<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>आनन्दाश्रम संस्कृतग्रन्थावलि:
ग्रन्थाङ्कः १
श्री गणेशा थर्व शीर्षम ।</p>
<p>( सभाष्यम् )
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्ती कृता: )</p>
<p>पं. वामनशास्त्रिभिः [ इस्लामपूरकरोपाह्वैः ]
संशोधितम् ।
तच्च
एम. ए. इत्युपपदधारिभिः
कार्यकारी विश्वस्तैः
श्रीमान गणपतराव यादवराव नातू एम्. ए.
महोदयैः
पुण्याख्यपतने
आनन्दाश्रममुद्रणालये
मुद्रयित्वा तत्रैव प्रकाशितम् ।
नूतनमुद्रावृत्तिः
शालिवाहन शकाब्दाः १८९९
ख्रिस्ताब्दाः १९७७</p>
<p>मूल्य- सपादरूप्यकत्रयम (३-२५ ) ।</p>
<pb n="2" />
<p>॥ ॐ नमः परमात्मने ।
भो: भोः सहृदया आर्यदेशीयप्राचीनविद्यावैभवमुररीकुर्वन्तो महाशया विदित-
मस्तु तत्रभवतां भवताम् । यत्किल पुण्याख्यपत्तने देव्याः सरस्वत्या विलासस्थान-
मिव बहुसाहस्रिकधनव्ययेन आनन्दाश्रम इत्याख्यं भवनं निर्मापयता महोदयेन
महादेव चिमणाजी आपटे इति सुगृहीतनामधेयेन न केवलं भारतवर्षीयाणामेव
अपि तु अखिलस्य जगतोऽप्यतीवोपकृतम् । तस्य च उद्देशादिकं पूर्वमेव विज्ञाप-
नपत्रद्वारा सर्वान् प्रत्यावेदितप् । बहुना परिश्रमेण संगृहीतानि च बहुनि प्राचीन-
संस्कृतग्रन्थपुस्तकानि । मुद्रायन्त्रमपि तत्रैव संस्थापितम् । अप्रसिद्धग्रन्थावल्या
मुद्रणमप्यारब्धम् । क्रमश: प्रचयगमना भविष्यन्ति च बहवो ग्रन्थाः ॥
तत्र तावत् "आनन्दाश्रमग्रन्थावल्याः" प्रारम्भे अस्य महतः कार्यस्य विघ्न-
विघातोपशमनार्थं गणपतिपूजनमिवेदं मणेशाथर्वशीर्षं सभाष्यं निवेशितम् । अस्य
ग्रन्थस्य संशोधनं पुण्यपत्तनस्थैर्बहुभिर्विद्वद्वरैरारभ्य निःसारमिदं भाष्यमिति
कृत्वोपोक्षितम् । तदनन्तरं मत्सुहॄद्वरेणाऽऽन्दाश्रमाधिपतिनाऽभ्यर्थिनेन कार्यान्तर-
व्यापृतत्वादलब्धबहुलावकाशेनापि मया श्लाघनीयस्यास्य लोकोपकारिकार्यस्य
यथाशक्ति किमपि साहाय्यं कर्तव्यमिति कृत्वाऽस्य ग्रन्थस्य संशोधनं कथंकथ-
मपि प्रारब्धम् । तत्र च पञ्च आदर्शपुस्तकान्युपलब्धानि । तानि यथा –
क. संज्ञितं - - शालिवाहनशके १७३८ धातृनाभसंवत्सरे मार्गबहुल ५
म्यां लिखितं महादेव चिमणाजी आपटे इत्येतैः संगृही-
तमेकम्  ।
ख. संज्ञितम् --इंदूरनिवासिभिः भाऊसाहेब किबे इत्येतैः प्रेषितम् । ना-
स्योपरि शकादिकं किञ्चित् ।
ग. संज्ञितम् -- उम्बरगांवनिवासिभिः विनायक भिकाजी पिम्पुटकर इत्य-
मिधैः प्रेषितम् । संवत् १९३८ वृषभनामसंवत्सरे कार्तिक
शु० द्वितीयायां लिखितम् ।
घ. संज्ञितं -- वटोदरनिवासिभि: बाप्पासाहेब मैराळ इत्येतैः प्रेषितं
शकहीनं च ।
ङ. संज्ञितं - - चिंचवडनिवासिनां चिंतामणभट्ट कोशे इत्येतेषामेकं
शके १७९९ ईश्वरनामसंवत्सरे चैत्र शु० प्रतिपदि लिखि-
तम् ।</p>
<pb n="3" />
<p>[ २ ]
एतपुस्तकपञ्चकमाकलय्य यथामति यथाविज्ञानं संशोधितं मयेदं गणेशाथर्व-
शीर्षभाष्यम् ।<flag> सर्वेष्वप्यादर्शपुस्तकेषु</flag> भाष्यकर्तुर्नामादिकं कुत्रापि नोपलब्धम् ।
अनेनैव भाष्यकृता सर्वसारनिर्णयाख्योऽन्यो ग्रन्थः कृत इति ज्ञायते ( अस्यैव
२१ पृष्ठे २६ <flag>षड्ने</flag> द्रष्टव्यमेतत् ) सोऽस्माभिर्न दृष्टः । अत्र बहूनि प्रमादस्थ-
लानीवोपलब्धानि । भाष्यमिदं नातिसमीचीनं तथाऽन्यस्य समीचीनस्थोपलब्यभा-
वात्प्राचनित्वाच्चेदमेव संगृहीतम् । अनतिसमीचीनोऽप्ययं-</p>
<lg>
  <l>प्रेम्णा सद्भिर्ग्रन्थः सेव्यः शब्दार्थतः सदोषोऽपि ।</l>
  <l>संशोध्य वाऽपि हरिणा सुदाममुनिसतुषपृथक मुष्टिरिव ॥ १॥</l>
</lg>
<p>मुद्रणकर्माणि नियुकानामनवधानेव च यदत्र स्खलितं <flag>तत्</flag> " गच्छवः स्खलनं
न दोषाय " इति न्यायेन क्षन्तुमर्हन्ति सुधिय इति साञ्जलिबन्धं प्रार्थयते -
भवदीयो
वामनशास्त्रिशर्मा ।</p>
<pb n="4" />
<p>ॐ तत्सद्ब्रह्मणे नमः ।
अथ गणेशाथर्वशीर्षम् ।
-::--::--::--::--::--::-
सभाष्यम् ।
-::--::--::--::--::--::-</p>
<lg>
  <l>प्रणम्य तं गणेशानं सिद्धिबुद्धिप्रदं परम् ।</l>
  <l>अथर्वशीर्ष भाष्यं वै कुर्वे वेदान्तर्बृहितम् ॥ १ ॥</l>
</lg>
<p>अथाथर्वणो ब्रह्मणां ब्रह्मणश्व स्वस्वोपाधिविरहात्मैक्यज्ञानप्राप्त्यर्थं [^]१
गणेशाथर्वशीर्षमवदत् । सर्ववेदोक्तकर्मोपासनज्ञाननिष्ठनिर्विघ्नसिद्धि-
बुद्धिप्रकाशकतत्तत्फलवेदान्तवेद्यैक्ययोगप्रदतत्त्वमस्यात्मकदेहत्वात् ।
तत्त्वमसिप्रतिपाद्यब्रह्मबाह्यान्तरकर्भज्ञानप्राप्त्यर्थोपासकत्वाभावाच्च ।
ननु – तत्त्वमस्यादिमहावाक्यार्थानुभवयुक्ता योगिनो मवन्ति, किं गणे-
शोपासनेन ? सावयवब्रह्मण एकत्वाभावात् – इति चेन्न । महावाक्यप्रति-
पाद्यब्रह्मसदभेदात्मकत्वादध्यारोपापवादसिद्ध्यर्थं [^]२ गणेशोपासनं मुख्यं,
बाह्यान्तरानात्मभावनाशकत्वाच्च [^]३ । ननु ब्रह्मैक्यमावचिन्तनादध्यारो-
------------------------------------------------------------------------------------------
१ अत्र मूले चतुर्ष्वप्यादर्शपुस्तकेषु 'स्वस्वोपाधिविहारात्मैक्य' इति वर्तते
तदसङ्गतमिव प्रतिभाति । "उपाधिना क्रियते भेदरूपः" इत्यादिश्रुतिभ्यः ब्रह्मणां
जीवानां, ब्रह्मणश्च उपाधिकल्पित एव भेदः वस्तुतस्त्वभेद एव । अतः जीव-
ब्रह्मणोः स्वस्वोपाधिभूतयोः विद्याविद्ययोः विरहेण भागत्यागलक्षणया पृथक्करणेन
यदात्मैक्यज्ञानं तस्य प्राप्त्यर्थमथर्वणो गणेशाथर्वशीर्षमवददित्येव साधीयः । स्वस्वोपा-
धिविहारेणात्मैक्यज्ञानप्राप्तेरसंभवात् तत्र प्रमाणाभावाच्चेति सुधियो विदाङ्कुर्वन्तु ।
२ " निष्कलं निष्कियं शान्तं " इत्युक्तत्वात् शुद्धस्य ब्रह्मणः " यतो वाचो
निवर्तन्ते अप्राप्य मनसा सह " इति श्रुत्या वाङ्मनसयोरगोचरस्य तस्योपासनं
न घटेत । अतः " अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते " इति न्यायेन
उपासनसिद्धयर्थं सगुणस्य गणेशत्वस्थ तत्राऽऽरोप इति भावः ।
३ बाह्याः पाञ्चभौतिकशरीरतादात्म्यादयः आभ्यन्तराः अहं सुखी–इत्याद्य-
भिनिवेशादयो येऽनात्मभावाः तेषां नाशकत्वादित्यर्थः ।</p>
<pb n="5" />
<p>(२)</p>
<p>गणेशाथर्वशीर्षम् ।
पापवादसिद्धिर्भविष्यति । अभेदभावनायाभेदनाशकत्वात्-इति चेन्न ।
ब्रह्मण ऐक्यभावचिन्तनाभावात् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा
सह" [तै० उ०२।४।२८ ] इति श्रुतेः गणेशचिन्तनस्य संभवाच्च (१) ।
"ब्रह्मणां ब्रह्मणस्पते" इति श्रुतिसार्थकत्वात् । अस्यायमर्थः । ब्रह्मणा-
मन्नप्राणादिप्रणवपर्यन्तानां शिवविष्ण्वादिदेवात्मकानां च पतिर्गणेशः ।
सोपाधित्वेन नानात्मकत्वात्सदासमानत्वाभावाद्ब्रह्मणामिति बहुवचनम् ।
अन्यच्च । ब्रह्मणो निरुपाधिसर्वकारणात्मनः पतिः । अनपवादनिर्वि-
कल्पनात्मकत्वात् । एकवचनं जीवात्मपरमात्मनोरैक्यत्वात् । तयोः
पतिस्तत्त्वमस्यात्मकत्वान् । ननु ब्रह्मणः चिन्तनं संभवति, "श्रोतव्यो
मन्तव्यो निदिध्यासितव्यः " (बृ० उ० ४१४ ५ ) इति श्रुतेः इति चेत् ।
सत्यम् । तथाऽपि चित्तवृत्तिनिरोधभावना सुदुर्लभा । सातत्येन ध्यातृ-
ध्यानध्येयाभावात् चित्तस्य चञ्चलत्वेन तत्स्थैर्याभावाच्च । वस्तुतस्तु
गणेशचिन्तनं सर्वसिद्धिप्रदम् । तत्त्वमस्थात्मकत्वात्सुलभाथर्वशीर्षतात्प-
र्यात् । ननु - नानाकामप्रदं गणेशचिन्तनं, सिद्धिप्रदत्वात्-इति चेन्न ।
ब्रह्मभावसिद्धिप्रदत्वात् (२)। "कर्मणैव हि संसिद्धिमास्थिता जनकादयः "
इति " सिद्धानां कपिलो युनिः " इति । भविष्ये व्यासेन शुकस्योप-
देशः कृतः " प्राप्स्यसे सिद्धिमुत्तमाम् " इत्यादिनानास्मृतिभ्यः ।
ननु -- शिवचिन्तनं सर्वसिद्धिप्रदम् । "ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः "
इति श्रुतेः- इति चेन्न । ईशानस्य विशेष्यत्वात् ब्रह्माधिपत्यादिपदानां
तदङ्गविशेषणत्वात् । ननु - सर्वश्रेष्ठेशानब्रह्माधिपत्यादिपदानां विशेषण
त्वमेव - इति चेन । ब्रह्मणः परश्रेष्ठाभावात् सर्वश्रुतिस्मृतिविरोधापत्तेश्च ।
"ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा" इत्यस्यायमर्थः । तामसस्योंका-
रात्मकस्य विश्वेश्वरादिद्वादशशिवावताराणामेकादशरुद्राणां कालभैर-
वादिशिवावताराणां च स्तवनं ब्रह्मात्मकतया कृतम्, अंशांशिनोरैक्य-
प्रतिपादनत्वात् । तेषां शिवावतारब्रह्मणामधिपतिरीशान:, तत्तद्रूपधार-
--------------------------------------------------------
१ साकार त्वात् गणेशचिन्तनस्य संभव इत्यवधेयम् ।
२ अत्र सर्वेष्वादर्शपुस्तकेषु 'ब्रह्मभूतसिद्धि' इति प्रामादिकमिव प्रतिभाति ।
"ब्रह्मभूयसिद्धि" रथवा "ब्रह्मभावसिद्धि" इत्येव सुवचम् ।</p>
<pb n="6" />
<p>सभाष्यम् ।</p>
<p>कत्वात् । अन्यच्च । सर्वावतारसत्तायाः पतिरीशानो ब्रह्मणोऽधिपतिः ।
सत्ता सदैकजातिमत्त्वादेकवचनम् । अन्यच्च । ब्रह्मा नानावतारसत्ता-
स्रष्टेशानः, विशेष्यात्मकत्वात् ।
ननु - गणेशोऽपि तादृश एव, विशेष्यात्मकत्वात्-इति चेन्न । ब्रह्म-
णस्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वाद्ब्रह्मैक्यभावप्रदब्रह्मणस्प-
त्याख्याया मुख्यत्वाच्च । ननु - ब्रह्मणस्पतेरपि ब्रह्मोपासना मुख्या,
पतिभावनाशकत्वात् महावाक्यस्य ब्रह्मप्रतिपादकत्वाच्च । "प्रज्ञानं
ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्म । सर्वं खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एक-
मेवाद्वितीयं बल । अयमात्मा ब्रह्म " इत्यादिश्रुतिभ्यश्च - इति चेन्न ।
स्वस्वोपाधियुक्तब्रह्मणां सर्वकारणब्रह्मणश्चोपदेशार्थं पतिपदं, तदाराध-
नोपाधिकारणभावनाशकत्वात् । पतिपदं न वास्तवम् । उपाधिहीन-
ब्रह्मणां कारणहीनब्रह्मणश्च पतित्वाभावः, तदैक्यत्वात् । "पतित्वं कथ-
नात्मकम्" इति स्मृतेः ।
ननु - बाह्यज्ञाननाशको गणेशः, अवयवयुक्तत्वात् इति चेन्न । आन्त-
राज्ञाननाशकोऽपि, बुद्धिपतित्वात्। "अणोरणीयान्महतो महीयानात्मा
गुहायां निहितोऽस्य जन्तोः" इति ' सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद
निहितं गुहायाम्" (तै० उ० २ अ० १ ) इत्यादिश्रुतिभ्यः, 'यो बुद्धेः
परतस्तु रु: ' इति, 'आत्मा बुद्धेः परो मतः' इत्यादिस्मृतिभ्यश्च ननु -
शिवविष्णुसूर्यशक्तिचिन्तनं ब्रह्मभावप्रदं, तत्तदथर्वशीर्षे तत्तद्ब्रह्मप्रतिपाद-
कत्वात् इति चेन्न । अव्याकृतप्रणवानन्दाद्युपासनवदारण्यकोक्तब्रह्म-
प्रतिपादकत्वात्, गणेशाथर्वशीर्षे तत्त्वमस्यात्मकमहावाकप्रतिपाद्यब्र-
ह्मैक्यात्, महावाक्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच्च ।
न चैवं- गजवदनायवयवयुक्तगणेशस्य भिन्नतावच्छेदकावच्छेद्यतया
ब्रह्मणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः । सदा कार्यकारणै-
क्यब्रह्मणः सावयवगणेशेऽवच्छेद्यहीनत्वाव्याप्तिश्च - इति वाच्यम् । त्वं
तदसिपदस्वस्वोपाधिविहारसामर्थ्यप्रदसंपूर्णतत्त्वमस्यात्म कदेहभृद्गणेशो-
पासनप्रयोजनत्वात् १, अनन्तकल्पविहारशाश्वतसंतोषस्वस्वोपाधिना-
१ अत्र 'स्वस्वोपाधिविहार' इत्यनेन शिवविष्णवाद्याकाररूपोपाधिभिः लीला-
कैवल्यमित्यर्थोऽवगन्तव्यः ।</p>
<pb n="7" />
<p>गणेशाथर्वशीर्षम् ।
शकगणेशोपासनप्रयोजनत्वात्, उपास्योपासकोपासनाया महदज्ञान-
नाशकत्वात्, ब्रह्मण्युपास्यत्वाभावात् सामान्यानुमानतया गणेशब्रह्मणो-
रैक्यप्रतिपादकत्वाच्च ।
न चैवं–ब्रह्मोपासनं वेदान्तविरुद्धम् ब्रह्मभूतस्य उपास्योपासकत्वा-
भावात् । " तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति श्रुते.- इति
वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्र-
हार्थं गाणेशत्वात्, देहरक्षणार्थं भोजनाच्छादनवत् कायिकवाचिकमा-
नसिकसांसर्गिकगाणेशधर्मत्वाच्चेति दिक् । अथ प्रकृतमनुसरामः ।
ॐ नमस्ते गणपतये ।
अथर्वणः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । सुलभकर्मोपासनज्ञान-
योगप्राप्तिकारकत्वात् । ॐ इति मङ्गलाचरणार्थम् [^]१ । ग्रन्थादौ मङ्गलाचर-
णस्य शिष्टसंप्रदायप्रवर्तकत्वात् । वेदाद्य ॐ कारः सर्वमङ्गलमयो, वेदो-
क्तनानाकर्मोपासनज्ञानयोगफलप्राप्तिकारकत्वाच्च । "यो वेदादौ स्वरः
---------------------------------------------------------------------------------------------
१ अत्र सर्वेष्वादर्शपुस्तकेषु ओंकारस्य मङ्गलाचरणार्थत्वमुक्तं तन्न युक्तमिति
प्रतिभाति । यद्यपि "मङ्गलमध्यानि च शास्त्राणि प्रथन्ते" इत्यादि वचनैः निष्प-
त्यूहपरिसमाप्तये ग्रन्थादौ मङ्गलाचरणस्य शिष्टसंप्रदायपवर्तकत्वं स्पष्टं तथाऽपि
मङ्गलाचरणस्य विघ्नविघातनिवारणार्थमेवानुष्ठेयत्वात् अपौरुषेयेपु स्वत एव मङ्ग-
लरूपेषु <fix>विघ्नविघातशङ्काया</fix> असंभवात् अत्र ओंकारस्य मङ्गलाचरणार्थत्वं न
युक्तम् । पौरुषेयेष्वेव <fix>प्रत्यूहशङ्का</fix>, न पुनरपौरुषेयेषु । अतस्तत्रैव मङ्गलाचरणस्य
शिष्टसंप्रदायः । न हि केषुचिद्वैदिकग्रन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किंच ।
सर्वकर्मसु आदौ निर्विघ्नतासिद्ध्यर्थं स्मरणीयस्य गणेशस्याप्यथर्वशीर्षारम्भे प्रत्यू-
हनिवारणार्थं मङ्गलाचरणस्याऽऽवश्यकत्वे तस्यापि निर्विघ्नतासिद्धयर्थमन्यत्
तस्याप्यन्यदित्यनवस्था केन वार्येत । तस्मात्सुष्ठूक्तमत्र ओंकारस्य मङ्गलार्थत्वं
नेति । अथ तस्य कोऽर्थ इति चेत् शृणु ।
"ओमित्येतद्ब्रह्म" इति श्रुतेः "ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत"
इति स्मृतेश्च भगवता भाष्यकृता 'ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्</p>
<pb n="8" />
<p>सभाष्यम् ।
प्रोक्तः" इति श्रुतेः । स्वर इत्योंकाराख्या छान्दोग्ये [^]१ । "तस्याऽऽदिस्म-
रणावश्यत्वात्" इति । न चैवं–सर्वश्रुतिस्मृतिपुराणेतिहासप्रोक्तं सर्वा-
रम्भेष्वादौ गणेशपूजनं निरर्थकम् अत्रोंकारस्मरणात्–इति वाच्यम् ।
सगुणगणेशस्योंकारमयत्वात् तदेव कथ्यते मौग्दले ।
गणेशस्यादिपूजनं चतुर्विधम्, चतुर्मूर्तिधारकत्वात् । तत्र ब्रह्मणश्च-
तुर्भ्यो मुखेभ्यः पुराणं निःसृतं अष्टलक्षपरिमितम् । ततो द्वापरान्ते व्यासे-
नाष्टादशपुराणान्युपपुराणानि च कृतानि कलिमन्दमतिजनबोधप्रवेशा-
र्थम् ।तत्र अष्टादशपुराणेष्वाद्यं ब्राह्मं निर्गुणगणेशमाहात्म्ययुक्तं, बुद्धि-
परात्मप्रतिपादकत्वात् । अन्त्यं ब्रह्माण्डाख्यं सगुणगणेशमाहात्म्ययुक्तं,
प्रवणप्रतिपादकत्वात् । तद्वदुपपुराणेष्वाद्यं गाणेशं सगुणनिर्गुणै-
क्यभावयुक्तं, गजवदनाद्यवयवमूर्तिधरमाहात्म्ययुक्तत्वात् । अन्त्यं मौग्दलं
योगमयं गणेशमाहात्म्ययुक्तं, सर्वपुराणोपनिषद्ब्रह्मैक्यभावप्रदत्वात् ।
पुराणोपपुराणेषु मध्यस्थषोडश पुराणानि शिवविष्ण्वादिगणेशांशमा-
हात्म्ययुक्तानि । मध्ये नानांशविहारप्रतिपादकत्वात् । तत्र सर्ववेदाद्यु-
क्तसदारम्भे गणेशस्मरणं चतुर्विधम्, आद्यन्तपुराणोपपुराणेषु गणेश-
माहात्म्यप्रकाशकत्वात् । तत्र केचिदादौ बुद्धिस्थगणेशस्मरणं कृत्वा
सत्कर्माणि कुर्वन्ति । तद्वत्प्रणवस्मरणं केचित्, केचिन्मूर्तिधरस्मरणं,
केचिद्योगमयस्मरणं च, तत्तत्सिद्धिप्रदत्वात् । तत्र कथ्यते</p>
<lg>
  <l>"अष्टादशपुराणेषु दशभिर्गीयते शिवः ।</l>
  <l><flag> चतुर्भिर्गीयते विष्णुभ्यां शक्तिश्च विघ्नपः "</flag> ॥</l>
</lg>
<p>---------------------------------------------------------------------------------------------
तस्मिन् हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोक ' इत्युक्तत्वात् 'तस्य
वाचकः प्रणव' इति श्रुतेश्च ओंकारस्य ब्रह्मणः वाचकत्वं सिद्धमत ओंकारशब्द-
वाच्यं ब्रह्मैव गणेश इति वक्तुं प्रथममोंकारस्योपदेश इत्येव व्याख्यानं युक्तम् ।
न चैवं सति ओंकारस्य आरम्भार्थकत्वं कुतो न स्वीक्रियत ? इति वाच्यम् । 'अन-
न्ता वै वेदाः' इत्यादिश्रुतिविरोधात् । अनाद्यनन्तस्य वेदस्यारम्भादिकल्पनाया
असंभवादित्यलं पल्लवितेन ।
१ छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयखण्डे 'स्वर <flag>इतीमनाचक्षते</flag>' इत्यादौ '
द्रष्टव्यमेतत् ।</p>
<pb n="9" />
<p>गणेशाथर्वशीर्षम् ।
इति स्मृतेः । ननु–उपपुराणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयु-
क्तम् । उपवेदवत्कनिष्ठसंज्ञामयत्वात्–इति चेन्न । तत्रोपपदस्य श्रेष्ठ-
त्वप्रतिपादकत्वात् । इन्द्रोपैन्द्रनिदर्शनत्वात् [^]१, उपदेशप्रकरणादौ कनि-
ष्ठान्तश्रेष्ठत्वप्रतिपादकत्वात्,  पूर्वमीमांसोत्तरमीमांसावदरण्यवद्ग्रहण-
त्वाच्च । तथा च गणेशगीतायाम्–</p>
<lg>
  <l>" अष्टादशपुराणोक्तममृतं प्राशितं मया ।</l>
  <l>ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् " ॥</l>
</lg>
<p>इत्यादिस्मृतिभ्यः ।
देवादिगणानां महत्तत्त्वादितत्त्वगणानां निर्गुणसगुणब्रह्मगणानां च
पतिर्गणपतिः । सर्वादिपूज्यसर्वपूज्यत्वात् । <flag>गणसमूहे</flag> इति धात्वर्थात्–न
चैवम्–अशुभसमारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसाम्यपितृय-
ज्ञादावप्रसिद्धत्वात्–इति वाच्यम् । गयास्थगणेशपादस्य पितृमुक्तिप्रद-
त्वात्, वेदोक्तसत्कर्मारम्भे पितृयज्ञसिद्धिप्रदत्वात् वेदोक्तपितृयज्ञारम्भे
गणेशपूजननिषेधाभावात्, तद्वत्प्राणप्रयाणसमये कथितत्वाच्च । " ज्येष्ठ-
राजम् " इति श्रुतेः पितृणामपि ज्येष्ठत्वात् । तथा च गाणेशे
त्रिपुरवधकाले शिववाक्यं–</p>
<lg>
  <l>" शैवैस्त्वदीयैरुत वैष्णवैश्च शाक्तैश्च सौरैरपि सर्वकार्ये ।</l>
  <l>शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात् " ॥</l>
</lg>
<p>इति । गणेशगीतायामपि–</p>
<lg>
  <l>" यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयाऽन्वितः ।</l>
  <l>स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज " ॥</l>
</lg>
<p>" ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच ।
सर्वं भूतं भव्यं जायमानं च । तत्सर्वमित्याचक्षते ।
अस्मान्नातः परं किंचित् । यो वेद स वेद ब्रह्म ।
ब्रह्मैवाऽऽप्नोति तत्सर्वमित्याचक्षते " ।
---------------------------------------------------------------
१ 'उप' पदसहित इन्द्रः उपेन्द्रो विष्णुः । स यथा उपोपसर्गसहितेन्द्र शब्द-
वाच्योऽपि इन्द्रादुत्तमः, तथा उपपुराणं पुराणादुत्तममिति वाक्यार्थः । वस्तुतस्तु
उपेन्द्रः इत्यत्र उपोपसर्गस्य सामीप्यार्थत्वात् अन्यत्र कुत्रापि तस्योत्तमार्थाभिधा-
यित्वप्रदर्शनाभावादिदं व्याख्यानमसंगतमेवेति प्रतिभाति ।</p>
<pb n="10" />
<p>सभाष्यम् ।
ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह 'तद्गणेश' इति तत्परमित्याह
'यमेतेनाप्नुवन्ति' इति गणेशतापिनी श्रुतेः । तथाचोक्तं मौद्गले–</p>
<lg>
  <l>"गणशब्दः समूहस्य वाचकः परिकीर्तितः ।</l>
  <l>समूहा योगरूपाश्च बाह्यान्तरैक्यभावतः ॥</l>
</lg>
<lg>
  <l>अन्नानां सकलानां वै समूहेऽन्नमयं परम् ।</l>
  <l>कथितं ब्रह्म वेदे तदेवं नानागणाः स्मृताः ॥</l>
</lg>
<lg>
  <l>तेषां स्वाभी गणेशानस्तं ज्ञात्वा योगिनः पुरा ।</l>
  <l>शान्तिं प्राप्ता विशेषेण योगशान्तिमयं परम् " ॥</l>
</lg>
<p>इति । अन्यच्च–</p>
<lg>
  <l>" कथितं सामवेदे यच्छृणु वेदरहस्यकम् ।</l>
  <l>येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥</l>
</lg>
<lg>
  <l>मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् ।</l>
  <l>गकारात्मकमेवं तत्तत्र ब्रह्म गकारकः ॥</l>
</lg>
<lg>
  <l>मनोवाणीविहीनं च संयोगायोगसंस्थितम् ।</l>
  <l>णकारात्मकरूपं तण्णकारस्तत्र संस्थितः ॥</l>
</lg>
<lg>
  <l>विविधानि गकाराच्च प्रसूतानि महामते ।</l>
  <l>ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥</l>
</lg>
<lg>
  <l>णकाराच्च प्रसूतानि ब्रह्माणि तानि योगिभिः ।</l>
  <l>निरोधात्मकरूपाणि कथितानि समन्ततः ॥</l>
</lg>
<lg>
  <l>गकारश्च णकारश्च नाम्नि गणपतेः स्थितौ ।</l>
  <l>तदा जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥</l>
</lg>
<lg>
  <l>तयोः स्वामी गणेशश्च योगरूपेण संस्थितः ।</l>
  <l>तं भजस्व विधानेन शान्तिमार्गेण पुत्रक " ॥</l>
</lg>
<p>ते तुभ्यं नमः । तत्त्वमस्यात्मकब्रह्मनमस्कारसमत्वात् ब्रह्मनमस्का-
रासंभवाच्चेति नाममन्त्रोऽयमादौ वर्णितः । सर्वजनोद्धारसुलभत्वात् ॥
ननु- गणेशनमनेन जनस्य कृतकृत्यता कथं ? सावयवत्त्वात् । तदर्थं
महावाक्यप्रतिपाद्यतामाह –</p>
<pb n="11" />
<p>गणेशाथवशीर्षम् ।
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमिति । त्वमेवेति नान्यः निश्चयार्थ एवकारः । प्रत्यक्षमिति । ब्रह्म
दृष्टिगोचरम् । नरगजभेदाभिन्नाकृतिमयत्वात् । तेन च महान् हर्षः, साक्षा-
द्ब्रह्मदर्शनाभावात् । तत्त्वमसीति । जगत्कारणं तत्पदसंज्ञम् । निर्विकल्प-
कत्वात् । 'स मूलमन्विच्छ सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः ' ( छा० उ० ६ । ६ ) इति श्रुतेः । 'भूमानं भगवो विजि-
ज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छुणोति स भूमा ' ( छा० उ०
७ । २४) इति । 'ब्रह्मैवेदममृतं <fix>षुरस्ताद्ब्रह्म</fix> पश्चाद्ब्रह्म दक्षिणतश्चो
त्तरेणेति । स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा
अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' (बृ० उ० ६ । ५।
१३) इति श्रुतिभ्यः । 'सत्यं ज्ञानमनन्तमानन्दं ब्रह्म ' सत्यमविनाशि-
नामदेशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि
सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधी-
यते । अनन्तं नाम मृद्विकारेषु मृदिव, सुवर्णविकारेषु सुवर्णमिव, तन्तु-
कार्येषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु सर्वव्यापकं चैतन्यं अनन्तमित्यु-
च्यते । आनन्दो नाम सुखचैतन्यस्वरूपापरिमितानन्दसमुद्रे अविशिष्ट
सुखरूपश्च आनन्द इत्युच्यते । एतद्वस्तुचतुष्टयं यस्य स्वरूपलक्षणं देश-
कालवस्तुनिमित्तेष्वव्यभिचारि स तत्पदार्थः ।
'परमात्मा परं ब्रह्मेत्युच्यते' इति सारोपनिषच्छ्रुतेः जगन्मयं त्वंप
दसंज्ञं, नानाभेदप्रकाशकत्वात् [^]१। 'ॐ मित्येतदक्षरमुग्दीथमुपासीत ।
ॐ मित्युद्गायति । तस्योपव्याख्यानम् । एषां भूतानां पृथिव्या आपो
रसः । अपामोषधयो रसः । ओषधीनां पुरुषो रसः । <fix>पुरुषस्य</fix> वाक् रसः ।
वाच ऋक् रसः । ऋचः साम रसः । तस्योद्गीथो रसः । स स एष
<fix>रसाना </fix>रसतमः । परमः परार्ध्योऽष्टमो यदुद्गीयः ३ । कतमा कतमा
ऋक् ! कतमत् कतमत्साम ? कतमः कतम उद्गीथः ? इति विमृष्टं
भवति ४ वागेव ऋकू । प्राणः साम । ॐ मित्येतदक्षरमुद्गीथः तद्वा
---------------------------------------------------------------
१ अत्र 'जगन्मयं त्वंपदसंज्ञं, नानाभेदप्रकाशकत्वात्' इत्युक्त्वा 'ओमित्येतदक्ष-
रमुद्गीथम्' इत्याद्याः श्रुतय उदाहृताः। परं न जानीम: प्रकृते तासां <fix>कोपयोग</fix> ? इति ।</p>
<pb n="12" />
<p>सभाष्यम् ।
एतन्मिथुनं ओमिति । <fix>यद्राक्</fix> च प्राणश्चर्क् च <flag>माम </flag>च । तदेतन्मिथु
नमोमित्येतदस्मिन्नक्षरे <flag>ससृज्यते</flag> । यदा वै मिथुनौ समागच्छत
आपयतो वै तावन्यान्यस्य कामम् " । ( छा० उ० ३ । १ )
यथा लोके मिथुनौ यदा समागच्छतस्तदापयतः कामं तथा तदुपा-
सकस्तद्धर्मो भवति । आपयिता ह वै कामानां तं यथा यथोपामते
तदेव भवतीति । "त्रयं वा इदं नामरूपं कर्म " ( बृ० उ० ३।६।१ ) ।
"<flag>तदेतदमृत सत्येन</flag> छन्नं । प्राणो वा अमृतं । नामरूपे सत्यं । ताभ्यामयं
प्राणश्छन्न: " [ बृ० उ० ३ । ६ । ३ ] यथोर्णनाभिस्तन्तुनोच्चरेत् । स
यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्व प्राणाः सर्वे
लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मनो व्युच्चरन्ति ।
तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं । तेषामष सत्यम्" (बृ०
उ० ४ । १। २० ) । "अथ यत्रान्यत्पश्यत्यन्यद्विजानाति तदल्पमिति " ।
मनआदिश्च  प्राणादिश्च सत्त्वादिश्च इच्छादिश्च पुण्यादिश्चेत पञ्च
वर्गा इत्येषां पञ्चानां वर्गाणां धर्मीभूतात्मज्ञा<fix>नादृते</fix> न विनश्यत्यात्म
संनिधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरि-
त्युच्यते । तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञानज्ञेया
नामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भावतिरोभावहीनः <flag>स्वयंज्योति:</flag>
स साक्षीत्युच्यते । ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्वविशिष्टतयो-
पलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते कूटस्थाध्यु-
<flag>पहितभेदानां </flag> स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूत-
त्वेन यदा प्रकाशत आत्मा तदाऽन्तयामीत्युच्यते । सर्वोपाधिविनिर्मुक्तः
सुवर्णघनवद्विज्ञानघनश्चिन्मात्रस्वभाव आत्मा यदाऽवभासते तदा
त्वंपदार्थः प्रत्यगात्मेत्युच्यत इति श्रुतिभ्यः । त्वंपदतत्पदयोरभे-
देऽसिपदं, सोपाधिनिरुपाधिहीनसदात्मत्वात् ।
" भूय एव मा
भगवान्विज्ञापयतु यद्वै मनसा ध्यायति स तद्वाचा वदति । स य एषोऽ-
णिमा एतदात्ममि द ँ सर्वं तत्सत्य ँ स आत्मा । तत्त्वमसि श्वेतकेतो "
------------------------------------------------------------------
१ ' सर्व एव आत्मानो' इत्येतत्कलिकातामुद्रितबृहदारण्यकपुस्तके नास्ति ।</p>
<pb n="13" />
<p>गणेशाथवशीर्षम् ।
(छा० उ० ६ । ८ ) । इति क्रमेण नवघोपदेशस्तत्त्वमस्यात्मकमहावा-
क्यस्य ग्रन्थबाहुल्यभयान्न लिख्यत इति ।
त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकाद्विलक्षण आकाशवत्सूक्ष्म
एव केवलसत्तामात्रोऽसिपदार्थः । "स्वयंज्योतिरात्मेत्युच्यते । त्वंप-
दार्थतत्पदार्थसाम्यं आत्मेत्युच्यते " इत्यादिश्रुतिभ्यः ।
अधुना तत्त्वमस्यात्मकगणेशस्वरूपं वर्ण्यते । त्वमेव प्रत्यक्षं तत्त्व-
मसीति मूलवाक्यप्रतिपादनार्थत्वात् । त्वंपदार्थो नरात्मकस्तत्पदार्थो
गजात्मकश्च तयोरभेदेऽसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं तत्त्वमसीति
प्रत्यक्षवाक्यप्रामाण्यात् । तद्यथा । नरः प्रणवात्मकः । सोपाधिब्रह्मात्म-
कत्वात् । स एव त्वंपदार्थः । प्रणवपरसोपाध्यभावात् । "ओमित्येका-
क्षरं ब्रह्मेदं सर्वं तस्योपव्याख्यानं सर्वं भूतं भव्यं भविष्यदिति सर्वमों-
कार एव " इति श्रुतेः । "सोपाधिक: स्यात्सर्वत्र " इति स्मृतेः ।
"आपो नारा इति प्रोक्ता आपो वै नरसूनव: "
इति श्रुतेः । अबुपलक्षितानि पञ्च भूतानि ग्राह्याणि । वेदभाष्ये शंक-
राचार्यवचनात् । "नराज्जातानि तत्त्वानि " इति स्मृतेः । प्रणवात्त-
त्त्वोत्पत्तिः । सर्वशास्त्रसंमतत्वात् । नारायणोपनिषदि नारायणनामार्थ-
प्रतिपादने नराज्जाता नाराः ता एवायनं यस्येति नारायणः । प्रणवम-
यत्वात् । प्रणवोपासकसंन्यासिनां नारायणसंज्ञात्मकत्वात् ।
"दण्डग्रहणमात्रेण नरो नारायणो भवेत् "
इति स्मृतेः । गाणेशे–
"यस्मादोंकारसंभूतिर्यतो वेदा यतो जगत् "
इति स्मृतेः । त्वंपदार्थो नरात्मकः । तदैक्यसत्तामयत्वात् । अथ
गजशब्दार्थः कथ्यते । तत्पदैक्यसत्ताप्रतिपादनार्थत्वात् । समाधिना
योगिनो यत्र गच्छन्तीति गः । यस्माद्बिम्बप्रतिबिम्बवत्तया प्रणवात्मकं
जगज्जायत इति जः गश्चासौ जश्च गजः । विश्वकारणत्वात् । "ज-
न्माद्यस्य यतः " [अ० १ पा० सू० २ ] इति व्याससूत्रात् ।
"यस्मादोंकारसंभूतिर्यतो वेदा यतो जगत् " ।
इति गाणेशात् । न चैवं – विपरीतो गजपदार्थ आदौ लयः पश्चा-</p>
<pb n="14" />
<p>सभाष्यम् ।
त्सृष्टिः गकारजकारमयत्वात्–इति वाच्यम् । आदावेव समाधिना
योगिनो यत्र गच्छन्तीति फलं दर्शयित्वा स्वानुकूलं शिष्यं कृत्वा पश्चा-
त्तत्स्वरूपदर्शनार्थं तस्मात्सृष्टिरुक्ता शिष्यबोधार्थम् । न चैवं–अन्नं ब्रह्म
गजशब्दाख्यं, "अन्न ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भू-
तानि जायन्ते " (तै० उ० अ० ३ अ० २ कं० ३६ ) इति श्रुतिप्रति-
पादितब्रह्मणामपि सर्वभूतोत्पत्तिलयकारकत्वात्–इति वाच्यम् । प्राणब्र-
ह्मणि अन्नस्योत्पत्तिलयदर्शनात् । तद्वन्नानारण्यक प्रतिपादितब्रह्मणामप्यु-
त्पत्तिलयकथनान्महावाक्यप्रतिपाद्यब्रह्मजगत्कारण निर्गुणैकसंभवत्वात्,
तस्मात्परकारणाभावाच्च। तदेव गणेशतापिन्याम्- "अप्राप्यं चाप्राप्यं च,
अज्ञेयं चाज्ञेयं च, विकल्पासहिष्णु तत्सशक्तिकं गजवक्त्रं गजाकारं ज-
गदेवावरुन्धे" इति श्रुतेः । अस्यायमर्थः । अप्राप्यं चाप्राप्यं मनोगतिशून्यं
यद्यत्प्राप्यते तत्तन्मनोगतियुक्तत्वात् । अत्र <flag>चीप्सा</flag> हि आग्रहप्रदर्शिनी ।
कदाऽपि प्राप्यत्वाभावात् । अज्ञेयं चाज्ञेयं वाण्या च वक्तुमशक्यं वाण्या-
ऽकथितम्, मनोध्येयत्वात् । पूर्ववद्वीप्सा ज्ञातव्येति । विकल्पासहिष्णु
विकल्पशून्यम्, निर्गुणत्वात् । तत्सशक्तिकं, निरुपाधिमायायुक्तत्वात् ।
" त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकात्" इति श्रुतेस्तत्पदार्थस-
शक्तिकात्मकत्वसंभवात् । गजवक्त्रं तत्पदार्थमयगणेशवक्त्र मात्रत्वाद्गज
इव वक्त्रमिति व्युत्पत्तिसंभवाच्च । गजाकारं जगत् ओंकारात्मकं जग-
त्सोपाधि ब्रह्म जगन्मयत्वात् । तदेव गणेशतापिन्यां-"ततश्चोमिति ध्वनि-
रभूत्तत्स वैगजाकार अनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्र-
कृतिरिति गणेश इति प्रधानमिति च मायाशबलमिति च' इति श्रुतेः। गजा-
कारोंकारप्रतिषादनात्तदेव जगन्मयत्वाद्बीम्बप्रतिबिम्बवद्गज शब्दाख्यब्रह्म-
णो गजाकारौंकारोत्पत्तिदर्शनाद्गजस्याऽऽकार इवाऽऽकारो <flag>यस्येति</flag> व्युत्प
त्तिसंभवात्साक्षाद्गजमयाभावात् गजाकारश्रुतिप्रतिपादनाच्च । एवावरुन्धे
गजाकारं जगद्यदुत्पन्नमादौ यदाधारं मध्येऽन्ते यन्मयमित्यर्थः, अवरोध-
नार्थसंभवात् । इति गजशब्दाख्यतत्पदार्थैक्यप्रतिपादनं, श्रुतिप्रमाणत्वात् ।
नरगजयोरभेदेऽसिपदात्मको गणेश देहः । संपूर्णस्तत्त्वमस्यात्मकः, प्रत्यक्ष-
मधुनाऽपि सावयवत्वात् । सोपाधिर्नरस्त्वंपदार्थात्मको गणेशदेहः, पादा-</p>
<pb n="15" />
<p>गणेशाथर्वशीर्षम्।
दिकण्ठपर्यन्तं नराकृतिमयगणेशदेहत्वात् । सोपाधिनिकृष्टत्वादधमाङ्ग-
नित्यर्थः । निरुपाधिर्गजस्तत्पदार्थात्मको गणेशदेहः, कण्ठादिमस्तक प-
र्यन्त गजाकृतिमयगणेशदेहत्वात् । निरुपाधिसर्वोत्कृष्टत्वादुत्तमाङ्गमित्यर्थः ।
तयोर्योगेऽसिपदार्थमयो गणेशदेहः, संपूर्णपादादिमस्तकपर्यन्तप्रतिपाद-
नत्वात् । ब्रह्मगणेशयोरभेदः कृतः तत्रातिव्याप्त्यव्याप्तिदोषासंभवः,
सामान्यानुमानसंभवात् । तद्वत्सर्वदोषनिराकारणसामर्थ्यादत्र ग्रन्थे सर्व-
त्रैव दोषासंभवात् । अत्र सिद्धिबुद्धियुक्तोऽपि प्रतिपादितः । पञ्चचित्त-
बृत्तिमयी बुद्धिस्तद्धर्षविषादादिमोहप्रदा सिद्धिः, " योगश्चित्तवृत्तिनि
रोधः " [पा० १ सू० २] इति पातञ्जलसूत्रात् ।
एवं संपूर्णतत्त्वमस्यात्मकं गणेशं प्रतिपाद्य अधुना त्वंपदतत्पदासिप-
दभिन्नभावशोधनार्थं ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह–
त्वमेव केवलं कर्ताऽसि ।
त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्ताप्रधारकः,
प्रण<flag>वां</flag>शमयत्वात् । केवलं कर्ताऽसि । केवलं यथातथाऽव्यक्तादिस्थूल-
देहपर्यन्तं जगन्निर्माणकारकः, ओंकारात्तत्त्वोत्पत्तिदर्शनात् । तथाऽपि
तद्भावशून्यो बिम्बप्रतिबिम्बवदोंकारमयः, केवलपदग्रहणात् । तद्वत्–
त्वमेव केवलं धर्ताऽसि ।
जगत्पालकोऽसि, <flag>नामपकर्मभेदतया</flag> स्वस्वकर्मानुसाराकृतिभोग-
प्रदत्वात् । तद्वत–
त्वमेव केवलं हर्ताऽसि ।
प्राकृतलयप्रवर्तकत्वात् ।
एवं त्वंपदार्थं केवलमिति पदेन तदुपाविहीनतया शोधयित्वा तत्प-
दार्थशोधनार्थमाह–
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
सन् तत्पदार्थव्यवहारसत्ताप्रधारकः, सर्वोपाधिवर्जितांशमयत्वात् । सर्वं
खल्विदं ब्रह्मासीति । सर्वमिदमोंकारमयं जगत् खलु नानोपाधिसंशय-
हीनम् । त्वमिति त्वमेव तत्त्वमसिमयः, सदैव ब्रह्मैक्यभावप्रतिपादन-
त्वात् । ब्रह्मासि तत्पदार्थमयत्वात् । "सर्वं खल्विदं ब्रह्म । तज्जलानिति</p>
<pb n="16" />
<p>सभाष्यम् ।
शान्त उपासीत" इति श्रुतेः । अत्र शान्त उपासीतेति सर्वोपाधिभाव-
मनादृत्य ब्रह्मैक्यभावप्रतिपादनत्वात् । तत्पदार्थप्रतिपादकमिदं महा-
वाक्यं, तज्जलानिति सर्वकारणप्रतिपादकत्वात् ।
एवं तत्पदार्थं ब्रह्मासीति वचनसामर्थ्याच्छोधयित्वाऽसिपदशोधना-
र्थमाह–
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
त्वमिति । साक्षादात्माऽसि नित्यमिति कार्यकारणैक्यभावत्वादा-
त्मनः सातत्यगमनं नित्यम्, सर्वाभेदमयत्वात् । त्वंपदार्थात्मा, तदभिन्न-
त्वात् । तत्पदार्थात्मा तदभिन्नत्वात् । एवं यद्यन्मनोवाणीमयं तद्धीनं च
तत्र तत्तदभिन्नतया तदात्मा तदाऽपि तत्तदुपाधिभावहीनत्वान्नित्यमिति
पदं न कार्यं न कारणम्, आत्मनि सर्वाख्याभावात् ॥ इति अधिदैवत-
प्रतिपादकः प्रथमः खण्डः ॥ १ ॥
एवं त्वंपदार्थं तत्पदार्थमसिपदार्थं च शोधयित्वा तत्तत्पदार्थमयं गणेशं
प्रतिपाद्य एतत्प्रमाणार्थं स्वप्रतिज्ञा प्रदर्शयन्नाह–
ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥
ऋतमिति । ऋतमनृतात्मकासुरभावाभिमानशून्यं, यथार्थगणेशभ-
क्त्यभिमानहीनभाषणत्वात् यथावेदानुभवप्रतिपादनत्वाच्च । वच्मीति
कथयामीति सत्यमिति । सदा देशकालवस्तुनि<flag>मि</flag>त्तेषु  विनश्यत्सु यद-
विनाशि तत्सत्यं सर्वबाधहीनत्वात् । शिवविष्ण्वादिनानाब्रह्मप्रतिपादना-
त्मकदेहेषु गणेशदेहः संपूर्णब्रह्मक्यभावमयः महावाक्यमयनरगजा<flag>भे</flag>दा-
कृ<flag>ति</flag>धारकत्वात् । इदं सत्यमविनाशीति वच्मि ॥ इति स्वप्रतिज्ञात्मको
द्वितीयः खण्डः ॥ २ ॥
एवं स्वप्रतिज्ञां सत्यभाषणात्मिकां प्रदर्श्य ऋतसत्यभाषिणं गणेशो
रक्षति सदा,
यथार्थस्वभक्तिलुब्धत्वात् तदधीनो भवति । तदेव प्रकटय-
न्नाह–</p>
<pb n="17" />
<p>गणेशाथर्वशीर्षम् ।
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।
अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।
अव दक्षिणात्ता<error>तू</error> । अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
अवेति । त्वं साक्षात्प्रत्यक्षं तत्वमस्यात्मकः, अत्तो मामव । ऋतस-
त्यभाषिणं धर्मार्थकाममोक्षब्रह्मभावार्थिनं मां नानाविघ्नसमुदायाद्रक्षेति
स्वप्रतिज्ञापालको भव, भक्ताधीनत्वात् । अवेति । अत्र अव त्वं माम्
अव वक्तारम् इत्यादिपदेष्वसंधिरार्षः । एवं सर्वत्र ज्ञातव्यम् । वेदे-
च्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तदनुष्ठानफलवक्तारं
च यथार्थप्रदो भव, मदीयकृतफलश्रुतिभागेप्रदत्वात् । श्रोतारं मां मत्कृता-
थर्वशीर्षादित्वत्स्तुतियथार्थपाठकनानाजनपरीक्षार्थं तच्छ्रवणकर्तारमव,
यथाऽर्थश्रोतृप्रियत्वात् । दातारं अथर्वशीर्षादित्वदुपासनदातारं मामव,
यथाऽथर्वशीर्षपरंपरासंप्रदायप्रवर्तकप्रियत्वात् । धातारं त्वत्प्रियकर्मो-
पासनज्ञानयोगसाधनस्रष्टारं मामव, यथार्थसाधनप्रियत्वात् । अनूचानं
त्वत्प्रियान्यर्षिप्रोक्तमार्गभक्तं कदाचित् भ्रान्ततया संशययुक्तं तत्संशय-
नाशकारकं मामव, स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिष्यम्, मद्बु-
द्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यप्रियत्वात् ।
पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविघ्नेभ्यो मत्पृष्ठभागदिक्स्थितेभ्यो
मामव, स्वभक्ताज्ञातविघ्ननाशकत्वात् । तद्वत्पुरस्ताद्विघ्नेभ्यो मामव इति
तद्वदुत्तरदक्षिणो<flag>र्ध्वा</flag>धरा ज्ञातव्याः । दशदिग्रक्षणप्रार्थना प्रतिपादकत्वादे-
कार्थः । सर्वतो विदिशान्तरबाह्यादिनानास्थानस्थितविघ्नेभ्यो मां पाहि
पाहि । आदराद्वीप्सा । समन्ताद्ब्रह्माण्डान्तरगतभयात्पाहीति भावः ॥
इति तृतीयः खण्डः ॥ ३ ॥
एवं ऋतसत्यशीलरक्षणात्मकप्रार्थनां विधाय हृदिस्थं बुद्धिपरबुद्धि-
चालकं नानासिद्धिप्रदायकं च गणेशं प्रार्थयन्नाह–</p>
<pb n="18" />
<p>सभाष्यम्
त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं
सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा-
नमयो विज्ञानमयोऽसि ॥ ४ ॥
त्वमिति । अत्र " सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां
परमे व्योमन्" ( तै० व० २ अ० १ ) इतिमहावाक्यप्रतिपादकश्रु-
त्यर्थं प्रतिपादयाति । निहितं गुहायामिति, हृद्यवस्थितब्रह्मत्वात् ।
वाङ्मयः, वाणीकथितनामरूपमयत्वात् । "एषां पृथिव्या आपोऽपा<flag>मो</flag>
पधयस्तासां पुरुषस्तस्य वाक् " इति श्रुतेः । त्वं चिन्मयः नामरूपाहं-
कृतियुक्तो जीवः, तद्भोगकृतत्वात् । " स एव इह प्रविष्ट आनखाग्रेभ्यो
यथाक्षुरः क्षुरेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये । तं न पश्य-
त्यकृत्स्नो हि सः । प्राणमेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः
शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकै-
कमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवति आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन
ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं <flag>कीर्तिश्लोकं</flag> विन्दते य एवं
वेद" इति । "तत्सृष्ट्वा तदेवानुप्राविशत् " इत्यादिश्रुतिभ्यः त्वमानन्दमय-
वाङ्मयप्रकृतिमयचिन्मयपुरुषमयस्ताभ्यां सृष्ट आनन्द: सुषुप्त्यवस्थात्म
कस्त्वन्मयः, पञ्चकोशबीजत्वात् । "आनन्दो ब्रह्मेति व्यजानात्" [तै०
व० ३ अ० ६ ] इति श्रुतेः । त्वं ब्रह्ममयः, वाङ्मयचिन्म-
यानन्दमयैक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थै-
क्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह–त्वं सच्चिदानन्दाद्वितीयोऽ-
सि इति । सत् प्रकृतिभावदोषहीनत्वात्, चित् चैतन्यात्मकत्वात्, आनन्द
आसमन्तात्त्र्यवस्थानन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्य-
त्वादिति । इदं महावाक्यं गौणं षोडशमहावाक्यप्रामाण्यात् । चत्वारि
महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवलयोगप्रतिपादनवेदान्त-
सीमाभूतत्वात् । अनन्तं ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहलीदीप-</p>
<pb n="19" />
<p>गणेशाथर्वशीर्षम् ।
न्यायवत्सत्यज्ञानोभयाभेदमयमुभयप्रकाशतन्मध्यप्रतिपादनत्वात् । त्वं प्र-
त्यक्षं ब्रह्मासि, चिन्तामणिनामा, चित्तप्रकाशकत्वात् । प्रत्यक्षं हृद्यवस्थितं
त्वां पश्यामीति स्वानुभवप्रदर्शनात् । "चिति स्मृतौ " इति धातुपाठात्
"इदिनो नुम्" इति पाणिनिसूत्राच्चिन्तायां स्मृत्यां मणिरिव तत्प्र-
काशकः । सर्वहृद्यवस्थितं ब्रह्म त्वमेवेति भावः । एवं सत्यं ब्रह्म गुहायां
निहितं प्रतिपादितम् । "द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं
चामृतं च स्थितं च यच्च सच्च त्यच्च " इति श्रुते ।
" सच्च त्यच्च
तयोर्योगे सत्त्वं ब्रह्म " इति श्रुतेश्च । एवं ज्ञानं ब्रह्मेति प्रतिपादयन्नाह ।
त्वं ज्ञानमयः । सच्चिदानन्दाद्वितीयात्मकसत्यब्रह्मणोऽभिन्नः सदा निर्वि-
कल्पात्मकत्वात्सदेकमयत्वात्सत्यब्रह्मणि सच्चिदानन्दाद्वितीयेषु स्वस्व-
रूपज्ञानप्रदत्वात् । 'ज्ञा' अवबोधन इति धातुपाठात्स्वयं सर्वज्ञः, स्वस्य
ज्ञात्रभावात् । ज्ञानेन ज्ञायते सर्वं ज्ञानं केन न ज्ञायते ज्ञानात्परज्ञाना-
भावादिति । विज्ञानमयोऽसि सर्वज्ञभावं त्यक्त्वा स्वमहि<flag>म्नि</flag> स्थितोऽसि,
केवलज्ञानबह्ममयत्वात् । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते, अवि-
नाशित्वात् । "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कु-
तोऽयमग्नि । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति
श्रुतेः । अनन्तं ब्रह्म । सत्यज्ञानैक्यात्मकमात्मस्वरूपं हृदि तत्त्वमस्यात्म-
कार्थप्रतिपादकमहावाक्यात्सत्यं, त्वंपदाथर्मयत्वात् तज्ज्ञानं तत्पदार्थमय-
त्वादनन्तमसिपदार्थमयस्त्रिविधपदार्थैक्यात्मकब्रह्मप्रतिपादनार्थत्वात् ।
निहितं गुहायां गुहा वुद्धिस्तस्यां निहितम्, हृद्यवस्थितबुद्धिपतित्वात् ।
पञ्चचित्तव्यापारहर्षविषादसमभावयुक्ततत्तव्द्यापारसिद्धिप्रदसिद्धिपतित्वा-
द्गणेशो हृद्यवस्थितः । "सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्यनुभवैक्यात्म-
गणेशत्वात् । परमे व्योमन्निति दहरोपासनार्थं तदेव कथ्यते । "अथ
यदिदमस्मि ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्तराकाशमनस्मि-
न्यदन्तस्तदन्वेष्टव्यम् । तद्वाव विजिज्ञासितव्यं स ब्रूयाद्यावान्वा अयमा
काशस्तावानेषोऽन्तर्हृदय आकाश उमे अस्मिन्द्यावापृथिवी अन्तरेव
समाहिते । एष आत्मा अपहतपा<flag>प्या</flag> विजरो विमृत्युर्विशोको <flag>विजि</flag>-</p>
<pb n="20" />
<p>सभाष्यम् ।
घत्सोऽपिपामः सत्यकामः सत्यसंकल्पः स वा अयं पुरुषः सर्वासु पूर्षु
पुरिशय: " इत्यादिश्रुतिभ्यः स्वहृद्याकाशस्थितत्वात् । अत्र त्वं प्रत्यक्षं
ब्रह्मासीति प्रतिषादनात् हृद्यवस्थितगणेशो ग्राह्यः । प्रत्यक्षं तत्त्वमसीति
प्रथमं प्रतिपाद्य पुनः प्रत्यक्षं ब्रह्मासीति पुनरुक्तिनिवारणत्वात् । न च
एवं सद्ब्रह्मादिवर्णनं पूर्णब्रह्मप्रतिपादकं "<flag>सव</flag> सौम्येदमग्र आसीत् "
इत्यादिश्रुतिप्रामाण्यात् इति वाच्यम् । प्रत्यक्षं तत्त्वमसीत्यत्र मयट्प्र-
त्ययाभावात्संपूर्णं ब्रह्मात्र प्रतिपाद्य पुनस्त्वं वाङ्मयादिमयट्प्रत्यययुक्तत्वा-
द्गौणब्रह्मवर्णनमत्रैव मयड्ढनियुक्तप्रतिपादनत्वात् ॥ इत्यध्यात्मप्रतिपा-
दकश्चतुर्थः खण्डः ॥ ४ ॥
एवं हृद्यवस्थितं गणेशं प्रतिपाद्याव्याकृतब्रह्मात्मकं प्रतिपादयन्नाह -
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठ-
ति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं
त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं
चत्वारि वाक्पदानि ॥ ५ ॥
सर्वमिति । सर्वं जगदिदं त्वत्तो जायत इति । त्वत्तोऽव्याकृतात्मन
इदं जगज्जायते । त्र्यवस्थामयव्याकृतत्वात् । तदेवोंकारात्मकगणे-
शप्रतिपादनत्वात् । गणेशतापिन्याम् । " ततश्चोमिति ध्वनिरभूत् स वै
गजाकारोऽनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्रकृतिरिति
गणेश इति प्रधानमिति च मायाशबलमिति च" इति श्रुतेः । "ओमि-
त्येकाक्षरं ब्रह्मेदं सर्वें ब्रह्म" इति श्रुतेः । गाणेशे पार्वत्या तपः कृतं तस्यै
वरदानार्थमागतो गणेशश्चोंकारात्मकः तद्रूपधारकत्वात् । तद्यथा-
" मध्ये नारायणमुखो दक्षिणे च शिवाननः ।
वामे ब्रह्ममुखोऽनन्ते पद्मासनगतो विभुः" इति स्मृतेः ।
ब्रह्मविष्णुरुद्रात्मानोऽकारोकारमकाराः, कण्ठाधस्तदैक्यभावमय-
त्वात् । शैवे शिवेन शिरश्च्छेदः कृतः शक्तिपुत्रस्य, जीवात्मकत्वात्
गणेशाविर्भावहीनत्वाच्च । तत्र पुनर्गजमस्तकमानीय सजीवकरणे ब्रह्म-
विष्णुमहेशैरोंकारावाहनं यदा कृतं तदा गणेशाविर्भावदर्शनात् । देवी-
मागवतेऽप्येवं वर्णनत्वाद्गणेशस्य ओंकारजगदात्मकत्वात् । शिवपुरा-</p>
<pb n="21" />
<p>गणेशाथर्वशीर्षम् ।
णेऽपि गणेशावतारवर्णन आवाहनदर्शनाच्छिवैक्यप्रतिपादनपुराणप्रति-
ज्ञारक्षणाच्च । न चैवं शिवविष्ण्वादय ओंकारात्मकास्तत्तन्माहात्म्य-
श्रुतिस्मृतिप्रतिपादनत्वादिति वाच्यम् । तामससात्त्विकादिस्वस्वैकगुण-
मयदेहप्रचुरत्वात् । सर्वसारनिर्णयग्रन्थे मया प्रतिपादितमत्र न लिख्यते,
ग्रन्थबाहुल्यभयात् । तद्वत्सर्वं जगदिदं त्वत्तस्तिष्ठति, स्वस्वकर्मानुकूल-
पालनभावधारकत्वात् तद्वत्प्रलये त्वयि लयमेष्यति, कल्पान्तमयत्वात् ।
तद्वत्सर्वं जगदिदं त्वयि प्रत्येति, प्राकृतलये गुणसाम्यमयत्वात् ।
"त्वय्येत्य सदेव अग्र आसीत्" इति श्रुतिप्रामाण्यात् । त्वं भूमिरापोऽ-
नलोऽनिलो नभः, स्थूलसूक्ष्मसमपञ्चभूतमयप्रणवत्वात् । "अस्यात्मन
आकाशः संभूतः" इति श्रुतेः। प्रणवविशिष्टात्मनः पञ्चभूतोत्पत्तिप्रतिपा-
दनत्वात् । त्वं चत्वारि वाक्पदानि । परापश्यन्तीमध्यमावैखर्यश्चतस्त्रो
वाचस्त्वच्छावससंभवधर्माधिर्मसमज्ञानबोधमयत्वात् । स यथाऽऽर्द्रेन्धना-
ग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य
निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानान्यस्यैवैतानि सर्वाणि निः-
श्वसितानि" इति श्रुतेः प्रणवनिःश्वासमयवेदादित्वात् । " ओंकारप्रभवा
वेदाः " इति स्मृतेः ॥ इत्यधिदैवतवर्णनात्मकः पञ्चमः खण्डः ॥ ५ ॥
एवमव्याकृतमयं गणेशं प्रतिपाद्य सर्वजनमूलाधारस्थितिं
प्रतिपादयन्नाह –
त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं
सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम् ॥ ६ ॥
त्वमिति । त्वं गुणत्रयातीतनानाजनदेहमूलाधार स्थितः संस्त्रिगुणदो-
षप्रवृतिप्रकाशाज्ञानवर्जितो लिङ्ग  <flag>वक्र</flag>स्थराजसनाभिचक्रस्यसात्त्विकदृ-
क्चक्रस्थतामसभावहीनत्वात्त्रिगुणमूलाधारमय, प्रणवमयत्वात् । त्वम-
वस्थात्रयातीतः जाग्रत्स्वप्नसुषुप्त्यावस्थाभावहीनत्वात् । त्वं देहत्रयातीतः,
स्थूलसूक्ष्मानन्ददेहषड्भावहीनत्वात् । त्वं कालत्रयातीतः, उत्पत्तिस्थि-</p>
<pb n="22" />
<p>सभाष्यम् ।
तिलयकालभावहीनत्वात् । त्वं मूलधारस्थितोऽसि नित्यम् । गुदचक्रं
प्रणवमयं तत्र स्थितः, सर्वचक्रमूलाधारमयत्वात् । मूलधारसंज्ञाख्यं,
सदाखण्डस्वानन्दघनत्वात् । नित्यं, त्रिगुणभाववर्जितत्वाच्च । त्वं शक्ति-
त्रयात्मकः । जगदुत्पतिस्थितिलयत्रिविधशत्क्याधारात्मकत्वात् । त्वां
योगिनो ध्यायन्ति नित्यम् स्वात्मानन्दब्रह्मैक्यं समाधिना कृत्वा जीव-
न्मुक्ततया देहप्रारब्धमोगप्रतीक्षका योगिनस्त्रैगुण्यात्मकं त्वां नित्यममृ-
तात्मकत्वाद्ध्यायन्ति, स्वदेहमूलाधारचक्रस्थध्यानसुलभत्वात् । त्वं ब्रह्मा
जगत्सृष्टिनिर्माणकर्ता, रजोविशिष्टप्रवणत्वात् । त्वं विष्णुर्जगत्पाल<flag>कः</flag>,
सत्त्वविशिष्टत्वात् । त्वं रुद्रो जगत्संहारकः, तमोविशिष्टत्वात्, त्वमि-
न्द्रस्त्रिभुवनैश्वर्यभोक्ता, परमैश्वर्यविशिष्टत्वात् । त्वमग्निः सर्वयज्ञभोक्ता,
सर्वदेवमुखतृप्तिकारकविशिष्टत्वात् । त्वं वायुः सर्वप्राणभूतः, सर्वजन-
प्राणप्रवेशस्थापनोत्क्रमणविशिष्टत्वात् । त्वं सूर्य उदयास्तदिवसरात्रि-
प्रकाशकः, सर्वजनकर्मप्रवर्तकविशिष्टत्वात् । त्वं चन्द्रमाः सर्वौषधिजी-
वनात्मकः, जगदन्नमयविशिष्टत्वात् । ब्रह्मादिचन्द्रपर्यन्तानामष्टानां
स्वस्वव्यापारप्रवर्तकात्मकः । श्रुतयो न लिख्यन्ते, सर्वप्रसिद्धत्वात् ।
एतदन्तर्गतदेवदेवेश्वरा ज्ञातव्या अष्टविशिष्टगणेशप्रतिपादनत्वाद्विचार-
तदन्तर्गतसंभवाच्च । त्वं ब्रह्म सर्वजन बुद्धिस्थजीवमयः, नानास्वभावप्रकृ-
तिभोक्तृविशिष्टत्वात् । भूः भूर्लोकस्त्वमेव, तद्विशिष्टत्वात् । भुवः <flag>भु</flag>वर्लो-
कस्त्वमेव, तद्विशिष्टत्वात् । स्वः स्वर्लोकस्त्वमेव, तद्विशिष्टत्वात् । ॐ
प्रणवस्त्वमेव, सर्वमूलाधारचक्रस्थितविश्वचालकत्वात् ॥ इत्यध्यात्म-
प्रकाशकः षष्ठः खण्डः ॥ ६ ॥
एवं साधिदैवताध्यात्मप्रकारयुक्तत<flag>त्त्वस्या</flag>त्मकं प्रणवात्मकं च
गणेशं प्रतिपाद्य तदनुमवप्रकाशकगणेशविद्यां प्रकटयन्नाह –
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
तारेण रुद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।</p>
<pb n="23" />
<p>गणेशाथर्वशीर्षम् ।
नादः संधानम् । सꣳहिता संधिः ।
सैषा गणेशविद्या । गणक ऋषिः ।
निचृद्गायत्री छन्दः । गणपतिर्देवता । ॐ गं ॥ ७॥
गणादिमिति । पूर्वं प्रथमं गणादिं गकारं गणशब्दादिभूतत्वात् ।
उच्चार्य स्वमुखेनोच्चारणं कृत्वेति । तदनन्तरं वर्णादिः । वर्णा [^१]अक्षराणि
तदादिरकारः, तस्य आदौ कथितत्वात् । तस्मादकारात्परतरोऽनुस्वारः।
गकार आदिस्तस्मात्परोऽनुस्वारः परतरः कीदृशोऽनुस्वारः अर्वेन्दुल-
सितः, सानुनासिकत्वात् । एवमेकाक्षरमन्त्रात्मिकां विद्यां प्रतिपाद्य
सशक्तिकमन्त्रं प्रकटयन्नाह- -तारेणेति । तारेण प्रणवेन [^२]ऋद्धं
युक्तम् । प्रणवयुक्तैकाक्षरमन्त्रत्वात् । तत्राऽऽदौ प्रणवमुच्चारणम् ।
" आदौ प्रकृतिमुच्चार्य पश्चात्पुरुष उच्यते " इति स्मृतेः । रुद्रयामले
एकाक्षरगणेशकवचे मन्त्रोद्धारः कृतः । तत्र प्रणवस्य शक्तित्वप्रतिपा-
दनात् । तद्यथा–" गं वीजं शक्तिरोंकारः सर्वकामार्थसिद्धये " । इति ।
तव गणेशस्य <error>मनुस्वरूपं</error> मन्त्रस्वरूपमेतत्, सर्वसिद्धिप्रदगणेशानुभव-
प्रकाशकसामर्थ्ययुक्तत्वात् । एवं 'गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण
ऋद्धम्' इत्यन्तेन संकेतश्रुतिवाक्यप्रतिपादितमन्त्रं जना न ज्ञास्यन्ति,
मन्दबुद्धित्वात् । तदर्थं स्वयमेव सुलभतया तदेवाऽऽह–गकार इति ।
पूर्वरूपं आदिप्रोक्तरूपं गकारः, मध्यमरूपमकारः, अन्त्यरूपमनुस्वारः,
उत्तररूपमनुस्वारोत्तररूपं बिन्दुः, सानुनासिकात्मकत्वात् । तारशब्दस्तु
न वर्ण्यते, स्फुटत्वात् । एतेषां भिन्नानां गकारादिचतुर्णां संधानमेकी-
करणसाधनं नादः, नादप्रेरितैकभावोच्चारणयोग्यसामर्थ्यात् । एतेषा
नादप्रेरितानां संधिः संमीलनं संहिता, यथाक्रमोच्चारणयोग्यसाम-
र्थ्यात् । या 'गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण ऋद्धम्' इत्यन्तेन
पूर्वं प्रतिपादिता सैषाऽधुना 'गकारः पूर्वरूपम्' इत्यादि 'संहिता संधिः'
इत्यन्तेन प्रतिपादितत्वात् । गणेशविद्या गणेशज्ञानप्रदा, मन्त्रात्मकगणे-
१ अत्र 'वर्णा अक्षरास्तदादिरकारोकारादिवर्णकथित्वात्' इति सर्वेष्वादर्श-
पुस्तकेषु दृश्यते त<flag>त्प्रा</flag>मादिकमिति प्रतिभाति । २ अत्र सर्वत्रापि 'रुद्धम्' इति
इदानींतनानां केषांचित् वैदिकानां पाठः । अर्थस्त्वेक एव ।</p>
<pb n="24" />
<p>सभाष्यम् ।
शमूर्तिमयजपस्य गणेशसंतुष्टिकारकत्वात् । विद् ज्ञाने इति धातुसाम-
र्थ्यात् एकाक्षरमन्त्रस्तत्वमस्यात्मकगणेशमयः प्रतिपादितः । यन्त्रस्थ -
मन्त्रपूजनस्य सर्वसिद्धिप्रदत्वान्मन्त्रमयमूर्तेः सर्वशास्त्र प्रतिपादितत्वाच्च ।
तत्रोंकारयुक्त ओंकारशक्ति विहारजगन्मयप्रतिपादितत्वात् पूर्वोक्ततत्त्व-
मस्यात्मकोंकारात्मकद्विविधसामर्थ्ययुक्तत्वं मन्त्रस्य प्रतिपादितम्, तदु-
पासनस्य प्रत्यक्षगणेशसमत्वात् । गणक ऋषिः । अत्रर्ष्यादिन्यासा
मन्त्रशास्त्रोक्ता ग्राह्याः, तस्य वेदोपाङ्गत्वात् । तद्यथा-ॐ अस्यैकाक्षर-
गणपतिमन्त्रस्य, गणक ऋषिः, निचृद्गायत्री छन्दः, गगपतिर्देवता, गं
बीजम्, ॐ शक्तिः गणपतिप्रीत्यर्थे सकलाभीष्टसिद्ध्यर्थे च जपे विनि
योगः । गणकऋषये नमः शिरसि । निचृद्गायत्रीछन्दसे नमो मुखे ।
गणपतिदेवतायै नमो हृदये । गंबीजाय नमो गुह्ये । ॐ शक्तये नमः
पादयोः । अथ षडङ्गन्यासः । ॐ गाम् अङ्गुष्ठाभ्यां नमः । ॐ गीं
तर्जनीभ्यां नमः । ॐ गूं मध्यमाभ्यां नमः । ॐ गैम् अनामिकाभ्यां
नमः । ॐ गौं कनिष्ठिकाभ्यां नमः । ॐ गः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः कर्तव्य इति । वक्ष्यमाणं ध्यानं कृत्वा मानसैः पञ्चो-
पचारैः पूजयेत् । तद्यथा-ॐ लं पृथिव्यात्मने गणेशाय गन्धं [^१]समर्प-
यामि । ॐ हम् आकाशात्मने गणेशाय पुष्पं स० । ॐ यं वाय्वात्मने
गणेशाय धूपं स० । ॐ रं [^२]तेजात्मने गणेशाय दीपं स ० । ॐ वम् अमृ-
तात्मने गणेशाय नैवेद्यं समर्पयामि । इति पञ्चभूतबीजात्मकपञ्चोपचा-
रार्पणं मानसी पूजा कथ्यत इति संक्षेपः । सर्वं मन्त्रशास्त्रोक्तविधिव-
त्कार्यम्, शीघ्रसिद्धिप्रदत्वात् ॥ इति गणेशविद्यात्मकार्थप्रतिपादकः
सप्तमः खण्डः ॥ ७ ॥
एवं गणेशविद्यां प्रतिपाद्य गणेशगायत्रीमन्त्रं प्रकटयन्नाह –</p>
<lg>
  <l>एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।</l>
  <l>तन्नो दन्ती प्रचोदयात् ॥ ८ ॥</l>
</lg>
<p>१ अत्र कल्पयामीति युक्तमिति प्रतिभाति । समर्पणं तु प्रत्यक्षतया अर्प्यमा-
णस्योपचारस्यैव भवति न मानसस्य अतः कल्पयामीत्येव युक्तम् । अन्यत्रापि
मानसपूजायां " लं पृथिव्यात्मने गन्धं कल्पयामि इति दृश्यते " इति दिक् ।
२ अत्र 'तेज आत्मने ' इति पाठ : सावीयानिति भाति ।</p>
<pb n="25" />
<p>गणेशाथर्वशीर्षम् ।
एकदन्तायेति । एकदन्ताय एकशब्दाख्या माया। दन्तशब्दाख्यो
मायिकः तयोर्योग एकदन्तः तस्मै । विद्महे जानीमहे । सदा सर्वप्रद-
त्वात् । तदेव मौद्गले–</p>
<lg>
  <l>"एकशब्दात्मिका माया तस्याः सर्वं समुद्भवम् ।</l>
  <l>भ्रान्तिदं मोहदं पूर्णं नानाखेलात्मकं किल ॥</l>
</lg>
<lg>
  <l>दन्तः सत्ताधरस्तत्र मायाचालक उच्यते ।</l>
  <l>बिम्बेन मोहयुक्तश्च स्वयं स्वानन्दगो भवेत् ॥</l>
</lg>
<lg>
  <l>माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते ।</l>
  <l>तयोर्योगे गणेशोऽयमेकदन्तः प्रकीर्तितः ॥ " इति ॥</l>
</lg>
<p>वक्रतुण्डाय । जगत्सर्वजनसाधारणं, मनोवाणीमयत्वात् । तस्माद्व-
क्रमात्मरूपं मनोवाणीहीनत्वात्तदेव मुखं यस्य स वक्रतुण्डो जगन्मय-
कण्ठाध आत्मात्मकमस्तकत्वात्तस्मै । तद्यथा मौद्गले–</p>
<lg>
  <l>"बिम्बं माया<flag>य</flag>तं वक्रं मोहितं सिद्धिबुद्धिगम् ।</l>
  <l>तद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥</l>
</lg>
<lg>
  <l>माया मुखं मोहयुतं तस्माद्वक्रमिति स्मृतम् ।</l>
  <l>परं ब्रह्म तयोर्योगे वक्रतुण्डोऽय<flag>कु</flag>च्यते ॥</l>
</lg>
<lg>
  <l>कण्ठाधो मायया युक्तो मस्तकं ब्रह्मवाचकम् ।</l>
  <l>वक्राख्यं तस्य <flag>विघ्नेश</flag> तेनायं वक्रतुण्डकः ॥ " इति ॥</l>
</lg>
<p>धीमहि ध्यायेम इति । तन्नो दन्ती प्रचोदयात् । तद्ब्रम्हात्मको दन्ती
दन्तोऽस्यास्तीति सर्वसत्तात्मकत्वात् । स्वभक्त्यै प्रचोदयात् प्रेरयतु, बुद्धि-
पतित्वात् । अयं गायत्रीमन्त्रोऽपि सर्वसिद्धिप्रदायकः । गणेशः गायकं
त्रायतीति व्युत्पत्तिबलात् ॥ इति गायत्रीमन्त्रप्रतिपादनात्मकोऽष्टमः
खण्डः ॥ ८ ॥
एवमादौ नाममन्त्रं मध्य एकाक्षरमन्त्रमन्ते गायत्रीमन्त्रं च इति
त्रिविधं मन्त्रं प्रतिपाद्य तद्ध्यानार्थमाह–</p>
<lg>
  <l>एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।</l>
  <l>रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥</l>
</lg>
<p>रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।</p>
<pb n="26" />
<lg>
  <l>सभाष्यम् ।</l>
</lg>
<lg>
  <l>रक्तगन्धानुलिप्तङ्गं रक्तपुष्पैः सुपूजितम् ॥</l>
  <l>भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।</l>
  <l>आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥</l>
  <l>एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥</l>
</lg>
<p>एकदन्तमिति । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तम् । " भग्न
वामरद " इति स्मृतेः । चतुर्भुजयुक्तत्वात् ।</p>
<lg>
  <l>" स्वर्गेषु देवता<flag>श्चा</flag>यं पृथ्व्यां नरांस्तथाऽतले ।</l>
  <l>असुरान्नागमुख्यां<flag>श्च</flag> स्थापयिष्यति बालकः ॥</l>
</lg>
<p>तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः ।
चतुर्णां विविधानां च स्थापकोऽयं प्रकीर्तितः "
इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशा-
ङ्कुशदन्तवरदानि धारयति, स्वभक्तरक्षणार्थत्वात् ।</p>
<lg>
  <l>" पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् ।</l>
  <l>नियन्त्राख्यं तथा ब्रह्म अङ्कुशश्च महात्मनः ॥</l>
</lg>
<lg>
  <l>दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् ।</l>
  <l>वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥</l>
</lg>
<p>इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्व-
जन्तुकृद्भोगभोक्ता चोरो जन्त्वज्ञातसर्वस्वहारकत्वात् ( च्च ) । स एव
गणेशसेवार्थं मूषको बभूव । मुष् स्तेये इति धात्वर्थात् । तद्यथा–</p>
<lg>
  <l>" मूषकं व्यापकाख्यं च पश्यन्ति वाहनं परम् ।</l>
  <l>तेन मूषकवाहोऽयं वेदेषु कथितोऽभवत् ॥</l>
</lg>
<lg>
  <l>मुषस्तेये तथा धातुर्ज्ञातव्यस्तेयब्रह्मधृक् ।</l>
  <l>नामरूपात्मकं सर्वं तत्रसद्ब्रह्म वर्तते ॥</l>
</lg>
<lg>
  <l>नामरूपेषु ये भोगास्तेषां भोक्तृतया स्थितः ।</l>
  <l>भोगेषु भोगभोक्ता च ब्रह्माकारेण वर्तते ॥</l>
</lg>
<lg>
  <l>अहंकारयुतास्तं वै न जानन्ति विमोहिताः ।</l>
  <l>वयं भोक्तार एवं ते मानयन्ति विशेषतः ॥</l>
</lg>
<pb n="27" />
<p>गणेशाथर्वशीर्षम् ।</p>
<lg>
  <l>ईश्वरः सर्वभोक्ता च चोरवत्तत्र संस्थितः ।</l>
  <l>तदेवं मूषकः प्रोक्तो मनुजानां प्रचालक ॥</l>
</lg>
<p>मायया गूढरूपः स भोगान्भुङ्क्ते हि चो<flag>र</flag>वत्" ॥
इति स्मृतिभ्यः । रक्तम्, रक्तवर्णशरीरत्वात् । लम्बोदरम्, स्वोदरे
सर्वस्यापि प्रतिष्ठितत्वात्, स्वस्य न कस्याप्युद्वरस्थत्वात्, स्वोदरोद्भव-
सर्वजगत्वात्, स्वस्य न कस्याप्युदरभवत्वाच्च । तथा च–</p>
<lg>
  <l>" लम्बोदरोऽयमेकश्च वेदे संकथितोऽभवत् ।</l>
  <l>न वयं तादृशा वेदे लम्बोदरप्रवाचकाः ॥</l>
</lg>
<lg>
  <l>तस्योदरात्समुत्पन्नं नानाविश्वं न संशयः ।</l>
  <l>नानाब्रह्म तथेशश्च अन्ते तत्र स्थितोऽभवत् ॥</l>
</lg>
<lg>
  <l>मध्ये कलांशरूपेण क्रीडते गणनायकः ।</l>
  <l>अतः सर्वादिपूज्यश्च सर्वपूज्यो बभूव ह ॥</l>
</lg>
<lg>
  <l>सर्वेषां जनको माता तथा सर्वप्रदायकः ।</l>
  <l>तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ " ॥</l>
</lg>
<p>इति स्मृतिभ्यः । शूर्पकर्णकम् । गणेशो योगिमुखोद्गतजनकर्णमार्ग
हृद्गतः सन् शूर्पवत्पापपुण्यरजो दूरी करोति ब्रह्मप्राप्तिकारकत्वात् ।
तद्यथा-–</p>
<lg>
  <l>" रजोयुक्तं यथा धान्यं रजोहीनं करोति च ।</l>
  <l>शूर्पं सर्वनराणां वै योग्यं भोजनकाम्यया ॥</l>
</lg>
<lg>
  <l>तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते ।</l>
  <l>त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥</l>
</lg>
<p>शूर्पकर्णं समाश्रित्य त्यक्त्वा मलविकारकम् ।
ब्रह्मैव नरजातिस्थो भवेत्तेन तथा स्मृतः ।</p>
<lg>
  <l>तेनायं शूर्पकर्णश्च वेदेषु कथितोऽभवत् ।</l>
  <l>तं भजस्व विधानेन शान्तियुक्ता भविष्यसि " ॥</l>
</lg>
<p>इति स्मृतिभ्यः । रक्तवाससम्, सदा रक्तवस्त्रप्रियत्वात् । रक्तगन्धा-
नुलिप्ताङ्गं रक्तपुष्पैः सुपूजितमिति, रकवर्णप्रियत्वात् । मौद्गले पञ्चवर्ण-
वरप्रदो गणेशो बभूव । तत्र रक्तरङ्गेण पुनस्तपः कृत्वा रक्तरङ्गप्रियः
सदा कृतः, स्ववरदानरक्षणार्थत्वात् रक्तवर्णप्रिय इति । भक्तानुकम्पि-</p>
<pb n="28" />
<p>सभाष्यम् ।
नम् । तत्र भक्तिर्गणेशैकतत्परा इहलोकपरलोकविषयेच्छाहीनात्मिका,
कायिकवाचिकमानसिकसांसर्गिकतदेकरसयुक्तत्वात् । तद्यथा संक्षेपतः–</p>
<lg>
  <l>"इत्येवं नवधा भक्ती रसयुक्ता कृता मयि ।</l>
  <l>क्षणमात्रं न सहते चित्तं मद्रसवर्जितम् ॥</l>
</lg>
<lg>
  <l>तदा संपूर्णभक्तश्च जातो वै नात्र संशयः ।</l>
  <l>अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा " ॥</l>
</lg>
<p>इति स्मृतेः । देवम्, सर्वत्र तत्तद्रूपेण क्रीडाकारकत्वात् । दिवु
क्रीडायाम् इति धात्वर्थात् । जगत्कारणमनादित्वात्सर्वपूज्यत्वात् ।
" ज्येष्ठराजम् " इति श्रुतेस्तज्ज्येष्ठाभावात् । न चैवं नानावेदशाखापा-
ठेषु कुत्रान्यदेवो ज्येष्ठराजस्तत्परज्येष्ठाभावादिति वाच्यम्, सर्वपूज्यादि
पूज्यगणेशान्यहीनत्वाच्च ज्येष्ठादिपूज्यसर्वपूज्यसंप्रदायदर्शनात् अन्यत्र
लिङ्गदैवतवद्गौणत्वात्, अच्युतम्, स्वानन्दवासित्वात्कैलासवैकुण्ठादि-
लोकगुणमयनाशात्मकत्वाच्च । सर्वसारनिर्णयग्रन्थे मया लोकनिर्णये
कथितमत्र न लिख्यते, ग्रन्थबाहुल्यभयात् । आविर्भूतं च सृष्ट्यादौ
प्रकृतेः पुरुषात्परम् । प्रकृतिः सर्वमयो, प्रकृष्टसर्वाकृतित्वात् । पुरुषः
सदैक: प्रकृतिमयपुरिशयत्वात्ताभ्यां परं, प्रकृतिपुरुषैकात्मकत्वात् ।
सृष्टयादौ प्रकृतिपुरुषसृष्टेरादावाविर्भूतं, तत्त्वमस्यात्मकशरीरत्वात् । एवं
नरगजाभेदैकदन्तादिचिह्नयुक्तं यो नित्यं ध्यायति स योगी, ब्रह्मैकात्म-
कत्वात् । योगश्चित्तवृत्तिनिरोधः [पा० यो० पा० १ सू०२] चित्तं पञ्च-
विधम् । क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, व्यास-
कृतमाष्ये प्रतिपादितत्वात् [^१] । यत्र नरेण चित्तं क्षिप्तं तज्ज्ञानतया नाना-
ज्ञान<flag>भ्र</flag>धारकत्वान्मूढम्, पिशाचतुल्यनरहृत्स्थत्वात् । मुमुक्षूणां चित्तं
विक्षिप्तं संसारविषयांस्तिरस्कृत्य ब्रह्मपरं तदपि ब्रह्मानुभवहीनं, विषया-
सक्तत्वाद्ब्रह्मानुभवसुखहीनत्वान्नानातपः परत्वाच्च । अन्नप्राणाद्यव्याकृत-
पर्यन्तानुभवयुक्तमेकाग्रं चित्तं, सर्वैक्यसमाधिसुखयुक्तत्वात् । सत्यं ज्ञान-
मनन्तं ब्रह्मानुभवसुखयुक्तं निरुद्धाख्यं, सर्वैक्यभावहीनत्वाद्ब्रह्मपरत्वाच्च ।
१ पातञ्जलयोगसूत्रेषु प्रथमापादस्य प्रथमसूत्रभाष्ये द्रष्टव्यमेतत् ।</p>
<pb n="29" />
<p>गणेशाथर्वशीर्षम् ।</p>
<lg>
  <l>" मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः ।</l>
  <l>असंप्रज्ञातनामाऽसौ समाधिरभिधीयते " ॥</l>
</lg>
<p>इति स्मृतेः । ततस्तत्त्वमनुभवसुखयुक्तं निरोधभूमिहीनत्वाञ्चित्तवृत्ति
निरोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात् त्वंपदतत्पदासिपद
विभागशून्यत्वाच्च । एवं चित्तं जित्वा योगी भवतीति ब्रह्मैकात्मक-
त्वात् । योगिनां शुकवामदेवादीनां वरो गणेशभक्तिपरायणत्वात् प्रत्य-
क्षतत्त्वमसिशरीरभृन्नवधाचित्तप्रवेशकायिकवाचिकमानसिकसांसर्गिक-
सदाबह्मतत्परचेष्टात्मकत्वात् वेदादिहृद्गतज्ञानोद्धारकत्वाच्च । न चैवं
योगी दर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षयब्रह्मैकत्वात् श्रेष्ठतम
इति वाच्यम् । नवधा चित्तशून्यवद्धारकत्वाद्वेदादिहृद्रतनानोपदेशहीन-
त्वात्प्रारब्धक्षये स्वयमेव ब्रह्मैकत्वाज्जनोद्धारकृतत्वाद्योगी श्रेष्ठः । गाणे- शयोगी तु श्रेष्ठतमः, पूर्वोक्तब्रह्मचेष्टापरत्वाज्जनोद्धारकत्वाच्च । न चैवं
शिवविष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपरायणत्वादिति
वाच्यम् । तेषामथर्वशिरःसु तत्त्वमस्यादिमहावाक्यात्मकशरीराभावा-
द्योगिपदाभावाच्च । तत्र परमहंसा योगिनो गाणेशा भवन्ति, योगि
पदस्य परमहंसपरत्वात् एकगणेशाथर्वशीर्षप्रतिपादनत्वात् अन्यदेवाधि-
कारशून्यत्वाच्च । दण्डहीनाः परमहंसा ब्रह्मभूतास्तद्वन्दनं ब्रह्मशब्दा-
भिधं, नारायणात्मकभावात् । "दण्डग्रहणमात्रेण नरो नारायणो भवेत्"
इति स्मृतेः । गाणेशयोगिवन्दनं गणेशशब्दाभिधं च परमहंसानां वर-
त्वात् ॥ इति ध्यानात्मको नवमः खण्डः ॥ ९ ॥
एवं ध्यानं प्रतिपाद्य स्तुत्यर्थमाह–
नमो व्रातपतये नमो गणपतये नमः प्रमथप-
तये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नना-
शिने शिवसुताय वरदमूर्तये नमः ॥ १० ॥
नमः इति । व्रातपतये देवादिव्रातानां जीवानां पतित्वात्ते तुभ्यं नमः ।
गणपतये ब्रह्मविष्णुमहेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः ।
" ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह । तद्गणेश इति । तत्परमित्याह ।</p>
<pb n="30" />
<p>सभाष्यम् ।
यमेतेनाप्नुवन्तीति " इति श्रुतेः । प्रथ<flag>भ</flag>पतये[^१] वर्णानां ब्राह्मणः प्रथमो
मुख्यस्त्रिवर्णगुरुत्वात् । ब्राह्मणेषु योगी प्रथमो, महावाक्यानुभवयुक्त-
त्वात् । एवं जनानामीश्वराणां ब्राह्मणानां च प्रथभाः श्रेष्ठास्तेषां पति-
स्तदादिपूज्यतत्पूज्यत्वा <flag>त्ते</flag> नमः । लम्बोदराय ते नमोऽस्तु । एकदन्ताय
नमः । विघ्ननाशिने कालात्मकभयहारिणे नमः । अमृतात्मकपदप्रद
त्वात् । तदेव कथ्यते । अभिनन्दनराज्ञेन्द्रभागहीनयज्ञारम्भः कृतः ।
तज्ज्ञात्वा कुपितेनेन्द्रेण कालमाहूय तयज्ञभङ्गायाऽऽज्ञापितः । स काल-
पुरुषस्तद्धर्मं ज्ञात्वा विघ्नासुरो <error>ब</error>भूव । जन्ममृत्युमयं जगत्कालाधीनं,
त्रिलोकभ्रमणत्वात् । ब्रह्मानुभवयुक्तज<error>नंः</error> कालं जित्वाऽमृतमयो भवति
तज्ज्ञानकारणं सत्कर्मसाधनेनान्तःकरणशुद्धिस्तो ब्रह्मानुमवपात्रत्वात्त-
द्धर्मं ज्ञात्वा सत्कर्मनाशनार्थं विघ्नो बभूव । सत्कर्महीनं जगत् काला-
धीनं सदा मलिनान्तःकरणयुक्तत्वात् । ततोऽभिनन्दनं हत्वा यत्र तत्र
दृश्यादृश्यस्वरूपधृक्कालः सत्कर्मखण्डनं चकार । कालाज्ञानभावात्ततो
भ्रान्ता वसिष्ठादयो ब्रह्माणं शरणं ययुः तेनाऽऽज्ञप्ताः पार्श्वपुत्रं गणेशं
तुष्टुवुः, गणेशान्यदेवस्य कालनाशसामर्थ्याभावात् । ततो गणेशेन विघ्ना-
सुरः पराजितः । स शरणं ययौ । तदा स्वाज्ञावशवर्तिनं विघ्नं चकार ।
विघ्नेन प्रार्थितो तिघ्नराजाख्यो बभूव । तदादि गणेशादिपूजनहीनं
यत्सत्कर्म तत्र विघ्नप्रादुर्भावः । एवं नियमं कृत्वा तं स्वसमीपे स्थाप-
यामास । एवं स्कान्दे विनायकमाहात्म्ये मौद्गले च प्रतिपादितत्वात् ।
वेदादिषु विघ्नो भगवानिति कथ्यते, कालमयत्वात् कालाधीनसृष्टि-
१ अत्र 'प्रमथपतये' इति इदानीन्तनानां सर्वेषां वैदिकानां पाठः । अयमपि
सावीयानेव। प्रमथ्नातीति प्रमथः । शभोः पारिषदाः प्रमथसंज्ञकाः। तदुक्तं कालि-
कापुराणे एकोनत्रिंशाध्याये–</p>
<lg>
  <l>ध्यानस्थं परिचर्यन्ति सलिलादिमिरीश्वरम् ।</l>
  <l>नानाशस्त्रधराः शंभोर्गणास्तु प्रमथाः स्मृताः ॥</l>
</lg>
<lg>
  <l>प्रमथ्नन्ति च युद्धेषु युध्यमानान्महाबलान् ।</l>
  <l>ते वै महाबलाः शूरा: संख्याता वसुकोटयः ॥ १ ॥</l>
</lg>
<p>इति शिवसुतत्वात् प्रमथसंज्ञकानां शिवगणानां पतिः इति यथासंभवं योज-
नीयम् ।</p>
<pb n="31" />
<p>गणेशाथर्वशीर्षम् ।
स्थितिलयत्वाच्च । ब्रह्मविष्णुमहेशा वयं ब्रह्माण इति मदयुक्ताः सन्तो
वेदमार्गं त्यक्त्वा स्वेच्छाविहारिणो यदा भवन्ति, तदा सविघ्ना असुरैः
पराजिताः स्वेच्छा विहारभङ्गा भवन्ति । पुनर्बह्माभिमानं त्यक्त्वा गणेश
एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात्, <flag>एयं</flag> ज्ञात्वा शरणं गच्छन्ति
तदा स्वस्वसामर्थ्ययुक्ता असुरान्विजित्य स्वपदस्था ईश्वरा भवन्ति,
विघ्नाधीनत्वात् । विशेषेण जगत्सामर्थ्यं हन्तीति विघ्न इति व्युत्पत्ति
बलाद्विघ्नसमं न किंचिदिति संक्षेपार्थः । तद्यथा– "भगवन्तौ विघ्नवि-
नायकौ प्रीयेताम्" इति पुण्याहवाचनवचनत्वात् । स्कान्दे–</p>
<lg>
  <l>" उक्त्वैवमाह्वयत्स्कन्दः शक्रस्तं कालरूपिणम् ।</l>
  <l>य इदं माययाऽऽमोह्य कलयत्यखिलं जगत् " ॥ इति ॥</l>
</lg>
<lg>
  <l>"विघ्नरूपेण घोरेण स कालपुरुषो भुवि ।</l>
  <l>गर्जनादखिलाꣲल्लोकान्कम्पयामास वेगवान् " ॥ इति ॥</l>
</lg>
<p>योगवासिष्ठे भृगुं प्रति कालवाक्यं तद्यथा-</p>
<lg>
  <l>" मा तपः क्षपयाबुद्धे कल्पकालमहानलैः ।</l>
  <l>यो न दग्वोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥</l>
</lg>
<p>ब्रह्माण्डावलयो ग्रस्ता निगीर्णा रुद्रकोटयः
भुक्तानि विष्णुवृन्दानि क्क न शक्ता वयं मुने " ॥
इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः । " अथ ह
आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय एष सर्वेश्वर एष भूताधि-
पतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय " इति श्रुतेः ।
लोकानामसंभेदाय विघ्नभयस्वमर्यादायुक्तलोकत्वात् । शिवसुताय ।
तद्यथा–गणेशेन सृष्टाः शिवादयस्तपश्चक्रुः । तत्राऽऽदौ शिवहृदि ब्रह्मा-
नुभवो बभूव, समाधिक्रियाधिक्यात् । ततो हृदि गणेशं ददर्श संस्तुत्य
प्रार्थनां चकार । 'त्वं मे पुत्रो भव' त्वपितृतारकत्वात् । 'तदहं माया-
मोहभयहीनश्चरामि ' गणेशजनकत्वादिति । तदेव विनायकसंहितायां
मयूरेशक्षेत्रमाहात्म्ये–</p>
<lg>
  <l>" ध्याने मनसि मे जातः पुत्रत्वं पालय प्रभो ।</l>
  <l>मम पुत्र इति ख्यातो लोकेऽ<flag>स्प्रि</flag>न्भगवन्भव " ॥</l>
</lg>
<p>इत्यादिस्मृतिभ्यः त्रिगुणावतारैब्रह्मविष्णुशिवा<flag>ख्यैर</flag>वध्यासुरनाश-</p>
<pb n="32" />
<p>सभाष्यम् ।
नार्थं कलांशगणेशावतरणं सर्वत्र प्रसिद्धम् । तदवतारचरित्रज्ञापनार्थ-
त्वादत्र शिवसुत इति कथितः वेदप्रामाण्येषु पुराणेषु नानावतारप्रतिपा-
नात् । न चैवं तपःप्रार्थितगणेशः शिवसुतः, तत्र शिवः श्रेष्ठो गणेशज-
नकत्वादिति वाच्यम् । एवं शिवविष्ण्वाद्यवतारचरित्रत्वादनादिसंप्रदाय-
त्वाच्च । विष्ण्वथर्वशीर्षे "ब्रह्मण्यो मधुसूदनः" इति श्रुतेः । देवकी-
पुत्रत्वेन विष्णोर्न कनिष्ठत्वापत्तिः, भक्तवाञ्छितकृतत्वाद्भक्ताधीनदेवेश-
त्वाच्च । ते नमः वरदमूर्तये, सर्वेश्वरजनवरत्वात् प्रत्यक्षं वरदमूर्तिः
स्ववरदाभावाच्च । न चैवं शिवविष्ण्वादिवरदगणेशत्वाद्गणेशवरदाभावात् ।
ननु शिवपुराणे गणेशवरदः शिवः कथितः, 'सर्वादिपूज्यो भव' इति
वचनादिति चेन्न । शिवपुत्रभावरक्षणार्थत्वात् पितृदत्ताधिकारपरायण-
पुत्रत्वात् दशरथदत्तयुवराजाधिकारयुक्तरामचन्द्रवत्पुरातनसंप्रदायत्वात्
[च्च] । ते नमः । 'व्रातपतये' इत्यारभ्य 'वरदमूर्तये नमः' इतिपर्य-
न्तमष्टनामनमनं, तदन्तर्गतसर्वनामत्वात् । नाममन्त्रतत्त्वमस्यात्मकसत्य-
वादिभक्तरक्षणात्मकोंकारात्मकैकाक्षरविद्यागायत्रीध्यानस्तुतिप्रतिपाद-
कमष्टमार्गप्रकाशकत्वादष्टाङ्गमिति ॥ इति स्तुतिप्रतिपादको दशमः
खण्डः ॥ १० ॥</p>
<lg>
  <l>इति – अथर्वणऋषिप्रोक्तं गणेशाथर्वशीर्षं समाप्तम् ।</l>
  <l>॥ अथ फलश्रुतिः ॥</l>
</lg>
<p>एवं स्तुतिं प्रतिपाद्य गणेशाथर्वशीर्षफलश्रुतिं प्रतिपादयत् ग्रन्थमाह ।
तत्राऽऽदौ गणेशाथर्वशीर्षाध्ययनफलप्रतिपादनार्थमाह–
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते । स
पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवस-
कृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं
पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो
भवति । सर्वत्राधीयानोऽपविघ्नो भवति । धर्ममर्थं
कामं मोक्षं च विन्दति । इदमथर्वशीर्षंमशिष्याय</p>
<pb n="33" />
<p>गणेशाथर्वशीर्षम् ।
न देयम् । यो यदि मोहाद्दास्यति स पापी-
यान्भवति । सहस्रावर्तनाद्यं यं काममधीते तं
तमनेन साधयेत् ॥ ११ ॥
एतदिति । एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते, देहभृदपि
ब्रह्मैवस्यात्तत्त्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विश्वासयुक्तत्वात् अन्य-
द्योऽनुभवकृत्सोऽप्यधीत इति कथ्यते । स देहभृद्ब्रह्मैव, योगित्वाच्च ।
स सर्वविघ्नैर्न बाध्यते । धर्मार्थकाममोक्षसाधनान्तरायात्मकविघ्नैर्न
बाध्यते, साधनशीलाधीनत्वात् । स सर्वत्र सुखमेधते, नानालोकस्था-
धीनत्वान्नानाकार्यसुखयुक्तत्वाच्च । स पञ्चमहापापात्प्रमुच्यते । पापं
पञ्चबिधम् । हिंसाभक्ष्यभक्षणपरस्त्रीगमनस्तेयतत्संसर्गात्मकत्वात् । तत्र
पञ्चमहापापादिति जातित्वादेकवचनम् । ब्रह्महत्या सुरापानगुरुतल्पगम-
नसुवर्णस्तेयतत्संसर्गयुक्तत्वात् । आदावेव सायमधीयान इति, गुरुमुखो-
द्गतं स्वकण्ठगं कृत्वाऽध्ययनकाल आदौ सायंकालप्राप्ततत्वात् । तद्त्प्रा-
तरेव । सायं प्रातरधीयानः सर्वदिवसरात्रिपापवर्जितत्वादपापो भवतीति ।
सर्वत्राधीयानोऽपविघ्नो भवति । नानाकार्यकृत्तत्तत्कार्याद्यधीतत्वात् ।
धर्ममर्थं कामं मोक्षं च <error>बि</error>न्दतीति । इहलोकमनादृत्य परलोकार्थसत्क-
र्मपरायणत्वात् धर्मार्थी । इहलोकश्रेष्ठार्थसत्कर्मपरायणत्वात् अर्थार्थी ।
इहलोकपरलोकोद्भवभोगार्थसत्कर्मपरायणत्वात् कामार्थी । इहलोक-
परलोकविरागयुक्तात्मप्राप्त्यर्थसत्कर्मपरायणत्वात् मोक्षार्थी च । एकै-
कपुरुषार्थी <flag>चतुपुरुषार्थी</flag> वा य इदमधीते स तत्तल्लभ<flag>ते</flag>, गणेशस्य इच्छा
पूरकत्वात् । अशिष्याय यथार्थाथर्वशीर्षशिक्षाहीनाय न देयमिदम्,
ऋतसत्यवादिरक्षकगणेशत्वात् । यो यदि मोहाद्दास्यति, द्रव्यलोभा-
च्छुश्रूषालोभाद्विद्याविनिमयलोभादित्यादिना नामोहादिति सोऽतिपापी,
यथार्थाथर्वशीर्षशुश्रूषणासुरभावगणेशपीडितत्वात् । अस्य सहस्रावर्त-
नाद्यं यं काममिच्छति तं तं प्राप्नुयात् । वीप्साया आदरार्थत्वात् ॥
इत्यध्ययनफलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥
एवमध्ययफलश्रुतिं प्रतिपाद्य नानाप्रयोगार्थमाह–
अनेन गणपतिमभिषिञ्चति स वाग्ग्मी भवति ।
चतुर्थ्यामनश्नञ्जपति स विद्यावान्भवति । इत्य-</p>
<pb n="34" />
<p>सभाष्यम् ।
थर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान्न बिभेति
कदाचनेति ॥ १२ ॥
अनेनेति । प्रशस्तवागर्थ्याभिषेकं कुर्यादिति । चतुर्थ्यामनश्नञ्जपति
यः स विद्यावान्भवति, प्रातरारभ्य सायंपर्यन्तं जपानुष्ठानपरत्वात् । इत्य-
थर्वणवचनत्वाद्यथार्थफलप्राप्तिरिति । ब्रह्मादीनां मायावरणं विद्यात्
अत एव न बिभेति, ज्ञातावरणतन्मोहहीनत्वात् ॥ इति नानाप्रयोगफल-
श्रुत्यात्मको द्वादशः खण्डः ॥ १२ ॥
एवं भयहीनतां प्रतिपाद्य यजनार्थमाह–
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो
लाजैर्यजति स यशोवान्भवति स मेधावान्भव-
ति । यो मोदकसहस्रेण यजति स वाञ्छितमवा-
प्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते स
सर्वं लभते ॥ १३ ॥
य इति । दूर्वाङ्कुरैर्यजति स कुबेरसमो भवति, कनकप्रियत्वात् ।
लाजैर्होमो यशःप्रदो मेधाप्रदश्च, तत्तत्प्रयोगप्रमाणत्वात् । यो मोदकस-
हस्त्रेणं यजति, प्रतिखण्डं जुहुयात्प्रत्यर्चवत्प्रमाणत्वात्, स वाञ्छितफल-
मवाप्नोति, नानाकार्यसिद्धिप्रदत्वात्, यः साज्यसमिद्भिर्यजति मन्त्रशा-
स्त्रोक्तनानाकार्यप्रदनानासमिद्धोमप्रभाणत्वात्, स सर्वं लभते स सर्वं
लभते । अत्र वीप्साऽऽदरप्रदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र
कुण्डवेदिदेवतास्थापनादिकं वैदिकतान्त्रिकमार्गोक्तवद्ग्राह्यम् । आहु-
तिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् । यं यं
काममधीते तं तमनेन साधयेत्, एकानुष्ठानस्य सर्वकार्यप्रदत्वाद्वीप्साया
आदरार्थत्वाच्च । न चैवं मोदकसहस्रहोमसाज्यसमिद्धोमौ मुख्यौ, वा-
ञ्छितप्रदे ' सर्वं लभते ' इतिवीप्सादरप्रमाणत्वादिति वाच्यम् । मोद-
कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्सादरयुक्तोऽपि नाना-
कार्यप्रदनानाममिद्धोमानुष्ठानपरत्वात् । अत्र सहस्रावर्तनात्मकं पुरश्च-
रणम् । सहस्रावर्तनाद्यं यं काममधीत इति मोदकसहस्रेण यजतीति
प्रमाणात् ॥ इति होमात्मकस्त्रयोदशः खण्डः ॥ १३ ॥</p>
<pb n="35" />
<p>गणेशाथर्वशीर्षम् ।
अथान्यप्रयोगार्थमाह–
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा
सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते महादो-
षात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्ववि-
द्भवति स सर्वविद्भवति य एवं वेद ॥ १४॥ इत्यथ-
र्वणवेदोपनिषत्सु गणेशाथर्वशीर्षं समाप्तम् ॥
अष्टाविति । सम्यक् ग्राहयित्वा, यथार्थाथर्वशीर्षगणेशैकतत्परका-
रयितृत्वात् सूर्यवर्चस्वी भवति, सूर्यवत्सर्वज्ञानप्रकाशयुक्तत्वात् गणेश-
ज्ञानान्तर्गतनानावेदान्तप्रतिपाद्यज्ञानत्वाच्च । सूर्यग्रहे महानद्यां ब्रह्मकम-
ण्डलुभागीरथीयमुनासरस्वतीनर्मदादीनां कस्याश्चिन्नद्यास्तीरे महाघना-
शकत्वादनन्तगुणाधिकसत्कर्मफलप्राप्तिकारकत्वात् । प्रतिमासंनिधौ
मयूरेश्वरादिमहाक्षेत्रस्थगणेशप्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो
भवति । मन्त्रोक्तसिद्धिसामर्थ्ययुक्तत्वात् । अथर्वशीर्षात्मकमन्त्रजपो
मालामन्त्रप्रमाणत्वात् तज्जप्त्वाऽर्वशीर्षोक्तज्ञानवानेकाक्षरविद्यासिद्ध-
सामर्थ्यवान्भवतीति । महाविघ्नात्कालभयात्प्रमुच्यते, अथर्वशीर्षोपास-
नाया अमृतमयत्वात् । महादोषान्मायाविकारात्मकदोषात्, मायाविका-
परदोषाभावात् महाप्रत्यवायाज्जीवन्मुक्तविषयासक्तयुक्तप्रयुक्तप्रत्यवा-
यात्, " योगस्थित्यभावात् म सर्वविद्भवति, गणेशज्ञानान्तर्गतसर्वज्ञा-
नत्वात् । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानने<flag>वे</flag>द ꣳ सर्वं
विदितं भवति " इति श्रु<flag>तेः</flag> । अथर्वशीर्षममाप्तिज्ञापनार्थं वीप्सा वेदसं-
प्रदायत्वात् । य एवं वेद पूर्वोक्तयथार्थज्ञानयुक्तत्वात् ॥ इत्यथर्वणवेदोप-
षनिषत्सु अन्यप्रयोगात्मकश्चतुर्दशः खण्डः ॥ १४ ॥
॥ इति गणेशाथर्वशीर्षभाष्यं समाप्तम् ॥
॥ श्रीगजाननार्पणमस्तु ॥</p>
</body>
</text>
</TEI>