आनन्दाश्रम संस्कृतग्रन्थावलि:
ग्रन्थाङ्कः १
श्री गणेशा थर्व शीर्षम ।
( सभाष्यम् )
पं. वामनशास्त्रिभिः [ इस्लामपूरकरोपाह्वैः ] संशोधितम् ।
तच्च
एम. ए. इत्युपपदधारिभिः
कार्यकारी विश्वस्तैः
श्रीमान गणपतराव यादवराव नातू एम्. ए. महोदयैः
पुण्याख्यपतने
आनन्दाश्रममुद्रणालये
मुद्रयित्वा तत्रैव प्रकाशितम् । नूतनमुद्रावृत्तिः
शालिवाहन शकाब्दाः १८९९
ख्रिस्ताब्दाः १९७७
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्ती कृता: )
मूल्य- सपादरूप्यकत्रयम (३-२५ ) । ॥ ॐ नमः परमात्मने ।
भो: भोः सहृदया आर्यदेशीयप्राचीनविद्यावैभवमुररीकुर्वन्तो महाशया विदित-
मस्तु तत्रभवतां भवताम् । यत्किल पुण्याख्यपत्तने देव्याः सरस्वत्या विलासस्थान-
मिव बहुसाहस्रिकधनव्ययेन आनन्दाश्रम इत्याख्यं भवनं निर्मापयता महोदयेन
महादेव चिमणाजी आपटे इति सुगृहीतनामधेयेन न केवलं भारतवर्षीयाणामेव
अपि तु अखिलस्य जगतोऽप्यतीवोपकृतम् । तस्य च उद्देशादिकं पूर्वमेव विज्ञाप-
नपत्रद्वारा सर्वान् प्रत्यावेदितप् । बहुना परिश्रमेण संगृहीतानि च बहुनि प्राचीन-
संस्कृतग्रन्थपुस्तकानि । मुद्रायन्त्रमपि तत्रैव संस्थापितम् । अप्रसिद्धग्रन्थावल्या
मुद्रणमप्यारब्धम् । क्रमश: प्रचयगमना भविष्यन्ति च बहवो ग्रन्थाः ॥
तत्र तावत् "आनन्दाश्रमग्रन्थावल्याः" प्रारम्भे अस्य महतः कार्यस्य विघ्नविघातोपशमनार्थं गणपतिपूजनमिवेदं मणेशाथर्वशीर्षं सभाष्यं निवेशितम् । अस्य ग्रन्थस्य संशोधनं पुण्यपत्तनस्थैर्बहुभिर्विद्वद्वरैरारभ्य निःसारमिदं भाष्यमिति कृत्वोपोक्षितम् । तदनन्तरं मत्सुहॄद्वरेणाऽऽन्दाश्रमाधिपतिनाऽभ्यर्थिनेन कार्यान्तरव्यापृतत्वादलब्धबहुलावकाशेनापि मया श्लाघनीयस्यास्य लोकोपकारिकार्यस्य यथाशक्ति किमपि साहाय्यं कर्तव्यमिति कृत्वाऽस्य ग्रन्थस्य संशोधनं कथंकथमपि प्रारब्धम् । तत्र च पञ्च आदर्शपुस्तकान्युपलब्धानि । तानि यथा –
क. संज्ञितं - - शालिवाहनशके १७३८ धातृनाभसंवत्सरे मार्गबहुल ५ म्यां लिखितं महादेव चिमणाजी आपटे इत्येतैः संगृहीतमेकम् ।
ख. संज्ञितम् --इंदूरनिवासिभिः भाऊसाहेब किबे इत्येतैः प्रेषितम् । नास्योपरि शकादिकं किञ्चित् ।
ग. संज्ञितम् -- उम्बरगांवनिवासिभिः विनायक भिकाजी पिम्पुटकर इत्यमिधैः प्रेषितम् । संवत् १९३८ वृषभनामसंवत्सरे कार्तिक शु० द्वितीयायां लिखितम् ।
घ. संज्ञितं -- वटोदरनिवासिभि: बाप्पासाहेब मैराळ इत्येतैः प्रेषितं शकहीनं च ।
ङ. संज्ञितं - - चिंचवडनिवासिनां चिंतामणभट्ट कोशे इत्येतेषामेकं शके १७९९ ईश्वरनामसंवत्सरे चैत्र शु० प्रतिपदि लिखितम् । [ २ ]
एतपुस्तकपञ्चकमाकलय्य यथामति यथाविज्ञानं संशोधितं मयेदं गणेशाथर्वशीर्षभाष्यम् । सर्वेष्वप्यादर्शपुस्तकेषु भाष्यकर्तुर्नामादिकं कुत्रापि नोपलब्धम् । अनेनैव भाष्यकृता सर्वसारनिर्णयाख्योऽन्यो ग्रन्थः कृत इति ज्ञायते ( अस्यैव २१ पृष्ठे २६ षड्ने द्रष्टव्यमेतत् ) सोऽस्माभिर्न दृष्टः । अत्र बहूनि प्रमादस्थलानीवोपलब्धानि । भाष्यमिदं नातिसमीचीनं तथाऽन्यस्य समीचीनस्थोपलब्यभावात्प्राचनित्वाच्चेदमेव संगृहीतम् । अनतिसमीचीनोऽप्ययं
प्रेम्णा सद्भिर्ग्रन्थः सेव्यः शब्दार्थतः सदोषोऽपि ।
संशोध्य वाऽपि हरिणा सुदाममुनिसतुषपृथक मुष्टिरिव ॥ १॥
मुद्रणकर्माणि नियुकानामनवधानेव च यदत्र स्खलितं तत् " गच्छवः स्खलनं न दोषाय " इति न्यायेन क्षन्तुमर्हन्ति सुधिय इति साञ्जलिबन्धं प्रार्थयते
भवदीयो वामनशास्त्रिशर्मा । ॐ तत्सद्ब्रह्मणे नमः । अथ गणेशाथर्वशीर्षम् । -::--::--::--::--::--::सभाष्यम् । -::--::--::--::--::--::
प्रणम्य तं गणेशानं सिद्धिबुद्धिप्रदं परम् । अथर्वशीर्ष भाष्यं वै कुर्वे वेदान्तर्बृहितम् ॥ १ ॥ अथाथर्वणो ब्रह्मणां ब्रह्मणश्व स्वस्वोपाधिविरहात्मैक्यज्ञानप्राप्त्यर्थं [^]१ गणेशाथर्वशीर्षमवदत् । सर्ववेदोक्तकर्मोपासनज्ञाननिष्ठनिर्विघ्नसिद्धिबुद्धिप्रकाशकतत्तत्फलवेदान्तवेद्यैक्ययोगप्रदतत्त्वमस्यात्मकदेहत्वात् । तत्त्वमसिप्रतिपाद्यब्रह्मबाह्यान्तरकर्भज्ञानप्राप्त्यर्थोपासकत्वाभावाच्च । ननु – तत्त्वमस्यादिमहावाक्यार्थानुभवयुक्ता योगिनो मवन्ति, किं गणेशोपासनेन ? सावयवब्रह्मण एकत्वाभावात् – इति चेन्न । महावाक्यप्रतिपाद्यब्रह्मसदभेदात्मकत्वादध्यारोपापवादसिद्ध्यर्थं [^]२ गणेशोपासनं मुख्यं, बाह्यान्तरानात्मभावनाशकत्वाच्च [^]३ । ननु ब्रह्मैक्यमावचिन्तनादध्यारो-----------------------------------------------------------------------------------------१ अत्र मूले चतुर्ष्वप्यादर्शपुस्तकेषु 'स्वस्वोपाधिविहारात्मैक्य' इति वर्तते तदसङ्गतमिव प्रतिभाति । "उपाधिना क्रियते भेदरूपः" इत्यादिश्रुतिभ्यः ब्रह्मणां जीवानां, ब्रह्मणश्च उपाधिकल्पित एव भेदः वस्तुतस्त्वभेद एव । अतः जीवब्रह्मणोः स्वस्वोपाधिभूतयोः विद्याविद्ययोः विरहेण भागत्यागलक्षणया पृथक्करणेन यदात्मैक्यज्ञानं तस्य प्राप्त्यर्थमथर्वणो गणेशाथर्वशीर्षमवददित्येव साधीयः । स्वस्वोपाधिविहारेणात्मैक्यज्ञानप्राप्तेरसंभवात् तत्र प्रमाणाभावाच्चेति सुधियो विदाङ्कुर्वन्तु ।
२ " निष्कलं निष्कियं शान्तं " इत्युक्तत्वात् शुद्धस्य ब्रह्मणः " यतो वाचो निवर्तन्ते अप्राप्य मनसा सह " इति श्रुत्या वाङ्मनसयोरगोचरस्य तस्योपासनं न घटेत । अतः " अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते " इति न्यायेन उपासनसिद्धयर्थं सगुणस्य गणेशत्वस्थ तत्राऽऽरोप इति भावः ।
३ बाह्याः पाञ्चभौतिकशरीरतादात्म्यादयः आभ्यन्तराः अहं सुखी–इत्याद्यभिनिवेशादयो येऽनात्मभावाः तेषां नाशकत्वादित्यर्थः । (२) गणेशाथर्वशीर्षम् ।
पापवादसिद्धिर्भविष्यति । अभेदभावनायाभेदनाशकत्वात्-इति चेन्न । ब्रह्मण ऐक्यभावचिन्तनाभावात् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [तै० उ०२।४।२८ ] इति श्रुतेः गणेशचिन्तनस्य संभवाच्च (१) । "ब्रह्मणां ब्रह्मणस्पते" इति श्रुतिसार्थकत्वात् । अस्यायमर्थः । ब्रह्मणामन्नप्राणादिप्रणवपर्यन्तानां शिवविष्ण्वादिदेवात्मकानां च पतिर्गणेशः । सोपाधित्वेन नानात्मकत्वात्सदासमानत्वाभावाद्ब्रह्मणामिति बहुवचनम् । अन्यच्च । ब्रह्मणो निरुपाधिसर्वकारणात्मनः पतिः । अनपवादनिर्विकल्पनात्मकत्वात् । एकवचनं जीवात्मपरमात्मनोरैक्यत्वात् । तयोः पतिस्तत्त्वमस्यात्मकत्वान् । ननु ब्रह्मणः चिन्तनं संभवति, "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " (बृ० उ० ४१४ ५ ) इति श्रुतेः इति चेत् । सत्यम् । तथाऽपि चित्तवृत्तिनिरोधभावना सुदुर्लभा । सातत्येन ध्यातृध्यानध्येयाभावात् चित्तस्य चञ्चलत्वेन तत्स्थैर्याभावाच्च । वस्तुतस्तु गणेशचिन्तनं सर्वसिद्धिप्रदम् । तत्त्वमस्थात्मकत्वात्सुलभाथर्वशीर्षतात्पर्यात् । ननु - नानाकामप्रदं गणेशचिन्तनं, सिद्धिप्रदत्वात्-इति चेन्न । ब्रह्मभावसिद्धिप्रदत्वात् (२)। "कर्मणैव हि संसिद्धिमास्थिता जनकादयः " इति " सिद्धानां कपिलो युनिः " इति । भविष्ये व्यासेन शुकस्योपदेशः कृतः " प्राप्स्यसे सिद्धिमुत्तमाम् " इत्यादिनानास्मृतिभ्यः ।
ननु -- शिवचिन्तनं सर्वसिद्धिप्रदम् । "ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः " इति श्रुतेः- इति चेन्न । ईशानस्य विशेष्यत्वात् ब्रह्माधिपत्यादिपदानां तदङ्गविशेषणत्वात् । ननु - सर्वश्रेष्ठेशानब्रह्माधिपत्यादिपदानां विशेषण त्वमेव - इति चेन । ब्रह्मणः परश्रेष्ठाभावात् सर्वश्रुतिस्मृतिविरोधापत्तेश्च । "ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा" इत्यस्यायमर्थः । तामसस्योंकारात्मकस्य विश्वेश्वरादिद्वादशशिवावताराणामेकादशरुद्राणां कालभैरवादिशिवावताराणां च स्तवनं ब्रह्मात्मकतया कृतम्, अंशांशिनोरैक्यप्रतिपादनत्वात् । तेषां शिवावतारब्रह्मणामधिपतिरीशान:, तत्तद्रूपधार-------------------------------------------------------१ साकार त्वात् गणेशचिन्तनस्य संभव इत्यवधेयम् ।
२ अत्र सर्वेष्वादर्शपुस्तकेषु 'ब्रह्मभूतसिद्धि' इति प्रामादिकमिव प्रतिभाति । "ब्रह्मभूयसिद्धि" रथवा "ब्रह्मभावसिद्धि" इत्येव सुवचम् । सभाष्यम् ।
३
कत्वात् । अन्यच्च । सर्वावतारसत्तायाः पतिरीशानो ब्रह्मणोऽधिपतिः । सत्ता सदैकजातिमत्त्वादेकवचनम् । अन्यच्च । ब्रह्मा नानावतारसत्तास्रष्टेशानः, विशेष्यात्मकत्वात् ।
ननु - गणेशोऽपि तादृश एव, विशेष्यात्मकत्वात्-इति चेन्न । ब्रह्मणस्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वाद्ब्रह्मैक्यभावप्रदब्रह्मणस्पत्याख्याया मुख्यत्वाच्च । ननु - ब्रह्मणस्पतेरपि ब्रह्मोपासना मुख्या, पतिभावनाशकत्वात् महावाक्यस्य ब्रह्मप्रतिपादकत्वाच्च । "प्रज्ञानं ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्म । सर्वं खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एकमेवाद्वितीयं बल । अयमात्मा ब्रह्म " इत्यादिश्रुतिभ्यश्च - इति चेन्न । स्वस्वोपाधियुक्तब्रह्मणां सर्वकारणब्रह्मणश्चोपदेशार्थं पतिपदं, तदाराधनोपाधिकारणभावनाशकत्वात् । पतिपदं न वास्तवम् । उपाधिहीनब्रह्मणां कारणहीनब्रह्मणश्च पतित्वाभावः, तदैक्यत्वात् । "पतित्वं कथनात्मकम्" इति स्मृतेः ।
ननु - बाह्यज्ञाननाशको गणेशः, अवयवयुक्तत्वात् इति चेन्न । आन्तराज्ञाननाशकोऽपि, बुद्धिपतित्वात्। "अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः" इति ' सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायाम्" (तै० उ० २ अ० १ ) इत्यादिश्रुतिभ्यः, 'यो बुद्धेः परतस्तु रु: ' इति, 'आत्मा बुद्धेः परो मतः' इत्यादिस्मृतिभ्यश्च ननु शिवविष्णुसूर्यशक्तिचिन्तनं ब्रह्मभावप्रदं, तत्तदथर्वशीर्षे तत्तद्ब्रह्मप्रतिपादकत्वात् इति चेन्न । अव्याकृतप्रणवानन्दाद्युपासनवदारण्यकोक्तब्रह्मप्रतिपादकत्वात्, गणेशाथर्वशीर्षे तत्त्वमस्यात्मकमहावाकप्रतिपाद्यब्रह्मैक्यात्, महावाक्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच्च ।
न चैवं- गजवदनायवयवयुक्तगणेशस्य भिन्नतावच्छेदकावच्छेद्यतया ब्रह्मणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः । सदा कार्यकारणैक्यब्रह्मणः सावयवगणेशेऽवच्छेद्यहीनत्वाव्याप्तिश्च - इति वाच्यम् । त्वं तदसिपदस्वस्वोपाधिविहारसामर्थ्यप्रदसंपूर्णतत्त्वमस्यात्म कदेहभृद्गणेशोपासनप्रयोजनत्वात् १, अनन्तकल्पविहारशाश्वतसंतोषस्वस्वोपाधिना
१ अत्र 'स्वस्वोपाधिविहार' इत्यनेन शिवविष्णवाद्याकाररूपोपाधिभिः लीलाकैवल्यमित्यर्थोऽवगन्तव्यः । ४ गणेशाथर्वशीर्षम् ।
शकगणेशोपासनप्रयोजनत्वात्, उपास्योपासकोपासनाया महदज्ञाननाशकत्वात्, ब्रह्मण्युपास्यत्वाभावात् सामान्यानुमानतया गणेशब्रह्मणोरैक्यप्रतिपादकत्वाच्च ।
न चैवं–ब्रह्मोपासनं वेदान्तविरुद्धम् ब्रह्मभूतस्य उपास्योपासकत्वाभावात् । " तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति श्रुते.- इति वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्रहार्थं गाणेशत्वात्, देहरक्षणार्थं भोजनाच्छादनवत् कायिकवाचिकमानसिकसांसर्गिकगाणेशधर्मत्वाच्चेति दिक् । अथ प्रकृतमनुसरामः ।
ॐ नमस्ते गणपतये ।
अथर्वणः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । सुलभकर्मोपासनज्ञानयोगप्राप्तिकारकत्वात् । ॐ इति मङ्गलाचरणार्थम् [^]१ । ग्रन्थादौ मङ्गलाचरणस्य शिष्टसंप्रदायप्रवर्तकत्वात् । वेदाद्य ॐ कारः सर्वमङ्गलमयो, वेदोक्तनानाकर्मोपासनज्ञानयोगफलप्राप्तिकारकत्वाच्च । "यो वेदादौ स्वरः --------------------------------------------------------------------------------------------१ अत्र सर्वेष्वादर्शपुस्तकेषु ओंकारस्य मङ्गलाचरणार्थत्वमुक्तं तन्न युक्तमिति प्रतिभाति । यद्यपि "मङ्गलमध्यानि च शास्त्राणि प्रथन्ते" इत्यादि वचनैः निष्पत्यूहपरिसमाप्तये ग्रन्थादौ मङ्गलाचरणस्य शिष्टसंप्रदायपवर्तकत्वं स्पष्टं तथाऽपि मङ्गलाचरणस्य विघ्नविघातनिवारणार्थमेवानुष्ठेयत्वात् अपौरुषेयेपु स्वत एव मङ्गलरूपेषु विघ्नविघातशङ्काया असंभवात् अत्र ओंकारस्य मङ्गलाचरणार्थत्वं न युक्तम् । पौरुषेयेष्वेव प्रत्यूहशङ्का, न पुनरपौरुषेयेषु । अतस्तत्रैव मङ्गलाचरणस्य शिष्टसंप्रदायः । न हि केषुचिद्वैदिकग्रन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किंच । सर्वकर्मसु आदौ निर्विघ्नतासिद्ध्यर्थं स्मरणीयस्य गणेशस्याप्यथर्वशीर्षारम्भे प्रत्यूहनिवारणार्थं मङ्गलाचरणस्याऽऽवश्यकत्वे तस्यापि निर्विघ्नतासिद्धयर्थमन्यत् तस्याप्यन्यदित्यनवस्था केन वार्येत । तस्मात्सुष्ठूक्तमत्र ओंकारस्य मङ्गलार्थत्वं नेति । अथ तस्य कोऽर्थ इति चेत् शृणु ।
"ओमित्येतद्ब्रह्म" इति श्रुतेः "ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत" इति स्मृतेश्च भगवता भाष्यकृता 'ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम् ५
सभाष्यम् ।
प्रोक्तः" इति श्रुतेः । स्वर इत्योंकाराख्या छान्दोग्ये [^]१ । "तस्याऽऽदिस्मरणावश्यत्वात्" इति । न चैवं–सर्वश्रुतिस्मृतिपुराणेतिहासप्रोक्तं सर्वारम्भेष्वादौ गणेशपूजनं निरर्थकम् अत्रोंकारस्मरणात्–इति वाच्यम् । सगुणगणेशस्योंकारमयत्वात् तदेव कथ्यते मौग्दले ।
गणेशस्यादिपूजनं चतुर्विधम्, चतुर्मूर्तिधारकत्वात् । तत्र ब्रह्मणश्चतुर्भ्यो मुखेभ्यः पुराणं निःसृतं अष्टलक्षपरिमितम् । ततो द्वापरान्ते व्यासेनाष्टादशपुराणान्युपपुराणानि च कृतानि कलिमन्दमतिजनबोधप्रवेशार्थम् ।तत्र अष्टादशपुराणेष्वाद्यं ब्राह्मं निर्गुणगणेशमाहात्म्ययुक्तं, बुद्धिपरात्मप्रतिपादकत्वात् । अन्त्यं ब्रह्माण्डाख्यं सगुणगणेशमाहात्म्ययुक्तं, प्रवणप्रतिपादकत्वात् । तद्वदुपपुराणेष्वाद्यं गाणेशं सगुणनिर्गुणैक्यभावयुक्तं, गजवदनाद्यवयवमूर्तिधरमाहात्म्ययुक्तत्वात् । अन्त्यं मौग्दलं योगमयं गणेशमाहात्म्ययुक्तं, सर्वपुराणोपनिषद्ब्रह्मैक्यभावप्रदत्वात् । पुराणोपपुराणेषु मध्यस्थषोडश पुराणानि शिवविष्ण्वादिगणेशांशमाहात्म्ययुक्तानि । मध्ये नानांशविहारप्रतिपादकत्वात् । तत्र सर्ववेदाद्युक्तसदारम्भे गणेशस्मरणं चतुर्विधम्, आद्यन्तपुराणोपपुराणेषु गणेशमाहात्म्यप्रकाशकत्वात् । तत्र केचिदादौ बुद्धिस्थगणेशस्मरणं कृत्वा सत्कर्माणि कुर्वन्ति । तद्वत्प्रणवस्मरणं केचित्, केचिन्मूर्तिधरस्मरणं, केचिद्योगमयस्मरणं च, तत्तत्सिद्धिप्रदत्वात् । तत्र कथ्यते
"अष्टादशपुराणेषु दशभिर्गीयते शिवः । चतुर्भिर्गीयते विष्णुभ्यां शक्तिश्च विघ्नपः " ॥ --------------------------------------------------------------------------------------------तस्मिन् हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोक ' इत्युक्तत्वात् 'तस्य वाचकः प्रणव' इति श्रुतेश्च ओंकारस्य ब्रह्मणः वाचकत्वं सिद्धमत ओंकारशब्दवाच्यं ब्रह्मैव गणेश इति वक्तुं प्रथममोंकारस्योपदेश इत्येव व्याख्यानं युक्तम् । न चैवं सति ओंकारस्य आरम्भार्थकत्वं कुतो न स्वीक्रियत ? इति वाच्यम् । 'अनन्ता वै वेदाः' इत्यादिश्रुतिविरोधात् । अनाद्यनन्तस्य वेदस्यारम्भादिकल्पनाया असंभवादित्यलं पल्लवितेन ।
१ छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयखण्डे 'स्वर इतीमनाचक्षते' इत्यादौ ' द्रष्टव्यमेतत् । ६ गणेशाथर्वशीर्षम् ।
इति स्मृतेः । ननु–उपपुराणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयु-
क्तम् । उपवेदवत्कनिष्ठसंज्ञामयत्वात्–इति चेन्न । तत्रोपपदस्य श्रेष्ठ-
त्वप्रतिपादकत्वात् । इन्द्रोपैन्द्रनिदर्शनत्वात् [^]१, उपदेशप्रकरणादौ कनि-
ष्ठान्तश्रेष्ठत्वप्रतिपादकत्वात्, पूर्वमीमांसोत्तरमीमांसावदरण्यवद्ग्रहण-
त्वाच्च । तथा च गणेशगीतायाम्–
" अष्टादशपुराणोक्तममृतं प्राशितं मया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् " ॥
इत्यादिस्मृतिभ्यः । देवादिगणानां महत्तत्त्वादितत्त्वगणानां निर्गुणसगुणब्रह्मगणानां च पतिर्गणपतिः । सर्वादिपूज्यसर्वपूज्यत्वात् । गणसमूहे इति धात्वर्थात्–न चैवम्–अशुभसमारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसाम्यपितृयज्ञादावप्रसिद्धत्वात्–इति वाच्यम् । गयास्थगणेशपादस्य पितृमुक्तिप्रदत्वात्, वेदोक्तसत्कर्मारम्भे पितृयज्ञसिद्धिप्रदत्वात् वेदोक्तपितृयज्ञारम्भे गणेशपूजननिषेधाभावात्, तद्वत्प्राणप्रयाणसमये कथितत्वाच्च । " ज्येष्ठराजम् " इति श्रुतेः पितृणामपि ज्येष्ठत्वात् । तथा च गाणेशे त्रिपुरवधकाले शिववाक्यं– " शैवैस्त्वदीयैरुत वैष्णवैश्च शाक्तैश्च सौरैरपि सर्वकार्ये । शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात् " ॥ इति । गणेशगीतायामपि–
" यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयाऽन्वितः । स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज " ॥ " ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच । सर्वं भूतं भव्यं जायमानं च । तत्सर्वमित्याचक्षते । अस्मान्नातः परं किंचित् । यो वेद स वेद ब्रह्म । ब्रह्मैवाऽऽप्नोति तत्सर्वमित्याचक्षते " । --------------------------------------------------------------१ 'उप' पदसहित इन्द्रः उपेन्द्रो विष्णुः । स यथा उपोपसर्गसहितेन्द्र शब्दवाच्योऽपि इन्द्रादुत्तमः, तथा उपपुराणं पुराणादुत्तममिति वाक्यार्थः । वस्तुतस्तु उपेन्द्रः इत्यत्र उपोपसर्गस्य सामीप्यार्थत्वात् अन्यत्र कुत्रापि तस्योत्तमार्थाभिधायित्वप्रदर्शनाभावादिदं व्याख्यानमसंगतमेवेति प्रतिभाति । सभाष्यम् ।
ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह 'तद्गणेश' इति तत्परमित्याह 'यमेतेनाप्नुवन्ति' इति गणेशतापिनी श्रुतेः । तथाचोक्तं मौद्गले–
"गणशब्दः समूहस्य वाचकः परिकीर्तितः ।
समूहा योगरूपाश्च बाह्यान्तरैक्यभावतः ॥
अन्नानां सकलानां वै समूहेऽन्नमयं परम् ।
कथितं ब्रह्म वेदे तदेवं नानागणाः स्मृताः ॥
तेषां स्वाभी गणेशानस्तं ज्ञात्वा योगिनः पुरा ।
शान्तिं प्राप्ता विशेषेण योगशान्तिमयं परम् " ॥
इति । अन्यच्च–
" कथितं सामवेदे यच्छृणु वेदरहस्यकम् ।
येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥
मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् ।
गकारात्मकमेवं तत्तत्र ब्रह्म गकारकः ॥
मनोवाणीविहीनं च संयोगायोगसंस्थितम् ।
णकारात्मकरूपं तण्णकारस्तत्र संस्थितः ॥
विविधानि गकाराच्च प्रसूतानि महामते ।
ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥
णकाराच्च प्रसूतानि ब्रह्माणि तानि योगिभिः ।
निरोधात्मकरूपाणि कथितानि समन्ततः ॥
गकारश्च णकारश्च नाम्नि गणपतेः स्थितौ ।
तदा जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥
तयोः स्वामी गणेशश्च योगरूपेण संस्थितः ।
तं भजस्व विधानेन शान्तिमार्गेण पुत्रक " ॥
ते तुभ्यं नमः । तत्त्वमस्यात्मकब्रह्मनमस्कारसमत्वात् ब्रह्मनमस्कारासंभवाच्चेति नाममन्त्रोऽयमादौ वर्णितः । सर्वजनोद्धारसुलभत्वात् ॥ ननु- गणेशनमनेन जनस्य कृतकृत्यता कथं ? सावयवत्त्वात् । तदर्थं महावाक्यप्रतिपाद्यतामाह – गणेशाथवशीर्षम् ।
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमिति । त्वमेवेति नान्यः निश्चयार्थ एवकारः । प्रत्यक्षमिति । ब्रह्म दृष्टिगोचरम् । नरगजभेदाभिन्नाकृतिमयत्वात् । तेन च महान् हर्षः, साक्षाद्ब्रह्मदर्शनाभावात् । तत्त्वमसीति । जगत्कारणं तत्पदसंज्ञम् । निर्विकल्पकत्वात् । 'स मूलमन्विच्छ सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ' ( छा० उ० ६ । ६ ) इति श्रुतेः । 'भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छुणोति स भूमा ' ( छा० उ० ७ । २४) इति । 'ब्रह्मैवेदममृतं षुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चो त्तरेणेति । स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' (बृ० उ० ६ । ५। १३) इति श्रुतिभ्यः । 'सत्यं ज्ञानमनन्तमानन्दं ब्रह्म ' सत्यमविनाशिनामदेशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधीयते । अनन्तं नाम मृद्विकारेषु मृदिव, सुवर्णविकारेषु सुवर्णमिव, तन्तुकार्येषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु सर्वव्यापकं चैतन्यं अनन्तमित्युच्यते । आनन्दो नाम सुखचैतन्यस्वरूपापरिमितानन्दसमुद्रे अविशिष्ट सुखरूपश्च आनन्द इत्युच्यते । एतद्वस्तुचतुष्टयं यस्य स्वरूपलक्षणं देशकालवस्तुनिमित्तेष्वव्यभिचारि स तत्पदार्थः ।
'परमात्मा परं ब्रह्मेत्युच्यते' इति सारोपनिषच्छ्रुतेः जगन्मयं त्वंप दसंज्ञं, नानाभेदप्रकाशकत्वात् [^]१। 'ॐ मित्येतदक्षरमुग्दीथमुपासीत । ॐ मित्युद्गायति । तस्योपव्याख्यानम् । एषां भूतानां पृथिव्या आपो रसः । अपामोषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाक् रसः । वाच ऋक् रसः । ऋचः साम रसः । तस्योद्गीथो रसः । स स एष रसाना रसतमः । परमः परार्ध्योऽष्टमो यदुद्गीयः ३ । कतमा कतमा ऋक् ! कतमत् कतमत्साम ? कतमः कतम उद्गीथः ? इति विमृष्टं भवति ४ वागेव ऋकू । प्राणः साम । ॐ मित्येतदक्षरमुद्गीथः तद्वा --------------------------------------------------------------१ अत्र 'जगन्मयं त्वंपदसंज्ञं, नानाभेदप्रकाशकत्वात्' इत्युक्त्वा 'ओमित्येतदक्षरमुद्गीथम्' इत्याद्याः श्रुतय उदाहृताः। परं न जानीम: प्रकृते तासां कोपयोग ? इति । सभाष्यम् ।
एतन्मिथुनं ओमिति । यद्राक् च प्राणश्चर्क् च माम च । तदेतन्मिथु नमोमित्येतदस्मिन्नक्षरे ससृज्यते । यदा वै मिथुनौ समागच्छत आपयतो वै तावन्यान्यस्य कामम् " । ( छा० उ० ३ । १ )
यथा लोके मिथुनौ यदा समागच्छतस्तदापयतः कामं तथा तदुपासकस्तद्धर्मो भवति । आपयिता ह वै कामानां तं यथा यथोपामते तदेव भवतीति । "त्रयं वा इदं नामरूपं कर्म " ( बृ० उ० ३।६।१ ) । "तदेतदमृत सत्येन छन्नं । प्राणो वा अमृतं । नामरूपे सत्यं । ताभ्यामयं प्राणश्छन्न: " [ बृ० उ० ३ । ६ । ३ ] यथोर्णनाभिस्तन्तुनोच्चरेत् । स यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्व प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मनो व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं । तेषामष सत्यम्" (बृ० उ० ४ । १। २० ) । "अथ यत्रान्यत्पश्यत्यन्यद्विजानाति तदल्पमिति " ।
मनआदिश्च प्राणादिश्च सत्त्वादिश्च इच्छादिश्च पुण्यादिश्चेत पञ्च वर्गा इत्येषां पञ्चानां वर्गाणां धर्मीभूतात्मज्ञानादृते न विनश्यत्यात्म संनिधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते । तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञानज्ञेया नामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भावतिरोभावहीनः स्वयंज्योति: स साक्षीत्युच्यते । ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्वविशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते कूटस्थाध्युपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा प्रकाशत आत्मा तदाऽन्तयामीत्युच्यते । सर्वोपाधिविनिर्मुक्तः सुवर्णघनवद्विज्ञानघनश्चिन्मात्रस्वभाव आत्मा यदाऽवभासते तदा त्वंपदार्थः प्रत्यगात्मेत्युच्यत इति श्रुतिभ्यः । त्वंपदतत्पदयोरभेदेऽसिपदं, सोपाधिनिरुपाधिहीनसदात्मत्वात् । " भूय एव मा भगवान्विज्ञापयतु यद्वै मनसा ध्यायति स तद्वाचा वदति । स य एषोऽणिमा एतदात्ममि द ँ सर्वं तत्सत्य ँ स आत्मा । तत्त्वमसि श्वेतकेतो " -----------------------------------------------------------------१ ' सर्व एव आत्मानो' इत्येतत्कलिकातामुद्रितबृहदारण्यकपुस्तके नास्ति । २ १०
गणेशाथवशीर्षम् ।
(छा० उ० ६ । ८ ) । इति क्रमेण नवघोपदेशस्तत्त्वमस्यात्मकमहावाक्यस्य ग्रन्थबाहुल्यभयान्न लिख्यत इति ।
त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकाद्विलक्षण आकाशवत्सूक्ष्म एव केवलसत्तामात्रोऽसिपदार्थः । "स्वयंज्योतिरात्मेत्युच्यते । त्वंपदार्थतत्पदार्थसाम्यं आत्मेत्युच्यते " इत्यादिश्रुतिभ्यः ।
अधुना तत्त्वमस्यात्मकगणेशस्वरूपं वर्ण्यते । त्वमेव प्रत्यक्षं तत्त्वमसीति मूलवाक्यप्रतिपादनार्थत्वात् । त्वंपदार्थो नरात्मकस्तत्पदार्थो गजात्मकश्च तयोरभेदेऽसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं तत्त्वमसीति प्रत्यक्षवाक्यप्रामाण्यात् । तद्यथा । नरः प्रणवात्मकः । सोपाधिब्रह्मात्मकत्वात् । स एव त्वंपदार्थः । प्रणवपरसोपाध्यभावात् । "ओमित्येकाक्षरं ब्रह्मेदं सर्वं तस्योपव्याख्यानं सर्वं भूतं भव्यं भविष्यदिति सर्वमोंकार एव " इति श्रुतेः । "सोपाधिक: स्यात्सर्वत्र " इति स्मृतेः । "आपो नारा इति प्रोक्ता आपो वै नरसूनव: " इति श्रुतेः । अबुपलक्षितानि पञ्च भूतानि ग्राह्याणि । वेदभाष्ये शंकराचार्यवचनात् । "नराज्जातानि तत्त्वानि " इति स्मृतेः । प्रणवात्तत्त्वोत्पत्तिः । सर्वशास्त्रसंमतत्वात् । नारायणोपनिषदि नारायणनामार्थप्रतिपादने नराज्जाता नाराः ता एवायनं यस्येति नारायणः । प्रणवमयत्वात् । प्रणवोपासकसंन्यासिनां नारायणसंज्ञात्मकत्वात् ।
"दण्डग्रहणमात्रेण नरो नारायणो भवेत् " इति स्मृतेः । गाणेशे–
"यस्मादोंकारसंभूतिर्यतो वेदा यतो जगत् "
इति स्मृतेः । त्वंपदार्थो नरात्मकः । तदैक्यसत्तामयत्वात् । अथ गजशब्दार्थः कथ्यते । तत्पदैक्यसत्ताप्रतिपादनार्थत्वात् । समाधिना योगिनो यत्र गच्छन्तीति गः । यस्माद्बिम्बप्रतिबिम्बवत्तया प्रणवात्मकं जगज्जायत इति जः गश्चासौ जश्च गजः । विश्वकारणत्वात् । "जन्माद्यस्य यतः " [अ० १ पा० सू० २ ] इति व्याससूत्रात् । "यस्मादोंकारसंभूतिर्यतो वेदा यतो जगत् " ।
इति गाणेशात् । न चैवं – विपरीतो गजपदार्थ आदौ लयः पश्चासभाष्यम् ।
त्सृष्टिः गकारजकारमयत्वात्–इति वाच्यम् । आदावेव समाधिना योगिनो यत्र गच्छन्तीति फलं दर्शयित्वा स्वानुकूलं शिष्यं कृत्वा पश्चात्तत्स्वरूपदर्शनार्थं तस्मात्सृष्टिरुक्ता शिष्यबोधार्थम् । न चैवं–अन्नं ब्रह्म गजशब्दाख्यं, "अन्न ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते " (तै० उ० अ० ३ अ० २ कं० ३६ ) इति श्रुतिप्रतिपादितब्रह्मणामपि सर्वभूतोत्पत्तिलयकारकत्वात्–इति वाच्यम् । प्राणब्रह्मणि अन्नस्योत्पत्तिलयदर्शनात् । तद्वन्नानारण्यक प्रतिपादितब्रह्मणामप्युत्पत्तिलयकथनान्महावाक्यप्रतिपाद्यब्रह्मजगत्कारण निर्गुणैकसंभवत्वात्, तस्मात्परकारणाभावाच्च। तदेव गणेशतापिन्याम्- "अप्राप्यं चाप्राप्यं च, अज्ञेयं चाज्ञेयं च, विकल्पासहिष्णु तत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे" इति श्रुतेः । अस्यायमर्थः । अप्राप्यं चाप्राप्यं मनोगतिशून्यं यद्यत्प्राप्यते तत्तन्मनोगतियुक्तत्वात् । अत्र चीप्सा हि आग्रहप्रदर्शिनी । कदाऽपि प्राप्यत्वाभावात् । अज्ञेयं चाज्ञेयं वाण्या च वक्तुमशक्यं वाण्याऽकथितम्, मनोध्येयत्वात् । पूर्ववद्वीप्सा ज्ञातव्येति । विकल्पासहिष्णु विकल्पशून्यम्, निर्गुणत्वात् । तत्सशक्तिकं, निरुपाधिमायायुक्तत्वात् । " त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकात्" इति श्रुतेस्तत्पदार्थसशक्तिकात्मकत्वसंभवात् । गजवक्त्रं तत्पदार्थमयगणेशवक्त्र मात्रत्वाद्गज इव वक्त्रमिति व्युत्पत्तिसंभवाच्च । गजाकारं जगत् ओंकारात्मकं जगत्सोपाधि ब्रह्म जगन्मयत्वात् । तदेव गणेशतापिन्यां-"ततश्चोमिति ध्वनिरभूत्तत्स वैगजाकार अनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च मायाशबलमिति च' इति श्रुतेः। गजाकारोंकारप्रतिषादनात्तदेव जगन्मयत्वाद्बीम्बप्रतिबिम्बवद्गज शब्दाख्यब्रह्मणो गजाकारौंकारोत्पत्तिदर्शनाद्गजस्याऽऽकार इवाऽऽकारो यस्येति व्युत्प त्तिसंभवात्साक्षाद्गजमयाभावात् गजाकारश्रुतिप्रतिपादनाच्च । एवावरुन्धे गजाकारं जगद्यदुत्पन्नमादौ यदाधारं मध्येऽन्ते यन्मयमित्यर्थः, अवरोधनार्थसंभवात् । इति गजशब्दाख्यतत्पदार्थैक्यप्रतिपादनं, श्रुतिप्रमाणत्वात् । नरगजयोरभेदेऽसिपदात्मको गणेश देहः । संपूर्णस्तत्त्वमस्यात्मकः, प्रत्यक्षमधुनाऽपि सावयवत्वात् । सोपाधिर्नरस्त्वंपदार्थात्मको गणेशदेहः, पादागणेशाथर्वशीर्षम्।
दिकण्ठपर्यन्तं नराकृतिमयगणेशदेहत्वात् । सोपाधिनिकृष्टत्वादधमाङ्गनित्यर्थः । निरुपाधिर्गजस्तत्पदार्थात्मको गणेशदेहः, कण्ठादिमस्तक पर्यन्त गजाकृतिमयगणेशदेहत्वात् । निरुपाधिसर्वोत्कृष्टत्वादुत्तमाङ्गमित्यर्थः । तयोर्योगेऽसिपदार्थमयो गणेशदेहः, संपूर्णपादादिमस्तकपर्यन्तप्रतिपादनत्वात् । ब्रह्मगणेशयोरभेदः कृतः तत्रातिव्याप्त्यव्याप्तिदोषासंभवः, सामान्यानुमानसंभवात् । तद्वत्सर्वदोषनिराकारणसामर्थ्यादत्र ग्रन्थे सर्वत्रैव दोषासंभवात् । अत्र सिद्धिबुद्धियुक्तोऽपि प्रतिपादितः । पञ्चचित्तबृत्तिमयी बुद्धिस्तद्धर्षविषादादिमोहप्रदा सिद्धिः, " योगश्चित्तवृत्तिनि रोधः " [पा० १ सू० २] इति पातञ्जलसूत्रात् । एवं संपूर्णतत्त्वमस्यात्मकं गणेशं प्रतिपाद्य अधुना त्वंपदतत्पदासिपदभिन्नभावशोधनार्थं ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह–
त्वमेव केवलं कर्ताऽसि ।
त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्ताप्रधारकः, प्रणवांशमयत्वात् । केवलं कर्ताऽसि । केवलं यथातथाऽव्यक्तादिस्थूलदेहपर्यन्तं जगन्निर्माणकारकः, ओंकारात्तत्त्वोत्पत्तिदर्शनात् । तथाऽपि तद्भावशून्यो बिम्बप्रतिबिम्बवदोंकारमयः, केवलपदग्रहणात् । तद्वत्–
त्वमेव केवलं धर्ताऽसि ।
जगत्पालकोऽसि, नामपकर्मभेदतया स्वस्वकर्मानुसाराकृतिभोगप्रदत्वात् । तद्वत–
त्वमेव केवलं हर्ताऽसि ।
प्राकृतलयप्रवर्तकत्वात् ।
एवं त्वंपदार्थं केवलमिति पदेन तदुपाविहीनतया शोधयित्वा तत्पदार्थशोधनार्थमाह– त्वमेव सर्वं खल्विदं ब्रह्मासि ।
सन् तत्पदार्थव्यवहारसत्ताप्रधारकः, सर्वोपाधिवर्जितांशमयत्वात् । सर्वं खल्विदं ब्रह्मासीति । सर्वमिदमोंकारमयं जगत् खलु नानोपाधिसंशयहीनम् । त्वमिति त्वमेव तत्त्वमसिमयः, सदैव ब्रह्मैक्यभावप्रतिपादनत्वात् । ब्रह्मासि तत्पदार्थमयत्वात् । "सर्वं खल्विदं ब्रह्म । तज्जलानिति सभाष्यम् ।
शान्त उपासीत" इति श्रुतेः । अत्र शान्त उपासीतेति सर्वोपाधिभावमनादृत्य ब्रह्मैक्यभावप्रतिपादनत्वात् । तत्पदार्थप्रतिपादकमिदं महावाक्यं, तज्जलानिति सर्वकारणप्रतिपादकत्वात् ।
एवं तत्पदार्थं ब्रह्मासीति वचनसामर्थ्याच्छोधयित्वाऽसिपदशोधनार्थमाह–
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
त्वमिति । साक्षादात्माऽसि नित्यमिति कार्यकारणैक्यभावत्वादा-
त्मनः सातत्यगमनं नित्यम्, सर्वाभेदमयत्वात् । त्वंपदार्थात्मा, तदभिन्न-
त्वात् । तत्पदार्थात्मा तदभिन्नत्वात् । एवं यद्यन्मनोवाणीमयं तद्धीनं च
तत्र तत्तदभिन्नतया तदात्मा तदाऽपि तत्तदुपाधिभावहीनत्वान्नित्यमिति
पदं न कार्यं न कारणम्, आत्मनि सर्वाख्याभावात् ॥ इति अधिदैवत-
प्रतिपादकः प्रथमः खण्डः ॥ १ ॥
एवं त्वंपदार्थं तत्पदार्थमसिपदार्थं च शोधयित्वा तत्तत्पदार्थमयं गणेशं प्रतिपाद्य एतत्प्रमाणार्थं स्वप्रतिज्ञा प्रदर्शयन्नाह–
ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥
ऋतमिति । ऋतमनृतात्मकासुरभावाभिमानशून्यं, यथार्थगणेशभ-
क्त्यभिमानहीनभाषणत्वात् यथावेदानुभवप्रतिपादनत्वाच्च । वच्मीति
कथयामीति सत्यमिति । सदा देशकालवस्तुनिमित्तेषु विनश्यत्सु यद-
विनाशि तत्सत्यं सर्वबाधहीनत्वात् । शिवविष्ण्वादिनानाब्रह्मप्रतिपादना-
त्मकदेहेषु गणेशदेहः संपूर्णब्रह्मक्यभावमयः महावाक्यमयनरगजाभेदा-
कृतिधारकत्वात् । इदं सत्यमविनाशीति वच्मि ॥ इति स्वप्रतिज्ञात्मको
द्वितीयः खण्डः ॥ २ ॥
एवं स्वप्रतिज्ञां सत्यभाषणात्मिकां प्रदर्श्य ऋतसत्यभाषिणं गणेशो रक्षति सदा, यथार्थस्वभक्तिलुब्धत्वात् तदधीनो भवति । तदेव प्रकटयन्नाह– गणेशाथर्वशीर्षम् ।
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।
अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।
अव दक्षिणात्तातू । अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
अवेति । त्वं साक्षात्प्रत्यक्षं तत्वमस्यात्मकः, अत्तो मामव । ऋतस-
त्यभाषिणं धर्मार्थकाममोक्षब्रह्मभावार्थिनं मां नानाविघ्नसमुदायाद्रक्षेति
स्वप्रतिज्ञापालको भव, भक्ताधीनत्वात् । अवेति । अत्र अव त्वं माम्
अव वक्तारम् इत्यादिपदेष्वसंधिरार्षः । एवं सर्वत्र ज्ञातव्यम् । वेदे-
च्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तदनुष्ठानफलवक्तारं
च यथार्थप्रदो भव, मदीयकृतफलश्रुतिभागेप्रदत्वात् । श्रोतारं मां मत्कृता-
थर्वशीर्षादित्वत्स्तुतियथार्थपाठकनानाजनपरीक्षार्थं तच्छ्रवणकर्तारमव,
यथाऽर्थश्रोतृप्रियत्वात् । दातारं अथर्वशीर्षादित्वदुपासनदातारं मामव,
यथाऽथर्वशीर्षपरंपरासंप्रदायप्रवर्तकप्रियत्वात् । धातारं त्वत्प्रियकर्मो-
पासनज्ञानयोगसाधनस्रष्टारं मामव, यथार्थसाधनप्रियत्वात् । अनूचानं
त्वत्प्रियान्यर्षिप्रोक्तमार्गभक्तं कदाचित् भ्रान्ततया संशययुक्तं तत्संशय-
नाशकारकं मामव, स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिष्यम्, मद्बु-
द्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यप्रियत्वात् ।
पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविघ्नेभ्यो मत्पृष्ठभागदिक्स्थितेभ्यो
मामव, स्वभक्ताज्ञातविघ्ननाशकत्वात् । तद्वत्पुरस्ताद्विघ्नेभ्यो मामव इति
तद्वदुत्तरदक्षिणोर्ध्वाधरा ज्ञातव्याः । दशदिग्रक्षणप्रार्थना प्रतिपादकत्वादे-
कार्थः । सर्वतो विदिशान्तरबाह्यादिनानास्थानस्थितविघ्नेभ्यो मां पाहि
पाहि । आदराद्वीप्सा । समन्ताद्ब्रह्माण्डान्तरगतभयात्पाहीति भावः ॥
इति तृतीयः खण्डः ॥ ३ ॥
एवं ऋतसत्यशीलरक्षणात्मकप्रार्थनां विधाय हृदिस्थं बुद्धिपरबुद्धिचालकं नानासिद्धिप्रदायकं च गणेशं प्रार्थयन्नाह– सभाष्यम्
त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं
सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा-
नमयो विज्ञानमयोऽसि ॥ ४ ॥
त्वमिति । अत्र " सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन्" ( तै० व० २ अ० १ ) इतिमहावाक्यप्रतिपादकश्रुत्यर्थं प्रतिपादयाति । निहितं गुहायामिति, हृद्यवस्थितब्रह्मत्वात् । वाङ्मयः, वाणीकथितनामरूपमयत्वात् । "एषां पृथिव्या आपोऽपामो पधयस्तासां पुरुषस्तस्य वाक् " इति श्रुतेः । त्वं चिन्मयः नामरूपाहंकृतियुक्तो जीवः, तद्भोगकृतत्वात् । " स एव इह प्रविष्ट आनखाग्रेभ्यो यथाक्षुरः क्षुरेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये । तं न पश्यत्यकृत्स्नो हि सः । प्राणमेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवति आत्मेत्येवोपासीत । अत्र ह्येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिश्लोकं विन्दते य एवं वेद" इति । "तत्सृष्ट्वा तदेवानुप्राविशत् " इत्यादिश्रुतिभ्यः त्वमानन्दमयवाङ्मयप्रकृतिमयचिन्मयपुरुषमयस्ताभ्यां सृष्ट आनन्द: सुषुप्त्यवस्थात्म कस्त्वन्मयः, पञ्चकोशबीजत्वात् । "आनन्दो ब्रह्मेति व्यजानात्" [तै० व० ३ अ० ६ ] इति श्रुतेः । त्वं ब्रह्ममयः, वाङ्मयचिन्मयानन्दमयैक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थैक्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह–त्वं सच्चिदानन्दाद्वितीयोऽसि इति । सत् प्रकृतिभावदोषहीनत्वात्, चित् चैतन्यात्मकत्वात्, आनन्द आसमन्तात्त्र्यवस्थानन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्यत्वादिति । इदं महावाक्यं गौणं षोडशमहावाक्यप्रामाण्यात् । चत्वारि महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवलयोगप्रतिपादनवेदान्तसीमाभूतत्वात् । अनन्तं ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहलीदीपगणेशाथर्वशीर्षम् ।
न्यायवत्सत्यज्ञानोभयाभेदमयमुभयप्रकाशतन्मध्यप्रतिपादनत्वात् । त्वं प्रत्यक्षं ब्रह्मासि, चिन्तामणिनामा, चित्तप्रकाशकत्वात् । प्रत्यक्षं हृद्यवस्थितं त्वां पश्यामीति स्वानुभवप्रदर्शनात् । "चिति स्मृतौ " इति धातुपाठात् "इदिनो नुम्" इति पाणिनिसूत्राच्चिन्तायां स्मृत्यां मणिरिव तत्प्रकाशकः । सर्वहृद्यवस्थितं ब्रह्म त्वमेवेति भावः । एवं सत्यं ब्रह्म गुहायां निहितं प्रतिपादितम् । "द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च " इति श्रुते । " सच्च त्यच्च तयोर्योगे सत्त्वं ब्रह्म " इति श्रुतेश्च । एवं ज्ञानं ब्रह्मेति प्रतिपादयन्नाह । त्वं ज्ञानमयः । सच्चिदानन्दाद्वितीयात्मकसत्यब्रह्मणोऽभिन्नः सदा निर्विकल्पात्मकत्वात्सदेकमयत्वात्सत्यब्रह्मणि सच्चिदानन्दाद्वितीयेषु स्वस्वरूपज्ञानप्रदत्वात् । 'ज्ञा' अवबोधन इति धातुपाठात्स्वयं सर्वज्ञः, स्वस्य ज्ञात्रभावात् । ज्ञानेन ज्ञायते सर्वं ज्ञानं केन न ज्ञायते ज्ञानात्परज्ञानाभावादिति । विज्ञानमयोऽसि सर्वज्ञभावं त्यक्त्वा स्वमहिम्नि स्थितोऽसि, केवलज्ञानबह्ममयत्वात् । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते, अविनाशित्वात् । "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्नि । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । अनन्तं ब्रह्म । सत्यज्ञानैक्यात्मकमात्मस्वरूपं हृदि तत्त्वमस्यात्मकार्थप्रतिपादकमहावाक्यात्सत्यं, त्वंपदाथर्मयत्वात् तज्ज्ञानं तत्पदार्थमयत्वादनन्तमसिपदार्थमयस्त्रिविधपदार्थैक्यात्मकब्रह्मप्रतिपादनार्थत्वात् । निहितं गुहायां गुहा वुद्धिस्तस्यां निहितम्, हृद्यवस्थितबुद्धिपतित्वात् । पञ्चचित्तव्यापारहर्षविषादसमभावयुक्ततत्तव्द्यापारसिद्धिप्रदसिद्धिपतित्वाद्गणेशो हृद्यवस्थितः । "सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्यनुभवैक्यात्मगणेशत्वात् । परमे व्योमन्निति दहरोपासनार्थं तदेव कथ्यते । "अथ यदिदमस्मि ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्तराकाशमनस्मिन्यदन्तस्तदन्वेष्टव्यम् । तद्वाव विजिज्ञासितव्यं स ब्रूयाद्यावान्वा अयमा काशस्तावानेषोऽन्तर्हृदय आकाश उमे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते । एष आत्मा अपहतपाप्या विजरो विमृत्युर्विशोको विजिसभाष्यम् ।
घत्सोऽपिपामः सत्यकामः सत्यसंकल्पः स वा अयं पुरुषः सर्वासु पूर्षु
पुरिशय: " इत्यादिश्रुतिभ्यः स्वहृद्याकाशस्थितत्वात् । अत्र त्वं प्रत्यक्षं
ब्रह्मासीति प्रतिषादनात् हृद्यवस्थितगणेशो ग्राह्यः । प्रत्यक्षं तत्त्वमसीति
प्रथमं प्रतिपाद्य पुनः प्रत्यक्षं ब्रह्मासीति पुनरुक्तिनिवारणत्वात् । न च
एवं सद्ब्रह्मादिवर्णनं पूर्णब्रह्मप्रतिपादकं "सव सौम्येदमग्र आसीत् "
इत्यादिश्रुतिप्रामाण्यात् इति वाच्यम् । प्रत्यक्षं तत्त्वमसीत्यत्र मयट्प्र-
त्ययाभावात्संपूर्णं ब्रह्मात्र प्रतिपाद्य पुनस्त्वं वाङ्मयादिमयट्प्रत्यययुक्तत्वा-
द्गौणब्रह्मवर्णनमत्रैव मयड्ढनियुक्तप्रतिपादनत्वात् ॥ इत्यध्यात्मप्रतिपा-
दकश्चतुर्थः खण्डः ॥ ४ ॥
एवं हृद्यवस्थितं गणेशं प्रतिपाद्याव्याकृतब्रह्मात्मकं प्रतिपादयन्नाह -
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठ-
ति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं
त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं
चत्वारि वाक्पदानि ॥ ५ ॥
सर्वमिति । सर्वं जगदिदं त्वत्तो जायत इति । त्वत्तोऽव्याकृतात्मन इदं जगज्जायते । त्र्यवस्थामयव्याकृतत्वात् । तदेवोंकारात्मकगणेशप्रतिपादनत्वात् । गणेशतापिन्याम् । " ततश्चोमिति ध्वनिरभूत् स वै गजाकारोऽनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च मायाशबलमिति च" इति श्रुतेः । "ओमित्येकाक्षरं ब्रह्मेदं सर्वें ब्रह्म" इति श्रुतेः । गाणेशे पार्वत्या तपः कृतं तस्यै वरदानार्थमागतो गणेशश्चोंकारात्मकः तद्रूपधारकत्वात् । तद्यथा" मध्ये नारायणमुखो दक्षिणे च शिवाननः । वामे ब्रह्ममुखोऽनन्ते पद्मासनगतो विभुः" इति स्मृतेः । ब्रह्मविष्णुरुद्रात्मानोऽकारोकारमकाराः, कण्ठाधस्तदैक्यभावमयत्वात् । शैवे शिवेन शिरश्च्छेदः कृतः शक्तिपुत्रस्य, जीवात्मकत्वात् गणेशाविर्भावहीनत्वाच्च । तत्र पुनर्गजमस्तकमानीय सजीवकरणे ब्रह्मविष्णुमहेशैरोंकारावाहनं यदा कृतं तदा गणेशाविर्भावदर्शनात् । देवीमागवतेऽप्येवं वर्णनत्वाद्गणेशस्य ओंकारजगदात्मकत्वात् । शिवपुरागणेशाथर्वशीर्षम् ।
णेऽपि गणेशावतारवर्णन आवाहनदर्शनाच्छिवैक्यप्रतिपादनपुराणप्रतिज्ञारक्षणाच्च । न चैवं शिवविष्ण्वादय ओंकारात्मकास्तत्तन्माहात्म्यश्रुतिस्मृतिप्रतिपादनत्वादिति वाच्यम् । तामससात्त्विकादिस्वस्वैकगुणमयदेहप्रचुरत्वात् । सर्वसारनिर्णयग्रन्थे मया प्रतिपादितमत्र न लिख्यते, ग्रन्थबाहुल्यभयात् । तद्वत्सर्वं जगदिदं त्वत्तस्तिष्ठति, स्वस्वकर्मानुकूलपालनभावधारकत्वात् तद्वत्प्रलये त्वयि लयमेष्यति, कल्पान्तमयत्वात् । तद्वत्सर्वं जगदिदं त्वयि प्रत्येति, प्राकृतलये गुणसाम्यमयत्वात् । "त्वय्येत्य सदेव अग्र आसीत्" इति श्रुतिप्रामाण्यात् । त्वं भूमिरापोऽनलोऽनिलो नभः, स्थूलसूक्ष्मसमपञ्चभूतमयप्रणवत्वात् । "अस्यात्मन आकाशः संभूतः" इति श्रुतेः। प्रणवविशिष्टात्मनः पञ्चभूतोत्पत्तिप्रतिपादनत्वात् । त्वं चत्वारि वाक्पदानि । परापश्यन्तीमध्यमावैखर्यश्चतस्त्रो वाचस्त्वच्छावससंभवधर्माधिर्मसमज्ञानबोधमयत्वात् । स यथाऽऽर्द्रेन्धनाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानान्यस्यैवैतानि सर्वाणि निःश्वसितानि" इति श्रुतेः प्रणवनिःश्वासमयवेदादित्वात् । " ओंकारप्रभवा वेदाः " इति स्मृतेः ॥ इत्यधिदैवतवर्णनात्मकः पञ्चमः खण्डः ॥ ५ ॥ एवमव्याकृतमयं गणेशं प्रतिपाद्य सर्वजनमूलाधारस्थितिं प्रतिपादयन्नाह –
त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं
सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम् ॥ ६ ॥
त्वमिति । त्वं गुणत्रयातीतनानाजनदेहमूलाधार स्थितः संस्त्रिगुणदोषप्रवृतिप्रकाशाज्ञानवर्जितो लिङ्ग वक्रस्थराजसनाभिचक्रस्यसात्त्विकदृक्चक्रस्थतामसभावहीनत्वात्त्रिगुणमूलाधारमय, प्रणवमयत्वात् । त्वमवस्थात्रयातीतः जाग्रत्स्वप्नसुषुप्त्यावस्थाभावहीनत्वात् । त्वं देहत्रयातीतः, स्थूलसूक्ष्मानन्ददेहषड्भावहीनत्वात् । त्वं कालत्रयातीतः, उत्पत्तिस्थिसभाष्यम् ।
तिलयकालभावहीनत्वात् । त्वं मूलधारस्थितोऽसि नित्यम् । गुदचक्रं
प्रणवमयं तत्र स्थितः, सर्वचक्रमूलाधारमयत्वात् । मूलधारसंज्ञाख्यं,
सदाखण्डस्वानन्दघनत्वात् । नित्यं, त्रिगुणभाववर्जितत्वाच्च । त्वं शक्ति-
त्रयात्मकः । जगदुत्पतिस्थितिलयत्रिविधशत्क्याधारात्मकत्वात् । त्वां
योगिनो ध्यायन्ति नित्यम् स्वात्मानन्दब्रह्मैक्यं समाधिना कृत्वा जीव-
न्मुक्ततया देहप्रारब्धमोगप्रतीक्षका योगिनस्त्रैगुण्यात्मकं त्वां नित्यममृ-
तात्मकत्वाद्ध्यायन्ति, स्वदेहमूलाधारचक्रस्थध्यानसुलभत्वात् । त्वं ब्रह्मा
जगत्सृष्टिनिर्माणकर्ता, रजोविशिष्टप्रवणत्वात् । त्वं विष्णुर्जगत्पालकः,
सत्त्वविशिष्टत्वात् । त्वं रुद्रो जगत्संहारकः, तमोविशिष्टत्वात्, त्वमि-
न्द्रस्त्रिभुवनैश्वर्यभोक्ता, परमैश्वर्यविशिष्टत्वात् । त्वमग्निः सर्वयज्ञभोक्ता,
सर्वदेवमुखतृप्तिकारकविशिष्टत्वात् । त्वं वायुः सर्वप्राणभूतः, सर्वजन-
प्राणप्रवेशस्थापनोत्क्रमणविशिष्टत्वात् । त्वं सूर्य उदयास्तदिवसरात्रि-
प्रकाशकः, सर्वजनकर्मप्रवर्तकविशिष्टत्वात् । त्वं चन्द्रमाः सर्वौषधिजी-
वनात्मकः, जगदन्नमयविशिष्टत्वात् । ब्रह्मादिचन्द्रपर्यन्तानामष्टानां
स्वस्वव्यापारप्रवर्तकात्मकः । श्रुतयो न लिख्यन्ते, सर्वप्रसिद्धत्वात् ।
एतदन्तर्गतदेवदेवेश्वरा ज्ञातव्या अष्टविशिष्टगणेशप्रतिपादनत्वाद्विचार-
तदन्तर्गतसंभवाच्च । त्वं ब्रह्म सर्वजन बुद्धिस्थजीवमयः, नानास्वभावप्रकृ-
तिभोक्तृविशिष्टत्वात् । भूः भूर्लोकस्त्वमेव, तद्विशिष्टत्वात् । भुवः भुवर्लो-
कस्त्वमेव, तद्विशिष्टत्वात् । स्वः स्वर्लोकस्त्वमेव, तद्विशिष्टत्वात् । ॐ
प्रणवस्त्वमेव, सर्वमूलाधारचक्रस्थितविश्वचालकत्वात् ॥ इत्यध्यात्म-
प्रकाशकः षष्ठः खण्डः ॥ ६ ॥
एवं साधिदैवताध्यात्मप्रकारयुक्ततत्त्वस्यात्मकं प्रणवात्मकं च गणेशं प्रतिपाद्य तदनुमवप्रकाशकगणेशविद्यां प्रकटयन्नाह – गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । गणेशाथर्वशीर्षम् ।
नादः संधानम् । सꣳहिता संधिः । सैषा गणेशविद्या । गणक ऋषिः । निचृद्गायत्री छन्दः । गणपतिर्देवता । ॐ गं ॥ ७॥ गणादिमिति । पूर्वं प्रथमं गणादिं गकारं गणशब्दादिभूतत्वात् । उच्चार्य स्वमुखेनोच्चारणं कृत्वेति । तदनन्तरं वर्णादिः । वर्णा [^१]अक्षराणि तदादिरकारः, तस्य आदौ कथितत्वात् । तस्मादकारात्परतरोऽनुस्वारः। गकार आदिस्तस्मात्परोऽनुस्वारः परतरः कीदृशोऽनुस्वारः अर्वेन्दुलसितः, सानुनासिकत्वात् । एवमेकाक्षरमन्त्रात्मिकां विद्यां प्रतिपाद्य सशक्तिकमन्त्रं प्रकटयन्नाह- -तारेणेति । तारेण प्रणवेन [^२]ऋद्धं युक्तम् । प्रणवयुक्तैकाक्षरमन्त्रत्वात् । तत्राऽऽदौ प्रणवमुच्चारणम् । " आदौ प्रकृतिमुच्चार्य पश्चात्पुरुष उच्यते " इति स्मृतेः । रुद्रयामले एकाक्षरगणेशकवचे मन्त्रोद्धारः कृतः । तत्र प्रणवस्य शक्तित्वप्रतिपादनात् । तद्यथा–" गं वीजं शक्तिरोंकारः सर्वकामार्थसिद्धये " । इति । तव गणेशस्य मनुस्वरूपं मन्त्रस्वरूपमेतत्, सर्वसिद्धिप्रदगणेशानुभवप्रकाशकसामर्थ्ययुक्तत्वात् । एवं 'गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण ऋद्धम्' इत्यन्तेन संकेतश्रुतिवाक्यप्रतिपादितमन्त्रं जना न ज्ञास्यन्ति, मन्दबुद्धित्वात् । तदर्थं स्वयमेव सुलभतया तदेवाऽऽह–गकार इति । पूर्वरूपं आदिप्रोक्तरूपं गकारः, मध्यमरूपमकारः, अन्त्यरूपमनुस्वारः, उत्तररूपमनुस्वारोत्तररूपं बिन्दुः, सानुनासिकात्मकत्वात् । तारशब्दस्तु न वर्ण्यते, स्फुटत्वात् । एतेषां भिन्नानां गकारादिचतुर्णां संधानमेकीकरणसाधनं नादः, नादप्रेरितैकभावोच्चारणयोग्यसामर्थ्यात् । एतेषा नादप्रेरितानां संधिः संमीलनं संहिता, यथाक्रमोच्चारणयोग्यसामर्थ्यात् । या 'गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण ऋद्धम्' इत्यन्तेन पूर्वं प्रतिपादिता सैषाऽधुना 'गकारः पूर्वरूपम्' इत्यादि 'संहिता संधिः' इत्यन्तेन प्रतिपादितत्वात् । गणेशविद्या गणेशज्ञानप्रदा, मन्त्रात्मकगणे१ अत्र 'वर्णा अक्षरास्तदादिरकारोकारादिवर्णकथित्वात्' इति सर्वेष्वादर्शपुस्तकेषु दृश्यते तत्प्रामादिकमिति प्रतिभाति । २ अत्र सर्वत्रापि 'रुद्धम्' इति इदानींतनानां केषांचित् वैदिकानां पाठः । अर्थस्त्वेक एव । सभाष्यम् ।
शमूर्तिमयजपस्य गणेशसंतुष्टिकारकत्वात् । विद् ज्ञाने इति धातुसाम-
र्थ्यात् एकाक्षरमन्त्रस्तत्वमस्यात्मकगणेशमयः प्रतिपादितः । यन्त्रस्थ -
मन्त्रपूजनस्य सर्वसिद्धिप्रदत्वान्मन्त्रमयमूर्तेः सर्वशास्त्र प्रतिपादितत्वाच्च ।
तत्रोंकारयुक्त ओंकारशक्ति विहारजगन्मयप्रतिपादितत्वात् पूर्वोक्ततत्त्व-
मस्यात्मकोंकारात्मकद्विविधसामर्थ्ययुक्तत्वं मन्त्रस्य प्रतिपादितम्, तदु-
पासनस्य प्रत्यक्षगणेशसमत्वात् । गणक ऋषिः । अत्रर्ष्यादिन्यासा
मन्त्रशास्त्रोक्ता ग्राह्याः, तस्य वेदोपाङ्गत्वात् । तद्यथा-ॐ अस्यैकाक्षर-
गणपतिमन्त्रस्य, गणक ऋषिः, निचृद्गायत्री छन्दः, गगपतिर्देवता, गं
बीजम्, ॐ शक्तिः गणपतिप्रीत्यर्थे सकलाभीष्टसिद्ध्यर्थे च जपे विनि
योगः । गणकऋषये नमः शिरसि । निचृद्गायत्रीछन्दसे नमो मुखे ।
गणपतिदेवतायै नमो हृदये । गंबीजाय नमो गुह्ये । ॐ शक्तये नमः
पादयोः । अथ षडङ्गन्यासः । ॐ गाम् अङ्गुष्ठाभ्यां नमः । ॐ गीं
तर्जनीभ्यां नमः । ॐ गूं मध्यमाभ्यां नमः । ॐ गैम् अनामिकाभ्यां
नमः । ॐ गौं कनिष्ठिकाभ्यां नमः । ॐ गः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः कर्तव्य इति । वक्ष्यमाणं ध्यानं कृत्वा मानसैः पञ्चो-
पचारैः पूजयेत् । तद्यथा-ॐ लं पृथिव्यात्मने गणेशाय गन्धं [^१]समर्प-
यामि । ॐ हम् आकाशात्मने गणेशाय पुष्पं स० । ॐ यं वाय्वात्मने
गणेशाय धूपं स० । ॐ रं [^२]तेजात्मने गणेशाय दीपं स ० । ॐ वम् अमृ-
तात्मने गणेशाय नैवेद्यं समर्पयामि । इति पञ्चभूतबीजात्मकपञ्चोपचा-
रार्पणं मानसी पूजा कथ्यत इति संक्षेपः । सर्वं मन्त्रशास्त्रोक्तविधिव-
त्कार्यम्, शीघ्रसिद्धिप्रदत्वात् ॥ इति गणेशविद्यात्मकार्थप्रतिपादकः
सप्तमः खण्डः ॥ ७ ॥
एवं गणेशविद्यां प्रतिपाद्य गणेशगायत्रीमन्त्रं प्रकटयन्नाह –
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्ती प्रचोदयात् ॥ ८ ॥
१ अत्र कल्पयामीति युक्तमिति प्रतिभाति । समर्पणं तु प्रत्यक्षतया अर्प्यमाणस्योपचारस्यैव भवति न मानसस्य अतः कल्पयामीत्येव युक्तम् । अन्यत्रापि मानसपूजायां " लं पृथिव्यात्मने गन्धं कल्पयामि इति दृश्यते " इति दिक् । २ अत्र 'तेज आत्मने ' इति पाठ : सावीयानिति भाति । गणेशाथर्वशीर्षम् ।
एकदन्तायेति । एकदन्ताय एकशब्दाख्या माया। दन्तशब्दाख्यो मायिकः तयोर्योग एकदन्तः तस्मै । विद्महे जानीमहे । सदा सर्वप्रदत्वात् । तदेव मौद्गले–
"एकशब्दात्मिका माया तस्याः सर्वं समुद्भवम् । भ्रान्तिदं मोहदं पूर्णं नानाखेलात्मकं किल ॥ दन्तः सत्ताधरस्तत्र मायाचालक उच्यते । बिम्बेन मोहयुक्तश्च स्वयं स्वानन्दगो भवेत् ॥ माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते । तयोर्योगे गणेशोऽयमेकदन्तः प्रकीर्तितः ॥ " इति ॥ वक्रतुण्डाय । जगत्सर्वजनसाधारणं, मनोवाणीमयत्वात् । तस्माद्वक्रमात्मरूपं मनोवाणीहीनत्वात्तदेव मुखं यस्य स वक्रतुण्डो जगन्मयकण्ठाध आत्मात्मकमस्तकत्वात्तस्मै । तद्यथा मौद्गले–
"बिम्बं मायायतं वक्रं मोहितं सिद्धिबुद्धिगम् ।
तद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥
माया मुखं मोहयुतं तस्माद्वक्रमिति स्मृतम् ।
परं ब्रह्म तयोर्योगे वक्रतुण्डोऽयकुच्यते ॥
कण्ठाधो मायया युक्तो मस्तकं ब्रह्मवाचकम् ।
वक्राख्यं तस्य विघ्नेश तेनायं वक्रतुण्डकः ॥ " इति ॥
धीमहि ध्यायेम इति । तन्नो दन्ती प्रचोदयात् । तद्ब्रम्हात्मको दन्ती
दन्तोऽस्यास्तीति सर्वसत्तात्मकत्वात् । स्वभक्त्यै प्रचोदयात् प्रेरयतु, बुद्धि-
पतित्वात् । अयं गायत्रीमन्त्रोऽपि सर्वसिद्धिप्रदायकः । गणेशः गायकं
त्रायतीति व्युत्पत्तिबलात् ॥ इति गायत्रीमन्त्रप्रतिपादनात्मकोऽष्टमः
खण्डः ॥ ८ ॥
एवमादौ नाममन्त्रं मध्य एकाक्षरमन्त्रमन्ते गायत्रीमन्त्रं च इति त्रिविधं मन्त्रं प्रतिपाद्य तद्ध्यानार्थमाह– एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । सभाष्यम् ।
रक्तगन्धानुलिप्तङ्गं रक्तपुष्पैः सुपूजितम् ॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥ एकदन्तमिति । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तम् । " भग्न वामरद " इति स्मृतेः । चतुर्भुजयुक्तत्वात् ।
" स्वर्गेषु देवताश्चायं पृथ्व्यां नरांस्तथाऽतले । असुरान्नागमुख्यांश्च स्थापयिष्यति बालकः ॥ तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः । चतुर्णां विविधानां च स्थापकोऽयं प्रकीर्तितः " इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशाङ्कुशदन्तवरदानि धारयति, स्वभक्तरक्षणार्थत्वात् ।
" पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् ।
नियन्त्राख्यं तथा ब्रह्म अङ्कुशश्च महात्मनः ॥
दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् ।
वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥
इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्वजन्तुकृद्भोगभोक्ता चोरो जन्त्वज्ञातसर्वस्वहारकत्वात् ( च्च ) । स एव गणेशसेवार्थं मूषको बभूव । मुष् स्तेये इति धात्वर्थात् । तद्यथा– " मूषकं व्यापकाख्यं च पश्यन्ति वाहनं परम् । तेन मूषकवाहोऽयं वेदेषु कथितोऽभवत् ॥ मुषस्तेये तथा धातुर्ज्ञातव्यस्तेयब्रह्मधृक् । नामरूपात्मकं सर्वं तत्रसद्ब्रह्म वर्तते ॥ नामरूपेषु ये भोगास्तेषां भोक्तृतया स्थितः । भोगेषु भोगभोक्ता च ब्रह्माकारेण वर्तते ॥ अहंकारयुतास्तं वै न जानन्ति विमोहिताः । वयं भोक्तार एवं ते मानयन्ति विशेषतः ॥ गणेशाथर्वशीर्षम् ।
ईश्वरः सर्वभोक्ता च चोरवत्तत्र संस्थितः । तदेवं मूषकः प्रोक्तो मनुजानां प्रचालक ॥ मायया गूढरूपः स भोगान्भुङ्क्ते हि चोरवत्" ॥ इति स्मृतिभ्यः । रक्तम्, रक्तवर्णशरीरत्वात् । लम्बोदरम्, स्वोदरे सर्वस्यापि प्रतिष्ठितत्वात्, स्वस्य न कस्याप्युद्वरस्थत्वात्, स्वोदरोद्भवसर्वजगत्वात्, स्वस्य न कस्याप्युदरभवत्वाच्च । तथा च– " लम्बोदरोऽयमेकश्च वेदे संकथितोऽभवत् । न वयं तादृशा वेदे लम्बोदरप्रवाचकाः ॥ तस्योदरात्समुत्पन्नं नानाविश्वं न संशयः । नानाब्रह्म तथेशश्च अन्ते तत्र स्थितोऽभवत् ॥ मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यश्च सर्वपूज्यो बभूव ह ॥ सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ " ॥ इति स्मृतिभ्यः । शूर्पकर्णकम् । गणेशो योगिमुखोद्गतजनकर्णमार्ग हृद्गतः सन् शूर्पवत्पापपुण्यरजो दूरी करोति ब्रह्मप्राप्तिकारकत्वात् ।
तद्यथा-–
" रजोयुक्तं यथा धान्यं रजोहीनं करोति च ।
शूर्पं सर्वनराणां वै योग्यं भोजनकाम्यया ॥
तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते ।
त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥
शूर्पकर्णं समाश्रित्य त्यक्त्वा मलविकारकम् ।
ब्रह्मैव नरजातिस्थो भवेत्तेन तथा स्मृतः ।
तेनायं शूर्पकर्णश्च वेदेषु कथितोऽभवत् ।
तं भजस्व विधानेन शान्तियुक्ता भविष्यसि " ॥
इति स्मृतिभ्यः । रक्तवाससम्, सदा रक्तवस्त्रप्रियत्वात् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितमिति, रकवर्णप्रियत्वात् । मौद्गले पञ्चवर्णवरप्रदो गणेशो बभूव । तत्र रक्तरङ्गेण पुनस्तपः कृत्वा रक्तरङ्गप्रियः सदा कृतः, स्ववरदानरक्षणार्थत्वात् रक्तवर्णप्रिय इति । भक्तानुकम्पिसभाष्यम् ।
नम् । तत्र भक्तिर्गणेशैकतत्परा इहलोकपरलोकविषयेच्छाहीनात्मिका,
कायिकवाचिकमानसिकसांसर्गिकतदेकरसयुक्तत्वात् । तद्यथा संक्षेपतः–
"इत्येवं नवधा भक्ती रसयुक्ता कृता मयि ।
क्षणमात्रं न सहते चित्तं मद्रसवर्जितम् ॥
तदा संपूर्णभक्तश्च जातो वै नात्र संशयः ।
अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा " ॥
इति स्मृतेः । देवम्, सर्वत्र तत्तद्रूपेण क्रीडाकारकत्वात् । दिवु क्रीडायाम् इति धात्वर्थात् । जगत्कारणमनादित्वात्सर्वपूज्यत्वात् । " ज्येष्ठराजम् " इति श्रुतेस्तज्ज्येष्ठाभावात् । न चैवं नानावेदशाखापाठेषु कुत्रान्यदेवो ज्येष्ठराजस्तत्परज्येष्ठाभावादिति वाच्यम्, सर्वपूज्यादि पूज्यगणेशान्यहीनत्वाच्च ज्येष्ठादिपूज्यसर्वपूज्यसंप्रदायदर्शनात् अन्यत्र लिङ्गदैवतवद्गौणत्वात्, अच्युतम्, स्वानन्दवासित्वात्कैलासवैकुण्ठादिलोकगुणमयनाशात्मकत्वाच्च । सर्वसारनिर्णयग्रन्थे मया लोकनिर्णये कथितमत्र न लिख्यते, ग्रन्थबाहुल्यभयात् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । प्रकृतिः सर्वमयो, प्रकृष्टसर्वाकृतित्वात् । पुरुषः सदैक: प्रकृतिमयपुरिशयत्वात्ताभ्यां परं, प्रकृतिपुरुषैकात्मकत्वात् । सृष्टयादौ प्रकृतिपुरुषसृष्टेरादावाविर्भूतं, तत्त्वमस्यात्मकशरीरत्वात् । एवं नरगजाभेदैकदन्तादिचिह्नयुक्तं यो नित्यं ध्यायति स योगी, ब्रह्मैकात्मकत्वात् । योगश्चित्तवृत्तिनिरोधः [पा० यो० पा० १ सू०२] चित्तं पञ्चविधम् । क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, व्यासकृतमाष्ये प्रतिपादितत्वात् [^१] । यत्र नरेण चित्तं क्षिप्तं तज्ज्ञानतया नानाज्ञानभ्रधारकत्वान्मूढम्, पिशाचतुल्यनरहृत्स्थत्वात् । मुमुक्षूणां चित्तं विक्षिप्तं संसारविषयांस्तिरस्कृत्य ब्रह्मपरं तदपि ब्रह्मानुभवहीनं, विषयासक्तत्वाद्ब्रह्मानुभवसुखहीनत्वान्नानातपः परत्वाच्च । अन्नप्राणाद्यव्याकृतपर्यन्तानुभवयुक्तमेकाग्रं चित्तं, सर्वैक्यसमाधिसुखयुक्तत्वात् । सत्यं ज्ञानमनन्तं ब्रह्मानुभवसुखयुक्तं निरुद्धाख्यं, सर्वैक्यभावहीनत्वाद्ब्रह्मपरत्वाच्च ।
१ पातञ्जलयोगसूत्रेषु प्रथमापादस्य प्रथमसूत्रभाष्ये द्रष्टव्यमेतत् । गणेशाथर्वशीर्षम् ।
" मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः ।
असंप्रज्ञातनामाऽसौ समाधिरभिधीयते " ॥
इति स्मृतेः । ततस्तत्त्वमनुभवसुखयुक्तं निरोधभूमिहीनत्वाञ्चित्तवृत्ति निरोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात् त्वंपदतत्पदासिपद विभागशून्यत्वाच्च । एवं चित्तं जित्वा योगी भवतीति ब्रह्मैकात्मकत्वात् । योगिनां शुकवामदेवादीनां वरो गणेशभक्तिपरायणत्वात् प्रत्यक्षतत्त्वमसिशरीरभृन्नवधाचित्तप्रवेशकायिकवाचिकमानसिकसांसर्गिकसदाबह्मतत्परचेष्टात्मकत्वात् वेदादिहृद्गतज्ञानोद्धारकत्वाच्च । न चैवं योगी दर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षयब्रह्मैकत्वात् श्रेष्ठतम इति वाच्यम् । नवधा चित्तशून्यवद्धारकत्वाद्वेदादिहृद्रतनानोपदेशहीनत्वात्प्रारब्धक्षये स्वयमेव ब्रह्मैकत्वाज्जनोद्धारकृतत्वाद्योगी श्रेष्ठः । गाणे- शयोगी तु श्रेष्ठतमः, पूर्वोक्तब्रह्मचेष्टापरत्वाज्जनोद्धारकत्वाच्च । न चैवं शिवविष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपरायणत्वादिति वाच्यम् । तेषामथर्वशिरःसु तत्त्वमस्यादिमहावाक्यात्मकशरीराभावाद्योगिपदाभावाच्च । तत्र परमहंसा योगिनो गाणेशा भवन्ति, योगि पदस्य परमहंसपरत्वात् एकगणेशाथर्वशीर्षप्रतिपादनत्वात् अन्यदेवाधिकारशून्यत्वाच्च । दण्डहीनाः परमहंसा ब्रह्मभूतास्तद्वन्दनं ब्रह्मशब्दाभिधं, नारायणात्मकभावात् । "दण्डग्रहणमात्रेण नरो नारायणो भवेत्" इति स्मृतेः । गाणेशयोगिवन्दनं गणेशशब्दाभिधं च परमहंसानां वरत्वात् ॥ इति ध्यानात्मको नवमः खण्डः ॥ ९ ॥ एवं ध्यानं प्रतिपाद्य स्तुत्यर्थमाह– नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥ १० ॥ नमः इति । व्रातपतये देवादिव्रातानां जीवानां पतित्वात्ते तुभ्यं नमः । गणपतये ब्रह्मविष्णुमहेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः । " ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह । तद्गणेश इति । तत्परमित्याह । सभाष्यम् । यमेतेनाप्नुवन्तीति " इति श्रुतेः । प्रथभपतये[^१] वर्णानां ब्राह्मणः प्रथमो मुख्यस्त्रिवर्णगुरुत्वात् । ब्राह्मणेषु योगी प्रथमो, महावाक्यानुभवयुक्तत्वात् । एवं जनानामीश्वराणां ब्राह्मणानां च प्रथभाः श्रेष्ठास्तेषां पतिस्तदादिपूज्यतत्पूज्यत्वा त्ते नमः । लम्बोदराय ते नमोऽस्तु । एकदन्ताय नमः । विघ्ननाशिने कालात्मकभयहारिणे नमः । अमृतात्मकपदप्रद त्वात् । तदेव कथ्यते । अभिनन्दनराज्ञेन्द्रभागहीनयज्ञारम्भः कृतः । तज्ज्ञात्वा कुपितेनेन्द्रेण कालमाहूय तयज्ञभङ्गायाऽऽज्ञापितः । स कालपुरुषस्तद्धर्मं ज्ञात्वा विघ्नासुरो बभूव । जन्ममृत्युमयं जगत्कालाधीनं, त्रिलोकभ्रमणत्वात् । ब्रह्मानुभवयुक्तजनंः कालं जित्वाऽमृतमयो भवति तज्ज्ञानकारणं सत्कर्मसाधनेनान्तःकरणशुद्धिस्तो ब्रह्मानुमवपात्रत्वात्तद्धर्मं ज्ञात्वा सत्कर्मनाशनार्थं विघ्नो बभूव । सत्कर्महीनं जगत् कालाधीनं सदा मलिनान्तःकरणयुक्तत्वात् । ततोऽभिनन्दनं हत्वा यत्र तत्र दृश्यादृश्यस्वरूपधृक्कालः सत्कर्मखण्डनं चकार । कालाज्ञानभावात्ततो भ्रान्ता वसिष्ठादयो ब्रह्माणं शरणं ययुः तेनाऽऽज्ञप्ताः पार्श्वपुत्रं गणेशं तुष्टुवुः, गणेशान्यदेवस्य कालनाशसामर्थ्याभावात् । ततो गणेशेन विघ्नासुरः पराजितः । स शरणं ययौ । तदा स्वाज्ञावशवर्तिनं विघ्नं चकार । विघ्नेन प्रार्थितो तिघ्नराजाख्यो बभूव । तदादि गणेशादिपूजनहीनं यत्सत्कर्म तत्र विघ्नप्रादुर्भावः । एवं नियमं कृत्वा तं स्वसमीपे स्थापयामास । एवं स्कान्दे विनायकमाहात्म्ये मौद्गले च प्रतिपादितत्वात् । वेदादिषु विघ्नो भगवानिति कथ्यते, कालमयत्वात् कालाधीनसृष्टि
१ अत्र 'प्रमथपतये' इति इदानीन्तनानां सर्वेषां वैदिकानां पाठः । अयमपि सावीयानेव। प्रमथ्नातीति प्रमथः । शभोः पारिषदाः प्रमथसंज्ञकाः। तदुक्तं कालिकापुराणे एकोनत्रिंशाध्याये– ध्यानस्थं परिचर्यन्ति सलिलादिमिरीश्वरम् । नानाशस्त्रधराः शंभोर्गणास्तु प्रमथाः स्मृताः ॥ प्रमथ्नन्ति च युद्धेषु युध्यमानान्महाबलान् । ते वै महाबलाः शूरा: संख्याता वसुकोटयः ॥ १ ॥ इति शिवसुतत्वात् प्रमथसंज्ञकानां शिवगणानां पतिः इति यथासंभवं योजनीयम् । गणेशाथर्वशीर्षम् ।
स्थितिलयत्वाच्च । ब्रह्मविष्णुमहेशा वयं ब्रह्माण इति मदयुक्ताः सन्तो वेदमार्गं त्यक्त्वा स्वेच्छाविहारिणो यदा भवन्ति, तदा सविघ्ना असुरैः पराजिताः स्वेच्छा विहारभङ्गा भवन्ति । पुनर्बह्माभिमानं त्यक्त्वा गणेश एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात्, एयं ज्ञात्वा शरणं गच्छन्ति तदा स्वस्वसामर्थ्ययुक्ता असुरान्विजित्य स्वपदस्था ईश्वरा भवन्ति, विघ्नाधीनत्वात् । विशेषेण जगत्सामर्थ्यं हन्तीति विघ्न इति व्युत्पत्ति बलाद्विघ्नसमं न किंचिदिति संक्षेपार्थः । तद्यथा– "भगवन्तौ विघ्नविनायकौ प्रीयेताम्" इति पुण्याहवाचनवचनत्वात् । स्कान्दे– " उक्त्वैवमाह्वयत्स्कन्दः शक्रस्तं कालरूपिणम् । य इदं माययाऽऽमोह्य कलयत्यखिलं जगत् " ॥ इति ॥ "विघ्नरूपेण घोरेण स कालपुरुषो भुवि । गर्जनादखिलाꣲल्लोकान्कम्पयामास वेगवान् " ॥ इति ॥ योगवासिष्ठे भृगुं प्रति कालवाक्यं तद्यथा" मा तपः क्षपयाबुद्धे कल्पकालमहानलैः । यो न दग्वोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥ ब्रह्माण्डावलयो ग्रस्ता निगीर्णा रुद्रकोटयः भुक्तानि विष्णुवृन्दानि क्क न शक्ता वयं मुने " ॥ इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः । " अथ ह आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय " इति श्रुतेः । लोकानामसंभेदाय विघ्नभयस्वमर्यादायुक्तलोकत्वात् । शिवसुताय । तद्यथा–गणेशेन सृष्टाः शिवादयस्तपश्चक्रुः । तत्राऽऽदौ शिवहृदि ब्रह्मानुभवो बभूव, समाधिक्रियाधिक्यात् । ततो हृदि गणेशं ददर्श संस्तुत्य प्रार्थनां चकार । 'त्वं मे पुत्रो भव' त्वपितृतारकत्वात् । 'तदहं मायामोहभयहीनश्चरामि ' गणेशजनकत्वादिति । तदेव विनायकसंहितायां मयूरेशक्षेत्रमाहात्म्ये– " ध्याने मनसि मे जातः पुत्रत्वं पालय प्रभो । मम पुत्र इति ख्यातो लोकेऽस्प्रिन्भगवन्भव " ॥ इत्यादिस्मृतिभ्यः त्रिगुणावतारैब्रह्मविष्णुशिवाख्यैरवध्यासुरनाशसभाष्यम् ।
नार्थं कलांशगणेशावतरणं सर्वत्र प्रसिद्धम् । तदवतारचरित्रज्ञापनार्थत्वादत्र शिवसुत इति कथितः वेदप्रामाण्येषु पुराणेषु नानावतारप्रतिपानात् । न चैवं तपःप्रार्थितगणेशः शिवसुतः, तत्र शिवः श्रेष्ठो गणेशजनकत्वादिति वाच्यम् । एवं शिवविष्ण्वाद्यवतारचरित्रत्वादनादिसंप्रदायत्वाच्च । विष्ण्वथर्वशीर्षे "ब्रह्मण्यो मधुसूदनः" इति श्रुतेः । देवकीपुत्रत्वेन विष्णोर्न कनिष्ठत्वापत्तिः, भक्तवाञ्छितकृतत्वाद्भक्ताधीनदेवेशत्वाच्च । ते नमः वरदमूर्तये, सर्वेश्वरजनवरत्वात् प्रत्यक्षं वरदमूर्तिः स्ववरदाभावाच्च । न चैवं शिवविष्ण्वादिवरदगणेशत्वाद्गणेशवरदाभावात् । ननु शिवपुराणे गणेशवरदः शिवः कथितः, 'सर्वादिपूज्यो भव' इति वचनादिति चेन्न । शिवपुत्रभावरक्षणार्थत्वात् पितृदत्ताधिकारपरायणपुत्रत्वात् दशरथदत्तयुवराजाधिकारयुक्तरामचन्द्रवत्पुरातनसंप्रदायत्वात् [च्च] । ते नमः । 'व्रातपतये' इत्यारभ्य 'वरदमूर्तये नमः' इतिपर्यन्तमष्टनामनमनं, तदन्तर्गतसर्वनामत्वात् । नाममन्त्रतत्त्वमस्यात्मकसत्यवादिभक्तरक्षणात्मकोंकारात्मकैकाक्षरविद्यागायत्रीध्यानस्तुतिप्रतिपादकमष्टमार्गप्रकाशकत्वादष्टाङ्गमिति ॥ इति स्तुतिप्रतिपादको दशमः खण्डः ॥ १० ॥ इति – अथर्वणऋषिप्रोक्तं गणेशाथर्वशीर्षं समाप्तम् । ॥ अथ फलश्रुतिः ॥ एवं स्तुतिं प्रतिपाद्य गणेशाथर्वशीर्षफलश्रुतिं प्रतिपादयत् ग्रन्थमाह । तत्राऽऽदौ गणेशाथर्वशीर्षाध्ययनफलप्रतिपादनार्थमाह–
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते । स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति । धर्ममर्थं कामं मोक्षं च विन्दति । इदमथर्वशीर्षंमशिष्याय गणेशाथर्वशीर्षम् । न देयम् । यो यदि मोहाद्दास्यति स पापीयान्भवति । सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥ ११ ॥ एतदिति । एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते, देहभृदपि ब्रह्मैवस्यात्तत्त्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विश्वासयुक्तत्वात् अन्यद्योऽनुभवकृत्सोऽप्यधीत इति कथ्यते । स देहभृद्ब्रह्मैव, योगित्वाच्च । स सर्वविघ्नैर्न बाध्यते । धर्मार्थकाममोक्षसाधनान्तरायात्मकविघ्नैर्न बाध्यते, साधनशीलाधीनत्वात् । स सर्वत्र सुखमेधते, नानालोकस्थाधीनत्वान्नानाकार्यसुखयुक्तत्वाच्च । स पञ्चमहापापात्प्रमुच्यते । पापं पञ्चबिधम् । हिंसाभक्ष्यभक्षणपरस्त्रीगमनस्तेयतत्संसर्गात्मकत्वात् । तत्र पञ्चमहापापादिति जातित्वादेकवचनम् । ब्रह्महत्या सुरापानगुरुतल्पगमनसुवर्णस्तेयतत्संसर्गयुक्तत्वात् । आदावेव सायमधीयान इति, गुरुमुखोद्गतं स्वकण्ठगं कृत्वाऽध्ययनकाल आदौ सायंकालप्राप्ततत्वात् । तद्त्प्रातरेव । सायं प्रातरधीयानः सर्वदिवसरात्रिपापवर्जितत्वादपापो भवतीति । सर्वत्राधीयानोऽपविघ्नो भवति । नानाकार्यकृत्तत्तत्कार्याद्यधीतत्वात् । धर्ममर्थं कामं मोक्षं च बिन्दतीति । इहलोकमनादृत्य परलोकार्थसत्कर्मपरायणत्वात् धर्मार्थी । इहलोकश्रेष्ठार्थसत्कर्मपरायणत्वात् अर्थार्थी ।
इहलोकपरलोकोद्भवभोगार्थसत्कर्मपरायणत्वात् कामार्थी । इहलोकपरलोकविरागयुक्तात्मप्राप्त्यर्थसत्कर्मपरायणत्वात् मोक्षार्थी च । एकैकपुरुषार्थी चतुपुरुषार्थी वा य इदमधीते स तत्तल्लभते, गणेशस्य इच्छा पूरकत्वात् । अशिष्याय यथार्थाथर्वशीर्षशिक्षाहीनाय न देयमिदम्, ऋतसत्यवादिरक्षकगणेशत्वात् । यो यदि मोहाद्दास्यति, द्रव्यलोभाच्छुश्रूषालोभाद्विद्याविनिमयलोभादित्यादिना नामोहादिति सोऽतिपापी, यथार्थाथर्वशीर्षशुश्रूषणासुरभावगणेशपीडितत्वात् । अस्य सहस्रावर्तनाद्यं यं काममिच्छति तं तं प्राप्नुयात् । वीप्साया आदरार्थत्वात् ॥ इत्यध्ययनफलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥ एवमध्ययफलश्रुतिं प्रतिपाद्य नानाप्रयोगार्थमाह–
अनेन गणपतिमभिषिञ्चति स वाग्ग्मी भवति ।
चतुर्थ्यामनश्नञ्जपति स विद्यावान्भवति । इत्य-
सभाष्यम् ।
थर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान्न बिभेति
कदाचनेति ॥ १२ ॥
अनेनेति । प्रशस्तवागर्थ्याभिषेकं कुर्यादिति । चतुर्थ्यामनश्नञ्जपति
यः स विद्यावान्भवति, प्रातरारभ्य सायंपर्यन्तं जपानुष्ठानपरत्वात् । इत्य-
थर्वणवचनत्वाद्यथार्थफलप्राप्तिरिति । ब्रह्मादीनां मायावरणं विद्यात्
अत एव न बिभेति, ज्ञातावरणतन्मोहहीनत्वात् ॥ इति नानाप्रयोगफल-
श्रुत्यात्मको द्वादशः खण्डः ॥ १२ ॥
एवं भयहीनतां प्रतिपाद्य यजनार्थमाह–
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो
लाजैर्यजति स यशोवान्भवति स मेधावान्भव-
ति । यो मोदकसहस्रेण यजति स वाञ्छितमवा-
प्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते स
सर्वं लभते ॥ १३ ॥
य इति । दूर्वाङ्कुरैर्यजति स कुबेरसमो भवति, कनकप्रियत्वात् ।
लाजैर्होमो यशःप्रदो मेधाप्रदश्च, तत्तत्प्रयोगप्रमाणत्वात् । यो मोदकस-
हस्त्रेणं यजति, प्रतिखण्डं जुहुयात्प्रत्यर्चवत्प्रमाणत्वात्, स वाञ्छितफल-
मवाप्नोति, नानाकार्यसिद्धिप्रदत्वात्, यः साज्यसमिद्भिर्यजति मन्त्रशा-
स्त्रोक्तनानाकार्यप्रदनानासमिद्धोमप्रभाणत्वात्, स सर्वं लभते स सर्वं
लभते । अत्र वीप्साऽऽदरप्रदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र
कुण्डवेदिदेवतास्थापनादिकं वैदिकतान्त्रिकमार्गोक्तवद्ग्राह्यम् । आहु-
तिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् । यं यं
काममधीते तं तमनेन साधयेत्, एकानुष्ठानस्य सर्वकार्यप्रदत्वाद्वीप्साया
आदरार्थत्वाच्च । न चैवं मोदकसहस्रहोमसाज्यसमिद्धोमौ मुख्यौ, वा-
ञ्छितप्रदे ' सर्वं लभते ' इतिवीप्सादरप्रमाणत्वादिति वाच्यम् । मोद-
कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्सादरयुक्तोऽपि नाना-
कार्यप्रदनानाममिद्धोमानुष्ठानपरत्वात् । अत्र सहस्रावर्तनात्मकं पुरश्च-
रणम् । सहस्रावर्तनाद्यं यं काममधीत इति मोदकसहस्रेण यजतीति
प्रमाणात् ॥ इति होमात्मकस्त्रयोदशः खण्डः ॥ १३ ॥
गणेशाथर्वशीर्षम् ।
अथान्यप्रयोगार्थमाह–
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा
सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते महादो-
षात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्ववि-
द्भवति स सर्वविद्भवति य एवं वेद ॥ १४॥ इत्यथ-
र्वणवेदोपनिषत्सु गणेशाथर्वशीर्षं समाप्तम् ॥
अष्टाविति । सम्यक् ग्राहयित्वा, यथार्थाथर्वशीर्षगणेशैकतत्परका-
रयितृत्वात् सूर्यवर्चस्वी भवति, सूर्यवत्सर्वज्ञानप्रकाशयुक्तत्वात् गणेश-
ज्ञानान्तर्गतनानावेदान्तप्रतिपाद्यज्ञानत्वाच्च । सूर्यग्रहे महानद्यां ब्रह्मकम-
ण्डलुभागीरथीयमुनासरस्वतीनर्मदादीनां कस्याश्चिन्नद्यास्तीरे महाघना-
शकत्वादनन्तगुणाधिकसत्कर्मफलप्राप्तिकारकत्वात् । प्रतिमासंनिधौ
मयूरेश्वरादिमहाक्षेत्रस्थगणेशप्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो
भवति । मन्त्रोक्तसिद्धिसामर्थ्ययुक्तत्वात् । अथर्वशीर्षात्मकमन्त्रजपो
मालामन्त्रप्रमाणत्वात् तज्जप्त्वाऽर्वशीर्षोक्तज्ञानवानेकाक्षरविद्यासिद्ध-
सामर्थ्यवान्भवतीति । महाविघ्नात्कालभयात्प्रमुच्यते, अथर्वशीर्षोपास-
नाया अमृतमयत्वात् । महादोषान्मायाविकारात्मकदोषात्, मायाविका-
परदोषाभावात् महाप्रत्यवायाज्जीवन्मुक्तविषयासक्तयुक्तप्रयुक्तप्रत्यवा-
यात्, " योगस्थित्यभावात् म सर्वविद्भवति, गणेशज्ञानान्तर्गतसर्वज्ञा-
नत्वात् । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञाननेवेद ꣳ सर्वं
विदितं भवति " इति श्रुतेः । अथर्वशीर्षममाप्तिज्ञापनार्थं वीप्सा वेदसं-
प्रदायत्वात् । य एवं वेद पूर्वोक्तयथार्थज्ञानयुक्तत्वात् ॥ इत्यथर्वणवेदोप-
षनिषत्सु अन्यप्रयोगात्मकश्चतुर्दशः खण्डः ॥ १४ ॥
॥ इति गणेशाथर्वशीर्षभाष्यं समाप्तम् ॥
॥ श्रीगजाननार्पणमस्तु ॥