श्रीमद्वेदान्तदेशिकस्तोत्राणि - २ ॥ दशावतारस्तोत्रम् ॥ भागवाताघ्रिरेणुना अन्बिल्, वेङ्कटगोपालदासेन विरचितया व्याख्यया सहितम् । श्रीरङ्गस्थ श्रीवाणीविकासमुद्रायन्त्रालये संमुद्रितम् । १९२८ ॥ श्रीः ॥ ॥ दशावतारस्तोत्रम् ॥ श्रीनिवासं परं ब्रह्म तन्नाम्नश्च गुरूत्तमान् । वन्दे भागवतान्सर्वान्देशिकाशयलब्धये ॥ व्यङ्ग्यप्रधाना गम्भीरा निगमान्तगुरोर्गिरः । दर्शयन्तु प्रसादेन कृत्स्नं स्वं भावमञ्जसा ॥ इदं स्तोत्रं कविहृदयानुसारेण सम्यग्भावितमदृश्यब्रह्माभ्य- क्षणे रसस्वरूपब्रह्मरसस्य भावुकहृदयसंक्रान्तौ चोपकुर्यादिति प्रदर्शयिष्यते । अधोक्षजस्य ब्रह्मणः सकलमनुजनयनविषयी- करणं तदवतरणैर्निर्वर्त्यते । मन्दभाग्या वयं पुरावृत्तानवतारा. श्राध्यक्षयितुं पारयामः । न वयं तत्कृतपरावरनिखिलजनमनो- नयनहारिनवनीतनटनादिदिव्यचेष्टितान्यनुभवामः, तेषाम- तिक्रान्तत्वात्, अतिक्रान्तदर्शनदक्षसूक्ष्मदृष्टेरस्माकमभावात् । यदि वयं भावुकत्वं रसिकत्वं च संपादयेम, शुकपराङ्कुश पर- कालादिवद्वयं भिन्नकालानपि तानवतारांनध्यक्षयेम । 'अध्य- क्षितो भावुकैः' इत्याचार्यैरस्ति चेद्भावुकत्वमतिक्रान्तमप्यध्य- क्ष्येतेति व्यज्यते । ' पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका: ।' इति श्रीशुक एतद्दर्शयति । भाग- वतो रसः रसस्वरूपो भगवानेव वा ' समेत्य ब्रह्मसंस्पर्श सुखमत्यम्तमश्नुते' इत्युक्ततत्संस्पर्शजन्यात्यन्तसुखभूतो रसो वा, अमृतद्रवभूतशुकमुखगलिततदास्वादितफलरसग्रन्थो वा । शाखारूढ: शुकोऽच्युतं फलमासाद्य 'एकाकी न रमेत ' एक: स्वादु न भुञ्जीत' इति च न्यायमनुसृत्य तमच्युतं रसमस्मत्पानाय स्वमुखाच्च्यावयति । 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति' इत्यानन्दमयस्यानन्दरसघनत्वं श्रावितम् । रसिका भावुकास्तद्रसचर्वणाधिकारिणः । ते सं- बोध्यन्ते 'रसिका भावुका: ' इति । निगमकल्पतरोर्गलितं फलं शारीरकप्रमितफलभूतो भगवान्भवेत् । यावल्लयं पेयो रसः, मध्वपूपो यथा मधुकरैः । भुवीति निवृत्ततर्षा नित्य- मुक्ता व्यावर्त्यन्ते । लयश्च विगलितवेद्यान्तरमनुभाव्यरसत- न्मयतापत्तिः । ' तन्मयत्वं रसेषु' इति नटस्यामिनेयभाव- तन्मयतायां भावुकसभ्येषु तद्भावसंक्रान्तिः सुलभा । रामा- यणादिषु सीतारामशोकवर्णनप्रकरणेषु वयं रुदिमः स्थूल- स्थूलान्नयनमुकुलैर्बाष्पबिन्दून्प्रतिकलं मुञ्चाम: । ध्रुवं वयं तदानीं करुणापराधीनास्तद्रसमयतां प्राप्नुमः । तच्च श्रव्य- काव्ये पाठ्ये गेये च मधुरे । कथानायकनायक्यौ रुदितः । तच्छोकद्रष्टा ऋषिस्तिर्यग्दम्पतिवियोजनदर्शनेऽपि करुणवेदी शोकाविष्टो भवति । तस्य शोकः श्लोकत्वमापद्यते । तच्छो- कभरितश्लोकान्वयं श्रुत्वा शोकेनाविश्यामहे । ऋषेर्दर्शनम- तिक्रान्तव्यवहितदर्शनमनुग्रहलब्धदिव्यचक्षूरूपधर्मवीर्येण सं- पन्नम् । न साक्षात्तत्तद्वृत्तान्तकाले स प्रत्यक्षदर्शी । कालदेश- व्यवहितमपि तेन धर्मवीर्येण यथावत्प्रत्यक्षीकृतम् । तत्प्रत्यक्षी- कृतं सोऽस्मान्श्रावयति स्वशोकभरितैः श्लोकैः । तैश्च वयं पुरा- वृत्तान्तमिदानीन्तनमिवानुभूय नायकनायिकासमानशोका भ बामः । सुदूरबहुविप्रकर्षपरम्पराव्यवधानेऽप्यध्यक्षीकरण- समर्थता नापैतीत्यनुभवसिद्धम् । अनुग्रहलब्धधर्मवीर्य- तुल्यवीर्यमस्त्युत्तमार्षकाव्यस्य श्रोतॄणां पठितॄणां च प्रति- पाद्यरसतन्मयतापादने । दृश्यकाव्येषु नाटकेषु नाट्यमा- नेषु नृत्ते चाभिनेयस्य स्थायीभावस्य सभ्यानुभवगोचर- तापत्तिः सुलभतरा । तत एव तत्काव्यानां दृश्य- त्वविशेषणम् । यदि रस एव नायको नटश्च भवेत्तच्चेष्टितं कृत्स्नं रसमयं स्यात् । आनन्दमयस्य भगवतो मुख्यं रस- त्वम्, तत्संबन्धेनेतरसुखानां रसत्वमिति च श्रावयन्ति श्रुतयः । 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति । इति तैत्तिरीयश्रुतिः । यद्यत्सुखत्वेन लौकिका मन्यन्ते तत्सर्वं सवासनं परित्यक्तं अयमिति निर्दिष्टेन मुमुक्षुणासङ्गब्रह्माति- रिक्तसर्वसङ्गदृढपरित्यागिनासङ्गशस्त्रेण सुविरूडमूलसंसारवृ- क्षस्य दृढच्छेदिना । पुत्रेषणाया वित्तेषणाया लोकेषणायाश्च व्युत्थाय भिक्षाचर्यं खल्वयं ब्राह्मणश्चरति । ब्राह्मण इति ब्रह्ममात्रसंस्पर्शवान्स्पर्शान्तररहितः । यदि दारपुत्रास्त्यक्ताः क एनं पोषयेदन्नादिना । स्याद्वित्तम् , येन पाचकान्संपाद्य तैर्भरणं कार्येतेति चेत्तदपि त्यक्तम् । यदि तप्यत्यक्ष्यत के- नायमभोक्ष्यत ? तत्रोच्यते -- ' भिक्षाचर्यं चरति ' इति । चर गतिभक्षणयोः । पूर्वो गतौ । द्वितीयो भक्षणे : भैक्ष्य- हेतोर्न चरणादधिकं कुर्यात् । न भिक्षामपि याचेत वाचा ' भिक्षां देहि ' इति गुरुकुले वर्तमानमाणवकवत् । अटन- मात्रं कुर्याद्वीथीषु । यदि यदृच्छया कारुणिकैर्जनै: शिक्ये किमप्यनं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति श्रुत्यर्थ: । न केवलं सुखसाधनानि परित्यक्तानि दृष्टविधया क्लेशभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीव्रमविच्छिन्नमनुष्ठी- यन्ते । सर्वसुखपरित्यागी बहुक्लेशपरिगृहीत्यानन्दसागरमग्नः सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अव- धूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । यदुर्निरीक्ष्य पप्रच्छ' ' त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्' 'ब्रूहि ' इति । अवधूतस्यानन्दभरितत्वदर्शनेन विस्मितः संराट् स्वेन स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ । केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम्, येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मच्चि- ताः' इति भगवदेकचित्तोऽयम् । 'मद्गतप्राणाः' इति भगवच्चिन्तयैव प्राणिति । तत्स्मृत्यपहारे गतप्राण: स्यात् । रसभूमानं सर्वान्तरमानन्दमयमेवायमावृत्तचक्षुषा पश्यति, तमेव शृणोति, विजानाति; नान्यत्पश्यति, शृणोति, वि- जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत । अन्वयव्यतिरेकाभ्यामर्थापत्त्या चास्य रसान्तरविरक्तस्यान- न्दपीनत्वं ब्रह्मसंस्पर्शहेतुकमिति निश्चीयते । एवंरीत्या सहे- तुकं प्रदर्श्यते आनन्दमयस्य ब्रह्मणोऽस्तित्वं मातापितृसह- स्त्रेभ्यो वत्सलतरया श्रुत्या । 'अस्ति ब्रह्मेति चेद्वेद' इत्यादि- श्लोक: पुच्छवदानन्दमयविषये पठितः । ब्रह्मण आनन्दम- यत्वेनास्तित्वं सर्वलोकहृदयारूढं यथा स्यात्तथा निरूपयति 'रसो वै सः, रसं होवायं लब्ध्वानन्दी भवति' इति श्रुतिः सर्वाः प्रजाः सत्तां लभेरन्नित्याशया । प्रजानामसत्क- ल्पत्वं मातृदुःखाय भवेत् । श्रोत्रियस्य चाफामहतस्येत्यका- महतत्वं हेतूक्रियते निरतिशयानन्दप्राप्तौ । कथं सर्वतो विरक्तस्य रतिरिति चेदात्मकामोऽयम्, आत्मरतिः। 'अ- यम्' शब्देन त्यक्तसर्वपरिग्रहोऽभ्युपगतसमस्तक्लेशरूपधर्म- स्तपस्वी विवक्षितः । एवं च ब्रह्मणः स्वान्तरानन्दमयत्वेना- स्तित्वं ब्रह्मविदनुभूयमाननिरतिशयानन्दनिदर्शनेन लोकाय- तिकानामपि हृदयारूढतया सुविशदं प्रदर्श्यतेऽनया श्रुत्या । प्रसन्नं मुखं ब्रह्मवित्त्वे स्पष्टं लिङ्गमिति 'ब्रह्मविद इव ते सो- म्य मुखं भाति । इत्युपकोसलं प्रत्याचार्यवचनं बोधयति । श्रुतिस्थमुखशब्दो ब्रह्मविदवयवान्तराणामप्युपलक्षणमिति दर्श- यन्त्यचार्याः ' अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखं मानसं चिन्ता च दुसशर्कराप्रतिनिधिः शीताश्रणी लो- चने । इति संकल्पसूर्योदये 'आह्लादशीतनेत्राम्बुः पुलकी- कृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिभिः ॥' इत्युपबृह्मणानुसारेण । परमात्मनो द्रष्टव्यतां विदधाति श्रु- तिः । विश्वदेहिप्रभृतिसर्वदेहिभिर्ब्रशरसमग्नस्यात्मज्ञस्य द्रष्टव्य- त्वं विधीयते उपबृह्मणेन नेत्रमुकुलगलदानन्दशीताश्रुभिरा- नन्दपुलकोद्गमादिभिश्च प्रत्यक्षलिङ्गैरान्तरा निश्चला रतिः प्रत्यक्षीक्रियते । पुलकीकृतगात्रवानिति मतुपा गात्रस्य सदा- क्कुरन्नवनवपुलकवत्त्वं व्यज्यते । प्रतिक्षणं नवनवाः पुलका उद्गच्छन्ति । तदेव ' मुहुर्मुहुः पुलकितानि' इत्याचार्यैरुच्य- ते । कण्ठकवराह इति प्रख्यातः श्वापदो हर्षक्रोधभयादिनिमि- त्तेषु कृत्स्नगात्रेऽपि कण्टकोद्गमं बिभर्ति । तत्र च कण्ठकव- त्त्वमन्वर्थम् । तत एव पुलकस्य कण्टकसंज्ञा कृता स्यात् । रसेन भगवता नटीभूय नायिकया सह निर्वर्तितलोकोत्तरभू- मिकानामध्यक्षणेन भावुकचित्तं नियतं रज्येत । रसस्वरूपन- टभावितरसेन तद्भावयितृचित्तं ध्रुवं व्याप्येत । तत्तदवताराणां यथावृत्तं विचित्रवर्णनेन दृश्काव्यादपि चारुतया श्रोतृचि- त्तरञ्जनं क्रियते आचार्यैः । तत्तवतारविषयवर्णने महर्षि - भिर्बहुग्रन्थैः कृतमेकेन श्लोकेनातिविचितं संगृह्यत इति दर्श- यिष्यते ॥ चित ईश्वरश्च सर्वे नटाः । यद्यपि शुद्धं चैतन्यं तेषाम- नुगतस्वरूपम्, ते विविधभूमिकाः परिगृह्य नटन्त एवासते । वयं नाट्येन भगवतो लीलारसमुत्पादयाम: । सोऽत्रावतीर्य भूमिकां परिगृह्णन्नटन्नस्मानुद्दिधीर्षति । अस्मदार्तिस्तमध आ- नयति । अस्मदुन्निनीषया सोऽवतरति । कूपादिषु पतितान् शिशूंस्तत्रावतीर्णः पित्रादिरुद्दिधीर्षति । ' कान्तां प्राप्य वि- चित्रकर्मरचितां पर्यायतो भूमिकां केनाप्यद्भुतनाटकेन कमपि श्रीमन्तमानन्दयन् । कृत्वा शास्त्रमुखे मनः प्रतिमुखं गर्भा- वमर्शात्परं विद्यानिर्वहणेन लब्धनिर्भररसो हृद्येष विद्योतते ॥' इत्याचार्या जीवपरिच्छेदान्ते न्यायसिद्धाञ्जने । शैलूषवद्विवि- धवेषपरिग्रहबन्तं भगवन्तं विविधभूमिकापरिग्रहैर्वयं लीला- रसोत्पादनेन सन्तोषयाम: । यदि कदाचिद्वयमहृदयमपि प्रपन्नरूपप्रणतवेषं परिगृह्णीमस्तन्मात्रेण संतोषितः श्रियः पति- रस्मान्हृदि भूषणत्वेन निधायात्मानं विद्योतयति । ' एष ह्ये- वानन्दयाति' 'तद्धेतुव्यपदेशाच्च' इति श्रुतिसूत्राभ्यां सर्वे- तरानन्दहेतुभूतो भगवानपि अनयापूर्वया प्रणतभूमिकया- नन्दितो भवति । अद्भुतनवनाटकेषु विशेषप्रीतिं कुर्वन्तो जनास्तद्द्र्ष्टुं प्रवेशदक्षिणां दत्वा नाटकशालामण्टपं गच्छन्ति, प्रजागरं च कुर्वते । तद्दिदृक्षायास्तीव्रत्वेऽद्भुतत्वं नूतनत्वं च निमित्तम् । प्रणतवेषश्चेतनस्य नूतनः, भगवतोऽद्भुतो नूत- नश्च । सुदुर्लभः खल्वस्य प्रपत्तृजनः । 'न नमेयं हि कंचन' ' ईश्वरोऽहम' ' कोऽन्योस्ति सदृशो मया' इत्य- हंभावमदमत्तेषु स्तब्धजनेषु सुदुर्लभाः प्रणन्तार: । अपूर्वा - द्भुततद्भूमिकापरिग्रहक्षण एव श्रिया सहितो भगवान्संतु- ष्यति । विस्मयते, आश्चर्यमाश्चर्यमिति वक्ति । अञ्जलिभर- वहनमात्रमधिकं मातरं संतोषयितुम् : गात्रप्रणामोऽपि तया नापेक्ष्यते । तस्यां प्रीणितायां तदिङ्गितपराधीनस्तत्पतिः सद्यः प्रीयेत । नटस्य विचित्रभूमिकया संतोषितो लौकिक: प्रभुः श्रीमांस्तस्मै पारितोषिकत्वेनाभरणादिकं दद्यात्तद्वक्षसि धर्तुम्, प्रभोर्बहुमतिप्रसादं जनानां प्रख्यापयितुं च । अयं तु विलक्षणो जगदीश्वरो नटमेवाभरणीकृत्य स्वहृदयेऽत्यन्त- हृद्यत्वेन सततं धरति । तेन चात्मानं विद्योतितं मन्यते । ' कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा' इति नाटक प्रणेता तत्क्लेशज्ञाता कविः । वयमेव नाटकवस्तु नि- र्माय नायका नटाश्च भूत्वा नटाम इत्याचार्या: । 'प्रपञ्चः कृत्स्नोऽपि रङ्गम् । तत्र सर्वेऽपि नटाः' इत्याङ्गिलेयकवि- सार्वभौमः । नटो भगवान्नटैरस्माभिर्नटनेनाराध्येत । सग- धेषु प्रीति : सहजा । नटनक्लेशं नटो जानीयात् । एतदुच्यते प्राचार्यै: ' स्वाधीनसंसरणनाट्यनिरुढवृत्तेः संतोषितः प्रणत- भूमिकयास्य पुंसः । स्थाने विधास्यति विभुः स्थिरचिन्हभेदं क्रीडानटः स भगवान्कृपया स्वसाम्यम् ॥' इति । क्रीडानट इति प्रथमान्तपाठ आचार्यसंमतः स्यात् ॥ यज्ञादिभगवदुत्सवान्तेषु वयं भगवन्तं यात्रायातान्सुजन- निवहांश्च नाटकनाटनेन नृत्तगीतादिना चाराधयामः । ' दे- वानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषम्' इति ना- ट्योपाध्याय: । मुनयो भरतादयः । तच्च नाटयं बहुधा भिन्नरुचेरपि जनस्यैकं समाराधनम् । अस्माभिर्विचित्रवि- विधनाटकैराराधितः कृतज्ञसार्वभौमो देवः श्रिया सह वि- विधभूमिकाः परिगृह्य नाटकानि निर्वर्तयति । 'देवानाम् '. इति श्लोकपठितषष्ठ्यन्तदेवशब्दस्थाने एतत्स्तोत्रारम्भे प्रथमा- न्तदेवशब्द इत्यवधेयम् । तत्र नाट्यजनितप्रीत्युद्देश्या देवाः । देवोऽत्र स्वयं नटन्मनुष्याणां सभ्यानां प्रीतिविधाता । 'देवानाम्' इत्यस्य स्थानेऽत्र 'नः' इति । 'देवो नः' इति शब्दौ कालिदासश्लोकोक्तक्रमविपर्ययेण नटसभ्यान् प्रदर्शयत इव ॥ नटवद्भूमिकाभेदैर्नाथ दीव्यन्पृथग्विधैः । पुंसामनन्य- भावानां पुष्णासि रसमद्भुतम् ॥ इति यादवाभ्युदये । स च श्लोक एतत्स्तोत्राद्यश्लोकस्यात्यन्तसदृशः । निर्भरत्वरूपप्र- पत्तिरसाविष्टानस्माग्निर्भरं संपूर्णं रसं लम्भयितुं भगवान्राम- कृष्णादिभूमिकाः परिगृह्णाति । निर्भरस्य निर्भरो रसो देयः । निर्भरैः प्रपन्नैर्निर्भरो रसः प्राप्यत इति चारु व्यज्यते आचा- र्यैर्लब्धनिर्भररसैरिति प्रथमश्लोके । भगवतो दशभूमिकानां भूमिकाभूतः प्रथमश्लोकः । 'प्रपञ्च निष्प्रपञ्चोऽपि विड- म्बयसि भूतले । प्रपन्नजनतानन्दसंदोहं प्रथितुं प्रभो ॥' इति ब्रह्मा ब्रह्म कृष्णं प्रति । तेनावतारप्रयोजनं दर्शितं भवति । तदेव प्रपन्नजनतानन्दसंदोहप्रथनमत्र प्रथमश्लोके प्रयोजन - त्वेन कीर्त्यते 'नः शुभमातनोतु' इति । आतनोत्विति विस्तारण- रूपप्रथनप्रार्थना । शुभमित्यानन्दसंदोहः । अद्भुतप्रपन्नवेषपरि- गृहीतिनोऽस्मांस्तन्मात्रप्रीतो देवः स्वाद्भुतभूमिकाभिरस्माकम- द्भुतरसं पुष्णाति । 'धर्मसंस्थापनार्थाय' 'परित्राणाय साधूनाम् ' इति सामान्येनोक्तमवतारप्रयोजनमत्र पर्यवस्यतीति चारु प्रत्यपादि गीताभाष्यारम्भे भूमिकापरिग्रहविषयभूमिकायाम- वतारविषयावतारिकायाम् । तदेव विशदतरमवाच्यवताररह- स्यभाष्ये, तत्तात्पर्यचन्द्रिकायां च । गीताशास्त्रतात्पर्यभूतभ- क्तियोगमवतारयितुं भगवतावतारः कृत इत्युक्तं गीतावतारि- कायाम् । अवतारावतारितो भक्तियोगोऽवतीर्णभगवतोऽपि मुख्यतर इति चारु व्यज्यते । लावण्यधाम्नः स्वाद्भुतदिव्य- विग्रहस्य सकलमनुजनयनविषयीकरणं विना कथं विश्वममृ- तप्लावनेनाप्यायितं भवेत् । कथं चाक्रूरमालाकारादिपरमभा गवतानां दृष्टिचित्तापहरणेन तद्भक्तिरूपधर्मवर्धनम् । अवता- रितभक्तियोगरूपगीताया गीतेत्यसाधारणो व्यपदेशः । निरु- पपदगीताशब्दो भगवद्गीतामभिध्यात् । 'गीता: सुगीताः कर्तव्याः' इति ऋषिवचनम् । गीतान्तराणामनुगीता, शिव- गीता, श्रुतिगीता, भ्रमरगीता, गोपिकागीतेति सविशेषना- मान्येव भवन्ति ॥ अवतारप्रशंसायां ब्रह्मणोच्यते ' को वेत्ति भूमन्भगवन्प- रात्मन्योगेश्वरोतीर्भवतस्त्रिलोक्याम्' इति । तत्रावतरद्ब्रह्म भूमन्निति संबोध्यते । अल्पप्रत्यर्थिनो विभुभूतभूम्नोऽल्पभूमि- काभूतावतारवेषपरिग्रहः सर्वशक्तिं विना दुर्घट इति तेन संबोधनेन व्यज्यत इव । तदेव निपुणं प्रदर्श्यते आचार्यैः ' यस्यासौ भजते कदाचिदजहद्भूमा स्वयं भूमिकाम्' इति स्वज्ञानप्रदात्रीं हयवदनभूमिकारूपाचार्यभूमिकापरिग्रहीत्रीमा दिमां देवतामुद्दिश्य । तेजोमयस्य देवस्य विभोर्भूमिकापरि- ग्रहः श्रमसाध्य इति प्रथमश्लोकपठितेन भूमिकाशब्देनाचार्या व्यबञ्जयन्तीव । अजहद्भूमा स्वयं भूमिकाम्' इत्यवतारेषु सकलमनुजदृश्यत्वाय भूमिकापरिग्रहेऽपि निरतिशयबृहत्व- रूपस्वभूमा न त्यक्ष्यत इति बोध्यते । विभुर्विष्णुः खल्वबत- रति स्वं स्वभावमविहाय । भूमा च स्वस्वभावः । विष्ण्वव- तारे तद्वैभवमध्यवतरति । अन्यथावतीर्णो न विष्णुः स्यात् । 'वरये वैष्णववैभवावतारम्' इत्यतिमानुषस्तवप्रथमश्लोके श्रीवत्साङ्कमिश्रैर्भगवद्वैभवस्यावतारो व्यज्यत इव । 'अनासी- दद्दोषो जहदवधिषाङ्गुण्यमहिमा विहारस्वाच्छन्द्याद्विभुरिह दधानो विभवताम् । तिरश्चामप्येतैः कमठकिटिपाठनिपतग- प्रकारैराकारैः परिबृढतमत्वं दृढयति ।' इत्याचार्या : सङ्क ल्पसूर्योदये । सर्वैरुपसत्तुं योग्यं भगवन्तं दोष एक एव ना- सीदेदिति व्यज्यते 'अनासीदद्दोष : ' इति । अशेषशरण्यो ऽपि न दोषशरण्यः । न दोषास्तस्मिन्शरणं लभेरन् । आस- न्नेषु दोषं मृष्येत् 'दोषो यद्यपि तस्य स्यात्' इति । आसी- दन्तं दोषं तु न मर्षयेत् । न तस्य किमप्यननुकूलवेदनीयं हेयं भवति । लोके हेयभूता रोषादयोऽपि तस्य निःसीम- शक्ते: सुनिरसविषये प्रीतये स्युः । विभोर्विष्णोर्विभवरूपाव- तारो युक्त इति व्यज्यते 'विभुरिह दधानो विभवताम्' इति । ब्रह्म परिबृढं सर्वतः' इति यास्कनिर्वचनं ब्रह्मश- ब्दस्य । ब्रह्म ततमम्' इति श्रुतिः । तल्लक्षणसमन्वयार्थं स्वस्य परिबृढतमत्वं दृढयितुं तिर्यग्भूतसर्वप्राणिप्रकाराकारप- रिग्रहं करोति विभुः । सर्वत्वाभावे कथं ब्रह्मत्वसंभवः सर्वत्वनिर्वाहार्थं ब्रह्मणो दाशदासकितवत्वादिकीर्तनं श्रुत्या तच्च सामानाधिकरण्यमंशांशिभावेनेति स्पष्टमुच्यते बादराय- णेनांशाधिकरणप्रथमसूत्रेण । तावता तादात्म्यरूपसामानाधि- करण्यं नोपपाद्येत । तादृशं च सामानाधिकरण्यं समर्थ्यते मनिकूर्मवराहाद्यात्मतयावतर्णित्वेन । अवतारभूतमीनादिदे- हेषु न भगवता जीवेनात्मनानुप्रवेश: । न स्वांशभूतजीवद्वारा, किं तु साक्षात्पूर्णेन स्वेनैव । विहारस्वाच्छन्द्यादिति यदुक्तं तद्बोध्यते 'देवो नः' इति देवशब्देन । तिर्यग्भवनस्यातिनि- हनित्वाद्दुर्घटत्वाच्च तद्घट्यते प्राथमिकैस्त्रिभिरवतारैः । 'ब्रह्म दाशा' इति श्रुतिर्विस्मयते भगवतो दाशसामानाधिकरण्यं वीक्ष्य । तिष्ठतु दाशैः शरीरशरीरिभावादिना तान्त्रिकं सा- मानाधिकरण्यं मुख्यममुख्यं वेति वितर्कितं वादिभिः । तैर्दा- शैर्जलैर्गृह्यमाणस्ततोऽपि निहीनो मत्स्य एव भवानि, तद्यो- निना मुख्यमविगीतं सामानाधिकरण्यं लभेयेति प्रथमं मत्स्यो भवतीव भगवान् । दाशानां मत्स्यमांससततसंसर्गेण दुर्ग- न्धवत्त्वं तन्निहीनत्वे हेतुः । संसर्गेण तन्निहीनतापादकमत्स्य एव भविताहमिति भगवदिच्छा प्रादुर्भवति । 'ब्रह्म कितवा : ' इति श्रुतिः स्वयं मुख्यकितवोऽपि भवतीति 'गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी' इत्याचार्यैर्व्यज्यते । ' ब्रह्म दासाः ।' दास्यं सर्वप्रकारेण भगवान्सर्वप्राणिनां करो- तीति बहुधा विचित्रं प्रदर्श्यते भगवतैव गीतासु । अन्तरव यवेष्ववस्थायास्मासु स्वपत्सु वैश्वानररूपो भगवान्भुक्तमन्नं पाचयति । बाह्यपाचका लोके भृत्यतया संपाद्यन्तेऽधिकम- धिकं वेतनं प्रदाय । अयमन्तःपाचकः सर्वेषां प्राणिनाम् । ईदृशं स्वयं दास्यमाश्रितं भगवन्तं वीक्ष्य तद्विषये स्वयं दासा भवन्ति तपस्विन इत्युच्यते ' स्वयं दासास्तपस्विनः' इति । एषोऽप्यर्थो वर्णयितुं शक्य: सूक्ष्मदृष्टीनां तपस्विनां भगव- त्कृतान्तर्दास्यादिव्यापारो दृष्टिगोचरो भवति । तद्दृष्ट्वा ते तस्य स्वयं दासा भवन्ति । समुद्रशायिना भगवता स्ववासस्थानरू- पसन्निकर्षवन्तं जलधिमधिकरणीकृत्य तत्र प्रथमं त्रयोऽवताराः परिजगृहिरे । अतिनिहीनयोनिष्ववतार अधोगमनरूपावता- रस्य काष्ठां निर्वहेत् । अगाधजलधाववतीर्णोऽतिदुःसाधमवत- रणं निर्वर्तयेदित्युच्येत । प्रत्यवतारमजहद्भूमत्वं निरतिशयवै- भवं च प्रदर्श्यतेऽस्मिन्स्तोत्रे ॥ मेघभूतेन भगवता निरवधिकरुणाभारखिन्नत्वेनावतीर्यत इति चारु व्यज्यते श्रीमच्छङ्कराचार्यैर्भगवदवतारविषयश्लोके । ' मत्स्य: कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः का- कुत्स्थ: कंसघाती मनसिजविजयी यश्च कल्कीभविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्था: पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशयास्ते ॥' इति श्लोके । 'यश्च कल्की भविष्यन्' इत्येतत् 'भाविन्या दशया भवन्' ' कल्कवाहनदशाकल्किन्' इति च तदवतरणवर्णनस्य सुसदृशामिव । 'किं पात्रमन्नदाने क्षुधितं कोऽर्च्यो भगवदव- तारः । को भगवान्महेश: शंकरनारायणात्मैकः । ' इति शंकराचार्या : प्रश्नोत्तरमालिकायाम् । अन्नस्य क्षुधितं पात्रम् ।' आर्तार्तिपरिहरणेनैव करुणैकजीवितो भगवानात्मानं धारयेत् । आर्तिपरिहरणेनैव तत्करुणाया लब्धावकाशता । सदा क्षुघिता बुभुक्षिता भगवद्दया । घस्मरत्वमपि तस्या भवति । जगद्दुरितघस्मरा दयाशिशिरिता भगवदाशयाः । प्र णमदपराधास्तद्दयायाः प्रियमन्नपानम् । आर्तिपरिहरणं च तस्याः प्राणनम् । एतद्व्यज्यत इव श्रीशंकराचार्यैः क्षुधितस्या- न्नपात्रत्ववर्णनानन्तरं भगवदवतारस्यार्च्यत्वं निर्धारयद्भिः । यथा क्षुधिता अन्नं याचन्ते तथार्तजनेभ्योऽर्चां याचते भग- वानस्मल्लोकमागत्य । अञ्जलिं याचमानः कश्चित्खलु सः । 'अहमनमहमन्नम्' इति सततगीयमानमुक्तगतिया सङ्कीर्त- नमात्रं क्रियते परमपदे । शाब्दस्यान्नस्यैव लाभस्तत्र । न को- ऽप्यपराधी तत्र । नाप्यार्त: । आर्त्यपराधात्यन्ताभावे क्षमादया- दिजीवितेन भगवता कथमात्मधारणं लभ्येत । तदलाभेन क्षुधा- र्तो भगवानार्तिभूयिष्ठामपराधभूयिष्ठां बह्वन्नवतीं भुवमवत- रति । ताभ्यां संपन्नानाढ्यानस्मांश्च याचते तदन्नं क्षुन्निवृ- त्तये । तं चाभ्यागतं वयं सम्यगाराधयितुमर्हामस्तन्निकटेऽ- स्मदार्तिनिवेदनेन ' क्षमस्व' इत्युक्तिपूर्वकमस्मदपराधसहस्रो- पहरणेन च । अवतरन्तं च देवं देवी छायेवानुगच्छति । यथा सूर्यस्य देवी छाया, तथा 'सूर्यस्यापि भवेत्सूर्यः' इत्युक्तसूर्यसूर्यस्व श्री: छाया । यथा स नटो भवति तथा सा नटी भवति । यथा सर्वगतो विष्णुस्तथा चेयम् । यथा स सर्वयोनिषु ग- च्छति तथेयमपि । तदपि व्यज्यत इव सर्वगतशब्देन । विभोर्विष्णोर्विभवपरिग्रहस्तया सहैव । 'यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथास्य रसदा स्यादैकरस्यात्तथा ।' ब्रह्मचर्याश्रमस्थस्यापरिग्रहत्वनिर्ब- न्धोऽपरिहार्यः । तथापि तां न जहाति । यत्तदाश्रमलिङ्गं कृष्णाजिनं तेनैव विद्युद्द्योतवतीं वक्षःस्थलगतां तां संवृणोति । सर्वलोकस्य पश्यतो वामनेनाणीयसा विविक्रमभवनं नाद्भु- तम् । ब्रह्मचारिण: सपत्नीकत्वम्, निरतिशयदीप्तिमत्यास्त्रे- जोराशेर्भगवत्प्रभाया वक्षःस्थलविद्योतमानाया अजिनमात्रेण वैरोचनसदसि संवरणं चात्यन्तदुर्घटम् । दम्पती दिदृक्ष्ये . यातां भक्तजनैः । तद्दृष्टिगोचरीभवनं मुख्यं प्रयोजनम् । इतरदसुरनिरसनादिकं तदानुषङ्गिकं चशब्दसंगृहीतम् । ' श्रियं लोके देवजुष्टामुदाराम्' इति श्रुतिश्चान्वर्थनीया । यथा वै- कुण्ठे परे लोके श्रिया सार्धममेयात्मास्ते, तथास्मिन्नचरे मानुषे लोके देव्या सह मेयात्मामेयात्मा चावतरति । करुणा खल्बवतारे निमित्तम् । अवतारकार्यं कृत्स्नं करुणाकार्यम् । तथ करुणामिव रूपिणीं तां विना न घटेत ॥ अस्मिंस्तोत्रे आचार्यैर्मुख्यतया प्रतिपिपाद्धिषितं किमिति चेदवतारभूमिकानामपि ब्रह्मवद्बृहत्त्वम् । सशैलवनकाननार्ण - वस्य जगतो ब्रह्मशररित्वेन तच्छरीरैकदेशत्वेन च प्रदर्शनं ब्रह्मणो बृहत्त्वमुपपादयेत् । यदि ब्रह्मणो भूमिकानामेव वा- ङ्मनसातीतं बृहत्त्वमध्यक्ष्येत किमु वाच्यं भूम्नस्तस्य निरति- शयबृहत्त्वे । ब्रह्मलक्षणवर्णनशब्दैर्निरतिशयबृहत्त्वमुपलक्ष्य- मिति भाषितम् । यदा लक्ष्यं ब्रह्मैवावतरति तेनापि निरतिशयबृहत्त्वापलक्षणं न्याय्यम् । कृत्स्त्रस्य जगत- स्तदाधेयत्वतच्छेषत्वतान्नियाम्यत्वानां सकलमनुजनयनविष- यतया प्रदर्शनेन विश्वस्य शास्त्रादवगतं ब्रह्मशरीरत्वम- परोक्षितं स्यात् । कारणत्वविशिष्टं तदुपलक्षितं वा ब्रह्म जिज्ञास्यत्वेन विहितम् ' तद्विजिज्ञासस्व' इति । तादृश- स्य ब्रह्मणो ध्येयत्वं विहितम् ' कारणं तु ध्येय: ' इति । उभयविभूतिविशिष्टं ब्रह्मैव फलदशायामनुभाव्यम् । ' सर्वं खल्विदं ब्रह्म तज्जलान्' इति शाण्डिल्यश्रुतिः कृत्स्त्रस्य जगतो ब्रह्मात्मकतयानुसन्धानमुपदिशति तज्जला- निति हेतूपन्यासपूर्वकम् । दहरविद्या यद्यप्यन्तःकलेबरं सुसूक्ष्मं दहराकाशमन्वेष्टव्यत्वेन विदधाति, ' उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते' ' यावान्वा अयमाकाशस्ता- वानेषोऽन्तर्हृदय आकाशः' इत्यादिना तस्य निरतिशयबृहत्त्व- मपि कथयति । श्रीशंकराचार्याश्च तदधिकरणभाष्ये 'अस्मि- न्कामा: समाहिताः, एष आत्मापहतपाप्मा' इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ' अथ य इहा- त्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्' इति समुच्चयार्थेन चशब्देनात्मानं कामाधारमाश्रितांश्च कामान्विज्ञेयान्वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्ड- रीकाधिष्ठानः सहैवान्तस्थैः समाहितैः पृथिव्यादिभिः स त्यैश्च कामैर्विज्ञेय उक्त इति गम्यत इत्यभाषिषत । कृत्स्नवि- शिष्टब्रह्मण उपासनं तेषां संमतम् । विशेषणत्वञ्चाधेयत्वादि- नेति स्पष्टमुक्तम् । भूमविद्या सर्वस्य जगतस्तदुत्पन्नत्वं श्राव- यति । सद्विद्या चास्य जगतः सन्मूलत्वसदायतनत्वसत्प्रति- ष्ठत्वप्रदर्शनेन सदात्मकत्वं निगमयति । तदेव जन्मादिहेतुत्वं तज्जलानिति सङ्ग्रहेण सूत्र्यते शाण्डिल्यश्रुत्या । आत्मनः सर्वसुखहेतुतयान्वेष्टव्यतां पत्न्या उपदिशन्याज्ञवल्क्य: 'इदं सर्वं यदयमात्मा' इत्यात्मनः सर्वात्मकतां बोधयति । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति लक्षितस्य ब्रह्मण आनन्त्यरूपनिरति- शयबृहत्त्वोपादनाय सर्वस्य तत्संभूतत्वं दर्शयति आत्मन आकाश: संभूतः' इत्यादिना । य आकाशस्तार्किकैर्नित्यत्वेन निर्णीतः सोऽप्याकाश एतस्मादात्मनः संभूत इति प्रथमं प्रदर्श्यते । यद्यपि तार्किका ईश्वरम् , तस्य निमित्तकारणत्वं च मन्वते, न ते ब्रह्म निरतिशयबृहत्त्वेन मन्वते, जगतस्त- दुपादेयत्वानभ्युपगमात् , उपादानत्वानभ्युपगमे वस्तुपरि च्छेदस्यापरिहार्यत्वात् , तत्परिच्छेदे सत्यानन्त्यरूपानरतिश- यबृहत्त्वस्यासिद्धेः ॥ इदमेव चारु व्यनक्ति श्रुति : ' नावेदविन्मनुते तं बृहन्तम्' इति । अवेदवित्तार्किकादिर्यद्यपि ब्रह्म मनुते, तद्बृहन्न मनुत इति तदर्थः । वैश्वानरविद्या स्पष्टमेव स्वर्लोकवाताम्बरादेर्भग- वदवयवत्वं ब्रवीति । मुण्डके च द्युभ्वाद्यायतनत्वं वर्ण्यते ' जगत्सर्वं शरीरं ते' इति प्राचेतसगुरोर्ब्रह्मणो वचनं वर्ण्यते प्राचेतसेन रामाभिधानं हरिं प्रति । 'तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥' इति भगवतो विश्वरूपे कृत्स्नं विश्वमर्जुनो ददर्श । शिशोः कृष्णस्य वक्त्रे विश्वं ददर्श यशोदा । सार्वात्म्यविशिष्टभग- वदैकात्म्यप्रत्ययसारैर्मुमुक्षुभिर्भवितव्यम् । तथैव तैः सदा अनु- सन्धानं कार्यम् । ' ऐकात्म्यप्रत्ययसारं शान्तिसमृद्धममृतान- न्दम्' इति माण्डूक्योपनिषद्विशिष्टैकात्म्यानुभवेनैकरस्यं बो- धयति । इदमेव विशिष्टाद्वैतदर्शनं भवति । 'अशेषचिद- चित्प्रकारं ब्रह्मैकमेव तत्त्वम्' इति वदन्त आचार्या एतदेव तत्त्वदर्शनं विदधति । 'पृथक्त्वेन तु यज्ज्ञानं नानाभावा- न्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥' इति पृथक्त्वज्ञानं भगवता राजसत्वेन जगर्हे । 'सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥' इति सात्त्विकज्ञानं लक्ष्यते भगवता । तदेव सम्यग्दर्शनं स्यादिति भगवन्मतम् । तच्च जगद्विशिष्ट- ब्रह्मण एकत्वेन ऐकात्म्यप्रत्ययसारतयानुभव: स्यात् । एतस्य श्लोकस्यैवमर्थवर्णनं शक्यम् । 'ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् ॥' इति गीताश्लोकभाष्ये " बहुधा पृथक्त्वेन जगदाकारेण विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति-- भगवान्वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचि- द्वस्तुशरीरः सन् सत्यसंकल्पो विविधविभक्तनामरूपस्थूलचि- दचिद्वस्तुशरीर: स्यामिति संकल्प्य स एक एव देवतिर्यङ्मनु- ष्यस्थावरान्तविचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसन्धानाश्च मामुपासते' इति भाषितम् । तादृशसर्वप्रकारविशिष्टैकब्रह्म- णोऽनुसन्धाने वासुदेवमन्त्रस्य तात्पर्यमिति तात्पर्यचन्द्रिकायां प्रदर्शितम् । अत एव भगवता 'वासुदेवः सर्वमिति प्रपद्यते' इत्युक्तमिव । सर्वविशिष्टैकविशेष्यब्रह्मज्ञानं सम्यग्दर्शनम् । तादृशज्ञानेनैकरसता, शान्तिश्च सम्यक्सिद्ध्येतामिति शा- ण्डिल्यश्रुतिः स्पष्टं ब्रवीति । सर्वभूतानां ब्रह्मात्मकत्वेनानु- सन्धानं सर्वत्र समदर्शनमावहति मित्नामित्रकथां कथाशे- षतां नयतीत्यशेषसाधूपमानभूतप्रह्लादस्यानुभवः । जगतो ब्रह्मशरीरत्वं श्रुतिः श्रावयतीति न केऽपि विप्रतिपद्यन्ते । शरीरत्वं चान्तः स्थितेन ब्रह्मणा नियाम्यत्वरूपमिति 'यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयति यस्य पृथिवी शरी- रम्' इत्याद्यन्तर्यामिब्राह्मणे स्पष्टं श्राव्यते । परमात्मनियाम्यं कृत्स्नं जगदिति सर्वेऽभ्युपगच्छन्ति । शरीरप्रतिसंबन्धी आत्मशब्दो नियन्तृचेतनवाची । शरीरशरीरिभावेन तयोः सामानाधिकरण्यं समर्थ्यते न्यायामृततरङ्गिण्याम् । कृत्स्नस्य जगतोऽस्माकं च स्वात्मकत्वं निरस्य भगवदात्मकत्वेन तद- पृथक्त्वेन तदद्वैततया अद्वैतानुभवोऽस्माभिः सततमभ्यस- नीय: । आरम्भणाधिकरणोक्तानन्यत्वं ब्रह्मव्यतिरेकेणाभाव इति श्रीशाङ्करभाष्ये । ' अनन्यत्वमिति नाभेदं ब्रूमः, किं तु भेदं व्यासेधामः' इति तदधिकरणभामत्यभेदेऽरुचिं कण्ठरवेण ब्रवीति । 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते' इति श्लोकभाष्ये 'पर्युपासते सर्वकल्याणगुणा- न्वितं सर्वविभूतियुकं मां परित उपासवे अन्यूनमुपासते' इति भाषितम् । 'अन्यूनमित्यखण्डितगुणविभूतिकमित्यर्थः' इति चन्द्रिका । इममखण्डार्थमखण्डानुभवं च वयं रोचा- महे । विशिष्टस्याद्वैतेनानुभवमभ्यसिषिषामो न विशेष्यमात्रस्य निर्विशेषाद्वैतम् । ' एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति' इति कठवल्ली धर्माणां विशेषणानां ब्रह्मणः पृथग्दर्शनमनर्थ- हेतुतया निन्दति । विश्वस्य भगवच्छरीरत्वं तदन्तस्थत्वं च प्रत्यक्षं निदर्शितमर्जुनस्य निजैश्वररूपदर्शनेन भगवता । य- द्यपि न तावन्मात्रमैश्वररूपप्रदर्शनमवताररूपेषु सर्वेषु , यथा विश्वरूपे, अस्त्येव तत्रापि ब्रह्मत्वप्रदर्शनं नियाम्यजगद्विशि- ष्टब्रह्मानुभावनं चेत्यस्मिंस्तोत्रे आचार्यैः सम्यक्प्रदशर्यत इति प्रदर्शयिष्यते । तत्त्वप्रदर्शनमवतारकृत्यम् । जगन्नियन्तृ जग- द्विशिष्टं निरतिशयबृहद्ब्रह्मैकमेव तत्त्वमित्यवतारैः सकललो- कसाक्षिकं प्रदर्श्यते ॥ यत्किंचिद्विशेषमात्रावशिष्टानुभव: खण्डानुभव: स्यात् । सर्वविशिष्टस्य कथं खण्डत्वम् । सर्वविशेषविशिष्टं कथमनु- भवपथं गच्छेदिति चेत् -- सर्वविशेषाणां ब्रह्मकार्यत्वशेष- त्वाद्यनुगतैकाकारेणेति ब्रूमः : । एवमेवैकब्रह्मज्ञानेन सर्ववि ज्ञानसमर्थनं श्रुत्या सद्विद्याप्रतिपाद्यस्य कारणस्य यथाक- थंचिद्विशिष्टत्वमेव सर्वैरभ्युपगम्यत इति चारु प्रदर्श्यते आचार्यै: 'मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूल: प्रपञ्चो येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे । अप्रा- धान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन्स्थू- लसूक्ष्मान्वय इति जगतोऽनन्यभावोपपत्तिः ॥' इति श्लोके । विशिष्टानुभव आवर्तनीयो निरन्तरमन्यूनपूर्णोपासनलाभाय । प्राप्यानुभवो विशिष्टः । 'यदेवेह तदमुत्र यदमुत्र तदन्विह' इति श्रौतप्रदर्शनमनुसृत्य प्राप्यानुभवो यथाशक्त्यत्रैवाभ्यसि- तुमुचितः । द्वितीयादर्शनं वदन्ती श्रुति: 'न ततोऽन्यद्विभ क्तमस्ति यत्पश्येत्' इति द्वितीयविभक्तपदार्थस्याभावं नि- षेधगम्यत्वेन बोधयति ॥ सूत्रकारश्च कार्यस्य कारणानन्यत्वं सूत्रयति, नैक्यम् । फलदशायां चाविभागमेव प्रतिजानीते 'अविभागेन दृष्टत्वात्' इति, नैक्यम् । 'तन्निष्ठस्य मोक्षोपदेशात्' इति सन्निष्ठां मोक्षोपायतया सूत्रयति । स्वमात्रविश्रान्तिरूपस्वनिष्ठता न मोक्षप्रापिका । कृत्स्नस्य चिदचित्प्रपञ्चस्य तदन्तर्गतस्य स्व- स्यापि ब्रह्ममयता भावनीया अभ्यसनीया सात्मीकार्या च । तादृशानुभवः प्रमा । पृथक्त्वानुभवो भ्रमः । प्रपन्नश्च ब्रह्म- मयतां प्रपन्न: स्यात् । ' त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः , इति वदन्त आचार्या एतत्सूचयन्तीव । शास्त्रेणैतदात्म्यमिदं सर्वमित्युक्ते स्वव्यतिरिक्तस्य सर्वस्य ब्रह्मापृथक्त्वं झटित्य- भ्युपगच्छामः तदपृथक्त्वस्यास्मत्प्रत्यक्षानुभवाविरुद्धत्वात् । अस्माकं तदपृथक्त्वे न तूर्णं विश्वसिमः, पृथक्त्वाभिमान - स्यास्माकमत्यन्तदृढत्वात् । शास्त्रवासनया सुदृढश्रद्धया दृढा- भ्यासेन च स्वपृथक्त्वबुद्धिर्व्यपोह्येत । अत एव श्रुतिः प्रथमं सर्वस्येदम ऐतदात्म्यरूपं सदात्मकत्वमुपदिश्यान्ते ' तत्त्वमसि' इति संबोध्यशिष्यस्यापि सदात्मकत्वं बोधयति । स्वपर्यन्तमैतदात्म्यानुभवे कृत्स्नप्रपञ्चस्य तदात्मकता अनुभवा- रूढा भवेत् । एतत्क्रमेणैव भगवान् धर्मराज: ' सकलमिदं वासुदेवः' इत्युक्त्वानन्तरम् 'अहं च वासुदेवः' इत्याशङ्का- निरासकचशब्दपूर्वकमात्मनो वासुदेवात्मकत्वं वदति। नाहं मत्प्रकारो मन्निष्ठो मदात्मकः । अहमित्युक्ते मत्प्रकारं ब्रह्मे- त्येव शास्त्रीयो बोधोऽनुभवश्च न्याय्यः । चिन्तितनिभिषित- सर्वचेष्टितानि तेनैव निर्वर्त्यन्त इति सदा भाव्यम् । 'यस्य नाहंकृतो भावः ' इति गीतावचनमनुसृत्याहंकृतत्वबुद्धिं नि- रस्य ब्रह्मकृतत्वबुद्धिः परिचेया । यथानेककोट्यवयवविशिष्टै- कदेहिन एकत्वेनानुभव: सुलभः सहजश्च तथा विश्वदेहिन एकत्वानुभवं परिचिनुयाम । 'दृष्टिं ज्ञानमयीं कृत्वा पश्ये- द्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥' इति श्रीशंकराचार्याः ॥ 'ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्रह्म ।' प्र- पञ्चगतजाड्यपरिमितत्वदुःखरूपत्वादीनि न ब्रह्मणि । ब्रह्म- स्वभावभूतानुकूल्यानन्दत्वे प्रपञ्चस्य निजं वास्तवं रूपम् । तद्व्यक्तीकरणे सर्वस्याप्यानन्दमयत्वेनैकरस्यं भवेत् । तदयं सर्वदास्माभिर्विशिष्टैकब्रह्मानुभवोऽभ्यसनीयः । ' सर्वस्याप्या- नुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य व्यक्तिं तन्मुक्ति- काले भजति' इत्याचार्या: । अवताराणां भूमिकात्वेन रूपणे रङ्गे तत्परिग्रह उचितः । श्रीरङ्गे दशावतारमूर्तीः पश्यामः । तदुच्यते ' निर्वर्तयन्भूमिकां रङ्गे धामनि' इति । नटस्य रङ्गं कुलधनं यथा तस्य नाट्यविद्या कुलविद्येति गणदास: । नटस्य रामस्य कुलधनं स्याद्रङ्गम् । अत एव 'रामादीनां कुलधनमिदं रङ्गतां याति रङ्गम्' इति ॥ 'हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्वं कदा नु भविता विषयो ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारैर्वृक्षैस्तृ- णैश्च सुलभं समयं व्यतीतः ॥' इति श्रीवत्साङ्कमिश्रा: कोस- लजनपदस्य कृत्स्नतृणवृक्षपशुपक्षिमनुष्यादिप्राणिसामान्यमो- क्षेण समयातीतत्त्वं शोचन्ति । कृष्णावतारे राससमये यमु- नापुलिनसिकतभावालाभं च शोचन्ति । ' हा जन्म तासु सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोप- कन्या: । यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥' इति । इन्दोः शीतरश्मित्वं विरहि- जनेष्वयथार्थम्, यस्मादिन्दुस्तेषु हिमगर्भैर्मयूखैरग्निं विसृजती- त्युक्त्वानुपदमेव ' शक्यमरविन्दसुरभिः कणवाही मालिनीत- रङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥' इति शैत्यसौरभ्यादियुक्तपवनस्यानङ्गतापशमनत्वमवर्णयन्महाकविः । 'पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥ ' इति श्लोकस्य शिवशोकविना- शनशब्दयोः पञ्चतापादनेन दुःखनिवृत्तिः खल्वर्थः । वज्र- सारीकृतकुसुमशरविद्धानां कामाग्नितप्तानां पञ्चता सुखाय भवेत् । मूर्च्छावस्थाया उपकारकत्वं वर्ण्यते शोकव्यथिता- नाम् ' मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ।' इति । मलयपवनादेः कामाग्निसंधुक्षकत्वं कविसमयसिद्धम् । मदनताप: शीतवा- तेन न शाम्येत् । अनेनैवाभिप्रायेण 'अङ्गमनङ्गतप्तम्' इति तुल्यं शब्दं प्रयुञ्जाना: 'न यमुनासलिलकणबाहिशीतलपव- नेन गोपिका मदनतापशान्तिमीयुः । किं तु यमुनासिकत- स्थासु कृष्णपदपङ्क्तिषु निजमङ्गं विन्यस्य तापशान्तिमीषुः इत्यूचुः । यदुक्तं कविना 'द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृ- श्यतेऽभिनवा ।' इति तस्मिन्प्रकरणे, तदपि स्वीकृतं श्रीव- त्साङ्कमिश्रैः । यावान्बहुमानो दुष्यन्तस्य शकुन्तलापदपङ्क्तौ, तावांस्तदधिको व्यामोहो गोपिकानां कृष्णपदपङ्क्तिषु । इत्थं भिन्नकालत्वं शोचन्ति ते । श्रीवकुलभूषणा अतीतानवतारा- ननुभवितुं तीव्रोत्कण्ठां प्रदर्शयन्ति वटतलशयितशिशुः सप्तलोकीं निगीर्येत्याद्यासु गाथासु । शिशुत्वादिविशिष्टं भगवन्तमनुबुभूषोर्वकुलभूषणस्य इन्दुं करस्थं काङ्क्षद्भिः शिशुभिस्तौल्यं संपद्यत इवेति चारु व्यञ्जयन्ति श्री- मद्वरवरमुनयो वकुलभूषणान्तादिगाथाशतके । 'ब्रह्मन्का- लान्तरकृतं तत्कालीनं कथं भवेत् । यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भका: ।' इति परीक्षिता पृष्ठ: श्रीशुकोऽनन्तस्य भगवतः कालोपाध्यतीतत्वं सदा वर्तमानस्वभावत्वं साक्षादप- रोक्षत्वं च स्मरंस्तदनुभवे भग्नो विसस्मार श्रोतारं परीक्षितं कथकमात्मानं च । कृच्छ्राच्छनैर्लब्धबहिर्दृशि: प्रत्याह । 'सतां ह्ययं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य स्त्रिया विटानामिव साधुवार्ता ॥' इति । स्त्रीचित्तानां स्त्रीमयानां विटानां प्रियस्त्रीविषयस्मरण- वार्तादिना वृत्तानुभवोऽपि वर्तमान इव प्रतीयेत । तथा ब्रह्मचित्तानां ब्रह्ममयानां ब्रह्मविदां वृत्तान्यपि तदवताररू- पाणि बर्तमानवदनुभूयेरन् । दूरस्थितकामिनीविषयपुरावृत्तस्य वर्तमानत्वानुभवो नियतं भ्रमात्मकः, तद्वृत्तान्तस्य वर्तमान- त्वाभावात् । भगवतस्तु सदा वर्तमानत्वात्तदनुभवो नावश्यं भ्रान्ति: स्यात् । अवताररूपाणां भावनाजन्यसंस्काररूपेण शिल्पिना चिन्तनारूपचित्रभित्तौ आलेखनीयावतार प्रसादेन सम्यग्लेखनं सुशकमित्याचार्या : प्रदर्शयन्ति सङ्कल्पसूर्यो दयसप्तमाङ्के । ' विदुषश्चिन्तनां शक्त्या चित्रभित्तिं वितन्वता । शुद्धाशुद्धविभागार्हं विश्वं विलिखितं मया ॥ इति संस्कारः । ' परिचयमहिमानं प्राप्य सञ्जातभूमा दिवि- षदनुविधेयो दिव्यसंस्कारशिल्पी । व्यलिखदनघरूपं विश्व- मेतद्यथावच्चिरगतमपि दृश्यं चिन्तनाचित्रभित्तौ ॥' इति व्यवसाय: संस्कारस्यालेखनकौशलमभिष्टौति । चिरगतस्या- व्यवतारस्य वर्तमानत्वप्रतीतिप्रकारो वर्ण्यतेऽनन्तरलोके तेन 'प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः । अपि भूतानि भावीनि भवन्तीव भवन्ति नः ॥' इति । भावनयैव चित्तभित्तो लि- ख्यन्तेऽवताररूपाणि । अतीतान्यवताररूपाण्यतीतविषयिण्या भावना लिख्यन्ते । भविष्यत्कल्किरूपं त्वागामिविषयिण्या भावनयेति विशेष: । भगवदनुग्रहेण सन्तोषेण आन्तरभा- वनामात्रेण विरच्यते इदमवताररूपशिल्पम् । यथाह विवे- कः -- नैतद्बाह्यैस्तूलिकावर्णकाद्यैः क्ऌप्तं चित्रं किं तु सन्तोषलिप्ताम् । नानाकारां भावनामेव शिल्पी शिल्पव्या- जान्नूनमत्रोज्जगार ॥' इति । 'यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनूंं स्वाम्' इति श्रुतिमनुसृत्य भगवदवतार- तनुर्भगवदनुग्रहेणैव चिन्तायां लिख्येत । 'हृदि मुग्धशिख- ण्डमण्डनो लिखितः केन ममैष शिल्पिना ॥' इति प्रश्न- स्योत्तरं दीयते आचार्यै: सङ्कल्पसूर्योदये 'अखण्डब्रह्माण्ड प्रथमतरशिल्पी स भगवान्स्वयं पद्माजानिर्व्यलिखदिह चित्रं स्वविषयम्' इति । एतत्स्तोत्रश्लोकाः प्रायेण तत्सप्तमाङ्के दृश्यन्ते । चेतःस्थितिमण्टपे संस्कारशिल्पिना लिखितानि भावनामयावतारशिल्पानि विवेकः सुमतिश्च पश्यतो व्यव- सायेन सह । भावनया अस्माकं चित्तभित्तौ पुरावृत्तावता- ररूपान् लेखयितुं यथानुभवमुल्लेखनं क्रियते आचार्यैः । नि- र्वर्त्यमाना भूमिका भावनाभूमिका: । ' भजसि मनसि नित्यं भूमिकां भावनाख्याम्' इत्याचार्याः पादुकां प्रत्यन्तिमपद्धतौ । किंचिदूनसहस्रश्लोकैर्मुहूर्तकालं निबिडं निपुणं भाविता पा- दुका भावुकाचार्यमनसि स्वभूमिकामातनोतीत्याचार्यानुभवः । तादृशोऽनुभवोऽस्माभिरपि संपाद्येत, यदि वयमाचार्य- श्लोकान्प्रत्यहं जल्पन्तस्तदर्थं च भावयेम । स्वभा- वितानवतारानस्माननुभावयितुमेवाचार्यप्रयत्न: ।'शुभमा- तनोतु' इति प्रार्थना 'शुभविग्रहमस्माकमाविष्कारयतु' इत्यप्यभिप्रैति । कथमध्यक्षणमात्रेण ब्रह्मानन्दोऽस्मदानन्दो भवेत् ? एकेनानुभूयमानस्य दर्शनेन कथं द्रष्टुस्तदानन्द: ? ब्रह्मानन्दोऽन्यूनातिरिक्तं नित्यमुक्तैर्लभ्यत इति वयमभ्युपग- च्छामः । जीवब्रह्मणोरानन्दस्य साम्ये तयोरप्यैक्यं नियतमि- त्याक्षिप्येत । शारीरकशास्त्रार्थदीपिकायां श्रीमद्रङ्गरामानुज- मुनिभिरानन्दस्य स्वकीयत्वमनपेक्षितमिति वर्णयन्ति । रसस्य स्वभावोऽयम्,यद्भावुकानामपि तुल्यरसतेति । रसरूपस्य भगवतो रसस्यापरोक्षणे तत्तुल्यो रसोऽनुभूयेत तदनुप्रहेण तत्प्रियत मैर्नित्यमुकैः ॥ यद्यत्पश्यामस्तत्र तत्र परमविशेष्यभूतं परमप्राणभूतं सत्- सत्यात्मादिशब्दैरुपनिषद्भिरुद्घोषितं ब्रह्म प्राधान्येन वयम- ध्यक्षयितुमर्हास्तत्तज्जडाजडं चाप्राधान्येन । बोधे विशेष्यत्वं ब्रह्मणः । जडसरं समाप्यान्ते 'वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्मा- धवीं दोधवीति । भूर्यद्वा बोभवीति स्थिरचरमखिलं तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियमनपरब्रह्मलीलोर्मिच- क्रम् ॥' इत्यद्भुतमुल्लिखितो जगद्विशिष्टब्रह्मानुभवो आचार्यैः । वेदान्ताचार्यो वृथा जडपदार्थस्वरूपं शोधयामास; नेदम- ध्यात्मशास्त्रमिति मा मथाः । अस्मद्दर्शनरीत्यानुभवे सर्वं ज डम्, भगवतः सर्वाश्चर्यमयत्वमुपपाद्य तस्मिन्भक्तिं वर्धयेत् । तदर्थमेव भगवता भक्तियोगषट्के भूयो विभूतयः प्रादर्शि- षत । 'गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् । वीक्ष्य- माणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥ ' इति सद्विद्यायाः प्रयोजनं परिदृश्यमानसर्वजडाजडपदार्थस्य ब्रह्मप्रतीतिजनक- त्वमिति सुन्दरं प्रदर्शयन्ति श्रीशंकराचार्या: । 'यथा एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्' इत्युपक्रम्य 'ऐतदात्म्यमिदं सर्वम् ' इत्युपसंहरतः पितुरेषोऽभिप्रायः । 'यथा मृन्मयपदार्थेषु मृदमेव पश्यसि, लोहमयपदार्थेषु लोहमेव पश्यसि, कार्ष्णयसपदार्थेषु कृष्णाय एव पश्यसि, तस्य तस्योपादानत्वात् । तथा सर्वस्मिन्मृन्मये लोहमये कार्ष्णायसे इतरत्र च ब्रह्म पश्य, तस्य सर्वोपादा- नत्वात्तदात्मकत्वात्सर्वस्य । स्वस्मिन्नपि ब्रह्म पश्य, तवापि तदात्मकत्वात् । यावत्स्वस्मिन्विशेषे नैतदात्म्यस्योपसंहार- स्तावन्न तस्यानुभवारूढता । ' अखिलजगत्स्वामिन्नस्मत्स्वा- मिन्' इति गद्ये अखिलजगत्स्वामी स्यान्न स्वस्वामी, स्वस्वातन्त्र्यस्यानादिदृढवासनामूलत्वात् । उपादानभूतब्रह्मप्र- तीतिः सर्वैः कार्यपदार्थैरुत्पाद्या । विशेष्यमात्रस्य विवर्ततयो- पादानत्वमद्वैते। विशिष्टस्य विशेषणगतपरिणामद्वारोपादानत्व- मस्मन्मते । यद्यपि विशिष्टदर्शनं वयं सर्वत्राभ्यस्याम:, तथापि न ब्रह्ममयत्वप्रतीतिहानिः तस्यैव प्राधान्येन प्रचुरत्वात् । अ- प्रतीकदर्शनं चेदम् । प्रपञ्चस्य निष्प्रपञ्चीकरणमद्वैते । तस्यापि ब्रह्मप्रचुरतानुभवो विशिष्टाद्वैते । सर्वस्य ब्रह्मात्मकत्वरूपस त्येन शेपे प्रह्लाद : ' यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥' इति मृतपुरो- हितान् जीवयिष्यन् । विशिष्टानुभवेऽपि विशेषणभूतस्य स्वस्य प्रपञ्चस्य च विस्मरणमपि प्रकाश्यते श्रीपराशरेण प्रह्ला- दानुभववर्णने । 'एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवापाग्र्यं मेने चात्मानमच्युतम् ॥ विसस्मार तदा - त्मानं नान्यत्किंचिदजानत । अहमेवाव्ययो नित्यः परमा- त्मेत्यचिन्तयत् ॥' इति । समाधेर्व्युत्थितश्च 'दृष्ट्वापि स जगद्भूयो गगनाद्युपलक्षितम् । प्रह्लादोऽस्मीति सस्मार पुन- रात्मानमात्मना ॥' इति प्रथमं प्रपञ्चमनन्तरमात्मानं च विशेषणतया सस्मार । पूर्णानुभवमग्नदशायां विशेषणस्य विस्मरणं गुणायैव भवेत् । ब्रह्माधीनसत्ताकस्य स्वस्य विस्म- रणमात्रं नात्यन्तमसत्तेति वयम् । अनुभूयमानानन्तब्रह्मेतर- स्यात्यन्तं बाधितत्वमित्यद्वैते । विशेषणानि न पृथक् सन्ति, न स्वातन्त्र्येण सन्ति । 'परमार्थस्त्वमेवैको नान्योऽस्ति जग- तीतले ' इति वयमध्यनुभवामः । 'प्रत्यक्षं चिदचिन्मयं जग- दिदं यस्येत्यनुश्रूयते यश्चानन्यघियामनन्तविभवः प्रत्यक्षताम- श्नुते । यश्चैको युगपत्सदा स्वत इदं विश्वं दरीदृश्यते प्राज्ञं तं प्रतिपन्नमोक्षणविधौ दक्षं दिदृक्षेमहि ॥' इति प्रत्यक्षपरिच्छे- दान्ते आचार्या न्यायपरिशुद्धौ । सर्वत्र ब्रह्मापरोक्षणं प्रत्यक्षस्य परिशुद्धिरित्याचार्याणामाशय: । जडवस्तुमात्रदर्शनं भ्रमात्म- कम् । 'ज्योतींषि विष्णुर्भुवनानि विष्णुः' इत्यादिना सर्वत्र ब्रह्मदर्शनमुपदिश्यते श्रीपराशरेण । 'यथाकाश- स्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥' इति गीताश्लोकभाष्ये 'स- र्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय । यथाहुर्वेदविदः 'मेघोदय: सागरसन्निवृत्तिरिन्दोर्विभाग: स्फु- रितानि वायोः ॥ विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्वि- चित्राः प्रभवन्ति मायाः ।' इति विष्णोरनन्यसाधारणानि महाश्चर्याणीत्यर्थः । श्रुतिरपि ' एतस्य वा अक्षरस्य प्रशासनं गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' 'भीषास्माद्वातः पव- ते । भीषोदेति सूर्यः । भीषास्मादग्निश्वेन्द्रश्च मृत्युर्घावति पञ्चमः ।' इत्यादिका इति भाषितम् । मेघोदयेत्यादिश्लोकः एवं व्याख्यातस्तात्पर्यचन्द्रिकायाम्-- अस्मदाद्यगोचरोपा- दानोपकरणसंप्रदानादिकानां तत्क्षणादेव सकलदिङ्मुखव्या- पिनां धाराधराणामुत्पत्ति: । सकलभुवनाप्लवनलम्पटस्यैव जलनिधेरम्बरालम्बिनां तरङ्गाणां वेलातले निवृत्ति: । प्रतिनि- यतकलावृद्धिक्षयशृङ्गोन्नमनादिरूपश्चन्द्रमसो विभागः । अश- ङ्कितागमानामनियतदिग्विशेषाणां तृणगिरितरुषण्डऌण्टाकानां चण्डमारुतादीनां विष्फूर्तयः, प्रशान्तदहनमिहिरमकरादिमह- सि प्रावृषि निशीथेऽप्यविदितपूर्वोत्तरक्षणानां क्षणरुचीनां वि भङ्गः । निरालम्बने विहायसि महीयसो मिहिरमण्डलस्य प्रतिनियतरजनिमासायनसंवत्सरादिदेशिक : सञ्चारः । एवं- विधान्यन्यानि च परिवेषोपरागेन्द्रचापकरकास्तनिताशनिभू- कम्पप्रभञ्जनभ्रमणादयोऽत्यद्भुतप्रकाराः सर्वे सर्वव्यापिन: सर्वशक्तेर्विष्णोरेव विचित्रसृष्टिशक्तिमूला भवितुमर्हन्तीति श्लोकार्थ: ' इति । सर्वाश्चर्यमयस्य भगवतोऽद्भुतमयत्वस्येदृशम- द्भुतप्रदर्शनं कुत्र वा पश्येम । आर्षो योऽनुभवः स भाष्यका- रैरन्वभावि । तदेवाचार्याः स्वयमनुभूयास्माननुभावयन्ति । शास्त्रेषु श्रुतं जगच्छरीरत्वमद्भुतमयत्वं च प्रत्यवतारं भगवता दृश्यं कृतं तदनुग्रहेण । वृत्तानामपि भावनाबलाद्भगवदनुग्र- हेण चेदीनामप्यपरोक्षता भवेदित्यत्र प्रदर्श्यते आचार्यैरिति दर्शयिष्यते ॥ देवो नः शुभमातनोतु दशधा निर्वर्तयन्भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ श्रव्यस्य दृश्यत्वापादनं नाटककृत्यम् । श्रवणविषयभूतौ दम्पती तदवतरणनाटकैर्दृश्यतामापाद्येते । अदृश्यावपि स्वा- वतारैर्दृश्यौ भवतः । अतीतास्वप्यवतारदशासु तदनुग्रहसह- कृतयास्मद्भावनयाध्यक्ष्येते । देवः । १. रङ्गस्य मध्येऽत्यूर्जिततेजोवद्दीपोऽवश्यं निवे- शनीयो नटान् शोभयितुम्, रङ्गशालां च दीपयितुम् । नि- शि नाटकं नाट्येत । संसारनिशीमानि नाटकानि प्रवर्त्य - न्ते । दीपापेक्षायां देवं विहाय कोऽन्यो दीपः प्रकाशेत तत्संनिधौ । सहस्ररश्मेरपि सन्तमसपर्वं खलु भवति त- न्निकटे । स्वयंप्रकाशः सो नान्यतः प्रकाश्यतामर्हति । 'न तद्भासयते सूर्यो न शशाङ्को न पावकः ।' तिष्ठतु भासक- त्वम् । स्वयमेव न भासेरंस्तत्र । न तत्र सूर्यो भाति न चन्द्रतारकम् ' तद्दूरे आत्मानं यदि भासयेयुस्तदपि तद्भासैव । ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' निरतिशयदीप्तियुक्तो द्योतमानोऽनन्याधीनस्वप्रकाशो देवः स्वयं दीपो भवत्यात्मानं सभ्यान् रङ्गं च भासयितुम् । २. निष्कलस्य निष्क्रियस्य शान्तस्यास्य कथं नटनसंभवः । क्रडिनशीलत्वादयं नटो भवति । यद्यपि सर्वेश्वरोऽयं देवन- लोलत्वान्नानाकारभूमिकाः परिगृह्य नटति । ३. अयं विश्वस्य सूत्रम् । अस्मिन्सर्वमिदं प्रोतं सूत्रे मणिगणा इव । लोक- त्रयसूत्रधारोऽप्ययम् । सर्वानप्ययं सततं यन्त्रारूढानिव भ्राम- यति, नर्तयति। सूत्रत्वेऽपि सूत्रधारत्वेप्ययं सततनटः । सर्गस्थितिप्रलयविभ्रमनाटिकासु शैलूषवद्विविधवेषपरिग्रहो- यम् । ४. नायं सभ्येभ्यो महीता नट: । अयं तु दाता देवो नटः । ये स्वनाटकं पश्यन्ति तेषां सर्वस्वमात्मानमपि यच्छति । ५. अन्यः प्राकृतो नट आत्मानं प्रद्योतयेद्वर्ण- धारणादिना । अयं तु तेजसां राशिरूर्जितः । आत्मज्योति- षमावृणोति योगमायया ॥ नः शुभमातनोतु । १. शुभमिति शुभाश्रयविग्रहो गृह्येत, नामैकदेशे नामग्रहणम् । तेनैव खलु तद्विग्रहो लेखनीयोऽस्म- द्धृदि । शुभविग्रहमस्मच्चक्षुर्गोचरतया विस्तारयतु । ' विस्तार- यन् क्रीडसि योगमायाम्' इत्यवतारक्रीडावर्णनं ब्रह्मणा । योग- माया चाश्चर्यभूतशुभविग्रहः । 'तां देवमायामिव दिव्यरू- पिणीम्' इति श्रीरुक्मिणीदिव्यमङ्गलविग्रहविषये । २. शुभ- मिति भगवद्विग्रहापरोक्ष्यजनितानन्दसन्दोहोऽपि सङ्गृहीतः स्यात् । अस्माकमानन्दं तनोतु, 'लक्ष्मीं तनोतु' इतिवत् । ३. उपक्रमस्थंशुभमुपसंहारदृष्टशुभं स्यात् । एतत्स्तोत्रविव- क्षणे 'दिशासु दशसु ख्यातिः शुभा जृम्भते' इति फलमु- क्तम् । दशदिशासु जृम्भमाणा शुभा ख्याति: शुभशब्देना- भिप्रेता स्यात् । यथावतारस्य ख्याति: 'यश: कलिमलाप- हम्' इति गीयते तथा तद्भावुकानां ख्यातिर्भूयात् । भावु- कख्यातिरवतारख्यातौ पर्यवस्येत् । फलश्लोकोक्तं सर्वमत्र शु- भत्वेन गृह्येत । ४. भूमिकां निर्वर्तयन्नः शुभमातनोतु इत्यन्वयः ॥ दशधा । मध्यमणिन्यायेनोभयत्रान्वेति । दशधा शुभमा- तनोतु, 'कृतं दशगुणं मया' इतिवत् । शुभगुणनमस्य सहजम् । तदर्थमेवायमवतीर्णः । शुभविग्रहं दशधा विस्तार- यतु । एकस्यास्मत्प्रपन्नवेषस्य फलत्वेन दश वेषान्प्रदर्शयति रूपकं नाटकेषु दीर्घतमम् । तञ्च दशाङ्कम् । अवतारसंख्या पि रूपाकाङ्कसंख्यासमाना। ब्रह्मावतारसंख्या न न्यूनाङ्कसंख्यया भवेत् । एकमिदं नाटकं दशाङ्कम । दशधा भूमिकां निर्वर्त यत्र: शुभमातनोतु ॥ निर्वर्तयन्भूमिकाम् । भूम्नोऽल्पभूमिकापरिग्रहस्य श्र म साध्यत्वं पूर्वमुक्तम् । देहपरिमाणत्वमात्मनोऽभ्युपगच्छन्तो जैना अस्माभिः पर्यनुयुज्यन्ते हस्तिशरीरपरिमाणो ज्जीवः पिपीलिकाजन्म प्राप्नुवन्न पिपीलिकाशरीरे संमीयेतेति ॥ रङ्गे धामनि । रङ्गं धाम गृहम् । अन्येषां सूत्रधारा नटानां च रङ्गमन्यद्गृहमन्यत्स्यात् । अयं तु सदा नटन शी लत्वाद्रङ्ग एव वसति । रङ्गं विना वेषपरिग्रहं विना न क्षणमपीमाववस्थातुं शक्नुयाताम् ॥ भक्तार्तिपरिजिहीर्षया भक्तमनोरथानुरोधेन सदा भूमिकापरिजिघृक्षुः सज्जस्तिष्ठ- ति रङ्गे ॥ लब्धनिर्भररसैर्भावुकैः । १. रसस्य लब्धत्वमाश्चर्या - वहम् ' आश्चर्योऽस्य लब्धा' इति कठश्रुतिर्ब्रह्मरसलाभल्या- त्यन्तदुर्लभत्वं वदति । तच्छ्रुतिः प्रत्यभिज्ञाप्यते लब्धशब्देन । ' रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतिरपि सङ्गृह्यत इति पूर्वमुक्तम् । श्रवणमेव न लभ्येत बहुभिः । श्रवणेऽपि वेदनं दुर्लभम् । वेदनेऽपि प्राप्तिर्दुर्लभा । प्राप्तिश्च लाभश- ब्देनोच्यते । सा चानुभवगोचरतापत्तिः । तदेवोच्यते महाक- विना 'सङ्क्रान्तिरन्यस्य विशेषयुक्ता' इति । सङ्क्रान्तिरुच्यते श्रुत्या ' एतमानन्दमयमात्मानमुपसङ्क्रम्य ' इति । आनन्द- वल्ल्युक्तबाङ्मनसागोचरानन्दो निर्भररस इत्युच्यते । निर्भर- रस: पूर्णरस: । पूर्ण ब्रह्म । रसो ब्रह्म । तद्विषय: पूर्णरस उचितः । स च नास्मत्प्रयत्नेन संपादयितुं शक्यः । नैर्भ- र्यरूपप्रपन्नत्वसंपादने संपूर्णो रसोऽनायासेन लभ्येत । नैर्भ- र्यलभ्यरसो निर्भरः पूर्ण: स्यादिति चारु व्यज्यते निर्भर- शब्दमहणेन २. ' यो वै भूमा तत्सुखं नाल्पे सुखमस्ति इति भूमविद्या अल्पे रसजनकत्वं निषेधति । इयं भूम्नो भूमिका यद्यपि भूमापेक्षयाल्पा, अस्यां पूर्णसुखमित्यघटित- घटकत्वं व्यज्यते । ३. 'नटवद्भूमिकाभेदैर्नाथ दीव्यन् पृथ- ग्विधैः । पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥' इति श्लोकः पूर्वमेवोदाहृतः ॥ अध्यक्षितः । १. अधोक्षजोऽदृश्योऽध्यक्ष्यते भूमिकाप- रिग्रहेण । २. भगवान्नटश्चेत्कः सभाध्यक्षः । सभ्या: परका- लादयस्तद्भक्तास्तं विना कमन्यं सभाध्यक्षं कुर्युः । अयं नट एव सभ्यैर्भावुकैरध्यक्षत्वेन स्थाप्यत इत्यपि चारु व्यज्यते । ३. सभ्यानेवायमध्यक्षान्मनुते । भावुकैरध्यक्षवदाचर्यते भ- गवद्बुद्ध्येत्यपि व्यज्यते । अध्यक्षणीयावतारसंख्या दश, अध्यक्षकाभिनवदशावतारभूतभावुकसंख्यापि दश । ४. ब्रह्म- रसस्य साक्षात्करणेनैव तद्रसोऽस्मान्सङ्क्रामति । एकस्य रसः कथमन्यस्याध्यक्षयितुः स्यादिति चेद्रसस्य स्वभावोऽयम्, यदेकत्रोत्पन्नमन्यान्द्रष्टृृन् सङ्क्रमेदित्येतदपि व्यज्यतेऽध्यक्षितो भावुकैरिति ॥ यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती । पुमान् देवः शैलूषो भवेत् । स्त्रीवेष : प्रायेण पुंनटैः परिगृ- ह्यते । न नटस्य पत्नी नटीवेषं परिगृह्णाति । असूर्यपश्या शुद्धान्तस्त्री देव्यपि शैलूषी भवति । तस्या विभुत्वेऽप्यस्ति जगन्मोहिनी माया यवनिका, येन सा तिरोधीयत इति व्यञ्जयन्ति श्रीयामुनाचार्या: । वेषं परिगृह्य बहिरागमने सा दृश्येत सर्वैरपि जनैः । न केवलमुत्कृष्टदेवमनुष्यादियोनिष्व- वतरति । पृथग्विधेषु निहीनयोनिष्वप्यवतरति नायकेन सह तच्छायाभूता । ' यस्तेन सह स स्वर्गो निरयो यश्च तं विना ' इति खलु स्वर्गनरकव्यवस्था तस्याः । पृथक्छब्दो नानार्थको निहीनार्थकश्च । भावशब्दो जन्मपरोऽभिनेयहार्दभावपरश्च । नटनप्रकरणे भावशब्दस्य तदर्थ आवश्यकः स्वयमिति छायावद्भर्त्रनुगमनाय नियोगनिर्बन्धाभावो द्योत्यते । न छाया अनुगमने नियुज्येत । नापि ततो निवार्येत । विधिनिषेधा- नर्हा तदतीतेयं छाया । सजवेयं छाया । ' छाया: सजीवा इव धर्मदाराः' इत्याचार्याः ॥ यद्धमैरिह धर्मिणी । ' यथा सर्वगतो विष्णुस्तथा चेयं द्विजोत्तम ' इति पराशरवचनं स्मार्यते ॥ विहरते । स्वसन्तोषार्थमेव भूमिकाः परिगृह्णातीत्यात्म- नेपदेन व्यज्यते ॥ नानाकृतिर्नायिका । १. नानाकारवती । २. नाना- विधकृतिमती । कृतिषु नायकमप्यतिशेते नायिका । 'लघुतरा रामस्य गोष्ठी कृता' इत्यादिकमत्र भाव्यम् । पृथग्विधेष्व- नुगुणान्भावान्बिभ्रतीत्येव नानाकारपरिग्रह उपपादितः । अत्र नानाकृतित्वेन नायकादपि विविधाधिककृतिमत्ववर्णनं स्वरसं स्यादिति रसिकैर्भाव्यम् ॥ निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै- रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । निष्प्रत्यूहतरङ्गरिङ्खणमिथ: प्रत्यूढपाथश्छटा- डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥ अतिबृहद्भगवतो मात्स्यं वपुर्मकरालयं कृत्स्नं क्षोभयति । तिमिङ्गिलः, तिमिङ्गिलगिलः, तद्गिलस्तद्विल इति गिलपरं- परा पठ्यते । विश्वनिगरणशीलोऽयं महागिल: । भगव- दर्चाप्रतिमाया डोलोत्सवं वयं चिकीर्षामः । तदर्थं वयं डोलां निर्मिमीमहे । अतिबृहतो मात्स्यवपुषः के वा डोलां रचयितुं प्रभवेयुः । कुतो वा तदर्थदार्वायसशृङ्खलादीनि संपाद्येरन् । डोलोत्सवं च दिदृक्षन्ति भक्ताः । ' किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः' इति पृच्छती श्रुतिः ब्रह्म वनं ब्रह्म स वृक्ष आसदितो द्यावापृथिवी निष्टतक्षत्' इत्युत्तरयति । भक्तच्छन्दानुवर्ती भगवान् स्वयं डोलारो- होत्सवं निर्वर्तयति । अस्मद्दोहदमनु तस्य दोहदो जायते । का डोला भवेदस्य महतो भूतस्य । मात्स्यं वपुर्द्वीप इव भवति । स्ववपुषा मकरालयं संक्षोभ्यात्युच्चदीर्घांस्तरङ्गानुत्पा- दयति । ते च तरङ्गा यद्यप्यन्यतो निष्प्रत्यूहा मिथ: प्रत्यूढा भवन्ति डोलासंपादनाय । उत्सवडोला पद्मैरलंकृता स्यात् । कुतोऽस्या: समुद्रतरङ्गडोलाया: पद्मानि संपाद्येरन् । अन्त:- समुद्रे कथं तेषां संभवसंभवः । का गतिः । तत्कटाक्षा एव गतिः । तान्यपि विरच्यन्ते भगवत्कटाक्षैः । पुण्डरीकाक्षस्य वी- क्षणै: पद्मवनानि सृज्यन्तेऽन्तःसमुद्रे लवणमयीष्वप्सु । भगव- द्वपुरेव डोलोत्सवसामग्रीं कृत्स्नां स्वयं संपादयति । मीनस्याक्षीण्युपमानत्वेन प्रसिद्धानि । यदि पुण्डरीकाक्षो मीनो भवेत्तद्वीक्षणैर्विचित्रपद्मवनसृष्टौ कः संशयीत । मत्स्यावतारस्यातिबृहत्वं प्रपन्नजनानन्दसन्दोहग्रथनं च चारु वर्ण्यतेऽत्र रसिकमनोहारितया । मत्स्यावतारो श्रीमद्धयवद- नावताराभिन्नः । 'मत्स्याश्वकच्छपवराह--' इति श्री- भागवते मत्स्याश्वयोरेकीकृत्य सहपठनम् । श्रीहयग्रीवं नम- श्चक्रे सङ्कल्पसूर्योदयप्रथमाङ्के नाटकमारिप्समानः तदहम- शेषविद्यासंपदुपलम्भिनीमभूतपूर्वबहुविधभूमिकापरिग्रहेऽप्य तिरस्कृतपारम्यामनवबोधजलधिकुक्षिंभरीमनन्यभक्त्युन्मीलि- तामादिमां देवतामभ्युपगच्छामि' इति । अत्र भगवदनेक- नाटकवर्णनप्रकरणे तन्नमस्क्रिययावतारवर्णनोपक्रमः स्वादुत- मः कवीनाम् । ' एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः । जग्राह वेदानखिलान् रसातलगतान् हरिः । प्रादाच्च ब्रह्मणे राजन् ततः स्वां प्रकृतिं ययौ ॥' इति स्तोत्रभाष्योदाहृत- भगवच्छास्त्रवचनान्यत्र भाव्यानि । मधुकैटभाविति मूर्त- रजस्तमसी ज्ञानमयान्वेदानपजह्नतुः । रजस्तमसी निरस्य सत्त्वमयवेदसंप्रदायप्रवर्तको मधुसूदनः । ज्ञानसंप्रदायप्रवर्त- कत्वाद्गीताचार्यस्तन्नाम्ना भूयो निर्दिश्यते संबोध्यते गीता- शास्त्र इति भाव्यम् । नष्टं योगं पुनः प्रवर्तयति गीतया । तथा चोक्तं स्वेनैव 'स कालेनेह महता योगो नष्टः परं- तप । स एवायं मया तेऽद्य योग: प्रोक्तः पुरातनः ॥' शास्त्रारम्भे ' उवाच मधुसूदनः' इति । 'योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ' इत्याचार्यसंबोधनं शिष्येण । मधु- सूदनश्च विद्यामूर्तिः श्रीहयवदनः । लक्ष्मीहयग्रीवपरब्रह्मणे नम इति प्रथममङ्गलपाठः सर्वेषु द्वैतप्रन्थेषु ॥ निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणैः । १. म- त्स्यं वर्णयंस्तद्वीक्षणैर्जितो भवत्याचार्य । अन्तर्जले मत्स्याक्षी- मामेव प्रसरसंभवः । २. क्षणशब्दोऽवधानार्थकः, उत्सवा- र्थकश्च । मार्गणावधानव्याजेनास्माकमुत्सवप्रदैः मार्गणदशायां दत्तोत्सवैः । ३. श्रुतयः सर्वा अपि निःशेषं मनाः । श्रुतयः पुत्रस्य ब्रह्मणः, प्रजानां सर्वलोकानां च चक्षूंषि । 'वेदा मे परमं चक्षुः' इति रुरोद ब्रह्म । प्रजाचक्षूंषि वेदाः भग- द्वीक्षणैरन्विष्यन्ते । ४. ननु कथमयं सर्वज्ञमत्स्य: जाल- मन्विष्यतीत्युच्यते । भ्रान्ता मूढा मत्स्या बडिशभक्षणाय जालसमीपं गच्छन्ति, बद्ध्यन्ते म्रियन्ते चेति चेत् -- अयं परमकारुणिको मत्स्य : श्रुतिजालं मार्गते, तेन बद्धो भूत्वा जनश्रवणेषु प्रविश्य तद्द्वारा तानुज्जीवयितुं च । एतद्व्यञ्जयति श्रुतिजालमार्गणेत्युक्ति: । ५. श्रवणस्य जले मग्नतायां निः- शब्दतानुभवः सहजः । लोकश्रवणभूतश्रुतौ जले निर्मग्ने स- शब्दता निवृत्ता भवति । ६. शब्दराशेरन्तर्जले मज्जने तस्यात्यन्तं मृग्यता स्यात् । तद्द्योत्यत इव निर्मग्नशब्देन 1 ७. ' मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥' इति माघे क्षणशब्दप्रयोगो मात्स्यवपुर्वर्णने । तस्य क्षणश- शब्दस्यात्र विचित्र: प्रयोगः प्रदर्श्यते ॥ अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । अ- न्तर्जले पद्मवनानि सृज्यन्ते डोलामलंकर्तुम् । लवणाम्भसि पद्मान्यन्त: सृज्यन्ते । तन्वच्छब्देन 'शुभमातनोतु' इति पूर्वश्लोकप्रार्थितं तत्क्षणमेव करुणामयेनान्वर्थीक्रियत इति व्यज्यते । शुभं डोलोत्सवं पद्मैस्तदलंकरणादिकं च तन्वदिव। काङ्क्षितशुभं तन्यते ॥ निष्प्रत्यूहतरङ्गरिङ्खणमिथ: प्रत्यूढपाथश्छटाडोलारो- हसदोहलम् । तरङ्गाः सहजा: समुद्रस्य भगवद्रूपमहामत्स्यवि- हारजनितहर्षेण भूयानानन्दक्षोभो भवति । निरतिशयबृह- न्मत्स्यशरीरक्षोभजनिता यद्यपि तरङ्गा नेतरेण प्रत्यूह्मेरंस्ते इतरेतरं मिथ: प्रत्यूढा डोलां निर्वर्तयन्ति । समुद्रे वेगं यान्तो बृहन्तो धूमनावः सततं डोलायन्त इत्यनुभवसिद्धम् । तत्र डोलायितत्वं तरङ्गरिङ्खणमिथःप्रत्यूढपाथश्छटाभि: । एष एवानुभव: आचार्यै: सम्यक्प्रदशर्यत इति रसिकैर्विभा- व्यम् ॥ मात्स्यं वपुः पातु नः । डोलारोहोत्सवे वयमिमं मङ्ग- लश्लोकं गायाम: । विभववपुःप्रदर्शनं विचित्रडोलारोहोत्स- वप्रदर्शनं चास्मत्परित्राणम् । तद्विवक्ष्यते 'पातु' इति । वीक्षणैः पातु नः । वीक्षणै: स्वप्रजाः संवर्धयन्ति मत्स्या इति प्रसिद्धम् । 'ईक्षणध्यानसंस्पर्शप्रमुखैः पोषयन्प्रजाः । मत्स्यकूर्मविहङ्गादिविग्रहः प्रेक्ष्यते प्रभुः । ' इति सङ्कल्पसू- र्योदये । मात्स्यं वपुरिदानीमपि मनुराराधयतीति भागवते ॥ अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः । यद्विक्षेपणसंस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किका- नित्यारोहणनिर्वृतो विहरते देवः सदैव श्रिया ॥३॥ कूर्मवपुषो बृहत्त्वाधारत्वामृतहेतुत्वादिवर्णनम् । स्वपृष्ठे मन्थाचल आरोपितः । स चातिवेगं बम्भ्रम्यते त्रयस्त्रिं- शत्कोटिदेवैरसंख्यैरसुरैश्च इतस्तत आकृष्टोऽब्धिमथनाय । सहजशत्रवः सुरासुरा: स्पर्धमाना अधिकमधिकं बलमुष- युञ्जते कर्षणे । मथनेनातिक्षुब्धः सिन्धुः । तुमुल: शब्दः । 'दधार पृष्ठेन स लक्षयोजनप्रसारिणा द्वीप इवापरो महान्' इति कमठपृष्ठस्यातिबृहत्वम् । मन्थभूतस्याद्रेः स्वपृष्ठे भ्रमणं पामकण्डूयनरूपसुखाय भवत्यस्याप्रमेयस्य । अनन्तरं तज्ज- नितसुखेनानघां निद्रामावहति । एतद्विचित्रं प्रदर्श्यते सङ्कल्प - सूर्योदये 'क्वचिद्वाहाधीशः क्वचिदमरदन्तावलपतिः क्वचि- त्प्रालेयांशुः क्वचिदमृतविष्फूर्जितमिति अतिक्षोभे सिन्धो- रयमनघनिद्रो धृतगिरिर्विषादं देवानां विघटयति वैकुण्ठक- मठः ॥ ' इति । नष्टद्रव्यरूपोच्चैःश्रवसैरावतकल्पवृक्षादिलाभे तुमुल: शब्दो देवगणानां भवेत् । अब्धिरत्यन्तं क्षुभितः । धृतगिरिरयं वैकुण्ठकमठोऽनघं निद्राति । अयं कमठो सर्व- प्रकारैरकुण्ठो वैकुण्ठो ब्रह्मकमठ इति को वा विप्रतिपद्येत । यद्यप्ययमसुरान्वञ्चयति मोहनावतारेण, न तेषां हननमस्मिन्न- वतारे । ईदृशविचित्राघटितघटको भगवानेकमेव विघटयति । किं तदिति चेत् ' विषादं देवानां विघटयति । ' अव्यासुः । पूर्वं मात्स्यवपुषः प्रार्थनम् । अत्र निद्राण- कूर्मदीर्घनिश्वासाः प्रार्थ्यन्ते । निश्वासैरस्मत्प्राणनं सुलभं खलु । प्राणनैः प्राणनं सुकरम् । प्राणभूतः परमात्मा प्राणान् जीवान् जीवयति । 'प्राणा वै सत्यं तेषामेष सत्यम् ॥' भुवनत्रयीम् । पूर्वावतारेण वेदरूपत्रयी रक्षिता । अने- नापरा त्रयी त्रिभुवनरूपा रक्ष्यत इति व्यज्यते । 'वेदः' 'लोकः' इति भेदो व्यवहारसिद्धः ॥ अनिभृतं कण्डूयनैरद्रिणा । 'बिभ्रत्तदावर्तनमादिक- च्छपो मेनेऽङ्गकण्डूयनमप्रमेयः' इति शुकानुभव: प्रत्यभि- ज्ञाप्यते । अनेनाप्रमेयत्वरूपबृहत्वं व्यज्यते ॥ निद्राणस्य परस्य कूर्मवपुषः । न केवलं कण्डूत्यपना- यकत्वमद्र्यावर्तनस्य । निद्राहेतुत्वमपि ॥ निश्वासवातोर्मयः । १. पूर्वमपहृतवेदोद्धारः । इदानीं स्वनिश्वसितैर्वेदुनिश्चारणम् । २. अस्य महतो भूतस्य निश्व- सितमित्यादिश्रुतिः कूर्मविषयिणीव । महान् भूत: कूर्मः स्यात् । विष्णुरिदं महद्भूतम् । ३. महान्क्षोभः समुद्रस्यैत- न्निश्वासवातजनिततरङ्गैः । न तथा क्षोभोऽद्रिणा मथनेन Į ४. कूर्मनिश्वसितभूता वेदा भुवनत्रयमवन्ति धर्मोपदेशेन । धर्मेण लोको ध्रियेत ॥ यद्विक्षेपणसंस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किकानित्यारो हणनिर्वृतः । १. पूर्वं मथनेनाप्यसंस्कृत उदधिः । प्राकृतः पूर्वम् । इदानीं वेदरूपनिश्वसितरचितोर्मिविक्षिप्तः संस्कृतो भवतीति व्यज्यते । निश्वसितोर्मिविक्षेपणैः संस्क्रियते उद- धिः । वेदवाततरङ्गैः स संस्कृतीकियत इव । २. डोलारूढा पूर्वश्लोके । इदानीमान्दोलितपर्यङ्कारोहो योगनिद्रासौकर्याय । ३. वेदमन्त्रभूतः संस्कृत: पर्यङ्क उचितो धर्मसंस्थापनार्थम- वतीर्णयोः सनातनधर्मस्वरूपदम्पत्योः । श्रुतयः शय्या भव- न्तीति प्रसिद्धम् । ' तल्पं कलनान्तयूनः ।' अत्र श्रुतिरूपनि- श्वसितसंस्कृतमयः पर्यङ्कीभवति । ४. प्रेङ्खोलपर्यङ्किका सद्य: प्रादुर्भूतया नववध्वा श्रिया सह शयनायातीव भोग्या स्यात् । चन्द्रस्तदानीमेवोत्पन्नः । अमृतं च नवं प्रभूतम् । चिरविर- हिता नवा वधूर्वक्षस्थलमारूढा पश्यतां सर्वदेवानाम् । तया सह नित्यमेव कूर्मत्वेन पर्यङ्किकामारुह्य निर्वृणोति । आरूढ- या सह देव्या पर्यङ्कारोहः । ५. यथा वक्षःस्थलारोहो नित्य- स्तथा तथा सह पर्यङ्कारोहोऽपि नित्यः । कूर्मावतारस्यावता- रान्तरत्ववत्कालावच्छेदो मास्तु । श्वशुरगृहे क्षीराब्धावेवायम- वतारः । नवां रक्तां वधूं प्रेङ्खोलपर्यङ्किकां च लब्ध्वा नित्या- रोहमेव काङ्क्षतीति नित्यशब्देन व्यज्यते । पर्यङ्कोऽतिस्वच्छ- श्वेतपटैराव्रियेत । पयःपर्यङ्के तत्साम्यं सुलभम् । ६. डोला- सेवा वृत्ता। इदानीं पर्यङ्कसेवा लभ्यते भक्तजनैः ॥ सहैव श्रिया । यदर्थमम्भोधिरमन्थि तां श्रियमसितेक्षणां विना क्षणमपि न जीवेत् । कूर्मवपुरिति नोद्विजते सा । तीव्रं नित्यं कामयते । तद्वपुश्च तस्या नित्यं रोचते । वेदप्रा- प्त्यनन्तरं स्थितप्रज्ञो वेदार्थं ध्यायेत् पुरुषः । 'यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।' इति कूर्मसादृश्यं प्रत्याहरण- व्यावृतस्य ध्यातुः ॥ गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत- ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः । यद्द्रष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थिति- र्ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वंभरा ॥ नष्टा श्रीलब्धा कूर्मवपुषा । नष्टा भूमिर्लभ्यते वराहवपुषा । तस्यां भूयान्बहुमानो भगवतः । वक्षःस्थलेन वरुणालयराज- कन्यां संभावयति । भूमिं तु शेषात्मना सहस्रैः शिरोभिर्द- धति । तद्भारापनयनाय भूयोऽवतरति श्रिया सह । 'अ- प्यङ्घ्रिसंभव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भ- णेन' इत्युक्तरीत्या नष्टां भूदेवीमानीय परिरब्धं वराहवपुः- परिग्रहो युक्तः । अस्य वराहस्य निरतिशयबृहत्त्वं श्रीभागवते स्फुटं वर्ण्यते । 'यस्यायुतशतैकांशे विश्वशक्तिरियं स्थिता' इतिवद्विश्वस्य भगवद्दंष्ट्राकुरकोटिलग्नत्वप्रदर्शनेन समस्तजग- तः शरीरत्वरूपाधेयत्वं प्रदर्श्यते । भगवतो निरतिशयबृहत्त्वं विचित्रं व्यज्यते । अस्य वराहस्य घोणारवा: प्रलयोर्मिघोष- मभिभवन्ति । अस्य दंष्ट्राया अङ्कुरस्य कोटौ लग्ना विश्वं- भरा । तेन गाढघटिता, अतः परमकम्पनीयां नित्यां स्थितिं लभते । निष्कम्पत्वं निदर्श्यते चतुर्थेन पादेन । तथा निश्चलां स्थितिं लभते ; यथा सा आब्रह्मास्तम्बपर्यन्तं कृत्स्नचेतना- चेतनान् सुखं सूते । अन्तर्वत्न्यः स्त्रियो आसन्नप्रसवा न कम्पचलनादिकं सहेरन्निति प्रसिद्धम् । दंष्ट्राङ्कुरकोटिलग्नेयं कोटिसहस्रप्रजाः सूते । यथा मुस्ता तद्दंष्ट्राङ्कुरे लग्ना दृश्येत, तथा विश्वंभरा तत्र दृश्यते । किमु वाच्यं तस्य निरतिशयबृहत्त्वे । तस्य विश्वशरीरत्वं सम्यगध्यक्ष्यते । तत्तद्योनिस्वभावोऽप्यहेयो भगवता तत्र तत्रावतीर्णेन । व- राहा नागासधमुद्रादौ विहरेयुः । पल्वलादौ पङ्किलजले खुरदघ्ने जानुदघ्ने वा विहरणं तेषां स्वभावः । विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले ' इति कविसार्वभौ- मः । अत्रोच्यते । अयं ब्रह्मवराहः । अस्य खुरदघ्न एव जले अयं विहरति । महोदधिरस्य खुरदघ्न इति प्रदर्श्यते आचार्यैः । 'कापि कल्पान्तवेशन्ते खुरदघ्ने समुद्धृताम् । वहते मेदिनीमुस्तां महते पोत्रिणे नमः ॥' इति सङ्कल्पसू- र्योदये ॥ गोपायेदनिशं जगन्ति । नावतारकालिकरक्षणमात्रात्तृ- प्याम: । अनिशं रक्ष्येमानेन ब्रह्मवराहेण । 'हरेर्घृतक्रोडत- नोः स्वमायया' इति श्रीभागवते । देवीमात्ररक्षणेन न स- न्तुष्यामः । एतद्रूपप्रदर्शनेन सर्वाणि जगन्त्यव्यात् ॥ कुहनापोत्रीपवित्रीकृतब्रह्माण्डः । 'अस्नाविरं शुद्धम- पापविद्धम' इति वर्णितस्य जगत्पवित्रभूतस्य यज्ञमूर्तेः कथं वराहत्वेनावतारः । अयं मिथ्यापोत्री । न वास्तवपोत्री । पवित्रतमोऽयं कोलः । अनेन जगन्ति पवित्रीक्रियन्ते । पूर्व- मपवित्रो लोक इदानीं पवित्रीभवति । पवित्राणां पवित्रो- ऽयं वराहः । ' त्रयीमयं रूपमिदं च सौकरम्' 'विधु- न्वता वेदमयं निजं वपुः' 'यज्ञावयवस्य मायागृहीतवाराह- तनोर्महात्मनः ' ' क्रोडापदेशः स्वयमध्वराङ्ग : ' ' यद्रोमगर्तेषु निलिल्युरध्वराः' इति वेदमयो यज्ञमयोऽयम् । 'सर्ववेदम- यो हरि: ' ' सर्वयज्ञमयो हरि: ' ' यज्ञो वै विष्णुः' इत्या- दिवचनान्यस्मिन्मुख्यानि । एतत्कथाश्रवणादिफलमेवं समकी- र्त्यत श्रीशुकेन ' शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः । एतन्महायुष्यमलं पवित्रं० पदमायुरा- शिषाम ॥' इति । वराहावतारकाले तद्धुर्घुरितं श्रुत्वा 'जन- स्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म' इति त्रिलोकस्था मुनयः पवित्रम्, पवित्रम्, पवित्रमिति त्रिर- पठन्, शान्तिपठनवत् । इदं सर्वं प्रत्यभिज्ञाप्यते पवित्रश ब्देन ॥ प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः । सागरान्तं खलु हिरण्यकेशहिरण्याक्षयोरायोधनम् । हिरण्यकेश इति भगव- न्तं निर्दिशन् श्रीशुको हिरण्याक्षस्य 'आ प्रणखात्सर्व एव सुवर्णो हिरण्यकेश: ' सदृशोऽधिकश्च शत्रुश्चेति चारु व्य- ञ्जयति । अक्षिमात्रं हिरण्यं तस्यासुरस्य । प्रलयोर्मिघोषो नियतः सागरे तयोस्तदन्तर्युद्धक्षोभसंरम्भप्लमये । तद्धोषादपि गरीयानस्य घोणारवः प्रथमगुरोर्वेदमयस्यादिवराहस्य घो- णारवस्य गुरुत्वं न्याय्यमिति गुरुशब्देन व्यज्यते । 'विद्या- गुरवे नमो नमः' इति श्रीशुकः । मत्स्यावतारेण लब्धस्य कूर्मेण योगेनाशैथिल्येनाभ्यस्तस्य वेदस्यदानीं वराहेणोच्चैर्ब्र- ह्माण्डव्यापिभिर्घोणारवैरुद्घोषणम् , तेन च ब्रह्माण्डपवित्रीकर- णमित्यवधेयम् । असुरापहारेणापवित्रीकृताया भुवो वेदमन्त्रा- नुपाठै: शुद्धिरूपसंस्कार: संपाद्यते । यथा मत्स्यस्य वीक्षणं सततधावनादिकमान्दोलनं च, यथा च कूर्मस्य निद्रानिश्वा- सादिकमङ्गसंहरणादिरूपव्यापारेण प्रत्याहाररूपयोगसाम्यं चा वर्ण्यन्त, तथा वराहस्य स्वभावभूतघोणारवा वर्ण्यन्ते । यथा- वतीर्णेन ब्रह्मणा ब्रह्मस्वभावो न जह्यते, तथावतीर्णतत्तद्योनि- स्वभावोऽपि न त्यज्यते । घोणैव मुख्यं बलं वराहस्य । ' स्थूलनासिकापूर्वसुन्दराम्' इति माघे । वनमृग इत्युपह- सितो भगवान् 'सत्यं वयं भो वनगोचरा युष्मद्विधान्मृगया- मो ग्रामसिह्मान्' इति प्रतिवक्ति । घोणया घ्राणेनापहृतभुवो मार्गणं कारणसूकरस्य सुकरमभूत् । यथा वीक्षणैर्मार्गणं नि- र्मग्नस्य श्रुतिजालस्य, तथा घोणाया आघ्राणैर्मार्गणं निर्मग्ना या भुवः । ' निशम्यते घुर्घुरितम्' इति श्रीशुकानुभवः प्रत्य- भिज्ञाप्यते घुर्घुरशब्देन । शुकानुभवानुकरणं वराहरूपभगव- द्धोणारवानुकरणं च संपाद्यत एतच्छब्देनेति सहृदयैर्भाव्यम् । भगवत्कृतवेदघोषानूच्चारणरूपाध्ययनसंपादनेन तत एव सा- क्षादध्ययनसंप्रदाय: संपादित: स्यात् । गुरुकुलवासरूपश्रम- विलम्बाक्षमाणामियं काचिद्गतिरध्ययनप्रापणे ।। यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थितिः। 'दं- ष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधरभूः सभूधरः' 'स्वदंष्ट्रयोद्धृत्य महीं निमग्नाम्' भूमण्डलेनास्य दता धृतेन ते' 'तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया' इत्यादिरार्षोऽनुभवः स्मार्यते । 'गाढघटना' इति निष्कम्प- नित्यस्थितौ हेतुः । अच्युतोऽयं वराहः । निष्कम्पत्वमनेक- कोटिसुखप्रसवानुकूलम् ॥ ब्रह्मस्तम्बमसौत् । आब्रह्म स्तम्बपर्यन्तं कृत्स्नं भूतजा- तं सुषुवे । असुरापहृतधराया अनिर्यातनेऽन्तः स्थितगर्भ- भूतजीवराशयो विच्छिद्येरन् । भगवता दता तामुद्धृत्य तत्र तस्या निष्कम्पां स्थितिं संपाद्यानेककोटिसुखप्रसवसंभवो नि- र्वर्त्यते ।। असौ । पुरोवतिष्ठत इव देवी भूराचार्याणामनुभवे । यथा ' सैषा देवी' इति श्रीस्तुत्यन्ते । ध्रुवमध्यक्षितोऽवतार- वृत्तान्त: सर्वोऽपि स्तोत्रकाले । भूम्येकदेशमध्यस्थैरस्माभिः कथं तस्याः पुरोवर्तित्वेन निर्देश्यत्वस्य संभवः । ईदृशाव- तारदशापरोक्षणकाल एव तत्संभवः ॥ भगवती विश्वंभरा । विश्वं भरतीयम् स्वगर्भे । इमां बिभर्ति भगवद्दंष्ट्राङ्कुरकोटिः । तं बिभर्ति तस्य स्वो महिमा । अथ वा न सोऽपि । भगवतीं भगवान्बिभर्ति । 'विश्वंभरा भगवती भवतीमसूत ।' इत्युत्तररामचरिते । तन्नातिसुन्द- रम् । ' सर्वं बिभ्रती तव माता त्वामध्यसूत' इति सीतां प्रति वचनं कथं तस्याः स्तुतौ पर्यवस्येत् । यथा सर्वान्प्रा- णिनो गर्ने बभार तान् सुषुवे, तथा त्वामध्यसूतेति खलु तद्वचनभङ्गीपर्यवसानम् । 'भगवती विश्वंभरा' इति पदयोः सम्यग्विनियोजनं क्रियते आचार्यैरित्यवधेयम् ॥ मुस्तेव । यथा मुस्तां लीलयानायासेन दन्ताग्रे बिभृ- याद्वराहस्तथा विश्वंभरां बिभर्त्ययं ब्रह्मवराहः । यथा मुस्ता- या निष्कम्पा निरपाया स्थितिः स्यात्तथा अस्या इति व्य- ज्यते । यथा मुस्ता स्तम्बादितृणप्ररोहस्य मूलं भवेत्तथेयं विश्वंभरा जगत्कन्दभूतेत्यपि व्यज्यते । वराहदंष्ट्रायां मुस्ते- वातिसूक्ष्मा दृश्यते विश्वंभरा भगवद्दंष्ट्रायामिति च व्यज्यते । 'यथा वनान्नि:सरतो दता घृता मतङ्गजेन्द्रस्य सपत्र- पद्मिनी ।' इति गजेन्द्रदंष्ट्रागतपद्मिनीव भूपद्मं शुशुभे इति श्रीशुकानुभवः । 'दंष्ट्रानुषक्तां धरणीं दधानो जम्बालरेखा- मिव केलिलग्नाम् ।' इत्याचार्याणामनुभवः सङ्कल्पसूर्योदये । पङ्करेखावदत्यन्तसूक्ष्मा दृश्यते भूः । रेखा निरतिशयसूक्ष्मा । सपङ्के पल्वले विहरतो मुस्ताक्षतिं च कुर्वतो वराहस्य दं- ष्ट्रयां पङ्करेखालगनं सुसंभवि । अत्र मुस्तात्वेनानुभवः । तत्क्षति: सहजा वराहाणाम् । तच्च वर्णितमुदाहृतशाकुन्तल- श्लोके । खुरदघ्नप्रमाणे समुद्रपल्वले विहरतानेन वराहेण लब्धा जगत्कन्दभूता देवी तद्दंष्ट्रायां विहारलग्ना मुम्तेव भासते । ' हृदि सुररिपोर्दंष्ट्रोत्खाते क्षिपन्प्रलयार्णवं क्षितिकुचतटीमर्च- न्दैत्यास्रकुङ्कुमचर्चया स्फुटधुतसटाभ्राम्यद्ब्रह्मास्तवोन्मुखबृ- म्हितः शरणमसि मे रङ्गिंस्त्वमूलकोलतनुर्भवन् ॥' इति श्रीमद्भट्टारकैर्ब्रह्मत्वप्रदर्शनं कोलवपुषः ॥ प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजै- रव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः । यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥ 'दिवि स्पृशत्कायम्' 'सदावधूता जलदाः परापतन्' 'अम्भो- धयः श्वासहता विचुक्षुभुर्निह्रादभीता दिगिभा विचुक्रुशुः । द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाति- पीडिता ॥ ' ' शैला: समुत्पेतुरमुष्य रंहसा तत्तेजसा स्वं ककुभो न रेजिरे।' इत्यस्य नृसिंहवपुषो निरतिशयबृहत्वव्य- ञ्जनं श्रीभागवते । 'सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ' इति माघकवेस्तद्वपुषो बृहत्त्वानुभ- वः । 'हिरण्यकरघट्टितात्सपदि जृम्भितः स्तम्भतः । पुरः स्फुरति संभ्रमस्फुटसटाच्छोटनत्रुटद्धनघनारवद्विगुणबृम्हितः सिंहराट्' 'सटाविधुतिसंभ्रमभ्रमितसप्तलोकस्थितिः' 'प्र- त्यूढस्थेमभीमप्रलयघनघटाघोषणाडम्बराणि । क्षुभ्यत्सप्ताम्बुधी- नि.... अस्मद्भातिव्यपोहं विदधतु नृहरेरट्टहासाद्भुतानि' इति विचित्रो ब्रह्मत्वानुभवो नृसिंहब्रह्मविपय आचार्याणाम् । अ- ध्यक्षयाम इव नृसिंहं तद्वर्णनैः । ' प्रकर्षाद्विष्णुत्वद्विगुणपरि- णाहोत्कटतनुः' इति श्रीभाट्टानुभवः । विष्णोर्व्याप्तिरूपब्रह्म- त्वं खल्वाक्षिप्तं शत्रुणा । तत्स्थापनार्थं खल्वयमवतारः । यथा ब्रह्मणो भक्तबृह्मयितृत्वं तथा सत्यस्य तस्य भक्तसत्यापनं स्वभावः । आत्मसाम्यावहत्वं खलु तत्प्रकृतिः । 'सत्यं वि- धातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः' इति व्याप्तिसत्यापनयोः सहपाठः । यथा वराहस्य नासा बलं तथा सिंहस्य नखं बलम् ॥ प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः । १. अत्र भगवतस्तदायुधानां चोक्तिप्रत्युक्तिरूपसंवादो व्यज्यते । भग- वन्तं सङ्ग्रामाय यियासन्तं सुदर्शनकौमोदक्यादिदिव्यायुधानि भगवता सह स्वानुगमनानुज्ञां निर्बन्धेन याचन्ते 'वयं पुरातनान्यायुधानि । बहुषु सङ्ग्रामेषु कृतसाहाय्यानि सम्य- क्परीक्षितानि । चिरकृतयोधनयोग्यानि वयम् । पुरातनभृत्या वयम् । न वयं भूषणायेतरभूषणवत् । न वयमलंकारार्थं ति- ष्ठामः । अस्त्राणि खलु वयम् । शत्रुं प्रहर्तुं वयमास्महे । वयं बहून्यास्महे । ईदृशः सङ्ग्रामोत्सवो दुर्लभ: । न वयमधुना परित्याज्यानि । अस्माकं प्रत्यादेशो न न्याय्यः । एवंरूपा आ- क्षेपाः 'प्रत्यादिष्ट' 'पुरातन' 'प्रहरणप्राम' इत्यादिशब्दैर्व्यज्य- न्ते । तान्याश्वास्यन्ते भगवता 'क्षणमात्रं भवद्भिर्मद्विश्लेष: सह्य: । क्षणकाले प्रतियास्यामि । भवधिकारे एतेषां पाणि- जानां निवेशनं क्षणिकमेव । न तेभ्यो भवदधिकारः स्थिरं दास्यते । तेषां भवत्प्रतिभूत्वं भवत्प्रत्यादेशत्वं न क्षणादधिकं स्यात् । यूयमेव मम स्थिरायुधाधिकारभाजः । एवं वदं- स्तानि पाणिजै: ' तिष्ठन्तु भवन्तः, मानुयान्तु माम्' इति संज्ञां करोतीव तानि क्षणं निषेधन् भक्तवागसत्यताभि- या । पाणिजै: प्रत्यादिशति तान्यनुगमनोत्सुकानि ' क्षणम्' इति कथयन् । 'पाणिजान्' प्रदर्श्य तान्याश्वासयति, न भेतव्यं भवद्भिरहं निरायुधो यास्यामि प्रबलशत्रुं योद्धुमिति । सन्त्येतेऽद्भुताः पाणिजा इति प्रहरणप्रामशब्देन द्योत्यत इव । पाणिजशब्देन नखविशेषणतया पाणेरपि ग्रहणेन तेन निषेधनमभयप्रदानं च व्यज्यते । यथा वराहस्य घोणा बलम्, तथा सिंहस्य नखानि बलम् । तद्बलं भूय: प्रदर्श्यते सर्वैरपि कविभिः । समुग्धकान्तास्तनभङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ।' 'वक्ष एष निरदारयन्नखैः' इति माघानुभवः । 'नखक्षुण्णारातिक्षतजपटलै:' इति भाट्टानु- भवः । ' नखरशृङ्गदम्भोलिभि:' 'दम्भोलिश्रेणिदीप्यत्खरन- खरमुखक्षुण्णदैतेयवक्षोनिष्ठ्यूतासृक्स्रवन्तीभरितदशदिशादर्शि- तापूर्वसन्ध्यः' इत्याचार्यानुभवोऽन्यत्र । 'माद्यन्मोहमहेभ- कुम्भदलनप्रोद्भूतसन्मौक्तिकद्योतालंकृतचित्सुखाद्वयवपुः श्री- मान्नृकण्ठीरवः । प्रह्लादस्य गिर: प्रमाणनविधौ दिव्याकृति स्तम्भतो निर्यातः प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ॥ इत्यद्भुतोऽनुभव: श्रीनृसिंहविषये कल्पतरुकाराणां श्रीमदम- लानन्दयतीनाम् । एतच्छ्लोकभाववर्णने नात्रावतरामश्चिरमज्ज नभयात् ॥ अव्यात्रीणि जगन्ति । पाणिजैरव्यादित्यप्यन्वयः 'प्रह्लादह्लादनानि' इति सततं प्रकृष्टह्लादमग्नमत एव प्रह्लाद इति ख्यातं प्रह्लादमद्भुतमपूर्वं ह्लादयितुमतिसुन्दरात्यन्तसुघटि- तनृसिंहतनुः परिजगृहे । तामेवागौणीं नृसिंहतनुं सर्वदास्म- ल्लोचनचमत्काराय अस्मत्पुरतोऽवस्थाप्यास्मान्मन्दह्लादान्ह्लाद- यतु । अद्भुतसुन्दरवपुःप्रदर्शनेनावनं प्रार्थ्यते। 'नारसिंह- वपुः' इत्युक्त्वा तस्य भीषणत्वादि निवार्य सौन्दर्यं प्रख्याप- यितुमनुपदमेव ' श्रीमान्' इति पठ्यते सहस्रनामसु । तद्व- पुर्दर्शनानन्तरं प्रत्येकं लोकोत्तरसुन्दरं नरं वा सिंहं वा द्रष्टु- र्जुगुप्सा जायेतेत्युक्तं श्रीमद्भट्टारकैस्तद्भाष्ये । तदेव वर्णितं श्रीरङ्गराजस्तवे 'नृहरिदशयो: पश्यन्नौत्पत्तिकं घटनाद्भुतं नरमुत हरिं दृष्ट्वैकैकं समृद्विजते जनः' इति ॥ अक्कुण्ठमहिमा वैकुण्ठकण्ठीरवः । क्षणिकोऽयमवतारः । हतो रिपुः । गतश्च प्रह्लादः । कथं तत्प्रादुर्भावेन त्रिजगदनु - ग्रहस्तत्परित्राणं च प्रार्थ्यत इति चेत्, अकुण्ठमहिमायमि- त्युच्यते । यदा प्रह्लाद : प्रतिजज्ञे पितृसंनिधौ 'हरिः सर्वत्र' इति तत्सत्यपरीक्षक: पिता यत्र कुत्र वा स्वेष्टस्थले हरिं प्रदर्शयेत्याज्ञापयेत् । तत्काङ्क्षितस्थलेऽप्रदर्शने भक्तवाग्वन्ध्या भवेत् । 'शिर: कायाद्धरामि ते' इत्याक्रोशन्पिता तमर्भकं हन्यात् । न हि तत्पूर्वं पित्रा साक्षात्स्वबलेन पुत्रहनने प्रवृ- त्तम् । तदानीमेव तदिच्छा उदघुष्यत । तदिच्छा प्रकटनक्षण एव भगवता प्रादुर्भजनीयम् । हरिं दिदृक्षति पिता तेन यो- द्धुम् । हरेर्व्याप्तिं प्रतिजानीते पुत्र: । अवतरता च हरिणा सिंहेन भाव्यम् । आदौ ' किं साधु मन्यते भवान्' इति पृष्टवन्तं पितरम् ' तत्साधु मन्येऽसुरवर्य देहिनाम्.... वनं गतो यद्धरिमाश्रयेत' इति प्रत्याह सुतः । तत्रापि सिंहमेव हरित्वेनासूसुचत् । वनं गतो वनराजं सिंहमेवाश्रयेत प्रह्ला- दस्य हरिः सिंह एव स्यात् । यत्र कुत्रापि हरिप्रदर्शनेच्छाप्र- कटनसंभवेन सर्ववस्त्वन्तर्भगवता नृसिंहरूपेणावस्थितमिति प्रदश्यते आचार्यै: 'स्तम्बैकवर्जमधुनापि करीश नूनं त्रैलोक्य- मेव नियतं नरसिंहगर्भम्' इति । तत्र ' त्रैलोक्यम्' इति । अत्र त्रीणि जगन्तीति वर्णनसाम्यमवधेयम् । गर्भभूतोऽच्यु- तो न च्यवेत् । अमोघोऽयं गर्भोऽधुनापि तत्र तत्रास्ते । तत्र तत्र गर्भस्थितस्तत्र तत्र भक्तमनोरथेन बहिः प्रादुर्भूय वा त्रीणि जगन्ति रक्षतु । अखिलेषु भूतेषु व्याप्ति: सत्या- प्यते श्रीनृसिंहेणेति श्रीशुकः । तच्च सर्वत्रान्तर्यामितया गर्भे नृसिंहत्वेनावस्थानेऽत्यन्तस्वरसं भवेन् । अकुण्ठमहिमाव्यात्स- र्वाणि भूतानि । महिमा च व्याप्ति: । व्याप्तिश्च नृहरित्वेन । ' व्याप्तिं च भूतेष्वखिलेषु चात्मन: ' इत्यस्य ग्रहणं महिमा- शब्देनेत्यवधेयम् । कथं सिंहस्य सर्वव्याप्तत्वमिति चेत् -- उच्यते । अयं वैकुण्ठकण्ठीरवोऽकुण्ठः कण्ठीरव इति । श्रीमच्छङ्कराचार्यास्तदनुयायिनश्च नृसिंहोपासकाः । अत्र पूर्वोदाहृतावतारश्लोके 'नरहरिणपति : ' इत्यधिकवर्णनं तद्वि- षयेऽवतारान्तरेभ्यः । 'वैकुण्ठीये तु कण्ठे' इत्युक्तं तैर्भग- वत्कण्ठविषये । 'श्रीमान्नृकण्ठीरवः' इति कल्पतरुकृतः । वैकु- ण्ठकण्ठीरव इत्याचार्या: । यादृग्गम्भीरं रूपं तादृङ्नाम ॥ यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकात् । यद्यपि त्रैलोक्येऽपि नरसिंहो गर्भत्वेनावस्थितः, अखिलभूतमध्ये एकैव स्थूणावन्ध्या प्रसुषुवे नृसिंहम् । इतरत्सर्वमन्तर्वदास्ते । या काचित्स्थूणासूत । किमित्येकस्यां प्रादुर्भावः, इतरत्रान्तरे- वावस्थानमिति चेदुच्यते 'यादृच्छिकात्' इति । भगवदि- च्छैव नियामिका । असुरेच्छा वा यदृच्छाशब्देन ग्राह्या । इत- रत्र प्रदर्शनं स नाचकाङ्क्ष । यदृच्छया सोऽत्रैव दिदृक्षां प्रकटी- चकार । किमिदमघटितघटनम् । तिष्ठतु नरसिंहयोरेकत्र सुश्लिष्टं घटनम् । तिष्ठतु महासुरेणाप्यघटनीयत्वेन निश्चि- तपरस्परविरुद्धानेकद्विकहानघटनम् । इयमचेतना स्थूणा चेत- नानां चेतनमसूत । किमिदमाश्चर्यम् । 'परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥' इति न्याय: श्रद्दधेऽसुरेण वरवरणकाले । ब्रह्मणः सकलतर्का- तीतत्वं विस्मृतं तेन । ' नैषा तर्केण मतिरापनेया' इत्याधुपनि- षदर्था न गृहीतास्तेन विरोचनजातीयेनासुरेण ॥ वेधसां या काचित्सहसा महासुरगृहस्थूणा पिताम- ह्यभूत् । अघटितघटना दृढीक्रियते । वेधसां पितामहानां पितामह्यभूत्स्थूणा । वेधसां पितामहानां पितामही स्थूणा गर्भं धत्ते । सूते च सर्वलोकपितामहम् । महासुरशब्दः प्रयुज्यते हिरण्यकशिपुविषये श्रीशुकेन । 'सुतं महाभागवतं महासुरः' 'अभ्यहनन्महासुरः' इति शुकमुखाच्च्युतः शब्द आचार्यैर्गृह्य- ते । महासुरगृहे वेधसां पितुर्जन्म । यद्यपि स महासुरः, स्वेन स्वीयेन वा भगवतो भागवतोत्तमस्य च गर्भे धारणमस्य भाग्यमित्यपि व्यज्यते । यथा प्रह्लादोऽस्य गर्भे, तथा भग- वानेतद्गृहस्थूणागर्भे । महासुरगृहस्थूणासुप्रज इति श्रीनृसिंहः संबोध्येत । उत्तरा सन्ध्या प्रवर्तते उत्तिष्ठ नरसिंह । गर्भ- वासकालतारतम्यं बहुविधं वर्तते । कुत्रापि नैकक्षणमात्रा- वच्छेदो गर्भवासस्य । प्रह्लादः प्रतिजज्ञे ' स सर्वत्र' इति । क्वासौ ? यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते इत्यनुपदं पितुः प्रश्नः । अनुपदमेव 'दृश्यते' इत्यवतारदर्शनं प्रह्लादस्य । दृश्यत इति प्रह्लादवचनमपि भवेत् । 'विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।' यद्यपि पित्रा न तदा दृष्टः, नापि लोकेन, ज्ञानालोकेन पुत्रेण पूर्वमेव दृष्ट: स्यात् । प्रह्लादार्थे नृसिंहः, तेनैव प्रथमं दृश्येत । तद्दृष्टं तत्प्रदर्शितमनूद्यते 'सत्यं विधातुं निजभृत्यभाषितम्' इत्यवतारवर्णन श्लोकेन । ब्रह्मस्तम्बमसौद्विश्वंभरेत्युक्तं पूर्वश्लोके । अत्र ब्रह्मपितरं ब्रह्म स्तम्भः प्रासूतेत्युच्यते । अत्र वा पूर्वश्लोके वा असुरनिरसनं न प्रकाशितम् । साधुपरित्राणमात्रं वर्णितम् । शुभतननं खलु प्रार्थितं प्रथमश्लोके ।। व्रीडाविद्धवदान्यदानवयशोनासीरघाटीभट- स्त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः । यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रोतोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥ त्रिविक्रमो भवन्वामनः 'अणोरणीयान्महतो महीयान्' इति श्रुतिं निदर्शयतीव । एकस्मिन्नवतारे एककाले उभयप्रदर्श- नम् । त्रिविक्रमस्य निरतिशयबृहद्रूपबृहत्त्वे न कोऽपि संश- यीत ; 'भूः पादौ ' इति स्मृति: । भूरेकः पाद इति भग- वांस्ततोऽपि बृहत्त्वं प्रदर्शयति । पादोऽस्य विश्वाभू- तानि' इति श्रुतिरन्वर्थ्यत इव त्रिविक्रमेण । ' यः पार्थि- वानि विममे रजांसि । योऽस्कभायदुत्तरं सधस्थं विचक्रमाण- स्त्रेधोरुगाय: ' इति त्रयी गम्भीरनिर्ह्रादिभि: शब्दैर्डिण्डिम- वदुदजूघुषस्त्रिविक्रमयशः । एवमेवायं वेदमन्त्रोऽनुभूतः श्री- भट्टार्यै: ' दैत्यौदार्येन्द्रयाच्ञयाविहतिमपनयन्वामनोऽर्थी त्व- मासीर्विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये । नाभीपद्मश्च मानश्चममिव भुवनप्राममन्यं सिसृक्षुस्तस्थौ रङ्गे- न्द्र वृत्ते तव जयमुखरो डिण्डिमस्तत्र वेदः ॥ ' इति स्तवे । अद्भुतोऽयं श्लोक: प्रकृतावतारविषयः, तं च संग्रहेणानुभ- वामः । प्रह्लादपितृसभायां दिविस्पृशत्कायो नृसिंहोऽभूत् । तद्वंश्यवैरोचनेः सदस्यतिकनीयान्वामनोऽभूत् । त्रीणि जग- न्त्यव्यादिति पूर्वावतारविषये प्रार्थना कृता । तदवतारेण गूढमेव गर्भत्वेनावस्थितं त्रिलोक्याम् । यथा रामावतारे ऋषिभिः प्रार्थितम्, कृष्णावतारे तानेव गोपिका: कृत्वान्वर्थ्यते, तथा नृसिंहावतारविषये कृता प्रार्थनेदानीं पूर्यते त्रिजगतां पादाम्भोजस्पर्शदानेन । तत्संयोग एव परमपुरु- षार्थ: । वैरोचनो यद्यपि दितिजः, स परमोदार: । यस्मै कस्मैचिदर्थिनेऽर्थितं सर्वं दद्यात् । स्वेनापहृतं त्रैलोक्यराज्य- मरिरपीन्द्रो यदि याचेत नियतं तस्मै दद्यात् । सुरनायको याच्ञाया अपत्रेपे । सर्वलोकनायकस्तस्मिन्स्वाश्रिते याच्ञा- लाघवं याच्ञाभङ्गं चापनयन्स्वयं याचको बभूव । कोऽयं नाथगुण: । नाथ इत्यात्मन: समाख्यां नाथनेन कर्तृव्युत्प- त्त्यापि पूर्णां करोतीव प्रभुः । 'लोकनाथः पुरा भूत्वा सुग्री- वं नाथमिच्छति' इति तस्य नाथनम्, नाथकामनं च स्व- भाव: । यद्यपि ' त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्' इति तेनैव सनाथतरं जगत् । 'इन्द्रयाच्ञामपनयन्वामनो- ऽर्थी त्वमासीः' इतीन्द्रस्य याचकत्वपरिहाराय स्वयं भिक्षुको भवतीति द्योत्यते । 'मध्ये वामनमासनिं विश्वेदेवा उपासते' इति कठश्रुतिर्वामनावतारविषय इति श्रीमन्मध्वमुनयः । त- थार्थवर्णने सर्वदेवोपास्यत्वं वामनस्योपपाद्येत । तस्य च ब्र- ह्मरुद्रादिमान्यत्वं प्रसिद्धम् । ' शब्दादेव प्रमितः' इति सूत्रेण परामृष्टः शब्दो वामनश्रुतिरूपशब्द: , नेशानपदघ- टित: ' ईशानो भूतभव्यस्य' इति लिङ्गप्रतिपादक शब्द:, यद्रीत्यार्थवर्णने ईशानरूपश्रुतेरितीश्वरपरत्वतात्पर्यं विवर्ण- यिष्येत तत्पक्षपातिभिरिति तेषामाशय: स्यात् । वामन- शब्दो नियतं भगवन्तमेव बोधयेत् । पादपद्मो भुवो माता, पिता वा, उभयं वा । तदाश्लेषे वत्सभूतस्त्रिजगत्तत्रासज्जत । अणोर्वामनस्य पादपद्मेऽणुपरागवत्त्रिलोकी निलिये । का- रणे लय: सहजः । एतेन भगवतो निरतिशयबृहत्त्वम्, विश्व- शरीरत्वं च विचित्रमुपपादितं भवति। लयानन्तरं सृष्ट्या भाव्यम् । भगवतोऽन्यतः कुतः सृष्टिसंभवः । तल्लक्षणत्वेन तदसाधारणं खलु विश्वस्रष्टृत्वम् । तद्वयवान्तरं नाभीप- द्ममन्यं भुवनप्रामं सिसृक्षति । तन्नालीकसृष्टब्रह्मसृष्टं जग- त्स्वदेह्यवयवान्तरभूतपद्मान्तरस्य नालमभूदिति स्पर्धयेवान्य- न्मानक्षमं जगत्सिसृक्षति । नित्योऽपौरुषेयो वेदो बन्दीव त्रिविक्रमयशांसि गायति । ताताड्यते तद्विक्रमडिण्डिमम् । ऋगेषाभेरीदुन्दुभिताडनवदुच्चगम्भीरा शब्दतोऽर्थतश्चेति रसि- कमनःसाक्षिकम् । ' उरुगाय : ' इति वदन्ती श्रुतिस्तद्यशसो गायमानत्वं व्यनक्ति । उरुभिर्बहुभिरुरु विस्तीर्णं दीर्घमुच्चै- रुद्गीयत इत्युरुगायः । उरुगाने उरुतालापेक्षा स्वरसा । सा च पूर्यते श्रुत्यैव दुन्दुभिनिर्ह्रादगम्भीरशब्दैः । शब्देस्तालो निर्वर्त्यते । वेदशन्देषु सर्वे शब्दा अन्तर्भवेयुः । न शब्दो- ऽन्यं शब्दं सहेत । जयभेरी संपादितेत्युक्तम् । अष्टसु दि- क्सौधेषु स्थिरध्वजपट्टिका: स्थाप्यन्त इति प्रदर्श्यतेऽत्राचार्यैरि- ति रसिकैर्भाव्यम् । त्रिविक्रमयशो वेदो घोषयतीति श्रीमद्भ- ट्टार्या: । जिगीषितस्य दैत्यस्यौदार्येण जितोऽजितो वामनस्त- द्यशः प्रख्यापयितुं स्वयं लोकविक्रान्तभटो भूत्वा पदातिरेव लोकानतिवेगेन क्षणकालेनाक्रम्याष्टसु दिशासौधेषु पवि- त्रामृतध्वजपटीर्वर्तयति स्वचरणनिर्गलत्सुरसिन्धुस्रोत:फेनै- रित्याचार्या : प्रदर्शयन्ति । ' ध्वजारविन्दाङ्कुशवज्रलाञ्छनम्' इति चरणगतध्वजेनापि त्रिजगदङ्कनं चारु प्रदर्श्यते । वाम- नभूमिकया वैरोचनसद:प्रवेशः । करे पतिते तोये वामनस्त्रि- विक्रमो भवति । पूर्वावतारे विग्रहविशिष्टस्य भगवतो व्या- प्तिर्न्यरूपि । अधुना विग्रहैकदेशभूतपादमात्रेण त्रिजगव्द्या- प्तिर्निरूप्यते । स्वयं बृहत्त्वं वदान्यस्य बलेर्यशसो बृह्मणत्व- मित्युभयरूपं ब्रह्मत्वं प्रदशर्यत इत्यवधेयम् ॥ व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः । औदा- र्यजलधिर्भगवान्बलिं याचते । याच्ञया व्रीडा सहजा । तया च प्रांशोरपि वामनीभवनं सहजम् । महत्या नवीन- दीनभावजन्यव्रीडया विध्यते भगवान् । ततोsपि महती दातुर्बलेर्व्रीडार्थिनोऽल्पयाचने । प्रतिषेधन्तं गुरुमुल्लङ्घ्य ददा- ति । दानेऽप्यल्पमेव याचितमपूर्वदुर्लभपात्रेणेति लज्जया वि- द्धो भवति । तल्लज्जागुणेन विद्धो भवति प्रतिग्रहीता भग- वान् ' ह्रिया देयम्' इति शास्त्रीयधर्मानुष्ठानेन सन्तोषितः । उदारो भगवानौदार्यरसज्ञः । दातरि ह्रीरूपश्रियः शोभां स एव वेद । स्वस्य याच्ञजन्यव्रीडावृतत्वेऽप्यल्पयाच्ञप्रयुक्त- व्रीडाविद्धत्वरूपदातृगुणेन विद्धस्तथशो दिगन्तेषु स्वेनैव सद्य: पादचारेण गत्वा प्रथनीयमिति दिशोऽन्तान्धावतीव बृहद्रूपं परिगृह्य । नायं त्रिविक्रमावतारो जगन्ति मातुम्, स्वीकर्तुम्, इन्द्राय प्रदातुं च । किं तु दातुर्बलेरौदार्ययश: स्वयं क्षण- काले दिगन्तविश्रान्तं प्रथयितुमित्याचार्या व्यञ्जयन्तीव । यद्यप्यवतारात्पूर्वमन्य उद्देशोऽभूत्, अधुना तद्विस्मृत्य ब- लियशसः सद्यः प्रथनमेव काङ्क्ष्यते बलिगुणविद्धेन । वदान्य- शब्दो वद अन्यदपीति व्युत्पन्नः स्यादिति भाति । 'अन्यं वरं वृणीष्व, अन्यद्वद ' इति खल्ववोचद्दाता दानवः । तद्वि- षये वदान्यशब्दोऽन्वर्थः । ईदृशव्युत्पत्तिरप्याचार्याभिप्रेतेव । वदान्यदानवशब्दयोरत्यन्तं वर्णसाम्यम् । दानवेषु वदा- न्यो दुर्लभ इति तस्याधिकं यशः । बलिं जेतुमागतो भग- वांस्तद्व्रीडागुणेन जित: स्वयं तद्दास्यमङ्गीकृत्य तत्सेनाग्रभटो भूत्वा तद्विजयध्वजं स्वयं पादचारेण सर्वत्र नयन्नटाट्यते । यद्यपि यशस्वी प्रभुर्व्रीडाविद्धोऽधोमुखस्तिष्ठति, औदार्ययश- सोरल्पदानेन ह्रासः समजनीति, अयं तद्दुणजितः शत्रुभट- स्तद्यश उद्धतमुद्घोषयतीति घाटीशब्देन व्यज्यते । यशसः स्वयं प्रथनं स्वभावः 'न हि कस्तूरिकामोदः शपथेन नि- वार्यते । ततोऽप्यग्रयायी भवत्ययमप्रभट: । स्वतः प्रथने भगवतो बृह्मणत्वं न सिध्येत् ॥ त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः । शिव- स्य शिवत्वकरणं प्रथमम् । अनन्तरं त्रिजगतः पवित्रीकरणं पादविन्यासेनेति व्यज्यते । 'देवो नः शुभमातनोतु' इति खलु शुभत्वविस्तारणमवतारेभ्यः प्रार्थितम् । शुभत्वरूपशि- वत्वं प्रदीयते । 'त्रैयक्षम्' इत्यक्षित्रयेणापि सादरवीक्षणं भगवत्पादस्य मकुटनिवेशनकाल इति व्यज्यते । सादरं सानन्दं तत्र स्त्रीण्यपि विलोचनानि व्यापारयामासेति भावः । धूर्जटिशिरसि पतन्ती गङ्गा विचित्रं प्रीणात्याचार्यान् । विन्ध्या- चलविकटसन्ध्यानटजटापरिभ्रान्तेति गङ्गा वर्ण्यते । नटराजो धूर्जटि: । सन्ध्यायां सन्ध्यारक्तजटाभिर्विचित्रमानन्दताण्डवं वर्तयते । नृत्यतस्तस्य शिरसि गङ्गा विष्णुपदान्निपत्य भूयो- भिरावर्तैरतिद्रुतं बम्भ्रमीति । को वा तद्दर्शनेन न रञ्जितो भवेत् । नृत्यत: शंभोर्जटासु पतन्ती गङ्गा विचित्रं नृत्य- तीति चारु प्रदर्श्यते आचार्यै: 'जडकिरणशकलघरजटिल- नटपतिमकुटतटनटनपटुविबुधसरित्' इत्यादिना । नृत्यतश्चू- डायां तत्स्था शशिकलापि नरीनर्ति । गङ्गा चातिवेगं सबह्वा- वर्तं नृत्यति । धूर्जटेरङ्गमर्धं नारी, अर्धं पुमान् । उमाकृतव्य- तिकरे तदङ्गे लास्यताण्डवभेदेन द्वेधा विभक्तं नाट्यम् । यद्यपि रुद्रः, स्वार्धभूतया नार्यायमतिसुकुमारलास्यमपि दर्शयतीति रुद्रशब्देन व्यज्यते महाकविना । सन्ध्यायां चेदं नर्तनम् । एवं खलु श्रीनटराजस्य नटनमनुभाव्यमिति प्रदर्श्यते तद्रसज्ञै- राचार्यै: । 'कदा पुनस्त्रिविक्रम त्वच्चरणारुणाम्बुजं मदीय- मूर्धानमलंकरिष्यति' इत्युत्कण्ठन्ते महान्तः । अस्मदज्ञानद- शायामलंकरणेन न तुष्याम: । पुनः कदा वयमनुभवाम इत्युत्कण्ठ्यत इति पुन:शब्देन द्योत्यत इव । 'विष्णुं क्रान्तं वासुदेवं विजानन्' ' लोकविक्रान्तचरणौ शरणं तेऽव्रजं प्रभो' इत्यादिवचनान्यत्र भाव्यानि । विश्वामित्रः 'विष्णु- र्मानुषरूपेण चचार वसुधातले' ' मया तु भक्त्या तस्यैव वामनस्योपभुज्यते' इति च पुंसां दृष्टिचित्तापहारिविग्रहस्य रामस्य पुरतो वामनस्य शोभां प्रशशंस । वामनावतारस्य सर्वातिशायिलावण्यमिति वकुलभूषणादिभावुकानामनुभवः । भूमौ पादं न निक्षिपेयुर्देवा लाघवभिया । अयं देवदेवः सर्वं पृथिवीतलं निबिडं निरन्तरं पस्पर्श पादेन । एतद्व्यज्यते ऋषिणा 'वसुधातले चचार' इति । पूर्वं वामनश्चचार । इदानीं तदभिन्नस्य तव तदाश्रमे सञ्चरणं संपाद्य, तत्सश्चर- णानन्दमनुभवेयमिति खलु मयात्र त्वदानयनम् , न क्रतुर- क्षणार्थमित्यपि व्यज्यते । ' नभःस्थले लङ्घितार्कशशिमण्डल: क्रमः' इति माघानुभव: । 'चरणपङ्कजेनाङ्कितम्' इति दयाशतके ॥ यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रो- तोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते । शौरिपदो- ज्झिता सुरसरिदाकाशे निष्पतन्ती दिक्षु सर्वत्र व्यापिनी: शुभ्रा: फेनच्छटा: प्रक्षिपति । गिरिनिर्झरपातं दृष्टवतामेत- त्सुविदितं स्यात् । ताश्च यशस्ततय इव, श्वेतध्वजपटा इव च दृश्यन्ते । ' नलः सितच्छत्रितकीर्तिमण्डलः' इति नैष- धारम्भे । स्वग्रन्थस्यापि तादृशयश आशास्त इव कविर्यथा सुधावत्स्वग्रन्थस्य सुरैरपि पानमाशास्ते । पूर्वार्धे 'कथाम्' इति पठता तन्मनोरथः स्पष्टमेव प्रकटीचक्रे, स्वकाव्यस्यापि तत्कथात्वात् । सिद्धान्तशब्देन स्वसिद्धान्तगुरुपङ्क्तिविषयः 'दिक्सौधाबद्धजैत्रध्वजपट...' इत्यादिश्लोक: स्मार्यत इव । नाभीपद्मसिद्धान्तवदयं पादप्रदर्शितो भगवत्परत्वसिद्धान्तः । यशसः पवित्रत्ववर्णनमुचितम् । न गङ्गाम्भसः पवित्रम् । न त्रिविक्रमपादात्पवित्रम् । स्वच्छावदातगङ्गाफेनच्छटा ध्व- जायन्ते । भगवत्पादो ध्वजवाही भट: । दिक्सौधा ध्वजस्थापनस्थानानि । एवं बृह्म्यते भगवदभिमानपात्रस्य यशः ॥ क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा- दक्षत्रामपि संततक्ष य इमां त्रिःसप्तकृत्वः क्षितिम् । दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस- न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ७ ॥ अयमवतारः शेषभूतं कंचिदनुप्रविश्य । शेषस्य निरति- शयशक्तिप्रदर्शने बृम्हणत्वरूपबृहत्त्वं सम्यगुपपाद्येत । तच्छ- क्तिदातृब्रह्मणो निरतिशयबृहत्त्वमप्युपलक्ष्येत । विप्रे परशु- रामे सर्वक्षत्रियविनाशनानुरूपां महतीं बाहुशक्तिमादधाति । भगवद्बाहुजा: क्षत्रिया विप्रबाहुना घात्यन्ते । किमर्थं विप्र- योनौ शक्त्यावेशनम् ? लोकरक्षार्थं स्थापिताः क्षत्रियाः । निरायुधा दीना अनाथा ब्राह्मणास्तैस्त्रातव्याः । 'क्षत्रियैर्धा- र्यते शस्त्रं नार्तशब्दो भवेदिति' इति क्षत्रियवंश्यो दाश- रथिः । यैरेव ब्राह्मणा रक्षणीया यदि ते क्षत्रिया एवं ता- न्घातयेयुर्यथा जमदग्निं कार्तवीर्यादिः, तेषां निर्मूलनं नान्या- य्यं स्यात् । यदि प्रजारक्षणार्थं नियुक्ता अधिकारिणस्तत्रापि सेनाधिकारिणः स्वयं प्रजाघातुका भवेयुस्तेषां प्राणान्तिको दण्डो न्याय्य: स्यात् । तथैवेदानीं नियमः सर्वेषु देशेषु सेनानये । को ब्राह्मण: ? ' मौनं चामौनं च निर्विद्याथ ब्राह्मण: ' इति श्रुतिप्रतिपादितो महातपस्वी 'ब्रह्मण एवायम्' ब्रह्ममात्रसंबन्धी । शमप्रधानास्तपोधना राज्ञा सर्वथा रक्ष- णीयाः । तद्विषये किंचित्कारेण तत्सुकृतं सर्वमपि दायत्वेन लभ्यते । तदपकृतौ च तद्दुष्कृतं सर्वमपकारिणि सङ्क्रमेत् । 'शास्त्रफलं प्रयोक्तरि ' इत्यनुल्लङ्घनीयं न्यायमपोद्यात्यन्तादरे- णैनं निरायुधं क्रुध्यन्तमप्रतिक्रुध्यन्तं स्वदेहयात्रायां निरपेक्षं रक्षितुं श्रुतिरेवं शशास । कार्तवीर्य : प्रसिद्धः पृथिवीपाल: । 'अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता । अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ॥' इति हृषीकेशवत्प्रजानामकार्यचिन्तनसमय एव चापहस्तः पुरस्तादाविर्भूय भीषयित्वाकार्यकरणान्निवारयामास । तादृशी सिद्धि: संपादिता तेन परेषामकार्यनिवारणे । यदि स धर्म- सेतु: स्वयं तपस्विब्राह्मणपीडको भवेत् , तत्पुत्रस्य कोपो जायेतैव । रौद्रबीभत्सरसौ प्रदर्श्येतेऽस्मिन्नवतारे । क्रोधो न सहजो भगवतः । आहार्यः स तस्य । ' क्रोधमाहारयामास ' इतिवत् । न क्रोध: स्थायीभावो भवेद्भगवतः, यथा परशु- रामे विद्यते । क्षत्त्रजातिसामान्यस्य क्षत्त्रियेण भगवतोन्मू- लनं न न्याय्यम् । ब्रह्मण्यपराधो ब्राह्मणावेशनेन दीर्घवैर: परिहर्तुमुचितः । जामदग्न्यो रुद्रशिष्यः । महावीरः को- पनश्च । तस्मिन्स्वशक्तिमावेश्य तद्द्वारा चिकीर्षितं साधयति । दशस्ववतारेषु द्वाववतारौ शेषजीवयोः । अवतारेष्वपि शेषी शेषमपि निवेशयति । तस्य कनीयानपि भवति । अक्त- रन्तौ शेषशेषिणौ समकालेऽपि भुवमलंकुर्वाते । यथात्र स्वे- च्छया शेषं गुरुत्वेन पूजयति लालयति च, तथा परमप- देऽपि तं संमानयिष्ये इति रहस्यमवतारेऽपि प्रकाश्यते । परशुरामकृत्यं जुगुप्सितमिति मन्येत । अब्रह्मण्यापाकरणरू- पनिमित्तेन तादृशघोरकृत्यानि निरवर्त्यन्त इत्याचार्या व्यञ्ज- यन्ति ' अब्रह्मण्यमपाकरोतु' इति । कथमन्यथा तद्घोरकृ- त्यस्य शुभत्वं निरुह्येत । हतक्षत्त्रियतनुगलत्क्षतजधारापूर्णानि घोरपञ्चमहासरांसि खल्वनेन व्यरचिषत । पञ्चत्वमापन्नक्ष- त्त्रियरक्तैः पञ्च सरांसि । क्षत्त्रमात्रप्रलयकृदयं रुद्रशिष्य: । भगवदाहितशक्त्या तस्य तादृशं बृहत्त्वम् ॥ क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमात् । पितृवधनिमित्तः क्रोध इति क्रोधहेतुप्रदर्शनं तस्य दोषैकान्त- त्वनिवृत्तये । जमदग्निरित्यग्निरूपाक्षरघटितनाया पिता । त- मग्निं पीडयामास शत्रुः । तदाप्तभूतपुत्रस्य क्रोधाग्निस्तेनाजा- ज्वल्यत । पीडितोऽग्निरन्यमग्निमुदपादयत् । अयं पुत्रः पि- तृवधोत्थितक्रोधाग्निं पितरं जमदग्निं मेने, उभयोरप्यग्न्यन्त- त्वात् । क्रोधाग्निं च पितरं मत्वा तं संततर्प शत्रुजातिक्षत- जधाराभि: । दीर्घायुश्चिरजीवी परशुराम: तत्क्रोधोऽपि चिर- जीवी । बहुकालं तेन पितृतर्पणं कार्यम् । चिरजीविनः क्रोधो दीर्घः । क्रमादेकविंशतिकृत्वः प्ररोहतीर्नवनवक्षत्त्रिय- सन्ततीर्विच्छिद्य विच्छिद्य तद्रक्तधाराभिर्निवापाञ्जलिं ददौ । क्रुद्धस्य करुणागन्धो न स्यात् । शत्रुरुधिरदर्शनं तस्य परमप्री- णनं भवेत् । स्त्र्यपि द्रौपदी दुःशासनरुधिरेण स्वकेशपाशमा- ञ्जिजिषत् । क्रोधाग्नौ रुधिरमेव होतव्यम् । ' देव: स्वर्गग- तोऽपि शात्रववधेनाराधितः स्यात्' इति राक्षसः । दिवं ग- तोऽपि पिता शत्रुवधेनारात्स्येत । अमृतत्वतुल्यत्वेन वर्णितं स्वर्गसुखमनुभवन्नपि ततोऽप्यधिकं सुखमनुभवेच्छत्रुवधेनेति मुद्राराक्षसश्लोकस्य भाव इत्यवधेयम् । अग्नावाज्यादिकं क्रमेण हूयेत, न यौगपद्येन, सकृद्वा । ' क्रमेण युगपद्वा' इति विकल्पशिरोवर्णनं क्षणभङ्गवादिभिस्ताथागतैः । नास्य क्रोधस्य क्षणिकत्वम्, किं त्वनेकजन्मानुगतत्वम् । अतः क्रमेण होमः । यथाग्निर्हुताशनस्तथा क्रोधाग्निः शत्रुरक्ता- शनः ॥ अक्षत्त्रामिह संततक्ष य इमां त्रिः सप्तकृत्वः क्षितिम् । द्यावापृथिवी निष्ठतक्षुः' इति श्रुतिः प्रत्यभिज्ञाप्यते । क्षि- तितक्षणमवतारबृहत्त्वोपलक्षकम् । न तेनेव जगन्निर्माणं तक्षणेन, किं तु क्षितेस्तक्षणेन निष्कण्टकीकरणमात्रम् । क्षत्त्रसामान्यं कण्टकमभूत् । तन्मात्रमपनीतं सम्यक्तक्ष- णेन । अक्षत्त्रां संततक्ष । छेद्या वृक्षगुल्मलतादयो यथा छेत्तारं न प्रतियुध्येरन्, तथास्य प्रतिभटाः परशुना छिद्य- माना न प्रत्ययुध्यन्निति व्यज्यते । मूलानि निर्मूलयितुं क्षिति- तलं संतक्ष्येत । क्षत्त्रप्ररोहं निर्मूलयितुं पुनः पुनः क्षितितलं संततक्ष । 'अलावीद्भूपालान् पितृगणमतार्प्सीत्तदसृजा' इति श्रीभट्टपादाः ॥ त्रिः सप्तकृत्वः । अयं नीरसो निष्करुण: शुष्कः श्रो- त्रियः । दश पूर्वान्दशापरान् पुनाति' इति शुश्राव । आ- त्मानं चान्तर्भाव्य एकविंशतिः संपद्यन्ते । पावनकर्मणि पूर्वेषामपि तच्छास्त्रविषयीकरणं सुलभम् । अत्र तु हननवि- षये न शत्रुपूर्व्या दिवं गताः पुनर्हन्येरन् । पित्रादिप्रीणना- राधनपावनादिविषये श्रुता त्रिःखप्तसंख्याद्रियतेऽनेन श्रोत्रि- येण वध्यसंख्यायाम् । अयं ब्रह्मचारी । अयं ब्राह्मणः, न जितं राज्यमीप्सेत् । राजगुणभूतरञ्जनव्यापारोऽस्यात्य- न्तमशक्यः । विप्रत्वाद्विरक्तत्वाच्च जितां पृथिवीं काश्यपाय प्रादात् । ब्राह्मणस्येदृशी विरक्ति: । राज्ये यदि सज्जेत तदर्थमेव क्षत्त्रहननं भवेत्, न पितृसन्तर्पणार्थम्, क्रोधा- ग्निसन्तर्पणार्थं वा । राज्यकामना क्रोधैकान्त्यं विन्यात् । अयं क्रोधमेव जानाति, नार्थकामौ । धर्मं तु जानातीति तृतीयपादेन बोध्यते ॥ दत्वा कर्माणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन् । न स्वावस्थानार्थं स्वल्पमपि स्थलमियेष । कृत्स्नं ददौ । दत्वा भूमेर्बहिर्गत्वा समुद्रमास्कन्द्य तत्र स्वतेजसा कं- चित्स्थलं कल्पयित्वा तत्रोवास ॥ अब्रह्मण्यमपाकरोतु भगवानब्रह्मकीटं सुनिः। किं शुभमयं क्रोधैकरस आतन्वीतेति चेत्, आब्रह्मक्रीटमब्रह्म- ण्यमपाकुर्यादित्युच्यते । ब्रह्मण्यविरोधे किमापद्येत । 'ब्रा - ह्मणो मम देवता' इत्युक्तभगवद्दैवतस्य हानि: स्यात् । धर्मेण लोको ध्रियते । दैवेन लोको धियते । वेदैर्लोको ध्रियते । तत्त्रितयं ब्राह्मणाधीनम् । असहनमुनिरित्युक्तः कोपनो मुनिः । 'आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने: ' इति तस्य मुनित्वेन ग्रहणं वेण्याम् ॥ पारावारपयोविशोषणकलापारीणकालानल- ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः । सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वति नः ॥ निरतिशयबृहत्वादिपरत्वप्रदर्शनमस्मिन्नवतारे कथं श- क्यम् । 'आत्मानं मानुषं मन्ये' इति ब्रह्मत्वमत्यन्तं विस- स्मरेऽवतरता भगवता । आसुरमोहनार्थं तानात्मनो मानु- षत्वं मानयितुं मुक्तकण्ठं रुरोद दण्डकेषून्मतवत्, पामर- वच्च । अस्मिन्नवतारेऽपि परत्वं प्रदर्शनीयं ब्रह्मत्वाहानार्थम्, अवतारेष्वपि बृहत्त्वमध्यक्षयितुं च । कथमेतत्संपाद्येत । यद्यपि स न स्वयं बृहत्वं प्रदर्शयामास तच्छरेण प्रलयाग्नेरपि घोरतरं सागरशोषणरूपोपसंहर्तृत्वादिकं प्रादर्शि । तच्छरस्य तादृशबृहत्वेन तद्बृहस्वमध्यक्ष्येत । शूरतमः शत्रुपक्षप्रधा- नमल्लः शक्रजिदेतस्मिन् सागरशोषणविक्रमं दृष्ट्वा विसिष्मिये, तेन च राममुत्तमवीरं स्वसदृशप्रतियोद्धारं मेने इति सुन्दरं प्रदर्श्यते काव्यप्रकाशोदाहृते 'क्षुद्रा : संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्त: । सौमित्रे तिष्ठ पात्वं त्वमसि न हि रुषां नन्वहं मेघनादः किंचिद्भ्रूभङ्गलीलानियमितजलाधं राम- मन्वेषयामि ॥ ' इति श्लोके ॥ अस्यावतारस्य मुख्यं प्रयोजनं शरणागतिरूपसूक्ष्मधर्मप्र- काशनम् । तद्धर्मसंस्थापनार्थोऽयमवतारः । सुग्रीवं प्रपन्नं जिघांसंस्तत्पितृसमस्तज्ज्येष्ठो वाली अस्य प्रथमवध्योऽभूत् । अनन्तरमेव रावणः । यद्यपि स भार्यापहारी महापराधी, न स प्रपन्नं कमप्यहिनत् । मतङ्गाश्रमरूपस्थलविशेषलाभा- त्सुग्रीवप्राणा ररक्षिरे । यो धर्म: प्रतितिष्ठापयिषितस्तद्विघाती प्रधानशत्रुर्भागवतः । नूतनाश्रितो विभीषणो राघवेण समुद्र- शरणवरणं रुरुचे । तदिच्छामनुरुध्याञ्जलिं प्राङ्मुखः कृत्वा प्रतिशयनभूमिकया पयोधिपुलिनमभूषयत् । अवतारभूमि- कामध्ये प्रदर्शिता प्रतिशयनभूमिका । तेन चोद्यतो महादधि- रधिकमधिकं विजजृम्भे । सागरतरणार्थं मार्गादानेन न चु- क्रोध प्रभुः । किं तु प्रपत्तिमार्गविहननेन । तदानीमेव समु द्रराजस्य शृण्वत उद्घोषित: प्रभुणा तत्पुलिने प्रपत्तिधर्मः । तद्धर्मविहनने महान् क्रोध: समजनि । तत्समयसंरम्भवि- जृम्भितस्तस्य सर्वेश्वरभाबः, यो महता प्रयत्नेन पूर्वं गुप्तः । उद्घोषितं च तदा 'सागरं शोषयिष्यामि' इति । 'कुशली यदि काकुत्स्थ: किं न सागर मेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥' इति सीतया पपृच्छे हनूमान् । स च प्रश्न आवेदितः प्रभोर्भक्तेन प्राज्ञेन दूतेन । सागरमेख- लामिति वदन्त्या सीतया सागरोऽपि तस्य युगान्ताग्ने- रिन्धनं भवेन्महीदहनायेति व्यञ्जितम् । ' जगत्सशैलं परि वर्तयाम्यहम् ' इति च क्रोधसमये उक्तं भगवता । न मही सीतामाता दिघक्ष्येत भगवता । मह्येकदेशभूतलङ्का ददहे हनूमता । सा च पुनर्नवीकृता । सागरेण महदपराद्धम् । तद्दहनं सीतामभिनन्दयेत्, इन्द्रजिदादिशत्रूंश्च विस्मापयेत्, अपराधिनं समुद्रराजं च शिष्यात् । क्षितितक्षणमुक्तम् । इदानीं समुद्रदहनमुच्यते । नाटकेषु विचित्राद्भुतदर्शनान्या- वश्यकानि ॥ पारावारपयोविशोषणेत्यादि । जलेन शाम्येत्प्रज्वलि- तोऽग्निः । अग्निना जलं तप्येत । आशीविषोपमविशिख- प्रसरदग्निना दिधक्ष्यतेऽब्धि: । 'अग्निर्वै मृत्युः सोऽपाम- न्नम्' इति बृहदारण्यके याज्ञवल्क्यः । लोकनाशकोऽग्नि- स्तन्नाशका आप इति मृत्युमृत्युत्वमपां दर्शितं तत्र । तद- न्यथा क्रियते भगवता ।' अग्नेरापः' इति श्रुतिः । अप्का- रणकोऽग्निः । प्रलयाग्नौ अपां लय उचितः । प्रलयाग्नेः समुद्रदहनसामर्थ्यं न्याय्यम्, लयप्रकरणात् । कारणे लय- स्य न्याय्यत्वात् । प्रलयकारणत्वं च ब्रह्मणः । जन्मादे: प्रत्येकं ब्रह्मलक्षणत्वमस्ति खलु । तच्छराणां तदिच्छामात्रेण समुद्रदहनशक्ति: स्यात् । परावरस्य भगवतो विशिखः पा- रावारं दहति । ज्वालाजालविहारहारीति तत्साम्यं वा, तदा- धिक्यं वा । दयानिधिना खलु प्रपत्तिमार्ग: प्रकाश्येत । उत्तरार्धे च प्रपत्तिः प्रस्तूयते । कथं पूर्वार्धे ईदृशनिष्करुण- त्वघोरत्वादिप्रदर्शनामति चेत् , तत्प्रत्युक्तं दयाशतके 'अपां पत्युः शत्रूनसहनमुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् । विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्वि- हृतिभिर्दिशत्येवं देवो जनितसुगतिं दण्डनविधिम् ॥' इति । सागरं दण्डयितुं प्रवृत्तः कोपस्तद्धितं परिणनाम । अतः पूर्वार्धेऽपि दयाप्रभावस्यैव वर्णनम् । समुद्रराजं तादृशकोपज- नकार्द्रापराधिनमपि शरणवरणक्षणे ररक्ष । तदहितांश्च तेनैव कोपेन जघान । कोपस्यातिबृहत्त्वप्रदर्शनं तच्छमनोपायभूत- नमस्कारस्य ततोऽपि बृहत्त्वं प्रदर्शयेत् ।' प्रत्यस्रमञ्जलिरसौ तव निग्रहास्त्रे ।' अन्यापि गतिर्वर्तते पूर्वोत्तरार्धयोरेकीकरणे । सागर: प्रेप्सितां सीतां व्यवधत्ते । मध्यपाती स सीताप्रा- प्तिपरिपन्थी । सीता च शोकान्मुमोचयिषितश्चेतनः । चेत नवृजिनविरचितस्तस्य भवसागर: । हनूमत्समेन गुरुणा चेत- नस्य भर्तृप्रेप्सोत्कण्ठानिवेदने तत्संश्लेषव्यवधायकपापरूपभव- सागरं शोषयति भगवान्विशिखदवाशुशुक्षणिना । चेतनज्ञा- नाग्निना जनितो भगवत्क्रोधाग्निः सर्वकर्माणि भस्मसात्कुर्या- दित्यध्यक्षीकार्यत इव भगवता । अस्मज्ज्ञानजन्यभगवत्क्रो- धाग्निरस्मत्पापसागरं शोषयति । नास्मज्ज्ञानमात्रस्य तत्सा- मर्थ्यम् ॥ सर्वावस्थसकृत्प्रपन्नेत्यादि । सर्वलोकशरण्यकर्तृकशर- णागतिभङ्गरूपमहापराधिनमपि शरणं गतं ररक्ष । तव्द्य- ज्यते सर्वावस्थेति । तादृक्प्रवृद्धो मन्युरार्द्रापराधिनस्तस्य प्रणामक्षणे शशाम ॥ धर्मो विग्रहवान् । शत्रोर्मारीचस्य वचनं रावणं प्रति । शत्रुमपि रमयति गुणै रामः । 'न रामः परदारान्वै चक्षु- र्भ्यामपि पश्यति' इति तत्काले शात्रवाविष्टा कैकेयी । शत्रुकृतप्रशंसा कथमयथार्था स्यात् । तत्कृतप्रशंसां सर्वः श्रद्धास्यति । अनुकूलकृतप्रशंसा पक्षपातप्रयुक्ता स्यात् । श्रद्धा खलु मुख्यमङ्गं प्रपत्ते: । सा चोत्पाद्यते शत्रुप्रशंसा- शब्दोपादानेन । धर्मश्च प्रपत्तिरूपधर्मः स्यात् ॥ अधर्मविरतिं धन्वी स तन्वीत नः । किं शुभमातनो- त्वयम् । अधर्मविरतिरूपं शुभमातनोतु । भवसागरविरतिं तनोतु । सागरशोषणवृत्तान्तेन सेतुनिर्माणं ज्ञाप्यते । तेन च सेतुना ब्रह्महत्याद्यधर्मविरतिर्भवति । 'धन्वी सः' इति ' राम: शस्त्रभृतामहम्' इति प्रसिद्धः स धन्वी । 'वीर्य- वान्न च वीर्येण महता स्वेन विस्मित: ' इति स्ववीर्यावि- स्मितोऽपि स्वयमेवावतारान्तरे दाशरथ्यवस्थमात्मानमेकध- न्वित्वेन प्रशशंस । 'शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ' इति प्रपन्नस्य शिष्यस्य तत्त्वमवश्यकथनीयम्, न गोप- नीयम् । 'शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा' अनितरश- रणानामाधिराज्येऽभिषिञ्चेच्छमितविमतपक्षा शार्ङ्गधन्वानु- कम्पा' इति शरणागतत्राणविषये शार्ङ्गधन्वित्वकीर्तनमेत- च्छ्लोकार्थं व्यञ्जयतीव ॥ फक्कत्कौरवपत्तनप्रभृतयः प्रास्तप्रलम्बादय- स्तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः । क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै- राकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥ शेषशेषिणावुभौ समकालं भुवमलंचक्रतुः । शेषश्च शेष्य- भवच्छेषी च शेषः । शेषमत्यन्तं संमानयते शेषी । स च शेषिधर्म: सम्यक्स्थाप्यते । 'क्वचित्क्रीडापरिश्रान्तं गोपोत्स- ङ्गोपबर्हणम् । स्वयं विश्रमयत्यार्थं पादसंवाहनादिभिः ॥' इति रामपादसंवाहनं कृष्णेन । बृहत्त्वप्रदर्शनं खलु मुख्य- कृत्यमत्र । तत्कथं निरूप्यत इति चेत्, हलाग्रेण हस्तिनपु- रमाकृष्य गङ्गायां पातनम्, तेनैव यमुनाकर्षणमित्यादिभिः कृत्यैस्तस्य बृहत्त्वमुपलक्ष्यते । ' अक्षत्त्रां क्षितिं करिष्यामि' इत्याद्यो रामः । 'अद्य निष्कौरवामुर्वीं करिष्यामि' इति तृतीयो रामः । यथा कृष्ण: शिशुर्विपुलोलूखलं चकर्ष तथा तज्ज्येष्ठ: 'लाङ्गलाप्रेण नगरमुद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ' उभयोर्भ्रात्रोः कर्षकत्वं स- मानम् । एक: संकर्षण:, अपरः कृष्णः । एको हलधरः । अपरश्चक्रधरः । एकेन शेषेणाद्यरामेण क्षितिर्निष्कण्टकं स- न्ततक्षे । अनेन हलधरेण सा कृष्यत इव । क्षेमकृषीवलो- ऽयं हलधर इति श्री भट्टपादाः । कौरवपत्तनफक्कनेन ब्रह्मबृ- ह्मितशेषस्याद्भुतबृहच्छाक्तिः प्रदर्श्यते । ब्रह्मणो बृहस्वं ब्रह्म- यितृत्वं च दर्शितं भवति । शेषशेषिणोरुभयोरपृथग्भूतत्व- रूपानन्यत्वं सम्यग्बोध्यतेऽत्र तद्विहृतीनामपृथग्भूतत्वकथनेन अपृथग्भूतशब्दः सिद्धान्तप्रतितन्त्रभूतमर्थमुद्घाटयतीव । त- दध्यक्षीकरणं मुख्यप्रयोजनम् । विशिष्टाद्वैतरूपभद्राण्ययं त- नोति । 'भद्राणि नस्तन्वीत' इत्युक्तम् 'नः शुभमातनोतु ' इतिवत् । किं भद्रं तन्वीतेति पृष्टे प्रतिवचनं दीयते उत्तरा- र्धेन । उभयोरपृथग्भूतयोः क्षीरशर्करयोरिव परस्परास्वाद- कत्वम् । तादृशं भद्रमाशास्यते । तदेवाभिप्रेयत इव क्षेम- शब्देन श्रीभट्टार्यैः । एतादृशापृथक्सिद्धिरूपभद्रविस्तारणा- दस्म बलभद्र इति नामेवेति व्यञ्जयन्त्याचार्याः शुभार्थकय- द्रशब्दमत्र प्रयुञ्जानाः । उमयोरनन्यत्वमामिप्रेत्य श्रीभाष्भ- कारैर्बलरामकृतप्रलम्बमुष्टिकादिहननमपि कृष्णचेष्टितत्वेना- वर्ण्यतेत्युक्तं तात्पर्यचन्द्रिकायाम् । 'भगवतो बलभद्रस्या- प्येतदंशरूपत्वात्प्रलम्बमुष्टिकादिहननमप्येतत्कर्तृकतयोपात्तम्' इति । तदेवानन्यस्वमत्रापि द्योत्यत इवाचार्यैरपृथग्भूतशब्दं प्रयुञ्जानैः ॥ फक्कत्कौरवपत्तनप्रभृत्तयः । कृष्णो गजं कुवलयापीडं जघान । तज्ज्येष्ठो रामो गजाह्वयं नगरं हलाग्रेण विचकर्ष । प्रभृतिशब्देन यमुनाकर्षणवृत्तान्तो द्योत्यते। 'अनागतां हला- ग्रेण कृषितो विचकर्ष ह ।' पादयोः पतिता यमुना चक्रन्द 'राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विघृता जगती जगतः पते ॥' इति । एनेन ब्रह्मवत्तस्य महिमा सुस्पष्टं प्रकाश्यते । यदा सा ' परं भावं भगवतो भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्त- वत्सल ॥' इत्यभयं ययाचे, सद्यस्तदपराघमक्षाम्यद्बल इत्यु- च्यते । ' ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः ।' अ- नेन पूर्वोत्तराभ्यां स्थापितशरणागतत्राणधर्मोऽनेनापि प्रख्या- पित इति सूच्यते ।। तालाङ्कस्य तथाविधा विहृतयः । कनीयानिन रागतालादौ नायं रसिकः । अस्य तालो ध्वजाग्रे चिन्हभूतः । नेतरं तालं जानात्ययम् ॥ तन्वन्तु भद्राणि नः । 'नः शुभमातनोतु ' इति य- दुक्तं प्रथमश्लोके तदिहापि प्रार्थ्यते । उचितमिदं भद्रे भद्र- प्रार्थनेति व्यज्यते बलभद्रनामदृष्टभद्रशब्दप्रयोगेण । किं भद्रं प्रार्थ्यत इति चेदुच्यते उत्तरार्धे ॥ क्षीरं शर्कर येत्यादि । उभयोः शेषशेषिणोस्तव्द्यापारयोश्च परस्परापृथग्भूतत्वेनान्योन्यास्वादयितृत्वरूपं भद्रं विवक्ष्यते भद्रप्रार्थने । शेषी क्षीरम् । शेष: शर्करा । शर्करीभूतः शेष: शेषिणमधिकं स्वादयति । केवलो दाशरथी रामो न तथैकः शोभेत, यथा गुहेन सहितो लक्ष्मणेन च सीतया । यावन्तः शेषास्तावानधिकमधुरिमा शेषिणः । कृष्णस्य केलय: स्वादु- त्वेन प्रसिद्धा इति 'ता:' इत्यनेन व्यज्यते । कृष्णशब्देन निर्वृतिभूमिरिति निर्वचनलब्धार्थो विवक्ष्यते । स्वयं निर्वृति- भूमि: कृष्णः । अखेलन् केलीरहितोऽपि स निर्वृतिभूमिः । तस्य कृष्णस्य केलयो जगते स्वदेरन् । ताः प्रसिद्धा: कृष्ण- केलयोऽपि बलभद्रकेलिभिरपृथग्भूता अत्यन्तं रसवत्योऽभू- वन् । अपायधुरंधरस्य साहसरसिकस्य कृष्णस्य क्षणविश्लेष- मपि न सेहे ज्येष्ठ इति व्यज्यते श्रीमद्भट्टै: 'यद्विश्लेषलवो- ऽपि कालियभुवे कोलाहलायाभवत्' इति ।। नाथायैव नमःपदं भवतु नश्चित्रैर्विचित्रक्रमै- भ्रूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते । कालिन्दीरसिकाय कालियफाणिस्फारस्फटावाटिका- रङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्यायचर्या यते ॥ निर्वृतिभूमिराचार्याणां कृष्णावतारः । तथा चाऊं तात्प- र्यचन्द्रिकायां नवमाध्यायचतुर्दशश्लोकभाष्यटीकायाम् 'कृषि- र्भूवाचक: शब्दो णश्च निर्वृतिवाचकः ।' इति कृष्णशब्दोऽपि पुरुषार्थहेतुत्वप्रतिपादनमुखेन परव्यूहादिसमस्तावस्थासाधार- ण इति ज्ञापनाय व्यापकयोः (नारायणवासुदेवशब्दयोः) मध्ये पठितः । अवतारान्तरेष्वपि कृष्णशब्दः प्रयुज्यते 'उद्धृतासि वराहेण कृष्णेन शतबाहुना' इति । अस्यावतारस्य ब्रह्मत्वे न कोऽपि संशयीत । 'नाहं प्रकाश: सर्वस्य योगमाया- समावृत:' इति श्लोकमवतारयन्तो मधुसूदनसरस्वत्य ऊचुः 'ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमाविर्भावितवति संप्रति च श्रीवत्सकौस्तुभवनमाला करी- ठकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रव- रधारिचतुर्भुजे श्रीमद्वैनतेयवाहने निखिलसुरलोकसंपादितरा- जराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदि- व्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके निखिललोकनिस्ताराय भुवमवतीर्णे विरिञ्चिप्रपञ्चासंभविनि- रतिशयसौन्दर्यसारसर्वस्वमूर्तौ बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिव्यपीताम्बरे निरुपमश्यामसुन्दरे कर- दीकृतपारिजातार्थपराजितपुरन्दरे बाणयुद्धविजितशशाङ्कशे- खरे समस्तसुरासुरविजयिनरकप्रभृतिमहादैतेयप्रकरणपर्य- न्तसर्वस्वहारिणि श्रीदामादिपरभरक्तमहावैभवकारिणि षोड शसहस्रदिव्यरूपधारिणि अपरिमेयगुणगरिमाण महामहिमनि नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनो- ऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीषुराह भगवा- न्' इति । साधूक्तं श्रीमद्ब्रह्मानन्दैरेतद्विषये 'मधुसूदन- सरस्वत्याः पारं वेत्ति सरस्वती । सरस्वत्याः परं पारं वोत्त वै मधुसूदनः ॥' इति । भूतार्थव्याहृतिरेषास्यान्न स्तुतिः । ब्रह्मत्वप्रदर्शिका विश्वरूपादिवृत्तान्ता बहवः सन्ति । किमर्थं तेषामन्यतमस्येहाग्रहणम् ? यदि कौमारकेऽपि ब्रह्मत्त्वं निदर्येत; तत्तत्सम्यगुपपादयेत् । मिथ्यागोपस्य विश्वगोपत्वं प्रदिदर्शयिष्यन्त्याचार्या: । गोपायेदित्यवतारान्तरेषु प्रार्थना । गोपवदाचरेदित्यर्थद्वयं भवेदत्र । तन्न हास्यते वैचित्र्यदिद- र्शयिषुभिराचार्यैः । ' चित्रैर्विचित्रक्रमैः' इत्यस्मिन्श्लोकेऽपि वैचित्र्यसक्तताप्रकटनम् । तर्हि शैशवेऽपि मात्रे मुखं व्या- दाय तन्त्र विश्वं प्रादर्शि । तदपि गोपालबालकृतम् । बाल्ये प्रदर्शनादपि कौमारके तत्प्रदर्शनं निपुणतरं स्यात् । किमर्थं कालियमर्दनचरित्रोपादानमिति चेत्, सन्त्यत्र बहवो हेतवः । रङ्गे धामनि नटनं खलु प्रतिजज्ञे । वृत्ता अवतारा अत्र समाप्यन्ते । भाव्यवतारः कश्चिवशिष्टः । वृत्तावतारपरि- समाप्तौ नृत्तवर्णनसंभवे तदुपादानमत्र सुसङ्गतम् । अत्र कालियफणा रङ्गं भवतीत्युच्यते । नवनीतनटनादेर्यद्यपि नवनीतादपि स्वादुत्वमस्ति, न तेन बृहत्त्वमुपपाद्येत । कृष्णत्रयमस्मिंमचरित्रे सङ्गतमिति चारु दर्श्यते श्रीशुकेन 'विलोक्य दूषितां कृष्णां कृष्ण: कृष्णाहिना विभुः' इति वदता । तन्मूर्धरत्नीनकरस्पर्शतिताम्रपादाम्बुजो- ऽखिलकलादिगुरुर्ननर्त ।' इति विचित्रं प्रदर्श्यते नर्तनो- पक्रम: । नर्तनभूमौ भूतले दपिपङ्क्तयो निवेश्येरन्पा- दजङ्घादिसुन्दरललितचेष्टाः प्रकाशयितुम् । तत्कार्यं निर्व- र्त्यते नागशिरोरत्नैः पादाम्भोजाधःस्थितैः । अखिलकला- दिगुरौ रसमये कृष्णे नृत्यति सर्वे प्रसिद्धगायका धावन्ति नवनवक्रमान् शिक्षितुम्, तत्र तालादिना सह कर्तुं च । नर्तनेऽवश्यं तालापेक्षा । वेणुगाने न तन्नेयत्यम् । नवनीतनाट्ये निमन्थमुखरं दधि तालं निबबन्ध । अत्र 'तं नर्तुमुद्यतमवे- क्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः । श्रीत्या मृद- ङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ॥' इति गन्धर्वसिद्धादीनां तत्रागत्य सर्वेस्तालाद्युपकरणवाद्यैर्गीतादि- भिश्च सह कर्तृत्वमुच्यते । प्रथमं वाद्याद्युपहारः । अनन्तरं पुष्पोपहार इति चारु व्यज्यते परमरसिकेन ऋषिणा । 'उप- सेदुः' इति गुरूपसदनं व्यज्यते । अखिलकलादिगुरुः खलु नृत्यति । अयं प्रथमगुरुर्न केवलमध्यात्मविद्यायाः । तमुप- सद्य बहु शिक्षणीयमस्ति सिद्धानामपीति सिद्धशब्देन व्य ज्यते । आदिगुर्वपेक्षया ते साधका भवन्ति । ईदृशचित्रता- ण्डवेन वृत्तावतारसमापनं रोचयन्त आचार्या: । त्रुटितज- नताशोकः श्लोको य उदगायत भगवता, तदुपदिष्टोपायस्या- नुष्ठानमपि संपादितं भवत्यनेन 'क्रोधोऽपि तेऽनुग्रह एव संमत: ।' 'तपः सुतप्तं किमनेन पूर्वम्... कस्यानुभावो- ऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकार : ' इति पर - मकश्मलमापन्नस्य नागस्येषदपि प्रयत्नं विना शरणवरण- बुद्धिमात्रसंपादनेन स्वशिरसां भगवत्पादाम्भोजसंयोजनप्र- णामादिसौकर्यं बभूव । भगवत्पादाम्बुजसंयोगेन सर्वाणि शिरांस्यनुजगृहिरे । अस्माकमेकस्यापि शिरसस्तत्संयोगो दुर्लभ: । शिरःसंख्याधिक्यं सकृत्प्रणामेप्यनेकप्रणामसंपा- दनानुकूलम् । 'तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपी- तवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलो दराङ्घ्रि संदश्य मर्मसु रुषा भुजगश्चछाद ॥' इति पुष्पहाससुकुमारं कुमारं क्रूरं ददंशायं नागः । परमापद- मापन्नो रुधिरमुरु वमन् गत्यन्तराभावान्ननाम तम् 'नारा- यणं तमरणं मनसा जगाम' इति । तादृशमार्द्रापराधिनं शरणोक्तिमात्राद्ररक्ष । न केवलं तं मुमोच, किंतु तमनुज- ग्राह सुपर्णायप्रदानेन । सर्वभूतेभ्यः खलु तेनाभयं दीयते 'सुपर्णस्त्वां नार्धात्' इति । क्रोधोऽप्यनुकूलं परिणतः । समुद्रराजो भगवन्तं न ददंश । आहूतो नागच्छन्मार्गदानाय । अयं नागो महापराधी, आर्द्रापिराधी च । अयमप्यरक्षि । त्रिविक्रमपादाम्भोजेन त्रिजगदङ्कितमभूदित्युक्तम् । तदङ्कनं वयं न पश्यामः । अयं नागस्तत्पदलाञ्छितोऽभूत् । भगव- त्पादचिन्हितोर्ध्वपुण्ड्रं शिरःसु दधार । न केवलं सः । तज्जातिभवाः कृष्णसर्पाः सर्वेऽपि तच्चिन्हवन्तोऽभूवन् । पुरा परमदुष्टोऽपि नाग आदिदेवं शरणं समाश्रित्य निर्दोषो भा- गवतोऽभूत् । एतद्वृत्तान्तेनान्यदपि तत्त्वं द्योत्यत इति वर्ण्यते आचार्यैर्यादवाभ्युदये 'प्रणेमुषां प्राणभृतासुदीर्णं मनो विने- ष्यन्विषमाक्षवक्त्रम् । अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यां पतगेन्द्रवाहः ॥' अस्मन्मनः कृष्णाहेरपि दुष्टम्, कृष्णतरं मलघनम् । विषमाक्षवक्त्रं मनः । प्रणमतां मनो मर्दनीय भगवत्पादाम्भोजेन, विनेयं च । बह्वापायं मनोमर्दनम्, दुर्घ- टतमं च । कष्टं तत्कार्यं सिषाधयिष्यंस्तदपेक्षया सुलभेन कालियशिरोमर्दनेन मर्दनाभ्यासं करोतीव भगवान् । अस्म- न्मनसो विनयनमेव वयमाकाङ्क्षामः । 'शतैकशीर्ष्णः' इत्ये- कशतसंख्या कालियशिरसाम् । तत्पाठ आचार्यसंमतः स्यात् । 'शतं चैका च हृदयस्य नाड्यः' इति मनसः एकशतनाडीवत्त्वम् । पतगेन्द्रवाहनो भगवान् किमर्थं कालि- यशिरःसु नृत्येत् ? गरुडवाहस्य स्ववाहभूतगरुडच्छायामात्रेण स नागो हन्येत । अस्मन्मनोमर्दनाय तदभ्यासं कर्तुमेव भगवान्कालियशिरांसि मर्दयन्ननर्तेत्युत्प्रेक्षितमाचार्यै: । कालि- यमर्दने महान् रस आचार्याणाम् । विचित्रं तन्नर्तनानुगुण- वर्णनं दृश्यते यादवाभ्युदये 'लोलापतच्चरणलीलाहतिक्षरि- तहालाहले निजफणे नृत्यन्तमप्रतिघकृत्यं तमप्रतिभमत्यन्त- चारुवपुषम् । देवादिभि: समयसेवादरत्वरितहेवाकघोषमुख- रैर्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ॥' नाथायैव नमःपदं भवतु नः । अयं मम नाथो रङ्गनाथ: कालियशिरोनृत्तरङ्गे नृत्यति । नामैकदेशे नाम- ग्रहणम् । यदुनाथ: कृष्णो मम नाथः । तस्मिन् गरीयसी भक्ति: सूच्यते एवकारेण । यथा कालियं विनयते तथा मन्मनोऽपि संमर्दनेन विनीय तत्र नृत्यात् । तदनमने मर्द्येत शिरः ॥ चित्रैश्चरित्रक्रमैरित्यादि । सर्वाश्चर्यमयो देवः किमस्य नाश्चर्यम् । अमुमेब नारद आश्चर्यत्वेन निर्दधारेति हरिवंशे आश्चर्योपाख्याने । स्वस्मिन्नाश्चर्यपदविश्रान्तिं प्रतिषेद्धुमसमर्थः 'अहमाश्चर्योऽस्मि' इति नारखं प्रत्यूचे नाथः ॥ कुहनागोपाय । मिथ्यागोपाय, मायागोपाय; गोपवे- षाय ॥ गोपायते । यद्यप्यात्मानं योगमायया गोपयामास, अ- स्मान् गोपायति ॥ कालिन्दीरसिकाय । रसिक: खलु नृत्येत् । यथा भावुका रसिकान्तथा रसस्वरूपोऽयं परमरसिक: । कालि- न्दीरसिकोऽयं यामुनः, तस्याः कृष्णाहिना दूषणं न मर्ष- येत् । कालिन्द्यां व्रजयुवतिभिः सह जलक्रीडादेरयमहिः परिपन्थी । कालिन्दीरसिकत्वमहिमर्दने तदुपरि नर्तने च हेतु: । 'नद्यस्तदाकर्ण्य मुकुन्दगीतमावर्तबुद्बुदमनोभवभग्नवे- गाः । आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर्गृह्णन्ति पादयुगलं कम- लोपहारा: ॥' इति कालिन्द्याः कृष्णगानरसिकत्वम् । रसि- कायां तस्यां नद्यां विहरणरसिकः कृष्णः । तस्यां नर्तनेन तां सन्तोषयितुमिच्छति ॥ कालियफणिस्फारस्फटेत्यादि । 'यद्यच्छिरो न नमदु- ङ्गशतैकशीर्ष्णस्तत्तन्ममर्द खलदण्डधरोऽङ्घ्रिपातैः ।' इति श्रीशुकानुभवः । समीचीनसन्मार्गनिर्माता खलु भगवान् । मार्गरचयितारः शर्करासश्चयान्निवेश्य तान्मईयेयुर्दण्डादिभिः । या या: शर्करा विषमा उद्धृतशिरसः स्युस्ता मर्द्येरन्मार्गस- मीकरणार्थम् । एषोऽनुभवश्चारु प्रदर्श्यते आचार्यैरत्र । श्री- शु॒कस्तदेवाभिप्रेयाय 'ममर्द खलदण्डघरोऽङ्घ्रिपातैः' इति । अङ्घ्रिणापि संमर्दनं क्रियेत तत्कर्मकरैः । स्फटावाटिका मार्गो भवति । स्फारत्वं मार्गत्रैशाल्यं द्योतयति । विशङ्कच- ङ्क्रम --' 'पर्यायचर्या –-' इति विषमा उच्छिरस: शर्कराः सङ्क्रम्यन्त इति सूच्यते ॥ यते । गच्छते नाथाय अयं चर्या गच्छत्यस्मत्सुचर्या- संपादनार्थमिति व्यज्यते ॥ भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां कल्की विष्णुयशः सुतः कलिकथाकालुष्यकलंकषः । निःशेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥ श्वेताश्ववदनः श्रीहयग्रीवः प्रथमावतारः । तेनोपक्रान्ता- वातारनाटिका । कल्क: श्वेताश्वः । तद्वता कल्किनोपसंह्रियते । इदं चाचार्याणां परमभोग्यम् । धर्मसंस्थापनार्थमवताराः । धर्मेषु श्रेष्ठो कार्तयुगधर्मो निवृत्तिधर्मः । तस्य नितरां ग्लानि र्भवत्यस्मिन्कलियुगे । वर्धमाने कलौ क्षितितलं कृत्स्नं कण्टक- जनैरेव व्याप्येत । 'उत्खातलोकत्रयकण्टकेऽपि' इति राघ- वस्य प्रथा लोककण्टकभूतरावणसंहारेण । 'त्रिदिवमुद्धृतदा- नवकण्टकम' इत्यन्यदा दानवमात्रस्य कण्टकत्वम् । कलि- युगान्ते नष्टप्रायत्वाद्धर्मस्याधरोत्तरत्वात्सर्वस्य निःशेषजना: कण्टकभिवेरन् । कृत्स्नकण्टकजनानां क्षतिः कार्येत श्वेताश्वा- रूढेन निस्त्रिंशधरेण भगवता । संहार: सृष्टिचोभयमपि प्रद- र्श्येतानेनावतारेण । लक्षणद्वयसमन्वयस्तेनोपपाद्येत । संहा- रोऽप्यनुग्रहे पर्यवस्येदिति निस्त्रिंशस्यापि मेघत्वम्, तेन च धर्ममेघेन कार्तयुगधर्मबीजप्ररोहजनकत्वं च वर्ण्यते । अयं चावतारो भावी, न वृत्तः । वृत्ता अवतारा अद्यापि सन्ति, आराध्यन्ते च तत्तद्वर्षेष्विति श्रीभागवते प्रोच्यते पञ्चमस्क- न्धे । 'रम्यके भगवतः प्रियतमं मात्स्यमवताररूपं तद्वंशपु- रुषस्य मनोः प्राक्प्रदर्शितम्, स इदानीमपि महता भक्तियो- गेनाराधयति' इत्यादिना । तादृशभक्तियोगं विनैव निर्भरत्वप्रप- त्त्यारूढानां भावुकानामस्माकं भक्तिभराङ्गीकर्त्रा भगवता स्वयं प्रत्यक्षवत्प्रदर्श्यन्ते वृत्तावताररूपाणीति प्रथमश्लोके व्यञ्जि- तमाचार्यै: 'लब्धनिर्भररसैरभ्यक्षितो भावुकै:' इति । वृत्तावतारा: सम्यग्वर्णिता महर्षिभिः । भविष्यदवतारोऽयम् । भूतावतारभावनाद्भाव्यवतारभावनं क्लिष्टतरं स्यात् ॥ भाविन्या दशया भवन्निह । परिदृश्यमाना इतरावता- रमूर्तयो भूतदशया भवन्तः । अयं तु भाविदशया भवन् । सर्वेषामवताराणां व्यवहितत्वं तुल्यम् । इतरेषु भूतका- लव्यवधानमत्र भविष्यकालव्यवधानमिति भेदः । सर्वेषां भवत्त्वरूपवर्तमानत्वतुल्यस्वमपि तुल्यमिति भवच्छब्देन व्यज्यते । अध्यक्षयिता सर्वशक्तो भगवान् । कर्मोपाधिहाने न त्रिकालभेदः । सर्वोऽपि काल: सततवर्तमान एव स्यात् । भगवता स्वावताराध्यक्षीकरणे भविष्यन्नपि भवन् भवेदिति व्यज्यते ॥ भवध्वंसाय नः कल्पताम् । किं शुभमस्माद्भाव्यते । न दुःखध्वंसः, किं तु भवध्वंसः । भवन्नयं भवध्वंसं तनो- त्विति विरोधोऽप्यापाततश्चारु व्यज्यते ॥ कल्की । श्वेताश्वविशिष्टः ॥ विष्णुयशः सुतः । विष्णुयशसो जातोऽयम् । प्रणष्टप्राये विष्णुयशसि तद्यशोरूपकार्तयुगधर्मं प्रतिष्ठापयिष्यन्नयं यशो- नामा जनिष्यते । 'तस्य नाम महद्यशः' इति भगवतो यशोनामत्वं प्रसिद्धम् । तस्य विष्णुयशोनामा ब्राह्मणोऽनुरूप: पितेति व्यज्यते । तमसावृते कलावयं यशसो जातः । अस्य यश: कलिमलापहम् ॥ कलिकथाकालुष्यकूलंकषः । अयं धाराधरहस्तः प्रभूतं धर्मं वृष्ट्वा कालुष्यमपनुदति । धर्ममेघेन धर्मेण पापमपनु- दति। कलिकथां कथाशेषं नयति । कथायाः कथाभवनं न्याय्यम् ॥ निःशेषेत्यादि । नैकोऽप्यकण्टको भवति । कृत्स्नं परि- वर्तयित्वा नूतनशुद्धप्ररोहा अवतार्यन्ते ॥ धाराजलौघैः । कण्टकक्षपणसाधनो निस्त्रिंशो धर्मजलौ- घवर्षुकधाराधरोऽपि भवति । दुष्कृद्विनाशनमेव धर्मसंस्था- पनसाधनमपि भवति ॥ ध्रुवम् ध्रुवं धर्मं प्ररोहयति । धर्मं ध्रुवं प्ररोहयति । ध्रुव- मित्युत्प्रेक्षार्थकत्वमपि । धाराधरत्वेनोत्प्रेक्षा समर्थ्यते ॥ धर्मं कार्तयुगं प्ररोहयति । त्रेतायुगप्रवर्तितकार्तयुगवृ- त्तान्तो धर्मो विप्रहवांश्चक्रवर्तितनूजः । अयं कलियुगे त- द्धर्मं प्ररोहयति ॥ यन्निस्त्रिंशधाराधरः । अस्य मेघस्य खङ्गोऽपि मेघो भवति ॥ इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् । क्रीडावल्लव कल्कवाहनदशाकल्किन्निति प्रत्यहं जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥ पूर्वोदाहृतशाङ्करश्लोकप्रकारेण सर्वावतारानेकीकृत्याखण्डा- नुभवं प्रदर्शयत्यखण्डरमलब्धये । यद्यपि प्रत्येकं पूर्णत्वम- स्त्येव भगवतः, तथाप्यनेकपूर्णसहानुभवजन्यो रसोऽखण्डतमः स्यात् । एकस्यैव दश भूमिका: । तासामखण्डानुभवसंपादन- मुचितम् । दशप्रकाराविशिष्टाद्वैतानुभवो भवेत् । विशिष्टैक्य मवतारनाटकप्रदर्श्यम् । यथा सर्वचिदचित्प्रकारविशिष्टब्रह्मा- नुभवस्तथा सर्वावतारप्रकारविशिष्टप्रकार्यनुभवो निरूप्यते । प्रथमश्लोके समासः । अनन्तरं दशभिः श्लोकैर्व्यासः । पुनरपि निगमनरूपसमासः । तार्किकसिंहोऽयं कविसिंहो- ऽअनुमानसरणिं न जहाति। प्रथमश्लोके प्रतिज्ञा । अत्र निगमनम् । विशिष्टवैशिष्ट्यावगाहिज्ञानरूपं फलं लभ्यते । प्रायेण तत्तत्पूर्वश्लोकोक्तानुभवा अत्रत्यैः शब्दैः सङ्गृह्यन्ते ॥ इच्छामीन । पूर्वं परोक्षतया प्रार्थना भगवतः । इदानीं तत्तच्छ्लोकानुभवेनाध्यक्षितं भगवन्तं समक्षं संबोधयतीत्य- वधेयम् । अध्यक्षितो भावुकैरिति यदुक्तं तदन्वर्थितम् । शुभमातनोस्विति प्रार्थितं फलितम् । भक्तानुजिघृक्षया प्रद- र्शितडोलारोहविषयो दोहद इच्छाशब्देन प्रत्यभिज्ञाप्यते । अस्मदनुग्रहे दोहदस्तस्य, यथा गर्भिण्याः । वीक्षणैः प्रजा- रक्षणं मत्स्यानां स्वभाव इत्युक्तम् । वीक्षणस्थेच्छापर्यायत्वं वेदान्तेषु । ब्रह्ममीनस्यास्येक्षणं सङ्कल्पार्थकम्, यथा 'तदै - क्षत बहु स्यां प्रजायेय' इत्यत्र ॥ विहारकच्छप । 'विहरते देव: सहैव श्रिया' इत्युक्त- विहारप्रत्यभिज्ञापनम् । कूर्मस्य ध्यानम् । प्रत्याहारे स दृष्टा- न्तीक्रियते । तस्य च कथंचिव्द्यञ्जनं विहारशब्देन ॥ महापोत्रिन् । पूर्वोतपोत्रिशब्दस्यैव ग्रहणम् । पवित्र- शब्दसन्निकृष्टत्वात् । मीनशब्दो दिव्यप्रबन्धप्रयुक्तशब्दपरि- ग्रहाय । कच्छप शब्दः 'मत्स्याश्वकच्छप --' इति शुको- क्तानुवादाय । महच्छब्दो बृहत्त्वोपपादकः । तन्नाम्नस्त- त्त्वस्य स्मारणेनेच्छासङ्ग्राहकबुद्धिग्रहणाय च स्वबुद्ध्या स्वेच्छयायं पोत्र्यभवत् ।। यदृच्छाहरे। यादृच्छिकात्प्रादुर्भवनादित्युक्तं स्मार्यते । यदृच्छाप्रादुर्भूतोऽयं हरि: । हरिर्नित्यहरि: स्यात् । अयं यदृच्छाहरि: । हरिरपि रामो हनुमन्तं हरित्वेन संबोधयति 'यत्त्वयोपकृतं हरे' इति । तस्य हरिर्हनूमांस्तदापदुद्धारकः । नरत्वमधः कृतं नरहरिणैव । अतो हरित्वमात्रेण संबोधनम् ॥ रक्षावामन । आश्रितमिन्द्रम्, तच्छत्रुं बलिम्, उदा- सीनं त्रिलोकं च ररक्ष त्रीन् ररक्ष यथा तत्पादसलिलम् । सुहृद्दुर्हृदुदासीनत्रयाणामपि रक्षकत्वात्तस्य रक्षा असाधारणी एष ह्येव वामनीः । सर्वाणि बामानि नयति । अयं वामनः कथं रक्षकादन्यो भवेत् ॥ रोषराम । अस्य नाममात्रं राम इति । विरुद्धमपि क्व- चिन्नाम भवेद्यथार्कस्य महावृक्ष इति नाम । यौगिकार्थनि- र्बन्धेऽयं क्षत्त्रविरामकरो रामः । रोष एवायं रमते । अतो रोषरामः ॥ करुणाकाकुत्स्थ । नात्र लोकरामे रामशब्दः । जामद- ग्न्यविषयप्रयुक्तरामशब्देन नास्थ सदनन्तरमेव संबोधनं न्याय्यं स्यात् । काकुत्स्थ इति श्रीशाङ्करनामानुवादो वा । पारावारेत्यादिश्लोकः कृत्स्नोऽपि करुणाप्रतिपादकः ॥ हेलाहलिन् । हलिनो हेला युज्यत इति व्यज्यते ॥ क्रीडावल्लव । कुहनागोप, मिथ्यागोप । देव इत्युप- क्रमे व्यञ्जितिस्य क्रीडिनस्यात्र कण्ठोक्तिः ॥ कल्कवाहनदशाकल्किन् । कल्कीत्युक्तं तदवतारवर्णन- श्लोके । कल्क इति कलङ्कार्थकः स्यात् । कलियुगेऽवतरन् कल्की सकल्क: स्यात् । तव्द्यावृत्त्यर्थं कल्कशब्दस्य श्वेताश्व इत्यर्थो वर्ण्यते । कल्करूपश्वेताश्ववाहनदशायामयं कल्की भवति । नायं कल्करूपकलङ्कवान् । भाविन्यां कल्कवाह- नदशायामयं कल्की । कथमसिद्धस्य भविष्यतः संज्ञाकर- णम्, तस्य च संबोधनमिति चेत्, 'अस्य सूत्रस्य शाटकं वय' इत्यादाविव भाविनीमवस्थामाश्रित्यापि संज्ञाकरणं सं- भवेदिति बोध्यते । नायं प्रकार्यसिद्धः । प्रकारमात्रं भावी- त्यपि व्यज्यते । कल्कवाहनदशायामयं कल्की भवति । तेन प्रकारेणायं कल्की, नेतरथा दोषवत्त्वादिना । 'भाविन्या दशया भवन्' इति वर्णनानुगुणोऽयं पाठः । कल्कवाहन दशाकल्पिन्निति पृथक्पाठो वा । इतिशब्दस्याभ्यासस्तदा अ- पेक्ष्येत । इति दशाकल्पिन्निति प्रत्यहं जल्पन्तः ॥ इति प्रत्यहं जल्पन्तः । न पूर्वोक्ततत्तदवतारविषयश्लो कानां जल्पनमपेक्ष्यते । एतच्छ्लोकोक्ततत्तन्नामावलीपठनम- प्यलम् । न सम्यङ्नामपठनमप्यपेक्ष्यते । तज्जल्पनमप्यल- मिति व्यज्यते । भावशून्यं स्वरनेत्राङ्गादिविक्रियारहितं ज- ल्पनमध्यलम् । 'जामदग्न्यस्य जल्पतः' इति भीष्मोक्तवत् । न रोषरामस्य शास्त्रप्रवचने स्वरनेत्राङ्गविक्रियादिसंभवः । तस्य रोषरूपविक्रियैकैव । नान्या विक्रिया ॥ पुरुषाः । पुरुषमात्रस्यैतन्नामजल्पनेऽधिकारः । नात्रा- धिकारिव्यवस्था ॥ पुनन्ति भुवनम् । पवित्रयन्ति भुवनम् । 'तत्रोपजग्मु- र्भुवनं पुनाना: ' इति सप्ताहावधिजीवितं परीक्षितमनुग्रहीतुं श्रीभागवतं च श्रोतुमागतमहाभागर्षिसङ्घस्येव एषां भुवनपु- नीतृत्वमिति तच्छब्दप्रयोगेण व्यज्यते । यथा ब्रह्माण्डः प वित्रीकृतो भगवद्घोणारवैरित्युक्तम्, तथैतेषां जल्पनैः पवि- त्रीक्रियन्ते भुवनानीति व्यज्यते ।। पुण्यौघपण्यापणाः । तत्तदवतारकथाश्रवणपठनादिभिः कोटिकोटिपुण्यलाभ: श्राव्यते तत्तत्फलश्रुतिभिरिति प्रसि- द्धम् । दशावतारनाम्नां जल्पनेन तत्फलं कृत्स्नमेभिः सञ्चितं भवति । पुण्यपण्यसंभारोऽनन्त एषाम् । एते सञ्चरन्तः पुण्यापणा: । नैतेऽल्पपण्यापणाः किं त्वोघपण्यापणा: । अल्पपण्यवणिजो द्रोणादिपरिमितप्रमाणैर्विक्रीणीयुः । एते रा- शिपण्यवणिजो राशिभिर्विक्रीणीयुः । राशिपण्यापणाः पुण्यौघानेव लम्भयेयुर्नाल्पाल्पं द्रोणादिपरिमितं पण्यमिति व्यज्यते ओघशब्देन । एते आपणाः । न विक्रेतारो वणिजः । 'तं ज्ञानपण्यं वणिजं वदन्ति' इति ज्ञानविक्रेतारो गर्ह्यन्ते । पुण्यपण्यविक्रेता गर्ह्येततराम् । तेषामुरुसंभृतपुण्यपण्यरा- शयस्तेषु यत्किंचित्सौहार्दं यदा कदापि प्रकटितवद्भिर्दायत्वेन विभज्येरन् । अनन्तपुण्यसंभारवत्त्वादेते पुण्यपण्यापणाः । नात्र क्रयो विक्रयो वा । नात्र वणिक् कश्चित् । अवतारद- शकस्यापि रहस्यवेत्तुरस्येह जन्मन्येव मुक्ति: सिद्धा । शरीर- वियोगे सुहृदः साधुकृत्यामुपगच्छन्ति । अभ्य भूरि पुण्यं विभज्यते सुहृद्भिः । सौहार्दमेव पण्यक्रयमूल्यम् । एतज्ज- ल्पनभ्य श्रवणमपि सोहार्दमेव । तन्मात्रेण पण्यलाभो भव- तीति 'जल्पन्तः पुनन्ति' इत्यनेन द्योत्यते । जल्पितनाम- श्रोतृषु स्वभूरिपुण्यं सङ्कमयन्ति । वणिग्रहितपुण्यौघपण्या- पणेऽस्मिन् यो यद्यत्पुण्यं वाञ्छति तत्तस्माल्लभेत श्रवणरूप- सौहृदमात्रेण । नाल्पं लभ्येतास्मादापणात् । ओघैः पुण्यं लभ्येत । 'पण्यं न चेदस्ति तदस्तु पुण्यम' इति नैषधे । एते संचरन्त आपणा: । पण्यसंभारस्यातिभूयस्त्वे संभारल- घूकरणार्थं सद्यस्तस्य भूरिविनियोगाय पण्यौघानादाय बहिः सञ्चरेयुः; स्वल्पमूल्यार्थमपि वेगेन विक्रीणीयुरिति प्रसि- द्धम् । एते पुण्यभारार्दितास्तद्दानाय पात्राण्यन्विष्यन्तश्चरन्ति ॥ विद्योदन्वति बेङ्कटेश्वरकवौ जातं जगन्मङ्गलं देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत यः । वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥ अवतारनामावलीर्जल्पन्तः पुरुषा: पुनन्ति भुवनम् । ते च भूरिपुण्यपण्यापणा इत्युक्तम् । आपणत्वरूपणेन भूरिपु- ण्यसंभारो नामजल्पनमात्रेण लभ्येतेत्यपि व्यञ्जितम् । तज्ज- ल्पनमात्रश्रोतारस्तत्पुण्यभाज इत्यपि व्याञ्जतम् । इदानीं मास्तु नाम पठनम्, एतत्स्तोत्रविवक्षामात्रेण भूयः फलं लभ्येतेति तत्फलं कीर्त्यते ॥ विद्योदन्वति । समुद्रशायी भगवांस्तत्र त्रिरवततार । यदि वयमुदन्वाम्भवेम, अस्मासु सोऽवतरेदिति स्वस्योद- न्वत्त्वं संपाद्यते कविना । नायं प्राकृतः क्षारसमुद्रः, क्षीर- समुद्रो वा । किं त्वप्राकृतशुद्धमधुरैकान्तविद्यासमुद्रः । क- ल्पान्तयूनो भगवतोऽयं प्रियस्तल्पो भवेत् । उदन्वत्यवता- रस्य भगवतः प्रियत्वात्, अस्मिन्विद्योदन्वत्यवतारविषय- स्तोत्रमवतर्तुं सुसांप्रतमिति व्यज्यते ॥ वेङ्कटेश्वरकवौ । कविर्भगवान् । कविरयं नटः । कवि- नटभूमिकास्तोत्रं कवौ जातम् । 'अहिरेव ह्यहेः पादान्वि- जानाति न संशयः ।' कवि: कवेर्नटस्य भूमिका: स्तौति । कवेर्जनिं कविः सम्यग्जानीयात् । युक्तमिदं देवेशस्यावतार- स्तोत्रं वेङ्कटेश्वरो रचयामासेति ॥ कवौ जातं जगन्मङ्गलम् । यथा स्तुत्य : कविः स्रष्टा, स्तोता कविरपि स्रष्टा । स्तुत्यमस्य कवेः स्वेतरसृष्टिर्नियति- कृतनियमवती सुखदुःखमयी । तस्य स्वावताररूपस्व- सृष्टिस्तु नियतिकृतनियमरहिता स्वेच्छामात्रनिर्वृत्ता ह्लादैक- मयी । स्तोतुः कवेः स्वेतरसृष्टिस्तथैव ह्लादैकमयी । निरति- शयह्लादैकमयमिदं स्तोत्रम् । कविरूपोदन्वति कविमतिमथ्ना मथिते जातमिदं जगन्मङ्गलं स्तोत्रम् । यथा क्षीरोदधि- मथने सर्वमङ्गला जाता, तथेदं जगन्मङ्गलं जातमेतदुद- न्वन्मथने । यथा जातो भगवदवतारो जगत्कल्याणभूतस्त- थेदं तज्जन्मस्तोत्रम् । यादृशं प्रतिपाद्यं भगवज्जन्म तादृशं तत्प्रतिपादकस्य स्तोत्रभ्य जन्म । 'देवो नः शुभमातनोतु' इति शुभातननप्रार्थनायामेतत्स्तोत्ररूपजगन्मङ्गलविस्तारणम- प्यन्तर्गतमिव ॥ देवेशस्य । यद्यप्ययं नटाग्रणीर्नायं नटेश: किं तु तस्य देवस्यापीशो देवेश ॥ दशावतारविषयस्तोत्रं विवक्षेत यः । एतत्स्तोत्रविव क्षामात्रस्य भूयः फलमस्ति । विविदिषामात्रस्य, वेदनस्य वा फलत्वेन साध्यत्वं स्यान्मतभेदेन यज्ञादिना । अस्या विवक्षाया: फलं स्यादेव । अवतारदशकविवक्षात्वात् । ए- कम्य ज्ञेयस्य ब्रह्मणो विविदिषा वा, वेदनं वा लिप्स्येतेति विप्रतिपत्तिः स्याद्यज्ञादिश्रुत्यर्थविषये । कथं भगवदवतारद- शकविषयस्तोत्रविवक्षाया भूरिफलवत्वं न स्यात् ? नात्र विविदिषापर्यन्तापेक्षा । विवक्षामात्रमलम् । अक्षरराशिग्र- हणमात्रेऽध्ययनविधिपर्यवसानं प्रतिजानीते सूत्रकारः 'अ- ध्ययनमात्रवतः' इति सूत्रं प्रणयन् ॥ वक्त्रे तस्य सरस्वती । वक्त्रं खलु विवक्षति । तेन खलू- च्चार्येत । वक्तरि वक्तुर्वक्त्रे सरस्वती सन्निधत्ते । 'स्नुषा दश- रथस्याहम्' इति सीताया भूयान्बहुमान: श्वशुरे । श्वशुर- स्यापि तुल्यं प्रेम स्नुषायाम् । भर्तुर्ब्रह्मणोऽक्षिदानं वेदसर- स्वतीदानं च कृतं प्रथमेनावतारेण । इतरे चावतारा ब्रह्मदत्त- वरासुरपीडानिवर्तनार्थं कृताः । कथं तादृशेषु श्वशुरावतारेषु सा न रज्येत । भगवत्स्तोत्रे तस्या भूरिरुचिरिति बोध्यते भट्टार्यै 'भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः' ति । एतद्दशावतारस्तोत्रविवक्षुवक्त्रे भारती सन्निधत्ते, श- दार्थज्ञानं सम्यक्तस्य दत्वा भगवदवतारांश्तेन सम्यक्स्ताव- यतुम् । स्वस्या अपि तत्स्तवनेऽन्वय: स्यादिति । श्वशुरस्य भगवतः स्तोत्रस्याज्ञकर्तृकपठनं सा न मृष्येत । अतो यो को वा जडोऽज्ञो एतत्स्तोत्रं विवक्षेत् तदिच्छाक्षण एव ना तद्वक्त्रे सन्निधत्ते तं ज्ञं कर्तुम् बहुमुखी न चतुर्मुखी, यथा नाथमुखेषु । 'वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः' इति नाथमुखेषु चतुर्मुख- वमेव । अत्र तदधिकमुखत्वम् । तावत्कुतूहलं तस्याः । वि- द्योदन्वति कवौ जातेयं स्तोत्रसरस्वती । कथमेतां सरस्वती न बहुमन्येत ॥ भक्तिः परा मानसे । यथा वक्त्रस्य सरस्वत्या शोभा, तथा मनसो भक्त्या शोभेति व्यज्यते । भक्तिरहितं मनो जडमुखवद्गर्हणीयम् । विद्योदन्वतीति भक्तिसागरे इत्यप्यभि- प्रेतम् । वेदान्ताचार्यप्रयुक्तविद्याशब्दस्य भक्तिवाचकत्वं स्वर- सम् । भक्तिसागरे जातस्यास्य स्तोत्रस्य विवक्षणे एतन्मातृ- भूता भक्तिजलधिः परा भक्तिः स्वसुतं प्रकाशयितुमिच्छन्ती मनसि नियतं सानुग्रहं सन्निदध्यात् । मनसि खलु विवक्षा जाता ॥ शुद्धि कापि तनौ । विद्योदन्वति जातमिदं स्तोत्रं स्व- विवक्षोर्विलक्षणं ब्रह्मवर्चसं ददाति । नातेजस्केन वचनमेत न्मर्षयेत् । स्वस्यातेजस्कपठनरूपाशुद्धिनिवारणाय स्वविवक्षु- तनुं पठनात्पूर्वं विवक्षाक्षण एव विलक्षणशुद्धिमतीं करोति परा भक्तिर्जाता मानसे । मोन: सिद्धः । स चैतज्जन्मावसा- न एव सिद्ध्येदवताररहस्यस्य ज्ञातत्वात् । अस्य स्तोत्रस्य विलक्षणं फलं विलक्षणकायशुद्धिजनकत्वम् । अजायनाने पुरुषे जाते तत्तनौ यादृशी विलक्षणा शुद्धिस्तादृशी देहशुद्धि- र्भवति तद्विषयस्तोत्रविवक्षोः । तत्क्रतुन्याय: प्रेत्य फलं द- दाति । इदमवतारस्तोत्रमिहैव भावितसादृश्यं ददाति ।। दिशासु दशसु ख्याति: शुभा जृम्भते । एकस्याव- तारस्यैकस्यां दिशि यशःप्रथनेऽपि सञ्चिकीर्तयिषितदशाव- तारैर्दशस्वपि दिशासु यश: पूर्येत । वदान्यस्य बलेर्यशो- ऽष्टासु दिक्षु प्रख्यापितम् । 'उदारा: सर्व एवैते' इति कीर्तितस्योदारस्य यशो दशस्वपि दिक्षु तन्यते । एतद्रूपशु- भख्यातितननमपि प्रथमप्रार्थितशुभान्तर्गतमिव । 'यादृशी भावना यस्य सिद्धिर्भवति तादृशी' 'यशोऽहं भवामि ब्राह्मणानाम्' इत्यवताररूपशुभे आतते तद्विवक्षोर्ब्रझमात्रो- पलक्षितब्राह्मणस्य यशस्तन्येत । शुभरूपावतारविस्तारणं य- शोविस्तारणे पर्यवस्यति । यशोव्याप्तदिक्संख्या आतताव- तारसंख्यासमाना ॥ जृम्भते । वर्धतेऽभिवर्धते च । देवो जृम्भत इत्युपक्र- मोपसंहारावेकीकृत्य लभ्यते । वर्धतेऽभिवर्धते च देवः । तज्जृम्भणे रसो जृम्भेत ॥ जृम्भतामिदमाचार्यस्तोत्रम् । तद्रसश्च वर्धतामभिवर्ध- ताम् ॥ आचार्यरसविज्ञानं गोपालस्य कथं भवेत् । अवतीर्ण : साहसेऽस्मिन्बालोऽयं वीक्ष्यतां शुभम् ॥ इत्थं गोपालदासेन वात्स्यवेङ्कटसूनुना । रचितं निगमान्तार्यस्तोत्रव्याख्यानमादरात् ॥ पृष्टम् पङ्कि: ३ २९ 5 ४१ ५ ३४ १८ १८ १० ४६ ८ २ "" ९ ९ ११ ११ १५ १ ". " शुद्धिपत्रिका । अशुद्धम् श्रव्य स्थायीभावस्य हनित्वा बृहत्वोपादनाय मोक्षण समयातीतत्वं स्त्रीचित्तानां स्त्रीमयानां) विटानां ब्रह्मचित्तानां ब्रह्ममयानां ब्रह्मविदां ब्रह्मापराक्षण श्रव्यत्य भावुकैरष्यक्षवदाचर्यते भगवद्बुद्धयेत्यपि यदेकलोत्पन्नमन्यान्द्रटृन् मत्स्याक्षीणामेव मार्गते तानुज्जीवयितुं च । शुद्धम श्राव्य स्थायिभावश्य हीनत्वा बृहत्वोपपादनाय मोक्षणसमयातीतत्वं स्त्रीचितैः स्त्रीम यैविंटैः ब्रह्मचित्तं ब्रह्ममय बड़ा- विद्भिः ब्रह्मापरोक्षेण श्राव्यस्य भावुकैरध्यक्षवान् कि- यते भगवान्स्वमुच्येत्यपि यदेकन्नोत्पन्नोऽन्यान्द्र- छन् मत्स्याक्षणामेव मृगयते तानुज्जीवयितुम् । ४९ ३ ५० "} ag ५८ 2 ५ ६० ६९ ८२ ९२ ९३ १७ २ ૨ V ६ २ नद्रव्यरूपोचैः श्रवसैरावत- नद्रव्यरूपो चैःश्रवैरावत स्वनिश्वसितैर्वेदनिश्चारणम् । स्वनिःश्वसितैर्वेदनिः- सारणम् । वेदमन्त्रभूत: निश्वसित संस्कृतमयः खागरान्तं घीणाया खुरदन्नप्रमाणे स्फुटधुत सटाग्राम्यद्रा सदावधूता स्वं विष्णोतिरूपवा यियासन्तं प्रतियास्यामि तंत्रालीकट ब्रह्मसृष्टं चोद्यतो ब्रह्मस्वप्रदर्शिका विश्वगोपत्वं तन्मूर्धरलोनकर- सह कर्तृत्वमुच्यते वेदमन्त्रपूतः निःश्वसित संस्कृतपयः सागरान्तः घोणया खुरदध्ने स्कुटधुनसाम्राज्यद्रह्म- सटावधूता खं विष्णोर्व्याप्तिरूपबृह यियासुं प्रत्यायास्यामि स्वनाली कसृष्टब्रह्म चोद्धतो F ब्रह्मत्वप्रदर्शका विश्वगोप्तृत्व तम्मूर्धरत्ननिकर- सहकर्तृत्वमुच्यते 12/28/10111 VERIFIED 1993 VERIFIED 1989 VERIFIED-2001 -ATALOGUS