रुपरिक्लिन्नदृगम्बुजः ॥
स्नात्वा पाद्यादिभिश्चैव पूजयामास भक्तितः ।
तस्मिन्सप्तदिनं तत्र दिव्यदेही बभूव सः ॥
एवमन्येऽपि ये तत्र यं यं कृत्वा मनोरथम् ।
स्नानपूजादिकं चक्रुरापुस्तेऽखिलमीप्सितम् ॥
इत्येतज्जयदेवस्य माहात्म्यं कथितं मया ।
यः पठेच्छृणुयादेतत्तस्य भक्तिर्दृढा भवेत् ॥
कामी कामानवाप्येत जगन्नाथप्रसादतः ।
उत्तमां गतिमाप्नोति दुर्लभामपि योगिनाम् ॥
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकचत्वारिंशः सर्गः ॥" इति ।
श्रीयुतमहामहोपाध्यायश्रीदुर्गाप्रसादपण्डितैः काव्यमालायां प्रकाशितायाः श्रीगोवर्धनाचार्यप्रणीतार्यासप्तशत्याष्टिप्पणे जयदेवकविसमयो युक्त्या निर्णीतः । तथाहि -"ज[^१]यदेवकविश्च वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासीदिति श्रीसनातनगोस्वामिनां मतम् । "गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥" इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलायामुत्कीर्ण आसीत् । तस्माद्गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केचित् । लक्ष्मणसेनश्च ख्रिस्तसंवत्सरस्यैकादशशतकसमाप्तिपर्यन्तं वङ्गदेशं पालयामासेति केचिदितिहासविदः" इति । अतो जयदेवकविजीवनसमयोऽपि ख्रिस्तसंवत्सरस्यैकादशशतक आसीदिति फलितार्थः ।
जयदेवकविकृतो गीतगोविन्दकाव्यादन्यः कोऽपि ग्रन्थो लोके न क्वापि श्रुतो नापि प्रसिद्धः । प्रसन्नराघवनाटककर्ता जयदेवस्तु कौण्डिन्यगोत्रोद्भवः सुमित्राकुक्षिजन्मा महादेवतनयः । शृङ्गारमाधवीयचम्पूप्रणेता जयदेवश्च अज्ञातपितृनामादिकः कृ[^३]ष्णदासेत्युपपदवान् । अत उभावप्येतौ गीतगोविन्दकाव्यप्रणेतुर्जयदेवाद्भिन्नाविति सुविशदमेतत् ।
गीतगोविन्दकाव्यस्थं "उन्मीलन्मधुगन्धलुब्ध" इत्यादिपद्यं ख्रिस्तवर्षीयचतुर्दशशतकसमुद्भवेन वङ्गदेशीयेन श्री विश्वनाथकविराजेन स्वकृतसाहित्यदर्पणाख्यग्रन्थस्य दशमपरिच्छेदे वृत्त्यनुप्रासोदाहरणतयोपन्यस्तं दृश्यते । एतेन तत्कालीना विद्वांसोऽपि गीतगोविन्दकाव्यं सत्काव्यतया स्वीचक्रुरिति ज्ञायते ।
अत्र प्रकाशितयोष्टीकयोर्मध्ये प्रथमा तावद्रसिकप्रियाख्या श्रीकुम्भनृपतिविरचिता । अस्या आदर्शपुस्तकद्वयमस्मत्सुहृत्तमैः महामहोपाध्यायश्रीमद्दुर्गाप्रसादपण्डितैः
[^१.] काव्यमालायां प्रकाशितस्य आर्यासप्तशतीग्रन्थस्य प्रथमपृष्ठस्थटिप्पण्यां द्रष्टव्यम् ।
[^२.] प्रसन्नराघवनाटकप्रस्तावनायां "विलासो यद्वाचां" इत्यादि तथा, "लक्ष्मणस्येव" इत्यादिश्लोकद्वयं द्रष्टव्यम् । ( निर्णयसागरमुद्रितपुस्तकस्य पृ० ५).
[^३.] शृङ्गारमाधवीयचम्प्वादौ मङ्गलाचरणश्लोके द्रष्टव्यम् । इयं चम्पूः नाद्यापि क्वापि मुद्रयित्वा प्रकाशिता च । अस्या हस्तलिखितमपूर्णपुस्तकमेकं मया दृष्टमासीत् । कतिपयसंवत्सरेभ्यः पूर्वं मदभ्यर्थनयैव मन्निकटे प्रेषितमासीत् । लेखकप्रमादप्रचुराभ्यां निरुक्तादर्शपुस्तकाभ्यां यथामति संशोध्य प्रकाशितेयं टीका रसिकमनोविनोदनाय । एतट्टीकाकर्ता श्रीकुम्भनृपतिस्तु संप्रति लोके "मेवाड" इति नाम्ना प्रसिद्धे मेदपाटदेशे राज्यं चकारेति टीकावतरणिकात एव ज्ञायते । अस्य राज्यसमयस्तु ख्रिस्तसंवत्सरस्य चतुर्दशशतकस्य प्रथमपाद आसीदितीतिहासतोऽवगम्यते ।
अत्र प्रकाशिता द्वितीया टीका रसमञ्जर्याख्या तु महामहोपाध्यायश्रीदिनेश्वरात्मजेन महामहोपाध्यायश्रीशंकरमिश्रेण संप्रत्यज्ञातकुलादिविशेषणस्य श्रीशालिनाथाभिधानस्य पुरुषस्याज्ञया विरचितेति टीकापुष्पिकातो ज्ञायते । एतट्टीकाया आदर्शपुस्तकमेकमस्मत्सृहृद्वरैः श्रीमद्भिः पणशीकरोपाह्वैर्वासुदेवशास्त्रिभिर्महता प्रयत्नेन संपादितम् । तदनुरोधेन च संशोध्य प्रकाशितेयमपि टीकात्र बालोपयोगितया ।
उभयटीकानुसारेण पाठान्तराण्यपि टिप्पणीषु नियोजितान्यस्मिन्संस्करणे मूलविवेकार्थम् ।
एतत्पुस्तकस्य मुद्रितपत्रसंशोधनकर्मणि प्रथमं श्रीमद्भिर्वासुदेवशास्त्रिभिः कियत्साह्याय्यंहाय्यं कृतम् । किंतु अग्रे मानुषस्वभावसुलभशरीरास्वास्थ्यवशात्स्वदेशं प्रति यातेषु तेषु निरुक्तसंशोधनकर्म मय्येवापतत् । अतः प्रमादाद्यत्किञ्चिन्न्यूनमत्र दृश्येत तत्परमदयालुभिः सुधीभिः क्षन्तव्यमिति सविनयं प्रार्थयति -
विद्वदनुचरः
तेलङ्गोपाख्यो रामकृष्णसूनुर्मङ्गेशशर्मा । श्रीः ।
श्रीजयदेवकविविरचितं
गीतगोविन्दकाव्यम् ।
कुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया महामहोपाध्यायशंकरमिश्रनिर्मितरसमञ्जर्याख्यव्याख्यया च संवलितम् ।
प्रथमः सर्गः १
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
रसिकप्रिया । कल्याणं कमलापतिर्दिशतु मे यः कौस्तुभे राधया वीक्ष्य स्वं प्रतिबिम्बितं प्रतियुवत्येषेति तर्काकुलम् । आश्लेषोन्मुखयापि मानपरया मन्वानया कैतवं तिर्यग्वक्रितकन्धरं वलितया सासूयमालोकितः ॥ १ ॥ सोऽव्यान्मामरविन्दनाभ उदयद्यन्नाभिपद्मालया पद्मा पद्मविनीलमीलनविधिप्रावीण्यवन्नेत्रयोः । योगादर्धनिमीलिताम्बुजवशात्संभोगभोगेतरावस्थाद्वन्द्वभवानुभूतिजनितक्रीडासुखान्यन्वभूत् ॥ २ ॥ दिश्यान्मेऽर्धशिवातनुः स भगवान्नित्योदितां संपदं शम्भुर्विश्वजयश्रियः परवशीकारैकसत्कार्मणम् । यत्रैकाङ्गनवीनविभ्रमरसादेकाङ्गगुप्तेरनास्वादात्संभवदद्भुतैकपरमा जागर्ति हेमाद्रिजा ॥ ३ ॥ नत्वा मतङ्गभरतप्रमुखान्सुगीतसंगीतशास्त्रनिपुणाञ्जयदेववाचाम् ।
रसमञ्जरी शंकरजगदम्बिकयोरङ्के पङ्केन खेलन्तम् । लम्बोदरमवलम्बे यं वेद न तत्त्वतो वेदः ॥ १ ॥ श्रीकुम्भकर्णनृपतिर्विवृत्तिं तनोति गानं निधाय सरसं रसिकप्रियाह्वाम् ॥ ४ ॥ श्रीवैजयायेनसगोत्रवर्यः श्रीबप्पनामा द्विजपुङ्गवोऽभूत् । हरप्रसादादपसादराज्यप्राज्योपभोगाय नृपोऽभवद्यः ॥ ५ ॥ यदन्वये निर्जिततर्कवादिपदःपदं तत्परमा व्यभाति ( ? ) । श्रीमेदपाटे गुहिलप्रधाने यत्राभवन्भूपतयः प्रसूताः ॥ ६ ॥ तत्र क्रमाद्भव्यपरम्पराढ्ये हम्मीरनामा नृपतिर्बभूव । चन्द्रादिरत्नप्रकरक्रमेण रत्नाकरे कल्पतरुर्यथासीत् ॥ ७ ॥ दानानि संगतवनीपकमात्रपात्रमासाद्य यो ददिरनन्तगुणानि कामम् । पञ्चाननो विषमधाडिषु यः प्रसिद्धश्चक्रे मृधान्यखिलशत्रुभयावहानि ॥ ८ ॥ तस्मादभूत्सत्तनयः प्रभूतनयः परायः सदयः शतायुः । श्रीक्षेत्रसिंहः प्रतिपक्षनागसिंहः पराहंकृतिमत्तसिंहः ॥ ९ ॥ ततोऽभवल्लक्ष उदीतलक्षविपक्षपक्षक्षयकारदक्षः । गयाविमोक्षास्थितधर्मरक्षः स्वक्षः कृतत्र्यक्षसमस्तलक्ष्यः ॥ १० ॥ तन्नन्दनो निर्जितपूर्वराजचारित्रसंपादितमेदिनीकः । श्रीमोकलेन्द्रः प्रणतारिमौलिमाणिक्यभाभासितपादपद्मः ॥ ११ ॥ श्रीकुम्भकर्णस्तदनु क्षितीन्द्रः क्षितिं बिभर्तीन्द्रसमानसारः । शेषादिकेभ्यो धरणे धरित्र्या भरस्य विश्राणितविश्रमः सन् ॥ १२ ॥ स श्रीशभक्तिप्रवणः प्रवीणः संगीतशास्त्रेऽखिलशास्त्रवेत्ता । श्रीगीतगोविन्दसुगीतकस्य नव्याकृतिं व्याकृतिमातनोति ॥ १३ ॥ जित्वा तु पृथिवीं कृत्वा तत्पतीन्करदायिनः । राधामाधवसारस्य रसिको रमतेऽधुना ॥ १४ ॥ प्रत्यज्ञायि प्रबन्धो यो जयदेवेन धीमता । न तस्य विद्यते लक्ष्म सर्वाङ्गैरुपलक्षितम् ॥ १५ ॥ अतः स्वरादिभिः षड्भिरङ्गैः संयोज्य तथ्यताम् । नीत्वा गीत्वा तदा हित्वा कुटीकासु (स्तु) प्रवर्त्यते ॥ १६ ॥ शृङ्गारे सप्रपञ्चे रस इह रुचिरौचित्ययुक्तौ प्रकृष्टेऽलंकारे नायिकाया गुणगणगणने वर्णने नायकस्य । गीतौ प्रीतौ च वृत्तौ लयमनु रसिकः कौतुकं चेत्तदेमा दोषैर्मुक्ता गुणाढ्याः शृणुत नरपतेः कुम्भकर्णस्य वाचः ॥ १७ ॥ स किं बन्धः श्लाघ्यो व्रजति शिथिलीभावमसकृद्विचारेणाक्षिप्तो ननु भवति टीकापि किमु सा ।
रसमञ्जरी
श्यामतामरसदामसुन्दरः पादपङ्कजनमत्पुरन्दरः ।
वर्धमानभवदावपावकः पातु कोऽपि वसुदेवशावकः ॥ २ ॥
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १ ॥
न या ग्रन्थग्रन्थिप्रकटनपटुः किं तु तददो द्वयं युक्तं कर्तुं प्रभवतितरां कुम्भनृपतिः ॥ १८ ॥ शृङ्गारोत्तरसत्काव्यवेदिविद्वन्मुदे मया । मेघैर्मेदुरमित्यादिपद्यं व्याक्रियतेऽधुना ॥ १९ ॥ गमकालापपेशलतया मध्यमग्रामे षाडवेन मध्यमग्रहेण मध्यमादिरागेण गीयते । गणपतिमभिमतफलदं वरदं प्रणिपत्य सिद्धिगुणविशदम् । गीतौ जयदेवकृते धातुं कुम्भो नृपस्तनुते ॥ २० ॥ अथ कुम्भकर्णनृपतिः स्तुत्वा नत्वा सरस्वतीं देवीम् । स्वरपाटतेनकानां करोति गुम्फं सुमानार्थम् ॥ २१ ॥ मेघैरिति ॥ जयन्ति सर्वोत्कर्षेण वर्तन्ते । सर्वोत्कृष्टत्वेन नमस्करणीयत्वमुक्तम् । तेन नमस्क्रिया काव्यमुखं द्योतितम् । आशीर्वा । कास्ताः । रहःकेलयः सुरतक्रीडाः । "रहो गुह्ये रहो रते" इति । तासां विषयं निर्दिशति -- क्व । यमुनाकूले प्रत्यध्वकुञ्जद्रुमम् । अध्वनि कुञ्जद्रुमोऽध्वकुञ्जद्रुमः । अध्वकुञ्जद्रुमं प्रतीति प्रत्यध्वकुञ्जद्रुमम् । ननु चात्र नित्यसमासत्वाद्वाक्येन न भवितव्यम् । नैतदस्ति । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विहिता । तद्योगे यथा स्यादित्येवमर्थः । तस्याश्च वाक्य एव प्रयोगो नान्यत्रेति वाक्यमपि स्यात् । "अर्थमर्थं प्रति" इत्यादि भाष्यकारप्रयोगाच्च । कस्मिन्सति । रह एकान्ते । एकान्तं कयोः । राधामाधवयोः । अत्र राधाया जगद्गुरुपरिग्रहेण सकलमातृत्वेनाभ्यर्हितत्वादल्पाक्षरतरत्वाच्च पूर्वनिपातः । किंलक्षणयोः । इत्थं वक्ष्यमाणप्रकारेण, कृष्णोक्तेरनु नन्दनिदेशत इति । नन्दसमीपाच्चलितयोः । तमेव प्रकारमाह -- हे राधे, तत्तस्माद्धेतोरिमं मल्लक्षणं जनं त्वमेव गृहं प्रापय । सामान्यनारीव्यावृत्त्या गृहिणीनिर्वर्त्ये संभोगादिकर्मणि समुदिता भवेत्यर्थः । अत्र गृहशब्देन तात्स्थ्याद्गृहिण्युच्यते गृहशब्दच्छलेन तामेव पुरस्कृत्य वनविहारदर्शनात् । अत्र प्राप्नोतिरुदयार्थे वर्तते । "प्राक्ला (?) भोक्ष्ययुक्तिषु" इति चूडामणिः । त्वयैवाहं गृहिणीमान् स्यामिति यावत् । एवकारोऽन्ययोगव्यावृत्त्यर्थः । तस्मादिति किम् । यतोऽयं मल्लक्षणो जनो भीरुः, भीरुरिति एभिर्भावहेतुभिः स्मराहतीः सोढुमसमर्थः । तानेव
इह खलु प्रारिप्सितसमाप्त्यर्थमेतत्काव्यप्रतिपाद्यं राधामाधवकेलिस्मरणरूपं मङ्गलमादावाचरति -- मेघैरिति । राधामाधवयो रहःकेलय एकान्तक्रीडा जयन्ति सर्वोत्कर्षेण वर्तन्ते । किंभूतयो: । इत्थमनेन प्रकारेण नन्दनिदेशतो नन्दाज्ञया चलितयोः प्रस्थितयोः । कीदृशो नन्दनिदेश इत्यत आह -- त्वमेवेत्यादि । हे राधे, तत्तस्मात्त्वमेवेमं कृष्णं गृहं प्रापय । अत्रैवकारः कोपोक्तौ । बाल्येऽयं यत्त्वयैतावद्दूरमानीतस्तस्मात्त्वमेव गृहमपि प्रापयेत्येवाभिप्रायात् । कुतः । यतोऽयं कृष्णो नक्तं रात्रौ भीरुः शिशुत्वाद्भयशीलः । भयहेत्वन्तरमाह -- मेघैरित्यादि । अम्बरमाकाशं मेषैर्मेदुरं स्निग्धम् । तथा च वनभुवः काननभावानाह -- अम्बरमाकाशं मेघैर्मेदुरं सान्द्रस्निग्धं वर्तते । अपरं च । तमालद्रुमैः श्यामा वनभुवो वर्तन्ते । अपरं च नक्तं रात्रिकालः । एवं देशकालवस्तुलक्षणा विभावाः सूचिताः। किमुक्तं भवति । अत्र काव्ये शृङ्गाररसप्राधान्यात्तस्य मेघाद्यास्त्रयोऽप्युद्दीपनभावा उक्ता भवन्ति । राधाद्या आलम्बनविभावाः । भीरुरित्यस्यानुभावः । हर्षावेगशङ्कौत्सुक्यव्रीडाचपलतादयो व्यभिचारिणः । इत्थं कार्यकारणसहकारिभी रतिस्थायिभावः सकलरससम्राट् सप्रपञ्चः संभोगाख्योऽभिलाषविरहेर्ष्यासूयालक्षणो विप्रलम्भः शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति । तदुक्तम् -- "कारणान्यथ कार्याणि सहकारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः[^१] ॥" तथा चाभाणि भरतेन -- "विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः–" इति । एवमेतेन पथा श्रीजयदेवेन कविना रसमुख्ये स्थिरीकृते तदाशयमबुद्ध्वा कैश्चिद्व्याख्यातं तत्तावन्न विचक्षणपरीक्षाक्षममीक्षामहे । तथाहि । इत्थं नन्दनिदेशतो नन्दादेशाच्चलितयोः केलयो जयन्ति । इत्थमिति किम् । राधा काचन गोपिका तस्या नन्देन संबोधनम् । हे राधे, इमं मम शिशुं रात्रौ भीरुं त्वमेव गृहं प्रापय त्वय्येव मम विश्वास इति । तदा नायकस्य शिशुत्वेन परवशत्वं, तस्याश्च धात्रीत्वं नन्दस्य दूतीकर्म, शृङ्गारविभावानां भयानकहेतुत्वं, कविनिरूपितरसस्यान्यथात्वं चापद्यते । तत्र तेषामायुष्मतां क उपालम्भः । यतः -- "निर्देशो भाषणादेशसामीप्यार्थमजानतः । आदेश एव विश्रान्तमतेर्व्याख्या भवेन्न किम् ॥ लोके किं कूपमण्डूकः समुद्रमपि तत्समम् । न वेद वेदवादोऽयमिति श्रुतिभिया किल ॥" अथैवं नन्दादेशादनु तथा ग्राम्यतायां शृङ्गारो विनाशितो भवति । यथाह -- "अथ शृङ्गारपरता सुतरां सा तिरस्कृता । यतः कुलवधूवत्स चमत्काराय संवृता ॥ श्वशुरे वदति प्रायः सूनो रतमनु स्नुषाम् । सा नाम ग्राम्यतापीष्टा सापि नेष्टा विपश्चितः ॥ प्रयुक्तं कविना द्वित्वं तदाशयमजानता । नन्दनिर्देशहारिण्यास्तस्या एकत्वमिष्यते ॥ नायकत्वं यदाम्नातं हरेः काव्यकृता कृतौ । तस्यां तस्मिन्विनिक्षिप्ते गतिः का नाम तस्य ते ॥ यो गीतगोविन्द इति प्रबन्धो गोविन्दनेतारमनुप्रबद्धः । राधावशे तत्र कृतेऽर्भकत्वात्स गीतराधः कथमत्र न स्यात् ॥ प्रामाण्यं सुधियोऽवदन्कविगिरां धर्मोपदेशे बुधा यत्तन्नो भवितुं मुदार्हति गुरोराज्ञा विचार्या न यत् । तत्रेदं तु विचारणीयमिह यो यस्याः करे दीयते रक्षायै स च कामयेत यदि तां तत्किंचिदद्यावधि ॥ शृङ्गारोपक्रमे चात्र भया
भूमयस्तमालद्रुमैस्तमालवृक्षैः श्यामाः । कुत्र जयन्तीत्यत आह -- प्रत्यध्वेति । यमुनायाः कूले प्रत्यध्वकुञ्जद्रुमम् । अध्वन्यध्वनि कुञ्जे कुञ्जे द्रुमे द्रुम इत्यर्थः । यद्वाऽध्वनः कुञ्जन् द्रुमांल्लक्षीकृत्येत्यर्थः । न च नक्तं भीरुरयं त्वमेव तदिममित्यत्र "द्वितीयाटौस्स्वेनः" इति सूत्रेणैनादेशः कथं न भवतीति वाच्यम् । अन्वादेशविषयत्वाभावात् । किंचित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । किंचित्कार्यं विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । भीरुत्वस्य अनुवाक्यत्वेन विवक्षितत्वात् । "अम्बरं व्योम्नि वा
[^१.] काव्यप्रकाशे ४ उल्लासे. नकनिमित्तता । मेघाडम्बरतादेस्तन्महद्व्याख्यानकौशलम् ॥ अन्यहेतुभिरन्यस्योत्पत्तिश्चेद्दृश्यते तदा । विस्मयस्थायिभावत्वादद्भुतोपस्थितिर्न किम् ॥ धात्रीयोगान्न शृङ्गारो न हास्यो रहसीङ्गितैः । न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम् । तस्मादत्र विभावानुभावसंचारिभिर्भवेत् । शृङ्गारो नन्दसामीप्यात्तयोश्चलितयोः स्वतः ॥ यथा द्रव्याणि नानात्वं भावान्तरविभावतः । व्रजन्ति नानारसतां तथा भावास्त एव हि ॥ एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके । विभावाद्यवियुक्तेन भावकेन विभाविताः॥" तस्मात्काव्याभिप्रायसूचितशृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्यमिति । अत्र मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिराक्रमणाच्चेतसोऽन्यथावृत्तिः सूचिता । अम्बरमिति स्वच्छन्दविहारभङ्गशङ्कां मा कृथा इति । वनभुव इति बहुवचनेन नानावस्थरतक्षमं प्रदेशबाहुल्यं द्योतितम् । नक्तमिति कालस्य स्वच्छन्दप्रच्छन्नकामुकयोग्यत्वमुक्तम् । माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः । यमुनाकूल इति रतिश्रमनिराससाधनशिशिरसमीरसद्भावार्थम् । अयमिति रत्युद्रेकाकुलतया स्वाङ्गेष्वप्यौदासीन्यद्योतनाय । यथा श्रीह[^१]र्षमिश्रस्य हंसेन स्वात्मनि निराशीभूतेन -- "गतिस्तयोरेकतरस्तमर्दयन्" इत्याद्यभाणि । यथा वा श्रीका[^२]लिदासस्य ईश्वरेण तयावगणिते आत्मन्यनास्थापरत्वेन -- "अयं जनः प्रष्टुमनास्तपोधने" इत्याद्यवादि । अत्र वर्णवृत्त्यनुप्रासः शब्दालंकारः । पूर्वार्धे समुच्चयोऽर्थालंकारः । तल्लक्षणं तु -- "तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ" । यथा -- "दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे" इत्यादि । उत्तरार्धे चाशीः । तद्योजनं च -- सर्वोत्कृष्टास्ताः केलयो विलासकलासु कुतूहलिनः पान्तु । अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टिः -- "सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः" इति । अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्दुसुन्दरवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी सकलकविकुलललामभूता कामपि विच्छित्तिमातनोति । यथा -- "मग्नानि द्विषतां कुलानि समरे त्वत्खड्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा । मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्युकृपाणे दृशौ ॥" अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि । तन्न । तल्लक्षणाः भावात् ॥ लक्षणं तु -- "तदेवोक्तं काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति । नात्र "वपुःप्रादुर्भावात् -- "इतिवद्धेतोर्वाक्यार्थता । नापि "प्रणयसलीलपरिहासरसाधिगतैः" इतिवदनेकपदार्थता । नापि "भस्मोद्धूलन भद्रमस्तु भवते" इतिवद्धेतोरेकपदार्थता । तस्य गतिं त एव प्रष्टव्याः । एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वच्चित्तचमत्कृतिमातनोति ॥ तर्हि काव्यचारुतानिबन्धनशृङ्गाररसस्वीकारेण रसवदलंकारतेत्यपि नाशङ्कनीयम् । यतोऽत्र शृङ्गारस्य प्राधान्यान्नालंकारत्वं येनालंकारता स्यात् । यदाह -
ससि" इत्यमरः । "दोषा नक्तं रात्रौ" इति च । "****त्रस्नौ भीरुभीरुकभीलुकाः" इत्यपि । "निदेशः शासनं च सः" इति च । "निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इति च ।
[^१.] नैषधे. [^२.] कुमारसंभवे स० ५ वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
"प्रधाने यत्र वाक्यार्थे यत्रायान्ति रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः" ॥ प्रकृते तु शृङ्गारस्य प्राधान्यमपि प्रतिपन्नम् । अत्र वैदर्भी रीतिः -- "अस्पृष्टा दोषमात्राभिरनल्पगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥" शृङ्गारावस्थानसूचिका कौशिकी वृत्तिः । संभाविता गीतिः । तस्याश्च लक्षणम् -- "संभाविता भूरिगुरुर्द्विकला वार्तिके पथि" । मध्यो लयः । प्रसादो गुणः । अनुकुलो नायकः । स्वाधीनपतिका नायिका ॥ पूर्वार्धेऽभिलाषलक्षणो विप्रलम्भः । अपरार्धे संभोगश्च शृङ्गारः । एवं केलय इति कथाबीजलक्षणं वस्त्वपि निर्दिष्टं भवति ॥ एवं च त्रिविधमपि काव्यमुखं महाकविना समुन्मीलितं भवति ॥ यदत्र कश्चित्संभोगशृङ्गारलक्षणं वस्त्ववदत् स एव चास्य विवेचनक्षमः ॥ शार्दूलविक्रीडितं छन्दः । यथा -- "सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्" ॥ १ ॥ कविरिदानीं सकलकलिकलुषहारिहरिचरितानुस्मरणसरसतापादनेन तद्भक्ताननुगृह्णन्समुचितेष्टदेवताभावनाभावितान्तःकरणस्तत्फलभूतं शृङ्गारोत्तरं प्रबन्धं कर्तुं प्रतिजानीते -- वाग्देवतेति । जयदेवकविरेतं गीतगोविन्दाभिधं प्रबन्धं करोति । अत्र जगदानन्दकन्दलीकन्दगोविन्दपदारविन्दमकरन्दामोदमधुरतरास्वादमधुकरमधुरचेता भागवतप्रधानः परमकारुणिको जयदेवकविर्देवदेवे भगवत्याविष्टचित्तः कलिकलुषान्तःकरणत्वेनेतस्ततः परिविक्षिप्तान् सुखेन तदभिमुखीकरणाय कलावतीकेलिकुतूहलिनं हलिसोदरं निरूपयितुं निर्गुणं निरूपयिषुः "निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥" इति दर्शयितुं धर्मार्थकामाः स्वनुष्ठिता मोक्षायेति मोक्षोपायतया धर्मार्थयोरुपरि वर्तमानस्य पुरुषार्थविशेषस्य निदानत्वेन पितॄणामानृण्यहेतुभूतापत्योत्पत्तिद्वारेण नितम्बिनीमूलत्वमुपदर्शयितुं तद्विशिष्टं वासुदेवं विवर्णयिषुरिमं प्रबन्धमुपनिबध्नाति । तथा चोक्तमभियुक्तैः -- "संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । तल्लक्ष्मीसमुपार्जनं पुलकिनां रक्तस्वरं गायतां तत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥" इति । कामशा
"रहश्चोपांशु चालिङ्गे एकान्तार्थेऽव्ययम्" (?) ॥ १ ॥ अत्र रागिमुमुक्षुसाधारणप्रवृत्त्यर्थं सक-
लजनमनोहरं शृङ्गाररसगर्भं भगवत्केलिवर्णनरूपं काव्यं क्रियत इत्यभिधेयं प्रतिजानीते --
वाग्देवतेति । जयदेवकविरेतं गीतगोविन्दाख्यं प्रबन्धं करोति । कीदृशम् । श्रीः लक्ष्मी
राधारूपेणावतीर्णा, वासुदेवः कृष्णस्तयो रतिकेलिकथया सुरतक्रीडानुवर्णनेन समेतं
युक्तम् । ननु वासुदेवकेलिवर्णनं बहुषु ग्रन्थेषु वर्तत इति किमनेनेत्यत आह -- वाग्देवतेति ।
वाक्स्वरूपा या देवता सरस्वती तस्याश्चरितेन प्रसादमाधुर्यादिगुणसंपन्नलोकोत्तरकाव्यरच-
नारूपेण चित्रितं चित्रमालेख्यं तद्युक्तं कृतं चित्तरूपं सद्म गृहं यस्य सः । अत्र सकल-
जनाह्लादकारित्वेन नानावर्णमयत्वेन वाग्देवताचरितस्य चित्रत्वेन निरूपणम् । चित्तं च
विचित्रकवितारूपमहाधननिधानत्वेन कृष्णकेलिवर्णनादिना संसारतापसंतप्तकविजनविश्रा-
मस्थानत्वेन सद्मतया निरूपितम् । अपरमपि गृहं विविधपुत्रिकाभिरालेख्यैर्मण्डितं भव-
श्री वासुदेवरतिकेलिकथासमेत-
मेतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥
स्त्रेऽपि -- "किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिक्षा-
स्तस्मिन्व्यवस्थिता ॥" इति । परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय ।
यतः -- "कान्तासंमिततया" इत्युपदेशप्रामाण्यात् । यथा -- एवं श्रीवासुदेवरतिके-
लिकथासमेतम् । श्रीश्च वासुदेवश्च तौ । तयो रतिकेलिकथासमेतम् । अत्र "स्त्रीनामला-
ञ्छितं सर्वं श्री" रिति श्रीशब्देन राधाभिधीयते । अथवा श्रीः शोभा लक्ष्मीर्वा तद्वतो
वासुदेवस्य । तदसूचि पूर्वपद्ये माधवशब्देन, रतिकेलीति सुरतक्रीडाकथनेन वा ।
रत्या शृङ्गारस्थायिभावेनानुरागेण याः केलयः कथाः परस्परसंकथनानि तत्समेतम् ।
अथ कविरात्मनो विशेषणद्वारेणसरस्वतीचरणकिंकरत्वं सरस्वतीचरणकिंकरत्वम् अनु च प्रबन्धस्य पद्मावतीदे-
वतासमाराधनफलत्वमाह -- वाग्देवतेति । वाग्देवताचरितेन चित्रितं संजातचित्रं
चित्तसद्म यस्य स तथा । सरस्वत्यनुस्मरणपरहृदय इत्यर्थः । अपरं च । लक्ष्मीचरणसेव-
काग्रणीः । पद्मं करेऽस्ति यस्याः सा पद्मावती लक्ष्मीः । "शरादीनां च" इति दीर्घः ।
अथ पद्मावती अष्टाक्षरमन्त्राधिदैवतं तस्याश्चरणचारणेन परिचर्याविशेषेण चक्रवर्ती ।
कविराज इत्यर्थः । "पद्मावती तस्य कलत्रमेके वदन्ति यत्तन्न विचारचारु । यतः
सदाचारपरम्परैषा गृह्णन्ति तन्नाम न नाम सन्तः ॥ कर्मादिसद्दैवतसंप्रयोगे तत्कीर्तनं
किं न विशेषगर्हम् । रहो विहाय क्व च नापि दृष्टं सतां स्वकान्ताप्रणयादिकं तु ॥" अत-
स्तद्व्याख्योपेक्षा । एवं यद्यप्यस्ति तत्त्वं तथापि महतामिहालौकिकचमत्कारि चरितं
किंचिदीक्ष्यते -- "तथाहि सत्यभामाग्रे ननर्त नरकान्तकृत् । देहार्धे च बभारोमामीशो
योगिवरोऽपि सन् ॥ अथवा भक्तियोगस्य स्वभावः कोऽप्यनीदृशः । यतस्तद्योग-
युक्ता हि गणयन्ति न लौकिकम् ॥ अथात्मा जायते यस्यां सा जायेति श्रुतीरणात् ।
तत्स्वरूपपरस्वत्वात्सा भक्तिर्या तया सह ॥ तथा हि धर्मकार्याणि न सन्त्यत्र तया
विना । सर्वेषु धर्मकार्येषु पत्न्युक्ता दक्षिणाङ्गगा ॥ किंतु सा भक्तिरत्रोक्ता योप-
चारेण वर्जिता । तां विनाऽतोऽनुरज्यन्ति सन्तः स्वेनेष्टदैवते ॥ शृङ्गारित्वादथ
स्वीयां जायां नर्तयतीह सः । परार्थनिष्ठबुद्धीनां न हि लोकव्यतिक्रमः ॥ लोको वेद-
स्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । तत्र लोकस्य मुख्यत्वात्तदुक्तिर्नान्यथा भवेत् ॥
अतः पद्मावती तस्य कलत्रमिति नान्यथा । परभागवतस्यास्य जयदेवस्य युज्यते ॥
तीति ध्वनिः । तथा च यद्यपि कृष्णकेलिवर्णनमन्यत्रापि ग्रन्थे वर्तते तथापि पूर्वैर्वर्णितमपि
लोकोत्तरापूर्वसत्काव्यरचनानिबद्धमतिचमत्कारकारि भविष्यति । यथा पुरुषैरभिधीयमान
एवार्थोऽन्येषां वाङ्मनोवचनभङ्गिमारूढोऽन्यमेव श्रोत्रचमत्कारं करोतीति नानर्थको मे
प्रयास इति भावः । पुनः कीदृशः कविः । पद्मावती नाम जयदेवपत्नी तस्याश्चरणयोर्य-
च्चारणं संचारणम् । नर्तनमिति यावत् । तेन चक्रवर्ती नटसार्वभौम इत्यर्थः । एतेन
कवेः कृष्णभक्त्याधिक्यं शृङ्गारित्वं च ध्वनितम् । तेन सरसकाव्यकरणेऽधिकारः सूचितः ।
तदुक्तम् -- "शृङ्गारी चेत्कविः काव्यं जातं रसमयं जगत् । स एव यत्राशृङ्गारी सर्वं विर-
सतां व्रजेत् ॥" इति । केचित्तु पद्मा इति संज्ञां विधत्ते । पद्मावती लक्ष्मीस्तस्या-
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥
लोकातीतचरित्रस्य लोकेशस्य पुनः सदा । स्वजायानर्तनं युक्तमिति युक्ततरं वचः ॥" अत्र चित्तसद्मनोरभेदारोपाद्रूपकालंकारः । अनुप्रासश्च । "उक्ता वसन्ततिलका तभजा जगौ गः" ॥ ओजो गुणः । गौडीया रीतिः । भारती वृत्तिः । भूरिगुरुत्वात्संभाविता गीतिः ॥ अत्र वसुभिर्दीयत इति तदपत्याभिधानेन प्राप्तपितृधनस्य केलिकरणमुचितमिति अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन वासुदेवपदेन सकलप्रबन्धस्यापि पीयूषवर्षेणेव समुचितार्थविशेषेण प्रबन्धः स्फुरदिव चमत्कारकारितामापद्यते । तथा चोक्तम् -"उचितार्थविशेषेण प्रबन्धार्थः प्रकाशते । गुणप्रभावभव्येन विभवेनेव सज्जनः ॥" यथा -- "जातं वंशे भुवनविदिते पुष्करावर्तकानाम्" इत्यत्राचेतनस्य चेतनाध्यारोपेण मेघस्य दूत्ययोग्यताभिधानाय प्रथितपुष्करावर्तकवंशत्वाद्युपन्यस्तम् ॥ २ ॥ कविरिदानीं स्वप्रबन्धस्य प्रयोजनमाविष्करोति -- यदीति । हे श्रोतरित्यध्याहार्यम् । तदा तर्हि जयदेवसरस्वतीं प्रबन्धरूपां वाणीं शृणु। किंलक्षणाम् । मधुरकोमलकान्तपदावलीम् । मधुरा कोमला कान्ता पदानामावलिर्यस्यां सा । एतेन माधुर्यौजःप्रसादाद्या दशापि गुणा उक्ता भवन्ति । तदेति किम् । यदि हरिस्मरणे मनः सरसं एकाग्रं सरागं वर्तते । अपरं च । यदि विलासकलासु कुतूहलम् । विलासिनां शृङ्गारिणां कलास्तासु । "विलासो गमनादिः स्याच्चेष्टा श्लिष्टाङ्ग्या कृता" इति । एतेनास्य प्रबन्धस्य प्रयोजनाभिधेयसंबन्धाधिकारिण उक्ता भवन्ति । विलासकलाशिक्षा अवान्तरप्रयोजनम् । हरिस्मरणं परमं प्रयोजनम् । स्मार्यस्मारकलक्षणः सं
श्चरणयोर्विषयभूतयोश्चारणचक्रवर्ती नटसार्वभौमः । नृत्यादिना सदा लक्ष्म्याराधनपर
इत्यर्थः । एतेन दारिद्र्यराहित्यं सूचितम् । दरिद्रेण हि शृङ्गारादिरसो न ज्ञायत इति
भावः । "आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः । "गृहं गेहोदवसितं वेश्म सद्म निकेत-
नम्" इति च । "चारणास्तु कुशीलवाः" इत्यपि ॥ २ ॥ संप्रति प्रेक्षावत्प्रवृत्त्यर्थमितर-
काव्यापेक्षया स्वकाव्यस्योत्कर्षं कथयन्नेव प्रकृतकाव्यस्याधिकारि प्रयोजनमाह -- यदीति ।
हे सज्जनगण, यदि हरिस्मरणे कृष्णानुचिन्तने मनः सरसं सानुरागम् । यदि विलास-
कलासु विलासः स्त्रीणां हावविशेषस्तत्संबन्धिनीषु कलासु कुतूहलं कौतुकं तदा जयदे-
वस्य कवेः सरस्वतीं शृणु । कीदृशीम् । मधुरकोमलकान्तपदावलीम् । मधुरत्वं द्विविधं
शब्दाश्रितमर्थाश्रितं च । तत्र शब्दमधुरत्वं पृथक्पदत्वं, अर्थमधुरत्वं चोक्तिवैचित्र्यं तद्युक्ता
मधुरा । तथा कोमलत्वमपि द्विविधम् । तत्र शब्दकोमलत्वं बन्धस्यापरुषत्वम् ।
अर्थकोमलत्वं परुषेऽप्यर्थेऽपरुषत्वं तदुभययुक्ता कोमला । कान्तत्वमपि द्विविधम् । तत्र
शब्दगतमुज्ज्वलबन्धविशेषादिना मनःश्रोत्रप्रीतिप्रदत्वं, अर्थगतं च दीप्तरसवत्त्वं तदुभय-
युक्ता कान्ता रमणीया एतादृशी पदावली पदपरम्परा यत्र तादृशीम् । "शृङ्गारादौ
रसे वीर्ये गुणे रागे द्रवे रसः" इत्यमरः । विलासलक्षणं दशरूपके -- "तात्कालिको विशे-
षस्तु विलासोऽङ्गक्रियास्विति" । "कला चन्द्रकलायां स्यात्क्रीडनात्" इति कोषः । शब्द-
माधुर्यादिलक्षणानि तु वामनेन लिखितानि "बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-
स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ४ ॥
बन्धः । वैष्णवा अधिकारिणः । दीपकमलंकारः । द्रुतविलम्बितं वृत्तम् । "द्रुतविलम्बितमाह नभौ भरौ" । पाञ्चाली रीतिः । कौशिकी वृत्तिः ॥ अत्र मधुरकोमलकान्तपदावलीत्यादिपदैर्विलासकलासु कुतूहलस्यौचित्योद्भावनेन शृङ्गाररसस्वरूपानुरूपो वाक्यार्थ उन्निद्रो भवति । तथा चोक्तम् -- "औचित्यमुचितं वाक्यं सन्ततं संमतं सताम् । त्यागोदग्रमिवैश्वर्यं शीलोज्ज्वलमिव श्रुतम्" ॥ ३ ॥ इदानीं कविः कविगणनायां परैरपि कविभिरहं परिगणित इति स्वप्रशंसार्थं क्षेपकमपि तत्कृतं श्लोकं स्वप्रबन्धस्य कुर्वन्नाह -- वाच इति । तानेव परिगणितान्कवीन्स्वस्वगुणेनोपश्लोकितानाह । उमापतिधरनामा कविः वाचो वाणीः पल्लवयति विस्तारयति । साकूतैर्विशेषणैर्गद्यादिप्रबन्धे चतुरः । अपरं च । गिरां वाचां संदर्भशुद्धिं गुम्फवैशद्यं जयदेव एव जानीते । शरणसंज्ञः कविः दुरूहद्रुतेः श्लाघ्यो दुर्विचारपदपदार्थज्ञानात्प्रशस्यः । शृङ्गारप्रधाननिर्दोषार्थनिर्माणैराचार्यगोवर्धनस्पर्धी कोऽपि न । एतेन तस्य सर्वाधिक्यमुक्तं भवति ॥ अपरं
अनेनैव पदन्यासः कामं धारामधुच्युतः ॥ बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् । एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥ औज्ज्वल्यकान्तिरित्याहुर्गुणं गुणविपश्चितः । पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥" इति । अर्थमधुरत्वादिलक्षणं तु वामने । तथा च तत्सूत्राणि -- "उक्तिवैचित्र्यं माधुर्यं" "अपारुष्यं सौकुमार्यं" "परुषेऽर्थेऽप्यपारुष्यम् । यथा मृते यशः शेष इत्यर्थः" । "दीप्तरसत्वं कान्तत्वम्" इति ॥ ३ ॥ तद्गुणविशिष्टापि सरस्वती लक्ष्मणसेनमहाराजसभासु महाकवीनामुमापतिधरादीनामस्ति सा किं श्रोत्राणां न सुखावहेत्यत आह -- वाच इति । उमापतिधरनामा लक्ष्मणसेनामात्यो वाचः पल्लवयति विस्तारयति । तथा चोमापतिधरस्य वाङ्माधुर्यशून्यं शब्दार्थगुणशून्यं सच्चित्राख्यमधमकाव्यं न सहृदयहृदयाह्लादजनकमिति भावः । शरणनामा कविर्दुरूहस्य काव्यस्य शीघ्ररचने श्लाघ्यः स्तुत्यः । तथा च शरणकवेरपि काव्यं गूढार्थत्वादिदोषयुक्तं प्रसादादिगुणरहितं चेति तदपि न विदग्धमनोविनोदास्पदमिति भावः । तथा शृङ्गारोत्तरेति शृङ्गाररस एवोत्तरः श्रेष्ठो यत्र, शृङ्गारेणोत्तरं प्रधानं वा यत्सत्प्रमेयमुत्तमं वस्तु तस्य रचनैः कवितायां ग्रन्थनैराचार्यगोवर्धनस्पर्धी गोवर्धनाचार्येण सह स्पर्धावान्कोऽपि न विश्रुतो न ख्यातः । अत्र शृङ्गारेत्यादिना शृङ्गाररसप्रधानकाव्यरचनायामेव तस्य सामर्थ्यम् । रसान्तरवर्णने तु सोऽप्यप्रौढ एवेति तत्काव्ये वर्णनीयार्थस्य शुद्धत्वेऽपि माधुर्यगुणसंपन्नपदरचनायां सोऽप्यशक्तश्चेति ध्यनितम् ।ध्वनितम् । इतरविद्याध्ययनादिनाचार्यत्वं सत्काव्यरचनायामप्रयोजकमिति सोपहासमुक्तमाचार्येति । तथा च स न सत्कविर्नापि सत्कविहृदयं तस्येति भावः । धोयी कविक्ष्मापतिः धोयीनामा कविराजः । श्रुतिधरः श्रुतिः श्रवणं तन्मात्रादेव ग्रन्थग्राही । तस्योच्चारितमात्रग्राहित्वअष्टपदी १
मालवरागेण रूपकतालेन गीयते ।
प्रलयपयोधिजले धृतवानसि वेदम् विहित वहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर जय जगदीश हरे ॥ ध्रुवम् ॥ १ ॥
च । श्रुतिधरनामा कविर्विश्रुतो विख्यातः स तु तस्य गुणैरेव प्रसिद्धः । अपरं च धोयीनामा कविः कविक्ष्मापतिः । कविराज इत्यर्थः । धोयीति तस्य नाम देशरूढ्या व्युत्पन्नं प्रातिपदिकम् । इति षट् पण्डितास्तस्य राज्ञो लक्ष्मणसेनस्य प्रसिद्धा इति रूढिः । शार्दूलविक्रीडितं छन्दः । समुच्चयोऽलंकारः ॥ ४ ॥ इदानीं केलिं विवर्णयिषुर्नायकस्य वर्णनेन तद्गुणाकर्णनप्रवीणाञ्श्रोतॄन्विधातुं तदवान्तरकेलीरपि वर्णयितुं श्रीकृष्णं नायकं दशभिरवतारैस्तास्ताः केलीः कुर्वाणमुपश्लोकयति ॥ आदितालेन गीयते । लघ्वादितालः । मालवरागेण -- प्रलयेति । हे हरे धृतमीनशरीर । केशव । जगदीश । असीति । त्वंत्वम् अखेदं विहितवहित्रचरित्रं यथा स्यात्तथा प्रलयपयोधिजले कल्पान्तसागरवारिणि वेदं धृतवान् । अतो जय ॥ अत्र जयशब्देन सर्वोत्कृष्टत्वम् । तेन सर्वदाऽसाधारण्येन जगत्पाहीति योजना । एवं सर्वत्रासीति तिङन्तप्रतिरूपकं पदं युष्मदर्थेऽव्ययम् । अखेदं ।अखेदम् । अनु च । विहितवहित्रचरित्रमित्युभयमपि साधारणक्रियाविशे
मेव न सत्कवितायां कौशल्यमिति भावः । महाहंकारकथनाय राजोपमा । तथाहंकारादेव
स्वस्य कविराजपदवीमानीतवान् । सत्कविमध्ये तु तस्य गणनापि नेति भावः । गिरां
वचसां संदर्भशुद्धिं गुणालंकारसंपन्नग्रन्थरचनाविशेषं जयदेव एव जानीते नान्यः । अतो-
ऽन्यकाव्यश्रवणे तथा न संतोषो यथा यजदेवकविताश्रवणेनेत्येतदेव जयदेवकविताश्रवणेनेत्येतदेव श्रोतव्यमिति भावः ।
"पल्लवः किसलये षिङ्गे विटपे विस्तरे बले" इति विश्वः । "लघु क्षिप्रमरं द्रुतम्" । "उत्तरं
प्रतिवाक्ये स्यादूर्ध्वे दिव्ये भ्रमेऽन्यवत्" इति च ॥ ४ ॥ भक्तजनमनोरथपूरणाय भगवतः
सदावतारपरिग्रह इतीहापि मम मनोऽभिलषिते भगवत्केलिवर्णनरूपे कर्मणि, संभावित-
बहुप्रत्यूहनिराकरणं स एव करिष्यतीत्याशयेन भगवतोऽवताराणामसंख्यत्वेऽपि प्रधान-
तया दशावतारपुरस्कारेणैव कृष्णस्तुतिं करिष्यतीत्यादौ मीनरूपं स्तौति -- प्रलयेति ।
गीतस्यास्य मालवरागः । रूपकतालः । "ताललक्षणं रूपके स्यात्" इति संगीतरत्नाकरः ।
गीतार्थस्तु हे केशव, जय सर्वोत्कर्षेण वर्तस्व । ननु मे सर्वोत्कर्षेण वर्तने कुतः साम-
र्थ्यमित्यत आह -- जगदीशेति । जगतां चतुर्दशभुवनानामीशः प्रभुः । तथा च चतुर्द-
शभुवननाथस्य कथं न सामर्थ्यमिति भावः । तत्र हेत्वन्तरमाह -- हे हरे । हरति
भक्तानां क्लेशमिति हरिस्तादृश । पुनः कीदृश ।हरिस्तादृशः । पुनः कीदृशः । धृतं परिगृहीतं स्वेच्छया मीनशरीरं येन
तादृश ।तादृशः एतद्ध्रुवपदं प्रतिपदमनुवर्तमानम् । तदुक्तम् "ध्रुवत्वाच्च ध्रुवो ज्ञेयः" इति । अत्र
यद्यपि क्वचित्तनुसंधारणमात्रमेवानित्यं ततोऽपि तिर्यग्योनिमीनादिशरीरमयं किमिति ग्राह्य-
मित्यत आह -- प्रलयेति । त्वं प्रलयपयोधिजले प्रलयकालीनाः परस्परमिलिता ये पयो-
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे
धरणिधरणकिणचक्रगरिष्ठे।
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥
षणम् । तेन पोतचेष्टितमङ्गीकृत्यापि मनागप्यायासं नाप्तवानित्यर्थः । इति प्रथमं पदम् । केशव हरे जगदीश इति संबोधनत्रयमादरातिशयद्योतनार्थम् । अत्र केशव धृतमीनशरीर जय जगदीश हरे इति पाठः ॥ इति ध्रुवपदम् ॥ गानवेलायां केशव केशव इति द्विरुक्तिः ॥ अत्रार्धमागधी रीतिः ॥ अत्र केशवस्य केवलशब्दवाच्यत्वं हरिशब्दमहितकेशवशब्दवाच्यत्वंहरिशब्दमहितकेशवशब्दवाच्यत्वम् इति व्याख्यानम् । तत्पाठमात्रमप्यजानतां प्रमादेन क्रियाविशेषणानां कर्मसंज्ञा नपुंसकता च । धृतमीनशरीर इति मत्स्यावतारः । अत्रोपमातिशयोक्ती अलंकारौ । उत्साहस्थायिभावो वीरो रसः । दशस्वपि पदेषु धीरललितो नायकः ॥ १॥ अथ कूर्मः । केशवेत्यादि ध्रुवपदं पूर्ववत् । धृतकच्छपरूप इति कूर्मावतारकथनं विशेषः ॥ तवेति । तवातिविपुपुलतरे विशाले अतिक्रान्तं विपुलतरं तस्मिंश्च धरणीधरणेन हेतुना जातं यत्किणचक्रं तेन गरिष्ठे गौरवयुक्ते पृष्ठे क्षितिस्तिष्ठति इति भवप्रवाहस्यानादित्वादनेकवारं धरणीधरणे चिह्नबहुत्वम् । इति द्वितीयपदम् ॥ २ ॥ अथ वराहः । वसतीति । धृतशूकररूपेति ध्रुवे विशेषः । धरणी पृथ्वी तव दशनशिखरे दंष्ट्राग्रभागे लग्ना संसक्ता वसति । केव । शशिनि चन्द्रमसि मग्ना
धयः समुद्रास्तेषां जले निमज्जन्तं वेदं मीनशरीरमुपादाय धृतवानसि । कथम् । अखेदं यथा
स्यात्तथा विहितं कृतं वहित्रस्य पोतस्य चरितं यत्र तत्तथा । अत्र पयोधिपदेनैव जलत्वे
प्राप्ते पुनर्जलपदोपादानमन्तर्धामादिरहितत्वेन विश्रामस्थलाभावं सूचयितुम् । तथा च
निरालम्बे पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव तच्छरीरपरिग्रह इति भावः । "पृथु-
रोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः" ॥ १ ॥ कच्छपरूपं स्तौति -- धृतकच्छपेति ।
हे केशवधृतकच्छपरूप धृतं कच्छपस्य रूपं येन तादृश, जय । ननु कच्छपरूपं मया
कस्य हेतोर्धृतमित्यत आह -- क्षितिरिति । तव पृष्ठे क्षितिः पृथ्वी तिष्ठति । तिष्ठतीति
वर्तमानकालनिर्देशेनाधुनापि तव पृष्ठे क्षितिस्तिष्ठतीति कच्छपावतारप्रयोजनं सर्वलोकप्र-
सिद्धमेवेति भावः । ननु पञ्चपञ्चाशत्कोटियोजनविस्तृता पृथ्वी मम पृष्ठे कथं स्थितेत्यत
आह -- अतिविपुलतर इति । अतिशयेन पृथ्व्यपेक्षयाधिकविस्तीर्णे । पुनः कीदृशे
धरणिरिति । धरण्याः पृथ्व्या धारणेन यत्किणचक्रं रक्ताकृति मृतरुधिरमण्डलं तेन गरिष्ठे
गौरवयुक्ते । "कूर्मे कमठकच्छपौ" इत्यमरः । "व्रणचिह्ने घुणे किणः" इति हारावलिः ॥ २ ॥
वराहरूपं स्तौति -- धृतशूकररूपेति । हे केशव धृतशूकररूप धृतं शूकरस्य रूपं येन
तादृश जय । क्रोडावतारपरिग्रहप्रयोजनमाह -- वसतीति । तव दशनशिखरे दन्ताग्रे
लग्ना संश्लिष्टा धरणिः पृथ्वी वसति । कुत्र केव । शशिनि चन्द्रे निमग्ना कलङ्ककलेव
तव करकमलवरे नखमद्भुतशृङ्गम्
दलितहिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥
छलयसि विक्रमणे बलिमद्भुतवामन
पदनखनीरजनितजनपावन ।
केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥
अन्तर्गता कलङ्ककलेव । अनेन दंष्ट्राया महत्त्वं तदपेक्षया धरण्या अतिसूक्ष्मत्वं द्योतितम् । अत्रोपमालंकारः । इति तृतीयम् ॥ ३ ॥ अथ नृसिंहः । धृतनरहरिरूप इति ध्रुवे विशेषः ॥ तव करेति । तव करकमलवरे नखमद्भुतशिखररूपं भाति । किंलक्षणम् । हेतुगर्भविशेषणमाह । दलितहिरण्यकशिपुतनुभृङ्गम् । दलितो विदारितो हिरण्यकशिपोस्तनुभृङ्गस्तनुरेव भृङ्गो येन तत्तथा । तनुभृङ्ग इत्यत्र रूपकमलंकारः । करकमलवर इत्यत्रापि करस्य कमलत्वेन कमलाग्रत्वारोपः । भृङ्गः किल कमलाग्रं विदारयति । अत्र कमलाग्रेण भृङ्गविदारणमित्यद्भुतोत्पत्तिः । इति चतुर्थम् ॥ ४ ॥ अथ वामनः । धृतवामनरूप इति ध्रुवे विशेषः ॥ छलयसीति । हे अद्भुतवामन, त्वं बलिं दानवं छलयसि वञ्चयसे । अत्र भूतेऽप्यद्यापि बलिसमीपे वर्तमानत्वात्, छलं
लाञ्छनलेश इव । अत्र निमग्नापददानेन बालचन्द्रस्य सादृश्यं प्राप्तम् । अतस्तत्रैव कलङ्क-
लेशस्य निमग्नत्वाद्बालचन्द्रस्य दीर्घतया सादृश्यमपि संगच्छते । अत एव निमग्नापदवै-
यर्थ्यमपि । "रदना दशना दन्ताः" इत्यमरः । "अग्रं शिखरमित्याहुरद्रिशृङ्गे च तन्मतम्"
इति धरणिः । "कला स्यान्मूलके वृद्धौ शिल्पादावंशमात्रके । षोडशांशेऽपि चन्द्रस्य कल-
नाकालयोः कला" इति विश्वः ॥ ३ ॥ नृसिंहरूपं स्तौति -- धृतनरहरिरूपेति । धृतं
नरहरेर्नृसिंहस्य रूपं येन तादृश, जय । नृसिंहावतारस्य प्रयोजनमाह -- तवेति । तव
करकमलवरे करो हस्तः स एव कमलवरं कमलश्रेष्ठं तत्र नखं तिष्ठति । कीदृशम् ।
अद्भुतशृङ्गं अद्भुतमाश्चर्यं शृङ्गमग्रभागो यस्य तत्तादृशम् । अद्भुतत्वमेवाह -- दलितेति ।
दलितो विदारितो हिरण्यकशिपोर्दैत्यस्य देहः स एव भृङ्गो भ्रमरो येन तादृशम् । अन्यत्र
तन्मकरन्दपानादिना भृङ्गाणां तृप्तिर्भवति, अत्र तु नृसिंहकरकमलाग्रभागेन भृङ्ग एव
विदारित इत्यद्भुतत्वम् । अथवान्यत्र कमलपत्राणि भृङ्गेण विदार्यन्ते । अत्र तु कमलेनैव
भृङ्गो विदारित इत्यद्भुतम् । अत्र नृसिंहकरस्य कमलत्वनिरूपणेन हिरण्यकशिपोर्दैत्यस्य
देहस्य भृङ्गत्वनिरूपणेन च बृहतोऽपि हिरण्यकशिपोः कायस्य नृसिंहकराम्बुजापेक्षयाति-
सूक्ष्मत्वं ध्वनितम् । "पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्" इत्यमरः । "शृङ्गं
प्रभुत्वे शिखरे चिह्ने क्रोडाम्बुपत्रके । विषाणोत्कर्षयोश्चाग्रे शृङ्गः स्यात्कूर्चशीर्षके" इति
विश्वः । "तनुः काये कृशे चाल्पे विरले चाप्यवाच्यवत्" । "द्विरेफपुष्पलिड्भृङ्ग-
षट्पदभ्रमरालयः ॥ ४ ॥ इतो वामनरूपं स्तौति -- धृतेति । हे केशव धृतवामनरूप,
धृतं वामनस्य खर्वस्य रूपं येन तादृश, जय । वामनावतारप्रयोजनमाह -- छलयसीति ।
क्षत्त्रियरुधिरमये जगदपगतपापम्
स्नपयसि पयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६॥
कुर्वन्नसीति वर्तमानसामीप्याद्वा प्रवाहानादित्वेन प्रतिवामनावतारं छलनप्रारम्भापरिसमाप्तत्वाद्वर्तमानापदेशः । वामनस्याकारेण खर्वत्वात्प्रभाप्राग्भारेणाविभाव्यस्वरूपत्वादद्भुतत्वम् । क्व । विक्रमणे विक्रमत्रयकरणे । अत्र हेतुगर्भविशेषणम् । पदेति । पदनखनीरेण जनितं जनपावनं येन । इदमत्राकूतम् । बलिना वामनस्य चरणार्घे क्रियमाणे सहसा वृद्धिमाप्ते चरणार्थं यदुदकं गृहीतं तन्नखमात्र एव पर्याप्तम् । अतः पदनीरे वक्तव्ये पदनखनीर इत्युक्तिः । अथवा तृतीये पदविन्यासे चरणाग्र एव ब्रह्मलोकमितो झटिति ब्रह्मणा दीयमानार्घजलजनितविष्णुपादाग्रसंभवजलेन पावन इति । अत्राद्भुतो रसः । अतिशयोक्तिरलंकारः । इति पञ्चमम् ॥ ५ ॥ अथ परशुरामः । धृतभृगुपतिरूप इति ध्रुवे विशेषः । क्षत्त्रियेति । एतत्पदस्य पुराणकथासापेक्षा व्याख्या । हे राम, जगत्स्नपयसि । क्व । पयसि जले । किंभूते जले । क्षत्त्रियरुधिरमये क्षत्त्रक्षतजविकारे । परशुरामः किलः क्षत्त्रक्षयं कृत्वा कुरुक्षेत्रे रामह्रदतीर्थे क्षत्त्रशोणितजलेन पितॄनतार्प्सीदिति पौराणिकाः । तत्राद्यापि जगत्स्नाति, अपगतपापं च भवति । तदेव कविराह । अत्रापि स्नानं प्रति रामशब्दस्यैव प्रवृत्तिनिमित्तत्वात्स्नपयसीति पदान्तराध्याहारेण भूतार्थालंकारस्थाने लये गतिश्चिन्तनीया ॥ यस्त्वं स्नपयसि स जयेति वा । किंभूतं जगत् । अपगतपापमिति हेतुगर्भं विशेषणम् । अतएव शमितभवतापं शमितो भवतापोऽपगतभवतापत्वादाध्यात्मिकादिदुःखत्रयं येनेति तत्तथा । अत्र भाविनि भूतवदु
हे अद्भुतवामन आश्चर्यवामन, विक्रमेण पराक्रमेण बलिं दैत्यं छलयसि वञ्चयसि । भगवा-
नुपेन्द्रो वामनरूपं कृत्वा बलेः सकाशात्पदत्रयमितां भूमिं प्रार्थ्य पश्चाद्बृहद्रूपं प्रकटी-
कृत्य चतुर्दशभुवनं पदत्रयेणापूर्य तदपराधेन तं बद्ध्वा चाधः क्षिप्तवानिति पुराणप्रसिद्धिः ।
अद्भुतत्वमेवाह -- पदनखेति । पदनखसंबन्धि यन्नीरं गङ्गाजलं तेन जनितमुत्पादितं जना-
नां पावनं पावित्र्यं येन तादृश । अत्रापि प्रवर्धमानस्य भगवतस्त्रिविक्रमस्य चरणाङ्गुष्ठन-
खाग्रेण विदीर्णे ब्रह्माण्डस्य प्रथमे पार्थिवावरणे तेनैव वर्त्मना तच्चरणारविन्दप्रक्षालनादे-
वागतं द्वितीयावरणजलं ब्रह्मदत्तार्घेण जलेनैकीभूतं क्रमेण मर्त्यलोकमागतं गङ्गेति प्रसिद्धं
लोकान्पावयतीति पुराणप्रसिद्धिः । अतएव भूलोकस्थितेनापि वामनेन ब्रह्माण्डजल-
स्यानयनादाश्चर्यम् । "अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्" इत्यमरः ॥ ५ ॥
परशुरामावतारं स्तौति -- धृतभृगुपतिरूपेति । हे केशव, धृतं भृगुपतेः परशुरामस्य
रूपं येन तादृश, जय । परशुरामावतार प्रयोजनमाह -- क्षत्त्रियेति । क्षत्त्रियाणां रुधि-
राणि प्रचुराणि यत्र तादृशे, पयसि कुरुक्षेत्राख्यतीर्थजले जगत्प्राणिजातमपगतपापं यथा
स्यादेवं स्नपयसि । यदवधि परशुरामेणैकविंशतिवारं क्षत्त्रियान्हत्वा तद्रुधिरैः कुरुक्षेत्रे पञ्च
ह्रदान्विधाय पितॄणां तर्पणमकारि तदवधि तन्महातीर्थं जातमिति पुराणप्रसिद्धिः । कीदृशं
वितरसि दिक्षु रणे दिक्पतिकमनीयं
दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरा[^१]मशरीर जय जगदीश हरे ॥ ७ ॥
पचारन्यायेन स्नानेन पापहानिः । तथा च दुःखत्रयाभिघातः । उभयमपि क्रियाविशेषणं वा । स्नपयसीति "ग्लास्ना -" इति मित्वाद्ध्रस्वत्वम् । रुधिरमये इति विकारे मयट् । स्वभावोक्तिरलंकारः । अत्र बीभत्सो रसः । प्रलयेत्यादिपदषट्के धीरोद्धतो नायकः । तल्लक्षणं सङ्गीतराजे रसरत्नकोशे -- "मात्सर्यदर्पभूयिष्ठश्छद्म्यहंकारवाञ्छली । चण्डो विकत्थनश्चैव धीरोद्धत उदाहृतः" ॥ तद्गुणाः -- दार्ढ्यं, तेजस्विता, दक्षता, धार्मिकत्वं चेति । तल्लक्षणं रसरत्नकोशे यथा -- "व्यवसायादचलनं दार्ढ्यं विघ्नशतैरपि । अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि । दक्षता क्षिप्रकारित्वं धार्मिकत्वं तु तत्कृतिः" ॥ ६ ॥ अथ रामः । धृतरामशरीर इति ध्रुवे विशेषः । वितरसीति । हे राम, त्वं वितरसि ददासि । दशमुखमौलिबलिं रावणस्य मौलय एव बलिः । मौलिशब्दः शिरोवाची । अथवा मौलिशब्दः किरीटे वर्तते । "चूडाकिरीटकेशाश्च संयता मौलयस्त्रयः" इत्यभिधानात्, तथापि बलेर्मांससाध्यत्वान्मौलिशब्देन तात्स्थ्याच्छिरांसि लक्ष्यन्ते । शिरांसि छेदंछेदं दिक्पतिभ्यो बलिदानं कृतवानित्यर्थः । जगतां रक्षोपलक्षणोपद्रवोपशान्त्यै रक्षःशिरांस्येव बलित्वेनोपहृतवानिति । कुत्र । दिक्षु । किंभूतं बलिम् । दिक्पतिकमनीयमभिलषणीयम् । पुनः किंभूतम् । रावणवधद्वारा लोकाभिरामत्वाद्रमणीयम् । अत्र यावन्तो दिक्पतयस्तावन्त्येव शिरांसीति कमनीयत्वे हेतुः । अत्रापि वितीर्णवानिति वक्तव्ये तत्कालापेक्षया वर्तमानापदेशो वा । यो वितीर्णवान्स त्वं जय इत्यादिकल्पनीयम् । अत्र जातिरलंकारः । वितरसीत्यत्र
जगत् । शमितभवतापं शमितो भवस्य संसारस्य तापः संतापो येन तादृशम् । प्राणिनां
पापसंबन्धादेव संतापस्तत्तीर्थस्नानेन तु सर्वं पापं विलयं गतमिति ततः संतापना-
शोऽप्यभूदिति । अस्य दर्शनमात्रेण तापो गच्छति, जले मज्जतः संतप्तस्य तापनाश उचित
एवेति ध्वनिः । "रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः" इति विश्वः । "भवः संसार-
संतापश्रेयःशंकरजन्मसु" इति च ॥ ६ ॥ अथ रामावतारं स्तौति -- धृतरघुपतिरूपेति ।
हे केशव, धृतं रघुपतेः रामचन्द्रस्य रूपं येन तादृश, त्वं जय । श्रीरामावतारपुरुषार्थ-
माह -- वितरसीति । रणे संग्रामे दिक्षु हरित्सु दशमुखमौलिबलिं रावणस्य ये मौलयो
मस्तकानि समुकुटानि तान्येव बलिमुपहारं वितरसि ददासि । कीदृशम् । दिक्पतिकमनीयं
दिशां ये पतय इन्द्रादयस्तेषां कमनीयमभीष्टम् । तत्र हेतुः रमणीयम् । "किरीटमूर्धचूडासु
मौलिः केशे च संयते" । "करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्" इत्यमरः ॥ ७ ॥
[^१.] "धृतरघुपतिरूप" इति पाठः ।
वहसि वपुषि विशदे वसनं जलदाभम्
हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥
निन्दसि यज्ञविधेरहह श्रुतिजातम्
सद्यहृदय दर्शितपशुघातम् ।
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥
धीरोदात्तो नायकः । तल्लक्षणं रसरत्नकोशे -- "कृपावानतिगम्भीरो विनीतश्चाविकत्थनः । धीरोदात्तः स विज्ञेयो रामो दाशरथिर्यथा" ॥ ७ ॥ अथ बलदेवः । धृतहलधररूप इति ध्रुवे विशेषः । वहसीति । अत्र यद्यपि "रामो रामश्च कृष्णश्च" इति कृष्णचरित्रं वर्णनीयं तथापि कृष्णस्यैवैते दशापीति कृष्णस्य नायकत्वेन वर्णनीये बलदेवोऽपि दशसु गणितः । तथा चोक्तम् -- "वनजौ वनजौ खर्वस्त्रिरामी सतपोऽतपः" इति । हे राम, त्वं नीलं वसनं वहसि धत्से । किंलक्षणम् । जलदाभं मेचकम् । क्व । विशदे शुभ्रे वपुषि । तच्च यमुनयोपमीयते । हलहतिभयेन त्वामेव सेवितुमागता यमुनेव । तदिवाभातीति तदाभम् । धवलमेचकसंगत्या प्रयागत्वे तन्मूर्तेः पापहारित्वं कामदत्वं च व्यञ्जितम् । वहसीत्यत्र धीरललितो नायकः । तल्लक्षणम् -"कान्तापरवशो धीरललितो निश्चितो मृदुः" । अथवा शृङ्गारी नायकः । तल्लक्षणं सङ्गीतराजे रसरत्नकोशे -- "शृङ्गारी नायकस्त्वन्यः पञ्चमः कथ्यते यथा । विलासवाक्कायशीलः सुभगः स्थिरवाग्युवा । गतिः सधैर्या दृष्टिश्च सविलासस्मितं वचः" ॥ ८ ॥ अथ बुद्धावतारः । केशव धृतबुद्धशरीरेति ध्रुवे विशेषः । निन्दसीति । हे सदयहृदय, त्वं यज्ञविधेः श्रुतिजातं ऋतुविधानसंबन्धिवेदवाक्यसमूहं निन्दसि । किंभूतम् । दर्शितपशुघातमुपदिष्टगवाश्वादिमारणम् । अहहेत्यद्भुते । परमेश्वरा
अथ बलभद्रावतारं स्तौति -- धृतहलधरेति । हे केशव, धृतं हलधरस्य बलभद्रस्य रूपं
येन तादृश, जय । बलभद्रावतारस्य प्रयोजनमाह -- वहसीति । त्वं विशदे शुभ्रे वपुषि
देहे जलदाभं सजलमेघस्य दीप्तिमिव नीलं वसनं वस्त्रं वहसि धारयसि । कीदृशम् ।
हलहतीति । हलेन हतिर्हननं तद्भीत्या तद्भयेन मिलिता या यमुना तस्या इवाभ-
दीप्तिर्यस्य तादृशम् । इयं च मलयानिलवशात्कम्पमानस्य वस्त्रस्य भययुक्तयमुनाया
उत्प्रेक्षा । भीरूणां हि कम्प उचित एवेति भावः । कदाचिद्वारुणीं पीत्वा वृन्दावने
गोपीभिः सह विहरता बलभद्रेण जलक्रीडार्थमाहूतां मत्तप्रलापोऽयमिति मत्वा गर्वेणा-
न्तिकमनागच्छन्तीं कालिन्दीं रोषतो हलाग्रेण कृष्टवानिति पुराणप्रसिद्धि: । हलधरपदेन
दुष्टनिग्रहार्थमेव हलं धृतवानित्यवतारप्रयोजनं ध्वनितम् । "गात्रं वपुः संहननं शरीरं वर्ष्म
विग्रहः" इत्यमरः । "शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः" इति च । "वस्त्रमाच्छादनं
वासश्चैलं वसनमंशुकम्" इति । "भीतिः साध्वसकम्पयोः" इति विश्वः ॥ ८ ॥ अथ बुद्धा-
वतारं स्तौति -- धृतबुद्धेति । धृतं बुद्धस्य शरीरं येन तादृश, जय । ननु बुद्धावतारेण वेद-
निन्दकस्य मे कथं स्तुतिः क्रियत इत्यत आह -- निन्दसीति । यज्ञविधेः श्रुतिजातं यज्ञस्य
म्लेच्छनिवहनिधने कलयसि करवालं
धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥
स्यैवोपदेष्टृत्वादिज्यत्वात्तत्फलदातृत्वाच्च किमपि प्रयोजनमभिसंधाय तन्निन्दा नाश्चर्यम् । निन्दसीत्यत्र धीरशान्तो नायकः । तल्लक्षणम् -- "शान्तो विनीतो धीरश्च धीरशान्तो द्विजो वणिक्" ॥ ९ ॥ अथ कल्क्यवतारः । धृतकल्किशरीरेति ध्रुवे विशेषः । म्लेच्छेति । हे हरे, म्लेच्छनिवहनिधने म्लेच्छसमूहवधनिमित्तम् । अपि निश्चये । त्वं करवालं खङ्गं कलयसि इति वितर्कयामि । किं वितर्के । अन्यथा चक्रादिषु सत्सु कथं खड्गस्यैव धारणम् । किंभूतं करवालम् । भीषणम् । किमिव धूमकेतुमिव । म्लेच्छानामुत्पातशंसिनं धूमकेतुं ताराविशेषमिव । अथवा धूमः केतुश्चिह्नं यस्य स तम् । म्लेच्छकुलविनाशपिशुनमिव । उत्पाते हि वह्निर्धूमशिखो भवति स तु प्रायेण रत्नमयो भवति । खड्गतेजो हि नीलभास्वरं भवति अत उभयसाम्येनोपमा ।
विधानबोधकं वेदसमूहं निन्दसि न तु सर्वमित्यर्थः । सोऽपि किमिति निन्द्यत इत्यत
आह-- दर्शितमिति । अहह कष्टम् । दर्शितो बोधितः पशुघातो येन तादृशम् । वेदोऽपि
पशूनां घातं बोधयतीत्यहह कष्टमित्येवं निन्दसीति भावः । एतादृशनिन्दायामपि
हेतुमाह -- सदयहृदयेति । दया कृपा तत्सहितं हृदयं यस्य तादृश । अयं भावः ।
रागवशान्निरतहिंसाञ्जनान्दृष्ट्वा "अग्नीषोमीयं पशुमालमेत" इत्यादिविधिवाक्यैः स्वर्गादिफ-
लदर्शनपुरस्कारेण गुडजिह्विकया वैदिकमार्गे प्रवर्त्य पश्चान्नश्वरस्वर्गादिफलकं निरपराधि
बहुप्राणिवधसाध्ययागादिकं मुक्तिविरोधित्वाच्च तेषामत्यन्तमहितमिति विचार्य परमपुरुषार्थ-
मोक्षसाधने निवृत्तिमार्गे तान्प्रवर्तयितुं "न हिंस्यात्सर्वा भूतानि" इत्यादिना यज्ञादिबोधकवे-
दस्य निन्दां करोषि न तु सर्वथा वेदनिन्दायामेव तवावतारतात्पर्यम् । अतएव गूढं तत्रेमं
व्यवहारमज्ञात्वा दुरात्मनां वैदिकमार्गे विश्वास इति संमोहनायैव तवैषोऽवतारपरिग्रह
इत्यवतारप्रयोजनमुक्तमिति । "अहहेत्यद्भुते खेदे" इति विश्वः । "जातजात्योश्च जन्म"(?) इति
विश्वः ॥ ९ ॥ अथ कल्किनोऽवतारं स्तौति -- धृतकल्किशरीरेति । हे केशव, धृतक-
ल्किशरीर धृतं कल्किनः शरीरं येन तादृश, त्वं जय । ननु पूर्वं मम सदयत्वमुक्तं कल्क्य-
वतारे तु प्राणिवधनिरतस्य मे विरुद्धमित्यत आह -- म्लेच्छनिवहेत्यादि । त्वं म्लेच्छनि-
वहनिधने म्लेच्छसमूहमारणे करवालं खड्गं कलयसि धारयसि । कीदृशम् । किमपि कराल-
मतिशयेन भयंकरम् । कमिव । धूमकेतुमिव औत्पातिकग्रहविशेषमिव । रणे उदितं तत्क-
रवालं पश्यतां म्लेच्छानां नाशो भवतीति करवालस्य धूमकेतुसाम्यम् । अन्यस्मिन्नप्यु-
दिते धूमकेतौ औत्पातिक ग्रहविशेषे तं पश्यतां प्राणिनां विपदो भवन्तीति भावः । यद्वा
धूमः केतुश्चिह्नं यस्य स धूमकेतुर्वह्निस्तमिव । अत्रास्य खड्गस्य नीलत्वाद्धूमसाम्यम् ।
मुष्टेश्च सुवर्णमयत्वादग्निसाम्यम् । म्लेच्छनिधनेत्यत्र "चर्मणि द्वीपिनं हन्ति" इतिवन्निमि-
त्तात्कर्मसंयोगे सप्तमी । "समूहे निवहव्यूहसंदोहविसरव्रजाः" इत्यमरः । "निधनः स्यात्क-
लेर्नाशे" इति विश्वः । "खड्गे तु निस्त्रिंशचन्द्रहासारिष्टयः । कौक्षेयको मण्डलाग्रः कर-
वालः कृपाणवत्" इत्यमरः । "धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः" इति विश्वः । क-
श्रीजयदेवकवेरिदमुदितमुदारम्
शृणु शुभदं सुखदं भवसारम् ।
केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यान्दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२ ॥
म्लेच्छेत्यत्र धीरोद्धतो नायकः । तल्लक्षणमुक्तं प्राक् ॥ १० ॥ इदानीं दशभिरवतारैः कृतविस्तारभेदेन श्रीकृष्णपरत्वेनोपसंहरन्नाह । तथाच वक्ष्यति "वेदानुद्धरते" इत्यादि । केशव धृतदशविधरूप, जय जयदीश जगदीश हरे इति ध्रुवे इति विशेषः । श्रीजयदेवकवेरिति । हे धृतदशविधरूप, जयदेवकवेर्मम इदं स्तोत्ररूपं उदितं भणितं शृणु मामकीनोऽयं मां स्तौतीति बुद्ध्यावधारय । किंभूतम् । उदारम् । झटिति पदार्थार्पकम् । पुनश्च भवसारम् । भवे संसारे सारं साररूपम् । अथवा भवोच्छेदकहेतुमध्ये सारम् । मध्यमपदलोपित्वात् । अत एव सुखदम् । सद्यः परनिर्वृतिहेतुत्वात् । अत एव शुभम् । शिवेतरक्षतिहेतुवात् । अत्र शान्तो रसः । पर्यायोक्तिरलंकारः ॥११॥ इदानीं दशानामप्यवताराणामभेदं निरूप्य तत्तद्रूपं श्रीकृष्णं प्रणमति -- वेदानुद्धरत इति । हे हरे, तुभ्यं कृष्णाय नमः । वेदानुद्धरत इत्यादि मीनावतारादिपदव्याख्यानेनैव निगदव्याख्यातम् । वृत्तमिदं शार्दूलविक्रीडितम् । दीपकोऽलंकारः । वेदानुद्धरत इत्यत्र पदेषूक्ता नायकाः । अत्र प्रलयपयोधीत्याद्येकादशस्वपि पदेषु कीर्तिधवलं नाम छन्दः । तल्लक्षणं यथा -- "अयुजि पदे द्वादशैव युजि तु यस्य हि दश वाष्टमात्राश्चेत् । परमपि पदयुगमेवं तं कीर्तिधवलमिह धीराः प्राहुः ॥" ध्रुवपदे तु "षता
रालो भीषणोऽन्यवत्" इति च ॥ १० ॥ प्रत्येकावतारपुरस्कारेण भगवतः स्तुतिं कृत्वा संप्रति
समुदितदशावतारपुरस्कारेण श्रीकृष्णं स्तौति -- धृतदशविधेति । धृतानि दशविधानि
रूपाणि येन तादृश, त्वं जय । संप्रति जयदेवकविः संप्रदायागतत्वेन गीते स्वनाम निबध्नन्
कृतां भगवतः स्तुतिं कृपयान्यानपि श्रावयितुमाह -- श्रीजयदेवेति । इदं जयदेवकवेरुदितं
भाषितं शृणु । किंभूतम् । सुखदं श्रोत्रमनःसुखप्रदम् । पुनः कीदृशम् । शुभदं
मङ्गलप्रदम् । कृष्णकीर्तनत्वात् । अत एव भवसारं श्रेष्ठमहाधनरूपं वा । अत एवोदारं
महत् । "विधा विधौ प्रकारे च" इत्यमरः । "उक्तं भाषितमुदितम्" इति च । "उदारो
दातृमहतोः" इत्यपि । "कल्याणं मङ्गलं शुभम्" इति च ॥ ११ ॥ अंशावतारान्स्तुत्वा संप्रति
दशावतारिणं कृष्णं स्तौति -- वेदानिति । कृष्णाय परिपूर्णस्वरूपिणे श्रीकृष्णरूपधारिणे
तुभ्यं नमः । ननु मीनाद्यवतारवानीश्वरस्तस्य स्तुतिः कृता चेदिदानीं गोपालं मां किं
स्तौषीत्यत आह -- दशाकृतिकृते इति । मीनादिदशरूपधारिणे तुभ्यं नमः । तथा च
तत्तदवतारवानीश्वरस्त्वमेव न त्वदन्य इत्यर्थः । ननु ईश्वरश्चेदहं तदाऽनित्यमीनाद्याकृतयः
गुर्जरीरागनिःसारतालाभ्यां गीयते ॥ प्र० ॥ २ ॥
श्रितकमलाकुचमण्डल धृतकुण्डल ए
कलितललितवनमाल जय जय देव हरे ॥ ध्रुवम् ॥ १ ॥
षचौ भ्रमरः" इति भ्रमरो नाम छन्दः । "बालभुजङ्गमललितम्" इति छन्दश्चूडामणिरपि । "छन्दसा कीर्तिपूर्वेण धवलेन विनिर्मितः । पदान्तभोगरुचिरस्ततः पाटस्वराञ्चितः ॥ दशावतारकीर्त्याढ्यो धवलोऽयं प्रबन्धराट् । रागोऽत्र मध्यमादिः स्यादादितालो विलम्बितः ॥ लयः स्यान्मागधी रीतिः शृङ्गारोऽत्र रसः स्मृतः । कीर्तनं वासुदेवस्य विनियोगो नृपोत्सवे ॥" ॥ १२ ॥ इति दशावतारकीर्तिधवलो नाम प्रथमः प्रबन्धः ॥ इदानीं वर्ण्यमानं श्रीकृष्णं स्वरूपनिरूपणद्वारा मङ्गलगीतेन स्तौति । तत्रेदमाद्यं पदं ललितरागेण लघ्वादिताल इति आदिताले गीयते ॥ "गीतमुद्ग्राह्यते येन स उद्ग्राहः प्रकीर्तितः । आभोगस्त्वन्तिम इति ध्रुवत्वाच्च ध्रुवः स्मृतः ॥" उद्ग्राहादिधातूनां विश्रामभूमित्वात् । अन्यानि च उद्ग्राहादिप्रतिरूपकाणि पदानीति प्रतिबोद्धव्यम् । एवमन्यास्वष्टपदीषु ज्ञेयम् ॥ श्रितकमलेति । अत्र "ए"काराद्यालापो ज्ञेयः । जय जय देव हरे इत्यत्र ध्रुवः । श्रितं कमलायाः कुचमण्डलं येन स तथा तस्य संबोधनम् । धृते कुण्डले येन स तथा तस्य संबुद्धिः । ए इति एतदन्ते रागपूर्त्यै गानवेलायां प्रतिपदं एतावत्पदम् । जयदेव हरे इति सर्वत्र ध्रुवपदम् । कलिता धृता
किमिति मया धृता इत्याशङ्क्य अवताराणां प्रयोजनमाह -- वेदानुद्धरते इति । वेदानुद्धरते
मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय । जगद्भुवनं निवहते कच्छपरूपेण धारयते ।
पुनः भूगोलं भूमण्डलमुद्बिभ्रते धारयते । पुनः किंभूताय । दैत्यान् दारयते विदारयते । पुनः
किंभूताय । बलिं दैत्यं छलयते वामनरूपेण वञ्चयते । पुनः कीदृशाय । क्षत्रक्षयं कुर्वते
परशुरामरूपेण दुर्वृत्तक्षत्रियाणां नाशं कुर्वते । पुनः कीदृशाय । पौलस्त्यं रावणं
श्रीरामचन्द्ररूपेण जयते । पुनः कीदृशाय । हलं कलयते दुष्टनिग्रहायायुधत्वेन बलभद्ररूपेण
कलयते । कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते । म्लेच्छान्कल्किरूपेण मूर्च्छयते
नाशयते । "आकृतिः कथिता रूपे सामान्यवपुषोरपि" इति विश्वः ॥ १२ ॥
पूर्वं केलयो जयन्तीत्युक्तं, केलिश्च नायकोत्कर्षं विना न संभवति । तस्मात्समस्तनायक-
चूडामणेर्भगवतः श्रीकृष्णदेवस्य लोकोत्तरगुणान्वर्णयन्नेव मङ्गलान्तरमथाचरति -- श्रितेति ।
गीतस्यास्य गुर्जरी रागस्तालश्च प्रतिमठः । गीतार्थस्तु हे हरे, जय । जय जयेत्यादरे द्विर्वचनम् ।
इदं तु ध्रुवपदम् । नायकगुणानाह -- श्रितेति । श्रितमाश्रितं कमलायाः कुचमण्डलं
येन । लक्ष्मीप्रियत्वेन धनाढ्यत्वमपि सूचितम् । "प्लुतमात्रे प्रवृत्तिः स्याद्यत्र ताले
निरन्तरम् । प्रतिमठः स विज्ञेयः (?) सा गीयते रसः ॥" कीदृश -- धृतेति । धृते कुण्डले
कर्णाभरणे येन । तादृश । पुनः कीदृश । कलिता धृता लम्बिता वनमाला मनोहरा
चरणपर्यन्तावलम्बिनी पुष्पमाला येन तादृश । एतद्विशेषणद्वयेन सेव्यत्वमुक्तम् । "कमला
दिनमणिमण्डलमण्डन भवखण्डन ए
मुनिजनमानसहंस जय जय देव हरे ॥ २ ॥
कालियविषधरगञ्जन जनरञ्जन ए
यदुकुलनलिनदिनेश जय जय देव हरे ॥ ३ ॥
मधुमुरनरकविनाशन गरुडासन ए
सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥
ललिता मनोहरा आर्द्रा क्लिन्ना वनमाला पुष्पदाम येन । "वनमम्भसि कानने" इति तज्जन्यत्वात्पुष्पाणि कमलानि वा तेषां माला ॥१॥ दिनमणीति । अत्रालापो बोद्धव्यः । मुनिजनेति । हे दिनमणिमण्डलमण्डन भानुमण्डलालंकरण । सवितृमण्डलमध्यवर्तित्वात् । तस्य संबुद्धिः । हे भवखण्डन संसारच्छेदक । "नन्दिग्रहि-" इत्यादिना ल्युः । ए इति गानपदम् । मुनिजनेत्यादि ध्रुवः । मुनिजनानां मानसानीव मानसानि तेषु हंस इव हंसः । अथ मुनीनां मानसे ध्येयत्वाद्धंसः परं ब्रह्म । मुनिमानस इति वक्तव्ये जनग्रहणं लोकपर्यायः । जनो लोक इति पर्यायेत्यभिधाने यावन्तो मुनय इति ॥२॥ कालियेति । अत्रालापः । यदुकुलेति । हे कालियाभिधसर्पदमन । तद्घातित्वाज्जनरञ्जन । बालेन महाबलेन महाविषधरदमनाज्जनानामाह्लादोऽभूत् । हे यदुकुलनलिनदिनेश यदुकुलं नलिनमिव तत्प्रकाशकत्वात्सूर्य इव । अत्र पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुभाव इति ध्रुवः ॥ ३ ॥ मधुमुरेति । अत्रालापः । सुरेति । मधुमुरनरकान्विनाशयति यस्तस्य संबोधनंसम्बोधनम् । हे सुरकुलकेलिनिदान । असुरवधात्तत्कारण
श्रीर्हरिप्रिया" इत्यमरः । "कुचौ स्तनौ" इति च । "आपादलम्बिनी माला वनमालेति
तां विदुः" इति विश्वः । "पत्रपुष्पमयी माला वनमाला प्रकीर्तिता" ॥ १ ॥ पुनः कीदृश ।
दिनमणीति । दिनमणेः सूर्यस्य यन्मण्डलं तस्य मण्डन हारभूत । तथा च "ध्येयः
सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः" इति पुराणोक्तवचनात् ।
एतेन स्थिरसखित्वमुक्तम् । पुनः कीदृश । भवं संसारं खण्डयतीति भवखण्डनः
प्रलयकर्ता तादृश । अनेन सामर्थ्यरूपो नायकगुण उक्तः । पुनः किंभूतः । मुनिजनानां
मानसं चित्तं तदेव मानसं सरोवरविशेषस्तत्र हंसो मरालः । अत्र मुनिजनमानसं
स्वच्छत्वाद्धंसाश्रयत्वेन च साधारणधर्मेण मानससरोवरत्वेन निरूपितम् । भगवतश्च
मुनिजनमानसेषु समुचितस्थितिं मत्वा साधारणधर्मेण हंसत्वेन निरूपणम् । "मानसं
सरसि स्वान्ते" इति विश्वः ॥ २ ॥ पुनः कीदृश । कालियेति । कालियनाम्नो विषधरस्य
गञ्जन तिरस्कारक । अनेनातिसामर्थ्यमुक्तम् । पुनः कीदृश । जनरञ्जनेति ।
जनान्मधुरवचनादिना रञ्जयतीति जनरञ्जन । अनेन शुभवचनत्वं नायकगुण उक्तः ।
पुनः कीदृश । यदुकुलेति । यदुकुलमेव नलिनं कमलं तस्य दिनेशः सूर्यः । प्रकाशकत्वात् ।
एतेन कुलीनत्वं नायकेऽप्युक्तम् । "आशीविषो विषधरश्चक्री व्यालः सरीसृपः" इत्यमरः ।
"वा पुंसि पद्मं नलिनम्" इति च ॥ ३ ॥ पुनः कीदृश । मधुमुरेति । मधुनाम्नो
अमलकमलदललोचन भवमोचन ए
त्रिभुवन[^१]भवननिदान जय जय देव हरे ॥ ५ ॥
जनकसुताकृतभूषण जितदूषण ए
समरशमितदशकण्ठ जय जय देव हरे ॥ ६ ॥
अभिनवजलधरसुन्दर धृतमन्दर ए
श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ ७ ॥
त्वम् । इति ध्रुवः ॥ ४ ॥ अमलेति । आलापः । त्रिभुवनेति । अमलकमलदले इव लोचने यस्य स तथा तस्य संबुद्धिः । अपरं च । हे भवमोचन हे संसारमोचन । अथवा हे मेषरूप (?) जीवत्रातः । इति पदम् । हे त्रिभुवनभवननिदान हे त्रिलोकीसमुत्पत्त्यादिकारण । इति ध्रुवः ॥ ५ ॥ जनकेति । अत्रालापः । समरेति । हे जनकसुताकृतभूषण जनकसुतायाः कृतं भूषणं येन । जितो दूषणो राक्षसो येन इति पदम् । हे समरशमितदशकण्ठ संहारितो रावणो येन इति ध्रुवः ॥ ६ ॥ अभिनवेति । अत्रालापः । हे अभिनवजलधरसुन्दर । हे धृतमन्दर । निगदव्याख्यानम् । इति पदम् । हे श्रीमुखचन्द्रचकोर श्रीमुखं चन्द्र इव तत्र चकोर इव ।
मुरनाम्नो नरकनाम्नो दैत्यस्य विनाशन विनाशकारिन् । अनेनापि सामर्थ्यमुक्तम् । पुनः कीदृश । सुरकुलकेलीनां देवसमूहक्रीडानां निदान आदिकारण । अनेनापि सामर्थ्यमुक्तम् । "सुरो देवः" इति विश्वः । "सजातीये गणे गोत्रे देहेऽपि भणितं कुलम्" इति च । "निदानं त्वादिकारणम्" इत्यमरः ॥ ४ ॥ पुनः कीदृश । अमलेति । भवमोचन भवो जन्म तस्मात्प्रपन्नान्मोचयतीति तादृश । मोक्षप्रदेत्यर्थः । अत एव भवखण्डनेत्यनेनापौनरुक्त्यम् । यतस्तत्र भवपदस्य जगत्परतया प्रलयकारित्वमुक्तम् । अत्र तु भवपदस्य जन्मपरतया मोक्षप्रदत्वमुक्तमेव । अनेन मोक्षप्रदत्वेन परमानन्दरूपो नायकगुण उक्तः । कीदृश । त्रिभुवनेति । त्रिभुवनमेव भवनं गृहं तदेव निधानं वासस्थानं यस्य तादृश । यद्वा त्रिभुवने निधानमिव महाधानम् । "दलं पर्णं छदः पुमान्" इत्यमरः । "भवनं भाववेश्मनोः" इत्यमरः । "निधानं त्वालये निधौ" इति विश्वः ॥ ५ ॥ पुनः कीदृश । जनकसुतेति । जनकसुताकृतभूषण जनकसुतायाः सीतायाः कृतानि भूषणानि मकरिकापत्रादीनि येन तादृश । अनेन सकलकलाकौशलरूपस्तारुण्यरूपश्च नायकगुण उक्तः । पुनः कीदृश । जितो दूषणनामा राक्षसो येन स तादृश । यद्वा जितानि स्वस्मिन् तिरस्कृतानि दूषणानि दोषा येन तादृशेत्यर्थः । पुनः कीदृश । समरे सङ्ग्रामे शमितो नाशितो दशकण्ठो रावणो येन सः । अनेन परमाभिमानिनो रावणस्य वधेनाभिमानरूपो नायकगुण उक्तः । रामावतारपौरुषवर्णनेन रामगतक्षमारूपोऽपि नायकगुणः सूचितः । "अस्त्रियां समरानीकरणाः" इत्यमरः ॥ ६ ॥ पुनः कीदृश । अभिनवेति । अभिनवो नूतनो यो जलधरः सजलमेघस्तद्वत्सुन्दरः । अनेनापि भवत्वमुक्तम् । पुनः कीदृश । धृतः क्षीराब्धिमन्थनावसरे मन्दरो
[^१.] "भवननिधान" इति पाठः ।
तव चरणे प्रणता वयमिति भावय ए
कुरु कुशलं प्रणतेषु जय जय देव हरे ॥ ८ ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ए
मङ्गलमुज्वलगीति जय जय देव हरे ॥ ९ ॥
तन्मुखाधरसुधापानकरत्वात् । इति ध्रुवः ॥ ७ ॥ तव चरणे इति । उपसंहरति हे
उक्तस्वरूप श्रीकृष्ण, वयं तव चरणं प्रणताः तव चरणे कृतनमस्कारा इति भावय
चिन्तय । इति पदम् । प्रणतेष्वस्मासु कुशलं कुरु । जयेत्यादि ध्रुवः । "भू शुद्धिचि-
न्तामिश्रणेषु" चुरादिः परस्मैपदी । तस्य प्रयोगो भावयेति ॥ ८ ॥ श्रीजयेति ।
अत्रालापः । मङ्गलेति । हे हरे । इदं मङ्गलं नाम गीतं गीतविशेषो मुदं प्रीतिं
कुरुते । कस्य । ते तव । इति अनुप्रयुज्यमानस्वान्यापेक्षया । अथवा । इदं गीतं मे
तव मुदं कुरु । कुरु ते इत्यर्थः । अथवा । इदं मङ्गलं मङ्गलगीतं जयदेवस्य मुदं
कुरुते । अमुदं मुदं ददातीति मुदं वा । ते इति काकाक्षिगोलकन्यायेनोभयत्र संब-
ध्यते । अथवा । इदं गीतं गायतां शृण्वतां मुदं कुरुते । अथ ते गीतं त्वत्संबन्धि-
गीतं गायतां शृण्वतां च मुदं कुर्वित्याशीः । तस्य श्रीजयदेवस्य कवेः । किंभूतम् ।
उज्ज्वलम् । रम्यगानाद्यखिलैर्गीतगुणैर्युक्तं भीतशङ्कितादिदोषरहितम् । श्रितकमला-
कुचेत्यादि । मङ्गलं नाम छन्दः । तल्लक्षणम् -- "मङ्गलं मङ्गलाख्येन छन्दसा तालसंयुतम् ।
विलम्बितलयोपेतमुत्सवे गीयते जनैः" । "एकारगणैः प्रतिपदगतैश्चैव । मङ्गलमाहुरिदं
सुधितः खलु युक्तम्" । तथा च संगीतराजे -- "छन्दसा मङ्गलाख्येन खननं गद्यपद्ययोः ।
आलापश्च प्रतिपदं नानागमकपेशलः ॥ ध्रुवः प्रतिपदं रागो ललितस्ताल उच्यते ।
आदितालः स्वरास्त्वेताः प्रबन्धे ते प्रतिष्ठिताः ॥ स हरिविजयाढ्यश्च मङ्गलाचार
उच्यते" । इति हरिविजयमङ्गलाचारनामाष्टमः प्रबन्धः ॥ श्रितेत्यष्टपद्यां धीरललितो
नायकः शृङ्गारी वा । लक्षणमुक्तं प्राक् । जयदेवस्य रतेर्भावः ॥ ९ ॥
गिरिविशेषो मन्थानदण्डभूतो येन तादृश । अनेन सामर्थ्यमुक्तम् । पुनः कीदृश । श्रियो
लक्ष्म्याः मुखमेव चन्द्र आह्लादकारित्वात्तस्य चकोर । अत्र लक्ष्मीमुखचन्द्राधरसुधापर-
मोत्कण्ठत्वेन भगवतश्चकोरत्वनिरूपणम् । अनेनापि रतिकौशलमेवोक्तम् । "प्रत्ययोऽभिनवो
नव्यो नवीनो नूतनो नवः" इत्यमरः । अनया सप्तपद्यापि नायकगुण उक्तः ।
नायकगुणस्तु -- "त्यागी कुलीनकुशलोऽथ रतेषु विज्ञः ख्यातः कवित्वकरणे च गुणी
धनाढ्यः । भव्यः ****शोभावान्सुभगोऽभिमानी स्त्रीणां मतः शुभवचा इह नायकः
स्यात् ॥" इति ॥ ७ ॥ कविः सर्वनायकोत्कृष्टं श्रीकृष्णं स्तुत्वा सर्वभक्तानां स्वस्यापि
चाभीष्टं प्रार्थयते -- तवेति ।वयं तव चरणे पतिता इति भावय जानीहि । ननु
मया तज्ज्ञातमेव तादृशां भवतां किमिष्टं कर्तव्यमित्यत आह --कुरु इति । प्रणतेषु
कुशलं विघ्नराहित्यं कुरु ॥ ८ ॥ श्रीजयदेवेति ।श्रीजयदेवकवेः इदं उदितम् ।
पदमिति शेषः । कुशलं विघ्नराहित्यंविघ्नराहित्यम् उज्वलं गीतं गानं यस्य तादृशम् । शङ्कितं
भीतमुद्धृष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसिगतं तथा स्थानविवर्जितम् ॥
पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥१०॥
इदानीं श्रीकृष्णं क्रीडानिदानं वसन्तं दर्शयन्भक्तानभिनन्दति खड्गादिकेन
पूर्णेन वसन्तरागेण --पद्मापयोधरतटीति-- अनुपूरयतु पूर्तिं नयतु । किम् ।
प्रियं वाञ्छितम् । केषां । वो युष्माकम् । किं कर्तृभूतम् । उरो वक्षः । कस्य । मधु-
सूदनस्य । किंभूतम् । पद्मायाः पयोधरौ तयोस्तटी भृगू तयोः परिरम्भेण लग्नं
सक्तं काश्मीरं कुङ्कुमं तेन मुद्रितं कृतमुद्रम् । एतेन स्तनयोः शैलत्वात्तच्छिखरा-
लिङ्गनेन तयोरतिशयालिङ्गनव्याजेन जाता मुद्रा यस्मिंस्तत् । अत एव व्यक्ता-
नुरागमिव प्रतीयमानानुरागमिव । अस्यानुरागो माऽन्यस्यां स्यादिति लक्ष्म्या मुद्रा
दत्ता । अथवा नेदं कुङ्कुमं किंतु हृदिस्थोऽनुरागो बहिर्भूत इव । किंभूतम् ।
खेलन् अनङ्गखेदजातः सुरतश्रमजातः स्वेदाम्बुपूरो यत्र तत्तथा ॥ अत्रेदमा-
कूतम् । अयमालिङ्गति मां परं त्वनुरागो राधायामेवेति मुद्रार्थः । तदसूचि
कविना "राधामाधवयोः" इति पूर्वपद्ये । अत्र मुग्धा नायिका । कुशलो नायकः ।
वसन्ततिलका वृत्तम् । आशीर्वर्णानुप्रासालंकारौ उत्प्रेक्षा च । शृङ्गारो रसः ।
अत्र मधुसूदनस्य परमप्रेमास्पदकान्तोरःस्थलोपगूहनेन व्यक्तानुरागरूपकाश्मीर-
संवलितस्य परमप्रीतिभाजनरसाद्यद्भक्तानां श्रियानुपूरणमाशीर्वचनमुक्तं ततः सुत-
मौचित्यमावहति । यदुक्तम् -- "पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः । उचि-
ताशीर्नृपस्येव भवत्यभ्युदयावहा ॥" इति ॥ १० ॥
विस्वरं विरसं चैव विस्पष्टं विषमाहतम् । व्याकुलं तालहीनं च गीतदोषान्विदुर्बुधाः ॥
॥ ९ ॥ श्रीकृष्णनायकसामान्यगुणानुक्त्वा संप्रति नायकगुणान्कथयन्नाशीरूपं मङ्गलमा-
चरति -- पद्मेति ।मधुसूदनस्य उरो हृदयं वो युष्माकं वाञ्छितमनुपूरयतु संपूर्णं करोतु
कीदृशमुरः । पद्माया लक्ष्म्याः पयोधरतटी स्तनप्रान्तस्तस्य परिरम्भे आलिङ्गने लग्नं
यत्काश्मीरं कुङ्कुमं तेन मुद्रितमिव मुद्रा चिह्नविशेषस्तद्युक्तमिव । इदं मधुसूदनहृदयं
ममैव न त्वन्यस्येति स्थापनाय लक्ष्म्या निजस्तनतटे लिप्तकाश्मीरमुद्रेव दत्तेति भावः ।
पुनः कीदृशम् । खेलति क्रीडां कुर्वति अनङ्गे कामदेवे सति यः खेद आयासस्तेन
यत्स्वेदाम्बु प्रस्वेदजलं तस्य पूरः प्रवाहो यत्र तादृशम् । एतेन चिरलिप्तस्य काश्मीरस्य
शुष्कत्वेऽपि स्वेदसम्बन्धेन तस्य मुद्रायोग्यत्वमिति ध्वनितम् । कीदृशमिव । व्यक्तानुरागमिव ।
व्यक्तः प्रकटीभूतोऽनुरागः स्नेहो यत्र तादृशमिव । अत्र लक्ष्मीविषयानुरागाधिक्यादभ्यन्तरे
समावेशाभावात्कुङ्कुमरागव्याजेन बहिर्निःसृत इति भावः । मुद्रा संजाता अस्येति
तारकादित्वादितच् । "लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया" इत्यमरः । "स्त्रीस्तनाब्दौ
पयोधरौ" इति च । "परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्" इति च । "काश्मीरं
कुङ्कुमं प्रोक्तं टङ्कपुष्करमूलयोः" इति विश्वः । अनेन सर्वदा लक्ष्म्या दृढानुरागकथनेन
दाक्षिण्यरूपो नायकगुण उक्तः । तदुक्तं शृङ्गारतिलके -- "यो गौरवं भयप्रेमसद्भावं
पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥" इति ॥ १० ॥
वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-
र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
व[^१]लद्बाधां राधां सरसमिदमूचे सहचरी ॥ १ ॥
इदानीं भणितेषु मरिचावचूर्णना सा (नूनं) कटुरपि स्पृहावहेति योगमाश्रित्य विप्रलम्भपूर्वको हि संभोगो रसिकजनरसनीयतामापद्यत इति कविना आद्यपद्ये कथाबीजत्वेन संभोगस्य यद्विप्रलम्भपूर्वकत्वं सूचितं तदेव प्रकटीकुर्वन्कृष्णोत्कण्ठितां राधां काप्युत्तम्भितमुखेन हरिकथया प्रोत्साहयन्त्याह -- वसन्ते वासन्तीति । काचन सहचरी इदं वक्ष्यमाणं सरसं रसवत् राधामूचे उक्तवती । किंभूताम् । वसन्ते ऋतौ अमन्दं यथा स्यात्तथा कन्दर्पहेतुज्वरजनितचिन्ताकुलतया वलद्बाधाम् । कन्दर्पहेतुज्वरजनितचिन्ताकुलवेन वलन्ती यातायातं कुर्वाणा बाधा यस्याः । चिन्ताकुले हि चेतसि बाधा यात्यायाति चेति प्रसिद्धम् । किंभूताम् । बहु अनेकधा दूत्यादिना विहितकृष्णानुसरणां तदर्थमेव कान्तारे भ्रमन्तीम् । किंभूताम् । वासन्तीकुसुमवन्माधवीलताकुसुमवत्सुकुमारैरवयवैरुपलक्षिताम् । वसन्ते हि माधवीकुसुममुद्रिक्तं भवति । अतः कामोद्रेकसौकुमार्ये च साम्यम् । अत्र लुप्तोपमालंकारः । दक्षिणो नायकः । तल्लक्षणम् -- "स्नेहलौल्यमवैषम्यवशतस्तुल्यतामिषम् । नायिकास्वप्यनेकासु दक्षिणः स स्मृतो यथा" । विरहोत्कण्ठिता नायिका । "उत्का भवति सा यस्या वासके नागतः प्रियः । तस्याऽनागमने हेतुं चिन्तयत्याकुला यथा ॥" तस्या अभिलाषो नाम दशाविशेषो यथा -- "व्यवसायो भवेद्यत्र बाढं तत्संगमाशया । संकल्पाकुलचित्तत्वात्सोभिलाषः स्मृतो यथा ॥" वासन्तीकुसुमसुकुमारैरित्यत्र लुप्तोपमालंकारः - "वादेर्लोपे समासे वा कर्माधारक्यचि क्यङि । कर्मकर्त्रोर्णमुली" इति । वृत्त्यनुप्रासः -- "एकस्याप्यसकृत्परः" इति शिखरिणी छन्दः -- "रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी" । वैदर्भी रीतिः । तस्या अनोपनागरिकेति संज्ञान्तरम् । यथा -- "माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते" इति ।
एतावद्ग्रन्थेनाभिधेयप्रयोजनकेलिवर्णनोपयुक्तनायकगुणप्रतिपादनपुरःसराणि मङ्गलानि विधाय कविः शृङ्गाररसप्रधानभगवत्केलिवर्णनं चिकीर्षुस्तत्संभोगापेक्षया विप्रलम्भस्योत्कृष्टत्वादादौ विप्रलम्भशृङ्गारवर्णनाय विरहोत्कण्ठितराधायाश्चरितानि वर्णयितुं प्रस्तावयति -- वसन्त इति ।संभोगापेक्षयात्र विप्रलम्भस्योत्कर्षं प्रति त्वालंकारिकाः -- "न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान्रागोऽभिजायते" । इति । श्लोकार्थस्तु -- काचित्सहचरी सखी वसन्ते सरसं यथा स्यादेवं राधामिदं वक्ष्यमाणमूचे उवाच । कीदृशीम् । अवयवैरुपलक्षिताम् । कीदृशैरवयवैः । वासन्तीकुसुमसुकुमारैर्माधवीलतापुष्पवत्कोमलैः । पुनः कीदृशीम् । कान्तारे महारण्ये भ्रमन्तीम् । हेतुगर्भविशेषणमाह । बहुविहितेति । बहु वारंवारं विहितं कृतं कृष्णानुसरणमन्वेषणं यया तादृशीम् । अत्र हेतुगर्भविशेषणमाह । कंदर्पेति ।कंदर्पज्वरेण जनिता या चिन्ता तत्कृता या आकुलता तथा अमन्दमधिकं यथा स्यादेवं चलद्बाधां प्रवर्धमानपीडाम् । अवयवैरित्यत्र
[^१.] "चलत्" इति पाठः ।
वसन्तरागयतितालाभ्यां गीयते ॥ प्र० ॥ ३ ॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ।
विहरति हरिरिह सरसवसन्ते
नृत्यति युवतिजने न समं सखि विरहिजनस्य दुरन्ते ॥ ध्रुवम् ॥ २ ॥
वलद्बाधामिति पाठे "वलङ् सृतिसंवरणयोः" इत्यात्मनेपदी । वलङः परस्मैपदत्वं चिन्त्यम् ॥१॥ अन्यत्रापि प्रयोगोऽप्यस्ति तथा । सावेवोत्तरत्रोदा दूष्णवान् पुनर्बलः (?) । केवलादिति । अमुमेवार्थं विशदयति ॥ झम्पातालेन द्रुतद्वयेन विरामान्तेन । ललि तेति ।विशेषणसौकर्यार्थं पूर्वं ध्रुवपदं व्याख्यायते -- विहरतीति ।इह राधासखी सबाधां राधां विनोदार्थं श्रीकृष्णं प्रति प्रेरयति । हे सखि राधे । सर चल । यं हरिं त्वं विलोकयसे स हरिरिह वृन्दावने वसन्ते वसन्तसमये विहरति । क्व सति । समं सशोभं साकं युवतिजने नृत्यति सति । किंभूते वसन्ते । चलनार्थहेतुगर्भं विशेषणम् । विरहिजनस्य दुरन्ते न इति न अपि तु दुरन्ते एवेति काक्वोभयदर्शनम् । अथवा जनो जीवनं तेन समं दुरन्ते । जीवनं वसन्तश्चोभयं विरहिणां दुःखप्राप्यं तस्मिन् । अथवा सरसवसन्त इति पदम् । सरसः साभिलाषः स चासौ वसन्तश्च तस्मिन् । विहरति युवतिजनेन समं नृत्यति च । चकारोऽध्याहार्यः । इति ध्रुवपदम् ॥ ललितेति -- ललितलवङ्गलतापरिशीलनेन कोमलो मलयमारुतो यत्र वसन्त इति । एतेन शीतो मन्दः सुरभिश्चेति वायोस्त्रैविध्यमुक्तम् । अत्र लवङ्गलतासमीरयोर्नायिकात्वनायकत्वेनोद्दीपनविभावत्वमुक्तम् । पुनः किंभूते वसन्ते । मधुकरनिकरेण करम्बितैर्मिश्रितैः कोकिलैः कूजितः शब्दितः कुञ्ज एव कुटीरोऽल्पा कुटी यत्र
जटाभिस्तापस इतिवत् इत्थंभूतलक्षणे तृतीया । "वासन्ती माधवीलता" इत्यमरः । "कान्तारं
वर्त्म दुर्गमम्" इति च । "पीडा बाधा व्यथा दुःखम्" इत्यपि ॥ १ ॥ किमूचे इत्यत आह --
ललितेति ।गीतस्यास्य वसन्तरागः । रूपकतालः । गीतार्थस्तु हे सखि, इह सरसवसन्ते
शृङ्गाररसप्रधाने हरिः कृष्णो विहरति क्रीडति । क्रीडाप्रकर्षमाह -- नृत्यतीति । युवतिजनेन
सह नृत्यति । कीदृशे वसन्ते । विरहिजनस्य वियोगिनो जनस्य दुरन्ते दुःखेनान्तः
समाप्तिर्यत्र स तस्मिन् । अयं वसन्तो विरहिणीदारुणो न तु युवतिभिः सह क्रीडतः
कृष्णस्य । त्वं विरहिणी यदि कृष्णं नानुसरिष्यसि तदा स तवापि दुरन्तो भविष्यतीति
भावः । इदं च ध्रुवपदम् । "समं सह" इत्यमरः । वसन्तस्य सरसतामाह --
ललितेति ।ललिता मनोहरा या लवङ्गलता तस्याः परिशीलनेन संपर्केण कोमलो मृदुल:
मलयसमीरो मलयाचलसंबन्धी वायुर्यत्र तादृशे । पुनः कीदृशे । मधुकरनिकरेण भ्रमरसमूहेन
करम्बिता मिश्रिता ये कोकिलास्तैः कूजितः शब्दयुक्तः कृतः कुञ्ज एव कुटीरो-
Sल्पकुटी यत्र तादृशे । "समीरमारुतमरुज्जगत्प्राणसमीरणाः" इत्यमरः । "मधुव्रतो
मधुकरो मधुलिण्मधुपालिनः" इति च । "स्तोमौघनिकरव्रातवारसंघातसंचयाः" इत्यपि ।
"मिश्रितेऽपि करम्बितम्" इति विश्वः । "अल्पा कुटी कुटीरः स्यात्" इति च ॥ २ ॥
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ विह० ॥ ३ ॥
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ विह० ॥ ४ ॥
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटल[^१]पटलकृतस्मरतूणविलासे ॥ विह० ॥ ५ ॥
वसन्ते ॥ २ ॥ उन्मदमदनेति ।किंभूते वसन्ते । उद्गतौ मदमदनौ हर्षकामौ यत्र । पूर्वं भूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र वसन्ते । उद्रिक्तस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन । अथवा उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते । अलिकुलव्याप्तकुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र । बकुला एव कलापस्तूणीरो वा स्मरशरधिः । "कलापो बर्हतूणयोः" इत्यमरः ॥ ३ ॥मृगमदसौरभेति । मृगमदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां तादृशास्तमाला यत्र वसन्ते । वा तदामोदानि नवदलानि मालन्ते धारयन्तीति । युवजनेति ।युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुचिर्येषां ते तादृशाः किंशुकानां जालानि कोरका यत्र वसन्ते । अत्र कामस्य नखरायुधत्वं कविसमयेऽप्रसिद्धम् ॥ ४ ॥ मदनमहीपतीति ।अत्रालापः । कामराजस्य हेमदण्डच्छत्रसंनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र । अत्र केवलकनकदण्डस्य छत्रेऽवाच
वसन्तस्य दुरन्ततामाह -- उन्मदेति । उन्मद उद्भटो यो मदनः स एव मनोरथदृष्टः पथिकवधूजनानां तैर्जनितः कृतो विलापो यस्मिंस्तादृशे । पुनः कीदृशे । अलिकुलैर्भ्रमरसमूहैः संकुलो व्याप्तो यः कुसुमसमूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः केसरसमूहो यत्र तादृशे । यद्वा तादृशो बकुल एव कलापो भूषणं यत्र तादृशे । "कलापो भूषणे बर्हे तूणीरे संहतावपि" इत्यमरः ॥ ३ ॥ पुनः कीदृशे ।मृगमदेति । मृगमदस्य कस्तूरिकायाः यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी नवदलमालतमालो नूतनपत्रपङ्क्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन् । पुनः कीदृशे । युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदयविदारणास्तादृशः ये मनसिजस्य कामस्य नखास्तेषामिव रुचिर्दीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां जालं समूहो यत्र तादृशे । यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे । अत्र पलाशपुष्पस्य वक्रत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सादृश्यं बोध्यम् । "मृगनाभिर्मृगमदः कस्तूरी च" इत्यमरः । "रभसो वेगहर्षयोः" इति च । "काम-कामः पञ्चशरः स्मरः । शंबरारिर्मनसिजः" इति च । "रुचिर्मयूखे शोभायामभिष्वङ्गविकासयोः" इति विश्वः । "पलाशे किंशुकः स्मृतः" इति च । "जालं गवाक्ष आनाये कोरके दृप्तवृन्दयोः" इति विश्वः ॥ ४ ॥ पुनः कीदृशे । मदनेति ।मदन एव महीपती राजा तस्य यः कन
[^१.] "पाटलिपटल" इति पाठः ।
विगलितलज्जितजगदवलोक[^१]नतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेत[^२]कदन्तुरिताशे ॥ विह० ॥ ६ ॥
माधविकापरिमलललिते नवमालतिजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ विह० ॥ ७॥
कत्वान्महीपतिशब्दसाहचर्यादविरोधः । अथवा हेमदण्डरुचीनि केसराणीति योज्यम् । महीपतेरग्रे कनकवेत्रधारिणो भवन्ति । मिलितेति ।संगतशिलीमुखैः पाटलपटलैः पाटलाकुसुमसमूहैः । अथवा पाटलिपटलेति पाठः । कृतः स्मरशरधिविलासोऽनुकारो यत्र । शिलीमुखा भ्रमरा बाणाश्च । "अलिबाणौ शिलीमुखौ" इत्यभिधानात् ॥ ५ ॥ विगलितेति । लज्जैव लज्जितम् । भावे क्तः । गतलज्जजगदवलोकनेन तरुणैः करुणैः कृतः कुसुमविकासव्याजेन हासो यत्र । विरहिनिकृन्तनकुन्तमुखाकारैः केतकैर्दन्तुरिता विषमीकृता आशा दिशो यत्र । निकृन्तनमिति चिन्त्यम् ॥ ६ ॥ माधविकापरिमलेति ।किंभूते वसन्ते । वासन्त्याः परिमलेन गन्धविशेषेण ललिते मनोहरे ।
कदण्डः सुवर्णघटितदण्डयुक्तच्छत्रं तस्येव रुचिर्यस्यैतादृशस्य नागकेसरपुष्पस्य विकासः प्रकाशो यत्र तादृशे । पुनः किंविशिष्टे । मिलिताः शिलीमुखा एवं बाणा यस्मिंस्तादृशं यत्पाटलिपटलं पाटलापुष्पसमूहस्तेन कृतः स्मरतूणस्य कंदर्पतूणीरस्य विलासश्चेष्टितं यत्र तादृशे । अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां बाणसाम्यम् । "चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः" इत्यमरः । "अलिबाणौ शिलीमुखौ" इति च । "समूहे पटलं स्मृतम्" इति च । "तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः" इति च ॥ ५ ॥ पुनः कीदृशे । विगलितेति ।विगलितं लज्जितं लज्जा यस्य जगतः प्राणिगणस्यावलोकितेन दर्शनेन तरुणकरुणैर्नवकरुणवृक्षैः पुष्पविकासव्याजेन कृतो हासो यत्र तादृशे वसन्ते । अत्र हास्यरसस्य श्वेतत्वात्पुष्पविकासेन साम्यम् । यदाह भरतः -- "श्वेतो हासः प्रकीर्तितः" इति । यद्वा विगलितलज्जितानां विप्रयोगिजनानामवलोकितैस्तरुणैरर्थादवियोगिभिः करुणं करुणरससहितं यथा स्यादेवं कृतो हासो यत्र एतादृशे हासे । विरहिणो वराकाः कष्टं प्राप्नुवन्तीति करुणां लज्जां हित्वा विलपन्तीति च हासस्तेषामिति भावः । बाला रसानभिज्ञा एव वृद्धाः परप्रच्यवेऽपि कृतसंवरणाः अतस्तरुणेत्युक्तम् । पुनः कीदृशे वसन्ते । विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृतिः कुन्त आयुधविशेषस्तस्य मुखमग्रभागस्तस्येवाकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्याप्ता आशा दिशो यस्मिंस्तादृशे वसन्ते । लज्जितेत्यत्रावलोकितेत्यत्रापि च नपुंसके भावे क्तः । "करुणस्तु रसे वृक्षे कृपायां करुणा मता" इति विश्वः । "प्रासस्तु कुन्तः" इत्यमरः । "निम्नोन्नततया व्याप्ते दन्तुरं कथ्यते बुधैः" इति धरणिः । "आशा तृष्णादिशोः" इति विश्वः । "कृती छेदने" । ह्रस्वान्तसंज्ञकोऽप्यस्तीति केचित् (?) तस्य युप्रत्ययान्तस्य निकृन्तनमिति । क्वचिच्च "केतकिदन्तुरिताशे" इति पाठः । "सपाकादौ स्वीकृतो ह्रस्वः कापि" इत्यत्र कविवचनस्य लज्जानुरोधार्थत्वात्कृतह्रस्वकेतकिशब्देन समर्थनीयम् ॥ ६ ॥ माधविकेति ।
[^१.] "अवलोकितकरुण" इति पाठः । [^२.] "केतकी" इति पाठः ।
स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते
वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ विह० ॥ ८ ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ विह० ॥ ९ ॥
पुनः किंभूते । नवमालत्या जात्यातिसुगन्धौ । पुनः किंभूते । मुनिमनसामपि मोहनकारिणि व्यामोहकारके तरुणानां का कथेति । सुरतार्थं प्रेरके वा । पुनः किंभूते । तरुणानामकारणबन्धौ निसर्गमित्रे । वसन्ते हि कामिन्यः स्वयमेव मानं त्यजन्ति ॥ ७ ॥ स्फुरदतिमुक्तलतेति । किंभूते वसन्ते । स्फुरन्त्याश्चलन्त्या अतिमुक्तलताया वासन्त्याः परिरम्भणेन मुकुलितः पुष्पितः पुलकितः जातरोमाञ्चश्च चूतः । अत्र पुष्पाणि रोमाञ्चेनोपमीयन्ते । अनेन सात्त्विकभावो दर्शितः । वृन्दावनेति ।अत्र पूर्वं ध्रुवपदे इह वने हरिर्विहरतीत्यष्टपद्या एकवाक्यत्वात् विहाराधेयत्वे वृन्दावनशब्दो व्याख्यातः । संप्रति वसन्तविशेषणत्वेन व्याक्रियते । किंभूते वसन्ते । वृन्दावनविपिने । वृन्दमवतीति वृन्दावनं तद्विपिनं यस्मिन्स तथा तस्मिन् परिसरे पर्यन्तभुवि परिगतं यद्यमुनाजलं तेन पूते ॥८॥ श्रीजयदेवभणितमिति । तेनेति मङ्गलवाचकम् । ततः पाटावाद्यक्षरोत्तरः । ततः स्वरः षड्जादिः । इदं श्रीजयदेवभणितं सरसवसन्तसमयवर्णनमुदयति उदयं प्राप्नोति सर्वोत्कृष्टत्वेन वर्तते । सरसं शृङ्गाररसयुक्तं वसन्तकालीनवनवर्णनं यत्र । सर्वोत्कृष्टत्वे हेतुमाह । हरिचरणस्मृतिरेव सारं यत्र । वा हरिचरणस्मृत्या हेतुभूतया सारम् । अथवा हरिचरणयोः स्मृतिश्चिन्तनं सारमुत्कृष्टं यत्र । सरसवसन्तत्वे हेतुमाह । अनुगतो मदनविकारो यत्र येन वा अनुगतोऽनुस्यूतः ॥ अस्यामष्टपद्यां जातिरलंकारः । मध्या नायिका ।
स्पष्टम् । सा मुनिमनोमोहनकारिणी । किमन्येषां वक्तव्यमिति भावः । पुनः कीदृशे ।
तरुणानां विलासियुवजनानामकारणबन्धौ स्वाभाविकमित्रे । "विमर्दोत्थे परिमलो गन्धे
जनमनोहरे" इति ॥ ७ ॥ कीदृशे । स्फुरदिति । स्फुरन्ती कम्पमाना वा
यातिमुक्तलता तस्याः परिरम्भणेन मुकुलितं मञ्जरीयुक्तं तदेव पुलको रोमाञ्चः । रोमा-
ञ्चकथनेनाचेतनयोरपि कामचेष्टा कथिता । तेन च वसन्तस्यातिदुरन्तत्वं कथितम् ।
अतिशयेन मुक्तानामपि परिरम्भणोत्सुकतेति अतिमुक्तपदेन कथितम् । एतावता
वसन्तस्य सरसता दुरन्तता चोक्ता । संप्रति क्रीडायाः स्थानविशेषमाह -- वृन्दावनेति ।
वृन्दावननाम्नि विपिने वने हरिर्विहरतीत्यन्वयः । कीदृशे विपिने । परिसरे
समीपप्रदेशे परिगतेन सर्वतोगतेन यमुनाजलेन पूते पवित्रे । "अतिमुक्तः पुण्ड्रकः
स्याद्वासन्ती माधवी लता" इत्यमरः । मुकुलं करोति तदाचष्टे । णिजन्ताद्भावे क्ते सति
मुकुलितमिति बोध्यम् । पश्चान्मुकुलितमेव पुलकः संजातोऽस्येति तारकादित्वादितच् ।
"आम्रश्चूतः" इत्यमरः । "पर्यंन्तभूः परिसरः""पर्यन्तभूः परिसरः" इत्यपि ॥ ८ ॥ संप्रति गीतार्थमुपसंहरति ।
प्रेक्षावत्प्रवृत्त्यर्थं स्वभणिते उत्कर्षमाह -- श्रीजयदेवेति ।जयदेवकवेरिदं भणितं गीतमुदयति
तत्र हेतुः । हरिचरणयोः स्मृतौ सरणे सारं श्रेष्ठं, हरिचरणस्मृतिरेव सारो यत्र तत्
दरविद[^१]लितमल्लीवल्लिचञ्चत्पराग-
प्रकटितपटवासैर्वासयन्काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ १०॥
गुर्जरीरागेण ऋषभादिना । दक्षिणो नायकः । तल्लक्षणं प्रागुक्तम् । विप्रलम्भाख्यः
शृङ्गारो रसः । लयो नाम छन्दः । तल्लक्षणम् -- "मुनियगणैर्लयमामनन्ति तज्ज्ञाः"
इति । तदुक्तं छन्दश्चूडामणौ चलय इति । विप्रलम्भविभावप्रसङ्गाद्वायुं वर्णयति -- "रचितो
गद्यपद्याद्यैर्वसन्ते पार्थिवोत्सवे । वसन्तरागे झम्पाख्यताले मध्यलयाञ्चिते ॥ गमकाल-
प्तिभूयिष्ठः पूर्णकल्पः प्रकीर्तितः । पूतौ पुनस्तेन पाटस्वराञ्चितविराजितः ॥ माधवोत्सवः
कमलाकरनामा प्रबन्धराट्" ॥ ९ ॥ इति माधवोत्सवकमलाकरनामा तृतीयः प्रबन्धः ॥
दरेति । इह वने वसन्ते वा गन्धवाहो वायुश्चेतो दहति । अर्थाद् विरहिणाम् । किंभूतं
चेतः । प्रसरत् । अर्थान्मनोरथं प्रति । पुनः किंभूतम् । असमबाणप्राणवत्कामस्य
जीवितमिव । अथवा प्रसरदसमबाणप्राणवद्गन्धवाह इति पदम् । प्रसरता असमबाणेन
प्राणवांश्चासौ गन्धवाहः । वा प्रसरन्योऽसावसमबाणः तस्य प्राणवज्जीवितमिव ।
प्राणवतो वा । किंभूतो वायुः । केतकीगन्धसहचरः । किं कुर्वन् । काननानि वासयन् ।
कैः । ईषद्विकसितमल्लीनां जातीलतानां चञ्चन्तो गच्छन्तो ये परागास्तैः प्रकटिता
ये पटवासाः वासचूर्णानि तैः । "ननमयययुतेयं मालिनी भोगिलोकैः" इति मालि-
नीछन्दः । अत्र समासोक्तिवर्णानुप्रासोपमालंकाराः । विप्रलम्भाख्यः शृङ्गारो रसः ।
पाञ्चाली रीतिः । अत्र विरहिहृदयविदारणपटीयसः पवनस्य त्रैविध्येन चेतोदाहक-
त्वोपन्यासेन युवतिजनस्य आत्मसात्कर्तृत्वेन यत्स्मरप्राणवत्त्वमुदितं तदौचित्यसर-
णिसागरप्लवनतरणित्वमातनोतितराम् । यदभाणि क्षेमेन्द्रेण -- "तिलकं बिभ्रती सूक्ति-
र्भात्येकमुचितं पदम् । चन्द्राननेव कस्तूरीकृतं श्यामेव चन्दनम् ॥" इति ॥ १० ॥
रसमयसंबन्धिनो वनस्य वर्णनं यत्र । अतएव अनुगतमदनविकारं अनुगतः संप्राप्तो मदनस्य विकारो यत्र तत् तादृशम् ॥ ९ ॥ संप्रति वसन्तकालीनवायोरपि विरहिजनसंतापकारित्वमाह-- दरेति ।इह हि अस्मिन्नेव वसन्ते गन्धवाहो वायुश्चेतो दहति । अर्थाद्विरहिणाम् । किं कुर्वन् । काननानि वनानि वासयन्सुरभीकुर्वन् । कैः । दरं ईषद्विगलिता विकासिता मल्लीवल्लिर्मल्लिकालता तस्याः सकाशाच्चञ्चन्तः प्रसरन्तो ये परागाः पुष्परेणवस्त एव प्रकटिताः पटवासाः पिष्टातकास्तैः । कीदृग्गन्धवाहः । केतकीगन्धबन्धुः केतकीपुष्पसौरभबन्धुः । पुनः कीदृशः । प्रसरतः प्रतिदिशं संचरतोऽसमबाणस्य कामस्य प्राणवत्प्राणसदृशः । यद्वा प्रसरता असमबाणेन प्राणवान् शक्तिसंपन्नो यो गन्धवाह इत्येवं पदम् । "ईषदर्थे दरोऽव्ययम्" इति विश्वः । "परागः पुष्परजसि" इति च "पिष्टातः पटवासकः" इत्यमरः । "काननं वनम्" इति च । "असवः प्राणाः" इत्यपि । "शक्तिः पराक्रमः
[^१.] "विगलित" इति पाठः ।
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीक[^१]लरवैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ११ ॥
अनेकनारीपरिरम्भसंभ्रमस्फुरन्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १ ॥
उन्मीलदिति ।पथिकैरमी वसन्तसमयवासराः कथंकथमिव महता कष्टेन नीयन्ते । कैः कृत्वा । ध्यानावधानक्षणे प्रियानुचिन्तनैकाग्रताप्रस्तावे प्राप्तो यः प्राणसमासमागमरसोऽनुरागस्तस्य प्रकटीभावैः । अथवा रसस्योल्लासो येष्विति पथिकविशेषणम् । किंभूता वासराः । उन्मीलन्योऽसौ मधुगन्धः पुष्परसगन्धस्तत्र लुब्धा ये मधुपा भ्रमरास्तैर्व्याधूता आन्दोलिता ये चूताङ्कुरास्तेषु क्रीडन्तो ये कोकिलास्तेषां काकल्युपलक्षितकलरवैरुद्गीर्ण उत्पादितः कर्णज्वरो यैस्ते तथा । कोकिलो वसन्तमासे पञ्चमं वदतीति स्थितिः। अत्र च चूतधूननेन मधुपे रोषावेशान्निषादकाकलीमुक्तवानित्याशयः । अथवा कथंकथमपीति ध्यानेनेत्यादिना योज्यम् । ततो विरहिणो ह्यनवस्थितचित्तत्वाद्ध्यातुमपि न शक्नुवन्ति । शार्दूलविक्रीडितं छन्दः । अत्र काव्यलिङ्गमलंकारः । गौडीया रीतिः । विप्रलम्भाख्यशृङ्गारो रसः । अत्र कामोद्दीपनविभावैः कोकिलकाकलीकलरवाद्यैः संजनितकर्णज्वरत्वेन प्राणसमसमागमाकाङ्क्षित्वेन विरहासहिष्णुत्वापेक्षया यद्वासराणां कर्मगतं बहुत्वमापादितं तत्सुतरामौचित्यकोटिमाटीकते ॥ ११ ॥ अनेकेति । असौ सखी राधां पुनर्वक्ष्यमाणमाह । किं कुर्वती । आरात्समीपे समक्षं प्रत्यक्षं यथा स्यात्तथा मुरारिं दर्शयन्ती दृष्टिपथमवतारयन्ती । अनेकनारीणां परि
प्राणः" इति च । "गन्धवाहानिलाशुगाः" इति च ॥ १० ॥ संप्रति वसन्तदिवसानां दुरन्तत्वमाह -- उन्मीलदिति ।अमी वसन्तसंबन्धिनो वासरा दिवसाः पथिकैः कथंकथमपि महता कष्टेन नीयन्ते समाप्यन्ते । कीदृशा वासराः । उद्गीर्णाः प्रकटिताः कर्णज्वराः श्रोत्रसंतापा येषु तादृशाः । कैः । उन्मीलन्ति प्रकटीभवन्ति यानि मधूनि गन्धाश्च तेषु लुब्धा लोलुपा ये मधुपा भ्रमरास्तैर्व्याधूताः कम्पिता ये चूताङ्कुरा आम्रमुकुलानि तेषु क्रीडतां कोकिलानां काकल्योऽव्यक्तमधुरध्वनयस्ताभिः कृता ये कलकलाः कोलाहलास्तैः । केन प्रकारेण नीयन्त इत्याह -- ध्यानेति ।ध्याने स्वप्रियचिन्तने यदवधानं तत्परता तेन क्षणं प्राप्तो यः प्राणसमाया जीवतुल्यायाः कान्तायाः समागमरूपो रसस्तस्मादुत्पन्ना ये उल्लासा उत्साहास्तैः । "काकली तु कले सूक्ष्मे" इति, "कोलाहलः कलकलः" इति च ॥ ११ ॥ अनेकेति ।असौ सखी राधिकां पुनराह पुनरुवाच । किं कुर्वती । आरारतः समक्षं प्रत्यक्षं मुरारिमुपदर्शयन्तीति । कीदृशम् । अनेकासां नारीणां परि
[^१.] "कलकलैः" इति पाठः ।
रामकरीरागयतितालाभ्यां गीयते ॥ प्र० ॥ ४ ॥
चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगः स्मितशाली ॥ २ ॥
हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ ध्रुवम् ॥
रम्भसंभ्रमेण त्वरया स्फुरन्तो मनोहारिणो ये विलासास्तेषु लालसा यस्य, तेषु लालस उत्सुको वा । "वदन्ति वंशस्थमिदं जतौ जरौ" इति वर्णसाम्यमनुप्रासः । दक्षिणो नायकः ॥ १ ॥ तदेव गीतेन दर्शयति झम्पातालेन -- चन्दनचर्चितेति । पदानां बाहुल्यात्पूर्वं ध्रुवपदं व्याक्रियते --हरिरिति ।हे राधे हे विलासिनि, इह मुग्धवधूनिकरे हरिर्विलसति । कीदृशे निकरे । केलिपरे । पुनः कीदृशे । विलासिनि विलासो विद्यते यस्य । एकस्यैवोभयविशेषणत्वम् । इति ध्रुवः । अथ पदानि । चन्दनेत्यादि ।चन्दनेन चर्चितमनुलिप्तम् । चर्चिस्तु यद्यप्यध्ययने वर्तते तथापि धातूनामनन्तार्थत्वादनुलेपे वर्तत इति । तथा चोक्तम् -- "क्रियावाचि समाख्यातुं प्रसिद्धार्थप्रदर्शिनः । प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः ॥" इति । नीलं कलेवरं शरीरं यस्य, पीतं वसनं यस्य, वनमाला विद्यते यस्य, ततः कर्मधारयः । अथवा चन्दनेन चर्चिते नीलकलेवरे पीतवसने वनमालाश्च विद्यन्ते यस्यासौ तथा । चन्दनेन चर्चिते ये नीलकलेवरपीतवसने तयोर्वनं संसक्तिरचनाविशेषस्तं मलते धारयतीति स तथा । केल्या चलन्ती ये मणिकुण्डले ताभ्यां मण्डितं गण्डयुगं यस्य स तथा । तथा स्मितशाली स्मिताढ्यः ईषद्धसितयुक्त इति द्वे पदे । अथवा द्वे पदे कृत्वा कर्मधारयः । अथवा ईदृशं गण्डयुगं च स्मितं च ताभ्यामाढ्यः । अथवा गण्डयुगे स्मिताढ्य इति तन्मात्रेणैवानुमेयं स्मितं
रम्भसंभ्रमेणालिङ्गनादरेण स्फुरन् यो मनोहारिविलासस्तस्य लालसौत्सुक्यं यस्य
तादृशम् । "संभ्रमास्त्रयमिच्छन्ति भयमुद्वेगमादरम्" । "सोऽत्यर्थं लालसा द्वयोः"
इत्यमरः । "आराद्दूरसमीपयोः" इति च ॥ १ ॥ तदेव गीतेन कथयति -- चन्दनेति ।
गीतस्यास्य रामकरी रागः । तालश्च रूपकः । ताललक्षणं प्रागेवोक्तम् । गीतार्थस्तु हे
विलासिनि विलासशीले, वृन्दावने मुग्धवधूनिकरे सुन्दरवधूनिचये हरिर्विलसति क्रीडति ।
कीदृशे वधूनिकरे । केलिपरे क्रीडापरायणे । यत्र मुग्धवधूनिकरे हावभावाद्यनभिज्ञे
स्त्रीचये केलिपरे सामान्यक्रीडापरायणे विलसतीति ध्वनेरर्थः । तथा च हावाद्यभिज्ञां त्वां
विना सकलकलाभिज्ञस्य हरेर्विलासो न शोभत इति भावः । "मुग्धः सुन्दरमूर्खयोः"
इति विश्वः । विलासो हावविशेषस्तल्लक्षणं तु भरते -- "स्थाने यानासने वापि नेत्रवक्त्रादि-
कर्मणा । उत्पाद्यते विशेषो यः स विलासः प्रकीर्तितः ॥" इति । एतच्च ध्रुवपदम् । कीदृशो
हरिः । चन्दनेन चर्चिते नीलकलेवरे श्यामशरीरे पीतं वसनं वस्त्रं वनमाला च यस्य
तादृशः । पुनः कीदृशः । केलिषु चलती कम्पमाने मणियुक्ते कुण्डले ताभ्यां मण्डितमलं-
कृतं गण्डयुगं कपोलयुग्मं यस्य तादृशः । पुनः कीदृशो हरिः । स्मितेन ईषद्धास्येन
शाली शोभमानः । "अथ कलेवरम् । गात्रं वपुः संहननम्" इत्यमरः । "गण्डे कपोलौ"
इत्यपि । स्मितलक्षणं तु भरते -- "ईषद्विकसितैर्गण्डैः कटाक्षः सौष्ठवान्वितैः । अलक्षितद्विजं
पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ हरि० ॥ ३ ॥
कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ हरि० ॥ ४ ॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चा[^१]रु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ हरि० ॥ ५ ॥
नास्य प्रसारणेन ॥ २ ॥ अथ परस्परं गोपिकानां केलिचेष्टितमाह -- पीनपयोधरेति । काचिद्गोपवधूर्हरिं गायन्तं हरिमनुगायति वंशकृत्येन गायति । किं कृत्वा । सरागं साभिलाषं तमेव हरिं परिरभ्य । किंभूता । पीनपयोधरभारभरेणोपलक्षिता । अथवा विपुलस्तनभारातिशयेन परिरभ्य । किंभूतं हरिम् । सरागं तदालिङ्गनसाभिलाषम् । पुनः किंभूतम् । उदश्चित आ तारावध्यूर्ध्वं नीतः पञ्चमरागो येन, वा उदञ्चितः पञ्चमस्वरोपलक्षितो रागो येन, वा उदञ्चितः पञ्चमरागोऽनुरागो येन । अथवा उदञ्चितपञ्चमरागं यथा स्यात्तथेति गानक्रियाविशेषणम् । शृङ्गारे हि पञ्चमभूयिष्ठस्य गानस्य प्राधान्यात्, अथवा उदञ्चितहृद्यरागं यथा स्यात्तथा ॥ ३ ॥कापि विलासेति । कापि मुग्धवधूरधिकं सातिशयं यथा स्यात्तथा मधुसूदनवदनसरोजं ध्यायति । अधिकं सुखमधिकृत्य वा । किंभूतम् । विलासेन चेष्टाविशेषेण विलोले चञ्चले ये विलोचने तयोः खेलनेनावर्तनेन जनित उत्पादितो मनोजो येन । अत्र सरोजे योजितो मधुसूदनशब्दऔचितीमावहति । सूद स्रुतिहत्योरिति मुखसरोजान्मधु स्रवतीत्यतिशयाधानम् ॥ ४ ॥कापि कपोलतले इति ।कापि नितम्बवती दयितं श्रीकृष्णं कपो
धीरमुत्तमानां स्मितं भवेत् ॥" इति ॥ २ ॥ गोपीनां सौन्दर्यविलासानभिज्ञत्वं च कथयन्नेव केलिमाह -- पीनेति । काचिद्गोपवधूः पीनपयोधरभारभरेण पीनस्तनगौरवातिशयेन सरागं सानुरागं यथा स्यादेवं हरिं परिरभ्यालिङ्ग्य उदञ्चित ऊर्ध्वमञ्चितः पञ्चमाख्यो रागो यत्र एवं यथा स्यात्तथानुगायति अनु पश्चाद्धरेर्गानानन्तरं गायति । अत्र गोप्याः सौन्दर्यं पीनपयोधरेत्यादिना प्रतिपादितम् । अवैदग्ध्यं तु कृष्णस्य, परिरम्भोद्यमं विनैव स्वयं प्रथमं परिरम्भणात् । अन्योन्यकृते हि परिरम्मे शृङ्गाररसः पुष्टो भवति । तदुक्तं दशरूपके -"रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मरतिः सैव यूनोरन्योन्यसक्तयोः । प्रकृष्यमाणः शृङ्गारो मधुराङ्गावचेष्टितैः ॥" इति । शृङ्गारे पञ्चमः स्वरो बाहुल्येन भवति स एवात्र कथितः । यदाह भरतः -- "पञ्चमं मध्यभूयिष्ठं हास्यशृङ्गारयोर्भवेत्" इति ॥ ३ ॥कापीति । कापि मुग्धवधूः मधुसूदनवदनसरोजं मुखपद्ममधिकं यथा स्यात्तथा ध्यायति चिन्तयति । कीदृशम् । विलासेन विलोलयोश्चञ्चलयोर्विलोचनयोर्नेत्रयोः खेलनं च तेन जनित उत्पादितो मनोजः कामो येन अर्थात्तस्यामेव तादृशम् । अत्र प्रत्यक्षस्यापि मधुसूदनस्य ध्यानादवैदग्ध्यं तस्या अवगम्यते ॥ ४ ॥ कापीति । कापि नितम्बवती गोपी दयितं कृष्णं
[^१.] "कापि चुचुम्ब" इति पाठः ।
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ हरि० ॥ ६ ॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे ॥ हरि० ॥ ७ ॥
लतले गण्डप्रदेशे चारु मनोहरं यथा स्यात्तथा चुचुम्ब । किंभूता । सखीषु चातुर्यात्किमपि कार्यान्तरं लपितुं श्रुतिमूले लग्ना । किंभूते श्रुतिमूले । अनुकूलेऽभिमुखमानीते । किंभूते कपोलतले । रोमाञ्चोपलक्षिते । हरेः सात्त्विकभावेन रोमाञ्चोद्गमः । अत्रानुगन्तुमशक्ता कार्यान्तरकथनव्याजेन हरिं स्थापयतीति नितम्बवतीत्युचितम् । सखीषु दयितचुम्बनं लज्जाकरमिति कार्यान्तरव्याजौचिती । अत्र प्रौढा नायिका । अनुकूलो नायकः ॥ ५ ॥केलिकलेति । काचिद्गोपी केलिकलाकुतुकेन क्रीडाविज्ञानकौतुकेनामुं कृष्णं करेण दुकूले विचकर्ष । किंभूतम् । यमुनावनकूले मञ्जुलमनोहरवञ्जुलबकुलकुञ्जगतम्, वेतसकुञ्जगतं वा यमुनाया विपिनोपलक्षिततीर इत्यर्थः । अत्र चकारोऽनुक्तसमुच्चयार्थः । तेन परिहासाद्युच्चीयते । "यमुनाजलतीरे" इति पाठः । अत्र यमुनातीर इति वक्तव्ये जलग्रहणं शैत्यपावनत्वसंनिकर्षादिद्योतनार्थम् ॥ ६ ॥ करतलेति । हरिणा कृष्णेन कापि युवतिः प्रशशंसे स्तुता । किंभूता । रासरसे गोपीनां क्रीडानुरागे सह नृत्यपरा कृष्णेन सह तुल्यकालं नृत्यन्ती । किंभूते रासरसे । करतलयोस्तालस्तालिका तया तरला या वलयावलिर्हस्तकटकश्रेणिस्तया कलितोऽनुगतः कलस्वनो वंशो यत्र यस्मिं
कपोलतले चारु मनोहरं यथा तथा चुचुम्ब चुम्बनं कृतवती । कीदृशी । किमपि कार्यं
लपितुं मन्त्रयितुं श्रुतिमूले मिलिता संलग्ना । कीदृशे । पुलकै रोमाञ्चैरनुकुले प्रियवि-
लाससूचके। औत्सुक्येन सहसा कान्तमुखचुम्बनं सखीजनहास्यकरं भवतीति व्याजेन
तया तदारब्धमिति भावः । अत्र प्रथमतो मुखस्पर्शनेन कृष्णकपोले रोमाञ्चमुत्पाद्य चुम्बने
तस्या अत्राधीरत्वं ध्वनितम् ॥ ५ ॥केलिकलेति ।काचिद्गोपी अमुं कृष्णं केलिकलाकुतुकेन
दुकूले पट्टवस्त्रविषये विचकर्षाकृष्टवती । दुकूलं गृहीत्वामुं कृष्णं विचकर्षेति केचिद्योजयन्ति ।
कीदृशम् । मञ्जुलो मनोहरो वञ्जुलो वेतसो यत्र तादृशो यः कुञ्जस्तत्र गतं प्राप्तम् । कुत्र
विचकर्ष । यमुनाजलकूले यमुनाया जलयुक्ते रोधसि । वञ्जुलकुञ्जस्थं कृष्णं यमुनाकूलं प्रति
क्रीडार्थमाकृष्टवतीत्यर्थः । अत्र अन्यानुरक्तस्य कृष्णस्य नायिकया वस्त्राकर्षणादधीरत्वं तस्या
व्यङ्ग्यम् । "कुतुकं तु कुतूहलम्" इत्यमरः । "मनोज्ञं मञ्जु मञ्जुलम्" इति च । "वञ्जुलो
वेतसे" इति विश्वः । "दुकूलं क्षौमे सूक्ष्मांशुकेऽपि च" इति ॥ ६ ॥ करतलेति ।
काचिद्युवतिर्हरिणा प्रशशंसे स्तुता । कीदृशी । रासरसो गोपीनां क्रीडाविशेषस्तत्र
सह नृत्यपरा कृष्णेन समं नृत्यन्ती । कीदृशे रासरसे । करतलयोस्तालेन परस्परं वादनेन
तरला चञ्चला या वलयावलिः कङ्कणपङ्किस्तया कलितो मिश्रितोऽव्यक्तमधुरशब्दसहितो
वंशो वेणुर्यत्र तादृशे । अत्र रासरसे इत्यादिना गोदुहां क्रीडास्वेव सा स्तुत्या न तु सक-
लसंगीतकलास्विति ध्वनितम्, "द्रुमभेदे करास्फाले तालं तु हरितालके" इति विश्वः ।
तरलश्चञ्चले खिन्ने हारमध्यमणौ" इति च । "वलयं कङ्कणेऽपि च" इति । "आवलिः
श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् ॥ हरि० ॥ ८ ॥
श्रीजयदेवभ[^१]णितमिदमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ हरि० ॥ ९ ॥
विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवरश्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्तथा । अथवा "अङ्गनामङ्गनामन्तरे माधवः" इममर्थं प्रकटयति ॥७॥ एकस्यैव हरेः प्राकाम्यसिद्ध्या सर्वाभिः सहैककालं क्रीडनमाह -- श्लिष्यतीति ।स हरिः रासरसे क्वचित्कामपि अन्ययान्यया सह उक्तरीत्या क्रीडति । रामेति रमणशीला तां रमयति । स्मितचारुतरेति रसदृष्टेरुपलक्षणम् । स्मिते हि रतिभाव उल्बणो भवतीति । वामामित्यनुनयेऽपि पराङ्मुखीत्वम् । तामनुगमनेन साधयतीति चातुर्यम् । अथवा नानारूपाणि विधाय तया तया सह तया तयावस्थया क्रीडितवान् । अथवा सममेवैकामाश्लिष्य तामाश्लिष्यन्नेव परां चुम्बति । तत्कुर्वन्नेवान्यां रमयति । चेष्टाविशेषेण तदैवान्यां पश्यति । अन्यामनुगच्छतीत्यनुकरोतीति योज्यम् । श्लिष्यतीत्यादिषु क्रमेण शठधृष्टदक्षिणानुकूलधूर्ता नायकाः । नायिकास्तु अभिसारिका एव ॥ ८ ॥ उपसंहरति -- श्रीजयदेवेति ।अत्र स्वरा ऋषभाद्याः पाटाः । श्रीजयदेवकवेरिदमद्भुत केशव केलिरहस्यं अद्भुतं च तत्केशवकेलिरहस्यं च तच्चरितं शुभानि वितनोतु । अर्थाद्गायतां शृण्वतां च । किंभूतम् । यशस्यं यशस्करम् । क्व । वृन्दावनविपिने । अत्रैकेनानेकासामुपरञ्जनादद्भुतत्वम् । लयो नाम छन्दः । तल्लक्षणम् -- "मुनियगणैर्लयमामनन्ति तज्ज्ञाः" तदुक्तं छन्दचूडामणौ "चिलय" इति ॥ ९ ॥ इदानीं काचित्सखी राधां प्रति कृष्णस्यातिशयशृङ्गारशालितादर्शनव्याजेन तदुन्मुखीकर्तुमाह -- विश्वेषामिति ।हे सखि राधे,
पङ्क्तिः" इत्यमरः । "वंशो वेणौ कुले वर्गे काष्ठस्यावयवेऽपि च" इति विश्वः । "रासस्तु वनरासे स्यात्" इति च । "रासस्तु गोदुहां क्रीडा" इति हारावलिः ॥ ७ ॥ श्लिष्यतीति । कामपि रामां क्रीडाशीलां गोपीं श्लिष्यत्यालिङ्गति, कामपि चुम्बति, कामपि रमयति, निभृतः संभोगेन क्रीडयति, स कृष्णः स्मितेन चारुतरामतिशयेन मनोहरामपरां गोपीं पश्यति । कांचिद्वामां वामस्वभावां कोपवतीमनुगच्छति अनुनयार्थमनुगतिं करोति । अत्र कृष्णेनाश्लेषादौ क्रियमाणेऽपि ताभिर्न कृतमित्यप्यवैदग्ध्यं सूचितम् । "सुन्दरी रमणी रामा" इत्यमरः । "विद्या वामा अपि स्त्रियाम्" इति च ॥ ८ ॥ संप्रति गीतसमाप्तौ कविः स्वनाम निबध्नन्नेवाशिषं प्रार्थयते -- श्रीजयदेवेति । श्रीजयदेवकवेरिदं ललितं गीतं शुभानि वितनोतु विस्तारयतु । कीदृशम् । वृन्दावनेऽद्भुतं केशवस्य केलिरहस्यं गुप्तक्रीडा यत्र तादृशम् । अद्भुतत्वं चैकेनैव कृष्णेनानेककामिनीनां कामपूरणात् । पुनः कीदृशम् । यशस्यं यशः सहितम् ॥ ९ ॥ ननु सकलशृङ्गारकलाभिज्ञः श्रीकृष्णः कथं हावाद्यनभिज्ञाभिर्गोपीभिः सह केलिं कृतवानित्यत आह -- विश्वेषामिति । हे सखि हे राधे, मधौ
[^१.] "देवकवेरिदमद्भुत" इति पाठः ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ १० ॥
मधौ वसन्ते मुग्धः सुन्दरो हरिः क्रीडति । क इव । मूर्तिमाञ्शृङ्गाररस इव । "पुरुषः
प्रमदायुक्तः शृङ्गार इति संज्ञितः" । किं कुर्वन् । अनुरञ्जनेनानुरागेण विश्वेषां सर्वेषां
आनन्दं जनयन् हरिः शृङ्गारश्च । पुनश्च किं कुर्वन् । अङ्गैरनङ्गोत्सवमुपनयन्नुपस्था-
पयन् । किंभूतैरङ्गैः । इन्दीवरपङ्क्तिश्यामलकोमलैर्नीलोत्पलराजिवच्छ्यामलसुकुमारैः ।
पुनः किंभूतः । व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः प्रतिप्रतीकमाश्लिष्टः । अभितः
सर्वतः । कथं । स्वच्छन्दं यथा स्यात्तथा । अथवा यद्यदङ्गं यया यया समासादितं तत्तत्तया
तया समालिङ्गितमिति प्रतिप्रतीकशब्दार्थः । अत्र दीपकमलंकारः । वैदर्भी रीतिः ।
शार्दूलविक्रीडितं छन्दः । शृङ्गारो रसः । वाक्यौचित्यं च । चन्दनचर्चितेत्यत्र उत्क-
ण्ठिता नायिका । तल्लक्षणम् -- "प्रिये कृतव्यलीकेऽपि विरहोत्कण्ठितोन्मनाः" ॥ १० ॥
वसन्ते मुग्धे मनोहरो हरिः क्रीडति । किं कुर्वन् । विश्वेषां गोपीजनानामनुरञ्जनेनानुरागं
जनयन्नुपस्थापयन्। कीदृशो हरिः । अभित उभयतो बाह्यैरवयवैरन्तश्चेतसा प्रत्यङ्गं अङ्गमङ्गं
प्रति स्वच्छन्दं यथा स्यादेवं व्रजसुन्दरीभिरालिङ्गितो मूर्तिमाञ्शरीरी शृङ्गार इव । शृङ्गार-
स्याशरीरत्वात्क्रीडारसो न संभवतीति मूर्तिमानित्युक्तम् । अत्र शृङ्गाररसस्य श्याम-
त्वात्कृष्णसादृश्यम् । तदुक्तम् -- "श्यामो भवति शृङ्गारः सितो हासः प्रकीर्तितः" इति ।
यथा मुग्धो मनोहरः शृङ्गाररसो मधौ वसन्ते क्रीडति सर्वत्र विलसति । किं कुर्वन् ।
यूनोऽनुरञ्जनेन परस्परानुरागजननेन विश्वेषां प्राणिजनानामानन्दं जनयन् । पुनः किं
कुर्वन् । अङ्गैः शृङ्गाररसस्याङ्गभूतैः कटाक्षादिभिरनुभावै रोमाञ्चादिभिश्च सात्त्विक-
भावैः शङ्कासूयादिभिः संचारिभावैश्चानङ्गोत्सवमुपनयन् । केवलमेतैः पूर्वभावैरपीत्याह --
इन्दीवरेति । इन्दीवरश्रेणिभिः कमलपङ्क्तिभिः श्यामैर्गाढान्धकारनीलनिचोलवनमाला-
वनादिभिः कोमलैर्मृदुशय्यादिभिः । अत्र हेतुगर्भविशेषणमाह -- स्वच्छन्दमिति । स्वच्छन्दं
यथा स्यादेवं व्रजन् गच्छन्सुन्दरीभिरङ्गमङ्गं प्रति आलिङ्गितः आश्रितः । शृङ्गाररसस्याङ्गिनो
विभावादीनां मध्ये कयाचित्ताम्बूलस्रक्चन्दनाद्युपनयनविभावरूपं कयाचित्सुस्मितकटाक्षा-
द्यनुभावरूपं कयाचिच्छङ्कासूयादिसहचारिरूपं कयाचिच्च रोमाञ्चितत्वादिसात्त्विक-
भावरूपं शृङ्गाररसस्याङ्गमाश्रितमिति भावः । विभावादीनामङ्गत्वं प्रति भरतः --
"विभावैरनुभावैश्च भावः संचारिसात्त्विकैः । जनितो बोधितः स्फीतो वृद्धः शृङ्गार इष्यते ॥"
इति विभावसामान्यलक्षणात् । रसरत्नप्रदीपिकायाम् -- "भावयन्ति विशेषेण ये रसान्वै
मनोहरान् । ते विभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥" इति । तत्र शृङ्गारविभावा भर-
तेनोक्ताः -- "ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गार-
रसः समुद्भवति ॥" अनुभावसामान्यलक्षणं यथा-- "व्याक्रियन्ते यथा सम्यग्लोकानुभवगो-
चराः । तेऽनुभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः" ॥ तत्र शृङ्गारानुभावः -- नयनवदनप्र-
सादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैः स्वाङ्गविकारैस्तस्याभिनयः प्रयोक्तव्यः॥" व्यभिचा-
रिसामान्यलक्षणं दशरूपके -- "विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः"। शृङ्गारतिलके --
"शङ्कासूया तथा ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादौ
नित्यो[^१]त्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमु[^२]कुलान्यालोक्य हर्षोदया-
दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः ॥ ११ ॥
श्रीखण्डशैलानिलो मलयाचलपवनः ईशाचलं हिमाद्रिमनुसरति याति । ईशश्चासावचलश्चति । अथवा ईशायाः पार्वत्याः गुरुरचलः । मध्यमपदलोपाद् टाब्विधिनाच् (?) वा ईशोपलक्षिताचल इति । अथवा ईशाचलं कैलासमनु लक्ष्यीकृत्य सरति । कया । प्रालेयप्लवनेच्छया हिमावगाहनेच्छया । अत्रोत्प्रेक्षितं हेतुमाह -- नित्येति । नित्यमुत्सङ्गे वसन्तो ये भुजङ्गा एव भुजङ्गकास्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः तस्मादिव । अथ भुजङ्गकाद्यद्वलनं तेन यो जायमानः क्लेशः तस्मादिव । अथवा कवलनं कवलो दशनं तस्मात् । सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति । किं चेति विभावान्तरमाह । पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति । किंभूताः । कलोत्तालाः कलाश्च ता उत्ताला उदीर्णाः । कुतः हर्षोदयात् । किं कृत्वा । स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुड्मलास्तानालोक्य । अथवा स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य हर्षोदयादिति क्रिययोरेककर्तृकत्वात्पूर्वकालता । शार्दूलविक्रीडितं वृत्तम् । अत्र वर्णानुप्रासोपमाहेतवोऽलंकाराः । वैदर्भी रीतिः । अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्याख्यः स्थायीभावः । अत्र विरहिमनःशरीरकर्तनकुशलानां स्निग्धरसालमौलिमुकुलानामालोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्टाककुहूरूपेण यदुन्मीलनलक्षणं यथा क्रियास्वरूपनिरूपणमकारि तन्नितरामौचित्यकोटिमालम्बते । उक्तं च -- "सगुणत्वं
भयं तथा ॥ विषादो जडता निद्रावहित्था चापलं मतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥" इति । सात्त्विकभावाः शृङ्गारतिलके -- "स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥" इति । एतेषामवान्तरलक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलाभिज्ञस्यापि व्रजसुन्दरीभिः सह मुग्धतामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानिः । तासां तथैवानुरञ्जनात् । अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जकत्वं कृष्णस्योक्तमिति भावः ॥ १० ॥ इदानीं राधां शीघ्रं गमयितुं मलयानिलादिदुःसहतामाह -- अद्र्युत्सङ्गेति । श्रीखण्डशैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति । कस्मादिव । अद्रेर्मलयस्य उत्सङ्गे क्रोडे वसन्तो ये भुजङ्गाः सर्पास्तेषां कवलेनाश्लेषेण जनितो यः क्लेश: संतापस्तस्मादिव । तर्हि हिमाद्रिं किमिति व्रजतीत्यत आह -- प्रालेयेति । प्रालेयस्तुषारस्तस्य प्लवनमवगाहनं तस्येच्छया । अत्र सर्पैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्कादधिकं विरहिणां संतापकत्वं ध्वनितम् । न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह ।
[^१.] "अद्र्युत्सङ्ग", "अद्योत्सङ्ग" इति वा पाठः । [^२.] "मौलिकुसुमानि" इति पाठः ।
रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा-
मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-
व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥ १२[^१] ॥
इति श्रीजयदेवकृतौ गीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥ १
सुवृत्तत्वं साधुता च विराजते । काव्यस्य सुजनस्येव यद्यौचित्यवती क्रिया ॥" इति ॥ ११ ॥ इदानीं सर्गान्ते कविराशिषमाशास्ते -- रासोल्लासेति । हरिर्वो युष्मान्पातु । किंभूतो हरिः । राधया गीतस्तुतिव्याजात् । अमृतमयमुखनिर्गतत्वात् इदं गीतममृतमेवेति मिषेण व्याहृत्य उत्कटं यथा स्यात्तथा चुम्बितः । इतीति किम् । साधु युक्तमेतत् यद्गीतममृतकल्पम् । यतस्त्वद्वदनं सुधामयम् । अत्र विकारे मयट् । अत्रान्यनारीसंनिधौ चुम्बनमयुक्तमिति गीतस्तुतिव्याजोक्तिः । किं कृत्वा । निर्भरं गाढं यथा स्यात्तथोरः परिरभ्य । क्व । आभीरवामभ्रुवां गोपाङ्गनानामभ्यर्णं समीपे । किंभूतानां वामभ्रुवाम् । रासो गोपक्रीडा तस्योल्लासः संहर्षप्रादुर्भावस्तस्य भरेण विलासवतीनाम् । किंभूतो हरिः । स्मितेनान्यनारीणां मनो हर्तुं शीलं यस्य स तथा । अथवा अन्यनारीसमीपे आलिङ्गनं लज्जावहमिति तत्परिजिहीर्षया राधाया हेतुगर्भं विशेषणमाह प्रेमान्धयेति । "कामान्धः किंचिन्न पश्यति" इति वचनादतिप्रेम्णा व्याकुलयेत्यर्थः । अत्र विप्रलम्भः शृङ्गारः । आशीरप्रस्तुतप्रशंसाव्याजोक्त्याक्षेपहेतवोऽलंकाराः । प्रगल्भा नायिकाः । मुग्धो नायकः । अत्र "तरुमिव कमितारं चुम्बनार्ताधिरोढुं यदभिलषति नारी तच्च वृक्षाधिरूढम् ॥" इति कृत्वा वृक्षाधिरूढमाश्लेषः । "आभीरजाश्चुम्बनहार्यचित्ताः" इति, "नमितकमिदमाहुर्योषितो यद्बलेन प्रियमुखमभिवक्त्रं न्यस्य तिष्ठन्त्युदास्याः" इति रतिरहस्यात् नमितकं नाम चुम्बनविशेषः । शार्दूलविक्रीडितं छन्दः । अत्र राधाया वीरायितेनोत्साहात्मकस्य वीररसस्याविर्भावात्तदुपयोगिनी आरभटी वृत्तिः । द्वित्रिपदे तु पाञ्चाली रीतिः अर्धमागधी गीतिश्चति । स्थितलयं गानम् ॥ १२ ॥ यत्सर्गं संविधातुं नृपतिगुणनिधिं सर्गकर्तुर्निसर्गाच्छिक्षाभूत्सर्गवर्गः सकलकलितृणां स्वर्गिणामग्रिणां च
किं चेति। पिकानां कोकिलानां कुहूः कुहूरित्येवंरूपाः गिरः शब्दा उन्मीलन्ति प्रकटीभवन्ति । कीदृश्यः । कलोत्तालाः कला अव्यक्तगिरो मधुराः, उत्ताला उद्भटाः । कस्मात् । स्निग्धा ये रसाला आम्रवृक्षास्तेषां ये मौलयोऽग्रभागास्तत्र यानि मुकुलानि तान्यालोक्य वीक्ष्य यो हृर्षोदय आनन्दाविर्भावस्तस्मात् । अत्र क्वचित् "अद्योत्सर्ग" इति पाठः । तत्राद्य वसन्ते
[^१.] इदं पद्यं रसमञ्जरीव्याख्याकृता न टीकितं वा तट्टीका लेखकादिप्रमादाद्भग्ना वेति
नावगम्यते ।
राज्ञा कुम्मेन तेन व्यरचि विवरणं नव्यसर्गे विसर्गे-
ऽरीणां दक्षेण सर्गे प्रथमपरिमिते गीतगोविन्दसर्गे ॥
यत्र स्याद्गुर्जरी रागस्तालो झम्पेति भागशः ।
यथाशोभं प्रयोगोऽपि गद्यपद्याञ्चितान्तरः ॥
आभोगान्ते स्वराः पाटाः पुनः पद्यानि कानिचित् ।
सामोददामोदराद्यः प्रबन्धो भ्रमरः पदम् ॥
इति सामोददामोदरभ्रमरपदनामा चतुर्थः प्रबन्धः ॥
इति श्रीमेदपाटसमुद्रसंभवेन रोहिणीरमणेन कुम्भकर्णेन विरचिते गीत-
गोविन्दविवरणे सामोददामोदरनामा प्रथमः सर्गः ॥ १ ॥
इत्यर्थः । "तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ" इत्यमरः । "उत्तालः स्याद्धेमकुम्भे
गर्भे चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालं प्लवंगमे" इति विश्वः ॥ ११ ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जर्याख्यायां प्रथमः सर्गः ॥ १ ॥ द्वितीयः सर्गः २
अक्लेशकेशवः ।
विरहति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्ष्यावशेन गताऽन्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-
मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १ ॥
धन्नासीरागेण गीयते ॥ भुवनेशपादकमलं प्रणम्य कुम्भो नृपतिरतिविमलम् । जयदेवरचितमातुं युनक्ति युक्तेन धातुना गातुम् ॥ इदानीं हरेरभिलाषेर्ष्यारूपदोलारूढचित्ता राधा सखीमाह । पूर्वसर्गेऽभिलाषचिन्तारूपं दशाद्वयं निरूप्य स्मरणलक्षणदशाप्रदर्शनार्थं द्वितीयसर्गारम्भः ॥ विहरतीति ।राधा सखीं रहोऽपि गोप्यमप्युवाच । यद्यपि लताकुञ्जे स्वरहस्यं वक्तुं नोचितं तथापि स्मरपारवश्यविह्वलतया गोप्यागोप्यं नाज्ञासीत् । क्व सति । साधारणप्रणये सकलगोपिकासु समानस्नेहे हरौ वने वृन्दावने विहरति सति । किंभूता राधा । विगलितनिजोत्कर्षादन्यस्त्रीभ्यो निजातिरेकापगमात् । ईर्ष्यावशेनासहिष्णुतयान्यतो गता । यत्र स्थिता अन्याभिः क्रीडन्तं न पश्यतीति । अत्रार्थे पुनर्विशेषमाह । गत्वापि क्वचिदपि कुञ्जे लीना । किंभूते कुजे । झङ्कारपरभ्रमरश्रेण्या वाचालाग्रभागे । अत एव दीना । अत्रापि तैरधिककामोद्दीपनात् । अत्र "रसयु गहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा" इति हरिणी छन्दः । विरहासहिष्णुतालक्षणो विप्रलम्भो रसः । रतेरेवात्युद्रेकाद्रसवदलंकारता । वर्णसाम्येनानुप्रासश्च । प्रौढा नायिका । अत्र गलितनिजोत्कर्षवशाद्दीनस्य वचनाशक्तैर्यत्सखीं प्रति रहस्यकथनमपिशब्देन द्योत्यते तन्नितरामौचित्यचमत्काराय । यदाह -- "उचितस्थानविन्यस्तैर्निपातैरर्थसंगतिः । उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥" इति श्लोकोक्त
एतद्वचनैः सख्या प्रतिबोधितायाः समक्षमन्याभिः सह निर्भरं क्रीडन्तं हरिं दृष्ट्वाऽसह-
मानायाः अत एव क्वचित्कुञ्जान्तरगताया राधाया अवस्थान्तरं वर्णयितुमाह -- विहरतीति ।
राधा सखीम् इति वक्ष्यमाणमुवाचोक्तवती । कीदृशी । ईर्ष्यावशेनान्यतोऽन्यत्र गता ।
ईर्ष्यायां हेतुमाह -- विगलितेति । विगलितो गलितो निजः स्वीय उत्कर्षोऽहमेव
हरेः प्रणयिनीत्येवंरूपस्तस्मात् । क्व सति । हरौ कृष्णे वने विहरति सति ।
कीदृशे हरौ । साधारणो राधायामन्यगोपाङ्गनायां च समानः प्रणयः प्रेम यस्य तादृशे ।
अत एव दीना दुःखिता । पुनः कीदृशी । क्वचिदपि लताकुञ्जे लताभिर्वल्लीभिरतिनिबिडे
कुञ्जे लीना निभृतं निलीय स्थिता । कीदृशे कुजे । गुञ्जन्तः शब्दायमाना मधुपा भ्रम-
रास्तेषां या मण्डली पङ्किस्तया मुखरं वाचालं शिखरमग्रभागो यस्य तादृशे । तत्र
कुञ्जपदेनैव लताच्छादितगृहप्राप्तौ लतापदमतिनिबिडत्वसूचनाय । "प्रणयः प्रेम्णि विश्रम्भे"
गुर्जरीरागेण यतिताले च गीयते ॥ प्र० ॥ ५ ॥
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ।
रासे हरिमिह विहितविलासम्
स्मरति मनो मम कृतपरिहासम् ॥ ध्रुवम् ॥ २ ॥
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ रासे० ॥ ३ ॥
मेवार्थं विशिनष्टि वर्णयति तालेन । "लघुश्चैको द्रुतद्वयम्" इति ॥ १ ॥संचरदिति । तत्र पूर्वं ध्रुवपदं व्याक्रियते -- रासेति । हे सखि, मे मनो हरिं स्मरति । स्मरतीति स्मृतेः पूर्वानुभूतार्थविषयत्वाद्दृष्टचरस्य हरेश्चरितं साक्षात्करोति । इह क्रीडावने रासे गोपक्रीडायां विहितो विलासो विभ्रमो येन स तं तथा । कथं यथा भवति । कृतपरिहासं कृतनर्मकेलि यथा स्यात्तथेति ध्रुवः । अथ पदानि । तत्राद्यं पदम् -- संचरदिति । संचरन्त्या संक्रममाणयाधरसुधया मधुरो ध्वनिर्यत्र तद्यथा स्यात्तथा मुखरितो मोहनो मोहकारी तन्नामा वंशो येन । अत एव चलितदृगञ्चलं नेत्रप्रान्तं यथा स्यात्तथा चञ्चलो यो मौलिः शेखरः शिरो वा तेन कपोलयोर्विलोलौ वतंसौ यस्य स तथा । किमुक्तं भवति । शिरः कम्पदोषं विना शेखरकुण्डलचालने वादकवैचित्री । अथवा वंशश्रवणाच्चलितहगञ्चला या गोप्यस्तासु चञ्चलो यो मौलिस्तन कपोलविलोलवतंसम् । अत्राधरसुधापानेन तदाननस्य चन्द्रादप्यानन्दकत्वं द्योतितम् ॥ २ ॥ चन्द्रकेति । चन्द्रकचारुमयूरशिख।
इति विश्वः। "ईर्ष्यामाहुः समानेषु मानदानाद्यमर्षणम्" इति ॥१॥ राधा किमुवाचेत्याह --
संचरदिति । गीतस्यास्य गुर्जरी रागः । तालस्तु प्रतिमठः गीतार्थस्तु -- मम
मनोऽन्तःकरणं हरिं स्मरति । कीदृशं हरिम् । रासे गोपक्रीडाविशेषे विहितः कृतो विलासो
येन तादृशम् । तथा कृतः परिहासो येन तादृशम् । एतच्च ध्रुवपदम् । कीदृशं हरिम् ।
संचरता प्रतानक्रमेण स्फुरताधरेणौष्ठेन सुधेव मधुरो ध्वनिर्यस्य तादृशो मुखरितो वादितो
मोहनवंशो मोहनकारी वेणुर्येन तादृशम् । तद्वेणुरवेण मोहितं मे मनः कृतापराधमपि तं
स्मरतीति भावः । पुनः कीदृशम् । चलितः कथंचिन्मूर्च्छा प्रति रोषे प्रकटीकृते तत्संमानाय
एतादृशश्चञ्चल: स्वयमेव वेणुद्वारा प्रकटीकृतस्य
घूर्णितो दृगञ्चलोऽपाङ्गो यत्र
स्वरविशेषस्यान्यैश्चाज्ञानात्स्वयमेव परितो दोषाद्दोलायमानो मौलिर्मस्तकं यस्य, अत एव
कपोले विलोलश्चञ्चलो वतंसः कर्णाभरणं यस्य तादृशम् । 'पीयूषममृतं सुधा' इत्यमरः ॥
'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इति च । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च
शेखरे' इति च ॥ २॥ ननु व्यासङ्गादिना विस्मार्यतामित्यत आह - चन्द्र केति ।
चन्द्रकेण विचित्रचिह्नेन चारुणा मनोहराणां शिखण्डकानां मयूरपिच्छानां मण्डलेन
समूहेन वलयिता वेष्टिताः केशा येन तादृशम् । तथा चात्र मयूरादिदर्शनेऽपि तस्यैक
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ रासे० ॥ ४ ॥
विपुलपुलकभुजपल्लववलयितबल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ रासे० ॥ ५ ॥
ण्डकानां मण्डले संघाते वलयाकारेण वेष्टिताः केशा यस्य । तथा प्रचुरं घनं पुरंदरधनुषानुरञ्जितो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वत्सुवेशो दर्शनीयस्तम् ॥ ३ ॥ गोपेति ।गोपसमूहस्य नितम्बवतीनां पृथुनितम्बानां मुखचुम्बनेन लम्भितः प्रापितो लोभो येन । अर्थान्मुखस्य । अथवा गोपाङ्गनानां मुखचुम्बनेन लम्भितो लोभो येन । अथवा गोपवधूचुम्बने लम्बितो लम्बीकृतो लोभो येनेति पाठान्तरं युक्तम् । अपि च बन्धुजीववत् मधुरो मनोहरोऽधरपल्लवो यस्य । अपि च उल्लसिता स्मितेन शोभा यस्य तम् ॥ ४ ॥ विपुलेति ।विपुलपुलकौ पृथुरोमाञ्चौ यौ भुजौ तौ पल्लवाविव ताभ्यां वलयितं वलयीकृतं बल्लवयुवतीनां गोपाङ्गनानां सहस्रं
दर्शनं भवतीति ध्वनितम् । पुनः कीदृशम् । प्रचुरैर्बहुलैः पुरन्दरधनुर्भिरनुरञ्जितः संवलितो यो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वच्छोभनो वेश आकृतिर्यस्य तादृशम् । अत्र नानामणिखचितहारकेयूरादीनामिन्द्रधनुःसाम्यम् । श्रीकृष्णस्य मेघसाम्यम् । इयं चाभूतोपमा ज्ञेया । कुतः । प्रचुरपुरन्दरधनुर्भिरनुरञ्जितमेघस्याप्रसिद्धेः । "समौ चन्द्रकमेचकौ" इत्यमरः । "बर्हिकण्ठसमे वर्णे मेचकं ब्रुवते बुधाः" इति कात्यः । "शिखण्डस्तु पिच्छबर्हे नपुंसके" इत्यमरः । "वेल्लितं स्याद्वलयितम्" इति च । "मुदिरः कामुकोऽम्बुदः" इति विश्वः । "वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके" इति च ॥ ३ ॥ ननु एवं चेत्तस्मिन्ननुरागिणि चेतस्तदा तं किमिति नानुसरसीत्यत आह -- गोपकदम्बेति । गोपकदम्बस्याभीरसमूहस्य या नितम्बवत्यः प्रशस्तनितम्बशालिन्यः स्त्रियस्तासां मुखचुम्बने लम्भितः प्रापितो लोभो येन तम् । तथा च मदग्रेऽप्यन्यास्वनुरक्तः स इत्येतावदहमसहमाना तं नानुसरामीति भावः । यद्वा नन्वयं त्वय्यनुरागरहितोऽन्याभिर्गोपीभिः सह क्रीडतीति त्वं तद्गुणकीर्तनमपि किमिति करोषीत्यत आह -- गोपकदम्बनितम्बवतीभिर्मुखचुम्बने लम्भितः प्रापितो लोभो यस्य तादृशम् । तथा च तासु सहजस्नेहो नास्ति परंतु बलात्कारेण ताभिश्चुम्बने लोभः कारितः । सहजस्तु प्रणयो मय्येव तस्येति भावः । पुनः कीदृशम् । बन्धुजीवपुष्पवन्मधुरो मनोहरोऽधर एव पल्लवो यस्य तम् । उल्लसितान्तरीषद्धास्येन शोभा यस्य तम् । तथा च बन्धूककुन्ददर्शनेनापि तदीयाधरहास्यस्मारकेण स एव स्मर्यत इति भावः । "रक्तकस्तु बन्धूको बन्धुजीवकः" इत्यमरः । "सुरसो मधुरः प्रोक्तो मधुलेशे मनोहरे" इत्यनेकार्थः ॥ ४ ॥ पुनः कीदृशम् । विपुलेति । विपुलः पुलको रोमाञ्चो यत्र ताभ्यां भुजपल्लवाभ्यां पल्लववत्कोमलाभ्यां बाहुभ्यां वलयितं वेष्टितं बल्लवयुवतीनामाभीरपत्नीनां सहस्रं येन तम् । अत्र वलयितमित्यनेनावज्ञया तासां वेष्टनमात्रं न तु गाढालिङ्गनं सरहस्यं चुम्बनालिङ्गनादिकं तस्य
[^१.] "मणिमयभू" इति पाठः ।
जलदपटलव[^१]लदिन्दुविनिन्दकचन्दनतिलकललाटम् ।
पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् ॥ रासे० ॥ ६ ॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम्
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ रासे० ॥ ७ ॥
येन । पुनश्च करौ च चरणौ च उरश्च तेषां समाहारः करचरणोरः । प्राण्यङ्गत्वात्समाहारः । "अमूर्धमस्तकात्स्वाङ्गादकामे" इति सप्तम्या अलुक्समासः । तत्र स्थितानां मणिगणभूषाणां किरणैर्विभिन्नं तमिस्रं येन स तथा ॥ ५ ॥ जलदेति । जलदपटलं घनसमूहः तं वलतः संभजमानस्येन्दोश्चन्द्रस्य विनिन्दकश्चन्दनतिलको ललाटे यस्य, वर्तुल इति यावत् । केचिच्चलदिति पठन्ति तत्र जलदपटलं गच्छत इति व्याख्येयम् । तत्पक्षे वंशे वाद्यमाने मूर्ध्नः कम्पेन ललाटे तिलकं चलदिव दृश्यते । अत्र ललाटस्य श्यामत्वात्तिलकस्य गौरत्वान्मेघचन्द्राभ्यामुपमानोपमेयभावः ॥ अपि च पीनौ घनौ यो स्तनौ तन्मण्डलमर्दने निर्दयं हृदयकपाटं यस्य । चलदित्यत्रापि तथैव ॥ ६॥ मणिमयेति ।मणिमये मकराकारे मनोहरे ये कुण्डले ताभ्यां मण्डितोऽलंकृतो गण्डो यस्य । अपि च उदारं दक्षिणम् । किंच पीते वसने यस्य । किंच अनुगत
मयैव सहेति तस्य स्मरणमुचितमेवेति ध्वनितम् । पुनः कीदृशम् । करयोश्चरणयोरुरसि च यानि मणिमयानि भूषणान्यलंकरणानि तेषां किरणैर्विभिन्नं नाशितं तमिस्रं येन तम् । एतेन प्रथमाभिसारे स्वकीयालंकारकिरणैरुद्द्योते सति लज्जया परावर्तमानां मां समानीय तां चेष्टां कृतवान् येन तं क्षणमपि मनो न विस्मरतीति ध्वनितम् । "अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः" इत्यमरः ॥ ५ ॥ पुनः कीदृशम् ।जलदपटलेति । जलदपटले मेघसमूहे चलन्संचरन्य इन्दुश्चन्द्रस्तस्य विनिन्दकस्तच्छोभातिशायी चन्दनबिन्दुर्मण्डलाकृति तिलकं यत्र तादृशं ललाटं यस्य तम् । पुनः कीदृशम् । पीनौ मांसलौ पयोधरौ स्तनौ तयोः परिसरस्य पर्यन्तभागस्य मर्दने निर्दयहृदयकपाटं कपाटवद्विस्तीर्णं हृदयं यस्य तादृशम् ॥ ६ ॥ पुनः कीदृशम् । मणिमयेति । मणिमये मणिखचिते मकरवन्मनोहरे ये कुण्डले ताभ्यां मण्डितौ कपोलौ यस्य तम् । पुनः कीदृशम् । उदारमौदार्यगुणयुक्तम् । अत्र रहसि मया यथोचितं तत्सर्वं तत्क्षणमिव पूरितवानिति स कथं च न स्मर्यत इति ध्वनितम् । पुनः कीदृशम् । पीतं वसनं वस्त्रं यस्य तम् । औदार्योपपादकं विशेषणमाह -- अनुगता आश्रिता ये मुनयो नारदादयः, मनुजा मनुष्या भीष्मादयः, सुरा इन्द्रादयः, असुराः प्रह्रादादयस्त एव वराः श्रेष्ठाः परिवाराः परिजना यस्य तम् । तथा च तैरप्यधिगतः सुमनः फलैः सततं सेव्यत इति तस्यौदार्यं ख्यातमेवेति भावः । "परिवारः परिजने खड्गकोशे परिच्छदे" इति विश्वः । "दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् । स्वजनेऽपि परे वापि तदौदार्यमिति स्मृतम् ॥" इति नायकौदार्य
[^१.] "चलदिन्दु" इति पाठः
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरलतरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ रासे० ॥ ८ ॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ रासे० ॥ ९ ॥
आश्रितो मुनिमनुजसुरासुरलक्षणो वरपरिवारो यस्य तम् ॥ ७ ॥विशदेति । विशदकदम्बतले मिलितम् । अर्थान्मुन्यादिभिरुपस्थितम् । अत एव कलिकलुषभयं शमयन्तं पापं नाशयन्तम् । पुनः किं कुर्वन्तम् । मनसा करणभूतेन तरलतरङ्गदनङ्गदृशा तरला चासौ तरङ्गदनङ्गा च । तरङ्गन्संमूर्च्छन्ननङ्गो यत्र तथाविधया दृष्ट्या मामपि रमयन्तम् । अपीति गोपीश्च । अतएव कलिकलुषभयं कलहकालुष्यभयं शमयन्तम् । अत्र तरंगदनङ्गेति सरसदृष्टिरुक्ता ॥ ८ ॥ श्रीजयदेवेति ।अत्रालापस्तेन पाटः हरिचरणस्मरणं प्रति हरेः कृष्णस्य चरणं रासक्रीडाद्याचरणं तस्य स्मरणं प्रति इदं श्रीजयदेवभणितम् । राधया अष्टपद्यादौ स्मरति मनो ममेत्यादि भणितम् । संप्रति इदानीमपि पुण्यवतामनुरूपं योग्यम् । सतां हरिचरणस्मरणे हेतुर्भवतीति यावत् । किंभूतम् । अतीव सुन्दरम् । तथा मोहनमधुरिपो रूपं यत्र तत्तथा । अत्र "मुनियगणैर्लयमामनन्ति" इति लयो नाम छन्दः । अत्र सर्वा अपि जातयो रासा भवन्तीति केचित् । यदाह -- "सयलाउ जाईउ एत्थावसेण एत्थ वत्तन्ति । रासा बन्धो रसायणं विगोठ्ठीसु" ॥९॥ इदानीं राधा तदेव रहस्यं भङ्ग्यन्तरेणाह । "रागो धन्यासिको यत्र तालो वर्णयतिः स्मृतः । चम्पूबन्धप्रयोगान्ते गमकानेकविस्तरः ॥ तदन्ते स्युः स्वरास्तेनाः पाठः शुचिरसाञ्चिताः । प्रबन्धोऽयं मुररिपोः पुरस्ताद्रत्नकण्ठिका ॥" इति । स चायं मधुरिपुरत्नकण्ठिका नाम पञ्चमः प्रबन्धो भैरवरागेण गीयते
गुणलक्षणम् ॥ ७ ॥ पुनः कीदृशम् । विशदेति ।विशदस्य कदम्बस्य तले मूले मिलितं
लग्नं, मत्संकेतीकृतकदम्बतले मदपेक्षयाग्रत एव गत्वा केचन न मां पश्यन्त्विति मत्प्रतारणाय
वा निलीय स्थितं कृष्णं मे मनः स्मरतीत्यर्थः । पुनः कीदृशम् । कलिः प्रणयकलह-
स्तस्माद्यत्कलुषं चित्तकश्मलं "अहं संकेते समागता असौ नागतः प्रायशोऽन्यवल्लभासक्तो
भविष्यत्यतः परं यद्यायास्यति तदा मया न संभाषणीयः" इत्येवंरूपम् । एकाकी कथं
कथमत्र तिष्ठामीति च तद्द्वयं कदम्बमूलादुपेत्य चाटूक्तिभिः शमयन्तमित्यर्थः । यद्वा ।
कलेः कलियुगस्य यत्कलुषं पापं तद्भयं शमयन्तमित्यर्थः । पुनः कीदृशम् । किमप्यनि-
र्वचनीयमेव यथा स्यात्तथा उद्गच्छन्ननङ्गः कामो यत्र एतादृश्या दृशा दृष्ट्या मनसा च
मामपि रमयन्तमित्यर्थः । मामपीत्यपिशब्देन सोत्कण्ठोक्त्याहमपि हरेः कस्यचिल्लोको-
त्तरप्रणयपात्रमासं न त्वेतादृश्योऽन्या वध्व इति ध्वनितम् । "कलिः स्यात्कलहे शूले
कलिरन्त्ययुगे युधि" इति विश्वः । "कलुषं त्वाविलैनसोः" इत्यपि ॥ ८ ॥ श्रीजयदेवेति ।
श्रीजयदेवकवेरिदं भणितं पुण्यवतां कृष्णस्मरणानुकूलादृष्टवतां हरिचरणस्मरणं प्रति
संप्रति कलौ अनुरूपं योग्यम् । कीदृशम् । अतिसुन्दरं मोहनं गोपवधूमोहनकारि
मधुरिपोः कृष्णस्य रूपं वृत्तम् । अनायासतो हरिस्मरणं भवतीति भावः ॥ ९ ॥
गणयति गुणग्रामं भामं भ्रमादपि नेहते
वहति च परीतोषं दोषं विमुञ्चति दूरतः ।
युवतिषु व[^१]लत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १ ॥
मालवगौडरागेण एकतालीतालेन च गीयते ॥ प्र० ॥ ६ ॥
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
गणयतीति । हे सखि, मम चित्तमद्यापि पुनरपि कृष्णे कामं करोति । तर्हि वद किं करोमि । किंविशिष्टे । युवतिषु गोपीषु वलत्तृष्णे । वलन्ती संभजमाना तृष्णा स्पृहा यस्य तस्मिन् । अपि च मां विना विहारिण्यपि क्रीडाशीलेऽपि । अत्र अपिशब्दः पुनर्योज्यते । किंविशिष्टं चेतः । वामं मयि विपरीतचरितम् । विपरीतत्वे हेतुमाह । यतः कृष्णस्य सापराधस्यापि गुणसमूहं गणयति कृतानप्यपराधांस्त्यक्त्वा । अपि च भ्रमादपि भ्रान्तिं प्राप्यापि कोपं नेहते न चेष्टते । पुनरसंतोषकाले परितोषं वहति । अपि च सन्तमपि दोषं दूरतो विमुञ्चति । नीरागजने सानुरागम् । अतएव वामम् । इयमुत्कण्ठिता नायिका । तल्लक्षणम् -- "उद्दाममन्मथमहाज्वरवेपमानां रोमाञ्चकण्टकितमङ्गकमावहन्तीम् । संवेदवेपथुघनोत्कलिकाकुलाङ्गीमुत्कण्ठितां वदति तां भरतः कवीन्द्रः" । "उत्का भवति सा यस्या वासके नागतः प्रियः । तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा" ॥ अत्र हरिणीवृत्तम् । यमकं शब्दालंकारः । संशयदीपकावर्थालंकारौ क्रियौचिरत्यं च ॥ १ ॥ इदानीं कामज्वरसंतप्तहृदया राधा सख्यां दूतीत्वमारोप्य कृष्णेन सहानुसन्धानमभिलषन्ती आह वर्णयतितालेन -- निभृतेति । पूर्वं ध्रुव
ननु कृष्णस्त्वां विहायान्यगोपीभिः सह विहरति त्वं किमिति तं स्मरसीत्यत आह -गणयतीति । मे मनः कृष्णे पुनरपि काममभिलाषं करोति तात्किं करोमि । कीदृशे कृष्णे । युवतिषु बह्वीषु चलन्ती वर्धमाना तृष्णा यस्य तादृशे । अत एव मां विना विहारिणि वारंवारं विहरणशीले न तु विहरति । कीदृशं मनः । अत एव वामं प्रतिकूलम् । वामे हेत्वन्तरमाह -- गणयतीति । तस्य गुणानां सौदर्यादीनां ग्रामं समूहं गणयति परिसंख्याति । भामं क्रोधं भ्रमादपि नेहते न वाञ्छति । दोषं वैरमवधीरणादिकं दूरतो विमुञ्चति । तत्र हेतुमाह -- वहतीति ।परितोषं संतोषं वहति । अत्र विभावनाविशेषोक्ती अलंकारौ । निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशनात् । अन्याङ्गनासक्तिरूपवैराग्यहेतुसत्त्वेऽपि वैराग्याकथनाच्च । तथा च काव्यप्रकाशे -- "क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना । विशेषोक्तिरखण्डेषु कारणेषु फलावचः ॥" इति । एषा च काव्यप्रकाशकृता व्याख्याता -- हेतुक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना । मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिरिति । "कामः स्मरे संवसथे वृन्दे शब्दादिपूर्वके" इति विश्वप्रकाशः । "भामः क्रोधे रवौ दीप्तौ" इति । "कामः स्मरेऽभिलाषे च" इति च ॥ १ ॥ अथोत्कण्ठिता राधा सखीं स्वमनोरथमाह -- निभृतनिकुञ्जेति ।गीतस्यास्य गौड
[^१.] "चलत्" इति पाठः । चकितविलोकितसकलदिशा रतिरभस[^१]भरेण हसन्तम् ।
सखि हे केशिमथनमुदारम्
रमय मया सह मदनमनोरथभावितया सविकारम् ॥ ध्रुवम् ॥ २ ॥
पदं व्याक्रियते -- सखि हे इति । हे सखि, मया सह केशिमथनं कृष्णं रमय कामकेलीः कारय । किंभूतम् । उदारं महान्तम् । किंभूतया मया । सविकारं नानाविकारसहितम् । विकारः कामजो भावः कुचोदरादिप्रकटनम् । तदुक्तं रसिकसर्वस्वे -- "नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषितां साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशनसंयमौ च कमितुर्मित्रादिसंदर्शनैः सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानुरागेङ्गितम् ॥" इति । रतिचेष्टासहितं यथा स्यात्तथा मदनमनोरथभावितया कामकेलीच्छाभावितान्तःकरणया । अथवा कथोपलक्षितं रमयेति कृष्णविशेषणत्वेनाह -मदनमनोरथानां भावो विद्यते यस्मिन् स भावी तस्य भावो भाविता तया । किमुक्तं भवति । यथाहं तस्मिन्नभिलाषवती तथा सोऽपि मयि स्यादिति भावः । एवं शृङ्गाररसः संपन्नो भवति । तथा चोक्तम् -- "चेष्टा भवति पुंनार्यो रत्युत्थानातिसक्तयोः । संभोगो विप्रलम्भश्च स शृङ्गारो द्विधा मतः ॥" अथवा किंभूतं हरिम् । सविकारम् । मानसभावसहितमिति कृष्णविशेषणम् । इति ध्रुवः । अथ पदानि । निभृतेति । तमेवोभयनिष्ठं भावं सूचयन्त्याह । किंभूतया मया । निभृतनिकुञ्जगृहं गतया विविक्तकुञ्जगेहं गतया । "वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः" इत्युक्तत्वात्तथाप्यवसरोचितं व्याख्यातव्यम् । एतेनाभिसारस्थानमुक्तम् । तदुक्तं भरते -- "विवाहे तीर्थयात्रादौ बन्धनोत्सवके तथा । नटनृत्ये तथा केलौ जागरोद्यानसंगतौ । असती
मालवरागः एकताली तालश्च । गीतार्थस्तु -- हे सखि, मया सह केशिमथनं कृष्णं रमय । कीदृश्या मया । मदनस्य यो मनोरथ इच्छा तद्युक्तो यो भावो रत्याख्यः स जातो यस्यास्तादृश्या । यद्वा । मदनमनोरथेन भावितया प्राप्तया । ननु को वेद मया प्रार्थने कृते कदाचिन्नायात इत्यत आह । उदारमौदार्यगुणसंयुक्तम् । तथा च त्वत्प्रार्थितमवश्यं स दास्यत्येवेति भावः । कीदृशं कृष्णम् । सविकारं विकारो मानसो भावस्तत्सहितम् । तदान्योन्यानुरागपूर्वकत्वेन शब्दवर(?)पुष्ट्यर्थम् । अन्यथा रसाभासो भवतीति भावः । यद्वा सविकारमिति क्रियाविशेषणन् । विकारः स्तनप्रान्तादिप्रकटनं तत्सहितं यथा स्यादेवं मदनमनोरथभावितयेत्यर्थः । तदुक्तं रसिकसर्वस्वे -- "नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषितां साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशनसंयमौ च कमितुर्मित्रादिसंदर्शनैः सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानुरागेङ्गितम् ॥" इति । अत्र केशिमथनपदोपादानं सामर्थ्यख्यापनाय । तत्प्रयोजनं च निःशङ्ककेलिप्रतिपादने । भावितेत्यत्र प्रथमे व्याख्याने तारकादित्वादितच् । द्वितीये पक्षे "भावितं वासिते पक्षे" इति विश्वः । पुनः कीदृश्या मया । निभृतमेकान्तं यन्निकुञ्जरूपं गृहं तं प्रति गतया । कीदृशं कृष्णम् । निशि रात्रौ रहस्येकान्ते निलीय तिरोहितीभूय वसन्तं तिष्ठन्तम् । एवंभूतं मां राधा पश्यत्विति कुतोऽपि मत्प्रतारणाय संकुचितमात्मानं कृत्वावस्थितमिति भावः । पुनः कीदृश्या ।
[^१.] "रभसरसेन" इति पाठः ।
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ सखि० ॥३॥
सङ्गमकुले रत्युत्पाताद्युपप्लवे । चौरिकयाभिसारः स्यात्स्वदारानिह रक्षयेत्" ॥ निशिरात्रौ । अपि च किंभूतम् । रहसि गुप्तस्थाने निलीय तिरोभूय वसन्तम् । अपि च किंभूतया । चकितेन विलोकिताः सकला दिशो यया सा । कुत्र कृष्णो वसतीति गवेषितुमभिसरन्तीं सख्यो मां मा द्राक्षुरिति लज्जया त्रासोत्कम्पेनेति । अपि किंभूतम् । रत्युत्साहवशेन हसन्तम् ॥ २ ॥ अपि च ।प्रथमेति । उपभुक्तचरेऽपि हरौ प्रथमसमागम इव लज्जितया तत्कालीनाश्चेष्टाः कुर्वन्त्या वा । बहुकालान्तरितमिलितेन प्रथमसमागमता अपि । किंभूतम् । पटुचाटुशतैरनुकूलं सान्त्वनक्षमप्रियवचनशतैरनुनयपरम् । एतदुक्तं भवति -- "प्रथममिह हि देयं पूगपुष्पादिकं स्यान्मृदुमधुरवचोभिर्योजयेत्संनिधाने । करतलमथ गात्रे भ्रामयन्शश्वदस्याश्छुरितमुदरपृष्ठे मन्दमाश्लिष्य दद्यात् ॥" प्रथमसमागमे कामिन्यो लजन्त्यो मानमावहन्ति । तथा च -- "श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्चम्बत्यस्मिन्वदनविकृतिः किं कृता किं न दृष्टः । नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥" इति भरतः ॥ अपि किंभूतया । अतएव मृदु मधुरं यथा स्यात्तथा स्मितपूर्वं भाषणं यस्याः सा तया । अपि किंभूतम् । शिथिलीकृतजघनदुकूलं श्लथीकृतं जघनस्थितं पट्टवस्त्रं वा । अन्तर्भावितणिजर्थत्वात् श्लथीकरणे सङ्गमस्य हेतुत्वम् । संगमादेव श्लथमभवदिति । तदुक्तं भरते -- "कान्ते तल्पमुपागते शिथिलिता नीवी स्वयं बन्धनाद्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बस्थितम् । एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं च कीदृशमिति स्वल्पापि मे न स्मृतिः ॥"
चकितं यथा स्यादेवं विलोकिताः सकला दिशो यया तादृश्या । कुत्र कृष्णो निलीय तिष्ठतीति
कृत्वाभिसरन्तीं मां मा कश्चन पश्यत्विति च शङ्कितां पश्यत्येवेति च भावः । कीदृशं कृष्णम् ।
रतौ यो रभस उत्साहस्तद्युक्तो यो रसः शृङ्गाराख्यस्तेन हसन्तम् । क्रीडायां काल-
क्षेपासहिष्णुम् । तथात्मप्रकटनार्थं पुनः स्थितमपि मामियं न पश्यतीतिकृत्वा हसन्तमिति
भावः । "निभृतं रह एकान्तम्" इति धरणिः । "रभसो वेग उत्साहः" इत्यमरः ॥ २॥ पुनः
कीदृश्या मया ।प्रथमसमागमलज्जितया । एवमवधार्याहमागता संप्रति
कथमेतस्याग्रे प्रकटयाम्यात्मानमिति लज्जाकारणम् । कीदृशं कृष्णम् । पटु नायिकाप्रसादनदक्षं
यच्चाटुशतं प्रियवचनशतं तेनानुकूलम् । पुनः कीदृश्या मया । मृदु कोमलं मधुरं
माधुर्यगुणयुक्तं भाषितं यस्यास्तया । तदीयचाटूक्तिभिरपहृतलज्जया । किंचित्स्मितभाषि-
तयेत्यर्थः । पुनः कीदृशं कृष्णम् । शिथिलीकृतं स्मितानुरागानुकूलां मां ज्ञात्वा श्लथीकृतं
जघनस्थितं दुकूलं पट्टवस्त्रं येन तादृशम् । अशेषनायकमणिश्रीकृष्णदर्शनेन दृढबन्धापि
नीवी स्वयमेव स्खलिष्यति ततो मेखलालम्बितं जघनस्थितमेव वासस्तेनापहरणीयमिति
जघनेत्युपात्तम् । तदुक्तं रतिरहस्ये -- "ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे
मत्स्यवद्धम्मिल्लः कुसुमाकुलो विगलति प्राप्नोति बन्धं पुनः । प्रच्छन्नौ व्रजतः स्तनौ प्रकटितं
श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गिते योषिताम् ॥" "चटु-
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ सखि० ॥ ४ ॥
अलसनिमीलितलोचनया पुलकावलिललितकपोलम्
श्रमजलस[^१]कलकलेवरया वरमदनमदातिलोलम् ॥ सखि० ॥५॥
॥ ३ ॥ अपि च । किसलयेति ।किसलयरचिते शयने निवेशितया । "सङ्केततल्पेऽभिमुखोपविष्टां गाढं पतिः श्लिष्यति सापि कान्तम् । अन्योन्यगात्रे विशतीव रागाद्द्वन्द्वं तदाकृष्टजलाभिधानम् ॥" अपि च ममैवोरसि चिरं शयानम् । एतच्चालिङ्गनभेदापेक्षयोक्तम् । तथा च कोकोक्तम् -- "असकृदतनुगाढाश्लेषलीलां वितन्वञ्जनितजघनबाहुव्यत्ययं स्पर्धते तम् । मिथुनमथ मिथोऽङ्गे लीयते निस्तरङ्गं निगदति तिलपूर्वं तण्डुलं तन्मुनीन्द्रः" ॥ अपि च । कृते परिरम्भणचुम्बने यया सा । एतदप्यालिङ्गनभेदापेक्षयोक्तम् ॥ "जघनकलितकान्तश्रोणिरथ्योपरिष्टाद्व्रजति यदिह नारी स्रुस्तकेशोत्तरीया । करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषणं तन्मुनीन्द्रः" ॥ अपि च आश्लिष्य कृतमधरपानं येन । अत्रायं भावः -- "अधरदशनजिह्वापानमालिङ्ग्य कुर्यान्नयनवदनपादैश्चेति जिह्वाप्रवारम् । ग्रहणमथ विदध्याद्वस्त्रकेशस्तनोरःकुचयुगभगदेशे मर्दनं चोरुयुग्मे" इति ॥ ४ ॥ अपिच । अलसेति । अलसे च ते निमीलिते च तादृशे लोचने यस्याः सा । एतेनालिङ्गककामविकारः सूचितः । तथा च नायिकालक्षणे -- "यत्र मूर्धानमारभ्य पादपर्यन्ततः क्रियाः । अङ्गेन विहिता यस्यास्तदालिङ्गकमुच्यते" ॥ अपि च । पुलकावल्या रोमाञ्च
चटु प्रिये वाक्ये" इति कोशः । "जघनं कटेरधोभाग" इति हारावलिः ॥ ३ ॥ पुनः कीदृश्या मया । किसलयशयनेति । किसलयशयने नवपल्लवशय्यायां निवेशितया । कीदृशं तम् । चिरं बहुकालं व्याप्य ममैवोरसि शयानं सुप्तम् । एतेनालिङ्गनविशेषं क्षीरनीराख्यमुक्तम् । तल्लक्षणं च पञ्चसायके -- "गात्रोपरिष्टादथ तस्य मध्ये संलीयते यन्मिथुनं शरीरम् । कामाभिमानाक्षतपूर्णचेष्टं तत्क्षीरनीराख्यमिदं प्रदिष्टम् ॥" इति। कीदृश्या मया । कृते परिरम्भणचुम्बने यया तादृश्या । एतच्च जघनोपश्लेषरूपालिङ्गनाभिप्रायेण । तदुक्तम् -- "जघनकलितकान्तश्रोणिरङ्गोपरिष्टाद्व्रजति यदिह नारी स्रस्तकेशोत्तरीया । करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषमेनं मुनीन्द्रः ॥" इति । चुम्बनमपि प्रकृते समौष्ठाख्यं बोध्यम् । तदुक्तं पञ्चसायके -- "ओष्ठेन कान्तस्य मुखौष्ठयुग्मं निपीड्य जिह्वाञ्चिततालुभागम् । चुम्बोत्सवं नृत्यति यत्र नारी प्रोक्तं समौष्ठं कविभिः पुराणैः ॥" इति । कीदृशं कृष्णम् । परिरभ्यालिङ्ग्य कृतं मदीयाधरपानं येन तादृशम् । अनेन लालाटिकमुक्तम् । उक्तं च -- "अन्योन्यसंसक्तमुखं कपोलं नेत्रं ललाटं हृदयं च बाहुम् । सानन्दभावं श्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥" इति । "पल्लवोऽस्त्री किसलयं" इत्यमरः ॥ ४ ॥ पुनः कीदृश्या । अलसेति । अलसे आलस्ययुक्ते अतएव निमीलिते लोचने यया । अत्र निमीलितमित्युपादानादवघृष्टाख्यचुम्बनमुक्तम् । उक्तं च -"हस्तेन नेत्रे च निमील्य भर्तुः संमीलिताक्षी वदने स्वजिह्वाम् । निक्षिप्य च क्रीडति यत्र
[^१.] "सिक्तकलेवरया" इति पाठः ।
कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ सखि० ॥६॥
पङ्क्त्या सुन्दरकपोलम् । अनेन सात्त्विकविकाराविर्भावः सूचितः । यदुक्तं भरते -"स्मरणे संगमे चैव प्रियस्यालोकने तथा । हेतुत्रयं समासाद्य सात्त्विकः संप्रवर्तते ॥ स्वेदः कम्पोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयावित्यष्टौ सात्त्विका मताः" ॥ अपि च श्रमजलेन गमनायासजनितेन स्वेदेन सकलं सशोभं शरीरं यस्याः सा । श्रमजलसिक्तमिति वा पाठः । श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्या इति वा । सकलशब्दः संपूर्णपर्यायो वा । अपि च । उत्तमकाममदादतिलोलम् अतिसतृष्णम् ॥ ५ ॥ अपि च । कोकिलेति ।कोकिलकलरवयोः कूजितमिव कूजितं यस्याः । कलरवशब्दः पारावतपर्यायः । एतदपि सुरताधिकारायोक्तम् । तदुक्तं रसिकसर्वस्वे -- "दात्यूहलावकमयूरकपोतहंसपारावतादिरुतवद्ध्वनितं रतान्ते । तन्मिश्रनिःश्वसितसीत्कृतहानिनादैः संयोजयेन्मदनचुम्बनमैथुनादौ" ॥ इति । अपि च । जितो न्यक्कृतः कामशास्त्रविचारो येन । वात्स्यायनादिभ्योऽपि कुशल इत्यर्थः । अपि च । श्लथकुसुमा आकुला व्यस्ताः कुन्तला यस्याः सा । अपि च नखैर्विलिखितोऽङ्कितो निबिडः स्तनभारो येन । एतेन बाह्यरतमुक्तम् । तदुक्तं भरते -- "आश्लेषचु
लोला ख्यातं रसज्ञैरवघृष्टसंज्ञम् ॥" इति । कीदृशम् । पुलकावल्या रोमाञ्चपङ्क्त्या ललितौ
मनोहरौ कपोलौ यस्य तम् । पुनः कीदृश्या मया । मदनचिन्तया जनितं जलं प्रस्वेदस्तेन
सिक्तमार्द्रं कलेवरं यस्यास्तया । क्वचित् "श्रमजलसक्तकलेवरये' ति सुगमः पाठः । कीदृशं
तम् । वर उत्कृष्टो यो मदो हर्षस्तेनातिशयेन लोलं चञ्चलम् । "काये च कलेवरम्"
इति विश्वः ॥ ५ ॥ पुनः कीदृश्या मया । कोकिलेति ।कोकिलस्य कलोऽव्य-
क्तमधुरो यो रवः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया । अनेन कूजिताख्यं बाह्यरत-
मुक्तम् । तदुक्तं पञ्चसायके -- "पिकशिखिकलहंसप्रायपक्षिव्रजानां स्वरितमनुकरोतीत्यङ्गना
मन्मथार्ता । मुखदशनपिबन्ती(?)तत्कवीन्द्रा वदन्ति स्तनितमिति समा सा चित्रसं-
भोगकाले ॥" इति । ननु वात्स्यायनादिशास्त्रेऽन्य एव क्रम उक्तः । तदुक्तम् -- "आश्लेषं
प्रथमं कुर्याद्द्वितीयं चुम्बनं तथा । तृतीयं नखदानं च दंष्ट्राघातं चतुर्थकम् । पञ्चमं क्षेपणं
प्रोक्तं षष्ठं प्रहरणं तथा । सप्तमं कण्ठशब्दश्च बन्धाख्यं चाष्टमं रतम् ॥" इति । तथा
चात्र कण्ठशब्दस्य सप्तमरतस्याग्रे वक्ष्यमाणनखदानादिरतात्प्राक्करणे श्रीकृष्णस्य रसिक-
ताभङ्गः स्यादित्यत आह -- जितेति । जितोऽवज्ञातो मनसिजतन्त्रस्य कामशास्त्रस्य
विचारो येन तम् । अयं भावः । चतुःषष्टिकलाकुशलस्यापि परमस्त्रीनायकस्य जगदीश्वरस्य
स्वानुकूलोत्तमनायिकासंनिधौ रसमग्नतया क्रमस्मरणाभावान्न दोषः । तदुक्तम् -- "रतिच-
क्रप्रवृत्तस्य नैव शास्त्रं न च क्रमः" इति । पुनः कीदृश्या । श्लथाः केशग्रहणपूर्वकचु-
म्बनादिपानेन शिथिलाः कुसुमैराकुला व्याप्ताश्च कुन्तला यस्यास्तया । नखेन लिखितः
क्षतयुक्तः कृतो घनस्तनभारो येन तम् । अत्र लिखितपदोपादानात्पङ्कजपत्राख्यं नख-
दानमुक्तम् । तदप्युक्तं पञ्चसायके -- "अत्यूर्ध्वमेकं स्फुरितोर्ध्वरेखं प्राहुः क्षतं पङ्कजपत्रसं-
ज्ञम् । दोर्मूलनाभिस्तनवक्षसंधावित्यूर्ध्वयोगं मनुते महेशः ॥" इति । "तन्त्रं प्रधानशा-
चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ सखि० ॥ ७ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ सखि० ॥८॥
म्बननखक्षतताडनानि संमर्दनं प्रसरणं खलु शिक्षितानि । जिह्वाप्रवेशरसनग्रहणं
तु नाभीक्षोभं रतं वदति बाह्यरतानि तज्ज्ञः" इति ॥ ६ ॥ अपि च । चरणेति ।
चरणयोः रणितौ शब्दितौ मणिनूपुरौ यस्याः । ग्राम्याख्यबन्धसूचनायोक्तमिदम् ।
तदुक्तं रसिकसर्वस्वे -- "उत्तानितायाः सुरते यदोरू स्त्रीशीर्षकान्तोरुगतौ भवेताम् ।
ग्राम्यं तदा स्यात्कटितो यदास्या बहिर्भवेतां किल नागराख्यम् ॥" परिपूरितः संपू-
र्णतां नीतः सुरतवितान: सुखावसरः प्रस्तावो वा येन । अपि च । मुखरा वाचाला
विशृङ्खला काञ्ची यस्याः । अथ वा "सुखदविशृङ्खलमेखलया" इति पाठः । अपि च ।
सकचग्रहं केशग्रहणेन सहितं चुम्बनदानं यस्य ॥ ७ ॥ अपि च । रतिसुखेति ।
रतिसुखसमये द्वयोरेककालं रेतःकणक्षरणसमये यो रसः तदेकाग्रीभावस्तेन अलसा
मन्थरा । एतेन च्युतिसुखसान्निध्यं सूचितम् । उक्तं च रसिकसर्वस्वे -- "मुहुश्च स्वज-
नाश्लेषः सीत्कारो वीतलज्जता । अङ्गावधूननं नार्याश्च्युतिसान्निध्यसूचकम्" ॥
स्त्रयोः" इति विश्वः । "चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः ॥ ६ ॥
एतावत्पर्यन्तं चुम्बनालिङ्गनादिना सप्तविधं बाह्यरतमुक्तम् । संप्रति बन्धनाख्यमष्टमरतमाह --
चरणेति ।चरणयो रणितौ शब्दायमानौ मणिखचितौ नूपुरौ यस्यास्तया । एतच्च
आमरिकं नाम विपरीतरताभिप्रायेणोक्तम् । तदुक्तं रतिरहस्ये -- "चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका
भ्रामरं नृजघने समुच्छ्रिते" इति । कीदृशम् । परिपूरितं सुरतवितानं रतिविस्तारो
येन तम् । अनेन नायककर्तृका बन्धाः कथिताः । भ्रामरकबन्धश्रान्तां विदित्वा किस-
लयशयनस्थितां मां स्वयमपि रमयिष्यतीति भावः । कीदृश्या । पूर्वं मुखरा शब्दायमाना
पश्चाद्विशृङ्खला त्रुटितगुणा मेखला काञ्ची यस्यास्तया । अनेन प्रेङ्खोल्लिखितनामकं
विपरीतरतमुक्तम् । तदप्युक्तं पुरुषायितप्रकरणे -- "स्वजघनमेव दोलायमानं सर्वत्र
भ्रामयेदिति प्रेङ्खोल्लिखितम्" इति । तत्र सर्वत्रशब्दो मनोरमाकारेण व्याख्यातः मध्यात्पूर्व-
पश्चिमभागे दक्षिणोत्तरभागे चेति । रहस्ये -- "सर्वतः कटितटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्त-
मूलितम्" इति । अत्रापि सर्वशब्दार्थः स एव । कीदृशं तम् । सकचग्रहं केशग्रहणसहितं
चुम्बनदानं यस्य तम् । केशग्रहणपूर्वकचुम्बनं विपरीतमेवोक्तम् । तदुक्तम् -- "शृङ्गारे
चुम्बनं कार्यं पुंसालिङ्गनपूर्वकम् । विपरीतरते नार्या सकचग्रहचुम्बनम् ॥" इति । "मेखला
खड्गबन्धः स्यात्काञ्ची शैलनितम्बयोः" इति विश्वः ॥ ७ ॥ पुनः कीदृश्या मया --
रतिसुखेति ।रतिसुखसमये सुरतसुखप्राप्तिकाले लोकोत्तरां काष्ठां प्राप्तो यः संभोगशृङ्गा-
राख्यो रसस्तेनालसया मन्थरया । कीदृशं कृष्णम् । दर ईषन्मीलिते मुद्रिते नयनसरोजे
नेत्रकमले यस्य तम् । एतेन युगपदेव द्वयोरानन्दावाप्तिः सूचिता । तदुक्तं रतिर-
हस्ये -- "मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य लक्षणम्" इति । पुनः कीदृश्या मया ।
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ सखि० ॥९॥
अपि च । दरमुकुलिते ईषन्निमीलिते नयनसरोजे यस्य येन वा । एतच्च च्युतिकालसूचकम् । उक्तं च भरते -- "मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य सूचकम् । सर्वमेतत्परिज्ञाय साधयेच्च स्वयं ततः ॥" अपि च निःसहा असमर्था निपतिता शयन एव तनुलता यस्याः । एतेन विपरीतसुरतं सूचितम् । तदुक्तं कोकेन -- "स्वेच्छया मिलितवल्लभोऽथवा योषिदाचरति पूरुषायितम् । आदितो घटितयन्त्रमेव वा तं निपात्य नरवद्विचेष्टते ॥ चक्रवद्भ्रमति कुञ्चितत्रिका भ्रामयेच्च जघनेऽथ तद्गते । सर्वतः कटितटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमुन्नतम् ॥" एतेन च्युतिकालोत्तरावस्था सूचिता । तदुक्तं भरते -- "अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुखे नार्या विरामेच्छा च गम्यते ॥" अपि च । मधुसूदनं मधुविनाशिनम् ।उदितमनोजमभ्युदितकामम् ॥ ८ ॥ अपि च । श्रीजयदेवेति ।इदं गीतप्रतिपादितप्रमेय कव्युत्तम्भितवक्तृत्वेनोत्कण्ठितगोपवधूकथितं राधाकथितं सुखं वितनोतु । अर्थात् गायतां शृण्वतां च । किंविशिष्टम् । श्रीजयदेवेन भणितम् । जयदेवभणितरूपमित्यर्थः । श्रीजयदेवेति सर्वत्र श्रियः पद्मावत्या आराधको जयदेवः श्रीजयदेव इति मध्यमपदलोपी समासः । पुनः किंभूतम् । अतिशयेन मधुरिपोर्निधुवनशीलं सुरतचरितं यत्र तत्तथेति । उत्कण्ठितेत्यादि । उत्कण्ठिता नायिका । विप्रलम्भः शृङ्गारः । अत्र
निःसहाऽसमर्था अत एव किसलयशयने निपतिता तनुलता यस्यास्तया । अनेन सुरता-
न्तसमय उक्तः । तदुक्तम् -- "अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुखे
नार्या विरामेच्छा च जायते ॥" इति । नन्वभिसारे विघ्नबाहुल्यात्कथमेतावान्क्रियाकलापः
संभविष्यतीत्यत आह -- मधुसूदनमिति ।मधुनामानं दैत्यं सूदितवान् यस्तस्याभिसार-
विघ्ननिवारणे कियान्परिश्रम इति भावः । कीदृशं मधुसूदनम् । उदितस्तत्कालत्रुटितः
मुक्ताहारकाञ्चीगुणस्तस्य स्थानम् । पुनः सचन्दनं संजातपयोधरश्रोणीपरिसरस्य
रशनादिना मल्लज्जितस्मितराधाया अङ्गविलोकनादिना पुनराविर्भूतो मनोजः कामो यस्य
तम् । तदुक्तम् -- "अधस्तने च्युते प्रीतिरुपचारैरुपस्कृता । सविश्रम्भकथायोगैस्तै रतिं
नयते पराम् ॥" इति । अत्रोत्कण्ठिता नायिका । तदुक्तम् -- "नैवागतः समुचितेष्वपि
वासरेषु प्राणेश्वरः स्वगुरुकार्यवशेन यस्याः । दुर्वारवृत्तविरहज्वरतापिताङ्गीमुत्कण्ठितां
वदति तां भरतः कवीन्द्रः ॥" इति ॥ ८ ॥ श्रीजयदेवेति । इदं जयदेवकविना भणितं
यदुत्कण्ठिताया गोपवध्वा राधिकायाः कथितं वचनं सुखं तनोतु विस्तारयतु पठतां
शृण्वतां च । कीदृशम् । मधुरिपोः श्रीकृष्णस्य निधुवनं सुरतक्रीडां शीलयतीत्येवंरूपम् ।
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-
वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
मामुद्वीक्ष्य विलज्जितं स्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १० ॥
लयश्छन्दः ॥९॥ इदानीं मनसा भावितं परमेश्वरं दृष्ट्वा सखेदमाह -- हस्तस्रस्तेति । हे सखि, बत इति खेदे । अहं कानने वृन्दावने गोविन्दं पश्यामि व्यलीकं हृष्यामि च । किंविशिष्टं गोविन्दम् । व्रजसुन्दरीगणवृतं गोपाङ्गनासमूहयुक्तम् । पुनः किंभूतम् । स्मितसुधामधुरमाननं यस्य तम् । पुनः किंभूतम् । मामुद्वीक्ष्य मां दृष्ट्वा हस्तात्स्रस्तः पतितो विलासवंशः केलिवेणुर्यस्य । अत एव विलज्जितं विह्वलीभूतम् । पुनः किंभूतम् । अतिस्वेदेनार्द्रं गण्डस्थलं यस्य । गण्डस्थलामिति पाठे मामित्यस्य विशेषणम् । संजातसात्त्विकभावां मां दृष्ट्वा सोऽपि संजातसात्त्विकभाव इति हस्तस्रस्तेति युक्तम् । पुनः किंभूतम् । अनृजुभ्रूवल्लिमद्बल्लवीवृन्दोत्सारिदृगन्तवीक्षितम् । कुटिलभ्रूवल्लियुतानां बल्लवीनां वृन्दे उत्सारि ऊर्ध्वप्रसरणशीलं दृगन्तवीक्षितं कटाक्षेक्षणं यस्य । अथवा अनृजुभ्रूवल्लिमद्बल्लवीवृन्देन उत्सारिणा दृगन्तेन वीक्षितम् । एतावता राधां प्रति तस्य स्वभावावलोकनं दृष्ट्वान्याभिरपसृतम् । अत्र शार्दूलविक्रीडितं छन्दः । तथा दीपकमलंकारः । विप्रलम्भशृङ्गारो रसः । अत्र गोविन्दस्य व्रजसुन्दरीपरिवृतत्वेऽपि यत् आत्मौपाधिकदर्शनस्य लजिताहेतुत्वेन हर्षदर्शनकर्म अतोऽपादानमौचितीमावहति । पाञ्चाली रीतिः । लाटानुप्रासश्च । दक्षिणो नायकः । अन्यत्सर्वं समानम् ॥ १० ॥ इदानीं पुनरेव विप्रलम्भविभा
"आपोवनं निधुवनं सुरतेन समं त्रयम्" इत्यमरः ॥ ९ ॥ स्वमनोरथानाह --हस्तेति ।
हे सखि, अहं गोविन्दं कदा पश्यामि । कदाचिद्गोविन्ददर्शनं भविष्यतीत्याशङ्कायां
काकुः । अत एव हृष्यामि । तद्दर्शनजन्य आनन्दो मम कदाचिद्भविष्यतीत्यप्राप्याशंसेव ।
पश्यामि हृष्यामीति भविष्यत्सामीप्ये वर्तमानप्रयोगः । कीदृशम् । व्रजसुन्दरीगणवृतं
गोपवधूकदम्बपरिवृतम् । ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षो भविष्यतीत्यत
आह-- मामिति । मामुद्रीक्ष्य दृष्ट्वा विलज्जितम् । पुनः कीदृशम् । अन्यवधूभिः
परिवृतोऽहमनया दृष्ट इति हेतोर्विषादसूचकं यत्स्मितं तदेव शुभ्रत्वादतिस्पृहणीयत्वाच्च सुधा
तया मुग्धं मनोहरमाननं मुखं यस्य । पुनः कीदृशम् । अनृजुः कुटिला भ्रूलता
यासामेतादृश्यो या बल्लव्यो गोपवध्वस्तासां वृन्दमुत्सारयत्येवंशीलं दृगन्तवीक्षितं नेत्रान्ते-
नावलोकितं यस्य तम् । मय्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयतीत्यर्थः । पुनः
कीदृशम् । हस्तात्स्रस्तो विगलितो मद्दर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्रीडा-
वेणुर्यस्य तम् । पुनः कीदृशम् । अतिशयेन स्वेदैरार्द्रं गण्डस्थलं यस्य तम् । सर्वत्र मामु-
द्वीक्ष्येत्यस्य संबन्धः ॥ १० ॥ हे सखि, धैर्यमवलम्बस्व मिलिष्यत्येव त्वां हरिरित्याश्वासयन्तीं
दुरालोक[^१]स्तोकस्तबकनवकाशोकलतिका-
विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीर[^२]णितरमणीया न मुकुल-
प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥
वानाह -- दुरालोक इति । हे सखि, दुरालोकस्तोकस्तबकनवकाशोकलतिकाविकासः मां व्यथयति । दुःखेनालोक्यते विरहिभिरिति दुरालोकः । दुरालोकः स्तोकोऽल्पकः स्तबको गुच्छो यस्याः सा । अशोकलतिकायाः विकासः अशोकलतिकाविकासः । नव एव नवकः । प्रशंसायां कः । नवकश्चासावशोकलतिकाविकासश्च । दुरालोकस्तोकस्तबकश्चासौ नवकाशोकलतिकाविकासश्च सः । अपि च । अयं कासारोपवनपवनो व्यथयति । न केवलं सः पवनोऽपीति । "कासारः सरसी सरः" । अथवा दुरालोक इत्यादिपवनविशेषणत्वेन योजनीयम् । दुरालोकस्तोकस्तबका चासौ नवकाशोकलतिका चेति तां विकासयति स इति कर्मण्यण् । अथवा अशोकलतिकाया विकासो यस्मादिति । एतेन वायोस्त्रैविध्यमुक्तम् । अपि च न केवलं पवनः अपि तु चूतानां मुकुलप्रसूतिरपि न सुखयति । कीदृशी मुकुलप्रसूतिः । शिखरिणी साग्रा । पुनः कीदृशी । भ्राम्यद्भृङ्गीरणितरमणीया । भ्राम्यन्त्यः परितः स्फुरन्त्यो या भृङ्ग्यो भृङ्गाङ्गनास्तासां रणितेन शब्दितेन रमणीया । अत्र मधुलिडङ्गनाग्रहणं पुरुषान्तराभिलाषनिवृत्त्या औचितीमावहति । अत्र शिखरिणी वृत्तम् । समुच्चयोऽलंकारः । लाटानुप्रासः शब्दालंकारश्च । क्रियौचित्यं च । विप्रलम्भः शृङ्गारो रसः । सर्वत्र स्थितिलया गीतिः ।
दूतीमेव त्वरयितुमाह -- दुरालोकेति । हे सखि, स्तोकोऽल्पः स्तबको गुच्छो यस्या एतादृशी या नविकातिनवाऽशोकलतिकानुकम्प्याशोकशाखा तस्या विकास उद्बोधो दुरालोको दुःखेनालोकयितुं शक्यः । नविकेत्यत्र ह्रस्वः । लतिकेत्यत्रानुकम्पायां कः । मद्धस्तपालिताऽत एवानुकम्प्याऽशोकलतिका दुरालोकेति भावः । किमपरम् । कासारः सरस्त त्संबन्धि यदुपवनं तत्संबन्धी यः पवनो वायुः सोऽपि व्यथयति । दुःखं ददातीत्यर्थः । कासारपदेन वायोः शैत्यं कथितम् । उपवनसंबन्धित्वेन ससौगन्ध्यं मान्द्यं च ध्वनितम् । यतो वनवृक्षैरुपहतगतित्वेन मन्द एव वायुर्भवतीति । यद्वा । स्तोकेत्यादि वायोरेव विशेषणम् । तदा स्तोकस्तबकनवकाशोकलतिकां विकासयतीत्येवंभूतः पवनो व्यथयतीत्यन्वयः । नन्वभिमुखमागच्छन्पवनश्चलनादिना निवार्यतामित्यत आह -दुरालोक इति । अतीन्द्रिय इत्यर्थः । तथा चाकस्मादेवासौ न दृश्यत इति भावः । अपि च इयं शिखरिणि गोवर्धनगिरौ वर्तमाना चूतानामाम्राणां मुकुलप्रसूतिरपि कुड्मलोद्गमोऽपि न सुखयति । विकासदशायां तु को वेद किं करिष्यतीति कविना ध्वनितम् । प्रसूतिः शिखरिणी । प्रशस्ताग्रभागवतीत्यर्थः । शिखरिणीत्यत्र प्रशंसायामिन् । यद्वा इयं शिखरिणी मल्लिका न सुखयतीत्यर्थः । कीदृशी । भ्राम्यन्तीनां भ्रमराङ्गनानां रणितिभिर्गुञ्जितै रमणीया । शिखरिणीनामकं छन्द इत्यपि ध्वनितम् । तल्लक्षणं तु वृत्तरत्नाकरे ।
[^१.] "दुरालोकः स्तोकस्तबकनविका-" इति पाठः । [^२.] "रणितिरमणीया" इति पाठः ॥
साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजामूलोर्ध्वह[^१]स्तस्तनम् ।
गोपीनां निभृतं निरीक्ष्य ग[^२]मिताकारं चिन्तय-
नन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः ॥ १२ ॥
इति अक्लेशकेशवो नाम द्वितीयः सर्गः ॥ २ ॥
मागधी गौडीया च रीतिः ॥ ११ ॥ इदानीं सर्गान्ते कविर्भक्तजनानाशास्तेसाकूतेति ।केशवो हरिर्वो युष्माकं क्लेशं हरतु । किंलक्षणः । गमिताकाङ्क्षः गमिता नाशं नीता आकाङ्क्षाभिलाषो येन स तथा । अर्थात् गोपीषु । किं कुर्वन् । चिरं निभृतं यथा स्यात्तथा निरीक्ष्यान्तर्हृदये चिन्तयन् । किं निरीक्ष्येत्यपेक्षायामाह । साकूतस्मितं साभिप्रायमीषद्धसितम् । पुनः किम् । आकुलाकुलगलद्धम्मिल्लम् । आकुलाकुलं कामोद्रेकाद्रोमाञ्चोद्गमादिहेतुना गलद्धम्मिल्लं विगलत्केशबन्धम् । पुनः किम् । उल्लासितभ्रूवल्लीकमुत्क्षिप्तभ्रूवल्लीकम् । पुनः किम् । अलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम् । भुजायाः मूलं भुजामूलं भुजामूले ऊर्ध्वो यौ हस्तौ भुजामूलोर्ध्वहस्तौ । अलीकं दर्शितौ भुजमूलोर्ध्वहस्ताभ्यां स्तनौ यत्र कर्मणि तत् । कासामित्यपेक्षायामाह । गोपीनाम् । तच्चतुष्टयं हेतुगर्भवत्त्वेन विशिनष्टि । मुग्धमनोहरमिति ।मुग्धानां मूर्खाणां मनो हरतीति न मत्सदृशस्येति गमिताकाङ्क्षत्वे हेतुः । तदेवाग्रिमे सर्गे प्रकटयिष्यति । "राधामाधाय हृदये तत्याज व्रजसुन्दरीः" इत्यादिना । अत एव नवः सकलपुमपेक्षया चरितविशेषेण नवोऽन्यादृश इव । "सुभाषितेन गीतेन युवतीनां च लीलया । चेतो न भिद्यते यस्य स वै मुक्तोऽथ वा पशुः ॥" इति वचनात् । अथवा नूयते स्तूयत इति नवः । अथवा नवस्तरुणः । तरुणं दृष्ट्वा कामिनीनां कामचेष्टा जायत एव । अथवा तस्मिन्पक्षे गोपीनां निभृतं भावं निरीक्ष्येति व्याख्येयम् । तदा साकूतस्मितेत्यादि चतुर्णामपि पदानां भावविशेषणपक्षे निक्षेपः । मुग्धमनोहरमिति क्रियाविशेषणम् । अत्र विदग्धो नायकः । समुच्चयाशिषावलंकृती । शार्दूलविक्रीडितं वृत्तम् । परिकरोऽलंकारश्च । अत्र यत्सकलकामिनीकामपूरकस्य कामजनकस्य विलासवतीविलासादिभिरगृह्यस्य यन्नवत्वविशेषणेनान्यादृशत्वमुपपादितं तद्विचार्य
"स्तोकोऽल्पे चातके" इति विश्वः । "स्याद्गुच्छकस्तु स्तबकः" इत्यमरः । "लता ज्योतिष्मतीवृक्ष-
शाखावलिप्रियङ्गुषु" इति विश्वः । "कासारः सरसी सरः" इत्यमरः । "स्त्रीरत्नं मल्लिकायां च
प्रोक्ता शिखरिणी बुधैः" इति विश्वः ॥ ११ ॥
[^१.] "मूलार्धदृष्ट" इति पाठः । [^२.] "दयिताकाङ्क्षः" इति पाठः । [^३.] अस्य पद्यस्य व्याख्या
रसमञ्जरीटीकापुस्तके गलितास्ति ।
माणमौचित्यचारुतामाचरति । यदाहुः -- "विशेषणैः समुचितैर्विशेष्यार्थः प्रकाश्यते ।
गुणाधिकैर्गुणोदारः सुहृद्भिरिव सज्जनः ॥" इति ॥ १२ ॥
शृङ्गारोत्तरसत्प्रमेयभणितावुद्गीतगोविन्दके
प्रत्यर्थिप्रभुगर्वपर्वतसुपर्वाधीशशोभाभृता ।
श्रीपुम्माणनरेशवंशविशदक्ष्माभृद्वतंसायित-
श्रीमत्कुम्भधराधिपेन विवृतः सर्गे द्वितीयेऽन्वयः ॥
तथा च सङ्गीतराजे --
"गीतौ भैरवरागेण ताले वर्णयतौ यथा ।
आभोगान्तस्थितैः पाटैः स्वरैः पद्याञ्चितस्ततः ॥
अक्लेशकेशवादिश्च कुञ्जरस्तिलकाभिधः ॥"
इति अक्लेशकेशवकुञ्जरतिलकनामा षष्ठः प्रबन्धः ॥ ६ ॥
इति श्रीराजाधिराजहम्मीरवीरवंशकरीरेण श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते
गीतगोविन्दविवरणे अक्लेशकेशवनामा द्वितीयः सर्गः ॥ २ ॥
काव्यं गीत्यनुसारि दुर्लभमथ स्फीतं प्रसादादिभिर्लक्ष्मीकान्तविलासवर्णनरसस्तत्रापि लोकोत्तरः । सर्वं चैतदभूदरण्यरुदितं पद्मावतीवल्लभस्यैतां चेद्रसमञ्जरीं न रचयेच्छ्रीशालिनाथप्रभुः ॥ इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जर्याख्यायां द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ।
मुग्धमधुसूदनः ।
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १ ॥
इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणव्रणखिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनीतटान्तकुञ्जे विष[^१]साद माधवः ॥ २॥
गेयानुगुणैरधिकैरधिगतं तनुते धातुं बुधसंमतम् । नत्वा विधिमिह सुरवरनतं कुम्भनरेशोऽलंकृतियुतम् ॥ इदानीं राधायाः कृष्णेऽनुरागं निरूप्य कृष्णस्यापि राधायामनुरागं दर्शयन्नाह गौडकृतिरागेण -- कंसारिरिति । कंसारिरपि व्रजसुन्दरीस्तत्याज । न केवलं राधैव कृष्णसक्ता बभूव किंतु कृष्णोऽपि राधासक्तो बभूवेत्यपिशब्दार्थः । किं कृत्वा । राधां हृदये आधायारोप्य । किंभूतां राधाम् । संसारवासनाबन्धे शृङ्खलेव शृङ्खला । अत्र "तक्कजोर्ज" इति पथ्या छन्दः ॥ १ ॥ इदानीं कृष्णस्य विरहावस्थाचेष्टितमाह -- इतस्तत इति ।स माधवोऽनङ्गबाणव्रणखिन्नमानसः सन् विषसाद विषादं चकार । किं कृत्वा । कलिन्दनन्दिनीतटान्तकुञ्जे इतस्ततस्तां राधामनुसृत्यान्विष्य । किंविशिष्टः । कृतानुतापः पूर्वमेव मया कथं नानुनीतेति कृतपश्चात्तापः । अत्र कुजेष्विति वक्तव्ये बहुष्वपि परिभ्रमन् तदार्तिवशादेकमेवाज्ञासीदित्येकवचनम् ।
राधायाः कृष्णविषयिणीमुत्कण्ठामुक्त्वा संप्रति कृष्णस्यापि तस्यामुत्कण्ठामाह -- कंसारिरिति ।कृष्णोऽपि व्रजसुन्दरीस्तापात्तत्याज । त्यागे हेतुगर्भविशेषणमाह -- राधामिति । राधां हृदय आधायारोप्य । सुन्दरीपदेन बहुवचनेन सौन्दर्यवतीरपि तत्याजेति कथनेन कृष्णस्य राधायामनुरागातिशयो ध्वनितः । कीदृशीं राधाम् । संसारविषयिणी वासना संस्कारस्तस्य बन्धनेन शृङ्खलामिव । अनेनाभिलाषाख्या प्रथमावस्था । एतल्लक्षणं च दशरूपके -- "अभिलाषः स्पृहा तत्र कामे सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसम् ॥" इति "शृङ्खला पुंस्करे वस्त्रबन्धेऽपि निगडेऽपि च" इति विश्वः ॥ १ ॥ इतस्तत इति ।स माधवः कलिन्दनन्दिन्या यमुनायास्तटान्तकुञ्जे तीरप्रान्तलतापिहितोदरगृहे निषसाद न्यवसत् । अत्र माधवपदेन मा लक्ष्मीस्तस्या अपि धवः स्वामी यद्विरहव्याकुलो बभूवेति राधायाः सौभाग्याधिक्यं ध्वनितम् । किं कृत्वा । इतस्ततस्तेषु स्थानेषु तां हृदयनिहितामनुसृत्यानुलक्ष्य । कीदृशः । अनङ्गस्य कामबाणस्य यद्व्रणं क्षतं तेन खिन्नं दुःखितं मानसं यस्य । पुनः कीदृशः । कृतानुतापः कृतः किमिति मया तस्या अद्यावधीरणं कृतमिति पश्चात्तापो येन सः । अनङ्गबाणेत्यत्रानङ्गपदेनाङ्गरहितस्यात एवालक्षितगतागतस्य कामस्याशेषदुष्टदमनेनापि कृष्णेन निवारणं कर्तुं न शक्यमिति ध्वनितम् ।
[^१.] "निषसाद" इति पाठः ।
गुर्जरीरागयतितालाभ्यां गीयते ॥ प्र० ॥ ७ ॥
मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि न वारिताऽतिभयेन ।
हरिहरि हतादरतया गता सा कुपितेव ॥ ध्रुवम् ॥ ३ ॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं म[^१]म जीवितेन गृहेण ॥ हरिहरि० ॥ ४ ॥
वंशस्थवृत्तम् ॥ २ ॥ उक्तमर्थं गीतेन स्पष्टयति । तत्र पूर्वं ध्रुवपदम् । हरीति । हरिहरीति खेदे । सा राधा कुपितेव गता । कया हृतादरतया । हतो विनाशित आदरो बहुमानस्तस्य भावस्तया । इति ध्रुवः । अथ पदानि । मामियमिति ।मां वधूनिचयेन वृतं विलोक्य गतेति ध्रुवपदेनैकवाक्यत्वात्संबन्धः । किंभूता । तादृशी मया चलितापि सापराधतया न वारिता न निषिद्धा । इह साकूतम् । तस्या गमने हेतुं जानन्नपि सापराधोऽस्मि । कथमेतस्या अग्रे मयातिभयेन वक्तुं पार्यत इति बुद्ध्या । अतिशयितं भयं यस्येति मयेत्यस्य विशेषणम् । करणे तृतीया । अतिक्रान्तं भयमिति वधूनिचयविशेषणं वा । अथवा मामेवं विलोक्य सा चलितापि मया न वारिता । हरिहरि गतेति विषादाभिनयेन योज्यम् ॥ ३ ॥ किमिति ।इदानीं मदपराधे मन्निमित्तमेव सा विषादं भुङ्क्त इति आत्मसमत्वेन तामपि गणयन्नाह -सा किं करिष्यतीति ।मयि मिलिते कोपेर्ष्यादिकं कथं विधास्यतीत्यर्धोक्त्या । तदनु कृतापराधं मां चरणपतितं दृष्ट्वा किं वदिष्यतीत्यपि चार्धोक्त्या । अहमुत्तरं दास्यामीत्याह । किं जनेनेति । गोपीजनेन । किं धनेनेति । धनमप्यकिंचित्करं
अवश्य इति चिन्ता भवेद्यथेति तेन श्लोकेन चिन्ताख्या द्वितीयावस्था ध्वनिता । तदुक्तं शृङ्गारतिलके -- "स्वयं संपद्यतः प्राप्य किं कुपात्रस्य सिद्धये । कथं भवेदसौ वश्य इति चिन्ता भवेद्यथा ॥" इति ॥ २ ॥ कृतानुतापमेव गीतेन कथयति -- मामियमिति । गीतस्यास्य गुर्जरी रागः । प्रतिमठतालः । गीतार्थस्तु -- हरिहरि कष्टम् । सा राधा हतादरतया कुपितेव गता । ननु सा कुपिता गतेति त्वया कथं ज्ञातमित्यत आह -- मामियमिति । मां वधूनिचयेन गोपवधूसमूहेन वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता । विलोक्येत्यव्यवहितपूर्वकाले क्त्वा । तेन गोपवधूवेष्टितं मां दृष्ट्वाऽव्यवहितकाल एव यतश्चलिता ततो ज्ञायते कुपितेवेति भावः । ननु मा गच्छेति त्वया किमिति न निवारितेत्यत आह -सापराधतयेति ।मयातिभयेनातिशयितभीत्या सा न निवारिता । भयहेतुमाह -- सापराधेति ।अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तद्युक्ततया ॥ ३ ॥ किं करिष्यतीति ।सा चिरं विरहेण चिरकालीनमद्वियोगेन किं करिष्यति । विरहतापस्यात्यर्थं कमुपायं करिष्यतीत्यर्थः । अथ च किं वदिष्यति । किं मम सद्गुणं वदिष्यति दोषान्वा वदिष्यतीत्यर्थः । यद्वा । काकुस्वरे किं वदिष्यति । मया सह ( न ) कदाचिद्वार्तां कथयिष्यतीत्यर्थः ।
[^१.] "मम किं गृहेण सुखेन" इति पाठः ।
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ हरिहरि० ॥ ५ ॥
तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ हरिहरि० ॥ ६ ॥
कृत्वा जीवितं निन्दति । जीवितफलं किम् । सुखमपि नान्यदिति वाक्यशेषः । किंविशिष्टा सा । विरहेण उपलक्षिता । अथवा मम विरहेणाक्रान्ता सा किं वदिष्यतीत्यादि । ममापि तां विना किं धनादिनेति योजनीयम् ॥ ४ ॥ चिन्तयामीति । अहं तदाननं चिन्तयामि । किंभूतमाननम् । कोपभरेणार्थान्मयि कुटिलभ्रु । कुटिले कुञ्चिते भ्रुवौ यत्र । किमिव शोणपद्ममिव उपरिभ्रमता भ्रमरेणाकुलम् । अत्र कोपारक्तमुखं पद्मेनोपमीयते । भ्रमरेण कुटिले कोपावेशपरिस्फुरमाणे भ्रुवाविति । अत्र वाक्यार्थोपमालंकारः । तथा च -- "तदाननमधीराक्षमाविद्धं शतदीधिति । भ्रमद्भृङ्गमिवालक्ष्य केसरं भाति पङ्कजम् ॥" इति ॥ ५ ॥ तामहमिति । अहं अनिशमनवरतं हृदि संगतां हृदये मिलितां तां भृशमत्यर्थं रमयामि । इत्युक्त्वा पुनः प्रबुद्ध्याह । इष्टशून्यप्रदेशे वृथा किं विलपामि तां वनेऽनुस
तया विना मम धनेन किम् । न किंचित्प्रयोजनमित्यर्थः । ननु धनं विना परिजनसंग्रहः
कथं स्यादित्यत आह । तया विना मम जनेनाश्रितेन परिजनेन किम् । न किमपि
प्रयोजनम् । ननु परिजनं विना गोधनरक्षा कथं भविष्यतीत्यत आह । तया विना मम
गोधनेन किम् । न किमपि प्रयोजनम् । ननु धनं विना परिजनादृते च गृहरक्षापि न
स्यादित्यत आह । तया विना मम गृहेणापि किम् । अपि तु प्रयोजनं नास्तीत्यर्थः । ननु
गृहं विना सांसारिका भोगाः कथं सेत्स्यन्तीत्यत आह । तया विना मम सुखेनापि किम् ।
स्रक्चन्दनवनितादिजन्येनापि सुखेन किं प्रयोजनमित्यर्थः । इयं च स्मृत्याख्या तृतीया-
वस्था । तदुक्तं रसार्णवसुधाकरे -- "अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सातत्येन
परामर्शो मानसः स्यादनुस्मृतिः ॥ अत्रानुभावविश्वासाद्धीनं कृत्वा विहस्तता । राज्यास-
नादिविद्वेषश्चेत्याद्याः स्मरकल्पिताः ॥" इति ॥ ४ ॥ चिन्तयामीति ।अहं तदाननं
चिन्तयामि स्मरामि । कीदृशम् । रोषभरेण कोपातिशयेन कुटिलभ्रु कुटिला वक्रा भ्रूर्यत्र
तादृशम् । किमिव । उपरि भ्रमता भ्रमरेणाकुलं व्याप्तं शोणपद्ममिव । अत्र रोषारुणे मुखे
शोणपद्मसादृश्यं बोध्यम् । वारंवारं वक्रीभवन्त्योर्भ्रुवोश्च भ्रमद्भ्रमरोपमा बोध्या । अनेन
गुणकीर्तनाख्या चतुर्थावस्था । तदुक्तम् -- "अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षणैः । न तस्य
सदृशः कश्चिदित्यादि गुणकीर्तनम् ॥" इति । "शोणः कोकनदच्छविः" इत्यमरः ॥ ५ ॥
तामहमिति ।तामनुसरामि तस्या अनुसरणं करोमि । इह वृथा किं विलपामि
किमिति वृथा विलापं करोमि । हृदि संगतां हृदये संनिहितामनिशं निरन्तरं भृशमति-
शयेन तां रमयामि क्रीडयामि । यद्वा किंशब्दः प्रश्ने । अहं तां हृदि संगतामनिशं
तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि नतेन तेऽनुनयामि ॥ हरिहरि० ॥ ७ ॥
दृश्यसे पुरतो गतागतमेव मे विदधासि ।
किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ हरिहरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ हरिहरि० ॥ ९ ॥
रामि ॥ ६ ॥ तन्वीति ।हे तन्वि, तव हृदयंहृदयम्असूयया खिन्नं खेदयुक्तं भविष्यतीत्याकलयामि । तत्तस्मादहं कुतो गतासीति न वेद्मि । अपि तु असूयात एव गतासीति वेद्मि । अतो हेतोर्दर्शनाभावात् । ते तव संबन्धिना नतेन नमस्कारेणानुनयामि । अथवा तवहृदयंहृदयम्असूयया खिन्नम् । तेन कारणेन ते तव हृदयं नानु नयामि । "प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः" इति न्यायापातादिति भावः । अथवा तत्कुतो न वेद्मि । अपि तु वेद्मि । अथवा त्वं गतासि यातासि । तव हृदयं नते नमस्कृतौ न अनुनयामि ॥ ७ ॥ दृश्यस इति ।हे तन्वि, मे पुरतो गतागतमेव विदधासि यातायातमेव करोषीति दृश्यते । अपरं पुरेव ससंभ्रमं यथा स्यात्तथा परिरम्भणं न ददासि । विरहिणो हि चित्तानुषङ्गात्सर्वतस्तामेव पश्यन्ति । तथा चोक्तम् -- "प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः" ॥ ८ ॥ क्षम्यतामिति ।हे तन्वि, भवतु यत्किंचिन्मया अपराद्धं क्षम्यतां तत् । ईदृशमपरमप्रियं तव कदापि न करिष्यामि । हे सुन्दरि, मम दर्शनं देहि । त्वद्विनाहं मन्मथेन
रमयामि किं वा वने तामनुसरामि । वृथा विलपामीत्यर्थः ॥ ६ ॥ तन्वीति ।हे तन्वि,
तव हृदयंहृदयम्असूयया मयि दोषाविष्कारेण खिन्नं खेदयुक्तमाकलयामि पश्यामि । इयं चोद्वे-
गावस्था । तदुक्तं शृङ्गारतिलके -- "यस्मिन्रम्यमरम्यं च स्यात्प्रकर्षाय किंचन । विद्वेषः प्राणि-
तव्येऽपि स उद्वेगः स्मृतो यथा ॥" इति । तन्न वेद्मीति । कुतो गतासि तदहं न वेद्मि । ते
तव नतेन प्रणत्यानुनयामि त्वामित्यर्थः । क्वचित्तु नुतेनेति पाठस्तदा ते तव नुतेन स्तुत्या-
नुनयामि त्वामित्यर्थः । यद्वा । नु इति वितर्के । ते मिलनेव्ययम् ( ? )। तथा च यं मार्गं
लक्षीकृत्य गतासि तं मार्गं लक्षीकृत्य गत्वा तेऽनुनयामि तवानुनयं करोमि । ते इति संब-
न्धमात्रविवक्षायां षष्ठी । अनेन विलापावस्था कथिता । तदुक्तं शृङ्गारतिलके -- "बम्भ्रमीति
मनो यस्मिन्नत्यौत्सुक्यायितं ततः । वाचः प्रियाश्रया एव स प्रलापः स्मृतो यथा ॥" इति
॥ ७ ॥ इदानीं भावनया प्रत्यक्षीकृतां प्राह - दृश्यस इति । हे सुन्दरि, पुरेव पूर्वमिव
ससंभ्रमं सादरं परिरम्भणमालिङ्गनं किमिति न ददासि । पुरतोऽग्रे गतागतं याता-
यातं विदधासि ॥ ८ ॥ क्षम्यतामिति । हे सुन्दरि, क्षम्यतां ममापराधं क्षमस्व । कदापि
तवेदृशं विप्रियं न करिष्यामि । इयं चोन्मादावस्था । तदुक्तं रसार्णवसुधाकरे --
वर्णितं जयदेवकेन हरेरिदं प्रवणेन[^१] ।
किन्दु[^२]बिल्वसमुद्रसंभवरोहिणीरमणेन ॥ हरिहरिं० ॥ १० ॥
हृदि बिसलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ ११ ॥
दुनोमि । इतस्ततस्तामित्यादौ धीरललितो नायकः । परस्परानुरागजनितो विप्रलम्भशृङ्गारः ॥ ९ ॥ वर्णितमिति ।इदं पूर्वोक्तं जयदेवेन वर्णितम् । किंभूतेन । हरेः प्रवणेन हरिपरायणेन । पुनः किंभूतेन । ति ( कि )न्दुबिल्वं तच्छासनं निवासो वा ग्रामः समुद्र इव तत्संभवरोहिणीरमणेनेव चन्द्रेणेव ॥ १० ॥ इदानीं स्मरशराहतिजर्जरचेता भ्रान्तः सन् काममपि भ्रान्तं विदन्नाह -- हृदीति ।हे अनङ्ग, हरभ्रान्त्या प्रियारहिते मयि न प्रहर प्रहारं मा कार्षीः । एभिश्चिह्नैर्हरोऽयमिति चेत्तदप्यन्यथयति । हृदये भुजंगमनायको न अपि तु बिसलताहारः । बिसलताहार इति रूपकालंकारः । शुभ्रत्वात् हृद्यवस्थानाच्च मृणाले वासुकिभ्रमः । अपि च । कण्ठे इयं कुवलयदलश्रेणी । न प्रसिद्धा गरलद्युतिः । इयमपि विरहातुरस्य मम गरलद्युतिरिव विद्यते । परं यद्भ्रान्त्या मयि प्रहरसि सा प्रसिद्धा ईश्वरसंबन्धिनी न । इदं मलयजरजोऽङ्गतापाच्छुकं चन्दनं विद्यते न भस्म । किमु इति वितर्के । सत्यम् क्रुधा कोपेन धावसि । लोकोक्तिः । हरिणीवृत्तम् । "प्रकृतं यन्निषिध्यान्यत्सा
"अतस्मिंस्तदिति भ्रान्तिरुन्मादादेव जायते" इति । पुनः किंचित्संजातविवेकः कथयति । हे सुन्दरि, मम दर्शनं देहि । मन्मथेन कामेनाहं दुनोमि तप्तो भवामि ॥ ९ ॥ वर्णितमिति । जयदेवकेन हरेश्चरितं वर्णितम् । कीदृशेन । प्रणतेन । अर्थाद्धरिमित्यर्थः । कीदृशेन । किन्दुबिल्वो जयदेवकुलवृत्तिग्रामः स एव महत्त्वात्समुद्र इव तत्र संभवो यस्य तादृशेन रोहिणीरमणेन पूर्णचन्द्रेण । तस्योन्नतिर्यथा क्रियते तथा तत्कुलस्योन्नतिर्जयदेवेन कृतेति चन्द्रसादृश्यम् । "ग्लौरिन्दुरेणतिलको हरिरोहिणीशौ" इति हारावली ॥ १० ॥ इदानीं काम एव मे दुःखं प्रयच्छतीति तमेवोपालम्भनेनाह --हृदीति ।हेऽनङ्ग कन्दर्प, मयि न प्रहर प्रहारं मा कुरु । किम्विति वितर्के । मयि हरभ्रान्त्या महादेवभ्रमात्क्रुधा क्रोधेन त्वं धावसि इति किमु तर्कयामि । यद्वा उ इति संबोधने । हेऽनङ्ग, हरभ्रान्त्या मयि किमिति धावसि । कीदृशे मयि । प्रियारहिते । तथा च तद्विश्लेषादेवाहं संतप्तस्त्वं मृतकरूपस्य मम मारणं किमिति करोषीति भावः । यद्वा हरः सर्वदाप्रियायुक्तोऽहं त्वधुना प्रियाविरहित इति मयि हरभ्रमो न युक्त इति भावः । हरेण त्वच्छरीरं दग्धमतः कामस्य महद्वैरसूचनायानङ्गपदेन संबोधने भ्रमबीजं निरस्यति । अयं बिसलताहारो मृणाललताहारस्तद्विरहजन्यसंतापशान्त्यर्थं धृतः न तु भुजंगमनायकः ।
[^१.] "प्रणतेन" इति पाठः । [^२.] "तिन्दुबिल्व" "केन्दुबिल्व" इति पाठौ ।
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रीडानिर्जितविश्व मूर्च्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशु[^१]ग-
श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ १२ ॥
ध्यतेऽसावपह्नुतिः" इत्यपह्नुतिरलंकारः । विप्रलम्भशृङ्गारो रसः ॥ ११ ॥ इदानीं स्मरमुपालभते -- पाणाविति ।हे क्रीडानिर्जितविश्व काम, पाणौ अमुं चूतसायकं मा कुरु । चापमपि मा रोपय मा सज्जं कुरु । यतः क्रीडयैव निर्जितविश्वस्य केयं सामग्री नाम । अथ चेत्सामग्री तर्हि कस्योपरीत्याह । मूर्च्छितजनाघातेन किं पौरुषं कोऽयं पराक्रमः । अथवा कुत्सितं पौरुषं किंपौरुषम् । तर्हि किं क्रियतामित्याह । यदर्थं मां प्रहिणोषि तस्या एव मृगीदृशो मनोऽद्यापि मनागपि न संधुक्षते । अपि तु संधुक्षतां नाम । किं विशिष्टं मनः । प्रेङ्खत्कटाक्षानलज्वालाजर्जरितम् । प्रेङ्खन्तो वल्गन्तो ये कटाक्षा अर्थात्सपत्नीनां त एव अनलोऽग्निस्तस्य ज्वालास्ताभिर्जर्जरितम् । अथवा हे मनसिज, तस्या एव मृगीदृशः प्रेङ्खत्कटाक्षानलज्वालाजर्जरितं मनः । अर्थान्ममैवाद्यापि न दीप्यते । अतो मृतमारणं कथं युक्तम् । शार्दूलविक्रीडितं छन्दः । आक्षे
सर्पराजो वासुकिः । इयं कण्ठे कुवलयदलानां नीलोत्पलपत्राणां श्रेणिः पङ्क्तिः शैत्याद्धृता न तु सा गरलद्युतिर्विषकान्तिः । इदं सर्वाङ्गे तापशान्त्यर्थं धृतं मलयजरसश्चन्दनधूलिर्न तु भस्म विभूति: । अङ्गे लिप्तः प्रशिथिलचन्दनोऽपि विरहतापवशाद्धूलीभूत इति रजःपदेन सूचितम् । तथा च बिसलतायां शैत्यदीर्घत्वादिदर्शनाद्वा वासुकिभ्रमात्, नीलोत्पलदलपङ्क्तौ श्यामत्वादिदर्शनादुरगभ्रमात्, चन्दनरजसि भस्मभ्रमाच्च मयि महादेवभ्रमस्तव युक्तो नेति भावः । अयं च भ्रान्तिमानलंकारः "सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्" इति तल्लक्षणम् । "वितर्के किं किमूत च" इत्यमरः । "किं संबुद्धावुपोक्तौ ? च" इति विश्वः ॥ ११ ॥ कुसुमायुधत्वेन प्रसिद्धो यः कामः स इमानेव चूतमञ्जरीरूपान्बाणान्धनुष्यारोप्य मां ताडयिष्यतीति शङ्कया पुनरपि दैन्यं करोति -- पाणाविति ।हे मनसिज मदन, अमुं पुरःस्थितं चूतसायकमात्रपुष्परूपं बाणं पाणौ हस्ते मा कुरु । चापं धनुर्मा रोपय मौर्वीयुक्तं मा कुरु । यद्वा चूतसायकं हस्ते मा कुरु । हस्ते चेत्करोषि तदामुं सायकं चापे मारोपय । मा संधेहीत्यर्थः । अत्र मनसिजपदेन मन्मनसा जातस्य ते मत्संतापकारित्वमनुचितमिति ध्वनितम् । हे क्रीडानिर्जितविश्व क्रीडया लीलया निर्जितं विश्वं जगद्येन तादृश, मूच्छितस्य मूर्च्छां प्राप्तस्य मादृशजनस्याघातेन प्रहारेण तव किं पौरुषम् । अपि तु न किमपीत्यर्थः । यद्वा क्षेपे किंशब्दः । मूर्च्छितजनाघातेन तव किं पौरुषम् । कुत्सितं पौरुषमित्यर्थः । मूर्च्छितत्वे हेतुमाह -- तस्या एवेति ।तस्या एव मृगीदृशो हरिणीदृशः प्रेङ्खन्तः प्रसर्पन्तो ये कटाक्षास्त एवाशुगा बाणास्तेषां श्रेणिभिः पङ्क्तिभिर्जर्जरितं खण्डितं मनो मनागपि न संधुक्षते न स्वस्थं भवति । तथा च तत्कटाक्षरूपबाणैस्त्वयाहं मूर्च्छितः कृतः संप्रति मयि चूतमञ्जरीरूपसायकप्रहारं मा कुरु । मृतमारणं माचरेति भावः । येन लीलयैव विश्वमपि जितं तस्य ते मूर्च्छितजनेषु प्रहारो यशोहानिकर
[^१.] "अनल" इति पाठः ।
भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि
बाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवताया-
मस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
षोऽलंकारः । अत्र मनसिजशरा मनो विध्यन्ति इति कर्मत्वे विवक्षिते यत्कर्तृत्वमुपन्यस्तं तदौचित्यचमत्कारितामाविष्करोति । यथा "सान्वयं शोभते वाक्यमुचितैरेव कारकैः । कुलाभरणमैश्वर्यमौदार्यं चरितैरिव" इति ॥ १२ ॥ इदानीं राधायामेव स्मरशरावलित्वमारोपयन्नाह -- भ्रूपल्लवमिति ।स्मरेण तस्यां इति अस्त्राण्यर्पितानि । किंभूतानि । निर्जितजगन्ति । निर्जितानि जगन्ति यैस्तानि । किंभूतायां तस्याम् । अनङ्गजयजङ्गमदेवतायाम् । अनङ्गस्य जयाय जङ्गमदेवतेव तस्याम् । इतीति किम् । भ्रूपलवं धनुः । अपाङ्गतरङ्गितानि कटाक्षा बाणाः । अपाङ्गतरङ्गितशब्देन कटाक्ष उच्यते । तथा चोक्तम् -- "यद्गतागतविश्रान्तिवैचित्र्येण निवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥" इति । श्रवणपालिः गुण इति । अत्रास्त्रशब्देनास्त्रविद्यासाधनस्थोपकरणान्युच्यन्ते । भ्रूपलवं धनुरित्यत्र रूपकोत्प्रेक्षे अलंकृती ॥ यथा -- "मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी नवा । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥" अत्र क्वापि क्वाप्यलंकारद्वयत्रयसद्भावेऽपि संसृष्टिसंकरनिरूपणम्संसृष्टिसङ्करनिरूपणं ग्रन्थविस्तरत्रस्तचि
इति ध्वनितम् । "सायकः शरखड्गयोः" इति विश्वः । "अथास्त्रियाम् । धनुश्चापौ" इत्यमरः ।
किंपौरुषमित्यत्र द्वितीयव्याख्यानपक्षे "किमः क्षेपे" इत्यनेन निन्दायां समासः । "आशुगो
मारुते बाणे" इत्यमरः ॥ १२ ॥ ननु तनुकटाक्षादिस्मरणादेस्तवैवं दुःखं भवति कामस्य तत्र
कोऽपराध इत्यत आह -- भ्रूपल्लवमिति ।किमित्याक्षेपे । तस्यां राधायां स्मरेण कामेना-
स्त्राण्यर्पितानीति तर्कयामि । नन्वस्त्राणि वीरेण हस्ते स्थापयितुमर्पितानि न त्वन्यत्रेत्यत
आह -- निर्जितानि जगन्ति यैस्तानि । तथा च तैरेवास्त्रैर्जगत्त्रयं जित्वा तत्र स्थापितानीति
भावः । तर्ह्यन्यत्र किमिति न स्थापितानीत्यत आह -- अनङ्गेति ।अनङ्गस्य कामस्य जङ्गम-
देवतायां गमनशीलदेवतायाम् । तथा च त्वयैव त्रैलोक्यजयायास्त्राणि दत्तानि । अतो जात-
प्रयोजनानि तत्रैव स्थापितानीति भावः । देवतया यदस्त्रं दीयते तत्केनापि प्रतिहन्तुं न
शक्यत इत्यपि ध्वनितम् । कानि तान्यस्त्राणीत्यत आह -- भ्रूपल्लवमिति । भ्रूपलवं तदेव
धनुः, अपाङ्गतरङ्गितानि कटाक्षस्य गतागतानि बाणाः, श्रवणपालिः कर्णलताप्रान्ता एव
गुणो मौर्वी । नीलस्निग्धत्वाद्भ्रुवः पल्लवत्वेन निरूपणम् । वक्रत्वाच्च धनुस्त्वेन निरूपणम् ।
अपाङ्गस्यात्यन्तभेदकत्वाद्बाणत्वेन निरूपणम् । श्रवणपाल्याश्च दीर्घत्वान्मौर्वीत्वेन निरूपणम् ।
"अपाङ्गोऽप्यङ्गहीने स्यान्नेत्रान्ते नीलकेऽपि च" इति विश्वः । "पालि: कर्णलताग्रे
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्
सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमास्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।
त्ततया न क्रियते । तद्गतिस्तु पूर्वपदे दर्शितप्रायेति ॥ १३ ॥ इदानीं ध्यानमिलितां राधां संभावयन्नाह -- भ्रूचाप इति ।हे तन्वि, भ्रूचापे निहित आरोपितः कटाक्ष एव विशिखो बाणो मर्मव्यथां निर्मातु । यतश्चापारोपितबाणस्य मर्मवेधो युक्त एव । अपि च । कबरीभारोऽपि मारोद्यमं मारायोद्यमं करोतु नाम । यतः श्यामात्मा कुटिलश्च । श्यामात्मनामन्तर्मलिनचित्तानां च मारणं स्वभाव एव । अपि च अयं रागवान्बिम्बाधरो मोहं तनुताम् । अस्याप्येवंविधस्य मोहविधाने औचिती । परं तु तव सद्वृत्तः स्तनमण्डलः स मम प्राणैः कथं क्रीडति । इयमस्यानौचिती । यतः सदाचारवतां परप्राणविशसनं न क्वापि दृष्टमिति भावः । अत्र विरोधालंकारः । शार्दूलविक्रीडितं छन्दः ॥१४॥ इदानीं वक्रोक्त्या स्वगतत्वेन विरहवामतां वदति -तानीति ।हन्त इति खेदे । विषयासङ्गेऽपि मानसं चेत्तस्यां लग्नसमाधि तर्हि
स्यात्सक्तावंसप्रभेदयोः" इति विश्वः ॥ १३ ॥ संप्रति राधाङ्गविलसितान्येव स्मरणरू-
पाणि मां पीडयन्तीति तस्या एवोपालम्भनं करोमीत्याशयेन काममुपेक्ष्य तां च स्थिता-
मिव ज्ञात्वा राधां संबोध्याह -- भ्रूचाप इति ।भ्रूचापे भ्रूरूपे धनुषि निहितोऽर्पितो यः
कटाक्षविशिखः कटाक्षबाणो मर्मव्यथां मर्मपीडां निर्मातु करोतु धनुष्यारोपितस्य
बाणस्य परमर्मपीडनमेव धर्म इति तदुचितमेव । अथ च तव कुटिलो वक्रः श्याम
आत्मा स्वरूपं च यस्यैतादृशः कबरीभारोऽपि ग्रथितवेणी केशसंचयोऽपि मारोद्यमं
मारणायोद्योगं पराक्रमं करोतु । यद्वा मारस्य कामस्योद्यमं करोतु । योऽन्तर्मलिनः
कुटिलश्च भवति सोऽन्यमारणाय यतत इत्यपि नानुचितम् । अथ च हे तन्वि, अयं बिम्बा-
धरो बिम्बफलतुल्योऽधरो मोहं मूर्च्छां तनुतां तनोतु । कीदृशः । रागवान्रक्ततावि-
शिष्टः । इदमपि नानुचितम् । यतो यो रागवान्मात्सर्ययुक्तः स परमोहं करोत्येव ।
अयं तव सुवृत्तो वर्तुलः स्तनमण्डलः कुचविस्तारो मम प्राणैः कथं किमिति क्रीडति
प्राणग्रहणरूपां क्रीडां किमिति करोति । सद्वृत्तस्य सच्चरितस्य परप्राणग्राहित्वमनुचितमिति
भावः । विरोधनामायमलंकारः । सद्वृत्तत्वरूपगुणस्य परप्राणग्रहणक्रियया विरोधकथ-
नात् । तदुक्तं काव्यप्रकाशे -- "विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः" इति ।
"विशिखस्तोमरे शरे" इति विश्वः । "श्यामो निन्दितकृष्णयोः" इति धरणिः । "आत्मा देहे
मनोब्रह्मस्वभावधृतिबुद्धिषु" इति विश्वः । "बिम्बं फले बिम्बिकायाः प्रतिबिम्बेऽर्कमण्डले"
इति च । "रागोऽनुरक्तमात्सर्ये" इति च । "वृत्ते तु वर्तुलं वृत्तम्" इति शाश्वतः । "कबरी
केशवेशः" इत्यमरः । "मारो मृतौ विषेऽनङ्गे" इति विश्वः ॥ १४ ॥ ननु तस्यापि नाप-
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ १५ ॥
तिर्य[^१]क्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चर[^२]द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः ।
विरहव्याधिः कथं वर्धते । समाधौ व्याधेरनुद्भवात् । प्रियासङ्गे विरहानुपपत्तेश्च । इतीति किम् । तानि स्पर्शसुखानि सन्ति । अप्रत्यक्षायामपि तस्यां ध्यानवशादनुभूयमानानीव । एवं सर्वत्र । अपि च तरलाश्चञ्चलाः स्निग्धाः प्रेमार्दा दृशोर्विभ्रमा विलासास्त एव । वक्त्राम्बुजसौरभं तदेव । अपि च सुधास्यन्द्यमृतस्रावी गिरां वक्त्रिमा वैदग्ध्यविशेषः स एव । अपि च बिम्बाधरमाधुरी बिम्बाधरसौकुमार्यं तदेव । यत्पूर्वानुभूतं तदेवेति विषयलाभेऽपि विरहो वर्धत इति तस्य वामता । शार्दूलविक्रीडितं छन्दः । समुच्चयोऽलंकारः । रसादि प्रसिद्धम् ॥ १५ ॥ इदानीं सर्वार्थसंवरणव्याजेनाशिषमाशास्ते -- तिर्यक्कण्ठेति ।मधुसूदनस्य कटाक्षोर्मयो वो युष्मभ्यं क्षेमं ददतु । ऊर्मयो वेगा लेखा वा । कटाक्षाणामूर्मयः कटाक्षोर्मयः । "ऊर्मिः पीडालवोत्कण्ठाभङ्गिप्राकाश्यवीचिषु । वस्त्रसंकोचलेखा याम्" इति । किंलक्षणाः । राधामुखेन्दौ प्रेम्णा कन्दलिता उपरागं गमिताः । "कन्दलं तु नवाङ्कुरे । कलध्वनावुपरागे च" इति । किंविशिष्टे मुखेन्दौ । संमुग्धे मधुरे । सम्यक् मुग्धं संमुग्धं संमुग्धं च तन्मधुरं च तत्तस्मिन् । रम्ये नवप्रिये । "मुग्धं मूर्खे तथा रम्ये" इति । "मधुरस्तु प्रिये स्वादौ" इति । पुनः
राधो न वा स्मरस्य, किं तु तदङ्गस्पर्शादिविषयालाभाच्चालं त्वच्चेतस्त्वां दुःखाकरोतीति
भावनया पुरःस्थितां मत्वाह -- तानीति ।स्पर्शसुखानि तदङ्गस्पर्शजन्यानि सुखानि
इदानीमनुभूयमानानि तान्येव पूर्वानुभूतान्येव एतेन त्वगिन्द्रियविषयलाभः
कथितः । दृशोर्नेत्रयोस्तरलाश्चञ्चलाः स्निग्धाः स्नेहगर्भा विभ्रमा विलासास्त एव ।
अनेन चक्षुर्विषयलाभ उक्तः । तस्या वक्त्राम्बुजसौरभं मुखपद्मसौरभं तदेव । अनेन
घ्राणस्य विषयप्राप्तिरुक्ता । गिरां तद्वचसां सुधास्यन्दी सुधाममृतं स्यन्दते स्रवतीत्ये -
वंशीलो वक्रिमा वक्रत्वमिदानीं श्रोत्रेण ग्राह्यमाणः स एत्र पूर्वानुभूत एव । अनेन
श्रोत्रेन्द्रियविषयसान्निध्यमुक्तम् । बिम्बाधरमाधुरी तस्या विम्बफलप्राययोरधरयोरोष्ठयोर्मा-
धुरी मधुरताधुना मयास्वाद्यमानैव पूर्वानुभूतैव । अनेन रसनेन्द्रियस्य विषयलाभ
उक्तः । इत्येवंप्रकारेण विषयासङ्गेऽपि स्वस्वविषयसंबन्धेऽपि मानसं यत्तस्यां राधायां
लग्नसमाधि तदेकाग्रं यदि । हन्तेति खेदे । तदा विरहव्याधिः कथं वर्धते । अपिशब्दो
विरोधाभासालंकारसूचनार्थः । बाह्येन्द्रियविषयासङ्गे समाधेरसंभवात् । बाह्येन्द्रियवृत्ति-
निरोधे सति मनस एकाग्रताया एव समाधिशब्दार्थत्वात् । तथा च तत्तदिन्द्रियाणां स्वस्वा -
भिमतविषयालाभे एव विरहः संभवति । मम च तत्तदिन्द्रियाणां विषयविच्छेदस्याभावा-
न्मनसस्तच्चिन्तनैकपरत्वात्तया सह विश्लेष एव नास्तीति कथं विरहजन्यव्याधिसंभव
इति भावः । "गन्धरूपरसस्पर्शशब्दाश्च विषया अमी" इत्यमरः ॥ १५ ॥
[^१.] अस्य श्लोकस्य व्याख्यानं रसमञ्जर्याख्यटीकादर्शपुस्तके नोपलभ्यते । [^२.] "द्गीत-
स्थान" इति पाठः.
संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सु[^१]धा-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
किंभूते । सुधाकरे सुधादीनां सारे । वा सुधायाः सारे । पुनः किंभूताः । वंशोच्चर-
द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । वंशे उच्चरद्यद्दीप्तिस्थानं तारस्वरस्थानं
तत्र कृतवधानं याभिस्तास्तथा ताश्च ता ललनाश्च तासां लक्षाणि तैः । चतुर्ष्वपि
स्वस्थानेषु रागालप्तौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव ।
तत्र दत्तावधानत्वात् वल्गुस्वने प्रियकटाक्षादपि प्रियत्वादित्यर्थः । किंभूतस्य मधु-
सूदनस्य । तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य तिर्यक्कण्ठो यस्यासौ तिर्यक्कण्ठः ।
विलोलश्चासौ मौलिश्च । विलोलमौलिना तरलावुत्तंसौ कर्णभूषणे यस्य स तथा ।
तिर्यकण्ठश्चासौ विलोलमौलितरलोत्तंसश्च स तस्य । अत्र मौलिशब्दस्य शिरःकिरी-
टयोः समानवाचकत्वेऽपि वेणुवादकस्य शिरःकम्पितादिदोषपरिजिहीर्षया किरीटे
पर्यवसानम् । शीर्ष्णि अकम्पिते किरीटकम्पनं वैचित्र्यायेति । शार्दूलविक्रीडितं
वृत्तम् । रूपकमलंकारः ॥ १६ ॥
रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः ।
आभोगान्ते तथा पाटस्वरैः पद्यगणाञ्चितः ॥
शृङ्गाररससंपूर्णकृष्णकेलिविराजितः ।
मुग्धमधुसूदनाख्यो हंसक्रीडननामतः ॥
श्रीगोविन्दपदारविन्दमकरन्दास्वादचञ्चद्द्विरे-
फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना ।
श्रीमत्कुम्भनृपेण कॢप्तविवृतौ श्रीगीतगोविन्दके
सङ्गीतक्रमदीपिकास्वसुरयं सर्गस्तृतीयो गतः ॥
इति मुग्धमधुसूदनहंसक्रीडननामा सप्तमः प्रबन्धः ॥ ७ ॥
इति श्रीगुर्जरधरित्रीपराजयप्रतापशोषिताशेषयवनपल्वलेन
राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्दविवरणे
मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥
अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष-
ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतर्कोक्तिषु ।
मच्चेतो मुरवैरिसद्गुणसुधासिन्धाविहानुक्षणं
सम्यक्स्नापयता न मय्युपकृतं किं शालिनाथ त्वया ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः ॥ ३ ॥
[^१.] "मृदुस्यन्दं" इति पाठः । चतुर्थः सर्गः ४ ।
स्निग्धमधुसूदनः ।
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ १ ॥
कर्णाटरागैकतालीतालाभ्यां गीयते ॥ प्र० ८ ॥
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् । माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ।
सा विरहे तव दीना ॥ ध्रुवम् ॥ २ ॥
मधुमथनं हृदि कृत्वा परं जयदेवीये मातौ वरम् । तनुते धातुं श्रुतिसुखकरं कुम्भो नृपशतवन्द्यश्चिरम् ॥ इदानीं तयोः पृथक्कामावस्थां निरूप्य संयोजयितुमिच्छुर्दूतीयोगं निरूपयति-यमुनातीरवानीरेति ।राधिकासखी माधवं प्राह । किंविशिष्टं माधवम् । प्रेमभरेण स्नेहोद्रेकेणोद्भ्रान्तमुद्विग्नचित्तम् । पुनः किंभूतम् । यमुनातीरस्थे वानीरनिकुञ्जे वेतसनिकुञ्जे मन्दं निरुत्साहं यथा स्यात्तथा आस्थितमासीनम् । अथवा अमन्दमिति वचन विशेषणम् । अतिशयव्याकुलां राधां दृष्ट्वा अमन्दं सवेगमाह । पथ्यावक्त्रं छन्दः "युजोर्जेन स" इति । पूर्वोक्तमेव स्पष्टयति । अत्र गीते विरहोत्कण्ठिता नायिका वर्णनीया "नायिका लक्षणैर्युक्ता गीतकाव्येषु दर्शिता । एकैव नायिका वापि हरमूर्तिरिवाष्टधा । वाससज्जा समुत्कण्ठा स्वाधीनभर्तृका तथा । कलहान्तरिता वापि विप्रलब्धाभिसारिका । खण्डिता प्रोषिता चैव नायिकाश्चाष्ट संमताः ।" तत्र समुत्कण्ठितालक्षणं भरते -- "यस्याः समुचितेऽप्यह्नि प्रवासी नैति वल्लभः । सा स्मरानलसंतप्ता विरहोत्कण्ठिता मता" ॥ १ ॥ निन्दतीति ।पूर्वं ध्रुवपदं व्याक्रियते -सा विरहे इति । हे माधव, सा राधा भावनया त्वयि लीना त्वद्ध्यानेन त्वन्मयत्वं प्राप्ता इति बुद्ध्या त्वयि लीनेति । त्वामन्तरा स्थिता । उत्प्रेक्षते ।
पूर्वसर्गे कृष्णस्थकृष्णस्य विरहावस्था वर्णिता । अत्र तु राधायास्तापमाह -- यमुनेति । राधिकायाः सखी माधवं कृष्णं वक्ष्यमाणमुवाच । राधिकेत्यत्रानुकम्पायां कः । कीदृशं कृष्णम् । यमुनातीरवानीरनिकुञ्जे वेत्रलताच्छन्नप्रदेशे मन्दं स्वैरमास्थितमासीनम् । तत्र हेतुगर्भविशेषणमाह -- प्रेमेति । प्रेमभरेण राधिकाविषयस्नेहाधिक्येनोद्भ्रान्तमुद्विग्नम् । तथा च प्रेमभरेण ध्यानपरम्परया तां साक्षात्कृत्य तदन्वेषणं विहाय लतागृहस्थितमिति भावः । "अथ वेतसे । रथाभ्रपुष्पविदुलवेत्रवानीरवञ्जलाः" इत्यमरः । "मन्दः खले मन्दगते मूर्खे स्वैरिणि रोगिणि" इति विश्वः ॥ १ ॥ निन्दतीति ।गीतस्यास्य कानडरागः एकतालीतालश्च । गीतार्थस्तु -- हे माधव, सा राधा तव विरहे त्वद्विश्लेषे चन्दनं अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम् ॥ सा वि० ३
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ सा वि० ४
कामशरभीत्येव । यथा त्वामन्तरा स्थितायां ते कामशरास्त्वय्येव पतन्ति न तस्यामिति बुद्ध्येति भावः । किं विशिष्टा सा । तव विरहे सति दीना दैन्यमाप्ता । इति ध्रुवः ॥ अत्रोत्प्रेक्षालंकारः । किं किं करोति तत्कर्माह । चन्दनं निन्दति चन्दनस्य निन्दां करोति । स्मराह्लादकत्वाद्विपक्षपक्षमाश्रितमिवाभातीति । तत एव इन्दुकिरणमनुखेदं विन्दति लभते । कथम् । अधीरं यथा भवति तथा । अधीरमिति चन्दनविशेषणं वा । अधिकंअधिकम्ईरयति प्रेरयति कामशरानिति निन्दार्थः । अपि च । मलयानां व्यालनिवासानां समीरं गरलमिव कलयति । केन हेतुना । व्यालनिलयमिलनेन व्यालनिलयानां व्यालनिवासानां चन्दनानां मिलनेन सङ्गात् । अत्र रूपकोत्प्रेक्षाविरोधालंकाराः ॥२॥ ध्यानादेकतामापन्नत्वं प्रकटयति -- अविरलेति ।सा सजलनलिनीदलजालं स्वहृदयमर्मणि वर्म करोति । किंभूतं तत् । विशालम् । उत्प्रेक्षते । अविरलनिपतितमदनशराद्भवदवनायेव । अविरलं निपतितं निपातो येषां ते च ते मदनशराश्च । जातावेकवद्भावादेकवचनम् । त्वय्यासक्ततया त्वयि मृतेऽहमेव मृतेति हृदयमर्मत्वं त्वय्येव विधाय भवदवनायेति युक्तम् । स्वहृदयमर्मणि भवदवनाय भवद्रक्षणाय सजलनलिनीदलजालं पिधानमिव करोति हृदयान्मा निरगादिति बुद्ध्येति युक्तिलेशः । उत्प्रेक्षालंकारः ॥३॥ कुसुमेति ।सा कुसुमशयनीयं कुसुमशय्यां करोति । किंभूतं कुसुमशयनीयम् ।
निन्दति । अथ च इन्दुकिरणमनु लक्षीकृत्याधीरमनल्पं खेदं दुःखं विन्दति प्राप्नोति । मलयसमीरं मलयपर्वतसंबन्धिनं वातं व्यालनिलयमिलनेन व्यालानां सर्पाणां निलयो निवासश्चन्दनवृक्षस्तस्य मिलनेन संसर्गेण गरलमिव विषमिव कलयति मन्यते । चन्दनवृक्षस्थितैः सर्पैः पीतोद्गीर्णाः एते मलयजवायवोऽत एव विषमयाः कथमन्यथा शरीरसंपर्कादेव मूर्च्छा मे जनयन्तीति मन्यत इति भावः । कुतस्तथा मन्यत इत्यतो हेतुगर्भविशेषणमाह -- दीनेति ।दीना दुःखिता । तथा च दुःखितस्य सुखहेतुरपि दुःखायैव भवतीति भावः । पुनः कीदृशी । भावनया ध्यानेन त्वयि लीना मग्ना । कस्मादिव । मनसिजस्य कामस्य ये विशिखा बाणास्तद्भयादिव । "व्यालो भुजङ्गमे प्रोक्तः श्वापदे दुष्टदन्तिनि" इति विश्वः । "गरलं तु विषे माने गरले तृणपूरके" इति च ॥ २ ॥ अविरलेति । सा स्वहृदयरूपमर्मस्थाने विशालं सजलनलिनीदलजालं जलसहितं कमलिनीपत्रसमूहं वर्म कवचं करोति । किमर्थमिव । अविरलं यथा स्यादेवं निपतितो यो मदनशरः कामबाणस्तस्माद्भवदवनाय भवतो रक्षणायैव । तस्या हृदये त्वं सर्वदा तिष्ठसि, अतोऽविरतनिपतद्भिर्मदनशरैस्ते पीडा मा भूदिति पद्मिनीपत्रैस्ते सन्नाहमिव सा करोतीति भावः । केचित्तु -- कीदृशं वर्मं । अविरलनिपतितमदनशरावनाय स्वरक्षणाय भवदिव संपद्यमानमिवेति व्याकुर्वन्ति । "अवनं रक्षणे प्रीतौ" इति विश्वः ॥ ३ ॥ कुसुमेति ।सा कुसुमवहति च च[^१]लितविलोचनजलभरमाननकमलमुदारम् । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ सा वि० ५
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ सा वि० ६
अनल्पविलासकलाकमनीयं बहुतरविलासरमणीयम् । किमिव । कुसुमविशिखशरतल्पं व्रतमिव । किमर्थम् । तव परिरम्भसुखाय । अन्योऽपि सुखैषी व्रतमाचरति । दुर्लभभवदाश्लेषावाप्त्यै स्मरेण दूयमाना सा दुष्करं तस्यैव शरशय्याव्रतमाचरतीत्यर्थः । अत्रोत्प्रेक्षालंकारः ॥४॥ वहतीति ।सा आननकमलं वहति । किंभूतम् । चलितविलोचनजलभरम् । चलितः संभक्तः विलोचनेन जलभरो यत्र । वा चलिते संभक्ते विलोचने जलभरेण यत्र । अथवा चलितविलोचन एव जलधरो मेघो यत्रेति पाठः । किं विशिष्टं आननकमलम् । उदारं मनोहरम् । कमिव । विधुमिव । किंभूतं विधुम् । विकटा विकराला विधुन्तुददन्तास्तैर्दलनेन पीडनेन गलितामृतधारा यस्मिन् । अनेन भवद्विरहेणानवरतं रुदत्या मुखमिन्दुकान्तिं बिभर्तीत्याशयः । असितवर्णमभूदित्यर्थः । अनोपमालंकारः ॥५॥ अपि च । विलिखतीति ।हे कृष्ण, सा मत्सखी रहसि एकान्ते कुरङ्गमदेन भवन्तं विलिखति । किंभूतं भवन्तम् । असमशरभूतं कुसुमशरतामापन्नम् । वामेव दुर्लभत्वात् वाहकत्वेन कुसुमशरोऽयमिति बुद्ध्या । किं कृत्वा विलिखति ।
शयनीयं पुष्पशय्यां करोति रचयति । कीदृशम् । अनल्पविलासकलायां बहुतरक्रीडाकलायां कमनीयं काङ्क्षणीयम् । न दैवस्य गतिर्ज्ञातुं शक्यते । को वेदाकस्मादेव भवानागच्छतीत्याशयेन कुसुमशय्यास्था त्वन्मार्ग एकनिष्ठेव तिष्ठतीति भावः । किमिव करोति । कुसुमविशिखः कामस्तस्य ये शराः कुसुमस्वरूपास्तेषां तल्पं शय्या तत्र तत्स्वरूपं व्रतमिव । तव परिरम्भसुखाय तवालिङ्गनजन्यसुखप्राप्तये करोति । "तल्पं च शयनीये स्यात्तुल्यवृन्दकलत्रयोः" इति विश्वः । एतैस्त्रिभिः पदैरुद्वेगाख्या प्रपञ्चावस्था कथिता । तल्लक्षणं प्रागेवोक्तम् ॥ ४ ॥ वहतीति ।सा उदारमाननकमलं श्रेष्ठं मुखपद्मं वहति धारयति । कीदृशम् । वलिते त्वन्मार्गविलोकनाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जलधरौ मेघौ यत्र तादृशम् । अत्र निरन्तराश्रुवर्षित्वेन नेत्रयोर्जलधरत्वेन निरूपणम् । कमिव । विधुमिव । कीदृशं विधुम् । विकटाः कराला विशाला वा ये विधुन्तुदस्य राहोर्दन्तास्तैर्दलनं खण्डनं तस्माद्गलिता प्रच्युतामृतस्य धारा यत्र तादृशम् । अत्र मुखस्य विधुना नेत्रजलस्य चामृतधारारूपसादृश्याद्वाक्यार्थोपमा बोध्या । "विकटः सुन्दरे प्रोक्तो विशालविकरालयोः" इति विश्व: । "तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः" इत्यमरः । इयं चोन्मादाख्या सप्तमावस्था । तदुक्तं शृङ्गारतिलके -- "श्वासः प्रणोदनोत्कम्पवसुधाश्लेषणैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥" इति ॥ ५ ॥ किंच विलिखतीति ।रहस्येकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति । कीदृशम् । असमशरभूतं कामस्वरूपिणं तव करे नवचूतं शरं निधाय तवाधः आसनस्थाने मकरं निधाय
[^१.] "वलितविलोचनजलधरम्" इति पाठः ।
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ सा वि० ॥७॥
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ सा वि० ॥ ८ ॥
करे नवचूतशरं विधाय । अत्र चूतपुष्पधारणेन पूजोपयुक्ता । अनन्तरं प्रणाम उचित एव । पीडाकरे कामे स्वरक्षार्थमर्चनप्रणामयोरपि युक्तत्वमेव । अयं च विरहिणीव्यापार उक्तः । तदुक्तं भरते -- "देवतापूजनं कुर्याद्दद्याद्बलिभुजे बलिम् । लिखेत्कान्तप्रतिकृतिं पाठयेच्छुकसारिकाः ॥ गणयेच्चावधिदिनं गीतं गायेत्तदङ्कितम् । एवं विधविनोदेन नयेत्कालं वियोगिनी" ॥ च पुनः अधः वाहनदेशे मकरं विनिधाय एवं साङ्गोपाङ्गकामरूपं भवन्तं विधाय मा दहेति प्रणमति । अत्र लिखित्वा प्रणमतीति वक्तव्ये विरहिणो हि कृत्याकृत्यज्ञा न भवन्तीति पौनःपुन्येन यत्र तत्र गच्छन्तीति द्योतनार्थम् । अत्रोपमालंकारः ॥ ६ ॥ अपि च । ध्यानलयेनेति । हे कृष्ण, सा मत्सखी भवन्तं विलिखति । किंविशिष्टं भवन्तम् । अतीव दुरापं दूतीप्रेषणादिना दुरापं दुर्लभम् । किं कृत्वा विलिखति । ध्यानलयेन ध्यानैकाग्रतया पुरोऽग्रे परिकल्प्य । लिखित्वा च दृष्टो मयेति हसति । आश्लेषादिकं न करोतीति विषीदति । तन्न कुरुतां नाम । प्रेम्णा दृष्टिमपि न प्रयच्छतीति रोदिति । दृष्टायामपि नास्य संतोष इति चञ्चति स्थानात्स्थानान्तरं गच्छति । पुनरागत्य दृष्टश्चेत्सर्वमेव भविष्यतीत्याशयेन तापं मुञ्चति इति । अत्र दीपकमलंकारः ॥ ७ ॥ प्रतिपदमिति ।हे माधव, सा मत्सखी प्रतिपदं प्रतिचरणन्यासं प्रतिस्थानं वा इदमेव
धृत्वा प्रणमति । कुसुमशरो मकरवाहनस्त्वमेवासीत्यनेन चूतरूपपुष्पशरेण किमिति मां
संतापयसीति प्रणम्य त्वां याचत इति भावः ॥ "मृगनाभिर्मृगमदः कस्तूरी गन्धकेशरे"
इति हारावलिः ॥ ६ ॥ ध्यानेति ।ध्यानं चिन्तनं तत्र यो लयस्तत्परत्वं तेनातीवाति-
शयेन दुरापं दुःखेन प्राप्यं भवन्तं पुरोऽग्रे परिकल्प्य सा राधा विलपति । शठ,
इयत्कालं याभिः सह क्रीडां कृतवानसि तत्रैव गच्छेत्याद्युक्त्वा रोदिति । भाववशादा-
गतोऽप्यतिनिर्भर्त्सनात्को वेद पुनर्यातीत्यनुरागप्रकटनाय हसति । पश्चात्पुरः स्थितोऽप्ययं
मामालिङ्गनादिना न संभावयतीति विषीदति विषादं प्राप्नोति । पुनः कथमयं वश्यः
स्यादिति विचार्य रोदिति । यतो नायिकानां नायकस्य पुरतो रोदनं परमवशीकरणं
जायत इति । तदुक्तम् -- "रुदितमुदितमात्रं योषितां विग्रहेषु" इति । पश्चाद्रोदने तदौ-
दासीन्यमालक्ष्य गच्छन्तीं मामयमनुनेष्यतीत्यभिप्रायेण चञ्चति स्थानान्तरं गच्छति ।
पश्चाद्ध्यानेनैव तत्सङ्गपरिकल्पनया तापं मुञ्चति । किलकिञ्चिताख्यो वायं भावः । तदुक्तं
दशरूपके -- "क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम्" इति । इयमप्युन्मादाख्यावस्था ।
अलंकारश्चेह दीपकमिति । तदुक्तम् -- "सैव क्रियासु बह्वीषु कारकस्येति दीपकम्" इति ।
अस्यार्थः -- बह्वीषु क्रियासु कारकस्य सकृद्वृत्तिरेव दीपकमिति ॥ ७ ॥ प्रतिपदमिति ।
प्रतिपदमितस्ततश्चलन्ती पदं पदं प्रतिपदं निगदति । हे माधव, तव चरणेऽहं पतिता
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ सा वि० ॥ ९ ॥
आवासो विपिनायते प्रियसखीमालापि जालायते ता[^१]पोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
निगदति । अत्रापिरेवार्थे । इदमिति किम् । अहं तव चरणे निपतिता । सपदि मयि विषये त्वयि विमुखे सति सुधानिधिरपि सुधानिधानमपि तनुदाहं शरीरदाहं तनुते । वा सुधानिधिश्चन्द्रोऽप्यतनुदाहं स्मरतापं तनोति । अतनु यथा स्यादिति च । अत्रातिशयोक्तिरलंकारः ॥ ८ ॥ श्रीजयदेवेति । हे वैष्णवाः, इदं श्रीजयदेवभणितं यदि मनसाधिकं नटनीयमभिनेतव्यम् । नटशब्देनात्र नाट्यस्याभिनयप्राधान्यादभिनयो विवक्षितः । अथवा नटनीयमियास्वादनीयम् । रसनीयमिति यावत् । "नाट्यशब्दो रसे मुख्यः" इति भरतीये । किंभूतमिदम् । सखीमधिकृत्य वर्तमानम् । तर्हि हरिविरहाकुलबल्लवयुवत्या राधायाः सख्याः वचनं पठनीयम् । जयदेवभणितिष्विदमेव सारमित्यर्थः ॥ ९ ॥ "प्रतिमण्ठकतालेन रागे देशाङ्कसंज्ञिते । पदात्तुर्याक्षरैर्युक्तः पदात्संगमतस्तथा ॥ आकारोपचितालापगमकाकुलविग्रहः । आभोगात्तेनकैः पाटैः प्रचुरैरतिपेशलः ॥ हरिवल्लभपूर्वोऽयमशोकपल्लवः स्मृतः ॥" इति हरिवल्लभाशोकपल्लवनामाष्टमः प्रबन्धः ॥ ८ ॥ इदानीं किंबहुना । मत्सख्यास्त्वदृते त्वयि विपरीते सर्वमेव विपरीतमित्याह -आवास इति ।हे माधव, हन्त इति खेदे । सा मत्सखी त्वद्विरहेण हरिणीरूपायते मृगीरूपमिवाचरति । स्वभावतो विरहेण पाण्डुवर्णो भवत्येवेति तथाविधं रूपमधिकृत्य हरिणीरूपेणोपमीयत इत्युक्ते कथमिति प्रश्ने हरिणीविशेषणेनाह । आवासो विपिनायते । हरिण्यः किल वने वसन्ति । तस्या मे सख्या आवासो विपिनायते ।
त्वयि विमुखे पराङ्मुखे सति सुधानिधिरमृतनिधिश्चन्द्रोऽपि तनुदाहं मच्छरीरसंतापं तनुते विस्तारयति । त्वं माया लक्ष्म्या धवः स्वामी । चन्द्रस्य समुद्रोत्पत्तित्वाल्लक्ष्म्याः सहोदर इति । त्वयि निकटस्थिते सति सपत्न्या अपि मे किमपि न कर्तुं शक्नोति । त्वयि प्रतिकूले च सति स्वभगिनीसापत्न्यं मयि स्मरन्सुधानिधिरपि मे तनुदाहं तनुते । इति माधवपदेन ध्वनितम् । सुधानिधेस्तापकारित्वं विरुद्धमिति विरोधनामायमलंकारः ॥ ८ ॥ श्रीजयदेवेति ।जयदेवभणितं जयदेवकवित्वमतिशयितं यदि मनसा नटनीयं नर्तितव्यं तदा इदं हरिविरहेणाकुला व्याकुला या बल्लवयुवतिस्तया सखी दूतीत्वेन प्रेषिता तस्या वचनं पठनीयम् । इयं विरहोत्कण्ठिता नायिका । तल्लक्षणं तु प्रागेवोक्तम् ॥ ९ ॥ सा त्वां विना कुत्रापि न निर्वृतिं लभत इत्यत आह -- आवास इति । तस्यास्त्वद्विरहेणावासो मन्दिरं विपिनायतेऽरण्यमिवाचरति । यदा त्वद्विश्लेषदुःखासहिष्णुतया जीवितमपि व्यक्तुं प्रवृत्ता भवति तदा सखीभिर्निवार्यत इति स्वच्छन्दव्यवहारप्रतिबन्धकतया जालवदाचरतीति भावः । अथ तापो विरहजनितस्तापो निःश्वसितेन निःश्वासेन दावदहनज्वालाया दावाग्निशिखाया यः कलापः समूहः स इवाचरति । अपरोऽपि दावा
[^१.] "तापो निःश्वसितेन" इति पाठः ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ १० ॥
देशाख्यरागैकतालीतालाभ्यां गीयते । प्र० ॥ ९ ॥
स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरिव भारम् ।
राधिका तव विरहे केशव ॥ ध्रुवम् ॥ १ ॥
अत्रावासशब्देन निलय उच्यते । प्रियसखीनां माला श्रेणिः जालायते । इतस्ततो गमनाय तद्रोधकत्वात् । वा प्रियसखीदत्ता मालापि जालायते । हरिणीबन्धनार्थं जालं क्षिप्यते तद्वदाचरति । अपि च तापोऽपि देहतापोऽपि श्वसितेन निःश्वसितेन दावाग्निज्वालावलीवाचरति । एवं तस्या हरिणीत्वं निरूप्य खेदमभिनयन्त्याह । हा इति कष्टे । सा मत्सखी कथं वर्तते, यतः कामोऽपि शार्दूलविक्रीडितं विरचयन् यमायते यम इवाचरति । शार्दूलः किल हरिणीं हन्तीत्युक्तिः । अत्र च हरिणीवन्मत्सख्यास्त्वयि दृढानुरागोऽस्ति । निःस्नेहे स्नेहवत्तया पशुरूपत्वेन हरिणीरूपमौचितीमावहति । निःस्नेहेऽस्नेहवति सैवेत्यवधारणार्थः । वृत्तमपि शार्दूलविक्रीडितम् । अत्र लुप्तोपमा । विरोधाभासश्चालंकारः ॥ १० ॥ इदानीं राधासखी स्वसखीविरहचेष्टितं देवे विनिवेदयति । पूर्वं ध्रुवपदं व्याक्रियते । राधिका इति ।हे केशव, राधिका तव विरहे वर्तते । अनुकम्प्या राधा राधिका । तस्या अनुकम्पां विधेहीत्यनुकम्पार्थेन द्योत्यते । इति ध्रुवः ॥ विरहे वर्तमाना राधा किं किं करोतीत्यपेक्षायां पदानामारम्भः । स्तनविनिहितमिति । हे केशव, सा कृशतनुः स्तनविनिहितमप्युदारं मनोहरं हारं भारमिव मनुते विरहाधिक्या
ग्निर्वायुना प्रचण्डो भवतीति ध्वनिः । सापि हरिणीरूपायते हरिणीवदाचरति । हा कष्टम् ।
कथम् । कन्दर्पोऽपि कामोऽपि परानन्दजनकोऽपि त्वद्विरहे यमायते कृतान्त इवाचरति ।
किं कुर्वन् । शार्दूलस्य व्याघ्रस्य विक्रीडितं क्रीडां कुर्वन् । यथा हरिणी समन्ततः
प्रदीप्तदावाग्निज्वालयोद्विग्ना व्याघ्रेण त्रासिता अग्रे व्याधजालं विततं पश्यन्ती दशदिशं
चकितं विलोकमाना क्वापि न निर्वृतिं लभते तथेयमपि व्याघ्ररूपेण कामेन त्रासिता
सखीष्वावासेषु कापि निर्वृतिं न लभत इति भावः । अत्र शार्दूलविक्रीडितं छन्द इत्यपि
ध्वनितम् । अत्र प्रथमपादे उद्वेगाख्यावस्था कथिता । तल्लक्षणं प्राक् । रोषे चाष्टमी
व्याध्यवस्था कथिता । तदुक्तम् -- "अभीष्टसंगमाभावाद्व्याधिः संतापलक्षणः । अत्र
संतापनिःश्वासौ शीतवस्तुनिषेवणम् ॥ नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥" इति ।
शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च" इति विश्वः ॥ १९ ॥ पुनरपि व्याधि-
रूपामष्टमीमवस्थां संप्राप्य तां च गीतेन कथयति -- स्तनेति ।गीतस्यास्य देशाख्यरागः ।
रूपकतालः । गीतार्थस्तु -- हे केशव, तव विरहे सा राधिका अनुकम्प्या राधा
स्तनविनिहितमपि स्तनयोरुपरि हठात्सखीजनैर्धृतमप्युदारमुत्कृष्टं हारमतिभारं मनुते ।
सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥ राधिका० ॥ २ ॥
श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ राधिका० ॥ ३ ॥
दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ राधिका० ॥ ४ ॥
त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ राधिका० ॥ ५ ॥
त्कृशतनोर्हारोऽपि भारोपमो भवति ॥१॥ अपि च ।सरसेति ।सा मत्सखी वपुषि वर्तमानं मलयजपङ्कं सशङ्कं यथा स्यात्तथा विषमिव पश्यति । किंविधम् । सरसमसृणमपि सरसं च तन्मसृणं च सरसमसृणं द्रवरूपात्स्निग्धकोमलमपि ॥२॥ अपि च । श्वसितेति ।सा मत्सखी श्वसितपवनं मदनदहनमिव कामाग्निमिव वहति । किंभूतम् । सदाहं दाहसहितम् । विरहेणान्तस्तापो विद्यते तेन सहितम् । किंभूतम् । अनुपमपरिणाहम् । निःश्वासानामतिदीर्घत्वात् ॥ ३॥ अपि च । दिशि दिशीति ।सा राधा नयननलिनं दिशि दिशि किरति विक्षिपति । त्वद्दर्शनाकाङ्क्षयेति शेषः । सजलकणजालं जलकणसमूहेन सह वर्तमानम् । उत्प्रेक्षते । विगलितनालमिव विक्षिप्तं नयनं विनालेन नलिनेनोपमीयते । अथवात्र उच्छूनत्वात्कज्जलरहितत्वाद्दीनत्वाच्च विनालेन कमलेनोपमीयते ॥ ४ ॥ त्यजतीति ।सा राधा पाणितलेन कपोलं न त्यजति । चिन्तावशात् । किंभूतं कपोलम् । अलोलम् । क्व । सायम् । सायं हि विशेष
तत्र हेतुगर्भं विशेषणमाह -- कृशतनुरिति ।कृशा तनुरङ्गं यस्याः सा ॥ १ ॥ किंच
सरसेति ।मलयजपङ्कं चन्दनपङ्कं वपुषि देहे सशङ्कं शङ्कासहितं यथा स्यादेवं विषमिव
पश्यति । कीदृशम् । सरसमसृणमपि । आर्द्रचिक्कणमपीत्यर्थः । "पङ्कः कर्दमपापयोः"
इति विश्वः । "मसृणः कर्कशे स्निग्धे" इति मेदिनी ॥ ३ ॥ श्वसितेति ।सा श्वसितपवनं
श्वासवायुं वहति धारयति । कीदृशम् । अनुपमपरिणाहं अनुपमः परिणाहो दैर्ध्य यस्य
तादृशम् । कमिव । मदनदहनमिव कामाग्निमिव । कीदृशम् । सदाहं दाहसहितम् ।
"परिणाहो विशालता" इत्यमरः । एषा चला व्याध्यवस्था कथिता । तल्लक्षणं तु
प्रागेवोक्तम् ॥ ३ ॥ दिशि दिशीति ।सा दिशि दिशि नयननलिनं नेत्रपद्मं किरति
क्षिपति । कीदृशम् । विगलितनालं विगलितस्त्रुटितो नालो दण्डो यस्य । पुनः कीदृशम् ।
सजलकणजालं जलकणजालैरश्रुजलकणिकासमूहैः सहितम् । अत्रेवशब्दो वाक्यालंकारे ।
अत्र नेत्रस्य नलिनत्वेन निरूपणात्स्तिमितत्वं बोध्यम् । तेन जडता नवम्यवस्था
ध्वनिता । तदुक्तं रसार्णवसुधाकरे -- "यत्र ध्यायति निःशङ्कं जडता सा प्रकीर्तिता ।
अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥ अक्रीडाङ्गं कृतिः स्तम्भनिःश्वासकृशतादयः ॥"
इति ॥ ४ ॥ त्यजतीति ।सा सायं संध्यासमये पाणितलेन करतलेन कपोलं न
त्यजति । कीदृशम् । अलोलमचञ्चलम् । अहस्तु यथाकथंचिन्नीतं रात्रिस्तु युगायमान
नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ राधिका० ॥ ६ ॥
हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेव निकामम् ॥ राधिका० ॥ ७ ॥
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपनीतम् ॥ राधिका० ॥ ८ ॥
विरहोद्रेको भवति । कमिव । बालशशिनमिव अलोलमिति बालचन्द्रो हि सायं पाण्डुर्निः श्रीकश्च भवति । कपोलस्य हस्तेनाच्छादितत्वाद्बालशशिनोपमा ॥ ५ ॥ अपि च ।नयनेति ।सा राधा किसलयतल्पं विहितहुताशविकल्पं कलयति । हुताशमिव जानाति । किंभूतं तल्पम् । नयनविषयमपि । अनुमितार्थे संसर्गे वा भ्रान्तिर्जायते । नयनविषयेऽपि भ्रमेर्निर्निमित्तत्वान्नयनयोस्त्वय्यारोपितत्वं द्योत्यते ॥ ६ ॥ अपि च । हरिरितीति ।सा मत्सखी निकाममतिशयेन सकामं साभिलाषं यथा स्यात्तथा हरिरिति जपति त्वन्नाम गृह्णन्त्यास्ते । किंभूता । विरहविहितमरणेव विरहेण विहितं मरणं यस्याः सा । अर्थात्तवैव । अन्योऽपि विहितमरणो हरिरिति हरिरिति जपत्येव ॥ ७ ॥ अपि च । श्रीजयदेवेति ।श्रीजयदेवभणितं वर्णितं हरेः कृष्णस्य गीतं सुखयतु । भक्तानित्यध्याहारः । किंविशिष्टं गीतम् । केशवपदमुपनीतं प्रापितम् । इदं श्रीजयदेवभणितं हरिगीतं केशवपदं सुखयतु । केशवः पदं स्थानं यस्यासौ केशवपदः तं केशवपदं वैष्णवं सुखयतु । किंभूतं गीतम् । उपनीतमुप समीपं नीतं प्रापितमित्यर्थः । अत्र मात्राचतुष्पदी छन्दः ।
कथं नेतव्येति कपोलतले पाणिं कृत्वा सायं चिन्तयतीति भावः । कमिव । बालशशिनमिव
द्वितीयाचन्द्रमिव । मुखार्धस्य करतलच्छन्नत्वेनार्धदृश्यमानतया विरहपाण्डुतया
मुखस्य द्वितीयाचन्द्रसाम्यम् । इयमपि जडतावस्था ॥ ५ ॥ नयनेति ।किं च सा
नयनविषयमपि चक्षुर्गोचरमपि किसलयतल्पं नवपल्लवशयनीयं विहितो हुताशनस्याग्ने-
र्विकल्पः संशयो यत्र तादृशं कलयति । अत्र किसलयेषु ताम्रत्वसंतापकत्वादिसमान-
धर्मदर्शनादग्नित्वसंशयः । इयं चोद्विग्नावस्था । तल्लक्षणं प्रागेवोक्तम् ॥ ६ ॥ हरिरितीति ।
सा निकाममतिशयेन हरिरिति हरिरिति जपति । केव । विरहेण त्वद्विश्लेषेण
विधातुमारब्धं मरणं यया सा । कथम् । सकामं साभिलाषं यथा स्यात् तथा ।
अभिलाषादिषु नवस्ववस्थास्वतीतास्वपि त्वदौदासीन्यमालक्ष्य मरणाख्यापि दशम्यवस्था
अवश्यं भवितव्येति निश्चित्य प्रपन्नानां क्लेशहरणाद्धरिरित्युच्यत इति को वेद प्रसन्नस्तस्मिन्नपि
जन्मन्यागत्य मे क्लेशं हरिष्यति, मा आयातु तथापि "अन्ते मतिः सा गतिः"
इति जन्मान्तरेऽपि स एव वल्लभो भूयादिति साभिलाषं नामान्तरं विहाय हरिरित्येवं
जपतीति भावः । विहितेत्यत्र "आदिकर्मणि क्तः कर्तरि च" इति क्तः ॥ ७ ॥
श्रीजयदेवेति । इत्यमुना प्रकारेण जयदेवेन भणितमुच्चारितं सुखयतु । अर्था-
सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति
ध्यायत्युद्धमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
ए[^१]तावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसा-
त्स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा ह[२]स्तकः ॥ ९ ॥
सर्वत्रोपमालंकारः ॥ ८ ॥ इदानीं भक्त्याख्या भावितमरणशंसनमिषेण तन्मनः प्ररोचयति--सेति ।हे स्वर्वैद्यप्रतिम अश्विनीकुमारसदृशरूप । एतावत्यतनुज्वरे एतावतीमवस्थां प्राप्तवत्यतनुज्वरे । पक्षे अतनुज्वरे महति ज्वरे सति यदि प्रसीदसि ततः सा वरतनुः तव रसात् शृङ्गारात्किं न जीवेत् । अपि तु जीवेदेव । अन्यथा चेन्न प्रसीदसि तदा अन्त एवान्तकः मरणमसि, मरणहेतुत्वात्त्वमेव मरणमिति । अथवा । हे स्वर्वैद्यप्रतिम अश्विनीकुमारतुल्य वैद्य, यदि प्रसीदसि ततस्ते रसात्पारदादिनिष्पन्नौषधात्सा वरतनुर्न जीवेत् ? अपि तु जीवेदेव । अन्यथा अन्तको यमो नासि ? अपि तु यम एव । वरतनुरिति हेतुगर्भं विशेषणम् । तेन सा तनुरूपेति कृत्वावश्यं जीवनीयेति तात्पर्यम् । सा राधा न केवलं बाह्यवृत्त्या त्वय्यनुरक्ता किंतु सात्त्विकभावेनापि त्वदायत्तजीवितेति दर्शयन्त्याह । तानेव सात्त्विकान्भावान्विवृणोतिसा रोमाञ्चतीति । "स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयावित्यष्टौ सात्विका मताः" । सा राधा रोमाञ्चति । रोमाञ्चो विद्यते यस्य स रोमाञ्चः, रोमाञ्चित इत्यर्थः । तद्वदाचरति रोमाञ्चति । अकारोऽत्र मत्वर्थीयः । रोमाञ्चतीत्यादिना रोमाञ्च उक्तः । सीत्करोतीति वैवर्ण्यम् । विलपत्युद्यातिभ्यामश्रु । उद्यातीति निः
च्छ्रोतॄन्गायकांश्च । कीदृशम् । केशवपदमुपनीतम् ॥ ८ ॥ सा रोमाञ्चतीति ।सा राधा रोमाञ्चति रोमाण्यञ्चति प्रफुल्लयति । उद्गमयतीत्यर्थः । यद्वा रोमाञ्चोऽस्या अस्तीत्यर्शआदित्वादच्प्रत्यये रोमाञ्चः सिद्ध इवाचरति रोमाञ्चयति । यद्वा रोमाञ्चपदं लक्षणया रोमाञ्चवतीपरम् । तथा च ओजस्वीवाचरतीत्यादिवद्रोमाञ्चवतीवाचरतीत्यर्थः । अनेनाभिलाषः कथितः । सीत्करोति सीत्कारं करोति । अनेन चिन्तास्मृती कथिते । अथ च विलपति, स शूरः सुन्दरश्चेत्यादिनायकगुणान्विशेषेणालपति । अनेन गुणकीर्तनमुक्तम् । उत्कम्पते कथं विरहदुःखं सोढव्यमिति कम्पयुक्ता भवति । ताम्यति ग्लाना भवति । ध्यायति तव ध्यानं करोति । एतैर्विशेषणैरुद्वेगावस्था कथिता । उद्भ्रमति क्रीडादिस्थलं निर्दिशती भ्रमति । अनेन प्रलापः कथितः । प्रमीलति ध्यानकल्पितालिङ्गनादिजन्यसुखभावेन चक्षुषी निमीलयति । अनेनोन्मादः कथितः । पतति कार्श्येन स्थातुमशक्यतया भूमौ पतति । पश्चाद्भावनया त्वां दृष्ट्वा कथं कथमप्युद्याति त्वदभ्युद्गमनं करोति । अनेन व्याधिः कथितः । ततो मूर्च्छति मूर्च्छां प्राप्नोति । अनेन जडता कथिता । क्रियादीपकोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । ननु जडतापर्यन्तावस्था यदि जातैव तदा किमङ्गसङ्गे नेत्यत आह -- एतादृशीति ।हे स्वर्वैद्यावश्विनीकुमारौ तत्प्रतिम तत्सदृश । एतादृश्यतनुज्वरे त्वं यदि प्रसीदसि तदा सा वरतनुः कमनीयदेहा ते तव
[^१.] "एतादृश्यतनु" इति पाठः । [^२.] "थास्यन्तकः" इति पाठान्तरम् ।
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
निवृ[^१] त्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि ॥१०॥
सरति । उत्कम्पत्युद्भ्रमतिभ्यां वेपथुः । ताम्यतिना स्वेदः । ध्यायतिपततिभ्यां स्तम्भः। पततीति वैपरीत्येन तपतिर्वैवर्ण्ये योजनीयः । प्रमीलतिना स्वरभङ्गः । मूर्च्छतिना प्रलयः। इत्येवमष्टौ सात्त्विका भावाः प्रदर्शिता भवन्ति । सन्मनस्तत्प्रभवाः सात्त्विकाः । इदमाकूतम् । त्वय्यारोपितमनस्का त्वया जीवनीयेति । अन्यथा आश्रितत्यागलक्षणं दूषणमपीति भावः ॥ शार्दूलविक्रीडितं वृत्तम् । अत्र दीपकमलंकारः । विप्रलम्भाख्यः शृङ्गारो रसः । अत्र पूर्वार्धेन स्थायिभावा उक्ताः । तदुक्तम् -- "रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥" इति । सात्त्विकाश्च पूर्वत एव उक्ताः ॥ अहमित्याद्यनुकूलो नायको दक्षिणो वा । उत्कण्ठिता नायिका । सखी दूतीत्वेन सहायिनी । तल्लक्षणम् -- "प्रवृत्तिकुशला धीरा गूढमन्त्रदृढप्रिया । स्वतन्त्रा विधवा दासी दुष्टा प्रव्रजिता सखी । मालाकारादिनारी च कार्या दूतीष्टसिद्धये" ॥ ९ ॥ तदेव पूर्वसूचितदूषणमुद्भावयति -- स्मरेति ।हे उपेन्द्र, दैवतवैद्यहृद्य अश्विनीसुतसुन्दर ततोऽप्यधिकचिकित्सक, यदि त्वं पूर्वोक्तलक्षणां राधां निवृत्तबाधां निवृत्ता बाधा यस्यास्तां न कुरुषे तर्हि वज्रादपि दारुणोऽसि कठिनोऽसि । कठिनः खलु कथमपि न स्निह्यतीति । किं विशिष्टां राधाम् । स्मरातुराम् । पुनः किंभूताम् । रोगिणां चिकित्सा भविष्यतीत्याशङ्क्याह -- त्वदङ्गेति ।त्वदङ्गसङ्ग एवामृत
रसाच्छृङ्गाररसात्किं न जीवेत् । अपि तु जीवेदेव । अन्यथा त्वं चेन्न प्रसीदसि तदा तया हस्तकोऽपि त्यक्तप्राय इत्यर्थः । संप्रति मूच्छितायास्तस्या वक्तमपारयन्त्यावक्तुमपारयन्त्या हस्तचेष्टयैव सखीषु व्यवहारो भवति सोऽपि तथा त्यक्तव्य इत्यर्थः । अन्यत्रापि ज्वरे सति ज्वरी रोमाञ्चति शीतादिना रोमाञ्चानिवाचरति । वेदनया शीतक्लमात्सीत्कारं करोति । मोहाद्यत्किंचिद्वदति । उत्कम्पते कम्पयुक्तो भवति । ताम्यति विह्वलो भवति । उद्याति वायुवेगाद्धावति । मूर्च्छति मूर्च्छां प्राप्नोति । एतादृश्यतनुज्वरे महति सान्निपातिके ज्वरे कस्यचित्स्वर्वैद्यप्रतिमस्य प्रसादेन रसात्पारदादितो ज्वरी किं न जीवेत् । अपि तु जीवेदेव । ननु सान्निपातिकज्वरे सहसा रसदानं निषिद्धमित्यत आह -- अन्यथेति । अन्यप्रकारेण संहितामार्गेण हस्तकोऽपि वैद्यानां हस्तप्रक्रियाविशेषो "हथवटी" इति लोके प्रसिद्ध उक्तः । संहिताप्रक्रिययोपचारे कृते विशेषप्राप्ते रसदानमुचितमिति भावः । क्वचित् "त्वत्तोऽन्यथा नान्तकः" इति पाठः । तदान्यथा यदि न प्रसीदसि त्वत्तवापेक्षयान्तको न, अपि तु त्वमेवान्तक इत्यर्थः । रोमाञ्चति । द्वितीयव्याख्याने क्विप्प्रत्यये तलोपेऽपि रूपं बोध्यम् । "रसो गन्धे रसः स्वादे तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे" इति विश्वः ॥ ९ ॥ स्मरातुरामिति । हे दैवतवैद्यहृद्य, दैवतानां यौ वैद्यावश्विनीकुमारौ तद्वद्धृद्य मनोज्ञ, स्मरातुरां मदनरुग्णां त्वदङ्गसङ्ग एव यदमृतं तन्मात्रसाध्यां राधां विमुक्तबाधां त्यक्तपीडां न कुरुषे । अतो हेतोरुपेन्द्र वज्रादपि दारुणोऽसि कठिनोऽसि । यतो वज्रमिन्द्रेण क्षिप्तमङ्गसंबद्धं सद्व्यथयति, त्वं तु विश्लेषे सत्येव व्यथयसीति
[^१.] विमुक्तबाधाम् ।
कन्दर्पज्वरसंज्वरातुर[^१]तनोराश्चर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु[^२] क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ ११ ॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
कल्पस्तन्मात्रसाध्याम् । अतोऽल्पप्रयासे बहुतरपुण्ये च प्रयोजने महान्तो नावसीदन्तीति । वृत्तमप्युपेन्द्रवज्रा ॥ १०॥ ईदृशीमवस्थां प्राप्तापि त्वत्सङ्गमाकाङ्क्षयैव प्राणितीत्याह --कन्दर्पेति ।हे माधव, अस्याश्चेतश्चिरं चन्दनचन्द्रमःकमलिनीचिन्तासु यत्संताम्यति तदाश्चर्यम् । किंविशिष्टायाः । कन्दर्पज्वरसंज्वराकुलतनोर्मदनसंतापाकुलशरीरायाः । तापे सति शीतवस्तुषु स्पृहा नास्तीत्याश्चर्यम् । किंतु आश्चर्यान्तरमपि । क्लान्तिवशेन क्षीणा रहस्येकान्ते स्थिता त्वामेवैकं प्रियं शीतलतनुं कथमपि ध्यायन्ती क्षणं क्षणमात्रं प्राणिति जीवति । अत्र शीतलेषु द्वेषः । शीतलादपि जीवतीति विरोधालंकारः । अद्भुतश्च रसः । शार्दूलविक्रीडितं वृत्तम् ॥११॥ इदानीं त्वदागमनहेतुं मनसि स्थिरीकृत्य प्राणितीत्याह -- क्षणेति ।हे माधव, यया राधया पुरा ते विरहः क्षणमपि न सेहे न सोढः । किंभूतया । नयननिमीलनखिन्नया नयननिमीलनेनापि खिन्ना सा तया । भवद्दर्शनान्तरे निमिषेऽपि या दुःखं प्राप्नोति, असौ सांप्रतं चिरविरहेऽपि रसालशाखां चूतशाखां विलोक्य, कथं श्वसिति प्राणिति तन्न जाने । किंविधां रसालशाखाम् । पुष्पिताग्रां पुष्पिताग्रभागाम् । अत्र पुष्पितया चूतशाखया वसन्तो लक्ष्यते । वसन्ते हि
वज्रापेक्षयापि दारुणत्वमिति भावः । उपेन्द्रवज्राछन्दः ॥ १० ॥ ननु शीतोपचारैरेव तनुज्वरशान्तिर्भविष्यतीति किं शपत्यत आह -- कन्दर्पेति ।अहो अस्याश्चेतश्चित्तं चन्दनचन्द्रमःकमलिनीचिन्तासु चन्दनचन्द्रपद्मिनीवार्तास्वपि सखीभिः क्रियमाणासु संताम्यति ग्लानिं प्राप्नोति । कीदृश्याः । कन्दर्पज्वरेण यः संज्वरः संतापस्तेनातुरतनो रुग्णदेहायाः । विरोधोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । नन्वेतादृशे संतापे कथं जीवतीत्यत आह -- किंत्विति ।हे इन प्रभो, त्वामेव प्रियं शीतलतनुं ध्यायन्ती सती क्षणं प्रतिजीवति । कीदृशी । क्षणं रहसि स्थिता । पुनः कीदृशी । उत्क्रान्तिवशा उत्क्रान्तेः प्राणोत्क्रमणस्य वशा आयत्ता । तत्र हेतुगर्भविशेषणमाह । क्षीणा कार्श्यादतिदुर्बला । तथा शीतलं चाङ्गस्पर्शं ध्यायन्ती संप्रति जीवतीति त्वया झटिति गन्तव्यं, पुनस्तस्या दर्शनमपि ते दुर्लभं भवतीति भावः ॥ ११ ॥ ननु इयन्तं कालं यथा जीवति तथाग्रेऽपि जीवतीत्यत आह -- क्षणमिति । अनया राधया ते विरहः पुरा त्वत्सङ्गदशायां क्षणमपि न सेहे न सोढः । कीदृश्या । नयनयोर्निमीलनं निमेषस्तेन खिन्नया दुःखितया । किमिति धात्रा नयनयोर्निमेषः सृष्टः यतः क्षणोऽपि जगदीश्वरमुखारविन्ददर्शने प्रत्यूहो भवतीति खेदयुक्तयेति भावः । असौ राधा विरहेण कथं श्वसिति । जीवतीत्यर्थः । किं
[^१.] "ज्वराकुलतनोः" इति पाठः । [^२.] किंतूत्क्रान्तिवशेन' इति पाठः ।
श्वसिति कथमसौ रसालशाखां
चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ १२ ॥
वृष्टिव्याकुलगोकुलावनर[^१]सादुद्धृत्य गोवर्धनं
बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः ।
दर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ १३ ॥
इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥ ४ ॥
विरहिणो न जीवन्तीत्यत्राकूतम् । सा कथं श्वसितीति चिरविरहेऽपि रसालशाखां विलोक्य । रसालो रससमूहो भवान् । तस्य शाखां अन्तिकं समीपं तां विलोक्य । किंविधां शाखाम् । पुष्पिताग्रां पुष्पितं संजातपुष्पमग्रमुत्तरकालो यस्याः सा ताम् । तवान्तिकं लप्स्य इत्यभिकाङ्क्षया श्वसिति । अथवा पुष्पिताग्रां चूतशाखां दृष्ट्वा श्वसितीति युक्तार्थः । एवंविधां चूतशाखां दृष्ट्वा स्मरशरजर्जरितशरीरः सोऽवश्यं मामेष्यतीति ॥ वृत्तमपि पुष्पितामा ॥ १२ ॥ इदानीं मङ्गलान्तानि च शास्त्राणि प्रथन्त इति न्यायमाचरन्कविराशिषमाह --वृष्टीति ।कंसद्विषः कृष्णस्य बाहुर्भवतां श्रोतॄणां श्रेयांसि तनोतु किं कुर्वन् । उद्धृत्य गोवर्धनं गिरिं बिभ्रत् । कस्मात् । वृष्टिव्याकुलगोकुलावनरसात् । वृष्ट्या व्याकुलं यद्गोकुलं तस्य यदवनं पालनं तत्र रसो रागो वीर्यं वा तस्मात् । पुनः किंभूतो बाहुः । बलववल्लभाभिर्गोपाङ्गनाभिरधिकानन्दाच्चिरं चुम्बितः । पुनः किंभूतो बाहुः । तदर्पिताधरतटीसिन्दूरमुद्राङ्कितः । ताभिश्चुम्बनार्थमर्पिता या अधरतटी तस्याः सिन्दूरमुद्रयेव शोणितत्वेनाङ्कितः । उत्प्रेक्षते । गोवर्धनोद्धरणलक्षणजातगर्वेणेव शोणितः । किंविधस्य कंसद्विषः । गोपतनोः गोपस्य तनुरिव तनुर्यस्य सः । गोपवेषस्येत्यर्थः । अत्राद्भुतो रसः । उत्प्रेक्षोपमे अलंकृती । शार्दूलविक्रीडितं वृत्तम् ॥ १३ ॥ "मालवश्रीः स्मृतो रागस्तालो निःसारसंज्ञकः । वाग्गेयकारनामाङ्कपदतस्तेन सन्ततिः ॥ ततः पाटाः पदानि स्युः पञ्चषणि रसोऽत्र यः । शृङ्गारो वासुदेवस्य क्रीडनं रासकादिभिः ॥ छन्दोऽपि रासको ज्ञेयं स्वेच्छया वा कृतं भवेत् । स्निग्धमधुसूदनोऽयं रासावलयनामकः । प्रबन्धः पृथिवीभर्त्रा प्रबन्धः प्रीतये हरेः ॥ इति स्निग्धमधुसूदनरासावलयनामा नवमः प्रबन्धः ।" इत्ययं नवमप्रबन्धस्य टीकांशो ज्ञेयः ॥ एकस्तावदनूनधन्विविषयस्वीकारलक्ष्योऽपरः स्फूर्जद्गुर्जरशूरनायकजयप्रोद्दामिताडम्बरः ।
कृत्वा । पुष्पिताग्रां पुष्पितोऽग्रभागो यस्यास्तादृशीम् । रसालशाखां चूतशाखां विलोक्य दृष्ट्वा । श्वसितीत्यत्र "वर्तमानसामीप्ये वर्तमानवद्वा" इति लट् । छन्दोऽपि चेदं पुष्पिताग्रानामकमिति ध्वनितम् । तल्लक्षणं वृत्तरत्नाकरे -- "अयुजि नयुगरेफतो यकारो
[^१.] "वनवशात्" इति पाठः ।
हृष्यन्मालवमूलकोषणविधौ सर्गस्तृतीयः कृत-
स्तुर्यः कुम्भमहीभृतात्र विवृतौ श्रीगीतगोविन्दतः ॥
इति श्रीगयाविमुक्तिस्थलकल्पितपितृकुलविमुक्तिदेन श्रीचित्रकूटाधिपतिना
विरचिते गीतगोविन्दविवरणे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥
युजि च नजौ जरगाश्च पुष्पिताग्रा" इति ॥ १२ ॥ ("वृष्टिव्याकुल" इत्यादिश्लोकस्य टीका नोपलभ्यते मूलादर्शपुस्तके ) ॥ १३ ॥ क्व सर्वशास्त्रार्थविचारचातुरी क्व काव्यटीकाव्यसनैर्दिनव्ययः । तथापि कृष्णस्मरणोत्सवो बलाद्विधातुमस्मान्व्यवसाययत्यदः ॥ इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जर्याख्यायां चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः ५ ।
साकाङ्क्षपुण्डरीकाक्षः ।
अहमिह निवसामि याहि राधा-
मनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ १ ॥
देशीवराडीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १० ॥
वहति मलयसमीरे मदनमुपनिधाय
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ १॥
तव विरहे वनमाली सखि सीदति ॥ ध्रुवम् ॥
पुरीमिव पालयिताखिलभुवं कुम्भनरेशो नत्वा शिवम् । गायति धातुं रसिकामृतं जयदेवोदितं मातौ वृतम् ॥ इदानीं सखीनिवेदितो माधवस्तदभिमुखीभूय तदानयनाय सखीं प्रहितवान् । अयमिति ।सेत्यध्याहार्यम् । या पूर्वं प्रहिता राधया सखी सैव स्वयमेव पुना राधामेत्य वक्ष्यमाणं जगाद । किंभूता सखी । मधुरिपुणा इति नियुक्ता इत्यादिष्टा । इतीति किम् । अहमिह यमुनाकुञ्जे निवसामि । यावदागमिष्यति तावत्प्रतीक्षां करिष्य इति । त्वं याहि मद्वचनेन राधामनुनय । अनुनीय च आनयेथाः । पुष्पिताग्रावृत्तम् ॥ १॥ तदेव वक्ष्यमाणमाह । अत्राभिसारिका नायिका वर्णनीया -- "संस्कृतात्प्राकृतमिष्टं ततोऽपभ्रंशभाषणम् । ततः प्रियतरा वेश्या सर्वतश्चाभिसारिका" इति भरतः ॥ तल्लक्षणं भरते --"लज्जां हित्वा समाकृष्टा यौवनेन व्रजेत्तु या । अभिसारगतं कान्तं कीर्तिता साभिसारिका ॥" अत्र पूर्वं "तव विरहे" इति ध्रुवः । अथ पदानि । वहतीति । क्व सति । मदनमुपनिधाय मदनस्य स्पृहामुत्पाद्य मलयसमीरे वहति सति । पुनः क्व सति । विरहिहृदयदलनाय
अहमिति ।मधुरिपुणा इति एवंप्रकारेण नियुक्ता आज्ञप्ता सखी स्वयमेत्यागत्य राधां
वक्ष्यमाणं जगादोवाच । इति किम् । त्वं राधां याहि मद्वचनेन तामनुनय । कृतापराधेन
मया साक्षाद्वक्तुं न शक्यतेऽतो माधवेनैवमेवमुक्तमित्युक्त्वा त्वमनुनयेति भावः । तां च
मदन्तिकमानयेथा आनय । ननु कुत्र मयानेया इत्यत आह । अहमिह निवसामि इहैव
कुञ्जेऽहं तां प्रतीक्षमाणस्तिष्ठामीत्यर्थः ॥ १ ॥ यत्तत्सखीं जगाद तदेव गीतेन कथयति --
वहतीति ।गीतस्यास्य देशीवराडीरागो रूपकतालः । ताललक्षणमुक्तं प्राक् । गीतार्थस्तु -- हे
सखि, वनमाली कृष्णः सीदति । क्व सति । मलयसमीरे मलयसंबन्धिवाते वहति,
कुसुमनिकरे पुष्पसमूहे विरहिणां हृदयदलनाय विदारणाय स्फुटति विकसति सति ।
किं कृत्वा । मदनं काममुपनिधाय समीपवर्तिनं कृत्वा । तथा च कुसुमनिकरैरेव
दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति । तव वि० ॥ २ ॥
ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
मनसि कलितविरहे निशि निशि रुजमुपयाति । तव वि० ॥ ३ ॥
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम । तव वि० ॥ ४ ॥
भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन । तव वि० ॥ ५ ॥
कुसुमनिकरे स्फुटति सति विकसति सति ॥१॥ अपि च ।दहतीति । शिशिरमयूखे हिमरश्मौ दहति सति मरणमनुकरोति मृतकल्पो भवति । तत एवं मदनविशिखे पतति सति विकलतरोऽतिशयेन विकलः सन्नतीव विलपति ॥ २॥ अपि च । ध्वनतीति । मधुपसमूहे ध्वनति सति श्रवणमपिदधाति आच्छादयति । निशि निशि प्रतिरात्रौ मनसि कलितविरहे सति झटिति रुजं पीडामुपयाति प्राप्नोति ॥ ३ ॥ अपि च । वसतीति । विपिनविताने वनविस्तारे चण्डविषकल्पे वने वसति संतिष्ठते । त्वद्विरहेण ललितं मनोहरमपि धाम त्यजति । पुनः किं करोति । धरणिशयने तव नाम कृत्वा परिदेवनं करोति ॥ ४ ॥ अपि च । भणतीति । कविजयदेवे भणति सति विरहविलसितेन वियोगविलासेन रभसविभव उत्साहसंपन्ने मनसि । अर्थात्तव सुकृतेन हरिरुदयं प्राप्नोतु
बाणैस्तत्संनिहितेन कामेन विरहिणां हृदयं विदारणीयमिति भावः ॥ १ ॥ किं च । दह-
तीति ।शिशिरमयूखे हिमकिरणे दहति सति मरणं मरणावस्थामनुकरोति । मरणावस्थायां
यादृशी मूर्च्छादिरूपा चेष्टा तां स्वीकरोति । अथ च मदनविशिखे कामबाणे पतति सति
विकलतरोऽतिविह्वलतरो विलपत्यतिशयेन विलापं करोति ॥ २ ॥ किंच । ध्वनतीति ।
मधुपसमूहे भ्रमरसमूहे ध्वनति गुञ्जति सति श्रवणं श्रोत्रं हस्ताभ्यामपिदधाति मुद्रयति ।
अथ च निशि निशि प्रतिरात्रौ चित्ते रुजं पीडामुपयाति प्राप्नोति । कीदृशे मनसि ।
कलित उद्भूतो विरहो यत्र तादृशे ॥ ३ ॥ किंच । वसतीति । स विपिनविताने वनविस्तारे
वसति तिष्ठति । ललितं मनोहरं धाम मन्दिरं त्यजति । "धाम देहे गृहे रश्मौ
स्थाने जन्मप्रभावयोः" इति विश्वः । किंच स धरणीशयने भूशय्यायां लुठति । तव
नाम "हे प्राणेश्वरि, हे प्रिये, हे राधे" इत्येव बहु वारं वारं विलपति विशेषेण जल्पति ।
॥ ४ ॥ भणतीति । श्रीजयदेवकवौ भणति कथयति ( सति ) यत्सुकृतं पुण्यं जातं
तेन मनसि । अर्थाद्गायतां शृण्वतां च हरिः कृष्ण उदयत्वाविर्भवतु । कीदृशे मनसि ।
रभसस्य कृष्ण कीर्तनविषयोत्साहस्य विभवः प्राचुर्यं यत्र तादृशे हरिविरहविलसितेन
विलासेनोपलक्षिते । वस्तुगत्या तस्य कालान्तर्यामिरूपतया न केनापि सह
विश्लेषः, अपि तु लीलया तस्य विरहविलासमात्रमिति भावः । विरहिविलसितेत्यत्र
पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धय-
स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवाला[^१]पमन्त्रावलीं
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ २ ॥
तव मनसि हरेरनुरागो वसतु ॥ ५ ॥ अत्र वाक्यौचिती सङ्गीतराजे -- "निःसारतालरचितो रागे केदारसंज्ञके । कविनामाङ्कितपदात्पाटैः स्वल्पतरैश्चितः ॥ ततः पद्यं विलासे सोल्लासते जगतीपतेः । इत्थं हरिसमुदयागरुडपदसंज्ञकः ॥ प्रबन्धः पृथिवीभर्त्रा हरिभक्तेन वर्णितः ॥" इति हरिसमुदयागरुडपदनामा दशमः प्रबन्धः ॥ १० ॥ इदानीं त्वय्येव माधवमनोऽस्तीति तां राधां प्रगुणीकरोति --पूर्वं यत्रेति । हे राधे, माधवस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे भूयो बाहुल्येन पुनरपि त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति । लत्कुचयोर्निर्भरो यः परिरम्भः स एवामृतमिव तत्तीर्थादमृतं जलम् । जलं हि कुम्भेनैव ग्राह्यं भवतीत्युक्तिलेशः । किं कुर्वन् । अनिशमनवरतं त्वां ध्यायंस्तवैवालापमन्त्रावलीं जपन् । एकान्तध्यानजपाभ्यां हि देवताग्रतो जाग्रतः पुरः स्फुरत्येव । तस्मिन्निति कस्मिन् । यत्र निकुञ्जमन्मथमहातीर्थे कामतीर्थे पूर्वं रतिपतेः कामस्य त्वयोपलक्षितास्त्वय्येव प्रसन्नायां लभ्याः सिद्धयः समं समकालमविलम्बेनैव प्राप्ताः । रतिपतेरित्यत्र कामस्याभिलषितस्येति वक्तव्ये रतिग्रहणे तस्यामतिशयितप्रीत्युपादानार्थम् । अथवा रतिपतेः कामात्त्वया सहायभूतया समं सिद्धय आसादिताः । तदाप्तये पुनः सहायभूतां त्वामेव वाञ्छति । अथ च यत्र निकुञ्जादौ
"कर्तृकरणयोः" इति सूत्रेण तृतीया ॥ ५ ॥ १० ॥ पुनः कृष्णस्य राधाविषयिणीमुत्कण्ठां श्लोकेनाह -- पूर्वमिति ।हे सखि, माधवः कृष्णो भूयस्त्वदीयौ यौ कुम्भाविव कुचौ स्तनौ तयोर्निर्भरं गाढं यः परीरम्भ आलिङ्गनं तदेवामृतं मोक्षस्तं वाञ्छति । सान्द्रानन्दसन्दोहाविर्भावजनकत्वेन तत्कुचकुम्भपरिरम्भस्य मोक्षत्वेन निरूपणम् । वेदान्तिनां भाट्टानां च मते परमानन्दावाप्तेरेव मोक्षत्वात् । किं कुर्वन् । तस्मिन्नेव निकुञ्जरूपे मन्मथस्य कामस्याधिष्ठानभूते महातीर्थेऽनिशं निरन्तरं त्वामेवेष्टदेवतां ध्यायन् । तवैवालापास्त एव मन्त्रास्तेषामेवावलीं पङ्क्तिं जपन् । महातीर्थे हेतुगर्भं विशेषणमाह -- पूर्वमिति ।पूर्वं पुरा यत्र त्वया सह रतिपतेः कामस्य चुम्बनालिङ्गनादिरूपाः सिद्धय आसादिता माधवेन प्राप्ताः । तथा झटिति वाञ्छितफलप्रदत्वेन महातीर्थं तदपि बोध्यम् । अन्योऽपि साधको मोक्षममृतं वाञ्छन् यत्र सिद्धिं पूर्वं प्राप्नोति तत्रैव सिद्धनिकुञ्जादिमहातीर्थे कस्याश्चिद्देवताया मन्त्रावलीं जपति, तामेव देवतां ध्यायति । अत्रावलीपदोपादानान्मालामन्त्रत्वमस्य प्रतिपादितम् । तत्प्रयोजनं च सिद्धसुसिद्धत्वादिऋणधनादिशोधनमन्त्रेणेव फलसामर्थ्यं प्रतिपादितम् । तदुक्तं योगरत्नावल्याम् -- स्वप्ने पदे स्त्रिया दत्ते मालामन्त्रे तथैव च । वैदिकेषु च सर्वेषु सिद्धादीन्नैव शोधयेत् ॥" इति । निकुञ्जादिमहातीर्थे मन्त्रादि
[^१.] "नाममन्त्रावलीम्" इति पाठः ।
गुर्जरीरागेण एकतालीतालेन गीयते ॥ प्र० ॥ ११ ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ १ ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ।
गोपीपीनपयोधर[^१]मर्दनचञ्चलकरयुगशाली ॥ ध्रुवम् ॥
कामपूरकतीर्थे येन यस्मात्सिद्धिराप्ता स तमेव ध्यायञ्जपन् निर्भरपरीरम्भामृतं मोक्षं वाञ्छतीत्युक्तिलेशः । शार्दूलविक्रीडितं वृत्तम् । अत्र काव्यलिङ्गमलंकारः ॥२॥ सांप्रतं तमभिमुखमभिसर्तुं राधां त्वरयति ॥ तत्र पूर्वं ध्रुवपदं व्याक्रियते -- धीरसमीर इति ।इति पदार्थपाठः कुत्रचिदस्ति । गोपीपीनपयोधरमर्दनचपलेन करयुगलेनाढ्य इत्यर्थः। "आढ्यः शालिनि विख्यातः"। हे राधे, यमुनातीरे वने । यमुनातीरविषये वने । अथवा वेतसवने वनमाली श्रीकृष्णो वसति । किंभूते वने । धीरसमीरे मन्दवायुनि । एतेन वायोस्त्रैविध्यमुक्तम् । तस्याश्च स्थानेनोत्कण्ठा जनिता । इति ध्रुवः ॥रतिसुखेति । हे नितम्बिनि, तं वनमालिनमनुसर । गमनविलम्बनमभिसाराय कालातिक्रमं न कुरु, नितम्बिनी हि बृहन्नितम्बत्वाच्चलितुं न शक्नोतीति तां त्वरयति । किंभूतम् । अभिसारे संकेतस्थाने गतम्। किंभूतेऽभिसारे । रतिसुखसारे रतिसौख्यप्रधाने । किंभूतं तम् । मदनवत्कामवन्मनोहरवेशम् । पुनः किंभूतम् । हृदयेशं मनस ईशम् । तव मनस्तदधीनमित्यर्थः । अथवा हृदये वर्तमानं तं वनमालिन मिति योज्यम् । किंभूतम् ।
जपञ्झटिति फलसिद्धिर्भवतीति ध्वनितम् । तदुक्तं मञ्जूषायाम् -- "गृहे गोष्ठवनारामनदीनागसुरालये । अनुग्रहाद्गुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरम्" इति । "मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्" इत्यमरः ॥ २ ॥ किंचित्प्रसादोन्मुखीं राधां वेगेन गमनाय त्वरयि तुमाह -- रतिसुखेति ।गीतस्यास्य गुर्जरीरागः एकतालीतालः । गीतार्थस्तु -- हे नितम्बिनि प्रशस्तनितम्बवति, हृदयेश्वरं कृष्णमनुसर गच्छ । गमनविलम्बनं गमने कालक्षेपं मा कुरु । कीदृशं तम् । अभिसारेऽभिसरणस्थाने गतं प्राप्तम् । कीदृशेऽभिसारे । रतिसुखस्य सारमुत्कृष्टफलं यत्र तादृशे । पुनः कीदृशम् । मदनस्य कामस्येव मनोहरश्चित्तहरणक्षमो वेशो यस्य तम् । "आकल्पवेशौ नेपथ्यं" इत्यमरः । "वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके" इति विश्वः ॥ १ ॥ अभिसारस्थलमेवाह -- धीरसमीर इति । यमुनातीरे वने वनमाली वनमालाशाली कृष्णो वसति । कीदृशे वने । धीरो मन्दः समीरो वायुर्यत्र तादृशे । अत्र "धीरे" इति पदेन वायोर्मन्दत्वं "यमुनातीर" इत्यनेन शैत्यं "वने" इत्यनेन सौगन्ध्यमुक्तम् । कीदृशो वनमाली । गोपीनां पीनपयोधरमर्दनेन चञ्चच्चञ्चलं यत्करयुगं तेन शालते शोभत इति तथा । पाठान्तरे तु गोपीपीनपयोधरपरिसरस्य मांसलस्तनप्रान्तस्य मर्दनं यत्करयुगं हस्तयुगलं तेन शालितं शोभितं शीलं यस्य तादृशः । "समीरमारुतमरुज्जगत्प्राणसमीरणाः" इत्यमरः । "धीरः पण्डितमन्दयोः" इति धरणिः ॥ इति ध्रुवः ॥ यदि
[^१.] "धरपरिसरमर्दनकर" "मर्दनचञ्चत्कर" इति पाठान्तरम् ।
नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् ।
बहु मनुतेऽत[^१]नु ते तनुसङ्गतपवनचलितमपि रेणुम् । धीर० ॥२॥
पतति पत[^२]त्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् । धीर० ॥ ३ ॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् । धीर० ॥४॥
आयुरेवेदमितिवत्सुखहेतुत्वाच्छमेव ॥ १ ॥ अपि च । नामसमेतमिति । हे राधे, स हरिर्मृदुवेणुं कोमलवंशीं वादयते । मृद्विति क्रियाविशेषणं वा । कथम् । नामसमेतं यथा स्यात्तथा च नामाक्षरसंयुक्तं कृतसंकेतं यथा स्यात्तथा च । पुनस्ते तव तनुः शरीरं शरीरसंगतपवनचलितं रेणुमपि बहु मनुते । कथम् । अतनु अनल्पं यथा भवति तथा ॥ २ ॥ अपि च । पततीति । हे राधे, हरिः शयनं रचयति । तव पन्थानं पश्यति । कथम् । सचकितनयनं यथा भवति तथा । किंभूतं पन्थानम् । शङ्कितभवदुपयानम् । शङ्कितं भवत्या उपयानमागमो यस्मिंस्तत् । क्व सति । पतत्रे पक्षिपत्रे पतति सति । पुनः क्व सति । पत्रे वृक्षपत्रे विचलति सति ॥ ३ ॥ अपि च । मुखरमिति । हे सखि राधे, कुञ्जं चल । अभिसारानुरूपां सामग्रीं शिक्षयति ।
मद्वचने न प्रत्येषि तदा कृष्णेन वाद्यमानं वेणुमेवाकर्णयेत्याह -- नामसमेतमिति । नामसमेतं त्वन्नामाक्षरसहितं यथा स्यादेवं मृदु वेणुं वादयते । हे राधे, प्राणेश्वरि, हे सुन्दरि, इत्येवं कृष्णेन वाद्यमानाद्वेणोः स्वर आविर्भवतीत्यर्थः । कीदृशं वेणुम् । कृतसंकेतं यदा यत्र मया वेणुर्वाद्यते तदा तत्र त्वं राधां नयेत्यर्थः । यद्वा मया कृतो यः संकेतस्तं त्वन्नामसमेतं त्वन्नामाक्षरसहितं वेणुं वादयते । अहमेतस्मिन्निकुञ्जे तिष्ठामि, राधे, त्वरितमेहीति कृष्णेन वाद्यमानो वेणुर्वदतीत्यर्थः । किं च । नन्विति संबोधने । ते तनुसंगतस्त्वदङ्गसंबन्धी यः पवनो वायुस्तेन चलितमागतमपि रेणुं धूलीं बहु मनुतेऽधिकं यथा स्यादेवमाद्रियते । अयं रेणुर्धन्यो यस्तदङ्गसङ्गिना मरुता स्पृश्यते, अहमपि धन्यो यस्तेन रजसा स्पृश्ये, इत्येवं बहु मनुत इति भावः । "रेणुर्द्वयोः स्त्रियां धूलिः" इत्यमरः ॥ २ ॥ किं च । पततीति ।स कृष्णः शयनं शय्यां रचयति । कथम् । यथा पतत्रिणि पक्षिणि पतति गच्छति सति शङ्कितं तर्कितं भवत्या उपयानं समीपे गमनं यत्र एवं यथा स्यात् तथा । कीदृशे पतत्रे । विचलितं पतत्रं पत्रं यस्मात्तत्र । क्वचिद्विचलति पत्र इति पाठः सुगम एव । सचकितनयनं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म पश्यति । पत्रे मर्मरचञ्चलताभ्यामायाता मे प्राणेश्वरीति शङ्कया चकितं पन्थानं पश्यतीति भावः । "पतत्रं पक्षपक्षिणोः" इति धरणिः । तदुपयानमित्यत्र "सर्वनाम्नो वृत्तिमात्र" इति पुंवद्भावः ॥ ३ ॥ गमनोत्कण्ठितां दृष्ट्वाह -- मुखरमिति । हे सखि, मञ्जीरं नूपुरं त्यज । कीदृशम् । केलौ सुलोलं चञ्चलमत एवाधीरममन्दं यथा स्यादेवं मुखरं शब्दायमानम् ।
[^१.] "मनुते ननु ते" इति पाठः । [^२.] "पतत्रिणि विचलितपत्र" इति पाठः ।
उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके । धीर० ॥५॥
मञ्जीरं नूपुरं त्यज । किंभूतं मञ्जीरम् । अधीरमज्ञम् । अत एव मुखरं वाचालम-
भिसारोचितं न जानाति । अथवा साध्वेतन्मञ्जीरस्य मुखरत्वं यतो निमित्तनैमित्तिकं,
कुतो मञ्जीरध्वनावित्यत उत्पत्तेः । पुनः किंभूतम् । केलौ क्रीडायां सुलोलमतिलो-
लम् । अत एव रिपुमिव । अपि च नीलनिचोलं नीलं रक्तकृष्णं वस्त्रं शीलय परिधेहि ।
किंभूतम् । कुञ्जे तिमिरपुञ्जेन सहितं । अथवा सतिमिरपुञ्जं यथा स्यात्तथा चल ॥४॥
उरसीति ।हे राधे, हे पीते पीतवर्णे गौरि, त्वं मुरारेरुरसि सुकृतविपाके पुण्यप-
रिणामे राजसि राजिष्यसि । वर्तमानसामीप्ये वर्तमानवत् । किंभूत उरसि । उपहित
आरोपितो हारो यस्मिन् । का कस्मिन्निव । तरलबलाके चञ्चलपक्षिविशेषे घन इव
मेघ इव । केव तडिदिव । कदा । रतिविपरीते पुरुषायितरतिसमये । उपहितहारमुर-
स्तरलबलाकघनेनोपमीयते । सा पीता तडित् । तस्याः पुरुषायिते चञ्चलत्वम् ॥ ५ ॥
कमिव शत्रुमिव । रिपुरप्यधीर उत्तरलो मुखरो वाचालः केलौ सुलोलश्च भवतीति
मञ्जीरे तत्साम्यम् । हे सखि, तिमिरपुञ्जेनान्धकारसमूहेन सहितं कुञ्जं चल गच्छ ।
नीलं निचोलं प्रच्छदपटं शीलय परिधेहि । "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । "निचोलः
प्रच्छदपटः" इति यादवः ॥ ४ ॥ राधाया अत्युत्कण्ठां जनयितुमाह -- उरसीति ।
हे पीते गौराङ्गि । पुनः कीदृशे । सुकृतविपाके सुकृतस्य पुण्यस्य विपाकः परिणामो
यस्यास्तादृशी । पुनः कीदृशे । उपहितहारे उपहितोऽर्पितो हारो यया तादृशे । रतिविपरीते
रतौ सुरते विपरीते वैपरीत्ये पुंसीभवनाय त्वं मुरारेरुरसि हृदये राजसि । अधुनैव
राजिष्यसि । राजसीत्यत्र भविष्यत्सामीप्ये वर्तमानः । यद्वा "सुकृतविपाके" "उपहितहारे"
इति द्वयमप्युरसीत्यस्यैव विशेषणम् । तदा त्वत्सुकृतस्य विपाकरूपे, उपहितः हारो
यत्र तादृशे उरसीत्यर्थः । केव । तडिदिव विद्युदिव । उरसि कीदृशीव । तरलबलाके ।
तरला चञ्चला बलाका बकपङ्क्तिर्यत्र तादृशे । घन इव मेघ इव । अत्र पीतविद्युतो
राधाया उपमानान्मेघस्य सजलत्वं विवक्षितम् । तदुक्तम् "पीता वर्षाय विज्ञेया" इति ।
अत्र कृष्णहृदयस्य श्यामत्वेन सजलमेघसाम्यम् । राधायाश्चञ्चलहारस्य चञ्चलबलाकाप-
ङ्क्तिसाम्यम् । राधायाश्च तदानीं तरलतया पीततया पीतविद्युत्साम्यम् । अत्र यद्यपि
बलाकाया मेघस्याधः स्थितत्वाद्विद्युतश्चोपरि वर्तमानत्वाद्धारविशिष्टकृष्णोरःस्थलसद्राधोपमानं
च तरलबकपङ्क्तिविशिष्टमेघोपरिस्थितविद्युतो विरुद्धं, तथापि मेघोपरि बकपङ्क्तिर्यदि
भवति तदुपरि च विद्युत्तदैतादृशं राधाया उपमानं भवतीत्यभूतोपमा बोध्या ।
तदुक्तं दण्डिना -- "सर्वपद्मप्रभासारः समाहृत इव द्युचित् । तवाननं विभातीति
तामभूतोपमां विदुः ॥" या तरलबलाके इत्यपि राधाया एव विशेषणम् । तथा च ।
हे तरलबलाके, हे चञ्चलकामुकीत्यर्थः । तस्मिन्कोटिकन्दर्पलावण्ये दृष्टे त्वमेव कामुकी
सती पुरुषायितमाचरिष्यसीति भावः । "बलाका बकपङ्क्तौ स्याद्बलाका बिसकण्ठिका ।
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदा[^१]नम् । धीर० ॥ ६ ॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् । धीर० ॥ ७ ॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ धीर० ॥८॥
विगलितेति ।हे राधे, किसलयशयने शय्यायां वर्तमाने पङ्कजनयने पुण्डरीकाक्षे जघनं घटय । किंभूतं जघनम् । विगलितवसनम्विगलितवसनंस्वयमेव ततः परिहृतरसनं त्यक्तमेखलम् । अत एव वसनपिधानरहितम् । अत एव निधिना उपमीयते । कमिव निधिमिव । किंभूतं निधिं जघनं च । हर्षनिदानं हर्षस्यादिकारणम् ॥ ६ ॥ हरिरभिमानीति । हे राधे, सत्वररचनं शीघ्रसाधनं यथा स्यात्तथा मम वचनं कुरु । किंभूतं वचनम् -मधुरिपुकामं कृष्णवाञ्छां पूरय । न पूर्यते चेत् किं स्यात् । हरिरभिमानी त्वत्तो लाघवं न सहते पश्चात्त्वां त्यक्ष्यति । पश्चादपि करिष्यसि चेदिदानीमेव कुरु । अन्यथेदानीमियं रजनिरपि विरामं याति । अभिसारकालोऽपि यास्यति । वर्तमानसामीप्याद्वर्तमानवत् ॥ ७ ॥ श्रीजयदेवेति ।हे वैष्णवाः, हरिं नमत नमस्कुरुत । किंभूतं हरिम् । जयदेवे अतिसदयम् । किंभूते जयदेवे । परमरमणीयमिदं पूर्वोक्तं भणति । तत एव
बलाका कामुकी प्रोक्ता बलाका रवको मतः" (?) इति शाश्वतः ॥५॥ पुरुषायितसुखोत्कण्ठां कारयित्वा संप्रति नायककृतरतोत्कण्ठां जनयितुमाह -- विगलितमिति । हे पङ्कजनयने पद्मनयने राधे, किसलयशयने नवपल्लवशय्यायां कृष्णेन रचितायां जघनं घटय आरोपय । कीदृशं जवनम् । विगलितं कोटिकन्दर्पलावण्यश्रीकृष्णदर्शनेन स्वयमेव स्खलितं वसनं यस्य तत् । अत एवापिधानमनावरणम् । पुनः कीदृशम् । परिहृता दूरीकृता रसना क्षुद्रघण्टिका येन तादृशम् । पुनः कीदृशम् । हर्षस्यानन्दस्य निधानं गृहम् । कमिव । निधिमिव । "रसना काञ्चिजिह्वयोः" इति विश्वः ॥ ६ ॥ हरिरिति ।हरिः कृष्णोऽभिमानी मनस्वी । तथा चैतावता दैन्येनापि दुर्ग्रहमत्यजन्त्यां त्वयि को वेदौदास्यमेवाचरेदिति भावः । इयं रजनिरपि रात्रिरपीदानीं विराममवसानं याति । तथा च मम वचनं "चल सखि कुञ्जम्" इत्यादि मद्वाक्यं कुरु । कीदृशम् । सत्वरं त्वरया वेगेन सहितं गमनं रचयेति सत्वररचनम् । मधुरिपोः कृष्णस्य कामं वाञ्छां पूरय । नायिका चात्राभिसारिका । तल्लक्षणं च रसार्णवे "मदनानलसंतप्ता याभिसारयति प्रियम् । ज्यौत्स्नीतमस्विनीयानयोग्याम्बरविभूषणा ॥ स्वयं चाभिसरेद्या तु सा भवेदभिसारिका ॥" इति ॥ ७ ॥ श्रीजयदेवेति ।श्रीजयदेवे कवौ । कृता हरेः सेवा येन तादृशे परमरमणीयं यथा स्यादेवं भणति सति । हे जनाः, हरिं कृष्णं नमत । कथम् । प्रमुदितमानन्दयुक्तं हृदयं यथा स्यात्तथा तादृशम् ।
[^१.] "निधानम्" इति पाठः ।
विकिरति मुहुः श्वासाना[^१]शाः पुरो मुहुरीक्षते
प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३ ॥
प्रमुदितहृदयम् । पुनः किंभूते जयदेवे । कृतहरिसेवे । किंभूतं हरिम् । सुकृतमिव कमनीयं मनोहरम् ॥ ८ ॥ इदानीं सत्वरागमनाय प्रोत्साहयति -- विकिरतीति । हे कान्ते, तव प्रियो मदनकदनक्लान्तो वर्तते मदनेन क्लान्तिं प्राप्तो वर्तते । तथाविधः सन्किं करोतीत्याह -- त्वं नागतैवेति कृत्वा मुहुः श्वासान्विकिरति निःश्वासधारां मुञ्चति । नागतैवेति कृत्वा मुहुर्वारंवारमाशा ईक्षते विलोकयति । व्याकुलतया कस्या दिशः समेष्यतीति सर्वा एककालमिवावलोकयति । तत्राप्यदृष्ट्वा भ्रान्तः सन्कुञ्जं प्रविष्टा भविष्यतीति मुहुर्वारंवारं कुञ्जं प्रविशति । मुहुर्मुहुरिति कोऽर्थः ? तत्राप्यदृष्ट्वा बहिर्निर्यातस्तत्रैव निह्नुत इव तिष्ठतीति मुहुर्मुहुः प्रविशतीति । मुहुर्मुहुर्वारंवारं "कुतो नागता, किं केनचिन्निवारिता, उत कुतो भयाद्वा" इत्यादि तस्या अनागमनहेतुं विमृश्य मुहुर्वारंवारं बहु बहुविधं गुञ्जन् अव्यक्तशब्दं कुर्वन् ताम्यति ग्लायति । अथवा वृथेदं विमर्शनम्, आगमिष्यत्येवेति मुहुःशय्यां रचयति । तथाप्यदृष्ट्वा पर्याकुलं यथा स्यात्तथा ममानुरागादागमिष्यत्येवेति मुहुरीक्षते
कीदृशं हरिम् । सदयं दयासहितम् । पुनः कीदृशम् । सुकृतेन पुण्येन कमनीयं वाञ्छनीयम् ॥ ८ ॥ श्लोकेनापि नायकस्योत्कण्ठामाह -- विकिरतीति ।हे कान्ते, तव प्रियो मदनकदनक्लान्तः । मदनः कामस्तज्जनितं कदनं दुःखं तेन क्लान्तो ग्लानो वर्तते । मुहुर्वारंवारं श्वासान्संतापनिःश्वासान्विकिरति क्षिपति । नासापुरो नासाग्रं मुहुर्वारंवारमीक्षते । ध्यानेनापि प्रियां पश्यामीति नासाग्रं वीक्षमाणस्त्वां ध्यायतीति भावः । ध्यानसमये नासाग्रवीक्षणेन मनःसंयमो भवतीति नासापुर इत्युक्तम् । क्वचित् "श्वासानाशा" इति तालव्यशकारवान्पाठस्तदा श्वासान्विकिरति । अथ पुर आशाः पुरोभागस्थदिशः अनेन वर्त्मनागमिष्यतीत्याशयेन दृष्ट्वा मुहुरीक्षत इत्यर्थः । मुहुर्वारंवारं कुञ्जं प्रविशति गुञ्जञ्शब्दं कुर्वन्कदाचिदनेन वर्त्मनागत्य निलीय तिष्ठतीत्याशयेन ध्याने त्वां दृष्ट्वा केलये वा कुञ्जं प्रविशतीत्यर्थः । मुहुर्वारंवारं बह्वधिकं यथा स्यादेवं ताम्यति ग्लानो भवति । ध्यानविच्छेदे त्वां तत्रापश्यंस्ताम्यतीति भावः । क्वचित् "कूजन्मुहुस्ताम्यति" इति पाठः । तदा कूजन्नार्तनादं कुर्वंस्ताम्यतीत्यर्थः । मुहुर्वारंवारं शय्यां रचयति । एतावत्कालं गुरुजनभीत्या नायातातः परमायास्यतीति शय्यां रचयतीति भावः । मुहुर्वारंवारं परित आकुलं यथा स्यादेवमीक्षते । "नासा तु नासिकायां स्यात्" इति विश्वः । "आशास्तृष्णा दिशः प्रोक्ताः" इति च ॥ ३ ॥ पुनरपि
[^१.] "न्नासापुरो" इति पाठः ।
त्व[^१]द्वाम्येन समं समग्रमधुना तिग्मांशुरस्तंगतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्व[^२]नेन सदृशी दीर्घा मदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ४ ॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तजप्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
इति कदनशब्दतात्पर्यम् । हरिणी छन्दः । दीपकालंकारः ॥ ३ ॥ इदानीं सांप्रतमेव गन्तुं सांप्रतमिति हेतुमाह --त्वद्वाम्येनेति । हे मुग्धे, समग्रं यथा स्यात्तथाधुना त्वद्वाम्येन समं तव वक्रतया सहितं रविरस्तं गतः । ( रविः ) तवाभिमानश्चोभयमेवाभिसारविलम्बकर्तृ गतमित्यर्थः । च पुनर्गोविन्दस्य मनोरथेन सह तमः सान्द्रतां प्राप्तम् । तिग्मांशावस्तं गते चन्द्रे चानुदिते तमः सान्द्रं भवत्येव । अयं कालोऽभिसारत्वरायै । अनु च सान्द्रे तमसि मत्प्रियागमिष्यतीति गोविन्दस्य मनोरथो वृद्धिं प्राप्तः । अनु च मम प्रार्थना कोकानां चक्रवाकानां करुणस्वनेन सदृशी दीर्घा जाता । सहशीति विरहाधिक्यात्करुणनिवेदकस्वरत्वाच्च । तत्तस्मात्कारणाद्विलम्बनं विफलमभिसरणक्षणातिपातो निरर्थकः । असावभिसारक्षणो रम्यो वर्तते । ईदृशी प्रियवादिनी प्रियसखी, सान्द्रान्धतमसं चानुकूलं, नीलनिचोलादि साधनं, प्रियतमस्त्वदेकतानः । एवं सति गमनविलम्बने "मुग्धे" इति संबोधनमौचितीमावहति । सहोक्तिरलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४ ॥ तत्रागतायास्ते बहुविधकामकौतुकं भविष्यतीति प्रलोभयति -- आश्लेषादिति । इह तमसि वर्तमाने दम्पत्योर्व्रीडाविमिश्रः कः को रसो न इति न । अपि तु सर्व एव रसो भवतीति । व्रीडाविमिश्रत्वे
त्वरयितुमाह -- त्वद्बाष्पेति ।हे मुग्धे, असावभिसारक्षणोऽभिसारयोग्यः क्षणो रम्यस्ततो विलम्बनं विफलं निष्फलम् । रम्यत्वहेतुमाह । त्वद्बाष्पेण त्वदीयनेत्रजलेन सह तिग्मांशुः सूर्यः समग्रं यथा स्यात्सामस्त्येन यथा स्यादेवमस्तं गतः । त्वदीयबाष्पमप्यस्तं गतं सूर्योऽप्यस्तं गत इत्यर्थः । क्वचित् "वाक्येन समम्" इति पाठः । तदा त्वदीयवाक्येन त्वदीयवचनेन समं तिग्मांशुरस्तं गतः । मयि गमनाय त्वरयन्त्यामुत्तरमप्रयच्छन्त्यास्ते वाक्यं मुखान्नोपलभ्यत इत्यर्थः । तमस्तिमिरं गोविन्दस्य मनोरथेन समं वाञ्छया सह सान्द्रतां निबिडतां प्राप्तं गतम् । गोविन्दस्य मनोरथोऽन्धकारश्च निबिडो जात इत्यर्थः । कोकानां चक्रवाकानां करुणस्वरेण करुणरसगर्भेण ( ध्वनिना ) सदृशी दीर्घा विस्तीर्णा मदभ्यर्थना संपन्ना । यथा कोकानां करुणस्वरो नानाप्रकारः श्रूयत एवं मदीया वागुक्तयोsपि संप्रति तवाग्रे भवन्तीति भावः । अयं सहोक्तिनामालंकारः । तदुक्तं दण्डिना -- "सहोक्तिः सहभावेन कथनं गुणकर्मणाम्" इति ॥ ४ ॥ पुनरप्यन्धकारस्य नैबिड्यकथनेनाभिसारक्षणस्यातिरम्यतामेवाह -- आश्लेषादिति । इह तमसि दम्पत्योर्जा
[^१.] "त्वद्बाष्पेण" "त्वद्वाक्येन" इति च पाठौ । [^२.] "स्वरेण" इति पाठः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैर्जानतो-
र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ५ ॥
हि सर्वमपि सर्वरसागमं भवतीति । किंभूतयोर्दम्पत्योः अन्यार्थं गतयोः परस्त्रीपर-
पुरुषत्वेन प्राप्तयोः । पुनः किंभूतयोः । भ्रमान्मिलितयोः प्रतिकुञ्जमितस्ततः परिभ्र-
मणान्मिलितयोः । सान्द्रे तमसि परस्परालापैरेव जानतोः । अथवालापैरित्यत्र सात्वि-
कभावेन स्वरभङ्गादेवावगमात् । अथवान्यमर्थं प्रयोजनमुद्दिश्य गतयोः । परस्त्रीपरपु-
रुषौ हि व्याजान्तरेणैव मिलतः । अन्येषां भ्रान्तिमुत्पाद्य मिलितयोः । तमेव रसमाह
-- आश्लेषादनु भयस्थायिभावो भयानकः प्रादुर्भावमासादयति । चुम्बनादनु मा मेति
क्षामाक्षरोल्लापिनीं कान्तां कामलप्य कृतं हठवृत्त्येति शोकमिवानुभवन्करुणाकलि-
तान्तःकरणो भवति । तदनु प्रोत्साहनार्थमुत्साहात्मा नखोल्लेखादनु वीरोऽवत-
रति । एवं साधने संमिलिते किमिदमपूर्वं सुखमन्वभवमिति भावान्तरं गमितयोर्वि-
स्मयसहचरोऽद्भुत उद्भटतामाटीकते । एवं च कोमोद्बोधे नानाविलासविलसितादनु हा-
ससहावस्थानो हास्यः समुल्लसति । एवं कृतपरिकरसंकरः सकलरसचक्रवर्ती आनन्द-
मधुसन्दोहमधुरो रतिसहचरः शृङ्गाररसः समुन्मिषति । तद्व्यतिकरादनु प्रीतयोरुक्त-
रसः सर्वोऽपि व्रीडासंवलितः शृङ्गारत्वे समुन्मिषति । अत्राश्लेषानन्तरं चुम्बनं, ततो
नखक्षतं, ततः कामविकाराः ततो मैथुनं, ततः प्रीतिः, ततो रसभावनेति क्रमोऽपि
कामशास्त्रकथितः । तदुक्तं भरते -- "आश्लेषचुम्बननखक्षतकामबोधशीघ्रत्वमैथुनमन-
न्तसुखप्रबोधम् । प्रीतिस्ततोऽपि रसभावनमेव कार्यमेवं नितान्तचतुराः सुचिरं रम-
ते ॥" शार्दूलविक्रीडितं छन्दः । दीपकमलंकारः समुच्चयो भ्रान्तिमांश्च ॥ ५॥
यापत्योः को न व्रीडाविमिश्रो लज्जासमन्वितो रस आविर्भवतीत्यर्थः । कीदृशोर्दम्पत्योः ।
अन्यार्थं गतयोरन्यां नायिकामन्यनायकं चोद्दिश्य गतयोः । पुनः कीदृशोः । आश्लेषादनु
आलिङ्गनात्पश्चाच्चुम्बनं तदनु यो नखोल्लेखः, तदनु यः संभ्रमः संभोगादरः
कामोद्वेगः, तदनु यो रतारम्भः सुरतारम्भः, तदनु प्रीतयोर्लब्धानन्दयोः संभाषणैर्जानतोरन्य-
नायिकानामग्राहिपत्युरन्यनायकनामग्राहिपत्न्याश्चालापैः कथं पतिः कथमियं मे पत्नीतिस्वर-
विशेषेण जानतोरित्यर्थः । रतान्ते परस्परं ज्ञातेऽपि न तुल्यापराधात्परस्परदोषोद्भावनम् ।
किंतु लज्जासहितः शृङ्गाररस एवाविर्भवतीत्यर्थः । अथ प्रथमाश्लेषस्ततश्चुम्बनं
ततो नखक्षतं ततः कामोद्रेकस्ततः संभ्रमस्ततो रतान्तस्ततः प्रीतिस्ततो रसभावनमिति
कामशास्त्रसिद्धः क्रमोऽपि कथितः । तदुक्तं भरते -- "आश्लेषचुम्बननखक्षतकामबोध-
शीघ्रत्वमैथुनमनन्तसुखप्रबोधम् । प्रीतिस्ततोऽपि रसभावनमेव कार्यमेवं नितान्तचतुराः सुचिरं
रमन्ते" इति । नन्वष्टधा सुरतरतमप्युक्तं कामशास्त्रे तत्र च दन्तक्षतकूजितकेशग्रहणादिक-
मप्युक्तम् । तथा च कामशास्त्रोक्तक्रमरक्षा नेति न वाच्यम् । तस्य निःशङ्ककेलिक्रमा-
धायकत्वादिह तु परपुरुषं परनारीं चोद्दिश्य गतयोः शङ्काकुलचित्तत्वात्संक्षिप्तपूर्वोक्तक्रमेणैव
सुरतारम्भ इति भावः । तथाह रुद्रः -- ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु" इति । तस्मादेतादृशे गाढान्धकारे ते गमनविलम्बनमनुचितमिति
सभयचकितं विन्यस्यन्तीं दृ[^१]शं तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ६ ॥
राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थलीनेपथ्योचितनीलरत्नमवनीभारावतारान्तकः ।
इदानीं त्वत्प्राप्तिरेव श्रीकृष्णस्य सर्वस्वमिति दर्शयन्त्याह -- सभयेति ।हे सुमुखि राधे, स सुभगः श्रीकृष्णस्त्वां पश्यञ्जानन्कृतार्थतामुपैतु कृतकृत्यो भवतु । अत्र दृशिर्ज्ञाने वर्तते । किंभूतां त्वाम् । तिमिरे तिमिरवति पथि मार्गे सभयचकितं यथा स्यात्तथा दृशं विन्यस्यन्तीम् । सभयचकितमिति भयविस्मयस्थायिभावौ भयानकाद्भुतावुक्तौ भवतः । निबिडे हि तमसि भयं भवत्येव । तादृशी च भावितभयानके पथि संकेतस्थानं यामीति विस्मयः । एवं प्रियस्यापि प्रियतमेन समं समागमो भविष्यति न वेति शङ्कावकाशोऽपि । किंभूतां त्वाम् । प्रतितरु तरुं तरुं प्रति स्वननितम्बभारभरालसतया मुहुर्वारंवारं स्थित्वा कोऽपि मां मा द्राक्षीदिति मन्दं पदानि वितन्वतीम् । प्रतितरु अत्र वा स मे प्रियो भविष्यतीत्याशङ्कया मुहुः स्थित्वेति योजनीयम् । किंभूताम् । कथमपि केनचित्प्रकारेण पूर्वोक्तसखीवचननीलनिचोलादिसाधनसंपत्त्याभिमानपरित्यागेन मय्यनुकम्पया वा रहः प्राप्ताम् । पुनः किंभूताम् । अनङ्गतरङ्गिभिः कामकल्लोलकलैरङ्गैरुपलक्षिताम् । अत्र तमसो नैबिड्याद्दर्शनायोग्यत्वेऽङ्गस्पर्शनादेव ज्ञातेति कृत्वा दृशेर्ज्ञानार्थो व्याख्यात इत्याकूतम् । अत्र हरिणी वृत्तम् । अतिशयोक्तिरलंकारः ॥ ६ ॥ इदानीं संभोगाख्यं शृङ्गारमवतारयंस्तदापातनिकाद्वारेण सर्गान्ताशिषमाह -राधामुग्धेति ।देवकीनन्दनः श्रीकृष्णस्त्वामवतु रक्षतु । किंभूतो देवकीनन्दनः । राधामुग्धमुखारविन्दमधुपः । मुखमरविन्दमिव मुखारविन्दं, मुग्धं च तत् मुखारविन्दं च मुग्धमुखारविन्दम् । राधाया मुग्धमुखारविन्दं तस्मिन्मधुप इव मधुपः । अनेन भावी संभोगो द्योतितः । पुनः किंभूतो हरिः । त्रैलोक्यमौलिस्थलीनां
भावः । "दम्पती जम्पती जायापती भार्यापती च तौ" इत्यमरः ॥ ५ ॥ पुनरपि त्वरयितुं कृष्णोत्कण्ठामाह -- सभयेति । हे सुमुखि, सुभगः शोभनः श्रीकृष्णस्त्वां पश्यन्कृतार्थतामुपैतु प्राप्नोतु । कीदृशीम् । तिमिरेऽन्धकारे सति पथि वर्त्मनि तदा भयचकितं भयसहितं यथा स्यादेवं दृशं नेत्रं विन्यस्यन्तीमर्पयन्तीम् । पुनः कीदृशीं त्वाम् । प्रतितरु तरुं तरुं प्रति मुहुः पुनः पुनः स्थित्वा मन्दं यथा स्यादेवं पदानि वितन्वतीम् । गाढान्धकारे तमालविटपेषु को वेदात्र कृष्णः स्थितो भविष्यतीत्याशयेन वायमेव कृष्ण इति भ्रमात्तदन्तिकमुपेत्य पश्चाद्विशेषदर्शने सति तत उत्थाय पुनरग्रे तथेत्येवं प्रतितरु स्थित्वा गच्छन्तीमिति भावः । पुनः कीदृशीम् । कथमपि शनैः शनैश्चरणक्षेपादिना रह
[^१.] "दृशौ" इति पाठः ।
स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोद[^१]यः ।
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ७ ॥
इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो
नाम पञ्चमः सर्गः ॥ ५ ॥
किरीटदेशादीनां नेपथ्योचितं भूषणोचितं नीलरत्नमिव । पुनः किंभूतो देवकीनन्दनः ।
अवन्या भूमेर्भारायावतारो जन्म येषां शिशुपालदन्तवक्त्रादीनां तेषामन्तक इवा-
न्तकः । यमसदृशोऽभूदित्यर्थः । पुनः किंभूतो देवकीनन्दनः । व्रजे सुन्दर्यः व्रज-
सुन्दर्य: । व्रजसुन्दरीणां जनस्तस्य मनस्तोषप्रदोषोदय इव । पुनः किंभूतो हरिः ।
कंसध्वंसनधूमकेतुः कंसस्य ध्वंसनं विनाशस्तत्र धूमकेतुरिव विनाशसूचकस्तारा-
विशेष इव । जातमात्र एव कंसविनाशं सूचितवानित्यर्थः । अत्र कंसध्वंसने गोपीनां पर-
मेश्वरादन्यत्र गतिविनाशे धूमकेतुर्बृहद्भानुरिव प्रकाशकत्वात् । प्रकाशे हि स्वेच्छावि-
हारभङ्गो जायते । अथवा कसेः शातनार्थत्वाद्राधायाः कामेन यच्छातनं तत्र
धूमकेतुरिव । स्वच्छन्दप्रदोषोदय इति यदा यदा प्रदोषोदयं वाञ्छति तदा तदा स
एवेति । अथवा प्रगतो दोषोदयो यस्मात्तेन सह क्रीडतीनांक्रीडन्तीनां दोष एव नास्तीति ।
अथ च राधामुग्धमुखारविन्दे मधु माधुर्यं पाति रक्षतीति । चिरं विप्रलम्भे हि
प्रियदर्शनान्माधुर्यमुपपद्यत एवेति पदानामौचिती । अत्र श्लेषलुप्तोपमापरिकरवर्णोप-
मालंकाराः । शार्दूलविक्रीडितं वृत्तम् । पाञ्चाली रीतिः । आरभटी वृत्तिः । गीत्यादि
पूर्वोक्तमेव ॥ ७ ॥
प्रत्याहवं पञ्चतयारिसैन्यं यो योजयत्याहवकुम्भकर्णः ।
स कुम्भकर्णो रसिकप्रियायाः समस्करोत्पञ्चतयात्र सर्गम् ॥
इति कुम्भकर्णेन विरचितायां गीतगोविन्दटीकायां
रसिकप्रियायां सर्गोऽगात्पञ्चमः ॥
एकान्तस्थलं प्राप्ताम् । पुनः कीदृशीम् । अनङ्गतरङ्गिभिरनङ्गस्य कामस्य यस्तरङ्गः पुनः-
पुनरुद्बोधस्तद्युक्तैरङ्गैरुपलक्षिताम् । अङ्गैरित्यत्र विशेषणे तृतीया ॥ ६ ॥ ( अत्र राधामुग्धे-
त्यादिश्लोकस्य टीका नोपलब्धादर्शपुस्तके । ) ॥ ७ ॥
नो भूपाः कति सन्ति तेषु विरला विद्वद्गुणग्राहिण-
स्तन्मध्येऽपि नवप्रबन्धगणनानिर्बन्धिनो दुर्लभाः ।
द्वित्रास्तेष्वपि कैटभद्विडुदयत्प्रेमानुबन्धाः क्षिता-
वेतेषां धुरमेक एव वहति श्रीशालिनाथप्रभुः ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां पञ्चमः सर्गः ॥ ५ ॥
[^१.] "तोषप्रदोषश्चिरम्" इति पाठः । षष्ठः सर्गः ६
धन्यवैकुण्ठकुङ्कुमः ।
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ १ ॥
गो[^१]ण्डकरीरागेण रूपकतालेन गीयते । प्र० ॥ १२ ॥
पश्यति दिशि दिशि रहसि भवन्तम् ।
तदध[^२]रमधुरमधूनि पिबन्तम् ॥
नाथ हरे सीदति राधाऽऽवासगृहे ॥ ध्रुवम् ॥ १ ॥
इदानीं कुत्रचित्कुञ्जे राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति -- अथ तामिति ।अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास । किंभूते गोविन्दे । मनसिजमन्दे । किं कृत्वा । तां राधां गन्तुमशक्तां ज्ञात्वा । शरीरान्तर्वर्तिन्याः शक्तेर्दर्शनाविषयत्वेन दृष्ट्वेति दृशिरत्र ज्ञानार्थः । किंभूताम् । तां चिरं गोविन्देऽनुरक्ताम् । अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम् । अत्रैव लतागृहे सङ्केतस्य कृतत्वात् । आर्याछन्दः ॥ १ ॥ पूर्वं ध्रुवपदं व्याक्रियते । नाथ हरे इति । हे नाथ, आवासगृहे सङ्केतस्थाने राधा सीदती अवसादं प्राप्नोति ॥ अथ पदानि ॥ पश्यतीति । सा राधा रहसि रहोनिमित्तान्तरनिमित्तम् एकान्तनिमित्तं वा दिशि दिशि भवन्तं पश्यति । सर्वा दिशस्तस्यास्त्वन्मया एव जाता इत्यर्थः । त्वदद्वैतमभवदित्यर्थः । "सङ्गमविरहविवेके वरमिव विरहो न सङ्गमस्तस्याः । सङ्गे सापि तथैका त्रिभुवनमपि तन्मयं विरहे ॥" किं कुर्वन्तम् । तदधरमधुरमधूनि पिबन्तम् ।
अथेति । अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच । कीदृशे गोविन्दे । मनसिजेन कामेन मन्दे मन्दगतौ । किं कृत्वा । तां राधां लतागृहे क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वास्मिन्नेव लतागृहे केलिः कर्तव्येति चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः । पुनः कीदृशम् । गन्तुमशक्तां कृष्णान्तिकं प्रयातुमसमर्थाम्। "मन्दः खले मन्दगते मूर्खे स्वैरेऽल्परोगिणोः" इति विश्वः ॥ १ ॥ भाषया यदुवाच तद्गीतेन कथयति -- पश्यतीति । गीतस्यास्य गुणकरी रागो रूपकतालः । गीतार्थस्तु -- हे नाथ हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति । विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः । रहस्येकान्ते दिशि दिशि भवन्तं पश्यति । कीदृशं भवन्तम् । त्वदधरमधुरमधूनि त्वदीयाधररूपाणि मधुरमधूनि पिबन्तमास्वादयन्तम् । भावनया स्वकीयाधरपानं कुर्वन्तं त्वामेव दिशि दिशि पश्यतीति भावः । यद्वा त्वछब्दस्त्वन्यवाचकः । तथा च त्वदधरमधुरमधूनि त्वत्तोऽन्यस्या नायिकाया अधरमधुरमधूनि पिबन्तं दिशि दिशि पश्यतीति भावः । त्वच्छब्दस्तकारा
[^१.] "गुणकरि" इति पाठः । [^२.] "त्वदधर" इति पाठः ।
त्वदभिसरणरभसेन व[^१]लन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ २ ॥
विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ नाथ हरे० ॥ ३ ॥
मुहुरवलोकितमण्ड[^२]नलीला ।
मधुरिपुरहमिति भावनशीला ॥ नाथ हरे० ॥ ४ ॥
तस्या राधाया एव अधरमधूनि पिबन्तम् । एवमवस्थमेवेत्यर्थः । तदधरसंसर्गान्मधु-
राणि मधूनि यान्यक्षराणि तानि शृण्वन्तम् । अत्यादरं श्रवणं पानमुच्यते । तस्या-
दरश्रवणेन तस्यालीकत्वं द्योत्यते । प्रतिवञ्चनाभावात् ॥ १ ॥ त्वदभिसरणेति ।
हे माधव, सा राधा त्वदभिसरणे रभसेन वलन्ती संभजमाना । अर्थादभिसारवेगम् ।
कियन्ति पदानि चलन्ती सती पतति । तस्मात्स्थानादधिकं गन्तुमशक्तेत्यर्थः ॥ २ ॥
विहितेति ।सा परं तव रतिकलया रतिविज्ञानेन रतिशिल्पेन परं जीवति नान्य
उपायः । किंभूता सा । कृतपाण्डुरमृणालाङ्कुरकटका ॥ ३ ॥ मुहुरिति । सा
मुहुर्वारंवारमवलोकिता मण्डनानां लीला विलासो यया सा । इमानि तानि मण्ड-
नानि तत्सुरतसमारम्भयोग्यानीति मुहुर्मुहुः कानिचित्परिदधाति । किंभूता सती ।
अहं मधुरिपुरिति भावनशीला ध्यानस्वभावा । एतेन स्त्रीयोग्यानि मण्डनानि मुक्त्वा
त्वद्विरहदुःखापनोदाय पुरुषायितसुरतयोग्यानि मण्डनानि दधाना स्वयमेव त्वद्रूपीभूय
कालमतिवाहयतीत्यर्थः । अथवा त्वदलाभात्स्वयमेव त्वं च राधा च भूत्वा । "स्त्रीणां
प्रियालोकफलो हि वेशः" इति त्वच्चेतोहराणि मण्डनानि आदधाना वर्तते ॥ ४ ॥
न्तोऽन्यपर्यायः सर्वनामगणे पठितः । तदुक्तं सर्वादिगणव्याख्याने प्रक्रियाप्रसादे "त्वच्छब्दोऽन्यवाची द्विःपठितः स्वरभेद एक उदात्तोऽनुदात्तः" इति काशिकाकारमतम् । ग्रन्थान्तरमते तु "एकोऽकारान्तोऽन्यस्तकारान्तो द्वावप्यानुदात्तौ"द्वावप्यनुदात्तौ" इति । "भोगावासो वासगृहम्" इति हारावली ॥ १ ॥ ननु किमिति सीदति, अत्रैव किमिति नायातीत्यत आह -- त्वदिति । तवाभिसारे यो रभस उत्साहस्तेन चलन्ती प्रसाधनादौ व्याप्रियमाणा कियन्ति पदानि कतिपयानि पदानि चलन्ती त्वदन्तिकमागन्तुं गच्छन्ती पतति स्खलति । तथा च त्वद्विरहसंतप्ता त्वदन्तिकमागन्तुमसमर्था ॥ २ ॥ नन्वेवं चेदशक्ता तहिं कथं जीवतीत्यत आह -- विहितेति । सा परं केवलं तव रतिकलया पूर्वानुभूतायास्तव रतेराकलनेन जीवति । कीदृशी । विहितानि विशदैतर्निर्मलैर्बिसैर्मृणालैः किसलयैर्नवपल्लवैश्च वलयानि कङ्कणानि यस्याः सा । "कलनाकालयोः कला" इति विश्वः । "वलयं कङ्कणेऽपि च" इत्यपि ॥ ३ ॥ पुनः कीदृशी । मुहुरिति । मुहुर्वारंवारमवलोकिता वीक्षिता मण्डनैर्मुकुटकुण्डलवनमालाभिर्लीला तवानुकृतिर्यया सा । पुनः कीदृशी । अहं मधुरिपुरिति भावनशीला चिन्तनपरा । रहसि तव वेशं विधायानुरागातिशयेनाहमेव
[^१.] "चलन्ती" इति पाठः । [^२.] "मण्डललीला" इति पाठः ।
त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ नाथ हरे० ॥ ५ ॥
श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ नाथ हरे० ॥ ६ ॥
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ नाथ हरे० ॥ ७ ॥
श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ नाथ हरे० ॥ ८ ॥
त्वरितेति । सा राधा अनुवारं वारंवारं सखीमिति वदति । इतीति किम् । हे सखि, हरिस्त्वरितं शीघ्रं अभिसारं सङ्केतस्थानं कथं नोपैति कथं न याति ॥ ५ ॥ श्लिष्यतीति ।हे हरे, सा हरिरुपगत इति कृत्वा स्निग्धनीलत्वसाम्यादनपं स्थूलं तिमिरमन्धकारं श्लिष्यति चुम्बति च । किंभूतं तिमिरम् । किंचिज्जलधरसदृशम् ॥ ६ ॥ भवतीति । हे हरे, सा वासकसज्जा नाम नायिका । भवति त्वयि विलम्बनकारिणि सति विलपति विलापान्करोति । रोदिति अश्रूणि विमुञ्चति । "दूतीमहरहः प्रेष्य सज्जिते वासवेश्मनि । यस्या न मिलति प्रेयान्सा हि वासकसज्जिका ॥" इति ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवकवेरिदमुदितं रसिकजनं अतिमुदितं हृष्टतरं तनुताम् । अथवा रसिकजने मुदितं हर्षं तनुताम् ॥ ८ ॥ तथा च सङ्गीतराजे "मालवीयः स्मृतो गौडो रागस्तालोऽड्डतालकः । शृङ्गारो विप्रलम्भाख्यो रसो देवा
मधुरिपुरिति चिन्तयन्तीति भावः । लीला च हावविशेषस्तदाह वात्स्यायनः -- "प्रयोजनस्य
चेष्टा या···(?) । क्रियतेऽनुकृतिः सेयं लीलोक्ता मुनिसत्तमैः" इति ॥ ४ ॥त्वरितमिति ।
हरिस्त्वरितमभिसारकुञ्जं कथं नोपैत्यागच्छतीति सखीमनुवारं सा वदति ॥ ५ ॥
श्लिष्यतीति । सा हरिः कृष्ण उपगत आगत इति बुद्ध्यानल्पमधिकं तिमिरमन्धकारं
श्लिष्यत्यालिङ्गति चुम्बति च । कीदृशं तिमिरम् । जलधरकल्पं श्याममेघसदृशम् । यदा
यदोत्थाय तवान्तिकं चलति तदा तदा निकुञ्जद्वारि पुञ्जीभूतमन्धकारं दृष्ट्वा त्वद्भ्रमात्तस्यैव
चुम्बनालिङ्गनादिकमाचरतीत्यागन्तुमेव न पारयतीति भावः । भ्रान्तिमानयमलंकारः ।
तलक्षणं प्रागेवोक्तम् ॥ ६ ॥ भवतीति । पश्चाद्विशेषदर्शने सति, भवति त्वयि विलम्बिनि
विलम्बं कुर्वति सति विगलितलज्जा सती सा वासके लीलागृहे कान्ताभिसरणाय
सज्जा संभृतसकललीलोपकरणा विलपति । हे निष्कृप, कथमेतावदौदास्यं मयि
त्वया रचितमिति विलापं करोति । रोदिति रोदनं करोति । वासकसज्जालक्षणं तु
रसार्णवसुधाकरे -- "भरताद्यैरति (?) देव स्त्रीणां वासस्तु वासकः । स्ववासकवशात्कान्ते
समेष्यति गृहं प्रति । सज्जीकरोति चात्मानं या सा वासकसज्जिका" इति । शृङ्गारतिलके --
"भवेद्वासकसज्जासौ सज्जिताङ्गरतालया" इति ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवकवेरिद-
मुदितं कथितम् । रसिकजनं शृङ्गाररसास्वादपुरःसरभगवद्भक्तिरूपरसास्वादग्राहिणमति-
विपुलपुलकपालिः स्फीतसीत्कारमन्त-
र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ २ ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
दिवर्णनम् । पदसंततितस्तेनाः पाटाः स्वरसमुच्चयः ॥ ततः पद्यानि यत्र स्युर्लयमध्यममानतः । स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः ॥" इति धन्यवैकुण्ठकुङ्कुमनामा द्वादशः प्रबन्धः । शठो नायकः । गूढविप्रियकृच्छठः । चिन्तात्वरावती वासकसज्जा नायिका । तल्लक्षणं -- "केलीगृहमथात्मानं मण्डयत्येष्यति प्रिये । सखी दूती······समाप्तिं समगादिति" ( ? ) ॥ ८ ॥ इदानीं तस्यास्तदेकपरत्वमाह -विपुलेति ।हे कितव धूर्त, सा मृगाक्षी तव अमन्दकन्दर्पचिन्तामतिशयितकामचिन्तां कृत्वा विधाय ध्यानलग्ना सती स्मरजलनिधिमग्ना शृङ्गारसागरे लीना । किंभूता सा । विपुला महती रोमाञ्चपङ्क्तिर्यस्याः सा । अपि किंभूता । स्फीतसीत्कारं प्रवृद्धसीत्कारं यथा स्यात्तथा । अन्तः अर्थात् विरहेणैव जनिताभ्यां जडिमकाकुभ्यां व्याकुलं यथा स्यात्तथा व्याहरन्ती भाषमाणा । "ननमयययुतेयं मालिनी भोगिलोकैः" इति मालिनी छन्दः । रसवदलंकारः ॥ २ ॥ इदानीं सा राधा ध्यानादिना त्वया सह रममाणापि साक्षात्त्वामलभमाना न कथंचिन्निर्वृतिमेष्यतीत्याह -- अङ्गेष्विति ।
मुदितमतिशयेनानन्दितं तनुतां विस्तारयतु ॥ ८ ॥ विपुलेति । …………… इ[^१]त्यादिकन्दर्पचिन्तां विधाय तथापि त्वं चेन्न मिलसि तदा तव ध्यानमेवाचरतीत्यर्थः । कीदृशी विपुला प्रचुरा पुलकपालिः रोमाञ्चपङ्क्तिर्यस्याः । ध्यानकल्पितत्वत्करस्पर्शोद्भूतरोमाञ्चवतीत्यर्थः । किं कुर्वती । काकुव्याकुलं यथा स्यात्काक्वा ध्वनिविकारविशेषेण व्याकुलं यथा स्यादेवं व्याहरन्ती । ध्यानेनैव तव करं नीवीबन्धनोन्मोचनासक्तं परिकल्प्य कुट्टिमिताख्यहावमाश्रिता मुञ्च मामित्यादिनिषेधकं वाक्यं कथयन्तीति भावः । पुनः कथं यथा स्यात् । स्फीतः प्रवृद्धः सीत्कारो यत्र एवं यथा स्यात् । ध्यानेनैव त्वद्दत्तनखक्षतादिकं परिकल्प्य सीत्कारं करोतीति भावः । पुनः कथं यथा स्यात् । अन्तश्चित्ते जनितो जडिमा जाड्यं यत्रैवं यथा स्यात् । ध्यानकल्पितविलासबाह्यादिसमयस्तब्धाख्यः ( स्तम्भाख्यः ) सात्विको भवति । अन्यस्यापि जलनिधिमग्नस्यान्तर्जाड्यशीतवशात्सीत्कारो व्याकुलं त्रुट्यद्वर्णं यथा स्यादेवं भवतीति ध्वनिः । इयं च जडताख्या पञ्चम्यवस्था । तल्लक्षणं चोक्तं प्राक् । कुट्टिमितलक्षणं रसार्णवसुधाकरे -- "केशाधरादिग्रहणे मोदमानापि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टिमितं तु तत्" इति । "स्तम्भश्चेष्टा प्रतिध्वनिः" इति शृङ्गारदीपिका । "काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः" इत्यमरः ॥ २ ॥ पुनः कृष्णं त्वरयितुमाह -- अङ्गेष्विति । हे कृष्ण, त्वया विना
[^१.] अत्र टीकांशस्त्रुटित इव भात्यादर्शपुस्तके ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३ ॥
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् ।
हे माधव, एषा मत्सखी । एषेति एतत्पदप्रत्यक्षे व्यापाराद्बुद्धौ प्रत्यक्षीकृत्याह । एषा वरतनुरित्येवंक्रमेण आकल्पविकल्पतल्परचनासंकल्पलीलाशतव्यासतापि नेपथ्यवितर्ककिसलयशय्याविरचनत्वत्प्रात्युचितविलासशयनेष्वासक्तापि सती त्वया विना निशां न नेष्यति निशां नेतुं न शक्ता भविष्यतीति । इतीति किम् । तान्येव कानिचिदाह । अङ्गेषु अवयवेषु त्वच्चित्तापहारि आभरणं करोति । कथं । बहुशः । बहुश इति अननुरूपपरित्यागेन त्वचित्तप्रीतिकरपरिग्रहो द्योत्यते । अपि च । पत्रे वृक्षपत्रे पतत्रिपक्षेऽपि वा । अपिशब्दात्तृणादिपरिस्पन्दो लभ्यते । तस्मिन्संचारिणि संचरणशीले त्वामेव प्राप्तं परिशङ्कते विचारयति । अत्र एवकारं विनापि "पार्थो धनुर्धरः" इतिवत्सर्वाणि वाक्यानि सावधारणान्येवेति कृत्वा एवकाराक्षेपः । अपि च अवश्यमागमिष्यतीति कृत्वा शय्यां वितनुते । ततस्त्वामपश्यन्ती चिरं त्वामेव ध्यायति । शय्यां विरचय्य तेन सह मयात्रैव कामकेलयः कर्तव्या इति चिरं ध्यायति । अन्योऽपि यः कश्चिन्मानसव्यथाभिभूतो रजन्यतिवाहनेऽसमर्थः स तदतिवाहनार्थं कार्यान्तरव्यासक्त्या चेतो रमयति । शार्दूलविक्रीडितं वृत्तं, समुच्चयोऽलंकारः ॥ ३ ॥ इदानीमाशीर्व्याजेन सर्गान्तमाविष्करोति -- किमिति । गोविन्दस्य गिरो जयन्ति सर्वोत्कर्षेण वर्तन्ते । भावगर्भतया वक्तुर्वैदग्ध्यख्यापनेन सर्वोत्कृष्टत्वम् । तत्त्वेन च नमस्कार्यत्वम् । किंभूता गिरो वाचः । सायमतिथिप्राशस्त्यगर्भाः । सायं
वरतनुः सुन्दरी रात्रिं न नेष्यति न प्रभातं प्रापयिष्यति । कीदृशी । इत्यनेन प्रकारे-
णाकल्पोऽलंकारो विकल्पस्त्वदागमनशङ्का तल्पं शय्या तद्रचना संकल्पस्त्वदीयसङ्गादि-
ध्यानमित्यादिलीलाशतव्यासङ्गेऽपि त्वत्सङ्गाभिलाषिण्यास्तस्या न कुत्रापि मनो रमत इति
भावः । अलंकारादिव्यासङ्गमेवाह -- अङ्गेष्विति ।अङ्गेष्वाभरणं करोतीति भावः ।
अनेनाकल्प उक्तः । अथ च बहुशो वारंवारं पत्रेऽपि संचारिणि पक्ष्यादौ चरणघातेन
चलति सति त्वां प्राप्तमागतं परिशङ्कते। अनेन विकल्प उक्तः । अथ च शय्यां शयनीयं
वितनुते विस्तारयति । अनेन तल्परचनोक्ता । अथ च चिरं बहुकालं व्याप्य त्वां ध्यायति
चिन्तयति । अनेन संकल्प उक्तः । तथा च तवागमनप्रत्याशया एतैर्व्यापारैः संप्रति कालं
नयति । यदि च सर्वथा त्वया न गन्तव्यं तदा त्वत्सङ्गं प्रति निराशा सती रात्रिं नेतुं न
शक्ष्यतीति भावः । अल्पताख्यश्च हावो वर्णितः । तदुक्तम् -- "अल्पता सा तु कथिता
प्रियस्यागमने सति । दिदृक्षयोस्तद्वत्संभ्रममलंकृति" (?) इति । "आकल्पवेषौ नेपथ्यम्"
इत्यमरः । "तर्को विकल्पः शङ्का च" इति च । "तल्पं च शयनीये स्यात्तल्पमट्टकलत्रयोः"
इति विश्वः । "संकल्पः कर्म मानसम्" इत्यमरः ॥ ३ ॥ ( किं विश्राम्यसीत्यादिश्लोकस्य
व्याख्यानं नोपलभ्यतेऽस्यां टीकायाम् ) ॥ ४ ॥
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ४ ॥
इति श्रीगीतगोविन्दे वासकसज्जावर्णने धन्यवैकुण्ठो
नाम षष्ठः सर्गः ॥ ६ ॥
कालेऽतिथयः सायमतिथयः तेषां प्राशस्त्यं स्वागतादिसंभारेण प्रशंसा, तद्गर्भे यासां
ताः । तथा किंविशिष्टस्य गोविन्दस्य । नन्दान्तिके नन्दसमीपे तत्तादृक्सङ्केतसूच-
नारूपमध्वगमुखान्निःसृतं राधाया वचनं गोपतः गोपायितुः । गां पालयतीति गोपः
गोपायतेः पचाद्यच् । "आदायः - :-' इति तलोपे सार्वविभक्तिकस्तसिः । तस्य गोपतः ।
अत्र पितुः सङ्केताशङ्का मा प्रासांक्षीदिति गोपने तात्पर्यम् । अत्र तदपह्नवादपह्नुति-
रलंकारः । प्रशंसाछद्मना व्याजोक्तिरपि । पितुः समीपे तादृग्वचो लज्जावहमिति
तदपाकरणार्थंतदपाकरणार्थम् अप्रस्तुतप्रशंसापि । तदिति किम् । हे भ्रातः पथिक, भाण्डीरभूमीरुहि
इतः वटवृक्षे । किं विश्राम्यसि । अत्र विश्रामं मा कृथाः । कुत इति हेतुगर्भविशेषण-
माह । किंविशिष्टे वृक्षे । कृष्णभोगिभवने । कृष्णश्चासौ भोगी च कृष्णभोगी तस्य भव-
नं तस्मिन् । कृष्णसर्पावासे इत्यर्थः । अत्र भ्रातृपदेन भ्रातृव्यत्वम् । तेन च मत्सङ्केत-
स्थानमेतदिति व्यज्यते । पक्षे कृष्णश्चासौ भोगी शृङ्गारी च तस्य निवासः । अत्रार्थद्व-
याश्लेषिकृष्णशब्देन श्लेषोऽलंकारः । तर्हि किं कुर्वित्याशङ्क्याह । इतो वटात्सानन्दन-
न्दास्पदं न यासि अपि तु याहि इति लोडर्थलक्षणो लट् । सानन्दमृद्धिमच्च तन्नन्दास्पदं
चेति । अनेनात्र अन्यपरित्यागेन यत्प्रार्थ्यते तत्सुलभमिति । तर्हि दूरे भविष्यतीत्या-
शङ्क्याह । दृष्टिगोचरं आसन्नमेव । सानन्देति पथिकविशेषणं वा । सांप्रतमानन्देऽपि
सर्पदंशादकुशलतामाप्स्यसीति औचितीमाह । अत्र कृष्णवटाद्यैरालम्बनैर्विभावैस्त-
दपाकृतिनिषेधाभिव्यक्तो रतिस्थायी विप्रलम्भाख्यः शृङ्गारो रसः । आशीरुत्तरे
अलंकृती ॥
निसर्गचित्रोज्ज्वलयुक्तिसर्गं व्याचष्ट षष्ठं रसिकप्रियायाः ।
सर्ग नृपग्रामकिरीटरत्नं श्रीकुम्भकर्णस्तृणितस्मरोऽत्र ॥
इति श्रीमहाराजाधिराजाभिनवभरतश्रीकुम्भकर्णविरचिते श्रीकुम्भस्वामि-
मन्दरस्वादरे गीतगोविन्दविवरणे वासकसज्जावर्णने
धन्यवैकुण्ठो नाम षष्ठः सर्गः ॥ ६ ॥
गुणेषु ये दोषदृशः परेषां ब्रूमः स्वदोषावरणाय किं तान् । स्वतः पिधास्यन्ति ममात्र दोषान्सन्तस्ततस्तानपि किं ब्रवीमि ॥ इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां षष्ठः सर्गः ॥ ६ ॥ सप्तमः सर्गः ७
नागरनारायणः ।
अत्रान्तरे च कुलटाकुलवर्त्मघात[^१]-
संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ १ ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ २ ॥
नृपः कुम्भकर्णः श्रुतं वाचि धत्ते मनोऽधीश्वरासेवने सन्निधत्ते । हृदीशं परं वासुदेवं निधत्ते वरं गीतगोविन्दगानं विधत्ते ॥ इदानीं मानिनीमानखण्डनाखण्डमण्डलं चन्द्रोदयं वर्णयन्नाह -- अत्रान्तर इति । अत्रान्तरे एतस्मिन्नवसरे इन्दुर्वृन्दावनान्तरमंशुदीपैरदीपयत्प्रकाशितवान् । किंविशिष्टः । स्फुटलाञ्छनश्रीः स्फुटकलङ्कशोभः । उत्प्रेक्षते । कुलटाकुलवर्त्मघातसंजातपातक इव । अन्योऽपि यः कश्चन यस्य कस्यचन मार्गघातं करोति स कलङ्की भवत्येव । किंभूत इन्दुः । दिक्सुन्दरीवदनश्रीखण्डतिलक इव । वसन्ततिलका । अत्र रूपकोत्प्रेक्षे अलंकृती ॥ १ ॥ इदानीं विप्रलब्धायास्तस्या विधुरत्वं कथयति -- प्रसरतीति । सा राधा उच्चैः परितापं चकार खेदं चकार । कथं यथा भवति । विरचितविविधालापं यथा स्यात्तथा । किंभूता सा । अतिशयविधुरा । क्व सति । शशधरबिम्बे प्रसरति उद्गच्छति सति । माधवे च कृतविलम्बे सति । "प्रेष्य दूतीं स्वयं दत्त्वा निकेतं नागतः प्रियः । यस्यास्तेन
अत्रान्तर इति ।अत्रान्तरेऽस्मिन्नवसरे । इन्दुश्चन्द्रोंऽशुजालैः किरणसमूहैर्वृन्दावनान्तरं वृन्दावनमध्यमदीपयत्प्रकाशितवान् । दिक्पूर्वा दिवसैव सुन्दरी कामिनी तस्या वदनस्य मुखस्य चन्दनबिन्दुर्मण्डलाकारतिलकम् । अत्र पूर्णचन्द्रो वर्ण्यत्वेन बोध्यः । खण्डचन्द्रे चन्दनबिन्दुसादृश्याभावात् । पुनः कीदृशः । स्फुटीभूता प्रकटिता लाञ्छनस्य कलङ्कस्य श्रीः शोभा यत्र तादृशः । कुलटाकुलस्य व्यभिचारिणीसमूहस्य यो वर्त्मपातः संकेतगमनमार्गप्रतिरोधस्तेन संजातं पातकं यस्य सः । अपरस्यापि कृतपापस्य कलङ्कः स्फुटीभवतीति ध्वनिः ॥ १ ॥ प्रसरतीति । शशधरबिम्बे चन्द्रबिम्बे प्रसरति सति । माधवे कृष्णे विहितविलम्बे कृतकालक्षेपे सति । विधुरा दुःखिता राधोच्चैः परितापं चकार । विरचितो विविधो नानाविधो विलापो यत्रैवं यथा स्यात् । पूर्वं तदागमनशङ्काप्यासीत् । चन्द्र उदितेऽभिसारिणां कुत्र संचार इति तदागमनं प्रति
[^१.] "वर्त्मपात" इति पाठः ।
मालवरागयतितालाभ्यां गीयते । प्र० ॥ १३ ॥
क[^१]थितसमयेऽपि हरिरहह न ययौ वनं मम विफलमिदममलरूपमपि यौवनम् ।
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ ध्रुवम् ॥ १ ॥
यदनुगमनाय निशि गहनमपि शीलितं
तेन मम हृदयमिदमसमशरकीलितम् ॥ यामि हे ० ॥ २ ॥
विना दुःस्था विप्रलब्धा तु सा मता" । आर्या ॥ २ ॥ पूर्वं ध्रुवः । यामीति । हे सखि, इह अस्मिन्नवसरे कं शरणं यामि । किंभूताहम् । सखीति । सख्य एव जन इतरजनवत् तद्वचनेन त्वमत्र संकेतस्थाने तिष्ठ तमहमानयामि कुतश्चित्कारणादत्रैव स्थिता या विप्रलब्धा । इति ध्रुवः ॥ अथ पदानि । कथितेति । आत्मगतं कथयति । मम इदं यौवनं विफलम् । किंभूतम् । अमलरूपमपि । अथवा यौवनं रूपं च द्वयमपि निष्फलम् । अत्रापिशब्दो भूषणकलादीनामनुक्तानां समुच्चयार्थः । अत्र कारणमाह -- अहह इति कष्टे । हरिः । कथितसमयेऽपि संकेतितकालेऽपि वनं न ययौ न प्राप्तवान् । यतः "प्रियेषु सौभाग्यफला हि योषितः" ॥ १ ॥ अपि च । यदिति । यद्यस्माद्धेतोर्निशि रात्रौ अनुगमनाय । अर्थात् हरेरनुगमनाय गहनमपि । अपिशब्देन यत्कथमपि न क्रियते तदपि शीलितमनुभूतम् । तेन कारणेन मम इदं हृदयमसमशरकीलितं वर्तते । अथवा यदित्यव्ययं सर्वनामप्रतिरूपकं यस्येत्यर्थे । यस्यानुस्मरणाय एवं कृतं तेन हेतुना तमेव हेतुं कृत्वा मम हृदय
निराशयाधिकं विललापेति भावः ॥ २ ॥ विविधविलापमेव गीतेन कथयति -कथितेति । गीतस्यास्य गौडमालवरागः । प्रतिमठतालः । गीतार्थस्तु इह विपिने कं जनं यामि शरणम् । यद्वा कं जलमग्निं यमं च शरणं यामि । तेन विना जलप्रवेशमग्निप्रवेशं यमगृहं यामीत्यर्थः । कीदृशी । सखीजनानां वचनेन वञ्चिता प्रतारिता । मया हरिरानीयत एवेति सखीजनेन प्रतारितेत्यर्थः । सख्योऽप्येवं प्रतारिकास्तदा कोऽन्यो विश्वासपात्रं भवेदिति भावः। "को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च । पावके च मयूरे च मुखशीर्षजलेषु कम् ॥" इति विश्वः । "शरणं गृहरक्षित्रोः" इत्यमरः । सखीवचनमेवाह -कथितेति । कथितसमयेऽपि सख्यग्रे स्वयमेव कथितो यः समयः कालोऽस्मिन्नवसरे मया सङ्केतस्थलमागन्तव्यमिति । यद्वा । सख्या मदग्रे यः समयः कथितस्तदपि वनं सङ्केतनिकुञ्जं न ययौ न गतवान् । इदमारूढमेव मे यौवनं तारुण्यममलरूपमपि निर्मलसौन्दर्यमपि विफलम् । पूर्वं तदागमनप्रत्याशया स्थितं संप्रत्यवधिलङ्घने निरवधि (?) दुःखोऽपि भोगोऽसमर्थः । शरीरं त्यक्ष्याम्येव, मम यौवनं यास्यतीति भावः ॥ १ ॥ यस्य कृष्णस्यानुगमनायानुसरणाय निशि रात्रौ गहनमपि शीलितं तेन कृष्णेन निमित्तभूतेन मम हृदयमसमशरेण कामशरेण कीलितं विद्धम् ॥ २ ॥ मम मरणमेव
[^१.] "ललितसमये" इति पाठः । [^२.] मेतदनुरूपमिति पाठः ।
मम मरणमेव व[^१]रमिति वितथकेतना ।
किमिति[^२] विषहामि विरहानलमचेतना ॥ यामि हे० ॥ ३ ॥
मा[^३]महह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ यामि हे० ॥ ४ ॥
मसमशरकीलितं वर्तते । अथवा यदिति यद्वचनेनाव्यवहितमेव सखीवचनं परामृश्यते । यद्वचनानुसरणाय गहनं शीलितं तेन तद्वचनहेतुना मम हृदयमसमशरपीडितं । वर्तते ।वर्तते । अत्र यच्छब्दस्याप्राधान्यात्समासेन निर्गुणत्वाच्च न प्रधानत्वेनान्वयः संभवी, विवक्षितार्थासमर्पकत्वात् ॥ २ ॥ अपि च ।ममेति । इहाचेतनाहं चैतन्यरहिता विह्वलत्वमाप्ता विरहानलं विषहामि । कथमिति विषहामीति । धात्वन्तरमप्यस्तीत्यवधार्यताम् । तदसद्भावे भ्रान्तिर्मास्तु । तत्संदेहनिराकरणार्थं कामधेनावीक्ष्यताम् । अत्र विषह्य किं शक्तावित्यस्य ( ? ) दिवादित्वचुरादित्वभ्वादित्वपरस्मैपदिनो न सन्ति । किंविशिष्टा अहम् । इतीव हेतोः वितथकेतना वितथं केतनमावासो यस्याः । प्रियशून्यत्वात् । अथवा वितथं निमन्त्रणं यस्याः सा । सखीमात्रवचनेन हि तामनुसरणेन वा ईदृशस्य साहसस्यानुपघातात् । अथवा वितथं केतनं देहो यस्याः प्रियाप्राप्तेः ॥ एवं सति मम मरणमेव वरं न देहधारणम् ॥ ३ ॥ अपि च । मामहहेति ।मधुरमधुयामिनी कोमला सरसा वसन्तरात्रिर्मां विधुरं करोति । अपि च । कापि कृतसुकृतकामिनी कृपया हरिमनुभवति । एतावताऽहं मन्दभाग्या
वरमुत्कृष्टम् । तत्र हेतुमाह -- इह वनेऽचेतना समूर्च्छा । यद्वा । अचेतना मूर्च्छया ज्ञानरहिता । यद्वा । अः कृष्णस्तत्र चेतना बुद्धिर्यस्यास्तादृशी । विरहानलं विरहाग्निं किमिति विषहामि सहे । तथा च । इह मम दुःखस्य कोऽपि ज्ञातापि नेत्यरण्यरुदितं किमित्याचरामीति भावः । कीदृश्यहम् । अतिवितथकेतनातिशयेन वितथं मिथ्याभूतं केतनं गृहं यस्यास्तादृशी । यद्वा । अतिवितथं केतनं शरीरं यस्याः सा । तथा च । निरुपमसौन्दर्यालयमपीदं शरीरं तेन विना विफलमित्यर्थः । अतिवितथकेतनमिमं स्वपतिं विहायान्यपुरुषमभिसृतवतीत्येवंरूपलाञ्छनं यस्यास्तादृशी । तस्मिन्मिलिते लक्षणमपीदं न मे दुःखाय स्यात् । संप्रति तु मृषालक्षणमात्रं मे दुःखदमिति भावः । "केतनं लाञ्छने काये गृहे चोपनिमन्त्रणे ।" इति विश्वः । "षह मर्षणे" इति चुराद्यन्तर्गणयुजादौ परस्मैपदी विकल्पेन णिजन्तः पठितः । तस्य णिचोऽभावे विषहामीति प्रयोगः ॥ ३ ॥ मामित्यादि । अहहेति खेदे । इयं मधुरा मनोहरा मधुयामिनी वसन्तरात्रिर्मां विधुरयति विकलयति । कापि कृतं पुण्यं यया एतादृशी कामिनी हरिं कृष्णमनुभवति । केलिसमये पश्यति । "विधुरं स्यात्प्रतिश्लेषे विधुरो विकलेऽन्यवत्" इति विश्वः । "मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे" इति धरणिः । "स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं
[^१.] "अतिवितथ" इति पाठः । [^२.] "किमिह वि०" इति पाठः । [^३.] "मामिह" इति पाठः ।
अहह कलयामि वलयादिमणिभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ यामि हे० ॥ ५ ॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ यामि हे० ॥ ६ ॥
अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ यामि हे० ॥ ७ ॥
यतस्तत्प्राप्त्यर्थं मया प्रयत्नः कृतः, अन्यया च हरिरतसुखमनुभूयते ॥ ४ ॥ अपि च अहहेति । अहह इति खेदे । हरिविरहदहनवहनेन वलयादिकं मणिभूषणं बहुदूषणं कलयामि । यतः "स्त्रीणां प्रियालोकफलो हि वेषः" इति ॥५॥ अपि च । कुसुमेति । हे कान्त, हृदि वर्तमाना स्रगपि मामतनुशरलीलया कामबाणस्वाभाव्येन हन्ति । मया पुष्पस्रगिति धार्यते तस्याश्च स्मरशरमयत्वात् हननस्वभावः । अत एवातिविषमशरलीलया । अति विषमीयते यस्मिन्नित्यतिविषमं तच्छीलं यस्याः सा तथा । अथवा मां हृदि मनसि हन्ति । मनो विध्यतीत्यर्थः । अत एव विषमशीलया अन्यशरेभ्यो विषमस्वभावया । तथा च "अपूर्वेयं धनुर्विद्या मन्मथस्य महात्मनः । शरीरमक्षतं कृत्वा भिनत्यन्तर्गतं मनः ॥" किंभूतां कुसुमादपि सुकुमारतनुम् । यो हि यस्माद्दीनबलः स तं सुखेन हन्ति ॥ ६ ॥ अपि च । अहमिति । हे कान्त, अहमिह कुञ्जे नगणितवनवेतसा निवसामि न गणितानि वनानि वेतसाश्च यया । वनवेतसग्रहणमन्येषामपि वनस्थविषमाणामुपलक्षणार्थम् । तेन दुर्लक्ष्यमप्युल्लङ्घ्य न चिन्तामहमागता परं मधुसूदनस्तु मां चेतसापि न स्मरति । अतीव युद्धाभिनिवेशः संभोगपराङ्मुखो
वृषः" इत्यमरः ॥ ४ ॥ अहहेति । अहहेत्यद्भुते । वलयादिमणिभूषणं कटकादिमणिखचि-
तमलंकारं हरिविरहदहनवहनेन कृष्णविरहाग्निधारणेन बहुदूषणमनेकदोषं पश्यामि ।
स्त्रीणां प्रियाण्याभरणानि तान्यप्यधुना भारभूतानीत्यद्भुतमिति भावः ॥ ५ ॥ कुसुमेति ।
स्रगपि पुष्पमालापि । अतनुशरलीलया अतनुः कामस्तस्य ये शरास्तेषां लीलया मां
हृदि हन्ति ताडयति । कामबाणा अपि पुष्पाण्येव स्रगपि पुष्पमयीति तल्लीलया
हन्तीति भावः । कीदृश्या अतनुशरलीलया । अतिविषमशीलया अतिशयेन विषमं शीलं
स्वभावो यस्यास्तादृश्या । अन्यबाणा हि क्षिप्ताः सन्तः क्षतमुत्पाद्य घ्नन्ति । कामबाणास्तु
हृदि संगताः क्षतमकृत्वैवान्तरे घ्नन्तीति विषमशीलतेति भावः । कीदृशीं माम् ।
कुसुमसुकुमारतनुं पुष्पकोमलाङ्गीम् ॥ ६ ॥ अहमिति । अहमिह निकुञ्जे वसामि ।
कीदृशी । न गणिता न संभाविता वनवेतसा विपिनस्य वेत्रलता यया सा । मधुसूदनः
कृष्णो मां चेतसा न स्मरति । अपि च चेतोमात्रसाध्यं त्वया स्वयं स्मरणमपि न करोति
अन्यस्य का वार्तेति चेतसेत्यनेन ध्वनितम् । अन्यथा स्मरणस्य चेतोजन्यत्वेन चेतसेत्यस्य
वैयर्थ्यापत्तेः । नगणितेत्यत्र नशब्देन निषेधवाचकेन समासः । न तु नञ्शब्देन ।
नजा सह समासेऽगणितेति स्यात् । यद्वा नञ् शिरश्चालने । तथा च गणिताः
प्रतिलतं कृष्णमन्वेषयन्त्या परिसंख्याता वनवेतसा यया सा । यद्वा । अहमिह वने किं
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ यामि हे० ॥ ८ ॥
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-
र्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सङ्केतीकृतमञ्जवञ्जुललता कुञ्जेऽपि यन्नागतः ॥ ३ ॥
भवतीति व्यङ्ग्यम् । नगणितेत्यादौ निषेधार्थकनकारेण समासः । "अनुनीतश्च खगः स नैकधा" इतिवत् । शेषविवक्षाभावान्मां स्मरतीत्यत्र न षष्ठी ॥ ७ ॥ अपि च हरिचरणेति ।हरिचरणौ शरणं गृहं यस्याः सा चासौ जयदेवकविभारती च । अथवा हरिचरणेति जयदेवविशेषणम् । तत्र शरणं रक्षितृ । हृदि वसतु । अर्थाद्भक्तानाम् । किंलक्षणा । कोमला कलावती च । तथा च सङ्गीतराजे -- "रागः स्यात्स्थानगौडाख्यस्तालो वर्णयती रसः । शृङ्गारो विप्रलम्भाख्यः प्रमदा मदनाकुला ॥ पक्षनामावलेः पाटा गुम्फिता यत्र गीतके । स्निग्धमधुसूदनोऽयं रासावलयनामकः ॥ प्रबन्धः पृथिवीभर्त्रा प्रबद्धः प्रीतये हरेः ॥" इति स्निग्धमधुसूदनरासावलयनामा प्रबन्धस्त्रयोदशः ॥ ८ ॥ राधा तदनागमने स्वगतान्हेतून्वितर्कयति -- तत्किमिति । यद्यस्मात्कान्तः कामुकः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः मनोहरवेतसलतागृहेऽपि यन्नायासीत्तत्तस्मादहमिति वितर्कयामि । तमेव वितर्कमाह -- कामपीति । कांचित्कामिनीमभिसृतः किमन्यकामिन्यर्थं गतः । अथवा मामत्र संकेतस्थाने विहाय कथमन्यत्र विहरिष्यतीत्याशङ्क्याह -- कलाकेलिभिर्बन्धुभिर्बद्धः किम् । कलेति । विलासक्रीडापरैः । मामभ्युपगच्छन्नन्तरापि क्रीडावशो जातः । अथवा मां विहाय अन्यत्करोतीति विचारेणाप्यलम् । किंतु मामेवाभिसरन् मामलभमान इतस्ततः सान्द्रेऽन्धकारे वनस
नातिवसामि । अपि तु निवसाम्येव । शेषं पूर्ववत् । विप्रलब्धा चेयं नायिका ।
तल्लक्षणम् -- "कृत्वा संकेतमप्राप्ते दयिते व्यथिता तु या । विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु
विक्रियाः । निर्वेदचिन्ताश्चेष्टास्तु मूर्च्छानिःश्वसितादयः" इति ॥ ७ ॥ हरिचरणेति ।
हरेश्चरणौ शरणं यस्य तादृशो जयदेवकविस्तस्य भारती वाणी हृदि हृदये वसतु ।
अर्थात्कृष्णस्य भक्तानाम् । कीदृशी भारती । कोमलाऽनिष्ठुरवर्णा कलावती विचित्र-
कलायुक्ता । केव । युवतिरिव । कीदृशी । कोमला मृद्वङ्गी । कलावती चतुःषष्टि-
कलाकुशला ॥ ८ ॥ तत्किमिति । कान्तः कृष्णः संकेतीकृतो मञ्जुर्मनोहरो वञ्जुललताकुञ्जो
वेत्रलतागृहं तत्रापि यत् यतो हेतोर्नागतस्तत्कामपि कामिनीं किमभिसृतः ।
अन्यस्याः कस्याश्चिदभिसारभूमिं प्राप्त इति किमु इत्यर्थः । यद्वा । बन्धुभिर्गोपभूमिं
प्राप्तः कलाकेलिभिः कौतुककलाभिर्बद्धो नियन्त्रितः किमु । यद्वा । अन्धकारिणि
घनतरतरुच्छायायां निबिडान्धकारे वनोपान्ते संकेतीकृतविपिनसमीपे संकेतस्थलमप्राप्य
भ्राम्यति किमु परिभ्रमणं करोति किम् । संशयान्तरमाह --
क्लान्तमना इति ।प्रकृतकिमु-
शब्देऽत्रापि संबध्यते । तथा च । क्लान्तं मद्विश्लेषे दुःखेनोपतप्तं मनो यस्य एतादृशः ।
अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्कमाना रभितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४ ॥
वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ १४ ॥
स्मरसमरोचितविरचितवेशा गलितकुसु[^१]मदरविलुलितकेशा
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ ध्रुवम् ॥
मीपे परिभ्राम्यति । अथवा तदपि न घटते । अथवा क्लान्तमनाः सन् पथि मार्गे प्रस्थातुमेवाक्षम इति सुस्थितम् । शार्दूलविक्रीडितं वृत्तम् । संशयोऽलंकारः ॥ ३॥ अथ सखीविषादानुमितं कृष्णस्यान्यासक्तत्वं वितर्कयन्नाह -- अथेति ।इयं राधा अथानन्तरं कृष्णं विना आगतां सखीं वीक्ष्य दृष्ट्वा तत्प्रत्यक्षीकृतमिव यथा स्यात्तथा तद्वक्ष्यमाणमाह । किंभूतां सखीम् । विषादमूकामकृतकार्यत्वाद्विषण्णतया प्रतिवक्तुमक्षमाम् । किंभूता राधा । जनार्दनं कयापि कान्तया रमितं विशङ्कमाना । सखीविषादान्यथानुपपत्त्याऽन्यासङ्गो व्यज्यते । उपेन्द्रवज्रावृत्तम् ॥ ४ ॥ इदमेव प्रथयति । तत्र पूर्वं ध्रुवपदम् ॥ कापीति ।सखि, कापि युवतिः मधुरिपुणा सह विलसति । किंभूता । अधिका गुणाः सौन्दर्यादयो यस्याः । अर्थान्मत्सकाशात् । मां विहाय यया रमत इति । मधुरिपुरित्यनेन तस्य माधुर्यानभिज्ञत्वं द्योत्यते । तेन अधिकगुणेत्यनेन मत्तो हीनेति व्यज्यते ॥ अथ पदानि । स्मरेति ।किंभूता कापि स्मरसमरोचितो विरचितो वेषः प्रसाधनं यया सा । स्मरसमरः कामकेलिः । अथवा स्मरोपलक्षितः समर इव समरः । अपि किंभूता । रतिविमर्दनेन विगलितपुष्पै
प्रस्थातुमक्षमः । ततश्चलितुमेवासमर्थः इति किमु इत्यर्थः । उत्का चेयं नायिका -"उत्का भवति सा यस्याः संकेतं नागतः प्रियः । तस्यानागमने हेतुं चिन्तयत्याकुलं यथा ॥" इति ॥ ३ ॥ अथेति । अथानन्तरमियं राधा एतद्वक्ष्यमाणं दृष्टवदाह उक्तवती । यथा कस्य कियद्वृत्तान्तः केनचित्साक्षादृष्टः कथयति तद्वदित्यर्थः । किं कृत्वा । सखीं माधवमन्तरेण कृष्णं विनागतां वीक्ष्य दृष्ट्वा । अत एव विषादेन मूकां मौनाम् । कीदृशी । जनार्दनं कृष्णं कयाचिन्नायिकया रमितं शङ्कमाना तर्कयन्ती । जनार्दनमित्युचितपदोपपत्त्या ...... । तथा च जनानामर्दनस्वभावो यस्तस्य मम तापजनकत्वमुन्चितमेवेति भावः ॥ ४ ॥ तदेव गीतेन कथयति -- स्मरेति ।गीतस्यास्य वसन्तरागः । एकताली ताल: । गीतार्थस्तु -- कापि युवतिर्मधुरिपुणा कृष्णेन विलसति रमते । अत एवाधिकगुणा अधिकः सौन्दर्यादिगुणो यस्याः सा । मत्संकेतागमनोत्सुकमपि कृष्णं गुणैरपहृत्य रमितवती । मत्तोऽप्यधिकगुणेति भावः । युवती विलसतीत्यनेन कामिकर्तृकविलासाकथनाद्विपरीतरतमुक्तम् । कीदृशी । स्मरसमरः कामसंग्रामः । सुरतमिति यावत् । तत्रोचितो योग्यो विरचितः कृतो वेश आभरणं यया सा । पुनः कीदृशी । गलितः स्खलितः कुसुमभरो यस्यास्तादृशी । विलुलिताः कृष्णेन कचग्रहपूर्वकं चुम्बनादानेन स्रस्ताः केशा यस्याः सा । विपरीतरते च नायिकायाः केशग्रहणपूर्वकमेव
[^१.] "कुसुमभरवि०" इति पाठः
हरिपरिरम्भणव[^१]लितविकारा ।
कुचकलशोपरि तरलितहारा ॥ कापि ० ॥ २ ॥
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥ कापि० ॥ ३ ॥
चञ्चलकुण्डलदलितकपोला ।
मुखरितरसनजघनगतिलोला ॥ कापि० ॥ ४ ॥
दयितविलोकितलज्जितहसिता
बहुविधकूजितरतिरसरसिता ॥ कापि० ॥ ५ ॥
रीषद्विलुलिताः केशा यस्याः सा । अनेनोक्तेनास्याः पुरुषायितत्वं व्यज्यते ॥ १ ॥ अपि च हरीति । पुनः किंभूता । हरिपरिरम्भणेन वलितः संभक्तो विकारः कामोपलक्षितो मानसो भावो यस्याः । कुचकलशयोरुपरि तरलश्चञ्चलो हारो यस्याः । अत्रापि हारतरलत्वं पुरुषायितमभिव्यनक्ति ॥ २ ॥ अपि च । विचलदिति ।पुनः किंभूता । विचलदलकैर्ललितो मनोहरो मुखचन्द्रो यस्याः सा तथा । पुनः किंभूता । तदधरपानरभसेन हर्षेण कृता तन्द्रा सुखजनितालीकनिद्रा यया ॥ ३ ॥ अपि च । चञ्चलेति । किंभूता । चञ्चलकुण्डलाभ्यां ललितौ (दलितौ) कपोलौ यस्याः । पुनः किंभूता । मुखरितरसना या जघनगतिः जघनस्य गतागतं तया लोला ॥ ४ ॥ अपि च । दयितेति । किंभूता । लज्जिता चासौ हसिता च लज्जितहसिता । दयितविलोकितेन लज्जितहसिता । अपि च किंभूता । बहुविधानि कूजितानि पारावतादीनामव्यक्तशब्दा
चुम्बनं कार्यमित्युक्तं प्राक् । "अस्त्रियां समरानीकरणाः" इत्यमरः । "वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके ।" इति विश्वः ॥ १ ॥ पुनः कीदृशी । हरीति । हरेः परिरम्भणेनालिङ्गनेन चलितो जातो विकारो रोमाञ्चादिर्यस्याः । पुनः कीदृशी । कलशाविव कुचौ तत्र तरलितश्चञ्चलो हारो यस्याः सा ॥ २ ॥ पुनः कीदृशी ॥ विचलदिति ।विचलद्भिश्चञ्चलैरधिकैश्चूर्णकुन्तलैर्ललितो मनोहर आननचन्द्रो यस्याः सा । लालित्यं चालकानां कलङ्कसादृश्यान्मुखे चलत्कलङ्कवत्त्वं चन्द्रमसः प्रतीयते । पुनः कीदृशी । तस्य कृष्णस्याधरपानरभसः तेन कृता चक्षुर्निमीलनेनाविष्कृता तन्द्रा रतिसुखानुभवजनिता निद्रा यया सा ॥ ३ ॥ पुनः कीदृशी । चञ्चलेति । चञ्चलाभ्यां कुण्डलाभ्यां दलितौ मृदितौ कपोलौ यस्याः सा । कुण्डलयोश्चाञ्चल्यं पुरुषायितसकलनायिकातनुचाञ्चल्ये भवत्येव । पुनः कीदृशी । मुखरितेति । मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका यस् तादृशस्य जघनस्य गत्या गतेन लोला चञ्चला ॥ ४ ॥ पुनः कीदृशी । दयितेति । दयितस्य कृष्णस्य विलोकितेन वीक्षणेन लज्जितहसितं लज्जाहास्यं यस्याः सा । यद्वा दयितविलोकिते च लज्जिता लज्जावती हास्ययुक्ता चेत्यर्थः । पुरुषायमाणायास्तस्या अधःस्थितस्याङ्गनायमानस्य कृष्णस्य
[^१.] "णचलित०" इति पाठः
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ कापि० ॥ ६॥
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ कापि० ॥ ७ ॥
नुकरणानि यत्र तद्यथा स्यात्तथा रतिरसेन रतिरागेण रसिता शब्दिता । अथवा बहुविधं कूजितमव्यक्तः शब्दो यत्र तेन रविरसेन शब्दिता ॥ ५ ॥ अपि च । विपुलेति । विपुला बहवः पुलका रोमाञ्चा यत्र असौ विपुलपुलकः पृथुर्यो वेपथुस्तस्य भङ्गस्तरङ्गो यस्याः, भङ्ग इव भङ्गः । श्वसितनिमीलिताभ्यां विकसन्प्रकटीभवन्ननङ्गः एतल्लक्षणः कामो यस्याः ॥ ६ ॥ अपि च । श्रमजलेति । किंभूता । स्वेदबिन्द्वङ्कितशरीरा । अपि च किंभूता । उरसि पतिता । अर्थाद्धरे: । रती रण इव
दर्शनेन लज्जा हास्यं च तस्या अभूदिति भावः । लज्जितहसितेत्यत्र प्रथमव्याख्याने
नपुंसके भावे क्तः । द्वितीयव्याख्याने लज्जधातोर्हास्यवाचकस्य धातोश्चाकर्मकत्वात्
"गत्यर्थाकर्मक-" इत्यादिना क्तः । कीदृशी । बहुविधं पिकशिखिकलहंसादीनामिव
नानाप्रकारं कूजितं शब्दितं यत्र एतादृशो रतिरसः सुरतरसस्तेन रसिता हृष्टा । यद्वा
बहुविधं नानाप्रकारं पारावतादीनां यत्कूजितं तद्वद्रतिरसे रसितं शब्दितं यस्याः सा ।
"रसितं शब्दिते हृष्टे" इति कोशः ॥ ५ ॥ पुनः कीदृशी । विपुलेति । विपुलाः
प्रचुरा ये पुलका रोमाञ्चास्तेषां पृथुर्महान्यो वेपथुः कम्पस्तस्य भङ्गस्तरङ्गो यस्याः
सा, रोमाञ्चकम्पयोरुत्तरोत्पत्त्या तरङ्गसाम्यम् । "भङ्गस्तरङ्गे रुग्भेदे भङ्गो जयविपर्यये ।"
इति विश्वप्रकाशः । पुनः कीदृशी । श्वसितं सुरतायासजनितो निश्वासो निमीलितं
परमानन्दावाप्तिजनितं नेत्रनिमीलनं ताभ्यां विकसन्प्रकटीभवन्ननङ्गः कामो यस्याः सा ।
श्वसितेत्यनेनानन्दावाप्तिसान्निध्यं कथितम् । तदुक्तं रतिरहस्ये -- "मुहुश्च स्वजनाश्लेषः
सीत्काराञ्चितलज्जितम् । हुङ्कारोच्छ्वसितं नार्या वीर्यसान्निध्यसूचकम् ॥" इति । निमी-
लितेत्यनेन च्युतिकालः कथितः । तदुक्तं तत्रैव -- "मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य
लक्षणम् ।" इति ॥ ६ ॥ पुनः कीदृशी । श्रमजलेति ।श्रमजलकणेन सुरतायासज-
नितप्रस्वेदबिन्दुसमूहेन सुभगं मनोहरं शरीरं यस्याः सा । त्रुटितहारेऽपि वक्षसि
स्वेदबिन्दुभिर्मुक्ताहारशोभाजननात्सुभगशरीरेति भावः । पुनः कीदृशी । उरसि कृष्णस्यो-
रसि परिपतिता । पुनः कीदृशी । रतिरणे सुरतसंग्रामे धीरा पण्डिता । अनेन
सुरतान्तकाल उक्तः । तदुक्तं रतिरहस्ये -- "अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंस्रुतिः ।
जाते च्युतिसुखे नार्या विरामेच्छा च जायते ॥" इति । बन्धश्चायं हंसलीलकाख्यः । तदुक्तं
रतिरहस्ये -- "नारी पादद्वयं दत्त्वा कान्तस्योरुयुगोपरि । कटिमान्दोलयेदाशु बन्धोऽयं
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ कापि ० ॥ ८ ॥
विरहपाण्डुमुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि वेदनाम् ।
विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् ॥ ५ ॥
रतिरणः तत्र धीरा स्थिरा ॥ ७ ॥ श्रीति । इदं श्रीजयदेवभणितं विपरीतरताभि( योग-)-क्रीडितं कलिकलुषं परिशमितं जनयत्विति शान्तिं नयतु ॥ तथात्र सङ्गीतराजे "श्रीरागो यत्र रागः स्यात्तालस्तु द्रुतमण्ठकः । वर्णनं वासुदेवस्य रतिस्तद्व्यत्यये स्त्रियाः । पदेभ्यः पाटसन्तानं स्वरास्तेनास्तथैव च । प्रयोगश्च भवेद्यत्र स प्रबन्धवरः स्मृतः ॥ हरिरमितचम्पकवर्णेभ्यः शेखराभिधः" इति । हरिरमितचम्पकशेखरनामा चतुर्दशः प्रबन्धः ॥ ८ ॥ इदानीं विरहातुरा राधा चन्द्रमुद्दिश्याह -- विरहेति । अये कोमलामन्त्रणे । हे सखि, अयं विधुः हृदये अर्थात् मम अतिमदनव्यथां तनोति । किंभूतः । मनोभुवः मदनस्य सुहृन्मित्रम् । मुरारेर्विरहावस्थास्मरणेनाह । किंभूतः । विरहेण पाण्डु यन्मुरारिमुखाम्बुजं तस्य द्युतिरिव द्युतिर्यस्य । अत एव वेदनां तिरयन्नपि आच्छादयन्नपि । एतदुक्तं भवति । पूर्वं मदीयविरहपाण्डुमुरारिमुखकान्तिमत्त्वेन मम वेदनां नाशयन्नपि कामसुहृत्त्वेन वेदनां करोत्येव । तदप्राप्त्यापि मदपेक्षया तस्य स्थितत्वाद्दुःखं नाभूत्, सांप्रतमन्यासक्तं तं ज्ञात्वा मया स्थातुं न शक्यत
हंसलीलकः" इति । "लवलेशकणाणवः" इत्यमरः ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवेन
भणितं यद्धरेः कृष्णस्य रतिरमितं क्रीडितं कलेः कलियुगस्य कलुषं पापमर्थाच्छ्रोतॄणां
पाठकानां च परिशमितं जनयतु नष्टं करोतु ॥ ८ ॥ संप्रति चन्द्रोऽप्ययमधिकतरं
व्यथयतीत्याह -- विरहेति । अये इति विषादे । अयं दृश्यमानश्चन्द्रो मम हृदये
मदनव्यथां कामपीडां तावदधिकं यथा स्यादेवं तनोति विस्तारयति । कीदृशः ।
विरहेण मद्विश्लेषेण पाण्डु धूसरं यन्मुरारेः कृष्णस्य मुखाम्बुजमाननपद्मं तद्वद्द्युतिर्यस्य सः।
तथा च । तादृशकृष्णमुखाम्बुजसदृशचन्द्रदर्शने कृष्णमुखाम्बुजस्य स्मरणादतिव्यथा
जायत इति भावः । किं कुर्वन् । वेदनामपि तिरयंस्तिरोहितां कुर्वन् । तथा च ।
चन्द्रदर्शनेन तथा विवेकोन्मूलनं भवति यथा कृष्णमुपायेन कृतापराधमपि तमेव मनः
स्मरतीति भावः । व्यथाजनकत्वे हेतुमाह -- मनोभुव इति । मनोभुवः कामस्य सुहृन्मित्रम् ।
तथा च निकटस्थितस्यापि कृष्णस्यानुसरणं मया न कृतमिति मदनाज्ञालङ्घनात्कामो
मे वैरी जातः । सख्युस्तस्य साहाय्यं चिकीर्षता चन्द्रेणापि व्यथा जन्यत इति भावः ।
चन्द्रस्य कृष्णमनोजन्यत्वेन कामस्य मनसिजत्वेन प्रसिद्धेः । सोदरत्वेन कामचन्द्रयोः
सौहार्दाच्च मनोभवपदेन कामस्योपादानन् । तथा च श्रुतिः "चन्द्रमा मनसो
जातश्चक्षोः सूर्यो अजायत ।" इति । "वेदना ज्ञानदुःखयोः । भये क्रोधे विषादे
च संभ्रमे स्मरणेऽपि च" इति विश्वः । "तिरोऽन्तर्धौ तिर्यगर्थे" इति च ॥ ५ ॥
गुर्जरीरागैकतालीतालेन गीयते । प्र० ॥ १५ ॥
समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ १ ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ ध्रुवम् ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ रमते० ॥ २ ॥
इति भावः । द्रुतविलम्बितं वृत्तम् ॥ ५ ॥ इदानीं राधा विह्वलिते मनसि तत्स्वरूपमेव निरूपयति ॥ अत्र पूर्वं ध्रुवपदम् ॥ रमत इति ।अधुना मुरारिर्यमुनापुलिनवने रमते । अत्र मुरारिपदं कामुकस्य कार्कश्येन रत्यभावं द्योतयति । किंभूतः । विजयी मां पराभूय जयवान् । इति ध्रुवः । अथ पद्यानि । तमेव रमणप्रकारमाह -समुदितेति ।रमणीवदने मृगमदतिलकं कस्तूरीतिलकं लिखति । रमतेऽस्यामिति रमणी । लिखिरत्र लेखनसामान्याद्विन्यासे वर्तते । किंभूते वदने । अत एव सम्यगुदितः कामो यतः । पुनः किंभूते । सतिलकं मुखमुद्वीक्ष्य दीप्तस्मरत्वात्सपुलकं यथा भवति तथा चुम्बनाद्वलितः संभक्तोऽधरो यत्र । कस्मिन्क इव । रजनीकरे मृग इव । पूर्णचन्द्रनिभे मुखे कस्तूरीतिलकेन राधानिःश्वासैककाश्मल्यं द्योत्यते । अत्र रजनीकरग्रहणेन तयोः क्षणरागित्वं द्योत्यते ॥१॥ अपि च । घनचयेति । प्रकरणलभ्यौ । चिकुरे कुन्तले । जातावेकवचनम् । कुरबककुसुमं शोणसैरेयकपुष्पम् शोणाम्लानपुष्पं वा रचयति । किंभूते । रतिपतिः मृग इव तस्य कानने । किंभूते चिकुरे । घनचयरुचिरे मेघपटलमनोहरे । पुनः किंभूते । तरलिततरुणानने । तरलितानि तरुणानामाननानि येन । काननपक्षे तरलितानि तरुणानां कुरबककुसु
पूर्वं गीतेन कस्याश्चिद्विपरीतरतमुक्तमधुना कस्याश्चित्स्वाधीनभर्तृकाया नायककर्तृकां
क्रीडामाह -- समुदितेति । गुर्जरीरागेऽस्यैकतालः । गीतार्थस्तु -- विजयी जयशीलो
मुरारिर्यमुनापुलिने वने यमुनायाः सैकते यद्वनं तत्र रमते क्रीडति । निःशङ्ककेलिप्रति-
पादनाय विजयीत्युक्तं ।विजयीत्युक्तम् क्रीडामेवाह -- समुदितेति । रमणीवदने कामिनीमुखे सपुलकं
सरोमाञ्चं यथा स्यादेवं मृगमदतिलकं कस्तूरीतिलकं लिखति । कीदृशे । चुम्बनाय
वलितः संमुखीकृत्य संकोचितोऽधरो यत्र तादृशे । कुत्र कमिव । रजनीकरे चन्द्रे
मृगमिव । कीदृशे चन्द्रे । समुदितः सम्यगुदितो मदनो यस्मात्तादृशे । पूर्णचन्द्रस्य
कामोद्दीपकत्वादिति भावः । पुनः कीदृशे चन्द्रे । चुम्बनाय वलितः संमुखीकृतोऽधरो
यस्मात्तादृशे । चन्द्रदर्शनाद्यूनोश्चुम्बनादौ प्रवृत्तिः । अत्र मुखस्याह्लादकारित्वादिना
चन्द्रसाम्यं कस्तूरीतिलकस्य च मृगसाम्यं बोध्यम् ॥ १ ॥ केल्यन्तरमाह -- घनचयेति ।
चिकुरे तस्याः केशपाशे कुरबककुसुमं शोणाम्लानपुष्पं, अरुणझिण्टीपुष्पं वा रचयति ।
यथाविन्यासमर्पयतीत्यर्थः । कीदृशे चिकुरे । घनचयवन्मेघसमूहवद्रुचिरे मनोहरे
पुनः कीदृशे । रतिपतिः कामः स एव मृगस्तस्य कानने वने । पुनः
कीदृशे । तरलितानि विलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ रमते० ॥ ३ ॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वित[^१]रति हिमशीतले ॥ रमते० ॥ ४ ॥
मानां वा वातारिवृक्षाणामग्रभागा यस्मिन् । रमणीपक्षे कुलटानां सुखरूपम् । यथा मृगः कानने बली तथात्र कामः । अत्र मृगशब्देन तत्र रममाणस्य हरेः परुषत्वं (पशुत्वं) व्यज्यते ॥२॥ अपि च । घटयतीति ।स तस्याः कुचयुगगगने कुचयुगं गगनमिव बृहत्त्वात् । अमलमणिहारं हीरकसरं हीरकहारं तारकपटलं तारकासमूहं घटयति योजयति । किंभूते । सुघने सुतरां घने पीने । गगनपक्षे शोभनघने । किंभूते स्तनयुगे । मृगमदरुचिरूषिते । कस्तूरीपरिष्वङ्गेन निवारितसुरतश्रमजले । गगनपक्षे मृगमदकान्तियुक्ते रूक्षे च भावेन । पुनः कथंभूते । नखपदं शशीव तेन भूषिते । पक्षे । नखपदमिव शशी तेन भूषिते । अत्र तस्मिन्नभिलाषशून्यत्वं गगनपदव्यङ्ग्यम् ॥३॥ अपि च । जितेति । स कृष्णस्तस्या जितबिसशकले मृणालखण्डसदृशे भुजयुगले वर्तमाने । करतलनलिनीदले
येन तादृशे । कीदृशं कुसुमम् । चपला इव रक्तविद्युदिव सुषमातिशयिता शोभा यस्य तादृशम् । यद्वा । चपलावत्सुषमं चारु । अत्र विरहतापशामकतयातिश्यामलतया चिकुराणां सजलमेघसाम्यम् । केशग्रथितकुरबककुसुमानां चान्तरान्तरा दृश्यमानतया विरहिणां संतापजनकतया रक्ततया लोहितविद्युत्साम्यम् । "चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः । "स्मृतः कुरबकः शोणाम्लानझिण्टीप्रभेदयोः" इति विश्वः। "कुसुमं पुष्पफलयोः" इत्यपि । "चपला कपिला विद्युत्पुंश्चलीपिप्पलीषु च" इत्यपि । "सुषमं चारुसमयोः सुषमा परमा द्युतौ" इति च ॥ २ ॥ केल्यन्तरमाह -- घटयतीति । कुचयुगं गगनमिव । कीदृशे कुचयुगगगने । सुष्ठु अतिशयेन घनो विस्तारो यत्र तादृशे मृगमदस्य कस्तूर्या रुच्या दीप्त्या रूषिते व्याप्ते । पुनः कीदृशे । नखपदं नखाङ्कस्तदेव शशी तेन भूषितेऽलंकृते । नखक्षतं चेदर्धेन्दुसाम्यं बोध्यम् । तदुक्तं पञ्चसायके -"अर्धेन्दुसंकाशमिदं नखक्षतमर्धेन्दुसंज्ञं कथितं समासतः । कक्षानितम्बस्तनपार्श्वमध्ये दातव्यमेतत्करजं सदैव" इति । अत एवात्र शशिपदमप्यर्धचन्द्रपरं बोध्यम् । पूर्णचन्द्रस्य तत्साम्याभावात् । अत्र कुचयुगस्य विस्तीर्णत्वात्कस्तूरिकया श्यामत्वाङ्करूपचन्द्रवत्त्वाद्गगनत्वेन निरूपणम् । गगनस्यापि कविसंप्रदाये श्यामत्वेनैव प्रसिद्धेः । अत एव सुघन इत्यादिभिस्त्रिभिर्विशेषणैर्गगनत्वनिरूपणौपयिकविशेषणोपादानात्साङ्गमेतद्रूपकम् । "घनः सान्द्रे दृढे दीर्घे विस्तारे लोहमुद्गरे" इति विश्वः । "गुण्ठितरूषिते" इत्यमरः । एतद्व्याख्यानसमये क्षीरस्वामिनाप्युक्तम् -- "रूषिते लौकिकव्यावृत्त्येत्यर्थः ।" "यत्रान्तर्गिरिरेणुरूषितः ॥" "नक्षत्रे चापि मध्ये च तारकं तारकापि च" इति विश्वः ॥ ३ ॥ किंच । जितबिसेति । मृदुभुजयुगले तस्याः कोमले बाहुयुगे मरकतवलयमिन्द्रनीलमणिकङ्कणं तमेव मधुकरनिचयं भ्रमरसमूहं विकिरति अर्पयति । कीदृशे भुजयुगले । जितं
[^१.] "विकिरति" इति पाठः ।
रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ रमते ० ॥ ५ ॥
कराब्जपत्रे । शोणे करतले नीलमरकतसंचयः सभ्रमरपद्मशोभामनुकरोति । तेन तयोः यावकमण्डनकमनीयतान्यायेन औपाधिकस्नेहो रसाभासत्वेन व्यञ्जितः । मरकतवलयं मधुकरनिचयमेव वितरति प्रयच्छति । किंभूते करतले । हिमशीतले । अत्र हिमशीतलशब्दस्तस्मिन्कामाभावं द्योतयति । तथा चाह -- "अनुरागोऽनुरक्तायां रसावह इति स्थितिः । अभावे त्वनुरागस्य रसाभासं जगुर्बुधाः" ॥ ४ ॥ अपि च । रतीति । स तस्या रतिगृहजघने मणिमयरसनं मेखलं विकिरति । रतिगृहं च तज्जघनं च । जघनस्य रतिगृहेति नाम्नि सत्येव रतिं गृह्णाति । रतेरावासप्रस्थापितत्वेन विशेषणपरता । किंभूते । विपुलापघने विपुलावयवे । पुनः किंभूते । मनसिजकनका
निजमार्दवेन शैत्येन चाभिभूतं बिसशकलं मृणालखण्डं येन तादृशे । पुनः कीदृशे ।
करतलमेव नलिनीदलं पद्मं यत्र तादृशे । यद्वा । करतलमेव नलिनीदलं पद्मिनीपत्रं यत्र
तादृशे । पुनः कीदृशे । हिमवच्छीतले । अत्र यद्यपि करतलस्य पद्मिनीपत्रत्वरूपणं न
विरुद्धमिति द्वितीयव्याख्याने मरकतवलयस्य पद्मरूपणमाचक्षोपलभ्यमित्येकदेश-
विवर्तिरूपकम् । तदुक्तं काव्यप्रकाशे -- "श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् ।"
अस्यार्थः -- केचन पदार्थाः श्रौताः श्रुतिपठिताः साक्षाच्छब्दाः केचन आर्था-
स्तदन्यार्थानुपपत्तिगम्या यत्र रूपके तदेकदेशविवर्तीति । "नलिनी पद्मिनी पद्म-
व्योमसिन्धुसरोवरे" इति विश्वः । "मरकतो नीलमणिः" इति ॥ ४ ॥ किंच ।
रतिगृहेति ।रतेः शृङ्गारस्य गृहे आश्रये मणिमयरसनं मुक्तामयीं मेखलां विकिरति
क्षिपति । अत्र विकिरतीत्यनेन काञ्चीबन्धनसमये श्रोणीस्पर्शजनितसाध्वसवशात्कम्प्य-
मानकरः क्षिपति न तु बध्नातीति ध्वनितम् । कीदृशे । विपुलापघने विपुलो विस्ती-
र्णोऽपघनोऽवयवो यस्य तादृशे । अतिमांसल इत्यर्थः । पुनः कीदृशे । मनसिजस्य
कामस्य कनकनिर्मितसिंहासन इव । विस्तीर्णत्वादतिगौरत्वाच्च जघन कन-
कासनसाम्यम् । अत्र जघनस्य कनकासनत्वरूपणमनुपठ्यमानमनसिजस्य महा-
राजत्वमाजीवतीत्येकदेशविवर्ति रत्यादिरूपकमिति । कीदृशं मणिमयरसनम् ।
तोरणस्य मङ्गलस्य स्रजो हसनमुपहासो यस्मात्तादृशम् । अन्योऽपि यदि सिंहासन
उपविशति तदा तत्र परिजनैर्वन्दनमालिका बध्यते । मनसिजसिंहासनीभूते तस्या जघने
क्षुद्रमणिकारूपमाङ्गल्यस्रजं बध्नातीति भावः । पुनः कीदृशे जघने । कृतं वासनं वस्त्रं
समाहृत्यापि काञ्चीं बध्नति कृष्णेऽतिलज्जया नायिकया कृतं शाटिकादिरूपं वस्त्रं यत्रेत्यर्थः ।
यद्वा । कृतं वासनं श्रीकृष्णवशीकरणाय धूपविशेषो यत्र तादृशे । अत एव तया वशीकृतः
सन् मामवधूय तया सह रमत इति भावः । धूपविशेषश्च स्वदेहे नायकवशीकरणाय
च नायिकया कर्तव्य इति कामशास्त्रे उक्तम् । तदुक्तं रतिरहस्ये -- "वरयुवती-
मलयोद्भवसूक्ष्मैलासर्जकृष्टसिद्धार्थैः । सर्वाङ्गीणो धूपः सर्वजनानां वशीकरणम् ॥"
इति । यद्वा । कृता तत्कान्तिदर्शनात्कृष्णेन वासना भोगेच्छा यत्र तादृशे । यद्वा ।
कृतं वासनमर्थात्कामेन स्थानं यत्र तादृशे । यद्यपि मनसिजकनकासन इत्यनेनैव काम-
चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ रमते० ॥ ६ ॥
रमयति सुदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ रमते० ॥ ७ ॥
सने कामस्य हेमपीठे । किंभूतं रसनम् । तोरणहसनम् । रतिगृहं तोरणसदृशमिति यावत् । किंभूते रतिगृहे । कृतवासने कृतं वासनं गन्धादि यस्य । गृहं च अधिवासपरिकल्पितासनादि रमणीयं भवति । अत्र कनकशब्दः स्मरहरप्रियत्वेन कामस्योद्वेजको भवतीति ध्वन्यते ॥ ५ ॥ अपि च । चरणेति ।हरिस्तस्याश्चरणकिसलये यावकभरणं पूरणं जनयति । किंभूते । हृदि योजिते योगं प्रापिते । अर्थात् श्रीकृष्णस्य हृदि । किंविशिष्टे चरणकिसलये । कमलानिलये लक्ष्मीनिवासस्थाने । पुनः किंभूते । नखा एव मणिगणाः आरक्तत्वात् । तैः पूजिते । किंभूतं यावकभरणम् । चरणस्य स्वभावलोहितत्वाद्बहिर्भूतमाच्छादकम् । किंभूते हृदि । कमलानिलये लक्ष्मीनिवासस्थाने । पुनः किंभूते । नखमणिगणपूजिते । तया दत्तनखत्वात् ॥ ६ ॥ अपि च । रमयतीति । हे सखि, मौनं विसृज । विरसं यथा स्यात्तथा चिरमिह विटपोदरे निकुञ्जे फलप्राप्तिलक्षणरहितं चिरं किं अवसं किमुषितास्मि । क्व सति । खलहल
स्थानं प्राप्तं तथापि नित्यं तत्सान्निध्यसूचनायैतदुक्तम् । "अङ्गं प्रतीकोऽवयवोऽपघनोऽथ
कलेवरम्" इत्यमरः । "सिंहासनं तद्धैमम्" इत्यपि । "रसनं स्वादने पाने रसना
काञ्चिजिह्वयोः । रसनं चापि" इति विश्वः । "मङ्गल्यस्रक्तोरणो नूनं भवेद्वन्दनमालिका" इति
क्षीरस्वामिलिखितकोषः । "वासनं वसने चाथ स्थाने ज्ञाने च धूपने" इति विश्वः ॥ ५ ॥
किंच । चरणकिसलये चरण एव किसलयमाताम्रत्वात्कोमलत्वाच्च । तत्र यावकभरणं
जनयति । कीदृशे । कमलायाः श्रियो निलय आश्रये । कीदृशे । नखा एव मणिगणा
मणिसमूहास्तैः पूजितेऽलंकृते । कीदृशं यावकभरणम् । बहिर्भूतं दूरीभूतमपवरणं यस्य
तादृशम् । स्पष्टमित्यर्थः । पुनः कीदृशे । हृदि हृदये योजिते । अनुरागातिशयात्प्रापितं
स्वहृदये तच्चरणकिसलयं कृत्वा यावकं च रचयतीत्यर्थः । यद्वा । हृदि तस्यैव विशेषणम् ।
कीदृशे हृदि । कमलाया लक्ष्म्या निलये आश्रये । लक्ष्म्याः कृष्णवक्षस्येव सर्वदा स्थितिः ।
पुनः कीदृशे । नखा एव मणिगणास्तैर्भूषिते । लक्ष्म्या अपि गृहे तदीयचरणकिसलयं ददाति ।
तेन तस्य सौभाग्यातिशयो ध्वनितः । अत्र चरणकिसलये नखमणिगण इत्यत्र रूप्यमाणयोः
किसलयत्वमणिगणत्वयोः परस्परमयोगादयुक्तं नामरूपकम् । तदुक्तं दण्डिना -- "इदं
मन्दस्मितं ज्योत्स्ना स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम्" इति ।
"कमलापीवरयोः" इति विश्वः । "लाक्षा राक्षा जतु क्लीबे यावकालक्तकामयाः" इति
विश्वः ॥ ६ ॥ रमयतीति । एवं स्वयमेव तत्तदाभरणं विधाय कामपि सुदृशं
शोभने दृशौ नेत्रे यस्यास्ताम् । खलो दुर्जनो यो हलधरो बलभद्रस्तस्य सोदरो भ्राता
कृष्णस्तस्मिन्सुभृशमतिशयेन रमयति । हे सखि, वद कथय । इह विटपोदरे कुञ्जमध्ये
विरसं रसशून्यं यथा स्यादेवमत एवाफलं यथा स्यादेवं चिरं बहुकालं व्याप्य
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगरचितं न वसतु दुरितं कविनृपजयदेवके । रमते० ॥ ८ ॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
धरसोदरे दुष्टे बलभद्रभ्रातरि कामपि आत्मसदृशं खलां सुदृशं लक्षणया विरूपनेत्रां रमयति सति । अत्र हलधरशब्दो मामनुकूलां विहायान्यासक्तोऽन्यां रममाणस्य तस्य पामरत्वं द्योतयति । ईदृशस्यास्य प्रतीक्षायां विदग्धया न स्थातव्यमिति भावः ॥ ७ ॥ अपि च । इहेति ।कविराजजयदेवके कलियुगेन रचितं दुरितं न वसतु न तिष्ठतु । किंभूते । रसभणने रसोद्दीपके । कर्तरि ल्युः । पुनः किंभूते । कृतहरिगुणने कृतहरिकथाभ्यासे । पुनः किंभूते । मधुरिपुपदसेवके । अथ च इह रसभणने इति प्रबन्धविशेषणत्वेन योजनीयम् । इयमष्टपदी स्तुतिनिन्दापरत्वेन बोद्धव्या ॥ तथा च सङ्गीतराजे "द्रुतमण्ठेन तालेन द्रुतेनैव लयेन च । मह्लारे रसराजे स्यात्पदानां संततेः पुनः । स्वरग्रामस्तथा पाटास्तेना अपि यथाक्रमम् । हरिरसमन्मथाद्यस्तिलकाख्यः प्रबन्धराट् ॥" इति हरिरसमन्मथतिलकनामा पञ्चदशः प्रबन्धः ॥ कृष्णानागमने हेतुं दूतीं विषादोपनयपुरःसरं सोत्कण्ठा राधा प्रकटयति -- नायात इति । हे सखि राधे, स मया बहुप्रेयस्यापि आहूतः परं निर्दय इति नायातः । अथ राधाह -- हे दूति, स यदि शठः धूर्तः तर्हि किं दूयसे । त्वं मा विषादं कार्षीः । त्वं दूतीकर्मण्येव प्रभुः । दूत्याह -- हे राधे, अहं अत एव दूये । स बहुवल्लभः सन् बह्व्यो वल्लभाः प्रेयस्यो यस्य सः स्वच्छन्दं यथा स्यात्तथा रमते क्रीडति । पुना राधाह -- तत्र ते किं दूषणं न हि त्वं
किं किमित्येवं संस्थितास्मीत्यर्थः । अत्र च हलधरसोदरत्वेन कृष्णस्योपादानम् । हलधरो
ग्राम्यस्तत्सोदरोऽयमपि तथैव भविष्यतीति तस्य मां विहाय कयाचिद्गोपिकया सह
केलिकरणमुचितमेवेति सूचनाय । "विटपः पल्लवे षिङ्गे विस्तारे स्तम्बशाखयोः" इति विश्वः ।
अवसमिति "वस निवासे" इत्यस्य धातोरुत्तमपुरुषैकवचनम् । लङ् । स्वाधीनभर्तृकेयं नायिका ।
तदुक्तं शृङ्गारतिलके -- "यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता
स्वाधीनपतिका यथा" इति ॥ ७ ॥ इहैतत्काव्यकर्तरि कविनृपजयदेवके कलियुगेन
चरितमाचरितं कृतं दुरितं न वसतु न तिष्ठतु । कीदृशम् । रसस्य कृष्णविषयशृङ्गाररसस्य
भणनं कथनं यस्य तादृशे । अत एव कृतं हरेर्गुणनं चिन्तनं येन तादृशे ।
अत्र हेतुमाह -- मधुरिपोः कृष्णस्य पदसेवके ॥ ८ ॥ पूर्वमन्यस्याः कस्याश्चित्कृष्णेन सह
केलीमुत्प्रेक्ष्य सख्या अग्रे वर्णितवती । संप्रति दूतीं कृष्णेनोपभुक्तां शङ्कमाना वक्रोक्त्या दूतीं
प्राह -- नायात इति । हे सखि दूति दूत्यकर्मकुशले, स निर्दयो दयारहितोऽत
एव शठः कृतगूढमदपराधो यदि नायातस्तदा किं दूयसे किमिति दुःखिता भवसि ।
स तु शठो न भवति । किं तु धृष्टः स्वच्छन्दमेव रमतेऽतः किं दूयसे इत्याह --
स्वच्छन्दमिति । स कृष्णो बहुवल्लभोऽनेकनायिकाप्रियोऽत एव स्वच्छन्दं निःशङ्कं
रमते । यया कयाचिद्गोपिकया सह केलिं करोति । तत्रार्थे ते तव किं दूषणम् ।
पश्याद्य प्रियसंगमाय दयितस्याकृष्यमाणं गुणै-
रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ६ ॥
विपरीताचरणेति मदीयमेव दैवं बलवत्तरमित्याह -- हे सखि, पश्य जानीहि । बहुतरं ज्ञास्यसि वा । इदं हृदयं चेतो यास्यति । किंभूतं चेतः । स्वयं स्फुटद्विदलत् । उत्प्रेक्षते । उत्कण्ठार्तिभरादिव प्रियमिलनेच्छापीडाभरादिव । अन्योऽपि आर्तिभरतापितो विदीर्यत एव । किंभूतं चेतः । अद्य प्रियसङ्गमाय दयितस्य गुणैः आकृष्यमाणं मया निरुध्यमानमपि नीयत एव । आद्यानि च तानि प्रियाणि च तेषां तैर्वा सङ्गमः तस्यायः प्राप्तिः तस्मै तेन वा दयितः तस्य वा । आद्यप्रियसङ्गमे निमित्ते अयेन शुभावहेन विधिना दयितस्य । अथवा आद्यप्रियसङ्गमायेति चतुर्थ्यन्तं भिन्नपदम् । एतदुक्तं भवति । हरिसंगमे पूर्वानुभूतस्मरणादिदं चेतो यास्यत्येव, न ते दूषणं न मम । सोऽपि नोपालम्भमर्हति । विधेः पराङ्मुखत्वात् । अथवा एवंविधमिदं चेत एव यास्यति ज्ञास्यति इदमेव ज्ञातास्वादं निवृत्तिमेष्यतीत्युपरम्यते । अथाद्य पश्य । तद्गुणैराकृष्यमाणं सत् प्रियसङ्गमार्थं यास्यति ॥ अत्र शार्दूलविक्रीडितं वृत्तम् । काव्यलिङ्गमलंकारः । उत्प्रेक्षोत्तरे च ॥ ६ ॥ तानेव दयितस्य सुरतसौशील्यादिकान्गुणान
अपि च । आश्चर्यरम्यस्य प्रियस्य कृष्णस्य संगमाय मिलनायेदं मम चेतोऽन्तःकरणं यास्यति ।
कीदृशम् । दयितस्य कृष्णस्य गुणैः सौन्दर्यादिभिराकृष्यमाणं बलात्कारेणानीयमानम् ।
अपरमपि गुणैः रज्जुभिराकृष्यमाणमन्यत्र नीयत इति ध्वनितम् । कीदृशं चेतः ।
उत्कण्ठार्तिभरादिव स्फुटत् । उत्कण्ठा औत्सुक्यमार्तिः पीडा तयोर्योऽतिशयस्तस्मादिव
बहिर्भवत् । अपरमपि वस्त्वन्तरसंकुले स्थाने स्थितं वस्तु शङ्कया बहिर्भवतीति
ध्वनितम् । तथा च । अतःपरं विरहदुःखं सोढुमशक्ततया तद्गुणानेव स्मरन्त्या प्राणा
एव त्याज्यास्ततोऽन्ते या मतिः सा गतिरिति स्वयमेव चेतस्तत्र यास्यतीति किमतः परं
तवात्र गतागतायासेनेति भावः । अथ वक्तृविशेषाद्बोद्धव्यविशेषाच्छठादिपदाच्च
ध्वनितोऽयमर्थः । हे दूति, यदि स नायातस्तदा त्वं किं दूयसे । तदनागमनं ममोत्तप्तये
युज्यते न तव । त्वं तु तत्सङ्गभोगेनैव कृतार्था जाता । सखीमपि सोत्कण्ठामाह ।
समीचीनं सख्यमाचरितमिति भावः । यदि च निर्दयकुचोपमर्दनगाढालिङ्गनादिना
त्वद्गात्रपीडने दयारहितस्तदापि त्वं किं दूयसे । नायकस्य तादृशं दयाराहित्यं नायिकया
भाग्येन लभ्यत इति भावः । यदि च शठस्तदापि किं दूयसे । शठत्वेनैव मद्वञ्चनं
कृतवता त्वमुपभुक्तेति शठतेति भावः । यदि च बहुवल्लभः स्वच्छन्दं रमते स तदापि ते किं
दूषणम् । किं च बह्वीषु वल्लभासु मध्ये संप्रति त्वमेका प्रिया जातेति भावः । पश्याद्येति ।
तथा च भवादृशीनामुपभोगमात्रमुद्देश्यमिति तस्य बहुवल्लभत्वेऽपि न क्षतिः ।
मम तु प्रथमानुरागसमयमारभ्य प्रियेणान्या मनस्यपि न कृता । ममापि स्वप्नेऽपि
तदन्यो नेच्छाविषयोऽभूदधुना तु विधिवशाद्वैपरीत्ये प्राणानेव त्यक्ष्यामीति भावः ।
अत्र प्रथमपदे शठो नायक उक्तः । स्वच्छन्दमित्यादिना च धृष्टः । तदुभयलक्षणं
रसार्णवसुधाकरे -- "अनुकूलस्यैकजातिः शठो गूढापराधकृत् । धृष्टो व्यक्तान्ययुव-
देशवरा[^१]डीरागेण रूपकतालेन गीयते ॥ प्र० ॥ १६ ॥
अनिलतरलकुवलयनयनेन । तपति न सा किसलयशयनेन ।
सखि या रमिता वनमालिना ॥ ध्रुवम् ॥ १ ॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ सखि या० ॥ २ ॥
न्यनायिकामग्नत्वेन निन्दास्तुतिपरत्वेनाह -- अनिलेति ।तत्र पूर्वं ध्रुवपदं यथा । सखि येति । हे सखि, या गोपिका वनमालिना हरिणा रमिता । रमणमिता रमिता । अथवा रमः संजातो यस्य इति वनमालिना सह क्रीडितेत्यर्थः । अथवोद्यानविहारादिभिर्हरिणा वा रममाणा गोपिका हरिणैव तद्विशेषक्रीडने नियुक्ता । आत्मना सह क्रीडनार्थं प्रेरितेति यावत् । अथवा वनमालिना सह कामेन रन्तुं प्रेरिता तत्रैव साभिलाषा क्रीडापरा बभूवेत्यर्थः । निन्दापक्षे तु । वनमालिनेति मालायाः सद्भावात्तस्याः संभोगपराङ्मुखत्वं सूचितम् । वनलक्ष्म्या मलिनेवेतस्ततः पुष्परसास्वादात् । इति ध्रुवः ॥ अथ पदानि । अनिलेति । तत्र प्रतिपदमेकैकं विशेषणम् । तृतीयान्तं वनमालिनः प्रथमान्तं च या इति पदोपलक्षितायास्तस्याः । तत्रापि च ध्रुवपदाद्विशेषणानां वैपरीत्येन । पक्षे एतद्विपरीतोऽर्थः सूचितो भवति । किंभूतेन वनमालिना । अनिलेन तरले ये नीलोत्पले ते इव । नीले कमले इव नयने यस्य । सा गोपिका किसलयशयनेन न तपति नोपतप्ता भवति । पक्षे या किलान्यमनस्केन प्रियान्तरनिरीक्षणप्रहितचञ्चललोचनेनोपभुज्यते सा किसलयशयनेऽपि न तपतीति न । अपि तु तापं प्राप्नोत्येव ॥ १ ॥ अपि च । विकसितेति ।किंभूतेन हरिणा । स्फुटितारविन्दमिव मनोहराननेन सा गोपिका कामबाणेन विद्धा न
तिभोगलक्ष्योऽपि निर्भयः" इति ॥ ६॥ संप्रति कृष्णेन रममाणायाः सौभाग्यसुखं तद्विरहिण्याश्च संतापमष्टपद्या कथयति -- अनिलेति ।गीतस्यास्य देशाख्यरागो रूपकतालः गीतार्थस्तु हे सखि, या वनमालिना कृष्णेन रमिता क्रीडिता सा किसलयशयने पल्लवशय्यायां न तपति नोपतप्ता भवति । कृष्णाङ्गसङ्गे तत्सुखपदमेव भवतीति भावः । कीदृशेन वनमालिना । अनिलेन वायुना तरलेऽनिलवद्वा तरले चञ्चले कुवलये तद्वन्नयने यस्य तेन । नायिकासंनिधौ साध्वसवशाच्चञ्चलनेत्रेणेत्यर्थः । अथवा या रमितेत्यत्र अश्लेषः । तथा च या वनमालिना अरमिता सा किसलयशयने न तपतीति, अपि तु तपत्येव । नद्वयेनद्वयेन प्रकृतस्यैवार्थस्य प्राप्तेः । यद्वा । किसलयशयनेनेत्येवं तृतीयैव । नञ् शिरश्चालने । तथा चायमर्थः । या रमिता वनमालिना किसलयशयनेन न तपति । अपि तु तपत्येव चेति काक्वा लभ्यते । "अनिलो वसुवातयोः" इति विश्वः ॥ १ ॥ अथ च । विकसितेति ।या वनमालिना रमिता सा मनसिजविशिखेन कामबाणेन न स्फुटति न द्विधा भवति । कीदृशेन वनमालिना । विकसितं पुष्पितं यत्सरसिजं पद्मं
[^१.] "देशाङ्करा०" "देशाख्यरा०" इति च पाठः ।
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन । सखि या० ॥ ३ ॥
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ सखि या० ॥ ४ ॥
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ सखि या० ॥ ५ ॥
कनकनिकषरुचिशुचिवसनेन ।
श्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ६ ॥
भवति । पक्षे विलासकलाविमुखेन । केवलं प्रसारितमुखेन संभोगमाप्नोति । सा मदनबाणैर्मनसि न विध्यते ? अपि तु विध्यत एव ॥ २ ॥ अपि च ।अमृतेति । किंभूतेन हरिणा । अमृतवन्मधुरतरं कोमलं वचनं यस्य तेन । सा मलयानिलेन न ज्वलति न दीप्यते । अतिप्रियवचनस्य दाता न भावं द्योतयति । तेन "प्रियवाक् स्त्री (?) शीलः स्त्रीणां भवति वल्लभः" इति वाल्लभ्यनिरासान्मनोऽनवस्थानान्मलयमारुतेन ज्वलत्येव ॥३॥ अपि च । स्थलेति ।किंभूतेन हरिणा । स्थलकमलकान्तिकरचरणेन सा गोपिका चन्द्रकिरणेन न लुठति न भूमौ परिवर्तते । ततः पक्षे स्थलकमलग्रहणेन तदङ्गस्य तस्यापद्दायित्वमुक्तम् ॥ ४ ॥ अपि च । सजलेति । किंभूतेन हरिणा । सजलजलदोदयवद्दीप्तिमता । सा गोपिका हृदि दुःसहविरहभरेण न दीर्यते । पक्षे अत्र सजलजलदग्रहणेनैव विरहेण संयोगेऽपि प्रियविरहसाम्यमिति निन्दार्थः ॥ ५ ॥ अपि च । कनकेति ।किंभूतेन हरिणा । कनकनिकषश्यामरुचिश्चासौ शुचिवसनश्च
तद्वल्ललितं मनोहरं मुखं यस्य तेन । मुखहास्यत्वेन विकसितपद्मसाम्यं बोध्यम् । अथ च
या विकसितेन सरसिजललितमुखेन वनमालिना रमिता सा मनसिजविशिखेन न स्फुटति ।
अपि तु स्फुटत्येवेति पूर्ववत् ॥ २ ॥ अथ च । अमृतेति । वनमालिना रमिता
सा मलयजपवनेन मलयगिरिजातेन वातेन न ज्वलति न दीप्यते । कीदृशेन वनमालिना ।
अमृतादपि मधुरं मृदुतरमतिशयेन कोमलवचनं यस्य तेन । अमृतेत्याद्युचितविशेषणोपपत्त्या
चामृतसेकेन ज्वलनाभावस्योचितत्वात् । अथ चामृतमधुरमृदुतरवचनेन वनमालिना
या रमिता सा मलयजपवनेन न ज्वलति । अपि तु ज्वलत्येवेति ॥ ३ ॥
स्थलजलेति । कीदृशेन वनमालिना । स्थलोद्भवं जलरुहं कमलं तद्वद्रुचिर्ययोस्तादृशौ
करौ चरणौ यस्य तेन । अथ च या वनमालिना रमिता सा हिमकरकिरणेन न
लुठति किं । अपि तु लुठत्येव ॥ ४ ॥ सजलेति ।अथ च या वनमालिना रमिता सा
विरहाधिक्येन हृदि हृदये न दलति न दीर्यते । पुनः कीदृशेन । सजलो जलसहितो
यो जलदो मेघस्तत्समुदयवद्रुचिरेण । अथ च या वनमालिना रमिता सा विरहभरेण
हृदि न दलति । अपि तु दलत्येवेत्यर्थः ॥ ५ ॥ कनकेति ।या वनमालिना रमिता सा
परिजनानां हसनेन इयती लज्जा रोदितीत्यादिपरिजनहासेन । यद्वा । परितः सर्वतो
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ सखि या० ॥ ७ ॥
श्रीजयदेवभणित[^१]वचनेन ।
प्रविशतु हरिरपि हृदयमनेन । सखि या० ॥ ८ ॥
तेन । अथवा कनकस्य निकषः निकषोपलरेखा तत्कान्तिविमलवस्त्रेण । सा गोपिका परिजनहसनेन न श्वसिति निःश्वासवती न भवति । पक्षे या काषायवसनादिना संगता भवति सा परिजनैरुपहसिता दीर्घान्निःश्वासान्मुञ्चत्येव ॥ ६ ॥ अपि च । सकलेति ।किंभूतेन हरिणा । सकलभुवनजनश्रेष्ठतरुणेन सातीव निर्भररसेनापि रुजं पीडां न धारयति । या किल सकलेष्वपि भुवनेषु वरतरुणेनोपभुज्यते तस्यास्तु एकैकस्यापि विरहेण शोको भवतीति निन्दा ॥ ७ ॥ अपि च । श्रीजयदेवेति । अनेन श्रीजयदेवभणितं च तद्वचनं च तेन हेतुना हरिः श्रीकृष्णः हृदयं प्रविशतु । अर्थाद्राधायाः । अथवा अयं हरिः हृत्प्रविशतु । अपिशब्दात्तदारोपकरणवचनानि च ॥ तथा च सङ्गीतराजे -- "रागो वराटिका यत्र तालो वर्णयतिस्तथा । पदानि स्वेच्छयालापभूषितानि यथाद्युति ॥ ततः स्वराश्च पाटाश्च ततः पद्यानि कानिचित् । इति नारायणपदान्मदनायासनामकः ॥ प्रबन्धः क्षितिनाथेन लोकनाथस्य वर्णितः" ॥ इति नारायणमदनायासनामा षोडशः प्रबन्धः ॥ ८ ॥ चेतो यास्यतीति
जनानां हास्येन न श्वसिति न संतापनि:श्वासं त्यजति । कीदृशेन वनमालिना । कनकनिकषः सुवर्णकषणपट्टिका तस्येव रुचिर्दीप्तिर्यस्यैतादृशं शुच्यनुपहृतं वस्त्रं यस्य तेन । अत्र कनकपदेनैव पीतत्वे प्राप्तेऽपि स्निग्धत्वाप्राप्तये निकषपदोपादानम् । अथवा या वनमालिना रमिता सा परिजनहसनेन न श्वसिति । अपि तु श्वसित्येवेत्यर्थः । "निकषः कषपट्टिका" इति हारावली । "शुचिः शुद्धेऽनुपहते" इति विश्वः ॥ ६ ॥ सकलेति । या वनमालिना रमिता सातिकरुणेनातिशयितकरुणारसेनोपलक्षिता सती रुजं तद्विश्लेषजन्यां व्याध्यवस्थां तद्वन्न वहति धारयति । कीदृशेन वनमालिना । सकलभुवने समस्तलोके ये जनास्तेभ्योऽपि वरतरुणेन श्रेष्ठतरुणेन । अथवा या वनमालिना रमिता सातिकरुणेनोपलक्षिता रुजं न वहति । अपि तु वहत्येवेत्यर्थः । अस्मिन्पक्षेऽतिकरुणेति कृष्णस्य विशेषणम् । तदतिक्रान्ता करुणा दया यस्य तादृशेन निर्दयेनेत्यर्थः । "करुणस्तु रसे वृक्षे कृपायां करुणा मता" इति विश्वः ॥ ७ ॥ श्रीजयदेवेति । अनेन जयदेवभणितमिलनेन श्रीजयदेवेन कविना भणितं वर्णितं यन्मिलनं कृष्णस्य कामिन्या सहेत्यर्थः । त्वां ते (?) हरिरपि कृष्णोऽपि हृदयमर्थाद्गातॄणां श्रोतॄणां प्रविशतु । यद्वा श्रीजयदेवभणितस्य यन्मिलनं संबन्धोऽध्ययनगानरूपस्तेन हरिरपि हृदयं प्रविशत्वि
[^१.] "भणितमिलनेन" इति पाठः ।
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥७॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बला-
त्कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ८ ॥
सखीं प्रोच्य अन्तरा पुनः सव्याजं कालविलम्बं कृत्वा पुनः स्मरशरासहा मलयानिलमुपालब्धुमाह -- मनोभवेति ।हे चन्दनानिल, जगदाह्लादक, प्रसीद विपरीतलक्षणया क्षमां कुरु । कथं वैपरीत्यम् । यतः जगदाह्लादकस्वरूपप्रच्युत्या मम रिपोर्मनोभवस्य आनन्दमकरोः अतो मनोभवानन्दन, प्रसीद क्षमां कुरु । दक्षिणोऽहमिति कृत्वा हिताहितलक्षणवक्रतानभिज्ञत्वान्नोपालभ्योऽहमिति वदसीति चेत्तर्हि जितम् । हे दक्षिण, क्षणं क्षणमात्रं वामतां मुञ्च । कृतजगत्प्राणस्य मे सर्वसाधारण्येन नेयं प्रकृतिरिति चेत् । हे जगत्प्राण अङ्गीकृतजगत्प्राण, त्वं माधवं पुरोधाय अग्रे कृत्वा सांप्रतमेव मम प्राणहरो भविष्यसि । तर्हि साधु चेष्टितम् । नाहमस्या मरणनिमित्तं किंतु माधव इतीदमेव वामताया विलसितमिति । अत्र वंशस्थं वृत्तम् । अतिशयोक्तिरलंकारः ॥ ७ ॥ इदानीं स्वचित्तमेवोपालभते -- रिपुरिवेति । हे सखि, यस्मिन्गते सति अन्यत्र स्थिते सति अथवाऽज्ञातस्वरूपे सति अयमनुकूलोऽपि सखीसंवासः रिपुरिव मनो दुनोति । अनु च शीतो वायुः ज्वलन
त्यर्थः ॥ ६ ॥ संप्रत्यनिलमेव संतापदं मत्वोपालभते -- मनोभवेति । हे चन्दनानिल
चन्दनसंबन्धिवायो, मे मम प्रसीद प्रसादं कुरु । हे दक्षिण, सर्वेषां विलासिनामनुकू-
लस्वभाव, वामतां प्रतिकूलतां मुञ्च । अत्र चन्दनतरुसंगतस्य वामत्वं नोचितमिति
चन्दनानिलदक्षिणपदाभ्यां ध्वनितम् । वामत्वे हेतुगर्भविशेषणमाह -- मनोभवेति ।
मनोभवं काममानन्दयतीति मनोभवानन्दनः । तथा च । मम वैरी कामस्तं यदानन्दयसि
तदेव प्रतिकूलमाचरसीति भावः । यदि च वामतां न मुञ्चसि तदा माधवं कृष्णं
जनं मम पुरोऽग्रे निधाय पश्चात्तद्दर्शनं कृत्वाथ प्राणहरः प्राणानां हर्ता भविष्यसि ।
यथा विरहिणीं मां व्यथयसि तथा मया विरहितं तमपि संतापय । यथा मदन्तिकं स
आयास्यतीति भावः । एतेन जगत्प्राणहरणे वायोः सामर्थ्यं ध्वनितन् । यद्वा
चन्दनानिल, क्षणं वामतां मुञ्च । माधवं पुरो निधाय पश्चान्मम प्राणहरो भविष्यसीत्यन्वयः ।
शेषं पूर्ववत् । जगत्प्राण जगतां प्राणभूत । न तु ते कृष्णस्यानयनतत्प्राणानामसंध्ये (?)
प्रति ये च "द्रविणे चापि सुन्दरे" इति विश्वः । "दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु"
इति च ॥ ॥ अधुना ममैवापराधो नान्यस्येत्याह -- रिपुरिवेति । यस्मिन्कृष्णे
मनोगते चेतसि कृते सति सखीसंवासः सखीभिः सहावस्थानं रिपुरिव शत्रुरिव
दुनोत्युपतापयति । सखीर्दृष्ट्वा तत्कृतालंकाररचनापरिहासवासभवनपरिष्कारादिस्मरणेना-
धिकतर उपतापो भवतीति भावः । अयं च हिमानिलो हिमगर्भोऽप्यतिशीतलोऽपि
बाधां विधेहि मलयानिल पञ्चबाण
प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-
रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ९ ॥
इव मनो दुनोति । अपि च अमृतदीधितिर्हालाहलमिव मनो दुनोति । एवमप्यर्थे तस्मिन्नप्यदये हृदयं पुनर्बलाद्वलते तदभिमुखीभवति किं तर्हि क्रियते स्त्रैणस्थितिरियम् । कुवलयदृशां निकामनिरङ्कुशः कामो वाम एव वर्तते । निकामनिरङ्कुशः अतिशयोच्छृङ्खलः । अत्र हरिणीवृत्तम् । विरोधालंकारः ॥ ८ ॥ इदानीं कामोपतप्ता मलयानिलादीनधिक्षिपति -- बाधामिति । हे मलयानिल, बाधां विधेहि पीडया किं प्रतीक्षसे । हे पञ्चबाण, प्राणान् गृहाण । पञ्चभिर्बाणैः पञ्चापि प्राणांस्त्वं गृहाण । भवत इदमेव प्रयोजनम् । यस्मात्स्मरोऽपि तप्तं जनमुपताप्य गृहाभिमुखीकरोति । एतदर्थमेव स्वभावपरित्यागेनाप्युपकृतिर्विधेया । परं तु अहं बाध्यमानापि गृहीतप्राणापि पुनर्गृहं नाश्रयिष्ये श्रीकृष्णमेव शरणं व्रजिष्यामीति तावुपालभ्य पुनरुदीर्णस्मराथ यमुनामाह -- हे कृतान्तभगिनि, यमस्वसः, मलयानिलपञ्चबाणौ शैत्यसंभोगकारणमपि पीडयतः तर्हि नहि त्वं यमस्य भगिनी ताभ्यां प्राणेषु गृहीतेषु भ्रातुः किमुत्तरं दास्यसीति । तेन तव क्षमया क्षान्त्या किं, भ्रातुर्हितं समाचर मत्प्राणार्पणेनेत्याह । तरङ्गैरूर्मिभिर्मम गात्राणि सिञ्च । तेषु सिक्तेषु माधवप्राप्त्या देहदाहः शाम्यतु । तरङ्गसेकेनापि तदलाभे प्राणेषु गतेषु देहदाहः शान्तिमेष्यतीत्य
वायुः शिखीवाग्निरिव दुनोति । अयं सुधारश्मिश्चन्द्र विषमिव दुनोति । तस्मिन्नेव
कृष्णेऽदये दयारहिते हृदयं पुनर्भूयोऽपि बलाद्धठाद्वलते । निवार्यमाणमपि तत्रैव गच्छतीत्यर्थः।
अतः कुवलयदृशां कमलनेत्राणां कामो निकाममत्यर्थं निरङ्कुशस्त्यक्तमर्यादोऽत एव
मे वामः प्रतिकूलः । अन्योन्यानुरागो हि कामो मनोहरो भवति अत्र तु स मयि
नीरागः केवलं ममैव चेतस्तत्र धावतीति वामता कामस्येति भावः । अत्र सखीनां
संवासस्य रिपुवत्, हिमानिलस्य वह्निवत्, सुधारश्मेर्विषवदपकारित्वं विरुद्धमिति
विरोधालंकारः । "शिखिनौ वह्निबर्हिणौ" इत्यमरः ॥ ८ ॥ संप्रति विरहदुःखमसहमाना
मलयानिलादीन्प्रार्थयति -- बाधामिति ।हे मलयानिल मलयसंबन्धिवायो, बाधां पीडां
विधेहि कुरु । अत्र मलयचन्दनाश्रयत्वेन महाशयोऽतस्तदाश्रितस्य ते याचकप्रत्याख्यानं
नोचितमिति सूचनाय मलयानिलपदोपादानम् । हे पञ्चबाण, मम प्राणान्गृहाण ।
पञ्चभिर्बाणैः पञ्चानामपि प्राणानां ग्रहणं कामस्योचितमिति सूचनाय पञ्चपदोपादानम् ।
ननु कृष्णेन चेदुपेक्षिता तदा गृहं किमिति न गच्छसीत्यत आह -- न गृहमिति ।
गृहं पुनः येन भूयो गृहं नाश्रयिष्ये । तेन विना गृहमपि मे संतापजनकमेव भविष्यतीति
भावः । हे कृतान्तभगिनि, ते क्षमया सहिष्णुतया किम् । किं प्रयोजनमित्यर्थः ।
तरङ्गैरूर्मिभिर्मेऽङ्गानि सिञ्च प्लावय । देहदाहो विरहजन्यो देहदाहः शाम्यतु निवर्तताम् ।
कृतान्तो निर्दयस्तद्भगिन्यास्तेऽपि दया न युक्तेत्याख्यापनाय कृतान्तेत्युपात्तम् ।
प्रा[^१]तर्नीलनिचोलमच्युतमुरः संवीतपीताम्बरं
राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ १० ॥
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो
नाम सप्तमः सर्गः ॥ ७ ॥
भिप्रायः । वसन्ततिलकावृत्तम् । अप्रस्तुतप्रशंसालंकारः ॥ ९ ॥ इदानीं सर्गान्ते
वैष्णवानाशास्ते -- प्रातरिति । अयं नन्दात्मजः जगदानन्दायास्तु । किंभूतः ।
स्मेरमुखः स्मेरं सहासं मुखं यस्य स तथा । किं कृत्वा । राधानने नयनयोरञ्चलं
प्रान्तमाधाय आरोप्य । किंभूतमञ्चलम् । व्रीडाचञ्चलं लज्जया तरलम् । एतावता
राधाननं कटाक्षवीक्षितं कृत्वेत्यर्थः । तदुक्तम् -- "यद्गतागतविश्रान्तिवैचित्र्येण
विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते" इति । क्व सति । सखीमण्डले
प्रातश्चकितं यथा स्यात्तथा स्वैरं स्वेच्छया हसति सति । किं कृत्वा । अच्युतं
नीलनिचोलं नीलपरिच्छदं विलोक्य । च पुनः राधाया उरः संवीतपीतांशुकम् ।
एवं वस्त्रविनिमयः सखीनां हास्ये कारणम् । इह हास्यो रसः । शार्दूलविक्रीडितं
वृत्तम् । स्वभावोक्तिरलंकारः । अत्र सर्गे शठो नायकः अभिसारिका नायिका ।
तल्लक्षणं -- "स्मरार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका" ॥ १० ॥
श्री एकलिङ्गाश्रयसोदरायां स्फीतोज्ज्वलायां रसिकप्रियायाम् ।
श्रीकुम्भकर्णेन विनिर्मितायां सर्गोऽगमत्सप्तम ऊर्जितायाम् ॥
इति श्रीगयादिविमोक्षादिविश्वजनीनकर्मनिर्मलीकृतान्तःकरणराजाधिराजमहा-
राजश्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां सप्तमः
सर्गः समाप्तिं समगादिति । निर्मलमतीनामभिमतपरिपूर्तिः
स्तादिति शिवम् ॥
"भगिनी स्वसा" इत्यमरः । कामबाणा अपि -- "संमोहनः क्षोभणश्च दहनः शोषणस्तथा ।
उच्चाटनश्च कामस्य बाणाः पञ्च प्रकीर्तिताः" इति ॥ ९ ॥ ( अत्र प्रातरित्यादिश्लोकटीका
नोपलब्धादर्शपुस्तके ) ॥ १० ॥
अन्तस्तमांसि हरती नितरामनल्प-
स्नेहानुवर्तिरतिनर्म विभावयन्ती ।
गूढान्पदार्थनिचयान्स्फुटतां नयन्ती
दीपप्रभेव रुचिरा रसमञ्जरीयम् ॥ १ ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां सप्तमः सर्गः ॥ ७ ॥
[^१.] केषुचित्पुस्तकेषु पद्यस्यास्य स्थाने "सान्द्रानन्दपुरन्दरादि० इत्यादि पद्यं दृश्यते । अष्टमः सर्गः ८
विलक्ष्यलक्ष्मीपतिः ।
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ १ ॥
भैरवीरागयतितालाभ्यां गीयते ॥ प्र० ॥ १७ ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेश[^१]म् । व[^२]हति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ।
हरिहरि याहि माधव याहि केशव मा वद कैतववादम् ।
तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ध्रुवम् ॥
सदानन्दसन्दोहकारं मुकुन्दं नमस्कृत्य पद्माङ्गविद्युत्पयोदम् । नृपः कुम्भकर्णो विधत्ते विचित्रं वरं गीतगोविन्दधातुं पवित्रम् ॥ १ ॥ इदानीमेवं तत्परत्वेन विलपमानायास्तस्याः पुरत आर्तप्राणपरित्राणकारणं जगकारणकारणमाविरभूत् । अतः कविराह -- अथेति ।मानिनीनां हि प्रियाग्रतो मानोऽतिमानमेतीति प्रसिद्धमाह । अथ माधवागमनानन्तरं प्रियं साभ्यसूयं सा राधा वक्ष्यमाणमाह । किंभूतं प्रियम् । अग्रे प्रणतमपि । अर्थाच्चरणयोः । पुनः किंभूतम् । अनुनयवचनं सामवाक्यं वदन्तम् । क्व प्रभाते । किंभूता सा । स्मरशरजर्जरितापि । किं कृत्वा । कथमपि महता कष्टेन यामिनीं विनीय । पुष्पिताग्रा वृत्तम् । खण्डिता नायिका । हरिहरीति धूर्तो नायकः । विप्रलम्भो रसः । जातिरलंकारः ॥ १ ॥ तामेव सपत्नीविषयेर्ष्यां प्रकटयति । तत्र पूर्वं पूर्वपदानुस्यूतत्वाद्ध्रुवपदं व्याक्रियते -- हरिहरीति ।हरिहरीत्यव्ययानामनन्तार्थत्वात्खेदवाचकमव्ययम् । अथवा गानपूर्त्यै, स्तोभमात्रम् । खण्डिता राधा अग्रे प्रणतं प्रियं सेर्ष्यमाह -- हे माधव लक्ष्मीपते, याहि गच्छ । अन्यासक्तो हि कथमन्यां प्रतारयसीति माशब्दद्योत्यम् । अथवा मा स्वभावचञ्चला तस्याः पत्युश्चञ्चलत्वं युक्तमेव । तर्हि चञ्चलस्त्वं त्वदेकपरायणां मां कथं प्रतारयसीति याहि । एवमप्यधिक्षेपेऽसंतुष्टा पुनराह । हे
अथेति । अथानन्तरं सा राधा प्रभाते प्रातः प्रियं कृष्णं साभ्यसूयमसूयासहितं यथा स्यादेवमाह उक्तवती । किं कृत्वा । यामिनीं रात्रिं कथमपि कष्टादपि विनीय नीत्वा । अत्र यामिनीपदेन प्रियविरहेऽतिदीर्घत्वं ध्वनितम् । उदरवती कन्येतिवत् । कीदृशी । स्मरशरजर्जरितापि कामबाणपीडितापि अन्यनायिकानखाङ्कदर्शनेन जनितमहादुःखा विस्मृतविरहृदुःखा उवाचेत्यर्थः । कीदृशं प्रियम् । अनुनयाय स्वापराधजनितकोपशान्तये वचनं "यज्जातं तज्जातं भूयो नेदृशमाचरामि" इत्यादि विनयवाक्यं वदन्तं प्रणतमपि नम्रमपि । "रजनी यामिनी" इत्यमरः ॥ १ ॥ तदेव गीतेन कथयति -- रजनीति । गीतस्यास्य भैरवी रागो यतितालः । ताललक्षणमुक्तं प्राकू । गीतार्थस्तु -- हरिहरीति खेदे । हे
[^१.] "निमेषम्" इति पाठः । [^२.] "वहसि" इति पाठान्तरम् ।
कज्जलमलिनविलोचनचुम्बनविरचितनीलिम रूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ हरिहरि० ॥ २ ॥
केशव, याहि । स्वयोषिति रतत्वे किमुच्यते । प्रशस्ताः केशा यस्येति केशवपदव्यु त्पत्तेः । त्वं केशसंस्कारवतीषु स्वैरिणीषु रत इति केशवशब्दव्यङ्ग्यम् । अतो हे केशव, बहुवल्लभ, त्वदेकपरायणोऽहमित्यादिकैतववादं छलवाक्यं मा वद । विषण्णे मयि किमकारणरोषणे रोष इत्याशङ्कसे चेत् । मैवम् । हे कुमुदलोचन, या तव विषादं हरति तामेव बहुप्रियामनुसर । अनुरूपस्यानुरूपायामनुरूपं सुरतमिति । कुमुदग्रहणेन सोमवंशोद्भूतत्वाद्रात्रौ जागरो दिवाशयो लक्ष्यते । इति ध्रुवः ॥ अथ पदानि । रजनीति । हे कृष्ण, त्वं नयनमनुरागमिव वहसि । किंभूतमनुरागम् । स्फुटमतिबाहुल्येनान्तर्व्याप्य बहिर्निर्यातम् । पुनः किंभूतम् । उदितरसस्य शृङ्गारस्याभिनिवेश आग्रहो यत्र । अथानुरागविशेषणत्वेन उदितः स्वादस्याभिलाषस्याग्रहो यत्रेति । किंभूतं नयनम् । रजनिजनितो योऽसौ गुरुजागररागः तेन कषायितं लोहितीकृतम् । पुनः किंभूतम् । अलसो निवेशोऽवस्थानं यत्र । अत्र "वहति" इति पाठान्तरपक्षे तवेति पूर्वपक्षस्यानुषङ्गेण नयनं कर्तृ स्फुटमनुरागं वहतीति योज्यम् ॥ १ ॥ अपि च । कज्जलेति । हे कृष्ण, तव दशनवसनमधरस्तनोरनुरूपं रूपं तनोति । किंभूतम् । अरुणम् ।
माधव हे केशव, याहि इतोऽपसर । लक्ष्मीश्चञ्चलातस्तेऽपि तादृशीष्वेवानुरागो युज्यते ।
स्थिरानुरागाणां मादृशां ते किं प्रयोजनमिति माधवपदेन ध्वनितम् । कैतववादं छलवाक्यं
मा वद मा कथय । "कैतवं तु छले धूर्ते" इति विश्वः । ननु त्वदनुसरणायैवेतस्ततो
भ्रमतो विलम्बो जात इत्यत आह -- तामिति । हे सरसीरुहलोचन कमलनयन, तां
नायिकामनुसरानुगच्छ या तव विषादं दुःखं हरति । अहं तु स्वयमेव संतप्ये ।
ते विषादं कथमपनेष्यामीति भावः । अत्र पद्मं प्रभाते यथार्थमर्धमुकुलितं तद्वत्ते नयनं
रात्रिजागरालस्यान्मुकुलीभवद्बलात्त्वया प्रसार्यमाणमित्युन्निद्रवशात्किंचित्प्रलपसीति सर-
सीरुहलोचनेत्यनेन ध्वनितम् । यद्वा सरसीरुहं यथा रात्रौ मुकुलितं तिष्ठति प्रभाते
प्रसरति तथा त्वदीयनयनं रात्रौ मद्विषये निमीलितमासीदिदानीं त्वया प्रसारितमिति
तेन पदेन ध्वनितम् । ननु मे त्वत्तोऽन्या प्रेयसी नेत्यत आह -- हे कृष्ण, तव नेत्रं
नयनं तदनुरागमिव वहति धारयति । कीदृशं नयनम् । रजनिजनितो रात्रिजातो गुरुर्यो
महाञ्जागरस्तज्जनितो यो रागो रक्तता तदेव रञ्जनद्रव्यं तेन कषायितमीषल्लोहितम् ।
तदेवालसनिमेषम् । अलसो मन्थरो निमेषः पक्ष्मविन्यासो यस्य तादृशम् । अत्र च
रात्रिकेलिसाक्षिणा कृष्णेन यस्याः कस्याश्चिद्गोपिकायाः केलिव्यासङ्गेन वृथा जागरणं कारित
इति रागेण क्रोधेन कषायितस्य राधाया अग्रेऽन्यनायिकागुप्तरसाभिनिवेशत्वमुचितमेवेति
ध्वनिः । "गुरुर्महति चान्यवत्" इति विश्वः । "रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु"
"गान्धारादावन्यो रागः" इति विश्वः । "कषायो रसभेदे स्यादङ्गरागे विलेपने ।
निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्यवत्" इति च । "निवेशः शिबिरोद्वाहे
विन्यासेऽनुप्रकाशिते" इत्यपि । हरिहरीत्यव्ययम् ॥ १ ॥ खेदेन त्वदन्वेषणार्थपर्यटन-
जनितरजनिजागरान्नेत्रयोर्लौहित्यमित्यलं दुःशङ्कयेत्यत आह -- कज्जलेति । हे कृष्ण,
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् ॥ हरिहरि० ॥ ३ ॥
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ हरिहरि० ॥ ४ ॥
स्वभावारुणमपि । पुनः किंभूतं दशनवसनम् । कज्जलेन मलिने ये विलोचने तयोश्चुम्बनेन विरचितो नीलिमा यत्र तत् । अत्र मलिनग्रहणं तन्नेत्रयोर्बहुपुरुषोपभोग्यत्वं व्यञ्जयति ॥ २ ॥ तव वपू रतिजयलेखमनुहरतीवानुकरोतीव । इदं वपुर्न, मया सर्वं जितमिति कामिनः प्रति कामजायाप्रेष्यलेखोऽयम् । अनेन स्त्रीप्रेष्यत्वेन तस्याधमत्वं सूचितमिति व्यङ्ग्योऽर्थः । किंभूतं वपुः । स्मरस्य सङ्गर इव सङ्गरे कामविलासे खरनखराणां क्षतरेखा यत्र । अत्रापि खरग्रहणं विलासभङ्गे हेतुः । तस्याः संबन्धिनं लेखमिति वपुर्नखक्षतानां लेखेनोपमेयगर्भविशेषणमाह । मरकतशकले कलितायाः कलधौतलिपेः संबन्धिनम् । अथवा लिपेरित्यत्र पञ्चमी । तत्रैवं लिपेरिवेति योजनीयम् । कलधौतलिपिमिवेति युक्तः पाठः ॥ ३ ॥ अपि च । चरणेति । अत्र प्रीतिविशेषं सूचयति । हे कृष्ण, तवेदं हृदयं बहिर्मदनद्रुमस्य मदनो द्रुम इव तस्य नवकिसलयपरिवारं नवपल्लवसमूहमिव दर्शयति । किभूतं हृदयम् । उदारं महत् । पुनः किंभूतम् । चरणकमलादलक्तकसान्निध्यादुपभुक्तवनितापादपद्मतः गलतालक्त
अरुणमपि ते दशनवसनमधरस्तव तनोः शरीरस्यानुरूपं योग्यं रूपं कान्तिं तनोति
विस्तारयति । तनुरपि ते श्यामाऽधरोऽप्यधुना ते श्याम इति भावः । कीदृशम् । कज्ज-
लेनाञ्जनीभूतेन मलिने ये विलोचने नेत्रे तयोश्चुम्बनेन विरचितो नीलिमा नीलपद्मपत्रं
तादृशं तस्याश्चुम्बनसमये लग्नतन्नेत्राञ्जनेन श्यामीभूतस्तदधर एव स्फुटत्वेन धूर्ततां
प्रकटयतीति भावः । नेत्रयोरपि चुम्बनमुक्तं कामशास्त्रे -- "गुह्ये नेत्रे ललाटे च चुम्बनं
परिकीर्तितम्" इति । "ओष्ठाधरौ तु रदनच्छदौ दशनवाससी" इत्यमरः ॥ २ ॥ वपुरिति ।
हे कृष्ण, स्मरस्य कामस्य संगरे संग्रामे खराणां तीक्ष्णानां नखराणां नखानां रेखा यत्रै-
तादृशम् । तव वपुर्मरकतशकले नीलमणिखण्डे कलिता निर्मिता या कलधौतलिपिः
सुवर्ण इवाक्षरविन्यासस्तस्या इव रतिजयलेखं सुरतविजयप्रशस्तिं लेखनपत्रमनुहरति
सदृशीकरोति । अत्र कृष्णवपुषो नीलत्वान्मरकतशकलसाम्यम् । सुवर्णस्य कविसंप्रदाये
आरक्तत्वेनैव वर्णनीयत्वान्नखक्षतस्य सुवर्णलिपिसाम्यं बोध्यम् । "संगरोऽह्नि कृतौ युधि"
इति विश्वः । "पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्" इत्यमरः । "गारुत्मतं
मरकतमश्मगर्भो हरिन्मणिः" इति च । "भित्तं शकलखण्डे वा पुंसि" इति च ।
"कलधौतं रूप्यहेम्नोः कलधौतं कलध्वनौ" इति विश्वः । "वर्णदूतः स्वस्तिमुखो लेखो
वाचिकहारकः" इति हारावली ॥ ३ ॥ ननु मार्गं विस्मृत्य कण्टकादिक्षतवर्त्मनागच्छतो
मे वपुषि कण्टकक्षतं दृश्यते न तु नखाङ्कमित्यत आह -- चरणेति । इदमुदारं
तव हृदयं मदनद्रुमस्य कामवृक्षस्य हृदयान्तर्गतस्य नवकिसलयपरिवारं नूतन-
पल्लवसमूहं बहिर्दर्शयतीव । कीदृशं हृदयम् । चरणकमलादन्यकामिनीपदपद्माद्गलता
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ हरिहरि ०॥५॥
ब[^१]हिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ हरिहरि ० ॥ ६॥
केन सिक्तम् । अत्र मदनद्रुमत्वारोपेण बहिर्ग्रहणेन च तस्याः साधारण्याननुरागौ सूचितौ । हस्तचरणाभ्यां रतविशेषो यथा -- "यदि संहतमूर्ध्वगमूरुयुगं युवतेः परिरभ्य नरो रमते । तदभग्नमुरःस्फुटनं च भवेदुरसि प्रमदाचरणद्वयतः" ॥ ४ ॥ अपि च । दशनपदमिति ।हे कृष्ण, तव एतदिति अन्यरमण्युपभोगचिह्नितं मया सहाधुनापि प्रत्यक्षतो दृश्यमानेऽपि भेद एतामप्यवस्थां प्रापितया सहाभेदं कथं कथयति । कोसावभेद इत्याह -- दशनपदं दन्तक्षतं भवदधरगतं सत्, मम चेतसि खेदं जनयतीति । यस्य व्रणस्तस्य वेदनेति प्रसिद्धेऽन्यव्रणोऽन्यवेदनामादधातीति विरुद्धपरिहाराय भेद एव घटते । स च सुतरां विरुद्ध इति ॥५॥ अपि च । बहिरिवेति । नूनं वितर्के । हे कृष्ण, अहमिति वितर्कयामि । तव मनोऽपि मनसः स्वभावादौज्ज्वल्ये सत्यपि बहिरिव बहिर्गतकृष्णवर्ण इव मलिनतरं भविष्यति । अथ चैवं न तर्हि अनुगतमा
स्रवतालक्तकेन सिक्तम् । अपरोऽपि वृक्षः सिक्तः समुल्लसन्पल्लवानुद्दर्शयतीति ध्वनिः । हृदि नायिकाचरणालक्तकसंबन्धकथनेन क्रोधाख्यो बन्धः कथितः । तदुक्तं वात्स्यायने -"योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ । यथेष्टं ताडयेद्योनिं क्रोधबन्धः प्रकीर्तितः ॥" इति । "परिवारः परिकरे समूहे वेष्टनेऽपि च" इति विश्वप्रकाशः ॥ ४ ॥ किंच । दशनेति । भवदधरगतं दशनपदं तवाधरस्थितं कस्याश्चिद्दन्तक्षतं मम चेतसि खेदं दुःखं जनयति । एतत्तव वपुरधुनापि मया सह कथमभेदं कथयति, अन्यशरीरक्षतस्यान्यत्र व्यथाजनकत्वासंभवाद्वपुषो भेदं ज्ञापयतीति भावः । अधुनात्यन्तहृदयभेदे वपुरभेदो नोचित इति काक्वा व्यज्यते । प्रसिद्धभेदकारणानि षट् । भेदकारणस्य विभाव्यमानत्वाद्विभावनालंकारः । तदुक्तं दण्डिना -- "प्रसिद्धहेतुव्यावृत्त्या यत्किंचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥" इति ॥ ५ ॥ ननु तवोपायनार्थं कमलं त्रोटयति मयि पुष्पकोषादापतता भ्रमरेण ममाधरोष्ठो दष्टो न तु दशनक्षतमिदमित्यत आह -- वपुरिति । हे कृष्ण, नूनं तर्के उत्प्रेक्षायाम् । तव मनोऽपि चित्तमपि वपुरिव शरीरमिव मलिनतरमतिशयेन मलिनं भविष्यति । यथा ते वपुः श्यामं तथा मनोऽपि भविष्यतीत्यर्थः । ननु मनोमालिन्यं त्वया कथं ज्ञातमित्यत आह -- कथमिति । अथेति संप्रश्ने । त्वमेव पृच्छ्यसे यदि तवान्तर्मलिनं न तदाऽसमशरदूनम् असमशरो विषमशरः कामस्तज्जनितेन ज्वरेण दूनं दुःखितमत एवानुगतं त्वामनुद्रुतं मादृशं जनं कथं वञ्चयसे प्रतारयसि । तथा च शरणागतजनवञ्चनमन्तर्मालिन्यमन्तरेण न भवतीति भावः । तथा च व्याजेन दशनक्षतादिगोपनेऽपि नूनमितिपदप्रदानादुत्प्रेक्षा नामायमलंकारः । तदुक्तं दण्डिना -- "मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दै
[^१.] "वपुरिव" इति पाठः ।
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ हरिहरि० ॥ ७ ॥
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ हरिहरि० ॥८॥
श्रितं भवन्तमधिकृत्यासमशरदूनं मल्लक्षणं जनं कथं वञ्चयसे । तद्वञ्चनादेव चित्तमपि मलिनमनुमीयते । मलिना एवाश्रितवञ्चनां कुर्वन्तीति ॥ ६ ॥ अपि च । भ्रमतीति । हे वधूवधे निर्दय, भवान्वनेषु अबलाकवलाय युवतीग्रसनाय भ्रमति । सर्वाणि वाक्यानि सावधारणान्येवेति । यथा पार्थो धनुर्धर इतिवत् । अत्र मद्वधे किं विचित्रम् । ममाबलाया वधः सुकर एव पूतनिका अतियुद्धमदा कंसभगिन्येव तव बालचरित्रं प्रथयति । बालेन यदि तादृशी प्रबला कवलिता तर्ह्यस्या अबलायाः कवलने किमाश्चर्यम् । अत्र स्त्रीवधो निषिद्ध इति निन्दा । "अथ कथमपि" इत्यादौ खण्डिता नायिका । तल्लक्षणम् -- "ज्ञातेऽन्यासङ्गविकृते कान्ते कोपकषायिता । गत्वान्यत्रागते कान्ते भोगचिह्नैः कषायिता" ॥ ७ ॥ अपि च । श्रीजयदेवेति । हे विबुधाः, श्रीजयदेवेन भणितमभिलाषवञ्चितखण्डितयुवतिविलापं शृणुत । किंभूतम् । सुधामधुरम् । पुनः किंभूतम् । स्वर्गेऽपि दुरापम् । सप्तम्यर्थे तसिः ॥ खण्डितालक्षणं यथा -"निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि पतिरेति गृहं प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥" तथा च संगीतराजे -- "तालो वर्णयतिर्मेघरागो देवादिवर्णनम् । विप्रलम्भाख्यशृङ्गारो रसः करुणवेदनम् । कविनामाङ्कितपदप्रान्ते पाटस्वरावलिः । द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः पुरः । रत्नावलीप्रबन्धोऽयं निबद्धः कुम्भभूभुजा ॥" इति लक्ष्मीपतिरत्नावलीनामा सप्तदशः प्रबन्धः ॥ पदरचना जयदेवोदिता कमलावल्लभगानोचिता । कुम्भनृपेण परं
रिवशब्दोऽपि तादृशः ॥" इति ॥ ६ ॥ चित्तमालिन्यमेवाह -- भ्रमतीति । भवान्वनेषु
विपिनेष्वबलाकवलाय कामिनीग्रसनाय भ्रमति । अत्रार्थे किं चित्रम् । न किमपीत्यर्थः ।
तत्र हेतुमाह -- प्रथयति ख्यापयति । त्वयापि बाल्ये येन स्तनदानप्रवृत्ता
राक्षसी हता तस्य संप्रति कोमलाङ्गीनां मादृशां मारणे किं वक्तव्यमिति भावः ।
खण्डिता नायिका । तदुक्तं भरते -- "निद्राकषायकलुषीकृतताम्रनेत्रो नारीनखत्रणवि-
शेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता
कविभिः पुराणैः" इति ॥ ७ ॥ श्रीजयदेवेति । हे विबुधाः पण्डिताः, इमं जयदेवेन
कविना वर्णितं रतौ वञ्चितायाः प्रतारितायाः खण्डितायाः प्रातरागतान्यनायिकानखाङ्क-
चिह्नितप्रियाया विलापं परिदेवनं शृणुताकर्णयत । कीदृशम् । सुधातोऽपि मधुरम् ।
तत्र हेतुमाह -- विबुधेति ।विबुधालयतोऽपि देवालयेऽपि दुरापं दुष्प्रापमित्यर्थः । सुधा
स्वर्गेऽपि सुलभा कृष्णकथामृतपानं तु तत्रापि दुर्लभमिति सुधापेक्षयाधिकमाधुर्यमिति
भावः । "विबुधः पण्डिते देवे" इति विश्वः । सुरालयतोऽपीत्यत्र सप्तम्यर्थे तसिः ।
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियापादालक्तच्छुरितमरु[^१]णद्योति हृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ २ ॥
अन्तर्मोहनमौलिघूर्णन[^२]चलन्मन्दारविभ्रंशनस्त[^३]म्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
योजिता धातुवरेण भणत रसरताः ॥ ८ ॥ इदानीं खण्डितापि प्रौढत्वमालम्ब्य तमधिक्षिपति -- तवेदमिति ।हे कितव, त्वदालोकोऽद्य मम शोकादपि किमपि अधिकतरां लज्जां जनयति । त्वद्दर्शनेन शोकं पराकृत्य लज्जैवाधिकाभूत् । तत्र पूर्वं शोके कारणमाह -- प्रख्यातस्य जगद्विदितस्य स्नेहातिशयस्य भङ्गेन । ततो लज्जां प्रति हेतुगर्भं विशेषणमाह । किंभूताया मम । तवेदं हृदयं पश्यन्त्याः । किंभूतं हृदयम् । प्रियायाः यावककर्बुरितम् । अत एवारुणद्योति अरुणस्य द्योत इव द्योतो विद्यते यस्य तत्तथा । अरुणवत्सन्ध्यारागवद्द्योतनशीलं वा । उत्प्रेक्षते । बहिः प्रसरदनुरागमिव बहिः प्रसरन्नलक्तकव्याजेन तदनुरागो यस्मिन् । बहुमानपुरःसरमुपभोगयोग्यस्य कौस्तुभस्य प्रेष्यापादाहतिर्लज्जाधिक्ये हेतुः । तव प्रेष्योपभोगे लज्जापि नास्तीति व्यङ्ग्यम् । अत्र शिखरिणीवृत्तम् ॥ २ ॥ इदानीं सर्गान्ते मङ्गलाचरणाशिषमाह -- अन्तर्मोहनेति । कंसारेः श्रीकृष्णस्य वंशीरवः पाविकाध्वनिः वो युष्माकं श्रेयांसि विपोलयतु विपुलीकरोतु । किंभूतो वंशीरवः । दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः दृप्यद्भिर्दानवैर्दूयमाना ये दिविषदस्तेषां दुर्वारदुःखापद्भ्रंशहेतुत्वाद्भ्रंशः । पुनः किंभूतः । कुरङ्गीदृशामन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशनस्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः । अन्तर्मोहनेत्यादिदृप्तिपदान्तो द्वन्द्वः । तेषां संहर्षो योगः तत्र महामन्त्र इव । अन्तर्मोहनं मनोमोहनम् । अनेन मोहनं मौलिघूर्ण
सार्वविभक्तिकस्तसिरिति नियमात् ॥ ८ ॥ तवेदमिति । हे कितव धूर्त, त्वदालोकस्तव दर्शनम् । प्रख्यातः प्रसिद्धो यः प्रणयभरोऽनुरागातिशयस्तस्य भङ्गेन नाशेन हेतुना शोकादिदुःखादपि किमप्यनिर्वचनीयां लज्जां जनयति । कीदृश्या मे । तवेदं प्रत्यक्षं हृदयं पश्यन्त्याः । कीदृशम् । प्रियापादालक्तकैः प्रियायाश्चरणसंबन्धियावकैर्व्याप्तम् । अत एवारुणच्छायमरुणा छाया दीप्तिर्यस्य तादृशम् । किमिव । बहिः प्रसरदनुरागमिव हृदयं परिपूर्णाधिक्याद्वहिः निःसरत् । प्रेम्णैव या राधा पूर्वं सौभाग्यगर्वेण न कांचन गणयति स्म सा इदानीं समक्षमन्यनायिकाचरणालक्तकं हृदयं पश्यन्ती जीवत्येवेति विपक्षयुवतीपरिहासशङ्कया शोकादपि मेऽधिकलज्जा भवतीति भावः । "छाया स्यादातपाभावे
[^१.] "रुणच्छायहृ" इति पाठः । [^२.] "वलन्मन्दारविस्रंसन" इति पाठः । [^३.] "स्तब्धा-
कर्षणदृष्टिहर्षण" इति पाठः ।
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
भ्रंशः कंसरिपोर्विपोल[^१]यतु वः श्रेयांसि वंशीरवः ॥ ३ ॥
इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मी-
पतिर्नाम अष्टमः सर्गः ॥ ८ ॥
नमिति वशीकारः । वशीकृता हि देवताः साधु साध्विति शिरोधूननेन प्रशंसन्ति ।
चलन्ति यानि मन्दारकुसुमानि तेषां विभ्रंशनम् । एतावता मारणमुद्दिष्टम् । मारणे
हि कुसुमस्रजां भ्रंशो जायते । स्तम्भाकर्षणं सिद्धम् । दृप्तिर्बाधा । उच्चाटनमिति
यावत् । एतेषां योगः । एतावता वंशीरवस्य मृगीदृशां संबन्धि षट्कर्मसाधनमहा-
मन्त्रत्वमुक्तम् । वंशं श्रुत्वा मृगीदृशस्त्रां तामवस्थां प्राप्नुवन्तीत्यर्थः ॥ ३ ॥
उद्यन्नष्टकुलाचलप्रतिनिधिः कीर्तिव्रजापूरिता-
ष्टाशोऽष्टद्रुहिणश्रुतिप्रतिहतिप्रक्रान्तभेरीरवः ।
स्फूर्जच्छौर्यजिताष्टदिक्पतिरसौ श्रीकुम्भकर्णो व्यधा-
त्सर्गस्याष्टमितस्य चारुविवृतिं भक्तोऽष्टमूर्तेरिमाम् ॥
इति श्रीरसिकप्रियानाम्नि श्रीगीतगोविन्दविवरणे म्लेच्छवनीदावानल-
महाराजश्रीकुम्भकर्णविरचितेऽष्टमः सर्गः ॥ ८ ॥
प्रतिबिम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिसच्छोभापङ्क्तिषु स्मृता ॥" इति विश्वप्रकाशः
॥ २ ॥ ( अन्तर्मोहनेत्यादिश्लोकटीका नोपलभ्यते लब्धादर्शपुस्तके ) ॥ ३ ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्री शालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामष्टमः सर्गः ॥ ८ ॥
[^१.] "रिपोर्व्यपोहयतु वोऽश्रेयांसि" इति पाठः । नवमः सर्गः ९
मुग्धमुकुन्दः ।
ता[^१]मथ मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहसि सखी ॥ १ ॥
गुर्जरीरागयतितालाभ्यां गीयते । प्र० ॥ १८ ॥
हरिरभिसरति वहति मधुपवने
किमपरमधिकसुखं सखि भवने ॥ १ ॥
माधवे मा कुरु मानिनि मानमये ॥ ध्रुवम् ॥
इदानीं प्रणयकोपाद्धरिमधिक्षिप्य कलहान्तरितत्वेनोपतप्यमानां राधां सख्याह -तामथेति । अथ सखी तामुवाच । किंभूताम् । मन्मथखिन्नाम् । पुनः किंभूताम् । संभोगरागेण भावशबलतां प्राप्ताम् । पुनः किंभूताम् । विषादसंपन्नाम् । पुनः किंभूताम् । अनुध्यातहरिचेष्टिताम् । पुनः किंभूताम् । कलहान्तरिताम् । तल्लक्षणं यथा -- "प्राणेश्वरं प्रणयकोपविशेषभीतं या चाटुकारमवधीर्य विशेषवाग्भिः । संतप्यते मदनवह्निशिखासमूहैर्बाष्पाकुलेह कलहान्तरिता हि सा स्यात्" ॥ इयं पथ्या आर्या । तामथेत्यादिषु अनुकूलो नायकः । प्रौढधीरा मानवती नायिका । सखी दूती च ॥ १ ॥ तदेव वक्ष्यमाणमाह -- हरिरभीति । तत्र पूर्वं ध्रुवः । माधव इति । अये राधे मानवति । अनुच समर्थनायिकानाथे । इति ध्रुवः । अथ पदानि हरिरिति -- हे सखि राधे, भवने गृहे । अपरमिति सावधिको निर्देशः । अतः
पूर्वसर्गे खण्डिताया राधायाश्चरितमुक्तम् । संप्रति पश्चात्तापयुक्तां तां सख्युवाचेत्याह -अथेति । अथ अनन्तरं कलहान्तरितां परुषवचनानन्तरं कृतपश्चात्तापां राधां रहसि एकान्ते सखी उवाच उक्तवती । कीदृशीम् । मन्मथेन कामेन खिन्नां दुःखिताम् । अत एव रतिरसेन शृङ्गाररसेन भिन्नां संगताम् । अत एव विषादसंपन्नामुद्वेगसहिताम् । अत एवानुचिन्तितं स्मृतं हरेश्चरितं पुरा रहोविलसितं यया ताम् । "भिन्नमन्यार्थवचने संगते दारिते स्फुटे" इति विश्वः । कलहान्तरिता चेयम् -- "प्राणेश्वरं प्रणयकोपभरेण भीतं या चाटुकारमवधीर्य विशेषवाग्भिः । संतप्यते मदनवह्निशिखासहस्रैर्बाष्पाकुला च कलहान्तरिता हि सा स्यात् ॥" इति ॥ १ ॥ तदेव गीतेन कथयति -- हरिरिति । गीतस्यास्य गुर्जरीरागो यतितालश्च । गीतार्थस्तु -- अये इति संभ्रमे । हे मानिनि मानवति, माधवे लक्ष्मीपतौ मानं मा कुरु । लक्ष्मीपतिरपि त्वां प्रसादयत्यहो भाग्यमित्यवश्यं त्वया मानस्त्याज्य इति सूचनाय माधवपदोपादानम् । मृदुपवने वसन्तवायौ वहति सति हरिः कृष्णोऽभिसरति त्वदीयसंकेतभूमिमागच्छति । हे सखि, भुवने त्रैलोक्येऽपरं कृष्णाभि
[^१.] "अथ तां" इति पाठः । [^२.] "रामकरी" इति पाठः ।
तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥ माध० ॥ २ ॥
कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतिशयरुचिरम् ॥ माध० ॥ ३ ॥
किमिति विषीदसि रोदिषि विकला ।
विहसति युवतिसभा तव सकला ॥ माध० ॥ ४ ॥
सजलनलिनदलशीतलशयने ।
हरिमवलोकय सफलय नयने ॥ माध० ॥ ५ ॥
परमधिकं किं सुखम् । न किंचिदपीत्यर्थः । अत इति किम् । यन्मधोर्वसन्तस्य पवने वहति वाति सति हरिरभिसरति स्वयमायाति ॥ १ ॥ अपि च । तालफलादिति । हे राधे, कुचकलशं किं विफलीकुरुषे । हरिकरतलस्पर्शविलासाभावाद्विफलमित्यर्थः । तालफलादपि गुरुं कठिनं महान्तं च । पुनः कीदृशम् । अतिशयेन सरसम् ॥ २ ॥ अपि च । कति नेति । हे सखि, अतिशयरुचिरं हरिं मा परिहर । इदं वचनमचिरं सांप्रतमनुपदं स्थाने स्थाने कतिवारं कथितम् ॥ ३ ॥ अपि च । किमितीति ।हे सखि, इति अमुना प्रकारेण किं विषादं कुरुषेऽतिविकला सती किमिति रोदिषि । सकला युवतिसभा तव इति चेष्टितं हसति ॥४॥ अपि च । स
सरणादन्यत्किं सुखम् । अपि तु न किंचिदित्यर्थः । "मधु क्षीरे जले क्षौद्रे मधे पुष्परसे मधुः ।
दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे ॥" इति विश्वः ॥ १ ॥ किंच । तालेति ।
कुचकलशं कलशवत्पीनं मांसलं स्तनं किमिति विफलीकुरुषे । कृष्णकरस्पर्शादेव कुचकलशयोः
साफल्यं तदभावे वैफल्यमिति भावः । तालफलापेक्षयापि गुरुं कठिनमतिसरसं च ।
रसः शृङ्गाराख्यस्तत्सहितम् । तालफलपक्षे रसो माधुर्यं तत्सहितम् । अतिमर्दनेन
वै रसप्रदत्वं भवति । अपरः कलशोऽपि पूर्णः सन्गुरुर्भवति । रसो जलं तत्सहितश्च
भवतीत्यपि ध्वनितम् ॥ २ ॥ ननु यदा हरिरायातस्तदा त्वयापि नोक्तमित्यत आह --
कति नेतिइदमचिरं सांप्रतमेवानुपदं स्थानं स्थानं प्रति मया कियन्न कथितमपि
तु बहु कथितम् । इदं किम् । हरिमतिशयरुचिरमतिशयेन मनोहरं मा परिहर
मोपेक्षस्व ॥ ३ ॥ किमिति । त्वं किमिति किमर्थं विषीदसि विषण्णा भवसि । ननु
नास्मि विषण्णेत्यत आह -- रोदिषीति । विकला विह्वला सती रोदिषि रोदनं करोषि ।
अत एव सकला समस्ता युवतिसभा हसतीति भावः । यद्वा इयं मानापनोदाय प्रणतमपि
प्रियमुपेक्ष्य संप्रति रोदितीति मानपरिपाटीं न जानासि । सकला चतुःषष्टिकलासहिता
युवतिसभा हसतीति भावः ॥ ४ ॥ तर्हि किमित्यत आह -- सजलेति । हे
सजलनलिनदलशीतलशयने, जलसहितानि यानि नलिनीदलानि कमलिनीपत्राणि तेषां
शीतलं शयनं शय्या यस्यास्तादृशे, त्वं पुरःस्थितं हरिं कृष्णमवलोकय पश्य । अत
जनयसि मनसि किमिति गुरुखेदम्
शृणु मम वचनमनीहितभेदम् ॥ माध० ॥ ६ ॥
हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥ माध० ॥ ७ ॥
श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥ माध० ॥ ८ ॥
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
जलेति ।अत एव नयने सफलय ॥ ५ ॥ अपि च । जनयसीति । हे राधे, इत्येवं पूर्वोक्तप्रकारेण मनसि चित्ते महान्तं खेदं किं जनयसि । तर्हि किं किं विधेयमित्याशङ्क्याह -- मम वचनं शृणु । किंभूतम् । अनीहितभेदम् । न ईहितश्चेप्सितो भेदः पार्थक्यं येन तत्तथा ॥ ६ ॥ अपि च । हरिरूपयात्विति । हे राधे हरिरुपयातु त्वत्समीपमायातु । बहुविस्तरं मधुरं चाटु वदतु । अनया रीत्या हृदयमतिविधुरं किं करोषि ॥ ७ ॥ अपि च । श्रीजयदेवभणितमिति । हरिचरितं रसिकजनं सुखयतु । किंभूतम् । श्रीजयदेवभणितम् । पुनः किंभूतम् । अतिललितम् । श्रुतिजातिग्रहलयसाम्यान्मनोहरम् । तथा च संगीतराजे -- "नट्टरागस्तृतीयाख्यस्तालो मध्ये क्वचित् क्वचित् । पदानां शोभयालापगुम्फानां गानहेतुकम् ॥ अन्ते पाटाः स्वरास्तेनास्तदन्ते पद्यगुम्फनम् । पद्यामन्दमुकुन्दाद्यमकरन्दाभिधानवत् । प्रबन्धः प्रीतये गीतः श्रीपतेः कुम्भभूभुजा ॥" इति श्रीअमन्दमुकुन्दो नामाष्टादशः प्रबन्धः ॥ यदि कौतुकिनो गाने संगीते चातुरी यदि । रसिकाः कुम्भकर्णस्य शृण्वन्तु बुधसत्तमाः ॥८॥ सखी तद्दुश्चेष्टितमनुवदन्ती तां राधां प्रति बोधयति -- स्निग्ध इति । हे विपरी
एव नयने नेत्रे सफलय कृतार्थय । यद्वा सजलेति सप्तमी । तथा च त्वया रचितं यत्स-
जलनलिनीदलशीतलशयनं तत्रोपविष्टं हरिमवलोकयेत्यर्थः । तथा च सत्कारपूर्वकं शयने
उपवेश्य हरिं पश्येति भावः ॥ ५ ॥ जनयसीति । तस्मान्मनसि चित्ते गुरुखेदं महद्दुःखं
किमिति जनयसि । मम वचनं "माधवे मानं मा कुरु" इति मम वाक्यं शृणु ।
कीदृशम् । अनीहितोऽनाकाङ्क्षितो युवयोर्भेद उपजाप एतादृशम् । तथा च मम वचनं
युवयोः प्रीतिकारकं तदवश्यं त्वया श्रोतव्यमिति भावः । मया सह नाकाङ्क्षितं भेदं यथा
स्यादेवं मम वचनं शृणु । इयं सखी मत्तोऽभिन्ना, मदनिष्टं न भवतीति बुद्ध्या मद्वचनं
शृण्विति भावः ॥ ६ ॥ हरिरिति । हरिः कृष्ण उपयातु त्वदन्तिकं गच्छतु ।
बहुमधुरमतिसरसं यथा स्यादेवं वदतु । हृदयं स्वकीयं हृदयमतिविधुरमतिदुःखितं किमिति
करोषि ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवेन भणितं वर्णितं ललितं मनोहरं
हरिचरितं रसिकजनं कृष्णभक्तिरसास्वादगृहीतं शृङ्गारादिरसास्वादपरं जनं सुखयतु
आनन्दयतु ॥ ८ ॥ स्निग्ध इति ।यद्यतो हेतोः स्निग्धे तस्मिन्प्रिये मधुरवचनैः स्नेहं
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ २ ॥
सान्द्रानन्दपुरंदरादिदिविषद्वृन्दैरमन्दादरा-
दानम्रैर्मुकुटेन्द्रनीलमणिभिः संदर्शितेन्दि[^१]न्दिरम् ।
स्वच्छन्दं मकरन्दसुन्दरमिल[^२]न्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ३ ॥
इति श्रीगीतगोविन्दे कलहान्तरितावर्णने मुग्धमुकुन्दो
नाम नवमः सर्गः ॥ ९ ॥
तकारिणि विपरीतकृतप्रतिकरणशीले, यत्तव श्रीखण्डचर्चा चन्दनानुलेपो विषमिव भवति । यच्च शीतांशुश्चन्द्रः तपन इव भवति । यच्च हिमं नीहारो हुतवह इव भवति । यच्च क्रीडामुदः केलिप्रमोदास्तीव्रवेदना इव भवन्ति । एतद्युक्तम् । विपरीतं य आचरति तस्य सर्वं विपरीतमेव भवति । तदेव विपरीतमाचरणं दर्शयति । यत्तस्मिन्नपि तादृशप्रियकारिण्यपि हरौ स्निग्धे सस्नेहे रूक्षासि । सस्नेहे स्नेहराहित्यं वैपरीत्यम् । यच्च प्रणमति नतिशीले प्रिये स्तब्धासि । प्रणमत्यप्रवणत्वं वैपरीत्यम् । यच्च रागवति प्रद्वेषिण्यसि । अत्रापि तादृगेव वैपरीत्यम् । यच्च संमुखे प्रिये वैमुख्यं यातासि । संमुखे विमुखभावो वैपरीत्यम् । अत्र शार्दूलविक्रीडितं वृत्तम् । विरोधालंकारः ॥२॥ इदानीं सर्गान्ते सर्वविघ्नोपशमनार्थं गोविन्दं प्रणमति -- सान्द्रेति ।श्रीगोविन्दपदारविन्दं वन्दामहे नमस्कुर्महे । किमर्थम् । अशुभस्कन्दाय अशुभनाशाय । किंविशिष्टम् । स्वच्छन्दं यथा स्यात्तथा मकरन्दसुन्दरा मकरन्दसदृशी गलन्ती या मन्दाकिनी गङ्गा तथा सान्द्रं स्निग्धम् । अरविन्दे हि मकरन्दो भवति । तेन मन्दाकिनी उपमीयते इत्युपमालंकारः । पुनः किंभूतम् । सान्द्रानन्दा निबिडहर्षा ये पुरन्दरादिदिविषदस्तेषां वृन्दैः मुकुटेन्द्रनीलमणिभिः संदर्शिता इन्दिन्दिरा मधुपा यत्र तत्तथा । अत्र चरणयोः कमलोपमा । मन्दाकिन्याः मकरन्दोपमा
प्रकटयति सति परुषासि निष्ठुरभाषिण्यसि । यच्च प्रणमति तस्मिन्स्तब्धासि । यच्च रागिण्यनुरागवति तस्मिंस्त्वं द्वेषस्थासि द्वेषमवलम्ब्य स्थितासि । यच्चोन्मुखे आलिङ्गनाय संमुखे तस्मिंस्त्वं विमुखतां यातासि पराङ्मुखतां गतासि । ततो विपरीतकारिणि, एतत्सर्वं विपरीतमेव । एतत्किम् । तव श्रीखण्डचर्चा चन्दनलेपो विषम् । यथा विषं भोक्तारं मूर्च्छयति तथा चन्दनलेपोऽन्येषां सुखदोऽपि त्वां मूर्च्छयतीति भावः । अथ च शीतांशुस्तपनः सूर्यः । अन्येषां शीतलस्वभावोऽपि चन्द्रस्त्वयि तापप्रदत्वात्तपन इति भावः । हिमं तुषारोऽपि हुतवहोऽग्निः । अथ च क्रीडामुदः सखीक्रीडाजन्या मुदः प्रमोदा
[^१.] "न्दीवरम्" इति पाठः । [^२.] "गलन्" इति पाठः ।
सुरवृन्दमौलीन्द्रनीलमणीनां भृङ्गोपमा । एवं चरणसरोजे मकरन्दजुषो नमत्सुरमौलि-
नीलमणिव्याजेन भृङ्गा इव । किंविशिष्टैर्दिविषद्वृन्दैः अमन्दादरात्प्रचुरादरवशतः
आनम्रैः साष्टाङ्गप्रणिपातप्रवणैः । शार्दूलविक्रीडितम् ॥ ३ ॥
एवं कृत्वा हृदीशं द्वितयमथ नये सारमासाद्य तिस्रः
सम्यग्योगं चतुर्णां निपुणतरधिया पञ्च जित्वा विदित्वा ।
षट्कं हित्वाथ सप्ताष्टकुलगिरिबलो गीतगोविन्दसर्गं
सूक्त्या कृत्वा निसर्गोज्ज्वलमिव नवमं कुम्भकर्णो जयी स्तात् ॥
इति श्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां कलहान्तरि-
तावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः ॥
यातनाः तीव्रवेदनाः । यस्तस्मिन्विपरीतमाचरति तस्य सर्वं विपरीतमेव भवतीति भावः । "परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।" इति विश्वः । "यातना तीव्रवेदना" इत्यमरः ॥ २ ॥ (अत्र सान्द्रानन्देति श्लोकस्य टीका नोपलभ्यते आदर्शपुस्तके ॥ ३ ॥) वात्स्यायनादिमतसंमतमत्र किंचिद्यत्कोषजातमथ शब्दनयप्रमेयम् । यच्चाप्यलंकृतिरहस्यमलेखि तत्तच्चाम्नायमूलमिति सन्मतिभिर्विभाव्यम् ॥ इति श्रीशंकरमिश्रविरचितायां गीतगोविन्दटीकायां रसमञ्जर्यां नवमः सर्गः ॥ दशमः सर्गः १०
चतुरचतुर्भुजः ।
अत्रान्तरे म[^१]सृणरोषवश[^२]मपार-
निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दगद्गदपदं हरिरित्युवाच ॥ १ ॥
देशवराडीरागाष्टतालाभ्यां गीयते । प्र० ॥ १९ ॥
वदसि यदि किंचिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम् ।
स्फुरदधरशीधवे तव वदनचन्द्रमा
रोच[^३]यतु लोचनचकोरम् ॥ १ ॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानम् ।
इदानीं सायं कृतसखीकृत्यां स्मरशरजर्जरितकोपां स्वयमनुनयति -- अत्रान्तर इति ।अत्रान्तरेऽस्मिन्नवसरे दिनान्ते हरिः सव्रीडं यथा स्यात्तथा सुमुखीं राधामुपेत्य सानन्दगद्गदपदं सहर्षविशकलिताक्षरं यथा स्यात्तथा इति वक्ष्यमाणमुवाच । पुनः कथं यथा स्यात्तथा । किंभूताम् । मसृणरोषवशां स्निग्धरोषरागाम् । कोमलसखीवचनैः किंचिन्नमितरोषाम् । पुनः किंभूताम् । अपारनिःश्वासनिःसहमुखीं विरहसहनासमर्थाननाम् । वसन्ततिलका वृत्तम् ॥ १ ॥ तदेव वक्ष्यमाणमाह -- वदसीति । तत्रानुरोधेन क्रमपरिपार्टी परित्यज्य पूर्वं ध्रुवपदं व्याक्रियते -- प्रिये हीति । हे प्रिये, शोभनशीले, मयि विषये यो मानः तं मुञ्च परित्यज । किंभूतम् । अनिदानम्
अत्रान्तर इति ।अत्रान्तरेऽस्मिन्नवसरे हरिः राधां समुपेत्य समीपं गत्वा प्रदोषे रात्रिमुखे इति वक्ष्यमाणमुवाच । कीदृशम् । अमसृणः कर्कशो यो रोषस्तस्मादसीमोऽधिको निःश्वासस्तेन निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्ताम् । पुनः कीदृशीम् । सव्रीडं सलज्जं यथा स्यादेवमीक्षितं सख्या वदनं यया ताम् । कथं यथा स्यात् । सानन्दगद्गदपदम् । आनन्देन गद्गदपदं गलदक्षरवाक्सहितं यथा स्यात् ॥ १ ॥ तदेव गीतेन कथयति -- वदसीति ।गीतस्यास्य देशवराडीरागस्तालश्चाष्टतालः । गीतार्थस्तु -- हे प्रिये राधे, चारु मनोहरं शीलं यस्यास्तादृशे, त्वं मयि मद्विषयेऽनिदानमकारणकं मानं मुञ्च त्यज । सपदि त्वन्मानकाल एव मदनानलः कामाग्निर्मम मानसं दहति तापयति । अतो मुखकमलममलं तत्संबन्धि यन्मधु तत्पानं देहि । चारुशीलत्वमेवाह -- वदसीति । त्वं यदि
[^१.] "अत्रान्तरेऽमसृण" इति पाठः । [^२.] "वशादसीम इति" "वशामसीम" इति पाठौ ।
[^३.] रोचयति""रोचयति" इति पाठः ।
सपदि मदनानलो दहति मम मानसं
देहि सुखकमलमधुपानम् ॥ ध्रुवम् ॥
सत्यमेवासि यदि सुदति मयि कोपिनी
देहि खरनखरशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातम् । प्रिये० ॥ २ ॥
सपत्नीसंभोगलक्षणकारणरहितम् । सपदि सांप्रतं भवतीति मानमपेक्ष्य मदनानलो मम मानसं दहति । तत्तापोपशान्त्यै मुखकमलमधुपानं देहीति ध्रुवः । अथ पदानि । वदसीति । हे प्रिये, किंचिदपि प्रियाप्रियनिरपेक्षं स्वल्पमपि वदसि । तदा तव दन्तरुचिकौमुदी मम दरतिमिरं भयान्धकारं हरति । किंभूतं भयान्धकारम् । अतीव घोरम्, अतीव भयानकहेतुत्वाद्भयानकम् । अत्र मयि स्थायी भयमेवोद्रिक्तः सन् भयानकतामेष्यतीति । "विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आनीयमानः स्थायित्वे स्थायीभावो रसः स्मृतः" इति । स च शृङ्गारविरोधी त्वया परिहरणीय एव । तव वदनचन्द्रमा मम लोचनचकोरं स्फुरन्योऽधरे शीधुस्तस्मै रोचयतु साभिलाषं करोतु । अधरशीधुचन्द्रिकार्थं चन्द्रमसः सान्निध्यान्मन्नेत्रचकोरस्य स्पृहा जायते ॥ १ ॥ अपि च सत्यमिति । हे सुदति शोभनदन्ते, सत्यमेव यदि मयि कोपिन्यसि तर्हि सापराधे मयि खरनखरशरघातं देहि । भुजाभ्यां बन्धनं घटय । रदैः खण्डनं जनय । अथवा किमुद्दिश्यते । येन वा अपराधयोग्येन दण्डेन तव सुखजातं भवति स एव विधीयताम् । प्रभूणां हि सापराधेषु भृत्येषु ताडन
किंचिदपि उदासीनवचनमपि वदसि तदा दन्तरुचिकौमुदी तव दन्तानां या रुचिः
सैव कौमुदी चन्द्रज्योत्स्ना सातिघोरमतिभीमं दरतिमिरं दरः साध्वसं स एव
तिमिरमन्धकारः तद्धरति दूरीकरोति । अत्र साध्वसे सति पुरः स्थितमपि वस्तु न प्रकाशत
इति साध्वसस्यान्धकारत्वेन निरूपणम् । दन्तरुचेश्च तन्नाशकत्वात्कौमुदीत्वेन निरूपणम् ।
अथ च स्फुरन्कोपवशात्किंचिच्चलन्योऽधरः । तल्लक्षणं चोक्तम् । "चन्द्रिकायां
कौमुदी" इति विश्वः । "दरः साध्वसगर्वयोः" इति च । "घोरं भीमे हरे घोरः" इत्यपि ।
"शीधु निभृतेऽमृते (?) ।" शीधुशब्दः पुंस्यपि । पुन्नपुंसकशेषेऽमरसिंहः -- "कुष्टं मुण्डं शीधु
बुस्तम्" इति । अत्राधरशीधवे इत्यत्र तादर्थ्यविवक्षायां चतुर्थी । न च लोचनचकोरमित्यत्र
"रुच्यर्थानां प्रीयमाणः" इति चतुर्थी कुतो नेति चेत् । अन्यकर्तृकोऽभिलाषो रुचिः ।
इह तु वदनचन्द्रमसोर्न प्रीतिजनकत्वं विवक्षितम् ॥ १ ॥ सत्यमेवेति । हे सुदति
शोभनदशने, त्वं सत्यमेव यथार्थमेव यदि कोपवत्यसि तदा खरास्तीक्ष्णा ये नखास्त एव
बाणास्तैर्घातं प्रहारं देहि । तेनापि यदि न तुष्यसि तदा भुजाभ्यां बाहुभ्यां बन्धनं घटय ।
तेनाप्यसंतोषे रदखण्डनं रदैर्दशनैः खण्डनमधरे क्षतं जनय । येन वा सुखजातं
सुखसमूहो भवति तदेव कुरु। तथा च मय्यपराधानुकूलं दण्डं विधाय कोपं मुञ्चेति भावः ॥
सुदति शोभना दन्ता अस्या इति वाक्येति दन्तस्येति दत्रादेशः । "जातं जात्योच्चजन्मसु"
त्वमसि मम भूषणं त्वमसि मम जीवनं
त्वमसि मम भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनुरोधिनी
तत्र मम हृदयमतियत्नम् । प्रिये० ॥ ३ ॥
नीलनलिनाभमपि तन्वि तव लोचनं
धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि
कृष्णमिदमेतदनुरूपम् ॥ प्रिये० ॥ ४ ॥
बन्धनखण्डनादयो दण्डाः समुचिताः । अत्रैतद्व्याजेन नखक्षतालिङ्गनचुम्बनादीन्प्रार्थयते ॥ २ ॥ अपि च त्वमसीति ।तव अन्या एव सन्ति ता एव प्रार्थ्यन्तामित्याशङ्ख्याह -- मम त्वमेव भूषणमसि । त्वयालंकृतोऽहमन्यासु सौभाग्यवान् । अथ तिष्ठतु बाह्यभूषणम् । मम जीवनमपि त्वमेवासि । अथ जीवनमपि तिष्ठतु । जीवनेsपि भवजलधौ रत्नं त्वमेव । भवजलधिग्रहणमन्यस्य परिग्रहस्य जडत्वद्योतनार्थम् । भवतीह विषये मयि सततमनुरोधिनी कृपापरा भवतु । अत्रैवार्थे मम हृदयमतीव यत्नपरं विद्यते ॥ ३ ॥ अपिच नीलेति । हे तन्वि, नीलनलिनाभमपि कृष्णरूपमपि तव लोचनं कोकनदरूपं रक्तिमानं धारयति । अतो यदि कुसुमशरबाणचेष्टया कुसुमशरबाणाधीना भूत्वा यदि मामपि कृष्णं रञ्जयसि तदा इदं रञ्जनमेतल्लोचनरञ्जनानुरूपं स्यात् । इदमाकूतम् । यथा मयि कोपेन त्वया कृष्णं लोचनं रक्तं कृतं तथा मयि प्रसादपरा भूत्वा कुसुमशरभावेन कामबाणानां कटाक्षादीनां चेष्टया मयि रक्तं कुरु । कोपं त्यक्त्वा प्रसादपरा भवेत्यर्थः । अथवा
इति विश्वः ॥ २ ॥ ननु या तव प्रिया तस्या मानं मोचय । मे मानत्यागे तव किं
प्रयोजनमित्यत आह -- त्वमसीति । त्वं मम जीवनमसि । त्वयि विषण्णायां मम विषादो
भवति प्रसन्नायां प्रसाद इति त्वमेव जीवनमिति भावः । त्वं मम भूषणमलंकरणमसि ।
त्वां विना न परमा कान्तिरिति त्वमेव मम लोकोत्तरं भूषणमिति भावः । भवजलधौ
संसाररूपे रत्नाकरे त्वमेव मम रत्नमसि । यथा दरिद्रस्य रत्ने दृष्टे परमानन्दो भवत्येवं
मम त्वय्यपि दृष्टायामिति भावः । भवत्विति । इह प्रणते मयि भवती सततं सदानुरोधिनी
भवतु । तत्रार्थे मम हृदयं यत्नवत् ॥ ३ ॥ नीलेति । हे तन्वि कृशाङ्गि, नीलनलिनस्य
नीलोत्पलस्येवाभा दीप्तिर्यस्यैतादृशं तव लोचनं रोषारुणं यत्कोकनदरूपं रक्तोत्पलसौन्दर्यं
धारयति । यदि च कुसुमशरः कामस्तस्य बाणभावेन तद्बाणाभिप्रायेण वा इमं
कृष्णं च रञ्जयसि रक्तं करोषि । एतस्य चक्षुषोऽनुरूपं सदृशम् । शरा हि सततं
परशरीरभेदिनो रुधिराक्तत्वेनारक्ता भवन्तीति भावः । यद्वा कुसुमशरबाणभावेन
कुसुमशरस्य बाणरूपो यो भावोऽभिप्रायस्तेन । यद्वा कुसुमशरबाणभावेन तद्बाणस्वरूपेण
चक्षुषा भित्वा कृष्णं मां यदि रञ्जयसि । इदं रञ्जनमेतस्यास्तवैतस्य बाणस्य चानुरूपं
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशम् ।
रसतु रसनापि तव घनजघनमण्डले
घोषयतु मन्मथनिदेशम् । प्रिये० ॥ ५ ॥
स्थलकमलगञ्जनं मम हृदयरञ्जनं
जनितरतिरङ्गपरभागम् ।
भण मसृणवाणि करवाणि चरणद्वयं
सरसल[^१]सदलक्तकरागम् । प्रिये० ॥ ६ ॥
कुसु॒मशरभावेन यदि नीलनलिनाभमपि लोचनं कोकनदरूपं धारयति तर्हि एतदिदं तवानुरूपम् ॥ ४ ॥ अपि च स्फुरत्विति । हे तन्वि - तव कुचकुम्भयोरुपरि मणिमञ्जरी मणिः मञ्जरीव स्फुरतु । स्फुरन्ती च किं करोत्वित्याह -- तव हृदयदेशं रञ्जयतु । अपि च । रसनापि तव निबिडजघनमण्डले रसतु शब्दं करोतु । सा तथाविधा किं करोत्वित्याह- मन्मथनिदेशं सर्वा एव मानिन्यो मानं मुक्त्वा कामवशगा भवन्त्विति कामाज्ञां घोषयन्तु ॥ ५ ॥ अपि च । स्थलकमलेति । हे मसृणवाणि स्निग्धवाणि, भणं आदिश । तव चरणद्वयं सरसलसदलक्तकरागं करवाणि । सरसः सस्नेहो लसन्योऽसावलक्तकस्तस्य रागो यत्र । अथवा सह रसेन शृङ्गारेण वर्तत इति सरसः । स चासौ तथा शृङ्गारोत्पत्तिद्वारेण स्पृहाजनकश्चासौ
सदृशम् । श्यामे लौहित्यापादनसमर्थायास्ते मम रञ्जनमनुरूपमेवेति । यश्च बाणेन ताड्यते स रुधिरादिना रक्तो भवत्येवेति भावः । कुसुमशरबाणभावेनानेन नयनेन कृष्णं नन्दात्मजं मां रञ्जयसि प्रणयास्पदं करोषीति । इदमेतस्यास्तवानुरूपमेवेति प्रकृतार्थो भवेत् । "कोकनदं रक्तकैरवे रक्तपङ्कजे" इति विश्वः ॥ ४ ॥ स्फुरत्विति ।मणिमञ्जरी मणिपरम्परा कुचकुम्भयोः स्तनकलशयोरुपरि स्फुरतु चञ्चला भवतु । तव हृदयदेशं वक्षःप्रदेशं रञ्जयतु स्वरश्मिभिः शोभयतु । त्वन्नयननलिनं रक्तत्वं धत्ते त्वं च कृष्णं मां रञ्जयसि । अतो मणिमञ्जरी अर्पिता वक्षो यदि रञ्जयति तदानुरूपं भवतीति भावः । अत्र केलीरूपशुभकर्मारम्भे मञ्जरीयुक्तपूर्णकलशस्थापनमुचितमेवेति सूचनाय कुचयोः कलशत्वेन रूपणं मणिपरम्परायाश्च मञ्जरीत्वेन रूपणम् । तव घनजघनमण्डले मांसलजघनभागे रसनापि क्षुद्रघण्टिकापि रसतु शब्दायमाना भवतु, मन्मथनिदेशं कामाज्ञां घोषयतु वारं वारं कथयतु । कामाशया "भोः केलिं कुरुत" इति कामाशया सर्वे विलासिनो रमन्तामिति वा मन्मथनिदेशं घोषयत्विति भावः ॥ ५ ॥ स्थलेति । हे मसृणवाणि स्निग्धवचने, भण आज्ञां देहि । तव चरणद्वयं सरसलसदलक्तकरागं सरसः सान्द्रो लसन्नलक्तकरागो महारजनरागो यस्य तादृशं करवाणि कुर्याम् । कीदृशम् । स्थलकमलगञ्जनं स्थलोत्पन्नं यत्कमलं स्वकान्त्या तस्य तिरस्कारकम् । पुनः कीदृशम् ।
[^१.] "सरसगलदल" इति पाठः ।
स्मरगरलखण्डनं मम शिरसि मण्डनं
धेहिधेहि[^१] पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारु[^२]णो
हरतु तदुपाहितविकारम् । प्रिये० ॥ ७ ॥
लसत्कान्तिमांश्चेति ईदृशोऽलक्तकरागो यत्र । एतावता अलक्तकरञ्जनसमकालमेव शृङ्गारोत्पत्तिर्भवत्येव यूनाम् । किंभूतं चरणद्वयम् । स्थलकमलगञ्जनं पद्मरागस्पर्धि । पुनः किंभूतम् । मम हृदयरञ्जनं मम चित्तानुकारि । पुनः किंभूतम् । जनित उत्पादितो रतिरङ्गस्य रमणप्रमोदस्य परभागो यत्र । कामोद्रेककारीत्यर्थः ॥ ६ ॥ अपि च । स्मरेति ।हे राधे मम शिरसि उदारं चरणलक्षणैर्महत्पदपल्लवं पदं पल्लव इव लौहित्यकौमल्यशैत्यादिना मण्डनमिव धेहि आरोपय । किंभूतं पदपल्लवम् । स्मरगरलखण्डनं कामविषतापशमनम् । मयि विषये दारुणो मदनस्य यत्कदनं तदेवारुण इव सूर्य इव ज्वलति दीप्यते । स चरणपल्लवः मम शिरसि निहितः सन् । तेन मदनकदनारुणजनिततापेन उपाहितविकारमारोपितविकृतिं संतापं हरतु । अत्रान्तरेत्यादौ प्रौढा मानवती नायिका । अनुकूलो नायकः ।
मम हृदयानुरागजनकम् । तथा चेदं मम हृदयं रञ्जयति । ममाप्यलक्तकेनैतद्रञ्जनमुचित -
मेवेति भावः । अत एव जनितो रतिरङ्गे सुरतकौशले परभागः परस्परशोभा येन तादृशम् ।
मयालक्तकेन चेदं रज्यते । तदेतत्क्रौञ्चवधादौ मम हृदयलग्नं सत्परमशोभां
दास्यतीति भावः । स्फुरतु मणिमञ्जरीत्यनेन भणनेन च विपरीतरतमत्राभिमतम् ।
"परस्परं तु या कान्तिः परभागः स कथ्यते" इति धरणिः । "रङ्गः कौशलरागयोः"
इति च ॥ ६ ॥ स्मरेति । हे प्रिये, उदारं सुन्दरं पदपल्लवं चरणकिसलयं मम
शिरसि धेहि स्थापय । कीदृशम् । मण्डनं मम मस्तकस्यालंकरणम् । पुनः कीदृशम् ।
स्परस्य यद्गरलं विषं तस्य खण्डनं नाशनम् । विरहिणं मूर्च्छादिप्रदानेन मलयानिले
स्मरगरलत्वरूपणात्स्मरस्य सर्पत्वमाक्षिप्यते । चरणपल्लवं विधेहीत्यनेन नायिकाया
गारुडिकत्वं चेत्याक्षेपरूपकमिदम् । अपरमपि सर्पादिविषं गारुडिकचरणाघातेनाभि-
मन्त्रितपल्लवारोपणेन च शाम्यतीति ध्वनिः । किं च मयि दारुणो दुःसहो
मदनकदनारुणो मदनः कामस्तज्जनितं यत्कदनं तापः स एवारुणः सूर्यो ज्वलति ।
अतस्तेनोपाहितं जनितं विकारं श्रान्त्यादिरूपं हरतु दूरीकरोतु । अन्यः
सूर्यसंतापः शिरसि पल्लवादिस्थापनेन शाम्यतीति ध्वनिः । "अरुणोऽस्फुटरागे
स्यात्सूर्ये सूर्यस्य सारथी ।" इति विश्वः । "कदनं कलुषे तापे" इति च ॥ ७ ॥
[^१.] "देहि" इति पाठः । [^२.] "कदनानलो" इति पाठः ।
इति चटुलचाटुपटुचारु मुरवैरिणो
राधिकामधि वचनजातम् ।
जय[^१]ति जयदेवकविभारतीभूषितं
मानिनीजनजनितशातम् ॥ प्रिये० ॥ ८ ॥
परिहर कृतातङ्के शङ्कां त्वया सततं घनस्तनजघनयाक्रान्ते वान्ते परानवकाशिनी ।
॥ ७ ॥ अपि च । इतीति । इत्यमुना प्रकारेण चटुलचाटुपटुचारु मुरवैरिणो राधिकामधिकृत्य वचनजातम् । जयदेवकविभारतीभूषितम् । पुनः किंभूतम् । 'मानिनीजनजनितशातम् मानिनीजनस्य जनितमुत्पादितं शातं सुखं येन ॥ "ललितापि पद्यरचना न धातुयोगादृते विभाति शुभा । इति कुम्भकर्णनृपतिर्गायति तां गीतगोविन्दे ॥" तथा च सङ्गीतराजे -- तालो वर्णयती रागाः क्रमादष्टादश स्मृताः । मध्यमादिश्च ललितो वसन्तो गुर्जरी तथा ॥ धनाश्री भैरवो गौण्डकृतिर्देशाङ्किकापि च । मालवश्रीश्च केदारमालवीया दिगौण्डकौ ॥ स्थानगौण्डश्च श्रीरागो मह्लारश्च वराटिका । मेघरागश्च भद्रावद्धोरणीनियता इमे ॥ यावद्रागं पदानि स्युः प्रान्ते पाटस्वराणि तु । क्वचित्क्वचिद्गतालापभूषितानि यथारुचि ॥ मिथः प्रियोक्तिसंभारविप्रलम्भरसानि च । यत्र स्यात्स प्रबन्धोऽयं रागराजिविराजितः ॥" इति चतुरचतुर्भुजरागराजिचन्द्रोद्द्योतनामा एकोनविंशः प्रबन्धः ॥ ८ ॥ १९ ॥ इदानीमात्मानं गतदोषं ज्ञापयन्संभोगार्थं प्रोत्साहयन्नाह -- परिहरेति । हे कृतातङ्के कृतान्यवनितासङ्गशङ्के मयि शङ्कां त्यज । अथवा मयि कृतातङ्के त्वद्वियोगदर्शनसंजातसंतापे शङ्कां त्यज । त्वां मयि संजातमनोविकल्पां दृष्ट्वा मयि संतापो जायत
इत्यनेन प्रकारेण मुरवैरिणः कृष्णस्य राधिकामधि लक्षीकृत्य वचनजातं वाक्यसमूहो जयति सर्वोत्कर्षेण वर्तताम् । कीदृशम् । चटुलं मनोहरं चाटु प्रीतियुक्तं पटु चतुरं चारु सुकुमारम्। पुनः कीदृशम् । पद्मावती जयदेवपत्नी तस्या रमणो वल्लभो यो जयदेवः तेन कविभारत्या भारतीसंज्ञया कवित्ववृत्त्या भणितं वर्णितम् । जयदेवकवेर्भारत्या भणितमिति तु व्याख्यानं मन्दम् । तथा पौनरुक्त्यापत्तेः । जयदेवकविभणितमित्यस्यैव सम्यक्त्वात् । पुनः कीदृशम् । अतिशातमतिशयितं सुखं यस्मात्तादृशम् । भारतीवृत्तिलक्षणं शृङ्गारतिलके -- "प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा । भारती सां भवेद्वृत्तिर्वीरहास्याद्भुताश्रया॥" इति । रसार्णवसुधाकरेऽपि -- शृङ्गारादिषु सर्वेषु रसेष्विष्टा हि भारती ।" इति । "चटुलः सुन्दरे चले" इति धरणिः । "चटु चाटु प्रियं वाक्यम्" इति हरिश्चन्द्रः । "पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत्" इति विश्वः । "शर्मशातसुखानि च" इत्यमरः ॥ ८ ॥ परिहरेति । हे कृतातङ्के विहितसंतापे, अन्यनायिकासङ्गसंशयं परिहर त्यज, यतो मम स्वान्ते चित्तेऽभ्यन्तरे वितनोस्तनुशून्यात्कामादन्यो धन्यो जनो न विशति । कुतो न
[^१.] "जयति पद्मावतीरमणजयदेवकविभारतीभणितमतिशातम् ॥" इति पाठः ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
प्रण[^१]यिनि परीरम्भारम्भे विधेहि विधेयताम् ॥ २ ॥
मुग्धे विधेहि मयि निर्दयदन्तदंश-
दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदमु[^२]द्वह पञ्चबाण-
चण्ड[^३]लकाण्डदलनादसवः प्रया[^४]न्ति ॥ ३ ॥
इत्यर्थः । अत्र ममेति षष्ठ्यन्तमर्थवशात्सप्तम्या विपरिणम्यते । कथं शङ्का परिहरणीयेति वाक्यार्थद्वारेण हेतुमाह । सततग्रहणेन जीवितावधि त्वदृतेऽन्या काचन मम हृदयमाश्रित्य न वर्तत इति बोधयति । हे प्रणयिनि, मम स्वान्ते घनस्तनजघनया त्वया सततमाक्रान्ते अत एवान्यानवकाशवति वितनोरनङ्गादन्यो धन्यस्तादृशसौभाग्ययोग्यः कोऽप्यन्यः स्त्रीलक्षणो जनोऽन्तरं पश्चान्न विशति । साङ्गस्य प्रवेशाभाव इति तां शङ्कां मा कृथा इत्यर्थः । शङ्कां मुक्त्वा किं कुर्वित्याह -- परीरम्भारम्भ आलिङ्गनारम्भे विधेयतां दासतां विधेहि । अथवैवं योजना । प्रणयिनीति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते । त्वयि योगो न युक्त इति ( ? ) प्रणयिनि, मयि स्नेहपरे परीरम्भारम्भे विधेयतां किंकरतां विधेहि । त्वयानुमतोऽहमालिङ्गनार्थं प्रयतेय तथा कुरु । हरिणी वृत्तम् । अत्र काव्यलिङ्गमलंकारः । प्रणयिनीति पदौचित्यं वर्णानुप्रासश्च । प्रौढा नायिका । प्रगल्भो नायकः । विप्रलम्भे सङ्गसिद्धिः ॥ २ ॥ इदानीं सापराधित्वमभ्युपगम्याप्याह -- मुग्धे इति । हे मुग्धे आत्महितानभिज्ञे । अहमपराधीति चेत्तर्हि मय्यपराधयोग्यं दण्डं निर्दयदन्तदंशदोर्वल्लिबन्धनिविडस्तनपीडनानि विधेहि । अथवा कोपैकशरणेति चेत्तर्हि संबोधनमुखेनानुरूपं विशेषणमाह -- हे चण्डि कोपने, पञ्चबाणश्चाण्डालः तस्य काण्डैः शरैर्दलनान्ममासवः प्रयान्ति । किं पुनस्तस्य पौरुषेण त्वमेव मुदमुद्वह । मया जितोऽयमिति जयपटहं वादय इत्यन्वयः । अथवा हे
प्रविशतीत्यत आह -- परेति ।परानवकाशिनि इतरावकाशशून्ये । तत्र हेतुमाह -- त्वयेति । घने निबिडे स्तनजघने यस्यास्तादृश्या त्वया सतताक्रान्ते व्याप्ते । तथा च सदा त्वया पूरिते मदीये स्वान्तेऽन्यस्य प्रवेष्टुमेवावकाशो नास्ति । अनङ्ग एव परान्प्रविशति । तस्याङ्गाभावादित्यर्थः । तस्मात्परीरम्भारम्भे आलिङ्गनारम्भे विधेयतां वचनग्राहितां विधेहि कुरु । परिरम्भमाचरेति मद्वचनं कुर्वित्यर्थः । "रुक्तापशङ्कास्वातङ्कः" इत्यमरः ॥ २ ॥ मुग्धे इत्यादि । मुग्धे सुन्दरि, निर्दयं दयारहितं दन्तदंशं दन्तक्षतम् । अथ च दोर्वल्लिबन्धं भुजलताबन्धं निबिडं गाढं स्तनाभ्यां पीडनं च विधेहि कुरु । ततो हे चण्डि कोपने, त्वमेव मुदमानन्दमञ्चय प्राप्नुहि । मम पुनः पञ्चबाणः कामः स एव निरपराधमादृग्जनहिंसकत्वेन चाण्डालः । तस्य काण्डदलनान्नाराचप्रहरणादसवः प्राणाः प्रयान्तु निर्गच्छन्तु । चाण्डालप्रहरणेन मरणे न समीचीना गतिः । अतस्त्वया साक्षादेव
[^१.] "स्तनभरपरी" इति पाठः । [^२.] "मुदमञ्चय पञ्च" इति पाठः । [^३.] "चाण्डाल" इति
पाठः । [^४.] "प्रयान्तु" इति पाठः ।
शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकाल[^१]सर्पी ।
तदुदितभ[^२]यभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ ४ ॥
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः ।
चण्डि, त्वं मुदमुद्वह एव । नान्योऽवकाशः । चण्डित्वं त्यज । त्वया चण्डित्वे ध्रियमाणे पञ्चबाणचण्डालकाण्डदलनान्ममासवः प्रयान्ति । वसन्ततिलकावृत्तम् । रतिर्भावो व्यङ्ग्यः । तेन रसवदलंकारता । अनुकूलो नायकः । मुग्धा नायिका । प्रसादो गुणः । वैदर्भी रीतिः ॥ ३ ॥ इदानीं वात्स्यायनन्यायमाश्रित्य क्रमेणानुकूलयति --शशिमुखीति । हे शशिमुखि, तव भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पी विद्यते । युक्तोऽयमर्थः । शशिनो हिंसार्थश्रवणात् । या हिंस्रमुखी भवति तस्या मुखे भ्रूः कृष्णसर्पी भवत्येव । यूनां तरुणानां यतः सर्पादुदितभयभंजनाय त्वदधरसीधुसुधैव त्वदधरसीधुः स एव सुधा । तव किलामृतबुद्ध्या तत्सन्निधौ कृष्णसर्प्या अवस्था न युज्यते इति योजना । अथवा हे शशिमुखि, तव मुखे भ्रूस्तावत्सर्पीत्यनुमीयते । यतो यदुदितभयभञ्जनाय यूनां त्वदधर एव सीधुः । पानसाधर्म्यात् स एव सुधामधुरत्वाद्विषनाशनाय सिद्धमन्त्रः । अत्र सुधाया आस्वाद्यत्वेन ओषधित्वे वक्तव्ये यन्मन्त्रोपादानं तत्सर्वयुवसाधारण्येन शृङ्गाराभासव्यावृत्त्यर्थम् । अतिसौन्दर्यात् । अन्ये स्मरन्तु नाम उपभोगयोग्यत्वं हरेरेवेति । पुष्पिताम्रा वृत्तम् । अत्र कल्पितोपमारूपकालंकारौ । तमेव क्रमशब्दार्थं विशिनष्टि आसर्गपरिसमाप्तेः ॥ ४ ॥ व्यथयतीति ।हे तन्वि कृशाङ्गि, तवैतद्वृथा मौनं मां व्यथयति । त्वया तनुत्वाद्वक्तुमशक्यत्वेन मौनं न ध्रियते किंतु निरपराधे सापराधोऽयमिति वृथाशब्दद्योत्यम् । अत एव व्यथयति । हे तरुणि, मधुरालापैः पञ्चमं पञ्चमस्वरं प्रपञ्चय विस्तारय । पञ्चमो
यथोचितदण्डाचरणं विधेयमिति भावः । "चण्डी कात्यायनीदेव्यां हिंस्रकोपनयोषितोः" इति विश्वः ॥ ३ ॥ ननु कोपो मम नास्त्येवेति आह -- शशिमुखीत्यादि । हे शशिमुखि चन्द्रानने, तव भङ्गुरभ्रूः भाति । कीदृशी । युवजनानां तरुणजनानां मोहनाय करालो भीषणः कालसर्पः । भुजंगो दष्ट्वा मोहयति, इयं दृष्ट्वा मोहयतीत्येतस्या करालत्वम् । अतस्तदुदितविषभञ्जनाय तत्सकाशादुदितमुद्गतं यद्विषं तस्य भञ्जनाय नाशाय यूनां तरुणजनानां त्वदधरसीधुसुधैव त्वदीयाधर एव सीधुर्मदिराविशेषः स एवामृतं तदेव सिद्धः साधितो मन्त्रः । अन्यो जपादिना विषं नाशयति अयं त्वासादित एवेति एतस्यान्यमन्त्रापेक्षया सिद्धत्वम् । तथा चायमपि तव भ्रूकालसर्पविषमूर्च्छितस्तस्याप्यौषधत्वेन तवाधरः सुधायाः समान इति भावः । "करालो भीषणेऽन्यवत्" इति विश्वः ॥४॥ व्यथयतीत्यादि । हे तन्वि, तव वृथा मौनमकारणवाग्बन्धनं मां व्यथयति पीडयति । किंच । हे तरुणि, मधुरालपितैस्तैः पञ्चमं स्वरविशेषं प्रपञ्चय विस्तारय । किंच । दृष्टिभिरवलोकनैस्तापं संतापं विनोदय विशेषतोऽपसारय । हे सुमुखि,
[^१.] "कालसर्पः" इति पाठः । [^२.] "विषभञ्जनाय" इति पाठः ।
सुमुखि विमुखीभावं तावद्विमुञ्च न व[^१]ञ्च न
स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः ॥ ५ ॥
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि-
र्गण्डचण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेव[^२]या विजयते विश्वं स पुष्पायुधः ॥ ६ ॥
पादानेन वसन्तसमयसंजातरुचिरालापकोकिलजेतृत्वं सूचितम् । वसन्ते हि कामिन्यः स्वैरं प्रियमनुसरन्तीति व्यज्यते । तरुणि मौनं वचनशक्तौ सत्यामवचनमर्थान्तरापाति तत्त्यजेति । अपि च दृष्टिभिरित्यत्र "दृशिर् प्रेक्षणे" इत्यत्र प्रशब्दो दर्शनप्रकर्षं स्निग्धत्वादि वदति । तेन स्निग्धलोचनैस्तापं विनोदयेति विशिष्टोऽर्थो लभ्यते । हे सुमुखि, तावद्विमुखीभावं विमुञ्च । सुमुख्या विमुखीभावो न युक्तः । हे मुग्धे, अयमहमतिशयस्निग्धः स्नेहवान्प्रीतिमांश्च उपस्थित इति मां न वञ्च इति न अपि तु वञ्च जानीहि । अयमिति औदासीन्यव्यावृत्त्यर्थो निर्देशः । अत्र मुग्धत्वं न घटते । चातुर्यमुपेत्य मां त्वदेकतानं जानीहीत्यर्थः । अत्र हरिणीतम् । यथासंख्यमलंकारः । अनुकूलो नायकः । प्रसादो गुणः । कैशिकी वृत्तिः । वैदर्भी रीतिः । मागधी गीतिः ॥ ५ ॥ बन्धूकेति । हे चण्डि, इति सांप्रतं कोपहानावपि भूतपूर्वकोपाश्रयणेन संबुद्धिः । प्रिय इति वितर्के । अहमिति जाने । स पुष्पायुधस्त्वन्मुखसेवया विश्वं जयते । स इत्यनेन स बाणोऽपीश्वरदग्धः स्मर्यते । स तथाविधः सांप्रतं पुष्पैरपि आश्रयविशेषेण साधकैः सुरासुरैर्दुर्जयमपि विश्वं विजयते । तानेव त्वन्मुखसेविपौष्पान्पञ्चबाणानुद्दिशति । हे चण्डि, अयं तवाधरो बन्धूकद्युतिबान्धवः बन्धुजीवकान्तिसदृशः । अनेन रक्ताकर्षणबाण उक्तः । अपि च तव गण्डः स्निग्धो मधूकच्छविश्चकास्ति । विरहिणीनां हि गण्डे पीतिमा भवति । अनेन पीतो वशीकारबाण उक्तो भवति । अपि च तव लोचनं नीलनलिनका
विमुखीभावं त्यज मयि विमुखतां तावद्विमुञ्च । सुमुख्यास्ते वैमुख्यमनुचितमिति भावः । मानं मुञ्च त्यज । हे मुग्धे, अयं प्रियोऽनाकाङ्क्षित एवोपस्थित आगतः । कीदृशः । अतिशयस्निग्धोऽतिशयेन स्नेहवान् । तथा च स्वयमागतः प्रियः ( इति ) हेतुर्नोचित इति भावः ॥ ५ ॥ संप्रति त्वयि मानवत्यां त्वन्मुखेनैव कामो मां पीडयति । अतस्त्वं प्रसीदेत्याशयेनाह -- बन्धूकेत्यादि । अतिकोपने, अयं तवाधरो बन्धूकद्युतिबान्धवो बन्धूकस्य पुष्पविशेषस्य या द्युतिर्दीप्तिस्तस्या बान्धवः सुहृत् । अत्र तद्बान्धवरूपणेन बन्धूकद्युतिसमाधेरनित्यद्युतिर्व्यज्यते । अयं स्निग्धो गण्डः कपोलो मधूकच्छविर्मधूकपुष्पस्येव छविः कान्तिर्यस्य एतादृशश्चकास्ति शोभते । लोचनं नीलनलिनश्रीमोचनं स्वकान्त्या नीलनलिनस्य नीलोत्पलस्य श्रियं कान्तिं मोचयति त्याजयति । हे कुन्दाभदन्ति, कुन्दपुष्प
[^१.] "न वञ्चय"; "न मुञ्च मां" इति च पाठौ । [^२.] "सेनया" इति पाठः ।
दृशौ तव मदालसे वदनमिन्दु[^१]संदीपकं
गतिर्जनमनोरमा विजि[^२]तरम्भमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-
वहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥ ७ ॥
न्तिपराकरणशीलं चकास्ति । अनेन कृष्णवर्ण उन्मादनबाणोऽभाणि । अपि च । तवेयं नासा तिलप्रसूनपदवीमत्येति अतिक्रामति । अनेन द्रावणबाण उक्तः । अपि च । हे प्रिये, कुन्दाभदन्ति कुन्दवदुज्ज्वलदशने, अनेन शोषणबाण उक्तः । एवमेतैः पञ्चभिर्बाणैर्भवत्याः सेवको भूत्वा विश्वजेता भवतीति । शार्दूलं वृत्तम् । उपमाविशेषोऽलंकारः । अनुप्रासो वर्णालंकारः । असमस्तपदा वैदर्भी रीतिः । प्रसादो गुणः । स्थितलयं गानम् । संभाविता गीतिः । कैशिकी वृत्तिः ॥ ६ ॥ दृशाविति । अहो इति आश्चर्ये । त्वं पृथ्वीगतापि दिव्यस्त्रीसमूहं वहसि । क्व कामित्याह । तव दृशौ मदेनालसे वर्तेते । अनेन मदालसतां वहसीत्युक्तम् । अपि च तव वदनं चन्द्रवद्दीप्तिमद्वर्तते । अनेन इन्दुमतीनाम्नी अप्सराः कथिता । अपि च । तव गतिर्जनमनांसि रमयतीति । अनेन मनोरमा काचन सुरस्त्री भणिता । अपि च तवोरुद्वयं विजितकदलीकाण्डं वर्तते । अनेन रम्भोक्ता । अपि च तव रतिः संभोगः कलावती हावभावकिलकिञ्चितमोट्टायितविव्वोकादिमती वर्तते । अनेन कलावती काचिद्देवनायिकोक्ता । अपि च तव भ्रुवौ रुचिरे चित्रे लेखे ययोस्ते तादृश्यौ । अनेन
स्येवाभा दीप्तिर्येषां ते दन्तास्तादृशि । तव नासा तिलप्रसूनपदवीं तिलपुष्पपद्धतिमभ्येति प्राप्नोति । प्राय इति तर्कयामि । स प्रसिद्धः पुष्पायुधः पुष्पमेवायुधं शस्त्रं यस्य सः कामस्त्वन्मुखसेनया त्वन्मुखमेव सेना कटकं तेन विश्वं विजयते । कामः पञ्चभिः शरैर्विश्वं जयति । त्वन्मुखे बन्धूकमधूकनीलोत्पलतिलकुन्दपुष्पाणि पञ्च सन्तीति त्वन्मुखेनैष कामो विश्वं जयतीति भावः ॥ "बन्धूकं बन्धुजीवे स्यात्" ( इति मेदिनी ।) "मधुपुष्पो मधूकश्च गूढपुष्पो मधुद्रुमः" इति हारावली ॥ ६ ॥ दृशाविति । हे तन्वि, त्वं पृथ्वीगता पृथ्व्यां भुवि गता प्राप्ता सती विबुधयौवतं देवयुवतीसमूहमाश्चर्येण वहसि धारयसि । तदेवाह -- दृशाविति । तव दृशौ नेत्रे मदालसे मदेन हर्षेणालसे मन्थरे । अथ च मदालसा स्वर्वेश्या । तथा च स्वर्गे एकैव मदालसा त्वं तु एकवद्द्वे मदालसे दधासीत्याश्च र्यमिति भावः । तव वदनमिन्दुमत्यास्पदमिन्दुविषयिणी या मतिस्तस्या आस्पदं विषय इत्यर्थः । तव मुखेऽयमिन्दुरिति मतिर्भवति । अमरलोकानामिन्दुमती काचन देवाङ्गना तस्या आश्रयः । अथवा रमा लक्ष्मीस्तदात्मिकेत्यर्थः । तथा तवोरुद्वयमूरुयुग्मं विधुतरम्भं विधुते स्वशोभया तिरस्कृते रम्भे कदल्यौ येन तादृशम् । अथ च रम्भा स्वर्वेश्या । स्वर्गे एकैव रम्भा त्वमूरुद्वयात्मकं रम्भाद्वयं दधासीति भावः । अथ च तव रतिः सुरतकेलिः कलावती कौशलशालिनी । अथ च तव रतिः कामपत्नी । अस्ति कलावतीनाम्नी देवाङ्गना । ते भ्रुवौ
[^१.] "मिन्दुमत्यास्पदं" इति पाठः । २ "विधुतरम्भम्" इति पाठः ।
स[^१] प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे
राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान् ।
यत्र स्विद्यति मीलति क्ष[^२]णमपि क्षिप्रं तदालोकन-
व्या[^३]मोहेन जितं जितं जितमभूत्कंसस्य कोलाहलः ॥ ८ ॥
इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो
नाम दशमः सर्गः ॥ १० ॥
रुचिरा चित्रलेखा च वर्णिता ॥ "जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः" इति पृथ्वी-
छन्दः । कल्पितोपमालंकारः ॥ ७ ॥ स प्रीतिमिति । स हरिर्जगतां प्रीतिं तनुतां
हर्षं विस्तारयतु । कीदृशो हरिः । कुवलयापीडेन कंसदन्तिना सार्धं रणे संभेदवा-
न्संगमवान् । किं विशिष्टेन कुवलयापीडेन । राधापीनपयोधरयोः स्मरणकरौ कुम्भौ
यस्य तेन । क इत्यपेक्षायामाह -- यत्र हराविति हेतोः राधापीनपयोधरस्मरणादेव
सात्विकभावोद्रेकात्क्षणं स्विद्यति स्वेदयति । मीलतीति । चक्षुषि निमीलति सति
कंसस्य तदालोकनात्तस्य तथाविधस्य दर्शनाद्व्यामोहेन भ्रान्त्या क्षिप्रं वेगेन जितं जित-
मिति कोलाहलो भवति स्म । भ्रान्तिमदाशिषावलंकारौ । शृङ्गारवीरयोः संकरश्च ।
शार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥
आनन्दकन्दलीकन्दं मुकुन्दं नन्दनन्दनम् ।
प्रणम्य दशमं सर्गं व्याकरोत्कुम्भभूपतिः ॥
इति श्रीचित्रकूटाधीश्वरराजाधिराजमहाराजश्रीकुम्भकर्णविरचितायां
रसिकप्रियायां चतुरचतुर्भुजो नाम दशमः सर्गः ॥
रचितचित्रलेखे रचिता मयि कोपवशाच्चित्रा विचित्रा लेखा भ्रुकुटी याभ्यां तादृशे । तथा
च स्वर्गे एकैव चित्रलेखा त्वद्भ्रूभ्यां तु चित्रलेखाद्वयं रचितमित्याश्चर्यमिति भावः । प्रेयो-
नामायमलङ्कारः । तदुक्तं दण्डिना -- "प्रेयः प्रियतराख्यानं रसवद्रसपेशलम्" इति । पृथ्वी-
नामकं चेदं छन्दस्तल्लक्षणं वृत्तरत्नाकरे । "रम्भा कदल्यप्सरसोः" इति विश्वः । युवतीनां
समूहो यौवतम् । "भिक्षादिभ्योऽण्" । "गार्भिणं यौवतं गणे" इत्यमरः ॥ ७ ॥ (अत्र
सप्रीतिमित्यादिश्लोकटीका नोपलभ्यते आदर्शपुस्तके ॥ ८ ॥)
स्फुटीकृतरसोत्करां प्रथितशालिनाथोल्लस-
त्सुरद्रुमसमुद्भवां विबुधवर्गदत्तोत्सवाम् ।
नृणां सरसमाधवोत्तमगुणैः प्रमोदप्रदां
लिहन्तु रसमञ्जरीं रसिकचञ्चरीका मुहुः ॥ १ ॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां दशमः सर्गः ॥
[^१.] "प्रीति वस्तनुताम्" इति पाठः । [^२.] "क्षणमथ क्षिप्ते द्विपे तत्क्षणात्" इति पाठः । [^३.] "कंसस्यालमभूज्जितं जितमिति व्यामोहकोलाहलः" इति पाठः । एकादशः सर्गः ११
सामोददामोदरः ।
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं
गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥
वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ २० ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥ १ ॥
मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ ध्रुवम् ॥
इदानीं कृतानुनयां राधां कापि सखी हरिमभि गमनाय प्रोत्साहयति -- सुचिरेति । कापि सखी राधां जगाद । क्व सति । प्रदोषे रजनीमुखे स्फुरति सति । किंभूते प्रदोषे । दृष्टिं मुष्णातीति कर्मण्यण् । अभिसारिकाभिसरणावसान इत्यर्थः । किंभूतां राधाम् । निरवसादामङ्गीकृतानुनयेन गतखेदाम् । पुनः किंभूताम् । रचितनीलनिचोलाद्यभिसरणयोग्यवेषाम् । क्व सति । कृतवेशे कृतनेपथ्ये वा कृतग्रहे कृष्णे कुञ्जशय्यां गतवति सति । किं कृत्वा बहुकालानुनयेन मृगाक्षीमनुकूलयित्वा । मालिनीवृत्तम् ॥ १ ॥ तदेव प्रोत्साहमनुवदति -- विरचितेति । तत्र पूर्वं ध्रुवः । मुग्ध इति ।हे मुग्धे प्रियाभिसरणकालानभिज्ञे राधिके, बालत्वद्योतनाय कप्रत्ययः । अनुगतमनुकूलं मधुमथनमनुसर । मा विलम्बं विधेहीत्यर्थः । इति ध्रुवः । अथ पदानि । विरचितेति ध्रुवेणान्वयः । किंभूतं मधुमथनम् । संप्रति इदानीमेव मनोरमवञ्जुलसीम्नि केलिशयनमनुप्राप्तम् । वञ्जुलादीनां विभावत्वेन परिणमनात्त
सुचिरेति ।कापि सखी राधां जगादोवाच । क्व सति । प्रदोषे स्फुरति सति ।
कीदृशे । दृग्विमोषे दृशौ विमुष्णाति चोरयति विषयग्रहणासमर्थे करोति तादृशे ।
गाढान्धकारे इत्यर्थः । पुनः क्व सति । केशवे मृगाक्षीं हरिणनयनां राधां सुचिरं बहुकालं
यथानुनयेन प्रीणयित्वा कुञ्जशय्यां लतावेष्टितकुटीराभ्यन्तरस्थशयनीयं गतवति गते सति ।
कीदृशे केशवे । कृतवेशे कृतालंकरणे । कीदृशीं राधाम् । रचिता रुचिरा मनोहरा
भूषालंकृतिर्यया ताम् । पुनः कीदृशीम् । निरवसादां निर्गतोऽवसादः कृष्णानागमनजन्यं
दुःखं यस्यास्ताम् ॥ १ ॥ तदेव गीतेन कथयति -- विरचितेति । गीतस्यास्य वसन्तरागो
यतितालः । गीतार्थस्तु -- हे मुग्धे राधे, मधुमथनं कृष्णमनुसर । कीदृशम् । अनुगतं
त्वामनुसृतम् । अनुगतत्वमेवाह -- विरचितेति । विरचिता विहिता चाटुवचनस्य रचना
संदर्भो येन तादृशम् । पुनः कीदृशम् । तव चरणे रचितः प्रणिपातः प्रणामो येन तादृशम् ।
घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
मुखरितमणिमञ्जीरमुपैहि विधेहि मरालनिका[^१]रम् ॥ मुग्धे० ॥ २ ॥
शृणु रमणीयतरं तरुणीजनमोहनमधु[^२]पविरावम् ।
कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ मु० ॥ ३ ॥
द्द्योतनार्थत्वान्निकुञ्जोपादानम् । पुनः किंभूतम् । विरचितचाटुवचनरचनम् । पुनः किंभूतम् । चरणे रचितप्रणिपातम् ॥ १ ॥ अपि च । घनेति । हे घनजघनस्तनभारभरे । जघने च स्तनौ च जघनस्तनम् । घनं च तज्जघनस्तनं च । तस्य देशे भरोऽतिशयो यस्यास्तस्याः संबुद्धिः । मुखरितमणिमञ्जीरं नूपुरं यथा स्यात्तथा उपैहि आगच्छ । तेन चागमनेन मरालानां हंसानां निकारं जयं विधेहि । कथं विधेहीति चेत् । दरमन्थरेति । ईषन्मन्थरचरणविन्यासं यथास्यात्तथा ॥ २ ॥ अपि च । शृण्विति ।हे मुग्धे, रमणीयतरं तरुणीजनमोहनं मधुपानां विरुतं शृणु । अपि च कामाज्ञास्तुतिपाठके पिकसमूहे भावमभिप्रायं भज । किमुक्तं भवति । मधुपशब्देन कृष्ण उपलक्ष्यते वर्णतः साम्येन त्वदोष्ठमधुपानेन च । अथ मधोर्दैत्यस्य पातनाच्छोषणान्मधुपः कृष्णः । तरुणीजनमोहनश्चासौ मधुपश्च तस्य भवत्सङ्गमे विशिष्टान्सीत्कृतादिशब्दाञ्शृणु । अनु च त्वमपि तदा स्वात्मगतं रोषं त्यक्त्वा कोकिलस्वरा तमानन्दयेत्यर्थः । कुसुमशरासन
तर्हि संप्रति कुत्रास्तीत्यत आह -- संप्रतीति । संप्रत्यधुना वञ्जुलो वेतसस्तस्य सीमनि पर्यन्ते यत्केलिशयनं क्रीडाशय्या तामनु लक्षीकृत्य यातं गतम् । त्वां तत्रस्थः प्रतीक्षत इत्यर्थः ॥ १ ॥ तां प्रोत्साहयन्ती सखी प्राह -- घनेति । हे राधे, उपैहि कृष्णमुपगच्छ । कथं तदित्याह । मुखरितः सशब्दः कृतो मणिमञ्जीरो मणिखचितो मञ्जीरो नूपुरो यत्र गमने एवं यथा स्यात् । पुनः कथं यथा स्यात् । दरेण साध्वसेन मन्थरश्चरणविहारः पदविन्यासो यत्रैवं यथा स्यात् । तत्र हेत्वन्तरगर्भविशेषणमाह -- घनेति । घनयोर्निबिडयोर्जघनस्तनयोर्भारस्य भरोऽतिशयो यस्यास्तादृशी । मरालानां हंसानां स्वकीयमन्थरगमनेन मञ्जीरादिशब्देन च निकारं तिरस्कारं विधेहि कुरु । संप्रति मरालेषु शब्दायमानेषु सत्सु मञ्जीरादिध्वनिरपि मरालशब्दत्वेनैव लोके ग्राह्य इति संप्रति योग्योऽभिसारक्षण इति ध्वनिः । अथ संप्रति हंसस्य शब्दो यात्रायां शुभं सूचयतीति गमनं प्रति विलम्बो न कार्य इत्यपि ध्वनितम् । तदुक्तं, वसन्तराजीये -- "कृष्णासु सर्वास्वपि दर्शनेन हंसस्य शब्देन च सर्वसिद्धिः ।" इति । "मरालो राजहंसे स्यान्मरालो हंसमात्रके" इति धरणिः । "निकारः स्यात्परिभवे धान्यस्योत्क्षेपणेऽपि च" इति विश्वः ॥ २ ॥ शृण्विति । तरुणीजनानां मोहजनकं मधुरिपोः कृष्णस्य रावं शब्दं शृणु । कीदृशम् । रमणीयतरमतिशयेन रमणीयम् । पिकनिकरे कोकिलसमूहे कुसुमशरासनबन्दिनि सति । कुसुमान्येव शरासनं धनुर्यस्य तादृशः कामस्तच्छासनस्य तदाज्ञाया बन्दिनि स्तावके सति । यद्वा कुसुमशरासनं वन्दितुं नमस्कर्तुं शीलमस्य तादृशे कामाज्ञाकारिणि
[^१.] "विकारम्" इति पाठः । [^२.] "मधुरिपुरावम्" इति पाठः । अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् । प्रेरणमिव करभोरु करोति गतिं प्रति मुञ्च विलम्बम् ॥ मुग्धे० ४
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ मुग्धे० ॥ ५ ॥
शासनबन्दिनीति तेषां विभावत्वमुक्तम् ॥ ३ ॥ अपि च । अनिलेति ।हे कर-
भोरु करभवदूरू यस्याः । "मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।" लतानिकुर-
म्बं लतासमूहः । अनिलतरलकिसलयनिकरेणेव करेण । गतिं प्रति प्रेरणमिव
करोति । अतो विलम्बं मुञ्च । यत्र अचेतना अपि चेतनवत्प्रतिबोधयन्ति तत्रेष्ट-
सिद्धिरवश्यं भाविनी । अत्र करसान्निध्याल्लताशब्देन सख्यः त्वां त्वरयन्तीति द्यो-
त्यते ॥ ४ ॥ अपि च । स्फुरितमिति ।हे सखि, अमुं कुचकुम्भं पृच्छ । प्रिय-
करस्पर्शलालसकुचकुम्भचेष्टां ज्ञातुमिच्छां कुरु । भाविप्रियावेदकः कुचकलशोऽपि
त्वां प्रेरयतीत्यर्थः । किंभूतं कुचकुम्भम् । स्फुरितम् । कुचस्फुरणं प्रियसंगममावेदयतीति
सामुद्रिकज्ञाः । कस्मादिव । कामोर्मिवशादिव । किंभूतम् । सूचितः कथितो हरेः परि-
रम्भो येन । अपि किंभूतम् । मनोहरो हार एव विमलजलधारा यत्र । शकुनकलशेऽपि
तरङ्गवशात्सूचितप्रियप्राप्तिर्भवति । विमलजलधारोऽपि, खण्डश्लेषालंकारः ॥ ५ ॥
सतीत्यर्थः । भावं कृष्णानुरागं भजाश्रय । अत्र पिकनिकरझंकारेण कृष्णमधुरालापस्य परैरलक्ष्यतया तदीयनिःशङ्कभाषितान्यपि त्वं तत्रागता सती श्रोष्यसीति ध्वनितम् । अथ च पिकस्य मधुरस्वरो यात्रायां शकुन इत्यपि ध्वनितम् । "बन्दिनः स्तुतिपाठकाः" इत्यमरः ॥ ३ ॥ अनिलेति ।हे करभोरु, करभः कनिष्ठान्तो मणिबन्धपर्यन्तः करस्य बहिर्भागस्तद्वन्निम्नोन्नतौ ऊरू यस्यास्तादृशि । गतिं गमनं प्रति विलम्ब कालक्षेपं मुञ्च । अनिलतरलकिसलयनिकरेण करेण अनिलेन वायुना तरलश्चञ्चलो यः किसलयनिकरो नवपल्लवसमूहस्तत्स्वरूपेण करेण लतानिकुरम्बं लतासमूहस्तव प्रेरणमिव करोति । किसलयकम्पच्छलेनासमञ्जसमसहमानो लतासमूहोऽपि त्वां प्रेरयतीति भावः । अथवाग्रे पल्लवितवृक्षादिदर्शनं यात्रायां फलसिद्धिसूचकम् । अतो गमनं प्रति विलम्बो न कार्य इति ध्वनितम् । तदुक्तं शकुनशास्त्रे -- "वामे मधुरवाक्पक्षी वृक्षः पल्लवितोऽग्रतः । अनुकूलो वहन्वायुः प्रयाणे शुभसूचकः" इति । "निकुरम्बं कदम्बकम्" इत्यमरः । "मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इति च ॥ ४ ॥ स्फुरितेति ।अमुं कुचकुम्भं स्तनकलशं पृच्छ सखी समीचीनं वा वदतीति प्रश्नं कुरु । कीदृशम् । स्फुरितं सकम्पम् । कस्मादिव, अनङ्गतरङ्गवशादिव, अनङ्गस्य कामस्य यस्तरङ्ग ऊर्मिस्तद्वशादिव । अत्रानङ्गेत्यनेन तस्या रसतरङ्गिणीत्वमाक्षिप्यते । अन्योऽपि कुम्भो नद्यास्तरङ्गैः प्रेर्यमाणः सकम्पो भवतीत्ययमपि ते कुचकुम्भस्त्वयि रसतरङ्गिण्यामनङ्गतरङ्गैः प्रेरणादिव सकम्प इति भावः । इवशब्द उत्प्रेक्षाद्योतकः । पुनः कीदृशं कुचकुम्भम् । मनोहरो यो हारः स एव निर्मला जलधारा यत्र तादृशम् । अत्र स्तनोपरि स्थितस्य हारस्य जलधारात्वरूपणात्स्तनयोः पूर्णकलशत्वेन रूपणमाक्षिप्यते । पूर्णादेव कलशात्तरङ्गैरान्दोलने अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् । चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ मुग्धे० ६
स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
चल वलयक्वणितैरवबोधय हरिमपि निग[^१]दितशीलम् ॥ मुग्धे० ॥७॥
अपि च । अधिगतमिति । हे चण्डि, सखीसकाशाल्लज्जारहितं यथा स्यात्तथा अभिसर । अर्थात्कृष्णवसतिम् । यतोऽखिलसखीभिरिदमधिगतं ज्ञातम् । इदमिति किम् । तव वपुरतीव रतिरणाय विहितसामग्रीकं वर्तते इति सखीनामग्रे वपुषैव निवेदितम् । अतो लज्जां मा कुरु । किंभूतं वपुः । रसितो रशनावलिरेव डिण्डिमः पणववाद्यविशेषो येन । अपि च किंभूतम् । सरसं सरागम् । अत एव रणोद्यतायाश्चण्डीति विशेषणमुचितम् ॥ ६ ॥ अपि च । स्मरशरेति । हे सखि, करेण सखीमवलम्ब्य सलीलं चल । अपिश्चार्थे । च पुनः । निगदितशीलं निगदितं तव प्रतीक्षया सुभटं व्याख्यातं शीलं यस्य । अथवा पूर्वपददोषत्वेन सखीभिर्ज्ञानपरं निगदितं च तच्छीलं च भवत्याश्चरित्रं तत् । हरिमपि बोधयेत्यपिशब्दार्थः । किंभूतेन । स्मरशरसुभगनखेन स्मरशरवत्पुष्पवत्सुभगा नखा यथा ॥ ७ ॥ अपि च ।
सति बहिर्जलधारानिःसरणसंभवात् । पुनः कीदृशम् । सूचितः हरेः कृष्णस्य परिरम्भ आलिङ्गनं येन तम् । नारीणां स्तनकम्पः प्रियं सूचयतीति शाकुनिकाः । तदुक्तम् "नित्यं नार्याः स्तने कम्पः प्रियसंगमसूचकः" इति । पूर्णकलशत्वेन स्तनरूपणमपि यात्रायां पूर्णकलशदर्शनं प्रियसूचनाय ॥ ५ ॥ ननु सखीजनेषु पश्यत्सु, कथं मया गन्तव्यमित्यत आह -- अधिगतमिति ।इदं तव वपुः सखीभिरतिशयेन रतिप्रसङ्गाय सुरतप्रसङ्गाय सज्जं कृतालंकरणादिकृत्यविधानमधिगतं ज्ञातम् । तथा च सखीभिर्दृष्टमेवाधुना किं विलम्बेनेति भावः । यद्वा सखीभिरिदं तव वपुर्बहुधा रतिरणे सम्यगधिगतं ज्ञातम् । तथा च तासां का लज्जेति भावः । अतो हे चण्डि कोपने, रसितः शब्दायमानः कृतो रशनावलिः क्षुद्रघण्टिकावलिरेव डिण्डिमो वाद्यविशेषो यत्रैवं यथा स्यादेवमभिसर कृष्णसंकेतभूमिमुपैहि । अन्यत्रापि रणे डिण्डिमस्ताड्यत एवेति ध्वनिः । पुनः कथं यथा स्यात् । सरसमलज्जम् । रसः शृङ्गाररसस्तत्सहितं लज्जारहितं च यथा स्यादेवम् ॥ ६ ॥ स्मरेति । करेण सखीमवलम्ब्य सलीलं लीलासहितं यथा स्यादेवं चल गच्छ । कीदृशेन करेण । स्मरस्य कामस्य ये शरास्तद्वत्सुभगाः सुन्दरा नखा यस्मिंस्तादृशेन । अन्यस्मिन्नपि रणे शस्त्रास्त्राणि भवन्ति । रतिरणे तु त्वन्नखा एव स्मरस्य शस्त्राणीति भावः । अथ वलयक्वणितैः कङ्कणशब्दैर्हरिमपि निजगतिशीलं स्वीयगमनस्वरूपमवबोधय ज्ञापय । अन्यत्र समीचीनो योधः प्रतिभटमवहितं कृत्वैव युध्यत
[^१.] "निजगतिशीलम्" इति पाठः ।
श्रीजयदेवभणितमधरीकृतहारमुदासितवा[^१]मम् ।
हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ मुग्धे० ॥८॥
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।
श्रीजयदेवेति । इदं श्रीजयदेवभणितं हरावारोपितमनसामविराममविच्छेदं कण्ठतटीमधितिष्ठति । अधरीकृतो हारो मुक्तादिग्रथितो येन । पक्षेऽधरीकृतो हारः शुद्धं वचनं येन । पुनः किंभूतम् । उदासितवामम् । उदासिता वामा स्त्री येन । अथवा उदासितं हरिभक्तिप्रतीपं वचनं येन । वा उदासितं निराकृतमन्यदपि सुन्दरं येन इति । हारनारीसुन्दरादीनां परिहारेणेदमेवैकं कण्ठे धारणीयमित्यर्थः । तथा च सङ्गीतराजे -- "आदितालः प्रथमतः प्रणिमण्ठस्ततः परम् । चतुर्मात्राह्वमण्ठश्च तुर्यः स्यादड्डतालकः ॥ तालो वर्णयतिः पश्चान्नवमात्रिकमण्ठकः । निःसारुश्च तथा झम्पा द्रुतमण्ठश्च रूपकः ॥ प्रतितालस्त्रिपुटक एकतालीवि संज्ञया । त्रयोदश क्रमात्तालाः प्रतितालं पदानि च ॥ यथा शोभालप्तियुञ्जि तावन्त्येव ततः परम् । काहली तुण्डकिन्यौ च भुक्ता च शृङ्गशङ्खकौ ॥ पटहश्च हुडुक्कं च मुरजः करटापि च । रुण्डा च डमरूढक्का पाटा एतत्समुद्भवाः ॥ निःसारौ पटहो ढक्का मर्दलस्त्रिवली तथा । करटेति तथैतस्यां प्रधानाक्षरयोजना ॥ एकताल्या ढक्कखी च त्रिवली दुन्दुभिस्तथा । घटश्चतुर्वर्ण्यकः स्यादधिका पाठसन्ततिः ॥ प्रतितालं प्रयोगोऽपि रागो नन्दो निगद्यते । शृङ्गारो विप्रलम्भाख्यो रस उत्तमनायकः ॥ दूतीसंवादकथनं नायिकायामिहेष्यते । एतत्स्याल्लक्षणं यच्च तालराजिरसः स्मृतः ॥ प्रबन्धः कुम्भभूपेन हरिप्रवणचेतसा ॥ इति श्रीहरितालराजिजलधरविलसितनामा विंशतितमः प्रबन्धः ॥ ८ ॥ इदानीं तच्चेष्टाकथनव्याजेन गन्तुं व्याकुलयति -- सा मामिति । हे सखि, प्रियः कृष्णो निकुञ्जे भवत्या अपेक्षयेत्येवं कुर्वन्नास्ते । किंभूते निकुञ्जे । स्थिरतमःपुञ्जे स्थिरान्धकारचये । इतीति किम् । सा प्रिया समागत्य मां द्रक्ष्यतीति चिन्ता
इति ध्वनितम् ॥ ७ ॥ श्रीजयदेवेति । इदं श्रीजयदेवेन भणितं हरिविनिहितमनसां हरौ विनिहितं तत्परं मनो येषां तादृशानामविराममनवरतं कण्ठतटीमधितिष्ठतु कण्ठदेशे वसत्वित्यर्थः । कीदृशम् । अधरीकृतः स्वगुणैर्हीनीकृतो हारो येन तादृशम् । पुनः कीदृशम् । उदासिता स्वगुणैस्तिरस्कृता रामा येन तादृशम् । यद्यपि हारस्य रामाणां च कण्ठदेशस्थित्या शोभाप्रदत्वं संभवति, तथापि तयो रागिणामेव शोभाप्रदत्वं न मुमुक्षूणाम् । तत्रापि तारुण्य एव न तु सर्वदा । जयदेवभणितं तु कृष्णकथात्वेन सर्ववयस्सु शोभाप्रदमिति हारापेक्षया नायिकापेक्षया चेदमधिकमिति भावः । कण्ठतटीमित्यत्र "अधिशीङ्स्थासां कर्म" इत्यधिकरणे द्वितीया ॥ ८ ॥ इदानीं हरेरुत्कण्ठाधिक्यमाह -- सा मामिति । हे सखि, राधा आगत्य मां द्रक्ष्यति ईक्षिष्यते । दृष्ट्वापि मां स्मरकथां वक्ष्यति कथयिष्यति । स्मरकथामुक्त्वापि सा प्रत्यङ्गावयवं ममालिङ्गनैः प्रीतिं यास्यति ।
[^१.] "सितरामम्" इति पाठः ।
स त्वां पश्यति वेप[^१]ते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ २ ॥
अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं
मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।
धूर्तानामभिसारसंभ्र[^२]मजुषां विष्वङ्निकुञ्जे सखि
ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ३ ॥
कुलो भवति दूरं च पश्यति । एतावता हि सात्विकभावौ स्तम्भवैवर्ण्ये संजातौ भवत इति सूचितम् । चिन्तया स्तम्भं दूरदर्शनेन वैवर्ण्यमाप्नोति । दृष्ट्वा च स्मरकथां वक्ष्यतीति वेपते पुलकयति च । एवं द्वावपरौ सात्त्विकौ वेपथू रोमाञ्चश्चेति । कथाः कृत्वा प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यतीत्यानन्दति आनन्दाश्रु मुञ्चति स्विद्यति च । एवमश्रुस्वेदावुक्तौ । आलिङ्ग्य च नानारतोपचारै रंस्यते । चिन्तया आह्वानाशक्तत्वे प्रत्युद्गच्छति । त्वदलाभे मूर्च्छति च । एवं स्वरभङ्गप्रलयौ दर्शित । एवं स कृष्णस्त्वदभिकाङ्क्षयाष्टावपि सात्विकान्भावाननुभवन्नास्ते । प्रत्यङ्गालिङ्गनेन स्थितालिङ्गनं वृक्षादिरूढमुक्तं भवति । तल्लक्षणं यथा -- "रमणचरणमेकेनाङ्घ्रिणाक्रम्य खिन्नं श्वसितमपरपादेनाश्रयन्ती तदूरुम् । निजमथ भुजमेनं प्राञ्चयन्ती तदंसं तरुमिव कमितारं चुम्बनार्थाधिरोढुम् ॥ यदभिलषति नारी तच्च वृक्षाधिरूढम् ॥" शार्दूलवृत्तम् । दीपकमलंकारः ॥ २ ॥ इदानीमभिसारिका समयमाह -- अक्ष्णोरिति । हे सखि, विष्वक् चतुर्दिक्षु नीलप्रच्छदपटसदृग्ध्वान्तं सुदृशः प्रत्यङ्गमालिङ्गति । नीलप्रच्छदपटवदाच्छाद्य अदृश्यां करोतीत्यर्थः । किं कुर्वन् । धूर्तानां मायाविनामभिसारे संभ्रमं वेगं भजन्तीनामुत्कोचमिव । एतदेतत्कुर्वंस्तदाह -- अक्ष्णोरञ्जनं निक्षिपत् । अपि च कुचयोः कस्तूरिकापत्रावलिरचनाविशेषमिव निक्षिपत् । अत्र धूर्ताग्रहणेन निक्षेप औचि
प्रीतियुक्तापि मया सह रंस्यते केलं करिष्यति इति चिन्ताकुलः सन्कृष्णः स्थिरतमःपुञ्जे स्थिरान्धकारसमूहे निकुञ्जे त्वां पश्यति ध्यानदृष्ट्या । किमियं परुषं वदिष्यति चेति भिया साध्वसेन वेपते कम्पते । पुलकयति, अङ्गानीत्यर्थात् । ध्यानेनैव तवालिङ्गनं परिकल्प्य साध्वसेन रोमाञ्चयुक्तो भवतीति भावः । पश्चाद्ध्यानेनैव त्वत्सुरतकेलिं परिकल्प्यानन्दयुक्तो भवतीति । ततो ध्यानेनैव सुरतसुखं परिकल्प्य स्विद्यति प्रस्वेदयुक्तो भवति । पश्चात्केलिं कृत्वोत्थाय गन्तुं प्रवृत्तायां त्वयि प्रत्युद्गच्छति प्रत्युत्थानं करोति । पश्चाद्ध्यानविच्छेदे त्वामदृष्ट्वा मूर्च्छां प्राप्नोति ॥ २ ॥ नन्वलंकरणरचनां विधाय गन्तव्यमित्यत आह -- अक्ष्णोरिति । अभिसारसाहसकृतामभिसाररूपं साहसं कुर्वन्तीत्यभिसारसाहसकृतस्तासामत एव धूर्तानां शठानां सुदृशां नायिकानां ध्वान्तं तमो निकुञ्जे विष्वक्सर्वतः प्रत्यङ्गमङ्गमङ्गं प्रति आश्लिष्यति । तदेव विशेषणैराह -- अक्ष्णोरिति । किं कुर्वत्तमः । अक्ष्णोर्नयनयोरञ्जनं कज्जलं निक्षिपदर्पयत् । कुचयोः स्तनयोः
[^१.] "कम्पते" इति पाठः । [^२.] "सारसाहसकृतां" "सारसत्वरहृदां" इति च पाठौ ।
काश्मीरगौरवपुषामभिसारिकाणा-
माबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत्तमालदुलनीलतमं तमिस्रं
तत्प्रेमहेमनिकषोपलतां तनोति ॥ ४ ॥
हारावलीतरलकाञ्चनकाञ्चिदामकेयूरकङ्कणमणिद्युतिदीपितस्य ।
त्यमावहति । यतो मायाविनो माययैव साध्याः । अत्र च क्रमेण तमसो वृद्धिर्ज्ञेया । पूर्वं प्रादुर्भावेऽक्ष्णोरञ्जनम् । किंचिद्वृद्धे कर्णाभरणाच्छादनम् । तत एव प्रवृद्धे शिरोमुकुटवृत्ति । ईषदपरिसमाप्तेः (?) । कुचयोर्हारादिलोपः । क्रमेण प्रवृद्धं सत्सर्वशरीरं व्याप्य वर्तत इति क्रमवृद्धिर्दर्शिता । अत्र धूर्तग्रहणेन ता अपश्यन्त्यो भवतीं न कस्यचिदग्रे कथयिष्यन्तीति निःशङ्कं व्रज । शार्दूलविक्रीडितं वृत्तम् । यथासंख्यमलंकारः ॥ ३ ॥ इदानीं तमस्यपि त्वामेव प्रतीक्षत इत्याह -- काश्मीरेति । हे सखि, एतत्तमिस्रं तस्य श्रीकृष्णस्य त्वयि यत्प्रेम तदेव हेम तन्निकषोपलतां तनोति । तमस्यपि बह्वीनामभिसारिकाणां प्राप्त्यवसरेऽपि त्वय्येव तस्य प्रेमेति निकषोपलहेमपरीक्षाश्मसाम्यम् । किंभूतं तमिस्रम् । अभितो रुचिमञ्जरीभिः कुङ्कुमगौरवपुषां स्वैरिणीनामाबद्धा रेखा आभोगो विस्तारो येन । किंभूतं तमिस्रम् । तमालदलनीलतमम् । एतावता तमसोऽतीव प्रवृद्धावभिसरेति प्रेरणम् । वसन्ततिलका वृत्तम् । अत्रोपमालंकारः ॥ ४ ॥ इदानीं भावान्तरेण तं पुष्णाति -- हारावलीति । इयं दूती राधां प्रति वक्ष्यमाणमुवाच । किं कृत्वा । निकुञ्जनिल
कस्तूरिकापत्रकं मृगमदरचनां निक्षिपत् । कीदृशं ध्वान्तम् । नीलनिचोलचारु नीलनि-
चोलवत्कञ्चुकवच्चारु मनोहरम् । तथा च तवाभिसारयोग्याभरणानि तम एवार्पयिष्य-
तीति किमलंकरणे विलम्बेनेति भावः । अत्र स्त्रीणामलंकरणादिरचना नपुंसकादीना-
मेवेति नपुंसकनिर्देशेन ध्वनितम् । "कालस्कन्धस्तमालः स्यात्तापिच्छः" इत्यमरः ।
"स्याद्गुच्छः स्तबके त्वन्धे हारभेदकलापयोः" इति विश्वः ॥ ३ ॥ किंच संप्रति मणिसु-
वर्णाभरणं नोपादेयमित्यत आह -- काश्मीरेति । काश्मीरवत्कुङ्कुमवद्गौरं वपुः शरीरं
यासां तादृशामभिसारपराणां नायिकानामभित उभयतो मणिमञ्जरीभिर्मणिपरम्पराभि-
राबद्धा रेखा येन तादृशमेतत्तमालदलनीलतमं तमालदलवत्तमालपल्लववदतिशयेन नीलं
तमिस्रमन्धकारं तत्प्रेमहेमनिकषोपलतां तनोति विस्तारयति । संकेतभूमिं व्रजन्तीनामभि-
सारिकाणां ताटङ्ककङ्कणमञ्जीरादिखचितमणिदीप्तिभिरुभयपार्श्वे उद्द्योते सति रेखाकारतया
लक्ष्यमाणातिगौरतराङ्गकान्तिरन्धकाररूपकषपट्टिकायां तत्प्रेम सुवर्णरेखेव भातीति भावः ।
अथ चैतादृश्यपि गाढान्धकारे कान्तारे सर्वं मुक्त्वैकान्ताभिसारप्रस्थानेन प्रेम्णः शुद्धिं
परीक्षत इति ध्वनिः । "पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्" इत्यमरः ॥ ४ ॥
हारावलीति । अथानन्तरमियं दूती सखीं राधामिति वक्ष्यमाणमुवाच । कीदृशीं सखीम् ।
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रीडावतीमथ स[^१]खीमियमित्युवाच ॥ ५ ॥
वराडीरागरू[^२]पकतालाभ्यां गीयते । प्र० ॥ १७ ॥
मञ्जुतरकुञ्जतलकेलिसदने
विलस रतिरभसहसितवदने ॥ १ ॥
प्रविश राधे माधवसमीपमिह ॥ ध्रुवम् ॥
यस्य द्वारे हरिं निरीक्ष्य । किंभूतां राधाम् । व्रीडावतीम् । कामवतीनामपि युवतीनां प्रथमसंगमे लज्जा किमपि कामातिशयं विदधाति । किंभूतस्य निलयस्य । हारावल्यास्तरलो मध्यमणिः काञ्चनस्य मेखला दाम च मञ्जीरौ कङ्कणे च तेषु मणयः तेषां द्युत्या दीपितस्य । वसन्ततिलकावृत्तम् । अतिशयोक्तिरलंकारः ॥ ५ ॥ तदेव सखीवाक्यं विवृणोति -- मञ्जुतरेति । अत्राष्टपद्यामुद्ग्राहापेक्षया ध्रुवस्य बाहुल्यम् । तत्रापि च प्रतिपादमन्तिमं खण्डं पदान्तरापेक्षया नवं नवमेवेति बोद्धव्यम् । तत्रापि राधाविशेषणानि सर्वाण्यनुभावत्वेन बोधव्यानि स्थानविशेषणानि च विभावत्वेनेति । प्रविशेत्यादि । हे राधे, माधवसमीपं प्रविश । इह निकुञ्जे विलस गमनागमनादिचेष्टाः कुरु । किंभूते राधे । रतिरभसेन रतिहर्षेण हसितं वदनं यस्याः । एतावद्धवस्थानीयम् । तदनुस्यूतं त्वमेवपदमिहेत्यस्य विशेषणम् । किंभूते । मञ्जुतरं मनो
निकुञ्जनिलयस्य निकुञ्ज एव निलयो निभृतगृहं तस्य द्वारे हरिं निरीक्ष्य दृष्ट्वा । व्रीडावतीं लज्जावतीमेतस्मै कति निष्ठुराणि वचांसि मयोक्तानि, संप्रति कथं तत्समक्षं यामीति लज्जया युक्ताम् । कीदृशस्य निकुञ्जनिलयस्य । हारावल्यो हारपङ्कयस्तरलो हारमध्यगमणिः काञ्चनकाञ्चिदाम सुवर्णखचितमेखला मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये मणयस्तेषां द्युत्या कान्त्या दीपितस्य प्रकाशितस्य । "तरलश्चञ्चले षिङ्गे हारमध्यमणावपि" इति विश्वप्रकाशः ॥ ५ ॥ तदेव गीतेनाह -- मञ्जुतरेति । गीतस्यास्य वराडीरागो मठतालश्च । गीतार्थस्तु -- हे राधे, माधवसमीपं कृष्णान्तिकदेशं प्रविश । इह मञ्जुतरकुञ्जतलकेलिसदने मञ्जुतरं यत्कुञ्जतलं निकुञ्जाभ्यन्तरदेशस्तदेव यत्केलिसदनं लीलागृहं तत्र विलस विलासं कुरु । कीदृशि । रतिरभसेन सुरतोत्साहेन हसितं हास्ययुक्तं वदनं मुखं यस्यास्तादृशि । प्रविश राधे माधवसमीपमिह विलसेत्युक्तम् ॥ ध्रुवपदमनुवर्तमानत्वात् । यद्वा । इह माधवे विलस । कीदृशे माधवे । मञ्जुतरकुञ्जतलं केलिसदनं यस्य तादृशे । पुनः कीदृशे । रतिरभसेन हसितं वदनं यस्य तादृशे ।
[^१.] "सखी निजगाद राधाम्" इति पाठः । [^२.] "रागमठतालाभ्यां" "रागाडवतालाभ्यां"
इति पाठौ ।
नवभव[^१]दशोकदलशयनसारे
विलस कुचकलशतरलहारे । प्रविश० ॥ २ ॥
कुसुमचयरचितशुचिवासगेहे
विलस कुसुमसुकुमारदेहे । प्रविश० ॥ ३ ॥
मृ[^२]दुचलमलयपवनसुरभिशीते ।
विलस[^३] मदनशरनिकरभीते । प्रविश० ॥ ४ ॥
हरं यत्कुञ्जतलं कुञ्जस्याधरप्रदेशस्तदेव केलिसदनं यत्र ॥ १ ॥ अपि चनवभवेति । हे कुचकलशतरलहारे, कुचकलशे तरलश्चलो हारो यस्यास्तस्याः संबुद्धिः । इहेत्यस्य विशेषणम् । किंभूते इह । नवं भवद्यदशोकदलानां शयनं तेन सारमुत्कृष्टं तस्मिन् ॥ २ ॥ अपि च कुसुमेति । हे कुसुमसुकुमारदेहे, इह विलस । किंभूते इह । कुसुमानां चयस्तेन रुचिरं शुचि च वासार्थं गेहं यस्मिन्निकुञ्जतले । अत्र सर्वत्र एकैकं राधाविशेषणं एकैकं निकुञ्जविशेषणम् ॥ ३ ॥ अपि च। मृदुचलेति । हे राधे, इह विलस । किंभूते राधे । मदनशरनिकराद्भीतिर्भयं यस्याः तस्याः संबुद्धिः । इद्द मृदु यथा स्यात्तथा चलो यो मलयपवनस्तेन सुरभि च
कीदृशे केलिसदने ॥ १ ॥ नवेति । नवं नूतनमथ च लसच्छोभमानं यदशोकदलमशोकपल्लवं यस्य तच्छयनं शय्या तदेव सारो महाधनं यत्र तादृशे । त्वं कीदृशी । कुचकलशयोः स्तनकलशयोस्तरलश्चञ्चलो हारो यस्यास्तादृशी । अपरस्मिन्नपि गृहे महाधनं तिष्ठतीति ध्वनितम् । यद्वा नवलसदित्यपि राधे इत्यस्यैव विशेषणम् । तदा नवलसदशोकदलशयनमेव सारो यस्यास्तादृशि । यद्वा इह माधवे विलस । कीदृशे माधवे । नवलसदशोकदलमेव सारो यस्य तादृशे ॥ २ ॥ कुसुमेति । हे राधे, इह कुसुमचयेन पुष्पसमूहेन रचितं विरचितं शुचि अनुपहतं नायिकान्तरेणानुपभुक्तं यद्वासगेहं लीलागृहं तत्र विलस । यद्वा कुसुमचयेन रचितमर्थात्कृष्णेन निर्मितं शुचि वासगृहं यस्यास्तादृशी इति राधे इत्यस्यैव विशेषणम् । पुनः कीदृशी त्वम् । कुसुमवत्सुकुमारः कोमलो देहो यस्यास्तादृशी । यद्वा इह माधवे विलस । कीदृशे माधवे । कुसुमचयेन रचितं शुचि वासगेहं येन तादृशे । कीदृशे माघवे । कुसुमवत्सुकुमारो देहो यस्य तादृशे । "शुचि अनुपहते" इति विश्वप्रकाशः ॥ ३ ॥ मृदु चलेति । हे राधे, माधवसमीपं चल व्रज । इइ केलिसदने प्रविश विलस । कीदृशे केलिसदने । मलयपवनसुरभिशीते मलयसंबन्धी यः पवनस्तेन सुरभि सुगन्धं शीतलं च तस्मिन् । यद्वा इह माधवे विलस । कीदृशे माधवे । मलयपवनसुरभिशीते मलयसंबन्धी यः पवनो वायुस्तेन सुरभिशीतले वा । यद्वा चलेत्यपि पवनस्यैव विशेषणम् । तथा च चलश्चञ्चलो यो मलयपवनस्तेन सुरभिशीतले इत्यर्थः । चलेत्यनेन ईषच्चाञ्चल्यमुक्तम् । तेन मान्द्यमुक्तम् । त्वं कीदृशी । रतिवलितललितगीते, रतौ वलितं
[^१.] "नवलसदशोक" इति पाठः । [^२.] "मृदु" इति पदं रसमञ्जरीटीकाकृदादृते मूले न
दृश्यते । [^३.] "रतिवलितललितगीते" इति पाठः ।
विततबहुवल्लिनवपल्लवघने
विलस चिरमलसपीनजघने । प्रविश० ॥ ५ ॥
मधुमुदितमधुपकुलकलितरावे
विलस कु[^१]सुमशरसरसभावे । प्रविश० ॥ ६ ॥
मधुरतरपिकनिकरनिनदमुखरे ।
विलस दशनरुचिरुचिरशिखरे । प्रविश० ॥ ७ ॥
तच्छीतं च मृदुपवनेन सुरभिशीतम् ॥ ४ ॥ अपि च मधुरतरेति । हे राधे, इह विलस । किंभूते राधे । शुचीनि रुचिराणि दशनशिखराणि यस्यास्तस्याः संबुद्धिः । किंभूते इह । मधुरतरो यः पिकनिकरस्य निनदस्तेन मुखरे ॥ ५ ॥ अपि च । विततेति । हे राधे, इह चिरं विलस । किंभूते राधे । अलसं पीनं जघनं यस्यास्तस्याः संबुद्धिः । किंभूते इह । विततानि बहूनि वल्लीनां नवपल्लवानि तैर्घने । अपि च मधुमुदितेति । हे राधे, इह विलस । किंभूते राधे । कुसुमशरे कामे रसो रागः साभिलाषो भावोऽभिप्रायो यस्यास्तस्याः संबुद्धिः । किंभूते इह । मधुना
ललितं मनोहरं गीतम् । लालित्यं हावविशेषः यस्यास्तादृशि । यद्वा कृष्णे विलस । कीदृशे कृष्णे । रतिललितं मनोहरं वलितं संभक्तं गीतं यस्य तादृशे । क्वचित्सरसेति पाठः । ललितलक्षणं तु -- "नानाविधमनाहार्यं स्वभावेन मनोहरम् । शृङ्गारचेष्टितं स्त्रीणां ललितं संप्रचक्षते" ॥ ४ ॥ विततेति । हे राधे, माधवसमीपं प्रविश । इह केलिसदने चिरं विलस च । कीदृशे केलिसदने । विततैर्विस्तीर्णैर्बहुभिर्वल्लीनां लतानां नवपल्लवैर्घने सान्द्रे । त्वं कीदृशी । अलसपीनजघने । अलसे मन्थरे पीने मांसले जघने यस्यास्तादृशि ॥ ५ ॥ मधुमुदितेति । कीदृशे केलिसदने । मधुना पुष्परसेन मुदिता न्यानन्दितानि यानि मधुपकुलानि भ्रमरसमूहास्तैः कलितो विहितो रावः शब्दो यत्र तादृशे । त्वं कीदृशी। मदनरसरभसभावे मदनस्य कामस्य यो रसः शृङ्गाराख्यस्तत्र यो रभस उत्साहस्तेनोपलक्षितो भावो यस्यास्तादृशि । यद्वा । इह माधवे विलस । कीदृशे माधवे । मदनरसेन यो रभसस्तेनोपलक्षितो भावो यस्य तादृशे इत्यर्थः । यद्यपि मधुपेनैव मधुपानकर्तृत्वं प्राप्तं तथापि इदानीं मधुपानप्राप्तये मधुमुदितेत्युपात्तम् ॥ ६ ॥ मधुरतरेति । कीदृशे केलिसदने । मधुरतरो यः पिकनिकराणां कोकिलसमूहानां निनदः शब्दस्तेन मुखरे वाचाले । यद्वा । एतदपि राधे इत्यस्यैव विशेषणम् । तदा मधुरतरपिकनिकराणामिव यो निनदः सुरते कण्ठकूजितं तेन मुखरमित्यर्थः । पुनः कीदृशि । दशनरुचिर्दन्तकान्तिरेव रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । यद्वा । दशनरुचिवद्रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । यद्वा इह माधवे विलस । कीदृशे माधवे । दशनरुचिरुचिरशिखरे । दशनरुचीत्यत्र द्वितीयव्याख्याने प्रसिद्धशिखरस्योपमेयतयास्य विपर्यासोपमा बोध्या । तदुक्तं दण्डिना -- "त्वदा
[^१.] "विलस मदनरसरभसभावे" इति पाठः ।
विहितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि ।
भणति जयदेवकविराजराजे । प्रविश० ॥ ८ ॥
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंबाधबिम्बाधरम् ।
अस्याङ्कं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-
क्रीते दास इवोपसेवितपदाम्भोजे कुतः संभ्रमः ॥ ६ ॥
मुदितं यन्मधुपकुलं तेन कलितो रावो गुञ्जारवो यत्र ॥ ७ ॥ अपि च -- विहितेति । इदानीमष्टपदीं परमेश्वरे समर्पयन्नाह -- हे मुरारे, जयदेव कविराजे मङ्गलशतानि कुरु । किंभूते । विहितं कृतं पद्मावत्या लक्ष्म्याः सुखं सुखरूपं समाजं स्थानं प्रासादो येन । तिन्दुबिल्वे जयदेवकारितो महालक्ष्म्याः प्रासादोऽस्तीति प्रसिद्धिः । लक्ष्मीभक्त्या हरिस्तुष्यतीति ॥ ८ ॥ इदानीं त्रपानिरसनायाह -- त्वामिति । हे राधे, अयं श्रीकृष्णस्तव सुधासंबाधं सुधायाः संकटं बिम्बाधरं पातुमिच्छति । किंभूतोऽयम् । त्वामेवंविधां दुर्वहां चित्तेन वहन्नतिश्रान्तः श्रमं प्राप्तः अत एव भृशं तापितः । यतः यः श्रान्तस्तप्तश्च भवति स तदुपशान्त्यै सुधादिपानं कर्तुमिच्छति । तत्तस्मादस्य मुरारेरङ्कं क्षणमलंकुरु । कथं मयास्य तादृशस्य महानुभावस्यैतत्कर्तुं युज्यत इति वदसि चेदित्याशङ्क्याह -- इह तावत्संभ्रम आदरः कुतः । किंभूते इह । भ्रूक्षेप एव यो लक्ष्मीलवस्तेन क्रीते । एतावता मूल्येन गृहीते आदरो
ननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धविपर्यासाद्विपर्यासोपमेष्यते ॥" इति । "पक्व-
दाडिमबीजाभं माणिक्यं शिखरं विदुः ।" इति शाश्वतः ॥ ७ ॥ विहितेति । हे मुरारे,
जयदेवकविराजराजे जयदेव एव कवीनां राजराजः सार्वभौमस्तत्र मङ्गलशतानि
कल्याणशतानि कुरु । कीदृशे । भणति तव गुणान्वदति । पुनः कीदृशे । विहितः
पद्मावत्याः सुखसमाजः सुखसमूहो येन तादृशे । एतेन स्वस्त्रीतत्परत्वकथनेन परस्त्री-
वैमुख्यं ध्वनितम् । "राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ।" इति विश्वः ॥ ८ ॥
कृष्णोत्कण्ठाधिक्यमाह -- त्वामिति । अयं कृष्णस्त्वां चित्तेन मनसा वहन्नतिश्रान्तोऽति-
शयेन श्रमयुक्तो जातः । कन्दर्पेण कामेन च भृशमतिशयेन तापितः संतापितः ।
अतिसूक्ष्मे चित्ते पीनस्तनजघनवत्याः स्तनधारणेन श्रमो युक्त एव । अन्योऽपि यो गुरु-
तरभारोद्वहनं करोति तस्याप्यतिश्रमो भवतीति भावः । अतस्तव सुधयामृतेन संबाधं
संकटं बिम्बाधरं बिम्बफलमधरमोष्ठं पातुमिच्छति । तस्माद्धेतोस्तस्य कृष्णस्याङ्कं क्रोडं
क्षणं त्वमलंकुरु भूषय । अहमपि स्फुटापराधा । अतस्तदङ्कारोहणे बिभेमीत्यत आह --
इहेति । इह कृष्णे कुतः कस्माद्धेतोः संभ्रमो भयम् । कीदृशे कृष्णे। सेवितं
त्वदीयपदाम्भोजं त्वदीयचरणकमलं येन तादृशे । अत एव दासजनेऽपि । तत्र
हेतुगर्भविशेषणमाह -- भ्रूक्षेपेति । भ्रूक्षेपस्य भ्रुवः चालनस्य या लक्ष्मीः संपत्तस्या
सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
सिञ्जान[^१]मञ्जुमञ्जीरं प्रविवेशा[^२]भिवेशनम् ॥ ७ ॥
वराडीरागयतितालाभ्यां गीयते । प्र० ॥ २२ ॥
राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥ १ ॥
हरिमेकरसं चिरमभिलषितविलासम् ।
सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवा[^३]सम् ॥ ध्रुवम् ॥
न कर्तव्य इति । अत एव दास इव । उपसेवितं तव पदाम्भोजं येन तस्मिन् । शार्दूलविक्रीडितम् । रूपकोत्प्रेक्षे अलंकृती ॥ ६ ॥ इदानीं त्रपानाशकृदुचितं कर्माह -सेति । सा राधा अभिवेशनं रतायोपकल्पितकेलिगृहं प्रविवेश । कथं यथा स्यात्तथा । सिञ्जानौ सशब्दौ मञ्जुमञ्जीरौ यत्र तद्यथा स्यात् । किंभूता सा । ससाध्वसं च सानन्दं च ससाध्वससानन्दं यथा स्यात्तथा । गोविन्दे लोले सतृष्णे लोचने च यस्याः सा । साध्वसेन चले । आनन्देन साभिलाषे । अत्र ससाध्वसानन्दमिति एकेनैव सहशब्देन कृते प्रत्येकमुपादानं चलसतृष्णयोः पृथग्योगार्थम् । अनुष्टुप्पथ्यावृत्तम् ॥ ७ ॥ आर्योक्तमेव विवृणोति -- राधावदनेति । तत्र पूर्वं ध्रुवपदम् । हरिमेकरसमिति । सा राधा हरिं वदति स्म । भोक्तृत्वेन हरिस्वरूपेण संवादं प्राप्नोति स्म । किंभूतं हरिम् । एकरसमेक एव राधाविषये रसो रागो यस्य । पुनः किंभूतम् । चिरमभिलषितो राधासंबन्धी विलासो येन । पुनः किंभूतम् । गुरुर्यो राधाया आगमननिमित्तो हर्षस्तस्य वशंवदं वशं वदनं यस्य ।
लवो लेशस्तेन क्रीते । "संकटं ना सुसंबाधः" इत्यमरः । "लवलेशकणाणवः" इत्यमरः ॥ ६ ॥ सा ससाध्वसेति । सा राधा निकेतनं लीलागृहं प्रविवेश प्रविष्टा । किं कुर्वती । मञ्जु मनोहरो मञ्जीरो नूपुरस्तं सिञ्जाना शब्दं कुर्वती । कथं यथा स्यात् । ससाध्वसं साध्वससहितं सानन्दमानन्दसहितं च यथा स्यादित्यर्थः । कीदृशी सा । गोविन्दे लोले चञ्चले लोचने यस्याः सा ॥ ७ ॥ राधेति । गीतस्यास्य वराडीरागो रूपकतालः । गीतार्थस्तु -- सा राधा हरिं कृष्णं ददर्श दृष्टवती । कीदृशम् । एकरसं एको मुख्यः शृङ्गाराख्यो रसो यस्य तम् । यद्वा एकस्तुल्यो रसो यस्य तम् । राधाया यादृशः शृङ्गाररसः कृष्णस्यापि तादृश एवेति भावः । पुनः कीदृशम् । चिरं बहुकालं व्याप्याभिलषितो वाञ्छितो विलासः केलिर्येन तम् । पुनः कीदृशम् । गुरुर्महान्यो हर्ष आनन्दस्तस्य वशंवदमायत्तं वदनं यस्य तम् । पुनः कीदृशं हरिम् । अनङ्गविकारम् । "क्वचित् अनङ्गविकास" इति पाठः । तदानङ्गस्य कामस्य विकासः स्फुटता यत्र तम् । राधेति । पुनः कीदृशं हरिम् । राधाया वदनं मुखं तस्य विलोकनेन
[^१.] "सिञ्जाना" इति पाठः । [^२.] "प्रविवेश निकेतनम्" इति पाठः । [^३.] "भङ्गविकारम्",
"मनङ्गविकारम्" इति पाठौ ।
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ हरि० ॥ २ ॥
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् ॥ हरि० ॥ ३ ॥
पुनः किंभूतम् । अनङ्गनिवासं कामाश्रयम् । इति ध्रुवः ॥ अथ पदानि । किंभूतं हरिम् । राधावदनविलोकनेन विकसिता उल्लसिता विविधा विकाराणां सात्विकभावानां विभङ्गा यत्र । एतेन राधामुखदर्शनादक्रममेव स्तम्भादयः प्रादुर्भूता इत्यर्थः । कमिव । जलनिधिमिव । किंभूतं जलनिधिम् । विधुमण्डलदर्शनेन तरलिता ललिता मनोहरास्तरङ्गा यत्र । अत्र मण्डलग्रहणं समुद्रवृद्धिहेतुत्वं ज्ञापयति ॥ १ ॥ अपि च । हारमिति ।किंभूतं हरिम् । उरसि हारं दधतम् । किंभूतं हारम् । अमलतरतांअमलतरताम् ऋच्छतीति अमलतरतारम् । अथवा अमलतरा निर्दोषास्तारा निर्मलमौक्तिकानि यत्र । किं कृत्वा । विदूरं दीर्घं विलम्ब्य विलम्बं कृत्वा । कमिव । यमुनाजले पूरमिव । किंभूतं पूरम् । स्फुटतरा ये फेनास्तेन मिश्रितम् । अनेन स्वेदाख्यसात्विकभावोत्पत्तिर्दर्शिता । अनु च हारदर्शनं च तस्य श्यामव्यूढोरसि गौरी त्वं स्फुरन्ती दीप्तिमेष्यसीति प्रोत्साहनम् । पौरुषायितरतविशेषश्च । फेनकदम्बेन सुरतश्रमजनिता उदबिन्दवश्च दर्शिताः । यमुनाजलपूरोपमानेन समद्रुतिश्च ॥ १ ॥ अपिच । श्यामलेति ।किंभूतं हरिम् । श्यामलं मृदुलं कलेवरमण्डलं यस्य । पुनः किंभूतम् । अधिगते गौरे दुकूले येन । किमिव । नीलनलिनमिव । पीतं यत्परागपटलं
वीक्षणेन विकसिताः प्रकटिता विविधा नानाविधा विकारा जृम्भणापाङ्गक्षेपणकरविमर्शा-
दिरूपास्त एव विभङ्गा विशिष्टोर्मयो येन तम् । कमिव । जलनिधिमिव । कीदृशं
जलनिधिम् । विधुमण्डलस्य चन्द्रमण्डलस्य दर्शनेन तरलिताश्चञ्चलीकृतास्तुङ्गा अत्यु-
च्चास्तरङ्गा ऊर्मयो यस्य तादृशम् । अत्रागाधशृङ्गाररसाश्रयत्वेन कृष्णस्य जलनिधि-
साम्यम् । राधामुखस्य चाह्लादकारित्वादिना चन्द्रसाम्यम् । जृम्भणादिरूपाङ्गविकारस्यो-
त्तरोत्पन्नतया तरङ्गस्य साम्यम् । "भङ्गस्तरङ्गे भेदे तु भङ्गो जयविपर्यये" इति विश्वः
॥ १ ॥ विविधविकारानेवाह -- हारमिति । कीदृशं कृष्णम् । विदूरमतिशयेन परि-
रभ्यालिङ्ग्य उरसि वक्षसि हारं दधतं बिभ्राणम् । कीदृशम् । अमलतरोऽतिशयेन विमल-
तरस्तारः शुद्धमौक्तिकं यत्र तादृशम् । कमिव । स्फुटतरः प्रकटतरो यः फेनकदम्बः
फेनसमूहस्तेन करम्बितं मिश्रितं यमुनाजलपूरमिव कालिन्दीप्रवाहमिव । अत्र कृष्ण-
शरीरस्य श्यामस्निग्धतया यमुनाप्रवाहसाम्यम् । हारस्य चातिशुभ्रतया फेनसमूह-
साम्यं बोध्यम् । अत्र हारालिङ्गनेन स्वाभिलाषप्रकटनान्मोहयिताख्यो भावो वर्णितः ।
तदुक्तं रसार्णवसुधाकरे -- "स्वाभिलाषप्रकटनं मोहयिताख्यम्" इति । "मिश्रितं तु करम्बि-
तम्" इति धरणिः । "तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके" इति विश्वः । "पूरो जल-
प्रवाहः स्यात्" इति च ॥ २ ॥ पुनः कीदृशम् । श्यामलेति । श्यामलं नीलं मृदुलं
कोमलं कलेवरमण्डलं यस्य तादृशम् । पुनः कीदृशम् । अधिगतमधिकं परिधेयत्वेन
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ हरि० ॥ ४ ॥
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ हरि० ॥ ५ ॥
तस्य भरस्तेन वलयितं मूलं यस्य । अनेन गौराङ्ग्यास्तव कृष्णेन लतावेष्टितालिङ्गनविशेषे काप्यभिख्या भविष्यतीति प्रोत्साहनम् । तल्लक्षणं यथा -- "प्रियमनुकृतवल्लीविभ्रमा वेष्टयन्ती द्रुममिव सरलाङ्गी मन्दसीत्कारदीर्घम् । वदनमुदितखेलाक्रन्दमाचुम्बनार्थं नमयति विनताङ्गी यल्लतावेष्टितं तत्" इति ॥ ३ ॥ अपि च । तरलेति । किंभूतं हरिम् । तरलदृगञ्चलवलनेन मनोहरं यद्वदनं तेन जनितो रतिरागो येन । अनेन कान्ता दृष्टिरुक्ता । यथा -- "आपिबन्तीव दृश्यं या सा विकाशातिनिर्मला । सभ्रूक्षेपकटाक्षा च कान्ता मन्मथवर्द्धिनी" । कमिव । तडागमिव । किंभूतं तडागम् । शरदि स्फुटे विकसिते कमलोदरे खेलितं खञ्जनयुगं यत्र । शरत्काले खञ्जनवर्णनमुचितमेव । पद्मेऽपि खञ्जनं मिलत्येव । तदुक्तम् -- "अब्जेषु गोषु गजवाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु" । अत्र कमलोदरग्रहणेन पद्मासनं नाम रतिविशेषः सूचितः । यथा -- "जङ्घायुगलस्य विपर्ययतः पद्मासनमुक्तमिदं युवतेः" ॥ ४ ॥ अपि च । वदनेति । किंलक्षणं हरिम् । वदनकर्तृकपरिशीलनेन मिलितो यो मिहिरस्तेन समे ये कुण्डले ताभ्यां शोभत इति । अनेन शारीरकसूर्यसमाकर्षणसद्भावर
ज्ञातं गौरं पीतं दुकूलं पट्टवस्त्रं येन तम् । किमिव । नीलनलिनमिव श्यामकमलमिव ।
कीदृशं नीलनलिनम् । पीतो यः परागः पुष्परेणुस्तस्य पटलं समूहस्तस्य यो भरोऽति-
शयस्तेन वलितं वेष्टितं मूलं यस्य तादृशम् । अतः कृष्णस्य स्निग्धश्यामतया नीलोत्प-
लसाम्यम् । पीतपट्टाम्बरस्य च मूललग्नपीतरागसाम्यम् । अथ कलेवरम् । "गात्रं
वपुः संहननम्" इत्यमरः ॥ ३ ॥ पुनः कीदृशम् । तरलेति । तरलो दृगञ्चलः कटाक्ष-
स्तस्य चलनेन मनोहरं सुन्दरं यद्वदनं तेन जनित उत्पादितो रतिरागो राधायाः
सुरतेच्छा येन तादृशम् । कमिव । शरदि शरत्काले स्फुटकमलोदरे विकसितपद्मगर्भे
खेलितं क्रीडितं खञ्जनयुगं खञ्जरीटयुगलं यत्र तादृशं तडागमिव । अत्र कृष्णस्य राधा-
दर्शनासंक्षुभितत्वेन शरत्कालीनतडागसाम्यम् । स्मेरमुखं मन्दहास्यं च विकसितकमल-
साम्यम् । श्यामिकोपेतत्वेन परितः शुभ्रत्वेनातिचञ्चलत्वेन तन्नेत्रयोः खञ्जनसाम्यम् ।
शरत्काले जलाशयस्य कमलगर्भे खेलत्खञ्जनो दृष्टः सन्द्रष्टुर्वाञ्छितं प्रयच्छति ।
एवं चलदपाङ्गवत्कृष्णदर्शनं राधाया वाञ्छितं केलिसुखं दास्यतीति शरत्कालीनकमल-
मध्यस्य खञ्जनोपमानेन ध्वनितम् । तदुक्तं वराहे -- "हेमसमीपसिताम्बरकमलोत्पल-
पूजितोपलब्धेषु । दधिपात्रधान्यकूटे दृष्टोऽभीष्टानि चेष्टते विहगः" इति । "खञ्जरीटस्तु
खञ्जनः" इत्यमरः । "तडागस्तु जलाधारः" इति विश्वः ॥ ४ ॥ पुनः कीदृशम् ।
वदनेति । कृष्णवदनकमलस्य मुखपद्मस्य परिशीलनाय मिलितौ यौ मिहिरौ सूर्यौ
ताभ्यां समे ये कुण्डले ताभ्यां शोभा कान्तिर्यस्य तम् । अत्र कुण्डलयोर्नानामणि-
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् ॥ हरि० ॥ ६ ॥
विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ हरि० ॥ ७ ॥
तान्तः सूचितः । तदेव चिह्नयति । स्मितकान्त्या रुचिरः समुज्ज्वलितो योऽधरपल्लव-
स्तेन कृतो रतेर्लोभः संभोगतृष्णा येन । रतान्ते किल ताम्बूलादिरागह्रासादिना
अधर उज्ज्वलो भवतीति कृतरतिलोभमिति रतिविरतावपि पुना रताय सस्पृहत्वम् ।
एतदेव शृङ्गारसर्वस्वं यद्रतिविरतावपि न जुगुप्सेति ॥ ५ ॥ अपि च । शशि-
किरणेति । किंभूतं हरिम् । शशिकिरणैः कर्बुरितोदरजलधरवत्सुन्दराः सकुसुमाः
केशा यस्य । पुनः किंभूतम् । तिमिरेऽन्धकार उदितं यद्विधुमण्डलं तद्वन्निर्मलो यो
मलयजतिलकस्तस्य निवेशो यत्र । आभ्यां विशेषणाभ्यां शशिकिरणमिलिताभ्र-
शोभया अनु च सतिमिरनवोदितचन्द्रशोभया च सुरतान्ते स्रस्तधम्मिल्लत्वं स्वेदाम्बु-
पूरैः किंचिन्मृष्टविशेषकत्वं मम भविष्यतीति मानसः प्रोत्साहः सूचितः ॥ ६॥
अपि च । विपुलेति । किंभूतं हरिम् । विपुलपुलकभरैर्दन्तुरितं रोमाञ्चितम् ।
अपि च । उक्तलक्षणाभी रतिकेलिकलाभिरुपलक्षितम् । अत एव तदर्थम-
धीरम् । अपि च । किंभूतम् । मणिगणकिरणसमूहसमुज्ज्वलानि यानि भूषणानि,
तैः सुभगं शरीरं यस्य । एतेन भविष्यत्सुरतान्ते भूषणपरिग्रहो द्योत्यते ।
"सुचिर" इत्यादौ अभिसारिका प्रगल्भा नायिका । "हारावली" इत्यादि आस-
र्गान्तं मध्या नायिका । तल्लक्षणं -- "तुल्यलज्जास्मरा मध्या मोहान्तसुरतक्षमा" ॥ ७ ॥
खचितत्वेन सूर्योपमा बोध्या । अभूतोपमा चेयम् । "विकर्तनार्कमार्तण्डमिहिरा-
रुणपूषणः" इत्यमरः । पुनः कीदृशम् । स्मितस्य ईषद्धासस्य या रुचिः कान्ति-
स्तया रुचिरो मनोहरः समुल्लसितो राधाधरपानोत्कण्ठया ईषत्कम्पितो योऽधरपल्लव-
स्तेन कृतो राधाया रतिलोभः सुरतेच्छा येन तम् ॥ ५ ॥ पुनः कीदृशम् । शशि-
किरणेति । शशिकिरणैश्चन्द्रकिरणैश्छुरितं संबद्धमुदरमभ्यन्तरं यस्य तादृशो यो
जलधरो मेघस्तद्वत्सुन्दराः सुकुमाराः कुसुमं पुष्पं तत्सहिताः केशा यस्य तम् ।
अत्र केशानां श्यामतया जलधरसाम्यम् । तत्र स्थितकुसुमानां मेघान्तरितचन्द्रकिरण-
साम्यं बोध्यम् । पुनः कीदृशम् । तिमिरेऽन्धकारे उदितं प्रकटीभूतं यच्चन्द्रबिम्बं तद्व-
न्निर्मलस्य मलयजतिलकस्य निवेशो विन्यासो यत्र तादृशम् । अत्र कृष्णस्य गाढान्धकार-
साम्यं ललाटस्थमण्डलाकृतितिलकस्य चन्द्रमण्डलसाम्यम् । पूर्णचन्द्रबिम्बस्थितिकाले तिमि-
रसाम्यस्यासंभवादभूतोपमा ज्ञेया ॥ ६ ॥ पुनः कीदृशम् । विपुलेति । विपुलो यः
पुलकभरो रोमाञ्चातिशयस्तेन दन्तुरितं व्याप्तम् । पुनः कीदृशम् । रतिकेलिकलाभि-
श्चुम्बनादिविशेषचातुरीभिरधीरं चञ्चलम् । पुनः कीदृशम् । मणिगणानां मणिसमूहानां
किरणसमूहेन समुज्ज्वलानि यानि भूषणानि मुकुटाङ्गदमञ्जीरादीनि तैः सुभगं शरीरं
यस्य तम् । "निम्नोन्नततया व्याप्तं दन्तुरं कथ्यते बुधैः ।" इति धरणिः ॥ ७॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम् ॥ हरि० ॥ ८ ॥
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-
प्रयासेनेवाक्ष्णोरमलतरतारं गमित[^१]योः ।
इदानीं राधायाः प्रियतमसमाया[^२]तसमये
पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ८ ॥
अपि च । श्रीजयदेवेति । हे जनाः, सुचिरं हरिं हृदि विनिधाय प्रणमत । किंभूतं हरिम् । सुकृतोदये सारम् । पुनः किंभूतम् । श्रीजयदेवभणितो यो विभवः सामर्थ्यं तेन द्विगुणीकृतां भूषणभां शोभांशोभाम् ऋच्छतीति । अथवा द्विगुणीकृतां भूषणभां रातीति । एतत्कृत्वा उक्तेष्टदो भवतीति । अथवा श्रीजयदेवभणितेन विभवन्विभुर्भवन्द्विगुणीकृतो भूषणानां भारः समूहो येन । जयदेवभणितं श्रुत्वा भूषणानामनादरोऽभूदित्यर्थः ॥ "क्रमेण नट्टकेदारश्रीरागस्थानगौडकाः । धोरणी मालवीयश्च वराटी मेघरागकः ॥ मालवश्रीर्देवशाखो गौण्डकृच्चाथ भैरवी । धन्नासिका वसन्तश्च गुर्जरी च मह्लारकः ॥ ललितः सप्तदशमो रागास्तावन्ति च क्रमात् । पदानि तेषु तालाः स्युरितस्तन्नाम कीर्त्यते ॥ आद्यत्रिसप्तदशमद्वादशे द्रुतमण्ठकाः । द्वितीये नवमे चैकादशे चैव त्रयोदशे॥ पदे पञ्चदशे सप्तदशे रूपक ईरितः । चतुर्थे प्रतितालव्या द्रुतालः पञ्चमे स्मृतः ॥ त्रिपुटः षष्ठाष्टमयोः स्याद्द्रुतप्रतिमण्ठकः । चतुर्दशे षोडशे च भद्रः स्यात्प्रतितालकम् ॥ मध्यमादौ पुनर्मुक्तिः शृङ्गारः साभिलाषयोः । स्त्रीपुंसयोरुत्तमस्य नायकस्योपवर्णनम् ॥ "कौशिकीं रीतिमाश्रित्य पदानां स्वस्वनामता । छन्दः खेच्छाविरचितं रूपके यत्र दृश्यते । स रागश्रेणिनामायं प्रीतिकृत्कमलापतेः ॥" इति सानन्दगोविन्दरागश्रेणिकुसुमाभरणनामा द्वाविंशतितमः प्रबन्धः ॥ ८ ॥ इदानीं राधाया अपि सात्विकभावोत्पत्तिं दर्शयति -- अतिक्रम्येति । इदानीं राधाया अक्ष्णोर्हर्षाश्रुनिकरः पपात । क्व । प्रियतमसमायातसमये प्रियतमस्य समायातं समागमस्तस्य समये काले । क इव । अपाङ्गं नेत्रप्रान्तमतिक्रम्य श्रवणपथपर्यन्तगमनप्रयासेन स्वेदाम्बुपूर इव । किंभूतयोर्नेत्रयोः । प्रियदर्शनाकाङ्क्षया अतिशयेन चञ्चलत्वं
श्रीजयदेवेति । हे जनाः, हरिं प्रणमत । किं कृत्वा । सुचिरं बहुकालं व्याप्य हृदि चित्ते विनिधाय । कीदृशम् । सुकृतोदयस्य पुण्योदयस्य सारं सारभूतम् । यद्वा सुकृतोदय एव सारो धनं यस्मात्तम् । पुनः कीदृशम् । श्रीजयदेवस्य भणितविभवे वाग्विभवे द्विगुणीकृतभूषणभारोऽलंकारसमूहो येन तम् । जयदेवसरस्वती स्वयमेवोत्प्रेक्षालंकारवती । भगवद्गुणैस्तु वर्णनीयैः सुतरामलंकृतेति भावः ॥ ८ ॥ ( अत्र "अतिक्रम्य"
[^१.] "पतितयोः" इति पाठः । [^२.] "समालोकसमये" इति पाठः ।
भजन्त्यास्तस्पान्तं कृतकपटकण्डूतिपिहित[^१]-
स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरपरवशा[^२]कूतसुभगं
सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ९ ॥
सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं
राधामाधाय बाह्वोर्विवरमनु दृढं पीडयन्प्रीतियोगात् ।
तुङ्गौ तस्या उरोजावतनु व[^३]रतनोर्निर्गतौ मा स्म भूतां
पृष्ठं निर्भिद्य तस्माद्बहिरिति वलितग्रीवमालोकयन्वः ॥ १० ॥
प्रापितयोः अत्र सात्विकभावान्तरित उपमालंकारः । शिखरिणी वृत्तम् ॥८॥ इदानीं मिलितायां तस्यां सखीकृत्यमाह -- भजन्त्या इति । मृगदृशो राधाया लज्जापि अतिदूरं व्यगमत् । किंभूता लज्जा । लज्जासहिता । किंभूतायाः । प्रियास्यं पश्यन्त्याः । किंभूतं प्रियास्यम् । स्मरपरवशं यदाकूतमभिप्रायस्तेन सुभगं सुन्दरम् । पुनः किंभूतायाः । तल्पान्तं तल्पसमीपं भजन्त्या आश्रयन्त्याः । क्व सति । अवहितालीपरिजने अवहितः सावधानो यः सखीलक्षणः परिजनस्तस्मिन्गेहान्निकुञ्जान्निर्याते । कथं यथा स्यात्तथा । कृता या कपटकण्डूतिस्तया पिहितमाच्छादितं स्मितं यथा स्यात्तथा । शिखरिणी वृत्तम् । अव्यङ्ग्यो भावो रसवदलंकारता ॥ ९ ॥ सानन्दमिति । नन्दसूनुः श्रीगोपालो वो युष्मभ्यम् । मितपरममेयं संमदं दिशतु । कथं यथा स्यात् । सानन्दं यथा स्यात्तथा । किं कुर्वन् । बाह्वोर्विवरमनु राधां मन्दं मन्दमाधाय । मन्दं मन्दमिति मैनां करस्पर्शोऽपि व्याकुलीकुर्यादिति तस्याः शिरीषपुष्पाधिकसौकुमार्यं व्यज्यते । प्रीतियोगाद्दृढं पीडयन्नालिङ्गयन् । दृढं पीडयन्नित्य-. त्रानुरागातिशयो व्यज्यते । तेन च तद्गतं विषयत्वं व्यज्यते । पुनः किं कुर्वन् । इति वलितग्रीवं यथा स्यात्तथा आलोकयन् । ते च इतीति किम् । तस्या वरतनोरतनु शीघ्रं यथा स्यात्तथा तुङ्गौ उरोजौ पृष्ठं निर्भिद्य तस्माद्बहिर्निर्गतौ मा स्म भूताम् । अनेनोरोजयोः काठिन्यं तीक्ष्णत्वं च व्यङ्ग्यम् । अथवा अतनुवरतनोरिति एकपदत्वेन अतनोः कामस्य वरा उत्कृष्टा तनुरिति वेति । अनयैव कामो विश्वजयाय मूर्तिमानित्यर्थः । अत्राद्भुतो रसः । राधामाधायेत्यादिशृङ्गारः । न चानयोरन्योन्यविरोधः । अन्यपर
इत्यादिश्लोकटीका नोपलब्धादर्शपुस्तके ॥ ८ ॥ ) भजन्त्या इति । तस्मिन्काले तल्पान्तं शय्यैकदेशं भजन्त्या आश्रयन्त्या मृगदृशो हरिणनयनाया राधाया लज्जापि सलज्जेव सव्रीडेव भूत्वा दूरमतिशयेन व्यगमद्विगता । क्क सति । अवहितालीपरिजने अवहितः कृतावधानो य आलीपरिजनः सखी परिजनस्तस्मिन् । कृतकपटकण्डूति यथा स्यात्तथा । कृता कपटेन व्याजेन कण्डूतिः कर्णादिकण्डूयनं यत्र एवं यथा स्यात्तथा
[^१.] "विहित" इति पाठः । [^२.] "स्मरसरसमाकूत" इति पाठः । [^३.] "तनुचलतनोः"
इति पाठः ।
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णा सृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ११ ॥
त्वात् । अद्भुतो वाच्योऽप्यङ्गम् । यदाह -- "विवक्षितरसे लब्धप्रतिष्ठे तु विधायिनाम् । वाच्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥" इति । विशेषतस्तु प्रस्तुतपरिपोषकार्यसौ प्रकृतिरमणीयायां तस्यामधिकतरं सौकुमार्यमाविष्करोतीत्युपरम्यते । अलंकारसर्वस्वमतेनातिशयोक्तिरलंकारः । संमददाने सानन्दमौचितीमावहति पुरुषः प्रमदायुक्तः । शृङ्गारः ( रसः ) । वैदर्भी रीतिः । प्रसादो गुणः ॥ १० ॥ जयश्रीति । मुरजितो भुजदण्डो जयति । मुरं दैत्यविशेषं जितवान्मुरजित् तस्य मुरजितः कृष्णस्य दण्डाकारो बाहुः सर्वोत्कर्षेण वर्तत इत्यर्थः । सर्वोत्कृष्टत्वेन जगद्वन्द्यत्वमभिव्यञ्जितम् । कीदृशो भुजदण्डः । प्रकीर्णासृग्बिन्दुः विस्तीर्णा असृजो रुधिरस्य बिन्दवो यत्र स तथा । अत्र हेतुमाह -- कीदृशस्य मुरजितः । भुजापीडेति । भुजापीडस्य भुजदण्डस्य क्रीडया विलासेन हतो व्यापादितः कुवलयापीडाख्यः करी गजो येन स तस्य तथेति । यद्वा भुजापीडक्रीडया हृतश्चासौ कुवलयापीडनामा करी च तस्येति कर्मधारयः । संबन्धे षष्ठी । तत्संबन्धिप्रकीर्णरुधिरस्य बिन्दवो यस्मिन्भुजदण्डे स तथेति । क्रीडाशब्देनानायासो व्यजते । "रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्" इत्यमरः । भुजहतहस्तिरुधिरबिन्दुभुजसंबन्ध उत्प्रेक्षाबीजमित्युत्प्रेक्षते । कीदृश इव भुजदण्डः । द्विपरणमुदा द्वाभ्यां नासामुखाभ्यां पिबतीति द्विपो हस्ती कुवलयापीडः तत्सङ्गरसमदेन स्वयमात्मना सिन्दूरेण मुद्रित इवाङ्कित इव । कुवलयापीडकरिसङ्ग्रामे साधुरयं मे बाहुरिति हर्षवशाच्छोणेन सिन्दूराङ्कितो बाहुरिति भावः । रणमुदेति हेत्वर्थे तृतीया । मुद्रित इति तारकादित्वादितच् । पुनरुत्प्रेक्षते । कीदृश इव भुजदण्डः । जयश्रीविन्यस्तैर्मन्दारकुसुमैर्महित इव । जयलक्ष्म्या प्रक्षिप्तमन्दारकुसुमैः पूजित इव । जयसंपदि विन्यस्तैरर्थाद्देवैरिति वा । समरजयिन उपरि पुष्पवृष्टिरुचिता । यद्वा जयश्रिया लक्ष्म्या क्षिप्तैर्मन्दारकुसुमैर्महित उत्सवं प्रापितः । पतिजये सति पत्नी उत्सवं करोतीत्युचितम् । कुसुमरक्तिमार्पकं मन्दारपदमौचितीमावहति । "मह पूजायाम्" इत्यस्य क्तप्रत्यये महित इति रूपम् । महं प्रापित इत्यर्थे तारकादित्वादितच्प्रत्यय इति वा । शिखरिणी छन्दः । तल्लक्षणं संगीतराजे -- "रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी" । उत्प्रेक्षालंकारः । तल्लक्षणं काव्यप्रकाशे -- "संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्" इति । अनुप्रासः शब्दालंकारः । तल्लक्षणम् -- "वर्णसा
बहिर्याते सति कुञ्जद्बहिर्गते सति । पुनः कथं यथा स्यात् । विहितस्मितं विहितेषद्धासं
यथा स्यात् । कीदृश्यास्तस्याः । प्रियास्यं कृष्णस्य मुखं पश्यन्त्याः । कीदृशं मुखम् ।
स्मरसरसं स्मरेण कामेन सरसं शृङ्गाररससहितम् । पुनः कीदृशम् । आकूत-
सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो
राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले ।
रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापय-
न्ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥ १२ ॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नामैकादशः सर्गः ॥ ११ ॥
म्यमनुप्रासः" इति । पाञ्चाली रीतिः । आरभटी वृत्तिः । वीरो रसः ॥ ११ ॥सौन्द-
र्येति । मुकुन्दो मुदं देयात् । अर्थाद्भक्तेभ्यः । मोचयति क्लेशात्प्राणिन इति मुकुन्दः ।
किं कुर्वन् । ध्यातुर्नरस्य मानस इव मानसे राजहंससदृशतां कथयन् । कस्मात् । राधाया
हृदि पल्वले पल्वल इव पल्वले रम्योरोजसरोजखेलनरसित्वात् । रम्यौ मनोहरौ उरोजा-
वेव सरोजे तत्र खेलनं तत्र रसित्वमेकाग्रभावस्तस्मात् । पल्वले किल सरोजसंभवः ।
तत्र हंसेनैव भाव्यमिति रूपकमलंकारः । किंविशिष्टे हृदि । मनसिजः कामस्तस्य
क्रीडार्थमद्वितीयरङ्गभूमौ । किंविशिष्टाया राधायाः । निधीयत इति सौन्दर्यस्याद्वि-
तीयो निधिः सौन्दर्यैकनिधिः । पुनः किंभूतायाः । अनङ्गस्य ललना रतिः तस्या
लावण्यं तल्लीलया जुषतीति तस्या रतिरूपाया इत्यर्थः । शार्दूलविक्रीडितं छन्दः ।
प्रतिपदं रूपकमलंकारः । तल्लक्षणम् -- "किंचित्साधर्म्यसंपत्तेस्तुल्यावयवलक्षणम् ।
स्वैर्विकल्पैर्विरचितं रूपं रूपकमिष्यते" इति । आशीश्चालंकारोऽपि ॥ १२ ॥
माद्यद्दुर्दन्तिदन्तावलबलदलनोद्दण्डदोर्दण्डपिण्डो-
द्दामस्तेमानधामाभिनवनवभवद् भ्राजमानोरुकीर्तिः ।
व्याचष्ट स्पष्टसृष्टाष्टपदविवरणैः सर्गमेकादशं तं
पृथ्वीनाथः प्रथिम्ना चितपृथुमहिमा कुम्भकर्णो महेन्द्रः ॥
इति श्रीयवनीपद्मिनीभानोः श्रीमहामहेन्द्रश्रीकुम्भकर्णस्य कृतौ रसि-
कप्रियायां सानन्ददामोदरो नामैकादशः सर्गः ॥
सुभगम् । आकूतेन तन्मयाख्येन सुभगं मनोहरम् ॥ ९ ॥ ( अत्र "सानन्दमिति", "जयश्रीति", "सौन्दर्येति" श्लोकत्रयस्य टीका नोपलब्धादर्शपुस्तके ॥ १० ॥ ११ ॥ १२॥ ) तर्कान्दोलनकर्कशापि सुमतिर्या हावभावान्विता शृङ्गारादिरसोन्नयादिकुशला सा शंकरे केवला । किं शम्भोरपरत्र विश्वविजयो दृप्तस्मरद्वेषिता देहार्धीकृतकामिनीप्रणयिता च क्वापि देशान्तरे ॥ इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां शालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामेकादशः सर्गः ॥ द्वादशः सर्गः १२
सुप्रीतपीताम्बरः ।
गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-
स्मरपरवशाकृतस्फीतस्मितस्नपिताधराम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ १ ॥
विभासरागैकतालाभ्यां गीयते । प्र० ॥ २३ ॥
किसलयशयनतले कुरु कामिनि च[^१]रणनलिनविनिवेशम् ॥
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥ १ ॥
क्षणमधुना नारायणमनुगतमनुस[^२]र मां राधिके ॥ ध्रुवम् ॥
मनसि शिवमजेयं चिन्तयित्वाऽप्रमेयं नृपतिमुकुटरत्नं कुम्भकर्णाभिधेयम् । वितनुत इह सम्यग्देशमार्गानुमेयं श्रुतिपुटपरिपेयं गीतगोविन्दगेयम् ॥ इदानीं चिरकालकाङ्क्षितराधादर्शनोल्लासिमानसो हरिस्तामाह -- गतवतीति । हरिः प्रियां राधामुवाच । किंभूतां प्रियाम् । मुहुर्वारंवारं नवपल्लवानां प्रसवोऽथवा नवपल्लवाश्च प्रसवाः कुसुमानि च तेषां शयनम्शयनं तस्मिन्दत्तदृष्टिम् । किं कृत्वा । सरसं सरागं मनो यस्या एवंभूतां दृष्ट्वा । पुनः किंभूताम् । अमन्दो यस्त्रपाभरस्तेन निर्भरो यः स्मरः तत्परवशं यदाकूतमाशयस्तदनुविद्धं यस्मिन् तेन स्नपितोऽधरो यस्याः सा । क्व सति । सखीसमूहे गतवति सति । स्मरवशेति वक्तव्ये परग्रहणमतिशयेन तदधीनत्वद्योतनाय । हरिणी वृत्तम् । अस्मिन्सर्गे स्वाधीनभर्तृका नायिका वर्णनीया । तल्लक्षणम् -"यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका" ॥१॥ तदेव वक्ष्यमाणमाह -- किसलयेति । तत्र पूर्वं ध्रुवः । क्षणमिति । हे
गतवतीति । हरिः प्रियां राधामुवाच । क्व सति । सखीवृन्दे सखीसमूहे गतवति सति । कीदृशीम् । अमन्दत्रपाभरनिर्भरस्मरपरवशाकूतस्फीतस्मितस्नपिताधराम् । अमन्दः क्रूरोऽथ त्रपाभरेण लज्जासमूहेन निर्भरोऽतिशयो यः स्मरः कामस्तत्परवशस्तदायत्तो य आकूतोऽभिप्रायस्तेन स्फीतं प्रवृद्धं यत्स्मितं तेन स्नपितौ व्याप्तौ अधरौ यस्यास्ताम् । पुनः कीदृशीम् । सरसमनसं रसोऽनुरागस्तत्सहितं मनो यस्यास्ताम् । किं कृत्वा । नवपल्लवप्रसवशयने नवकिसलयपुष्पमये शयने शयनीये निक्षिप्ताक्षीं निहितनयनां विलोक्य दृष्ट्वा । अत्र शय्याविलोकनेन संभोगेच्छा ध्वन्यते ॥ १ ॥ किसलयेति । गीतस्यास्य विभासरागः आदितालः । गीतार्थस्तु । हे राधे, क्षणमधुनानुगतं
[^१.] "चरणकमल" इति पाठः । [^२.] "सर भो राधिके" इति पाठः ।
करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ क्षण० ॥ २ ॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ क्षण ॥ ३ ॥
राधिके, अधुना मामनुसर । किंभूतं माम् । क्षणमनुगतं त्वद्दर्शनोत्सवं प्राप्तम् । अथवा मामनुसर । किंभूतं माम् । क्षणमधुना त्वत्संभोगोत्सवमदेनानुगतं व्याप्तम् । अत्र केचन क्षणमधुना नारायणमनुगतमनुसरेति पठन्ति । तत्र मामिति प्रकरणागतमनूद्य नारायणविशेषणत्वेनोपादेयम् । नारासु अप्सु अयनं यस्य इति कामतापोपशान्त्यै शीतलं मामनुसर । मया सह जलक्रीडां कुर्विति वाक्यार्थः । इति ध्रुवः ॥ अथ पदानि किसलयेत्यादि ।हे कामिनि कामाभिकाङ्क्षिणि, किसलयशयनतले चरणनलिननिवेशं कुरु विन्यासं कुरु । किसलयानि हि नलिनविशेषान्न म्लानिभाञ्जि भवन्तीत्यत्रावयोरनुरूपं रतं भविष्यतीति व्यज्यते । किसलयानि हि पदपल्लवस्पर्धीनीत्युक्तिलेशेन विवृणोति । इदं किसलयशयनं तव पदपल्लववैरिपराभवमनुभवतु । पदपल्लवावेव वैरिणौ ताभ्यां सकाशात्पराभवम् । अथवा इदं किसलयशयनं तव पदपल्लववैरि स्पर्धाकृत् । अतः पराभवमनुभवतु । किंभूतं शयनम् । सुवेशं सुनेपथ्यम् । अत्र तल्पे पदपल्लवन्यासेन करणविशेषः सूचितः ॥ १ ॥ अपि च । करकमलेनेति । हे राधे, विदूरं बहुदूरं पन्थानमागमितासि । अतः करकमलेन चरणमहं पूजां करोमि । शयनोपरि मां क्षणं नूपुरमिव उपकुरु । यथा नूपुरमुपकरोषि धारयसि तथा मामप्युपकुरु ममाप्युपकारं कुरु । चरणधारणद्वारेण चारमनुलक्ष्य शूरं यथा तव चरणं गच्छति तथैव विक्रान्तिं करोति । मामपि अनुसरणे शूरं त्वदनुसरणमेव पराक्रमो यस्य । अथवा शयनोपरि वर्तमाना त्वं मामुपकुर्विति योजनीयम् ॥ २ ॥ अपि च । वदनेति । हे राधे, अनुकूलं रतिजनकं वचनं रचय
नारायणमनुसर । हे कामिनि, किसलयशयनतले चरणकमलविनिवेशं पादपद्मार्पणं कुरु ।
इदं सुवेशमपि सम्यक्पत्ररचनादिना सुष्ठु अलंकृतमपि किसलयशयनं पराभवमनुभवतु ।
तव पदपल्लव एव यो वैरी शत्रुस्तस्मात्पराभवं पराजयमनुभवतु । यद्वा । इदं किसलयश-
यनं पराभवमनुभवतु । कीदृशम् । तव पदपल्लववैरि । विरोधीत्यर्थः ॥ १ ॥ करकमले-
नेति । अहं करकमलेन निजकराम्बुजेन तव चरणं करोमि संवाहयितुमर्थात् । यद्वा
तव चरणमहमित्येकं पदम् । तथा च करकमलेन तव चरणयोर्महं पूजां संवाहनादि-
रूपां करोमि । कथमित्याह -- त्वं विदूरमतिदूरमागमिता आनीतासि । अर्थान्मया ।
तथा च दूरागमनजन्यं ते श्रममपनयामीति भावः । शयनोपरि शय्याया उपरि नूपुर-
मुपकुरु । नूपुरस्य परिधानेन महार्थतापादनमेवोपकारः । कीदृशं नूपुरम् । अनुग-
तिशूरम् । अनुगतौ तवानुसरणे शूरम् । अपरोऽपि योऽनुगतिशूरो भवति स उपक्रियत
इत्युचितमेवेति भावः । कमिव । मामिव । यथा तवानुसरणशूरं मामालिङ्गनादिनोप-
करोषि तथा नूपुरमप्यपकुर्वित्यर्थःनूपुरमप्युपकुर्वित्यर्थः ॥ २ ॥ वदनेति । हे प्रिये, अनुकूलमुचितं
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ क्षण० ॥४॥
अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ क्षण० ॥ ५ ॥
किमिव । वदनं सुधानिधिरिव तस्माद्गलितममृतमिव । तव विरहेण तापिताहं कथं वदिष्यामीत्याशङ्क्याह -- तत्र परस्परमुपमानोपमेयभावः । दुकूलमिव विरहमपनयामि विरहमिव दुकूलमपनयामि । किंभूतं दुकूलम् । उरसि वर्तमानम् । पुनः किंभूतं दुकूलं । पयोधररोधकम् । विरहे हि पयोधरौ न वर्धेते । दुकूलमपि पयोधरावावृत्य तिष्ठति । अथवा पयोधरो मेघ एव रोधको यस्य विरहस्येति । मेघालोके प्रियः समेत्य विरहं रुणद्धीत्युक्तिलेशः ॥ ३ ॥ अपि च । प्रियेति । हे राधे, मदुरसि कुचकलशं विनिवेशय । अत एव मनसिजतापं शोषय । कलशे संनिहिते तापो यात्येव । किंभूतं कुचकलशम् । पुलकितं रोमाञ्चितम् । पुनः किंभूतम् । अतीव दुःखेनावाप्यते त्वदनुग्रहं विना । पुनः किंभूतम् । प्रियपरिरम्भणाय रभसेन औत्सुक्येन वलितं संभक्तमिव ॥ ४ ॥ अपि च । अधरेति । हे भामिनि प्रिये, चरणपरिचरणपरेऽपि कोपं मुञ्च । मानापनोदाय संबोध्यते । हे कोपने, अधरसुधारसमुपनय अर्पय । अधरवक्त्रसंयोगं कुरुष्वेत्यर्थः । मां दासं त्वदधरामृतपिपासुतया मृतमिव जीवयेत्यर्थः । अमृतपानं हि मृतं जीवयति । दासो हि अनुपेक्षणीयो भवति । किंभूतं माम् । त्वयि विनिहितमनसंविरहितमनसम् आरोपितमानसम् । अत एव विरहानलेन दग्धं वपुर्यस्य ।
वचनं रचय । कीदृशम् । वदनमेव सुधानिधिश्चन्द्रस्तस्माद्गलितं च्युतम् । अतस्त्व-
त्प्रणयवाक्यम् । अथ चाप्युरसि हृदये वर्तमानं दुकूलं पट्टवस्त्रमपनयामि । कीदृशम् ।
पयोधरयो रोधकं तिरोधायकम् । कमिव विरहमिव । यथा मद्विरहो मयापनीतस्तथा
दुकूलमपनयामीत्यर्थः । विरहपक्षे पयोधररोधकं स्तनाश्लेषप्रतिरोधकम् ॥ ३ ॥ प्रियेति ।
हे राधे, मदुरसि कुचकलशं विनिवेशय अर्पय । कीदृशम् । अतिदुरवापमति-
दुर्लभम् । पुनः कीदृशम् । पुलकितं रोमाञ्चितम् । अत्र हेतुमुत्प्रेक्षयति -- प्रियपरि-
रम्भणरभसवलितमिव प्रियस्य परिरम्भणे आलिङ्गने यो रभस उत्साहस्तेन वलित-
मिव युक्तमिव । अपरोऽपि यो हर्षयुक्तो भवति तस्य रोमाञ्चो भवत्येवेति ध्वनि-
तम् । तेनालिङ्गनेन मनसिजतापं कामजन्यं संतापं शोषय नाशय ॥ ४ ॥
अधरेति । हे भामिनि, अधरसुधारसमधरसंबन्ध्यमृतरसमुपनय वितर । दासं मादृ-
शमनुगतं जीवय । कीदृशं मृतमिव । अन्योऽपि मृतोऽमृतपानेन जीवतीति ध्वनिः ।
मृतत्वे हेतुमाह -- त्वयीति । त्वयि विनिहितमनसं त्वय्यर्पितचित्तम् । पुनः कीदृशम् ।
विरहानलेन त्वद्विरहरूपेणाग्निना दग्धं वपुर्यस्य तम् । अत एवाविलासं विलास-
रहितम् । अन्योऽपि यो मृतो भवति स निश्चेष्टो दग्धदेहश्च भवतीति ध्वनिः ॥
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ क्षण० ॥६॥
मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम् ।
ल[^१]ज्जितमिव नयनं तव विरमति सृजसि वृथा रतिखेदम् ॥ क्षण० ॥७॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ क्षण० ॥ ८ ॥
अत एव च न विद्यन्ते विलासा यस्य ॥ ५ ॥ अपि च शशिमुखीति । हे शशिमुखि, मणिरशनागुणं मुखरय वाचालं कुरु । किंभूतं मणिरशनागुणम् । अनुगुणकण्ठनिनादम् । अनुगुणोऽनुरूपः अर्थादेव त्वदीयकण्ठस्य निनादो यस्य । अत एव मम श्रुतियुगले चिरात्त्वदसङ्गमाद्वर्तमानमवसादं खेदं शमय । किंभूते श्रुतियुगले । तव विरहे पिकरुतेन विकलीकृते । विरहिणो हि पिकरुतं दुःश्रवं भवतीति ॥ ६ ॥ अपि च मामिति । हे राधे, इदं तव नयनमधुना अवलोकितुम् । अर्थान्मां लज्जितमिव विरमति । किंभूतं नयनम् । मामभिलक्ष्य विफलरुषा निरर्थकरोषेण विकलीकृतम् । अविकलं विकलं कृतमिति विकलीकृतम् । अत एव वृथा रतिखेदं सृजसि । अथवा विसृजेति पाठान्तरम् । तत्र वृथा निरर्थकम् । विसृज मुञ्च ॥ ७ ॥ श्रीजयदेवेति । रसिकजनेषु मनोरमो यो रतिरसो रतिरागस्तस्य भावस्तत्ता स्थैर्यं तस्य विनोदं कौतुकं जनयतु । किंभूतमिदं श्रीजयदेवभणितम् । अनुपमो निगदितो मधुरिपोर्मोदो यत्र येन वा तत् । "पदानां दर्शकं यत्र ताले वर्णयतौ भवेत् । ध्रुवः प्रतिपदं गेयः कविनामाङ्कितात्पदात् ॥ गीतालापान्यथाशब्दं प्रतिताले ततः परम् । पाटास्तेनाः स्वराश्चैव शृङ्गारो रस उत्तमः ॥ देवशाखाभिधो रागः प्रबन्धे संप्रदृश्यते । श्रीविद्याधरलीलाख्यः श्रीपतिप्रीति
॥ ५ ॥ शशिमुखीति । हे शशिमुखि चन्द्रवदने, मणिरशनागुणं मणियुक्तकाञ्चीदाम मुखरय सशब्दं कुरु । अनेन हंसलीलाख्यं विपरीतरतं भजस्वेति ध्वनितम् । तल्लक्षणं चोक्तं प्राक् । कीदृशं रशनागुणम् । अनुगुणं कण्ठनिनादः कण्ठशब्दो यस्य तादृशम् । रशनागुणानुकारिकण्ठशब्दं च कुर्वित्यर्थः । अनेन शब्देन मम श्रुतियुगले श्रोत्रयुग्मे चिरादवसादं चिरकालीनमुपतापं शमय नाशय । कीदृशे । पिकरुतेन कोकिलशब्देन विकले दुःखिते ॥ ६ ॥ मामिति । हे राधे, मामवलोकयितुं तव नयनं मीलति मुद्रां प्राप्नोति । किमिव । लज्जितमिव । मां कीदृशम् । अतिविफलरुषा अतिनिष्फलेन रोषेण विकलीकृतं विकलतां नीतम् । अधुनेदानीं नयनमीलने विरम विरक्ता भव । निष्फलरोषादित्यर्थात् ॥ ७ ॥ श्रीजयदेवेति । इदं श्रीजयदेवभणितं जयदेवेन कथितं रसिकजनेषु मनोरमरतिरसभावविनोदं रतिः भोगः रसः शृङ्गाररसो भावाः संचारिसात्त्विकादयस्तेषां मनोरमं विनोदं कौतुकं जनयतु । कीदृशं भणितम् ।
[^१.] "मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम्" इति पाठः ।
प्रत्यूहः पुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथा[^१]नर्मभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू-
दुद्भूतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥ २ ॥
दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैराविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।
कारकः ॥" इति मधुरिपुमोदविद्याधरलीला नाम त्रयोविंशः प्रबन्धः ॥ ८ ॥ इदानीं सुरतारम्भं विवर्णयिषुराह -- प्रत्यूह इति । तयो राधामाधवयोः स चिरं काङ्क्षितः सुरतारम्भ उद्भूतः प्रवृद्धः सन् प्रियंभावुको बभूव । स कः । यस्मिन्सुरतारम्मे निबिडाश्लेषे दृढतरालिङ्गने पुलकाङ्कुरेण रोमाञ्चमात्रेणापि प्रत्यूहोऽभूत् । अङ्कुरग्रहणं तन्मात्रमपि आलिङ्गनान्तराय इति ज्ञापनार्थम् । आश्लेषारम्भेऽपि सात्विको रोमाञ्चोऽभूदिति युज्यते । अपि च यस्मिन्क्रीडाकृतविलोकितेऽपि निमेषेण प्रत्यूहोऽभूत् । विलोकितं निमेषितमात्रस्याप्यसहमभूत् । अनु च अङ्गादङ्गान्तरसौन्दर्यदिदृक्षालोलं नेत्रं नैकत्राप्यवयवे धृतिं बन्धेति व्यज्यते । अधरसुधापाने कामकथाक्रीडनमन्तरायो जातः अधरपाने प्रियालापो न सोढः अतिशयेनाधरं पातुमिच्छोरतिप्रियालापः कोऽपि तस्मादप्यधिकरुचिर इति व्यज्यते । अपि च कामकलासु युद्ध इव युद्धे करणात्करणान्तरारम्भे आनन्दाधिगमेनापि अन्तरायो यथा कामजननाकाङ्क्षापि शिथिला भवेदिति वाच्यार्थः । कामोत्पत्तौ संजायमानायामत्यमनस्कत्वाय तत्प्रतिबन्धककरणान्तरमारब्धमिति व्यङ्ग्योऽर्थः । अत एव प्रवृद्धत्वमुचितम् । शार्दूलविक्रीडितं वृत्तम् । यथासंख्यमलंकारः । संभोगाख्यः शृङ्गारो रसः । "जयमङ्गलतालेन पद्यं शृङ्गारनिर्भरम् । गीताः पाटाः स्वरास्तेना उच्यन्ते यत्र रूपके ॥ देवशाखाभिधे रागे सुरतारम्भनामतः । चन्द्रहासप्रबन्धोऽयं प्रबन्धः प्रीतिकृद्धरेः ॥" इति सुरतारम्भचन्द्रहासनामा चतुर्विंशः प्रबन्धः ॥ २ ॥ तदेव विवृणोति -- दोर्भ्यामिति । यद्यस्मात्कारणादेतावत्यपि व्यतिकरे कान्तः कृष्णः कामपि वाचामगोचरे वर्तमानां तृ
अनुपदं निगदितो मधुरिपोः कृष्णस्य मोद आनन्दो यत्र तादृशम् ॥ ८ ॥ प्रत्यूह इति । तयो राधामाधवयोः लोकोत्तरो ललितारम्भो ललितो मनोहर आरम्भो यस्यैतादृशः शृङ्गारक्रीडाविशेष उद्भूत उद्भटः प्रियंभावुको बभूव प्रियो बभूव । स क इत्यत आह -- प्रत्यूह इत्यादि । यस्मिंल्ललितारम्भे निबिडाश्लेषे कर्तव्ये पुलकाङ्कुरेण रोमाञ्चोद्गमेन प्रत्यूहो विघ्नोऽभूत् । अथ च क्रीडाकूतविलोकिते क्रीडासु यदाकूतपूर्वकमभिप्रायपूर्वकं विलोकितं तत्र निमेषेण नेत्रस्पन्दनेन प्रत्यूहोऽभूत् । अथ च अधरसुधापानेऽधरामृतपाने कर्तव्ये कथानर्मभिः रहःकथाकौतुकैः प्रत्यूहोऽभूत् । अथ च मन्मथयुद्धे सुरते आनन्दाधिगमेन आनन्दप्राप्त्या प्रत्यूहोऽभूत् ॥ २ ॥ दोर्भ्यामिति । दोर्भ्यां बाहुभ्यामर्थाद्राधया संयमितो बद्धः । अथ च तथैव पयोधरभरेण पीडितः । अथ च
[^१.] "कथाकेलिभिः" इति पाठः ।
हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥३॥
वा[^१]माङ्गे रतिकेलिसंकुलरणारम्भे तया साहसप्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्संभ्रमात् ।
प्तिमाप तत्तस्मादहो कामस्य वामा लोकपथातीता गतिश्चेष्टितम् । अत्र कमितुमिष्ट इति कान्तशब्द औचितीमावहति । यतो दुःखवद्भवने प्रीतिमापेति । किंभूतः कान्तः । दोर्भ्यां संयमितो बन्धनं प्रापितः । अनु च पयोधरभरेणापीडितः आ सामस्त्येन पीडामापितः । अनु च पाणिजैर्नखैराविद्धः । अनु च दशनैश्च क्षतमधरपुटं यस्य । तथा श्रोणीतटेनाहतस्ताडितः । अपि च कचे हस्तेन गृहीत्वानमितः । अपि च अधरमधुस्यन्देनाधरमधुपानेन निमित्तेन संमोहनं प्रापितः अहो इत्याश्चर्ये । कामस्य वामा गतिः । वामत्वं रसान्तराविर्भावात् । वीररसमाश्रित्य कृतापराधः स क्रमेण संयमनापीडनावेधक्षताहत्यवनमनसंमोहनानि प्रापितः कामपि तृप्तिमाप । अपि तु स्थिरोत्साहः सन् कामयुद्धान्न विररामेति न कामपीत्यर्थः । अतो वामा गतिः । अत्र विरोधः । यस्तु कमितुमिष्टः तस्मिन्कथं संयमनादयो योज्यन्ते । संयमनादिभिश्च शृङ्गारानुभावेष्वालिङ्गनादिषु द्योतितेषु कामपि निरतिशयां प्रीतिमापेति विरोधपरिहारः । अथवा कामस्य वामा इति वामेव गतिः वामानिष्टेव गतिः । यदेवं व्यतिकरेऽप्युद्रिक्तो भवति । शार्दूलविक्रीडितम् । अत्र वाक्यार्थस्य प्राधान्याद्रसस्य च संकीर्णत्वेनाङ्गत्वाद्रसवदलंकारता । "विजयानन्दतालेन गौडीरागे विरच्यते । पद्यं पाटाः स्वरास्तेना लीला नायकसंभवाः ॥ शृङ्गारकैशिकी रीतिः कामतृप्तिपुरःसरः । कामिनीहासनामायं प्रबन्धः परिकीर्तितः ॥" इति कामतृप्तिकामिनीहासनामा पञ्चविंशतितमः प्रबन्धः ॥ ६ ॥ यदुक्तं तदेव वीरसंवलितं शृङ्गारं विवृण्वन्नाह -- वामाङ्ग इति । अयं श्लोकः पूर्ववाक्यशेषत्वेन योजनीयः । तदेत्यन्वयः । रतिकेलिसंकुलरणारम्भे वामाङ्गे वर्तमानया राधया संभ्रमात्स्मरसमराभिनिवेशात्संयमनादिभ्य उपरि कान्तजयाय यत्किंचित्समरसंपल्लम्पटभटयोग्यसाहसप्रायं बालाजनायोग्यं प्रारम्भि येन जघनस्थली निष्पन्दा इति चलितुमशक्तिः अपि च दोर्वल्लिः शिथिलिता इति प्रहा
तया पाणिजैर्नखैराविद्धस्ताडितः । अथ च तया दशनैः क्षताधरपुटः क्षतो दष्टोऽधरपुटो यस्य तादृशः कृतः । अथ च तया श्रोणितटेन नितम्बेनाहत आस्फालितः । अथ च तया हस्तेनानमितः कचे केशे धृत्वेत्यर्थात् । ततोऽधरमधुस्यन्दनेन संमोहितः । एवंविशिष्टोऽपि कान्तः कामप्यनिर्वचनीयां तृप्तिमाप प्राप । तदहो इत्याश्चर्ये । कामस्य वामा विरुद्धा गतिः । यस्य बन्धनादि क्रियते स प्रीतिं न प्राप्नोति । अयं तु तादृशोऽपि प्रीतिमाप । कामस्य विरुद्धैव रीतिरिति भावः ॥ ३ ॥ माराङ्क इत्यादि । माराङ्के मारस्य चिह्ने । युद्धपक्षे मारस्याङ्के चिह्ने । रतिकेलिसंकुलरणारम्भे रतिकेलिभिश्चुम्बनालिङ्गननानाबन्धादिरूपाभिः संकुले व्याप्ते रणारम्भे कामयुद्धारम्भे तया राधया साह
[^१.] "माराङ्के" इति पाठः ।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥४॥
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धौ[^१]तोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो-
रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलित[^२]म् ॥ ५ ॥
राक्षमता । अपि च वक्ष उत्कम्पितं हृदि कम्पो जातः । अपि च । अक्षि मीलितं दर्शनेऽशक्तं जातम् । अत्रार्थे वृद्धसंमतिमाह -- स्त्रीणामबलानां पौरुषरसो वीररसः कुतः सिध्यति । अपि तु न कुतोऽपि । केलौ वामाङ्गे ललनाया दक्षिणाङ्गस्थपुंसः भानुनाडीसंबन्धात्सुरतान्तकारी कामोद्भवो भवतीति वात्स्यायनमतवेदिनां मतम् । तस्मिंश्च ललनानामेवं चेष्टाः प्रसिद्धाः । अथवा रतारम्भादुपरि इति योजना । इदमेव वाक्यं निरपेक्षं व्याख्येयम् । अत्र दोष्णोर्वल्लित्वेन विशेषणं शैथिल्ये औचितीमावहति । अत्र "विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।" इति विशेषोक्तिरलंकारः । संभोगाख्यः शृङ्गारो रसः । कुतः सिध्यतीत्यनेन समरसकरणं व्यज्यते । गीत्यादि प्रसिद्धम् । "जयश्रीसंज्ञतालेन पद्यं पाटाः स्वरास्तथा । स्तेनाश्च यत्र बध्यन्ते संभोगे रस उत्तमे ॥ रागे कर्पटबङ्गाले स पौरुषरसात्परः । प्रेम्णा विलासनामायं प्रबन्धो माधवप्रियः ॥" इति पौरुषरसप्रेमविलासनामा षड्विंशः प्रबन्धः ॥ ४ ॥ इदानीं संभोगसंतुष्ट्याऽऽसर्गसमाप्तेः संभोगान्ते लीलामाह -- तस्या इति । एभिः पञ्चभिः कामशरैः पत्युः श्रीकृष्णस्य मनः कीलितम् । तदेतदद्भुतमाश्चर्यकारि अभूत् । किंभूतैः कामशरैः । इत्यनेन प्रकारेण प्रातर्दृशोर्निखातैः । बाणास्तु
सप्रायं साहसबहुलं कान्तजयाय तदुपरि तस्य कान्तस्योपरि किंचिल्लोकोत्तरं प्रारम्भि पुरुषायितमारब्धम् । यत्संभ्रमात्संवेगात्तस्या राधिकाया जघनस्थली निष्पन्दा निश्चला जाता । दोर्वल्लिर्बाहुलता शिथिलिता शिथिलीभूता । वक्षो हृदयमुत्कम्पितम् । अक्षि मुद्रितम् । ततः स्त्रीणां पौरुषरसः पराक्रमाभिलाषः कथं सिध्यति । अपि तु न सिध्यत्येवेत्यर्थः । "मारो मृतौ विषेऽनङ्गे" इति विश्वः । "समौ संवेगसंभ्रमौ" इत्यमरः ॥ ४ ॥ तस्या इति । एतैः कामशरैः पत्युर्दृशोर्लोचनयोः प्रातर्निखातैर्मनः कीलितं विद्धम् । इत्यद्भुतमाश्चर्यम् । अन्यत्र निखातैर्बाणैरन्यत्कीलितमित्याश्चर्यमित्यर्थः । कैः कामशरैः । तस्या राधायाः पाटलेन श्वेतरक्तेन पाणिजेन नखेनाङ्कितमुरः । निद्राकषाये निद्रया
[^१.] "निर्धूतोऽधर" इति पाठः । [^२.] अस्याग्रे क्वचिदादर्शपुस्तकेषु निम्नलिखितः
श्लोकः समुपलभ्यते --
"त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसो निक्षिप्य वामाञ्चलं
राधायाः स्तनकोरकोपरि चलन्नेत्रो हरिः पातु वः ॥"
व्याकोशः[^१] केशपाशस्तरलितमलकैः स्वेद[^२]मोक्षौ कपोला
क्लि[^३]ष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्ती[^५] सत्रपा सा तदपि विलुलिता मु[^६]ग्धकान्तिर्धिनोति ॥६॥
दृशोर्लग्नास्तैर्विद्धं मन इत्येतदद्भुतम् । कोऽर्थः । प्रातः प्रियायामेतानि दृष्ट्वा पुनर्नव इव कामः संजात इत्यर्थः । तान्येव च कामबाणपञ्चकव्याजेन वस्तून्युपदिशति । तस्या राधाया उरो हृदयं पाटला ये पाणिजास्तैरङ्कितं दृष्ट्वा । अनेन पाटलापुष्पं स्मरबाण उक्तः । अपि च निद्रया कषाये क्लुषिते दृशौ दृष्ट्वा । अनेन कमलाख्यः पुष्पबाणोऽभाणि । अपि च निर्धौतोऽधरशोणिमा । तं दृष्ट्वा । अनेन बन्धुजीवपुष्पं स्मरशरोऽगादि । अपि च विलुलितस्रस्तस्रजो मूर्धजाः । तानपि दृष्ट्वा । सस्ता स्रग्येभ्यस्ते तथा । विलुलिताश्च ते स्रस्तस्रजश्च । अनेन मालतीदाम मीनकेतनेषुरुद्दिष्टः । अपि च दरश्लथाञ्चलमीषच्छ्लथप्रान्तं काञ्चीदाम मेखलादाम दृष्ट्वा । अनेन सुवर्णजात्यादिपीतकुसुमैः कुसुमास्त्रशरो वर्णितः । एतानि दृष्ट्वा पुनः स्मरपरवशो जात इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । अत्रापि वाक्यस्यान्यपरत्वाद्रसवदलंकारता । रसश्चाद्भुतोपबृंहितः शृङ्गार एव । "यतितालेन तालेन पद्यं पाटस्वरास्तथा । स्तेनास्तदन्त आलापः शृङ्गारः प्रेमनिर्भरः ॥ रागो मरुकृतिर्यत्र स प्रबन्धो निगद्यते । कामाद्भुताभिनवता मृगाङ्कलेखाभिधानतः । (?) ॥" इति कामाद्भुताभिनवमृगाङ्कलेखाभिधः सप्तविंशः प्रबन्धः ॥ ५ ॥ व्याकोश इति । सा मुग्धकान्तिर्यत एव विलुलिता रतिपरिमर्दिता तथापि कृष्णं धिनोति प्रीणयति । किं कुर्वती । सत्रपा सती । सद्यस्तत्कालं स्वनजघनपदं पाणिना आच्छाद्य पश्यन्ती । कथं विलुलितेत्याह -केशपाशः (कबरी)व्याकोशः शिथिलो जातः । अपि च अलकैश्चूर्णकुन्तलैस्तरलितमितस्ततो गतम् । कपोलौ खेदमोक्षौ जातौ । अनु च बिम्बाधरकान्तिः क्लिष्टा जाता । अनु च हारयष्टिः कुचकलशरुचा हारिता कुतोऽपि नाशिता । अनेन कञ्चुकाभावाद्धारयष्टिः शरीरशोभयैव निगीर्णा । अपि च काञ्चीकान्तिर्हताशा जाता । इयमपि वस्त्राभावात्तद्देशशोभयैव लुप्ता । निरलंकरणापि सर्वातिशायिन्या शरीरशोभयैव पत्यु
कषाये ते दृशौ लोचने वा । निर्धौताधरशोणिमा निर्धौतश्चुम्बनादिना क्षालितो योऽधरस्य शोणिमा लौहित्यम् । मूर्धजाः केशाश्च कीदृशाः । विलुलितस्रजो विलुलिताः केशग्रहणपूर्वकचुम्बनादिदानेन म्लानाः । अत एव स्रस्ताः शिथिलाः स्रजः पुष्पमालाः येषु तादृशाः । काञ्चीदाम च मेखलासूत्रं च दरश्लथाञ्चलं दरमीषच्छ्लथं शिथिलमञ्चलं वस्त्रप्रान्तं च ॥ ५ ॥ ( अत्र "व्याकोश" इत्यादि तथा "ईषन्मीलित" इत्यादि श्लोक
[^१.] "व्यालोलः" इति पाठः । [^२.] "स्वेदलोलौ" इति पाठः । [^३.] "स्पष्टा दष्टाध-
रश्रीः" इति पाठः । [^४.] "काञ्ची काञ्चिद्गताशां स्तन" इति पाठः । [^५.] "पश्यन्ती चात्म-
रूपं तदपि" इति पाठः । [^६.] "विलुलितस्रग्धरेयं"विलुलितस्रग्धरेयं" इति पाठः ।
ईषन्मीलितदृष्टि मु[^१]ग्धविलसत्सीत्कारधारावशा-
दव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।
शान्त[^२]स्तब्धपयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो
हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम् ॥ ७ ॥
अ[^३]थ सहसा सुप्रीता सुरतान्ते सा नितान्तखिन्नाङ्गी ।
राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८ ॥
र्मनोहारिण्यभूदित्यर्थः । स्रग्धरावृत्तम् । "मभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्" ॥ ६ ॥ इदानीमन्यापदेशेनात्मानं धन्यमिति ध्वनयति -ईषन्मीलितेति । हर्षोत्कर्षविमुक्तनिःसहतनोः हर्षोत्कर्षेण नानारतजनितानन्दातिशयेन विमुक्ताश्लेषत्वेन निर्व्यापारा निःसहा च कामावेशवशादन्यव्यापारासहा तनुर्यस्याः । एतावता सुरतमनु श्रान्ततनोर्मृगलोचनाया धन्य एव मुखं धयति पिबति नाकृतपुण्यकर्मा । कथं यथा स्यात् । भृशपरिष्वङ्गाद्दृढालिङ्गनाच्छान्तस्तब्धपयोधरं शान्तौ विपुलकौ स्तब्धौ कठिनौ किंचिदानतौ पयोधरौ यस्मिन्कर्मणि तद्यथा स्यात् । एतावता सुरतान्ते नितान्तं कान्तं तन्मुखं दृष्ट्वा पुनरालिङ्ग्याधरपाने स्पृहाभवदित्यर्थः । किंभूतमाननम् । ईषन्मीलितदृष्टि किंचिन्मुकुलिते दृष्टी यत्र । किंभूतमाननम् । मुग्धं मनोहरं यथा स्यात्तथा विलसन्त्यो याः सीत्कृतानां धाराः श्रेणयस्तद्वशादव्यक्ता आकुलाश्च सुरतक्रीडायां याः काकवो ध्वनिविकारास्तासु विकसन्तो ये दन्तांशवस्तैर्धौतोऽधरो यत्र तत्तथा । कस्मात् । दृढालिङ्गनवशात् । एतेन वृक्षाधिरूढकमित्यालिङ्गनमुक्तम् । तल्लक्षणम् -- "चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती च तत्पृष्ठासक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषत्प्रवृत्तान्तःश्वसितसीत्कृतकूजिता चुम्बनार्थमधिरोढुमिच्छेदिति वृक्षाधिरूढकम्" । तच्च घटितमिति चुम्बनविशेषः । ईषत्प्रगृह्य निमीलितनयनावाच्छादयन्तीति घट्टितं नाम" । एतच्च तदालिङ्गनतोषेण आत्मनि धन्यत्वमारोप्य स्वात्मगतार्थचिन्तनपरं पद्यम् । शार्दूलविक्रीडितं वृत्तम् । जातिरलंकारः । पाञ्चाली रीतिः । मागधी गीतिः । भारती वृत्तिः । स्थितलयं गानम् ॥ ७॥ अथानन्तरं तयोः परस्परानन्दसंदोहरूपसुरतावसाने राधा गोविन्दमानन्दयतीत्युत्तरकृत्यानि प्रति प्रोत्साहयन्ती जगाद -- अथ सहसेति । अथ राधा आनन्देनोपलक्षितं गोविन्दमिदं वक्ष्यमाणं सादरं जगाद । किंभूतं गोविन्दम् । सहसा वेगेन
द्वयस्य टीका नोपलब्धादर्शपुस्तके ॥ ६ ॥ ७ ) अथेति । अथानन्तरं राधा कान्तं कृष्णं मण्डनवाञ्छया निजगाद । कीदृशं कान्तम् । रतिश्रान्तमपि रतिखिन्नचित्तमपि ।
[^१.] "मुग्धहसितं सीत्कार" इति पाठः । [^२.] "श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्"
इति पाठः । [^३.] शंकरमिश्रकृतरसिकमञ्जरीटीकायामस्या आर्यायाः स्थाने निम्नलिखितः
श्लोको वर्तते--
"अथ निर्गतबाधा सा राधा स्वाधीनभर्तृका ।
निजगाद रतिश्रान्तं कान्तं मण्डनवाञ्छया ॥" इति ।
रामकरीरागयतितालाभ्यां गीयते । प्र० ॥ २४ ॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ॥ १ ॥
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ ध्रुवम् ॥
अलिकुलग[^१]ञ्जनमञ्जनकं रतिनायकसायकमोचने । त्वदधरचुम्बनलम्बितकज्जल उ[^२]ज्ज्वलय प्रिय लोचने । निज० २
सुप्रीतम् । प्रीतिपरे हि नाथे विज्ञप्तिः सिद्धिमेतीति नीतिविदः । अथ सह हासेन
वर्तत इति राधाविशेषणमानन्देति वचने हेतुः । किंलक्षणा राधा । संभोगावसाने
नितान्तमतिशयेन खेदं प्राप्तमङ्गं यस्याः सा तथा । इदं पथ्या आर्या छन्दः ॥ ८ ॥
अत्रान्वयसौकर्यार्थं पूर्वं ध्रुवपदं व्याक्रियते -- निजगादेति । सा राधा वक्ष्यमाणं
प्रोवाच । क्व सति । यदुनन्दने क्रीडां कुर्वति सति । किंभूते । हृदयानन्दकारिणि इति
ध्रुवः ॥ अथ पदानि । कुरु यद्विति । हे यदुनन्दन, अत्र स्तनकलशे चन्दनव-
च्छीतलतरेण करेण कस्तूरिकया पत्रावल्यादि रचय । किंभूते कुचकलशे । कामस्य
जगज्जयार्थमङ्गलकलशसदृशे । मङ्गलार्थकलशो हि पयःपूर्णो भवति सुनीलाम्रपल्लवैरुप-
चितश्च । एवमत्र पयोधरस्यौचिती । अनेन मयूरपदकं नाम नखरक्षतं व्यज्यते ।
तथा चाह वात्स्यायनः -- "नान्यत्पटुतरं किंचिद्रागस्यास्ति विवर्धनम् । नखदन्तसमु-
त्थानां कर्मणां गतयो यथा ॥" इति ॥ १॥ अपि च । अलिकुलेति । हे प्रिय, लोचने
पुनर्नूतनकज्जललेखां कुरु । किंभूतमञ्जनकम् । भ्रमरसमूहस्य तिरस्कारकम् । किंभूते
लोचने । कामबाणानां मोचने इति कटाक्षविक्षेपैरुपलक्षिते । पुनः किंभूते । त्वदधर-
चुम्बनेन लम्बितं प्रसृतं कज्जलं यत्र । अनेन रागसंधुक्षणार्थं नयनयोश्चुम्बनमुक्तम् ॥२॥
कीदृशी राधा । निर्गता बाधा पीडा यस्याः सा । पुनः कीदृशी । स्वाधीनभर्तृका । तल्लक्षणं शृङ्गारतिलके -- "यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥" इति ॥ ८ ॥ तदेव गीतेन कथयति -- कुर्वित्यादि । गीतस्यास्य रामकरीरागो यतितालः । गीतार्थस्तु सा राधा यदुनन्दने निजगाद उक्तवती । कीदृशे यदुनन्दने । क्रीडति । पुनः कीदृशे । हृदयानन्दजनके । किं निजगादेत्याह -- कुर्विति । हे यदुनन्दन कृष्ण, अत्र मृष्टाङ्गरागे मम पयोधरे स्तने करेण मृगमदपत्रकं कस्तूरिकावलिं कुरु । कीदृशेन करेण । चन्दनशिशिरतरेण चन्दनादपि शीतलेन । कीदृशे पयोधरे । मनोभवस्य कामस्य यो मङ्गलकलशो माङ्गल्याय स्थापितः पूर्णकुम्भस्तस्य सहोदरे सदृशे ॥ १ ॥ अलिकुलेति । हे प्रिय, लोचने नेत्रे त्वदधराभ्यां यच्चुम्बनं तेन लम्बितं गलितं यत्कज्जलं तदुज्ज्वलय पुनर्दीपय । नयनयोः कज्जलं पुनरञ्जयेत्यर्थः । कीदृशे लोचने । रतिनायकस्य कामस्य सायकान्बाणान्कटाक्षरूपान्मुञ्चतीति रतिनायकसायकमोचनं तस्मिन् । कीदृशं कज्जलम् । अलिकुलस्य भ्रमरसमूहस्य यद्गञ्जनं तिरस्कार
[^१.] "गजनसंजनकं" इति पाठः । [^२.] "कज्जलमुज्ज्वलय" इति पाठः ।
नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले । निज० ॥ ३ ॥
भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे । निज० ॥४॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे । निज० ॥ ५ ॥
अपि च । नयनेति । शुभो वेशो नेपथ्यविशेषो यस्येति हे शुभवेश, श्रुतिमण्डले कुण्डले निवेशय । किंभूते श्रुतिमण्डले । नयनयोस्तरङ्गा निरीक्षणविशेषा वृद्ध्युपचयास्त एव कुरङ्गविलासास्तेषां निरासं करोतीति । पुनः किंभूते । मनसिजस्य युवमनोबन्धनार्थं पाशशोभाधृति । अनेन नेत्रयोः श्रुतिगामिता उक्ता ॥ ३ ॥ अपि च । भ्रमरचयमिति । हे यदुनन्दनेत्यनुषञ्जनीयम् । मम मुखेऽलकं परिकर्मय अलकानां प्रसाधनं कुरु । किंविशिष्टे मुखे । जितकमले पद्मसदृशे । पुनः किंभूते॒ । विमले । पुनः किंभूते । प्रसादवति । किंभूतमलकम् । नर्मपरिहासवचनजनकम् । अलकभ्रमरपङ्क्त्या मुखं पद्ममित्युत्प्रेक्षितम् । इति उत्प्रेक्षालंकारः ॥४॥ अपि च -- मृगमदेति । हे कमलबदन, मम अलिकरजनीकरे ललाटचन्द्रमसि ललितं मनोहरं तिलकं कुरु । किंभूतं तिलकम् । कस्तूरिकारसेन संभक्तम् । किंभूतम् विहिता आरोपिता कलङ्कस्य कला येन । एतेन
स्तस्य जनकम् । "उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ।" इति विश्वः ॥ २ ॥ नयनकुरङ्गेति । हे शुभवेश । शुभः शोभनो वेशोऽलंकरणं यस्य तादृशम् । मम श्रुतिमण्डले कर्णप्रदेशे कुण्डले विनिवेशय अर्पय । कीदृशे श्रुतिमण्डले । नयने एव यौ कुरङ्गौ मृगौ, अतिवेगवत्त्वात् । तयोस्तरङ्गस्य यो विकासः प्रसरणं तस्य निरासकरे निरासकारिणि नयनयोर्दैर्घ्यवियोगकारिणि । अन्यथा कियद्दूरं तयोर्वृद्धिः स्यादित्यर्थः। पुनः कीदृशे श्रुतिमण्डले । मनसिजस्य कामस्य यः पाशोऽस्त्रविशेषस्तस्य विलासधरे तल्लीलाभृति ॥ ३ ॥ भ्रमरचयमिति । मम संमुखे मुखे रुचिरं मनोहरमलकं चूर्णकुन्तलं परिकर्मय भूषय । कीदृशमलकम् । नर्मजनकम् । कीदृशे मुखे । विमले निर्मले । पुनः कीदृशे । जितकमले जितं तिरस्कृतं निजशोभया कमलं येन तादृशे । कीदृशमलकम् । सुचिरं चिरादुपरि मुखस्योपरि भ्रमरचयं भ्रमरसमूहं रचयन्तम् । स्वकान्त्या भ्रमरभ्रमं जनयन्तमित्यर्थः ॥ ४ ॥ मृगमदेति । हे कमलनयन पद्ममुख, अलिकरजनीकरे अलिकं ललाटमेव रजनीकरश्चन्द्रस्तस्मिन् । तिलकं कुरु । कीदृशं तिलकम् । मृगमदरसवलितं मृगमदरसेन कस्तूरीरसेन वलितं निर्मितम् । पुनः कीदृशं तिलकम् । विहितकलङ्ककलम् । विहिता कलङ्कस्य लाञ्छनस्य कला शोभा येन तत्सदृशम् । अत्र कमलाननेतिविशेषणेन आननरूपकमलविरोधिन्यलिकरूपरजनीकरे मृगमदतिलकच्छलेन कलङ्कदानमुचितमेवेति ध्वनितम् । कीदृशे अलिके । विश्रमितश्रमशीकरे विश्रमितो विश्रामं प्रापितो यः श्रमस्तज्जनितः शीकरोऽम्बुकणो यत्र तादृशेऽलिके ॥ अत्र विश्रमितेत्यनेन मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे । निज० ६
सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे । निज० ॥७॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने । निज० ॥ ८ ॥
अलिकमष्टमीचन्द्रेणोपमीयते, कस्तूरीविशेषकं कलङ्केनेत्युपमालंकारः । किंभूते मुखे । विश्रमिताः शान्तिमिताः श्रमजलकणा यत्र । एतेन पुनरुद्दीपनविभावाः सूचिता भवन्तीति ॥५॥ अपि च मम रुचिर इति । हे मानद मानिनीमानखण्डन, अथ च हे पूजाप्रद, मम चिकुरे कुसुमानि कुरु । किंभूते चिकुरे । रुचिरे रुचिप्रदे । पुनः किंभूते । मनसिजः कामस्तस्य ध्वजः तत्र चामरवच्चामरस्तस्मिन् । पुनः किंभूते । संभोगेन लुलिते विशकले । पुनः किंभूते । मनोहरे । पुनः किंभूते । शिखण्डिनो मयूरस्य शिखण्डकं बर्हभारः तस्य डामरे भयदे । जेतरीत्यर्थः । रासकच्छन्दः ॥६॥ अपि च सरसघन इति । हे शुभाशय शोभनहृदय, अथ शुभ आ सामस्त्येन शयः करो यस्य । मणिरशनादीनां करसाध्यत्वादयमर्थो युक्तः । मम जघने श्रोण्यां मणिमया रशना च वसनानि च आभरणानि च वासय निवेशय । किंविशिष्टे जघने । सरसं च तद्घनं च स्निग्धसान्द्रे । पुनः किंविशिष्टे । शम्बरदारणः कामः स वारण इव तस्य निवासार्थकन्दर इव कन्दरे । पुनः कीदृशे । सुन्दरे मनोहरे । गजगतीत्यादि । अनुकूलो नायकः । प्रगल्भा नायिका । संभोगः शृङ्गारः ॥ ७ ॥ अपि च ॥ श्रीजयदेवेति । हे यदुनन्दन, मण्डन इति मण्डननिमित्तं हृदयं सदयं कुरु दयापरो भूत्वा मण्डनानि विधेहीत्यर्थः । किंलक्षणे मण्डने । रुचिरे जयदेवपत्नीसकाशादु
व्यजनवातादिभिस्तनुभूतानां प्रस्वेदबिन्दूनामतिशयिततया हिमकणत्वमाक्षिप्यते । तेन
चालिकस्य चन्द्रत्वरूपणं साङ्गं निर्वहतीति ध्वनितम् । "ललाटमलिकं गोधिः" इत्यमरः
॥ ५ ॥ ममेति । हे मानद, मादृशप्रपन्ननायिकाभिमानप्रद । मम रुचिरे मनोहरे
चिकुरे केशे कुसुमानि कुरु रचय । कीदृशे चिकुरे । ललिते मनोहरे मनसिजस्य
कामस्य ध्वजचामरे पताकाचिह्नभूते चामरे । पुनः कीदृशे । रतिगलिते रतौ सुरतसमये
गलिते मुक्तबन्धने । पुनः कीदृशे । शिखण्डिनां मयूराणां शिखण्डस्य पिच्छस्येव डामरे
तादृशे ॥ ६ ॥ सरसेति । हे शुभाशय शोभनहृदय, मम सुन्दरे जघने मणिमयी
या रशना क्षुद्रघण्टिका वसनं वस्त्रमाभरणान्यलंकरणानि च वासय परिधेहि । कीदृशे
जघने । सरसघने सरसे शृङ्गाररससहिते घने निबिडे । पुनः कीदृशे । शम्बरं शम्बर-
नामानं दैत्यं दारयतीति शम्बरदारणः कामः स एव वारणो हस्ती । महाबलत्वात् ।
तस्य कन्दरे । अपरोऽपि हस्ती पर्वतकन्दरायां तिष्ठतीति भावः । "कुञ्जरो वारणः करी"
इत्यमरः । "दरी तु कन्दरो वा स्त्री" इति च । वासयेति च "वस आच्छादने" ण्यन्तः
॥ ७ ॥ श्रीजयदेवेति । हे देव कृष्ण, जय सर्वोत्कर्षेण वर्तस्व । अथ जयदेवस्य
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-
र्घटय जघने काञ्चीं मु[^१]ग्धस्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे म[^२]णिनूपुरा-
विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत्[^३] ॥ ९ ॥
त्कर्षप्रदे । पुनः किंलक्षणे । श्रीजयदेववचसि विषयभूते । अथवा चशब्दमध्याहृत्य मण्डने जयदेववचसि च हृदयं सदयं कुर्विति व्याख्येयम् । अन्यानि पदानि उभयविशेषणत्वेन योजनीयानि । किंलक्षणे वचसि । सहृदयालंकरणे । जयदेववचसि किंविशिष्टे । उसः****तस्मिन् । हरिचरणस्मरणमेवामृतं तत्र कृतो यः कलिकलुषज्वरो रोषरूपसंतापः स एव संज्वरः तस्य खण्डने । हरिचरणस्मरणामृतेन पापखण्डने वचसीत्यर्थः । अथवा हरिचरणस्मरणामृतेन कृतं पापस्य खण्डनं येन वचसा तस्मिंस्तादृशे ॥ ८ ॥ इदानीमष्टपद्युक्तमेव श्लोकेनावतारयति -- रचयेति । पीताम्बरः श्रीकृष्ण इति राधया निगदितः प्रीतः सन्यथा निगदितं तथा सर्वमकरोत् । अपिशब्दसमुच्चितं यद्यत्तदभीष्टं तत्तदकरोदित्यपिशब्दार्थः । इतीति किम् । हे यदुनन्दनेत्यनुषङ्गः । कुचयोः पत्रं पत्रवल्लीं रचय । अनु च कपोलयोर्मकरिकादिचित्रं रचय । जघने श्रोण्यां मेखलामारोपय । अनु च मुग्धस्रजा मनोहरमालया कबरीभरं कलय बन्धय । अनु च वलयश्रेणीं पाणौ कलय । अनु च पदे मणिमयनूपुरौ कलय । अत्र यथासंख्यमलंकारः । हरिणीवृत्तम् । प्रगल्भा नायिका । तल्लक्षणम् -- "लब्ध्वा पतिं प्रगल्भा स्यात्समस्तरतकोविदा । आक्रान्तनायका बाढं विराजद्विभ्रमा यथा ॥ स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरयुगे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसुखिता संपूर्णचन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥" दक्षिणो नायकः । "यो
कवेर्वचसि वाक्ये सदयं दयासहितं यथा स्यादेवं हृदयं कुरु । कीदृशे मण्डने । जयदेवस्यालंकारजनके । पुनः कीदृशे । हरिचरणस्मरणमेव यदमृतं तेन निर्मितं कलिकलुषज्वरस्य कलियुगसंचितपापरूपज्वरस्य खण्डनं नाशनं येन तादृशे ॥ ८ रचयेति । हे कृष्ण, कुचयोः पत्रं मकरिकापत्रं रचय । कपोलयोश्चित्रं चित्रकाख्यं विशेषकं कुरु । अथ जघने काञ्चीं त्रुटितां क्षुद्रघण्टिकां घटय अर्पय । कबरीभरे चिकुरसमूहे स्रजं माल्यमञ्चय प्रापय । वलयश्रेणीं कङ्कणपङ्क्तिं पाणौ हस्ते कलय अर्पय । पदे चरणे नूपुरौ मञ्जीरौ कुरु । इत्यनेन प्रकारेण राधया निगदित उक्तः सन्पीताम्बरः कृष्णोऽपि
[^१.] "काञ्चीमञ्च स्रजा" इति पाठः । [^२.] "पदे कुरु नूपुरा--" इति पाठः । [^३.] अस्याग्रे
क्वचित्पुस्तके निम्नलिखितः श्लोकः समुपलभ्यते --
पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे
सङ्क्रान्तप्रतिबिम्बसंवलनया बिभ्रद्विभुप्रक्रियाम् ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः
कायव्यूहमिवाचरन्नपचितौ भूतो हरिः पातु वः ॥
यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं
यच्छृङ्गारविवेकतत्त्वरचना[^१]काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥१०॥
श्रीभोजदैवप्रभवस्य रामा[^२]देवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ११ ॥
गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति । न मुञ्चत्यन्यरक्तोऽपि ज्ञेयोऽसौ दक्षिणो
यथा" ॥ ९ ॥ इदानीं विद्वत्प्रार्थनाव्याजेन आत्मप्रशंसां तनुते -- यद्गान्धर्वेति ।
हे सुधियः, जयदेवपण्डितकवेस्तत्सर्वं गीतगोविन्दतः । अत्र तसिल् सार्वविभक्ति-
कत्वात्सप्तम्यर्थे उपपत्तिः । गीतगोविन्दे परिशोधयन्तु शुद्धं कुर्वन्तु । अथवा गीत-
गोविन्दादेव शुद्धं जानन्तु । अत्र "यद्यपि संख्यावान्पण्डितः कविः" इति एका-
र्थपर्यवसायित्वं तथापि "विकर्तनस्तमसाम्" इत्यादिवत्पण्डितेष्वपि कविः क्रान्त-
दर्शीति विशेषणपरं बोद्धव्यम् । तदिति किम् । यद्गान्धर्वकलासु कौशलम् । गान्धर्वो
मार्गदेशीवत् तस्य कला अङ्गविन्यासवैचक्षण्यादिकाः तत्र कौशलम् । तत्र
गान्धर्वस्य स्वपदात्मकत्वेन मार्गकत्वात् (?) । अत्र संभवित्वेऽपि केवलदेश्यां गान्ध-
र्वशब्दवृत्तिरुपचारवृत्त्या बोद्धव्येति सुस्थितम् । अनु च यच्च वैष्णवमनुध्यानम् ।
अनु च चिन्तनम् । अनु च यच्च शृङ्गारस्य विवेकः संभोगविप्रलम्भत्वेन पृथग्भाव-
स्तस्य तत्त्वं सम्यक्त्वेन निरूपणम् । तस्य रचनाविशेषवन्ति यानि काव्यानि तेषु
यल्लीलायितं विलसितमिति यावत् । एतावता गाने विष्णुभक्तौ शृङ्गाररसनिरूपणे
च यदेतस्य काव्यकौशलं तत्सानन्दाः सुधियोऽस्मादेव प्रबन्धात्परिशोधयन्तु ।
किंभूतस्य कवेः । कृष्णे एकतान एकाग्रचित्त आत्मा स्वरूपं यस्य । तथाविध-
स्येत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । वैदर्भी रीतिः । आरभटी वृत्तिः ॥ १० ॥
( अत्र "श्रीभोजदेवेति" श्लोकस्य टीका नोपलब्धा टीकादर्शपुस्तके ) ॥ ११ ॥
तथैवाकरोत् । यथा यथा राधोक्तवती तथैवाकरोदित्यर्थः ॥ ९ ॥ यद्गान्धर्वेति । हे सुधियः पण्डिताः सन्तो जयदेवकवेः श्रीगीतगोविन्दतस्तत्सर्वं परिशोधयन्तु जानन्तु । तत्किमित्याह -- यद्गान्धर्वकलासु कौशल्यं नैपुण्यम् । अथ च वैष्णवं विष्णुसंबन्धि यदनुध्यानमनुक्षणचिन्तनम् । यच्च शृङ्गारविवेकतत्त्वं शृङ्गारस्य शृङ्गाररसस्य यो विवेकः संभोगविप्रलम्भादिरूपेण यद्विवेचनं तस्य भावं यथार्थज्ञानम् । यदपि च काव्येषु कविकर्मसु कवित्वनिर्माणरूपेषु लीलायितम् । तत्सर्वमित्यर्थः । कीदृशस्य जयदेवकवेः । कृष्णैकतानात्मनः कृष्णैकतानस्तत्पर आत्मा मनो यस्य तादृशस्य । "एकतानोऽनन्यवृत्तिः" ॥ १० ॥ अधुना पितृमातृनाम निबध्नन्प्रार्थयते सज्जनानिति स्वगुणान्प्रकाशयितुम् -- श्रीभोजदेवेत्यादि ॥ ११ ॥
[^१.] "तत्त्वमपि यस्काव्येषु" इति पाठः । [^२.] "राधादेवी" इति पाठः ।
साध्वी माध्वीक चिन्ता न भ[^१]वति भवतः शर्करे कर्कशासि
द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते ।
माकन्द क्रन्द कान्ताधर ध[^२]र न तुलां गच्छ यच्छन्ति भावं
यावच्छृ[^३]ङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवा[^४]चः ॥ १२ ॥
इदानीं कविरात्मनः प्रबन्धस्य माधुर्यादिगुणवत्त्वं ख्यापयति -- साध्वीति । जयदेवस्य वैदग्ध्यवाचः शुभमिव शुभवत् । यावत्सारं यावत्सारस्य संभव इति यावत्सारम् । यत्र कुत्रापि सारं विद्यते तत्र शृङ्गाररसस्य सारं तत्त्वं ज्ञातुमिच्छति । यथा यत्रकुत्रचिच्छुभं मङ्गलं विद्यते तत्र जगन्मङ्गलचरितानुवर्णनाद्यथा गन्तुमिच्छन्ति तथाह । तर्हि हे माध्वीक, तवेयं चिन्ता साध्वी न भवति । एतत्सदृशं भवामीति चिन्ता न कार्या । कथम् । त्वयि तथासाराभावात् । तदा भवतु इति पाठान्तरम् । अथ भवतीति पाठपक्षे -- हे शर्करे, भवती कर्कशासीति योज्यम् । तद्गवेषणं योग्यं (१) त्वयि सारं नास्त्येव । हे द्राक्षे, त्वं मा भैः । त्वां के वा द्रक्ष्यन्ति । न केऽपीत्यर्थः । हे अमृत, त्वया नाम्नाऽनेन गर्वो न धार्यः । तदपेक्षया त्वं मृतमसि । हे क्षीररस, रसोऽहमिति त्वं मा गर्वीः । तव रसो नीरमेव । नितरामीर्यते प्रेर्यत इति नीरम् । हे माकन्द पक्कसरसफल, त्वं क्रन्द वैकल्यं प्राप्नुहीति किम् । विकलस्य चिन्तामपि ते न करिष्यन्ति । हे कान्ताधर, त्वं ताभिस्तुलां न धर । अहं त्वत्तुल्यो भवामीति मा संप्रतिपद्येथाः । अथ हे कान्ताधर, वैकल्यं न गच्छेत्यर्थः । यतो जयदेवस्य वैदग्ध्यवाचो यावत्सारं यावद्भिः सारैः सह तुलां गन्तुमिच्छन्ति । तर्हि यावता न तुलयन्ति तावद्भवद्भिरेवमुक्तप्रकारेण स्थातव्यम् । किंभूता वाचः । शुभं मङ्गलं शृङ्गारसारमिव । अत्र "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते" इति न्यायमाश्रित्य प्रबन्धान्ते शुभशब्दोपादानम् । अत्र तिरस्कृतोपमालंकारः । स्रग्धरा वृत्तम् । आरभटी वृत्तिः । वैदर्भी रीतिः । गुणकीर्तनं नाम नाट्यालंकारः । तल्लक्षणं सङ्गीतराजे -- "बहूनां गुणिनां यत्र नामार्थजनितैर्गुणैः । एकोऽपदि
एतत्काव्यविवेचनप्रणयिनां यत्संशयोन्मूलना-
त्पुण्यं यच्च हरिस्मृतौ प्रतिपदव्याख्यासु मे संचितम् ।
तेन प्रीतमनास्तनोतु सततं श्रेयो मम श्रीपतिः
शश्वन्मङ्गलमातनोत्वपि सतां संलापतां शृण्वताम् ॥
इति श्रीमहामहोपाध्यायदिनेश्वरमिश्रात्मजश्रीमहामहोपाध्यायशंकरमिश्र-
विरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरी-
समाख्यायां द्वादशः सर्गः समाप्तिं पफाण ॥
[^१.] "न भवतु भवती शर्करे" इति पाठः । [^२.] "कान्ताधर धरणितलं गच्छ" इति पाठः ।
[^३.] "सारस्वतमिह जय" इति पाठः । [^४.] "देवस्य विष्वग्वचांसि" इति पाठः ।
इ[^१]त्थं केलिततीर्विहृत्य यमुनाकूले समं राधया
तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।
तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयो-
र्व्यापाराः पुरुषोत्तमस्य ददतु स्फीतां मुदां संपदम् ॥ १३ ॥
इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
॥ समाप्तं चेदं काव्यम् ॥
श्यते तत्तु कीर्तितं गुणकीर्तनम् ॥ १२ ॥ इत्थमिति । पुरुषोत्तमस्य हस्तयोर्व्यापाराः
स्फीतां मुदां संपदं ददतु । किं विशिष्टयोर्हस्तयोः । तत्र वेण्यामाह्लादो विधत्ते ययोस्ते
आह्लादिनी । कुचावेव प्रयागफले वटफले । आह्लादिनी च ते कुचप्रयागफले च आह्ला-
दिकुचप्रयागफले । तयोर्लिप्सां वाञ्छां बिभ्रत इति लिप्साभृतौ । तयोर्लिप्साभृतोः । किं
कृत्वा । इत्थं पूर्वोक्तप्रकारेण स्वाधीनभर्तृकया राधया सह यमुनाकूले क्रीडापरंपरा
विहृत्येति स्वेच्छया विधानपरम् । क्व सति । तद्रोमावलिमौक्तिकावलियुगे । तस्या
रोमावलिमौक्तिकानामावलिर्हारः तयोर्युग्मे । वेण्या इति गङ्गायमुनयोः सङ्गमस्य
भ्रमं विलासं बिभ्रति सति । रोमावलिर्यमुनयोपमीयते कृष्णत्वात् । मौक्तिकावलिश्चो-
ज्ज्वलत्वाद्गङ्गयोपमीयते । तत्संगमे प्रयागो भवत्येव । कुचौ तत्फलाभ्यामुपमीयेते ।
कुचप्राप्तेः प्रयागफलप्राप्तिरिति रूपकमलंकारः । शार्दूलविक्रीडितं वृत्तम् । स्वाधीन-
भर्तृका नायिका । तल्लक्षणम् -- "यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचि-
त्रविभ्रमासक्ता सा स्वाधीनपतिर्यथा । लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकमलिके कुर्वन्गण्डादुदस्यति कुन्तलान् । इति चटुशतैर्वारंर्वारं वपुः परितः स्पृ-
शन् विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥" पाञ्चाली रीतिः । भारती वृत्तिः।
पाञ्चाली गीतिः । आदितालस्तथा पञ्च हरवक्त्रसमुद्भवाः । प्रतिमण्ठश्चतुर्मात्रो मण्ठ-
श्चैवाड्डतालकः ॥ तालो वर्णयतिश्चैव जयमङ्गलसंज्ञितः । विजयानन्दनामा च जय-
श्रीसंज्ञकः परः ॥ प्रतितालं पदानि स्युः पाटास्तदुभयं तथा । मध्ये मध्ये यथाशो-
भालप्तियुक्तिर्विशेषवत् । विशेषतो वर्णयतौ यदा श्रीसंज्ञिकोऽपि च ॥ तेनकाः स्युः
पदस्थाने प्रतितालेन वेश्यते । मुक्तिपादाक्षरैर्युक्तैरालापेन पुरस्कृतैः ॥ पदान्येवं
षोडश वै ताला एकोनविंशतिः । गौडः स्याद्देशतालादिरागः सर्वपदाश्रयः ॥ धीरो-
दात्तगुणैर्युक्तो वर्ण्य उत्तमनायकः । छन्दः स्यात्स्वेच्छया बद्धं समानादिगुणा दृशः"
॥ १३ ॥ इति श्रीसुप्रीतपीताम्बरतालश्रेणिनामा अष्टाविंशः प्रबन्धः ॥
यस्य द्वादशराजकं वितनुते सेवां स्थितं किङ्करं
यस्मिन्द्वादशभानुभानुनिकरो भात्येककालोद्गतः ।
यश्च द्वादशभाःप्रभः प्रकृतिवद्व्याप्यैव लोभं स्थितः
सोऽयं द्वादशसर्गगं विवरणं श्रीकुम्भकर्णो व्यधात् ॥
[^१.] अयं श्लोकः प्रक्षिप्त इति भाति । आदर्शपुस्तकान्तरेष्वदर्शनात् । पदवाक्यप्रमाणाख्यत्रिसरित्सङ्गमश्रिया । कुम्भकर्णगिरां योगो न स्यादिष्टार्थदः कथम् ॥ स्वभावगम्भीरतया निसर्गदुर्बोधभावा जयदेववाचः । व्याकर्तुमीष्टे यदि ता नरेशः श्रीकुम्भकर्णो न परः कदाचित् ॥ श्रीगीतगोविन्दविचारसूक्तिसुरापगासंभवतोऽनुमेयम् । श्रीकुम्भकर्णेऽखिलराजिभूभृद्राजत्वमार्या अविचार्यमस्ति ॥ रे मूढाः किमुपास्यते गुणिगणप्रावीण्यपाटच्चरं भूभृद्वृन्दमनेककाकुरचनाचातुर्यचाटूक्तिभिः । श्रीकुम्भः सकलाभिलाषफलदश्चेत्सेवितुं प्राप्यते सौरभ्यं यदि मौक्तिके किमपरं श्लाघ्यं भवेद्भूतले ॥ सुवर्णमुक्ताफलनिर्मितेयं सत्सूक्तिमाला सुमनःप्रयुक्ता । श्रीकुम्भभूमीपतिनोपयुक्ता श्रीवासुदेवार्पणमस्तु साक्षात् ॥ नाभूवन्कति नाम केऽपि सुधियस्तत्तद्गुरूपासनाभ्यासासादिततत्स्वतोषजननप्रोल्लासिवाग्विभ्रमाः । स्वच्छन्दप्रसरद्वचःसुरसरित्कल्लोललोलोक्तिभिः स्वाधीनीकृतसर्वतःसहृदयः श्रीकुम्भ एव प्रभुः ॥ इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेनाभिनवभरताचार्येण मालवाम्भोधिनाथमहीधरेण यवनवरतिमिरकुलसङ्कुलसरङ्गपुरजलधिजलैकचुलुकेन मुनिवरेण प्रागुदक्प्रतीचीदिगाधिपराजगजहठादानदर्शितानन्यसाधारणपौरुषेण मेदपाटसमुद्रसम्भवरोहिणीरमणेन रायगुरुचापगुरुसेलगुरुरामां च परमगुरुवङ्गालगारायां (?) चामुहवनेत्यादिबिरुदराजिविराजमानेन अरिराजमत्तमातङ्गपञ्चाननेन सङ्गीतमीमांसामांसलमतिना प्रत्यर्थिपृथ्वीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादायगुरुणा बलोद्धतराजकदम्बकदम्बोत्पाटनदक्षिणेन बलहीनराजकस्थापनाचार्येण भूमण्डलाखण्डलेन चित्रकूटविभ्रमाध्युष्टनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पनाकल्पद्रुमेण वसुंधरोद्धरणादिवराहेण भवानीपतिप्रसादपरिप्राप्तहृष्टशारीरशालिना ऋणत्रय्यपाकरणकारणसकलतीर्थाधिदैवतगयागतयवननिगडनिर्वासनेन त्रिजगतीतापत्रयोन्मूलनमूलहेतुना महेन्द्रमुखाभिनेयगताभिनयप्रपञ्चरचनाकरतलकलितामन्त्यकफलवदविकलपथीकृतविश्ववास्तुवस्तुना वसुमतीमण्डलमध्यवर्तिचापोपकारतोडरमल्लेन नादेनेव मूर्तिमता सूर्यत्रितयवेदितराजचक्रचूडामणिना महाराज्ञीहृदयसौभाग्यदेवीहृदयनन्दनेन महाराजरणश्रीमोकयोर्विदटीलेन्द्रतनुजन्मना महाराज्ञीश्रीअपूर्वदेवीहृदयाधिनाथेन महाराजाधिराजमहाराजश्रीकुम्भकर्णमहामहेन्द्रेण विरचितायां रसिकप्रियानाम्न्यां श्रीगीतगोविन्दटीकायां द्वादशः सर्गः समाप्तः ॥ गङ्गास्तवप्र[^१]बन्धः ।
मधुमथनमूर्तिवर इन्दुकरकामुकं वहसि बहु वारि सुतरङ्गे ।
हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १ ॥
नमो देवि गङ्गे नमो देवि गङ्गे हर निखिलमघमलकनन्दे ॥ ध्रुवम् ॥
त्वमसि जनपाविनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे । कनकगिरिलङ्घिते सकलमुनिवन्दिते हरमुकुटसितकुसुममाले ॥ न० २
सगरसुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे ।
निरयगतिबाधिके निर्वाणसाधिके भक्तजनहृतसंतापे ॥ नमो० ॥ ३ ॥
मधुमथनेति । हे देवि, हे गङ्गे, तुभ्यं नमः । आदरे द्विरुक्तिः । हे अलकनन्दे,
त्वं निखिलं समग्रमघं पातकं हर नाशय । मधुमथनस्य श्रीकृष्णस्य या मूर्तयस्तासां
वरा श्रेष्ठा तस्याः संबुद्धौ हे मधुमथनमूर्तिवरे, त्वं बहुवारि अतिजलं वहसि ।
सुष्ठु उत्तमास्तरङ्गा यस्यास्तस्याः संबुद्धौ । हे ब्रह्मजलपात्रकृतसङ्गे, त्वं हरिचरण-
नखैर्भिदुरं भिन्नं यज्जगतोऽण्डं ब्रह्माण्डं तस्मान्निर्गतासि प्रकटितासि ॥ १ ॥ त्वम-
सीति । हे सप्तर्षिकुलस्य सुकृतं पुण्यं तस्य सारे सारभूते । कनकगिरिर्मेरुर्लङ्घित
उल्लङ्घतो यया तस्याः संबुद्धौ हे कनकगिरिलते, हे सकलैः समस्तैर्मुनिभिर्व-
न्दिते । हे हरमुकुटस्य सितकुसुमानां श्वेतपुष्पाणां माले मालाभूते । त्वं जनानां
विश्वेषां पावनी पवित्रकर्त्री असि । पुनः कीदृशी । चत्वारश्च ते उदधयश्च तान्प्रति
गच्छति सा चतुरुदधिगामिनी असि ॥ २ ॥ सगरेति । हे सागरसुतसङ्गमे सगर-
सुतानां सङ्गमो यस्यास्तस्याः संबुद्धौ । सङ्गमेन पावनकर्त्रीत्यर्थः । हे लसन्त्यः शोभ-
माना या अमरसुन्दर्यो देवाङ्गनास्तासां दूतिके प्रापिके । हे दुष्कृतिभिर्दुष्कर्मकारि-
भिर्दुःखेनाप्तुमशक्ये। हे निर॒यगतिबाधिके नरकगतिनिवारिके । हे निर्वाणसाधिके मो-
क्षप्रदे । हे भक्तजनहृतसंतापे, भक्तजनानां हृतः संतापो यया तस्याः संबुद्धिः ॥३॥
[^१.] यद्यप्यस्य प्रबन्धस्य "भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि" इत्याद्यन्तिमपदा-
र्थेन गीतगोविन्दकर्तृजयदेवकविप्रणीतत्वमापाततस्तर्क्यते, तथापि गीतगोविन्दस्थाखिलप्र-
बन्धसाधारणानां पदलालित्य–रचनाचातुरी-कल्पनाचमत्कार-वर्णननैपुण्यादीनां—
निरुक्तजयदेवकृतित्वानुमापकानामत्र लेशतोऽप्यनधिगमान्नायं प्रबन्धो गीतगोविन्दकाव्यकर्तुः
श्रीजयदेवस्य कृतिरिति बलीयोऽनुमानं विजृम्भतेतराम् । अतोऽस्य प्रबन्धस्य प्रणेता निरु-
क्तजयदेवाद्भिन्नो धीरजयदेवनामा अन्यः कोऽपि कविः स्यादिति निष्कर्षः ।
अस्य च प्रबन्धस्य हस्तलिखितं द्वित्रपत्रात्मकं सटीकं पुस्तकमेकमस्मत्सुहृद्वरैः श्रीयुतैः
"बी. ए." इत्युपपदधारिभिः "तनसुखराम मनसुखराम त्रिपाठी" इत्येतैरस्मन्निकटे
प्रेषितम् । तदनुरोधेनैव सोऽयं क्वाप्यमुद्रितचरः प्रबन्धो रसिकजनप्रीत्यै मुद्रयित्वा प्राकाश्यं
नीत इत्यलं विस्तरेण ॥
तीर्थवरकारिणी पूर्वजोद्धारिणी हिमशैलपाषाणभेदे ।
नागरं प्लावयसि पूरयसि सागरं संगता विन्ध्यगिरिपादे ॥ नमो० ॥४॥
शुभसलिलनिर्धौतपुलिनवति कुर्वतस्तव नामनिर्मलालापम् । वन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् ॥ न० ५
इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे ।
पीयसे गीयसे स्तूयसे जह्नुमुनिकन्यके संसारसारे ॥ न० ॥ ६ ॥
गण्डूषमिह मेऽघशतमधिजयतु तव करनिकरगम्भीरतोये । परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये ॥ न०७
इति रामलक्ष्मणकौशिकानुज्ञया सुरसरित्कृतनमस्कारम् । भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि भवजलधिपारम् ॥ न०८
इति गङ्गास्तवप्रबन्धः समाप्तः ।
तीर्थवरेति । हे हिमशेलस्य हिमाचलस्य पाषाणानां भेदो भेदनं यस्यास्तस्याः संबुद्धौ त्वं तीर्थवरस्य श्रेष्ठतीर्थस्य कारिणी असि । पुनः कीदृशी । पूर्वजानामुद्धारिण्यसि । हे गङ्गे, त्वं नगराणां समुदायो विद्यते यत्र तन्नागरं भूमण्डलं प्लावयसि पूर्णं करोषि । पुनः कीदृशी । सागरं समुद्रं पूरयसि । पुनः कीदृशी । विन्ध्यगिरिपादे विन्ध्याचलमूले संगता मिलितासि ॥ ४ ॥ शुभेति । हे शुभसलिलेन पवित्रोदकेन निर्धौतं क्षालितं यत्पुलिनं तटं तदस्ति यस्यास्तस्याः संबुद्धौ । त्वं मम पापं हरसि नाशयसि । कथंभूतस्य मम । तव नाम्नो यो निर्मलालापः पवित्रालापस्तं कुर्वतः । कथंभूता त्वम् । वन्दिता नमस्कृता । वीक्षिता दृष्टा । चिन्तिता स्मृता । अवगाहिता प्रविष्टा । मज्जिता स्नाता सती एभिः प्रकारैः पापं हरसि ॥ ५ ॥ इहेति । हे उदारे वदान्ये । हे संसारसारे । संसारे सारभूता त्वमसीत्यर्थः । हे जह्नुमुनिकन्यके हे जाह्नवि, त्वमिह संसारे । अथवा ब्रह्माण्डे निखिलमुनिगणैः समग्रमुनिसमूहैः पीयसे । इह निखिलदेवगणैः समग्रदेवसमूहैः गीयसे । निखिलवेदैः समस्तवेदैः स्तूयसे ॥ ६ ॥ गण्डूषमिति । हे करनिकरगम्भीरतोये कराणां लहरीणां निकरः समूहस्तेन गम्मीरमक्षोभ्यं तोयं यस्यास्तस्याः संबुद्धौ हे सुरसदनसाधनोपाये । सुराणां देवानां सदनं स्थानं तस्य साधनं प्राप्तिस्तस्योपायभूते । हे तटिनि तटवति हे गङ्गे, त्वं परलोकबन्धुः परलोके बन्धुरूपासि । पुनः कथंभूतासि । सुन्दराणां देवानां सिन्धुर्नद्यसि । अतस्तव गण्डूषमाचमनं मे मम अघशतं पातकशतमधिजयतु नाशयतु । इहास्मिंल्लोके ॥ ७ ॥ इति रामेति । रामलक्ष्मणकौशिकानुज्ञया । कौशिको विश्वामित्रः । रामलक्ष्मणकौशिकानामनुज्ञया आज्ञया । सुरसरितो गङ्गायाः कृतो नमस्कारो यस्यां क्रियायां यथा भवति तथा । सादरमादरपूर्वकं यथा भवति तथा । इति पूर्वोक्तप्रकारेण । इहास्मिंल्लोके भणन्तं कथयन्तं धीरजयदेवकविं भवजलधिपारं भवरूपो यो जलधिः समुद्रस्तस्य पारमन्तमुत्तारयसि प्रापयसीत्यर्थः ॥ ८ ॥ इति श्रीजयदेवकृतगङ्गास्तवप्रबन्धटीका समाप्ता ॥ -