द्वितीयोऽध्यायः । म्भॏ न्यौ रौ केसरम् ॥ ३०६ ॥ मभनयरराः । घछैरिति वर्तते । यथा ¹सारंगाणां न कुलमिह न वा यूथं ²महादंष्ट्रिणां, कर्णातिथ्यं न च भजति कटुर्गन्धद्विपानां ध्वनिः । तत्किं दिक्षु क्षिपसि रभसया नेत्रे त्वमुद्यत्करो, यद्वा ज्ञातं विधुवति पवनस्त्वत्केसरं³ केसरिन् । ३०६.१ ॥ नौ मौ यौ चन्द्रमाला छघैः ॥ ३०७ ॥ ननममययाः छघैरिति सप्तभिश्चतुर्भिश्च यतिः । यथा⁴सरसि¹ सरसिजं तद्वाकाशे पार्वणं चन्द्रबिम्बं, कुवलयनयने तावत्साम्यं नाभजत्त्वन्मुखस्य । 5जनयतु कनकाम्भोजश्रेणीर्लक्षशः स्वर्गसिन्धुर्-, घटयतु यदि वा सोऽपि स्रष्टा कोटिशश्चन्द्रमालाः ॥ ३०७.१ ॥ नौ म्तौ भ्रौ ललितम् ॥ ३०८ ॥ ननमतभराः । छघैरिति वर्तते । यथा 6परममुपशमं वर्मीकृत्य स्थितेऽत्र महामुनौ, प्रहरणमपरं दध्याः किंचिन्निशातमतीव यत् । पशुपतिविजयं स्मारं स्मारं पराक्रमगर्वितः³, कलयसि ललितं पौष्पं शस्त्रं मनोभव किं मुधा ॥ ३०८.१ ॥ भ्रनिसा भ्रमरपदं झैः ॥ ३०९ ॥ भरौ नगणत्रयं सश्च । झैरिति नवभिर्यतिः । यथा वारिदमुक्तवारिभरपरिशमितघनरजा, उद्गतरोहिणीशकरधवलितसकलककुप् । कस्य धृतिं ददाति न हि शरदृतुरजनिरियं, चुम्बनलालसभ्रमरपदविदलितकुमुदा ॥ ३०९.१ ॥ म्सौ ज्सौ त्सौ शार्दूलललितं ठैः ॥ ३१० ॥ मसजसतसाः । ठैरिति द्वादशभिर्यतिः । यथा 1 ) सारंगाणामित्यत्र हरिणानां वृन्दम् । 2 ) महेति - वराहादीनाम् । 3 ) त्वत्स्कन्धकेशम् । 4 ) सरसि सरे[त्यत्र] पर्वणि भवं पार्वणं राकाजातम् । 5 ) आदौ जनयत्विति - तदेत्यध्याहारो विधेयः । स्वर्गेति - गङ्गा । स्रष्टेति - ब्रह्मा । 6 ) परममुपेत्यत्र संनाहीकृत्य । निशातं तीक्ष्णम् । ईश्वरविजयं स्मृत्वा स्मृत्वा । . १ सरसि dropped in A. २ तीक्ष्णं C. ३ गर्वित N. Jain Education International For Personal & Private Use Only www.jainelibrary.org