ध्वन्यालोकपारिभाषिकपदकोशः ग्रन्थकर्ता डा. राणि सदाशिवमूर्तिः प्रवाचकः, साहित्यविभागः राष्ट्रियसंस्कृतविद्यापीठम् तिरुपतिः ध्वन्यालोकपारिभाषिकपदकोशः ग्रन्थकर्ता डा. राणि सदाशिवमूर्ति: प्रवाचकः, साहित्यविभागः राष्ट्रियसंस्कृतविद्यापीठम् तिरुपतिः Published by Institute of Sanskrit and Indological Studies Visakhapatnam 2010 ग्रन्थ: - ध्वन्यालोकपारिभाषिकपदकोश: ग्रन्थकर्ता - डा. राणि सदाशिवमूर्तिः प्रकाशनवत्सरः - २०१० । संस्करणम् - प्रथमम् © अधिकार प्रकाशकाधीनः । प्रथमावृत्तिः - १००० मूल्यम् - १०० मुद्रणम् Institute of Sanskrit and Indological Studies T2, Vaisakhi Apartments, Palace Layout, Peda Waltair Visakhapatnam-530017 From Prof. G.A. Sarma Head of the Department of Sanskrit & Chairman, Faculty of Oriental Learning, Andhra University, Visakhapatnam-3 Date: 11-01-2010 I have great pleasure in going through the work Dhvanyaloka Paribhasika Padakosa written by Dr. Rani Sadasiva Murty, Reader, Sahitya Department, R.S.Vidyapeeth, Tirupati. He mastered the work for all these years and prepared the lexicon of the terminology. The idea is very illustrious and useful to the students who wish to have the knowledge of the work Dhvanyaloka. In the present syllabus almost all the institutions with Sanskrit have this work for study. P The methodology taken up by the present author is apt and the language is chaste. The subject matter is in simple style and having analytical treatment. This method of probing is very much needed for research. No doubt it generates keen interest in this splendid Sastra Dhvanyaloka. I appreciate the author's critical insight into various aspects of Anandavardhanas genius. The present author Dr. Rani Sadasiva Murty has a powerful expression befitting his requirements as a good researcher. I wish him all the success. Julius 7. पुरोवाक् श्री महागणाधिपतये नमः । श्रीपरदेवतायै श्रीललितापराभट्टारिकायै नमः । मातापितृभ्यां नमः । महद्भ्यो गुरुभ्यो नमः । संस्कृतसाहित्यशास्त्रे मकुटायमानतया विराजमानः ग्रन्थः ध्वन्यालोकः । अयमेव सहृदयालोक इति, काव्यालोक इति च संज्ञितो वर्तते। सर्वसहृदयलोकानन्दवर्धनः राजनकानन्दवर्धनाचार्यः अस्य कर्ता। ध्वनिसिद्धान्तप्रतिपादनपरोऽयं ग्रन्थः कारिकाभिः वृत्तिवाक्यैः परिकरश्लोकैः सङ्ग्रहश्लोकयः, संक्षेपश्लोकैश्च विभूषितस्सन् पठितृहृदयहारी विभाति । उद्योतचतुष्टयपरिमितेऽस्मिन् ग्रन्थे क्रमशः विषयविभागोऽनेन क्रमेण " " " दृश्यते । अलङ्कार रसनिमित्तानां तत्र प्रथमोद्योते काव्यस्यात्मा ध्वनिरिति प्रतिज्ञाय स्वमतसमर्थनोचितपरम्परामपि निरूप्य ततः ध्वनिप्रस्थानिव्यतिरेकिणां मतत्रयमपि निराकरोत् । तस्मिन्नेव यत्ने ध्वनिगतानां त्रिविधानां वस्तु भेदानां सूचनं कृत्वा वस्तुध्वनिगतविविधभेदानां परिचयमपि अकरोत् । ततः परं ध्वनिप्रतिपादनानुकूलभूमिकां व्यरचयत् । ततः ध्वनिनिर्वचनमदात् । समासोक्त्यादिभ्योऽलङ्कारेभ्यः कथं ध्वनिः पृथग्भावमावहति इति सोदाहरणं सहेतुकं च न्यरूपयत् । ततः परं भक्तिध्वन्योः भेदनिरूपणावसरे सम्भवत अतिव्याप्त्यादिदोषाणामुपपादनमपि चकार । अथ द्वितीयोद्योते व्यङ्ग्यमुखेन ध्वनिनिरूपणायारब्धवान् । अस्मिन् प्रयत्ने तेन रसध्वनेः, रसव्दलङ्कारस्य, गुणानां च सुस्पष्टनिरूपणमकारि। अस्मिन्नेव क्रमे श्लेष - शब्दशक्तिमूलध्वन्योर्मध्ये भेदनिर्देशनमपि अकरोत् । अत्र व्यङ्ग्यमुखेन सम्भवतः विविधध्वनिप्रभेदान् सर्वानपि न्यरूपयत्। अनन्तरं तृतीयोद्योते व्यञ्जकमुखेन सम्भवतां ध्वनेः विविधप्रभेदान् निरूपयन् ध्वनिकारः गुणसङ्घटनयोर्भेदान्, रसविरोधिहेतून्, रसविरोधिपरिहारान्, ध्वनिकाव्य - गुणीभूतव्यङ्ग्य - चित्रकाव्यलक्षणादींश्च प्रत्यपादयत्। अन्ते चतुर्थोद्योते कविप्रतिभानन्त्यप्रस्तावावसरे भारत - रामायणादिषु अङ्गिरसनिर्धारणं चकार । कविप्रतिभानन्त्यकल्पने ध्वनेः महत्तां निरूप्य स्वग्रन्थस्योपसंहारमकरोत् । एतादृशानां लक्षणग्रन्थानां सुखाध्ययनार्थं सोपानतामुपयान्ति तत्तद्ग्रन्थगताः पारिभाषिकशब्दाः । ते शब्दाः नैकविधाः भवन्ति । ग्रन्थकर्तृभिः प्रयुक्तेषु तेषु पारिभाषिकशब्देषु केचन चिरन्तनाः परम्परागताः भवन्ति । केचन पुनः तैरेव ग्रन्थकर्तृभिः नूतनतया कल्पिताः भवन्ति। केचन शास्त्रान्तरोद्धृताः भवन्ति । अन्ये पुनः एतद्ग्रन्थमात्रसीमिताः भवन्ति। तादृशेषु बहुविधेषु शब्देषु येषां शब्दानां परिज्ञानेन ध्वन्यालोक्सुखावबोधो भवति ये च शब्दाः प्रायः ध्वन्यालोकमूलग्रन्थरथाः एव तादृशाः शब्दाः सर्वेऽप्यत्र समाकलिताः। व्याख्यातृभिः प्रयुक्तानां शब्दानां ग्रहणं तु न कृतम् । तथास्वीकृताश्च शब्दाः अकारादिक्रमेण श्रेणीकृताः । ततः विषयावबोधे तेषां शब्दानां प्राधान्यमनुसृत्य क्वचित्तेषां विस्तरेण सोदाहरणं चार्थप्रतिपादनं कृतम्। क्वचिदर्थमात्रनिर्देशनमेव कृतम् । अर्थ - निर्वचन- उदाहरणादिप्रदाने कदाचिदानन्दवर्धनाचार्यस्य पूर्ववर्तिनामाचार्याणां भरत - भामहादीनां कदाचित् तस्य परवर्तिनां मम्मट जयदेव - जगन्नाथादादीनां च मतानुसरणं कृतम् । अत्र प्रयोजनद्वयम् अभीष्टमासीत् । एकं तु ध्वन्यालोकग्रन्थस्य सुलभावबोधो भवत्विति । द्वितीयं च ध्वन्यालोकप्रयुक्तानां केषांचन शब्दानां तत्परवर्तिनि काले अर्थविस्तारः कथमभूदित्यवगन्तुं शक्यते इति । यत्नोऽयं नूतनतया ध्वन्यालोकग्रन्थस्याध्ययनरतानामुपयोगाय भवति, तथैव साहित्यशास्त्रगवेषणरतानां नवशोधच्छात्राणां चोपयोगाय भवति इति धिया साकारतां यापितः । विदुषामाशीर्बलेन ग्रन्थोऽयं छात्रसन्ततेः सततोपयोगाय भवत्विति मे आशा । स्वीयेनाभिप्रायेण ग्रन्थमिममलङ्कृतवद्भ्यः अस्मदध्यापकेभ्यः आन्ध्रविश्वविद्यालयस्थसंस्कृतविभागवर्तमानाध्यक्षेभ्यः आचार्य जि ए शर्ममहोदयेभ्यः सविनयं प्रणामाञ्जलिं निवेदयामि । एवमेव इमं ग्रन्थं Institue of Sanskrit and Indological Studies नाम्न्याः स्वसंस्थाः पक्षतः प्रकाशयितुं अङ्गीकृत्य समुचितं प्रोत्साहं दत्तवद्भ्यः सुहृद्वरेभ्यः विद्वद्वरेभ्यश्च डा इवटूरि श्रीनिवासराव् महोदयेभ्यः हार्दान् धन्यवादान् व्याहरामि । विदुषामामोदाय ग्रन्थमिमं समर्पयन् विरमामि विस्तरात्। बुधजनविधेयः डा. राणि सदाशिवमूर्तिः । अङ्गम् अवयवः; शरीरादेरेकदेशः, गौणम्, अप्रधानम् । उपकरणम् । अङ्गत्वम् अङ्गस्य भावः । अप्राधान्यम् । अवयवत्वम्। उपकरणत्वम्। उपकारकत्वम् । अङ्गाङ्गिभावः अगस्य अङ्गिनो भावः । अवयवावयविभावः, गौणमुख्यभावः, उपकार्योपकारकभावश्चास्य तुल्याः । अङ्गानि दृश्यकाव्यवस्तुनि मुखप्रतिमुखगर्भविमर्शोपसंहृतिरूपसन्धिपञ्चकस्य चतुष्षष्ट्यङ्गानि नाट्यशास्त्रे प्रसिद्धानि सन्ति । तानि यथा-१) उपक्षेपः, परिकरः, परिन्यासः, विलोभनम्, युक्तिः, प्राप्तिः, समाधानं, विधानं, परिभावना, उद्भेदः, करणं, भेदश्चेति द्वादश मुखसन्ध्यङ्गानि भवन्ति । २) विलासः,परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युति, प्रशमनं, विरोधः, पर्युपासनं, पुष्पं, वज्रं, उपन्यासः, वर्णसंहारश्च त्रयोदश प्रतिमुखसन्धेः अङ्गानि भवन्ति। ३) अभूताहरणं , मार्गः, रूपं, उदाहरणं, क्रमः, सङ्ग्रहः, अनुमानं, प्रार्थना, आक्षिप्तिः, तोटकं, अधिबलं, उद्वेगः, विद्रवश्च गर्भसन्धेः त्रयोदशाङ्गानि भवन्ति। ४) अपवादः,संफेटः विद्रवः शक्तिः, व्यवसायः, प्रसङ्गः, द्युतिः, श्रमः, खेदः, प्रतिषेधः, निरोधनं, आदानं, छादनं, प्ररोचना चेति त्रयोदशाङ्गानि दृश्यन्ते विमर्शसन्धौ । ५) सन्धिनिरोधः ग्रथनं, निर्णयः, परिभाषणं, धृतिः, प्रसारः, आनन्दः, समयः, उपगुहनं, भाषणं, पूर्ववाक्यं, काव्यसंहारः, प्रशस्तिश्च चतुर्दश निर्वहणसन्धेः अङ्गानि भवन्ति । एतेषां चतुष्षष्ट्यङ्गानां लक्षणान्युदाहरणानि च नाट्यशास्त्रे, दशरूपके, साहित्यदर्पणॆ तदितरेषु च रूपकलक्षणनिरूपणग्रन्थेषूप्लभ्यन्ते। परन्तु लक्षणकथनावसरे ग्रन्थकर्तृषु स्वल्पमतभेदास्तु सन्ति । एवंविधसन्धिसन्ध्यङ्गकल्पनेन इष्टार्थस्य रचना, वृत्तान्तस्यानुपक्षयः, प्रयोगस्य रागप्राप्तिः, गोप्यानां विषयाणां निगूहनं ( गोप्यगुप्तिः), आश्चर्यवदभिख्यानं, प्रकाश्यानां प्रकाशनमिति षट् प्रयोजनानि सिद्ध्यन्ति इति मुनेः आचार्य भरतस्य मतम् । यद्यपि रुपकलक्षणकारैः एतानि नाटकसन्धिसन्ध्यङ्गानीति कथ्यन्ते । भामहादीनामभिप्राये एतानि महाकाव्यादि पद्यकाव्येषु कथाख्यायिकादिगद्यप्रबन्धेषु च सम्भवितुमर्हन्ति । अङ्गता अङ्गस्य भावः। अप्रधानता। अवयवत्वम् । अङ्गिभावः प्रधानः भावः । अङ्गी रसः काव्ये प्रधानः रसः । अङ्गी (अङ्गिन्) प्रधानः। ''एक एव भवेदङ्गी शृङ्गारो वीर एव वा" इति वाक्येन महाकाव्यादिषु शृङ्गारो वीरो वा अङ्गीरसः अथवा प्रधानरसः भवेदिति अन्ये रसाः अङ्गरसाः भवन्त्विति व अचार्यैरुच्यते । अतिव्याप्तिः अलक्ष्ये लक्षणगमनम् अतिव्याप्तिः । अतिशयोक्तिः विवक्षा या विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ इति दण्डिना प्रोक्तम्। तेनोक्तमप्युदाहरणम् यथा मल्लिकामालधारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षामवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ दण्डिना संशयातिशयोक्तिः, निर्णयातिशयोक्तिः, आश्रयातिशयोक्तिः इति अन्येऽपि केचनातिशयोक्तिप्रभेदाः प्रोक्ताः। निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् । मन्यन्तेऽतिशयोक्तिं तामलङ्कारतया यथा ॥ उदाहरणम् स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः । अन्वमीयन्त भृङ्गालिवाचा सपच्छ्दद्रुमाः ॥ -भामहः । अत्यन्ततिरस्कृतवाच्यध्वनिः अयं अविवक्षितवाच्यध्वनेः (लक्षणामूलध्वनेः) द्वयोर्भेदयोरन्यतरः । अत्र वाच्यार्थः अत्यन्तं तिरस्कृतः अर्थात् सर्वथा अयोग्यतयाऽऽनुपात्तः इति कारणेनायं अत्यन्ततिरस्कृतवाच्यध्वनिः इत्युच्यते । अद्भुतरसः अथाद्भुतो नाम विस्मयस्थायीभावात्मको रसः इति भरतमुनिः। दिव्यश्चानन्दजश्चेति द्विधा ज्ञेयोऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षाच्चानन्दजो मतः ॥ इति विप्रदासः । अर्थवैचित्र्य इत्यस्य धातोरद्भुतनिर्वहः । विचित्रा यस्य भवति चित्तवृत्तिस्ततोऽद्भुतः ॥ इति शारदातनयः । अनन्यात्मा अविद्यमानः अन्यः (पूर्वनिबद्धातिरिक्तः) आत्मा यस्य तादृशं यद् भवति, तत् । ईदृशः काव्यार्थसंवादः प्रतिबिम्बसदृशः भवति । एवं विधः काव्यार्थसंवादः सर्वथा त्याज्यः । अनित्यदोषाः अनुकरणॆन वा अन्येन येन केनचित्प्रकारेण समाधातुं शक्याः दोषाः अनित्यदोषाः । येषां दोषाणां क्वाचित्केनैव दोषत् ञ्ववं भवति केषुचित्प्रकरणेषु गुणत्वं गृह्यते ते दोषाः अनित्याः । तेषां सततदोषत्वं न भवति । अथवा ते सर्वदा हेयाः न भवन्ति । अनिर्देश्यत्वम् १) इदं तदिति निर्देष्टुं यन्नशक्यते तदनिर्देश्यम् । अनिर्देश्यस्य भावः अनिर्देश्यत्वम्। २) न निर्देश्यं जाति-गुण-क्रिया-संज्ञाभिर्निर्देष्टुमशक्यम् अनिर्देश्यम्। तस्य भावः अनिर्देश्यत्वम्। अनुक्तनिमित्तः निमित्तं नाम कारणम् । यस्य निमित्तं कारणमनुक्तमनभिहितमकथितं सः अनुक्तनिमित्तः । अनुप्रासः वर्णसाम्यमनुप्रासः इति काव्यप्रकाशः । स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यं रसाद्यनुगतः अनुप्रासः । "प्रकृष्टो न्यासः अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् ।" इति साहित्यदर्पणः । पञ्चविधोऽयमनुप्रासः छेकानुप्रासः वृत्त्यनुप्रासः, श्रुत्यनुप्रासः अन्त्यानुप्रासः लाटानुप्रासश्चेति । अनभिनेयार्थः येऽभिनेतुं अयोग्यविषयाः भवन्ति ते सर्वेऽप्यनभिनेयार्थाः एव । गद्यपद्यादिश्रव्यकाव्यविशेषास्सर्वेऽपि अनभिनेयार्थाः एव । यतः ते सर्वेऽपि अभिनेयाः अथवा अभिनययोग्याः न भवन्ति । अनुभवः १) स्मृतिभिन्नं ज्ञानम् । २) यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्याकारेण परिणमते एवमेव इन्द्रियादिप्रणाल्यान्तःकरणं बहिर्निसृत्य विषयाकारेण परिणमते। तादृशपरिणामरूपवृत्त्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य विषयरूपानुरूपभवनात् अनुभवत्त्वमिति योगदर्शने पतञ्जलिः । ३) अनुभवस्य प्रत्यक्ष अनुमान-उपमान-शाब्दभेदेन चतस्रो विधाः इति नैयायिकादयः । अनुभावः अनुभावयति उद्बोधयत्यनेनेति अनुभावः । ''भावं मनोगतं साक्षात् स्वगतं व्यञ्जयन्ति ये तेऽनुभावाः ।" इति ख्याताः । ''उद्बुद्धं कारणैः स्वैः स्वैः बहिर्भावं प्रकाशयन् । लोके यः कार्य्यरूपः सोऽनुभावः काव्यनाट्ययोः ॥" इति दर्पणे । "यः खलु लोके सीताचन्द्रादिभिः स्वैः स्वैः आलम्बनोद्दीपनकारणैः रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते । सः काव्यनाट्ययोः पुनरनुभावः" इति चोदाहृतम् तत्र । अनुमानम् १) अनुमितिकरणमनुमानम् । २) अनुमानं तदुक्तं उत्साध्यसाधन्योर्वचः । ३) व्याप्यस्य ज्ञानेन व्यापकस्य निश्चयः अनुमानम्। यथा वह्निः धूमस्य व्यापकः इति धूमस्तस्य व्याप्तः इत्येवं तयोः भूयः सहचारं पाकस्थानादौ दृष्ट्वा पश्चात् पर्वतादौ उद्भूयमानशिखस्य धूमस्य दर्शने तत्र वह्निरस्तीति निश्चीयते । अनुरोधः अनुसरणम्, आराध्यादेरिष्टसम्पादनेच्छा च। अनुवादः १) सिद्धोपदेशः । २) विधिविहितस्य अनुवचनमनुवादः इति न्यायशास्त्रम्। ३) वाचारम्भणम् अनुवादः । ४) अनुक्षणकथनम्। ५) पुनः पुनः कथनम्। अनुस्वानम् अनुरणनम्। (घण्टादिश्ब्दजप्रतिध्वन्यात्मकं शब्दसन्तानमनुरणनम् अथवा अनुस्वानम् ।) अनुस्वानोपमात्मा ध्वनिः अथवा अनुरणनरूपव्यङ्ग्यध्वनिः संलक्ष्यक्रमध्वनेः नामान्तरमिदम्। अनौचित्यम् उचितस्य भावः - औचित्यम्। तद्भिन्नमनौचित्यम् । अन्तर्भावः अन्तः - मध्ये, भावः - प्रवेशः - अन्तर्भावः । समुदायमध्ये प्रवेशः अथवा पातः अन्तर्भावः । अन्योन्याश्रयः अन्योन्यमाश्रयतीति अन्योन्याश्रयः । परस्परापेक्षा । सच एकस्य ज्ञानादिजननाय यथाऽन्यज्ञानाद्यपेक्षा तथा तस्य ज्ञानादिजननायेतरस्य ज्ञानद्यपेक्षा इति स्वापेक्षापेक्षित्वनिमित्तकोऽयम् । इयं चापेक्षा ज्ञप्त्यपेक्षा, उत्पत्त्यपेक्षा, स्थित्यपेक्षा चेति त्रिविधा । अन्वयव्यतिरेकी अन्वयव्यतिरेकौ स्तोऽस्येति अन्वयव्यतिरेकी । तत्सत्त्वे तत्सत्त्वरूपः अन्वयः । तदसत्त्वे तदसत्त्वरूपः व्यतिरॆकः । वह्निः साध्यम् । धूमश्च साधनम् । वनौ साध्ये धूमस्य अन्वयव्यतिरेकव्याप्तिकत्वम् विद्यते। तत्र धूमसत्त्वे वह्निसत्त्वरूपान्वयव्याप्तिः, वह्निव्यतिरेके च धूमाभावः व्यतिरेकव्याप्तिरित्युभयव्याप्तिसत्त्वा दन्वयव्यतिरेकी । अपभ्रंशनिबद्धम् ''आभीरादिगिरः काव्येष्वपभ्रंशगिरः स्मृताः । शास्त्रेषु संस्कृतादन्यद-पभ्रंशतयोदितमिति' दण्डिनःवचनम्। अतः संस्कृतेतरभाषा अपभ्रंशभषा । अपभ्रंशे निबद्धम् काव्यम् अपभ्रंशनिबद्धम् । अपशब्दः शक्तिवैकल्य-प्रमाद-अलसतादिभिः अन्यथा उच्चारिताः शब्दाः अपशब्दाः इतीरिताः इति हरिमतम् । (भर्तृहरिमतम् ) अपह्नुतिः अयमेकः अर्थालङ्कारभेदः । प्रकृतं प्रतिषिध्यान्यस्थापनम- पह्नुतिरिति साहित्यदर्पणोक्तिः । अपह्नवपूर्वकः अन्यारोपः, अन्यारोपपूर्वकापह्नवः इति द्विधोऽयमलङ्कारः । यथा - नेदं नभोमण्डलमम्बुराशिनैताश्च ताराः नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥ अपनुत्यभीष्टा च किञ्चिदन्तर्गतोपमा । भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ॥ यथा- नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ अप्रकृतः अधिकृतविषयः आरब्धविषयो वा प्रकृतः । न प्रकृतः अप्रकृतः अप्रक्रान्तविषयः । स एव अप्राकरिणकविषय इत्युच्यते । अप्रतीतिः ज्ञानाभावः । अप्रस्तुतप्रशंसा अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रसंशेति सा चैवं कथ्यते यथा ॥ यथा प्रीणितप्रणयि स्वादु काले परिणतं बहु । विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥ इति भामहाचार्यः ॥ अथ साहित्यदर्पणात् क्वचिद्विशेषः सामान्यात् (१) सामान्यं वा विशेषतः (२) कार्यान्निमित्तं (३) कार्यञ्च (४) हेतोरथ साम्यात् समम् (५)। अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः । अप्रस्तुतप्रशंसा स्यात् ॥ अप्राकरणिकार्थः अप्रकृतार्थः । अभावः भावभिन्नोऽभावः। प्रतियोगिज्ञानाधीनविषयत्वम् अभावः । प्राधान्येनायं द्विविधः संसर्गाभवः, अन्योन्याभावश्चेति । संसर्गाभावे पुनः प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावश्चेति त्रैविध्यम् वर्तते। अभाववादिनः ये 'नास्त्येव ध्वनिरिति' ध्वनेरभावं असत्ताम् प्रकटयन्ति ते ध्वन्यभाववादिनः । ते त्रिविधाः । १) काव्यशरीर रूपाभ्यां शब्दार्थाभ्यां, तच्छरीरशोभाकारिभ्यः गुणालङ्कारादिभ्यः व्यतिरिक्तः केनाप्युच्यमानः को नाम ? यदि नामायं ध्वनिरभविष्यत् अलङ्कारादिवदस्यापि परिचयोsभविष्यत् पूर्वग्रन्थेषु। अतोऽस्य ध्वनेः तादृक्प्रसिद्ध्यभावात् नास्त्येव ध्वनिरिति प्रथमः अभाववादिपक्षः । २) पूर्वप्रतिपादितालङ्कारगुणादिपरिष्कृतप्रकारभिन्नस्य ध्वन्यात्मकाव्यभेदस्य सहृदयहृदयाह्लादकत्वं अर्थात् तादृशचमत्कारजनकत्वं नास्तीति हेतोः नास्त्येव ध्वनिरिति द्वितीयः पक्षः। ३) स्याद् यदि ध्वनिर्नाम कश्चन काव्याशोभाहेतुः तर्हि तस्य उक्तेषु गुणालङ्कारादिष्वेवान्तर्भावः योग्यः अलङ्काराद्यपेक्षया चमत्कारविशेषाकरणात् । सर्वथा तेभ्यो विलक्षणो नभवत्येव इति तृतीयः पक्षः । अभिधा अभिधीयते अनेनेत्यभिधा । इयं शब्दनिष्ठा अर्थबोधजनक़ताशक्तिः। अत एव अभिधा च सङ्केतितार्थस्य बोधिका श्ब्दनिष्ठा शक्तिरिति आलङ्कारिकं मतम् । शब्दशक्तयः वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥ अभिधानम् १) कथनम् २) नाम अभिधेयः अभिधीयते अभिधावृत्त्या बोध्यते इत्यभिधेयः । अस्यैव वाच्यार्थः, मुख्यार्थः, सङ्केतवान् शब्दार्थः इत्यपि पर्यायवाचिनः । अभिनेयार्थः सर्वदृश्यकाव्यविशेषाः । रूपकोपरूपकादीनि सर्वाणि । अर्थः प्रधानमुपकार्योऽर्थः पदार्था ह्युपकारकाः । तत्परत्वापदार्थानं तात्पर्य तदितीरितम् ॥ -शारदातनयः । शब्दप्रतिपाद्यः वाच्यः, लक्ष्यः, व्यङ्ग्यः इति त्रिविधः । तात्पर्यार्थोऽपि कैश्चित्पृथग्रूपेण गृह्यते । अर्थशक्तिमूलध्वनिः संलक्ष्यक्रम्व्यङ्ग्यध्वनेः भेदविशेषोयमर्थशक्तिमूलध्वनिः । अस्यैव अर्थशक्त्युत्थध्वनिः अथवा अर्थशक्त्युद्भवध्वनिरित्यपि व्यवहारो वर्तते । अत्राभिधया प्रकाशितोऽर्थः कमपि शब्दव्यापारं विनैव ध्वननव्यापारद्वारा तात्पर्यरूपमर्थान्तरमभिव्यनक्ति । अत एव ध्वनिकारेणाभिहितमस्य निर्वचनम् अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते । यस्तात्पर्येण वस्त्वन्यद् व्यनक्त्युक्तिं विना स्वतः ॥ इति । "एवं वादिनि देवर्षी पार्श्वे पितुरधोमुखी लीलाकमलपत्राणि गणयामास पार्वती ॥" इति कालिदासस्य कुमारसम्भवगतश्लोकः उदाहृतोऽत्र। एतस्मिन् अर्थशक्तिमूलध्वनौ षट्त्रिंशत् भेदाः सम्भवन्ति । प्रथममयं त्रिविधः -स्वतः सम्भवी - कविप्रौढोक्तिसिद्धः - कविनिबद्धवक्तृप्रौढोक्तिसिद्धश्चेति । एतेषु त्रिष्वपि पुनः एकैकस्मिन् वस्तुध्वनिः, अलङ्कारध्वनिरिति भेदद्वयं भूत्वा षट् भेदान् कल्पयति। एतेष्वपि वस्तुना वस्तुव्यङ्ग्यध्वनिः, वस्तुनाऽलङ्कारव्यङ्ग्यध्वनिः, अलङ्कारेण अलङ्कारव्यङ्ग्यध्वनिः, अलङ्कारेण वस्तुव्यङ्ग्यध्वनिरिति भेदवशात् द्वादशप्रभेदाः सम्भवन्ति । द्वादशभेदेष्वपि पदगत-वाक्यगत-प्रबन्धगतभेदेन भेदत्रैविध्यं सम्भवति । तेन अर्थशक्त्युत्थध्वनौ ३६ भेदाः गण्यन्ते । अर्थालङ्काराः अर्थप्रधानाः अलङ्काराः अर्थालङ्काराः इति कथ्यन्ते । अर्थान्तरन्यासः अर्थान्तरं न्यास्यतेऽत्रेति अर्थान्तरन्यासः । अयमर्थालङ्कारभेदः । सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥ साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥ एतेषामुदाहरणानि १) बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगाः ॥ २) यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ ३) पृथ्वि ! स्थिरा भव! भुजङ्गम! धारयैनां! त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः ! कुरुत तत्रितये दिधीर्षां आर्यः करोति हरकामुकमाततज्यम् ॥ ४) इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ इत्यादयः उक्तभेदानां कानिचनोदाहरणानि । अर्थान्तरसङ्क्रमितवाच्यध्वनिः अविवक्षितवाच्यध्वनिः, विवक्षितान्यपरवाच्यध्वनिरिति द्वौ प्रमुखौ ध्वनिभेदौ स्तः । तयोः अविवक्षितवाच्यध्वनौ अर्थान्तरसङ्क्रमितवाच्यध्वनिः, अत्यन्ततिरस्कृतवाच्यध्वनिरिति द्वौ प्रधानभेदौ स्तः । एवंविधयोःअविवक्षितवाच्यध्वनिभेदयॊरन्यतरः अयमर्थान्तरसङ्क्रमितवाच्यध्वनिः । "अर्थान्तत्रे वाच्यभिन्ने व्यङ्ग्येऽर्थे संक्रमितं सङ्गमितं विशेषणीकृतम् वाच्यम्" यस्मिन् ध्वनिप्रभेदे सः अर्थान्तरसङ्क्रमितवाच्यध्वनिरित्यभिधीयते। स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तू कथं भविष्यति हहा हा देवि! धीरा भव ॥ इति श्लोके "रामोऽस्मि सर्वं सहे" इत्यत्र 'राम' शब्दः कौशल्यादशरथयोः प्रियनन्दनः इतिप्रसिद्धवाच्यार्थे न प्रयुक्तः। परन्तु पितृवियोग - राज्यच्युति - वनवास - जटाचीरधारणादिविविधदुःखसहनाद् अत्यन्तकठोरहृदयः इति व्यङ्येऽर्थे परिणमते । अतोऽयं अर्थान्तरसङ्क्रमितवाच्यध्वनेरुदारहरणविशेषो भवति। अलक्ष्यक्रमध्वनौ उपसर्गाणां व्यञ्जकत्वम् विवक्षितान्यपरवाच्यध्वनेः संलक्ष्यक्रमध्वनिः, असंलक्षयक्रमध्वनिरिति द्वौ भेदो स्तः । तत्र असंलक्ष्यक्रमध्वनौ बहुप्रकाराः सन्ति । अयमेव ध्वनिभेद: अलक्ष्यक्रम्ध्वनिरित्यपि कथ्यते । अतिमृदुलेऽस्मिन् ध्वनौ वर्णाः, पदानि, वाक्यम्, प्रबन्धः इत्यादयो ध्वनिव्यञ्ज्काः भवन्ति इति विदुषामभिप्रायः । वर्तमानसन्दर्भे अलक्ष्यक्रमध्वनौ उपसर्गाणां व्यञजक्त्वं कथमिति अयं प्रकार: विवृणोति । उपसर्गाणां व्यञ्जकत्वं यथानीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः ॥ यादौ । द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि व्यक्त्यनुगुणतयैव निर्दोषः। यथा - 'प्रभृश्यत्युत्तरीयत्विषि तमसि द्वीक्ष्य वीतावृतीन्द्राग्जन्तून्' इत्यादौ । यथा वा - 'मनुष्यवृत्त्या नुपाचरन्तम्' इत्यादौ । लक्ष्यक्रमध्वनौ कारकव्यञ्जकत्वम् न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ 'सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः' इत्यत्र ङ्कारकशक्तीनाम् । लक्ष्यक्रमध्वनौ कालस्य व्य्जकत्वम् कालस्य व्य्जकत्वं यथा-समविसमणिव्विसेसा समन्तओ म्दमन्दसंआरा । अइरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घाः ॥ [सविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः । अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ॥ इति च्छाया] अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं हि गाथार्थ: प्रवासविप्रल गृङ्गारविभावतया विभाव्यमानो रसवान्। अलक्ष्यक्रमध्वनौ कृदन्तव्यञ्जकत्वम् न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ 'धिग्धिक् शक्रजितम्' इत्यादौ श्लोकार्थे कृत्तद्धितसमासोपसर्गाणाम्। अलक्ष्यक्रमध्वनौ तिङ्गन्तव्यञ्जकत्वम् तिङ्ङ्क्तस्य यथा-अवसर रोउं चिअ णिम्मिआइँ मा पुंस मे हअच्छीइं । दंसणमेत्तुम्भत्तेहिं जेहिं हिअअं तुह ण णाअम् ॥ [ अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे। दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥ इति च्छाया] यथा वा-मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ। अम्हेअ णिरिच्छाओ सुण्णवरं रक्खिदव्वं णो ॥ [मा पन्थानं रुदः अपेहि बालक अप्रौढ अहो असि अहीकः । वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ॥ इति च्छाया] अलक्ष्यक्रमध्वनौ तद्धितान्तव्यञ्जकत्वम् न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते। 'तत्राप्यसौ तापस' इत्यत्र तद्धितनिपातयोः। 'धिग्धिक् शक्रजितम्' इत्यादौ श्लोकार्थे कृत्तद्धितसमासोपसर्गाणाम् । अलक्ष्यक्रमध्वनौ निपाताव्यञ्जकत्वम् निपातानां व्यञ्जकत्वं यथा-अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥ इत्यत्र चशब्दः । यथा वा-मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम्। यथा वा ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते । हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्धिषः पुष्यता ॥ इत्यादौ । अलक्ष्यक्रमध्वनौ प्रकृत्यंशव्यञ्जकत्वम् यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशोऽपि दृश्यते। यथा तद्गेहं नतभित्ति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषितामाश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥ अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशो द्योतकः । सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः अनया दिशा सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्व पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् । अलक्ष्यक्रमध्वनौ समासव्यञ्जकत्वम् यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव, यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यमसमासे एव सङ्घटने। करुणविप्रलम्भशृङ्गारयोस्त्वसमासवै सङ्घटना। एवं च दीर्घसमासा सङ्घटना समासानामनेकप्रकारसम्भावनया कदाचिद्रसप्रतीति व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः शोभते। विशेषतोऽभिनेयार्थे काव्ये, तोऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः। तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रीतितिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्ममसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा ।दाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि •ात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्वससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमे हासमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति। अलक्ष्यक्रमध्वनौ सम्बन्धव्यञ्जकत्वम् सम्बन्धस्य यथा अण्णत्त वच्च बालअ णअन्तिं किं मं पुलोएसि एअम्। भो जाआभीरुआणं तइं विअ ण होइ ॥ [अन्यत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्येतत् । भो जायाभीरुकाणां तटमेव न भवति ॥ इति च्छाया] कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने। अलक्ष्यक्रमध्वनौ सुबन्तव्यञ्जकत्वम् एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा तालैः शिञ्जद्वलयसुभगैः कान्तया नर्तितो मे। यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ अलक्ष्यक्रमव्यङ्ग्यो ध्वनिः अयं विवक्षितान्यपरवाच्यध्वनेः (अर्थात् अभिधामूलध्वनेः) द्वयॊः प्रधानप्रकारयोः अन्यतरः । प्रायः अभिधामूलध्वनौ क्रमेण अभिधेयार्थस्य प्रतीत्यनन्तरं व्यङ्ग्यार्थस्य प्रतीतिर्भवति । यदि सः क्रमः साक्षदनुभवगोचरो भवति सः संलक्षय्क्रमध्वनिर्भवति । तद्व्यतिरिक्तमेव ( यस्मिन् व्यङ्ग्यार्थप्रतीतौ विद्यमानक्रमः न परिलक्ष्यते) स च अलक्ष्यक्रमध्वनिः अथवा असंलक्ष्यक्रमध्वनिरिति कथ्यते । अयमेव रसादिध्वनिरित्यपि व्यवह्रियते । अतर 'रसादि' शब्देन रसाः, भावाः, रसाभासाः, भवाभासाः, भावशान्तिः, भावोदयः, भवसन्धिः, भावशबलता च प्रमुखतया गृह्यन्ते । अस्मिन् ध्वनौ वाच्यार्थव्यङ्ग्यार्थयोर्मध्ये विद्यमानः अतिसूक्ष्मस्य क्रमग्रहणे सूचीपत्रन्यायेन अर्थात् सूचीमुखेन कमलपत्रशतभेदने यावान् कालः, यावल्लाघवं चानुभूयते तावान् कालः, तावल्लाघवं चानुभूयते । अलङ्कारः अलम् + कृ-भावे घञ्; भूषायाम् । करणे घञ्; इति द्विधा निष्पन्नोऽयं शब्दः दृश्यते । अलङ्क्रियतेऽनेनेति करणव्युत्पत्तिजन्यः अयं हार-कटक-नूपुरादयो यथा शरीरमलङ्कुर्वन्ति, सौन्दर्या तशयं सम्पादयन्ति च तथा उपमारूपकयमकादयः काव्यशरीरमलङ्कृत्य काव्यशोभातिशयहेतवो भवन्ति इति कारणेन उपमारूपकादिषु प्रवर्तते । तदर्थमेव प्रसिद्धालङ्कारिकैः "काव्यशोभाकर्तारो धर्माः गुणाः तदतिशयहेतवस्त्वलङ्काराः" इति कथने तेषां करणार्थनिष्पत्तिं मनसि निधायैव अगादि । अथ भावार्थविचारे शब्दोऽयं सौन्दर्यवाचको दृश्यते । 'काव्यं ग्राह्यमलङ्कारात् । सौन्दर्यमलङ्कारः । दोषापगमगुणालङ्कारहानोपादानाभ्याम्" इति वामनाचार्यस्य मतम् ग्राह्यमत्र। अतः भावव्युत्पत्त्या अयं शब्दः दोषापगमगुणालङ्कारसंवलनकृतसौन्दर्यवाचको भवति । एतस्मिन् प्रसङ्गे साहित्यदर्पणकारः शब्दार्थयोरस्थिरा धर्माः शोभातिशायिनः । रसादीनुपकुर्वन्तेऽलङ्काराः तेऽङ्गदादिवत् ॥ इति जगाद । अस्मिन्नेव सन्दर्भे वक्रोक्तिजीवितवृत्तिगतविषयोऽपि · स्मरणीयः ।''अलङ्कारशब्दः शरीरस्य शोभातिशयकारित्वान्मुख्यतया कटकादिषु वर्तते । तत्कारित्वसामान्यादुपचारादुपमादिषु । तद्वदेव च तत्सदृशेषु गुणादिषु, तथैव तदभिधायिनि ग्रन्थे । शब्दार्थयोरेकयोगक्षेमत्वादैक्येन व्यवहारः, यथा गौरिति शब्दः गौरित्यर्थः । तदयमर्थः । ग्रन्थस्यालंकार इत्यभिधानम् । उपमादिप्रमेयजातमभिधेयम्, उक्तरूपवैचित्र्यसिद्धिः प्रयोजनमिति ।" एते शब्दालङ्काराः, अर्थालङ्काराश्चेति द्विविधाः । यमक अनुप्रासादयः शब्दालङ्काराः । उपमा रूपक उत्प्रेक्षाअतिशयोक्त्यादयः अर्थालङ्काराश्च काव्यलोकप्रसिद्धाः । अलङ्कृतिः अलम्+कृ-भावे क्तिन्। भूषणे करणे क्तिन् - इति द्विधा निष्पन्नोऽयं शब्दः दृश्यते । अलङ्कृतिरलङ्कारः इति शास्त्रकारवचनम् । भूषणसाधने अलङ्कारशास्त्रोक्ते उपमाद्यलङ्कारार्थे च अयं प्रयुज्यते । अवमर्शः अवमर्शनमवमर्शः - पर्यालोचनम् । तच्च क्रोधेन वा व्यसनाद्वा विलोभनेन वा 'भवितव्यमनेनार्थेन' इत्यवधारितैकान्तफलप्राप्त्यवसायात्मा गर्भसन्ध्युद्भिन्नबीजार्थसंबन्धो विमर्शोऽवमर्शः । पञ्चनाटकसन्धिषु चतुर्थोऽयम् । प्रकर्याख्यया अर्थप्रकृत्या नियताप्त्याख्यायाः कार्यावस्थायाः योगेन सन्धिरयमुत्पन्नो भवति । धनञ्जयेन एतस्मिन् विषये क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् । गर्भनिर्भन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥ इति निरवोचि । अवान्तरभेदः प्रधानान्तःपाती भेदः । अविनाभावसम्बन्धः व्यापकं विना व्याप्तेः न भावः । यथा - व्यक्त्यविनाभावात्तु जात्या व्यक्तिराक्षिप्यते । अविरोधिता विरोधितायाः अभावः । अविवक्षितवाच्यध्वनिः अविवक्षितवाच्यध्वनिः, विवक्षितान्यपरवाच्यध्वनिरिति द्वौ प्रमुखौ ध्वनिभेदौ स्तः । यस्मिन् ध्वनिप्रकारे वाच्यार्थः विवक्षितो न भवति सः अविवक्षितवाच्यध्वनिः भवति। (अयमेव लक्षणामूलध्वनिरित्युच्यते ।) । "वाच्येऽर्थे तु ध्वनौ वाच्यशब्देन स्वात्मा तेन विवक्षितोऽप्रधानीकृतः स्वात्मा येनेत्यविवक्षितवाच्यः व्यञ्जकोऽर्थः । यदि वा कर्मधारयेणापि अविवक्षितश्चासौ वाच्यश्चेति।" इति लोचनकारोक्तिः । अविवक्षितवाच्यध्वनौ अर्थान्तरसंक्रमितवाच्यध्वनिः, अत्यन्ततिरस्कृतवाच्यध्वनिरिति द्वौ प्रधानभेदौ स्तः । अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य सप्तैताः समिधः श्रियः यथा वा कालिदासस्यकः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् । यथा वा किमिव हि मधुराणां मण्डनं नाकृतीनाम् एतेषूदाहरणेषु 'समिध' इति 'सन्नद्ध' इति 'मधुराणामिति च पादनि व्यञ्जकत्वाभिप्रयेणैव कृतानि । अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ अनेन हि वाक्येन न निशार्थो न च जागरणार्थ: कश्चिद्विवक्षितः । किं तर्हि ? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्य व्यञ्जकत्वम् । अविवक्षितवाच्यस्यार्थान्तरसङ्क्रमितवाच्ये प्रभेदे पदप्रकाशता रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्। अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकम्। यथा वा-एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो विअ वराओ ॥ [ एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ॥ छाया] अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः। अविवक्षितवाच्यस्यार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता विसमइओ च्चिअ काण वि काण वि वोलेइ अमिअणिम्माओ । काण वि विसामिअमओ काण वि अविसामओ कालो ॥ [ विषमय इव केषामपि केषामपि प्रयात्यमृतनिर्माणः । केषामपि विषामृतमयः केषाम्यविषामृतः कालः ॥ इति च्छाया ] अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्य व्यञ्जकत्वम् । अव्याप्तिः लक्ष्यभूते विषये लक्षणस्य अप्रवृत्तिरेव अव्याप्तिरिति कथ्यते । अव्युत्पत्तिकृतदोषः अव्युत्पत्तिः - अनुप्रासादिनिबन्धनतात्पर्यप्रवृत्तिः।(इति लोचनकारः) । तद्वशात्कृतो दोषः अव्युत्पत्तिकृतदोषः । अव्युत्पत्तेः - अनैपुण्यादनुप्रासादिनिबन्धनैकरसिकत्वाद्वा ( दीधितिकारः) - तद्वाशात्कृतो दोषः । अशक्तिकृतदोषः अशक्तिः - वृत्तपूरणाद्यसामर्थ्यम् । (इति लोचनकारः) । तेन कृतो दोषः। अशक्तिकृतो दोषः। अशक्तेः वृत्तपरिपूरणसामर्थ्यविरहात् (इति दीधितिकारः) कृतो दोषः अशक्तिकृतो दोषः । असम्भवः सम्भवस्य अभावः । सम्भवादन्यो वा । न्यायशास्त्रानुसारं लक्षणे अनपेक्षितेषु त्रिविधदोषेषु अन्यतमः। उक्तस्य लक्षणस्य सर्वथा सर्वत्र च लक्ष्याभावः असम्भवः । असंलक्ष्यक्रमोद्योतः/असंलक्ष्यक्रमोद्योतध्वनिः/असंलक्ष्यक्रमध्वनिः / असंलक्ष्यक्रमव्यङ्ग्यध्वनिः/अस्फुटप्रतीयमानः अयं विवक्षितान्यपरवाच्यध्वनेः (अर्थात् अभिधामूलध्वनेः) द्वयॊः प्रधानप्रकारयोः अन्यतरः । प्रायः अभिधामूलध्वनौ क्रमेण अभिधेयार्थस्य प्रतीत्यनन्तरं व्यङ्ग्यार्थस्य प्रतीतिर्भवति । यदि सः क्रमः साक्षदनुभवगोचरो भवति सः संलक्षय्क्रमध्वनिर्भवति । तद्व्यतिरिक्तमेव (यस्मिन् व्यङ्ग्यार्थप्रतीतौ विद्यमानक्रमः न परिलक्ष्यते) स च अलक्ष्यक्रमध्वनिः अथवा असंलक्ष्यक्रमध्वनिरिति कथ्यते । अयमेव रसादिध्वनिरित्यपि व्यवह्रियते । अत्र 'रसादि रद्धेन रसाः, भावाः, रसाभासाः, भवाभासाः, भावशान्तिः, गावोदयः, भवसन्धिः, भावशबलता च प्रमुखतया गृह्यन्ते। अस्मिन् नौ वाच्यार्थव्यङ्ग्यार्थयोर्मध्ये विद्यमानः अतिसूक्ष्मस्य क्रमग्रहणे सूचीपत्रन्यायेन अर्थात् सूचीमुखेन कमलपत्रशतभेदने यावान् कालः, यावल्लाघवं चानुभूयते तावान् कालः, तावल्लाघवं मानुभूयते । असमासा सङ्घटना आनन्दवर्धनात्पूर्वाचार्यैः सङ्घटना रीतिरिति मार्ग इति च कथ्यमानः आसीत्। सा च त्रिविधा । असमासा (समासवर्जिता), मध्यमसमासा (नातिदीर्घसमासवती), दीर्घसमासा चेति । अत्र असमासा सघटना समासवर्जिता भवति । प्रायः शृङ्गारे, करुणे च शोभते । आ आक्षेपः अयं कश्चनार्थालङ्कारविशेषः । आक्षेपस्स्व्यमुक्तस्य प्रतिषेधो विचारणात् । चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखम् ॥ इति निर्वचनोदाहरणे चन्द्रालोके लभ्येते। आक्षेपध्वनिः स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥ अत्रातिशयोक्त्या हयग्रीवगुणानमवर्णनीयताप्रतिपादनरूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् । आक्षिप्तः शब्देन नाभिहितः परन्तु श्ब्दशक्त्या व्यक्तः आक्षिप्तः इत्युच्यते । आख्यायिका आख्यायिका कथावत् स्यात् कवेर्वंशादिकीर्तनम् । अस्यामन्यकवीनां च वृत्तं गद्यं क्वचित् क्वचित् ॥ कथांशानं व्यवच्छेद आश्वास इति बध्यते । आर्यावक्त्रापरवक्त्राणां छन्दसा येन केनचित् ॥ अन्योपदेशेन श्वासः मुखे भाव्यर्थसूचनम् ॥ इति साहित्यदर्पणकारमतम् । आत्मा तं विना काव्यत्वस्यैवास्वीकाराज्जीवनाधायकत्वेन प्रधानम् आत्मा । - दीधितिः । तत्त्वम् अथवा सारत्वम् काव्यस्य । काव्यस्य जीवातुभूतः विषयः । आदिकविः आद्यः कविः । ब्रह्मा, वाल्मीकिश्च । १) ब्रह्मा हिरण्यगर्भे तस्य प्रथमोत्पन्नत्वात् स्वयं प्रतिभातवेदत्वाच्च चतुर्मुखः आदिकविरित्युच्यते । "तेने ब्रह्म हृदा य आदिकवये" इति भागवतवचनमपि इदम् प्रमाणयति । २) महर्षि वाल्मीकिः ''ओम्कार इव वर्णानां कवीनां प्रथमो मुनिः" इति, "जाते जगति वाल्मीकौ कविरित्यभिधाऽऽभवत् ।' इति "मधुमयभणितीनां मार्गदर्शी महर्षिः" इति, "आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे । लोकश्लोकविधात्रोः ययोर्भिदा लेशमात्रेण ॥" इत्यादिकविबिरुदभाजः वाल्मीकिमहर्षेः स्तुतिपराणि कविलोकप्रसिद्धानि वचांसि । आधार: अधिकरणम्, आश्रयो वा । व्याकरणशास्त्रानुसारं औपश्लेषिक-वैषयिक-आभिव्यापकभेदेन अधिकरणम् त्रिविधम् । आधाराधेयभावः आधारश्च आधेयश्च तयोर्भावः आधाराधेयभावः । एकस्य यदपेक्षया आधारत्वम् अपरस्य तदपेक्षया यत्र आधेयत्वं "घटभूतलयोः" इव विद्यमाने तादृशे सम्बन्धभेदे आधाराधेयभावः विद्यते । आधिकारिकम् दृश्यश्रव्यकाव्येषु प्रधानम् इतिवृत्तम् आधिकारिकमुच्यते । अधिकारः फलस्वाम्यम् अधिकारी च तत्प्रभुः । तन्निर्वृत्तफलव्यापि वृत्तं स्यादाधिकारिकम् ॥ इति धनञ्जयवचनम् । आधेयः आधारे स्थापनीयः विषयः । आनन्दः १) हर्षः, २) प्रमोदः, ३) मोदः, ४) सुखम्, ५) दुःखाभावः, ६) ब्रह्म । रसो वै सः रसं ह्येवायं लब्ध्वाऽनन्दी भवति । आरभटी नाट्ये नायकादिव्यापारः वृत्तिरित्युच्यते । सा चतुर्विधा । कैशिकी, आरभटी, सात्त्वती, भारती चेति। तॆषु आरभटी मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः सम्भवति । एतस्य संक्षिप्तिका, संफेटः, वस्तूत्थानम्, अवपातनमिति चत्वारि अङ्गानि भवन्ति। रौद्रबीभत्सरसोचितेयं वृत्तिः । आलोकः प्रकाशः; ज्ञानम् । आश्रयः आधारः आश्रीयतेऽसौ इत्याश्रयः । आधारः। गृहम्। अवलम्बनम् । विषयः । इ इतिहास: इति ह आस - पारंपरिकोपदेशः आस्तेऽस्मिन् इति इतिहासशब्दः निष्पनः । धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तथाकयुक्तमितिहासं प्रचक्षते ॥ इति इतिहासशब्दस्य पारम्परिकं निर्वचनम् । भारतरामायणे इतिहासशब्देन गृह्येते । उ उत्तमप्रकृत्याश्रयः काव्यगतानि पात्राणि "प्रकृति 'शब्देन व्यवह्रियन्ते। ताः प्रकृतयः उत्तम-मध्यम-अधमभेदेन तिस्रो भवन्ति । तासु नायिकानायकादयः, महर्षयः, महाराजादयोऽपि सद्वंशसमुत्पन्नाः उत्तमप्रकृतयः इति कथ्यन्ते । ताः आश्रित्य विद्यमानो विषयः उत्तमप्रकृत्याश्रयः भवति । उत्पाद्यवस्तु वस्तु अथवा इतिवृत्तं द्विविधम् । प्रख्यातं, कविकल्पितं चेति। इतिहासोद्भवमितिवृत्तं प्रख्यातमिति कथ्यते । कविकल्पितं तु उत्पाद्यवस्त्विति शब्द्यते । उत्प्रेक्षा अविवक्षितसामान्या किञ्चिच्चोपमया सह । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता॥ इति भामहाचार्यवचनम् । किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धादग्धमरण्यान्यः पश्यतीव विभवसुः ॥ इत्युदाहृतं तेन । उत्प्रेक्षाध्वनिः चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः। मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः॥ अत्र हि मधौ मलयमारुतस्य पथिकमूर्च्छाकारित्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिः श्वासानिलमूर्च्छितत्वेनोत्प्रेक्षितमित्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादनुरणनरूपा लक्ष्यते । उत्प्रेक्षितवृत्तम् कविकल्पितमितिवृत्त्म्। उत्साहः वीररसस्य स्थायीभावः । उपचारः गौणः/अप्रधानः । उपनागरिका अनुप्रासानामेव दीप्त-मसृण-मध्यम-वर्णनीयोपयोगितया परूषत्व-ललितत्व-मध्यमत्व-स्वरूपविवेचनाय वर्गत्रयसम्पादनार्थं तिस्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः; वर्तन्ते अनुप्रासभेदाः आस्विति एतेषां वृत्तिसंज्ञा विहिता । सरूपव्यञ्जन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ इति लोचने । परुषानुप्रासा नागरिका । मसृणानुप्रासा उपनागरिका, ललिता सा । नागरिकया विदग्धया उपमितेति कृत्वा उपनागरिकेति निगद्यते । मध्यमकोमलपरुषमित्यर्थः । अत एव वैदग्ध्यविहीनस्वभावासुकुमारापरुषग्राम्यवनितासादृश्यादियं वृत्तिर्ग्राम्येति कथ्यते। तत्र तृतीयः कोमलानुप्रासः इति वृत्तयोऽनुप्रासजातयः एव । उपमा अर्थालङ्कारविशेषः । समस्तार्थालङ्कारप्रपञ्चस्य मातेऽयमिति कीर्त्यते । उपमैका शैलृषी सम्प्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥ एका नटी नाट्यरङ्गे भिन्नभिन्नभूमिकाधारणं कृत्वा यथा सामजिकानां चित्तहारिणी भवति तथा उपमैकैव काव्यरङ्गे नानार्थालङ्काररूपतामेति निमित्तभेदात् रञ्जयति च सहृदयहृदयान् इत उदीर्यते तद्विद्भिः । यत्किञ्चित्काव्यबन्धेषु सादृश्येनोपमीयते । उपमानाय सा ज्ञेया गुणाकृतिसमाश्रया ॥ प्रशंसा चैव निन्दा च कल्पिता सदृशी यथा । किञ्चिच्च सदृशी ज्ञेया ह्युपमा पञ्चधा पुनः॥ इति भरतः । " सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालङ्कृतिः॥" इति रसगङ्गाधरकारः । उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते॥ इति चन्द्रालोके जयदेवः । उपमाध्वनिः वीराणं रमइ घुसिणारुणम्मि ण तहा पिआथणुच्छङ्गे । दिट्ठी रिउगअकुम्भत्थलम्मि जह बहलसिन्दूरे [वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥ छाया] अत्र व्यतिरेको वाच्यः । उपमा च ध्वन्यते । यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम्। बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥ [ तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥ छाया] अत्र वाच्यतिशयोक्त्या कौस्तुभमणिप्रियाबिम्बाधरयोरुपमा ध्वन्यते । उपमानम् येन वर्ण्यमानविषयः उपमीयते तदुपमानम् भवति । यथा चन्द्र इव मुखम् इत्यत्र 'चन्द्रः' उपमानम्। उपमेयः उपमीयतेऽसौ इति उपमेयः । उपमानेन उपमीयमानः प्रस्तुते वर्ण्यमानविषयः उपमेयः । यथा चन्द्रः इव मुखम् इत्यत्र ''मुखम्' उपमेयः । उपसर्जनीकृतस्वार्थः गुणीकृतस्वार्थः अथवा अप्रधानीकृताभिधेयः वाचकः । व्यङ्ग्योपस्कारकत्वेन अप्रधानीकृतस्वात्मा अप्रधानीकृतस्वार्थः (अप्रधानीकृतवाच्यार्थः) वाचकः । व्यङ्ग्यार्थद्योतनार्थं अप्रधानीकृतस्वीयवाच्यरुपार्थः शब्द; (वाचकः)। उपसर्जनीभावः अप्राधान्यम् उपलक्षणम् उपलक्ष्यते स्वं स्वेतरं चानेनेति उपलक्षणम् । स्वप्रतिध्वन्यालोकपारिभाषिकपदकोशः पादकत्वे सति स्वेतरप्रतिपादकत्वम् उपलक्षणस्य लक्षणम् । यथा काकॆभ्यो दधि रक्ष्यताम् इत्यत्र काकपदं स्वस्य स्वान्यस्य श्वादेश्च बोधकम् भवति । तथा अजहत्स्वार्थया लक्षणया काकशब्दः अस्मिन्नुदाहरणे अत्माना साकं सर्वेषां इतरेषां श्वादीनां दध्युपघातकानामुपलक्षणम् भवति । ओ ओजस् काव्यशोभाकर्तृषु गुणेषु अन्यतमः ओजः । "ओजस्समासभूयस्त्वमिति" इति दण्ड्याचार्यकृतनिर्वचनमनुसृत्य काव्यनिबन्धने दीर्घदीर्घसमसबहुलता एव ओजः इत्युच्यते । यथा ''उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद् ङ्गश्रेणिह निबद्धझंकृतिकलावाचालितप्राङ्गणाः" एतत्सदृशसमासरचना ओजः इति कथ्यते । वामनाचार्यस्य मते - गाढबन्धत्वमोजः (इति शब्दगुणः), अर्थस्य प्रौढिरोजः (इति अर्थगुणश्च ) प्रतिपादितौ । औ औचित्यम् 39 उचितस्य भावः । उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ इति, औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् । इति, उचितस्थानविन्यासादलण्कृतिरलङ्कृतिः । औचित्यादच्युता नित्यं भवन्त्येव गुणाः गुणाः ॥ इति च औचित्यस्य विषये क्षेमेन्द्रस्याभिप्रायः । तेनोदाह्रियते अस्मिन सन्दर्भ - कण्ठे मेखलया नितम्बफलके तारेण हारेण वा पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा । शौर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता- मौचित्येन विना रुचिं प्रतनुते नालण्कृतिर्नो गुणाः ॥ इति । क्षेमेन्द्रपूर्ववर्तिषु भरतादयः केचनाचायः औचित्यप्रस्ता वमकुर्वन्। तत्र भरतेन अदेशजो हि वेषस्तु न शोभां जनयिष्यति । मेखलोरसि बन्धे च हास्यायैवोपजायते ॥ इत्यवोचि । अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ इति आनन्दवर्धनो जगाद ॥ औपाधिको धर्मः उपाधिगतः धर्मः औपाधिकधर्मः । उपाधिः - धर्मचिन्ता; छलम्; विशेषणम्; न्यायमतानुसारम् पदार्थविभाजकोपाधिमत्त्वम्, नामचिह्नम्, हेतोरव्यापकः; आलङ्कारिकमते जातिगुणक्रियायदृच्छास्वरूपः च। एवं विधस्य आलङ्कारिकमतोद्दिष्टस्य उपाधे: धर्मः औपधिकधर्मः । क कथा १) प्रबन्धकल्पना। स्वयं रचना । प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः । परम्पराश्रया य स्यात् सा मताऽख्यायिका क्वचित् ॥ इति कोलाहलाचार्यः । कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् । क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापरवक्के ॥ आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥ यथा - कादम्बर्यादिः - इति साहित्यदर्पणे । श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति । मुख्यार्थस्यावताराय भवेद्यत्र कथान्तरम् । परिच्छेदो न यत्र स्याद्भवेद्वा लम्बकैः क्वचित् । सा कथा नाम --- । इति अग्निपुराणे । कथानायकः काव्यनायकः एव कथानायकः इत्युच्यते । स एव नेता इत्युच्यते। धीरोदात्त-धीरोद्धत-धीरललित-धीरशान्तभेदेन नायकः चतुर्विधः । शृङ्गाररसप्राधान्यमनुसृत्य नायकः अनुकूलः, दक्षिणः, शठः, धृष्टः चेति चतुर्विधश्च । नायकसामान्यलक्षणानि दशरूपकादिनाटकलक्षणग्रन्थेषु सङ्ग्रहेण एवं प्रकारेण प्रदर्शितानि । नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वग्मी रूढवंशः स्थिरो युवा ॥ बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ इति नेता नायको विनयादिगुणसम्पन्नो भवतीति दशरूपके प्रोक्तम् । कथाशरीरम् काव्यगतस्य कथायाः वस्तु अथवा इतिवृत्तम् चेति नामनी अपि वर्तेते। कथायाः आदितः अन्तपर्यन्तसन्दर्भः कथाशरीरम् इति शब्द्यते । अतः कथा एव कथाशरीरमिति च गृह्यते । कथाशरीराश्रयः कथायाः आकरः अथवा मूलम् कथाशरीराश्रयः इत्युच्यते । इतिहासौ सज्जनचरितम् उत्पाद्यम् चेति त्रिविधः वर्तते कथाशरीराश्रयः । करुणरस: शोकस्थायीभावप्रभवः करुणो नाम रसः । स च शाप क्लेश - विनिपात - इष्टजनविप्रयोग विभवनाश - बन्ध विद्रव – उपघात - व्यसन - संयोगादिभिः विभावैः समुपजायते। अस्य च अश्रुपातन - परिदेवन - मुखशोषण - वैवर्ण्य - स्रस्तगात्रता निश्वास - स्मृति विलोपादिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेद ग्लानि चिन्ता औत्सुक्य आवेग - मोह - श्रम - भय - विषाद - दैन्य - व्यधि - जडता उन्माद अपस्मार त्रास -आलस्य- मरण -स्तम्भ वेपथु - वैवर्ण्य - अश्रु स्वरभेदादयः । कलापकम् चतुष्परिसमाप्तक्रियं पद्यचतुष्टयं कलापकम् । अत एवछन्दोबद्धपदं पद्यं तेनैकेन च मुक्तम् । द्वाभ्यां युग्मञ्च सन्दानितकं त्रिभिरिहेष्यते । कलापकं चतुर्भिश्च पञ्चभिः कुलकम् मतम् ॥ इति साहित्यदर्पणे प्रोक्तम् । कवि: १) कवते सर्वं जानाति, सर्वं वर्णयति, सर्वं सरतो गच्छति वा इति कविः । २) कवते श्लोकान् ग्रथते वर्णयति वा इति कविः । ३) पण्डितः । ४) ब्रह्मा । ५) विष्णुः । ६) सूर्यः । ७) वाल्मीकिः । ८) कल्केः ज्येष्ठभ्राता । ९) चौरयोद्धा १०) कवयति इति कविः । ११) अतीतानागतविषयज्ञः क्रान्तदर्शी कविः । नानृषिः कुरुते काव्यं ऋषिश्च किल दर्शनात् । तत्त्वप्रख्या च दर्शनम्। कविनिबद्धः कविना कल्पितः । कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः अयमर्थशक्तिमूलध्वनिप्रभेदेषु अन्यतमः। यत्र चमत्कारजनकत्वं कविना निबध्देन (कल्पितेन) केनचिद् वक्त्रा प्रोक्तमिति कारणेन अयं ध्वनि प्रकारः कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः इति कथ्यते । शिखरिणि क्वनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखि येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः ॥ इत्युदाहृतम् । कविवेधाः कविब्रह्मा । यथा चतुराननः कमलोद्भवः ब्रह्मा जगतः स्रष्टेति कथ्यते तथा चतुरवाक्भूषिताननः वल्मीकोद्भूतः प्राचेतसः वंशजः वामीकिः काव्यजगतः स्रष्टा अभूदिति कारणेन जगन्निर्माणे ब्रह्मसदृशसामर्थ्यवानिति हेतोः वाल्मीकिः कविब्रह्मेति कथितः । ततः परभृति सर्वेऽपि कालिदाससदृशाः उत्तमकवयः ब्रह्मशब्दभाजः विभान्ति । अत एव "अपारे काव्यसंसारे कविरेव प्रजापतिः" इति प्रसिद्धिरागता । कविव्युत्पत्तिः कवेः नानाशास्त्रज्ञानम् । काव्यच्छायान्वयी काव्यम् कवनीयं काव्यम् । तस्य भावश्च काव्यत्वम् । सहृदयध्वन्यालोकपारिभाषिकपदकोशः हृदयाह्लादिशब्दार्थमयम् कवेः कर्म काव्यम् । काव्यत्वम् कवनीयं काव्यम्। तस्य भावश्च काव्यत्वम् । काव्यात्मा शरीरधारिणां सकलजीविनामु आत्मॆव शब्दार्थमयशरीरे काव्ये अत्यन्तं प्रधानभूतः काव्यजीवातुभूतविषयः काव्यात्मेति कथ्यते । काव्यविशेषः काव्यस्य विशॆषः अर्थात् उत्तमं ध्वनिकाव्यम् । इति दीधितिकारः । काव्यार्थतत्त्वज्ञाः आलङ्कारशास्त्रविदः । साहित्यकोविदाः । काव्योपनिषद्भूतम् काव्यस्य मकुटायमानं तत्त्वम् । काव्यसारभूतं तत्त्वम् । कुलकम् कुलकं पञ्चादिपरिसमाप्तक्रियं पद्यपञ्चकादि । क्रमेण द्योतितः (संलक्ष्यक्रमध्वनिः) यस्मिन्नभिधेयार्थस्य पश्चात् व्यङ्ग्यार्थस्य प्रतीतिः क्रमेण जायते तच्च क्रमः स्पष्टतया गम्यते सः संलक्ष्यक्रमव्यङ्ग्यो ध्वनिः अथवा क्रमेण द्योतितव्व्यङ्ग्यो ध्वनिविशेषः इति तज्ज्ञां अभिप्रायः । क्रोधः रौद्ररसस्य स्थायीभावः । ख खण्डकथा कथाख्यस्य गद्यकाव्यप्रकारस्य गर्भे चतुष्पदी निबन्धनं यदि क्रियते सा खण्डकथेत्युच्यते । 'सा कथा नाम तद्गर्भे निबध्नीयाच्च्तुष्पदीम्। भवेत् याऽऽसौ खण्डकथा॥" इति अग्निपुराणवचनम् । ग गद्यबन्धः पाद्विभागरहितकाव्यरचना । वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च । भवेदुत्कलिकाप्रायं चूर्णकञ्च चतुर्विधम् ॥ इति आलङ्कारिकवचनम् । गाथा अथो गाथा पुराणादिकाव्यसम्बन्धिनी कथा । सा च पञ्चपदी वापि षट्पदी त्रिपदी भवेत् ॥ आर्या पदत्रिमात्रा स्याद्भाषा प्राकृतसंज्ञिता। तालो रागश्च यः कश्चित् गाथेति परिकीर्तिता ॥ इति छन्दश्शास्त्रविदां वचः । आदौ द्वादश मत्रास्स्युः दशाष्टौ च ततः परम् । ततश्च द्वे दशार्यायाः तुर्ये पञ्चदशाधिकः ॥ आर्या लक्षणसंयुक्ता गाथा प्राकृतभाषया। गीयते पूर्ववद्रम्या छन्दोलक्षणवेदिभिः ॥ इति मतान्तरम् । गुणगुणिव्यवहारः गुणः द्रव्यगतः विशिष्टो धर्मः । गुणयोगात् द्रव्यं (गुणः अस्यास्तीति) गुणी भवति । तयोः गुणगुणिनोः सम्बन्धः गुणगुणिसम्बन्धः इत्युच्यते । अयं सम्बन्धः नित्यसम्बन्धः । गुणवृत्तिः लक्षणावृत्तिः। संदृश्यमानसादृश्यादिगुणावलम्बनेन शब्दस्य अर्थप्रकाशनरूपशक्तिः गुणवृत्तिः । गुणाः "यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।" अग्निपुराणवचनम्। " काव्यशोभायाः कर्तारो धर्माः गुणाः" इति वामनाचार्यमतम् । रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा गुणाः।" इति विश्वनाथस्य मतम्। गुणकथन विषये आचार्येषु मतभेदाः सन्ति । श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य चाव्यक्तिरुदारता च कान्तिश्च काव्यगुणाः दशैते ॥ इति भरतः । तमनुसृत्यैव दण्डिना अपि दश गुणाः एवाङ्गीकृताः । माधुर्यौजःप्रसादाख्यान् त्रीन् गुणानङ्गीकुर्वन्ति भामह आनन्दवर्धन -मम्मटादयः । भरतदण्डिभ्यां प्रोक्तानेव दशगुणान् स्वीकृत्य दशार्थगुणाः, दश शब्दगुणाश्चेति विंशतिगुणान् प्रस्तुतवान् वामनः । भोजेन अष्टादशगुणाः प्रोक्ताः । विद्यानाथेन चतुर्विंशतिगुणाः प्रस्तुताः । एवं प्रकारेण गुणसङ्ख्याविषये बहुभेदाः दृश्यन्ते विविधाचार्याणां मतेषु । ग्राम्या उपनागरिकाख्या वृत्तिः ग्राम्या इति कथ्यते । गुणीकृतात्मा गुणीकरणं नाम अप्रधानीकरणम्। वाचकः स्वयं, स्वस्य अर्थं च कमप्यलौकिकार्थस्य प्रतीत्यर्थं अप्रधानीकरोति चेत् तादृशः वाचकः शब्दः गुणीकृतात्मा इति वक्तुं शक्यते । गुणीभूतव्यङ्ग्यः व्यङ्ग्योऽर्थस्य गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूतव्यङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते । अगूढ़ अपरस्याङ्गम् वाच्यसिद्ध्यगम् – अस्फुटम् । सन्दिग्ध - तुल्यप्राधान्ये काक्वाक्षिप्तम् - असुन्दरम् इति मम्मटाद्याचार्यैः गुणीभूतव्यङ्ग्यस्य अष्टौ भेदाः प्रोक्ताः । गुणीभूतव्यङ्ग्यत्वम् / गुणीभूतव्यङ्ग्यता व्यङ्ग्यार्थस्य वाच्यार्थापेक्षया अप्रधानत्वं अथवा गुणीभावत्वं वर्तते चेत् तत् गुणीभूतव्यङ्ग्यत्वम् अथवा गुणीभूतव्यङ्ग्यता इत्युच्यते । गुणीकृताभिधेयः अभिधेयः वाच्यार्थः । वाच्यार्थः व्यङ्ग्यार्थस्य अपेक्षया अप्रधानो भवति चेत् सः गुणीभूताभिधेय इत्युच्यते । च चमत्कृतिः चमत्कारश्चमत्कृतिः। "चमत्कारश्च चित्तविस्ताररूपः विस्मयापरपर्यायः" इति विश्वनाथः । ''रसेसारश्चमत्कारः सर्वत्राप्यनुभूयते ।" इति धर्मदत्तस्य वाक्यम्। चमत्कारश्च लोकातीतार्थाकलनेन किमेतदितिज्ञानधाराजननेन चित्तवृत्तेः दीर्घविस्तारः । दृष्टहेतुभ्यः असम्भावितत्त्वज्ञानेन हेत्वन्तरानुसन्धानाय मन्सो व्यापारभेद एव चित्तविस्तार इति केषांचन विदुषामभिप्रायः । सुखविषशे एव चमत्कारः इति अपरे च ऊचुः । 'चमत्कारत्वं च आह्लादगतो जातिविशेषः इति जगन्नाथपण्डितस्य मतम् । चाटवः प्रियवाक्यानि अथवा मिथ्याप्रियवाक्यानि चाटवः इति कथ्यन्ते । चारुत्वम् मनोहारित्वमेव चारुत्वमिति कथ्यते । चित्रम् अथ किमिदं चित्रं नाम ? तत्र यत्र वस्त्वलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न सम्भवत्येव । यस्माद वस्तुसंस्पर्शिता काव्यस्य नोपपद्यते । छ छायातिशयः छन्दः छन्दति आच्चादयति चन्दयति आह्लादयतीति वा छन्दः । छन्दश्शब्दः वृत्ताधारवचनम् । यदक्षरपरिमाणम् तच्छन्दः । (वैदिकछन्दः)। मात्राक्षरनियता वाक् छन्दः । नियतवर्णमात्रादिः शब्दगुम्फभेदः । पद्यम् । ज जुगुप्सा बीभत्सरसस्य स्थायीभावः। दॊषॆक्षणादिभिर्गर्हा जुगुप्सा । त तत्त्वम् तस्यभावः तत्त्वम्। १) याथार्थ्यम् । २) स्वरूपम्। ३) ब्रह्म। ४) अनारोपितस्वरूपम् । ५) परमात्मा । ६) चेतः । ७) वस्तु। ८) साङ्ख्यसिद्धान्तस्य मूलभूत २४ पदार्थाः । ९) सत्त्वरजस्तमांसि। १०) स्वभावः। तद्व्यक्तिसामर्थ्ययोगी व्यङ्ग्यार्थस्य प्रकाशनसामर्थ्यवान् शब्दः । (तस्य व्यङ्ग्यस्य व्यक्तिसामर्थ्येन व्यञ्जनशक्त्या योगः सम्बन्धः यस्य शब्दस्य वर्तते सः शब्दः 'तद्व्यक्तिसामर्थयोगी' इति कथ्यते। तात्पर्यम् अभिधेयः, प्रत्याय्यः, ध्वनिरूपश्चेति तात्पर्यार्थश्च त्रिविधः । "कारकादिविशिष्टो यः सोऽभिधेयः क्रियाधिकः ।" 'प्रतीयमानो वाक्यार्थो यस्स प्रत्याय्य ईरितः ।" "अर्थतश्शब्दतश्चैव ध्वनिरूपो द्विधा मतः ।" विवक्षितमभिप्रायः फलं भावः प्रयोजनम् । तात्पर्यमिति पर्यायशब्दाः वाक्यार्थगोचराः ॥ तुच्छात्म तुच्छः शून्यः आत्मा यस्य तत् तुच्छात्म । कथावस्तुनि विद्यामानसंवादस्य त्रिविधभेदेषु अयं द्वितीयप्रकारः । यस्य कस्यचित्कवेः कथावस्तु कस्यचिदन्यस्य कथवस्तुना तुल्यं भवति चेत् तत्र संवादोऽस्तीति ग्राह्यम् । अयं संवादः त्रिविधः । त्रिविधेषु संवादप्रकारेषु आलाख्याकारवत् द्वितीयम्। इदमेव तुच्छात्म इति कथ्यते । द दीपकम् नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम् । एकवाक्येन संयुक्तं तद्दीपकमिहोच्यते ॥ ( उदा) सरांसि हंसयः कुसुमैश्च वृक्षाः मत्तैर्द्विरेफैश्च सरोरुहाणि । गोष्ठीबिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ॥ इति भरतमुनेः वचांसि ॥ वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः । मदेन भाति कलभः प्रतापेन महीपतिः ॥ इति चन्द्रालोके जयदेवस्य वचनम् । दीपनम् प्रकाशनम् । शब्दात् अर्थस्य प्रकाशनम् दीपनमुच्यते । दीप्तिः कान्तेस्तु विस्तरः । कान्तेरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते। (साहित्यदर्पणे)। दीर्घसमासरचना यस्यां रचनायां अतिदीर्घाः समासाः प्रयुज्यन्ते सा रचना दीर्घसमासरचना भवति । दीर्घसमासा सङ्घटना यत्र दीर्घसमासरचना वर्तते तत्र सा सङ्घटना दीर्घसमासङ्घटना इत्युच्य्ते। दोषः मुख्यार्थहतिर्दोषः रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ इति मम्मटः । ''रसापकर्षकाः दोषाः" इति साहित्यदर्पणकारः । उद्देश्यप्रतीतिविघातकः दोष इत्युच्यते अन्यैः। स च दोषो द्विविधः नित्यः अनित्यश्चेति । अनुकरणाद्वा येन केनाप्यन्येन प्रकारेण समाधातुमशक्यः नित्यः दोषः । अन्यादृशस्त्वनित्यः । ध धीरोदात्तः महासत्त्वोऽतिगम्भीर: क्षमावानविकत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ॥ इति धनञ्जयविहितं निर्वचनम्। ध्वनिः ध्वन्यते शब्दवाच्यापेक्षयाऽधिकचमत्कारितया प्रतीयते योऽर्थः सः ध्वनिः इति योगमर्यादया व्यङ्ग्यविशेषो ध्वनिरित्याख्याभाक् । प्रायः "ध्वनि" शब्दः पञ्चसु अर्थेषु प्रयुज्यते । १) व्यञ्जक : शब्दः । २) व्यञ्जकः अर्थः। ३) रसादिरूपः व्यङ्ग्यार्थः। ४) व्यञ्जनाव्यापारः। ५) व्यङ्यप्रधानम् काव्यम् च। आचार्येण आनन्दवर्धनेन ध्वनेर्निर्वचनम् एवमकारि इति कथ्यते । यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थी । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः । इति । ध्वनेः मार्गः ध्वनिरेव काव्यात्मेति प्रतिपाद्यमानः सम्प्रदायः ध्वनिमार्ग न निगूढरमणीयोऽर्थः अभिधया अप्रकटितस्सन् अत्यन्तं निगूढस्सन् तेनैव कारणेन अधिकरमणीयतां योऽर्थः आवहति सः निगूढरमणीयार्थः । नित्यदोषः प्रकारान्तरेणापि समधतुमशक्यो नित्यदोषः । यथा च्युतसंस्कृतादि । निमित्तम् कारणम्, हेतुः, चिह्नम्, शकुनम्, फलम्, शरण्यम् च । न्यायः १) उचितः । २)गोतमप्रणीतषोडशपदार्थनिरूपकशास्त्रभेदः । ३) वाक्यभेदः । ४) नयः, नीतिर्वा । ५) नीतिसाधनोपायः (साम - दान - भेददण्डरूपः ) । ६) विष्णुः । (अग्रणी ग्रामणीः श्रीमान् न्यायो नेता समीरिणः इति वचनात् । ) ७) प्रमाणानुग्राहकस्तर्को न्यायः । ८) वेदार्थनिर्णयसाधनम्। ९) लोकशास्त्रप्रसिद्धदृष्टान्तप्रकाराः (एते एव लौकिकन्यायाः इति प्रसिद्धाः ।) । यथा – अजकृपाणीयन्यायः, अध्यारोपन्यायः, अन्धकूपन्यायः इत्यादयः । प पक्षसंसिद्धिः साधनीयः अर्थः पक्षः । तस्य सम्यक्- अनायासेन सिद्धिः - निष्पत्तिः पक्षसंसिद्धिरित्युच्यते । पदम् सुप्तिङन्तम् पदम् । वर्णाः पदम् प्रयोगार्हानन्वितैकार्थबोधकाः । अर्थबोधकशक्तिविशिष्टम् पदम् । पदप्रकाशता व्यङ्ग्यस्य पदमुखेन प्रकाशनं यत्र वर्तते तत्र पदप्रकाशता इति ग्राह्यम् । पदार्थः शब्दाभिधेयः द्रव्यादिःपदार्थ इत्युच्यते । पदार्थप्रतीतिः पदस्य अर्थः पदार्थः - वाच्यार्थः/अभिधेयः । तस्य प्रतीतिः ज्ञानम् पदार्थज्ञानम्। पदावयवः पदस्य अवयवः पदगतः पदनिर्माणहेतुकः अंशः पदावयवः । एते पदावयवः प्रकृति- प्रत्ययभेदेन द्विप्रकारकाः । परिकथा "कथाख्यायिकयोर्मिश्रभावात् परिकथा स्मृता ।" इति वाक्यमनुसृत्य कैश्चित् कथालक्षणैः, कैश्चित् आख्यायिकालक्षणैश्च युक्ता परिकथेत्युच्यते । परिस्पन्दः सर्वतो भावेन स्पन्दनम् । १) परिवारः । २) परिकरः । ३) कुसुमप्रकरादेः पत्रावल्यादेश्च रचना ४) मर्दनं चेति इतरे अर्थविशेषाः । परुषा वाचकाश्रितासु अनुप्रासभेदरूपवृत्तिषु अन्यतमा । अस्याः एव नागरिकेति नामान्तरम् । ओजोव्यञ्जकवर्णसमन्विता वृत्तिः परुषा । अत एव ''ओजः प्रकाशकैस्तैस्तु परुषा' इत्यवोचि तज्ज्ञैः । पर्यायबन्धः खण्डकाव्यस्वरूपः समाप्तायामपि अवान्तरक्रियायां वसन्ताद्येकतमवर्णनीयवस्तुवर्णनात्मकः प्रबन्धः पर्यायबन्ध उच्यते । पर्यायोक्तिः पर्यायोक्तं तु गम्यस्य वचो बङ्ग्यन्तराश्रयम् । नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ इति, पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम् । यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ इति च चन्द्रालोके प्रोक्तम्। पारमार्थिकान्तस्तत्त्वम् परमार्थतः भवं आगतं वा समग्रस्य विषयस्य साररूपेण अन्तर्विद्यमानं तत्त्वम् पारमाथिकान्तस्तत्त्वमिति कथ्यते । प्रकरणम् १) प्रस्तावः । २) सान्दर्भिकविषयः ३) ग्रन्थबन्धः । ४) एकार्थप्रतिपादकग्रन्थांशः । ५) दशविधप्रधानरूपकेषु अन्यतमः । उच्यते च तस्य लक्षणम् - भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथ वा वणिक् । सापायधर्मकामार्थपरो धीरप्रशान्तकः ॥ नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ॥ कितवद्यूतकारादिविटचेटकसङ्कुलः ॥ प्रकरणसामर्थ्यम् सान्दर्भिकविषयस्य वक्रभीप्सितविशिष्टार्थाभिव्यक्तिक्षमता प्रकरणसामर्थ्यमिति कथ्यते । प्रकाशितः आविष्कृतः। प्रकृतः प्राकरिणिकः अंशः । प्रकृतिः "निरुक्ता प्रकृतिर्द्वधा नामधातुप्रभेदतः ।" इति शास्त्रवचनम् । "प्रकृतिर्नाम अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्दविशेषः स्वेषमेव च प्रत्ययानां प्रकृति निमित्तीकृत्त्यैव विधानात् ।" इति प्रकृतेः निरचनमुपलभ्यते शास्त्रे । प्रकृतिः प्रकृतिह्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । प्रकृत्यौचित्यम् पात्रोचितव्यवहारभिज्ञता / व्यवहारो वा प्रकृत्यौचित्यमिति प्रोच्यते । प्रख्यातवस्तु इतिहासोद्भवं लोकप्रसिद्धं वा वस्तु प्रख्यातवस्त्विति कथ्यते । प्रतिपादकः बोधकः अंशः । प्रतिपादनम् बोधनम्। प्रतिपाद्यः बोधनीयः विषयः । प्रतिपाद्यप्रतिपादकसम्बन्धः बोधनीयबोधकांशयोर्मध्ये विद्यमानः सम्बन्धः । प्रतिबिम्बकल्पम् प्रतिगतं बिम्बं प्रतिबिम्बमथवा प्रतिच्छाया । तत्सदृशम् प्रतिबिम्बकल्पम् । प्रतिभा पञ्चविधबुद्धिविशेषेषु स्मृति - मति - बुद्धि - प्रज्ञा प्रतिभाख्येषु अन्तिमः। "नवनवोन्मेषशालिनी प्रज्ञा प्रतिभा मता" इति तस्य निर्वचनम्। एतदेव प्रत्युत्पन्नमतित्त्वमित्यपि कथ्यते। प्रतिभैव काव्यकारणमिति तज्ज्ञामभिप्रायः । प्रतिभायाः काव्यकारणत्वे केचन मतभेदाः सन्ति । केचन प्रतिभा, व्युत्पत्तिः, अभ्यासश्च काव्यकारणमिति कथयन्ति। अन्ये प्रतिभा काव्यकारणमिति व्युत्पत्त्यभ्यासौ सहकारिणौ इति वदन्ति । अपरे पुनः प्रतिभैव कारणमिति सा च सहजा औपासिकी, आभ्यासिकी चेति त्रिधा इति कथयन्ति । तेषां मते प्राक्तनजन्मसंस्कारजन्या सहँजा इति, देवतोपासनादिबलात्प्राप्ता औपासिकी इति, व्युत्पत्त्यभ्यासजन्या आभ्यासिकी इति एवं त्रिविधा अपि काव्यकारणम् भवतीति भणन्ति। केषाञ्चिदितरेषां मते द्विविधेयं प्रतिभा कारयित्री भावयित्री भेदेन । तत्र कविगता काव्योत्पत्तिहेतुरूपा प्रतिभा कारयित्री प्रतिभेति कथ्यते । सहृदयगता काव्यास्वादनसामर्थ्यरूपा प्रतिभा भावयित्री प्रतिभेत्युच्यते । अलङ्कारशास्त्रे प्रतिभायाः एव शक्तिरित्यपि व्यवहरोऽस्ति । प्रतिषेधः निषेध एव प्रतिषेधः । मा कुरु इत्यादिना निवारणमेव प्रतिषेधः। प्रथिताभिधानः प्रथितम् अभिधानं यस्य सः - अर्थात् प्रसिद्धनामधेयवान् इति अर्थः । प्रतीतिः ज्ञानम्; ख्यातिर्वा। प्रतीयमानः अभिव्यज्यमानः । व्यङ्ग्यार्थः । प्रत्ययः "प्रत्याययन्तीति, सुप्तिङ्कृत्तद्धिताः प्रत्ययाः" इति च कथ्यते। "प्रत्ययस्तु प्रकृतिमवधीकृत्य विधीयमनः स्वार्थावबोधकः शब्दविशेषः" इति बुधवचनम् । प्रकृतेः पूर्वावयवीभूताः प्रत्ययाः केचन । उपसर्गादयः । परावयवीभूताश्च केचन । सुप् प्रत्ययाः, तिङ् प्रत्ययाश्च। प्रबन्ध: ग्रन्थः, काव्यम्, रचनम् । प्रबन्धव्यञ्जकत्वम् यत्र समस्तोऽपि प्रबन्धः व्यञ्जको भूत्वा कमपि व्यङ्ग्यमुद्द्बोधयन्ति तत्र प्रबन्धव्यञ्जकत्वमस्तीति ग्राह्यम् । प्रसन्नवाचकाभिधेयः प्रसन्नेन सौम्येन वाचकेन अभिधीयमानः अर्थः । प्रसादः शब्दार्थयोः स्वच्छता । प्रसिद्धात्मा प्रसिद्धः आत्मा यस्य सः । प्रस्थानम् प्रतिष्ठन्ते परम्परया व्यवहरन्ति येन मार्गेण तत्प्रस्थानम् । ( प्राचीनपद्धतिः) । गमनव्यपारार्थवृत्तिरपि प्रपूर्वोऽयं तिष्ठतिः इह सादृश्यादौचित्याद्वा यथायोगमनादिप्रवर्तमानकाव्यगोचरकविसहृदयपरम्पराव्यापारविशेषविषयः प्रस्थानशब्दवाच्यः । प्राकरिणिकार्थः सान्दर्भिक अर्थः । प्राकृतम् सान्दर्भिकम् अथवा प्रकृते वर्ण्यमानम्। प्राधान्यविवक्षा प्राधान्येन प्रधानमिति वा वक्तुमिच्छा । प्रेयोऽलङ्कारः प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् । ऊर्जस्विरूढाहङ्कारं युक्तोत्करषं च तत् त्रयम् ॥ इति काव्यदर्शोक्तमस्य लक्षणम् । अथोदाहरणानि १) अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत् प्रीतिस्त्वय्वागमनात् पुनः ॥ २) इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः । भक्तिमात्रस्माराध्यः सुप्रीतश्च ततो हरिः ॥ ३) सोमः सूर्यो मरुभूमिर्व्योम होतानलो जलम्। इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयम् ॥ इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः । प्रीतिप्रकाशनम् तच्च प्रेय इत्यवगम्यताम्॥ ब बन्धः गद्य - पद्य - रूपकादिप्रकारेषु रचना । बीभत्सः जुगुप्सा स्थायीभावात्मको रसः बीभत्सः । अहृद्यस्य अप्रियस्य वा विषस्य दर्शनेन अनिष्टविषयश्रवणेन दर्शनेन परिकिर्तनेन वा तत्सदृशैरन्यैः विभावैर्वा उत्पद्यते अयं रसः । मुखस्य नेत्रयोश्च विघूर्णनम्, हृल्लेखनम्, निष्ठीवनम्, उद्वेजनम्, तदितराणि च अस्य अनुभावाः । अपस्मार - आवेग - मोह व्याधि - मरणादयः अस्य व्यभिचारिभावाः । बुधाः काव्यतत्त्वविदः अथवा काव्यमर्मज्ञाः। भ भक्तिः/भाक्तः गौणवृत्तिः भक्तिः। ततः आगतो गौणोऽर्थो भाक्तः । एतस्मिन् विषये - भज्यते सेव्यते पदार्थेन प्रसिद्धतयोत्प्रेक्ष्यत इति (अयं निमित्तपरक - व्युप्तत्तिः) भक्तिर्धर्मोऽभिधेयेन सामीप्यादिः, तत आगतो भाक्तो लाक्षणिकोऽर्थः। यदाहुः अभिधेयेन सामीप्यात्सारूप्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ इति । गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्यादिर्भक्तिः, तत आगतो गौणोऽर्थो भाक्तः । भक्तिः प्रतिपाद्ये सामीप्यतैक्ष्ण्यादौ श्रद्धातिशयः (अयं प्रोयोजनपरकव्युत्पत्तिः), तां प्रयोजनत्वेनोद्दिश्य तत आगतो भाक्त इति गौणो लाक्षणिकश्च । अथवा मुख्यस्य चागस्य भङ्गो भक्तिरित्येवं मुरयार्थबाधा, निमित्तं, प्रयोजनमिति त्रयसद्भाव उपचारबीजमित्युक्तं भवति । (इति लोचनकारोक्तिः) भक्तिर्नाम अभिधेयेन सामीप्यात्सारूप्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ इत्यभियुक्तोक्तप्रकारोपचारविशेषात्मिका, सारूप्यादिना सम्बन्धेनाभिधेयसम्बन्धिनोऽर्थान्तरस्य बोधिका लक्षणाऽपरपर्यायाऽभिधामूलिका, "भज्यते सेव्यते प्रसिद्धतयोद्घोष्यते" इति भक्तिरिति योगवती समारोपिता गौणी शक्तिः । तस्याः आगतस्तज्ज्ञानप्रयोज्यारोपीयविषयताश्रयो भाक्तः । (इति दीधितिकारोदीरितम्)। भङ्गी विच्छेदः, छलनिभः, कल्लोलः, भेदः, प्रकारः, कौटिल्यम्, व्याजश्च । भणितिः वाक्, कथनम् च । भयानकः भयस्थायीभवात्मकः रसः अयम् । विकृतरवश्रवणम्, क्रूरमृगाणां, शिथिलगृहाणां च दर्शनम्, अरण्यप्रवेशः, मरणम्, स्वजनवधबन्धनादिश्रवणम्, दर्शनम् वा अस्य रसस्य विभवाः भवन्ति । शरीरप्रवेपनम्, करचरणनयनादीनां चलनम्, मुखवैवर्ण्यम्, विस्वरत्वम् च अनुभावाः । स्तम्भ - स्वेद - गद्गद - रोमाञ्चादयः सञ्चारिभावाः । भयम् भयानकरसस्य स्थायीभावः । अनिष्टदर्शनाज्जातदैन्यात्मकचित्तवृत्तिः। भावः वागङ्गसत्त्वोपेतान् कव्यर्थान् भवयन्तीति भावाः । विभावेनाहृतो योऽर्थस्त्वनुभावेन गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ नानभिनयसम्बन्धान् भावयन्ति रसानिमान्। यस्मात्तस्मादमी भावाः विज्ञेयाः नाट्ययोक्तृभिः ॥ भावना १) अनुभवजन्यः स्मृतिहेतुः । २) संस्कारभेदः । अयं संस्कारभेदः अतीन्द्रियः । क्वचिदियं स्पन्देऽपि कारणं भवति । भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षनात्मकस्तस्य निश्चयः कारणम् भवेत्। स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते। भावशान्त्युदयसन्धिशबलत्वानि अपरिच्छिन्नानन्दचिन्मयब्रह्मसतत्त्वस्य रसस्य शान्त्युदयसन्धिशबलत्वानि नैव सम्भवन्ति । तस्माद्भावानुबन्धीन्येवैतान्यास्वादपदवीमवतरिन्ति । भावशान्तिः भावस्य प्रशाम्यदवस्था भावशन्तिरित्युच्यते । भावसन्धिः द्वयोः तुल्यकक्षयोः भावयोः युगपदास्वादः भासन्धिरित्युच्यते । भावशबलता निरन्तरतया भवनं पूर्वपूर्वोपमर्दिनामास्वादः भावशबलता । भावाभासः अनौचित्येन प्रवृत्तेर्दुष्ट: भावः भावाभासः । भावोदयः भावस्य उद्गमावस्था । भावौचित्यम् उचिते स्थाने उचितक्रमेण नात्यल्पनातिदीर्घवधियावत् भावपोषणेन भावौचित्यम् जायते । भूमा अतिशयः, बहुत्वम्। म मध्यमसमासा सङ्घटना यस्यां सङ्घटनायां समासाः नातिस्वल्पाः नातिदीर्घाश्च भवन्ति सा सङ्घटना मध्यमसमासा सङ्घटना इत्युच्यते । महाकविः अस्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते । महावाक्यम् (योग्यताकाङ्क्षासत्तियुक्तः) वाक्योच्चयो महावाक्यम् । इति विश्वनाथः । रामायण-महाभारत-रघुवंशादि महावाक्यम् भवति । माधुर्यम् आनन्दवर्धन- मम्मटादिभिः प्रोक्तेषु त्रिषु गुणेषु अन्यतमः । आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ॥ इति मम्मटाचार्योक्तिः । मुक्तकम् "मुक्तकं श्लोक एवैकश्चमत्कारक्षमःसताम्" इति निरुच्यते । ''मुक्तकमन्यपद्यासम्बद्धम् स्वातन्त्र्येणार्थबोधनक्षममेव मुक्तकम्॥" इति निरुच्यते ॥ मुख्यवृत्तिः अभिधावृत्तिः । त्रिविधशब्दव्यापारेषु प्रथमव्यापारोऽयम् । य यथासङ्ख्यध्वनिः यथासङ्ख्यालङ्कारप्रधान निसन्दर्भः अर्थात् यथासङ्ख्यालङ्कारवशात् यत्र व्यङ्ग्यार्थस्य चारुता समुत्पद्यते तत्र यथासङ्ख्यध्वनिरिति ग्राह्यः। अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः । अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः । । "अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङ्कुरितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादतिरिच्यमानमालक्ष्यते । एवमन्येऽप्यलङ्कारा यथायोगं योजनीयाः ।" इत्यानन्दवर्धनाचार्यस्य वचनेष्वेव प्रस्तुतमस्ति । यमकम् शब्दाभ्यासस्तु यमकम् पादादिषु विकल्पितम्। इति भरतमुनेः वचनम् । अत्र अभ्यासो नाम पुनरुक्तिः । अर्थेसत्यर्थभिन्नानां सा पुनः श्रुतिः यमकमिति मम्मटाचार्यस्य मतम् । एतन्मतानुसारं सत्यर्थे कस्मिंश्चित् भिन्नार्थकाणां (अर्थान्तरे) समानवर्णानां (वर्णयोर्वा) पुनः श्रुतिः (आवृत्तिः उमकालङ्कारः भवति । अर्थात् प्रयुक्तानां वर्णानां वर्णयोर्वा साम्यमनुभूयते । परन्तु ते च आवृत्तिक्रमे भिन्नार्थबोधकाः भवन्ति चेत् तत्र यमकालङ्कार इति ज्ञेयम् । र रचनाव्यञ्जकत्वम् "रचना सङ्घटना" इति लोचनकारस्य वचनम् । सा च सङ्घटना त्रिविधा। दीर्घसमाससङ्घटना, मध्यमसमाससङ्घटना, असमाससङ्घटना चेति । त्रिविधाऽपीयं सङ्घटना कदाचित् रसादिव्यञ्जको भवति । रचनायाः तादृक् स्वभाव एव रचनाव्यञ्जकत्वमिति कथ्यते । रतिः शृङ्गाररसस्य स्थायीभावः रतिः । रतिः प्रमोदात्मिका । रत्यर्थविषयप्राप्त्या रतिस्समुपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्यङ्गचेष्टितैः॥ इति भरतस्य वचनम् । रम्यता सुन्दरता रसः न हि रसादृते कश्चिदर्थः प्रवर्तते । विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को वा दृष्टान्तः इति चेत् उच्यते। यथा नानाव्यञ्जनौषधिद्रव्यसंयोगात रसनिष्पत्तिः तथा नानाभावोपगमात् रसनिष्पत्तिः । यथा गुडादिभिर्द्रव्यैः व्यञ्जनैः ओषधीभिश्च षड्रसा निर्वर्त्यन्ते एवं नानाभावोपहिताः अपि स्थायिनः भावाः रसत्वमाप्नुवन्ति । ऋषय ऊचुः । रस इति कः पदार्थः ? अत्रोच्यते । आस्वाद्यत्वात् ।" इति मुनेर्वाक् । रसः आवरणभङ्गावच्छिन्नरत्याद्यवछिन्नचिद्रूपः अस्य शृङ्गार वीर करुण अद्भुत हास्य भयानक बीभत्स रौद्र शान्ताः इति नव प्रभेदाः सन्ति । रसप्रशमनम् समग्रसामग्रीसमुपतेस्य रसस्य परिपूर्णविकासानन्तरं समुचितॆ समये यदि सः रसः शान्त्यवस्थामाप्नोति तद्रसप्रशमनमिति ज्ञेयम् । रसभङ्गः रसस्य समग्रसामग्रीसमेतस्य समुचितक्रमेणाविष्कारे वैफल्यम् एव रसभङ्ग उच्यते । रसभावसमन्वितः रसेन / रसैर्वा, भावैश्च युक्तः । रसभावरहितः रसेन / रसैर्वा, भावैश्च विरहितः नीरसः वस्तुसन्दर्भः । रसवदलङ्कारः / रसादिलक्षण: यस्मिन् काव्ये प्रधानतयान्योऽर्थः वाक्यार्थीभूतः रसादयः तस्य च अङ्गभूताः भवन्ति तत्र काव्ये रसादयोऽलङ्काराः भवन्ति इति ध्वनिकारस्य अभिप्रायः । एतस्मिन् सन्दर्भे यत्र रसाः अङ्गभूताः तत्र रसवदलङ्कारः, भावाः यत्र अङ्गभूताः तत्र प्रेयोऽलङ्कारः, रसाभासभावाभासौ यत्र अङ्गभूतौ भवन्ति तत्र ऊर्जस्वि, तथैव भावशान्त्यादिषु समाहितालङ्कारश्च सम्भवन्तीति अत्र गम्यते । एते रसवदाद्यलङ्काराः शुद्ध सङ्कीर्ण भेदेन दिविधाः । रसविरोधिनी रसोत्कर्षस्य वा रसोद्दीपनस्य वा रसाभिव्यक्तेर्वा याऽवरोधं कल्पयति सा रसविरोधिनीति ज्ञेया । रसादिः स च रसादिरलङ्कारः शुद्धः सङ्कीर्णो वा । रसाभासः अनौचित्येन प्रवृत्तेर्दुष्टः रसः रसाभासः। रसाभिव्यक्तिहेतुः रसप्रतीतेः कारणम्। विभावादिकम् । कदाचित् रीतिगुण-अलङ्कारादयोऽपि रसाभिव्यक्तिहेतवो भवन्ति । रसोद्दीपनम् विभावाः आलम्बनविभावाः, उद्दीपनविभावाश्चेति द्विप्रकारकाः। तेषु उद्दीपनविभावाः रसान् उद्दीपयन्ति । रसस्वभावमनुसृत्य उद्दीपनविभावाः अपि भिन्नरूपेषु भवन्ति । उदाहरणार्थं शृङ्गाररसस्य विषये नायिकानायकौ आलम्बनविभावरूपिणौ भवतः । कोकिलालापाः, गुञ्जद्भ्रमरनिःस्वनाः, मलयानिलः, सुविकसितसुमोद्यानानि, पद्मसरोवरादिकं च शृङ्गाररसोद्दीपकाः भवन्ति। रसस्य तादृशीस्थितिरेव रसोद्दीपनमिति कथ्यते । रीतिः 'रीतिरात्मा काव्यस्य । विशिष्टपदरचाना रीतिः । विशेषो गुणात्मा ।" इति वामनः । तस्य मते सा वैदर्भी गौडी पाञ्चाली चेति त्रिविधा । रूढा प्रसिद्धा । रौद्रः क्रोधस्थायीभावात्मकः रसः रौद्रः । रक्षोदानवोद्धतमनुष्य प्रभवः सङ्ग्रामहेतुकः । क्रोध- घर्षण अधिक्षेप अवमाननादयः विभावाः । ताडन पाटन पीडन छेदन भेदनादयः अनुभावाः। सम्मोह - उत्साह - वेग - अमर्ष - औग्र्यादयः व्यभिचारिणः । ल लक्षणकृत् शास्त्रकारः । लक्षणा मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थः लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ इति मम्मटोक्तं लक्षणानिर्वचनम् । लक्ष्यः लक्ष्यते असाविति लक्ष्यः । लक्षणया बोध्यो अर्थः लक्ष्यार्थः अथवा लक्ष्यः इत्युच्यते । लावण्यम् मुक्ताफलेषुच्छायायास्तरलत्मिवान्तरा।वक्ता प्रतिभाति यदङ्गेषु तल्लावण्यमितीरितम् ॥ व वक्ता कथनशीलः। कविर्वा कविनिबध्दो वा वक्ता भवति काव्येषु । वक्रोक्तिः भामहस्य मते सर्वेऽप्यलङ्काराः वक्रोक्तिजन्याः एव । लोकव्यवहारे प्रयुक्ताभ्यां शब्दार्थाभ्यां विलक्षणशब्दार्थौ लोकातिक्रान्तगोचररूपेण कामपि चमत्कारहेतुरूपां वक्रतामवलम्ब्य प्रयुज्येते तदातयोश्शब्दार्थयॊः अलङ्कारत्वं भवतीति भामहस्याभिप्रायः । अत एव तेन सैषा सर्वत्र वक्रोक्तिरन्याऽर्थो विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना । इति "वक्राभिधेयशब्दोक्तिरिष्टावचामलङ्कृति" इति, "वाचां वक्रार्थशब्दोक्तिरलङ्काराय कल्पते' इति च न्यगादि । ततः परं राजानककुन्तकः वक्रोक्तिजीवितग्रन्थकारः वक्रोक्तिप्रस्थानं निर्माय "वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते" वक्रोक्तेः काव्यात्मत्वमेव प्रत्यपादयत् । तथा केवलालङ्कारस्थितेः काव्यात्मस्थानकल्पनेन वक्रोक्तेः वैशिष्ट्यम् आविष्कृतवान्। वर्णाः वर्णाः अक्षराणि। "सव्यञ्जनः सानुस्वारो शुद्धो वा स्वरोऽक्षरम् ।" इति ऋक्प्रातिशाख्यम्। स्वर्यन्ते शब्द्यन्ते इति स्वराः। परेण स्वरेण व्यज्यते इति व्यञ्जनम् । ह्रस्वत्व - दीर्घत्व - प्लुतत्व- उदात्तत्व - अनुदात्तत्व स्वरितत्त्वानि स्वरधर्माः । अर्धमात्राकालता, स्वरवशेनोदात्तानुदात्त- स्वरितत्वं, संयोगश्च व्यञ्जनधर्माः । वर्णव्यङ्ग्यत्वम् यो व्यङ्ग्यार्थः कैश्चिद्वर्णैरभिव्यज्यते तस्य व्यङ्ग्यार्थस्य वर्णव्यङ्ग्यत्वमस्तीति ग्राह्यम् । वस्तु इतिवृत्तमथवा कथावस्तु वस्त्विति कथ्यते । वसन्त्यस्मिन् सर्वाः कार्यावस्थाः, सर्वा; अर्थप्रकृतयः, पञ्चसन्धयः, सन्ध्यङ्गादीनीतराणि चेति कारणॆन वस्त्विति कथ्यते । आधिकारिक - प्रासङ्गिकभेदेन वस्तु द्विविधं भवति । वाक्यम् वाक्यं स्यात् योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः । योग्यता पदार्थानां परस्परसम्बन्धे बाधाभावः । आकाङ्क्षा प्रतीतिपर्यवसानविरहः । आसत्तिः बुद्ध्यविच्छेदः । वाक्यव्यङ्ग्यत्वम् यो व्यङ्ग्यार्थः कैश्चिद्वाक्यैरभिव्यज्यते तस्य व्यङ्ग्यार्थस्य वाक्यव्यङ्ग्यत्वमस्तीति ग्राह्यम्। वाक्यार्थः केवलपदार्थपरिमितो न भवति वाक्यार्थः । वाक्यगत पदानामर्थेन साकं वक्तृविवक्षितं कमपि विशेषार्थं च बोधयति वाक्यम् । स च विशेषार्थः एव वाक्यार्थ उच्यते । वाक्यार्थप्रतीतिः वाक्यार्थस्य ज्ञानम् वाक्यर्थप्रतीतिरित्युच्यते। वाचकः अभिधाव्यापारे शब्दः वाचकः इत्युच्यते । वाच्यः उच्यते असाविति वाच्यः । अभिधया बोध्यो अर्थः वाच्यः इति शब्धते । वाच्यचित्रम् अनान्दवर्धनस्य मते चित्रकाव्यम् शब्दचित्रम् (वाचकचित्रम्) अर्थचित्रम् (वाच्यचित्रम्) चेति द्विविधम् । तत्र वाच्यार्थस्य प्राधान्यं चमत्कारत्वं च वर्तते व्यङ्ग्यार्थस्य किमपि प्राधान्यमेव न भवति तत् वाच्यचित्रमित्युच्यते। वाच्यत्वम् वाच्यस्य भावः । वाच्यश्लेषः वाच्यवशात् जायमानः श्लेषः वाच्यश्लेषः । वाच्यार्थानुगमः वाच्यार्थमनुसृत्य द्योतनमेव वाच्यर्थानुगमः । वाच्यालङ्कारवर्गः अर्थालङ्कारेषु वाच्यार्थप्रधानानाम् अलङ्काराणां गणः वाच्या-लङ्कारवर्ग इति व्यवहारो वर्तते । विच्छित्तिः अङ्गरागः, शोभा, सौन्दर्यम्, हारभेदः, विच्छेदः, चेष्टाभेदः, छेदः, नाशः, ज्ञानभागश्च। विधिः चिकीर्षाकृतिसाध्यत्वहेतुधीविषयो विधिरुच्यते । सः उक्तप्रवर्तन रूपो वा नियोगरूपो वा भवति । विपक्षाश्रयः विपक्षमाश्रित्य वर्तनम् । विप्रलम्भशृङ्गारः विरहप्रधानः शृङ्गारः विप्रलम्भशृङ्गारः । विप्रलम्भस्याप्यभिलाषेर्ष्याविरहप्रवासविप्रलम्भादयः भेदाः दृश्यन्ते । विभक्तविषयता कृत्यविषयाणां कर्तृसामर्थ्यादिकमनुसृत्य स्पष्टतया पृथक्करणमेव विभक्तविषयता इत्युच्यते । विभावः रसस्य कारणम् विभावः । विभाव्यन्तेऽनेन वागङ्गस्त्वभिनया इति विभावः । बहवोऽर्थाः विभाव्यन्ते वागङ्गाभिनयाश्रिताः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ "विभाव:, कारणम्, निमित्तं, हेतुरिति पर्यायाः" इति भरतवचनम् । विभावौचित्यम् विभावनिर्वहणसम्बद्धमौचित्यम्। विरोधालङ्कारः गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा । या विशेषभिधानाय विरोधं तं विदुर्बुधाः ॥ इति भामहोक्तं लक्षणम् । उपान्तरूडोपवनच्छायाशीतापि भूरसौ । विदूरदेशेनापि वः सन्तापयति विद्विषः ॥ इति तस्यैव उदाहरणम् । विरोधिरसः कस्यचित् रसस्य विप्रियो विरुद्धो प्रतिकूलो वा रसः विरोधिरसः । यथा करुणशृङ्गारयोः, वीरहास्ययोश्च विरोधित्वम् विवक्षितान्यपरवाच्यध्वनिः/विवक्षितान्यपरवाच्यः अभिधामूलध्वनिः विवक्षितान्यपरवाच्यध्वनिरिति कथ्यते । अत्र वाच्यमुखादेव व्यङ्ग्योऽर्थो गोचरति। विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता, वाक्यप्रकाशता च ("प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किं न जडः कृतोऽहम् ।") अत्र हि ज़ड इति पदं निर्विण्णेन वक्त्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते । वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु 'वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः ।' एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति । विवक्षिताभिधेयस्यकविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा हरिविजये-चूअकुरावअंसं छणपसरमहघ्घणमणहसुरामोअण् । असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम्। [चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासल्क्ष्मीमुखम् ॥ छाया] अत्र ह्यसमर्मितमपि कुसुमशरेण मधुमासलक्ष्म्या गुरगं गृहीतमित्यसमर्पितमपीत्येतदर्थाभिधायिपदमर्यशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति । विवक्षिताभिधेयस्य कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे वाक्यप्रकाशता सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् । अभिनवसहकरमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ॥ अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढेक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकतापादनावस्थानं वसन्तसमयस्य सूचयति । विवक्षिताभिधेयस्यस्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता वाणिअअ हत्थिदन्ता कुत्तो अम्हाण वाघकित्ती अ जाव लुलिआलअमुही घरम्मि परिसक्के सुण्हा ॥ [वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥ छाया] अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतः सम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति । विवक्षिताभिधेयस्य स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे वाक्यप्रकाशता सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ । मुत्ताफलरइअपसाहणाएँ भज्झे सवत्तीणम् ॥ [शिखिपिच्छकर्णपूरा भार्या व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधननां मध्ये सपत्नीनाम् ॥ छाया] अनेनापि वाक्येन व्याधवध्वा शिखिपिञ्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्सम्भोगैकरसो मयूरमात्रमारणसमर्थः पतिर्जात इत्यर्थप्रकाशनात् तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत्सम्भोगकाले स एव व्याधः करिवरवध- व्यापारसमर्थ आसीदित्यर्थप्रकाशनात् । विशेषः प्रभेदः, प्रकारः, व्यक्तिः । विशेषकम् त्रिपरिसमाप्तक्रियं पद्यत्रयम् विशेषकम्। "त्रिभिश्लोकै र्विशेषकम् ।" इत्युक्तम् अग्निपुराणे। विशेषोक्तिः कार्याजनिर्विशेषोक्तिस्सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥ इति चन्द्रालोककारेणोक्तम् । विस्मयः अद्भुतरसस्य स्थायीभावः । विविधेषु पदार्थेषु लोकसीमातिवर्तिषु । विस्फारश्चेतसो वस्तु स विस्मय उदाहृतः ॥ इति साहित्यदर्पणकारेणोक्तम्। वीरः उत्तमप्रकृतिकोऽयं रसः उत्साहस्थायीभावात्मकः । अयं च असंमोहाध्यवसायनयविनयबहुलपराक्रम शक्तिप्रतापप्रभावादिभिर्विभावजन्या भवति। स्थैर्यंम्, शौर्यम्, धैर्यम्, त्यागः, वैशारद्यम् च अस्य अनुभावाः । धृतिः, मतिः, गर्वः, वेगः, औग्र्यम्, अमर्षः, स्मृतिः, रोमाञ्चः तदितराश्च अस्य सञ्चारिभावाः भवन्ति । वृत्तम् १) छन्दसः प्रभेदः । २) जातम् इतिवृत्तम् । इतिहासोद्भवम् इतिवृत्तम् । प्रसिद्धनेतृचरितम् । वृत्तिः / वृत्तयः वृत्तिरित्यत्र वृतेर्भावे क्तिन् प्रत्ययः । तेनोचितैव व्यापारार्थकता। व्यवहारो हि वृत्तिरित्युच्यते । अयं व्यवहारः रसोपयोगजीवितः शब्दवृत्तिलक्षणः इति लोचनकारोक्तिः । अत्र रसानुगुणमौचित्यमावहन्तः वाच्याश्रयाः व्यवहारविशेषाः कैशिक्यादिवृत्तयः (कैशिकी, आरभटी, सात्त्वती, भारतीति) इति संज्ञिताः । वाचकाश्रिताश्च उपनागिरकाद्याः । (उपनागरिका, परुषा, कोमला चेति । वैदर्भी वामनमतानुसारं त्रिविधासु रीतिष्वन्यतमेयं रीतिः । अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता। विपञ्चीस्वरसौभग्या वैदर्भीरीतिरिष्यते ॥ इत्यस्य निर्वचनम् च तदुक्तिष्वेव । व्यङ्ग्यः व्यज्यते असाविति व्यङ्ग्यः । व्यञ्जनया बोध्यो अर्थः व्यङ्ग्यः । व्यङ्ग्यधर्मः व्यङ्ग्यार्थस्य धर्मः । व्यङ्ग्यालङ्कारवर्गः व्यङ्ग्यार्थप्रधानानाम् अलङ्काराणां वर्गः । व्यञ्जकः व्यञ्जनाव्यापारे शब्दः व्यञ्जकः । व्यञ्जकविशेषाः वर्णाः, पदंशाः, पदानि, वाक्यम्, सङ्घटना, प्रबन्धः तत्सदृशानि सर्वाण्यपि व्यङ्ग्यार्थद्योतकानि भवन्तीति कारणेन एते सर्वेऽपि व्यञ्जकविशेषाः भवन्ति । व्यपदेशः नाम, अभिधानम्। व्यापारः वृत्तिरेव व्यापारः । अस्यैव शक्तिरित्यपि व्यवहारो दृश्यते । साहित्यमीमांसायां ''वृत्तिः पदानां व्यापारः पदार्थप्रतिपादने" इति कथितम् । शब्दस्य प्रकृतिप्रत्ययादेः शक्तयः एव अर्थबोधे सहकारि- वृत्तयः। अर्थबोधे शब्दतद्वृत्तिज्ञानमेव कारणम् भवति। शब्दगतं एवंविधार्थबोधकारणत्वसामर्थ्यमेव आलङ्कारिकैः शक्तिरिति नैयायिकैः वृत्तिरिति च कथ्यते। व्यभिचारिभावाः व्यभिचारिभवानां विषये नाट्यशास्त्रे भरतमुनिना इत्थमभिहितम् । "व्यभिचारिण इदानीं वक्ष्यामः । अत्राह । व्यभिचारिणः इति कस्मात् ? उच्यते । वि अभि इत्येतावुपसर्गौ । चर गतौ धातुः। धात्वर्थे वागङ्गसत्त्वोपेतान् विविधमभिमुकेन रसेषु चरन्तीति व्यभिचारिणः चरन्ति नयन्तीति अर्थः । कथं नयन्ति उच्यते - यथा सूर्यःनक्षत्रममुं वासरं नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते किं तु लोकप्रसिद्धमेतत्। यथायं सूर्यो नक्ष्त्रामिदं वा नयतीति एवमेते व्यभिचारिणः इत्यव- गन्तव्याः।" इति। विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ इति दशरूपके प्रोक्तम्। निर्वेदग्लानिशङ्काख्याः तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्षं आवेगो जडता तथा । गर्यो विषाद: औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिरथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥ त्रयत्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ श शक्तिः १) सामर्थ्यम्। २) न्यायशास्त्रमनुसृत्य कारणनिष्ठकार्योत्पादनयोग्यता शक्तिः । ३) शब्दनिष्ठा अर्थबोधकतारूपा बोध्यत्वप्रकारकेच्छाविषयत्वरूपा वृत्तिभेदः शक्तिरित्युच्यते । ४) शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत् प्रसृतं वोपहसनीयं स्यात् । इति आचार्यमम्मटमहाशयस्य वचनम्। अतोऽत्र कवित्वबीजरूपा प्रतिभा शक्तिरित्युच्यते । शब्द: नादादिहेतुको यः स्यादक्षराणां समुच्चयः । आनुपूर्वीसमुल्लेखः स शब्दव्यपदेशभाक् ॥ कुम्भकर्णः स्वीये सङ्गीतराजे। वाचकः, लक्षकः, व्यञ्जकः इति त्रिविधः । शब्दचित्रम् वाचकप्रधानमथवा अभिधानप्रधानं चित्रकाव्यं शब्दचित्रमित्युच्यते । शोकः शोको हि करुणस्थायिभावः । इष्टजनवियोग-विभवनाशवध-बन्धन-दुःखानुभवनादिभ्योऽनुभावेभ्यः शोकः उत्पद्यते । शब्दतत्त्वविदः वैयाकरणाः। शब्दधर्माः नादादिहेतुको यः स्यादक्षराणां समुच्चयः । आनुपूर्वीसमुल्लेखः स शब्दव्यपदेशभाक् ॥ इति शब्दस्य निर्वचनं दृश्यते शास्त्रे । अधिष्ठानं स्वभावश्च गुणाः कार्यान्वयस्तथा तादात्म्यं चेति शब्दस्य तद्गुणाः पञ्च कीर्तिताः ॥ इति ये पञ्च गुणाः प्रोक्ताः शब्दस्य ते एव शब्दस्य धर्माः भवन्ति। शम: शम्यते इति शमः । शान्तरसस्य स्थायी भावोऽयम्। विक्षेपकर्मोपरमः शम इत्युच्यते । सर्वकर्मनिवृत्तिः शम इति च कथ्यते कैश्चित् । अन्तरिन्द्रियनिग्रहः शम इति अन्तःकरणसंयमः शम इति च निरुच्यते । "शमो निरीहावस्थायां स्वात्मविश्रामजं सुखम्" इति विश्वनाथकविराजस्य वचनम्। शब्दवृत्तिः शब्दानामर्थावबोधकतात्मकः अभिधालक्षणादिगतः सामर्थ्यरूपः व्यापरः एव शब्दवृत्तिः । अयम् अभिधा लक्षणा व्यञ्जना चेति त्रिविधा । शब्दशक्तिमूलध्वनिः संलक्ष्यक्रमव्यङ्ग्यध्वनौ द्वौ भेदौ वर्तेते शब्दशक्तिमूलध्वनिः, अर्थशक्तिमूलध्वनिश्चेति । यत्र वाच्यार्थप्राप्त्यनन्तरं शब्दस्य अनुरणनव्यापरमुखः कश्चनापरो विशिष्टार्थः अभिव्यज्यते । तथाभिव्यज्यमानोऽयमर्थः शब्दशक्तिमूलक: ध्वनिविषयः इति कारणादयं ध्वनिप्रकारः शब्दशक्तिमूलध्वनिरिति व्यवह्रियते । शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनिप्रकाराः संलक्ष्यक्रमव्यङ्ग्यध्वनेः/ अनुस्वानरूपव्यङ्ग्यध्वनेः द्वयोः प्रकारयोरन्यतरः शब्दशक्तिमूलध्वनिः । अस्मिन् वस्तुध्वनिरिति, अलङ्कारध्वनिरिति द्वौ भेदौ स्तः । एतयोर्द्वयॊः पुनः एकैकस्मिन् पदगत - वाक्यगत - भेदेन द्वौ द्वौ भेदौ सम्भवतः । एवं चत्वारो प्रकाराः सम्भवन्ति शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्यध्वनौ। शान्तः शमस्थायीभावात्मकः उत्तमप्रकृतिः रसः शान्तः । अनित्यताभवः, अशेषवस्तुनिःसारता, परमात्मस्वरूपचिन्तनम् च अस्य आलम्बनविभवाः । पुण्याश्रमाणां, तीर्थक्षेत्राणां, महापुरुषाणां च दर्शनम् उद्दीपनविभावाः भवन्ति । रोमाञ्चादयः अनुभावाः ग्राह्याः । निर्वेदः, हर्षः, स्मरण्मतिः, भूतदया, तदितराश्च व्यभिचारिभावाः भवन्ति। शुद्धः केवलः शुद्धः । मिश्ररहितः । निर्दुष्टः । शृङ्गार: उज्ज्वलवेषात्मकः हृद्यो रसः शृङ्गारः । रतिरस्य स्थायीभावः । अयं स्त्रीपुंसहेतुकः, उत्तमयुवतिप्रकृतिः । सम्भोगविप्रलम्भाख्यौ द्वौ भेदौ वर्तेतेऽस्य । ऋतु- माल्य अनुलेपन अलङ्कार - इष्टजनविषय- वरभवनोपभोग - उपवनगमन अनुभवन श्रवण - दर्शन - क्रीडा लीलादयः अस्य विभावाः भवन्ति । नयनचातुर्य - भ्रूविक्षेप - कटाक्षसञ्चार - ललितमधुराङ्गहार - वाक्यादयः अस्य अनुभावाः। त्रास आलस्य - औग्र्य - जुगुप्साः विहाय अन्ये २९ च भवन्ति व्यभिचारिभावाः अस्मिन्। वियोगप्रधानस्य विप्रलम्भस्य तु निर्वेद ग्लानि शङ्का - असूया - श्रम - चिन्ता - औत्सुक्य -निद्रा - सुप्तस्वप्न - बिब्बोक व्यधि उन्माद अपस्मार जाड्य मरणादिभिः अभिनयो भवति । शोकः करुणरसस्य स्थायी भावोऽयम् । इष्टजनवियोगात्, विभवनशात्, इष्टजनवधात् बन्धनाद्वा तदितरदुःख कारणेभ्यः जायते अयम् । 'पुत्रादिमरणजन्म वैक्लव्याख्यस्चित्तवृत्तिविशेषः शोकः" इति जगनाथपण्डितः । अश्रुपातः, विलापः, मुखवैवर्ण्य, स्वरभेदः, स्रस्तगात्रतादयः अस्य अनुभावाः भवन्ति । अत्र रुदितम् आनन्दजम् आर्तिजम्, ईर्ष्यासमुत्थम् चेति त्रिविधम् । श्रुतिदुष्टः श्रोतुम् उद्वेजकरवर्णवान् शब्दः श्रुतिदुष्टः अथवा श्रुतिकटुः इति दोषेण स्पृष्टः इत्युच्यते । अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥ इति श्लोके "कार्तार्थ्यम्" इति शब्दः श्रुतिदुष्टः इति दोषेण परामृष्टः इत्युच्यते । श्लेष: नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयाश्रितः । सर्वदो माधवः पायात् स यो गङ्गामदिधरत् ॥ इति चन्द्रालोकवचनम् । श्लेषध्वनिः श्लेषालङ्कारप्रधानः ध्वनिः श्लेषध्वनिरित्युच्यते । श्लोकः पादबद्धः अक्षरसमः तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ इति ॥ काव्योद्याने प्रथमश्लोकस्य लक्षणमाविष्कृतम् आदिकविना वाल्मीकिना। ततः परं छन्दश्शास्त्रकारैः पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयात् एतच्छ्लोकस्य लक्षणम् ॥ इति श्लोकाख्यस्य अनुष्टुप् प्रभेदस्य लक्षणं प्रतिपादितम्। श्लोक्यते परिकीर्त्यते पुण्यश्लोकस्य चरितमनेन इति श्लोकस्य श्लोकत्वं समर्थितं लाक्षणिकैः । श्लोकत्वम् श्लोकस्य भावः । स सकलकथा फलपर्यन्तानुधाविवृत्तान्तानां सर्वेषामपि सविस्तरं वर्णनम् सकलकथेत्युच्यते । सङ्करः / सङ्करालङ्कारः चारुत्वातिशयसम्पादनार्थं विविधालङ्काराणां नीरक्षीरन्यायेन मेलनम् सङ्कर इत्युच्यते । यथा नीरक्षीरयोः मेलनम् पुनः पृथक्कर्तुं न शक्यम् तथा एकत्र सङ्करे संलितानामलङ्काराणां पृथक्करणमपि न शक्यम् । सङ्क्षेपः भूयसोऽर्थस्य अल्पवाक्यादिना प्रकाशनम् संक्षेपः इति भरतस्य मतम् सङ्घटना पदवाक्यसन्निवेशात्मकरीतिः सङ्घटना। (दीधितिकारः) सा च सङ्घटना असमासा, मध्यमसमासा, दीर्घसमासा चेति त्रिविधा । संज्ञी संज्ञा आख्या अस्यास्तीति संज्ञी । सत्कविः ध्वनिमार्गनिपुणः कविः । सहृदयहृदयाह्लादिकवित्वरचनाचणः। प्रजापतिरिव काव्यजगन्निर्माणकुशलः । सम्भोगशृङ्गारः सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणा प्रकाराः । सन्दानितकम् सन्दानितकं च युग्मकापरपर्यायं द्विपरिसमाप्तक्रियं पद्यद्वयम् । सन्धिः सन्धिर्नाम योगः । द्वयोरंशयोर्योगेन सन्धिर्जायते । नाट्ये दशरूपकेषु वस्तुविस्तरणक्रमे पञ्चसन्धयः सम्भवन्ति । विषयेऽस्मिन् दशरूपके निगद्यते । "अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः । यथासङ्ख्येन जायन्ते मुखाद्याः पञ्चसन्धयः ॥" इति । अर्थात् बीजम् - बिन्दुः - पताका - प्रकरी - कार्यम् इति पञ्चार्थप्रकृतीनां क्रमशः आरम्भः - यत्नः - प्राप्त्याशा नियताप्तिः - फलागमः इति पञ्चभिः कार्यावस्थाभिः एकैकशः योगेन मुखसन्धिः - प्रतिमुखसन्धिः - गर्भसन्धिः - अवमर्शसन्धिः/ विमर्शसन्धिः - उपसंहृतिसन्धिः/निः ॥ सन्धयः सम्भवन्ति । सन्ध्यङ्गानि दृश्यकाव्यवस्तुनि मुखप्रतिमुखगर्भविमर्शोपरांतिस्पराग पञ्चकस्य चतुष्षष्ट्यङ्गानि नाट्यशास्त्रे प्रसिद्धानि सन्ति तानि यथा १) उपक्षेपः, परिकरः, परिन्यासः, विलोभनम्, युक्तिः, प्राप्तिः, समाधानं, विधानं, परिभावना, उद्भेदः, करणं, भेदश्चेति द्वादश मुखसन्ध्यङ्गानि भवन्ति । २) विलासः परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युति, प्रशमनं, विरोधः, पर्युपासनं, पुष्पं, वज्रं, उपन्यासः, वर्णसंहारश्च त्रयोदश प्रतिमुखसन्धेः अङ्गानि भवन्ति । ३) अभूताहरणं, मार्गः, रूपं, उदाहरणं, क्रमः, सङ्ग्रहः, अनुमानं, प्रार्थना, आक्षिप्तिः, तोटकं, अधिबलं, उद्वेगः, विद्रवश्च गर्भसन्धेः त्रयोदशाङ्गानि भवन्ति । ४) अपवादः, संफेटः, विद्रवः शक्तिः, व्यवसाय: प्रसङ्गः, द्युतिः, श्रमः खेदः, प्रतिषेधः, निरोधनं, आदानं, छादनं, प्ररोचना चेति त्रयोदशाङ्गानि दृश्यन्ते विमर्शसन्धौ । ५) सन्धिनिरोधः, ग्रथनं, निर्णयः, परिभाषणं, धृतिः, प्रसारः, आनन्दः, समयः, उपगुहनं, भाषणं, पूर्ववाक्यं, काव्यसंहारः, प्रशस्तिश्च चतुर्दश निर्वहणसन्धेः अङ्गानि भवन्ति। एतेषां चतुष्षष्ट्यङ्गानां लक्षणान्युदाहरणानि च नाट्यशास्त्रे, दशरूपके, साहित्यदर्पणे तदितरेषु च रूपकलक्षणनिरूपणग्रन्थेषूपलभ्यते। परन्तु लक्षणकथनावसरे ग्रन्थकर्तृषु स्वल्पमतभेदास्तु सन्ति। एवंविधसन्धिसन्ध्यङ्गकल्पनेन इष्टार्थस्य रचना, वृत्तान्तस्यानुपक्षयः, प्रयोगस्य रागप्राप्तिः, गोप्यानां विषयाणां निगूहनं ( गोप्यगुप्तिः), आश्चर्यवदभिख्यानं, प्रकाश्यानां प्रकाशनमिति षट् प्रयोजनानि सिद्ध्यन्ति इति मुनेः आचार्य भरतस्य मतम् । यद्यपि रुपकलक्षणकारैः एतानि नाटाकसन्धिसन्ध्यङ्गानीति कथ्यन्ते भामहादीनामभिप्रायें एतानि महाकाव्यादिपद्यकाव्येषु, कथाख्यायि-कादिगद्यप्रबन्धेषु च सम्भवितुमर्हन्ति । समर्पकत्वम् अन्यस्य कस्यचित् उत्कर्षार्थं आत्मनः सर्वस्वमपि अन्यसात्करणशीलता समर्पकत्वम् । उत्कृष्टस्य व्यङ्ग्यार्थस्य प्रतीत्यर्थं वाचकः, तस्यार्थः वाच्यश्च गौणत्वं यातः । इदमेकं समर्पकत्वस्योदाहरणम् । सर्गबन्धः संस्कृतमयं श्रव्यं महाकाव्यं सर्गबन्धः इत्युच्यते । समासोक्तिः चन्द्रालोके समासोक्तिः सोदाहरणमित्थं निरूपितम् । समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ सम्भोगशृङ्गारः सम्भोगस्य च परस्परप्रेमदर्शनसुरतविहरणादिलक्षणाः प्रकाराः । संलङ्यक्रमव्यङ्ग्यत्वानुरणनध्वनिः विवक्षितान्यपरवाच्यध्वनेः अथवा अभिधामूलध्वनेः प्रकारोऽयम् । यस्मिन् सन्दर्भे प्रथमं अभिधेयार्थः तदनु व्यङ्ग्यर्थश्च क्रमेण प्रतीयेते तयोः क्रमश्च स्पष्टतया बुद्ध्यते च स ध्वनिः संलक्ष्यक्रम-व्यङ्ग्यध्वनिरिति उच्यते । तस्यैव अनुरणनध्वनिरित्यपि व्यवहारो वर्तते । यथा कंचित् शब्दमनुसृत्य अनुरणनं श्रूयते तथा अत्र वाच्यार्थमनुसृत्य व्यङ्ग्यार्थः वीचीतरङ्गन्यायेन स्पष्टक्रमेण द्योतते इति कारणात् । संवाद : संवादो ह्यन्यसादृश्यम् । संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् । तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्, अन्यदालेख्यप्रख्यम्, अन्यत्तुल्येन शरीरिणा सदृशम् । संस्कृतम् संसृष्टि: उत्कृष्टार्थसम्पादनार्थं वा सन्निवेशचारुतासम्पादनार्थं वा विविधानामलङ्काराणां तिलतण्डुलवत् एकत्र संमेल्य योजनम् संसृष्टिः इत्युच्यते । अत एव अलङ्काराणां प्रयोगे "तिलतण्डुलवत् संसृष्टिः, नीरक्षीरवत् सङ्करः " इति आलङ्कारिकाणामुक्तिः वर्तते । सूरिणः ''ध्वनिपण्डिताः'' ध्वनिप्रस्थाननिपुणाः इति दीधितिकारस्य वचनम्। सहृदयत्वम् रसज्ञतैव सहृदयत्वमिति सहृदया: "येषां काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते स्वहृदयसंवादभाजः राहदगा इति लोचनकारः । "अनुशीलनम् शब्दपाठः, अर्थपर्यालोचनम् च । तरयाभ्यास: आम्रेडनम् । ततो हेतोर्विशदीभूते पूर्वमविशदे सम्प्रति विशदतां गते मनोमुकुरे मणिमुकुरवदतिस्वच्छे मनसि वर्णनीयं विभावादि तत्संबन्धिनस्तद्विषयतया तन्मयीभवनस्य तत्तादात्म्यापत्तिरूपस्थ योग्यता सामर्थ्यमस्ति, ते सहृदयाः इति लक्षणमुक्तम् ।" इति लोचनकारस्याभिप्रायविवरणं करोति कौमुदीकारः । ततः कौमुद्यां " हृदयस्य तादूप्येण सर्वत्रैकत्त्वात्तस्य यस्मिन्नर्थे संवादोऽस्ति, तत्र संवादकान्तरनैरपेक्ष्येण ये काव्यार्थमनुभवन्ति, ते विशुद्धतया तत्त्वावधारणनिपुणतया प्रशस्तहृदयवन्तः सहृदयाः इत्युच्यन्ते ।" इति निर्वचनमपि लभ्यते । स्वतः सम्भवी यत्र कविः ख्यातवृत्तम् अथवा लोकप्रसिद्धमेव इतिवृत्तं स्वीकृत्य ध्वनिकाव्यं निर्माति तत्र स्वतस्सम्भवी ध्वनिरिति ज्ञेयः । अयं संलक्ष्यक्रमव्यङ्ग्यध्वनिभेदस्य अर्थशक्तिमूलध्वनेः प्रभेदः । एवं वादिनि देवर्षी पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ इत्यस्य उदाहरणम् भवति । सामान्यम् १) समानस्य भावः। २) जातिः। सारूप्यम् सर्वथा रूपसाम्यम् सारूप्यम् । द्वयोर्वस्तुनोः तुल्यरूपत्वम् । सिद्धरसप्रख्या सिद्धस्य रसस्य प्रख्या ज्ञानम् सिद्धरसप्रख्येति कथ्यते । सुबन्तव्यञ्जकत्वम् असंलक्ष्यक्रमध्वनौ यदि सुबन्तविधिना रसाद्यभिव्यक्तिर्यदि भवति तत्र सुबन्तस्य व्यञ्जकत्वमुच्यते । स्थायिभावः यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायी महानिह ॥ इति भरतमुनेर्वचनम् । विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ इति धनञ्जयोक्तिः । सजातीयविजातीयभावान्तरैतिरस्कृतत्वेनोप निबध्यमान ओरत्यादिः स्थायी ! इति दशरूपकवृत्तिगतं वचनम् । प्रकृष्यमाणो यो भावो रस्तां प्रतिपद्यते । स एव भावः स्थायीति भरतादिभिरित्युच्यते ॥ इति दीधितिकारोक्तिः । रतिर् हासश्च शोकश्च क्रोधोत्साहो- भयं तथा । जुगुप्सा - विस्मय - शमाः स्थायिभावाः प्रकीर्तिताः ॥ इति शृङ्गारादिनवरसानां स्थायिभावाः प्रोक्ताः ॥ स्फुटप्रतीयमानः स्पष्टतया अभिव्यज्यमानः विषयः स्फुटप्रतीयमानः भवति । स्फुरणा भावगोचरता। ह हासः प्रचेष्टानुकरणासम्बन्धप्रलापपौरोभग्यसौख्यादिभिरनु भावैः हासः उपजायते । अस्मिन्विषये भरतमुनिना परचेष्टानुकरणाद्धासः समुपजायते । स्मितहासातिहासैरभिनेयः स पण्डितैः ॥ इत्यवोचत्। हास्यः हासस्थायीभावात्मको रसः हास्यः । स च विकृतवेषा लङ्कारैः, विपरीतालङ्कारैः, इतरविकृतचेष्टादिरूपविभावैः समुपजायते। ओष्ठदंशनम्, नासास्पन्दनं, गण्डस्पन्दनं, दृष्टेः संकोचव्याकोचादिकं, स्वरभेदप्रदर्शनम् तदितराणि च अनुभावाः भवन्ति । आलस्य - निद्रा - तन्द्रा - स्वप्न - अवहित्थ - प्रबोध -असूयादयः अस्य व्यभिचारिणो भवन्ति । आत्मस्थः परस्थश्चेति अयं द्विविधो रसः । यदि नटः स्वयं हसति सः आत्मस्थः । यदि सः अन्यान् हासयति सः परस्थः । अस्मिन् उत्तम-मध्यम-अधमप्रकृतिभेदमनुसृत्य स्मित हसित - विहसित - उपहसित - अपहसित - अतिहसितनामभिः षट् प्रकाराः सम्भवन्ति । Name Father's Name Mother's Name Date of Birth Educational Qualifications Present Designation Areas of Specialization Titles and Awards Received Books Written (11+) Dance Ballets Written (15) Sanskrit Poetry Written Books Edited (7) Research Papers Published ABOUT THE AUTHOR : Dr. RANI SADASIVA MURTY : Dr. RANI SRINIVASA SASTRY : Smt. RANI SRIDEVI : 30-11-1958 : MA (Sanskrit), Ph.D., MA (English), MA (Philosophy), Vedanta Vidyapraveena, PG Diploma in German, NET (UGC), CIC (IGNOU) Research Guidance Countries Visited Other Services : Reader in Sahitya, Rashtriya Sanskrit Vidyapeetha, Tirupati : Sanskrit Literary Criticism, Vedic Prosody, Tantras, SanskritScience, Indology, Moralogy etc., : Samskrta Bandhu (2000), Vijay Shree (2005), Natyaravali State Talent Award (2007), Vyas Bharati (2007), Prajna Bhaskara (2010) : 1. Vedic Prosody - Its Nature, Origin and Development 2. Vadata Samskritam, 3. Navaratna Deepika, 4. Cakshusha Yugmam, 5. Sankara Stotra Ratnavali, 6. Dhvayaloka Paaribhaashika Pada Kosha 7. Dhvanyaloka Karikaartha Darshini, Kaarikaa Saarasca etc., : 1. Natyavirbhavam, 2. Radhamadhaviyam, 3. Ritu Sandesa (Tel) 4. ARthanaarishvara Vilaasam, 5. Gautami, 6. Santi Silpi, 7. Saridviragam, 8. Vishvesvara Vijayam, 9. Buddhabodhamritam, 10. Andhra Kalaavilaasam, 11. Rtusandesah (Sanskrit) 13, Kaatanaarya Vijayam. 14. Sri Ramaanuja Caritam 15. Navanita Gita : 1.Sri Saradastava Dasa Sloki, 2. Gayatri Suprabhatam, 3. Sri Jagannatha Suprabhata Stotra Manjari,4. Sri Maatr Varivasyaa 5. Sri Venkatesvara Prabhaata Stotramanajari, 6. Sri Vastupurusha Asthottara Stotram 7. Sanskrit Gajals etc., : 1. Samskrit Vijnana Vaibhavam 2. GLIMPSES OF INDONEPAL SANSKRIT CONFERENCE 3. Vaakyaartha Vaijayanti 4. Samskrit Vijnana Vaibhavam, 5. WORK CULTURE AND EFFICIENCE WITH SPECIAL REFERENCE TO INDRIYAS 6. ANCIENT INDIAN SCIENCE AND ITS RELEVANCE TO THE MODERN WORLD 7.Jaggu Vakulabhushana Kaavya maalaetc. Successfully Completed Projects : 1. Electronic Text of The Mahabharata with Hyper Links 2. Gita Govinda Audio Project and more than 10 Audio Projects : Produced Ph.Ds :10, M.Phils: 9; Ph.D.s Under Guidance: 5 : More than 60 Articles in various Journals and special volumes Discourses in Dooradarshan and SVBC Channels: More than 200 Discourses : St. Peters Burg in Russia (2004), Khatmandu in Nepal (2008) : Regional Editor of Andhra Pradesh For Mahabharata Pratisthan, Bangalore Many more recorded and unrecorded services to the field of Sanskrit and other Modern Languages are in progress.